Scl
Vaiyakarana Siddhanta Laghu Manjusha No 214
Front matter
॥ श्रीः॥ आनन्दवनविद्योतिसुमनोभिः सुसंस्कृता ॥ सुवर्णाऽङ्कितभव्याभशतपत्त्रपरिष्कृता ॥१॥ चौखम्बा-संस्कृतग्रन्थमाला मजुलदर्शना । रसिकालिकुलं कुर्यादमन्दाऽऽमोदमोहितम् ॥ २ ॥ स्तवक:-२१४ १ अस्यां चौखम्बा-संस्कृतग्रन्थमालायां प्रतिमाम पृष्टशतके मुन्दरैः सीसकारैरुत्तमेषु पत्तेपु एकः स्तवको मुद्रयित्वा प्रकाश्यते । एकस्मिन् स्तवके एक एव ग्रन्थो मुद्यूते । २ प्राचीना दुर्लभाश्चामुद्रिता मीमांसावेदान्तादिदर्शनव्याकरणधर्मशास्त्रसाहित्यपुराणादिग्रन्था एवात्र सुपरिष्कृत्य मुन्ते । ३ काशिकराजकीयप्रधानसंस्कृतपाठशालाऽध्यापकाः पण्डिता अन्ये च शानदृष्टयो विद्वांस एतत्परिशोधनादिकार्यकारिणो भवन्ति । * भारतवर्षीयैः,ब्रह्मदेशीयः,सिंहलद्वीपवासिभिश्चैतग्राहकर्देयं वार्षिकमनिमं मूल्यम्--मुद्राः आनका:८ ५ अन्ययं प्रतिस्तव १ ६ प्रापणव्ययः पृथग् नास्ति । " ... ... ... . ... ... ... ... ... साम्प्रतं मुद्रयमाणा ग्रन्थाः- सूत्रस्य यतीन्द्रश्रीमद्विज्ञानभिक्षुकृतव्या- (१) संस्काररत्नमाला । गोपीनाथभट्टकृता ख्यानम् । सम्पूर्णम् । ( वेदान्तः) ६ खएडे २ (९) स्याद्वादमञ्जरीमविषेणनिर्मिता सम्पूर्ण र (२) शब्दकौस्तुभः । भोजिदीक्षितकृत: १० (१०) सिद्धित्रयम्-विशिष्टाद्वैतब्रह्मनिरूपणपरम् (३) श्लोकवार्तिकम् । भट्टकुमारिलविरचितम् श्रीभाष्यकृतां परमगुरुभिः श्रीश्री यामुन- पार्थसारथिमिश्रकृतन्यायरत्नाकराख्यया- मुनिभिर्विरचितम् । सम्पूर्णम् वेदान्तः व्याख्यया सहितम् । सम्पूर्णम् । १० (११) न्यायमकरन्दः । श्रीगदानन्दबोधभट्टा- (१) भाष्योपवृहितं तत्त्वत्रयम् । विशिष्टा रकाचार्यसंगृहीतः । आचार्यचिन्सुख- द्वैतदर्शनप्रकरणम् । श्रीमहोकाचार्यप्र. मुनिविरचितन्याख्योपेतः ( वेदान्तः)४ पीतम् । श्रीनारायणतीर्थविरचितभाह- (१२) विभक्त्यर्थनिर्णयो न्यायानुसारिप्रथमादि- भाषाप्रकाशसहितं सम्पूर्णम् (वेदान्तः)२ सत्तविभक्तिविस्तृतविचाररूपः म० म० (५) करणप्रकाशः । श्रीब्रह्मदेवविरचितः १ श्रीगिरिधरोपाध्यायविरचितः । सम्पूर्णः (६) भाइचिन्तामाणिः । महामहोपाध्यायधी- (न्यायः) ... गागाभट्टविरचिता। तर्कपादः(मीमांसा)२ (१३) विधिरसायनम् । श्रीअप्पयदीक्षितकृत- (.) न्यायरत्नमाला-श्रीपार्थसारथिमिअविर- म् । सम्पूर्णम् (मीमांसा) २ चिता संपूर्णा ( मीमांसा) २ (१४) न्यायसुधा (तन्त्रवार्तिकटीका ) भट्ट- 6) ब्रह्मसूत्रभाष्यम्-बादरायणप्रणीतवेदान्व- सोमेश्वरविरचिता । (मीमांसा ) १६ ...
आकाहानिरूपणम् । वस्येष्टत्वेनेशान्वयबोधस्याभिप्रेतत्वादेवेत्यर्थः । अन्यथा सर्वत्र तथा सत्त्वेन तदसङ्गतिः स्पप्रैव । *सुरतेति । क्रेङ्कारः स्मरकार्मुकस्ये- त्यादिः । *कङ्कणाते । 'झङ्कारो रतिमञ्जरीमधुलिहां लीलाचकोरी- ध्वनिः । तन्व्याः कञ्चुलिकापसारणभुजाक्षेपस्खलदित्यादिः । *आ. दिना प्रागप्राप्तत्यादि । अत्र तनोतु व इति समाप्तमेव वाक्यं नवव. यइत्यादिविशेषणान्वयायोपात्तम् । अतएवेत्यस्यार्थ सूचयन् फलि- तमाह *क्रियेति । वाक्यस्य पुनरुपादानं स्वघटकद्वारेत्याह *तद्ध. टकति । विशेष्यभूतक्काणेत्यर्थः । शाब्दस्तु “समाप्तंजनितविवक्षिता- न्वयबोधकं वाक्यं सद्यत् पुनरुपात्तं तद्धटकान्वयिशब्दोपादानेन तद्घटकद्वारा पुनरनुसन्धानविषय" इति ॥ ४७ ॥ यद्यपि सति तात्पर्य आवृत्त्या बोधयमिष्टमेव । तथापि सैवात्र दूषकताबीजम् । एतन्मूलिकैव 'सकृ- दुचरितः शब्दः सकृदर्थ गमयति' इति व्युत्पत्तिः । किश्च उक्तस्यान्वयबोधाजनकत्वज्ञानस्य वक्ष्यमाणसम- भिव्याहारकारणताज्ञानमूलकत्वात्साऽप्याकाटा। अ- तः स स समाभिव्याहारस्तादृशतादृशान्वयबोधजनक इति ज्ञानं कारणम् । तदजानतामबोधाच । अत एव यस्थ यादृशसमभिव्याहारे यादृशान्वयबोधकत्वग्रह- स्तस्य तादृशान्वयबोध इत्यनुभवसिद्धम् । स स समभि. व्याहारस्तत्तदन्वयबोधजनक इत्ययमेव वाक्यविषये ऐश्वरः समयः। तत्परिपालिका च मीमांसा । अत एव घटः कर्मत्वमानयनं कृतिरित्यतो विपरीतव्युत्प- नस्य बोधः, सद्व्युत्पन्नस्य चाबोध उपपद्यते । सद्व्यु- त्पन्नत्वं च व्याकरणशास्त्रोक्तप्रकृतिप्रत्ययविभागत. तदर्थविभागतत्तदन्वयबोधविषयज्ञानवत्त्वम् । अन्व- यानुभवश्च स्वरूपसन् तत्तत्समभिव्याहारजन्यान्वय.
५०२ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । बोधान्तरे प्रतिबन्धकः। तन्मूलकमन्वयबोधाजनक- स्वज्ञानमपि वा हेतुरिति तन्मूलिकैव 'सकृदुच्चारत' इति व्युत्पत्तिः । तादृशबोधेच्छयोचरितत्वरूपतात्प- यज्ञाने सत्यपि तत्समभिव्याहार तजनकत्वज्ञानाभा- वे बोधादर्शनान्न तात्पर्येणास्या अन्यथासिद्धिः । स- त्यप्यस्य तात्पर्य अबोधकमिति व्यवहाराच । तत्र अयं व्युत्पन्नस्य क्रियाकारकादिपघटितः सामान्यत एवेत्युक्तम् । व्युत्पन्नस्याश्रुतवाक्यादपि बोधदर्शनाद् प्रतिवाक्यं तथाग्रहस्यासम्भवाच ।। ४८ ॥ (कुं० टी० ) ननु उभयतात्पर्येण प्रयुक्ते 'अयमेति पुत्रो- राज्ञः पुरुषो ऽपसार्यताम्' इति वाक्ये पुत्रेणान्वयवोधे जाते पुरुषेणान्वयबोधो न स्यादत आह *आवृत्त्येति । तथाच द्वितीयवाक्यं वोधाजनकमेवेति भावः। *सैव-आवृत्तिरेव । *अत्र-पुनर्बोधे । *दूषकताबीजमिति । अद्यापि स्तनवेपथु जनयति श्वासः प्रमाणाधिकः, अयमुदयति निद्राभञ्जनः पद्मिनीनामित्यादौ तु पूर्ववा- क्यार्थोपपादकत्वेनाकाङ्क्षाया अनिवृत्तत्वान्न समाप्तपुनरात्तत्व- म्। *एतन्मूलिकैवेति । जनितान्वयवोधकत्वेन निराका- सत्वादिति भावः । *वक्ष्यमाणेति । तेन घटः कर्मत्वामित्या- दौ न बोधः । स स समभिन्याहार इति । यत्तु समभिव्याहृतपदे व्यतिरेकप्रयुक्तति, तेन घटो भव- तीति वाक्यं न रक्तसाकाझं रक्तपदसमभिव्याहाराभावादिति । तन्न । आसत्यभावात्तात्पर्याभावाद्वा बोधामसक्तः। *अत आकाङ्क्षानिरूपणम् । ५०३ एव-समभिव्याहारस्य हेतुत्वादेव । *विपरीतव्युत्पन्नस्य-भ्रान्त- स्या*स्वरूपसन्नितिास्वरूपसत्येवोक्ताऽऽकासा हेतुः। तावतैव ज- नितान्वयबोधे ऽतिप्रसङ्गाभावादिति भावः। नन्वाकाङ्क्षायाःप्राग- भावरूपत्वाद् 'अहो विमलंजलं नद्याः कच्छे महिषाश्चरन्ति'इत्यत्र नदीजलयोरन्वयबोधानन्तरमपि कालान्तरीयनदीकच्छान्वय. प्रागभावसत्त्वान्नदीकच्छान्वयवोधापत्तिः । तात्पर्याभावान्न तदा. पत्तिरित्युक्तौ तु आकाङ्क्षाविरहान बोध इति प्रवादविरोध इत्यत आह *अन्वयवोधान्तरे प्रतिवन्धक इति । नन्वयमेती- त्यादौ राजपुत्रयोरन्वयबोधानन्तरं तात्पर्यभ्रमात्पुरुषान्वय- स्यापि दर्शनात् प्रतिबन्धकत्वासम्भव इत्यत आह *ज्ञान- मपीति । 'अयमेति पुत्रो राज्ञः पुरुषो ऽपसार्यताम्' इत्यादी तात्पर्यभ्रमेण पुरुषे ऽन्वये पश्चात्पुत्रान्वये तात्पर्यग्रहे ऽप्यन्व- यानापत्तिरतः तात्पर्यविषयान्वयाजनकत्वमेव विवक्षितमि- ति भावः । ननु तात्पर्यविरहादेवान्वयबोधाभावे किमाका. सयेत्यत आह तादृशेति । इदं वाक्यमेतदर्थबोधकं नेति जानतः इदं वाक्यमेतदर्थबोधेच्छया उच्चरितमिति तात्पर्यग्रहे सत्यप्यर्थाबोधादित्यर्थः। *अस्याः-आकाङ्क्षायाः *अयम्-सम- भिव्याहारः। *सामान्यत इति । नतु विशिष्य तत्तत्पदघटितः । *अश्रुतवाक्यादपीति । तत्तत्पदघटितवाक्यस्यापूर्वश्रवणे ऽपीति भावः ॥४८॥ तस्या (क० टी०) अस्य नित्यदोषत्वमाह *यद्यपीत्यादि । ननु स- कृदुश्चरित इतिव्युत्पत्तिसत्त्वेनेष्टबोधद्वयस्यैवाभावेन कथं एव तद्वीजत्वमत आह *एतदिति । आवृत्त?ष्टत्वमूलिकवेत्यर्थः । एवेन स्वातन्त्र्यव्यवच्छेदः । यत्तु-यत्पदं यदर्थेन सह तात्पर्यविषयाभूतयाहशार्थान्वयबोधक २०४ टीकाद्वयोपेतार्या लघुमञ्जूषायाम् । तत्पदे तस्य पूर्ववर्त्तित्वोत्तरवर्तित्वादिरूपः समभिन्याहारस्ताह. शवांधे आकाङ्क्षा तज्ज्ञानं कारणमिति । तन्न । सद्व्युत्पन्नासद्व्युत्पन्नविभागोच्छेदापत्तेः । यदि तत्प- रिहाराय तादृशबांधे यत्समभिव्याहारः कारण तादृशवोधे तत्का- रणत्वज्ञानमपि तथेत्युच्यते तावश्यकत्वात्सेवाकाङ्क्षा ऽस्तु । यदपि तत्तत्समभिव्याहारे तत्तबोधाजनकत्वनिश्चयः प्रति- बन्धक इति । तदपि न । घटमानयेत्यादौ तत्तत्पदे घटाम्पदादौ प्रत्येकं गृही- तशक्तिकस्य तादृशानुपूर्वीज्ञानवतोऽकारणत्वनिश्चयाभाववतो विप. रोतव्युत्पन्नस्य ततो बांधापत्तेौरवाच। तदेतद् ध्वनयन्नाह *किञ्चे. त्यादिवत्त्वमित्यन्तेन । *सापि-समभिव्याहारनिष्ठान्वयबोधजनक- ताऽपि । *अपिः पूर्वसमुच्चये । *अतः-तद्विना तदसम्भवात् । अन्व यमुक्त्वा व्यतिरेकमाह *तदजानतामिति । *अतएव-तस्य तथा त- कारणत्वादेव । एवमग्रेऽपि । *इत्ययमेवेति । ज्ञानरूप एव । शास्त्रो. कत्वं बोधान्तत्रितयान्वाय । तदुक्तत्रितयविषयकज्ञानवत्वमिति सदर्थः । नन्वेवं प्रोक्तकारणाभावात्सर्वत्र बोधद्वयं दुर्वामिति प्रोक्त- दोषापत्तिरतः । प्राचां मनाह *अन्वयेति । आवश्यकत्वाल्ला- घवाञ्च सिद्धान्तमतेनाह *तन्मूलकमिति । समभिव्याहारकारणता- ज्ञानमूलकामित्यर्थः । *तन्मूलिकेति । अन्यतरमूलिकेत्यर्थः । अत एव जनितान्वयवोधे नैराकाङ्क्षयमिति व्यवहारः । ननु तात्पर्येणा- न्यथासिद्धतया नैतदाकाजाज्ञानमपि हेतुरत आह *तादृशेति।*अ- स्याः-उक्ताकाङ्क्षायाः।*तत्र-उक्ताकालायाः कारणत्वस्वीकारे। *अ- यम्-आकाङ्क्षाकार्यकारणभावग्रहः। सामान्यत इत्यस्य व्याख्या*क्रि- येति । एवेन विशिष्य तत्तत्पदघटितव्यवच्छेदः । *उक्तम्-वाक्यश- तिग्रहकथनावसरे । *अश्रुतेति । अपूर्वश्रुतेत्यर्थः । तदुक्तं वाचस्पति- मिथैः साङ्खयतत्वकौमुद्याम् “नच वाक्यं वाक्याथ बोधयत्सम्ब- न्धग्रहणमपेक्षते अभिनवकविरचितस्य वाक्यस्यादृष्टपूर्वस्थाननुभून- चरवाक्यार्थबोधकत्वाद् इति । इदमपि तत्सम्भवमभ्युपेत्य । व- स्तुतः स एव नेत्याह *प्रतीति ॥४८॥ 'पदभेदेन व्युत्पत्तिभेद' इत्यस्य च नामपद्यना.
आकाहानिरूपणम् । ५०५ माख्याताख्यातनिपातनिपातनामादिभेदेन तत्तत्पद. समुदाये व्युत्पत्तिभेद इत्येवार्थः । सचाग्रे तत्र तत्र वक्ष्यते। उत्थापकताविषयताऽन्यतरसम्बन्धेनोभयसं. बन्धेन वा जिज्ञासाविशिष्टः साकास इत्युच्यते । त- त्रान्त्यं-पचति तण्डुलं देवदत्त इति । क्रियाकारकयो- ईयोरपि परस्परं तदुत्थापकत्वात्तद्विषयत्वाच्च । आद्यं. पश्य मृगो धावतीति । अत्र पश्यार्थस्य कारकधावना- ऽऽकामोत्थापकत्वं धावनं तु तद्विषय एव । ईदृशस्थले क्रियाकारकसम्बन्धो वाक्यशक्य एव । अत एव "वि. भाषा साकाङ्ग्रे"इति सूत्रे भाष्ये “अस्त्यस्मिन्नाकासति च साकासम्" इत्युक्तम् । अस्मिन्निति विषयससमी- त्यलम् ॥ ४९ ॥ (कुं० टी०) ननु क्रियाकारकादिपदसमभिव्याहारस्या- र्थविशेषे नियतत्वात् एकस्य पदस्य वाक्यान्तरे कथं भिन्ना- र्थत्वमत आह *पदभेदेनेति । ननु जनितान्वयबोधे तात्प- यविरहात्पुनर्बोधाप्रसक्तौ किमाकाङ्क्षाज्ञानहेतुतयेति चेद् । अत्राहुः-सैन्धवपदादतात्पर्यविषयतुरगबोधे तात्पर्यविष- यान्वयाजनकत्वसत्वादाकाङ्क्षाऽस्त्येव किंतु तात्पर्याभावादेव न तुरगबोध इति । *अन्त्यम्-उभयसम्बन्धेन। *आद्यम्-अन्यतरसम्बन्धे- न । *कारकधावनेति कर्मधारयः ॥ ४९ ।। (क० टी०) ननु सामान्यत एव तदङ्गीकारे पदभेदेन व्युत्पत्तिभेद इति प्रवादासङ्गत्यापत्तिरत आह *पदभेदेने ति । नतु विशिष्य तत्तत्पदघटितत्वं तस्य तत्तात्पर्यभूतमि- ति भावः। ननु साकाहत्वव्यवहारे न समवायो नियामकः तथा- ६४ ५०६ टीकाद्वयोपैतायां लघुमञ्जूषायाम् । सति पुरुषतदारोपविषयार्थान्यत्रेष्टतद्यवहारानापत्तेः, अत एव न वि- षयताऽपि, इत्यत आह *उत्थापकतति । हेतुगर्भ विशेषणमाह-*का- रकेति । *उत्थापकत्वम्-उत्थापकत्वमेव । ननु 'पश्य मृगो धावति' इत्यादी विशेषणविशेष्यभावस्य वाक्यशक्यत्वेन ततः प्रतीतावपि कथं क्रियाकारकभावसम्बन्धावगतिः, तस्य विभक्तिशक्यत्वेननवा. क्यशक्यत्वमित्यस्योक्तत्वेन वक्ष्यमाणत्वेन च विभक्तरत्राभावात् अत आह ईदृशस्थले इति। *सम्बन्धः-सोऽपि वाक्यशक्य एवे. ति एवेन विभक्तिव्यवच्छेदः । तस्या एवासत्त्वेनान्यथानुपपत्त्येति भावः। ननुत्थापकतासम्बन्धेन तद्विशिष्टस्यैव साकाङ्गत्वं स्वरससिद्धं न विषयतयेति कथं धावनस्य तत्वेनैव साकासत्वमत आह *अत एवेति । विषयतासम्बन्धस्यापि निवेशादेवेत्यर्थः । चेन तथा द्वि- तीयसमुच्चयः । अत्रेव तत्रापि द्वितीयस्य तथा साकारत्वेऽप्या- धस्याभावादेवमुक्तम् । तदाह *अस्मिन्नितीति । आकासात्वेनानु- गमादक एव कार्यकारणभावः । समभिव्याहारस्य कारणत्वं च सम्बन्धं विनाऽनुपपन्नमित्येतत्कार्यकारणभाववलादेव वाक्यश- क्तिसिद्धिः, अन्यथा पदशक्तिरपि न सिध्यदित्युक्तम् । तदाह *- लमिति ॥४९॥ यत्तु अर्थनिष्ठा योग्यताऽपि शाब्वोधे कारणम् । साच तात्पर्यविषयीभूतसंसर्गवृत्तिधर्म संसर्गतावच्छे- दकाख्ये सम्बन्धिनिष्ठात्यन्ताभावप्रतियोगितावच्छेद- कत्वाभावः । तेन विशिष्टाभावादिकमादाय न दोषः । तज्ज्ञानं कारणम् । संसर्गज्ञानं तु ता- त्पर्यविषयतया ऽऽकाङ्क्षाज्ञानविषयतया वा सुलभम् । यदा प्रतियोगितावच्छेदकत्वरूपायोग्यतानिश्चयो यो- धप्रतिबन्धक इति । तन्न । शब्दप्रयोज्ये बोधे बाधज्ञानस्याप्रतिबन्धक- त्वात् । तदभावज्ञानस्याकारणत्वाच्च । सत्यपि बाध- निश्चये 'अस्य क्षोणिपतेः परार्द्धपरया लक्षीकृताः ,
योग्यतानिरूपणम् ।
सङ्ख्यया, 'एष वन्ध्यासुतो याति' इत्यादितो बो.
धदर्शनात् ।
किश्चैवं 'वाहिना सिञ्चति' इत्यतो बोधाभावे त-
द्वाक्यप्रयोक्तुः 'अद्रवेण वह्निना कथं सेकं ब्रवीषि'
इत्युपहासः श्रोतृभिः क्रियमाणो ऽसंगतः स्यात् ।
एतदर्थकद्रविडभाषाश्रवणोत्तरं पाश्चात्त्यस्येव भूकता
तस्य स्यात् ।
किञ्चैवं सति वादे प्रतिवादिशब्दस्याबोधकत्वे
तत्खण्डनकथोच्छेदः ।
नचैतादृशेषु नान्वयबोधः किंतु पदार्थवोधमात्र-
मिति वाच्यम् । सर्वत्रैवमेवापत्तः ।
नच प्रवृत्तिं प्रति विशिष्टज्ञानस्य हेतुत्वानुरोधेन
शान्दविशिष्टज्ञानसिद्धिरिति वाच्यम् । दुःखद्वेषे-
च्छासुखादावपि तुल्यरीत्या तद्धेतुत्वेन सत्यपि बाध-
निश्चये मिथ्याभिशापगालिदानरूपकादिकाव्यजदु:-
खद्वेषेच्छासुखाद्यनुरोधेन तत्रापि तदावश्यकत्वात् ।
अन्यथा व्युत्पन्नानां मुखत्वमाश्रयश्चन्द्रत्वमाश्रय इ.
त्यतो ऽपि मुखं चन्द्र इत्यादित इव चमत्कारापत्तिः।
विभक्त्यर्थस्यैवान्वयतया तद्बोधो नेत्यस्यात्यन्तमसङ्ग-
तत्वाच । दैववशसम्पन्नात्कलहादिसदृशशब्दात्तु न
दुःखम्, तादृशवक्तृतात्पर्याभावज्ञानात् । नेदं रजत-
म्' इति भ्रमवतस्ततो निवृत्तावाप्तेन 'इदं रजतमेव'
इति प्रयुक्त बावज्ञानकाल एव ततो बोधात्प्रवृत्तिद-
शनाच ।
एतेनासंसर्गाग्रहमात्रेण तत्सिद्धिरित्यपास्तम्॥५०॥
५०८ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । ( कुं० टी०) *साचीत। यथा “वन्हिना सिञ्चति" इत्यत्र सेककरणत्वे चन्हिसंसर्गों नास्तीति सेककरणत्वनिष्ठो यो वह्नि- संसर्गाभावस्तत्पतियोगितावच्छेदकमेव वद्भिसंसर्गत्वमिति अ- योग्यत्वान बोधः । प्रतियोगिता च तदभावग्रहप्रतिबन्ध- कग्रहविषयत्वम् । अन्योन्याभावस्थले प्रतियोगितावच्छेदक- सम्बन्धेन प्रतियोगिप्रकारकज्ञानस्याभावधीविरोधित्वान्नाव्या. तिः। संसर्गे प्रतियोगित्वाभावमनिवेश्य संसर्गतावच्छेदके प्रति- योगितानवच्छेदकत्वनिवेशस्य फलमाह *तेनेति । घटमान- येत्यादौ घटसंसर्गपटत्वोभयाभावसत्त्वे ऽपि नायोग्यत्वापत्तिरि- त्यर्थः । ननु वृत्तिविरहात्संसर्गस्य कथं ज्ञानमत आह #सं- सर्गज्ञानं त्विति । *यद्वेति । योग्यताज्ञानहेतुतायां तत्र प्रामा- ण्यनिश्चयस्योत्तेजकत्वं कल्प्यम् । अयोग्यतानिश्चयस्य प्र- तिबन्धकत्वे तु संशयनिश्चयसाधारणाप्रामाण्यज्ञानस्यैवोत्तेजक- स्वे लाघवमिति भावः । *बोधप्रतिबन्धक इति । इदं तु बोध्यम्-बाधस्य संसर्गाग्रहरूपतया तदभावस्य विशिष्टबुद्धिं प्रति हेतुतायाः क्लप्तत्वादयोग्यतानिश्चयानन्तरं न शाब्दवोधापत्तिः सम्भवति । अत एव वाधनिश्चयानन्तरं यो- ग्यताभ्रमादेव वोधः । योग्यताभ्रमश्चाहार्यारोपो ऽपि। योग्य- ताज्ञानस्य पृथक् कारणत्वे तु यत्र स्वरूपसद्वाधावतारो योग्यता. संशयश्च तत्रापि बोधापत्तिः । नच तदुभयमेकत्र न भवत्येवे- ति वाच्यम् । नहि ग्राह्यपदार्थ एक योग्यता येन ग्राह्याभा. वनिश्चये सति तत्संशयो न स्यात् । किन्तु ग्राह्यव्याप्या सा । एवं च व्याप्त्यनिश्चयदशायां तदुभयमविरुद्धमेव । ॐबाधज्ञानस्ये- ति । बाधनिश्चयस्येत्यर्थः । संशयानन्तरं विशेषदर्शने सति सत्ताबुदेरुदयात् ।
योग्यतानिरूपणम् । ५०९ केचित्तु संशयसाधारणं बाधज्ञानमेव प्रतिबन्धक विशेष. दर्शनं तत्तेजकमित्याहुः। तन्न । योग्यतासंशयानन्तरं शाब्दबोधोदयेन बाधनि- श्रयस्यैव प्रतिबन्धकत्वात् । यत्तु बाधकाले ऽपि आहार्यप्रत्यक्षोदयात्प्रत्यक्षान्यज्ञान- त्वमेव प्रतिबध्यतावच्छेदकं वाच्यम् । तस्य चार्थापत्तिसाधा- रणत्वेन प्रतिवध्यतावच्छेदकत्वासम्भवादनुमितित्वादिकमेव प्रतिबध्यतावच्छेदकमिति शाब्दबोधे तस्याक्लप्तत्वाद्योग्यताज्ञानं पृथगेव हेतुरिति । तद् दूषयति *अप्रतिबन्धकत्वादिति । वाध- काले ऽप्याहार्यप्रत्यक्षोदयादिच्छाया उत्तेजकत्वानुरोधेन प्र- त्यक्षत्वस्यैव प्रतिबध्यतावच्छेदकत्वात् उपनीतभानसाधार- णप्रतिवध्यतायाः शाब्दबोधाचित्वादाधकाले ऽप्याहार्यः शा- ब्दवोधो भवत्येवेति भावः । वस्तुतस्तु सत्यपि बाधनिश्चये कामलादिदोषवशायथा 'पी- तः शङ्ख इति धीस्तथा पदार्थोपस्थितिवशाच्छाब्दबोधो दुरपह्नव एवेत्याह । *अस्यक्षोणिपतेरिति । अस्य राज्ञः कीर्तयः परार्धाधिकसं- ख्यया लक्ष्या इत्यर्थः । अत्र परार्धाधिकत्वस्य वाधे ऽपि बोधः । *वादेइति । तत्त्वबुभुत्सोः कथायामित्यर्थः । केचित्तु शाब्दप्रमायामेव योग्यताज्ञानं हेतुः । आहार्यबो- धस्तु भ्रमभेद इत्याहुः। *नचेति । योग्यवाक्ये एव विशिष्टबुद्धिः स्वीक्रियत इ. त्यर्थः । *सर्वत्रेति । योग्यवाक्ये ऽपि विशिष्टबुद्ध्युच्छेदापत्ति- रित्यर्थः । *दुःखेति । दुःखादिकं प्रत्यपि विशिष्टज्ञानस्य हेतु- ५१० टीकाद्वयोपेतायां लघुमञ्जूपायाम् । तया गालिमदानादौ विशिष्टज्ञानाभावे दुःखादिकं न स्यादि- त्यर्थः। यत्नु बाधस्य संसर्गाग्रहरूपतया तदभावस्य विशिष्टबुद्धिमा- त्रे हेतुत्वावश्यकत्वादयोग्यतानिश्चयानन्तरं न शाब्दबोध इति, तन्निराकरोति *मिथ्याभिशापेति । *रूपकादीति । उपमानो- पमेययोरभेदवर्णनं रूपकम् । पदार्थोपस्थितिमात्रस्वीकारे दोष- माह *अन्यथेति । मुखत्वचन्द्रत्वाश्रयत्वानां विशकलितानामुप- स्थानेऽपि चमत्कारापत्तिरित्यर्थः। *विभक्त्यर्थस्यैवेति । 'अग्निना सिञ्चति' इत्यादावित्यादिः । *असंसर्गाग्रहेति । रजतत्वप्रकार. कप्रवृत्तौ रजतत्वप्रकारकज्ञानस्य हेतुनायाः क्लुप्तत्वाद् रङ्गादि- गोचररजतभ्रमोत्तरं प्रवृत्तावपि रजतत्वासंसर्गाग्रह एव हेतुर- स्त्विति भावः। यत्तु अयोग्यतानिश्चयाभावस्यासंसर्गाग्रहत्वेन प्रत्यक्षस्थ- ले हेतुतायाः क्लसत्वादिहापि तत्त्वमस्तु, नतु योग्यता- ज्ञानस्येति । तन्न । प्रत्यक्षासंसर्गाग्रहस्यैव तत्र प्रतिवन्धक- तया असंसर्गग्रहसामान्याभावस्य पृथग् हेतुताया अक्लप्तत्वा- त् । अत एव वक्ष्यति अभावरूपस्यासंसर्गाग्रहस्येतीति भावः । *तत्सिद्धिः-प्रवृत्तिसिद्धिः। *अपास्तमिति । प्रत्यक्षासंसर्गा- ग्रहस्यैव तत्र प्रतिवन्धकतया तदभावस्य कारणतायास्तत्र क्ल. सत्वे ऽपि असंसर्गग्रहसामान्याभावस्य पृथग्हेतुताया अक्लुप्त- त्वादिति भावः ॥५०॥ (क० टी०)आकाङ्क्षत्युक्तिमात्रसूचितमाह *यत्त्विति ।प्राग्वदि. यमपि पदनिष्ठा नैवेत्याशयेनाह *अर्थनिष्ठेति । अन्यनिरासायाह- *तात्पर्यति। *अवच्छेदकाख्य-विशेषणविशष्यभावत्वादौ । ननु ता- उशसंसर्गे सम्वन्धिनिष्ठात्यन्ताभावप्रतियोगित्वाभाव इत्येव कु- योग्यतानिरूपणम् । ५११ तो नोक्तमत आह *तेनेति । तवृत्तिधर्मादिनिवेशेनेत्यर्थः । *आ- दिना-धर्मोभयाभावः । अन्यथा तमादाय तत्प्रतियोगित्वस्यैव सत्त्व- मिति योग्येऽप्ययोग्यतापत्तिः । एवं निवेशे तु तदभावे ऽपि त- स्वस्य तत्र सत्त्वं नतु तादृशधर्म इति न दोष इति भावः । इय. माप ज्ञाता कारणं न स्वरूपसतीत्याह *तज्ञानमिति । ननु संसर्गज्ञानमेवादौ कथं येनैतत्स्याद्, अत आह *संसर्गति । तत्रा- दौ परमतेनाह *तात्पर्यज्ञानेति । सिद्धान्तमतेनाह *आका. होति । मतान्तरमाह *यद्वेति । व्युत्क्रमेणादौ द्वितीये दोषमाह *बाधेति । आद्ये आह *तदभावेति । उभयत्र हेतुमाह *सत्यपीति । *संख्ययेत्यस्य "प्रज्ञाचक्षुरवेक्ष्यमाणतिमिरप्रख्याः किलाकीर्तयः । गीयन्ते स्वरमटम कलयता जातेन वन्ध्योदरान्मूकानां प्रवरेण कूर्म- रमणीदुग्धोदधेरोधास"इति शेषः। *यातीत्यस्य "खपुष्पकृतशेखरः। मृगतृष्णाम्भासि स्नातः शशशृङ्गधनुर्धर" इति शेषः । तत्र दोषान्त- रमाह *किञ्चैवमिति । तदन्यतरस्य तदन्यतरत्वे इत्यर्थः । एव- मग्रेऽपि । भावे सति किंतत्रोचितमत आह *एतदिति । लेशतोऽपि ज्ञानशून्यत्वायाह *पाश्चात्त्येति । *एतादृशेपु-वह्निना सिञ्चति' इत्यादिषु । *सर्वत्रेति । 'घटमानय' इत्यादावन्यत्रापीत्यर्थः । तथाच शब्दप्रामाण्योच्छेदप्रसङ्ग इति भावः । वैषम्यादन्यत्र दोषमुद्धरति *नचेति । घटः कर्मत्वमित्यादौ ॥ ५० ॥ किचासंसर्गाग्रहो नाम संसर्गाभावग्रहाभावः । तथा सति बाधज्ञानाभावेन विशिष्टबुद्धेरापन्या न्यायनये एवं वक्तुमनौचित्यात् । गुरुमते ऽपि न, येन दोषेण विद्यमानस्यासंसर्गस्याग्रहस्तेनाविद्यमानसंस- गंग्रहस्यैवःवक्तुं शक्यत्वात् । किश्च विशिष्टज्ञानस्य कारणत्वे सम्भवति अभा- वरूपस्यासंसर्गाग्रहस्य तत्कारणत्वकल्पने गौरवम् । १ न्यायनये, गुरु-पिन, किञ्चेति, इति पाठा न सन्ति केवलमू- लपुस्तकद्वितये।
टीकाद्वयोपेतायां लघुमञ्जूषायाम् । यत्र तु काव्यादौ विभावादीनां सहृदय तासहकृतव्यञ्जनया संबन्धिविशेषीयत्वेनाप्रतीत प्रतीतिरूपा साधारण्येन प्रतीतिस्तत्र विशिष्ट ज्ञानस्यानुभवविरुद्धतया स्वीयत्वासंसर्गाग्रहमात्रण स्वीयत्वसंसर्गग्रहप्रयोजनं स्वनिष्ठस्थाय्यभिव्यक्ति रित्यन्यत् । नच 'वहिना सिञ्च' इत्यादितः प्रवृत्ति- रपि स्यात् । बाधज्ञानेन जायमानज्ञाने ऽप्रामाण्यश- काया जननात्तच्छून्यज्ञानस्यैव प्रवृत्त्युपयोगित्वेना- क्षतेः । बौद्धस्यैव सर्वत्र बोधविषयत्वेन बाधस्यैवा- भावाचा तदुक्तम्- अत्यन्तासत्यपि ह्यर्थे ज्ञानं शब्दः करोति हि । इति। वस्तुतो बाधज्ञानं न कापि ज्ञाने प्रतिबन्धकम् । तत्काले ऽपि सत्यां सामग्रयां जायत एव ज्ञानम् । तत्र स्वस्वसामग्रीवशात् योरपि ज्ञानयोर्जातयोर्यत्र ज्ञाने सदोषसामग्रीजन्यत्वग्रहस्तत्राप्रामाण्यग्रह इ. त्येव मर्यादा ज्यायसी । यथा 'गेहे घटोऽस्ति' 'गहे घटो नास्ति' इति परस्परविरुद्ध द्वाभ्यां प्रयुक्त । किञ्च आशुसंचारादलातचक्रं प्रत्यक्षेण दृश्यते । अनेकदिकस्य रूपसहचारिणः स्पर्शस्य युगपदग्रहणात् हेतोः, अनुमानाद्गम्यते-'नैतदस्ति इति' । अनन्य था. सिद्धानुमानाच्च तद्भावज्ञाने तेन पूर्वज्ञानस्य भ्रमत्वं कल्प्यत इति "लटः, शत " इति सूत्रे भाष्यकैयट- योरुक्तम् । एवं च याधज्ञानकाले ऽप्यनुमितिः स्वी. कृता । अत्र दृश्यते गम्यते इति वर्तमाननिर्देशा- योग्यतानिरूपणम् । भ्यामुभयोरेककालिकता सूचिता। अनेकदिकस्पर्शस्य युगपदग्रहणरूपहेतोर्धम इत्येव तस्मिन् सम्भवाच्च । प्रत्यक्षस्य प्रबलत्वे त्वनुमितौ भ्रमत्वकल्पनम् । एवं च बाधस्य हेत्वाभासत्वमप्युपपन्नम् । अनुमितो ते. नाप्रामाण्य ग्रहस्य जननात् । एवमन्यत्राप्यूह्यम् ॥५॥ ( कुं० टी०) *वाधज्ञानाभावेति । विषयावाधो योग्यता, साच यत्संसर्गो यत्र येन सम्बन्धन गृह्यते तेन सम्बन्धन तत्र तद्वत्त्वम् । तज्ज्ञानं च संशयनिश्चयसाधारणं भवत्येव । अन्यथा यस्य न गेहे घटसंसर्गज्ञानं किन्त्वज्ञानमात्रं तस्य 'गेहे घटोऽ- स्ति'इतिवाक्याबोधानापत्तिरिति भावः। विशिष्टेति । विशि- एबुद्धिरव स्यादिति पदार्थोपस्थितिमात्रोक्तिरयुक्तेत्यर्थः । *अभावरूपस्येति । अत एवानिष्टसाधनत्वाभावादीनां न हे. तुत्वम् । नन्वेवं यत्र पदार्थस्मरणानन्तरं योग्यतासंशयात्मकमा- नसादिज्ञानं ततः अयोग्यतानिश्चयः तत्रापि वोधापत्तिरिति चेत् । सत्यम् । अयोग्यतानिश्चयकाले आपाद्यते तदुत्तरं वा । नाद्यः । विरोधिनिश्चयसामग्याः प्रतिवन्धकत्वस्य सर्वसिद्ध- त्वात् । नान्त्यः । पदार्थस्मरणस्य नाशात् । *विभावादीनामिति । रत्यादेश्चित्तवृत्तिविशेपस्य लोके यानि कारणानि प्रमदादीनि तानि चेत्तदनुकरणेन का- व्यनाटकयोरुपनिवद्धानि तदा तानि विभावाः । एतैर्व्य- तः स्थायी रत्यादिको भावो रस इत्युच्यते । *सह- १ किञ्च आशु-जननात् अयं पाठः कुञ्चिकायुतमूलपुस्तके नोपलभ्यते।
५१४ टीकाद्वयोपेतायां लघुमञ्जूपायाम्। दयतेति । काव्यवासनापरिपकयुद्धिः सहृदयः । *सम्ब. न्धिविशेपीयत्वेनेति । 'ममेवैते' 'तटस्थस्यैवैते' इतिसम्ब- न्धिविशेषस्वीकारपरिहारादिति भाव: । *स्वीयत्वेति । साधारणोपायबलात्साधारण्येनैव तदभिव्यक्तेः । *नचेति । अत्रापि विशिष्टवुद्धिस्वीकारे इति शेपः । समाधत्तं बाधज्ञानेने- ति । वस्तुतइति । सत्यपि पीतत्वाभावनिश्चये कामलादिवशा- व 'शङ्खः पीतः' इति प्रतीत्युदयादिति भावः। किञ्च योग्यताज्ञा- नस्य हेतुत्वे संशयसाधारणमेव तद् वाच्यं, तथाच यस्य न गेहे घटसंसर्गज्ञानं किन्त्वज्ञानमात्रं तस्य 'गेहे घर' इति वाक्याद् वो- धानापत्तिः। *न कापि ज्ञाने इति। अयं भावः-यत्र तदभाव- भासकसामग्री, तत्कोटिमासकसामग्रीच, तत्र संशय एवोत्पद्यते । यत्र तदभावभासकसामग्रीमानं तत्र सामन्यावादेव तत्को- टिभानासम्भवः । अथोपनायकज्ञानात्पूर्व वाधाभावस्य सत्त्वात् 'भूतलबुटवद्' इति लौकिकप्रत्यक्षसामग्रीकाले ऽपि 'भूतलं घटाभाववद्'इत्याकारकोपनीतभानसामग्न्यस्त्येवेति चेन्न। एक- कोटिलौकिकमत्यक्षसामग्या अपरकोटिभानप्रतिवन्धकत्वात् । बाधदशायां लौकिकसंनिकर्पजन्यसंशयवारणाय तादृशप्रतिव. न्धकत्वस्यावश्यकत्वात् । * यथा गेहे घट इति । संशयात्मक यो. ग्यताज्ञानस्योभयत्र सत्त्वादुभयविधो ऽपि बोधो भवत्येवे- ति भावः । यत्तु तत्र संशय एव, तदुत्तरं विशेषदर्शने सति निश्चय इति । तन्न । बोधं विना संशयस्यैवासम्भवात् । किन्तु विशेपदर्श- नेनान्यतरकोटावप्रामाण्यग्रह एव । *किञ्चाशुसंञ्चारादिति । च गौतमसूत्रम्-“अलातचक्रदर्शनमनुपलब्धेराशु सं- चाराद्" इति। "क्रमिके ऽपि यौगपद्योपलब्धिराशु सञ्चारात् । तथा चोभानिरूपणम् । ५१५ शीघ्रसञ्चारात्मकादोषात् । यथा वेगातिशयेन भ्राम्यमाणे अलाते क्रियासन्तानस्य भेदानुपलब्धिः" इति तदर्थः । आ- नुमानिकवापनिश्चयदशायामपि इन्द्रियसभिकर्षण तद्वत्तावुद्धि- जननाल्लौकिकसंनिकर्षाजन्यज्ञानमेव प्रतिवध्यमिति न युक्तं, किन्तु दोपविशेषाजन्यमेव,इत्याह * अलातचक्रमिति । आशु सं- चारात्तत्र चक्रभ्रान्तिरुत्पद्यत इत्यर्थः । *रूपसहचारिणइति । शुक्लभास्वररूपव्यापकस्येत्यर्थः । अनेकदिक्कस्पर्शस्य युगपद्ध- हणाभावादनुमानेन प्रत्यक्षं बाध्यत इत्यर्थः । स्पर्शस्येत्यत्रोद्- भूतस्येति शेषः । तेन दीपमभायां स्वप्रिहे ऽपि अनेकदिर- रूपस्य युगपद्रहणमित्याशङ्का ऽपास्ता । *अन्यथासिदेति । लो- कादिसिद्धेत्यर्थः । तदभावज्ञानेइति । जाते सतीतिशेषः । *व- र्तमानेति। "अलातचक्रं प्रत्यक्षं दृश्यते, अनुमानाच्च गम्यते-लेत- दस्ति इति"भाष्योक्तावित्यर्थः। तस्मिनिति। अलातचक्रे भ्रमति सतीत्यर्थः । *वाधस्य-पक्षे साध्याभावनिश्चयस्य । *हेत्वाभा- सत्वनिति । 'हदो वह्नयभाववान्' इति निश्चये 'दो वह्निमान्' इत्यनुमितेरनुदयात् । ननु इदे धूमस्यासत्त्वात् 'हृदो वह्नयभा- ववान् धूमाद्' इत्ययं स्वरूपासिद्ध एवेति चेन्न । यत्र 'वह्निव्या. प्यधूमवान् इद' इति भ्रमात्मकः परामर्शो जातस्तत्र बाधस्यैव दूषकत्वात् । ननु तद्व्याप्यवतो ज्ञानकाले कथन्तदभाववतो ज्ञानम् । सत्यम् । अलौकिकतव्याप्यवतो ज्ञानस्यैव विरोधितया आनुमानिकवह्विव्याप्यवत्ताज्ञानकाले ऽपि प्रात्यक्षिकवह्नयभा- ववत्ताज्ञानोदये वाधकाभावात् ॥ ५१ ॥ (क० टी) अनतिप्रसङ्गायाह *विशिष्टेति ॥ ५१ ॥ १ अत्र ग्रन्थस्त्रुटितो भाति । आदर्शपुस्तकैक्येन च ज्ञातुं न पार्यते स कीदृश इति ।
टीकाद्वयोपतायां लघुमपायाम् । वस्तुनः :-साध्यबाधो न हेत्वाभासः, सर्वसाधार बाधवुद्धिप्रतिबन्धकतयैव निर्वाहेण तस्य विशिष्य हेत्वाभासेपु ग्रहणानौचित्यात्, किन्तु हेतुबाधभान- स्वैव तत्त्वमुचितम् । उक्तंच न्यायभाष्यवार्तिककारा. भ्यां तथैव । किञ्च 'इदं रजतम्' इतिभ्रमोत्तरं जायमानस्य 'नेदं रजतम्' इति बाधज्ञानस्य रजतज्ञाननिष्ठाप्रामा. एयज्ञान प्रति कारणता ऽवश्यं वाच्या । एवं स्फटि- के रक्तत्वाभावज्ञानस्य सोपाधिकतद्राक्तत्वज्ञाने त- कारणता वाच्या । एवं च मर्वत्र तथैवास्तु कि इयकल्पनेन । यत्र तु लोकप्रसिद्ध्याऽर्थस्य बाधितत्वज्ञानं तत्र तेनैव जायमानज्ञाने ऽप्रामाण्यग्रहः, यथा-'वह्निना सिञ्चति' इत्यादौ । नच गालिदानादिस्थलेऽपि बाधज्ञानेन तत्रा. प्रामाण्यग्रहे दुःखानुपपत्तिरिति वाच्यम् । ततो दुःखाभावेऽपि व्यञ्जनया जायमानेन तदुष्टत्वज्ञा- नेन तदुपपत्तेः । व्यञ्जनाजन्यज्ञाने तु न बाधज्ञाने- नाप्रामाण्यज्ञानमित्ति स्पष्टं काव्यप्रकाशादौ । यद्वा तत्र तमउद्रेकेण प्राथमिकबोधे ऽपि नाप्रा- माण्यग्रहः । एवं च योग्यताज्ञानं प्रवृत्त्याापयोगियोग्यता- संदेहादिप्रसक्ताप्रामाण्यज्ञानाभावविशिष्टयोधजन- कं विशेषणीभूताभावप्रतियोगिप्रतिबन्धकतयेति बो- ध्यम् । लक्षणामूलमपि शक्यार्थबोधे विषयवाध- योग्यतानिरूपणम् । ५१७ ज्ञानजन्यमप्रामाण्यज्ञानमेवेत्यलम् ॥ ५२ ॥ (कुं० टी०) *नहेत्वाभासइति । न हेत्वसाधारणदोप इत्यर्थः । एतदेवोपपादयति *सर्वसाधारणेति । तद्वत्तानिश्चय त्य सामान्यत एव तदभाववत्तानिश्चयप्रतिवन्धकत्वात् । यत्तु संशयसाधारणं पक्षे साध्यसंसृष्टत्वज्ञानमनुमितौ का- रणम्, तथाचानुमितिकारणीभूतसाध्यसंसृष्टत्वज्ञानविरोधितया वाधस्य हेत्वाभासत्वमिति । तन्न । साध्यसंशयं विनाऽप्य- नुमित्युत्पत्तेः । *किं चेति। ननु बाधस्थले पक्षे हेत्वभावे स्वरूपासिद्धिरेवेति कथं तस्य वाधत्वमिति चेत् । सत्यम् । यत्रोत्पत्तिक्षणावच्छिन्न- घटादौ गन्धव्याप्यपृथिवीत्ववत्ताज्ञानं तत्र 'उत्पत्तिकालिको घटो गन्धवान्' इत्यनुमितिं प्रति वाधस्यैव प्रतिवन्धकत्वं वाच्यम् । *हेतुवाधज्ञानस्यैवेति । पक्षे हेत्वभावज्ञानस्यैवेति भावः । ए- तस्य पक्षधमताविघटकतया प्रतिवन्धकत्वम् । *तेनैवेति । जा- यमानज्ञाने वाधज्ञानेनाप्रामाण्यग्रहो भवतीत्यर्थः । *तमउद्रेकेण- तमोगुणस्य दृढतरसंस्कारजनकत्वेन । * योग्यतासन्देहेति । यो- ग्यतासन्देहेन प्रसक्तं यदप्रामाण्यज्ञानं तदभावविशिष्टवोधे प्रवृत्तिजनके विशेषणीभूतो योऽप्रामाण्यग्रहाभावः तस्य प्रतियो- गी योऽप्रामाण्यग्रहस्तस्य प्रतिबन्धकतया योग्यताज्ञानं प्र. त्याधुपयोगि इत्यन्वयेनेत्यर्थः । *लक्षणामूलमिति । शक्यार्थे वाधज्ञानमेव लक्षणामूलमित्यर्थः ॥ ५२ ॥ (कल्टी०)*सर्वेति । प्रत्यक्षादीत्यर्थः । *तस्य-साध्यबाधस्य । *त- त्वम्-हेत्वाभासत्वम् । उक्तरीत्या निर्वाहात्। अत्र तन्मूलसंमतिमाह *उक्तं चेति । एतेन तस्य तत्त्वमाधुनिकनैयायिकोक्तमपास्तम् । परस्यापिक्वचिन्मदुक्तप्रकार विना न गतिरित्याह *किञ्चेदमिति। विशेषणभेदेनाह * एवमिति । तद्वदित्यर्थः । *ज्ञानस्येति । पूर्वजा- ५१८ टीकाद्वयोपेताया लधुपञ्जूपायाम् । तस्य परजातस्य वेत्यर्थः । तथेवाजुभवादिति भावः, तदाह *सो. पाधिकोते। * तत्कारणतेति। तज्ज्ञाननिष्ठाप्रामाण्यग्रहजनकतेत्यर्थः । तथा सति गौरवमाह एवं चति । तत्र तदावश्यकत्वं चेत्यर्थः । *द्वयोति । क्वचित् शानप्रतिवन्धकत्वं, क्वचिदप्रामाण्यग्राहकायानिनि. द्वयेत्यर्थः । प्रागुक्त वाधवानांशे विशेषं सिद्धान्ते आह यत्रविति । *प्रसिद्ध्या-तयेव । सिद्धान्ते दोपं परिहरति *नचेति । *तत्र-शाने । *अनुपपत्तिरिति । प्रवृत्ताविव तत्रापि तदनास्कन्दिततादृशज्ञान- स्यैव हेतुत्वादिति भावः । फलबलकल्प्यमाह *तत इति । ननु त. त्रापि तेनैव कुतो नाप्रामाण्यग्रह इत्यत आह व्यञ्जनेति । *स्पष्टमिनि । तत्र हि-'सारोपसाध्यवसानयोगाणभेदयोर्भदेऽभेदा- वगमः, सर्वथैवाभेदप्रतीनिश्च फलमिति । किं बहुना बाधित एव पावनत्वादिविशेषस्तटादौ प्रतीयते, अत एव सूत्रितं “योगः फलेन नो" इति' इत्युक्तम् । * आदिना प्रदीपादौ । बाधितार्थवोधक. तयैव तस्या धर्मिग्राहकमानसिद्धत्वमिति भावः । नन्दवं सिद्धान्ते प्रयत्नविशेषे गौरवमेव, अत आह *यद्वेति । उत्तेजकमाह *तम- इति । सत्त्वरजसोरभिभवपूर्वकाविर्भावेणेत्यर्थः । * अपिरेवार्थे । एवं योग्यताज्ञानादेस्तत्र कारणत्ववादिनैयायिकमते खाण्डतेऽपि आद्यं प्रवादं कथंचित्तेषामुपपादयन् तदुपयोगमाह *एवं चति । वाधनिश्चयस्य सर्वथा प्रतिवन्धकत्वाभावे चेत्यर्थः। *उपयोगीति बोधविशेषणम् । प्रवृत्त्यादीत्यादिना दुःखादि । संदेहादिप्रसक्तोति पाठः । *सन्देहादीत्यादिना ऽयोग्यतानिश्चयः । व्यस्तपाठे तु तंत् एकदेशबोधविशेषणमेतद्वदिति बोध्यम् । बोध्यम् । प्रसक्तत्वमप्रामाण्य- ज्ञानविशेषणम् । *प्रतिवन्धकतयति । न योग्यतानिश्चयस्य सा- क्षाच्छाब्दवोधजनकत्वं, किन्तु अप्रामाण्यज्ञानाभावविशिष्टवोधस्यै- व प्रवृत्याधुपपोगितया विशिष्टशाव्दवुद्धिं प्रति प्रयोजकत्व- तञ्च तत्र विशेषणीभूताभाव-प्रतियोगि-प्रतिबन्धकतया तत्रैतनिश्चयप्रयोज्यत्वेन । एतावतैव शाब्दवोधकारणत्वोक्तिः १ तत्-उपयोगीति योग्यतया संदेहपदार्थैकदेशे बोधे विशेषण- म् प्रसक्तपदार्थैकदेशे प्रसङ्गे योग्यतासन्देहादिना इत्येतद्वत् इत्यर्थः प्रतिभाति ।
योग्यतानिरूपणम् । प्राचामित्यर्थः। नन्वेवमपि लक्षणास्थले बाधनिश्चयस्थ बोधप्रति- वन्धकत्वमावश्यकमेवात आह * लक्षणेति । तस्या मूलमपीत्यर्थः । एवेन शक्यार्थवोधाभावव्यवच्छेदः । यथाचैतत्तथोक्तं प्राक् । एवं च सर्वत्रैकवाक्यता सिद्धति बोध्यम् । तदाह *अलमिति ॥ ५२ ॥ परेतु अन्वयप्रयोजकसमभिव्याहृतकार्यशक्ति- मत्त्वं योग्यता । साच शाब्दबोधे भासते । अत एव 'घटेन जलमाहर' इत्यादौ सच्छिद्रेतरस्यैव जलाहरण- शक्तिमत्त्वेन सच्छिद्रेतरत्वप्रकारको बोधः । अत एव प्रतिनिधेः श्रौतत्वोपपत्तिः। यथा-"खादिरे बध्नाति" इत्यादावस्वातन्त्र्यफलकसंयोगविशेषरूपबन्धनसम- र्थग्वादिरालाभे ऽन्यः प्रतिनिधिः उपादीयते। अतस्ता- दृशवन्धनसामर्थ्यवत्वेन स्वादिरबोधो ऽवश्यमभ्यु पेयः । एवं च खादिरवाधे ऽपि तत्सामर्थत्यागे मानाभावात्सदुपपत्तिः । अन्यथा खादिरस्यासामर्थ्य बन्धनलोप एव स्यात् । सर्वत्र प्रवृत्तिनिमित्तं स्वा- श्रयसमभिय्यादतकार्यशक्तरप्युपलक्षणमिति तस्या अपि प्रवृत्ति निमित्तसामानाधिकरण्येन बोधे भान- म् । एवं चोपलक्षकजात्यवच्छिन्नस्थाशक्ततया त्या- गे ऽपि उपलक्ष्यशक्तित्यागानौचित्याद् अन्यगता सा गृह्यते । साहश्येन तत्रापि तत्त्वबुद्धेः। किश्च घ- टत्वेन सच्छिद्रेतरव्यक्तिविशेषस्यैव भानमित्यङ्गी- कारे लक्षणापत्तिः । सामान्यरूपेण विशेषबोधे ऽपि लक्षणेत्यर्थस्य त्वामस्मि वच्मि' इत्युदाहरणे काव्य- प्रकाशकृता स्पष्टमुक्तत्वात् । तदुक्तं हरिणा-.
टीकाद्वयोपेतायो लघुमञ्जूषायाम् । केषां चित्साहचर्येण जातिः शक्त्युपलक्षणम् । खादिरादिष्वशक्तेषु जातिः प्रतिनिधीयते ।। अस्वातन्त्र्यफलो बन्धः प्रमाणादौ च शिष्यते । अतो जात्यभिधाने ऽपि शक्तिहीनं न गृह्यते॥इति। केषाश्चित् , जातिशक्तिवादिनाम् | प्रमाणं हिंसा। शुद्धव्यक्तिशक्तिवादे ऽपि वस्तुगत्या जातिशक्तिवि शिष्टा केवला व्यक्तिः शक्येति न दोष इति यो- ध्यमित्याहुः ॥ ५३ ॥ इति योग्यताविचारः। (कुं० टी०) *परेत्विति । घटादावानयनानुकूलतैव यो- ग्यतेत्यर्थः । *तदुपपत्तिः-प्रतिनिधेः श्रौतत्वोपपत्तिः । *अन्यः प्रतिनिधिरिति । वन्धनस्य तु न बाधः, प्रधानत्वात् । कथं तर्हि "सुचः समाष्टि" इत्यत्र द्वितीयाश्रुत्या सुचां प्राधान्यमिति सि- द्धान्त इति चेद् । द्रव्यसंस्कारककर्मत्वं गुणत्वमिति सिद्धान्ता- त् । एतेन दृष्टोपकारजनकत्वाभावात्संमार्जनस्याप्राधान्यामत्य- पास्तम् । *स्वाश्रयेति । प्रवृत्तिनिमित्तसमानाधिकरणशक्ते- रपि भानमित्यर्थः । उपलक्षकजातिः-खदिरत्वादिः। *अश- ततया-असमर्थतया । *तत्रापि-कदरादावपि । *तत्त्वबुद्धेः- खदिरत्वबुद्धः । ननु जातिशक्तिवादियते जातो कथं वन्धनादि- क्रियान्वयः-सामर्थ्याव्यक्तिराक्षिप्यत इति चेत्, कथं प्रतिनिधेग्रं- हणमित्याशङ्ख्याह * केषाश्चित्साहचर्येणेति । केषाञ्चिजातिशक्ति. वादिनां मते एकार्थसमवायेन क्रियान्वये “खादिरे वध्नाति" इत्यादौ खदिरत्वादिजातिः स्वसमानाधिकरणवन्धनयोग्यतारू- पशक्तरुपलक्षणम्, अन्यथा असमर्थखदिरे ऽपि बन्धनप्रसङ्गात् । - योग्यतानिरूपणम् । ५२१ तथाच कचिद् गुणीभूतखदिरत्वस्य बाधे ऽपि प्रधानबन्धन- क्रियानुकूलशक्तेर्न बाधः । काकादिपदे दध्युपघातकादेरिवात्रापि जातेः शक्त्युपलक्षणत्वान्नान्तरीयकमुपादानम् । नचैवं गवा- दिचोदनासु महिषादेरपि ग्रहणप्रसङ्गः । चोदितप्रतिनिधिविषये एव एतन्न्यायस्येष्टत्वात् । यत्तूक्तङ्कुसुमाञ्जलौ- "संस्कारः पुंस एवेष्टः प्रोक्षणाभ्युक्षणादिभिः" । इति । बीहिप्रोक्षणादिना पुरुष एवादृष्टमुत्पद्यते तादृशादृष्टं प्रति च प्रोक्षितत्रीहेः कारणत्वमिति तदर्थ इति । तन्न । शत्यस्वीकारे प्रतिनिधिग्रहणानापत्तेः । ननु येषां जातिवादिना तात्पर्येण जातिराभिधेया तेषां कथं प्रतिनिध्युपपत्तिरत आह *अस्वातन्त्र्यफलइति । अयं भावः-मा भूजातिः शक्त्युपलक्षणम्, एवमपि प्राति. पदिकार्यभूताया जातेगुणत्वात्प्रधानबन्धनक्रियानुकूलत्वात्पति- निधिरेवोपादेयः । तथाहि सति प्रमाणस्य हिंसावदानादे- रनुपपत्तिः, अन्यथा यागस्यैवासम्पत्तिरिति । *जातिशक्ति- विशिष्टा-एतदुभयविशिष्टा ॥ ५३ ।। (क० टी०) प्रामाकरमतसंवादिहर्यादिसंमतसिद्धान्तमाह *परेत्वित्यादिना । तत्स्वरूपमाह *समभीति । तजननत्वावच्छि- शक्तीत्यर्थः । एतज्ज्ञानं शाब्दबोधे कारणमिति गुरूक्तिर्विषयतया तस्य कारणत्वं पदार्थोपस्थितिवन्न त्वाकाक्षाज्ञानवदित्याशयेनेति ध्वनयन्नाह *साचेति । तत्र शक्तिस्वरूपमाह *सच्छिद्रेतरत्वेति । अत एवान्वयितावच्छेदकत्वनियमः शाब्दबोधे इति भावः । अस्या- वश्यकत्वमाह *अतएवेति । तस्यास्तत्र भानादेवेत्यर्थः । तत्त्व- मुपपादयति * यथेति । *अन्यः-बर्वरः । यत इत्यादिः । उपस्थित. स्वादाह *तत्सामर्थ्यति । *तत्-श्रौतत्वम् । अन्वयेनोक्तं व्य.
५२२ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । तिरेकमुखेन द्रढयति *अन्यथेति । विपक्षे इत्यर्थः । तथाचाङ्गवै- गुण्यापत्तिरिति भावः । प्रत्येकमुक्तत्वात् द्वितीयमाद्यैकवाक्यत- या संवलनोक्त्या विशदयति *सर्वत्रति । तदवच्छेदेनाभाना- दाह *सादृश्येनेति । वर्णादिना प्रतिनिधावपि खादिरत्वादि. वुद्धरित्यर्थः । ननु सामान्यरूपेण विशेषवोधेन निर्वाहे किमि- ति तत्र तद्भानं, प्रतिनिधेः श्रीतत्वमपि तत्र तस्यापूर्वसाधने लक्षणेत्यादिप्रागुक्तप्रकारेणोपपन्नमत आह *किंचेति । ननु श- क्तिरेव तत्राप्यत आह *सामान्येति । अपिना विशेषरूपेण विशे. षबोधसमुच्चयः । *त्वामस्मीति । लक्षणामूलगूढव्यङ्ग्यप्राधान्यस्य ध्वनेर्भेदद्वयादाद्यभेदस्यार्थान्तरसंक्रमितवाच्यस्येदमुदाहरणम्। तत्र घच्मीत्यादरुपदेशादौ लक्षणादीत्यायुक्तम् । तदुक्तमिति । एत- न्मतोक्तं सर्वमित्यर्थः । *प्रतिनिधीति । अप्रतिनिधिः प्रतिनिधिर्भव. तीत्यर्थः । *प्रमाणादाविति विषयसप्तमी । आदिना उत्सर्गः । 'मी हिंसायाम्' इत्यस्य रूपमित्याह *प्रमाणं हिंसति । हरिणा मतत्रये निर्वाहे उक्तेऽपि तुर्यमते तदनुक्त्या न्यूनतां निराचष्टे *शुद्धे. ति । *जातीति । जातिशक्त्युभयविशिष्टेत्यर्थः ॥ ५३ ॥ आसत्तिरपि मन्दस्याविलम्बेन शाब्दबोधे का- रणम् । साचान्वयप्रतियोगिपदार्थानां तहांधकपदानां चाव्यवधानजप्राथमिकोपस्थितिरूपा । काव्ये ऽन्य- त्रच सर्वान्प्रति प्रायेण तादृशवुद्धेरेव वक्तुरुद्देश्यत्वा- त् । अनासन्नस्थले योजनावाक्यान्मन्दस्य बोधेऽपि विलम्बो ऽस्त्येव । नच 'अस्मात्पदाधमर्थो युद्ध' इ- त्यनुभवो विरुध्येतेति वाच्यम् । योजनावाक्यसं- पादनद्वारा तस्यापि बोधे उपयोगेनादोषात् । अम- न्दस्य तु आसत्त्यभावे ऽपि पदार्थोपस्थितौ आका- शाज्ञानवतो बोधो ऽविलम्बेनैव भवतीति न तद्वोधे 'तस्याः कारणत्वम् । ध्वनितं चेदं "नपदान्त-" इति- सत्रे भाष्ये।
आसत्तिनिरूपणम् । ५२३ वस्तुतो योजनावाक्यकल्पना व्यर्थी तत्कल्पका- कामादिना अर्थयोजनाकल्पनस्यैयौचित्यात् । परं तु मन्दस्य सा विलम्बन, अमन्दस्य तु सा शीघमित्ये- वोचितम् ॥ ५४ ॥ इत्यासत्तिविचारः। (कुं०टी०)* आसत्तिरपीति । मन्दस्य अविलम्वेन वोधे आस- चिरपि कारणम् ,अमन्दस्य तु आसत्त्यभावेऽपि वोधो भवतीत्य- र्थः । एवंचानासन्नस्थले योजनावाक्याद्विलम्बेन बोध इत्येतावतैः वानासन्नत्वव्यवहार इति भावः । *साचेति । अन्वयिपदार्थानां पदानां च अव्यवधानेनोपस्थितिरासात्तिरित्यर्थः । ननु कथं गिरिर्मुक्तमग्निमान्देवदत्चेनेत्यादावासत्तिभ्रमाच्छाब्दवो- ध इति प्रबादः, गिर्यग्निमत्पदयोरव्यवधानदशायां तस्यै- वासत्तित्वादित्यत आह *प्राथमिकेति । एवं च प्राथमिक- बोधाभावेनैवानासन्नत्वपवाद इति भावः । *तादृशबुद्धेरे- व-प्राथमिकबुद्धेरेव । ननु अनासन्नस्थले कथं योजनावाक्या- दोध इत्यत आह *विलम्वोऽस्त्येवेति । *विरुध्येतेति । तत्र योजनावाक्यस्यैव वोधकत्वात् । *तद्धोधे-अमन्दानां बोधे।।५४॥ आसत्तिविचारः। (क० टी०) इयमपि सर्वबोधे न कारणमित्याह *मन्दस्यति । तत्रापि विशेषमाह *अविलम्वेनेति । द्वितीयोपस्थितेरनासत्तित्वा- याह *प्राथमिकेति । अविलम्वनिवेशे बीजमाह *काव्ये इति । क. चित् कूटादौ तदभावादाह *प्रायेणेति । तन्निवेशफलमाह *अ. नासन्नेति । तस्य तत्र तथा बोधे दोपं परिहरति *नचेति । पञ्चम्यर्थः साक्षाजनकत्वमिति शङ्काऽऽशयः । प्रयोजकत्वं स इति समाधत्ते *योजनेति । मन्दत्वनिवेशे फलमाह *अमन्दे. ति । अत एव तुः । योग्यताज्ञानस्य तत्त्वस्य खण्डितत्वादाह *आ- टीकाद्वयोपेतायां लघुमञ्जूषायाम् कालाशानेति । *तस्याः-तादृश्याः शक्तेः । *ध्वनितमिति । तत्राहि- "स्वरदीर्घयलोपेषु लोपाजादेशो न स्थानिवद्" इति आनुपूर्येण सं. निविष्टानां यथेष्टं सम्बन्धः शक्यते कर्तुं नचैतान्यानुपूर्येण सं- निविष्टानि | अनानुपूयेणापि संनिविष्टानां यथेष्टं सम्वन्धो भवति । तद्यथा-अनड्वाहमुदहारि या त्वं हरसि शिरसा कुम्भं भगि- नि साचीनमभिधावन्तमद्राक्षीरिति'इत्युक्तम् । 'प्रकृतः-प्रस्तुतः । पदान्तरेणाव्यवधानरूपाऽऽसत्तिरानुपूर्व्यम्, तत्र पदार्थानां सम- न्वयावगमात्पाठक्रमादार्थक्रमो बलीयानिति यथेष्टमत्राभिसम्बन्ध' इति कैयटः । 'यथेष्टं सम्बन्धः इष्टवाक्यार्थबोधजनकत्वरूपः । आर्थक्रमो नाम राजपुरप्रवेशन्यायेन स्वस्वाकातितार्थान्व- यक्रमः । एवं चासत्यभावेऽपि पदार्थोपस्थिती आकाङ्क्षावशाद् बुद्ध्युत्पत्यनुसारेणान्वयबोध इति भावः। साचीनं तिर्यग्गच्छन्तम्' इत्युद्योतश्च । अनासन्नस्थले ऽभ्युपेत्यवादेन प्रागुक्तम् नतु तात्विक मित्याह *वस्तुतइति । आकासादिनेत्यादिना तात्पर्यम् । *सा- अर्थयोजना ॥ ५४॥ ( आसत्तिविचारः।) यत्तु तत्र तत्र वाक्ये घटमानय'इत्यादी घटकर्मका- नयनबोधेच्छयोचरितत्वाभावज्ञाने,अन्यबोधेच्छयोच्च- रितत्वज्ञाने वातथाबोधानुदयात्तयोः प्रतिबन्धकत्वक- ल्पने गौरवेण लाघवात्तथाबोधे 'इदं वाक्यमेतदर्थप्रती- सीच्छया वक्रोचारितम्' इत्याकारकतात्पर्यग्रहो हेतुः। नानार्थपदस्थले पदविषयोऽपि स तथा। तद्राहकं च प्र- करणादिकम् । अत एव प्रकरणादिज्ञानाभावे 'इदं प. दमेतदर्थकमेतदर्थकं वा' इति संदिह्यते । मौनिलि- खितवाक्यस्थले ऽपि तस्य सूक्ष्ममुच्चारणमस्त्येवेति । तन्न । शुकादिवाक्याद्, देवताप्रसादेन पूर्वजन्मसं- स्कारेण वा मूर्खबालककृतोत्तमकाव्यावक्तृतात्पर्य- अत एव वे. तस्य फलै- तात्पर्यनिरूपणम् । ५२५ व्यतिरेकनिश्चयेऽपि बोधोदयेन तस्य बोधे हेतुत्वास- म्भवात् । तद्व्यतिरेकनिश्चयश्च वक्तुस्ततस्तदाबोधात। नन्वैश्वरं तत्र तात्पर्यम् । दवाक्यतो ऽर्थबोध इति चेन्न कोन्नेयत्वेन प्राक् दु यत्वात् । लाघवादिन्या- यगृहीततत्तदर्थबोधकत्वज्ञानस्य वेदजन्यबोधे तद्गत- प्रामाण्यनिश्चये वा हेतुत्वान्मीमांसोपयोगः । किञ्च 'अस्मादर्थद्वयविषयको बोधो जायते तात्पर्य तु केति न जानीम' इति सर्वजनानुभवाविरोधान्न तस्य हेतु. त्वम् । अत एव 'पय आनय' इत्युक्ते अप्रकरणज्ञस्य दुग्धं जलं वाऽऽनेयमिति प्रश्नः संगच्छते । स्पष्टं चेदं सर्व संख्यासंज्ञासूत्रे भाष्ये । तत्र पदार्थोपस्थितिरेवेत्यादि उक्तरीत्या ख. ण्डनीयम् । तात्पर्यनिर्णयोपयोगस्तु तज्ज्ञाने प्रामाण्यनिश्चय- द्वारा प्रवृत्ती, क्वचिदनेकपदार्थस्यान्वययोग्यत्वे कस्या- ध्याहार इत्यत्र चेति बोध्यम् । नचाश्वतात्पर्यकत्वेन निर्णीताद् 'गेहे सैन्धवमस्ति' इति वाक्याद् 'गेहे लवणमस्ति नवा' इतिसंशयोच्छेदापत्तिरिति वाच्य- म् । एकतरविषयकज्ञाने प्रामाण्यनिश्चये तदितर- विषयकज्ञाने प्रामाण्यबुद्ध्युद्यन तदनुच्छेदात् । तत्परत्वाभावज्ञान-तदन्यपरत्वज्ञानयोरपि तद्बोधे- प्रामाण्यग्रहजनकतैव । तथा तत्तद्वाक्याथै प्रामाण्य. ग्रहे तत्तद्वाक्ये आप्तोक्तत्वज्ञानं हेतुः। आप्तत्वं च भ्र. मप्रमादविप्रलिप्साशून्यत्वम् । तज्ज्ञानं च 'अयं प्रकृत.
५२६ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । विषये ईदृशाप्तत्ववान, आतत्वधर्मविरोधिधर्मानधि- करणत्वाद्' इत्यनुमानेन । तत्र भ्रमो वाक्यार्थनमः । प्रमादोऽन्यार्थकशब्दभ्रमः । विप्रलिप्सा प्रतारणा-प्र- तीतविपरीतप्रतिपिपादयिषा । वेदस्याकर्तृकत्वे तु अनाप्तोक्तत्वाभावज्ञानं हेतुः । तचाप्सोक्तत्वज्ञानादनु- क्तत्वनिर्णयावत्यन्यत् । वस्तुतः सर्वः शब्दः प्रमाणमेव । अनाप्तो- क्तत्वज्ञानं तु तजन्यज्ञाने अप्रामाण्यग्राहकमि- त्यग्रे निरूपयिष्यामः । अत्र श्रोततावत्पदार्थज्ञाना- नामाकासादिज्ञानानां च नष्टत्वे ऽपि तेषां समूहालम्बनस्मरणात्तत्संस्कारादा ऽन्वयबोधः । अयमेव खलेकपोतन्यायेन बोधः। यदातु क्रमेणैवो- शोधकसमवधानात् तत्तत्खण्डवाक्यार्थबोधोत्तरं पूर्व- पूर्वस्मरणात्तत्संस्काराद्वा महावाक्यार्थयाधस्तदा राजपुरप्रवेशन्यायेन बोध इत्यन्यत्र विस्तरः ।। ५५ ।। इति तात्पर्यविचारः। (कुं.टी.)*तयोः-पूर्वोक्तज्ञानयोः। *स-तात्पर्यग्रहः । *तथा- हेतुः । एकार्यपदे तात्पर्यस्यानुपयोगात्सैन्धवादिपदे तात्पर्यमपि हेतुरित्यर्थः । तद्ग्राहकम्-तात्पर्यग्राहकम् । इदं पदम्-सैन्ध- वादिपदम् । शुकादिवाक्ये शिक्षकव्यापारस्यैव सत्त्वादाह *मू- खेति । तत्र वक्तृतात्पर्याभावे ऽपि बोधदर्शनान्न तस्य हेतुत्व- मितिभावः । *फलैकोति । शाब्दवोधमात्रानुमेयत्वेनेत्यर्थः । *दुयित्वादिति । ईश्वरतात्पर्यस्य प्रथमतो ग्रहीतुमशक्यत्वा- दित्यर्थः । ॐलाघवादीति। निषादस्थपत्यादौ कर्मधारया:
तात्पर्यनिरूपणम् । ५२७ द्यर्थनिर्णयवत् । *अतएवेति । प्रकरणतात्पनिर्णये प्रकरण स्यैव हेतुत्वमस्त्वितिभावः । नन्वीशस्थले पदार्थोपस्थिति- मात्रं भवति नतु विशिष्टवाक्यार्थिवोध इत्यत आह उक्त रीत्या खण्डनीयमिति । योग्यताज्ञानहेतुतानिराकरणावसरे खण्डितमेतदिति भावः । *प्रवृत्ताविति । उपयोग इतिपूर्वेणा- न्वयः । *अकर्तृकत्वे इति । जैमिनीया हि वेदाध्ययनं प्रति गु- रुशिष्यपरम्परामविच्छिन्नां मन्यमाना वेदमनादिमित्याचक्ष- ते । वैयासिकमते तु सृष्टिप्रलययोः श्रुतिसिद्धत्वात् पूर्वपूर्व- सर्गानुसारेण तादृशानुपूर्वीविरचनमेव । अवान्तरवाक्यार्थबोध- काले पदार्थस्मरणस्य नष्टत्वान्महावाक्यार्थवोधो न स्या- दत आह संस्काराद्वेति । *खलेकपोतेति । तदाहुः- वृद्धा युवानः शिशवः कपोताः खले यथाऽमी युगपत्पतन्ति । तथैव सर्वे युगपत्पदार्थाः परस्परेणान्वयिनो भवन्ति।इति। *राजपुरेति । तत्पक्षे हि पदार्थानामवान्तरार्थबोधे विशिष्टस्य वैशिष्टयमितिन्यायेन महावाक्यार्थबोधः । पदजन्यविशेषणता- वच्छेदकमकारकनिश्चयात्मकावान्तरवाक्यार्थबोधं विना विशि- वैशिष्टयात्मकमहावाक्यार्थज्ञानासम्भव इति भावः ।। ५५ ।। इति श्रीमद्देवीदत्तात्मजरामसेवकतनूद्भवकृष्णाचार्यकृतायां मज्जूषाकुञ्चिकायामाकासादिविचारः । .. (क० टी० ) अथ तात्पर्यज्ञानस्य शाब्दबुद्धिसामान्ये हेतुत्वं नै- यायिकाद्युक्तं खण्डयति * यत्त्विति । वाक्ये इत्यस्यैव व्याख्या *घ- टमिति । विषयसप्तमी । * हेतुरिति । अन्यथाऽनेकसंसर्गकबोधज- नकत्वेन गृहीतवाक्याद् वोधनियमो न स्यादिति भावः। *स तथे. ति । 'इदं पदमेतदर्थप्रतीतीच्छया वक्त्रोच्चारितम्' इत्याकारस्तात्पर्य- ग्रहो हेतुरित्यर्थः । तदिति । तात्पर्येत्यर्थः । *अतएव-तस्य तद्- ५२८ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । । प्राहकत्वादेव । तदपि स्वरूपसन्न प्राहकमित्याह #शानेति । यत्तु मौनिलिखितवाक्ये दोषाभावायानुसंहितं वेत्यपि वाच्यमिति तत् ख- ण्डयति *मौनीति । जपादिवदिति भावः । व्यतिरेकव्यभिचारमाह *शुकादीति । *काव्यात्-काव्याश्च । *तस्य-तात्पर्यज्ञानस्य । *बो. धे-शाब्दबोधसामान्ये । *तयतिरेकेति।वक्तृतात्पर्याभावेत्यर्थः। ॐव. क्तुः-शुकादेः। अस्यावश्यकत्वमाह * अतएवेति । तत्र वक्तृशब्दस्ये- श्वरसाधारण्यादेवेत्यर्थः। अध्यापकतात्पर्य तत्र नियामकमिति तु न युक्तं, मुर्खाध्यापकोत तदसम्भवादिति भावः । *तस्यति । अतए- वेश्वराप्तत्वानिश्चयवतां बोधोमीमांसकादीनाम्।ननु तस्य तत्राहेतुत्वे तद्ग्राहकप्रकरणादिप्रतिपादकमीमांसोच्छेदापत्तिरत आह *ला- घवादिति । आदिना गौरवम् । प्राचां मतेनाह *वेदेति । वक्ष्यमा- णसिद्धान्तमतेनाह *तद्गतेति । नचैवं विज्ञवक्तृकवाक्यजन्यवोधे तात्पर्यधियो हेतुत्वमिति शुक्रवाक्यादिजन्यवोधे न दोषस्तस्यात- थात्वात् तत्र तु बोधकत्वज्ञानमेव हेतुः, वेदजवोधे ऽपि न्यायावगत- तत्तदर्थबोधकत्वज्ञानं हेतुरिति वाच्यम् । विशत्वस्यानियतत्वात् । सवत्र बोधकत्वज्ञानहेतुतयैव सिद्धेश्च । दोषान्तरमाह *किञ्चेति । *तात्पर्यन्त्विति। प्रकरणाद्यनुगृहीतवक्तृतात्पर्य त्वित्यर्थः। *अतएव- तस्य बोधाहेतुत्वेनोभयज्ञानादेव । अन्यथा ज्ञानस्य प्रश्नादिहेतुत्वेन तदभावे तदसङ्गतिः स्पष्टव । *स्पष्टं चेदमिति । तस्य तत्त्वखण्ड. नभूतं सर्वमित्यर्थः। तत्रहि-"इहार्थमुत्तरार्थ चोद्देश्यकोटौ संख्याग्र- हणं कर्त्तव्यमितरथा ह्यसम्प्रत्ययोऽकृत्रिमत्वाद्यथा लोके" इत्युक्त्वा "आद्यफलार्थ न कर्त्तव्यम् । अर्थात्प्रकरणाद्वा लोके कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययो भवति-अर्थो वाऽस्यैवंसंज्ञकेन भवति, प्रकृतं वा तत्र भवति इदमेवंसंशकेन कर्त्तव्यमिति। आतश्चात्प्रकरणाद्वा। अङ्ग हि भवान् ग्राम्यं पांसुलपादमप्रकरणशमागतं ब्रवीतु गोपाल. कमानय कटजकमानयेति, उभयगतिस्तस्य भवति साधीयो वा यष्टिहस्तङ्गमिष्यति" इत्याधुक्तम् । नच तत्र पदार्थोपस्थितिरेव न शाब्दबोध इति वाच्यम् । पयः कर्मत्वमानयनं प्रेरणेति वाक्यज- न्यपदार्थोपस्थितावपि तदापत्तेः । सर्वत्रैवमेवापत्तौ शाब्दबोधी- च्छेदापत्तेश्च । एतेन तत्र मानस एव बोध इति, उपस्थितपदार्था- नामसंसर्गाग्रहमात्रेण प्रश्नादिसिद्धिरिति च परास्तम् । शब्द- योग्यतानिरूपणम् । जन्यमानसबोधस्यैव शाब्दबुद्धित्वात् । शाब्दयामीत्यनुव्यवसाया. च । तदेतदभिप्रेत्याह *तत्रेति । सिद्धान्तमाह *तात्पर्येति । सिद्धान्ते दोषमुद्धराति *नचेति । तस्य बोधहेतुत्वेऽश्वतात्पर्ये तद्बोधे ऽपि लवणाबोधेन तदनिश्चयात्प्रतिवन्धकाभावात्संश- यस्य तच्छ्रवणोत्तरमुपपत्तिः । सिद्धान्ते तु तस्य तदहेतुत्वेनोमय- बोधे तन्निश्चयद्वयप्रतिबन्धकसत्त्वात्तदुच्छेदापत्तिरित्यर्थः । *निश्चये- सति । आर्थिकमाह तदितरेति । *बुद्ध्युदयेनेति । तदानिश्चयेन प्रतिबन्धकाभावेनेति शेषः । यत्तु तत्परत्वाभावज्ञान-तदन्यपरत्वज्ञा- नयोः सत्त्व तदर्थविषयकवोधाननुभवेन फलवलात्तयोः प्रतिबन्ध- कत्वमेव, एवमपि प्रामाणिकगौरवस्यादोपत्वादिति, तत् खण्डयति *तत्परत्वति । एवेन प्रतिबन्धकत्वव्यवच्छेदः । एवञ्चैकरूपताऽत्रा- पीति भावः । विशेषान्तरमाह *तथेति । तत्र तस्येवेत्यर्थः । *प्रामाण्यति । अबाधितत्वरूपेत्यर्थः । *ईदृशति । भ्रमादिशून्य- त्वरूपेत्यर्थः । *आप्तत्वेति । इदमुपरञ्जकं नतु हेतुकुक्षिनिविष्टम् । भ्रमादिरूपविरुद्धधर्मानधिकरणत्वादित्यर्थः। अन्वयव्यतिरेकीदम् । अतएव विशेषदृष्टान्तानुक्तिः। अपौनरुक्त्याय प्रकृतोपयोग्यर्थमाह *तत्रेति । आप्तलक्षणघटकानां मध्ये इत्यर्थः । *अन्यार्थकशब्दति । अन्यार्थत्वेति पाठान्तरम् । विप्रलिप्साव्याख्या *प्रतारणेति । तद्या- ख्या *प्रतीतेति । *ज्ञानं-ज्ञानमेव । तुना सूचितं तस्येश्वरक- नुकत्वे भ्रमादिरहितरूपाप्ताक्तत्वं वेदे ऽप्यस्त्येवेति । इदमपि प्राचा मतेन नतु तत्त्वत इत्याह *वस्तुतइति । *इत्यग्रेइति ?। वि- शेषमाह *अत्रेति । शाब्दबोधविषये इत्यर्थः । *ज्ञानानाम्-उपस्थि- तीनाम् । आदिपदं पररीत्या योग्यताज्ञानादिसंग्राहकं तद्धेतोरे- वेतिन्यायेन । लाघवादाह *तत्संस्काराद्वेति । एवमग्रऽपि । *राजपुरति । एतत्स्वरूपं प्रागुक्तम् । एतेन विशिष्टस्य वैशि- टयमितिरीत्या बोधे खण्डवाक्यार्थबोधोत्तरमेव महावाक्या- थबोध इति तादृशस्थले राजपुरप्रवेशन्यायेन वोधः । हि खण्डवाक्यार्थवोधे तावद्विषये झाते ततश्चरमपदार्थशानेन समूहालम्बनविधया खण्डवाक्यार्थविषयिण्या महावाक्यार्थबो- ध इति कैश्चिदुक्तम्, शब्दजन्यतादृशवोधे विशेषणतावच्छेदकप्र- कारकनिश्चयो न कारणमिति सर्वत्र खलेकपोतन्यायेनैव घोध. ६७ तत्र ५३० टीकाद्वयोपेतायां लघुमञ्जूषायाम् । इत्यन्यैरुक्तम्, शब्दजन्यतादृशवोधे विशेषणतावच्छेदकप्रकार- कनिश्चयो न कारणं विशेषणविशेष्यादिसन्निकर्षणैव तदुपपत्ते- रिति परैरुक्तं च परास्तम् । उक्तयुक्तेः । अन्त्ये दोषस्य प्रागुक्तत्वा- घेति दिक् । तदाह *इत्यन्यत्रेति । गुरुमञ्जूषायामित्यर्थः ॥ २६ ॥ इति तात्पर्यनिर्णयः।
धात्वर्थनिरूपणम्। अथ सकलशब्दमूलभूतधात्वर्थों निरूप्यते । तत्र फलानुकूलो यत्नसहितो व्यापारो धात्वर्थः इति सिद्धान्तः । यत्तु फलं धात्वर्थों व्यापारः प्रत्ययार्थः इति । तन्न । “लः कर्मणिच" इत्यादिसूत्रविरोधात् । न हि तेन व्यापारस्य प्रत्ययार्थता लभ्यते । किञ्च पचते पक्ष्यति पकवानित्यादौ फूत्कारादीनां प्रतीतये त. त्रानेकप्रत्ययानां शक्तिकल्पनापेक्षया एकस्य धा- तोरेव शक्तिकल्पनोचिता । किञ्च फूत्कारादेः प्रत्यया- र्थत्वे गच्छतीत्यादावपि तत्प्रतीतिवारणाय तबो- धे पचादिसमाभिव्याहारस्यापि कारणत्वकल्पने गौ- रवम् । किश्च सकर्मकाकर्मकव्यवहारोच्छेदः । प्रत्ययार्थव्यापारव्यधिकरणफलवाचकत्वं सकर्मकत्वम् तत्समानाधिकरणफलवाचकत्वं चाक- मकत्वम् । जानातावपि व्यापारतावच्छेदकसमवा- यसम्बन्धेन व्यापारानधिकरणवृत्तित्वरूपवैयधिकर- ण्यस्य विषयतया फले सत्त्वेन न क्षतिः । अ. न्यथा यत्किञ्चित्सम्बन्धेन सर्वेषामेव व्यापारसमा. नच
५३२
टॉकाद्वगोपेतायां लघुमञ्जूपायाम् ।
नाधिकरणफलवाचित्वेन बहूपप्लवापत्तिः । प्रत्यया-
र्थव्यापाराश्रयत्वं च कर्तृत्वम् । घटं भावयतीत्यादौ
णिजर्थव्यापारव्यधिकरणफलाश्रयत्वेन घटादेः क-
मत्वमिति वाच्यम् । अभिधानानभिधानव्यवस्थो-
च्छेदापत्तेः ।
नच व्यापारेण स्वाश्रयस्याक्षेपात्कर्तुर भिधानं
कर्माख्याते प्रधानेन फलेन स्वाश्रयाक्षेपात् कर्मणो
ऽभिधानामति वाच्यम् । जात्याक्षिसव्यक्तरिवाश्र-
यस्य प्राधान्यापत्तौ "क्रियाप्रधानमाख्यातम्" इति-
याकविरोधापत्तेः।
किञ्च फलस्य धातुना तदाश्रयस्याक्षेपेणैव लाभ-
सम्भवेन "लः कर्मणि"
इत्यस्य
वैयापत्तिः । कर्म-
कर्तृकृतां भावनाकारकोभयवाचकत्वे गौरवाच ।
किञ्च भावविहितघनादीनां व्यापारावाचकत्वे
ग्रामो गमनवानित्याद्यापत्तिः । तदाचकत्वे तेनापि
स्वाश्रयाक्षेपे कषुराभिधानापत्तिः ।
किञ्च गुरुः शिष्याभ्यां पाचयतीत्यादौ "हे-
तुमतिच"इति सूत्रबलात्प्रयोजकव्यापारस्य णिजर्थत्वे
स्थिते प्रयोज्यव्यापार आख्यातार्थो वाच्यः, एवञ्च
संख्यायां स्ववाचकाख्यातार्थव्यापारे ऽन्वयिन्येवा-
न्वयाच्छिष्याभ्यामिति द्विवचनानापत्तिः । पाच-
यतीत्येकवचनानापत्तिश्च । गुरोरनभिधानेन तत्र
प्रथमाया अनापत्तेश्च । शिष्यशब्दात्तदापत्तेश्चेत्यन्य-
त्र विस्तरः ॥१॥
५३३ धात्वर्थनिरूपणम् । धात्वर्थनिरूपणम् । ( कुं० टी०) *यत्नसहित इति । तेनाग्निसंयोगाधीन- व्यापारसत्त्वे अयं न पचतीति प्रयोगो भवत्येव । तत्र य- नाभावात् । आमवातजडीकृतकलेवरस्य च यत्नसत्त्वे ऽपि य- नस्योत्थानानुकूलत्वाभावानोत्तिष्ठतीति प्रयोग इति भावः । अत्र मण्डनमिश्राः-फलमात्रं धात्वर्थः व्यापारः प्रत्य- यार्थः । पाक इत्यत्रापि घबर्थ एव व्यापारः । कर्तृत्वमपि प्रत्ययार्थव्यापाराश्रयत्वात् । प्रत्ययार्थव्यापारव्यधिकरणफ- लाश्रयत्वमेव च कर्मत्वम् । देवदत्तेन पाक इत्यत्र तृतीयार्थ एव व्यापारः । णिजन्ते तु व्यापारस्याख्यातार्थत्वादुभयोः कर्जता । फलरूपक्रियावाचकत्वादेवच धातुत्वमिति वदन्ति । तानिराकरोति *यविति । ननु भावनाया धात्वर्थत्वे "वाजपेयेन स्वाराज्यकामो यजेत" इत्यत्र वाजपेयेन यागं यागेन स्वाराज्यमिति उभाभ्यां सम्बन्धसम्भवाद् गुणविधि- त्वापत्तौ नामधेयत्वप्रतिपादकवाजपेयाधिकरणासङ्गतिरिति चे- न । गुणं प्रति अनुवाद्यत्वं फलं प्रतिच विधेयत्वमिति विरुद्ध द्वयासम्भवात् । तस्मात्सामानाधिकरण्यान्नामधेयत्वम् । ननु कर्तरि इत्यस्य कर्तृत्वे इत्यर्थाद् व्यापारलाभ इत्यत आह *किञ्चेति । ननु अनेकधातूनां व्यापारे शक्तिकल्पने तवापि गौरवमत आह *किश्च फूत्कारेति । ननु व्यापारविशेषवोधार्थ तत्तद्धातुसमभिव्याहारस्य हेतुत्वं सर्वेपामावश्यकमत आह *किञ्चेति । *जानातावपीति । अत्र समवायेन ज्ञानं व्यापारः, विषयतया ज्ञानं च फलम् । ॐ अन्यथेति । कालिकसम्बन्धेन स- र्वेषां समानाधिकरणत्वात् । *धातुनेति । फलस्य धात्वर्थतया टीकाट्योपेतायां लघुमञ्जूषायाम् । फलेन चाश्रयस्याक्षेपालाभ लकाराः कर्मणि इत्यस्य वैया पत्तिरित्यर्थः । *कर्मकर्चिति । पाचक इत्यत्र व्यापारकर्तारौ प्रत्ययवाच्यावित्यर्थः । भावधनादीनां व्यापारवाचित्वमस्ति नवेति विकल्प्य दूपयति *किञ्चेति । *स्ववाचकेति । संख्या- वाचकस्याख्यातस्यार्थो यो व्यापारस्तस्य प्रयोज्येऽन्वयात्मयो- ज्ये द्विवचनं न स्यादित्यर्थः ॥ १॥ धात्वर्थनिरूपणम् । (कल्टी०) अवसरसङ्गत्या पूर्वानन्तरम्, उपजीव्यत्वादानमात्पूर्व धात्वनिरूपणमित्याह *अथेति । *तत्र-निरूपायधात्वर्थविषय । अत्र प्रभाकरानुयायिनः-फलमेव धात्वर्थो भावना तु वाच्यैव न, तद्विषयकशाब्दबोधस्य सर्वत्राननुभवात् । किन्तु लिङयेव । परं सा आख्यातवाच्येति । तन्न । “कर्तरि कृद्" इत्यत एव कर्तृग्रहणस्य "लः कर्म- णि" इत्यवानुवृत्त्या तिङ्क्तोर्वैषम्यस्य दुरुपपादत्वात् । यत्ना- तिरिक्तः फलानुकूलो व्यापारो धात्वर्थो यत्न आख्यातार्थः, धा- त्वर्थे कारकान्वय इति गुरुमतं "तत्तु समन्वयाद” इतिसूत्रस्थवाच- स्पत्यादिग्रन्थेभ्यो लभ्यमानं भूषणकारोक्तयत्नाख्यातार्थत्व. वादिनैयायिकमतदूषणग्रस्तं, तदेतत् ध्वनयन्नाह *यत्नति । अनेन सर्वत्र यत्नोऽर्थ इति सूचितम् । मण्डनमिश्रानुयायिमतं खण्डयति *यत्त्विति । ननु कर्तृपदस्य धर्मपरत्वेन तल्लाभो ऽत आह *कि- अपचतात । यत इति शेषः । एवमग्रे सर्वत्र यथासम्भवम् । नन्वियं सिद्धान्ते ऽपि तुल्येत्यत आह *किञ्चफूत्कारेति । इष्टापत्तो आह अकिञ्च सङ्केतेति । इमं दोषमुद्धरति *नचेति । व्यमित्यत्रान्वयः । नन्वेवं जानातः सकर्मकत्वानापत्तिः, धात्वर्थ- मानव्याकरणव्यापारस्य देवदत्तादावननुभवादित्यत आह *जा. नातावपीति । *विषयतया फले-तत्सम्बन्धावच्छिन्नफले । *अन्य. था-व्यापारतावच्छेदकसम्बन्धानिवेशे। *सम्बन्धेन-कालिका- दिना । *सर्वेषामेव-धातूनाम् । *कर्तृत्वमिति । अतएव घटम्भावat- धात्वर्थनिरूपणम् । ५३५ यतीत्यादौ कर्मणोऽपि घटस्य घटो भवतीत्यादौ कर्तृत्वमेव । तत्रा- ख्यातस्य धात्वर्थसमानाधिकरणकर्तृव्यापारमात्रार्थकत्वात् । क- मत्वमपि प्रत्ययार्थव्यापारव्यधिकरणधात्वर्थाश्रयत्वमेवेति सूच- यन्नाह घटामति । *णिजथेति । प्रयोजकव्यापारेत्यर्थः । अन्त- र्भावितण्यर्थे ऽपि प्रत्ययस्यैव णिजथलक्षणति न दोष इति भावः । इममपि दोषमुद्धरति *नचेति । अत्र व्यापारस्यानाक्षे. पकत्वायाह *प्रधानेनेति । एतेन तत्रापि वैपरीत्यं निरस्तम् । ननु यास्कः अनाक्षेपबोधाशयको मतान्तरपरो वा ऽत आह *किश्चेति । *इत्यस्य-इत्यंशस्य । ननुक्तरीत्या लाभे ऽपि प्राधा- न्याय पुनः शास्त्रेण प्रत्ययार्थवोधनं, द्वावित्यादिवञ्च न बोधावृत्तिः, भाववत्तदनुवादकत्वं वा, तत्फलं प्राधान्यमेव, अत आह *कर्म- ति । कणि कृताम्, कर्मकर्तरि कृतां चेत्यर्थः । अत एव सामा. नाधिकरण्यम् ओदनस्य पक्तत्यादौ कारकान्वयश्च । इष्टापत्तावा. ह *किञ्चेति । दोषान्तरमाह *किञ्च गुरुरिति । *अनाप- त्तिरिति । तदभावापत्तिरित्यर्थः । एवमग्रेऽपि । नचात्र फ- लं धात्वर्थों व्यापारानुकूलप्रयोजकव्यापारी ण्यर्थः, तत्र फलस्या- नुकूलतया ऽऽद्यव्यापारे ऽन्वयः, तिङस्तु कालसंख्ये प्रयोजकव्या- पारश्चार्थः, द्वावित्यादिवन्न बोधावृत्तिः, प्रधानत्वाल्लः कर्मणी- त्यादिसौत्रानुवादबलाच प्रयोजकव्यापारेणैव धर्मिण आक्षेपः । "अनभिहित" इत्यादेश्च शक्त्याक्षेपे साधारणाबोधित इत्येवार्थ इति न दोष इति वाच्यम् । "हेतुमति च” इति सूत्रेण तथाऽलाभा- त्। अस्मद्रीत्या क्लेशेनैव सकलसामञ्जस्ये क्लिटकल्पनानुपयोगादुक्त- दोषनासाञ्चेति दिक्तदाह *इत्यन्यत्रेति।गुरुमञ्जूषायामित्यर्थः॥१॥ यदपि-धातोः केवलव्यापारे एव शक्तिः फलं तु कर्मप्रत्ययार्थ इति । तन्न । ग्रामं गच्छतीत्यत्र विभागस्य, त्यजतीत्यत्र संयोगस्थ बोधापत्तेः । संयोगबोधे गमादिसमभि- व्याहारस्य, विभागबोधे त्यजादिसमाभिव्याहारादेः कारणत्वकल्पने तु गौरवम् । त्यागो गमनमित्या- कर्मणि स. टीकाद्वयोपेतायां लघुमञ्जूषायाम् । पत्तेश्च । तत्र फलावच्छिन्नव्यापारवाचित्वे सर्वत्र थैवोचितम् । किच गत्यर्थकर्मणि द्वितीयाचतुर्योपब्लोपे कर्मणि पञ्चम्याः, क्तस्येन्विषयस्य कर्मणि प्सम्या विधानेनानेकेषां सुपां तिडां च फले श- क्तिकल्पनापेक्षया फलविशेषबोधेतत्तद्धातुसमाभ- व्याहारस्य कारणत्वकल्पनापेक्षया च धातोरेव फले- ऽपि शक्तिकल्पनोचिता । कर्मकर्तृप्रयोगे फलस्य तवापि धातुवाच्यत्वावश्यकत्वाच । त्यजतिगच्छ- त्योः पर्यायताभ्रमदशायां ताभ्यामविलक्षणबोधो- त्पत्त्या तत्तत्समभिव्याहारस्य फलविशेषबोधनिया- मकत्वासम्भवाच । कार्यतावच्छदककोटौ पुरुष- विशेषीयत्वनिविशे तु गौरवम् । यत्त्वीदृशाविषये सामग्रीप्रतिबन्ध्यप्रतिबन्धक- भावे लाघवगौरवविचारकरणम्, तत्तु तादृशसाम- ग्रीप्रतिबन्धकताज्ञानस्यानुपयोगेनानुमितिपरामर्शका- र्यकारणभावादिलाघवगौरवचिचारकरणवत् काक- दन्तविचारकरणम् । किश्च शाब्दानुमितिसामग्योानघटितत्वेन यु- गपज्ज्ञानानुत्पत्तेमनोलिङ्गतया च तयोराञ्जस्येनानु- भवसिद्धः समावेश एव दुर्घट इति बोध्यम् । किञ्च त्वया कर्मत्वं धात्वान्वितप्रत्ययार्थफलव- त्वम्, प्रत्ययार्थफलव्याधिकरणव्यापारवाचित्वं सक- मेकत्वं वाच्यम् । तच्च भावयत्येधयत्यादिण्यन्त- सकर्मकेषु तत्कर्मणि चाव्याप्तम् - तत्र फलस्य धात्वर्थनिरूपणम् । धात्वर्थत्वेनान्यलभ्यतया प्रत्ययार्थत्वासम्भवादित्य- न्यत्र विस्तरः ॥ २॥ (कुं०टी०) नव्यनैयायिकमतं निराचष्टे यदपीति । *फलं. विति । कर्मणीत्यस्य कर्मत्वे इत्यर्थात् । कर्मत्वं च फलाश्रयत्वं फलमेवेति भावः । *त्यागइति । अत्र पर्यायतापत्तिरित्यर्थः । नन्वत्र तत्फलावछिन्नव्यापारोऽर्थ इति चेत्तत्राह *सर्वत्र तथैवे- ति । ननु शाब्दिकमते ऽपि तत्चत्फलबोधे तत्तद्धातुसमभिव्याहा- रस्य नियामकत्वमावश्यकमत आह किश्चेति । फले विभक्ती- नां शक्तिः कल्पनीया, फलविशेषबोधे धातुविशेषसमभिव्याहा. रस्य नियामकत्वं कल्पनीयमिति गौरवमित्यर्थः । *कर्मकत्रिति पच्यते तण्डुलः स्वयमेवेत्यादौ । फलस्य धात्वर्थत्वे समानविषय- कानुमिति प्रति शाब्दसामग्रीप्रतिबन्धकतायां फलप्रकारतानिरू- पिता या व्यापारविशेष्यता अथवा व्यापारविशेष्यतानिरूपिता या फलप्रकारता तच्छालिधातुजन्योपस्थितित्वनिवेश इत्यत्र विनिगमनाविरहात् प्रतिवन्धकतावाहुल्यमिति दूषणमुद्धरति * यत्त्विति । *अनुमितिपरामर्शेति । केचिद्-वन्हिव्याप्यधूमवान्पर्वत इतिपरामर्शस्य कारणतां वदन्ति । अन्ये वन्हिव्याप्यधूमवान्पर्वतो वन्हिमानित्यनुमितिमिच्छन्ति । * काकदन्तेति । अयं भावः-देवदत्ताभिन्नाश्रयकः पाक इत्याकारकशाब्दबोधसामग्रथास्तत्समानाकारानुमिति प्रति प्रतिवन्धकता वाच्या । सा च न सम्भवति । शाब्दबोधे पाकस्य विशेष्यत्वात् अनुमितौ च पाकं पक्षीकृत्य देवदत्ता- मिनाश्रयकत्वसाधने विषयभेदात् । अनुगतस्य व्याप्यस्यासम्भ- ५३८ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । वाच्च । या हि धूमादिदर्शनेन सम्भावना सापि संशय एव नतु- निश्चयात्मिकाऽनुमितिः। परे तु धातोः फलावच्छिन्नव्यापारे द्वितीयायाश्चाश्रयत्वे शक्तिभ्रमवतो लाक्षणिकत्वग्रहवतश्च ग्रामं गच्छतीत्यादिशाब्द- सामग्रयां तादृशानुमित्यनुदयेन तदनुरोधात्तादृशमतिवध्यपति- बन्धकभावस्तवाप्यावश्यक इत्याहुः। *ज्ञानघटितत्वेनेति । शाब्दसामग्री पदपदार्थज्ञानादि- रूपा । अनुमितिसामग्री च परामर्शादिरूपा । तयो- श्च युगपत्सामञ्जस्येनावस्थानं न सम्भवतीत्यर्थः। *मनो- लिङ्गतयेति । नानेन्द्रियाणां विषयसंयोगे ऽपि यशादे- केन्द्रियजन्यमेव ज्ञानं भवति तन्मनसो लिङ्गं लक्षणम् । तथाच गौतमसूत्रम् -"युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम्" । एवं ज्ञानद्वययोगपद्यं न सम्भवतीति भावः । दीर्घशष्कुली. भक्षणादौ ज्ञानद्वययोगपद्यस्वीकारात् उक्तम् *आअस्येने- ति । *कर्मत्वमिति । फलवत्त्वं वाच्यमित्यत्रान्वयः । *तच्चे- ति । तत्र उत्पत्त्यादिरूपं फलं भूप्रभृतीनामेवार्थ इति प्रत्ययार्थ- स्वाभावात् सकर्मकत्वानापत्तिरिति । ननु तत्रोत्पत्तिापार एव न तत्फलमत आह *अन्यलभ्यतयेति । उत्पत्तेर्धात्वर्थत्वे प्रत्ययार्थः फलं किमित्यर्थः ॥ २ ॥ (कल्टी०)प्राचीननैयायिकोक्तिं खण्डयति *यदपीति। *कर्मेति । कर्मप्रत्ययापेक्षया बहूनां धातूनां फले शक्तिकल्पनस्य गुरुत्वा. त्। किञ्च धातोः फलवधिकत्वे नामार्थधात्वर्थयोराश्रयता- सम्बन्धेन साक्षादन्वयासंभवेन फलाश्रयत्वस्य प्रत्ययार्थत्वे च वृत्तित्वं सम्बन्ध इति लाघवमिति भावः । आदिनोभयभिन्ने- ऽन्यसमभिव्याहारसंग्रहः। *त्याग इति । एकस्या एव संयोगवि- भागजनकत्वादिति भावः । तत्र तत्र लक्षणायां सैव दोषो ऽत धात्वर्थनिरूपणम् । न्याः आह *तति । चतुर्योरित्यादेविधाने ऽन्वयः । *कमैति । पच्यते तण्डुलः स्वयमेवेत्यादावित्यर्थः । समभिव्याहारस्य कारणत्वमपि दुर्वचमित्याह *त्यजतीति । ननु तत्पुरुषीयत्वनिवेशे नायं दोषोऽत आह *कार्यतेति । नैयायिकोक्तिं खण्डयति *यत्त्विति । फ- लावछिन्नव्यापारवाचित्वे ग्रामङ्गच्छतीतिवाक्यज्ञानघटितसामा. समानविषयकानुमितिप्रतिबन्धकतायां फलावच्छि- नव्यापारविषयकधातुजन्योपस्थितेनिवेश्यतया तस्याः फलनिष्ठ- प्रकारतानिरूपितव्यापारविशेष्यताशालित्वेन व्यापारनिष्टविशेष्य- तानिरूपितफलप्रकारताशालित्वेन वा निवेश इत्यत्र विनिगमना. विरहात्सामग्रीप्रतिबन्धकताधिक्यमवच्छेदकगौरवं च । मम मते द्वितीयाजन्यफलोपस्थितेः सामग्यन्तर्निवेशो भवन्मतसिद्धतजन्यो- पस्थितिस्थानीय इति लाघवमित्यर्थः । यद्यपि धातोः फलाव- च्छिन्नव्यापारे द्वितीयायाश्चाश्रयत्वे शक्तिभ्रमवतो लाक्षणिकत्व- प्रहवतश्च ग्रामं गच्छतीत्यादिशाब्दसामग्न्यां सत्यां तादृशानु- मित्यनुदयेन तदनुरोधात्ताशप्रतिवध्यप्रतिबन्धकभावस्य तवा- प्यावश्यकत्वं तथापि वास्तवमेव समाधिमाह *तत्तु तादृशे- ति । बाधकबुद्धर्बोधसामान्ये प्रतिबन्धकत्वाभावस्य व्यवस्था- पितत्वादिति भावः । प्रासङ्गिकमाह *अनुमितीति । तयोः कार्य- कारण भाव एव न, तं विनाऽपि तदुदयेन तस्य कारणताऽनुपयोगा- त् । यथा चानुमितिप्रक्रिया तथा प्रागेवोपपादिता । आदिना व्याप्तिज्ञानादि। *काकेति । काकस्य कति वा दन्ता मेषस्याण्डं कियत्पलम् । इत्यादिनेति । इदमप्यभ्युपेत्योक्तम् । वस्तुतोऽस. म्भव एवेत्याह *किञ्चेति । परमते मनसो ऽणुरूपत्वादाह *मनोलिनेति । परमतावलम्बनं विनाऽसम्भवादाह *आज. स्येनेति । सर्वथा ऽसत्त्वं वारयति *अनुभवेति । तथाच पररीत्येदं दूषणम् । एवं यत्त्वितिमतं संखण्ड्य बोध्यमित्यन्ते प्र. कान्तमते दोषान्तरमाह *किञ्चत्वयेति । *प्रत्ययार्थेति । तद- वितेत्यादिः । अकर्मकत्वं च तदभाव एवेति भावः । *धात्वर्थत्वेने- ति । अन्वयव्यतिरेकाभ्यामित्यादिः। *लभ्यतयेति । गौरवण चेत्यपि बोध्यम् । किञ्च विष्णुं यजते, विष्णुर्यष्टव्य इत्यादौ चतुर्थ्यर्थविहित- भावः टीकाद्वयोपेतायां लघुमञ्जूषायाम् । द्वितीयादेख्देश्यत्वेनैवान्वयवोधकत्वाद्यतिवद्यजेरप्यकर्मकत्वापत्तिः। विष्णोर्धात्वर्थकर्मत्वाभावेन तस्मिन्कर्मणि लतव्यादेरभावापत्तिश्च । उद्देश्यताख्यविषयतया विष्णुर्यागविषय इति चेद्भोजनमभि य- त्यर्थस्यापि सकर्मकत्वापत्तिः । नचाकर्मकभिन्नत्वं सकर्मकत्वं तत्र च प्रयोगानुरोधात्कृञ्जानात्यादिभेदो न निवेश्य इति वा- व्यम् । सकर्मकाणामप्यर्थान्तरे ऽकर्मकत्वेनासम्भवापत्तेः । तुल्ययु- त्याऽकर्मकत्वमपि सकर्मकान्यत्वमेव वाच्यम्, अन्यादृशस्य त. स्य दुर्वचत्वात् । एवञ्चान्योन्याश्रयापत्त्या "लः कर्मणि" इत्यादेरवो- धकत्वापत्तिश्चेति दिक् । तदाह * इत्यन्यत्रति । उक्तोऽर्थः ॥ २ ॥ अत्र फलव्यापारयोः पृथक् शक्तिः । एकपदो- पस्थाप्ययोरपि परस्परमन्वयो व्युत्पत्तिवैचित्र्यात् परेषां कृतीष्टसाधनत्वयोरिव । अन्यथा कर्मप्रत्यय. समभिव्याहारे व्यापारावच्छिन्नफलबोधेन तथाश- तरप्यावश्यकत्वेन गुरुशक्यतावच्छेदककशक्तिद्वय- कल्पनापत्तिः। तत्र फलव्यापारावन्तरङ्गत्वात्परस्परविशेषणता- मनुभूयैवार्थान्तरान्वयिनौ । अत एव गमनं न व्या- पार इति न । फलांश उत्सर्गतो व्यापारविशेषणम् । जन्यजनकभावः संसर्गः। कचित्त विषयत्वं संस- र्गः । यथा आस्थादेस्तत्पूर्वकाध्यवसायादौ घृत्तौ । पत्ये शेते आस्ते इत्यादौ पत्युद्देश्यकं शयनाद्यध्य- वस्थतीत्यर्थः । फलत्वं च कर्तृप्रत्ययसमभिव्याहारे त- द्धात्वर्थजन्यत्वे सति तद्धात्वनिष्ठविशेष्यतानिरूपि- तप्रकारतावत्त्वम् । जन्यता च आरोपिताऽनारोपिता- वेत्यन्यदेतद् । विभागजन्यसंयोगादिरूपे पतत्यादि- धात्वर्थे विभागसंयोगयोः फलत्ववारणायोभयम् ।
धात्वर्थनिरूपणम् । ५४२ कर्मप्रत्ययसमभिव्याहारे तु फलस्य विशेष्यता ॥३॥ (कु० टी०) *पृथक्शक्तिरिति । फलावच्छिन्नव्यापारस्य धात्वर्थत्वे विशेष्यविशेषणभावे विनिगमनाविरहादवच्छेदकगौ- रवमेकदेशान्वयापत्तिश्चेति भावः । ननु पदद्वयघटिताका- साविरहात् फलव्यापारयोरन्वयबोधानापत्तिरत आह *व्यु- त्पत्तिवैचित्र्यादिति । अत एव तार्किकमते ऽपि एवकारार्थ- योरन्ययोगव्यवच्छेदयोः परस्परमन्वयः । नच तत्राप्यन्ययो- गप्रतियोगिकाभावरूपः समुदित एवार्थः। उभयाभावमादा- यातिव्याप्तेः । अन्ययोगत्वावच्छिन्न प्रतियोगिताको व्यवच्छे- दो ऽर्थ इत्युक्तौ तु 'पार्थ एव धनुर्धर' इत्यत्र पार्थान्ययोगत्वाव- च्छिन्नव्यवच्छेदस्य प्रतीतिर्न स्यात् । पदभेदेन भिन्नत्वात् । तथाच प्रकृते एकपदोपस्थाप्यत्वमेवाकाङ्केति भावः । *परेषा- मिति । तार्किकाणां लिङर्थकृतौ लिङर्थेष्टसाधनत्वान्वयवदि- त्यर्थः । ननु इष्टसाधनत्वस्य पाकादावेवान्वय इत्यरुचेर्दोषान्त- रमाह *अन्यथेति । फलावच्छिन्नव्यापारे शक्तौ पच्यत इत्यत्र व्यापारप्रकारकबोधो भवदभिमतो न स्यादित्यर्थः । तथाश- तेरपीति । फलावच्छिन्नव्यापारत्वं व्यापारावच्छिन्नफलत्वं च शक्यतावच्छेदकं वाच्यमित्यर्थः । ॐइति नेति । इत्याकारकः प्रत्ययो नेत्यर्थः। फलव्यापारयोः पृथगुपस्थितौ तयोर्व्यापाररू. पत्वाभावादुक्तप्रत्ययः स्यादेवेत्यर्थः । कर्मप्रत्ययसमभिव्याहारे फलस्य विशेष्यत्वस्वीकारादाह *उत्सर्गतइति । * आस्यादेः- आस्ते इत्यादेः। एतदेवोपपादयति *पत्ये शेते इति । पत्युद्देश्यक यत् शयनं तदध्यवस्यतीति । अत्र शयनविषयकाध्यवसाये पर्यवसानात् । कर्मप्रत्यये फलस्य विशेष्यत्वादाह कर्तृपत्य-
५४२ टीकाद्वयोपेतायां लघुमञ्जूषायाम् ।
येति । आरोपितेति । ईश्वरस्तिष्ठतीत्यादौ स्थितौ जन्यताया
आरोपात् । *विभागेति । विभागजन्यः संयोगः पतधात्वर्थः ।
तत्र संयोगस्य प्रकारत्वाभावात् । विभागस्य धात्वर्थजन्यत्वाभा-
वात् वारणमित्यर्थः । *उभयम्-विशेष्यविशेषणद्वयम् । कचिद-
कर्मकधातौ व्यापारमात्रम् धात्वर्थ इति वक्ष्यमाणमतेनेदम् ।।३।।
(क० टी०) विशेषमाह *अत्रेति । धातुविषये इत्यर्थः । तत्रा-
दौ प्राचां दीक्षितादीनां मतमाह *पृथगिति । नन्वेवं तयोरन्व-
यो न स्यात भिन्नपदोपस्थितस्तत्र तन्त्रत्वादत आह *एकति ।
तथाच तत् धातुभिन्नविषयमिति भावः । इदम्परसंमतमपीत्याह
*परेषामिति । ननु द्वितीयार्थाश्रयान्वयस्यैकदेशे फले ऽन्वयानुपप-
त्या न पृथक्शक्तिस्वीकारः, “कर्मणि द्वितीया" इत्यनुशासनाद् व्यु.
त्पत्तिवैचित्र्याञ्च तस्य सोलभ्लादत आह *अन्यथेति । पृथक्शक्त्य-
नङ्गीकारे इत्यर्थः । *तथा-तेन रूपेण । शक्तिद्वयकृततुल्यत्वेऽप्या-
ह *गुर्विति । नन्वेवमपि फलाशयेन गमनं न व्यापार इति प्र-
तीत्यापत्तिरत आह *तत्रेति । पृथक्शक्तिपक्षे इत्यर्थः। अन्वया-
नां मध्ये इत्यर्थों वा । कर्मप्रत्ययतदन्यप्रत्ययभेदेनाह *फलेति ।
अन्तरङ्गत्वं प्रथमोपस्थितत्वरूपम् । *अतएव-फलस्य स्वातन्त्र्ये.
णानुपस्थितेरेव । नन्वेवमपि व्यापारविशेषणकफलाशयेन तथा-
प्रयोगापत्तिरेवात आह फलांश इति । फलरूपोऽश इत्यर्थः । *उ-
त्सर्गतः-कर्मप्रत्ययभिन्नस्थले । तथा च गमनपदतो व्यापारस्यै-
व तादृशस्य विशेष्यतया प्रतीतिर्न विपरीतस्यति न तदापत्ति-
रिति भावः । औत्सर्गिकमिदमिति सूचयितुमाह क्वचित्त्विति ।
अप्रसिद्धत्वादस्य विषयमाह * यथेति । प्रसङ्गादत्रव सिद्धान्तमते-
न फलपदार्थमाह *फलत्वञ्चेति । प्रागुक्त पत्ये शेते इत्यादौ
वस्तुतो ऽजन्यत्वादाह *जन्यताचेति । पणे पततीत्यादौ विभाग-
जन्यसंयोगस्यैव धात्वर्थत्वे विभागे विशेष्यवत्त्वेऽपि न सत्यन्तम्,
संयोगे तत्त्वे ऽपि न विशेष्यमित्युभयोपादानमित्याह *विभा-
गेति । *विभागसंयोगयोरिति । मिथ इति शेषः। कर्तृप्रत्यये.
त्यस्य फलमाह *कर्मेति ॥३॥
धात्वर्थनिरूपणम् । ५४३ परेतु तयोः पृथक्शक्ती फलब्यापारयोरुद्देश्यवि- धेयभावेनान्वयापत्तिः । पृथगुपस्थितयोस्तथाऽन्वय. स्यौत्सर्गिकत्वात् । तथाऽन्वये धातुजतत्तद्वोधस्य प्र. तिबन्धकत्वकल्पने गौरवम् । तस्मात्फलावच्छिन्ने व्यापारे व्यापारावच्छिन्ने फले च धातूनां शक्तिः । कर्तृकर्मार्थकतत्तत्प्रत्ययसमभिव्याहारश्च तत्तबोधे नियामकः । गौरवंच प्रामाणिकत्वान्न दोषावहम् । किश्चैकपदे व्युत्पत्तिबयकल्पने गौरवम् । तथाहि-फल- विशेषणकव्यापारबोधे कर्तृप्रत्ययसमभिव्याहृतधातु- जन्योपस्थितिः कारणम्, व्यापारविशेषणकफलबोधे कर्मप्रत्ययसमभिव्याहृतधातुजन्योपस्थितिः कारणमि- तिकार्यकारणभावद्वयकल्पनम्, धातोरर्थद्वये शक्ति कल्पनम्, बोधजनकत्वस्य विषयासम्बद्धे ऽनुपपन्या तत्तत्समभिव्याहारविशिष्टधातौ विशिष्टनिरूपित- सम्बन्धद्वयकल्पना चेत्यतिगौरवम् । अन्यथा पदश- तेरुच्छेदः । एवमन्यत्रापि पृथक्शक्तिकल्पना निरस- नीयेत्याहुः ॥ ४ ॥ (कुं० टी० ) *तथाऽन्वयस्य-उद्देश्यविधेयभावेनान्वय- स्य । अन्येतु पृथगुपस्थितयोस्तयोर्विशिष्टबोधो न स्यात् । हरिपदादुपस्थितयोरश्वसूर्ययोः परस्परमाधाराधेयभावेनान्व- याभावात्पृथगवस्थितयोः पृथगेवान्वयो भवतीत्याहुः । *फला- वच्छिन्ने इति । कश्प्रत्यये इति शेषः । कर्मप्रत्ययेऽप्याह *व्या- पारावच्छिन्ने इति । एकपदे-एकधातुपदे। *व्युत्पत्तिद्वयेति । कर्मकर्तृप्रत्ययसमभिव्याहारे फलस्य विशेष्यत्वविशेषणत्वयोः ५४४ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । स्वीकारे इत्यर्थः । *विषयामम्बद्ध इति । बोधविषयेणार्थेन धातुर्यदि सम्बद्धो न स्यात्तत्र वोधजनकत्वं न स्यादतो धातो- स्तत्र सम्बन्धो वाच्य इत्यर्थः । *तत्तत्समभिव्याहारविशिष्टेति । कर्मकर्तृप्रत्ययसमभिव्याहारभेदेनार्थद्वयकल्पनमित्यर्थः । *अ. न्यथा-समभिव्याहारस्यैव नियामकत्वे । *उच्छेदइति । तत्रापि समभिव्याहारविशिष्टस्य विशिष्टे शक्तिमम्भवात् । अन्यत्रा- पीति । अन्ययोगव्यवच्छेद एवकारार्थः । नतु अन्ययोगो व्यवच्छेदश्च पृथगर्थ इत्यर्थः ॥ ४ ॥ (क० टी०) सिद्धान्तमाह *परेत्विति । परमतेनैवाह *पृ. थगिति । तन्मते तत्र तस्यास्तन्त्रत्वादिति भावः । राशः पुरुष इत्यादौ तदभावादाह *औत्सर्गिकेति । *तत्तद्वोधस्य-फलव्या- पारोपस्थितेः । अव्यवस्था निराचष्टे *कर्तृकर्मेति । ननु गुरुश- क्यतावच्छेदकप्रयुक्तगौरवं प्राचोक्तमेव, अत आह *गौरवञ्चति । इदमप्यभ्युपेत्य । वस्तुतस्तथा ऽप्यत्र ततो लाघवमेवेत्याह *कि चैकेति । *अन्यथा-तृतीयकल्पनानङ्गीकारे । * अन्यत्रापि-जातिव्य- त्यादावपि ॥४॥ सर्वकारकारणां धात्वर्थे ऽन्वयः । अयमेव च क्रिया। यावत्सिद्धमासिद्धं वा साध्यत्वेनाभिधीयते । आश्रितक्रमरूपत्वात्सा क्रियेत्यभिधीयते ॥ गुणभृतैरवयवैः समूहः क्रमजन्मनाम् । बुद्ध्या प्रकल्पिताभेदः क्रियेति व्यपदिश्यते॥इति- भूवादिसूत्रस्थभावनार्थप्रतिपादकहरिग्रन्थात् । क्रमजन्मनामेषां व्यापाराणां समूहं प्रति गुणभूतै- १ धात्वर्थ एवेत्यर्थः
वात्वर्थनिरूपणम् ।
५४५
स्तत्तद्रूपेण भासमानैरवयवैर्युक्तः सङ्कलनात्मिकयै-
कत्वबुद्ध्या प्रकाल्पताभेदरूपः समूहः क्रियोति व्यप.
दिश्यते इति द्वितीयकारिकार्थः । अनावयवाश्रयं
पौर्वापर्य समुदायाश्रयमेकत्वम् ।
एतेन पूर्वापरीभूतक्षणसमूहस्य युगपदसंनिधा-
नादेका क्रियेति भाष्यासङ्गतिरित्यपास्तम् ।
क्षणनश्वराणामवयवानां वस्तुभूतसमुदायाभा-
वाद् बुद्ध्येत्युक्तम् । पचति पक्ष्यतीत्यादावसिद्धम्,
अपाक्षीदित्यादौ सिद्धं वा साध्यत्वेन तत्प्रकारेणा.
भिधीयमानं क्रिया । आश्रितेति योगप्रदर्शनं क्रियते
अवयवानां कमेणोत्पत्त्या । अत एवाश्रितक्रमरूपा
क्रियेत्याद्यार्थः।
एकैकावयवे ऽपि समूहरूपारोपादधिश्रयणका.
ले ऽपि पचतीति व्यवहारः । आरोपे च प्रतीतिरेव
बलम् । अध्यासगृहीतयैव क्रियया ऽऽख्यातस्य सम्ब-
न्धग्रहो बोध्यः । नचैवं धात्वर्थस्य गौणत्वापत्तिः ।
तदतिरिक्तमुख्यार्थाप्रसिद्ध्या तस्य गौणत्वाभावात्।
यस्य हि मुख्यो ऽन्यो ऽर्थो ऽस्ति तत्रैवेशस्य गौ.
णत्वात् ।
यद्वातादृशानेकव्यक्तिवृत्तिजातिरेव क्रिया । व्य-
क्तिद्वारकं च तस्याः साध्यत्वम् । स्फोटवदस्याः क्रमव-
द्भिरपि क्रियाक्षणैराभिव्यक्तिः । फलस्यापि स्वजनक.
व्यापारगतपौर्वापर्यारोपेण तथैव भानम् । अत एव
तन्मात्रवाचकस्य धातुत्वसिद्धिः ॥५॥
५४६ टीकाद्वयोपेतायां लघुमञ्जूपायाम् । (कु.टी.)*अयमेवेति । सकलकारकान्वितो धात्वर्थ एवेत्यर्थः । एतच्च स्वरूपकथनं नातो ऽन्योन्याश्रयः । ननु यथा 'किङ्करोति' इति प्रश्ने ‘पचति' इत्युत्तरं भवति एवम् 'अस्ति' इत्युत्तराभा- वादस्त्यादीनां क्रियावाचकत्वं न स्यादत आह *यावदिति । अस्यार्थ:-क्रमरूपं पौर्वापर्यमाश्रित्य साध्यत्वेन विवक्षि- तो ऽर्थः क्रियति । 'घटः क्रियते' इत्यत्रापि क्रियाद्वारैव घटस्य साध्यत्वम् । नहि घट इत्येतावन्मात्रात्साध्यत्वं प्रतीयते । क्रियते इत्येतत्तु स्वत एव साध्यत्वं गमयतीति तदेव क्रियावा- चकत्वमस्त्यादावपि साधयिष्यतीति । नन्वेका क्रियेति व्यव- हारः कथमत आह *गुणभूतैरिति । क्रमिकाणां व्यापाराणां समूहे बुद्धिकल्पितमेकत्वमाश्रित्यैकत्वव्यवहार इत्यर्थः । अत- तदूपेण-फूत्कारत्वादिना । सङ्कलनात्मिकयेत्यस्यावतरणम्- * एकत्वबुद्ध्येति । *क्षणसमूहस्येति । 'कालमन्ये क्रियामाहुः इति मते क्रियायाः कालरूपत्वात् । * वस्तुभूतेति । वास्तविकेत्यर्थः । *अभिधीयमानं क्रियेति । सिद्धमसिद्धं वा वस्तु साध्यस्वरू- पेणाभिधीयमानं क्रियेत्यर्थः । *आश्रितेतीति । कारिकायामा- श्रितक्रमरूपत्वादित्येतत् क्रियाशब्दार्थकथनमित्यर्थः। तथाच क्रियते इति क्रियेत्यर्थः । ननु व्यापारसमुदायस्य कारणास- म्भव इत्यत आह *अवयवानां क्रमेणोत्पत्येति । क्रियते इत्यस्य हेतुकथनमेतत् । अवयवद्वारकं समुदायस्योत्पाद्यत्वमिति भावः । ननु यदि व्यापारसमुदायः क्रिया, तदा ऽधिश्रयणायकैक- व्यापारस्य क्रियात्वानापत्तौ 'स्थाली पचति' इतिप्रयोगानाप- त्तिरत आह *एकैकावयवेऽपीति । तदुक्तं हरिणा- समूहः स तथाभूतः प्रतिभेदं समूहिए । समाप्यते ततो भेदाः कालभेदस्य हेतवः ॥ इति ।
धात्वर्थनिरूपणम् । ५४७ अयं भावः-अधिश्रयणारम्भ एव फलाभिसन्धेः समस्त- क्रियाकलापस्तत्रैवाध्यस्यते । तस्यैव च भूतत्वादिविवक्षायाम- पाक्षीदित्यादयो ऽपि प्रयोगाः । तथाभूतः गुणभूतः क्रमजन्मा । अयं भाव:-न समुदायबुद्ध्या एकत्वम्,नापि-'अयं चायंच'इति समुच्चयबुद्ध्या एकत्वम्, किन्तु पूर्वापरीभूतावयवत्वेनैव । तथाच समुदायस्य प्रत्येकावयवे ऽप्यध्यासात्तत्प्रत्ययोपपत्तिः । अत एवोक्तं हरिणा- एकदेशे समूहे वा व्यापाराणां पचादयः । स्वभावतः प्रवर्तन्ते तुल्यरूपं समाश्रिताः ॥ इति । यद्यपि हिंसार्थको हनधातुर्भिन्नः, गत्यर्थको भिन्नः । साह- श्यात्तु ऐक्यप्रत्ययः, तथाऽपि- एकमाहुरनेकार्थं शब्दमन्ये परीक्षकाः । इति- न्यायेन एक एव हन्धातुरुभयार्थकः । अवाधितैकाकारप्रत्य- यात् । अनेकार्थत्वमेव वाधकमिति चेन्न । शक्तिभेदस्यैव न्या- य्यत्वात् । यथा एको ऽप्यक्षशब्दो ऽनेकार्थप्रतिपादकशक्तिदृष्ट स्तथा पच्यादिरपि । तथा हि 'पच्यते तण्डुलः स्वयमेव' इत्यत्र विक्लित्तिरेव पच्यर्थः, स्थाली पचति' इत्यत्र तदाश्रयणमेव । तुल्य- रूपमित्यस्य तुल्येनाभिन्न स्वभावेन युक्ता एते धातवोऽभिन्ना एवेत्यर्थः। नन्वध्यासे किं बीजंतत्राह *प्रतीतिरेवेति।सर्वत्र ‘पच- ति' इतिवुद्धेरनुवर्तमानत्वात्प्रत्यवयवमपरिसमाप्तस्य समुदाय- स्यावयवे अध्यास इत्यर्थः । नन्वधिश्रयणादेरारोपितक्रियात्वे कथं तत्कर्तरि लकार इत्यत आह *अध्यासगृहीतयेति । बुद्ध्या विषयीकृतयेत्यर्थः । *मुख्यार्थापसिद्ध्येति । अवयवगतपौर्वाप- र्यस्य समुदायरूपक्रियायामारोपागौणत्वमेवेति भावः । जातिप- - ५४८ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । क्षस्यैव मुख्यत्वात्तदभिप्रायेणाह * यद्वति । तदुक्तम्- जातिमन्ये क्रियामाहुरनेकव्यक्तिवर्तिनीम् । असाध्या व्यक्तिरूपेण सा साध्येवोपलक्ष्यते ॥ इति । अनुगतप्रतीतिरेव जातिसाधिका । इहापि कर्तृकर्मपदा- दपि पचतीत्येकाकारप्रतीतिदर्शनात्तद्गता जातिरेव धातुवाच्या । अनेकव्यक्तिवर्तिनीमित्यनेन जातित्वं दर्शितम् । *स्फोटवदि- ति । यथा स्फोटस्य क्रमिकवर्णैरभिव्यक्तिस्तद्वत् । *क्रियाक्षणैः- तक्रियाक्षणैः । तथैव-क्रियात्वेनैव । *तन्मात्रेति । पच्यते तण्डुलः स्वयमेवेत्यादौ फलस्यापि क्रियात्वामित्यर्थः ॥ ५ ॥ (क० टी०) यत्तु कर्मान्यसर्वसाङ्गत्यं तद् ध्वनयन्नाह *सर्वेति । साधुत्वमष्टकस्य क्रिययैवेति प्राचाम, कारकाणां भावनान्वय इति परेषां च सिद्धान्तो ऽपि धात्वर्थपर एवेत्याह *धात्वर्थे इति । फलावच्छिन्नव्यापारादावित्यर्थः । साक्षात्परंपरया वा यथाकथंचिदिति भावः । धात्वर्थे वक्ष्यमाणस्वरूपे क्रियाशब्दस्य सांकेतिकी शक्तिरित्याह *अयमेव चति । एवेन मतान्तरव्यव- च्छेदः । निर्मूलत्वनिरासायाह * भूवादीति । भाष्यसिद्धान्तार्थ- त्यर्थः । तत्र हि-"क्रिया नामेयमत्यन्तापरदृष्टा" इत्यायुक्तम् । द्वि- तीयकारिका बुद्धिस्थत्वादिरूपशक्यतावच्छेदकानुगमकबोधिका नतु क्रियास्वरूपबोधिकेति भूषणाद्यसांगत्यं ध्वनयनाये धर्मविशे- षाधुक्तावपि तत्स्वरूपानुक्त्या व्युत्क्रमेण व्याचष्टे *क्रमेत्यादि । क्रमे- ण जन्म येषां तेषाम् । एषां वुद्धिस्थानामधिश्रयणादीनां समूह इत्य- त्रान्वयः । प्रत्यासत्त्या आह *समूहं प्रतीति । गुणभूतैरित्यस्याङ्गभू- तैरित्यर्थे पौनरुक्त्यापत्तिरतो गुणशब्दो धर्मपरः, भूतशब्दो 'ये प्राप्त्यर्थी' इत्युक्तेर्सानपरो वर्तमानतान्त इत्याह *तत्तद्रूपेणेति । प्रकल्पितेत्यत्र कर्मधारयो न तु भूषणायुक्तो बहुव्रीहिरित्याह *प्रकल्पिताभेदरूप इति । विरोधं परिहरति *अत्रेति । क्रिया. लक्षणे इत्यर्थः । अत एव सरूपसूत्रस्थभाष्यविरोधो नेत्याह एते.
तस्याअन्वयः धात्वर्थनिरूपणम् । ५४९ नेति । समुदायाश्रितैकत्वेनेत्यर्थः । *बुद्ध्येत्युक्तमिति । समूहेऽपि । समूहव्यवहारो बुद्धिकृतो विकल्परूप एव न वास्तवः । तथा च पूर्वापरीभूतावयवा साध्यमानावस्था भूतभ. विष्यद्वर्तमानसदसदनेकावयवसमूहरूपैका क्रियेत्यर्थः । मतद्वय साधारण्येनाह *तत्प्रकारेणेति । प्रकारो भेदः । नन्वेवं प्रत्ये- काशयेन पचतीति न स्यादत आह *एकैकेति । तदुक्तम्- एकदेशे समूहे वा व्यापाराणां पचादयः । स्वभावतः प्रवर्तन्ते तुल्यरूपं समाश्रिताः ॥ इति । कैयटमतेनाह *समूहति । अधिश्रयणेत्युपलक्षणम् । वस्तुतस्तु आधिश्रयणादिरपि नकक्षणात्मकस्तस्यापि हस्तप्रसारणपात्रा दानचुल्लीसंयोजनादयो ऽवयवाः सन्त्येवेति सोऽपि समूहरूप एव । यस्तु तेषामप्यवयवः परमाणुप्रख्यः स तु शब्दशक्तिस्व- भावान्नैव वाच्यो नापि प्रत्यक्ष इति वोध्यम् । अत एव मतद्वयसा. धारण्येनाह *अध्यासेति *एवम्-अध्यस्तस्य धातुवाच्यत्वे । *ईशस्य-अध्यस्तस्य । तस्य सम्वन्धिशब्दत्वादिति भावः । एतेन यदनन्तरमव्यवधानेन फलोत्पादः सा क्रिया यथा तण्डुलं पचतीत्यत्र विक्लेदनम् । अधिश्रयणादीनां तजनकतया क्रियात्वमा. पचारिकम् । तदुक्तम्- अनन्तरं फलं यस्याः कल्पते तां क्रियां विदुः। प्रधानभूतां तादादन्यासां तु तदाख्यता ॥ इति इत्यपास्तम् । तदा तस्य गौणतापत्तेः। आरब्धेऽपि पाके क्रिया. या भावित्वेन पक्ष्यतीति प्रयोगापत्तश्च । जातिमन्ये क्रियामाहुरनेकव्यक्तिवर्तिनीम् । असाध्या व्यक्तिरूपेण सा साध्येवोपलक्ष्यते ॥ इति- हर्युक्तेराह *यद्वति । पचतीत्यनुगतव्यवहाराच तत्सिद्धिः । ननु तदभिव्यञ्जकत्वं प्रागुक्तरीत्या दुर्वचमत आह *स्फोटवदिति । नन्वेवमपि फलस्य कथं तदन्तर्गतस्य क्रियात्वं तथाप्रतीत्यभावादत आह *फलस्यापीति । तथैव-ताशसमूहरूपतयैव ॥५॥ तत्र केचित्-सिद्धत्वं क्रियान्तराकाजोत्थापक-
५५०
टीकाद्वयोपेतायां लघुमञ्जूषायाम् ।
स्वरा-
तावच्छेदकं यदैजात्यं तद्रूपम् । साध्यत्वं च पूर्वी-
परीभूतावयवत्वसमानाधिकरणं कारकान्वययोग्य-
तावच्छेदकं क्रियान्तराकाहानुत्थापकतावच्छेदकं च
यद्वैजात्यं तद्रूपम् । हिरुगाद्यव्ययानां क्रियाप्रधा-
नत्वव्यवहारस्तु क्रियामात्रनिशेषणत्वात् ।
दीनां हि स्वःपतिरित्यादौ नामार्थे ऽप्यन्वयः । अत
एव न हिरुगाद्यर्थे कारकाणामन्ययः । तेषां क्रियान्त-
राकासत्वात् । तत्र सिद्धत्वं पाक इत्यादौ घनादिवो.
ध्यम्, साध्यत्वं च सर्वत्रैव धातुप्रतिपाद्यम् ।
न च धातुतः क्रियान्तराकासानुत्थापकतावच्छे-
दकबैजात्येनोपस्थिती कृष्णं नमेञ्चत्सुखं यायादि-
त्यादौ आकाङ्क्षाऽभावेनान्वयो न स्यादिति वाच्यम् ।
चेच्छन्दसमभिव्याहारेणाकामोत्थापनादित्याहुः ॥६॥
( कुं० टी०) *साध्यत्वंचेति । अयं भावः-पच-
तिशब्देन क्रियावगतौ पुनः क्रियाया आकाङ्क्षा न भव-
ति, अतस्तादृशक्रियागतम् वैजात्यं तद्रूपं साध्यत्वम् ।
वैजात्यमतिरिक्तं पचतीत्यादिशब्द एव वेत्यन्यत् ।
ननु पचत्यादिशब्दोपात्तानामेव क्रियात्वस्य न्याय्यत्वात् हि-
रुगाद्यव्ययानां कथं क्रियाप्रधानत्वमतआह #हिरुगादीति ।
अन्यत्र क्रियामात्रविशेपणत्वव्यतिरेकं दर्शयति *स्वरादीनां-
हीति । *अतएवेति । हिरुगाद्यार्थस्य क्रियात्वाभावान कारका.
न्वयः । क्रियाकासा तु भवत्येवेत्यर्थः । *सर्वत्रैवेति । तिङन्ते
कृदन्ते च । *अन्वयो न स्यादिति । नमेदित्यस्य क्रियान्तरा-
नाकाइत्वात् । * आहुरिति । तथापि साकाहत्वं दुर्वामित्य-
स्वरसः ॥६॥
धात्वर्थनिरूपणम् । ५५१ (क.टी.) *तत्र-क्रियाशरीरघटकसाध्यत्वविषये। तत्रादी भूषणकारा- दिमतमाह केचिदिति! तत्राप्यादौ व्यावय॑तया वक्तव्यमाह *सि. द्धत्वमिति । *वैजात्यम्-सत्त्वभूनत्वम् । *पूर्वापरीति बहुव्रीहिः । आदिना सम्बोधनान्तादिसप्तकपरिग्रहः । इदमेव परोक्तमित्याह *क्रियान्तरेति । *यद्वैजात्यम्-असत्त्वभूतत्वम् । नन्वेवं हिरुगाद्यव्य- यानां क्रियाप्रधानत्वव्यवहारस्य "तद्धितश्च"इतिसूत्रे भाष्ये क्रियमा- णस्थानुपपत्तिस्तदर्थस्य तत्त्वेनाभानादत आह *हिरुगादीति । *क्रियामात्रेति । कान्तादिवदित्यादिः । तथा च गौणस्तत्र व्यवहार इति भावः । मात्रव्यवच्छेद्यमेवाह *स्वरादीनां त्विति । अतएव वैलक्षण्यसूचकस्तुः । अपिना स्वः पश्येत्यादौ क्रियासमु- च्चयः । ननूक्तभाष्यात्तदर्थस्य तत्त्वमेवास्त्विति किमर्थ तस्य गौ- णत्वमत आह *अत एवेति । *तेषाम्-हिरुगाद्यर्थानाम् । आकाङ्क्षा चेतिपाठः । उभयोरुभयं व्याव] क्रमेण । तथा च क्रियान्तराका- जानुत्थापकतावच्छेदकवैजात्येनामानान्न तस्य तत्त्वमिति भावः । *तत्र-तयोर्मध्य । अत एवोक्तम्- साध्यत्वेन क्रिया तत्र धातुरूपनिवन्धना । सिद्धभावस्तु यस्तस्याः स घादिनिवन्धनः ॥ इति । *चदिति । भुक्त्वेत्यत्रापि धातुसम्बन्धे विधायमानक्त्वासम- भिव्याहारात् सा । पचति भवतीत्यादौ पचतीत्यादेराकाङ्क्षाया अ. भावेऽपि भवतीत्यादेः कर्नाद्यपेक्षत्वाद्योग्यतावशादन्यतराकाङ्क्षयै- वान्वयेन न दोष इति बोध्यम् ॥ ६ ॥ वस्तुतः साध्यत्वं निष्पाद्यत्वमेव । तद्रूपेणैव च बोधः । स्पष्टं चेदम् "उपपदमतिका "सुट् कात्पूर्व" इ. त्यादी भाष्ये इति उपसर्गवादे निरूपयिष्यामः । यद्यपि 'घटं करोति' इत्यादी घटस्थापि सा- ध्यमानत्वं प्रतीयते, तथापि पदान्तरसमभिव्या- हारात्तथा । स्वतस्तु घटादिपदाद् द्रव्यं सि- द्वत्वेनैव प्रतीयते । सिद्धत्वं च सूक्ष्मरूपेण बोध्यम् ।
टीकाद्वयोपेतायां लघुमञ्जूषायाम् । यद्यपि क्रियाऽपि तथा, तथाऽपि शक्तिस्वाभाव्यात्स्थू. लरूपेण साध्यत्वेनैव तस्याः प्रतीतिः । द्रव्यस्य तु सूक्ष्मरूपेण सिद्धत्वेनैवेति न दोषः । पचति भवति भुकेत्यादौ भवति भुत्केत्यादीनां क्रियाकाडादर्श नेन तादृशङ्कजात्येनाभानात्कारकान्वयानापत्तिर्धा- तुत्वानापत्तिश्च । एवं कृष्णं नमेञ्चदित्यादौ चेत्पदेना. पि तथाऽऽकालायां तबैजात्येनाभानादोष एव । हि. रुागत्यादेश्च न साध्यत्वेन भानमिति न कारकान्वय इति दिक् ॥ ७॥ (कुं० टी०) *वस्तुतइति । तेन कृष्णं नमेचेदित्यादौ नाव्याप्तिरिति भावः । तथापीति । करोत्यादिप्रयोगे एव घटस्य साध्यत्वं प्रतीयते, करोतेस्तु स्वतो ऽपीति भावः । ननु सिद्ध- स्य घटस्य कथं साध्यत्वम्, असिद्धत्वे तु कथं क्रियाजनकत्वमत आह * मूक्ष्मरूपेणेति । कारणे विद्यमानस्यैव बुद्ध्या विषयी. करणादिति भावः। *क्रियापितथेति । सूक्ष्मरूपेण सिद्धत्यर्थः । क्रियान्तराकाङ्क्षतिलक्षणं वदतो मते दोपमाह *पचति. भवतीति । अत्र भवतीत्यस्य पचतीत्येतत्साकासत्वात् । भवति भुक्त्वत्यादौ पाकक्रियाकासादर्शनादव्याप्तिरित्यर्थः । ननु स्वमते क्रियान्तरानाकासात्वस्य नियायकत्वे हिरुगादावतिव्याप्तिरत आह *हिरुगाद्यर्थस्येति ॥७॥ (क० टी०) सिद्धान्तमाह *वस्तुत इति । यौगिकोऽर्थ इत्याह *निष्पाद्येति । उत्पाद्यमानत्वमेवेत्यर्थः । एवनोक्तव्यवच्छेदः। सिद्धा- न्ते "प्रातिपदिकानामपि" इतिभाष्योक्तदोघं "स्वभावसिद्धं तु द्रव्य- म्" इतिभाष्योक्त्यैव परिहत्तुमाह * यद्यपीति । *स्वतस्तु-तदसम. भिव्याहारे तु। ननु स्थूलरूपस्य द्रव्यस्य सिद्धत्वं बाधितमेवात आह धात्वर्थनिरूपणम् । २५३ *सिद्धत्वञ्चेति । सत्कार्यवादादाह *यद्यपीति । *तथा-सूक्ष्मरूपेण । *द्रव्यस्यत्विति । एतेनोक्तभाष्यस्य "द्रव्यं स्वभावेन शब्दशक्ति- स्वभावेन सिद्धं सूक्ष्मरूपेण सिद्धावस्थमेव शब्दवाच्यम्" इत्यक्षरा- र्थः सूचितः । तथाच क्रियायास्तत्त्वेऽपि शब्दवाच्यत्वं तथा नेति भेद इति भावः । केचिन्मते दोषमाह पचतिभवतीति । पच- तीत्यस्यानाकाङ्गत्वादाह *भवतीति । अत्र क्रियात्वन तदभावे ऽपि कर्तृत्वेन साऽस्त्येवेत्याह *क्रियाकाङ्केति । आदिः प्राग्वद् भुक्त्वेत्याद्याशयकः । दोपान्तरमाह *एवमिति । अपिः क्त्वाऽऽ- दिसमुच्चये । *तथेति । उत्थापितक्रियाऽऽकाङ्कायामित्यर्थः । स्वमते त्रापि न दोष इत्याह *हिरुगिति । पञ्चमीयम् । वजनादेरिति- शेषः। *नेति । तदर्थे इति शेषः । एतेन 'नच साध्यत्वेनाभिधाने मानाभावः, पचति पाकः करोति कृतिरित्यादौ धात्वर्थावगमाविशेष ऽपि क्रियान्तराका- जानाकाङ्क्षयोर्दर्शनस्यैव मानत्वाद्' इत्यपि तदुक्तमपास्तम् । "ज्योतिष्टोमेन यजेत” इत्यादी यथाऽत्र पक्षे न दोषस्तथा. ऽग्रे स्फुटीभविष्यति तदाह *दिगिति ॥ ७ ॥ तत्र फलानुकूलः फूत्कारादियापारः समूहघट- कः फूत्कारत्वाधःसंतापनत्वादितत्तद्रूपेणैव वाच्यः । प्रागुक्तहारकारिकाभ्यां तत्तद्रूपेणैव बोधलाभात् । अत एव 'देवदत्तः पचति' इत्युक्त ‘स फूत्कारादि- मान्न वा' इति सन्देहो न । नानार्थत्वमिष्टमेव । तत्र यदा यो वक्तृवुद्धिस्थस्तदा स वाच्यः । अत एव 'काष्ठानि पचन्ति'इति सिद्धम् । तव्या. पारस्य धात्वर्थत्वाविवक्षायां 'काष्ठैः पचति' इति । शक्ततावच्छेदकं तु पचित्वादिकम् । धातुत्वं तु न, अतिप्रसक्तत्वात् । धातुत्वाद्यजानतो ऽपि बोधाच्च । एतेन धातुत्वेन धातुमात्रस्य क्रियात्ववति शक्तिः, ५५४ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । तत्तद्रूपेण च ततपावच्छिन्नबोधकत्वमित्यपास्तम् । गौरवात् । तादृशशक्तिग्रहस्यादृष्टमात्रार्थत्वाच । फूत्कारे एव गृहीतशक्तिकस्य व्यजनेन वह्नि- प्रज्वाल नदशायां पचतीति नेष्टमेव । फूत्कारातिरिक्त विक्लित्त्यनुकूलत्वाग्रहे तवापि तन्नेष्टमेव । याग इच्छा ज्ञानं वेति वादिविप्रतिपत्तिरापि तत्तत्पुरुषीयतादृशबोधानुसारादेवोपपन्ना । धातूनामनेकार्थत्वात्कदाचित्क्रियात्वेन बोधोऽपि। फूत्कारस्यातीतत्वमात्रेणापाक्षीदिति तु न, भूत- त्वादेः समुदाये एवान्वयात् ।। ८ ॥ (कुं० टी० ) ननु तत्तद्रूपेण वाच्यत्वे नानार्थत्वापत्तिरत आह *इष्टमेवेति । *अतिप्रसङ्गात्-फूत्कारायवाचके ऽपि स- त्वात् । *तत्तद्रूपेणचेति । पच्यादिविशेपशक्त्या च फूत्कारत्वा- दिना तत्तबोध इत्यर्थः। *गौरवादिति । यद्विशेपयोरिति न्या- यस्तु निर्वाज इति भावः । तादृशशक्तिग्रहस्य-धातुत्वादिना शक्तिग्रहस्य । ननु फूत्कारत्वादिरूपेण वाच्यत्वे व्यजनेन प्र- ज्वालनदशायां पचतीति प्रयोगानापत्तिरत आह *नेष्टमिति । इदं च तवापि तुल्यमित्याह *फूकारेति । *यागइति । देवतो- द्देश्यकस्वत्वध्वंसवद्रव्यविशेष्यकेच्छा यागः, इच्छाविशेपो ज्ञान- विशेषो वेति मतभेदो ऽपि स्वस्वव्युत्पत्त्यनुमारादेवेत्यर्थः । ननु तत्तद्रूपेण वाच्यत्वे विक्तित्यनुकूलफूत्कारादिरित्यव बोधः स्यादतआह *धातूनामिति । * फूत्कारस्येति । तावन्मात्रस्या- पि क्रियात्वे तदापत्तिरिति भावः ।। ८ ।। (क० टी०) *तत्र-तयोमध्ये । *कारिकाभ्याम्-सर्वानुभवसि. द्धार्थप्रदर्शिकाभ्याम् । एवेन सामान्यरूपन्यवच्छेदः । तमेवाह *अ- ।
धात्वर्थनिरूपणम् । तएवेति । अन्यथा सामान्यन वोधेऽपि विशेषरूपेणावोधेनैकतरको- टिनिश्चयाभावेन सन्देहापत्तिरिति भावः । *इष्टमेवेति । एतेन तदादिन्यायेन बुद्धिस्थत्वादेः शक्यतावच्छेदकानाम- नुगमकस्य सत्वात्तत्त्वं नेति तदुक्तमपास्तम् । *तत्र । तेषां व्यापाराणां मध्य । *या व्यापारः । अनेनाव्य- वस्था निराकृता । * अतएव-तदैव तदाश्रयस्य कर्तृत्वादेव । एतेन काष्ठक्रियाया वाच्यत्वे तृतीया न स्याद्, अ. वाच्यत्वे प्रथमा न स्यान्नियमतस्तृतीया स्यादित्यपास्तम् । धातुत्वतो विशेषे ऽपि ततः सामान्यत्वाद् उक्तवैलक्षण्ये तुः । *धातुत्वादीति । आदिना परस्मैपदित्वादि । एतेन कृत्यन्यव्यापारे पचित्वं शक्ततावच्छेदकं कृतेस्तु सर्व- धातुष्वनुस्यूततया प्रतीयमानत्वेन तत्र सर्वसाधारणधातुत्वमेव शक्तताऽवच्छंदकमित्यप्यपास्तम् । उभयथा दीक्षिताद्युक्तिं खण्डयति *एतेनेति । मात्र कात्स्न्ये । नानार्थत्वाभावायेदमुक्तं तैः। क्रियात्वं धातुवाच्यत्वसमानाधिकरणो जातिविशेषः । स च क्रियापदशक्यतावच्छेदकत्वादिना सिद्धः । जलपदशक्यतावच्छेदकतया जलत्वजातिसिद्धेर्लीलावत्युपाये दर्श- नात् । प्रत्यभिज्ञाऽनुगतव्यवहाराभ्यां जातिसिद्धेस्तद्वाच्यतायाश्च सरूपसूत्रे भाष्ये उक्तत्वाञ्च । तद्घटकधातुत्वं च जातिविशेषः । तत्परिचायकं च भूवादिसूत्रमिति तात्पर्यम् । सर्वधातुभ्यः सर्व- क्रियाबोधापत्तिवारणायाह *तत्तद्रूपेणचेति । तथाच पचतीत्या दिसमभिव्याहारस्य तत्तद्बोधनियामकत्वमिति तात्पर्यम् । नेत्यस्यार्थमाह *गौरवादिति । उभयकल्पनात इत्यर्थः । दोषान्तर- माह *तादृशति । सामान्यरूपेत्यर्थः । *अदृष्टमात्रार्थत्वाचेति । तत्त्वापत्तश्चेत्यर्थः । समभिव्याहारस्य वोधनियामकताया विषयास- म्बद्ध बोधकत्वानुपपत्त्या दुर्वचत्वेन तथासम्बन्धकल्पनायास्त- वाप्यावश्यकत्वादिति भावः। किञ्च तेन रूपेण बोधाननुभवात् । किञ्च तत्तद्रूपेण बोधस्यै- वानुभवाच्च। पतेन सकलसाधारणानुगतैकधर्मान्तरस्य वक्तुमशक्यत्वे ऽपि विक्लित्याद्यनुकूलत्वमेव तथेत्यप्यपास्तम् तथेत्यप्यपास्तम् । अतिप्रसक्तस्य .
टीकाद्वयोपेतायां लघुमञ्जूपायाम् । शक्यतानवच्छेदकत्वाञ्च । प्रामाणिकत्वाच्च नानाशक्तिकल्पना न दोषाय । अन्यथा सैन्धवादिपदशक्यतावच्छेदकतयाऽश्वल. वणादिवृत्त्येकधर्मकल्पनाऽऽपत्त्या तत्रापि तत्त्वोच्छेदापत्तिः । अश्वत्वादिनैव तत्प्रतीतिरनुभवसिद्धेति चेत् । प्रकृते ऽपि समम् । अत एव विभुपदशक्यतावच्छेदकतया न विभुत्वजातिसिद्धिः । परममहत्परिमाणत्वेनैव सर्वमूर्तसंयोगित्वेनैव वा ततो बोधा- दिति दिक् । ननु तत्तद्रूपेण शक्तौ फूत्कारं विना ऽपि चैत्रनिष्ठक्रियान्तरेण सि. द्धज्वालया जायमाने ओदने 'चैत्रः पचति' इति प्रयोगो न स्यादत आह फूत्कारेएवेति। एवेन तत्रापि तत्त्वे तु तस्येष्टत्वं सूचितम्। इदं तवाप्यावश्यकमित्याह *फूत्कारेति । नन्वेवमपि तथा सति याग इच्छा ज्ञानं वेति वादिविप्रतिपत्तिर्न स्यादन्यतरकोटिनिश्चयस- स्वादतआह *यागइति । *तत्तत्पुरुषीयेति । स्वीयेति पाठान्तरम् । नह्ययं संशयो येनैकस्य कोटिद्वयज्ञानापेक्षेति भावः । इदं दोषद्वयं मीमांसकनव्योक्तं बोध्यम् । नन्वेवमपि तथा सति सामान्यरूपे- ण बोधः कादाचित्को न स्यादत आह *धातूनामिति । एतेन लक्ष. णया स इत्यपास्तम् । नन्वेवमपि फूत्कारस्यातीतत्वमात्रेण व्यापारा- न्तरवर्त्तमानतादशायामपाक्षीदिति स्यादतआह *फूत्कारेति । *भू. तत्वादेरिति । इदमग्रे स्फुटीभविष्यति ॥ ८ ॥ अस्तिभवतिविद्यतीनामर्थः सत्ता। अनेककाल- स्थायिनीति कालगतपौर्वापर्येण क्रमवतीति तस्याः क्रियात्वम् । तदुक्तं हरिणा- आत्मभृतः क्रमो ऽप्यस्या यत्रेदं कालदर्शनम् । पौर्वापर्यादिरूपेण प्रविभक्तमिव स्थितम् ॥ इति । 'अस्याः क्रियायाः। यत्र क्रियायाम् । कालदर्शनं कालगतपौर्वापर्यस्य तत्रारोप' इति हेलाराजः।
, धात्वर्थनिरूपणम् । ५५७ यहा सत्ताविषयव्यापारार्थकत्वेन क्रियावाचक- त्वानिवन्धनधातुत्वसिद्धिः । सत्ता च आषष्ठाद् भावविकारादनुस्यूतं यद् रूपं 'सद्' इतिप्रत्ययवेद्यं तत् । तद्विषयव्यापारश्चात्म- भरणस्वरूपधारणपदाभ्यामुच्यते । आत्मस्वरूपं च सत्तैव । सा चात्र स्थूलरूपात्मिका । म्रियतौ तत्त्या- गानुकूलव्यापारस्येवात्र तदैपरीत्येन तडारणानुकू- लव्यापारस्य प्रतीतेः। स्पष्टं चेदं भूवादिसूत्रे भाष्ये । तदुक्तं निरुक्त- “षड् भावविकारा भवन्तीति वार्ष्यायणिः-जायते, ऽस्ति, विपरिणमते, वर्धते, ऽपक्षीयते, विनश्यतीति। जायतइति पूर्वभावस्यादिमाचष्टे नापरभावमाचष्टे न प्रतिषेधति,अस्तीत्युत्पन्नस्य सत्त्वस्यावधारणम्" इति। भावस्य निरुपपदभावशन्दवाच्यस्य जगत्कार- णस्य सत्तारूपब्रह्मणो निष्क्रियस्थापि षडेते विकारा इव विकाराः मायासहकारेण क्रियारूपा विवाः। अन्यत्र प्रधानादिषु 'प्रधानभाव' इत्यादिरीत्या सो- पपदभावशब्दप्रयोगः। दृश्यते च महाभारते याज्ञवल्क्यम्प्रति रवि- वाक्ये प्रयोगः कृत्लं शतपथं चैवं त्वं प्रणेष्यसि वै दिज । तस्यान्ते च पुनर्भावे वुद्धिस्तव भविष्यति ॥ इति। 'जायते इति च षड्भावेषु पूर्वस्य जनेः,आदिमित्यु- पलक्षणम् ,उपक्रमप्रभृत्यपवर्गपर्यन्तं जात इतिव्यवहा- रं यावत्, भावमाचष्टे तदाऽपरं भावमस्त्याख्यमसतो टीकाद्वयोपेतायां लघुमञ्जूषायाम् । जन्मायोगाद्विद्यमानमपि नाचष्टे । शब्दशक्तिस्वभा- वात् । नापि प्रतिषेधति । निरालम्बनं जायते इत्यना- पत्तेः । अस्तीति चोत्पन्नस्य सत्त्वस्य सत्तावतः ता. शस्थूलरूपस्यावधारणं धारणमाचष्टे' इति तद्भा- ष्यकृतः ॥ ९॥ (कुं० टी०) ननु सर्वशक्त्यात्मभूतस्य ब्रह्मण एवानेक- विकारप्रदर्शनफला अविद्याशक्तिः, अव्यतिरिक्ताभिः स्वश- तिभिर्जन्मादिरूपतया तदेवाविद्यायामवभासते, तच्च ब्रह्म सर्व- भावेषु समानरूपं सत्ताऽऽत्मकं सर्वदैव भासते न क्रमेणेति कथं तर्हि क्रमो नाम कश्चित् क्रियाविशेषोऽस्तीत्याशङ्ख्याह *आत्मभू- त इति । अस्यार्थ:-योऽयं क्रियमाणः क्रमः सो ऽप्यस्याः सत्तायाः आत्मभूतः, क्रमवयो व्यतिरिक्तस्य क्रमस्यासंवेदनात् । यत्र क्रमे इदं कालदर्शनम् । कालो नात्र पदार्थान्तरं पश्यन्ति । अ- विभक्तो ऽपि कालः क्रियोपाधिवशात्पौर्वापर्येण प्रविभक्त इव । ब्रह्मण एव हि क्रियाऽऽख्या कालशक्तिः जायमानपदार्थेषु जन्मादिक्रियाद्वारा पौर्वापर्येणावभासिका नापरो द्रव्यभूतः का- लोस्तीति । तदेवं विवर्त्तवादमालम्ब्य क्रियात्वमुपपाद्य लौकिकम- पि क्रियात्वमुपपादयति *यद्वेति । *सत्ताविषयेति । सत्ता- नुकूलो यो व्यापारस्तद्वाचकत्वादित्यर्थः । अस्ति आत्मानं विभीत्यर्थादात्मभरणानुकूलव्यापारस्तत्रापि प्रतीयत इति भावः। *आषष्ठादिति । षष्ठो विकारो विनाशस्तत्पूर्वपर्यन्तमनुव- र्तमानं यद्रूपं सा सत्तेत्यर्थः। *आत्मस्वरूपंचेति । आत्मभरण- धात्वर्थनिरूपणम् । मित्यत्रात्मशब्देन सत्तैवोच्यते, स्वरूपधारणमित्यत्र च स्व- रूपशब्देन सत्तबोच्यते इत्यर्थः । *साचेति । स्थूलं यत्नस्वरूपं तदेवात्र सत्तेत्यर्थः । समग्रः क्रियाकलापः सत्ताविव एवेति निरुक्तकारमतमाह *तदुक्तमिति । भावस्य विकाराः ष- डिति वार्ष्यायणिराचार्यो मन्यते । तानाह *जायतइति । अयं भावः-यद्यपि द्वितीयादयो ऽपि विकाराः तृतीयाद्यपे- क्षया पूर्वास्तथापि पूर्वभावस्यादि प्रथमं पूर्वभावं जनिश- ब्दवाच्यं विकारं 'जायते' इत्येवंशब्द आहेति जनिशब्दवाच्यो विकारः पूर्वः तदुत्तरकाले ऽस्तिशब्दवाच्यः । तत्र च जनि- शब्दवाच्ये भावविकारे अस्तेरप्यर्थो ऽस्ति विद्यमानता । नह्यविद्यमाने 'जायते' इत्येष शब्दो जन्मैव केवलं ब्रवी- ति । तस्यामवस्थायामस्तिशब्दवाच्यस्य विकारस्यासंपूर्ण- त्वात् । तस्माद्विद्यमानमप्यस्तित्वं नाचष्टे । नन्वेवमर्थात् प्रतिषेधः सिद्ध इत्यत आह *नपति- षेधतीति । अस्तित्ववानेव हि असौ जायते तत्प्रतिषेधे अनात्मक एवं स्यात् । अस्तीत्युत्पन्नस्य सत्वस्यावधारण. माचष्टे न विपरिणाममाचष्टे अपूर्णत्वात् । पूर्वकाले परिपूर्ण- त्वे सखेव हि उत्तरकाले ऽवस्थान्तरं भवति । *सत्त्वस्य. सत्तांवतः । * अवधारणम्-स्थूलरूपधारणम् । भावस्य कार्य: स्य विकाराः पडित्यपव्याख्यानमित्याह #भावस्येति । अत एवोक्तं हरिणा- सैव भावविकारेषु षडवस्थाः प्रपद्यते । इति । शारीरकभाष्यकृता तु जन्मस्थितिलयात्रय एव विकारा १ अत्र 'सत्तावत' इति विवरणान्मूले तत्पाठो नास्तीति भाति ।
.. ५६० टीकाद्वयोपेतायां लघुमञ्जूषायाम् । उक्तास्तन्मते परिणामवृद्ध्योः उत्पत्तावन्तर्भावः, तावन्तर्भावः, अपचयस्य नाशे इति । *निरुपपदस्येति । केवलभावशब्दस्यसर्थः । अयं भावः- सन्मात्रस्वभावा सत्ता । तच्च सन्मात्ररूपं प्रथमतो ऽस्ति- शब्देन नाभिधीयते किन्तु जन्मोत्तरकालभावी अवस्थाविशेषः । तदानीमेव लोके 'अस्ति' इतिव्यवहारात् । तदनन्तरं चास्ती- सवस्थितस्य विकारापत्तिरिति । *विपरिणप्रते-विपरिणममानं मुहूर्त्तमपि नावतिष्ठते इति । यावद् अनेन वर्धितव्यं तावर्धते ततो ऽपक्षीयते मुहुर्त- मप्यनवस्थानादेव । एवं च तस्यैव विचित्रप्राप्तयः । येन चित्र- रूपेण भासते इति। *भावेति । ब्रह्मात्मकसत्तापर्यायत्वाद् भावो ब्रह्मैवत्यर्थः । क्रियाद्रव्ययोः सत्तात्मकत्वप्रतिपादनेन तब्य- तिरिक्तवस्त्वभावात्सर्व सत्साऽऽत्यकब्रह्ममयमिति भावः ननु परिणामवाचिविकारशब्दे अनित्यत्वापत्तिरत आह *वि- कारा इवेति । *मायासहकारेणेति । अयं भावः-नायं विकारशब्दः परिणामवाची अ. नित्यत्वप्रसङ्गात् किन्तु विवर्त्तपर्यायः । तथाहि सर्व- शक्त्यात्मभूतस्य ब्रह्मणो ऽनेकविकारप्रदर्शनफला अविद्या- ऽऽख्या शक्तिः । तच्छक्तिरेव च जन्मादिरूपतया अविद्यायां भासते । तदेव सद् ब्रह्म सर्वभावेषु समानरूपसत्तात्मकं तद्- व्यतिरिक्तस्याभावात् । *अन्यथेति । प्रधानभाव इत्याद्याकारको भावशब्द- प्रयोगः प्रधानादिषु इत्यन्वयः *निरालम्बनमिति । एतच हेतुगर्भ विशेषणम् । निरालम्बन वाज्जायत इति व्यवहारो न स्यादित्यर्थः । यो हि जायत इति व्यव- ।
धात्वर्थनिरूपणम् । ५६१ वियते स विद्यमान एव विषयो भवति । अपवर्गः-समा- प्तिः । 'जात' इतिव्यवहारपर्यन्त परं भावं नाचष्टे इत्यन्वयः । *तदेति । असतो जन्मायोगाद्विद्यमानमपि अस्त्याख्यं भावं नाचष्टे इत्यन्वयः । पूर्वस्येत्यस्य विवरणं जनेरिति । न ह्य- विद्यमानं जायते ॥ ९॥ (क० टी० ) नन्वेवमस्त्यादीनां धातुत्वानापत्तिस्तेषां सत्तामा. त्रार्थत्वेन व्यापाररूपक्रियावाचकत्वाभावादत आह *अस्तीति । *आत्मति। क्रियास्वरूपभूत इत्यर्थः । यत्रेदं कालदर्शनमस्या आत्म. भूतः क्रमो ऽप्यस्तीत्यन्वयः।तदेवाह *पौवैति । आदिना समूहत्वम्। अत्र प्रागुक्तिविरोधादाह *यद्वेति । *आषष्ठादित्याङ् मर्या- दायाम् । जननानन्तरमिति बोध्यम् । यद्यप्युत्पत्तिविनाश- योरपि सूक्ष्मरूपेण वस्तुनो भावस्तथापि तद्वारणायाह *सदिति । विशिष्टस्वरूपमाह *तद्विषयेति । स्वस्वरूपेति पाठः । तदेव स्पष्टयति *आत्मेति । सदित्युक्तेः फलमाह *साचेति । आषष्ठादि- त्युक्तेः फलमाह *म्रियताविति । *अत्र-चतुषु । *स्पष्टं चेदमिति । द्वितीयमतमित्यर्थः । तत्रहि-"कारकाणां प्रवृत्तिविशेषः क्रिया" इति सिद्धान्ते भोजनक्रियाणां मिथो वैलक्षण्याद्यर्थ प्रवृत्तिविशे. षरूपत्वं नैवमस्त्यादीनामिति तेषां धातुत्वासिद्धिरिति शङ्का- निरासायोक्तम् , “यद्येवं सिद्धाऽस्त्यादीनां धातुसंज्ञा । अन्यथा हि कारकाण्यस्तो प्रवर्त्तन्ते अन्यथा हि नियतौ" इति । कारककर्तृकास्तो वाच्यत्वेन स्थिताप्रवृत्तिरन्यथेत्यादिरक्षरार्थः। तदुक्तं म्रियताविति। तत्र तद्धारणं स्थूलस्वरूपधारणम् । एवं च म्रियत्यपेक्षया प्रवृत्तिवि- शेषरूपताऽस्त्यवास्त्यर्थस्यति तत्सिद्धिरिति तात्पर्यम् । “षड् भाव- विकारा इति ह स्माह वार्ष्यायणिर्जायते, ऽस्ति,विपरिणमते, वर्द्धते ऽपक्षीयते, विनश्यतीति” तदग्रिमभाष्यं तु अस्त्यादीनां क्रियावा- चकत्वे युक्तधन्तरबोधनपरमिति ध्वनयन्नाह *तदुक्तमिति । *वा- ायणिः । आहेति शेषः । तद्भाष्यग्रन्थमाह *भावस्येत्यादि । *एते- क्रियाप्रकाराः । निरुपपदेत्यस्य फलमाह *अन्यत्रेति । अस्यैव व्याख्या *प्रधानादिग्विति । आदिना ईश्वरभाव इत्यादि । अतो - ५६२ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । न ते केवलभावशब्दवाच्या इत्यर्थः । *भारते-मोक्षधर्मेषु । *कृत्स्नमिति। प्रतिष्ठास्यति ते वेदः सोत्तरः सखिलो द्विज |-- इत्यादिः । *भविष्यतीति । प्राप्स्यते व्यपदिष्टं तत्सांख्ययोगेप्सितं पदम् ।- इत्यन्तः । पूर्वत्वस्य सापेक्षत्वादाह *पडिति *जने:-उत्पत्तिरूपभावस्य । *आदिः-प्रारम्भः । तथा सति न्यूनतां निराचष्टे *आदिमित्युपेति । *अपवर्गस्तत्समाप्तिः । तदाह *जात इतीति । अव्यवहितत्वादाह *अस्त्याख्यमिति । ननु तदा तस्यासत्त्वादेव नाख्यानमत आह *असतइति । अन्यथा शशशृङ्गादेरप्युत्पत्त्यापत्तरिति भावः । नन्वेवं तेन तनिषेध एवोच्य- तामत आह *नापीति । सत्त्वस्येत्यस्थ व्याख्या *सत्तावत इति । सूक्ष्मरूपतया तस्याः पूर्वमपि सत्त्वादाह *तादृशेति । उत्पन्नत्यर्थः । नावावधारणं निश्चय इत्याह *धारणमिति । एवं च ब्रह्मसत्तैवा. नेकक्रियाविवात्मिका कारकैः संवन्धादवसीयमानसाध्यस्वरूपा जन्मादिरूपतया भासते इति तस्यापि तत्त्वमिति भावः ॥९॥ भावनाफलयोरेकनिष्ठत्वाच्च गच्छतीत्यादाविष न स्पष्टप्रतीतिः । आसन्नविनाशं कं चिदुद्दिश्य 'किं करोति' इति प्रश्ने 'अस्ति इत्युत्तराच्च तस्य व्यापार- वाचित्वम् । अन्यत्र तु सुस्थतया निश्चिते 'किङ्करोति' इति प्रश्नः पाकादिगोचर एवेति निर्णयाद् 'अस्ति' इति नोत्तरम् । किञ्च व्यत्यनुषते इत्यत्र "कर्तरि कर्मव्यति- हारे" इत्यात्मनेपददर्शनात्तस्य क्रियावाचकत्वम् । "कर्मव्यतिहारश्च तत्र क्रियाव्यतिहार" इति "उपस- प्रादुाम्" इति सूत्रे भाष्ये स्पष्टम् । "घटो भवति" इत्यादावुत्पायनुकूलो व्यापारो- धात्वर्थनिरूपणम् । ऽर्थः । स व्यापारश्च साध्यत्वेनाभिधीयमानाऽऽश्र- यतैव । पातञ्जलनये सर्वपदार्थानामवस्थादिरूपेण प्रतिक्षणपरिणामितया तत्तत्परिणामविशिष्टोत्पत्ति. निरूपितानामाश्रयतानामनंकतया पूर्वापरीभूतावय- वकत्वाक्षतेः, सत्तायामिव कालगतपौर्वापर्यारोपेणवा। यद्वा सत्कार्यवादे कारणात्मना सदेव यावत् स्थूलं रूपं न प्रतिपद्यते तावत् 'जायते' इत्युच्य. ते । तत्प्रतिपत्तौ तु 'अस्ति' इति । तत्र तत्पा- पकव्यापाररूपारोपात्तस्याः क्रियात्वम् । अस्तीत्यस्य च सत्तां भावयतीत्यर्थ इति बोध्यम् । 'ज्ञानं ब्रह्म'इत्यादौ जानाते वे नच तस्याखण्डत्वेन नित्यत्वेन च पूर्वापरीभूता- वयवकत्वेनाभानात् कथं तत्प्रकृतेर्जानातेर्धातुत्व- मिति वाच्यम् । वृत्त्यभिव्यक्त वृत्तिधर्मारोपेण तत्प्रतीत्या ऽत्रापि तदारोपेण तस्योपपत्तेः । ब्रह्मणो निर्विकारन्वनिर्ध- मकवादिश्रुतिभिश्च तस्यारोपितत्वमेवोचितम् । शुद्धचित्तस्य तु अन्यत्रेवात्रापि निषेधवाक्यसह- कारेणाखण्डार्थबोधः । निषेधवाक्यैरेव वा सः । एवमेव ब्रह्मेत्यादौ नपुंसकत्वाद्युपपत्तिरित्यन्यत्र विस्तरः ॥ १० ॥ ल्युट् । (कुं० टी०) नन्वस्तीत्यादावपि भावना स्पष्टं कुतो न प्रती- यते आह *एकनिष्ठत्वाच्चेति । *आसन्नविना म्-मुमूर्युम् । *व्यत्यनुषतइति । "श्नसोः" इत्यल्लोपे उपसर्गप्रादुर्व्यामिति टीकाद्वयोपेतायां लघुमञ्जूषायाम् । पः । कर्मव्यतिहारस्य प्रायो बहुविषयत्वाद् बहुवचनोक्तिः । *तत्तत्परिणामेति । परिणामभेदेनाश्रयतानामपि नानात्व- मित्यर्थः । *तत्मापति । आश्रयताप्रापका ये व्या- पारास्तदारोपादाश्रयतानां पौर्वापर्यसत्वाद्यापारत्वमित्यर्थः । *तस्येति । ब्रह्मात्मकज्ञानस्याजन्यत्वादिति भावः । *वृत्ति. धर्मेति । वृत्तिनिष्ठजन्यतया ज्ञानस्य जन्यत्ववत् वृत्तिगतपौर्वा- पर्यारोप इत्यर्थः । *निषेधवाक्येति । “एकमेवाद्वयं ब्रह्म नेह ना- नास्ति' इत्यादीत्यर्थः । *निषेधवाक्यैरेववेति । अथवा निषे- धवाक्यैरेव । *स:-अखण्डार्थवोधः । *नपुंसकत्वेति । गुणानां साम्यावस्था क्लीवत्वम्, ब्रह्मणि च प्राकृतानां गुणा- नामभावे ऽपि वस्तुमात्रस्य ब्रह्मरूपतयाऽऽरोपेणैव साम्य- मिति भावः ॥ १०॥ (क० टी०) नन्वेवं घटं करोतीत्यादाविव घटोऽस्तीत्यादावपि स्पष्टं कुतो न बुध्यत इति, अत आह *भावनेति । क्रमो जन्यज- नकयोरिति तक्रमेण पूर्वनिपातः । तथाचास्यास्तत्सामानाधिकरण्यं तत्स्पष्टत्वे दोष इति भावः । एवं तदर्थस्य क्रियात्वे भाण्यायुक्तप्र- कारण साधिते सामान्यविशेषतया प्रश्नोत्तरभावन सामानाधि. रण्यं पच्याद्यर्थस्य क्रियात्वसाधकं भाष्याद्युक्तमप्यत्राव्यापकमस्ती- त्याह *आसन्नेति । *प्रश्न-कृते इति शेषः। *उत्तराञ्च-उत्तरस्य स. र्वसंमतत्वाच्च । एतेनैवं सति किं करोतीति प्रश्ने पचतीत्युत्तरवदस्ती- त्युत्तरमपि स्यादित्यपास्तम् । नन्वेवमन्यत्रापि तथा कुतो न, अत आह #अन्यत्रेति । आसन्नविनाशभिन्न इत्यर्थः । वस्तुतस्तद्भिने ऽपि तत्त्वेनाज्ञाते ऽपि तस्येप्टत्वादाह *सुस्थतयेति । इदमपि त- त्रैव भाष्ये स्पष्टम् । लौकिकवच्छास्त्रीयमपि अव्यापकं तस्य तत्त्व- साधकमस्तीत्याह *किञ्चव्यतीति । षत्वस्य सामर्थ्यादपि सिद्धि- रित्याशयेनाह *कर्तरीति । तत्र बीजमाह *कर्मेति । चो यत इ. त्यर्थे । लक्ष्यानुरोधादकृत्रिमस्यैव. तस्य तत्र ग्रहणमिति भावः । एवं धात्वर्थनिरूपणम् । ५६५ लडादिव्यवस्थाऽपि तस्यापि तत्वसाधिका भाष्ये ऽप्येवमित्यादि. नोक्ता बोध्या । अन्योऽपि तस्यार्थ इत्याह *घटइति । अत्र तु प्र. वृत्तिविशेषरूपक्रियात्वं स्पष्टमेव । अत्र मानम्- रोहितो लोहितादासीद् धुन्धुस्तस्य सुतो भवद् । इत्यादि । ननु ततस्तत्त्वेनाभिधाने ऽपि धर्मरूपत्वेनैकत्वात्पूर्वा- परभावाभावेन कथं तत्त्वमत आह *पातञ्जलेति । *तत्रेति । स्थू. लरूपप्रतिपत्तिरूपसत्तायां तत्प्रतिपत्तिप्रापकचैत्रनिष्टव्यापारेत्यर्थः । *तस्याः-तत्सत्तायाः । भेदस्यासिद्धान्तत्वादाह *भाव इति । सि- द्धावस्थापन्नधात्वर्थ इत्यर्थः । ताश्च- निष्क्रियं निष्कलं शान्तं निरवद्यं निरञ्जनम् । अमृतस्य परं सेतुः साक्षी चेता केवलो निर्गुणश्च ।। इत्यादयः। कारणं परमेशानो यः शुद्धो ऽप्युपचारतः । इत्यादिस्मृतिरप्यनुसन्धेया । *तस्य-भावत्वस्य । प्रागुक्तरीत्या आह *शुद्धति । *अन्यत्रेव-"तत्त्वमसि' इत्यादाविव । *निषेधेति । "नेह नानाऽस्ति" इत्यादीत्यर्थः । प्रागुक्तमेव द्वितीयमतमाह *नि- धेति । एवमेव-आरोपेणैव । आदिना सङ्ख्या ॥ १०॥ सकर्मकत्वं च व्यापारव्यधिकरणफलवाचकत्वम्, तत्समानाधिकरणफलवाचकत्वं चाकर्मकत्वम् । यदा व्यापारव्यधिकरणफलवाचकत्वाभावो ऽक- र्मकत्वम् । स च कचित्सामानाधिकरण्यात् । यथा-उ- त्तिष्ठतीत्यादौ । अन्यथोर्ध्वदेशसंयोगस्य विद्यमान- वे उत्थित इति प्रयोगानापत्तेः । मम तु तत्समा- नाधिकरणस्य तदनुकूलव्यापारस्यातीतत्वात् तस्य विद्यमानत्वे ऽपि तदुपपत्तिः । अत एव "परिपन्थं च तिष्ठति" इत्यादौ 'क्रियाविशेषणत्वात् कर्मत्वेन टीकाद्वयोपेतायां लघुमञ्जूषायाम् द्वितीयान्तत्वम्' इति सङ्गच्छते । कचित्फलांशाभावात्तत्त्वम् । एवं चास्त्यादौ केवलसत्तावार्थः । निरुक्त उत्पन्नस्थ सत्वस्य द्रव्यस्थ स्वरूपधारणारूपां स- त्तामाचष्टे इत्यर्थः । तस्या अपि क्रियात्वमुपपादि. तमेव । यद्धातूचारणे कर्माकाङ्क्षा नियता स सकर्मक इति तु न युक्तम् । गच्छेत्यादिषु तदाकाङ्क्षाऽभावा- त् । केत्येव हि तत्राकासा । अकर्मक भिन्नत्वं सकर्मकत्वमित्यपि न । सकर्म- काणामर्थान्तरे ऽकर्मकत्वेनासम्भवापत्तेः। एतेन सकर्मकधात्वन्यतमत्वं सकर्मकत्वमित्य- पास्तम् ॥ ११ ॥ (कुं० टी०) *सामानाधिकरण्यादिति । फलव्यापारयो- रिति शेषः । अकर्मकाणां व्यापारमात्रवाचित्वं तार्किका वद- न्ति, तानिराकरोति *अन्यथेति । संयोगमात्रस्य उत्तिष्ठत्यर्थ- त्वे इत्यर्थः । *अतएव-फलस्य धात्वर्थत्वादेवेत्यर्थः । तथाच व्यापार प्रति फलस्य कर्मत्वात्तद्विशेषणादपि द्वितीयेति भावः । निरुक्तविरोध परिहरति *निरुक्तेइति । तस्या अपि-सत्ता- याः अपि । *उपपादितमेवेति । कालगतपौर्वापर्यारोपादित्या- दिना । व्यापारमात्र धात्वर्थ इति नव्यतार्किकलक्षणं दूपयति *इतितु न युक्तमिति । *अन्यतमत्वमिति । सकर्मकान्धातूनु- पादाय एतदन्यतमत्वमित्यर्थः ॥ ११ ॥ (कल्टी०) प्राचामनुरोधेन सिद्धान्ते ऽसत् तावदाह *सकर्मकत्वं धात्वर्थनिरूपणम् । ५६७ तत्र चेति । केवलफलस्य व्यापारस्य वा वाच्यत्वे क्वचिदकर्मकलक्ष. णाव्याप्तराह *यद्वति । एवं चाद्य एव तात्पर्य द्वितीयं त्वर्थलब्धाम- ति भावः । *यथेति । तत्र समानाधिकरणम् उभयं वाच्यमिति तत्र तद्यधिकरणत्वाभावप्रयुक्तस्तदभाव इत्यर्थः । *अन्यथा-व्यापारस्य तत्रावाच्यत्वे फलस्यैव वाच्यत्वे । ऊर्ध्वदेशसंयोगरूपोत्थान- स्यैव धात्वर्थतया तत्रैव भूतत्वेन तो वाच्य इति तस्य विद्यमानत्वे तत्त्वाभावातू “गत्यीकर्मक-" इति भूते कर्तरि तो न स्यात्तदाह *उत्थित इति । *मम तु-तत्रोभयवाचकत्वाङ्गोकत्तुः । *तस्य-ऊर्ध्वदेशसंयोगस्य । नन्वेवं व्यापारस्यैव तत्र वाच्यत्वमस्तु न तस्यात आह *अतएवेति। तस्यापि वाच्यत्वादेवेत्यर्थः । एवेन केवलव्यापारवाचकत्वमकर्मक- त्वं फलव्यापारोभयवाचकत्वमेव सकर्मकत्वमित्यपास्तम् । लक्षणा- न्तरकरणफलं प्रतिपादयन्नाह *क्वचिदिति । तदभावप्रयुक्त एव त- दभाव इत्यर्थः। अस्य लक्ष्यमाह *एवंचति । केवलेत्यनेन तस्या- व्यापारत्वमेव न फलत्वम्, प्रागुक्तफलत्वस्य तत्र दुर्वचत्वादिति सूचितम् । एवेन प्रागुक्तयतिमतनिरासः । भाष्यादेस्त्वत्रापि सु. योजत्वेन तदविरोधाग्निरुक्तविरोधं परिहरति *निरुक्तइति । सत्तावत इति तद्भाष्योक्तो नार्थ इत्याह *द्रव्यस्येति । एतच्छा- स्त्रपरिभाषालब्धस्येत्यर्थः । *स्वरूपति । एतेन भाष्यकैयटार्थों ऽपि सूचितः। *तस्या अपि-सत्ताया अपि । तस्यापीति पाठे सत्तादेर- पीत्यर्थः । *उपपादितमिति । यद्वा सत्कार्येत्यादिनेत्यर्थः । अतएव सत्तायामिवेत्यादिनाऽपुनरुक्तिः प्राक् । एवं च फलावच्छिन्नव्यापारो धात्वर्थ इति प्रागुक्तं प्रायिकमिति बोध्यम् । साक्षाव्यभिचारेण धात्वर्थो यत्र कर्मभाक् । सकर्मकः स धातुः स्यात्पारंपर्ये त्वकर्मकः ॥ इति ।- भावार्थाधिकरणस्थभट्टोक्तिफलितं जीवत्यादिवारकं मी- मांसकमतं खण्डयति *यद्धात्विति । तदर्थस्थति शेषः । तदन्यत्वमकर्मकत्वमिति त्वर्थाल्लब्धम् । साच समार्थकेष्वपि धातुविशेषोपनिबन्धना यत्रास्ति सकर्मकः । एवं च कृमो यतेरिव यत्नमात्रार्थकत्वेऽपि न दोषः । कर्मत्वा- स । टीकाद्वयोपेतायां लघुमञ्जूषायाम् । दिपदोपस्थाप्यस्य क्रियाकाङ्क्षत्वाभावे ऽपि द्वितीयोपस्थाप्यस्य त- त्साकाङ्क्षत्ववत् कृभुपस्थाप्यस्य यत्नस्य कर्माकाटोपपत्तेरिति त. द्भावः । अविवक्षितकर्मातिव्याप्तिनिरासाय वक्ष्यमाणविशेषण- मप्यत्र बोध्यम् । एवमेकस्यैवार्थभेदेन सकर्मकत्वमकर्मकत्वं चोप- पन्नम्। यदर्थेऽविवक्षाभावविशिष्टकर्माकाङ्क्षा यस्य स तत्रार्थे सकर्मक इत्यनुगतस्यैव लक्षणत्वादिति तद्भावः । पचतीत्यादौ सत्त्वेऽपि अ- न्यत्र नेत्याह *गच्छंत्यादीति । सर्वधातूनां यत्किञ्चित् फलादिवा- चकत्वेन तत्वापत्त्या स्वार्थफलेत्यादिवाच्यामित्यननुगमापत्त्याऽक- मकभिन्नत्वं तद्वाच्यं तत्र प्रयोगानुरोधाजानात्यादिभेदो न निवेश- नीय इति न तेषु व्यवहारभाक्तत्वमिति नैयायिकमतं खण्डयति *अकर्मकेति । तान् क्रोडीकृत्यैतदन्यतमत्वमकर्मकत्वं तदन्यत्वं सकर्मकत्वमिति वाच्यमित्यर्थः । स्वस्मिन्स्वभेदासम्भवादाह अ- सम्भवेति । *सकर्मकेति । स्वरूपनिर्देशपरमिदं न तु लक्षणान्तर्ग- तम् । तान् क्रोडीकृत्यैतदन्यतमत्वं सकर्मकत्वं तदन्यत्वमकर्मकत्व- मिति वाच्यमित्यर्थः । एतेनेत्यस्याये ऽसम्भवेनेत्यर्थोऽन्त्ये ऽव्या- प्तिदोषेणेत्यर्थः ॥ ११ ॥ वस्तुतस्त्वेतच्छास्त्रीयकर्मसंज्ञकार्यान्वय्यर्थकत्वं सकर्मकत्वम्, तदनन्वय्यर्थकत्वमकर्मकत्वम् । तेन 'अध्यासिता भूमयः' इत्यादिसिद्धिः । “अधिशी- ङ्स्थासाम्" इत्याधारस्य कर्मत्वम् । अन्वयश्च पृथग्वुद्धेन संसर्गरूपः । अन्वयप- दस्य तत्रैव व्युत्पत्तेः । तेन जीवत्यादिषु न दोषः । तत्र प्राणादिरूपकर्मणो धात्वर्थात्पृथगबो- धात् । स्पष्टं चेदं "सुप आत्मनः" इति सूत्रे भाष्ये । पूर्वसकर्मकलक्षणे त्वेतदर्थं फलाश्रयावाचकत्वे सती- ति विशेषणदाने गौरवम् । अत्र सकर्मकलक्षण एव तात्पर्यम्,अकर्मकलक्षणं त्वर्थलब्धम् ।
धात्वर्थनिरूपणम् । ५६९ यत्तु पूर्वसकर्मकलक्षणे फले अविवक्षाविरहवि- शिष्ठतिविशेषणादविवक्षितकर्मसु नातिव्यातिः । नच तदर्थका भिन्ना एव धातव इति अविवक्षितकर्मसु फलवाचकत्वाभावादेव नातिव्याप्तिरिति वाच्य- म् । सकर्मकरदे धातूलामन्यपदार्थत्वेन कचिदपि कर्मसम्बन्धदर्शन सारूप्यात् 'त एवैते' इति तत्त्वप्र- त्ययविषयाणामेकत्वेनाविवक्षित कर्मणां धातूनायक- मकव्यपदेशासम्भवात् । स्पष्टं चेदं “गतिबुद्धि-"इति सूत्रे कैयटे इति। तन्न ।" "मातुः स्मर्यत" इत्यत्राविवक्षितकर्मतया भावे लः" इति “अधीगर्थ-" इतिसूत्रस्थमाध्यचिरो- धापत्तेः । तत्र फलांशसत्त्वे एव सम्बन्धसामान्य- नान्वयो न तु तदविवक्षा । धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसंग्रहात् । प्रसिद्धरविवक्षातः कर्मणो किर्मिका क्रिया॥इति- अभियुक्तोक्ताफर्मकसंग्रहकारिकायाम् 'अविव- क्षात' इत्यस्य पृथगुपादानवैयर्धापत्तेश्च । भवद्रीत्या फलस्य धात्वर्थत्वाविवक्षायां धातोरान्तरे वृत्तेरेव सम्पत्तेः। किञ्च विशेषणदानेऽपि कचिदविवक्षाविरहविशिष्ट- फलवाचकत्वेन तत्त्वप्रत्यभिज्ञयाऽतिव्याप्तिनिवारैव। यदि त्वर्थभेदाच्छब्दभेद इति स धातुर्भिन्न एवेत्यु- च्यते, तदोक्तरीत्या विशेषणदानं व्यर्थमेव । किञ्च 'कर्मणा सह' इत्येतदर्थकसकर्मकपदस्य नेदं प्रवृत्तिनिमित्तम् । ततः शब्दमर्यादया ऽलाभात् । ल- ७२ ५७० टीकाद्वयोपेतायां लघुमञ्जूपायाम् । क्षणत्वेऽपि तेन रूपेण "लः कर्मणि"इत्यादौ सकर्मक- पदावोधानापत्तिः । शत्यग्रहात् । तथाबोधाननुभवेन तत्करणानुपयोगाच । तस्माच्छन्दमर्यादया लब्धं मदुक्तमेवोचितम् ॥ १२ ॥ ( कुं० टी० ) *एतदर्थमिति । जीवत्यादीनां सकर्मकत्व- निवृत्त्यर्थमित्यर्थः । *फलाश्रयावाचकत्वे सतीनि । फलाश्रयवि. शेषस्यावाचकत्वे सतीत्यर्थः । तेन उत्तरदेशादिरूपफलाश्रय- वाचकत्वे ऽपि गच्छत्यादेर्नाकर्मता। *अविवक्षाविरहेति । 'त- ण्डुलं पचति'इत्यत्र फलव्यधिकरणव्यापारवाचकत्वसत्वेऽपि नेह पच्यते' इत्यत्र फलस्याविवक्षितत्वात् न सकर्मकत्वमित्यर्थः । *तत्रफलांशेति । सम्बन्धसामान्यनान्वयादेव तत्राकर्मकत्वं न तु फलांशाविवक्षयेत्यर्थः । *व्यर्थमेवति । व्यापारमात्रवाचकतया फलव्यधिकरणव्यापारवाचकत्वाभावादेव सकर्मकत्वाप्राप्तः । ननु सकर्मकपदस्येदं लक्षणं न तुं प्रवृत्तिनिमित्तकथनमत आह *लक्षणत्वेऽपीति । * शक्त्यग्रहादिति । सकर्मकपदाद् योगन रूढ्या वा तस्यानुपस्थितेः । *तत्करणेति । तादृशलक्षणकर- णत्यर्थः ॥ १२ ॥ (क० टी०) योगार्थानुरोधेन सिद्धान्तमाह *वस्तुतस्त्वि. त्यादि । प्रत्यासत्तस्तन्त्रान्तरस्थानद्वारणायाह *एतदिति । पू- सकर्मकलक्षणे दोपं सूचयन्नाह *तनेति । एतदङ्गाकारणत्य- थः । 'मास आस्यते' इत्यस्य तत्रापि सिद्धराह * अध्यासिता- इति । सकर्मकत्वेन कर्मणि भूते "निष्ठा" इति क्तः । तेनासिार्द्ध सूचयन्नाह *अत्रेति । नन्ववं जीवत्यादिषु 'प्राणान्धारयति'इत्या- धर्थनातिव्यानिराद्यस्यात आह *अन्वयश्चति । तथोपस्थिते- न यः संसर्गस्तद्रूप इत्यर्थः । आदिना नृत्यादि । प्रकृताशयेना- ह *धात्वर्थादिति । *स्पटंचेदमिति । तत्र हि-इच्छाक्यजन्ताद् धात्वर्थनिरूपणम् । फलस्य तत्र भावकत्रधिकरणादौ प्रत्ययेऽपि न कर्मणि, यतः "अभिहितं तत्कर्मा- न्तर्भूतं धात्वर्थः सम्पन्नः । नचेदानीमन्यत्कर्मास्ति येन सकर्मका स्याद्" इत्युक्तम् । जीवत्यादिवदिच्छाक्यजन्तस्याकर्मकत्वात्सः । तत्र पूर्वसकर्मकलक्षणे त्वयमपि दोषः । प्राणधारणगात्रविक्षेपादि- सत्वात्तस्य व्यापारव्यधिकरणत्वाञ्चेति सूचयन् भूषणोक्तवारणप्रकारे दोषमाह * पूर्वेति । एतदर्थम्-अत्रातिप्रल- ङ्गवारणार्थम् । *फलम्-प्राणधारणादि । *तदाश्रयः-प्राणादि । प्रागुक्तलाघवमत्रापि, इति न तदभावप्रयुक्तगौरवमित्याह *अत्रेति । अत्रापीत्यर्थः । भूपणादिसिद्धान्तान्तरं खण्डयति यत्त्विति । यदपीत्यर्थः । प्रसङ्गात्कैयटमपि दृषयितुं तन्मतमुपपादयति *नचे. ति । अर्थभेदाच्छब्दभेद इति भावः। *दर्शनेन-तत्त्वे सतीति शेषः। प्रत्ययो ज्ञानम् । *स्पष्टं चदमिति । तत्र हि-"अकर्मकग्रहणे कालादि- कर्मकाणामुपसङ्ख्यानम्" इति वार्तिकखण्डकाधिकसंग्राहक-"सिद्धं तु कालकर्मकाणामकर्मकवद्" इत्यतिदेशखण्डक-"अकर्मकाणामि- त्युच्यते । नच केचिदपि कालभावाध्वभिरकर्मकाः। त एवं विज्ञास्या- मः क्वचिद्येऽकर्मका इति" इतिभाष्ये अविवक्षितकर्मनया तत्त्वमाशय, सर्वथा कर्मशून्यानामेवेह शास्त्रे तेन ब्रहणं न त्वविवक्षितकर्मणामपि अन्यथा पचादेस्तदविवक्षाशं भावे लाद्यापत्तिरिति समाधाय, 'अक- मैकशब्दस्य च धातवोऽन्यपदार्थत्वेनाश्रीयन्ते न त्वर्थाः । अर्थाश्रयणे हि कर्माविवक्षायामर्थस्याकर्मकव्यपदेशः स्यात् । धातुषु त्वाश्रीय- माणेषु क्वचिदपि कर्मसम्बन्धदर्शनेन सारूप्यात् 'त एवैते' इति त- स्वप्रत्ययविषया नाकर्मकत्वेन व्यपदिश्यन्ते । अर्थास्तु कारकादि- भेदाद्भिन्ना एवेन्यन्ये सकर्मका अन्ये एवाकर्मका इति स्याद्यपदे- शः । यदा तु 'अर्थस्यापि स्वतो नास्ति भेद' इनिदर्शनं तदाऽर्थेव. न्यपदार्थेष्वदोष इति तदुपपादितं तेन । *मातुरिति । तत्रहि-“कर्मा- दिघकर्मकवद्" इति वार्तिकखण्डनायेत्थम् उक्तम् । तमुपपादयति *तत्रहीति । यत इत्यर्थः । दोषान्तरमाह तत्र *धातोरिति । कर्मण- इत्यस्य पूर्वेत्रिभिः संबन्धः । अनार्षत्वायाह अभियुक्तेति । अकर्म- कोतवहुव्रीहिः । पृथक्त्वमाद्यापेक्षयेत्याह *भवद्रीत्येति । कैयट- रीत्यैव । तत्र दोषान्तरमाह *किञ्चविशेषणेति । नचेतिशं- कोकरीत्या । तद्दातुराशयमाह *यदित्विति । *उक्तति । शंकोत्तरी- ५७२ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । त्येत्यर्थः । तेषु फलवाचकत्वाभावादेवेति यावत् । कैयटोक्तरीतिस्तु चिन्त्यैव । "लः कर्मणि" इत्यादावेव दुर्वचत्वात् । कृतपूर्वीत्यादौ तस्याविवक्षितकर्मतया भावे साधनस्य "कर्तृकर्मणोः" इति भा- ध्यादौ स्पष्टत्वात् । अकर्मकेत्यादि तदुपपादनमप्ययुक्तम्, कर्मसं- ज्ञाया अर्थसंज्ञात्वनार्थानामेवान्यपदार्थत्वस्यौचित्यात् । अर्थ- स्यापि स्वतो नास्ति भेद इति मतमप्ययुक्तम्, धातूनां नानार्थत्वो. च्छेदापत्तेः । भाष्याशयस्त्वनु पदमेव स्फुटीभविष्यतीति बोध्यम् । अथ पूर्वसकर्मकलक्षणसाधारणमत्र दोपान्तरमाह *किश्चति । *अलाभात्-तेन रूपेण ततोऽप्रतीतेः । ननु गोः सास्नादि- मत्त्ववदिदं तल्लक्षणमत आह *लक्षणत्वेऽपीति । अनुभवो ऽपि तथा नेत्याह *तथेति । *तत्करणेति । लक्षणकरणेत्यर्थः । सि. द्धान्तमुपसंहरति । *तस्मादिति । योगशक्त्यैव तादृशार्थलाभ इति भावः ॥ १२ ॥ कारिकायामविवक्षा नाम येन रूपेणान्वयविवक्ष- या यस्य कर्मसंज्ञा तेन रूपेणान्वयविवक्षाऽभावः। सच कचिद्विशेष्याभावकृतः,यथा-नेह पच्यत इत्या- दौ । कचिद्विशेषणाभावकृतः, यथा-मातुः स्मर्यते इ. त्यादौ । कार्योत्पत्तिबेलायामविवक्षा पश्चाद्विवक्षेत्यपि क्वचित् यथा-कृतपूर्वी कटामित्यादौ । कृतपूर्वीत्यादि त्तिविषय एवंदन ,नान्यत्र। धातोरर्थान्तरे वृत्त्या,यथा- 'नदी स्यन्दते' इत्यर्थके नदी बहतीत्यादौ । प्रसिद्धेरि- त्यस्य प्रसिद्ध्या झटित्यध्याहारण तल्लाभात् तत्प्र- प्रयोगाभाव इत्यर्थः । न तत्राकर्मकत्वप्रयुक्तं का- र्यम्, भाष्ये ऽनुक्तत्वात् । शास्त्रे ऽकर्मकपदस्थकर्म- पदेन कालभावाध्वदेशभिन्नानामेव ग्रहणम् । “गतिवु- डि-" इति सूत्रे सजातीयापेक्षसकर्मकविषयनियमेन सिद्धे ऽकर्मकग्रहणसामादिति “गतिवुद्धि-काला- धात्वर्थनिरूपणम् । ५७३ ध्वनोः" इति सूत्रे भाष्ये स्पष्टम् । तेन 'मासमास्यते' इति भावे लादिसिद्धिः॥ १३ ॥ (कुं० टी०) *विशेष्याभावकृतः-काभावकृतः। ने- हपच्यतइति । अत्र तण्डुलादेरविवक्षया ऽकर्मकत्वम् । ऋविशे- षणाभावेति । येन रूपेणान्वयेत्यादीत्यर्थः। *कृतपूर्वीति । अत्र कर्मणो ऽविवक्षया भाव क्ते पश्चात्कर्मयोगः । *मजातीयेति । 'एषामेव धातूनामणौ कर्ता'इत्यत्र सजातीयत्वात्सकर्मकाणामेव नियमः स्यादित्यर्थः ॥ १३ ॥ (क० टी०) ननु सिद्धान्ते कथं कारिकास्थतदविवक्षासङ्गतिरत आह *कारिकायामिति । *विशेष्येति । अन्वयेत्यर्थः । तदन्वययोग्य- धात्वर्थत्यागादिति भावः । 'नेह पच्यते' इत्यादावित्यादिना भुज्यते इत्यादि । *विशेषणेति । तपेत्यर्थः । सत्येव तस्मिन्नर्थे कर्म- त्वेनान्वयाविवक्षायां सम्बन्धित्वेनान्वयस्य विवक्षणादिति भावः । मातुः स्मथते इत्यादावित्यादिना पितुः स्मयते इत्यादि । तत्रापि विशेपमाह *कार्यति | कटमित्यादावित्यादिना ऽनुभूतपूर्वी- त्यादि । अतिप्रसङ्गायाह *कृतेति । अनभिधानात् । स्पष्टं- चेदं “कर्तृकर्मणाः" इति मूत्रे भाष्ये । एतेन गङ्गाधरादौ तथा स्वीकुर्वन्तः परास्ताः । प्रसङ्गात्तदुदाहरणमनुक्तमाह *धातोरिति । 'यक्षानुरूप'-इतिन्यायन प्राचां मतेनाह *अध्याहारेणति । त. त्वं तु प्रागुकं बोध्यम् । प्राचार खण्डयति *प्रसिद्धरिति । प्र. सिद्धातिरिक्तवृत्तित्वमपि फले विशंपणं देयमिति, अयं फलितो- थः । शाब्दस्तु कर्मणः प्रसिद्ध्या तथा लाभाक्रियाऽकर्मिका तत्पदप्रयोगरहितवाक्यप्रतिपाद्यत्यनेनैव सूचितः । यथाश्रुतार्थ- त्यागे वीजमाह अनन्विति । *भाष्ये इति । तथोपस्थितस्य तस्या- न्वयस्वीकारेण तावन्मात्रेणाकर्मकत्यस्य भाष्ये ऽनुक्तत्वादित्यर्थः । अतएव "नदी वहतीत्यकर्मकः” इति भाष्यं “नदी स्यन्दत" इत्यर्थ- कतया कैयटेन व्याख्यातम् । एतत्सूचनार्थमेवेदमेव तदुदाहरणं दत्तम् । नन्वेवं 'मासमास्यत इत्यादि' इति कथमातदेशखण्डनं ५७४ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । तत्र भाज्ये, अत आह *शास्त्रे इति । ज्ञापक सामान्यापेक्षमिति भावः । *सामादिति । अयंभावः-किम् अकर्मकपदे कर्मपदस्य कर्मसंज्ञाप्रयोजके लक्षणया न विद्यते कर्मसंज्ञाप्रयोजको ऽर्थों येषां धातूनामित्यर्थः, उत लक्षणया कर्मरहितार्थप्रतिपादकानामि- त्यर्थः ? । तत्राद्यं खण्डितम्-नचकोचिदिति । तथाच कर्मसंज्ञाप्र- योजकार्थरहितानामित्यर्थं सर्वेषां तदर्थसम्भवनाकर्मकाणामित्य- स्योदाहरणासम्भव इत्यर्थः । अन्त्येऽविवक्षितकमतयोदाहरण- सम्भवो वाच्यः । नच कालस्य क्रियामात्रेणाकाशितया तदविव. क्षाऽसम्भवः । आख्यातार्थकालेनैव तदाकाङ्क्षाशान्त्या वाह्यकाल- कर्मणोऽविवक्षासम्भवात् । एवञ्च सति गत्यादिसूत्रे तुल्यजाती- यापेक्षतया नियमस्य सकर्मकविषयता ऽकर्मकविषये "कर्तुरोप्सि- ततमम्" इत्यनेन तदुपपत्तौ अकर्मकग्रहणं व्यर्थम्, तत्सामर्थ्य हदि निधायोक्तं "त एवम्" इत्यादि। "क्वचिद्'इत्यस्य कालादीनां कर्मत्व- प्रयोजकव्याप्त्यादिरहितेऽथै इत्यर्थः । तत्सामर्थ्यात्तदवस्थायां कर्म- रहिता गृह्यन्त इति तत्त्वम् । *इतीति-इत्यादौ ॥ १३ ॥ पचेविक्लित्त्यनुकूलव्यापारोऽर्थः । सचानेकविध इत्युक्तम् । नश्यतेरदर्शनानुकूलव्यापारो ऽर्थः । सच ध्वं- ससामग्रीरूपो व्यवधानाद्यनुकूलव्यापाररूपश्च । “उ- त्पतिते काकं नष्टं तद् गृहं भवति" इति निष्ठासंज्ञा- सूत्रे भाष्यप्रयोगात् । 'हृतं नष्टं च लभ्यते' इति स्मार्तप्रयोगाच्च । तत्र व्यापारे कालान्वयः । एतेन नाशस्य नित्यत्वात्सर्वदा नश्यतीत्याप- त्तिरित्यपास्तम् । ध्वंसश्च तिरोभावावस्था । कारणे शक्तिरूपेणा- वस्थानं च प्रागभावः । ततः प्रच्युता अभिव्याक्तिल- क्षणं धर्ममप्राप्ता व्यक्तिः 'जायते'इत्युच्यते । तिरोभा- धात्वर्थनिरूपणम् । ५७५ वावस्थैव लब्धक्रमा नश्यतीत्यने नोच्यत इत्यन्ये । जानातर्विषयतया ज्ञानं फलम् । आत्ममनस्संयो- गो व्यापारः । अत एव 'मनो जानाति' इत्युपपद्यते । आत्मा चान्तःकरणं मनो ऽपि तद्वृत्तिविशेषरूपम् । तत्रोभयोरपि सावयवत्वादवच्छेदकांशसम्भवेन सं. योग उपपद्यते । मनो निरवयवमात्माऽपि ज्ञानाश्रयो निरवयव इतिनये ऽवच्छेदकांशासम्भवेन संयोगानुपपत्तेः । तदभ्युपगमे ऽपि- उपयन्नपयन धर्मों विकरोति हि धर्मिणम्' इति- न्यायेन ज्ञानाश्रयत्वस्य संयोगस्य चात्मनाश एव पर्यवसानात् तन्नित्यत्वमनुपपन्नम् । एवमाकाशस्थापि सावयवत्वम् । तदुक्तं खण्डनकृता- संयोगो ऽव्याप्यवृत्तित्वादेकदेशे ऽस्ति संमतः । तदेकदेशदेशस्य प्रश्ने संयोग एव कः ॥ तस्मात- अणौ निरंशे नितरां कल्पिते कल्पितं जगद् इति। निरंशे ऽप्यणौ संयोगकल्पनायां सर्वथा जगतः कल्पितत्वमेवेति तदभावः । कणादः पारिमाण्डल्यसंयोगाद् ध्यणुकक्रमात् । जगदुत्प्रेक्षयन् मायावादसादरमानसः ।। इति प्रघट्टकान्तरे तदुक्तः ॥ १४ ॥ ( कुं० टी०) *सचानेकविधइति । स्थालीस्थस्य व्यापा- रस्यापि पच्यर्थत्वात् । अदर्शनमज्ञानम् । तदुदाहरति *नष्टन्तद्- - - टीकाद्वयोपेतायां लघुमञ्जूषायाम् । , गृहमिति । अहृतं नष्टमिति व्यवधानस्य । *ध्वंसस्य नित्यत्वा. दिति । ध्वंसपरम्पराकल्पने गौरवमिति भावः । एतेन 'नाशं प्रति जन्यभावत्वेन कारणत्वे गौरवाजन्यस्यैव कारणता इति ध्वंसो ऽप्यानित्य' इत्यपास्तम् । यत्तु ध्वंसस्यानित्यत्वे घटो नष्ट इत्यप्रसङ्ग इति । तन्न। द्वितीयादिध्वंसप्रतियोगित्वस्य लाघवेन घट एव स्वी- कारात् । ननु जन्मनाशयोरवस्तुत्वात् कथं तयोः सत्तात्मक- त्वमित्याशङ्ग्य नाशस्य तावत्सत्तावत् सत्तात्मकत्वमुपपादयति *ध्वंसश्चेति । तदुक्तं हरिणा- तिरोभावाभ्युपगमे भावानां सैव नास्तिता। इति । अयं भावः-नित्या ब्रह्मात्मिका सत्ता न निरन्वयनाशसहेति अभावो नाम न भावाद् व्यतिरिक्तः, किन्तु सत्तैव तिरोभूय स्वकारणेयु शक्तिरूपतया स्थिता वस्तूनां नाशः । सैव च तिरो- भावावस्था साधनसम्पर्कात् क्रमवत्वेन प्रतीयमाना नश्यती- त्याख्यातेन प्रत्याय्यते इति । * ततः प्रच्युतेति । कारणनिष्ठशक्तिरूपेणावस्थानात् प्रच्युता अभिव्यक्तिहेतुकं धर्ममप्राप्ता घटादिव्यक्तिर्जायते इत्युच्यते । तदानीं घटत्वेन ग्रहाभावादप्राप्तृत्वम् । जाते तु घटे 'घटो जातः' इति व्यवाहियते । अथवा अभिव्यक्तिरूपमवस्था. ऽन्तरमप्राप्तेत्यर्थः । तदुक्तं हरिणा- पूर्वस्मात्प्रच्युता धर्मादप्राप्ता चोत्तरं पदम् । यदन्तराले भेदानामाश्रयाज्जन्म कथ्यते ।। इति । अस्यार्थ:-कारणे शक्तिरूपणावस्थितात्पूर्वधर्मात् प्रच्युता कार्यनिष्ठधर्मान्तराभिव्यक्त्युन्मुखादुत्तरावस्थामप्राप्ता जायव - धात्वर्थनिरूपणम् । इत्युच्यते इति । एवञ्च पूर्वापरावस्थान्तरालवक्षिणक्रमविवक्षा- यां जनिक्रियाव्यवहारः । अत एवोक्तं तत्रैव- पूर्वावस्थामपजहत्संस्पृशद्धर्ममुत्तरम् । संमूर्छित इवार्थात्मा जायमानोऽभिधीयते ॥ इति । अस्यार्थः-न सर्वथा पूर्वी कारणावस्थां त्यजत्, अनेन प्रकृतेरपि कर्तृत्वं दर्शितम् । नापि सर्वथोदासीनम्, अपि तु उ- चरावस्थाविशेषं स्पृशत् आस्वदयत्, अनेन विकृतेः कर्तृत्वं द. र्शितम् । एवं च पूर्वापरावस्थोपाध्यवच्छिन्न एकः संमूर्छित इव उभयरूप इवाध्यवसीयमानो जायत इत्युच्यत इति । *लब्धक्रमेति । साध्यरूपता ऽनेन दार्शता । तेन नष्टे नश्यतीति न प्रयोगः । *मनो जानातीति । सा- ङ्ख्यरीत्या ज्ञानस्य मनोधर्मत्वात् । *मनोऽपीति । संश- यजनकतायामन्तःकरणमेव मनःसंज्ञां लभते । वयवत्वेनेति । अन्तःकरणं सावयवं सादिद्रव्यत्वात् पटवदि- त्यनुमानात् । अवच्छेदकांशः,एकदेशः । *मनो निरवयवमिति । तार्किकमते परमाणुरूपत्वात् । *अवच्छेदकांशासम्भवेति । अव- यवसम्बन्धे एव संयोगव्यवहारात् । तदभ्युपगमेऽपीति । संयो- गाभ्युपगमे ऽपीत्यर्थः । ॐउपयन्-आगच्छन् । *अपयन्-निव- तमानः । *आत्मनाश एवेति । संयोगरूपधर्मस्योत्पत्तिविनाशा- भ्यामात्मनो ऽपि विकारापत्तावनित्यत्वं स्यादिसर्थः । तदे- कदेशेति । आकाशादावेकदेशस्य प्रश्ने तु संयोग एव न सिद्धयेदिसर्थः । *अणौनिरंशे इति । निरवयवाभ्यामपि परमा- णुभ्यां संयोगे घणुकादीनामधिकपरिमाणत्वानापत्तिरिति भावः । *पारिमाण्डल्यसंयोगादिति । परमाणुद्वयसंयोगाद्ध- *सा- ७३ ५७८ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । णुकं त्रिभिzणुकैस्त्र्यणुकमिति क्रमेण जगदुत्पत्तिस्वीकारात् । भर्तृहरिस्त्वाह- परमाणोरभागस्य दिशा भागः प्रकल्प्यते । इति । निरंशानामपि परमाणूनां दिग्निमित्त एव पार्श्वचतुष्टय- भाग इति ब्यणुकादिसिद्धिः । तथा तेनैवोक्तम्- अदेशाश्चाप्यभागाश्च निष्क्रमा निरुपाधयः । भावाः संसर्गरूपा तु शक्तिर्भेदाय कल्पते ॥ इति । येषामाकाशादीनां देशो नास्ति, नापि अवयवादिस्तेपी संसर्गनिमित्तक एव शक्तिभेदः । पूर्वाकाशसंयुक्तो घट इत्यादि- व्यवहारादिसर्थ इति ॥ १४ ॥ (क० टी० ) एवं सामान्यतो धात्वर्थ निरूप्य परमतनिरासाय केषांचिद्विशिष्यायनिरूपयति *पचेरित्यादिना । पुनःकथन- फलं सूचयन्नाह #सचानेकेति । एतेन तेजःसंयोगानुकूलव्या- पारमात्रं पच्यर्थ इति निरस्तम् । अग्निसंयोगानुकूलकृत्यभाववति भक्तविक्लित्त्यनुकूलप्रस्रवणकर्तरि पचति' इति प्रयोगानापत्तेः । *ध्वंससामग्रीति । प्रतियोगित्वघटिततत्समवधानेत्यर्थः । ध्वंसानु. कुलेत्येव वाच्ये ऽदर्शनेत्युक्तिफलमाह *व्यवेति । तत्राद्ये प्र- सिद्धत्वात् द्वितीये मानमाह * उत्पतिते इति । *नष्टम्-बुद्ध्यनारूढ- म् । *हतमित्यस्य- कार्तवीर्यार्जुनो नाम राजा बाहुसहस्त्रवान् । तस्य संस्मरणादेवत्यादिः । एतेन लक्षणा तत्रेत्यपास्तम्। अनुप. पत्तिप्रतिसन्धानं विनाऽपि ततो वोधात् । तत्र-तयोर्मध्ये । *एते. न-तत्र कालान्वयेन । *नाशस्य-ध्वंसजन्यादर्शनस्य । *नित्यत्वा- त्-तस्य जन्यत्वे ऽप्यविनाशित्वात् । ध्वंसानुकूलव्यापार एव सर्वत्र धात्वर्थ इति न शक्तिद्वयकल्पनेति लाघवात्सत्कार्यवादेन सि- द्धान्तमाह *ध्वंसश्चेत्यादि-'अन्येइत्यन्तेन । *शक्तिः-सूक्ष्मावस्था । नन्वेवं प्रागुक्तनिरुक्तादिविरोधः, वस्तुत उत्पत्तिध्वंसयोरभा- धात्वर्थनिरूपणम् । ५७९ वादत आह *तत इति । तद्रूपप्रागभावत इत्यर्थः । द्वितीयादिनिरा. सायाह *अभिव्यक्तीति । क्रियात्वायाह *लब्धेति । * अतएव-तस्य तत्त्वेन तद्वृत्तित्वादेव। संयोगोपपत्तये सिद्धान्तमाह *आत्माचेति । *तत्र-तथा सति । नैयायिकमने दोषमाह *मन इति। *ज्ञानाश्रयः- चेतनो जीवः । *संयोगानुपपत्तेरिति । 'मनो जानाति' इत्यनुपपत्तिः स्पष्टैवेति शेषः । ज्ञानाश्रय इत्यनेन ज्ञानाश्रयेणापि न तदुपपत्ति. रिति सूचितम् । तद् ध्वनयन्नाह *तदभ्युपति । युगपदनेकज्ञानानु. त्पत्त्या मनसो ऽणुरूपत्वम्, न विभुत्वम्, एवं च विभुयसंयोगान- ङ्गीकारेऽपि तदङ्गीकारे न बाधकम् , तस्याव्याप्यवृत्तित्वं तु बाह्यपदा- र्थसंयोगविषयमिति तदाकूतम् । *उपयन्निति । उत्पत्तिविनाशशा- लीत्यर्थः। *विकरोति-तन्नाशं बोधयति । मनसस्तत्वस्येष्टत्वादाह *आत्मेति । तथाच स्वसिद्धान्तस्यैव भङ्ग इति भावः । आकाशङ्ग- च्छतीत्यादिप्रयोगाय प्रसङ्गादाह *एवमिति । अन्तःकरणमनसो. रिवेत्यर्थः । सर्वत्र संमतिमाह *तदुक्तमिति | श्रीहर्षेणेत्यर्थः। *अव्याप्येति । अवच्छेदकभेदेन स्वाभावसमानाधिकरणत्वादि- त्यर्थः । *संमत इत्यनेन तस्य निर्विवादत्वं सूचितम् । तदेकेति यदेकदेशे ऽस्ति तदेकदेशरूपसंयोगीयदेशविषयकप्रश्ने इत्यर्थ एव पूर्वपक्षे ।प्रागुक्तस्थले ऽग्रिमा सिद्धान्तोक्तिरिति सूचयन् चूर्णि- कामाह *तस्मादिति । कथमिदं प्रकृतलाधकम् अत आह*निरंशेऽ पीति । नितरामित्यस्याग्रेऽन्वय इत्याह *सर्वथेति । एवेन प- रसंमतनित्यत्वनिरासः । ननु निरंशेऽप्यणौ कल्पित इति यथा- श्रुतप्रतीयमानार्थमपहाय किमर्थ संयोगेति शेषपूरणेन व्याख्यातम् , तथाच नष्टसिद्धिरताह *कणाद इति । पारिमाण्डल्यम्,परमाणुः। एवं च सर्वषां सावयवत्वेन प्रागुक्तसिद्धिः । एतेन तत्तद्दिगवच्छिन्न- परमाणुद्वयसंयोगात्सृष्टिरिति नैयायिकोक्तमपास्तम् । उक्तयुक्त आद्यसृष्टौ दिशोऽप्यभावाञ्चेति दिक् ॥ १४ ॥ यत्तु-आवरणभङ्गो विषयता वा फलम् । विषय. ताया यथा फलत्वं तथा कारके निरूपयिष्यामः । व्यापारस्तु ज्ञानमेवेति ।
५८०
टीकाद्वयोपेतायां लघुमञ्जूषायाम् ।
-
तन्न । कर्मस्थानियकत्वापत्तेः । तद्यवस्था चेत्थ-
मुक्ता हरिणा-
विशेषदर्शनं यत्र क्रिया तत्र व्यवस्थिता ।
क्रियाव्यवस्था त्वन्येषां शन्दैरेव प्रकल्पिता॥ इति ।
अस्यार्थः-यत्र कर्मणि कर्तरि वा क्रियाकृतो विशेषः
कश्चिद् दृश्यते तत्र क्रिया व्यवस्थितेति । उच्यते
इति शेषः ।
नन्वेवं पच्यादिकर्तर्यपि श्रमादिरूपविशेषस्य द-
शनादिदमयुक्तम् । किश्च चिन्तयति-पश्यतीत्यादीनां
कर्तृस्थभावकत्वानुपपत्तिः।कर्तरि क्रियाकृतविशेषा-
भावादतो ऽन्येषामिति । मते इति शेषः । यत्र कत्रे.
कर्मसाधारणधर्मरूपं फलं शब्देन प्रतिपाद्यते स कर्तृ-
स्थभावकः। यथा-पश्यति घटम् , ग्रामं गच्छति, हसति
इत्यादौ । तत्र विषयतासमवायाभ्यां ज्ञानमुभयनिष्ठं
संयोगश्चोभयनिष्ठः। एवं हासोऽपि।नच विषयताऽऽव.
रणभङ्गावेवम् । यत्र तु कत्रवृत्तिधर्मरूपं फलं स क-
मस्थभावकः, यथा-भिनत्तीत्यादौ । नहि विधाभ-
वनादि कथमपि कर्तृनिष्टं प्रतियन्तीति हेलाराजः ।
अत एव "कर्मवद्" इतिसूत्रे भाष्ये उक्तम्-
"नच कर्तृस्थभावकानां कर्मणि क्रियायाः प्रवृत्तिर-
स्ति" इति । तेषां धातूनां वाच्यायाः फलरूपक्रियायाः
कर्ममात्रे प्रवृत्तिर्नास्तीत्यर्थः। कारिकापूर्वार्धोक्तार्थ-
परत्वे ज्ञानादिकर्त्तर्यपि क्रियाकृतविशेषानुपलम्भेन
"चिन्तयति, गच्छति" इत्याद्युपक्रम्य " कर्तृस्थभाव-
कानाम्" इत्युक्त्यसङ्गतेः ॥ १५ ॥
धात्वर्थनिरूपणम् । ५८१ (कुं० टी०) *कर्मस्थक्रियकत्वापत्तेरिति । विषयतादिरू- पफलस्य कर्तृकर्मसाधारणत्वाभावादिति भावः । *यत्रेति । कणि कर्तरि वेत्यर्थः । *क्रियातत्रेति । यत्र कर्मणि क्रियाकृतो विशेषस्तत्र कर्मस्थक्रियत्वम् , यत्र कर्मकर्तरि तत्र कर्तृस्थक्रियत्व- मित्यर्थः । तत्र व्यवस्थिता-तनिष्ठा । *क्रियाव्यवस्थाविति । अन्येषां मते क्रियाव्यवस्था शब्देरेव प्रकाश्यते । अयं भावः—ये ऽपि कर्मस्थभावकाः पच्यादयः तत्रापि श्रमादिको विशेषः कर्तर्यपि दृश्यते। तथाच विशेषदर्शनं यत्रेति लक्षणेन नास्ति निर्वाहः । तस्माद्यत्र शब्दैरेव विशेषः तत्रैव क्रिया स्थिता । तद्यथा-घटं पश्यतीत्यादौ शब्दो दृशिक्रिया- विषयं किञ्चिद्विशेषविशिष्टं न अभिधत्ते इति तदशेन कर्तृस्थभा- वकत्वाद् 'दृश्यते स्वयमेव' इति न भवतीति । काष्ठं भिनत्तीत्यादौ तु भिदिक्रियाविषयं सविशेषमभिधत्ते इति तद्वशेन कर्मस्थ- भावकत्वाद् 'भिद्यते काष्ठं स्वयमेव' इति भवति । ग्रन्थकारस्तु कर्ममात्रनिष्ठफलकत्वं कर्मस्थक्रियत्वमित्यर्थ वक्ष्यति । यत्रेयस्य विवरणम् *कर्मणिकर्त्तरिवेति । तत्रे- त्यादेस्तनिष्ठेत्यर्थः । *विषयताऽऽवरणभङ्गावेवमिति । कर्तृकर्म- साधरणत्वाभावाद्विषयताऽऽवरणभङ्गयोः फलयोः कर्मस्थक्रिय- त्वापत्तिरित्यर्थः । *कारिकापूर्वार्देति । 'विशेषदर्शनं यत्र' इति- लक्षणस्याश्रयणे इत्यर्थः ॥ १५ ॥ (क० टी०) भूषणाद्युक्ति खण्डयति । *नन्वावरणभङ्गस्यो. कफललक्षणाक्रान्तत्वेन तत्त्वेऽपिकथं विषयतायास्तत्त्वं तदभावादत आह *विषयतायाश्चेति । व्यवस्थाचति चो ह्यर्थे । *अस्यार्थ १कर्मणः क्रियायाः कर्ता तस्मिन् ।
५८२ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । । । 1 इत्यस्य व्यवस्थितेतिघटकेतावन्वयः । यत्रेत्युभयार्थकमित्याह *कर्मणीति असिद्धान्तत्वादाह *इत्युच्यत इतीति । अत आह उत्तरार्द्ध तुरुतवलक्षण्येन सिद्धान्तत्वद्योतकः । शब्दैरेवेत्येवेन दर्शनव्यवच्छेदः । अत एवाह *मते इतीति । *यत्र- आख्याते। *स:-तद्घटको धातुः । एवमग्रेऽपि । *तत्र-तेषां मध्ये। *एवमिति । सम्बन्धभेदेनोभयनिष्ठ इत्यर्थः।*न च-नहि । *एवम्-उ- भयनिष्ठौ । *कथमपि-तदवच्छेदकसम्बन्धेन । नयन्तीति पाठः। अत्र भाष्यसंमतिमाह *अतएवेति । द्वितीया?क्तमतस्य सिद्धान्तत्वादे. वेत्यर्थः । *तेषाम्-कर्तृस्थभावकानाम् । अन्यपदार्थों धातुरित्याह *धातूनामिति । वाच्यवाचकभावः षष्टयर्थ इत्याह *वाच्यायाइति । क्रियायाः परिनिष्पत्तिरितिवत्तत्प्रयोग इत्याह *फलरूपेति । तस्या- पि तत्त्वं प्रागुपपादितम् । उक्तरीत्या तत्रापि सत्वाद्यथाश्रुतासङ्गतेः सर्व वाक्यमिति न्यायेनाह *कर्ममात्रे इति । कर्मण्येवेत्यर्थः । ननु य- थाश्रुतभाष्यस्य साधारणत्वेन पूर्वार्धोक्तार्थपरतैव कुतो न, अत आह *कारिकेति । ज्ञानादीत्यादिना मिदादिकर्तृसमुच्चयः । तस्मा- त्सोऽसिद्धान्त एवेति, तथाभूषणाद्युक्तमयुक्तमेवेति बोध्यम् ॥१५॥ एवमिच्छतेरिच्छानुकूलं ज्ञानमर्थः । अतीताना- गतयोरपि वुद्ध्युपारोहात् फलशालित्वम् । 'आत्मानं जानाति'इत्यादी अन्तःकरणावच्छिन्नः कर्ता, शरी- रावच्छिन्नं कर्मेति कर्मवत्-सूत्रे भाष्ये स्पष्टम् । ब्रह्म जानाति, सविता प्रकाशते, इत्यादी विषयोप- हितज्ञानस्य तदुपहितप्रकाशस्य च जन्यत्वात्कर्तृत्वं ब्रह्मसवित्रोः। पतिर्गमिवत् सकर्मकः । नरकं पतित इत्यादिप्रयो. गात्। विभागजन्यसंयोगमात्रपरत्वेऽकर्मकत्वं वाच्य- म् । कृष उत्पत्तिव्यधिकरणस्तदनुकूलव्यापारो ऽर्थः । यनमात्रार्थकत्वे ऽकर्मकत्वापत्तिः यतिवत् ।
धात्वर्थनिरूपणम् । ५८३ किश्च कर्मस्थभावकत्वाभावात् कर्मकर्तरि कर्म- वद्भावानापत्त्या यगाद्यनापत्तिः । कृतिरित्यादौ धातूनामनेकार्थत्वाद्यत्नमात्रे ऽपि वृत्तिः । यद्वा कृतियत्नशब्दयोरपि व्यापारसामान्यवाचि- तैव । अतएव "स्थालीस्थे यत्ने कथ्यमाने" इति "कारके" इति सूत्रे भाष्ये प्रयुक्तमित्यलम् ॥ १६ ॥ (कुं० टी०) ननु नित्यज्ञानरूपस्य ब्रह्मणो ज्ञानकर्तुत्वं कथमत आह *ब्रह्मजानातीति । ननु विततोष्ण्यप्रकाशस्यैव सवि- तपदार्थत्वात्तत्र कथं फलत्वम्,अत आह* तदुपहितेति । विषयोप- हितेयर्थः । 'भूमौ पतति' इत्यादौ भूमेः कर्मत्ववारणायाश्रयानव- च्छिन्नत्वं फले विशेषणमिति तार्किकमतं दूषयति *पतिरिति । कथं तर्हि पातयामास भूतले इत्यादिप्रयोग इत्यत आह *वि- भागजन्येति ॥ १६ ॥ (क० टी०) *एवमिति । जानातिवदित्यर्थः । नन्वतीतादौ तदाश्रयत्वस्य दुर्वचत्वेन कथं तत्त्वमत आह *अतीतेति । एवमेव घटं करोतीत्यादावपि बोध्यम्।सत्कार्यवादे तु न काचिदोषाशङ्कव । नन्वेवमप्यात्मन एव कथं तत्र तत्वमत आह *आत्मानमिति । *क- मेंतीति । तथाच कल्पितात्मभेदेन फलव्यापारयोर्मिन्ननिष्ठत्वाक्ष- त्या सकर्मकत्वादिति भावः । *कर्मवदिति । “द्वावात्मानौ शरीरा- स्माऽन्तरात्मा च । शरीरात्मा तत्कर्म करोति येनान्तरात्मा सु. खदुःखे अनुभवति, अन्तरात्मा तत्कर्म करोति येन शरीरात्मा सुख- दुःखे अनुभवति" इति हि तत्रोक्तम् । एतेन "आत्मानमात्मना हन्ति सृजत्यात्मानमात्मना" इत्यपि व्याख्यातम् । ननु विषयतासम्बन्धाव- च्छिन्नज्ञानरूपफलानुकूलात्ममनःसंयोगरूपव्यापारस्योक्तेषु सम्भवेन तदुपपत्तावपि ब्रह्म जानातीत्यादौ स्वस्वरूपातिरिक्तज्ञानाभावात्तस्य चाजन्यत्वादात्ममनःसंयोगस्य चाभावात्कथं तत्त्वमत आह *ब्रह्मे. , ५८४ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । ति । स्पष्टं चेदम् "ईक्षतेन शब्दम्" इतिसूत्रे भाष्यभामत्योः। एवमेव "स ऐक्षत"इत्यादरुपपत्तिः। तत्र प्रथमतोऽव्याकृतनामरूपेक्षणम्,ततः सामान्येन तद्याचिकीर्षा, ततो विशेषाकारेण सा, ततस्तदभिव्य- क्तिरिति सिद्धान्त इति बोध्यम् । उत्तरदेशसंयोगरूपफलभेदेन धात्वर्थभेदे ऽपि तद्यधिकरणत्वस्य तत्र तुल्यत्वेन सकर्मकत्वं तुल्यमित्याह *सकर्मक इति । "द्वितीयाधित" इतिसूत्रोदाहरणमा. ह *नरकमिति । वृक्षात्पर्ण पततीत्याद्यर्थमाह ऋविभागजन्य- संयोगमावेति । मात्रपदेन तदनुकूलव्यापारव्यवच्छेदः। तस्य तत्रोक्त फलत्वाभावेऽप्युक्तरीत्या क्रियात्वान्नानुपपत्तिः । एतेन व्यापार- मात्रपरत्वनाकर्मकत्वमित्यपास्तम् । जनिवन्नोत्पत्तिसमानाधिकरण. व्यापारार्थकत्वमिति सूचयन्नाह *उत्पत्तिव्यधीति । नैयायिका. दिमतं खण्डयति . *यत्नमात्रेति । तथा च घटं करोतीत्यादि न स्यात् । दोषान्तरमाह *किश्चेति । यगादीत्यादिना तङादि । नन्ववं कृतिरित्यत्र कथं यत्नप्रतीतिरत आह *कृतिरिति । आदिना क- रणादि । एतेन तत्र लक्षणेत्यपास्तम् । इदमपि पररीत्योक्तमिति सूचयन् सिद्धान्तमाह *यति । कृतियत्नशब्दयोरपीति पाठः । अन्यथा पाठे तुयत्नश्च कृतिशब्दश्चेतिद्वन्द्वो बोध्यः।*कथ्यमाने इति। सा कौति शेषः । जनेरुत्पत्तिसमानाधिकरणब्यापारोऽर्थः। तत्रो- त्पत्तिस्वरूपं प्रागुक्तमेव । संसादेर्जीवत्यादिवदकर्मकत्वं दधात्यादे- स्त्वतथात्वात्सकर्मकत्वं तदाह *इत्यलमिति ॥ १६ ॥ अनुभूयते सुखम्,साक्षाक्रियते गुरुरित्यादौ नि- पातानां द्योतकत्वेनानुभवसाक्षात्काररूपफलयोर्धा- त्वर्थत्वेन सकर्मकत्वम् । एतेन निपातस्यैव तदर्थकत्वमित्यपास्तम् । कर्मसंज्ञकार्यान्वय्यर्थकत्वं सकर्मकत्वमिति मते ऽपि फलाश्रयतया कर्मसंज्ञकस्य धात्वर्थफले एवान्व- यौचित्येन द्योतकत्वमेवावश्यकम् । द्योतकत्वं च समभिव्याहृतगतवृत्त्युद्धोधकत्वं प्रा- निपातार्थनिरूपणम् । घेण। कचित्तु क्रियाविशेषाक्षेपकत्वं तत् । यथा प्रादेशं विलिखतीत्यादौ विर्विमानक्रियाऽऽक्षेपकः । प्रादेशं विमाय लिखतीत्यर्थावगमात् । कचित्तु सम्बन्धपरिच्छेदकत्वम्, यथा-कर्मप्रवच- नीयानाम् । “अथ शब्दानुशासनम्" इत्यत्राथशब्द- स्य प्रारम्भक्रियाऽऽक्षेपकत्वं कैयटादावुक्तम् । एवमन्य- दप्यूह्यम् । विशिष्टस्य तु न धातुत्वम्, अपाठात्, अडाद्यव्य- वस्थापत्तेश्च । एतेनोपसर्गाणां द्योतकत्वं तदितरनिपातानां वा- चकत्वम् । साक्षात्प्रत्यक्षतुल्ययोरिति कोशात् । नमः- पदेन नमस्कारार्थत्वस्य लोकसिद्धत्वाच । सकर्मकन्वंच स्वस्वयुक्तनिपातान्यतरार्थफलव्यधिकरणव्यापारवा. चकत्वम् । कर्मत्वमपि एतादृशफलाश्रयत्वमेवेति न क- मणि लकारानुपपत्तिरित्यपास्तम् । वैषम्ये बीजा- भावात् । 'अनुभूयते' इत्यस्य 'साक्षात्कियते' इत्यनेन समत्वात् । कर्मसंज्ञकार्थान्वय्यर्थकत्वं तत्त्वमिति निष्कृष्टम- ते उक्तरीत्या द्योतकता विना गत्यभावाच । “ल: कर्मणि" इत्यादौ तेन रूपेण बोधस्य दुर्ल मत्वाच । अ- न्यतरत्वस्यातिगुरुत्वाद् दुर्जेयत्वाच ॥ १७ ॥ (कुं० टी०) *समभिव्याहृतेति । भूधातुगतानुभवबो- धकशक्तेरुद्बोधको ऽनुरित्यर्थः । *प्रादेशमिति । अत्र कारकवि- ५८६ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । भक्तर्लिनतीतिक्रियायोग्यताऽभावाद्विना मानक्रियाऽऽक्षिप्यते । * संबन्धेति । जपमनु पावर्षदित्यत्र । शैषिकी इयं विभक्तिर्न क्रि- यामाक्षिपति क्रियाकारकयोः परस्परमवच्छेद्यावच्छेदकभावात्, किन्तु जपवर्षणयोर्हेतुहेतुमद्भावं संवन्धम् । स नियतक्रियाजनित इत्यनुनाऽऽवेधते । *स्वस्वयुक्तेति । स्वस्य, स्वयुक्तनिपातस्य वा ऽर्थो यत् फलमित्यर्थः । *अन्यतरत्वस्येति । तद्भिन्नत्वे सति तद्भिन्नो यः तद्भिन्नत्वं हि तत् ।। १७ ॥ (क० टी०) एवं सामान्यतो विशेषतश्च केषांचित्तदर्थमर्थान् शुद्धान् निरूप्य मिश्रिते तद्विशेषे परप्राचीनोभयोक्तनिपातवि. षयकमतनिरालार्थमन्निरूपयति *अनुभूयते इत्यादि । वक्ष्य- माणसमत्वोपपत्तये आह *साक्षादिति । आदिना 'अलं क्रियते' इत्यादिपरिग्रहः । उभयसाधारण्येनाह *निपातानामिति । *साक्षा- कारोति । तदादीत्यर्थः । प्रकृतानुरोधेन तु तावन्मात्रमुक्तम् । *स- कर्मकत्वमिति । तथाच तद्पकमणि लादिसिद्धिः । *एतेन-एषां सकर्मकत्वं न स्यादनुभवादिफलस्य निपातार्थत्वे ऽपि इति शेषः । *धात्वर्थफले पवेति । प्रत्यासत्तेः । अन्यथा 'वनं त्यजति' इत्यादौ प्रामादिनाऽपि सकर्मकत्वापत्तरिति भावः । अथ प्रसङ्गात्तदर्थ तन्निरूपयति “द्योतकत्वं चेति । अत्र केचित्-तत्तद्धातोस्तत्र तत्रार्थ लक्षणा निपातास्तात्प- र्यग्राहकाः, एतदेव द्योतकत्वमित्याहुः । अन्येतु-अनेकार्थत्वाद्धातूनां तत्राप्यर्थे शक्तिः, उपसर्गसमभिव्या. हारस्तु ताशशक्त्युद्धोधकः । शक्युद्बोधकत्वमेव च द्योतकत्वम् । इदमेव शक्त्याधायकत्वपदेनोच्यते व्यतिसे इत्यादावित्याहुः । *वृत्त्यु- द्वोधेति। एतेन जयेक्लप्तशक्तेः प्रकर्षे शक्तो तेषां शक्त्यवच्छेदकत्वम्। शक्ततावच्छेदके विशेषणत्वमात्रमेव तत्त्वम् । एवञ्च प्रोत्तरजित्वेन प्रकर्षे शक्तिः।नच जिपूर्वप्रत्वेन शक्तिः । अधिककल्पनापत्तेः, आख्या. तार्थानन्वयप्रसङ्गाश्च । शक्त्यवच्छेदकत्वमेव च द्योतकत्वमिति-तद- थै विशेषमाह *प्रायेणेति । तत्फलमाह *कचिदिति । ननु 'लिखना- निपातार्थनिरूपणम् । ५८७ स्ते भूमिम्' इतिवत्र कुनो न,अन आह *प्रादेशमिति । *विमाय- परिच्छिद्य। वि-प्रादेशपदोपादानेन वक्तुस्तथैव तात्पर्यात् । अन्यथा तदुक्त्यसङ्गतिः स्पष्टैव । लिखधातो वत्यादिवदकर्मकत्वात् । अ- क्षररूपकर्मणो धात्वर्थेनोपसंग्रहात् । नचैवं कथं दृशान्ते इति वा- च्यम् । तत्र बहुदिनव्यापिमानवी प्रति सस्त्रीवाक्ये-त्वत्प्राणवद- स्माकं रक्षणीयोऽपि-भूमि नतु भूमौ,तेनाकासितकर्मणः अनुदेश्यत्वं ध्वन्यते । लिखन् नतु लिखतीति, तेन लिखनस्यायुद्धिपूर्वकत्वरूपम- प्राधान्यं ध्वन्यते । बहिर्नतु मध्ये, तेन नायकस्यात्युद्वेगः। आस्ते न त्वासीत्, तेनैवमवस्थानस्य प्रसादपर्यन्तता ध्वन्यते-इत्यर्थेन धातू नामनेकार्थतया रेखाऽनुकूलव्यापारार्थकत्वेनादोषात् । तृतीयमा- ह *क्वचित्त्विति । सम्बन्धविशेषेत्यर्थः । इदं च "कर्मप्रवचनीया" इत्यत्र भाप्ये स्पष्टम् । तत्र हि-"कर्म प्रोक्तवन्तः कर्मप्रवचनीयाः। के पुनस्तथा ये सम्प्रति क्रियान्नाहुः । वे अप्रयुज्यमानस्य क्रिया- माहुस्ते कर्मप्रवचनीया" इत्यन्वर्थसंशात्वमुक्तम् । तत्र हरिः- क्रियाया घोतको नायं सम्बन्धस्य न वाचकः । नापि क्रियापदाक्षेपी सम्बन्धस्य तु भेदकः ॥ इति । तथाच भाप्ये क्रियापदम् अग्रेतत्सम्बन्धपरामिति भावाद्वितीयस्यो- दाहरणान्तरमाह *अथोति । अनेकक्रियाविषयस्यापि शब्दानुशास- नस्य आरभ्यमाणताऽथशब्दसंनिधाने प्रतीयते इति कैयटः । आ- दिना मिश्राद्युक्त्यादि । सर्वथा तदनियमायाह *एवमिति । ननु लो- के तत्राविलक्षणत्वादाह * अडादीति । आदिना द्विवचनम् । नै. यायिकमतं खण्डयति *एतेनेति । इत्थं हि तदाकूतम्-प्रजयतीत्यादी प्रकृष्टजयादिर्नोप- सर्गवाच्यः । एवं हि तस्याप्रकृत्यर्थतया ख्यातार्थकृतावन- त्वयापत्तेः । "प्रत्ययानाम्" इति व्युत्पत्तेः । नच जयो धात्वर्थः, प्रकर्षः प्रशब्दार्थः । नामार्थधात्वर्थयोविभक्त्यर्थमद्वारी- कृत्य साक्षाद्भेदसम्बन्धेन नान्वय इति व्युत्पत्त्या तस्य तथाऽपि धा- त्वर्थे ऽन्वयासम्भवात् । नच विशिष्टजयो धात्वर्थः । अर्थान्तरस्ये. वोपसर्ग विनाऽप्येतदर्थप्रत्ययापत्तेः । तस्मात् 'जये क्लप्तशक्तरित्या- दितत्त्वम् इत्यन्तं' प्रागुक्तं बोध्यम् । " ५८८ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । अन्यथा तस्मा- किश्चानुभूयते सुखमित्यत्र तवाचकत्वे धातो. रकर्मकत्वात् कर्मणि लाधनापत्तिः । स्वार्थफलव्यधिकर- णव्यापारवाचकत्वस्यैव सकर्मकत्वाद् । यत्कि- ञ्चित्फलवैयधिकरण्यस्य सर्वत्र सत्वेनातिप्रसङ्गात् । दुपसणां द्योतकत्वम् , चादयस्तु वाचका एव । 'साक्षाक्रियते' इत्यादौ विपयतासम्बन्धेन प्रत्यक्षादिरूपतत्फलवाचकत्वस्य साक्षात्पदादेः सम्भवात् तदुत्पत्त्यनुकूलो व्यापारो धात्वर्थः । त- थाच 'लाक्षात् क्रियते गुरुः' इत्यादौ गुवभिन्नाश्रयनिष्ठो विपय- तासम्बन्धेन यः साक्षात्कारस्तदुत्पत्त्यनुकूलो व्यापार इत्यादि- बाँध इति । तदाह तदितरेति । तस्य तत्वे मानमाह *साक्षादिति । अलम्भूपणपर्याप्तशक्तिवारणवाचकः। उर!री चोररीच विस्तारेऽङ्गीकृतौ त्रयम् ॥- इत्यपि वोध्यम् । नन्वर्थविशेपान्तर्भावेणाकर्मकत्वादिविभजना- दत्र प्रत्यक्षाद्यर्थ कथं कर्मणि लः ? । फलण्यधिकरणव्यापारवाचित्व- मेव सकर्मकत्वमिति तु न युक्तम् । अनुपदं किश्चेत्यायुक्तदोषापत्तेः। तथाच तस्य धात्वर्थत्वादर्थादेषां द्योतकत्वमेवावश्यकमिति कथं तत्त्वमत आह *सकर्मकत्वञ्चेति । नन्वेवमप्यनतिप्रसङ्गाय धा- त्वर्थफलाश्रयत्वस्यैव कर्मत्वेनात्र तदभावात्कर्मत्वमेव कथमत आह *कर्मत्वमपीति । *एतादृशेति । स्वस्वयुक्तनिपा- तान्यतरार्थफलेत्यर्थः। एतेनेत्यस्यार्थमाह *वैषम्येइति । नामा- र्थधात्वर्थयोः" इत्यायुक्तरीत्या तत्र तथात्वे अत्रापि तथा। एतदनुरो- धेन तव्युत्पत्तनिपातातिरिक्तविषयत्वम् । तत्राऽपि वाचकत्वमेवो- चितम् । स्तोकं पचतीतितुल्यता तु द्योतकत्वं विनाऽनुपपन्नेति भावः, तदाह * अनुभूयते इति । सिद्धान्तमतेन दोपमाह *कर्मेति । *बोधस्यति । ततः शब्दमर्यादया प्रतीतेरिति भावः । अतिगुरु- त्वं दुर्जेयत्वे हेतुः । तस्य च भेदद्घटितत्वेनैतदुभयभिन्नानेकज्ञा- नसापेक्षत्वेन, यावतस्तस्य ज्ञानासम्भवेन च तत्त्वात्तत्वाचे- त्यर्थः ॥ १७॥ यत्तु-उपसर्गों द्योतका उपसर्गत्वादित्यनुमानेन तस्य निपातार्थनिरूपणम् । ५८९ परेणोपसर्गाणां तत्त्वसाधने, शक्तिसंबन्धेन निपातप- दवत्त्वरूपम खण्डं बा निपातत्वं पक्षतावच्छेदकीकृत्य निपातत्वेनैव हेतुना वाचकत्वाभावसाधनं युक्तम्, प्रमाणानां सामान्ये पक्षपातादिति । तन्न । ततो ऽपि सामान्यधर्माव्ययत्वावच्छेदेनैव तसिद्ध्यापत्तेः। निपातत्वं द्योतकतामहे ऽवच्छेदकमिति तु न युक्तम् । तत्तदर्थनिरूपितद्योतकत्वस्य तत्तन्निपातवृत्तितया तद्वृत्त्यसाधारणधर्मस्यावच्छेदकत्वावश्यकतया सा- मान्यधर्मस्यावच्छेदकत्वे मानाभावात् । निपातत्वाद्य- जानतोपि बोधाच्च । यदपि निपातानां वाचकत्वे 'शोभन: समुच्चय' इतिवत् 'शोभन: च' इत्यस्यापत्तिः। 'घटस्य समुच्चय' इत्यस्य स्थाने 'घटस्य च' इत्यस्याप्यापत्तिरिति । तन्न । शब्दशक्तिस्वाभाव्येन नित्यपरतन्त्रतया निपातैः स्वार्थस्य विशेषणत्वेनैव बोधेन विशेषणा- न्वयाप्रसङ्गात्, षष्टयप्राप्तेश्च । किश्च 'घटं पटं च' इत्यादी घटमित्यस्य क्रियाया- मेवान्वयः । अत एव ततो द्वितीया । 'घटं समुच्चयव- न्तं पटं पश्य' इति बोधः । तत्र समुच्चयस्य प्रतियोग्याकाङ्क्षायां सन्निहित. त्वात् घटस्य प्रतियोगित्वम्। पटेतु समुच्चयस्य भेदेना- न्वयो नतु पटस्य समुच्चये इति क षष्ठयापादनम् ।
५९० टीकाद्वयोपेतायां लघुमञ्जूषायाम् । नामार्थयोरभेदान्वयव्युत्पत्तिस्तु निपातातिरिक्त- विषया। वस्तुतो ऽव्ययेष्ठ नामत्वमेव नेत्यग्रे वक्ष्यामः । अत एव समुच्चेयानन्तरं चादिप्रयोग इति वृद्धाः। यद्वा समुचितश्चार्थः । स्वभावतश्चाद्युपस्थाप्यस्था- सत्वभूतत्वम्। तदुक्तम्- समुचिताभिधाने च व्यतिरेको न विद्यते । इति । धयंशे शक्तिकल्पनागौरवं प्रामाणिकत्वान्न दो- षाय १८ ॥ (कुं० टी०) * उपसर्गत्वादिति । नन्वेवं पक्षतावच्छेदकहे- त्वोरैक्ये सिद्धसाधनमिति चेत्।सत्यम् । संज्ञारूपोपसर्गत्वं पक्षताऽ- वच्छेदकम् द्योतकोपसर्गसजातीयत्वं च हेतुः।*परेण-तार्किकेण। *तत्त्वसाधने-द्योतकत्वसाधने । *वाचकत्वाभावेति । अनर्थ- कनिपातानां द्योतकत्वाभावादिदमुक्तम् । *तत्तदर्थेति । नि- पातविशेषेणार्थविशेषस्यैव द्योतनान सामान्यधर्मोऽवच्छेदक इत्यर्थः । *तवृत्तीति । एकैकमन्यत्रावृत्तीत्यर्थः । * शब्दश- क्तीति । यथाहि एकैव पचिक्रिया पाक इत्यनेन सत्त्वभूता ऽभिधीयते, पचतीत्यनेन चासत्त्वभूता एवं शब्दशक्तिस्वभावा- निपातानामपि नित्यपरतन्त्रत्वमेवेति न षष्ठी, नापि विशेष- णयोग इत्यर्थः। *नामत्वमेवनेति । "चत्वारि पदजातानि"इति निरुक्ते नामनिपातयोः पृथगुपादानात् । तथाच नामार्थयोरभेद इत्यादेर्नायं विषयः । * अत एव-घटमित्यादेः पश्येत्यादावन्व- यादेव । चादीनां समुच्चयाद्यर्थत्वे एव षष्ठयापत्तिः। सा तु ना- निपातार्थनिरूपणम् । ५९१ स्तीत्याह * यति । ननु समुच्चिताभिधायकत्वे लिङ्गसंख्या- योगापतिरत आह *स्वभावत इति । अतएव 'शोभनश्च वृक्ष' इत्यपि न प्रयोगः । ननु समुचिताभिधाने द्रव्यवाचित्वा- निपातसंज्ञानापत्तिरिति चेन । असत्त्वभूतस्यैवाभिधानात् । *व्यतिरेकः-पृथगर्थोपस्थापकता । तेन न पूर्वोक्तदोषः । त- दुक्तं हरिणा- समुचिताभिधाने ऽपि विशिष्टार्थाभिधायिनाम् । गुणः पदानां सम्बन्धः परतन्त्रास्तु चादयः ॥ इति । गुणैर्विशपणैः पदानां विशिष्टार्थाभिधायिनां सम्बन्धो भवति, निपातानां तु शब्दशक्तिस्वाभाव्यात्परतन्त्रत्वमेवेति- तदर्थः ॥ १८ ॥ (क० टी० ) कौस्तुभाशुक्ति खण्डयति यत्त्विति । *उपसर्ग- स्तत्पदवाच्यः । नातो हेतुपक्षताऽवच्छेदकयोरैक्यम् । *अनुमानेन । व्यतिरोकिणा । *परण-नयायकेन । साधने इत्यस्य-दोषादुक्ते इति शेषः । चतुष्टयीपक्षे आह * शक्तीति । त्रयीपक्षे आह *अख- ण्डं वेति । उपाधिरूपं जातिरूपं वेत्यर्थकत्वे सति चादिगणादिप- ठितत्वरूपं सखण्डमपि सम्भवति, तथाऽपि तस्य चादिगणादि- भेदेनाननुगतत्वमिति तत्त्यागः । *निपातत्वेनैव-निपातपदवाच्यत्वे- नैव । एतेन सामान्यावच्छेदेन तत्साधकहेतोरुभयवादिसंमतस्या- भावादिदमयुक्तमित्यपास्तम् । अत्र पक्षे तद्वत् द्योतकत्वं न साध्यम्, अनर्थकनिपातेषु तादृशनिपातत्ववत्सु द्योतकत्वाभावेन व्यभिचारादत आह *वाचकत्वाभावेति । एवञ्च सम्भवे द्योतकत्व- मार्थसमाजग्रस्तमिति भावः । युक्तत्वे हेतुमाह प्रमाणानामिति । प्रमाकरणानां व्यापकधर्मग्रहादित्यर्थः । व्याप्यत्वेन गृहीतधर्मो- पस्थितौ व्यापकधर्मोपस्थितेरावश्यकत्वादिति भावः । णस्य सामान्यावच्छेदेन प्रवृत्तौ बाधकामावसहकृतं लाघवं बीजमिति तत्त्वम् । *तत्सिद्ध्यापत्तेरिति । नचेष्टापत्तिः । स्वरादीना- मपि स्वातन्त्र्येण प्रयोगानापत्तेः । अतएव अन्यथा भूषणाधुक्तिख- प्रमा- ५९२ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । ण्डयति *निपातत्वमिति । तद्रूपमित्यर्थः। व्यापकत्वेन उक्तन्यायादि- ति भावः। एवञ्च नोक्तदोष इति तात्पर्यम् । सामान्यग्रहस्यानुपयोगा- दाह *तत्तदिति । *तद्वत्तीति । तत्तवृत्तीत्यर्थः। ननु “यद्विशेपयोः" इतिन्यायेन तस्याप्युपयोग एव, अत आह *निपातत्वादीति । तथा चासति बाधके तथाऽङ्गीकारेपि प्रकृते वाधकसत्त्वान्न तथेति भावः। कौस्तुभायुक्तिमेवान्यां खण्डयति *यदपीति । धातुघायुपस्थाप्य- क्रिययोरिव. रामावित्यादौ द्वित्वादेः परविशेपणत्वे एव साधकप्र- त्ययानामितिव्युत्पत्तिवदत्र गमकाभावात्स्वातन्त्र्येण पदादुपस्थि- तिसत्त्वादिदं दुर्वारमितिभूषणासाङ्गत्यायाह *शब्दशक्तीति । "प. दार्थः” इति न्यायात, तस्य तन्त्र प्रतियोगितयाऽनन्वयाश्चेति भावः । षष्ठीप्राप्तिमभ्युपेत्यान्त्ये वारितम् । वस्तुतः सैव नेत्याह *किश्चेति । *द्वितीया-द्वितीयादि । अनतिप्रसङ्गायार्थिका- र्थमाह *तति । विशेषणे इत्यर्थः । *घटस्य-तस्यैव । एवं च तत्र तस्य शाब्दान्वयाभावान्न तदापत्तिरिति भावः। तदाह *क्वेति । 'नन्वेवमपि “नामार्थयोः” इति प्राचां मतमभ्युपेत्येदम् । वस्तुतो ऽयुक्तमेतदित्याह *वस्तुत इति । *अग्रे-अत्रैव प्रकरणे ऽनुपदमेव । *अत एव-तेषां नित्यपरतन्त्रतया विशेषणत्वेन घटादे- स्तत्र शाब्दान्वयाभावेन तस्यैव तत्र शाव्दान्वयेन । द्वन्द्वादौ तु मिथ:- समुच्चयार्थमनेकचप्रयोग इति बोध्यम् । एतेन निपातानां वाचकत्वे. उभेदान्वयापत्तिनिपातातिरिक्तत्वविशेषणदाने मानाभावश्चेति कौ- स्तुभभूषणायुक्तदोषो ऽपि परास्तः । शब्दशक्तिस्वभावादराविशे- षात् । पररीत्या परमतेनैव तदभावप्रयुक्तलाघवादाह *यवति । 'स- मुञ्चितः स घट' इत्यभेदेनवान्वयान भेदनिवन्धना षष्ठी, नापि तद्वि- शेषणांशदानम्, नापि शोभनाद्यन्वयः,एकदेशत्वादिति भावः। नन्वे. वं सत्वार्थकत्वाद्विभक्तिश्रवणापत्तिरत आह *स्वभावतइति । शब्दश- क्तीत्यादिः। *चादीति । समुश्चिनानभिधाने निपातेभ्यो विभक्तिः रेव न स्यात्तावत्तेपामर्थवत्वाभावेन प्रातिपदिकसंज्ञाया अभावात् । किञ्च नसमासादावुत्तरपदार्थः प्रधानमिति व्यवस्था न स्यात् , पूर्वपदस्य नसादेरनर्थकत्वादिति चाद्युपस्थाप्यत्वं तस्य आवश्यक किन्तु तस्य तत्रासत्वभूतत्वम् । समुञ्चितपदोपस्थाप्यत्वे तु तस्य सत्त्वभूतत्वमेव । अत्र हरिसंमतिमाह *तदुक्तमिति। *समुच्चितेति ।
निपातार्थनिरूपणम् । भावः -- इदं प्रत्ययो वाचकत्वे ऽपि केवलो न प्रयुज्यते । इत्यस्यादिः । यद्यपि ' प्रत्ययपरत्ववदेषां परत्वं न स्मर्यते. तद्वाध्यार्थस्य विना सम्बन्धिनमनन्वयात्केवलाप्रयोगः, चोऽप्यर्थे । तेन पूर्वमनसामुच्चयः । अतएव तेनैवोक्तम्- सनुचिताभिधानेऽपि विशिष्टार्थाभिधायिनाम् । गुणः पदानां सम्बन्धः परतन्त्रास्तु चादयः ॥ इति, तथाऽपि विशपतस्तयोरुपस्थिति विना प्रतीतेरपर्यवसाना- नित्यपरतन्त्रतेवति न भिन्नप्रयोग इति पूर्वमतऽप्यावश्यकन् । एवञ्च पूर्वत्र स्वभावद्वयाश्रयणनतु एकस्यै- घेति लाघवतरमिति गूढाकूतम् । *धर्म्यशे-समुञ्चिते । घट स्यचाते विना विभक्त्यर्थ तयोर्भदनान्वयायोगादन्यथाऽतिग्रसेगा- पत्तेरन्यथाऽन्वयायोगादिति भावः । घटादेर्विशिष्टशक्तिवदिति भावः ॥ १८ ॥ निपातानामर्थवत्त्वमपि द्योत्थार्थमादायैव । श- क्तिलक्षणाद्योतकताऽन्यतमसंबन्धेन बोधकत्वस्यैका- थैवत्वात् । नममासे उत्तरपदार्थप्राधान्यमपि द्योत्यार्थाप- क्षयैव । प्रतिष्ठत इत्यत्र तिष्ठतिरेव धातूनामनेकार्थत्वा- द्गतिवाची । प्रशब्दस्तु तदर्थकत्वस्य, तहतादित्वस्थ च बोधक इनि भूवादिनूचे भाष्ये स्पष्टम् । यद्यपि लोके विशिष्टादेव विशिष्टबोध इति विशिष्ट एवं क्रियावाची, तथाप्यडादिव्यवस्थार्थ धातूपसर्गयोः पृथक् कल्पनम् । एवञ्चान्तरङ्ग उपसर्गयोगः । अत एव 'उपा- स्यते गुरुः' इति कर्मणि लकारः । एतन्मूलक एव "पूर्व धातुरुपसर्गेण युज्यते” इति प्रवादः । बायश्च टीकाद्वयोपेतायां लघुमजूषायाम् । साधनयोगः । अत एव संचस्कार इत्यादौ पूर्व सुट्, ततः साधनप्रयुक्तकार्यम् । अध्ययनमित्यादौ 'प्रत्यय इत्यादिनिर्देशेन कचित्प्रत्ययनिमित्तकार्यात् प्राग् उ- पसर्गनिमित्तकार्याप्रवृत्तेापनेनादोषः । एतन्मूल. कमेव पठ्यते "पूर्व धातुः साधनेन युज्यते पश्चादुप- सर्गेणेति" इति नव्याः ॥ १९ ॥ ( कुं० टी० ) *साधनयोगइति । साध्यतेऽनेनेति साधनं कारकम् । तद्वाची च प्रत्ययः साधनशब्देनोच्यते । *अध्ययन- मिति । अत्र धातूपमर्गयोः सवर्णदीर्घः प्राप्तः ॥ १९ ॥ (क० टी०) एवं वाचकत्वे तेषां परोक्तदूषणानि संखण्ड्य प्रागु- काक्त्याऽऽवश्यके तेषां द्योतकत्वे सिद्धान्तमादाय परोक्तदूपणद्वय- मुद्धरति *निपातानामित्यादि । *आदायवेत्यस्य वोध्यमिति शेषः । एतेन साक्षादित्याद्यनुशासनादेरप्येवमेवोपपत्तिरिति सूचितम् । ननु शक्तिलक्षणाऽन्यतररूपवृत्त्यर्थवोधजनकत्वरूपार्थवत्त्वम् अ- र्थवत्-सूत्रे ऽनतिप्रसङ्गाय निविष्टमिति कथं सतो निर्वाहः । यत्तु भूषणादौ-संख्यान्वयाभावाद्वा एकाद्विवचनन्यायाद्वा, तथाऽपि लुकाऽदोषाद्वा, राम इत्यादे राजपुरुषादिवत्समासत्वाद्वा, यद्यपि नातिप्रसङ्गः तथापि आये निपातानामपि संख्याद्यभावा- द्विभक्तिर्न स्याद् औसर्गिकैकवचनाङ्गीकारे राम इत्यादावपि तत- स्तदापत्तिः, एकाद्विर्वचनन्यायस्यापि मायं विषयः, समुदा- यकार्येणावयवानामननुग्रहाद्, एवं च तथा कैयटायुक्तं चिन्त्यम्; तृतीये प्रातिपदिकानवयवत्वाल्लुको ऽप्राप्त्या विभक्तिश्रवणाप- त्तिर्धनमित्यादौ जश्त्वनलोपापत्तिरिति । अतश्चतुर्थपक्षोऽप्यसङ्ग- तः । तस्मात् “अव्ययादाप्सुपः" इति शापकादेव न विभक्त्युत्पत्ति- रिति केचित् । "निपातस्य" इति वार्त्तिकादित्यन्ये । तस्य "अधिपरी" इति झापकेन प्रत्याख्यानपक्षे तस्य सामान्यापेक्षत्वाश्रयणेन सि- द्धिरित्यपरे अत एव । निपातार्थनिरूपणम् । ५९५ "कृत्तद्धित" इत्यत्रानुक्तसमुच्चयार्थचेन तेषां संग्रह इति दी. क्षिता इति तत्त्वमित्याहुः, तन्न । औत्सर्गिकैकवचनस्य गमके सत्येवाङ्गीकारात् । जश्त्वाद्यापत्तिर्न । "सुपो धातु” इति लुको धातुसाहचर्येण सुव- न्यानेकघटितप्रातिपदिकावयवस्यैव सुपोऽङ्गीकारात् । वार्तिकस्य प्रत्याख्यानात् । तस्य सामान्यापेक्षवे मानाभावात् । चकारस्थान- र्थकसंग्राहकत्वस्य भाप्यादावुक्तत्वाच्च । तदेतद् ध्वनयन्नाह *शक्तीति । ताहशार्थवत्त्वस्यैव तत्सूत्रे निविष्टत्वादित्यर्थः । एतदर्थमेव व्यअनावृत्तिस्वीकार इत्युक्तं प्राक् । एतेन विषयतापर्याप्त्यधिकरणत्वस्य निवेशेन तत्रादोषः। वि. शिष्टे एव तत्सत्त्वात् । प्रकृते तु प्रादेरेव तात्पर्यग्राहकत्वादुक्तरीत्या. ऽर्थधीप्रयोजकतया तत्प्रयोजकधीविषयतापर्याप्त्यधिकरणत्वस्यैव सत्वेनादोष इत्यपास्तम् । क्लिष्टत्वात्, व्यतिलुनत इत्यादौ दोषापत्तेश्च । नन्वेवं प्रातिपदिकत्वेऽपि संख्याद्यभावात्कथं विभक्तिरिति चेन्न। "अव्ययादान्" इति शापकात् "तद्धितश्च" इति सूत्रभाष्योक्त्या सर्वविभक्त्येकवचनाङ्गीकारात् । एवमुपसर्गान्यनिपातानां द्योतकत्व वाचकत्वे च व्यवस्थितत्वे. नोक्ते ऽप्युपसर्गाणां सर्वथा द्योतकत्वमेव, अन्यथा प्रतिष्ठत इत्यत्र गमनत्वेन रूपेण बोधानापत्तः। टाधातोर्गतिनिवृत्त्यर्थकत्वे ऽभावस्य प्रशब्दार्थत्वे गत्यभावो नास्तीत्येव प्रत्ययापत्तेः । न चात्र तथा- वोधसम्भावनाऽपि गत्यभावसम्बन्धित्वनानुपस्थितेः, अन्यथा घट अभाव इत्यत्रापि तथावोधापत्तेः। नसमभिव्याहारे चानादिसिद्ध- तथाव्युत्पत्तिस्वीकारान दोषः । नापि तथाबोधानुभवः । अतस्तेषां द्योतकत्वमेव । तदेतद ध्वनयन् तत्र भाष्यसंमतिमण्याह प्रतिष्ठत इति । इत्यत्रापीत्यर्थः। *तदर्थति । धातोरित्यादिः । तद्गतादित्वे- ति । गतिनिष्ठादित्वेत्यर्थः । आदिकर्मेति यावत् । *भूवादीति । तत्रहि "क्रियावचने धातावुपसर्गप्रत्यययोः प्रतिषेधः " इति वार्तिकखण्डनावसरे "प्रकृतिः प्रकृत्यर्थे वर्तते प्रत्ययः प्रत्ययार्थे” इति प्रतिपाद्य, "क्रियाविशेषक उपसर्गः, पंचती- ५९६ टीकाद्वयोपेतायां लघुमञ्जूपायाम् । त्यत्र क्रिया गम्यते, तां प्रो विशिनष्टि" इत्युक्त्वा, तत्र धातोरुप- सर्गव्यसिचारवदध्येतीत्यादौ उपसर्गस्य धातुव्यभिचारेण नि- वहिं कृत्वा, "इह तर्हि व्यक्तमर्थान्तरं गम्यते, तिष्टति प्रतिष्ठते" इति, आद्ये ब्रजिक्रियानिवृत्तिरन्त्ये ब्रजिक्रिया अतः “मन्यामहे उपसर्गकृतमेतद् येनात्र ब्रजिक्रिया गम्यत इति । प्रोऽयं दृटापचारः आदिकर्मणि वर्तते । नचदं नास्ति वह्वर्था अपि धातवो भवन्ति इति । वयादों यथेदं तथाऽत्रापि "तिष्ठतिरेव वजिकियां तन्निवृत्ति चाह"इ. त्युक्तम् । प्रोऽयमिति, अन्यत्रापि प्रयोगात् । ततश्चान्यत्रास्य यो ऽथों द्योत्यः ल एवेहापीत्यनुमीयते । अनेकार्थत्वाद्धातूनां तिष्ठतिरेव गतिगचीति निर्णय इति कैयटः । विशेषं वक्तुं तत्र प्रागुक्तमपि शङ्कापूर्व भाष्यतात्पर्यत्वेनाह *यद्यपीत्यादि । *पृथगिति । तदुक्तं हरिणा- अडादीनां व्यवस्थार्थ पृथक्त्वेन प्रकल्पनम् । धातूंपसंयोः शास्त्रे धातुरेव तु तादृशः ॥ इति । तादृशोऽखण्डः । तदेवाह *एवं चेति । लोके विशिष्टादेव वि- शिष्टचोधेन भेदस्य कार्यार्थ कल्पितत्वेन चेत्यर्थः । अतएव-अन्त- रङ्गत्वेन तदर्थकत्वादेव । *इतीति । इत्यादौ । तेनानुभूयते सुखमि- त्यादिपरिग्रहः । एतेन परिभाषेयं स्वतन्त्रेति सीरदेवाझुक्तिनिरा- सः। *प्रवाद इत्यनेनानार्षत्वं सूचितम् । उपस्थितिक्रमादेव तत्त्व- मित्याह *वाह्यश्चेति । *अतएव-तयोर्यथाक्रममन्तरङ्गत्ववहिरङ्गत्वा. भ्यामेवा एवञ्च "अभ्यासव्यवायेऽपि"इति न कार्यमिति भावः। नन्वे- वमध्ययनमित्याद्यसिद्धिः । पूर्वमुपसर्गयोगे तन्निमित्तदीर्घः ततो ल्युटि गुणे अधयनमित्यापत्तेरत आह *अध्ययनमिति । आदिना "णेरध्ययने" इत्यादिपरिग्रहः । अनतिप्रसङ्गायाह *क्वचिदिति । एवः प्राग्वत् । एवंच द्योतकत्वमपि प्रक्रियादशायां तन्निर्वाहार्थ का. ल्पनिकमेवेति तत्तात्पर्यम् । *नव्याः-दीक्षितादयः ॥ १९ ॥ वस्तुतस्तु “सुट् कात्पूर्वः" "गतिगतौ"इत्यत्र भाष्ये उक्तम्-धातूपसर्गयोः कार्यमन्तरङ्गम् । कुत एतत् । पूर्व हि धातुः उपसर्गेण युज्यते पश्चात्साधनेनेति"।
निपातार्थनिरूपणम् । उपसर्गेण तत्संज्ञकेन, साधनेन तत्प्रयुक्तकार्येणेति तदर्थः । इतर आह-"नैतत्सारम् । पूर्व हि धातुः मा- धनेन युज्यते पश्चादुपसर्गेण । साधनं हि क्रियां नि- वर्त्तयाते तामुपसर्गो विशिनष्टि" इति । साधनेन तत्प्रयुक्तकार्येण । हि यतः सा- धनं क्रियान्निवर्तयति साध्यत्ववैशिष्टयेन बोध- यति, अतः पूर्व तत्प्रयुक्तकार्यमिति भावः । तदुक्तं भूवादिसूत्रे कैयटेन--'साधनसम्बन्धेनाव- सीयमानसाध्यरूपा' इति । निश्चीयमानसाध्यते- त्यर्थः । ताम्, तेनरूपेण वुद्धाम् । उपसर्गः, तत्सं- ज्ञकः शब्दः। विशिनाष्टि, स्वद्योत्यविशेषणवैशिष्टयेन बोधयति । साध्यत्वेन ज्ञानं विना क्रियायोगे वि- हितोपसर्गसंज्ञकशब्दयोगाज्ञानादिति तदर्थः । क्रि- यायोगश्च क्रियाधिशेषणीभूतार्थद्योतकत्वमेव । इतर आह "सत्यमेवमेतत् । यस्त्वसौ धातू- पसर्गयोरभिसम्बन्धस्तमभ्यन्तरं कृत्वा धातुः साधनेन युज्यते । अवश्यं च एतदेवं विज्ञेयम् । यो हि मन्यते पूर्व धातुः साधनेन युज्यते पश्चा- दुपसर्गेणेति, तस्य 'आस्यते गुरुणा' इत्यकर्मकः 'उपास्यते गुरु' इति केन सकर्मकः स्याद्" इति । एवमेतत् , 'पूर्वं धातुः साधनेन युज्यते' इति यदुक्तं तत्सत्यमेव। तत्सम्बन्धं विना साध्यत्वेन प्रतीतेरपर्यवसानात् । कथं तर्हि उपसर्गकार्यस्या- न्तरङ्गत्वं तत्राह-“यस्त्वसौ" इति । यस्तव धातू- ५९८ टीकाद्वयोपेतायां लघुमञ्जूषायाम् । पसर्गसम्बन्धकृतत्वेनाभिमतोऽर्थस्तमुपसर्गसंज्ञकस- म्बन्धमन्तरेणापि धातुरभ्यन्तरं कृत्वाऽर्थत्वेनाङ्गीकृ- त्य साधनेन युज्यत इत्यर्थः । अयं भावः-वक्ता धातोरेव विशिष्टमर्थ बुद्धौ कृत्वा साधनसम्बन्धकार्यप्रत्यययोगेन तत्र साध्य त्वावगतौ श्रोतृबोधाय क्रियायोगनिमित्तोपसर्गसं- ज्ञकशब्दयोगं करोति । अन्यथा केवलधातुतः सर्व- त्राप्रतीयमानतया श्रोतुस्तद्वोधो न स्यादिति । तदुक्तं "भूवादयः"इति सूत्रे कैयटेन-अनेकार्थत्वा- द्धातूनां विशिष्टो ऽर्थों धातोरेवं, उपसर्गस्तु बोद्धारं प्रति तदर्थद्योतक इति । एवञ्च पूर्वमुपसर्गेण योगो नाम तदर्थसम्बन्धः तत उपसर्गयोगात्पूर्व साधनकार्ययोगः ततः उपस. गंशब्दयोग इति परिभाषाद्वयार्थः । तदुक्तं हरिणा- धातोः साधनयोगस्य भाविनः प्रक्रमाद् यथा । धातुत्वं कर्मभावश्च तथाऽन्यदपि दृश्यताम् ॥ वुद्धिस्थादभिसम्बन्धात्तथा धातूपसर्गयोः । अभ्यन्तरीकृतो भेदः पदकाले प्रकाशते ॥ इति । अस्थार्थः-यथा भाविसाधनसम्बन्धाश्रयणेन क्रियावाचित्वमाश्रित्य धातुसंज्ञोच्यते, यथा च भा वीषिकर्मत्वमाश्रित्योपक्रमे एवेषिकर्मत्वमुक्तम् , तथा भाव्युपसर्गसंबन्धादुपक्रम एव विशिष्टक्रियावचनत्वं दृश्यताम् । धातूपसर्गयोः सम्बन्धं बुद्धिविषयीकृत्यो- अर्थानुकरणमेतद् ।
निपातार्थनिरूपणम् । ५९९ पसर्गार्थकृतो विशेषो धातुनैवाभ्यन्तरीकृतः पदप्रयो- गकाले उपसर्गसम्बन्धे सति प्रकाशते । श्रोतॄणा- मिति शषः। तथा- प्रयोगार्हे घु सिद्धः सन् भेत्तव्यो ऽर्थों विशेषणैः । प्राक् तु साधनसम्बन्धात् क्रिया नैवोपजायते॥इतिच। प्रयोगाईत्वं च प्रत्ययोत्पत्त्यनन्तरम् । तेषु श- ब्देषु सिद्धः सन्नेव विशेषणैर्भेत्तव्यः विशेष्यः। श्रो- तृबोधार्थमिति शेषः ॥ २० ॥ (कुं० टी०) * पूर्व हि धातुरुपसर्गेणेति । विशिष्टा हि क्रिया 'उपास्यते गुरुः' इत्यादौ कार्यलाभाय सम्बध्यते । एव- श्चान्तरङ्गत्वात्सुटि सञ्चस्करतुरित्यत्र गुणः सिद्धः इति भावः । *तत्संज्ञकेनेति । उपसर्गार्थमभ्यन्तरं कृत्वा पूर्व साधनेन योग इत्यस्याग्रे व्याख्यास्यमानतया इहोपसर्गसं- ज्ञकशब्दयोग एव विवक्षित इति भावः । ननु "विष्वग्दे. वयोः" इत्यत्राप्रत्ययग्रहणेन तदादिविधेापितत्वात् कथं धातूपसर्गकार्यस्यान्तरङ्गत्वमिति अत आह नैतत्सारमिति । साधनसम्भवाद्धि धात्वर्थस्य साध्यत्वं प्रतीयते, क्रियायामेव चोपसर्गो विशेष द्योतयति । *साध्यत्ववैशिष्टयेनेति । साध्यत्व- स्य साधननिरूप्यत्वात् । *सत्यमेतदिति । उपसर्गयोगात्पूर्व साधनयोग इति सत्यम्, परं तु धातूपसर्गसम्बन्धकृतो योऽर्थस्त- मभ्यन्तरं कृत्वा स्ववोध्यं कृत्वा साधनयोगे क्रियात्वावगतो उपसर्गयोगः। नहि केवलधातुना सोऽर्थः प्रतीयते । * पूर्वमुप. सर्गेणेति । उपसार्थसंबन्धं विना उपसर्गार्थान्तर्भावेण धातोः टीकाद्वयोपेतायां लघुमञ्जूपायाम् । । सकर्मकत्वासम्भवादिति भावः । *तदर्थसंवन्धइति । उपसर्गा- र्थसंवन्धात् पूर्व बुद्धिस्थ इत्यर्थः। *परिभाषाद्वयेति । “पूर्व धा- रुपसर्गेण" इति “पूर्व धातुः साधनेन" इति च । *धातोरिति । क्रियावाचिनो धातव इत्युक्तं साधनसंवन्धाच्च प्राक् क्रियानिवृत्त- रसम्भवात् यथा भाविसाधनसंवन्धाश्रयेणोपक्रमे एव धातु- संज्ञा, यथा वा "धातोः कर्मण" इत्यत्र भावीपिकत्वमुक्तम्, तथा भाविसंबन्धादुपक्रमे एव विशिष्टक्रियावचनत्वं तदाह *अन्य- दपीति । दान्तिके योजयति *तथेति । भेदो विशेषः । पद- प्रयोगकाले-प्रतिष्ठते इसादिप्रयोगकाले । “पूर्व धातुः साधनेन" इति पक्षणाह प्रयोगाष्विति । प्रयोगार्हेषु धातुपु प्रसिद्धो- ऽर्थो विशेष्यो भवत्युपसर्गादिभिः ॥ २० ॥ (क० टी० ) सर्वथैकवाक्यत्वे सम्भवति तथा व्यवस्था न यु. क्तत्याद्याशयेन सिद्धान्तमाह *वस्तुतस्त्वित्यादि । अस्य बोध्य. मित्यत्रान्वयः। *उक्तमित्यस्यादावित्यादिः । इतीत्यत्रान्वयः। “किम- न्तरङ्ग वहिरङ्गम्" इति प्रश्ने "यद्युक्तं तदवाश्रयणीयम्" इत्युत्का युक्तं दर्शनमेवाह * धातूपेति । एवञ्च सुटोऽन्तरङ्गत्वेनासिद्धत्वाभावाल्लघु- त्वाभावेन न दीर्घप्रसङ्गः। संयोगादित्वाञ्च गुणसिद्धिरिति भावः । *हि-यतः। 'उपास्यतेगुरुः'इत्यादिसियर्थमावश्यकमिदमिति तात्प- र्यम् । वक्ष्यमाणार्थकत्वे दोषासङ्गतेरन्तरङ्गत्वासिद्धेश्चान्यथाऽर्थमाह *उपेति । अर्थकृतवहिरङ्गत्वादेरभावादिति भावः । उपसर्गत्वं विश. षणं नतूपलक्षणमित्याह *तत्संशकनेति । ॐआहेति “वर्तमानसा- मीप्ये” इति लट् । एवमग्रे ऽपि । *नैतदिनि । वक्ष्यमाणोऽभिप्रायः। अत्र हेतुमाह पूर्वहीति । हि यतः। तस्यासारतां दर्शयन्-"पूर्व हि धातुः" इत्यस्य युक्तत्वं दर्शयति *साधनंहीति । साधनयोगन हि साध्यत्वेन धात्वर्थप्रतीतिः, साध्यत्वस्य साधननिरूप्यत्वात् । क्रिया- योगेचोपसर्गत्वमिति भावः तदाह *तामिति । स्थितिम्।*करोतीति। एवंच संकृतीत्यवस्थायामन्तरङ्गतरार्थकसंशब्दनिमित्तत्वात् द्वित्वा- धपेक्षयाऽप्यन्तरङ्गः सुडादिरित्यर्थः । एवञ्च प्रकूष्टतया ऽऽद्यर्थकधा- ... ... ३ ... ३ (१५) शिवस्तोत्रावली । उत्पलदेवविरचिता । प्रमेयरत्नावश्व श्रीक्षेमराजविरचितवृत्तिसमेता(वेदान्तः)२ (२९) अनुमानचिन्तामणिव्याख्यायाः शिरोम- (१६) मीमांसाबालप्रकाशः जैमिनीयद्वादशा णिकृतदीधित्या जागदीशी टीका। ऽध्यायार्थसंग्रहः श्रीभट्टनारायणात्मज- (३०) वीरमित्रोदयः । महामहोपाध्यायश्रीमित्र- भदृशङ्करविरचितः । (मीमांसा ) २ मिश्रविरचितः परिभाषा-संस्कारप्रका- शात्मकः । सापिण्यदीपकश्च (१०) प्रकरणपश्चिका प्रभाकरमनानुसारि-मी- मांसादर्शनम । महामहोपाध्यायश्रीशालि- (३१) वीरमित्रोदयः । महामहोपाध्यायश्री- मित्रमिश्रविरचितः आहिकप्रकाशः ६ कनाथमिश्रविरचितम् श्रीशङ्करभट्टकृतो मीमांसासारसंग्रहन सम्पूर्ण: (मीमासा)३ (३२) स्मृतिसारोद्धारः विद्वदूरविश्वम्भरत्रिपा- ठिसंकलितः। (१८) अहेतसिद्धिसिद्धान्तसारः। पण्डितप्रवर- श्रीसदानन्दव्यासप्रणीतस्तत्कृतव्याख्यास- (३६) वेदान्तरनमञ्जूषा । श्रीभगवत्पुरुषो- तमाचार्यकृता । मलकृतः । (वेदान्तः) (१९) कात्यायन प्रौतसूत्रम् । महामहोपाध्याय (३४) प्रस्थानरत्नाकरः । गोस्वामिश्रीपुरुषो- त्तमजीमहाराजविरचितः... श्रीकर्काचार्यविरचितभाष्यसहितम् । १३ २ (२०) ब्रह्मसूत्रभाष्यम् । श्रीभास्कराचार्यविर- (३५) वेदान्तपारिजातसौरभं नाम ब्रह्ममीमांसा- भाष्यं श्रीनिम्बार्काचार्यविरचितम् । १ चितं संपूर्णम् (वेदान्तः) (३६) योगदर्शनम् । परमहंसपरिव्राजकाचार्य- (२१) श्रीहर्षप्रणीतं खण्डनखण्डखानाम् । आ- नारायणतीर्थविरचित-योगसिद्धान्तचन्द्रि- नन्दपूर्णविरचितया खण्डनफक्किकावि- कासमाख्यया व्याख्यया संवलितम् । २ भजनाख्यया व्याख्यया विद्यासागरीति (३०) वेदान्तदर्शनम् । परमहंसपरिव्राजकाचार्य- प्रसिद्धया समेतम्। (वेदान्तः) १४ श्रीरामानन्दसरस्वतीस्वामिकृतब्रह्माऽमृत- (२२) आख्यातचन्द्रिका श्रीभट्टमविरचिता १ कर्षिणीसमाख्यव्याख्यासंवलितम् । (२३) श्रीलक्ष्मीसहस्रम्-बालबोधिनीच्याख्य- (१८) विश्वप्रकाशः । कोश। विद्वद्वरश्रीम- याऽवतरणिकया च सहितम् । हेश्वरसूरिविरचितः। २ (२४) ब्रह्मसूत्रवृत्तिः मरोचिका श्रीवजनाथ- (३९) श्रीसुबोधिनी । श्रीवळभाचार्यविनिर्मिता भट्टकृता (वेदान्तः) २ श्रीमद्भागवतव्याख्या गोस्वामीश्रीविठ्ठल- (२५) क्रोडपत्रसंग्रहः । अत्र श्रीकालीशङ्कर- नाथदीक्षितविरचितटिप्पणीसहिता। सिद्धान्तबागीशविरचितानि अनुमानजा- (१०) वीरमित्रोदयः । महामहोपाध्यायत्रीमि- गदीश्याः प्रत्यक्षानुमानगादाधाः प्रत्य- घमिश्राविरचितः पूजाप्रकाशः । ... सानुमानमाथुर्या व्युत्पत्तिवादस्य शक्ति- (४१) वेदान्तसिद्धान्तसंग्रहः । श्रुतिसिद्धा- पादस्य मुनिवादस्य शब्दशक्तिप्रकाशि न्तापरनामकः । श्रीब्रह्मचारिवनमालि- कायाः कुसुमाञ्जलेश्च कोडपत्राणि २ मिशविरचितः । वेदान्तकारिकावली (२६) ब्रह्मम्त्रम् , द्वैताद्वैतदर्शनम् । श्रीसुन्दरभ- श्रीपुरुषोत्तमप्रसाद. शर्मकृता अध्यात्म- हरचितसिद्धान्तसेतुकाऽभिधटीकासहित- सुधातरङ्गिण्याख्य टीकया सहिता। ३ श्रीदेवाचार्यप्रणीतसिद्धान्तजाह्नवीयुतम् २ | (१२) स्वानुभवादर्शः । श्रीमत्परमहंसपरित्राज- (२७) षड्दर्शनसमुच्चयः । बौद्धनैयायिकका- काचार्यनारायणाश्रमशिष्यमाधवाश्रमविर- पिलजैनशेषिकजैमिनीयदर्शनसंक्षेपः । चितः । स्वकृतटीकाविभूषितश्च । मणिभद्रकृतटीकया सहितः । हरिभद्र- (५३) याज्ञवल्कस्मृतिः। बालम्भट्टीसमाख्यव्या- मरिकृतः । २ ख्यासमलकृतमिताक्षरासहिता । व्य- (०८) शुद्धादेतमार्तण्ड प्रकाशव्याख्यासहितः। वहाराध्यायः ... ... ... ... ...
(१४) गादाधरी । श्रीगदाधरभट्टाचार्यचक्रप- तिकृता । श्रीगने शोपाध्यायविरचित- तत्त्वचिन्तामण्या श्रीरघुनाथतार्किकशिरी- मणिविरचितदीधित्या च गर्भिता। ३ (५५) शास्त्रदीपिका । श्रीपार्थसारथिमिश्र प्रणि- ता। रामकृष्णविरचिंतयुनिस्नेहपुरण्या- ख्यव्याख्यथातथासोमनाथकृतया मयुख- मालिकया च व्यारण्यया समलङ्कृता ! ३ (५६) वैयाकरणसिद्धान्तमञ्जूया । श्रीमदुपा ध्यायोपनामक श्रीनागेशभट्टविरचिता। पत्रादिप्रेषणस्थानम्
No text on this page.