Scl

Sastra Dipika

Pandit Rama Krishna Kishra · 31-03-2004

PDF Proofread

Front matter

No text on this page.

शब्दनित्यत्त्ववादः] शास्त्रदीपिकायाम् । यस्तया विशिष्टं शब्दंषोधयन्ति, सा हि दिक् श्रोत्र- प्राप्ता शक्यते श्रोत्रेण ग्रहीतुम् , यद्यपि न स्वातन्त्र्ये. ण दिशः श्रोत्रग्राह्यत्वं तथापि शब्दे गृह्यमाणे त- द्विशेषणतया दिगपि श्रोत्रेण गृह्यते इति दृष्टत्वा. दङ्गीक्रियते कालवत् । यथा हि कालो न स्वातन्त्र्ये- णन्द्रियैद्यते अथ च विषयेषु स्वेषु गृह्यमाणेषु तदि शेषणतया सर्वैरपीन्द्रियैह्यते तद्वत् । ततश्चास्यां दिशि शब्द इति विशिष्टग्रहणं तावत् सिद्धम् । ध्वनयश्च क्रमेण मन्दीभवन्तः प्रत्यासन्नादू दूराद् दूरतराच देशादागतास्तीनं मन्दं मन्दतरं च शन्दं बोधयन्ति । बोधविशेषाच ध्वन्युत्पत्तिदेशः प्रत्या- सन्नदूरादिरूपेणाऽनुमानादू हृदयदेशमागच्छति तत्र यः शब्दस्य परमार्थदेशः श्रोत्रदेशस्तस्याऽग्रहणाद् दिग्चिशिष्टस्य शब्दस्वरूपस्य ध्वन्युत्पत्तिदेशस्य च ग्रहणात् तयोः संसर्गभ्रमादेवंविधः प्रत्ययो भवति- प्राच्या दिश्येतावदन्तराले शब्द इति, तस्मादभि- सन्दग्रहणं स्यात्तदाऽयं दोषः स्यान्न तु तथास्तीत्यर्थः । साही- ति । यस्मात्सा दिक् श्रोत्रदेशाभवतीति भावः । दृष्टान्तार्थ वि- वृणोति । यथेति । उपपादितं विशिष्टग्रहणं निगमयति । तत- श्चेति । भ्रान्त्या तद्विशिष्ट ग्रहणं संभवतीति भावः । भ्रान्तित्व- मुपपादयितुं भूमिमारचयति । ध्वनयश्चेति । धन्युत्पत्तिदेशो नुमानाघृदयमागच्छति नतु श्रोत्रेण गृह्यत इत्यभिमायः। कथ. मेतावता भ्रान्तित्वमत आह । तनेति । प्रहणादित्यत्रानुमानेन ४०२ युक्तिस्नेहप्रपूरणीसहितायां [०१पा०१:०५सू०५ व्यञ्जकदेशभेदादुपपन्नं नित्यस्यापि नानादेशोपल. म्भनमित्यदोषः। नन्वयं दोषो यदऽसतिबाधके भ्रान्तित्वम्, प्रत्य. भिज्ञायां वा कः पक्षपातो येन सा भ्रान्तिन स्यात् ।। अयमस्ति पक्षपातः-न ह्यऽसम्भवति तद्भ्रान्तित्वे भ्रान्तित्वमङ्गीकर्तुं युक्तम्, नानादेशोपलब्धस्त्वऽपरि- हार्य भ्रान्तित्वम्-अनित्यत्वपक्षेपि श्रोत्रगत एव परमार्थतो गृह्यते श्रोत्रस्य प्राप्यकारित्वात् न च वक्तृमुखगतो येन तद्देशग्रहणस्याऽभ्रान्तित्वं स्यात् । यदपि सौगतोप्यऽप्राप्यकारित्वमेवाङ्गीकुर्वन्नऽभ्रा- न्तित्वं समर्थयते, तदयुक्तम्-अमाप्यकारित्वे हि संनिकृष्टविप्रकृष्टस्थितौ युगपच्छब्दमुपलभेयाताम्, तयोस्तु क्रमेणोपलाधनं कथं चिप्यऽप्राप्यकारित्वे समर्थयितुं शक्या। किं च क्षणिको वा शब्द: स्यात् स्थायी वा । यदि क्षाणिकः १ ततः प्रत्यासन्नैहीतमात्रो नष्टः कथं विप्रकृष्टैः पश्चाद् ग्रहीतुं क्षमः । स्थायित्वं तु सौग- तानामनभिमतमेव, । स्थायित्वे च प्रत्यासन्नानां ग्रहणादिति ज्ञेयम् । चोदयति । नन्विति । बाधकप्रत्ययं विना भ्रान्तित्त्वे प्रत्यभिज्ञाया अपि भ्रान्तित्वं स्यादिति भावः। परि हरति । अयमिति । नन्वनित्यत्वपक्षे तत्र तत्र शब्दोत्पत्तिसं- भवान्नानादेशोपलब्धेरभ्रान्तित्वमत आह । अनित्येति । अ- त्रैव मतान्तरमावाच्या निराकरोति । यदपीति । दूषणान्तरमाह। किश्चेति । तस्मादिति । यस्मात्स्थायित्वे क्षणिकत्वे वाऽप्राप्य शब्दनित्यत्ववादः) शास्त्रदोपिकायाम् । शब्दश्रवणं चिरकालमनुवर्तेत । तस्मादप्राप्यकारि- त्वासम्भवादश्वर्जनीयं नानादेशोपलब्धान्तित्वम् । अस्मत्पक्षे तु ध्वनीनां क्रमेणाऽऽसन्नदूरगमनाद् ग- स्वरत्वेन चैकस्मिन् श्रोत्रे चिरमनवस्थानादुपपन्ना क्रमेणोपलब्धिश्चिरकालाननुवृत्तिश्च । तस्मान्नैकान्त- तस्तावदनित्यत्वम् । तत्परिहार सूत्रम् कारित्वं न संभवति तस्मात्माप्यकारित्वमेव वाच्यं तदा च नानादेशोपलब्धेः भ्रान्तित्वमेव गतिरित्यर्थः । स्थायित्वपक्षो क्तं दूषणं स्वमते परिहरति । अस्मत्पक्ष इति । महाप्रकृतं निगमयति । तस्मादिति । अत्र ग्रन्थकारेण परिहारसूत्रद्वयं सिद्धान्तसूत्रं च परित्यक्तं तत्पसङ्गाब्यारव्यायते । यदुक्तं यकारादिरूपेण विक्रियमाणत्वादिकारादेरनित्यत्वमिति । तस्यै- " शब्दान्तरमविकार " इति । यस्त्व. या दध्यत्रेत्यत्र इकारस्य यकारो विकार उक्तस्तच्छब्दान्तरमेव न विकारः । परमते शब्दस्य गुणत्वात् स्वमते च विभुत्वेन विकाराऽयोगात् । नन्विको यणचीति स्मृतिवशादिकारः प्र. कृतिर्यकारो विकृतिरित्यवगम्यते ? । मैवम् । स्मृत्या प्रकृति- विकृतिभावप्रतिपादनात् । उक्तं हि शास्त्रादौ 'सिद्ध श- ब्दार्थसम्बन्धेनियमार्थ व्याकरणम् ' इति । प्रकृतिविकारभा- वं च ब्रुवता दध्यत्रपदमसिद्धमेव साधितं स्यात् । अतोऽयम- भिप्रायः सूत्रकारस्य । अचि परतः संहितायामेव यणन्तानां साधुत्वमन्यत्र चेगन्तानामिति । एतेन संप्रसारणं व्याख्यातम् । नापि सादृश्यात्प्रकृतिविकारभावावगतिः । इकारयकारयोः स. त्मिना सादृश्याऽभावात् । यदुक्तं ' वृद्धिश्च कर्तृभूनाऽस्येति' + - ४०४ शक्तिस्नेहापूरणीसहितायां [अ०१पा०१००५सू०५ - तत्परिहारसूत्रम् नादवृद्धिपरेति । या त्वया शब्दस्य वृद्धिरु- का सा ध्वनिरूपस्य संयोगविभागात्मकस्य नादस्यैव न शब्द- स्य निरवयवत्वात् । बहुषु हथुचारयत्सु उत्पद्यमानाः संयोग- विभागाः पृथक् पृथक् शब्दं व्यञ्जयन्तः स्वगतमुपचयं तत्रा. रोपयन्तः शब्दे महत्वव्यवहारमुपजनयन्ति, न स्वतः शब्दे - द्विरुपपद्यते निरवयवत्वात् एवं पदस्यापि । उक्तं च- " वर्णोऽनवयत्वात्तु वृद्धिहासौ न गच्छति । व्योमादिवंदतोऽसिद्धा वृद्धिरस्य स्वरूपतः" इति (श्लो. वा. २१२) भाष्य कारो प्याह "वायवीयाः संयोगविभागा नैरन्त- र्येण क्रियमाणाः शब्दमभिव्यञ्जन्तो नादशब्दवाच्याः । तेन नादस्यैषा दिन शब्दस्येति" । ननु यदि वायवीयाः संयोग- विभागा संयोगविभागविशिष्टो वायुरेव नादो न शब्दविशे- पस्तर्हि वायोरेश्रावणत्वात्तद्रूपस्य शङ्खादिनादस्य श्रवणं न स्यात् ? । अत्र केचित् वायुगुणभूताः ध्वन्याख्याः शब्दविशेषा एव श्रोत्रेण गृह्यन्ते त एव च वायुना सह ताल्वादिभिः प्रेरिताः श्रोत्रं संस्कुर्वन्तः शब्दस्य व्यञ्जका इत्याहुः । ननु वर्णोच्चा- रणवेलायां ध्वनयो न श्रूयन्ते तत्कथं तेषां व्यञ्जकत्वम् । मै- बम् । वर्णोच्चारणे ध्वन्युपलब्धेः सर्वजानत्वात् । तथा च दूरादधीयानेषु वर्णानशृण्वन्तोपि ध्वनिमात्र शृण्वन्ति । ते च ताल्वादिसंयोगविशेषलाभे सति वर्णान्व्यञ्जन्ति स्वयं चो- पलभ्यन्ते । भेर्यादिश्वनयस्तु केवलं स्वयमेवोपलभ्यन्ते । भा- प्योक्तवायवीयध्वनिपक्षे तु ध्वन्याख्यशब्दाभावेऽपि वायुना नादेव शङ्खादिधोषश्रवणमुपपद्यते । अधिकं तु वार्तिकेऽवग- न्तब्यम् । एवं तावत्पभिः सूत्रैः परपक्षं प्रतिक्षिप्य तावन्मात्रेण ४०६ शब्दनिस्यत्ववादः) शास्त्रदीपिकायाम् । अर्थप्रतिपत्त्यनुपपत्त्या तु नित्यत्वमेव युक्तम् । हि प्रत्युच्चारणमन्यस्याऽन्यस्य क्रियमाणस्यार्थप्रत्याय- स्वसिद्धान्तासिद्धिं मन्यमान आह ।' नित्यस्तु स्याद्दशनस्य परार्थत्वादिति । सिद्धान्तसूत्रमेतत् । तुशब्दः पक्षं व्यावर्तयति नित्यः शब्दो भवितुमर्हति । कुतः । दर्शनस्य परार्थत्वात् दृश्यते शब्दोऽनेनेति दर्शनमुच्चारणं तस्य परार्थत्वात अर्थप्रत्यायना- यत्वात् । उच्चारितमात्रो विनश्यतीति चेच्छब्दः तदार्थावग- त्यर्थं नोच्चायत । अगृहीतसङ्गतिकत्वेनार्थावबोधकत्वाऽसंभ- वात् । अर्थवत्सादृश्यादर्थावगम इति चेत् । नकश्चिदपि शब्दो. र्थवान् सर्वेषामभिनवत्वात् । नन्वसिद्धोऽयं हेतुः पारार्थ्यस्य दर्शनधर्मत्वेन शब्दधर्मत्वाऽभावात् । स्वरूपेण सिद्धस्यापि पक्ष- धर्मत्वेनासिद्धिः। नैष दोपः। अर्थापत्तेरविवक्षितत्वात् । यथाहुः- "अनुमानप्रयोगे हि वक्तुमित्यादि युज्यते । अर्थापत्तिरिय चोक्ता पक्षधर्मादिवर्जिता"इति (श्लो.वा.२३८)। अर्थापत्तौ च द्वावेव दोषौ अन्यथा प्युपपत्तिरन्यथैवोप- पतिः । तदिहापि यद्यनित्यत्वेप्यर्थप्रत्यायकत्वमुपपद्येत अनि- त्यत्व एव वा ततो दूषणं स्यादिति । अतोर्थप्रत्यायकत्वेन नि. त्यत्वमेवाङ्गीकर्तुं युक्तमिति सूत्रार्थः । ग्रन्थकारोप्येतत्सर्वम- भिप्रेत्याह । अर्थप्रतिपत्यङ्गत्वाच्छब्दस्य नित्यत्यमेव युक्तमि- त्यर्थः । उक्तं च- फलवद्यवहाराणभूतार्थप्रत्ययाङ्गता । निष्फलत्वेन शब्दस्य योग्यत्वादवधार्यते" इति (श्लो.वा.२३८)। अनुपपत्तिमेवोपपादयति । नहीति । कथं न सम्भवती- ४०६ युक्तिस्नेहपूरणीसहितायां [अ०२पा०१२०५सू०५ कत्वं सम्भवति, सम्बन्धग्रहणासम्भवादगृहीतस. म्बन्धस्य चाऽप्रत्यायकत्वात् । न चान्यस्मिन् गृही. तसम्बन्धेऽन्यस्य प्रत्यायकत्वं सम्भवति-न हि गो- शब्दे गृहीतसम्बन्धेऽश्वशब्दः प्रत्याययति । सत्यम्-असदृशो हि न प्रत्याययति यस्त्वन्यो- पि गृहीतसम्बन्धनार्थवता शब्देन सदृशः शब्दः स प्रत्याययतीति चेत् ?, न, तदसम्भवात-नहि कश्चि- दपि मुख्योर्थवान् सम्भवति सर्वेषां तुल्यत्वेन स- म्बन्धाऽग्रहणात्, न हि द्विनिर्वाऽनुपलब्धस्य सम्ब- न्धग्रहणं सम्भवति, अन्वयव्यतिरेकाऽभावात् । अथ व्युत्पत्तिसमये सदृशेषु शब्देषु दिनेषूपल- ब्धेषु पश्चाच्यमाणः सम्बन्धग्रहणं लब्ध्वाऽर्थवान् ' त्यत आह । सम्बन्धेति । अगृहीतसम्बन्धस्यचार्थप्रत्यायकत्वे- ऽपूर्वोऽपि सर्वः शब्दः सर्व प्रकाशयेदिति भावः । सम्बन्धज्ञानं धन क्षणिकस्य सम्भवतीति भावः । ननु कश्चित्कालं शब्दो. ऽवस्थास्यति यावत्सम्बन्धदर्शनं व्यवहारश्च सम्भवति नैता- वताऽनित्यत्वसिद्धिः। सत्यमेतत् । यद्यवस्थानं स्यात् कश्चि- कालमवस्थाने वा कालान्तरावस्थानं को निवारयेत् । यथाहु:- "सम्बन्धदर्शनं चास्य नानित्यस्योपपद्यते । सम्बन्धज्ञानसिद्धिश्वेधुवं कालान्तरेस्थितिः" (श्लो.वा.२४२) शङ्कते। सत्यमिति । परिहरति । नेति । असम्भवमेवोपपा. दयति । नहीति । तदुक्तं- "कस्य चैकस्य सादृश्यात् कल्प्यतां वाचकोऽपरः । अदृष्टसङ्गतित्वेन सर्वेषां तुल्यता यतः" (श्लो.वा.२४८) ।।

शब्दनित्यत्ववादः] शास्त्रदीपिकायाम् । भवति तदुत्तरकालास्तत्सादृश्यात् प्रत्याययन्तीत्युः च्यते ? । तदयुक्तम्-य एवोपलब्धशब्दान्तरेण प- श्वाच्यमाणोऽर्थवान् निरूप्यते स एवाश्रुतशब्दा- न्तराणां पुरुषाणां प्रथमश्रुतोऽनर्थक इति विरोधा- पत्तेः, तदुक्तम्- " अप्रतीतान्यशब्दानां तत्कालेऽसावऽनर्थकः । स एवान्यश्रुतीनां स्यादर्थवानितिविस्मयः" इति (श्लो. वा. २६०) अथाऽर्थवानेवायम् , अप्रतीतान्यशब्दास्त्वन्वय व्यतिरेकवैकल्यादर्थवत्त्वं न जानन्तीत्युच्यते ? । तथा सति तदुत्तरकालानामपि शब्दानामेवमऽर्थव- त्वसम्भवात् किमिति सादृश्येन प्रत्यायकत्वम् । तदुक्तम्-"अथाऽस्य विद्यमानोपि" (श्लो. वा. २५१) इत्यादिना । अथोत्तरकालस्य शब्दस्य कांश्चिद्गृहीतसम्बन्धा- न् प्रत्यऽप्रत्यायकत्वादानर्थक्यमेवाश्रीयते ?, ततो योऽसावऽर्थवत्त्वेनाभिमतः शब्दो यत्सादृश्यादुत्त. रेषां प्रत्यायकत्वं सोपि केषां चिद्ऽप्रत्यायक इत्यन- उक्तेऽर्थे वार्तिककृत्संमतिमाह । तदुक्तमिति । य एव हि कस्य चिद्भुतमन्दान्तरस्य चरमश्रुतोऽर्थवान्स्यात् स एवा- ऽश्रुतशब्दान्तरस्यान्यस्य प्रथमश्रुतत्वादनर्थकः स्यादिति विरु- दयापद्यतेति श्लोकार्थः । अत्रापि संमति माह । तदुक्तमिति । "कैश्चिदर्थो न गम्यते । तत्तुल्यमुत्तरस्येति किं सादृश्येन वाचकः"। इति श्लोकशेषः । तदुक्तमिति ।

युक्तिनहप्रपूरणीसहितायां भ०१पा०१०सू५०५ धक एवेति सर्वेषामानर्थक्यं स्यात्, तदक्तम्-"अनर्थकत्वमस्य स्यात्"(श्लो.वा.२५२) इत्यादिना। किं च व्युत्पत्तिकालवर्ती शब्दोऽर्थवान् उत्तरे तु व्यवहारकालवर्तिनस्तत्सादृश्यात् प्रत्याययन्ती- तिब्रुवाणस्य विरुद्धमापद्यते-य एव हि केषां चित् व्युत्पत्तिकालवर्ती स एवान्येषां व्यवहारानुपातीत्ये. कस्यैवार्थवत्त्वं मुख्यं तत्सादृश्यादृगौणमिति विरोधः, तदुक्तम्-"अर्थवत्सदृशत्वेन"(श्लो.वा.२५३)इति, तस्मान्न सादृश्येन प्रत्यायकत्वमित्येकत्वमेव शब्दस्याऽऽश्रथितव्यम् । अथ गत्वादिसामान्यमेकमाश्रित्य वाचकत्वं स- “अथानन्यश्रुतीन्प्रति । पूर्वस्मिन्नपि तत्सत्वात्सर्वानर्थकता भवेत्" इतिशेषः । अन्यदप्युदाहरति । तदुक्तमिति । "योवा श्रुत वतां तः। मुख्योऽसावश्रुतीनां स्यात्तदेकत्वे न युज्यते"। एक एव शब्दः श्रुतार्थवच्छब्दान्तरस्य गौणः अश्रुतार्थवच्छब्द स्य मुख्यः स्यात् नचैकस्य गौणत्वं मुख्यत्वं च युक्तमित्यर्थः । एतेच श्लोका ग्रन्थकारेणैव व्याख्यातप्रायाः। अत्रैव किञ्चिदा- शाच्या निराकरोति । अथेति । व्यक्तीति । विवेकाऽग्रहणादेवात्र प्रत्यभिज्ञानव्यत्येकत्वमेवावगम्यत इति भावः । कथं निष्पमा- णकमत आह । यत्रेति । भतोत्रति । विवेकाग्रहणादेवात्र प्र- त्यभिज्ञानव्यक्त्यैकत्वात् अतो भ्रान्तिरूपेत्यर्थः । किपिति नगृह्मत इति चेत्तत्राह । होति । प्रकृतं निगमयति । अत इति ।

शब्दनित्यत्त्ववादः] शास्त्रदीपिकायाम् । ४०९ मर्चेत ?, तन्न, तदभावात्-व्यक्तिभेदे हि सामान्य. मात्मानं लभते नान्यथा । कश्चित् पुनराह-सत्यपि व्यक्तिभेदे निष्प्रमाण- कमेव सामान्यम्, यत्र हि भदावगतौ सत्यामेवाड- भेदावगतिस्तत्र सामान्यम्, इह तु सन्नपि व्यक्ति- भेदो नावगम्यते, अतोऽत्र विवेकाग्रहणादेव प्रत्य- भिज्ञा भ्रान्तिरूपा नालं सामान्यं साधयितुमिति । तत्त्वयुक्तम्-सति हि व्यक्तिभेदे कथमन्तरेण सामान्य प्रत्यभिज्ञा स्यात् १ । विवेकाग्रहणादिति चेत् १, कोयं विवेकाग्रहो नाम ?, यस्तनाद्गकाराद- द्यतनस्य गकारस्थ यद् व्यावृत्तं रूपं तन्न गृह्यते इत्य. र्थः । किं तर्हि गृह्यते ? अद्योचारितपि गकारेऽवश्यं किंचिद्रूपं गृह्यते. व्यावृत्तं चेन्न गृह्यते व्यक्तमनुवृ. त्तग्रहणम्. अनुवृत्तं च सामान्यमित्युच्यते. तस्मात् सिध्यति सामान्यम् । न च सादृश्यादेव प्रत्यभिज्ञा. सिद्धेरलं सामान्येनति वक्तव्यम्, अवयवसाम. न्ययोगात्मकत्वात् सादृश्यस्य, वर्णानां चाऽनवय- चत्वात् । ननु संबन्धिसामान्यमानं सादृश्यम्. अतोऽनव. यवानामपि ताल्वादिस्थानसामान्यं सादृश्यं भवि- ष्याति ? । न, अश्रावणत्वात्, श्रवणजन्या हीयं प्र. त्यभिज्ञा तदस्याः श्रवणग्राह्यमेवालम्बनं वक्तव्यम् , न च ताल्वादिसामान्यं श्रावणम्. अतो गत्वादि- सामान्यनिवन्धनेयं प्रत्यभिज्ञा सिध्यति । एवं सति ५२ युक्तिस्नेहप्रपूरणीसहितायां [अ०१पा०१३०६सू०२३ व्यक्तिभेदे सामान्यं तदभावात्तु नास्ति सामान्य- मित्येव वक्तव्यम्, अतः सिद्धं प्रत्यभिज्ञया शब्दस्य नित्यत्वम् । किं पुनरिदं प्रत्यभिज्ञाख्यं प्रमाणम् ?, प्रत्यक्ष. मिति ब्रूमः पूर्वानुभवजनितसंस्कारसधीचीनेन्द्रिय जन्यत्वाद ग्रहणस्मरणरूपमिदमेकं ज्ञानम्, तत्र पू. र्वानुभूतोंऽशः स्मयते स्मर्यमाणेन तु तेन सहैकत्व- विशिष्टं वर्तमानं रूपं प्रत्यभिज्ञया प्रत्यक्षेण गृह्यत इति वेदितव्यम्, तस्मानित्यः शब्दः । प्रदीपे तु प्र. भामण्डलस्याऽवयवविश्लेषमन्तरेणाऽत्यन्तानुपपत्ते- विश्लिष्टावयवस्य चाऽवयविनोऽवश्यम्भावी विना- शो विनष्टे च पूर्वस्मिन् प्रदीपे पश्चात्तनमऽवश्यं प्रदी- पान्तरमेव भवति, दृढे च भेदे प्रत्यभिज्ञा सादृश्य. निमित्तेति कल्प्यते । शब्दे तु न किं चिनेदे प्रमाण- मस्तीति विशेषः। ननु सर्वभावानां क्षणिकत्वात् कथं शब्दस्य नि- त्यता? । किं पुनः सर्वक्षणिकत्वे प्रमाणम्! प्रत्यक्षं तावत् तत्कालसत्तां बोधयति न कालान्तरनिषेधं करोति. नीलप्रत्यक्षमिव न पीतिमानं निषेधति । ह. श्यादर्शनेन तु तस्य निषेधः, न च सम्प्रति कालान्तरं ननु प्रदीपेऽपि स एवायमिति प्रत्यभिज्ञाऽस्त्येव नच तया प्रदीपस्य नित्यत्वमत आह । प्रदीपे विति । प्रदीपे तु प्रत्यक्ष- मेव भेदग्राहक प्रमाणं शब्दे तु न तादृशं किञ्चित्पमाणम- स्तीति वैषम्यमित्यर्थः । प्रमाणाभावमेवोपपादयति । प्रत्य- शब्दानित्यत्त्ववादः] शास्त्रदीपिकायाम् । ४११ . दृश्यं येन दृश्यादर्शनात् तनिषेधः स्यात, न चान्यद पि प्रमाणं पश्यामः। पश्यामः-स्वभावहेतुकं प्रमाणं सत्तामात्रानुबन्धि साध्यावषयत्वादिति । कथं पुनः सत्तामात्रानुबन्ध सिद्धिः ?, क्षाणकतायाः विपक्षे बाधकप्रमाणप्रवृत्तेः- क्षणिकत्वविपक्षे यक्षणिकत्वे व्यापकानुपलब्ध्या बा- ध्यमाना सत्ता क्षणिकत्वेन व्याप्यमाना तदनुमा. पयति। किं पुनः सत्ताया व्यापकम् ?, क्रमाक्रमाविति ब्रूमः, तथा हि-अर्थक्रियाकारितैव सत्ता नान्या. न हि स भावः सत्तां लभते यो न कां चिदर्थक्रियामा रभते, यतः स्वज्ञानस्यापि सर्वे भावाः कारणम्, दपि किंचिदज्ञायमानमपि सत्त्वेन सम्भाव्यत तदपि सर्व विज्ञानं प्रत्याऽऽलम्बनत्वादर्थक्रियाकारि, तदऽ- थक्रियाकारितेच सत्ता, यदेवार्थक्रियाकारि तदेव प. क्षमिति । क्षणिकत्वे प्रमाणं शङ्कते। पश्याम इति । सतो वस्तुनः स्वभाव एव क्षाणकत्वे प्रमाणम् । कथमित्यपेक्षायामाह । स. तेति । सत्तामात्रानुबन्धि यत्साध्यं क्षणिकत्वं तद्विषयत्वाद्वस्तु- स्वभावस्य । यत्सद्वस्तु तक्षणिकमिति नियमादिति भावः । एतदेव प्रश्नपूर्वकमुपपादयति । कथमिति । अत्रोत्तरम् । विपक्ष इति । अक्षाणकत्वे सचाया बाधकप्रमाणप्रवृत्तेः सत्तानुब- न्धसिद्धिरित्यर्थः । एतदेव विवृणोति । क्षणिकत्व इति । ननु स्थायित्वेऽपि सत्तोपपत्तेन क्षणिकत्वे सत्वं व्यापकत्वमित्याभि- मायेण पृच्छति । किं पुनरिति । उक्तमर्थ विकृणोति । तथाहीति।

४१२ युक्तिस्नेहप्रपूरणीसहितायां [अ०१पा०अ०६सू०२३ रमार्थसदिति । सा च क्रमयोगपद्याभ्यां व्याप्ता, न चाऽक्षणिकत्वे ते संभवतः- स्थायी हि पदार्थो न ता. वदयक्रियाः सर्वा युगपत्कर्तुमर्हति तथा सति द्वि- तीये क्षणे कृत्याऽभावार्थक्रियाकारित्वविरहादs. सल्लक्षणापत्तेः क्षणिकत्वमेव स्यात् । नापि क्रमः संभवति-स हि भावः सर्वार्थक्रियासमर्थः किमिति कां चिदेवारभते नाऽन्याम् ? समर्थस्य क्षेपायोगात् । सहकार्यऽपेक्षया विलम्बत इति चेत् ?, न, सह- कारिणो ह्याकिंचित्करा अनपेक्ष्याः। किं चित्करा. श्वेत् ? यत्तैः क्रियते तदेव कार्यसाधनं स्यात् तदनन्त- रं कार्यनिष्पत्तेः. भावस्त्वष्कारणमेव स्यात्-न ह्या- गन्तुकेऽतिशये कार्यमारभमाणे भावस्य कारणता संभवति भिन्नत्वात. अभेदे वा भावोपि तत्कालज. न्मा क्षणिक एव स्यात् भेदाऽभेदौ तु विरुद्धावेव, तस्मान्नाऽक्षणिकस्य सत्ता सम्भवतीति सिद्धं सन्मा. त्रानुबन्धित्वं क्षणिकतायाः । किं च कृतकानां भावानामवश्यम्भावी विनाश- स्तेनापि क्षणिकत्वं घटादीनाम्, तथाहि-यद् येषां ध्रुवभावि न तत्र तेषां हेत्वन्तरापेक्षा, ध्रुवभावी च अर्थक्रियां कुर्वत एव सत्तालाभ इति भावः। अस्त्वेवं कथमे- तावता क्षणिकत्वसिद्धिरत आह । सा चेति । कथं न सम्भ. वतीत्यत आह । स्थायीति | युक्त्यन्तरमाह । किश्चेति । येषां यद्धृवभावि तेषां तत्र हेत्वन्तरांपेक्षा नास्तीत्यर्थः । न्यायं प्र- कृते योजयति । धुवेति । विरुद्धव्याप्तोपलाधि विकृणोति ।

शब्दनित्यत्त्ववादः] शास्त्रदीपिकायाम् । ४१३ कृतकानां विनाश इति विरुद्धव्याप्तोपलब्धिः-ध्रुव- भाविता हि निषिध्यमानहेत्वन्तरापेक्षित्वव्याप्ता अ- ग्न्युष्णत्वादिषूपलब्धा स्वव्यापकमनपेक्षत्वमुपस्था- पयन्ती तद्विरुद्धं सापेक्षत्वं प्रतिक्षिपति । अथ वा हे- त्वन्तरापेक्षाणां वाससि रागादीनामऽध्रुवभावित्व. व्याप्तेस्तद्विरुद्धं ध्रुवभावित्वं व्यापकविरुद्धोपलब्ध्या विनाशस्य हत्यन्तरापेक्षां निवारयति, निरपेक्षश्च विनाशः स्वाभाविको जन्मानन्तरमेव भवतीति सि. द्धः क्षणभङ्गः। मुसलमहारादयस्तु विसदृशसन्तानहेतवो न विनाशस्य । प्रतिपत्तारस्तु सदृशपराऽपरोत्यत्त्या क्ष. णानां भेदमलक्षयन्तस्तत्त्वभ्रान्त्या विनाशमऽबुद्धा मुसलपहारानन्तरं विसदृशसन्तानदर्शिनस्तदैव वि- नाशं मन्यमाना मुसलादेविनाशहेतुतां मन्यन्ते । पर- मार्थतस्तु न केपि विनाशहेतवः, हेत्वन्तरजन्मा च विनाशो न तावद् भावादभिन्नो भवितुमर्हति हेतु- ध्रुवभावितेति । निषिध्यमानं यद्धत्वन्तरापेक्षित्वं तेन व्याप्ता यथाऽनेरुष्णत्वं ध्रुवभावित्वान्न हेत्वन्तरापेक्षं तथा नाशस्य ध्रुव- भाविता हेत्वन्तरापेक्षां प्रतिक्षिपतीति सम्बन्धः । एवमन्वय- मार्गेणोक्त्वा व्यतिरेकेणाह । अथवेति । रागादीनां हेत्वन्तरा- पेक्षित्वमध्रुवभावित्वेन व्याप्तं दृष्टमिति दृष्टान्तार्थः । फलित- माह । निरपेक्षश्चेति । विनाशस्य हेत्वपेक्षाऽस्तीति चेनेत्याह । मुसलेति । उत्तरग्रन्थो निगव्याख्यातः । तदेतनिराकर्तुमार- ४१४ युक्तिस्नेहप्रपूरणीसहितायां [अ०१पा०१०६१०२३ भेदात्, भिन्नत्वे तु तस्मिन् जातेपि भावस्य पूर्ववदु. पलब्धिः स्यात् पटजन्मनि घटवत, तस्मात् स्वहेतुत एव भावा विनाशस्वभावा जायन्ते इति क्षणभ- गसिद्धिः। किं च प्रयत्नरक्षितानामपि घटादीनां कियतापि कालेनाऽवयवक्षयविश्लेषवशेन विनाशो दृश्यते वि. नैव मुसलपहारादिभिः, सोयमुत्पत्तिप्रभृति किं चित् किं चिदऽन्यथात्वमन्तरेण नोपपद्यते, प्रत्यक्षेणैव चा. न्यथात्वमभिनवपुराणावस्थयोरऽज्ञातघटोत्पत्तिकालै- रपि पुरुषैरुपलभ्यते, न चैकस्यैव घटस्य नानारूपत्वं संभवति नानात्वैकत्वयोर्विरोधात्, तस्मात् प्रति- क्षणमन्यत्वं घटादेः । प्रयोगश्च भवति- विवादाध्यासिता भावाः सत्त्वात् क्षणविनाशिनः । दीपवत्, प्रत्यभिज्ञापि स्यात् प्रदीपवदेव नः ॥४८॥ अत्राभिधीयते-न तावदर्थक्रियाकारितैव सत्ता सतो ह्यऽर्थक्रियाकारिता न तु सैव सत्ता-न च स. वस्य भावस्थार्थक्रियाकारितानियमः अतत्कारिणो. पि संभवात् । न च ज्ञानकारणत्त्वमपि सर्वस्य नि- यतम्-अज्ञायमानस्यापि स्वरूपसद्भावसंभवात् । न च सर्वेषां विज्ञानं प्रत्यालम्बनहेतुताऽतीताऽनागतानां भावानां संभवति, अविद्यमानानां हेतुत्वानुपपत्तेः । हेतुत्वे वा सर्वज्ञाननिष्पत्तौ सर्वेषां व्याप्तत्वात् क्र. मानभ्युपगमेन च पुनर्व्यापारानुपपत्तेः, तल्लक्षणत्वाच्च भते । अवेति । यदुक्तं किश्चित्कराश्वेदित्यादि तत्परिहरति ।

शब्दनित्यत्त्ववादः] शास्त्रदीपिकायाम् । सत्तायाः सर्वज्ञानानन्तरमेव समस्तस्य जगतः शू. न्यताप्रसङ्ग इति यत् किंचिदेतत् । संभवति च भावानां क्रमेणार्थक्रियाकारणत्वम्, सहकारिव्यपेक्षया विलम्बोपपत्तेः। सहकारिणश्चाऽति शयमाऽऽगन्तुकं भावाद् भिन्नाभिन्नं भिन्नमेव वा कुर्व- न्त्येव, यथा बीजस्थ क्षितिसलिलसंयोगेऽतिशयः, त- दलाभे स्थायिनोपिं बीजस्य प्रागकुरानारम्भः, लाभे चारम्भ इति न काचिदनुपपत्तिः। नन्वेवं संयोगस्येव कारणत्वं स्यान्नतु बीजस्य । नैव- म्, संयोगमाचात्तदुत्पत्त्यऽदर्शनात्-न हि क्षितिसलि- लसंयोगोऽङ्गुरं जनयति । बीजविशिष्टस्य तु संयोगस्य कारणत्वे विशेषणीभूतस्य बीजस्यापि कारणत्व. मङ्गीकार्यम् । यस्तु सहकार्यऽपेक्षां नानुमन्यते तस्य क्षितिसलिलसंयोगानपेक्षात् कुसूलस्थादेव बीजाद- कुरो जायत । नन्वन्त्यक्षणप्राप्तः समर्थ एव भावोऽनपेक्षो ज- नयितुम, निरपेक्षोप्यसौ सहकारिभिविना नास्तीति तैर्विना न करोति, कुसूलस्थं हि बीजमन्यदेव, अ. सहकारिणश्चेति । भावाद्भिन्नाऽभिन्न भिन्नमेव वा भावनिष्ठ- मतिशयं कुर्वन्ति अतो भावस्यैव कारणता नतु तस्येति भावः । चोदयति। नन्विति । तदनन्तरं कार्योपलम्भादितिभावः । अत्रैव विशेष शङ्कते । नन्विति । अनपेक्षश्चत्कथं सहकारिणमपेक्षतेऽत- आह । निरक्षोपीति । स्वरूपलाभार्थमेव तस्य सहकार्यपेक्षा न

युक्तिस्नेहप्रपूरणीसहितायां [अ०१पा०अ०६सू०२३
,
न्यच्चेदं क्षितिसंयुक्तं यतोऽङ्कुरो जायते ? । सत्यम्,
इदं त्वत्र वक्तव्यम्-यदिदमन्त्यक्षणप्राप्तं क्षितिसलि-
लसंयुक्तमङ्कुरजनकं तद् यदि कृषीवलप्रयत्नविरहात्
कुसल थमेव स्यात् तदापि किमडुरं जनयति ?, उो.
मिति चेत् ? किमर्थं तर्हि कृषीवलस्य प्रेक्षापूर्वकारि-
णः प्रयासः, विदुषां च स्वर्गापवर्गार्थ चैत्यवन्दना.
दिप्रयासः, तदुपदेशश्च देशिकानामनर्थकः स्यात्-अ.
न्त्यक्षणप्राप्ताविज्ञानादेव धर्माधर्मानपेक्षात् स्वर्गाप.
वर्गसिद्धेः, तस्मात्सहकार्यऽपेक्षाङ्गीकर्तव्या, ततश्च
सहकारिसंनिधिक्रमेण सम्भवति स्थायिनोपि भावस्य
क्रमेणार्थक्रियाकरणमिति विपक्षे बाधकप्रमाणाभा.
वादनियता क्षणिकत्वेन सत्ता नालं तदऽनुमापयि.
तुम् । न च ध्रुवभावितया विनाशस्य हेत्वन्तरानपे.
क्षत्वम्-घटसन्ताने कपालसन्तानस्य ध्रुवभाविनो मु.
सलमहारादिहेत्वन्तरापेक्षादर्शनादऽनैकान्तिकत्वात् ।
ननु हेत्वन्तरेण भावाद् भिन्ने विनाशे जाते वि.
नाशिनोपि भावस्य पूर्ववदुपलब्धिः स्थात् तस्मात्
स्वाभाविको विनाशः । किमिदं स्वाभाविकम् !
कार्यजननार्थमितिभावः । परिहरति । सत्यमिति । विपक्ष इति ।
क्षणिकत्वविपक्षे स्थायित्वपक्षे अर्थक्रियाकारित्वे बाधकप्रमाणा-
भावादित्यर्थः । ततः किमत आह । अनियतेति । प्रभायाः
लणिकत्वव्यभिचारादगमकत्वमित्यर्थः । उक्तषणपरिहारो-न
चेत्यादिना । न चेति प्रतिज्ञायां हेतुः घटसन्तान इति । कि-

शब्दानत्यत्त्ववाद:] शास्त्रदीपिकायाम् । इति । भावस्वभावादेव विनाशो जायने न हेत्व. न्तरादित्यर्थः। ननु भावादपि जातो विनाशो भावाद् भिन्न- श्चेत् ? तुल्य एव दोषः-पूर्ववदुपलब्धिः स्थादिति । अथाऽभिन्न एव विनाशो भावात् ? ततो विनाशस्था- ऽप्रत्यक्षत्वाद् भावोप्यऽप्रत्यक्षः स्यात् । अत्यन्तवि- परीतस्वभावयोश्च भावाभावयोरेकत्वाभिधानं सा- हसमात्रम् । अथापि विनाशो नाम न किं चिद् भिन्नमभिन्नं वा तत्त्वं तुच्छत्वादिति ? । ततो जातस्य भावस्या- सति विनाशे नित्यत्वमेव स्यादिति सुसमर्थितः क्ष- णभङ्गः । तस्माद् भिन्नेनापि विनाशेन भावस्योपल- ध्यादि निरस्यत इत्यऽकामेनाप्यभ्युपगन्तव्यम् । यत्तु प्रतिक्षणमवस्थाभेद इति, भवतु. नैतावता. ऽवस्थावतो भावस्य प्रतिक्षणं विनाशेन भवितव्यं प्रमाणाभावात्, नानाऽवस्थानामपि युगपदेकस्मिन् मिदमितिसिद्धान्तिप्रश्नः । भावस्वभावादिति-क्षणभङ्गवादिन- उत्तरम् । ननु भावादपीत्यादिःसिद्धान्तिग्रन्थः । दोषमेवाह । दिति । यथा विनाशात्पूर्वकाले उपलम्भस्तथा विनाशोत्तर- कालेऽप्युपलम्भः घटजन्मनि पटस्येवेत्यर्थः । एतच्चाभ्युपेत्यवा- देनोक्तम् । वस्तुतस्त्वभेदएव न सम्भवतीत्याह । अत्यन्ते- ति । अन्यदप्याशा निराकरोति । अथापीति । नानेति । नानावस्थानामपि अविरुद्धानामेकस्मिन्धर्मिणि युगपत्सम्भवा- त् विरुद्धानां च क्रमेण सम्भवात् नावस्थाभेदमात्रेण क्ष- ५३ ४१८ युक्तिनेहमपूरणीसहितायां [अ०१पा०११०६सू०२३ धर्मिण्यऽविरुद्धानां क्रमेण विरुद्धानां च संभवात, त. तश्च नूतनाद्यवस्थाः क्रमेणानुभूय पुराणावस्थां प्रा. सस्य प्रयत्नरक्षितस्थापि युक्तोऽवयव विश्लेषाद्विना- शः । न च सत्तया दीपदृष्टान्तमात्रेण घटादेरपि क्षणिकत्वम्-सत्तायाः संदिग्धविपक्षव्यतिरेकादऽहे- तुत्वात् । प्रतिज्ञायाश्च प्रत्यभिज्ञाप्रत्यक्षविरोधात् । न च सादृश्यात्तदुपपत्तिः-अवयवसामान्याऽसंभ- वात्, अनुवृत्तं हि सामान्यं भवति न च सर्वक्षणि- कवादिनामनुवृत्तं किंचित्संभवति, सम्भवे वा न स- वक्षणिकत्वम्, तस्मान्न सर्वभावानां क्षणिकत्वं न तरां शब्दस्य, तस्य ह्यन्तेपि विनाशो नास्ति यतः सूक्ष्म- विनाशकल्पना स्यात, तस्मानित्यः शब्दः । प्रयोगश्च भवति-नित्यः शब्दः श्रावणत्वाच्छब्दत्ववत् । णिकत्वसिद्धिरिति तात्पर्यार्थः । विनाशस्तु युज्यत इ. त्याह । ततश्चेति । सत्ताया इति । विपक्षे स्थायित्वे स. चायाः सम्भवाम्यभिचारेणाहेतुत्वमित्यर्थः । निराकरणम्- पसंहरति । तस्मादिति । सूक्ष्मविनाशः प्रतिक्षणविनाशः । म- हामकृतं निगमयति । तस्मादिति । युक्तिभिरुपपादितमर्थ प्रयोगेण द्रढयति । प्रयोगश्चेति । न चास्य वायुधर्मभूतैर्ध्वनिभि- यभिचारस्तेषामपि श्रावणत्वादितिवाच्यम् । ध्वनिधर्मान्यत्वे सतीति विशेषणात् । यथाहुद्धाः- "हेतुरेव त्वसौ स्पष्टो नित्यत्वस्योपलभ्यते । भूतावयवधारव्यध्वन्यन्यत्वाविशेषितः इति" । - शब्दनित्यत्त्ववादः] शास्त्रदोपिकायाम् । ४१९ न च शब्दत्वं नास्तीति भ्रमितव्यं प्रत्यभिज्ञा- नात्- अरण्ये हि गच्छन्तोऽश्रुतपूर्व शब्दविशेषं श्रु- त्वा कस्यायं प्राणिनः शब्द इति संदिहते, न च सा- मान्यदर्शनमन्तरेण विशेषसंशयो घटते । तथाऽवा- अर्थापत्यभिप्रायेण वर्णितमपि सूत्रं प्रयोगाभिप्रायेण वर्ण- यितुं शङ्कते । न चेति । "अत्रोच्यते स्थिरः शब्दो धूमगोत्वादिजातिवत् । संवन्धानुभवापेक्षसामान्यार्थावबोधनात्" (श्लो.वा.श.३११) यथा धूमत्वमग्नेर्गमकं गोत्वं च विषाणित्वस्येति दृष्टान्ता- थः । न चानित्यत्वानुमानेनास्य सत्प्रतिपक्षतेति वाच्यम् । तस्य दुष्टत्वात् । न तावत्कृतकत्वेन तत्साधनं कृतकत्वस्य परं प्र- त्यसिद्धेः । नाप्यन्द्रियकत्वं हेतुः आद्यमध्यमशब्दयोरैन्द्रियक- त्वाऽसिद्धेः औलूक्यादिभिरन्त्यस्यैव तदङ्गीकारः। अथान्त्य एव पक्षोऽस्तु नैवं ? मीमांसकं प्रत्याश्रयाऽसिद्धेः तेनान्तिमशब्दान- ङ्गीकारात् । अविशेषेण तु सर्वशब्दपक्षीकरणे भागासिद्धो हेतुः आद्यमध्यमेष्वव्याप्तेः । न च पक्षतावच्छेदकनानात्वे एव दृषणमिति वाच्यम् । एतस्य परिभाषामात्रत्वात् । आद्यमध्यमश- ब्दयोरनित्यत्वाऽसिद्धेः। किञ्चन्द्रियकत्वस्य सामान्येष्वपि स. त्वाम्यभिचारः । सामान्यवत्वेसतीति विशेषणेऽपि व्यभिचारः गोत्वादीनामपि सचासामान्ययोगित्वात् । व्यक्त्यतिरिक्तजात्य- गीकारे मीमांसकं प्रति तद्वत्वमसिद्धम् । अभेदाङ्गीकारेतु ता. किंकं प्रत्यसिद्धिरिति दिक् । पक्षसाध्यहेत्वादिषणप्रपश्चस्तु वार्तिके ऽवगन्तव्यः । प्रसङ्गादवान्तरसामान्यं साधयति । तथेति । अवा- युक्तिस्नेहमपूरणीसहितायां [अ०१पा०१२०६सू०२३ न्तरजातिरपि वर्गतृतीयगकारादिष्वनुवृत्ता ककारा. दिभ्यो व्यावृत्ता का चिदस्ति । तथा वर्गप्रथमेषु द्वि- तीयेषु चतुर्थेषु पञ्चमेषु च यथास्वमनुवृत्ताः सन्तिं जातयः। कथभवगम्यते ? । प्रत्यभिज्ञानादेव, तथा हि- कियत्यपि दूरदेशे दकारमुच्चारितं श्रुतवतां गकारा- दिषु संशयो भवति, न चायं संशयो दत्वनिवन्धनो गकारादिष्वभावात्, अतोस्ति तृतीयादिष्वनुवृत्तम- ऽन्येभ्यो व्यावृत्तं रूपं यदुपलम्भादेष संशयः । तथा धकारोच्चारणे भकारादिषु संशयो नान्येषु, तेन चतु- थेष्वप्यस्ति सामान्यम्, एवं प्रथमेषु द्वितीयेषु पञ्चमेषु च यथास्वं सामान्यानि, तैरेव दृष्टान्तैः शब्दस्य श्रा- वणत्वहेतुना नित्यत्वानुमानम् । ननु शङ्खादिनादानामनित्यत्वेपि श्रावणत्वाद. नैकान्तिको हेतुः ? । न, तेषामपि प्रत्यभिज्ञया नित्य- त्वात् । यदि तेषु प्रत्यभिज्ञा नास्ति ततो, ध्वन्यऽन्य. त्वे सति' इति विशेषणादऽव्यभिचारः । यदा चा- नित्यत्वं ध्वनीनां तदा कार्यस्थाऽनाश्रितस्यानुपपत्ते- . न्तरसामान्यसाधनस्य प्रयोजनमाह । तैरेवेति । अत्र सांख्यानां सत्वरजस्तमःस्वभावः शब्दः आर्हतानां पुद्ग- लारब्धः औलूक्यानामाकाशगुणः । शिक्षाकारस्यार्थवाच- करूपेण शब्दात्मना परिणतोवायुरेव शब्दः । वैयाकरणानान्तु स्फोट एव शब्द इति । तदत्र नानामतातिरेकेण स्वमतं द- शयितुमाह । यदा चेति । अस्त्वेकमेवाश्रयरूपं द्रव्यं तत्राह ।

शब्दनित्यत्त्ववादः] शास्त्रदीपिकायाम् । ४२१ राश्रयभूतेन केनचिद् द्रव्येण भवितव्यम्, तस्य चा- ऽनेकत्वे प्रमाणाभावादेकत्वे, द्रव्यस्यैकद्रव्याश्रित- स्याऽभावाद् द्रव्यान्यत्वे, शब्दस्य संयोगविभागयो- रनपेक्षकारणत्वाभावादऽकर्मत्वे सति पारिशेष्याद् गुणत्वमेव ध्वनीनां भवति । तत्र पार्थिवभेर्यादिगुणत्वे तरङ्गाद्याप्पद्रव्यगुणत्वे वा श्रवणप्राप्त्यऽसंभवान्न तग्राह्यत्वं सिध्येत्, त- स्मान्न पृथिव्यादिगुणत्वम् । वायुगुणत्वं तु युक्तम्- मुखशङ्खादिसंयोगाद् भेरीदण्डसंयोगादऽन्यतो वा निष्पद्यमाना वायवस्तच्छन्दविशेषगुणका निष्पन्नाः सर्वासु दिक्षु प्रविशमानाः श्रोत्रेण संयुज्यन्ते ततश्च संयुक्तसमवायात्तद्गतः शब्दः श्रोत्रेण गृह्यते । य- स्मादेव वायुगुणः शब्दस्तस्मात् यत्कश्चिदुच्यते-'श- ब्दलिङ्गमाकाशम्' इति तन्निरस्तम् । वर्णानां तु नि- त्यानां द्रव्यत्वमेवानी क्रियते । नन्वेषामपि शब्दत्वाद् ध्वनिवद् गुणत्वानुमान- मिति चेत् ? । न, वर्णा न गुणा ध्वन्यऽन्यत्वे सति श्रावणत्वाच्छन्दत्ववद् दिग्वत् कालवच्चेति प्रतिसा- धनसद्भावात् । यथा च दिकालयोः श्रावणत्वं तथा एकत्व इति । द्रव्यत्वं त्वनेकद्रव्याश्रितमेव दृष्टं अत एक- द्रव्याश्रितस्य द्रव्यत्वासम्भवात् नादस्य द्रव्यान्यत्वमित्यर्थः । कर्मत्वमपि न सम्भवति तल्लक्षणाऽभावादित्याह । शब्दस्येति । एवं गुणत्वे स्वमते वायुगुणत्वं वक्तुं परिशिनष्टि । तत्रेति । एवं शब्दमात्रस्य वायुगुणत्वे वर्णेषु विशेषमाह । वर्णानामिति ।

४२२ युक्तिस्नेहप्रपूरणीसहितायां [अ०१पा०१अ०६सू०२३ प्रागेवोक्तम् । यत्तु स्पर्शविरहित्वे सत्येकेन्द्रियग्राह्य- स्वादूपादिवच्छब्दस्य गुणत्वमिष्यते, तस्यापि यथो- कमेव प्रतिसाधनमित्यास्तां तावत् । तस्माद् ह्यस्त- नायतनयोः प्रत्यभिज्ञानाद्वर्णानां न तावत् प्रत्युच्चार- णमन्यत्वम् । एवं चोचारणं शब्दस्य न कारणं किं त्वभिव्यञ्जकमिति सिद्धम् । न चोचारणादन्यत् का. रणं संभवतीत्यऽकार्यत्वम्, अत एवाऽविनाशान्नित्य- त्वसिद्धिः । इदमेव हि नित्यत्वम्-यत्स्वरूपसद्भावे स- त्युत्पत्तिविनाशरहितत्वम् ।। (इति षष्ठं शब्दनित्यताधिकरणं सम्पूर्णम् ।) न तावदिति । अतो नोच्चारणं वर्णानां कारणमिति । एवं शा. ब्दमात्रस्य वायुगुणतेतिभावः । कथं तर्हि तदनुविधानं वर्णा- नामतआह । एवमिति । ततश्च दर्शनस्य परार्थत्वादित्यस्य उच्चारणस्य शब्दाभिव्यत्यर्थत्वादित्यप्यर्थः सम्भवतीति भावः। अधिकरणार्थमुपसंहरति । अत इति । अत्र द्वितीयं सिद्धा. न्तसूत्रम् । सर्वत्र यौगपद्यादिति । इतोऽपि नित्यः शब्दः यतो गोशब्दात्सर्वत्र सर्वगवीषु युगपत्प्रत्ययो जायते । अत आकृतिवचनोऽयं नचाकृत्या शब्दस्य सम्बन्धः शक्यते कर्तु. मिति सम्बन्धनित्यत्वद्वारा शब्दनित्यत्वं साध्यते । विनष्टे शब्दे तन्नित्यताया असम्भवात् । विनश्वराणामपि व्यक्तीनां जा- तिसम्बन्धोनित्यो दृष्ट इति चेत् । तत्र जात्याश्रयाणां व्य- तीनामत्यन्तानुच्छेदात् सम्बन्धनित्यत्वम् । तर्खनुच्छेदरूपेण सर्वथा सन्त्येव । गोशब्दानान्त्वनुच्छेदरूपेण स्थित्यभावात् । ननु सम्बन्धनित्यताया अभावात्कथ तद्द्वारा शब्दनित्यत्वास- शब्दनित्यत्त्ववादः] शास्त्रदीपिकायाम् । ४२३ द्धिः ? । नैषदोषः । सम्बन्धस्य कृत्रिमत्वेऽङ्गुल्या कश्चिदेकमर्थं निर्दिश्य सम्बन्धः क्रियेत अनेकव्यक्तिष्वङ्गुलिनिर्देशाऽसम्भ- वात् ततश्चैकव्यक्तिनिष्ठः सम्बन्धोन सार्वत्रिकः स्यादिति न सर्वगवीषु प्रत्ययः सिध्येत् । जातिमेव निर्दिश्य सम्बन्धःक्रियत इति चेत् । न । बहुजातिसन्निधाने हि सकृच्छ्रुतस्य गोश- ब्दस्य गोत्वमात्रशक्तिनिर्धारणा न स्यात् । यथाहु:- "पार्थिवद्रव्यसत्वादि लाकुलत्वादिसकरात् । विनाप्रयोगभूयस्त्वान्न स्यागोत्वाऽवधारणा" (श्लो. वा. श. ३६०) इति । नित्ये तु गोशब्दे सति बहुकृत्व उच्चारितः श्रुतपूर्वस्या- न्यासु गोव्यक्तिष्वन्वयव्यतिरेकाभ्यामाकृतिवचनतामवगमयि- ध्यति । तस्मादपि नित्यः । प्रयोगश्चात्र वार्तिककारर्दर्शित:- "तस्मादकृत्रिमः शब्दोन कदाचिद्विनश्यति । नित्येन नित्यसम्बन्धादाकाशपरमाणुवत्" (श्लो.वा.श.३६१ अथ वा शब्दनित्यत्वमेवानेन सूत्रेणोच्यते न सम्बन्धनि- त्यत्त्वं नित्येत्यादिभाष्यपर्यालोचनयैवमर्थावगमात् । यथाहुः- बहुभिः श्रवणैरेष प्राणित्वादीनि वर्जयेत् निकृष्टगोत्ववाचित्वं चिरेण प्रतिपद्यते" श्लो.वा.श.३६५) तावत्कालं स्थिरं चैव कः पश्चान्नाशयिष्यति"। तथा परं सूत्रम् सङ्ख्याऽभावादिति । अष्टकृत्वो गोशब्द उच्चारित इति हि वदन्ति नाष्टौ गोशब्दा इति तेनैकत्वमवगम्यते भिन्नत्वे तु शब्दस्याष्टौ गोशब्दाइति सङ्ख्यया भाव्यं साच नास्ति अतः सएवायमिति प्रत्यभिज्ञानादेकत्वं शब्दस्य । सादृश्यात्मत्य भिज्ञानमिति चेत् । न । तादृश इति प्रतिपत्त्यभावात् कृत्वमुच् प्रत्ययानुपपत्तेश्च । योऽयं क्रियाभ्यावृत्तिगणनविहितकृत्वसुच् “ ४२४ युक्तिनहापूरणीसहितायां अ०१पा०अ०६सू०२३ . प्रत्ययः स क्रियावतामभेदे भवति । तेन पूर्वोच्चारितस्यैव गो- शब्दस्य पुनरुच्चारणक्रियैवानुवर्तत इत्यवगम्यते । तदुक्तम्- " क्रियावतामभेदे हि क्रियावृत्तिषु कृत्वसुच् । तत्प्रयोगाद्धृवं तस्य शब्दस्यावर्तते क्रिया"(श्लो.वा.श.३६७) भुक्तवन्तोऽष्टकृत्वो ब्राह्मणा इति प्रयोगदर्शनाद् व्यभि- चारी कृत्वमुच्प्रत्यय इति चेत् । नैषदोषः । कृत्वसुच्प्रत्ययेनाऽत्र प्रत्यभिज्ञानरूपप्रमाणान्तरोपस्थापनात् । नापि कृत्वसुचो व्यभि- चारः एकब्राह्मणत्वविवक्षयात्र प्रयोगनिष्पत्तेः । “अत्र बुद्धि- कर्मणी अपीत्यादिशङ्कापरिहारभाष्यं नहि ते प्रत्यक्षे, अथप्रत्य- क्षे? ते अपि नित्ये एवेति"। तदनुपपन्नमिव प्रत्यक्षत्वेन हि नि- त्यत्वं साधयतो घटादिभिर्व्यभिचारः स्यात् । अप्रत्यक्षत्वेन चा. नित्यत्वसाधने व्योमादेरप्यानित्यता स्यात् । ततः परिहारभाष्य- स्यायमभिप्रायो वर्णनीयः नास्माभिः प्रत्यभिज्ञा शब्दस्य नि- त्यत्वे हेतुत्वेनोक्ता येनानैकान्तिकत्वमुच्येत । किन्त्वनित्य- त्ववादिनं प्रति प्रत्यभिज्ञाप्रत्यक्षविरोधोयमुक्तः । नच प्रत्य- क्षस्यानैकान्तिकत्वं दूषणं स्यात् । अथवा लिङ्गत्वेऽपि प्रत्यभि- ज्ञाया नानैकान्तिकत्वं प्रत्यक्षत्वेन विशेषणात् न हि बुद्धिक- मणोः प्रत्यक्षत्वमिति भाष्यार्थः । न च घटादिभिर्व्यभिचारः स्थायित्वमात्रसाधने तस्य दृष्टान्तत्वात् । नित्यत्वसाधनत्वे तु श्रौत्रप्रत्यक्षत्वमेव हेतुः शब्दत्वञ्च दृष्टान्त इति । ननु कर्मणः प्रत्यक्षत्वात्कथमप्रत्यक्षत्वाभिधानम् । नैषदोषः । परमाण्वा- याश्रितकर्माभिप्रायत्वात् । प्रत्यक्षत्वाऽभिधानन्तु प्रत्यक्षद्रव्य- वृत्तिकाभिप्रायं तस्य तु शब्दत्ववदेव प्रत्यक्षत्वानित्यत्वमि- टमेवेति । यथाहुः- शब्दनित्यत्ववादः] शास्त्रदीपिकायाम् । ४२५ " यत्कर्मातीन्द्रियाधारं तदप्रत्यक्षमिष्यते । प्रत्यक्षद्रव्यवर्तिन्यो दृश्यन्ते याः क्रियाः पुनः ॥ तासां वर्णवदेवेष्टं नित्यत्वं प्रत्यभिज्ञया"(श्लो. वा.श.३९५ यदि नित्या एव ताः किमिति नित्यं नोपलभ्यन्ते ? । व्य. अकाऽभावादिति ब्रूमः । किं तदभिव्यञ्जकमिति चेत् ? कर्मों- त्पादकत्वेन यत्त्वदभिमतं नोदनाभिघाताख्यं तदेवाभिव्यञ्जक- मिति गृहाण । व्यञ्जकाऽभावाच्च सन्ततानुपलम्भः । यथाहुः- तव शब्दत्वकर्मत्वे नित्ये अपि सती यथा । न नित्यमुपलभ्येते तथा मे बुद्धिकर्मणी"(श्लो.वा.श.३९७ बुद्धश्चैकत्वेऽपि प्रयत्नभेदानेदः कर्मणश्च देवदत्तश्चलति यज्ञदत्तश्चलतीत्याश्रयभेदानेद इति । ननु कर्मणः संयोगवि- भागाख्यकार्यनाश्यत्वात् कथं नित्यत्वसिद्धिः ?। सत्यम् । तत्तु कर्मणा द्रव्यसम्बन्धमेव नाशयति न कर्मस्वरूपम् । द्रव्य- सम्बन्धनमेव वाभिव्यक्तिः । क्रिया हि जातिवदेव यस्मिन्द्र- व्ये तादात्म्यं समवायं वा सम्बन्ध प्रतिपद्यते तत्रैव गृह्यते अतः सम्बन्धनमेव वाभिव्यक्तिः । बुद्धेश्चैतन्यरूपत्वादेव नित्यत्वम् । चैतन्यं चितिशक्तिः तच्च पुंसः स्वाभाविकत्वान्नित्यमेकं च । गोबुद्धिरश्वबुद्धिरित्यादिभेदस्तु विषयनानात्वात् । यथाहुः- बुद्धीनामपि चैतन्यस्वाभाव्यात्पुरुषस्य नः। नित्यत्वमेकता चेष्टा,भेदस्तु विषयाश्रयः"(श्लो.वा.श.४०५)। ननु भाष्ये बुद्धरेव नित्यत्वमुच्यते नतु तच्छक्तेः ? । स. त्यम् । चैतन्यमेव भाष्ये बुद्धिशब्देनोच्यते तत्तु समर्थ शक्तियु- क्तमिति यावत् । यदि चैतन्यः पुमान् किमिति सर्व सर्वदा न जानाति । मैवम् । शक्तस्यापि सहकारिसन्निध्यपेक्षणात् । उक्तश्च युक्तिस्नेहप्रपूरणीसहितायां [अ०१पा०अ०६सू०२३ ? " स्वरूपेण यथा चानिनित्यं दहनकर्मकः । उपनीतं दहत्यर्थ दाह्यं नान्यत् न चान्यथा"(श्लो.वा.श४०५)। ननु विषयान्तरसञ्चारे पूर्वबुद्धर्भङ्गित्वाऽवगमात्कथं नित्य- त्वम् ? । सत्यमेतत् । विषयोपनेतृचक्षुरादिकरणव्यापारभङ्गा- तन्निमित्तोप्यात्मविकारो भज्यत इति भङ्गबुद्धिर्न चैतन्यभका- दिति । ननु बुद्धिश्चैतन्यं चितिशक्तिः तस्याश्चाप्रत्यक्षत्वात्कथं प्र- त्यक्षत्ववचनम् । सत्यम् चितिशक्तिरमत्यक्षा, अत्र तु चैत- न्यस्वभावः प्रमातैव लक्षणया बुद्धिशब्देनोच्यते स च प्रत्य- क्षो नित्यश्च तस्य ज्ञानाख्योविकारोऽप्रत्यक्षोऽनित्यश्चेति तद- भिप्राय पूर्वभाष्यम्, तदेवं भाष्यार्थः-यत्पूर्वपक्षवादिना बुद्धि- कर्मणोनित्यत्वप्रसञ्जनं कृतं तद्यदि ज्ञानस्वरूपविकाराभिप्राय तदयुक्तं तस्याऽप्रत्यक्षत्वात् । अथ चिच्छक्तिस्वभावपुरुषा- भिप्राय ? सतु नित्य एवेति । एवं शुक्लादिगुणानामपि नित्यत्वै. कत्वेऽवगन्तव्ये । भेदबुद्धिस्तु भिन्नाश्रयसंसर्गात् । स्वरूपैकत्वे च तत एव प्रत्यभिज्ञोपपत्तेर्न गुणत्वरूपत्वातिरेकेण शुक्लत्वा. दिजातिः कल्पनीया । योप्ययमतिशुक्लोयमीषच्छुक्लइति भेदः सोपि संसर्गभेदात् । तथाहि केवलद्रव्यसंसर्गेऽतिशुक्लं नीलादिसंसर्गे त्वीपदिति । यदपि धूसरस्वच्छभासुरपार्थिवा- प्यतैजसेषु द्रव्येषु शुक्लस्य वैलक्षण्यं तदपि भिन्नजातीयद्रव्य- संसर्गभेदनावगन्तव्यम् । ज्वालादेः क्षणिकत्वेऽपि प्रत्यभि- ज्ञाऽस्तीति चेत् । सत्यम् । सा यदि सामान्यविषया न दोषः कैश्चित्तस्य नित्यत्वानङ्गीकारात्, व्यक्तिविषया तु तद्ताऽभेदबु- यैव बाधिता नालं नित्यत्वं साधयितुं, प्रत्यभिज्ञा तु ज्वाला- दीनां सादृश्यादपि सम्भवति, शब्देतु नैवं बाधकमस्तीतिदिक् । शब्दनित्यत्वे तु प्रयोगा वार्तिकेऽवगन्तव्याः।तथाऽपरंसूत्रम्- १ शब्दनित्यत्त्ववादः) शास्त्रदीपिकायाम् । ४२७ "अनपेक्षत्वा"दिति। यथाऽभिनवं पटादिकं क्रियमाणमनुपलभ्या- पि वर्तमानदशायां तन्त्वादिसंयोगापेक्षजन्मा पटादिरित्यध्यवसा. य नूनमेतत्तन्त्वादिनाशात्तत्संयोगनाशाद्वा विनश्यतीत्यनित्यत्व. मध्यवसीयते नैवं शब्दस्य किञ्चित्कारणमवगम्यते यद्विनाशा- द्विनङ्ग्यतीत्यवधारणा भवाते अतोऽवयवतत्संयोगादिकारणान- पेक्षत्वादसम्भावितविनाशो नित्यएव शब्द इति सूत्रार्थः । ननु वायुरापद्यते शब्दतामिति शिक्षाकारवचनात्पटादिवदवयवि- द्रव्यविशेषः शब्दोऽतस्तद्वदेवावयवसंयोगविशेषविनाशात्सम्भ- वत्येवास्य विनाशइति शानिराकरणार्थं सूत्रम् । प्रख्या. ऽभावाचयोगस्येति । प्रकृष्टा प्रत्यक्षाख्य प्रख्या प्रत्यभिज्ञति यावत् । वायवीयावयवयोगस्य अन्वयस्य कार्ये शब्द प्र- त्यभिज्ञाऽभावात् न तत्कारणकत्वं शब्दस्येति सूत्रार्थः । यदाह भाष्यकारः “वायवीयश्वेच्छब्दोभवेत् वायोः संनिवेशविशे- प: स्यात् । न च तानस्य वायवीयानवयवान् शब्दगतान् स्पृशामः तस्मान्न वायुकारणकः शब्दः अतोनित्यइति । वा- त्तिकं च- "शब्दो यथा पौद्गलिको निषिद्धः स्याद्वायवीयस्य स एवमार्गः। तस्मादनिर्धारितहेतुभागः सर्वत्र साक्षाद्भवतीति नित्यः" (श्लो. वा. ४४४ श.)। इतश्च नित्यः शब्द इत्याह । “लिङ्गदर्शनाच"। एतच्च वा- तिककारैः स्पष्टार्थत्वात्त्यक्तम् । अन्यपदं वाक्यमन्यार्थद्योतकं लिङ्गमित्युच्यते । तदत्र शब्दस्य नित्यत्त्वे दृश्यते "वाचा विरू- पनित्ययेति" । रूपयतीति रूपं वाचः कर्त्ता तद्रहितत्वेन नित्या वेदवाक् विरूपनित्यत्युच्यते । तयेति श्रुत्यर्थः । इयं चाग्नि- ४२८ युक्तिस्नेहपूरणीसहितायां [अ०१पा०१०६सू०२३ पदा ऋक् अतोऽत्रलिङ्गं तदर्शनानित्यः शब्द इति । उक्तं च-"अन्यपरं हीदं वाक्यं वाचोनित्यतामनुवदती"ति । भाष्य वार्तिकयोदृष्टमुपयुक्तं स्वदर्शने । ग्रन्थकारेण च त्यक्तं प्रमेयं लिख्यते मया ।। नन्वस्तु नामैवं शब्दनित्यत्वं तथाप्यानुपूर्व्यनित्यत्वा- दनित्यत्वमापन पदं हि वाचकमिष्टं तच्च क्रमाधीनं वि. शकलितानां वर्णानामवाचकत्वात् क्रमश्चानित्यः तथाहि देशतः कालतोवा क्रमोभवति। नच वर्णानां सर्वगतानां च स्वतः क्रमः सम्भवति । बनयो हि क्रमवर्तिनः क्रमेण शब्दानाभिव्यञ्जयन्तः स्त्रीय क्रमं वर्णेष्वपि दर्शयन्ति । क्रमरचना च पुरुषाधीना यथाविवक्षं तदुपपत्तेः अतः पुरुषपारतन्त्र्यादप्रामाण्यापत्तिः । अतो निष्फलमेव वर्णानां नित्यत्वप्रतिपादनम् । नहि तन्नि- त्यत्वे वाचकस्य पदस्य नित्यत्वं सिद्ध्यति । न हि परमाणूनां नित्यत्वादारब्धे घटादौ नित्यत्वं दृष्टम् । यथाहुः- "वर्णाः सर्वगतत्वाद्वो न स्वतः क्रमवृत्तयः । अनित्यध्वनिकार्यत्वात्क्रमस्यातोविनाशिता ॥ २७९ ॥ पुरुषाधीनता चास्य तद्विवक्षावशाद्भवेत् । वर्णानां नित्यता तेन निष्फला परमाणुवत्" ॥ २८० ।। (श्लो. वा. शब्द) किश्च क्रम विना वर्णानां प्रतिपादकत्वाऽसम्भवात् क्रम- स्य च वाचकत्वात्पदत्वं न क्रमविशिष्टानां वर्णानां तस्य चा- नित्यत्वाद्वाचकानित्यत्वमिति । अत्रोच्यते । न तावत्क्रमस्य पदत्वप्रसक्तिः वस्त्वन्तराधारस्य स्वतन्त्रस्य क्रमस्याऽदर्शनात् । अतोऽत्रगुणप्रधानभाव एव विचारणीयः किं क्रमविशिष्टा वर्णा शब्दनित्यत्त्ववादः शास्त्रदीपिकायाम् । ४२९ एव वाचकाः उत वर्णाश्रितः क्रम इति । एवञ्च सति क्रमवतां वर्णानामेव वाचकत्वं प्राधान्यात् न क्रमस्य । सर्वपदार्थाङ्ग- त्वेन तस्याऽवगमात् । न ह्यसौ स्वतन्त्र एव वस्त्वन्तरत्वेन क- चिद्व्यवह्रियते अत एव विशिष्टा वर्णा एवास्माकं प्रतिपाद- काः न क्रममात्रम् । नन्वस्तु नामैवं तथापि क्रमस्य पुरुषार्थत्वा- तद्विशिष्टवाचकस्यापि पौरुषेयत्वमापत्स्यते । तन्न । अत्राहुः- "नच क्रमस्य कार्यत्वं पूर्वसिद्धपरिग्रहात् ॥ २८७ ।। वक्ता न हि क्रमं कश्चित्स्वातन्त्र्येण प्रपद्यते ॥ यथैवास्य परैरुक्तिस्तथैवैनं विवक्षति ॥ २८८ ।। परोप्येवमतश्चास्य सम्बन्धवदनादिता ।। तेनैवं व्यवहारात्स्यादकौटस्थ्येऽपि नित्यता ॥ २८९ ॥ यवतःप्रतिषेध्या नः पुरुषाणां स्वतन्त्रता"(इलो.बा.श.)इति।। ननु वर्णानामपि व्यवहारादेवानिदंप्रथमत्वरूपनित्यत्व- मस्तुकिं कूटस्थनित्यतयेति चेत् । नैवम् । वर्णानामनित्यत्वे व्यवहारस्यैवानुपपत्तेः। तथाहि-वर्णेषु नित्येषु सत्सु तानेवा- दाय प्रयोगविशेषेण शक्यते क्रमविशेषोनिष्पादयितुं परमाणु- भिरिव घटादीनि । वर्णाऽभावेतु किं मूला रचना स्यात् । नहि निरुपादानं कार्यरचनं सम्भवति । न च नित्यविभूनां क्रमा. नुपपत्तिरिति वाच्यम् । ध्वनिवशात्तदुपपत्तेः । ताल्वादिसंयोग- विभागक्रमवशेन तत्प्रेरितानां ध्वनीनामपि क्रमो भवति । ताल्वादयो ध्वनयश्च जात्याऽनित्याः । तेन गकारौकारवि- सर्जनीयानां क्रममिच्छन् तदभिव्यञ्जकानां ध्वनिजातीयानां तदनुरूपेण क्रमेण प्रेरणं चिकीर्षन ताल्वादिसजातीयानां स्था.

20 ४३० युक्तिस्नेहप्रपूरणीसहितायां [अ०१पा०१२०६सू०२३ नानां संयोगविभागौ क्रमेणारभत इति तद्वशेन व्यापकानामपि वर्णानां क्रमग्रह इति । केचित्तु क्रमस्य कूटस्थत्वमेवाहुः-तथाहि पौर्वापर्य क्रमः चिरक्षिपात्मकं च दीर्घादिरूपं, पूर्वापरचिरक्षिप्र- प्रत्ययाच कालालम्बनास्तेन ध्वनिभिर्वर्णेषु पूर्वापरभागेन व्य- ज्यमानः काल एव क्रम इति । ननु काल एव चेत्क्रमः स चैको विभुर्नित्यश्च कथं पूर्वापरेण रूपेण विभक्तो भासते । उच्यते । यथा वर्णोनित्यः सर्वगतोऽपि दीर्घादिरूपेण विभक्तो भासते ध्वन्युपाधिवशात् तथा कालोऽपि स्वयमभिन्नोऽपि आदित्यगतिक्रियोपाधिवशाद्भिन्नोभासते उपाधयश्व विनष्ट- वर्तमानानागताः सूर्यादिक्रिया इति तद्वशेन कालेऽप्यतीतादि- विभागः क्षिमत्वं चाल्पक्रियावच्छेदात् । बहुक्रियावच्छेदाच्चि- रत्वमिति क्रमस्य नित्यत्वे पदस्यापि नित्यत्वं सिद्धम् । यथाहुः- "तस्मान्न पदधर्मोऽस्ति विनाशी कश्चिदीदृशः । तेन नित्यं पदं सिद्धं वर्णानित्यत्ववादिनाम्" ३०५ (श्लो. वा. श.) ॥ ननु ध्वनिधर्माः क्रमादयः कथं वर्णानामर्थं प्रत्याययतामङ्गं भवन्ति । अत्राहु:- "परधर्मेऽपि चाङ्गत्वयुक्तमश्वगजादिवत्"(इलो.वा.शब्द.)। किं पुनः क्रमादीनां व्यवहारनित्यत्वे प्रमाणम् ? । अर्थाप- तिरेवेति ब्रूमः पूर्वोक्ता बर्थापत्तिर्वाचकरूपस्यैव नित्यत्वं कल्प- यति न वर्णस्वरूपमात्रस्यति ।। ॥ इति शब्दाधिकरणम् ॥

वाक्याधिकरणम् । ] शास्त्रदीपिकायाम् । ४३१ (सप्तमं वेदस्यार्थप्रत्यायकताधिकरणम् ) *उत्पत्तौ वाऽवचनाः स्युरर्थ- स्याऽतन्निमित्तत्वात् ॥२४॥ यद्यपि पदपदार्थसंबन्धस्थापौरुषेयत्वाद् वृद्धव्य- उत्पत्तौ वा ऽवचनाः स्युः । ननु पदपदार्थसम्बन्धस्य नि- *एवं शब्दस्य शब्दार्थसम्बन्धस्य च नित्यत्वेऽपि चोदना धर्म न प्रमाणमित्याक्षिपति । उत्पत्ताविति । उत्पत्तौ पदार्थज्ञानोत्पत्तौ सत्यां वाक्यवाक्यार्थणेः सम्बन्धा रचनाः पुरुषकल्पिताः स्युः अर्थस्य वाक्यार्थज्ञानस्य अतत्पदार्थशानभिन्नं निमित्तं कारणं य- स्य तत्त्वात् नहि पदार्थ एव वाक्यार्थ अतः पदस्य पदार्थे यथा शक्तिसम्बन्धः तथा पदसमूहरूंप वाक्यस्य वाक्याथै न शक्तिस- म्बन्धः किन्त्वन्यः स च पुरुषकल्पितः कृत्रिमः कथं धर्म प्रमाणमि- ति पूर्वपक्षसूत्राभिप्रायः॥ सिद्धान्तमाह-सू० तद्भूतानां क्रियार्थेन समानायः । तेषु अग्नि होत्राद्यर्थेषु क्लतानां प्रत्येकपदानां क्रिया- थैन-क्रियावाचिना पदेन सह समानायः पठनं दृश्यते अतः क्रिया- वाचकपदघटितदसमूहादेव अपूर्वो वाक्यार्थग्रहः अर्थस्य वाक्यार्थ ज्ञानस्य तन्निमित्तत्वात् तत्पदार्थज्ञानं निमित्त कारणं यस्य तत्त्वा. त् । अग्निहोत्रं जुहुयात्स्वर्गकाम इत्यत्र च अग्निहोत्रनामकहोमेन स्वर्ग भावयेदिति वाक्यार्थ ज्ञानं न पदार्थों पस्थितिमन्तरा भवति किन्तु पदादुपस्थितानामर्थानां योग्यतया परस्परसम्बन्धज्ञानमेव वाक्यार्थज्ञानमिति भावः ॥ २५ ॥ सू० लोके सनियमात् प्रयोगसन्नि कर्षः स्यात् ॥ २६ ॥ लोके-लौकिकशब्दे पदार्थ दृष्ट्वा पदार्थज्ञानपूर्व- कं-सनियमात् प्रयोगाद्वेदेपि गुरुपरम्परया ज्ञानपूर्वकः प्रयोगस्य सन्निकर्षः-उपपत्तिः स्यात् ॥ २६ ॥ इति सुबोधिनी । अत्रसप्तमं वाक्याधिकरणं समाप्तम् । अत्र सूत्राणि ३ । आदितः अधिकरणानि ७-आदितः सूत्राणि २६ । १ सुबोधिनीकारेण रचना इति पाठः परिगृहीतः परन्तु भा.

युक्तिनहापूरणीसहितायां अ०१पा०१अ०७सू०२४ वहारादेवार्थावगतिः सिध्यति तथापि वाक्यार्थरूपे धर्मे पुरुषसंकेतानपेक्षत्वान्न किं चिन्मूलं संभवतीत्य- ऽप्रामाण्यं धर्मे चोदनायाः- तथा हि- प्रत्येकं वा पदानि वाक्यार्थमवगमयेयु- स्तत्संघातो वाक्यं वा पदार्था वा?, न तावत् प्रत्येक पदेभ्यो वाक्यार्थप्रतीतिदृश्यतेन च पदानां वाक्यार्थ- विशेषैः संबन्धग्रहणमस्ति न च संभवत्यऽनन्तत्वाद्वा- क्यार्थानाम्, । वेदार्थस्य च प्रमाणान्तरागोचरत्वात् तेन संवन्धग्रहणमत्यन्तासम्भाव्यम्, अनन्तवाक्यार्थ- साधारणत्वाच्च पदार्थानां प्रत्येकं वाक्यार्थविशेषण त्यत्वे साधिते पुरुषानुप्रवेशाऽभावात्पतिज्ञातं चोदनाप्रामाण्यं सिद्धमेवेति किं वाक्यविचारेणेत्याशङ्कयाह । यद्यपीति । अनेन पूर्वोत्तरविचारयोराक्षेपसङ्गतिदर्शिता । अत्र कश्चिन्न तावत्पदार्थनित्यत्वं साधितमाकृतिग्रन्थे तत्सद्भावमात्रप्रतिपादनात् अतः पदपदार्थसम्बन्धानामपौ- रुषेयत्वानुभाषणमनुपपन्नम् ? । उच्यते । शब्दनित्यत्ववदा- कृतेरपि नित्यत्वैकत्वे सिद्धे दृष्टैकगोव्यक्तेरपरदर्शनेन स एवायमितिनिश्चयात् यागादेहि स्वर्गादिफलसाधनत्वांशो धः स च वाक्यार्थोनकेन पदेनोच्यत इति सङ्केता- ऽग्रहणानिर्मूलोवाक्यार्थप्रत्यय इत्यर्थः । निर्मूलत्वमेव दयितुं यावत्सम्भवं मूलानि विकल्प्य निराकरोति । तथाहीति । ननु वाक्यस्य पदसङ्घातरूपत्वात्कथं पृथनिर्देशः?। प्याद्या लोचने तु अवचना इत्येव पाठः ईक्ष्यते-शब्दार्थसम्बन्धा- ना मुत्पत्ती-नित्यत्वेऽपि चोदनाः-अवचनाः स्युः धर्मस्य प्रतिपाद- कानस्पुरर्थस्य-वाक्यार्थस्य-अतन्निमित्चत्वात् पदार्थानां वाक्या- नासम्बन्धादित्यर्थः॥

वाक्याधिकरणम् शास्त्रदीपिकायाम् । तिपादनमनुपपन्नम्, अगृहीतसम्बन्धत्वादेव च पद. संघातवाक्यपदार्थानामपि न सम्भवति प्रत्यायक- स्वम् । नचागृहीतसंवन्धः शब्दार्थ प्रत्याययति-बा. लानामप्रतीतेः, प्रतीतो व्युत्पत्तिवैयर्थ्याच्च । यद्यपि पदमज्ञातसम्बन्धं न प्रत्यायकं तथापि प. दसंघातो वा पूर्वपूर्ववर्णजनितसंस्कारसहितो वा- क्यान्त्यवर्णों वा निरवयवो वाक्यस्फोटो वा सम्ब- न्धग्रहणाऽनपेक्ष एव चाक्यार्थ प्रत्याययिष्यतीति चेत् ? । न, अव्युत्पन्नानामपि प्रसङ्गात्, व्युत्पत्तिवैय- र्थ्यप्रसङ्गाचेत्युक्तम् । अथ पदार्थवेदनमपि वाक्यार्थ- प्रतीतावङ्गमऽतस्तद्रहितानामऽप्रतीतिर्न दोषः, व्यु. त्पत्तिश्च पदार्थानां नाऽनर्थिकत्युच्यते !, तदयुक्तम्-- यदि हि पदेभ्योऽर्थान्तरभूतं वाक्यं पदार्थव्यतिरिक्तं वाक्यार्थ साक्षादेव वाचकतया प्रतिपादयति कस्तदा पदार्थवेदनस्योपयोगः! तद्नुपयोगे च पदार्थव्युत्प. आकासादिमत्पदसङ्घातरूपत्वेन पृथइनर्देश इति ब्रूमः । इतो. ऽपि न सम्बन्धग्रहणमित्याह । वेदार्थस्येति । नन्वदृष्टसङ्गती- न्यपि चक्षुरादीन्यर्थ बोधयन्त्येव । सत्यम् । तेषां सत्तामात्रेणैव बोधकन्वं न तु शब्दस्य तथेत्याह । न चेति । अत्र चोदयति । यद्यपीति । अनन्तरोक्तदोषद्वयपरिहारं शङ्कते । अथेति । तद्र- हितानां-पदार्थावगतिरहितानाम् । वाक्यार्थस्य याऽप्रतीतिः अ- वैकल्यात् सा दूषणमेव न भवतीत्यर्थः । दूषयति । तदिति । पदपदार्थव्यतिरेकेण वाक्यवाक्यार्थयोरर्थान्तरभूतयोरनवगमा- दिति भावः । असम्बन्धादिति । यथा पदपदार्थयोः सम्बन्धोऽस्ति ४३४ युक्तिस्नेहप्रपूरणीसहितायां [अ०१पा०अ०७सू०२४ तिरनार्थका वाक्यार्थ प्रतिपित्सताम्, न च पदार्था- द्वाक्यार्थावगतिः-असम्बन्धात् । न तथा पदार्थवाक्यार्थयोः सम्बन्धोऽस्तीत्यर्थः । किञ्च पदा- र्थानां परस्परमप्यसम्बन्धाद्वाक्यार्थावगतिर्दुर्लभा । तथाहि- जातिपदार्थपक्षे तावदोशब्देन गोत्वमात्रमभिहितं शुक्लपदन्तु तदेकवाक्यभूतं तस्यैव शुक्लगुणानुरागं प्रतिपादयतीति सं. सो वाक्यार्थत्वाच्च पदानामेकवाक्यता । व्यक्तिपदार्थपक्षे तु गोशब्देनैव शुक्लकृष्णादिव्यक्तिषु सर्वास्वभिहितासु शुक्ल- पदं शुक्लसंसर्ग प्रतिपादयदपि तत्परत्वे सत्यानर्थक्यात्कृष्णा- दिव्यवच्छेदेनैव विशेषणं भवतीति भेदो वाक्यार्थः । तत्राचे पक्षे संसर्ग एव मुख्योवाक्यार्थः कृष्णादिव्यवच्छेदस्त्वार्थिकः द्वितीयपक्षे तु शाब्द एवं कृष्णादिव्यवच्छेदः । तत्र पदाभि- धेययोर्जातिगुणयोर्मियोऽनुरागव्यवच्छेदाऽभावात् विशेषणवि- शेष्यत्त्वमनुपपन्नं अनुरागाऽसम्भवे च तनिबन्धनो व्यवच्छेदो- प्यनुपपन्नः । यथाहु:- "गोत्वेन नहि शुक्लत्वं गोत्वं वा तेन रज्यते । अन्योन्यात्मन्यसद्भावाद्यक्तिगत्वाद्वयोरपि"(इलो.३१वा.वा.)। ननु मास्तु परस्परानुरागस्तथापि व्यक्तिरेव ताभ्यामनुर- ज्यमाना वाक्यार्थीभविष्यति । मैवम् । तस्याः शब्देनाऽप्रतिप. धमानाया वाक्यार्थत्वाऽसंभवात् । तदसम्भवाच्च न शब्दयोरप्ये- कवाक्यतासिद्धिः । इतश्च न संसर्गभेदयोवाक्यार्थत्वम् । यथाहुः- "संसर्गे वापि भेदे वा वाक्यार्थे परिकल्पिते । पदार्थव्यतिरेकश्च नास्ति संसर्गभेदयोगा|| (इलो.वा.वा.) पदार्थैरेव संसर्गभेदानुगृहीतैर्वाक्यार्थो नाम वस्स्वन्तर- मेवारभ्यत इति चेत् । न । जातिगुणयोवस्त्वन्तरातारम्भका :

वाक्याधिकरणम् शाखदीपिकायाम् । ४३५ त्वात् वाक्यातिरिक्तस्य तस्य प्रमाणान्तरेणानुपलम्भात। अत्र वैयाकरणै रुक्ता वाक्यविकल्पा:- " आख्यातं शब्दसंघातो जातिः संघातवचिनी । एकोऽनवयवः शब्दः क्रमो बुद्ध्यनुसंहतिः ॥ पदमाचं पृथक् सर्व पदं सापेक्षमित्यपि । वाक्यं प्रति मतिर्भिन्ना बहुधा न्यायदर्शिनाम् ॥ तत्र तावदाद्यस्य पदस्यान्त्यस्य वा सर्वेषां वा प्रत्येकं मि- थोऽनुग्रहापेक्षया संघातस्य वाक्यत्त्वकल्पनं । तदयुक्तम् । इत- रेतरानुग्रहाऽसम्भवात् । तत्र न तावदायस्येतरेतरैरनुग्रहः कश्चि- दृश्यते नच सम्भवत्ययोगपद्यात् । किश्चाद्यस्यैव सर्वैः संस्क्रि- यमाणस्य प्राधान्यात् वाक्यत्वं स्यात् । नाप्यन्त्यस्य सर्वेषां सं. हतानां पृथग्भूतानां वाऽनुग्रहः उक्तदोषात् अनुग्रहरहितानां च स्वतन्त्राणामेव वाक्यत्वे व्यस्तोच्चारितानां गौरश्त्र इत्यादीनां च वाक्यत्वं स्यात् । नाप्येकोनवयवः शब्दो जातिः संघात- वर्तिनीति पक्षौ, पदस्फोटजातिनिराकरणेन निराकृतत्वात् । नापि क्रमो बुद्ध्यनुसंहतिरिति पक्षः क्रमस्य बुद्ध्या निष्कृष्यो- पसंहमशक्यत्वात् । यथा च वर्णक्रमस्य पदत्वं निराकृतं तथा पदक्रमस्य वाक्यत्वमपि निराकर्तव्यम् । किञ्च वर्णक्रमस्य पदत्वं युज्येतापि अर्थप्रतीत्यौपयिकत्वात् क्रमान्तरे चार्थप्रती- त्यभावात् पदक्रमस्य तु वाक्यार्थप्रत्ययानौपयिकस्य कथं वा. क्यत्वम् । औषयिकत्वे वा क्रमभेदे सति वाक्यार्थभेदः स्यात् । अस्तु तख्यिातपदमेव वाक्यं प्राधान्यात् पदान्तरस्य तदर्थ- त्वात् । प्राधान्यं चाख्यातस्य पदार्थान्तरानुरक्तप्रधानभूतभा- वनाप्रतिपादकत्वात् । एतदप्ययुक्तम् । तदाकारज्ञानोत्पत्ता- युक्तिस्नेहमपूरणीसहितायां [अ०१पा०१०७सू०२४ - वपि पदार्थानां परस्परं सत्यभावात् । कारकाणां क्रियाणां वा परस्परं सम्बन्धाऽप्रतीतेः । न तावद्रव्याणां परस्परं सम्बन्धः तादात्म्याऽद्यसंभवात् । यथाहु:- "अत्यन्तभेदनिष्पन्नषष्ठ्यभावानपेक्षणैः । तृतीयाद्यपहारेण संनिधेरपि बाधनात् ॥" हन्त तर्हि कारकविभक्तिश्रवणात् क्रिययैव सह द्रव्याणां स- म्बन्धोऽस्तु ? । मैवम् । स्वरूपेण द्रव्याणां क्रियासम्बन्धाऽभावा- छ । न ह्याः काष्ठः पाकक्रिया संभवति । शक्तिरेव कारकं न चार्द्राणां शक्तिरस्तीति चेत् । न । अमूर्तीयास्तदसंभवात् । श. क्तिविशिष्टं द्रव्यं कारकमिति चेत् । न, शक्तैरपि तैस्तिष्ठद्भिः पाकाऽसंभवात् । ज्वलनादिमुखेन तेषां पाकसंबन्ध इति चेन्न क्रिययोः परस्परान्वयाऽसंभवात् । काष्ठादीनां च ज्वलनोप- क्षीणानां पाकसाधनत्वाऽसम्भवाचेतिदिक् । अत्राधिकं वार्चि- केऽवगन्तव्यम् । एवं धातुमत्ययवाच्ययोः क्रिययोरपि सङ्गति- ने सम्भवति । भावनासंबन्धोहि साध्यतया साधनतया वा स्यात् । नोभयथापि सम्भवति साध्यसाधनवाचिन्योईि. तीयातृतीययोः पचतीत्यत्राश्रवणात् । नापि विध्यन्वयः संभवति सकृदुचरितस्य विधिपत्ययस्य श्रौतानेकन्यापाराऽसं- भवात् । धात्वान्वितभावनाविधानादर्थाद्धात्वर्थविधिरपि सेत्स्यतीति चेत् । न । धात्वर्थान्वयात्मागेव समानप्रत्ययोपा- दानलक्षणया प्रत्यासत्या केवलाया एव भावनाया विधानात् । मास्तु धात्वर्थविधानं तथापि पदश्रुत्या भावनायां विनियुक्त- त्वात् तस्याप्यनुष्ठानं सेत्स्यति । मैवम् । विधिसम्बन्ध विना- वाक्याधिकरणम् । ] शास्त्रदीपिकायाम् । ऽनुष्ठानाऽसिद्धेः विध्यधीना हि प्रवृत्ति भिधानविनियोगमा. वाधीनेति । यदा च समानपदोपात्तस्यापि धात्वर्थस्याऽविधान तदा पदान्तरगतस्य सोमादेः कारकस्य वाक्यान्तरस्य च प्र- याजादिर्विध्यन्तस्य दुरापास्तं विधानं विधिना त्वसंगतस्य :- याजादेर्बिध्यन्तसमाख्याऽपि निनिमित्ता स्यात् । पदांशत्रयस्य विध्यसम्बन्धाद्भावनैव विधातव्या तदा तस्यां केवलायां पुरुष प्रवर्तयितुमशक्यत्वात्तयाप्यन्वयासंभवात् निर्विषयत्वं विधेरि- तिदिक् । ननु माभूद्भावनाद्वासंऽशानां विधिः साक्षादेव भविष्य. तीतिचेन्नति ब्रूमः । समानप्रत्ययोपात्तभावनाऽवरुद्धस्य विधेरन्य- त्र गमनाऽसम्भवात् पुरुषव्यापारविषयत्वाच्च विधेः कारकाणां चातद्रूपत्वान साक्षाद्विधानमिति । एवमुपसर्गनिपातानामपि न केन चित्सङ्गतिः। न तावत्परस्परमुपसर्गाणां सङ्गतिरसम्भवात् । न च कारकस्यापि विशेषणतया भविष्यति । नैवम् । अर्थान- नुरञ्जकत्वात् । अननुरञ्जकत्वं च- "आनर्थक्यान्यवाचित्त्वविपरीतप्रसाधनात्"। न च मलम्बतेऽयमित्यत्र कश्चिदतिरिक्तोऽर्थोऽस्ति । प्रासाद इत्यादौ चान्य एवार्थः । प्रतिष्ठते इत्यत्र च वि. परीत एवार्थः । न चैवंरूपस्य विशेषणत्त्वं सम्भवति । यथाहुः- "येन स्वार्थाविरोधेन विशेष उपजन्यते । विशेषणं तदेवेष्टं नतु यस्यार्थनाशकम् ।। नन्वागच्छत्युद्गच्छतीत्यादौ आभिमुख्यादौ विशेषोपज- ननाद्विशेषणत्वं भाविष्यति । नैवम् । आभिमुख्यादेः कर्तृधर्मत्वे- न धात्वर्थाङ्गत्वाऽभावात् । कर्तृसम्बन्धे चोपसर्गत्वविरोधात् । नापि भावनया सङ्गतिस्तदर्थानामंशत्रयानन्तर्भावात् । नवा- दयस्तु निपातविशेषा योयेनैव सम्बन्धुमिष्यन्ते तस्यैवार्थ ४३८ युक्तिस्नेहमपूरणीसहितार्या [अ०१ पास ननु सामान्य पदार्थी विशेषो पाक्या सम्ब- न्धश्च सामान्यविशेषलक्षण! सत्यम् नियतविशे- पावगति स्तु न सिध्यति सर्वविशेषसाधारणत्वा. सामान्यस्य,ततश्च गामानयति पदावगतमानयनसा- मान्यं विशेषाक्षेपोन्मुखमपि न गोरेवानयनमाक्षि- पेत्. ततश्च न गोरेवानयनं प्रतीयेत । न चाकासासं- विवृण्वते न केन चित्सम्बन्धुमर्हतीति । किञ्च पदार्थपूर्वको वा- क्याओं भवति। न चोपसर्गनिपातानां गवादिशब्दानामिव अय- मस्यार्थ इति नियतः स्वातन्त्र्येण कश्चिदर्थोऽवगम्यते यद्दारेणै- ते वाक्यार्थान्वयं गच्छेयुरिति । स्यादेतत् । पदार्था एव वाक्या- थः।न च गौरवः पुरुषोहस्तीत्यस्यापि वाक्यत्वप्रसङ्गः पदार्थ- मात्रस्य तदनगींकारात् अर्थान्तरान्वितरूपविशेषस्यैव वाक्यार्थ- त्वाभ्युपगमात् । तथाहि-पदं केवलोचरितं पदार्थस्वरूपमेवा- भिदध्यात्-पदान्तरसमभिव्याहृतं तु तदर्थान्तरान्वितरूपमिति । नैतदपि युक्तम् । यदि हि पदं केवलोचरितं किञ्चिदर्थस्वरूप- मेवाभिदध्यात् । पदान्तरसमभिहारे चानयनान्वितं तदुज्झित्य- कचिद्वन्धनान्वितं कचिदप्याश्वासोन स्यात् । सर्वत्रान्वितमेवा भिधत्त इति चेत् । न । केवलोचारणे पदार्थस्वरूपमात्रावग- मात् । अथ पदार्थाऽसङ्गत एवार्थे वाक्यं प्रवर्तत इत्युच्येत? तर्हि पदार्थज्ञानस्य तत्र दृष्टोपकारिता न स्यात् । अज्ञातपदार्थस्यापि मक्याथर्विगतिप्रसङ्गादित्यलमतिप्रपञ्चेन । सम्बन्धमाशङ्कतें । नन्विति । परिहरति । सत्यमित्तिः । केन प्रतिनियत्तविशेषावगतिर्भवति स एव सम्बन्धो वाच्य इति भावः । अस्तु साधारण्यं किमत्तावताः स्यादिति तत्राह । ततश्चे- वाक्याधिकरणम् ।] शास्त्रदीपिकायाम् । निधियोग्यत्वैर्नियमः, सत्स्वपि तेष्वदर्शनात्, न हि प्रत्यक्षेण गामुपलभ्य ' कस्येयम् ' इति जिज्ञास- मानः संनिहितमपि देवदत्तं स्वामिनमध्यवस्थति, तस्मान्निर्मूलो वाक्यार्थः साङ्कोतिकः । न च वेदे स- केतयितास्तीत्यप्रामाण्यम् । अथ वा वेद्वाक्यानामपि पौरुषेयत्वमाश्रित्य पु- ति। विशेषमात्राक्षेपेण तत्पर्यवसानसम्भगदितिभावः । स- स्वपीति । एतच्च संनिधियात्राभिप्रायेण दूषणं भवति । शाब्द- सन्निधौ तु नैतषणं भवतीति चिन्त्यम् । उपपादितमर्थ नि- गमयति । तस्मादिति । ननु “चोदनालक्षणोर्थो धर्म" इत्युक्तं चोदना च वाक्यमेवातो वाक्यमेव वाक्यार्थप्रतीतेलमिति कथं निर्मूलत्वम् । सत्यम् । सदपि वाक्यमगृहीतसम्बन्धत्वान्न वा- क्यार्थप्रतीतेर्मूलम् । सांकेतिकः-पारिभाषिकः । केचिद्वेदान्क- त्वाऽस्य वाक्यस्यायमर्थ इति संकेतः कृतो वृद्ध्यादिवत् । तत- च वाक्यार्थावगतिः पुरुषाणामित्यर्थः । अयश्च सूत्रार्थः उ. त्पत्तौ चेति चकारोऽप्यर्थे । शब्दार्थतत्सम्बन्धानामुत्पत्तौ औ. त्पत्तिकत्वेऽपि नित्यत्वेपीति यावत् न चोदनायाः प्रामाण्यं यतो- ऽवाचकाः शब्दा वाक्यार्थस्य, तेहि सामान्यमभिदधति वाक्या- र्थश्च विशेषरूपः । ननु पदाभिहिताः पदार्था एव वाक्यार्थ बो- प्रयन्तु तत्राह अर्थस्याऽतनिमित्तत्वात् इति । अर्थस्य पदार्थ- स्य अतनिमित्तत्वात् वाक्यार्थबोधनिमित्तत्वाऽभावात् पदार्था- नां वाक्यार्थबोधकत्वेऽशाब्दतैव वाक्यार्थस्य स्यात् उपपत्यन नतरं तु ग्रन्थकारोक्तमेव ज्ञेयम् । अथवा शब्दार्थसम्बन्धाना मौत्पचिकत्वेऽपि वेदवाक्यार्यस्य धर्मस्याऽवचना: अमविप्रा ४४० - युक्तिस्नेहप्रपूरणीसहितायां [अ०१पा०११०७सू०२४ रुषप्रामाण्यादेव प्रामाण्यमङ्गीकर्तव्यम् । युक्तं च सर्ववाक्यानां पौरुषेयत्वदर्शनादेव वेदवाक्याना. मपि पौरुषेयत्वम् । अथ पुरुषाणामीहशेर्थे प्रामाण्यं न संभवति ?, ततो प्रामाण्यमेवास्तु न त्वनपेक्षं प्रामाण्यं सिध्यतीति पूर्वः पक्षः। अत्र के चिदाहुः- वाक्येनैव हि वाक्यार्थः साक्षादेवाभिधीयते । उपलक्षणतश्चास्य सम्बन्धग्रहसम्भवः ॥ ४९ ॥ चाक्यं गोपदयुक्तं यत् तत्-सास्नादिमदन्वितम् । वाक्याथै वदतीत्येवं व्युत्पत्तिः सुकरैव हि ॥५०॥ सत्यम्-व्युत्पत्तिरेवं स्थात् तथापितुन वाक्यतः। वाक्यार्थावगतिर्युक्ता तिरोभावेपि दर्शनात् ॥५१॥ पूर्वभागेषु वाक्यस्य विस्मृतेष्वपि दृश्यते । वाक्यार्थावगतिः पुंसांपदार्थस्मृतिशालिनाम्॥५२॥ . दकाः स्युः अप्रमाणमिति यावत् । न च पदार्थानां तन्निमि- तभावोऽसम्बन्धादिति सूत्रार्थः । असम्बन्धोपपत्तिश्च ग्रन्थो. कैवानुसन्धया । ननूत्पत्तिशब्दस्य कथमौत्पचिकशब्दार्थ- त्वम् औत्पत्तिकशब्दलक्षकत्वेनेतिब्रूमः । यथा धागोरत्यस्य धावापृथिव्योरिति । वेदमस्थानाभ्यासवतोमहर्षेः प्रायेण सू- त्रेषु छान्दसपदप्रयोगएव भवतीति न दोषः कश्चित् । एकदेशिमतेन तावत्पूर्वपक्षं परिहर्तुमाह । अत्रेति । सम्ब- न्धग्रहमुपपादयति। वाक्यमिति । देतदर्भाङ्गीकारेण निराक- रोति। सत्यमिति । अस्त्वेवं तथापि त्वन्मते साक्षादेव वा. क्याद्वाक्यार्यावगतिर्न सम्भवतीत्यर्थः । कथं नयुक्तेत्यत आह ।

वाक्याधिकरणम् शास्त्रदीपिकायाम् । यथैव विस्मृतपूर्ववर्णानामन्तिमवर्णमात्रान्नपदार्था- वगतिर्भवति तथैव वाक्यावयवेषु पूर्वपदेषु विस्मृतेषु पाक्यार्थावगतिन स्यात् । दृश्यते हि विस्मृतपूर्वपदा- नामपि दीर्घतमेषु वाक्येषु वाक्यार्थाचगतिः । न च स्वरूपेण विस्मृतेपि स्मर्यमाणपदार्थवशादेव तद्वाचि- पदयोगितां वाक्यस्यानुमाय ततो वाक्यार्थावगतिरि- ति वक्तुं युक्तम् , अस्थां प्रनाड्यां प्रमाणाभावात् । अनुसन्धीयमानैरेव हि पदार्थैः साक्षादेव हि वाक्या. र्थप्रतीतिसम्भवे को नामेदशी कल्पनामवलम्बते । सम्भवति च पदार्थेभ्यो वाक्यार्थावगतिरिति वक्ष्यामः। येप्याऽऽकातिमंनिहितयोग्यार्थान्तरान्वितस्वा- र्थाभिधायीनि पदान्येव वाक्यार्थप्रतीतिनिमित्तमिति त्रुवते, तेषामपि विस्मृतेषु केषु चित्पदेषु वाक्यार्थावग- तिर्न स्यादिति तुल्यमेव दूषणम् । किं चैवं वादिनां प्रतिपदं वाक्यभेदः स्यात् न कचिदेकवाक्यता सिध्ये- तिरोभावेपीति । एतदेव विष्णोति । पूर्वेति । श्लोकं व्याचष्टे । यथैवेति । दृश्यत इति । यस्मादेवमतोन साक्षाद्वाक्यादेव वा- क्यार्थावगतिः त्वन्मते सम्भवतीति भावः । अत्र परिहारमाशय निराकरोति । नचेति । अगत्या धनाड्याश्रयणमिति चेत् ? । न । सिद्धान्तनीत्या गतिसम्भवादित्याह । अन्विति । वक्ष्याम- इति । स्वसिद्धान्तनिरूपणावसर इत्यर्थः । अन्विताभिधान- मतमनूध प्रतिक्षिपति । येपीति । अस्मिन्नेव पक्षे दूषणान्तरमा- ह। किश्चेति । ननु समभिव्याहृतयो। पदयोः स्पष्टमेवैकवाक्य.

४४२ युक्तिस्नेहप्रपूरणीसहितायां [अ०१पा०१अ०७सू०२४ त्-गामानयेति गोपद्मानयनकर्मभूतां गां प्रतिपाद- यति तथाऽऽनयतिरपि गोकर्मकमानयनं तयोश्च भेदाद भिन्न एव वाक्ये स्याताम् । अथान्वितभेदे सत्यप्येकस्यैवान्वितस्य प्रधानभू- तत्वात् प्रयोजनकत्ववशेन वाक्यकत्वमुच्यते ?। त दयुक्तम्-नह्यनेकं विशिष्टं प्रतिपादयतां प्रयोजनका स्वमात्रेणैकवाक्यता भवति, यदि स्यात् ? 'यजेत स्वर्गः फलं पशुहविरग्निर्देवता' इत्यत्राप्येकवाक्यता स्थात्- सर्वेषां द्रव्यदेवताफलविशिष्टयागानुष्ठान- प्रयोजनत्वात् । तथा "दर्शपूर्णमासाभ्यां यजेत" इत्यस्य “समिधो यजति" इत्यादिभिरेकप्रयोजन- स्वादाक्यैकत्वं स्यात् । नन्विष्टमेवैकवाक्यत्वम्, यथा वक्ष्यति-"तद्वाक्यं हि तदर्थत्वात्"इति,(अ.पा.४सू.ज.)भाष्यकारोपि- "वाक्यं ह्येकं दर्शपूर्णमासाभ्यां सह धर्माणाम्"इति ?। सत्यम् , प्रकरणानुमेयं तु तत्रैकवाक्यत्वं न प्रत्यक्षम्, अन्यथा वाक्यविनियोज्यत्वापत्तेः। एवं गामानये. त्यत्रापि प्रत्यक्षकवाक्यता साक्षान्न स्यात्. इष्यते ? त्वं गम्यते ? सत्यम् । तथाप्यन्वितभेदाद्वाक्यभेदः स्यादित्याह । गामिति । नहीति । विशिष्टैकार्थप्रतिपादकत्वेनैवैकवाक्यत्वमिति- भावः । अविदिताशयः चोदयति । नन्विति । अभिप्रायमुद्घाट- यन्परिहरति । सत्यमिति । मया तु प्रत्यक्षमेकवाक्यत्वं तवापा- दितमित्यभिप्रायः। उक्तं दूषणं लौकिकवाक्येऽतिदिशति । एव- मिति । भिन्नार्थे पर्यवसितत्वादितिभावः । दूषणमुपसंहरति ।

वाक्याधिकरणम् शास्त्रदीपिकायाम् । चासौ, तस्माद् यत्रैकवाक्यत्वं तत्राऽपर्यवसितव्या- पाराणामेव पदानामेकस्मिन्नर्थे पर्यवसानं वक्तव्यम् । त्वन्मतेचाऽऽनयतिर्गवान्वितानयनं प्रतिपाद्य प. यवस्थति गोपदमपि गव्येवाऽऽनयनान्विते पर्यवसि- तमिति स्थादेव वाक्यभेदः । न हि गोपदस्यानयने गवान्विते पर्यवसानं येनैकवाक्यता स्यात् । अथ गोपदमप्यानयनमेव गवान्वितमभिदध्यात् ? अने कार्थत्वं स्यात्-गोश्वानयनस्य चाभिधानात्, न हि गोरन्यतः सिद्धियंतस्तामनाभिधाय तद्विशिष्टमान- यनमेवाभिदध्यात् । किं च अतिशोभनो राजपुरुषः' इत्यत्रातिश- यान्वितस्थ शोभनगुणस्य राजान्वितस्य च पु. रुषस्य पुनः परस्परान्वयो गम्यते-समासे हि परस्परान्वयपूर्वकः पदार्थान्तरान्वयः, तेनान्वि. तयोरेवात्रान्वयः । न चाऽसावऽभिधानतः सि. तस्मादिति । अनेकार्थत्वं विकृणोति । गोथेति । ननु प्रत्येक- मभिधानेऽनेकार्थत्वापत्तिः न त्वेवं, किन्त्वेकहेलयैवानयनान्वितं स्वार्थमभिधत्तेऽतोनानेकार्थत्वमत आह । नहीति । गोशब्दावो. रुपस्थितौ सत्यामेव तद्विशिष्टानयनाभिधानमिति व्यापारभे- दाद्वाक्यभेदः स्यादेवेति भावः। इतोप्येवमित्याह । किञ्चेति ।न- न्वत्र समभिव्याहारवशेन शोभनगुणान्वितस्यैव पुरुषस्य प्रतीते- रेक एवान्वयः सिध्यति तत्राह । समासे हीति । ततः किमत आह । न चेति । असौ-अन्वितान्वयः अभिधानतो न सिद्ध्य- ति समासपदयोमध्ये केनाऽपि पदेनानभिधानादित्यर्थः । एतदे- युक्तिस्नेहपूरणीसहितायां [अ०१पा०अ०७सू०२४ ध्यति- पुरुषशब्दो हि पुरुषस्यैवाऽर्थान्तरान्वयम- भिधत्ते तस्यैव स्वार्थत्वात् अतो नान्वितान्वयमल- मभिधातुम्, एवं शोभनशब्दोपि स्वार्थस्यैव शोभा नत्वस्यान्वयमाह नाऽन्यान्वितस्य, अतोऽन्वितयो- रन्वयोऽवश्यं पदार्थनिबन्धन इत्यभ्युपगन्तव्यम् । किं च 'रूढिोंगाबलीयसी शीघ्रप्रवृत्तित्वात् ' इ- त्यविवादम् , अन्विताभिधाने च विपरीतं बलाबलं स्यात्-अश्वकर्ण इति समुदायो यावद् वृक्षजाति स्मारयति तावदेवाऽश्वशब्दोपि वाजिनं कर्णशब्दो- प्यवयवं स्मारयत्येव, अतो न स्मृतिकाले तावदिशे. षः, अभिधानं तु योगवृत्तौ पदान्तरमनपेक्ष्य स्वा- वयवाभ्यामेव शीघ्र मिथो निवर्तते । रूढिस्तु प्रति- योगिसंनिधानलिप्सया पदान्तरमपेक्षमाणाऽभिधाने विलम्बत इति वैपरत्यिम् । स्वरूपमात्राभिधानपक्षे तु पदान्तरापेक्षाभावाद- वोपपादयति । पुरुषेति । कथं तर्हि तदवगतिः सूत्रात् ? अतआह । अत इति । अन्वितानामपि पदार्थानांपुनराकासादिवशेन परस्परा- न्वय इत्यर्थः । इतोऽप्येवमित्याह । किश्चेति । वैपरीत्यमेव विवृणो- ति । अश्वेति । ननु रूद्वेः शीघ्रप्रवृत्तित्वादृक्षजातिरेवादौ स्म. यते तत्राह । अतइति । अलब्धात्मिकायास्तदसम्भवादिति भावः । नन्वेवं सति कथं योगस्य बलवत्वासिद्धिरित्याशयवि- शेषमाह । अभिधानत्विति । अस्मत्पक्षे तु नैष दोषो भवतीत्या- ह । स्वरूपति । अन्विताभिधानपक्ष एव पदान्तरापेक्षा स्या- दिति भावः । रूट्यर्थो यौगिकाबलवान् भवतीत्यर्थः । एत- ४४५ वाक्याधिकरणम् शास्त्रदीपिकायाम् । ऽक्षरश्रवणमात्रादेव रूख्यर्थोऽभिधानसिद्धोऽवयवार्थ- लक्षिताद् यौगिकादाक्यार्थस्थानीयालीयान् भव- ति । एवम्-'अतिमधुरं गोक्षीरम्' 'ईषन्मधुरमजा- क्षीरम्' इति 'केतकीगन्धसमानः सर्पगन्धः' इत्यादि दर्शयितव्यम् । तस्मात्पदाभिहितः पदाथैलक्षणया वाक्यार्थः प्रतिपाद्यते । तत्र गामानयेत्यानयतिरान- यनसामान्यमभिधाय तव्यक्तिं लक्षयति, गोपद्म- पि स्वार्थद्वारेणाऽऽनयनमेव गोकर्मकत्वाकारेण तत्सं. बन्धिस्वरूपेण लक्षणया प्रतिपादयति । दपि स्वरूपमात्राभिधानपक्षे सिध्यतीत्याह । एवमिति । यस्मा- द्वाक्यादेव वाक्यार्थप्रतीतिर्न सम्भवति तस्मादयमेव पक्षोऽङ्गी- कार्य इत्याह । तस्मादिति । यद्यपि प्रत्येकं पदानि संहतानि वा न साक्षात् तन्मूलं तथापि पदार्थाः पदैः प्रतिपादिताः प्रत्या- सत्यपेक्षायोग्यत्वसनाथाः मूलं भविष्यन्ति तद्भावे वाक्या- र्थप्रत्ययस्य भावादित्यर्थः । पदार्थप्रतिपादने व्यापूतानां पदानां पुनर्वाक्यार्थेऽपि व्यापारान्तरे गौरवमदृष्टकल्पना दृष्ट हानिश्च स्यात् । यथाहु:- "पदार्थेषु प्रयुक्तानां पुनर्व्यापारकल्पना । पदार्थानां च सामर्थ्य गम्यमानमपन्हुतम्" (श्लो.वा.वा११४)। वर्णेभ्योहि पदार्थेषु प्रतीतेषु तदनन्तरमेव वाक्यार्थप्रतीते- र्जायमानत्वात्सामर्थ्य गम्यत इत्यर्थः । अत्र कश्चित्संमुग्धमेव पदं पदार्थस्य वाचकं प्रकृतिप्रत्ययरूपावान्तरभेदस्तु प्रक्रिया- मात्रतया वैयाकरणैः कल्पित इत्याहुस्तदयुक्तम् । प्रत्यक्षेण प्रकृतिप्रत्ययतद्वाच्यानां भेदाऽवगमात् दृश्यते हि वृक्षं वृक्षणे- युक्तिस्नेहप्रपूरणीसहितायां [अ०१पा०१अ०७सू०२४ एवं यत्र यत्र वाक्ये यो योऽर्थों विशेष्यत्वेन वि. वक्षितस्तमेव स्वपदेन सामान्यवाचिना लक्षितं सन्त- मितराणि पदानि स्वार्थाभिधानद्वारेण तत्सम्बन्धि- रूपेण लक्षयन्ति । यत्राप्यन्वितस्यैव पुनरन्वयान्तरं तत्रापि लक्षितलक्षणापरम्परया सर्वस्य तस्य सिद्धि- रित्येषा दिक् । ननु कर्मत्वेनाभिहिता गौस्तत्कर्मिकां क्रियां ल. क्षयन्त्यपि कथमानयनमेव लक्षयति , तदेकवाक्य- तयेति ब्रूमः-लक्षणा हि साधारण्येनैव प्रवृत्ताप्येक- वाक्यतया नियम्यत इति दर्शनबलादङ्गीक्रियते । यो. पि ह्यान्विताभिधानमिच्छति तेनापि सामान्यतः प्र. वृत्ता लक्षणा पदान्तरैकवाक्यत्वेन नियम्यत इत्ये- तदऽङ्गीकृतमेव । यथा हि युगपदधिकरणवाचितायां द्वन्द्वमिच्छन्ति तत्र धवखदिरावित्यत्र खदिरप्रातिप- दिकं द्विवचनोपपत्तयेान्तरं लक्षयदपि धवमेव ल. क्षयति नार्थान्तरं तत्पदसमभिव्याहारादेव तथा स- त्यत्र प्रकृत्येकत्वेऽपि प्रत्ययभेदात्कर्मत्वकरणत्वरूपार्थभेदः । तथा वृक्षं घटं चेत्यत्र प्रकृतितदर्थभेदे प्रत्ययाऽभेदेन कर्मत्वरू- पैकार्थत्वमिति दिक् । अस्मिन्पक्षेऽन्वितान्वयोऽपि सिध्यती- त्याह । यत्रापीति । लक्षणा हीति । क्रियामात्रलक्षकत्वेन प्र- वृत्ताप्यानयनपदैकवाक्यतयाऽऽनयनमेव लक्षयतीत्यर्थः । अ. न्विताभिधानवादिनाप्येतदङ्गीकृतमित्याह । योपीति । एतदेव दृष्टान्तेनोपपादयति । यथा हीति । एतच्च शाब्दिकानां मतम् । अस्यार्थः । अधिक्रियत इत्यधिकरणं पदार्थस्तस्य युगपद्वाच्य- : वाक्याधिकरणम् ] शास्त्रदीपिकायाम् । ४४७ त्रास्तु । यत एवायमऽन्वयविशेषोऽविनाभावाद- ऽसिध्यन्नेकवाक्यतावशेनैव सिध्यति अत एव श- ब्दस्य प्रमाणान्तरत्वमनुमानात् । ननु प्रत्यक्षेण गवि देवदत्ते चाऽवगते सत्स्वप्या- कासासंनिधियोग्यत्त्वेषु न परस्परान्वयप्रतीतिर्भवति तस्मान्न पदार्था वाक्यार्थ गमयन्तीति पदानामवा- न्विताभिधानं युक्तम् ? । अन्विताभिधानेपि तुल्योयं दोषः-यौ तावदी प्रत्यक्षप्रतिपन्नौ तयोर्वाचकाव- पि शब्दौ तस्मिन् समये स्मृतिस्थौ भवतः न च तौ स्वार्थयोराकासादिसद्भावेप्यान्वयं प्रतिपादयतः । अथ यादृगवस्थितः पदैरन्वयो वृद्धव्यवहारे - श्यते तादृशान्येवान्वयं प्रतिपादयन्ति नान्यादृशा. नीत्युच्यते ? । तत् पदार्थेष्वपि तुल्यम्-तेऽपि हि प. दार्थी एकैकविशिष्टार्थप्रतिपादनाय समाहृता वा- तायां एकेन पदेन पदार्थद्वयस्यैकदोपस्थापन तस्मिन्द्वन्द्वो भवती. त्यर्थः । एतनिरूपणं चाधिकारलक्षणे करिष्यते । अत्रान्विता. भिधानवादी चोदयति । नन्विति । अतः पदार्थानां कारणत्वे व्यभिचारात् पदानामेवान्विताभिधानं युक्तमितिशङ्कार्थः । प्रति- बन्द्या परिहरति । अन्वितेति । तुल्यत्वं विकृणोति । याविति । यद्यपि तत्काले गोशब्ददेवदत्तशब्दौ स्मृतिस्थौ भवतः तथापि न तावदन्वयं प्रतिपादयत इति तुल्यो दोष इत्यर्थः । विशेष शङ्कते । अथेति । यावदवस्थितैः-समभिव्याहृतरित्यर्थः । साम्येन परिहरति । तदिति । साम्येन विवृणोति । तेपीति । ननु समाहारस्य पुरुषाधीनत्वादप्रामाण्यं स्यादत आह । तेषां ४४८ युक्तिनहापूरणीसहितायां अ०१पा०अ०७सू०२४ क्याथै प्रतिपादयन्तीति न दोषः । तेषां च समाहारे यत्र पुरुषस्य स्वातन्त्र्यं तत्र तवुद्ध्यधीनं प्रामा- ण्यम्, अस्वातन्त्र्ये चाऽनपेक्षम्, अतो न पदाना- मन्विते शक्तिः प्रमाणवती, निरस्तश्वायमन्विताभिः धानवादो न्यायरत्नमालायामित्यास्तां तावत् । वाक्यस्फोटोपि पदस्फोटन्यायेनैव निरस्तः । वा- क्यार्थस्य च निर्भागत्वं भागाऽवगमात् प्रसङ्गाद्यनुप- पत्तेश्च निरसनीयम्-तथा हि- प्रसङ्गतन्त्रबाधोहातिदेशाधिक्रियाक्रमाः । प्रयुक्तिशेषभेदाश्च कथं निर्भागवादिनाम् ? ॥५३॥ यदा हि "अग्नीषोमीयं पशुमालभेत" इति नि. चेति । वाक्यस्फोटनिरासोऽपि पदस्फोटानिरासवदवगन्तव्य इत्याह । वाक्येति । यथाऽनंशस्य पदस्य वैशद्यावेशये न युज्यते तथाऽनंशस्य वाक्यस्याऽपि सामान्यविशेषतत्वानामनुभूयमान- ता वैशधं सामान्य तन्मात्रस्य वा वेदनमवैशचं नचैतनिखिलसा- मान्यविशेषविरहिणः स्फोटस्य सम्भवति । तदारामन्यायेन- चान्वयव्यतिरेकाभ्यामर्थावगमादनंशताऽनुपपत्तिः । ननु यदि विभागेनैव प्रकृतिप्रत्ययाभ्यामर्थयाभिधानं तर्हि यत्र प्रकृतिमात्रं प्रयुज्यते अग्निचिदित्यादौ यत्र वा प्रत्ययमानं अ- धुनेति कथमत्रार्थद्वयाभिधानम् ? । तत्र प्रतीतिबलेन तन्मा- त्रस्यैव द्विशक्तत्वादिति ब्रूमः । शब्दस्वभावस्यान्यथाकर्तुमश- क्यत्वात् । अवैकदेशानुमानेनोभयार्थत्वमिति केचित् । तन्न नहि केवलप्रत्ययस्य कदाचिदपि प्रयोगोऽस्ति यतस्तेन ज्ञातसा- इचर्याचिनोतिस्तमनुमापयेत् । अधुनेति च इदंशब्देन वि- ?

धाक्याधिकरणम] शास्त्रदीपिकायाम् । ४४९ र्भागस्य साङ्गप्रधानविधेरों निर्भागः-न साध्यं न साधनं नाप्यङ्गानि तदा न पशुर्न प्रयाजा न पुरोडा. शो न तदीयाः अनुयाजाः सन्तीति किं कुत्र प्रस- जते? । एवं तन्त्रादिष्वपि दर्शयितव्यम् । तस्मादने. कपदार्थानुरक्तो वाक्यार्थः, सच पदार्थमूलो न नि- मूलो न च सङ्केतमूलः, तस्मानाप्रामाण्यं चोदना. याः । यत्तु वाक्यत्वात् पौरुषेयत्वमित्युक्तं तदुपरित. नेऽधिकरणे निराकरिष्यामः ।। इति सप्तमं वाक्याधिकरणं सम्पूर्णम् । नैव सर्वदा प्रयुज्यमानः कथमिदंशब्दमनुमापयेत् । नाप्यर्थे- कदेशेन लक्षणया तत्प्रतीतिः लक्षणानुगतबुध्यभावात् किव- न्तादिषु मुख्यत्वेनैव प्रतीतेः । दूषणान्तरं तुस्फोटवादोक्तमनु. सन्धेयम् । अत्र स्फोटवादी पदतद्भागानापन्वयन्यातिरेका- ऽसम्भवादानर्थक्यमाह । तथाहि- "नामाख्यातादिसाकल्यवैकल्यानुगमे सति ।। तदर्थानुगमो दृष्टः पदवाक्यान्तराश्रयः ॥ १६८ ॥ विप्राश्वः पचते यातं राजहस्तिन्यगादिति ॥ तथान्यरूपमन्यत्र राजा दध्यत्र गामिति ॥ १६९ ॥ ( श्लो. वा. वा.) अस्यार्थः । पदवाक्यान्तराश्रय इति पदान्तराश्रयो पा. क्यान्तरादर्थानुगमो दृष्टः । तत्र नामपदमाख्यातपदमित्यादि- रूपेण पदान्तरत्वम् । पदभेदे च वाक्यान्तरत्वम् । तत्र सा. कल्यानुगमे तदर्थानुगमाऽभावादन्वयो नास्ति वैकल्यानुगमे तु सकलस्य वाचकरूपस्य व्यतिरेकेऽपि तदर्थसम्भवाद्यतिरेको- ४५० युक्तिस्नेहप्रपूरणीसहितायां [अ०१पा०१०७सू०२४ ऽपि नास्ति । तत्रान्वयाऽभावोदाहरणं विपत्यादि । विप्रश- न्दौतु स्वतन्त्रावुपसर्गार्थवाचिनौ दृष्टौ. तत्समुदायस्त्वन्यत्र- ब्राह्मणवाचकः। "अश्व इत्यपि नामेदमाख्यातं लुङि चेदृशम् । आख्यातं पचतेशब्दः पचते इति वा द्वयम्" ॥ १७१ ॥ स्त्रीद्वित्वं घुबहुत्वं वा तेषष्ठयर्थचतुर्थ्यथ । पचते इति सर्व वा चतुर्यन्तं शतुः पदम् ॥ १७२ ॥ यात लोण्मध्यमद्वित्वमयात लङि वा भवेत् । कर्तृनिष्ठाद्वितीयान्तं प्रथमान्तं नपुसकम्" ॥ (श्लो.वा.बा.) अयातमित्यत्र यातशब्दस्य साकल्यानुगमे स्वार्थाऽसम्भवः । तथा यातमयातमितिद्वयोः पदयोः प्रत्येकमाख्यात-निष्ठापथ- मान्तद्वितीयान्तत्वेन त्रेधा त्रेधा विभागे तत्तदर्थव्यभिचारः । " राजहस्ती समासो वा राजलोण्मध्यमोऽथवा । हस्तिनीत्यथसप्तम्यामथस्त्रीप्रत्ययान्तरम् ॥ १७४ ॥ अगादिति लुङन्तं स्यादगो वा पञ्चमीपरः ।" एवमेकरूपेऽपि पदे नानार्थ विकल्पेन ततदर्थांनुगमाऽभावः शब्दभेदानामपि पदानां न कश्चिदर्थो व्यवस्थितः शक्योनिश्चेतुं तदनिश्चये च तदधीनस्य वाक्यार्थस्याप्यनिश्चयः स्यात् । नि- भांगवाक्यवादिनां तु प्रत्येकं वाक्यभेदात् वाऽस्ति व्यभिचा. रः। तथान्यरूपमिति तु व्यातिरेकव्यभिचारोदाहरणम् । रा. जेति शब्दो नृपवाचको दृष्टो, राज्ञेत्यत्र तच्छन्दव्यतिरेकेऽपि- नृपप्रतीतिर्भवति । तथा दध्यत्रेत्यत्र दधिशब्दव्यतिरेकऽपि तदर्थप्रतीतिर्दृष्टा । गामित्यत्र गौरित्यस्य पदस्याऽभावेऽपि तदर्थप्रतीतिरिति व्यतिरेकव्यभिचारः । पूर्वपदव्यतिरेकेऽपि " वाक्याधिकरणम्] शास्त्रदीपिकायाम् । ४५१ पदान्तरादेवात्रार्थप्रतीतिर्भविष्यतीति चेन्न । पदान्तरस्य तत्र सङ्केतग्रहाऽभावात् । न च पदान्तरेऽपि व्यतिरेकग्रहोस्त्विति वाच्यम् । आनन्त्येन तत्र सङ्केतग्रहाऽसंभवात् । अत्राहुः- अत्रमः पदात्मा न सर्वेष्वतेषु भिद्यते । केन चिद्धर्मभेदेन जरा राजादिवत्क्रमात केन पुनरुपायेनायं धर्मभेदोऽवगम्यते क्रमान्यत्वन्यूनत्वा- दिभिरिति ब्रूमः । यथाहुः- पदावधारणो पायान्बहूनिच्छन्ति सूरयः । क्रमन्यूनातिरिक्तत्वस्वर वाक्यश्रुतिस्मृती" ॥ १८३ ॥ (इल्ये. वा. वा.) नदीदीनेत्यत्र क्रमान्यत्वम् । शुनः शुन इति न्यूनाति- रिक्तत्वं शुनइति कर्मीभूतः शुनक उच्यते । शून इति च वृद्धि- मापनः । तत्र क्रमान्यत्वे न्यूनत्वे वा विकलस्य वाचकत्वाऽभा. वादेवार्थानवगतिरित्यविवादम् । अतिरेकेच पदान्तरत्वमेव । स्वरस्तु बहुव्रीह्यादिनिर्णयोपायः । भोक्तुकामः पचत इति वाक्यवशेनाख्यातं निर्णीयते पचते दक्षिणान्देहीत्यत्र नाम घातोरेकवाक्यवशेन शत्रन्तम् । श्रुतिः सामानाधिकण्यं तत्र यातः पुनरायातीत्यत्राख्यातसामानाधिकरण्यादिति कर्तृ निष्ठा प्रथमान्तं नामपदं निर्णीयते । यातो देवदत्तयज्ञदत्तावित्यत्र द्विवचनान्तनामपदसामानाधिकरण्यादाख्यातमिति । मत्र व्याकरणम् । यथा मातृपितृसम्बन्धानुभवनिमित्तस्मरणात् समानेऽपि मनुष्यत्वे ब्राह्मणत्वादिकं निर्णीयते तथा अश्वस्त्वं देदत्तेत्युक्ते ऽश्वपदं सङ्कीर्णमपि व्याकरणस्मृत्याऽऽख्यातमि- तिनिर्णीयते । एवमन्यदप्यूह्यम् । एतत्मपश्चस्तु वार्चिके- शरण- युक्तिस्नेहप्रपूरणीसहितायां [अ०१पा०१०७सू०२४ ऽवगन्तव्यः । नापि व्यतिरेकव्यभिचारः । दध्यत्रेत्यत्र दधि- पदव्यतिरेकाभावेन प्रत्यभिज्ञया दधिशब्दार्थस्यैवावगमात् । कथं तर्हि वैलक्षण्यावगतिरिति चेत् ? आनन्तर्यदोषादिति ब्रूमः । इकारान्तमप्यकारेण परेण संहितादोषाद् यकारान्तमिव भ्रा- न्त्यावगम्यत इति । अथवा पदान्तरमेवेदं पारमार्थिक एवायं यकारः दधिशब्दार्थप्रतीतिस्तु तत्समानार्थत्वात् । इकोयण- चीति सूत्रेण समानार्थत्वाऽवगमात् । अनेन हीकारस्य स्थाने यकारोचारणं संहितायां भवतीत्युच्यते तेनेकारान्तपदसमा- नार्थत्वमस्य कथितं भवति । प्रत्यभिज्ञया पदैकत्वमिति चेत् । न । प्रत्यभिज्ञाया अभावात् । पदैकत्वे बनवगतसूत्रार्थः दधी- त्यत्र व्युत्पन्नस्य दध्यत्रेत्यत्र तदर्थावबोधः स्यान त्वेवमस्ति । विकारानन्त्यात्सम्बन्धाऽग्रहणमिति चेत् । न । लक्षणेन तद्वि- दुक्तेर्वा सम्बन्धग्रहणसम्भवेनातिक्लेशाऽभावात् । ननु दध्यत्रेत्य- प्राविभक्तस्याऽज्ञातावधेर्नार्थवत्वमतः कथं तदन्तादध्यर्थप्रती- तिरिति ?। नैषदोषः । अवध्यग्रहणेऽप्येतस्मादेव पदान्तराद्द- ध्यर्थावगमेनार्थवत्वोपपत्तेः । अथवा ज्ञायत एवावधिनतु वि. च्छिद्योचार्यते तेन संहितायामेवास्य साधकत्वात् विभिद्यमान- स्याऽसाधुत्वप्रसङ्गात् । यथा कुम्भकारादिसमासेन कदाचि. दुत्तरपदं विच्छिद्योचार्यते एवमिहापि संहितायाम् । असंहितायां तु दधिपदमेव नित्यं प्रयोक्तव्यमिति । यथाहुः- "ज्ञायते चावधिस्तत्र व्यञ्जनान्तेन तूच्यते । दधिशब्दावबोध्यत्वान्नित्यं नित्यसमासवत्" (श्लो. वा. वा. २२०) ।। इति । एवं राजराजादिपदेष्वपि व्यतिरेकव्यभिचारः परिहर्तव्यः ।

वाक्याधिकरणम् । ] शास्त्रदीपिकायाम् । तत्रापि पदान्तरस्थकिञ्चिदंशसमानस्य तदर्थप्रतिपादकत्वात् । या तु ब्राह्मणकम्बलादौ ब्राह्मणार्थावगतिस्तत्रावध्यन्तरत्वेन पदान्तरत्वात् । अवध्यन्तरत्वेऽपि तत्पदमविकलमस्त्येवेति कथं तदर्थोनावगम्यत इति चेत् ? । न । उत्सर्गस्यापवादेन बाधात् । अत्रहि प्राच्यस्य पदरूपस्यावध्यन्तरमेवापवादकम् । यदा त्ववध्यन्तरं दूरीकृत्य प्राच्यरूपेण पदान्तरमुच्चार्यते तदा तदर्थावगतिर्भवत्येवेति न दोषः कश्चित् । यत्राप्यश्वकर्णादा- वन्यूनानधिकमेव पदद्वयं तत्रापि वाजिकर्णयोरनभिधानम् । उत्सर्गरूपाया अवयवप्रसिद्धरपवादरूपया समुदायप्रसिद्ध्या बाधात् । पूर्वमेव वृक्षार्थावगमात् अर्थप्रकरणार्धानेन श्रोत्रा बोधितस्वार्थयोरपि न सर्वदा तद्बाधः । तथाहि-अश्वमानय, कर्ण विध्यतीत्यादौ व्यस्तप्रयोगे तावन्नावयवार्थयोः किञ्चिद्वा- धकमस्ति । समस्तप्रयोगेऽप्यश्वकर्ण परिमार्टीत्यादौ प्रमाणा- न्तरवशेन समुदायार्थवाधादवयवार्थनिर्णयः सिध्यतीति । ननु पदानां स्वपदार्थमात्रप्रतिपादनावसितानां न विशिष्टरूपवा- क्यार्थबोधनसामर्थ्य कल्प्यम् । यथाहुः- न विमुञ्चन्ति सामर्थ्य वाक्यापि पदानि नः । तन्मात्रावसितेष्वेषु पदार्थेभ्यः स गम्यते"(श्लो.वा.वा.२२९)। हन्त तर्हि पदार्थेभ्योवगम्यमानो वाक्यार्थो न शब्द: स्यात् । नैष दोषः । पदार्थानां शाब्दत्वे तद्द्वारा वाक्यार्थस्या- पि शब्दप्रतिपाद्यत्वसंभवाद् वाक्यार्थे हि शब्दाना तात्पर्य न पदार्थेषु तेषां प्रमाणान्तरसिद्धत्वात् । अतो यद्यप्यभिधाव्या- पारः पदार्थेष्वेव पर्यवसितस्तथापि तेषु तात्पर्याऽभावात् वा- क्यार्थपर्यन्तत्वतात्पर्ये च शब्दस्य प्रामाण्यात् सिध्यति शब्द- प्रमेयतया वाक्यार्थस्य शाब्दत्वमिति । नाप्यसम्बन्धोपालम्भः ।

४५४ युक्तिस्नेहप्रपूरणीसहितायां [अ०१पा०१०७१०२४ अविनाभावरूपस्य सम्बन्धस्य सत्वात् । यथाहु:- "सम्बद्धमेव चैतेऽर्थ गमयन्त्यविनाभुवम् । सामान्यं स्वविशेषेण विना नड्युपपद्यते"(श्लो.वा.वा.२२१)। हन्त तानुमानादेव वाक्यार्थावगतिरापद्येत? । नैवम् । प- साधभावेनानुमानाऽसंभवात् । न तावत्पदार्था एव वाक्या- र्थविशिष्टतया पक्षीक्रियन्ते त एव हेतवस्ततः प्रतिज्ञार्थैकदेश- तेति । अथ वाक्यार्थमेव पक्षीकृत्य पदार्थानां हेतुत्वमुच्येत ? । तदप्यसत् । पूर्वमप्रतीतस्य पक्षत्वानुपपत्तेः पदार्थेभ्य एव हि तत्संसर्गात्मा वाक्यार्थोऽवगम्यते न ततः प्रागिति दिक् । एतद्- दूषणप्रपञ्चस्तु वार्तिकेऽवगन्तव्यः । किश्च विलक्षणलिङ्गजन्या हि धीरनुमानं न चैवं तज्जन्या पदार्थैरेवाग्रहीतसम्बन्धेरियं जन्यते अतः प्रमाणान्तरमेव शाब्दमिति । अपि च । "भावनावचनस्तावत्ता स्मारयति लोकव" दित्येतावदविवादम् । सा च यजते पचतीत्यादावा- ख्यातप्रत्ययान्वयेऽन्वयाद् यागपाकशब्दान्वयेवाख्यातव्यति- रेके व्यतिरेकात् आख्यातप्रत्ययार्थ इति केचित् । धा- तुरेवाख्यातप्रत्ययसनिधानानुगृहीतशक्तिभावनां वक्तीत्यप- रे । अन्येपुनर्धातुप्रत्यययोरन्यतराऽभावेऽपि भावनाया अ- प्रतीतेस्समुदायार्थो भावनेत्याहुः । अस्तु नाम यः कश्चित्पक्षो नचात्र निवेकेन प्रयोजनं किञ्चित् । प्रकृतमेव निरूपयामः । सा चेयं भावना स्वर्गकामो यजेतेत्याख्याताभिहिता साध्यसाधनेति कर्तव्यतांशा सामान्येनाक्षिप्यान्यतो विशेषमपेक्षते । एवं स्व. गर्गोऽपि कमिकर्मतयावगतः सिद्धे कामनाया अभावात्साध्यत- यावगतोभावनामपेक्षते । तयोश्वाकाङ्क्षासन्निषियोग्यत्ववशेन परस्परान्वयोगम्यते क्रमसाध्यसम्बन्धा च भावना साधनमपे- धाक्याधिकरणम् । शास्त्रदीपिकायाम् । ४५५ क्षने पदश्रुत्या च धात्वर्थ एव साधनत्वेनोपस्थाप्यते । गोदोह- नादिद्रव्यस्यापि साधनत्वेन श्रवणात् कथं धात्वर्थस्यैव भाव- नान्वय इति चेत् । सत्यम् । तस्याप्यप्पणयनादिरूपधात्व- श्रयेणैव तत्साधनत्वं न स्वरूपतः । निराश्रयस्य तदनुपपत्तेः। ननु धात्वर्थस्याप्यसिद्धत्वात् साध्यतयैवान्वयः किन्नस्यादिति चेत् । न । तस्यापुरुषार्थस्य विध्युपष्टब्धभावनया साध्यत्वेना- ऽग्रहणान् । नन्वेवमपि तृतीयाऽभावात्कथं यागस्य करणत्वं ? स्वभावादेवेति ब्रूमः । नहि करणत्वं तृतीयया नियतं यतस्तन्नि- वृत्या निवर्तेत । सत्कदौ(?) तृतीयां विनापि करणत्वदर्शनात् । प्रयाजशेषे तृतीयासत्वेऽपि करणत्वाऽभावात् । कथं तर्हि या- गेनेति तृतीयोपदय॑ते स्वभावसिद्धमेव करणत्वसम्बन्धं स्पष्टी- कर्तुमिति ब्रूमः । यथाहुः- "न केवलं तृतीयैव करणत्वं नियच्छति । प्रमाणान्तरगम्येऽपि न किञ्चिद्विरुणद्धि सा"॥ २५७ ।। तथा- "प्रत्यासत्तिनिमित्तोऽयं सम्बन्धः कल्प्यते नयोः । तं च विस्पष्टमाख्यातुं यागेनेति प्रयुज्यते ॥ २५५ ॥ यथोपगवशब्दार्थ तस्यापत्यमितीदृशात् । कथयन्ति नचैतस्मिन्षष्ठयन्तोपगुसम्भवः " ॥ २५६ ॥ किश्च यथा यागशब्दात् तृतीया भवति नैवं यजेतेत्यत्रधा. तोरमातिपदिकत्वात् । अंतस्तदर्थव्याख्यानार्थं यागेनेति तु- तीयान्तस्य प्रयोगः । एवं च लब्धसाधनसम्बन्धा भावना क- रणोपकारसाधनमुपायमात्रमपेक्षते प्रयाजाद्युपायश्च भाव्यमात्रम् । तयोश्चाकासासनिधियोग्यत्वैर्मिथः सम्बन्धसिद्धिः । स चोपायः कचित्स्त्रवाक्यगतोलभ्यते । यथा रेवतीषु वारवन्तीयं कृत्वा य- जेतेति । कचित्तु वाक्यान्तरगतो यथा प्रजादिः वाक्यान्तर- - - युक्तिस्नेहप्रपूरणीसहितायां [अ०१पा०१०७०२४ गतस्याप्यपेक्षावशादन्वयः । उपायरहितानां करणानां फल- साधनत्वाऽसंभवात् प्रयाजानां च निष्प्रयोजनत्वापत्तेः । ननु- विश्वजिद्वत्स्वर्गप्रयोजनवत्वात् कथं प्रयाजादेनिष्प्रयोजनचोप- तिः । मैवम् । अपेक्षितसंनिहितऋतूपकाररूपदृष्टप्रयोजनलाभे सति प्रयोजनान्तरकल्पनानुपपत्तेः । नन्वंशानां भावनासम्ब- न्धेसति परस्परसम्बन्धानुपपात्तेः परस्परसम्बन्धे वा न भा- बनासम्बन्धः स्यात् सम्बन्धद्वयविधाने वा वाक्य भेदप्रसङ्गात् । अत्राहु- "एकभावनयोपात्तात्रयोप्यंशाः परस्परम् । उपकार्योपकारित्वं पश्चादनुभवन्ति ते ।। भावनापेक्षमाणा हि साधनं किं फलस्य मे । साधनानुग्रहः कोवेत्यनुस्यूतमपेक्षते । आकाझैवमविच्छेदे सिद्धा शुक्लगवादिषु । एकक्रियागृहीतेषु सम्बन्धश्च परस्परम् ।। द्रव्यद्वारेण चैतेषां विशेषणविशेष्यता ।" इति । ततश्च भावनामेव विशिष्टां विदधत्ययोऽर्थाद्यागादीन्विद. धाति न साक्षादिति । तदुक्तम्- एवं पदार्थवाक्यार्थसधातैरूपकल्पितां । विशिष्टां भावनां प्राप्य वृत्तिर्विधिनिषेधयोः ।। यत्तु प्रत्यासत्तिवशात्केवले भाबनात्मनि पर्यवसितो वि. घि ने पश्चाद्यागादानशान् विधातुमसमित्युक्तन् । तत्र ब्रूमः । न तावत्केवले भावनात्मनिविधिपर्यवसान भवति । अश- प्रयाऽपरिपूर्णापा भावनाया अनुष्ठातुमयोग्यतया चे तनमर्त नात्मकविध्यन्वयाऽसम्भवात् याग्यताया अपिसम्बन्धकारण- खात् अयमत्र क्रमः । प्रत्यासत्तिशेषाद्विधिभावनयोदन्वयेन

घा क्याधिकरणम् शास्त्रदीपिकायाम् ।
भवितव्यमित्येतावत्पथममवगम्यते । ईदृशी चावस्था विधिसं-
स्पर्शइति विधिप्रक्रम इति चोच्यते । तथाच भवितव्यं यथा-
वगतभावनान्वयो विधिरयोग्यत्वात्तामविदधद्यावदंशत्रयं परि-
पूर्ण परीक्ष्य पश्चात्सर्वांशसम्पूर्णामंशान्तरानपेक्षिणीं विदधा-
तीति । यथाहुः-
"यद्यप्यन्यैरसंस्पृष्टां विधिः स्पृशति भावनाम् ।
तथाप्यशक्तितो नासौ तन्मात्रे पर्यवस्यति ॥ २७४ ॥
अनुष्टेये हि विषये विधिः पुंसां प्रवर्तकः ।
अंशत्रयेण चापूर्णा नानुतिष्ठति भावनाम् ॥ २७५ ॥
तस्मात्मक्रान्तरूपोऽपि विधिस्तावत्प्रतीक्षते ।
यावद्योग्यत्वमापन्ना भावनान्यानपेक्षिणी" ॥ २७६ ॥
( श्लो. वा. वा.) इति ॥
नन्वस्तु नामैवं नामाख्यातसम्बन्ध उपसर्गनिपातानां तु
कथं गवादिवत्स्वतन्त्राणामविधारणाभावात् । सत्यमेवम् । त.
थाप्यन्यसहितानामेव प्रयोगनियमात् तदागमन्यायेनार्थवत्वं सि-
ध्यति चकरागमे हि समुच्चयोऽवगम्यते न ततः प्राक्, वाच.
कत्वद्योतकत्वविवादस्तु नात्रोपयुज्यते द्वेधाऽपि वाक्यार्थोप-
योगित्वसिद्धेः । तदुक्तम्-
"वाचकयोतकत्वं तु नातीवात्रोपयुज्यते ।
तद्भावाद्वाचकत्वं वा परस्यानुग्रहोस्तु वा" ॥ २७८ ।।
यत्तु नैषां क्रियया नाम्ना वा सम्बन्धः सम्भवतीत्युक्तम् ।
तत्राप्याहु:-
"ईषदादयस्तावत्साक्षान्नाम्नैव सङ्गताः ।।
अप्रयुक्तक्रियाद्वारा विशेषाऽधानतोऽपरे ॥ २७९ ॥

४५८ युक्तिस्नेहप्रपूरणीसहितायां [अ०१पा०अ०७सू०२५ आपिङ्गः प्रवयाश्चेति द्वयस्यैतन्निदर्शनम् ॥ कचित्मकृष्टतादीनां भावनोपनिपातिनाम् ॥ २८० ॥ इतिकर्तव्यतात्वेन प्रतिपत्तिपरिग्रहौ" (श्लो. वा. वा.)॥ नन्वाभिमुख्यस्य कर्तृधर्मत्वात् कथं क्रियया सम्बन्ध इति चेत् ? क्रियैकार्थसमवायसम्बन्धेनेति ब्रूमः । न हि कर्तृस्वरूपा- गमभिक्रमणमानर्थक्यात् धातुसम्बन्धे च णमुलो विधानात, अतः क्रियाङ्गमेवेति । ननु प्रासादः प्रतिष्ठते इत्यादावन्यार्थ. विरुद्धार्थाश्चापसर्गाः धातोः स्वार्थशक्तिं लोपयन्तः कथं धा- तुना सम्बध्यन्ते । उच्यते । वाचकत्ववादिमते तावते वि. शेषणं किन्तु धातुभाग एव । तथाहि-शब्दान्तरात्तिष्ठतेः स- काशात् प्रतिष्ठतिरश्वकर्णशब्दवत् समुदायशक्त्यैव गमने वर्त्तते । अभिदधातत्यिादावपि समुदायशक्तिः तथा प्रलम्बतिरपि ल. म्बतेः सकाशात् शब्दान्तरं समानार्थ नतु लम्बतेः प्रशब्दो वि- शषणमिति । द्योतकत्ववादिनस्तु विशेषणत्वमेव मन्यन्ते । यथाहु:- "प्रशब्देनोपसृष्टस्य तिष्ठतेर्गतिशक्तता । नहि प्रशब्दवेलायां गमने जायते मतिः" ॥ २८३ ॥ ननु तिष्ठतिमात्रेणापि न गमने मतिर्जन्यते ततः कुत एतत् तिष्ठतिर्वाचकः प्रशब्दोद्योतकइति विपरीतमेव किं न स्यात् । उ. च्यते । धात्नां तावत्सामान्येन क्रियामात्र शक्तिः क्लुप्त्वात- स्तिष्ठतेर्गमनाख्ये विशेषे एव शक्तिकल्पनं भवति प्रशब्दस्य तु सामान्ये विशेषे चोभयत्रापि अक्लुप्त्व शक्तिः कल्पनीये. ति गौरवम् । अतो द्योतकत्वमेव प्रशब्दस्य न वाचकत्वमिति । कथमेतावता विशेषणत्वं प्रशब्दस्य ? | धातोरर्थान्तविषयक- शत्यन्तरोद्भावनेनैव विशेषणत्वमिति ब्रूमः । औपसंदानिकी श- वाक्याधिकरणम्] शास्त्रदीपिकायाम् । ४५९ क्तिरेव द्योतनमिति हि प्रसिद्धिः । अयमत्र विवेकः । तिष्ठतेर्ग- तिनिवृत्तिर्गतिश्चेतिद्वावर्थों दधातेरपि धारणमभिधानं च । तत्रानुपसृष्टयोगनिवृत्तो धारणे च शक्तिराविर्भवति । प्राभ्युप- सौ तु तां शक्तिमपोद्य गतावभिधाने च शक्तिमाविर्भावय- "तेन शक्त्यपवादोऽयं भवेदापवादवत् " ॥२८७ ॥ अयं च द्योतकत्ववादिनोऽभिप्रायः । वाचकत्वपक्षेतु स. मुदायशक्तिरेवेति । अत्र केनचित्-कर्मणः कर्मसाध्यत्वान्न ज्ञानद्वारेण काष्ठपाकान्वय इत्युक्तं तन्निराकरणप्रसङ्गेन क- र्तृत्वकरणत्वादिनिरूपणं वार्तिककारैर्महता प्रबन्धन कृतं त- त्तत्रैवावगन्तव्यम् । नन्वस्तु नामैवमुपसर्गाणां सम्बन्धः ननादे- स्तु वस्तुस्वरूपविरुद्धप्रतिषेधविकल्पादिवाचकत्वात्कथं सम्ब- न्धः स्यात् । उक्तं च- "स्वश्रुतेः प्रथमं वस्तु सद्भावेन निरूपितम् । कथं नादिभिः पश्चादभावमुपनीयते." इति ॥ अत्रोच्यते । न तावन्नमा वस्त्वभावः क्रियते यतस्तस्य व- स्तुना विरोधः स्यात् । किन्तु विद्यमानमेवाभावं वर्तमानमतीत- तमनागतं वाऽभिदधाति । त्रेधा हि नमो वृत्तिः पर्युदासाभावपति. षेधैः । तद्यत्र नाम्ना संयुज्यते अब्राह्मण इति तत्र ब्राह्मणवस्त्व- न्तरपयुदस्तं क्षत्रियाख्यवस्त्वेव नत्रा प्रतिपाद्यते । तथा नेक्षे. तेत्यादौ धात्वर्थयोगेपक्षिणपर्युदस्तमनीक्षणसङ्कल्याख्यवस्त्व- न्तरमेवोच्यते । तच्च वस्त्वन्तरपर्युदस्तत्वं वस्त्वन्तरस्याऽनुगु- णमेव सर्ववस्तुनामितरेतराभावात्मकत्वात् । यत्राप्याख्यात- संयोगे नास्ति घटो नासीन च भविष्यतीति वा निवृत्तिःप्रतीय- युक्तिस्नेहप्रपूरणीसहितायां [अ०१पा०११०७सू०२४ ते तत्रापि न वस्त्वभावोनबा क्रियते किं त्वज्ञानसंशयविपर्यय- मात्रनिवारणम् । यथाहुः- "नामधात्वर्थयोगी च निषेधोऽन्यार्थभाग्भवेत् ॥ ३०१ ॥ तत्र वस्त्वन्तरोक्तं वस्त्वेवानुगुणं च तत् ॥ आख्यातप्रत्ययोंगे निवृत्यर्थः प्रतीयते ॥ ३०२॥ तत्र चाज्ञातसन्दिग्धविपरीतार्थवारणम्” (श्लो. वा. वा.) नन्वस्तु रूपाभाववाचकस्य कथं शब्दान्तरसमभिव्याहारः । मैवम् । अभावस्य वस्तुत्वपतिपादनात् तदभिधायिनोनबो घटा- दिवत्तदुपपत्तेः(?)। ननु प्राप्तिपूर्वको निषेधोभवति तद्यदि घटसत्ता प्राप्ता कथं निषिध्यते नहि विद्यमानस्याऽविद्यमानता सम्भव- ति ? । स्यादेवं यद्ययं प्रतिषेधः स्यात् नत्वेवं, न हन्यान पिबे- दित्यादाविव विधिसंयोगाऽभावात् । किन्त्वभावस्वरूपमात्र- कथनं, नच तत्माप्त्यपेक्षम् । हन्त तीभाववाचिनो नमः कथं सद्भाववाचिना घटशब्देन समभिव्याहारः स्यात् अस्तिना- स्तिशब्दयोरिव विरुद्धार्थत्वात् ? । नैषदोषः । न ह्यत्र घटशब्देन घटस्य सत्वं बोध्यते किन्तु सदसत्वसाधारणं स्वरूपमात्रम् । तच्च प्रादेशिकत्वाद् घटस्य कचित्सद्भाववत् कचिच्चाऽसदिति न वि. रोधः सत्वबोधने तु पटोस्तीत्यस्तिशब्दप्रयोगः स्यात् । ननु मीमांसकानां मते जातिरेव शब्दार्थः तस्याश्च नित्यत्वात्कथं सत्व. साधारण्यम् । नैष दोषः। नास्तीत्यस्य व्यक्तिविशेषणत्त्वाङ्गीका. रात् शब्दार्थरूपाया जातेस्तदसम्भवात् । यथाहुः- "जातेरस्तित्वनास्तित्वे न च कश्चिद्विवक्षति । नित्यत्वाल्लक्ष्यमाणाया व्यक्तेस्ते हि विशेषणे"(श्लो.वा.वा.३११) नन्वेवमपि ब्राह्मणं न हन्यात् सुरां न पिबेदित्यादौ नमः प्रतिषेधवृत्तेरस्ति विरोधः-तथाहि-प्राप्तिपूर्वका प्रतिषेधोभवति वाक्याधिकरणम् । ] शास्त्रदीपिकायाम् । यदि रागादिना पानं हननं वा तेनानुष्ठिनं तदा कथं तस्या- ऽभावः कथ्यते यदि तु नानुष्ठास्यते ततः प्राप्त्यऽभावात्प्रतिषे- धानुपपत्तिरिति । उच्यते । नाऽत्र नबो ऽभावार्थत्वं किन्तु चिकीर्षितायापाराभिरुन्धनम् । सम्भवति च पुंसः पानादौ- वैराग्यजननेन तदभावावस्थापनमित्यविरोधः । उक्तं च- "विधिना युज्यते यत्र न हन्यान्नपिवेदिति । तत्राभावार्थता नैव स्वयं पुंसो रुणद्धि हि" (श्लो. वा. वा. १३५)॥ एतत्प्रपञ्चस्तु न्यायरत्नाकरेऽवगन्तव्यः । प्रकृतमनुसरामः। इतश्च वाक्यार्थस्य निर्भागत्वं निरसनीयमित्याह । प्रसङ्गादिति । यदिनिर्भागो वाक्यार्थः स्यात् तदा वाक्यार्थावयवपदार्थवि- षयः प्रासङ्गिकादिव्यवहारो न स्यादित्यर्थः । यथाहुः- प्रासनिकादि यत्कार्य पदार्थोपनिबन्धनम् । आकाङ्क्षाविदितप्रश्नौ यौ च दृष्टौ पिकादिषु । असत्यं तदपोद्धृत्य न चैकं कल्पयिष्यति ॥ ३३८ ।। असत्यैर्गम्यमानेर्थे सत्यता नेत्युदाहृतम् । स्वरूपेणासतोदृष्टं नोपायत्वं हि कस्यचित्” ( श्लो. वा. वा. ३४०) इति । प्रसङ्गादित्यादिशब्दार्थ विवृणोति । तथाहीति । उक्तम- र्थमुपपादयति। यदा हीति । उपपादितमर्थ निगमयति । तस्मा- दिति । अत्र सिद्धान्तसूत्रम् 'तद्भूतानां क्रियार्थेन समाम्नायो- ऽर्थस्य तन्निमित्तत्वात् । तद्भूतानां तेष्वेव पदार्थेषु भूतानां वर्त- मानानां पदानां क्रियार्थेन पदेन समाम्नायः समुच्चारणं नान- पेक्ष्य पदार्थान् पार्थगर्थेन वाक्यार्थम् । कुतः। अर्थस्य पदार्थस्य तन्निमित्तत्वात्-वाक्यार्थप्रत्ययनिमित्तत्वात, पदानि तावत्स्वा- ४६२ युक्तिस्नेहप्रपूरणीसहितायां [अ०१पा०१अ०७१०२४ नभिदधति पश्चात्ते पदार्था आकासादिवशेन वाक्यार्थमवग- मयन्तीति मूत्रार्थः । अथवा ग्रन्थकाराभिप्रेत एवं सूत्रार्थोवर्ण- नीयः । इह केचिद्वाक्यमेव वाक्यार्थस्य वाचकमिति मन्यन्ते केचित्तु निर्मूलमेव वाक्यार्थज्ञानमित्याहस्तेषामपीदं मूत्रेण नि- राकरणम्-तथाहि लोकसिद्धेषु पदार्थेषु वर्तमानानां पदानामेव वाक्यार्थज्ञानोपायत्वात् न वाचकत्वम् । कुतः । अर्थस्य तन्निमि. तत्वात्- :-पदार्थानामेव तन्निमित्तत्वोपपत्तनिष्पमाणकं वाक्यस्य वाचकत्वमित्यर्थः । नापि निर्मूलं वाक्यार्थज्ञानं अर्थस्य पदा- र्थस्य तनिमितत्वात्-तन्मूलत्वात् । न चैवं वाक्यार्थस्याशाब्द- स्वापत्तिः। यतस्तेषां क्रियार्थेन समाम्नायः । ननु यदि पदार्थेषु पदानि वर्तन्ते पदार्थाश्च वाक्यार्थस्य क्रियायाः विशिष्टभावनाया निमित्तं ततः कथं पदानां क्रियार्थत्वेन समाम्नायः सिद्ध्येत् । वाक्यार्थावगतावेव तात्पर्यादिति ब्रूमः तथाहि-पदार्थस्वरूपस्य प्रमाणं वाक्यार्शवगतावेव तात्पर्यमिति युक्तमेवोक्तं तेषां क्रिया- थेन समाम्नाय इति । यथाहु:- "साक्षाद्यद्यपि कुर्वन्ति पदार्थप्रतिपादनम् । वर्णास्तथापि नैतस्मिन्पर्यवस्यन्ति निष्फले ।। वाक्यार्थमितये तेषां प्रवृत्तौ नान्तरीयकम् । पाके ज्वालेव काष्ठानां पदार्थप्रतिपादनम्" (श्लो. वा. ३४३) इति । नन्वेवमपि पदैरनभिधेया भावना कथमर्थ इत्युच्यते? प्रयो. जनतयेति ब्रूमः। क्रियार्थेन समानाय इत्यत्रार्थशब्दस्य प्रयोजन. वचनत्वात् । यथाहुः "प्रयोजनतया चैषामर्थमिच्छन्ति भावनाम् । क्रियार्थेनेति तेनेह समाम्नायप्रयोजनम्"(कलो.वा.वा.३४४)। वा.

वाक्याधिकरणम् । शास्त्रदीपिकायाम् । यत्रापि लोके शुक्लो गौरिति निष्क्रियमेव वाक्यं श्रुतं त. तत्राप्यानीयतामित्यध्याहर्त्तव्यम् । आख्यातवर्जितपदस्य प्र- योजनाऽक्षमत्वात् । किं चान्वयव्यतिरेकाभ्यामपि पदार्थानां निमित्तत्वमवसीयते उच्चरितेभ्योऽपि पदेभ्यः कदाचिन्मानसा- दपचारात्पदार्थाग्रहणे वाक्यार्थाऽग्रहणात् । वाक्यमप्यत्र न गृहीतमिति चेत् ? । न, पदोचारणं विनापि शौक्लयादिपदा. विगममात्रेण शुक्कगुणकद्रव्यावगमदर्शनात् । तस्माद्वाक्यव्य- तिरेकेऽपि पदार्थचयेन्वीयमानः पदार्थनिमित्त एव वाक्यार्थप्र- त्ययः एवं च सति सिद्धे पदार्थनिमित्तत्वोपपत्तावपि मानसा- दपचारादग्रहणं तत्रापि पदार्थाऽग्रहणादेव वाक्यार्थाग्रहणम् । नतु वाक्यग्रहणादित्युत्तरं युक्तम् । संविद्विरोधात् । यथाहुः- "पश्यतः श्वेतिमारूपं हेषाशब्दं च शृएवतः। खुरनिक्षेपशब्दं च श्वेतोऽश्वो धावतीति धीः ।। ३५८ ॥ दृष्टा वाक्यविनिर्मुक्ता न पदार्थैविना कचित् । मानसादित्यतो न स्याद्वाक्यग्रहणमुत्तरम् ॥ ३५९ ।। मानसेनापराधेन पदार्थान् ये न गृह्णते । ते तु वाक्यं गृहीत्वापि नार्थ गृह्णन्ति काचित् " ( श्लो. वा. वा. ३६०)॥ प्रयोगास्तु वार्तिकेऽवगन्तव्या विस्तारभयानेह लिखिताः। नन्वेवमपि लौकिकवाक्यवद्वेदेऽप्यानुपूर्व्याः पौरुषेयत्वम्- दृश्यते च लोके- "नीलोत्पलवनेष्वद्य चरन्तश्चारुसंरवाः । नीलकौशेयसंवीताः प्रणश्यन्तीव कादम्बा" इति । अतो वैदिका अपि पुरुषकृता इति । तनिराकरणार्थमिदं सूत्रम् "लोकेसंनियमात्मयोगसनिकर्षः स्यात्" । एतच्च व्य- ४६४ युक्तिस्नेहप्रपूरणीसहितायां [अ०१पा०अ०७सू०२४ वहितविपरिणतानुषङ्गेण व्याख्ययम् । लोके सन्निकर्षात- प्रमाणान्तरसम्बन्धात् प्रयोगसंनियमः स्यात् पुरुषाधी- नप्रयोगव्यवस्था युक्ता स्यात् न विह प्रमाणान्तराऽगोचरा- र्थविषयत्वादिति सूत्रार्थः ॥ इति सप्तमं वाक्याधिकरणम् ।। सू० *वेदांश्चैके सन्निकर्ष पुरुषाख्याः । ननु पदपदार्थ- *अष्टमं वेदस्यापौरुषेयत्वाधिकरणम्- वेदस्यानित्यत्वात् पौरुषेयत्वाद्धर्मे न प्रामाण्यं पुरुषदोषसम्भ- वादिति पुनराक्षिपति. सू. पू. वेदांश्चैके सन्निकर्ष पुरुषाख्याः॥१॥ काठकं काथुममिति पुरुषघटिताः आख्याः नामानि अतः सन्नि- कर्षमाधुनिकं सादीन् एके-नैयायिका आहुः ॥ इतोऽप्यनित्य इ. त्याह-सू-अनित्यदर्शनाञ्च ॥ २ ॥ अनित्यानां जननमरणवतां पुरुषाणां "बबरः प्रावाहणिरकामयत कुसुरविन्द औद्दा- लकिरकामयत" इत्यादिवेदेषु दर्शनात् तेषां पुरुषाणां जननात् प्रागिमानि वाक्यानि नासान्निति सादित्वादनित्यत्वं पौरुषेयत्वं सिद्धम् ॥ सिद्धान्तमाह । सि० सू० उक्तन्तु शब्दपूर्वत्त्वम् ॥३॥ शब्दे पूर्वत्त्वं नित्यत्त्वमुक्तं साधितं प्राक्. शब्दे नित्यत्वं सिद्धे वेदेऽपि नित्यत्वं वाचा विरूपनित्ययेत्यप्यु- कम्। ! सू० आख्या प्रवचनात् ॥४॥ आख्या समाख्या प्रव. चनाद् अध्ययनेन कठेनाधीतं काठकमित्युपपन्ना ॥ सू० परन्तु श्रु. तिसामान्यमात्रम् ॥ ५ ॥ यद्यपि बबरः प्रावाहणिरित्यस्ति परन्तु श्रुतिः प्रावाहण्यादिशब्दः सामान्यमन्यार्थस्यापि वाचकम् प्रे- त्यस्य उत्कर्षाश्रयः वहनशब्दस्य गतिः इकारस्य कर्ता तथा च उत्कृष्टगत्याश्रयः नापत्यार्थः प्रत्ययः तथा च वायुपरः सचानादिः बबर इति वायुशब्दानुकरणमिति नानुपपत्तिगन्धोपि ॥ ननु जरद्भवः कम्बलपादुकाभ्यां द्वारिस्थितो गायति मद्रकाणि । तं ब्राह्मणी पृ. च्छति पुत्रकामा राजन् रुमायां लशुनस्य कोऽर्थ" इति वद्वेदे गावो वा एतत्सत्रमासत" इत्यादीनामसम्बद्धप्रलापानां सत्वात् वेदनित्यताधिकरणम्] शास्त्रदीपिकायाम् । ( अष्टमं वेदाऽपौरुषेयताधिकरणम् ) स्वेदांश्चैकेसंनिकष पुरुषाख्याः सङ्केतानपेक्षरेव पदैः पदार्थाः प्रतिपाद्यन्ते तैर- सम्बन्धनित्यतया वाक्यार्थप्रामाण्य उपपादिते चोदनैव प्र- माणमित्यवधारणसिद्धराग्रिमविचारानर्थक्यमित्याशङ्याक्षेपान्त- रनिराकरणनार्थवत्वमुपपादयितुं वृत्तमनुवदीत । सङ्के. तानपेक्षैरिति अत्र केचिदाहुः-- सम्बन्धनित्य- वायुपपादनेन चोदनापामाण्याक्षेपे परिहतेऽपि क- ठादिसमाख्यया शाखानां पौरुषेयत्वाऽवगमात् तदवयवानां चोदनानां पुनः प्रामारायमाक्षिप्यते इति । तन्न युक्तम् । सा- मान्यप्राप्ती सत्यां विशेषनियमार्था समाख्या भवति-यथर्विनां सामान्यतः पदार्थेष्वनियमेन कर्तृत्वे प्राप्त आध्वर्यवादिसमाख्य. या नियमः क्रियते । न चेह वेदानां सामान्येन कश्चित्कर्ता प्राप्तो यतः काठकादिसमाख्यया कठादयो नियम्येरन् प्रवचने- कथं वेदः प्रमाणमत्राह-सू० कृते वा नियोगः स्यात्कर्मणः सम्ब. न्धात् ॥६॥ कर्मणः कर्मप्रतिपादकवाक्यस्य सम्बन्धात् परस्प. रसाकाङ्क्षपद्घटितत्वात् गावो वा इत्यादीनामपि कृते कर्मणि स्तुतिद्वारा बिनियोगः । अयं भावः "त एवं विद्वांसः संवत्सर- मुपयन्त्यनारी" इति अनेन संवत्सरसाध्यसत्रयागः कार्य इत्युक्त केनेत्युक्त होमेनेति, कस्मै आर्तिनाशाय, कथमिति ज्योतिष्टोमो वैश्वानरोऽतिरात्र इत्यादिरीत्या सर्व सम्बद्धम् । तत्समीपे गावः सत्रमासतेति न स्वार्थतात्पर्यकं किन्तु गवादयो जडा अपि क. मानुष्ठानं चक्रुः किमुत विद्वांसोऽनुतिष्ठेरन्नित्यत्राऽसंशय इति स्तुतौ तात्पर्य तस्मात्सर्व सम्बद्धमिति । अस्मिन्नधिकरणे ६ सूत्रा. णि । आदितः सूत्राणि ३२ आदितोऽधिकरणानि ८ प्रथमपादोऽत्र समाप्त:-प्रथमाऽध्यायस्य।

युक्तिनहप्रपूरणीसहितायां अ०१पा०अ०८सू०२७ प्यनपेक्षितसङ्केतैर्वाक्यार्थ इत्युक्तम् । इदानीं तु किं पौरुषेयाणि वेदवाक्यानि, उताऽपौरुषेयाणीति चि. न्त्यते । पौरुषेयत्वे तु संजातस्यापि वाक्यार्थप्रत्यय- स्थ स्वतः प्राप्तमपि प्रामाण्यं पौरुषेयस्येदृशेऽर्थे मूल- प्रमाणासंभवाद् विप्रलम्भभ्रान्त्यादिमूलतयाऽपोद्यते। तन्त्र- वेदानां पौरुषेयत्वं वाक्यत्वाद् भारतादिवत् । काठकादिसमाख्यापि कृतकत्वे समर्थ्यते ॥ ५३॥ नन्वऽपूर्वात्मा वेदार्थोऽलौकिकः कथंचिदपि बु. द्धावाऽऽरोपयितुमशक्यः, कथं तत्र पुरुषा वाक्यं रच. येयुः ? । भवानपि वा कथमीदृशे तस्मिल्लिङादेः श. नापिच समारव्योपपत्तौ नैकान्ततस्तया काठकादिकर्तृत्व- सिद्धिरतो वाक्यत्वादिवात्र पौरुषयत्वमाशा निराक्रियते- इत्यभिप्रायवानाह। इदानीमिति । ननु पौरुषेयाणामप्याप्तप्रणी- तानां इष्टमेव प्रामाण्यं कथं तेन चोदनाप्रामाण्याप वादोऽत आ- ह । पौरुषेयत्व इति । ईदृशे, लौकिकप्रमाणाऽगोचरे । पूर्वपक्ष- माह । तत्रेति । समाख्या त्वभ्युच्चयहेतुरत्रेत्याह। काठकादीति । नन्वेतदपि कर्तुरस्मरणादित्यनेन पूर्वमेव परिहृतम् । सत्यम् । अत्रत्यमेवानागतावेक्षणेन प्रसङ्गात्पूर्वमुक्तम् । इहैव- तु वेदानां पौरुषेयत्वं निराक्रियते । तेनात्रैवेदमुपन्यसनीयं निराकरणीयश्चेति सर्वमनवद्यम् । किंच- जायते वाक्यतापत्तिः पदानां रचनावशात् । नचसा पुरुषाऽभावे कथश्चिदुपपद्यते । अतोऽवश्य- माश्रयणीयोवेदानां कर्त्ततिासद्धान्तिनः शङ्कामुपपादयति । नन्विति । प्रतिवन्द्या परिहरति । भवानपीति । यद्येवं वेदनित्यताधिकरणम् शास्त्रदीपिकायाम् । क्तिं गृह्णीयात् ? । अधिकारिनियोज्यान्वययोग्यं स्व- गसाधनक्षमं कार्यरूपमित्यादिरूपेण कथं चिद् हृ. दद्यमानीय शक्तिग्रहणम् ? । तथा वाक्यरचनाविधिः संभविष्यति, तस्मादाक्यत्वात् पौरुषेया वेदाः । त- था च काठकादिसमाख्या युज्यते, नहि प्रवचननि- मित्ता समाख्या संभवनि- प्रवचनस्यानेकपुरुषसा- धारणत्वात् काठकविशेषणाऽसम्भवात्, कर्तृत्व चै- कस्यैवेति युक्तं विशेषणम् । किं पुनर्वाक्ये पुंसः कर्तृत्वम् ? यः स्वातन्त्र्येण पदानि वाक्यत्वेन रच- यति स कर्ता, स्वातन्त्र्यं चैकस्यैवेति युक्तं विशेषण- म् । यस्तु यथैव पुरुषान्तरेणोच्चारितं तथैवोच्चारया- मीत्येवमुच्चारयति नासौ कर्ता, तादृगुच्चारणं च बहू- नामप्येकस्मिन् वाक्ये सम्भवतीति विशेषणानुपप. त्तिः, तस्मात् कर्तृनिमित्तयमिति प्राप्ते, । शक्तिग्रहणं तर्हि वाक्यरचनाप्येवं भविष्यतीत्याह । अधि- कारीति । श्लोकार्थमुपसंहरति । तस्मादिति । ननु प्रवचनेनापि समाख्योपपत्तौ नैकान्ततस्तत्कर्तृत्वसिद्धिरित्युक्तं तत्राह । नहीं- ति। किं पुनरिदं कर्तृत्वं यदेकस्यैव संभवति न बहूनामित्यभिप्रा- येण पृच्छति । किमिति । उत्तरमाह । य इति । पूर्वपक्षमुपसंहर- ति । तस्मादिति । अयश्च सूत्रार्थः चकारस्तुशब्दार्थः । एके- वादिनः सन्निकर्षः सन्निकष्टकालत्वं लक्षीकृत्य कृतकान् वेदा- न् मन्यन्ते यतस्ते पुरुषाख्याः। पुरुषेणाख्यायन्ते कादिरूपेण 'अधिकृत्य कृते ग्रन्थ' इत्याभियुक्तस्मरणात् अतः समाख्यातः पौरुषयत्वं वेदानामिति । ननु सामान्यप्राप्तौ सत्यामेव विशेषनि- " ४६८ युक्तिस्नेहप्रपूरणीसहितायां [अ०१पा०१अ०८सू०२७ अभिधीयते- उक्तं तु शब्दपूर्णत्वमाऽऽख्याप्रवचनादिति । वाक्यत्वात् पौरुषेयत्वं दृश्यादर्शनबाधितम् । प्रतिहेतुविरुद्धश्च हेतुः, तस्मादऽकृत्रिमाः ॥५४॥ यदि वेदानां कर्ता कश्चिदऽभविष्यत् ततोऽव. श्यमध्येतृपरम्परया बुद्धादिवदऽस्मरिष्यत् न यस्य विस्मरणं सम्भवति-तत्प्रत्ययेन हि तदा सर्वपुंसां वेदार्थानुष्ठानं प्रमाणान्तरागोचरत्वात् फलसाधन- त्वस्य, अतोऽर्वाचीनैः कथमसौ विस्मर्येत, यतः स कताऽवश्यं स्मर्तव्यो न च स्मयते तेन स्मृतिरूपद- शनयोग्यत्वे सत्यप्यदृश्यमानः कर्ता शशविषाणव- - यमे समाख्या व्याप्रियत इत्युक्तं ? सत्यम् । इहाप्यस्त्येव सामान्येप्राप्तिः लौकिकवाक्यसाधर्म्यपदसङ्घातत्वादिदर्शनात् । उक्तं च- "वचनान्तरसाधाकर्तः सामान्यसंप्लवे । समाख्यया विशेषोयं कादिरवधार्यते" (श्लो.वा.वे.१) । अनित्यदर्शनाच्च । जननमरणवन्तः तथा ऽनित्या एव वेदा- र्थाः श्रूयन्ते “ववरः प्रावाहणिरकामयताकुसुरविन्दुरौदालकिरका- मयते"त्यादि। अत एभ्यःप्राक् ते ग्रन्था नाभूवन्निति गम्यते अतो- प्यनित्या वेदा इति। सिद्धान्तं प्रतिजानीते। इतिप्राप्त इति। "उक्त- न्तु शब्दपूर्वत्वम्" "आख्या प्रवचनात्" इति च सिद्धान्तसूत्रद्वयं भाष्यकारेण पृथक् लिखित्वा व्याख्यातं ग्रन्थकारेण तु प. रिहारसौकर्यायतदेकीकृत्य पठितम् । श्लोकार्थमुपपादयति । यदीति । अनादराद्विस्मरणमिति चेत् न एतादृशेविषये ऽनाद.

वेदनित्यताधिकरणम् ] शास्त्रदीपिकायाम् । ४६९ दऽभावात्मनाऽध्यवसीयते । येऽपि हि पौरुषेयतां मन्यन्ते तेपि नैव परम्परया तत्र कर्तृविशेषस्मरणं शक्नुवन्ति वदितुम्, सामा- न्यतो दृष्टेन कर्तारमनुमाय स्वाभिमतं कर्तारं तत्र निक्षिपन्ति-केचिदीश्वरम्, अन्ये हिरण्यगर्भम्, अपरे प्रजापतिम्, न चायं नानाविधी विवादः परम्परया कर्तरि मन्वादिवत् स्मर्यमाणे कथं चिप्यवकल्पते, न हि मानवे भारते शाक्यग्रन्थे वा कर्तृविशेष प्रति कश्चिद्विवदते, तस्मात् स्मर्तव्यत्वे सत्यऽस्मरणाद् दृश्यादर्शनबाधितं सामान्यतोदृष्टं न शक्नोति कर्ता- रमवसाययितुम् । सप्रतिसाधनश्च हेतुः 'वाक्यत्वात्' इति, विवा- दाध्यासितं वेदाध्ययनं गुर्वऽध्ययनपूर्वक वेदाध्ययन- त्वादग्द्यतनाध्ययनवदिति, ॥ तदिदमाह सूत्रकार:- "उक्तं तु शब्दपूर्वत्वम्" इति, शब्दशब्देनात्र शब्दजन्यमध्ययनम् , तद्यमर्थः-- सर्वपुंसामध्ययनमऽध्ययनान्तरपूर्वकम्, सर्वे हि य- रानुपपत्तेरित्याह । तदिति । दृश्यादर्शनेति । अतः स्मर्तव्यस्य सतः सर्वथैवास्मरणात् असत्यां सामान्यतः कर्तुः प्राप्तौ न समा- ख्यया विशेषनियम इतिभावः । उक्तेऽर्थे सूत्रं योजयति । तदि- दमिति । शब्देनात्र शब्दाध्ययनमुच्यते उच्चारणमिति यावत् । तत्पूर्वकत्वमध्येतृणामौत्पत्तिकसूत्रादाबुक्तमित्यर्थः । एतदेव विवृणोति । सर्वेति । सूत्रार्थमुपसंहरति । तस्मादिति । नन्व- ४७० युक्तिस्नेहप्रपूरणीसहितायां [अ०१पा०१अ०८सू०२७ थैव गुरुणाऽधीतं तथैवाऽधिजिगांसन्ते, न पुनः स्वा- तन्त्र्येण कश्चिदपि प्रथमोऽध्येता वेदानामस्ति यः कर्ता स्यात् ? तस्मादपौरुषेया वेदाः । समाख्यापि योग्यानुपलब्धिनिराकृते कर्तरि तन्निमित्ता न सम्भ- वतीति प्रवचनानिमित्ताऽध्यवसीयते-प्रवचने एवाति- शययोगेनाऽसाधारण्यं कठस्य सम्भवतीति न वि. शेषणत्वानुपपत्तिः। यद्वा नायं पुरुषविशेषवचनः कठशब्दः किं तु नित्यस्य चरणविशेषस्यैवेयं संज्ञा तचरणैः पुरुषैः प- प्राप्तस्यापि कर्तुः समाख्यैव मूलं कस्मान्न भवत्यत आह । स- माख्या ऽपीति । समाख्यायाः प्रवचननिमितत्वेनाप्युपपद्य- मानत्वात् न कर्तृकल्पनामूलत्वम् “तेन लोक्त"मित्यपि स्मरणदर्शनात् । किञ्च दुर्बला हि समाख्या श्रुत्या- धपेक्षया आदिमती च, कथं यथा श्रुत्यात्मकस्य शब्दरा- शेः कषुपस्थापकत्वेनाऽप्रामाण्यमापादयितुं शक्यमतोऽपि प्रव- चननिमित्तेयमिति । ननु प्रवचनस्यानेकपुरुषसाध्यत्वात्क: ठस्य विशेषणत्वानुपपत्तिस्तत्राह । प्रवचन एवेति । प्रकर्ष- वशादसाधारणोपपत्तर्विशेषणत्वं स्यादित्यर्थः । यथाहुः- "स्मयते च वैशंपायनः सर्वशाखाध्यायी, कठ.पुनरिमां केवला शाखामध्यापयांबभूव अतोऽन्यां शाखामनधीयानस्तस्यामसा- धारण"इति । अथवा रुढिरेवेयमश्वकर्णादिशब्दवन्निनिमित्ते. त्याह । यद्वेति । यथाहुः- "कामं वा निर्णिमित्तयं शाखामेकां वदिष्यति।" श्रुतेः शब्दस्यैवात्र साम्यमा मत्वर्थः समानः नद्यत्र प्र- वेदनित्यताधिकरणम्) शास्त्रदीपिकायाम् । ४७१ रम्परयाऽधीयमाना शाग्वा काठकशब्देनाभिधीयते । वाहणस्यापत्यं प्रावाहणिः किन्तु यः प्रवहणस्य कर्ता । यदाह-प्रशब्द: प्रक सिद्धो वहतिश्च प्रापणे । न त्वस्य समुदायः कचिद्वर्तते, इकारस्तु यथैवा ऽपत्यर्थे सिद्धस्तथा क्रि. यायामपि कर्तरि तस्माद्यः प्रवाहयति स प्रवाहणिरिति । ववर इति शब्दानुकरणम् । चारैण किदीविनेतिवत् । तेन योनित्योर्थो वा पुरुषस्तमेवैतौ शब्दो वदिष्येते । एवमुदा- हरणान्तरेप्युह्यम् । ऋतुलिङ्गन्यायेन वा प्रतियुगमनुवर्तमाना- बवरादयः प्रवाहनित्यतया न वेदस्यानित्यत्वमापा दयन्तीति । किञ्च अयं वेदो नित्यः स्यादनित्यो वा । आये नित्यमर्थमस- म्भवादव वर्जयिष्यति । अन्त्ये त्वप्रमाणत्वादेव सुतरामिति । दर्शिता च नित्या कृत्यर्थता भाष्ये । यथाहुः-- "अनित्यार्थाभिधायित्वं स्वयमेवैष मुञ्चति । नित्याऽनित्यविकल्पेन वेदस्तादर्थ्यवर्जनात् ॥ १३ ॥ नित्यस्य नित्य एवार्थः कृतकस्याप्रमाणता । "इति । ननु वनस्पतयः सत्रमासत' सर्पाः सत्रमामत गावो, वा एतत्सवमासते"त्यादीन्युन्मत्तवालप्रलापसदृशानि वाक्यानि श्रू. यन्ते एतानि च जरद्वादिवाक्यवदप्रमाणभूतानि कथमिव कृत्स्नस्य वेदस्याप्रामाण्यं नापादयेयुरिति । तन्निराकरणार्थ- मिदं सूत्रम् । कुत्ते वा विनियोगः स्यात् कर्मणः सम्बन्धात् । वाशब्दः पक्षव्यावृत्यर्थः । वृत्ते कर्मणि सत्राख्ये प्रशंसाद्वारेण विनियोगोविधिः स्यात् , कुतः कर्मणः सम्बन्धात् । विनियुक्तं हि दृश्यते परस्परेण सम्बन्धार्थम् । कथं ? ज्योतिष्टोम इत्यभि- धाय कर्तव्य इत्युच्यते केनेत्याकाणिते सोमेनेति, किमर्थमिति ?

४७२ युक्तिस्नेहप्रपूरणीसाहितायां [अ०१पा०अ०८सू०२७ तस्मादपौरुषेयत्वाच्चोदनानां प्रमाणता । चोदनति प्रतिज्ञार्थः पादेनानेन साधितः ॥ ५५ ॥ यद्धि (इयं हि) चोदनासूत्रे प्रतिज्ञातम्-भेदशेषप्रयु- तिक्रमनियमाऽधिकाराऽतिदेशोहबाधतन्त्रप्रसङ्गसर्व- विशेषणविशिष्टे धर्मस्वरूपे चोदनैव प्रमाणं प्रमाणमेव चोदनेति तत्र चोदनैवेत्यवधारणेन यच्चोदनानिरपे. क्षाणां तया सह तुल्यकक्षतया स्पर्धमानानां प्रत्य- क्षादीनामप्रामाण्यं प्रतिज्ञातं तत् प्रत्यक्षसूत्रेण सा- स्वर्गायेति, कथमितीत्थं अनयेतिकर्तव्यतयेति । एवं पदा- थैरेभिः संस्कृतं पिण्डितं वाक्यार्थमवगच्छन्तः कथमुन्मत्त बालवाक्यसदृशामिति वक्ष्यामः । ननु वनस्पतीनां सर्पाणां गवां वा सत्रकरणमनुपपन्नम् । मैवम् । स्तुतयो ह्येता सत्रस्य वनस्पत- यो नामाऽचेतनाः त इदं सत्रमुपासितवन्तः किं पुनर्विद्वांसो ब्राह्मणा इति वक्ष्यति अमाप्ता चानुपपत्तिरिति कचित् । सम्बन्धादित्यस्य स्थाने समत्वादिति पठित्वा व्याख्यातम् । क. मणः अंशत्रयोपेतस्य सत्रभावनाख्यस्य ज्योतिष्टोमेन यजेतेत्या- दिकर्मणा समत्वादिति । तत्तु भाष्यविरोधादुपेक्षणीयम् । तदेव मुपपादितं चोदनापामाण्यमुपसंहरति । तस्मादिति । ननु प्रमाणरू- पस्य समाप्तत्वादनन्तरं बिधिभेदविचार एवारब्धव्यः किंत्रि- पायाऽर्थवादादिविचारेणेति तत्राह । चोदनेति । अनेन पादेन चोदनाया एव प्रामाण्यमुक्तम् । अर्थवादादीनां तु त्रिपाद्या सा- धयिष्यते । अतः पादत्रयमपि चोदनासूत्रवदेव जिज्ञासासूत्रो- क्तया 'कोधर्म' इत्यनयैव प्रतिज्ञया सङ्गच्छत इति नाऽसङ्गतिः नापि प्रमाणलक्षणसमाप्तिरिति भावः । एतदेव विष्णोति । द्व घेदनित्यताधिकरणम् ] शास्त्रदीपिकायाम् । धितम् । “औत्पत्तिकस्तु" इत्यादिना पादशेषेण प्रमाणमेवेत्ययमंशः साधितः । तदेवमस्मिन्नेव पादे चोदनासूत्रप्रतिज्ञाताविशेषे साधिते उपरितनं पादत्रयं चोदनासूत्रशेषतया न सङ्गच्छते, किं तु प्रथमे सूत्रे किं लक्षणो धर्म इति धर्मस्य प्रमाणं वक्त. व्यत्वेन प्रतिज्ञातं तत्रानेन पादेन चोदनायाः प्रामा- ण्यमुक्त्वाऽर्थवादस्मृतिनामधेयानामुपरितनेन पाद- त्रयेण प्रामाण्यं प्रतिपाद्यते तेन चोदनासूत्रवदेव पादत्रयं जिज्ञासासूत्रोक्तया 'को धर्मः' इत्यनयैव प्रतिज्ञया सङ्गच्छते । न चार्थवादादीनां प्रामाण्ये चौदनैवेति प्रतिज्ञा- व्याघातः स्यादिति वाच्यम् , तुल्यजातीयापेक्षत्वा- दवधारणस्य, यथा 'शुक्ल पटः' इत्युक्त कृष्णादीना- मेव निवृत्तिन द्रव्यत्वादीनाम्, एवं चोदनैवेत्यवधा. रणेन प्रत्यक्षादीनामेव चोदनावत स्वातन्त्र्येण प्रमा- णीवुभूषतां व्यावृत्तिर्न त्वऽर्थवादादीनां चोदनैकवा- क्यतया चोदनामूलतया च प्रमाणीभवतां चोदना- विषयणावधारणेन प्रामाण्यं निरस्तं नापि साधितम् , यमिति । ततः किमत आह । तदेवमिति | त्रिपाद्या हि चोद- नासूत्रशेषत्वे चोदनासूत्रप्रतिज्ञातार्थे साधिते तदर्थोऽपि साधित- इति न पृथगारम्भः स्यादिति भावः । चोदनामूलतयेति स्मृ त्याचाराभिप्रायम् । न बनेनावधारणेनार्थवादादीनां निरस्तं. नापि साधितमिति सम्बन्धः। तत्किमप्रामाण्यमेव तेषामभिमतं ३० ४७४ युक्तिस्नेहपूरणीसहितायां [अ०१पा०अ०८सू०२७ उपरितनेन तु पादत्रयेण तत्साधयिष्यते । यथाऽऽह- "इति प्रमाणत्वमिदं प्रसिद्ध- मुक्त्वेह धर्म प्रति चोदनायाः। अतः परं तु प्रविभज्य वेदं त्रेधा ततो वक्ष्यति तस्य योर्थः॥" (श्लो.वा.वे.) इति पदवाक्यप्रमाणपारावारपारीणमीमांसासाम्राज्यधुरन्धर- महामहोपाध्यायविद्वद्वरश्रीमत्पार्थसारथिमिश्रप्रणीतायाः शास्त्रदीपिकायाः प्रथमाध्यायस्य प्रथमः पाद: समाप्तः। नेत्याह । उपरितनेनेति । अस्मिन्नर्थे सम्मतिं दर्शयति । यथा- हेति । अतः परमित्यनेनैतदाह नेह प्रमाणलक्षणं समाप्तम्- अर्थवादादिप्रामाण्याप्रतिपादनात् तेनाऽत्र सिद्धेऽपि चोदनापा- माण्ये तत्स्मरणं पादत्रयेण विध्यर्थवादमन्त्रात्मना वेदं त्रेधा विभज्य ततः स्तुत्यादिप्रयोजनप्रतिपादनं न तत्तद्वेदस्य धर्म प्रति प्रामाण्यं प्रतिपादयिष्यत इति । नानाग्रन्थस्थितं सर्व प्रमेयं फक्किकाश्च ताः । सङ्क्षिप्य लिखिता नात्र कल्पितं लिखितं मया ।। येषामादर एव नास्ति विदुषां शास्त्रे न तेषामयं ग्रन्थः क्वाऽप्युपयुज्यते जडधियां तन्त्रान्तराभ्यासिनाम् । येषां धर्मविचारणे सुकृतिनां श्रद्धादरौ तत्कृते ग्रन्थोऽयं रचितो गभीरमनसा शास्त्रार्थकल्पद्रुमः ॥ इति श्रीमत्पराशरगोत्रसकलशावविशारदमाधवात्मजराम- कृष्णभट्टविरचितायां शाखदीपिकाठायां युक्तिस्नेहमपूरण्यां सिद्धान्तचन्द्रिकाख्यायां प्रमाणिस्य प्रथमः पादः समाप्तः ।

... ... २ ... (१५) शिवस्तोत्रावली । उत्पलदेवविरचिता । प्रमेयरन्नावश्च श्रीक्षेमराजविर चितवृत्तिममेता(वेदान्त) (२९) अनुमानचिन्तामणिव्याख्यायाः शिरोम- (१६) मीमासाबालप्रकाश. जैमिनीयद्वादशाऽ णिकृतदीधित्या जागदीशी टीका । १३ ध्यायार्थसंग्रहः श्रीभट्टनारायणात्मजभट्ट- (६०) वीरमित्रोदयः । महामहोपाध्यायश्रीमित्र- शङ्करविरचितः। (मीमासा) ३ मिश्रविरचितः परिभाषा-संस्कारप्रका- (१०) प्रकरणपश्चिका प्रभाकरमतानुसारि-मी- शात्मकः । सापिण्यदीपकश्च मामादर्शनम् । महामहोपाध्यायत्रीशालि- (३१) वीरमित्रोदयः । महामहोपाध्यायश्रीमि- कनाथामिविरचितम् श्रीशङ्करभट्टकृता श्रामिविरचितः आहिकप्रकाश: मीमासासारमंग्रहश्च सम्पूर्णः (मीमासा) ३ (३२) स्मृतिसारोद्धारः विद्वद्वरविश्वम्भरत्रिपाठि. संकलितः (१८) अद्वैतसिद्धिसिद्धान्तसार । पण्डितप्रवर- (३६) वेदान्तरन्नमञ्जूषा । श्रीभगवन्पुरुषोत्त- श्रीमदानन्दव्यासप्रगीतस्तत्कृतव्याख्यास- माचार्यकृता। २ मलड्कृतः। (वेदान्तः) (१९) कात्यायनश्रौतसूत्रम् । महामहोपाध्याय- (३४) प्रस्थानरत्नाकरः । गोस्वामिश्रीपुरुषोत्त- मजीमहाराजविरचित श्रीकर्काचार्यविरचितभाष्यसहितम् । १३ (२०) ब्रह्मसूत्रभाध्यम् । श्रीभास्कराचार्यविर- (३५) वेदान्तपारिजानसौरभं नाम ब्रह्ममीमासा भाष्यं श्रीनिम्बार्काचार्यविरचितम् । १ चितं सम्पूर्णम् ( वेदान्त) (१६) योगदर्शनम् । परमहंसपरिव्राजकाचार्य- (२१) श्रीहर्षप्रणीनं खण्डनखण्डखाद्यम् । आ- नाराणतीर्थविरचित-योगमिद्धान्तचन्द्रि नन्दपूर्णविरचितया खण्डनफक्किकावि- कासमाख्या व्याख्यया संवलितम् । २ भजनाख्यया व्याख्यया विद्यासागरीतिप्र- (३७) वेदान्तदर्शनम् । परमहंसपरिव्राजका सिद्धया समेतम् । (वेदान्तः) चार्यश्रीरामानन्दसरस्वतीस्वामिकृत ब्रह्मा- (२२) आख्यातचन्द्रिका श्रीभमल्लविरचितार ऽमृतवर्षिणीसमाख्यव्याख्यासंबलितम् ।। (२३) श्रीलक्ष्मीसहस्रम्-बालबोधिनीव्याख्य- (१८) विश्वप्रकाशः । कोशः । विद्वद्वरश्रीम- याऽवतरणिकया च साहितम् हेश्वरमरिविरचितः। २ (२४) ब्रह्मसूत्रवृत्तिः मरीचिका श्रीब्रजनाथभ- (३९) श्रीसुबोधिनी । श्रीवल्लभाचार्यविनिर्मिता ट्टकृता (वेदान्तः) २ श्रीमद्भागवतव्याख्या गोस्वामीश्रीविठ्ठलना- (२५) क्रोडपत्रसंग्रहः । अत्र श्रीकालीशङ्करसि थदीक्षितविरचितटिप्पणीसहिता । श्रीम- द्धान्तवागीशविरचितानि अनुमानजागदी- द्वागवतदशमस्कन्धजन्मप्रकर्ण श्रीसुबो- श्याः प्रत्यक्षानुमानगादाधर्याः प्रत्यक्षानु धिनीटिप्पण्यो:-प्रकाश: गोस्वामि श्रीश्री मानमाथुर्या व्युत्पत्तिवादस्य शक्तिवादस्य पुरुषोत्तमजीमहाराज विरचित मुक्तिवादस्य शब्दशक्तिप्रकाशिकायाः कु- (१०) वीरमित्रोदयः । महामहोपाध्यायश्रीमि- सुमाञ्जलेश्च क्रोडपत्राणि २ मिश्रविरचितः पूजाप्रकाशः। (२६) बह्मसूत्रम् , द्वैताद्वैतदर्शनम् । श्रीसुन्दरभ- (४१) वेदान्तसिद्धान्तसंग्रहः । श्रुतिसिद्धान्ताप- हरचितसिद्धान्तसेतुकाभिधटीकासहि रनामकः। श्रीब्रह्मचारिवनमालिमिश्रविर- तश्रीदेवाचार्यप्रणीतसिद्धान्तजाह्नवीयुतम्र चितः। वेदान्तकारिकावली श्रीपुरुषोत्तम- (१०) षड्दर्शनसमुच्चयः । बौद्धनैयायिकका प्रसाद शर्मकृता अध्यात्मसुधातरङ्गि- पिलजनवैशेषिकजैमिनीयदर्शनसंक्षेपः । ण्याख्यटीकयासहिता ३ मणिभद्रकृतटीकया सहितः । हरिभद्रम- / (४२) स्वानुभवादर्शः। श्रीमत्परमहंसपरिवाज रिकृतः। काचार्यनारायणाश्रमाशयमाधवाश्रमावर- (२८) शुद्धाद्वैतमार्तण्डः प्रकाशव्याख्यासहितः। चितः । स्वकृतटीकाविभूषितश्च । ... mr १ ...

(५३) याज्ञवल्कस्मृतिः । बालम्भट्टीसमाख्य श्रीमदुर्बलाचार्य-बालम्भट्टाभ्या विर- व्याख्यासमलङ्कृतमिताक्षरासहिता । व्य चितकुञ्जिकाकलाहटीकाव्यसंवलिता। ६ वहाराध्यायः ११ (४०) व्याकरणसिद्धान्तसुधानिधीः । पर्वतीय. (१४) गादाधरी | श्रीगदाधरभट्टाचार्यचक्रव- विश्वेश्वरसगिविरचितः। तिकृता । श्रीगणेशोपाध्यायविरचिततत्त्व- (४८) विरमित्रोदयः । लक्षणप्रकाशः । चिन्तामण्या श्रीरघुनाथतार्किकाशिरोमणि- महामहोपाध्यायश्रीमित्रमिप्रविचितः। विरचितदीधित्या च गर्भिता। (५५) शानदीपिका । श्रीपार्थसारथिमिश्र प्रणि- (४९) बृहदारण्यकवार्तिकसार श्रीमद्विद्यारण्यस्वा- ता। रामकृष्णविरचितयुक्तिस्नेहमपुरण्या- मिविरचितः । महेश्वरतीर्थकृतयालधुसं- ख्यव्याख्यया सहिता तर्कपाद । ग्रहाख्यया टीकया समलंकृतः। (१६) वैयाकरणसिद्धान्तलधुमञ्जूषा महामहो- (५०) विरमित्रोदयः । राजनीतिप्रकाशः । महा- पाध्याय-श्रीनागेशभट्टावरचिता । महोपाध्यायश्रीमित्रमिविरचितः । पत्त्रादिप्रेषणस्थानम् । हरिदासगुप्तः, चौखम्बा बनारस सिटी

No text on this page.

Sastra Dipika

Author
Pandit Rama Krishna Kishra
Other authors
Ccl
Title
Sastra Dipika
File name
Sastra Dipika
Text
OCR done
Citation
1916
Published
31-03-2004
Publisher
Printed By Jai Krishna Dass Gupta
Language
Sanskrit
Pages
78
Library
Scl
DLI number
326775
Barcode
9000000001326.00
Scanning centre
City Central Library, Hyderabad
Digital publisher
PAR Informatics, Hyderabad
VMLT id
LtYb3knTJMS
Download PDF

Sastra Dipika