Banasthali University

विद्यापरिणयनम्

मखि, आनन्दराय · 2009/03

PDF Proofread

Front matter

No text on this page.

गोपीनाथ पुरोहित
बनस्थली विद्यापीठ वनस्थली (जयपुर)
तारीख.....
स्तकालय
श्री
वृद्धि सं...
*.
*
संकेत .सं.ना.23
सूचीपत्र सं........
सत्र..............
केत .........
सूजीपत्र सं.......
पत्र.
संकेत ....
सूचीपत्र सं.......
सत्र..

No text on this page.

No text on this page.

No text on this page.

KAVYAMÂLÂ. 39.
again
THE
VIDYÂPARINAYANA
OF
ÂNANDARAYA MAKHİ.
EDITED BY
PANDIT SIVADATTA
AND
KÂSÎNATH PÂNDURANG PARAB.
PRINTED AND PUBLISHED
BY
TUKARAM JAVAJI
PROPRIETOR OF "JAVAJI DADAJI'S NIRNAYA-SAGARA" PRESS,
BOMBAY
1893.
Price 9 Annas.

mwin, m..6-7,
mm
RINASTHAL IITYÖTIT.
Ceniral Liht:
1.60.82
92.12.74
(Registered according to act XXV of 1867.)
(All rights reserved by the Publisher.)

काव्यमाला ३९० आनन्दरायमखिविरचित विशपरिणयन । जयपुरमहाराजाश्रितमहामहोपाध्यायपण्डितदुर्गाप्रसाददारक- केदारनाथकृपाङ्गीकृतःशोधनकर्मणा शिवदत्तशर्मणा, मुम्बापुरवासिपरबोपाठपाण्डुरङ्गात्मजकाशीनाथ- शर्मणा च संशोधितम् । तच मुम्बय्यां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीतम् । १८९३ (अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा निर्णयसागरयन्त्रालयाधि- पतेरेवाधिकारः।) मूल्यं ९ आणकाः।

BANGSTHALI IIDYAT:?"}'
itirol Librari
Ас
2016082
22
Da!
1274

काव्यमाला। आनन्दायनरत विद्यापरिणयनम्। प्रथमो:। सत्यज्ञानमुनादयोऽपि बहुधा रूपाणि विनचिरा- प्रजयविलासबभवनिजाविद्या विधेयर्याकृतः । आनन्दान्विषयोंदिताननुभवन्भूयः खया विद्यया प्रश्लिष्टः परमार्थभोगमुदितः पायादुमायाः पतिः ॥ १ ॥ कि । क्रीडोचाननिकुञ्जसीमनि सम्बीचातुर्यता मिश्रया- नत्कृन्नप्रणयोदिते सरभसाप मिथः प्रन्नुते । संमोहतिनिता समग्रपुलका विवस्तवेद्यान्तरा वृत्तिः सा शिवयोरपारपरमानन्दा शिवायातु वः ॥ २ ॥ अपि त्र। सज्जन्तो मृगतृप्णिकाजलनिधी मुक्ताजिघृक्षारसा- द्वन्ध्यापत्यकलादशुक्तिरजताकल्पेषु संकल्पिनः । १. 'अयं च श्रीमदानन्दरायमखी नृसिंहग़यावारमनुत्यम्बकदीक्षितस्य भ्रातृव्यस्त- जोरनगरमहीपतेरेकक्षितिपालवंशतिलकस्य शरभापरपर्यायस्य श्रीशाहिराजस्य मन्त्रिप्रवर आनीदिन्यादि सर्वमेतत्प्रणीतस्य जीवानन्दनस्य विद्यापरिणयनस्य च प्रस्तावनातः प्रती- यते । स च शरभमहीपतिः ख्रिस्ताब्दीयसप्तदशशतकपूर्वार्ध आसीदिति स एवास्य समयः । एतकृतिय जीवानन्दनं विद्यापरिणयनं चेति नाटकद्वयमस्माभिरुपलब्धम् ।' इति जी- बानन्दन(काव्यमाला-२७ )समाप्तिपने महामहोपाध्यायाः. २. अस्य नाटकस्य पु- स्तकद्वयमस्माभिरासादितम् . तत्रैकं जयपुरराजगुरुश्रीनारायणभट्टपर्वणीकर: (क-संज्ञकं ७८ पत्रात्मकम्), अपरं च जयपुरराजगुरुश्रीलक्ष्मीदत्तभट्टसुतश्रीदत्तः (ख-संज्ञकं ११२ पग- त्मकम्), दत्तमिति तेषां महान्तमुपकारमूरीकुर्मः.

काव्यमाला ।
व्यावल्गन्त्यविमर्शिनो यदवधि ज्योतिः परं ज्योतिषां
तत्सेतुर्जगतोऽखिलस्य तमसः पारं परं भातु वः ॥ ३ ॥
अपि च ।
प्राग्जन्मीयतपःफलं तनुभृता प्राप्येत मानुष्यक
तच्च प्राप्तवता किमन्यदुचितं प्राप्तुं त्रिवर्ग विना ।
तत्प्राप्तिश्च यया भवेत्फलवती विश्वोत्तरां शाश्वती
तामद्वैतकलां कलानिधिकलामौलिविधत्तां शिवः ॥ ४
(नान्यन्ते)
सूत्रधार:-(नेपथ्याभिमुखमवलोक्य ।) मारिष, इतस्तावत् ।
(प्रविश्य ।)
पारिपाश्विक:-
:-भाव, एषोऽस्मि ।
सूत्रधारः-अत्र तञ्जानगरे देशान्तरादागताः पौरजानपदा ।
भगवत्यास्तावदानन्दवल्लयम्बाया महोत्सवदिदृक्षया संघीभूताः
सरसकवितानाम्नो हेम्नः कषोपलतां गताः
विहरणभुवः षड्दर्शन्या विवेकधनाकराः ।
विदधति तपोलभ्याः सम्या इमे मम कौतुकं
तदिह हृदयं नाट्येनैतानुपासितुमीहते. ॥ ५ ॥
पारिपाश्विक:-कं पुनः प्रबन्धमवलम्ब्य ।
सूत्रधारः-नन्वस्ति मम वशे सकलशमधनजनहृदयानन्दसमुद्धाटकं
विद्यापरिणयनं नाम नवीनं नाटकम् ।
पारिपाश्विक:-कस्तस्य प्रबन्धस्य कविः ।
सूत्रधारः-विद्वत्कविकल्पतरुरानन्दरायमखी । य एष
गुरुदेवद्विजभक्तो नैमित्तिकनित्यकाम्यकर्मपरः ।
दीनजनाधीनदयो विहरति समरे च विक्रमार्क इव ॥ ६ ॥
यस्य किल
आनन्दरायमखिनो वाल्मीकेरिव योगिनः ।
इतरापेक्षणात्सारः स्वतः सारस्वतोदयः ॥ ७ ॥

१ अङ्कः] विद्यापरिणयनम् । ३ अपि । नानापूर्वमहाऋतुप्रणयनरध्यात्मत्संमर्शनैः कर्मब्रह्मपथप्रचारसविता पड्दर्शनीवल्लभः । तातो यस्य किलैकराजवनुधाधौरंधीगीपतिः लोणीपालकिरीटलालितपढ़ः ख्यातो नृसिंहाध्वरी ॥ ८ ॥ अपि च । यस्य तातानुजन्मापि यशःपावितदिङ्मुखः । त्रिवर्गफलसंपन्नख्यम्बकामात्यदीक्षितः ॥ ९ ॥ यः स्नातोऽजनि दिव्यसिन्धुसलिले यः स्वात्मविद्याश्रुतो येनाकारि सहस्रदक्षिणमखो यः सद्भिराश्रीयते । सोऽयं त्र्यम्बकराययज्वतिलको विद्वत्कवीनां प्रभो- यत्तातस्य नृसिंहरायमखिनस्तुल्यप्रभावोऽनुजः ॥ १० ॥ स तावत् 'इदं नाटकमुचितेषु प्रयोक्तव्यम्' इति सबहुमानमम्मदशे समर्पितवान् । 'अनेन सुकरमभिरूपपरिषदनुरञ्जनम्' इति ममाध्यवसायः । पारिपाश्चिक:-भाव, अपूर्वमप्राकृतसंविधानमुद्भुप्यते नाटकमेतदत्र । रसानुभूतेरविलम्बहेतोर्निरूप्यतां किंचिदिवेतिवृत्तम् ॥ ११ ॥ सूत्रधार:-युक्तमभिहितम्, श्रूयतां तावत् । यल्लाभतो वल्लभमस्ति नान्यदात्मा स शेषी सकलागमानाम् । येनाधिगम्येत तदागमान्तं प्रमेयसर्वस्वमिहेतिवृत्तम् ॥ १२ ।। पारिपाश्चिक:-भाव, कृष्णमित्रप्रभृतिभिरत्र 'प्रबोधचन्द्रोदयः' इति, 'संकल्पसूर्योदयः' इति, 'भावनापुरुषोत्तमः' इति च न्यबन्धि नाम बहुधा प्राचीनैः । किमनेनाभिनवसंरम्भेण । सूत्रधारः सुण्णा यद्यपि शास्त्रपद्धतिरसावन्यैः कवीन्द्र्रयं त्वश्लीलं न तितिक्षते न सहते पात्रेषु चानौचितीम् । १. 'किमस्य नूतनपरिश्रमेण' ख. - काव्यमाला । नेतुः शास्त्रमतां त्रिवर्गफलसंपत्ति विमुच्यात्ययो- पन्यासं च जुगुप्सते तदयमारम्भोऽस्य संरम्भतः ॥ १३ ॥ पारिपाश्चिक:-अद्वैतं वस्तु, शृङ्गारो रसः, अथ च निर्दोषता, इति स- र्वमिदमत्यद्भुतं दृश्यते। अथवा-विश्वातिशायिलौकिकवैदिकलक्ष्मीविलासव्य- तिकरेण जगदाश्चर्यकुलपरम्परानामत एते । एतत्प्रणीतमभिनवमिदं नाट- कमस्माभिरभिनीयत इति वाङ्मनसातिवर्ति ननु भाग्यमिदमस्माकम् । परं तु श्रुतिस्मृतीतिहासागमतन्त्रादिसिद्धनानाविधसाम्बशिवचरणपरिचरणत- दनुसंधाननिरन्तरितनिखिलवासरस्य तदन्तरालपरिमितपरिशिष्टकतिपय- मुहूर्तनिर्वर्तनीयचतुरुदधिपरिमुद्रितसकलराज्यतन्त्रस्य शरभमहाराजमन्त्रि- शिखामणेरस्य जनकसनकसनन्दनप्रमुखाभिनन्दनतदीशमहाप्रबन्धनिब- न्धनपटिमधौरंधरीयमिति मे महदाश्चर्यम् । सूत्रधारः-किमुच्यते 'महदाश्चर्यम्' इति । आबाल्यादपि पोषितोऽजनि मया प्रेम्णा तथा लालित- स्तेनासौ सरसामुपैतु कवितामानन्दरायाध्वरी । इत्येकक्षितिपालवंशजलधेर्देव्या गिरां जातया धीरश्रीशरभावनीन्द्रवपुषा नूनं प्रसादः कृतः ॥ १४ ॥ अतः किमसाध्यमेतस्य । तत्प्रणीतमिदं नाटकमिह प्रयुञ्जानस्तदनुगुण- सकलगुणरमणीयानत्रभवतः सामाजिकानुपतिष्ठे । (सामाजिकान्प्रति । किंचि- दिव कर्ण दत्त्वा ।) किं ब्रूथ । अप्राकृतसभाहृद्या न प्राकृतगिरो मताः । अतः संस्कृतया वाचा सभालंक्रियतामिति ॥ १५ ॥ साधु । सम्यगभिहितम् । तथैव प्रतिपात्रमाहितो यत्नः । (नेपथ्याभिमुखम- वलोक्य ।) आर्ये, इतस्तावत् । (प्रविश्य।) नटी-आर्य, इयमस्मि । सूत्रधारः-आर्ये, यावदस्सदीयवा वर्णिकापरिग्रहणाय संन- ह्यन्ति, तावदिमं पुष्पसमयमधिकृत्य गीयताम् । संप्रति हि १. 'अद्वैतं-अथवा' इति ख-पुस्तके नास्ति.

विद्यापरिणयनम् । १ अङ्कः] ५ सोत्कम्पस्तवकस्तनं दरचलद्वालप्रवालाधर गायत्कोकिलपालितानघटनारज्यन्मिलिन्दजम् । मन्दं मन्दसमीरदेशिकसमादेशादितो मञ्जरी वामाक्षित्वमिवाभिनन्ध नटना पुप्णाति दृष्ट्योर्मुदम् ॥ १६ ॥ नटी-तथा । (इति गायति ।) मुदितालिंगीतिशोभितमुग्धनवीनप्रसूनशोभनया । मल्लिकया सहकारं वटयन्ति विलासिनो महोत्साहाः ॥ १७ ॥ (नेपथ्ये।) साधु । भरतकुलाङ्गने, साधु । सम्यगभिहितं भवत्या । प्रस्तुतानुगुण- वचनभङ्गीभिरभिनन्दनीयासि । सत्यम् । अहमिदानी विद्यया सह परमे- श्वरस्य प्रतिविम्बभूतं जीवराज संघटयितुमेव विरचितोत्साहा भवामि । सूत्रधारः-(श्रुत्वा । सहर्षम् ।) अये, मत्स्यालको रङ्गनाथनामा शि- वभक्तेर्भूमिकामादायागत एव । यदधुना ऊर्णाचन्दनचुम्बिफालफलकस्पष्टत्रिपुण्ड्रोज्ज्वला विभ्राणा परिपाकपिङ्गकलमच्छायं जटामण्डलम् । कोटीराङ्गदहारकङ्कणपदे रुद्राक्षमालावती भस्मोद्भूलनपाण्डरा भगवती भक्तिः पुरस्तादियम् ॥ १८ ॥ तदावामप्यनन्तरकरणीयाय सज्जीभवावः । (इति निष्कान्तौ ।) प्रस्तावना। (ततः प्रविशति शिवभक्तिः ।) शिवभक्तिः-आदिष्टास्मि परमकारुणिक्या परमेश्वर्या । यथा- 'सुचिरमयमविद्यादुर्विलासेन्द्रजालैः पशुरिव मृगतृष्णावारिपूरैर्विकृष्टः । १. 'व्रतम्' ख. २. 'पशुपतिरिव' ख, car काव्यमाला। विलुठति खलु जीवो विस्मृतस्वीयभूमा कथमसि शिवभक्त वत्सला त्वं पराची ॥ १९॥ इति । तदनु 'भूतं भावि भवद्विमृश्य सकलं जीवस्य दुःखं चिरा- दस्योत्तारणकारिणः कति बतोपायास्त्वयोद्भाविताः । इष्टापूर्तपुरोगमाः सनिगमा मन्त्राः सतन्त्रा इमे सन्त्येवं जगदम्ब मद्विरहितं हीयेत किं साधनम् ॥ २०॥' किं च । 'नामैव नालमिह किं युवयोर्जनस्य संसारघोरविषसागरतारणाय । प्रायोभवन्ममतया कलितः स एष लोकेषु मामपि पदार्थयितुं प्रयत्नः ॥ २१ ॥ इति मया सविनयमभिहिते भगवती सस्मितमवोचत --- 'वत्से, मैवं वादीः । कर्माणि सन्तु विविधानि करोतु तानि किष्टश्चिरेण तपसा नियमैश्च घोरैः । त्वत्संनिधानविरहे तु भवन्ति तानि पाञ्चालिकाभिनयवत्फलवञ्चितानि ॥ २२ ॥ तेदिदानी जनिप्रभृतिपक्कणे शबरताविमूढो यथा विनीय नृपनन्दनो नृपतिकन्यया योज्यते । तथैनमितरभ्रमाकुलमितो महादुर्ग्रहा- द्विमोच्य निजविद्यया घटयितुं यतेथाः' इति ॥ २३॥ . (विचिन्त्य ।) ननु तैदैव परमेश्वर्याभिहितम्-'अत्र तव सहकृत्वरी निवृ- त्तिरनुपदमेव मया प्रेष्यते' इति । तत्किमद्यापि निवृत्तिश्चिरयति । (पुरो विलोक्य । सपरितोषम् ।) १. 'युवयोरनलं जनस्य' ख. २. 'सततमस्मदनुकम्पया सहचारिण्यास्तवेदमननु- रूपमेव । अतः–जनि- :–जनि-' ख. ३. ख. ३. 'तथैव' क.

१ अङ्कः] विद्यापरिणयनम् । . भस्सालेपनतः क्षरजलधरच्छायां तनुं बिभ्रती पक्ष्मभ्यामधरश्रिया च कथमप्युन्नेयवक्राम्बुजा । वैयाघ्र परिधाय चर्म दधती संव्यानमैणी त्वचं विद्युत्पिङ्गजटाच्छटा विजयते सेयं निवृत्तिः पुरः ॥ २४ ॥ (ततः प्रविशति निवृत्तिः।) निवृत्तिः-अम्ब शिवभक्ते, प्रणमामि । शिवभक्तिः-वत्से, प्रकाशतां ते परं ज्योतिः । निवृत्तिः-भगवति, संदिष्टास्मि परमेश्वर्या-'वत्से, महति कार्य- विशेषे मया नियुक्तायाः शिवभक्तेरभिहितकरणाय प्रत्यनन्तरीभव' इति । तदद्य को नियोगो भगवत्याः । शिवभक्तिः-वत्से निवृत्ते, कथंचिदस्य जीवराजस्य सुमहतः संक- टाद्विमोचने विद्यासंयोजने च विधेयो यत्नः । निवृत्तिः किमेतावदस्य समापतितम् । शिवभक्तिः-किमितोऽपि समापतितव्यं देवस्य । शृणु तावत्, व्यामोहादसतीविलासजनितादासादितो लाघवं निःशङ्क परितो बलादविरतं कामादिभिः कर्षणात् । हप्यञ्जातु रुदन्क्षणेन विहसन्भूयो विषीदन्मना- गित्थं हन्त परः पुमान्स महतीं नीचां दशामश्नुते ॥ २५ ॥ निवृत्ति:-(संखेदम् ।) आश्चर्यमिदम् । अप्रधृष्यस्य महात्मनो देवस्य दुःसङ्गदोषेण कियंती विपत्तिरुदपद्यत । शिवभक्तिः–किमेतावदेव । श्रूयतामग्रेऽपि । व्यामुग्धस्तरुगुल्मघासजननैः खेदान्कति प्रापितो भूयः कीटपतङ्गपन्नगमृगीभावैः कियत्क्लेशितः । दिष्टया मानुषपौरुषादिविधया पारं स्पृशन्वर्तते भूयो नीचपथे पतेद्यदि कथं देवी तितिक्षेत तत् ॥ २६ ॥ ... १. 'शिवभक्तिः-समापतितम्' इति ख-पुस्तके नास्ति. :

काव्यमाला। निवृत्तिः-भगवति, पारस्पर्शनमस्य किं नाम । शिवभक्तिः-शृणु तावत् । शश्वसिन्धुतरङ्गवद्बहुजनुःसंपन्नधर्मोच्चयै- वर्णः स्वर्णवदस्य भाति बहुधा संस्कारसंयोगतः । अष्टावात्मगुणाश्च संनिदधते मैयादिभिर्भूषिता नेदिष्टो नरसिंह एष महितः कैवल्यलक्ष्म्या न किम् ॥ २७॥ इदमेव तत् । अतोऽयमेवावसरः प्रयत्नस्य । परमेश्वर्यापि तदिदमभि- संधायैव संप्रति वयमत्र सत्वरं नियोजिताः । निवृत्तिः--भगवति, जीवराजस्य तादृगविद्याविघटन विद्यासंघटनवि- षये परमेश्वर्याः किंनिबन्धनोऽयमियानभिनिवेशः । शिवभक्तिः-वत्से, जीवो नाम किमितरः परमेश्वराभ्याम् । शृणु तर्हि । कथयामि ते भूतार्थम् । सत्यज्ञानसुखस्वरूपमहितः सर्वान्तरात्मेति यो विख्यातः पुरुषः स तावदसती पश्यन्नविद्यामिमाम् । अस्या विभ्रममोहितः प्रमुषितस्वीयप्रभावप्रथा जीवो जीव इति प्रपद्य सुचिरादुन्मत्तवद्राम्यति ॥ २८ ॥ किं । विद्या भाम परा न सापि परमा चिच्छक्तिरेवात्मनः सामिन्नीशि गर्हयैव विमुखी खेनात्मना वर्तते । यौ मातापितरौ समस्तजगतामायौ शिवौ तौ च तौ रूपं नाम च भिद्यतेऽथ समयेष्वेते मिथो नेतरे ॥ २९ ॥ तथा च परमेश्वरी स्वजनकसंकटविषये कथमुदासीत । निवृत्तिः-उपपन्नमेवैतत् । तदेवं प्रकृतस्य कार्यस्य निर्वर्तने का पुनरितिकर्तव्यता । तदत्र निपुणतरमेकमुपायमवधारपतु भगवती । शिवभक्ति:-.--(आत्मगतम् ।) अतिचिरादविद्यासंसाररसैकलम्पटस्य जीवराजस्य विषयदोषोद्भावनादिभिरभिमुखीकरणमतिनिम्नगामिनो महतः विद्यापरिणयनम् । १ अङ्कः] ९ प्रवाहस्य प्रतीपनमिव दुर्घटमेव । परंतु वासनागुणतया किंचिदपूर्वरमणी- मणिपरिणयनप्रणाडिकयैव विद्यासंघटनमुपपादनीयम् । (प्रकाशम् ।) आः, चिन्तितो मया तदभिमुखीकरणोपायः । निवृत्तिः-कथमिव । शिवभक्तिः-(कर्णे ।) एवमिव । निवृत्तिः–साधु चिन्तितं भगवत्या । शिवभक्तिः-संप्रति हि जीवराजमविद्याविषयवासनाप्रवृत्तिभ्यां नि- रन्तरमुपरुध्य निःशङ्कमकुतोभयमखिलेषु विषयेषु विजृम्भते । तदविल- म्बितमभिमतसिद्धये व्याप्रियस्व । मयापि तत्तदुपसर्गविघटनाय प्रकृतकार्य- घटनाय च तत्र तत्र व्याप्रियते । (इति निष्क्रान्ते ।) विष्कम्भः। (ततः प्रविशति चित्तशर्मणा नर्मसचिवेन सपरिवारया चाविद्यया जीवराजः ।) जीवराजः-(देवीं प्रति ।) प्रिये, नवनबोल्लासरमणीयैर्भवदभिरतिचम- त्कारैरति हि नाम प्रीणितो ममायमन्तरात्मा । का पुष्णातु पुमांसमेवमपरा संकल्पलेशोद्भवं नानाकारसमस्तभोग्यभरिता दैनंदिनरुत्सवैः । भूतं भावि च वा कुहापि किमिदं यद्धि त्वयोद्भाव्यते नैषा दृष्टचरी न वा श्रुतचरी त्वचातुरीवैखरी ॥ ३० ॥ देवी-(सप्रश्रयम् ।) यत्किचित्प्रभवाम्यहं कृतिषु तत्सर्वं भवद्वैभवं कर्तु भर्तुमथापहर्तुमपि वा काहं वराकी जडा । तत्सर्वं भवतो विभूतिकणिका यद्यन्मयोद्धावितं मामेषोपगता किलेति ममतास्नेहादभिष्टौषि माम् ॥ ३१ ॥ प्रवृत्तिः-अये भट्टिनि, स्तुतिरिति किमसदर्थोपन्यासः क्रियते । नन्वयं भवत्या १. 'न्यास इह क्रियते' ख. , २ १० काव्यमाला । -- दत्त्वा कर्मपथे विचित्रविभवे बुद्धि स्वमृद्ध्यंसलं वैरिञ्च पदमेतदैन्द्रमिदमित्युच्चैः पदं स्थापितः । स्वर्वामाघरमाधुरीषु मुदितः प्रेक्षन्मणीमेखला- जालोत्तालझलंझलादिसुभगान्भोगान्कति प्रापितः ॥ ३२ ॥ देवी-सखि प्रवृत्ते, भवत्या मयि प्रणयविजृम्भितमेवैतत् । वस्तुतस्तु भवदायत्तमेवेदम् । तथाहि । क्रीडा काञ्चनशैलकूटघटितप्रत्युप्तनानामणि- ज्योतिःकर्बुरसौधसीमसु कनत्कल्पद्रुपुष्पास्तरे । उद्दामस्मरदर्पविभ्रमवती संभोगशृङ्गारिणो यत्क्रीडन्ति विलासिनस्तदखिलं लीलायितं तेन किम् ॥ ३३॥ चित्तशर्मा-(स्वगतम् ।) हन्त । तदेवमासामन्योन्यप्रशंसाभिनन्दना- भिनिवेशेन तन्मय इव जायते वयस्यः । तदयमेवावसरो विवेकादीनभिप्र- तिश्रुतार्थोपक्षेपस्य तदेवमभिध्यास्ये । (प्रकाशम् ।) अत्र तेन किमित्येव प- रिणतौ सर्वमिदं भवेत् । विषयवासना-(सामर्षम् ।) अये, निपुणः खलु भवानुचितोपचारैः खामिपादपरिचरणेषु । (देवी प्रति ।). 'तेन किम्' इत्यस्मदुद्भावितेषु नीरस- त्वमापादयता राजहितैषिणामुना महामन्त्रिणा चित्तशर्मणा पूर्वेधुरधि- निशीथिनि विनोदव्याजेन देवपादविषये कश्चिन्महानुपचारः कृतः । 'स्व- धर्मः किलायमस्य' इति तद्देवेन तितिक्षितम् । देवी-तत्कथमिव । विषयवासना- शार्दूलश्वशृगालमर्कटमहारक्षस्तरक्ष्वात्मना घोरोद्धोषणमन्धकारिणि वने खादन्निवाभ्यागतः । देवी-स्वप्नस्य तदधीनतया तस्य सर्वोऽपि वेषः संगच्छत एव । ततस्ततः । -- १. 'झलातिसुभ' ख. २. 'नपचारः' ख, १ अङ्कः] विद्यापरिणयनम् । ११ - विषयवासना- तदृष्ट्वा भयतो विसंस्थुलपदं धावन्दुमान्पर्वता- नारोहन्निपतन्निवाकुलतरो दिष्टया प्रबुद्धो विभुः ॥ ३४ ॥ जीवः-प्रिये, सत्यमेतत् । आकस्मिकतया बहुपर्याकुलोऽस्म्यनेन । देवी-(सस्मितम् ।) उचितमेव कृतम् । भवितव्यं खलु तदेकीभावस्य फलभोगेन । चित्तशर्मा-(स्वगतम् ।) यथाकथंचिदयमभिभावनीय इति धूर्ताया विषयवासनाया हृदयम् । (प्रकाशम् ।) अयि कष्मले, यदसाधु तदेव मम चेष्टितमुद्भावयसि, यदभिनन्दनम्। इदं तु प्रतिपादयसि । यत्किल त्वङ्गत्तुङ्गतुरङ्गकोटि विनटन्माद्यत्पदाति क्वण- भृण्टाजालझणझणदृढतति क्षीबद्विपश्रेणि च । सृष्ट्वानेकपुरीश्रिया सुरपुरीरेतास्वयं वैभवै- रानीतो मणिमण्डपे ननु मया सिंहासनेऽध्यासितः ॥ ३५ ॥ जीव:-इदमप्यस्त्येव । तदेवमपूर्वार्थप्रपञ्चनविधावयमेव समर्थः । प्रवृत्तिः-आभासमात्रमिदमखिलमपि कसिन्कोणे वा भट्टिन्याः प्र- भावमहिमातिशयस्य । उद्यानानि महावनानि गिरयः प्रासादसौधादयः प्राकारस्तु सचक्रवालशिखरी खेयं तु सप्तार्णवी । आशास्तोरणगोपुराणि दश तास्तेजस्त्रयी दीपिका यस्याः शिल्पमियं पुरी वसुमती सा केन वा वर्ण्यताम् ॥३६॥ विषयवासना-सखि प्रवृत्ते, किमल्पमेवोदाहृतम् । इत्थं कति जगन्ति जयन्ति, कति वारानमूनि गतानि, कति च वारानुत्पादितानि भट्टिन्या । चित्तशर्मा-(सोत्प्रासम् ।) अये, सत्यम् । आभासमात्राण्येव मदार- ब्धानि । यतः प्रातिभासिकानि । युष्मदुद्भावितानि तु पारमार्थिकानि स्थिराणि सुखानि देवस्य । - १२ काव्यमाला। अविद्या-(सखेदम् ।) हन्त । प्रणयिनः समक्षमेव मर्मणि तोदः कृतो वैधेयेन । विषयवासना-अरे, तत्त्वं न जानासि । सुखमस्त्वसुखं वास्तु नैव साधु निरन्तरम् । यथा विरहिणी कान्ते रमते किं तथापरा ॥ ३७ ॥ देवी-अये, चपलस्वभावोऽयमस्थिरप्रणय इति । नन्ववगतमेतत् । चित्तशर्मा—(सोत्प्रासम् ।) देव, श्रूयताम् । एतास्तावदहं प्रतार्य करणद्वाराणि बद्धवा दृढं निर्व्यापारतया पुरीतदुदरे गूढं निलीय स्थितः । दुःखासंकलितं नयाम्यनुपदं नो चेद्धवन्तं सुखं कृत्वा रोगसहस्रगुम्फनमिमाः किं वा विदध्युन ते ॥ ३८ ॥ अपि च । इयं किल कदाचिदाश्रितमुत्कर्षति, कदाचिदपकर्षति, क- दाचिदभिनन्दयति । तत्तद्विलक्षणगुणभिन्नाः प्रकृतयस्तावदस्या दुर्वाराः । प्रवृत्ति:-धिमूर्ख, कुलमहत्तरामपि भट्टिनीमभिभवञ्जाड्यमेव प्र- काशयसि । चित्तशर्मा-अये, जाड्यं चापलं मौय॑मन्यद्वा यत्किचिद्विवक्षितम्, तदखिलमपि युष्मदीयमेव । किं न प्रसरेयुः सवित्रीगुणास्तत्प्रसवेषु । अविद्या-(सखेदम् । आत्मगतम् ।) केन किमुपदिष्टं वा यथापुरमयम- स्मासु न वर्तते। चित्तशर्मा-(स्मितं कृत्वा ।) राजा सर्वथायमेतत्कलहेन निर्विष्णो निवृत्त्युन्मुख इव दृश्यते। (ततः प्रविशति संकल्पी दौवारिकः ।) दौवारिकः-देव, तापसी काचन सशिष्या प्रतिहारभुवमागता दे- वपादं दिदृक्षते । राजा-सादरं प्रवेश्यताम् । . १. 'मेवैतत् ख.

१ अङ्कः] विद्यापरिणयनम् । १३ (ततः प्रविशति तापसीवेषा सह शिष्यया निवृत्तिः ।) निवृत्तिः-अये शान्ते, तत्रभवत्या शिवभक्त्याहमेवं किलाभिहि- तास्मि-'वत्से निवृत्ते, मायागहनकर्मणश्चित्तशर्मणो भेदनेनैव जीवराजो- ऽभिमुखीकरणीयः' इति । हन्त । परमार्थाविसंवादी भवति महात्मनामध्यव- सायः । तथाहि । प्रवृत्तिरिति विषयवासनेति च ये तावदिमे सांप्रतमवि- घासाम्राज्यसर्वस्वनिर्वाहिके प्रहिते, एतयोस्तावदन्धयोरिव चित्तशर्मावलम्ब- मन्तरेण कियानपि न प्रचारः । अस्मिंस्तु ततो भेदं गमिते तदन्ववायः स- वोऽपि शिथिलितप्रायः, तदिदमभिसंधायैव तद्भेदनाय भगवत्या शिवभक्त्या प्रथमत एव विवेकादयः प्रहिताः । (पुरो विलोक्य ।) स एप जीवस्तेन चि- त्तशर्मणा सह संलपन्नित आस्ते । यावदेनमुपसमि । (उपसर्पति।) जीवः-(निर्वर्ण्य ।) इयं सा गाढोन्नद्धजटाकलापकपिलश्रीपूतबालातपा विभ्राणा भसितानुलेपंधवलच्छायां तनुं पावनीम् । भिक्षापात्रमयूरपिच्छचयभृत्पाणिद्वया मेऽधुना काषायाम्बरधारिणी कलयति स्वान्ते धृति तापसी ॥ ३९ ॥ (उपसृज्य प्रणमति ।) निवृत्तिः-सान्द्रानन्दघनो भूयाः । जीवः-भगवति, इत आस्यताम् । (इत्यासनं निर्दिशति ।) (निवृत्तिरुपविशति ।) राजा-कः प्रदेशोऽलंक्रियते तत्रभवत्या, कानि च भुवनपावनान्य- भिधानाक्षराणि, किमुद्देश्यकश्चायमिहागमः, इति विविदिषामि । निवृत्ति:-वत्स, श्रूयताम् । दर्पणवदभिमुखानां दर्शयदात्मस्वरूपमखिलानाम् । विस्मयशेवधिरास्ते वेदारण्याभिधं शिवक्षेत्रम् ॥ ४० ॥ तस्मिन्निष्टफलद्रुमाः कति ततैः शाखाशतैरुच्छ्रिता हृद्योपासनवल्लरीकवचितास्तत्र प्रदेशाः कति । १. 'प्रथिते' ख. २. 'लेपनकृतच्छायां' क. ३. 'हृष्टोपा' क.

काव्यमाला । तेषां मूलफलादिमानि कति वा तत्सर्वमास्तामेहो तत्रत्यामृतमाधुरी न परतः कुत्रापि सत्यं ब्रुवे ॥ ४१ ।। तत्रास्ते शिवभक्तिरित्यनुपमा तत्त्वार्थसंदर्शने तत्संदर्शितसंप्रदायसरणिस्तस्यास्तु शिष्यास्म्यहम् । विज्ञानप्रभवां निवृत्तिरिति मामाचक्षते योगिनीं धर्मिष्ठस्य दिदृक्षया तव मनागत्राहमभ्यागता ॥ ४२ ॥ राजा-परमनुगृहीतोऽस्मि निरुपाधिकेन वात्सल्येन । किमस्माह- शामपि तत्र प्रवेशः स्यात् । निवृत्तिः-परमकारुणिक्याः सकलपुमर्थप्रसवित्र्याः शिवभक्तेः प्र- सादादेव सुकरस्तत्र प्रवेशः । तस्यां प्रसीदन्त्यामेव तत्रत्याः शमदमा- दयो विधेया भवन्ति । विधेयेषु च तेषूपनिषद्देव्याः परिचयेन महत्तरं श्रेयो भवेत् । राजा-एतादृशी विष्णुभक्तिरिति हि तत्र तत्र श्रूयते । शि- वभक्तिरिति किममुष्या नामान्तरम् । निवृत्ति:-अथ किम् । शृणु तावत् । विष्णुर्न शिवादन्यः शिवशक्तेः स खलु पौरुषं रूपम् । शक्तिश्च नातिरिक्ता शक्तिमतोऽतः शिवात्परं नान्यत् ॥ ४३ ॥ राजा-(सोत्कण्ठम् ।) भगवति, कीदृशं तन्महत्तरं श्रेयः । निवृत्तिः-(कर्णे ।) एवमिव । राजा-(सहर्षोल्लासमपवार्य ।) अपि नाम जातु ममैतदुपपद्येत । चित्तशर्मा-वयस्य, महानुभावायास्तदस्या निवृत्तेरनुग्रहादेव तदिदं श्रेयो लभ्यते । अविद्या-(साशङ्कम् ।) नूनममीषामियच्चिरोपनतेन कुटिलेङ्गितेन सं- लापेन मत्प्रतीपेन भवितव्यम् । भवतु । विमृश्य प्रतिविधास्यामि । (नेपथ्ये वैतालिको ।) एक:- रोमन्थालसलोचना वनमृगी निद्राति मूले तरो- रम्भस्तप्तमपास्य मीननिवहः पङ्काविलं गाहते ।

२ अङ्कः] विद्यापरिणयनम् । १५. धावं धावमितस्ततो मरुजले तापाभिभूतः करी सोत्कण्ठं कलहंसिकाकलरवैावर्तते पद्मिनीम् ॥ ४४ ॥ अपर:- तापत्रस्त इवाधुना बहिरितो न स्पन्दते मारुतः प्राणायामवशेन योगिन इव स्तव्धा इमे पादपाः । छाया पश्चिमदिक्प्रवृत्तिवितता प्रक्षीयमाणा शनै- रेषा ह्यभ्युदयाचलश्रियमितो जाता निवृत्त्युन्मुखी ॥ ४५ ॥ चित्तशर्मा-(सहर्षम् । जनान्तिकम् ।) वयस्य, तदिदं वैतालिकवचनमेव निदर्शनं मदभिहितार्थे । (राजा सानन्दमभ्युपगच्छति ।) अविद्या-देव, मध्याह्नसमयोऽतिवर्तते । तन्माध्यंदिननियमनिर्वत- नाय विसृज्यतां तापसी । देवेनापि माध्यंदिननियमा निर्वय॑न्ताम् । अह- मपि तदुपकरणानि संनिधापयामि । (इति निष्क्रान्ताः सर्वे ।) प्रथमोऽङ्कः । द्वितीयोऽङ्कः । (ततः प्रविशति प्रवृत्तिरसूया च ।) असूया-ततस्ततः । प्रवृत्तिः-प्रागेव 'चित्तशर्मणा सह रहसि कतिपये तापसाः संल- पितवन्तः' इति चेटीमुखादवकर्ण्य संदेहतरलिता । तदनु समक्षमेव कर्णे किमपि रहस्यमभिधाय राजानमतिपर्युत्सुकितवत्या कया च तापस्या च नितान्तसंक्षोभितहृदया प्रियसखी भट्टिनी मामवोचत्- 'वेदारण्यनिकेतनाः शमदमप्रष्ठा महायोगिनः श्रूयन्ते कतिचिन्निवृत्तिरिति च ख्याता तथा तापसी । ते सर्वे शिवभक्तिमार्गनिरता ये तावदत्रागता- स्तन्नामान इमे परे किमथवा साक्षात्त इत्यामृशेः ॥ १ ॥ .

काव्यमाला.. यदि खलु तदितर एते यत्किचिदिदं ततो न भेतव्यम् । अथ यदि त एव ते स्युर्यत्नो भूयानिह प्रतीकारे ।॥ २ ॥ अतस्तदिदमविचिकित्समामृश्य समागच्छ इति, तदनु 'कथंचिद्वेदारण्य- मधिगम्य केन कुत्र निषद्यते, कः किमाचरति, कथमिदमवगच्छेयम्' इति चिन्तातरलितायां मयि यदृच्छया तत्र कामना संप्राप्ता । तदनु तया विविच्य सकलमभिहितम्- 'अस्मत्कामपुरोगमैः सममितः काम्यक्रियोपासनाः शुद्धास्ते परतः शमप्रभृतयस्ते मन्वते सांप्रतम् । राजा शुद्धतरः किलैष तदिमं व्याकृष्य दुःसङ्गतो नीचादस्य महात्मनः सुसदृशीं दद्यामविद्यामिति ॥ ३॥ तदेवमविद्याकुलविघटनाय विरक्तिनिवृत्तिभ्यां सह विवेकशमदमादिबहु- लपरिवारा शिवभक्तिरियमत्र प्रभवति' इति । त्वं पुनः क्व प्रस्थितासि । असूया-भट्टिन्याहमेव संदिष्टास्मि-'असूये, काम्यक्रियोपासनाः समेत्य ब्रूहि-कदाचिदयं तत्र राजा यदि समागच्छेत्तदा स यथा भक्तिविरक्तिनिवृत्तिप्रभृतिभिर्नाक्रम्येत, तथा युष्मदीयविलासचातुर्यरामणी- यकैरेव वशीकरणीयः' इति । तत् 'इह को मार्गः, किं मुखम्' इति बुभु- त्सातरलिता दैवादत्रभवत्योपगता विदितकरणीयास्मि । तत्साधयामि । प्रवृत्तिः-इदमैपि स्थान एव संविधानम्, अवश्यकरणीयं च । भूयानतीतः कालः । इयता हि कालेन चित्रशालाभ्यन्तरे विषयवासनया सह भट्टिनी चिरेण मम मार्ग प्रतीक्ष्य निर्विद्येत । तदहमविलम्बितमेव तत्सकाशं गच्छामि । त्वयापि यथानियोगमाचर्यताम् । (इति परिक्रम्य निष्क्रान्ते ।) प्रवेशकः। (ततः प्रविशति विषयवासनया साकमविद्या ।) अविद्या-सखि विषयवासने, भवत्सहायापि नन्वहमीदृशी दशा- मुपागतासि । १. 'भहिन्या तदेवं संदिष्टाहम् । यथा ख. २. 'मस्थान'. क.

२ अङ्कः] विद्यापरिणयनम् । १७ विषयवासना-किमेतावती मयि भट्टिन्याः प्रतिपत्तिः । अविद्या-किमल्पप्रभावा भवती । तथा हि । शास्त्राणि सन्तु सुवहूनि पठन्तु तानि सर्व त्वमन्यथयसे निजवैभवेन । कृष्टस्त्वया विवलते विषयेषु नाम बद्धो बलीमुख इवाशरणो बुधोऽपि ॥ ४ ॥ विषयवासना-सखि, किमेतावदद्य ते संप्राप्तम् । अविद्या-शृणु तावत् । अग्रेऽभूदयमेक एव न परः कश्चिद्वितीयोऽभव- त्तादृक्षस्य मयैव मित्र तनयाः संबन्धिनो बान्धवाः । किं भूयः कथनेन भोगविषया लोका इमे लम्भिताः सोऽयं मय्यधुना विभाति विमुखः केनेति न ज्ञायते ॥ ५॥ किं च । किं दैवं परिपन्थि वा मम कया किं बोधितं वा मृषा तादृक्प्रेमतरङ्गितोऽतिसरसः स्वामी स जीवोऽधुना । मामालोकयते जनानिव जनः शुष्कप्रवृत्त्या दृशा किंरूपेण मनोहरेण बहुना भोग्येन भाग्येन वा ॥ ६ ॥ न केवलमस्य विमुखतैव मां व्यथयति । अपि तु तदनुमीयमाना वि- मतनायिकासक्तिसंभावनापि । विषयवासना-(सोत्प्रासम्।) ननु ते विदिता सकलैरघटितघटनापटीयसी शक्तिः । अहमपि ते सध्रीची कथमस्थाने विशङ्कते भवती ॥ ७ ॥ सम्यक्प्रवृत्तिरुपलभ्यताम् । अविद्या-(स्मृतिमभिनीय।) प्रागेव शङ्कितविषयोदन्तविमर्शनाय प्र- हिता प्रवृत्तिः किमद्यापि नागता । ३ १८ काव्यमाला । । (ततः प्रविशति प्रवृत्तिः ।) प्रवृत्तिः कथमत्रैव विषयवासनया सह भद्रपीठमध्यास्ते देवी । यैषा पश्यन्त्येव न पश्यति प्रणयिनी वस्तून्यहो चक्षुषा श्रृण्वत्येव शृणोति न प्रियसखी नानुलापानपि । चेतः क्वापि वचः कुतोऽपि तदहं मन्येऽधुना चिन्तया पत्युर्विप्रियजन्मना चिरमसावाकृष्यते केवलम् ॥ ८॥ अत एव किल प्रातश्चन्द्रकलेव पुष्यति दृशो नन्दमस्यास्तनु- निश्वासोमविघट्टनेन गलितो बिम्बाधरे शोणिमा । वीटी चित्रगतेव तिष्ठति चिरं चिन्मुद्रया मुद्रिता संत्रस्तो विफलोद्यमः परिजनः पर्यन्तमासेवते ॥ ९ ॥ तदुपसर्पाम्येनाम् । (उपसर्पति ।) देवी-(पुरोऽवलोक्य ।) अयि प्रवृत्ते, ननु स्मृतमात्र एव संनिहितासि । मया तत्रैव पुनरपि किंचित्कार्यविशेषाय प्रहिता किमसूया त्वया दृष्टा । प्रवृत्तिः-अथ किम् । अभिनन्दितश्च भवतादेशः । अविद्या-अनेन वाक्येन त एव शमदमादयः, सैव च निवृत्तिरपि, कार्य च तदेव, यन्मया शङ्कितमिति ज्ञायते । प्रवृत्तिः-अथ किम् । (इति कामनाकथितमखिलं कथयति ।) अविद्या-अयि विषयवासने, स्थान एव खलु मे तर्कः । तत्किमत्र मन्यसे। विषयवासना-सखि, न भेतव्यम् । यत्किचिदेतत् । स्वाध्यायाध्ययनावबोधविहितानुष्ठाननिष्ठाक्रमैः कान्तारे गिरिकंदरे तृणपयोवृत्त्या च शुद्धान्तरः । आरुह्य श्रवणादितुङ्गपदमध्यास्तां निदिध्यासना- त्वं नस्योतमिवापकृष्य विषये बध्नामि कामादिभिः ॥ १० ॥ १. 'शृण्वत्येष' ख.

२ अङ्कः] विद्यापरिणयनम् । (विमृश्य ।) हन्त, शमदमादिसंबन्धेन महोपनिषदुपदेशेन च कश्चिदवि- घामपहाय विद्यामधिगमिष्यति । तदहं व गमिष्यामि । प्रत्यक्षसिद्धमपलप्य गिरामभूमि- मन्यत्सुखं किमिति हा रसिका गृणन्ति । अथवा । श्रोता जनो यदि मिलेदतिमन्दबुद्धिः किं किं न बोधयति वञ्चनकेलिलोलः ॥ ११ ॥ मत्प्रसूतयोरसंभावनाविपरीतभावनयोः प्रभाव न कोऽपि विजानाति । कि बहुना । वेदारण्यमुपैतु तत्र वियदालम्बा मृपावादिनो ये तेषां च वचः शृणोतु मनुतां तथ्यं तदेव खयम् । मत्पृष्टं प्रतिवक्तु किंचन तनौ कीटादितोदे मना- गुप्लुत्यैप कुतोऽनुधावति मृपाभूतं किलास्याखिलम् ॥ १२ ॥ स एप विपरीतभावनाप्रभावः केन वा जय्यः । किं च मयि प्रभवन्त्यामिह कस्यचिद्ब्रह्मनिष्ठा का नाम । भस्मावगुण्ठननिमीलनमोहनीया ये यं चकास्ति कुहचित्परमात्मनिष्ठा । एपा शिवोऽहमिति किंचन शब्दमात्र- मन्तन किंचिदपि न भ्रमितव्यमत्र ॥ १३ ॥ अयि भट्टिनि, प्रवृत्तिर्नाम किमियं साधारणीति मन्यसे । निवृत्त्या वशी- कृतमपि वलादियमपकर्षत्येव । पश्य तावत् । आयुर्भूरि गतं पतन्ति सुदृशास्तुच्छरलं व्याप्तै- भूतं भावि यथा तथास्त्विति भृशं शंभोः सपर्याविधौ । संनद्धोऽपि समाधिनिष्ठहृदयोऽप्युत्सृज्य सर्व निज- व्यापार समयातिपत्तिचकितः कृष्टोऽनया धावति ॥ १४ ॥ १. 'मनुना' ख.

२० काव्यमाला । तदेवमपरिमेयप्रभावयोरावयोरनवरतमपि भवदभ्युदयकतानभावयोः स. त्योः किं नाम भवदभिमतमापद्येत । अपि च कुटिलकरालकर्मगहनैर- तिदुवीरैर्मोहादिभिरस्मदीयपरिवारैरनवरुद्धतया परिमितोऽपि न खलु क- श्चिद्देशः कालो वा । अतस्तानतीत्य वेदारण्यप्रवेशोऽतिदुर्घट एव । प्रवि- ष्टोऽपि काम्याभिः क्रियाभिरुपासनाभिश्च बलादाकृष्यत एव । प्रवृत्तिः-अयि भट्टिनि, किंचिदहं विज्ञापयामि । विलासिनीनां पुरुषप्रतीपतारसानुविद्धा यदि शोभते परम् । यदि म सा भग्नरसा कृतव्यथा तदेव तासां गरिमव्यपोहनम् ॥१५॥ अतो विमुखोऽपि विप्रियकार्यपि मन्युवेगमन्तरेव निगृह्य विनयेन चातु- र्येण च राजायमनुरञ्जनीयः । अपि च य एष चित्तशर्मा राजनर्मसखः, सर्वमेतस्मिन्प्रतिष्ठितम् । अतोऽयमुपचारैरनुपदमपि विधेयीकरणीयः । आ- वामपि समुचितेषु केषुचिदर्थेषु व्याप्रियावहे । (इति निष्क्रान्ताः सर्वे ।) द्वितीयोऽङ्कः। तृतीयोऽङ्कः । (ततः प्रविशति निवृत्तिः ।) निवृत्ति-'अत्रभवत्याः शिवभक्तेर्वचसि विस्तम्भेण जीवराजस्य वि- द्याप्रतिकृति दर्शयिष्यामि' इति कथितवत्यस्मि । तत्किमद्यापि सा न प्रेषिता। (ततः प्रविशति चित्रपटहस्ता विरक्तिः ।) विरक्तिः-आज्ञप्तास्मि शिवभक्त्या-'चित्रपटोऽयं निवृत्तिहस्ते दा- तव्यः' इति । तत्व सा निवृत्तिर्भवेत् । (अग्रतोऽवलोक्य ।) कथमियं नि- वृत्तिः । यैषा समीरणे वातितृणेऽपि वा चलत्यवेक्षमाणा परितो दिगन्तरम् । जनस्य कस्यापि चिरप्रतीक्षया मनोऽतिरुक्षं दधती समीक्षते ॥ १ ॥ यावदस्या हस्तं चित्रपट प्रापयामि । (इति परिक्रामति ।) १. 'काम्यादिभिः क्रियादिभिः' क.

३ अङ्कः] विद्यापरिणयनम् । २१ -- निवृत्तिः-(विरक्तिमवलोक्य ।) सखि, व प्रस्थितासि । विरक्ति:-सखि, भगवत्या भवदन्तिकमनुप्रेषितास्मि । (इति चित्र- एटमर्पयति ।) निवृत्तिः-(चित्रपटं निर्वर्ण्य ।) अहो प्रतिकृतेरभिरूपता । एतद्वाङ्मनसातिवति महितं रूपं बतेयत्तया चित्तेनोल्लिखितं कथं विलिखितं हस्तेन वा तत्कथम् । अथवा न चित्रकारनैपुणमेतत् । अप्रज्ञेयमहाप्रभावमहसो भक्तेरियं प्रायशो भक्तत्राणगरीयसी विरचना नूनं भवेन्मानसी ॥ २ ॥ सखि विरक्ते, संप्रति किमाचारो जीवराज इति किमवगम्यते । विरक्तिः-चित्तशर्मणा वयस्येन शृङ्गारवने माधवीमण्डपमधिव- सति महाराज इति श्रुतम् । निवृत्तिः-तीयमेवावसरस्तदुपसरणाय । (इति निष्क्रान्ते ।) प्रवेशकः। (ततः प्रविशति यथानिर्दिष्टः सचिन्तो राजा ।) राजा-सखे चित्तशर्मन्, अत्रभवत्या निवृत्त्या रहस्यावेदनात्प्रति. निकाममस्वस्थहृदयो भवामि । तथाहि । हृद्यं वस्तु न रोचते हृदयजस्तापो न विश्राम्यति श्वासः प्लोषयतेऽधरं शिथिलयत्यङ्गानि चिन्ता मम । मोहे मज्जति चेतनापि निमिषः कल्पादनल्पायते कस्मै किं कथयेय हन्त तमिमं कालं क्षिपेयं कथम् ॥ ३ ॥ चित्तशर्मा-वयस्य, किं केवलेन विषादेन । विधीयतां तदुचितो यत्नः। राजा-तमेव खलु न प्रतिपद्ये । चित्तशर्मा-वयस्य, सोऽपि हृदयंगम एवोपनमितो दैवेन । राजा-कथय कथय । . - २२ काव्यमाला। चित्तशर्मा- 'वेदारण्यनिवासिनः कतिपये दृष्टा मया तापसाः प्रागेकत्र शमादयः समुदितास्ते मामवोचन्निदम् । जीवस्यास्य विभोश्चिरादिह सुखे दुःखेऽर्नु भोक्ता भवा- न्यस्य श्रेयसि कोऽपि कश्चिदिव किं ताटस्थ्यमालम्बते ॥ ४ ॥ इति । तदनु भो महाभागाः, सांप्रतमस्माकमिह किं नाम सुखं हीयते जीवः सुखात्मा विभुरेष राजा प्रधानभूतोऽहममुष्य विष्वङ् । भोगाः समग्रा विषयेषु मत्तस्तटस्थता का मम तत्सुखेषु ॥ ५ ॥ तथा हि। उद्यानोदरपद्मिनीपरिसरे पर्यन्तयन्त्रोच्चल- चन्द्रोशीरसुगन्धिशीकरभरस्फायत्समीराङ्कुरे । पीतस्वादुरसायनादिसुहितैरस्माभिरस्तव्यथै- नींयन्ते हि सुखैकतानविसरा वासन्तिका वासराः ॥ ६ ॥ इत्थं कदा कुत्र किं नाम सुखं नानुभूयत इति मयाभिहिते, हन्त कारणस्वभावकृत एष ते व्यामोहः । यदेवं ब्रवीषि । शृणु तावत् । देहो भूतसमष्टिरत्र तपनाधिक्ये जलं क्षीयते तर्षो नाम स एष तस्य समता तृप्तिः पुनर्वारिणा । एकस्योपचये भवत्यपचयोऽन्यस्य स्वभावस्त्वयं भूतानां समता पुनश्च किमिह प्रत्येषि तत्त्वं सुखम् ॥ ७ ॥ अद्वैतं यदनादिमध्यनिधनं सत्यैकरूपं सुखं तत्र त्वामुषितं मृषायितमिवाविद्याविलासैनिजैः । विश्वं दर्शयते यथार्थवदिदं स्वग्नेन्द्रजालोपमं धीरः कः पुनराद्रियेत तदिहासत्ये प्रपञ्चे सुखम् ॥ ८ ॥ १. 'न' ख. २. 'विध्वक् ख. ३. 'पीतः' क. ४, 'व्यधैः' क. ५. 'मोहः' क. ६. 'एव' ख. ७. 'तत्कृत्वा मुषितं' ख.

३ अङ्कः] विद्यापरिणयनम् । २३ किं च । रूपं नाम विशिष्टवस्त्विति पृथग्यद्यत्समालक्ष्यते सर्व चास्थिरमव्यवस्थितमनिर्वाच्यं च संमर्शने । मन्त्री त्वं कियतश्चिरस्य वपुपि व्यस्ते तदास्ते व ते शत्रु कश्चिदवैति मित्रमपरः पुत्रं कुतस्त्वां परः ॥ ९ ॥ तदेवमसारभूते जगति सारभूतं सुखं किं नाम । [पिष्टरसामृतसदृशं वैषयिकं तत्सुखं सुखं नैव । आधिव्याधिजराभिर्दुर्लभमेतच्च काकमांसमिव ॥ १० ॥] अतः 'सुखमस्माभिरनुभूयते' इति तव भ्रम एव । भूयोऽपि निदर्शयामः केषु भावेषु कया वृत्त्या किं नाम भवता सुखमन्वभूयत । याच्यादैन्यकदर्थिता द्विजनुषां शोच्यैव वृत्तिस्त्वसा- वस्वायत्तविधेयगौरवसुखा सेवा हि दुर्जीविका । शैलारण्यसमुद्रयानवहनक्लेशादि वा वर्ततां क्षुद्रं यत्क्षुरजीवनं शिव शिव स्मर्यंत तत्कि जनैः ॥ ११ ॥ तदेवमतिजुगुप्सितोऽयमविद्याविलासः । श्रूयतामस्य जगतस्तत्त्वम् । झं तत्पदमचिरादिभिरितो धन्यस्तु नावर्तते यो धूमादिपथं स्वरेति स यथायातं परावर्तते । आवृत्तः स तु लिङ्गदेहघटितो बोधादिशून्यश्चिरं तिष्ठेद्रीहियवास्तिला इति जनिप्रारम्भकाभावतः ॥ १२ ॥ तदनु काले क्वापि कुहापि कोऽपि यदि तानश्नाति तद्वेतसा ब्रह्मक्षत्रपुरोगमेषु भजते पुण्यानुरूपं जनुः । व्यावृत्ताः पितृलोकतोऽनधिगतस्वर्गास्तु ये पापिनः श्वानः सूकरपुल्कसा इति जनुः कालेन गच्छन्ति ते ॥१३॥ पुण्यप्रभावादूर्वलोकगामिनां जीवानामियं स्थितिः । ये देवयानपितृयानपथानभिज्ञा जीवास्तु ते जनिमृतीः क्रिमिकीटरूपाः । १. 'कुतः' क. २. कोष्ठकान्तर्गतश्लोकः क-पुस्तके त्रुटितः.

२४ ४ काव्यमाला। व्यावर्तयन्ति सुचिरादिह कल्पकोटी- नोय ब्रजन्ति गहनैवमसावविद्या ॥ १४ ॥ अंतो जीवराजस्य तदेतन्महासंकटविमोचनाय भवतैव प्रयतितव्यम्, चि- रादभेदेनोपलाल्यमानादमात्यादृते किमायत्तानि राजसौभाग्यानि । तदिह कुतो विचक्षणोऽपि भवानात्मनोऽधिकारं न प्रतिपद्यते । अपि च प्रयत्न एष तत्प्रतीपबलवत्तरवरवर्णिनीपरिणयनरूपतया तव सुकर एव । कथमिद- मनावेद्यैव राज्ञे करणीयमिति न शङ्कनीयम् । वित्रम्भप्रणयोचिताः सुचरिता धर्मार्थविज्ञानिनो ये तावत्किल मन्त्रिणः क्षितिभुजामेते किमर्थान्तरम् । अन्यद्धर्मचरं शरीरमपरं सालोचनं लोचनं राज्ञः किं बहुनाभितो विजयिनः प्राणा भवन्त्यान्तराः ॥ १५ ॥ न तावदमात्यमानं भवान् । अपि तु नर्मसचिवश्च । तदपूर्वरमणीसंघ- टनमिदमवश्यकरणीयमनुरूपं चेति । तदनु तानहमप्राक्षम्- 'क्वत्या किंप्रभवा किमाकृतिगुणा किनामधेया च सा श्रेयस्तद्धटने किमस्त्यघटने किं नाम तद्धीयते तत्प्राप्तौ परिपन्थिनः क इह नस्तैरन्तरायाः कथं तेषामप्यपनोदनेऽथ घटने कश्चाभ्युपायो भवेत् ॥ १६ ॥ इति । तदनु ते मामवोचन्- 'वेदारण्यावसथसुहिता स्वामिनी मादृशाना- माविर्भूता मननजनिदिध्यासनात्पुण्यभूम्ना । विद्युल्लेखाचिरतरसमुढ्योतिनीवाद्भुतश्री- रेषा योषामणिरुपनिषद्वंशभूषा विभाति ॥ १७ ॥ विद्याख्या हृदयंगमाकृतिरसावस्याः समासादने न व्याधिन जरा न मृत्युरशना या सा पिपासापि न । न क्लेशो न भयं च किं तु परमानन्दातिसान्द्रीकृता दुःखासंकलिता च काचन दशा सत्या समुन्मीलति ॥ १८ ॥ .

३ अङ्कः] विद्यापरिणयनम् । २५ सत्यानन्दमपारमक्षयमिदं विद्याधनं पङ्कतः कृत्वा गाढनिगूहितं व्यथयते लोकानविद्या चिरम् । तिष्ठन्नेव विधौ यथानिधिमविज्ञायैव कार्पण्यतो विश्वग्धावति तद्वदेतदविदञ्जीवः परं खिद्यते ॥ १९ ॥ यस्यां मुह्यति निद्रया निशि जगत्स्वप्नेन्द्रजालाकुलं तस्यां जाग्रति योगिनस्तदनया सत्यार्थसंदर्शिनः । दिव्या दृष्टिरियं निमेपरहिता हन्तानया पश्यतां छिद्यन्तेऽखिलसंशयभ्रमविपर्यासाश्च कर्माणि च ॥ २० ॥ अस्या वैभवतोऽपि नक्तमहरेवास्याभिनिष्पद्यते तच्चाहर्न कदापि याति सकृदेवास्य प्रभातोदयः । आत्मानन्दसुधासमुद्रलहरी सा चेदनासादिता मध्याह्रोऽपि निरन्तरेण तमसा घोरो निशीथो भवेत् ॥ २१ ॥ इति । तदेवंविधदिव्यमङ्गलगुणग्रामा विद्येयम् । राजा-(सपरितोषम् ।) ततस्ततः । चित्तशर्मा- कामक्रोधमुखाः प्रतीतविभवा जीवस्य पढेरिण- स्ते ह्यस्माकमसंनिधौ विदधते निःशङ्कमोजायितम् । यत्रामी वयमास्महे समुदिताः साकं विवेकादिभि- स्तत्रैते न समुन्मिषन्ति पुरतो भानोरि जीवस्याप्यभितोऽपघातिन इमे विघ्नास्तु तत्संभपा. कर्षन्तो विषयेषु तं विघटयन्त्यस्मासु यत्संगतम् । एतेषामपनोदनेऽभिलषिते चार्थेऽभ्युपायस्त्वयं गूढं गाढनिरूढमत्रभवतः सौहार्दमस्मासु यत् ॥ २३ ॥ त्वयि तु विधेये संपन्नकल्पो वेदारण्यप्रवेशः। स एव परमोपाय इति । तदनु 'किमेतादृशि मत्स्वामिनः श्रेयसि मत्सकाशादन्तरं पतिष्यति । स- र्वथाहमत्र विषये युष्मदायत्तः' इति सशपथमभिहितवानस्मि । ॥ :

२६ काव्यमाला। राजा-वयस्य, प्रणयविनम्भौ नाम तदुभावेव यदेवमसंनिधानेऽपि मदनवगतमेव मदीयश्रेयसि बहुधा व्यापृतमिति । (परितोषमभिनीय ।) सखे चित्तशर्मन्, एते मच्छ्रवसी तदद्भुतगुणस्तोमामृतासञ्जना- दत्यन्तं सुहिते तदत्र विषये बद्धाभ्यसूये इव । एते तन्मुखचन्द्रमःस्मितसुधातर्षाकुले ताम्यतो मदृष्टी त(?)इमे कया नु विधया संप्रीणयिष्याम्यहम् ॥२४॥ तामालिख्य विनोदयेय नयने दृष्टा यदि स्यान्मना- क्स्वप्ने तामवलोकयेयमिति चेत्स्वापो दुरापो मम । अध्यक्षीकरणप्रसक्तिरपि मे तस्यास्तु दूरे गिरा- मायासोत्तरमाः कथं नु विषयैरात्मानमाश्वासये ॥ २५ ॥ (स्मरणमभिनीय ।) तत्रभवत्या प्रतिश्रुतं प्रतिकृतिदर्शनं तु संभाव्येतापि । (ततः प्रविशति विरक्त्या सह निवृत्तिः ।) निवृत्तिः--(पुरतो विलोक्य ।) अयमितश्चित्तशर्मणा नर्मसचिवेन सह विविक्तमध्यास्ते देवः । तदेनमुपसमि । (उपसृत्य ।) विजयतां देवः । (इति राज्ञो हस्ते चित्रपटमर्पयति ।) राजा-(चित्रपटं निर्वर्ण्य । साश्चर्यम् ।) अहो प्रतिकृतेरभिरूपता । शुद्धामृतधाममुखो श्रुत्यन्तविसारिदृष्टितोल्लसिता । विश्वातिशायिवृत्तिविषयेषु कुहापि नेदृशी दृष्टा ॥ २६ ॥ पद्मोल्लासतरङ्गितं पदयुगं जके सुवृत्तोज्ज्वले रम्भाडैम्भ()विडन्बिनौ च तदिमावूरू मनोहारिणौ । मध्यं व्योमसखं मुखं विधुरखण्डाकारवृत्त्युज्ज्वलः कल्याणी बत सेयमद्भुतगुणा कल्याणकान्ताकृतिः ॥ २७ ॥ (साशङ्ख पार्श्वतो विलोक्य ।) दिल्यात्र न संनिहिता देवी। १. 'तदिमावेव' ख. 'उभाभ्यामेव' इति प्रतिभाति. २. 'लासि' क. ३. 'डिम्भ सति स्यात.

३ अङ्कः] विद्यापरिणयनम् । २७ (ततः प्रविशति विषयवासनया प्रवृत्त्या च सहाविद्या ।) अविद्या-सखि विषयवासने, कृतघ्नोऽपि देवस्त्वद्वचनगौरवेण ममा- नुसरणीयः संवृत्तः । विषयवासना-प्रियसखि, कीदृशमपि दयितमनुसरणेन हृदयरञ्ज- नेन च विधेयीकुर्वन्ति खलु युवतयः । अविद्या-सखि प्रवृत्ते, देवः कतमं देशमधिवसतीति जानीहि । प्रवृत्तिः-(पुरतो विलोक्य ।) नन्वयमित एव चित्तशर्मणा तापसीभ्यां सह शृङ्गारवने मालतीमण्डपमध्यास्ते देवः । अविद्या-तर्हि विटपान्तरिता एव शृणुमस्तावदेतेषामन्योन्यविस्रम्भ- जल्पितानि । (इति सर्वास्तथा कुर्वन्ति ।) चित्तशर्मा-अपि नाम सुखायते दृशोरियं चित्रगता प्रियतमा । राजा-किमुच्यते सुखायत इति । आप्लाव्य ज्वलदङ्गमङ्गमभितः संसृप्य नाडीष्वपि प्लोषावेगकदर्थितासुकरणान्युज्जीवयन्ती पुनः । अस्या निस्तुलतत्तदङ्गसुषमाकल्लोलिता काप्यसा- वानन्दामृतदिव्यसिन्धुलहरी विश्वं किलापह्नुते ॥ २८ ॥ संप्रति हि आलिप्ये नु तुषारलोलनललत्कर्पूरगन्धद्वै- रासिच्ये नु घनीकृतैरुत सुधाधाम्नो मयूखोत्करैः । एतदर्शनसंभृतेन परमानन्देन दावानल- प्लुष्टो भूमिधरः सुधारसझरेणेवाङ्गमाप्याय्यते ॥ २९ ॥ निवृत्तिः-(अपवार्य ।) सखि विरक्ते, दिया फलितमिव नः प्रयत्नेन । विरक्ति:-कथं न फलिष्यति भगवत्या नीतिवैदग्धी । राजा-(चिरं निर्वर्ण्य सोन्मादं चित्रं प्रति मृगामि किं नु मृदुलं पदपल्लवं ते किं ते लिखामि कुचयोरुत पत्रवल्लीम् । " २८ काव्यमाला। २ उ 1 एह्येहि मे विदधती सकृदङ्कपाली- मन्तर्गतं निरवशेषय तापमेनम् ॥ ३० ॥ चित्तशर्मा-(सोपहासम् ।) वयस्य, प्रतिकृतिरियं खलु तस्याः । अविद्या-सखि, श्रुतं ननु श्रोतव्यम् । तदेवमेतैरितरनायिकासंघ- टनकुहनाभिरिति संधीयामहे । विषयवासना-सखि, भूयोऽपि शृणुमस्तावत् । निवृत्तिः-देव, सत्वरमनया सुदृशा सह भवन्तं योजयिष्यामि । न पुनरिह विषये भवता विषादो विधेयः । राजा-परमकारुणिकीभ्यामप्रमेयमहिमातिशयाभ्यां भवतीभ्यामनु- गृहीतस्य मम को नाम विषादः । अविद्या-सखि, श्रुतानि खलु भूयः श्रवणामृतानि । विषयवासना-प्रियसखि, भवत्संनिधाने सर्वमिदं विघटितमेव भवेत् । (इत्युद्धतमुपसर्पति ।) राजा-(दृष्ट्वा । सभयम् ।) वयस्य, का प्रतिपत्तिः । चित्तशर्मा-वयस्य, भवता कथमपि समाधीयेत सा । मम तु का गतिः । (विचिन्त्य ।) भवतु । तामेवानुसरेयम् । इमे च तपखिन्यौ तिरस्क- रिणीविद्यया चित्रफलकेन सह तिरोहिते भविष्यतः । राजा-तथा । (इति धैर्यमवलम्ब्य तिष्ठति ।) चित्तशर्मा-(उपसृत्य ।) स्वस्ति भवत्यै । अविद्या-(चित्तशर्माणं निर्भय॑ । राजानमुपसृत्य ।) अपि सुखायते चि- त्रगता प्रियतमा । अपि संघटयिष्यतस्तापस्यौ । राजा-(सभयगद्गदम् ।) देवि, तवासांनिध्याचित्तशर्मणा कालविनोद- नाय विरचितमिन्द्रजालम् । इदं परमार्थतया न गृह्णातु भवती । अविद्या-हन्त प्रत्यक्षसिद्धापलपनसाहसमेतस्य । 1) - १. 'मतं' ख. २. 'मेताभिरितर' स. ३. रति' क.

३ अङ्कः] विद्यापरिणयनम् । २९ राजा-अतथाभूतमपि वस्तु तथाभूतमिव प्रत्यक्षमुपदर्शयेयुर्न किमै- न्द्रजालिकाः । तदपि यदि सत्यमेवावगच्छसि । तत्र कः परिहारः । अविद्या-न तावदिदमिन्द्रजालं चित्तशर्मणः । अपि तु तवैव साह- समेतत् । व ते तापस्यौ । क्व च सा प्रतिकृतिः । राजा-ननु कथितमेव सकलमिन्द्रजालमिति । त्वं तु परमार्थतयैव प्रतिपद्यसे । "अविद्या-कृतं कृतमकृतज्ञेनानेन शठेन । (इति साटोपं परावर्तते ।) चित्तशर्मा-वयस्य, पादप्रणामादिभिरुपचारैर्यथोचितं प्रसाद्यतां कु- पिता देवी । राजा-(कतिचित्पदानि गत्वा प्रणम्य !) प्रसीद प्रसीद । (अविद्या साटोपमवधूय गच्छति ।) राजा- न पे न विलोकसे न च वचस्तथ्यं शृणोपि प्रिये किं वेतन्मयि तादृशं तव मनः करसादभूदीदृशम् । दम्पत्योस्तु न जायते किममतं जातं न कि मृष्यते किं वा जातमिहाधुना विधिरहो तिक्तां विधत्ते सुधाम् ॥३१॥ प्रवृत्तिः-(अपवार्य ।) भवत्वयं यादृशस्तादृशो वा । त्वया पुनरपा- रुप्यमेवावलम्व्यताम् । विषयवासना-युक्तमाह प्रवृत्तिः । अविद्या हन्त, भवतीभ्यामपीदं रोचते । का गतिः। (इति तिष्ठति।) राजा- मां कल्याणि पुरा तवोपयमनाये केऽपि किं जानते त्वामासाद्य मया प्रिये नवनवं किं नानुभूतं सुखम् । तत्ताहमहनीयवैभववती सौभाग्यसीमायिता मां मत्त्वा कृतविप्रियं बत कथं व्याधुन्वती धावसि ॥ ३२ ॥ त्वं वित्तादपि गात्रतोऽपि करणग्रामादपि प्रेयसः प्राणादप्यधिकेति सुन्दर भवत्प्रीत्यैकबद्धादरः ।

३० काव्यमाला। वर्तेऽहं वितथव्यलीकपरुषा नैर्घण्यमालम्बसे यद्येवं मयि सर्वथैव परितः किं वा करिष्याम्यहम् ॥ ३३ ॥ अविद्या—(सोत्प्रासम् ।) सख्यौ, श्रुतं खलु । देवस्यास्य किलाहमद्य दयितात्प्राणादपि प्रेयसी राजानं प्रति तोदनैरलमहो वाक्यैरमीभिस्तव । यद्वा वल्लभवस्तुसङ्गिनि मनस्यात्मन्यनायत्तता तदोषादयथोचितं व्यवहरस्येवं न दोषस्त्वयि ॥ ३४ ॥ विषयवासना-देव, सर्वतोमुखविचित्रपरमानन्दविधायिनी देवीम. पहाय वाङ्मनसातिवर्तिनि कुहापि विषये कुतो भवानासज्जति । चित्तशर्मा—वयस्य, तथ्यमाह विषयवासना । प्रवृत्तिः-आर्य चित्तशर्मन्, प्रगल्भोऽसि समयोचितमभिधातुम् । तथ्यमेवाह विषयवासना । त्वयि तु न व्यवस्था । चित्तशर्मा—स एष मम सहजो धर्मः । अविद्या-अलमलमतिप्रसङ्गेन । (नेपथ्ये वैतालिको ।) एक: मोक्तं तापमिव प्रतीचिजलधौ मज्जत्ययं भानुमा- नागः कोऽपि विजृम्भते धनपथे चित्ते वधूनामपि । आर्द्रागाः कुपितामुपासिसिषते कान्तां विलासी जनो भक्त्या कर्मठभूमिदेवपरिषत्संध्यां च सायंतनीम् ॥ ३५ ॥ द्वितीयः- गन्धेन स्फुटकैरवाकरभुवा विष्वग्विकर्षन्नली- न्वच्छन्दं दिवसावसानपिशुनो मन्दानिलः स्पन्दते । भावी नौ विरहाधिरित्यविदितेऽप्यन्तःशुचा स्थीयते कोकेन प्रियया सहकनलिनीनालाधिरूढेन च ॥ ३१ ॥ (सर्वे आकर्णयन्ति ।) १. 'दूने चक्षुषि' ख.

४ अङ्कः] विद्यापरिणयनम् । चित्तशर्मादेव, अतिवर्तते संध्यासमयः । राजा-तथा । (इति निष्क्रान्ताः सर्वे ।) तृतीयोऽङ्कः। चतुर्थोऽङ्कः । (ततः प्रविशति चित्तशर्मा ।) चित्तशर्मा- तेजोवैभवकौशलोपकरणान्यद्धा मुधासिद्धिपु व्यक्तं राघवपाण्डवादिषु रणे मुह्यत्सु दृष्टं हितम् । तन्मन्ये पुरुषस्य कासितहितावाप्तिस्तु दैवेच्छया स्वेनेदं कृतमेतदाप्तमिति ये नन्दन्ति मूढा हि ते ॥ १॥ अद्य खलु विनम्भप्रणयास्पदस्य सुहृदो नियूँढमिष्टादिकं देव्याः प्रार्थितकार्यसाधनकृता प्रीतिः समग्रोदया । तत्रापि स्वसमीहितार्थफलसंपत्तिविरोधं विना दैवेनोपनतं कियत्कियदहो वाञ्छानुरूपं हितम् ॥ २ ॥ तदिदमद्भुतसंविधानमत्रभवत्याः शिवभक्तेः कस्य मुखेन कर्णपथमवता- रयेयम् । सा तावदितः प्रतिनिवृत्तयोविरक्तिनिवृत्त्योः सकाशादत्र चित्र- पटदर्शनवृत्तान्तमवकर्ण्य त्रुटितमिह कार्यमिति बहुधा निर्विद्येत । अतः सत्वरमेतदर्थप्रापणे कः समर्थो भवेत् । (पुरो विलोक्य ।) दिष्ट्या सत्सङ्गो- ऽयमित आगच्छति । य एष धुनीते संतापं दुरितशतचिन्तासमुदितं तमःस्तोमक्लेशं तरणिरिव सद्यः समुदधन् (?) । निरुन्द्धे दुर्वृत्तं निखिलमपि पर्यन्तविरसं पथः पुण्यानेव प्रथयति परिक्लेशविधुरान् ॥ ३ ॥ १. 'मूढास्तु ते' ख.

३२ काव्यमाला। (ततः प्रविशति सत्सङ्गः।) . सत्सङ्ग:---आदिष्टोऽस्मि तत्रभवत्या शिवभक्त्या-'चित्तशर्ममुखेन जीवराजवृत्तान्तमवगम्य सपदि परावर्तस्त्र' इति । (पुरो विलोकयन् ।) अय. मसौ चित्तशर्मा । यावदेनमुपसर्पामि । (उपत्य ।) अपि कुशलं वयस्याय । चित्तशर्मा-विशेषतश्च भवत्समागमेन । (सपरितोषम् .) सखे सत्सङ्ग, समये समुपगतोऽसि । शृणु तावत् । अहं किल वयस्येन जीवराजेन संदिष्टोऽस्मि । सत्सङ्ग:-कथमिव । चित्तशर्मा-'वयस्य, चित्रदर्शनात्प्रभृति नितान्तदुर्मनायमाना देवी। तत्तदुचितचमत्कारिचतुरतरोपायैरुपसृत्य भवता तथा विधेया, यथा सा स्वयमेव मामुपगम्य वेदारण्यगमनमभ्यर्थयेत' इति । तदनु कथमेतदुपपद्यताम् । आर्द्रागसा कथमियं हि मैयाभ्युपेया ताहकरालहृदयाथ कथं प्रसाद्या । भूयः प्रतीपयुवतिस्मृतिकारिणीषु वेदाटवीषु गमनस्य कथा कथं स्यात् ॥ ४ ॥ इत्येवमतिमात्रचिन्तातरलिते मयि तत्क्षणमेव सत्वरोपगतया देव्याः स- हचारिण्या कुहनयाभिहितम्-'आर्य, भवदाकारणाय भट्टिन्या प्रेषिता- हम्' इति । तदवकर्ण्य 'किमेतदापतितम्' इति मयि किमपि किमप्यन्त- राशङ्कमाने 'न किंचिदत्र विचारस्थानमा भवन्तं संमानयितुमत्रभवती समाह्वयति' इति सा कथितवती । सत्सङ्गः ततस्ततः। चित्तशर्मा-तदनु 'किमयमसंभावितोपन्यासस्त्वया क्रियते । तद- धुना सप्रकारमखिलमावेदय' इत्यनुयुक्ता कुहना यथावृत्तमभिहितवती । सत्सङ्गः-इदं श्रोतव्यम् । चित्तशर्मा-नितान्तदुर्मनायमानां देवीं प्रियसखी विषयवासना र- १. 'ममा' क.

४ अङ्कः] विद्यापरिणयनम् । ३३. हसीत्थं बोधितवती । यथा-'प्रियसखि, त्यज्यतामिदमाकसिकं वैक्ल- व्यम् । शृणु तावत् । चित्तशर्मा नामायं जीवस्य नितान्तमन्तरङ्गः । तदस्मिन्नखिलराजकार्यधुरंधरे विरोधो न फलति । अतस्तमिममनुरुध्यैव राजा विधेयीकर्तव्यः' इति । सत्सङ्गः-सुष्ठ कथितं विषयवासनया । चिंत्तशर्मा-तदनु देवीसमक्षमुपगम्य निःशङ्कमहमब्रुवम् । सत्सङ्ग:-कथमिव । चित्तशर्मा- 'कुतोऽपि हेतोरतिदुर्मनायते चिरेण राजा चतुरा भवत्यपि । मनो निरुध्यैव तदीयमात्मनो मनोरथः संप्रति किं न पूर्यते ॥५॥ तस्य हि चिरादभिलषितो वेदारण्यप्रवेशः । तत्र नित्यसंनिहितशमदमा- दिविघटनाय प्रागेव संनिधापनीया महामोहादयो महामात्राः । तदनु तत्र भवत्या सह प्रविष्टे राजनि काम्यादिभिः क्रियाभिरुपासनाभिश्च तरली- कृते सेत्स्यति समग्रस्ते मनोरथः' इति । सत्सङ्गः-सखे, सत्वरमेव निर्वर्तनीयोऽयमर्थः । चित्तशर्मा-कुतः । सत्सङ्ग:-निवृत्तिमुखाज्जीवराजगुणानवकर्ण्य वलवदुत्कण्ठिता विद्या । तथाहि । आदर्शभित्ति भजते न विहारगेह- मासन्नचन्द्रमभितः खमुखाम्बुजेन । आलीरभि प्रतिवचो गृणती गवाक्ष- मारामकोकिलभयेन मुहुः पिधत्ते ॥ ६ ॥ तदेवमतिमात्रविरहसंतापजनितोन्मादतरलिता सा । चित्तशर्मा-(सहर्षम् ।) एवमन्योन्यानुरागे सति सुकरमेव कार्यशेष तर्कयामि । १. 'तस्मिन्' ख, २. आदर्शद्वयेऽपि नोपलभ्यते. ३. 'दिभिरुपासनाभिश्च' ख.

३४ काव्यमाला। सत्सङ्गः-सखे, भवन्तमधिकृत्य किंचिदिव संदिहानेन मया कदा- चिदत्रभवती शिवभक्तिरमिहिता-'सांप्रतमस्माकमतिविधेयोऽपि चित्तशर्मा चिरतरमविद्यानुबन्धी कथमस्मदभिमतकार्यानुकूलो भवेत्' इति । तदनु निजहृदयनिविशेषमेव त्वामिह मन्यमाना भगवती कथितवती-'स एव कार्यमिदं प्रस्तुतमभिनिर्वर्तयिष्यति' इति । चित्तशर्मा-परेङ्गितपरिज्ञानप्रवणहृदया हि महानुभावा भक्तिः । (सस्मितम् ।) अये सत्सङ्ग, सत्यमहमेवंशङ्कनीयो भवेयम्, अत्रभवती यदि न मामनुगृह्णीयात् । संप्रति तु मदध्यवसायः श्रूयताम्- भुञ्जानः सुचिरादभेदविधया भोगानहं स्वामिनो जीवस्याभ्युदयाय वर्म च तृणप्रायं त्यजाम्यत्र तु । सङ्ग्रामे समुपागते निजभुजव्याधूतखड्गाहति- च्छिन्नस्वीयसनाभिवर्मविपिनः कर्णः प्रमाणं मम ॥ ७ ॥ किं च । गोत्रानुबन्धममतादिषु निर्विशेष- स्तत्तादृशः कुलमहत्तर एव भीष्मः । स्वामी सुयोधन इति द्रुतमाजिभूमौ शास्त्रास्त्रवर्षपरुषोऽजनि पाण्डवेषु ॥ ८ ॥ अतस्तदनुग्रहभाजनमहमन्यथा न शङ्कनीयः । सोऽहमचिरेण राजान- मविद्यया सह वेदारण्यं प्रवेशयामि । तदनु तत्र कामनानुविद्धतत्तदुपा- सनाभिरविद्यापि राजानं प्रलोभयेत । तदनन्तरकरणीये भगवती प्रमाणम् । सत्सङ्ग:-अत्रभवती शिवभक्तिस्ताभिरेवोपासनाभिः साकमनतिभि- न्नाया देहरविद्यायाः पदान्तर एव विद्यामपि राजमात्रदृश्यतयानुप्रवेश. यितुमध्यवस्यति । चित्तशर्मा-अतः सत्वरमिममुदन्तमावेदयिनुमत्रभवती शिवभक्ति- १. 'महमेवमेवं' ख. २. 'स्म जयाय तस्य' ख. ३. दहरविद्या 'दहर उत्तरेभ्यः' इ- त्यादिसूत्रेषु भगवता व्यासेन निर्णीता.

४ अङ्कः] विद्यापरिणयनम् । रुपगम्यताम् । अहमपि भद्रशालाभ्यन्तरे मामेवं सुचिरं प्रतीक्षमाणस्य वयस्यस्य सकाशं गच्छामि । (इति निष्क्रान्तौ ।) विष्कम्भः। (ततः प्रविशति यथानिर्दिष्टो राजा ।) राजा-(स्मरणमभिनीय ।) हन्त, मया निजकार्यनिर्वर्तनकचेतसा मह- दनुचितं कृतम् । यदेष वयस्यो बुभुक्षितव्याघ्रीपरिसरमभिवर्धितो हरिण- शाव इव नितान्तपरिकुंपिताया देव्याः सविधमापराधो गमितः । तत्र कति कति परिभवाननुभूय कथमिव परिखिद्यते वा न जानामि । (ततः प्रविशति चित्तशर्मा ।). चित्तशर्मा—हन्त, वयस्योऽयमतिमात्रविद्याविरहतापेन परिभूयते । तथाहि । वीक्षानिर्विषया निकाममलसप्रान्ते च कान्ते दृशौ शश्वत्किच मितैर्वृतः परिजनैरकान्तमासेवते । नास्था वस्तुषु वल्लभेषु मनसो निष्ठा न कुत्रापि वा तेजोमात्रससारमूर्तिरधुना जागर्ति जीवो विभुः ॥ ९ ॥ यावदेनमुपसमि । (उपसृत्य ।) विजयतां देवः । राजा--(दृष्ट्वा सपरितोषम् ।) वयस्य, प्रसन्न इव लक्ष्यसे । किमस्ति कश्चिद्विशेषः । चित्तशर्मा-अथ किम् । राजा-कथमिव । (चित्तशर्मा किंचिदिवोपसर्पनिदमित्यमितिवृत्तमखिलमर्थमानुपूर्व्या कथयति ।) राजा-वयस्य, किमत्र देवी संनिदधीत । चित्तशर्मा-सह परिवारैरुपगतैव । (ततः प्रविशति विषयवासनया प्रवृत्त्या च सहाविद्या ।) अविद्या-(सनिर्वेदम् ।) सखि विषयवासने, बहुप्रकारमनुसृतोऽपि १. 'प्रवेशकः' ख.

काव्यमाला ।
देवः सर्वथा न यथापुरमस्मासु प्रसीदति । कर्तव्यस्तु समुदाचारः । (इति
कतिचित्पदानि गत्वा पुरोऽवलोक्य ।) कथमत्रैव चित्तशर्मणा विविक्तमध्यास्ते
देवः । यावदेनमुपसमि । (उपसृत्य ।) विजयतां देवः ।
राजा-इत आस्यताम् । (इत्यासनं निर्दिशति ।)
चित्तशर्मा-देवि, दिव्या वर्धसे ।
विषयवासना-वर्धतां महाराजः ।
(राजा चित्तशर्माणं संज्ञापयति ।)
चित्तशर्मा-देव, भवता सह वेदारण्यविहाराय बलवदुत्कण्ठिता
देवी । तत्कुतो विलम्बसे।
राजा-यदभिलषितं देव्यै ।
(इति सर्वे उत्तिष्ठन्ति ।)
देवी-(स्वगतम् ।) का गतिः ।
राजा-कः कोऽत्र भोः ।
(प्रविश्य)
दौवारिक:--अहमस्मि ।
राजा-संकल्प, वेदारण्यमार्गमादेशय ।
संकल्प:-इत इतो देवः ।
(सर्वे वेदारण्यगमनं नाटयन्ति ।)
राजा-(वामपार्श्वतः कर्ण दत्त्वा ।) अये चित्तशर्मन् , अत्र केषामपि
परस्परालाप इव श्रूयते ।
चित्तशर्मा--(स्मरणमभिनीय । किंचिदिवोपसृत्य । जनान्तिकम् ।) वयस्य,
'देव्या हितान्वेषिभिर्मोहादिभिरर्धमार्गे भवत्प्रलोभनाय लोकायतिकादि-
पाषण्डसिद्धान्ताः संनिवेशिताः' इति वस्तुविचारेण संप्रत्येव मे कथि-
तम् । प्रायस्त एते भवेयुः । (पुरो विलोक्य।) स एष
असारमेतज्जगदित्यवेत्य तृणादिवत्पश्यति दृश्यजालम् ।
अन्तश्चिरानन्दरसानुभूतिमङ्गैः : समुद्यत्पुलकैर्व्यनक्ति ।। १० ॥
१. ख-पुस्तके नोपलभ्यते.

४ अङ्कः] विद्यापरिणयनम् । (ततः प्रविशति वस्तुविचारः।) वस्तुविचार:-आदिष्टोऽस्मि तत्रभवत्या शिवभक्त्या-~-'वत्स व. स्तुविचार, संप्रति जीवराजो वेदारण्यं प्रविविक्षुरिति श्रूयते । तदेनमपथा- निवर्त्य सतैव पथा समानेतुमस्य परिसरोऽधिगन्तव्यः' इति । (पुरो विलोक्य।) स एष जीवराजः । यावदेनमुपसामि । (उपसर्पति ।) (राजा चित्तशर्मणा सह प्रणमति ।) वस्तुविचारः-सिद्धसंकल्पौ भूयास्ताम् । अविद्या-(सविषादम् । स्वगतम् ।) हन्त, विफलो मे मनोरथः पाषण्डेषु । (ततः प्रविशन्ति पाषण्डसिद्धान्ताः ।) लोकायतिकसिद्धान्त:- न क्लेशलेशयोगो भागोऽनुपरोध एव सर्वत्र । इति सति किं न रमन्ते मन्दधियो मामके तन्त्रे ॥ ११ ॥ (इति परिक्रामति ।) चित्तशर्मा-(राजानं प्रति ।) अत्रायमस्याशयः-'प्रत्यक्षमेव प्रमा- णम्, अदृष्टचरं तु नास्त्येव । तथा च । पृथिव्यापो वह्निः पवन इति सत्याः परममी तदेषां संघातो भवति वपुरात्मा बहुविधः । समष्टेस्ताम्बूलादरुणिमवदुन्मीलति मतिः सुखादिव्यापारैरुपनमति धर्मादि तु मृषा ॥ १२ ॥ अतः । देशः कालोऽथ जातिः कुलमकुलमियं वा परेत्यादिहेतो- वावयेतिमिथ्याकुहकविरचितां यन्त्रणामन्तरेण । आये खाद्येऽथ पेयेऽप्यनियमिततया काममापुष्य गात्रं दृष्ट्वा मिष्टामवाप्य स्मरमदमुदितां भोग एवाभ्युपेयः ॥ १३ ॥ इति । चित्तशर्मा-(सभ्रूभङ्गम् ।) वयस्य, लोकायतिकमतमिदमतिरमणीयं १. आदर्शद्वयेऽप्युपलभ्यमानमपि प्रक्षिप्तं प्रतीयते, पूर्व पात्रान्तरस्यानुपलम्भन चि. त्तशर्मण एव प्रक्रान्तत्वात.

काव्यमाला।
प्रतीयते । यदत्र 'न विधिन निषेधो न धर्माधर्मों नास्ति परलोकः'
इत्यादिना प्रत्यक्षसिद्धविषयाभिरतिनिरातङ्का हि प्रतीयते ।
अविद्या-(स्वगतम् । सहर्षम् ।) कथमप्यस्सदीय एव चित्तशर्मा ।
(राजा सस्मितं वस्तुविचारं पश्यति ।)
वस्तुविचार:-(सोद्वेगम् । स्वगतम् ।) प्रमादः प्रमादः । पर्यायेण
सत्पथमेनं नयेयम् । (प्रकाशम् ।) किमये चित्तशर्मन्, अनभिज्ञ इवालपसि ।
वयं किम् 'इदमखिलमस्ति' इत्यवोचाम । 'किमपि नास्ति यत्साक्षात्'
इति प्रत्यक्षसिद्धार्थाभिरतिरनातङ्केति ब्रूमहे । शापादिवशादिहार्थान्तरभ्र-
मेण विशृङ्खलविषयाभिरतिस्तु नरकाय भवति । तथा च तस्य प्रत्यक्षप्रमि-
तार्थसत्यत्ववादोऽप्येतदभिप्रायक एव । 'नास्ति परलोकः' इत्यादीनि च
ब्रह्मव्यतिरिक्तस्य सर्वस्याप्यभावोपलक्षकाणि । तस्य देहात्मत्ववादोऽप्यन्न-
मयकोशस्यात्मोपलक्षकत्वनिबन्धन इति सर्वमद्वैतपर्यवसाय्येव ।
राजा-(सशिरःकम्पम् । पुरोऽवलोक्य ।)
परिहितकषायवासाः परिहृतहिंसः समस्तभूतेषु ।
अभ्येति भिक्षुवेषः कच्छविहीनोऽत्र बुद्धसिद्धान्तः ॥ १४ ॥
बुद्धः--अहो मन्दमेधसः, स्वानुभवविरुद्धो व्याहारः ।
प्रत्यक्षतो यत्प्रमितं कदापि तदेव सत्यं न ततोऽन्यदस्ति ।
इत्येव बुद्धिर्यदि तर्हि कस्मादपत्यहेतोरबलामुपैति ॥ १५ ॥
चार्वाक:-अये बुद्धसिद्धान्त, किमनुमानमपि ते प्रमाणम् ।
बुद्ध:-कः संदेहः ।
ऊर्व चाधश्च नानाविधभुवनभिदा नामरूपव्यवस्था-
मुर्ध्यामाचक्रवालाद्वनगिरिसरितामर्णवानां च तत्त्वम् ।
ज्योतिश्चक्रोपरागस्थितिगतिसदसद्भाविभोग्यानि येन
प्रत्यक्ष दर्शयेऽहं क इव विवदतामत्र हन्तानुमाने ॥ १६ ॥
अतः ।
प्रत्यक्षमनुमानं च प्रमाणं मे न संशयः ।
अस्ति स्वर्गश्च नरको धर्मोऽधर्मश्च कारणम् ॥ १७ ॥

४ अङ्कः] विद्यापरिणयनम् । ३९ परं तु परिदृश्यमानमखिलमपि क्षणक्षणविलक्षणतया क्षणिकमेव । पश्य तावत् । क्षणादूर्व न तिष्ठन्ति शरीरेन्द्रियबुद्धयः । दीपाचिरिव वर्तन्ते स्कन्धाः क्षणविलम्बिनः ॥ १८ ॥ प्रत्यक्षं जायते विश्वं जातं जातं प्रणश्यति । नष्टं नावर्तते किं तु जायते च पुनः पुनः ॥ १२ ॥ तथा च । कर्मोत्तेजितवासनाकृतजगज्जन्मप्रवाहो यथा जालान्तःप्रसृतार्कतेजसि रंजःस्तोमस्तथा भासते । धारावाहिनि वोध एव गलति ज्ञानेन सा वासना पश्चान्निविपयोऽमलश्च स भवन्नात्मापवर्गो मतः ॥ २० ॥ अत्र 'बाह्यार्थः प्रत्यक्षसिद्धः' इति वैमापिको जग्राह । 'वोधाका- रानुमेयो बाह्यार्थः' इति सौत्रान्तिकः । 'बुद्धिमात्रमर्थो न कश्चिदपि बाह्यः' इति योगाचारः। 'न बुद्धिमात्रमपि शून्यमेव तत्त्वम्' इति मा- ध्यमिकः । तदेवं चतुर्मतमेतच्छास्त्रम् । चित्तशर्मा-वयस्य, नियताध्ययनविहितानुष्ठानसंकटमन्तरेण सुग- मनिःश्रेयसमिदं सुगतमतमनादरणीयम् । वस्तुविचारः-तदपि श्रूयताम् । अनाद्यविद्यावासनाप्रपञ्चिता विप- यसंततिः । स्वरूपज्ञाने प्रतीयते । तदिदमेव संसरणं नाम । तदनु- तत्त्वज्ञानतो वासनाविगलने सति स्वरूपज्ञानस्य निर्विपयोपरागत्वमेवापवर्ग । इत्यद्वैतमेवाभिमतमस्य सुगतसिद्धान्तस्यापि । अत एवामुष्यं जगन्मिथ्या- स्वाभिप्रायः शून्यवादः । क्षणिकतावादस्तु विशेषणीभूततत्तत्क्षणानित्यत्वा- भिप्रायकः । स चायमपवर्गः । 'निष्कामकर्मानुष्ठानजन्यचित्तशुद्धिहारक उपनिषदधिगम्यः' इत्येतदाशयमविज्ञाय । शापवशेन निगमपथपरित्यागस्तु नरकाय भवति । - १. 'दिश्यमान' ख. २. 'तम' क.

४० काव्यमाला। (लोकायतिकसिद्धान्तो विवसनसिद्धान्तं पश्यति ।) विवसनसिद्धान्तः-(सहस्ततालं विहसन् ।) अहो, स्वव्याघातोपहतो- ऽयमस्योपन्यासः। प्रत्यक्षाधिकमप्रमाणमुररीकृत्यानुमानं ततो गम्यं धर्ममुरीकरोति च ततः स्वर्गादि भोगादि च । यत्सत्तत्क्षणिकं ब्रवीति च पुनर्व्याहन्यते खं वचः स्वेनैवास्य न कि जिगीपति कथं वुद्धो मतेनामुना ॥ २१ ॥ सुगत:-(साभ्यसूयम् ।) अये नग्नक्षपणकसिद्धान्त, दूरत एव तिष्ठ। स्नातः पूतः संनिधेहि स्वमतमभिधातुम् । विवसनः-- देहोऽयं मलभाण्डमस्य शुचिता का नाम तीर्थोदकै- देही निर्मल एव तिष्ठति घटस्यान्तः प्रदीपो यथा । देहो नान्तरितस्तु संसरति स स्वीयैहतः कर्मभिः प्रारब्धानुगुणं प्रपद्य च वपु ते सुखं वासुखम् ॥ २२ ॥ बुद्धः-अये, किमर्थमावरणं न क्रियते । विवसन:- जीवस्यावरणं देहो देहस्यावरणं कुतः । यदि तस्यापि कार्य स्यात्तस्यापीत्यनवस्थितिः ॥ २३ ॥ बुद्धः-अये, कथमेतादृशस्य जीवस्य मोक्षः । विवसन:-शृणु तावत् । मयूरपिच्छधारणं मलं च केशंलुञ्चनं महर्षिपूजनानि नग्नता मनस्यनीर्ण्यता । अहिंसनं क्षमा दया सदेति मोक्षसाधनैः शरीरकारि कर्म तत्सवासनं विनश्यति ॥ २४ ॥ : १. 'प्रत्यक्षाधिकं प्रमा' क-ख.

४ अङ्कः] विद्यापरिणयनम् । ४१ तथा सति । उच्चै रिमहो निरन्तरमहालोकान्तराणामुप- र्यास्ते सोक्षशिला नितान्तमहिता ज्योतिर्मयी शाश्वती । तामभ्येति झटित्यसौ तडिदिवोद्गच्छन्वपुर्वसना- तत्रायं परमात्मनाथ घटते मोक्षोऽयमहन्मतः ॥ २५ ॥ बुद्धः-अये, कुतस्तवायमध्यवसायः । विवसनः-शब्देनानुमानेन च । बुद्ध:-किमयमेव सिद्धपरमेष्ठिपदाभिधेयः परमात्मा तव मते जगत्कर्ता । विवसन:-नहि नहि । कर्मभिरेव जगन्ति जायन्ते विनश्यन्ति च । वस्तुविचार:-अस्यापि स्वप्रकाशसंविद्रूपदेहातिरिक्तात्माभ्युपगमेन सिद्धपरमेष्ठिनामकपरमात्माभ्युपगमेन च जीवपराभेदरूपमद्वैतमेवाभिमतमि- ति रमणीयमेव मतम् । परं त्वेतदभिमताहिंसासमा । दयादिपारम्यानुसं- धानतो यज्ञादिकममुष्यानभिमतमिति भ्रान्त्वा शापवशेन निगमपथपरिभ्रे- षस्तु पतनाय जायते । अतः 'स्यादस्ति' इत्यादिसप्तभङ्गीप्रतिपादनं जगदनिर्वचनीयत्वतात्पर्यकम् । देहशौचाद्यभावप्रतिपादनं चात्मनः स्वतो निर्मलत्वाभिप्रायकम् । अविद्या-(जनान्तिकम् ।) सखि विषयवासने, देवोऽयम् 'अवैदि- कानि' इति खलु मतान्यमूनि न संमन्यते । वैदिकेषु सोमसिद्धान्तादिषु वा किंचिदभिनिवेश्य यदि सगुणविद्याभिरभिरमेत, तावतापि ननु भवेदसा- कमाश्वासः । तेजस्तिमिरवदद्वैतविद्या किलात्यन्तिकविरोधिनी दृश्यते । राजा-(पुरो विलोक्य ।) क एष भस्मलेपशरदभ्रविभ्रमं बिभ्रदुग्रवपुरद्धतभ्रमः । पुण्डरीकधवलाननभ्रमच्चण्डकोकनदचारुलोचनः ॥ २६ ॥ चित्तशर्मा-अयमेव. सोमसिद्धान्तो नाम । १. आदर्शद्वयेऽपि नास्ति. ६ ४२ काव्यमाला। सोमसिद्धान्त:-(सस्मितम् ।) हन्त, प्रमाणपथातिवर्तिन एवाने केनापि केऽपि पदार्थाः प्रतायन्ते । अपि च । तदागमास्तद्विर एव वर्ततामतोऽपवर्गोऽस्य यथाकथंचन । यदैहिक सौख्यमिदं किमीर्यतामतो भृशं गर्हितमाहतं मतम् ॥ २७ ॥ (किंचिदन्तर्विमृशन् ।) अहो बत मामकमतस्य रमणीयता । ज्योत्स्नाधौतदिशा निशा परिकरैर्विश्वोत्तरं चत्वरं मद्यं हृद्यरसं मदालसवधूवत्राम्बुजामोदितम् । आस्वाद्यं तरसं घृतादिसरसं कान्ताकरान्तादिति स्वर्ग प्राप्य समग्रमत्र परतः प्राप्योऽपवर्गोऽपि यत् ॥ २८ ॥ विवसनः-(सभयोद्वैगम् । स्वगतम् ।) हन्त, कथमयमन्तक इव चिन्ता- विषयोऽपि संतापयति । (प्रकाशम् ।) अरे सोमसिद्धान्त, कस्तव मते धर्मः, कथमिव स्वर्गः, क इव चापवर्गः । सोमसिद्धान्त:-अरे, श्रूयताम् । 'प्रत्यग्रप्रहृतक्षरज्झलझलद्रक्तप्रवाहक्षणो नृत्यन्मय॑नवोपहारनिवहैर्मयैश्च संप्रीणितः । सार्वयादिसमग्रदिव्यगुणसंपत्त्या महाभैरवः सारूप्यं निजमातनोति बलभिद्योग्यं च भाग्यं दिशन् ॥२९॥ सदेहकैवल्यमिदमेव नः परमपुरुषार्थः' इति । स्वर्गस्त्वयमेव, यदत्र समभिलषितसर्वार्थसिद्धिभिरनियन्त्रिताः कामोपभोगा इति । वस्तुविचार:-अये चित्तशर्मन्, एवमेव भेदवादिनः सर्वेऽप्यस्मदी- यसगुणोपासनफलीभूतेषु तत्तदुपासनतरतमतानुगुण्येन सालोक्यसामीप्य- सारूप्यरूपेषु पदेषु रममाणास्तदेव परमममृतं मन्यन्ते । तथाहि-जीवा- णुत्वनित्यत्ववादिनो रामानुजीयाः 'चिराहुष्कर्मकर्मकवलितज्ञानानन्दस्वभा- वतया संसरन्तो जीवा दुःखानुभवनिर्विण्णा भक्त्या प्रपत्त्या वा हरिमा- राध्य तत्प्रसादेन विगलत्कर्मबन्धा भगवत्सारूप्यमधिगम्य वकीयधर्मज्ञा- नविकासेन भगवदानन्दमनुभवन्ति' इत्यभिदधते । तथैव प्रत्यक्षादित्रयप्रा- ४ अङ्कः] विद्यापरिणयनम् । ४३ माण्यजगत्सत्यत्ववादिनो माध्वा अपि 'अविद्यासंकटविघटितज्ञानानन्दख- भावास्तत्त्वतो भगवद्भिन्ना जीवाः संसरणदुःखानुभवनिविण्णाः सकलाना- यसमधिगम्यं भगवन्तं भत्त्या समाराध्य तत्प्रसादतः श्रवणमननादिविग- लदविद्यावरणतया विशुद्धस्वभावा भगवच्छरीरं भूतादिवदाविश्य नीरक्षीर- वदवस्थिताः स्वस्खाधिकारतरतमतानुगुण्येन तदीयैरेवावयवैः स्वस्खजात्यनु- गुणान्भोगान्भुञ्जते, स एव च मोक्षः' इत्याचक्षते । (सोमसिद्धान्तः किमपि किमप्यालपन्पारवश्यमभिनयति ।) राजा-(पुरोऽवलोक्य ।) अये, किमेतावदस्य वैकृतं कापालिकस्य । चित्तशर्मा-अयं किल महाभैरवपूजावसाने निपीय मद्यमतिमात्र- मुन्मस्तकितमदावेशविवशो विलुठति । सोमसिद्धान्तः-(सरभसमुत्थाय विकटताण्डवं नाटयन्परिक्रामन् ।) अहो प्रमादः प्रमादः । मदीयः किल परमपुरुषार्थः केनापि दुरात्मना चोरितः । किमितो विधातव्यम् । (पार्वतोऽवलोक्य ।) प्रत्यङ्गभासिपरिपाण्डुघनोर्ध्वपुण्ड्रः पद्माक्षजालतुलसीमणिहारकण्ठः । भाषास्तुति परिपठन्निह पाञ्चरात्र- सिद्धान्त एष शुचिवेषभृदभ्युपैति ॥ ३०॥ (सरभसमुत्सृप्य तान्त्रिकं पाणौ गृह्णन् ।) कथमरे, मदपवर्गमचूचुरस्त्वम् । तात्रिक:-(श्रवसी कर्णाभ्यां पिधाय ।) रामानुज रामानुज, किमहं चो. रयामि । श्रीवैष्णवः-सोमसिद्धान्त, यदि प्रमाणतो महाजनानुमतमेव चौर्य- मवसितम्, तर्हि किं क्रियेत तत्प्रतिश्रूयताम् । (सर्वान्प्रति i) अहो भवन्तः सर्वे साक्षिणः शृण्वन्तु । तात्रिक:-यदि तथा स्यात्तर्हि तव दासो भवेयम् । सोमसिद्धान्तः-तदिदं भवन्तो विमृशन्तु । १. 'विलोक्य' ख. २. 'मुपसृप्य' ख.

30 काव्यमाला। बौद्धादयः-अरे, कथ्यतामपवर्गस्त्वदीयः । तान्त्रिक:-(कर्णे।) एवमेव । बुद्धादयः-(श्रुत्वा विहस्य ।) अये तान्त्रिक, वञ्चितोऽसि पाषण्डका- पालिकदास्येन । यतः । सारूप्यरूपं सविशेषमेतत्सदेहकैवल्यमिदं मदीयम् । एकीभवन्त्यत्र भवन्त एव स चेत्स राजात्र कलिः प्रमाणम् ॥ ३१ ॥ (ततः प्रविशति कलिः।) कलि:- बालोऽप्ययं पटुरिति प्रतिबुध्य तत्त्व- माहूय मामकृत कैः प्रणयैरविद्या । मह्यं वराय सदृशीं कुहनां स्वकीयां दत्त्वातनिष्ट सुमहत्किल कौतुकं मे ॥ ३२ ॥ तदस्याः किमिव मया च प्रियमाचरणीयम् । (इति सकौतुकं परिक्रामति ।) सोमसिद्धान्त:-राजन्कले, विजयी भव । प्रतिपद्यतामत्र किंचि- दिव दण्डनीतिः। कलि:-तत्कि नाम । सोमसिद्धान्तः-तान्त्रिकोऽयं चोरितमदीयपुरुषार्थो मध्यस्थैरध्यव- सितप्रमोषश्च प्रतिश्रुतं तु नानुतिष्ठति । कलिः-(जनान्तिकम् ।) अये, तान्त्रिकोऽयं वैदिकः श्रूयते। तत्कथमसा- वभिभावनीयः । सोमसिद्धान्त:-~-यद्येवं मन्यसे, तर्हि श्रूयताम् -'वयं भैर- वागमानुरोधेन वेदप्रामाण्यवादिनो वेदविरुद्धमधुमांसादिनिषेवणाभिर्वेदबा- ह्यतया पाषण्डेषु गण्यामहे, तद्वदिमेऽपि पाञ्चरात्रागमानुरोधेन वेदप्रामा- ण्यवादिनो वेदविरुद्धैराचारैः पाषण्डा एव । कि च-द्विविधा इमे ता- त्रिकाः, उदीच्याः केचित् , अपाच्याः परे, इति । तत्र तावदपाच्या नाम पाषण्डाः, ते पशव एव । यतः । यथा , . ४ अङ्कः] विद्यापरिणयनम् । ४ ६ अप्राकृतानकृतकानपहाय वेदां- स्तनातिभट्यविनिवेशितनीचभाषाः । कर्म त्यजन्ति विहितं विहितेतराणि निर्माल्यपतृकमुखानि वितन्वते च ॥ ३३ ॥ हन्त बुद्धरुपरिप्लवता । आचार्यहस्तादधिगम्य चीटी निबध्य कण्ठे कुणपन्य दम्ध्वा । वैकुण्ठवीथ्यां गृहनिश्चयेन नन्दन्ति मृढाः पशवो न कि ते ॥ ३४ ॥ कलि:-(स्वगतम् ।) तदहमप्येवमेनं प्रतारयामि । (प्रकाशम् ।) अये, प्र- तिश्रुतम् । पापण्डदास्यमनुतिष्ठ । परया(?) वैकुण्ठे शमन्दभूमिपरिसरे तब निवेशनाय चीटिकामहं प्राहिणुयाम् । तान्त्रिक:-(सभयम् ।) राजन्, यदोनते भवतस्तदाचरामि । (इति श्रया बालिस्तिष्टति ।) कलि:--(पुरो विलोक्य ।) उत्तुगाद्विपकुम्भकर्कशकुचाभोगा रणन्मेखल- श्रोणीमण्डलभारमन्थरगतिः कंदर्पदपोद्धता । उन्मीलन्मदिराविकारविवशव्यालोलतारेक्षणा स्निग्धालोकनमोहिनी विलसति श्रद्धा पुरस्तामसी ॥ ३५ ॥ (विचिन्त्य ।) महाप्रभावा ह्येपा शास्त्रं किंन्विदमप्रमाणमिह किं न प्रीयते देवता सा प्रीता यदि किं कुहापि भुवने दुप्पापमेकं भवेत् । भोगानत्र वहून्प्रदाय परतः कैवल्यलक्ष्मीप्रदे सद्यःसिद्धिपदे जनः कुलपथे कस्मान्न संनह्यति ॥ ३६ ।। इत्यादिनानाविधसाधनबोधनैर्वाधनैरापामरपण्डितमखिलमपि जनमिह कु- लपथे महोत्सव इव निविडयन्ती दक्षिणपथमप्रचारेण वितथमिव कृत- वती । अयि श्रद्धे, परिगृह्यतामयं तान्त्रिकः । १. 'निविवेशित' क.

४६ काव्यमाला । श्रद्धा-तथा । (इति गाढमालिङ्गति।) तात्रिका-(सुखपारवश्यमभिनयन् ।) स्वर्गो दिवः किं गलितोऽयमुर्व्यामुयेव किं स्वर्गदशां प्रपन्ना । सत्त्वातिरेकक्षरदात्मतत्त्वं विश्वं किमानन्दमयं विधत्ते ॥ ३७ ।। इति श्रद्धापरवशो दासोऽहम् । (इति साष्टाङ्गं प्रणमति ।) राजा-स्थाने सांप्रतमस्य न्याय्यतया. दासत्वम् । अन्यथा ब्राह्मणो दास इति विप्रतिषिद्धमेवैतत् । कलि:-दिष्टयायमप्रयासतः प्रामाणिको दासलाभः । सोमसिद्धान्त:-राजन्, एवमेव लाभान्तरमपि नः संनमति । (पुरतो निर्दिश्य ।) तिर्यगतिर्यग्विदलितपरिणतपृथुकारवल्लिभद्राभिः । मुद्राभिर्जटिलतनुर्दग्धो माध्वोऽयमापतति ॥ ३८ ॥ माध्वसिद्धान्त:-अद्य खलु लवङ्गिकायां घृतशौचप्रायश्चित्ताङ्गम- भिनवतीर्थस्वामिपादैः श्रीवैष्णवसमाराधनं क्रियत इति निशम्य श्रीमुष्ण- तोऽहमागच्छामि । (अर्ध्वमवलोक्य ।) तदितो यावत्समयानतिपातमाचार्यस्खा- मिपादवन्दनमाचरणीयम् । (इति ससंभ्रम परिकामति ।) कापालिका—(कलिं प्रति ।) राजन्, य एष अंसे बिभ्रददभ्रदुर्भरभरां घोणी मधुष्ठीलव- क्षुद्रम्लेच्छमुखालसंकुलकरः प्रारब्धवायुस्तुतिः । अङ्करानिव पाप्मनामविरलानङ्गे मषीलाञ्छना- नाबिभ्रचकितो वलीमुख इवोदग्रप्लुतं हिण्डते ॥ ३९ ॥ अयं तावदुराचारैस्ततोऽपि वेदबाह्यः । कलि:-कथमिव । कापालिका उपवासदिनभ्रान्त्यामप्येष किल दुर्मतिः । न जुहोति न दत्ते वा पितृश्राद्धं च मुञ्चति ॥ ४० ॥ १-२. नपुंसकनिर्देश आदर्शद्वयेऽप्युपलभ्यते.

विद्यापरिणयनम् । ५ अङ्कः] .४७ किंच। स्नानं सांध्यविधि पोऽथ हवनं स्वाध्यायमाध्याटिके देवाभ्यर्चनमित्यमून्यविकलं कृत्यानि निर्वर्तयन् । सद्यःस्नातरजस्वलाकृतपतिश्राद्धेऽमितद्वादशी- काष्ठाभ्यन्तर एव पारणमयं कृत्वा चिरान्निर्गतः ॥ ११ ॥ कलि: हन्त, समग्रो वैदिकाचारो(?) पाषण्डस्य माध्वसिद्धान्तस्य प्रशिष्यतामपि नार्हति । अयं मूढस्तिष्ठतु वराकः । किमनेन । जीवराजः-सखे चित्तशर्मन, अमीषां मुखान्यवलोकनीयानि । त. दितो वामेतरेणैव पथा मृगयाविनोदिनो वेदारण्यमधिगच्छामः । पाषण्ड:-(अपवार्य । परस्परमुखान्यवलोक्य । सनिर्वेदम् ।) मतान्तरे बलव- दभिनिवेशितोऽयमधृष्ट्योऽस्माभिरितो यथागतमपसरामः । अविद्या-(जनान्तिकम् ।) अयि विषयवासने, दृष्टानि खलु वस्तुवि- चारदुश्चेष्टितानि पाषण्डेषु । एवमग्रेऽपि शमादिभिरुपनिपत्य यदि किल राजा यमनुरुध्येत, तर्हि सुमहत्किल संकटमापद्येत । तदितो वयमग्रत एव गत्वासूयया संनिधाप्यमानैर्मोहादिभिरस्मदीयैः शमादिप्रचारोपरो- धाय निपुणतरं किमपि संनिधातव्यम् । विषयवासना-साधु चिन्तितं भट्टिन्या । अविद्या-(प्रकाशम्।) यावदमी वयमृजुनैव पथा किंचिदग्रतो गच्छामः । (इति निष्क्रान्ताः सर्वे ।) इति चतुर्थोऽङ्कः । .. पञ्चमोऽङ्कः । (ततः प्रविशति सह परिवारैरविद्या ।) अविद्या–हन्त, तदेवमतिमहति संकटे निपत्य करणीयताविमूढा- मिह न कोऽपि मामुपसरति । १. 'ऽवगच्छामः' क.

काव्यमाला।
(नेपथ्ये।)
रतिकङ्कणपदमुद्रितरमणीयशिरोधरालिप्तैः ।
घुसृणद्रवहरिणमदैद्यमितामुख[:] मरो जयति ॥ १ ॥
अविद्या-(श्रुत्वा । सहर्षम् ।) अये, कामः संप्राप्तः ।
(ततः प्रविशति कामः ।)
काम:-
वामाङ्गे वदने च वक्षसि चिरादेणेक्षणालाञ्छना
बद्धा नाम पताकिकास्त्रिनयनब्रह्माच्युतानामपि ।
सन्त्वन्ये बत के पुनर्दिविषदो मच्छासनोल्लचिन-
स्तत्ताडग्विभवस्य मेऽत्र मनुजाः के नाम कीटा इमे ॥ २ ॥
(पुरोऽवलोक्य ।) इयमितः सपरिवारा देवी। (उपसत्य ।) विजयतां देवी ।
देवी
-इत आस्यताम् ।
कास:-(उपविश्य ।)
का चिन्ता मयि वो निषीदति जगद्वीरे दिशा जित्वरे
येनार्थः पुरुषेण वोऽभिलषितस्तं ब्रूत किंचिन्मम ।
दिक्पालं द्रुहिणं मुकुन्दमथवा साक्षान्महेशं क्षणा-
निर्जित्य प्रमदाकटाक्षविशिखैः कुर्वे भवकिकरम् ॥ ३ ॥
विषयवासना-भट्टिनि, यदि किलानेन कर्माण्यवरुद्धानि, तत्र श-
मादेरुच्छ्रसितुमपि न भवेदवकाशः ।
प्रवृत्तिः-भट्टिनि, विवेको विरागमुपनिधाय यदि किल कामानवरु-
द्धमेव कर्म कारयति, तर्हि तत्र किमप्यन्तरमधिगम्य झटिति तद्विघटने कः
समर्थों भवेत् ।
अविद्या-(विचिन्त्य ।) पुरो दृश्यताम् ।
कोपः स एष कुटिलभृकुटीकरालं
वक्रं दधद्वमदिवासृगवेक्षणेन ।
उद्दण्डदण्डधरचण्डधरार्भटी क-
मभ्येति विभ्रमविलासकथानभिज्ञः ॥ ४ ॥

५ अङ्कः]
विद्यापरिणयनम् ।
(ततः प्रविशति क्रोधः ।)
क्रोध:-
धर्मः कश्चम कामनानधिकृतस्तेनास्सदीयाः परा-
भूयेरन्ननुवेपते मम वपुर्हन्ताहमाविर्भवन् ।
इष्टापूर्ततपःशतात्तपरमोत्सेधं तु तत्संचयं
तूलस्तोममहाचलं पविरिव प्रध्वंसये दृश्यताम् ॥ ५ ॥
(उपसृत्य ।) विजयतां देवी । (इत्यभिमुखमुपविशति ।)
विषयवासना-भट्टिनि, यथा प्रायशो धर्म एव कुहापि न प्रव-
तेत, तथा विधातुं कः प्रगल्भेत ।
(देवी चिन्तां नाटयति ।)
(नेपथ्ये ।)
एहि याहि यथाकामं नाहितं तेन किंचन ।
देहि वाचमिमां नैव ब्रूहि मां प्रति जात्वपि ।। ६ ॥
पितरौ वा विपद्येतां जायतां वा सुतायुतम् ।
मिलन्तु वोपरागाश्च मिथो दद्यां न किंचन ॥ ७ ॥
देवी-(श्रुत्वा ।) ननु संप्राप्त एव तादृशो लोभः ।
(ततः प्रविशति लोभः ।)
लोभ:-
अभ्येतु घोरवपुषा धुरि राक्षसो वा
दंष्ट्राकरालवदनः खयमन्तको वा ।
चेतो बिभेति न तथा मम दुर्निवारे
दृष्टे यथाथिनि सपुस्तकदर्पपाणौ ॥ ८ ॥
(परिक्रम्य । उपसृत्य ।) विजयतां देवी । (इति पार्वतो निषीदति ।)
विषयवासना-(लोभं निर्दिश्य ।)
कणस्तृणं वा जगतां त्रयेऽपि न देयमेतस्य दृशास्ति किंचित् ।
न हर्षदृष्ट्या तु किमप्यदेयं महीं विशाला मणिपर्वतो वा ॥९॥

५०
काव्यमाला ।
,
(पुरोऽवलोक्य ।) हन्त, स्मृतमात्र एव संनिहितः । यदेष
हस्तेनानुपदं प्रियस्य सुहृदो हस्तं समास्फालय-
न्हासोत्तालसमुल्ललत्कलकलः संफुल्लवनाम्वुजः ।
दूरीकृत्य विषाददैन्यजडताचिन्तादिभावानसा-
वुत्साहेन सहात्मजेन वलते हर्षोऽतिमात्रोत्सवः ॥ १० ॥
(ततः प्रविशति हर्षः ।)
हर्ष:-
वध्यं च वारणपतेनिंदधामि कण्ठे
कुर्वे च रत्नपटलीकनकाभिषेकान् ।
न प्राणतो हि परमस्ति शरीरभाजां
तानप्यहं तृणमिव प्रतिपादयामि ॥ ११ ॥
(इति परिक्रम्य ।) विजयतां देवी । (इति लोभस्य प्रतीपमुपविशति ।)
विषयवासना-अये हर्ष, भवदनुजन्मा मदः किं न दृश्यते ।
हर्षः-(अग्रतो निर्दिशन् ।) इतो दृश्यताम् ।
आलिङ्गितोऽयमवधीरणया रमण्या
पुत्रैः प्रमादविपदस्मरणैः परीतः ।
दूरीकृतो विनयधर्मविचारगन्धैः
सोऽयं मदो जयति मन्थरदृष्टिपातः ॥ १२ ॥
(ततः प्रविशति मदः।)
मद:-
उन्मीलितालानमुदग्रसत्त्वं मदावलं भूरिमदान्धमेतम् ।
बाले समालम्ब्य बलाद्विकर्षन्निवर्ततेऽयं धुरि निःसरन्तम् ॥ १३ ॥
(इति विकट परिक्रम्य हर्षोपकण्ठे निषीदति ।)
प्रवृत्तिः-भट्टिनि, यथा ह्ययं धर्मातिक्रमादिना कीदृशमप्यसदधीनं
करोति, तथैव मानोऽपि महदविनयादिना कमपि मदधीनये देव । त-
थाह्येष
विगर्हितनमोवाको विनयादिपराङ्मुखः ।
आहो पुरुषिकाप्रेयानायान्मानो मदोच्छूितः ॥ १४ ॥

६ अङ्कः] विद्यापरिणयनम् । - (ततः प्रविशति मानः।) मान:: इष्टापूर्तसहस्त्रलब्धपरमापूर्वातिपूतात्मके विज्ञानातिशयप्रभूतविभवे विश्वकवन्चे मयि । वेष्टन्ते तिलयन्त्रनद्धवृपवत्कि कोऽपि देवालये वन्दन्ते कृकलासवच शिरसः किं न्यञ्चितोदञ्चितैः ॥ १६॥ (इति परिक्रम्य ।) विजयतां देवी । (इति क्रोधसमीपमधिवसति ।) विषयवासना-भट्टिनि, लोभमहिम्ना कर्म कुहापि प्रायशो नानु- तिष्ठेदेव । कथंचिदनुष्ठितान्यपि परातिसंधानेन विफलयतापि केनचिद्ध- वितव्यम् । प्रवृत्तिः-(पुरतो निर्दिश्य ।) सोऽपि संनिहित एव । यदेप सौवर्णलेपनधगद्धगितांशुजाल- मापादचूडमयमाभरणं दधानः । विष्टब्धमूर्तिरतिधीरगतिः प्रसन्नो मिथ्याविलासरसिको मिलतीह ड(द)म्भः ॥ १६ ॥ (ततः प्रशिशति ड(द)म्भः ।) ड(द)म्भ:- इन्द्रः कुवेर इति ये महिताः सुरास्ते बाह्याङ्क(ङ्गणं निबिडयन्ति निरन्तरं मे । एतेषु मे यदिह किंचिदुदञ्चितभ्रूः किं किं न सिध्यति जनस्य मदाश्रितस्य ॥ १७ ॥ (इति परिक्रम्य ।) विजयतां देवी । (इति सर्वेषामग्रतस्तिष्ठति ।) विषयवासना-भट्टिनि, तदेतेषां क्रियासिद्धिषु महाप्रभावो मोहः सहकारी। (ततः प्रविशति मोहः ।) (मोहो देवीं प्रणम्य तदन्तिके निषीदति ।) प्रवृत्तिः-भट्टिनि, श्रूयताम् । १. 'लोभादिमहिम्ना' ख.

५२ काव्यमाला। ये संसारपथं विचिन्त्य वितथं तत्त्वावमर्शोन्मुखाः संनह्यन्ति भृशं मनागपि शिशोराकर्णिते ऋन्दिते । हित्वा तत्त्वकथामपास्य नियमानुत्प्लुत्य धावन्ति ते मोहः सोऽयमलङ्घनीयमहिमा केनैष जय्यो भवेत् ॥ १८ ॥ विषयवासना-तदेवमपारवलविभवसारेषु निजपरिवारेषु किमसारवि- षयिणीभिराशङ्काभिरात्मानमाकुलयसि । अविद्या-भोः कामादयः, श्रूयन्ताम् । निजकुलसमापतितविकटसं- कटविघटनाय हितकार्यघटनाय चायमवसरः । अतो मया किंचिदभिधीयते । तदवहितैरेव भवद्भिराचरितव्यम् । कामादयः-यदाज्ञापयति देवी । अविद्या-सहजसिद्धविरुद्धस्वभावशमदमादिकृतदुर्बोधनेन मयि विर- सीकृतात्मा देवश्चित्तशर्मणा साकमत्र परिसरे निमिषमात्र एव संनि- दधीत । ततः पूर्वमेव शिवतद्भक्तिप्रभावैर्युष्माभिरप्रमादमेव. निजनिजपरि- वारैः सममयमुद्देशः सर्वोऽपि यथा शमदमादीनामीषदुच्छ्सितुमपि नाव- काशः, तथा निबिडयितव्यः । [कामादयः-प्राप्तावसरमेव पराक्रमयिष्यामस्तावत् , यदादिशति भट्टिनी । (इति कामादयो निष्क्रामन्ति ।) (ततः प्रविशति चित्तशर्मणा सह जीवराजः ।) राजा-(पुरोऽवलोक्य ।) कथमत्रैव सपरिवारा देवी । (सर्वाः ससंभ्रममुत्तिष्ठन्ति ।) प्रवृत्तिः-देव, कियचिरमभूदस्माकमिहागतानाम् । राजा-चित्तशर्मन् , इतोऽपि कियदन्तरे वेदारण्यभागः । चित्तशर्मा-ननु प्रविष्ट एव । यदिदानी स्फायन्ते पृषदाज्यगन्धिन इमे वाताः क्वचित्कुत्रचि- त्सर्पिष्मचरुशंसिनः क्वचिदपि स्निग्धा वपामोदिनः । १. 'आसंसारपथं' क.

५ अङ्कः] विद्यापरिणयनम् । ५३ एते चानुपदं पयोदपटलीसौहित्यनाडिंधमा धूमा व्योमपथं तरन्ति मखभुक्संचारनिःश्रेणिकाः ॥ १९ ॥ अपि चात्र प्रक्रीडच्छुकसारिकादिपटलीशश्वत्समाश्रावित- प्रत्याश्रावितमुह्यत्विगपथप्रक्रान्तिसंदेहतः । एते जाग्रति साग्रहाः सुमतयः सभ्याः समं यज्वभि- वैदुष्यप्रथनाय वागवसरौचित्यप्रतीक्षाकृतः ॥ २० ॥ यावदिह प्रविश्य चक्षुषी विनोदयामः । (इति सर्वे तथा कुर्वन्ति ।) राजा-(समन्तादवलोक्य । सानन्दम् ।) विहितेष्टयो मतिमतां पर्वसु काम्यक्रिया एताः । प्रमदा इव खलु रमयन्त्यक्षय्याः पूर्वसंपदुल्लसिताः ॥ २१ ॥ अपि च। विहरति विस्मयनीया कुहचन सौत्रामणीलक्ष्मीः । संपूर्णसोममुख्यस्फीतरसाश्च क्रियाः क्वचिद्भान्ति ॥ २२ ॥ (विमृश्य ) कमलोल्लासिपदानां कमनीयविचित्रभूरिभोग्यानाम् । आसां कामपरिस्फुरदमृतं मुखमातनोति सुखम् ॥ २३ ॥ विषयवासना-(जनान्तिकम् ।) सखि प्रवृत्ते, काम्यक्रियाणामासां निर्वर्णनेन तत्फलप्रशंसया च कामाविष्ट इव दृश्यते देवः । प्रवृत्तिः-ननु महाप्रभावः कामः । चित्तशर्मा-(स्वगतम् ।) हन्त प्रमादः। दुरात्मना कामेनाभिभूयमानः सव्याजमन्यतोऽवकर्षणीयो देवः । (प्रकाशम् ।) पदान्तर एव परिणतफला- गममिमं प्रदेशमासाद्य विश्रमसुखमनुभूयतां देवेन । राजा-तथा। (इति किंचिदन्यतो गत्वा परतो निर्दिश्य ।) शस्त्रस्तोत्रमयीगिरः श्रुतिपुटीसौहित्यनाडिंधमा वैतानानिह पावकान्कृतझरीकिंजल्किताग्रानपि । 1) ६४ काव्यमाला । - अङ्गान्युत्पुलकानि मे विदधतः पूतांश्च त्रातानिमा- न्हातुं न प्रभवामि पावनहविर्गन्धानुबन्धानपि ॥ २४ ॥ अविद्या-सखि विषयवासने, लब्धापरित्यागाभिलाषस्वभावेन लो- भेनापि वशीकृत इव देवः । यदयमिमान्विषयान्न परित्यक्तुमुत्सहते । चित्तशर्मा-(स्वगतम् ।) आः किमिह लब्धप्रसरो लोभहतकोऽपि । भवतु । निवारयाम्येनमितोऽपि गुणवद्विषयान्तरप्रदर्शनेन । (प्रकाशम् ।) वयस्य, किंचिदत्र परभागे दीयतां दृष्टिः । राजा-(विलोक्य । साश्चर्यम् ।) तडिजटिलिता दिशस्तरणिकोटिभिर्भास्यते नभःस्थलमुपस्थितैरनुपमैश्च तौर्यत्रिकैः । मनोऽपि च विनोद्यते मधुसुधाझरीमाधुरी- निरन्तरधुरंधरैर्निखिलदुर्लभैः सौरभैः ॥ २५ ॥ वयस्य, किमेतद्विमृश्यताम् । (चित्तशर्मा संकल्पं पश्यति ।) संकल्प:-(विचार्य ।) देव, काम्योपासनाः संघीभूय भवदनुजिघृक्षया संनिदधते । (ततः प्रविशन्ति काम्योपासनाः ।) काम्योपासना:-विजयतां देवः । राजा- बृहस्पतिर्मे स कियान्वचःक्रमे दिवस्पतिर्वा विभवेषु मे कियान् । इमा दुरापास्तपसापि भूयसा यदाविरासन्ननुपाध्युपासनाः ॥ २६ ॥ (इति स्तब्धोरस्तटमविनीतस्तिष्ठति ।) चित्तशर्मा-(स्वगतम् ।) विनीतोऽयं विभुर्हन्त वितनोति विकत्थनाम् । महतामपि दुष्टात्मा मानो हि दुरांतक्रमः ॥ २७ ॥ (प्रकाशम् ।) वयस्य, सविनयादरमिमा महोपासना यथोचितमहणीयाः । राजा-तथा । (इति सभयं परावृत्य सप्रश्रयादरमभ्युद्गमं नाटयन्यथोचितं सं- भावयति ।) .

९ अङ्कः] विद्यापरिणयनम् । ५५ संकल्प:--(पुरतो निर्दिश्य ।) इप्टाइलक्षितरतिक्रमशोभितैपा 'शृङ्गारिणी विजयते धुरि वामदेव्या । आयुः सुदीर्वमभिनन्धगुणान्कुमारा- न्हृयां च कीर्तिमियमातनुते हि विद्या ॥ २८ ॥ चित्तशर्मा-उपपवत एव । क्रत्वङ्गभूतहिंकारप्रस्तावोगीथप्रतिहारनि- धनेषु योपिदुपमन्त्रणसहशयनाद्यभेदप्रतिपत्तिरूपेयमङ्गाववद्धोपासना बहु- फलो कल्पलतेव कस्य वा मनो न हरति । (राजा सरोमाञ्चविकसितकपोलं चित्तशर्मणो हस्तमास्फालयति ।) विषयवासना-किमिहापूर्वार्थसंदर्शनजनितचित्तविस्तारात्मको ह- ोऽपि । दिल्या दिष्ट्या । चित्तशर्मा-(स्वगतम् ।) हन्त, हर्पण महताविष्टो वयस्यः । यदि किलैतत्प्रतिनियतवृत्तिरत्र मदोऽपि संनिदधीत, ततोऽति हि नाम संकटमा- पद्येत । तदिममन्यतोमुखयितुमेवं ब्रवीमि । (प्रकाशम् ।) वयस्य, पार्श्वतो दीयतां दृष्टिः । (राजाश्रुतिमभिनयन्गजमीलनानि करोति ।) विषयवासना-पुष्कलोऽयमस्मिन्मदावेशः। चित्तशर्मा-(आत्मगतम् ।) आः प्रमादः प्रमादः । कथमेनमितोऽह- मभिमतमुद्देशं गमयेयम् । (संकल्पमवलोक्य संकेतयते ।) संकल्प:-देव, महदत्र किंचिदक्षिसौभाग्यम् । राजा--किमिव । संकल्प:--- रचितरुचिरशोभा ऋग्यजुःसामपुष्पै- द्रुतनिगमरसौघप्रस्फुरदिव्यरूपा । सदमृतवसुरुद्रादित्यसाम्राज्यदात्री विलसति मधुविद्या वीतदोषा तदेषा ॥ २९ ॥ १. '३।३।२' वेदान्ताधिकरणे व्याख्याता. २. 'मसन्मदा' ख.

काव्यमाला। चित्तशर्मा-(स्मरणमभिनीय ।)श्रूयते हि-दिव्यमधुमूर्तरादित्यस्यान्त- राम्नायरसरूपममृतमग्न्यादिमुखेन वस्वादयो देवा दृष्ट्वैवाभिनन्दन्ति तदेव रूपं प्रतिपद्यन्ते, तत एव चोद्यन्ति, यस्तावदेतदमृतमेवं वेद स वस्वाद्यन्य- तमो भूत्वा तत्साम्राज्यमविनाशित्वमपि पर्येति । राजा-(स्वरूपमहिमफलान्यनुसंधानसौवर्गसुखचिन्तां नाटयन् ।) नेदीयःसुरदीर्घिकातिशिशिरे कल्पद्रुपुष्पोत्करैः स्फारामोदिनि मारुते विवलति प्रासादशृङ्गोदरे । पुंभावालसभव्यदिव्यमहिलाबिम्बाधरास्वादने तत्तादृक्सुखवैखरी शिव शिव प्राप्येत वै जात्वपि ॥ ३० ॥ (इति मुह्यति ।) विषयवासना-भट्टिनि, मधुविद्यायां भजति व्यामोहमेष नो देवः । अविद्या-केनैष लङ्घनीयप्रसरः समये महामोहः । चित्तशर्मा-(स्वगतम् ।) हन्त, नितान्तमभिभूयते वयस्यो मोहेन । (प्रकाशम् ।) देव वुध्यस्व बुध्यस्व । धीरः खल्वसि । (राजा प्रतिबुध्यते ।) चित्तशर्मा- स्मृतिमात्रतोऽपि यस्याः कमपि विकारं प्रपद्यते देही । आसादिता यदि हि सा मदयति कं वाविवेकिनं नैषा ॥ ३१ ॥ राजा-(श्रुत्वा । सप्रत्यभिज्ञम् ।) नैषा विवेकायभिमता विद्या । अत एव किल अविवेकिनमेषा मदयति' इति चित्तशर्मणा सव्याजमभिहितम् । (प्रकाशम् । पुरतो विलोक्य ।) संकल्प, कैषा महाभागा । चित्तशर्मा-(स्वगतम् ।) हन्त, विवेकादिस्मृतिमात्र एव प्रकृतिमा- सादितो वयस्यः । संकल्प:-- कमपि हृदि दधाना कान्तरूपं महान्तं तदुपरि निदधाना भावभेदानशेषान् । १. 'प्रतिपद्यते' क-ख.

९ अङ्कः] विद्यापरिणयनम् । ६७ इयमपहतपाप्मा सत्यसंकल्पकामा जयति देहरविद्या सद्गुणैः श्लाघनीया ॥ ३२ ॥ राजा-(स्वगतं सगौरवं सादरं च ।) पदमात्रान्तरैव खल्वियमात्मविद्या- याः, यदपहतपाप्मत्वादिकतिपयगुणारोप एव विशेषः । चित्तशर्मा--(जनान्तिकम् ।) वयस्य, तदस्या दहरविद्यायाः पदान्तर एव तत्रभवत्या शिवभक्त्या निरतिशयनिजप्रभावेण भवदभिलपितपरमान- न्दकन्दली विद्यापि भवदक्षिपथैकगोचरतयानुप्रवेशिता स्यात् । तत्र साव- धानं दीयतां दृष्टिः । यतो महामोहादयस्तदपवारणाय संनह्यन्ति । राजा-(निभृतं निरूप्य । विद्यामुपलभ्य । स्वगतम् ।) हन्त, सैवेयं नयना- नन्दचन्द्रिका । (जनान्तिकम् ।) वयस्य, किं ब्रवीमि । पुरा किल एषा चित्रगता मनो हृतवती सौन्दर्यसारोद्भवै- रानन्दैरतिमोहिनी किल दशामातन्वती कामपि । स्यादेतत्करशिल्पमुच्छ्रितमिदं चित्रं किलेल्यास्थितं तत्तस्याः करशिल्पमल्पितवती सैषातिहृयाकृतिः ॥ ३३ ॥ (चक्षुषी निमील्य । संमोहं नाटयन् । प्रकाशम् ।) अङ्गेनैव किमचिरादिभिरहं नीतोऽस्मि धातुः पदं किं वा मत्सुकृतैरसावियमिमौ लोकौ विपर्यासितौ । हन्तैतन्मुखचन्द्रमःप्रतिगुणादुत्कूलितेयं व्यथा- दात्मानन्दसुधासमुद्रलहरी विश्वं किमेकार्णवम् ॥ ३४ ॥ अपि च । सुषुप्तिा चित्साक्षिकहृदयविश्रान्तिलसिता मदो वा मोहो वा घनसुखमयः कोऽप्यभिनवः । निसन्धानो बाह्यं करणपटलं निहुतजग- प्रकारः कोऽप्यन्तः प्रसरति विकारो मनसि मे ॥ ३५ ॥ (इति स्तम्भ नाटयति ।) १. १।३।५ वेदान्ताधिकरणे व्याख्याता. २. 'यतो मोहा' क. ४. 'प्यभिनयः' ख. ३. ब्रह्मणः, ६८ काव्यमाला विषयवासना-(जनान्तिकम् ।) भट्टिनि, दिट्या फलितस्ते' ननु म- नोरथः । यदयमासामुपासनानां प्रभावविलसितैरतिमात्रपर्युत्सुकितः प्रमोद- भरविकसितवदनारविन्दश्चिरेण परवानास्ते । पश्य तावत् । प्रावृषि नीपद्रुम इव परितः स्तबकैरुदनकुमलितैः । अझैरविरलपुलकैराविष्कृतसत्त्वविक्रियैर्लसति ॥ ३६ ॥ अविद्या-अपि विषयवासने, देवस्य विकारोऽयमुपासनासक्तिनि- बन्धन इति मनो मम न प्रत्येति । यदिह मद्विषयकप्रणयगौरवगन्धोऽपि नोपलभ्यते । विषयवासना-किमन्यदित्याह कारणं संभाव्यते । राजा-(सोन्मादम् ।) मधुलहरीनयनपथे मम मिलिता कापि विद्येति । दृष्ट्वाभिनन्दिता सा तन्मयमास्ते जगत्समस्तमिदम् ॥ ३७ ॥ अविद्या-विषयवासने, श्रुतं खलु देवस्य । विद्यानुरागसंमोहपल्ल- वितमेतत् । विषयवासना-फलितमिव ते संदेहेन । भवतु । भूयोऽपि विमृ. शामः। चित्तशर्मा-(स्वगतम् ।) हन्त, प्रमादः प्रमादः। तदिदमस्य विद्या- रतिपारवश्यविजृम्भितं वयस्यस्य । जल्पितमेवमन्यथयामि । (प्रकाशम् ।) देवि, दिष्ट्या बलवदुपासनासक्तहृदयो देवः । अतः किल 'मधुलहरी, ह- ष्ट्वाभिनन्दिता इत्यादि मधुविद्यास्वरूपगन्धिनी वागस्य प्रसृता । विषयवासना-भट्टिनि, विमर्शविषय एवायमस्य विकारः । अविद्या-कामं विमृश्यताम् । मम तु न संदेहः । विद्यानुरागोन्मा- दविजृम्भितमेवैतत् । हन्त, बहिःप्रवृत्त्युपलम्भाय प्रहिता किमद्याप्यसूया चिरयति । १. 'स्ते मनो' क.

५ अङ्कः] विद्यापरिणयनम् । ५६ (ततः प्रविशत्यसूया ।) (असूया राजानं प्रणम्य देव्याः समीपे निपीदति ।) देवी-(अपवार्य ।) अये असूये, काम्योपासनादर्शनप्रकरणे किमपि पयुत्सुकितः स्तब्ध इव दृश्यते देवः । तत्किमत्र कारणं भवेत् । असूया-देवि, तदिदमेव वक्तुकामागतासि । प्रवृत्तिः-कथमिव । असूया--'तत्रभवती शिवभक्तिरेताम्वेवोपासनासु विद्यामपि राजमा- श्यामनुप्रवेशितवती' इति ततस्ततः संचरन्त्या मया श्रुतमभृत् । प्रवृत्तिः-युज्यते हि तादृशीपु तादृशो महान्प्रभावः । अविद्या-(स्त्रगतम् ।) हन्त, किमिदमापतितम् । अभिमतसिद्धये य- तमानायास्तत्प्रतीपमुपनमितं देवेन । तदितोऽपकृप्य विषयान्तरप्रदर्शनेन देवो विनोदयितव्यः । (प्रकाशम् ।) महाराज, स्थिरप्रणयेन भवता निकामम- भिनन्दितास्मि । किमतः परं मम प्रियमस्ति । चित्तशर्मा—(जनान्तिकम् ।) हन्त, तदुक्तिरेव तदनर्थनिदर्शनतया प्र- वृत्ता । भवतु । एवमेव । अविद्या-तदग्रतो गच्छामि । सुचिरमिह परिभ्रमणपरिश्रान्तमात्मा- नमवस्थापयितुं न पारयामि । (राजानं चिरं निर्वर्ण्य ।) मामेवं विविधोपभोगललितामुत्सृज्य किं लप्स्यते भूयः प्रागिव सा दशा परिणमेदात्मावशेपीकृता । वैच्यन्ते करणान्यमूनि तु परं किं तत्र पश्यन्मुखं साकूतस्मितकेलिलोलनयनं विम्बाधरं पास्यसि ॥ ३८ ॥ किं च । न वाग्न रूपं न रसो न गन्धो न स्पर्शनं वा सुखहेतुररित । भवानहो के गुणमाकलय्य विद्येति संमुह्यति वा न जाने ॥ ३९ ॥ (इति सकोपा सपरिवारा गन्तुमिच्छति ।) राजा-(सभ्रूभङ्गम् ।) किमये चित्तशर्मन्, विद्यामधुकृतं ममोन्माद. मियदतिभूमि गतसुपेक्षितवानसि । अतः किलैवमकाण्डे दुर्मनायते देवी । १. आदर्शद्वयेऽपि नोपलभ्यते. २. 'पच्यन्ते' ख.

६० काव्यमाला। चित्तशर्मा-यदर्थोऽयमारम्भः । अथवा । मोहस्य किल संवेगः केनापि न निवार्यते । कोऽनुरुन्धीत वा वेगं नीचप्रवणपाथसाम् ॥ ४० ॥ राजा-(स्वगतम् । सम्यगनुशासितोऽस्मि कामादिप्रवणोऽहं 'नीचप्रवण' इति वयस्यस्य संबोधनेन । अविद्या-अलमलममीभिरसारोपचारैः । (इति सकोपं सपरिवारा नि- क्रामति ।) उपासना-हन्त, बलवता विषयान्तरेण विफलीकृतो नः संरम्भः । (इति समन्दाक्षं तिरोधत्ते ।) (सहैव ताभिंविद्यापि ।) राजा-सखे चित्तशर्मन्, भवतु । यथाकथंचिदखिलमपि समये कथ- मपि समाधीयते । दुर्लभं तु लब्धमेव । तदितः परमविलम्बितमेव कार्य- सिद्धौ व्यापर्तव्यमस्माभिः । (इति निष्क्रान्ताः सर्वे ।) इति पञ्चमोऽङ्कः। षष्ठोऽङ्कः । (ततः प्रविशति चित्तशर्मा ।) चित्तशर्मा-अद्य खलु दहरोपासनादिभिः सह विद्यादर्शनप्रभृति- निकाममस्वस्थहृदयो महाराजः । तथा हि । विश्लेषव्यथया चिरेण हृदयानुस्यूतया कर्शितो निश्वासेन घनोष्मणा मलिनयन्नोष्ठं निसर्गारुणम् । प्रम्लायन्मुखपङ्कजो न भजते निर्वेशलेशं मना- गन्तः कोटरलग्नपावक इव श्रीखण्डशाखी चिरात् ॥ १ ॥ एवमेव महाराजदर्शनप्रभृति सा विद्यापि नितान्तदुःसहेन विरहसंतापेन परिभूयत इति बहुधा श्रूयते । तथा हि । नैदाघोष्मनिमीलदुत्पलदलच्छायामुषी चक्षुषी ज्योत्स्नाहीनशरत्सुधाकरसखं वीतप्रसादं मुखम् ।

६ अङ्कः] विद्यापरिणयनम् । ६१ ६ उद्भूतप्रसवेव लोधलतिका धत्ते तनुः पाण्डता- मङ्गैरेवमनङ्गतन्त्रललितैरास्ते विनिद्रा चिरम् ॥ २ ॥ अपि च । आलीभिः किल शायिता मरकतस्निग्धे नलिन्या दले पाथोविन्दुरिव प्रकामतरला वालाधिकं म्लायति । सिक्ताश्चन्दनविन्दवश्चुरुचुरायन्ते स्तनाभोगयो- मुक्ता भान्ति च सुभ्रवः स्तवकयोः सत्ता मिलिन्दा इव ॥३॥ अतो न विलम्बसहा दशेयमस्या इति करुणया मैत्रीमुखादभिधाय प्रेपितम् । तदनयोरितरेतरप्ररोचनविपये यत्नो न विधेय एव । परं त्वसूया- भिहितवृत्तान्तश्रवणप्रभृति नितान्तपरिकुपिता तावदविद्या कथमिव समा- धेया स्यात् । (विचिन्त्य ।) हन्त, लव्धोऽयमुपायः । तदेवं समाधास्ये । (अप्रतोऽवलोक्य ।) कथमसूया । (ततः प्रविशत्यसूया ।) असूया-प्रेपितासि देव्याहमविद्यया चित्तशर्माणमभिधातुम् । तमहं व पश्यामि । (पुरतोऽवलोक्य ।) दिष्ट्या सोऽयमित एवाभिवर्तते चित्तशर्मा । यावदेनमुपसमि । (उपस्टत्य ।) आर्य, देवी समाज्ञापयति- 'वयस्य, तदेवं देवो मयि विमुखतां प्रतिपद्यमानो विमतासक्त एव ननु शाट्यमव- लम्बते । भवतापि न खलु कश्चिदिहोपायश्चिन्त्यते' इति । चित्तशर्मा-अये, मद्वचनादुच्यतां देवी । असूया-किमिति । चित्तशर्मा-प्रकृतिकोपनायास्तव निकामकार्कश्येन · वैरस्यमुपलभ्य निविण्णः स्वयमपि राजा 'बृहदारण्यपरिसरे कुत्रापि शिवक्षेत्रादिषु ता- पसैः सह चिरं निवत्स्यामि' इति चिन्तयन्नास्ते । त्वं पुनरेवं मामुपालभसे । किमहं करोमि । भवतु । क्रियतामेवम् । 'त्वया कंचित्कालं सह परिवारेण कोपागारमनुप्रविश्य स्थीयताम् । राजैव यदि प्रसादनाय कदाचिदागच्छे- त्तदापि सरलतया झटिति प्रसादो न करणीयः । तदुपरि सकलमहमेव समीकरिष्यामि' इति ।

६२ काव्यमाला । असूया-यदाज्ञापयत्यार्यः । (इति निष्क्रान्ता ।) चित्तशर्मा-यावदहमपि विजने शृङ्गारवने मदनपर्याकुलस्य सव- यसो महाराजस्य परिसरवर्ती भवामि । (इति निष्क्रान्तः ।) प्रवेशकः। (ततः प्रविशति क्रोधागारं सपरिवारा देवी ।) देवी-सखि विषयवासने, कियदनुसृतोऽपि देवो मयि विरसहृदय एव । तथा हि। यातं तत्प्रणयानुबन्धि गरिमस्फीतं मयि प्रेक्षणं पृष्टं चेत्प्रतिवक्ति किंचन परासक्तं विकर्षन्मनः । अभ्याशागतमुत्तमर्णमिव मामभ्यागतामीक्षते चेतः कृन्तति नीरसानुलपनैर्बाह्योपचारैरपि ॥ ४ ॥ प्रत्युत 'तापसाधिष्ठितेष्वरण्येषु तपश्चरामि'. इति वदति । किमत्र कर्तव्यम् । विषयवासना-देवि, मा भैषीः । यतश्चित्तशर्मायमस्माकमनु- कूलस्तिष्ठति । देवी-(विचिन्त्य ।) 'तेषु तेषु सिद्धक्षेत्रेषु तपश्चरणाय गते राजनि परा शिवभक्तिरुपेत्य कदाचित्तया सह संघट्टनाय यत्नं . करिष्यति' इति चिन्तातरलितं मम हृदयम् । विषयवासना-सखि, तत्रापि किंचित्प्रतिविधानमध्यवसितमस्ति । देवी-कथमिव । विषयवासना- भवदनभिमताया देवि तस्यास्तु भक्तेः- रनभिमतविधाना तामसी राजसी च । प्रचरति शिवभक्तिस्ते ममाप्यन्तरङ्गे झटिति विघटयिष्ये तन्मुखात्तत्प्रयत्नम् ॥ ५ ॥ १. 'विशस' क.

. ६ अङ्कः] विद्यापरिणयनम् । ६३ तदेनयोः समुत्साहनाय समये राजसंमुखीकरणाय च सद्य एव वि- सृज्यतामसूया। देवी-सम्यगुचितमेव चिन्तितम् । असूये, सपदि वेदारण्यमधिगम्य तत्र विनयेन तामसराजसशिवभक्त्योः सविधमुपसृत्य मद्वचनाहहि- 'यदि खलु तत्र जीवराजः समागच्छति तमभिमुखीकृत्य भवद्विधेयेपु का- म्यक्रियोपासनादिप्वेव संनहनीयः' इति । असूया-यदादिशति भट्टिनी । (इति निष्कामति ।) देवी-विषयवासने, तदितः परमानुकूल्यमुपागत एव महाराजः । (ततः प्रविशति चित्तशर्मणा सह राजा.) राजा-सखे चित्तशर्मन्, अपि नाम मया प्रसादितापि देवी मामवधीर्य कोपागार एव निवसेत् । चित्तशर्मा-कः संदेहः। दुष्परिहरतया तथातिभूमि गमितो हि मया तदीयकोपः । यथा स्वामिकार्यमनन्तरायमेव संपद्येत । राजा-भवतु । यावदेनामुपसामि । (उपसर्पति ।) (देवी राजानमवलोक्य मुखं परावर्त्य तिष्ठति ।) राजा- विसृज सुतनु मौनं विस्मरेदं व्यलीक प्रणयिषु ननु कोपः पद्मपत्रोदविन्दुः । अधर इव किमेतद्रागमभ्येति चक्षु- र्गमय हृदयमेनं गाहमाना सुखानि ॥ ६ ॥ देवी-सखि विषयवासने, किमेतैरायासैत्रजतु स यथेष्टं मम किल स्वभावोऽयं कीहक्प्रणयपदभूतेऽपि विषये। मनाग्दृष्टे शाठ्ये मधुनि विषसंपृक्त इव मे क्षणध्वस्तप्रेम प्रसरति पुनर्जातु न मनः ॥ ७ ॥ , १, 'परावृत्य' क.

४ काव्यमाला। राजा-हन्त, कियदनुनीतापि प्रेयसी न प्रकृतिमापद्यते । (देवी तमनालोकयन्त्येव सभ्रुकुटि चित्तशर्माणं पश्यति ।) चित्तशर्मा-(साकूतम् ।) देवि, प्रसीद प्रसीद। भवदधीन एव राजा। ननु चिराय निर्विद्यते। राजा-हन्त, कियदनुसृतापि नितान्तविमुखी मामवधीरयत्येव । तद- हमितःपरमरण्येषु कुहचिदाश्रमेषु तापसैः सह निवृत्त्युन्मुख एव तपश्चरे- यम् । (इति सकोपाटोपं परावृत्य गच्छति ।) (चित्तशर्मा देवीं संज्ञाप्य राजानमनुसरति ।) देवी-अयि प्रवृत्ते, वयमपि तदनालक्षिता एव राजानमनुसरामः । प्रवृत्ति:--उचितमाह देवी । राजा कः कोऽत्र भोः। (प्रविश्य ।) दौवारिक:-अयमस्मि । राजा-संकल्प, वेदारण्यमार्गमादेशय । संकल्प:-इत इतो देव । (सर्वे वेदारण्यगमनं नाटयन्ति ।) राजा-(जनान्तिकम् ।) सत्यं नैव सुखं कदाचिदनया जायेत न प्रत्युत प्रत्यूहः प्रकृतस्य सांप्रतमसावुच्चैस्तरश्रेयसः । त्यक्तव्या महती रुजेव बहुना यत्नेन दैवादसा- वस्मानुत्सृजति स्वयं यदि ननु ध्वस्तानि दुःखानि नः ॥ ८ ॥ चित्तशर्मा-वयस्य, तदेतत्प्रकरणं च भवदाश्रयं च विज्ञानतयैव मया कृतमेवंसंविधानम् । राजा-सखे चित्तशर्मन्, अयि नाम हृदयानन्दचन्द्रिकप्रियतम. मयात्र समधिगम्येत । १. 'देवः क-ख, موه ६ अङ्कः] विद्यापरिणयनम् । चित्तशर्मा-कः संदेहः । अघटितघटनापटीयसि · भवदभ्युदयैकताने मयि तव सचिवे जाग्रति किमिव नाधिगम्येत । शृणु तावत् । संदिश्ये यदि वत्सलेन भवता कार्यपु केप्वप्यह कुर्यामेव हि मन्दरस्य शिखया मेरोः शिखाग्रन्थनम् । तैलं पाणितले निघृप्य सिकता निप्यन्दयेयं क्षणा- कान्तासंघटनं मिथः सरसतासंपादनं मे कियत् ॥ ९ ॥ राजा-सखे, त्वयि सर्वमुपपद्यत एव । (स्मरणमभिनीय ।) निजोपनमद्दयासरलया भक्त्या किमप्यद्भुतं कन्यारत्नमदर्शि तत्तडिदिवाकाशे विलिप्ये पुनः । किं नु स्वप्नविशेप एप मनसः कश्चिद्विकारोऽथवा तत्त्वं तस्य न वेद्मि तत्परिणये पुष्णाति तृष्णां मनः ॥ १० ॥ अपि च । चित्रेणापहृतं तदाकृतिमता चित्तं ममाधै सखे भूयः सा मम भाग्यतो नयनयोः पन्थानमासादिता । निःशेपं तदपाहरद्विधुमुखी सर्वैः सहैवेन्द्रियैः प्राणा एव लुठन्ति केवलमिमे गात्रेपु मे संदिताः ॥ ११ ॥ सखे चित्तशर्मन्, अपि नाम तदेनामधिकृत्य समवकणिता कापि वार्ता । चित्तशर्मा-अथ किम् । राजा-वयस्य, कथय कथय । चित्तशर्मा-अद्य किल तत्रभवत्या प्रहिता मुदिता मामुपेत्य तद्वच- नादभिहितवती । यथा किल-'अये चित्तशर्मन् , जीवराजस्य विद्याभि- लापजनितविरहसंतापातिशयः सत्सङ्गेन यथावदिहाभिमतः । श्रुत एव । खलु भवता मैत्रीमुखेन जीवराजविरहखेदपरिभवो विद्याया अपि । तदेव- मुभयानुरागे परां कोटिमधिरोहति कार्यस्य विलम्बनमनुचितमेव । अतः कथमपि जीवराजो वेदारण्यपरभागमचिरेणैव प्रापणीयः । अहमपि तदाग- मनसमनन्तरमेव कार्यस्य सिद्धये कृतसंधाना भवामि । अन्यदपि किंचि- 1 काव्यमाला। दिह कार्यमावश्यकमभिधीयते । तदवहितेन श्रोतव्यम्-अत्र तावदस्मद- नभिमताचारे तामसी राजसी च शिवभक्ती निकाममोजायेते ! तयोस्ताव- देवं हृदयम्-'आवयोरिह जाग्रत्योरविद्याया नियोगमतिवर्तेत को नाम, स तावत्र यदि विधिविहितान्यनुरुन्धीत तर्हि . कामनामनुप्रवेश्य तमवि- द्याविधेयं कुर्वहे, यदि खलु नानुरुन्धीत तर्हि तत्प्रत्यवाय एव तमभिहत्य मोहादिवशे कुर्यात्, ईश्वरोऽपि किमत्र कुर्वीत' इति । अतः नह्येतामिह ते नृपं सुखरुचीरुत्पाद्य पर्यायतः कर्मोपासनजालकेऽतिगहने नैतत्पराणुद्यताम् । देवस्यैव हि शासनानि विधयो नामाविलङ्घया हि ते भत्त्योः किं तु तयोर्मनागभिमतावाप्तिन संपाद्यताम् ॥ १२ ॥ तदर्थमेवं करोतु वयस्यः । यथा- विलासेष्वासक्तिं विदधदपि तद्भोगविमुखो निरुद्धः कामिन्या निपुणरसिकः श्रोत्रिय इव । भजत्वत्रासंक्ति फलमनभिसंधाय चरितै- रिदं यावद्विद्याधिगममुपदेशोऽस्य भवतु ॥ १३ ॥ अतो यावदहं निवृत्त्या सममीश्वरस्य दौवारिकमष्टाङ्गयोगं प्रहिणोमि । तावदिह वेदारण्यपूर्वभाग एव महेश्वरशासनरूपा विधयो यथायोगमनुरो- द्धव्याः' इति । राजा हन्त, कियदनुकम्पते निरुपाधिवत्सला भगवती शिवभक्ति- रस्सासु । (पुरोवऽलोक्य ।) हन्त, दयिताविषयकसंकथनरसाभिनिवेशवशादन- वगतविप्रकर्षोऽयमस्माभिरधिगत एव वेदारण्यभागः। यदत्र शिक्षाकल्पादि- नामानो विचित्रगहनरमणीयास्तदेकदेशभेदा दृश्यन्ते । (स्वगतम् ।) उपप- नमेवैतत् । सकुतुकमभितो विलोकयन् । अत्र किल नादब्रह्मविनोदिनी विजयते गान्धर्वविद्येति 'या या विद्या विजयश्रियो जननभूश्चापेषुसंवन्धिनी । १. अत्र त्रुटिचिह्न काकपदं कृत्वा यदनतस्तापसगणोऽयमालक्ष्यते। चित्तशर्मा- अथ किम् । राजा-(सविनयम् ।) अये, विमृश्यतां क इम इति ।' ख.

६७ ६ अङ्कः] विद्यापरिणयनम् । जीवानन्दनिदानपारदगुणप्रख्यापयित्री च या । विद्याशेषतया विभाति सकलं भक्तिप्रभावान्मम ॥ १४ ॥ चित्तशर्मा-किं बहुना । वैषयिकपरिपोषणैकनिरतो वात्स्यायनतन्त्र- सिद्धान्तोऽपि तदीयपरिणतिवैरस्योपनमदतिजुगुप्साहितनिर्वेदातिशयफलि- तपरमार्थसुखस्वरूपजिज्ञासामुखेन विद्याशेपतयैवाध्यवसीयते । राजा-(पुरोऽवलोक्य । गाढोद्धजटासनीडनिबिडव्यानद्धनीडोदर- क्रीडन्नीडजकाकलीकलकलाटोपैरविक्षेपिणः । देवे क्वापि निविष्टतुष्टमनसः शिष्टा इमे तापसाः संघीभूय समापतन्ति क इमे धर्मा विशुद्धा इव ॥ १५ ॥ अये विमृश्यताम् --'इमे के' इति । संकल्पः-देव, संनिहितमिह भवन्तमवकर्ण्य पुण्याभिराशीभिर्योजक यितुकामा वेदारण्यवासिनस्तापसाः संप्राप्ताः । चित्तशर्मा-(किंचिदिव राजानमुपसृत्य । जनान्तिकम् ।) वयस्य, · मुख्या- धिकारतया साधनचतुष्टयत्वेनाभिमता विवेकादयो मोहादिभिरनभूततया भवदुपनयनाय भगवत्या तापसवेषेण प्रहिताः । राजा---(सपरितोषम् ।) वयस्य, तर्हि वयमभ्यु(प्यु)पगच्छामः । (इत्युपग- च्छति।) (ततः प्रविशन्ति विवेकादयस्तापसाः ।) तापसा:-आदिष्टा वयमत्रभवत्या शिवभत्त्या-'जीवराजमधिगम्य विद्यापरिणयेऽधिकारनिर्वहणाय तददृष्टपूर्वोऽयमस्माभिरिह कथं विधेयीकर- णीयः । अथवा तदीयनर्मसचिवश्चित्तशर्मा परिचितपूर्वः, स एव सर्वमपि नः संविदधीत । (राजा सविनयादरमुपसत्य सप्रश्रयाञ्जलिश्चित्तशर्मणा सहानमति ।) तापसाः-राजन् , महत्तरेण श्रेयसा युज्यस्व । चित्तशर्मा-(पुरतो निर्दिश्य ।)

-- ६८ काव्यमाला। विद्युत्ताण्डवडम्बरं जगदिदं मृत्योर्मुखान्तर्गतं सत्यज्ञानसुखैकरूपममलं ब्रह्मैव तच्छाश्वतम् । तत्प्राप्ता वयमभ्युपाय इति च प्रज्ञानसंशीलना- दन्तस्तोषविकासिवनकमलः सोऽयं विवेकः सुधीः ॥ १६ ॥ अस्य नामनि स्मृतेऽपि मोहो न प्रभवत्येव । (पुरतो निर्दिश्य ।) अयं विरागः परिशुद्धमूर्तिरलक्षितब्रह्मपुरंदरादिः । तदस्य दृष्ट्या न कुतोऽपि किंचित्कणात्कणीयान्कनकाचलोऽपि ॥१७॥ किंच। मज्जत्वर्णवमेलनेन जगती कान्तारशैलोत्करै- युट्यशश्यतु चान्तरिक्षमभितो नक्षत्रचन्द्रग्रहैः । कल्पान्तज्वलनः प्रसृत्य सकलं साटोपमालेद् वा तत्त्वामर्शविनोदिनोऽस्य तु दृशा लोमापि नो मीयते ॥ १८ ॥ तदेतस्य संनिधाने कामः परासुरेव । (इतरतो निर्दिश्य ।) ताविमावप्राकृतसुखप्रापणकृतप्रातिभव्यौ । अपरिमितसुकृतपरिपाकभूतौ शमदमौ ॥ १९ ॥ अपथविधाविनो विषयरूपनिपातकृतो बहिरबहिश्चरेन्द्रियकरालतुरङ्गगणान् । दृढमवयम्य सद्गुणशतेन पदं परमं गमयितुमीश्वरः शमदमप्रतिमो न परः ॥ २० ॥ राजा-(स्वगतम्) एतेन-बहिरिन्द्रियनिग्रहः शमोऽयम्, अन्तरि- न्द्रियनिग्रहो दमोऽयम्' इत्यभिहितं भवति । चित्तशर्मा-वयस्य, तदेतैरविम्लिष्टतयैव गम्यतामिष्टलाभाय । त्वय्यमीभिवृते दृष्टे संयमीन्द्रैर्वनाद्वनम् । नीयमानः स्वकार्याय सर्यते रघुनन्दनः ॥ २१ ॥ अविद्या-विषयवासने, क एते राजानमभितः परिवार्य गच्छन्ति । विषयवासना-परिसरवर्तिनो योगक्षेमार्थमुपागताः केऽपि ता- पसाः स्युः। -- ६ अङ्कः] विद्यापरिणयनम् । राजा-(पुरतो निर्दिश्य ।) किमिदमकाण्ड एव विद्युत्युञ्जपिञ्जरित- मिव संप्रकाशं नमो दृश्यते । संकल्प:-देवे, भवद्भ्युदयाय सकलमन्त्रतन्त्रपटली नाविधक्रतुवि- ततीरुपासनाश्च संनिधाप्य तामसी च शिवभक्तिरितोमुखतया भवदुपगमं प्रतीक्षते । (राजा ससंभ्रमादरमभिगमनं नाटयति ।) (ततः प्रविशतः शिवभक्ती ।) शिवभक्ती-यथाकथंचिदावाभ्यामैहिकामुप्मिकाभ्युदयविशेषेपु नि- काममवकृप्य जीवराजोऽयमविद्याविधेयीकरणीयः । (राजा सप्रश्रयमुपसृत्य प्रणमति ।) भक्ती-वत्स, सकलकल्याणभाजनं भूयाः । राजा-भगवत्यौ, मदुद्देशादिहोपगमनस्य प्रयोजनमवगन्तुमिच्छामि । भक्ती-वत्स, भवदभिनन्दनमन्तरेण न किंचिदिह नौ साधनी- यमस्ति । राजा-सदृशमेव खलु तद्भवादृशीनां महानुभावानाम् । (पुरतो नि- दिश्य ।) भगवत्यौ, किमेतदतिवहलकदलनसितशिखज्वालजालजटालानि का- न्यपि महोमण्डलानि दृश्यन्ते । तामसी-भुवनहिताय बभूवुः पशुपतिविष्ण्वादयः, खयं यान्येतानि संनिदधते पाशुपतादीनि तानि तेऽस्त्राणि । राजसी-वत्स, सप्रश्रयेणोपसदनेन परिगृह्यता(न्ता)मिमानि दिव्या- स्त्राणि । एतानि स्मृतप्रत्युपस्थितानि समयेषु भवतः श्रेयो महद्वि- धास्यन्ति । राजा-तथा । (इति चरणग्रहणं नाटयति ।) असूया-भट्टिनि, राजानः खल्वपूर्वशस्त्रास्त्रप्रिया भवन्तीति पाशु- पतादिदिव्यास्त्रप्रतिपादनेन शिवभक्तिभ्यामात्मनितीकृतो देवः । , " १. 'यान्ति । एतानि क.

काव्यमाला॥ राजा---(सपरितोषम्।) भगवत्यौ, परमनुगृहीतोऽस्मि । निःशङ्कमभिम- तेषु विधेयेष्वनुयुज्यतामयं जनः । तामसी-राजन् , इतः परिसर एव । (पुरतो निर्दिश्य ।) नन्त्रोऽयं शरभेश्वरो विजयते सर्वार्थचिन्तामणि- विख्यातो बगलामुखीमनुरसावल्यश्रमैः सिध्यति । यस्यानुग्रहमीहसे तदमुना धन्यः स सर्वो भवे- सन्त्येवं मनुकोटयोऽत्र निरतः श्रेयोऽखिलं प्राप्नुहि ॥ २२ ॥ अथवा। श्येनेनाभिचरन्यजस्व स यथा श्येनो निपत्य क्षणा- दादत्ते भुवि कुक्कुटादिपृथुकानेवं द्विषो दुर्जयान् । आदत्ते स किलाध्वरोऽतिरभसादने तवाकण्टकं साम्राज्यं भविता तवोत्तरमितः किं नाम भाग्यं परम् ॥ २३ ॥ राजसी-(सासूयम् । जनान्तिकम् ।) किमेभिरिन्द्रजालैरिवातिफल्गुख- भावैरतिचिरसाध्यैरीषदपचारेऽपि चित्तविभ्रमकारिभिः । इत आगम्यताम् । (इतिं राजानमन्यतोऽवकर्षति ।) राजा-(स्वगतम् ।) अहो प्रकृतिगुणदोषादनयोरप्यसूया । राजसी-वत्स, दृश्यतामग्रेऽपि । पाशुपतं गाणपतं सौरं शाक्तं पा- ञ्चरात्रमिति पञ्च मतानि जयन्ति ह्येतानि स्कान्दषष्ठानि । तदेतेषु श्रेयः पशुपतिमतं तत्र नियतो यदि त्वं दीक्षेथास्तदुपरि दुरापं न किमपि । स दत्ते सारूप्यं शतमखमुखामर्त्यमुकुटी- मणिस्तोमज्योतिर्धगधगनजिल्कितपदम् ॥ २४ ॥ अथवा । मेरुमन्दरादय इव वाजपेयराजसूयपौण्डरीकादयो । महाकतव इतः सहस्रशो दृश्यन्ते । तदेतेषु येषुकेषुचिदभिलाषितमभिसंधाय पशु- पतिराराधनीयः ।

-- ६ अङ्कः] विद्यापरिणयनम् । प्रसीदन्तेन प्रतिभवति देवस्तव फले पशुक्षेत्रापत्यादि च गुणफलत्वेन भवति । त्रिलोकीसाम्राज्यं त्रिचतुरदिनैः संभवति चे- दमुष्यानुष्ठाने वत कथमभिज्ञो न रमताम् ॥ २५ ॥ यदि तावदमीषु वहुचित्तव्ययायाससाध्यतया मनसो न प्रवृत्तिः, तर्हि तिष्ठतु । परतो दृश्यताम् । इमाः किल शङ्खपद्मादिनिधिदेवता इव पञ्चा- ग्निविद्येति वैश्वानरविद्येति पर्यङ्कविद्येति च बहुधा महोपासनाः सहस्र- मितो दृश्यन्ते । एतासु या काचन कल्पवल्ली भावालवाले भवतो निधेया । न भारलेशो न च दूरयानं फलन्त्यभीष्टानि भवन्मतानि ॥ २६ ॥ चित्तशर्मा--भगवति, का नाम सा महोपासना यत्र किल संक- ल्पत एव सर्वकामार्थसिद्धिः श्रूयते । राजसी-सा किल सर्वोत्तमा । (इति तदन्तिकमुपनीय राजानमियमसा- विति दहरविद्यां दर्शयति ।) राजा-(सहर्पम् । आत्मगतम् ।) दिष्ट्याहमद्य वेदारण्यपरभागसविध- मुपगतोऽस्मि । (प्रकाशम् । सावहित्थम् ।) भगवति, निरुपधिवत्सलया भवत्या निकाममनुगृहीतोऽहम् । एतेषु येषुकेषुचित्कर्मसु यासुकासुचिदुपास- नासु च विरचिताभिनिवेशो यथामति यथोपपत्ति च शिवमाराधयामि । (इति विधिष्वभिनिवेशं दर्शयति ।) प्रवृत्तिः सखि विषयवासने, दिश्या फलित इव देव्या मनोरथः । यदेष काम्यक्रियोपासनास्वभिनिविष्टश्चिरेण मदनुरोधी दृश्यते । विषयवासना-विमर्शनीयम्, अधुनापि मम संदेह एव । अविद्या-मम तु न संदेहः । यथापुरमस्मासु विमुख एव । कुतोऽपि दाक्षिण्यादाभिमुख्यमभिमुख्यमभिनयति । परधायमसासु कथमेतावदुदा- सीत । धिक्प्रदग्धमेतन्मम जीवितम् । गते तादृक्प्रेमण्ययमहमिति द्वैतरहिते चरत्यग्रे कस्सिन्नपि जन इव प्रेयसि निजे । , ७२ काव्यमाला । शनैर्माने म्लाने गतगरिमणि प्राणधरणा- त्परो नैव स्त्रीणां हृदयदहनः क्रूरदहनः ॥ २७ ॥ राजा-(सविषादम् ।) सखे चित्तशर्मन्, अतिचिरेण सूत्रनर्तितप्रति- मोपममनपेक्षितव्यापारैरात्मानमायासयामि । चित्तशर्मा-(स्वगतम् ।) अयमस्य विद्याभिरतिरसाभिनिवेशपरिणामः। (प्रकाशम् ।) वयस्य, कुत एवम् । राजा-सखे, श्रूयताम् । किमेभिर्व्यापारैर्बुवमिह फलं किं न्विति मना- विमर्शप्रस्तावे मम हि विफलं भाति सकलम् । किं बहुना। कियत्कालानेवं लुठनमिति भक्त्या निगदितो नियोगोऽपि व्यर्थश्रम इव हि निर्वेदयति माम् ॥ २८ ॥ चित्तशर्मा-हन्त, भगवत्याः प्रसादों सांप्रतमुदपद्यत । निवृत्तिहेतु- विषयविद्वेषजनितो वयस्यस्य निर्वेदः । अयमेवावसरो योगपरिचयस्यापि । (ततः प्रविशति निवृत्तिरष्टाङ्गयोगश्च ।) निवृत्तिः-ततस्ततः । योगः-तदनु भगवत्या शिवभक्त्या तदेवमभिहितम्-'अद्य खलु जीवराजमतिचिरेण विविधकर्मोपासनासु परिक्लिष्टं चित्तशर्मणा सह वेदार- ण्यपरभागमानेष्यति निवृत्तिः । तदत्र विरुद्धापरशुद्धवृत्तिनिरोधाय तत्प्रति- हारभूमिमधिगम्यताम् । अन्यच्च तस्य जीवराजस्य स्वप्ने साम्बदक्षिणामू- तिरचिराध्यक्षणीयः' इति । निवृत्तिः-अहमपि 'प्रत्यक्षनष्ठुर्यकलहादिकमन्तरेण तापसानां स्वा- श्रमपददर्शनप्रार्थनापदेशेन जीवराजः प्रवेशनीयः' इति तयैव प्रहितास्मि । (उभौ राजानमुपगच्छतः ।) निवृत्तिः-(राजानं प्रति ।) वत्स, निरन्तरायमितो भवदानयनाय भ. गवत्यायमष्टाङ्गयोगोऽपि प्रहितः। १. 'जनै' क.

६ अङ्कः] विद्यापरिणयनम् । योगः-विजयतां देवः । राजा-किमयमेव स महात्मा योगः । (प्रणमति ।) निवृत्तिः-(योगं निर्दिश्य ।) निरुध्य प्राणादीन्नियमितपरिस्पन्दवशिता- नतो बद्ध्वा गाढं करणपटलद्वारनिकरम् । शतच्छिद्रात्कुम्भादुदकमिव विष्वक्परिगल- न्मनो रुद्ध्वात्मानं गमयितुमसावेव निपुणः ॥ २९ ॥ अविद्या-अयि विषयवासने, ननु प्रागेव मयाभिहितम्-'प्रतीप एवायम्' इति । संप्रति परतो जिगमिषुरिव निवृत्त्या सह किमपि मन्त्र- यते । किमत्र करणीयम् । विषयवासना-समये साहसमवलम्ब्य पश्यामः । (निवृत्तिविवेकादीनां कर्णे 'एवमेवम्' इति कथयति ।) तापसाः-(सशिरःकम्पम् ।) महाराज, तदितः पदान्तरं एवास्माकमा- श्रमपदम् । तदवलोकनेन वयमनुग्रहीतव्याः। (इति राजानं हस्ते गृहीत्वा पर- भागं प्रवेशयन्ति ।) (विषयवासना चित्तशर्माणमवलव्य सहैव प्रविविक्षति ।) योगः-(दण्डमुद्यम्य ।) धिक्त्वां पिशाचि । (इति गलहस्तिकया निवर्तयति।) चित्तशर्मा-कियदत्र संविहितं भगवत्या । तथाहि । निवृत्तेरने का प्रभवतु तयामी च घटिता विवेकाद्या भक्त्या तदुपरि स योगोऽपि घटितः । प्रमादाशङ्का न प्रसजति कणीयस्यपि यथा तथा संनयन्तः परिणतिषु मुह्यन्ति न बुधाः ॥ ३० ॥ वयस्य, दिष्ट्या योगप्रभावेण व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रा- न्तिदर्शनालब्धभूमित्वानवस्थितत्वादिभिर्विक्षेपैर्दुःखदौर्मनस्यादिभिस्तत्सह- जाभिर्वृत्तिभिश्चोत्सृष्टतया सुनिर्मलमात्मानं पश्यामि । दिष्टयायमस्माकमे- तदनुग्रहलाभः । अस्य तावन्महात्मनोऽवयवभूता यमनियमासनप्राणाया- मप्रत्याहारधारणाध्यानसमाधय इत्यष्टाविमे महाभागाः। अत्र-अहिंस' ७४ काव्यमाला। सत्यमस्तेयं ब्रह्मचर्यं परिग्रह इति पञ्चैते यमा नाम । शौचसंतोषतपः- खाध्यायेश्वरप्रणिधानानीत्येते तु पञ्च नियमाः। तदेतेषामेकैकस्य प्रभावो गिरामभूमिः । दिङ्मात्रमुदाहियते । श्रूयताम्-यत्रायमहिंसा नाम यमः प्रतिवसति, तत्र तनुभृतामन्योन्यवैरगन्धोऽपि न प्रसरति । दृश्यतामत्रेद- माश्चर्यम् । गोवत्सान्पिबतो निजस्तनमियं व्यालेढि शार्दूलिका वहीं बर्हसमीरणैः सुखयते वाताशिनः पोतकान् । गृह्णन्तो जरदग्धतापसगणं पाणाविमे वानरा- स्तोयाधारगतागतेषु सुखयन्त्यव्याजमैत्रीभृतः ॥ ३१ ॥ राजा-(स्वगतम् ।) अतः किल भगवान्पतञ्जलिरसूत्रयत्-'अहिंसायां (साप्रतिष्ठाया तत्संनिधौ) वैरत्यागः' (साधनपादे उपसूत्रम् ) इत्यादि । चित्तशर्मा-अथ सत्याभिधेयोऽयं द्वितीयो यमनुगृह्णाति, तेन यद्य- थाभिधीयते तत्तथैव भवति । अत एव किल सर्वेषां च मनुष्याणामर्थं वागनुवर्तते । यमिनां तु कृतार्थानां वाचमर्थोऽनुवर्तते ॥ ३२ ॥ राजा-ततः किल ते शापानुग्रहयोः प्रभवन्ति । चित्तशर्मा-तदेवमप्रमेयापरिमितप्रभावोऽयं योगः । (योगं प्रति ।) आर्य, भवदनुग्रहेण निरन्तरायमभिमतसिद्धिमभिलपति महाराजः । योगः-सखे चित्तशर्मन् , अपरिमितशक्तेः शिवभक्तेरनुग्रहभाजनस्य किमस्य परिहीयते। तदेतैः शमदमादिभिः स्वसमारब्धकार्यनिर्वाहजागरूका- मत्रभवतीं शिवभक्ति प्रतिपद्य तया निवर्त्यमानामिष्टसिद्धिमधिगच्छतु महाराजः । चित्तशर्मा-यदाज्ञापयत्यार्यः। (इति सर्वैः सह भक्ति प्रति गमनं नाटयति ।) अविद्या-(पुरो विलोक्य । सातङ्कम् ।) अयि विषयवासने, किमेतदाप- तितम् । यदयमवधूय नः परागत एव वेदारण्यपरभागम् । देव, किमितः करोमि मन्दभाग्या ।

७ अङ्कः] विद्यापरिणयनम् । विषयवासना-(सधैर्यावष्टम्भम् ।) देवि, मा भैषीः । नन्विमे जगज्ज- यिनः कामादयः सांप्रतमसुनियंपेक्षमेव पराक्रमाय संनयन्ति । तदेतैः सममहमेव तानवस्कन्ध परावर्तयामि । (इति साटोपं कामादिभिः सह नि- कामति ।) (नेपथ्ये कलकलः।) विवेकादयः-(श्रुत्वा । सामर्षम् ।) देव, कामादयोऽस्मदीयेषु किमप्यो- जायन्त इव, तत्किमिति विमृश्य परावर्तेमहि । (इति निष्क्रामन्ति ।) राजा-(पुरो विलोक्य ।) हन्त समरसंनाहसमुद्बोधितसंस्कारेण मया स्मृतमात्राण्येव तानि दिव्यास्त्राणि संनिदधते । (सप्रश्रयं प्रणम्य ।) भवत्संनि- धानमहिम्ना विवेकादितत्तत्प्रतिभटैरेव तत्तदरिनिवर्हणानि क्रियन्ते । तद- नुगृह्यतामन्तर्धानेन । ('तथा' इति दिव्यास्त्राणि तिरोदधते ।) निवृत्तिः-यावदहमप्येतेषामायोधनवृत्तान्तमप्युपलभ्य सर्वमिदमावे- दयितुं भगवत्याः प्रकाशं गच्छामि । (इति तैः सह निष्कामति ।) राजा-(पुरो विलोक्य ।) प्रासादेषु रतात्यये मृगशः शाटीति संमोहय- विष्वक्शाखिशिखासु लोध्रकुतुकादिन्दिन्दिरान्धावयन् । उन्मीलन्नुड्डराज एष किरणैरेभिः सुधासान्द्रितै- समानन्दयते महीध्रशिखरे कैलासमध्यक्षयन् ॥ ३३ ॥ योग:-(स्वंगतम् ।) अचिरादेव तदपि संपत्स्यते । (प्रकाशम् ।) राज- न्, अविरतपरितप्तसकलजीवमण्डलविश्रमसुखविधायिनी परिणमति भगवतीयं रजनी । तदिह नेदीयसी शमादीनामाश्रमपदे संविश्य तामतिवाहयामः । राजा-तथा। (इति निष्क्रान्ताः सर्वे ।) इति षष्ठोऽङ्कः । सप्तमोऽङ्कः। (ततः प्रविशति निवृत्तिर्विविदिषा च ।) विविदिषा-ततस्ततः ।

काव्यमाला । निवृत्तिः-तदनु कामादिभिः स्मृतमात्र एव गर्वोन्मादप्रहर्षा इति कति कति वा कामदूताः समेता नैपुण्याक्षान्तितैक्ष्ण्यादय इति शतधा निःसृताः क्रोधयोधाः । कार्पण्यातृसिदैन्यादय इति कति वा निर्गता लोभवाः किंचैते मोहदूताः कति बत मिलिताः स्तम्भतर्कभ्रमाद्याः ॥ १ ॥ हन्त, विवेकादिभिरपि तत्तत्प्रतिभटतया निजनिजपरिवाराः संनिधापिता एव । अतएव दिशि विदिशि प्रसर्पति बले परितस्तुमुले बहलदुरन्तसंतमससंततिदन्तुरिते । बलपदरेणुभिर्घनघनाघनमेदुरितै- बत हरिदन्तरं सकलमेव निरन्तरितम् ॥ २ ॥ अपि च । पूर्वपश्चिमसमुद्रयोरिव सरभससमरसाहसविनिद्रयोर्मोहविवे- कसैन्ययोरन्योन्यसंकलनतः प्रस्तुत एवाभिमर्दः । तथाहि । शस्त्रास्त्रपरुषे मोहसैन्ये सति समागते । चिन्मुद्रयाभ्यपद्यन्त जेतुकामाः शमादयः ॥ ३ ॥ विविदिषा-(श्रुत्व सहर्षम् । स्वगतम् ।) जयस्तु कस्य पक्षमवलम्बते वा द्रष्टव्यम् । (प्रकाशम् ।) ततस्ततः । निवृत्तिः-तदनु पश्यन्नने विवेकं तरणिमिव तमः कापि दुद्राव मोहः कामः क्षामो विरागाद्रुतमभजत वा कां दिशं कांदिशीकः । क्रोधः प्रध्वस्तयोधः शमसविधगतः सद्य एव प्रलिल्ये शेषा तूलाविशेषा कथमरिपृतनोपद्रुता विद्रुता वा ॥ ४ ॥ विविदिषा-(सपरितोषम् ।) तदनन्तरमविद्या किमाचारा । निवृत्तिः-सा तावदसूयाभिहितनिजबलपरिभवजनितदुःखसंवेगमो- हिता तयैव साश्वासमित्थमभिहिता-भट्टिनि, तदेवंविधे महति संकटे ७ अ] विद्यापरिणयनम् । भवतीमन्तरेण का प्रगल्भत । तदिह भवत्यैव व्याप्रियनाम् । भवदुपगम- मात्रेण यथापुरमेव सकलं परावर्तते । तदनु सा (दान निशस्य ।) कोधागारमनुप्रविश्य दयितं व्याधूय पादानतं संमत्यापि च तत्प्रतिश्रुततपःकान्तारयात्रामपि । भूयस्तस्य कथं वनानि पुरतः मिद्धिलथात्वेऽपि का किं कुर्यामिह चित्तशर्मवनसी बिमम्मनो वश्चिताः ॥ ५ ॥ इति सविपाद परावृत्त्य गन्तुमच्छत् । अथ प्रवृत्तिलामभिहितवती- 'भट्टिनि, मन्युसंवेगजनितदुरध्यवसायः पुरुषमेनमपहाय छ, गमिष्यमि । यत्र कापि तमन्तरेण खयमेव कि प्रभविष्यानि इति मन्यसे । किन परभागगताः' इति किमनाकामते विप्रकृष्टाः पदान्तर एन निछन्ति । अत- स्तदग्रहाणेनैव तदाचरितानि निरूपयिष्याम इति गया पुरं व्यवहिता एवं तिष्ठन्ति । त्वं पुनरिह छ समागता । विविदिपा-अहं किन्द्र संदिष्टालि भगवना योगेन-वत्से विवि- दिपे, तत्रभवतीं शिवभक्तिमुपेत्य मन्मुग्वेन वृद्धि- 'भवन्नियोगमनुसंधता मया कामपि निद्रामुपकल्प्य तत्र साक्षात्कारितसाम्बदक्षिणामूर्तिजींव- राजः प्रमोदातिशयतरलितो भवत्पादकमलमवलोकथितुमतिमात्रमुत्कण्ठते । तदयमविलम्बितमेव भवदनुग्रहमाननीकरणीयः' इति । निवृत्तिः-(श्रुत्वा । सपरितोयम् ।) यावदिममर्थ भगवत्याः कर्णगोच- रीकृत्य तामत्र सपदि संनिधापयावः । (इति नितान्ते ।) प्रवेशकः । ततः प्रविशति चित्तशर्मणा विवेकादिभियोगन च सह ययानिदिष्टो जीवराजः ।) जीवराजः मन्दस्सितस्नपितमञ्जमुखारविन्द वामाङ्कसङ्गिवनितामुखलोलनेत्रम् । चिन्मुद्रिकाविधुतचित्तमलान्धकार ज्योतिर्मनो वत न जातु जहाति तन्मे ॥ ६ ॥ १. 'तिष्ठन्तीति' ख.

काव्यमाला। अपि च । सा दृष्टिः सदया स च स्मितसुधाहृयः प्रसादो मुखे तच्चोदारगभीरधीरमधुरं वीरासनाध्यासनम् । चिन्मुद्रापि च सा. चिरंतनतमःसंदोहविध्वंसिनी सर्व हन्त पुरःपुरो दिशि दिशि प्रत्यक्षमालक्ष्यते ॥ ७ ॥ (पुरो विलोक्य ।) हन्त, विभातप्राया रजनी । यदिदानीम् आयान्त्या दिवसंश्रियेह भगवद्भक्त्येव विध्वंसिते विश्वमोहतमःप्ररोहनिकरे पुष्यत्प्रसादोत्तरम् । आविर्भावयितुं जगत्प्रसवितुर्कोतिर्वरेण्यं पुर- श्चित्ते शुद्धिरिवाविरस्ति कृतिनः प्राच्यां दिशि श्वेतिमा ॥ ८ ॥ (परतो विलोक्य ।) अहो खलु सार्वत्रिकता विषयानुबन्धस्य । मामन्विष्य समागमिष्यति वपुः स्पर्श्वत्यथ प्रेमतः संलापैरपि तोषयिष्यति ततो भुक्तावशेषं विसम् । मद्वक्रादुररीकरिष्यति वधूरित्थं सदा चिन्तय प्रागागत्य विहारपुष्करसरः कोकोऽयमास्तेऽधुना ॥ ९ ॥ सखे, भवदीयसंविधानसुदृढप्रवहणेन निस्तीर्ण इवायमविद्यासंकटविषयसागरः। चित्तशर्मा-वयस्य, ननु निस्तीर्य विश्रमसुखमप्यनुभूयते । कि- मुच्यते—'निस्तीर्ण इव' इति । राजा-सखे चित्तशर्मन्, अपि नाम निष्प्रत्यूहमेव तामत्रभवती विद्यामुपलभेय । (नेपथ्ये ।) इयमहमागतास्मि । राजा—(श्रुत्वा । सहर्षम् ।) सखे, प्रसन्नमधुरगम्भीरवृत्तिः 'इयमहमाग- तास्मि' इत्युपश्रुता वाचोयुक्तिः कर्णविवरमाप्याययति । (पुनर्नैपथ्ये ।) वत्से निवृत्ते, कियच्चिरं विलम्बसे । सत्वरमुपगम्यताम् । अपि च सत्यमागतोऽत्र चित्तशर्मणा सह राजा । १. 'प्रसादोन्मुखे' क-ख. २. 'द्भक्त्यैव' क. ३. 'अपि सत्य' ख.

७ अङ्कः] विद्यापरिणयनम् । ७९ निवृत्तिः-नन्वत्र संनिहित एवायम् । यावदेनमुपसरामः । (ततः प्रविशति निवृत्त्या सह शिवभक्तिः ।) शिवभक्तिः-वत्से निवृत्ते, अपीदानी सफलस्ते परिश्रमः। अपि दिष्ट्यायमविद्यादुर्ग्रहान्मोचितो महाराजः । अपि हतसंकल्पास्ते मोहादयः। अपि सफलमोजायितं शमादीनाम् । अपि नियूंढप्रतिज्ञश्चित्तशर्मा । यद- यमिममुद्देशमनुप्रापितश्चित्तशर्मणा महाराजः । निवृत्ति:-अम्ब, भवदनुग्रहः किमिव हि श्रेयो न समग्रयिष्यति । राजा -(सत्वरमुपसृत्य ।) भवविषसागरतरणे तरणे तेरणे तमोविमोहस्य । भगवति भावुकमूर्ते शतकृत्वस्ते नमोऽस्तु शिवभक्ते ॥ १० ॥ (इति चित्तशर्मणा सह साष्टाङ्ग प्रणमति ।) शिवभक्तिः-वत्सौ, अविलम्बितमेवाभिमतेन युज्येथाम् । चित्तशर्मा-भगवति, भवदीयनिर्देशेन कथं कथमप्यमुं देशमानीतो महाराजः । अनन्तरकरणीये तत्रभवती प्रमाणम् । परंतु विद्याविरहका- तरः क्षणमपि विलम्ब न सहते देवः । शिवभक्तिः-वत्से विरक्ते, मद्वचनादुपनिषद्देवीमुपेत्य ब्रूहि---'अत्र किल कुलमहत्तराखं त्वमेकिका परावरज्ञा सर्वस्य जनस्य विधेयार्थसंद- शिनी दृष्टिरिव सर्वकार्येषु प्रभवसि । भवदसंनिधानेन सर्वैरितिकर्तव्यता- मूढैः स्थीयते । तदविलम्बितमेव विवाहनेपथ्यविधिना प्रसाधितामत्र भग- वती विद्यामानीय पुण्डरीकभवने संनिधापय' इति । विरक्ति:-यदाज्ञापयति भगवती । (इति निष्कामति ।) शिवभक्तिः-वत्स, किमतीव संभ्रान्त इव दृश्यसे । राजा-भगवति, तत्कि ब्रवीमि । हर्षातिशयगद्गदया वाचा निग- दितुं न पारयामि । भवन्नियोगेन किंचिदिव विश्रान्तिसुखमनुभवन्नवशो- पपन्नया विरचितसकलबाह्यकरणमुद्रया योगनिद्रया परिगृहीतोऽस्मि । तत्र किल दिव्यमङ्गलसूचकं कमपि स्वप्नमालोकयम् । १. नौकारूपे. २. भास्कररूपे. ३. 'निद्रया' ख.

>
काव्यमाला।
शिवभक्तिः-वत्स, कथमिव ।
राजा-
वर्षानिशीथे गहनान्धकारे वनं किमप्युद्भटदुष्टसत्त्वम् ।
कुतोऽपि हेतोरवशात्प्रपन्नो दीनां दशां कामपि निर्विशामि ॥ ११ ॥
तथासति ।
विघटितसकलक्लेशं विपरीतविभाविताखिलावस्थम् ।
आनन्दकन्दलनमिव किमपि महोमण्डलं ममाविरभूत् ॥ १२ ॥ .
तदनु दुःस्वप्नतः प्रबुद्धोऽहमिति निकाममभिनन्दता सावधानप्रणिहितदृष्टिना
मया तस्मिन्महोमण्डले निभृतं निरूप्यमाणे
श्यामामुत्पलशोभिनीमगसुतामङ्के दधानं मुदा
पुस्तं चामृतकुम्भमक्षसरमप्याविभ्रतं पाणिभिः ।
अद्राक्ष भसितावदातवपुर्ष रुद्राक्षमालापुष
चिन्मुद्राविशदीकृतात्मविभवं स्मेराननेन्दुं शिवम् ॥ १३ ॥
तदनु--
जय जगदेकनाथ जय सर्वसुराधिपते
जय निगमान्ततत्त्व जय सत्यसुखाम्बुनिधे ।
जय निरुपाधिवत्सल जयाश्रितकल्पतरो
जय जगदार्तिभञ्जन जयेश दयाजलतिधे ॥ १४ ॥
जय करुणानुषङ्गवदपाङ्गतरङ्ग कणा-
धिगततथाप्रभावबलजिन्मुखदेवतते ।
जय जलजासनादिविबुधवजमौलिमणि-
प्रकरमयूखकर्बुरितपादसरोजरुचे ॥ १५ ॥
दुर्वारोपनमद्भवार्तिदवथुप्रध्वंसिमन्दस्मित-
ज्योत्स्नाचारुमुखारविन्दपरमानन्दैकसान्द्राकृते ।
सानन्दानुसनन्दनादिशमवत्संघातचूडातटी-
हस्ताम्भोरुहकोरकीकृतिशरत्पर्वेन्दुबिम्बायित ॥ १६ ॥

७ अङ्कः] विद्यापरिणयनम् । संसारार्णवकर्णधार सकलक्लेशान्धकारच्छिटा- चण्डांशो सकलेप्सितार्थघटनासंतानचिन्तामणे । सत्यज्ञाननिधे सकृत्प्रणमते सायुज्यलक्ष्मीप्रद स्वामिन्दैवतसार्वभौम दयया मां पाहि साम्ब प्रभो ॥ १७ ॥ इति नितान्तमानन्दपरवशो भगवन्तमहमस्ताविषम् । तदनन्तरं च शि- रसा निपीड्य चरणाम्बुजे गुरोरसकृत्प्रणम्य मयि किंचिदुत्थिते, उपहूय मामुपगतस्य दक्षिणे श्रवणे किमप्यकथयद्दयानिधिः । शिवभक्तिः (श्रुत्वा सपरितोपम् । स्वगतम् ।) हन्त, अतिवत्सलेन भगवता महोपनिषदुपदेशेन परमनुगृहीतोऽसि । इतः करगतकल्पैव भवतो विद्या। (ततः प्रविशति निजपरिवारेण सममुपनिपद्देवी ।) उपनिषदेवी- अजरमनादिमध्यमविनाशि चिदेकरसं किमपि महो जगजनकमस्ति तदेव सुखम् । मरुषु मरीचिकाजलमिवासदिदं सकलं तदवगमेन मृत्युमतितीर्य सुखीभवत ॥ १८ ॥ विविदिषा-अम्ब, कथमेतत् । स्मृतिः अभीशोरज्ञानादहिरुदयति त्रासयति च प्रतीते तत्तत्त्वे न किमपि यथा संप्रति तथा । स्वरूपस्याज्ञानाचरमचरमित्येवमुदभू- दिदं तस्य ज्ञाने सति फलति मिथ्यैव सकलम् ॥ १९ ॥ अत्र का नाम कथंता । (विविदिषा पुराणादीनां मुखं पश्यति ।) पुराणादयः-वत्से, एवमेवैतत् । आनीतं न परेण केनचिदिदं स्वाज्ञानविस्तारितं स्वस्मिन्नेव निषद्य तुच्छविषयक्लेशान्विधत्ते बहून् । १. 'च्छिदा' क. ११ १२ काव्यमाला। सत्यं ज्ञानमनन्तमसि तदहं ब्रह्मेति जानाति चे- त्तस्येदं तपनोदये तम इव स्फीतं जगल्लीयते ॥ २० ॥ श्रद्धा-उपपन्नमेवैतत् । विविदिषा-भवत्वेवम्, किमत्र मूलमिति विविदिषामि । पुराणादय:-वत्से, श्रूयताम् । माया नाम विचित्ररीतिरसती काचिन्मनोल्ला(ला)सिनी सत्यं वस्तु निगृहति प्रकटयत्यत्यन्तमिथ्यायितम् । द्वे शक्ती प्रथिते चिरेण सहजे तस्यास्तथा तद्वशा- दात्मा सन्नपि नेक्ष्यते जगदसत्सद्भूतमालोक्यते ॥ २१ ॥ (राजा सरभसमुत्थाय चित्तशर्मणा सह साष्टाङ्ग प्रणमति ।) उपनिषद्देवी-वत्सौ, अचिरेण लिप्सितलामहर्षितौ भूयास्तम् ॥ (शमादयः सर्वेऽपि ससंभ्रममुत्थाय यथोचितमुपचर्य यथायथमुपविशन्ति ।) शिवभक्तिः-भगवति, महानुभावा ह्यसि । कपिलकणादजैमिनिपतञ्जलिसत्यवती- तनुभवगौतमाभिमतमार्गविभिन्नतया । सुरतटिनी समुद्रमिव दीव्यदनेकमुखी गमयसि वस्तुतत्त्वमखिलानपि भिन्नरुचीन् ॥ २२ ॥ तदन भगवत्या कियच्चिरमुदास्यते । उपनिषद्देवी-भगवति, मत्तो न किंचिदन्तरमास्ते । प्रागेव साम्ब- शिवानुग्रहेण सिद्धरूपतया प्रवणादयः सम्यक्प्रसाधितया विद्यया सह पु- ण्डरीकभवनोपकण्ठे निर्विकल्पसमाधिनामनि महेशितुरारामे युष्मदुपगमं महेश्वरसांनिध्यं च प्रतीक्षमाणास्तिष्ठन्ति । (नेपथ्ये) बध्यन्तामुरुतोरणानि सरसैराशाश्च गीतामृतैः पूर्यन्तामपि तन्यतां पुरमिदं संस्कारशुद्धान्तरम् । १. 'नित्यं' क. २. 'भूयास्ताम्' क.

७ अङ्कः] विद्यापरिणयनम् । आरूढो वृपराजमद्रिसुतया देवोऽयमागादितो जीवस्यानितरत्वतो मम तया विद्याविवाहोत्सुकः ॥ २३ ॥ शिवभक्तिः-संनिहित एव परमेश्वरः । यदिदानी श्वेतन्ते हरितो दशापि परितचूडाविधुज्योतिपा नृत्यच्छांकरघण्टिकाघणघणारावैः श्रवः पूर्यते । संमर्दोपनमत्सुपर्वमुकुटीकोटीरवाटीरसा- बुद्दण्डप्रमथौघदण्डपटली साटोपमाटीकते ॥ २४ ॥ (ततः प्रविशति साम्बशिवः ।) साम्बशिवः-प्रिये, सिद्धकल्पसंकल्पा भवती । यदयमुपनत एवं जीवस्य विद्याविवाहोत्सवः । देवी-नाथ, भवदनुग्रहः किं न समग्रयिष्यति । (सर्व सरमसमुत्याय प्रणमन्ति ।) राजा-(चित्तशर्मणा सह सप्रश्रयमसकृत्प्रणम्योत्थाय भक्तिसमुत्तेजिताभिर्वा- क्प्रवृत्तिभिरभिष्टौति।) जय जय विजयी भवापारसच्चिद्भुनानन्दभूमन्नविद्यातमः- सिन्धुनिर्मग्नदीनोद्दिधीपारसोपात्तकल्याणमूर्ते समस्ताभिनन्द्याद्भुतोदारचित्रा- पदानस्फुरच्चारुकीर्ते विखण्डं विखण्डं निजान्येव रुण्डानि तद्धोमतः प्रीणितत्व- द्दयालेशलव्धप्रभावाधिकस्तब्धविप्वग्जगन्मण्डलीलुण्ठनाकुण्ठनाचण्डिमोद्द- ण्डदोर्दण्डकण्डूलतागण्डकक्रीडितान्दोलितत्रस्तचण्डीककैलासतत्कूटकिंचि- त्पदाङ्गुष्ठविन्यासपातालनिर्मग्नतन्मूललग्नाखुकं ददत्यातरक्षःकुलाध्यक्षदा- क्षिण्यभूयःप्रवृत्तानुकम्पार्द्रवञ्चित्तवृत्तेतिमाद्यद्गणोद्यच्चपेटाहतोचण्डमार्तण्डग- ण्डत्रुटत्कीर्णदन्तौघनक्षत्रलोकीभवद्यज्ञवास्तुद्रुतानुद्रुतातिद्रुतानुद्रुताटोपसंक्षो- भतः साध्वसध्वस्तधावत्पतत्क्रन्ददञ्चद्धरिब्रह्मशक्रादितत्तत्सदस्यामर रश्रेणिक गाढशम्यादृषघूपदण्डाहतिप्रत्रुटन्निष्ठुरनुक्नुवादिच्छटापर्पटस्फोटवट्ठापठापो- द्भटं घोरठांकारिगम्भीरकुम्भीसहध्वस्तसर्पिटौघस्त्रवभूरिसर्पिनौघः(१)स- मिन्धानविष्वङ्गिन्धानवैतानवह्वयचिरालीढशालापिनयस्फुटद्वंशठात्कारघोरा- १. महादण्डकाभिधमिदमू. २. 'कुण्ठताचण्डिमो' ख. ३. 'वत् क्रन्ददत्या' ख.

काव्यमाला। भेटीभूमनिवृत्तसंवर्तमृद्धयुद्धतिस्तब्धदक्षाध्वरध्वंसकृद्वीरभद्रावतारारविन्दा- क्षवेधश्चिरान्विष्ट नोदृष्टसादृष्टिकव्याधपश्वादिनिःश्रेयसैश्वर्यविश्राणनस्पष्टह- ष्टाकृते स्मरमदतिमिरोष्णधामन्मिथोदर्पभूयिष्ठ देवासुरवातसंक्षुभ्यमाणाब्धि- गर्भोद्भव व्याप्तविध्यण्डचण्डज्वलज्वालजालावलीढाखिलाशामुखाकालका- लानलत्कालहालाहलार्चिःपरिप्लुष्टसाक्रन्दकोलाहलोद्धृष्टवेधोहरिप्रष्ठनष्टत्रि- लोकीसमुज्जीवनायाशुतन्निग्रहारब्धनिर्यनजम्बूफलग्रासलीलायितव्यञ्जितापा- रमाहात्म्यभूमाम्मोनिधे देव साहन्तमावेधसो विष्टपादा च पातालतः क्षिप्रमेता जगन्मण्डलीः खण्डडिण्डीरपिण्डानिवावर्तकोटौ समाघूर्णयेयेति दर्पादनल्पार्भटीघोरमाविर्भवन्त्यभ्रकल्लोलिनीनाथ युष्मज्जटामण्डले कापि नी- वारशूकाग्रसंसक्तनीहारलेशः किलालक्ष्यते पामरास्त्वाममेयप्रभावोच्छ्रितं प्राकृतैर्दैवतैरेकवन्मन्वतेऽहो भवान्नाम विश्राणने कोऽपि चिन्तामणि म संता- नको नाम हन्तातिफल्गुप्रबोधानुरूपातिमूढस्तुतिप्रक्रिया सेयमत्यद्भुते वि- श्वविद्योतनोदामतेजोनिधौ भास्करे कीटखद्योततारोपवद्भाति मे कल्पकप्रष्ठता- दृग्विभूत्युत्कटानेककोट्या सहावेक्षणेन क्षणेनैव लोकाननेकान्विधाय प्र. णत्या प्रणुत्या प्रपत्यापि वा जातु यस्ते मतस्तस्य तत्वाम्यविश्राणनं ते कियच्चन्द्रचूडामणे । सकलविबुधदुर्जयतज्जये जातु केनापि रूपेण किंचिद्यशोऽहं लभेयेति लोभाच्छताङ्गं तदङ्गं शरः सूत इत्यादि यत्किचिदायोधनाङ्गत्वमा- लम्ब्य संनद्धहृष्टेषु विश्वंभरापुष्पवच्छौरिवेधःपुरोगेषु जाग्रत्सु देवेषु नैडालरोचिःसनाथेन मन्दस्मितेनैव तिस्रः पुरो भस्मसात्कृत्य दैत्या- न्विनिर्जित्य दृप्तान्मनुष्यान्पशूकृत्य विष्वक्पशूनां पतित्वेन शश्चन्नमः खाम्यतः संभृतापारविश्वाधिपत्योन्नते संनिकृष्टं निजस्यायुषोऽन्तं विदित्वा विपद्विघ्नतः प्राग्झटित्येव पूजासमायाशयारब्धपूजे मृकण्डोस्तनूजे, लुठ- स्वग्रतो दैन्यकारुण्यभूयिष्ठमाक्रन्दनबन्धुषु, स्वाधिकारावलेपेन कालेऽथ काले तमाकर्षति क्रोधतो वामपादाभिहत्या स विध्वंसितो मेपविध्वंसमेत- प्रहारप्रणादोद्भवद्भक्तवात्सल्यकीर्तेर्दिगन्तप्रयाणोचितप्रोच्चलद्यन्त्रठात्कारितो ७ अङ्कः] विद्यापरिणयनम् । ८५ नाम तेनान्तकः सर्वतोऽद्यापि साशङ्कमाहिण्डतेतत्समो भक्तवात्सल्यसिन्धुर्न कश्चिन्न भूतो न भावी च किं भूयसा जल्पितेन त्वमेकोऽसि सत्यस्वरूपः त्व- दन्यन्मृषैवाखिलं सत्त्वमत्युत्कटार्कादितेजस्त्रयीकोटिकोट्यापि नो भास्यसे, भास्यते भानसिन्धो भवद्धानलेशेन कृत्स्नं जगत्, किंच लिप्सापदं वल्लभा- द्वल्लभं वस्तु न त्वत्परं, किंचिदिष्टं भवेदात्मकामाय सर्वम्, ह्यतो वस्तु सत्यं त्वमेव प्रकाशः, त्वमेव प्रियं च त्वमेवासि ताइकू, त्वमात्मा पुरः पृष्ठतः पार्श्वतो भूतसद्भाविकालेषु वा सर्वतः सर्वदा वर्तसे हन्त तिष्ठन्निधा- वेव कार्पण्यभाग्मन्दभागीव तं त्वामनन्यापरोक्षातिनेदिष्ठमारादपश्यन्नविद्येन्द्र- जालप्रसूते निमज्जामि संसारमिथ्यार्णवे निगमशिखरिकूटकोटीसदोदित्वराप्राकृतोद्दामतेजोनिधे सच्चिदानन्दमूर्ते जगत्सर्गरक्षोपसंहारचौरेय तालीदलादिस्फुरद्वातचक्रातिवेगभ्रमद्भरितेजस्त्र- यद्योतिनानाविधैतज्जगन्मण्डलोन्मीननद्योतविध्वंसनध्वान्तशश्वत्परावर्तनाला- तचक्रक्रमालोकलीलाविनोदिन् प्रमाणौघसिद्धवसत्ताससत्ताकसांकल्पिकवा- प्निकव्यावहारादिनानार्थजालेन्द्रजालोदयावस्थितिध्वंसनानामधिष्ठान, तत्तत्रं सर्वत्र सूत्रात्मनाधिष्ठितापारनैकप्रकारोन्मिपत्क्लेशभूयिष्ठजन्मादिकृन्मोहगा- ढान्धकारौघनिःशेषविध्वंसनोचण्डमध्याह्नमार्ताण्ड संसाररोगत्रसद्धन्ययोगी- न्द्रसंसन्मनोमन्थनिर्मथ्यमानश्रुतिव्रातदुग्धाब्धिसिध्यत्सदानन्दचिच्चन्द्रिका- सान्द्र तत्पूर्णचन्द्रोदयाद्वैतसाम्राज्यसिंहासनाध्यक्ष मन्नाथ केनापि सत्संत- तिर्जायताम् श्रेयसाम्, मामकप्राग्जनुःकोटिकोट्यार्जितेनापि पुण्येन दृ- ष्टोऽसि दिला न मामुज्झ दीनम्, त्वदन्यः शरण्यो न मे पारमस्याधुना त्वामपि प्राप्य तीर्णो न चेत्स्यामहं मे परा का गतिर्दीनबन्धो दयापा- रसिन्धो भवाम्भोधिनिस्तारधौरंधुरीकर्णधारातिदुरितापत्रयप्लष्टसंजीवनोदा- रधाराधरानादिमोहान्ध्यनष्टामितस्वार्थमादृग्गानन्दसिद्धाञ्जनात्मन, नमस्ते नमस्ते समस्तेश्वरायाप्रधृष्यौजसे तेजसां तेजसे भूयसां भूयसे प्रेयसां प्रेयसे ॥ २५ ॥ साम्बशिवः-वत्से, किमितो विलम्ब्यते । शिवभक्तिः-नाथ, सर्व वयमितः प्रस्थिता एव कल्याणमण्डपाधि. गमाय ।

काव्यमाला । शिव:-हन्त, तण्डु:-इत इतो देवः । (सर्वे कल्याणमण्डपगमनं नाटयन्ति ।) महासार्थगमनमहोत्साहेनाविदितविप्रकर्षः पदान्तरवद- असैव महानतीतः पन्थाः। (पुरो विलोक्य ।) शुकादिनानाद्विजघोषपोषितं फलोपनम्रागममण्डलोज्वलम् । समाधिनामस्फुरदन्तरातपं प्रसन्नमुद्यानमिदं महेशितुः ॥ २६ ॥ यावदेतदुपसरामः। (इति कल्याणमण्डपमधिगम्य यथोचितमुपविशन्ति ।) शिवभक्तिः-वत्स, भद्रपीठमिदमासनपरिग्रहेणालंक्रियताम् । (राजा तथा करोति ।) देवः-प्रस्तूयतामनन्तरकरणीयम् । (नेपथ्ये) कोणे यस्य जगन्त्यमूनि जलधेडिण्डीरजालोपमं जन्मस्थेमलयान्भजन्ति सहरिब्रह्मादिमृग्योऽपि सन् । लोकस्यानुजिघृक्षया धृतवपुः शक्त्या स्वयानन्यया स श्लिष्टो जगदम्बया पशुपतिः कुर्वीत वां मङ्गलम् ॥ २७ ॥ शिवभक्तिः-(श्रुत्वा । सहर्षम् ।) इदं प्रसादनाम्नो निदिध्यासनमहा- राजपुरोहितस्य सुलग्नसांनिध्यसूचनमाशीर्वचनम् । (पुनर्नेपथ्ये) इयं न लभ्या तपसा न धर्मेंन मेधया नापि बहुश्रुतेन । शिवप्रसादेन तवोपनम्रा विद्या तदेनां भज सावधानः ॥ २८ ॥ शिवभक्तिः-(श्रुत्वा । सहर्षोल्लासम् ।) संनिहितो मुहूर्तः । प्रवर्ततामा- तोद्यम् । राजा- यदर्भ जठरं हरेरिव जगन्त्यध्यासते वृत्तय- स्तित्रस्नय्यपि ताहगोमिति परब्रह्माभिधानं परम् । एतद्रूपतया निरन्तरमितस्तौर्यत्रिकोदञ्चिते नादब्रह्मणि पूर्वरङ्गविधया कृत्स्नं जगल्लीयते ॥ २९ ॥ १ 'ऋग्यजुःसामान्यक्षरमेतदोमिति' ख.

७ अङ्कः] विद्यापरिणयनम् । ८७ (ततो निदिध्यासनमहाराजः सह विद्यया प्रविश्य ।) रहितारातिवितत्या राजन्नदसीय"...."संतत्या। भवं परमानन्दघनो भवसागरपारविश्रान्तः ॥ ३० ॥ (इति विद्यां जीवराजाय प्रयच्छति ।) जीवराजः-(विद्यां पाणौ गृहीत्वा सपरितोपम् ।) दृष्टिर्ममासि दयिते सुकृतातिरेका- द्दिष्टयाधुनापि मिषिता मुषिता विमोहाः । सुप्तप्रबुद्ध इव सुभ्र तव प्रसादा- दात्मा किलायमहमित्यवधारयामि ॥ ३१ ॥ विद्या- ग्रस्तं विमुक्तमिव शारदचन्द्रविम्बं शाणावलीढमिव शैवलितं च रत्नम् । भूयः प्रपद्य पुरुषोत्तम वल्लभं त्वा- मात्मानमसि सुहिता परिपूरितेव ॥ ३२ ॥ चित्तशर्मा--(पुरोऽवलोक्य । सविस्मयम् । राजानं प्रति ।) अहो पारेगि- राममुष्याः प्रभावः । यदधुना शतकोटिकोटिजननेषु भूरिशः सुखदुःखभोगपरिपाकसाधनम् । यदविद्ययातिचिरकालसंचितं तदियं प्रदीपयति कर्म वल्वजम् ॥ ३३ ॥ (तदिदमवलोक्य नितान्तपरिक्लिष्टा यथागतमविद्या सपरिवारा परावृत्त्य गच्छति ।) राजा-(विलोक्य । सहर्षम् । चित्तशर्माणं प्रति ।) त्वयेदं नियूढं ननु परममीमम सुखं ब्रुवे किं कुर्वे किं भवदुचितमेवं व्यवसितम् । अविद्याशक्त्याहं भवदनितरो ह्यसि सुचिरा- दितो विद्याशक्त्या मदनितरभूतो भव सुखी ॥ ३४ ॥ १. आदर्शद्वयेऽपि च्छन्दोभङ्ग एव. २. "धुनासि' ख.

काव्यमाला। (पुर तो निर्दिश्य । सप्रश्रयम् ।) विवेकाद्या एते विरतिरियमेषा विविदिषा निवृत्तिः सा सर्वैरनितरतया साधितमिदम् । अहं कश्चित्ते केचिदिति सति भेदे खलु मिथो भवेदायस्तानामुचितमुपचारोक्तिरचना ॥ ३५ ॥ (शिवभक्तिं प्रणम्य । सविनयादरम् ।) क्वाहं मोहमहान्धकारजलधौ गाढं निमग्नश्चिरा- दीक्शाश्वतचित्सुखाव्यवहिता क्वेयं भवत्संगतिः । मन्ये विश्वगुरोर्मुडस्य मुकुटालंकारमालायिता गङ्गा कीकटकीटतापशमनी जाता किमन्यद्वे ॥ ३६ ॥ (ततः सहैव भक्त्या साम्बशिवमुपसृत्य ।) दुग्धार्णवे दुग्धलवः प्रविष्टो यथा तथाहं त्वमभूवमेव । भेदावभासेन तथापि किंचिदौपाधिकेन प्रणमाम्यहं त्वाम् ॥ ३७॥ (प्रणम्योत्थाय बद्धाञ्जलिः शिवं प्रति ।) विलीय स्वाविद्याधनयवनिकायामथ वह- विचित्रं नैपथ्यं नटसि शिव नानात्मकतया । स्वयं जाग्रत्पश्यस्यपि च परमानन्दभरितो जयत्यत्याश्चर्य जगदिति भवन्नाटकमिदम् ॥ ३८ ॥ शिवभक्तिः-(परमेश्वरी प्रति ।) भगवति, निरुपाधिकया भवदनुक- म्पया तदेवमयं कृतार्थो जीवराजः । देवी-(सप्रसादस्मितम् ।) वत्स, किं ते भूयः प्रियमुपहरामि । जीक:-अम्ब, किमितोऽपि परमवशिष्यते । तथापीदमस्तु । अस्तु स्वस्ति जगत्रयाय जगतीं रक्षन्तु भूमीभुजो धर्मेणैव पथा भवन्तु सुखिनः सर्वेऽपि गोब्राह्मणाः। पर्जन्यान्नमखक्रमेण जगतश्चक्रं तदावर्ततां विद्वांसो विजयीभवन्तु भगवद्भक्त्या त्रयी वर्धताम् ॥ ३९ ॥ इति ॥ (निष्क्रान्ताः सर्वे ।) इति सप्तमोऽङ्कः। १. 'परतो' ख, २. 'किमितोऽपरमव' ख.

No text on this page.

No text on this page.

विद्यापरिणयनम्

Author
मखि, आनन्दराय
Other authors
पराब, काशीनाथ पांडुरंग. सम्पा.
Title
??????????????
File name
विद्यापरिणयनम्
Text
OCR done
Citation
1893
Published
2009/03
Publisher
निर्णयसागर प्रेस, बॉम्बे
Language
Sanskrit
Pages
99
Library
Banasthali University
Classification
Art
Keywords
संस्कृत काव्यमाला
DLI number
404980
Barcode
99999990064813.00
Scanning centre
Banasthali University
Digital publisher
Digital Library Of India
VMLT id
LwWGXdOJCb6
Download PDF

विद्यापरिणयनम्