Ramkrishna Mission Institute Of Culture, Golpark
Sandhayavashya Samuchaya
Front matter
No text on this page.
No text on this page.
No text on this page.
आनन्दाश्रमसंस्कृतग्रन्थावलिः SHEKHARA BHAX HOIA Harishchandran * NA...) ग्रन्थाः ४० संध्याभाष्यसमुच्चयः। LRISHNA MEIVIN INUTEOF *HY HT-CALCUTTL101 तच LIBRARY अत्र (१) खण्डदीक्षितविरचिता बढचसंध्यामवार्थदीपिका प्रभाख्यव्याख्या- समेता, (२) बढचसंध्यापद्धतिभाष्यम्, (३) मध्वमतानुयायिमध्वा. चार्यविरचितबट्टचसंध्याभाष्यम्(संध्यामत्रवृत्तिः), (४)श्रीक- एणपण्डितविरचिततैत्तिरीयसंध्याभाष्यं सपरिशिष्टम् , (५) भट्टोजीदीक्षितविरचितं तैत्तिरीयसं- ध्याभाष्यम् , (६) सायणाचार्यकृततै- त्तिरीयसंध्यामत्रव्याख्या च, इत्येतानि संगृहीतानि । 204 एतत्पुस्तकं वे. शा. रा. 'काशीनाथ शास्त्री आगाशे' इत्येतैः संशोधितम् । हरि नारायण आपटे इत्यनेन पुण्यपत्तनस्थानन्दाश्रममुद्रणालये आयसाक्षरैर्मुद्रयित्वा प्रकाशितम् । शालिवाहनशकान्दाः १ खिस्ताब्दाः १८९९ (अस्य सर्वेऽधिकारा राजशासनानुसारेण खायत्तीकृताः) म रूपकटयम (३०२)
dan
ani
10 LISRARI
Acc. No.65927
Class No.29415
SAN
Date 11.12.68
St. Card Itik das
Class.
Cat.
Bk. Card
8-58
Checked
आदर्शपुस्तकोलेसत्रिका। अथ संध्याव्याख्यानपुर.१।। यभ्यो मिलितानि तेषां नामग्रामादिक पुस्तकवर्णनं च संक्षेपतः प्रदर्श्यते । ? खण्डराजदीक्षितविरचिता बट्टचसंध्यामत्रार्थदीपिका स्वकृतप्रभा- ख्यव्याख्यासमेता। इदं पुस्तकं संपूर्णम् , इन्दूरपुरनिवासिनो रा० रा० "किबे" इत्युपाहाना 'भाऊसाहेब बाळासाहेब' इत्येतेषाम् । २ बचसंध्यापद्धतिभाष्यम् । इदं पुस्तकं संपूर्णम् , इन्दूरपुरनिवा- सिनां रा० रा. “किबे" इत्युपाहाना 'भाऊसाहेब बाळासाहेब इत्येतेषाम् । ३ मध्वाचार्यविरचितं बढ्चसंध्याभाष्यम् ( संध्यामत्रवृत्तिः) । इदं पुस्तकं संपूर्णम् , पुण्यपत्तननिवासिना "देव" इत्युपाहानां वे. शा० रा० 'बाळशास्त्री ' इत्येषाम् । लेखनकाल:- शके १६९८ ४ श्रीकृष्णपण्डितविरचितं तैत्तिरीयसंध्याभाष्यम् । इदं पुस्तकं संपू. र्णम् , अल्लीबागनिवासिनां बिवलकरोपाहानां श्रीमतां 'भाऊसा- हेब' इत्येतेषाम् । लेखनकाल:- संवत् १७३४ । ५ भट्टोजीदीक्षितविरचितं तैत्तिरीयसंध्याभाष्यम् । इदं पुस्तकं, संपू- णम् , आनन्दाश्रमपुस्तकालयस्थम् । ६ तैत्तिरीयसंध्याभाष्यम् । इदं पुस्तकं संपूर्णम् , आनन्दाश्रमस्थ. पुस्तकालयस्थम् । समाप्तेयमादर्शपुस्तकोल्लेखपत्रिका।
No text on this page.
ॐ तत्सहमणे नमः। खण्डराजदीक्षितविरचिता बचसंध्यामन्त्रार्थदीपिका। स्वकृतप्रभाख्यटीकासमेता। ॐ तपः, ॐ प्रणम्य परमात्मानं सुखैर्मत्रार्थलब्धये । खण्डराजः प्रतनुते संध्यामत्रार्थदीपिकाम् ॥ १ ॥ ॐ भूः, ॐ भुवः, ॐ स्वः, ॐ महः, ॐ जनः, सत्यम् । सप्तव्याहृतिषु मोक्तः प्रणवोऽयं पुनः पुनः । सप्तानामपि लोकानां वक्ति ब्रह्मस्वरूपताम् ॥२॥ उपलक्षणतः सप्तपातालानां तथैव च । सर्वलोकस्थजीवानां वक्ति ब्रह्मस्वरूपताम् ॥३॥ प्रभाख्यटीकाप्रारम्भः। ॐ प्रणम्य साळसाकान्तं संध्यामन्त्रार्थदीपिकाम् । खण्डराजो व्याकुरुते छायारूपेण सन्मुदे ॥ १ ॥ श्रीमाधव प्रभो देवान्ब्राह्मणान्पूजयन्नरीन् । दमयंश्चिरजीवी सन्निह राष्ट्रमु धारय ॥ २॥ दूरे गच्छतु पापिष्ठो राक्षसो मत्सरामिधः । हे पण्डिताः पश्यतेमां संध्यामन्त्रार्थदीपिकाम् ॥ ३ ॥ अर्थज्ञानं विना कर्म न श्रेयःसाधनं यतः । अर्थज्ञानं साधनीयं द्विनैः श्रेयोथिमिस्ततः ॥ ४ ॥ ॐ भूरिति । भूरादिसप्तव्याहृतिभिः सप्तोर्ध्वलोकाः कथ्यन्ते । उपलक्षणेनातलादयः सप्ताधोलोकाः । समग्रं ब्रह्माण्डं सर्वलोकस्थजीवाश्चों परब्रह्मैव ततो न भियन्त इति ज्ञाप- यितुं सप्तकृत्व ओंकारप्रयोगः । ओंकारस्य परमात्मत्वे श्रुतिस्मृतयः । “ ओमित्येका. भर ब्रह्म " " ओमितीद५ सर्वम् " इति श्रुतयः । "ओमित्येकाक्षरं ब्रह्म व्याहरन्मा. नुस्मरन् " इत्यायाः स्मृतयः ॥ १ ॥ २ ॥ ३ ॥ * अत्र नत्वा महालसाकान्तमिति शुद्धः पाठः कल्पनीयः ।
२ - खण्डराजदीक्षितविरचिता- ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥ (१० सं० अ० ३.५० ४ व० १०) २६. 90 यः सूर्यः प्रेरयति नो बुद्धीर्दीप्तस्य तस्य वै । ख्यातं स्वरूपं ध्यायेम सेव्यं पापादिभर्जकम् ॥ ४ ॥ अथ गायत्रीव्याख्या-या सविता नोऽस्माकं धियो बुद्धिवृत्तीः प्रचोदयात्प्रेर- यति तस्येत्यध्याहारः । तस्य सवितुर्नगत्प्रसवितुर्देवस्य दीप्तस्य वरेण्यं सेव्यं भर्गोऽ. विद्यापापादिभजेकं तत्प्रसिद्ध स्वरूपं धीमहि ध्यायेम ॥ ४ ॥ .. ओमापो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः स्वरोम् । आपस्तेजस्तथा भूतत्रितयं चोपलक्षणात् । सुधा वा मुक्तिरमृतं वेदा ब्रह्मपदान्मताः ॥५॥ भूरादयस्त्रयो लोका आदराकथिताः पुनः ॥ एतत्सर्व ब्रह्मरूपमिति वक्तुं शिरस्यपि ॥ ६ ॥ आदावन्ते च कथित ओंकारः कीदृशः स च । ब्रह्मस्वरूपेणाऽऽनन्दहेतुत्वात्कथितो रसः ॥ ७ ॥ ओमाप इति । आपोऽन्भूतम् । ज्योतिस्तेजोभूतम् । उपलक्षणेनाऽऽकाशवायु- भूमयः । ब्रह्म साङ्गो वेदराशिः । अमृतं सुधा मुक्तिर्वा । भूरादयत्रयो लोका आदरात्पु. नरुक्ताः । इदं सर्वमों परमात्मैव न ततो भिद्यत इति ज्ञापयितुं गायत्रीशिरस आदावन्ते चौकारप्रयोगः । ओंकारः कथंभूतो रसः, निखिलजगदानन्दहेतुः । परमात्मस्वरू- पत्वात् । तथाच श्रुतिः-" रसो वै सः । रस ह्येवायं लब्ध्वाऽऽनन्दी भवति " इति ॥ ५॥ ६ ॥ ७॥ आपो हि ष्ठा मयोभुवस्ता ने ऊर्जे दधातन । चक्षसे ।। (ऋ. सं. अ. ७ अ. ६ व. ५) यूयं भवथ पानाचैः मुखसंपादिका यतः । हे आपोऽस्मान्धारयत ख्याता अनादये ततः ॥ पूज्याय रमणीयाय आत्मसंदर्शनाय च ॥८॥ आपो हि वेति । हे आपो हि यस्मात्कारणाद्या यूयं मयोभुवः स्थ नानपा- नादिना सुखप्रापयिन्यो भवथ तस्मात्कारणात्ता यूयं नोऽस्मान्दधातन धारयत । कस्मै महे रणाय प्रभाख्यटीकासमेतबड्वचसंध्यामवार्थदीपिका । प्रयोमनाय, ऊर्जेऽनाय । उपलक्षणेन धनादिकाय च । महे पूज्याय रणाय रमणी- याय चक्षस आत्मदर्शनाय च । अन्यथा जीवनं वृषेत्यभिप्रायः ॥ ८॥ यो वः शिवतमो रसस्तस्य॑ भाजयतेह नः। उशतीरिव मातरः ॥ ( ऋ० सं० अ० ७ अ० ६ ५० ५) यः कल्याणतमो युष्मद्रसोऽस्ति मधुराहयः ॥ तस्यात्र स्थानं कुरुत हे आपोऽस्मान्सुतान्यथा ॥ ९॥ कुर्वन्ति मधुरस्थानं मातरो वृद्धिकामुकाः ॥ युष्मद्रसोऽस्मासु भवेत्पात्रे वारिस्थितियथा ॥ १० ॥ यो वः शिवतम इति । हे आपो वो युष्माकं यः शिवतमः कल्याणतमो रसो मधुराख्योऽस्ति तस्येहास्मिल्लोकेऽस्मान्भाजयत पात्रयत स्थानं कुरुत । यथा भाजने जलं तिष्ठति तथा युष्मद्रसोऽस्मासु तिष्ठत्विति भावः । तत्र दृष्टान्तः-उशती. रुशत्यः पुत्रवृद्धिं कामयमाना मातरो यथा स्वपुत्रानुत्तमदुग्धादिरसपात्रभूतान्कुर्वन्ति तथा कुरुतेति पूर्वेणान्वयः ॥ ९ ॥ १० ॥ तस्मा अरै गमाम वो यस्य क्षाय जिन्वथ ॥ आपो जनयथा च नः ॥ (ऋ० सं० अ० ७ अ० ६ ५० ५) युष्मान्गच्छाम नितरां तस्मै पापक्षयाय वै ॥ यूयमस्मान्त्रीणयथ यस्मै पापक्षयाय वै ॥ हे आपोऽस्मांश्च कुरुत पुत्रादिजननेश्वरान् ॥ ११ ॥ तस्मा अरमिति । हे आपो वयमरमलं नितरां वो युष्मांस्तस्मै पापक्षयाय गमाम प्राप्नुयाम । यस्य पापस्य क्षयाय यूयमस्माञ्जिन्वय प्रीणयथ । किंच भो अब्देवता नोऽस्माञ्जनयथ पुत्रादिनननसमर्थान्कुरुत । तस्मै प्राप्नुयामेति पूर्वेणान्वयः ॥ ११ ॥ “अग्निश्च मा मन्युश्च मन्युपतयश्च मन्युक- तेभ्यः । पापेभ्यो रक्षन्ताम् । यदह्ना पापम- कार्षम् । मनसा वाचा हस्ताभ्याम् । पट्या- मुदरेण शिश्ना । अहस्तदवलुम्पतु । यस्चि दुरितं मयि । इदमहं माममृतयोनी सत्ये ज्योतिषि जुहोमि स्वाहा ॥ ( आश्वः गृह्यप० अ० १ )
४
खण्डराजदीक्षितविरचिता-
पान्तु मन्युकतेभ्यो मां पापेभ्योऽन्यादयः सुराः।
वाचा व मनसा पद्भ्यां हस्ताभ्यामुदरेण च ॥ १२ ॥
शिश्न दिवसे चाहमकार्ष यदघं हि तत् ।
यत्किंचिहुरितं चान्यदिनदेश्यवलुम्पतु ॥ ११ ॥
इदं पूर्वोक्तदुरितं हव्यस्थानं च मी तथा ।
अहमध्वर्युरूपः सञ्जुहोम्याहवनीयके ॥ १४ ॥
मत्स्थाने चुलकं वेमं मुखामौ मोक्षकारणे ।
अहमध्वर्युरूपः सञ्जुहोमि सुहुतोऽस्मि च ॥ १५ ॥
अग्निश्चेति । अभिमन्युः क्रोधाधिष्ठानदेवता । मन्युपतयः क्रोधाधिष्ठानदेवता-
नायकाः । चकारादितरे देवाश्च मन्युकृतेभ्यः पापेभ्यो रक्षन्तां माम् । अहाऽहनि
मनोवागादिभिर्यत्पापमकार्ष चकार तत्पापमहरभिमानिनी देवताऽवलुम्पतु नाशयतु ।।
अपि च मपि यत्किंच यावकिमपि दुरितमस्ति, इदं सर्व निराकृत्याहमध्वर्यु.
रूपः सनमृतयोनौ मोक्षकारणे सत्ये ज्योतिष्याहवनीये मामाज्यपुरोडाशादि.
स्थानीयं जुहोमि स्वाहाऽन्यथं सुहुतोऽस्मि । यद्वा मत्प्रतिनिधित्वेनेदं चुलकप्रमाण-
मुदकं मदीयमुखाग्नौ जुहोमि स्वाहा मुहुतोऽस्मि ॥ १२ ॥ १३ ॥ १४ ॥ १५ ॥
सूर्यश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः।
पापेभ्यो रक्षन्ताम् । यद्राच्या पापमकार्षम् ।
मनसा वाचा हस्ताभ्याम् । पझ्यामुदरेण
शिश्ना । रात्रिस्तदवलुम्पतु । यत्किंच दुरितं
मयि । इदमहं माममृतयोनौ सूर्ये ज्योतिषि
जुहोमि स्वाहा ॥ ( आश्व० गृह्यप० अ० १)
पान्तु मन्युकृतेभ्यो मां पापेभ्योऽर्कादयः सुराः।
वाचा च मनसा पद्भ्यां हस्ताभ्यामुदरेण च ॥ १६ ॥
शिश्नेन च निशायां वै यदकार्षमघं हि तत् ।
यत्किचिडुरितं चान्यद्रात्रिदेव्यवलुम्पतु॥ १७ ॥
इदं पूर्वोक्तदुरितं हव्यस्थानं च मां तथा ।
अहमध्वर्युरूपः सञ्जुहोम्याहवनीयके ॥ १८॥
मत्स्थाने चुलकं वेमं मुखामौ मोक्षकारणे ।
मध्वर्युरूपः सज्जुहोमि मुहुतोऽस्मि च ॥ १९ ॥
५
प्रभाख्यटीकासमेतबट्टचसंध्यामवार्यदीपिका ।
सूर्यश्चेति । सूर्यादयो देवता मन्युकृतेभ्यः पापेभ्यो मां रक्षन्ताम् । राव्या
रात्रौ यत्पापमकार्ष तत्पापं रात्री राज्यभिमानिनो देवताऽवलुम्पतु नाशयतु । सूर्ये
ज्योतिषि सूर्यरूप आहवनीये । अन्यत्सर्वमग्निश्चेत्यादिवत् ॥ १६ ॥ १७ ॥ १८ ॥
॥ १९॥
आपः पुनन्तु पृथिवीं पृथिवी पूता पुनातु
माम् । पुनन्तु ब्रह्मणस्पतिर्ब्रह्म पूता पुनातु
माम् । यदुच्छिष्टमभोज्यं यहा दुश्चरितं मम ।
सर्व पुनन्तु मामापोऽसतां च प्रतिग्रहं स्वाहा।
(आ. गृह्यप० भ०१)
मद्धस्तसंस्थिता आपो मम देहं पुनन्तु वै ।
कारणाभेदतो ग्रायो.देहोऽत्र पृथिवीपदात् ॥२०॥
मच्छरीरं
पावयतु
जीवं मद्देहसंस्थितम् ।
पुनातु वेदपुरुषो मां वेदपरिपालकः ॥ २१ ॥
नित्यपूतं परं ब्रह्म पवित्रं मां करोतु वै ॥
उच्छिष्टं भुक्तशिष्टं स्याद्रालाद्यैश्च सहाशनम् ॥ २२ ॥
पलाण्ड्वादि च यमुक्तमवैधाचरणं च यत् ।
अभिशप्तश्च पतितम्लेच्छचण्डालसंकराः ॥ २३ ॥
इत्यादिका असन्तो वै एतदीयं प्रतिग्रहम् ।
दूरीकृत्येदमखिलं मामापः पावयन्तु वै ।
तदर्थमम्मयं हव्यं जुहोमि वदनानले ॥२४॥
आप: पुनन्त्विति । आपो मद्धस्तसंस्था अनेन मन्त्रेण मन्त्रिताः सत्यः
पृथिवीमस्मच्छरीरं पुनन्तु । कार्यकारणयोरभेदात्पृथिवीपदेन देहः । पृथिवी पूता
शुद्धमस्मच्छरीरं मां जीवं पुनातु । ब्रह्मणो वेदस्य पतिः पालको वेदपुरुषो मां
पुनन्तु पुनातु । वचनव्यत्ययः । किंच ब्रह्म पूता स्त्रीलिङ्गं छान्दसं नित्यपूतं ब्रह्म मां
पुनातु । पूर्वमपां देहद्वारा पावनहेतुत्वमुक्तम् । अधुना साक्षादेवोच्यते-आपो हस्त-
स्थिता उच्छिष्टं मुक्तशिष्टं बालाथैः सह भोजनं वा । अभोज्यं पलाण्ड्वादि यद्ध-
तम् । यदा दुधरितं यचावैधावरणं कृतम् । असता म्लेच्छादीनां प्रतिग्रहः । एत-
सर्व दूरीकृत्य मां पुनन्तु । तदर्थमिदमम्मयं हविर्मदीयमुखाहवनीय स्वाहा महुत-
मस्तु बिशोकदेवताम्यः ॥ २० ॥२१॥ २२ ॥ २३ ॥२॥
खराजदीक्षितविरचिता- आपो हि ष्ठा०। यो वः शिवतमो० । तस्मा अरं गमा०॥ आपो हि ष्ठेति तृचो व्याख्यातः । शं नो देवीरभिष्टय आपो भवन्तु पीतये । शं योरभिस्रवन्तु नः । (ऋ० सं० भ० ७ ० ६ ५० ५) अब्देवता दीप्यमानाः सन्त्वस्मभ्यं सुखपदाः। पानादये त्वभीष्टाय भवन्तु शमनं रुजाम् ॥ भियं च दूरीकरणं यथा स्यात्मसरन्तु नः ॥ २५ ॥ शं नो देवीरिति । देवीदेव्यो दीप्ता आपोऽब्देवता नोऽस्मभ्यं शं सुखप्रदा भवन्तु । किंच-अभिष्टयेऽभीष्टये पीतयेऽभीष्टाय पानादये च भवन्तु । किंचाऽऽ. पोऽस्मान्प्रति शं रोगाणां शमनं, योर्भयानां यवनं पृथक्करणं यथा भवति तथाऽभित्र वन्तु सर्वतः प्रवहन्तु ॥ २५ ॥ ईशांना वायर्याणां क्षयन्तीश्चर्षणीनाम् । अपो योचामि भेषजम् ॥ (ऋ० सं० अ० ७ अ० ६ ५० ५) निवारणाईपापानां वारणेशाश्च जन्मिनाम् । वासकारणभूता वै याचाम्यब्देवताः प्रति ॥ विमुच्य हृदयग्रन्थि संसारापहमौषधम् ॥ २६ ॥ ईशाना इति । वार्याणां निवारणयोग्यपापानामीशाना निवारणसमर्थाः, चर्ष- णीनां प्राणिनां क्षयन्तीनिवासकारणभूता अपोऽब्देवताः प्रति अहं मानकर्ता भेषर्ज संसारनिबर्हणमौषधं याचामि ॥ २६ ॥ अप्सु मे सोमो अबवीदन्तर्विश्वानि भेषजा । अमिं च विश्वशंभुवम् ॥ (२० सं० अ० ७ ० ६५०५) अप्सु मध्ये सन्ति सर्वाण्यौषधानीति मे विधुः। अब्रवीत्पावकश्चास्ति विश्वस्याऽऽरोग्यभावकः ॥ अतस्तदुभयं याचाम्यहमन्देवताः प्रति ॥ २७ ॥ अप्सु औषधामावेन कथं याचसीत्याशययाऽऽह-अप्सु मे सोम इति । अप्सु अन्तर्मध्ये विधानि नानाविधानि भेषजा भेषनानि सन्तीति मे मसं सोमचन्द्रोड
-
प्रभाख्यटीकासमेतवरसंध्यापार्षदीपिका ।
प्रवीत् । विश्वशंभुवं विश्वस्याऽऽरोग्यसुखभावकमनि चामवीत् । अतस्तदुमयं याचा.
मीति भावः ॥ २७॥
आपः पृणीत भेषजं वरूथं तन्वै १ मम ।
ज्योक्च सूर्य दृशे ॥ (१० सं० भ० ० ७० ६५० ५ )
भन्देवता मत्तनवे यूयं पूरयतौषधम् ।
संसारनाशकं सर्वपाणिभिर्वरणाईकम् ॥
चिरं सूर्य च चन्द्रादि द्रष्टुं पापापनुत्तये ॥ २८ ॥
आपः पृणीतेति । आपो हेऽब्देवता यूयं मम तन्वे मम तनवे भेषजं संसार-
निवर्तकमौषधं पृणीत पूरयत । कस्मै प्रयोजनाय ज्योचिरकालमुपस्थानादौ सूर्य
चकारेण चन्द्रादिकं च दृशे द्रष्टुं पापापनोदनायेति शेषः ॥ २८ ॥
इदमापः प्रवहत यत्किंच दुरितं मयि । यहाऽ-
हमभिदुद्रोह यहा शेप उतानृतम् ॥
(क० सं० भ० ७५० ६०५)
आपो यूयं नाशयत यत्किमप्यस्ति मय्यघम् ।
निरागसः पाणिनो यद्धन्तुमिच्छामि यच्च वा ॥
मृषा शपामि चेत्यादि पापं नाशयताखिलम् ॥ २९॥ .
इदमाप इति । हे आपो मयि यत्किंच यत्किमपि दुरितमस्ति, इदं प्रवहत
विनाशयत । उतापि चाहमभिदुद्रोह निरागसः प्राणिनो हन्तुमिच्छामि चेति यत् ।
किंचाहमनृतं मृषा यथा तथा शेपे निरागसः प्राणिनः शपामीति यदिदमपि प्रवहत ।
वाशब्दः समुच्चये । ज्ञानाज्ञानकृतं सर्व पापं नाशयतेति भावः ॥ २९ ॥
आपो अद्यान्वचारिषं रसैन समंगस्महि । पर्य-
खानम आगहि तं मा संह्ज वर्चसा ॥
(ऋ० सं० म० भ०६०५)
आपो मार्जनवेलायां युष्मान्संगतवानहम् ।
युष्मत्सारणाहमस्मि संगतो मार्जने सति ॥ ३०॥
मधुरोदकदुग्धादियुक्त आगच्छ पावक ।
संयोजय प्रसिद्ध मां त्वममे ब्रमवर्चसा ॥३१॥
८ खण्डराजदीक्षितविरचिवा- पो अग्रेति । हे आपोऽयास्मिन्मार्जनवेलायां युष्मानन्वचारिषमुपचरितवा- नस्मि । किंच रसेन युष्मदीयसारेण समगस्महि संगतोऽस्मि । वचनव्यत्ययः । मार्ज- नद्वारा युष्मत्संबन्धः सिद्धः । किंच हेऽने पयस्वान्मधुरोदकक्षीरादिमान्सन्नागहि आगच्छ । आगत्य च तं प्रसिद्धं मां वर्चसा ब्रह्मवर्चसेन संसृज संयोजय । अन्देव. तामग्निदेवतां च प्रसाद्य यथाभिलाषसिद्धकामो भविष्यामीति भावः ॥ ३० ॥ ३१ ॥ सखुषीस्तदंपसो दिवानक्तं च सनुषीः । वरेण्य- क्रतूरहमा देवीरवसे हुवे ॥ (२० सं० परि० ) क्षरन्तीरमरान्सोमवाजिनादिरसात्मना। प्राप्यन्त इत्यपांसीति स्वर्गादीन्युदितानि वै ॥ १२॥ सोमामिक्षादिरूपेण याभ्यः ख्यातान्यपासि वै । दिवानक्तं सरन्तीश्च जाह्नव्याधापगात्मना ॥ ३३ ॥ श्रेष्ठा अपि मखा याभिरादिसिद्धा भवन्ति हि । ब्रह्मनपः प्रणेष्यामीत्यपां प्रणयनं विना ॥ ३४॥ न जायते यागसिद्धिर्वरेण्यक्रतवस्ततः। अब्देवता आहयामि गुप्त्यै दीप्त्यादिसंयुताः ॥ ३५॥ स पीरिति । समुषीः पयोदध्याज्यसांनाय्यसोमादिरूपेण तत्तद्देवताः प्रति सस्नुषीः सरन्तीराप्यन्ते प्राप्यन्ते सुकृतिभिरिति अपांसि स्वर्गादिस्थानानि तानि प्रसि- द्धानि अपांसि याभ्यस्तास्तदपसः सोमादिरूपेण स्वर्गाद्युपादानभूता इत्यर्थः । दिवा- नक्तमहर्निशं भागीरथ्यादिरूपेण सनुपीः सरन्तीवरेण्याः श्रेष्ठाः क्रतवो याभिनिष्पा- अन्ते ता वरेण्यक्रतवः । ता वरेण्यक्रतूः । ब्रह्मन्नपः प्रणेष्यामीत्यादिना प्रयुज्यमान- मप्प्रणयनं विना यज्ञक्रत्वनुष्ठानाद्यसिद्धेः । देवीर्दीप्यमाना अन्देवता अहमवसे रक्ष. णायाऽऽहुव आहृयामि ॥ ३२ ॥ ३३ ॥ ३४ ॥ ३५ ॥ ऋतं च सत्यं चाभीद्वात्तपसोऽध्यजायत। ततो राज्य॑जायत ततः समुद्रो अर्णवः ॥ (१० सं०म० ८.० ८.१८) सखोक्तिः सत्यसंकल्पयाभिदीतात्परात्मनः । आलोचनाख्यतपसोऽनन्तर समभूजनत् ।। वतो निशा पादुरभूदुपलक्षणतो दिनम् ॥१६॥ .
। प्रभाख्यटीकासमेतबाहपसंध्यामवार्थदीपिका । पश्चात्मादुरभूदधिः सप्तभेदसमन्वितः । जलवत्त्वादर्णवाख्यो वाप्यादिः समजायत ॥ ३७॥ ऋतं च सत्यम् । अभीदादभिदीप्तात्परमात्मनः सकाशात्तपसोऽधि बहु स्यां प्रजायेयेतिपालोचनाख्यतपसोऽनन्तरमृतं यथार्थभाषणं सत्यं यथार्थसंकल्पनमाका. शादि सर्व जगत् । ततो रात्री निशा । उपलक्षणेन दिनम् । ततः समुद्रः सप्तधा भिन्न उदधिः । अर्णासि अम्मासि विद्यन्तेऽस्मिन्निति अर्णवो वापीतडागादि- रजायत ॥ ३६ ॥ ३७ ॥ समुद्रादर्णवादधि संवत्सरो अजायत । अहो- रात्राणि विदधविश्वस्य मिषतो वशी ॥ (ऋ० सं० अ० ८ अ० ८ व. ४८) समुद्रादर्णवात्पश्चादहोरात्राणि धारयन् । स्वाधीनकर्ता विश्वस्य निमेषोन्मेषकारिणः ॥ स्थावरस्यापि वशकद्वत्सरः समजायत ॥ ३८॥ । समुद्रादर्णवादधि अनन्तरं संवत्सरोऽजायत । कथंभूतः, अहोरात्राणि विदधत्कुर्वाणः । पुनः कीदृशो वत्सरः, मिषतो निमेषं कुर्वतः । उपलक्षणमेतृत् । अमिषतो नेत्रव्यापारमकुर्वतः स्थावरत्मकस्यापि विश्वस्य वशी स्वाधीनकर्ता ॥३७॥ सूर्याचन्द्रमसौं धाता यथापूर्वमंकल्पयत् । दिवं च पृथिवीं चान्तरिक्षमथो वः ॥ (ऋ० सं० अ० ८ अ० ८ व. १८) अर्कचन्द्रौ भोग्यवस्तु दिवशन्देन भूनमः । स्वर्ग चाधस्तनाँल्लोकानन्यच्चापि चकारतः ॥ पूर्वकल्पानुसारेण परमात्मा चकार वै ॥ ३९ ॥ सूर्याचन्द्रमसाविति । ननु आधाराधेयभावेन विद्यमानं ब्रह्माण्डं परमात्मोत्पाद- यामासेत्युक्तं तत्कथमाकारमुत्पादयामासेत्यत आह-धाता परमेश्वरः सूर्याचन्द्र- मसौ दिवं लोकत्रयस्थ भोग्यमातं पृथिवीमन्तरिक्ष स्वः स्वर्गलोकम् । अथो अध इत्यस्मिन्नर्थे । अवस्ताद्वियमानं लोकसप्तकमपि यथापूर्व पूर्वकल्पानुसारेणाकल्पयद- जनस्त् ॥ ३९॥ ॐ भूर्भु० तत्सवि०। गायत्री व्याख्याता।
१० खण्डराजदीक्षितविरपिता- हंसः शुचिषदसुरन्तरिक्षसद्धोता वेदिषदतिथि- . ईरोणसव । नृपहरसदृतसद्दयोमसदब्जा गोजा ऋतजा अद्रिजा ऋतम् ॥ (ऋ० सं० अ० ३ भ० ७२०१४) हन्त्यघं खे गच्छति वा ततो हंस इति स्मृतः। पुण्यक्षेत्रादिकं याति शुचिषत्तत उच्यते ॥ ४० ॥ दृष्ट्या कान्त्या वासयति जगत्तस्माद्वसुः स्मृतः । वायुरूपेणान्तरिक्षं गच्छतीत्यन्तरिक्षसत् ॥ ४१ ॥ होमाधारोऽग्निरूपेण होता तस्माद्रविः स्मृतः। अतो वेद्यो सीदतीति वेदिषच स गद्यते ॥ ४२ ॥ अमादितिथिराहित्यात्पूज्यत्वाद्वाऽतिथिः स्मृतः । विदीर्णत्वावृत्कमलं दुरोणं तत्र वासकृत् ॥ ४ ॥ नरेषु प्राणरूपेण तिष्ठतीति नृपत्स्मृतः । श्रेष्ठस्थानेषु वसति तस्माद्वरसदुच्यते ॥ १४ ॥ प्रतं यज्ञ ऋतं सत्यमृतसत्तत्र वासतः । व्योनि चन्द्रादिरूपेण निवासाव्योमसत्स्मृतः ॥ १५ ॥ अप्सु मत्स्यादिरूपेण जातत्वादब्ज उच्यते । भूम्यां मादिरूपेण जातो गोजास्ततः स्मृतः ॥ ४६॥ सत्यात्परात्मनो जात ऋतजास्तत उच्यते । पाषाणादिस्वरूपेण गिरौ जातस्ततोऽद्रिजाः॥ ऋतशब्देनाय॑जलमस्त्वेतादृशभानवे ॥ १७ ॥ इंसः शुचिषत् । हन्ति नमो मण्डलेनाहनिशं गच्छतीति पापं हन्तीति वा हंसः। शुचौ पुण्यक्षेत्रादौ सीदति गच्छतीति शुचिषत् । वसन्त्यस्मिन्नुदकानि वृष्टिरूपाणीति वसुर्वासयति वृष्टिद्वारा वा जगदिति वसुर्जगन्निवासः । अन्तरिक्षे वाय्वात्मना सीदती. त्यन्तरिक्षसत् । होताऽग्निरूपः। “अग्निर्होता । अश्विनावध्व!" इति श्रुतेः । अतो वेद्यां सीदतीति वेदिषत् । अग्निवावादित्यानामभेदं वाजसनेयिनः समामनन्ति-"अयमग्नि- रयं वायुरयं वै सर्वे देवाः" इति । न विद्यतेऽमावास्यादितिथिर्यस्मिन्नसावतिथिः । नहि देवानां तिथिवारादिनियमोऽस्ति । तदुत्पादकत्वात्कर्मानधिकाराच मनुष्याधिकाराच्छा- माणामिति पूर्वतन्त्रोक्तेः । अतिथिवत्पूज्यत्वाद्वाऽतिथिः । लुप्तोपमा । विदीर्णत्वाद्धृत्क- मलं दुरोणं तत्र सीदतीति दुरोणसत् । नृषु मनुष्येषु प्राणरूपेण तिष्ठतीति नृषत् ।
प्रभाख्यटीकासमेतबवसंध्यामवार्थदीपिका ।
वरेत्कृष्ट स्थानेषु सीदतीति घरसत् । अते यज्ञे सत्ये वा सीदतीति ऋतसत् । व्योनि
चन्द्रनक्षत्ररूपेण सीदतीति व्योमसत् । अद्भ्यो मत्स्यादिरूपेण जायत इत्यम्जाः ।
गवि पृथिव्यां जायत इति गोजाः । तात्सत्यात्परमात्मनो जायत इति ऋतजाः।
अद्रौ पर्वते पाषाणादिरूपेण जायत इति अद्रिजाः। एतादृशाय सूर्याय ऋतमर्थ्य-
जलमस्तु ॥ ४० ॥ ४१ ॥ ४२ ॥ ४३ ॥ ४४ ॥ ४५ ॥ ४६॥ ४७ ॥
आ कृष्णेन रजसा वर्तमानो निवेशर्यत्रमृतं
मत्यै च । हिरण्ययेन सविता रथेनाऽऽ देवो
योति भुवनानि पश्यन् ॥
(ऋ० सं० अ० १ ०३०.)
आगच्छन्नसकृत्सूर्यः कृष्णेन गगनेन वै ।
संस्थापयन्स्वस्वदेशे मृतिहीनं च तद्युतम् ॥४८॥
देवं मनुष्यं च यद्वा पाणं मृतिविवर्जितम् ।
मृतियुक्तं शरीरं च स्वस्वकार्ये नियोजयन् ॥ ४९ ॥
प्रकाशयन्सर्वलोकान्सौवर्णेन रथेन वै ।
अस्मत्समीपमायाति दानादिगुणसंयुतः ॥५०॥
आ कृष्णेनेति । कृष्णेन कृष्णवर्णेन रजसाऽन्तरिक्षलोकेन "लोका रजाति"
इति निरुक्तम् । आवर्तमानोऽसकृदागच्छन् । अमृतं मरणरहितं देवं मयै मरण-
सहितं मनुष्यं च निवेशयन्स्वस्वदेशे स्थापयन् । यद्वाऽमृतं मरणरहितं प्राणम् ।
मत्यै मृतियुक्तं शरीरं च निवेशयन्स्वस्वकार्ये नियोजयन् । भुवनानि प्रकाशयन्स-
विता हिरण्ययेन हिरण्मयेन रथेनाऽऽयाति अस्मत्समीपमागच्छति ॥ १८ ॥
॥४९॥ १०॥
आयातु वरदा देवी अक्षरं ब्रह्म संमितम् ।
गायत्रौं छन्दसां मातेदं ब्रह्म जुषस्व मे ॥
(ते. आ० प्र० १० भ० ३४)
दीप्त्यादियुक्ता गायत्री देवता वरदा सती ॥५१॥
अस्मवृदयमायातु सूर्यमण्डलसंस्थिता ।
अनश्वरं हि यद्ब्रह्म वेदान्तैः मुनिरूपितम् ॥५२॥
निरूपयन्ती तद्ब्रह्म वेदानां जननी च सा।
मदीयहत्पङ्कजस्यं परं ब्रम प्रतोषयेत् ॥५१॥
- १२ खण्डराजदीक्षितविरचिता- आपातु घरदेति । वरदा वाञ्छितप्रदा देवी दीप्त्यादियुक्ता । किंच अक्षर विनाशरहितं संमितं वेदान्तैः सम्यनिरूपितं यद्ब्रह्म तन्निरूपयन्तीत्यध्याहारः । गायत्र्यायातु आदित्यमण्डलादस्मद्धृदयं प्रति आयातु । कीदृशी छन्दसां वेदानां माता । एतादृशी गायत्री देवता माता मे मम हृदयकमलस्थमिदं प्रत्यक्षं परं ब्रह्म जुषस्व पुरुषव्यत्ययः । जुषतां प्रीणयतु । गायच्या प्रीतं ब्रह्म मम सुखप्रदं भवत्वित्यर्थः ॥ ११ ॥ १२ ॥ ५३॥ यदहात्कुरुते पापं तदात्प्रतिमुच्यते । यात्रियोत्कुरुते पापं तद्वात्रियोत्प्रतिमुच्यते ॥ (ते. आ० प्र० १० अ० ३४) त्वद्भक्तो देवि कुरुते यदिने पातकं नरः। तस्मिन्नेव दिने तेन पापेन प्रतिमुच्यते ॥ ५४॥ त्वद्भक्तो देवि कुरुते यद्राव्यां पातकं नरः। तद्राच्यामेव पापेन तेन स प्रतिमुच्यते ॥ ५५ ॥ यदहात्कुरुत इति । हे गायत्रि त्वद्भक्तो यदहाद्यस्मिन्नहनि पापं कुरुते तदहात्तस्मिन्नहनि तेन पापेन प्रतिमुच्यते । शुद्धो भूयादिति भावः । यद्रात्रिया- यस्यां राव्यां पापं कुरुते तस्यां राज्यां तेन पापेन प्रतिमुच्यते विमुच्यते । एते छान्दसाः प्रयोगाः ॥ १४ ॥ १५ ॥ सर्ववर्णे महादेवि संध्यानिधे सरस्वति । (तै० आ० प्र० १० अ० ३४) मोजोऽसि सहोऽसि बलमसि भ्राज्ञोऽसि देवानां धामनामाऽसि विश्वमसि · विश्वायुः सर्वमसि सर्वायुरभिभूरों गायत्रीमावाहयामि सावित्रीमावाहयामि सरस्वतीमावाहयामि छन्दर्षीनावाहयामि श्रियमावाहयामि गाय- त्रिया गायत्री च्छन्दो विश्वामित्र ऋषिः सविता
(ते.
प्रभाख्यटीकासमेतबट्टचसंध्यामनार्थदीपिका ।
देवताऽग्निर्मुखं ब्रह्मा शिरो विष्णुर्हदय५
रुद्रः शिखा पृथिवी योनिः प्राणापानव्यानो-
दानसमाना सप्राणा श्वेतवर्णा सांख्यायनस-
गोत्रा गायत्री चतुर्विशयक्षरा त्रिपदा षट्-
कुक्षिः पञ्चशीर्षोपनयने विनियोगः ॥
• आ० प्र० १० भ० ३५)
कामरूपे महादेवि संध्यानुष्ठानरूपिणि ।
सरस्वतिस्वरूपे त्वमोजः कान्तिस्तयान्विता ॥ ५६ ॥
शत्रुनाशः सहः प्रोक्तं तद्युक्ता च बलान्विता ।
भ्राजोऽतिदीप्तिस्तद्युक्ता स्थानं दिविषदामसि ॥५७॥
पूर्वोक्तार्थः समग्रोऽपि प्रसिद्धो नामशब्दतः ।
जगत्त्वमसि गायत्रि त्वमायुर्जगतोऽसि च ॥५८॥
उक्तमेवोच्यते स्पष्टीकरणाय पदान्तः ।
अभितः सर्वभूतानि भवन्त्यस्या अतोऽभिभूः ॥ ५९॥
सर्ववर्ण इति । अपि च हे सर्ववणे हे कामरूपिणि महादेवि देवताश्रेष्ठे हे
संध्याविद्ये संध्यानुष्ठानरूपिणि हे सरस्वति त्वमोजः कान्तिरूपाऽसि ओजस्विनी-
त्यर्थः । सर्वत्र लिङ्गव्यत्ययः । सहोऽसि सहस्विनी शत्रुविनाशनीत्यर्थः । बलमसि
बलवती भ्राजोऽतिदीप्तिस्तद्वती त्वमसि, देवानामिन्द्रादीनां धाम स्थानमसि । देवा
स्त्वयि तिष्ठन्तीति भावः । हे गायत्रि त्वमेवंविधाऽस्मान्रक्षेति भावः । नामशब्दः
पूर्वोक्तार्थसिद्धिद्योतकः । अत एव त्वं विश्वं सर्व जगदसि । विश्वायुः सर्वजगजी-
वनकालोऽसि । सर्वमसि सर्वायुरिति पूर्वपदद्वयस्य स्पष्टीकरणार्थम् । अभितो
भवन्ति भूतानि यस्याः सकाशात्साऽभिभूः । गायत्रीमावाहयामीत्यादि । [स्पष्टम् ।
गायत्रीजपः ॥ १६ ॥ १७ ॥ १८ ॥ ५९॥
जातवेदसे सुनवाम सोममरातीयतो निदहाति
वेदः । स नः पर्षदति दुर्गाणि विश्वा नावेव
सिन्धु दुरिताऽत्यग्निः । (१० सं० अ० १ भ० ७ व० ७)
जातन्याय वा जातज्ञानाय वयमग्नये ।
सोमाख्यामोषषि कुर्मोऽभिषुतां यज्ञकर्मणि ॥६॥
- १४ खण्डराजदीक्षितविरचिता- सर्वज्ञोऽनिर्वेदशब्दाजनाशत्रुत्वमिच्छतः । नितरां दहतादस्मदघानि सकलानि सः॥ ६१ ॥ विनासयत्त्वशक्यानि दुःखेनापि विनाशितुम् । पारं जिगमिषून्पारं यथा नयति नाविकः । अस्मान्पारं गमयतु पापाब्धेः पावकस्तथा ॥ १२॥ अथ शान्त्यर्थकऋचां व्याख्यानम्--जातवेदस इति । सोमयागानुष्ठातारो वयं लतात्मकं सोमं सुनवामाभिषुतं करवाम । कस्मै, जातानि वेदांसि द्रव्याणि सकल. ज्ञानानि वा यस्मात्तस्मै जातवेदसेऽग्नये । यस्मा अग्नये सोमं सुनवाम सोऽनिर्वेदः सर्वज्ञः, अरातीयतोऽरातित्वं शत्रुत्वमस्मासु ये कर्तुमिच्छन्ति तेऽरातीयतः । तामिदहाति नितरां दहतु । किंच नोऽस्मत्संबन्धीनि विश्वा सर्वाणि दुर्गाणि दुस्तराणि एनासि.अतिपर्षत् , विनाशयतु । यथा नाविको नावा सिन्धुं पारं जिग- मिळूस्तारयति तथा दुरिता दुरितानि दुरितसागरपारं भगवाननिरस्मान्गमयताम् ॥ ॥ ६० ॥ ६१ ॥ ६२ ॥ मा नस्तोके तनये मा न आयौ मा नो गोषु मा नो अश्वेषु रीरिषः । वीरान्मा नौ रुद्र भामितो वधीहविष्म॑न्तः सदमित्त्वा हवामहे ॥ (क्र० सं० अ० १ अ० ८ व०६) रुद्रोदनमर्मिभ्यो राति दत्ते ततः शिवः । रुद्र इत्युच्यते प्रीत्या श्रुत्या मुनिवरैरपि ॥६३ ॥ रौति सत्यं शब्दयति रुद्गीर्वेदान्तरूपिणी । तया वाऽऽद्रियते भक्त्या वर्ण्यते रुद्र उच्यते ॥ ६४॥ आत्मजं तत्सुतं चाऽऽयुर्गा अश्वांश्च सुतादिकान् । मा हिंसयास्पदीयांस्त्वं मा वधीः कोपसंयुतः ॥ हव्ययुक्ता वयं रुद्र सदैव त्वां हवामहे ॥६५॥ मा नस्तोक इति । रोदयति पापिन इति रुद्रः। रौति यथार्थ शब्दयतीति रुद्वेदो वेदान्तलक्षणा वाक्तया द्रियत आद्रियते सादरं प्रतिपाद्यत इति रुद्रः । रुद्रोदनं भक्तसंबन्धि द्रावयति कुत्सितगति प्रापयतीति वा रुद्रः। तत्संबोधनं हे रुद्र भगवनोऽस्माकं तोके तोकं पुत्रं द्वितीयार्थे. सप्तम्यः । तनये तत्पुत्रं च मा रीरिषो मा विनाशय । आयौ, आयुं जीवितकालं गोषु गा अश्वेषु अश्वान्मा रीरिषः । - प्रभाख्यटीकासमेतबवचसंध्यामवार्थदीपिका । १५ अपि च भामितः क्रुद्धः सन्वीरान्पुत्रभृत्यादीन्मा वधीः । तदर्य वयं हविजन्तो हव्ययुक्ताः सन्तः सदमित्सदैव त्वां हवामहे ॥ १३ ॥ १४ ॥ ६ ॥ व्यम्बकं यजामहे सुगन्धि पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृताव॥ (ऋ० सं० भ० ५ भ० ४ व. ३०) यजामहे त्रिनेत्रं त्वां सुगन्धिं पुष्टिवर्धनम् ॥ १६ ॥ कर्कट्यादिफलं पकं यथा वृन्तात्प्रमुच्यते । तथा मृत्योर्मोचयास्मानमृतान्मा विमोचय ॥ ६७ ॥ त्र्यम्बकं यजामहे । हे भगवन् , त्र्यम्बकं त्रिनेत्रं सुगन्धि दिव्यसौरभयुक्तं पुष्टिवर्धनं खभक्तपालनवर्धकं त्वां यजामहे । यथोरुिकं कर्कट्यादेः फलं पक्कं सबन्धनादृन्तान्मुच्यते तथाऽस्मान्मृत्योः सकाशान्मुक्षीय मोचय । अमृतान्मोक्षा- न्मा मुक्षीय मा मोचय ॥ १६ ॥ ६७ ॥ समानी व आकूतिः समाना हृदयानि वः । समानमस्तु वो मनो या वः सुसहा सति ॥ (ऋ० सं० अ० ८ ० ८५०४९) अस्मद्गोपनविषयो यः प्रयत्नोऽस्ति यः सुराः । अवकः सोऽस्त्ववक्राणि सन्त्वन्तःकरणानि वः ॥ ६८॥ अवक्रमस्तु भवतां संकल्पादियुतं मनः । हे वेदोक्तसुरा यत्नमनोन्तःकरणानि वः ॥ सुलभानि यथा साधौ तथा स्युस्तायो मयि ॥ ६९ ॥ समानी व इति । भो वेदमन्त्रोक्तसमस्तदेवता वो युष्माकमाकूतिरस्मद्रक्षणप्रयत्नः समानी सरलाऽस्तु वो हृदयानि समाना सरलानि वो मनः संकल्पादियुक्तं मानसं समानं सरलमस्तु । वो युष्माकमाकूतिहृदयमनांसि सति सज्जने सुसहानि सुलभानि यथा तथाऽस्मासु सुलभानि भूयासुरिति योजयितव्यम् ॥ १८ ॥ १९ ॥ तंच्छं योरावृणीमहे गातुं यज्ञाय गातुं यज्ञपतये * अयं मस्तैत्तिरीयशाखानुसारी पठनीय इति प्रतिभाति तथाऽपि तारक्संप्रदायाभावा- तथाऽत्र न स्थापितः । परं तु ऋक्शाखायामतन्मन्त्रस्याभावादृक्शाखानुसारिपठनस्याशक्यत्वात्सू- त्रादौ संपूर्णमन्त्रपाठीभावात्सौत्रधर्मेणापि पठनस्याशक्यत्वाच तैत्तिरीयशासानुसारिपठनसंप्रदायाभावे मूल सुधीभिविन्यम् ।
१६ स्वण्डराजदीक्षितविरचिता- देवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः । ऊर्ध्व जिगातु भेषजं शं नो अस्तु हिपदे शं चतुष्पदे ॥ ख्यातं सुखं सर्वदेवा दुःखस्यामिश्रणं तथा । युष्मत्मसादाद्याचाम(मो) गानं कर्तुं मखाय वै ॥ ७० ॥ गानं कर्तुं मखेशाय दैवी श्रेयःपरम्परा । अस्त्वस्मभ्यं मदीयेभ्यो मनुष्येभ्यश्च साऽस्तु वै ॥ ७१ ॥ समायात्वौषधं चास्मानुत्कृष्टं सर्वरोगहृत् । अस्मदीयद्विपादाय चतुष्पादाय शं भवेत् ॥ ७२ ॥ तच्छ योरिति । भोः सर्वदेवास्तत्प्रसिद्ध शमैहिकामुष्मिकं सुखं, योरित्यव्ययं यु मिश्रणामिश्रणयोरितिधातूत्पन्नम् । अत्रामिश्रणमुपादीयते । दुःखामिश्रणं युष्मत्प्र- सादाद्वयमावणीमहे । किं कर्तुं यज्ञायाग्निष्टोमादिनिष्पत्तये । गातुमौद्गात्रं कर्तुम् । पुनः किं कर्तुं यज्ञपतये परमेश्वराय गातुं नोऽस्मभ्यं दैवी देवसंबन्धिनी स्वस्तिः कल्याणपरम्पराऽस्तु। किंच नोऽस्मत्संबन्धिमानुषेभ्यः स्वस्तिरस्तु । ऊर्ध्वमुत्कृष्टं भेष- जमौषधमस्मान्प्रति जिगातु पुनः पुनरागच्छतु । नो द्विपदे पुत्रादये चतुष्पदे गवा- दये च शमस्तु । शो तनूकरणे, श्यति दुःखं तनू करोतीति शम् ॥ ७०।७१॥७२॥ नमो ब्रह्मणे नमो अस्त्वनये नमः पृथिव्यै नम ओषधीभ्यः । नमो वाचे नमो वाचस्प- तये नमो विष्णवे महते करोमि । ( आ० गृह्यमू० अ० ३) भवस्य हेत्यै जगतामित्यादिश्रुतिवाक्यतः । वर्धनात्सर्वजगतां ब्रह्मा शिव उदीरितः ॥ ७३ ॥ तस्मै च वह्नये भूम्यै चौषधीभ्यो गिरे नतिम् । कुर्वे तत्पतये धात्रे विष्णवे महते नमः ॥ ७४ ॥ नमो ब्रह्मण इति । बृंहयति वर्धयति चतुर्दश भुवनानीति ब्रह्मा परशिवस्तस्मै नमोऽस्तु । ननु शिक्स्य कथं ब्रह्मत्वम् । “ दिशां च पतयेऽन्नानां पतये क्षेत्राणां पतय ओषधीनां पतये जगतां पतये" इत्यादिरुद्राध्यायवाक्यैर्बहुधा प्रपञ्चितम् । पतिः पालक इति त्रयीभाष्यकृतः । वाचः सरस्वत्याः पतये विरिञ्चये नमोऽस्तु । गीर्वाग्वाणी सरस्वतीति कोशात् । विष्णवे नमोऽस्तु । महते समस्तसुरपूज्याय । इदं प्रयाणां विशेषणम् । अग्नये, पृथिव्यै, ओषधीभ्यः, वाचे वाग्देवतायै नमोऽस्तु । ओषधीनां नमस्कारः किमितीति चेत् , अन्नमूलं हि सौभाग्यम्- 'अन्न५ साम्रा-
प्रभाख्यटीकासमेतबड्वचसंध्यामधार्यदीपिका ।
यानामधिपति तन्माऽवतु' इति श्रुतेः । अत्र दत्तहविषा देवा अप्युपजीवन्ति
तस्ताभ्यो नतिर्विहिता ॥ ७३ ॥ ७४ ॥
नमः प्राच्य दिशे याश्च देवा एतस्यां पति-
वसन्येताभ्यश्च नमो नमो दक्षिणायै दिशे
याच देवता एतस्यां प्रतिवसन्येताभ्यश्च नमो
नमः प्रतीच्यै दिशे याश्च देवता एतस्यां
प्रतिवसन्त्येताभ्यश्च नमो नम उदीच्यै दिशे
याच देवता एतस्यां पतिवसन्येताभ्यश्च नमो
नम ऊीय दिशे याश्च देवता एतस्यां पति-
वसन्त्येताभ्यश्च नमो नमोऽधराय दिशे याच
देवता एतस्यां प्रतिवसन्त्येताभ्यश्च नमो
नमोऽवान्तराय दिशे याच देवा एतस्यां
प्रतिवसन्त्येताभ्यश्च नमो नमो गङ्गायमुनयो-
मध्ये ये वसन्ति ते मे प्रसन्नात्मानश्चिरं जीवितं
वर्धयन्ति नमो गङ्गायमुनयोर्मुनिभ्यश्च नमो
नमो गङ्गायमुनयोर्मुनिभ्यश्च नमः ॥
(ते. आ० प्र० २ अ० २०)
माग्दिशे तनिवासिभ्यो देवेभ्यश्च नमो नमः ।
रीत्याऽमया सर्वदिग्भ्यो देवेभ्योऽपि नमो नमः ॥ ७५ ।।
मित्रस्य चर्षणीधृतोऽवो देवस्य सानसि ।
द्युम्नं चित्रश्रवस्तमम् ॥ (ऋ० सं० अ० ३ ० ४ व० ६ )
मित्रवद्धितकर्तुः मर्त्यधर्तुश्च वृष्टिभिः ।
दीप्तियुक्तस्य सूर्यस्य सेव्यमन्नं जनैस्तथा ।।
विशेषचित्रकीान्यं द्रव्यं सोऽवतु नः सदा ॥ ७६ ॥
१८ खण्डराजदीक्षितविरचिता- अथोपस्थानम्-उपस्थानं नाम साञ्जलिबन्धं देवताप्रार्थनम् । मित्रस्येति देवस्य दीप्यमानस्य, चर्षणीधृतो वृष्टिभिर्मानां धारकस्य सर्वेषां जगतां विशेषत कमलानां मित्रस्य सुहृदः सूर्यस्य संबन्धि अवो रक्षणमन्नं वा सानसि सेवनीयम् तथा घुम्नं धनं, चित्रश्रवस्तममतिशयेन चित्रकीर्तियुक्तम् । तदपि सानसि सेव्यम् स सूर्योऽस्मानवत्विति वाक्यशेषः ॥ ७६ ॥ अभि यो महिना दिवं मित्रो बभूव सप्रथाः । अभि श्रवौभिः पृथिवीम् ॥ (ऋ० सं० अ०.३ अ० ४ २०६) कीर्तियुक्तो हि यो मित्रः स्वमहिनाभितो दिवम् । वर्ततेऽनैः कृतैर्वृष्ट्या पृथिवीमभिवर्तते ॥ ७७ ॥ अभि यो महिनेति । यो मित्रः सप्रथा: कीर्तियुक्तः सन्महिना स्वमहिम्न दिवमभि अभितो बभूव वर्तते । श्रवोभिवृश्या कृतैरन्नैः पृथिवीमभिवभूवाभिव्याप्र वर्तते ॥ ७७ ॥ मित्राय पञ्च येमिरे जना अभिष्टिशवसे । स देवान्विश्वान्विभर्ति ॥ (ऋ० सं० अ० ३ अ० ४ व० ६) निषादपञ्चमा वर्णा मित्राय द्विषतः प्रति । अभिगन्तृबलाढ्याय हवींष्युद्धारयन्ति वै । स्वस्वरूपतया देवान्धारयत्यखिलांश्च सः ॥ ७८॥ मित्राय पञ्चेति । पश्च जनाः निषादपञ्चमा वर्णा अभिष्टिशवसे शत्रून्प्रति अभिगन्तृबलयुक्ताय मित्राय येमिरे हव्यानुद्धारयन्ति स सूर्यो विश्वान्विभर्ति स्वख रूपतया सर्वान्देवान्धारयति ॥ ७८ ॥ मित्रो देवेष्वायुषु जनाय वृक्तर्हिषे । इर्ष इश्वेता अकः ॥ (ऋ० सं० अ० ३ अ० १०६) दानादियुक्तमर्येषु हविरासादनाय यः। छिन्मबहिर्जनस्तस्मै जगतां परिपालकः ॥ कल्याणयज्ञकारीणि ददात्यनानि भास्करः ॥ ७९ ॥ मित्रो देवेष्विति । देवेषु दानादियुक्तेषु आयुष मत्र्येषु यो जनो वृक्तबहिर्यागा प्रभाख्यटीकासमेतबट्टचसंध्यामनार्थदीपिका । नदर्भस्तस्मै मित्रो जगत्परिपालको रविरिष्म्रताः कल्याणयज्ञकारिणीरिषोऽन्नानि कः करोति ददातीत्यर्थः ॥ ७९ ॥ इमं में वरुण श्रुधी हवमद्या च मृळय । खामवस्युराचके ॥ (ऋ० सं० अ० १ अ० २ १० १९ ) इदं वरुण मत्रोक्तं शृण्वाहानं तु मामकम् । अस्मिन्नुपस्थानकाले कुरु त्वं मां सुखान्वितम् ॥ अवनेच्छुः कामये त्वां पूर्वार्धनान्वयस्ततः ॥ ८ ॥ अथ सायंसंध्योपस्थानम् -इमं म इति । हे वरुण त्वं मे मम संबन्धिनमिम त्यक्षं मन्त्रवाग्भिः पठ्यमानं हवं त्वदाह्वानं श्रुधि शृणु अद्यास्यामुपस्थानवेलायाम् । येत्यत्र निपातस्य चेति दीर्घः । मां मूळय सुखय । अवस्यू रक्षणेच्छुरहं यस्मा. पामाचके कामये तस्माच्छृणु मृळय चेति पूर्वेणान्वयः ॥ ८० ॥ तत्त्वा यामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः । अहेळमानो वरुणेह बोध्युरेशंस मा न आयुः प्रमोषीः ॥ (ऋ० सं० अ० १ अ० २ २०१५) याचे वरुण तद्वस्तु मत्रेण त्वां स्तुवमहम् । यष्टा हव्यैः कामयते यत्त्वत्तो बहुसंस्तुत ॥ बुध्यस्व मामिहाक्रोध आयुर्नो मा विनाशय ॥ ८१ ॥ तस्था यामीति । हे वरुण यजमानो इविभिस्तबद्वस्तु आशास्ते त्वत्तः कामयतेऽहं तद्वस्तु त्वा त्वां यामि याचामि । यामीति याचनानाममु निघण्टौ राठात् । कीदृशो यजमानोऽहं च, ब्रह्मणा वन्दमानो वैदिकमन्त्रेण त्वामुपतिष्ठ- रानः । उरुशंस बहुस्तुत हे वरुणाहेळमानोऽक्रुध्यन्सन्निहास्मिलोके बोधि मां गोण्यत्वेन जानीहि । नोऽस्माकमायुर्मा प्रमोषीर्मा विनाशय ॥ ८१ ॥ उत्तमें शिखरे जाते भूम्यां पर्वतमूर्धनि ब्राह्मणेभ्योऽभ्यनुज्ञाता गच्छ देवि यथासुखम्, (ते. '. आ.प्र.१० भ०३१ * २० खण्डराजदीक्षितविरचिता- सर्वोत्कृष्ट काशिकादिक्षेत्रे श्रेष्ठगिरेस्तथा। मेर्वादेः शृङ्गदेशे च मानसादौ भुवः स्थले ॥ ८२ ॥ हिमाचलादेः शिखरे प्रादुर्भावसमन्विते । हे गायत्रि ब्राह्मणेभ्योऽनुज्ञाता गच्छ वै सुखम् ॥ ८३ ॥ उत्तमे शिखर इति द्वयोर्वामदेव ऋषिः । अनुष्टुब्गायत्री । उद्वासने विनि- पोगः । उत्तमे सर्वोत्कृष्ट वाराणस्यादिक्षेत्रे शिखरे मेदिशिखरे जाते प्रादुर्भूते भूम्यां मानससरोवरादौ पर्वतमूर्धनि हिमाचलादिमस्तके च जाते हे देवि गायत्रि ब्राह्मणेभ्यः सकाशादभ्यनुज्ञाताऽनुज्ञां प्राप्ता सती पूर्वोक्तस्थानेषु यथासुखं गच्छ ॥ ८२॥ ८३ ॥ आकाशात्पतितं तोयं यथा गच्छति सागरम् । सर्वदेवनमस्कारः केशवं प्रति गच्छति ॥ नभसः पतितं वारि यथा गच्छति वारिधिम् । सर्वदेवनतिस्तद्वत्परमात्मानमेति वै ॥ ८४ ॥ आकाशादिति । आकाशाद्भूमौ पतितं तोयं नदीनदादिद्वारेण यथा सागरं गच्छति तथेन्द्रादिसर्वदेवेभ्यः कृतो नमस्कारः केशवं परमात्मानं प्रति गच्छति । को ब्रह्मा, ईशः शंकरः, अवति रक्षति जगदित्यवो विष्णुः, त्रिमूर्तिस्वरूपः सर्वदेव. तात्मकश्च परमात्मा केशवः केश, अव इत्यत्र शकन्धवादित्वात्पररूपम् ॥ ८४ ॥ उदु यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् ॥ ( ० सं० अ० १ ० ४२० . ) प्रज्ञापका उद्वहन्ति किरणाः प्रेरकं रविम् । प्रसिद्ध जातभूतानां वेदितारं च भास्वरम् ॥ ८५ ॥ अथ सूर्योपस्थानमन्त्रा व्याख्यायन्ते-उदु त्यमिति । केतवः +प्रज्ञापकाः सूर्यर श्मयो देवं द्योतमानं त्यं प्रसिद्धं जातवेदसं जातानां प्राणिनां वेदितारं सूर्य सर्वस्य प्रेरकमादित्यमुदूर्व वहन्ति । उ इति पादपूरणे । किमर्थं विश्वाय विश्वस्य दृशे द्रव यथा सर्वे जनाः पश्यन्ति तथो वहन्तीत्यर्थः ॥ ८५ ॥ अप ये तायवों यथा नक्षत्रा यन्त्यक्तुभिः । सूरांय विश्वचक्षसे ॥ (ऋ० सं० अ० १ ० ४ व० ७) * एतट्टीकानुरोधेन 'स्तुतो मया वरदा' इति मन्त्रोऽपेक्षितः । अस्य व्याख्यानप्रन्थ उपर मिक्के न विद्यते । + केतुवत्प्रकाशका इति तैत्तिरीयभाष्येऽर्थः । - २१ प्रभाख्यटीकासमेतबड्वसंध्यामनार्यदीपिका । नक्षत्राण्यपगच्छन्ति रात्रिभिः सह तस्कराः। यथा प्रसिद्धा गच्छन्ति दृष्ट्वैवाऽऽगमनं रवः ।। विश्वप्रकाशकस्यैते पलायन्ते हि तद्भिया ॥ ८६ ॥ अप त्य इति । त्ये ते प्रसिद्धास्तायवस्तस्करा इव नक्षत्राणि अक्तुभी रात्रिमिः सहापयन्ति अपगच्छन्ति । विश्वचक्षसे विश्वस्य सर्वस्य प्रकाशकस्य सूराय सूर्यस्य, आगमनं दृष्ट्वैति शेषः । तस्करा नक्षत्राणि च रात्रिभिः सह सूर्य आगमिष्यतीति मीत्या पलायन्त इत्यर्थः ॥ ८६ ॥ अदृश्रमस्य केतवो वि रश्मयो जना अर्नु । भ्राजन्तो अग्नयों यथा ॥ (ऋ० सं० अ० १ अ० ४ ०७) प्रज्ञापका भास्करस्य मयूखाः क्रमशोऽधिकम् ॥ ८७ ।। ईक्षन्ते निखिलाञ्जातान्दीप्यमाना इवामयः ।। प्रकाशयन्ति निखिलं जगदित्यं विहाऽऽशयः॥ ८८॥ अदृश्रमस्येति । अस्य सूर्यस्य केतवः प्रज्ञापका रश्मयो जनाननु व्यर जातान्सर्वाननुक्रमेण विशेषतः प्रेक्षन्ते सर्व जगत्प्रकाशयन्तीत्यर्थः । तत्र दृष्टान्तः- भ्राजन्तो अनयो यथा दीप्यमाना अग्नय इव । दृशिर प्रेक्षणे, वर्तमाने लुङ् ॥ ॥७॥८॥ तरणिविश्वदर्शतो ज्योतिष्कृदसि सूर्य । विश्व- माासि रोचनम् ॥ (ऋ० सं० अ० १ अ० ४ व० ७) अन्यैरशक्यस्य च गन्तुमध्वनो गन्ताऽसि वा तारयिताऽसि रोगात् । भक्तस्य सर्वैरसि दर्शनीयो यद्वा प्रकाश्यं त्वखिलं च येन ॥ ८९ ॥ प्रकाशकर्ता त्वथवा निशायां चन्द्रादिकानामपि दीप्तिकर्ता । द्वारस्थितादर्शतले निविष्टा रवे करा वेश्मगतं तमो यथा ॥९॥ निवारयन्त्यम्मयचन्द्रताराबिम्बप्रविष्टा जगदन्धकारम् । एवंप्रकारेण यतोऽस्ति तस्माद्याप्तं खमाभासयसि प्रदीप्तम् ॥ ९१ ॥ 6592 अध्यात्मपक्षे- अन्तर्यामितया सर्वप्रेरणात्सूर्यनामक । परमात्मंस्तारकोऽसि संसारान्धेर्यतोऽखिलैः ॥९२ ॥ - THE RANAKRISHNA SHO INSTITUTE OF Cum -- - १२ खण्डराजदीक्षितविरचिता- मुमुक्षुभिस्त्वं द्रष्टव्यः साक्षात्कर्तव्य आशयः। अधिष्ठानापरोक्षे तु दृश्यं सर्व निवर्तते ॥ ९३ ॥ सूर्यादीनां तथा कर्ता दृश्यं दीप्तं यथा तथा। प्रकाशयसि चैतन्यस्फुरणे दृश्यते जगत् ॥९४॥ तरणिरिति । हे सूर्य त्वं तरणिस्तरिताऽन्येन गन्तुमशक्यस्य महतोऽध्वनो गन्ताऽसि । तथाच स्मर्यते- "योजनानां सहस्र द्वे द्वे शते द्वे च योजने । एकेन निमिषार्धेन क्रममाण नमोऽस्तु ते" ॥ यद्वा-तरणिरुपासकानां रोगात्तारयिताऽसि । “आरोग्यं भास्करादिच्छेत्" इति स्मरणात् । तथा विश्वदर्शतो विश्वैः सर्वैः प्राणिभिर्दर्शतो दर्शनीयः । आदित्यदर्शनस्य चाण्डालादिदर्शनजनितपापनिबर्हणहेतुत्वात्। तथा चाऽऽपस्तम्बः--"चाण्डालादिदर्शने ज्योतिषां दर्शनम्" इति । यद्वा-विश्वं सर्वं दर्शतं द्रष्टव्यं प्रकाश्यं येन स तथोक्तः । तथा ज्योतिष्कृत्प्रकाशकर्ता । यद्वा-चन्द्रादीनां रात्रौ प्रकाशो येन । रात्री हि अम्मयेषु चन्द्रादिबिम्बेषु सूर्यकिरणाः प्रतिफलिताः सन्तोऽन्धकारं निवारयन्ति । यथा द्वारस्थितदर्पणे पतिताः सूर्यरश्मयो गृहान्तर्गतं तमो निवारयन्ति तद्वदित्यर्थः । यस्मादेवं तस्माद्विश्वं व्याप्तं रोचनं रोचमानमन्तरिक्षमा समन्ताद्भासि प्रकाशयसि । यद्वा-हे सूर्यान्तर्यामितया सर्वस्य प्रेरक परमात्मंस्तरणिः संसाराब्धेस्तारकोऽसि यस्मात्तस्मात्त्वं विश्वदर्शतो विश्वैः सर्वैर्मुमुक्षुभिर्दर्शतो द्रष्टव्यः साक्षात्कर्तव्यः । अधि. छानसाक्षात्कारे ह्यारोपितं निवर्तते । ज्योतिष्कृत्सूर्यादेः कर्ता । " चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत " इति श्रुतेः । ईदृशस्त्वं चिद्रूपस्तथा विश्वं सर्व दृश्यजातं रोचनं दीप्यमानं यथा भवति तथाऽऽभासि प्रकाशयति । चैतन्यस्फुरणे हि सर्व जगदृश्यते । “ तमेव मान्तमनु भाति सर्वम् " इति श्रुतेः ॥ ८९ ॥९० ॥ ९१ ॥ ॥ ९२ ॥ ९३ ॥ ९४ ॥ प्रत्यङ्देवानां विशः प्रत्यङ्देषि मानुषान् । प्रत्यविश्वं स्वदेशे ॥ (ऋ० सं० अ० ११० ४१०७) देवमजा मरुत्संज्ञाः प्रति गच्छ देषि वै । मनुष्यान्यति गच्छंश्च यासि त्वं भास्करोदयम् ॥९५ ॥ तथा व्याप्त स्वर्गलोकं द्रष्टुं प्रत्यङ्देषि वै । त्रिलोकस्था जनाः सूर्य पश्यन्ति स्वाभिमुख्यतः ॥ ९६ ॥ प्रत्यदेवानामिति ।हे सूर्य वं देवानां विक्षः प्रमा मल्लसंज्ञकान्देवान् ।
२३ प्रभाख्यटीकासमेतषवृषसंध्यामचार्यदीपिका । " मरुतो वै देवविशः " इति श्रुत्यन्तरात् । तान्मरुत्संज्ञकान्देवान्मत्यङ्देषि तान्प्रति गछन्नुदयं प्राप्नोषि तेषामभिमुखं यथा भवति तथेत्यर्थः । तथा मानुषान्मनुष्यान्प्र- त्यङ्देषि । तेऽपि यथाऽस्मदभिमुख एव सूर्य उदेतीति मन्यन्ते तथा विश्वं व्याप्तं स्वः खोकं रशे द्रष्टुं प्रत्यङ्ङदेषि यथा स्वलोकवासिनो जनाः स्वस्वाभिमुख्येन पश्यन्ति तथोदेषीत्यर्थः । एतदुक्तं भवति-लोकत्रयवर्तिनो जनाः सर्वेऽपि स्वस्वा. भिमुख्येन सूर्य पश्यन्ति । एतचाऽऽनायते-“तस्मात्सर्व एव मन्यते मां प्रत्युद- गात्" इति ॥ ९५ ॥ ९ ॥ येनो पावक चक्षसा भुरण्यन्तं जना अनु । वं वरुण पश्यसि ॥ ( ऋ० सं० अ० १ अ० ४ व० ८ ) येन प्रकाशेन च सर्वशोधक लोकं त्विमं वै त्वमनुक्रमेण । प्रकाशयस्यस्मदनिष्टवारक स्तुमः प्रकाशं जनधारकं तम् ॥ ९७ ॥ येना पावकेति । हे पावक सर्वस्य शोधक वरुणानिष्टवारक सूर्य त्वं जनाना- तान्प्राणिनो भुरण्यन्तं धारयन्तमिमं लोकं येन चक्षसा प्रकाशेनानुपश्यसि अनुक्र- मेण प्रकाशयसि । तं प्रकाशं स्तुम इति शेषः । यद्वोत्तरस्यामृचि संबन्धस्तेन चक्षसा ज्येषीति । तथा च यास्केनोक्तम्-- "तत्ते वयं स्तुम इति वाक्यशेषोऽपि वोत्तरस्याम- वयस्तेन व्येषि" इति ॥ ९७ ॥ वि द्यामेषि रजस्पृथ्वहा मिमानो अक्तुभिः । पश्यञ्जन्मानि सूर्य ॥ (अ० सं० अ० १ ० ४ व०.८ ) अन्तरिक्षाभिधं लोकं विस्तीर्ण च विशेषतः ॥ ९८ ॥ गच्छस्युत्पादयन्सूर्य दिवसानात्रिभिः सह । तथैव भूतवृन्दानि जन्मपन्ति प्रकाशयन् ॥ १९ ॥ विद्यामेषीति । हे सूर्य त्वं पृथु विस्तीर्ण रजो लोकम् । " लोका रजांस्यु- व्यन्ते " इति यास्कः । धामन्तरिक्षलोकं व्येषि गच्छसि । किं कुर्वन् , अहाऽहानि अक्तुभी रात्रिभिः सह मिमान उत्पादयन् । आदित्यगस्यधीनत्वादेहारात्रविभागस्य। तथा जन्मानि जन्मवन्ति भूतानि पश्यन्प्रकाशयन् ॥ ९८ ॥ ९९॥ सप्त खो हरितो रथे वहन्ति देव सूर्य । शोचिष्कैशं विचक्षण ॥ (ऋ० सं० अ० १ अ० १६० ८ ) २४ खण्डराजदीक्षितविरचिता- हे सूर्य देव सर्वस्य प्रकाशक तुरंगमाः ॥ १००॥ हरिसंज्ञाः सप्तसंख्याः करा वा रसहारकाः॥ वहन्ति त्वां दीमकेशं स्यन्दने संस्थितं तथा ॥ १०१ ॥ सप्त त्वेति । हे सूर्य देव द्योतमान विचक्षण सर्वस्य प्रकाशयितः सप्त सप्त- संख्याका हरितोऽश्वा रसाहरणशीला रश्मयो वा त्वा त्वां वहन्ति प्रापयन्ति । कीदृशं त्वां रथेऽवस्थितमिति शेषः । तथा शोचिष्केशं शोचींषि तेजांस्येव केशा इव दृश्यन्ते यस्मिन्स तथोक्तस्तम् । हरित इत्यादित्याश्वानां संज्ञा । " हरित आदि- त्यस्य " इति निघण्टावुक्तत्वात् ॥ १०० ॥ १०१ ॥ अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः । ताभिर्याति स्वयुक्तिभिः ॥ ( ऋ० सं० अ० १ अ० ४ व० ८ ) सर्वस्य प्रेरकः सूर्यः शोधिकास्तुरगस्त्रियः । सप्तसंख्या योजितवान्पातयित्री रथस्य न ॥ १०२॥ योजिताभी रथे स्वेन ताभिर्यात्यध्वरं प्रति । अतस्तस्मै हविर्देयं वाक्यशेषेण गम्यते ॥ १०३ ॥ अयुक्तेति । सूरः सर्वस्य प्रेरकः सूर्यः शुन्ध्युवः शोधिका अश्वस्त्रियः सप्तसं- ख्याका अयुक्त स्वरथे योजितवान् । कीदृश्यः, रथस्य नप्त्यो न पातयित्र्यो रथो यामिर्न पततीत्यर्थः । स्वयुक्तिभिः स्वकीययोजनेन रथसंबन्धाभिस्ताभिरश्वस्त्रीभि- र्याति यज्ञगृहं प्रत्यागच्छति । अतस्तस्मै हविर्देयमिति वाक्यशेषः ॥१०२॥१०॥ उदयं तमसस्परि ज्योतिष्पश्यन्त उत्तरम् । देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥ (ऋ० सं० अ० १ अ० ० ८) राज्यंहसोः परस्तादि वर्तमान प्रभायुतम् । देवेषु मध्ये दानादियुक्तं श्रेष्ठतरं तथा ॥ १०४ ॥ पश्यन्त उत्कृष्टतम ज्योतिः सूर्यात्मकं वयम् । भक्ता हविभिः स्तुतिभिरुत्कर्षेणाऽऽमवाम वै ॥ १०५ ॥ उद्यमिति । वयमनुष्ठातारस्तमसस्परि तमसः परि रारूवं वर्तमानं पापादुः परि वर्तमानं च पापरहितमित्यर्थः । तथा चाऽऽम्नायते-"उद्वयं तमसस्परीत्याह पाप्मा वै तमः पाप्मानमेवास्मादपहन्ति" इति । ज्योतिस्तेजस्विनम् । उत्तरमुद्गततरमु- स्कृष्टतरं वा । देवत्रा देवेषु मध्ये देवं दानादिगुणयुक्तं सूर्य पश्यन्तः स्तुतिभिर्हविमि- - प्रभाख्यटीकासमेतबड्वचसंध्यामवार्थदीपिका । श्वोपासीनाः सन्त उत्तममुस्कृष्टतमं ज्योतिः सूर्यरूपं तेज उदुत्कर्षेणागन्म प्राप्तवाम । तथा च श्रूयते-अगन्म ज्योतिरुत्तममित्याह । अप्सौ वा आदित्यो ज्योतिरुत्तमम् । आदित्यस्यैव सायुज्यं गच्छति" इति । युक्तं चैतत् । “तं यथा यथोपासते तदेव मवति" इति श्रुत्यन्तरात् ॥ १०४ ॥ १०५ ॥ उद्यन्नय मित्रमह आरोहबुतरां दिवम्। हृद्रोगं मम सूर्य हरिमाणं च नाशय ॥ (ऋ० सं० अ० १ ० ४ ० ८) सर्वेषामनुकूलकान्तिसहित स्वं चोदयन्द्गतं रोग कान्तिहरं च बाह्यमपि मे रोगद्वयं संहर ॥ यद्वा देहगतं च रोगजनितं वर्ण हरित्संज्ञकं सूर्यास्मिन्समये हि नाशय परं खं प्रामुवन्संमुखम् ॥ १०६ ॥ उद्यमद्येति । हे सूर्य सर्वस्य प्रेरक मित्रमहः सर्वानुकूलदीप्तियुक्त, अद्यास्मि- काल उद्यन्नुदयं गच्छन्नुत्तरामुद्गततरां दिवमन्तरिक्षमारोहन्नाभिमुख्येन प्राप्नुवन् । यद्वा दिवमन्तरिक्षमुत्तरामारोहन्नुत्कर्षेण प्राप्नुवन् । एवंविधस्त्वं मम हृद्रोग हृदय- गतमान्तरं रोगं हरिमाणं शरीरकान्तिहरणशीलं बाह्यरोगं च । यद्वा शरीरगतं हरि- द्वर्ण रोगप्राप्तं वैवर्ण्यमित्यर्थः । तदुभयमपि नाशय स्तोतारं मामुभयविधरोगान्मोच- येत्यर्थः ॥ १० ॥ शुकेषु मे हरिमाणं रोपणाकासु दध्मसि । अथो हारिद्रवेषु मे हरिमाणं निदध्मसि ॥ (ऋ० सं० अ० १ ० ४.८) हरिद्भावं देहगं म इच्छत्सु शुकपक्षिषु ॥ १०७ ॥ स्थापयामः सारिकाहपक्षिणीषु स तिष्ठतु । हरिद्रातालक्षेषु हरित्वं निदधीमहि ॥ १०८ ॥ शुकेषु म इति । मे मदीयं हरिमाणं शरीरगतं हरिद्वर्णस्वमावं शुकेषु तादृशवर्ण कामयमानेषु शुकपक्षिषु तथा रोपणाकासु सारिकामु पक्षिविशेषेषु दध्मसि स्थाप. यामः । अथो अपि च हारिद्रवेषु हरिद्रातालवृक्षेषु मे मदीयं हरिमाणं निदध्मसि निदधीमहि । स च हरिमा तत्रैवाऽऽस्तामस्मान्मा बाधिष्टेत्यर्थः ॥ १०७ ॥ १०८ ॥ उद्गादयमादित्यो विश्र्वान सहसा सह ।
- २६ खण्डराजदीक्षितविरचिता- द्विषन्तं मी रन्धयन्मो अहं द्विषते रधम् ॥ (ऋ० सं० अ० १ अ० ४ २०८) पुरोवर्सदितेः पुत्र उदयं प्राप्तवान्सह । बलेन च समग्रेण ममोपद्रवकारिणम् ॥ १०९ ॥ रोगं हिंसमहं नैव द्वेष्टे रोगाय हिंसनम् । करोमि सवितैवास्मद्रोगं शीघ्रं विनाशयेत् ॥ ११० ॥ उदगादयमिति । अयं पुरोवादित्योऽदितेः पुत्रः सूर्यो विश्वेन सहसा सर्वेण बलेनोदगादुदयं प्राप्तवान् । किं कुर्वन्, मद्यं द्विषन्तं रन्धयन् ममोपद्रवकारिणं रोगं हिंसयन् । अपि चाहं द्विषतेऽनिष्टकारिणे रोगाय मो र, मैव हिंसा करोमि । सूर्य एवास्मदनिष्टकारिणं रोगं विनाशयत्वित्यर्थः ॥ १०९ ॥ ११०॥ चित्रं देवानामुदंगादनीकं चक्षुर्मित्रस्य वरुण- स्याग्नेः । आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च । (ऋ० सं० अ० १ ० ८ व. ७) किरणा अमरा वोक्ता देवास्तवृन्दलक्षणम् । सवितुर्मण्डलं चित्रमुदगादुदयाचलम् ॥ १११ ॥ मित्रामिवरुणादीनां घोतकं च दृगिन्द्रियम् । यां भुवं खं चाऽऽ समन्तात्तेजोभिः समपूरयत् ॥ ११२॥ ईमण्डलनिष्ठोऽर्कः सर्वान्तर्यामिलक्षणः। परमात्मा प्रेरणेन स्थिरजङ्गमयोस्तथा ॥ ११३॥ स्वरूपभूतः कार्य तु कारणामातिरिच्यते । जङ्गमस्य स्थावरस्य जीवात्मा वाऽयमीरितः॥ ११४ ॥ चित्रं देवानामिति । देवानां दीव्यन्तीति देवा रश्मयस्तेषां देवानां सुराणां वाऽनीकं तेजःसमूहरूपं चित्रमाश्चर्यकरं सूर्यमण्डलमुदगादुदयाचलं प्राप्तमासीत् । कीदृशं मित्रस्य वरुणस्यानेश्व, उपलक्षणमेतत् , उपलक्षितानां जगतां चक्षुः प्रका. शकं चक्षुरिन्द्रियस्थानीयं च । उदयं प्राप्य च द्यावापृथिवी दिवं स्वर्ग पृथिवीमन्त- रिक्षं चाऽऽमाः स्वकीयेन तेजसाऽऽ समन्तादपूरयत् । ईदृग्भूतो मण्डलान्तर्वर्ती सूर्योऽ. न्तर्यामितया सर्वप्रेरकः परमात्मा जगतो मङ्गमस्य तस्थुषः स्थावरस्य चाऽऽत्मा स्वरूपभूतः । स हि सर्वस्य स्थावरजङ्गमात्मकस्य कार्यवर्गस्य कारणं, कारणाच्च कार्य नातिरिच्यते । तथा च पारमर्ष सूत्रम्-" तदनन्यत्वमारम्भणशब्दादिभ्यः" इति - प्रभाख्यटीकासमेतषड्वयसंध्यामत्रार्यदीपिका । यद्वा स्थावरजङ्गमात्मकस्य सर्वप्राणिजातस्य जीवात्मा । उदिते हि सूर्ये मृतप्रायं सर्व जगत्पुनश्चेतनयुक्तं सदुपलभ्यते । तथाच श्रूयते-" योऽसौ तपन्चदेति स सर्वेषां भूतानां प्राणानादायोदेति " इति ॥ १११ ॥ ११२ ॥ ११३ ॥ ११४ ॥ सूर्यो देवीमुषसं रोचमानां मर्यो न योषाम- भ्येति पश्चात् । यत्रा नरों देवयन्तौ युगानि वितन्वते प्रति भद्राय भद्रम् ॥ (ऋ० सं० अ० १ ० ८ व. ७) दानादिगुणसंपना प्रदीप्तामुषसं रविः ॥ ११५ ॥ पश्चादभ्येति युवति रुचिरा मनुजो यथा। यस्यामुषसि जातायां यष्टारो देवकामुकाः ॥ ११६ ।। युग्मानि भूत्वा पत्नीभिरग्निहोत्रादिकं शुभम् । विस्तारयन्ति प्रत्येकं शुभरूपफलाय वै ॥ ११७ ॥ सूर्यो देवीमुषसमिति । सूर्यो देवी दानादिगुणयुक्तां रोचमानां दीप्यमाना. मुषसं पश्चादभ्येति उपसः प्रादुर्भावानन्तरं ताममिलक्ष्य गच्छति । तत्र दृष्टान्तः- मर्यो न योषां यथा कश्चिन्मनुष्यः शोमनावयवां गच्छन्ती युवति स्त्रियं संततमनुग- च्छति तद्वत् । यत्र यस्यामुषसि जातायां देवयन्तो देवान्यागार्थमात्मन इच्छन्तो यन- माना युगानि युग्मानि भूत्वा पत्नीभिः सहिताः सन्तो भद्रं कल्याणमग्निहोत्रादिकं कर्म भद्राय फलाय प्रति प्रत्येकं वितन्वते विस्तारयन्ति ॥ ११५ ॥ ११६॥११७॥ भद्रा अश्वा हरितः सूर्यस्य चित्रा एतग्वा अनु- माद्यांसः । नमस्यन्तो दिव आ पृष्ठमस्थुः परि द्यावापृथिवी यन्ति सद्यः। (ऋ० सं० अ० १ ० ८ ० . ) हारोऽनुक्रमात्स्तुत्या निखिलैविस्मयावहाः । गन्तव्यं प्रति गन्तारः कल्याणास्तुरगा रवेः ॥११८ ॥ नमस्यमाना अस्माभिरातिष्ठन्ति नभस्तलम् । ध्यामुवन्ति हि तत्कालं धुलोकं धरणी तथा ॥ ११९ ॥ किरणा वा रसहरा व्यापकाध विशेषणैः। भद्रादिभिश्चतुर्भिश्च संयुक्ता नभसस्तलम् ॥ आविष्ठन्ति व्यामुवन्ति सय एव तु रोदसी ॥ १२० ।।
२८ खण्डराजदीक्षितविरचिंता- - भद्रा अश्वा इति । भद्राः कल्याणा अधा एतग्वाः । एतदुभयमश्वनाम । तत्रैकं क्रियापरं योजनीयम् । अश्वा व्यापनशीला हरितो हारश्चित्रावयवा अनुमायासोऽनुक्रमेण सर्वैः स्तुत्या एतमेतव्यं गन्तव्यं मार्ग गन्तार एतग्वाः सूर्याश्वा नमस्यन्तोऽस्माभिर्नमस्यमानाः सन्तो दिवोऽन्तरिक्षस्य पृष्ठमाऽस्थुरातिष्ठन्ति व्यामुवन्ति । यद्वा हरितो रसहरणशीला रश्मयो भद्रादिविशेषणविशिष्टा दिवः पृष्ठं नमस्तलमातिष्ठन्ति । द्यावापृथिवी द्यावापृथिव्यौ सधस्तदानीमेवैकेनाहा परियन्ति परितो गच्छन्ति व्याप्नुवन्तीत्यर्थः ॥ ११८ ॥ ११९ ॥ १२० ॥ तत्सूर्यस्य देवत्वं तन्महित्वं मध्या कर्ता- विततं संजभार । यदेदयुक्त हरितः सधस्था- दादात्री वासंस्तनुते सिमस्मै (ऋ० सं० अ० १ अ० ८ व० ७) स्वातन्त्र्यं च महत्त्वं च सवितुः प्रेरकस्य तत् । प्रारब्धस्यासमासस्य कृष्यादेः कर्मणोऽन्तरे ॥ १२१ ॥ अस्तं यन्विततं तेज उपसंहरति ह्ययम् । असमाप्तं विसृजति कर्मकर्ता तु कर्म तत् ॥ १२२ ॥ यदैवामुञ्चदश्वान्या किरणान्स्वरथादसौ। अथ रात्रिः सर्वलोके तनोत्याच्छादकं तमः ॥ १२३ ॥ तत्सूर्यस्य देवत्वमिति । सूर्यस्य सर्वप्रेरकस्याऽऽदित्यस्य तदेवत्वमीश्वरत्वं स्वात- व्यमिति यावत् । महित्वं माहात्म्यं च तदेव । तच्छन्दश्रुतेर्यच्छब्दाध्याहारः । यत्क- तोः कर्मनामैतत् । प्रारब्धापरिसमाप्तस्य कृष्यादिलक्षणस्य कर्मणो मध्या मध्येऽप- रिसमाप्त एव कर्मणि विततं विस्तीर्ण स्वकीयं रश्मिजालमस्तं गच्छन्सूर्यः संजभार, अस्माल्लोकात्स्वात्मन्युपसंहरति । कर्मकरश्च प्रवृत्तं कर्मापरिसमाप्तमेव विसृजति अस्तं यन्तं सूर्य दृष्ट्वा । ईदृशं स्वातन्त्र्यं महिमा च सूर्यव्यतिरिक्तस्य कस्यास्ति न कस्यापि, सूर्य एवेदृशं स्वातन्त्र्यं महिमानं चावगाहते । अपि च, इदित्यवधारणे । यदेव , यस्मिन्नेव काले हरितो रसहरणशीलान्स्वरश्मीन्हरितवर्णानश्वान्वा सघस्थासह तिष्ठ- न्त्यस्मिन्निति सधस्थो स्थस्तस्मादयुक्तामुञ्चत्, आदनन्तरमेव रात्री निशा वास आच्छादयित तमः सिमस्मै सर्वस्मै, सिमशब्दः सर्वशब्दपर्यायः, सप्तम्यर्थे चतुर्थी, सर्वस्मिल्लोके विस्तारयति ॥ १२१ ॥ १२२ ॥ १२३ ॥ तन्मित्रस्य वरुणस्याभिचक्षे सूर्यों रूपं कृणुते - प्रभाख्यटीकासमेतवढचसंध्यामवार्थदीपिका । चोरूपस्थे । अनन्तमन्यदुर्शदस्य पाजः कृष्ण- मन्यद्वरितः संभरन्ति ॥ ( ऋ० सं० अ० १ अ० ८ ० . ) जलेशमित्राघुपलक्षितस्य सर्वस्य लोकस्य तु संमुखं वै । मध्येऽन्तरिक्षस्य करोति तेजो निरूपकं स्वोदयकाल एषः॥ १२४ ॥ अश्वा हरिद्वर्णसमन्विता वा रसान्हरन्तश्च रवे करा वा । दीप्तं समर्थ च तमोविनाशनेऽवसानहीनं तमसो विलक्षणम् ॥ १२५ ॥ तेजोऽहनि स्वागमनैश्च कुर्वते कृष्णं तमः स्वापगमैनिशायाम् । कर्मेदृशं वै किरणाः प्रकुर्वते रवमहत्त्वं हि किमु प्रवाच्यम् ॥ १२६ ॥ तन्मित्रस्येति । तत्तदानीमुदयसमये मित्रस्य वरुणस्यैतदुभयोपलक्षितस्य सर्व- जगतोऽभिचक्ष आभिमुख्येन चोर्नभस उपस्थे मध्ये सूर्यः सर्वस्य प्रेरकः सविता रूपं निरूपकं तेजः कृणुते करोति । अपि च-अस्य सूर्यस्य हरितो रसहरणशीला रश्मयो हरिद्वर्णा अश्वा वा । अनन्तमवसानरहितं कृत्स्नस्य जगतो व्यापकं, रुशदीप्य- मानं श्वेतवर्ण, पाजा, बलनामैतत् । अतिबलस्यापि नैशस्य तमसो निवारणे समर्थम् । अन्यत्तमसो विलक्षणं तेजः संभरन्ति अहनि स्वकीयागमनेन निष्पादयन्ति । तथा कृष्णं कृष्णवर्णमन्यत्तमः स्वकीयगमनेन रात्रौ । अस्य रश्मयोऽप्येवं कुर्वन्ति किमु वक्तव्यं तस्य माहात्म्यमिति सूर्यस्तुतिः ॥ १२४ ॥ १२५ ॥ १२६ ॥ अद्या देवा उदिता सूर्यस्य निरंहसः पिटता निरवद्यात् । तन्नो मित्रो वरुणो मामहन्ता- मदितिः सिन्धुः पृथिवी उत द्यौः ॥ (क० सं० अ० १ अ० ८५०७) अयोदये सति रवेर्दीप्ता हे सूर्यरश्मयः । गर्वात्पापातु निष्कृष्य यूयं रक्षत नः परम् ॥ एतत्सूक्तेनार्थितं यन्मित्राद्यास्तदवन्तु नः ॥ १२७ ॥ अया देवा इति । हे देवा द्योतमानाः सूर्यरश्मयोऽद्यास्मिन्काले सूर्यस्याऽऽदि- पस्योदिता, उदितावुदये सति, इतस्ततः प्रसरन्तो यूयमस्मानवद्याद्गदिंहसः पापा- अष्पित निष्कृष्य पालयत । यदिदमस्माभिरुक्तं नोऽस्मदीयं तन्मित्रादयः षब्देवता महन्तां पूजयन्तु । अनुमन्यन्तां रक्षन्त्विति यावत् । मित्रः प्रमीतेहिंसायास्त्राताऽ. रभिमानी देवः । वरुणोऽनिष्टानां निवारयिता राज्यभिमानी देवः । अदितिरखण्ड- ।
- खण्डराजदीक्षितविरचिता- नीया, अदितिरदीना वा देवमाता, सिन्धुः स्यन्दनशीलोदकाभिमानिनी देवता पृथिवी भूलोकाधिष्ठात्री देवता । घौयुलोकाधिष्ठात्री देवता । उतशब्दः समुच्चये ॥ १२७ ॥ यचिद्धि ते विशो यथा प्र देव वरुण व्रतम् । मिनीमसि चविद्यावि ॥ ( ऋ० सं० भ० १ २० २५० १६ ) कुर्वन्ति लोके वरुण प्रमादं प्रजाः कदाचिञ्च यथा तथा वयम् ॥ १२८ ॥ दिने दिने देव यदेव कर्म विहिसितं ते कृतवन्त एव । तदेव साधं कुरु देव कर्म प्रमादहीनं त्विति वाक्यशेषः ॥ १२९ ॥ यश्चिद्धीति । हे वरुण यथा लोके विशः प्रजाः कदाचित्प्रमादं कुर्वन्ति तथा वयमपि ते तव संबन्धि यचिद्धि यदेव किंचिद्रतं कर्म चविद्यावि प्रतिदिनं मिनीमसि प्रमादेन हतवन्तस्तदपि व्रतं प्रमादपरिहारेण साझं कुर्विति शेषः ॥ १२८ ॥ १२९ ॥ मा नौ वधार्य हत्नवै जिहीळानस्य रीरधः । मा हृणानस्य मन्यते ॥ (ऋ० सं० अ० १ भ० २ ० १६) 65927 अनादरकृतो हेतुस्त्वत्कर्तृकवधाय नः । विषयान्कुरु मे राजन्क्रुद्धस्य तव मन्यवे ॥ १३० ॥ मा नो वधायेति । हे वरुण जिहीळानस्यानादरं कृतवतो हत्नवे हन्तुः पापिहननशीलस्य तव संबन्धिने त्वत्कर्तृकाय वधाय नोऽस्मान्मा रीरधः संसि. द्धान्विषयभूतान्मा कुरु । हृणानस्य हणीयमानस्य क्रुद्धस्य तव मन्यवे क्रोधायास्मान्मा रीरधः ॥ १३०॥ वि मुळीकार्य ते मनौ स्थीरश्वं न संदितम् । गीविरुण सीमहि ॥ (ऋ० सं० अ० १ अ० २ १० १६) प्रसादयामस्ते स्तोत्रैर्मनोऽस्माकं सुखाय च । प्रसादयति घासाथैः श्रान्तमश्वं रथी यथा ॥ १३१ ॥ वि मुळीकाय त इति । हे वरुण मृळीकायास्मत्सुखाय ते तव मनो गीभिः स्तुतिभिर्विसी(पी)महि विशेषेण बनीमः प्रसादयाम इत्यर्थः । तत्र दृष्टान्तः-रथी रथस्वामी संदितं सम्यक्खण्डितं दूरगमनेन श्रान्तमश्वं न, अश्वमिव यथा स्वामी श्रान्त- मश्वं घासप्रसादादिना प्रसादयति तद्वत् ॥ १३१ ॥ - वयो न प्रभाख्यटीकासमेतबहवचसंध्यामवार्थदीपिका । परा हि मे विमन्यवः पतन्ति वस्यंइष्टये । वसतीरुप ॥ ॥ (ऋ० सं० भ० १ अ० २ १० १६) वसुमजीवनस्याऽऽप्त्यै क्रोधहीना धियो मम । वासदेशान्समीपेन प्रसरन्ति यथा वयः ॥ ११२ ॥ परा हिम इति । हे वरुण मे शुनःशेपस्य विमन्यवः क्रोधरहिता बुद्धयो वस्य- इष्टयेऽतिशयेन वसुमतो जीवनस्य प्राप्त्यै परापतन्ति पराङ्मुखाः पुनरावृत्तिरहिताः प्रसरन्ति । हिशब्दः प्रसिद्धौ सर्वजनप्रसिद्धिमाह । परापतने दृष्टान्तः-वयो न । पक्षिणो यथा वसतीनिवासस्थानानि उप सामीप्येन प्रामुवन्ति तद्वत् ॥ १३२ ॥ कदा क्षेत्रश्रियं नरमा वरुणं करामहे । मृळी- कायौरुचक्षसम् ॥ (5० सं० अ० १ ० २ १० १६ ) अस्मत्सुखाय वरुणं कदा बहुशं ऋतौ । आगतं करवामात्र नेतारं बलसेविनम् ॥ १३३ ॥ कदा क्षत्रेति। मृळीकायास्मत्सुखाय वरुणं कदा कस्मिन्काल आकरामहेऽस्मि- कर्मणि आगतं करवाम । कीदृशं क्षत्रश्रियं बलसेविनं नरं नेतारमुरुचक्षसं बहूनां द्रष्टारम् ॥ १३३ ॥ तदिसमानांशाते वेनन्ता न प्रयुच्छतः। धृतव्रताय दाशुषे ।। (ऋ० सं० अ० १ ० २ १० १७) हविर्दत्तवते यष्टे इच्छन्तौ कतकर्मणे । समान दत्तमस्माभिस्तदेव व्यामुतो हविः ।। कदा मित्राय वरुणौ प्रमादं कुरुतो नहि ॥ ११४ ॥ तदित्सति । धृतव्रतायानुष्ठितकर्मणे दाशुषे हर्दित्तवते यजमानाय धेनन्ता कामयमानौ मित्रावरुणाविति शेषः । ता उभौ समानं साधारणं तदिदस्माभिर्दत्तं तदेव हविराशाते अन्नवाते न प्रयुच्छतः कदाचिदपि प्रमादं न कुरुतः ॥ १३४ ॥ वेदा यो वीनां पदमन्तरिक्षण पतताम् । वेद नावः समुद्रियः ॥ (४० सं० अ० १ अ. २ व. १७) - ३२ खण्डराजदीक्षितविरचिता- नौकाया जलमामिन्याः पक्षिणां खेन गच्छताम् । पदं जानाति वरुणो बन्धनान्मोचयत्यलम् ॥ १३५ ॥ वेदा य इति । अन्तरिक्षण पततामाकाशमार्गेण गच्छता वीनां पक्षिणां वरुणो वेद पदं यो जानाति । तथा समुद्रीयः समुद्रेऽवस्थितो वरुणो नावो जले गच्छन्त्याः पदं वेद जानाति सोऽप्यस्मान्बन्धनान्मोचयत्विति शेषः ॥ १३९ ॥ वेद मासो धृतवतो हादश प्र॒जाव॑तः । वेदा य उपजायते ॥ (अ. सं० अ० १ अ० २५० १५) उत्पद्यमानान्वरुणस्तदा तदा चैत्रादिमासान्मजयाऽन्वितान्वा ॥१३६॥ धृतवतो वेत्ति च फाल्गुनान्तांस्त्रयोदशं चाधिकसंज्ञमप्ययम् । एता यस्य महत्त्वमस्ति बन्धात्स नो मोचयतां च राजा ॥१३७॥ वेद मास इति । धृतव्रतः स्वीकृतकर्मविशेषो यथोक्तमहिमोपेतो वरुणः प्रजाव- तस्तदा तदेत्यद्यमानान्प्रनायुक्तान्वा द्वादश मासश्चैत्रादिफाल्गुनान्तान्मासान्वेद जानाति । यस्त्रयोदशोऽधिकमास उपजायते संवत्सरसमीपे स्वयमेवोत्पद्यते तमपि वेदेति वाक्यशेषः ॥ १३६ ॥ १३७ ॥ वेद वातस्य वर्तनिमुरोक्र्ष्वस्य॑ बृहतः । वेदा ये अध्यासते ॥ (२० सं० अ० १ अ० २ व० १७ ) वायोश्चोरोर्वेत्ति मार्ग वरुणो विस्तृतस्य च । गुणाधिकस्य ये देवास्तिष्ठन्त्युपरि तानपि ॥ बन्धादुःखकरात्तस्मात्सोऽमुक्तान्मोचयेच नः ॥ १३८॥ वेद वातस्येति । उरोविस्तीर्णस्य ऋष्वस्य दर्शनीयस्य बृहतो गुणैरधिकस्य वातस्य वायोनि मार्ग वेद वरुणो जानाति । ये देवा अभ्यासत उपरि तिष्ठन्ति तानपि वेद जानाति ॥ १३८ ॥ निषसाद धृततो वरुणः पस्या३खा । साम्रा- ज्याय सुक्रतुः ॥ (क० सं० अ० १ अ० २ १० १४) प्रजासु देवीषु निषण्णवान्य आगत्य राजा सकळपजानाम् । साम्राज्यसिख्यर्थमयं मुकर्मा पन्धाद्विमुक्तान्कुरुतां सदा नः ॥१३९॥ निषसादेति । धृतवतः पूर्वोत्को वरुणः पस्त्यासु दैवीषु प्रजासु आ निष- प्रभाख्यटीकासमेतबड्वचसंध्यामवार्यदीपिका । साद, आगत्य निषण्णवान् । किमर्थ प्रजानां साम्राज्यसिद्धयर्थ मुक्रतुः शोमनः कतुर्यस्य स निषसाद ॥ १९॥ खण्डराजेन रचिता संध्यामवार्थदीपिका । विद्वज्जनांस्तोषयतु पराणुगुणतोषिणः ॥ १४०॥ अनयाऽहं दीपिकया खण्डदीक्षितनामकः । नीराजयामि मल्लारेः पादपद्वयं मुदा ॥ १४१ ॥ इति खण्डराजदीक्षितविरचिता बढचसंध्या. मन्त्रार्थदीपिका समाप्ता ॥ नाम्ना गुणैश्चापि शिवैव माता तातः शिवख्यम्बकयज्वनामा । मल्लारिदेवः कुलदैवतं मे श्रीकौशिकस्यास्ति कुले च जन्म ॥ १ ॥ इति श्रीगणेशदीक्षितात्मजव्यम्बकदीक्षिततनूजखण्डराजदीक्षितविरचिता बढचसंध्यामत्रार्थदीपिकाप्रमा समाप्ता ॥
No text on this page.
ॐ तत्सद्रमणे नमः। * बचसंध्यापद्धतिभाष्यम्। - अथ संध्यापद्धतिभाष्यं लिख्यते । संध्याया देशमाह- "गृहे त्वेकगुणा संध्या गोष्ठे शतगुणा स्मृता। शतसाहस्त्रिका नद्यामनन्ता विष्णुसंनिधौ " ॥ संध्याकाळमाह- उत्तमा तारकोपेता मध्यमा लुप्ततारका । अधमा सूर्यसाहिता प्रातःसंध्या त्रिधा मता ॥ संध्याप्रयं तु कर्तव्यं द्विजेनाऽऽत्मविदा सदा । उभे संध्ये तु कर्तव्ये प्रामणैस्तु गृहेष्वपि " ॥ अयाऽऽचमनमकारो लिख्यते- प्रक्षाल्य पाणिपादौ च शिखां बद्ध्या सुखासने । हृदये संस्मरेद्विष्णुं तत आचमनं चरेत् ॥ सपवित्रेण हस्तेन कुर्यादाचमनक्रियाम् । नोच्छिष्टं तत्पवित्र स्यायुक्तोच्छिष्टं तु वर्जयेत् ।। समौ द्वौ स्थौल्पदैर्ध्याभ्यां समौ प्रादेशसंमिती । [दी ] पवित्रे [वि] ये दैवे कर्मणि चोदिते ॥ मुक्त्वा कनिष्ठिकाङ्गुष्ठौ माषमा जलं पिबेत् । अन्तर्जानुः शुचौ देशे उपविष्ट उदब्युखः ॥ प्राग्वा ब्रामेण तीर्थेन द्विजो नित्यमुपस्पृशेत् । कनिष्ठादेशिन्यङ्गुष्ठमूलान्यग्रं करस्य च ॥ प्रजापतिपितृप्रामदेवतीर्यान्यनुक्रमात् "। करमध्ये सोमामितीर्थ च। अङ्गुष्ठाग्रं समाकुश्य मध्यमामध्यपर्वसु । योजयित्वाऽऽचमेत्तत्र स वै गोकर्ण उच्यते ॥ * अस्य निर्मातुर्नाम न ज्ञायते ।
२ बढचसंध्यापद्धतिभाष्यम् । पूर्वे आचम्य अमृतं सोमपानं सयोचरे । पश्चिमे पुनराचम्य दक्षिणे रुधिरं भवेत् ॥ होमे भोजनकाले तु संध्ययोरुभयोरपि । भाचान्तः पुनराचामेदन्यत्र तु सकृत्सक ॥ अपि वारि नखैः स्पृष्ट्वा य आचामति वै द्विजः । सुरां पिबति स व्यक्तं यमस्य वचनं यथा ॥ कांस्यैरायसपात्रैश्च त्रपुसीसकपित्तलैः । आचान्तः शतकृत्वोऽपि न शुध्यति कदाचन ॥ संध्यार्थे भोजनार्थे [वा] पिठ्यार्थे वा तथैव च । शूद्र(न्य)हस्तेन पा(नाऽऽ)चामेजपादिहवनेषु च ॥ वामहस्तस्थिते दर्भे दक्षिणेनाऽऽचमेयदि । रक्तं तु तद्भवेतोयं पीत्वा चान्द्रायणं चरेत् " ॥ अथ संध्यार्थो लिख्यते । प्राची संध्या काचिदन्तर्निशायाः प्रसादृष्टेरञ्जनश्रीरपूर्वा । वक्त्री वेदान्पातु मे वाजिवक्त्रा वागीशाख्या वासुदेवस्य मूर्तिः ॥१॥ अहरहः संध्यामुपासीत यः संध्यामुपासते ब्रह्मैव तदुपासते " इति [वीप्सा] श्रुतेः यः संध्यां कालता प्राप्तामालस्यादतिवर्तते । सूर्यहत्यामवामोति उलूकत्वमियात्सदा " इत्यमिवचनम्(ने) " योऽन्यत्र कुरुते यत्रं धर्मकार्ये द्विजोत्तमः। विहाय संध्याप्रणति स याति नरकायुतम् " ॥ इति कूर्मपुराणवचनात्म(वे च प्रत्यवायश्रवणात्स(च सं)ध्यावन्दनमाव- श्यकम् । तत्कालविशेषश्च- मुहूर्तमुदयादर्वाग्द्विमुहूर्तमतः परम् । संध्याकालस्तु विज्ञेयो विपरीतस्तु पश्चिमः " इति । " अहो रात्रेस्तु यः संधिः सूर्यनक्षत्रवर्जितः। सा तु संध्या समाख्याता मुनिभिस्वचशिभिः " ॥ .
बचसंध्यापदतिभाष्यम् । साङ्गायाः संध्यायाः फलमाह यम:- " संध्यामुपासते ये तु सततं संशितव्रताः । विधूय पापं ते यान्ति ब्रह्मलोकं सनातनम् " ।। अकरणे प्रत्यवायमाह दक्षः- " संध्याहीनोऽशुचिनित्यमनईः सर्वकर्मसु । यदन्यत्कुरुते नित्यं न तस्य फलभाग्भवेत् " ॥ गोभिलोऽपि- " संध्या येन न विज्ञाता संध्या येनानुपासिता । जीवमेव भवेच्छूद्रो मृतः श्वा चाभिजायते " इति ॥ " गायत्री नाम पूर्वाह्ने सावित्री मध्यमे दिने । सरस्वती च सायाह्ने सैव संध्या त्रिषु स्मृता ॥ प्रतिग्रहान्नदोषातु पातकादुपपातकात् । गायत्री प्रोच्यते तस्मादायन्तं त्रायते यतः ॥ सवितृयोतनाचैव सावित्री परिकीर्तिता। जगतः प्रसवित्री वा वायूपत्वात्सरस्वती ॥ गायत्री तु भवेद्रक्ता सावित्री शुक्लवर्णिका । सरस्वती तथा कृष्णा उपास्या वर्णभेदतः ॥ गायत्री ब्रह्मरूपा या सावित्री रुद्ररूपिणी । सरस्वती विष्णुरूपा उपास्या मूर्तिभेदतः" ॥ उपास्या ध्येया। एता देवता वर्णनामविशिष्टाः प्रतिपादकमत्रस्याभिमानिन्य एव । प्रति- यस्तु सविता मात्रवर्णिकः । सोऽपि सम्यग्ध्येयत्वात्संध्याशब्दवाच्यः । यै चिन्तायाम् । तथा-" संध्यामुपासीत" इति श्रुतेः । संध्योपा. निं नाम संध्याख्यसवितृदेवताध्यानमेव । सवितृशब्दस्य मुख्यार्थः सूर्यान्त. त: श्रीहरिरेव । तस्यैव मुख्यतागुणैस्तत्त्वाद्याप्तत्वात्सकलजगनिर्मातृत्वादर- यित्वाद्भरणगमनकर्तृत्वात्क्रीडादिगुणविशिष्टत्वादुङ्यभिमानिरमाब्रह्मादि- कत्वाचा तथा च श्रुतिः-" उद्यन्तमस्तं यन्तमादित्यमभिध्यायन्कुर्वन्बामणो बद्वान्सकलं भद्रमभुते " इति । अस्यार्थ:-उद्यन्तमुदयं प्राप्नुवन्तमस्तं यन्तमस्तमयं प्राप्नुवन्तमादित्य र्यमभिध्यायन्सम्यचिन्तयन् । एवमरुणोदये सूर्यशत्रवः सन्ति ते गाय- बचसंध्यापद्धतिभाष्यम् । व्यस्त्रेण सायं प्रातः प्रदत्तेन हता अभूवन्क्षयं प्राप्नुवन् , इत्येवं विद्वा- ब्राह्मण उभयकालेऽपि प्रदक्षिणं कुर्वन्सकलं भद्रमभुते सकलं मङ्गलं मोक्षाख्यमभुते भुक्ते प्रामोतीत्यर्थः । न केवलं मालं पामोतीत्ये- तावदेव । किंवसावादित्यो ब्रह्मास्मिन्सूर्ये मण्डले योऽयं नारायणस्तिष्ठतीति जानन्ब्राह्मणो ब्रह्मैव सम्श्रीनारायणसदृश एव सन्ब्रह्म परब्रह्म श्रीनारायण मप्येति पामोति मुक्तो भवतीत्यर्थः । योऽधिकार्येवंभूत इति वेद जानाति स ऐहिकमङ्गलादिमाप्तिः पारत्रिकमोक्षं च प्रामोति मुक्तो भवतीत्यर्थः । यो यदिति यावत् । इति मन्त्रार्थः। अत्र चाऽऽदित्यध्यानेन सकलं भद्रमिति पूर्णसुखात्मको मोक्षः श्रूयते । स च न प्रसिद्धादित्यज्ञानात्संभवति, तस्य ब्रह्मज्ञानैकसाध्यत्वात् । 'तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते" इति तैत्तिरीयमवादेव । अतो विरोधपरिहारार्थ श्रुतिविशेषः प्रवृत्तः- “असावादित्यो ब्रह्म" इति । असौ परिदृश्यमानमण्डलवादित्यनामा ब्रह्मगुणपरिपूर्णो विष्णुरेव । एवं विद्वाञ्जानन्ब्राह्मणः संध्यादिकर्म कुर्वन्नन्तःकरणशुद्धिद्वारा विद्वान्श्रवणादिरूपः परोक्षज्ञानी भूत्वा ततश्च विद्वानपरोक्षज्ञानी भूत्वा विष्णुप्रसादाब्रह्माप्येति पामोति। कीदृशः-प्रागपि ब्रह्मैव सञ्शुद्धरूपसदानन्दादिगुणवानेव । किंतु-- अविद्याकारणनिमित्तान्यथाभावपरिहारार्थमेव कर्माद्यनुष्ठानम् । यस्तु तमोयोग्य: स तथाविधो न भवति अतस्तत्फलभागपि न भवतीति । ब्रह्ममाप्तौ च सकलं भद्रमभुते--"किमलभ्यं भगवति प्रसन्ने श्रीनिकेतने" इत्युक्तत्वादिति भावः। न तु असावादित्यो ब्रह्मति सामानाधिकरण्यात्तस्यैव ब्रह्मत्वं प्रतीयते । न तु तदन्तर्गतस्य । न च ध्येयः सदेति ध्यानश्लोकात्तत्त्वं श्रुत्यपेक्षया स्मृतेर्बलत्वा- दिति चेत् । न । “इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् " इति [स्मृतेस्तस्या- स्तदर्थनिर्णायकत्वात् । किंच स्फुटमत्र पुण्डरीकाक्षत्वसर्वदोषोद्गतत्वादिलि- विष्णुरेवाऽऽदित्यान्तर्गतः प्रतीयते । प्रसिद्धादित्यस्य-" भीषोदेति सूर्यः' इति मवाद्भयादिदोषप्रतीतेने सर्वदोषविदूरत्वम् । आदित्यत्वेनाऽऽदित्यस्थत्वं चायुक्तमिति । तस्माद्ध्येयत्वात्संध्याशब्दवाच्यस्याऽऽदित्यान्तर्गतस्य विष्णो- निमेव संध्याशब्दार्थः प्रधानकर्मेति सिद्धम् । गायत्र्यादिशब्दवाच्योऽपि विष्णुरेव। तत्र केशवादिनानामयमर्थः- केशवः- कवेशश्च केशौ तौ वर्तयतीति । को ब्रह्मा । ईशो महारुद्रः । तौ -- ....
५ बट्टचसंध्यापद्धतिभाष्यम् । तथा च हरिवंशे कैलासयात्रायां रुद्रेणोक्तम्- " को ब्रह्मेति समाख्यात ईशोऽहं सर्वदेहिनाम् । आवां तवाङ्गसंभूतावतः केशवनामवान्" इति । अथवा-प्रशस्ता उत्तमाः केशा अस्य सन्तीति वा । केशाभ्यां शुक्लकृष्णकेशाभ्यामवताररूपेण वर्तत इति केशवः ॥ १॥ रायणः- आरा दोषास्तद्विरुद्धा गुणा नारास्तेषामयनमिति दोषविरुद्ध गुणाश्रयत्वाद्वा । अराणां दोषाणामयनं न भवतीति दोषा- श्रयो न भवति दोषगन्धविधुर इति वा । दोषरहिता नारा वेदाः प्रतिपाद्यतया तदयनत्वात्सदागमैकविज्ञेयत्वाद्वेदमतिपा- चत्वाद्वा । नरसंबन्धि नारमयतेऽनेनेति नराणां संबन्धीनि जन्मादीनि तत्कर्तृत्वसंबन्धेन तदयनत्वाज्जगज्जन्मादिकर्ट- त्वाद्वा । नारमणमयनं येनेति नारमणवत्त्वाद्वा निर्दोषवेदोत्पन्न- वानिर्दोषवेदोत्पन्नज्ञानविषयत्वाद्वा । नारं ज्ञानं विषयतया तदयनत्वाद्वा । नरसंबन्धि नारं फलं दातृतया तदयनत्वाद्वा । मनुष्यसंबन्ध्यैहिकपारत्रिकफलदातृत्वाद्वा । नित्यलक्ष्मीसहित- त्वात्तदाश्रयत्वाद्वा । आलस्यरहितत्वाद्वा । नाशरहितत्वाद्वा । अविधुरत्वादरतिरहितत्वात्क्षयरहितत्वाद्वा । नारा मुक्तास्तदा. श्रयत्वाद्वा । नारा आपस्ता अयनं यस्येति उदकाश्रयत्वादुद- कजनकत्वान्नारायणः। " आपो नारा इति प्रोक्ता आपो वै नरसूनवः । अयनं तस्य ताः पूर्व तेन नारायणः स्मृतः ॥२॥ नाधवः- माया लक्ष्म्या धवः पतिरिति लक्ष्मीपतित्वाद्वा । मधुविद्याविषय- त्वाद्वा । मधुकुले प्रादुर्भूतत्वाद्वा । मधुरापत्तनेऽवतीर्णत्वाद्वा माधवः। मा लक्ष्मीस्ता धुनोति कम्पयतीति माधवः ॥३॥ गोविन्दः- गामविन्दत्समुद्रमा पृथ्वीप्राप्तत्वाद्वा। गां वाणी विन्दत इति वा । गोभिर्वेदवाणीभिरिन्द्रादिभिविन्दते स्तोत्रितो भवतीति वा । गोभिदैर्वेद्य इति वेदवेद्यत्वात् । वेदेन प्रतिपाद्यत्वात् , गोविन्दः। " नष्ट वै धरणी पूर्वमविन्दद्धि गुहागताम् । गोविन्द इति तेनाऽऽह देवैर्वाग्भिरभिष्टुतः ॥ गौरेषा तु तथा वाणी तां तु विन्दयते भवान् । गोविन्दस्त ततो देवो मुनिभिः कथ्यते भवान् ॥
- ६ बचसंध्यापद्धतिभाष्यम् । अहं किलेन्द्रो देवानां त्वं गवामिन्द्रतां गतः । गोविन्द इति लोकास्त्वां स्तोष्यन्ति भुवि शाश्वतम् ॥ गोभिरेव यतो वेद्यो गोविन्दः स उदाहृतः ॥ ४॥ विष्णुः- वेवेष्टीति सर्वजगव्याप्तत्वाद्वा विशिष्टबलचेष्टस्वभावत्वाद्वा विष्णुः । तथा च तापनीयश्रुतिः-" अथ कस्मादुच्यते महाविष्णुरिति यस्मात्स्वमहिम्नः सर्वाल्लोकान्सर्वान्देवान्सर्वानात्मनः सर्वाणि भूतानि व्यामोति व्यापयति" इति । णकारो बलं षकारः प्राण आत्मा ' इति श्रुतिः ॥ ५ ॥ मधुसूदनः- मधुं सूदयतीति मधुनामकदैत्यसंहारकत्वान्मधुसूदनः ॥ ६ ॥ त्रिविक्रमः- त्रिविधः क्रमः पादविक्षेपो यस्येति । "त्रीणि पदा विचक्रमे" इति श्रुतिः । त्रिपदा सकलजगदाक्रान्तत्वात् । त्रिषु लोकेषु विक्रमो यस्येति वा । त्रीन्वेदानतिकामति तदगोचरो भवतीति वा। तथा च हरिवंशे- " त्रिरित्येवं त्रयो वेदाः कीर्तिता मुनिसत्तमैः । क्रमन्नेतान्यतस्त्वं हि त्रिविक्रम उदाहृतः " इति ॥ त्रिषु लोकेषु विना पक्षिणा गरुडेन साकं कामसि गरुडवाहनः संत्रिलोकसंचारं करोषीति यावत् । त्रिविक्रमः ॥ ७ ॥ वामनः- वामं नयतीति वामनः सौन्दर्य प्रापयतीत्यर्थः । लक्ष्मी वामेन नयतीति वा वामभागे लक्ष्मी धरतीत्यर्थः । वामैर्मगलरूपैर्वेदादि- भिर्नीयते गीयत इति वामनः ॥ ८ ॥ श्रीधरः- श्रियं धरतीति श्रीधरो लक्ष्मीधर इत्यर्थः ॥९॥ हृषीकेशः हृषीकाणामिन्द्रियाणामीशो हृषीकेशः ॥ १० ॥ पद्मनाभः- पद्मं कमलं नाभौ यस्येति पद्मनाभः ॥ ११ ॥ दामोदरः- दामोदरे यस्येति दामोदरः । मात्रा दानोदरे बद्धत्वादि- त्यर्थः ॥ १२ ॥ संकर्षणः- सम्यक्पापानि दुःखानि कर्षतीति संकर्षणः । सम्यक्पापनिर्मूल- नकर्तृत्वादित्यर्थः ॥ १३ ॥ वासुदेवः--वसन्ति भूतानि यस्मिन्निति वासु । दीव्यतीति देवः। वासुश्चासौ देवश्च वासुदेवः । सकलभूताधारकत्वात् । जयशीलत्वादित्यर्थः। वथासावमुश्चासौ देवश्च वासुदेवः । वा, बलरूपः । असुः प्राण-
वचसंध्यापद्धतिभाष्यम् ।
रूपः। सर्वचेष्टत्वादेवः क्रीडादिगुणयुक्तः सकलबलचेष्टकत्वात्की-
डादिगुणविशिष्टत्वाद्वासुदेवः ॥ १४ ॥
प्रद्युम्नः- प्रकृष्टं घुम्नं प्रकाशो यस्येति सकलजगत्प्रकाशत्वादित्यर्थः । प्रक-
र्षेण द्योतयतीति वा । स्वयंज्योतीरूपत्वादित्यर्थः । प्रकृष्टं घुम्नं
द्रव्यं यस्येति वा प्रद्युम्नः । प्रकृष्टद्रव्यप्रद इत्यर्थः ॥ १५ ॥
अनिरुद्धः- न निरुध्यतेऽसावनिरुद्धः । परनिर्बन्धशून्यत्वादित्यर्थः । अनो
मुख्यप्राणः सेव्यतया रुध्यतेऽसौ वा । अनिनो मुख्यप्राणदा-
सास्तैः सेव्यतया स्त्रहृदि रुध्यत इति वा । अनिभिर्भक्कै रुध्यत
इति वा । अनिरुद्धः ॥ १६ ॥
पुरुषोत्तमः- पुरुषाभ्यां क्षराक्षराभ्यामुत्तमो वा ।
ब्रह्मशिवसुरेन्द्राद्याः शरीरक्षरणात्क्षरः।
लक्ष्मीरक्षरदेहत्वादक्षरा तत्परो हरिः" इति ॥
यद्वा पूर्णा गुणाः षड्यस्येति पुरुषः । स चासावुत्तमश्चेति
पुरुषोत्तमः । समग्रैश्वर्यादिषड्गुणपूर्णत्वे सत्युत्तम इत्यर्थः ।
पुरुषु जीवेषु [ शेते ] व्यापकत्वादिति पुरुषः । स चासावु.
त्तमश्च पुरुषोत्तमः।
"ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः।
ज्ञानविज्ञानयोश्चैव (?) इत्येते षड्गुणाः स्मृताः" ॥१७॥
अधोक्षजः -अधः कृतान्यक्षजानि येनेति अधोक्षजः। इन्द्रियागम्य इति यावत् ।
इन्द्रियागोचरत्वात्पञ्चमहाभौतिकेन्द्रियागम्य इत्यर्थः ॥ १८ ॥
ना(न)रसिंहः- नरश्वासौ सिंहश्चेति नरसिंहः। नररूपत्वे सति सिंहत्वा-
दिति भावः । अथवाऽन्येन न रीयते न क्षीयत इति नरो
हिरण्यकशिपुस्तं हिनस्तीति नरसिंहः। हिरण्यकशिपुसंहार-
कत्वादिति भावः । सिंहशब्दस्य पृषोदरादित्वाद्वर्णविप.
र्ययः ॥ १९॥
भच्युतः- स्वरूपसामर्थ्यादेव प्रच्युत्यभावात्स्वपदच्यवनाभावाद्वा न च्यवत
इत्यच्युतः । च्युङ् च्यवन इत्यतः कर्तरि क्तः । स्वरूपसामर्थ्या-
धुक्तत्वाद्वा स्वपदच्यवनाभावादित्यर्थः ॥ २० ॥
जनार्दनः- जनान्बल्यादीनर्दयतीति याचत इति वा । सुजनैः पुरुषार्थ
याच्यत इति वा । दुष्टजनानर्दयतीति वा । जनान्सर्वजनानर्द-
यति मलये नाशयतीति वा । जनानां जन्ममरणान्यर्दयतीति
वा । जनार्दनः ॥ २१॥
८ - - बचसंध्यापद्धतिभाष्यम् । उपेन्द्रः- इन्द्रावरज इति वा । इन्द्रादाधिक्येन वर्तत इत्युपेन्द्रः। उपोऽ. धिक चेति सौत्रज्ञापकादुपशब्द आधिक्यार्थकोऽपि ज्ञेयः । इन्द्रा- नुजत्वादिन्द्रादाधिक्येन वर्तत इति । तथा च हरिवंशे कृष्णं प्रतीन्द्रवचनम् - " ममोपरि यथेन्द्रस्त्वं स्थापितो गोभिरीश्वरः। उपेन्द्र इति कृष्ण त्वामाख्यान्ति भुवि देवताः " ॥२२॥ हरिः- भक्तानां पापं हरतीति वा दैत्यशिरांसि हरतीति वा भक्तजनचित्त हरतीति वा सर्वयत्नहारित्वाद्वा भक्तानां चित्तं हरतीति वा हरिः ॥२३॥ श्रीकृष्णः- कैसादीनां कर्षणकर्तृत्वान्नियमनादिना सकललोककर्षणाद्वा कृष्णः । तथा च कौमें- यतः कर्षसि देवेश नियम्य सकलं जगत् । अतो वदन्ति मुनयः कृष्णस्त्वां ब्रह्मवादिनः" इति ॥ यद्वाऽऽनन्दपूर्णत्वात्कृष्णः। "कृषि वाचकः शब्दो णश्च निर्वृतिवाचकः । तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते " ॥ इति वचनात् ॥ २४ ॥ अथ प्राणायाममत्रार्थः। प्रत्येकनिरवधिकानन्तगुणपूर्णत्वादोंकारशब्दवाच्यो हरिः । ॐ भूरिति प्राणायाममत्रस्य नारायण ऋषिः परमात्मा सविनामकः श्रीनारायणो देवता । गायत्री छन्दः । प्राणायामे विनियोगः । ॐ प्रवेशार्थस्या- वतेः । निरुक्ते च-" ओमिति पुनः काऽस्य निरुक्तिरिति । अवति- नामायं धातुर्गतिकर्मा प्रवेशकर्मा च" इति । तथा चावति प्रविशति गुणा- निति वा, अव्यते प्रविश्यते गुणैरिति वा, । उभयथाऽप्यनन्तगुणपरिपूर्ण- त्वमोंकारार्थतया लभ्यते । तदुक्तम्-" ॐतत्त्ववाची ह्योकारो वक्त्यसौ तद्गुणोतताम् । स एव ब्रह्मशब्दार्थो नारायणपदोदितः" इति ॥ प्रत्येकनिरवधिकानन्तगुणपूर्णत्वादोंकारशब्दवाच्यः परमात्मा पूर्णत्वादो- मित्यर्थः। भूः, भवतेः किपि भूरिति रूपम् । तथा च भूरिति पूर्ण इत्यर्थः । यद्वा भवन्त्य- म्मायतानीति भः । अधिकरणे किए । सर्वभतोत्पादक इत्यर्थः । सकलजग- बढचसंध्यापद्धतिभाष्यम् । दुत्पादकत्वाः । भूतिवरत्वाः । लक्ष्मीपतित्वाः । निरवधिकैश्चर्ययुक्त- त्वाद्वा भूः। भुवः, भावयति स्थापयति विश्वमिति भुवः । अन्तर्भावितण्यर्थादमुनि गुणाभाव- इछान्दसः । यद्वा भावनाजगदुत्पादनाद्भुवः । भवतेरेवान्त तण्यर्थस्य कमत्यये रूपम् । अथ वा भवत्यस्मिञ्जगति भूर्महालक्ष्मीस्ततो वरो लक्ष्मीश्रेष्ठ इत्यर्थः । अनन्तसुखरूपत्वाद्वा भुवः । जगदुत्पादकत्वाद्वा भुवः । स्व, । - सुवो वा । सुखरूपत्वात्स्वः । स्वःशब्दो हि सुखवाची प्रसिद्धः । तदुक्तम् " पूर्णो भूतिवरोऽनन्तसुखो ययाहृतीरितः" इति । [ यद्वा सुवरिति ] पाठस्तत्रार्थः-मुष्ठ वरणीयत्वात्सुवः । स्वित्यानन्दः समुद्दिष्टो वरिति ज्ञानमुच्यते । मुक्तिदानेन तदानात्सुवरस्य पदद्वयम् ॥ दक्षिणं सव्यमिति । आनन्दज्ञानरूपत्वात्सुवः। भगवदक्षिणसव्यपादयो- रानन्दज्ञानरूपत्वात्तत्पादभजकानामानन्दज्ञानप्रदत्वाद्भगवतो दक्षिणसव्य- दौ मुवरित्युच्यते ॥ महः, मह पूजायाम् । अस्मादमुनि महः पूज्य इत्यर्थः । सर्वोत्कृष्टत्वेन पूज्यत्वा. मह इत्युच्यते ॥ जन, जन जनने । तप आलोचने । आभ्यां कर्तर्यसुन् । तथा च सर्वजननकर्ता, मालोचनकर्ता चेति जनस्तपःशब्दाभ्यां लक्ष्यते । सकलजगजननकर्तृत्वा- जन:॥ तपः, सर्वविषयकालोचनकर्तृत्वात्तपः। .., PAN सत्यम्,": उत्तमझानानन्दरूपत्वासत्यम् । तदुक्तम्-" सच्छब्द उत्तमं ब्रूयादानन्दं तिति वै वदेत् । येति ज्ञानं समुद्दिष्टं पूर्णानन्दशिस्ततः" इति ॥
१० बढचसंध्यापद्धतिभाष्यम् । सत्यशब्दोदित इत्यादितत्रभागवतवचनात्सत्यज्ञानानन्दखरूपत्वात्सत्यम् । यद्वा सत्यं कालत्रयावाध्यम् । भूतभविष्यवर्तमानरूपकालत्रयेऽप्यबाध्यत्वा. सत्यमित्युच्यते ॥ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥ ( ऋ० सं० अ० ३ अ० ४ १० १. ) . यो भर्गो नो धियः प्रचोदयात् । देवस्य सवितुस्तद्वरेण्यं धीमहि । यः सवितृ. नामकसूर्यमण्डलमध्यवर्ती नारायणो जगद्भरणधारणपोषणकर्तृत्वाज्जानग- मनकर्तृत्वादित्यर्थः । गमनकर्तृत्वात्संसारदाहकर्तृत्वाद्वा भर्गों नोऽस्माकं धियो बुद्धीः प्रचोदयात्मेरयेत् । तस्य देवस्य क्रीडादिगुणविशिष्टस्य सवि. तुर्जगत्प्रसवकर्तुर्नारायणस्य तनोतीति तयाप्तं वरेण्यं श्रेष्ठं भजनीयं रूपं वयं धीमहि ध्यायेम चिन्तयामः । ओमापो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः स्वरोम् । अनन्तगुणपरिपूर्णत्वादोम् । आ सम्यक्पालनकर्तृत्वादापः । अनन्ततेजो. निधित्वेन स्वप्रकाशरूपत्वाज्ज्योतिः । साररूपत्वात्सारभोक्तृत्वात्सुखरूप- त्वाद्रसः । नित्यमुक्तत्वान्मरणरहितत्वादमृतम् । गुणपूर्णत्वाद्ब्रह्म । पूर्णत्वा- सर्वभूतोत्पादकत्वाद्भूतिवरत्वाल्लक्ष्मीपतित्वान्निरवधिकैश्वर्ययुक्तत्वाद्भूः। विश्व. स्थापकत्वाज्जगदुत्पादकत्वान्महालक्ष्मीश्रेष्ठत्वादनन्तसुखरूपत्वाद्भुवः । मुख- स्वरूपत्वान्मुक्तप्राप्यत्वात्स्वः । ईदृग्रूपं ब्रह्म श्रीनारायणस्वरूपम् । अङ्गीकुर्वन्ध्यायामीत्यर्थः । इति प्राणायाममत्रार्थोऽनुसंधेयः । ॐ गुणपूर्णो विष्णुर्भूर्जगदाधारो भूत्या वरो भुवः सुष्टु वरणीयत्वात्सुवः । पूज्यत्वान्महः । जगदुत्पत्तिं नयतीति जनः। ज्ञानरूपत्वात्तपः । उत्तमानन्दज्ञानरूपत्वात्सत्यम् । "तत्र तत्र स्थितो विष्णुस्तत्तनाम्नोच्यते बुधैः" इत्याधुक्तरीत्या सत्य- लोकादिस्थितत्वात्तदधिपत्वात्तत्तच्छन्दवाच्यः । एतादृशः क्रीडादिगुण- विशिष्टस्य सृष्ट्याद्यष्टकर्तुर्नारायणस्य व्याप्तं वरेण्यं भजनीयं भारतिज्ञान- रूपं वयं धीमहि चिन्तयामः । तद्रूपं मे धियो धीर्जानानि प्रेरयेत्स्वविषयिणी: कुर्यात् । ओमादिशब्दवाच्यो यो विष्णुस्तस्य भर्ग उद्दिश्य सर्वैः स्तुत्यस्य, अत एव तदर्थसकलवेदार्थरूपसूत्रभारतादिग्रन्थकर्तुर्ब्रह्मादिभिर्वरेण्यं वरणीयं "स व्यासो मनुपैवि(?)सोऽधस्तात्स उपरिष्टात्स दक्षिणात्सोत्तरात्" इत्यादि- श्रुतेाप्तं रूपं वेदव्यासाख्यमिति ध्यायेम । तद्रूपं नो धियो ज्ञानसाधनेन्द्रि- स्खलन्मनः कृष्णपदारविन्दयोः " इत्याधक्तरीत्या स्खविषयाणि याणि " बड्चसंध्यापद्धतिभाष्यम् । ११ करोत्विति । स एवाऽऽपः, ज्योतिः, रसः, अमृतं, ब्रह्म, भूर्नामा(ना)स्फूर्ति- रूपत्वात् । भूरिवीर्यम् । ततो भुवः । सुवः सुबलरूपत्वात् । आपो हि ष्ठेति तृचस्यायमर्थः। । अथ प्रथमा- - - . आपो हि ष्ठा मयोभुवस्ता नं ऊर्जे दधातन । महे रणाय चक्षसे ॥ ( ऋ० सं० अ० ० अ० ६ व० ५) भो आपोऽब्देवता अथवा-आ सम्यक्पालनकर्तृत्वान्नारायणमूर्तयो वारि- मूर्तयो नाम संनिधानपात्राः । यस्मात्कारणाद्या यूयं नोऽस्माकं मयोभुवः, मयः मुखं भावयन्ति साधयन्तीति मयोभुवः सुखकर्व्यः सुखदाव्यः । ठा, इंति स्थ भवथ भवध्वम् । मय इति सुखनाम । तथा च निघण्टुः--"सुखं मयः" इति । या अस्माकं सुखको भवत ता यूयम् “अनेन प्राणाः" इत्यादिश्रुत्याऽन्मदा- तुर्महाफलश्रवणात् । अथवा वलेन दुष्टमर्दनसजनसंरक्षणकर्तुश्च महाफलश्रव- गात् । अथवोर्जशब्दवाच्याय परमात्मने भगवत्पसादाय वा ता भवत । यूयं गोऽस्माकमूर्नेऽन्नाय बलाय वा । अथवा-ऊर्जनीयत्वादूर्जशब्दवाच्याय पर- आत्मने वा दधातन स्थापयत । कस्मै प्रयोजनाय महे रणाय महे महते। चतुर्थ्याः है, आदेशः, पूज्याय। रणाय रमणीयाय चक्षसे दर्शनाय । अथवा दर्शनी- गाय । अन्नदानपुरःसरं भवत्प्रसादेन महतां सच्छास्त्रमुपदिशामीति भावः । अथ द्वितीया- यो वः शिवतमो रसस्तस्य भाजयतेह नः । उशतीरिव मातरः ॥ (ऋ० सं० अ० ७ अ० ६ व० ५) भो आपो भो उदकाभिमानिन्यो देव्यो वो युष्माकं स्वभूतो यो रसः शेवतमः सुखतमः स्वादुतम इत्यर्थः । अथवा यो वः शिवतमोऽतिशयेन कल्या. गरसो ज्ञानं परोक्षापरोक्षरूपं तस्य तस्मै, इहामुकलोके नो भाजयत रसो ज्ञानं [गवद्विषयं वा कुरुत । परमात्मपक्षे तु-भो आपोऽदेवतान्तर्गतभगवन्मूर्तयो ो वो रसोऽनन्तरूपं शिवतमोऽतिशयेन कल्याणस्वरूपं रसं भगवत्स्वरूपं तस्य स्मैि, इहास्मिल्लोके नोऽस्मान्भाजयत कुरुत । तत्र दृष्टान्त:-उशतीः कामय. ना नवप्रसूता मातरः स्वपुत्रान्स्तन्यादिदातृत्वेन यथा भावयन्ति संरक्षयन्ति था नो दिव्यरसभाजिनो भोक्तृन्कुरुत ।
१२ - - बट्टचसंध्यापद्धतिभाष्यम् । अथ तृतीया- तस्मा अरै गमाम वो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः ॥ ( ऋ० सं० अ० ७ अ० ६ ५० ५) हे आपस्तस्मै नाम पूर्वप्रसिद्धरसं परमात्मरूपं घोद्दिश्यारमत्यर्थमत्यर्थिनः सन्तो वयं वो युष्मान्गमाम गच्छाम । तं कम् । तादृशपूर्वोक्तरसरूपं सुखरू- पम् । कस्मै प्रयोजनाय । यस्य पापरूपरसस्य क्षयाय क्षिप्रं वो युष्मान्गमाम । हे आपस्तस्मिनिवासे जिन्वथोत्पादयथ । तादृशनिवासभागिनः कुरुत । पाप- विनाशाय युष्माञ्शरणं गच्छाम इत्यर्थः । अथ नोऽस्माञ्जनयथ पुत्रपौत्रादिज- ननेन प्रजनयथेत्यर्थः । अथवा वो यूयं दर्शनादिना यस्याज्ञानादिपापस्य क्षयाय नाशाय जिन्वथोत्पन्नास्तत्पापं क्षपयित्वाऽरम् , अं ब्रह्माणं रमयतीत्य- रस्तस्मै तं प्रसिद्ध विष्णुमपरोक्षतया गमाम गच्छाम । ततो यस्य विष्णोः क्षयाय वैकुण्ठाय नो जिन्वय तत्र च न आनन्दादीजनयथ प्रापयथ ।। सूर्यश्चेति मत्रस्य नारायण ऋषिहिरण्यगर्भ ऋषिर्वा । सूर्यो देवता । अनु- टुप्छन्दः। सूर्यश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः। पापेभ्यो रक्षन्ताम् । यद्राच्या पापमकार्षम् । मनसा वाचा हस्ताभ्यां पट्यामुदरेण शिश्ना। रात्रिस्तदवलुम्पतु । यत्किंच दुरितं मयि । इद- महं माममृतयोनी सूर्ये ज्योतिषि जुहोमि स्वाहा ॥ ( आ० गृह्यप० अ० १) सूर्यश्चेति मन्त्रस्यायमर्थः-सूरिभिः प्राप्यत्वाद्यः परमात्मा नारायणः प्रसिद्धः सूर्यो वा । यश्च मन्युः, मन ज्ञान इति धातोर्मन्युनरसिंहः क्रोधाभि- मानी देवो रुद्रो वा । ये च मन्युपतयः क्रोधाभिमानिनो देवस्य नियामका ब्रह्माद्याः सर्वे ते देवा मन्युकृतेभ्यः । मन्युपदं कामादेरुपलक्षकम् । कामादि- पूर्वकं कृतेभ्यः पापेभ्यो मा मां रक्षन्तां पापविनाशेन पालयन्तु । किंच- यद्राव्या, सप्तम्यर्थे तृतीया । पापमकार्ष कृतवानस्मि। मनसा बुद्ध्यादिना वाचाs. नृतभाषणदुरुक्त्यादिना । हस्ताभ्यां दुष्टप्रतिग्रहसत्पीडनादिना । पद्भयां प्राणि- हिंसागोब्रामणपादस्पर्शादिना । उदरेण, अभक्ष्याभक्षणभोजनादिना । शिश्ना शिश्नेन । सुपा सुलुगिति डादेशः परस्त्रीगमनादिना । यत्किंचिदुरितं, सर्वत्रा- - बट्टचसंध्यापद्धतिभाष्यम् । वेति । मया कृतं यत्किंचिहुरितम् । अथवा मयि यत्किंचिदुरितं कर्ता यस्त- पपि रात्रिनामकपरमात्मा राज्यभिमानिनी दुर्गा वा मननादिकृतं यत्पा दवलुम्पतु नाशयतु । इदं पापजननमुद्दिश्य कृतं मां चामृतयोनौ मोक्षकारणे परमात्मनि सत्ये(सूर्ये) त्रिकालाबाध्ये कालत्रयेऽपि बद्धत्वभून्येऽहं जुहोमि भस्मी करोमि । जीवस्य स्वरूपेण भस्मासंभवात्पापविशिष्टत्वेन भस्मीकरणं ज्ञातव्यम् । तथा च स्वर्गी ध्वस्त इत्यादिवद्विशेषणपापस्यैव भस्मीभावो बोद्धव्यः । तदर्थमिदं जलं मुखाग्नौ स्वाहा मुहुतमस्तु । अथवा-एतस्मिन्नम. योनौ वेदादिप्रतिपाद्ये सूर्ये सूरिभिः प्राप्ये ज्योतिषि ज्योतिःशब्दवाच्ये विष्णुमुखाधिष्ठानदेहमुखगत आहवनीय इदं मागुदकरूपं जुहोमि तत्स्वाहा मुहु- तमस्तु । पूर्वोक्तपापस्य देहान्तप्रायश्चित्तकत्वेनोदकेनाऽऽवाह्य तद्धोमेन सर्वपापं भस्मी करोमीति भावः। अथ चतुर्थी- शं नो देवी रभिष्टय आपो भवन्तु पीतये । शं यो रभिस्रवन्तु नः ॥ ( ऋ० सं० अ० ७ अ० ६ व० ५) आपो देवीर्देव्यः क्रीडादिगुणविशिष्टा अब्देवताः परमात्मा स्त्रीरूपाणि वा नोऽस्माकं सुखदाच्यो भवन्तु । तथाऽभिष्टयेऽभीष्टपापणाय भवन्तु । ऐहिकसु- खाय पारत्रिकसुखाय च भवन्त्वित्यर्थः । तथा नः पीतये हरिकथामृतरसपा- नाय च भवन्तु । तथा देव्यः शमुत्पन्नानां रोगाणां शमनको भवन्तु । अनुत्प- भाना रोगाणां पृथक्करणं कुर्वन्तु । किंच-आपो नोऽस्माकमभि उपरितश्च लवन्तु प्रवहन्तु प्रवाहं कुर्वन्तु मच्छरीरोपरि प्रवाई कुर्वन्त्वित्यर्थः । अथ पञ्चमी- ईशाना वायीणां क्षयन्तीश्चर्षणीनाम् । अपो यांचामि भेषजम् (२० सं० अ० ७ ० ६ व० ५) अपोऽब्देवताः परमात्मरूपाणि वाऽहं भेषजमौषधं संसाररोगस्यौषधं याचामि। कथंभूता वार्याणां वरणीयानां ज्ञानभक्त्यादिसाधनानां प्रसिद्धधनानां वा क्षयन्तीरुत्पादिका वासस्थाना वा । तथा चर्षणीनां सर्वासां प्रजानामीशानाः शिक्षिकास्तथा वासयित्री। अथ षष्ठी- अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा । - १४ पहचसंध्यापद्धतिभाष्यम्। अग्निं च विश्वशंभुवम् ( ऋ० सं० अ० ७ अ० ६ व० ५) नन्वप्सु भेषजसद्भावे तद्याचनं युक्तं तदेव कुत इत्यत आह-उत्कृष्टा मा, उमया सहितः सोमः परमात्मा, उत्कृष्टा माः प्रमाणानि तैः सहितो वायुर्वा, उमया सहितः सोमो रुद्रो वा सोमश्चन्द्रो वा मे मह्यमब्रवीत् । किमिति उत्तर- माह-अप्सु जलेष्वन्तमध्ये विश्वानि सर्वाणि भेषजा भेषजान्यौषधानि सन्ति । अब्देवतानां संसाररोगोपशमन औषधयाचनं युक्तम् । तथा विश्वशंभुवं सर्व- सुखकरममग्निं चाब्रवीत् । सर्वजगत्सुखकरोऽग्निरप्सु वर्तते तमब्रवीद्वेदपुरुषोऽप्सु विद्यमानवाय्वग्निरुद्रचन्द्रश्रीलक्ष्मीनारायणं चाब्रवीदिति भावः । (* विश्व. भेषजीविश्वानि भेषजानि यासु ता आपोऽपि तथाऽब्रुवन्नग्निं प्रति । अतो भवतां तद्याचनं युक्तमिति भावः।) अथ सप्तमी- आपः पृणीत भेषजं वरूथं तन्वे मम ॥ ज्योक्च सूर्य दृशे ॥ ( ऋ० सं० अ० ७ अ० ६ व० ५) हे आपो मम तन्वे शरीरार्थे भेषजं रोगनिवारकमौषधं वरूथं यथेष्टं पृणीत पूर- यत । किमर्थम् । ज्योक् शीघ्रं सूर्य परमात्मानं दृशे द्रष्टुम् । शरीरस्य नीरोगत्वे. नेश्वरदर्शने साधनानुष्ठानं भवतीति तत्मार्थनं युक्तमिति भावः । यद्वा मत्स्थूलशरीरकलारूपमनसे भगवदर्शनासामर्थ्य रोगनिवारकश्रवणरूपसंपत्ति मौषधं ददत, तेन भगवन्तं ब्रह्मादिसेव्यं दृशे [ द्रक्ष्यामि ] इति । अथाष्टमी- इदमापः प्रवहत यत्किंचं दुरितं मयि । यहाऽहमभिदुद्रोह यहां शेप उतानृतम् ॥ (ऋ० सं० अ० ७ अ० ६ व० ५) हे आपो मयीदं यत्किचिदुरितमज्ञानादिलक्षणम् । यद्वाऽहमभिदुद्रोह सर्वतो बुद्धिपूर्वक द्रोहं कृतवानस्मि । अथवा शेपे शप्तवानस्मि । अथवाऽनृतमुक्त वानिति यदस्ति तत्सर्वमपराधजं पापं प्रवहत पत्तोऽपनीयान्यत्र नय[त] माप य[त] । प्रवाहरूपेणान्यत्र नय[त] प्रापये(य)[ते]त्यर्थः । * धनुश्विकान्तर्गतमत्रानुपयुक्तम् । अप्सु म इत्यूचो गायत्रीछन्दस्काया एव विवक्षितत्वात् । - - बट्टचसंध्यापद्धतिभाष्यम् । १५ अथ नवमी- आपो अद्यान्वचारिषं रसेन समंगस्महि । पय॑स्वानन आगहि तं मा संसृज वर्चसा ॥ (ऋ० सं० अ० ७ अ०६५०५) हे आपोऽहमद्य सेवामन्वचारिषं सेवां कृतवानस्मि । हे आपोऽन्वचारिषं युष्माक- मनुचरणं कृतवानस्मि । वयं युष्मद्रसेन भवदत्तपरमानन्देन प्रसादेन प्रसिद्धरसेन वा समगस्महि संगन्तास्महे । तथा यूयं रसेन वैराग्यादिज्ञानरसेन मां संगत कुरु[त] । हेऽग्ने पयस्वान्पयसि विद्यमानस्त्वमागह्यागच्छ मदृत्तिसंनिधिं कुरु । तं तादृशं मा मां स्वसेवकं मां वर्चसा ब्रह्मवर्चसा संसृन संयोजय ॥ समुषीस्तदंपसो दिवा नक्तं च सस्रुषीः । वरेण्यक्रतूरहमा देवीरवसे हुवे ॥ (व० सं० परि० ) हे आपो हेऽग्ने तदपसस्तन्मयि स्थितं वर्षोविशेषादिकमपसोऽन्यत्र स्थित मा काष्ट मा कुरुत । तदन्यत्र स्थितं ब्रह्मव!विशेषादिकं मयि सस्नुपीः वृजत । न केवलं ब्रह्मव!विशेषादिकं मयि स्थितं वाऽन्यत्र विद्यमानं वा यदा कदाचित्सनुषीरित्येव, किं नाम दिवा नक्तं च सस्रुषीः । दिवाऽति नक्तं रात्रौ च सर्वदाऽपि मयि सनुषीः सृजतेत्यर्थः । कस्मात्कारणात् । हे देव्योऽवभिमानिन्यो देवता भगवद्रूपविशेषा वाऽहं वरेण्यकतूरा सम्यग्वर- णीयस्य परमात्मनः क्रतुराराधनक्रतुराराधनं कर्तास्मि । अवसे निश्चयस्व- रूपे परमात्मनि हुवे सर्वसमर्पणहोमं कर्तास्मीति यतस्तस्मात्कारणात्सर्वदाऽपि मयि ब्रह्मवर्चाविशेषादिकं सृजतेत्यर्थः ॥ अपिवातय मनः । (आश्व० गृह्यप० अ० १) हे मनो मनोभिमानिरुद्र नोऽस्माकं भद्रं मङ्गलमपिवातय संपादय । सर्व- दाऽस्माकं भगवद्विषयकसद्धर्माचरणादिलक्षणं मङ्गलं यथा स्यात्तथा कुर्विति मनोभिमानिनः प्रार्थना। ॐ ऋतं च सत्यं चाभीद्वात्तपसोऽध्यजायत। ततो रायजायत ततः समुद्रो अर्णवः ॥ समुद्रादर्णवादधि संवत्सरो अजायत । अहो- भद्रं नो १६ बचसंध्यापद्धतिभाष्यम् । रात्राणि विधविश्वस्य मिषतो वशी ॥ सूर्याचन्द्रमसौं धाता यथापूर्वमंकल्पयत् । दिवं च पृथिवीं चान्तरिक्षमथो वः ॥ (ऋ० सं० अ० ८ अ० ८ व० ४८) भाववृतो देवताऽस्यायमर्थः-भावान्पदार्थान्वर्तयतीति । भावानां पदार्थानां वृत्तं वर्तनं यस्मादिति वा तद्भाववृत्तं ब्रह्म परमात्मेत्यर्थः । ऋतं चेति मनत्रयस्यायमर्थः-ऋतं पूर्वागतवत्सदा स्थितमृतमीश्वरावतारम- स्यादिर्वा, सत्यमन्यजगदिद्धात्मकाशमानपरमात्मनस्तपसो वाऽध्यजायताभि- व्यक्तं जातं च । तदुत्पत्तिप्रकारं विवृणोति-सतो विष्णो रात्री दुर्गाऽजायत लक्ष्मीस्तदाज्ञया श्रीभूतदुर्गादिभेदेनावततारेति यावत् । ऋतं मानसार्थसंकल्पनं सत्यं वाचिकं यथार्थभाषणम् । चकारादन्यदपि शास्त्रीयं ज्ञानं समुच्चीयते ।यद्वा- ऋतं विकाररहितमीश्वरावताररूपं मत्स्यादिकं सत्यमबाध्यं सर्व जगत्तपसोऽध्या- लोचनानन्तरमिद्धात्प्रकाशमानात्परमात्मनः सकाशादमि सम्यगध्यजायताभि- व्यक्तमभूत्। केन प्रकारेण जगदुत्पन्नमिति तत्राऽऽह-दुर्गायाः सकाशात्सम्य- गुद्रेक उत्साहः समुद्रेकस्तस्मात्समुद्रेकात्समुद्र इत्युच्यते । ज्ञानभक्तिवैराग्यादि- समुद्रो भगवदत्तसुखवत्त्वादर्णवशब्दवाच्यो ब्रह्माज्जायत । उपलक्षणमेतत् । सर्वतत्त्वाभिमानिनो देवाश्च जाताः । समुद्रादर्णवादधि संवत्सरः सम्यग्वत्सभूता. शिवादीत्रमयतीति संवत्सरो ब्रह्मा विष्णुर्वा संवत्सरात्मकः कालो वाऽध्य- जायत । कालः कीदृश इत्यत आह--अहोरात्राणि विदधदिति । अयनऋतुमास- पक्षादिनाऽहोरात्रादि(?)रूपः । एवं मिषतो निमेषादियुक्तस्य विश्वस्य जगतो वशी स्वामी धाता विष्णुः सूर्याचन्द्रमसौ । उपलक्षणान्मनुष्यासुरादीन्दिवं च पृथिवीं चान्तरिक्षम् । अथो स्वर्महरादिलोकांश्च यथापूर्वमकल्पयत्, ये ये पदार्था यन्नामयदाकारविशिष्टास्तांस्तांस्तथैवाकल्पयदकरोत् । “ ऋतं चेति पठित्वा तज्जलं वामे क्षिपेक्षितौ " इत्युदके पापपुरुषं ध्यात्वा तज्जलं वामभागे भूमौ निक्षिपेत् *। " शक्रस्यैवाऽऽज्ञया युक्तो जले तिष्ठति सर्वदा । तस्यैव निधनार्थाय लिखेड्याहृतिमन्त्रकम् ।। मध्ये चैव तु ह्रींकारं वरुणाबीजमुल्लिखेत् । गरुडमुद्रां प्रदर्य मूलेन चाभिमन्त्रयेत् " ॥ * अत्र किंचित्रुटितम् ।
बचसंध्यापद्धतिभाष्यम् । * तजलेनार्घ्यप्रदानं कुर्यादित्यर्थः । असावादियो ब्रह्म । ( आ० गृह्यप० अ० १ )। असौ परिदृश्यमानमण्डलवादित्यनामा ब्रह्मगुणपरिपूर्णो विष्णुरेव । गायच्याश्च प्रयोगेण पुनरागमनं न स्यात् । अत:-" उत्तिष्ठ देवि गन्तव्यं पुनरागमनाय च । उत्तिष्ठ देवि स्थातव्यं प्रविश्य हृदयं मम" ॥ इति पुनरावाहनं कुर्यात् ॥ प्रातर्देवीमदितिं जोहवीमि मध्यंदिन उदिता सूर्यस्य । राये मित्रावरुणा सर्वतातेळे तोकाय तनयाय शं योः ॥ (२० सं० अ० ४ अ० ४ व०७ ) अस्यायमर्थः-अहं प्रातर्देवीमदिति प्रातःसंध्याभिमानिनी देवीं क्रीडादि- गुणविशिष्टामदितिनानी स्त्रीरूपां तो जोहवीमि अत्यन्तमुपासां सेवां करोमि । मध्यंदिने मध्याह्न सूर्यस्य सकाश उदिता मध्याह्न इति संज्ञां प्राप्ता या संध्या सा तोकाय शिशुरूपाय तनयाय पुत्राय । एतादृशाय मह्यं मे शं योः शं पापय- त्वित्यर्थः । कस्मै प्रयोजनाय । मित्रावरुणयोः सकाशात्तन्नामयोः सकाशात्स- तातेळे सर्वज्ञानलक्षणवित्ताय वित्तप्राप्त्यर्थम् । अत्र सर्वज्ञानवित्तप्राप्तय इत्यत्र वित्तं द्विविधमान्तरं बाह्यं च । आन्तरं ज्ञानादि, बाह्यं धनादि । सर्वदेवता विहाय मत्मार्थनेन किमित्यत आह-- आगच्छ वरदे देवि जपे मे संनिधौ भव । गायन्तं त्रायसे यस्मादायत्री त्वं ततः स्मृता ॥ (आ० गृहप० अ० १) हे वरदे वरमदे देवि क्रीडादिगुणविशिष्टे गायत्र्यागच्छ । मे मया क्रियमाणे जपे संनिधौ भव सांनिध्यं कुरु । यस्मात्कारणाद्गायन्तं गायत्री त्वं मन्त्रजपं कुर्वन्तं त्रायसे तस्मात्कारणात्वं गायत्रीशब्दवाच्याऽसि । ध्येयः सदा सवितमण्डलमध्यवर्ती नारायणः सरसिजासनसंनिविष्टः । * अत्रापि त्रुटितं किंचित् ।
१८ बहसंध्यापद्धतिभाष्यम् । केयूरखान्मकरकुण्डलवान्किरीटी हारी हिरण्मयवपुर्धतशङ्खचक्रः॥ ध्येयः सदेति । सवितृमण्डलमध्यवर्ती श्रीसवितृनामकश्रीलक्ष्मीनारायणोऽ. स्माभिः सदा सर्वकालेऽपि ध्येयो ध्यातव्यः । कथंभूतो नारायणः-सरसिजा- सनसंनिविष्टः कमलासने सम्यगुपविष्टः । पुनः कीदृशः-केयूरवान्हस्तकटककटि- सूत्रादिविभूषणवान् । पुनः कीदृशः-मकरकुण्डलवान् , मकरवद्विद्यमानकुण्डला- भरणवान् । पुनः कीदृशः-किरीटी मुकुटधारी । पुनः कीदृशः-हारी मुक्ता- हारवान्वैजयन्तीहारवान्वा । पुनः कीदृशः-हिरण्मयवपुर्जाम्बूनदसुवर्णवद्वपुः शरीरकान्तिमान् । पुनः कीदृशः-धृतशङ्खचक्रः । शङ्खचक्रायायुधधारी एतादृशः। ॐ भूर्भुवः स्वः, तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥ यो देवः सविताऽस्माकं धियो धर्मादिगोचरः। प्रेरयेत्तस्य तद्भर्गस्तद्वरेण्यमुपास्महे । यः सविता सवितृशब्दवाच्यो देवः क्रीडादिगुणविशिष्टो धर्मादिगोचरो धर्मार्थकाममोक्षादिविषयोऽस्माकं धियः सद्बुद्धीः प्रेरयेत् , तस्य तद्व्याप्तं भर्गो ज्ञानपूर्ण वरेण्यं वरयितुं योग्यं भगवन्तमुपास्मह उपासां सेवां कुर्म इति । आयातु वरदा देवी अक्षरं ब्रह्मसंमितम् । गायत्री छन्दसां मातेदं ब्रह्म जुषस्व मे ॥ . (ते. • आ० प्र० १० अ० ३४ ) वरपदा क्रीडादिगुणविशिष्टा गायत्री मां प्रत्यायातु । हे गायत्रि त्वं छन्दसा वेदानां माता मापयति ज्ञापयतीति माता । अतस्त्वत्पार्थनं युक्तम् । सविसम- ण्डलान्मद्धृदयं प्रति याहि । हृदि संनिधानप्रयोजनमाह-अक्षरं ब्रह्मसंमित- मिति । सम्यग्ब्रह्मैव प्रतिपादकमित्यर्थः । न तु समानम् । ब्रह्मसंमितं परब्रह्मणः संमितं सदृशम् । ओमित्येकाक्षरमिदं ब्रह्म मे मम जुषस्व तदुपासनामहं यथा कुर्या तथा जुषस्व कुरुष्व । एवमुपासनाकरणे फलमाह- 'यदलात्कुरुते पापं तदहात्पतिमुच्यते । (ते. आ० प्र० १० अ० ३४) बढचसंध्यापद्धतिभाष्यम् । १९ यदहादहि दिवा यत्पापं कुरुते तत्तस्मात्पापादता दहि क्रियमाणात्संध्यागा- पत्रीजपानुष्ठानात्प्रतिमुच्यते निर्लिप्तो भवति । यद्राच्यात्कुरुते पापं तद्राच्यात्प्रतिमुच्यते । सर्ववर्णे महादेवि संध्याविद्ये सरस्वति ॥ (तै० आ० प्र० १० अ० ३) यद्राव्याद्रात्रौ कृतं पापं तस्मात्पापाद्रायां कृतासंध्यागायत्रीजपानुष्ठाना- प्रतिमुच्यते निर्लिप्तो भवति । कीदृशी त्वम् -सर्ववर्ण इति । भगवतः स्त्रीरूप- वेवक्षया सर्ववर्ण इत्यादि संबोधनम् । रक्तश्वेतकृष्णरौक्म्यादिवर्णोपेते, यद्वा विवर्णप्रतिपाद्यत्वात्सर्ववर्णे सर्वशब्दवाच्य इत्यर्थः । महादेवि महद्भिर्बमा- देभिः स्तुत्ये । संध्याविद्ये संध्याकाले विशेषतः संनिधानवति । अथवा संध्यो- स्तिविद्ये । सरस्वति तच्छन्दवाच्ये । पुनः कथंभूते- अजरे अमरे देवि सर्वदेवि नमोऽस्तु ते । अजरे जरारहितेऽमरे मरणरहिते देवि क्रीडादिगुणविशिष्टे सर्वदेवि पूज्ये नमोऽस्तु । पुनः कथंभूताऽसि- ओजोऽसि तेजोऽसि सहोसि बलमसि भ्राजोऽसि देवानां धाम नामासि विश्वमसि विश्वायुः सर्वमसि सर्वायुरभिभूरोम् । (त आ«X० १:४०३५) ओजोऽसि अवष्टम्भकशक्त्याधुपेताऽसि । तेजोरूपाऽसि । सहनशक्त्युपे- असे । बलरूपाऽसि । प्रकाशमानाऽसि । देवानां मन्दिरवदाश्रयभूताऽसि । |मासि सर्वप्रसिद्धाऽसि । विश्वमसि स्थूलरूपाऽसि । विश्वस्य जगत आयुर्भू- ऽसि सर्वव्याप्ताऽसि । सर्वायुः सर्वोपासकानामायुरायुष्यमसि । अधिकत्वेन भवसि । उपासकानामायुष्याघभिवृद्धिदानेनाऽऽयुराधभिव्यापिनी भवसी- अर्थः । ओं गुणपरिपूर्णश्रीनारायणप्रतिपादनपराऽसि, इति । अथवाऽभिमः र्वपापपरिहारहेतुरसि । यन्नामस्मरणस्य सर्वपापनिवारकत्वं किमुत ध्यान पेति भावः। गायत्रीमावाहयामि सावित्रीमावाहयामि सर- २० बढचसंध्यापद्धतिभाष्यम् । स्वतीमावाहयामि श्रियमावाहयामि हिय- मावाहयामि छन्दऋषीनावाहयामि । (तैआ०प्र० १०अ० ३५) अहं गायत्रीशब्दवाच्यां गायत्रीनामिकां * सरस्वतीनामिकां श्रियं सुखरूपा स्वयमेव स्वयमाश्रितेति श्रीशब्दवाच्यां हियं हीशब्दवाच्यामेवं छन्दऋषीन्सर्ववेदद्रष्ट्री सूर्यमण्डल आवाहयामि विशेषतो ध्यानार्थम् । सवि- तुमण्डलमध्यवर्तिनः श्रीनारायणस्य देवस्य वरणीयं पूज्यं तेजो वयं ध्यायेमोपास्महे । यो नारायणोऽस्मान्संध्योपास्त्यादिसत्कर्मणि प्रेरयति तं गायत्रीमत्रार्थभूवं श्रीनारायणं सर्वत्र स्मरेदित्यर्थः । सवितुर्देवस्य वरेण्यं तेजो ध्यायेमहि योऽस्माकं [धियः] कर्मणि प्रेरयतीति गायत्रीमत्रार्थ स्मृत्वा । मनप्रतिपाद्यदेवतालक्षणमाह- अग्निर्मुखं ब्रह्मा शिरो विष्णुहृदयं रुद्रः शिखा पृथिवी योनिः प्राणापानव्यानोदानसमाना सप्राणा श्वेतवर्णा सांख्यायनसगोत्रा, इति । (ते. आ० प्र० १० अ० ३५) अग्न्यादिदेवतास्तत्तदवयवजन्यास्तदाश्रिताश्च । अत्र विष्णुशब्देन सोम लताभिमानी सोमो विवक्षितः, विष्णोर्जनितेति श्रुतेः । पृथिवी योनिस्तज्जन्या तदाश्रिता च प्राणादयः पञ्च तच्ट्वासजन्यास्तदाश्रिताश्च । श्वेतवर्णेत्यत्र श्वेतपदं रक्तादेरुपलक्षणम् । एतादृशा । सा च सांख्यायनसगोत्रोत्पनेत्यर्थः । गायत्रीमन्त्रलक्षणमाह- गायत्री चतुर्विशत्यक्षरा त्रिपदा षट्कुक्षिः पञ्च- शीर्षा, (तै० आ० प्र० १० अ० ३५) इति । " तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् " इi चतुर्विशत्यक्षरोपेता । अष्टाक्षरात्मकत्रिपदा । पदसंख्या आकारा इत्यर्थः (?) व्याकरणादिपञ्चानां शिरस्थानीयेति तदर्थः । जातवेदसे सुनवाम सोममरातीयतो निर्द- हाति वेदः । स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धु दुरिताऽत्यग्निः। (ऋ० सं० अ० १ ० ७ व. ७) * अत्र सावित्रीपदव्याख्यानं त्रुटितं बोध्यम् ।
। बचसंध्यापदतिभाष्यम् । २१ वयं जातवेदसे चराचरप्रपञ्चस्य सृष्ट्यादिलगभो यस्मात्तस्मै सर्वज्ञाय पर- मात्मनेऽग्नये वा सोमं सुनवाम मनसा विषयं करवाम । स वेदो वेत्तीति वेदः परमात्माऽरातीयतोऽरातित्वं शत्रुत्वं कर्तुमिच्छतः पुरुषान्निदहाति भस्मी करोति । स परमात्माऽग्निर्वा नोऽस्माकं विश्वा विश्वानि दुर्गाणि सर्वापदोऽति- पर्षदतिशयेन नाशितवान् । यथा लोके नाविको नावा सिन्धुं समुद्रं नदी वा पारयत्येवं परमात्माऽग्निर्वा दुरिता दुरितान्यतिशयेन तारयतीत्यर्थः । तच्छंयोरावृणीमहे गातुं यज्ञाय गातुं यज्ञपतये देवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः । ऊर्ध्व जिगातु भेषजं शं नो अस्तु द्विपदे शं चतुष्पदे ॥ तत्परं ब्रह्म शंयोः सुखप्राप्त्यर्थमावृणीमहे सम्यक्मार्थयामः । कस्मै प्रयो- ननाय यज्ञाय यज्ञशब्दवाच्याय परमात्मने गातुं श्रुतितन्मीमांसाशास्त्रैर्गानं तु यज्ञपतये यज्ञस्वामिने गातुं च । अनेन गानेन नोऽस्माकं देवी देवतासं. वन्धिनी स्वस्तिरस्तु कल्याणमस्त्वित्यर्थः । मानुषेभ्यो मनुष्येभ्यः स्वस्तिरस्तु । ऊर्ध्व जिगातु भेषजम् । भेषजं संसाररोगनिवर्तकोषधमूर्ध्व जिगासूत्कृष्टत्वेन जयतु द्विपदेभ्यः सकाशान्नोऽस्माकं शं सुखमस्तु । चतुष्पदेभ्यः सकाशानः शं सुखमस्तु । नमो ब्रह्मणे नमो अस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यः । नमो वाचे नमो बाच- स्पतये नमो विष्णवे महते करोमि । (आ० गृह्यसू० अ०३) ॐ नमःप्रतिपाद्याय श्रीनारायणाय नमः । ब्रह्मणे गुणपूर्णाय नमः । अग्नये नमोऽस्तु पृथिव्यै नमः । ओषधीभ्यो नमः । वाचे वागभिमानिन्या उमायै नमः । पथवा वागभिमानिन्यै सरस्वत्यै नमः । वाचस्पतये ब्रह्मणे वायवे वा नमः । अथवा बृहस्पतये नमः । महते महात्मने विष्णवे श्रीनारायणाय नमस्करोमि । ॐ शान्तिः शान्तिः शान्तिः । शान्तिराध्यात्मिकतापस्य शान्तिरस्तु निवृत्तिरस्तु । शान्ति तिकतापस्य शान्तिरस्तु निवृत्तिरस्तु । शान्तिराधिदैविकस्यापि तापस्य शान्तिरस्त नेवृत्तिरस्तु ।
२२
बढचसंध्यापद्धतिभाष्यम् ।
नमः प्राच्य दिशे याश्च देवता एतस्यां
प्रतिवसन्त्येताभ्यश्च नमो नमः ।
नमः प्राचीदिक्स्वामिने विष्णवे नमः प्राच्य दिशे नमः । माच्यां दिशि
या इन्द्राया देवताः प्रतिवसन्ति स्वामित्वेनैताम्यश्च नमो नमः ।
ॐ नमो दक्षिणायै दिशे याश्च देवता एतस्यां
प्रतिवसन्त्येताभ्यश्च नमो नमः ।
दक्षिणस्यां दिशि यमादयः सन्ति ।
ॐ नमः प्रतीच्यै दिशे०।
प्रतीच्यां दिशि वरुणाद्याः सन्ति ।
ॐ नम उदीच्य दिशेः।
उत्तरस्यां दिशि सोमाद्याः सन्ति ।
ॐ नम ऊचीये दिशे।
ऊर्चायां दिशि गणेशादिभ्यः ।
ॐ नमोऽधरायै दिशे।
अधरस्यां दिशि शेषमित्रादिभ्यः।
ॐनमोऽवान्तरायै दिशे।
अन्तरिक्षायां दिशि गणेशपुत्रादिभ्यः । नमो नम इति पूर्ववत्सर्वत्रान्वयः।
कामोऽकार्षीत् । मन्युस्कार्षीत् । नर्य प्रजां मे
गोपाय । अमृतलाय जीवसे । जातां जनि-
ष्यमाणां च । अमृते सये प्रतिष्ठिताम् ।
कामो विषयकामो यदकार्षीत् । मन्युः क्रोधो यदकार्षीत् । नर्य प्रजां नीच
मजा ताभ्यः सकाशान्मे गोपाय रक्षय । अहममृतत्वाय मोक्षाय जीवसे जीनामि
जावां जनिष्यमाणां च प्रजाममृते मोक्षे सत्ये प्रतिष्ठितां प्रतिष्ठामि (?)।
यां सदा सर्वभूतानि स्थावराणि चराणि च ।
सायं प्रातर्नमस्यन्ति सा मा संध्याऽभिरक्षलों नमः ।
यां सदा स्थावराणि जडानि सर्वभूतानि चराणि चेतनानि च सायं प्रातर्नम
म्यन्ति सा संध्या मा मामभिरक्षतु पालयतु ।
बढचसंध्यापद्धतिभाष्यम् । २३ उत्तमे शिखरे जाते भूम्यां पर्वतमूर्धनि । ब्राह्मणेभ्योऽभ्यनुज्ञाता गच्छ देवि यथासुखम् ॥ (आश्व० गृह्यप० अ० १) हे देव्युत्तमे शिखरे देशे जाते भूम्यां भूमौ मानसोत्तरपर्वतमूर्धनि जाते स्थिते त्वं ब्राह्मणेभ्यो नमस्कृतेभ्यस्तैरनुज्ञाता (2) सती यथासुखं गच्छेति प्रार्थना । अथवा मेरुपर्वतमूर्धनि जातमुत्तमशिखरायुपेतं ब्रह्मभवनं गच्छेति वा । स्तुतो मया वरदा वेदमाता प्रचोदयन्ती पवने द्विजाता । आयुः पृथिव्यां द्रविणं ब्रह्मवर्चसं मह्यं दत्त्वा प्रजातं ब्रह्मलोकम् ॥ (ते. आ० प्र० १० अ० ३६) हे वेदमातः पवने ब्रह्मणि द्विजाता द्विरावृत्त्या जाता प्रचोदयन्ती सर्वा- सत्कर्मादिषु प्रेरयन्ती । अथवा पवनेन सह मां चोदयन्ती प्रेरयन्ती वरदा वरमदात्री स्तुतो मया स्तुता सती पृथिव्यां स्थितस्य ममाऽऽयुरायुष्यं द्रविण- मन्तबहिश्चेत्युभयविधं विद्याधनात्मकं द्रविणं ब्रह्मवर्चसं प्रजातं प्रजादि प्रकृष्टतयाऽभिव्यक्तं वैकुण्ठं वा ब्रह्मलोकं वा मह्यं दत्त्वा सुखं प्रयच्छ । हिरण्यगर्भः समवर्तताने भूतस्य॑ जातः पति- के आसीत् । स दांधार पृथिवीं चामुतेमां कस्मै देवार्य हविषा विधेम ॥ (ऋ० सं० अ० ८ अ० ७ ०० ३) अग्रे प्रलयकाले हिरण्यगर्भो ब्रह्मा समवर्तताऽऽसीत् । कथंभूतो भूतस्य जातः, जातस्य भूतस्योत्पन्नप्राणिमात्रस्यैकपतिर्जगन्मुख्यस्वाभ्यासीत् । स ब्रह्मा पृथिवीं पृथिवीलोकम्, उतानन्तरं द्यां द्युलोकम् । इदमुपलक्षणं सर्वमपि लोकं दाधार दधे धृतवानित्यर्थः । कस्मै कशब्दवाच्याय ब्रह्मणे वयं हविर्द्रव्येण मध्यपूजासाधनद्रव्येण पूजां विधेम कुर्म इत्ययः॥ अतो देवा अवन्तु नो यतो विष्णुविचक्रमे । पृथिव्याः सप्त धामभिः ॥ इदं विष्णुर्विचक्रमे त्रेधा निर्दधे पदम् । समूहळमस्य पांसुरे॥ ( ऋ० सं०अ० १ अ० २ व० ७) - २४ यच्छा नः वढचसंध्यापद्धतिभाष्यम् । यतो यान्देवानुद्दिश्य विष्णुस्त्रिविक्रमरूपी श्रीनारायणो विचक्रमे सर्व- ब्रह्माण्डमाक्रान्तवान्, अतः कारणाद्देवा नोऽस्मानवन्तु रक्षन्तु । भगवत्प्रसादपा- त्रीभूता अनन्तकालेऽपि श्रीहरिरक्षिताः श्रीहरिशरणाः सर्वे देवा अस्मा- व्रक्षन्त्विति यावत् । तादृशोऽनादिकालेऽपि स्वभक्तरक्षणशीलः श्रीविष्णु- वामनरूपीदं परिदृश्यमानं सर्वं जगत्रेधा पादत्रयेण विचक्रम आक्रमितवान् । तृतीयपादस्यावकाशाभावदशायां बलिराज्ञो मूनि पदं निदधे । समूलं मूलसा- हित्यं यथा भवति तथाऽस्य बलिराज्ञः पांसुरे क्षति चकार गर्वखण्डनं चकारे- त्यर्थः। स्योना पृथिवि भवा नृक्षरा निवेशनी । शर्म सप्रथः ॥ ( ऋ० सं० अ० १ अ° २ व० ६ ) हे पृथिवि स्योना सर्वधारिणी नृणां क्षराऽभीष्टक्षरा दोग्ध्री निवेशनी स्वाश्रय- भूता भव सप्रथः सस्वामिका त्वं नोऽस्माकं शर्म सुखं यच्छ देहीति भूप्रार्थना । ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमा- क्षभिर्यजत्राः ॥ स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिव्य- शेम देवहितं यदायुः ॥ (ऋ० सं० अ० १ अ० ६ अ० १६) हे देवा यजत्रा यजनशीला वयं कर्णेभिः कर्णाभ्यां भद्रं मङ्गलं शृणुयाम शृणुमः । सर्वदा वः प्रसादेन श्रीहरिकथाश्रवणलक्षणं मङ्गलं शृणुम इत्यर्थः अक्षभिर्नेत्राभ्यां भद्रं पश्येम । मङ्गलानां च मङ्गलमित्यादिना मङ्गलरूपं भगवद्रूपं विशेषं चलाचलप्रतिमालक्षणं भद्रं मङ्गलं पश्यामः । स्थिरैरङ्गैदृढीभूतैः सर्वाव यवैस्तनूभिः शरीरैर्वयं देवहितं देवस्य श्रीनारायणस्य हितं प्रीतियथ स्यात्तथा तुष्टुवांसः स्तोत्रं कुर्वन्तः सन्तो यदायुर्यदस्माकमायुर्वर्तते तत्सफलं कुई इत्यर्थः। कृतो नमस्कारो दिग्देवतानामेव न किंतु विष्णोरेवेत्यभिप्रेत्याऽऽह- आकाशात्पतितं तोयं यथागच्छति सागरम् । सर्वदेवनमस्कारः केशवं प्रति गच्छति ॥ आकाशात्सकाशात्पतितं तोयं यथा समुद्रं गच्छति तथा सर्वदेवताकृतनम स्कारोऽपि केशवं प्रति गच्छतीत्यर्थः।
बचसंध्यापद्धतिभाष्यम् । २५ वासनाहासुदेवोऽसि वासितं ते जगत्रयम् । सर्वभूतनिवासोऽसि वासुदेव नमोऽस्तु ते ॥ वैकुण्ठादौ वासनास्थितेः सर्वत्र नियामकतया स्थितेर्वा वसुः । ते त्वयि जग- त्रयं वासितम् । यतः सर्वभूतनिवासोऽसि अतो वसुः। देवः क्रीडादिगुणवि- शिष्टः । वसुश्वासौ देवश्च वसुदेव इत्यभिधा यस्य हे वासुदेव नमोऽस्तु ते । यतो ब्राह्मणानां कारुण्यं मुख्यधर्मोऽतश्चतुःसागरपर्यन्तं गोब्राह्मणेभ्यः शुभं भवतु इत्युक्त्वा स्वगोत्रोच्चारणपूर्वकस्वगुप्तनामोक्त्या शु(शि)शुमारनामकं स्वदेहा- न्तर्गतं हरिं वा स्वपादौ भूमि वा स्पृष्ट्वा प्रणम्य यस्य स्मृत्या चेत्यादिनोदकं गृहीत्वा हरये समर्पयेत् ॥ इति प्रातःसंध्यार्थः समाप्तः। अथ मध्याह्नसंध्यार्थो लिख्यते । विशेषस्तु- आपः पुनन्तु पृथिवीं पृथिवी पूता पुनातु माम् । पुनन्तु ब्रह्मणस्पतिर्ब्रह्म पूता पुनातु माम् । यदुच्छिष्टमभोज्यं यदा दुश्चरितं मम । सर्व पुनन्तु मामापोऽसतां च प्रतिग्रहं स्वाहा ॥ (आ० गृह्यप० अ० १) आपोऽबभिमानिनो देवा नारायणमूर्तयो वा* । पृथुत्वात्पृथिवी विष्णुरि- त्यादेः पृथिवीशब्दवाच्यः स्त्रीरूपो विष्णुः स्वत एव पूतः स च मां पुनातु । शक्रान्ता देवता मता इत्यादेविष्णुमारभ्येन्द्रान्ताः सर्वे देवा ब्रह्मणस्पतयो वेदप्रतिपाद्यास्तेऽपि मां पुनन्तु । ब्रह्म तत्स्त्रीजातमपि वेदवेद्यम् । अत एव पूता पूतं तदपि मां पुनातु पवित्रयतु । अथवा--कथंभूता पृथिवी-पूता शुद्धा शरीरं पूतं सन्मां लिङ्गशरीररूपं जीवात्मानं पुनाविति । ब्रह्मणस्पतिश्चतुर्मुखस्य देवस्य पतिः स्वामी श्रीहरिरिमा आपश्च पुनन्तु पवित्रयन्तु । ब्रह्मणो वेदस्य पतिः परमात्मा पुनन्तु पानान्मां पुनातु । यत्स्वतोऽमोज्यं नीचोच्छिष्टुं च यद्वा दुश्चरितं निषिद्धाचरणं तथाऽसतां शूद्रादीनां सकाशात्प्रतिग्रहं तन्निमित्तकं पापं * एतदनन्तरं किंचित्रुटितम् ।
२६
बचसंध्यापद्धतिभाष्यम् ।
तत्सर्व परिहत्य मामापः पुनन्त्वित्यर्थः । तदर्थमिदमभिमत्रितमुदकमास्याहव.
नीये स्वाहा सुहुतमस्तु ॥
अथ सायंसंध्यायां विशेषः।
अग्निश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः।
पापेभ्यो रक्षन्ताम् । यदहा पापमकार्षम् ।
मनसा वाचा हस्ताभ्यां पद्भ्यामुदरेण
शिश्ना । अहस्तदवलुम्पतु । यत्किंच दुरितं
मयि । इदमहं माममृतयोनौ सये ज्योतिषि
जुहोमि
स्वाहा । (आ० गृह्यप० अ० १)
अग्निर्भगवान्मसिद्धाग्निर्वा । अह्नाऽह्नि । अहस्तदभिमानी वायुः। सत्ये साधु-
गुणविशिष्टे, इति तत्पदार्थविशिष्टो(शेषो) बोध्यः ।
इति सायंसंध्यायां विशेषः।
समाप्तमिदं संध्यापद्धतिभाष्यम् ।
ॐ तत्सब्रह्मणे नमः। संध्याभाष्यम् । ( संध्यामात्रवृत्तिः) व्यासः *श्रीमध्वाचार्यविरचितम् । लक्ष्मीलक्ष्मीशपादाभ्यामियमस्तु नमस्कृतिः । यया निखिलभाग्यानि भवेयुनता हरिम् ॥ १ ॥ नरसिंहं हयग्रीवं नत्वा सर्वार्थसिद्धये । मध्वादीन्स्वगुरून्संध्यां विवृणोमि यथामति ।। २ ॥ श्रुतिस्मृत्युदितं कृत्यं यदाराधनसाधनम् । तद्विधाय स मत्राणां वृत्तिं वक्ष्ये यथाक्रमम् ॥ ३ ॥ यावन्तोऽस्यां विकर्मस्थाः पृथिव्यां बालिशा द्विजाः । तेषां पावित्र्यसिद्ध्यर्थं संध्या सृष्टा स्वयंभुवा ॥ ४ ॥ -" उपास्तिः संध्या सूर्यस्य निशायां दिवसेषु च । तामेव ताभ्यां तस्मात्तु प्रवदन्ति महर्षयः " ॥ ५ ॥ सूर्यान्तर्गतभगवद्ध्यानमेव संध्येत्युक्तं भवति । संध्याधिकारकाल:- " मौञ्जीवन्धनमारभ्य सायं पातश्च कालयोः । मध्याह्नेऽपि च कर्तव्यं यावत्माणविमोचनम् " ।। दैनंदिनसंध्याकाल:- " प्रातःसंध्यां सनक्षत्रामुपासीत यथाविधि ॥ सावित्र्याः पश्चिमां संध्यामनस्तमितभास्करे । अध्यर्धयामादासायं संध्या माध्याह्निकीष्यते ॥ “उत्तमा तारकोपेता मध्यमा लुप्ततारका । अधमा सूर्यसहिता प्रातःसंध्या विधेष्यते ॥ उत्तमा सूर्यसहिता मध्यमाऽस्तमिते रवौ । अधमा तारकोपेता सायंसंध्या विधेष्यते " ॥ - - * अयं मध्वाचार्यः कश्चन मध्वाचार्यपदाधिष्ठितः स्यादिति नतिश्लोकादनुमीयते ।
२ श्रीमध्वाचार्यविरचितं- अकरणे प्रत्यवायपाहात्रि:- यः संध्यां कालतः प्राप्तामालस्यादतिवर्तते । सूर्यहत्यामवामोति झुलूकत्वमियात्स च ॥ वसिष्ठः-"धृतोर्ध्वपुण्ड्देहस्तु संध्योपासनमाचरेत् । उपासीत द्विजः संध्यां प्राङ्मुखोदङ्मुखोऽपि वा" ।। विष्णुपुराणे-" होमे त्रिकालसंध्यासु क्रियासु पठने तथा । नैकवस्त्रः प्रवर्तेत द्विजो वाऽऽचमने जपे" ॥ शातातपः-" संदध्यांसात्परिभ्रष्टं नाभिदेशे व्यवस्थितम् । एकवस्त्रेण तद्विद्याईवे पित्र्ये च कर्मणि" | संवतः-" अथाऽऽचम्य कुशैर्युक्त आसने समुपस्थितः । करसंपुटकं कृत्वा संध्यां नित्यं समाचरेत् " ॥ स्मृतिरत्ने-" दाने परिग्रहे होमे जपे संध्यात्रये तथा । बलिकर्मणि चाऽऽचामेदादौ द्विः सकृदन्ततः ॥ याज्ञवल्क्यः-" भोजने हवने दाने उपहारे परिग्रहे। संध्याप्रये च दाने च पूर्व पश्चाद्विराचमेत् " ॥ हारीत:-"आईवासा जले कुर्यात्तर्पणाचमने जपम् । शुष्कवस्त्रः स्थले कुर्यात्तर्पणाचमने जपम् ।। जानुमात्रे जले तिष्ठन्नासीनः प्राङ्मुखः स्थले । पवित्रं धारयन्विप्रः शुद्धाचमनमाचरेत् ॥ वेदकर्मणि न त्याज्यं पवित्रं त्वन्यथा त्यजेत् "। भारद्वाजः-" सग्रन्थिकुशहस्तस्तु कर्माङ्गाचमनं चरेत् । नोच्छिष्टं तत्पवित्रं स्याद्भुक्तोच्छिष्टं तु वर्जयेत्." ॥ शङ्क: सुवर्णस्य सुवर्णस्य सुवर्णस्याङ्गुलीयकम् । पवित्रमिति विज्ञेयं सर्वकर्मसु पूजितम् " ॥ माषः पञ्चगुञ्जात्मकः । षोडशमाषपरिमितं सुवर्ण सुवर्णशब्देनोच्यते ॥ " अन्तर्जानुः शुचौ देशे उपविष्ट उदङ्मुखः । प्राग्वा तु ब्रह्मतीर्थेन द्विजो नित्यमुपस्पृशेत् " ॥ भारद्वाजः-" सुदेशे उपविश्यैव प्राङ्मुखो ब्रह्मसूत्रवान् । बद्ध्वा शिखां कुशकरो द्विजो जलमुपस्पृशेत् ॥ सुमन्तुः-“दक्षिणस्य तु हस्तस्य तलं गोकर्णतुल्यकम् । कृत्वा तु ब्रह्मतीर्थेन तत्तोयं शुद्धमापिबेत् ॥ - याज्ञवल्क्य:- - - व्यास:- संध्याभाष्यम् । "गोकर्णाकृतिहस्तेन माषमात्रं जलं पिवेत् । तब्यूनमधिकं पीत्वा सुरापानी भवेविजः" ॥ ब्रमतीर्थादिलक्षणमाह भारद्वाजः- " अङ्गुष्ठमूलं ब्राझं स्यात्माजापत्यं कनिष्ठकम् । पैतृकं तर्जनीमूलं कराग्रं दैवतं स्मृतम् ।। आग्नेयं करमध्यं स्यात्तीर्थान्येवं द्विजस्य हि । दक्षिणे तु करे सन्ति ज्ञात्वा कर्म समाचरेत् ।। पिबेदाचमनवारि वीक्षितं ब्रह्मतीर्थतः । प्राजापत्येन होतव्यं पैत्रेण पितृतर्पणम् ॥ कराग्रेण प्रदानं स्यान्मध्यमेन परिग्रहः "। यमः-" प्रत्यङ्मुखश्वेदाचामेत्पुनः स्नानेन शुध्यति । द्विजन्मनां विशुद्ध्यर्थं स्मार्ताचमनमुच्यते ॥ संहताङ्गुलिना तोयं गृहीत्वा पाणिना द्विजः । मुक्ताङ्गुष्ठकनिष्ठाभ्यां त्रिः पिबेद्रह्मतीर्थतः ॥ तथा प्रक्षाल्य हस्तौ च संकुच्यौष्ठौ द्विज्यिं वा । संहताङ्गुलिमूलेन प्रमृजेच्च ततो हनुम् ॥ प्रक्षाल्य हस्तौ चाऽऽस्यं च पादौ शीर्ष तथैकतः। मध्यमाङ्गुलिपृष्ठैश्च संस्पृशेद्माणमूलतः ।। हस्तौ प्रक्षाल्य संस्पृश्य घ्राणादि द्वादशं(?) पृथक् । अङ्गुष्ठेन प्रदेशिन्या प्राणौ(णे) पश्चादुपस्पृशेत् ॥ कनिष्ठाङ्गुष्ठयोर्नाभिं तलेन हृदयं स्पृशेत् । अङ्गुष्ठानामिकाभ्यां च चक्षुः श्रोत्रं च संस्पृशेत् ।। अङ्गुलीभिः शिरः सर्वैर्बाहुमूले च संस्पृशेत् । प्रणवनोदकं धृत्वा आत्मानं परिपेचयेत् ॥ अनेन विधिना विमः कुर्यादाचमनं सदा" इति । प्रयोगसारे तु विशेषः- केशवादित्रिभिः पीत्वा द्वाभ्यां प्रक्षालयेत्करौ । द्वाभ्यामोष्ठौ च निमृज्य द्वाभ्यां संमार्जयेद्धनुम् ।। एकेन पाणिं संप्रोक्ष्य पादावपि तथैकतः । संमोक्ष्यैकेन मूर्धानं ततः संकर्षणादिभिः ।। ऊोष्ठनासाक्षिकर्णनाभ्युरःशिरसां भुजौ । - श्रीमध्वाचार्यविरचितं- श्रीपूर्वकं तु नामाऽऽदौ नमोन्तश्च ततः क्रमात् ॥ पुराणाचमनं ह्येतत्स्वयं नारायणोऽब्रवीत् "। वसिष्ठः-" नामभिः केशवायैश्च तथा संकर्षणादिभिः । चतुर्विशतिसंख्यानि स्थानानि समुपस्पृशेत् ॥ एवमाचमनं कुर्याद्विवारं सर्वकर्मसु" इति । " त्रिः पाश्याङ्गुष्ठमूलेन द्विरुन्मृज्य कपोलको । मध्यमाङ्गुलिभिः पश्चाद्विरोष्ठं संमृजेत्ततः ।। नासिकोष्ठान्तरं पश्चात्सर्वाङ्गुलिभिरेव च । पादौ हस्तौ शिरश्चैव जलैः संमार्जयेत्ततः ॥ अङ्गुष्ठतर्जनीभ्यां तु संस्पृशेन्नासिकापुटे । अङ्गुष्ठानामिकाभ्यां च कनिष्ठाङ्गुष्ठयोगतः ॥ नाभं स्पृशेदाचमनं द्वाभ्यां तु हृदयं स्पृशेत् । द्वाभ्यां तु मस्तकं स्पृष्ट्वा द्वाभ्यामंसद्वयं स्पृशेत् " [इति]स्मृत्युक्तप्रकारेणाऽऽचमनप्रकारो बोद्धव्यः । तत्क्रमः-प्रक्षालि तपाणिपादः सन्धृतोर्ध्वपुण्ड्रः सोत्तरीयो बद्धशिखो यज्ञोपवीत्यासने प्राङ्मुख आसीनो मुक्ताङ्गुष्ठकनिष्ठेन पवित्रसहितदक्षिणहस्तसहितेन गोकर्णाकृतिना माषमात्रानूनातिरिक्तममलमुदकं गृहीत्वा वीक्ष्यैवाऽऽचामेत्ततः(त्र) श्रीकेशवाय स्वाहा । नारायणाय स्वाहा । माधवाय स्वाहा" इति गोक- कृतिहस्तेन विरुदकं प्राश्य, ततो गोविन्दाय नमः, विष्णवे नम इति द्वाभ्यां हस्तौ संमृजेत् । मधुसूदनाय नमः, त्रिविक्रमाय नम इति मुक्तागु. लिभिर्नासिकाधरोष्ठाधःप्रदेशौ संमृजेत् । वामनाय नमः श्रीधराय नम इति द्वाभ्यां हनुदेशौ संमृजेत् । हृषीकेशाय नम इति हस्तद्वयं संमृज्यात् । पद्मनाभाय नम इति पादौ । दामोदराय नम इति शिरः । संकर्षणाय नम इति नासिकाधः । वासुदेवाय नमः प्रद्युम्नाय नम इति तर्जन्यङ्गुष्ठयोगेन नासिकापुटौ । अनिरुद्धाय नमः पुरुषोत्तमाय नम इति मध्यमाङ्गुष्ठयोगेन नेत्रे | अधोक्षजाय नमो नारसिंहाय नम इत्यङ्गुष्ठानामिकायोगेन श्रवणे । अच्युताय नम इति अगुष्ठकनिष्ठायोगेन नाभिम् । जनार्दनाय नम इति पाणितलेन हृदयम् । उपेन्द्राय नम इति मुकुलिताङ्गुलिहस्तेन शिरः। हरये नम इति दक्षिणबाहुमूलम् । ॐ श्रीकृष्णाय नम इति वामबाहुमूलं स्पृशेत् । तत्र नानामयमर्थ:-कश्च, ईशश्च केशौ ताववतीति । कथासावीशचासो वश्थेति वा । शस्ताः केशा अस्य सन्तीति वा ।
५ ॥ संध्याभाष्यम् । तदुक्तम्- " हिरण्यगर्भः कः प्रोक्त ईशः शंकर एव च । सृष्ट्यादिनाऽवतीयंन्ति नौ यतः केशवो भवान् इति हरिवंशे । केशौ विरिश्चिपार्वतीशाववतीति केशवः । अव रक्षण- तीति धातोः । कं ब्रह्माणम् , ई लक्ष्मीम् , ई कामं शं रुद्रं वर्तयति । । केशं सुखश्रेष्ठं वहतीति वा । केशनामका अवतारा यस्येति केशवः । अरा दोषास्तविरुद्धा नारास्तेषामयनमिति वा । दोषरहिता नारा वेदा. तत्प्रतिपाद्यतया तेषामयनमिति वा । नराणामिदं नारं ज्ञानं तद्विष- तया तथा तदयनाद्वा । नरसंबन्धि नारं जलं तदयनाद्वा नारायणः । गया लक्ष्म्या धवो माधवः । गा विन्दतीति गोविन्दः । गोभिर्वेदैः रतिपाद्यत इति वा । वसतीति विष्णुः । णकारो बलं षकारः प्राण आत्मेति श्रुतेविशिष्टवलचेष्टास्वभाव इति वा । मधु सूदयतीति मधुसूदनः । विधः क्रमः पादविक्षेपो यस्येति त्रिविक्रमः । त्रिषु जीवेषु त्रिषु लोकेषु वा वेक्रमः पराक्रमो यस्येति वा । वाम नयतीति वामनः । वाममस्यास्तीति वा । मर्मङ्गलरूपैर्नीयत इति वा वामनः । श्रियं धरतीति श्रीधरः । हृषीकाणामि- न्द्रियाणामीशो हृषीकेशः । पद्मं नाभौ यस्येति पद्मनाभः । दामोदरे यस्येत्यसौ दामोदरः । सम्यकर्षयतीति संकर्षणः । वसतीति वासुः । वसन्ति भूतान्यस्मि- निति वा । दीव्यतीति देवः । वासुश्चासौ देवश्चेति वासुदेवः । वाति सूते टीव्यतीति वा । वश्वासावसुश्चासौ देवश्चेति वासुदेवः । बलरूपोऽसुप्रदः शताव- कश्चेत्यर्थः । प्रकृष्टो द्युम्नः प्रकाशो यस्येति प्रकर्षेण द्योतत इति वा प्रद्युम्नः । निभिः पाणिभी रुध्यत इत्यनिरुद्धः । न निरुद्धोऽनिरुद्धः । पुरुषाभ्यामुत्तमः राक्षरपुरुषाभ्यामुत्तमः । पुरुषश्वासावुत्तमश्चेति वा । श्वेतद्वीपानन्तासनवै- ण्ठाः सर्वेषां हृदयं सत्यलोकोऽव्याकृताकाशश्चेत्येतानि षट्पुराणि यस्यासौ रुषः। अधः कृतान्यक्षजानि येनासावधोक्षजः । नरश्चासौ सिंहश्चेति वा । न यित इति नरः। हिनस्तीति सिंहः । नरवासौ सिंहश्चेति नरसिंहः । चतुर्वि- |नाशरहित इत्यर्थः । *। जनानर्दयतीति जनार्दनः । जनानां (?) प्रामोतीति ।।। आर्दयतीति वा जनार्दनः । उपोऽधिके चेति सूत्रादुप व्यधिकः सन्निन्द्रः रमैश्वर्यवान्यः स उपेन्द्रः । सर्व संहरतीति वा भक्तानां पापं हरतीति वा रति सर्व वशीकरोतीति वा हरिः । कर्षणाद्वा ज्ञानानन्दस्वरूपत्वाद्वा कृष्णः। कृष्णशब्दनिर्वचने प्रमाणम्- यतः कर्षसि देवेश नियमात्सकलं जगत् । अतो वदन्ति मुनयः कृष्णं त्वां ब्रह्मवादिनः ॥ * अनाच्युतनामव्याख्यानं त्रुटितं बोध्यम् । ।
श्रीमध्वाचार्यविरचितं- कृषिभूवाचकः शब्दो णश्च निवृतिवाचकः । तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते" ॥ एवं द्विराचमनं केशवादिनामभिः कृत्वा श्रुत्याचमनं द्विवारं कुर्यात् ।। " देव्याः पादैखिभिः पीत्वा अब्लिङ्गैर्नवभिः स्पृशेत् । सप्तव्याहृतिगायत्र्याः शिरो व्याहृतिसंपुटम् " ॥ ॐ तत्सवितुर्वरेण्यं स्वाहा । ॐ भर्गो देवस्य धीमहि स्वाहा । ॐ थियो यो नः प्रचोदयात्स्वाहा । ॐ आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातनेति हस्तौ संमृज्य । ॐ महे रणाय चक्षसे । ॐ यो वः शिवतमो रसः , हनू । * तस्य भाजयतेह नः । ॐ उशतीरिव मातरः । ओष्ठौ । ॐ तस्मा अरं गमाय वः , करतलं संबध्य । ॐ यस्य क्षयाय जिन्वथ , पादौ स्पृशेत् । ॐ आपो जनयथा च नः , हस्ततलेन शिरः स्पृष्ट्वा । ॐ भूः, नासिकाधः । ॐ भुवः, स्वः, अङ्गुष्ठयोगेन नासिकापुटौ । ॐ महः, ॐ जनः, अङ्गुष्ठानामि- काभ्यां नेत्रे । ॐ तपः, ॐ सत्यं, मध्यमाङ्गुष्ठयोगेन श्रवणे । ॐ तत्सवितु- वरेण्यम् , अङ्गुष्ठतर्जनीयोगेन नाभिम् । ॐ भर्गो देवस्य धीमहि , करतलेन हृदयम् । ॐ धियो यो नः प्रचोदयात् । मुकुलिताङ्गुलिभिः शिरः । ॐ आपो ज्योती रसोऽमृतं, दक्षिणबाहुमूलकम् । ॐ ब्रह्म भूर्भुवः स्वरोम् , वाम बाहुमूलं स्पृशेत् । इति श्रुत्याचमनं लिखितम् । प्राणायामप्रकारो लिख्यते--प्राणायाममत्रस्य नारायण ऋषिः । परमात्मा सविनामकनारायणो देवता । गायत्री छन्दः । प्राणायामे विनियोगः । प्राणायामलक्षणम्- " गायत्रीं शिरसा साध जपेयाहृतिपूर्विकाम् । प्रतिप्रणवसंयुक्तां त्रिरयं प्राणसंयमः॥ भूर्भुवः स्वमहर्जनस्तपः सत्यं तथैव च । प्रत्योंकारसमायुक्तं तथा तत्सवितुः पदम् ॥ ओमापो ज्योतिरित्येतच्छिरः पश्चात्प्रयोजयेत् । त्रिरावर्तनयोगात्तु प्राणायामस्तु शब्द्यते" ॥ स च प्राणायामो रेचकपूरककुम्भकभेदेन त्रिविधः । रेचकादिलक्षणमाह बृहस्पतिः- " रेचको विसृजेद्वायु:(\) पूरकस्तनिरोधकः । समेन संस्थितो यस्तु कुम्भका समुदीर्यते ।। - - संध्याभाष्यम् । ऊर्व नासिकया स्पृ(क)ष्टः श्वासः पूरक उच्यते । कुम्भको निश्चलवासो रेच्यमानस्तु रेचकः" इति ॥ अत्र कुम्भके विष्णुर्देवता । इतरयोर्ब्रह्मरुद्रौ देवते । अत्र पाणरेचनं श्वास- स्याधो विसर्जनम् । पूरकः श्वासस्योर्ध्व नयनम् । कुम्भकः श्वासनिरोधकः । प्रणवगतासु सप्तसु व्याहृतिषु प्रत्येकमोंकारः प्रयोज्य ॐप्रतिपाद्य एव भूरा- दिप्रतिपाद्यः, न प्रसिद्धभूरादिलोका इति ज्ञापयितुम् । प्रणवमत्रस्यायमर्थः-अवति प्रविशति गुणानिति वा । अव्यते विश्यते गुणैरिति वा । भूः, अनन्तगुणपरिपूर्ण इत्यर्थः । भुवः, भूर्भूतिस्तस्या वर इति षा, भः पूर्णः, वो वरः, निरवधिकश्रेष्ठ इति वाऽर्थः । शोभनसुखवत्त्वात्स्वः । मह पूजायामिति धातोर्महनीयत्वात्पूज्यत्वान्महः । जनकत्वाजनः । आलोचन- कर्तृत्वात्तपः । “ सच्छब्द उत्तमं ब्रूयादानन्दं तिति वै वदेत् । येति ज्ञानं समु. द्दिष्टम् ” इत्युक्तत्वादुत्तमज्ञानानन्दरूपत्वाद्वा मुक्तिनियामकत्वाद्वा सत्य. शब्दवाच्यः । एवंभूतः " यः " सविता देवो । नः" बुद्धीः कर्माणि वा " प्रचोदयात् " प्रेरयेत्स्वविषयाणि कुर्यात् , तस्य " देवस्य " क्रीडादिगु- णविशिष्टस्य “ सवितुः" सृष्ट्याद्यष्टकर्तुनारायणस्य " तत्" गुणैस्ततं व्याप्त " वरेण्यं " भजनीयं " भर्गः" भारतिज्ञानरूपं वा भरणगमनकई वा सकलपापभर्जकं वा । एवंविधं रूपं " धीमहि" चिन्तयामः । “ आपः आपालनात् । “ ज्योतिः" प्रकाशनात् , प्रकाशरूपः । अनन्तरूप इति वा । “ अमृतं " मरणरहितम् । ब्रह्म" पूर्णम् । “भूर्भुवः स्वरोम् " इत्युक्तार्थमनन्तरूपमिति वा । प्राणानायम्य पूर्वोक्तायुक्त्वा प्रात:- संध्यां करिष्य इति संकल्प्य मार्जनं कुर्यात् । आपो हि छेति तृचस्य सूक्त- स्याऽऽम्बरीषः सिन्धुद्वीप ऋषिः । आपो देवता । गायत्री छन्दः । मार्जने विनियोगः । मार्जनं चाष्टभिः पादैः शिरस्येकमथ क्षिपेत् । तदुक्तम्-"आपो हि ष्ठा मयोभुवो मार्जनं चैव विग्रुपैः । अष्टौ मूर्ध्नि मध्ये यस्य क्षयाय जिन्वथेति च" ॥ वृचस्यायमर्थः-आपो हि ष्ठेति ( ऋ० सं० अ० ७ अ० ६ व० ५)। भो " आपः" अब्देवता नारायणमूर्तयः । निमित्तं तु पूर्वयुक्तम् । हिरव- गरणे वा । यूयं “नः " अस्माकं " मयोभुवः " मयः सुखं भावयन्तीति योभुवः सुखकर्यः " ष्ठा" बभूविथ । " ताः " यूयं " न: ऊर्जे" अन्नाय बलाय वोपनीयत्वादूर्जशब्दवाच्याय परमात्मने तत्पादे रस: सार, अस्मान् ८ तस्य" तं तं रसम् श्रीमध्वाचार्यविरचितं- "दधातन" स्थापयत । कस्मै प्रयोजनाय-"महे रणाय" महते रमणीयाय " चक्षसे " दर्शनाय, रमणीयाय मोक्षायेति वाऽर्थः । मोक्षसाधनरूपमन्ना दिकं कुरुतेत्यर्थः। यो कः शिवतमो रस इति ( ऋ० सं० अ० ७ अ० ६ १०५)। भो आपः " यो वो रसः शिवतमः " अतिशयेन कल्याणः। परमात्मपक्षे तु रस- शब्देनाऽऽनन्दरूपं ग्राह्यम् । इह" अस्मॅिल्लोकेऽस्मान भाजयत " भोजयत । काः कान्कमिव । "उशतीः" कामयमाना नवप्रसूता मातरः " पुत्रान्स्तन्यादिरसमादरेण भोजयन्ति तथा नो दिव्यरसभोजिनः कुरुतेत्यर्थः। अथ तृतीया-तस्मा इति (ऋ० सं० अ० ७ अ० ६ ५० ५)। हे "आपः ॥ तस्मै " तं पूर्वप्रसिद्धरसं परमानन्दरूपम् “ अरं गमाम " अरम- त्यर्थ गच्छाम । तं के " यस्य क्षयाय निवासाय, क्षि निवासगत्योरिति धातोः । “जिन्वथ" प्रीणयथ यस्य पापस्य क्षयाय विनाशाय जिन्वथ मीण- यथ तस्मै पापक्षयाय तं रसं गमामेत्यर्थः। हे आपस्तस्मिन्निवासे जनयथो- त्पादयथ तादृशनिवासभागिनः कुरुतेत्यर्थः एवं मार्जनं कृत्वा प्रातः सूर्यश्चेत्यपः पिबेत् । तदुक्तम्- " अनिश्चेति च सायाह्ने प्रातः सूर्येत्यपः पिबेत् । आपः पुनन्तु मध्याह्ने ततश्चाऽऽचमनं चरेत् " इति ॥ सूर्यश्च (आ० गृह्यप० अ० १ ) इत्यस्य मत्रस्य नारायण ऋषिः । सूर्यो देवता । अनुष्टुप्छन्दः । जलाभिमत्रणे विनियोगः । सूर्यश्चेत्यस्यायमर्थः- सूरिभिः प्राप्यत्वात् “सूर्यः" परमात्मा सूर्यो देवो वा । यः "च" "मन्युः" मनु अवबोधन इति धातोर्मन्यु सिंहः क्रोधाभिमानी रुद्रो वा। एवं “मन्युपतयः क्रोधाभिमानिनस्तन्नियामका ब्रह्माद्यास्ते सर्वे देवा " मन्युकृतेभ्यः " मन्युरि. त्युपलक्षणं, क्रोधादिना कृतेभ्यः “पापेभ्यो रक्षन्ता" पापनिरासेन पालयन्तु । किंच “ यद्राच्या " रात्रौ " पापमकार्ष" कृतवानस्मि, "मनसा" दुर्ध्याना- दिना मनःसाधनेन करणेन वा, "वाचा" दुरुक्त्यादिना, "हस्ताभ्यां" सज्ज. नपीडादिना, "पद्भ्यो" सतां पादप्रहरणादिना, "उदरेण" अभक्ष्यभक्षणा- दिना, “शिश्ना" शिश्नेन्द्रियेण निषिद्धकाले स्त्रीनिषेवणादिना, “रात्रिः" रात्रिनामका परमात्मा दुर्गा वा रात्रिदेवता "तदवलुम्पतु" नाशयतु। किं बहुना " यत्किच दुरितं मयीदं " सर्व दुरितं पापं तत्कर्तारं "म" च अमृ. तयोनौ " मोक्षकारणे परमात्मनि “ सूर्ये " मुक्तामुक्तनियामके "ज्योतिषि" " " संध्याभाष्यम् । परमात्मनि “ जुहोमि" सर्व पापं भस्मी करोमि । जीवस्य स्वरूपेण भस्मी. करणासंभवात्पापविशिष्टत्वेन भस्मीकरणं ज्ञातव्यम् । तदर्थमिदं जलं मुखामो "जुहोमि स्वाहा" मुहुतमस्तु । अनन्तरमाचमनं कुर्यात् । आपो हि ठेति नवर्चस्य सूक्तस्याऽऽम्बरीषः सिन्धुद्वीप ऋपिः । आपं गायत्रं, पञ्चमी वर्ध- माना, सप्तमी प्रतिष्ठा, अन्त्ये द्वे अनुष्टुभौ, मार्जने विनियोगः। तत्र तृच- स्यार्थ उक्तः। अथ चतुर्थी-शं नो देवीरिति [ऋ० सं० अ० ७ अ० ६ ० ५] । " आपो देवीः" देव्यः क्रीडादिगुणविशिष्टा अब्देवताः परमात्मा स्त्रीरू. पाणि वा “नः" अस्माकं "शं" सुखं तदाः भवन्तु" । तथा “ अभिष्टये" अभीष्टप्रापणाय भवन्तु । तथा नः “ पीतये " हरिकथामृतरसपानाय भवन्तु । तथा देव्यः “शम् " उत्पन्नानां रोगाणां शमनकर्यो भवन्तु । अनुत्पन्नानां रोगाणां पृथक्करणं कुर्वन्तु । किंच-आपो “नः" अस्माकम् “ अभि उपरितः “स्रवन्तु " प्रवहन्तु मच्छरीरोपरि प्रवाहं कुर्वन्त्वित्यर्थः । अथ पञ्चमी-ईशाना इति [ऋ० सं० अ० ७ अ० ६ व० ५] | "अपः" अब्देवताः परमात्मरूपाणि भेषजं संसारौषधं “ याचामि" कथंभूता अप:-" वार्याणां" वरेण्यानां ज्ञानभक्त्यादिधनानां प्रसिद्धधनानां वा वारिप्रभवाणां व्रीहियवादिधनानां वा " ईशानाः " ईश्वरीः । पुनः कथं- भूताः- -" चर्षणीनां" प्रजानां "क्षयन्तीः" निवासयित्रीः । अथ षष्ठी-अप्सु म इति (ऋ० सं० अ० ७ अ० ६ व० ५)। ननु अप्सु भेषजसत्त्वे तद्याचनं युक्तं तदेव कुत इत्यत आह-अस्विति । सोमशब्द हरौ व्याख्याति-सोम इति । उत्कृष्टा या मोमा तया सहितः सोमः । ऊ रुद्रो मा लक्ष्मीः। उश्च मा चोमे ताभ्यां सहितः सोम इत्यर्थः । न विद्यते मा प्रमा, इयत्ता यस्यासावमः । सारत्वात्सः । सश्वासावुश्चेति वा । सारत्वात्सः । उत्कृष्टत्वादुः ज्ञानवत्त्वान्मः । सश्च, उश्च, मश्च सोमः । उत्कृष्टपूर्णज्ञानवा- नित्यर्थः । उमया सहितः सोमो रुद्रः सोमश्चन्द्रो वा उत्कृष्टा माः प्रमाणा- नि तैः सहितः सोमो वायुः । “ उ(भू)तानि वै विश्व(श्वा) उमा " इति गुतेः सह भूतैर्वर्तत इति सोमः । सर्वभूतानि प्रेरयतीत्यर्थः । एवंभूतः सोमोऽ- स्वब्रवीदिति । कथम् , “ अप्सु" जलेषु “ अन्तः " मध्ये "विश्वानि" आणि "भेषजा" भेषजान्यौषधानि सन्तीति । विश्वं संपूर्ण शं सुखं वमाधारम् । यद्वा--"विश्वशंभुवं" सर्वसुखकरम् “ अग्नि" सर्वजगत्प्रवर्त- कम । एवंमतं श्रीलक्ष्मीनारायणं प्रसिद्धाग्निं वा “ अब्रवीत"। तद्याचनं ও পরাশর সংহিতা। ধৰ্ম্মো জিততা হধৰ্ম্মেণ জিতঃ সত্যোহনৃতেন চ। জিতা ভূত্যৈস্তু রাজানঃ স্ত্রীভিশ্চ পুরুষা জিতা }৩০ |} সীদন্তি চাগ্নিহােত্রাণি গুরুপূজা প্রণতি। কুমাৰ্যশ্চ প্রয়ন্তে তস্মিন্ কলিযুগে সদা ॥৩২। যুগে যুগে চ যে ধৰ্ম্মস্তত্র তত্র চ যে দ্বিজাঃ। তেষাং নিন্দা ন কর্তব্যা যুগরূপাহি তে দ্বিজা | ৩২! যুগে যুগে চ সামর্থং শেষং মুনিভির্ভাষিতম্ । পরাশরেণ চাপুক্তং প্রায়শ্চিত্ত প্রধীয়তে ॥৩৩। অহমস্বৈ তদ্ধৰ্ম্মমনুস্মৃত্য ব্রবীমি বঃ । চাতুৰ্বর্ণসমাচারং শৃণুধ্বং মুনিপুঙ্গবাঃ ॥৩৪। পারাশরমতং পুণ্যং পবিত্রং পাপনাশনম্ । চিস্তিতং ব্রাহ্মণার্থায় ধৰ্ম্মসংস্থাপনায় চ ॥৩৫|| চতুর্ণামপি বর্ণানামাচারে ধর্মপালক। আচারভ্রষ্টদেহানাং ভবেদ্ধৰ্ম্মঃ পরাঙ্খঃ ৩৬ 1 জিত হইবে। (৩০) কলিযুগে অগ্নিহােত্র অবসন্ন ও গুরুপূজা রহিত হইবে এবং রমণীগণ কুমারী অবস্থাতেই সন্তান প্রসব করিবে। (৩১) কল্পে কল্পে যেরূপ ধৰ্ম্ম প্রচলিত হয়, এবং সেই সেই সময়ে ব্রাহ্মণেরা যেরূপ আচার ব্যবহার করেন, তাহাতে তাহাদের নিন্দা করা অনুচিত। কারণ সেই ব্রাহ্ম ণেরাই যুগ রূপের অবতার। (৩২ যুগভেদে সামর্থ ভেদ ও অন্যান্য ভেদ সকল মুনিগণ কর্তৃক উক্ত হইয়াছে; কিন্তু (কলিযুগে) পরাশরের আদিষ্ট প্রায়শ্চিত্তই সৰ্ব্বপ্রধান। (৩৩) হে মুনিগণ! আমি অদ্যই কলিযুগের পালনীয় ধৰ্ম্ম সকল স্মরণ করিয়া আপনাদের নিকট জ্ঞাপন করিতেছি; আপনার তৎ- কালীন বর্ণ চতুষ্টয়ের আচার ব্যবহার শ্রবণ করুন। ৩৪ পরাশরের এই পুণ্যবিধায়ক মত পবিত্র ও পাপ নাশক। ধর্ম সংস্থাপন ও ব্রাহ্মণের নিমিত্ত আমি বহু চিন্তাশীলন দ্বারা ইহা স্মৰণ করিতেছি। (৩৫) বর্ণ চতুষ্টয়ের স্ব স্ব আচার ব্যবহারই তাহাদের ধৰ্ম্ম রক্ষা করে, আচারভ্রষ্ট ব্যক্তি দিগের প্রতি ধর্ম ও বিমুখ হয়। (৩৬)। যে ব্রাহ্মণ, দেবতা ও অতিথির পূজা কবেন, এবং সৰ্ব্বদা ষট, কর্মে সংলিপ্ত প্রথম অধ্যায় । বট কৰ্ম্মাভিরতে নিত্যং দেবতাতিথিপূজক। হুতশেষস্তু ভুঞ্জানােব্ৰাহ্মণােনবসীদতি ॥৩৭। সন্ধ্যা স্নানং জপাে হােমঃ স্বাধ্যায়াে দেবতা…। বৈশ্বদেবাতিথেয়ঞ্চ ষট কৰ্ম্মাণি দিনে দিনে ॥৩৮|| প্রিয়ােবা যদিবা দ্বেষ্যো মুখ পণ্ডিতএব বা। বৈশ্যদেবে তু সংপ্রাপ্তঃ সােহতিথিঃ স্বর্ণসংক্রমঃ ॥৩৯। দূরাদ্ধানং পথিশ্রান্তং বৈশ্বদেবে উপস্থিত। অতিথিং তং বিজানীয়ান্নাতিথিঃ পূৰ্ব্বমাগতঃ ॥৪ • | ন পৃচ্ছেগােত্রচরণং ন স্বাধ্যায়ব্ৰতানি চ। হৃদয়ংকল্পয়েত্তস্মিন্ সৰ্ব্বদেবময়াে হি সঃ [৪১। নৈকগ্রামীণমতিথিং বিপ্রং সাঙ্গমিকং তথা । অনিত্যং হাগতোে যম্মাম্মাদতিথিরুচ্যতে ॥৪২|| খাকিয়া হুতাবশিষ্ট ভক্ষণ করেন, তিনি কখনও অবসাদ প্রাপ্ত হন না (অর্থাৎ বিনষ্ট হন না) (৩৭) সন্ধ্যা,স্নান,জপ,হােম, স্বাধ্যায়,দেবতাব অর্চনা, বৈশ্বদেব ও অতিথির পরিচর্যণ এই সকল কর্ম নামে অভিহিত, দ্বিজগণ প্রতিদিন এই ষট কৰ্ম্মাচরণ করিবে। (৩৮) প্রিয়ই হউক আর অপ্রিয়ই হউক, পণ্ডিতই হউক আর মূখই হউক, বৈশ্যদেবের সময় যিনি উপস্থিত হন তিনিই অতিথি, এবং তাঁহার সেবা স্বর্গ সুখ প্রদায়ক (৩৯) (পরিশ্রান্ত পিপ, শাৰ্ত ব্যক্তি বৈশ্যদেবের সময় উপস্থিত হইলে) তাঁহাকে অতিথি বলিয় জানিবে, যিনি ইহার পূৰ্ব্বে আইসেন তিনি অতিথি নামে বাচ্য নহেন। (৪০ অতিথির গােত্র, চরণ, স্বাধ্যায়, ব্ৰত ইত্যাদি কোন বিষয় জিজ্ঞাসা না করি- যাই তাহাকে হৃদয়ের সহিত পূজা করিবে, কারণ অতিথি সৰ্ব্ব দেবতা স্বরূপ ( ৪১ ) সাঙ্গমিক (কুটুম্ব কিংবা কোন কাৰ্য্য সমাধান করিবার জন্য সমাগত ব্যক্তি) এবং এক গ্রাম নিবাসী বিপ্র অতিথি নামে বাচ্য নহে; কারণ যিনি সর্বদা না আইসেন তিনিই অতিথি নামে অভিহিত হন। (৪২) যিনি পূৰ্ব্বে কখনও আতিথ্য গ্রহণ করেন নাই এরূপ অতিথি, সৰ্ব্বদা ব্রত নিরত সুব্রাহ্মণ ও বেদাভ্যাসপরাণ বি, এই ত্রিবিধ ব্যক্তি অপূৰ্ব্ব অথিতি নামে অভিহিত হইয়া থাকেন। Ca8) বৈশ্যদেবের সময় যদি १२ - %3D . श्रीमध्वाचार्यविरचितं- अतस्तस्यापनोदार्थ लिखेद्याहृतियत्रकम् । त्रिकोणं दीर्घ रम्यं च देवानां सिद्धिदायकम् ॥ कोणमध्ये तु हींकारं कोणाग्रे प्रणवं लिखेत् । दण्डेषु व्याहतीस्तिस्रो मध्ये वरुणबीजकम् ॥ कनिष्ठाग्रेण वै तत्र विलिखेत्तु यथाक्रमम् । लिखित्वा मत्रराजं तु पश्चादयं समाचरेत् " ॥ एकं तु शस्त्रनाशाय द्वितीयं हयनाशने । राक्षसानां वधायकं दद्यादय॑त्रयं बुधः इति वचनादय॑त्रयस्य विनियोगो बोद्धव्यः । " प्रत्यये तु जपेत्सम्यक्प्रतिचक्ष्वेति वै ऋचम् । पुनराधिकारार्थमात्मसंरक्षणाय च इति वचनात्मत्यर्ध्यमुक्तमत्रजपोऽपि द्रष्टव्यः । अस्य श्रीगायत्रीमत्रस्य ब्रह्मा, ऋषिः । गायत्री छन्दः। गायत्र्याकर्षणे विनियोगः(?)। ओमापो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः स्वरोम्(?) । यदद्य कच्च वृत्रहन्नित्यस्य मन्त्रस्य कुश ऋषिः । सूर्यो देवता । त्रिष्टुप्छन्दः । प्रातःसंध्यावन्दनकालातिक्रमप्रायश्चि- तार्थ्यप्रदाने विनियोगः- यदय कच्च वृत्रहन्नुदगा अभि सूर्य । सर्व तदिन्द्र ते वशे [ऋ० सं० अ०६ अ० ६ व० २१]1 अस्यार्थ:-हे " वृत्रहन् ” सत्कर्मानुष्ठानप्रतिबन्धकजलाद्याश्रितराक्षससं- हारकारिभूतकृत्रासुरप्रभृतिदैत्यविघातिन् “ इन्द्र " परमैश्वर्यसंपन्न " सूर्य सूरिपाप्यगायत्रीप्रतिपाद्यश्रीलक्ष्मीनारायण यत् ” प्रयोजनमुद्दिश्य यत्कर्म कर्तुम् “ अभ्युदगाः " उदयं पामोषि तत्सर्वमिन्द्र ते वशे" त्वदधीनं वर्तते तत्तस्माद्यत्कालातिक्रमणनिमित्तं पापं कर्म तदपि ते वशे । अतस्तदप्युत् , उद्धृतं यथा भवति तथाऽभ्युदगास्तथा ममाऽऽविर्भूतो भवेति । हृदयस्था तु गायत्री द्ता मुखनिःसृता । हत्वा चाऽऽदित्यशत्रूश्च प्रविश्य हृदयं मम ॥ तिष्ठन्नय॑त्रयं दद्यात्रिषु कालेषु बड्य॒चः । प्रातमध्याह्वयोरप्सु सायाह्ने भुवि निक्षिपेत् ॥ अद्य कच " अल्पं बहु वा संध्याभाष्यम् । १३ कराभ्यां तोयमादाय ब्रह्मास्त्रं च प्रयोजयेत् । ततः परं ब्रह्मदण्डं ततः शक्ति प्रयोजयेत् ॥ सूर्याय असावादित्यो ब्रह्मेत्येवमुदीरयेत् । प्रदक्षिणीकृत्य ततः प्रविशेदाचमेत्ततः " इति ॥ "उत्थाया प्रति प्रोक्षेद्गायच्या व्यञ्जलिं द्विजः । आदित्यमण्डलान्तस्थं ध्यात्वा विष्णुं सनातनम् " । इति वसिष्ठोक्तिः। गायत्र्युपसंहारः। तदुक्तं संग्रहे- प्रत्यक्षरमृषिश्छदो देवता शक्तिरेव च । तत्र वर्ण स्वरं बीजं ध्यानं फलमनन्तरम् ।। उक्तवत्कीलकं मुद्राः संदृश्य(दर्य) द्वादश क्रमात् । संध्याकाले तु गायत्र्या अभि]मत्रो(यो)दकं क्षिपेत् ।। प्रक्षिपेदूर्वमित्यादि(?). मुखतो भवेत् । आनुलोम्यात्प्रयुज्येत संहारः प्रतिलोमतः ॥ उपसंहृत्य गायत्री पश्चास्त्रैरपि संहृता(?) । तत्र मत्रान्पठेदन्यान्गायच्या पुष्टिदायकान् । वर्णानां प्रातिलोम्येन ब्रह्मास्त्रमभिधीयते । पदानां प्रातिलोम्येन ब्रह्मशीर्षाभिधं भवेत् ॥ तकारमानं मन्त्रश्चेद्ब्रह्मपाशं भवेदथ " इति ॥ यद्वा ब्रह्मशिरःषोडशाक्षरमत्रस्य ब्रह्मा, ऋषिः । परमात्मा देवता । यत्री छन्दः । अस्त्रोपसंहारे विनियोगः । ध्येयः सदेति ध्यानम् । " उत्तिष्ठ देवि गन्तव्यं पुनरागमनाय च । उत्तिष्ठ देवि स्थातव्यं प्रविश्य हृदयं मम " इति ॥ कालातीतदोषप्रायश्चित्तार्थे चतुर्थायं दत्त्वा मत्रोपसंहारं कृत्वा आदित्यो ब्रह्म" इत्यन्तर्यामिप्रदक्षिणं कुर्यात् । अस्यार्थः--आदित्यान्तर्गतः रमात्मा ब्रह्म पूर्णः । तत आचम्य “मत्रतः परिवृत्याथ समाचम्य सुरादि- गन्” इति सदाचारस्मृत्युक्तरीत्या नवग्रहान्वारणि(नावरण)देवान्केशवादींश्च पयेत् । शुक्लपक्षे केशवादींश्च तर्पयेत् । कृष्णपक्षे संकर्षणादींश्च तर्पयेत् । ततः थिव्या इति मत्रेण पञ्चाङ्गन्यासं कृत्वा गायत्री जपेत् । तत्पकारः--हृत्क- ले च गायत्रीशब्दितं नारायणमावाह्य पूर्वोक्तानामपां प्रसादेन लब्धभक्ति- गोपयोगिध्यानं कर्तुमायात्वित्यनुवाकं पठेत् । असा- श्रीमध्वाचार्यविरचितं- " आयात्वित्यनुवाकेन हृदये चार्कमण्डले । देवीमावाह्य गायत्रीं ततो ध्यायेद्विजोत्तमः " इति भारद्वाजः। आयात्वितिमन्त्रस्य वामदेव ऋषिः । अनुष्टुप्छन्दः । गायत्रीलक्ष्मीनार। यणो देवता । इति ऋष्यादिकं ध्येयम् । " अङ्गं न्यासं तथा ध्यानं सम्यगेव समभ्यसेत् । न्यासहीने हरेदायुानहीने तु निष्फलम् ॥ ऋषिहीने महाव्याधिर्भवत्येव न संशयः । तस्माद्देवर्षिच्छन्दांसि ज्ञातव्यानि महर्षिभिः" । "मे वरदा “ इति नारदीये श्रीविष्णुमाहात्म्यवचनात् । आयातु [ तै० आ० प्र० १९ अ० ३४ ] इत्यनुवाकं पठेत् । अस्यायमर्थः- " देवी " क्रीडादिगुणविशिष्ट " अस्मदभिमतार्थप्रदा " छन्दसाम् ” उष्णिगादिच्छन्दस तदभिमानिदेवतानां च माता" सुखदानेन मात्तुल्या जनिका वा यथायोग्यं संबन्धः। गायत्री गानत्राणकर्ती गायत्रीशब्दवाच्या " अक्षरं ब्रह्मसंमितं " विष्णुनामकं ब्रह्मैव शब्दस्वाभाव्याद्वायत्रीशब्दित लक्ष्मीः। भगवतो लक्ष्मीरूपेण विद्यमानत्वात्स्त्रीलिङ्गप्रयोगः । अक्षरमनि त्यत्वं देहहानिर्दुःखप्राप्तिरपूर्णतेत्युक्तचतुर्विधनाशरहितम् । अक्षयं ते सिद्धत्वात् । उत्तरानुवाके देवानां धामनामासीत्युक्तेश्च । एवंभूत गायत्रीनामकः पविधो विष्णुर्मम संनिधौ " आयातु आगच्छतु अवनार्थमिति शेषः । किंच “ सर्ववर्णे महादेवि संध्याविद्ये सरस्वति " इति गायत्र्याः संबोधनम् । गायत्री सावित्री सरस्वतीति गायत्र्यास्त्रीणि रूपाणि । तत्र गायत्री रक्तवर्णा सावित्री श्वेतवर्णा सरस्वती कृष्णवर्णा । अत एव सर्वव ऎत्युक्ता। महती च सा देवी च महादेवी । तस्याः संबुद्धि महादेवि । संधी[यते संपदा यजमानोऽनयेति संध्याविद्या ज्ञानरूपा तस्याः संवृद्धिहें संध्याविद्ये । सन्ति तीर्थानि नियम्यत्वेन यस्यां सा सरस्वती तस्याः संवृद्धि सरस्वति । त्रिरूपे गायत्रि मम कर्माणि गायत्रीशब्दवाचकम् “इदं” विष्णुनामकं " ब्रह्म जुषस्व" जोषयस्व युष्मत्सेवा मम यथा भवति तथा कुर्वित्यर्थः । जायते वर्धते परिणमत इत्युक्तविकाररहितं वा । “संमित" निर्दोषत्वानन्तकल्याणगुणाकर त्वाभ्यां श्रुतिस्मृत्यादिप्रमाणपरिमितं " ब्रह्म" पूर्ण न तु गायत्रीशब्दवाच्य देवतान्तरं प्रसिद्धं छन्दो वा । “स विष्णुराह हितं ब्रह्मेत्याचक्षते' इत्युक्तेः । नारायणोपनिषदि-" यतः प्रसूता जगतः प्रसूतिः" इत्यारभ्य “तदेव ब्रह्म संध्याभाष्यम् । १५ परमं कवीनाम् " इत्युक्तेश्च । अग्निशब्दवाच्योऽसाविति चेतोर्पणार्थ हि निग द्यत इति "चेतोर्पणनिगदात्तथाहि दर्शनम्" इति सूत्रान्तरे व्याख्यातत्वात् । " सर्वच्छन्दोभिधो ह्येष सर्वदेवाभिधो ह्यसौ । सर्वकालाभिधो ह्येष तेषां तदुपचारतः इति सूत्रभाष्योदाहृतवामनवचनाच्च । अनेन सविता गायत्री सरस्वतीत्या. दिभूर्भुवः स्वरित्यादिदेवतावाचकशब्दसद्भावान विष्णुपरत्वमिति चोद्यं परि- हृतम् । देवताशब्दैर्लोकशब्दैश्च गायत्रीनामकविष्णोरेव वाच्यत्वस्य प्रमाणेऽ. न्तर्भावितनियोजये(ना)द्वा । “मे” मां "जुपस्व" प्रीणय मत्संनिध्यागमनमत्से- क्या मत्प्रीतिकरत्वात् । जुषी प्रीतिसेवनयोरिति धातुः । तदुभयफलमाह-- यदह्नादिति । " यत्पापमहात्" अनि अहनि “कुरुते तत्" पापम् “ अहात्म- तिमुच्यते" अहर्नियामकात्वत्तः प्रमुच्यते । “यत्पापं राव्यात्" रात्रौ " कुरुते तत् " पापं " रात्र्यात्प्रतिमुच्यते " रात्रिनियामकात्वत्तः प्रमुच्यत इत्यर्थः । ननु सैषा त्रिपदा गायत्रीत्युक्तं त्रिपावं छन्दःपक्षे घटते विष्णुपक्षे न घटत इति चेन्न । गायत्रीनामकविष्णोर्धामत्रयस्थस्वरूपभूतैरंशैस्विभिरेकेन सर्वजीवा. ख्यभिन्नांशेन चतुष्पात्त्वोपपत्तेः । भिन्नांशपरित्यागेन त्रिपात्त्वोपपत्तेश्च । पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि " इति वचनात् । तदुक्तं छान्दोग्ये (?)- “ त्रिभिः सरूपपादैश्च भिन्नेनैकेन चैव हि । गायत्रीनामको विष्णुश्चतुष्पात्संपकीर्तितः ॥ भिन्नपादः सजीवन(?)स्यात्पादस्य मात्रतः । सरूपपादा विष्णु(ष्णो)स्तु त्रयो [वै] दिवि संस्थिताः ॥ नारायणो वासुदेवो वैकुण्ठ इति चिन्मयः । परब्रह्मेति भगवान्सर्वगः संप्रकीर्तितः" । स एव जीवस्य हृदयाकाश आस्थितो यो यो हृदयं गतः सोऽयं जीवा- न्ताप्य संश्च स्थि*..." त्योर्जीवान्तरे योऽसौ स जीवहृदि संस्थितः । एवं चापि चतुष्पावमित्येतेन वचनेन स्वरूपभूतांशचतुष्टयेनैव चतुष्पाव मुपपादितं भवति । गायत्रीनामकस्य विष्णोः पाइविध्यं यदुक्तं तदपि तत्रैवोक्तम्- "गायच्यां संस्थितो विष्णुः स्त्रीरूपः सूर्यसप्रभः । द्वितीयश्चैव मत्स्यादिभूतानामवतारगः ॥ * अत्र किंचित्रुटितम् ।
१६ श्रीमध्वाचार्यविरचितं- - .... .... %3D तृतीयो वश्चि(ह्नि)संस्थश्च स्त्रीरूपो हयशीर्षकः। चतुर्थः पृथिवी संस्थो+ जीवस्यान्तर्गतो व्याप्य शरीरमितिनामकः । गायत्रीनामको विष्णुरेवं षड्विध उच्यते " उक्तश्च षड्विधो विष्णुर्गायत्री षडंशप्रतिपाद्यः । अष्टाक्षरस्य त्रिवारोच्चारणे गायव्यभिव्यक्ता । अथवा द्वादशाक्षरद्विरावृत्त्या चतुर्विंशतिवर्णात्मिका गाय. व्यभिव्यक्ता । व्याहृतिव्यस्तसमस्तैरष्टाक्षरव्याहृतौ त्रिवारमुच्चार्यमाणायां गायत्र्यभिव्यक्तेति पक्षत्रयम् । प्रथमोच्चारणे प्रथमः पादो द्वितीयोच्चारणे द्वितीयः पादस्तृतीयोचारणे तृतीयः पादः । वर्णप्रतिपाद्या गायत्री तृतीय(?) केशवादिकृष्णान्ता भगवद्रूपविशेषा अष्टाक्षरप्रतिपाद्यैर्वासुदेवादिभिश्चाभि- व्यक्ताः । चतुष्पादगायत्री प्रणवेन सह । प्रणवं विना त्रिपादा। प्रणवप्रति. पायो व्याहृतितृतीयप्रतिपाद्यो गायत्रीतृतीयपादप्रतिपायो नवावरणसहित- ब्रह्माण्डव्यापिसकलचेतनान्तर्गतमुख्यप्राणव्यापिसंकर्षणः प्रणवप्रतिपायः समः स्तव्याहृतिप्रतिपाद्यः सर्वव्यापिवासुदेवः । अथवा श्वेतद्वीपानन्तासनवैकुण्ठ- सर्वजीवान्तानि चत्वारि रूपाणि गायत्रीपादचतुष्टयप्रतिपाद्यानि । अथवा रूपबाह्यव्यापी[नि] स्वरूपबाह्यस्थानि चत्वारि रूपाणि प्रतिपाद्यानि । गायत्री मुखेऽनेरन्तर्यामिपरशुरामो वर्तते । एवं ज्ञाने गायत्रीफलं भवति । तदभावे निष्फलः समग्रगायत्रीपतिपाद्यः समस्तजगत्सर्जकत्वात्सवितृनामको नारा- यणः । केशवादीनामायुधभार्याणां नामभेदो ग्रन्थान्तरोक्तो ग्रन्थगौरवभया- बात्रोच्यते । एवमभिमुखां गायत्रीं श्रीधरमन्तर्हृदि पश्यन्मीत्या पुलकाङ्कितसर्वाङ्गः सम- स्तमन्त्रेण स्तौति- ओजोऽसीति ( तै० आ० प्र० १० अ० ३५ )। ओजोऽसीत्यस्य मन्त्रस्य प्रजापतिक्रषिः । पतिश्छन्दः । परब्रह्म देवता । जुभुभूधरधारणाः शक्तिस्ते- जोवा तेजःशब्देन वोजोसि(?) लक्ष्यते गुणगुणिनोरभेदात् । एवमुत्तरत्रापि । सहः " सहनशक्तिः। बलं" सारः पाणबलं वा । भ्राजः " दीप्तिः शारीरिकी श्रीः । “देवानाम्" इन्द्रादीनां स्तोत्रेण(?) वा “धाम " शरणं सुखस्थानमसि " असि " नाम्नां कर्ताऽसि । " हन्ताहमि- मास्तिस्रो देवता अनेन जीवेनाऽऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि " नामरूपे व्याकरोत् " इति श्रुतेः । - नाम च + अत्रापि त्रुटितम् ।
संध्याभाष्यम् । नाम रूपं च भूतानां कृत्यानां च प्रपञ्चना । देव(वेद)शब्देभ्य एवासौ देवादीनां चकार स: इति विष्णुपुराणवचनाच्च । “विश्वमसि " विश्वनामकोऽसि । " विश्वं विष्णुर्वषट्कारः ” इति सहस्रनामसु पाठात् । नामान्तरस्याप्युपलक्षणमेतत् । " विधायुः" विश्वयतीति विश्वं जगत्तस्याऽऽयुरपसंगतां तिरित्यर्थः(?) । अय पय गतौ भावे इप्रत्ययः(?)। आयुष्मद इति वा नरनामकभगवजातत्वाद्वा विश्वशब्देनोच्यते तस्य तस्य विश्वस्याऽऽश्रयो नारायणो वा विश्वायुः(?) । " नराज्जातानि तत्त्वानि नाराणीति ततो विदुः । तेषामयनभूतो यः स नारायण उच्यते " इतिवचनात् ।। "सर्वमसि " सर्वकायप्रतिष्ठत्वेन सर्वनियामकोऽसि । “ यदधीना यस्य सत्ता तत्तदित्येव भण्यते " इति न्यायेन सर्वस्वमिति वा । तत्सृष्ट्वा तदे. वानुमाविशत् । तदनुपविश्य सञ्च त्यचाभवत्" इति श्रुतिः । सर्वकायान्मविश- मानः सर्वायुः सर्वस्य जीवनहेतुः । “येन जातानि जीवन्ति" इति प्रसिद्धः । सर्वायुरसि" सर्वमोक्षप्रदोऽसीत्यर्थः । सर्वायुः सर्वशब्दस्य मोक्षपरत्वेनो- पनिषदि व्याख्यातत्वात् । “ अभिभूः " तिरस्कर्ताऽसि सर्वजपविघ्नकर्तृणां पापानाम् । “ ओम् " असि पूर्णगुणोऽसि । एवमोजोऽसीत्यादीनि(?)। गाय- त्रीमिति । गायत्रीशब्दार्थस्तु प्रागेवोक्तः । आवाहनमृष्यादिस्मरणपूर्वकम् । तदुक्तमाग्नेये- आवाह्य पञ्चगायत्रीमायात्वित्यनुवाकतः। ऋषिच्छन्दोदेवताश्च स्मृत्वा सम्यग्जपेद्बुधः" इति ॥ जपशब्दार्थस्तत्रैवोक्तः- "जकारो जन्मविच्छेदः पकारः पापनाशकः । तस्माजप इति प्रोक्तो जन्मपापविनाशकः " इति ॥ ध्यानप्रकारविशेषस्तत्फलं च तत्रैवोक्तम्- गायन्तं त्रायते यस्माद्गायत्र्येपोच्यते बुधैः । सऋषिच्छन्दोदैवत्यां सायुधां सहमुद्रिकाम् ।। सध्यानां सहवर्णा च सरूपां च सवाहनाम् । त्रिमूर्तिरूपां गायत्रीं त्रिसंध्यायां जपेत्सुधीः ।। सर्वबन्धविनिर्मुक्तो विष्णुलोके महीयते । सहस्रपरमां देवीं शतमध्यां दशावराम् ।। गायत्री संजपेनित्यं यतवाकायमानसः" इति ॥
श्रीमध्वाचार्यविरचितं- - - उक्तरीत्या जप संख्या च द्रष्टव्या। त्रिसंध्यासु त्रिरूपगायत्रीध्यानं समपश्चं तत्रैवोक्तम्- " प्रभाते रविबिम्बस्था रक्तवर्णा कुमारिकाम् । हंसारूढां साक्षमालामृग्वेदां ब्रह्मदैवताम् ।। मध्यंदिने च सावित्री रविबिम्बस्थितांशजाम् (?)। यजुर्वेदमयीं रुद्रदैवत्यां पाण्डुनन्दन ॥ सायं सरस्वती सूर्यमध्यस्थां कृष्णवर्णनीम्(?) । वृद्धां चतुर्भुजां शङ्खचक्रां पक्षीन्द्रवाहनाम् ।। सामवेदमयीं विष्णुदैवत्यां क्रमशो जपेत् " इति ॥ गायत्रीजपाकरणे नैष्फल्यमुक्तं तत्रैव- " गायत्री तु परित्यज्य येऽन्यमन्त्रमुपासते । मुण्डकरा वै ते ज्ञेया इति वेदविदो विदुः" इति ॥ हृन्मण्डपवर्णनपुरःसरं भगवद्ध्यानमुक्तं तत्रैव- हृदयेऽष्टदलं पनं कणिकामध्यसंस्थितम् । ओंकारनालविलसद्वेदगन्धि रविप्रभम् ।। तन्मध्यनवरत्नान्यं तप्तहाटकसंनिभम् । तस्योपरिष्टाचतुरं नानारत्नविभूषितम् ॥ विद्रुमस्फटिकाकारशतस्तम्भसमन्वितम् । सूर्यकोटिप्रतीकाशं विमानेन विराजितम् ।। मुक्तादामविभूषाढ्यं चित्रध्वजपताकिनम् । मल्लिकाकुन्दमान्दारकेतकीचम्पकादिभिः । अन्यैश्च गन्धपुष्पैश्च संभृतादेव कर्णितम् । महाशाखास्फुरत्पुण्यकल्पल(घ)क्षान्तरस्थितम् ।। रत्नमण्डपमध्यस्थं स्वर्गपयोपरि स्थितम् । सिंहासने समारूढं सूर्यकोटिसमप्रभम् ॥ विष्णुं चतुर्भुजं लक्ष्मीभूमिभ्यां पार्श्वशोभितम् । किरीटहारकेयूरमण्डनैर्मालाकृतिम् ॥ कटिसूत्रब्रह्मसूत्रनूपुरैरुपशोभितम् । श्रीवत्सवनमालाढ्यं तुलसीदामभूषणम् ।। अनेकदिव्यामरणं कनकाभरणोज्ज्वलम् । वरदाभयहस्तान्यं शकचक्रस्फुरत्करम् ।।
१९ संध्याभाष्यम् । पीताम्बरधरं विष्णुं प्रसन्नवदनं शुभम् । मनोहरं दयामूर्ति मन्दहासमुखाम्बुजम् ।। अणिमाधैमूर्तिमद्भिरष्टैश्वर्यसमन्वितम् । बद्धाञ्जलिपुटैर्भक्तैर्ब्रह्मरुद्रादिभिः सुरैः ।। गायद्भिर्नारदाद्यैश्च सनकायैश्च सेवितम् । स्तुतं परमकल्याणं सूतमागधबन्दिभिः ॥ अनेकदिव्याभरणं रणकङ्कणशोभितम् । दिव्यस्त्रीवरयुग्मेण मन्दपार्षद्वये(?) हरिम् ॥ स्वर्णदण्डविचित्राभ्यां चामराभ्यां विराजितम् । माधवं परमात्मानं भक्तवत्सलमीश्वरम् ।। ध्यात्वैवं हृदि वा सूर्यमण्डले माधवं जपेत् " इति ॥ जपत्रैविध्यं तत्रैवोक्तम्- " वाचिकश्च तथोपांशुर्मानसश्च जपत्रिधा । उत्तरोत्तर उत्कृष्टः सर्वपापप्रणाशनः ॥ स्वरत्रयसमायुक्तो वर्णव्यक्तिपरो जपः । स वाचक इति ख्यातो स्वाक्षरोचरितो नृप ॥ ईषदुचरितो राजन्किचिदोष्ठौ प्रचाल्य च । स उपांशुरिति ख्यातः किंचिच्छब्दयुनो नृप ॥ मानसो मनसा चिन्त्यो ध्यानमस्तकवर्णनात् " इति । जपकाल इत्थंभावस्तत्रैवोक्तः- न जल्पन्न हसनेशन्न शब्दस्पर्शयन्नृप । न संचरन चाऽऽक्रम्प न चान्यानवलोकयन् ।। न चलासनमाक्रम्य नापवित्रकरद्वयः । उदये प्रामुखस्तिष्ठन्संख्ययैवं जपेद्बुधः ॥ असंख्यातोऽपवित्रश्च जपो निष्फलतामियात् । पर्वभिर्गणयेत्संख्यां नाक्षमालादिभिर्नृप ।। गायत्र्या वेदमूलत्वादिः पर्वसु गीयते । आरभ्यानामिकामध्यपर्व प्रदक्षिणं क्रमात् ।। तर्जनीमूलपर्यन्तं संख्यया त्रिपदां जपेत् । मध्यपर्वद्वयं मेरुस्तं मेरुं नातिलङ्घयेत् ॥ व्यस्तपादां तु गायत्री यो जपेत्स हरिप्रियः । जपेत्सपस्तपादां यः स भवेद्ब्रह्मराक्षसः ॥ ॥
२० - " समाणा श्रीमध्वाचार्यविरचितं- अष्टोत्तरसहस्र वा ब्रामण्यार्थं समश्नुते । पश्चाद्वैश्यो भवेदिपः क्षयरोगी हि जायते ॥ तस्मात्स्नात्वा यथाशक्ति जपेदाभास्करोदयम्" इति ॥ " छन्दर्षीनावाहयामि" छन्दर्षिनामकगायत्रीवेषानावाहयामीत्यर्थः । च परोरजोमुखाः प्राणपर्यन्ता द्रष्टव्याः । “वेत्थ सावित्री न वेत्थेति स होवाच वेदेति । सा कस्मिन्मतिष्ठितेति । परोरजसीति । कस्तद्यत्परोरजा इति होवाच । य एव तपति य एषोऽर्वाग्रजा इति स कस्मिन्वे(ब्वे)ष इति सत्य इति । किं तत्सत्यमिति । तप इति । [किं तत्वप इति । बलमिति । ] किं तबलमिति । प्राण इति होवाच " इति श्रुतिः । " श्रियमावाहयामि " स्पष्ट मेतत् । षट्मु स्त्रीरूपगायत्र्या उत्कृष्टत्वात् (?) । ऋष्यादिस्मरणार्थमृष्यादिक- माह--गायच्या इति । स्पष्टोऽर्थः । गायत्रीमुखादौ स्थितदेवानाह-अग्नि- रिति । गायत्रीमुखेऽनेरन्तर्यामी परशुरामो वर्तते । गायत्रीशिरसि ब्रह्माण्डान्त- र्यामी । हृदये विष्णुः । शिखायां रुद्रान्तर्गतसंकर्षणः । याऽसौ " पृथिवी" [ अस्तवराह ]माणादिशब्दवाच्यभगवद्रूपमाणादिव(यु)ता मुख्यप्राणनियामिका । " सांख्यायनसगोत्रा" सांख्यायनसगोत्रोत्पन्नाऽभिः व्यक्ता । चतुर्विंशत्यक्षरा चतुविंशत्यक्षरप्रतिपाद्यकेशवादिरूपा । " त्रिपदा " पादत्रयप्रतिपाद्यानिरुद्धादिस्वरूपिणी । [" षट्कुक्षिः "] पारदक्षिणा(ण)पश्चिम(मो)दीर्घो(च्यो)/धोभागदेवतासहिता । एवंविधा गायत्री " पञ्चशीर्षा" पञ्चशीर्षवती । " उपनयने " उपनयनाख्ये कर्मणि, विनियुज्यत इति “विनियोगः" । ततः प्राणायामं कृत्वा प्रोद्यदादित्यवर्ण इत्यादिना ध्यात्वा गायत्री जपेत् । तदनन्तरमुत्तमे शिखर इत्यादिमन्त्रेण गायत्रीमुपसंहृत्य जातवेदस इति सूर्यश- ब्दवाच्यं नारायणमुपतिष्ठेत । प्रादक्षिण्येन देवादीश्व नमस्कुर्यात् । तदुक्तमानेये- उद्वासयेत्तु गायत्रीमुत्तमेत्युदिते रवौ । पारदक्षिणं नमस्कुर्यात्सर्वाः संध्यादिदेवताः ॥ संध्या च सा च गायत्री सावित्री च सरस्वती । चतुर्यच( चतसृभ्यो ) नमस्कुर्यात्माणायाम(त्मणवादि)- नमोन्तकम् (कै)॥ * धनुचिहान्तर्गतग्रन्थस्थाने-" सा 'योनिः' योनिस्थानीया सर्वप्रसवहेतुत्वात् " इत्यपे. क्षितो ग्रन्थः।
२१ संध्याभाष्यम् । मित्रस्येत्युदितं सूर्यमुपतिष्ठेत्तु पूर्वतः। श्रीतैः स्मातेस्तथा सौरैर्मत्रैर्नानाविधैरपि ॥ अभीष्टदं नमस्कुर्याद्भास्करं भवभञ्जनम् ॥ सर्वाभ्यो देवताभ्यश्च कामोऽकार्षीच संनमेत् ।। दिशश्चतस्रः प्राच्याद्याः प्रणवादिनमोन्तकैः । चतुर्थ्यन्तै मस्कुर्यादूर्वाधः संक्षिपेद्दि(दृ)शौ ॥ अन्तरिक्षं च भूमि च दण्डवत्प्रणमत्ततः। एवं यः कुरुते विद्वान्गायत्रीजपमुत्तमम् । ब्रह्महाऽपि लभेत्स्वर्ग किमुत ब्रह्मवादिनः ॥ एकाहं जपहीनश्च संध्याहीनो दिनत्रयम् । द्वादशाहमनग्निश्च शूद्र एव न संशयः" इति । उत्तमे (ते० आ० प्र० १० अ० ३६ ) इति गायत्र्युद्रासनमवस्य वाम- देव ऋषिः । अनुष्टुप्छन्दः । श्रीलक्ष्मीर्गायत्री च देवता । हे 'देवि' क्रीडादि- गुणविशिष्टे विष्णुपत्नि विष्णुरूपे चास्माकमनुग्रहार्थं मत्मार्थनयात्राऽऽयाता त्वं " ब्राह्मणेभ्योऽभ्यनुज्ञाता" अभ्युनुज्ञाऽनुमतिस्तां प्राप्ता, ब्राह्मणेष्वनुग्रह कृत्वेति यावत् । ' उत्तमे' उत्तुङ्गे 'पर्वतमूर्धनि ' पर्वतानां मेरुवेङ्कटगिरित्रि- कूटदैवतगोवर्धनादिक्रीडापर्वतानां मूर्धनि मस्तकप्रदेशे तत्रापि 'शिखरे' यथासुखं ' क्रीडादिविहारसुखमनतिक्रम्य ' गच्छ' याहि । मां च यथा- सुखमाज्ञाप्य गच्छेति वा । जात इत्युप(त्तम)शिखरविशेषणम् । क्रीडार्थ युवाभ्यामुत्पन्न इत्यर्थः । लक्ष्मीविष्णोः संबोधनं वा । एतत्पक्षे जाते अभि- व्यक्ते इत्यर्थः । विष्णोरपि स्त्रीरूपत्वात्स्त्रीलिङ्गनिर्देशः । यद्वा पृथिव्या(?) आत्मानन्तासनपृथि[वि(?)] संबद्धत्वादुत्तमेऽत्युत्कृष्ट उत्तमे वाऽत एव शिखरे शिखरतुल्ये श्वेतद्वीपानन्तासनस्थविमाने पर्वतमूर्धनि मेरोरुपयुत्तमेऽत्युन्नते वैकुण्ठे च जातेऽभिव्यक्ते हे देवि त्वं मुखं गच्छ । त्रिपादस्यामृतं दिवीत्युक्त- गायत्रीत्रिरूपस्थधामत्रयस्थस्य दिवःपरस्थत्वह्य(यु)स्यत्वसमर्थनाय ' उपदेश- भेदाभेति चनोभयस्मिन्नप्यविरोधात्' इतिसूत्रव्याख्यानानु(व)सरे भाष्यतत्त्व- प्रकाशिकयोः श्वेतद्वीप[स्य] "पृथिवीस्थेषु सर्वोच्चलोकोऽनन्तासनात्मकः । अनन्तशायिनश्चैव तथाऽनन्तासनं हरेः॥ बहुलक्षोच्छ्रितेऽनन्ते यतश्चित्मकृत्यात्मनि । ततो देवीति कथित(२)श्रुतौ" - - - " " दुःखेन प्राप्तानि " २२ श्रीमध्वाचार्यविरचितं- इत्यादिवचनैर्मेर्वायपेक्षयोन्नतत्वद्युशब्दवाच्यत्वयोरुपपादितत्वादयमेवैतन्म- वार्थो मुख्य इत्यवगम्यताम् । अस्मिन्मने ब्रह्मशब्दो(?) वेदपरः । 'ब्रह्म वेदस्तपः सत्यम् ' इत्युक्तः। मन्त्रस्वाध्याययज्ञादिमनुमोक्षपितामहाः । तपोविष्णरुद्राश्च चन्द्रेन्द्रौ ब्रह्मसंज्ञिताः' इति नैघण्टुकवचनाचेति । स्वपादेन समस्तवेद इतिमन्त्रं पठन्(?)शरीरे- न्द्रियदाळप्रार्थनफलभूतमभीष्टान्तरं प्रार्थयते-जातवेदसे (ऋ० सं० अ० १ अ० ७ व० ७) इत्यादिना । जातवेदस इत्यस्य मन्त्रस्य कश्यप ऋषिः । जातवेदा अनिर्देवता । त्रिष्टुप्छन्दः। संध्योपस्थाने विनियोगः । अस्यार्थ:- यथा लोके " नावा सिन्धुं" नाविको “विश्वा" विश्वानि “दुर्गाणि अस्माकमथो जलानि “अतिपर्षत् " अत्यन्तं नाशितवान् । किंच यः “अरातीयतः" आत्मनोऽरातशित्रून्संपादयितुमि- च्छत आत्मनः शत्रुत्वमिच्छतो वा पुरुषान् । “निदहाति " नितरां भस्मी चकार । दह भस्मीकरण इति धातोः । “स वेदः" सकलवेदप्रतिपाद्यः " अग्निः" अग्न्यन्तर्गतोऽग्निनियामकोऽग्निशब्दवाच्यः । एवंभूताय तस्मै "जातवेदसे" जातं सर्व वेत्तीति जातवेदाः । तस्मै परमात्मने जाता वेदा यस्य ते( स्मात्स ) जातवेदः। तस्मै जातवेदाय, “सोमं " सोमलताविशेष सुनवाम" सोमरसनिष्पत्त्यर्थ सोमलतानिष्पीडनं करवाम । यद्वा सोमं सोमरसं सुनवाम तदुत्पत्ति करवाम । अथवा सोमं मनः सुनवाम भगवद्विषयं करवामेति । तच्छंयोरिति । " तत् " गायत्रीप्रतिपाद्यं रूपं "शंयोः" सुखपाप्त्यर्थम् आ वृणीमहे" समन्ताच्छरणं गच्छामः । वयमिति शेषः । किमर्थ " श्रौतस्मातसकलयज्ञानुष्ठानसाफल्याय " यज्ञपतये " यज्ञपति देवं "दैवीः" च देवशब्दवाच्यभगवत्संबन्धिलीलाश्च “गातुं" प्रतिपाद- यितुं " स्वस्तिः" कल्याणम् “ अस्तु" । न केवलमस्माकं “ मानुषेभ्यः" च भगवजानिभ्यश्च " स्वस्तिः " अस्तु । किंच "द्विपदे चतुष्पदे शं नोऽस्तु" भवतु । “भेषजं " संसारौषधभूतम् । “ऊर्च" सर्वोत्कृष्टं गायत्रीप्रतिपाचं ब्रह्म “जिगातु" जयतु । एवंभूताय महानुभावाय तुभ्यमस्माभिर्देयं किमपि नास्ति किंतु भूयिष्ठां ते नमउक्ति विधेमेतिशास्त्रोक्तरीत्या भूयो भूयो नमस्कारान्करोमीत्याह-ॐ नमो ब्रह्मणे (आ० गृह्यसू० अ० ३) इत्यादिना । ब्रह्मादिशब्दवाच्याय महते विष्णवे नम इति । नम इति बहवारोक्तिस्तु आदरार्था । ततः प्राच्या. यज्ञाय २३ - संध्याभाष्यम् । दीममस्कुर्यात् । तत्र मानं स[मनन्तर]मुक्तम् । नमस्कारकाले वेदाधा वाडवा मनाः पठनीया इत्युक्तम् । सर्ववेदेषु यत्पुण्यमितिश्लोकपठनानन्तरं चतुःसा. गरमित्युक्त्वैतद्गोत्रोऽहं भो अभिवादय इति सूर्य नमस्कुर्यात् । तदुक्तमानेये- " अभिवादनमन्त्रेण स्वगोत्रं नाम शर्म च । उक्त्वाऽभिवादयेत्सूर्यमास्ति(पै मत्रि)वरो(र) इमं स्मरे(रन)" इति । अत्र प्राच्यादिशब्देन तत्तदिग्देवता ग्रायाः। पाच्याः प्राणास्तयेन्द्राधा दक्षिणाश्च यमादयः ।। प्रतीच्या वरुणाद्यास्तु सोमाद्या उत्तराः स्मृताः ।। शेषमित्राववातापी(विघ्नश्च वी)न्द्रकामा उदत्काबुदाह)तौ । सभार्याः कोणपैः सार्ध चत्वारो दिग्विदिक्ष्विति"। पूर्वदिग्देवतेन्द्रः शची, आभ्यामुपास्यमानो वामनो द्वितीयानपगमो हय- ग्रीवो नारायणोऽनिरुद्धः प्रतिहारनामकोऽनिरुद्धः पवमाननामको नारायणः प्रद्युम्नः प्रकाशनामको वासुदेवो वासुदेवव्यूहः । प्राणनामकः शेषः । अपान- नामिका भारती । व्याननामको वायुः । उदाननामिका रमा । समाननामको नारायणः।आग्नेये-अग्निः स्वाहा, आभ्यामुपास्यमानो परशुरामो द्वितीयान- पगमो हयग्रीवो नारायणोऽनिरुद्धः। दक्षिणे-यमः श्यामला, आभ्यामुपा- स्यमानो रामचन्द्रो द्वितीयानपगमो हयग्रीवनारायणानिरुद्धाः । प्रतिहारना- मकोऽनिरुद्धः । पवमाननारायणः । प्रद्युम्न० नामिका भारती । व्याननामको वायुः । उदाननामिका रमा। समाननामको नारायणः। निर्ऋतिकोणे--नि:- तिकं नाम(?)। आभ्यामुपास्यमानो यमादवतीर्णः कृष्णो द्वितीयानपगमो हयग्री- वनारायणानिरुद्धाः । पश्चिमे-वरुणो भारती, आभ्यामुपास्यमानो नारायणो द्वितीयानपगमो हयग्रीवनारायणानिरुद्धाः । प्रतिहारनामकोऽनिरुद्धः । पवमा. ननामकनारायणः । प्रद्युम्न(नः)प्रकाशनामकवासुदेवः प्रद्युम्नव्यूहः । माणना. मकशेषः । अपाननामिका भारती । व्याननामको वायुः । उदाननामिका रमा। समाननामको नारायणः । वायव्ये-प्रवहः प्रावही, एतदुपास्यो नरसिंहो द्वितीया० निरुद्धः । उत्तरे-चन्द्रस्तद्भार्या रोहिणी, एतदुपास्यः कल्की द्विती. यानपगमो हयग्रीवनारायणानिरुद्धाः । प्रतिहार । ऐशान्ये-रुद्रः. पार्वती, एतदुपास्यः संकर्षणो द्विती० । ऊर्ध्वदिशि-गरुडः सौपर्णी कामरती। एभिः रुपास्यौ नारायणप्रद्युम्नौ । अधोदिशि-षो वारुणी मित्रो मैत्री । एतदुपास्यः शेषशायी । अवान्तरदिशि-गणेशस्तदुपास्यः संकर्षणः। एकोनपश्चाशन्मरुत- २४ श्रीमध्वाचार्यविरचितं संध्याभाष्यम् । स्तदुपास्योऽनिरुद्धः स्वर्नामकानिरुद्धः संकर्षणप्रतिहारनामकानिरुद्धो निधन नामकसंकर्षणरामः। इति प्रातःसंध्याप्रकरणम् । अथ माध्याह्निकमुच्यते । आपः पुनन्त्विति मध्याहेऽपः पिबेत् । तदाह भरद्वाज:- " सायमग्निश्च मेत्युक्त्वा प्रातः सूर्येत्यपः पिबेत् । आपः पुनन्तु मध्याह्ने ततश्चाऽऽचमनं चरेत् " ॥ उक्तं चाऽऽग्नेये--" आपः पुनन्तु मत्रेण आपो हि ठेतिमत्रतः । प्रक्षिपेच्चाञ्जलिं सम्यगुदु त्यं चित्रमित्यपि ॥ चक्षुर्देवहितं सम्यग्धंसः शुचिषदित्यपि । एतज्जपेदूर्वबाहुः सूर्य पश्यन्समाहितः ॥ गायत्र्या तु यथाशक्ति उपस्थाय दिवाकरम्" इति ॥ तत्र गायत्र्या हंसमन्त्रेण चोपस्थाने सूर्यदिवाकरशब्दाभ्यां हरिरेवोच्यते । अतस्तहुपस्थाने विनियुक्तस्योदु त्यमित्यादेः सूक्तस्य हरिविषयत्वम् । वाक्य. रूपलिङ्गाच्च । तदुक्तम्-" तयो हंसोऽसौ योऽसौ सोऽहम्" इति ॥ इति श्रीसंध्यात्रयोपयुक्तमन्त्राणां सायणाचार्य- मतानुसारेण श्रीमध्वाचार्यकृतं भाष्यं समाप्तिमगमत् ।
ॐ तत्सब्रह्मणे नमः। श्रीकृष्णपण्डितविरचित तैत्तिरीयसंध्याभाष्यम् । प्रथमो गुच्छः। यस्मिन्दर्पणविम्बजृम्भितपुरीसंदर्भतुल्यं जगद्भातं यत्परसंविदो यत इदं रूप्यादिवल्लीयते ।। यस्याज्ञानविजृम्भिता परभिदा वारीन्दुभेदादिवत्तं भूमानमुपास्महे हृदि सदा वामार्धजानिं शिवम् ॥ १ ॥ पूर्णानन्दस्वरूपाय दक्षिणामूर्तये नमः । प्राज्ञान्मानान्करोमीति दीक्षिताय स्वचिन्तया ॥२॥ मुकुन्दाश्रमयोगीन्द्रपादपङ्कजमाश्रये । तत्संदर्शनमात्रेण प्रायत्यं जायते नृणाम् ॥ ३ ॥ श्रीमत्कटाक्षेक्षणवीक्षितानां वाणी सुवाणी रसनाचलेऽचला। प्रवर्तते तान्प्रणमामि नित्यं श्रीकृष्णविद्वन्मणिदेशिकेन्द्रान् ॥ ४ ॥ अरुन्धतीसवतभाग्यशालिनी लक्ष्मीरभून्मे जननी जगनुता । श्रीरामभट्टस्तु पिताऽमितागमस्तावद्य वन्दामि सदेष्टसिद्धये ॥५॥ श्रीमद्राघवदैवज्ञवंश्यः श्रीकृष्णपण्डितः । प्रकाशयाम्यहं स्पष्टं संध्यावन्दनपद्धतिम् ॥ ६ ॥ भाष्याणि वेदस्य विलोक्य निर्मिता विद्वस्पिया निर्णयकल्पवयसौ । गम्भीरवंशाभिपदानुगुम्फिता लब्धागमश्रेणिशुशुत्सया मया ॥७॥ इह खलु सकलसत्कर्मपरिगणनायामादितः परिगणनाईस्य संध्यावन्दनक- लापस्य स्वरूपविशेषजिज्ञासा यथाकथंचिद्विगुणाऽपि 'श्रेयान्स्वधर्मो विगुणः' इति भगवदुपदेशात्स्वधर्मत्वेन श्रेयसीति हृदि निधाय निरन्तरशुश्रूषापरितो- षितसदाचार्यमुखकमलोदीरितसिद्धान्तसागरानिर्गतमतिरहस्यमाकलय्य यया. योगं प्रकाश्यते । तत्र तावत्संध्यावन्दनं नित्यम् । 'अहरहः संध्यामुपासीत' इति- वीप्सावशात् । अर्धमासेऽर्धमासे प्रवृज्यते वसन्ते वसन्ते ज्योतिषा यजेतेत्यादी तथा दर्शनात् । ननु युक्तं तत्र नित्यत्वम् । यथाकालमकरणे प्रायश्चित्तविधानात् , आ उतीयात्परुषात्सोमपानाभावे दौालण्यश्रवणाच, अनाहितामिता स्तेय- २ [प्रथमो गुच्छ - - -- श्रीकृष्णपण्डितविरचितं- (संध्यावन्दननित्यत्वप्रतिपादनम् मित्युपपातकेषु अनाहितामितायाः पाठाच्च । नैवं प्रकृते ताशवांसि सन्ति येन संध्यावन्दनं नित्यं भवेदिति । उच्यते-प्रकृते न तथाविधानि वचना. नि सन्तीति वदता वक्तव्यम् , किं संध्यावन्दनकर्मप्रधानभूतगायत्र्युपदेशस्य यथाकालमकरणे प्रायश्चित्ताभावश्चोधत आहोस्विद्यथाकालं संध्याकर्मानुष्ठान- स्याकरणे प्रायश्चित्ताभावः । नाऽऽद्यः । सावित्र्या अपि यथाकालमनुपदेशे गुरुतरमत्यवायश्रवणात् । तथाऽऽह भगवानापस्तम्बमुनिः- अतिक्रान्वे सावित्र्याः काल ऋतुं विद्यकं ब्रह्मचर्य चरेदथोपनयनं ततः संवत्सरमुदको- पस्पर्शनम्' इति । उक्तं चाऽऽश्वलायनमुनिचरणैः-' अत ऊर्ध्व पतित- सावित्रीका भवन्ति नैनानुपनयेन याजयेन्नाध्यापयेभिर्व्यवहरेयुः' इति । न द्वितीयः । संध्याकरणेऽपि बहुप्रत्यवायश्रवणात् । तथाहि । गोभिल:- संध्या येन न विज्ञाता संध्या येनानुपासिता । जीवमानो भवेच्छूद्रो मृतः श्वानोऽभिजायते' इति ॥ विष्णुपुराणेऽपि-- 'उपतिष्ठन्ति ये संध्यां ये न पूर्वी न पश्चिमाम् । व्रजन्ति ते दुरात्मानस्तामिस्र नरकं नृप' ॥ कूर्मपुराणेऽपि- 'योऽन्यत्र कुरुते यत्नं धर्मकार्ये द्विजोत्तमः । विहाय संध्याप्रणतिं स याति नरकायुतम् ' ।। दक्ष:- संध्याहीनोऽशुचिनित्यमनईः सर्वकर्मसु । यदन्यत्कुरुते कर्म न तस्य फलभाग्भवेत् ॥ स्मृत्यन्तरेऽपि-'यः संध्यां कालतः प्राप्तामालस्यादतिवर्तते । सूर्यहत्यामवामोति उलूकत्वमियात्तथा ॥ सायं प्रातस्तथा संध्यां ये विमा नधुपासते । तानेव धार्मिको राजा शूद्रकर्मसु योजयेत् ॥ शौनक:--'संध्यातिक्रमणं यस्य सप्तरात्रमविच्युतम् । उन्मत्तदोषयुक्तो वा पुनः संस्कारमर्हति ॥ अविच्युतमविच्छिन्नमित्यर्थः । तस्मात्संध्यावन्दनमकरणे प्रत्यवायबाहुल्य- श्रवणानित्यमिति सिद्धम् । तच्चानुष्ठानमर्थावबोधपूर्वकमाचरणीयं तथा सति महत्फलं भवति नेतरथा । अत एव च्छान्दोग्ये श्रूयते-'यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति' इति । विद्या सम्यगर्थज्ञा- नम् । श्रद्धाऽऽस्तिक्यबुद्धिः । अर्थशाने सति समग्रं फलं भवतीत्याशयेन - तैत्तिरीयसंध्याभाष्यम् । ३ प्रथमो गुच्छः] अर्थज्ञानस्याऽऽवश्यकता) वीर्यवत्तरमित्युक्तम् । तदेवेति विशेष्यसंगत्यैवकारसामर्थ्यादविद्वत्कृतमनुष्ठान- मतथाभूतमिति च गम्यते । तथा निरुक्तेऽपि- स्थाणुरयं भारहारः किलाभूदधीत्य वेदं न विजानाति योऽर्थम् । योऽर्थज्ञ इत्सकलं भद्रमश्नुते नाकमेति ज्ञानविधूतपाप्मा' इति । स्मृत्यन्तरेऽपि-' यदधीतमविज्ञातं निगदेनैव शब्द्यते । अनग्नाविव शुष्कैथो न तज्ज्वलति कहिंचित् ।। लघुव्यासोऽपि- वेदस्याध्ययनं सर्व धर्मशास्त्रस्य चापि यत् । अजानतोऽर्थ तत्सर्व तुषाणां कण्डनं यथा ।। कण्डनमवहननम् । तुषावहननववृथा प्रयास इत्यर्थः । यथा पशुर्भारहारी न तस्य भनते फलम् ।। द्विजस्तदर्थानभिज्ञो न वेदफलमश्नुते । वैदिककर्मफलभाङ्न भवतीत्यर्थः । अत एव व्यासः- ज्ञात्वा ज्ञात्वा च कर्माणि जनो यो योऽनुतिष्ठति । विदुषः कर्मसिद्धिः स्यात्तथा नाविदुषो भवेत् ' । अत एव तेषां पूजनमपि न कार्यमिति स एवाऽऽह- पाठमात्ररतान्वेदे द्विजातींश्वार्थवर्जितान् । पशूनिव न तान्माज्ञो वामात्रेणापि नार्चयेत्' । अतोऽर्थज्ञानमावश्यकमित्यभिप्रायः । लघुव्यास:- 'श्रुतहीनमधीतं यन्नेह नामुत्र तद्भवेत् । श्रुतं च केवलमपि समुत्थानाय कल्पते ॥ श्रुतमर्थज्ञानमुभयोः समुच्चयेन भवितव्यमित्यभिप्रायः । तदाह स एव- ज्ञानं कर्म च संयुक्तं मुक्त्यर्थं कथितं यथा । अधीतं श्रुतसंयुक्तं तत्र श्रेष्ठं न केवलम् ॥ अर्थज्ञानसंपन्नस्य फलमाह मनु:- 'वेदशास्त्रार्थतत्त्वज्ञो यत्र यत्राऽऽश्रमे वसेत् । इहैव लोके तिष्ठन्स ब्रह्मभूयाय कल्पते ' । हारीतोऽपि-'मत्रार्थज्ञो जपन्डूयंस्तथैवाध्यापयन्द्विजः । अधीत्य यत्किंचिदपि वेदार्थाधिगमे रतः ॥ ब्रह्मलोकमवामोति धर्मानुष्ठानतो द्विजः'। - - ४ - [प्रथमो गुच्छः] - श्रीकृष्णपण्डितविरचितं- ( वेदार्थविचाराभावे शूद्रसमत्वोक्तिः ) यस्किचिदिति मत्रभागमात्रमपीत्यर्थः । वेदार्थापरिज्ञाने दोषमाह- न वेदपाठमात्रेण संतुष्टः स्याट्विजोत्तमः । पाठमात्रावसायी तु पक्के गौरिव सीदति ।। योऽधीत्य विधिवद्विषो न वेदार्थ विचारयेत् । स सान्वयः शूद्रसमः पात्रतां न प्रपद्यते ॥ तस्मादकरणे प्रत्यवायश्रवणात्करणे चाभ्युदयसंभवादर्थज्ञानमावश्यकमिति सिद्धम् । किं च मत्रार्थपरिज्ञानपूर्वकोपदेशसिद्ध्यर्थमुपनेतुर्विद्वत्तामाहाऽऽपस्त- म्बो मुनिः सामयाचारिकेषु–'तमसो वा एष तमः प्रविशति यमविद्वानुपन. यते यश्चाविद्वानिति ब्राह्मणम्' इति । अथ वृत्तिकारः-विद्वानेवोपनेताऽभि. गम्यत इति विधातुमविदुषो निन्दामाह-यथा कश्चित्तमसः सकाशात्तम एव प्रविष्टः किंचिन्न जानाति एवमेष यमविद्वानुपनयते । यथाविद्वानित्यपेक्षते यश्च स्वयमविद्वानुपनयते सोऽपि तमस एव तमः प्रविधतीति । तस्मादर्थज्ञानं नित्यमित्याचार्याभिप्रायः । किंच मत्रार्थज्ञानसिद्ध्यर्थमेवार्थी समर्थो विद्वा. निति यागाधिकारविशेषणकोटौ विद्वत्पदं निवेशितमन्यथा तस्य वैफल्यापा. तात् । ननु 'पत्न्यवेक्षितमाज्यं भवति विष्णुक्रमान्क्रमते' इत्यादिष्वन्धायाः पङ्ग्वादेश्च तदसंभवेऽपि न नित्यकर्मणि क्षतिस्तद्वदविदुषोऽपि यागाधिकारेऽपि न क्षतिरिति चेन्मैवम् । पङ्ग्वादेरगावैगुण्यादिना विष्णुक्रमणमात्रानुष्ठानासम- र्थत्वेऽपि तदितरवाजमानकलापस्य मत्रार्थपरिज्ञानपूर्वकमनुष्ठातुं शक्यत्वान्न कश्चिद्दोष इति तत्र युक्तमुत्पश्यामः । प्रकृते तु तस्य गाढाज्ञानप्रविष्टस्य मूक- तुल्यतया कुत्रापि संकल्पादियाजमानकर्मणि यथार्थानुष्ठानासमर्थत्वेन तत्कृत- कर्मणस्तुषावहननन्यायेन वैफल्यात् । पङ्ग्वादेः सामर्थ्याभावेऽपि यागाधि- कारोऽस्तीति तन्यायेन मूढस्यापि तदधिकारायोगाच । न हि ' यज्ञोपवीती नित्योदक: संध्यामुपासीत' इति विधीयमानं संध्यावन्दनमशक्तस्यास्नातस्याप्य- स्तीति तण्यायेनायज्ञोपवीतिनोऽपि तदनुष्ठानं दृश्यते । न च 'विशिखोऽनुप- वीती च यत्करोति न तत्कृतम्' इति वचनादयज्ञोपवीतिनस्तदनुष्ठानमनुचि- तमिति वाच्यम् । तथा सत्यर्थज्ञानावश्यकताप्रतिपादकपूर्वोक्तबहुवचनपीडा- मिया मूढस्यापि नाधिकारोऽस्तीति न किमर्थं ब्रूयाः । तस्मान्मूढस्यापि गरी. यसा प्रयत्नेन विदितपदपदार्थसंमतिकस्यैव तदधिकारः । अन्यथा देवतोदे. शत्यागादिमात्रज्ञानस्याप्यभावेन तत्कृतं कर्म विफलं स्यात् । अविधिना कृत- मकृतमिति सिद्धान्तात् । अत एव 'य एवं वेद । य एवं विद्वान्यजते । यस्यैवं विदुषोऽग्निहोत्रं जुइति । य उ चैनदेवं वेद । य एवं विद्वाश्चातुर्मास्यैर्यजते', ५ प्रथमो गुच्छः] तैत्तिरीयसंध्याभाष्यम् । संध्यावन्दने मामाद्यावश्यकता) ति प्रतिकर्म विद्वत्संकीर्तनं दृश्यते । तदन्यथोन्मत्तमलापवदनर्थ स्यात् । च स्वाध्यायोऽध्येतव्य इत्यध्ययनविधेराफलवदर्थावबोधाव्यापारमङ्गीकु- गिर्भपादैरपि मत्रार्थपरिज्ञानमावश्यकमिति बहुधा प्रतिपादितम् । ननु लवदर्थावबोधस्यान्वयव्यतिरेकाभ्यां लाभान तदर्थमध्ययनं विधेयमिति न । अध्ययनेनैवार्थमवगम्य यागादिकमनुष्ठितं चेत्क्रतुफलभावनासिद्धिरि- नियमार्थ तद्विधानात् । नन्वध्ययनविधेरनारभ्याधीततया क्रतुसंस्पर्शनाभा. न क्रत्वर्थत्वमिति चेन्न । स्वाध्यायस्यार्थप्रतिपादनसामर्थ्यरूपलिङ्गन यागा. प्रवेशे तद्वाराऽध्ययनस्य यागसंस्पर्शसंभवात् । यथा 'यस्य पर्णमयी जुहू- विति' इत्यनारभ्याधीतपर्णताया अव्यभिचरितक्रतुसंवन्धिजुहूद्वारा यागान्व- त्पर्णशब्दार्थपलाशरूपप्रकृतिद्रव्यनियमविधिपरत्वं तद्वचनस्य दृष्टं तद्व- देति संक्षेपः । यद्यपि विवरणकारमतेऽध्ययनविधेरक्षरावाप्तिद्वारा तदर्य] र्यवसानाङ्गीकाराम काऽपि क्षतिः । तस्मादर्थज्ञानमावश्यकमिति सिद्धम् । स्य निगमनिरुक्तव्याकरणादिसाध्यत्वेन तत्रात्यन्तालसानां फलवद- ज्ञानलाभाय स्वबुद्धिपरीक्षार्थ च तत्परमोपायभूतनवीनग्रन्थारम्भ ति दुरभिमानदुष्टजनसमुत्थापितैतद्वैयर्थ्यशङ्का नावतरति । ननु संध्यावन्दनं थंभूतेन कर्तव्यम् । उच्यते-'यज्ञोपवीती नित्योदकः संध्यामुपासीत' इति पावलायनिके दर्शनाद्यज्ञोपवीतिना कृतस्नानेन मार्जनादिकं कुर्वता प्रदक्षिणं ध्यावन्दनं कर्तव्यम् । तदुक्तमापस्तम्बेन श्रौतपरिभाषायाम् ' यज्ञोपवीती दक्षिणं दैवानि कर्माणि करोति' इति । स्मार्तपरिभाषायामपि-यज्ञोपवी- तेना प्रदक्षिणमपि (मिति)। नित्योदकः स्मृत्युक्तोदकः । तेन मार्जनादिकमपि सद्धमिति नारायणवृत्तिकारः। तत्पदेनैव स्नानस्यापि ग्रहणम् । शक्तिविषये नातस्यैव तदधिकारात् । शक्तविषये 'न मुहूर्तमप्यमयतः स्यात्' इति सामया- गरिकेषु तथा दर्शनात् । ननु संध्याकाले न स्नानमावश्यकं तत्पूर्वभावित्व- नेयमाभावात् । अत एव संध्या स्नानमिति विपरीतपाठः पराशरस्मृतौ दृश्यत ति चेन्न । 'अग्निहोत्रं जुहोति यवागू पचति' इतिवत्पाठव्यत्यासेऽप्यर्यक्रम- वीकारात् । अत एव- 'अनातो नाऽऽचरेत्कर्म जपहोमादि किंचन । स्नात्वाऽधिकारी भवति देवे पिव्ये च कर्मणि ।। अत्यन्तमलिनः कायो नवच्छिद्रसमन्वितः । स्रवत्येव दिवा नक्तं प्रातःस्नानं विशोधनम् ' * यद्यपीयधिकम एतद्वाक्ये किंचित्रुटितं वेति वोध्यम् ।
६ - श्रीकृष्णपण्डितविरचितं- [प्रथमो गुच्छः] ( यज्ञोपवीतधारणावश्यकता) इति स्मृतिषु संध्यावन्दनात्पूर्व स्नानं कार्यमिति बहुधा प्रतिपाद्यते। तस्मात्पूर्व स्नानं कर्तव्यम् । ततः संध्यावन्दनं कर्तव्यमिति सर्व सुस्थम्। ननु यज्ञोपवीतिना कर्तव्यमित्युक्तं तदनुपपन्नम्, उपनयनकाले तस्य गृह्यकारैरनु क्तत्वादिति चेत्, सत्यम् । तथाऽपि यज्ञोपवीतधारणमावश्यकम् । 'अथ कथम- यज्ञोपवीती ब्राह्मणः' इति श्रुतौ यज्ञोपवीताभावे ब्राह्मण्याभावस्योक्तत्वात्। गृहकारैरपि तत्र तत्र कर्मणि यज्ञोपवीतधारणमुक्तम् । 'यज्ञोपवीतशीचे च नित्ये इति परिभाषायामपि नित्यत्वमुक्तम् । 'यज्ञोपवीत्याचम्ये' इत्याश्वलायनिक उक्तम् । आपस्तम्बसूत्रेऽपि-' उपासने गुरूणां वृद्धानामतिथीनां च हो जप्यकर्मणि भोजन आचमने स्वाध्याये च यज्ञोपवीती स्यात् ' इति । तैत्ति रीयकेऽपि 'सह वै देवानां चासुराणाम्' इत्यत्र 'यत्किच ब्राह्मणो यज्ञोपवी- त्यधीते यजत एव तत्तस्माद्यज्ञोपवीत्येवाधीयीत याजयेत वा' इति सम्य गुक्तम् । तस्माच्छ्रुतिस्मृतिगृह्यसिद्धत्वाद्यज्ञोपवीतधारणमावश्यकमिति सिद्धम् उपनयनप्रकरणेऽपि तव्याख्यानावसरे सुदर्शनाचार्यैरुपासने गुरूणामिति सूत्रेण विहितं यज्ञोपवीतं प्राप्तमिति व्याख्यातम् । तत्र भृगुः- 'सदोपवीतिना भाव्यं सदा बद्धशिखेन च । विशिखोऽनुपवीती च यत्करोति न तत्कृतम्' इति । संध्यात्रयमध्ये सायंसंध्याया एव प्राथम्यम् । तथाहि-उपनयनका माध्यानिकसंध्याया अवकाशेऽपि सायं संध्याया उपक्रमविधानात्सैव प्रथ मेति गम्यते । अत्र गौतमः- संध्यात्रयं न कर्तव्यं यावन्मौञ्जी न बध्यते । संध्यात्रयं तु कर्तव्यं सायमादि ततः परम् ॥ ततः परमुपनयनानन्तरमित्यर्थः। गायत्रीं [तु] गुरोर्लब्ध्वा मत्रान्ध्यायन्यथोदितान् । अभ्यस्योपासयेत्संध्यां सायमादि यथाक्रमम् । वसिष्ठोऽपि-'गायत्री गुरुणा दिष्टां तिष्ठन्नासूर्यमभ्यसेत् । सूर्येऽस्तशिखरं प्राप्ते सायंसंध्यामुपक्रमेत् ' इति । शौनकोऽपि-उपनीती कृतायां तु सायंसंध्यामुपक्रमेत् । ब्रह्मयज्ञ प्रकुर्वीत मध्याह्न तु परेऽहनि । उपाकरणपर्यन्तं गायत्र्या ब्रह्मयज्ञकम् । कुर्यान्माध्याहिकी संध्यां ततः स्मृत्युक्तमार्गतः । तत उपनयनानन्तरं परेऽहनि मध्याह्नकाल इत्यर्थः । आश्वलायनशाखि तैत्तिरीयसंध्याभाष्यम् । प्रथमो गुच्छः] संध्याकालविचारः) मिप्ययमेव पन्थाः । 'तिष्ठेदहशेषम्' इति गृह्यकारेणास्तंगमनपर्यन्तं ब्रह्मचा- ण उपवेशस्य निषिद्धत्वात् । अनुपविशत आचमनसंध्याघनधिकारः तष्ठनाऽऽचामेत्' इति निषेधात् । तस्मान्माध्याहिकसंध्याकरणमुपनयनकाले पिपद्यते । ननु तदर्थमुपवेशनं भविष्यतीति चेन्न । तथा सत्यहाशेषमित्यत्य- संयोगे द्वितीयाश्रुतेः पीडा स्यात् । न चेष्टापत्तिः । यावता हीद थममुपात्तगायत्रीमत्रस्य शुद्ध्यर्थं स्वाधीनतालाभार्थं च तिष्ठेदिति ब्रह्म- आरिणः स्थानं विहितं तस्य भ्रंशे मत्रस्यैव नियमविलोपाद्धंशः स्यात् । 'न यो नियम विना' इति वचनात् । तथा सति सावित्रीपातित्यमेव स्यादिति लोच्छेदी पाण्डित्यप्रकर्षः । गृह्यकारेणापि सायंसंध्याप्रभृत्येव संध्याविधान तम् 'यज्ञोपवीती नित्योदकः संध्यामुपासीत वाग्यतः सायमासीनः' इत्यादि । स्मात्सायंसंध्याप्रभृत्येव संध्याकालो निर्णीतः । अथ संध्याकालो विचार्यते । व मुख्यकाल उक्तश्छान्दोग्ये 'संधौ संध्यामुपासीताऽऽ ज्योतिषो दर्शना. संधिः' इति । अस्यार्थः-अत्र ज्योतिष्पदं सूर्यनक्षत्रवाचकम् । तथा चाss योतिषो दर्शनादर्धास्तमितसूर्यदर्शनकालमारभ्य नक्षत्रोदयपर्यन्तं यः कालः । संधिः । तत्र सायंसंध्यामुपासीत विदधीत । तदुक्तम्- • 'अर्धास्तमितकालाद्यः संधिरातारकोदयात् । तत्र संध्यामुपासीत सायंकाले समाहितः' इति ।। उदयात्माक्तनी संध्या घटिकात्रय मुच्यते । सायसंध्या त्रियटिका अस्तादुपरि भास्वतः ॥ सकलसूर्यबिम्बास्तमयादूर्ध्व नक्षत्रोदयात्पूर्व सायंसंधिकालः। कृत्स्ननक्षत्रा- संगमनादूर्व सूर्योदयात्माकपातःसंधिकालस्तत्र संध्यामुपासीतेति श्लोकार्थः । 'यं संध्याद्वयस्य मुख्यः कालः । नन्वेवं चेत्संध्यावन्दनं कथमाचरणीयमेता- शमुख्यकालस्यातिदुर्लभत्वात् । उच्यते-अस्यैव कालस्योत्तमादिभेदेन प्रतिषु कीर्तितत्वेनोत्तमकाळे तदनुष्ठानालाभेऽपि मध्यमादिकाले तदनुष्ठान- भवात् । तथा हि- उत्तमा सूर्यसहिता मध्याऽनुदिततारका । अधमा तारकोपेता सायंसंध्या त्रिधा मता ॥ मौतमः- उत्तमा तारकोपेता मध्यमा लुप्ततारका । अधमा सूर्यसहिता प्रातःसंध्या त्रिधा मता' । एवंभूतोऽपि मुख्यकाल एव । तस्मिंत्रिविध काले यस्तु संध्यां नानुति- ति स संपूर्णब्राह्मणो न भवति । तथाच शातातपः- ८ - श्रीकृष्णपण्डितविरचितं- [प्रथमो गुच्छः] (संध्याशब्दार्थविचारः) अनागतां तु यः पूर्वा सादित्यां चैव पश्चिमाम् । नोपासीत द्विजः संध्यां स सर्वोऽब्राह्मणः स्मृतः' इति ॥ अब्राह्मणः संपूर्णब्राह्मणो न भवतीत्यर्थः । द्वादशाहमनग्निस्तु संध्याकालविपर्ययः॥ पठिताखिलवेदोऽपि शूद्र एव न संशयः ॥ यस्त्वेतस्मिन्काले संध्यामुपास्ते स संपूर्णब्राह्मण इत्यादुक्तं भवति । गौतमः- 'काले तु वन्दिता संध्या स्वर्गमोक्षपदायिनी । अकाले वन्दिता संध्या सा च संध्या (वन्ध्या) वधूरिव' ॥ अथ संध्याशब्दार्थो विचार्यते-संध्यामुपासीतेत्यत्र संध्या नाम चिच्छ- क्तिरूपा देवता तामुपासीत ध्यायेत् । तां ध्यायनाचमनादारभ्याभिवादनान्तं कर्म कुर्यात् । सा देवता स्पष्टीकृता- या संध्या सा जगत्सूतिर्मायातीता हि निष्कला। ईश्वरी केवला शक्तिस्तत्त्वत्रयसमुद्भवा ।। ध्यात्वाऽर्कमण्डलगतां सावित्रीं वै जपेद्बुधः' इति ॥ अनेनार्कबिम्बाभिव्यक्तादित्यशब्दवाच्या परब्रह्मरूपा चिच्छक्तिरेव संध्या- देवतेत्युक्तं भवति । ध्यात्वा ध्यायन्नित्यर्थः । सा, ऋग्गायत्री । नन्विदं विरु- दम् । संध्यापदं न चिच्छक्तिपरं, परं तु कर्मपरमेव । संध्या स्नानमिति पराशरेण तत्परत्वेन कीर्तितत्वात् । सत्यम् । संध्यापदस्य मुख्यवृत्त्या चिच्छक्तिपरत्वेऽपि संधौ भवा संध्येति व्युत्पच्या क्रियापरत्वसंभवात् । अत एवं व्यास:- 'उपास्ते संधिवेलायां निशाया दिवसस्य च । तामेव संध्यां तस्मात्तु प्रवदन्ति मनीषिणः' इति ॥ तां क्रियां विदधाति योगयाज्ञवल्क्य:- 'संधौ संध्यामुपासीत नास्तगे नोद्गते रवौ' इति । तां क्रियामादित्याख्यां चिच्छक्तिरूपां देवतां ध्यायन्कुर्यादिति फकिकार्थः। अत्र केचित्-संधावुपास्यदेवता संध्या तयोपलक्षितां क्रियामादाय पर्यव- स्यत्संध्यापदं क्रियापरमित्याहुः । तत्र । संधौ भवा संध्येति संध्यापदस्य साक्षाक्रियापरत्वसंभवे परम्परया तत्कल्पनाया अन्याय्यत्वात् । उपासीते. त्यपासना विहिततया कर्तपरतवाभिध्यानरूपा क्रियैव न तु ज्ञानम् । तर तैत्तिरीयसंध्याभाष्यम् । [प्रथमो गुच्छः] (संध्याप्रधानाङ्गकर्मविचारः) प्रमाणपरतत्रत्वेन पुंस्परतत्रत्वायोगात् । तथा च श्रुति:-'उद्यन्तमस्तं यन्त- मादित्यमभिध्यायन्कुर्वन्ब्राह्मणो विद्वान्सकलं भद्रमश्नुतेऽसावादित्यो ब्रह्मति ब्रह्मैव सन्ब्रह्माप्योति य एवं वेद ' इति । अस्यायमर्थो भाष्यकारोक्तः- वक्ष्यमांणप्राणायामादि कर्म कुर्वन्संध्याशब्दवाच्यमादित्यं ब्रह्मेति ध्यायहि- कामुष्मिकं सकलं भद्मश्नुते । य एवमुक्तध्यानेन शुद्धान्तःकरणो ब्रह्म साक्षा- कुरुते स पूर्वमपि ब्रह्मैव सन्नन्नानाजीवत्वं प्राप्तस्तत्साक्षात्कारेगामानापगमे ब्रह्मैव प्रामोतीति । व्यास:- 'तदेवं प्रतिपद्येत सावित्री ब्रह्मणा सह । सोऽहमस्मीत्युपासीत विधिना येन केनचित् ' इति ॥ आदित्यरूपा चिच्छक्तिरेव गायच्याख्या च भवति । अत एव जपकाले गायत्रीध्यानं विहितम्- 'गायत्रीं चिन्तयेद्यस्तु हृत्पद्म समुपस्थिताम् । धर्माधर्मविनिर्मुक्तः स याति परमां गतिम् ' । श्रुतावादित्यध्यानमुक्तम् । वचने तु गायत्रीध्यानम् । तत्राऽऽदित्यरूपचि- चक्तेर्गायत्रीशब्दवाच्यत्वानङ्गीकारे जपकाल एव गायत्र्यादित्ययोर्ध्याना- वाप्तिः । न चेष्टापत्तिः । एकस्य कर्तुरेककालीनप्रधानकर्मद्वयकरणायोगात् । तस्मादादित्यरूपचिच्छक्तेरेव गायत्रीशब्दवाच्यत्वं ब्रह्मचैतन्यस्यैव गायत्रीमत्र. प्रतिपाद्यत्वाच्चिच्छक्तिरूपमादित्यरूपं गायत्रीरूपं च ब्रह्म संध्यादेवतेत्यवगन्त- व्यम् । अत्रेदं विचार्यते । अर्घ्यप्रक्षेपणं गायत्रीजपः सूर्योपस्थानं चेति त्रितयं संध्याकर्मणि समप्रधानम् । अन्यत्स्मृत्युक्तमार्जनादिकं तदङ्गं तदुपकारकमिति यावत् । अपरार्के शाखान्तरे-ॐकारव्याहृतिपूर्वी गायत्रीं ब्राह्मणो जपेत् । त्रिष्टुभं राजन्यो जगतीं वैश्यः । सर्वे गायत्रीमिति जपमात्रविधानाजप एव प्रधानमिति तत्रावगम्यते । ओमित्येकाक्षरं ब्रह्मेत्यादिहृदयपठनं प्राणायाम- न्यासध्यानादिकं गायत्रीजपाङ्गम् । एतेषु त्रिष्वप्ययप्रक्षेपणं बलवत्मधानम् । गायच्याऽभिमत्रिता अप ऊर्च विक्षिपन्तीत्यत्र तावन्मात्रस्यैव प्राधान्येन विधानात् । गायत्रीजपोपस्थानप्रतिषेधपूर्वकमाशीचेऽप्ययप्रक्षेपणमात्रवि. धानाच्च । तदुक्तं स्मृत्यन्तरे-स्वाध्यायजपहोमादि ना(चाऽऽ)शौचे वर्जयेत्स- देति । जपो गायत्रीजपः । तस्मिन्कालेऽयमात्रमेव कर्तव्यमित्याह पैठी- नसि:-' आशौचेऽप्यपामञ्जलीन्मक्षिप्य सूर्य ध्यायनमस्कुर्यात् ' इति । सूर्य ध्यायनञ्जलीन्मक्षिपेदित्यन्वयः । स्मृतिकारैरेतत्सर्वं विचार्याऽऽनेयादियागत्र- मानपानाढिवदेतेषां त्रयाणामनुष्ठानमावश्यकमित्युक्तम् । दैवान्मानपाटा १० श्रीकृष्णपण्डितविरचितं- [प्रथमो गुच्छः] (संध्याकाललोपप्रायश्चित्तम्) कदाचित्रितयानुष्ठानासंभवेऽप्येकानुष्ठानेनैव संध्योपासनापूर्व सिध्यति । असो. मयाजिनो ब्राह्मणस्याग्नीषोमीययागानुष्ठानाभावेऽपि तदितरयागानुष्ठानेनैव पौर्णमासेष्टयपूर्ववदिति प्रयोजनमनुसंधेयम् । अथ संध्याकाललोपमायश्चित्तम्- संध्याकाले त्वतिक्रान्ते स्नात्वाऽऽचम्य यथाविधि । जपेद्दशशतं देवीं ततः संध्यां समाचरेत् ॥ जमदग्निः-एकाहं समतिक्रम्य प्रमादादकृतं यदि । अहोरात्रोषितो भूत्वा गायत्र्याश्चायुतं जपेत् । राष्ट्रभङ्गे नृपक्रोधे रोगाते सूतकेऽपि च । संध्यावन्दनविच्छित्तिर्न दोषाय कदाचन ॥ तथाविधकाले यावदनुष्ठानासंभवेऽपि मनसा मत्रोच्चारणे तत्सिद्धिः। न तु सर्वात्मना लोपः, नित्यत्वादिति तात्पर्यार्थः । इदं चार्घ्यदानकाले सम्य. इनिरूप्यते । "ननु विद्यासक्तानां संध्यावन्दनकाललोपो भवति तत्र का वार्ता । कुशलैव । v देवाग्निद्विजविद्यानां कार्ये महति संस्थिते । संध्याहीने न दोषोऽस्ति ये च सत्कर्मसाधनाः ॥ तस्माद्यथाकालातिक्रमणेऽपि विद्यासक्तानां न दोष इति स्थितम् । सायं प्रातर्न दोषोऽस्ति संध्याकालोऽतिपद्यते । मुख्यकल्पोऽनुकल्पश्च सर्वस्मिन्कर्मणि स्थितः' इति वृद्धमनुवचनादधमगौणकालो वेदितव्यः । मध्यमगौणकालोऽस्ति स्मृत्यन्तरे कथितः- चतस्रो घटिकाः सायं गौणकालोऽस्ति मध्यमः। प्रातःकालेऽप्येवमेव संध्याकालो मुनीरितः' इति ॥ षड्घटिकात्मकः कालः प्रातःशब्दार्थः । मुहूर्तत्रितयं प्रातरिति वचनात् । तत्र चतस्रो घटिकाः सायं संध्यायां गौणमध्यमकाल इत्यर्थः । प्रदोषका- लोऽपि तावानेव । त्रिमुहूर्तः प्रदोषः स्याद्भानावस्तं गते सति' इति वचनात् । तत्रापि पूर्ववत् । उत्तमगौणकालस्तु संग्रहकारेणोक्तः- सायंकाले विघटिका अस्तादुपरि भास्वतः । मातःकाले द्विघटिका तत्र संध्यां समाचरेत् ॥ .
तैत्तिरीयसंध्याभाष्यम् । [प्रथमो गुच्छः] ११ (संध्यात्रयस्य विशेषेण कालातिक्रमणप्रायश्चित्तम्) गोभिला-मुख्यकाले यदावश्यं कर्म कर्तुं न शक्यते । गौणकालेऽपि कर्तव्यं गौणोऽप्यत्रेदृशो मतः ॥ अत्राऽऽपदीदृशो मुख्य एवेति संमतः । गौणकालेऽप्यतिक्रान्त आसायं प्रातःसंध्यां कुर्यात् । तावत्पर्यन्तं सूर्यस्य रक्षसां च युद्धमत्तेः । सूर्यस्य युद्ध- पापानिवृत्त्यर्थत्वात्तत्संध्योपासनस्य । ' तस्मादुत्तिष्ठन्त५ ह वा तानि रक्षा- स्यादित्यं योधयन्ति यावदस्तमयात् ' इति श्रुतेः । तत्रानुष्ठानकाले प्रायश्चि. तपूर्वकमेवानुष्ठानं कर्तव्यम् । तत्पकारस्तु स्मृत्यन्तरे- प्राणायामत्रयं प्रातर्द्विगुणं संगवे स्मृतम् । मध्याह्ने त्रिगुणं प्रोक्तमपराहे तु षड्गुणम् ॥ सायाढ़े द्वादशगुणं सूर्यहत्यां व्यपोहति । अथ संध्यात्रयस्य विशेषेण कालातिक्रमणप्रायश्चित्तमुच्यते । संध्याया द्वौ काली निर्णीतावधस्तात् । मुख्यगौणभेदात् । तत्र मुख्यकालेऽतिक्रान्ते गौण- काले प्राप्तं चेदनुष्ठानं वक्ष्यमाणप्रायश्चित्तपूर्वक कार्यम् । तच्च मायश्चित्तं द्विवि- धम् । गायत्रीपूर्वकमर्यप्रक्षेपणात्मकमेकम् । प्राणायामात्मकमपरम् । तत्रार्य- प्रक्षेपणात्मकमाह व्यास:- प्रणवव्याहृतियुतां गायत्रीं शिरसा सह । उच्चार्य दत्त्वाऽयमादौ संध्याकर्म समाचरेत् ।। ग्रन्थान्तरे- गायत्री शिरसा सार्धमुक्त्वा व्याहृतिभिः सह । कालातीतविशुद्ध्यर्थ दत्त्वा संध्यां समाचरेत् ।। अर्ध्यमिति शेषः । इदं प्रायश्चित्तं संध्यात्रयेऽपि समम् । तदानीमेकं प्राणा- यामं कृत्वा मुख्यकालातिक्रमदोषपरिहारार्थमर्थ्यप्रक्षेपणात्मकं प्रायश्चित्तं करिष्य इति संकल्प्य प्रायश्चित्ताय॑ दत्त्वा ततः संध्यां समाचरेत् । चतुरयं तु गायत्र्या दत्त्वा संध्यां समाचरेत् । कालातीतविशुद्ध्यर्थं त्रिसंध्यासु समाहितः ॥ उभयोः प्रायश्चित्तयोः समुच्चयः । एकस्मिन्दोषे श्रूयमाणानि प्रायश्चित्तानि समभ्युचीयेरनिति श्रौते दर्शनात् । न विकल्पः । प्राणायामलक्षणं प्रायश्चित्त- मुक्तमधस्तात् । तत्र केचित्माणायामत्रयं प्रातरित्यत्र प्रातरिति लिङ्गात्माताका- लातिक्रमणप्रायश्चित्ततयैव प्राणायामलक्षणं प्रायश्चित्तं समुचिनोति नेतरयोरिति वदन्ति । तन्त्र । अर्थ वा सिषाधयिषोनियमातिक्रमे चान्यस्मिमिति नियमाति- - [प्रथमो गुच्छः] १२ श्रीकृष्णपण्डितविरचितं- (संध्यात्रयस्य दिवा सर्वथाऽनुष्ठानासंभवे कर्तव्यविधिः) क्रमणमात्रे विधीयमानस्य तस्य कर्मविशेषे नियन्तुमशक्यत्वात् । अत एव सुदर्श- नाचार्यः प्रायश्चित्तनिरूपणप्रसङ्ग आचमनं भोजनलोपः प्राणायामश्चेति त्रयाणां समुच्चयो न तु विकल्प इति व्याचष्टे । वचनस्थं प्रातरिति पदमनुवादपरमिति न दोषः । ननु संध्यात्रयस्य दिवाभागे दैवान्मानुषाद्वा सर्वथाऽनुष्ठानासंभवे किं कर्तव्यम् । उच्यते-उक्तप्रायश्चित्तपूर्वक क्रमेण शर्वर्याः प्रथमपादे कुर्यान तु व्युत्क्रमेण । तत्र लोकोपकारे- दिवोदितानि कर्माणि प्रमादादकृतानि वै । शर्वर्याः प्रथमे पादे तानि कुर्याद्यथाक्रमम् ॥ तत्र केचित्-स्वकाले बलवत्यपीति न्यायेन सायंसंध्यामादौ कृत्वा दिवा. तिपन्नानि कर्माणि कुर्यादिति । अपरे पुनः क्रमेणेति वदन्ति । तदुक्तम्- कालातीतेषु पूर्वेषु प्राप्तवत्सूत्तरेषु च । कालातीतानि कृत्वैव विदध्यादुत्तराणि तु ॥ शिष्टाचारादाचारो वेदितव्यः । तदुक्तमापस्तम्बेन 'सर्वजनपदेष्वेकान्तस- माहितमार्याणां वृत्त स्वधर्मनिरतानार सम्यग्विनीतानां वृद्धानामात्मवता- मलोलुपानामदाम्भिकानां वृत्तसादृश्यं भजेतैवमुभौ लोकावभिजयतिः' इति । ननु रात्रौ यामेऽप्यतिक्रान्ते का गतिः । कर्मानुष्ठानलोप एव गतिः । अत्र लोकोपकारे- अकाले चेत्कृतं कर्म काले प्राप्ते पुनःक्रिया । कालातीते तु यत्कुर्यादकृतं तद्विनिर्दिशेत् ' इति । अस्यार्थः-अकालेऽनागतकाले यदि कर्म कुर्यात्तस्य मुख्यकाले प्राप्ते पुनःक्रिया पुनःकरणं भवेत् । कालातीते तु गौणकालातिपत्तौ तत्कर्म न कुर्या- कितूक्तभायश्चित्तमेव कुर्यात् । संध्यादिनित्यकर्मानुष्ठानाभावेनैकस्मित्रहोरात्रे गतेऽपरेघुरुपोष्य षोडशमाणायामपूर्वकमष्टोत्तरसहस्रं गायत्रीजपं कुर्यात् । तथा च मनु:- वेदोदितानां नित्यानां कर्मणां समतिक्रमे । स्नातकव्रतलोपे च प्रायश्चितमभोजनम् ॥ संध्यावन्दनहानौ तु नित्यस्नानं विलुप्य च । होमं च नित्यकं शुद्ध सावित्र्यष्टसहस्रकम् ।। शुद्धेऽपरेघुरष्टसहस्रकमष्टोत्तरसहस्रकम् । अत्रायं सिद्धान्त:-यदौपासन- स्याष्टहोमकालातिपत्तौ चतूरात्रमहूयमानोऽमिलौकिकः संपद्यत इति वचना- - 'द्वितीयो गुच्छः] तैत्तिरीयसंध्याभाष्यम् । १३ त्रिविधाचमनलक्षणानि) र्व धार्यमाणेऽप्यनावनुगतो मन्थ्य इत्यग्न्युत्पत्तिमायश्चित्ते भवतः । तथा सप्तरात्रमविच्युतसंध्यावन्दनाभावे पुनः संस्कारः कार्यस्तदनन्तरमुपेतेन पूर्वप्र- कारेण तदनुष्ठानं कार्यम् । अत्र शौनक:- संध्यातिक्रमणं यस्य सप्तरात्रमविच्युतम् । उन्मत्तदोषयुक्तो वा पुनः संस्कारमर्हति' इति ॥ औपासनहोमस्य बहुकालातिक्रमणेऽष्टभ्यो होमकालेभ्यः पूर्व प्रत्येकं सर्व- यश्चित्तपूर्वकमतीतहोमाः कर्तव्यास्तथा सुदर्शनाचार्यैरुक्तत्वात् । प्रकृते तु ध्यावन्दनस्य बहुकालातिक्रमणे सप्तरात्रात्पूर्वमतीतसंध्यानुष्ठानं प्रायश्चित्त- र्वकं कार्यमिति वक्तुं न शक्यते । तथाशिष्टाचाराभावात् । स्मृतिकारैरनझी- काराच्च । किं तु यथोक्तप्रायश्चित्तमेव कृत्वा तत्कालोचितानुष्ठानमेव कार्यमिति मृतिविदां स्थितिः । इतोऽप्यन्यत्स्मृतिवशाज्ज्ञेयम् । ग्रन्थविस्तरभयानेह बहु पञ्चितमिति । श्रीकृष्णं जगदेकपण्डितमणिं श्रीरामभट्टारकः श्रीलक्ष्मीरपि यं जजान तनयं प्रत्यक्षबोधोज्वलम् । तन्यग्रोधसमीपवासिभगवन्मत्रानुचिन्ताफले संध्यावन्दननिर्णये निरगमगुच्छोऽयमादिः स्फुटम् ॥ इति श्रीमद्राघवदेवज्ञवश्यश्रीकृष्णपण्डितविरचिते तैत्तिरीयसंध्याभाष्ये प्रथमो गुच्छः ॥१॥ अथ द्वितीयो गुच्छः। अथाऽऽचमनप्रकारः। आचमनं त्रिविधं श्रौतं स्मात पौराणं चेति । तत्र प्रत्यक्षश्रुतिचोदितं गौतम् । सूत्रोक्तं स्मार्तम् । केशवाद्यस्त्रिभिः पीत्वेतिवचनोक्तं पौराणम् । त्राऽऽयं तैत्तिरीयारणे प्रसिद्धम् । तच्च ब्रह्मयज्ञाङ्गम् । तथाऽऽश्वलायनाना- पि कर्तव्यम् । द्वितीयं पुनः संध्यादिकर्माकम् । तृतीयं पुननिष्ठीवनशौचाय. मिति विवेकः। 'संध्यान्ते च तथा पाने स्पृष्टास्पृष्टौ च सर्पणे । पौराणाचमनं कुर्यानामभिः केशवादिभिः' इति स्मृतिषु दर्शनात् ॥
- १४ श्रीकृष्णपण्डितविरचितं- [द्वितीयो गुच्छः] (त्रिविधाचमनलक्षणानि) विशेषेण स्मृश्रिोत्याचमनं षट्कर्मचन्द्रिकायामुक्तम्- देव्याः पादैनिभिः पीत्वा अब्लिङ्गवभिः स्पृशेत् । सप्तव्याहृतिसंयुक्ता गायत्री त्रिपदा शिरः॥ शिरोमत्रो द्विधा कृतः । एतेनास्याऽऽचमनस्य चतुर्विशतिर्मत्रा भवन्ति । तेषां विनियोगः केशवादीनामिव द्रष्टव्यः । इदं श्रोताचमनं दर्शपूर्णमासा- जम् । तदाहाऽऽश्वलायन:-'पागुदगाहवनीयादवस्थाय प्राङ्मुखो यज्ञोपवी- त्याचम्य' इति । अत्र वृत्तिकारः-आचम्येत्यत्राऽऽचमनविधानं श्रौताचम- नप्राप्त्यर्थमिति गायत्रीजपकाले श्रौताचमनं कृत्वा प्राणानायम्य गायत्रीजपं कुर्यादिति मुख्यः पक्ष इति । अन्यच्छ्रुत्याचमनं स्मृत्यन्तरे कथितम्- 'तदोंकारेणाऽऽचमनं यद्वा व्याहृतिभिर्भवेत् । साविच्या वाऽपि कर्तव्यमिति व्यासेन भाषितम् ' इति ॥ अब्लिङ्गैवभिः स्पृशेदित्यादि(?)। पुराणाचमनप्रकारः स्मृत्यन्तरे कथितः- केशवाद्यैत्रिभिः पीत्वा द्वाभ्यां प्रक्षालयेत्करौ । द्वाभ्यामोष्ठौ च संमृज्य द्वाभ्यामुन्मार्जनं तथा ॥ एकेन हस्तं प्रक्षाल्य पादावपि तथैकतः। एकेनापि च मूर्धानं ततः संकर्षणादिभिः । सर्वासामङ्गुलीनां वै मूलेन चिबुकं स्पृशेत् । तर्जन्यङ्गुष्ठयोगेन नासिके द्वे उपस्पृशेत् ॥ अङ्गुष्ठानामिकाभ्यां च चक्षुः श्रोत्रं पुनः पुनः ॥ कनिष्ठाङ्गुष्ठयोगेन नाभिदेशमुपस्पृशेत् । करमध्यं हृदि स्थाप्य कराग्रं शिरसि न्यसेत् ॥ मुकुलेन च हस्तेन बाहुमूलमुपस्पृशेत् । एवमाचमनं कृत्वा साक्षान्नारायणो भवेत् ।। अथ प्रकृतोपयोगि स्मार्ताचमनमुच्यते । पः क्रियां कुरुते मोहादनाचम्यैव नास्तिकः । भवन्ति हि वृथा तस्य क्रियाः सर्वा न संशयः' इति वचनादाचमनं नित्यतयाऽवगम्यते । तत्रायं प्रयोगः--कृताप्लवो बद्ध. कच्छशिखो यज्ञोपवीती सपवित्रकरो भूमौ पादौ प्रतिष्ठाप्य स्वेष्टदेवतां हदि निधाय प्रकृतिस्थं फेनबुबुदरहितमम्बु संहताङ्गुलिना पाणिना गृहीत्वा ब्रह्म वीर्येन विस्तूष्णीं पिबेत् । अत्र शौनकः- - -- KRISHNA Hist. PUTEOF [द्वितीयो गुच्छः] तैत्तिरीयसंध्याभाष्यम् । (आवमनविधिः) द्विजन्मनां वै शुद्ध्यर्थं स्मार्ताचमनमुच्यते । शिखाकच्छनिवद्धस्तु सोपवीतः समाहितः ॥ भूमौ पादौ प्रतिष्ठाप्य प्राङ्मुखो वाऽप्युदङ्मुखः । प्रक्षाल्य पादौ हस्तौ च प्रभाते मुखमप्यथ ॥ स्नात्वा शुद्ध्यर्थं संध्यादिनित्यकर्माधिकारयोग्यतासिद्ध्यर्थमेवमाचमनं कार्यमिति तात्पर्यार्थः । स एवाऽऽचमनोदकमाह-- आचामेन्माषमग्नं [ तु ] गोकर्णचुलकस्थितम् । संहताङ्गुलिना तोयं गृहीत्वा पाणिना द्विजः ।। मुक्ताङ्गुष्ठकनिष्ठाभ्यां त्रिः पिबेब्रह्मतीर्थतः । ततः प्रक्षाल्य पादौ च संकुच्योष्ठौ निमाष्टर्थथ ।। संहताङ्गुलिभिर्मूलैत्रिः प्रमृज्यात्ततो मुखम् । प्रक्षाल्य हस्तौ चाभ्युक्ष्य पादशीर्षे तथैव च ॥ मध्यमाङ्गुलिपृष्ठैस्तु त्रिः स्पृशेद्राणमूलकम् । हस्तौ प्रक्षाल्य संस्पृष्ट्वा घ्राणादि द्वयशः पृथक् ।। अगुष्ठेन प्रदेशिन्या घ्राणे पश्चादुपस्पृशेत् । अङ्गुष्ठानामिकाभ्यां च चक्षुःश्रोत्रे च संस्पृशेत् ॥ अङ्गुष्ठोपकनिष्ठाभ्यां नाभिं पश्चादुपस्पृशेत् । तलेन हृदयं स्पृष्ट्वा स्पृशेदङ्गुलिभिः शिरः ॥ अमुल्यो हुमूले संस्पृशेदिति शौनकः । प्रणवेनोदकं धृत्वा आत्मानं परिषेचयेत् ।। अनेन विधिना विप्रः कुर्यादाचमनं सदा । आचमनकाले नियमो दर्शितः- नाऽऽचामेदासनस्थाधिन बद्धासन एव वा । न प्रसारितपादो वा वहिर्जानुकरोऽपि वा' इति ॥ पवित्रकर आचामेच्छुचिः कर्मार्थमादरात् । कुशमात्रकरो वाऽपि दर्भमात्रकरोऽपि वा, पवित्रं हिरण्यम् । 'पवित्रं वै हिरण्यम्' इति श्रुते। स्नाने दाने जपे यज्ञे स्वाध्याये नित्यकर्मणि। सपवित्रौ सदी वा करौ कुर्वीत नान्यथा । नित्यकर्मणि संध्यादावित्यर्थः । अत्र महाजनपरिग्रहायाऽऽचमनमूलिका LIBRARY CU! U! TURE THI Ht श्रीकृष्णपण्डितविरचितं- [द्वितीयो गुच्छः] (आचमनविधिः) सूत्रखण्डिका लिख्यते-तिष्ठभाऽऽचामेमहो वाऽऽसीनस्त्रिराचामेबृदयंगमा- भिरद्भिस्त्रिरोष्ठौ परिमृजेतिरित्येके सदुपस्पृशेद्विरित्येके दक्षिणेन पाणिना सव्यं प्रोक्ष्य पादौ शिरश्चेन्द्रियाण्युपस्पृशेश्चक्षुषी नासिके श्रोत्रे चाथाप उप- स्पृशेत् । अत्र भाष्यार्थः प्रतिसंस्कृतैः संशितः सोपस्कारैर्बुद्धिवैशवाय लिख्यते । भूमिगतास्वप्स्वाचम्य प्रयतो भवतीत्यादौ नित्यकर्मादौ प्रायत्यसि. ध्यर्थमाचमनं विहितं तत्प्रकारमाह-तिष्ठन्निति । तिष्ठन्महो वा नाऽऽचा. मेत् । नन्वासीनस्विराचामेदित्यासनविधानादेवावस्थानादेनिषेधसंभवे पृथ- क्तिष्ठमाऽऽचामेदित्यारम्भः किमर्थ इति चेत्सत्यम् । इदं हि सूत्रं न तिष्ठ- दाद्याचमनं निषेधति किं तु जलपानं य(त) थाविधस्य नेति वदति । तथा च गौतम:-'नाञ्जलिना पिबेन तिष्ठन् ' इति । यद्यप्याचमनप्रकरणे जलपाननिषेधोऽनुपपनस्तथाऽप्यासीनस्त्रिराचामेदित्यासनविधानादर्थात्स्था- नादेनिषेधेऽपि शब्दतस्तत्सिद्ध्यर्थं वा पुनरारम्भः । अत्र केचित्-अनेन निषे- धेन कचिजलेऽपि नाभिदघ्ने वोरुदघ्ने वा तिष्ठतः प्रहस्य वाऽऽचमनं भवति । तनिषेधस्योद्धृतोदकाचमनविषयत्वानिषेधे(त् । तथा च ) गौतम:--'न तिष्ठ. चुदकेनोवृतेनाऽऽचामेत्' इति । तस्मादनुद्धृतोदके तिष्ठतः प्रहस्य वाऽऽचमन- सिद्ध्यर्थ तिष्ठन्निति निषेध इत्याहुः । तच्चिन्त्यम् । तिष्ठन्नाऽऽचामेदिति सामा- न्यनिषेधस्य विशेषपर्यवसानायोगात् । 'नग्नस्य वा नाप्सु सतः प्रयमणं विद्यते' इति सूत्रकारेण जले विद्यमानस्य नाऽऽचमनमस्तीति प्रागेवोक्तत्वाच्च । न च गौतमवचनस्य का गतिरिति वाच्यम् । तस्योद्धृतोदककरणकतिष्ठत्कर्तृका- चमनप्रतिषेधकत्वेऽप्यनुवृतोदके विद्यमानस्य तदस्तित्वाप्रतिपादकत्वात् । सूत्रान्तरबाधायां तथापर्यवसा[ना]योगाच्च । त (अ)थाऽऽचमनविधिरु- च्यते-आसीनस्त्रिराचामेवृदयंगमाभिरद्भिः। द्वितीयार्थे तृतीया । आसीनः शुचौ देशे नाऽऽसने दक्षिणं बाहुमूर्वन्तरे कृत्वा प्राङ्मुख उदङ्मुखो वा हृदयं- गमा अपः करतलस्थासु यावतीषु माषो निमजति तावती: फेनबुबुदरहिता. त्रिवारमाचामेत्पिवेत् । ब्राह्मणो नाभिगाः क्षत्रियः कण्ठगा वैश्यस्तालुगा इति विवेकः । त्रिरोष्ठौ परिमृजेत् । त्रिवारमगुष्ठमूलेनोष्ठौ परिमृज्याद्विरित्येके मन्यन्ते । तुल्यो विकल्पः । दक्षिणेन पाणिना सव्यं पाणिं मोक्ष्य तथा पादौ शिरश्चेन्द्रियाण्युपस्पृशेत् । अङ्गुलीभिः सर्वेषामिन्द्रियाणामुपस्पर्शनप्रसङ्गे तद्यो- ग्येन्द्रियाणि परिगणयति-चक्षुषी इति । इन्द्रियाणीति वचनं स्वरूपपरम् । तत्रागुष्ठानामिकाभ्यां चक्षुषी युगपत्पृथग्वा संस्पृशेत् । अङ्गुष्ठप्रदेशिनीभ्यां नासिके । अङ्गुष्ठोपकनिष्ठिकाभ्यां श्रोत्रे [त]योर्युपगत्स्पर्शासंभवेन पृथगिति - [द्वितीयो गुच्छः] तैत्तिरीयसंध्याभाष्यम् । (आचमनविधिः) निश्चितन्यायेन पूर्वत्रापि पृथगिति सम्यक् । अथाप्युपस्पृशेद्धस्तौ प्रक्षालयेत् । इदं हि स्मार्ताचमनं संध्यादौ कर्तव्यम् । प्रायत्यसंपादकत्वात् । सूत्रकारेण मुख्यतया विहितत्वाच्च । स्मृत्यन्तरेऽपि- संध्यायां कर्मकाले च स्मृतेराचमनं भवेत् । ब्रह्मयज्ञे तु वै कुर्याच्छुतेराचमनं बुधः ।। गोकर्णीकृतहस्तेन माषमग्नं पिबेजलम् । तन्यूनमधिकं पीतं सुरापानसमं भवेत् ॥ अङ्गुष्ठाग्रं समाकुश्य मध्यमामध्यपर्वणि । गोकर्ण तद्धि विज्ञेयं सर्वेष्वाचमनेष्वपि ॥ संहताङ्गुष्ठहस्तेन गृहीत्वा चाम्बु वीक्षितम् । मुक्ताङ्गुष्ठकनिष्ठाभ्यां त्रिः पिवेद्रह्मतीर्थतः ।। अत्रायं विशेषः-स्वयमेव वामहस्तावजितेन पयसाऽऽचमनं कर्तुं न शक्यते । सूत्रकारानभिमतत्वात् । तथा हि-यं वा प्रयतमा(आ)चामेदिति । अत्राय- मर्थः-प्रयतो यं वाऽन्यमपि आचमयति सोऽपि प्रयतो भवति । सर्वथा स्वयं वामहस्तावर्जिताभिरद्भिराचमनं न कुर्यात् । एतेन शास्त्रान्तरोक्तकमण्ड. लुधारणमप्याचार्यस्य नाभिमतमिति गम्यते । अलाबुपात्रेण नारिकेलपात्रेण वा स्वयमाचमनमाचरन्ति तन्नाभिमतमाचार्यस्येत्यर्थः । अन्यः प्रयतोऽस्ति चे. तेनैवाऽऽचमनजलं परिगृह्य स्वयमाचामेत् [तदभावे भूमिगतास्वप्स्वाचामेत् । ] अत एव भूमिगतास्वप्स्वाचम्य प्रयतो भवतीत्यत्राऽऽचम्येति स्वकर्तृकक्त्वाप- त्ययनिर्देशः । अन्यथा तदानीमप्याचमनीयत्वे(ये?)तिनिर्देशापत्तेः । इदमा- श्वलायनानामपि समानम् । कथमिति चेदुच्यते- संध्यायां कर्मकाले च स्मृतेराचमनं भवेत् । ब्रह्मयज्ञे तु वै कुर्याच्छुतेराचमनं बुधः' इत्यविशेषेण स्मरणात् । ननु संध्यायामपि श्रोताचमनमस्तु को दोप इति चेत् । ब्रह्मयज्ञे तु वै कुर्याच्छ्रतेराचमनं द्विजः' इति वचनविशेषेण तस्य श्रीतकर्माङ्गत्वात् । 'प्रागुदगाहवनीयादवस्थाय यज्ञो. पवीत्याचम्य' इति आश्वलायनश्रौतसूत्र आचम्येति विधानं श्रोताचमनप्राप्त्य- यमिति वृत्तिकारेण व्याख्यातम् । एवं च तस्य स्मार्तेऽपि प्रवेशे सूत्रतात्पर्यविदा वृचिकाराणां व्याकोपः । अनुष्ठाने तु विशेषोऽस्ति । तथा हि-त्रिः पिबेह- - १८ श्रीकृष्णपण्डितविरचितं- [तृतीयो गुच्छः (आचमनविधिः) क्षिणकरेण वामकरे जलं निक्षिप्य हस्तावभ्युक्ष्य मुखं द्विवारं परिमृज्याय पादावभ्युक्ष्य चतसृभिरङ्गुलीभिरोष्ठौ संमृज्याङगुष्ठतर्जनीभ्यां नासारन्ध्र. द्वयं संस्पृश्याङ्गुष्ठमध्यमाभ्यां चक्षुषी संस्पृश्याङ्गुष्ठानामिकाभ्यां श्रोत्रे संस्पृश्याङ्गुष्ठकनिष्ठिकाभ्यां नाभिं संस्पृश्य हस्ततलेन हृदयं संस्पृश्य सर्वाङ्- गुलीभिः शिरो वाहू च संस्पृशेत् । तदुक्तं बौधायनेन–'प्रथमपानेन' इति? । इदं ह्याचमनं संध्यादौ कर्तव्यम् । अथ संध्योपासनकाल इति तेनैवोक्तत्वात् । अत्र केचिद्भणन्ति-ऋग्वेदाय नमः । यजुर्वेदाय नमः । सामवेदाय नमः । इत्यादिप्रकारेण चतुर्थ्यन्तमत्रैः परिकल्पितैरनुष्ठानं कर्तव्यमिति । तन्न । तद्बोधकवचनाभावात् । बौधायनसूत्रस्थतथाविधेतिकर्तव्यताप्रतिपादकत्वेन तत्रासामर्थ्यात् । अन्यथा-- त्रिः प्राश्नीयाद्यदम्भस्तु प्रीतास्तेनास्य देवताः । ब्रह्मा विष्णुश्च रुद्रश्च भवन्ति हि न संशयः॥ इत्यादिवचनाद्ब्रह्मणे नम इत्याद्याचारापत्तेः । न च बौधायनोक्तं कथमा- श्वलायनानां ग्राह्यमिति वाच्यम् । तस्याऽऽश्वलायनवत्तच्छाखाभिमानित्वात् । तदुक्तं स्मृत्यन्तरे- 'बौधायनो जयन्तश्च आश्वलायनशौनको । वृत्तिसूत्रकृतावेभिरुक्तं तत्प्रविविच्या(नच्म्य)हम्' इति । . आश्वलायनश्च वचनस्मृतिकर्ता । सूत्रकृमृह्यकर्तेति विवेकः । न चाऽऽपस्त- म्बीयानां श्रौताचमनस्यारणोक्तश्रौताचमनापेक्षया न विशेषोऽस्तीति वाच्यम् । श्रुत्युक्तत्वेन सूत्रोक्तत्वेन च भेदात् । केचित्तु श्रौते त्रिराचामेदित्यादयो मत्रा. स्तान्पठश्रीताचमनं कुर्यात् । स्मार्ते तु तूष्णीमिति भेदमाहुः । इदमत्राऽऽकू. तम्-श्रौते द्विः परिमृज्य सकृदुपस्पृशेदिति द्विवारं परिमार्जनमेकवारमुपस्प- र्शनं च विहितम् । स्मार्ते तु त्रिरोष्ठौ परिमृजेद्विरित्येके सकृदुपस्पृशेद्विरित्येक इति तुल्यविकल्पितानुष्ठानमिति विशेष इति सर्व सुस्थम् । इति श्रीमद्राघवदेवज्ञवंश्यश्रीकृष्णपण्डितविरचिते तैत्तिरीयसंध्याभाष्ये द्वितीयो गुच्छः॥२॥ -- अथ तृतीयो गुच्छः। अथ प्राणायामप्रकारो लिख्यते । अर्थ वा सिपाधयिषुरिति प्राणायामकर्त- तैत्तिरीयसंध्याभाष्यम् । [तृतीयो गुच्छः] १९ (प्राणायामप्रकारः) व्यताप्रतिपादकमापस्तम्बसूत्रम् । तत्र वृत्तिकारः--अर्थ प्रयोजनं तच्च [ष्टमह]- एं वा सिषाधयिषुः साधयितुमिच्छुः सन्नातमितोराशरीरम्लानेः प्राणमाय- च्छेत्रिवारं प्राणायाम कुर्यादिति । तस्मात्संध्यावन्दनस्यादृष्टार्थकत्वेन तदादौ प्राणायाम आवश्यक इति सिद्धम् । स्मृत्यन्तरे मनुः- सव्याहृति सप्रणवां गायत्रीं शिरसा सह । त्रिः पठेदायतप्राणः प्राणायामः स उच्यते ॥ स्मृत्यन्तरे-गायत्रीं शिरसा साध जपेयाहृतिपूर्विकाम् । प्रतिप्रणवसंयुक्तां त्रिरयं प्राणसंयमः ।। योगयाज्ञवल्क्यः- भूर्भुवः स्वर्महर्जनस्तपः सत्यं तथैव च । सप्त चोंकारसंयुक्तास्तथा तत्सवितुः पदम् ।। तथोंकारसंयुक्तमित्यर्थः। ओमापो ज्योतिरित्येतच्छिरः पश्चात्मयोजयेत् । त्रिरावर्तनयोगात्तु प्राणायामः स शब्दितः ॥ प्राणायामस्य सकलकलुषनिवृत्तिः फलमित्याह मनुः- 'दशप्रणवसंयुक्ताः प्राणायामास्तु षोडश । आपि भ्रूणहनं मासात्पुनन्त्यहरहः कृताः' इति ।। विज्ञानेश्वरे-प्राणायामशतं कार्य सर्वपापापनुत्तये । उपपातकजातानामनादिष्टस्य चैव हि ॥ पूरकरेचककुम्भकात्मकान्माणायामान्संध्यात्रयेऽप्यादौ त्रीन्कुर्यादिति । मृतिरत्नाकरे- प्राणायमत्रयं कृत्वा संध्योपासनमाचरेत् । स्नाने दाने जपे होमे अशक्तावेकमेव वा ।। अपरार्के-प्राणायामत्रयं कृत्वा संध्यासु च तिसृष्वपि । लोकोपकारे-संध्यादावर्घ्यदाने च प्राणायामैकमाचरेत् । अन्यत्रैव तु कर्तव्याः प्राणायामास्त्रयस्त्रयः॥ संध्यादावेकानेकयोर्विकल्पः । एवं च प्राणायामस्त्रिविधः । तदुक्तम्-- पूरकः कुम्भको रेच्यः प्राणायामविलक्षणः । नासिकाकृष्ट उच्छासो ध्मातः पूरक उच्यते ॥ कुम्भको निश्चलवासो रिच्यमानस्तु रेचकः। - - २० - श्रीकृष्णपण्डितविरचितं [तृतीयो गुच्छः] (प्राणायाममत्रव्याख्यानम्) त्रयाणामनुसंधानप्रकारमाह-- वामनासापुटेनैव पूरयेत्पूरकः स्मृतः। कुम्भको निश्चलश्वासस्तावत्कालं समत्रकम् ॥ दक्षनासापुटेनैव रेचयेद्रेचकः स्मृतः' इति । ग्रन्थान्तरे-वामेन पूरयेद्वायु पूरणात्पूरकः स्मृतः ॥ वायु निगृह्य मनसा जपेन्मत्राननन्यधीः । कुम्भकः स तु विज्ञेयः प्राणायामस्य लक्षणम् ॥ स्मृत्यर्थसारे व्यासः- 'दक्षिणे रेचकं कुर्याद्वामेनाऽऽपूर्य चोदरम् । कुम्भकेन जपं कुर्यात्प्राणायामः स उच्यते ॥ पश्चाङ्गुलीभिर्नासाग्रपीडनं प्रणवाभिधा । मुद्रेयं सर्वपापघ्नी वानप्रस्थगृहस्थयोः॥ कनिष्ठानामिकाङ्गुष्ठर्नासाग्रस्य [प्र]पीडनम् । ओंकारमुद्रा सा प्रोक्ता यतेश्च ब्रह्मचारिणः ॥ इति ॥ स्मृत्यन्तरे–'समुन्मीलितमौनी प्राणायामः समभ्यसेत् ' इति । एवं प्राणायामः कर्तव्य इति स्थिते तद्विनियुक्तो मत्रस्तावद्याख्यायते भुवः । ओ५ सुवः । ॐ महः । ॐ जनः । ॐ तपः। ओ५ सत्यम् । ॐ तत्स- वितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् । ओमापो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः सुवरोम् । (तै० आ० प्र० १० अ०३५) ओं भूरिति । अनेन मत्रेण नासाग्रन्यस्तलोचनस्तदभिधेयं ब्रह्म हृदि ध्याय- पूर्वोक्तमत्रेण प्राणायामत्रयं कर्तव्यमिति वेदितव्यम् । अत्र प्रथमतः प्रणवपदं भूलोकायभिमानिन्यो देवता ओंकारार्थब्रह्मैक्येन स्तूयन्त इति तात्पर्येण निर्दिष्टम् । वस्तुतस्तु ओमिति पदस्याङ्गीकृतिवाचकत्वमङ्गीकृत्य भूलोकायभि. मानिन्यो देवता मया कृतमाह्निकमनुजानन्त्वित्याशयेन भक्तिश्रद्धापूर्वकं तद्दे. बतायै स्वकृतकर्मनिवेदनसिद्ध्यर्थं तत्पदमादौ वर्णितम् । निगर्वस्तु-ओमिति [तृतीयो गुच्छः] तैत्तिरीयसंध्याभाष्यम् । २१ (प्राणायाममत्रव्याख्यानम्) ब्राह्मणः प्रवक्ष्यन्नाह ब्रह्मोपामवानीति । ओंकारः स्वर्गद्वारं तस्माद्ब्रह्माध्ये- ष्यमाण एतदादि प्रतिपद्येत । ओंकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा पुनर्यातौ तेन माङ्गलिकावुभौ' ।। इति श्रुतिसूत्रस्मृतिषु प्रणवस्य श्लाघ्यतया निर्दिष्टत्वादत्राप्यादौ तनिर्देशः। अत्रायमक्षरार्थ:-अवति संसारसागरादिति 'ओम्' । ये हि पुरुषधौरेया नित्य- नैमित्तिककर्मभिः फलानभिसंधिकृतैः परमेश्वरं नित्यमाराधयन्ति तेभ्यः स्वात्मतत्त्वं प्रतिपाद्य तान्दुस्तरसंसारसागरात्तारयतीति तात्पर्यार्थः । तार- यति तस्मादुच्यते तार इति श्रुतेः। 'नमस्ताराय' इत्यत्र तथा व्याख्यातत्वाच्च । अत एव प्रणवपर्यायेषु तारपदप्रयोगं पश्यामः । 'यमेवैप वृणुते तेन लभ्यः इति तदनुग्रहस्यैव तत्साक्षात्कारहेतुत्वमिति तदनुकम्पित एव शोकं तरतीति तात्पर्यम् । रूपनिष्पत्तिप्रकारस्तु-अव रक्षण इति धातोरवतेष्टिलोपश्चेत्यौणा- दिकसूत्रेण मन्प्रत्ययो विहितः । तस्य ज्वरत्वरेत्यादिनोठ । ततो गुणः । ततः श्लिष्टोच्चारणमिति प्रक्रिययोमिति निष्पन्नम् । अकार उकारो मकार इति तानेकधा समभरत्तदेतदोमिति' [ऐ० ब्रा० २५ ख० ७ ] इति श्रुतेः । ' ओंकारः सर्ववेदानां सारभूतः प्रकीर्तितः इति वचनात् । प्रणवः सर्ववेदेषु' इति गीतावचनाच । 'ओमिति वै दैवं सर्वम् ' इति श्रुत्या च सर्ववेदसारभूतत्वात्सर्वमयत्वश्रवणा- त्तस्याऽऽदौ व्यपदेशः । सर्वमयत्वं च सर्वात्मकब्रह्माभिव्यक्तियोग्यस्थान- त्वात् । तदुक्तमाचार्यैः-'नेदीयो ब्रह्मणः स्थानं शालग्रामो हरेर्यथा' इति । प्रकरणादोंकारस्य परामर्शः । तदक्षरं नेदीयोऽन्तिकतमं स्थानं नित्यानपायि सदभिव्यक्तियोग्यमित्यर्थः । अत एव 'ओमित्येकाक्षरं ब्रह्म गिरामस्म्येक- मक्षरम्' इत्यादिषु तस्य ब्रह्मत्वाभिधानात्तदभिव्यक्तियोग्यत्वम् । अन्यथा योगपातञ्जलसूत्रे 'तस्य वाचकः प्रणवः' इति प्रणवस्य तद्वाचकत्वाभिधानं सुधा स्यात् । ओंकारस्यैव ब्रह्मत्वात् । किं तु तुरीयाश्रमस्वीकारवेलायां 'वेदा- निमं लोकममुं च परित्यज्य' इत्यादिना सकलवेदपरित्यागो बोध्यते । तथाऽपि प्रणवस्यापरित्याग एवेति सकलवेदसारभूतत्वमवगम्यते । 'यतीनां प्रणवो मन्त्रः' इति वचनात् । यतिधर्मप्रकरणे मनुनाऽप्युक्तम् - आत्मज्ञाने शमे च स्यावेदाभ्यासे च यत्नवान्' इति । अत्र वेदाभ्यासः प्रणवाभ्यास इति विज्ञानेश्वरेणोक्तम् । किंच 'आत्मला. अ० ।
- [तृतीयो गुच्छ २२ श्रीकृष्णपण्डितविरचितं- (प्राणायाममत्रव्याख्यानम् भान परं विद्यते' 'न्यायाजितधनस्तत्त्वज्ञाननिष्ठोऽतिथिप्रियः' इत्यादिष्वात्म तत्त्वलाभः परमश्रेयानिति श्रूयते । तत्र प्रणवं जपतस्तदर्थ भावयतश्चित्तका. उयद्वारा तल्लाभः सिध्यतीति लोकानुजिघृक्षया प्रथमतस्तनिर्देशः कृतः । अतस्तज्जपस्तदनुसंधानपुरःसरं कर्तव्य इत्युक्तम् । तदुक्तं योगपातञ्जल. सूत्रे-'तज्जपस्तदर्थभावनम्' इति । अत्र भाष्यम्--प्रणवस्य जपः प्रणवाभि- धेयस्य चेश्वरस्य भावनं तस्मादस्य जपतः प्रणवार्थ च भावयतश्चित्तमेकाग्रं संपद्यते । तथा चोक्तम्- 'स्वाध्यायाद्योगमासीत योगात्स्वाध्यायमामनेत् । स्वाध्याययोगसंपत्या परमात्मा प्रकाशते ' इति ॥ प्रणवस्यापि स्वाध्यायत्वेन तजपाचितैकाग्यलक्षणो योगः संभवति । 'योगश्चित्तवृत्तिनिरोधः' इति पातञ्जले योगलक्षणदर्शनादिति सर्व सुन्दरम् । प्रकृतमनुसरामः । 'भूः लोकः । भूरिति भूलोक इति गायत्रीहृदये दर्शनात् । 'ओं' प्रणवात्मकः प्रणवाभिधेयब्रह्माभिन्न इत्यर्थः ।ब्रह्मसत्ताव्यतिरेकेण भूलो- कादिप्रपञ्चस्य पृथक्सत्तानङ्गीकारादिति भावः । वस्तुतस्तु भूरिति भूलोकाभि- मानिनी देवता । ओमित्यङ्गीकृतौ । ओं प्रश्नेङ्गीकृताविति कोशात् । भूलोकाभि मानिनी देवता मत्कृतमाह्निकमङ्गी करोत्विति । तत्तल्लोकाभिमानिदेवतायै स्वक तमाहिकं समर्पयामीति प्रार्थ्यत इत्यर्थः । प्रतिपदं प्रणवकीर्तनमतिदाार्थ- मिति बोध्यम् । तदुक्तम्- सप्त व्याहृतयः सप्त लोका भूरादयः क्रमात् । प्रत्येकं प्रणवादित्वात्तन्मया इति सूच्यते । ब्रह्मादिश्च तुरीयं च प्रणवस्यार्थ ईरितः । तन्मयत्वेन भूरादीन्ध्यात्वा समणवां जपेत् । इति ॥ गायत्री तु जपावसरे व्याख्यायते । ओमापो ज्योतिरिति गायत्रीशिरः तस्यायमर्थः-'आप' जलम् , 'ओं' ब्रह्मैवेत्यर्थः। आपः स्त्री भूम्नीति कोशात 'ज्योतिः' सौरादितेज ओं ब्रह्म । 'तेजस्तेजस्विनामहम्' इति गीतावचनात् 'रस' मधुरादिब्रह्मैव । 'रसोऽहमप्सु कौन्तेय' इति गीतावचनात्। 'यच्च 'अमृतं देवानामनभूतं पयस्तदपि प्रणवप्रतिपाद्यं ब्रह्मैवेत्यर्थः । 'ब्रह्म' सामवेदः । वेद स्तत्त्वं तपो ब्रह्मेति कोशात् । 'वेदानां सामवेदोऽस्मि' इति गीतावचनात् । भूर्भुव मुवरोम्' इति सप्तानां भूलोकादीनामुपलक्षणम् । सर्वं पूर्ववत् । औं ब्रह्म यद्वा ब्रह्मशब्दस्य परब्रह्मैवार्थः। तथा च--ओंकारवाच्यं ब्रह्म परब्रह्मेत्यर्थः शेष सुगमम् । - .
तैत्तिरीयसंध्याभाष्यम् । २३ - [तृतीयो गुच्छः] (सफलो मार्जनप्रकारः) अथ सायंकाले नद्यादिजलाशयं गत्वा पादौ हस्तौ च प्रक्षाल्य विधिव. दाचम्य शुभ्रवस्त्रं धृत्वा द्विराचम्य प्रामुख उदङ्मुखो वोर्खजुरुपविश्यान्तर्जा- नुकरः कुशपाणिस्त्रीन्माणायामान्कृत्वाऽशक्तश्चेदेकं वा कृत्वा ममोपात्तदुरितक्ष- पार्थमिष्टदेवताप्रीत्यर्थ सायंसंध्यामुपासिष्य इति संकल्प्य प्रशस्तमुदकं ब्रह्म- मुखाख्येन मत्रेणाभिमश्य च- आपो हि ष्ठादिभिर्मत्रैर्दर्भः शिरसि मार्जयेत् । ब्रह्ममुखोऽयं मनुना निरुक्तः- ओंकारपूर्विकास्तिस्रो महाव्याहृतयोऽव्ययाः। त्रिपदा चैव गायत्री विज्ञेयं ब्रह्मणो मुखम् , इति । मार्जयेदिति मार्जनं नाम शिरसि प्रोक्षणम् । शिरसि प्रोक्षयेन्मत्रैः कुशैः सोदकविन्दुभिः' इति वचनात् । अत्र मार्जनप्रकार उक्तः स्मृत्यन्तरे- 'आपो हि ष्ठेति तिमृभिर्दर्भर्जिनमाचरेत् । पदे पदे क्षिपेन्मूर्षि प्रतिप्रणवसंयुतम् ॥ तिसृभिस्तृचस्थैर्नवभिः पदरित्यर्थः । पदे पद इति लिङ्गात् । प्रतिपदं प्रण- संयुतमित्यर्थः । मार्जनस्य फलमाह व्यासः- रजस्तमोमोहजाताञ्जाग्रत्स्वमसुषुप्तिजान् । वाङ्मनःकायजान्दोषान्नवैतान्नवभिर्दहेत् ॥ शौनकः- आत्मानं प्रणवेनैव परिषिच्य जलैः सह । कुर्यात्सप्रणवैः पादैर्मार्जनं तु कुशोदकैः ।। यस्य क्षयायेति जलं सकुशं प्रक्षिपेदधः। शातातप:- 'ऋगन्ते वाऽथ पादान्ते मार्जनं तु समीहितः । अर्धर्चान्ते तथा कुर्याच्छिष्टानां मतमीदृशम् ' इति । तच्च मानमविच्छिन्नधारया कार्यम् । तदुक्तं माधवीये- धाराच्युतेन तोयेन संध्योपास्तिर्विहिता । पितरो न प्रशंसन्ति न प्रशंसन्ति देवताः ॥ कयं तर्हि कर्तव्यमित्याशङ्कय तत्रैवोक्तम्- 'नद्यास्तीरे तटाके वा भाजने मृन्मयेऽपि वा। : -- तृतीयो गुच्छ श्रीकृष्णपण्डितविरचितं- (मार्जनमत्रार्थ: औदुम्बरे वा सौवर्णे राजते दारुसंभवे ॥ धृत्वा तु वामहस्ते वा संध्योपास्ति समाचरेत् ' इति । धृत्वेति मृन्मयभाजनादिभिः सर्वैः संबध्यते । सर्वत्रोदकमिति शेषः । ननु वामपाणी निधाय मार्जनं कार्यमिति वर्णितं तत्तु- 'वामहस्ते जलं धृत्वा ये तु संध्यामुपासते । सा संध्या दृषली ज्ञेया असुरास्तैस्तु तर्पिताः' ।। इति शास्त्रान्तरविरुद्धं भवतीति चेन्न। तद्वचनस्य पात्रान्तरसंभवविषय- त्वात् । तदुक्तं पराशरमाधवीये-मृन्मयादिपात्रान्तरसद्भावे वामहस्तो निषिद्धः। मृन्मयायभावे ' कृत्वा तु वामहस्ते वा' इति विधानात् । तेन न कोऽपि विरोधः । मबागमे विशेषः कीर्तितः- स्पृष्ट्वा हस्तेन वामेन तटे नद्यादिकेषु च । पाणिना दक्षिणेनैव मार्जयेत्सकुशेन तु || पात्रस्थितोदकेनैव वामहस्तोदकेन वा । गृहीत्वा मार्जनं कुर्यादन्यथा नाऽऽचरेत्सदा' इति ॥ एवं मार्जनं कर्तव्यमिति स्थिते तद्विनियुक्तमत्रार्थो विचार्यते । आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन । 'महे रणाय चक्षसे । (ले० आ०प्र० १० अ०१) आपो हि ष्ठेति । हे 'आपः' । हिशब्द एवकारार्थः । तथाच यूयमे पर्यवसन्नः । ' मयोभुवः ' सुखसंपादयित्र्यः ‘स्थ ' भवथ । दीर्घ- इछान्दसः । तासां स्नानादिहेतुत्वेन सुखोत्पादकत्वं जगत्मसिद्धमिति भावः । यद्वा हे आपः, यूयमिति शेषः । स्थेतिलिङ्गबलात् । 'मयोभुवः' सुखभूमयः 'स्थ हि' भवथ खलु । दर्शनस्पर्शनस्नानाद्यनेक क्रियाभिः सकल- भूतजातस्य परमानन्दकरा इति भावः। मय इति सुखवाचि । 'यद्वै शिव तन्मयः । आपो हि ष्ठ सुखभुवः' इति निरुक्तिदर्शनाच्च । किं च 'ताः' एवं सुखभूमयो यूयं 'नः' अस्मान् । 'बहुवचनस्य वस्नसौ' इति पाणिनिस्मरणान्न सादेशः । 'ऊर्जे' अन्नाय 'दधातन' स्थापयत । ऊर्जेऽनायेति निरुक्तिवच नात् । अस्मदीयशाल्यादिकं सम्यग्धारानिपातैर्वर्धयित्वा बहनमस्मभ्यं संपाद्य तत्र मीतियुक्तानस्मानस्थापयतेति तात्पर्यम् । नन्वपामन्नसाधनत्वे मानाभावा. कति 'आपो वा अनम' इति श्रुतेरेवान्नसाधनत्वात् । तत्राभेदनिर्देशस्त .
२५ [तृतीयो गुच्छः] तैत्तिरीयसंध्याभाष्यम् । (मार्जनमत्रार्थः) 'एतावदरे खल्वमृतत्वम्' इतिवदौपचारिक इति निगर्वः । यद्वा-उर्ज इति द्वितीयया परिणम्यते । एकारश्चान्दसः । ऊर्ज इति जशब्दद्वितीयैकवचन- स्यैकारो व्यत्ययनिबन्धन इत्यन्ये । तथा चायमक्षरार्थः-ऊर्जमन्नं दधातन पत्त, दधातेर्लट् परस्मैपदे मध्यमपुरुषवचनस्य तनादेशः। 'तप्तनप्तनथनाच' इति पाणिनिस्मरणात् । ननु नान्नयाचनं युक्तम् । तस्य केवलैहिकत्वात्तथात्वे महा- जनपरिग्रहो न स्यात् । तदुक्तम्-'ऐहिकान्वकवृत्तांश्च वामात्रेणापि नार्च- येत्' इति चेत् । शरीरमात्रनिकर्ष(पोष)णपरतया तदङ्गीकारे दोषः स्यान चैवमन्नयाचनस्य(नेऽ)स्य तस्त्रज्ञानोपयोगित्वादित्याह---महे रणायेति । 'महे' महते ' रणाय ' रमणीयाय ' चक्षसे' तज्जन्यज्ञानेक्षणाय चे(स्वे)न्द्रियस्वा. [स्थ्य]तया च(स्व)ज्ञानायेत्यर्थः । बबन्ने संपादिते तेन सर्वेन्द्रियग्रामसंतुष्टिर्भ- वति तत्स्वास्थ्ये सकलबुद्धयः फलवत्यो भवन्तीति प्रथमतस्तद्याचनमिति तात्पर्यार्थः । वस्तुतस्तु--ननु याचितमन्नं किमर्थमित्याशङ्कय सकलसत्कर्मो- पयोगीन्द्रियस्वास्थ्यसिद्ध्यर्थमित्याह--महे रणायेति । निगदव्याख्या- तम् । ' चक्षसे' इन्द्रियाय । छान्दसमेतत् । ऊर्जे दधांतनेति पूर्वेण संबन्धः । इन्द्रियाणां महत्वरमणीयत्वसिद्ध्यर्थमन्नं याचितम् । अनेनेन्द्रियाणि महान्ति बलवन्ति सत्कर्मानुष्ठानक्षमाणीति यावत् । रमणीया शक्तिर्भवति । अन्ना- द्भूतानि जायन्ते । जातान्यन्नेन वर्धन्ते' इति श्रुतेः । इन्द्रियाणामपि भूतत्वा- दित्यर्थः । तथाच सकलेन्द्रियदाये सति सकलसत्कर्मानुष्ठानं सुलभम् । इन्द्रि- यमोक्षे तदसंभवात् । अत एवार्थी समर्थो विद्वानित्यत्राधिकारिणः सकलेन्द्रिय- पदुत्वसिद्ध्यर्थ सामर्थ्यमुपाचम् । तच्च दाळपन्नाधीनमिति तदर्थमन्नं याचित. मिति फकिकार्थः। किं चेदानी रसमेवानमिन्द्रियपुष्टिकरमिति तं रसं याचते- यो वः शिवतमो रसस्तस्य भाजयतेह नः। उशतीरिव मातरः। (तै० आ० प्र० १० अ० १) यो व इति । युष्माकं 'शिवतमः' अतिशयेन सुखकरः । रस्यते स्वाद्यते इति ' रसः' सारविशेषः । समस्तरसतेः स्वादनार्थत्वाद्रस्यन्त इति रस इति रसनिर्वचनात् । 'इह' जन्मनि कर्मणि वा 'नः' अस्मान् 'तस्य' तं रसं, द्वितीयार्थे षष्ठी झेया । 'भाजयत' प्रापयत । कथमिति चेत् । मातरः स्वपु. त्रान्स्वस्तन्यरसदानेन यथा वर्धयन्ति तद्वदित्याह-उशतीरिति । ' उशती:' कामयमानाः प्रीतियुक्ता इति यावत् । प्रथमार्थे द्वितीयावचनं छान्दसम् । - । २६ श्रीकृष्णपण्डितविरचितं- [तृतीयो गुच्छः] (मार्जनमत्रार्थः) मातरः' स्वपुत्रानिति शेषः । स्वस्तन्यरसमिवेत्यर्थः । यथा मातरो वत्सला भूत्वा स्ववत्सान्स्तन्यं पाययन्ति तद्वधूयमस्मान्युष्मदीयरसं भाजयतेति भावः । इदानीं जलनिष्ठं रसं पूर्व याचितमत्यादरतया भङ्ग्यन्तरेण पुनरपि याचते-- तस्मा अरं गमाम वो यस्य क्षयर्याय जिन्वथ । आपो जनयथा च नः। (ते० आ० प्र० १० अ०१) यस्येति । ' यस्य' रसस्य 'क्षयाय' निवासेनेत्यर्थः । तृतीयार्थे चतुर्थी वचनं छान्दसम् । 'जिन्वथ' यूयं प्रीता भवथ । यादृशं रसविशेषमवलम्ब्य यूयं परमानन्दनिमग्ना भवथेत्यर्थः । वयं च ' तस्मै ' तादृशरससिद्ध्यर्थ 'व' युष्मान् ‘अरं' भृशं 'गमाम' गच्छेम प्रामुम इत्यर्थः । हे आपो युष्मासु यो रसोऽस्ति तं रसमस्मभ्यं दत्तेत्यव्देवताः प्रार्थय इति तात्पर्यार्थः । अनेन मत्रेण सदर्भ जलमधो निक्षिपेत् । तदुक्तम् यस्य क्षयायेति जलं सकुशं प्रक्षिपेदधः' इति । किं च 'एष वा अनृणो यः पुत्री' इति श्रुत्या प्रजासंततेरानृण्यहेतुत्वे- नाऽऽवश्यकत्वप्रतिपादनात्तत्सिद्ध्यर्थमब्देवताः प्रार्थयते-हे 'आपः' हे जला- धिष्ठानदेवता 'नः' अस्मान् ‘जनयथ' प्रजोत्पादनसमर्थान्कुरुत । तं रसमस्मभ्यं दत्त्वाऽस्माकं पुत्रसंपत्तिं संपादयत । वयं च तेनैव रसेन जाताः स्मः । तथा- विधरसस्य सकलप्राणिजन्महेतुत्वात् । न चात्र प्रमाणाभावः। 'आपो वा इदर सर्वम्' इति श्रुत्या सकलभूतानामम्मयत्वश्रवणादिति तात्पर्यम् । उक्तोऽर्थः श्लोकरूपेण कथ्यते- आपः मुखकरा नित्यं यूयं ता दत्त नोऽशनम् । रम्यभूरिदृशेऽस्माकमक्षं तेन हि वर्धते ॥ यो रसो वः शुभतमस्तं प्रापयत चेह नः । स्तन्यं वत्सान्पाययन्ति मातरो वत्सला यथा ॥ तस्मै तत्सिद्धये युष्मानलं गच्छेम सादरम् । यूयं यद्वा स्वतः प्रीता आपो जनयथ स्फुटम् ॥ अत्र नवसु पादेषु मार्जनं कार्य तथा शिष्टाचारादिति तात्पर्यम् । ननु मार्जनेन बाह्यशुद्धिसंभवेऽपि नाऽऽन्तरशुद्धिः संभवति । अन्यत्र विनियुक्तस्य वचनमन्तराऽन्यत्र विनियोगायोगात् । न हि मार्जनस्याऽऽन्तरशुद्धावपि हेतुत्व- तैत्तिरीयसंध्याभाष्यम् । २७ - [तृतीयो गुच्छः] (सायंमत्राचमनमत्रार्थः) संपादकं किंचिदस्ति । न च मानसदोषो नास्तीति वाच्यम् । कायिकादि- वत्परहिंसाचिन्तनरूपस्य तस्यापि प्रसिद्धत्वात् । न च तथाऽपि का नो हानिः । मानसपापानिवृत्तावधिकारप्रच्यवप्रसङ्गात् । नित्यपरिशुद्धस्यैव तदपे- क्षितत्वात् । किं चाभोज्यापेयादिदुष्टवस्तुसंसर्गकरणनिबन्धनमुदरादिकृतं पात- कमस्ति तस्य केन निवृत्तिः स्यात्तस्मादनेकेषामान्तरपातकानां सत्त्वेन कथमु- तरे कर्मणि निःशङ्कमधिकारः स्यादित्याशङ्कय सर्वकल्मपनिवर्तकं जलपानमा- चरणीयमिति तेनान्तर्वहिश्च नैष्कलङ्का शुद्धिर्भवतीति तद्विनियुक्तं तावदाह- अग्निश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः। पापेभ्यो रक्षन्ताम् । यदह्ना पार्फमकार्षम् । मनसा वाचा हस्ताभ्याम् । पझ्यामुरेण शिना । अहस्तदेवलुम्पतु । यस्किंचं दुरितं मयि । इदमहं मामभृतयोनौ । सत्ये ज्योतिषि जुहोमि स्वाहा । (तै० आ० प्र० १० अ०३१) अग्निश्चेति । अनेन मत्रेण सायं जलपानं कर्तव्यम् । सूर्यश्चेति मत्रेण मातः । आप: पुनन्त्विति मन्त्रेण दिनमध्य इति विवेकः । सर्वत्र तदन्त आच- मनं कार्यम् । तदुक्तं माधवीये भरद्वाजेन- 'सायमग्निश्च मेत्युक्त्वा प्रातः सूर्येत्यपः पिबेत् । आपः पुनन्तु मध्याह्ने तत आचमनं चरेत् ' इति ।। मत्रस्यायमक्षरार्थः-योऽयम् 'अग्निः' अस्ति यो 'मन्युः' क्रोधो ये च 'मन्यु. पतयः' क्रोधस्वामिनो रागद्वेषादय इत्यन्ये, ते सर्वेऽपि देवा 'मन्युकृतेभ्यः' मन्युना कोपेन कृतेभ्यो निष्पादितेभ्यः 'पापेभ्यः' दुरितेभ्यो 'मा' मां 'त्वमा- वेकवचने' इति पाणिनिस्मरणात् । 'रक्षन्ता' प्रार्थनायां लोट् । ते सर्वे देवास्त- पापविनाशनेन मां पालयन्त्विति तदेकशरणः कर्मकर्ता सर्वान्देवान्वशी करो. तीति भावः। किं च 'अना' दिनेनातीतेन दिनभागेनेत्यर्थः। 'घस्रो दिनाहनि' इति कोशात् । 'यत्पाप' दुरितम् 'अकार्ष' कृतवानस्मि । प्रातःकालादारभ्यता- वत्कालपर्यन्तं मध्यवर्तिनि काले यहुरितमकार्पमिति भावः। अद्वेति तृतीयावचनं सप्तम्या परिणम्यत इति तात्पर्यम् । किं तत्र साधनं केन तस्य निवृत्तिरित्यत २८ , श्रीकृष्णपण्डितविरचितं- [तृतीयो गुच्छः] (सायंमत्राचमनमंत्रार्थः) आह--मनसेति । ' मनसा ' अन्तःकरणेन 'वाचा' भाषणेन ' हस्ताभ्यां' कराभ्यां 'पद्भ्यां ' चरणाभ्यां, पदादयः पृथक्शन्दा इत्येक इति वृद्धनिर्दे- शात् । 'पदख्रिश्चरणोऽस्त्रियाम्' इति कोशाच्च । शसादौ पादशब्दस्य पदादेश इति केचित् । 'उदरेण' जठरेण 'शिश्ना' शिश्नेन । स्त्री चिह्नं च पुमाञ्शिन इति कोशात् । तत्र किपमिच्छन्तीति केचित् । छान्दसमित्यन्ये । यत्पापमकार्ष- मिति संबन्धः । 'तत् ' एवंभूतं पापम् ' अह रवलुम्पतु' । ननु सायंसंध्या. वन्दनकाले तपनपरिस्पन्दात्मकस्याह्नः समतीतत्वेनाविद्यमानत्वात्कथमहस्तदव- लुम्पन्त्विति प्रार्थ्यत इति चेन्न । अगस्तदानीमसतोऽपि प्रागनुभूतस्य संभवा- दहाशब्देन तदभिमानिन्या देवतायास्तादृक्सामर्थ्यसंपन्नाया विवक्षितत्वाद्वा तत्संभवः । अत एवाहरवलुम्पतु तदभिमानी देवो नाशयत्विति पूर्वव्याख्या- तारः । अत्र परपीडाद्यनुचिन्तनं मानसमप्रियानृतमुखरभाषणादिकं वाचिकं तृणच्छेदनलोष्टविमर्दनादिकं पाणिकृतं चरणेन गोस्पर्शनादिकं पादकृतमभोज्य. भोजनादिकमुदरकृतमगम्यागमनादिकं शिश्नकृतमिति निर्णयः । किं बहुना परिगणनेनेति सर्व सकृदेव संगृह्णाति--यत्किचेति । 'यत् ' चान्यत्पापं 'मयि' निष्पन्न, किं चेति वाक्यान्तरोपन्यासे । 'इदं' पापजातं सर्व तत्कर्तारं 'मां' चाहंकाराख्यं कर्तृत्वाद्याश्रयग्रन्थिविशेष लिङ्गशरीररूपमित्यन्ये । ' अमृ. तयोनौ' मरणरहितजगत्कारणे 'सत्ये' बाधारहिते 'ज्योतिषि' स्वयंप्रकाशेऽहं 'जुहोमि' प्रक्षिपामि, अहमनेन होमेन तत्सर्वं भस्मी करोमीत्यर्थः । तदर्थमभि- मवितं 'स्वाहा' मदीयवदनान्तरानौ देदीप्यमाने सुष्टु हुतमस्तु । सुष्ट्वाह वा स्वैव वागाह वा स्वाहुतं हविर्जुहोतीति चेति निरुक्तिदर्शनात् । द्वितीयपक्षे वाग्दे- वर्तवमाह वदतीत्यर्थः। अथ प्रातरपां प्राशने विनियुक्तं मनमाह- सूर्यश्च मा मन्युश्च मन्युपतयश्च मन्युकृते- भ्यः । पापेभ्यो रक्षन्ताम् । यद्रात्रिया पापम- कार्षम् । मनसा वाचा हस्ताभ्याम् । पद्- भ्यामुद्रण शिश्ना । रात्रिस्तदवलुम्पतु । यत्किं च दुरितं मयि । इदमहं मामम॒तयोनौ।
तैत्तिरीयसंध्याभाष्यम् । २९ तृतीयो गुच्छः] प्रातर्मनाचमनमत्रार्थः) सूर्ये ज्योतिषि जुहोमि स्वाहा । ( ते० आ० प्र० १० अ०३२) सूर्यश्चेति।मत्रो गतार्थः। विशेषस्तु ‘सूर्यः' भानुः यद्राच्या' यत् 'पापमकार्ष रात्रिस्तदवलुम्पतु' इति, रात्री राव्यभिमानिनी देवता तत्पापमवलुम्पतु परि- हरतु । 'यत्किंच दुरितं मयि' अन्यच्च यत्किंचिदबुद्ध्या कृतं पापरूपं मयि मचिते वर्तते तत्पापशमनार्थम् 'इदमहं माममृतयोनौ सूर्ये ज्योतिषि जुहोमि स्वाहा' इत्युक्त्वा जलं पिवेत् । अत्र पितामहवचनम् - 'सूर्यश्चेत्यनुवाकेन ह्यपः पीत्वा समाहितः । प्रातःकाले विशुद्धात्मा कर्मण्यो भवति द्विजः' इति ॥ अत्र मन्त्रार्थः श्लोकरूपेण पुरातनैः कथितः स लिख्यते- सूर्यो मन्युश्च मा मन्युपतयो मन्युजादधात् । मुञ्चन्तु हस्तपच्छिश्नमनोवागुदरैरपि ॥ राज्यामकार्ष पापं यद्रात्रिरेवावलुम्पतु । अबुद्धिकृतमप्येनो यत्किंचिहुरितं मयि ॥ तच्छान्त्यर्थमहं सूर्ये जुहोमि ज्योतिषि स्वयम् । पक्षिप्यामृतयोनी मां मुच्येय मृत्युवन्धनात् ।। अथ मध्याह्ने जलप्राशनविनियुक्तं मत्रं तावदाह- आपः पुनन्तु पृथिवीं पृथिवी पूता पुनातु माम् । पुनन्तु ब्रह्मणस्पतिर्ब्रह्म पूता पुनातु माम् । यदुच्छिष्टमभोज्यं यहाँ दुश्चरितं मम । सर्वं पुनन्तु मामापेोऽसतां च प्रतिग्रह स्वाहा । (ले० आ०प्र० १० अ० ३०) आपः पुनन्त्विति । या 'आपः' सन्ति ताः 'पृथिवीं पुनन्तु' प्रक्षालनेन शोधयन्तु । अपां सकलदेवतास्वरूपतया परमपवित्रवस्तुत्वात्पवित्रीकरणं युक्तम् । 'आपो वै सर्वा देवताः' इति श्रुतेः। 'आपः स्वभावतो मेघ्याः' इति स्मृतेश्च । सा च पृथिवी ताभिरब्धाराभिरिति 'पुता' पवित्रीकृता शुद्धा सतीत्यर्थः । 'माम्' अनुष्ठातारं 'पुनातु' शोधयतु । उत्तरकर्मण्यधिकारिणं करोत्वित्यर्थः । - ३० श्रीकृष्णपण्डितविरचितं- [तृतीयो गुच्छः (मध्याहमन्त्राचमनमत्रार्थः) प्रथमतो न वर्षधारास्वाचामेदिति निषेधावर्षधारासु प्रायत्यकरणस्याऽऽचमनादेः कर्तुमशक्यत्वाद्भूमिगतत्वसिद्ध्यर्थमापः पुनन्तु पृथिवीमिति प्रार्थितम् । ततो भूमिगतास्वप्स्वाचामेदितिविधायकवचनाद्भूमिगतानामपां प्राशनकरणात्पृथिवी पुनातु मामिति प्रार्थ्यत इति सादरम्। 'ब्रह्मणो' वेदस्य 'पतिः' सकलवेदप्रति पायः परमात्मेत्यर्थः । वेदैश्च सर्वैरहमेव वेद्यः' इति स्मृतेः । षष्ठयाः पतिपुत्र' इत्यादिना पत्यादौ परे षष्ठीविसर्गस्य च्छन्दसि बहुलमिति सत्वम् । परमेश्वरः 'पुनन्तु' पुनातु । बहुत्वकथनं छन्दसि । यद्वा ब्रह्मणो वेदस्य पतिरुपदेष्टा तमा. चार्यमित्यर्थः । 'सुपां सुलुक्' इति सुपः सुरित्ययमादेशः । तं मामकमाचार्यमापः पुनन्तु । तस्य फलमाह-ब्रह्मेति । 'ब्रह्म' वेदस्वरूपं तेनाऽऽचार्येणोपदिष्टमिति शेषः। 'पूता' स्वयं पूतं सत् । सुपां सुलुगित्यादिना सुपो डादेशः। 'माम्' अध्ये तारं 'पुनातु' । आचार्यस्याऽऽपः प्रायत्यं संपादयन्तु । तादृशाचार्योपदिष्टवेदा- न्तर्भूतसंध्यावन्दनमत्राः स्वस्य प्रायत्यं संपादयन्त्वित्यर्थः । इदानीं स्वकृतपात- कजातं परिगणयंस्तन्निवृत्तये साक्षादेवापः प्रार्थयते--यदिति। 'उच्छिष्टम्' अब- शिष्टमन्नं भुक्तावशिष्टरूपमुच्छिष्टं यत्' अस्ति यत् अभोज्यं' भोक्तुमयोग्यं केशकी- टमूषिकापुरीपतदङ्गावपन्नं यदस्ति तदेतद्विविधं, समुच्चयद्योतकचकाराभावश्छा- न्दसः । मया कदाचिद्भुक्तम् । कीटाधवपन्नमन्नभोज्यमित्येतत्सामयाचारिकेषु दृश्यते--'यस्मिंश्चान्ने केशः स्यादन्यद्वा मेध्यममेध्यैरवमृष्टं कीटो वाऽमेध्यसेवी मूषकलाङ्गं वा' इति । मूषकला मूषिका पुरीषमङ्गं मूषकलाङ्गमुपसमस्तमपि मूष- कपदमपेक्ष्यत इति वृत्तिकारः । अथवोच्छिष्टं पित्रादिभुक्तावशिष्टं 'पितु- ज्येष्ठस्य च भ्रातुरुच्छिष्टं भोक्तव्यम्' इतिसूत्रविहितमपि तयोर्धर्मानुष्ठा- नविपर्ययेऽभोज्यं भोक्तुमनहम् । 'धर्मविप्रतिपत्तावभोज्यम्' इत्यापस्तम्बस्म- रणात् । तत्र वृत्तिकारः-यदि तयोधर्माद्विप्रतिपत्तिरपायो भवति ततो न भोज्यम् । यद्वा भुञ्जानस्य ब्रह्मचारिणो धर्मविप्रतिषेधो भवति मधुमासादि- मिश्रितत्वेन ततो न भोज्यमिति । तादृशमपि कचित्पमादादिना मया भुक्तम- स्ति । यद्वोच्छिष्टं सर्वजनभुक्तोच्छिष्टं यदस्ति तदभोज्यं भोजनानईम् । 'उपेतः स्त्रीणामनुपेतस्य चोच्छिष्टं वर्जयेत्' इति निषेधात् । तथाविधमपि कदाचिद्भुक्तं मया प्रमादात् । किंच मम कर्तुर्विज्ञानकोशस्य सिद्धान्ते तस्यैव कर्तृत्वाश्रयत्वाभि- मानाद्वेत्यस्यार्थः । तथा च 'दुश्चरितम्' अपि 'यत्' अस्ति अपेयापानाखाद्या खादनागम्यागमनलक्षणं हिताचरणं मत्कृतं यदस्तीत्यर्थः । दुष्टं चरितमितिवि- ग्रहसामर्थ्याहुश्चरितपदस्यैतावानर्थो लभ्यते । तत्सर्वं परिहत्येति शेषः । ततो मामापः पुनन्तु' इति । तथा 'असतां' शूद्रादीनां दुष्कर्मिणां वा संबन्धिनं [तृतीयो गुच्छः] (मार्जनमत्रार्थः) - . तैत्तिरीयसंध्याभाष्यम् । ३१ 'प्रतिग्रह' च पुनन्तु। 'अप्रतिग्राह्यं प्रतिगृह्य' इत्याश्वलायनसूत्रे दुष्टपतिग्रहकरणा- नन्तरं मायश्चित्तं कार्यमित्युक्तत्वात् । तदर्थमभिमत्रितमुदकं 'स्वाहा' मदीये वक्त्राग्नौ सुष्ठु हुतमस्तु । तेन सर्व पाप्मानं भस्मी करोमीत्यर्थः । अत्र ग्रन्था- न्तरे मन्त्रार्थः श्लोकरूपेण दर्शितः स लिख्यते- आपः पुनन्तु पृथिवीं पूता ताभिः पुनातु माम् । पुनन्तु ब्रह्मणस्पतिर्वेदवेद्यः पुनात्विति ॥ पूतमित्यत्र पूतेति ब्रह्म पूता पुनातु माम् । यदुच्छिष्टमभोज्यं च यद्वा दुश्चरितं मम ॥ सर्वस्मादंहसोऽस्मान्मामसतां च प्रतिग्रहात् । पुनन्त्वाप इति ध्यात्वा स्वाहेत्युक्त्वा जलं पिवेत् ' इति ॥ मार्जनमत्रानाह- दधिक्राणो अकारिषं जिष्णोरश्वस्य वाजिनः। सुरभि नो मुखौ करत्म ण आयूषि तारिषत् । (तै० सं० का०प्र०५ अ० ११) दधिक्राव्ण इत्यादि । दधीनि हवींपि काठादीनि वा कामति गच्छ- तीति दधिक्रावा हविर्भुगग्निपुरुष इति यावत् । तस्य 'दधिक्राव्णः' । दधि- काव्न् अस् इति स्थिते स्वरपूर्वव्यञ्जनस्य द्वित्वे प्राप्ते 'लवकारपूर्वस्पर्शश्च पौष्करसादेः' इति वकारपूर्वस्य स्पर्शस्य नकारस्य द्वित्वं विहितं प्रातिशाख्ये । तदनन्तरमेतेषामेकीकरणे दधिक्राण्ण इति स्थितम् । भापायां तु दधिक्राव्ण इति व्याकरणपारीणा भणन्ति । 'जिष्णोः ' जयशीलस्य व्यापकस्य । अशू व्याप्तौ । अश्वरूपस्य वा। अग्निर्देवेभ्यो निलायत, अन्धो रूपं कृत्वेति स्थि(श्रुतेः। चाजोऽन्नमस्यास्तीति वाजी तस्य 'वाजिनः' । 'अन्नं वै वाजः' इति श्रुतेः । सर्वेषां देवानां मध्ये तस्यैवान्नादत्वात् । अन्नसंपन्नस्येत्यर्थः । 'अग्निर्वा अका- मयत । अन्नादो देवाना५ स्यामिति । स एतमग्नये कृत्तिकाभ्यः पुरोडाशमष्टाक- पालं निरवपत् । ततो वै सोऽन्नादो देवानामभवत् । अग्निर्वे देवानामन्नादः इति श्रुतेः । वेगवतो वायुसखत्वादतिशीघ्रगामिन इत्यर्थः । ईदृशस्याग्नेरहम् 'अकारिष' तस्य संबन्ध स्तोत्रं कुर्या तस्य किंकरो भूयासमित्यर्थः । अकारि- पमित्यत्र रेफस्योपरीकारश्छान्दसः। स चाग्निः 'नः' अस्माकं मुखानि, प्रत्यय- लोपश्छान्दसः । अस्मत्सुकृतसमासादितसौरभ्याणि 'करत' करोतु । छान्द- - ३२ श्रीकृष्णपण्डितविरचितं- तृतीयो गुच्छः (मार्जनमत्रार्थः समेतत् । परिशुद्धानि कुर्यादित्यर्थः । किं चास्माकम् आयूंषि' । पश्चार्थे । तथ चाऽऽयूंषि च 'तारिषत्' वर्धयतु । प्रेत्युपसर्गस्य धातुना वा संबन्धः । तथा प्रतारिषदिति सिध्यति । प्रकर्षेण संवर्धयत्विति विशेषः। निरुपपदोदीरित मायुष्यमस्मभ्यं दत्त्वाऽनुगृह्णात्विति भावः । 'लिङर्थे लेट्' इति विध्यादौ लों तस्य 'सिब्बहुलं लेटि' इति सिप् । 'लेटोऽडाटौ' इति विकल्पेनाडागमः । अ मन्त्रार्थे पुरातननिबद्धः श्लोको लिख्यते- दधिक्रावा रविर्वह्निर्दधि कामति यजगत् । जयव्याप्तिजवैर्योगाजिष्णोरश्वस्य वाजिनः । अकारि स्तुतिं कुर्यो तस्य संबन्धिनी तथा । सुरभीणि सुशुद्धानि मुखानि स करोतु नः ॥ प्रतारिपत्पदद्याच्च पूर्णान्याऍषि नः प्रभुः ॥ अत्र दपिकावशब्दस्य सूर्यपरत्वे तु मत्रार्थस्त्वेवं व्याख्येयः- क्राणो लोकयात्रानिर्वाहकस्य सूर्यस्य जिष्णोरश्वस्य व्यापकस्य वाजिन वेगवतः । शेषं पूर्ववत् । मवान्ते मार्जनं कार्य तथा शिष्टाचारात् । आ दिष्ठेति गतम् मार्जने मवान्तरमाह- हिरण्यवर्णाः शुचयः पावका यासु जातः कश्यपो याविन्द्रः। अग्निं या गर्भ दधिरे विरू- पास्ता न आपः श५ स्योना भवन्तु । (तै० सं० का०५ प्र०६ अ०१) हिरण्यवर्णा इति । 'हिरण्यवर्णाः ' सुवर्णच्छायास्ताम्रवर्णा इति यावत् । दिवेति शेषः । तथा च ब्राह्मणम्-'यद्वै दिवा भवत्यपो रात्रि प्रविशति तस्मात्ताम्रा आपो दिवा ददृश्रे' इति । 'शुचयः ' शुद्धाः सकलजगत्पावने समर्था इति यावत् । एतादृशा यास्तिष्ठन्ति । किंच 'यासु' अप्सु 'कश्यपः' प्रजा- पतिः । यदा पश्यतीति पश्यकः सूर्यः सर्वलोकसाक्षी । जगच्चक्षुरित्यभिधा- नात् । आद्यन्तवर्णविपर्यासश्छान्दसः । 'कश्यपः पश्यको भवति यत्सर्व परि- पश्यतीति सौक्ष्म्यात् ' इति श्रुतेः । न (स) चाप्सु जात इति पौराणिक (का.) । 'इन्द्रः' सुरेश्वरः । स चाप्सु 'जातः' । 'विरूपाः' नानारूपा 'या' .
तैत्तिरीयसंध्याभाष्यम् । [तृतीयो गुच्छः] (मार्जनमत्रार्थः) आपः 'अग्निं' वडवाग्निं गर्भ' गर्भस्थजन्तुं 'दधिरे' कुक्षिस्थजन्तुत्वेन स्थापितवत्य इत्यर्थः । 'तृतीयमप्सु नृमणाः' इति श्रुतेः। 'ताः' एवंभूता 'आपो नः' अस्माकं 'श' सुखहेतवः 'स्योनाः ' अवैषयिकसुखजनिकाश्च भवन्तु' अथवा शं दुःखं शमयित्वेति शेषः । स्योनाः सुखकारिण्यो भवन्तु । मार्जने विनियुक्तं मत्रान्तरं तावदाह- यासार राजा वरुणो याति मध्य सत्यानृते अव- पश्यञ्जनानाम् । मधुश्चुतः शुच॑यो याः पाव- कास्ता न आपः श५ स्योना भवन्तु । (तै० सं० का०५ प्र०६ अ०१) यासा राजेति । राजा यादसांपतिर्दण्डधर इत्यर्थः । 'जनानां सत्यानृते' पुण्यपापे 'अवपश्यन्' विवेचयन् 'यासाम्' अपां 'मध्ये वसतीति शेषः। ' याति' गच्छत्ययं पुण्यकृदयं पापकृदिति पुण्यपापानुरूप. मनुग्रहनिग्रहरूपव्यापारचिकीर्षया तत्र वसतीत्यर्थः । अपि च 'मधुश्श्रुतेः' मधु- स्यन्दिन्यो मधुस्राविण्य इति यावत् । 'शुचयः' पावका 'याः' तिष्ठन्ति 'ता आपः । शिष्टं गतम् । यद्यपि हिरण्यवर्णाः शुचयः पावका इत्यत्र शुचिपा. वकपदे गृहीते इति पौनरुक्त्यं तथाऽव्यापा(प्याद)रात्पुनर्वचनम् । मन्त्रविषये पौनरुक्त्यमपि नास्ति । तदुक्तं भगवता भाष्यकारेण--ईशावास्यमत्रेषु जामिता नास्तीति पूर्वमन्त्रोक्त एवार्यः पुनरुच्यत इति । १ वरुणः किं च-- यासी देवा दिवि कृण्वन्ति भक्षं या अन्तरिक्ष बहुधा भवन्ति । याः पृथिवीं पय॑सोन्दन्ति शुक्रास्ता न आपः श५ स्योना अवन्तु । (तै० सं० का०५ प्र०६ अ०१) यासां देवा इति । 'यासाम्' अपां 'भक्षं ' भक्षणं, भक्षमाह्रियमाणमिति भौते दर्शनाद । 'देवा दिवि' द्युलोके मन्दाकिन्यामिति शेषः। 'कृण्वन्ति' - । - -- श्रीकृष्णपण्डितविरचितं [तृतीयो गुच्छः (मार्जनमत्रार्थः कुर्वन्ति । पूरणगुणेत्यादिना सुहितार्थे षष्ठी । घुलोके या आपो देवानां भक्ष ममृतरूपत्वादित्यर्थः। ' याः ' च 'अन्तरिक्षे बहुधा' बहुमकारा ‘भवन्ति सन्ति । भू सत्तायाम् । 'सर्वानुदारान्सलिलानन्तरिक्षे प्रतिष्ठितान् ' इति श्रुतेः । याः' आपः 'पृथिवीं पयसा' वृष्ट्या 'उन्दन्ति' सकललोकानुग्रहार्थं पृथिवीं वर्षधारात्मना सिञ्चन्तीति भावः । 'शुक्राः ' शुभ्रा ' आपः ' इति । गतमन्यत् । शिवेन मा चक्षुषा पश्यताऽऽपः शिवो तनु- वोप॑स्पृशत खर्च मे । सर्वा५ अमीरप्सुषदों हुवे वो मयि वक़ बलमोजो निधत्त (ते० सं० का०५प्र०६ अ०१) शिवेनेति । हे ' आपः शिवेन ' सुखस्वरूपेण । शिवं भद्रं कल्याणमिति कोशात् । ' चक्षुषा ' कटाक्षेण 'मा' मा 'पश्यत' । 'मयि' निरन्तरं भूयसी करुणादृष्टिं संपादयतेत्यर्थः । शिवया तनुवा ' कल्याणमूर्त्या 'मे त्वचमुप- स्पृशत '। मदीयां त्वचमुपस्पर्शनेन परिपूतां कुरुतेत्यर्थः । इदानीमधिकारी स्वकृत्यमाभाषते-अग्नीनिति । हे आपो 'वः ' युष्माकमप्सु सीदन्ति तिष्ठ न्तीति 'अप्सुषदः' जलस्थान्वाडवादीन् 'सर्वाननीन्' 'हुवे' आह्वयामि । किमर्थ मित्यत आह-मयीति । 'मयि वर्चः' दीप्तिः 'बलं' शक्तिः 'ओजः' उत्साह एतत्सर्वं मयि ‘निधत्त' स्थापयत । मां वर्चस्विनं बलवन्तमोजस्विनं कुरुते त्यर्थः। अग्नीनप्सुषद इति स्थिते 'अनितिपरो ग्रहोख्ययाज्यापृष्ठयहिरण्यवणि येष्वीकारोकारपूर्वो रेफमाकारपूर्वश्च यकारम् ' इति प्रातिशाख्यसूत्रम् । तत्र भाष्यकार:-एतेष्वीकारपूर्व ऊकारपूर्वो वाऽनितिपरो नकारो रेफभावमाप द्यते । लुप्येते त्ववर्णपूर्वी यवकाराविति यकारो लुप्यते । नकारस्य रेफोष्म यकारभावाल्लुप्ते च म(य)लोपाच्च पूर्वस्वरोऽनुनासिक इत्यकारस्येकारस्य च सानुनासिकत्वमिति व्याचक्र इति सर्व सुस्थम् । एवं मार्जनं विधाय पापपुरु पनिर्गमनाय दक्षिणकरे जलं निधाय नासिकाग्रं प्रापय्य वामभागे मेदिन्या निक्षिप्य तज्जलं नावलोकयेत् । तदुक्तं वासिष्ठे- गृहीत्वा पाणिना वारि स्वशाखोक्तामृचं जपेत् । उबृत्य दक्षिणे हस्ते जलं गोकर्णवत्कृते ।। - ३५ [तृतीयो गुच्छः] तैत्तिरीयसंध्याभाष्यम् । (अघमर्षणमन्त्रार्थः) निधाय नासिकाग्रे तु पापपुरुषं च संस्मरेत् । विभृयानासिकायां तु निरुद्धमाणमारुतः ॥ वामे निक्षिप्य मेदिन्यां तज्जलं नावलोकयेत् । तत्र विनियुक्तं मन्त्रमाह- द्रुपदादिवेन्मुमुचानः। स्विनः साखी मला- दिव । पूतं पवित्रणेवाऽऽज्यम् । आपः शुन्धन्तु मैनसः । ( ते० ब्रा० का० २ प्र०६ अ०६) छपदाति । माम् ‘एनसो मुश्चतु' । कर्मसाक्षी सूर्य इति शेषः । तत्र निदर्शनम्-'द्रुपदादिव' । अपराधिना पादकीलितकाष्ठं छपदम् । चोरादी- निरोढुं ग्राममध्ये दारुमयं पादकीलितं विधाय ग्रामस्वामिनः स्थापयन्तीति प्रसिद्धम् । तस्मादिवेत्यर्थः । यथा कृपालुः स्वामी तद्वन्धनादपराधिनं मोच- यति तद्वदिति भावः । किंच- आप एनसः' पापात् 'मा' मां 'शुन्धन्तु' शोधयन्तु । अस्मिन्नर्थे त्रयो दृष्टान्ताः कथ्यन्ते–'द्रुपदात् ' पादकीलित. काष्ठात्, 'इन्मुमुचानः' मुक्त 'इव' । 'स्विनः' स्वेदवान् ‘स्नात्वी ' स्नात्वा । 'स्नात्व्यादयश्च'इति निपातनात्साधुः। 'मलात्' सर्वशरीरव्यापिपङ्कान्मुक्त 'इव'। पुनात्यनेनाऽऽज्यादिकमिति पवित्रम्। 'पुवः संज्ञायाम्' इति करण इत्रप्रत्ययः । तेन 'पवित्रेण' समसाग्रदर्भरूपेण । 'समौ साग्रौ दीं प्रादेशमात्रौ पवित्रे कुरुतः' इति श्रौते दर्शनात् । 'पवित्रं वै दर्भाः' इति श्रुतेः। तेन 'पूतं' शोधित- माज्यस्थाल्यामाज्यं निरुप्येत्यारभ्योदगग्राभ्यां पवित्राभ्यां पुनराहारं त्रिरु- त्पूयेति शास्त्रविधिना संस्कृतम् 'आज्यं' सर्पिः 'इव' । एतत्सर्वं तत्तदोषाद्वि. निर्मुक्तं सद्यथा परिशुद्धं भवति तथा मामापः सर्वस्मादेनसः शोधयन्विति तात्पर्यार्थः । अत्र कारिकाकार:- अयो जातौ कश्यपेन्द्रावग्निं वैद्युतवाडवम् । गर्भ या दधिरे नानारूपा स्थितिवशेन ताः ।। शं दुःखं शमयित्वा नः स्योनाः सन्तु सुखप्रदाः । यासां मध्ये दण्डधरः पुण्यपापे विवेचयन् ॥ वरुणो याति मधुरस्यन्दिन्यः पूर्ववत्परम् । यासाममृतरूपाणां भक्षणं कुर्वतेऽमराः ॥ - श्रीकृष्णपण्डितविरचितं- [तृतीयो गुच्छः] (मध्याहसंध्यायप्रदानमत्रार्थः) वृष्ट्यात्मना या बहुधा खे च या पृथिवीमपि । पयसा तद्गताकारैः सिञ्चन्तीति त्रिलोकगाः ।। शुक्रा विशुद्धास्ता आपः शंनुदाः सन्तु शर्मदाः । आपः कल्याणदृष्ट्या मां पूतः स्या इति पश्यत ॥ तनुवा सौम्यया मूर्त्या स्पृशत त्वचं मामिकाम् । आयाम्यप्सु वसतो वहीन्वो वाडवादिकान् ॥ आपो यूयं यशो वक़ बलमोजो निधत्त वै । एतत्सर्व संध्यात्रयेऽपि समानम् । जलप्राशनमत्रास्तु विशेषतो वर्णिताः। पूर्वमापो हि ष्ठेति नवनिर्मार्जनं पश्चादपि तथैव । इतरेषु मार्जनमत्रेषु सर्वमुक्त्वा ततः कर्तव्यं तदेव शिष्टाचारात् । प्रातःसंध्यामुपासिष्य इति प्रातः । माध्या- हिकसंध्यामुपासिष्य इति मध्याह्ने । सायंसंध्याविषये तु सम्यगधस्तात्संकल्पो निर्णीतः । अत्र विद्यारण्यस्वामिभिरुदाहृतं माधवीये-अथातः संध्योपास्ति. विधि व्याख्यास्यामस्तीर्थ गत्वा प्रयतोऽभिषिक्तः प्रक्षालितपाणिपादोऽप आचम्याग्निश्च मा मन्युश्चेति सायमपः पिबेत्सूर्यश्चेति प्रातः सावित्रेण सुरभिम- त्याऽब्लिङ्गाभिर्हिरण्यवर्णाभिः पावमानीभिर्व्याहृतिभिरन्यैश्च पवित्रैरात्मानं प्रोक्ष्य प्रयतो भवति । अथार्घ्यपदानं कर्तव्यम् । तद्विनियुक्तमत्रस्त्वनुपदमेव व्याख्यायते । माध्याहिकसंध्यायामय॑प्रदानविनियुक्तं मन्त्रमाह- हसः शुचिषहसुरन्तरिक्षसद्धोता वेदिषदति- थिर्दुरोणसव । नृषरसतिसौमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् । (तै० आ० प्र० १० अ०४०) हस इति । हन्त्याइवनीयदेशेषु व्यापकतया गच्छतीति 'हसः' पर- मात्मा । 'हंसो नाम सदाशिवः' इति वचनात् । स तु कीदृश इत्यपेक्षायामाह- शुचिषदिति । शुचौ देशेऽविमुक्तादिपुण्यक्षेत्रजाते सीदतीति 'शुचिषत् । 'क्षेत्राणां पतये नमः' इत्यादौ तथा दर्शनात् । वसन्त्यस्मिञ्जगतीति 'वसुः' । वासयतीति वा वसुः। धासनाद्वासुदेवस्य वासितं ते जगत्रयम्' इति दर्शनात् । अन्तरिक्ष सीदतीति 'अन्तरिक्षसत्' । योऽन्तरिक्ष तिष्ठति' इति श्रुतेः। 'होता' । - - तैत्तिरीयसंध्याभाष्यम् । .. । [तृतीयो गुच्छः] (मध्याहसंध्यार्थ्यप्रदानमत्रार्थः) अनिरूपेण देवानामाहाता । 'ऋषिोता निषसाद' इति श्रुतेः । यद्वा होता देवा- नामाहाता वह्निस्तद्रूप इत्यर्थः । 'अग्निं दूतं वृणीमहे' इति श्रुत्या वहेर्देवहोतृत्वा. वगमात् । वेद्यां भूलोकादौ व्यापकत्वेन सीदतीति वेदिषत् । 'सावा इयर सर्वैव वेदिः' इतिश्रुतेः। वेद्यां परिष्कृतभूम्यां सीदति तिष्ठतीति वेदिषत् । 'वेदिः परिष्कृता भूमिः' इति कोशात् । 'वेदिवै परोऽन्तः पृथिव्याः' इतिश्रुत्या वेदिकायाः सर्वोत्कृष्टत्वावगमात् । तत्र परमात्माविर्भावो युक्त इति भावः । 'अतिथि: ' अतिथिसदृशः । तल्लक्षणं तु स्वधर्मयुक्तं कुटुम्बिनमभ्यागच्छति धर्मपुरस्कारो नानप्रयोजकः सोऽतिथिर्भवति । धर्मपुरस्कारः क्रत्वाद्यनुष्ठानं पुरस्कृत्य तत्सिद्ध्यर्थं याच्यापर इत्यर्थः । केचिदभ्यागत इति वदन्तोऽभ्या- गतः स्वयं विष्णुरिति वचनमुदाहरन्ति । तन्न । अभ्यागतस्यान्नमात्रार्थित्वात् । अतिथेस्तु वर्णितलक्षणलक्षितत्वेन तद्विलक्षणत्वात् । तस्मादतिथिशब्दस्य नाममात्रार्थ्यभ्यागतोऽर्थः किं तु वणित एवार्थः । नन्वभ्यागतपदमपि तथाविधार्थवाचकं नान्नमात्रार्थिवाचकमिति चेत् । ओं संज्ञाभेदेऽपि न तु संक्षिभेद इति सारम् । दुरोणेषु गृहेषु सीदतीति ‘दुरोणसत्' । अजस्रो दीदिहि नो दुरोण इति दुरोणशब्दस्य स्थानपरत्वदर्शनात् । ब्रह्माण्डाख्यगृह- पतिरित्यर्थः । नृषु वैश्वानररूपेण सीदतीति ' नृषत्' । 'अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः' इति स्मृतेः। वरे श्रेष्ठे तीर्थादौ सीदतीति 'वरसत्' । 'नमस्तीर्थ्याय च' इति श्रुतेः। यद्यपि शुचिषदित्यनेनैवायमर्थः सिद्धस्तथाऽप्या- दरात्पुनर्वचनम् । मन्त्रेषु जामिता नास्तीति भावः । ऋते यज्ञे निष्पादकत्वेन सीदतीति 'ऋतसत्'।व्योमनि सूर्यात्मना सीदतीति 'व्योमसत्' । अप्सु जलेषु जायत इति 'अब्जाः' । 'योऽप्सु तिष्ठन्' इति श्रुतेः। जनसनखनक्रम. गमो विट्' इति विद् । 'विनोरनुनासिकस्याऽऽत्' इति नकारस्याऽऽदा- देशः । गोष्वन्तर्यामित्वेन प्रादुर्भूतो 'गोजाः' । 'पशुपतये च' इति श्रुतेः । ऋते यज्ञे भोक्तृत्वेन जात 'ऋतजाः'। 'भोक्तारं यज्ञकर्मणः' इति स्मृतेः। अदिपु पर्व- तेषु जात इति ‘अद्विजाः'। 'यः सर्वेषु भूतेषु तिष्ठन्' इति श्रुतेः । ईदृशः पर- मात्मा 'बृहत् ' अधिकम् 'ऋतम्' उपासनात्मकं यज्ञं निष्पादयत्विति शेषः । अथ सजलेन पाणिना त्रिः प्रदक्षिणमनुव्रजनं कर्तव्यम् । 'यत्प्रदक्षिणं प्रक्रा- मन्ति तेन पाप्मानमवधून्वन्ति ' इति श्रुतेः । असावादित्यमत्रेण सोदकेनैव पाणिना। प्रदक्षिणमनुव्रज्य वाचयेत्संध्ययोर्द्वयोः' इति स्मृतेश्च ॥
. - श्रीकृष्णपण्डितविरचितं- [तृतीयो गुच्छः] (अध्यदानकालातिक्रमप्रायश्चित्तम्) संध्ययोरित्युपलक्षणम् । संध्यानामपीति ज्ञेयम् । तथा चैतच संध्यात्रयेऽपि समानं भवति तथैवाऽऽचारात् । तत्र विनियुक्तं मन्त्रमाह- असावादित्यो ब्रह्म । (ते० आ० प्र० २ १०२) असाविति । 'असौ' इति पाणिना निर्देशः । 'आदित्यः' परमात्मा । उभयोरैक्यानुसंधान संध्यावन्दनस्य प्रधानभूतं फलं भवति । 'असावादित्यो । ब्रह्मेति ब्रह्मैव सन्ब्रह्माप्येति य एवं वेद' इति श्रुतेः । अत्रेदं रहस्यं प्रकाश्यते- कालत्रयेऽप्यर्घ्यदानं कर्तव्यम् । तत्र सायंप्रातःकालयोरय॑त्रयं प्रकृतम् । मध्याह्ने त्वेकमयं विहितम् । इदं च यथाकालमेव कर्तुं शक्यम् । काले त्वति- क्रान्ते प्रायश्चित्ततया प्राणायामोऽर्थ्यप्रक्षेपणं च कर्तव्यम् । उभयोः समुच्चयो न तु विकल्प इत्युक्तमधस्तात् । तत्रायं प्रयोगः-विधिवदाचम्य यथाशक्ति प्राणानायम्य मम सायंसंध्याकालातिक्रमणदोषपरिहारार्थ प्रायश्चित्ताध्यपूर्वक मर्घ्यदानं करिष्य इति संकल्प्य नूतनोदकेन सशिरस्कया सव्याहृतिकया गायत्र्या प्रायश्चित्ताय॒मेकं दद्यात् । एवं प्रातः । न चैवं प्रायश्चित्तकरणे प्रमाणाभावः। 'नियमातिक्रमे चान्यस्मिन्' इति सूत्रकारवचनात् । प्राणायामः प्रायश्चित्ततया कर्तव्यः । आचान्तो विधिवत्माणानायम्य चतुरर्ध्य काला- तीतविशुद्ध्यर्थ दत्वा संध्यां समाचरेदिति । ततश्चतुरयं देयमिति विवेकः । यथाकालमनुष्ठाने त्वेकैकः प्राणायामः कर्तव्यः । 'संध्यादावर्घ्यदाने च प्राणायामैक उच्यते' इति वचनात् । षट्कर्मचन्द्रिकायामुक्तम्- एवं संमार्जनं कृत्वा बहि:शुद्ध्यर्थकारणात् । ततोऽभ्यन्तरशुद्ध्यर्थं प्राणायाम समाचरेत् ' इति ॥ अत्रायं सिद्धार्थ:-यथा कालातिपत्तौ संध्यावन्दनं क्रियते तथा प्राय- श्चित्ताय॒मेकं दातव्यम् । तदनन्तरं त्रीण्याणि दातव्यानि । तत्र प्रायश्चि- तार्घ्यदानापूर्वमेकः प्राणायामः कार्यः । पुनः प्रधानार्घ्यदानेऽपि कर्तव्य इति चेन्न । एकं प्राणायाममेवाऽऽदाय प्रधानार्घ्यदानस्यापि प्राणायामपूर्वक. त्वसिद्धः । यथा पवमानप्रसर्पणेऽध्वर्युमुखाः प्रसअजिर इत्यत्रके वाध्वर्युणा सर्वेऽध्वर्युमुखा भवन्ति । यथाऽऽश्वलायनसूत्रे ब्रह्मयज्ञप्रकरण ऑपूर्वा व्याह- तय इत्येकप्रणवमादाय सर्वासां व्याहतीनां नारायणाशयात्मणवपूर्वकत्वम् । यथोभयोरपि दर्शपूर्णमासयोरेकामन्वारम्भणीयामादाय तदारम्भपूर्वकत्वं तद्व- पकृतेऽपीति न कोऽपि दोषः । न चोभयत्रापि प्राणायामानुष्ठानमस्तु बाध- काभावादिति वाच्यम् । तथात्वे बचनाभावात् । तत्कल्पनायामुपपत्तिविरो - तैत्तिरीयसंध्याभाष्यम् । - - [तृतीयो गुच्छः] (अर्घ्यदानप्रकारः) धाच्च । तथा हि प्रथमाचमनं कृत्वा प्राणानायम्य प्रायश्चित्तार्घ्यदानं करिष्य इति संकल्प्य तत उत्थायाय॑ दत्वा पुनरुपविश्याऽऽचम्य पुनः प्राणाना. यम्य प्रधानाOणि देयानीति वाच्यम् । न ह्यत्राविगीतशिष्टाचारो दृश्यते । तस्मादुपपत्तिविरुद्धोऽयं पक्ष इत्यस्मदुक्तमेव सम्यक् । तत्रायं प्रयोगः- वणितरीत्याऽऽचम्य यथाशक्ति प्राणानायम्य देशकालावनुकीर्त्य मम काला- तिक्रमणदोषपरिहारार्थ प्रायश्चित्तार्घ्यदानपुरःसरमर्घ्यदानं करिष्य इति संकल्प्य जलं गृहीत्वोत्थाय तर्जन्यङ्गुष्ठयोरसंसर्ग यथा तथा प्रायश्चित्तायें दत्त्वा सायं प्रातश्च त्रीणि त्रीण्याणि दद्यात् । अत्र स्मृतिवचनान्युदा. हियन्ते- प्राङ्मुखः सततं विप्रः संध्यावन्दनमाचरेत् । अर्घ्यप्रक्षेपणं कुर्यादादित्याभिमुखो द्विजः ' इति ॥ प्रातः प्रहः क्षिपेदप्सु मध्याह्न ऋजुसंस्थितः । अर्घ्यप्रक्षेपणं कुर्यात्सायं तूपविशन्भुवि ।। पाणिभ्यां जलमादाय गायच्या चाभिमवितम् । गोशृङ्गमात्रमुद्धृत्य जलमध्ये जलं क्षिपेत् ।। जले त्वर्थ्य प्रदातव्यं जलाभावे तु तत्स्थले । संप्रोक्ष्य वारिणा सम्यक्पश्चादयं यथाविधि ॥ अत्रापि प्रदातव्यमित्यन्वयः । इदं च वचनं मातर्माध्याहिककालार्थ्य- दानविषयम् । तदुक्तम्- उपविश्य तु सायाह्ने जले त्वयं न निक्षिपेत् । निक्षिपेद्यदि मूढात्मा रौरवं नरकं व्रजेत् ' इति ॥ सायमुपविश्य वारिणा संप्रोक्ष्य भूमावर्घ्यदानं कार्य न जल इत्यर्थः । आश्वलायनशाखिभिरपि सायमुपविश्यैवार्घ्यदानं कार्यम् । तदुक्तं वचस्मृ- तिसंग्रहकारेण-'सायं तिष्ठतोऽयंविधानं शाखान्तरविषयम् । आश्वलाय. नस्तु सायमुपविश्यवार्घ्यप्रक्षेपणं कुर्यात् । प्रक्षेपणानन्तरमुत्थायाद्भिरात्मानं परिषिच्य प्रदक्षिणीकृत्योपविश्याऽऽचामेत्' इति । मध्याह्न तु यथाकालमेक- मयं देयम् । कालातिपत्तौ तु प्रायश्चित्तायं दत्त्वा ततः प्रधानार्घ्य देय- मिति विवेकः। 'मध्याह्ने चाञ्जलिक्षेपं सकृदेव समाचरेत् ' इति वचनात् । न च मध्याह्ने प्रायश्चित्वार्ष्यानुत्थाने वचनाभावः शङ्कनीयः ।
- ४० श्रीकृष्णपण्डितविरचितं- [तृतीयो गुच्छः] (संध्याकतर्पणम्) 'चातुरयं तु गायत्र्या शिरोव्याहृतिसंयुतम् । कालातीतविशुद्ध्यर्थं त्रिसंध्यां तु समाचरेत् ॥ इति वचनेन संध्यात्रयेऽपि तदनुष्ठानविधानात् । अत्रायं विशेषः-मध्याह्ने ब्रह्मयज्ञात्पूर्वमापस्तम्बीयानां संध्यानुष्ठानं कार्यम् । यथा प्रातरुपासनाधनु- धानानन्तरं ब्रह्मयज्ञः पामोति तथा माध्याहिकसंध्यामकृत्वैव न कर्तव्यः । तथैव शिष्टाचारात् । स्मृतिकारैरङ्गीकाराच्च । आश्वलायनशाखिना तु संध्या- वन्दनात्मागेव ब्रह्मयज्ञः कर्तव्यः । ततो मध्याह्नसंध्येति निगर्वः । तदुक्तं स्मृतिसंग्रहकारेण- 'मध्याह्ने स्नानवेलायां स्नानवस्त्रं न पीडयेत् । पीडयेद्यदि मूढात्मा तत्स्नानं निष्फलं भवेत् ॥ तीरे निक्षिप्य तद्वस्त्रं ब्रह्मयज्ञमथाऽऽचरेत् । ततो माध्याहिकी संध्यां कुर्यादित्याश्वलायनः ' इति ॥ शौनकः-'मध्याह्ने च पुनः स्नात्वा ब्रह्मयज्ञं समाचरेत् । ततो माध्याहिकी संध्यां कृत्वा च गृहमागतः ' इति । तत्र मध्याह्नो मुख्यकाल: । 'मध्यमा स्नानकर्मणि' इति वचनात् । मध्यमा माध्यानिकी संध्या स्नानकर्मणि मध्याह्नकाल इत्यर्थः । तत्र गौणकाल:* संध्या माध्याहिकीष्यते। तर्जन्यष्ठयोगेन नार्घ्यदानं कार्यमित्युक्तं स्मृत्यन्तरे- तर्जन्यङ्गष्ठयोगेन राक्षसी मुद्रिका भवेत् । यो ददाति तया चार्य तत्तोयं रुधिरं भवेत् ' इति । एवमर्घ्यपदानं कृत्वा प्रदक्षिणमनुव्रज्याऽऽचामेत् । तदुक्तम्- मन्देहानां विनाशाय निक्षिपेत्तु जलाञ्जलीन् । प्रायश्चित्तार्थमाचम्य मुच्यते दैत्यहत्यया' इति । अथ संध्याङ्गतर्पणं कर्तव्यं शिष्टाचारात् । तदुक्तमाह्निके- क्रमात्संध्यां च गायत्रीं ब्राह्मी च निजी तथा। तर्पयामीति वक्तव्यं चतस्रो देवताः प्रति ।। अत्रायं प्रयोगः-आचम्य प्राणानायम्य मम दुरितक्षयार्थ परमेश्वरप्रीत्यर्थ सायंसंध्याङ्गत्वेन तर्पणं करिष्य इति संकल्प्य संध्यां तर्पयामि । सरस्वती तर्पयामि । वैष्णवीं तर्पयामि । निमजी तर्पयामीति सायं चतस्रो देवतास्तर्प- येत् । एवं प्रातः संकल्पं कृत्वा संध्यां तर्पयामि । गायत्रीं त० ब्राह्मीं तक * अस्मात्पुरतः पादत्रयं तदधिकं वा त्रुटितम् । - तैत्तिरीयसंध्याभाष्यम् । [तृतीयो गुच्छः] (सूतकादौ संध्याकर्मविचारः) निजी तर्पयामीति मातस्तर्पयेत् । एवं मध्याह्ने संकल्प कृत्वा संध्यां तर्पयामि। सावित्री तर्पयामि । रौद्री तर्पयामि । निजी तर्पयामीति सर्पयेत् । अत्रायं विशेषः-संध्यात्रयेऽप्यर्घ्यदानानन्तरं केचिदत्रोपसंहरणं कुर्वन्ति तत्ताधिक- संध्याविषयं न तु वैदिकसंध्याविषयम् । प्रत्यक्षवेदे वेदमूलमन्वादिमहास्मृतिषु चाखोपसंहरणस्यानुक्कत्वात् । तस्मादत्रोपसंहारादिकं न कर्तव्यमिति सर्व रम- णीयम् । अत्रेदं तत्त्वं विचार्यते-आशौचादौ संध्यावन्दनमान्तमित्युक्तमध- स्तात् । स्मृत्यन्तरे विशेषः कथितः- 'संध्यामिष्टिं च होमं च यावज्जीवं समाचरेत् । न त्यजेत्सूतके वाऽपि त्यजन्गच्छत्यधोगतिम् ॥ एतद्वचनं मानसिकसंध्यावन्दनाभिप्रायम् । तदुक्तं पुलस्त्येन- सूतके मृतके चैव संध्याकर्म न संत्यजेत् । मनसोचारयेन्मत्रान्माणायाममृते द्विजः' इति । यत्त्वाशौचस्य कर्माधिकारपरिपन्थित्वादाशौचकाले नानुष्ठानं संभवतीति दपि न । तात्कालिक्याः शुद्धः संभवात् । गोभिल:- 'औपासने तु विप्राणामङ्गशुद्धिश्च जायते' इति । पराशरः-'अग्निहोत्रादिहोमार्थ शुद्धिस्तात्कालिकी स्मृता' इति । नन्वेवमप्याशौचादौ संध्याकर्म कर्तुं न शक्यते । तदयोग्यकालत्वात् । अत रव विष्णुपुराणेऽपि-- 'सर्वकालमुपस्थानं संध्यायाः पार्थिवेष्यते । अन्यत्र सूतकाशौचविभ्रमातुरभीतितः' इति । किंच सूतकादौ सत्यपि सामर्थे संध्याकर्म न कार्यमित्याह मरीचिः-- 'सूतके कर्मणां त्यागः संध्यादीनां विधीयते' इति । अत्र ब्रूमः-पूर्वोदाहृतपुलस्त्यबलेन तासां वाचामाचमनाद्यभिवादनान्त- कर्मरूपसंध्याकलापस्य सविशेषानुष्ठाननिषेधे तात्पर्यकल्पनात् । अत एव परा. शरमाधवीये-'प्राणायामं विना मानसिकमन्यत्कार्यम्' इत्युक्तम् । ननु व्याधितस्य कथमनुष्ठानप्रकारः। उच्यते-ज्वरितस्य यावदनुष्ठानाभावेऽप्य- दोषात् । स्वस्थस्यैव तन्नियमात् । तथाऽऽह याज्ञवल्क्यः- 'अनार्तश्चोत्सृजेद्यस्तु स विप्रः शूद्रसंमितः । प्रायश्चित्ती भवेच्चैव लोके भवति निन्दितः' इति ।
[चतुर्थो गुच्छः -- श्रीकृष्णपण्डितविरचितं- (गायत्रीहदयमन्त्रार्थ अविरपि-'नोपतिष्ठन्ति ये(वै) संध्यां स्वस्थावस्थाश्च ये द्विजाः । हिंसन्ति ते(च) सदा ते वै भगवन्तं दिवाकरम्' इति । नन्वत्यार्तस्य का गतिः । कुशलैव । पित्रा भ्रात्रा वा स्वानुष्ठानं कारयित व्यम् । न तु सर्वात्मना लोपः। नित्यकर्मत्वात् । तदुक्तं स्मृत्यन्तरे- उन्मत्तदोषयुक्तस्य व्याधियुक्तस्य नित्यशः । ज्वरादिना यत्किंचिद्धतत्वे शुद्धमम्बरं धृत्वा वाग्यतः समासीनः स्वेष्टदे वा ध्यात्वा विभूतिलेपनं कृत्वा तप्तवारिणा त्रिराचम्य यथाशक्ति संध्याका कुर्यात् । रुग्णस्य तप्तोदकाचमनं न निषिद्धमित्यापस्तम्बमुनिराह-'तप्ताभित्र कारणात्' इति । कारणं ज्वरादिकमिति वृत्तिकारः । अत्यार्तश्चेत्पितरं भ्रात रमन्यं वा शिष्यादिकं समाहूय नाहमनुष्ठातुं शक्नोमि त्वमेवैतदाचरेति निर्दि शोत् । यजमानस्योपात्तदुरितक्षयार्थमिति संकल्पः। एतेनोन्मत्तो व्याख्यातः। इति श्रीमद्राघवदेवज्ञवश्यश्रीकृष्णपण्डितविरचिते तैत्तिरीयसंध्याभाष्ये तृतीयो गुच्छः ॥३॥ अथ चतुर्थो गुच्छः। अथ गायत्रीजपात्पूर्वमोमित्येकाक्षरं ब्रह्मेति गायत्रीहृदयं पठनीयम् तथाऽऽह शौनक: - 'ओमित्येकाक्षरं ब्रह्मेत्येतद्धृदयमुच्यते । गायत्र्यास्तत्पठित्वाऽऽदौ जपकर्म समाचरेत् ' इति ॥ तदिदानी व्याख्यायते- ओमित्येकाक्षरं ब्रह्म । अग्निदेवता ब्रह्म इत्या- पम्। गायत्रं छन्दं परमात्म सरूपम् । सायुज्यं विनियोगम् । (ते० आ० प्र० १० अ० ३३) ओमित्येकाक्षरमिति । 'ओमित्येकाक्षरं ब्रह्म' परमात्मेति वाच्यवाच कयोरभेदः । एतत्सर्वं व्याहृतिव्याख्यानावसरे निरूपितमधस्तात् । ओमिति - * एतस्मात्पुरतः किंचित्रुटिसमिति बोध्यम् ।
तैत्तिरीयसंध्याभाष्यम् । - - [चतुर्थो गुच्छः] (गायत्रीहृदयमत्रार्थः) रूपनिष्पचिप्रकारोऽपि दर्शितः। विशेषस्तु भगवत्पादीयमतानुसारेण प्रपञ्च्यते । प्रपञ्चसारे मत्रसृष्टिप्रकरणे निर्दिष्टम् - 'योऽयं परमहंसाख्यो मत्रः सोऽहमितीरितः । सहोर्लोपेऽस्य पूर्वत्वे संघावोमिति जायते ।। अकारश्च तथोकारो मकारश्चाव(त्र)वर्ण[काः] ' इति ॥ योऽहं सोऽहमिति परमहंसाख्यो मनः। तस्य सकारहकारयोर्लोपे पूर्व- संधौ च कृत ओमिति रूपं जायत इति वाक्यार्थः । ब्रह्म ध्यायनेवोमित्येका- क्षरमिति जपेत् । तदाहुस्तत्रैव शंकरभगवत्पादीयाः- 'ओमित्येकाक्षरं ब्रह्म ध्यायन्नेव जपन्दिनः अवाप्तसर्वकामोऽसावात्मतत्त्वाय कल्पते ' इति ॥ तस्य ऋष्यादिकं दर्शयति-अग्निदेवतेति । तस्येति शेषः। 'अनिः' अङ्गति सकलवेदान्तप्रतिपाद्यत्वं गच्छतीति व्युत्पत्त्याऽग्निशब्दस्य परमात्मपर- त्वम् । अगिरगीतिदण्डधातुः। 'अङ्गेर्नलोपश्च' इत्यौणादिकसूत्रेण निप्रत्ययो नलोपश्च । 'यो देवानां नामधा' इति श्रुतेः। तस्य प्रणवस्याग्निः परमात्मा 'देवता' अधिदेवतेत्यर्थः। ब्रह्म' परब्रह्म 'आर्षम् ' ऋषिः। 'गायत्रं छन्दं ' गायत्री छन्दः । 'परमात्म सरूपं ' परमात्मा स्वरूपं तदभिव्यक्तियोग्यस्था- नत्वादिति भावः । 'सायुज्यं विनियोग' मोक्षे विनियोगः । इतिः प्रका- रार्थे । तथा चैवंप्रकारेण प्रणवस्वरूपं जानीयादित्यर्थः । तदुक्तं शंकरभ- गवत्पादैः- 'प्रणवे ब्रह्मर्षिः प्रोक्तश्छन्दो गायत्रमुच्यते । परमात्मा देवताऽयं मोक्षादौ विनियुज्यते' इति ॥ अत एवामिपदस्य परमात्मपरत्वं व्याख्यातम् । अथ सकलदेववरां गायत्री प्रार्थयते- आयातु वरदा देवी अक्षरं ब्रह्म संमितम् । गायत्री छन्दसां मातेदं ब्रह्म जुषस्व मे । यदाकुरुते पापं तदात्प्रतिमुच्यते । यात्रियोत्कुरुते पापं तद्वात्रियोत्पतिमुच्यते ।
श्रीकृष्णपण्डितविरचितं- [चतुर्थों गुच्छः] (गायत्रीप्रार्थनामधार्थः) सवैवर्णे महादेवि संध्याविद्ये सरस्वति । (ते० आ० प्र० १० अ० ३४) आयात्विति । 'वरदा' उपासकानामभीष्टफलप्रदानशीला 'देवी' गायत्री नित्यानन्दसंपन्ना मातृकात्मिकेत्यन्ये । 'आयातु' अस्मदनुग्रहार्थमस्मत्स- काशमायात्वित्यर्थः । अथ तां स्तौति-अक्षरमिति । 'अक्षरं ' क्षरणरहितं नित्यं 'संमितं ' सम्यग्वेदान्तप्रमाणेन निश्चितं 'ब्रह्म' परमात्मा त्वमेवेति शेषः । अस्तु ततः किं तत्राऽऽह-गायत्रीमिति । छन्दसां माता' सर्वेषां वेदानां जननी, सकलवेदनिर्गलितसारभूतत्वादित्यर्थः । तदुक्तमापस्तम्बसूत्रे- 'सर्वेभ्यो वै वेदेभ्यः सावित्र्यनूच्यत इति हि ब्राह्मणम् ' इति । तथाऽऽह मनुरपि-'त्रिभ्य एव तु वेदेभ्यः पादं पादमदुहत् । तदित्यूचोऽस्याः सावित्र्याः परमेष्ठी प्रजापतिः' इति । 'गायत्रीं' गायत्रीछन्दोभिमानिनी देवतेत्यर्थः। प्रथमार्थे द्वितीयापाठ- इछान्दसः। 'इदं' मत्कृतं स्तोत्ररूपं 'ब्रह्म' तपः । 'वेदस्तत्त्वं तपो ब्रह्म' इति वचनात् । 'जुषस्व ' अनुगृहाण त्वमिति शेषः । जुषस्वेति लिङ्गात् । गायत्रि त्वमागत्य मामनुगृह्य मदाचरितं स्तोत्रं जुषस्वेति स्वकृतं भगवत्यै समर्पयतीति भावः । अथवा 'वरदा देव्यक्षरं' विनाशरहितं 'संमितं ' सम्य- ग्वेदान्तप्रमाणेन निश्चितं 'ब्रह्म' जगत्कारणं परतत्वमुपदेष्टुमिति शेषः। आयातु' आगच्छतु । अस्माकं ब्रह्मतत्त्वं बोधयितुमागच्छत्वित्यर्थः । एत. देव स्पष्टयति-गायत्रीमिति । 'छन्दसां माता गायत्रीं' गायत्रीपदाभिधेया परदेवता 'मे' मम 'इदं ब्रह्म' वेदान्तप्रतिपाद्यं तत्वं 'जुषस्व' जोषयतू. पदिशत्वित्यर्थः । जुषस्वेति च्छान्दसं रूपम् । तस्य फलमाह-यदह्लादिति । अह्नात् ' अह्नि ' यत्पापं कुरुते' करोति 'तत् ' पापम् 'अहात्' अति प्रतिमुच्यते' उपासकपुरुषधौरेयेणेति शेषः । एतेन 'यद्राव्यात्' इति व्याख्यातम् । अथ गायत्र्याः सर्वात्मकत्वं दर्शयन्नेव सविशेष प्रार्थयते- सर्ववर्ण इति । 'सर्ववर्णे महादेवि' इति गायत्र्याः संबोधनम् । । ओजोऽसि सहोऽसि बलमसि भ्राजोऽसि देवानां धामनामाऽसि विश्वमसि विश्वायुः सर्वमसि सर्वायुरभिभूरों गायत्रीमावाहयामि 94 चतुर्थों गुच्छः] तेचिरीयसंध्याभाष्यम्। गायत्र्यावाहनमत्रार्थः) सावित्रीमावाहयामि सरस्वतीमावाहयामि छन्दर्षीनावाहयामि श्रियमावाहयामि गाय- त्रिया गायत्री च्छन्दो विश्वामित्र ऋषिः सविता देवताऽनिर्मुखं ब्रह्मा शिरी विष्णुहुंद- य५ रुद्रः शिखा पृथिवी योनिः प्राणापानव्या- नोदानसमाना सप्राणा श्वेतवर्णा सांख्यायन- सगोत्रा गायत्री चतुर्विशत्यक्षरा त्रिपदा षट्कुक्षिः पञ्चशीर्षोपनयने पञ्चशीर्षोपनयने विनियोगः । (तै० आ० प्र० १० अ०३५) एतादृशे हे देवि त्वम् 'ओजोअसि' इन्द्रियाणां शक्तिरसि, 'सहोऽसि' शत्रूणामभिभवनशक्तिरसि, 'बलमसि' शरीरसामर्थ्यरूपाऽसि, 'भ्राजोऽसि' दीप्तिरूपासि, 'देवानाम् ' अग्नीन्द्रादीनां 'धाम' तेजो यदस्ति तन्नामा 'असि' तदेवतानामैवेत्यर्थः । अथवा 'देवानां धाम' निवासभूमिः ‘असि' भवसि । ' नाम ' इति प्रसिद्धौ । सर्वदेवताश्रयभूमिर्भवसीत्यर्थः । 'विश्व सर्वजगदूपं त्वमेव 'असि'। 'विश्वायुः' संपूर्णायुःस्वरूपाऽसि । एवं 'सर्वमसि सर्वायुः' इत्युक्तानुवादः । यद्वा 'विश्व' समस्तं स्थावरजातं भवसि । 'विश्वायुः' स्थावरजातस्याऽऽयुरपि त्वमेव भवसि । अत्राऽऽयुःशब्देन सत्ताकालो विव- क्षितः । न तु मुखनासिकान्तर्वतिप्राणाख्यवायुसंचारः । तस्य चेतनधर्मत्वा- दिति ध्येयम् । 'सर्व ' निखिलजङ्गमजातं त्वम् 'असि' । सर्वस्य जङ्गमनात- स्याऽऽयुः 'असि' प्राणधारणमसि । ' अभिभूः ' निखिलस्य पापस्य तिर- स्कारहेतुः। ॐ 'प्रणवप्रतिपाद्यपरमात्मरूपाऽसि । एतत्सर्व सर्वात्मपरमेश्वरम- तिपादकत्वाद्गायत्र्याः संभवतीति भावः । तादृशीं ' गायत्री ' मदीये मनसि 'आवाहयामि ' उपासितुमिति शेषः । एवं सावित्र्यादिरूपेण गायत्र्या आवाहनम् । अत्रैकस्या एव संध्यादेवतायाः कालभेदेन नामभेदाङ्गीकाराद्गा- यच्यादिभेदेनाऽऽवाहनमुक्तं पराशरमाधवीये- 'गायत्री नाम पूर्वाह्ने सावित्री मध्यमे दिने । सरस्वती च सायाहे सैव संध्या त्रिधा मता' इति ॥ - [चतुर्थो गुच्छः श्रीकृष्णपण्डितविरचितं- (गायत्र्यादिनामत्रयनिर्वचनम्) नामत्रयस्य निर्वचनं कृतं ग्रन्थान्तरे- गायत्री प्रोच्यते तस्मादायन्तं जायते यतः। सविन्द्योतनात्सव सावित्री परिकीर्तिता ॥ जगतः प्रसवित्री वा वाघूपत्वात्सरस्वती । छन्दांसि गायत्र्यादीन्यृषीन्विश्वामित्रादीन् 'आवाहयामि । श्रयन्त्येता- मिति श्रीलक्ष्मीस्ताम् 'आवाहयामि' । अथ गायच्या छन्दऋषिदेवतादि- स्वरूपं दर्शयति-गायच्या इति । 'गायत्र्या गायत्री छन्दः'।शिष्टं स्पष्टम् । गायत्रीस्वरूपमाह-प्राणापानेति । पञ्चप्राणात्मिकेति कदम्बकार्थः । 'प्राणोऽ. पानः' इत्यमरवचनात्स्वरूपं वेदितव्यम् । देवदत्तकूर्मधनंजयनागककराः पञ्चोप- प्राणास्तैर्युक्ता । तस्याः कीदृशा वर्णा इत्यपेक्षायामाह-श्वेतवर्णेति । इदमुप- लक्षणम् । गायत्र्यादिभेदेन रक्तवर्णा कृष्णवर्णा चेत्सपि द्रष्टव्यम् । तदुक्तम्- 'गायत्री तु भवेद्रक्ता सावित्री शुक्लवर्णिका । सरस्वती तथा कृष्णा उपास्या वर्णभेदतः ' इति ।। सा किंगोत्रेत्यत आह-सांख्यायनेति । सांख्यायनो नाम कश्चिदृषिस्तेन समानं गोत्रं यस्याः सा ' सांख्यायनसगोत्रा' । गायत्रीपदं व्याख्यातम् । चतुरधिका विंशतिस्तावत्परिमितान्यक्षराणि वर्णा यस्याः सा ' चतुर्विशत्य. क्षरा'। 'संख्याया अल्पीयस्याः' इति चतुःशब्दस्य पूर्वनिपातः । त्रीणि पदानि यस्याः सा त्रिपदा । ङीवभावे यत्नः कार्यः । ऋग्यजुःसामवेदरूपपादत्रय- युक्तेत्यर्थः । षट्कुक्षयो यस्याः सा 'षट्कुक्षिः । प्राच्यादिदिक्चतुष्टयमूर्ध्वा. घरे द्वे आहत्य षट्कुक्षिर्भवतीत्यर्थः । पञ्च शीर्षाणि यस्याः सा 'पञ्चशीर्षा'। व्याकरणं प्रथमं शिरः । शिक्षा द्वितीयम् । कल्पस्तृतीयम् । निरुक्तं चतुर्थम् । ज्योतिषामयनं पश्चमम् । एतत्सर्वं गायत्रीहृदये प्रतिपादितमिति ध्येयम् । सा कुत्र विनियुज्यत इत्यत आह-उपनयन इति । उपनयनं नामाऽऽचार्यकर्तृको माणवकनिष्ठः श्रौतः संस्कारविशेषः । अस्मिन्विनियोग इत्यर्थः । अत्रेदमाकू- तम्-तथाविधसंस्कारस्य गायत्र्युपदेशसाध्यत्वात्सा तत्र विनियुज्यते । मन्त्रा- र्थस्तु गायत्रीजपप्रसङ्गे सम्यगने वक्ष्यते । अत्र केचिदुपनयनशब्दं निराहुः- उप समीपे नयनमुपनयनमिति । अपरे 'गर्भाष्टमे वर्षे वसन्ते ब्राह्मण आत्मा- नमुप मा नयस्वेति ब्रूयात् ' इति बौधायनवचनमुदाहरन्त उपनेतारं प्रत्युपने- यस्य मामुपनयस्वेति प्रयोजनव्यापार उपनयनमित्युपनयनपदं व्याचक्रुः । अथ गायत्रीजपः कर्तव्यः । कथमिति चेदन श-कुशवृस्यां समासीनः कुशो- तैत्तिरीयसंध्याभाष्यम् । - (चतुर्थो गुच्छः] (गायत्रीजपप्रकार:) तरायां वा कुशपवित्रपाणिः पश्चिमामुखः सूर्याभिमुखो वाऽक्षमालामादाय देवतां ध्यायन्गायत्रीजपं कुर्यात्' इति । जपात्पूर्वमाचमनं कार्यम् । तदाह मनुः- आचम्य प्रयतो नित्यमुभे संध्ये समाहितः । शुभे देशे जपञ्जप्यमुपासीत यथाविधि ' इति ॥ तच्चाऽऽचमनं श्रौतं स्मार्त वा कार्यमित्युक्तमधस्तात् । शरवचने गायत्री- जपमित्यत्र प्रणवव्याहृतियुतां गायत्री जपेत् । उपनयनकाले तथोपदिष्टत्वादिति। नन्वेवं चेत्पच्छोऽर्धर्चश इत्यादिकमपि जपकाले भवेत् । उपनयनकाले तथोप- दिष्टत्वादिति चेन । अग्रे तमिरसिष्यते । 'प्रणवव्याहृतियुतां गायत्रीं वै जपेत्ततः'। इति व्यासवचनाच प्रणवव्याहृतियुतां गायत्री जपेदिति गम्यते । यत्तु-' ओंकारपूर्वमुच्चार्य भूर्भुवः स्वस्तथैव च । गायत्री प्रणवं चान्ते जप एवमुदाहृतः ॥ इति अन्त इत्यन्तप्रणवप्रतिपादकं योगयाज्ञवल्क्यवचनं तत्तु वानप्रस्थवि. षयकं, न ब्रह्मचारिगृहस्थविषयकम् । तथाचोक्तं चन्द्रिकायाम्- 'गृहस्थो ब्रह्मचारी च प्रणवाद्यामिमां जपेत् । अन्ते यः प्रणवं कुर्यात्नासौ वृद्धिमवाप्नुयात् ' इति ॥ तत्रैव-संपुटैव षडोंकारा गायत्री त्रिपदा मता । तत्रैकमणवा कार्या गृहस्थैर्जपकर्मणि ।। तत्र त्रयाणां पक्षाणां मध्ये गायव्येकप्रणवा कार्या न तु प्रणवान्तसहितेति तात्पर्यम् । गृहस्थवदटोरपि जपः कर्तव्यः । तथाऽऽह वसिष्ठः- गृहस्थवत्तु जप्तव्या सदैव ब्रह्मचारिभिः ' इति । ननु कथंभूतेन गायत्रीजपः कर्तव्यः । उच्यते-सायमुपविश्य प्रत्यमुखो नपमाचरेत् । प्रातःकाले तिष्ठन्पाङ्मुख इति नियमः । तथाऽऽह मनुः- 'पूर्व संध्यां जपेत्तिष्ठन्सावित्रीमार्कदर्शनात् । पश्चिमां तु समासीनः सम्यगाःविभावनात् ' इति ॥ पूर्व संध्यां प्रातःसंध्यां पश्चिमां सायंसंध्यामित्यर्थः । अत्रेदं तत्त्वं निरू- न्यते--तत्राऽऽर्कदर्शनादाक्षविभावनादित्युभयत्राऽऽवर्तते । तस्यावध्यर्थ- त्वं वाच्यम् । 'आमर्यादाभिविध्योः' इति पाणिनिस्मरणात् । तत्र पर्यादाऽवपिरिति सूत्रार्थः । तथा च नक्षत्रसूर्ययोर्दर्शनं गायत्रीजपस्पैवावधि- - [चतुर्यो गुच्छः] - श्रीकृष्णपण्डितविरचितं- (गायत्रीजपे कालविशेषेण नियमाः) भवति न तु स्थानोपवेशयोः । गायत्रीजपस्यैव मुख्यतया वचनमतिपाद्य- त्वात् । तेन गौणकाले संध्यानुष्ठानवेलायामपि जपस्याऽऽवश्यकत्वेन तत्रापि सायंकाल उपविश्यैव प्रातस्तिष्ठन्नेव जपेदिति गम्यते । तथा ग्रन्थान्तरे- 'माकूलेषु तथा स्थित्वा दर्भेषु सुसमाहितः । प्राणायामत्रयं कृत्वा ध्यायेत्संध्यामिति श्रुतिः' इति ॥ इदं प्रातःसंध्याजपपरम् । संध्यां गायत्रीम् । नन्विदमनुपपन्नम् । तिष्ठन्मातर्जपेद्देवीं ब्रह्मचारी समाहितः । इति विशेषवचनाबटोरेव तिष्ठतो गायत्रीजपः प्रातर्विहितः, न तु गृहस्थस्य लभ्यते, तस्मादिदं कथं वर्णितम् । अत्रोच्यते-भावानभिज्ञोऽसि । तत्र ब्रह्मचारिपदं न बटुपरं किं तु ब्रह्मध्यानपरम् । तदुक्तं श्रीपादैः- 'ब्रह्मभावे मनश्वारो ब्रह्मचर्य प्रचक्षते ' इति । तेन सर्वोऽपि ब्रह्म ध्यायन्मातस्तिष्ठन्नेव कुर्यादित्यर्थः । वृषाकपिः- 'कन्यादानं च गोदानमुत्तराधारमेव च । प्रातःसंध्याजपं कुर्यात्तिष्ठन्नेव न संशयः' इति ॥ संध्या गायत्रीत्यर्थः । नन्वेवमपि प्रातस्तिष्ठता जपः कर्तुं न शक्यते । संध्ययोर्बहिामादासनं वाग्यतश्चेति सूत्रकारेण संध्याद्वयेऽपि समुपवेशनस्यैव स्वीकृतत्वादिति चेत् । मा वोचः । तत्राऽऽसनपदस्य स्थानोपलक्षणत्वाङ्गी- कारात् । अत एव वृत्तिकारः सिद्धान्तरहस्यमाह-अन्ये त्वासनग्रहणं स्थानस्योपलक्षणं, वाग्यतश्चेति लौकिक्या वाचो निवृत्तिः । न तु सावित्री- जपस्येति वर्णयन्तीति । न चान्यपदप्रयोगात्कथं सिद्धान्तः स्यादिति वाच्यम् । प्रातस्तिष्ठतैव जपः कार्यः ' सायं तूपविशतैव कार्य इति स्पष्टं निर्णयतां मन्वा. दिस्मृतिकाराणामावलायनादिगृह्यकाराणां च पन्थानमवलोक्य वृत्तिस्थान्य. शब्दस्य मुख्यकल्पपरत्वाङ्गीकारात् । आश्वलायनशाखिभिरपि सायमुपवि. श्यैव प्रातः स्थित्वैव जपः कर्तव्यः । तदाह भगवानाश्वलायन:-'वाग्यतः सायमासीन उत्तरावरमभिमुख्योऽस्पष्टमुपविश्य सावित्री जपेदर्धास्तमितमण्ड- लमानक्षत्रदर्शनात्यातः प्राङ्मुखस्तिष्ठन्नादित्यमण्डलदर्शनात् ' इति । उत्त- रावरमभिमुख्यो वायव्यभिमुख इति वृत्तिकारः । अत्र कारिकारत्ने- 'कुशासने समासीनो गायत्रीजपमाचरेत् । आतारकोदयात्सायमर्धास्तमितभास्करात्' इति । भास्करेऽर्धास्तमितेऽर्घ्यदानानन्तरं कुशासने समुपविश्य वायव्यस्याष्टमो यो भाग उत्तरतस्तिष्ठति तदभिमुखो जपेदित्यर्थः । तदुक्तं विश्वामित्रसंहितायाम्- - तैत्तिरीयसंध्याभाष्यम् । १९ [चतुर्थो गुच्छः] (जपसंख्याया आवश्यकत्वम्) 'वायव्यस्याष्टमो भाग उत्तरो यस्तथाऽऽनने । समाहितो जपेद्देवीं कुशपाणिरतन्द्रितः' इति । तेन सूत्रमपि व्याख्यातम् । यद्यपि गृहकारमत आ तारकोदयादिति तार• कोदयकालस्यैव जपावधित्वं प्रतीयते नतु दशादिसंख्यायास्तथाऽपि संख्याऽऽवश्यकी। 'असंख्यातं तु यज्जप्तं तत्सर्वं स्यान्निरर्थकम् ' इति संख्याहीनस्य वैफल्यस्मरणात् । एवं तु संख्या त्वार्थिकी त्ववर्ग- म्यते । संकल्पस्तु तारकोदयपर्यन्तं जपं करिष्य इति । न तु दशवारमित्या- दिप्रकारेण । यत्तु-'गृहस्थो ब्रह्मचारी वा शतमष्टोत्तरं जपेत् । वानप्रस्थो यतिश्चैव सहस्रादधिकं जपेत्' इति, तत्तु गौणकालजपविषयमिति न कश्चिदोषः । अत्रेदं विचार्यते- 'जपकाले तु गायत्रीमुच्चरञ्जपमाचरेत् । संध्यासु भिन्नपादा चेत्स जपो निष्फलो भवेत्' इति । अत्र यथानिशान्तं यथाध्ययनमिति चन्द्रिकाकारः। ननु-'अच्छिन्नपादा गायत्री ब्रह्महत्यां प्रयच्छति । छिन्नपादा तु गायत्री ब्रह्महत्यां विनाशयेत् ॥ इति वचनान्तराद्विच्छिन्नपादेव जप्तव्येति चेन्न । इदं हि वचनं गायत्री- कल्पाचागमशास्त्रानुरोधेन तच्छास्त्रोक्तदृष्टादृष्टफलसिद्धये प्रयोगं कुर्वतां गाय- त्रीमत्रोपासकानां विच्छिन्नपादा जप्तव्येति बोधयति, न तु वेदोक्तमार्गेण संध्यासु गायत्री जपतां तथेति । ननूपनयनकाले पच्छोऽर्धर्चशस्ततः सर्वा- मिति रीत्या गायत्रीमत्रस्योपदिष्टत्वात्तद्वदेव नित्यं जपः किं न स्यादिति चेन्न । तदा बटोहणासमर्थत्वेन तथोपदेशः कृत इदानीं तु न तद्युक्तम् । अत एव सुदर्शनाचार्यैरुक्तम्-तस्मै कुमाराय ग्रहणार्थ तत्सवितुर्वरेण्यमित्ये- तामृचमाचार्योऽन्वाहेति । अन्यथा व्याहतीविहृताः पादादिष्वन्तेषु वा तथाऽ- धर्चयो(शो)हन्त मा(मा)कृत्स्नरयामित्यादिकमपि तत्कालविहितं प्रसक्तं स्याद. विशेषात् । तस्मादहणार्थमेवोपनयकाले तथोपदिष्टं न तु नियमार्थम् । अन्यथा ततः सर्वामिति सकलगायत्र्युपदेशो न स्यात् । तस्मादविच्छिन्नपादा सर्वा गायत्री जप्तव्येति सिद्धम् । तत्र पूर्व जपमालिकया जपः कार्य इत्युक्तं तदभावेऽपि न क्षतिः । तस्य पर्वभिरपि कर्तुं शक्यत्वात । अत्र सहेतुकमाह व्यासः- - ५० श्रीकृष्णपण्डितविरचितं- [चतुर्थों गुच्छः] (प्रदोषादिकाले जपनियमः) 'पर्वभिस्तु जपेद्देवीमन्यत्रानियमः स्मृतः । गायच्या वेदधीजत्वादिः पर्वसु गीयते' इति ॥ आरभ्यानामिकायास्तु मध्यमे पर्वणि क्रमात् । तर्जनीमूलपर्यन्तं जपेद्दशसु पर्वसु ।। मध्यमाङ्गुलिमूले तु यत्पर्वद्वितयं भवेत् । तद्वै मेरुं विजानीयाजपे तन्नातिलवयेत् ॥ मध्यमापर्वद्वयमनतिक्रम्यैव परावृत्य पुनरप्यनामिकामध्यमपर्वाऽऽरभ्य जपः कर्तव्य इत्यर्थः । पर्वभिरेव जपः कार्यों नाङ्गुलीभिरित्याह व्यासः- पर्वभिस्तु जपः कार्यों नाङ्गुलीनां निपातनैः । निपातनैस्तु पज्जप्तं तत्सर्वं राक्षसं भवेत् ' इति ॥ अत्रायं विशेषः । आपस्तम्बशाखिनामयं प्रयोगः-आचम्य त्रिवार प्राणानायम्य ममोपात्तदुरितक्षयार्थ गायत्रीजपं शतवारं सहस्रवारमपरिमितवारं करिष्य इत्यागूर्य जपेत् । आगूः संकल्पः । तदाह भगवानापस्तम्बः-'दर्भे- वासीनो दर्भान्धारयमाणः सोदकेन पाणिना प्रत्यङ्मुखः सावित्री सहस्रकृत्व आवर्तयेच्छतकृत्वोऽपरिमितकृत्वो वा' इति । आश्वलायनानां नैवमिति प्रागु- क्तम् । जपलक्षणमुक्तं ग्रन्थान्तरे- 'प्रातर्नाभिसमं कुर्यान्मध्याह्ने हृदये तथा । सायाह्ने नासिकामूले जपलक्षणमीरितम्' इति ॥ न च जपादौ संकल्पकरणे मानाभावः । ' श्रुतिस्मृतिप्रचोदितं करिष्यते यथा तथा यत्यसुरा(दा तु नाss)गुरं वदेत्तदाऽऽदितो जलं स्पृशेत् ' इत्यस्यैव मानत्वात् । संकल्पाभावे कर्मवैफल्यं च स्मर्यते- न च श्राद्धं न तहानं न होमो न जपस्तदा। न पामोति फलं तस्य संकल्परहितं यदा' इति ॥ प्रदोषादिकाले जपनियममाह चन्द्रिकाकार:- श्राद्धे प्रदोषे दर्शे च गायत्री दशसंख्यया। अष्टाविंशत्यनध्याये त्रयोदश्यां तु मानसम् ॥ श्राद्धे श्राद्धभोजनानन्तरम् । ननु तदानीं संध्याधिकार एव नास्ति । श्राद्धादिभोजनस्य कर्माधिकारपरिपन्थित्वादिति चेन । दशवारं गायच्याऽ. भिमत्रितं जलं पीत्वा कर्माधिकारी भवति । तदुक्तं लोकोपकारे- . - - - तैत्तिरीयसंध्याभाष्यम् । [चतुर्थो गुच्छः] (गायत्र्यर्थः) दशकृत्वः पिबेदापो गायच्या श्राद्धकद्विजः । ततः संध्यामुपासीत जपेच्च जुहुयादपि' इति ॥ इदं सायंसंध्याविषयमिति ध्येयम् । यत्तु जपादौ न्यासमुद्रादिकं कुर्वन्ति तत्तूपासककर्तव्यमत्रसंध्याङ्गं न वैदिकसंध्यागम् । गृह्येषु मन्वा- दिस्मृतिषु वाऽप्रतीतेः । हृदयादिषडङ्गन्यासाङ्गुलिन्यासध्यानादिकं त्वाचा- रानुसारेण कर्तव्यम् । एवं स्थिते गायत्रीमत्रो व्याख्यायते-ओमिति । ओंकारो व्याकृतः । व्याहृतयश्च व्याकृताः । प्रत्यग्ब्रह्मैक्यबोधिका शुद्धा गायत्री व्याख्यायते-तदिति । सा च त्रिपदा 'त्रिपदा गायत्री इति श्रुतेः । चतुर्थपादः किमिति न पठ्यत इति चेन्न । अधिका- राभावात् । तथा हि उपनयनं नाम श्रुतिविहितसंस्कारः। सा च श्रुतित्रि. पदा गायत्री न तु चतुष्पदा । तथा च यावता मनेणोपनयनं विहितं तत्रैवो. पनीतस्याधिकारो नान्यत्र । चतुर्थपादस्याथर्वणान्तःपातित्वेन तत्र पृथगुपनय- नस्याऽऽवश्यकत्वात् । तदभावेनाथर्वणवेदान्तःपातिनि चतुर्थपादे नाधि- कारोऽस्ति । तदुक्तमुज्ज्वलायाम्-अथर्वणस्य तु वेदस्य पृथगुपनयनं कर्त- व्यम् । तथा ब्राह्मणम् -' नान्यत्र संस्कृतो भृग्वङ्गिरसोऽधीयीत' इति । तस्माच्चतुर्थपादपाठो नास्तीति सिद्धम् । मत्रार्थस्तु-दीव्यति उदयास्तंगम- नाभ्यां लोकयात्रां प्रवर्तयन्देशान्तरं यातीति देवः । दिवु क्रीडादौ । पचाद्यच । दीव्यति प्रकाशत इति वा देवः। धुलोकवर्तित्वाद्वा देवः । ध्यातत्वाद्धृदयार. विन्दमध्ये क्रीडतीति वा देवः । 'देवो धुलोकवर्तित्वादेवनादेवनेन वा' इत्यभि- धानात् । तस्य 'देवस्य' । 'तत्' इति षष्ठया परिणम्यते तस्येत्यर्थः । 'सुपा सुलुक्' इति पाणिनिस्मरणात् । सूते सकलजननि:तिहेतुं वृष्टिमिति ‘सवितुः'। ण्वुल्तृचौ ' इति च । 'याभिरादित्यस्तपति रश्मिभिस्ताभिः पर्जन्यो वर्षति' इति श्रुतेः। 'अग्नौ प्रास्ताऽऽहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते दृष्टिटेष्टेरन्नं ततः प्रजाः' इति स्मृतेश्च ॥ यद्वा सौति सकलश्रेयांसि ध्यातूणामिति सविता । ' उद्यन्तमस्तं यन्तमा- दित्यमभिध्यायन्कुर्वन्ब्राह्मणो विद्वान्सकलं भद्रमश्नुते ' इति श्रुतेः । एवंविध- स्याऽऽदित्यस्य भगवतः संबन्धि 'वरेण्यं ' पुरुषार्थकामिभिर्वरणीयं श्रेष्ठं वा । तन्वादीनां विकल्पेनेयडुबडित्यनेनेयङादेशः । वरेण्यमित्यत्र वर्णचतु. टयं परिज्ञेयं नतूचारणीयमिति वृद्धाः प्रवदन्ति । भर्नति तमस्काडं इन्तीति 'भर्गः ' तेजः। · अश्यञ्जियुजिभृजिभ्यः कुश्च ' इत्यौगादिकसूत्रेणासुन्म- - - - - श्रीकृष्णपण्डितविरचितं- [चतुर्थो गुच्छः] (गायत्र्यर्थः) त्ययः कवर्गश्चान्तादेशः। सान्तमेतत् । शिवपरस्यैव भर्गशब्दस्यादन्तत्वं पुंस्त्वं च नार्थान्तरपरस्यापि तमियमः । ' महन्मेऽचोचो भर्गो मेऽवोचः ' इति सोम- सूत्रे तथा दर्शनादिति विवेकः । अत एवाऽऽर्यप्रणीतश्लोकोऽप्यस्ति- 'भर्गः सूर्यात्मकं हारि महसो वाचकत्वतः' इति । 'धीमहि ' ध्यायेमहि । प्रार्थनायां लिङ् । ध्यायतेः संप्रसारणं छान्दसम्। ध्यायेमहीतिशब्दोक्तौ धीमहीत्येतदुच्यते ' इति पूर्वव्याख्यात्वचनात् । एते छात्रादिसहिता वयं सौरं तेजो ध्यायेमहीति पिण्डितार्थः। एतेन न बहुवचना नुपपत्तिः । ध्यानधारानैरन्तर्यविवक्षया वा वहुवचनोपपत्तिरिति द्रष्टव्यम् । तद्यदर्थं तदाह-धिय इति । 'यः ' सविता ‘धियः । धिय इति द्विती- याबहुवचनम् । 'प्रचोदयात् ' प्रकर्षेण प्रेरयति सकलकर्मानुष्ठानप्रवणा दुष्कर्म- विमुखाश्चास्मबुद्धीः करोति तस्य सवितुस्तेजो ध्यायेमहीति संबन्धः । प्रचो. दयादिति लेदपाठ छान्दसः । एवम् ' उतैनं गोपा अदृशन् ' इतिश्रुतिपर्या- लोचनयाऽऽदित्यस्यापि शिवपरत्वाच्छिवपरत्वमुक्तम् । वस्तुतस्तु गायत्रीमत्रः साक्षाच्छिवपर एव । तथा हि- सवितुर्देवस्य ' सवितृरूपदेवस्येत्यर्थः । राहोः शिर इतिवदौपचारिकी षष्ठी । मण्डलान्तर्गतमिति शेषः । ' मण्डलान्तर्गतं हिरण्ययं भ्राजमानवपुषं शुचिस्मितम् । चण्डदीधितिमखण्डविग्रहं चिन्तये मुनिसहस्रसेवितम्' इति श्रुतेः ॥ 'वरेण्यं ' श्रेष्ठं, शिवस्य ब्राह्मणदैवतत्वात् । तदिति द्वितीयया परिणमते । सुपां सुलुगित्यविभक्तेर्लोपः । तं सदाशिवं 'धीमहि ' ध्यायेमहि । सदा. शिवध्यानस्य पृथग्जनदुष्पापस्यैकेन कर्तुमशक्यत्वात्तदनुसंधानकुशलैः पुरुषपु- ण्डरीकैः सह कर्तुं शक्यत्वादहुत्वोक्तिरिति ध्येयम् । तत्किमर्थमित्यत आह- धिय इति । ' यो भर्गः ' शिवः पूर्वपादावस्थस्यापि भर्गशब्दस्यान्वयबलाद- नुषञ्जनं कार्यमिति विवेकः । 'नः ' अस्मान् ‘धियः' अज्ञानात् । धीश ब्दोऽत्र व्यतिरेकलक्षणयाऽज्ञानपरः। धीरे कातरशब्दवत् । ‘प्रचोदयात् ' प्रकर्षेणाज्ञानपारं गमयेदिति प्रार्थ्यत इत्यर्थः । अस्मिन्नर्थे श्रुतिः- 'उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् । ध्यात्वा मुनिर्गच्छति भूतयोनि समस्तसाक्षी तमसः परस्तात् ' इति । तमसोऽज्ञानात्परस्तात्पारमिति श्रुत्यर्थः । सर्ववेदान्तसिद्धान्तमवलम्ब्य प्रकाश्यते । गायत्रीनिगमार्थोऽयं सदाचार्यप्रसादतः ॥
तैत्तिरीयसंध्याभाष्यम् । । चतुर्थो गुच्छः] गायत्यर्थः) तदिति । दीव्यति नन्दतीति देवः । अखण्डानन्दैकरस इत्यर्थः । तदिति षष्टया परिणम्यते । तस्य 'देवस्य ' । सूते नानोपासनाफलानीति सविता । निर्विशेषस्यापि तत्तदाकारेणोपासितस्य तत्तत्फलजनकत्वाभ्युपगमात् । यद्वा सूते जगन्तीति सविता सकलजगदुपादानकारणमित्यर्थः । ' सविता प्रसवा- नामीशे । सविता प्रसवानामधिपतिः' इति वाक्याभ्यां सवितशब्दस्योत्पत्त्यर्थ- कत्वात् । इदं च जगत्पालयितृत्वजगत्संहर्तृत्वयोरप्युपलक्षणम् । तथा च जगदुत्पत्तिस्थितिलयकारणत्वं लभ्यते । तदिति ब्रह्मवाचि षष्ठयन्तम् । सुपां सुलुगितिपाणिनिस्मरणात् । 'ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः । ब्राह्मणास्तेन ' इति वचनेन तच्छब्दस्य ब्रह्मवाचकत्वात् । 'वरेण्यं ' पुरुषा- र्थकामिभिरीमान श्रेष्ठं वा भर्गोऽविद्यादिदोषभर्जकं तेजः । 'वीर्य वै भर्गः' इति श्रुतेः। वीर्य तेज इति श्रुत्यर्थः। भर्गस्तेजोवचनः' इति वृद्धैः पूर्व व्याख्या- तत्वाच्च । अत्र प्राचीना भर्गो वृजिनभर्जनादिति भर्गपदं निराहुः । ब्रह्मण- स्तेजोरूपत्वेऽप्येषोऽस्य परम आनन्द इतिवद्भेदव्यपदेश औपचारिक इति द्रष्टव्यम् । तथा चाव्यानन्दलक्षणं सर्वजगदुपादानं परिपूर्णज्योतीरूपबिम्ब- स्थानीयं ब्रह्म वाक्यार्थतया पर्यवसन्नम् । एतादृग्ब्रह्म तद्रूपत्वेनेति शेषः । 'धीमहि ' ध्यायेमहि । ननु कोऽसौ ब्रह्माभेदो विवक्षित इत्याशङ्कय प्रत्यग्रूप इत्याह-धिय इति । ' यः ' प्रत्यङ् 'नः' अस्माकं 'धियः 'बुद्धीरन्तःकरण- वृत्तीरित्यर्थः । 'प्रचोदयात् ' प्रेरयति । अन्तःकरणवृत्त्यादिकं प्रकाशयतीति यावत् । तथा चान्तःकरणतद्धर्मावभासकसाक्षित्वेन पूर्वोक्तं ब्रह्म ध्यायेमहीति निर्गलितार्थः। वस्तुतस्तु पूर्वोक्तं ब्रह्म धीमहि सोऽहमिति प्रत्यग्लक्षणतया ध्यायेमहि । ननु न ब्रह्म प्रत्यग्लक्षणं प्रत्युत तद्विलक्षणमेव कर्तृत्वाद्यनाश्रय त्वादित्याशङ्कय तस्य प्रत्यग्विलक्षणत्वमेवासिद्धमित्याह-धिय इति । 'यः' प्रत्यग्ब्रह्म, पुंस्त्वनिर्देशश्छान्दसः। यःशब्दश्च यदित्यर्थे लिङ्गव्यत्ययतो भवेत् । इति लौहित्यलीलकण्ठवचनात् । जीवात्मना प्रविश्य 'धियः' बुद्धी. रन्तःकरणवृत्तीः 'प्रचोदयात् ' प्रकाशयति । तथा च बिम्बस्थानीयं ब्रह्मैव साक्षिरूपमिति प्रत्यग्लक्षणध्यानमुपपन्नमिति न कश्चिदोषः । तस्मात्पक्षद्वयेऽपि मत्यग्ब्रह्मैक्यमेव पर्यवस्यतीति पूर्णब्रह्मैव गायत्रीमत्रार्थः । अथ गायत्रीमत्रार्थः श्लोकरूपेण विद्यारण्यस्वामिभिरुदाहृतः। ते श्लोका उदाहियन्ते- , - श्रीकृष्णपण्डितविरचितं- [चतुर्थो गुच्छः] (गायत्र्यर्थप्रतिपादकाः श्लोकाः) तदित्यवाअनोगम्यं ध्येयं यत्सूर्यमण्डले । सवितुः सकलोत्पत्तिस्थितिसंहारकारिणः ॥ वरेण्यमाश्रयणीयं यदाधारमिदं जगत् । भर्गः स्वसाक्षात्कारेणाविद्यातत्कार्यदाहकम् ॥ देवस्य द्योतमानस्य ह्यानन्दात्क्रीडतोऽपि वा। धीमाहं स एवेति तेनैवाभेदसिद्धये ॥ धियोऽन्तःकरणवृत्तीश्च प्रत्यक्मवणचारिणी। य इत्यलिङ्गधर्म यत्सत्यज्ञानादिलक्षणम् ।। नोऽस्माकं बहुधाभ्यस्तभिन्नभेददृशां तथा । प्रचोदयात्प्रेरयतु प्रार्थनेयं विचार्यते(ताम्) । अत्र लोकोपकारे जपलक्षणं निर्णीतम्- तथा मध्याह्नसंध्यायामासीनः प्राङ्मुखो जपेत् । तिष्ठन्नपि जपेद्देवीमादित्याभिमुखो द्विजः ॥ कृत्वोत्तानौ करौ प्रातः सायं चाधोमुखौ करौ । मध्ये प्रसारितकरौ जप एवमुदाहृतः॥ गायत्रीजपादौ करशुद्धिः कार्या । तल्लक्षणं तु-- 'प्रकोष्ठे मणिबन्धे च पाईयोस्तलयोस्तथा । तत्पृष्ठे च तदग्रे च करशुद्धिरुदाहृता' इति ॥ अथोपस्थानमत्रान्व्याख्यास्यामः । तत्र सायमिमं मे वरुणेत्युपस्थानमन्त्रः। मध्याह्न आ सत्येनेति । प्रातस्तु मित्रस्य चर्षणीधृत इत्यापस्तम्बशाखिनामिति विवेकः । तत्र वृद्धवसिष्ठः- 'प्राणायामैत्रिभिः पूतो गायत्रीजपमाचरेत् । तथोपतिष्ठेदादित्यमुदयन्तं समाहितः' इति । चन्द्रिकायाम्-जपं कृत्वा विधानेन संध्योपासनमाचरेत् । उपस्थानं स्वकर्मत्रैरादित्यस्य तु कारयेत् ॥ स्वकैः शाखापठितैस्तल्लिङ्गैर्मरित्यर्थः । सायंकाले वारुणीभिरथाऽऽदि त्यमुपस्थाय प्रदक्षिणीकुर्वन्दिशो नमस्कुर्याद्दिगीशांश्च पृथक्पृथगिति । आश्व लायनशाखिनामयं विभागः । प्रातमैत्रीभिः सायं वारुणीभिरादित्यमुपतिष्ठेत तदुक्तमावलायनस्मृतौ- अथोपतिष्ठदादित्यमुदयन्तं समाहितः । मैत्रीभिर्वारुणेनास्तं गतं सक्तेन बहवः' इति ॥ . .
- [चतुर्थो गुच्छः] तैत्तिरीयसंध्याभाष्यम् । (सायमुपस्थानमत्रार्थः) यद्यपि गृह्ये नोक्तम्, तथाऽपि स्मृतौ तेनैवोक्तत्वात्कर्तव्यम् । गृह्य उप- स्थानानुक्तिस्तन्मूलोत्सनशाखाया अभावात् । गृह्यस्योत्सनशाखामूलत्वमा- पस्तम्बीये दृश्यते--' तेषामुत्सनाः पाठाः प्रयोगादनुमीयन्ते' इति । ननु स एवाऽऽश्वलायनः कथं स्मृतौ तन्निवबन्धेति चेन्न। अनुमेयवेदमूलस्मृति. खूपस्थानस्योक्तत्वादाश्वलायनेन स्मृतौ निबन्धनं कृतमिति न कश्चिदोषः । स्मृतेरयमर्थः-पातश्चतसृभिमित्रस्य चर्षणीकृत इत्यादिभिरादित्यमुप. तिष्ठेत वारुणेन यचिद्धि ते विशो यथेति पश्चर्चेन सूक्तेन सायमिति । सूत्रे-'मित्रस्य चर्षणीधृत इति चतस्रो मैत्र्यो यचिद्धि ते विशो यथेति पश्चर्च वारुणम् ' इति । जपान्ते प्रातः सौरैर्मत्रैः सूर्यमुपतिष्ठेत सायं वारु- णेन । यद्वोभयत्र जातवेदस इत्याश्वलायनशाखिनामुपस्थानमवः । [वस्तुत- स्त्वयं पक्षोऽयुक्तः । तस्य पूर्वोक्ताश्वलायनस्मृतिविरोधेनाऽऽश्वलायनानभिम- तत्वाद्गाश्वलायनाचारविरोधाच्च । करालाश्व[ला]यनास्तु कालद्वयेऽपि जात- वेदस इत्युपस्थानमाचरन्ति तन्ह्याचारविरुद्धमित्युपेक्षणीयम् । सायमुपस्थानमत्राक्षरार्थो व्याख्यायते- इमं मैं वरुण श्रुधी हवमद्या च मृडय । खामक्स्युराचंके ॥ (तै० सं० का०२० १ अ०११) इममिति । पुरा कश्चिच्छुनःशेपो नाम ऋषिः पशुत्वेन यूपे बद्धः संस्तद्वन्ध- विमोचनार्थ वरुणं प्रार्थयामास । तत्प्रार्थनाप्रकारश्चानेन मत्रेण द्योत्यते । तथा हि-हे 'वरुणेमं मे ' मदीयं ' हवम् ' आहानं ' श्रुधि ' शृणु । श्रुशृणुपू- कसभ्य छन्दसि ' इति हेधिः । अन्येषामपि दृश्यते ' इति दीर्घः । प्रार्थना. रूपमाहानं सृण्विति भावः । किं तेन श्रवणेनेत्याशङ्कायामाह-अद्यति । अद्य ' इदानीं, दीर्घश्छान्दसः। ' मृडय' वञ्चनं परिहत्य मां सुखिनं च कुर्वित्यर्थः । नन्वारयोः कः संबन्ध इत्यत आह-त्वामिति । ' त्वां ' भव- न्तम् ' अवस्युः ' अवनमात्मन इच्छु: ' आचके ' प्रार्थये । इतोऽप्य[हं त्वां शरणं गतोऽ]स्मीत्याह- तत्त्वा यामि ब्रह्मणा वन्दमानस्तदाशास्ते यज- मानो हविभिः । अहेडमानो वरुणेह बोध्युरु- . - ५६ , , स्तुत्यात्मना मत्रेण । . - - श्रीकृष्णपण्डितविरचितं- [चतुर्थो गुच्छः] (सायमुपस्थानमत्रार्थः) शश्स मा न आयुः प्रमोषीः॥(तै० सं० का० २ प्र० १ अ०११) तदिति । तस्मै, विभक्तिलोप'छान्दसः । रक्षणायेत्यर्थः । 'ब्रह्मणा वन्दमान: नमस्कारं कुर्वस्त्वां 'यामि' प्रपद्ये । यतस्त्वं भक्तजनपरिपालको भवस्यतोऽहं त्वामेव रक्षितारं भजस्तव शरणाग. तोऽस्मि । तेन मां मृडय । अन्यथा शरणागतपरित्यागो महादोषाय स्यादिति भावः । न केवलं ममैवैतदभिमतम् । अपि तर्हि यष्टुर्यजमानस्यापि तद्रक्षण मिष्यमाणमेवेत्याह-तदिति । ' यजमानः ' यष्टा 'हविभिः' आज्यादि. भिस्तदर्थ समर्पितैरित्यर्थः । करणैस्तद्रक्षणम् ‘आशास्ते' प्रार्थयते । तस्मा- देवश्यं सुखयेति भावः । विनयपूर्वकं स्वकृतं याचनं वरुणाय भगवते समर्प- यते-अहेडमान इति । हे 'वरुण' त्वम् ' अहेडमानः ' अनादरमकुर्वन्न- क्रुध्यन्वा ' इह ' अस्मिँल्लोके 'बोधि ' मम याचनं बुध्यस्व । मत्कृतं याचन- मनुगृहाणेत्यर्थः। फलितमर्थमाह-उरुश सेति । हे 'उरुशस ' उरुभिर्मरैः शंसनीयस्तस्य संबोधनं हे उरुशंस । उरुकीर्ति मत्वा नः' अस्माकं, यज. मानाद्यपेक्षया बहुत्वोक्तिः। अन्यथेमं मे वरुणेत्यत्रैकवचनप्रयोगादन्यत्र बहु- वचनप्रयोगाच्चानन्वयमसङ्ग इति मन्तव्यम् । 'आयुः' जीवितं 'मा प्रमोषीः' मा प्रणाशय । अस्माकं वेदोक्तमायुष्यं देहीत्यर्थः । यच्चिद्धि ते विशौ यथा प्र देव वरुण व्रतम् । मिनीमसि छवि द्यवि । (तै० सं० का०३ प्र०४ अ०११) यचिद्धि त इति। हे ' वरुण देव ते ' त्वदीयं ' यच्चिद्वतं ' यत्किंचिदपि कर्म 'द्यवि घवि ' दिने दिने प्रकर्षेण 'मिनीमसि' तर्कयामः । 'इदन्तो मसि' इति मसिशब्दे परे तदन्त इकारः । तत्र दृष्टान्त:-विशो यथेति 'विशः' मनुष्या अज्ञानिनो 'यथा' तद्वदित्यर्थः । मदीयव्रतलोपनिमित्त कापराध क्षमस्वेति वाक्यशेषः । यत्किंचेदं वरुण दैव्ये जनेऽभिद्रोहं मनुष्यांश्च- रामसि । अचित्ती यत्तव धर्मी युयोपिम मा .
५७ [चतुर्थो गुच्छः] तैत्तिरीयसंध्याभाष्यम् । (सायमुपस्थानमन्त्रार्थः) नस्तस्मादेनसो देव रीरिषः। (तै० सं० का० ३ प्र.४ अ. ११) यत्किचेति । हे 'वरुण दैव्ये ' दिव्यलोके वर्तिनि 'जने ' त्वयीत्यर्थः। 'यत्किं च ' किंचित् ' इदमभिद्रोहं ' स्वल्पमधिकं वा द्रोहम् 'अचित्ती अचित्याऽज्ञानेन ' मनुष्याश्चरामसि' कुर्मः । किंच ' तव यत् ' अपि 'धर्मा' धर्म दीर्घश्छान्दसः । त्वदीयं कर्म ‘युयोपिम' विनाशयामः । हे देव तस्मादेनसः' द्रोहात् 'नः' अस्मान् ‘मा रीरिषः' मा हिंसी । धर्मलो- पनिमित्तमेनः परिहत्यास्मान्परिपालयेत्यर्थः । किंच- कितवासो यदि रिपुर्न दीवि यहां घा सत्यमुत यन्न विद्म । सर्वा ता विष्य शिथिरेव देवाथा ते स्याम वरुण प्रियासः। (तै० सं० का०३ प्र.४ अ.११) 'कितवासः' धूर्तसमानाः । 'आजसेरसुक्' इति जसेरसुगागमः । वार्थसाधनपरा ऋत्विजो 'यत्' कर्माङ्ग 'रिरिपुः' नाशितवन्तः । 'न दीवि' तम्यग्व्यवहृतौ न पावर्तन्तेत्यर्थः । यदेत्यव्ययद्यं पक्षान्तरवाचि । घेति पाद- रणवाचको निपातः । यद्वाऽथवा यत्पापं 'सत्यम्' अवश्यं कृतमज्ञात्वैव कृत- मेत्यर्थः । (यद्वाघमित्यन्वयः।) उतापि च यद्धर्मस्वरूप 'न विद्म' न जानीम ति यावत् । वर्णाश्रमचोदितस्य धर्मस्य तत्त्वं न जानीम इत्यर्थः । अस्तु ततः के तत्राऽऽह-सर्वेति । 'सर्वा' सर्वाण्यविग्भि शितं ज्ञात्वा कृतमज्ञानेन कृतं चेत्येवमस्माभिर्बहुधा कृतान्येनांसि सन्ति तानि सर्वाण्येनांसि 'विष्य' अस्मत्सकाशाद्विशेषेणापनीतानि कुरु विनाशयेत्यर्थः । एवमधिकपातकनिरा- समाकाङ्क्षय क्षुद्रपापनिरासमाकाङ्क्षते-शिथिरेवेति । 'शिथिरेव' शिथि- लानि । छान्दसमेतत् । यान्यन्यानि क्षुद्राणि पापानि तानि सर्वाणि विष्ये- त्यन्वयः। अथ भवत्कटाक्षानन्तरं हे 'वरुण ते' तव 'प्रियासः' प्रियाः 'स्याम' मिया भवेम । अत्रेदं प्रतिभाति-अयं मत्रः सूर्योपस्थाने विनियुक्तः । ननु वरुणलिङ्गान्मत्रस्य वरुणोपस्थान एव विनियोगः प्रतीयत इति चेत्सत्यम् । धनुचिहान्तर्गतमधिकम् । - - ५८ श्रीकृष्णपण्डितविरचितं- [चतुर्थो गुच्छः] (प्रातरुपस्थानमन्त्रार्थः) वथाऽपि वारुणीभिरादित्यमुपस्थाय प्रदक्षिणमिति द्वितीयाश्रुत्या तल्लिो बाधित्वाऽऽदित्योपस्थान एव मत्रो विनियुज्यते न तु वरुणोपस्थाने । एतच सर्व तृतीयाध्याये विचारितम् 'ऐन्या गार्हपत्यमुपतिष्ठते ' इत्यत्र । प्रातरुपस्थानमन्त्रमाह- - मित्रस्य चर्षणीधृतः श्रवो देवस्य सानसिम् । सत्यं चित्रश्रवस्तमम् ॥ (तै० सं० का० ३ प्र० ४ अ० ११) मित्रस्येति । अहरभिमान्यादित्यो मित्रः । चर्षणी प्रजा। 'कृषेरादेश्च च.' इत्यौणादिकसूत्रेणानिप्रत्यय आदेश्वकारश्च । तासां धर्ता चर्षणीकृत , तस्य देवस्य । श्रूयत इति 'श्रवः' । 'सानसिं ' सम्यग्भजनीयं 'सत्यम् ' अवि- नाशि । चित्रमाश्चर्य यथा तथाऽतिशयेन श्रूयत इति 'चित्रश्रवस्तमम् । श्रोतजनमनासुखकरमित्यर्थः । एवंभूतं तस्य श्रवः स्तौमीति शेषः । अथवा 'चर्षणीधृतः' मनुष्याणां धारयितुः ‘मित्रस्य देवस्य ' मित्रनामकदेवस्ये- त्यर्थः । ' श्रवः' श्रोतुं योग्यं यशो महदस्तीति शेषः। 'सानसिं' फल- दानशीलं 'सत्यं ' सत्यवादिनं चित्रं श्रवः कीर्तिर्यस्यासौ चित्रश्रवा अतिश- येन तादृशं ' चित्रश्रवस्तमं ' यजामह इति शेषः। मित्रमेव पुनरपि स्तौति- मित्रो जनान्यातयति प्रजानन्मित्रो दांधार पृथिवीमुत द्याम् । मित्रः कृष्टीरनिमिषाऽभि- चष्टे सत्यार्य हव्यं घृतदिधेम । (तै० सं० का.३ प्र.४ अ. ११) मित्रो जनानिति । अयं 'मित्रः प्रजानन् ' तत्तदधिकारं विद्वान्सर्वान् जनान्यातयति' स्खे स्वे कर्मणि नियोजयति । किंच- 'मित्रः पृथिवीं दाधार 'धृतवान् । ' उत' अपि च ' द्याम् ' । किंच 'मित्रः ' कृष्टीमनु- ष्यान् ' अनिमिषा ' प्रबुद्धः सन्, यद्वा 'अनिमिषा' अनिमिषान्देवानि- त्यर्थः । विभक्तिलोपश्छान्दसः। 'अभिचष्टे' सर्वतः पश्यति सर्व प्रकाश . . - तैत्तिरीयसंध्याभाष्यम् । - - [चतुर्थो गुच्छः] (मध्याहोपस्थानविनियुक्तमत्रार्थः) यतीत्यर्थः । 'सत्याय' अमोघफलाय सत्यात्मने वा तस्मै मित्राय 'हव्यं ' चरुलक्षणं घृतवद्धृतयुक्तं ' विधेम' कुर्मः । प्रस मित्र मर्ती अस्तु प्रय॑स्वान्यस्त आदित्य शिक्षति व्रतेन । न हन्यते न जीयते खोतो नैनमहो अश्रोत्यन्तितो न दूराव ॥ (तै० सं. का. ३ प्र.४ अ. ११) प्रस मित्रेति । हे ' आदित्य यः यजमानः 'ते' तव संबन्धिना 'व्रतेन' कर्मणा ' शिक्षति ' अनुष्ठातुं शक्तो भवितुमिच्छति । हे 'मित्र स मतः' मनुष्यो यजमानः 'प्रयस्वान् ' प्रकर्पण धर्मफलयुक्तोऽस्तु । 'त्वोतः' त्वया-ऊतो रक्षितः स यजमानो 'न हन्यते ' रोगादिना न पीड्यते 'न जीयते' वैरिभिर्नाभिभूयते । अपि च त्वया रक्षितम् ‘एनं' यजमानम् 'अंहः' पाप्मा 'अन्तितः' समीपे 'नानोति' नाऽऽप्नोति 'दूरान' व्यानोति । महदनुग्रहशालिनं पुरुषं क्षुद्रोपद्रवा न स्पृशन्तीति भावः । मध्याह्न उपस्थानविनियुक्तं मत्रमाह आ सत्येन रजसा वर्तमानो निवेशय॑नमृतं मर्य च । हिरण्ययेन सविता रथेनाऽऽ देवो यांति भुवना विपश्यन् ॥ (तै. सं. का. ३ प्र. ४ अ. ११) आ सत्येनेति । 'आ सत्येनति मत्रस्य हिरण्य ऋषिरीरितः । त्रिष्टुप्छन्दश्च सविता देवता परिपठ्यते' ।। आ सत्येनेत्यादि । 'सत्येन ' लोकेन देवलोकेन 'रजसा ' रजोलोकेन मनुष्यलोकेन 'आवर्तमानः ' अयं 'सविता ' सत्यलोकजनानाम् 'अमृत' रजोलोकजनानां 'मयं च निवेशयन्हिरण्ययेन रथेनाऽऽयाति ' आ समन्ता- घाति । किं कुर्वन् ‘भुवना' भुवनानि 'विपश्यन् ' विशेषेण पश्यन् । ईदृशं तं सवितारमतिष इति शेषः । , [चतुर्थो गुच्छ: ६० श्रीकृष्णपण्डितविरचितम्- (मध्याहोपस्थानविनियुक्तमत्रार्थः) उद्वयमित्यस्य विश्वामित्र ऋषिरनुष्टुप्छन्दः । परं ज्योतिर्देवता । उद्दयं तमसस्परि पश्यन्तो ज्योतिरुत्तरम् । देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥ (तै० सं० का.४ प्र.१ अ. ७) उद्यमित्यादि । 'वयं तमसस्परि' प्रपश्चादुपरि स्थितं ' ज्योतिरुचरम्' उत्कृष्टतरं ज्योतिः 'उत्पश्यन्तो देवं देवत्रा ' देवेषु स्थितं देवं ' सूर्य ज्योतिरुत्तमम् ' उत्कृष्टतमं ज्योतीरूपं सूर्यम् ' अगन्म प्रामवाम मुक्तय इति शेषः। उदु यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् ॥ (तै. सं. का. १ प्र. ४ अ०४३) उदु त्यमित्यादि । उच्छब्दः पादपूरणे । ' उदु त्यम् ' अमुं जातवेदसं देवं वहन्ति ' उद्गमयन्ति ‘केतवः' रश्मयो ' दृशे विश्वाय ' सर्वप्राणिनां विश्वस्मै दर्शनाय । के प्रति, 'सूर्यम् ' अमुं जातवेदसं सूर्य प्रत्युद्गमयन्ति रश्मय इत्यर्थः । तथैवार्थवादे श्रूयते-'उद्यन्तं वावाऽऽदित्यमग्निरनुस- मारोहति ' इति । चित्रं देवानामित्यादेः कुत्स ऋषिः । त्रिष्टुप्छन्दः । सूर्यो देवता । तमेव सूर्य स्तौति- चित्रं देवानामुदंगादनीकं चक्षुर्मित्रस्य वरु- णस्यानेः । आमा द्यावापृथिवी अन्तरिक्ष सूर्य आत्मा जगतस्तस्थुषश्च । (तै० सं० का०प्र०४ अ०४३) चित्रं देवानामित्यादि । 'देवानां ' दैत्यहनने ' चित्रमनीकम् ' अग्रिम बलम् । 'उदगात्' उदैत् । कीदृशमनीकं 'चक्षुमित्रस्य वरुणस्याग्नेः' । अहरभिः मानी देवों मित्रो राज्यभिमानी वरुण उभयोरभिमान्यग्निस्तेषां मित्रस्य - - , - तैत्तिरीयसंध्याभाष्यम् । - चितुर्यों गुच्छः] (मध्याहोपस्थानविनियुक्तमत्रार्थः) वरुणस्याग्नेश्चक्षुरात्मकं प्रकाशकं तदनीकं स सूर्य उदगात् । किंच-आपा द्यावापृथिवी अन्तरिक्ष सूर्य इति । स 'सूर्यः' भानुभिर्दिवं च पृथिवीं चान्तरिक्षं च लोकत्रयम् । आमाः' समन्तादमू: पूरितवान् । अपि च आत्मा जगतस्तस्थुषः' स्थिरस्यास्य चराचरात्मकस्य सर्वस्य 'जगत आत्मा' भवत्यसौ सूर्यः । मदभीष्टसिद्ध्यर्थमेनमहमुपतिष्ठ इति शेषः । तश्चक्षुरित्याद्युपस्थानमत्रस्य वसिष्ठ ऋषिरनुष्टुप्छन्दो भास्करो देवता। तदेवोधत्सूर्यसंज्ञकं ब्रह्म स्तौति- तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरेत् । पश्येम शरदः शतं जीवेम शरदः शतं नन्दाम शरदः शतं मोदाम शरदः शतं भवाम शरदः शत शृणाम शरदः शतं प्रबवाम शरदः शतम- जीताः स्याम शरदः शतं ज्योक्च सूर्य दृशे । (तै. आ. प्र.४ अ.४२) तञ्चक्षुरित्यादि । 'तत् ' सर्वस्य जगतश्चक्षुर्भूतं देवानां हितं 'देवहितं पुरस्तात् ' पूर्वस्यां दिशि 'शुक्रं ' शुद्धस्वरूपम् । 'उच्चरत् ' उद्यत्सूर्यात्मक शरदः शतं ' शतं वत्सरान्वयमायुरारोग्यैश्वर्यकामिनः 'पश्येम' तिष्ठेम । तथा 'शरदः शतं जीवेम । तथा 'शरदः शतं नन्दाम' पुत्रपौत्र- धनादिभिः समृद्धाः स्याम । तथा ' मोदाम ' हृष्टाः स्याम, 'भवाम' अभि- वृद्धतमाः स्याम, 'शृणवाम' प्रियवचनान्येव शृणवाम, ‘प्रब्रवाम' प्रकृष्ट- वचनवक्तारः स्याम, पुरुषायुषवन्तोऽपि ' अजिताः स्याम'। तथा 'ज्योक्च सूर्य दृशे' चिरकालं सूर्यात्मकं ब्रह्म द्रष्टुमाशास्महे । य उद्गान्महतोऽर्णवाविभ्राज॑मानः सरिरस्य मध्यात्स मां वृषभो लोहिताक्षः सूर्यो विप- श्चिन्मनसा पुनातु । ( तै. आ. प्र. ४ अ.४२) - [चतुर्थो गुच्छः] श्रीकृष्णपण्डितविरचितं- (प्राच्यादिदिग्वन्दनं तदधिदेवतेन्द्रादिदेवतावन्दनं च) य उदगादिति । 'यो महतः' समुद्रादुपरि 'उदगात्' उद्यन्दृश्यते । ' सरि- रस्य' सलिलस्य मध्ये 'विभ्राजमानः' दीप्यमानो 'विपश्चित् ' विद्वान् 'सूर्यो वृषभः' वर्षयिता धनानां 'लोहिताक्षः' लोहितकिरणः 'सः' सूर्यो 'मा' मां 'मनसा' आदरेण 'पुनातु' अनुगृह्णातु रक्षतु । अथ संध्यात्रयेऽपि प्राच्यादिदिग्वन्दनं तदधिदेवतेन्द्रादिवन्दनं च कर्त- व्यम् । तदुक्तम्- "कुर्वन्दिशो नमस्कुर्यादिगीशांश्च पृथक्पृथक् । नमः प्राच्य दिशे याच देवता एतस्यां प्रति- वसन्त्येताभ्यश्च नमो नमो दक्षिणायै दिशे याच देवता एतस्यां प्रतिवसन्त्येताभ्यश्च नमो नमः प्रतीच्यै दिशे याच देवा एतस्यां प्रतिवसन्येताभ्यश्च नमो नम उदीच्यै दिशे याच देवा एतस्यां प्रतिवसन्त्ये- ताभ्यश्च नमो नम ऊा दिशे याचं देवता एतस्यां प्रतिवसन्त्येताभ्यश्च नमो नमोऽध- राय दिशे याच देवता एतस्यां प्रतिवसन्त्ये. ताभ्यश्च नमो नमोऽवान्तरीय दिशे याश्च देवा एतस्यां प्रतिवसन्त्येताभ्यश्च नमो नमो गङ्गायमुनयोर्मध्ये ये वसन्ति ते मे प्रस- वात्मानश्चिरं जीवितं वर्धयन्ति नमो गङ्गायमु- नयोर्मुनिभ्यश्च नमो नमो गङ्गायमुनयोर्मुनि- भ्यश्च नमः । (ते. आ. प्र. २ अ. २.)
तैत्तिरीयसंध्याभाष्यम् ।
[चतुर्थो गुच्छः]
(संध्यारूपपरदेवताप्रार्थनामन्त्रार्थः)
सत्र मत्रेषु नमः प्राच्य दिश इत्यादि ।
तदुक्तं कश्यपेन–'दिग्देवता नमस्कारमत्रोऽयं संध्ययोर्भवेत्' ।
मन्त्रार्थस्तु–'प्राच्य दिशे नमः' अस्तु । ' नमः स्वस्ति' इति चतुर्थी ।
एतस्यां दिशि याश्च देवताः' इन्द्रादयः 'प्रतिवसन्ति' तिष्ठन्ति 'एता-
भ्यश्च नमः' अस्तु । नमस्कारादि नमस्कारान्तमेकं यजुरिति केचिनरुक्ताः।
नमस्कारायेकं यजुः । नमस्कारान्तमेकमिति यास्कः । अत्र नमःशब्दः पूर्वः
पूर्वेणान्वेति उत्तर उत्तरेणान्वेतीति । एवं सर्वत्र योज्यम् ।
कामोऽकापानमो नमः । (तै० आ० प्र०
१० अ०६१)
मन्युरका नमो नमः । (तै. आ. प्र. १
अ.६२)
कामः' कामाभिमानी देवः 'अकार्षीत् ' स एव करोतीति । ' नाहं
करोमि कामः कर्ता नाहं कर्ता ' इति श्रुतेः। 'कुर्वन्नपि न लिप्यते' इति
स्मृतेश्च । ' मन्युः । तदभिमानी देवः । अन्यद्गतम् । तस्मै कामाय मन्यवे च
नमोऽस्त्वित्यर्थः।
*या पृथिवी या आपो यत्तेजो यो वायुर्यदाकाशम् । पञ्चमीपाठश्छा-
दसः। तेभ्यः पञ्चभूतेभ्यो नमोऽस्त्वित्यन्वयः । अथ वासुदेवाय नमः ।
ॐ नमो भगवते वासुदेवाय । समर्पयति-ओं नम इति । ओंकारवाच्याय
गवत ऐश्वर्यादिसंपन्नायेत्यर्थः । तदुक्तमाचार्यैः-
'ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः।
ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा' इति ॥
वसुदेवस्यापत्यमिति वासुदेवः । यद्वा वसन्त्यस्मिन्भूतानीति वासुः । स
सौ देवश्चेति विग्रहः । तस्मै नम इत्यर्थः ।
अथ संध्यारूपां परदेवतां प्रार्थयते-
या५ सदा सर्वभूतानि स्थावराणि चराणि च ।
* एतन्मूलं मृग्यम् ।
श्रीकृष्णपण्डितविरचितं- [चतुर्थो गुच्छः] (द्यावापृथिविस्तुतिमन्त्रार्थः) सायं प्रातर्नमस्पन्ति सा मा संध्या अभिरक्ष- खों नमः॥ यामिति । सर्वाणि भूतानि 'यां नमस्यन्ति सा संध्या मा' माम् ' अभि- रक्षतु ' इत्यन्वयः । अत्रेदं तत्त्वं विचार्यते-सायं प्रातरितिविशेषोपादाना- संध्ये उभे एव न तु तिसः। अत एवाऽऽपस्तम्बसूत्रेऽपि संध्ययोबहिामा. दासनमित्यत्र द्विवचनमुपात्तम् । आश्वलायनसूत्रेऽपि यज्ञोपवीती नित्योदकः संध्यामुपासीतेत्यारभ्यैवं प्रातः प्राङ्मुख इत्युभयोरेव संध्ययोरुपादानं कृतम् । माध्याहिकी तु स्मृतिवचोभ्यः समागता न तु गृह्यकारवचोभ्यः । अत्रेदमपि ज्ञापकम् , यद्धर्मज्ञाः प्रमादादिना कदाचिन्माध्याह्निकी संध्यामकृत्वैव भोजने कृतेऽपि न दोष इति वर्णयन्ति । शिवायेत्यारभ्योत्तमे शिखर इत्यन्तं पुराण- श्लोकाः स्पष्टार्थाः। उत्तम शिखरे जाते भूम्यां पर्वतमूर्धनि । ब्राह्मणेभ्योऽभ्यनुज्ञाता गच्छ देवि यथासुखम् । (ते० आ० प्र० १० अ०३६) उत्तमे शिखर इति जपादूर्ध्व गायत्रीप्रस्थापनमत्रः । तत्पर्यन्तमेव संध्या कर्मेति रहस्यम् । 'देवीप्रस्थापनान्तं स्यात्संध्याकर्म मुनीरितम्' इति स्मृतेश्च । तस्यायमर्थः- भूम्याम् ' अवस्थितो यः पर्वतो मेरुनामकस्तस्य मूर्धन्युप- रिभागे 'जाते ' विद्यमान 'उत्तमे' श्रेष्ठे 'शिखरे' उत्कृष्टशिखराकारमन्दिर इत्यर्थः । स्थातुमिति शेषः। 'ब्राह्मणेभ्यः' निरन्तरमुपासकेभ्यो द्विजो- त्तमेभ्यः 'अभ्यनुज्ञाता' हे 'देवि' हे भगवति 'यथासुखं गच्छ' अस्मानुपा- सकाननुगृहीत्वा(ह्य) यथाकामं यथागतं गच्छेत्यर्थः । शिष्टं स्पष्टम् । अथ स्वरक्षणार्थ द्यावापृथिव्यौ प्रस्तौति-- इदं द्यावाप्रथिवी सत्यमस्तु । पितर्मातर्यदि- होपब्रुवे वाम् । भूतं देवानामवमे अवोभिः। विद्यामेषं जनै जीरदानुम् । (तै० ब्रा० का० २ प्र०८०४ - तैत्तिरीयसंध्याभाष्यम् । - [चतुर्थो गुच्छः] (द्यावापृथिविस्तुतिमन्त्रार्थः) इदमिति । हे 'पितः' हे धुलोक हे 'मातः' हे पृथिवि 'इयं वै माता । असौ पिता । द्यौः पिता पृथिवी माता' इति श्रुतेः। 'वा' युवा प्रति ' इह' कर्मणि ' यत् ' वचनम् 'उपब्रुवे' प्रवीमि । हे 'घावाप्रथिवी' हे द्यावापृथिव्यौ । द्विवचनाभावश्छान्दसः । 'इदं ' मदीयं वचनं 'सत्य. मस्तु ' । किं तद्वचनमित्यपेक्षायामाह-भूतमिति । 'अवोभिः' अस्मदीयरक्षणैः सह सर्वेषां 'देवानां' सुराणाम् । इदमुपलक्षणम् । सर्वेषां भूतानामिति ज्ञेयम् । ' अवमे' रसके । युवामिति शेषः । 'भूतं ' भवतम् । अस्मदादे- देवानां च संरक्षके भवतमिति यद्वचनमिदं सत्यमस्त्वित्यन्वयः । वयमपि भव- प्रसादात् ' इपम् ' अन्नं वृजनं ' तापवर्जितं 'जीरदानु' जीवनस्य दातारं 'विद्याम' लभेम । चिद्ल लाभे । स्वयं तापवर्जितं भोक्तुस्तापनिबर्हकं च जीवनोपायं च यदन्नं तदनं लभेमहीत्यर्थः । इदं ततः परमाकाशादित्यादिश्लोकः स्पष्टार्थः । इदानी संध्याकर्मसागुण्यार्थ सर्वजनपदवतिगोब्राह्मणेभ्यः शुभं पार्थवन्प्रवरान्वितस्वनामकीर्तनपुरःसरं भगवतीं परां देवतां प्रणमति-चतुःसागरपर्यन्तमिति । वाक्यार्थः स्पष्ट एव । अत्र सागराणां चतुष्टयसंख्या [ सप्तसंख्या ]या अप्युपलक्षिका । तथा च सप्तसागरमध्ये या गावो ये च ब्राह्मणाः सन्ति ताभ्यस्तेभ्यश्च शुभं भूया- दिति वाक्यार्थः पर्यवस्यतीति वर्णयन्ति । अपरे तु मुख्यार्थमेवावलम्ब्य वर्ण- यन्ति । अत्र शुभपदस्य स्वस्तिवचनत्वात्तद्योगे नमः स्वस्तीत्यादिना चतुर्थी । अन्ये तु शुभपदस्य हितार्थवाचित्वात्तद्योगे चेति सूत्रेण( वार्तिकेन) चतुर्थीति वर्णयन्ति । भो इति पदं न रूपवचनम् । तथा च ' भोः' हे भगवति वाग्देवि संध्ये त्वामिति शेषः । 'अभिवादये' नमस्कुर्व इति केचिद्याचक्रुः । ते त्वत्यन्तं विस्मृतपूर्ववाचः । तथा हि-उत्तमे शिखर इत्यत्रैव भगवती प्रस्थापिता । तथा च केदमभिवादनं विनियुक्तं स्यात्तावत्पर्यन्तमे(त्वादे) व संध्याकर्म- कलापस्य । किंच ते त्वनधीतस्मृतिवचनाः । तथा हि-'आत्मपादौ नम. स्कृत्वा गोत्रप्रवरपूर्वकम् ' इति । नमस्कृत्वा स्पृष्ट्वेत्यर्थः । आत्मपादौ तथा भूमि स्पृष्ट्वेति वचनात् । 'नक्षत्रं च तथा सूर्य द्विजानप्यभिवादयेत् । कनिष्ठानपि वेदज्ञान्संध्याकालेऽभिवादयेत् ॥ विना पुत्रं च शिष्यं च दौहित्रं दुहितुः पतिम् । इति वचोभिः संध्यादेवताभिवादनस्यानुक्तत्वाद्विजाघभिवादनस्यैवोक्त- त्वाच तदभिवादनं प्रस्तुतवाक्यार्थः । न तु संध्याया गरीयस्या अभिवादन मस्तीति । श्रीमद्राघवदैवज्ञवंश्यः श्रीकृष्णपण्डितः। कारयामास हि स्पष्ट संध्यावन्दनपद्धतिम् ॥ १॥ इति श्रीमद्राघवदेवज्ञवश्यश्रीकृष्णपण्डितविरचिते तैत्तिरीयसंध्याभाष्ये चतुर्थो गुच्छः॥४॥ इति श्रीमद्राघवदैवज्ञवंश्यश्रीकृष्णपण्डितविरचितं तैत्तिरीयसंध्याभाष्यम् ।
परिशिष्टम् । कृष्णपण्डितविरचितसंध्याभाष्यस्य मुद्रणानन्तरं मिलि- तात्पुस्तकाल्लब्धस्य विशेषस्यात्र पृष्ठपङ्क्ति- निर्देशपुरःसरं संग्रहः । ५ पृष्ठे ११ पतौ-यद्यपीत्यादि न काऽपि क्षतिरित्यन्तस्थाने-"यद्यपि विवरणकारमतेऽध्ययनविधेरक्षरावाप्तिरेव फलं न तु फळवदर्थावबोधः, तथाऽपि सकलतात्रिकसंमतेरनपेक्षितत्वात् (?) । वस्तुतस्तु तत्रापि विधेर्यावबो- धपर्यन्तव्यापाराभावेऽप्यक्षरावाप्तिद्वारा(?) पर्यवसानाङ्गीकाराम काऽपि क्षतिः" इति विशेषः। ६ पृष्ठे १६ पती-न तत्कृतमित्यस्यानन्तरमधिको ग्रन्थः स यथा- " तस्माद्यज्ञोपवीतिना कर्तव्यमिति सिद्धम् । अथ संध्यावन्दनस्य फलवि. चारः क्रियते । नन्वहरहः संध्यामुपासीतेति संध्यायाः कर्तव्यताबोधक मूलवाक्यमुपन्यस्तम् , तदनुपपन्नं तद्विधीयमानस्यैव दुर्जेयत्वात् । तथा हि न तावनित्यत्वम् , कामनाप्रवणानां नराणां निष्फले नित्यकर्मणि बायास- साध्ये प्रवृत्त्यनापत्तेः । नापि नैमित्तिकत्वम् , गृहरथाधारे भन्न इन्द्रबाहु- व्या, पायसं ब्राह्मणो भोजयितव्य इव निमित्ताश्रवणात् । न चाइरहरिति कालस्यैव निमित्तत्वमाग्रयणस्य शरत्कालवदिति वाच्यम् । तथा सति वसन्ते ज्योतिषा यजेतेत्यत्रापि वसन्तस्यापि निमित्तत्वे ज्योतिष्टोमस्यापि नैमित्ति- कत्वं स्यात् । नापि प्रायश्चित्तरूपम् , “गुरुतल्पगामिनः सवृषणं शिश्नं परिवा- स्याञ्जलावादाय दक्षिणां दिशमनावृत्ति व्रजेत्" इत्यादौ पापसंयोगे तत्माय- श्चित्तविधानात् । नापि काम्यम् , विध्युद्देशे फलसंबन्धाश्रवणात्, न तथाऽभुतफले संध्यावन्दने स्वर्ग एव फलतया कल्पनाईः, यथा विश्व- जिता यजेतेत्यतो विश्वजिद्यागस्याधिकारे(?) कल्प्ये स स्वर्गः स्यात्स- विशिष्टत्वादिति सर्वकामनाविषयतया स्वतः सुन्दरः स्वर्गः फलतया कल्प्यते । तहि फलकामनायां सत्यामेव तदनुष्ठानं तदभावे तु तद- पशुकामनातदभावपयुक्तचित्रानुष्ठानाननुष्ठानवत् नुष्ठानं न स्यात २ प्रत्यवाय नित्यकाव्यविवेकः सुलभः । नन्विदं विरुद्ध प्रायश्चित्तस्याप्यकरणे परिशिष्टम् । न च तथा दृश्यते । परं तु कृताभिषेकाः सर्वजनपदेषु एकान्तसमाहिता. स्तथाविधफलानपेक्षिणो दम्भलोभशून्या महाजना निरन्तरं यथाकालं तदनु. ठानमाचरन्ति । तस्मात्तस्य काम्यत्वमङ्गीकृत्य कादाचित्कानुष्ठानमङ्गीकर्तुम- नुचितमिति । न च प्रकृते स्वर्गः फलत्वेन कल्पनीयः । तस्मात्किमनेन विधी. यत इति चेदत्र ब्रूमः । संध्यावन्दने नित्यं न तु चित्रादिवत्काम्यमिति प्रभाकरेण संध्यावन्दनस्य तेन विधिवाक्येन नित्यत्वविधानात् । अन्यथा पूर्वोक्तानामकरणे प्रत्यवायप्रदर्शकानां बहूनामाप्तवचनानां पीडा स्यात् । न च नित्यं निष्फलमिति न्यायेन संध्यावन्दनस्य नित्यत्वे निष्फलत्वं वाच्यम् । तथा च फलशून्ये तस्मिन्न कस्यापि प्रवृत्तिरिति प्रागेवोद्घोषितमिति शङ्क- नीयम् । प्रभाकरैस्तथाऽभ्युपगमेऽप्यस्माभिनित्यकर्मणि प्रत्यवायनिवृत्ति- फलस्य स्वीकारात् । न चात्र मानाभावः “धर्मेण पापमपनुदति" इति श्रुतेः। “योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वाऽऽत्मशुद्धये" इति स्मृतेश्च । सङ्ग फलाभिसं- घिमित्यर्थः । आत्मशुद्धये मलापकर्षणेन चित्तशुद्धय इत्यर्थः । “नित्यनैमित्ति- कैरेव कुर्वाणो दुरितक्षयम्" इति । “संध्यामुपासते ये तु सततं संशितव्रताः। विधूतपापाः" इति च स्मृत्यन्तरे स्पष्टमेव प्रत्यवायनिवृत्तिफलश्रवणाच्च । तस्मात्म- त्यवायनिवृत्तिलक्षणं फलं सम्यगस्तीति न किंचिदनुपपन्नम् । नन्वेवं चेनित्यका- म्ययोविवेको न स्यात्, उभयत्रापि फलवत्त्वाङ्गीकारात् । उच्यते-फलाभि- संधिपूर्वकानुष्ठानविषयत्वाविषयत्वाभ्यामुभयोर्भेदसंभवात् । तथा हि-स्वर्ग- कामादिवाक्यसामर्थ्यात्स्वर्गादिकामनया यागाद्यनुष्ठानप्रवृत्तौ यागादेः काम्यत्वं, प्रकृते तु तथाकामनयाऽनुष्ठानानिर्णयाद्विध्युद्देशे फलसंकीर्तनस्या- भावाच्च संध्यावन्दनादि नित्यमिति रमणीयम् । ममोपात्तदुरितक्षयार्थ श्रीप- रमेश्वरमीत्यर्थ संध्यामुपासिष्य इत्यनुष्ठानपारम्भकाले फलसंकीर्तनपुरःसरं संकल्पोऽस्ति तथाऽपि न तावन्मात्रेण संध्यावन्दनस्य काम्यत्वसिद्धिः, तद्वाक्यस्य संध्यावन्दनादौ परमेश्वरार्पणलाभाय महाजनैः परिगृहीतत्वात् । यागादिकाम्यकर्मफलस्वर्गादिविलक्षणतया दुरितनिराकरणलक्षणनित्यकर्मफल- स्वरूपप्रदर्शनपरत्वाच्च । वयं त्वत्र घूमः-यत्कर्मकलापानुष्ठानाकरणे यत्र प्रत्य- वायः श्रूयते तत्कर्म नित्यं यदकरणे प्रत्यवायो न दृश्यते न तन्नित्यम् , तदा हुष्टीकाकाराः पश्चपादीयकाचार्या अध्ययन विधिनिरूपणप्रसङ्ग उपनयनाख्यसं- स्कारो नित्यः, अकरणे प्रत्यवायश्रवणादिति । एवं चाकरणे प्रत्यवायश्रवणा- प्रत्यवायश्रवणात् । तथा हि-" अतीते चिरकाले तु द्विगुणं व्रतमर्हति " इति बबनेन द्विधानात्कथं तेन नित्यत्वविवेकः स्यादिति चेम । प्रायश्चित्ताकरणे परिशिष्टम् । दोषनिरसनाय न हि द्विगुणं व्रतं विधीयते परं तु प्रायश्चितैनिराकरणीयस्य प्रागुक्तदुरितस्यैव चिरकाले त्वतीते द्विगुणव्रतापेक्षयैव निरास उच्यते, अन्यथा प्रायश्चितानवस्थाप्रसङ्गात् । अत्रायमभिसंधिः--विहितकर्मा- ननुष्ठानं न प्रत्यवायजनकम् । अमावस्याकारणत्वात् । परं तु तद्वि- रुद्धकर्मकरणमेव तथा । तत्तु कुत्रचित्कायिकं कुत्रचिद्वाचिकं कुत्रचिन्मा. नसिकमिति विवेकः । तदुक्तं भट्टपादैः- "स्वकाले यदकुर्वस्तु करोत्यन्य- दचेतनः । प्रत्यवायोऽस्य तेनैव नाभावेन स जन्यते' इति । अचेतनो मूढधी- रित्यर्थः । अस्य कर्तुरित्यर्थः । स प्रत्यवायः । स्वकाले विहितकर्मानुष्ठानकाले । यद्विहितमकुर्वन्नन्यदविहितं विरुद्धाचरणं करोति अस्य प्रत्यवायस्तेन जन्यते नाभावेनेति कारिकार्थः । ननु काम्यकर्मणां कालेऽप्यकरणे प्रत्यवायः श्रूयते । यथा सिद्धान्ते काम्यत्वेनाभिमते श्रवणे(?) अरुन्मुखान्यतीशालाकेभ्यः ?) प्रायश्चित्ताकरणे प्रत्यवायः श्रूयते(?) तदा नोभयोर्भेद इति चेत्(?) । तद्वाच्यम्(?) आरम्भादूर्ध्वमेव नित्यतासंपादकत्वम् , न तु संध्या(?) । तद्यथाकालमनुष्ठाने दोषसंकीर्तनयत्वं(?) तत्रेति रहस्यम् । नन्वेवं चेन्नित्यनैमित्तिकयोर्भेदो न स्यात्त. त्रापि प्रत्यवायश्रवणादिति चेन्न। निमित्तसंयोगासंयोगाभ्यां भेदसंभवात्। तस्मा- दहरहः संध्यामुपासीतेति मूलवाक्यं संध्यानित्यताबोधकम् । तत्र प्रत्यवायनि- वृत्तिलक्षणं फलमप्यस्तीति सर्व सुन्दरम् । अथ विधिविचारः, ननु कोऽयं विधिः । उच्यते-मानान्तरानवारितार्थे संध्यावन्दनरूपे प्रवृत्तत्वादपूर्ववि- धिरेव यजनविधिवत् । तदुक्तं भट्टपादैः-विधिरत्यन्तमप्राप्त इति। ननु संध्या. त्रयमध्ये कस्य प्राथम्यम्, उच्यते-" ९ पृ० २२ ५०-त्रिष्टुभं राजन्यो जगतीं वैश्य इत्यस्य स्थाने-"त्रिष्टुभं चैव राजन्यो जगती वैश्य एव चति " इति । १२ पृ० १५५०-लोकावभिजयतीतीत्यस्यानन्तरमधिको ग्रन्थः स यथा- ननु तर्हि कः पक्षः समाश्रयणीयः । उच्यते-सायंकाले हि संध्यावन्दनं विहितम् । तथाच स्वकाले बलवत्यपीति न्यायेन तदेवातिपन्नानुष्ठानात्पूर्व कर्तु। मुचितम् । तदनन्तरमतिपन्नानुष्ठानम् । यदा पुनः सायंसंध्याकालोऽप्यतिका- न्तस्तदानीं यथाक्रममनुष्ठानं भवति । अतिक्रान्तावविशेषत्वात् । स्वकालस्या- तिपन्नत्वेन वर्णितन्यायप्रसरणाच्च । तस्मादतिपत्रानुष्ठानात्पूर्व स्वकाले सायं- संध्यावन्दनं कार्यम् । अत एव भट्टाचार्यैरपि स्वकाले कर्मानुष्ठानं गरीयः, वद्विहाय तत्काले तद्भिग्नं किंचित्कृतं चेन्महामत्यवायो भवतीति(?)। "स्वकाले यदकुर्वस्तु करोत्यन्यदचेतनः । प्रत्यवायस्तु तेनैव" इति(?) । किंच-स्वकाले " इति ।
४ परिशिष्टम् । सायंसंध्यावन्दनं कर्तव्यमिति स्मृत्यन्तरे कीर्तितम् । मध्याहे समतिक्रान्त सायंकालो भवेद्यदि। सायंसंध्यामुपास्याऽऽदौ संध्यां माध्याहिकी चरेत्" इति । न चैवं क्रमानुष्ठानसंपादकवचनानां का गतिरिति वाच्यम् । सायंसंध्यावन्दन. स्यापि कालातिपत्तिवेलायां संध्यात्रयसमवाये कस्य प्रथममनुष्ठानमिति जिज्ञा. सायां यथाक्रममेवानुष्ठानं न तु व्युत्क्रमेणेतिज्ञानार्थ तथाविधवचनप्रवृत्तेः। अत्र स्मृतिवचनम् - "सायंकालो व्यतीतश्चेदस्तं याते दिवाकरे । कुर्यादाव- तनी संध्यां समारभ्य यथाक्रमम् " आवर्तनं नाम मध्याह्नः । तथा च माध्या- विकी संध्यामिति फलितार्थः । प्रसङ्गात्किचिदुच्यते-“कुर्वीताऽऽवर्तनी संध्या रात्रावपि न दुष्यति । दद्यादयं तु गायत्र्या सौरसूक्तं विवर्जयेत् । मध्या- संध्या रात्रौ चेत्प्रमादाक्रियते यदि । सौरस्थाने जपेत्सूक्तं सौरं वैश्वा- नरीयकम्" इति । परमप्रकृतं तु सायंसंध्यावन्दनं स्वकालेऽतिक्रान्तानुष्ठाना- पूर्व कर्तव्यम् । ततोऽतिक्रान्तानुष्ठानमिति सिद्धम् । १२ पृ० २९ १०-" यदौपा" इत्यस्य स्थाने " यथोपा " इति । १४ पृ० २२५०-बाहुमूलमुपेत्यस्य स्थाने “ बाहुमूले उप" इति । १५ पृ० १० १०-पादावित्यस्य स्थाने." इस्ती" इति । १५ पृ० ३०१०-मनमूलिकेत्यस्य स्थाने “ मनविधायिका" इति । १७ पृ० १० १०-संहताङ्गुष्ठेत्यस्य स्थाने " संहताङ्गुलि " इति । १७ पृ. १३ १०-आचामेदित्यस्य स्थाने " आचामयेत् " इति । १७ पृ० १४ प०-आचमयतीत्यस्य स्थाने “ आचामयेत् ” इति । १७ पृ० २५५०-चेदित्यस्य स्थाने " चेन " इति । १८पृ० ५५०-प्रथमपानेनेत्यस्यानन्तरमधिको ग्रन्थः स यथा-"ऋग्वेदं पीणाति द्वितीयपानेन यजुर्वेदं प्रीणाति तृतीयपानेन सामवेदं प्रीणात्यथ सव्य. करेण जलमुत्सृजेचेन पितॄन्मीणात्यथ हस्तावभ्युक्ष्य तेनेतिहासपुराणादीनि प्रीणाति मुखं द्विजः परिमृजेत्प्रथममार्जनेनाथर्वणवेदं प्रीणाति द्वितीयमार्जने. नाङ्गानि प्रीणात्यथ पादावभ्युक्ष्य तेन विष्णुमग्निं प्रीणात्यथ चतसृभिरङ्गु- लिभिरोष्ठौ संस्पृशेत्तेन सरस्वती मीणात्यथाङ्गुष्ठतर्जनीभ्यां नासाद्वारे संस्पृ- शेत्तेन वायु प्रीणात्ययाङ्गुष्ठमध्यमाभ्यां चक्षुषी संस्पृशेत्तेन चन्द्रादित्यौ मीणात्यथाङ्गुष्ठानामिकाभ्यां श्रोत्रे संस्पृशेत्तेनाऽऽकाशं प्रीणात्यथाङ्गुष्ठक- निष्ठिकाभ्यां नाभिं संस्पृशेत्तेन प्रीणात्यथ हस्ततलेन हृदयं संस्पृशेत्तेन च पञ्च प्राणान्मीणाति सर्वामिरगुलिभिः शिरो पाडू च संस्पृशेत्तेनाधिनौ देवते मीणाति तेन परब्रह्मस्थानं परब्रम मीणाति" इति ।
परिशिष्टम् । १८१०८१०-तभेत्यादि तत्रासामर्थ्यादित्यन्तस्थाने "ते तावत्मष्टव्याः। तत्कल्पनायां बौधायनसूत्र प्रमाणमाहोस्विद्वचनान्तरम् । न द्वितीयः । तथाविधवचनान्तराश्रवणात् । नाऽऽद्यः । बौधायनवचनस्य तथात्वेतिकर्त. व्यताप्रतिपादकत्वेन तत्र सामर्थ्याभावात् " इति । १८ पृ० १३ १०-इत्यादिवचनाद्ब्रह्मणे नम इत्याद्याचारापत्तेरित्यस्य स्थाने-"गङ्गा च यमुना चैव प्रीयते हस्तमार्जनात् । पादाभ्यां प्रीयते विष्णुब्रह्मा शिरास कीर्तितः । नासत्यावत्र प्रीयेते स्पृष्टे नासापुटे उभे । स्पृष्टे लोचनयोस्त्वेतौ पीयेतेत्यनलानिता (?) । स्कन्धयोः स्पर्शनादेव पीयन्ते सर्व- देवताः । नाभिसंस्पर्शनाभागाः पीयन्ते चास्य नित्यशः । संस्पृष्टे हृदये चास्य प्रीयते चन्द्रदेवता । मूर्धसंस्पर्शनादस्य प्रीतस्तु पुरुषो भवेत्" इत्यत्रापि ब्रह्मणे नम इति प्रथमपानं स्याद्विष्णवे नम इति द्वितीयपानं स्याबुद्राय नम इति तृतीयपानं स्यादेवं सर्व योज्यम् । न चेष्टापत्तिः । असंप्रतिपत्तेः । न हि कुत्रापि देशे शिष्टा एवमाचरन्ति । न च तद्वचनस्य प्रीणने तात्पर्यान्न तत्र सामर्थ्यमिति वाच्यम् । तथा प्रकृतेऽपि शीतला दृष्टिीयताम् । अवि- शेषात् " इति । १८ पृ० १८५०-विवेक इत्यस्यानन्तरमधिको ग्रन्थः स यथा--"इति संप्रदायः--आश्वलायनगृह्यपरिशिष्टकारेण प्रकारान्तरेण निर्णीतम् । तथा हि- उदकं दक्षिणेन पाणिनाऽऽदाय कनिष्ठाङ्गुष्ठौ विश्लिष्टौ वितत्य तिस्रोऽन्तरा- गुलीः संहतो;ः कृत्वा ब्राह्मण तीर्थेन हृदयप्रापि त्रिः पीत्वा पाणिं प्रक्षाल्य स्पृष्टाम्भसाऽङ्गुष्ठमूलेनाऽऽकुञ्चितोष्ठमास्यं द्विः प्रमृज्य सकच संहतम- ध्यमाङ्गुलीभिः पाणिं प्रक्षाल्य सव्यं पाणिं पादौ शिरवाभ्युक्ष्य स्पृष्टाम्भसा संहतमध्यमाङ्गुलित्रयाग्रेणाऽऽस्यमुपस्पृश्य साङ्गुष्ठया प्रदेशिन्या घ्राणबिल- द्वयमनामिकया चक्षुःश्रोत्रे कनिष्ठिकया नाभिं च तलेन हृदयं सर्वाभिरङ्गु. लीभिः शिरस्तदौरंसौ चोपस्पृशेदित्येतदाचमनमेवं द्विराचम्येति । तत्र कल्प. द्वयेऽविगीतशिष्टाचारादाचारो वेदितव्यः । २० पृ० १५ १०-प्राणायाम इत्यस्य स्थाने प्राणायाममिति ज्ञेयम् । २० पृ० २८ प०-निगर्वस्तु इत्यस्य स्थाने निगमस्तु इति । २१ पृ० १६ १०-इति श्रुतेरित्यस्यानन्तरमधिको ग्रन्थः स यथा- "अत्राय भावः । ब्राह्मणमात्रस्य फलवदर्थावबोधपर्यवसायि सकलवेदाध्ययन विहितम् । स्वकर्म ब्राह्मणस्याध्ययनमिति धर्मशास्त्रात् । तत्र दैवान्मानुषात्पुरु- ६ परिशिष्टम् । पायुषोऽल्पकालत्वाच्च न सत्र तद्भाग्यं संभवतीत्यतः सर्वसाधारण्येन सकलवे- दाध्ययनफलसिद्ध्यर्थ सकलवेदसारभूतः प्रणवः प्रथमतः पठितः । युक्तं चैतत् " इति । २१ पृ० १७५०-इति वचनादित्यस्यानन्तरमधिको ग्रन्थः स यथा- "अस्य वेदसारत्वं बचबामणे-प्रजापतिरकामयतेत्यस्मिन्खण्डे प्रतिपादि- तम्" इति । तस्य २१ पृ० १८ ५०-ओमिति वै दैवं सर्वमितीत्यस्य स्थाने "ओमितीदं सर्वमिति" इति । २१ पृ० १९ ५०-व्यपदेश इत्यादि स्थानत्वादित्यन्तस्थाने “ उपदेशः, ननु तस्य वर्णात्मकत्वेन कथं सर्वमयत्वमिति चेदुच्यते--तस्य सर्वमयत्वं सर्वात्मकब्रह्माभिव्यक्तियोग्यस्थानकत्वात् " इति । २१ पृ० २२५०-इत्यर्थ इत्यस्यानन्तरमधिको ग्रन्थः स यथा-"अन्ति- कबाढयोर्नेदसाधाविति पाणिनिस्मरणात्" इति । २१ पृ० २५०-तस्येत्यादितदभिव्यक्तियोग्यत्वमित्यन्तस्थाने-" ब्रह्मत्वमेवोक्तम् । तदभिव्यक्तियोग्यस्याखण्डानन्दचिदेकरसस्य निष्कल. कस्य परमेश्वरस्य स्वरूपपरीक्षकं निबिडतरं पर्यालोचयद्भिरपि योगिभिः स्पष्टतरं ग्रहीतुमशक्यत्वात्तस्मिन्नेवाक्षरे ब्रह्मत्वव्यपदेशः । स्थूलारुन्धतीन्या- येन तस्य ब्रह्मत्वव्यपदेश इति श्रुतेस्तात्पर्य वर्णनीयम्" इति । २१ पृ० २५ १०-ब्रह्मत्वादित्यस्यानन्तरमधिको ग्रन्थः स यथा- तस्मादुक्त एव पन्थाः स्वीकर्तव्यः" इति । २२ पृ० ११ १०-योगलक्षणेत्यादि दर्शनादित्यन्तस्थाने- "योगलक्षण- मुक्तम् । यद्वा सकलकर्मकलापे चित्तैकाग्यमावश्यकमिति संध्याकर्मकाले तत्सिद्ध्यर्थमुक्तरीत्या तत्संपादकः प्रणवः कर्तव्य इति प्रथमस्तनिदेश इति गायत्रीहृदयदर्शनात् " इति । २२ पृ० १३ १०-इत्यर्थ इत्यस्यानन्तरमधिको ग्रन्थः स यथा- शब्दयोः सामानाधिकरण्यमेकार्थकत्वमिति वाच्यम् । तथा च ब्रह्मैव भूलो. कादीनामित्यर्थः पर्यवसन्नः" इति । २२ पृ० १४ प०-भाव इत्यस्यानन्तरमधिको ग्रन्थः स यथा-" ननु ब्रह्मणः सर्वात्मकत्वे किं मानमिति चेन्न । अथ भूमा स एवाधस्तात्स उप- रिष्टात्स पश्चात्स दक्षिणतः स उत्तरतः स एवेदं सर्वम् , सर्व खल्विदं ब्रह्म " अथ - परिशिष्टम् । नेह नानाऽस्ति किंचन, इत्यादिश्रुतिभ्यो ब्रह्मणः सर्वात्मकत्वश्रवणात् । ननु स एवाधस्तादित्यत्र सप्तम्यर्थेऽधस्तादिति प्रत्ययविधानात्सर्वगत्वमेव प्रतीयते न सर्वात्मकत्वमिति चेदुच्यते-[ब्रह्मणोऽक्रियत्वश्रवणात् । तथा च] ब्रह्मणः सर्वात्मकत्वं प्रामाणिकमिति भावः " इति । २३ पृ० ९५०-इति।मार्जयेदितीत्यस्य स्थाने-"स्पृष्ट्वा चाभिष्टुतं तोयं मूर्धा ब्रह्ममुखेन(ण) च । आपो हि ष्ठादिभिर्मत्रैर्दभैः शिरसि मार्जयेत्” इति । मूर्धा गायत्रीशिरसा, ओमाप इत्यादिनेत्यर्थः " इति । २३ पृ० ११ १०-वचनादित्यस्यानन्तरमधिकं यथा-" अभिष्टुतम- भिमवितमित्यर्थः" इति। २४ पृ० २० १०-मानाभावादित्यस्य स्थाने-"न मानमस्ति" इति । २४ पृ० २९ ५०–अन्नसाधनत्वादित्यस्य स्थाने-"तथात्वात्" इति । २५ पृ० ५५०-पाणिनिस्मरणादित्यस्यानन्तरमधिकं यथा-" अत्र कश्चि- जल्पति, जशब्दस्य नान्नवाचित्रं किं तु पाणबलयोर्वर्धकः कश्चिद्रसविशेष. : । अन्यथा, इषे त्वोर्जे त्वेत्यत्र पौनरुक्त्यं स्यात् । तत्रेडअमूर्पस इति भाष्यकारैर्वणितत्वात् । किमितिन्यायमत्यन्तशिक्षितः (?) । तथा सति यो वः शिवतमो रसस्तस्य भाजयतेत्यप्रेतनवाक्यार्थेऽविशेषः स्यात् । ईषे त्वेत्यत्र तु इदशब्दोशब्दयोरोदनार्थकल्पनेन पौनरुक्त्यं स्यादिति भीत्योशब्दस्यान- परत्वं संयुज्यते । वाक्यान्तरेऽविशेषप्रसङ्गात् । न चायं रसः कश्चिदग्रेतनवाक्य- प्रतिपाद्यो रसोऽपि कश्चिदित्युभयोर्भेदस्वीकारान्न मन्त्रेषु जामिताऽस्तीतिभाष्य- कारवचनाद्वा न पौनरुक्त्यमिति वाच्यम् । तत्कल्पनायामुपपत्त्यभावात् । अर्जेऽनायेतिनिरुक्तिवचनव्याकोपाच्च । न चैवमिषे त्वेत्यत्रापि पचनविरोध पश्यन्तस्तथा कथं व्याचक्षुस्तद्वयाख्यातार इति शङ्कनीयम् । प्रकरणपालो- चनया तस्य निरुक्तवचनस्याऽऽपो हि ष्ठेतिमत्रमनुद्दिश्य प्रवृत्तत्वात् । तत्रो- शब्दस्य रसार्थकत्वेऽपि न काचिद्धानिः । प्रकृते तु तथात्वकल्पने निरुक्तस्य निरवकाशतया सर्वथा बाध एव भवता संपादितः स्यादिति न तस्य रसा. र्यकत्वं, परं त्वस्मदुक्त एव पन्थाः सुगमनीयः" इति । २५ पृ० १९५०-इन्द्रियमोक्ष इत्यस्य स्थाने " इन्द्रियक्षोभे" इति । २५ पृ० २२ ५०-रसमेवेत्यस्य स्थाने “ सरसमेव " इति । २९ पृ. २२ प०-अक्षामित्यस्य स्थाने “ अन्नम्" इति ।
८
परिशिष्टम् ।
२८ पृ० ५५०-इच्छन्तीतीत्यस्य स्थाने " इच्छन्ति " इति ।
२९ पृ० ७ १०-स्वाहेत्यनन्तरमधिको ग्रन्थः स यथा-" सूर्ये सूर्या.
त्मके ज्योतिषि जुहोमि स्वाहा" इति ।
मुद्रणानन्तरमुपलब्धं पुस्तकं सूर्यश्चेतिमन्त्रव्याख्यानपर्यन्तमे-
वास्ति न ततोऽग्रे।
ॐ तत्सब्रह्मणे नमः। भट्टोजीदीक्षितविरचितं तैत्तिरीयसंध्याभाष्यम्। आचम्य प्राणानायम्य मातःसंध्यामुपासिष्य इति संकल्प्य, आपो हीति तिमभिर्जिनं कुर्यात् । तासामयमर्थः- [ आपो हि ष्ठति । (ले० आ० प्र० १० अ० १)] हे 'आपः' उदकाधिष्ठान्यो देवताः, ' अभिमानिव्यपदेशस्तु इत्युत्तरमीमांसान्यायात् । 'हि' यस्मात्कारणायूयं मयोभुवः' मयः सुखं भवन्ति भावयन्ति ताः । मयःशब्दो वैदिकनिघण्टे सुखनामसु पठितः । तस्मिन्नुप- पदेऽन्तर्भावितण्यर्थाद्भवतेः कर्तरि किए । 'स्थ ' तिष्ठथ । स्थेत्यस्यान्येषा- मपीति संहितायां दीर्घः । पूर्वपदादिति सूत्रेण सस्य पत्वम् । अतो हेतोः ताः' प्रसिद्धा यूयं 'नः' अस्मान् 'ऊर्जे' अन्नाय । उपलक्षणमिदम् । सकलवैषयिकभोगेभ्यो 'दधातन' धत्त तदुपहितान्कुरुतेत्यर्थः । किंच 'महे' महते 'रणाय' शब्दाय कीर्तये धत्त । अपि च ' चक्षसे' दर्शनाय, तत्त्वसा- क्षात्कारायेति यावत् । धत्त तत्वसाक्षात्कारशालिनः कुरुतेत्यर्थः । दधाते- र्लोटि मध्यमपुरुषबहुवचनस्य ' तप्तनप्तनथनाश्च ' इति तनबादेशः । यो व इति । (तै० आ० प्र० १० अ० १) हे, आपो 'नः' युष्माकं शिवतमः ' सुखतमो 'यो रसः' अस्ति ' तस्य ' तं रसम् । कर्मणः शेषत्व- विवक्षायां षष्ठी । ' इह ' अस्मॅिल्लोके 'नः' अस्मान् ‘भाजयत' सेवयतो- पयोजयतेत्यर्थः । अत्र दृष्टान्तः-' उशती: उशत्यः पुत्रस्य पुष्टिं कामय- मानाः 'मातरः ' स्तन्यं यथा पाययन्ति तद्वत् । वश कान्तौ । शत्रन्तान्डी । जसि पूर्वसवर्णदीर्घः । ' दीर्घाजसि च ' इति निषेधस्तु न । ' वा छन्दसि ' इति वैकल्पिकत्वात् । तस्मा इति । (तै० आ० प्र० १० अ० १) हे, आपः 'तस्मै' ज्ञानरूपाय प्रयोजनाय ' अरम् ' अलमत्यर्थम् । वालमूलेत्यादिवार्तिकेनालमो लस्य रः । 'व: ' युष्मान् । 'गमाम' शरणं गमाम शरणं गच्छाम । ' यस्य' ज्ञानस्य 'क्षयाय ' निवासाय । ति निवासगत्योः। ' एरच् ' 'क्षयो निवासे ' इत्याधु- . १ २ - भट्टोजीदीक्षितविरचितं- दात्तः। 'जिन्वथ' मीणयथास्मानविक्षिप्तचित्तान्कुरुथ किंच 'न: ' अस्मान् जनयथ' पुत्रादिजननसमर्थान्कुरुत । संहितायां दीर्घः प्राग्वत् । तत:-सूर्यश्च० ( तै० आ० प्र० १० अ० ३२) इति मन्त्राचमनं कृत्वा द्विराचायेत् । तस्यायमर्थः- सूर्यः' तथा 'मन्युः 'क्रोधाभिमानिदेवः, तथा 'मन्युपतयः ' क्रोधस्वामिनस्तन्नियामका देवाः, एते सर्वे 'मा' मा 'मन्युक- तेभ्यः' कोपवशात्कृतेभ्यः पापेभ्यो रक्षन्तां' पापविनाशनेन मां पालय- नित्वत्यर्थः । किंच 'राव्या ' अतीतायां रात्रौ 'मनसा वाचा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना' शिश्नेन च ' यत्पापमकार्ष तत् ' सर्व तदभिमानिनी देवता ' अवलुम्पतु ' विनाशयतु । किंच ' मयि यत्' किंचिहुरितमस्ति, इदं ' च कर्मीभूतं मां चाहंकाररूपं कर्तारम् 'अमृतयोनौ' मरणरहिते योनी जगत्कारणे 'सूर्ये' जगत्प्रेरके । राजसूयसूर्येत्यादिना निपातः । 'ज्योतिषि' स्वयंप्रकाशे वस्तुनि 'अहम् ' अहंकाराधिष्ठानचिद्रूपो 'जुहोमि' प्रक्षिपामि । होमेन तत्सर्व भस्मी करोमीति तात्पर्यार्थः । ' स्वाहा ' देवतोदेशेनेदं त्यक्त- व्यमस्त्वित्यर्थः। मध्याहे तु-आपः पुनन्तु (तै० आ० प्र० १० अ० ३०) इति मन्त्रः । अस्यार्थ:-'आपः पृथिवीं पुनन्तु ' प्रक्षालनेन शोधयन्तु । किंच 'पृथिवी पूता' शुद्धा सती 'माम् ' अनुष्ठातारं शोधयतु । 'ब्रह्मणः ' वेदस्य 'पतिः पालकमाचार्यम् । सुपां सुलुगिति अमः सुः । पुनन्तु । अपि च ' ब्रह्म ' वेद- स्वरूपं 'पूता' पूतम् । सुपां सुलुगिति सोह्र । ' मां पुनातु' किंच उच्छिष्टमभोज्यं यत् ' कदाचिन्मया भुक्तमन्यत् ‘वा यन्मम दुश्चरितं' तत् 'सर्व' परिहत्येति शेषः । 'आपो मां पुनन्तु ' । तथा — असतां 'शूद्रादीनां 'प्रतिग्रहं च ' मया कृतं पुनन्तु । ' स्वाहा' इति प्राग्वत् । सायंकाले तु-अग्निश्च (ले० आ० प्र० १० अ० ३०) इति मन्त्रः। स सूर्यवेत्यनेनैव व्याख्यातः । ' सत्ये 'कालत्रयाबाध्ये 'ज्योतिषि' इति विशेषः। सतो दधिक्राव्ण इत्यादिभिर्जियेत् । दधिक्राव्ण इति । (तै सं० का ? प्र०५ अ० ११) धत्ते धारयतीति दधिर्धारकः सन्क्रामति सर्वमाक्रामति वशी करोतीति दधिक्रावा देवताविशेषः, तस्य 'अकारिषम्' अकार्षम् । स्तुतिमिति शेषः। आगमेति सूत्रेण दातेः किः। ततो दधिशब्दोपपदात्क्रमेर्वनिप् । विइनोरित्यात्वम् । कथंभूतस्य 'जिष्णोः अश्वस्य व्यापकस्य । अशू व्यासौ । वन् । 'वाजिनः' वेगवतः । वज गतौ । घनन्ता. . - जयशीलस्य, - ३ - - तैत्तिरीयसंध्याभाष्यम् । न्मत्वर्थ इनिः। 'न:' अस्माकं 'मुखा' मुख्यानि कर्माणि 'सुराभ' सुरभीणि प्रसिद्धानि ' करत् ' करोतु । कृमओ लेट् । लेटोऽडाटौ' इत्यत् । किंच 'न: अस्मभ्यम् ' आयूंषि प्रतारिषत् ' वर्धयतु । प्रपूर्वस्तृधातुर्वर्धनार्थः । ' सिब्ब- हुलं लेटि ' इति सिप् । 'सिब्बहुलं णिद्वक्तव्यः ' इति णित्वावृद्धिः। पुनरापो हि ष्ठेति तिस्रः प्राग्वत् । हिरण्येत्यादि । (तै० सं० का० ५ ० ६ अ० १) 'हिरण्यवर्णाः' स्वच्छाः शुचयः' पूताः 'पावकाः' शोधयिच्यः 'स्योनाः ' विस्तीर्णाः 'ता आपो नः' अस्मभ्यं 'शं' सुखपदा 'भवन्तु ' स्योनाशब्दो विस्ती. गार्थतया स्योना पृथिवीति मत्रे वेदभाष्ये व्याख्यातः । उपष्टम्भकतया च वाजसनेयिनां ब्राह्मणमुपन्यस्तम् इन्द्रस्योरुमाविश स्योनः स्योनमिति विस्तीर्णो विस्तीर्णमित्येव तदाह ' इति । 'ताः 'काः, ' यासु ' स्नात्वा 'कश्यपो जात इन्द्रः ' जातः । उपलक्षणं चैतत् । स्नानजन्यसुकृतमहिम्ना महर्षयो देवताश्च स्वं स्वं पदं प्राप्ताः । किंच ‘विरूपाः ' विविधरूपवत्यः ' या आपोऽमिम् ' अबिन्धनं गर्भमिव 'गर्भ' दधिरे धृतवत्यः॥ यासामिति । (तै० सं० का० ५ प्र०६ अ० १) 'वरुणो राजा यासाम् ' अपां ' मध्ये जनानां ' प्रजानां 'सत्यमनृतं चावपश्यन् ' जानन्सन् 'याति ' गच्छति । किंच ' या मधुश्चुतः ' अमृतं क्षरन्त्यः । शेषं प्राग्वत् ॥ यासामिति । (ले० सं० का० ५ प्र० ६ अ० १) 'देवाः ' इन्द्रादयः दिवि ' स्वर्गे ' यासाम् ' अपां ' भक्षं' भक्षणं कुर्वन्ति । ' अन्तरिक्षे' पृष्ट्यादिरूपेण 'बहुधा भवन्ति' । च 'पृथिवीं पयसा ' स्वांशभूतेन 'उन्दन्ति ' क्लेदयन्ति । उन्दी क्लेदने । 'शुक्राः शुद्धाः। शेषं प्राग्वत् ॥ शिवेनेति । (तै० सं० का० ५ ० ६ अ० १) हे 'आपो मा' मां ' शिवेन' सुखकरेण चक्षुषा पश्यत । किंच · शिवया तनुवा' भवदीयया 'मे त्वचमुपस्पृशत ' । अपि च-अप्सु सीदन्तीति अप्सुषदः' । तत्पुरुष कृतीत्यलुक् । सुषामादित्वात्पत्वम् । तथाभू. तान् ' क ' युष्मान् ‘सर्वानग्नीन्हुवे ' आहयामीत्यर्थः । सर्वानग्नीनित्युभ- यत्रापि 'दीर्घादटि समानपादे ' इति नस्य रुत्वम् । पूर्वस्यानुनासिकः । आधस्य ' भोः भगोः ' इति यत्वे कृते 'लोपः शाकल्यस्य ' इति लोपः। 'वर्चः ' ब्रह्मवर्चसं, ‘बलं ' शारीरम्, 'ओजः' पराक्रमं च मयि याः च याः , - निघत्त ' स्थापयत।
- ४ - भट्टोजीदीक्षितविरचितं- ततो द्रुपदागायत्र्याऽघमर्षणम् । द्रुपदादिति । ( तै० ब्रा० का० २ ० ६ अ०६) 'आपः ' देव्यः 'मा' इति माम् ' एनसः' पापात् 'शुन्धन्तु शोधयन्तु मोचयन्वित्यर्थः । दुर्वृक्षस्तस्मिन्पदं यत्तद्रुपदं छिद्रकाष्ठरूपं निगडं तस्मात् ' मुमुचानः ' मुक्त इव । मुचेः कर्मणि कानच् । ' इत् ' निश्चये। किंच 'स्विनः ' स्वेदवान् 'स्त्रात्वी' स्नात्वा 'मलात् ' यथा मुच्यते । स्नात्व्यादयश्च ' इति क्त्वाप्रत्ययस्येकारोऽन्तादेशः । 'पवित्रेण ' उत्पवन- साधनीभूतेन । ' पुवः संज्ञायाम् ' इति करण इत्रप्रत्ययः। 'पूतं ' शोधितम् आज्यं ' यथा मलान्मुच्येत तद्वत् । ततः प्रातः सायं च गायत्र्या, मध्याह्न तु हंसः शुचिषदिति मत्रेणाऱ्या दद्यात् । तदिति । (तै० आ० प्र० १० अ० ३५ ) षू प्रेरणे । सुवति प्रेरयतीति सविता सूर्यः, तत्संबन्धि सूर्यमण्डलावच्छिन्नमिति यावत् । दीव्यतीति देवः परमात्मा तस्य ' वरेण्यं ' सर्वैर्भजनीयम् । वृत्र एण्यः । अविद्याकामकाः दिभर्जनात् ' भर्गः ' स्वरूपात्मकं ज्योतिः 'धीमहि ' तदेवाहमिति तदासोऽ. हमिति वा ध्यायेम । ' यः ' देवः 'न: ' अस्माकं ' धियः ' बुद्धीः 'प्रचो. दयात् ' प्रेरयतीत्यर्थः । बाहुलकाल्लडर्थे लेट् । 'लेटोऽडाटौ ' इत्याडागमः । हस इति । (तै० आ० प्र० १० अ० ४०) ज्ञानिनं प्रति सर्व जगद्ब्रह्मरूपेणावभासत इत्येवंपरतयाऽयं मत्रो नारायणीयोपनिषद्दी- पिकायां माधवाचार्याख्यातः । तथा हि-हन्ति सर्वदा गच्छतीत्येवं रूपः सञ्चौ शुद्ध ज्योतिर्मण्डले सीदतीति 'शुचिषत् ' सूर्यः। तथा जगन्निवसत्यस्मिन्निति 'वसुः ' वायुस्तद्रूपः सन्नन्तरिक्षे सीदतीति ' अन्त. रिक्षसत् । तथा ' होता' होमनिष्पादकः सन्वेद्यां सोमयागाद्यङ्गभूतायां सीदति आहवनीयादिरूपेण तिष्ठतीति 'वेदिषत् '। तथा · अतिथिः दुरोणेषु गृहेषु परकीयेषु सीदतीति 'दुरोणसत् '। किंच नृषु ऋत्विक्षु यज- मानत्वेन सीदतीति 'नृषत् ' । नृशब्द ऋत्विक्परतया — इमं नरः पर्वताः इन्द्रं नरो नेमधिता' इत्यादिमत्रेषु बहुधा दृष्टः । किंच वरे श्रेष्ठे क्षेत्रे काशीद्वारवत्यादौ पूजनीयदेवरूपेण सीदतीति 'वरसत्' । तथा-ऋते सत्ये वैदिके कर्मणि फलरूपेण सीदतीति 'ऋतसत् । व्योम्नि आकाशे नक्षत्रा- दिरूपेण सीदतीति 'व्योमसत्' । अयो जायते शतमकरादिरूपेणेति अब्जाः । गोभ्यः क्षीरादिरूपेण जायत इति 'गोजाः । ऋतं सत्यं वचनं तस्माद्धर्मरूपेण जायत इति । अदिभ्यः पर्वतेभ्यो - ' - - ऋतजाः - । बलमसि : तैत्तिरीयसंध्याभाष्यम् । वृक्षादिरूपेण जायत इति ' अद्विजाः'। इत्थं हंस इत्यारभ्याद्रिजा इत्यन्ते. नोपलक्षितं यज्जगत्तत् 'ऋतं ' सत्यं 'बृहत् ' ब्रह्मैवेत्यर्थः । अन्जा इत्या- दिषु ' जनसनखनक्रमगमो विट् ' इति विनत्ययः । विड्वनोरित्यात्वम् । असावादित्यो ब्रह्म । (तै० आ० प्र० २ अ० २) इति प्रदक्षिणा । स्पष्टोऽर्थः । आयातु वरदा (तै आ० प्र १० अ० ३४ ) इत्यादिना गायत्रीमावाह- येत् । वरदा देवी' गायत्र्यभिमानिनी देवता — अक्षरं ' विनाशरहितं 'संमितं' सम्यग्वेदान्तप्रमाणनिश्चितं 'ब्रह्म' परं तत्त्वं, बोधयितुमिति शेषः । आयातु ' आगच्छतु । अयमेवार्थ उत्तरार्धे स्पष्टी क्रियते । 'छन्दसा' वेदानां मातेव 'माता गायत्री न: अस्मान् ' इदं ' सकलवेदान्तपति- पायं ' ब्रह्म जुषस्व ' जोषयतूपदिशत्वित्यर्थः । अत्र पुरुषव्यत्ययः । ओजोऽसीति [तै० आ० प्र० १० अ० ३५ ] हे गायत्रि त्वम् 'ओजोऽसि' बलहेतुभूतधातुविशेषरूपाऽसि । 'सहोऽसि' शत्रूणाम- भिभवनशक्तिरसि । शरीरव्यवहारसामर्थ्यरूपाऽसि । 'भ्राजोऽसि' दीप्तिरूपाऽसि । ' देवानाम् ' अग्नीन्द्रादीनां धाम तेजो यदस्ति तन्नामा त्वमेव ' असि' । 'विश्वं ' सर्वजगद्रूपं त्वमेव ' असि। विश्वायुः ' संपूर्णायुःस्वरूपा 'असि' । अस्यैव व्याख्यानं 'सर्वमसि सर्वायुः' इति । अभिभवति तिरस्करोति सर्व पापमिति ' अभिभूः प्रणवप्रतिपाद्यः परमात्मा खमेवासीत्यर्थः । ततः प्राणायाम कुर्यात् । तत्र च- ॐ भूरित्यादिः सुवरोम् ( तै०आ०प्र०१० अ०३५ ) इत्यन्तो मत्रोऽङ्गम् । तथा चामृतनादोपनिषदि श्रूयते- 'सव्याहृति सप्रणवां गायत्रीं शिरसा सह । त्रिः पठेदायतप्राणः प्राणायामः स उच्यते' इति । अत्र भूरादयः सत्यान्ता लोकप्रतिपादिकाः सप्त व्याहृतयः । तेषां च लोकानां प्रणवप्रतिपायब्रह्मरूपत्वविवक्षया प्रत्येकं प्रणवोच्चारणम् । गायत्री तु व्याख्याता । आपो ज्योतिरित्यादिको गायत्र्याः शिरोमनः । तस्याऽऽ. धन्तयोः प्रणवद्वयम् । 'आपः ' समुद्रादिकाः । 'ज्योतिः' आदित्यादि । रसः' मधुरादिः । 'अमृतं ' सुधा। एतत्सर्वम् 'ॐ' ब्रह्मैवेत्यर्थः । किंच 'भूः, भुवः, सुवः ' एते त्रयो लोका अपि 'ॐ' ब्रह्मैवेति । प्राणा- यामत्रयानन्तरं गायत्री जपेत् । - ६ भट्टोजीदीक्षितविरचितं- ततः सूर्योपस्थानम् । तत्र मत्राः-मित्रस्य [तै० सं० का० ३ ०४ अ०११) इत्यादयः। 'चर्षणयः' मनुष्या वृष्टिप्रदानेन तेषां धारकस्य 'मित्रस्य' सूर्यस्य संबन्धि श्रूयत इति 'श्रवः ' यशः 'सानसिं ' संभजनीयम् । षण संभक्तौ । सानसि- वर्णसीत्यादिनाऽसिजन्तो निपातितः। किंच 'सत्यं ' यथार्थम् । अपि च चित्रमाश्चर्यकरं श्रवः श्रवणं यस्य, अतिशयेन तथाभूतम् । मित्र इति । प्रकर्षेण जानन् , तत्तज्जीवकृतधर्माधर्मजातं प्रमिमाणः, 'मित्र' सूर्यः 'जनान्' लोकांस्तत्तदुचितकर्मसु 'यातयति' उद्योत(ज)यति जना यतन्ते तानसौ मेरयति 'यती प्रयत्ने' हेतुमण्ण्यन्ताल्लट् । किंच 'मित्रः' एव वृष्टिद्वाराऽनं तथा यागांश्च जनयन् 'पृथिवीं यां' च 'दाधार ' धारयति' अपि च--' अनिमिषा' अनिमिषेण सानुग्रहेण चक्षुषा 'कृष्टीः ' कर्मवतो मनुष्यान — अभिचष्टे ' सर्वतः पश्यति । अतः ' सत्याय ' मित्राय 'घृतवत्' उपस्तरणाभिधारणयुक्तं . हव्यं ' हवनयोग्यं पुरोडाशादिकं 'विधेम' प्रयच्छेम । प्रेति । हे 'मित्र' आदित्य 'यो मतः ' मनुष्यो 'व्रतेन ' युक्तः सन् 'ते' तुभ्यं 'शिक्षति ' हविर्ददाति । शिक्षतिर्दानधर्मेति वेदभाष्यम् । 'सः' मनुष्यः 'प्रयस्वान् ' प्रीणातीति प्रयोऽनं तद्वान् 'प्रास्तु ' प्रभवतु । हिताश्व ' इति सूत्रेण धातूपसर्गव्यवधानेऽपि साधुत्वम् । 'त्वोतः' त्वया रक्षितो मनुष्यः केनापि ' न हन्यते न' अपि 'जीयते' । किंच-'एन' पुरुषम् ' अंहः' पापम् ' अन्तितः' समीपात् ' नाश्नोति ' न व्यामोति । दूरात् ' अपि 'न' व्यामोति । नमः पाच्य दिशे (तै० आ० प्र० २ अ० २० ) इत्यादि स्पष्टार्थम् । उत्तम इति । (तै० आ० प्र० १० अ० ३६) 'भूम्यां' स्थितो यः पर्वतो मेरुस्तस्य मूर्धनि उपरिभागे यदुत्तमं शिखरं तस्मिन् 'जाते' हे ' देवि प्रामणेभ्यः' त्वदुपासकेभ्यो ' यथासुखं ' स्वस्थानं 'गच्छ '। कीदृशी त्वम् , ' अभ्यनुज्ञाता'। अर्थाद्राह्मणैरेवेति बोध्यम् । मध्याह्ने तूर्ध्वबाहुः सनासत्येनेत्यादिभिः सूर्यमुपतिष्ठेत । आ सत्यनेति (ले० सं० का० ३ ० ४ अ० ११) 'सविता' सूर्य 'सत्येन ' व्यावहारिकेण ' रजसा' अन्तरिक्षलोकेन । लोका रजांस्युच्यन्त इत्युक्तेः । 'आवर्तमानः ' पुनरागच्छन् ' अमृतं ' देवं मर्त्य ' मनुष्यं च निवेशयन् ' स्वस्वस्थानेऽवस्थापयन् ‘पश्यन् ' अवेक्षमाणो 'हिरण्ययेन - व्यव. , - . उपासका: तमसः । परि तैत्तिरीयसंध्याभाष्यम् । सुवर्णनिर्मितेन ' आयाति' । हिरण्ययेनेत्यत्र 'मुल्य ' इत्यादिना मयटो मलोपः। यस्येति लोपे प्रत्ययस्वरः। उद्वयमिति ( तै० सं० का० ४ प्र० १ अ०७ )। 'वयम्' पापा उपरि पर्तमान पापरहि- तमित्यर्थः । उत्तरम्' उत्कृष्टतरं 'ज्योतिः' ज्योतीरूपं 'देवत्रा' देवेषु ' देवं ' द्योतमानं ' सूर्य पश्यन्तः ' उपासनाबलात्साक्षात्कुर्वन्तः सन्तः उत्तमं ' ज्योतिः सूर्यरूपम् ' अगन्म प्रामवाम 'तं यथा यथोपासते तदेव भवति ' इति श्रुतेः । देवत्रेत्यत्र 'देवमनुष्यपुरुषपुरुमत्येभ्यो द्विती- यासप्तम्योर्बहुलम् ' इति सप्तम्यर्थे त्राप्रत्ययः । अगन्मेति 'छन्दसि लुक्लङ्. लिटः' इति प्रार्थनायां लङ् । ' बहुलं छन्दसि ' इति शपो लुक् । ' म्वोच' इति धातोर्मकारस्य नकारः। पदादित्वानिघातो न । उदु त्यमिति (तै० सं० का० १ ० ४ अ० ४३)। 'केतवः' अश्वाः । अश्वाः केतवः । इति निरुक्तात् । इति निरुक्तात् । 'त्यं' प्रसिद्धं, जातं जगद्वेत्तीति जातवेदाः सर्वज्ञस्तं, 'देवं ' द्योतमानं सूर्यम्, 'उत्' उ इति निश्चयेन ' वहन्ति' प्रापयन्ति । किमर्थ 'विश्वाय' विश्वस्मै भुवनाय दृशे ' द्रष्टुम् । विश्वानि सूर्यदर्शनं लब्ध्वाः कृतार्थतां लभन्तामित्येतदर्थमिति भावः । जातवेदा इत्यत्र 'गतिकारकोपपदयोः पूर्वपदप्रकृतिस्वरत्वं च ' (उ० पा०,४ सू० २२६ ) इत्यसिः पूर्वपदप्रकृतिस्वरत्वं च । दश इति 'दृशे विख्ये च' इति च्छन्दसि निपातितः। चित्रमिति (ले० सं० का० १ ० ४ अ० ४३)। 'देवानाम् ' इन्द्रा- दीनाम् ' अनीकं ' सकलदेवसमूहात्मकं 'चित्रम् ' आश्चर्यकरम् । 'मित्रस्य इत्याधुपलक्षणम् । इन्द्रादीनां सर्वेषां जगतां चक्षुरिव 'चक्षुः' ईशाम् उदगात् ' उदयाचलं प्राप्तम् । ततो 'जगतः ' जङ्गमस्य ' तस्थुषः ' स्थाव- रस्याऽऽत्मा नियामकः। आऽमा द्यावापृथिवी अन्तरिक्षं ' च 'आमा: तेजसा पर्यपूरयत् । मा पूरणे । लङ् पुरुषव्यत्ययः । तचक्षुरिति (ले० आ० प्र० ४ अ० ४२)। 'तत् ' प्रसिद्धं चक्षुरिव चक्षुः ' प्रकाशकं देवेभ्यो हितं ' शुक्रं ' निर्मलं पुरस्तात्सच्छुक्रम् 'उचरत् ' उद्गच्छत्सूर्यमण्डलं 'शतं शरदः पश्येम' इत्यादि स्पष्टमन्यत् । सायंकाले-इमं मे वरुण ( तै० सं० का० २ ० १ अ० ११) इत्यु- पस्थानम् । हे 'वरुण मे' मम ' इमं हवम् ' इदमाहानं 'श्रुधि' शृणु । 'अध' मां 'मृडय' । ' त्वामवस्युः ' आत्मनोऽचं रक्षणमिच्छतीत्यवस्युः । ईदृशोऽहं - ८ भट्टोजीदीक्षितविरचितं तैत्तिरीयसंध्याभाष्यम् । त्वाम् 'आचके ' आहये । कै शब्दे । 'छन्दसि लिट् ' इति लडथै लिडा. त्मनेपदम् । तत्त्वेति (तै० सं० का० २ ० १ अ० ११)। 'ब्रह्मणा' वेदेन' वन्द. मानः ' स्तुवन्नहमृत्विक् 'तत् ' यजमानेष्टं ' त्वा' त्वां 'यामि'। किंच यजमानः ' अपि ' हविभिस्तत् ' एव ' आशास्ते 'प्रार्थयते । हे 'वरुणा- हेडमानः ' अनादरमकुर्वन् ' इह ' मत्कनुका स्तुति ' बोधि ' बुध्यस्व । किंच-उरुमहाशंसः स्तुतिर्यस्य, एवं हे वरुण 'न आयुर्मा प्रमोषी: न्यूनं मा कार्षीः। यदिति ( तै० सं० का० ३ प्र० ४ अ० ११)। हे ' देव वरुण ते व्रतं' त्वदीयपरिचर्यारूपमहं दिवसे दिवसे 'मिनीमसि' प्रमीणीमः । मीञ् हिंसायां ' मीनातेनिगमे ' इति इस्वः । यद्यप्येवं तथाऽपि विशो यथा' प्रजा इव वयं स्मः । यथा सापराधा अपि प्रजाः स्वामिनाऽनुगृह्यन्ते तथा वयमप्य- , नुग्राह्या इत्यर्थः। - - यत्किचेति ( तै० सं० का० ३ ० ४ अ० ११)। हे 'वरुण दैव्ये' देवसमूहरूपे ' जने यत्चेिदमभिद्रोहम् ' अपकारजातं ' मनुष्याः ' वयं 'चरामसि ' चरामः । किंच-'अचित्ती यत्तव धर्मा युयोपिम ' अज्ञानेन तव ' त्वदीयं ' यद्धर्म' धारकं कर्म 'युयोपिम ' वयं तिरोहितवन्तः । 'देव तस्मादेनसः' पातकात् 'नः' अस्मान् ‘मा रीरिषः' मा हिंसीः । कितवास इति (तै० सं० का० ३ प्र० ४ अ० ११) । किं तवास्तीत्याच- क्षाणाः 'कितवासः' । किंतवेत्यनुकरणादाख्यातण्यन्तात्पचाद्यच् । पृषोद- रादित्वात्किमो मलोपः । 'न दीवि ' इति । देवनमिव देवनं द्यौः । तस्यां दिवि । दिवेडिविः । अन्येषामपीति दीर्घः । इवार्थे नशब्दः। 'घ' पापं रिरिपुः 'लिलिपुट्टैषवशादस्मास्वारोपितवन्तः । 'वा' अथवा । घेति पाद- पूरणार्थोऽयम् । तस्य ऋचि तुनुघमक्षुतकुत्रोरुष्याणाम् ' इति संहितायां दीर्घः । 'यत् ' पापं 'सत्यं ' कृतम् 'उत यन्न विद्यः ' कृतं न वेति न जानीमः 'ता' तानि 'सर्वा' सर्वाणि 'शिथिरेव' शिथिलानीव 'विष्य ' विशेषेण नाशय । पोऽन्तकर्मणि । विपूर्वाल्लोटि मध्यमः । सर्वा ता शिथिरेत्यत्र 'शेश्छन्दसि बहुलम् इति शिलोपे 'न लोपः प्रातिपदिका- न्तस्य ' इति नलोपः। ' अथा ते स्याम वरुण प्रियासः 'हे 'वरुणाथ अनन्तरं 'ते' तव 'मियासः' प्रियाः। 'आजसेरसुक् ' इति जसोऽसु. गागमः । 'स्याम' भवेम । इति श्रीभट्टोजीदीक्षितविरचितं तैत्तिरीयसंध्याभाष्यम् । - , - ॐ तत्सब्रह्मणे नमः। तैत्तिरीयसंध्याभाष्यम्। अथ सायणाचार्यकृततैत्तिरीयसंध्यामत्रव्याख्या प्रारभ्यते । तत्राऽऽदौ भस्मलेपनमत्रार्थः । सद्योजातं प्रपद्यामि सद्योजाताय वै नमो नमः । भवे भवे नातिभवे भवस्व माम् । भवोद्भवाय नमः । (ते. आ० प्र० १० अ० १७ ) सद्योजातमिति । ' सद्योजातम् ' एतनामकपश्चिमवक्त्ररूपं परमेश्वरं 'प्रप. द्यामि' प्रामोमि । तादृशाय 'सद्योजाताय वै नमः' अस्तु । हे सद्योजात 'मवे भवे' तत्वजन्मनिमित्तं 'मां' न 'मवस्व' न प्रेरय किं तर्हि 'अतिभवे । जन्मातिलङ्घननिमित्ते तत्त्वज्ञाने । 'भवोद्भवाय' संसारादुद्धत्रे सद्योजाताय नमोऽस्तु । वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमो बलविकरणाय नमो बलाय नमो बल- प्रमथनाय नमः सर्वभूतदमनाय नमों मनोन्मनाय नमः । (तै० भा० प्र० १० अ० १८ ) वामदेवायेति । 'वामदेवाय' उत्तरवक्त्ररूपाय । सस्यैव विग्रहविशेषा ज्येष्ठायाः पीठदेवताः। अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः। सर्वेभ्यः सर्व शेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः । ( तै० आ० प्र० १० अ० १९) * इदं केनचित्संगृहीतम् । अस्य संग्रहकर्तुर्नाम न ज्ञायते । - २ तैत्तिरीयसंध्याभाष्यम् । अघोरेभ्य इति । योऽयमघोरनामकदक्षिणवक्त्ररूपो देवस्तस्य विग्रहा अघोराः सात्त्विकत्वेन शान्ताः । अन्ये तु घोरा राजसत्वेनोग्राः । अपरे तु तामसत्वेन घोरादपि घोरतराः । हे 'सर्व' सर्वात्मक परमेश्वर 'ते' त्वदी- येभ्यः ' सर्वेभ्यः ' पूर्वोक्तेभ्यस्त्रिविधेभ्यः शर्वेभ्यो ‘रुद्ररूपेभ्यः ' हिंसकेभ्यो रुद्राध्यायप्रतिपादितेभ्यो रुद्रेभ्यः सर्वेभ्यः सर्वतः सर्वदेशेषु कालेषु च वर्त- मानेभ्यो नमोऽस्तु । तत्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्रः प्रचोदयात् । ( ० आ० प्र० १० भ० २० ) तत्पुरुषायेति । प्राग्वक्त्रदेवस्तत्पुरुषनामकः । एतनामकमाग्वक्त्ररूपाय । द्वितीयार्थे चतुर्थी । तत्पुरुषं देवं 'विद्महे ' गुरुशास्त्रमुखाज्जानीमः । ज्ञात्वा च 'महादेवाय ' तं महादेवं 'धीमहि ' ध्यायेम । 'तत् ' तस्मात्कारणात् 'रुद्रः' देवो ' नः' अस्मान् ‘प्रचोदयात् ' ध्यानज्ञानार्थ प्रेरयतु । लिङर्थे लेट् । ईशानः सर्वविद्यानामीश्वरः सर्वभूतानां ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो में अस्तु सदाशिवोम् । (ते. आ० प्र० १० अ० २१) ईशान इति । योऽयमीशाननामकोर्ध्ववक्त्ररूपो देवः सोऽयं 'सर्व- विद्यानां ' वेदशास्त्रादीनां चतुःषष्टिकलाविद्यानाम् । ' ईशानः ' नियामकः । तथा — सर्वभूतानाम् ' अखिलमाणिनाम् 'ईश्वरः' नियामकः, 'ब्रह्माधि- पतिः' वेदस्याधिकत्वेन पालकः । तथा ब्रह्मणो हिरण्यगर्भस्याधिपतिः । ताशो यो ब्रह्मा प्रवृद्धः परमात्मा सोऽयं 'मे' ममानुग्रहाय 'शिवः' शान्तः 'अस्तु' 'सदाशिवोम् ' स एव सदाशिव ओमहं भवामि । अग्निरिति भस्म । वायुरिति भस्म । जल- मिति भस्म । स्थलमिति भस्म । व्योमेति भस्म । सर्व५ ह वा इदं भस्म । मन एतानि चषि भस्मानि । ( अथर्वशिरउपनिषत् । ख० ५) अपिरिति भस्मेत्यादीनामर्थ उक्तो मोडकाख्यैरभियुक्तैः । स्थलं ' पृथ्वी । एवं चाग्न्यादीनि पञ्च महाभूतानि 'सर्व' घटादि तत्कार्य मनश्चक्षुरुपलक्षि- - तैत्तिरीयसंध्याभाष्यम् । तयाववृत्त्यात्मकज्ञानानि च 'भस्म' स्वतो भातीति भस्म ब्रह्म" भस्मविज्ञाननि- ष्ठस्य कर्तव्यं नास्ति किंचन" इति सूतसंहितोक्तेद्वैतस्य भासनाञ्जनाद्वा भस्मशब्दितमद्वैतं ब्रह्मैव निखिलमपि सकारणं दृश्यमस्तीति भावयेदिति तात्पर्यम् । भस्माभिमन्त्रणे विनियोगस्तु लिङ्गाद्विधेरेव वा। ‘ह वै' इति निपातौ प्रसिद्ध्यवधारणयोः । इतिशब्दपञ्चकं प्रत्येकं पश्चानामपि भूतानां साकल्येन परामर्शार्थम् । मा नस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः । वीरान्मा नो रुद्र भामितो वधीहविष्मन्तो नमसा विधेम ते ॥ (तै० आ० प्र० १० अ० ५३) मा नस्तोक इति । हे 'रुद्र नः' अस्मदीये तोकेऽपत्यमात्रे तनये विशेषतः पुत्रे मा रीरिषो हिंसा मा कुरु । नोऽस्मदीय आयुषि मा रीरिषः । नोऽस्मदीयेषु गोषु मा रीरिषः । नोऽस्मदीयेष्वश्वेषु मा रीरिषः । मामितः क्रुद्धः सन्नोऽस्मदी- यान्वीरान्भृत्यान्मा वधीः । वयं हविष्मन्तो हविर्युक्तास्ते तुभ्यं नमसा नमस्कारेण विधेम परिचरेम ॥ प्रणवस्यार्थः पारिजाते-तस्य सोऽहमित्यजपामत्रप्रकृतिकत्वात्तच्छब्दप्र. कृतिकेन स इतिशब्देन सच्चित्सुखात्पकं परं ब्रह्माभिधीयते । अहमिति सर्व- साक्षी प्रत्यगात्मा, तयोः सामानाधिकरण्येनैकत्वम् । एवं सत्यखण्डकखभावं सच्चित्सुखात्मकं परं ब्रह्म निर्दिश्यते । स एव प्रणवार्थः । पतञ्जलिरपि-- 'तस्य वाचकः प्रणवः ' तस्येश्वरस्य, इति योगसूत्रेणामुमेवार्थमाह ॥ अथ व्याहृतीनामर्थः-( तै० आ० प्र० १० अ० ३५ ), भूरा- दयः सत्यान्ता लोकमतिपादिकाः सप्त व्याहृतयः । तेषां च लोकानां प्रणवप्रतिपाद्यब्रह्मस्वरूपत्वविवक्षया प्रत्येकं प्रणवोच्चारणम् । उपलक्षण- तया सप्ताधोलोका अपि ग्राह्याः । गायत्रीमन्त्रप्रतिपाद्यस्य ब्रह्मत्ववि- वक्षया तदादौ प्रणवोच्चारणम् । व्याहृतीनामवयवार्थ:-भवन्ति अस्यां भूतानीति भूः । अधिकरणे किप् । भावयति प्रकाशयति विश्वमव- काशमदानेन स्थितिप्रदानेनेति वा मुवः । भुवोऽन्तर्भावितण्यर्थाद- सुनि गुणाभावश्छाम्दसः, उवडादेशः । सुष्ठु अरणीयं प्राप्यं सुवः सुखम- स्मिन्माप्यत इति वा सुवः । एवं चैतेषामर्थः प्रणवार्थ एव । मह पूजायां, सर्वेषां सर्वप्रकारैः पूज्यं महः । सर्गकाले सर्व वियदादि स्वस्माजनयतीति - तैत्तिरीयसंध्याभाष्यम् । जनः । तप आलोचने, सर्ववोधयित् सर्वशं सर्वस्य प्रशास्तृत्वेन तापकं चेति तपः । सत्यमविपर्यस्तस्वभावम् । कचिद्देशे काले च केनापि प्रमाणेनाबाधितं सत्यम् । आसां सप्तव्याहतीनां प्रत्येकं सत्तास्वभावादिरूपार्थस्योक्तत्वात्पर- मार्थतत्त्वप्रतिपादकत्वात्तादृशेन प्रणवेन प्रत्येकमभिसंबन्धः । एवं गायव्यर्थ- स्यापि प्रणवार्थेनैकत्वम् । तद्यथा-यः सविता नोऽस्माकं धियः प्रज्ञाः कर्माणि वा । धीशब्दस्य प्रज्ञानामसु कर्मनामसु च निघण्टुपु पाठात् । प्रचोदयात्मेर- यति, लेट् । तस्येत्यध्याहारः । सवितुः प्रेरकस्यान्तर्यामिणः । षु प्रसवैश्वर्ययो. रित्यस्य रूपम् । देवस्य प्रकाशमानस्य परमात्मनो वरेण्यं वरणीयं प्रार्थनीयं सुखै. कतानरूपं सर्वैः सुखस्यैव प्रार्थनीयत्वात् । भर्गः, भ्रस्ज पाक इत्यस्मादसुनि रूपं, संसारदाहकं तत् सर्वेषु वेदेषु लोकेषु च प्रसिद्धं ब्रह्मस्वरूपं धीमहि ध्यायामः । ध्यायतेलिङ, आत्मनेपदं संप्रसारणं च च्छान्दसं, व्यत्ययेन शपो लुक् । अत्रायं संग्रहः- बुद्धीः कर्माणि वाऽस्माकं यः प्रेरयति तस्य तु । देवस्य सवितुः ख्यातं वरेण्यं चिन्तये महः । अथ शिरसोऽर्थः-आपो नदीसमुद्रादिगता ज्योतिरादित्यादिकं रसो मधु. राम्लादिः षडविधोऽमृतं देवैः पातव्यम् । तत्सर्वमों प्रणवप्रतिपाद्यं ब्रह्मेति सूचयितुमादावोंकारः । भूरादित्रयस्याऽऽदरात्पुनरुक्तिः। अत्राऽऽपो ज्योति- रिति भूतद्वयोपादानं भूवाय्वाकाशानामुपलक्षणम् । ब्रह्म वेदः । एवंभूत- स्यार्थस्य व्याहृतित्रयार्थेनैक्यमाह-भूरित्यादि । प्रणवव्याहृतिगायत्रीशि- रोभिः प्रतिपादितमखण्डैकरसस्वभावमर्थ परं ब्रह्मैवेत्यङ्गी करोति-ओमिति । अङ्गी कुर्वे ध्यायामीत्यर्थः। प्रातःसंध्या कुमारीति ध्यानार्थः स्पष्ट एव । गायच्या आवाहनमत्रमाह-आयात्विति [ तै० आ० प्र० १० अ० ३४ ] । वरदाऽस्मदभीष्टवरप्रदा देवी गायत्री छन्दोभिमानिनी देवताऽसरं विनाशरहितं संमितं सम्यग्वेदान्तप्रमाणनिश्चितं ब्रह्म जगत्का- रणं परं तत्त्वमुद्दिश्याऽऽयातु आगच्छतु, अस्माकं ब्रह्मतत्त्वं बोधयितु- मागच्छत्वित्यर्थः । अयमेवार्थ उत्तरार्धेन स्पष्टी क्रियते-छन्दसां गाय- त्रीत्रिष्टुवादीनां वेदानां वा माता जननी देवता गायत्री गायत्रीशब्दाभिधेया मे ममेदं ब्रह्म वेदान्तप्रतिपाद्यं तत्त्वं जुषस्व जोषयतूपदिशत्वित्यर्थः ।। * पारिजाते तु आप्नोतीत्यापोऽखण्डसत्तास्वरूपेण सर्वव्यापकः । स एव स्वयंप्रकाशना- ज्योतिः । स एव रस आनन्दस्वभावः । अमृतं तदेवामरणधर्मकं ब्रह्म तदेव देशतः कालतो वस्तु- तश्चानवच्छिन्नम्।
। तैत्तिरीयसंध्याभाष्यम् । यदहादिति (तै० आ० प्र० १० अ० ३४) । किंच हे संध्याविद्ये सायं- प्रातःसंधौ भवा संध्या तादृशी या विद्याऽनुष्ठानरूपा तत्संबुद्धौ संध्याविधे सरस्वति त्वद्भक्तो यदनाद्यस्मिन्नहनि पापं कुरुते तदहात्तस्मिन्नहनि तेन पापेन प्रतिमुच्यते विमुच्यता शुद्धो भूयादिति भावः । यद्रात्रियाद्यस्यां रात्री तद्रात्रि- यात्तस्यां रात्रौ । अन्यत्समानम् । एते छान्दसाः प्रयोगाः । सर्ववर्णे महा- देवीति विशेषणे। गायच्या आवाहनमत्रमाह-ओजोऽसीति । [तै० आ० प्र० १० अ० ३५] । हे गायत्रि त्वमोनोऽसि वलहेतुभूताष्टमधातुरूपाऽसि, सहोऽसि शत्रूणा- मभिभवनशक्तिरसि, बलमति शरीरगतव्यवहारसामर्थ्यरूपाऽसि, भ्राजोऽसि दीप्तिरूपाऽसि, देवानामग्न्यादीनां धाम तेजो यदस्ति तन्नामाऽसि तदेव त्वन्ना- मेत्यर्थः । देवानां धामासीत्यर्थः । विश्वं सर्वजगद्रूपं त्वमेवासि, विश्वायुः संपू- र्णायुःस्वरूपाऽसि । उक्तस्यैव व्याख्यानं सर्वमसि सर्वायुरिति । अभिभूः सर्वस्य पापस्य तिरस्कारहेतुः, ॐ प्रणवप्रतिपाद्यपरमात्माऽसि । तादृशीं गायत्री मदीये मनस्येवाऽऽवाहयामि । अन्यत्स्पष्टम् । आपो हि ष्ठेति (ते. आ० प्र० १० अ० १)। हि छेत्यत्र हि स्थेति पद- च्छेदः । हे आपो हि यस्मात्कारणाद्या यूयं मयोभुवः स्थ स्नानपानादिहेतुत्वेन सुखपापयियो भवथ तस्मात्कारणायूयं नो युष्मद्भक्तानस्मान्दधातन पोषयत । कस्मै प्रयोजनाय, चक्षसे परमात्मदर्शनाय । कथंभूताय, रणाय रमणीयाय । तथा मह्यते पूज्यत इति मट् तस्मै महे मोक्षरूपफलत्वान्महते भुक्तिमुक्तिप्रयो- जनायास्मान्पोषयत । अन्यथा जीवनं व्यर्थमित्यभिप्रायः। किंच हे आपो वो युष्माकं यः शिवतमः कल्याणतमो माधुर्यलक्षणो रसोऽस्ति तस्येहास्यां भुवि विद्यमानान्नोऽस्मान्भाजयत पात्रयत स्थानं कुरुतेत्यर्थः । यथा भाजने जलं तिष्ठति तथा युष्मदीयो रसोऽस्मासु तिष्ठत्विति भावः । अत्र निदर्शनं प्रदर्शयति-इव यथा मातरः स्वापत्यमुत्तमं गुडादि प्राशयन्ति तथा । कथंभूता उशतीरुशत्योऽपत्यवृद्धिं कामयमानाः पुत्रदुहित्रादिस्नेहवत्य इति यावत् ॥ किंच हे आपो वो युष्मान्वयमरमत्यर्थं शरणं गमाम प्रामुमः । कस्मै प्रयो. जनाय शरणीकरणं यस्यास्मदीयस्य पापजालस्य क्षयाय विप्रणाशाय यूयं निन्वय प्रीतिं कुरुथ तस्मै तत्क्षयार्थमेव युष्माभिरपि भक्तत्वादमत्पापक्षयार्थमेव यत्नः क्रियते, अस्माभिरप्येतदर्थमेव युष्मच्छरणं क्रियतेऽन्यथा कथमस्मत्पापw (ते. तैत्तिरीयसंध्याभाष्यम् । क्षयार्थ युष्माभिरुषम्यतामित्यभिप्रायः । किंच भो अब्देवता नोऽस्माजन यथ पुत्रदुहित्रादिजननसमर्थान्कुरुथ । आपो वा इदर सर्व विश्वा भूतान्यापैः प्राणो वा आपः पशव आपोऽनमापोऽमृतमापः सम्रा- डापो विराडापः स्वराडापश्छन्दाश्स्यापो ज्योतीष्यापो यष्यापः सत्यमापः सवर्वी देवता आपो भूर्भुवः सुवराप ॐ ॥ • आ० प्र० १० अ० २९) आपो वा इदमिति । यदिदं जगदस्ति तत्सर्वमापो वै जलमेव । कथमिति प्रपश्यते विश्वा भूतानि सर्वाणि प्राणिशरीराण्यापो जलं रेतोरूपेण तदुत्पादक- त्वात् । प्राणा वै शरीरवर्तिवायवोऽप्यापः । उदकेन प्राणानामाप्यायनात् । अत एव च्छन्दोगा आमनन्ति-'आपोमयः प्राणो न पिबतो विच्छेत्स्यते इति । पशवो गवादयोऽप्यापः क्षीररूपेण तत्र परिणतत्वात् । अन्नं व्रीहियवा- दिकमापः । जलस्यानहेतुत्वं प्रसिद्धम् । अमृतमापः सम्यग्जायत इति सूत्रात्मा हिरण्यगर्भः सम्राट् । विस्पष्टं राजत इति ब्रह्माण्डदेहः पुरुषो विराट् । इन्द्रिया. दिनैरपेक्ष्येण स्वयमेव राजत इत्यव्याकृताभिमानीश्वरः स्वराट् । छन्दांसि गायच्यादीनि । ज्योतीष्यादित्यादीनि । यषि अनियताक्षरा मत्राः । सत्यं यथार्थकथनम् । सर्वा देवता इन्द्रादयः । भूर्भुवः सुवस्त्रयो लोकाः । सम्राडादि- लोकत्रयान्तार्थरूपेणाऽऽपः स्तूयन्ते । अतश्चाऽऽपो मूलकारणं परमात्मरूपेण प्रणवप्रतिपाद्या इति वक्तुमोंकारः पठितः ॥ प्रातःसंध्याकाले जलपानार्थ मत्रमाह-सूर्यश्चेति (ले० आ० प्र० १० अ०३२)। सूर्योऽहनिष्पादकः सूर्योपाधिकः। यश्च मन्युः क्रोधाभिमानी देवः। ये च मन्युपतयः क्रोधस्वामिनस्तस्मिन्नियामका देवाः सन्ति ते सर्वेऽपि मन्यु- कृतेभ्यो मदीयकोपनिष्पादितेभ्यः पापेभ्यो रक्षन्तां पापिनं मां सत्पापविनाशनेन पालयन्तु । किंच-अतीतया राज्या तस्यां राव्यां यत्पापमकार्ष कृतवानस्मि । केन साधनेन मनादिभिः शिश्नान्तावयवैः। तत्सर्व पापं रात्रिरवलुम्पतु राज्य- भिमानी देवो विनाशयतु । परहिंसादिचिन्तनं मानसं पापम् । अनृतादिभा. पणं वाचिकम् । अभिचारहोमादिकं हस्तकृतम् । पादेन गोब्राह्मणस्पर्शादिकं तैत्तिरीयसंध्याभाष्यम् । पादकृतम् । अभोज्यभोजनमुदरकृतम् । अगम्यागमनं शिश्नकृतम् । अथवा किमनेन परिमितगणनेन यत्किमपि दुरितं निष्पन्नमिदं पापजातं सर्व तत्कार मां च लिंगशरीररूपममृतयोनौ मरणरहिते जगत्कारणे सूर्येऽहनिष्पादके सूर्यो- पाधिके ज्योतिषि स्वयंप्रकाशे वस्तुनि जुहोमि प्रक्षिपामि अहमनेन होमेन तत्सर्व भस्मी करोमि । तदर्थमभिमत्रितं जलं वाहा मदीयमुखामौ हुतमस्तु । दधिक्राव्ण इति (तै० सं० का० १ प्र० ५ अ० ११) । दधि क्रावति मामोतीति दधिक्रावा दधिप्रियः कश्चिदेवविशेषः । अमिरित्यन्ये । तस्य देव- स्याकारिषमहं कर्म कृतवानस्मि । कीदृशस्य जिष्णोर्जयशीलस्याश्वस्य व्यापिनो वानिनोऽन्नवतः । स देवो नोऽस्माकं मुखा मुखं सुरभि करत् कर्पूरादिद्रव्यप्रदानेन सुगन्धोपेतं करोतु । अस्माकमायूंषि च प्रतारिषत् प्रवर्धयतु ।। आपो हि ष्ठा मयोभुवः न । महे० से । यो वः शिव० नः। उशती. रः। तस्मा अरं ग० थ । आपो जन० च नः । एते मत्राः पूर्व व्याख्याताः॥ हिरण्येति (तै० सं० का. ५ प्र० ६ अ० १)। हिरण्यवर्णा निर्मलत्वेन भास्वरत्वाद्धिरण्यसदृशवर्णोपेताः । तथा शुचयः स्वयंशुद्धाः पावकाः साना- दिना शरीरादिशुद्धिहेतवश्व । यास्वप्मु कश्यपाख्यः प्रजापतिरुत्पन्नः। यास्वप्सु इन्द्रोऽप्युत्पन्नः । अग्निं च या आपो गर्भवेन दधिरे । एतत्रयं शाखान्तरेभ्यो द्रष्टव्यम् । अत्राप्यग्नेर्भो अपामसीति चतुर्थकाण्डे मन्त्रान्ते समानातम् । विरूपास्ता आपः स्योनाः सुखकारिण्यः । अतो नोऽस्माशं भवन्तु सुखं प्रापयन्तु । यासां५ राजेति (तै० सं० का० ५ ० ६ अ०१)। वरुणाख्यो राजाs- पामधिपतिर्यासामपा मध्ये याति गूढः संचरति । किं कुर्वन् , जनानां सत्यानृते अवपश्यन् स्नानपानादौ यो यथाशास्त्रमाचरति तत्सर्वमवपश्यन् । ताश्चाऽऽपो मधु रसं थोतन्ति स्रावयन्ति ता मधुश्चुतः । शुचय इत्यादि पूर्ववत् ॥ यासां देवा इति (तै० सं० का० ५ प्र० ६ अ० १)। दिवि घुलोके देवा यासामपां संबन्धि सारं भक्षं कृण्वन्ति स्वभोज्यं कुर्वन्ति । पीयूषं देवैः सेव्यते तच्चापां सारभूतम् । याश्चाऽऽपोऽन्तरिक्षे दृष्टिधारारूपेण बहुधा बहुम- कारा भवन्ति, याश्चाऽऽपः पृथिवीं सर्वी पयसा स्वकीयेन द्रवेणोन्दन्ति क्लेदयन्ति शुक्रा निर्मलाः, ता न आप इत्यादि पूर्ववत् ॥ शिवेनेति ( ते० सं० का० ५ ० ६ अ० १)। हे आपो यूयं शिवेन चक्षुषा शान्तया दृष्ट्या मा पश्यत मामवलोकयत । तथा शिवया , तनुवा शान्तेन युष्मदीयशरीरेण मे स्वचमुपस्पृशत । अहमपि अप्सुषदो जलेषु स्थितान्सर्वानपि - पुनन्तु विश्व तैत्तिरीयसंध्याभाष्यम् । अग्नीन्हुवे जुहोमि होमेन तर्पयामि । वो युष्मदीयं यद्वचः कान्तिः, यश्च बलं, यदप्योनो बलहेतुरष्टमो धातुस्तत्सर्वं मयि निधत्त स्थापयत ॥ पर्वमानः सुवर्जनः । पवित्रेण विचर्षणिः । यः पोता स पुनातु मा॥ (ते. ब्रा० का० १ प्र० ४ अ० ८ ) पवमान इति । यो देवः पोता सर्वेषां शोधयिता स देवः पवित्रेण शुद्धिसा- धनेनास्मदीयजपध्यानादिना मा मां पुनातु शोधयतु । कीदृशः पोता पवमानः सोधनकुशलः सुवर्जनः स्वर्ग एवोत्पन्नः । विचर्षणिविविधशोधनप्रकाराभिज्ञः ।। पुनन्तुं मा देवजनाः । पुनन्तु मनवो धिया । विश्व आयवः ॥ ( तै० ब्रा० का० १ प्र० ४ अ० ८ ) पुनन्तु मा देवेति । ये कल्पादौ स्वर्गलोकेषु समुत्पन्नत्वेन देवरूपा जनाः, ये च स्वायंभुवमनुमभृतय ऋषयः, येऽपि स्वकर्मवशान्मनुष्यलोकमायन्तीत्या- यवः सदाचारपराः शुश्रुवांसः, ते विश्वे सर्वेऽपि धियाऽनुग्रहबुद्ध्या मां पुनन्तु ॥ जातवेदः पवित्रवत् । पवित्रेण पुनाहि मा। शुक्रेण देव दीयंत् । अग्ने क्रत्वा क्रतू ॥ (ते. ब्रा० का० १ प्र. ४ अ० ८) जातवेद इति । हे जातवेद उत्पन्नसर्वजगदभिज्ञाग्ने देव शुक्रेण दीद्यद्दीप्त्या भासमानस्त्वं क्रतूननु अस्मदनुष्ठेयान्कर्मविशेषाननुसृत्य पवित्रेण कृत्वा शोध- केन त्वत्संकल्पेन पवित्रवदस्मदनुष्ठितं कर्म शुद्धियुक्तं यया भवति तथा मां पुनीहि शोधय ॥ यत्ते पवित्रमर्चिषि । अग्ने वितिमन्तरा । ब्रह्म तेने पुनीमहे ॥ ब्रा० का० १ प्र० ४ अ०८) यत्ते पवित्रमिति । हेऽग्ने ते तवार्चिषि ज्वालायामन्तरा मध्ये विततं विस्तृतं यत्पवित्रं शुद्धिसाधनं ब्रह्म प्रवृद्धमस्ति तेन वयं पुनीमहे ॥ उभाभ्यां देव सवितः । पवित्रेण सवेन च । इदं ब्रह्म पुनीमहे ॥ (१० प्रा० का० १ प्र० ४ अ० ८ ) (तै .
९ तैत्तिरीयसंध्याभाष्यम् । उभाभ्यामिति । हे सवितर्देव त्वदीयं यत्पवित्रं शुद्धिसाधनम्, यश्च सवः कर्मसु अस्मद्विषयं प्रेरणं ताभ्यामुभाभ्यामिदं ब्रह्म प्रद्धं कर्म पुनीमहे शोधयामः॥ वैश्वदेवी पुनती देव्यागात् । यस्यै बह्वी- स्तनुवो वीतपृष्ठाः । तया मदन्तः सधमाद्येषु । वय५ स्याम पतयो रयीणाम् ॥ (ले० प्रा० का. १ प्र० ४ अ० ८) वैश्वदेवीति । सर्वदेवसंबन्धिनी या देवी शोधनकुशला साऽस्मान्पुनती शोधयन्ती, आगादागच्छतु यस्यै यस्या देव्यास्तनुवः शुद्धिहेतवो देहविशेषा वीतपृष्ठाः कान्तस्तुतयः, तया देव्याऽनुगृहीताः सधमाद्येषु ऋत्विग्भिः सह हर्ष- योग्येषु कर्मसु मदन्तो हृष्यन्तो वयं रयीणां धनानां पतयः स्याम ॥ वैश्वानरो रश्मिभिर्मा पुनातु । वातः प्राणेने- पिरो मयोभूः। द्यावापृथिवी पयसा पयोभिः। ऋतावरी यज्ञिय मा पुनीताम् ॥ '• ब्रा० का० १ प्र. ४ अ० ८) वैश्वानरो रश्मिभिरिति । विश्वेषां नराणां हितोऽग्निरादित्यो वा देवः वकीयरश्मिभिर्मा पुनातु । वातो वायुदेवः प्राणेनेषिरः प्राणरूपेण देवेषु गच्छ- न्मयोभूः सुखस्य भावयिता भवतु । द्यावापृथिव्यौ च सतावरी सत्यवत्यौ यज्ञिये यहाय हिते सत्यौ पयसा जलेन पयोभिः क्षीरादिरसश्च मां पुनीताम् ॥ बृहद्भिः सवितस्तृभिः । वर्षिष्ठेदेव मन्मभिः । अग्ने दक्षैः पुनाहि मा ॥ (ते० प्रा० का० १ प्र० ४ अ० ८) बृहद्भिरिति । हे सवितः कर्मसु प्रेरकामे देव मन्मभिर्मननैरस्मदनुग्रहविष. यैर्मा पुनाहि पुनीहि । बृहद्भिर्महद्भिरादरयुक्तैस्तृभिः पापतरणसाधनैर्वषिष्ठैश्विर- कालानुद्धतमैः शोधनकुशलैः ॥ येन देवा अऍनत । येनाऽऽपों दिव्यंकशः । तेनं दिव्येन ब्रह्मणा । इदं ब्रह्म पुनीमहे ॥ (तै० ब्रा० का० १५० ४ अ० ८) (ते.
१० तैत्तिरीयसंध्याभाष्यम् । येन देवा इति । येन शुद्धिसाधनेन देवाः पूर्वान्यजमानानपुनत । कश गता- विति धातोरुत्पन्नः कशशब्दो गतिवाची शकारान्तः । येन शुद्धिसाधने. नाऽऽपो देवता दिव्यंकशोऽपुनत धुलोकविषयां गतिं शोधितवन्तः, दिव्येन धुलो. कयोग्येन ब्रह्मणा परिवृढेन तेन शुद्धिसाधनेनेदं ब्रह्मानुष्ठीयमानं परिवढं कर्म पुनीमहे ॥ यः पविमानीरध्येति । ऋषिभिः संभृतर रसम्। सर्व५ स पूतनाति । स्वदितं मातरिश्वना ।। (ले० प्रा० .का० प्र० अ० ८) यः पावमानीरिति । यः पुमान्पावमानीः शोधकदेवतासंबन्धिनीरेता ऋचोs. ध्येति पठति अर्थतः स्मरति स पुरुषः सर्व रसं संसारभूतं फलमभाति भुते । कीदृशं रसम् , ऋषिभिः संभृतं मत्रैस्तदभिर्मुनिभिः संपादितम् । अत एव शुदं मातरिश्वना वायुना स्वदितं स्वादूकृतम् ॥ पावमानीर्यों अध्येति ऋषिभिः संभृत रसम् । तस्मै सरस्वती दुहे । क्षीर सर्पिर्मधूदकम् ॥ ( तै• ब्रा० का० १ प्र० । अ० ८) पावमानीर्यो अध्येतीति। यः पावमानीरध्येति तस्मै पुरुषाय सरस्वती रसं दुहे। कीदृशम् , ऋषिभिः संभृतम् । पुनः कीदृशं, क्षीरादिरूपं क्षीरं सर्पिर्मधूदकमिति रसम् ॥ पावमानीः स्वस्यय॑नीः। सुदुघा हि पय॑स्वतीः। ऋषिभिः संभृतो रसः । ब्राह्मणेष्वमृत हितम् ॥ • ब्रा० का० १ प्र० ४ अ० ८) पावमानीरिति । याः पावमान्य ऋचस्ताः स्वस्त्ययनीः क्षेममापिकाः सुदुघाः मुष्ठु फलं दुहानाः पयस्वतीः क्षीरादिरसहेतवश्व प्रसिद्धास्ता अस्माननुगृह्णन्त्विति शेषः । ऋषिभिर्मवदर्शिभिर्मुनिभी रसः फलसारः संभृतोऽस्मासु संपादितोऽस्तु । ब्रह्म मवास्तत्पाठका ब्राह्मणास्तेष्वस्मासु अमृतमविनाशि फलं हितं संपादि- . (ते. । तमस्तु॥ पावमानीदिशन्तु नः । इमं लोकमों अमुम् ।
११ (ते. (तैः ० ब्रा का तैत्तिरीयसंध्याभाष्यम् । कामान्समर्धयन्तु नः। देवीदेवैः समाभृताः ॥ ० ब्रा० का० १ प्र. भ. ८) पावमानीरिति । देवैरिन्द्रादिभिः समामृताः संपादिताः पावमानीदेवीः पवमानम. वाभिमानिन्यो देव्यो नोऽस्माकं लोकद्वयं दिशन्तु प्रयच्छन्तु तत्रत्यान्कामानोऽ. स्मदर्थ समर्धयन्तु समृद्धान्कुर्वन्तु ॥ पावमानीः स्वस्यय॑नीः। सुदुधा हि घृतश्रुतः। ऋषिभिः संभृतो रसः । ब्राह्मणेष्वमृत हितम् ॥ ० १ प्र० अ० ८) पावमानीरिति । पावमानीः स्वस्त्ययनीः सुदुघा हि घृतश्चत इति पूर्ववत् ॥ येन देवाः पवित्रेण । आत्मानं पुनते सदा । तेन सहस्रधारेण । पावमान्यः पुनन्तु मा ॥ बा० का० १ प्र० ४ भ० ८) येन देवा इति । देवा इन्द्राया येन पवित्रेण शुद्धिसाधनेन सदाऽऽत्मानं स्वदेहं पुनते शोधयन्ति । सहस्रधारेण सहस्रावान्तरभेदयुक्तेन तेन साधनेन पाव- मान्य ऋचो मा मां पुनन्तु ॥ प्राजापत्यं पवित्रम् । शतोद्याम५ हिरण्मयम् । तेन ब्रह्मविदो वयम् । पूतं ब्रह्म पुनीमहे ॥ (ले० प्रा० का० १ प्र० ४ अ० ८) प्राजापत्यमिति । यत्पवित्रं शुद्धिसाधनं प्राजापत्यं प्रजापतिसंबन्धि शतोद्यामं निर्मितत्वाच्छतसंख्याकैरुयामै डीभिर्युक्तं हिरण्मयं पापहरणसाधनेन द्रव्येण नर्मितं तेन तादृशेन पवित्रेण ब्रह्मविदो वेदार्थविदो वयं पूतं ब्रह्म पूर्वमपि शुद्ध रिवढं कर्म पुनीमहे भूयोऽपि शोधयामः ॥ इन्द्रः सुनीती सह मा पुनातु । सोमः स्वस्त्या वरुणः समीच्या । यमो राजा प्रमृणाभिः पुनातु मा । जातवेदा मोर्जयन्या पुनातु ॥ • ब्रा० का० १ प्र० ४ अ०८) (ते. - (० १२ वैचिरीयसंध्याभाष्यम् । स्नात्वेत्यर्थे, इन्द्र इति । इन्द्रः सुनीत्या शोभनफलमापिकया देव्या सह मा मां पुनातु । सोमः स्वस्त्या क्षेमप्रापिकया देव्या सह मां पुनातु । वरुणः समीच्याऽनुकूलया देव्या सह, यमो राजा प्रमृणाभिः प्रकर्षेण मारिकाभिर्देवीभिः सह, जातवेदा ऊर्जयन्त्या क्षीरादिरसमापिकया देव्या सह मां पुनातु ॥ द्रुपदादिवेति ( ते० प्रा० का० २ ० ६ अ०६)। राजानोऽपराधिनः पादे सच्छिद्रे काष्ठे कीलयन्ति तद्रुपदं द्रुपदात्पादबन्धनान्मुमुचान इव मुक्त- वानिव । छन्दसि लिटः कानज्वेति कानचि द्वित्वादि । स यथा चौर्यायभि योग परित्यज्य शुद्ध इत्येव व्यवह्रियते तद्वत्स्विन्नः स्वेदव्याप्तगात्रः स्नात्वं स्नात्व्यादयश्च' इतीदन्तत्वं छान्दसम् । मलान्मुमुचान इव स यथा स्नात्वा मलान्मुच्यते तद्वदापो मा मामेनसः पापाच्छुन्धन्तु शुद्धं कुर्वन्तु । अर्घ्यमवस्तु व्याख्यातः॥ गायत्रिया गायत्री छन्दो० विनियोगः (तै० आ० प्र० १० अ० ३५)। स्पष्टार्थमेतत् ॥ ॐ भूः, ॐ भुवः, सुवः, (तै० आ० प्र० १० अ० ३५) पूर्व व्याख्यातमेतत् । अथोपस्थानम् । मित्रस्यति (तै० सं० का० ३ प्र० ४ अ० ११) । चर्षणीधृतो मनुष्याणां धारयितुमित्रस्य देवस्य श्रवः श्रोतुं योग्यं यशो महदस्तीति शेषः ॥ सानास फलदानशीलं सत्यं सत्यवादिनं चित्रश्रवस्तमं चित्रं श्रवः कीर्तिर्यस्यातिशयेन तादृशं तं यजामह इति शेषः ॥ मित्रो जनानिति (तै० सं० का० ३ ० ४ अ० ११ ) । अयं मित्रो देवो जनान्सर्वान्यातयति स्वस्वव्यापारेषु प्रयत्नयुक्तान्करोति । किंच प्रजा- नस्तत्तदधिकारं विद्वान् । किंच मित्रः पृथिवीं दाधार धृतवान् । उतापि च द्यां दाधार । किंच मित्रः कृष्टीर्मनुष्याननिमिषा देवांश्चाभिचष्टे सर्वतः पश्यति सत्यायामोघफलाय तस्मै मित्राय हव्यं चरुलक्षणं घृतवद्धृतयुक्तं विधेम कुर्मः। प्र स मित्रेति (तै० सं० का० ३ ० ४ अ० ११)। हे आदित्य यो यजमानस्तव संबन्धिना व्रतेन कर्मणा शिक्षति अनुष्ठातुं शक्तो भवितुमिच्छति, हे मित्र स मर्तः स मनुष्यो यजमानः प्रयस्वान् कर्मफलयुक्तः प्रकर्षेणास्तु त्वोतस्त्वया रक्षितः स यजमानो न हन्यते रोगादिना न पीड्यते न जीयते वैरिभिर्नाभिभूयते । अपि च त्वया रक्षितमेनं यजमानमंहः पाप्माऽन्तितः समीपे नाश्नोति न व्यामोति दूराडूरेऽपि न व्यामोति ॥
तैत्तिरीयसंध्याभाष्यम् । १३ यञ्चिद्धि त इति (तै० सं० का० ३ ० ४ अ० ११)। हे वरुण देव ते त्वदी- यं यच्चिद्वतं यत्किंचिदपि कर्म धवि द्यवि दिने दिने प्रकर्षेण मिनीमसि तर्क- यामहे । तत्र दृष्टान्त:-विशो यथा सर्वाः प्रजाः स्वस्वव्यापारं यथा तर्कयन्ति तद्वत् । हि यस्मात्त्वदीयमेव कर्म सर्वदा तर्कयामस्तस्मात्त्वां परिचरेमेति शेषः ।। यत्किंति (तै० सं० का० ३ ० ४ अ० ११)। हे वरुण मनुष्या वयं दैव्ये देवलोकवर्तिनि जने यत्किचेदमभिद्रोहं स्वल्पमधिकं वा द्रोहमचित्ती, अज्ञानेन चरामसि कुर्मः। किंच यदपि तव धर्मा त्वदीयं कर्म युयोपिम विनाशयाम । हे देव तस्मादेनसो द्रोहात्कर्मनाशाच्च नोऽस्मान्मा रिरीषो हिंसा मा कृथाः ॥ कितवास इति (तै० सं० का० ३ प्र० ४ अ० ११ ) । कितवासो धूर्त- समानाः स्वार्थसाधनपरा ऋत्विजो यत्कर्माकं रिरिपुर्नाशितवन्तो न दीवि न तु देवने सम्यग्व्यवहृतौ पावर्तन्त । वाऽथवा यत्पापं सत्यमवश्यं कृतं ज्ञात्वैव कृतमित्यर्थः । घशब्दः पादपूरणे पापवाचको वा निपातः । यद्ध सत्यमि- त्यन्वयः । उतापि च यन्न विद्म यत्पापमज्ञानेन कृतमित्यर्थः । सर्वास्ता ऋत्वि. भिविनाशितमङ्गं ज्ञात्वा कृतमज्ञानेन कृतमिति यानि सन्ति तानि सर्वाणि शिथिरेव शिथिलानीव विष्य विनाशयेत्यर्थः। अथानन्तरं हे वरुण ते तव प्रियासः स्याम प्रिया भवेम ॥ या५ सदा सर्वभूतानि० च । सायं प्रा० नमः ॥ स्पष्टार्थोऽयम् । नमः प्राच्य दिशे याश्च देवता० नमः । (ते. आ० प्र० २ ० २०) अयमपि स्पष्टार्थः। उत्तम शिखरे जाते भूम्यां० धनि । ब्राह्म- णेभ्यो० यथासुखम् । (तैः 1. आ० प्र० १० अ० ३६) गायत्रीदेवताविसर्जनमत्रमाह-उत्तमे शिखर इति । भूम्यामास्थितो य: पर्वतो मेरुनामकस्तस्य मूर्धन्युपरिभागे यदुत्तमं शिख[*रं पुराणेषु प्रसिद्ध * क्वचित्तु जात इत्यस्य स्थाने देवीति पाठः । एतत्पाठे धनुचिहान्तर्गतस्थाने 'रमस्ति तस्मिन्नियं गायत्री देवी तिष्ठति । तस्मात्कारणात् , हे देवि ब्राह्मणेभ्यस्त्वदुपासकेभ्यस्त्वदनुप्र- हेण परितुष्टेभ्योऽनुज्ञानमभिव्याप्य यथासुखं स्वकीयसुखमनतिक्रम्य स्वस्थान उत्तमे शिखरे गच्छ' । इति झेयम्।
तैत्तिरीयसंध्याभाष्यम् । तदुपलक्षितं यदादित्यमण्डलमस्ति हे देवि गायत्रि तत्र गच्छ । कदा जाते त्वदुपासनात्मके संध्याख्ये कर्मणि समाप्ते सति । कीदृशी त्वं ब्राह्मणेभ्यो ब्रामणैः, विभक्तिव्यत्ययः । त्वदुपासकैरभ्यनुज्ञाताऽऽभिमुख्येनाञ्जलिकरणपू. र्वकमनुज्ञाता गन्तव्यमिति प्रार्थिता । कथं यथासुखं यथेच्छम् ।] स्तुतो मया वरदा वैदमाता प्रचोदयन्ती पवने दिजाता । आयुः पृथिव्यां द्रविणं ब्रह्म वर्चसं मह्यं दत्त्वा प्रजातुं ब्रह्मलोकम् ॥ (ते. आ. प्र. १० अ० १६) स्तुतो मयेति । पूर्वस्मिन्मत्रेऽपरोक्षतयोक्तोऽर्थोऽस्मिन्मने परोक्षतया स्पष्टी क्रियते । अत्रेदं वैदिकरहस्यं ब्रह्मलोक आदित्यमण्डलं चोभयमपि गायत्र्याः स्थानं विकल्पेनान्यतरदिति केचिदाचक्षते । अत एवास्माभिः पूर्वस्मिन्मत्रेड. नुक्तमप्यादित्यमण्डलं गायत्रीनिवासत्वेन मत्वाऽध्याहृत्य व्याख्यातम् । एत- स्मिस्तु मने स्वयमेव भगवत्या गायच्या वसतित्वेन ब्रह्मलोकं ब्रवीति । तथा- चेत्थं व्याख्या तत्र भवति-भगवती गायत्री ब्रह्मलोकं ब्रह्मणो भारतीपते- लॊके प्रयात्विति वाक्यशेषः । कीदृशं ब्रह्मलोकम्, अतलादिभ्योऽधस्तनेभ्यो भूरादिभ्य ऊर्ध्वतमेभ्यः समस्तेभ्यो लोकेभ्यः प्रकृष्टत्वेन जातं परमात्मनः सकाशादुत्पन्नमिति । प्रजातुमिति प्रयोगश्छान्दसः । किं कृत्वा दत्त्वा । किं किम्, आयुः शताब्दात्मकमुपजीवनम् । पुनविणं सुवर्णमणियुक्तम् । पुनर्ब्रह्म- वर्चसं स्वाध्यायाध्ययनतदर्थविचारतदर्थानुष्ठानानुष्ठापनै नितं मुख्यं तेजः । यदृष्ट्वा लोका आचक्षते देदीप्यमानोऽयं साक्षाज्ज्वलन्निव पावक इति । कस्मै मह्यम् । कथंभूताय पृथिव्यां विद्यमानाय । कथंभूता गायत्री द्विजाता द्विजाति- भिस्वर्णिकैरुपास्यमाना । यद्वा द्वयोः सूर्यमण्डलयोर्जाता प्रादुर्भूता । जनी प्रादुर्भावे । अस्माभिष्ठाप्रत्ययः । पुनः कथंभूता प्रचोदयन्ती, अन्तर्यामिरूपेण प्राणिमात्रस्य प्रेरयित्री । अत्र लुप्तोपमोपादानम् । पवने व्यत्ययेन पवनः । यथा प्राणवायुश्चतुर्विधं प्राणिजातं प्रेरयतीतस्ततो गमनागमनादिकं कारयति तथेति । तथा वेदमाता चतुर्णा वेदानां जननी वरान्स्वोपासकेभ्यो वाञ्छि. तार्थान्ददातीति वरदा । कथंभूता सती मयोपासकेन स्तुतो बहुलग्रहणाव्यत्ययेन स्तता सतीत्यर्थः॥
तैत्तिरीयसंध्याभाष्यम् । वृणिः सूर्य आदित्यो न प्रभा वात्यक्षरम् । मधु क्षरन्ति तद्रसम् । सत्यं वै तद्रसमापो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः सुवरोम् । (ते. आ. प्र. १० अ० ३७) घृणिः सूर्येति । भगवानादित्यो वाति वैहायसेन मार्गेणाइदिवं गच्छति लोकानुपकर्तुम् । किंविधः । जगत्प्रसवहेतुत्वात्सूर्यः । दीप्तिमत्त्वाघृणिः । क्षरण- राहित्येन नित्यत्वादक्षरमक्षरः। केव प्रभेव । नकार उपमार्थः। आदित्यसंबन्धिनी प्रभेव । आदित्यस्योपमानान्तराभावात् । स्त्रप्रभा गोलकीभूय व्योममार्गेण गच्छति चेद्यथा तथा प्रभावानयमित्यभूतार्थमुपमानम् । अपि च तद्रसं तस्मा- त्पूर्वोक्तादादित्याजन्यं रसमुदकं मधु मधुरं यथा तथा क्षरन्ति नद्यो वहन्ति । आदित्यलब्धवृष्टयुदकमेव नद्यो वहन्ति, अन्यथा भूमावुदकाभाव इति भावः। उत्तरापेनाऽऽदित्यब्रह्मणः सर्वात्मकत्वमुच्यते-तदादित्यलक्षणं ब्रह्म सत्यं यथार्थभाषणं रसं मधुरादिरसजातम् । आपः सिन्धुनद्यादिगतमम्भः, ज्योति- चन्द्राग्न्यादि, रसः पदार्थमात्रसारः, अमृतं सुधा, ब्रह्म त्रयी विद्या, भूर्भुवः सुवखय इमे लोकाः, ओमोंकारः । वै, एतत्सर्वमादित्य एवेति मनसा विभाव- येदिति भावः। वर्षट्ते विष्णवास आ कृणोमि तन्में जुषस्व शिपिविष्ट हव्यम् । वर्धन्तु त्वा सुष्टुतयो गिरों मे यूयं पात स्वस्तिभिः सदा नः । (तै० सं० का० २ प्र० २ अ० १२) वषदत इति । अस्यते क्षिप्यते कर्मानुष्ठानाय देवतया विधिना वा प्रेर्यंत इत्यासो यजमानः । तादृशोऽहं ते तवाऽऽ समन्ताद्वषट् कृणोमि हविर्दानं करोमि । शिपिषु पशुषु विष्टः प्रविष्टो यज्ञः शिपिविष्टः पशुसाध्यो या इत्यर्थः । यज्ञो वै विष्णुः पशवः शिपिः' इति श्रुतेः । हे शिपिविष्ट यज्ञात्मक विष्णो मे मदीयं तद्धव्यं जुषस्व । सुष्टुतयः शोभनस्तुतिरूपा मे गिरस्त्वां वर्धन्तु वृद्धि मापयन्तु । एकस्मिन्नपि विष्णौ यूयमिति पूजार्थ बहुवचनम् । पूज्या यूयं स्वस्तिभिः श्रेयोभिननॊऽस्मान्सदा पात रक्षत । इति तैत्तिरीयप्रातःसंध्यामाप्यम् । ।
१६ तैचिरीयसंध्याभाष्यम् । अथ तैत्तिरीयमध्याह्नसंध्याभाष्यम् । माध्याहिकसंध्यानुष्ठानाभिमत्रितजलपानार्थ मन्त्रमाह-आपः पुनन्त्विति । [तै० आ० प्र० १० अ० ३० ] या आपः सन्ति ताः पृथिवीं पुनन्तुः प्रक्षालनेन शोधयन्तु । सा च पृथिवी पूता शुद्धा सती माम- नुष्ठातारं पुनातु शोधयतु । तथा ब्रह्मणो वेदस्य पतिः प्रतिपालकमाचार्यमेता आपः पुनन्तु । तेनाऽऽचार्येणोपदिष्टं ब्रह्म वेदस्वरूपं पूता स्वयं पूतं सन्मां पुनातु । अन्यभुक्तावशिष्टरूपमुच्छिष्टं यदस्ति यच्चाभोज्यं भोक्तुमयोग्यं तादृशं कदाचिन्मया भुक्तम् । यद्वा दुश्चरितमन्यदपि प्रतिषिद्धाचरणरूपं मम किंचि- संपन्न तत्सर्व परित्त्येति शेषः । ततो मामापः पुनन्तु । तथाऽसतां शूद्रादीनां प्रतिग्रहं च मया कृतं पुनन्तु, तदर्थमिदमभिमत्रितमुदकं स्वाहा मदीयवक्त्रानो हुतमस्तु । दधिक्राव्णो अकारिषमित्यादि व्याख्यातमेव । अथोपस्थानम्-उद्यमिति [तै० सं० का० ४ ० १ अ० ७] । वयं समस उत्तरं ज्योतिस्तमसो विनाशकत्वेनोत्कृष्टमग्निसंबन्धि ज्योतिरुत्परिपश्यन्त उत्कर्षेण सर्वतोऽवलोकयन्तो देवत्रा देवेषु मध्ये सूर्य देवं सूर्यरूपेण वर्तमानम- मिसंबद्धमेवोत्तमं ज्योतिरगन्म प्राप्ताः स्मः । उदु त्यमिति [तै० सं० का० १५० ४ अ० ४३ ] । केतवः प्रज्ञापकाः मूर्यरश्मयः, जातो वेदो ज्ञानं यस्मात्तं जातवेदसं देवं प्रकाशमानं त्यं तं प्रसिद्धं सूर्य विश्वाय सर्वलोकस्य दृशे दर्शनार्थमुद्वहन्ति ऊर्च वहन्ति । उकारोऽनर्थकः । 'मिताक्षरेष्वनर्थकाः कमीमिद्विति' इति यास्कोक्तेः। चित्रं देवानामिति [तै० सं० का० १. ४ अ० ४३ ] । मित्रादि- त्रयोपलक्षितस्य जगतो जगमस्य तस्थुषः स्थावरस्याऽऽत्मा स्वरूपभूतः सूर्यः । द्यावापृथिवी स्वर्गभूमी । दिवो द्यावेति द्यावादेशः । अन्तरिक्षं चाऽऽप्राः सम- न्तादपूरयत् । तच्चक्षुरिति [तै० आ० ० ४ अ० ४२] । चक्षुरुक्तार्थम् । देवहितं देवानां हितं यस्मात् । सूर्यमण्डलदर्शने सति बहुलकर्मानुष्ठानप्रवृत्त्या देवानां हितं भवति । शुक्र निर्मलम् । तत्मसिद्ध सूर्यमण्डलं वयं शतं शरदः, अत्यन्तसंयोगे द्वितीया । पश्येम । अन्यत्स्पष्टम् ।
तैत्तिरीयसंध्याभाष्यम् । अथ तैत्तिरीयसायंसंध्याभाष्यम् । सायंसंध्याकाले जलपानार्थ मवमाह-अग्निश्चेति [ तै० आ० प्र० १० अ० ३१ ] । योऽयमग्निरस्ति यश्च मन्युः क्रोधाभिमानी देवः । ये च मन्युपतयः क्रोधस्वामिनस्तस्मिन्नियामका देवाः सन्ति ते सर्वेऽपि मन्युकृतेभ्यो मदीयकोपनिष्पादितेभ्यः पापेभ्यो रक्षन्तां पापिनं मां तत्पापविनाशनेन पालयन्तु । किंचातीतेनाह्ना तस्मिन्नहनि यत्पापमकार्ष कृतवानस्मि । केन साधनेन, मनआदिभिः शिश्नान्तावयवैः। तत्सर्व पाप. महरवलुम्पतु अहरभिमानी देवो विनाशयतु । परहिंसादिचिन्तनं मानसं पापम् । अनृतादिभाषणं वाचिकम् । अभिचारहोमादिकं हस्तकृतम् । पादेन गोब्राह्मणस्पर्शादिकं पादकृतम् । अभोज्यभोजनमुदरकृतम् । अगम्यागमनं शिश्नकृतम् । अथवा किमनेन परिमितगणनेन यत्किमपि दुरितं मयि निष्पन्न मिदं पापजातं सर्वं तत्कर्तारं मां च लिङ्गशरीररूपममृतयोनौ मरणरहिते जग- कारणे सत्ये बाधरहिते ज्योतिषि स्वयंप्रकाशे वस्तुनि जुहोमि पक्षिपाम्यहम- नेन होमेन तत्सर्व भस्मी करोमि । तदर्थमभिमत्रितं जलं स्वाहा मदीयमु. खागौ सुहुतमस्तु ॥ सायंसंध्योपस्थानम्-इमं म इति (तै० सं० का० २ प्र० १ अ० ११)। हे वरुण मे मदीयमिमं हवमाहानं श्रुधि शृणु । श्रुत्वा चायास्मान्मृडय सुखय । अवस्युः पालनेच्छुस्त्वामाचके, आ समन्ताच्छब्दयामि प्रार्थये । तत्त्वा यामीति ( तै० सं० का० २ ० १ अ० ११ ) । तत्तस्मै वरुणाय ब्रह्मणा मत्रेण वन्दमानस्त्वा यामि त्वां पामोमि । अयं यजमानो हविभिराराध्य त्वद्रक्षणमाशास्ते हे वरुणाहेडमानः क्रोधरहित इह कर्मणि बोधि अस्मद्विज्ञापनां बुध्यस्व । हे उरुशंस प्रभूतस्तुत नोऽस्माकमायुर्मा प्रमोषीर्मा विनाशय । वं नो अग्ने वरुणस्य विद्वान्देवस्य हेडोऽवया- सिसीष्ठाः । यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषांसि प्रमुमुग्ध्यस्मत् । (तै० सं० का० २ प्र. ५ अ० १२)
LRISHNA MISS16
।
१८
तैत्तिरीयसंध्याभाष्यम् ।
त्वं नो अन इति । हेऽग्ने त्वं नोऽस्माकं भक्ति विद्वान्सविरुणस्य देवस्य
हेडोऽस्मद्विषयं क्रोधमवयासिसीष्ठा अपनय । यजिष्ठो यष्टुनुमोऽतिशयेन यागनि-
पादकः, वह्नितमोऽतिशयेन देवहविर्वोढा, शोशुचानोऽत्यन्तं दीप्यमानः, विश्वा
वेषांसि सर्वान्विरोधिकृतान्द्वेषानस्मत्प्रमुमुग्धि अस्मत्तः प्रमोचय । ।
स वं नो अग्नेऽवमो अवोती नेदिष्ठो अस्या
उषसो व्युष्टौ । अव यश्व नो वरुण५ रराणो
वीहि मुंडीकर सुहवो न एधि ।
(तै० सं० का० २ प्र० ५ अ० १२)
स त्वं नो अग्न इति । हेऽग्ने स त्वं नोऽस्माकमूत्या रक्षणेनावमो रक्षको
भव । कीदृशस्त्वम् , अस्या उषसो व्युष्टौ नेदिष्ठः, अद्यतनस्योषःकालस्योपरि-
तने प्रातःकालेऽत्यन्तं प्रत्यासन्नः । नोऽस्माकं वरुणं वरुणेन कृतमभीष्टनिवारक
पापादिकमवयव नाशय । रराणो रममाणः सन्मृडीकं सुखसाधनमस्मदीयं
हविवींहि भक्षय । ततो नोऽस्माकं सुहव एधि सुखेनाऽऽहातुं शक्यो भव ।
यचिद्धि ते विश इति प्रातःसंध्यायां व्याख्यातमेव ।
इति तैत्तिरीयसायंसंध्याभाष्यम् ।
इति तैत्तिरीयसंध्याभाष्यं समाप्तम् ।
'E OF
LIBRARY
WyTHI
GUITURI
.
.
Cua
AR. 5538
12MAR 1962
Received ornima
No text on this page.
No text on this page.
No text on this page.
TURE
.
LIBRARY
ojo
RISHNA MISSION)
*
)
*
THE
RAM
CALIBANOA BOOK BINOING WON 88/34, B. P. Rd. Calcal