Bharti Bhawan Liabrary, Allahabad
Shatsloki
Front matter
५-२. ॥श्री॥ श्रीमछंकराचार्यप्रणीता शतश्लोकी आनंदगिरिकतटीकासंवलिता गोरेइत्युपाबजनार्दनसूनुना शिवराम शर्मणायथामतिसंशोधिता; womanceORomman- - गुर्जरोपाहमहादेवसूनुनाजनार्दनशर्मणा मुंबय्यां गणपतरुणाजीमुद्रालयाधिपतिना 'आत्माराम कान्होबा भिख्येन' मुद्रापयित्वा प्रकाशिता. -- शकाब्दाः १००० खिस्ताब्दाः १८८६ चिरचि विवर्ष प्रस्तावना. अधुना खल्वतितरविस्तीर्णेस्मिन् भारत वर्षे उप- लभ्यमानेष्वात्मानात्मविचारप्रतिपादकेषु वेदांत- थेषु पूज्यपादश्रीमच्छंकराचार्यप्रणीताएव ग्रंथाबह- वोमान्याश्च विजयंते, तेचायत्वे प्रायेण बहुभिः सर्वेपि मुद्रणादिना प्रसिद्धि प्रापिताः, परंचेयमुपनिषन्निबद्ध- पद्या शतश्लोकी तदंतर्गतापि नाद्यापि केनचित्पका- शितेति दृदि सखेदं कौतूहलं मन्वानेन मया केनचिद्दो- षज्ञेन परिशोध्य प्रकाशिता. अस्यांच प्रतिपायविष- यक्षोदक्षमशब्दरचनासौष्ठवनैसर्गिकार्थगांभीर्यसततानु- गमनशालिग्रौढतादयः आचार्याणां सहजागुणाः स्फु- टतरमुद्भासंतइति कथनंतु पिष्टपेषणमेव, किंतु अस्याः प्रतिपद्यमर्थतः आम्नायमूर्धवर्तिनीभिः श्रुतिभिर्निबद्ध- मितीयं नकस्यमुदमावत् ! अस्यांच भ्रमप्रमादयोः पु- रुषधर्मत्वात् यत्किचित्स्खलितं स्यात् तत्सारासार- विचारकुशलास्तत्रभवंतः सुमनीषिणोनिमत्सराः सा- दरावलोकनेन समीकुर्वत्वित्यलं विज्ञप्तिः जनार्दनमहादेवगुर्जर रामवाडी मुंबई.
त
विरचि
विवर्ण
श्री श्रीशंकरानंदगुरवेनमः 20- श्रीमच्छंकराचार्यविरचिताशतश्लोकी दृष्टांतोनैवदृष्टत्रिभुवनजठरेसद्गुरोान- दातुःस्पर्शश्वेत्तत्रकल्प्यःसनयतियदहो- स्वर्णतामश्मसारम् ॥ नस्पर्शत्वंतथापि- श्रितचरणयुगेसद्गुरुःस्वीयशिष्येस्वीयंसा- म्यंविधत्तेभवतिनिरुपमस्तेनवालौकि- कोपि॥१॥ । ज्ञानदातुः सद्गुरोः त्रिभुवनजठरे दृष्टांतोनैवदृष्टः । क्षुद्र- विद्योपदेष्टुणां गुरूणां दृष्टांतः कथंचिदुपलभ्येत परंतु “न- हि ज्ञानेन सदृशं पवित्रमिह विद्यते" इत्युक्तत्वाज्ज्ञानदातुः श्रीगुरोः दृष्टांतस्त्रिभुवनजठरान्तर्वतिषु देवादिलोकेषु ना. नाविचित्रवस्तुषु नैव दृष्टः । अथ मनाक् साम्यदर्शनेन स्पर्शनेन स्पर्शः पाषाणः दृष्टांतत्वेन कल्यः कल्पनीय- । श्रीमच्छंकराचार्यकृतशतश्लोकी श्वेत्तथापि न घटतइत्याह सनयतीति । स स्पर्शाश्मा अ- श्मसारं लोहं यद्यपि स्वर्णतां नयति प्रापयति, तथापि स्पर्शत्वं न प्रापयति स्वसदृशं न करोति । सद्गुरुस्तु श्रित- चरणयुगे स्वीयशिष्ये स्वीयं साम्यं विधत्ते तेन कारणेन स्पर्शादेदृष्टांतानहत्वाद्गुरुनिरुपमोदृष्टांतशून्यः । अथवा अलौकिकोपि प्रपंचातीतोपि न दृष्टः । आत्माकारत्वात् "ज्ञानीत्वात्मैव मे मतमिति” भगवद्वचनात् ॥ १ ॥ ॥ यहछ्रीखंडरक्षप्रस्तृतपरिमलेनाभितोन्ये- पिवक्षाःशश्वत्सौगंध्याजोप्यतनुतनु- भृतांतापमुन्मूलयंति॥आचार्याल्लब्धबो- धाअपिविधिवशतः सन्निधौसंस्थितानां त्रेधातापंचपापंसकरुणहृदया:स्वोक्ति- शिक्षालयंति॥२॥ अथ श्रीगुरुसन्निधानमात्रेणैव शिष्यः कृतार्थतामेति किंपुनरुपदेशादित्याह यद्वीरवंडेति। श्रीखंडवृक्षोमुख्य वंदनरक्षस्तस्मात्यसतोयः परिमलस्तेनाजितः समंततः अन्येपि ये रक्षास्ते शश्वन्निरंतरं सौगंध्यभाजोभवति । अथ न केवलं सौगंध्यभाजः किंतु अतनुतनुभृतां बहू- DRA H BE ३ आनंदगिरिकृतटीकासमेता नां सर्वजातीयानां लोकानां नापं उन्मूलयंति।बहूनामि- तितारतम्यवयं तद्वदाचार्यात् विधिवशात् भाग्यवशा- त् लब्धबोधाः संतः यदृच्छया सन्निधौ संस्थितानां स- वजनानां सकरुणहृदयाः यथाधिकारं कर्मोपासनाज्ञा- नकांडनिरूपिकाशिः स्वोक्तिभिःत्रेधाआध्यात्मिकाधि- भौतिकाधिदैबिकोदेन त्रिविधतापंचकायिकवाचिक- मानसिकोदेन त्रिविधं पापं क्षालयंति उन्मूलयंति बि- धिवशादितिपदेन बोधलब्धदुर्लभत्वं सूचितम् ॥ २॥ आत्मानात्मप्रतीतिःप्रथममभिहितास- त्यमिथ्यात्वयोगावैधाब्रह्मप्रतीतिनिगम- निगदितास्वानुभूत्योपपत्त्या॥ आयादे- हानुबंधाद्भवतितदपरासाचसर्वात्मक- त्वादादौब्रह्माहमस्मीत्यनुभवउदितेख- ल्विदंब्रह्मपश्चात् ॥ ३॥ अथात्मप्रतीतिप्रकारमाह आत्मानात्मेति । प्रथमं मूल- तः तत्त्वविचारे क्रियमाणे सत्यं मिथ्या चेति कोटिद्वय- मेवासीत् तथा च सत्यमिथ्यात्वयोगादात्मानात्मप्रतीति- श्व “सत्यं ज्ञानमनन्तं ब्रह्मेति श्रुने.” सत्यं ज्ञान।मिथ्या त- - ४ । श्रीमच्छंकराचार्यकृतशतश्लोकी द्विपरीतमज्ञानं। एवं सत्यस्य ब्रह्मणः प्रतीतिर्द्वधा निग- मनिगदिता वेदोक्ता। अथ तामेवाह स्चेति । स्वानुभूत्या उपपत्त्या चैवं द्वेथा प्रतीतिः । तत्राया स्वानुभूत्या या प्रतीतिः सा देहानुबंधात् शरीरानुबंधेन भवति । तथोप- पत्त्या या प्रतीतिः सा सर्वात्मकत्वात्समष्टिरूपात । अथा- त्र हेतुमाह आदाविति । आदौ देहावच्छेदेन ब्रह्माहम- स्मीत्यनुभवे उदिते सति पश्चात्तदनन्तरं सर्वखल्विदंब्रह्मे- त्युपपत्त्यात्मप्रतीतिर्भवति ॥३॥ आत्माचिद्वित्सुखात्मानुभवपरिचितःस- वैदेहादियंतासत्येवंमूटबुद्धिर्भजतिननु- जनोनित्यदेहात्मबुद्धिम्॥ बायस्थिस्ना- युमज्जापलरुधिरवसाचर्म मेदोयुगंतर्वि- एमूत्रश्लेष्मपूर्णस्वपरवपुरहोसंविदित्वा- पिभूयः॥ ४॥ एवमुद्देशमात्रेणात्मप्रतीतिमभिधायेदानी विशेषतोनिरू. पयति आत्माचिद्विदिति।आत्मा चिद्वित्सुखात्मा वर्तते । चित् चैतन्यं वित् ज्ञानं सुखं परमानंदः तदेतत्रयमप्या त्मा स्वरूपं यस्य सतथा । न केवलं एवं विधात्मस्वरूपं उपनिषद्वाक्यरेवज्ञातव्यमित्याह अनुभवेति । किंतः F । P आनंदगिरिकृत टीकासमेता आत्मा अनुभवपरिचितः अनुभवेन परिचितः निरंतरा- भ्यासेन ज्ञातः। अथ तमेवानुभवमाह सर्वदेहादियंतेति । सर्वे च ते देहादयश्च इंद्रियप्राणास्तेषां यंता चालक- त्वेन देहादिनियंता चिद्रूपःइंद्रियनियंतृत्वेन संविद्रूपः सु- पुप्तावानंदरूपइत्यवस्थात्रयेप्यनुभूयतइत्यर्थः । अहो इत्याश्चर्ये एवं सत्यपि मूढबुद्धिर्जनः अनित्यश्वासौ दे. हश्च तत्रात्मबुद्धिं देहएव आत्मेति मनुते । अथ देहो- प्यात्मत्वकल्पना)भविष्यतीतिचेन्नेत्याह बालइति । दे- हबाह्मअस्थीनि च स्नायवश्व सूक्ष्मशरीरमज्जा च पलं मांसं रुधिरं रक्तं वसा चर्म मेदोयुक् अंतः विण्मूत्रश्ले- प्मपूर्णं एवं विधं जुगुप्सास्पदं स्वपरवपुः स्वकीयं पर- कीयं वा शरीरं विदित्वापि भूयोभूयोदेहात्मबुद्धिं अ- जतइतिमहदाश्चर्यमित्यर्थः॥ ४ ॥ देहस्त्रीपुत्रमित्रानुचरहयरषास्तोषहेतुर्म- मत्थंसर्वेस्वायुर्नयंतिप्रथितमलममीमां- समीमांसयेहाएतेजीवंतियेनव्यवहति- पटवोयेनसौभाग्याजस्तंप्राणाधीशमं तर्गतमझतममुंनैवमीमांसयंति ॥५॥ अथ पुनराश्चर्यभेव दर्शयन्नाह देहस्त्रीपुत्रेति । अमी सर्वे ।
। श्रीमच्छंकराचार्यकृतशतश्लोकी लोकाः इहास्मिन् जगति इत्थं मांसमीमांसया मांसवि- चारेण अलं पूर्ण स्वायुर्नयंति स्वकीयमायुः परिकल्प- यंति । किंतमायुः प्रथितं वंशविज्ञानादिगुणैः रव्यात- मपीत्यर्थः । इत्थं कथमित्याह देहेत्यादि । देहः स्वदेहः, स्त्री, पुत्रः, मित्रं,अनुचरः सेवकः,हयः अश्वः,तषः बली. वर्दः, एते मम तोषहेतवोभवंति इत्यभिमानेन। तथा एते पुष्टाः कृशावेति भरणपोषणरक्षणादिभिः दृढमोहानु- बंधेन स्वायुर्नयंति देह तामिदमेव प्रयोजनमिति मत्वा व्यर्थ व्ययीकुवैति।अथ गूढमात्मतत्त्वं तैः परमप्रयोजन- त्वेन कथं ज्ञेयं तत्र तेषां नापराधः किंतु तद्गतमौर्यस्य । अथ तदेवाह एतइति । एते देहस्त्रीपुत्रादयः येन रुत्वा जीवंति तथा येन व्यवहतिपटवः स्वस्वव्यवहारक्षमाः अवंति तथा येन सौभाग्यं सौंदर्य अजति मृतशरीरे त- थात्वादर्शनादित्यर्थः। तं अंतर्गतं अंतर्यामित्वेन स्थितं प्राणाधीशं प्राणमुल्यं अमृतं प्रियमाणेषु देहेषु अमर- णशीलं अमुं अनुभवैकवेद्यं नैव मीमांसयंति न विचा- रयंति इति महदाश्चर्यमित्यर्थः ॥ ५ ॥ कश्चित्कीटः कथंचित्पटुमतिरभितःकंट- कानांकुटीरंकुर्वस्तेनैवसाकंन्यवहृतिवि- ।
आनंदगिरिकृतटोकासमेता धयेचेष्टतेयावदायुः॥ तहजीवोपिनाना- चरितसमुदितैःकर्मभिःस्थूलदेहंनिर्माया- चैवतिष्ठन्ननुदिनममुनासाकमध्येतिभू- मौ॥६॥ अथ देहात्मसाहचर्य दृष्टांतेन द्रढयति कश्चिदिति।यथा कश्चित्पटुमतिः कीटः कथंचित् निजकफोद्भूतसूत्रप्रयत्नैः कंटकानां कुटीरं कुर्वन् व्यवदतिविधये व्यवहारसिद्ध. ये यावदायुश्वेष्टते इतस्ततः पर्यटति तद्वज्जीवोपि नाना- चरितसमुदितैः अनेकविधानि चरितानि क्रियमाणसं- चितानि तेभ्यः समदितैः प्रारब्धकर्मभिः स्थूलदेह श- रीरं निर्माय विरचय्य ततः तत्रैव देहेतिष्ठन्नमुना देहेन साकं सहव अनुदिनं भूभावभ्येति पर्यटति । अयमर्थः कंटककुटीरवदचेतनोदेहः स्वतोन चलति मृतशरीरे च लनादर्शनात् अतः तस्य कश्चिन्चालकोवक्तव्यः स एव जीवः तथा च रथाश्वन्यायवच्चालकव्यतिरेकेण देहो- न चलति तथा देहव्यतिरेकेण तस्य चालकत्वं न युज्य- ते इत्युभयोः साहचर्यम् ॥ ६ ॥ स्वीकुर्वन्व्याघ्रवेषं स्वजठरभृतयेनीषय- ।
८ श्रीमच्छंकराचार्यकृतशतश्लोकी न्यश्चमुग्धान्मत्वाव्याघ्रोहमित्थंसनरप- शुमुखान्बाधतेकिंनुसत्त्वान्॥ मत्वास्त्री- वेषधारीख्यहमितिकुरुतेकिनटोभर्तुरि- छांतहछारीरआत्मापृथगनुभवतोदे- हतोयःससाक्षी॥ ७॥ अथ प्राप्नोपि देहः पारमार्थिकोन भवति किंतु अवि- याकल्पितत्वात् कृत्रिमोस्ति इति तदनुरूपन कार्यमिति दृष्टांतेन द्रढयति स्वीकुर्वन्निति । यः कश्चित्पुरुषः स्वज ठरभृतये भिक्षया खोदरपूरणाय कृत्रिमव्याघवेषं स्वी कुर्वन् तेन मुग्धान् बालिशांश्च भीषयंस्त्रासयन्नास्ते सः अहं व्याघ्रः इत्थं मत्वा नरपशुमुखान्सत्त्वान् प्राणिनः बाधते किंनु । व्याघवेषं कृत्रिमं जानन् तूष्णीमास्ते व्या- प्रवेषानुरूपंकर्मकरोतीत्यर्थः । अथैतदेव पुनदृष्टांतेन प्र- कटयति मत्वेति।स्त्रीवेषधारी नटः अहं स्त्रीति मत्वा भर्तु- रिच्छां कुरुते किं स्त्रीवेषानुरूपैविभावरन्यान्पुरुषान् प्रलोभयति परंतु स्वयं स्त्रीति मत्वा रमणयोगेच्छां न करोति।तद्वच्छारीरः शरीरावच्छिन्नआत्मा देहतोदहानु- भवेन पृथगस्ति यतः ससाक्षी तटस्थः । तेन देहानुरूपा चेष्टा न कार्या स्वरूपानुरूपमेव स्थातव्यमित्यर्थः ॥७॥ - ।
आनंदगिरिकृतटीकासमेता खंबालरोदमानंचिरतरसमयंशांतिमा- नेतुमद्राक्षंखार्जूरमासुकदलमथवा योजयत्यंविकास्य ॥ तद्वन्तोतिमृदंब- हुजननभवान्मौव्यसंस्कारयोगाद्दोधो- पायैरनेकैरवशमुपनिषद्बोधयामासस- म्यक्॥८॥ अथ बहुप्रकाररात्मप्रतीति दर्शयत्याः श्रुतेः कौशलमाह स्वं बालमिति । अंबिका माता चिरतरसमयं रोदमानं स्वं बालं शांतिमानेतुं तूष्णीभावं प्रापयितुं अस्य बालक- स्याये द्राक्ष खार्जूरमानं सुकदलं वा योजयति येन- केनाप्यभीष्टफलेनायं रोदनातू उपशमं प्रामोत्वित्यर्थः । * तहुजननभवान्मौट्यसंस्कारयोगादवशं चंचलं सद- तिमूढमज्ञानोपहतं चेतः उपनिषत्सम्यग्यथाधिकारं अ- नेकैौथोपायैरात्मज्ञानोपायर्बोधयामास आत्मप्रतिप- नौ बहुषूपायेषु प्रोक्तेषु सत्सु कोपि प्रतिफलिष्यती- त्यर्थः ॥ ८ ॥ यत्रोत्याप्रीतिपात्रंतनुयुवतितनूजार्थमु- ख्यसतस्मात्प्रेयानात्माथशोकास्पदमित- श्रीमच्छंकराचार्यकृतशतश्लोकी रदतःप्रेयएतत्कथंस्यात्॥आर्यायंजीवि- तार्थीवितरतिचवपुःस्वात्मनःश्रेयइच्छं- स्तस्मादात्मानमेवप्रियमधिकमुपासीत विद्वान्नचान्यत् ॥ ९॥ अथात्मनः सर्वापेक्षया प्रियत्वमाह यत्प्रीत्येति ।यस्माद्व- क्ष्यमाणाद्विषयजातात्सकाशात्सआत्मा प्रेयान्परमप्रेमा- स्पदं भवति । सकः तनुयुवतितनूजार्थमुख्यं यद्विषय- जातं तद्ययीत्या प्रीतिपात्रं भवति यस्य प्रीतिर्यनीति- स्तया सर्व प्रीतिपात्रं। अत्रायमर्थः।सुखदुःखान्यतरसा- क्षात्कारोभोगः सतु आत्मन्येव युज्यते अतोविषयभो. गार्थ प्रयत्तस्य प्रथममात्मप्रतीतिरुद्दिष्टा । तया मूलभूत- या उक्तं विषयजातं प्रीतिपात्रं भवति । तत्रापि प्रथम तनुः शरीरं भोगसाधनत्वात् । ततोभोगेष्वंतरंगा युवतिः। ततः उभयप्रीतिजन्यस्तनूजः पुत्रः। ततस्तन्निर्वाहकोर्थः द्रव्यं । ततोप्यर्थसाध्यमन्यदन्नपानवस्त्रतांबूलादिकं प्री- तिपात्रं भवति । तथा च मुख्याप्रीतिरात्मनः तदधीना गौणी प्रीतिरन्येषामिति प्रत्यक्षसिद्धमस्ति । एवं यस्य मुख्या प्रीतिः स एवात्माप्रेयानित्यर्थः । भवत्वात्माप्रेयां- स्तथापि विषयजातमपि प्रीतिपात्रत्वादुपास्यमेवेत्याग- । ।
आनंदगिरिकृतटीकासमेता तमित्याशंक्य विषयेषु प्रीतिपात्रत्वं प्रातिभासिकं तत्र पारमार्थिकं दुःखपात्रत्वमेवास्तीत्याह इतरदिति । इतर- द्विषयजातं शोकास्पदमित्यनुभवसिद्धं आदिमध्याव- सानेषुयदुःखं तत् दुःखास्पदमेव ।उक्तं च "अर्जने रक्षणे नाशे क्लेशदोविषयोभवेत्। सुखार्थं सज्जते तत्र मूढधीरिति विस्मयः” इति एवं अन्वयव्यतिरेकाभ्यां दुःखास्पदमे- तद्विषयजातं प्रेयः कथं स्यान्न स्यादेवेत्यर्थः । तस्मा- कारणाद्विद्वान पंडितः अधिकं यथा भवति तथा प्रियं प्रियतममात्मानमेवोपासीत। न चान्यच्छरीराय। अथा. त्मनः सर्वेभ्योधिकप्रियत्वं प्रकटयति भार्यायमिति।जी- वितार्थी पुमान् भार्यायं वितरति पुत्रवित्ताद्यमपि दत्वा स्वात्मानं रक्षति । “आत्मानं सततं रक्षेद्दारैरपि धनैरपी- त्युक्तत्वात्। अथ शरीरेप्यात्मत्वनिषेधार्थमाह वपुरिति। आत्मनोजीवस्य श्रेयः सुकृतातिशयमिच्छन्वपुर्वितरति भृगुपातेन गंगाप्रवेशेन क्षात्रधर्मेण वा शरीरमर्पयति ए. वमात्यंतिकं प्रियत्वं आत्मनएव शरीरादीनामापेक्षिक- मित्यर्थः ॥ ९ ॥ यस्माद्यावप्रियंस्यादिहहिविषयतस्ता- वदस्मिन्त्रियत्वंयावहुःखंचयस्माद्भवति- १२ श्रीमच्छंकराचार्यकृतशतश्लोकी खलुततस्तावदेवाप्रियत्वम् ॥ नैकस्मि- न्सर्वकालेस्त्युभयमपिकदाप्यप्रियोपि- प्रियःस्यात्प्रेयानप्यप्रियोवासततमपिय- तःप्रेयआत्माख्यवस्तु ॥१०॥ अथापेक्षिकं प्रियत्वं विविच्याह यस्मादिति । इह वि- षयोगे यस्मानार्यादिविषयतः सकाशाद्यावत्सुखं भव- ति तावदेवास्मिन्विषये प्रियत्वं । तथा तस्माद्भार्यादिवि- षयतः यावद्दुःरवं तावदेवास्मिन्नप्रियत्वं भवति । एवमु. भयमपि प्रियत्वं अप्रियत्वं वा एकस्मिन् विषये सर्वदा नास्ति यतः कदाचिदप्रियोपि कार्यवशात् प्रियः स्यात्। तथा कदाचित् प्रेयानपि भार्यादिविषयः निमित्तवशेन कालवशेन वा अप्रियः स्यात् । ततः आत्मारव्यवस्तु सततमपि प्रेयः अत्र मूलं श्रुतिः “न वा अरे पुत्राणां कामाय पुत्राः प्रियाभवंत्यात्मनस्तु कामाय पुत्रा प्रियाभवति” तथा “तदेतत्पेयः पुत्रात्येयोवित्ताययो- न्यस्मात्सर्वस्मादतरतरं यदयमात्मा सयोन्यमात्मनः प्रियं ब्रुवाणं ब्रूयात्षिय रोत्स्यतीति । इश्वरोहं तथैवस्या- दात्मानमेवप्रियमुपासीत सयआत्मानमेवप्रियमुपास्ते न हास्य प्रियप्रमायुकं भवतीति भाष्यं"। "याज्ञवल्क्यो.
आनंदगिरिकृतटीकासमेता मैत्रेयी प्रति वदति अरे मैत्रेयी पुत्राणां कामाय पुत्राः प्रिया न भवंति किंतु आत्मनस्तु कामाय पुत्राः प्रिया भवंति प्रथमतः स्वीयआत्मा प्रियः स्यात्तर्हि तदर्थं पुत्रा मृग्यते यथा पुत्राय कदलीफलेन भाव्यमिति रथ्यां गतस्य मुख्या पुत्रप्रीतिरेवोद्दिष्टा तदर्थ फलादेः तद्वन्मु. ख्यात्मप्रीतिस्तदर्थपुत्रादिप्रीतिः।एवमात्मप्रीतिशेषत्वेनैव सर्वेषां प्रीतिः। अथ तदेतदिति तत्र तत्र वित्तपुत्रयोरेष- णा अतिप्रेयस्त्वेन दुस्यजा । अथ तदेतदात्माख्यं वस्तु पुत्रात्यः स्वभावतः पुत्रः प्रेयांस्तदपेक्षयाप्येतत्पेय इत्य र्थः । तथैव वित्तादपि प्रेयः । अथ किं प्रत्येकं वक्तव्यं अन्यस्मादपि सर्वस्मादपि प्रीतिपात्रात्प्रेयः। नहि केवलं वाङ्मात्रेणास्य प्रियत्वं । अतोयुक्तिमाह-अंतरतरमिति। यद्यस्मात्कारणात्सोयमात्मा अंतरतरः भवति अंतरतरमि- त्यांतरतरं पुत्रादि ।ततोप्यांतरं युक्त्यंतरमाह-अन्यमिति। अथात्मनः सकाशादन्याप्रियतममिति ब्रुवाणं पुरुष प्रति इति ब्रूयात् इतीति किं तवाभिमतं यत् पुत्रवित्तादि प्रियं तद्रोरत्यति शोकास्पदं भवति उत्पत्तिस्थितिविनाशादि- कालत्रयेपि दुःखहेतुत्वात् । एवं यस्माद्दुःखं भवति त- कथं प्रियत्वेन गण्यते । तदुक्तं भगवता-"येहि संस्पर्श- २ श्रीमच्छंकराचार्यकृतशतश्लोको जाभोगादुःखयोनयएवते । आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधइति। तथा तथा विषयाकुःखहेतवः। हइतिकि- मर्थ ईश्वरः किं तथैव स्यान्नैवेत्यर्थः। तस्मादात्मानमेव. प्रियमुपासीत न पुत्रादि । एवं यआत्मानमेवोपास्ते अ- स्य ह इति निश्चयेन प्रियं पुत्रवित्तादिकं प्रमायुकं प्र. माविषयोन भवति न स्फुरति घृतास्वादे तैल अक्षणव. दित्यर्थः । तदुक्तं भगवता-"यं लब्ध्वा चापरं लानं म. न्यते नाधिकं ततइति” ॥१०॥ श्रेयःप्रेयश्चलोकेद्विविधमभिहितकाम्य- मात्यंतिकंचकाम्यंदुःखैकबीजंक्षणलव- विरसंतचिकीर्षतिमंदाः ॥ ब्रह्मैवात्यंतिक यन्निरतिशयसुखस्यास्पदंसंश्रयंतेतत्त्व- ज्ञास्तच्चकाठोपनिषदभिहितंषडिधायांच वल्याम्॥११॥ अथात्र कठशाखोपनिषदं संवादयति--श्रेयइति ।लोके श्रेयः प्रेयश्च द्विविधमभिहितं प्रोक्तं । श्रेयः सुकृत- साधनं प्रेयः प्रेमास्पदं । तत् द्वेधा काम्यमात्यंतिकं च काम्यं श्रेयः फलोद्देशेन क्रियमाणमुपयाचिता:
आनंदगिरिकृतटीकासमेता दिकं च आत्यंतिकं मोक्षसाधनं । तथा प्रेयोपि का- म्यं जायापुत्रादि आत्यंतिकं आत्माख्यं । तत्र श्रेयः प्रेयोवा यत्काम्यं तदुःवैकबीजं दुःखनिदानं तर्हि तत्र लोकानां प्रवृत्तिः कथं दृश्यतइत्यतआह क्षणलबविरसं शुक्तिकारजतवन्निमिषमात्रदृष्टिरम्यं त- न्मंदाः मूर्षाश्चिकीर्षति वांछंति । तथा आत्यंतिकं श्रेयः प्रेयोवा ब्रह्मैव यतोनिरतिशयसुखस्यास्पदं त- त्वज्ञाः संनयंते इत्येतत्प्रमेयं कठवल्युपनिषदि अ. भिहितं । अथ कठोपनिषदः बहुधा पठिताः संति प्रश्ते एतत्प्रमेयं कुचस्थले निरूपितमस्तीत्याहष- विधायां च वल्याम् ॥११॥ आत्मांओधेस्तरंगोरम्यहमितिगमनेभाव- यन्नासनस्थःसंवित्सूत्रानुविद्धोमणिरह- मितिवाचेंद्रियार्थप्रतीती॥ दृष्टोरम्यात्मा- वलोकादितिशयनविधौमग्नआनंदसिं- धावंतर्निष्ठोमुमुक्षुःसखलुतनुभृतांयोन- यत्येवमायुः ॥ १२॥ अथ ब्रलकत्वज्ञावनया निष्पन्नस्यांत निष्ठस्य स्वरूपं । - । श्रीमच्छंकराचार्यकृतशतश्लोकी श्लोकद्वयेनाह-आत्मांसोधेरिति । एवं निरूपितप्रका- रेण योमुमुक्षुरायुर्नयति परिकलयति सोंतर्निष्ठ इ- त्युच्यते । अथ किं कुर्वन्नायुः परिकलयतीत्याह- आत्मेति । गमने अहमात्मांभाषेस्तरंग इति भाव- यन् स्थानांतरचलने सति यथा तरंगोबाह्याभ्यंतरतो. जलमय एव सन्नितश्वलति एवमहं जीवोप्यगाध. स्याप्यात्मसमुद्रस्य तरंग इवास्मीति भावयन् गच्छ- तीत्यर्थः । “कीडन्नूमिरपामिवेतिश्रुतेः" । अथासनस्थो यथास्थितोमुमुक्षुः संवित्सूत्रानुविद्धोमणिरहमस्मीति भावयन् संविद्रूपं यत्सूत्रं तेनानुविद्धः प्रोतः अहं जीवलक्षणोमणिः अस्मीति भावयन्नास्ते “मयिसर्व- मिदं प्रोतं सूत्रे मणिगणा इवेति” भगवद्वचनात् । एवं देहव्यापारेतनिष्ठत्वं दर्शयन् इदानी इंद्रियव्या. पारेतनिष्ठत्वं निरूपयति-दुष्टइति । इंद्रियार्थप्रतीतौ सत्यां आत्मावलोकादात्मदर्शनान्ममेदानी आत्मद- र्शनं वृत्तमिति मत्वा दृष्टोस्मीति भावयन् अथेंद्रि- योपरमेप्याह - शयनविधाविति । शयनविधौ सुषुप्ति- कालति अहमानंदसिंधौ मनोभूवमिति भावयन्।।१२॥ वैराजव्यष्टिरूपंजगदखिलमिदनामरू- पात्मकंस्यादतःस्थप्राणमुख्यात्प्रचलति ।
।
मानंदगिरिकृतटीकासमेता
चपुनर्वेत्तिसर्वानपदार्थान् ॥ नायंकान
भोक्तासवितवदितियोज्ञानविज्ञानपूर्णः
साक्षादित्थंविजानन्व्यवहरतिपराल्मा-
नुसंधानपूर्वम् ॥३३॥
अथ द्वितीयं श्लोकमाह-वैराजमिति । ज्ञानं शा.
स्त्रोत्थं विज्ञानं अनुभवः ताभ्यां पूर्णीयः पुमान्
भवति स साक्षादित्थं इति विजानन् आत्मानुसंधा-
नपूर्व व्यवहरति । किमित्याशंक्याह-वैराजेति । अत्र-
तदुक्तं भवति आत्माकारान्तःकरणदत्तिः पुमान् यदा
बालदृष्टिर्भवति तदा नामरूपात्मकं अखिलं समयं
विचित्रं जगत् स्थलसमष्टिरूपस्यविराजोब्रह्मणोव्य.
ष्टिरूपमिति पश्यन्कुत्सानिंदासूयाव्यतिरिक्तः सन् व्य-
वहरति तथा व्यष्टिरूपं जगत् अंतस्थप्राणमुख्या-
च्चिद्रूपात् प्रचलति व्यापारं करोति तथा तस्मादेव
संविद्रूपान्पदार्थान्वेत्तीति विजानन् तदनुसंधानपूर्वक-
मेव व्यवहरति । तथायमात्मा सवितृवत् सूर्यवत् न
कर्ता चालकत्वेपि कर्तृत्वाभिमानशून्यः तथा । न
भोक्ता पदार्थग्राहकत्वेपि भोक्तृत्वाभिमानशून्यः ।
तद्वयवहरतीत्यर्थः ॥ १३ ॥
श्रीमच्छंकराचार्यकृतशतश्लोकी नैवैद्यज्ञानगःविविधमभिहितंतत्रवैरा- ग्यमायंप्रायोदुःखावलोकाद्भवतिगृह- सुहृत्पुत्रवित्तैषणादेः ॥ अन्यज्ज्ञानोप- देशाद्यदुदितविषयेवांतवद्देयतास्यात्य- व्रज्यापिद्विधास्यान्नियमितमनसांदह- तोगेहतश्च॥४॥ अथ द्विप्रकारं वैराग्यमाह-नैवैद्यमिति । तत्र विज्ञा. नोपायं वैराग्यं द्विविधमभिहितं प्रोक्तं । अथ तस्य द्वै- विध्यमाह-एकं नैवैद्यं अपरं ज्ञानगर्न निर्वेदात् दुः- खादुत्पन्नं नैवैद्यं तदेवाह आयं नैवेद्यं गृहात्सुदृत्पुत्रवि- तैषणादेः प्रायः दुःखावलोकाद्भवति । यत्तदने दुःख- जनक भविष्यतीति वृश्चिकस्पर्शवत् दुःखदर्शनान्ना' द्रियते आदृतमपि त्यज्यते ।अथ ज्ञानगर्भ वैराग्यमाह अन्यदिति ।अन्यत् द्वितीयं ज्ञानोपदेशाद्भवतीति । प्रथ- मं दुःखदर्शनादित्युक्तं अनंतरं आत्मातिरिक्तं सर्वदुःख- रूपं इत्याद्युपदेशादुक्तविषये सुहृत्पुत्रकलत्रादिके वां- तवद्ध्येयता स्यात् । यथा जुगुप्सा बांते जाते सति पुन- स्तद्वहणेच्छा न भवति तद्वत् विषयवैरस्यज्ञानात्पुन: विवेकिनः तद्हणेच्छा नोत्पद्यते । तदुक्तं वासिष्ठे-"बु । आनंदगिरिकृतटोकासमेता ध्वाप्यत्यंतवैरस्यं यः पदार्थेषुदुर्मतिः । बध्नाति वासनां भूयोनरोनासौ सगर्दभइति। अथ प्रव्रज्यापि द्विवि विधा भवति। प्रथमं गेहतःगृहात्प्रव्रज्या। अपरा देहत- श्च देहाभिमानशून्यत्वमेव देहतः प्रव्रज्येत्यर्थः ।। १४ ।। यःकश्चित्सौख्यतोखिजगतियततेनैव दुःखस्यहेतोर्दहेहतातदुत्थास्वविषयम मताचेतिदुःखास्पदेहे ॥ जानत्रोगाभि- घातायनुभवतियतोनित्यदेहात्मबुद्धि- भीर्यापुत्रार्थनाशेविपदमथपरामेतिना- रातिनाशे॥१५॥ अथ द्विःप्रकारं वैराग्यं तत्र विज्ञानोपायवैराग्यमुपदे- शप्रकारेणाह-यःकश्चिदिति । त्रिजगति लोकत्रयेपि यः कश्चित्पुरुषः सौख्यहेतोः सुखं भूयादिति यतते प्रयत्नं करोति परंतु दुःखस्य हेतो व यतते एवं सति या देहे अहंता तथा तदुत्था देहहितार्थमुत्पन्ना स्ववि- षयममता चेति द्वे दुःखास्पदे दुःखस्थाने अवतः । एवं जानन्नपि नित्यदेहात्मबुद्धिः पुरुषः रोगाभिघातादि अनुभवति। रोगोज्वरादिः अभिघातस्ताहणादिः एवं दे होहमिति बुध्या रोगाजिघातादि दुःखमनुभवति तथा ।
२० श्रीमच्छंकराचार्यकृतशतलोको भार्यापुत्रादिषु ममताभिनिवेशे तन्नाशेन परामुल्कष्टां विपदं एति प्रामोति परंवहताममताशून्योदुःखी न जव ति । यथा अरातेवैरिणोनाशे सति ममताशून्यत्वाद्दुःखी न भवति । तथा च यत्राहंता ममता वा तत्रैव दुःखसा- हचर्यमिति धूमवह्निसाहचर्यवन्निश्चितमित्यर्थः॥१५॥ तिष्ठन्गेहेराहेशोप्यतिथिरिवनिजंधाम गंतुंचिकीर्षुर्दैहस्थंदुःखसौख्यनाजतिस- हसानिर्ममत्वाभिमानः॥ आयात्राया- स्यतीदंजलदपटलवद्यायास्यत्यवश्यं देहायंसर्वमेवप्रविदितविषयोयञ्चतिष्ठ- त्ययत्नः॥१६॥ अथ गृहाबहिः प्रवजितुमशक्तस्य विवेकिनोपि पुरु- षस्य मोक्षोपायमाह-तिष्ठन्निति । गृहेशोगृहस्थः गेहे तिष्ठन्नपि गेहस्थं दुःखसौख्यं न भजति न स्पृशति । कइव गृहे तिष्ठन्ननिथिरिव मार्गस्थइव। किंभूतोऽतिथिः निजं धाम गंतुं चिकीर्षुः स्खं ग्रामं गंतुमिच्छुः क्षणम. पिवासस्थलं प्राप्तस्य अस्मात् श्वोलागंतव्यमस्तीति कृतनिश्चयस्य यथा निस्पृहत्वं तथैव प्रश्तेपीत्यर्थः- । आनंदगिरिकृतटीकासमेता किंभूतोगृहस्थः निर्ममत्वाभिमानः ममताभिमानशून्यः तर्हि स्थितेषु गतेषु वा विषयेषु कथमुदासीनइत्याह- आयातृ आगमिष्यदेहादि पदार्थजातमवश्यमाया- स्यत्येव । तथा यातृ गमिष्यद्वस्तु यास्यत्येव । किंवत् जलदपटलवत् जलदपटलं स्वप्रयत्नेन नायाति विधि- वशादायातमपि स्वप्रयत्नेन न निर्गच्छति एवं इत्थं प्रविदितविषयः प्रविदितः अन्वयव्यतिरेकेण ज्ञातः विषयोयेन स तथा भूनः पुरुषः अयत्नः सन् गहे तिष्ठ- ति ॥ १६ ॥ शक्क्यानिर्भीकतःस्वाहिरहिरिवयःप्रव- जन्स्वीयगेहाछायांमार्गद्रुमोत्थांपथि- कइवमनाक्संश्रयेदेहसंस्थाम् ॥ सुत्प- यानंतरुभ्यःपतितफलमयंप्रार्थयेद्वैश्य- मन्नंस्वात्मारामंप्रवेष्टुंसखलुमुखमयंप्र- बजेद्देहतोपि ॥१७॥ अथ प्रागुक्तां द्विविधां प्रवज्यां पृथगनुवदति-शक्त्येति यः पुरुषः शक्त्या वैराग्यबलेन स्वीयगेहासकाशात्सो- यथा बलेन निर्गच्छति कंचुकं त्यक्त्वा बहिर्याति तथा
२२
श्रीमच्छंकराचार्यकृतशतश्लोकी
पुत्रकलत्राद्यनादिस्नेहानुबंधेन दुस्यजादपि स्वगृहाद-
लेन प्रव्रजति । तथा यः देहसंस्थां जीवनोपायं मना
क् संश्रयेत् अनुष्ठानसिद्धिप्रयोजनमात्रमिति कृत्वा
आहारादिकसंस्थां श्रयेत् । कइव मार्गदुमोत्थां छायां
पथिकइव अये गंतव्यमस्तीति दुमच्छायायां क्षणं
विश्रमते नतु तत्रास्थां करोति । अथ देहधारणार्थं नि-
हिमाह-तरुभ्यइति ।तरुभ्यः सकाशाक्षुत्पर्याप्तं औक्ष्य-
मन्नं प्रार्थयेत् न संयहबुध्या। किंभूतमन्नं पतितफल-
मयं वातादिना पतितानि यानि फलानि तन्मयं नतु
फलच्छेदेन । अथ देहाभिमानमपि त्यजेदित्याह-
सपुरुषः सुखमयं सुस्वस्वरूपं स्वात्मारामं प्रवेष्टुं देहतो-
पि प्रव्रजेत् देहाभिमानशून्यत्व मेव देहतः प्रव्रजन-
मित्यर्थः ॥ १७ ॥
कामोबुद्धावुदेतिप्रथममिहमनस्युदिश-
त्यर्थजातंतगृह्वातींद्रियास्यैस्तदनधिग-
मतःक्रोधआविर्भवेच ॥ प्राप्तावर्थस्य
संरक्षणमतिरुदितोलोभएत्तत्रयस्यात्स-
र्वेषांपातहेतुस्तदिहमतिमतात्याज्यम-
ध्यात्मयोगात्॥१८॥
। - आनंदगिरिकृतटीकासमेता इदानी कामक्रोधलोभाः सर्वेषां पातहेतवोभवंती त्याह-कामइति । मूलभूतः कामोभिलाषः प्रथम बुद्धावुदेति । ततोमन सि अर्थजातं पदार्थजातं रूपरसा- दि । तन्मध्ये अमुकेन भवितव्यमिति उद्विशति संक- ल्पविषयं करोति । ततस्तत्पदार्थजातं इंद्रियास्यैश्चक्षु- रादीद्रियमुखैह्नाति महीतुं यतते । एवं कृतेपि यने तदनधिगमतः तेषां अनधिगमः अनेकांतरायैरप्रा. प्तिस्तदा क्रोधआविर्भवति । “कामाकोधोभिजायतइ- तिभगवदुचनात्” । अथ दैववशादर्थस्य प्राप्तौ नानो- पायैस्तद्रक्षणार्थ या मतिः स्वीयत्वाभिमानः सएव लोभउदितः । एवमेतत्रयं कामक्रोधलोजरूपं सर्वेषां जीवानां पातहेतुः सकलदुःखरूपसंसारकारणमित्यर्थः। तस्मादेतन्मतिमता पुरुषेण त्याज्यं । कुनःअध्यात्मयो- गात् बुद्धेः परतोवर्तमान अध्यात्मं प्रत्यगात्मरूपं त- स्य, योगात् निरंतरानुसंधानरूपादध्यात्मयोगादि त्यर्थः ॥ १८॥ दानंब्रह्मार्पणंयक्रियतइहनृभिःस्यात्क्ष- माक्रोधसंज्ञाश्रद्धास्तिक्यंचसत्यंसदि- तिपरमतःसेतुसंज्ञंचतुष्कम् ॥ तत्स्या-
२६
श्रीमच्छंकराचार्यकृतशतश्लोको
ब्रह्मणः प्रथमजोस्मि प्रथमसर्वस्मात्याक् जात इति
प्रथमजःशबलत्वेनोपस्थितः देहभापुत्रकलत्रादिष्वं.
तर्गतोहिरण्यगर्मोहमस्मीति ब्रह्मार्पणमेव सर्वमिति भा-
वयेदित्यर्थः ।तथा हावु इत्यथवा अक्रोधेन क्षमारूपेण
क्रोधं द्वितीयसेतुं तरातत्रोपायमाह-पूर्वमिति।देवेभ्योम-
नश्चक्षुरादिभ्यः सकाशात्पूर्व अमृतस्य ब्रह्मणो नाभिः
बुद्धिरूपेण तारकोहमस्मि । बुद्धिपर्यंतमेव कोधस्ततोये
ब्रह्मैवास्मीति भावया योबुद्धेःपरतस्तुसइतिजगवदुक्तेः।
तथा श्रद्धया कृत्वा अश्रद्धां तृतीयं सेतुं तर । अस्येव
परमात्मा नापरम् प्रयोजनमिति भावयन् तत्रोपायमा-
ह-यइति । यः पुरुषः मा इति मलं ददाति सर्व
निवेदयति स इति सइ सएव देवं आवाः प्राप्त-
वानित्यास्तिक्यविश्वासादश्रद्धांतृतीयसेतुं नरेत्यर्थः ।
अथ सत्येन ब्रह्मणा अनृतं प्रातिभासिकं विश्वाकारं
तर । तत्रोपायमाह-अहमिति । अहं जीवरूपेणान्नंअ.
झिातथा प्रलये अन्नं अदंतं अक्षयंतं अग्याधुपाधिभूतं
सर्व अग्याहुतिप्रक्षेपवज्जुहोमि “योवशिष्येतसोस्म्यहं"
इति भावयदित्यर्थः। एवमेषाउक्तप्रकारा गतिरुद्धारप-
कारः । तदुक्तं-प्रकारममृतं मोक्षः अनेनोपदेशेन स्व.
गच्छ तथा ज्योतिरमृतं गच्छेत्युपदेशः ॥ १९ ॥
भानंदगिरिकृतटीकासमेता २७ अन्नंदेवातिथियोपितममृतमिदंचान्य- थामोघमन्नंयश्वात्मार्थविधत्तेतदिहनि- गदितंमृत्युरूपंहितस्य॥ लोकेसौकवला- घोभवतितनुभृतांकेवलादीचयःस्यात्त्य- क्वाप्राणाग्निहोत्रंविधिवदनुदिनंयोभुते सोपिमर्त्यः॥२०॥ अन्नमिति। अन्नं देवातिथिभ्योर्पितं अन्नं सदमृतं भवति देवेभ्योवैश्वदेवकर्मणि अतिथिभ्यश्च वैश्वदेवांते समा. गतेभ्यः अर्पितं यदन्नं तदमृतं भवति इत्यर्थः । अन्यथा एतदकरणे देवतातिथिवंचनेन मोघं निष्फलं अन्नं भवति । यश्च आत्मार्थ पिडपोषणार्थ अन्नं विधत्ते तत्तस्य मृत्युरूपं परिणामे विषोपमं भवति असाक्षित्वात् एवं यः पुमान् केवलं अत्तीति केवलादी केवलायो भवति केवलं अघरूपोभवतीत्यर्थः। अत्र श्रुतिः-"मोघ- मन्नंविंदतेअप्रचेताःसत्यंब्रवीमिवधइत्सतस्य । नार्यमणं- पुष्यतिनोसखायंकेवलाघोभवतिकेवलादी॥२०॥ लोकभोजःसएवार्पयतिगृहगतायाथि- नेन्नंकशाययस्तस्मैपूर्णमन्नं भवतिमख- ।
२८ । । श्रीमच्छंकराचार्यकृतशतश्लोकी विधौजायतेजातशत्रुः॥ सख्येनाऽन्ना- थिने योर्पयतिनससखासेवमानायनि- त्यंसंसक्तायान्नमस्माद्विमुखइवपराट- त्तिमिछेकदर्यात् ॥२१॥ लोके भोजइति । लोके स एव भोजोदाता यः गृहाग- तायाथिने अन्नं अर्पयति । कितनाय कशाय दरिद्रपी- डिताय। अथ तस्य फलमाह-तस्मै दात्रे मखविधौ लो किके अलौकिके वा यज्ञे अन्नं पूर्ण भवति । तथा अयं दाता अजातशत्रुर्भवति यस्मादन्नदानेन सर्वभूतां- तरस्थाः सर्वेदेवाः संतृप्ताः भवंति अतो वैरिणोपि मि- त्राणि अवंतीत्यर्थः। अथ व्यतिरेकमप्याह-सख्यइति यः पुरुषः अन्नार्थिने सख्ये सखिभूताय स्वर्गप्रापकाया नार्पयति स सखा न भवति । किंतु पिशुन एवेत्यर्थः। किंभूताय नित्यं सेवमानाय आश्रितायातथा संसक्ताय अनन्यशरणाय अनेन सर्वभूतेष्वपि अन्नदानं न करो- तीत्युक्तं भवति । अथ याचकोपि अस्मात् कदर्यात् क- पणात् विमुख इव पराङ्मुखइव परात्ति इच्छेत् पुनस्तं न याचयेत् अन्यं दातारं गच्छेदित्यर्थः । श्रुतिरपि-“स. इब्रोज़ोयोगृहवेददात्यलकामायचरतेकशाय । अरम- ।
२२ अपा- आनंदगिरिकतटीकासमैना स्मैभवतियामहूताउतापरीषुकणुतेसरवायम् ॥ नससरखा- योनददातिसख्येसचा वेसचमानायपित्वः । स्मात्प्रेयान्नतदोकोअस्तिपृणंतमन्यमरणंचिदिच्छेत्” ॥ भाष्य-अन्वयमुखेन प्रशंसति ।सहत सएव भोजोदाता। यः गृहवे प्रतिग्रही। तत्राप्यन्नकामाय चरते गृहमाग- ताय दरिद्रेण कृत्वा कशाय एतादृशायातिथयेन्नं ददा. ति।यामहूतौ यामा गंतारोदेवा आहूयंते ऽत्रेति यामहूति- यज्ञस्तस्मिन् तस्मै दाने फलं अरं अलं पर्याप्तं भवति कामप्रदंभवतीत्यर्थः । उतापि च अपरीषु अन्यासु शा. वीसेनासु सखायं कृणुते तस्य सर्वे सखाय एव न श- त्रव इत्यर्थः। अथ व्यतिरेकान्वयाभ्यामाह-सपुरुष स. खा न भवति यःसचाभूवे सर्वदा सहसवनशीलाय।तथा सचमानाय सेवमानाय उपसर्जनीभूताय सख्ये जनाय पित्वः पितूनन्नानि न ददाति न प्रयच्छति स सुदृन्न भव- तीत्यर्थः । अस्माददातुः सख्युः सः अपप्रेयात् अपग- च्छेत् । ययेनं परित्यज्य गच्छेत्तदोकः सा नास्ति न भवति । अरण्यतुल्यं । सपुरुषः अन्यं पृणंतं अ. नंदातारं अरणं शरणं गच्छेत् कामयेत् ॥ २१ ॥ ।
श्रीमच्छंकराचार्यकृतशतश्लोकी स्वाज्ञानज्ञानहेतूजगदुदयलयौसर्वसा- धारणौस्तोजीवेष्वास्वर्णगर्भश्रुतयइति जगुहूयतेस्वप्रबोधे ॥ विश्वब्रह्मण्यबो- धेजगतिपुनरिदंहयतेब्रह्मयहछुक्तौरौ- प्यंच रौप्येधिकरणमथवाहूयतेन्योन्य- मोहात्॥२२॥ स्वाज्ञानज्ञानहेतूइति । जगदुदयलयौ स्वाज्ञानज्ञानहे. तू स्तः । जगतः नामरूपात्मकस्य चराचरस्योदयः प्रादुर्भावः लयश्व प्रलयः एतौ स्वस्याज्ञानं च ज्ञा. नं च स्वाज्ञानज्ञाने तएव हेतवः करणं ययोस्तो। स्वशब्देनामा तधा च आत्माज्ञानाज्जगत्प्रादुर्भावः। तथा आत्मज्ञानाज्जगत्पलयइत्यर्थः । एतौ आस्वर्णग हिरण्यगर्भ मर्यादीकृत्य सर्वजीवेषु साधारणौ । हिरण्यगर्भोपि स्वस्वरूपं विस्मृत्याहमीश्वरोनियंते- त्यभिमानं वहति तदा प्रादुर्भूतं विश्वाभासं पश्यति । अथ यदा ब्रह्माहमस्मीति स्वरूपे लीनोभवति तदा विश्वाभासविलयः इति श्रुतयो जगुः । एवमेव जी- वेष्वपि इति प्रकटयन्नाह-हूयतइति । स्वप्रबोधे ब्र- झाकारांतःकरणटत्तौ जातायां विश्वं ब्रह्मणि हूय- । - आनंदगिरिकृतटोकासमेता ते अनावाहुतिप्रक्षेपवत् भस्मसाकियते तदा देहा- निमानित्वाभावात् अबोधे देहाभिमानित्वात् अह माकारा इदमाकारा वांतःकरणत्तिस्तदा इदं ब्रह्म जगति हयते नास्येवेति क्रियते । तत्र दृष्टांतमा- ह-यद्वदिति । भ्रमनिटत्तिकाले शुक्तौ रौप्यं हूयते। तथा प्रनिभासकाले तु अधिकरणं शुक्तिः रौप्ये हूयते कस्मादन्योन्यमोहात् शुक्त्यज्ञाने रजतोदयः रजताज्ञाने च शुक्तिरित्यर्थः ॥ २२ ।। तुच्छत्वान्नासदासीद्गगनकुसुमवद्भेदकं नोसदासीदित्वाभ्यामन्यदासीयवह- तिगतिसन्नासलोकस्तदानीम् ॥ किंव- ागेवशुक्तौरजतवदपरोनोविराव्यो- भपूर्वःशर्मण्यात्मन्यथैतत्कुहकसलिल- वकिावेदावरीवः ॥ २३ ॥ ननु नामरूपात्मकस्य दृश्यमानस्य जगतः उपादान. कारणं किं स्यादिति विचार्यमाणे न तावच्छुद्धस्या- नीहस्य ब्रह्मणस्तथात्वमुपपद्यते अथ तदतिरिक्तस्य तथात्वकल्पने किमसद्वा सद्वा कल्पनीयं तत्रायं नि- মীমালামালস্তান্ধী षेधति-तुन्च्छत्वादिति । तत्र तावज्जगदुपादानकारणं असन्नासीत् कुतः तस्यासतोगगनकुसुमवत्तुच्छत्वात् । अत्यंतासत्वेन उपादानकारणानहत्वात् । अथ नापि भेदकं सद्वाच्यं परमार्थतोब्रह्मणः सकाशात् अन्य- स्य भेदजनकस्यासंभवात् । अतः परिशेषात् सदस- द्विलक्षणमासीदित्याह-किंत्विति । आभ्यां सदसयां अन्यत् विलक्षणं आसीदित्युक्तं भवति । ननु तर्हि ब्रह्मातिरिक्तंपरमार्थसन्मास्तु तथापि व्यवहारे सदा- सीदेवेति चेत्तदपि निषेधति-व्यवहतीति । तदानी व्यवहारस्याप्यभावादित्यर्थः। तदानीमिति पदेन सृष्टेः प्राङ्गासीत् किंतु परिशेषात् मध्ये एवोत्पन्नइत्यु. तं भवति । ननु तदानीमाकारवन्नास्ति तथापि व्यो- मासीत्तथा महाभूतारब्धोबिराडप्यासीत् इति चेत् तदपि निषेधति-नोविराट् व्योमपूर्वइति।व्योमपूर्व का- रणीभूतंयस्य स तथा । अथास्तां मध्य एवोत्पन्नं तस्य पृथग्भूतत्वेन ब्रह्मणआवरकत्वं भवेत्तदपि दृष्टांतेन निषेधति शर्मणीति । शर्मणि शुद्धे ब्रह्मणि तत्किमा- वरीवः आरणोतीत्यावरीवः आवरकं न भवेदित्य- र्थः। किंवत् कुहकसलिलवत् माययास्थले जलभ. ममुत्पादयतः कुहकस्यैद्रजालिकस्य क्षणमुत्पन्नं स. । - A आनंदगिरिकृतटीकासमेता लिलं भ्रमनिरत्तौ सत्यां किं स्थलस्यावरणं भवे- नैव । तद्वत् प्रकतेपीत्यर्थः ॥ २३ ॥ बंधोजन्मात्ययात्मायदिनपुनरभूतहि मोक्षोपिनासीयहद्रात्रिदिनवानभवति तरणौकिंतुहग्दोषएषः॥ अप्राणशुद्धमे- कंसमभवदथतन्माययाकर्तृसंज्ञंतस्मा- दन्यञ्चनासीत्परिटतमजयाजीवभूतंतदे- व॥२४॥ अथ वस्तुतोब्रह्मरूपाणामेब जीवानां बंधमोक्षावप्य ज्ञानकतावित्याह - बंधइति । पुनर्जन्मात्ययात्मा जन्ममृत्युरूपोयदिबंधोनाभूत् तर्हि मोक्षोपि नासीत्। तदुक्तम् – “बद्धोमुक्तइतिव्याख्यागुणतोमेनवस्तुतः । तथाद्वितीयस्थाभावात्कोबद्धः कश्च मुच्यत इति । अ- त्रदृष्टांतमाह-यद्वदिति । तरणी सूर्येरात्रिदिनं वा न - वति न युज्यते । कथं तर्हि रात्रिदिनव्यवहारो भवती- त्याह -एषदग्दोषः जगच्चक्षुपां सूर्यादर्शनदर्शनमेव रात्रिदिनव्यवहारनिमित्तमापेक्षिकमित्यर्थः। अथ जी- वत्वोपाधिनिमित्तमाह-अप्राणमिति । अप्राणोझम ।
- श्रीमच्छंकराचार्यकृतशतश्लोकी नाः शुभइति । शुद्धस्य ब्रह्मणः प्राणसंबंधाभावाद- प्राणं एकमद्वितीयं तन्मायया कर्तृसंज्ञं हिरण्यग- ख्यिमभवत् । तस्मादन्यंनासीत् । तदेवाजया मा- यया परितं सज्जीवभूतं जीवत्वं प्राप्तं न पृथक्क- श्चिजीवोस्तीत्यर्थः । अत्र श्रुतिः-"नासदासीन्नो- सदासीत्तदानीनासीद्रजोनोव्योमापरोयत् । किमाव- रीवः कुहकस्यशर्मन्नभः किमासीदहनंगभीरम् ॥२४॥ प्रागासीद्भावरूपंतमइतितमसागुढम- स्मादतय॑क्षीरांतर्यद्वदंभोजनिरिहजग- तोनामरूपात्मकस्य॥ कामाद्धातुः सिस्त- सोरनुगतजगतः कर्मभिः संप्रदत्ताद्रेतो- रूपैर्मनोभिः प्रथममनुगतैःसंततः कार्य- माणैः ॥ २५ ॥ अथ पूर्वमुक्तं तदानी जगन्नासीदिति तर्हि पुनः क. थमुत्पन्नमित्याशंक्याह-प्रागासीदिति । जगदुपादा- नभूतं भावरूपं तमइत्यज्ञानं आसीत् । तेन त- मसा जगद्गृढमाच्छादितमस्मात्कारणादतयं अज्ञाय- मानं किंवत् यद्वक्षीरांतर्गतमंजः उदकं क्षीरांतर्वर्त- आनंदगिरिकृतटीकासमेता मानमपि न ज्ञायते तद्वत् । ततइह अस्मिन्नज्ञाने अस्य नामरूपात्मकस्य जगतः जनिः उत्पत्तिः । ननु यद्यपि बीजांतर्गतोरक्षस्तिष्ठति तथापि कार- णसामग्रीव्यतिरेकेण नोत्पद्यते । अतआह-कामा. दिति । सिसृक्षोः स्रष्टुमिच्छतो धातुः परमेश्वरस्य कामादिच्छातः । सापि कुत इत्यतआह-किंभू. ताद्धातुः कामात् अनुगतजगतः कर्मभिः संप्रदत्तात् अ. नुगतं अनादित्वेन वर्तमानं यज्जगत् तस्य कर्मभिः प्रेरितात् । अथ तान्यपि कुतइत्याह-रेतोरूपै- बर्बीजभूतैर्मनोभिः प्रथमं अनादिप्रवाहेणानुगतैः सद्भिः संततः कार्यमाणैः निष्पादितः कर्मभिरित्यर्थः एत- दर्थे श्रुतिरपि-"तमआसीत्तमसागूळहमयेप्रकेतसलिलं. सर्वमाइदम् । तुच्छेनाभ्वपिहितंयदासीत्तपसस्तन्महि नाजायकम् ॥ कामस्तदयेसमवर्तताधिमनसोरेतःप्र- थमयदासीत् । सतोबंधुमसतिनिरविदन्दृदिप्रतीष्या- कवयोमनीषा" ॥ जाण्यं-ननूक्तप्रकारेण यदि पूर्वमिदं जगत् नासीत् कथं तर्हि तस्य जन्म जायमानस्य जनिक्रियायां कर्तृत्वेन कारकत्वात् कारंक च कार- णावांतरविशेष इति कारकस्य सतोनियतपूर्वक्षणव- तित्वस्यावश्यंभावित्वात् । अथैनदोषपरिजिहीर्षया । শীর্ষস্থানান্ধী जनिक्रियायाः प्रागपि तद्वियत इत्युच्यते । कथं तस्य जन्म अतआह-तमसागूढमग्रइति । अग्रे सृ. टेः प्राक् प्रलयदशायां भूतभौतिकं सर्वं जगत् त- मसा गूढं । यथा नैशं तमः सर्व पदार्थजातमा. गोति तद्वदात्मतत्त्वस्यावरकत्वान्मायापरपर्यायं भाव- रूपाज्ञानं अत्र तमइत्युच्यते । तेन तमसा निगू- ढं संरतं कारणभूतेन तेनाच्छादितं भवति । आ- च्छादकात्तस्मात्तमसोनामरूपाभ्यां यदाविर्भवनं तदे- व तस्य जन्मेत्युच्यते । ननु कारणभूते तमसि तज्जगदा- त्मक कार्य विद्यते चेत्तहिं कथं नासीद्रजइत्यादिना तन्निषेधस्तवाह-तमआसीदिति । तमोभावरूपाज्ञानमू- लकारणं तद्रूपतां तदात्मतां । यतः सर्वं जगत् प्रा- समासीदतोनिषिध्यत इत्यर्थः । ननुआवरकत्वादाव- रणं तमः कर्तृआवार्य जगत्कर्म कथं कर्तृकर्मणो- स्तादात्म्यं तदाह-अप्रकेतमिति । अप्रकेतमप्रज्ञाय. मानं । अयमर्थः-यद्यपि जगतः तमसः कर्मकर्तृ- भावोयौक्तिकोवर्तते तथापि व्यवहारदशायामिव सस्यां दशायां नामरूपाभ्यां विस्पष्टं न ज्ञायते इ. ति तादात्म्यवर्णनं । अतएव मनुना स्मयते –“आ- तीदिदंतमोजतमप्रज्ञानमल क्षणम् । अप्रतय॑मनिर्देश्य - । आनंदगिरिकृतटीकासमेता प्रसुप्तमिवसर्वतः॥ कुतोवा न प्रज्ञायतइत्यतआह-सलि. लमिति । लुनोपमा सलिलमिव यथा क्षीरेण वि- भागापन्नं नीरं दुर्विज्ञान तथा तमसा अविभागाप, नं जगत् । ननु विविधविचित्रभूयसः प्रपंचस्य कथमतिनुच्छेन तमसा क्षीरेण नीरस्येवाभिभवः तथा तमोपि क्षीरवदलवदित्येवोच्यते तहिदुर्बलस्य ज. गतः सर्गसमये नोद्भवसंभव इत्यत आह-तुच्छेनेति । आसमंताद्भवतीत्या ः तुच्छेन तुच्छकल्पेन सदसद्वि- लक्षणेन भावरूपाज्ञानेनापिहितं आच्छादितमासीत्। एकं एकीभूतं कारणेन तमसा अविभागतां प्राप्त- मपितत्कार्यजातं तमसः पर्यालोचनरूपत्वं चान्यत्रा- म्नायते-"यःसर्वज्ञःसर्वविद्यस्यज्ञानमयंतपइति । अथ कामस्तदय इति । ननूक्तरीत्या यदीश्वरस्य पर्या- लोचनं जगतः पुनःपुनरुत्पत्तौ कारणं तदेव वा किंनिबंधनमित्यत आह-कामस्तदग्रइति । अये अ- स्य विकारजातस्य सृष्टेः प्रागवस्थायां परमेश्वर- स्य मनसि कामः समवर्तत सम्यगजायत सिसृक्षा जायतेतिभावः । ईश्वरस्य सिसृक्षा वा किंहेतुके. त्यत आह-मनसइति । मनसोंतःकरणस्य संबंधी- ४
-
श्रीमच्छंकराचार्यकृतशतश्लोकी
वासनाशेषेण मायायां विलीनेंतःकरणे समवेतं ।
सामान्यापेक्षमेकवचनं सर्वप्राण्यंतःकरणेषु समवेत-
मित्यर्थः । एतेनात्मनोगुणाधारत्वं प्रत्याख्यातं । ता-
दृशं रेतः भाविनः प्रपंचस्य बीजभूतं प्रथमं अतीते
कल्पे प्राणिभिः कृतं पुण्यात्मकं कर्म यत् यतः
कारणात् सृष्टिसमये आसीत् अभवत् । भूष्णुव-
धिष्णु अजायत परिपक्कं सत्फलोन्मुखमासीदित्यर्थः।
तत् ततोहेतोः फलप्रदस्य सर्वसाक्षिणः कर्माध्यक्ष-
स्य परमेश्वरस्य मनसि सिसक्षा अजायतेत्यर्थः ।
तस्यां च जातायां स्रष्टव्यं पर्यालोच्यते । अत:
सर्व जगत्सृजति तथा चाम्नायते –“सोकामयत
बहुत्यांप्रजायेयेति । सतपोतप्यत।सतपस्तत्वा । इदंसर्व-
मसृजत । यदिदंकिंचेति । अथोविद्वदनुभवमप्यनुयाह-
कत्वेन प्रमाणयति। सतइति । सतः सत्त्वेनेदानीमनु.
भूयमानस्य सर्वस्य जगतोबंधु बंधकत्वे हेतुभूतं क-
ल्पांतरे प्राण्यनुष्ठितं कर्मसमूहकवयः कांतदर्शिनः
योगिनः हृदि हृदये निरुद्धया मनीषया बुध्या
प्रतीक्ष्य विचार्य असति सद्विलक्षणे अव्याहते
कारणे निरविंदन निकृष्यालसंत विविच्याजानन्नि-
।
त्यर्थः ॥ २५॥
आनंदगिरिकृतटीकासमेता चत्वारोस्याःकपर्दायुवतिरथभवेन्नूतना नित्यमेपामायावापेशलास्यादघटनघ- टनापाटवंयातियस्मात् ॥ स्यादारंजे- तास्याश्रुतिभववयुनान्येवमाछादयं- तीतस्यामेतौसुपर्णाविवपरपुरुषौतिष्ठ- तोर्थप्रतीत्या ॥ २६॥ मायायाउत्कर्ष वर्णयति-चत्वारइति । अस्याः पू- र्वोक्तमायायाः चत्वारः कपर्दाः उत्कर्षाः संति । अथ तानेवाह-युवतिरिति । एषा माया नित्यं नूतना कदापि स्थविरा न भवति अतोयुवतिर्भवेत् दे. हादिवार्धकेपि सा तरुण्येवास्ति अयमेकउत्कर्षः। तथा इयं पेशला स्यात् किन्नाम पेशलत्वं अत्राह-पेश ला कुशलेत्यर्थः । तदेवाह यस्मादिति-यस्मात्कार- णादियं अघटनघटनापाटवं विक्षेपे कौशलं याति अयं द्वितीयउत्कर्षः । तथेयमारंझे उपक्रमे घृता- स्या घृतवन्मृष्टं आस्यं मुखं यस्याः सा तथा य- स्य कस्याप्यारंभे मृष्टं दर्शयति परिणाम विषोप- ममित्यर्थः अयं तृतीयउत्कर्षः । अथेयं श्रुतिभ- तवयुनानि श्रुतिभिः उपनिषद्भागैःप्रतिपादितानि आ- श्रीमच्छंकराचार्यकृतशतश्लोकी मज्ञानानि आवरणशक्या आच्छादयन्ती अयं चतुर्थ उत्कर्षः । तस्यां चतुरुल्कर्षवत्यां मायायां एतौ परपुरुषो परः परमात्मा पुरुषो जीवः एतौ सुपर्णों पक्षिणाविव तिष्ठतः केन प्रकारेण ज्ञातावित्यतआह-अर्थेति । अर्थप्रतीत्या पदार्थभासकत्वेन माया तिरोधानकर्ती सकलभासकत्वं परमात्मन एवेत्यर्थः ॥ २६ ॥ एकस्तत्रास्यसंगस्तदनुतदपरोज्ञानसिं- धुंप्रविष्टोविस्मृत्यात्मस्वरूपंसविविधज- गदाकारमानासमैक्षत् ॥ बुद्ध्यांतर्या- वदैक्षविसृजतितमजासोपितामेवमेक- स्तावद्विप्रास्तमेकंकथमपिबहुधाकल्प- यंतिस्ववाग्भिः॥२७॥ इदानी जीवपरमात्मनोः परमार्थतः एकत्वमाह- एकइति । तत्र तयोः सुपर्णयोर्मध्ये एकः परमा- त्मा असंगोस्ति तदनु तदपरोजीवः अज्ञानसिंधुं प्र- विष्टः सच आत्मस्वरूपं विस्मृत्य विविधजगदाकारं आभासं प्रातिभासिकं ऐक्षत् दृष्टवान् ततः बुद्ध्या निश्चयात्मिकया अंतः यावदक्षत्तावत् अजा माया तं जीवं विसृजति तथा सोपि जीवः तां मायां विसृजति।
। आनंदगिरिकृतटीकासमेता अंतर्दृष्ट्या विचार्यमाणे उअयोरसंस्पर्शऽखंडत्वमेवानु- भूयते । तर्हि सुपर्णद्वयकल्पना कुत इत्यत आह-विप्रा- इति तमेकमेवात्मानं विप्राः श्रुतिज्ञाः कवयः शिष्यबो- धादि व्यवहतिविधये वाग्भिः अनेकधा कल्पयंति नत्वनुभवतइत्यर्थः । एतदर्थे श्रुतिः-"चतुष्कपर्दायुवतिः सुपेशाघृतप्रतीकावयुनानिवस्ते । तस्यांसुपर्णाषणा निषेदतुर्यत्रदेवादधिरेशागधेयं ॥ एकःसुपर्णःससमुद्रमा विवेशसइदंविश्वंभुवनं विचष्टेइति ॥२७॥ नायातिप्रत्यगात्माप्रजननसमयेनैवया- त्यंतकालेयत्सोखंडोस्तिलैंगंमनइहविश- तिप्रव्रजत्यूर्ध्वमाक् ॥ तत्कायस्थूलतां वानाजतिवपुषःकिंतुसंस्कारजाततेजों- मात्रागृहीत्वाव्रजतिपुनरिहायातितैस्तैः सहैव ॥२८॥ अथ जन्ममरणानुबंधेनास्य स्वरूपत्वं वर्णयनि-नेतिः प्रजननसमये गर्भाविर्भावे सति प्रत्यगात्मा नायाति गर्ने न प्रविशति । अथांतकाले देहावसानसमये नायाति नागच्छति । यद्यतः आत्मा अरखंडः अपरिछिन्नोस्ति यतः प्रवेशनिर्गमौ हि परिच्छिन्न- ४२ । श्रीमच्छंकराचार्यकृतशतश्लोकी स्यैव भवतः । तहि लोके जन्ममरणादिव्यवहारः कस्येत्याह-लैंगमिति । लैंगं पंचदशकलोपेतं मनः इह लोके ऊर्ध्वं देवलोके अकि मनुष्यलोके वा गर्ने विशति तथा प्रव्रजति च न प्रत्यगात्मा। अथ तल्लिंगदेहोपेतं मनः वपुषः स्थूलदेहस्य कार्य कृशतां स्थूलतां पुष्टत्वं वा न भजति रोगाद्युपहतौ क- शता तथा पाटवे पुष्टत्वं वा न भजति । एवं तन्मनः व- पुषः उक्कांती पूर्वसंस्कारजाते तथा तेजोमात्राः प्रत्यक् इन्द्रियैः सह प्राणान् गृहीत्वा ब्रजति गच्छति । तथा पुनरुत्पत्तिसमये तैस्तैः संस्कारजातैः सह इह गर्ने आयाति ॥ २८ ॥ आसीत्पूर्वसुबंधु शमवनिसुरोयःपुरो- धाःसनातेवाहयात्कूटाभिचारात्सखलु मृतिमितस्तन्मनोगात्कृतांतम्॥तदाता श्रौतमंत्रःपुनरनयदितिऽप्राहसूक्तेनवे- दस्तस्मादात्माभियुक्तंबजतिननुमनःक- हिचिन्नांतरात्मा ॥२९॥ अथ प्रवेशनिर्गमौ मनसएवसंभवतोनात्मनइत्यत्र क्र. क्शाखीयांश्रुतिमाख्यायिकापूर्विकां संवादयति-आ- । आनंदगिरिकृतटीकासमेता सीदिति । सुबंधुनामा अवनिमुरोब्राह्मणः पूर्वं भृशम- त्यर्थं सर्वोत्कर्षेणासीत् । किंभूनः सनातेः पृथ्वीभुजः पुरोधाः पुरोहितः । अथ खल्विति श्रूयते स ब्राया त् ब्रह्मकतात्कूटाभिचारात्कापट्येन रचितादभिचाराद- स्त्रप्रयोगान्मृतिमितः मरणप्राप्तः तन्मनः कृतांतं यमलो- कमगात् अथ तस्य सुबंधोः भ्राता श्रौतमंत्रैः कृत्वा तद्गतं मनः पुनरनयत् आनीतवान् इति सूक्तेन वेदः प्राह । त- स्मात्कारणादात्माभियुक्तं आत्म प्रतिबिंबाभियुक्तं सत् मन एवं व्रजति परंत्वंतरात्मा न ब्रजति । एतन्मूलभूता- श्रुतिरपि अष्टमाष्टके-"यत्ते यमवैवस्वतंमनोजगामदूर- कं। तत आवर्तयामसीहक्षयायजीवसे ॥ भाष्य-अत्रे यमाख्यायिका पूर्व सनातिसंज्ञस्य राज्ञोगहे बंधुः मुबधुः श्रुतबंधुर्विप्रबधुरिति चत्वारोभ्रातरः पुरोहिता- आसन् । ते द्विषन्नाशाय राज्ञादिष्टाउपायं चक्रुः अ- भिचारिकं न कुर्वतीति राज्ञा बहिष्कृताः। ततोन्यन्मा- यावि पुरोहितद्वयं कृतं । तेन बंध्वादयश्चत्वारः क्षुब्धाः संतोराज्ञअभिचारिकं कर्तुं प्रवृत्ताः तच्छ्रुत्वा माया- विनों पुरोहितौ च आभिचारिककर्मणा सुबंधुं जभ्रतुः ततः सुबंधोतिरः तं पुनर्जीवितुं वक्ष्यमा- गैः श्रौतमंत्रैः उपायं चक्रुः । “यत्तेयममिति” ।
- श्रीमच्छंकराचार्यकृतशतश्लोकी जो सुबंधो यत्ते मनः वैवस्वतं विवस्वतः सूर्यस्य पुत्रं यमं प्रति दूरं जगाम तत्ते मनः आवर्तयामसि ततोपि निवर्तयामः किमर्थं इह लोके क्षयाय नि- वासाय जीवसे जीवनायेति प्रथमा । अथ द्वि. तीया-"यत्तेदिवंयत्पृथिवीमनोजगामदूरकं । ततआव तयामसीहक्षयायजीवसे” तथा-"यमादहं वैवस्वता- सुबंधोर्मनाभरं । जीवातवेनमृत्यवेथोअरिष्टता- तये ॥ २९ ॥ एकोनिष्कंपआत्माप्रचलतिमनसाधा- वमानेनतस्मिस्तिष्ठन्नग्रेथपश्चान्नहित- मनुगतंजानतेचक्षुरायाः॥ यत्पाथस्त- रंगैःप्रचलतिपरितोधावमानस्तदंतःप्रा- पश्चादस्तितेषांपवनसमुदितैस्तैःप्रशांतै- यथावत् ॥ ३०॥ इदानी चलनादिधर्माः मनसएव नात्मनइति दर्श- यति-एकइति । एकोद्वयोनिष्कंपः कर्मशून्योपि आत्मा धावमानेन मनसा सह प्रचलति तथा त- स्मिन्मनसि अपि तिष्ठन् अग्रे पुरतः पश्चाच्च वर्त- ते । तमेवंविधमात्मानं अनुगतं अंतर्गत अपि च- ।
आनंदगिरिकृतटीकासमेता क्षुराद्याः न जानते न जानंति इंद्रियागोचरत्वात् । तत्रदृष्टांतमाह-यदिति । यद्वत्पाथः उदकं परितो- धावमानैः तरंगैः प्रचलति तथा तेषां तरंगाणां अंतः प्राक् पश्चात् च पाथोस्ति । किंभूतैः तरंगैः पव- नसमुदितैः वायुनोत्पन्नैः एवं मायामयैरिद्रियैरप्या- मा । अथ तैः प्रशांतः सद्भिर्यथावत् प्रकृतिस्थं पाथएवास्ति तद्वदात्मापि ॥ ३० ॥ एकाक्यासीत्सपूर्वमंगयतिविषयानानु- पूर्त्यांतराल्माजायामेस्यापजावाधनमु- पकरणकर्मकुर्वस्तदर्थम्॥क्लेशैःप्राणाव- शेषैर्महदपिमनुतेनान्यदस्माद्रीयस्त्वे- काला प्यरुत्लोमृतइवविरमत्येकहा- न्याकृतार्थः॥३१॥ इदानी जीवस्य बालप्रपंचानुत्तिं निरूपयति-ए. काकीति । सोतरात्मापूर्व एकाकी आसीत् । अत: परं आनुपूर्ध्या अनुक्रमेण विषयान्मृगयति गवेष- यति । अथानुपूर्वीमाह-प्रथमं जाया मे स्यात्ततः प्रजा मे स्यात् ततस्तन्निर्वाहाथ धनं वित्तं मे स्यात् । अथ तदर्थं वित्तप्राप्त्यर्थं प्राणावशेषैः क्लेशः श्रीमच्छंकराचार्यकृतशतश्लोको कर्म कुर्वन् एवं धनादिविषयप्राप्तौ अस्माद्विषयाद- न्यत् महत् अपि गरीयः श्रेष्ठं न मनुते । एवं ब हुविषयोद्देशे एकविषयाला सति अकृत्स्नोभूत्वा मृतइव विरमति विरामं प्रामोति तथा एकहान्या प्राप्तस्य नाशेन अकृतार्थोभवति । अत्र मूलं श्रु- तिः-"आत्मैवेदमय आसीत् एकएवसोकामयत जा- यामेस्यादथप्रजायेयाथ वित्तंमेस्यादथकर्म कुर्वी- येत्येतावान्मेकामोनेत्सञ्चनातोंभूयोविंदेततस्मादप्येती - काकीकामयतेजायामेस्यादथप्रजायेयाथवित्तंमेस्या दथकर्मकुर्वीयेतिसयावदप्येतेषामेंकैकंनप्रामोत्यकत्स्नइ वतावन्मन्यतेतस्या कस्मता|भाष्यं-अये पूर्व इदमयं एकएव केवलमात्मैवासीत् । सजाया मे स्यादि- त्यकामयत ऐच्छत् । ततोस्यांजायायां प्रजायेय पु. त्रत्वेन जन्म प्रामुयामित्यकामयत । "अस्यांजायते- पुनरितिश्रुतेः। तथा आत्मैव जायापुत्रत्वेन परिणति। तथा यत्कर्म करोति तदप्यात्मार्थमेवेति पुनः श्रुत्या निरूप्यते । एवं जायापुत्रप्राप्तौ तद्भरणार्थ वित्तं मे स्यादिति वित्तं कामयते । अथ वित्तप्राप्त्य- थ कर्म कुर्वीयेति । एतावान्वै कामः । अथ ने- दिति निपातोनिषेधार्थ नेत्सच न संभवतीत्यर्थः । अवः ४७ आनंदगिरिकृतटीकासमेता जायापुत्रादिविषयादन्यद्भूयः बहुतरं नविदेत न विद- ति । एवं यावज्जीवं पुनरुत्पत्तिमासाद्य तथैवेति पु. नरुक्तं । एवं सजीवः यावदेतेषां जायादीनां मध्ये एकैकं न प्रामोति तावदकत्रमः असंपूर्णोहमिति मन्यते । इत्येवं तस्याकस्मता अपूर्णता ॥ ३१ ॥ नासीत्पूर्वनपश्चादतनुदिनकराज्छाद- कोवारिवाहोदृश्यःकित्वंतरासौस्थगय- तिसदृशंपश्यतोनार्कबिंबम्॥नोचेदेवं विनार्कजलधरपटलंभासतेतर्हिकरमा- तहहि श्वंपिधत्तेशमथनपरंशासक चालकंस्वम्॥३२॥ अविद्याया आवरणशक्तिमेव विविच्यप्रपंचयति-ना- सीदिति । वारिवहतीति वारिवाहः मेघः अतनुदिनकरा च्छादकोभवति न तनुरतनुर्महान् लोकत्रयप्रकाशको योदिनकरः दिवसेप्रसृतकरः सूर्यस्तदाच्छादकोभवति । अथ तस्याच्छादकत्वमांतरालिकं न प्रवाहपरंपरागत- मित्याह-नासीदिति । मेघः प्रास्टकालापूर्वं ग्रीष्मे नासीत् अथ पश्चात् शरत्कालेपि नासीत् एव- मेवंविधोमेघः सूर्यं पश्यतोजनस्य दृशमेव स्थगय- श्रीमच्छंकराचार्यकृतशतश्लोकी ति आरणोति नार्कबिंब तस्य मेघादप्यभितः क- रप्रसारशालित्वादित्यर्थः । एवं सत्यपि लोके मू- योंनिष्प्रभइति प्रतीतिः प्रातिभासिकीत्याह-नोचेदि- ति । एवमुक्तप्रमेयं नोचेत्सूर्यएव आच्छादितइति चेत्तहिअविना जलधरपटलं सूर्यावरकीभूतमेघप टलं कस्माद्भासते सूर्यस्य घनपटलेन तिरोहितत्वात् । घनपटलं कस्मात् प्रकाशांतरात् ज्ञायते सूर्य- स्याच्छिन्नत्वेन प्रकाशकत्वानहत्वादित्यर्थः । तथा च सूर्यं पश्यतोजनस्य घनपटलेन दृष्टिरेवारता न सूर्यः । एतदृष्टांतावष्टंभेन भूमंडलस्यापि सूर्या- वरकत्वं तद्वदेवेत्यर्थः । अथ यदर्थमेतदुपरांतं तदा- ह-तद्वदिति । तद्वदंतरोत्पन्न विश्वमपि पश्यतोदृशं दृष्टिमेव पिधत्ते न परं ब्रह्मस्वरूपमाच्छादयति । तहि कथं न दृश्यत इत्याशंक्य दृश्यतएवेत्याह- किंभूतं परं ब्रह्म स्वभासकं चालकं च स्वशब्देन विश्वं तस्याशासकं चालकं च येन विचित्ररूपं विश्वमानाति तथा येन चलति सर्वव्यवहारं करो. ति तत्परं ब्रह्म कथमाच्छादितुं शक्यते ब्रह्मव्यति- रेकेण तस्य भासकचालकांतराभावात् । तथा च जगदाकारादिमध्यावसानेषु वर्तमानं ब्रह्मैवसत्यं तद- Hamarwar ४९ आनंदगिरिकृतटीकासमेता ज्ञानादुदितोजगदाकारः शुक्तिरजतवत्पातिभासिकइत्य र्थः ॥ ३२ ॥ झुंजानःस्वप्नराज्यंससकलविभवोजा- गरंप्राप्यभूयोराज्यभ्रष्टोहमित्यनाज- तिविषमंतन्मृषामन्यमानः॥ स्वप्नेकुर्व- नगम्यागमनमुखमतेननप्रत्यवायी तहजाग्रहशायांव्यवहतिमखिलांस्वप्न- वद्विस्मरेच्चेत्॥३३॥ एवं स्वमदृष्टांतेन प्रपंचस्य मिथ्यात्वं निरूपयति- झुंजानइति । ससकलविभवः सेनाकोशायुपस्कारयु- तः सन्स्वमराज्यं भुंजानः पुरुषः भूयोजागरं प्रा. प्य प्राक्तनं दरिद्रं रकं देहं निरीक्ष्याहं राज्यभ्रष्टइति विषमं शोकं न भजति । कुतः तत्स्वानं राज्यं मृषा मन्यमानः । अथ तमेवार्थं दृष्टांतेन द्रढय- ति-स्वमइति । स्वमे अगम्यागमनमुखं सुरापानब- झवधादि अघं पातकं कुर्वन् ततः प्रबोधं प्राप्तः सन् तेन पातकेन प्रत्यवायी प्रायश्चित्ती न भवति । यथा पूर्ववल्लोके व्यवहार्यएव दृश्यते । मनसाप्यनु- ५० श्रीमच्छंकराचार्यकृतशतश्लोकी तापं न प्रामोति । कुतः तन्मृषा मन्यमानइति पूर्ववत् । तथा च जायबशायामेवपापकर्ता प्रायश्चित्ताहों भ. वति । अथ जाग्रहशायामपि अखिलां पुण्यपाप व्यवहति चेत् स्वमवद्विस्मरेत् तथापि तद्वयाय. श्चित्ताझेन भवति । यतस्तन्मृषा मन्यमानः इति प्रागुक्तमेव । तदुक्तं भगवता-"ब्रह्मण्याधायकर्माणी- त्यादिना ॥३३॥ स्वप्नावस्थानुभूतंशुभमथविषमंतन्मृपा- जागरेस्याज्जाग्रत्यास्थूलदेहव्यवहतिवि- पयंतन्मृषास्वाप्नकाले।इत्थंमिथ्यात्वसि- द्वावनिशमुभयथासज्जतेतत्रमूटःसत्ये- तद्भासकेस्मिन्निहहिकुतइदंतन्त्रविनोव यंहि॥३४॥ अथ जाग्रत्वमावस्थयोरपि भ्रमजनकत्वमस्तीत्या ह-स्वमेति । स्वमावस्थायामनुभूतं राज्यभोगेष्टप्रा. प्यादि तथा विषमं व्याघ्राक्षणादि तत्सर्व जागरे मृषा भवति । अथ जायद्दशायां स्थूलदेहव्यवह- तिविषयं शुभं मृष्टाशनादि सर्वभोगसुखं तथा वि.
आनंदगिरिकृतटीकासमेता षमं आधिव्याधिजनितयातनादुःखं तस्वमकाले सर्व मृषा भवति । इत्थममुना प्रकारेणोभयथापि अनिशं निरंतरं मिथ्यात्वसिद्धौ सत्यां तत्र मूढः य: सज्जते अभिनिवेशं करोति तत्कस्मात्कारणादि- ति वयं न विद्मः ॥ ३४ ॥ जीवंतंजाग्रतीहरखजनमथनृतंवनका- लेनिरीक्ष्यनिर्वेदंयात्यकस्मान्मृतममृतम- मुंवीक्ष्यहर्षप्रयाति॥स्मृत्वाप्येतस्यजंतो- निधनमसुयुतिभाषततेनसाकंसत्येवंज्ञा- तिभूयोल्पकसमयवशात्सत्यतावामृषा- स्वम्॥३५॥ अथैतदेव सोदाहरणं निरूपयति-जीवंतमिति । इह लोके जागत्यवस्थायां जीवंतं स्वजनं अथे- दानी स्वमकाले मृतं निरीक्ष्य अकस्मान्निदं दुः- रवं याति प्रामोति अथवा जाग्रत्यां मृत विपन्न स्वजनं स्वमकाले अमृतं जीवंतं वीक्ष्य हर्ष याति । अनेन जायल्यनुभूतं स्वमकाले मृषा भवतीति दार्शतम् । अथ बत्र तदस्मरणेनान्यथा प्रतीयतइति। वेत्तत्राह-स्मृत्वेति । एतस्यां जागत्यां मृतस्य जं.
श्रीमच्छंकराचार्यकृतशतश्लोकी तोनिधनं स्मृत्वापि अथवा जीवतः असुयुति जी. वनं स्मृत्वापि तेन सह भाषते वार्ताः कथयति तथा मृतेन सह दीनालापं करोति तथा च स्वम- कालेपि स्मरणवतोपि मृषात्वप्रतीतिर्भवतीति सूचि- तं । एवं सति उअयथामिथ्यानुभूतोसत्यामपि स्वभे मृषात्वप्रतीतिर्जाग्रत्यां च सत्यत्वप्रतीतिर्लोकानां क- थमुत्पद्यतइत्यतआह-भूयइति । भूयोल्पकसमयब- शात् सत्यता मृषात्वं वा भाति भासते न तात्वि. कं भूयांश्वाल्पकश्व तौ च तौ समयौ च यव- शात् जागृतिश्विरकालमस्ति ॥ तत्र दृढानुसंधानात् सत्यत्वं भासते स्वमस्तु अल्पसमयदृश्योस्यतोत्र भू- पात्वं भासते । विचार्यमाणे तावदुभयोरपि अस- त्यत्वमित्यर्थः ॥ ३५ ॥ स्वाप्नस्त्रीसंगसौख्यादपिभृशमसतोयाच रेतश्युतिःस्यात्सादृश्यात्तदेतत्स्फुरति जगदसत्कारणंसत्यकल्पम्॥स्वप्नेसत्यः पुमान्स्यायुवतिरिहमृपैवानयोःसंयुति- श्वप्रातःशुक्रेणवस्त्रोपहतिरितियतःकल्प- नामूलमेतत् ॥ ३६॥ ।
मानंदगिरिकृतटीकासमेता इदानीमसदुपादानकं विश्वमपि सदिति सदृष्टांतमाह- स्वामेति । असतः अविद्यमानादपि स्वामस्त्रीसंग- सौख्याद्रेतश्च्युतिः शुक्रद्रावोभवति । सादृश्यायावहा- रिकसत्यात्तद्वदसत्कारणं जगत् सत्यकल्पं स्फुरति ना- मैकदेशेनामग्रहणवत् । असत् सदसद्विलक्षणं अ. विद्याख्यं कारणं यस्य तदसत्कारणं एवंविधं जगत्स- त्यकल्प स्फुरति नतु सत्यं सुषुप्तावस्तमितत्वात् अथ दृष्टांतेन दार्टीतिकसिद्धिमाह-स्वमइति ।स्वमे पुमान् स- त्यः युवती स्त्री मृषा च परमनयोः स्त्रीपुरुषयोः सं. युतिः सुरतमपि मृषा तथा प्रातर्जायदवस्थायांचक्रेण रेतसा वस्त्रोपहतिः प्रत्यक्षसिद्धा । एवमात्मा सत्यः स्त्री माया असत्या तयोर्युतिः संबंधः अध्यासिकः अतएव मृषा । तस्माज्जातं जगत् व्यवहारे सत्यं यतः सर्व कल्पनामूलं काल्पनिकमित्यर्थः ॥ ३६॥ पशंत्याराममस्यप्रतिदिवसममीजंत- वःस्वापकालेपश्यत्येनंनकश्चित्करणग- णमृतेमाययाक्रीडमानम् ॥ जाग्रत्यर्थ- व्रजानामथचतनुभृतांभासकंचालक
श्रीमच्छंकराचार्यकृतशतश्लोकी
वानोजानीतेसुषुप्तौपरमसुखमयंकश्चि-
दाश्चर्यमेतत् ॥ ३७॥
अथावस्थात्रयेप्यनुभूयमानं आत्मानं केपि न विचि-
न्वंतीत्याश्वर्यमाह-पश्यंतीति । अमी जंतवःजीवाःप्र.
तिदिवसं स्वापकाले अस्यपरमात्मनआरामं क्रीडांप-
श्यंति परत्वेनमात्मानं कश्चिन्न पश्यति ।किभूतमात्मानं-
करणगणमृते बाळेंद्रियव्यतिरेकेणापि मायया स्वामदे-
हेंद्रियादिरूपया कीडमानं । अथास्तां तावन्मौढ्यदशा-
स्वभावस्थायां जायत्यामपि तनुभृतां चालकंतथार्थ-
ब्रजानां आसकं प्रकाशकंनिरंतरं न पश्यति तथा सु-
षुप्तौ परमसुखमयं एवं विधं परमात्मानं केपि । न
जानंति इत्येतन्महदाश्चर्यमित्यर्थः ॥ ३७ ॥
स्वप्नेमंत्रोपदेशःश्रवणपरिचितःसत्यए-
पप्रबोधेस्वानादेवप्रसादादभिलषित-
फलंसत्यतांप्रातरेति ॥ सत्यप्राप्तिस्त्वस-
त्यादपिभवतितथाकिंचतत्स्वप्रकाशंये-
नेदंशातिसर्वचरमचरमथोच्चावचंदृश्य-
जातम्॥३८॥
आनंदगिरिकृतटीकासमेता ननु जायदवस्थायामपि स्वमदृष्टांतन मृषात्वे पोच्य- माने तस्यां गुरुमुखादुपनिषद्विचारादिना योब्रह्मबोधः सोपि मृषा भवति ततोब्रह्मापि वंध्यापुत्रवदसदूपं स्यादित्याशंक्याह-चमइति ॥ ३८॥ मध्यप्राणंसुषुप्तौस्वजनिमनुविशंत्यग्नि- सूर्यादयोमीवागायाःप्राणवायुंतदिह- निगदिताग्लानिरेषांनवायोः। तेश्योह- सावभासोनमइतिविदितःशुक्तिकारौ- प्यकल्पःप्राणायामवतंततिशिरसि- मतंस्वात्मलब्धौनचान्यत् ॥ ३९॥ एवं स्वमनिर्देशेन जगन्मिथ्यात्वं निरूप्येदानी जगत्स- त्यत्वाभिव्यंजकायां जाग्रत्यामपि तन्मिथ्यात्वं निरु- पयति-मध्यप्राणमिति अमी अग्निसूर्यादयोवागादीद्रि यदेवताः सुषुमौ तृतीयावस्थायां मध्यमं प्राणं वि- राजमनुविशंति किंभूतं विराजं स्वजनि स्वस्य जनिर्य- स्मिन् सतथा स्वोत्पादकं "मुरवादिद्रश्वाग्निश्चेति, त- था-"चक्षोःसूर्योअजायतेति” श्रुतेः। कार्यजातस्य का- रणे प्रबेशोयुक्तएवेत्यर्थः । तथा बागाद्याः इंद्रियगणाः
५६
श्रीमच्छंकराचार्यकृतशतश्लोकी
सुषुप्तौ प्राणवायुं इंद्रसंज्ञ अनुविशंति तत्तस्मात्कार-
णादेषां साधिदेवतानामिद्रियाणां ग्लानिरस्तमयः नि-
गदिता उपनिषत्प्रतिपादिता परंतु स्थूलसूक्ष्मप्रपंचल.
यरूपायां सुषुप्तावपि प्राणवायोरस्तमयोनास्ति यतः
मुषुप्तौ श्वासरूपेण प्रत्यक्षतउपलभ्यमानत्वात् । अ-
थ जाग्रत्यामपि चक्षुरादिभ्योयोदृश्यावभासोदृश्यानां
रूपरसादीनां प्रतिभासः सचमः। न तात्विकइति विदितः
अथ धमे दृष्टांतमाह-शुक्तिकेति । यथाशुक्त्यवच्छिन्ने
धिकरणे रौप्यपातिक्षासिकं प्रतीयते तद्ब्रह्मण्यधिकरणे
नामरूपात्मकं विश्वं प्रातिभासिकं। तस्मात्कारणादव-
स्थात्रयेपि नास्तमितंप्राणायामव्रतं स्वात्मलब्धौ श्रुति-
शिरसि मतं नान्यच्चक्षुरादिव्रतं तस्यावस्था प्रयेप्यात्म-
।
लब्धावशक्तत्वात् ।। ३९॥
॥
नोकस्मादामेधःस्पृशतिचदहनःकिंतु
शुष्कंनिदाघादा,चेतोनुबंधैःकृतसुकृत-
मपिस्वोक्तकर्मप्रजाथैः ॥ तहज्ज्ञानाग्नि-
रेतत्स्पृशतिनसहसाकिंतुवैराग्यशुष्कंत-
स्माछुद्धोविरागःप्रथममभिहितस्तेन-
विज्ञानसिद्धिः॥ ४०॥
आनंदगिरिकृतटीकासमेता अथ वैराग्ययोगेनैव ज्ञानसिद्धिरित्यनुवदति-नोकस्मा- दिति। आई जलयुक्तं एधः काष्ठं दहनोग्निरकस्मान्न स्पृ. शति किंतु निदाघशुष्कमेव स्पृशति । तद्वदनुबंधैर्भार्या- दिविषयैराई चेतः स्वोक्तकर्मप्रजाथैः कृतसुकतमपि ज्ञा न निः न स्पृशति । स्वोक्तकर्म स्वाश्रमवर्णोचितं प्रजाः पुत्राः पुत्रेणैव जय्योनान्येन कर्मणेति तथा नापुत्रस्य. लोकोस्तीतिश्रुतेः तथा अर्थैः अर्थसाध्यैर्यज्ञदानादिभिः कतसुकृतमपीत्यर्थः । किंतु वैराग्यशुष्कमेव चेतः ज्ञाना- ग्निः स्पृशति तस्मात्कारणात् शुद्धोविरागः वांतत्यक्ता- न्नवत् विषयवितृष्णता प्रथमं आवश्यकत्वेनाभिहित: प्रोक्तः । अनेन कृत्वा विज्ञानसिद्धिर्भवति । अत्रश्रुतिः- "नकर्मणानप्रजयाधनेनत्यागेनैकेअमृतत्वमानशुः परेण- नाकंनिहितंगुहायांविभाजतेतद्यतयोविशंति" || भाष्यं- एकेन त्यागेन वैराग्येण यतयः अमृतत्वं आनशुः प्राप्ताः परंतु न कर्मणा फलापेक्षेण न प्रजया पुत्रेण न धनेन दानादिना। अथामृतत्वं निरूपयति-परेण परब्रह्मणा नाकं स्वांशीभूनं गुहायां हृद्याकाशे यन्निहितं नि- धिवत् गोपितं वस्तु यच्चार्थप्रकाशकत्वेन भ्राजते स्फुरति तदमृतं यतयोविशंति वैराग्यज्ञानगर्भमिति यः क. श्वित्पठति ॥ ४० ॥ ।
५८ । श्रीमच्छंकराचार्यकृतशतोको यत्किंचिन्नामरूपात्मकमिदमसदेवोदि- तंभातिभूमौयेनानेकप्रकारैर्व्यवहरति जगयेनतेनेश्वरेण॥तपच्छादनीयं निभृतरशनयायवदेव द्विजिकरतेनत्यक्ते- नोज्यं सुखमनतिशयंमागृधोन्यद्धना- घम्॥४१॥ अथ प्रागुक्तोपदेशकमे ईशावास्योपनिषदुक्तां श्रुति संवादयन्नाह यत्किंचिदिति। यत्किंचिदसदेवोदितं ना. मरूपात्मकमिदं शुक्तिकारजतवदिदंत्वेन भूमौ येन भा- सते तथा गच्छतीति जगद्येन कृत्वा अनेकप्रकारैर्व्यवह- रति तेनेश्वरेणेदं तद्वत्पच्छादनीयं आच्छादनीयं । किंवत् यद्वन्निभृतरशनया निश्चयेन ज्ञातया रजवा एषः प्रा- तिभासकत्वेन ज्ञातः द्विजिट्वः सर्पः आच्छाद्यते तद्वजग. द्भासकत्वेन चालकत्वेन च संविद्रूपत्वेन निश्चितेनपरमा- मनाजगदाच्छादनीयं तेन जगदाभासेन त्यक्तेन दूरनो- पास्तेन केवलाभावे प्राप्ते अनतिशयमत्युत्कृष्टं आत्यंति- कं सुखं भोज्यं परंतु अन्यद्विलक्षणं धनादिकं विषय. सुखं मागृधः मानिकांक्षयेति उपदेशत्रयं । श्रुतिश्च- "ईशावास्य मिद सर्वयकिंचिजगत्यांजगत् । तेनत्यक्तेन
आनंदगिरिकृतटीकासमेता
मुंजीथामागृधःकस्यस्विद्धनंगाभाष्यं-इदं पुरोभासमा
नं यत्किंचिन्नामरूपात्मकं सर्वमाब्रह्मस्तंबपर्यंतं गच्छती-
ति जगत् व्यवहारवत् जगत्यां पृथिव्यां यद्भाति तत् ईष्टे
इति ईट् तेन ईशा सर्वोत्कृष्टेन परमात्मना कत्वावास्यं ।
वसआच्छादने आच्छादनीयं जगद्भासकत्वेन चालक-
त्वेन ज्ञातेन परब्रह्मणा प्रातिभासिकं जगदान्च्छायं
तुच्छत्वेन ज्ञेयं ।एवं तेन जगदाभासेनत्यक्तेन दूरतोपास्ते-
नावशिष्टमात्मस्वरूममानंदात्मकं सुंजीथाः परंतु धन-
विषयसुरवं मागृधः गृधुअभिकांक्षायां इदं कस्य स्वित्
किमुपादानमिति ज्ञात्वा माभिकांक्षय ॥४१॥
जीवन्मुक्तिर्मुमुक्षोःप्रथममथततोमु-
क्तिरात्यंतिकीचतेश्यासज्ञानयोगाद्गुरुच-
रणकृपापांगसंगेनलब्धात् ॥अभ्यासो-
पिद्विधास्यादधिकरणवशादेहिकोमान-
सश्चशारीरस्त्वासनायोत्युपरतिरपरो-
ज्ञानयोगःपरोक्तः॥४२॥
अथ द्विधामोक्षोपायमाह-जीवन्मुक्तिरिति । उपर-
तिः प्रपंचोपशमः शेषं स्पष्टम् ॥ ४२ ॥
६० श्रीमच्छंकराचार्यकृतशतश्लोकी सर्वानुन्मूल्यकामान्ढदिकृतनिलया- क्षिप्तशंकूनिवोच्चैीर्यदेहाभिमानस्स्य- जतिचपलतामात्मदत्तावधानः॥यात्यू- वस्थानमुच्चैःकृतमुकतारोनाडिकाभि- विचित्रनीलश्वेतारुणाभिःस्रवदमृता- रंगृह्यमाणात्मसौख्यः॥ १३ ॥ अथ प्रथममुद्दिष्टां जीवन्मुक्तिमाह-सर्वानिति । दृदि कतनिलयाननेककल्पपर्यंत संस्काररूपेण दिस्थि- तान् सर्वान्कामान् मनोरथानुन्मूल्य समूलमुरवातान् कृत्वा दीर्यदेहाभिमानः सन् चपलतां त्यजति अ- हममताभिमानमुत्सृज्य मनोवेगं त्यजति । किंततः आत्मदत्तावधानः आत्मनि दत्तं अवधानं अविर- तानुसंधानं येन तथा । एवं तथाभूतः सन्नुच्चैरू. स्थानं सर्वोत्कृष्टं ब्रह्मरंध्रे सुषुम्ना विवरेण या. नि । किं भूतं स्थानं नीलश्वेतारुणाजिर्नाडिकाशिवि- चित्रं सहस्रदलं चक्रं । पुनः किंभूतः स्वदमृत- भरं कुंडलीमुखनिजेदे नामृतं सवतीत्यर्थः । किंभू- तोजीवन्मुक्तः कृतसुकतभरः कृतानेकपुण्यपुंजः पुनः किंभूतः गृह्यमाणात्मसौख्यः ब्रह्मानंदवानस्मीति किं. ।
- आनंदगिरिकृतटीकासमेता ६१ चिदुर्वरिताहंकारशेषइत्यर्थः । अत्रश्रुतिः-कंडिकाच- तुष्टयं-"यदासर्वेप्रमुच्यतेकामायेस्यदिस्थिताः।अथ- मोमृतोभवत्यत्रब्रह्मसमश्नुते १ तद्यथाहिनिल्वयनीव- ल्मीकेमृताप्रत्यस्ताशयीतैवमेवेद ५शरीर ५ शेतेथायम- नस्थिकोशरीरः प्राज्ञआत्माब्रह्मैवलोकएवसनाडितिहो. वाचयाज्ञावल्क्यः २ तदप्यतेश्लोकाः भवंति अणु:- पंथाविततःपुराणोमाङस्पृष्टोनुवित्तोमयैव । तेनधीराअ- पियंतिब्रह्मविदेउत्कम्यस्वर्गलोकमितोविमुक्ता ३ तस्मि- न् शुक्लमुतनीलमाः पिंगल हरितलोहितंचाएषवःपं- थाब्रह्मणाहानुवित्तस्तेनेतिब्रह्मवित्तैजसः पुण्यकच्चा ४ भाष्यं-अस्य मुमुक्षोः पुरुषस्य हृदि स्थिताः सर्वे कामाः संकल्पाः यदा प्रमुच्यते शांताः भवंति । अथेत्यनंतरं तदानीमित्यर्थः ममरणधर्मात्मकोपि अमृतीमुक्तोभवति किंपुनर्देवादिः । अथामृतत्वमा- ह-अत्रेति । अस्मिन् देहे वर्तमानएव ब्रह्मसमभुते परमानंदमनुभवति । अथ शरीरे वर्तमानः सन् तदभिमानशून्यइति सदृष्टांतमाह-तद्यथेति । अहे: सर्पस्य निर्बयनी निर्मीकः कंचुकं मृतानिर्जीवा बल्मीके सर्पस्थाने प्रक्षिप्ता सती शयीत निश्चेष्ट- ६
श्रीमच्छंकराचार्यकृतशतश्लोकी
तया स्थिता दूरात्सर्पइव दृश्यते परंतु सर्पकृत्यं न
करोति एवं । तद्वत् इदमयं पुरुषः शरीरमेवाधिष्ठाय
शते निश्चेष्टतया अवतिष्ठते अथेत्यनंतरं अयं प्राज्ञः
आत्मा जीवः अनस्थिकः अस्थिरूपं स्थूलदेह
तदभिमानशून्यः । तथा अशरीरः शरीरं सूक्ष्मश-
रीरं तदभिमानशून्यश्च भोसम्राडितिसंबुध्य या-
ज्ञवल्क्योजनकं प्रत्युवाच तदप्येते श्लोकाइति ।
अवार्थे श्लोकाः प्रसिद्धमंत्राः संति तानेव याज्ञ-
वल्क्यआह अणुरिति । अणुः सूक्ष्मोमार्गः सुषु-
म्नामार्गविवरोपलक्षितः विततोविशिष्टतरः श्रेष्ठतमः
एवं विधोमार्गः मा ५ स्पृष्टः मम गुरुमुखात् कर्णाधमा.
नोजातः अनंतरं मयैव अनुवित्तः अनुष्ठितः तेन
मार्गेण धीराः ब्रह्मविदः पुरुषाः अपि इतः प्रपं.
चाद्विमुक्ताः संतः स्वर्गलोकं ब्रह्मरंध्राख्यं स्थानं
यांति प्रामुवंति तस्मिन्विचित्रवणांनाड्यः संतीत्या-
ह-शुक्लमित्यादि । एवमध्यात्मरीत्या ख्यातं केपि
अधिदेविकस्थित्या विवादिलोकप्राप्तये कुर्वति ।
एवमेषः
पंथा मार्गः ब्रह्मणा मत्तः पूर्व अनु-
वित्तोनुष्ठितः । तेनैव मार्गेण ब्रह्मवित्तजसः वि-
राजत्वं प्राप्तः सुकदेतिनान्यइत्यर्थः ॥ ४३ ॥
आनंदगिरिकृतटीकासमेता प्रापश्यविश्वमात्मेत्ययमिहपुरुषःशोक- मोहायतीतःशुक्रब्रह्माध्यगछत्सखलु सकलवित्सर्वसिध्यास्पदंहि ॥ विस्मृत्य- स्थूलसूक्ष्मप्रभृतिवपुरसौसर्वसंकल्पशू- न्योजीवन्मुक्तस्तुरीयंपदमधिगतवान्पु- ण्यपापैविहीनः॥४४॥ अस्मिन्नर्थे ईशावास्योपनिषदुक्तांश्रुतिसंवादयति ।। अयं पुरुषदहास्मिन् देहे वर्तमानः सन् विश्वं आत्मेति प्रापश्यत् पश्यतिस्म विश्वं विश्वाकारेण नापश्यतिकत्वा- त्माकारेणैव । किंभूतः शोकमोहायतीतः एवंविधः सन् शुक्र शबलं ब्रह्म हिरण्यगर्भाख्यं अध्यगच्छत् अधिग- तवान् एवं हिरण्यगर्भत्वं प्राप्तः सकलवित्सर्वज्ञोजातः। तथा सर्वसिद्धीनामणिमाद्यष्टानां आस्पदं स्थानं च- जातः तथासौ पुरुषः स्थूलसूक्ष्मप्रभृति वपुर्विस्मृत्य सर्व- संकल्पशून्यः सन् तुरीयं पदमधिगतवान् आत्मसुरखमनु- भवतिस्म । ततः पुण्यपाविहीनः सकलकर्मातीतः। अत्र- श्रुतिः-सार्धकंडिका-“यस्मिन्त्सर्वाणिभूतान्यात्मैवाभू- द्विजानतः । तत्रकोमोहःकःशोकएकत्वमनुपश्यतः। स- पर्यगाच्छुक्रमकायमब्रह्ममस्माविरशुद्धमपापविद्धम्" ।
श्रीमच्छंकराचार्यकृतशतश्लोकी भाष्यं-यस्मिन्काले विजानतोविज्ञातवतः पुरुषस्य स. र्वभूतानि आत्मैवाभूत्सकलं ब्रह्मैवाभूत् तत्र तस्मिन्काले कोमोहः किमज्ञानं तथा तन्मूलः शोकः कः । नकोपी- त्यर्थः किंभूतस्यविजानतः एकत्वमभेदमनुपश्यतः सर्वत्रै कत्वभावनयैव विज्ञातस्वरूपइत्यर्थः । एवं सजीव- न्मुक्तः शुक्र शबलं हिरण्यगर्भस्वरूपं पर्यगात् प्राप्तवान्। किंभूतं शुक्र अपापविद्धं पापमहंकारस्तेनास्पृष्टं अतएव शुद्धमपि प्राप्तवानित्यर्थः । पुनः किंभूतं अस्माविरं स्ना- यवः शिरास्तत्स्वरूपं स्थूलदेहं तस्मादतीतमस्माविरं तथा अवणं व्रणं चिह्न सूक्ष्मभूतेंद्रियप्राणावस्थात्मकं लिंग- देहं तस्मादप्यतीतमेवं चतुर्थे महाकारणे देहे वर्तमान- मित्यर्थः ॥ ४४ ॥ यःसत्वाकारटत्तौप्रतिफलतियुवादेहमा- वाटतोपितद्धभैर्बाल्यवाादिभिरनुप- हतःप्राणआविर्वभूव॥श्रेयान्साध्यस्त- मेतंसुनिपुणमतयःसत्यसंकल्पनाजो- प्यभ्यासाद्देवयंतःपरिणतमनसासाक- मूव॑नयंति॥४५॥ अथ जीवन्मुक्तस्य मनः प्राणाऊर्ध्वगच्छंतइत्येत- स्मिन्नर्थे ऋक्शाखीयां श्रुति संवादयति यति ।
आनंदगिरिकृत टीकास मेवा
यआत्मा सत्वाकारटत्तौ प्रतिफलति सयुवा प्राणः
आविर्बभूव सत्वगुणोपपन्नोजीवइत्यर्थः । सदेहमा-
वाटतोपि बाल्यवाादिभिस्तद्धभैरनुपहतः सन् श्रे-
यान् कल्याणरूपस्तथा साध्यः साधयितुं उत्तमां-
गति प्रापयितुं योग्यः तमेतं प्राणं सुनिपुणमतयः
कुशलबुद्धयः सत्ये परब्रह्मणि संकल्पोमनोगतिर्येषां
ते तथाविधाः पूर्वोक्तादभ्यासाद्देवत्वं प्राप्नुमिच्छंतः
परिणतमनसा विविक्तेन मनसा सह ऊर्ध्वं नयंति।
अत्रश्रुतिःतृतीयाष्टके "युवासुवासाःपरिवीतआगात्सउ-
श्रेयान्भवतिजायमानः । तधीरासःकवयउन्नयंतिस्वा-
ध्यो ३ मनसादेवयंतः।" भाष्यं-बाल्यवार्धकाचैदह-
विकारविरहितोयुवा मुख्यः प्राणः सुष्टुवासः प्राव-
रणं यस्य सत्वाकारांतःकरणदत्तिप्रतिबिंबितः परि-
वीतः शरीरातः सन्नगात् जीवदशां प्राप्तः उ इति
निश्चयेन सजायमानः प्रादुर्भूतमात्रः सन् श्रेयान्
सत्कर्मनिरतोभवति इति स्वाध्यः सुखेनाराध्यः तमे-
व धीरं धीरासः दृढव्रताः कवयः क्रांतदशिनोज्ञा-
निनः देवयंतोदेवत्वं प्राप्नुमिच्छंतः मनसा सह उन्न-
यंति सुषुम्नामार्गेण ऊर्ध्वं नयंति ब्रह्मरंध्र प्राप.
यंति ॥ ४५ ॥
श्रीमच्छंकराचार्यकृतशतश्लोकी प्रायोकामोस्तकामोनिरतिशयसुखा- यात्मकामस्तदासौतत्प्राप्तावाप्तकामः स्थितचरमदशस्तस्यदेहावसाने ॥ प्रा- णानैवोत्रमंतिकमविरतिमिताः स्वस्व- हेतौतदानींकायंजीवोविलौनोलवण- भिवजलेखंडआत्मैवपश्चात्॥४६॥ अथ निर्वाणमुक्तिमाह-प्रायइति । प्राङ् निरूपि- तोजीवन्मुक्तः पुरुषः प्रायः बाहुल्येन अकामएव तिष्ठति यतोस्तकामः आत्माकारस्य मनसः विक्षे. पाभावात् । परंतु निरतिशयसुखं परमानंदः तदर्थ आत्मकामः आत्माकारः कामोयस्य सतथा अथ तत्याप्ती आनकामः परमानंदेक्षुद्रानंदानामंतर्भूतत्वात्। तदुक्तं भगवता-"यलब्ध्वाचापरलाभमन्यतेनाधिक- ततः” किंभूतः स्थितचरमदशः स्थिता चरमा प्रां- त्यादशा यस्य । अथ दशातीतत्वमाह-तस्येति । तदस्य पुरुषस्य देहावसाने प्राप्ने सति प्राणा: नैव उनमंति उक्रमणं हि पुर्नहारंभाय कल्पते प्रकते तु तथा न भवति किंतु स्वस्वहेतौ स्वकारणे क.
। भानंदगिरिकृतटीकासमेता मविरति क्रमेणनाशं इताः प्राप्ताः तदानी क्वायं जी. वदशापन्नः क्वास्ति न कापीत्यर्थः।यतोजले लवणमिव विलीनः लयं प्राप्तः तदा पश्चादरखंड आत्मैव तिष्ठ- ति । अवच्छेदकाभावात् । “ब्रह्मैव सन्ब्रह्माप्येती. ति" श्रुतेः । जीवः प्रथमंब्रह्मैवासीत् मध्ये जीवद. शां प्राप्तः पुनः ब्रह्मत्वमेवामोतीत्यर्थः ॥ ४६॥ पिंडीभूतंयदंतर्जलनिधिसलिलंयातित- सैंधवाख्यंभूयःप्रक्षिप्तमस्मिन्विलयमु- पगतंनामरूपंजहाति ॥ प्राज्ञस्तत्परा- स्मन्यथाजतिलयंतस्यचेतोहिमांशौवा- गग्नौचक्षुरपयसिपुनरसृग्रेतसीदिक्षु कर्णौ ॥ १७॥ अथ लवणमिवजलइत्येतदृष्टांतविशदयन्नाह स्पष्टो- र्थः । अत्रश्रुतिः-"यथासैंधवविल्यउदकेप्राप्तउदक- मेवानुविलीयेतनहास्योद्हणायैवस्याद्यतोयतस्त्वाददी- तलवणमेवैवंवाअरेइदमहद्भूतमनंतमपारंविज्ञानघनएवै. तेभ्योभूतभ्यःसमुत्थायतानेवानुविनश्यतिनप्रेत्यसंज्ञा - स्तीत्यरेब्रवीमीतिहोवाचयाज्ञवल्क्यः भाष्यं-मैत्रेयी श्रीमच्छंकराचार्यकृतशतोको ज्येष्ठपनी प्रति याज्ञवल्क्यउवाच । --अरेमैत्रेयि सैं. धवविल्यः सैंधवपिंडउदके प्रास्तः प्रक्षिप्तः सन्ननु विलीयेत विलीनः सन्नुदकत्वमेव प्रामोति न प्र- कारांतरं । ह इति निश्चयेन पुनरस्य सैंधवस्य उद्घहणाय नैव स्थात् यत्सैंधवं जले प्रक्षिप्तं तस्य उत् ऊर्ध्वग्रहणं बहिनिष्कासनं तदर्थं नैव स्यात् पुनस्तस्य नैव प्राप्तिः । अथ तदेवाह-तु पुनः लवणं क्षारोदकमेव लक्ष्यते एवममुना प्रकारेण इदं महद्भूतं अनंतं अक्षोभ्यं अपारं अमर्याद वै. राजरूपं विज्ञानघने परमात्मस्वरूपएव एतेभ्यो- भूतेभ्यः स्वकारणेभ्यः समुत्थाय उदयं प्राप्य ता- न्येव भूतानि अनुलक्षीकृत्य विनश्यति । तस्य न प्रेत्यसंज्ञास्ति इति-प्रेत्य नाशं प्राप्य संज्ञा नास्ती- ति । स्वकारणे लीयंतइत्यत्र आतभागयाज्ञवल्क्य योः संवादश्रुतिमुक्तवान् । तथा च श्रुतिः-"याज्ञव ल्क्यइतिहोवाच । यत्रास्य पुरुषस्यमृतस्यानिवाग. प्येतिवातंप्राणश्चक्षुरादित्यमनश्चंद्रदिशःश्रोत्रंपृथिवी. शरीरमाकाशमात्मौषधीौमानिवनस्पतीन्केशाअप्सु- लोहितंचरेतश्वनिधीयतेक्वायंतदापुरुषोभवतीत्याहरेसौ-
आनंदगिरिकृतटीकासमेता
म्यहस्तं आहर” भाष्यं-जारत्कारवआर्तभागोयाज्ञव-
ल्क्यं प्रति वदति भो याज्ञवल्क्य अस्य जीव-
न्मुक्तस्य पुरुषस्य मृतस्य त्यक्तदेहस्य वागग्निं स्वा-
धिदैवतं अप्येति प्राविशति चक्षुरादित्यं प्रविशति-
मनश्चंद्रं दिशः श्रोत्रं प्रविशतीत्यधिदैवतं प्रवेशउक्तः।
अथ शरीरं पृथिवी खकारणभूतां प्रविशति आत्मा द-
याकाशे प्रविशति लोमानि कंठाधःस्थानि औष-
धीः प्रविशंति केशाः मूर्धन्याश्ववनस्पतीन् रक्षान्य-
विशंति रेतः शुक्रलोहितंच अप्सु प्रविशति तदा
क्वायं पुरुषोभवतीति प्राप्तसंकेतोयाज्ञवल्क्योवदति
आहरेति भोः सौम्य आर्तभागहस्तं आहरेति हस्तं
देहीत्यर्थः ॥ ४७ ॥
सीरांतर्यदाज्यंमधुरिमविदितंतत्पृथ-
भूतमस्माद्भूतेषुब्रह्मतहव्यवहृतिविदि-
तंश्रांतविश्रांतिबीजम्।यंलब्ध्वालाम-
न्यत्तृणमिवमनुतेयत्रनोदेतिमीतिःसां-
द्रानंदयदंतःस्फुरतितदमृतंविध्यतोत्यन्य-
दार्तम् ॥४८॥
श्रीमच्छंकराचार्यकृतशतश्लोकी अथ सर्व विश्वं आत्मसंबंधेनैवचलतीत्याह-क्षीरांत- रिति यद्वक्षीरांतः दुग्धमध्ये आज्यंघृतमस्तीति म- धुरिमविदितं मधुरिम्णा माधुर्येण विदितं ज्ञातं अ- थ तहृतं अस्मात्क्षीरात्पृथक्भूतं भिन्नं मथनाज्ज्ञातं य. तः पुनः घृतं क्षीरांतनिक्षिप्सदुग्धत्वं नाप्रोति तद्व- नेषु ब्रह्मास्तीति व्यवहतिः व्यवहारः तेन विदितं तञ्च भूतापेक्षया भिन्नं । यतःश्रांतविश्रांतिबीजं जा- अत्यां श्रांतस्य पुरुषस्य सुषुप्तौ या विश्रांतिः योवि- श्रामः तस्य बीजं कारणं यतःयं लब्ध्वा प्राणी ला- भमन्यत्तूणमिव मनुते तथा यत्र यस्मिन्ब्रह्मणि भीतिः नोदेति अद्वैतत्वात् । “द्वितीयाद्वै भयं भवतीतिश्रुतेः” यतः सुषुप्तौस्थूलसूक्ष्मप्रपंचलये मनः केवलं आत्मा- कारं भवति एवं सांद्रानंदं वस्तु यदंतः स्फुरति त- दमृतं विद्धि जानीहि अतोन्यपदार्थजातं आत बा- धितं शुक्तिकारजतवदुत्तरक्षणे बाथदर्शनात् । अयम- र्थः केवलमुदकरूपे दुग्धे उदकाद्विलक्षणं यन्माधु. यं । तदंतर्गतस्य आज्यस्यैव · संभवति एवमसद्रूपे देहे चलनादिव्यापारस्तथेंद्रियेष्वर्थप्रकाशः एतदात्म- कृतमेव न शरीरकतं यतोमृतशरीरे तथात्वं न ह. ।
आनंदगिरिकृतटीकासमेता ७१ श्यते अनेन तेजोमयोमृतमयस्तथांतर्याम्यमृतइत्यादि- श्रुतीनांविषयोदर्शितः ॥ ४८ ॥ ७ ॥ ओतःप्रोतश्चतंतुष्विहविततपटश्चित्रव- णेषुचित्रस्तस्मिजिज्ञास्यमानेननुभ- वतिपटःसूत्रमात्रावशेषः॥ तद्दविश्ववि- चित्रनगनगरनरग्रामपश्वादिरूपंप्रोतं- वैराजरूपेसबियतितदपिब्रह्मणिप्रोत- मोतम् ॥४९॥ अथ इदं विश्वं परंपरया ब्रह्मण्येव ओतं प्रोतमि- ति दर्शयति-ओतइति । इह लोके विततोविस्तृतः पटः तंतुषु ओतः प्रोतोदृश्यते । किंभूतेषु तंतुष विचि- त्रवर्णेषु किंभूतः पटः विचित्रवर्णः तस्मिन्पटे जि- ज्ञास्यमानेसम्यविचार्यमाणे ननु निश्चयेनपटः सू- त्रमात्रावशेषोभवति ऊर्ध्वतंतुषुओतः तिर्यक्तंतुषुप्रोतः एवंविधोयः पदार्थः सपटसंज्ञां प्राप्तः परंतु तत्र सू. त्रव्यतिरेकेणान्यः कोपि पदार्थोनानुभूयते तद्वन्नग. नगरनरयामपश्वादिरूपं गुणकर्मविभागेन विचित्रं वि. श्वं वैराजरूपे ब्रह्मांडविग्रहे प्रोतं सच वैराजः वियति ।
७२ श्रीमच्छंकराचार्यकृतशतलाकी आकाशे प्रोतः तदपि वियत् ब्रह्मणि प्रोतं अनेन अक्षरं ब्रह्म प्रतिपादितं । अत्र श्रुतिः-"सहोवाचयदूर्व- गागिदिवोयदर्वाक । पृथिव्यायदंतराद्यावापृथिवीइमेय द्रुतंचभवच्चभविष्यच्चेत्याचक्षतेआकाशएवतदोतंचपोतं. चेतिकस्मिन्नुआकाशओतश्वप्रोतश्चेतिसहोवाचैतद्वैतद- क्षरंगाार्गब्राह्मणाअभिवदंत्यस्थूलमनण्वस्वमदीर्घम - लोहितमस्नेहमच्छायमतमोवाय्वनाकाशमसंगमस्पर्श- मगंधमरसमचक्षुष्कमश्रोत्रमवागमनोतेजस्कमप्राण- ममुखमनामगोत्रमजरममरमभयममृतमरजमशब्दम विटतमसंवतमपूर्वमनपरमनंतरमबाह्यंनतदश्भोतिकंचनत- दभोतिकश्वन"। भाप्यं-जनकसभायां याज्ञवल्क्येन सह विबदमानेषु ब्राह्मणेषु गर्गकन्या वाचक्नवी त यां पृष्टोयाज्ञवल्क्यस्तस्याः प्रश्नं अनुवदतिस्म सहोवाचेति-सयावल्क्यः ह इति निश्चित्य गार्गी प्रत्युवाच । -भोगार्गि त्वयैतत्पृष्टं तारेक दिवोयदू- र्व स्वर्गादप्युच्चं तथा पृथिव्याः सकाशात् यत् अर्वाक् अधोवर्तते तथा यदंतरा यन्मध्यइमे दृश्यमानेषुद्यावापृथिवी तथा यद्भूतं अतिक्रांत भवद्वर्तमानं भविष्यदागामि पदार्थमित्याचक्षते त- कस्मिन्नोतं प्रोतं चेति त्वयापृष्टे सति मयोत्तरितं ७३ । भानंदगिरिकृतटीकासमेता तदाकाशएवोतं च प्रोतं चेति । पुनः त्वया पृष्टं कस्मिन्वा आकाशओतश्च प्रोतश्च । तत्रोत्तरं श्रू. यतामित्याह-सहोवाचेति । जोगागि त्वया एतद्वै पृष्टं तर्हि ब्राह्मणाः ब्रह्मज्ञाः पुरुषाः एतदक्षरं अ. विनाशि ब्रह्म अभिवति तस्मिन्नक्षरे ब्रह्मणि आ- काशओतश्च प्रोतश्चेतिशेषः । तत्र किंभूतमक्षर- मिति यदि पृच्छसे नहि श्रूयतामित्याह-अस्थूल- मिति । स्थूलादि अणुमहद्दीर्घकवपरिमाणातीतं जा- त्यभिप्रायेणैकवचनं चतुर्विधत्वनिर्देशः अलोहित- मिति लोहितादिवर्णातीतं तथा अस्नेहं स्नेहश्चिक- णतागुणस्तद्रहितं । अच्छायममूर्त अनमस्तमोभाव- रूपाज्ञानमायाख्यं ततोप्यतीतं अवायुमनाकाशं ता- भ्यामतीतं असंगमसन्मीलितं अस्पर्श स्पर्शरहितं तथा अचक्षुष्कमित्यादितः इंद्रियरहितं अथ तद्गतं अधिदेवरूपं तेजोन भवतीत्यतेजस्कं नह इंद्रिय- चालकः प्राणोभविष्यतीति चेत्तदपिनिषेधयति अ- प्राणमिति । अमुख मुखरहितं नामगोत्ररहितं च अजरं जरातीतं च अमरणस्वभावं द्वितीयाभावात् अजयं अमृतं नित्यमुक्तस्वभावं अरजं गुणातीत लोकातीतं च अशब्द शब्दागोचरं अविवृत्तं विवर्तव ७ swered श्रीमच्छंकराचार्यकृतशतश्लोकी जितं असंतमवच्छेदरहितं । अपूर्वन विद्यते किं. चित्पूर्व यस्मात् अनपरं न विद्यते अपरं यस्मात् अनंतरं न विद्यते अंतरं अभ्यंतरं यस्य अबाह्यं न विद्यते बालावरणं यस्य एवं विधं यत्तत्कंचन कमपि न अश्नोति नांगीकुरुते असंगोदासीनत्वात् । तथा कश्चन तन्नाश्नोति व्यामोति अग्राह्यत्वात् ॥४९॥ रूपंरूपंप्रतीदंप्रतिफलनवशायातिरूप्यं प्रपेदेयकोद्रष्टाद्वितीयोभवतिचसलिले सर्वतोनंतरूपः ॥ इंद्रोमायाभिरास्तेश्रु- तिरितिवदतिव्यापकंब्रह्मतस्माज्जीवत्वं यात्यकस्मादतिविमलतरेबिंबितंबु - पाधौ॥५०॥ अथात्मनोबिंबप्रतिबिंबन्यायेन सर्वात्मकत्वमाह-रूपं- रूपमिति । अत्र प्रतिबिबविषयश्रुतित्रयमुपन्यस्तवान् इदं ब्रह्म प्रतिफलनवशाद्रूपंरूपं प्रति प्रातिरुप्यं प्रपेदे प्रतिरूपस्य भावः प्रातिरूप्यं । अत्रश्रुतिः-"दथ्यङाथर्व- णोश्विभ्यांउवाच । तदेतदृषिः पश्यन्नवोचत् सू- रूपंप्रतिरूपोबभूवेति । अत्रेयमाख्यायिका पर्व अश्विनौ देवभिषजावात्मज्ञानोपदेशार्थं दधीचिं आनंदमिरिकृतटीकासमेता प्रति गत्वा आवाभ्यामात्मविद्योपदेष्टव्येति ऊचतुः । तेनोत्तरितं क्षणांतरे उपदेष्यामीति । दधीचवाक्यं श्रुत्वा स्वगृहं गतौ तदंतरे इंद्रः समागत्य दधीचिं प्रत्युक्तवान् त्वयैतौ मदीयभिषजौ नोपदेष्टव्यौ अथ यदिमदीयवचनं न शृणोषि तर्हि तव शिरः पोथयिष्यामि इत्युक्त्वा निर्गतः पुनरश्विभ्यामागमनं कृतं ततस्तौ दधीचमुखाद्विदितदत्तांताबूचनुः भो दधीच क्षणांतरे उपदेक्ष्यामीति प्रतिज्ञा मिथ्या - वितुं नाहतीति तहीदानी तब शिरः स्थानांतरे नि- धायाश्वशिरस्त्वयि संयोज्यते तेन शिरसात्मवि- द्यामुपदिशस्त्र ततइंद्रआगत्याश्वशिरः छित्वा गमि- प्यति पुनस्तव स्वाभाविकं शिरः संयोजयिष्याव- इति नासत्यवचसा तथाविधायां सत्यां अश्वशि- रसा मधुकांडमुपदिष्टवान् इति पूर्वरत्तांतः। अथ दध्यड्ाथर्वण: अथर्वणस्यापत्यं आथर्वणः एवंविधो दधीचिः अश्विभ्यां यदुवाच तदेतदृषिर्वेदः पश्यन्नवोचत् तरिक रूपंरूपं प्रतिरूपोबभूवेति । प्रतिबिंबितं रूपं यस्येतिप्रतिरूपइत्यर्थः। अथ द्वितीयां श्रुतिमाह-एक. इति । च परं एकोद्रष्टा सलिले द्वितीयोभवति । पश्य- नीति द्रष्टा । अत्रश्श्रुतिः-"सलिलएकोद्रष्टाद्वितीयोभ- ७६ अत्र श्रीमच्छंकराचार्यकृतशतश्लोको वति” अथ तृतीयां श्रुति दर्शयति इंद्रइति –“इंद्रोमा- याभिःसर्वतोनंतरूप आस्ते ।" इंद्रः परमात्मा मा- याभिः कृत्वा सर्वतः अनंतरूपआस्ते । श्रुतिः-"इंद्रोमायाभिःपुरुरूपईयते” । पुरुरूपो बहुरूपः ईयते जायतइत्यमुना प्रकारेण श्रुतिः व्यापकं ब्रह्म वदति तदकस्माद्वृद्धापाधौ प्रतिबिंबितंसज्जीवत्वं या- ति किंभूते उपाधौ विमलतरे स्वच्छतरे ॥ ५० ॥ तज्ज्ञाःपश्यंतिबुद्यापरमबलवतोमाय- याक्तंपतंगंबुद्धावंतःसमुद्रेप्रतिफलितम- रीच्यास्पदंवेधसस्तम् ॥ यादृग्यावा- नुपाधिःप्रतिफलतितथाब्रह्मतस्मिन्यथा- स्यंप्राप्तादर्शानुरूपंप्रतिफलतियथाव- स्थितंतत्सदैवम् ॥ ५१ ॥ अथास्मिन्नर्थ ऋशाखीयां श्रुति संवादयन्नाह- तज्ज्ञाइति । पतनशीलः पतंगोजीवः तं पूर्वप्रतिपा- दितं जानंति ते तज्ज्ञाः शास्त्रविदः बुद्ध्या निश्चि- तांतःकरणरत्त्या पश्यति । अथ किरूपत्वेन पश्यं- तीत्याह- बुद्धाविति । बुद्धौ बुद्धिलक्षणे समुद्रे मानंदगिरिकतटीकासमेता अंतः वेधसः परमात्मनः प्रतिफलितमरीच्यास्पदं प्रतिफलिताः प्रतिबिंबिताये मरीचयः किरणाः तदेवास्पदं स्वरूपं यस्य स तथा । अथ तस्य पतनशीलत्वं प्रकटयन्नाह-परमेति । परमबलवतो- दुर्जयमायस्य वेधसोहिरण्यगर्भस्य मायया अतं व्याप्तं मुश्यमानं । अत्रश्रुतिः-"पतंगमक्तमसुरस्यमा- ययादापश्यंतिमनसाविपश्चितः । समुद्रेअंतःकवयो- विचक्षतेमरीचीनांपदमिच्छंतिवेधसः” । भाष्यं-असुर- स्य बलवतोडुरंतमायस्य परमात्मनोमाययाकं व्याप्नं अतएव पतंगं पतनशीलं जीवं विपश्चितोज्ञानिनो- मनसः संकल्पात्मकस्य हृदा बुद्धिरूपेण बुद्ध्येत्यर्थः। अंतः पश्यंति समुदनाद्यापनात्समुद्रः सएव बुद्धिल. क्षणः तस्मिन्प्रतिफलितानां वेधसः ईश्वरस्य चित्स्व- रूपाणां मरीचीनां पदं स्थानं इति कवयः कांतदर्शिनः विचक्षते वदंति पर इच्छंति उपासते च । अथ श्लोकोत्तरार्धन प्रतिबिंबप्रकारं विशदयन्नाह यादृ- गिति । यद्रूपोयादृक् यत्प्रमाणोयावान् एवंविधो- यउपाधिः बुद्धिलक्षणः तस्मिन् तथा ब्रह्म प्रतिफ- लति । यादृगिति सत्त्वरजस्तमोमयः यावानिति स्थूलः सूक्ष्मोदी?वर्तुलोवा यथोपाधिरस्ति तत्र तथैव स्वयं - ७८ श्रीमच्छंकराचार्यकृतशतलाको सदैव यथावस्थितं सत्पतिफलति स्वमर्यादां न जहा ति । अथ दृष्टांतमाह-यथेति । यथा आस्यं मुखं प्रा- मादर्शानुरूपं प्रतिफलति वर्तुलोदीर्घःस्थूलोलघुमलिनः शुद्धोवा यथा प्राप्नोयआदर्शो दर्पणस्तदनुरूपमेव प्रतिफलति परंतु स्वयं यथावस्थितमेव तिष्ठति तद्वत् ब्रह्मापि॥५१॥ एकोशानुस्तदर्थप्रतिफलनवशायस्त्वने- कोदकांतर्नानात्वंयात्युपाधिस्थितिगति- समतांचापितहत्परात्मा ॥ भूतेषूचाव- चेषुप्रतिफलितइवाभातितावत्स्वभावाव- छिन्नोयःपरंतुरफुटमनुपहतोभातिताव- स्वभावैः॥५२॥ अथैतदेवदृष्टांतान्तरेण द्रढयन्नाह-एकोभानुरिति । स्प- ष्टार्थमिदंपद्यम् ॥ ५२ ॥ यद्वत्पीयूषरश्मौदिनकरकिरणविवितैरे- तिसांद्रनाशनैशंतमिसंगृहगतमथवा मूठितैःकांस्यपात्रातदुद्धौपरात्मा- ७२ आनंदगिरिकृतटीकासमेताः तिभिरनुपदंबिांबताभिःसमंताद्भासते हींद्रियास्यप्रमृतिभिरनिशंरूपमुख्याःप- दार्थाः॥५३॥ ननु जलादिष्वर्कप्रतिबिंबः स्वकीयं रूपमेव प्रकटयति न पदार्थातरं एवमात्मप्रतिबिंबोजीवश्वेत्तर्हि कथं पदा थांतरज्ञापकोभवतीत्याशंक्य सदृष्टांतमाह-यद्वादेति । यद्वत्पीयूषरश्मौ जलमयचंद्रे दिनकरकिरणबिवितैः स- द्भिः सांद्र निबिडं नैशं रात्रिभवं तमिस्र अंधकारः नाशं एति प्रामोति । "आदित्येनचंद्रमानातीतिश्रुतेः" अथ वा कांस्यपादिनकरकिरणैच्छितैः सद्भि- गृहगतं गृहांतति तमिसं नाशमेतीति प्रतीतिसिद्धं । तबुद्धौ बिबिताभिः परमात्मयुतिभिः समंताद्रूपमुख्याः पदार्थाः भासते तहि निमीलितनेत्रस्यापि पदार्थ- भानमस्त्विति नत्राह-किंभूताभिः अनुपदं तत्कालं इंद्रियास्यप्रमृतिभिः इंद्रियास्यैः इंद्रियमुख्यैः प्रस. तिः प्रसारोयासांतास्ताभिः॥५३ पूर्णामानात्मभेदान्त्रिविधमिहपरंबुद्ध्यव- छिन्नमन्यत्तत्रैवासासमात्रंगगनमिव ।
স্পীনাথাব্দী जलेत्रिप्रकारं विभाति॥ अंशोवछिन्न- मस्मिन्प्रतिफलितमतःपाथसोंतर्वहिश्च पूर्णावच्छिन्नयोगेब्रजतिलयमविद्यास्व- कार्यैःसहैव ॥५४॥ अथोपाधावेव त्रेधा ब्रह्मप्रतीतिरस्तीत्याह-पूर्णात्मे ति । इहोपाधौ पूर्ण च आला च अनात्माचेति त्रि- विधं ब्रह्म भासते तत्रैकं परं पूर्ण उपाधे लाभ्यं- तरतोवर्तमानं । तथा द्वितीयं बुध्यवच्छिन्नं बुध्या- युतं । तथान्यतृतीयं तत्रैव बुद्धी आभासमा प्रतिबिंबवरूपं किमिव जले त्रिप्रकारं गगन मित्र विभाति । अथ प्रकारत्रयमाह-एक अंभोवच्छि- न्नं उदकारतं अपरं तस्मिन्नेवोदके प्रतिफलितं प्रतिबिंबितं तृतीयं अतोस्मात्पाथसः उदकासका- शात् अंतर्बहिश्चेति एवं पूर्णावच्छिन्नयोगेसति उपा- धिभूता विद्या स्वकार्यैः प्रतिबिंबादिभिः सह लयं नाशं याति अधिष्ठानसाक्षात्कारे आजासोनश्यतीत्यर्थः ॥ ॥ ५४॥ दृश्यंतेदारुनार्योयुगपदगणितास्तंभसू- त्रप्रयुक्ताः संगीतंदर्शयंत्योव्यवहतिम- आनंदगिरिकृतटीकासमेता परांलोकसिद्धांचसर्वाम् ॥ सर्वत्रानुप्र- विष्टादभिनवविभवायावदानुबंधात्त- इत्सूत्रात्मसंज्ञाझ्यवहरतिजगभूर्भुवःस्व- महांतम् ॥५५॥ अथ सूत्ररूपं सर्वात्मकं ब्रह्माह-दृश्यंतइति । युगपदेक. समयावच्छेदेन अगणिताअनेकाः दारुनार्यः काष्ठर- चिताः अचेतनाअपि नार्योनर्तक्यः संगीतं वायनृत्या- त्मकं दर्शयंत्योदृश्यते नसचेतनेषु तथात्वंयुक्तमित्या- शंक्याह-किंभूतानार्यः स्तंभसूत्रयुक्ताः शिल्पकेन र- चितं यत् स्तंभांतः सूत्रं तेन प्रयुक्ताः तालादिनिय- मेन चेष्टां प्रापिताः। अथ नकेवलं संगीतं दर्शयं. त्यः किंतु लोकसिद्धां सर्वा व्यवति च लोकप्र- सिद्धा सर्वाव्यवतिः व्यवहारः मल्लयुद्धशस्त्रसाध- नामृगयादिः तमपि दर्शयंत्यः तद्वत्सर्वत्रानुपविष्टात्मू- त्रात्मसंज्ञात्परमात्मनः प्रेरकात् भूर्भुवःस्वमहांतं जग- द्व्यवहरति किंभूतात् अभिनव विभवात् अतय॑साम- र्थात् पुनः किंभूतात् यावदर्थानुबंधात् यावानर्थः प्रयोजनं तावानेव संबंधोयस्मात् यस्मिन्ध्यवहारे या- वययोजनं तावदेवानुबध्नाति नियतत्वेन संबंधं प्राप-
श्रीमच्छंकराचार्यकृत शतश्लोकी
यति नत्वानयतत्वेन ॥ अत्रश्रुतिः वायुर्वैगौतमनन्सूत्र
वायुनावागौतमसूत्रेणायंचलोकःपरश्चलोकःसर्वाणिच
भूतानिसंदृब्धानिभवतीति । अथैतदर्थे ऋक्शाखीया
श्रुतिः-"स्त्रियःसतीस्तांउमेपुंसआहुःपश्यदक्षण्वान्नविचे
तबंधः। कविर्यःपुत्रःसइमाचिकेतयस्ताविजानात्सपितुःपि
तासत् मा भाष्यं-याः इदानी स्त्रियः सतीः स्त्रीत्वंप्राप्ताः
आहुलौंकिकाः ताः उ तानेव मे मां पुंसः पुरुषानाहुः
प्रतिपादयंति तत्त्वज्ञाः । कथमन्यस्यान्यभावउच्यते
एकस्यैव निरस्तसमस्तोपाधिकस्यात्मनः तत्तदेहावसा-
नमात्रेण तत्तद्यपदेशोपपत्तेः श्रूयते हि-"त्वंस्त्रीत्वं
पुमानसि त्वंकुमारउतवाकुमारीत्यादि । स्त्रीत्वपुंस्त्वं
चोजयमपिवस्तुतोनास्तीत्युक्तं भवति श्रुतिस्तदभावं
बोधयति । नवस्त्रीनपुमानेषनैवचायनपुंसकः। यद्यच्छरी-
रमादत्तेतेनतेनतथोच्यते । अमुमर्थमत्यंतनिगूढं अक्षण्वा-
न ज्ञानदृष्ट्युपेतः कश्चित्पश्येत् जानाति । तथाधः अ.
तथारूपः स्थूलदृष्टिर्न विचेत् तत्र न विचेतति न
जानाति किंतु पुत्रः वयसा अल्पोपि यःकवि:
क्रांतप्रज्ञः ज्ञानी स्यात् सइममर्थं आचिकेत जानाति
एवमुक्तलक्षणस्य परमात्मनः जातानि स्त्रीत्वपुरुषत्वा-
दीनिविजानात् औपाधिकानि विजानीयात् सपितुः
।
भानंदगिरिकतटोकासमेता खोत्पादकस्यापि ज्ञानरहितस्य पिता सत् पितृवत्पूज्यो- भवति । ५५ ॥ ७ ॥ तत्सत्यंयत्रिकालेप्वनुपहतमदःप्राणदि- ग्व्योममुख्यंयस्मिन्विश्रांतमास्तेतदिहनि गदितंब्रह्मसत्यस्यसत्यम् ॥ नास्त्यन्य- किंचयद्वत्परमधिकमतोनामसत्यस्यस त्यसञ्चत्यञ्चेतिमूर्तायुपहितमवरंसत्य- मस्यापिसत्यम् ॥५६॥ अथ सत्यशब्दव्यपदेश्यं ब्रह्माह-तदिति । यत्रिकालेषु भूतभविष्यद्वर्तमानेषु अनुपहतमबाधितं अदः अमू- त प्राणदिग्ब्योममुख्यं प्राणाः मुख्यप्राणादयः दि. ग्व्योममुख्यशब्दात् कालादि तदेव सत्यम् । यद्वा प्रकारांतरेणाह-यद्यस्माद्ब्रह्मणः सकाशादन्यत्परमुत्कृष्टं अधिकं महरिकंचिदपि सत्यस्य नाम नास्ति यद्य- स्ति तर्हि वेदेषु कथं न प्रसिद्धं अतः ब्रह्मैव सत्यत्व- व्यपदेश्यम् । अथ सत्यशब्दव्युत्पत्तिमाह-सञ्चत्यञ्चेति । सन्मूर्त पृथिव्यप्तेजोरूपं त्यञ्चेति यदमूतौं वाय्वाका- शौ ताभ्यामुपहितं आश्रितं यत् अवरं शबलं ब्रह्म तस्यापि सत्यं ब्रह्म ॥ ५६॥ - श्रीमच्छंकराचार्यकृत शतश्लोको यत्किंचिद्भात्यसत्यं व्यवहृतिविषयेरौ- प्यसबुमुख्यंतद्वैसत्याश्रयेणेत्ययमि- हनियमःसावधिलॊकसिद्धः॥ तद्वैसत्य- स्यसत्येजगदखिलमिदंब्रह्मणिप्राविरा- सीन्मिथ्याभूतंप्रतीतंभवतिखलुयतस्त- बसत्यंवदंति ।। ५७॥ अथ सत्यस्य सत्यमिति दृढीकुर्वन्सदृष्टांतमाह-यदिति । लोके व्यवहारविषये दृश्यजाते यत्किंचिद्रौप्यसी- बुमुख्यमसत्यं भाति शुक्तिकायां रजतं रज्वां सर्पः मरीचिकास्वंबु एवमेतत्पमुखमसत्यं यद्भासते तत्स त्याश्रयेणैव भासते शुक्तिकाद्यधिकरणं हि व्याव- हारिकं सत्यं तदाश्रयेणैव रौप्यसबुमुख्यमसत्यं भाति नयतिरेकेण प्रतिभासासंभवात् । इह लोके ऽयंनियमः सावधिः लोकसिद्धोदृष्टः सत्याश्रयेणे- वासत्यं भातीति नियमः लोकसिद्धोस्ति किंभूतोनि- यमः सावधिः अवधिसहवर्तमानः नेदं रजतमित्यु- तरकालेबाधदर्शनात् । एवं याबद्वाधादर्शनं तावदेव रजतादि भासते । अतएवास्य सत्यत्वं तद्वत्सत्यस्य सत्ये ब्रह्मणि इदमखिलं जगन् प्राविरासीत् । प्रा .
आनंदगिरिकृतटीकासमेता दुर्भूतं तदपि सावधित्वात्प्रातिभासिकमित्यर्थः । प्र- कारांतरेग सत्यं दृढीकरोति-मिथ्यति । मिथ्याभूतं रजतादि येन प्रतीयते प्रतीतिविषयोभवति । तत्व. विति निश्चयेन सत्यं वदंति ॥ ५७ ॥ यत्राकाशावकाशःकलयतिचकलामा- व्रतांयत्रकालोयत्रैवाशावसानंबृहदिह हिविराट्पूर्वमर्वागिवास्ते ॥ सूत्रंयत्रा- विरासीन्महदपिमहतस्तद्धिपूर्णाञ्चपूर्ण संपूर्णादर्णवादेरपिसवतियथापूर्णमेका- णवांसः॥५८॥ अथ पूर्ण ब्रह्म दशर्यति-यत्रेति । अहो इत्याश्चर्ये तदद्वृन्महदपि स्थूलमपि विराट् पूर्व ब्रह्म विराडिति पूर्व उपलक्षणं यस्य एवं विधं विश्वरूपाख्यं अ- गिवास्ते तत्किं यत्र यस्मिन्नाकाशावकाशः आ- काशस्याप्यवस्थानं तथा यत्र कालः कलामात्रतां कलयति प्रामोति तथा यत्राकाशावस्थानं दिक्प- र्यवस्थानं भवति एवंविधमपि अर्वागेवास्ति तथा तत्र सूत्रं आविरासीत् किंभूतं महतोपि विराजो- ८.
८६ - श्रीमच्छंकराचार्यकृतशतश्लोकी पि महत् हिरण्यगर्भाख्यमित्यर्थः । एवंविधं यत् हीति निश्चयेन तदेव पूर्णात्पूर्ण ब्रह्म । अत्र दृष्टां. तमाह-यथेति यथा स्वरूपेणैव पूर्णादर्णवादेः स. मुद्रादिपदार्थात् एकार्णवांम: एकीभूतं सप्तसमुद्रो. दकं पूर्णात्पूर्ण तद्वत्पकतेपीत्यर्थः । अत्रश्रुति:- "पूर्णमदःपूर्णमिदंपूर्णात्पूर्णमुदुच्यते । पूर्णस्यपूर्णमादाय- पूर्णमेवावशिष्यते। भाष्यं-एवं साबधिपूर्ण तदापे- क्षिकं यथा नदीइदात्तडागः पूर्णः तडागात्समुद्रः तथा इंदं मूतं पूर्ण तदपेक्षया अदः अमूर्त पूर्ण तस्मादपि पूर्णमुच्यते उत्कर्ष प्रामोति तत्पूर्णस्य पूर्ण पूर्णत्वं आदाय अंगीकृत्य सन्मीलनेन एकीभावं प्राप्य पूर्णमेवावशिष्यते तदेव पूर्णात्पूर्ण अनतिश- यंपूर्णमित्यर्थः ॥ ५८ ॥ अंतःसर्वोषधीनांपथगमितरसैगंधवी- विपाकैरेकंपाथोदपाथःपरिणमतिय- थातहदेवांतरात्मा॥ नानाभूतस्वभावैर्व- हतिवसुमतीयेनविश्वपयोदोवर्षत्युच्चैई- ताशःपचतिदहतिवायेनसर्वातरोसौ ५९ अथ सर्वातरं ब्रह्माह-स्पष्टार्थमिदं पद्यम् । श्रुतिरपि- आनंदगिरिकृतटीकासमेता "यःपृथिव्यांतिष्ठन्पृथिव्याअंतरोयंपृथिवीनवेदेत्यादि- कार ॥ ५९ ॥ भूतेष्वात्मानमात्मन्यनुगतमखिलंभूत- जातंप्रपश्येत्यायःपाथस्तरंगान्वयवदथ चिरंसर्वमात्मैवपश्येत्॥एकंब्रह्माद्विती- यंश्रुतिशिरसिमतंनेहनानास्तिकिंचिन्म- त्योराप्नोतिमृत्युंसइहजगदिदंयस्तुनानेव पश्येत् ॥६०॥ अथ ब्रह्मणएकत्वे मूलश्रुतिसहकारिणीमीशावास्यो- पनिषच्छ्रुति संवादयन्नाह-भूतेष्विति । भूतेषु बहुषु आत्मानं एकं पश्येत् तथा एकस्मिन्नात्मनि अखिलं समयं भूतजातं प्रायः बाहुल्येन चिरकालं प्रपश्येत् किमिव पाथस्तरंगान्वयवत् पाथश्च तरंगाश्च तेषामन्व- यः संबंधः तद्वत् । अथैकस्मिन्नुदके सहस्रशस्तरंगाः दृश्यते तथा सर्वेषु तरंगेषु एकं जलमेव दृश्यते नान्यत् किंचित्पदार्थांतरं अनुभूयतइत्यर्थः । एवमेतैरुक्तप्रकारैः एकमद्वितीयं ब्रह्मैव श्रुतिभिरनिहितंनिरूपितं परंतु इह किंचिन्नाना नाम न विद्यते वस्तुतस्तु नाना भवति परंतु यः नानेव पश्येत्समृत्योर्दैहाहंकाराभिनिवेशात्पुनर्मू- श्रीमच्छंकराचार्यकृतशतश्लोको त्युमेवामोति श्रुतिरपि-“यस्तुसर्वाणि भूतान्यात्मन्येवानु- पश्यति । सर्वभूतेषुचात्मानंततोनविचिकित्सतेला उत्तमा. धमभावेन तारतम्यं करोति यः । तथा मृत्योः समृत्यु. मामोति यइह मानेन पश्यति ॥ ६ ॥ प्रापश्चादस्तिकुंभाद्गगनमिदमितिप्र- त्ययेसत्यपीदंकुंमोत्पत्ताबुदेतिप्रलयमुप- गतेनश्यतीत्यन्यदेशम् ॥नीतेकुंभेनसाकं व्रजतिजतिवातप्रमाणानुकारावित्थं मिथ्याप्रतीतिःस्फुरतितनुभृतांविश्वतस्त- हृदात्मा ॥६॥ अथोक्तं प्रमेयं दृष्टांतेन दृढीकुर्वन्नाह-प्रागिति । इदं गगनमाकाशः कुंभात्सकाशात्प्राक् पश्वादस्ती- ति प्रत्यये सत्यपि तनुभृतां इत्थमितिप्रकारैमि- थ्याप्रतीतिः स्फुरति । अथ तदेवाह-इदं घटाव- च्छिन्नं गगनं घटोत्पत्तौ सत्यां उदेति उत्पद्यते- तथैव घटे प्रलयं नाशमुपगते घटाकाशोनश्यति तथा कुंजे अन्यदेशं प्रदेशांतरं नीते सति गगनमपि कुंभेन साकं ब्रजति तत्प्रमाणानुकारं भजति लघी- आनंदगिरिकृतटीकासमेता ८९ यसि महति च घटे तत्प्रमाणं भवति । यथा दी. घे वके निम्ने वा घटे तत्तदाकारं तद्वत् विश्वत. श्वराचरात्याक् पश्चादात्मा वर्ततइति ज्ञात्वापि पूर्व- वत्तत्रापि स्थानकल्पनं भांतमेवेत्यर्थः ॥ ६१ ॥ यावापिंडोगुडस्यस्फुरतिमधुरिमैवास्ति सर्वोपितावान्यावान्कर्पूरपिंडःपरिणम- तिसदामोदएवात्रतावान्॥विश्वंयावधि- भातिद्रुमनगनगरारामचैत्याभिरामंता- वञ्चैतन्यमेकंपविकसतियतस्तत्तदात्मा- वशेषम् ॥६२॥ प्रकारान्तरेणापि ब्रह्मणः सर्वात्मकत्वमाह- यावपिंडइति । स्पष्टार्थमिदंपद्यम् । ॥ ६२ ॥ वाद्यान्नादानुभूतिर्यदपितदपिसानून- माघातगम्यावायाघातध्वनीनांपृथग- नुभवतःकिंतुतत्साहचर्यात्॥मायोपादा- नमेतत्सहचरितमिवब्रह्मणानातितद्वत्त- स्मिन्प्रत्यप्रतीतेनकिमपिविषयीभाव- माप्नोतियस्मात् ॥६॥ એ
९०
श्रीमच्छंकराचार्यकृतशतश्लोकी
अथ पुनरपि ब्रह्मणः सर्वात्मकत्वमाह-वाद्यादि-
ति । यद्यपि वाद्यात्सकाशान्नादानुभूतिर्भवति तद.
पि तथापि सा नादानुभूतिः आघातगम्या आघा-
तव्यतिरेकेण नोत्पद्यते आघातइत्युपलक्षणं क्वचि-
दाघातेन क्वचिद्वादनेन कचिद्वायोरास्फुरणेन नादानु-
भूतिर्भवति किंतु साहचर्यादेकसमयावच्छेदेन
भवतीति प्रत्यक्षसिद्धं तदेतन्मायोपादानं विश्वं
ब्रह्मणा सार्क सहचरितमेवाभाति । अत्र श्रुतिः-
" यथादुंदुर्हन्यमानस्यनबायांच्छब्दान्छनुयागृहणा-
यदुंदु ग्रहणेनदुंदुभ्याघातस्यवाशब्दोगृहीतः। भाष्यं-
यथा हन्यमानस्य दुंदुओर्बाह्यान्पृथक् स्थितान् श-
ब्दान् यहणाय गृहीतुं न शक्नुयात् । किंतु दुंदु.
ग्रहणेन ज्ञानेन सह दुंदुभ्याघातस्य साहचर्येण
शब्दोगृहीतः ॥ ६३ ॥
दृष्टःसाक्षादिदानीमिहखलुजगतामौश्व-
रःसंविदात्माविज्ञानस्थाणुरेकोगगनव-
दभितःसर्वभूतांतरात्मा ॥ दृष्टंब्रह्मातिरि-
तंसकलमिदमसद्पमाभासमात्रंशुद्धं
ब्रह्माहमस्मीत्यविरतमधुनावतिष्ठेद-
नीहः ॥६४॥
आनंदगिरिकृतटीकासमेता अथनिरूपितप्रमेयस्य पर्यवसितमर्थमाह-दृष्टइति । स्पष्टार्थः विज्ञानकोशप्रकरणंसमाप्तम् ॥ ६४ ॥ इंद्रेन्द्राण्योःप्रकामंसुरतसुखजुषोःस्याद्र- तान्तःसुषुप्तिस्तस्यामानंदसांद्रं पदमतिग- हनंयत्सआनंदकोशः ॥ तस्मिन्नोवेद किंचिन्निरतिशयसुखाध्यंतरेलीयमा- नोदुःखीस्याद्दोधितःसन्नितिकुशलमति- बर्बोधयेन्नैवसुप्तम् ॥६५॥ अथानंदकोशोव्याख्यायते । तत्रानंदस्वरूपस्य ब्रह्म- णोभिव्यक्तिः सुषुप्तौ भवतीति सुषुप्तिस्वरूपमाह- इंद्रेन्द्राण्योरिति । इंद्रश्च इंद्राणी च तयोः प्रकामं स्वेच्छया सुरतसुखमभिलषतोः योरतान्तः सुरतसमा- प्तिः सा सुषुप्तिः यथा लोके शुक्रगावोपलक्षिते सुरतांते सुरखा विर्भावोभवति तथैवेंदेंद्राण्योः सुषुप्तौ सुखाविर्भावोभवति । तत्रंद्रोनाम दक्षिणेक्ष्णिपुरुषः तथा वामनेत्रस्थं अर्थप्रकाशकं ज्योतिः सेंद्राणी तयोर्जागत्यां भूमध्येवस्थाने स्वापकाले तस्मादवरुप दृयाकाशे पुरीततिस्थाने तिष्ठतोस्तयोः सुरतप्रसंगः श्रीमच्छंकराचार्यकृतशतश्लोकी स्वमावस्था सुरतांतः सुषुप्तिः तस्यां यदानंदसांद्र पदं स्थानं सएवानंदकोशः तस्मिन्सुषुभ्युपलक्षित- आनंदकोशे जीवः किंचिन्न वेद न जानाति कु. तइत्यतआह निरतिशयमुखाभ्यंतरे लीयमानः न विद्यते अतिशयोयस्मात्तन्निरतिशयं सुखं परमानंदः तत्र लीयमानोलुप्ताहंकारत्वात् । अथ तस्य सुख- स्य निरतिशयत्वं प्रकटयन्नाह । दुःरवीस्यादिति- यतोबोधितः बलात्कारेण जायद्दशायां प्रापितः सन् दुःखी भवति दुःखं प्रामोति । भोजनादिविषयसु- खप्राप्त्यर्थ अपि बोधितः दुःखमामोति तस्माद्विष- यमुखापेक्षया आत्मसुखमेव निरतिशयमित्यर्थः यस्मादेवं तस्मात्कारणात्कुशलमतिः ज्ञातापुरुषः सुमं सुषुप्त्यवस्थं पुरुषं नैवबोधयेत् निद्राभंगं न कुर्यात् श्रुत्युक्तप्रत्यवायश्रवणात् एवमिंदेंद्राणीसुरतविषये ज गन्मिथ्यात्वप्रकरणे बह्वयः शतपथश्रुतयः संभाष्यस- म्यगुदाढताभवति । अथ स्वमसुषुप्निविषयिणी श्रु- तिः-“अथ हैतत्पुरुषः स्वपिति नामगृहीतएव प्राणोभवति गृहीता वाक्गृहीतंचक्षुःगृहीतंश्रोत्रंगृही. तंमनः सयत्रतत्वमयाचरतितेहास्यलोकास्तदुनेवमहा- राजोभवति उतेवमहाब्राह्मणः उतेवोच्चावचंनिगच्छ- आनंदगिरिकृतटीकासमेता- तिसयथाकामंपरिवर्तते ।” भाष्यं-हइति यदा एतदयं पुरुषः स्वपिति निद्रां करोति तदा प्राणः क्षुत्पिपा- साप्रवर्तकः गृहीतआकर्षितएव भवति वाक्चक्षुः श्रोत्रमपि गृहीतं भवति स्वस्वविषययहणाशक्तत्वा- त् । तथा संकल्पात्मकं मनोपि गृहीतं अथेत्यनंतरं एतदयं जीवः स्वमया स्वभावस्थया चरति हइति निश्चयेन अस्य ते लोकाः क्रीडास्थानानि तदुतेव तत्क्षणएव महाराजोभवति । तथा तदुतेव ताक्ष- णादेव महाब्राह्मणः श्रोत्रियोभवति उतेवोच्चावचं उच्चापकृष्टयोनि निगच्छति । अथ दृष्टांतमाह-यथा महाराजः जानपदान्स्वप्रजाः गृहीत्वा आक्रम्य स्वजनपदे प्राप्तसाम्राज्य यथा कामं यथेच्छं परिवर्तत व्यापार करोति एवमेव एषजीवः प्राणान् गृहीत्वा वे शरीरे यथाकामं परिवर्तते तथा- "अथयदानकस्यचनवेदहितानामनाड्योद्वासप्ततिसहस्रा- णिहृदयात्पुरीततिमभिप्रतिष्ठंतेताभिःप्रत्यवसृप्यपुरीतति- शेते । सयथाकुमारोवामहाब्राह्मणोवाऽतिघ्रीमानंद- स्यगत्वाशयीतैवमेवैषतच्छेते” । भाष्यं-अथस्वमाव- स्थातिकमादनंतरं यदा सुषुप्तः सुषुप्त्यवस्थाप्राप्तो भवति अथ तदुपलक्षणमाह-यदेति । यदा न श्रीमच्छंकराचार्यकृतशतश्लोकी कस्यचन वेद कस्यापि किंचिदपि न जानाति तदा हिताः सुखकारिण्योद्वासप्ततिसहस्रानाड्यः हृद- यात्सकाशात् अभिसमंततः पुरीत तिमेकांतस्थलं त- स्मादभितः प्रतिष्ठते आइत्य स्थिताः भवंति ताभि- र्नाडीभिः प्रत्यवसृत्य आवरणं विधाय पुरीतति एकांतस्थले शेते निश्वेष्टतया तिष्ठति । यथा कुमारोबालः महाब्राह्मणः श्रोत्रियोवा अतिघ्री स्थू. लसूक्ष्मप्रपंचनाशकी आनंदस्य पदवी गत्वा शयी तैवं अनेन सर्वेषां जीवानां सुषुप्तिसुरवे तारताम्यं नास्तीति सूचितं । एवमेवोक्तप्रकारेण पुरीतति- शेते ॥ ६५ ॥ सर्वेनंदंतिजीवाअधिगतयशसागृह- ताचक्षुरादीनंतःसर्वोपकावहिरपिच सुषुप्तौयथातुल्यसंस्थाः॥ एतेषांकिल्बि- षस्पृक्जठरभृतिकतेयोबहित्तिरास्तेत्व- क्चक्षुःश्रोत्रनासारसनवशमितोयाति शोकंचमोहम् ॥६६॥ अथास्मिन्नर्थे ऋक्शाखीयां श्रुति संवादयन्नाह- सर्वइति । अधिगतेन प्राप्तेन यशसा ब्रह्मणा क. PAWANA आनंदगिरिकृतटीकासमेता ९५ त्वा सर्वे जीवाः नंदंति परमसुखं प्रामुवंति आत्म- साक्षात्कारे वर्णाश्रमादयः प्रयोजकान भवंति किं. भूतेन ब्रह्मणा चक्षुरादीनंतर्गहता आक्रमता पुनः किंअतेन बहिरांप च सर्वोपका इंद्रियद्वाराविषय- भोगदानेनारादुपकारकेण किंभूताः जीवाः तुल्यसं- स्थाः आत्मप्राप्तौ तुल्या संस्था संस्थानं येषां ते जातिप्रयुक्ततारतम्यवजिताइत्यर्थः अत्र दृष्टांत- माह-सुषुप्ताविति । सुषुप्तौ यथात्माकारांतःकर- णवत्तौ सत्यां सकलजीवानां सुखतारतम्यं नास्ति तद्वदात्मप्रतीतावपि । अथैतेषां जीवानी मध्ये यः जठरऋतिकते अन्नादिविषयोगार्थ बहित्तिरास्ते सकिल्विषं दुःवं स्पृशति सतथा अथैतदेव प्रक- टयन्नाह--त्वगित्यादि । त्वक्चक्षुःश्रोत्रनासारसनव- शमितः इंद्रियाधीनत्वं प्राप्तः सन् शोकं मोहं च याति विषयाप्राप्तौ शोकप्राप्तौ च मोहमित्यर्थः । श्रु ति:-"सर्वेनंदंतियशसागतेनसभासाहेनसख्यासखायः । किल्बिषस्पृपितुषणिर्वेषामरंहितोभवतिवाजिनाय” । अवप्रथममाचार्याभिमतमध्यात्मरीत्यारावणभाष्यं "न तस्य प्रतिमास्ति यस्य नाममहद्यशइतिश्रुतेः” । यशसा परमात्मना आगतेन प्राप्मेन सर्वे जीवाः mun ९६ श्रीमच्छंकराचार्यकृतशतश्लोको नंदति परमानंदं प्रामुवंति तथा नृपशुपक्षिप्र- भृतयः सर्वे जीवाः सुषुप्तिसमये परमसुखिनोभवंति तद्वदात्मप्राप्तावित्यर्थः । किंभूतेन यशसा सभासा- हेन समांस्तेजोरूपानर्थप्रकाशकान् चक्षुरादीन्सहते आक्रमते सतथा । “गृहीतावाक्गृहीतंचक्षुरितिश्रु- तेः” पुनः कथंभूतेन सख्या उपकारकेणापि वि. षयभोगनिमित्तत्वेनेत्यर्थः । किंभूताः जीवाः सखा- यः समानज्ञानाः सदृशसुरवानुभवाः अथैषां जीवा. नां मध्ये यः पितुषणिः पितुरित्यन्ननाम पितुः सुनोति सः पितुषणिः केवल मुदरंजरः सकिल्बिष- स्पृक् दुःखभागी भवति । हि यस्मात्कारणात् अ- रमत्यर्थं वाजिनाय इंद्रियवीर्याय हितः तत्परोभव- ति । अथैतदुक्तं भवति सुखशब्दव्यपदेश्यं आत्म- सुखमेव सुरवं इंद्रियसुखं तु दुःखपक्षांतर्भूतमित्य- र्थः ॥ अथाधिदेवरीत्या सायणाष्यकारः-सर्वे नं. दति सखायः समानाख्यानाः समानज्ञानाः सर्वे म. नुष्याः सभ्याः सभासाहेन सभा सोढुं शक्रुवता सख्या ऋत्विजा प्रतिभूतेन यज्ञं प्रत्यागतेन यशसा यशस्विना सोमेन हेतुना नंदंति दृष्टाः भवंति सहि सएव सोनएषां जनानां किल्बिषस्पृक् यः स्वस्मा- ।
९७ .. आनंदगिरिकृतटीकासमेता दन्यः पुरुषः श्रेष्ठतामश्नुते सकिल्विषं अवति बा ध्यत्वेन यथा पापं सदाचारैर्बाधितव्यं भवति तद्व- सापरूपस्य शत्रोर्बाधकः यद्वा यज्ञे साध्वनुप्रवच. नाकरणेन यत्किंचित्किल्बिषमेषां ज्ञायते तं योबाधते सकिल्बिषस्मृक् यथा त्वं पितुषणिः पितुरित्यन्न- नाम दक्षिणावातमनेन सोमेनसुनोति यजमानः । किच हितः पात्रेषु निहितः सोमः वाजिनाय ई- द्रियवीर्याय तर्कतुमरमलं पर्याप्तं समर्थो भवति॥६६॥ जागृत्यामंतरात्माविषयसुखकतेनेकय- त्नान्विधास्यन्श्राम्यत्सर्वेद्रियोघोधिगत- मपिसुखंविस्मरन्यातिनिद्राम्॥विश्रा- मायस्वरूपेत्वतितरसुलभतेनचातींद्रियं हिसौख्यंसर्वोत्तमंस्यात्परिणतिविरसादि- द्रियोत्थात्सुखाच॥६॥ अथ परमानंदापेक्षया क्षुद्रानंदानां अतितुच्छत्वं अस्तीत्यनुभवैकसिद्धत्वेन निरूपयति-जागत्यां जा- अवस्थायां अंतरात्मा जीवः विषयसुखनिमित्तं अनेकयत्नान्विधास्यन् करिष्यन् वर्तते तत्र विद्वान् देशपर्यटनात् दुःशीलप्रभुसमर्जनात् शूरस्तुसंग्रामादि. ९
श्रीमच्छंकराचार्यकृतशतश्लोकी
ना प्राणसमर्पणात् चोरस्तुदेहहिंसापर्यवसन्नकर्मकर-
णात्तयैव गारुडादिविद्योपजीविनः एवं सर्वोपि जन:
वस्त्रोद्यमानतिक्रमण विषयसुखाय यतते तत्र श्रा-
म्य सवैद्रियौघः शिथिलीजूतकरचरणवाग्व्यापारः पु.
मान् विधिवशात् प्राप्तमपिविषयं विस्मरन् विश्रा-
माय दृयाकाशावस्थिते स्वात्मरूपे क्षणं निद्रां
याति अप्राप्ने विषये समुद्विग्नस्य विश्रांत्यै निद्रव
शरणमित्यर्थः । तेन कारणेन इंद्रियोत्थात्सुरवात्
अंतीद्रियसुखं सर्वोत्तमं सर्वापेक्षया श्रेष्ठतमं । तथा
च अतितरसुल विषयसुखप्रयासापेक्षयाऽल्पप्रया-
ससाध्यमित्यर्थः । अथातिप्रयाससाध्यं किमपिवि-
षयमुखं क्षणभंगुरमते च विरसमित्याह कि भूतादि-
द्रियसुखात्परिणतिविरसात् परिणामे दुःखप्रदात्॥६॥
पक्षावश्यस्यपक्षीजनयतिमरुतंतेनया-
त्युच्चदेशलब्ध्वावायुंमहांतंश्रममपनय-
तिस्वीयपक्षौप्रसार्य ॥ दुःसंकल्पैविक-
ल्यैविषयमनुकद रुतंचित्तमेतत्खिन्नं
विश्रामहेतोःस्वपितिचिरमहोहस्तपादा-
प्रसार्य॥६॥
आनंदगिरिकृतटीकासमेता अथात्र श्रुत्युक्तं दृष्टांतमुपन्यसन् उक्तार्थमेव दृढी- कुर्वन्नाह-पक्षाविति । पक्षी पक्षावभ्यस्य व्यापार- यित्वा मरुतं वायुं उत्पादयति तेन वायुनोच्चदेशं या- नि तत्रोच्चैस्तरामाकाशदेशे महांतं वायुं लब्ध्वा पक्षी प्रसार्य प्राक्तनं श्रममपनयति त्यजति एवं प्रकते दु:- संकल्पैस्त द्विपरीतेविकल्पैश्वविषयमनुलक्षीकृत्य एत- चित्तं कद कृतं ततः खिन्नं सत् हस्तपादान् प्रसार्य विश्रामहेतोश्चिरं स्वपिति अत्रश्रुतिः- “तद्यथास्मिन्ना- काशेश्येनोवासुपर्णोवाविपरिपत्यश्रांतःसंहत्यपक्षौसंल- यायध्रियतएवमेवायंपुरुषःएतस्मादंतायधावतियत्रसु - मोनकंचनकामंकामयतेनकंचन स्वमंपश्यति” । भाष्यं- यथायवदस्मिन् दक्प्रसारोपलक्षितआकाशे श्येनः प. क्षिकुल निहंता पतत्रिविशेषः सुपर्णो गृध्रादिविपरिपत्य उच्चैरुरप्लुत्य तत्र शांतः सन् पक्षौ संहत्य प्रसार्य संलयाय विश्नांतये ध्रियते प्रयत्नं करोति एवमेवायंपुरुषए. तस्माज्जागृतिप्रयासातू अंताय उपरमाय धावति । तूर्णं स्वमूलमाश्रयते तत्र सुप्तः सन् जाग्रद्दशावन्न कंचन कामविषयोद्देशेनेच्छांच करोति न वा स्वमं पश्यति । अथ हस्तपादान्प्रसार्येत्यत्र तथाबोधित: सन्दुःखीस्यादित्यत्र च श्रुतिः-"तंना यतंबोधयेदित्याह ।
। १०० श्रीमच्छंकराचार्यकृतशतश्लोकी रिति” | भाष्यं-तस्मात्कारणादायतं विस्तारितहस्त- पादायं प्रसुप्तं न बोधयेत् जागरं प्रापयेत् इति श्रूयते- इतिआहुः । तथा चोक्तमग्निरहस्ये दशमकांडे-"त- स्मादुहस्वपंतं धुरेव न बोधयेत् नैतदेवतेमिथुनीभवं- त्यौ न हिनसानीति” । भाष्यं-तस्मात्कारणात् उह नियमेन स्वपंतं पुरुषं धुरेव सहसा न बोधयेत् एत देव ते इंद्रद्राण्यौ मिथुनीभवत्यौ सुरतसुखासक्तो न हिनसानीति नहन्मीति मत्वा न बोधयेदित्यर्थः। अनया निद्राभंगकर्तुः प्रत्यवायोपि दर्शितः ॥ ६८ ॥ आश्लिष्यात्मानमात्मानकिमपिसहसै- वांतरवेदबायंयत्कामीविदेशात्सदनमु- पगतोगाढमाश्लिष्यकांताम्॥यात्यस्तं तत्रलोकव्यवहतिरखिलापुण्यपापानु- बंधःशोकोमोहोअयंवासमविषममिदं नस्मरत्येवकिंचित्॥६९॥ अथ मुनेः परिणामावस्थामाह-आश्लिष्येति । आत्मा जीवः आत्मानं परमात्मानं सहसा अकस्मात् आश्लिष्य आलिंग्य एकीभय किमप्यांतरं सूक्ष्मदेहा- आनंदगिरिकृतटीकासमेता १०१ नुभूतं स्वमं बाह्यं स्थूलदेहानुभूतं च न वेद न जानाति । सर्वरत्तीनां लीनत्वात् । अथात्र दृष्टांतमाह-यद्वदिति । यद्वद्विदेशात्परदेशात्सकाशात्सदनं स्वग्रहं उपगतः कामी चिरकालं प्रोषितत्वात्कामातुरः कांतां कमनीयां स्त्रियं गाढमत्यौत्कंठ्येन आश्लिष्य आलिंग्य बालमांतरं वा किमपि विषयांतरं न वेद तद्वदित्यर्थः । अत्रश्रुतिः- “तद्वाअस्यैतदात्मकाममाप्नकामरूपं एवमेवायंपुरुषः प्राज्ञेनात्मनासंपरिष्वक्तोनबालंकिंचनवेदनांतरं । तय- थाप्रियया स्त्रियासंपरिष्वक्तोबाॉकिंचनवेदनांतरंगा प्य-पूर्वश्रुतौ योस्य परमोलोकोथ यत्र सुप्तौ न कं- चन कामं कामयतइत्याद्युक्तं तद्वा एतस्य सुषुप्त्यव- स्थां प्राप्तस्य पुरुषस्य रूपं प्रथमतः आत्मकामं आ- मसुखान्यसुखनिरपेक्षे आप्तकामं सुखप्राप्ताववाप्नस- कलकामं ततः अकाममस्तमितकामं भवति एवं शा- रीरः शरीरावच्छिन्नः परमात्मा प्राज्ञेन जीवात्मनाप रिष्वक्तः आश्लिष्टः सन्न वेद किंचन नांतरं बाह्यं वा । अत्र दृष्टांतमाह-तद्यथेति । प्रियया प्रेमास्पदीभूतया स्त्रिया परिष्वक्तः पुमानिति स्पष्टम् ॥ ६९ ॥ अल्पानल्पप्रपंचप्रलयउपरतिथेंद्रिया- णांसुखातिजीवन्मुक्तोसुषुप्तौत्रितयम- श्रीमच्छंकरावार्यकृतशतश्लोकी पिसमंकिंतुतत्रातिभेदः॥ प्राक्संस्का- रात्मसुनःपुनरपिचपरावत्तिमेतिप्रबुद्धो- नश्यसंस्कारजातोनसकिलपुनरावर्तते- यश्चमुक्तः॥ ७॥ इदानीमुक्तिसुयोर्लक्षणसाम्येपि वैलक्षण्यं दर्शयति- अल्पानल्पेति । जीवन्मुक्तौ सुषुप्तौ च एतत्रितयं समं तुल्यं तत्किं त्रयं अल्पानल्पप्रपंचप्रलयः सूक्ष्मासूक्ष्म- योः प्रपंचयोः प्रलयः प्रकष्टमात्यंतिकोलयः तथेंद्रिया- णामुपरतिः परमोविलयः गृहीतएव प्राणोगृहीतावागि- त्यादिपूर्व मेवोक्तं । तथा सुखप्राप्तिः । एवं चेत्तहि सुषु. मिरेव मुक्तिरास्तां नाम कथं पुनर्मुक्तिसाधनार्थं प्रयास इत्याशंक्याह-किंत्विति । किंतु तत्र सुषुप्तिमुक्त्योर्मध्ये भेदोस्ति तमेवाह-सुषुप्तः सुषुप्ति प्रामः पुरुषः प्राक्स- स्कारात्पुनरपि पराति एति । तथा यश्व प्रबुद्धः प्रबोधं ज्ञानं प्राप्तोनिरंतरं मुक्तः सन् नश्यसंस्कारजातः सन् पुनर्नावर्तते आत्तिं न प्रामोति । अयमर्थः यद्यपि सुषुप्तौ सर्वप्रलयोभवति तथापि तस्यादैनंदिनत्वादा कस्मिकत्वाच्च प्राक् पूर्व जायतिस्तदुत्पन्नाः संस्काराबी- जरूपेण तिष्ठंति तैरात्मा जीवआश्लिष्टः पुनरावर्तते मु- - आनंदगिरिकृतटोकासमेता कौतु शनैर्ज्ञानयोगात्सर्वसंस्कारनाशोभवति तेन न सपुनरावर्तते ॥ ७० ॥ आनंदान्यश्चसर्वाननुभवतिनृपःसर्वसं- पत्समृद्धस्तस्यानंदःसएकःसखलुशतगु- णःसंप्रतिष्ठःपितृणाम् ॥ आदेवब्रह्मलो- कंशतशतगुणितास्तेयदंतर्गताः स्युर्ब्रह्मा- नंदःसएकोस्यथविषयसुखान्यस्यमा- वाभवंति॥७१॥ अथ सकलसुरवापेक्षया आत्मसुखस्य निरतिशयत्वं युक्त्या निरूपयति-आनंदानिति । यत्सर्वसंपत्समृद्धोनृपः सर्वानंदाननुजबति दरिद्राणामेकैकविषयप्राप्तावेकएवा- नंदोभवति मनागधिकानामानंदद्वयं एवमुत्तरोत्तरं यस्य यावतांविषयाणां प्राप्तिः तावंतस्तस्यानंदाभवंति। एवं सर्व विषयप्राप्तिपस्यास्यतस्तस्यसर्वानंदभोगः । तथा च सर्व विषयानंदाः यत्र एकीभवंति सएकोराज्ञआनंदः सख- ल्विति निर्धारणे शतगुणः सन् पितृणामानंदः सएवमुत्तरो त्तरं देवलोकमारभ्य ब्रह्मलोकपर्यंतं शतगुणिताआनंदा- भवंति ते सर्वेपि यदंतर्गताअंतर्भूताः स्युःसएकोब्रह्मानंदो- स्ति।अथास्यब्रह्मानंदस्य विषयसुखानि पूर्वोक्तानि क्षुद्राः श्रीमच्छंकराचार्यकृतशतश्लोकी मात्राःअंशाः भवंति यथात्मैवोपाधिवशेन पृथक् क्षु- द्रत्वेन भासते तथैव परमानंदोपि विषयसुखाकारेणेत्य- र्थः। अत्रश्रुतिः -सयोमनुष्याणांराद्धःसमृद्धोभवति अ न्येषांअधिपतिः सर्वैर्मानुष्यकैः कामैः संपन्नतमः मनु- ष्याणां परमानंदः अथयेशतमनुष्याणामानंदाः सएकः पितृणांजितलोकानामानंदइत्यादि ।"तथा अथैषब्रह्म- लोकःसम्राडिति हैनमुवाचैषास्यपरमासंपदेषोस्यपरमो- लोकः एषोस्यपरमानंदः अर्थतस्यैवानंदस्यान्यानिभूता- निमात्रामुपजीवंतीति” । भाष्यं-योमनुष्याणां मध्ये राद्धः सिद्धः साम्राज्यसमृद्धः प्राप्तसर्वविषयोभवति अ- न्येषां मनुष्याणामधिपतिः नियंता तथा सर्वैर्मानुष्यकैः मनुष्यप्रसिद्धैः कामैः प्रार्थनीपदार्थैः संपन्नतमः तस्य यआनंदः समनुष्याणां परमानंदः अथ ये शतं मनुष्या- णामानंदाः सएकः पितृणामानंदः जितः अर्वाक् लोको यैस्ते जितलोकास्तेषां पितृणामित्यर्थः । एवमुत्तरो- त्तरंकर्मदेवाद्यानंदाः स्युः । अथैषब्रह्मलोकप्राप्त्यव- सानं यस्मिन्सब्रह्मइति हइति निश्चित्य एनं जनकं प्रति याज्ञवल्क्यइत्युवाच । इतीति किं भोस- म्राट् जनक एषउक्तप्रकारेण आनंदः ब्रह्मलोकः ब्रह्मैव लोकः प्राप्तव्यस्थानं यस्मिन्सब्रह्मलोकः ।
आनंदगिरिकृतटीकासमेता अथास्य मुमुक्षोः पुरुषस्य एषा परमा उत्कृष्टा नि- रतिशया संपत्परमैश्वर्यं तथा एषपरमोलोकः पूर्वो- क्तः तथा एषोस्य परमानंदः अथैतस्यैवेति अन्यानि आत्मबहिर्मुखानि भूतानि जीवजातानि एतस्य निरूपितस्य परमानंदस्य मात्रामेकदेशमुपजीवंति ये भूतानां क्षुद्रानंदास्ते परमानंदस्यैवांशाः परमानंदे क्षु- द्रानंदानामंतर्भूतत्वात् ॥ ७१ ॥ यत्रानंदाश्चमोदाः प्रमदइतिमुदश्वासते सर्वएतेयत्राप्ताःसर्वकामाःस्युरखिलवि- रमाकेवलीभावआस्ते॥मांतत्रानंदसां- देकृधिचिरममृतंसोमपीयूषपूर्णांधारा- मिंद्रायदेहीत्यपिनिगमगिरोभूयुगांतर्ग- ताय ॥७२॥ अत्रास्मिन्नर्थे ऋक्शाखीयां श्रुति संवादयन्नाह-य- वेति । यत्र यस्मिन्परमानंदे सर्वानंदा: मनुष्यानंदा- स्तथापितृणामानंदाः आजानदेवानां एवमुत्तरोत्तरं स. वें अपि आसते वर्तते यथा यत्र यस्मिन्परमानंदे सर्वे कामाः सत्यलोकादिप्राप्तिरूपाः आप्ताः प्राप्ताः स्युः तथा यत्र अखिलविरमात्स्थूलसूक्ष्मप्रपंचविल- कामस्ययनाता: श्रीमच्छंकराचार्यकृतशतश्लोको यात्केवलीभावआस्ते भो सोम षोडशकलारूप हि- रण्मयरूप मां जीवदशापन्नं तत्र सांद्रानंदे चिरं अ- मृतं कृधि कुरुष्व तथा इंद्राय जीवात्मने पूर्णा- पीयूषधारां देहि । मुक्तानां सोमचकादमृतद्रावो भव- तीति योगशास्त्रे प्रसिद्धम् । किताय इंद्रायभूयुगां तर्गतायेति । एवमुक्तप्रमेयं निगमगिरः प्राहुः । अत्र श्रुतिः सप्तमाष्टके-“यत्रानंदाश्चमोदाश्च मुदःप्रमुदआसते । कामास्तत्रमाममृतंकधीद्रायेंदोपरि सव" । भाष्यं-कामस्य वासनारूपस्य मनसः कामाः यत्राप्ताः प्राप्ताभवंति तत्र माममृतं कृधि तदेवाह-भो इंदो चंद्ररूप परमात्मन् इंद्राय सकलेंद्रियनियंत्रे जी वाय अमृतं परिस्रव ॥ ७२ ॥ आत्माऽकंपःसुखात्मास्फुरतितदपरात्व- न्यथैवस्फुरंतीस्थैर्यवाचंचलत्वंमनसिप- रिणतियातितत्रत्यमस्मिन॥चांचल्यंदु:- खहेतुर्मन सइदमहोयावदिष्टार्थलब्धिस्त- स्यांयावस्थिरखंमनसिविषयस्यात्सु- खंतावदेव ॥७३॥ नन्वतीद्रियं सुखं हि परमानंदः तथा विषयसुखं आनं इगिरिकतटीकासमेता १०७ इंद्रियजन्यं एवमुभयोर्भहति वैषम्ये अनुभवसिद्धे स- ति कथमुक्तं एतस्यैवानंदस्यान्यानि भूतानि मा- बामुपजीवंतीत्याशंक्य श्लोकद्वयनोत्तरयति-आत्मे- ति । आत्मा तावदकंप: कंपरहितः तथा सुखात्मा सु- खरूपोपि विज्ञानमानंदं ब्रह्मेति आत्मनआनंदरूपत्वं श्रुतिसिद्धं सुषुत्यवस्थायामनुभवसिद्धं चातः स्फुरती- त्युक्तं तथा तदपरा तद्विलक्षणा माया अन्यथा उ- क्ता तद्विपरीतस्वभावा सकंपा दुःखरूपा चात्म- सहचरितैव स्फुरति । पूर्ववदनुभवसिद्धास्ति एवं त- योराममाययोरनुगतं स्थैर्य चंचलत्वं वा यस्मिन्म- नसि परिणति परिणामं याति तस्य चिदचिटुंथि- रूपत्वम् अहो इति संबुद्धी यावदिष्टार्थलब्धिः अ- भीष्टविषयप्राप्तिस्तावत्प्रयत्नशताकुलस्य मनसश्यांच- ल्यमिदं दुःखहेतुर्भवति । अथ तस्यां विषयप्राप्ती सत्यां कृतकृत्यत्वेन मनसि यावस्थिरत्वं तावदेव वि- षयजं सुखं स्यात् ॥ ७३ ।। यहत्सौख्यंरतांतेनिमिषमिहमनस्येकता- नेरसेस्यात्स्थैर्ययावत्सुषुप्तौसुखमनति- शयंतावदेवाथमुक्तौ॥ नित्यानंदःप्रशां-
१०८
श्रीमच्छंकराचार्यकृतशतश्लोकी
तेदृदितदिहसुखस्थैर्ययोःसाहचर्यनित्या-
नंदस्यमात्राविषयसुखमिदंयुज्यतेतेनव-
तुम् ॥ ७४॥
अथात्र द्वितीयश्लोकेन दृष्टांतद्वयमाह-यद्वदिति ।
यथा इहास्मिन्ननुभवसिद्धे रतांते शृंगाररसेन मन-
स्येकताने एकाग्रे सति निमिषं निमिषमात्रं सौख्यं
भवति तथा सुषुप्तौ मनसि यावत्स्थैर्य तावदेवान-
तिशयसुखं अथ मुक्तावपि हृदि प्रशांते सनि नि-
त्यानंदोभवति । तत्तस्मात्कारणादिह मुखस्थैर्ययो:
साहचर्यं सहचरितत्वमनुभवसिद्धं तेन कारणेन इदं
विषयसुखं नित्यानंदस्य मात्रेति वक्तुं युज्यते ।
इत्यानंदकोशप्रकरणम् ।। ७४ ॥
श्रांतंवांतंसबाह्यव्यवहृतिभिरिदंता:स-
मारुष्यसस्तित्तत्संस्कारयुक्तंयुपरमति-
पराटत्तिमिछन्त्रिदानम्॥ स्वानान्संस्का-
रजातप्रजनितविषयान्स्वानदेहेनुभूतान्
प्रोत्स्यांतःप्रत्यगात्मप्रवणमिदमगाद्भूरि-
विश्राममस्मिन् ॥ ७५॥
आनंदगिरिकृतटोकासमेता अथ जगन्मिथ्यात्वप्रकरणमुच्यते । तत्र प्रपंचमि- थ्यात्वे प्रथमतः स्वमदशानिदर्शनेन दर्शयन् स्वमरूपं निरूपयति-श्रांतमिति । इदं स्वांतं मनः बाह्मव्य- वत्दृतिभिः स्त्रीपुत्रादिपोषणप्रभृतिभिः श्रांतं सत् उ- परमति विरमति विरतव्यापारं भवति किकत्वा ताः सर्वाबाबेंद्रियार्थस्य व्यवहतीः समाकृष्य यद्वा इदं ताः इंद्रियैः कृत्वा इदताकारेण भासमानाः वि. षयास्तान् अंतः समाकृष्य एवं यद्यपि बालव्यव- हारस्त्यक्तः तथापि दृढानुसंधानोत्पन्नतत्तसंस्कारयु- तं सत्परायत्तं अथ किमुद्दिश्य परायत्तमित्याशं. क्याह निदानं इच्छन् निदानं स्वीयमादिकारणं आत्मरूपं इच्छन् यथा बहुदेशाटनैः खिन्नः पांथोवि. श्रांत्यै स्वगेहागमनमिच्छति तद्वदित्यर्थः । अत्र श्रुतिः- अथहैतत्पुरुषःस्वपितिनामतगृहीतएवप्राणोभवतिगृही तावाग्रहीतंचक्षुःगृहीत श्रोत्रंगृहीतंमनइतिततःस्मर- णाधिसूढंसंस्कारजातेनप्रजनितविषयान्वामान्सूक्ष्मदे- हानुभूतान्प्रोत्स्यत्यत्वाप्रत्यगात्मप्रवणंपरमात्मसंयोगो- न्मुखं तदस्मिन्नात्मनि विश्राम विश्नांतिमगाद्गच्छत् । यथा महदूपदर्शनाय कश्चित्पत्तः सामंतोबहिरि १० श्रीमच्छंकराचार्यकृतशतश्लोकी सेनासन्नाहं त्यक्त्वा द्वित्रैः पार्षदैः सह प्रविशति तथा तारि तानपि त्यक्त्वा केवलरूपेणैव समक्षं गच्छति तद्वदित्यर्थः। अनेन मनसः प्रथमतः सुषुप्तिरेवोद्दिष्टा स्व- मावस्था तु विधिवशादांतरालिकैवोत्पन्नेत्युक्तम् ॥७५॥ स्वप्नेोगःसुखादेर्भवतिननुकुतःसाधने मूर्छमानेस्वानंदेहांतरंतव्यवहतिकुशलं नव्यमुत्पद्यतेचेत् ॥ तत्सामग्र्याअभावा- त्कुतइदमुदितंतद्धिसांकल्पितंचेत्तत्कि स्वानरततिवपुषिनिपतितेदृश्यतेशुक्रमो- क्षः॥ ७६॥ अथ पूर्वपक्षमुहाट्य दृढीकुर्वन् श्लोकमाह-स्वमइति । नन्बित्याशंकते साधने भोगसाधने स्थूलशरीरे ज्ञान- कर्मेंद्रियैः संमूर्छमाने निश्चेष्टतया पतिते सति खमे स्वमावस्थायां सुखादेः सुखदुःखसाधकविषय- भोगः कुतः कस्माद्भवतीति अथ चेदेवं ब्रूषे स्वामं स्वमसंबंधि देहांतरं तावदृतिकुशलं स्वामविषयभो. गकुशलं नव्यं नवीनं उत्पद्यते तेन स्वामव्यवहारो- स्तु किप्राक्तनेन शरीरेणेति । तदपि दूषयति-तदि- Rated आनंदगिरिकृतटोकासमेता ति तत्सामय्याः तस्य स्वामदेहस्य या सामग्री पित्रोः शुक्रशोणितरूपा तस्याः अभावात् । कुतः कस्मात् सामग्र्यंतरादिदमुदितं उत्पन्नं अस द्रूपं भूता- वेशन्यायेनोत्पन्नमिति चेन्न स्वामे रतांते स्वामस्त्री- भोगांत शुकद्रावः स्वामशरीरएवास्तु सनिपतिते के पुषि निश्चेष्टे स्थूलशरीरे किमिति दृश्यते । मृषारू- पस्य देहस्य सुरतातोपि मृषैवास्तु सुरतानामभिव्यंज- कः शुक्रद्रावः प्रातः सत्यत्वेन कथमुपलभ्यते इत्य- र्थः ॥ ७६ ॥ भीत्यारोदित्यनेनप्रवदतिहसतिश्लाघ- तेनूनमस्मात्स्वप्नेप्यंगेनुबंधंत्यजतिनस- हसामूर्छितोप्यंतरात्मा॥पूर्वयेयेनुभूता- स्तनुयुवतिहयव्याघ्रदेशादयोस्तित्सं- स्कारस्वरूपान्सृजतिपुनरमूश्रित्यसं- स्कारदेहम्॥७॥ दूषणांतरमाह-गीत्येति । स्वामोत्पन्नया दस्युव्याघा- दिनीत्या अनेन स्थूलदेहेन कृत्वैव रोदिति साट्टहासं रोदनं करोति न स्वामशरीरेणेत्यर्थः । न केवलं रोदिति ।
श्रीमच्छंकराचार्यकृतशतश्लोकी अनेनैव प्रवदति यत्किचिजल्पति तथा हसति श्लाघ. ते अहंकतार्थइति । एवं पूर्वपक्षमनूद्य प्रागुक्तं पर्यवसि- तमर्थमाह- नूनमिति । नूनं निश्चयेन अस्माद्धेनोः अंतरात्मा स्वमेपि अंगे स्थूलदेहे मूर्छितेपि सहसा अ- नुबंधं संबंधं न त्यजति । अथ सोनुबंधः पूर्व त्वयैव निराकृतः कथमिदानीमनुबंधः प्रोच्यते इत्याशंक्या- ह- पूर्वमिति पूर्वअनादिजानदवस्थासु येये अर्थाः अनुभूताः ते के तनुयुवतिहयव्याघदेशादयः तनुः शरी रं युवतिः स्त्री स्वकीया परकीया वा हयोश्वः प्रया- णनिमित्तं व्याघोजयनिमित्तं देशः काश्यादिप्रदेशः आदिशब्दादन्येपि विषयास्तेषां पूर्वमनुभूतानां यः संस्कारः सएव सूपं स्वरूपं एषां ते तथाविधानमन् शरीरादिविषयान् तदनुरूपानेव पुनः सृजति तएव विषयाः संस्काररूपत्वेन आभासंतइत्यर्थः । अथांत- रात्मा किंसृजतीत्याह-संस्कारदेहं लिंगदेहं श्रित्य अधिष्ठाय तस्मिन् देहे सर्वेसंस्काराः उद्बुद्धाः संतः तत्त- द्विषयाकारेण परिणमंतीत्यर्थः ॥ ७७ ।। संधौजाग्रत्सुषुप्योरनुभवविदितास्वा- न्यवस्थाद्वितीयातत्रात्मज्योतिरास्तेपुरु- भानंदगिरिकतटीकासमेता षइहसमारुष्यसद्रियाणि ॥संवेश्यस्थू- लदेहंसमुचितशयनेस्वीयभासांतरात्मा- पश्यन्संस्काररूपानभिमतविषयान्याति- कुत्रापितहत् ॥८॥ अथ श्रुत्यर्थानुरूपामुक्तार्थप्रक्रियां निरूपयति-संधा- विति जाग्रत्सुषुप्त्योरवस्थयोः संधौ अनुभवसिद्धा स्वामी द्वितीयावस्था तत्र तस्यां अवस्थायां इह स्वरूपे सर्वे द्रियाणि समारुष्य पुरुषोंतरात्मा आत्मज्योतिरास्ते । इंद्रियाभावात् तस्यां अवस्थायां यद्विषयग्रहणं तदा- मज्योतिषैव संपादयतीत्यर्थः । ननु तदा स्थूलदेहस्य का गतिरित्यतआह-स्थूलदहं समुचितशयने यथा- प्राप्तनिद्रास्थले निवेश्य प्रसारितहस्तपादं संवेश्य त. था स्वीयभासास्वसामर्थेन स्वमदेहसंस्काररूपसमुचि- तेंद्रियगणान्निर्माय यत्र कुत्राप्यनीष्टस्थाने तद्वत्संस्का- ररूपेणैवयाति विचरति ॥ ७८ ॥ रक्षन्प्राणैःकुलायंनिजशयनगतंश्वास- मात्रावशेषैर्माभूतप्रेतकल्पातकमि- तिपुनःसारमेयादिभक्ष्यम्॥स्वप्नेस्वीयप्र- স্পীকারূনরালখালী आवात्सृजतिहयरथान्निनगाःपल्वला- निकीडास्थानान्यनेकान्यपिसुदृदयला- पुत्रमित्रानुकारान्॥७९॥ .. पूर्वश्लोके देहं विसृज्य यातिइत्युक्तं तत्र जीवत्-अ. जीवद्वा विसृजतिजीवचेत्तर्हि कथमव्यापारं अजीवच्चे- त्तहिकथं श्वासाद्युपेतमित्याशंक्य श्लोकद्वयेनोत्तरमा- ह-रक्षन्निति । निजशयनगतं कुलायं शरीरं प्राणैः कृत्वा रक्षन् यत्र कुत्रापि यातीति पूर्वेणान्वयः । तहि तत्र क्षुत्पिपासादिप्राणकृत्यं कथं न दृश्यते इत्याशंक्याह- किंभूतैः प्राणैः श्वासमात्रावशेषः श्वासमा अवशिष्टं एषां ते नहि प्रयोजकव्यतिरेकेण प्राणाः कर्म कुर्व- ति अथ तद्रक्षणे हेतुमाह तत्पुनः शरीरं प्रेतकल्पाकतकं माभूदिति अथास्तां तथात्वमिति चेत्तत्र बाधकमाह- सारमेयादिलक्ष्यं माभूदिति निर्जीवस्य गंधं गृह्णतां सारमेयादीनां श्वापदानां भक्ष्यं माभूदिति अथ पूर्व- श्लोके वामदेहान्निर्मायेत्युक्तं तदर्थप्रतिपादकं श्रु त्यर्थ दर्शयति-स्वमे स्वीयप्रभावात् स्वसामर्थ्यात् ह. यरथान् निम्नगा नदी पल्बलानि ईषत्संचितोद- कानि तथानेकानि क्रीडास्थानानि तथा सुहबला. RANSLA आनंदमिरिकृतटोकासमेता ११५ पुत्रमित्रानुकारांश्च सृजति अनुकारशब्देन प्रागुक्तसं स्कारोत्पन्नानीत्यर्थः ॥ ७९ ॥ मातंगव्याघ्रदस्युद्विषदुरगकपीन्कुत्रचि- प्रेयसीभिःक्रीडन्नास्तेहसन्वाविहरतिकु- हचिन्मृष्टमनातिचान्नम्॥म्लेच्छत्वंप्राप्त- वानरम्यहमितिकुहचिछंकितःस्वीयलो- कादास्लेव्याघ्रादिक्षीत्याप्रचलतिकुचि- द्रोदितिग्रस्यमानः ॥ ८॥ तथा मातंगव्याघ्रदस्युद्विषदुरगकपीश्च सृजति तत्र कु- त्राप्यहं ब्राह्मणः सन् म्लेच्छत्वं प्राप्तवानिति स्वीय. सुघल्लोकाच्छंकितः आस्ते । “स्वमे शूद्रत्वमापन्नइत्या- दिवासिष्ठोक्तेः" तथा कुत्रचित् व्याघ्रादिभीत्या प्रच- लति पलायनं करोति पलायनसमर्थोपि व्याघ्रादि- ना ग्रस्यमानः सन् क्रंदते रोदिति । उक्तार्थनिरूपि- काः क्रमेण श्रुतयः -"सयत्रायंप्रस्वपितीत्यस्यसर्वाव- तोमात्रामादायस्वयंविहत्यस्वयंनिर्मायस्वेनभासास्वेन- ज्योतिषास्वपितीत्यत्रायंपुरुषःस्वयंज्योतिर्भवतिनतत्र- स्थरथयोगानपंथानोभवतिअथरथान्थयोगान्पयःस- ।
श्रीमच्छंकराचार्यकृतशतश्लोकी जतेनतत्रानंदामुदःप्रमुदोभवत्यथानंदान्मुदःसृजतेनतत्र- वेशताःपुष्करिण्यः स्रवत्यःसृजतेसहिक तथापाणेनर- क्षनअपरंकुलायंबहिःकुलायादपरश्चरित्वातथास्वमांत- उच्चावचंनीयमानोरूपाणिदेवःकुरुतेबहूनिउतेवस्त्रीभिःस. हमोदमानोजक्षदुतेबापिनयानिपश्यन्न भाष्यं-सः जी- वः यत्र यदा स्वपिति निद्रां करोति तदास्य स- वतः सर्व अवति रक्षति इति सर्वावन् तस्य स- वितः परमात्मनः मात्रां एकदेशं आदाय गृहीत्वा स्वयं निहत्य स्वतएव सुषुष्यवस्थां त्यक्त्वा तथामायि- कं वासनामयं स्वमदेहं स्वयं निर्माय स्वेन स्वया भासा स्वसामर्थ्येन स्वेन ज्योतिषा स्वप्रकाशेन स्व- पिति अत्रायं पुरुषः स्वयं ज्योतिर्भवति तत्र तस्मि- नस्वमसमये न रथाः संति रथयोगाः अश्वादयः न पंथानोरथमार्गाः संति । परंतु असौ रथान् स्थमा र्गान् पथः सृजति तथा न तत्र आनंदाः सुरवविशे. षाः मुदः क्षुद्रानंदाः प्रमुदः पुत्रादिलाभहर्षाश्च प. रंतु अयमानंदादीन् सृजति तथा न तत्र वेशंता: पल्वलानि स्रवत्यः नद्यः संति पुष्करिण्यः सरांसि न तडागानि संति परंतु एषः वेशंतादि सर्व सृजते । सहि कर्ता अंतरात्मा अथ दैनंदिनं स्वमदशायां प्रा. ।
१९७
आनंदगिरिकृतटीकासमेता
णेन पंचरत्तिना को लीयते तत्कुलायं भूमौ संनि-
विष्टं शरीरं रक्षन्सन् अन्यथा मृतभ्रांतिः स्यात् स्वय-
ममृतः अमरणधर्मा कुलायाद्वहिश्चरित्वा शरीरांतर्ग-
तोपि आकाशवद्वाोपि वसन् । यत्र कामं यथा-
भिन्नं पदं वा यत्र यत्र कामोविषयेषूपद्यते तं ते
कामं संस्काररूपेण ईयते गच्छति अथ स्वमांतइति ।
ततः स्वभावस्थांने स्वमावसरे उच्चावचं देहमीयमानः
प्राप्यमाणः उच्चं देवादि अवचं तिर्यगादि यथा सं-
स्कारतारतम्यानुरूपं देहं गम्यमानः देवः प्रकाशात्मा
बहूनि रूपाणि असंख्यानि वासनारूपाणि निवर्तयति
तदेवाह-उतेव यथावासनं स्त्रीभिः सह मोदमानः
उतेव जक्षदिव हसन्निव उतेव भयानि व्याघ्रायु
त्पन्नानि पश्यति ॥ ८ ॥
योयोदृग्गोचरोर्थोभवतिससतदातद्गता-
स्मस्वरूपाविज्ञानोत्पद्यमानःस्फुरतिननु
यथाशुक्तिकाज्ञानहेतुः।रौप्याभासोमृषै-
वस्फुरतिचकिरणाज्ञानतोंशोभुजंगोर-
ज्वज्ञानान्निमेषंसुखायकदतोदृष्टसृष्टं
किलेदम् ॥ ८१॥
- ११८ श्रीमच्छंकराचार्यकृतशतश्लोको यइति । जायदवस्थायां योयोऽर्थः पदार्थः नृपपशुप- क्षितिर्यगादिरूपोदृग्गोचरोदृष्टिविषयोभवति ससपदार्थः तदा तद्दर्शनसमये तद्गतात्मस्वरूपाविज्ञानोत्पन्नएव स्फु रति तच्छब्देन पूर्वोक्तः पदार्थः तद्गतं यस्मिन्नंतर्या- मित्वेन स्थितं यदात्मरूपं तस्य अविज्ञानमज्ञानं त- स्मादुत्पद्यमानएव स्फुरति दृग्गोचरीभूतपदार्थोत्पत्ता- वधिकरणाज्ञानमेव कारणमित्यर्थः । तदेव दृष्टांतन द्रव्यति -यथेति । यथा रौप्याभासः शुक्तिकाज्ञा- नहेतुईष्टः शुक्तिकायाअज्ञानमेव हेतुः कारणं यस्य शुक्यज्ञानेनोत्पादितोरजताभासः इदं रजतमित्याका- रेण स्फुरति । तद्वदात्माज्ञानेनपदार्थाकारः स्फुरति यतः सुषुप्तावात्माकारान्तःकरणदत्तौ सत्यां पदार्थमात्र न स्फुरति परं किरणाज्ञानतोमरीच्यज्ञानान्मृगजलोत्प- त्तिः तथा रज्वज्ञानाद्भुजंगोत्पत्तिः एवं सप्रातिभास- कोपि पदार्थः निमेषं निमेषसमयं यावत्सुरवायक- द्भवति दरिद्रस्यपिपासादितस्यच रौप्यमरीच्यंबुदर्शना- दाश्वासनेन सुखं भवति तथैव भुर्जगदर्शनाढ्यं भव- ति तथा प्रातिभासिकस्यापि पदार्थस्येषत्कार्यक्षम. त्वं दृष्टमस्ति तद्वत् प्रकृतेपि क्षणिकसुखदुःखोत्पत्ति- शक्तत्वमस्तीत्यर्थः । अतइदं पदार्थजातं किलेति आनंदगिरिकृतटीकासमेता निर्धारणे दृष्टसृष्टं दर्शनकालएव सृष्टं परंतु दृढसं- स्कारानुबंधेन ज्ञायते यथोल्मुके भ्राम्यमाणे परि- धिरूपं तेजोगोचरीभवति नोल्मुकं भवतीत्यर्थः ॥८१॥ मायाध्यासाश्रयेणप्रविततमखिलंयन्म- यातेनमत्स्थान्येतान्येतेषुनाहंयदपिहिर- जतंभातिशुक्तौनरौप्ये॥शुक्त्यंशस्तेनभू- तान्यपिमयिनवसंतीतिविष्वग्विनेता- प्राहास्मादृश्यजातंसकलमपिमृषैवेंद्र- जालोपमेयम् ॥ ८२॥ अथोक्तार्थे भगवद्वाक्यं संवादयन्नाह-मायेति ।. य- यस्मात्कारणान्मायारूपोयोयमध्यासः आरोपस्तस्या- श्रयीभूतेन मया अखिलं विश्वजातं नामरूपात्मकं प्रविततं विस्तारितं तेन कारणेन एतानि भूतानि मदाश्रयवर्तीनि इति प्रतीयते परंतु तेषु भूतेषु अहं नास्मि असंगोसहं न वर्ते ननु कारणं हि स्वका- यमभिव्याप्य तिष्ठतीति प्रसिद्धिरस्ति कथमुक्तं ते- षु नाहमित्याशंक्य दृष्टांतेनोत्तरयति यदपीति । य. द्यपि शुक्तौ रजतं भाति परंतु रौप्ये शुक्क्यंशोन १२० श्रीमच्छंकराचार्यकृतशतश्लोकी दृश्यते अथ यदि दृश्येत भ्रमएव न स्यात् तेन कारणेन मयि भूतान्यारोपितानि परंतु तेषु नाह- मित्यर्थः । इति विष्वग्विनेता जगद्गुरुः श्रीयादवेंद्रः प्राह तस्मात्कारणात्सकलमपि दृश्यजातं मृषैव किं भूतं इंद्रजालोपमेयं इंद्रजालवदुषमीयते तत् । तदुक्तं भगवता-"मयाततमिदंसर्वजगदव्यक्तमूर्तिना । मत्स्था- निसर्वभूतानिनचाहतेष्ववस्थितः ॥ ८२ ॥ हेतुःकर्मैवलोकेसुखतदितरयोरेवमज्ञो- विदित्वामित्रवाशत्रुरिस्थंव्यवहरतिम- पायाज्ञवल्क्यातभागौ । यत्कर्मैवोचतुः प्राक्जनकनृपगृहेचक्रतुस्लत्प्रशंसांवंशो- तंसोयदूनामितिवदतिनकोप्यत्रतिष्ठत्य- कर्मा ॥ ८३॥ अथ कर्ममीमांसाप्रकरणं व्याख्यायते-हेतुरिति । त- त्र सर्वप्राणिनां सदसत्फलहेतुः कभैवास्ति इति नि- रूपयति लोके सुखंतदितरयोः सुखदुःखयोः हेतुः कारणं कर्मैव नान्यत् । एवमुक्तप्रमेयमविदित्वा अ. ज्ञोज्ञानहीनोजंतुः मित्रं शत्रुर्वा इत्थं मृषैव व्यवहरति १२१ आनंदगिरिकृतटोकासमेता मित्रं सुखहेतुः शत्रुर्दुःखहेतुरिथं अभिनिविष्टः सन् व्यवहरतीत्यर्थः यद्यस्मात्कारणात् प्राक् पूर्व याज्ञव- ल्क्यातभागौ जनकगृहे यज्ञमंडपे कभँवोचतुः तथा तच्छब्देन कर्म तस्यैव प्रशंसां चक्रतुः । न केवलं तौ प्रशंसतुः किंतु यदूनां वंशोत्तंसः श्रीकृष्णोपि इति वदति स्म इतीति किं अत्र अस्मिल्लोके को- प्यकर्मा न तिष्ठतीति । तदुक्तं गीतासु-"नहिकश्वि- रक्षणमपिजातुतिष्ठत्यकर्मकृत् । कार्यतेलवशःकर्मसर्वःत्र- कृतिजैर्गुणैरिति " ॥ ८३ ॥ वृक्षछेदेकुठार-प्रभवतियदपिप्राणिनो- यस्तथापिप्रायोन्नप्तिहेतुस्तदपिनिगदि- तंकारणंभोक्तयत्नः॥ प्राचीनकर्मतहद्वि- षमसमफलप्राप्तिहेतुस्तथापिस्वातंत्र्यंन- श्वरेस्मिन्नहिखलुघटतेप्रेरकोस्यांतरा त्मा॥८४॥ अथ पूर्वग्रंथे यद्यपि कर्मणः प्रशंसा कृता तथापि के. वलस्य कर्मणोन फलदानसामर्थ्य अचेतनत्वात् ११ कुतः १२२ । .. - श्रीमच्छंकराचार्यकृतशतश्लोकी किंतु ईश्वरप्रेरितस्येति सदृष्टांतमाह वृक्षच्छेदइति यद- पि रक्षच्छेदे कुठारः प्रभवति समर्थो भवति तथापि सः प्राणिनोद्यः प्राणोयस्यास्तीति प्राणी जीवत्पुरुषेण नो. यःप्रेर्यमाणएव भवति नस्वातंत्र्येणेत्यर्थः । अथ पुनदृष्टांतमाह-प्रायइति । अन्नं प्रायोनिश्चयेन तृप्तिहे- तुर्भवत्येव तथापि भोक्तृयत्नः पचनभोजनक्रियारूपः कारणं निगदितः । अथ यदर्थं दृष्टांतद्वयमुक्तं तदाह- प्राचीनमिति । तद्वदुक्तदृष्टांतवत्प्राचीनं कर्म प्राक् ज- न्मकृतं कर्म यद्यपि विषमसमफलहेतुर्भवति तथापि अस्मिन्नश्वरे कर्मणि फलदाने स्वातंत्र्यं नहि घटने किंतु तत्प्रेरकोंतरात्मा अवति अयमर्थः क्रियमाणं सद- सत्कर्म तदैव नश्यति तद्धर्माधर्मरूपेण आत्मनि तिष्ठ- ति तत्तदात्मना प्रेरितं सद्भोगानुकूलं भवति फलभोग- स्तु कर्मसाक्षिणेश्वरेण प्रेरितस्याविद्यया देहाभिमानि- नो जीवस्यैव संभवति “पुण्यःपुण्येनकर्मणाभवति- पापः पापेनेतिश्रुतेः " तदुक्तं भगवता-" कार्यकारण- कर्तृत्वेहेतुः प्रकृतिरुच्यते । पुरुषःसुखदुःरवानांभोक्तृत्वे हेतुरुच्यतेइति ” ॥ ८४ ॥ स्मृत्यालोकेषुवर्णाश्रमविहितमदोनित्य- काम्यादिकर्मसर्वब्रह्मार्पणस्यादितिनिग- आनंदगिरिकृतटीकासमेता मगिरःसंगिरंतेतिरम्यम् ॥ यन्नासानेत्र- जिवाकरचरणशिरःश्रोत्रसंतपणेनतुष्ये- दंगीवसाक्षात्तरुरिवसकलोमूलसंतर्प- णेन ॥ ८५॥ क्षुद्रदेवताराधनमपि ब्रह्मार्पणमेव भवतीत्याह-स्मृत्त्ये नि । लोकेषु मनुष्यलोकेषु स्मृत्या वर्णाश्रमक्रमेण य. नित्यकाम्यादि कर्म विहितं तत्सर्वं निषिद्धव्यतिरेकेण पंचविधं ब्रह्मार्पणमेव स्यात् इति निगमगिरः अतिरम्यं युक्तियुक्तं संगिरते यद्यपि कर्तारः फलाभिसंधानाद- न्यदेवतोद्देशेन कर्म कुर्वति तथापि ब्रह्मार्पणमेव कर्ता- रस्तु तत्तद्वासनाभिलिप्यते तत्र षडिधानि कर्माण्य- शिहितानि नित्यान्यकरणे प्रत्यवायसाधनानि संध्या वंदनादीनि काम्यानि इष्टसाधनानि ज्योतिष्टोमादीनि। नैमित्तिकानि पुत्रजन्मायनुबंधीनि जातेष्ट्यादीनि । प्रायश्चित्तानि पापक्षयसाधनानि उपासनानि देवता- राधनरूपाणि । प्रतिषिद्धानि हिसादीनि । तत्र नित्यादी- नां बुद्धिशुद्धिः परमं प्रयोजनं उपासनानां तु तदैका- य्यं । “ विविदितियज्ञेनेत्यादिश्रुतेः । ” “ तपसा कि- ल्बिषंहतिइत्यादिस्मृतेश्च नित्यनैमित्तिकयोरुपास- १२४ श्रीमच्छंकराचार्यकृतशतश्लोकी नानां चावांतरफलं पितृलोकप्राप्तिः । “ कर्मणापितृ- लोकोविद्ययादेवलोकइतिश्रुतेः । * अथान्यदेवतोद्दे- शेन कर्म कृतं तद्ब्रह्मार्पणमित्यत्र युक्तिमाह-यदिति । नासानेत्रजिट्वाकरचरणशिरःश्रोत्राणां अवयवानां सं. तर्पणेन साक्षात्यतीतिः सिद्धा अंगी देही तुष्येत् क- इव मूलसंतपणेन तरुरिव वृक्षचरणसंतषणेन यथा सकलोरक्षः संतपितोभवनि एवमन्यदेवतोद्वेरोन कृतपि कर्मणि अवयवीभूतः सकलदेवतात्मकः परमेश्वरएव तुष्यतीत्यर्थः ॥ ८५॥ याप्रैत्यात्मानभिज्ञःश्रुतिविदपितथाक- मककर्मणोस्यनाशःस्यादल्योगात्पु- मरवतरणेदुःखभोगोमहीयान्॥आत्मा- भिज्ञस्यलिप्सोरपिभवतिमहान्शाश्व- तःसिद्धिभोगोत्यात्मातस्मादुपास्यःख- लुतदभिगमेसर्वसौख्यान्यलिप्सोः॥८६॥ अथेश्वरानभिज्ञानेन यत्कर्मकृतं तद्यवस्थामाह-यइ- ति । यः श्रुतिविदपि वेदज्ञोपि तथा कर्मकृत् या- गादि कर्मकृत्पुरुषः आत्मानभिज्ञः आत्मबहिर्मुखः सन्पैति म्रियते अस्य पुरुषस्य कर्मणः नाशः स्या- आनंदगिरिकृतटोकासमेता १२५ त् । कस्मात् अल्पभोगात् देवलोकादिशोगात् “तेतं- भुक्त्वावर्गलोकं विशालं” इत्यादिभगवद्वचनात् । तथा. स्य पुरुषस्य पुनरवतरणे महीयान्दुःखभोगोभवति । अथात्माभिज्ञः सन् यः फलेप्मुर्भवति तस्य का ग. तिरित्याह लिप्सोरप्यात्माभिज्ञस्य महान् शाश्वतः सि. द्धिभोगोभवति महान् स्वर्गलोकादप्यधिकः तथा- शाश्वतः बहुकालभोग्यः एवंविधोऽणिमायष्टसिद्धि- भोगोभवति । तथा अलिप्सोः सिद्ध्यनपेक्षस्यात्माभि. ज्ञस्य पुरुषस्य तदधिगमे आत्मप्राप्तौ सर्वसौख्यानि अवंति । परमानंदप्राप्तिर्भवतीत्यर्थः अत्र श्रुतिः-"अ- थयोहवाअस्माल्लोकातूवर्लोकअदृष्ट्वाप्रतिसएनमवि- दितोनभुनक्ति यथावेदोवाननूक्तोन्यद्वाकांकतंभवति- यदुहवाअप्यनेवंविन्महत्पुण्यकर्मकरोतितद्वास्यांततःक्षी यतएवात्मानमेवलोकमुपासीतसयआत्मानमेवलोकमु- पास्तेनहास्यकर्मक्षीयतेस्मा वात्मनोयद्यत्कामयतेत. त्तत्सृजतइति” । भाष्यं-अथ यः पुरुषः अस्मान्म. त्युलोकात्वलॊकमात्मानमदृष्ट्वा साक्षादकत्वा प्रति प्रियते सएनमात्मानमविदितः अजानन् कर्मफलं भोक्तुं न समर्थोभवति । भोगावसाने कर्मनाशात् च्यवतइत्यर्थः । अथ कुतः आत्मानं न पश्यती- ।
আঁৗন জন্মানহানী त्याह । यथा वेदोवाननूक्तः यथा वेदः अन- नूक्तः अर्थमनुलक्षीकृत्य न पठिनः न अनूक्तः वेदतात्पर्यमजानतः आत्मदर्शनं कुतइत्यर्थः । तथा अन्यवेदार्थाद्विपरीतं यत्कर्म तत् अक्तमेव निरर्थ- कमेवेत्यर्थः । तथा अववित् न एवं वित् अनेवंवित् स्वस्वरूपानभिज्ञः पुरुषोयन्महत्पुण्यं अश्वमेधादिकं कर्म करोति तदस्य अंततः भो- गावसानात् क्षीयते नाशमामोति । अथ चित्त- शुद्धिद्वारा आत्मप्रकाशकं यत्कर्म तन्न नश्यतीत्यर्थः । तदुक्तं भगवता-"अंतवत्तफलनेषांतद्भवत्यल्पमेधसांइ. ति” । तदेवाह तदिति तत्तस्मात्कारणात् । “आत्मा- नमेव लोकमपासीत सयः आत्मानमेवलोकमुपास्ते ह' इति निश्चयेन तस्य कर्म न क्षीयते ननु वि. षयसुखलंपटस्य कथमात्मलोकापेक्षेत्यतआह-अ- स्मादिति अस्मादात्मनः सकाशात् यद्यत्कामयते का. मनाविषयं करोति तत्तत्सृजते संपादयति आत्म- योगात् अणिमादिसिद्धयोलभ्यते किंपुनरन्यदि- - त्यर्थः ।। ८६ ॥ सूर्यायैरर्थक्षानंनहिजवतिपुनःकेवलै - त्रचित्रंसूर्यात्सूर्यप्रतीतिर्नभवतिसहसा १२७ आनंदगिरिकृतटीकासमेता नापिचंद्रस्यचंद्रात् ॥ अग्नेरग्नेश्वकिंतु स्फुरतिरविमुखंचक्षुषश्चिययुक्तादात्म- ज्योतिस्ततोयंपुरुषइहमहोदेवतानांच चित्रम् ॥८७॥ अथ सूर्यचंद्रादीनां अर्थप्रकाशकत्वेन स्वातंत्र्यम स्तीति प्रकटयन्नाह-सूर्यायैरिति । सूर्यायैः सूर्यचं- द्राग्निभिः केवलैः स्वतंत्रैरर्थभानं पदार्थज्ञानं न भ. बतीति प्राइनिरूपितमेवास्तीति नात्र चित्रमपूर्व । अथान्यदपूर्व मस्तीत्याह -सूर्यादीति लोके सूर्यायाः स्वस्वप्रकाशकाइति प्रसिद्धिरस्ति सा न तात्विकी कुतः यतः सूर्यात् सूर्यप्रतीतिः सहसा अकस्मान्न भवति । तथा चंद्रप्रतीतिरापे चंद्रान्न भवति तथा नर्दीपादेर्वा प्रतीतिर्नदीपादग्नेर्वा भवति । किंतु रवि- मुखं सूर्यचंद्रप्रजृति चिययुक्तादात्मप्रयुक्ताच्चक्षुषोनि- मित्तभूतात् स्फुरति प्रकाशते न निद्राणस्य जात्यंधस्य प्रकाशने तस्मात्कारणादयं यः कश्चित्पुरुषोजागृत्यां स्वमेप्यात्मज्योतिः । स्वयंप्रकाशकोयस्य सतथाविधो- स्ति । इह इंद्रियच्यापारे चित्रं देवानां चक्षुरादीनां महत्तेजोरूपरसादिप्रकाशकमस्ति । अबश्रुतिः-"चित्रं १२८ श्रीमच्छंकराचार्यकृतशतश्लोको देवानामुदगादनीकंचक्षुमित्रस्यवरुणस्याग्नेः । आपा- द्यावापृथिवीअंतरिक्षसूर्यआत्माजगतस्तस्थुषश्न"। भा- व्यं-जगतोजंगमस्य तथा तस्थुषः स्थावरस्य चरा- चरस्य सूर्यः प्रकाशकः आत्मैव न सूर्यादिर्यतः सआत्मा। मित्रस्य नेत्राधिदैवतत्वेन रूपग्राहकस्या दित्यस्य तथा वरुणस्य रसग्राहकस्य तथाग्नेर्वागा. धिदैवतस्य चक्षुः प्रकाशकः । नयात्मप्रकाशमंतरेण सूर्यादिप्रतीतिः अथैतदर्थे प्रत्यायकमनुभवमाह चि- मिति । द्योतयंत्यर्थान् प्रकाशयंति तद्देवाश्चक्षुरा- यास्तेषामनीकं प्रकाशसमूहं चित्र विचित्रमुदगादुद- यं प्राप्तमनुभूयते । अत्रैतदुक्तं भवति । सूपरसा- दषु पंचविधविषयेषु मध्ये सूर्यादिरेकैकत्यैव ग्राह- कं न सर्वेषां विचित्राणां तथा विविधानां ग्राह- कत्वं तु तत्तदृत्तिप्रवर्तकस्य परमात्मनएव संभवति नान्यस्य एवं देहावच्छेदेन यदध्यात्मस्वरूपं एकम- नुभूयमानं परमात्मतत्वं तत् द्यावापृथिवीमंतरिक्षं च आप्तस्वकीयेन तेजसा आसमंतादापूरयन् सर्वात्मक. वेन स्थितमित्यर्थः॥ ८७ ॥ प्राणेनामांसिभूयःपिबतिपुनरसावन्नम- नातितत्रतत्पाकंजाठरोग्निस्तदुपहितब- आनंइगिरिकतटीकासमेता लोद्राक्शनैर्वाकरोति॥व्यानःसर्वांगना- डीष्वथनयतिरसंप्राणसंतपणार्थनिःसा- रंपूतिगंधंत्यजतिबहिरयंदेहतोपानसं- ज्ञः॥ ८८॥ अथ प्राणादिकत्यमाह-प्राणेनेति । असौ देही प्रा. णेन कृत्वा भूयः अंभांसि पिबति पुनरन्नं चाश्ना. ति तस्य तस्य पीतस्य भक्षितस्य वा तदुपहितबलो. जाठराग्निः पाकं करोति तेन प्राणेन उपहितबल: वीज्यमानः सन् द्राक् शीघं शनैर्वा यथा प्राणः प्रयत्नं करोति अथ पाकानंतरं परिपक्वान्नोदकस्य रसं सारजागं प्राणसंतर्पणार्थं व्यानः सर्वांगनाडीषु नयति प्राणशब्देनेंद्रियाणि तेषां संतर्पणार्थ करो- ति तथा शेषं निःसारमन्नमुदकं पूतिगंधं मूत्रविष्ठा- दिरूपेण त्यजति बहिनिःसारयति देहतः अपानसंज्ञः श्रुतिः-"तत्सवितुर्वरेण्यं भर्गोदेवस्यधीमहि । धियोयो- नःप्रचोदयात् ॥ परोरजसेसावदोम्। भाष्यं तद्देवस्य योतमानस्य स्वप्रकाशस्य भर्गः तेजोधीमहि चिंतया- मः । किंभूतं सवितुर्वरेण्यं सवितुः सूर्यस्य वरेण्यं उपजीव्यं अथ तदेव स्वरूपमाह-धियइति । यो- देवः नोस्माकं धियः प्रचोदयात् बुद्धीः प्रेरयति नि- । । श्रीमच्छंकराचार्यकृतशतश्लोकी श्चयात्मकत्वेन रूपं प्रकटयति । अत्रैतदुक्तं भवति-स- त्यज्ञानानंदात्मकः सविता सर्वजगदुपादानाश्रयतया जगत्कर्ता सर्वोपाधिभिः चिक्रीडिषुः सन्नुपाधिधर्मान् विजिगीषुः स्वयं वशीकृतमपि सर्वात्मनामात्मभूतः सन् अंतर्यामी देवोनो स्माकं धियोधीः प्रचोदयात् तस्य सवितुर्दैवस्यात्मभूतं संसारक्लेशमूलभर्जकं भर्गः तेजः परं ज्योतिः धीमहि ध्यायेमहि । किंभूतः रजसः परः अत्र रजसइति चतुर्थीपंचम्यर्थोवगम्यते । असौ अदः व्य- क्ताव्यक्तस्वरूपाद्रजसोलोकात्परोरजांसि लोकाइति । यास्कः सावदोम् इत्यर्वाग्जनीप्रणवगम्या ॥ ८८ ॥ व्यापारंदेहसंस्थाप्रतिवपुरखिलंपंचर- त्यात्मकोसौप्राणःसर्वेद्रियाणामधिप- तिरनिशंसत्तयानिर्विवादम्॥यस्येत्थंचि- इनस्यस्फुटमिहकुरुतेसोस्मिसर्वस्यसा- क्षीप्राणस्यप्राणएषोप्यखिलतनुभृतांच- सुपश्चपुरेषः॥ ८९॥ एवं प्राणादीनां कृत्यमुक्त्वेदानी तन्निखिल सत्यात्म- कस्य मुख्यप्राणस्य सत्ताप्रकाशदानेन तत्साक्षिसच्चि- दानंदमात्मानं विशदीकृत्य लक्षयति-व्यापार मति ।
आनंदगिरिकृतटीकासमेता इह व्यष्टिदेहे समष्टिदेहे च चिहनस्य चेत्परहित. चिन्मात्रस्य यस्यात्मनः सत्तया सत्तां प्राप्य सन्मू- त्वा पंचतत्त्यात्मकः पूर्वोक्तप्राणनादिपंचवत्तिमान् भू- त्वा देहसंस्थः समष्टौ समष्टिरूपेण उपास्योजूत्वा व्यष्टिदेहे व्यष्टिरूपेणोपासकोभूत्वा सएव सर्वैद्रिया- णां सर्वेषां शब्दादिज्ञानसाधनानां समष्टिव्यष्टिदेह- स्थानां करणानामधिपतिः स्वामी तं विना सर्वक- रणव्यापारानुपपत्तेः असौ प्राणः पूर्वोक्तप्राणः जी. वतः सन् प्रतिवपुः प्रत्येकं सर्वशरीरेषु स्कुट व्यक्तं- यथा तथा अखिलं संपूर्ण व्यापार व्यवहारं कुरुते निवर्तयति । सएवं विधसर्वसत्ताप्रकाशदानेन निर्वाहकः अतएव सर्वस्य समस्तस्य कार्यस्य निमित्तोपादान- त्वाभ्यां साक्षी अव्यवधानेन प्रकाशकः अस्मि भवामि सएवाहमस्मीत्यर्थः । अत्रश्रुतिप्रमाणयति-" एषःप्रत्यक्परोक्षत्वरहितःप्राणस्यसमष्टिव्यष्टिरूपेणसक- लजगद्व्यापारकारणस्यवायोःप्राणजीवनहेतुः भाष्यं- प्रत्यक्परोक्षहीनः आत्मासकलतनुभृतां समस्तशरीर- धारिणां व्यष्टिसमष्टिजीवानां चक्षुषः ज्ञानस्य चक्षुः ज्ञानप्रकाशकइत्यर्थः ।।“ प्राणस्यप्राणमुनचक्षुषश्चक्षुरि. त्यादिश्रुतेः " ॥ ८९ ॥ । ma श्रोमच्छंकराचार्यकृतशतश्लोकी यंक्षांतंचिहनैकंक्षितिजलपवनादित्यचं- द्रादयोयेासातस्यैवचानुप्रविरलगतयो भांतितस्मिन्वसंति॥ विद्युत्पुंजोग्निसंघो- प्युडुगणविततिर्भासयेत्पिरेशंज्योतिः- शांतंयनंतंकविमजममरंशाश्वतंजन्म- शून्यम्॥९॥ एवं सर्वप्रकाशकत्वेन लक्षीकृतस्यैव स्थूणानिखनन- न्यायेन दृढीकरणाय तदेव सर्वप्रकाशकत्वमक्तमपि । "नतत्रसूर्योनातिनचंद्रतारकंनेमाविद्युतोभांतिकुतोय. मग्निः। तमेवांतमनुभातिसर्वतस्यभासासर्वमिदंविभाति” इतिश्रुत्यंतरप्रमाणेन द्रढयति । यं शांतमिति । प्रविर- लगतयः अन्योन्यं न श्लिष्टा गतिः स्वरूपव्यवहारा- दिस्थितिर्येषां ते तादृशाः क्षितिः पृथ्वी जलं तोयं पवनोवायुः । आदित्यः सूर्यः चंद्रः सोमः आदिर्येषां वागादीनां ते सर्वे यं सच्चिदानंदघनं एकं निरपेक्षं अ- न्यनिर्वाहक्षमं आत्मानं भांतं स्वतः प्रकाशमानं संत अनु पश्चात् भांति प्रकाशंते किंच तस्मिन् स्वप्रकाश- सदात्मनि वसंति तिष्ठति तत्सत्तां प्राप्यैव स्वस्वव्यापा- रक्षमाजाताइत्यर्थः। तमुक्तलक्षणंपरेशं सर्वजगत्कार- ।
। । आनंदगिरिकृतटीकासमेता णभूतं प्रकृतिनियंतारं शांत जगद्वासनाऽस्पृष्टं अनंत नाश्यनाशान्यथानुपपत्त्या स्वतोनाशहीनं । कविं ज्ञा- नरूपं शास्त्रयोनित्वेन सर्वज्ञोपलक्षितमित्यर्थः अजं जन्मशून्यं अमरं मृतिशून्यं जन्मनाशान्यथानुपपत्त्या जन्ममरणहीनमित्यर्थः । तत्रैव हेतुद्वयं स्पष्टार्थं शा. श्वतं नित्यं जन्मशून्यं जन्मरहितं एतेन यास्कपठिताः "जायतेअस्तिवर्धतेविपरिणमतेअपक्षीयतेविनश्यतीति" पड्डिकाराअपिनिरस्ताञयाः । तमात्मानं विद्युत्पुंजो विद्युतां पुंजः समूहः लोकदृष्ट्या प्रकाशकोपि तथा अ- निसंघः वङ्गीनां समूहस्तथाभूतोपि । तथा उडूनां न- क्षत्राणां गणस्य समूहस्य विततिः विस्तारः उपलक्षणमे- तत् सूर्यादीनां । तत्सर्वप्रकाशजातं भासयेत्किप्रकाश- येत् किं नैव प्रकाशयेत् । लोकेपि प्रकाशस्य प्रकाश- क प्रकाशयितृत्वमदृष्टचरमिति भावः॥ ९० ॥ तब्रह्मैवाहमस्मीत्यनुभवउदितोयस्यक- स्यापि पुंसःश्रीसद्गुरूणामतुलितकरु- णापूर्णपीयूषदृष्ट्या।जीवन्मुक्तःसएवनम- विधुरमनानिर्गतेनायुपाधौनित्यानंदैक- धामप्रविशतिपरमंनष्टसंदेहरत्तिः॥९॥ १२ ।
asana । - १३४ श्रोमच्छंकराचार्यकृतशतश्लोकी एवंभूतात्मानुभवतोजीवन्मुक्तिः फलं भवतीत्याह- तद्ब्रह्मेति । यस्य कस्यापीत्युक्त्या जातिवर्णाश्रमवयो- वस्थास्त्रीपुरुषोच्चनीचादिभेदालोकदृष्टाः न शास्त्रीय- ज्ञानप्रतिबंधकाइतिसूचितं । लौकिकानां अनधिका- रित्वभ्रमभूतानामतिदेशिकाधिकारित्वनिरूपकवाक्यै- बाँधस्य दृश्यमानत्वात्पुंसः इत्युक्त्या मुमुक्षोः मोक्ष- स्य मुख्यसाधनतत्वज्ञानकारणगुरुशुश्रूषापूर्वकश्रवणा- दिषु पुरुषप्रयत्नएवापेक्षितइति सूचितं । यस्य कस्या- प्यधिकारिणः पुरुषस्य श्रीसद्गुरूणां मुक्तिश्रीसहितानां सतां सद्रूपब्रह्मसाक्षात्कारवतां गुरूणां देशिकवर्याणां गुरुणामुक्तिः । श्रीमत्त्वे सत्वे च श्रुतिः " भट्टैषांलक्ष्मी- चिहिताधिवाचि "1"अस्तिब्रह्मेतिचेद्वेद । संतमेनं- ततोविदुरिति । अतुलिता निरुपमा या करुणा तया पूर्णा भरिता अतएव पीयूषं अमृतं तद्वन्मरणनि- वर्तिका दृष्टिः ज्ञानं तया कृत्वा " दृश्यते त्वय्ययाबु- ड्येतिश्रुतेः " गुरुतः प्राप्तया ब्रह्मविद्ययेत्यर्थः । तदुक्त. लक्षणं ब्रह्मैव देशकालवस्तुकृतपरिच्छेदरहितं तत्पद- लक्ष्यं अहमेव त्वंपदलक्ष्यं कटस्थरूपमेव ततः पृथगई न भवामीत्येवं निश्चयरूपः अनुभवः साक्षात्कारः उ- दितः आविर्भूतः चेत् यदि स्यात् । तदानीमेवसपुरुषः
मानंदगिरिकृतटीकासमेता
भ्रमविधुरमनाः भ्रमेण विपरीतज्ञानेन विधुरं वियुक्तं
मनः जीवन्मुक्तिव्यवहारयोग्यप्रारब्धशेषं यावन्मनो-
यस्य अतएव नष्टसंदेहत्तिः नष्टाविलीनाः संशयवि-
शिष्टाः वृत्तयोयस्य संतथाभूतः सन् जीवन्मुक्तः भवति
तस्यैव विदेहमुक्तिफलमप्याह सएवेति। सजीवन्मुक्त-
एव प्रारब्धति अनाद्यपाधौ निर्मूलमायोपाधौ निर्गते
स्वरूपतोलयं प्राप्ते सति बीजनाशस्य पूर्वमेव ज्ञान-
समकालं जातत्वात् परमं कार्यकारणास्पृष्टं निरुपा-
धिकमित्यर्थः । नित्यानंदं निरतिशयं बाधहीनं सुख-
रूपं एकं मुख्यं धाम तेजः गृहं च स्वरूपं सर्वसूर्या-
दितेजः प्रकाशकत्वात् सर्वब्रह्मादिजीवानां निवासभू-
तत्वाच्च प्रविशति सएव भवतीत्यर्थः ॥ ९१ ॥
नोदेहोनेंद्रियाणिक्षरमतिचपलंनोमनो-
नैवबुद्धिःप्राणोनैवाहमस्मीत्यखिलजड-
मिदंवस्तुजातंकथंस्याम् ॥ नाहंकारोन-
दारागृहसुतसुजनक्षेत्रवित्तादिदूरंसा-
क्षीचित्पत्यगात्मानिखिलजगदधिष्ठान-
भूतःशिवोहम् ॥ ९२॥
१३६ श्रीमच्छंकराचार्यकृतशतश्लोकी इदानी तस्यैव ज्ञानिनोयावत्यारब्धं सर्वव्यवहाराप्र- तिबंधकत्वेन जीवन्मुक्तिसुखमनुभवितुं सर्वदेहाद्यस- त्यानुसंधानपूर्वकं स्वात्मसुखानुसंधानमाह-नोदेहइति। देहः पंचीकृतपंचभूतकार्यः अन्नविकारः स्थूलदेहः अहं न मम चिद्रूपत्वात्सत्वाच्च । देहस्तु क्षरं अ- तिचपलमिति हेतुर्भितविशेषणद्वयं क्षरत्वान्नाशध- मित्वात् अन्यथान्यथापरिणामत्वेनातिचंचलत्वाच्च । आत्मा तु सद्रूपत्वेन स्थिरश्चिद्रूपश्च अनुभूयते । अ- तोवलक्षण्यादुजयोरहमात्मा देहोन भवामि किंतु देहस्तु नास्सेवेत्यर्थः । किंच अर्ह आत्मा इंद्रि- याणि क्रियासाधनानि ज्ञानसाधनानि चेत्युजया- मकानि दशापि न भवामि इंद्रियाणामन्योन्य- व्यावत्त्या असत्वप्रतीतेः । विषयाणामसत्वेनेंद्रिया- णामसत्वस्यानुभूयमानत्वाचंचलत्वाच्च तान्यहं न भवामि पूर्वविशेषणद्वयमप्यनात्महेतुत्वेनात्र योज्यं । किंच अहं मनः संशयात्मकं न भवामि नास्मि । कामादित्तिमत्वेनोत्पत्त्यादिमत्वेन चविकारवत्वादस- त्वाच्च मनोनास्येव अहं तु मनोविकाराणां उत्पत्ति- विनाशयोश्च प्रकाशकत्वेन सच्चिद्रूपेण प्रकाशमानः अस्म्यतोमनोनाहमित्याशयः । किंच बुद्धिः निश्च. ।
आनंदगिरिकृतटीकासमेता १३७ यात्मिकांतःकरणत्तिरपि अहं न भवामि जायदा- यवस्थावत्वेनोत्पत्तिविलयत्वात् अहं तु आत्माव- स्थात्रयतद्बुद्धिसाक्षी सद्रूपः सबुद्धिः कथं स्यान्नैव स्यामित्यर्थः । किंच प्राणः पंचरत्त्यात्मकः शारीरो- वायुः अहं नैवास्मि नैव भवामि इदं मम कूट- स्थस्यात्मनोप्रकाश्यं अखिलं जहमिदं सबै अचिद्रूपं देहादिवस्तुजातं पदार्थसमूहः अहं कटस्थः सञ्चि- दानंदः कथं स्यां केन प्रकारेण भवामि अतए- वाहं कार्यस्य सर्वस्य दृश्यमानत्वात् जडत्वादसत्वा- द्विकारित्वाच्च अहं कारस्यापि तथासत्वात्सः अहं कारः अहं द्रष्टा सच्चिदानंदः कूटस्थः इत्यतीव वै- लक्षण्यान्न भवामि अतएव दाराः स्त्री गृहं वेश्म सुताः पुत्राः सुजनाः संबंधिबांधवमित्रभृत्यादयः क्षेत्र भूमिः वित्तं द्रव्यं आदिमुख्यं यस्य जाति- कुलवर्णाश्रमधर्मादेः तत्सकलमपि देहादिसापेक्षमि- ति कृत्वा दूरं अतस्तन्नैवाहमस्मि । अहं तु एत- स्य देहादिजडवस्तुजातस्य साक्षादव्यवधानेन प्रका- शकत्वात्साक्षीति प्रकाशकत्बाच्चित् ज्ञानं सर्वांतरत्वेन स्वतः प्रकाशमानत्वात्प्रत्यक् आतत्वात्सदूपत्वादात्मा यं विना सर्वारोपाधिष्ठानस्य शबलब्रह्मणोप्यसिद्धरुप- १३८ श्रीमच्छंकराचार्यकृतशतश्लोकी चारेणनिखिलस्य समस्तजगतोविश्वस्याधिष्ठानभूतः अधिष्ठानत्वेनोक्तः शिवः सुखरूपः अस्मि ।। ९२ ॥ दृसंयद्रूपमेतद्भवनिचविशदंनीलपीताय- नेकंसर्वस्यैतस्यदृग्वैस्फुरदनुभवतोलो- चनंचैकरूपम्॥ तदृसंमानसंदृक्परिण- तविषयाकारधीरत्तयोपिदृश्यादृग्रुपए- वप्रभुरिहसतथादृश्यतेनैवसाक्षी॥९३॥ एवं जीवन्मुक्तस्यात्मानुसंधानमुक्त्वेदानी प्रकारांतरेण तदेव पुनराह-दृश्यमिति । एतत् इदंतया प्रतीयमानं रूपं रुप्यते प्रकाश्यतइति रूपं प्रकाशितं तत्सर्व दृश्यं दृग्विषयज्ञानकरूपं नीलपीतादि नीलं श्याम पीतं गौरं इत्यादिविविधगुणवत्वात् एतस्य प्रतीय- मानस्य सर्वस्य अनेकविधस्य रूपस्य दृक् दृश्यते रूपमनया सा दृष्टिः वै निश्चयेन स्फुरदनुभवतः स्फु रंति प्रतीयते अनुभवारूपाणि स्फुरणानि यस्यां सा तथोक्ता सा लोचनं रूपालोकसाधनत्वात् । तच्चैकरूपं एकधैव प्रतीयते । किंच तल्लोचनमपि दृश्यं प्रती- तिविषयं अतोजडं तस्यापि दृक् दर्शनसाधनं मानसं मनः अस्ति तस्यापि मानसस्य दृश्यत्वेनानुभूयमा.
आनंदगिरिकृतटीकासमेता नत्वात्तस्य दृक् दृष्टिः धीनिश्चयात्मकमंतःकरणं त- स्याअपि अनुभूयमानत्वात् । परिणतविषयाकारधी- वृत्तयोपि परिणामेन विषयाकृतित्वेन अनेकविधवा- तू विकारत्वात् धियोरत्तयोदृश्याएव सर्वस्यैतस्य जडविकारित्वेनानात्मत्वं निश्चेयं इह जडसमूहे सर्व- स्मिन् प्रभुः सर्वप्रकाशनसमर्थः साक्षी अव्यवधानेन सर्वप्रकाशकः आत्मा दृयूपएव सर्वप्रकाशसाधनभूतो- पि तथा विषयवत् नैव दृश्यते अनुभवविषयोंनैव भवतीत्यर्थः । ९३ ॥ रज्ज्वज्ञानाद्भुजंगस्तदुपरिसहसाभाति मंदांधकारेस्वात्माज्ञानात्तथासौभृशम- सुखमभूदात्मनोजीवभावः ॥ आप्तो- क्याहिन्नमांतेसचखलुविदितारज्जुरेका तथाहकूटस्थोनवजीवोनिजगुरुवचसा साक्षिभूतःशिवोहम्॥९॥ इदानी तस्यैव जीवन्मुक्तस्य स्वरूपं स्वगुरुवचनवि- श्वासपूर्वकं युक्त्या स्वजीवत्वाबाधेन स्वात्मानुसंधान माह-रज्वज्ञानादिति । यथा मंदांधकारे ईषदंधका- राटते आलोके रज्वज्ञानात्. रज्जुरूपानवलोकनात् श्रीमच्छंकराचार्यकृतशतश्लोको 1 तदुपरि तत्सदृशाज्ञातरज्ज्वामित्यर्थः । सहसा अक स्मात् भुजंगः सर्पः भाति । भासते तथा तेनैव प्रका. रेण स्वात्माज्ञानात् स्वस्वरूपानवलोकनात् स्वसदृशे- ऽनवलोकिते आत्मनि असौ समस्ताज्ञान्यनुभूयमानः भृशं अत्यंत असुखं दुःखरूपः आत्मनः सदाधारं विना- रोपासिद्धेः । आत्मसंबंधी जीवभावः जीवत्वं जाति प्र- काशतइत्यर्थः । सभ्रांतिरेवेति भावः। यथा रज्जुसर्प- दृष्टांते आप्तोत्या प्रामाणिकपुरुषवचनविश्वासेन अ. हिश्रमांते सर्पभ्रांतिनिटत्तौ सत्यां सः सर्पप्रत्ययः पूर्वः विदिता ज्ञाता सति एका रज्जुरेकाज्ञातारज्जुरहिता रज्जुः रशनाप्रत्ययएव अभूत् जाता । तथा तेन प्र. कारेण निजगुरुवचसा निजः स्वकीयः गुरुर्देशिकः त- स्य वचसा युक्त्या तत्वमसीत्यादिवाक्यार्थबोधनरूपां तेन कृत्वा जीवत्वभ्रमांतेजीवत्वधमे नष्टे सतीत्यर्थः । अहं जीवः सुरखी दुःखी जननमरणकर्तृजोक्तरूपः नैव नास्म्येव अहं साक्षिनूतः जीवस्याव्यवहितप्रकाश- त्वासाक्षित्वोपचारवान् वस्तुतस्तु कूटस्थः निर्विकारः शिवः आनंदरूपः अस्मि ॥ ९४ ॥ किंज्योतिस्तेबदस्वाहनिरविरिहमेचंद्रदी- पादिरात्रौस्यादेवं भानुदीपादिकपरिक- आनंदगिरिकृतटीकासमेता लनेकिंतवज्योतिरस्ति॥चक्षुस्तन्मीलने किंभवतिचसुतरांधीधियःकिंप्रकाशेत- त्रैवाहंततस्त्वंतदसिपरमकंज्योतिरस्मि- प्रहम्॥९५॥ इदानी तस्यैव जीवन्मुक्तस्य स्वदृदि गुरुशिष्य भावं प्रकल्प्य संवादेन तस्य परमज्योतिरूपानुसंधानमा- ह-किंज्योतिरिति । हेशिष्य ते तव अहनि दिवसे घ- टपटादिप्रकाशव्यवहारे रात्रौ च निशि किं ज्योतिः तेजः किमस्ति तद्वदव कथय येन दिनरात्रिव्यवहा- रः सिध्यति इति पृष्टे गुरुणा शिष्यः चक्षुः नेत्रं इत्याह येन लोके प्रकाशकं सूर्यचंद्राग्निरूपं प्रकाशकं द्रव्यं तत्यकाश्यं द्रव्यं च व्यवतियते तच्चक्षुरेव ज्योतिरित्य- र्थः । एवमुत्तरे शिष्येण दत्ते गुरुः पृच्छति तन्मीलन- इति तन्मीलने चक्षुषः निमीलने कते सति किंज्योतिः पश्चात्सूर्यचंद्राग्निप्रकाशकतत्यकाश्यघटादिस्फुरणस्य किंप्रकाशसाधकं तेजः ते अस्ति इति पृष्टः शिष्यआह नेत्रनिमीलनानंतरं सर्वव्यवहारस्फुरणसाधनं ज्योतिः नितरां अत्यंतप्रकाशकं धीर्बुद्धिः अस्तीत्युत्तरं दत्तं ततोगुरुः पृच्छति धियइति । धियोपि बुद्धेः नेत्रसूर्या ।
। १४२ श्रीमच्छंकराचार्यकृतशतश्लोकी दिवत्प्रकाशत्वेनानुभूयमानायाः तत्प्रकाशे ज्ञेयत्वव्य- वहारे ते तव किंज्योतिस्तेजः इति पृष्टः शिष्यआह अहमिति । मम बुद्ध्यनुभवितृत्वात् । तत्र बुद्धिप्रकाश- व्यवहारे साधकं अहंज्योतिरस्मि एवमुक्ते शिष्येण गुरुः पृच्छति तत्रेति । तत्रापि अहंत्वस्यापि अनुभूयमानत्व- व्यवहारे साधकं तव किंज्योतिः किंप्रकाशकं तेजः अ- स्ति इति पृष्टः शिष्यआह अहमिति। अहंत्वप्रकाशक- आत्मास्तीत्यर्थः । एवमुक्तोगुरुराह ततस्त्वमिति । त्वद- न्यस्य कस्यापि प्रकाशद्रव्यस्याभावात् प्रकाशद्र- व्यस्यापि तत्यकाशयितुमशक्यत्वात् स्वयंज्योतिष्वेन प्रकाशमानत्वात् तत्परमेकं ज्योतिः कार्यकारणप्रका- श्यप्रकाशकत्वाद्यस्पृष्टं तेजः त्वं त्वंपदलक्ष्यआत्मा असि भवसि । अतस्तज्योतिः प्रकर्षभानरूपः अस्मी- त्यनुभवः अत्रार्थेबृहदारण्यकीश्रुतिरपि "आत्मैवास्य- ज्योतिरित्यादिका॥ ९५ ॥ कंचित्कालंस्थितःकौपुनरिहभजतेनैवदे- हादिसंघयावत्प्रारब्धभोगकथमपिससु- खंचेष्टतेसंगबुध्या॥निर्देवोनित्यशुद्धोवि- गलितममताहंकृतिनित्यतृमोब्रह्मानंद- । आनंदगिरिकृतटीकासमेता स्वरूपःस्थिरमतिरचलोनिर्गताशेषमो- हः॥९६॥ एवं भूतानुभववतोजीवन्मुक्तस्य व्यवहारमाह-कं. चिदिति । सः ब्रह्मवेत्ता जीवन्मुक्तइत्यर्थः । कंचित्का- लं कतिचित्कालपर्यंतं यथालोकं यथाधिकारिव्य- क्तिपरिच्छेदककालपर्यंतमित्यर्थः । कौ स्थूलदेहापे- क्षया पृथिव्यां वस्तुतस्तु ब्रह्मवसिष्ठादीनामपि अ- न्यलोकेषु स्थितिश्रुत्या कौ क्षेत्रशब्दवाच्येंतःकरणे स्थितः वर्तमानइव लक्षितोपि इह पृथिव्यां क्षेत्रे च पुनः देहक्षेत्रादिसत्वनिवृत्तेः पश्चात् देहादिसंघ स्थू- लदेहस्त्रीपुत्रमित्रादिसमूहं नैव भजते नैवांगीकरोति । सत्वेनात्मनि तत्संबंधवत्वप्रतीति न करोतीत्यर्थः किंच क्षेत्रस्थूलदेहादिसंघे च यावद्यारब्धभोग प्रारब्धसो. गपर्यंत कथमपि ब्रह्मवेत्तुः ईश्वरत्वेन मायाप्रारब्ध- योरधीनत्वाभावात् । तद्विना च कर्तृत्वभोक्तृत्वानुपंप तेर्भोक्तृत्वान्यथानुपपत्त्या प्रारब्धभोगस्य ब्रह्मज्ञानां ब्र- मादीनां कर्तृभोक्तव्यवहारस्यापि दृश्यमानत्वात्सर्वव्य- वहारस्य मायामात्रत्वेनानिर्वचनीयोब्रह्मवेतृव्यवहार- इतिभावः असंगबुद्ध्या असंगब्रह्मात्मबोधेन सुखं यथा श्रीमच्छंकराचार्यकृतशतश्लोकी भवति तथा निःसंशयत्वान्निदुःरवमित्यर्थः । चेष्टते चे. टावत्वेन प्रतीतोभवतीत्यर्थः । तस्यासंगबोधमेवोत्तरा- थेन विशेषणविशदयति निद्वः सुखदुःरवादिद्वंद्वहीनः तत्र हेतुः नित्यशुद्धः जीवत्वस्य पापपुण्यवत्वेन शु. द्धत्वस्य कादाचित्कत्वाद्ब्रह्मणोभेदं प्राप्तस्य ज्ञानिनः कालत्रयेपि पुण्यपापहीनत्वान्नित्यशुद्धत्वमिति भावः अतएव विगलितममताहंकृतिः अत्यंत मुत्पत्तिबीजर- हितत्वेन नष्टा ममता अन्यत्र पुत्रादौ देहादौ चाहंक- तिस्तादात्म्यं यस्य सः अतएव नित्यतृप्तः निरंकुश- संतोषवान् । तत्र हेतुः ब्रह्मानंदस्वरूपः अपरिच्छिन्ना- नंदरूपः स्थिरमतिः स्थिरे ब्रह्मणि मतिर्यस्य स्वतश्व ब्रह्मरूपत्वादचलः स्थिरः तत्र हेतुः निर्गताशेषमोहः निःशेषनिवत्तः अशेषः मूलाज्ञानपर्यन्तः अज्ञानसमू- हः विपरीतज्ञानसहितोयस्य । अतोज्ञानिनि चेष्टा या प्रतीयते सा मायायाइति भावः ॥ ९६ ॥ जीवात्मब्रह्मभेदंदलयतिसहसायत्प्रका- शैकरूपंविज्ञानंतच्चबुद्धौसमुदितमतुलं यस्यपुंसःपवित्रम्॥ मायातेनैवतस्यक्ष- यमुपगमितासंसृतेःकारणंयानष्टासा- आनंदगिरिकृतटीकासमेता कार्यकत्रीपुनरपिशवितानैवविज्ञानमा- त्रात्॥१०॥ इदनी ज्ञानिनि प्रतीयमानस्य चेष्टामात्रस्य संसार- जनकत्वाभावं सहेतुकं प्रपंचयति-जीवात्मेति । यत् महावाक्यजन्यत्वे सति गुरुमुखश्रुत्या खतोयुक्तिपू. वकसंभावित्वेन निश्वितं ज्ञानं चरमसत्त्याख्यं प्रका- शैकरूपं प्रकाशएवैकं मुख्यरूपं यस्य तादृशं सहसा अकस्मात् तत्कालमित्यर्थः। जीवात्मब्रह्मभेदं जीवात्म- नः वंपदलक्ष्यस्य कूटस्थस्य ब्रह्मणः तत्पदलक्ष्यस्थ च भेदं भिन्नत्वं कारणेन मूलाज्ञानेन सह दलयति नाशयति । तत्तादृशं पवित्रं रागद्वेषादिवासनासहि- तं सर्वमलनिवर्तकत्वात्पावनं "नहिज्ञानेनसदृशंपवित्र- मिहविद्यते इति भगवदुक्तेः । अतुलं निरुपमं यस्या- धिकारिधुरीणस्य पुंसः पुरुषप्रयत्नवतः बुद्धौ शुद्धां- तःकरणे समुदितं संशयविपर्ययरहितमाविर्भूतं अनू- त् तस्य पुरुषस्य तेनैवान्यसाधननिरपेक्षेण ज्ञानेन की या संसृतेः कारणं संसारस्य हेतुरूपा माया स्वतः कार्यकारणहीनत्वेनार्थशून्या प्रत्यपरपर्याया क्षयं नाशं उपगमिता प्रापिता विज्ञानमात्रात् आ- । १३ । श्रीमच्छंकराचार्यकृतशतश्लोकी आसमात्रत्वेन सा माया पुनरपि नाशमाप्नेः पश्चा- दित्यर्थः । अपिशब्दात्पूर्वमपि कार्यत्वं कर्तृज्ञानि दृष्ट्या नासीत् । किंपुनर्ज्ञानानंतरमित्यर्थः । नष्टा नाशं प्राप्ता सती कार्यकर्ती कार्य भ्रमः की जनका नैव भविता न भविष्यतीत्येवं नि- श्वयएव ॥ ९७॥ तस्य विश्वंनेतिप्रमाणाद्विगलितजगदाकार- भानस्यजेद्वैपीत्वायत्फलांजस्यजति चसुतरांतत्फलंसौरभाट्यम्॥सम्यक्स- चिहनैकामतमुखकवलास्वादपूर्णोदा- सौज्ञात्वानिःसारमेवंजगदखिलमिदंस्व- प्रभःशांतचित्तः॥९८॥ - इदानी भासमानायामपि संसृतौ ज्ञानिनि तत्त्यागंदृष्टां- तेन संभावयन्नाह- विश्वमिति । असौ ज्ञानी विश्वं जगत् न नास्ति इति प्रमाणात् एवं विधस्वतःप्रमाण- भूतात् “नेहनानास्तिकिंचनेति" श्रुतिवाक्यादित्यर्थः । विगलितजगदाकारभानः विगलितं बीजसहितं नष्टं ज- गतः आकारइव आकृतिमद्भानं भासनं किंच यस्य रहदा १४७ आनंदगिरिकृतटीकासमेता सर्वापवादेन सम्यक् चिद्धनैकामृतसुखकवलास्वादपूर्णः समीचीनतया चिद्रूपं यद्दनं निबिडं अज्ञानजगदा- दिप्रवेशात्सम्यक् यच्छिद्रहीनमित्यर्थः । एकं स्वगतस- जातीयभेदहीनं अमृतं नाशहीनं सुरखमानंदः तस्य कवलोग्रासः यथा ग्रासः हस्तेन मुखे क्रियते तद्व- सांख्ययोगहस्तेनांतःकरणस्य विद्यारूपमुखे कृतः या- सत्वेनोक्तः तस्यास्वादोनुभवः यद्वत् मुखे क्षिप्तस्य ग्रासस्य जिदयेव तेन पूर्णः नित्यतृप्तः सन् एवं उक्तरी- त्या अखिलं समस्तं जगत् विश्वं निःसारं सत्वसुख- त्वहीनं अतएवेदं दृश्यते न प्रतीयमानत्वाच्चित्त्वरहित ज्ञात्वानुभूय शांतचित्तः शांत अजितबीजन्वेनोपर- तं चित्तं चेतोयस्य सः सज्जगत्त्यजेत् विसृजेत् तत्र दृष्टांतः यदिति । लोके यत् यथा कोपि फ- लांभः नारिंगानादेः फलस्यः अंभः रसं सुतरां अ. त्यंत निःशेषमित्यर्थः। पीत्वा प्राश्य तत्फलं पीतर- सफलं सौराढ्यं सुगंधारितमपि वै निश्चयेन फ. लगतसौगंध्यस्य तृप्तिहेतुत्वाभावात् तृप्तस्य तृप्यपे. क्षाभावाच्च त्यजति तद्वदिति संबंधः॥ ९८ ॥ क्षीयंतेचास्यकर्माण्यपिखलुहयग्रंथिरु- द्भियतेवैछियंतेसंशयायेजनिमृतिफल- ।
१४८ श्रीमच्छंकराचार्यकृतशतश्लोकी दादृष्टमात्रेपरेशे। तस्मिंश्चिमात्ररूपे गुणमलरहितेतत्वमस्यादिलक्ष्येकूटस्थे प्रत्यगात्मन्यखिलविधिमनोगोचरेब- झणीशे॥१९॥ । इदानी ज्ञानिनि बाधिताहंकारादिजगप्रतीतावपि बंध- कत्वं कर्मणां न भवतीत्यस्मिन्नर्थे “ जियते दयपंथि- रित्यादिकांश्रुति" प्रमाणयति-क्षीयंतइति । तस्मिन्सर्व- वेदांतोक्तलक्षणलक्षिते तान्येव लक्षणान्याह। विशेषणैः चिन्मात्ररूपे चैत्यरहितचिन्मात्रे तत्र हेतुः गुणमलरहिते गुणकतारागद्वेषादयः गुणरूपाश्च मलाः बंधनलेपहेतव- स्तैःरहित हीने । तत्वमस्यादिलक्ष्ये तत्वमस्यादिमहावा- क्यै गत्यागलक्षणयैव केवलं लक्षितुं योग्ये ब्रह्मणि अपरिच्छिन्ने ईशे तं विना मायातत्कार्ययोरनिर्वाहा. नियंतृत्वायुपचरिते अखिलविधिमनोगोचरे समस्तवि- धिवाक्यानामनियोज्यविषये च मनसां चाविषये कूट- स्थे निर्विकारे प्रत्यगात्मनि अंतर्मुखवृत्त्यैवाज्ञानमात्रनि- रसने जाते स्वयमेव प्रकाशमाने आत्मनि वस्तुनि स्वस्मिन् परेशे परेषां ब्रह्मादीनां मायायाश्च नियंतृत्वोपचारिते तमात्मानं विना तेषां तत्कार्याणां चासिद्धेः दृष्टमात्रे
१४९
आनंदगिरिकृतटीकासमेता
केवल मनुभूतएव अस्य कूटस्थब्रह्मरूपभूतांतःकरणपत्ति-
मनः कर्माणि संचितप्रारब्धक्रियमाणाव्यानि सर्वाण्य-
पिक्षीयते नष्टानि भवंति तब हेतुमाह खल्बिति । अस्ये-
त्यनुत्त्या कूटस्थब्रह्मसाक्षात्कारवतः पुरुषस्य हृदय-
ग्रंथिः दंतःकरणं तस्य यः प्रकाशकः आत्मातयो-
थिः स्वात्माज्ञानरूपं अन्योन्यतादात्म्यरूपेणैक्यरूपः
संश्लेषः सः निश्चयेन खलु उद्भिद्यते तयोरंतःकरण-
चिदात्मनोर्जेदप्रतीत्या छिन्नोभवति तल्लिंगमाह छियं-
तइति । सर्वसंशयाः देहादात्माभिन्नोवाऽभिन्नइत्यादयः
अज्ञानग्रंथिमूलत्वात्तेषां तन्निवत्तौ ते छिद्यते नश्यति
तत्फलं चाह । विशेषेण न जनिमृतिफलदाइति जन्म-
मरणफलप्रदाः अतस्तन्नित्तौ जन्ममरणनिवृत्तिब्रह्म-
ज्ञानफलमित्यर्थः ॥ ९९ ॥
आदौमध्येतथांतेजनिम्मृतिफलदंकर्ममू-
लंविशालंज्ञात्वासंसारदर्शनममदमु-
दिताशोकतानेकपत्रम्॥कामक्रोधादि-
शाखंमुतपशुवनिताकन्यकापक्षिसंघ
छित्वासंगासिनैनंपटुमतिरभितश्चितये-
द्वासुदेवम्॥३०॥
। শ্রীমঙ্গলস্থানান্ধী इदानीमेतादृशज्ञानिनोब्रह्मात्मसाक्षात्कारहत्तेः वासना- जननपर्यंतं दृढीकरणाय ध्यानं तत्पूर्वावश्यकर्तव्यस- हितमाह- आदाविति । आदौ उत्पतेः प्राक् तथांते नाशानंतरं मध्ये प्रतीतिकाले असन्नपि जानमृतिफलदं जनिर्जन्ममृतिमरणं तएव फले प्रसवे तयोर्दातारं । कर्म- मूलं कर्म क्रिया सा मूलं यस्य विशालं महांतं भ्रमोविप. रीतज्ञानं मदः स्वश्रेष्ठ्यज्ञानं मुदिता हर्षवृत्तिः शोकः खेद इतिः इत्यादीनि अनेकानि अनंतानि पत्राणि पर्णा- नि इव यस्यकामक्रोधादिशाखं कामः प्रियविष- यिणीच्छा क्रोधः तत्प्रतिबंधके रोषरत्तिः आदिपदेन लोभादिवत्तयस्ताएव शाखाइव यस्य सुतपशुवनिता- कन्यकापक्षिसंघं सुताः पुत्रा पशवः गोटषादयः व- निताः स्त्रियः कन्यकाः दुहितरः ते पक्षिणः पतत्रिण- स्तेषां संगोयस्मिन् संसारकै संसरणस्वावं वृश्वनी- यत्वादृशं “ उर्ध्वमूलोऽवाकूशारखइत्यादिश्रुतेः"। "ऊर्ध्व- मूलमधःशाखमित्यादिमृतेश्च ” अश्वत्थापरपर्यायं ज्ञा- वा असत्वेन प्रतीय अनुभूयेत्यर्थः। ततएनंउक्तलक्ष- णं संसाररक्षं पटुमतिः कुशला पट्टी मतिः मननवती वृत्तिर्यस्य सपुमान् असंगासिना स्वासंगत्वानुभवएवा- सिः खड्गनेन छित्वा विनाश्य अभितः सर्वदा वासुदेवं आनंदगिरिकृतटीकासमेता वा विकल्पेन असूनां प्राणेंद्रियादीनां देवः प्रकाशकः आत्मा तं चिंतयेत् अनुभवेयाणादीनां सत्वासत्वेन प्रकाशकेन त्वयि विकल्पइति भावः ॥ १०॥ जातंमय्येवसर्वपुनरपिमयितत्संस्थितं चैवविश्वसर्वमय्येवयातिप्रविलयमिति तब्रह्मचैवाहमस्मि ॥ यस्यस्मृत्याचय- ज्ञाद्यखिलशुभविधौसुप्रयातीहकार्यन्य- नंसंपूर्णतांवैतमहमतिमुदैवाच्युतंसन्न- तोस्मि ॥१०१॥ इदानी सर्वोत्पत्तिस्थितिलयाधारत्वेन स्वस्मिन्ब्रह्म- त्वानुसंधानपूर्वकं स्वात्मज्ञानस्यैवाखिलकर्मसमाप्तित्व योतयन्नात्मानं नमस्करोति- जातमिति । सर्व स- मस्तं द्वैतजातं मय्येव ब्रह्माभिन्नकूटस्थात्मसहिते ज्ञाते ब्रह्मात्मनि एवकारेणान्यः कोपि आधारोना- स्तीति सूचितं जातं आविर्भूतं पुनरपि पश्वादुत्पत्य- नंतरमपि । तत्समस्तं विश्वं जगत् मयि शबले- ब्रह्मात्मनि संस्थितं सम्यक् स्थिति प्राप्तं । किंच तत्सर्वं समस्तं जगत् । मय्येव शबले ब्रह्मण्येव प्रविलयं निद्राप्रलयसमये सबीजं शुद्धे मयि च ज्ञाने- १५२ श्रीमच्छंकराचार्यकृतशतश्लोको न अत्यंतनाशं तिरोधानमित्यर्थः । याति प्रामोति इत्य- तोहेतोः तत् “यतोवाइमानि भूतानिजायंतइत्यादिक- या तद्ब्रह्मेतीत्यतया श्रुत्योत्पत्तिस्थितिलयाधारवत्वोप- लक्षितोपादानत्वेन निर्दिष्टं ब्रह्म देशकालवस्तुकत- परिच्छेदरहित वस्तु अहं अहंपदलक्षितः कूटस्थः प्रत्यगात्मा अस्मि भवामि च पुनः यस्य ब्रह्माभि- न्नप्रत्यगात्मनः स्मृत्या अनुसंधानेन यज्ञाद्यखिलशु- भविधौ यज्ञोश्वमेधादिर्यस्य वाजपेयादेस्तादृशे सम- स्तशुभकर्मणि विधाने कार्यकर्तव्यविधिः न्यून मं. त्रतंत्रादिभिन्यूँनमपि वै 'निश्चयेन संपूर्णतां समाप्ति- फलप्रदत्वमित्यर्थः सुप्रयाति प्राप्नोति अहं ब्रह्माभि- न्नकूटस्थात्मसाक्षात्कारवान् अतिमुंदैव अत्यंतमानंद- साक्षात्कारत्त्यैव केवलं तं ब्रह्माभिन्न प्रत्यगात्मानं अच्युतं अच्युतस्वभावं सन्नतः अष्टांगभूताष्टप्रकृति सहितस्तत्रलीनः अस्मि भवाभि ॥ १०१ ॥ ॥ इति- श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकरभगवत्पूज्य- पादकतशतश्लोकीभाष्यमानंदगिरिकतंसमाप्तम् ॥ ७॥ समाप्तेयंशतश्लोकी