Bharti Bhawan Library Allahabad

The Chokhamba Sanskrit Series No 254

Kasmirika Kesav Bhatta

PDF Proofread

Front matter

7979 THE CHOWKHAMBA SANSKRIT SERIES; Α. COLLECTION OF RARE & EXTRAORDINARY SANSKRIT WORKS. NO. 254. STRAZTRÈIVTECTTHEIT nou laaugargara 399rd garaamaat I aer- TTATISTSPIEDI shaggard Stansariatiaagi Agata 59 977 galanthatta TeleqS7TH! airy #1743&576-571-AFGITTI E un ar F. Trent- 71795-aidieni GTI KRAMADIPIKA, By Mahamahopadhyaya Kasmirika Kesav Bhatta. WITH A COMMENTARY BY Sri Govind Bhattacharya. and LAGHUSTAVARAJASTOTRAM By Sri Niwasacharya. With a common tary "Gurubliakti Mandakini" By Puruzlıttam Prasadla. KASOIGULUS DI PUBLISHED & SOLD BY THE SECRETARY, CHOWKHAMBA SANSKRIT SERIES OFFICE. BENARES, AGENTS:-OTTO HARRASSOWITZ, LEIPZIG PANDITA JYESHTHARAM MUKUNDAJI, BOMBA Y: PROBSTHAIN & Co; BOOKSELLERS, LONDON, Printed by Jai Krishna Das Grepfa, at tlu. Vidya Vilas Press. Benares Price Rupee one. Werk II Ram भारती-भवन पुस्तकालय प्रयाग क्रमिक संख्या११६६२ विभाग ॥ श्रीः ॥ "2920 आनन्दवनविद्योतिसुमनोभिः सुसंस्कृता ।। सुवर्णाऽङ्कितभव्याभशनपत्रपरिष्कृता ॥१॥ चौखम्बा-संस्कृतग्रन्थमाला मजुलदर्शना || रसिकालिकुलं कुर्यादमन्दाऽऽमोदमोहितम् ॥ २ ॥ स्तवक:-----२५४ १ अस्यां चौखम्बा- संस्कृनग्रन्थमालायो प्रतिमासं पृष्टशतके सुन्दरैः सीसकाक्षरैरुत्तमेषु पत्तेत्र एकः स्तवको मुद्रयित्वा प्रकाश्यते । एकास्मिन स्तवके एक एव अन्थो मुव्यते । २ प्राचीना दुर्लभाश्चामुद्रिता मीमांसावेदान्तादिदर्शनव्याकरणधर्मशास्त्रसाहित्यपुराणादिनन्था । ३ एवाऽत्र सुपरिष्कृत्य मुद्रयन्ते । काशिकराजकीयप्रधान संस्कृतपाठशालाऽध्यापकाः परिडता अन्ये च शास्त्रदृष्टयो विद्वांस एतत्परिशोधनादिकार्यकारिणो भवन्ति । ४ भारतीयैः,ब्रह्मदशीयः,सिंहलद्वीपवासिभिश्वेताहकैयं वार्षिकमनिमं मूल्यम्-मुद्रा: ७ आनकाः ५ अन्यैर्देयं प्रतिस्तव ६ प्रापणव्ययः पृथग नास्ति । " 202 . 22 - ... साम्प्रतं मुद्रयमाणा ग्रन्थाः- सूत्रस्य यतीन्द्रश्रीमद्विज्ञान भिक्षुकृतव्या. (१) संस्काररत्नमाला । गोपीनाथभट्टकृता ख्यानम् । सम्पूर्ण । (वेदान्तः) खण्डे २ (९) स्याद्रादमञ्जरीमलिणनिर्मिता सम्पूर्णा २ (२) शब्दकौस्तुभः । भट्टोजिदीक्षितकृतः १२ । (१०) सिद्धित्रयम्-विशिष्टाद्वैतब्रह्मनिरूपणपरम् (३) श्लोकवार्तिकम् । भट्टकुमारिलविरचितम् श्रीभाष्यकृतां परमगुरुभिः श्री ६ श्रीयामु- पार्थसारथिमिश्रकृतन्यायरत्नाकराख्यया नमुनिभिर्विरचितम् । सम्पूर्ण (वेदान्त:)? व्याख्यया सहितम् । सम्पूर्णम् । १० (११) न्यायमकरन्दः । श्रीमदानन्दबोधभतार- (४) भाष्योपवृहितं तत्त्वत्रयम् । विशिष्टाद्वैत काचार्यसंगृहीतः। प्राचार्यचित्सुखमुनि- दर्शनप्रकरणम् । श्रीमल्लोकाचार्यप्रणीतम्। विरचितव्याख्यापेतः ( वेदान्तः) श्रीनारायणतीर्थविरचितभादृभाषाप्रकाश- (१२) विभक्त्यर्थनिर्णयो न्यायानुसारिप्रथमादि- सहितं सम्पूर्णम् (वेदान्तः) सप्तविभक्तिविस्तृतविचाररूप: म०म० (५) करणप्रकाशः। श्रीब्रह्मदेवविरचितः १ श्रीगिरिधरोपाध्यायविरचितः सम्पूर्ण: (६) भादृचिन्तामणिः । महामहोपाध्यायश्री (न्यायः) गागाभट्टविरचिता। तर्कपाद:(मीमांसा)२ (१३) विधिरसायनम् । श्रीअप्पयदीक्षितकृतम्। (७) न्यायरत्नमाला श्रीपार्थसारथिमिश्रविर सम्पूर्णम् ( मीमांसा ) चिता सम्पूर्णः ( मीमांसा) २ (१४) न्यायसुधा (तन्त्रवार्तिकटीका) भहसो- (८) ब्रह्मसूत्रभाष्यम्-बादरायणप्रणीतवेदान्त मेश्वरविरचिता । (मीमांसा) ..

१४६१२ सप्तमपटलम् । मध्येऽर्चयेद्धरि दिक्षु विदिश्वङ्गानि च क्रमात् ॥ वासुदेवः सङ्कर्षणः प्रद्युम्नश्चाऽनिरुद्धकः ॥ १२५ ।। रुक्मिणी सत्यभामा च लक्ष्मणा जाम्बवन्त्यपि ॥ दिग्विदिवर्चयेदेतान् इन्द्रवज्रादिकान बहिः ॥१२६॥ पद्ममध्ये हरि पूजयेत् पूर्वादिदिक्केशरेषु हृदाद्यङ्गचतुष्टयम् आग्नेयादिविदिक्केशरेषु अस्त्रमङ्गं पूजयेत् । घासुदेव इति- पूर्वादिदिपत्रेषु वासुदेवादीन् पूजयेत् आग्नेयादिविदिपत्रे षु रुक्मिण्याद्याः पूजयेत् तद्वाह्ये स्वस्वदिक्षु इन्द्रादीन् तदनु वज्रादीन् पूजयेदित्यर्थः ॥ १२५ ॥ १२६ ।। फलमाह- योऽमुं मन्त्रं जपेन्नित्यं विधिनेत्यर्चयेडरिम् ॥ स सर्वसम्पत्संपूर्णो नित्यं शुद्ध पदं व्रजेत् ॥ १२७ ।। योऽमुमिति- यापुमान् उक्तविधिना हरिमर्चयेत अमुं मन्त्र जपेत् स सर्वेश्वर्य सम्पन्नः सन्नित्यमविनाशि शुद्धम् अविद्यातत्कार्यरहितं पदं ब्रह्मा. ख्यं प्राप्नोति ॥ १२७॥ मन्त्रान्तरमाह- तारश्रीशक्तिमारान्ते श्रीकृष्णायपदं वदेव । श्रीगोविन्दाय तस्योर्द्ध श्रीगोपीजन इत्यपि ॥१२८॥ वल्लभाय ततस्त्रिः श्रीः सिद्धिगोपालको मनुः ।। माधवीमण्डपासीनौ गरुडेना ऽभिपालितौ ॥ १२९ ॥ दिव्यक्रीडासुनिरतौ रामकृष्णौ स्मरन् जपेत् ॥ चक्री वसुस्वरयुतः सर्येका? मनुर्मतः ॥ १३० ॥ तारेति। तारः प्रणवः श्रीः श्रीवी शक्तिवीजंकामवीजान्ते श्रीकृष्णायेति २०२ सटीकक्रमदीपिकायाः was स्वरूपंतदनु श्रीगोविन्दायेति स्वरूपं तदनु श्रीगोपीजनवल्लभायेति स्वरूपं श्रीवीजत्रयमितिसिद्धिगोपालकोमन्त्रउधृतः ॥ ध्यानमाह- माधवीति। रामकृष्णौस्मरन् जपेत् कीदृशौ माधवीलतामण्डपसमुपस्थि. तौतथागरुडेनसेवितौ ॥ एकाक्षरादिगोपालमन्त्रान् दर्शयेति । चक्रीति । ककारोवसुस्वरः अष्टमस्वरः ऋकारस्तेनसहित इति लघुदीपि- काकारः मुनिस्वरः सप्तमस्वरस्तेनसहित इति रुद्रधरः सर्गीविसर्ग- सहितः इत्येकाक्षरोमन्त्रः ॥ १२८ ॥ १२९ ॥ १३० ॥ कृष्णेति स्वरूपं द्यक्षरोमन्त्रः स एवद्यक्षरः कामवीजपूर्वश्चेत तदाध्यक्षरो मन्त्रोभवति- कृष्णेति यमरः कामपूर्वस्यर्णः स एव तु स एव चतुरर्णः स्यात् ऽन्तोऽन्यश्चतुरक्षरः॥ १३१ ॥ वक्ष्यते पञ्चवर्णः स्यात्कृष्णायनम इत्यपि कृष्णायेतिस्मरबन्दमध्ये पञ्चाक्षरो ऽपरः ॥ १३२ ॥ स एकत्र्यक्षरः चतुर्थीविभक्त्यन्तश्चेत्तदाचतुरक्षरो मन्त्रः अन्यः चतुरक्षरः सद्यफलप्रदम् इत्यनेनाग्रेवश्यते कृष्णायनम इति पञ्चा- क्षरः कृष्णायेति स्वरूपं स्मरद्वन्द्वकामवीजद्वयस्य मध्येयदाभवति तदा अपरःपञ्चाक्षरोमन्त्रोभवति ॥ १३१ ॥ १३२॥ गोपालायेति स्वरूपं वन्हिजाया स्वाहेति पदद्वयनषडक्षरःकथितः गोपालायाऽग्निजायान्तः षडक्षर उदाहृतः कृष्णायकामवीजात्यो वह्विजायान्तकोऽपरः॥१३३॥ षडक्षरः प्रागुदितः कृष्ण गोविन्दको पुनः चतुर्थ्यन्तौ सप्तवर्णः सप्तार्णोऽन्यः पुरोदितः ॥१३४॥ कामवीजसहितकृष्णायेति स्वाहेति पदद्वयेन च षडक्षरामन्त्र उद्धृतस्तथाऽपरः षडक्षरः प्रागेवकथितः सचक्लींकृष्णायनमइति सप्तमपंटलम् । कृष्णगोविन्दकौशब्दौयदिचतुर्थ्यन्तौभवतस्तदासप्ताक्षरोमन्त्रो- ऽपरः सप्ताक्षरः प्रागुदितः सचगोवल्लभायस्वाहेति ॥ १३३ ॥ १३४ ॥ श्रीशक्तिमारः कृष्णाय मारः सप्ताक्षरो ऽपरः ॥ कृष्णगोविन्दको केऽन्तौ स्मराठ्यावष्टवर्णकः ॥१३॥ श्रीशक्तिमाराः श्रीभुवनेश्वरीमारवीजानिकृष्णायेतिमारान्तो. ऽपरः सप्ताक्षरोमन्त्रः कृष्णगोविन्दशब्दौङेऽन्तौचतुर्थ्यन्तौ की- दृशौ कामवीजाव्यौ इति वसुवर्णः अष्टाक्षरोमन्त्रः ॥ १३५ ॥ दधीति- दधिभक्षणवन्हिजायाभिरपरोऽष्टकः॥ सुप्रसन्नात्मने प्रोक्ता नम इत्यपरोऽष्टकः ॥ १३६ ॥ चतुर्थ्यन्तोदधिभक्षणशब्दः वह्निजायास्वाहा एतैर्वणैरपरो- ऽष्टाक्षरोमन्त्रः सुप्रसन्नात्मनेस्वरूपमुक्कानम इति वदेत् इत्यपरो. ऽष्टाक्षरोमन्त्रः॥ १३६ ॥ प्राक् प्रोक्तो मूलमन्त्रश्च नवार्णः स्मरसंयुतः ॥ कृष्णगोविन्दको अन्तौ नमोऽन्तोऽन्योनवार्णकः।।१३७॥ प्रागुक्तश्चाष्टाक्षरोमूलमन्त्रः स्मरसंयुतः कामवीजयुक्तः सन् नवाक्षरो भवति सच क्लींगोकुलनाथायनमइति कृष्णगोविन्दकौडेन्तौ- चतुर्थ्यन्तौस्मरसंयुतौयदि भवतस्तदानवाक्षरोमन्त्रो भवति यद्ये- तावेवनमोन्तकौनमः शब्दान्तौ भवतस्तदापरोनवाक्षरोमन्त्रः ॥१३७॥ क्लीग्लाँक्लाँश्यामलाङ्गाय नमस्तु स्थाद्दशार्णकः ॥ शिरोन्तो वालवपुषे क्लीं कृष्णाय स्मृतो बुधैः ॥ एकादशाक्षरो मन्त्र एतेषां नारदो मुनिः ॥१३८॥ उक्तं छन्दस्तु गायत्री देवता कृष्ण ईरितः ॥ कलाषदीर्घकैरङ्गमथा ऽमुं चिन्तयेद्धरिम् ॥१३९।। क्लींग्लौं क्लींश्यामलाङ्गायनमइति दशवर्णकोमन्त्रः शिरोन्तः wana सटीकक्रमदीपिकायाः स्वाहान्तः वालवपुषे इति पदं क्लींकृष्णायेति एकादशाक्षरोमन्त्रः धुधः स्मृतः॥ उक्तानामृष्यादिकमाह- एतेषामेकाक्षरमारभ्यैकादशाक्षरपर्यन्तानां द्वाविंशतिमन्त्राणाम् ऋषि रदः गायत्रीछन्दः श्रीकृष्णोदेवता । अङ्गान्याह- कलेति। ककारलकाराभ्यां षड्दीर्घकैनपुंसकरहितषड्दीर्घस्वरैः क्लाँक्ली- कैलाँक्लः एभिरित्यर्थः ॥ १३८ ॥ १३९ ॥ ध्यानमाह- अव्यादिति। अव्यायाकोषनीलाम्बुजरुचिररुणाम्भोजनेत्रोऽम्बुजस्थो वालो जङ्घाकटीरस्थलकलितरणत्किङ्किणीको मुकुन्दः। दोयों हैयङ्गवीनं दधतिविमलं पायसं विश्ववन्द्यो गोगोपीगोपवीतो रुरुनखविलसत्कण्ठभूषश्चिरं वः१४० वोयुष्मान् चिरं बहुकालमुकुन्दोऽव्यात् रक्षतु कीदृशः व्या. कोशं प्रफुल्ल यल्लीलाम्बुजं तद्वदीप्तिर्यस्य स तथा अरुणंरकं यद- म्भोजपनं तद्वन्नेत्रेयस्य सतथा पद्मोपविष्टः पाञ्चवार्षिकः तथा जापादयोः संधिः कटीरस्थलंकटी उभयो. घंटितासम्वद्धारणन्तीशब्दायमानाकिङ्किणीक्षुद्रयाण्टिकायस्य स- तथा हस्ताभ्यां हैयङ्गवीनं सद्योजातं घृतं सुपक्कं पायसंदधत् त- थागोगोपङ्गनागोपालैवेष्टितः तथा रुरुःव्याघ्रस्तस्य नखेनविलस- न्तीशीभमानाकण्ठभूषाऽलंकारो यस्यसतथा ॥ १४० ॥ पतेषां पुरश्चरणमाह- ध्यात्वैवमिति । ध्यात्वैवमेकमेतेषां लक्षं जप्यान्मनुं ततः । सपिसितोपलोपेतैः पायसैरयुतं हुनेत् ॥ १४१ ॥ यथोक्तध्यानं कृत्वाएतेषां मध्येएकं मन्त्रलक्षंजपेत् तदनुघृत- तथा वाल:- सप्तमपटलम् । २०५ खण्डसारयुक्तैः परमानै दशसहस्रजुहुयात् ॥ १४१ ॥ तर्पयेत्तावदन्येषां मनूनां हुतसंख्यया । तर्पणं विहितं नित्यं योऽयेत्सुसमाहितः ॥१४२॥ वन्ह्यादीशान्तमङ्गानि हृदादिकवचान्तकम् । अर्चयेत्पुरतो नेत्रमस्त्रं दिक्षु वहिः पुनः ॥ ॥१४३।। इन्द्रवज्राद्यः पूज्याः सपर्यैषा समीरिता। इत्येकमेषां मन्त्राणां भजेद्यो मनुवित्तमः ॥१४४॥ करप्रचेयाः सर्वार्थास्तस्याऽसौ पूज्यते ऽमरैः ।। सद्यः फलप्रदं मन्त्रं वक्ष्येऽन्यं चतुरचरम् ॥१४५ ॥ स प्रोक्तो मारयुग्मान्तरस्थकृष्णपदेन तु॥ ऋष्याचमङ्गषद्कं च प्रागुक्तं प्रोक्तमस्य तु ॥१४६॥ तदनुतावद्दशसहस्रं तर्पयेत् एवं प्रकारेणैकस्मिन्मन्त्रसिद्धजा- तेतदन्येषां सकृत्पुरश्चरणानाम् एकविंशतिमन्त्राणां जपहोमसं- ख्ययाविनैवहुतायुतेनतर्पणमेवपुरश्चरणं विहितं करणीयम् एतेषां मन्त्राणां होमसंख्यया अयुतेनैवतर्पणं विहितम् । पूजामाह । नित्यमिति। नित्यं सर्वदासुसमाहितः संयतः सन् पूजयेत् वह्नयादीशान्तम् आग्नेयकोणमारभ्य ईशानकोणपर्यन्तहृदादिकवचपर्यन्तमङ्गचतुष्टयम् पूजयेत् पुरतोऽग्रेनेत्रमस्त्रं पूजयेत् ॥ पूर्वादिचतुर्दिक्षु इन्द्रादीन् पूजयेत् तदनुवज्रादीनिति । उपसंहरति । एषां मन्त्राणां सपर्या पूजाकथिता !! फलमाह । इत्येकमिति। अमुनाप्रकारेणयः साधकोत्तमएषां मन्त्राणांमध्येएकं मन्त्रंभजेत् उपासीततस्य सर्वे पुरुषार्थाहस्तप्राप्यादेवैश्वासौ पूज्यते ॥

सटीकक्रमदीपिकायाः मन्त्रान्तरमाह- सद्य इति । तात्कालिकफलदायकमपरं चतुरक्षरमन्त्रंवक्ष्येसचतुरक्षरः का- मवीजद्वयमध्यस्थेन कृष्णपदेनकथितः॥ ऋष्यादिकमस्य ऋषिश्छन्दोदैवतम् अङ्गषट्कंचप्रागुक्तं पूर्वमन्त्र- समूहेकथितंवोद्धव्यम् ॥ १४२ ॥१४३ ॥ १४४ ॥ १४५ ॥ १४६ ॥ ध्यानमाह- श्रीमदिति । श्रीमत्कल्पद्रुमूलोद्तकमललसकर्णिकासंस्थितोय. स्तच्छाखालम्विपद्मोदरविगलदसंख्यातरत्नाभिषिक्तः हेमाभ: स्वप्रभाभिस्त्रिभुवनमखिलं भासयन् वासुदेवः पायाबः पायसादोऽनवरतनवनीतामृताशीवशीसः१४७ वासुदेवःवोयुष्मान् पायात् कीदृशः यः श्रीयुक्तकल्पवृक्षमूलोद्ग- तपझेशोभमाना या कर्णिका तत्रोपविष्टः तथा कल्पद्रुमशाखालम्वि. यत् पद्मं तस्योदरं ततोविगलन्तिप्रसरन्तियानि असंख्यातानिर. नानितैरभिषिक्तः तथा सुवर्णगौरः तथा स्वकान्तिभिः समस्तंत्र- लोक्यं भासयन् क्षीरान्नाशी तथा अनवरतमनुवेलं नूतनं नवनी- तमेवामृतंतदश्नातीति ॥ १४७ ॥ पुरश्चरणमाह- ध्यात्वेति । ध्यात्वैवं प्रजपेल्लक्षं चतुष्कं जुहुयात्ततः । त्रिमध्वक्तैर्विल्वफलैश्चत्वारिंशत्सहस्रकम् ॥१४८॥ यथोक्तं ध्यानं कृत्वा लक्षचतुष्टयं जपेत् तदनुघृतमधुशर्करायु- तैविल्वफलैश्चत्वारिंशत्सहस्रं जुहुयात् ॥ १४८ ॥ पूजामाह- अङ्गैरिति ।

२०७ सप्तमपटलम् । अङ्गैनिधिभिरिन्द्रायैर्वजाचैरर्चनोदिता। तर्पयेद्दिनशः कृष्णं स्वादुत्रयधिया जलैः ॥ १४९ ॥ षडङ्गैः निधिभिरिन्द्रद्यष्टनिधिभिरिन्द्राद्यैर्वज्राद्यैश्चाऽनीलार्चना- पूजा कथिता। तर्पणमाह- तर्पयदिति। प्रतिदिनं स्वादुत्रयधिया घृतमधुशर्कराबुद्ध्वा जलैः कृष्ण पूजयेत् ॥ १४९ ॥ मन्त्रान्तरमाह- मारयोरिति । मारयोरस्य मांसाधोरक्तं चेदपरो मनुः । षडङ्गान्यस्य कलषदीर्धेमन्त्रशिखामणेः ॥१५॥ अस्य पूर्वोक्तचतुरक्षरमन्त्रस्य मारयोराद्यन्तकामवीजयोर्मा- साधः लकारस्याधस्तात् चेद्यदि रक्तं रेफोभवति तदाऽपरश्वतुर- क्षरः क्लींकृष्णक्लीम् इति मन्त्रः अस्य मन्त्रशिखामणे मन्त्रशिरोर- नस्य कलषद्दीधैः कलाईकारसहितकामवीजेनषद्दीधैः कलसहि- तैनपुंसकरहितैः षादीर्घस्वरैः षडङ्गानिकुर्यादितिशेषः ॥ १५ ॥ ध्यानमाह- आरक्तति । आरक्तोद्यानकल्पद्रुमशिखरलसत्स्वर्णदोलाधिरुढं गोपाभ्यां प्रेम्ख्यमानविकसितनववधूकसिन्दूरभासम्॥ वालं नीलालकान्तं कठितटविलुठत्क्षुद्रघण्टाघटाढ्यम्॥ वन्देशार्दूलकामाङ्कुशललितगलाकल्पदीप्तमुकुन्दम् २५१ मुकुन्दं वन्दे कीदृशम् आरक्तमरुणं यदुद्यानं तत्रः यः कल्पma

२०८
सटीकक्रमदीपिकायाः
वृक्षस्तस्यशिखरमग्रं तत्रलसन्ती या शोभमाना सुवर्णमयी दोला
तत्रोपविष्टं तथा गोपाङ्गनाभ्यां प्रेख्यमानं दोलायमानं विकसितं
प्रफुल्लंनवीनं यद्वन्धुजीवपुष्पं सिन्दूरंतयोरिवभायस्थतं तथा वालं
शिशुं तथाकृष्णकेशं तथा कटितटे इतस्ततोगच्छन्ती या क्षुद्रघण्टि-
कासमूहस्तेन सम्बद्धं तथा शार्दूलस्य व्याघ्रस्य घटाक्षुद्रघण्टिका
कामाङ्कुशेनशोभमानं यत्कण्ठभरणतनशोभमानम् ॥ १५१ ॥
ध्यात्वेति।
एवं-
ध्यात्वैवं पूर्वक्लुप्त्यैनं जप्त्वा रक्तोत्पलैर्नवैः ।।
मधुत्त्रयप्लुतेर्तुत्वा ऽप्यर्चयेत्पूर्ववडरिम् ॥ १५२ ॥
पूर्वोक्तं मुकुन्दं ध्यात्वाएनं मन्त्रं पूर्वोक्तमन्त्रजपसंख्यमेव-
जप्त्वारक्तपीनूतनैघृतमधुशर्करायुतैः पूर्वोक्तसंख्यमेवहुत्वा
पूर्वोक्तप्रकारेण हरिं पूजयेत् ॥ १५२ ॥
आरादुक्तं मन्त्रयोः प्रयोगदर्शयति-
मधुरेति ।
मधुरत्रयसंयुक्तामारक्तां शालिमञ्जरीम् ॥
जुहुयान्नित्यशोऽष्टोद्धे शतमेकेन मन्त्रयोः ॥१५३॥
घृतमधुशर्करामिश्रितां लोहितांहैमन्तिकधान्यमञ्जरीम् अष्टोत्त.
रशतमनयोमन्त्रयोर्मध्ये एकेनमन्त्रेणप्रत्येक प्रत्यहं योजुहुयात्
तस्यपुंसः मण्डलतः एकोनपञ्चाशद्दिनादाक्षड्विंशतिदिना-
दितिलघुदीपिकाकारः पञ्च चवारिंशदिनानन्तरमितिरुद्रधरः महती
पृथिवी धान्यादिसमूहव्याप्ताभवति तथा तद्गृहं शालिधान्यसमू-
हव्याप्तं शीघ्रं भवति ॥ १५३ ॥
तस्य मण्डलतः पृथ्टी पृथ्वीसस्यकुलाकुला॥
स्याच्छालिपुञ्जपूर्ण च तद्वेश्माऽऽशु प्रजायते॥१५४॥

की भवन
सप्तमपटलम् ।
फलमाह-
यस्त्विति ।
यस्त्वेतयोर्नियतमन्यतरं भजेत ।
मन्वोर्जपाचनहुतादिभिराप्तभक्तिः ॥
श्रीमान्स मन्मथ इव प्रमदासु वाग्मी।
भूयात्तनोर्विपदि तच महोऽच्युताख्यम् ॥ १५५ ।।
इति क्रमदीपिकायां केशवकाश्मीर्याचार्य
विरचितायां सप्तमः पटलः ॥ ७ ॥
यः पुमानेतयोरेकं नियतं नियतो भजेत्साधयेत् कैर्जपपूजा-
होमादिभिः कीदृशः प्राप्तभक्तिः स लक्ष्मीयुक्तः स्त्रीषु कामदेववत्
उत्कृष्टवचनभाक् भवति तनोर्विपदि शरीरपातानन्तरं विष्णुलोकं
च गच्छति ॥ १५५ ॥
इति श्रीगोविन्दविद्याविनोदभट्टाचार्यविरचिते क्रमदीपिका-
विवरणे सप्तमः पटलः ॥७॥
अथोच्यते वश्यविधिः पुरोक्त-
दशाणतोऽष्टादशवर्णतश्च ॥
स्मृत्यैव यौ सर्वजगत् प्रियत्वं-
मनू मनुज्ञस्य सदा विधत्तः ॥१॥
अथाऽनन्तरं वश्यकरः प्रयोगः कथ्यते पूर्वोक्तदशाक्षरस्याऽष्टाद-
शाक्षरस्य च यो मन्त्री स्मरणमात्रेण साधकस्य सर्वजनवल्लभत्वं
सर्वदा कुरुतः ॥ १॥

सटीकक्रमदीपिकायाः फुल्लैरिति। फुल्लैवयंप्रसूनैरमुमरुणतरैरर्चयित्वा दिनादौ। नित्यंनित्यक्रियायांरतमथ- दिनमध्योक्तक्लप्त्यामुकुन्दम् ॥ अष्टोपेतं सहस्रं दशलिपिमनुवर्य जपेद् यः स मन्त्री। कुर्याश्यान्यवश्यंमुखरमुखभुवांमण्डला-मण्डलानिर पुष्पितैः वनोद्भवपुष्पैरतिलोहितममुमुकुन्दं नित्यं सर्वदा नि- त्यकर्मानुष्ठाननिष्ठं दिनादौ प्रतिः प्रत्यहं मध्याह्रोक्तपूजाप्रकारेण पूजयित्वा यो मन्त्री दशाक्षरं मन्त्रश्रेष्ठम् अष्टाधिकं सहस्रं जपेत् म- ण्डलादेव पञ्चाशहिनादर्वाक्मुखरमुखभुवां विद्वब्राह्मणानां म- ण्डलानि समूहानवश्यं वश्यानि कुर्याद्वशयतीत्यर्थः ॥ २ ॥ क्षत्रियवैश्यशूद्रस्याऽपि प्रयोगत्रयं दर्शयति । जातीति। जातीप्रसूनैर्वरगोपवेषं- क्रीडारतं रक्तहयारिपुष्पैः॥ नीलोत्पलैगीतिरतं पुरोव- दिष्ट्वा नृपादीन वशयेत् क्रमेण ॥ ३ ॥ वरगोपवेषं श्रेष्ठगोपरूपधरं श्रीकृष्णं विचिन्त्य जातीपुष्पैः पूर्वो. क्तप्रकारेण पूजयित्वा दशाक्षरमन्त्रमष्टोत्तरसहस्रं जप्त्वा क्षत्रियं वश. येत् क्रीडासक्तं ध्यात्वा रक्तकरवीरपुष्पैः पूर्वोक्तप्रकारेण पूजयित्वा दशाक्षरमन्त्रमष्टोत्तरं सहस्रं जप्त्वावैश्यवशयेत् गीतिरतं गीतासक्तं ध्यात्वा नीलोत्पलैः पूर्वोक्तप्रकारेण पूजयित्वा दशाक्षरमन्त्रमष्टोत्तर सहस्रजप्त्वा शूद्रं वशयेत् इत्यनेन प्रकारेणनृपादीन् वशयेदित्यर्थः॥३॥ प्रयोगान्तरमाह- सितेति- सितकुसुमसमेतैस्तण्डुलैराज्यसिक्कै दशशततमथ हुत्वा नित्यशः सप्तरात्रम् । ORDS अष्टमपटलम् । २११ कचभुवि च ललाटे भस्म तद्धारयन्ना । वशयति मनुजस्त्री साऽपि स्तबदेव ॥ ४ ॥ श्वेतपुष्पसहितैः श्वेततण्डुलैबृतमिश्रितदशाक्षरमन्त्रेण दश- शतं हुत्वा नित्यशः सप्तदिनपर्यन्तं तदनु तद्धोमभस्म कचभुवि शि. रसि ललाटे च धारयन् ना पुरुषः मनुजस्त्री मनुष्यनारीमिति रुद्रधरः तरुणी स्त्रियं वशयतीति त्रिपाठिनः साऽपि स्त्री अनेन प्रयोगेण नृन् वशयदित्यर्थः ॥ ४॥ प्रयोगान्तरमाह- ताम्बूलेति । ताम्बूलवस्त्रकुसुमाञ्जनचन्दनाचं- जप्तं सहस्रत्रयमन्यतरेण मन्वोः॥ यस्मै ददाति मनुवित् स जनोऽस्य मछु । स्यात् किङ्करो न खलु तत्र विचारणीयम् ॥ ५ ॥ ताम्बूलं वस्त्रं पुष्पं कजलं चन्दनं च एतद्यदन्यद्वस्तुमन्वोर्दशा- ष्टादशाक्षरयोरन्यतरेणैकेन सहनत्रयं संजप्तं यस्मै जनाय ददाति साधकः स नरोऽस्य साधकस्य मञ्जुशीघ्रं पश्यो भवति नाऽत्र संशय इत्यर्थः॥५॥ प्रयोगान्तरमाह- राजद्वारे इति । राजद्वारे व्यवहारे सभाया. द्यूते वादे चाऽष्टयुक्तं शतं च ॥ जप्त्वा वाचं प्रथमामीरयेद्यो- वर्त्तताऽसौ तत्र तत्रोपविष्टान् ॥ ६॥ राजसमीपे क्रयविक्रये सदसि अक्षक्रीडादौ वादे च यो मन्बोरेकमष्टोत्तरशतं जप्त्वा प्रथमत एव यां पाचं वदति तयैववाचा सत्र वादादौ उपविष्टानसौ वर्तेत तज्जयी भवतीत्यर्थः॥६॥ प्रयोगान्तरमाह- २१२ सटीकक्रमदीपिकाया: । आसीनमिति । आसीनं मुरमथनं कदम्बमूले। गायन्तं मधुरतरं व्रजाङ्गनाभिः ॥ स्मृत्वाऽग्नौ मधुमिलितैर्मयूरकेमै- हुत्वाऽसौ वशयति मन्त्रावित्रिलोकीम् ॥ ७ ॥ कदम्बमूले उपविष्टं मुरमथनं कृष्णं गोपीभिर्मधुरतरं गायन्तं ध्यात्वा वह्नौ मधुसुतैर्मयूरकेमैरपामार्गसमिद्भिर्तुत्वा असौ साधको लोकत्रयं वशयति ॥ ७॥ प्रयोगान्तरमाह- रासेति। रासमध्यगतमच्युतं स्मरन् । यो जपेद्दशशतं दशाक्षरम् ।। नित्यशो झटिति मासतो नरो- वाञ्छितामभिवहेत्स कन्यकाम् ॥ ८॥ यो नरः पूर्वोक्तरासमध्यगतं कृष्णं ध्यायन दशाक्षरं मन्त्रं प्रत्यहं दशशतं जपेत स मासैकेन शीघ्रमेव वाञ्छितां कन्यां प्राप्नोति ॥८॥ प्रयोगान्तरमाह- तुङ्गेति। तुङ्गकुन्दमधिरुढमच्युतं. या विचिन्त्य दिनशः सहस्रकम् ॥ साऽष्टकं जपति सा हि मण्डला. द्वाञ्छितं वरमुपैति कन्यका ॥९॥ उञ्चकदम्बवृक्षस्थं विचिन्त्य प्रत्यहम् अष्टोत्तरसहलंदशाक्षर या कन्यका जयति सा हिनिश्चयेन मण्डलादेकोनपञ्चाशहिनादर्वा- क्वाच्छितवरं प्राप्नोति ॥९॥ समानफलं प्रयोगद्वयमाह- Amtela अष्टमपटलम् ।. नृत्यन्तमिति । नृत्यन्तं ब्रजसुन्दरीजनकराम्भोजानि संगृह्य तं- ध्यात्वाऽष्टादशवर्णकं मधुवरं लक्षं जपन्मन्त्रवित् ॥ लाजानामथवा मधुप्लुततरैर्तुत्वा ऽयुतं चूर्णकै- रुद्धोढुं प्रजपेच्च तावदचिरादाकासितां कन्यकाम्॥१०॥ अचिरात् शीघ्रवाच्छितांकन्यां परिणेतुं मन्त्रवित्साधकः गोप- युवतीहस्तपद्मानि संगृह्य धृत्वानृत्यन्तं तं प्रसिद्धं श्रीकृष्णं ध्यात्वा- लक्षमात्रपरिमितमष्टादशाक्षरं मन्त्रश्रेष्ठं जपेत् अथवा लाजानां मधुद्रुततरैघृतमधुशर्कराप्रचुरान्वितैः मधुना द्रवीभूतैरितिरुद्र धरः दशसहस्रंहुत्वातावदेवसंख्यं जपेदित्यर्थः ॥ १०॥ प्रयोगान्तरमाह- अष्टादशेति। अष्टादशाक्षरेण द्विजतरुजस्त्रिमध्वक्तरयुतम् ॥ कुशैस्तिलैर्वा सतण्डुलैर्वशयितुंदिजान् जुहुयात् ११॥ द्विजान् ब्राह्मणान् वशयितुमष्टादशाक्षरमन्त्रेणद्विजतरुजैः प. लाशवृक्षसमुद्भवैः समिद्भिस्त्रिमधुराक्तैः घृतमधुशर्करामिश्रितरयुतं दशसहस्रं जुहुयात् अथवात्रिमध्वक्तैः कुशैस्तिलैः तण्डुलैा- जुहुयात् ॥११॥ प्रयोगान्तरमाह- कृतमालभवैवंशयेन् नृपतीन् । मुकुलश्च कुरुण्टकजैश्च तथा ॥ विशमिक्षुरकैरपि पाटलजै- रितरानपि तददथो वशयेत् ॥ १२ ॥ कृतमालभवैः राजवृक्षसमुद्भवैः मुकुलैः कलिकाभिः हुत्वा- नृपतीन् क्षत्रियान् वशयेत् कुरुण्टकजैश्च झिटीसमुद्भवः मुकुलैठे- त्वावैश्यान् वशयेत् इक्षुरसः इक्षुरकैरितिपाठे कोकिलाक्षोमथी- नथइत्यर्थः पाटलसमुद्भवैः मुकुलैर्वाहुत्वा इतरान् शूद्रान् घशयेत् ।

द्रव्याण्या सटीकक्रमदीपिकाया: अनुक्तसंख्याहोमस्यबोद्धव्यातस्याएवप्रकरणत्वादिति १२ ॥ प्रयोगान्तरमाह- अभिनवैरिति । अभिनवैः कमलैररुणोत्पलैः। समधुरैरपि चम्पकपाटलैः ॥ प्रतिहुनेदयुतं क्रमशोऽचिरा. द्वशयितुं मुखजादिवराङ्गनाः ॥ १३ ॥ शीघ्र मुखजादिवराङ्गना ब्राह्मणादिस्त्रियोदशयितुंचतुर्भिर्द्रव्यैः समधुरैर्मधुरवयामिलितैः क्रमशः प्रत्येक सार्द्धसहनद्वयं कृत्वा- दशसहस्रं प्रतिहुनेत् जुहुयात् । नूतनैः श्वेतपद्मैः रक्तोत्पलैश्चम्पकपुष्पैः पादलपुष्पैः ॥ १३ ॥ प्रयोगान्तरमाह- हयारीति। हयारिकुसुमैर्नवैखिमधुराप्लुतैनित्यशः। सहस्रमृषिवासरं प्रतिहुनेनिशीथे बुधः ॥ सुगर्वितधियं हठात् झटिति वारयोषामसौ। करोति निजकिङ्करी स्मरशिलीमुखैरदिताम्॥१४॥ हयारिकुसुमैः करवीरकुसुमैः नूतनैः त्रिमधुरमिश्रितैः प्रत्यहं सहस्रं ऋषिवासरंसप्तवासरंबुधः साधकोनिशीथेरात्रौप्रत्यहं प्रति- दिनं जुहुयात् असौ अहंकारवती वारयोषां वेश्याकामवाणैः पीडितां हठात् वलात् झटितिशीनं निजदासींकरोति ॥ १४ ॥ प्रयोगान्तरमाह- पटुसंयुतैरिति । पटुसंयुतस्त्रिमधुरातर- रपि सर्षपैर्दशशतं त्रितयम् ।। ।

अष्टमपटलम् । २१५ mean निशि जुह्वतोऽस्य हि शचीदयितोऽ. प्यवशो वशी भवति किंवपरे ॥ १५ ॥ लवणसंयुतैः कटुसंयुतैरितिपाठेकटुकसंयुतैरित्यर्थः मधुराई- तरघृतमधुशर्करास्निग्धैरपिः समुच्चये सर्षपैर्दशशतं त्रितयंत्रिसहस्त्रं निशिरात्रौजुह्वतः पुरुषस्यशदियितः ईन्द्रोपि अवशोवशीभवति किं पुनरन्ये ॥ १५॥ प्रयोगान्तरमाह- अथेति। अथ विल्वजैः फलसमित्प्रसव. च्छदनैमधुद्रुततरैर्हवनात् ॥ कमलैः सिताक्षतयुतैश्च पृथक् । कमलां चिराय वशयेदचिरात् ॥ १६ ॥ विल्ववृक्षोद्भवैः फलसमितपुष्पपत्रैः श्वेतपद्मरत्यन्तमधुरा. प्लुतैः सिताक्षतयुतैः शर्करातण्डुलमिश्रितैः सिताज्यसहितैरिति- पाठे सिताशर्करा आज्यं घृतं तत्साहितैः पृथक् एकैकं वस्तु त्रिसहस्रहोमात् चिरकालम् अचिरात् शीघ्रकमलां लक्ष्मीवशये- त् अत्रसंख्यासमनन्तरोक्ता ॥ १६ ॥ प्रयोगान्तरमाह- अपहत्येति । अपहृत्यगोपवनिताम्बराण्यमा । हृदयैः कदम्बमधिरुढमच्युतम् ।। प्रजपेत्स्मरनिशि सहस्रमानयेद्- द्रुतमुर्वशीमपि हवादशाहतः ।। १७ ।। हृदयैः अमासह हठात् गोपयुवतीवस्त्राण्यपहृत्यगृहीत्वाकदम्ब. वृक्षमधिरूढं कृष्णंस्मरन् निशिरात्रीसहस्त्रंजपेत्स दशाहतो दश- दिवसमध्येहठान्मन्त्रस्यवलात् उर्वशीमपिदेववेश्यामपि वशमानये- त् निजनिकटमिति शेषः ॥ १७॥ मन्त्रयोर्माहात्म्यमाह- सटीकक्रमदीपिकाया: - बहुनेति बहुना किमत्र कथितेन मन्त्रयो- रनयोः सहक न हि परो वशी कृतौ ॥ अभिकृष्टिकर्मणि विदग्धयोषितां- कुसुमायुधास्त्रमयवर्मणोरिह ॥ १८ ॥ अत्र ग्रन्थेवहुनाकथितेनकिं प्रयोजनम् अनयोर्दशाष्टादशाक्षरयोः सक्समः वशीकरणेइहजगति अपरोनास्तिकिम्भूतयोनगरस्त्री- णामाकर्षणकर्मणिकामास्त्रशरीरयोः ॥१८॥ मोक्षसाधकप्रयोगान्तरमाह- वन्द इति। वन्दे कुन्देन्दुगौरं तरुणमरुणपथोजपत्राभनेत्रं. चक्रं शव गदाजे निजभुजपरिषैरायतैरादधानम् । दिव्यैर्भूषाङ्गरागैनवनलिनलसन्मालयाचप्रदीप्तं- प्रोद्यत्पीताम्बरात्यमुनिभिरभिवृतपद्मसंस्थं मुकुन्दम् १९ मुकुन्दवन्दे कीदृशं कुन्दपुष्पंचन्द्रश्चतद्वत् शुक्लं तथा युवानं तथारक्तपद्मसदृशलोचनं तथा दीर्धेर्निजवाहुपरिधैर्मुद्गराकारस्वबा- हुभिः शङ्खचक्रगदां पद्मञ्चधारयन्तं तथा देवयोग्यालङ्काराङ्गरागैः नवा नियानिपद्मानितेषां लसन्तीदेदीप्यमाना या माला तयाचप्रदीप्तं तथा देदीप्यमानहरिद्राभवस्त्रयुक्तं तथा नारदादिभिर्वेष्टितं तथा प. जासीनम् ॥ १९ ॥ पवमिति एवं ध्यात्वापुमांसं स्फुटहृदयसरोजनासीनमाय- सान्द्राभोजच्छबिम्बा द्रुतकनकनिभं वाजपेदकलक्षम्। मन्बोरेक द्वितारान्तरितमथहुनेदकसाहस्रमिदूधमैः । क्षीरदूत्थैः पयोक्तः समधुघृतसितेनाऽथवा पायसेन२०॥ एवंविधं पूर्वोक्तं मुकुन्दध्यात्वाप्रफुल्लहृदयपद्मासनोपविष्टं तथा Re- सप्तमपटलम् । आद्यं प्रथम सजलजलदश्यामं सान्द्राभोजच्छविमितिपाठे मसृण- पत्रकान्ति बा ध्यात्वा द्वितारान्तरगं प्रणवद्वयमध्यगतं मन्वोर्दशा- ष्टादशाक्षरयोरेकम् अर्कलक्ष द्वादशलक्षं जपेत् अधजपानन्तरम् अर्कसहस्रम् इध्मैः समिद्भिः क्षीरदूत्थैरश्वत्थोदुम्बरप्लक्षन्यग्रोधा- न्यतमसमुद्भवैः पयोक्तैः दुग्धप्लुतैः अथवाघृतमधुशर्करासहितेन. परमानेन जुहुयात् ॥ २०॥ ततो लोकाध्यक्ष ध्रुवचितिसदानन्दवपुषम्- निजे हृत्पाथोजे भवतिमिरसंभेदमिहिरम् ।। निजैक्येन ध्यायन्मनुममलचेताः प्रतिदिन- त्रिसाहस्रं जप्यात्प्रयजतु च सायाहृविधिना ॥२१॥ ततस्तदनन्तरं लोकाध्यक्षलोकस्वामिनम् अविनाशिज्ञानं तत्सुखस्वरूपशरीरं संसारान्धकारविच्छेदसूर्य- ममुं कृष्णं निजहृदयपझे निजैक्येन स्वाभेदेन भावयन् अमलचेताः निर्मलान्तःकरणः प्रतिदिनं त्रिसहस्रंसहस्रत्रयं जुहुयात् तथा पूर्वोक्तसायाह्नपूजाप्रकारेणपूजयतु होममपिकरोतु ॥ २१ ॥ Anatomised .. विधिं योऽमुं भक्त्या भजति नियतं सुस्थिरमति- भवाम्भोधि भीमं विषमविषयग्राहनिकरैः ।। तरङ्गैरुत्तुङ्गैनिमृतिसमाख्यैः प्रविततं. समुत्तीर्याऽनन्तं व्रजति परमं धाम स हरेः॥२२ ।। यः स्थिरमतिः पुमान अमुविधि प्रकारं नियतं सततं भक्त्या- भजतिसेवते स भवाम्भोधि संसारसागरं समुत्तीर्य हरेः अनन्यं न- विद्यते अन्योयस्मात्सर्वमयमुत्कृष्टं धामप्राप्नोतिकीदृशम् अम्भोधि- रिवभयङ्करं कैर्षिषमादुर्निवाराः येविषयाः शब्दादयः अथवास्त्रक्च न्दनवनिताद्याः त एव ग्राहरूपामकरकच्छपाद्यास्तेषां निकरैः समू- हैः तथा जन्ममरणनामधेयैस्तरङ्गैरुत्तुङ्गैमहद्भिर्विस्तीर्णम् ॥ २२ ॥ ૨૮ २१८ सटीकक्रमदीपिकायाः गृणंस्तस्येति । गृणंस्तस्य नामानि शृण्वंस्तदीयाः। कथाः संस्मरंस्तस्य रूपाणि नित्यम् नमंस्तत्पदाम्भोरुहं भक्तिननः । स पूज्यो बुधैर्नित्ययुक्तः स एव ॥ २३ ॥ सपुरुषः बुधैः प्राज्ञैः पूज्यः स एव च नित्ययुक्तः नित्ययो- गभाक् किङ्कुर्वन्सन् अस्यश्रीकृष्णस्यनामानिगृणन् वदन् तदीयाः कथा आकल्पयन् तस्य श्रीकृष्णस्य रूपाणिमूर्तीः सर्वदाध्यायन् तत्पदाम्भोरुहं श्रीकृष्णपादपद्मं नमन् भक्तिनम्रः सेवाऽघनतः अधिकनम्रत्वख्यापनार्थपौनरुक्त्यम् ॥ २३ ॥ इदानीं परममन्त्रद्वयं कथयति । वक्ष्य इति । वक्ष्ये मनुवयमथा. ऽतिरहस्यमन्यत् । संक्षेपतो भुवनमोहननामधेयम् ॥ ब्रह्मेन्द्रवामनयनेन्दुभिरादिमान्य- स्तत्पूर्वको वियदृषीकयुतेशउहृत् ॥ २४ ॥ अथा ऽनन्तरमन्यत् मन्त्रद्वयमतिगोप्यं जगन्मोहनसंज्ञकस्वल्पो- क्यावक्ष्ये ब्रह्मककारः इन्द्रोलकारः वामनयनं दीर्घ ईकारः इन्दुर- नुस्वारः एतैः संयुक्तः कामवीजरूपः प्रथमोमन्त्र उधृतः तत्पूर्वकः वियत् हकारः ऋषीक इति स्वरूपं ताभ्यां युक्तईशशब्दः हृषीकेश इति स्वरूपं के चतुर्थ्येकवचनं हनमः क्लींहृषीकेशायनमः इति द्वितीयोमन्त्रः अत्रायं पुरुषोत्तममन्त्र इति भैरवत्रिपाठिनः ॥ २४ ॥ ऋष्यादिकमाह- मन्वोरिति । मन्वोस्तु संमोहननारदोमुनिः। छन्दस्तु गायत्रमुदीरितं बुधैः ।।

अष्टमपटलम्। २१९ चैलोक्यसंमोहनविष्णुरेतयोः । स्याद्देवता वच्म्यधुना षडङ्गकम् ॥२५॥ अनयोर्मन्त्रयोः संमोहननारदो मुनिः छन्दः पुनर्गायत्रं मन्त्रशैः कथितं त्रैलोक्यसंमोहनविष्णुर्देवतेति ॥ २५ ॥ अधुनाषडङ्गंवदामि- अक्लीवेति। अक्लीवदीधैः सलवैस्तदपि च कलासनारूढैः। उक्तं पूर्ववदासनविन्यासान्तं समाचरेदथ तु ॥२६॥ ऋऋललवर्जितषदीर्घस्वरैः विन्दुसहितैः कलेत्यक्षरद्वयसं. वद्धैः क्ला क्लीं क्लू क्लै क्लौं क्लः एभिस्तत् षडङ्गमुक्तम् अथानन्तरं पूर्ववहशाक्षरकथितपीठपूजापर्यन्तं कार्यम् ॥ २६ ॥ करयोरिति। करयोः शाखासुतले न्यस्य षडङ्गानि चाङ्गुलीषु शरान्। मनुपुटितमातृकाणे यस्याङ्गेऽङ्गानि विन्यसेच्च शरान्२७ करयोः शाखासु अङ्गुलीषु उभयकरतले च षडङ्गानिविन्यस्य पुनरङ्गुलीषु च कामवाणान् विन्यस्य आद्यन्तस्थितमन्त्रमातृका- क्षरैर्मातृकास्थानेषु विन्यस्य दीर्घयुक्तकामवीजैः षडङ्गानिस्वशरीरे- विन्यस्य वाणन्यासं च कुर्यात् ॥ २७॥ घाणन्यासस्थानान्याह- कास्योति । कास्यहृदयलिङ्गाधिषुकर- शाखाभिनमोन्तकान्छेऽन्तान् ।। शोषणमोहनसंदीपनतापनमादनान क्रमशः ॥ २८॥ पञ्चैते संप्रोक्ता हाहीक्लींक्लू सआदिकावाणाः। समोहनमथजगतां ध्यायेत् पुरुषोत्तमं समाहितधी:२९॥ शिरोवदनहृदयलिङ्गपादेषु अङ्गुलीभिः अङ्गुष्ठादिकनिष्ठिकान्ता.

२२० सटीकक्रमदीपिकायाः - भिः एकैकया अङ्गुल्या चतुर्थीनमःपदसहितान् वक्ष्यमाणान् पञ्च- वाणान् क्रमेणविन्यसेत् । वाणनामान्याह- शोषणेति। हाँ ही क्लीं क्लूं सः एतानिपञ्चवीजानिएकैकानि आदौयेषां एवम् पते पञ्चवाणा शोषणादयः प्रोक्ताः प्रयोगस्तु हॉशोषणायनमः इत्य- ङ्गुष्ठेन शिरसि हीमोहनायनमः इति तर्जन्यामुखे इत्यादि अथानन्त- रम् संयतचित्तः त्रिभुवनवश्यकरं पुरुषोत्तमंचिन्तयेत् ॥ २८ ॥ २९ ॥ ध्यानमाह- दिव्यति । दिव्यतरूद्यानोद्यद्रुचिरमहाकल्पपादपाधस्तात् । मणिमयभूतलविलसद्भद्रपयोजन्मपीठनिष्ठस्य ॥ ३० ॥ विश्वप्राणस्योद्यत्प्रद्योतनसमथुतेः सुपर्णस्य । आसीनमुन्नतांसे विद्रुमभद्राङ्गमङ्गजोन्मथितम् ।।३१॥ चक्रदराङ्कुशपाशान्सुमनोवाणेक्षुचापकमलगदाः । दधतं स्वदोभिररुणायतविपुल- विधूर्णिताक्षियुगनलिनम् ॥ ३२ ॥ मणिमयकिरीटकुण्डलहाराङ्गदकङ्कणोमिरसनाद्यैः। अरुणैर्माल्यविलेपैरादीप्तं पीतवस्त्रपरिधानम् ॥ ३३ ॥ निजवामोरुनिषण्णांश्लिष्यन्तीवामहस्तधृतनलिनाम् क्लियद्योनिंकमलांमदनमव्याकुलोज्ज्वलाङ्गलताम् ३४॥ सुरुचिरभुषणमाल्यानुलेपन सुसितवसनपरिवीताम् । निजमुखकमलव्यापृतचटुला. सितनयनमधुकरांतरुणीम् ॥ ३५ ॥ दिलष्यन्तं वामभुजादण्डेन दृढं धृतेक्षुचापेन । । ।

अष्टमपटलम् । अथ- सजनितपरमनिवृतिनिर्भरहृदयं चराचरैकगुरुम् ॥३६॥ सुरदितिजभुजगगुह्यकगन्धर्वाद्यङ्गनाजनसहस्रः । मदमन्मथालसाङ्गैरभिवीतं दिव्यभूषणोल्लसितैः ॥३७॥ आत्माभेदतयेत्थंध्यात्वैकाक्षरमथाऽष्टवर्णवा । प्रजपेदिनकरलक्षत्रिमधुरसिक्तैस्तु किंशुकप्रसवैः ॥३८॥ नवश्लोकानां कुलकम् । इत्थम् एवं वासुदेवं ध्यात्वा एकाक्षरकामवीजम् वाष्टाक्षरमन्त्रं दिनकरलक्षंद्वादशलक्षं जपेत् कीदृशं ध्यात्वा दे. वसंबन्धिवृक्षोद्याने कल्पवृक्षोद्याने उद्यन् वृद्धिगच्छन् मनोहरो यः पारिजातवृक्षस्तस्य तले गरुडस्योन्नतांसे उपविष्टं कीदृशस्य गरुडस्य पद्मरागादिघटितभूभागशोभमानश्रेष्ठपद्मपीठोपविष्टस्य तथा सकलजीवभूतस्य परमेश्वरस्यांशत्वात् तथा उदितसूर्यसमका- न्तेः कीदृशं वासुदेवं प्रवालसुदराङ्गं तथा कामव्याकुलितं स्वदो- भिः स्ववाहुभिर्दक्षिणवामक्रमेण चक्रशङ्खाङ्कुशपाशपुष्पशरभुचा- पपद्मगदाः विभ्राणं तथा रक्तंदीर्घ वृहद्विघूर्णितंनेत्रद्वयरूपं प- नं यस्य स तथातम् पनरागादिमणिघटितशिरोलंकारकर्णभूषण- मुक्ताहारवाहुभूषणकरमूलभूषणमुद्रिकाक्षुद्रघण्टिकाप्रभृतिभिः रक्त- माल्यगन्धैश्च देदीप्यमानं तथा पीते वाससी परिधानमाच्छादने यस्य स तथातं तथा धृतेक्षुचापेन वामवाहुदण्डेन दृढं यथा स्यादे वं श्रियमालिङ्गन्तम् । कीदृशीं स्वीयवामोरुदेशे उपविष्टां तथा आलिङ्गन्ती तथा वा- महस्तगृहीतपद्मां तथासरसीभूतगुह्यां तथा कामेनव्याकुलीकृता- अनायत्तीकृता अङ्गलता यस्यास्तां मनोहराणि अलङ्कारमालाच न्दनानियस्यास्तां तथा श्वेतवस्त्रपरिधानां तथा कृष्णमुखप व्या पृतं सम्यग्व्यापारयुक्तं चटुलंमनोहरं चञ्चलं वा असितंश्यामयनेत्रं स एव मधुकरो भ्रमरः यस्यास्तां तथा तरुणी युवतीं पुनः कीदृशं प्रियालिङ्गनजनितपरमसुखपूर्णहृदयं तथा जगद्गुरुं तथा देवदै- त्यसर्पदेवयोनिदेवगायनविद्याधरस्त्रीसहस्त्रैर्मदतया कामेन च स्त- २२२ सटीकक्रमदीपिकायाः म्भयुक्तम् अङ्गंयेषान्तैर्देवाहणभूषणदीप्तैर्वेष्टितं कयायुक्त्या आत्मैक्ये. नध्यात्वा ॥ ३० ॥ ३१ ॥ ३२॥ ३३ ॥ ३४॥३५॥३६ ॥ ३७॥ ३८ ॥ जुहुयात्तरणिसहस्रं विमलैः सलिलैश्च तर्पयेत्तावत् विशेत्यर्णे प्रोक्तयन्त्रेदिनशोऽमुमर्चयेत भक्त्या ॥ ३९ ॥ ध्यानजपानन्तरं घृतमधुशर्करासहितैः पलाशपुष्पैादशस- हनं जुहुयात् होमानन्तरंनिर्मलैर्जलैादशसहस्रतर्पणंकुर्यात् । विंशत्यर्णेति । पूर्वोक्तविंशत्यक्षरोदितपीठविधानेनतन्मन्त्रोद्धृतयन्त्रे अमुं कृ- णभक्त्याप्रतिदिनं पूजयेत् ॥ ३९ ॥ पूजाप्रकारमाह- सार्द्ध चतुःश्लोकेनगरुडमन्त्रमाहwoman पीठेति। पीठविधीपक्ष्यन्ते राजायशिरोऽमुनाऽभिपूज्याऽहिरिपुम् हरिमावायस्कन्धेतस्यार्घायैः समय॑ भूषान्तः ॥४०॥ अङ्गानि च वाणांश्च न्यासक्रमतः किरीटमपिशिरसि ॥ श्रवसोश्चकुण्डलेऽरिप्रमुखानि प्रहरणानि पाणिषु च४१॥ श्रीवत्सकौस्तुभौ च स्तनयोरुटुंगले च वनमालाम् । पीतवसनं नितम्वेवामाङ्कश्रियमपि स्ववीजेन ॥ ४२ ॥ इष्ट्वाऽथ कर्णिकायामङ्गानिविदिग्दिशासुदिक्षुशरान् । कोणेषुपञ्चमं पुनरग्न्यादिदलेषु शक्तयः पूज्याः ॥४३॥ पूजाविधौपक्षिशब्दान्ते राजायेति स्वरूपं शिरः स्वाहा अ. नेनप्रकारेणपीठमध्ये अहिरिपुंगरुडंसम्पूज्य तस्यगरुडस्य पृष्ठेश्री- कृष्णमावाह्याऽऽवाहनादियथावत् कृत्वार्धाद्यैर्भूषान्तैरुपचारैश्च स- म्पूज्य अङ्गानि च सम्पूज्यपश्चवाणांश्च सम्पूज्य भूषणानि च सम्पू. ज्यदिग्दलेषुशक्तयः पूज्या इति अनेनान्वयः । एतदेवस्पष्टयति- - अष्टमपटलम् । २२३ न्यासक्रमत इत्यादिना। यापरमेश्वराङ्गे यस्य न्यासः तस्य पूजाबोद्धव्या तत्रशिरसिकि- रीटं अपिपादपूरणे श्रोत्रयोः कुण्डले अरिमुखानि चक्रादीनि प्रहर- णानि आयुधानिहस्तेषुस्तनयोऊ.हृदि श्रीवत्सकौस्तुभौ गलेवनमा- लाम् आपादलम्विनीपद्ममालां नितम्वेकट्यां हरिद्राभवस्त्रं वामाणे- वामभागेलक्ष्मी च स्ववीजेन श्रीवीजेन इष्ट्वासम्पूज्य कर्णिकायां दि. ग्विदिशासुकोणेषुदिक्षु च अङ्गानि पूर्ववत्सम्पूज्यदिक्षुशरान् अ- ग्न्यादिकोणेषुचपञ्चमं वाणं पूजयेत् पुनरग्न्यादिदलेषु अष्टौशक्तयः पूज्याः ॥ ४०॥४१॥ ४२ ॥४३॥ शक्तिवर्णानाह- लक्ष्मीरिति। लक्ष्मीः सरस्वती स्वर्णाभे अरुणतरे रतिप्रीत्यौ। कीर्तिः कान्तिश्च सिते तुष्टिः पुष्टिश्च मरकतप्रतिमे॥४४॥ स्वर्णाभेपीतवणे अरुणतरेअतिरक्ते सितेशुक्ले मरकतप्रतिमे- हरिद्रावणे ॥४४॥ एताः शक्तयः किम्भूताः । दिव्याङ्गरागभूषा- माल्यदुकूलैरलकृताङ्गलताः॥ स्मेराननाः स्मरात- धृतचामरचारकरतला एताः॥४५॥ देवयोग्यानुलेपनालङ्कारग्रन्थितपुष्पसूक्ष्मवस्त्रभूषितदेहाः अङ्गल- ताशब्दः स्वरूपवाची तथा ईषद्धास्यवदना तथा कामवाणपी. डिताः तथा गृहीतचामरमनोहरहस्ताः ॥ ४५ ॥ लोकेशा इति। लोकेशा वहिराः- कथितेत्यर्चा मनुबयोद्भूता ॥

२२४ सटीकक्रमदीपिकायाः प्रायः पुरुषोत्तमविधिः रेवं हि स नोच्यतेऽत्रवहुलत्वात् ॥ ४६ ॥ तद्वहिरिन्द्रादयः वज्रादयश्चपूज्याः इत्येवंपूजा मन्त्रद्वयसम्भवा कथिता प्रायोवाहुल्येनपुरुषोत्तममन्त्रथितप्रकारोप्येवम्परं स इह स्पष्टीकृत्य नोच्यते बहुवक्तव्यत्वात् प्रायः पुरुषोत्तमविधिरेवमि- हाऽन्यतोऽवगन्तव्यमिति टीकान्तरसम्मतं पाठान्तरम् ॥ ४६॥ समोहनगायत्रीमाह- त्रैलोक्येति । त्रैलोक्यमोहनाये- त्युत्का विद्महइति स्मरायेति । तत् धीमहीति तन्नो- ऽन्तेविष्णुस्तदनुप्रचोदयात् ॥ ४७ ॥ त्रैलोक्यमोहनायेति स्वरूपमुक्कातदनन्तरं विद्महे इति स्मराये- ति तदनुधीमहीति तनोविष्णुः प्रचोदयादिति स्वरूपंवदेत् ॥ ४७ ॥ प्रभावमाह- जप्यैषा हि जपादौ दुरितहरी श्रीकरी जपार्चनहवनैः । प्रोक्षयतु शुद्धिविधये- ऽर्चायामनयात्मयागभूद्रव्याणि ॥ ४८ ॥ एषागायत्रीजपात पूर्व जपनीया स्वमन्त्रजपपूजाहोमैः पुनः पा. पनाशनी लक्ष्मीप्रदा च भवति अनयागायच्या च पूजायां शुद्ध्यर्थ आत्मयागभूद्रव्याणि आत्मानं यागभुवम् द्रव्याणि च प्रोक्षयतु ॥४८॥ मन्त्रद्वयसाधारणतर्पणमाह- मन्वोरिति । मन्वोरकेन शतं. तर्पयेन्मोहनीप्रसूनयुतैयः।

सप्तमपटलम्। २२५ तोयैर्दिनशः प्रातः- स तु लभते वाञ्छितानयत्नतः कामान् ॥ ४९ ॥ यः पूर्वोक्तमन्त्रयोः एकेनमोहिनीपुष्पमिश्रितैः शक्रासनपद्मास- मपुष्पसहितैर्जलैः प्रति प्रत्यहं शतं तपर्येत् स वाञ्छितान्कामान् अनायासेन प्राप्नोति ॥ ४९ ॥ मन्त्रद्वयसम्बन्धिप्रयोगान्तरमाह- हुत्वेति । हुत्वायुतं हुतशेष- संपाताज्येन तावदभिजप्तेन । भोजयतु स्वाभीक- रमणीरमणोऽपि तां स्ववशतां नेतुम् ॥ ५० ॥ घृतेनवह्नावयुतंहुत्वा आहुतिशेषघृतेनमन्त्रजप्तेन रमणी स्वय- शतां नेतुं प्रापयितुम् आत्मीयंकामुकंभोजयतु कामुकः खियं भो- जयतु ।। ५०॥ अष्टादशाणेति। अष्टादशार्णविहिता- विधयः कार्या वश्यत आभ्याम् । मन्वोरनयोःसहगन्यो वै- न मनुस्त्रैलोक्यवश्यकर्मणि जगति ॥ ५१ ।। अष्टादशाक्षरमन्त्रकथिता वश्यकारिणःप्रयोगा आभ्यां मन्त्राभ्यां कार्याः हि निश्चयेन जगति सकलजगदायत्तताकार्ये अनयोः समा- नोऽन्यो मन्त्रोनास्ति ॥ ५१ ॥ अत्रैकाणेति । अत्रेकार्णजपादा- वथवा कृष्णः सवेणुगतिर्येयः ।।

२२६ सटीकक्रमदीपिकायाः । अरुणरुचिराङ्गन्वेश- कन्दर्पो वा सपाशशूणिचापेषुः ॥ ५२॥ अत्र समनन्तरोक्तद्वयमध्ये एकाक्षरमन्त्रस्य जपपूजाहोमादौ कृष्णो भावनीयः कीदृक् सवेणुगीतिरिति वंशोत्थगानपरः तथा लोहितमनोहरशरीराभरणः अथवा अत्रैव मन्त्रजपादौ पाशाङ्कुशध- नुर्वाणधरःकामदेवोध्येयःमन्त्रस्यादिदेवात्मकत्वादिति भावः ॥५२॥ प्रकृतमुपसंहरति । यस्त्विति। यस्त्वेकतरं मनुमेतयो- विमलधीः सदा भजति मन्त्री ।। सोऽमुत्रापि च सिद्धिं । विपुलामिहातितरामोत ॥ ५३ ॥ योमन्त्री अनयोमन्त्रयोरकं मन्त्रश्रेष्ठं सदा जपादिभिः सेवते स इहलोके ऽमुत्र च अत्यर्थ विपुलांसिद्धि प्राप्नोति ॥५३॥ अथ रुक्मिणीवल्लभमन्त्रमुद्धरति । अथेति। अथ सत्यशौरिचतृतीयतुर्यकाः । शिखिवामनेत्रशशिखण्डमाण्डिताः ।। जयकृष्णयुग्मकनिरन्तरात्मभू- शिखिशक्तिडास्यवृतसक्तवर्णकाः ।। ५४ ॥ प्रनिमध्यतो मुदितचेतसे तत- स्त्यपरक्तदृग्यगुरुमारुताक्षराः ॥ सचतुर्थिकृष्णपदमिक्षुकामुको- दशवर्णकश्च अनुवर्यकस्त्वसौ ॥ ५५ ॥ सलवाधराचलसुतारमाक्षरैः। पुटितः क्रमोक्रमगतैः समुद्गवत् ॥

अष्टमपटलम् । २२७ इति दन्तसूर्यवसुवर्ण उद्धृतः। कवितानुरञ्जनरमाकरोघहृत् ॥ ५६ ।। सत्योदकारः शौरिनकारः तृतीयतुर्येति जकारः झकारश्च एतेचत्वारोवर्णाः प्रत्येक शिखोरेफः वामनेत्रमीकार: शशिखण्डोविन्दुः एतैः शोभनाः संवद्धाइत्यर्थः तथाच द्रीं त्री जी श्रीं इति तदनु जय कृष्णेति त्रिपाठिगोविन्दमिश्रप्रभृ. तयः वस्तुतः जयकृष्णति पदस्य युग्मं तदनु निरन्तरोति स्व- रूपम् आत्मभूः ककारः शिखीरेफः शक्तिरीकारः तथा क्री स्व- रूपं तदनु डस्वरूपं आस्यवृतमाकारः डास्वरूपं सक्त इति स्व. रूपं प्रनिमध्यतः प्रनीति अक्षरयोर्मध्ये मुदितचेतसे इति ततो निशब्दान्ते त्येति स्वरूपं तदनु पस्वरूपं रक्तोरेफः इक इकारः प्रथमाऽतिक्रमे कारणाभावात् हस्व इकारो लभ्येत तथा च प्रिइति स्वरूपं ततो य इति स्वरूपं गुरुराकारः या इति स्वरूपं तदनु मारुतोयकारः तदनु सचतुर्थिकृष्णपदं कृष्णायेति स्वरूपं तदनु इक्षुकार्मुकः कामवीजं तदनु पूर्वोक्तदशाक्षरमन्त्रः तदनु ल- वोविन्दुः तत्सहिता धरा ऐकार इति स्वरूपम् अचलः पर्वतः तत्सुता पार्वती भुवनेश्वरीबीजमित्यर्थः रमाश्रीवीजम् एभिस्त्रि.. भिर्वीजैमन्त्रान्ते प्रतिलोमपठितैः ऐहीं श्रीं अन्ते श्रीहीऐं इति समुद्रवत् सम्पुटवत् पुटितोऽयं द्विपञ्चाशद्वर्णो मन्त्रः सिद्धो भवति । मन्त्रवर्णसंख्यामाह- इतीति । दन्त ३२ सूर्य १२ वसु ८ एभिर्मिलितः संख्या द्विपञ्चाशद्वर्णा- त्मको मन्त्रो भवतीत्यर्थः कीदृशः कवितालोकानुरागलक्ष्मी सम्पादकः तथाऽघहृत्पापहर्ता ॥ ५४॥ ५५ ॥ ५६ ॥ अस्य मन्त्रस्य ऋष्यादिकमाह- मुखवृत्तेति। मुखवृत्तनन्दयुतनारदो मुनिः । छन्द उक्तममृतादिकं विराट् ॥ ।

२२८
सटीकक्रमदीपिकाया:
त्रिजगद्विमोहनसमायो हरिः।
खलु देवताऽस्य मुनिभिः समीरिता ॥ ५७ ॥
मुखवृत्तमाकारः नन्देति स्वरूपम् आभ्यां युतो नारदः तथाच
आनन्दनारदऋषिः अमृतादिकं विराट् छन्दस्त्रैलोक्यमोहनोहरि
देवता नारदादिभिर्मुनिभिः कथिता ॥ ५७ ॥
अङ्गविधिदर्शयति।
वसुमित्रेति ।
वसुमित्रभूधरगजात्मदिङ्मयै-
मनुवर्ण कैस्त्रिपुटसंस्थितैः पृथक् ॥
निजजातियुनिगदितं षडङ्गकम् ।
क्रिययैव तत खलु जनानुरञ्जनम् ॥ ५८ ॥
वसुः ८ मित्रः १२ भूधरः ७ गजः आत्मा १ दिक् १०
एतत्सङ्ख्याकैर्मन्त्राक्षरैत्रिपुट्सस्थितैः तथाच ऐं ह्रीं श्रीं ह्रीं
ब्री जी श्री जयकृष्ण ऐं ह्रीं श्रीं हृदयानमः ऐं ह्रीं श्रीं जयकृष्ण-
निरन्तरक्रीडासक्त ऐं ह्रीं श्रीं शिरसेस्वाहा इत्यादिक्रिययैव
षडङ्गक्रिययैव सर्वजनानुरागं जनयति ॥ ५८ ॥
न्यासमाह-
अथेति।
अथ संविशोध्य तनुमुक्तमार्गतः ।
विरचय्य पीठमपि च स्ववष्मणा ।।
करयोदशाक्षरविधिकमान्न्यसेत् ।
स षडङ्गसायकमनङ्गपञ्चकम् ॥ ५९ ।।
अथानन्तरं तनुशरीरम् उक्तमार्गतः पूर्वोक्तभूतशुचा प्रकारेण
संशोध्याऽनन्तरं स्ववष्मर्णा स्वशरिण पीठमारचय्य करयोः
करयुगलेदशाक्षरोक्तप्रकारेण षडङ्गम् अङ्गषट्कं सायकान् च
शोषणादीन् वाणान् अनङ्गपञ्चकं कामवीजमन्मथकन्दर्पमकरध्वज-
मनोभूतसंक्षकं कामपञ्चकं न्यसेत् ॥ ५९ ॥

मनुना त्रिशो सेत तदनन्तरम् आत्मार्चनाद्यखिलं पूर्ववत् कृत्वा सकललोकद्रष्टा. अष्टमपटलम् । २२९ इममेवार्थ विविच्य दर्शयति- मनुनेति । न्यसतु सर्वतस्तनौ। स्मरसम्पुटैस्तदनु मातृकाक्षरैः ॥ दशतत्वकादिदशवर्णकीर्तितं- त्वथ मूर्तिपञ्चरवसानमाचरेत् ॥ ६०॥ मनुना मूलमन्त्रेण पूर्व शरीरे त्रिव्यापककुर्यात् तदनन्तरं प्रतिवर्ण कामवीजपुटितैर्मातृकाक्षरैः त्रिशो न्यसतु दशवर्णकीर्तितं दशाक्षरोक्तदशतत्वादिकान् न्यसेत् तत्त्वन्यासादि मूर्ति- पञ्जरान्तं विन्यस्य ॥१०॥ सृजतिस्थिती दशषडङ्गसायकान् । न्यसतात्ततोऽन्यदखिलं पुरोक्तवत् ॥ प्रविधाय सर्वभुवनैकसाक्षिण- स्मरतान्मुकुन्दमनवद्यधीरधीः॥ ६१ ॥ सृष्टिस्थिती समाचरेत् दशाङ्गानि षडङ्गानि वाणांश्च देहे विन्य- रं श्रीकृष्णं स्मरतात् चिन्तयतु निर्मलास्थिराबुद्धिर्यस्य स तथा तादृशः साधकः ॥ ६१ ॥ ध्यानमाह- अथेति। अथ भूधरोदधिपरिष्कृते महो- नतशालगोपुरविशालवीथिके ॥ घनचुम्ब्युदग्रसितसौधसकुले । मणिहयविस्तृतकपाटवेदिके ॥ ६२ ॥ अथानन्तरं स्वकेपुरे मणिण्डपे सुरपादपस्य कल्पवृक्षस्या धो मणिमयभूतले परिस्फुरत् पृथुसिंहवक्रचरणाम्वुजासने स्थूलसिंह- सटीकक्रमदीपिकायाः . मुखाकारपादान्वितपीठपद्मासने समुपविष्टमच्युतम अभिचिन्तयेत्। कीदशेपुरे भूधराः पर्वताः उदधिः समुद्रः एतैः परिष्कृतेवेष्टिते त- था महोन्नतः अत्युच्चः शालः प्रकारोगोपुरं वहिरं च यत्र तस्मि- न् तथा विशालामहती वीथिका पन्थाः यत्र तत्र कर्मधारयः तथा मेघस्पर्शिअतिशुद्धधवलगृहव्याप्ते तथा मणिमयगृहे विस्तीर्णाः कपाटाः तथा वेदिका परिष्कृतभूमियत्र तत्र ॥ ६२ ।। पुनः कीदृशेपुरे- द्विजभूपविट्चरणजन्मनां गृहै. विविधैश्च शिल्पिजनवेश्मभिस्तथा ॥ इभसप्त्युरभ्रखरधेनुसैरिभ- च्छगलालयश्च लसितैः सहस्रशः ॥ ६३ ॥ सहस्रशोलोकैाह्मणक्षत्रियवैश्यशूद्राणं नानाप्रकारगृहैः तथा शिल्पिजनानां गृहैस्तथा हस्त्यश्वमेषगर्दभधेनुमहिषच्छगलानां गृहैः शोभिते ॥ ६३ ॥ पुनः कीदृशे- विविधापणाश्रितमहाजनाहृत- क्रयविक्रयद्रविणसञ्चयाञ्चिते ॥ जनमानसाहृतिविदग्धसुन्दरी- जनमन्दिरैः सुरुचिरैश्च मण्डिते ॥ ६४ ॥ नानाप्रकारविपणिसमाश्रिते महाजनाहृतक्रयविक्रयद्रावणसंच. यव्याप्त पुनः कीदशे जनानां चित्तापहरणेचतुराः येवेश्याजनास्तेषां गृहै: शोभमा- नैरलंकृते ॥ ६४॥ पुनः कीदृशेपुरे। पृथुदीर्घिकोति। पृथुदीर्घिकाविमलपाथसिस्फुर- द्विकचारविन्दमकरन्दलम्पटैः ।।

अष्टमपटलम् । वरहंससारसरथाङ्गनामाभि- विहगैर्विघुष्टककुभि स्वके पुरे ॥ ६५ ।। स्थूल सरोवरनिर्मलोदके देदीप्यमानविकसितकमलमकरन्दा- ख्यरसलोलुपैः श्रेष्ठहंससारसचक्रवाकसंज्ञकैः पक्षिभिर्ध्वनिता दिशो यस्मिन् ॥ ५॥ पुनः कीदृशेमणिमण्डपे- पुनः कीदृशे। सुरपादपैः सुरभिपुष्पलोलुप- भ्रमराकुलैर्विविधकामदैर्नृणाम् ॥ शिवमन्दमारुतचलच्छिखैवते. मणिमण्डपे रविसहस्रसप्रभे ॥ ६६ ।। कल्पवृक्षैः सुगन्धिपुष्पलुब्धभ्रमरव्याप्तैः मनुष्याणां विवि- धकामदैः शुभमन्दमारुतचलदग्रभागैः तैर्वेष्टिते । सूर्यसहस्रसमानप्रभे ॥ ६६ ॥ पुनः कीदृशे- मणीति । मणिदीपिकानिकरदीपितान्तरे । तनुचित्रविस्तृतवितानशालिनि ।। ललिते पिकस्वरविचित्रदामाभः । सुसुगन्धि गन्धसलिलोक्षितस्थले ॥ ६७ ।। मणिरेवदीपिका तस्याः समूहैः प्रकाशितमध्यभागे । पुनः कीदृशे सूक्ष्मविचित्रविस्तीर्णचन्द्रातपयुक्ते। पुनः कीदृशे विकसितनानाप्रकारपुष्पमालाभिः शोभिते अतिसुरभिस. लिलसिक्तस्थाने ॥ ६७ ॥ पुनः कीदृशे॥

सटीकक्रमदीपिकायाः
प्रमदेति-
प्रमदाशतैर्मदविर्णितेक्षणैः
मैदजालसैः करविलोलचामरैः ॥
अभिसेविते स्खलितमजुभाषितः ।
स्तनभारभङ्गुरकृशावलग्नकः ॥ ६८ ॥
स्त्रीशतैर्मदविघूर्णितनेत्रैर्मदजनिताऽलस्यसहितैः हस्तस्थित-
चञ्चलचामरैः ईषत्स्खलितमनोहरवचनैः स्तनभारनम्र सूक्ष्मम-
ध्यप्रदेशैः परितः सेविते ॥ ६८ ॥
कथंभूतस्य सुरपादपस्य-
अविरामधारमणिवयंवर्षिणः ।
श्रमहानिदामृतरसच्युतोऽप्यधः ॥
सुरपादपस्य मणिभूतलोल्लसत्-
पृथुसिंहवऋचरणाम्बुजासने ।। ६९ ।।
अविश्रान्तमणिश्रेष्ठधारावर्षिणः ।
पुनः कीदृशस्य।
श्रमहानिकरामृतरसश्राविनः ॥ ६९ ।।
कीदृशमच्युतम्-
अभिचिन्तयेत्सुखनिविष्टमच्युतं-
नवनीलनीररुहकोमलच्छविम् ।।
कुटिलाग्रकुन्तललसकिरीटक-
स्मितपुष्परत्नरचितावतंसकम् ॥ ७० ॥
नूतननीलोत्पलरम्यकान्तिम् ।
पुनः कीदृशं-
कुटिलायकेशेषुस्फुरत् किरीटंयस्यतम् ।
पुनः कीदृशं।
स्मितम् ईषद्विकसितं पुष्पं रत्नानि च तैरचितोऽवतं-
सोयेनतम् ॥ ७० ॥

सप्तमपटलम् । सुललाटमुन्नसमुदश्चितभ्रुवं- विपुलारुणायतविलोललोचनम् ॥ मणिकुण्डलास्रपरिदीप्तगण्डकं. नववन्धुजीवकुसुमारुणाधरम् ॥ ७१ ।।। तथा शोभमानललाट- तथा उच्चनासिकम् उदच्छलताकं तथा स्थूलारुणवर्णदीर्घचञ्चलनयनं तथा मणिमयकुण्डलकि- रणपरिशोभितगण्डस्थलं तथा नूतनवन्धुजीवपुष्पसहशाऽरु- णाधरम् ॥ ७१ ॥ पुनः कीदृशं. स्मितेति । स्मितचन्द्रिकोज्ज्वलितदिङ्मुखं स्फुर. त्पुलकश्रमाम्बुकणमण्डिताननम् ।। स्फुरदंशुरनगणदीप्तभूषणो- त्तमहारदामभिरूपस्कृतांसकम् ॥ ७२ ॥ हासचन्द्रकिरणधवलीकृतदिङ्मुखं तथा स्फुरद्रोमाञ्चजः स्यप्रस्वेदविन्दुशोभितवदनम् । पुनः कीदृशं स्फुरद्धेदीप्यमानकिरणरत्नसमूहप्रकाशमानभूषणश्रेष्ठहारमाला- भिःशोभितस्कन्धम् ॥ ७२ ॥ घनसारकुसमविलिप्तविग्रहं- पृथुदीर्घषद्वयभुजाविराजितम् ।। तरुणाब्जचारुचरणाजमङ्गजो- न्मथिताङ्गमङ्कगकराम्बुजयम् ॥ ७३ ॥ पुनश्चन्दनकुङ्कुमाभ्यां परिलिप्तशरीरं पुनः स्थूलदीर्घद्वादशः ३० सटीकक्रमदीपिकायाः हस्तै विराजितं तथा नूतनारुणवर्णपनसदृशचरणपनं पुनः कामपी- डितदेहं पुनः स्वाके आरोपितहस्तद्वयम् ॥ ७३ ॥ स्वास्थभीष्मकसुतोरुयुगान्तरस्थम् । तां तप्तहेमरुचिमात्मभुजाम्बुजाभ्याम् ॥ दिलष्यन्तमाजघनामुपगूहमाना- मात्मानमायतलसत्करपल्लवाभ्याम् ॥ ७४ ।। पुनः स्वाङ्के स्थिताया रुक्मिण्या ऊरुद्वयाभ्यन्तरे विद्यमानं पुन- स्तां रुक्मिणी तप्तसुवर्णकान्ति स्वीयहस्तपद्माभ्यामालिङ्गन्तं की- रशी ताम् आर्द्रजधनां पुनरात्मानं श्रीकृष्णं दीर्घमनोहरपाणिपल्लु- घाभ्याम् आलिङ्गन्तीम् ॥ ७४ ॥ आनन्दोद्रेकनिम्नां मुकुलितनयनेन्दीवरांसस्तगात्री- प्रोद्यद्रोमाञ्चसान्द्रश्रमजलकणिकामौक्तिकालंकृताङ्गीम् आत्मन्यालीनवाह्यान्तरकरणगणामङ्गकर्निस्तरङ्गै- मजन्ती लीननानामतिमतुलमहानन्दसन्दोहसिन्धौ७५ पुनः स्वात्मानन्दोद्रेकव्याप्तां पुनः मुद्रितनयननीलोत्पलां पुनः प्रोद्यत्तनुपुलकजन्यनिविड प्रस्वेदविन्दुरूपमौक्तिकशोभितदेहां पुनः आत्मनि श्रीकृष्णे सम्यग्विलीनवाह्याभ्यन्तरेन्द्रियसमूहां पुनर्व्या- पाररहितैः शरीरावयवैरतिशयितमहानन्दसमूहसागरेनिमग्नां पुनः विगतचञ्चलमतिम् ॥ ७५ ॥ पुनः कीदृशं परमेश्वरम्- सत्याजाम्बवतीभ्यां दिव्यदुकूलानुलेपनाभरणाभ्याम् ॥ मन्मथशरमथिताभ्यां मुखकमलचञ्चललोचनभ्रमराभ्याम् ॥ ७६ ॥ सत्यभामाजाम्बवतीभ्यामालिङ्गितं कथंभूताभ्याम् उत्कृष्टानि प- वखानुलेपनाभरणानि ययोस्ताभ्यां पुनः कामशरपीडिताभ्यां पुनः २३५ अष्टमपटलम् । कृष्णमुखाविषयकचञ्चलनेत्रभ्रमराभ्याम् ॥ ७६ ॥ भुजयुगलाश्लिष्टाभ्यां श्यामारुणललितकोमलाङ्गलताभ्याम् ॥ आश्लिष्टमात्मदक्षिण- वामगताभ्यां करोल्लसत्कमलाभ्याम् ॥ ७७॥ पुनः परमेश्वरस्य भुजयुगलेनाऽऽलिङ्गिताभ्यां- यथाक्रमनीलारुणवर्णेमबोहरे कोमले चालते ययोस्ताभ्यां पुनः परमेश्वरस्य दक्षिणवामगताभ्यां पुनः पाणिस्फुरितपमा. भ्याम् ॥ ७७॥ पुनः कीदृशम् । पृष्टगया कलिन्दसुतया करकमलयुजा। सम्परिब्धमन्चनरुचा मदनमाथितया ।। पद्मगदारथाङ्गन्दरभृद्भुजयुगलं- दोईयसक्तवंशविलसन्मुखसरसिरुहम् ।। ७८ ॥ परमेश्वरपृष्ठदेशवर्त्तिन्या यमुनयाहस्तकृतकमलया समालि- हितं किम्भूतया श्यामया पुनः कामपीडितया। पुनः कीदृशं परमश्वरं पद्मगदाशङ्खचक्रयुक्तहस्तचतुष्टयं हस्तबयधृतवंशविलसन्मुख- कमलम् ॥ ७८ दिक्ष्विति । दिक्षु बहिः सुरर्षिपतिभिः खचरपरिवृढे- भक्तिभरावनम्रतनुभिःस्तुतिमुखरमुखैः ॥ सन्ततसेव्यमानममनोवचनविषयक- मर्थचतुष्टयप्रदममुंत्रिभुवनजनकम् ॥ ७९ ॥ तृतीयपटलोक्तक्रमेणेत्यर्थः । पुनः वहिदिक्षु देवर्षियतिभिः खेचरमुख्यैर्भक्त्यतिशयननदेहै।

सटीकक्रमदीपिकायाः
परिवृढेः प्रधानः स्तुतिभिः वाचालवदनैर्निरन्तरं सेवितं पुनः मनसो-
वाचामगोचरं पुनर्धर्मार्थकाममोक्षफलचतुष्टयप्रदं पुनस्रैलो.
क्यजनकम् ॥ ७९॥
सान्द्रानन्दमहाब्धिमग्नममले धान्नि स्वके ऽवस्थितम् ।
ध्यात्वैवं परमं पुमांसमनघात्संप्राप्य दीक्षां गुरोः ।।
लब्ध्वाऽमुं मनुमादरेण सितधीलक्षं जपेद्योषिताम् ।
वार्ताकर्णनदर्शनादिरहितो मन्त्री गुरुणामपि ॥८॥
...पुनः निविडानन्दमहासमुद्रमग्नम् ।
स्वीयनिर्मलेतेजसितद्रूपेणाऽवस्थितम् एवमुक्तरूपं परमेश्वरं
विचिन्त्य निष्पापात् गुरोर्दीक्षामन्त्रोपदेशविधि प्राप्याऽमुंमन्त्रं ल-
ब्ध्वा तीक्ष्णबुद्धिः आदरातू लक्षमेकं जपेत् ।
कीदृशः साधकः स्त्रीणां वृद्धानामपि कथाश्रवणनिक्षिणपराङ्-
मुखः ॥८॥
होम सेवां चाऽऽह-
जुहुयादिति।
जुहुयाच्च दशांशकं हुताशे ।
ससिताक्षौद्रघृतेन पायसेन ॥
प्रथमोदितपीठवयं केऽमुं-
प्रयजोन्नित्यमानित्यताविमुक्त्यै ॥ ८१ ॥
हुताशे वह्नौ दशांशकम् । अयुतमेकं शर्करामधुघृतयुक्तेन परमा-
नेन जुहुयात् किञ्च पूर्वोक्तदशाष्टादशाक्षरकथिते पाठश्रेष्ठे नित्यममुं
यजेत् किमर्थम् अनित्यः संसारस्तस्य परिहरणाय ॥ ८१ ॥
आरभ्याऽथ विभूतिन्यासक्रमतः शरान्तमभ्यर्च्य ।
मूर्त्याद्यङ्गान्तं चात्मानं विंशत्योंदितयन्त्रवरे ॥८२॥
मध्येवीजं परितो वरुणेन्दुधमेन्द्रदिक्षु संलिख्य ॥
। धीजचतुष्कं तदपि चत्वारिंशद्भिरक्षरैयधिकैः ॥८३॥

अष्टमपटलम् ।
शिष्टैः प्रवेष्टय शिवहरि-
वस्वाद्यश्रिध्वथ क्रमादिलिखेत् ।।
वाङ्मायाश्रीमन्त्रास्तबद्रक्षोम्वुपानिलाश्रिषु च।।८४॥
शेषं पूर्वोदितवद्विधाय पीठं यथा वदभ्यर्च्य ।।
सङ्कल्प्य मूर्तिमत्रा-
ऽऽवाह्याऽयंचयतु मध्यवीजे तम् ॥ ८५ ॥
आरभ्येत्यादि विभूति पञ्जरमारभ्य
न्यास क्रमेणवाणपर्यन्तं पूजयित्वा-
मूर्त्तिन्यासमारभ्याऽङ्गन्यासपर्यन्तं चात्मरूपं सम्पूज्य पूर्वो-
तविंशत्यक्षरमन्त्रोक्तयन्त्रश्रेष्ठकर्णिकामध्यस्थितवह्निपुरयुगमध्ये म-
ध्यमवीजमध्ये वीजमिति पाठस्वरसात हल्लेखाबीजमिति रुद्र-
धरगोविन्दमिश्रप्रभृतयः परस्थमध्यमवीजमिति लगति मध्यमवी-
जंवाग्भवादिवीजत्रयमध्यस्थितंमारवीजमितिपाठेकामवीज कि-
लिख्य तत्परितश्च पश्चिमोत्तरपूर्वदक्षिणदिक्षु वीजचतुष्क
द्रींत्री जी झी इति वीजचतुष्टयं विलिख्य तदपिवीजचतु-
टयं द्विचत्वारिंशत्जपादिस्वाहान्तः शिष्टैमन्त्राक्षरैरुपरिवेष्टयेत्
अनन्तरं शिवईशानः हरिरिन्द्रः पूर्वादिदिगित्यर्थः वसुरग्निः आ-
नेयादिक एवं नैर्ऋतीवारुणीवायवीदिग् एतेषुकोणेषु क्रमेण-
वाग्भवभुवनेश्वरीश्रीवीजानि त्रिरावृत्त्य विलिखेत्
अवशिष्टं पीठविधानं पूर्ववत् समाप्यपीठं यथावत् पूजयित्वा-
तत्रपीठेकर्णिकामध्यस्थितकामवीजे रुक्मिणीवल्लभमूर्ति सङ्कल्प्य
ध्यात्वातमावाह्य पूजयेत् ॥ ८२ ॥ ८३ ॥ ८४ ॥ ५ ॥
मुखदक्षसव्यपृष्ठगवीजेष्वास्तु शक्तयः क्रमशः।
रुक्मिण्याद्याः षट्स्वथ-
कोणेष्वङ्गानि केशरेषु शरान् ॥ ८६ ॥
अनन्तरंदेवस्य सन्मुखदक्षिणवामपृष्ठप्रदेशगतेषु वीजचतुष्ट-
येषु रुक्मिण्याद्याः शक्तयः पूज्याः षट्कोणेषु अङ्गानि केशरेषु शरान्
पूजयेत् ॥ ८६ ॥

सटीकक्रमदीपिकायाः
लक्ष्म्याचा दलमध्येष्वग्न्यादिषु तदहिर्वजप्रमुखान्।
अग्रेकेतुं श्यामं पृष्ठविपमरुणममलरक्तरुची ॥८॥
पार्श्वद्वये निधीशौ-
सन्ततधाराभिवृष्टधनपुञ्जौ ॥
हेरम्वशास्तूदुर्गाविष्वक्सेनान् विदिक्षु वह्नयादि॥८॥
विद्रुममरकतदूर्वास्वर्णाभान् वहिरथेन्द्रवज्राद्यान्।
यजनविधानमितीरित-
मातिसप्तकयुतं मुकुन्दस्य ॥ ८९ ॥
अन्यादिपत्रमध्येषु लक्ष्म्याद्याः पूज्याः।
यत्रवहिर्भागध्वजप्रभृतीन् पूजयेत् अनन्तरं देवस्य सन्मुखे
श्यामवर्णकेतुनामानंगणं पूजयेत्देवपृष्ठभागे अरुणवर्ण गरुडं पू.
जयेत् देवपार्श्वद्वयेनिर्मलरक्तरुचीनिधीश्वरौ पूज्यौ कहिशौनिर-
म्तरधाराभिवृष्टधनसमूहो।
बन्यादिविदिक्षुहेरम्वादीन् प्रवालादिवर्णान् पूजयेत् अनन्त.
रं वहिर्दिक्षु इन्द्रादिलोकपालान् तथा वज्राद्यायुधानि पूजयेत् इति
पूर्वोक्तप्रकारेण मुकुन्दस्य श्रीकृष्णस्याऽऽवरणसप्तकं पूजाविधानं
कथितम् इति ॥ ८७ ॥ ८८ ॥९॥
इतीति-
इत्यर्चयनच्युतमादरेण ।
योऽमुं भजेन्मन्त्रवरं जितात्मा ।।
सोऽभ्यर्च्यते दिव्यजनैजनानां.
हृन्नेत्रपङ्केरुहतिग्मभानुः ॥ ९० ॥
इति अमुनाप्रकारण यो जितेन्द्रियो अच्युतं कृष्णं भक्त्या पूजयन्
अमुमन्त्रश्रेष्ठं सेवते सपुरुषः सुरैरपि पूज्यते कोडशः लोकानां हद-
यपद्मलोचनपद्मयोः सूर्यः सर्वजनवशीकरणमन्त्रः समर्थइत्य-
पि पाठः ॥ ९०॥

अष्टमपटलम् । सितेति- सितशर्करोत्तरपयःप्रतिपत्त्या । परितर्पयेदिनमुखे दिनशस्तम् ॥ सलिलैः शतं शतमखश्रियमेष- स्वविभूत्युदन्वति करोत्युदविन्दुम् ॥ ९१ ॥ सितशर्कराप्रधानप्रतिपत्त्या दुग्धबुद्ध्या जलैरेव दिनमुखे प्रा. तःकाले प्रतिदिन शतकृत्वस्तं तर्पयेत् अनन्तरं साधकः स्वा. धिपत्यसमुद्रे इन्द्रस्य लक्ष्मी जलविन्दुवत् करोति ॥ ९१ ॥ विदलदिति- विदलद्दलैः सुमनसः सुमनोभि- धनसारचन्दनवहुद्रवमग्नैः ॥ मनुनाऽमुना हवनतोऽयुतसंख्यं. त्रिजगत् प्रियः स भनुवित्कविराट् स्यात् ॥ ९२ ॥ अनेनमन्त्रेण सुमनसो जातीमालतीनामधेयस्य सुमनोभिः पुष्पैः विकसि। तैः कर्परयुक्तचन्दनस्य बहुद्रवव्यातैरयुतसंख्यं हवनतोऽयुतहोमे- न सः मन्त्री त्रैलोक्यस्य प्रियः कविश्रेष्ठश्व भवति ॥ ९२॥ ध्यानेति- ध्यानादेवाऽस्य सद्यस्त्रिदशमृगहशोबश्यतांयान्त्यवश्यं- कन्दाजपाद्यैः किमथ न सुलभं मन्नतोऽस्मान्नरस्य ।। स्प मुद्धूय चित्रं महदिदमपि नैसर्गिकींशश्वदेनं- सेवेतेमन्त्रिमुख्यंसरसिजनिलयाचाऽपिवाचामधीशा९३ अस्यरुक्मिणीवल्लभस्य ध्यानात् शीघ्रंत्रिदशमृगदृशः देवाङ्गना- अवश्यं वश्यतामायक्ततां प्राप्नुवन्ति कथंभूताः कामपीडिता अथा- नन्तरं जपहोमादिना ऽस्मात् मन्त्रात् साधकस्यं किं न सुलभम् अपितु सर्वमेवमुलभमित्यर्थः किश्वेदमपि महच्चित्रं यत्सरसिज-

२४०
सटीकक्रमदीपिकायाः
meaninos
निलया लक्ष्मीः वाचामधीशासरस्वती च स्वाभाविकीमसूयांत्य-
क्त्वा नित्यमेनसाधक श्रेष्ठ सेवेते ॥ ९३॥
आधीति-
आधिव्याधिजरापमृत्युदुरितै तैः समस्तैर्विषै-
दौभाग्येन दरिद्रतादिभिरसौ दूरं विमुक्तश्विरम् ॥
सत्पुत्रैः सुसुतासुमित्रनिवहैर्जुष्टोखिलाभिः सदा।
सम्पद्भिः परिजुष्टइडितयशाजीवेदनेकाः समाः॥१४॥
किञ्च मनोदुःखरोगजरापमृत्युशोकशून्यः सकलप्राणिभिर्विषैः
तथा दुरदृष्टेन तथा दरिद्रतादिभिरतिशयेन परित्यक्तो वहुकालं.
व्याप्यविशिष्टपुत्रसमेतः सत्पुत्रीमित्रसमूहेनसेवितः सदासमृद्धः
इंडितयशाः स्तुतयशाः असौसाधकः अनेकाः समा हायनानि जी-
वेतू ॥१४॥
मन्त्रान्तरेभ्योऽस्याऽतिशयित्वमाह-
अखिलति ।
अखिलमनुषु मन्त्रा वैष्णवा वीर्यवन्तो।
भहिततरफलाढ्यास्तेषु गोपालमन्त्राः ।।
प्रचलतर इहेषोऽमीषु संमोहनाख्यो-
मनुरनुपमसम्पत्कल्पनाकल्पशाखी ॥ ९५ ॥
सर्वेषुमन्त्रेषुवैष्णवमन्त्रा अतिशयेन सवीर्याः तेष्वपिवैष्णव-
मन्त्रेषुगोपालमन्त्रा. अतिपूजितफलयुक्ताः तेष्वपिगोपालमन्त्रेषु-
एषसंमोहनाख्यमन्त्रः प्रवलतरः प्रकृष्टवलयुक्तः पुनः निरुपमैश्य-
दानककल्पवृक्षः ॥९५॥
मन्विति-
मनुमिममतिहृद्यं यो भजेद्भक्तिनम्रो-
जपहुतयजनाद्यैानवानमन्त्रिमुख्यः ।
त्रुटितसकलकर्मग्रन्थिरुद्बुद्धचेताः ।
ब्रजति स तु पदं तन्नित्यशुद्ध मुरारेः ॥ ९६ ॥

अष्टमपटलम् ।
२४१
योमन्त्रिमुख्यः साधकश्रेष्ठः ध्यानयुक्तः भक्त्या आराध्यत्व
ज्ञानेन इमं मन्त्रं मनोहरं जपध्यानहोमादिभिर्भजेत् स मुरारेस्तत्प्र:
सिद्धं पदं व्रजति प्राप्नोति मुरा अविद्या तस्यानाशकस्य पदं कीदृशं.
पदम् अविनाशि सर्वकालुण्यरहितं स कीदृशः विनाशितसकलक-
मवन्धनः पुनः कीदृशः उद्बुद्धचेता बस्तुग्रहणोन्मुखचित्तः ॥ ९६ ॥
अथ योगमाह-
अङ्गीकृत्यति।
अङ्गीकृत्यैकमेषां मनुमथ जपहोमार्चनाद्यैर्मनूना-
मष्टाङ्गोत्सारितारिः प्रमुदितपरिशुद्धप्रसन्नान्तरात्मा ।
योगीयुञ्जीतयोगान्समुचितविहृतिस्वप्नवोधाहृतिःस्यात्
प्रागास्यश्वासने स्वे सुमृदुनि ससुखं मीलिताक्षो नि-
विष्टः॥ ९७॥
एषांमनूनां मन्त्राणां मध्ये एक मनुं मन्त्रजपहोमादिभिःस्वी-
कृत्यवशीकृत्य अष्टाङ्गेन यमनियमासनप्राणायामप्रत्याहारध्यान-
धारणासमाधिलक्षणेन उत्सारितास्त्यक्ताः कामक्रोधादयोऽरयो
येन स तथा हर्षितनिर्मलप्रसन्नचित्तो योगी प्राग्वदनः सन् योगान्
चित्तवृत्तिनिरोधादीन् करोतु कीदृशोयोगी यथोचितविहारनिद्रा-
प्रबोधाहारः पुनः स्वकीयेसुकोमले आसनेसमुपविष्टः पुनः की-
हशः सुखेनाऽनायासेनसंमीलितेमुद्रिते अक्षिणीयेनसः ॥ ९७ ॥
विश्वमिति।
विश्वं भूतेन्द्रियान्तःकरणमय-
मिनेन्द्रग्निरूपं समस्तं-
वर्णात्मतत् प्रधानेकल नयनमये वीजरूपे ध्रुवेण ।।
नीत्वातत्पुंसि विन्द्वात्मनि तमपि-
परात्मन्यथो कालतत्वे ।
तं वै शक्तो चिदात्मन्यपि नयतु च तां-
केवले धानि शान्ते ॥ ९८॥

सटीकक्रमदीपिकायाः एतद्वर्णात्मकंसमस्तं विश्वंभूतेद्रियान्तःकरणरूपं सूर्येन्द्रग्नि- रूपं प्रधानेप्रकृतिरूपे कलनयनरूपेकामवीजे प्रणवेन नीत्वा तत्र विलीनं विचिन्त्य तत्कामवीजं विन्द्वात्मनिप्रसिद्धेऽनुस्वाराख्ये तम- पिविन्द्वात्मानं नादाख्येकालतत्वे परमात्मनि संहरेत् तमपिकालतत्वं चिदूपायां शक्तौ संहरेत्तामपि शक्तिं केवलेतेजोमयेस्वप्रकाशेधानि- तेजसिशान्तेसर्वोपद्रवरहिते नयतु ॥९८॥ कीदृशे- निईन्द्रे निर्विशेषे निरतिशय. महानन्दसान्द्रेऽवसाना- पेतेऽर्थे कृष्णपूर्वामलरहितगिरा- शाश्वते स्वात्मनीत्थं ॥ सहृत्याऽभ्यस्य वीजोत्तममथ- शनकै ननिश्वासचेताः। प्रक्षीणापुण्यपुण्यो निरुपमपर संवित्स्वरूपः स भूयात् ॥ ९९ ॥ निर्द्वन्द्वेशीतोष्णादिद्वन्द्वविशेषरहिते विशेषोवैधयंतद्रहिते अ. स्यन्तानन्दघने अनन्तेकृष्णगोविन्दादिनिर्मलशब्दानां प्रतिपाये आत्मस्वरूपे इत्थम् अमुना प्रकारेणसंहृत्य संहारं कृत्वा कामवीजं: जपन् अथानन्तरं स्वयमेव निश्चलश्वासचित्तोभूत्वा प्रक्षीणपा. पपुण्यश्च भूत्वा स योगी निरूपमः परमसंविन्मयो भवति ॥ ९९ ॥ मूलति- मूलाधारे त्रिकोणे तरुणतरणिभा- भास्वरे विभ्रमन्तं. कामं वालार्ककालानलजठर- कुरङ्गाङ्ककोटिप्रभाभम् ॥ विद्युन्मालासहस्रद्युतिरुचिर- इसबन्धुजीवाभिरामwee अष्टमपटलम् । त्रैगुण्याक्रान्तविन्दु जगदुदयः लयकान्तहेतुं विचिन्त्य ॥ १० ॥ त्रिकोणात्मके मूलाधारे उद्यदादित्यवत् प्रकाशमाने भ्रममाण- कामवीजं नृतनादित्यप्रलयकालीनवह्निचन्द्रकोटितुल्यकान्ति पुन स्तडिन्मालासहस्रकान्ति पुनः नूतनपुष्पितवन्धूकवन्मनोहरं सत्वा- दिगुणत्रयेण व्याप्तोऽनुस्वारसंशको विन्दुर्येन तं पुनः विश्वोत्प. तिनाशैककारणम् ॥ १०॥ तस्येति- तस्योद्धेविस्फुरन्तीं स्फुटरुचिरतडित्पुनभाभास्वराभा- मुद्गच्छन्तीसुषुम्णासरणिमनुशिखामाललाटेन्दुविम्वम्॥ चिन्मात्रांसूक्ष्मरूपांकलितसकलविश्वांकलांनादगम्यां. मूलं यासर्वधाम्नां स्मरतु निरुपमा हुंकृतोदश्चितेरः१०१ तस्य कामवीजस्यउपरि विन्दुगतकुण्डलिनी शक्तिं दीप्यमानां चिन्तयतु किंभूतां प्रव्यक्तमनोहरविद्युत्सहस्रवत् प्रकाशमानका न्ति पुनः ललाटचन्द्रविम्वान्तं सुषुम्णारन्धं यान्ती पुनः अनु अनुगता वीजगतविम्वात्मकेवह्निशिखाज्वालायस्यां सा तथातां पुनः किम्भूतां चित्स्वरूपां पुनः दुर्लक्षां पुनराप्तसकलविश्वां पुनः कलारूपां पुनर्नादानुमेयां पुनः सर्वतेजसां मूलभूतां कीदृशोऽधि- कारी हुंकारेण उदञ्चित उर्व मुत्पाटित इरोवायुरपानाख्यो ये- नसतथा ॥१०१ नीत्वति- नीत्वातांशनरधोमुख सहस्रारारुणाब्जोदर- द्योतत्पूर्णशशाङ्कविम्बममुतः पीयूषधारामृतिम् ॥ रक्ता मन्त्रमयींनिपीय च सुधानिस्यन्दरूपां विशे- द्भूयोप्यात्मनिकेतनं पुनरपि प्रोत्थायपीत्वाविशेत१०२॥ तां कुण्डिलिनी शक्तिं शनकैर्यथास्यादेवमधोमुखसहस्रद- लारणकमलमध्यद्योतमानपूर्णचन्द्रमण्डलं नीत्वा अस्माश्चन्द्रवि. - सटीकक्रमदीपिकाया: . म्वात् अमृतधारावृष्टिं रक्तवर्णी वर्णात्मिकाम् अमृतस्रवरूपां पाय- यित्वा आत्मनिकेतनं मूलाधारेप्रवेशयेत् भूयोऽनन्तरमपितथैव तामुत्थाप्यतथा कृत्वा पुनस्तस्यानिजस्थान प्रापयदिति ॥ १०२ ॥ एतादृशाम्यासस्य फलमाह- य इति। योऽभ्यस्यत्यनुदिनमेवमात्मनोऽन्तं- वीजेशं दुरितजरापमृत्त्युरोगान् ॥ जित्वाऽसौ स्वथमिव सूर्तिमाननङ्गः । संजीवञ्चिरमलिनीलकेशपाशः ॥ १०३ ।। यः प्रत्यहमनेन प्रकारेण शरीरमध्येकामवीजमभ्यस्यति आ- त्मनोऽन्तं मनोलयान्तमिदमभ्यस्यतीतिक्रियाविशेषणम् असौ. साधकः दुरितजरापमृत्युरोगान् पराभूय स्वयमेवदेहधारिक- न्दो भूत्वा चिरकालं जीवति कीदृशो भ्रमरवर्णवत् श्यामके- शसमूहः ॥ १०३॥ स्फुटेति- स्फुटमधुरपरदार्णश्रेणिरत्यद्भुतार्था । झरितिबदनपनाविस्फुरत्यस्य वाणी ॥ अपि च सकलमन्त्रास्तस्य सिध्यन्ति मछु। व्युपरमघनसौख्यकास्पदं वर्तते सः॥१०४ ।। अस्यसाधकस्यमुखकमलाच्छ्रीनं सरस्वतीप्रभवति किम्भूता प्रव्यक्तमनोहरपदवर्णसमूहात्मिका अत्याश्चर्याविषया किन्तु अस्य- साधकस्यम अन्येपिमन्त्राः सिध्यन्ति किञ्च ससाधकः अविश्रा, न्तनिविडसुखमात्रस्थानं भूत्वा तिष्ठति ॥ १०४॥ भ्राम्यदिति- भ्राम्यन्मूर्तिमूलचक्रादन- स्वाभि भीरक्तपीयूषयुग्भिः ॥ - अष्टमपटलम् । २४५ तस्यसाध. विश्वाकाशं पूरयन्तं विचिन्त्य । प्रत्यावेश्यास्तत्र वश्याय साध्याः ॥ १०५ ॥ नार्यो नरो वा नगरी सभापि वा प्रवेशितास्तत्र निशातचेतसा ॥ स्युः किङ्करास्तस्य झटित्यनारतं चिराय तन्निनधियो न संशयः ॥ १०६ ॥ मूलचक्रान्मूलाधारे अत्रसप्तम्यर्थपञ्चमी भ्रमणमूर्तिकामवीज स्वकीयाभिर्दीप्तिभिलॊहितामृतयुक्ताभिर्ब्रह्माण्डमध्यप्रदेशं पूर्यमा- णं ध्यात्वानिशातचेतसा तीक्ष्णमतिना तत्र नारीप्रभृतयः साध्या- वश्यार्थ प्रत्यावेश्याः प्रक्षेतव्या अनन्तरं तत्र प्रवेशिताः प्रवेशं प्रापिताः स्त्रीप्रभृतयस्तन्निमाधियस्तेनहृतचित्ताः कस्यशीघ्रचिरकालमाज्ञाकारिणो भवन्ति नाऽत्रसन्देहः ॥ १०५॥१०६॥ तरणीति- तरणिदलसनाथे शक्रगोपारुणे यो- रविशशिशिखिबिम्बप्रस्फुरचारुमध्ये । हृदयसरसिजेऽमुं श्यामलं कोमलाङ्गं. सुसुखमुपनिविष्टं तं स्मरेद्वासुदेवम् ॥ १०७ ॥ तत् द्वादशदलयुक्तहृदयकमले इन्द्रगोपालाख्योरक्तकीटविशेषः तद्वदरुणे सूर्यवह्निचन्द्रमण्डलशोभितचारुमध्यप्रदेशे अमुंश्यामवर्ण कोमलाङ्गं सुकुमाराङ्गं सुखप्रकारेणोपविष्टं वासुदेवंचिन्तयेत् ॥१०७॥ पादाम्भोजेति- पादाम्भोजदयेऽङ्गुल्यमलकिशलयेष्वावलौ सन्नखाना- सत्कूर्मोदारकान्तौ प्रपद्युजि लसज्ज विकादण्डयोश्च ॥ जान्वोरवोंः पिशङ्गे नववसनवरे मेखलादाम्निनाभौ। रोमावल्यामुदारोदरभुवि विपुले वक्षसि प्रौढ़हारे॥१०८॥ आदिपुंसः श्रीकृष्णस्य पादाम्भोजमारभ्यहसितान्तेषु स्थानेषु. वक्ष्यमाणेषुशनैर्यथा स्यात्तथा इति क्रमतः स्थानक्रमतः स्थानक्रमेण सटीकक्रमदीपिकायाः स्वीयं मनःस्थापयतु तथा पादपद्मद्वये प्रथम मनःस्थापयेत्तदनन्तरं पूर्व पूर्वमपोह्याऽपरस्थानेषुमनोनिदध्यात् अमुल्यएवामलकिशल- या निर्मलपल्लवास्तेषु तदनु नखानां शोभमानपतौ तदनु प्रपदयु- जिपादद्वये कीडशे कूर्मपृष्ठवदुपारभागे उन्नते तदनु देदीप्यमानज- वाद्वये तदनु जानुद्वये ऊरुद्वयेपीतवर्णे नूतनवस्त्रयोः श्रेष्ठे क्षुद्रघण्टि- कामालायां नाभिप्रदेशेतन्निष्ठरोमपङ्कौ च विपुलोदरस्थानमहा- हारयुक्त विस्तीर्णे वक्षसि ॥ १०८ ॥ श्रीवत्से कौस्तुभेच स्फुट कमललसहृद्दाम्नि वाहो. मूले केयूरदीप्ते जगदवनपटौ दोईये कङ्कणाव्ये ।। पाणिबन्द्राङ्गुलिस्थेऽतिमधुरर वसंलीनविश्वे च बेणौ । कण्ठे सत्कुण्डलोत्रस्फुटरुचिरकपोलस्थलद्वन्द्वके च १०९ श्रीवत्से विप्रपादावधाततर्जन्योद्धरोमात्मके कौस्तुभेहृदयनि- विष्टमणिविशेषे विकसितपद्ममालायां केयूरशोभितवाह्वोर्मूले सं- साररक्षणदक्षे कङ्कणयुक्तवाहुद्वये हस्तद्ववाङ्गुलिनिष्ठे अतिमधुर- शब्देन मनं जगत्रयं वेन एवंभूतेवेणौ तदनुकण्ठे रम्यकुण्डलाकर- णप्रकाशितमनोहरकपोलस्थलयुगले ॥ १०९ ॥ कर्णद्वन्द्वे च घोणे नयननलिनयो भूविलासे ललाटे । केशेवालोलबहेष्वतिसुरभिमनोज्ञप्रसूनोज्ज्वलेषु ।। शोणे विन्यस्तवेणावधरकिशलये दन्तपत्त्यांस्मिताख्ये ज्योत्सायामादिपुंसः क्रम इति च शनैः खमनः संनि- धत्ताम् ॥ ११०॥ कर्णद्वये नासायुगले नेत्रपाद्वये भरूविक्षेपे ललाटे चञ्चलमयूरपुः च्छयुक्तेषु अतिसुगन्धिमनोहरपुष्पोज्ज्वलेषु केशेषु शोणवणे आसे. पितवेणौ अधरपल्लवे दन्तपङ्क्त्यां स्मिताख्यज्योत्स्नायां स्मि- तमाख्यानाम यस्याः तस्यां ज्योत्स्नायां चन्द्रकान्तौ ज्योत्स्नातुल्ये- स्मिते ॥ ११०॥ यावदिति। यावन्मनोविलयमेति हरेरुदार- अष्टमपटलम् । मन्दस्मितेऽभ्यसतु तावदनङ्गवीजम् ।। अष्टादशार्णमथवाऽपि दशार्णकं वा । मन्त्री शनैरथ समाहितमातरिश्वा १११ ॥ हरेरुदारेशोभमाने मन्दस्मिते मनो यावत् विलयं विशेषतों लयमेति तावदनङ्गवीजम् अष्टादशार्ण दशार्ण वा प्रजपतु किंभूतः समाहितमातरिश्वा प्रत्याहारीकृतप्राणवायुः ॥ ११ ॥ आरोप्येति । आरोप्यारोप्य मनः पदारविन्दादिमन्दहसितान्तम् । तत्र विलाप्यक्षीणे चेतसि सुखचित्सदात्मकोभवति११२ मनः पदारविन्दमारभ्य ईषद्धास्यपर्यन्तं समारोप्याऽनन्तरं तत्र विलाप्य लीनं कृत्वा क्षीणे शुद्ध चित्ते सति सुखज्ञानसदात्मको भवति साधकः॥११२॥ न्यालेति। न्यासजपहोमपूजातर्पणमन्त्राभिषेकविनियोगानाम् । दीपिकयैव मयोभाषिताक्रमःकृत्स्नमन्त्रगणकथि- तानाम् ॥ ११३॥ कृष्णमन्त्रसमूहकथितानां न्यासजपादीनां क्रमदीपिकयैव क्रमः प्रकाशितः ॥ ११३ ॥ संशयेति । संशयतिमिरच्छिदुरा सैषा क्रमदीपिका करेण सद्भिः। करदीपिकेवधार्या सस्नेहमहर्निशं समस्तसुखाप्त्यै ११४ सैषा क्रमदीपिका साधुजनैःसस्नेहं यथा स्यात्तथाकरदीपि. केव धार्या किंभूता संशयरूपान्धकारच्छेदयित्री अन्यापि तैलादि. स्नेहसहितं यथा स्यात्तथा धार्यते अन्धकारनाशिनी भवति किमर्थ धार्या समस्तसुखप्राप्तयर्थम् ॥ ११४ ॥ जगदिदमनुविद्धं येन यस्मात्प्रसूते । यदनुततमजस्रं पाति चाऽधिष्ठिता यम् ।।

२४८
सटीकक्रमदीपिकायाः
यदुरुमहउदचिर्य विधत्ते च गोपी।
तममृतसुखबोधज्योतिषं नौमि कृष्णम् ॥ ११५॥
जगदिदमनुविद्धमनुस्यूतं येनज्योतिषा यस्मात्परमेश्वरात् इम-
जनलोकं संसाराख्यं प्रसूते प्रसूतिं प्राप्नोतीत्यर्थः यस्मिन्नित्य-
पि पाठः तथापरमेश्वरम् अधिष्ठातारमाश्रिता सती अनुततं वि.
स्तृतं जगत् अजस्त्रं सर्वदा पातिरक्षति यस्य परमेश्वरस्य
उरुविपुलं महातेजः ततउदर्चिस्तत्तेजसाउदितदीप्तिः सती यं प्र-
तिविम्वरूपेण धत्ते तमुक्तानन्दं स्वप्रकाशनौमिस्तौमि ॥ ११५ ॥
यश्चक्रमिति-
यश्चक्रं निजलिसाधनमधिष्ठानस्थितोऽपि प्रभु-
दत्तं मन्मथशत्रुणाऽवनकृते व्यावृत्तलोकार्तिकम् ॥
धत्तेदीप्तनवेन शोभनमघापेतात्तमायं धुर्व-
वन्देकायविमर्दनं वधकृतां भुञ्जद्युकंयादवम् ॥११६॥
इति श्रीमन्महामहोपाध्यायश्रीकेशवकाश्मीरिभट्ट-
गोस्वामिविरचितायां क्रमदीपिकायामष्टमः पटलः॥८॥
यः परमेश्वरः श्रीकृष्णः वक्ष्यमाणलक्षणं चक्रंधत्ते तं वन्देइत्य
न्वयः कथंभूतं चक्रं निजकेलिसाधनं निजयुद्धक्रीडाकरणं कीदृशः
परमेश्वरः अधिष्ठानस्थितोऽपि समाधिस्थितोऽपि यद्वा वाह्यस्थि-
तोऽपि प्रभुः स्वामी पुनः कीदृशं चक्रं मन्मथशत्रुगामहादेवेन
अवनेअवनकेतसर्वलोकरक्षार्थ दत्तं पुनः दूरीकृतातिवृष्टयना-
वृष्ट्याद्युपद्रवं पुनः दीप्तनवेन इवशोभनं देदीप्यमानं किंभूतं
कृष्णं पापरहितं स्वीकृतमायं पुनर्बुवमविनाशिनं पुनर्वधकृतामुप-
द्रवकारिणांकायविमर्दनं शरीरनाशकं पुनः भुञ्जमुकं भुञ्जत्स्व.
र्गलोकं पुनर्जात्यायादवमित्यर्थः अत्र पद्ये चक्रवन्धे
कर्तास्वनाम प्रक्षिप्तवानिति बोध्यम् ।। ११६ ॥
इति श्रीगोविन्दविद्याविनोदभट्टाचार्यविरचिते क्रमदीपिकावि-
घरणेऽष्टमः पटलः समाप्तः ॥ ८॥

THE CHOWKHAMBA SANSKRIT SERIES A COLLEOTION OF RARE & EXTRAORDINARY SANSKRIT WORKS NOS.233,236& 254. क्रमदीपिका। श्रीमन्महामहोपाध्यायकाश्मीरिक केशवभट्टविरचिता। विद्याविनोदश्रीगोविन्दभट्टाचार्य कृतविवरणोपेता । तथा- लघुस्तवराजस्तोत्रम् । श्रीमद्वैष्णवाचार्यश्रीश्रीनिवासाचार्यविरचितम् । श्रीहयग्रीवानुग्रह जीवन स्वभूदेवपदानन्याश्रित वैष्णव पुरुषोतमप्रसादप्रणीत गुरूभक्तिमन्दाकिन्याख्यव्याख्या समलंकृतम । सकान्यकुम्नकवीन्द्रवर-दुःखभञ्जनशर्मतनूजनुषा साहित्यसाङ्योगाथोकशामा- ध्यापकेन-देवीप्रसादशमकविना संशोधितौ। KRAMADIPIKA, By Mahamahopadhyaya Kasmirika Kesav Bhatta. WITH A COMMENTARY BY Sri Govind Bhattacharya. and LAGHUSTAVARAJA STOTRAM By Sri Niwasacharya, With & commentary "Gurubhakti Mandakini" By Purushottam Prasada, PUBLISHED & SOLD BY THE SECRETARY, CHOWKHAMBA SANSKRIT SERIES OFFICE. BENARES. AGENTS:-OTTO HARRASSOWITZ, LEIPZIG: PANDITA JYESHTHARAM MUKUNDAJI, BOMBAY: PROBSTHAIN & CO; BOOKSELLERS, LONDON. Printed by Jai Krishna Das Gupta, at the Vidya Vilas Press, BENARES 1917 Price Rupees three. Registered According to Act XXV. of 1967.

No text on this page.

अथ मुद्रालक्षणानि ।।
अङ्गुलीः करयुग्मस्य संप्रसार्य प्रवन्धयेत् ।
मध्यपृष्ठगतानामे तर्जनीम्यां निरोधयेत् ॥१॥
मध्यमाग्रे समं कृत्वा कनिष्ठामध्यमोपरि ।
तयोरुपरि चाङ्गुष्ठौ मुद्रायोनिस्तु खेचरी ॥२॥
तर्जनीशेषमाकुञ्च्यशेषाणां च निपीडयेत् ।
अङ्कुशं दर्शयेन्मन्त्री गृहीत्वा दक्षमुष्टिना ॥ ३ ॥
इन्यकुशमुद्रा ॥
आवाहनं स्थापनं संनिधानं सनिरोधनम् ।
संमुखीकरणं सकली करणं चावगुण्ठनम् ॥ ४ ॥
धेनुपीयूषकरणं महामुद्रा तथैव च ।
परमीकरणं चैव
नवमुद्राः
प्रकीर्तिताः॥५॥
एतेषां लक्षणमाह-
सम्यक् संपूरितः पुष्पैः कराभ्यां कल्पिताञ्जलिः ।
आवाहनी समाख्याताकराभ्यां देशिकोत्तमैः ॥६॥
अधोमुखी कृता सैव स्थापनीति निगद्यते ।
आश्लिष्टमुष्टियुगला प्रोन्नताङ्गुष्ठयुग्मिका ॥७॥
सन्निधाने समुद्दिष्टा मुद्रेयं तन्त्रर्वदिभिः ।
अङ्गुष्ठगर्मिणी सैव सन्निरोधसमीरिता ॥ ८॥
मुष्टिद्वयस्थिताङ्गुष्ठौ सन्मुखौ च परस्परम् ।
संश्लिष्टावुच्छ्रितौ कृत्वा सेयं सन्मुखमुद्रिका ॥९॥
देवाङ्गेषु षडङ्गानां न्यासः स्यात्सकलोकृतिः ।
हृदयादिशरीरान्ते कनिष्ठाद्यङ्गुलीषु च ॥ १० ॥
हृदादिमन्त्रविन्यासः सकलीकरणं मतम् ।
सव्यहस्तकृतामुष्टिदीर्धाधोमुखतर्जनी ॥ ११ ॥
अवगुण्ठनमुद्रेयमभितोभ्रामिता भवेत्।
अन्योन्यतर्जनीयुग्मं भ्रमणावगुण्ठनम् ॥ १२ ॥
अन्योन्याभिमुखाश्लिष्टाकनिष्ठानामिका पुनः ।
तथा तु तर्जनीमध्या धेनुमुद्राप्रकीर्तिता ॥ १३ ॥

(२)
अमृतीकरणं कुर्यात् तया देशिकसत्तमः ।
अन्योन्यग्रथिताङ्गुष्ठा प्रसारितकराङ्गुलिः ॥ १४ ॥
महामुद्रेयमुदितापरमीकरणं बुधैः ।
शङ्खचक्र गदां पद्मं मुसलं शाखड्गकौ ॥ १५ ॥
पाशाङ्कुशौ वैनतेयं श्रीवत्संकौस्तुभंतथा ।
वेणुं चैवाऽभयवरौ वनमालां प्रदर्शयेत् ॥ १६ ॥
एतेषांलक्षणमाह-
वामाङ्गुष्ठे विधृत्त्यैव मुष्टिना दक्षिणेन तु ।
तन्मुष्टेः पृष्ठदेशे तु योजयेचतुरङ्गुलीः ॥ १७ ॥
दक्षिणेचोन्मुखेऽङ्गुष्ठे तेषामग्राणि योजयेत् ।
कथिता शङ्खमुद्रेयं वैष्णवार्चनकर्माण ॥ १८ ॥
अन्योन्याभिमुखाङ्गुष्ठकनिष्ठायुगलं पदा ।
विस्तृतीश्चेतरामुल्यस्तदासौ दर्शिनी मता ॥ १९ ॥
अन्योन्यग्रथिताङ्गुल्यउन्नता मध्यमौ नतो ।
संलग्नौ चेत् तदा मुद्रा गदेयं संप्रकीर्तिता ॥ २० ॥
अन्योन्याभिमुखौ पाणी पद्माकारौ च मध्यतः ।
कर्णिकावनताङ्गुष्ठौ पद्ममुद्रा प्रकीर्तिता ॥ २१ ॥
मुष्टिं कृत्वा तु हस्ताभ्यां वामस्योपरि दक्षिणम् ।
कृत्वा मुसलमुद्रेयं सर्वविघ्नविनाशिनी ॥ २२ ॥
वामस्थतर्जनीप्रान्तं मध्यमान्ते नियोजयेत् ।
प्रसार्य च करं वाम दक्षिणं करमेव च ॥ २३ ॥
नियोज्यदक्षिणस्कन्धे वाणग्रहणवत्ततः।
तर्जन्यङ्गुष्ठयोाँग कुर्यादेषा प्रकीर्तिता ॥ २४ ॥
शाङ्गमुद्रेयं मुनिभिर्दर्शयेत्कृष्णपूजने ।
कनिष्ठानामिके वे तु दक्षाङ्गुष्ठनिपीडिते ॥ २५ ॥
शेषं प्रसारितं कृत्वा खङ्गमुद्रां प्रदर्शयेत् ।
पाशाकारं नियोज्यैवं वामाङ्गुष्ठस्य तर्जनिम् ॥ २६ ॥
दक्षिणं मुष्टिमास्थाय तर्जनीं च प्रसारयेत् ।
तेनैवं संस्पृशेन्मन्त्री वामाङ्गुष्ठस्य मूलकम् ॥ २७ ॥
पाशमुद्रेयमुद्दिष्टा केशवाचनकर्मणि ।
तर्जनीमीषदाकुच्यशेषाणां च निपीडयेत् ॥२८॥

(३) अङ्कुशं दर्शयेत् तद्वद्गृहीत्वा दक्षमुष्टिना । अन्योन्यपृष्ठे संयोज्य कनिष्ठं च पस्परम् ॥ २९ ॥ तर्जन्यग्रं समं कृत्वाऽङ्गुष्ठानं च तथैव च । ईषदालम्वनं कृत्वा मध्यमेन च पक्षवत् ॥ ३० ॥ प्रसार्य गारुडी मुद्रा कृष्णपूजा विधौ स्मृता। अन्योन्यं संमुखे तत्र कनिष्ठातर्जनीयुगे ॥ ३१ ॥ मध्यमानामिके तद्वदङ्गुष्ठेन निपीडितम् । दर्शयेद्वक्षः स्थले मुद्रांयत्नात् श्रीवत्ससंशकाम् ॥ ३२ ॥ अन्योन्याभिमुखे तद्वत्कनिष्ठेसंनियोजयेत् । तर्जन्यनामिके तद्वत्करौत्वन्योन्यपृष्ठगौ ॥ ३३ ॥ उछ्रितान्योन्यसंलग्नादक्षहस्तकराङ्गुलीम् । निधायमध्यदेशे तु वाममध्यमतर्जनीम् ॥ ३४॥ संयोज्यमाणवन्धे तु दक्षिणे योजयेत्ततः । वामाङ्गुष्ठे तु मुद्रेयं प्रसिद्धा कौस्तुभा मता ॥ ३५ ॥ अधोमुखे वामहस्ते ऊर्धास्यं दक्षहस्तकम् । क्षिप्त्वाङ्गुलीरङ्गुलिभिः संयोज्य परिवर्तयेत् ॥ ३६ ॥ एषा संहारमुद्रा स्याद्विसर्जनविधौ मता। अङ्गं प्रसारितं कृत्वा स्पृष्टशाख वरानने ॥ ३७॥ प्राङ्मुखं तु करं कृत्वा अभयं परिकीर्तितम् । दक्षं भुजं संप्रसार्यजानूपरि निवेशयेत् ॥ ३८ ॥ प्रसृतं दर्शयेदेवि वरः सर्वार्थसाधिनी। स्पृशेत्कण्ठादिपादान्तं तर्जन्यङ्गुष्ठमूलयोः ॥ ३९ ॥ करद्वयेन मालावन्मुद्रेयं वनमालिका ॥ ४० ॥ छोटिकालक्षणमाह- द्वौकरौ पृष्टसंलग्नौ भ्रामयेच्चतुरङ्गुलीः छोटिका सुसमाख्याता प्रणामे तां प्रदर्शयेत् ॥ ४१ ॥ इति शम् ।

(४)
सब प्रकार की संस्कृत पुस्तकों के मिलने का पता-
हरिदासगुप्तः
चौखम्बा संस्कृत सीरीज आफीस
बनारस सिटी।

सूचीपत्रम् ।
क्रमदीपिका-
निखिलमहीचक्रवालाचार्यचक्रचूडामणिश्रीभगवनिम्बार्कमहामु-
नीन्द्रपादपीठाधिकृतजगद्विजयिश्रीकेशवभट्टाचार्यप्रणीता।
विद्याविनोदश्रीगोविन्दभट्टकृतविवरणोपेता।
तन्त्रग्रन्थोऽयम् ।
अस्मिन् अष्ट पटलाः सन्ति ।
तत्र प्रथमे मङ्गलाचरणम्, ।
एतद्वन्थस्योपादेयता,।
सर्वेषु मन्त्रेषु श्रीगोपालमन्त्रस्य सिद्धत्वकथनम् ।।
पूजाक्रमः,
भूतशुद्धिः,
केशवादिमूर्तिकीर्त्यादिशक्तिन्यामप्रकारः,
तत्र ध्यानम्,
तयोः फलम्।
तत्त्वानां नामानि न्यासः स्थानं च,
भ्यासप्रयोजनम्,
मन्त्रविशेषे प्राणायामप्रकार:
आत्मयागार्थ देहे पीठकल्पना,
पीठशक्तिप्रदर्शनम्,
करशोधनम्,
इति प्रथमः, पटलः,
सर्वेषु मन्त्रेषु दशाक्षराष्टादशाक्षरयोमालीभूतत्वम्,
दशाक्षरमन्त्रराजोद्धारः,
मन्त्रस्य ऋष्यादिकथनम्।
तत्पञ्चाङ्गानि दशाङ्गानि,
मन्त्रविनियोगः,
मन्त्रार्थः,
प्रकारान्तरम्,
अष्टादशाक्षरमन्त्रराजोद्धारः,

तस्य ऋष्यादिकथनम्,
मन्त्रबीजादि,
न्यासक्रमः,
मातृकान्यालविशेषः,
संहारसृष्टिप्रकार,
न्यासान्तरम्,
विभूतिपञ्जरन्यासः,
न्यालस्थानम्,
न्यासफलम्,
मूर्तिपअरन्याला,
मस्तके मन्त्रन्यासप्रयोजनम्,
द्वादशाक्षरमन्त्रोद्धारः,
हृदयाद्यङ्गन्यासमुद्रा,
विल्वादिमुद्राकरणप्रकारा,
एतेषां फलम्।
इति द्वितीयः पटलः ।
मन्त्रद्वयसाधारणं देवताध्यानम्,
आत्मपूजाक्रमः
शङ्खपूरणविधिः,
तत्र तीर्थावाहनमन्त्रः।
स्वदेहे पीठपूजाक्रमः,
पुष्पाञ्जलिविधिकथनम्,
तुलसीप्रदानविभागः,
जपविधिः।
इति तृतीयः पटलः ।
मन्त्रजपादौ दीक्षितस्यैवाधिकारः,
गुरुलक्षणम्,
*गुरुसेवाप्रकार:,
दीक्षाविधिकथनम्,
दीक्षायां पूजाक्रमः,

( वैष्णवगन्धाष्टककथनम्। दीक्षायां भगवत्पूजाविधानम्, आवरणपूजाक्रमः, अङ्गदेवताध्यानम्, रुक्मिण्याद्यष्टशक्तिपूजनम् , कुण्डविधानम्, राशिमण्डलविधिः, दीक्षाविधावशक्तस्य कृत्यम् , दीपदानविधिः, नैवेद्यस्वरूपम्, नैवेद्यार्पणमन्त्रः, भोजनोपयोगिमुद्राविशेषः, प्राणादिमुद्रास्वरूपम्, प्राणादिमुद्रामन्त्राः, निवेद्यमुद्रामन्त्री, तन्मन्त्राद्धारः, दीक्षाङ्गहोमविधिः, पूजानन्तरप्रकार:, आत्मसमर्पणमन्त्रः, आत्मसमर्पणप्रकार:, अभिषेकप्रकार:, मन्त्रग्रहणानन्तरं शिध्यकृत्यम्, मन्त्रदानानन्तरं गुरुकृत्यम् । इति चतुर्थः पटलः । दीक्षितमन्त्रविधिः, जपस्थानानि, जपस्थानेषु क्रमेणाहारनियमः, पुरश्चरणोत्तरकृत्यम्, सिद्धमन्त्रस्य कृत्यम्, पूजायां प्रातःकालिकध्यानम, प्रातस्सवनपूजाफलम्,

प्रातः पूजायां नैवेद्यं तर्पणं च,
मध्याह्नसवनध्यानम्,
আনুuানমস্কাৰ,
होमादिकम् ,
पतत्फलम्,
तृतीयकालपूजाव्यवस्था,
तृतीयकालपूजाध्यानम्,
आवृतिदेवतानामनिर्देशः,
तर्पणप्रकार: जपसंख्याच,
सायाह्नपूजाफलम्,
रात्रौ पूजाप्रकार,
रासक्रीडास्वरूपम्।
গিলাবিন,
आवरणानि,
पूर्वोक्तावृतिसंख्यापूर्वकम् नैवेद्यम्,
रासपूजाफलम्,
उक्तोपसंहारः,
कालत्रयतर्पणद्रव्यम्,
तर्पणमन्त्रः,
उत्तरकृत्यम्,
काम्यतर्पणद्रव्यम,
काम्यतर्पणम्,
षोडशद्रव्याणि,
काम्यतर्पणफलमा
काम्यतर्पणान्तरम्,
तस्य फलम्,
तर्पणान्तरम्,
तर्पणस्याशेषफलदातृत्वंतपणोत्तरकृत्यं च,
प्रयोगान्तरम्,
तल्लेखनप्रकारः,

संस्कृतयन्त्रधारणफलम्, यन्त्रस्य धारणादन्यत्राप्युपयोगः, यन्त्रषडक्षरमन्त्रोद्धारः, शक्तिबीजोद्धारः, परमेश्वरपूजास्थाननियतिः, कथितप्रकाराणां फलम्, इति पञ्चमः पटलः। एवं साधितमन्त्रयोः प्रयोगौ, प्रयोगाथै दशाष्टादशाक्षरयोानम्, तत्फलम्, तन्मन्त्रः, ऋष्यादि, प्रयोगान्तरम, मन्त्रान्तरम्, ऋष्यादि, मन्त्रान्तरम्, ऋष्यादि, प्रयोग प्रयोगान्तरम्, मन्त्रान्तरम्, ऋष्यादि, पूर्वोक्तश्रीमन्मुकुन्देत्यादिचतुण्णा मन्त्राणामझावरणानि, मृत्युञ्जयविधिः, मन्त्रान्तरम्,- एतस्य पुरश्चरणादिकम् - अस्मिन्नेवबालरक्षार्थ मन्त्रान्तरम् , अस्मिन्नेव गोरक्षार्थ मन्त्रान्तरम् , विषहरणप्रयोगः, प्रयोगान्तरम्, कालियमर्दनमन्त्रः, अस्य मन्त्रस्य अङ्गादिकम् , अस्य पुरश्चरणम्, प्रयोगश्च, विषन्नप्रयोगान्तरम् , प्रयोगान्तराणि, जलपानमन्त्रः, सन्तानगोपालमन्त्रः, प्रयोगान्तराणि, अस्य प्रयोजनस्य प्रकारान्तरेणाऽपि सिद्धिः, अस्मिन्नेवाऽर्थे प्रयोगान्तरम् . रागान्मारणप्रयोगे प्रायश्चित्तम्, प्रयोगान्तराणि, प्रकारान्तरम, इति षष्ठः पटलः । गोपालध्यानम्, अष्टमहिषीध्यानम्, पत्न्यन्तरध्यानम्, अष्टनिधिध्यानम्, ৰিয়াঅল্পস্বল্পায়, अस्यऋष्यादिकम्, पूजाप्रकार, अक्षरन्यासस्थानानि, षडङ्गानि, आत्मपूजा, वाहपूजाप्रकार, कामगाययुद्धार, मालामन्त्रोद्धार, विनियोगः, यन्त्रे पूजाप्रकारः, आवरणानि, अङ्गानि, नैवेद्यम्, फलम, प्रयागः, प्रयोगान्तराणि, यन्त्रान्तरद्वयम् ध्यानम, पुरश्चरणजपादिकम्, क्रमेण मन्त्राणामुद्धारो ध्यानञ्च, पुरश्चरणम्, होमविधिस्तत्फलं च, मन्त्रान्तरम्, ভ্রানিহাম্বালা, ऋष्यादिकं ध्यानं च, मन्त्रान्तरोद्धारो ध्यानञ्च पुरश्चरणं पूजा च, प्रात्यहिकपूजाफलम, मन्त्रान्तरोद्धारः, ऋष्यादिकं ध्यानञ्च, पुरश्चरणम्, प्रयोगान्तरम्, मन्त्रान्तरम्, ऋष्यादिकं ध्यानं च, पुरश्चरणम्, आयतनादिषु पूजाविशेषः, द्वारपूजा, विष्णुपार्षदनामानि, अस्त्रोद्धारः, पीठपूजा, आवरणपूजा; कुमुदादिनामानि, पूजाफलम्, मन्त्रान्तरम्, ऋष्यादिकं ध्यानञ्च, पुरश्चरणम्, पूजाप्रकारस्तत्फलंच, मन्त्रान्तरं ध्यानं च, एकाक्षरादिगोपालमन्त्राः, उक्तमन्त्राणामृष्यादिध्यानं च, एतेषां पुरश्चरणं तत्फलं च, मन्त्रान्तरम्, ध्यानपुरश्चरणपूजातर्पणानि, यत्रान्तरंध्यानं च, आरादुक्तमन्त्रयोः प्रयोगः फलं च, इति सप्तमः पटलः। वशीकरणप्रयोगः, क्षत्रियवैश्यशूद्राणां प्रयोगत्रयम्, प्रयोगः, प्रयोगान्तरम्, पुनःप्रयोगान्तरम्, पुनःप्रयोगान्तरम्, पुनःप्रयोगान्तरम्, पुनः प्रयोगान्तरम्, समानफलं प्रयोगद्वयम्, प्रयोगान्तरम्, होमद्रव्याणि, प्रयोगान्तरचतुष्टयम्, मन्त्रयोर्माहात्म्यम, मोक्षसाधकप्रयोगान्तरम्, परममन्त्रद्वयम, ऋष्यादिकम्, षडङ्गानि, वाणन्यासध्यानानि, घाणनामानि, ध्यानम् पूजाप्रकारः,

S
शक्तिवर्णा
संमोहनगायत्री,
तत्प्रभावः,
मन्त्रद्वयसाधारणतर्पणम्,
मन्त्रद्वयसम्बन्धिप्रयोगान्तरम्,
रुक्मिणीवल्लभमन्त्रोद्धारः,
मन्त्रवर्णसंख्या,
मन्त्रस्यऋष्यादिकम्,-
अङ्गविधिश्च,
न्यासोध्यानं च,
होमः सेवाच,
तत्फलम्,
मन्त्रान्तरेभ्योऽस्याऽतिशयः,
प्रयोगप्रकारस्तत्फलं च,
उपसंहारः,
इत्यादयोऽन्ये च विषया:अन्न निरूपिताः सन्ति,

No text on this page.

॥ श्रीः ॥ अथ। लघुस्तवराजस्तोत्रम्। श्रीवैष्णवाचार्य श्रीश्रीनिवासाचार्यविरचितम्- श्रीहयग्रीवानुग्रहजीवितस्वभूदेवपदानन्याश्रित पुरुषोत्तमप्रसाद वैष्णवविरचित गुरुभक्तिमन्दाकिन्याख्यव्याख्योपेतम् । श्रीकृष्णायनमः। श्रीगुरुचरणेभ्योनमः। वन्दे श्रीश्रीनिवासायं वेदान्ताम्बुजभास्करम् ॥ प्रपन्नजनसन्त्राणलब्धदीक्षंजगद्गुरुम् ॥१॥ इहखलु सकललोकस्य हितचिकीर्षुभंगवान्पाञ्चजन्यावता- रो निरतिशयवात्सल्यकारुण्यादिगुणो निजाश्रितसंरक्षणलब्धदीक्षः श्रीश्रानिवासाचार्याभिधो ब्रह्मरुन्द्रेन्द्रादिकिरीटेडितपादपीठवेदान्त- कवैद्यपरब्रह्मादिशब्दाभिधेयश्रीपुरुषोत्तमाज्ञयाऽवनितलावतीर्ण ज. गदुबिधीर्षु तदचिन्त्यानन्तशक्त्युपवहितानन्तशक्तिं श्रीसुदर्श- नावतारं नियमानन्दसमाख्यं ह्याद्याचार्य निजगुरुं मिताक्षरेण स्तो- त्रेण तुष्टाव, तस्य व्याख्यानं यथामति पदार्थमात्रेण निभाल्यते तत्प्रसादकप्रयोजनेन, जयजयति- जयजयङ्गितज्ञाता नियमानन्द आत्मवान् । नियमेन वशे कुर्वन्भगवन्मार्गदर्शकः ॥ १ ॥ हेनियमानन्द त्वं जयजय स्वोत्कर्षमाविष्कुरु, आदरेवीप्सा, तत्र लघुस्तवराजस्तोत्रम् . शास्त्राचार्यसंस्कारशून्यान्कुतर्कनिष्ठान्नियमयति औपनिषदमार्गस्था- पयतीतिनियमः स्वाश्रितानानन्दयतीत्यानन्दः नियमश्वासावानन्द- श्चतिनियमानन्दः यद्वा नियमेनदेशकालादिपरिच्छेदशून्येनानन्दो- यस्यसः सदासर्वत्रपरिपूर्णानन्दइत्यर्थः यद्वा चेतनाचेतनवस्तुजातं नियमबति स्वेस्वकार्ये वथाधिकार स्थापयतीतिनियमोविश्वान्तर्या- मीभगवाञ्छ्रीवासुदेवस्तस्मिन्नानन्दोवस्यसः श्रीपुरुषोत्तमस्वरूप- गुणादिविषयकानवच्छिन्ननिरतिशयानन्दाश्रयइत्यर्थः यद्वा निः शेषेणयमोनियमः निःशेषेणबुद्ध्यादीनामुपरमः समाधिः तेना- नन्दोयस्यसः सदासमाध्यानन्दपूर्णइत्यर्थः यद्वा निःशेषेणयमय- ति स्वाज्ञायां प्रवर्तयति जीवानितिनियमोवेदस्तस्यापिवेद- स्थानन्दोयस्मात्तथोक्तोनियमानन्दः वेदस्ययथार्थव्याख्यानंतत्प्रव. निश्चैवानन्दहेतुः तदर्थमेवास्यावतारत्वादित्यलं विस्तरेण तस्य संबोधनमेतत् । तमेवविशिनष्टि । इङ्गितशातेति। श्रीभगवत इङ्गितम् इदानीमेव तदाशाकरणीयतया प्रवर्ततइति जानातीतिसः यद्वा जीवानामिङ्गितम् अनेनोपायेनाऽसौ कृतार्थः स्यात् असौ सकामः असौ निष्कामः असौ मायया मां भजति असौ श्रद्धाविश्वासार्जवादिना भजतीत्यादि तत्तश्चेष्टितं जानातीति तथा चेष्टितस्य ज्ञातेति वा विग्रहः सर्वज्ञत्वात् । सर्वज्ञत्वेहेतुमाह- आत्मवानिति। आत्माशब्दोऽत्र ब्रह्मवाचकः "तस्माद्वाएतस्मादात्मन आका- शः सम्भूत" इत्यादिश्रुतेः स प्रत्यक्षेणविद्यतेयस्यसः ब्रह्मज्ञएवस- र्वज्ञः "आत्मन्परेदृष्ट" इत्यादिश्रुतेः यद्वा आत्मानो जीवात्मानोऽन- वच्छिन्नानुभूतिविषयतया विद्यन्ते यस्य स तथोक्तः तच्चष्टितज्ञा. नाभावबोधकत्वासम्भवात् अतएव भगवन्मार्गदर्शकइति द्र- ष्टुरेवदर्शकत्वनियमात् असौसद्योमोक्षाधिकारी असौचि- रकालेन साधनसंपत्त्या मोक्षभागी भविष्यति असौ भगवद्भागवत- द्वष्टा नित्यसंसारी औपनिषदैरुपेक्षणीय इति ज्ञात्वैव तदनुसारेण तत्ससाधनेषु स्थापयित्वा भगवदीयमार्ग दर्शयतीति तथा गुरुभक्तिमन्दाकिन्याख्यव्याख्योपेतम् । "येनाक्षरम्परमंवेदसत्यं प्रोवाचतांसत्वतो ब्रह्मविद्या"मिति श्रुतेः किं कुर्वन् नियमेनवशेकुर्वन्निति नियमोऽत्रनियमनरूपसामर्थ्यवि. शेषः तेन तान् क्षेत्रज्ञान् वशेकुर्वन्या ऽनुग्रहविषयीकुर्वन् यद्वा नियमेन शरीरवाङ्मनोव्यापाराणां देशकालादिपरिच्छे- दशून्यतया भगवदाज्ञापालनात्मके परभक्तियोगे नियमनं नि- यमस्तेन श्रीहरिंवशेकुर्वन्नित्यर्थः भगवन्तं वशीकृत्वा तद्वारे- ण तेषां बुद्धिं प्रेरयित्वा भगवन्मार्गदर्शकस्तदुपदेष्टा भवतीति ता. त्पर्यार्थः अन्तःप्रेरणया विना तदन्तर्निष्ठाभावेनोपदेशमात्रस्य का- र्यकारित्वायोगात् भगवन्मार्गोऽत्र साधनोपदेशक्रमस्तस्य दर्शकः यथाऽधिकारमुपदेष्टेतियावत् भगवन्मार्गोऽचिरादिमार्गो वा स- चाऽध्यात्मसुधातरङ्गिण्यां विस्तृतः यदा मृग्यते शास्त्रविचारेण यो. गादिसाधनैश्च कृत्वा मुमुक्षुभिरिति मार्गस्तत्स्वरूपगुणरूपादिः "सोऽन्वेष्टव्य"इति श्रुतेः यद्वा नियमेनेति निग्रहानुग्रहरूपनियमनश- क्तियोगेन सामपि जीवात्मनो वशे कुर्वन् भगवन्मार्गे प्रवणीकारः तत्र स्वाश्रिताननुग्रहेण वहिर्मुखांश्च निग्रहेण । तथा च वक्ष्यते ॥ निग्रहानुग्रहाभ्यां वै श्रीकृष्णेन समानतेति । भगवत्स्वरूपगुणादिविषयकसाक्षात्कारानुभूतिकारितेतियावत् तत्र स्वरूपं सर्वव्यापकःसर्वात्मा सर्वाधारो जगद्योनिः शा- स्त्रैकवेद्यो देशकालादिपरिच्छेदशून्यः सच्चिदानन्दोऽनन्त इति "सर्वव्यापी सर्वभूतान्तरात्मा यस्मिल्लोकाः श्रिताः सर्वे" "य- तो वा इमानि भूतानि जायन्ते” “सर्वे वेदा यत्पदमामनन्ति" "सत्यं ज्ञानमनन्तं ब्रह्म" "विज्ञानमानन्दं ब्रह्मे"त्यादि श्रुति- गुणाश्च ज्ञानशक्तिवलैश्वर्यादयो वात्सल्यकारुण्यक्षमा दयश्च स्वाभाविकाः कल्याणरूपा यावदात्मवृत्तिसंख्यादिपरिच्छेद- शून्याः “परास्यशक्तिर्विविधैवश्रूयते स्वाभाविकीज्ञानवलक्रियाच"- "यः सर्वज्ञः सर्ववित्" । समस्तकल्याणगुणात्मकोऽसौ तेजोवलैश्वर्यमहावबोधः । स्ववीर्यशक्त्यादिगुणैकराशिः। इत्यादिश्रुतिस्मृतिभ्यश्च ॥ आदिनासर्वमङ्गलविग्रहः “यदापश्यः पश्यतेरुक्मवर्णयदात्मको- ASH ४ लघुस्तवराजस्तोत्रम् भगवान् तदात्मिकाव्यक्तिः" "हिरण्यकेशः हिरण्यश्मश्रुराप्रण- खात्सुवर्ण" इत्यादि श्रुतिभ्यः । तद्विस्तारश्च श्रुत्यन्तकल्पवल्ल्यां द्रष्टव्यः । अथ साक्षात्पश्यतीति यस्यदेवेपराभक्तियथादेवे तथा गुरौ । तस्यैतेकथितार्थाः प्रकाशन्तमहात्मनः । इत्यादिश्रुतिबोधितभगवद्भावप्रतिपादकोऽप्ययं श्लोको व्या. ख्यायते हे नियमानन्द इति । चेतनाचेतनात्मकं जगन्नियमयतीति नियमोविश्वान्तरात्मा भगवाञ्ोपुरुषोत्तमः-"आत्मानमन्तरोयमयत्येषते आत्मान्तर्यामी" तिश्रुतेः, आनन्दयत्यानन्द आनन्दस्वरूपोवेति “एष आनन्दयति" "विज्ञानमानन्दं ब्रह्मे"त्यादिश्रुतेः, नियमश्चासावनन्दश्चेतितथोक्तः सर्वान्तरात्मानन्दरूपो भगवान्वासुदेव इत्यर्थः तस्य सम्बोधनाम- दम् अत एव इङ्गितज्ञातेति, सर्वान्तरात्मत्वादेव सर्वस्यङ्गितस्य वाह्याभ्यन्तरचेष्टितस्थ ज्ञाता तस्यार्जक्कौटिल्यादिचेष्टितं तत्त दनुकूलप्रापणं तत्तद्भोगफलं च सर्व यावत्, ए. तेन श्रीभगवतो विश्वान्तरात्मत्वं तत्समानाधिकरणं स्वातन्त्र्यं सा. वैज्ञं च प्रतिपादितं, तेनैव च व्यतिरेकमुखेन जीवात्मनां तदात्मी यत्वं तत्परतन्त्रत्वमल्पज्ञत्वं चापि फलितम् । अथ सिद्धान्तमपि समासतो दर्शयन् विशिष्टि । आत्मवानिति । आत्मानस्त्रिविधा अपि नित्यमुक्तवद्धविशेषयुक्ताः क्षेत्रज्ञास्त. दाधेयतत्तन्त्रतयाप्यतदात्मकत्वादिभ्यस्तदात्मीया विद्यन्ते यस्य स आत्मवानिति विग्रहातदाधेयत्वादिभिः स्वरूपेण भिन्नत्वमपि जगत- स्तदात्मकत्वादिना तदपृथसिद्धत्वादभिन्नत्वं भिन्नाभिन्नत्वमित्यर्थः किञ्च प्रकृतिप्रत्यययोः प्रत्ययार्थस्यैव प्राधान्यात् प्रकृत्यर्थानां क्षेत्र, ज्ञानां परतन्त्रसत्तायोगः “यदासीत्तदधीनमासी"दित्यादि श्रुतेः, प्र. स्थयार्थस्य च श्रीमाधवस्य भगवतः कृष्णस्य स्वतन्त्रसत्तायोगो मुख्यवृत्यैवसिद्धः “आत्माहिपरमः स्वतन्त्रोऽधिगुणः" "एतस्य वा- ऽक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत इत्यादिश्रुतेः। प्रत्यरब्रह्मणोः संवन्धसिद्धान्तं निरूप्य तत्प्राप्तिसाधनमपि स्व.

गुरुभक्तिमन्दाकिन्याख्यव्याख्योपेतम् । - .. यमेवेत्याह- भगवन्मार्गदेशक इति। भगवतः स्वस्य वेदमुखोक्तस्वप्राप्तिमार्ग वैदिकसम्प्रदायनि- ष्ठसदाचारनिष्ठ सदाचार्याभिगमनादिप्रभृतिस्वप्राप्तिपर्यन्तसाधनक्रम- तदनुष्ठानादिरूपं मार्ग दर्शयतीति तथोक्तः वात्सल्यकारुण्यद- यातितिक्षादिस्वाभाविकानन्तकल्याणगुणवरुणालयत्वात् स्वयमेव- जन्मसमये कृपाकटाक्षेणावलोक्य सात्विकश्रद्धाविशिष्टं कृत्वा वे- दान्तसम्प्रदायाचार्येणाऽऽत्माऽपरमूर्त्तिना वहिर्यामिणा ऽभिसङ्गम्य तदुक्तसाधनसंतति *माचारयित्वा स्वात्मानं प्रापयतीति भावेनाह । नियमेनवशेकुर्वन्निति । तत्तत्साधनाचरणाद्यनुकूलानुग्रहगर्भितान्तःप्रेरणात्मकेन स्वासाध रणधर्मेणव शेकुर्वन् स्वानुकूलत्वं स्थापयन्नित्यर्थः "यमेवैषवृणुते तेन- लभ्यः तमक्रतुं पश्यतिवीतशोकोधातुःप्रसादान्महिमानमात्मन" इत्या. दिश्रुतेः, यद्वानियमोत्र नियमनं निग्रहणरूपासाधारणैश्वर्ययोग इति "भीषास्माद्वातः पवते भीषोदेति सूर्यः भीषास्मादग्निश्चेन्द्रश्च मृत्यु. र्धावति पञ्चम" इति श्रुतेः, तेन दुराचारान्वेदनिषिद्धार्थनिष्टान् निग्रहाधिकारणे निग्रहेण वशे कुर्वन्नित्यर्थः तथा च दुष्कृतां निग्रहे- ण वेदोक्तधर्मप्रवृत्तिविरोधं परिहरन्साधूनां वदोक्तधर्मानुगामि- नां चानुगृह्णन् तेभ्यो भगवन्मार्ग पूर्वोक्त मार्ग वेदोक्तसाधनसन्त- तिं भगवद्गीताद्युपदेशरीत्या वाऽचिरादिरूपं स्वप्राप्तिमार्ग वा दर्शयतीति वाक्यार्थः एतदर्थमेव भगवतोऽवतारत्वात् । यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ॥ अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् । परित्राणाय साधूनां विनाशाय च दुष्कृताम् ॥ धर्मसंस्थापनार्थाय सम्भवामि युगे युगे । इति भगवदुक्तः ॥ एवं भूतैश्वर्याद्याश्रयस्त्वं स्वोत्कर्षमाविष्कुरु इति संबन्धः ॥१॥ एतेन श्लोकेनोत्कर्षप्रादुर्भावार्थ प्रार्थना उक्ता तत्प्रार्थनया तु- टेन स्वबुद्धौ प्रादुर्भावितमुत्कर्ष ज्ञात्वा तदेव वर्णयति । * प्राचारयित्वेति पाठः प्रामादिकः।

६ लघुस्तवराजस्तोत्रम् स्वरूपगुणकर्मादिभिरुत्तमत्वमेवोत्कर्षस्तस्यैववणनार्थमुपक्रमते। पाखण्डद्रमपण्डानां दाहकः पावकोपमः ॥ गर्वपर्वतदम्भोलिः काम्पकर्माहिपक्षिराट् ॥ २॥ पाखण्डाएवढुमास्तेषां षण्डाः समूहास्तेषां दाहक इति, वृक्षाणां- छेदेपि अङ्कुरादिना पुनरपि रोहदर्शनात्तथा दण्डादिभिया पाखण्ड- त्यागेपि वासनया दुस्त्यजत्वात् तदुनिवृत्तत्वात् द्रुमत्वो- क्तिः, दवाग्निना वनदाहेपि क्वचित्कचित्तत्तन्मूलावशेषदर्शनात्पुनस्त- द्रोहदर्शनाच्च तथापि पापण्डानां दाहे तन्मूलावशेषात्कदाचिद् भूयः प्ररोहो भविष्यतीत्याह, पावकोत्तम इति, सांवतकाग्नितुल्यः समूलवस्तुदाहकत्वान्न भूयः प्रादुर्भावसम्भावनेत्यर्थः । किंच, गर्वपर्वतदम्भोलिरिति । गर्वा एव दुरुच्छेद्यत्वात्पर्वतास्तेषांछेदने दम्भोलिर्वज्रः वज्र. तुल्यइत्यर्थः स्वाश्रितानां गर्वस्यात्मप्राप्तौ मुख्यप्रतिवन्धकस्य स्वा. नुग्रहेण सद्योनाशकइत्यर्थः यद्वा शास्त्रमार्गवहिर्मुखानां गर्वपर्व- तान् निजैश्वर्ययोगात् तन्निग्रहेण सद्योनाशयतीति तात्कालिकना- शकत्वद्योतनाय दम्भोलिशब्दप्रयोगः । किञ्च, कास्यकर्माहिपक्षिराडिति । "स्वर्गकामो यजेत" "पशुकामोयजेत" इत्यादिकाम्यस्व. र्गादिविषयोद्देशेनतत्साधनतया विधीयमानानि काम्वकर्मा- णि तदनादिवासनाश्चाऽहिस्थानानि यथाहि दष्टस्य परमजा- ड्यापत्त्या ज्ञानसामान्याभावः तशनस्येव तेषामपि श्रेयोज्ञाना- भावासाधारणहेतुत्वात् तन्नाशे पक्षिराडिव, यथा पक्षिरावैनतेय- स्य नामात्मकमन्त्रोच्चारणादहयो भुजगाः पलायन्ते तदंशजन्य- विषमपि सद्योनश्यति किं पुनस्तत्साक्षात्कारेण, एवं तस्य सा- मान्यदृष्टयापि कास्यकर्मणां सवासनानां निवृत्तिः किं पुनस्त- द्विशेषसंवन्धजन्यतदनुग्रहया दृष्ट्या तन्निवृत्तिरिति कैमुत्यन्याय- दर्शनार्थमिदमुपमानमित्यर्थः, अत्र काम्यपदप्रयोगेन नित्यनैमि- त्तिकयोः परम्परया मोक्षोपयोगित्वाकर्त्तव्यतासूचिता, अस्य वि.

गुरुभक्तिमन्दाकिन्याख्यथ्याख्योपेतम् । ७ शेषनिर्णयश्च वेदान्तरत्नमञ्जूषायां श्रीपुरुषोत्तमाचार्यपादैविस्तृतः अत्रोपरम्यते ॥२॥ किञ्च मत्तवादगजेन्द्राणां पञ्चाननमहोज्वल इति । मत्तवादगजेन्द्राणां पञ्चाननमहोज्ज्वलः ॥ कामादिविषयाब्धीनां शोषकः कुम्भसम्भवः ॥ ३॥ अनेककुतर्ककुशलानां स्वकपोलकल्पिता वादा एव गजेन्द्राः मत्ताश्वते वादगजेन्द्राश्चेति विग्रहः, मत्तवादीतिपाठे वादिनो देहे- न्द्रियमनोबुद्धिप्राणाद्यात्मवादिनः भूतसङ्घातकारणवादिनो स्तिकाः, कर्मकालपरमाणुप्रकृत्यादिकारणवादिनो मीमांसकतार्कि- कादयश्च, अध्यासवादिनो मायावादिनश्च, तएव गजेन्द्राः मत्ता- श्चतेवादिगजेन्द्राश्चेति पूर्ववद्विग्रहः उत्कृष्टंमन्यानाम् उत्कृष्टता- ख्यापने गजेन्द्रोपमानं तेषां पराभवे पञ्चाननमहोज्ज्वलः साक्षा- च्छ्रीनृसिंहोपमः, यथा सामान्यनृसिंहस्य नाममात्रमपि श्रुत्वा ग. जेन्द्रा दूरतः पलायन्ते किं पुनः श्रीनृसिंहस्य, तथा तस्यवाग्विला. समाजश्रवणेनैव सर्वे वादिन आत्माभिभवं निश्चिन्वाना दि. शो द्रवन्तीति तात्पर्यार्थः । किञ्च, कामादिविषयाब्धीनां शोषकः कुम्भसम्भव इति । आदिशब्दः क्रोधलोभमोहमदमात्सर्यविषादशोकादिसङ्ग्रहा- र्थः कामादिविषया एवाब्धयः वासनाबाहुल्येनाऽगाधत्वात दुस्तरत्वाञ्चोपमानम्, एकैकस्यापि तथात्वाद्वहुवचनं, तेषां शो- षकः, तत्रोपमानं कुम्भसम्भव इति, सद्योऽप्रयासेन शोषण- मात्र एवोपमा, यथा श्रीदाशरथिना रावणोहतः, श्रीभगवता वा- सुदेवेन रुद्रेन्द्रादयः पराजिता इत्यादिस्तुतिः, संकल्पमात्रेण निमि. षाद्धेप्यनन्तकोटिब्रह्माण्डोत्पादनादि कर्तुं समर्थस्य कियदेततस्तवनं, तथा प्रकृतेऽपि बोध्यम् , क्षमया पृथिवी सम इत्याद्युपमानवत् । वस्तुतस्तु कामादिनिवारणं कुम्भसम्भवस्यापि दुष्करं वद्धको. टित्वात्प्रारब्धपरतन्त्रत्वाञ्च, भवतस्तु न किञ्चिदपि दुर्लभं साक्षाद्भ- गवत्करस्थसुदर्शनावतारत्वात् ॥ ३॥ किश्च।

लघुस्तवराजस्तोत्रम् भक्त्यौषधिलतानां च पोषकश्चन्द्रशीतल इति । भक्त्यौषधिलतानां च पोषकश्चन्द्रशीतलः ।। संप्रदायप्रवोधाय दीपको ध्वान्तनाशकः ॥ ४ ॥ यथा प्राणिनां यवत्रीह्याद्यौषधयो जीवनहेतवः तथाश्रेयस्का- मानां हरिभक्तिरेव जीवनौषधिरिति तात्पर्येणौषधिरूपणं, भ. क्तिरेवौषधिस्तस्य लतानां पोषकश्चन्द्रवत् शीतलः सदाविर्भूतस्व स्वरूपपरस्वरूपानन्दाश्रयत्वात, "सदापश्यन्ति सूरय” इति श्रुतेः, किञ्च, सम्प्रदायप्रबोधायेति । सम्प्रदायविषयकप्रबोधाय ज्ञानाय सम्प्रदायानुगामिभ्यस्तद्वि- षयकशानप्रकाशनार्थ तन्निरूपितसिद्धान्तविषयकज्ञानप्रतिवन्धका- वरणनाशार्थ दीपकः, तत्र हेतुः ध्वान्तनाशकः, दीपकस्य तमो- नाशकत्वं स्वभावत एव सिद्धमित्यर्थः, “येनाक्षरं परमं वेद सत्यं प्रोवाचतां तत्वतो ब्रह्मविद्याम्"। सुदर्शनमहाबाहो सूर्यकोटिसमप्रभ । अज्ञानतिमिरान्धानां विष्णोर्मार्ग प्रदर्शय । इत्यादिश्रुतिस्मृतिभ्यः ॥ ४ ॥ किवा संसारकूपमनानांकरावलम्वनदायक इति । संसारकूपमनानां करालम्वनदायकः॥ सुशीतलमना नित्यं माधुर्येण विराजते ॥ ५ ॥ संसारएव कूपवदुद्धरणाशक्यत्वात्कूपस्तत्र मन्नानां जीवानां क- रावलम्बोभागवतधर्म उद्धरणहेतुत्वात्तस्य दायकः तदुपदेण्तृत्वात्- तथाचशान्तिपर्वणिभीष्मः। गजेन कश्चित्पुरुषः कानने समभिद्रुतः। जिघांसाभयसंत्रस्तःप्रविवेश महद्वनम् । अथ पश्यति तत्रस्थं सिंहयूथमवस्थितम् । तं दृष्टा स निवर्तेत दिशमन्यामधावत । तत्राऽपश्यत् खड्गहस्तां भीमकन्याञ्च दारुणाम् ।

असिहस्त गुरुभक्तिमन्दाकिन्याख्यव्याख्योपेतम् । आधावन्तीमभिमुखं तिष्ठतिष्ठेति चाऽब्रवीत् । तां दृष्ट्वा स निवर्तित्वा दिशमन्यामधावत । तस्यामपश्यत्तत्रस्थं प्रदीप्तवनमग्निना । स तत्र चिन्तयामास अहोकष्टमवस्थितम् । इतो गज इतः सिंह इतः कन्यान्वितो दवः । निराशा जीविते प्राप्तस्तत्र कूपमपश्यत । कक्षायतनमत्यन्तमन्धकारमनन्तकम् । स तत्र कूपे पुरुषः पपात भयपीडितः । अथाऽलोकयत त्रस्तः सर्प कूपतले स्थितम् । विजृम्भमाणं घोरास्यं श्वसन्तं लेलिहाननम् । वल्लीमादाय राजेन्द्र तले तिष्ठदधोमुखः। अलावृरिव तत्रासौ तस्यां वल्ल्यां प्रलस्वितः । तस्या वल्ल्यास्तु मूलानि व्यच्छिनत्तत्र मूषकः । उपद्रवास्तु तत्रान्ये दंशका मत्कुणादयः। तत्राप्यन्यद्रसोत्पन्नं क्षौद्रं मधुकराक्षतम् । तप्तं तच्चाल्यमानं तु घृष्यमाणमभिद्रुतम् । अपिवन्मधु तत्रस्थः पतितं तस्य मूर्द्धनि । पतितं मस्तके तस्य मधु तन्मुखमाविशत् । पतितं मस्तके सर्वमपिवत् स पिपासितः । यथा स पुरुषो वत्ल घोरे वर्तति सङ्कटे । तथा शरीरिणः सर्वे घोरे वर्तन्ति संशये। अस्य विवरणम् । योऽसौ गजो महावीचिर्विद्धि देहि हिताहितम् । सिंहान् रोगान्विजानीहि विहाराहारसम्भवान् । यो दवाग्निः स शोको वै लोभमोहभयाश्रयः । कूपस्तु मानुषो लोकः कालो जगदुपद्रवः । आयुर्वल्ली तथा प्रोक्तं मूषको मृत्युरुच्यते । योऽसौ कूपतले सर्पः समयः काल उच्यते । कामं मधुरसं विद्धि संशयो नाऽत्र विद्यते । मधुनश्चापि यत्स्वाचं कामस्वादो हि स स्मृतः। ૨.

१०
लघुस्तवराजस्तोत्रम्
एवं श्रुतगुणो वत्स धर्मोत्कृष्टमतिर्भव।
संशयेनाऽजितात्मा त्वं मोक्षं यासि यथाक्रमम् ।
एवं संसारकूपस्य धर्म एव परा गतिरिति ।
एवं भूते संसारकूपे मनाना करावलम्वं भागवतधर्म द.
त्वा तदुद्धारको भवानिति वाक्यार्थः ।
किञ्च सुशीतलमना इति ।
सुष्ठु शीतलं कामादिजन्यतापास्पृष्टमाहात्म्यकं मनो यस्य सः
नित्यमुक्तत्वात् तत्कारणकर्मप्रयुक्तप्रकृतिसंवन्धाभावात् ।
अत एव माधुर्येण गुणेन मधुरालापादिना नित्यम् एकरसं य.
थास्यात् तथा विराजते विशेषेण प्रकाशते ॥ ५॥
किञ्च सुखदातेति ।
सुखदाता भवच्छेत्ता तापत्रयविनाशकः ।।
श्रीकृष्णपूजनानन्दी सर्वदा शुद्धवेषवान् ॥ ६ ॥
सुखस्य परमानन्दभगवद्भावापत्तिलक्षणमोक्षाख्यस्य,तत्र द्वारमाह-
भवच्छत्तेति
भवस्य प्रकृतिसंबन्धनिरूपितजन्ममरणादिचक्रभ्रमणरूपस्य
छत्ता ध्वंसक इति,
अत एवतापत्रयविनाशकइति,
तापा आध्यात्मिकाधिभौतिकादित्रिविधाः, आद्यद्विविधं शारीरं
मानसञ्चति, शिरोरोगज्वरातिसारामयाक्षिपीडादिकं शारीरं, काम
क्रोध द्वेषलोभमोहशोकासूयवमानेादिजन्यं मानसं, मृगपक्षिम-
नुष्यराक्षससोदिजातमाधिमौतिकं, शीतोष्णवातवर्षाजलविद्युदा-
दिसमुद्भवम् आधिदैविकमिति विवेकः,
किञ्च श्रीकृष्णपूजनानन्दीति,
श्रीकृष्णस्य पूजनेनानन्दोयस्यास्तीति, तथा पूजाचात्र सर्वदे-
शकालाधुचिततत्तत्सङ्कल्पानुकूलाचार इति परमभक्तिरिति यावत्।
किञ्च सर्वदाशुद्धवेषवानिति ।
सर्वस्मिन्कालेपरमधामावस्थानेवाऽवतारावस्थायां वा शुद्धो-
ऽप्राकृतोवेषोयस्यसः नित्यमुक्तत्वेनप्रकृतिसम्बन्धशून्यत्वात ॥ ६॥

- गुरुभक्तिमन्दाकिन्याख्यव्याख्योपेतम् । आ- अथ प्रेमभक्तिमत्त्वं दर्शयन्नाह- आनन्दाशुकलापूर्ण इति । आनन्दाश्रुकलापूर्णः सानुरागसुधान्वितः ॥ अहंममेति दौर्जन्यनाशको बुद्धिदः स्वयम् ॥७॥ यतः सानुरागसुधान्वितः अनुरागेणसहिता सानुरागा भग- वत्स्वरूपगुणादिविषयकाप्रीतिः सैवसुधा तयाऽन्वितः सम्पन्नः उक्त- लक्षणनिरतिशयप्रतीतेरेकाश्रय इत्यर्थः । स्वाश्रितसर्वदोषसमूलहारित्वमनुसंदधदाह । अहममेतिदौर्जन्यनाशक इति । देहादावहमिति पुत्रवित्तादौममेति दौर्जन्यदुर्जनानांरिपूणां- भावोवैरिभावमिति यावत् आत्मनैवात्मनाशकत्वं, यद्वा अह- मिति आत्मनिस्वतन्त्रसत्तावच्छिन्नात्वनिश्चयः, वस्तुतः त्मनांतदात्मकतयापुरुषोत्तमस्यैवाहंप्रत्ययस्य प्रधानविषयत्वा- तथैव देहादौममेति "यस्मिन्निन्द्रोवरुणोमित्रोदेवा ओका सि चक्रिरे” इत्यादिभ्यः, तथाभूतां व्यवसायात्मिकां बुद्धिं स्वय. भेवदत्वोक्तसंसरणहतोयॊर्जन्यदाम्भिकत्वाद्यात्मरिपोर्विपरीतज्ञाना- न्मोचयतीति वाक्यार्थः, तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपयान्ति ते । तेषामेवानुकम्पार्थमहमज्ञानजं तमः। नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वतेति- श्रीमुखोक्तेः। अत्र वुद्धिप्रदानं वहिर्यामिशास्त्राचार्यमुखेन तदुक्तानुभावन त- द्विपरीतभावनाशनं चाऽन्तर्यामिरूपेणविश्वबुद्धिनियन्त्रेतिविवेकः॥७॥ स्वाश्रितदोषनाशकत्वं निरूप्य तेषां पोषकोऽपि सएवेत्याह- स्वस्य लावण्यमाधुर्यपोषकश्चाऽनुवर्तिनामिति । स्वस्य लावण्यमाधुर्यपोषकश्चानुवर्तिनाम् ॥ नितरां शाव्यहर्ता च धाता सर्वभयापहः ॥ ८॥ अनुवर्त्तिनां स्वाश्रितानन्यभक्तानां तदाशानुवृत्त्येकजीवनान्य la १२ लघुस्तवराजस्तोत्रम् स्वस्थ लावण्यमाधुर्याभ्यां पोषकोभरणपोषक इति योगक्षेमकर्ते. तियावतू, अप्राप्तप्रापणंयोगः प्राप्तस्य पालनं क्षेमइति विवेकः अ- प्राप्तानां श्रेयोऽसाधारणहेतूना ज्ञानभक्तिविरागादीनां प्रापकत्वा- त् प्राप्तानां च तेषां तद्विरोधिभ्यः कामक्रोधादिनिरयासाधारण हेतु- भ्यस्तद्रिपुभ्योरमकल्धात् योगक्षेपकर्तृत्वसिद्धिरित्यर्थः। तत्प्रकारमाह- स्वस्यति । नित्याश्रिताभ्यां स्वाभाविकयावदात्मवृत्तिभ्यः सद्गुणाभ्यां लावण्यमाधुर्याभ्यां तत्र लावण्य वाचः सौन्दर्य माधुर्य मधुरभाषया मनोहारित्वमिति विवेकः यद्वा रूपत्तिसौन्दर्यमाधुर्याभ्यां मनो. नयनाहादजनकतयास्वाश्रितानां पोषक इति । योगक्षेमवाहकत्वमेवाह विशेषणाभ्याम्- धातेति। मातृपितृवत् धारणपोषणकर्त्ता सर्वसम्बन्धविषयत्वात् एते- नयोगकर्तृत्वमुक्तं धारणसामग्रीप्रापणयोगत्वात् । सर्वभयापह इति। मोक्षसामग्रीदेवीसम्पद्धारिणाम् आसुरीसम्पदाख्यरिपूणां द- स्युभूतानां कामादीनां सर्वभयमपहन्तीति तथा सः नितराम्प. दस्य सर्वैरपिप्रथमान्तपदैरन्वयोवोध्यः, अत एव शाठ्यहतैति शठस्य भावः शाठ्यं परवञ्चकत्वधौयादिदोषास्तेषां हर्त्तत्यनेनक्षे- मकरणत्वमुक्तम् । अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहमिति । श्रीमुखोक्तेः ॥८॥ अथ गुणान्तरदर्शनेनस्तौति- अमानीति । अमानी मानदो मन्यो भावको भावधारकः ।। सर्वसंशयभेत्ता च सर्वागमविशारदः ॥ ९ ॥ मानोऽभिमानः देहादावात्मत्वाभिमानः सविद्यतेऽस्येति- माननिमानी अमानी नित्यं स्वपरविषयकपरोक्षानुभूतिमत्त्वात् गुरुभक्तिमन्दाकिन्याख्यव्याख्योपेतम् । १३ तत्कारणप्रकृतिसम्बन्धशून्यत्वाच्च सदापश्यन्तिसूरय"इति श्रुतेः। अत एवमानद इति,। स्वाधितानामुक्तलक्षणं मानमभिमानं यतिखण्डयतीति तथोक्तः, यद्वामानं प्रमाणं श्रीपुरुषोत्तमस्वरूपगुणादिविषयकप्रमाकरणं वे- दान्तलक्षणं स्वचरणप्रपन्नेभ्यो ददातीतिसः, यद्वा मीयते हिंस्यते ऽनेनेतिमानम् अनादिपुण्याधुण्यरूपंसंसरणमूलभूतं कर्म द्यति- खण्डयतीतिसः, स्वजनकात्मिकाविद्यानाशकइत्यर्थः, अत एव माल्यइतिः श्रेयोथिभिः साधुभिर्नितरांपूज्यः आश्रयणीय इत्यर्थः, किञ्च भावक इति, स्वभक्तान भावयति ज्ञानवैराग्यादिसम्पत्त्या वर्धयतीति भावकः, किञ्च भावधारक इति, भावं भगवद्विषयकं प्रेम धारयतीति तथा, असाधारणमाचार्यलक्षणं निरूपयन्स्तौति, सर्वसंशयभेत्ताचेति, सर्वेषां संशयान् सर्वान्संशयान्वा भिनत्तीतिसः, संशया- स्तावद्विविधा आत्मपरमात्मसाधनफलादिविषयभेदातू, तथा हि भगवन्कोऽहं देहेन्द्रियमनोबुद्धिप्राणादिष्वेकतमस्तदन्योवेति स्वा- श्रितेन पृष्टेउत्तरम् त्वंदेहो न भवसिजडत्वात् उच्छित्तिधर्म- त्वात् मृतेचैतन्यादर्शनाञ्च देहस्य घटादिवत्, नापीन्द्रियसं. घातः करणत्वात् भौतिकत्वात् स्वमेलयदर्शनाच्च स्थूलदेहवत् दण्डचक्रादिवद्वा, अत एव नमनोबुद्धिश्च करणत्वाविशेषात सुषुप्त्यादिष्वननुगतत्वाञ्चेन्द्रियादिवत् , प्राणोपिन वायुत्वात् जन्य- त्वाच्च व्यजनजन्यवायुवादिति, तस्माहेहेन्द्रियमनोबुद्ध्यादिजडवर्ग- विलक्षणो जाग्रदाद्यवस्थातीतस्तत्तदवस्थाप्रकाशको ज्ञाताहमर्था- भिन्नश्चेतनस्वरूपो ब्रह्मात्मकस्तदधीनस्वरूपस्थितिप्रवृत्तिकोऽणुपरि- माणकः प्रतिदेहं भिन्नो वन्धमोक्षार्हः प्रत्यगात्मा त्वमसीतिसङ्केपः, विशेषस्तु वेदान्तरत्नञ्जूषायां श्रीपुरुषोत्तमाचार्यपादैनिरूपितः, किं- श्व किंवा जगत्कारणं परमाणवोवा कर्मवा कालोवा प्रकृतिर्वा पर- ब्रह्मवेति संशये परमाण्वादीनां जडत्वात्स्वतन्त्रत्वेनकार्योत्पादन. नत्वासम्भवात्, ब्रह्मैवजगत्कारणं सर्वज्ञत्वेसति चेतनत्वात् श्रुति- लघुस्तवराजस्तोत्रम् प्रमाणकत्वाञ्च, "तदैक्षतबहुस्यां प्रजायेय नामरूपेव्याकरवाणि स्व. यमात्मानमकुरुत सञ्च त्यञ्चाऽभवदि"त्यादि श्रुतेः, उक्तलक्षणसङ्क. ल्पेक्षणादीनामचेतनेष्वसम्भवादित्यर्थः, तत्कारणं सर्वविशेषशून्यं सर्वप्रमाणागोचरं ब्रह्म वा उपहितं वा अध्यासवद्वा सर्वज्ञसर्वाचि. नत्यानन्तस्वाभाविकयावदात्मवृत्तिगुणशक्तिको वेदान्तैकवेधः श्रीपु- रुषोत्तमोवेति संशये निर्विशेषस्य प्रमाणाभावेनैवासिद्धत्वात् नि- विशेष वस्तु मिथ्या सर्वप्रमाणाविषयत्वात् शशशृङ्गादिवदित्यनु- मानात् उक्तेक्षणादीनां निर्धर्मके वस्तुन्यसम्भवाच्च निर्विशेषनज- गत्कारणं ईक्षणादिधर्मानाश्रयत्वात्प्रकृत्यादिवदित्यनुमानाच, ना. प्युपहितं निर्धर्मकत्वसाम्यात् धर्मवत्त्वाभ्युपगमेताटस्थ्यहा- निप्रसङ्गातू, नापितृतीयं ज्ञानेऽज्ञानाध्यासासम्भवात् इतरेतरात्य- न्तविरोधित्वाच्च सूर्येऽन्धतमोऽयोगवत, तस्माचरम एव वेदान्त- वेद्योमुक्तोपसृप्योयोगिध्येयो ब्रह्मरुद्रेन्द्रादिसुरर्षिगणेड्यमानोऽचि- नत्यानन्तस्वाभाविकस्वरूपगुणशक्तिकोऽस्पृष्टदोषमहात्म्यो भगवा- न्वासुदेवः परब्रह्मभूतःश्रीकृष्ण एव जगदभिन्ननिमित्तोपादानकारण- मिति,"यः सर्वज्ञः सर्ववित्" "स्वाभाविकीज्ञानबलक्रिया च" "सत्यं ज्ञानमनन्तं ब्रह्म"यतो वा इमानिभूतानि जायन्ते" "सर्वे वेदायत्पद- मामनन्ति" "ब्रह्मविदाप्नोति परं" "यं सर्वे देवानमन्ति” "मुमुक्षुर्वैः शरणमहं प्रपद्ये"इत्यादिश्रुतिभ्यः, अथ किं वा मोक्षसाधनं कमैव वा कर्मज्ञानसमुच्चयो वा निर्विशेषप्रमाणातीतज्ञानं वा सर्बज्ञसर्वशक्ति- परमेश्वरविषयकं ज्ञानं वेति, नाद्यः कर्मणः कर्मलक्षणाशानविरोधि- त्वाभावात् "प्लवाहोते अढा यज्ञरूपा" इति श्रुतेः, तस्य परम्परया- ज्ञानोत्पादनद्वारा श्रेयःपरत्वाभ्युपगमे इष्टापत्तिः, नापि द्वितीयः उभ- योर्विरोधिनोरेका समुच्चयानहत्वात् । ज्ञानाग्निः सर्वकर्माणि भस्मत्साकुरुतेतथे-ति, श्री *मुखोक्तेः । *नापि तृतीयः तस्याज्ञानसाधकत्वाभ्युपगमात्, तस्मा- दुक्तलक्षणपरब्रह्मस्वरूपादिविषयकमेवज्ञानं मोक्षासाधारणं का- रणं "जुष्टंयदापश्यत्यन्यमीशंतन्महिमानामतिवीतशोकः” “तमे- वविदित्वातिमृत्युमेतिनान्यः पन्था विद्यतेऽयनाय” "पृथगात्मानं- प्रेरितारं जुष्टस्ततस्तेनामृतत्वमेती"त्यादिश्रुति- मत्वा गुरुभक्तिमन्दाकिन्याख्यव्याख्योपेतम् । १५ भ्यः, अथ किंवा फलं स्वर्गाद्यभ्युदयरूपं वा मोक्षो वा किंता- वत्प्राप्तम् अभ्युदयमेवेति, "अक्षय्य ह वै चातुर्मास्ययाजिनः सु. कृत"मित्यादिश्रुतिभ्यो अक्षयत्वादिविधानादितिराद्धान्तः, मोक्ष- एवफलंस्वार्थत्वात् निरतिशयत्वाच "नस पुनरावर्त्तते” अनावृत्ति शब्दात् । मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते । इत्यादिश्रुतिस्मृतिसूत्रेभ्यः । नस्वर्गादीनांश्रेयस्त्वं क्षायिष्णुत्वातू “यथेहकर्मीज(चि)तोलो. कः क्षीयते एवमेवामुत्रपुण्याजि(चि)तोलोकः क्षीयते" इत्यादिश्रुतेः, आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुनेति- स्मृतेश्च। ननुद्वयोरपिवाक्ययोः श्रौतत्वेनप्रामाण्यलास्यात् अक्षयवोधकश्रु- तेरेव प्रावल्यम् किंनस्यादिति चेन्न, अक्षयत्ववोधकश्रुतेस्तर्कसहक- तत्वात् प्रावल्यम्, स्वर्गादिलोकाः क्षयिष्णवः कर्मजन्यत्वात् कृष्या- दिवदितिप्रयोगात्, स्यादेतत् मोक्षएवफलं तथापि किं तस्यस्वरूपं तार्किकाणामेकविंशतिप्रकारदुःखात्यन्तामावोवा जैमिन्याचार्याभ्यु- पगतसार्वज्ञादिब्राह्मधर्मापत्तिर्वा औडलोम्यभिमतचिन्मात्रापत्ति सर्वाविरुद्धश्रीवादरायणाभ्युपगतभगवद्भावापत्तिति, नाद्यः अवै. दिकत्वात् सुषुप्तावतिब्याप्तेश्च, नद्वितीयः चित्प्राप्तिविधायकवा- क्यविरोधात, नापितृतीयः “सहपश्यः पश्यती"त्यादिसार्वज्ञ- विधायकश्रुतिव्याकोपात्, तस्मादुभयश्रुत्यविरुद्धश्चरमपक्षएवथे- यान् “एवमप्युपन्यासात्पूर्वभावादविरोधं वादरायण" इति निर्णय सूत्रात्, अस्यार्थः एवं चोपन्यासात्पूर्वभावात् पूर्वोक्तब्रह्मभावा- त सार्वज्ञादिविषयकापरिच्छिन्नानुभवात् ब्रह्मभावापत्तिः अपह- तपाप्मत्वादिसंपन्न विज्ञानघनीभूतस्वस्वरूपाविर्भावाचाऽविरोधं मो. क्षस्वरूपं भगवान्वादरायणो मन्यते इत्यक्षरार्थः, एवं सर्वश्रुती नां स्वार्थ एव प्रामाण्यात् नैकतमयापि श्रुत्या विरोधः, निरञ्जनः पर मंसाम्यमुपैति सस्वराड्भवती"त्यादिश्रुत्या सार्वज्ञसाम्यावधा- सर्वज्ञसादृश्यस्यापि तत्र सत्वात् सर्वज्ञकल्पत्वमप्यविरुद्धम्, “सर्वहपश्यः पश्यती"तिश्रुतेः, सादृश्यनामतद्भिन्नत्वे सति तद्गतभू- योधर्मवत्वं, तथा च "मुक्तस्य जगद्यापारवर्ज"मितिशास्त्रात् स्वत. नात, लघुस्तवराजस्तोत्रम् न्त्रस्वरूपस्थित्याद्यहत्वेन तद्भिन्नत्वे सति सार्वज्ञादीनामपहत- पाप्मत्वादीनां च भूयसां ब्रह्मधर्माणां तत्र योगात् परमसाम्यलक्ष- णसमन्वयः, स्वराड्साम्यात्स्वाराज्ययोगो ऽप्यविरुद्धइतिसंक्षेपः, किंच कोवा शास्त्रविषयः कर्मवा ब्रह्म वा किंतावत्प्राप्त कमैव स- वैज्ञेन भगवता जैमिनिना तत्वविधानात् "आनायस्य क्रियार्थत्वा- दानर्थक्यमतदाना" मित्यादि सूत्रात्, नन्वेव मपि "सत्यं ज्ञान- मनन्तं ब्रह्म' विज्ञानमानन्दं ब्रह्म" " "यः सर्वज्ञः सर्ववि"दित्यादिषु क्रियासवन्धलशस्यादर्शनात् कथमिव क्रियापरत्वं, न चातदर्था- सामानर्थक्यस्य उक्तत्वात्कथंभूयोविकल्पाकावशइतिवाच्यं, तेषाम- पिश्रुतित्वाविशेषेणवाधायोगादध्ययनविधिविषयत्वाच्च, अन्यथा- ऽवैदिकत्वापत्तेर्दुवारत्वादिति चेन्न, तेषां ऋत्वङ्गकर्तृस्तवनप- रत्वात्, अङ्गपरस्य वाक्यस्यान्ततोऽगिन्येव पर्यवसानानवाधश- कावकाशइति प्राप्ते ब्रूमः, ब्रह्मण्येवशास्त्रस्यसमन्वयो न कर्मणि- तस्य जन्यत्वजडत्वपरतन्त्रत्वादियोगातू, न शास्त्रविषयं, प्रत्युलत- द्भावापत्तिलक्षणमोक्षोपायभूतानोत्पादने एवं कर्मण उपयोगश्र- वणात्, “तमेतं वेदानुबचनेन ब्राह्मणा विविदिषन्ति यक्षेन दानेन- तपसाऽनाशकेने" त्यादिभिः, सर्वकर्माखिलं पार्थज्ञानपरिलमाप्यते, इति स्मरणाच्च, एतेन पूर्ववाधशङ्कापिदूरतोनिरस्ता, विशेषस्तु आकरे द्रष्ट- व्यः, स्यादेतत्, अखिलस्यापिशास्त्रस्य ब्रह्मण्येवसमन्वयः, तस्यच- तद्विषयत्वं, तथाऽपि कीदृशं ब्रह्म वेदान्तस्य विषयः, औपाधिकभे- दाश्रयं वा, कल्पितभेदाश्रयं वा, केवल भेदाश्रयं वा, चिदचिद्विशि- ष्टं वा, स्वाभाविकभेदाभेदाश्रयंवेति, नायः अनुपपन्नत्वात, तथा हि सार्वज्ञादिस्वाभाविकधर्माश्रयस्य परब्रह्मण उपाधिना जीव- भावापत्तिस्तत्वमस्यादिवाक्योपदेशजन्याभेदज्ञानात्तनिवृत्त्याचमोक्ष- इति तस्य राद्धान्तः, अत्र प्रष्टव्यः, उपाधिना ब्रह्मणः सार्वज्ञादि- धर्मा आवृताः, स्वरूपं वा, नाद्यः असम्भवात् तथा हि सार्वज्ञादयो- धर्माः स्वाभाविका सौपाधिकावा नान्त्यः, औपाधिकरत्वे उपाधे- स्सत्वमसत्वं वा, सत्यत्वेऽपि ब्रह्मभिन्नत्यमभिन्नत्वं वा, भिन्नत्वेस्व- प्रयुक्तोऽन्यप्रयुक्तो वा, ब्रह्मप्रयुक्तो वा, नाद्यो वक्तुं शक्यः, आत्माश्र.

गुरुभक्तिमन्दाकिन्याख्यव्याख्योपेतम् । थात्, नापि ब्रह्मप्रयुक्तो न्योन्याश्रयात्, नाप्यन्यप्रयुक्तोऽनवस्था- नात्, अभिन्नत्वेचौपाधिकभेदसिद्धान्तभङ्गात् उपाधिरेव ब्रह्मेति प्रतीत्यापत्तेश्च, नाप्यसत्यः परमतप्रवेशात अनभ्युपगमाञ्च, स्वा- भाविकत्वपक्षे तेषां स्वरूपभिन्नत्वमभिन्नत्वं वा भिन्नाभिन्नत्वं वा, अत्यन्तभेदे शास्त्रविरोधः, “एवं गुणान् पृथक् पश्यन्" इत्या- दिनिषेधश्रवणातू, नाऽप्यभिन्नत्वम् ब्रह्मणा तेषां सामाना- धिकरण्यापत्त्या "आनन्दं ब्रह्मणोविद्वा" निति व्यधिकरणश्रुति- व्याकोपात् नापि चरमः स्वाभाविकभिन्नाभिन्नानामावरणास- म्भवात्, अस्मन्मतप्रवेशाच्च, अन्यथास्वरूपस्याप्यावरणापत्तेः, स्वरूपावरणाभ्युपगमपक्षे सार्वज्ञादिहाने, किञ्चोपाधेरपि सत्व- नित्यत्वाभ्यामनिवृत्तिप्रसङ्गात्, तस्माद् दुरुपपादोऽयमोपाधिक भेदाभेदः, नापि कल्पितमेदवादः सम्भवति महादोषयोगात्, तथा हि ब्रह्मणि भेदकल्पनायां कोवाप्रयोजकः ब्रह्मवा उपाधिर्वा अन्य- द्वानाधःशुद्धबुद्धनित्यमुक्तविशेषशून्ये वस्तुनि प्रयोजकत्वाभ्युपगमे निर्विशेषत्वशुद्धत्वादिनाशात् मुक्तस्यापिभूयोऽज्ञानयोगापत्तेदुर्वार- त्वात् किं च प्रयोजकस्य ब्रह्मणोनित्यत्वेन प्रयोज्यस्यापि नित्य- त्वादनिवृत्त्यानिर्मोक्षप्रसङ्गात् द्वितीये आत्माश्रयापत्तेः द्वितीया- धुपाध्यङ्गीकारे अन्योन्याश्रयादियोगात् नापि तृतीयः अन्यस्य जीवस्य तत्कार्यत्वेनोत्तरभावित्वात् तस्मात्प्रयोजकाभावात्कल्प. नासिचाभेदस्य कल्पितत्वासम्भवात् अविद्यादेभिन्नं ब्रह्म देहा. देभिन्नं चेतनमित्यादौ भेदस्य त्वयाऽपि सत्वाभ्युपगमात् अ. न्यथा अविद्यादिभ्यो ब्रह्मणो देहादिभ्यश्चेतनस्य चापरत्वासिद्धे. रिति संक्षेपः, नापि केवलभेदाश्रयत्वं ब्रह्मणं इति समीचीनं श्रुतिशतविरोधात् तद्याकोपात् “सर्व तं पादा"दित्यादिभेदनि- न्दाश्रवणाच, किञ्चाऽभेदोऽपि सदेव ब्रह्मणि, गुगुणिनोदेहदेहि- नोश्चाभेदस्य त्वयापि याथात्म्याङ्गीकारात्, अलास्तरेण, नापि चिदचिद्विशिष्टं ब्रह्म वेदान्तविषय इति पक्षो रमणीयः चिद- चितोर्विशेषणत्वासम्भवात् , तथाहि व्यावर्तकत्वं तावविशेषणत्व- मिति सर्वतन्त्रसम्मतलक्षणं तस्य चानयोरनन्वयातू विशेषण. त्वासिद्धेश्च व्यावृत्तव्यावर्त्यसिद्धिसापेक्षत्वाद्विशेषणस्य तथा च व्यावृक्षस्य ब्रह्मणश्चिदचितोव्यावर्तकत्वाभ्युपगम्यमानेऽपि कस्मा- ३ १८ लघुस्तवराजस्तोत्रम् घ्यावृत्तमिति व्यावॉर्विवेचनीयः चेतनाचेतनयोविशेषणत्वाभ्यु- पगमेम व्यावर्तकत्वात् पदार्थान्तरस्याभ्युपगमाञ्च, किञ्च चेत- नाचेतने सार्वज्ञादिविशिष्टस्य विशेषणे भवतः केवलस्य वा, नाद्या विशिष्टबैशिष्टयापत्त्या विशिष्टसिद्धान्तभङ्गात् न द्वितीयः केवलत्वानभ्युपगमात, अभ्युपगमे च सार्वशादिविशिष्टंब्रह्म भिन्न चेतनाचेतनविशिष्टं च भिन्नमिति विशिष्टद्वयसिद्धौ सत्यां वि. शिष्टाद्वैतभङ्गात्, चेतनाचेतनविशिष्टदेशस्य सार्वज्ञादिहीनापत्तेश्च निर्विशेषवादप्रवेशप्रसङ्गाच्च, अलंविस्तरेण, तस्मात्स्वाभाविकभेदा- भेदाश्रयभूतमेव परब्रह्म श्रीपुरुषोत्तमो वेदान्तविषय इति सि. द्धम, "एकः सन् बहुधा विचचार" "एको देवो बहुधा सन्निविष्टः" "त्वमेको सि बहुधा बहून्प्रविष्ट" इत्यादिश्रुतिभ्यः, । एकत्वे सति नानात्वं नानात्वे सति चैकता। अचिन्त्यं ब्रह्मणो रूपं कस्तद्वेदितुमर्हति ॥ केचिद्वहुत्वेन वदन्ति देव- मेकात्मना कोचिदिमं पुरातनम् ॥ वेदान्तसंस्थापितसत्वयुक्तम् । द्रष्टुं तमीशं वयमुद्यताः स्म ॥ इत्यादिस्मृतेः। "अंशोनानाव्यपदेशा""दन्यथा चापिदासकितवादित्वमधीयते" "एक उभयव्यपदेशात्स्वहिकुण्डलवंदित्यदिसूत्राश्च । ननु भेद- प्रयुक्तो ऽभेदस्तत्प्रयुक्तश्च भेद इति स्वाभाविकभेदाभेदप- क्षस्याप्यन्योन्याश्रयदोषग्रस्तत्वात् अवच्छेदकाभावाञ्च कथं नि:- षत्वमिति चेन्न, न तावद्भेदाभेदनिरूपणे भेदाभेदयोः प्रयोज्य प्रयोजकत्वं येनोक्तदोषप्रसङ्गः, स्यात् अपि तु स्वतन्त्रपरतन्त्र सत्वनिर्णयोपयिकयोनियन्तृत्वनियम्यत्वयोः सत्त्वानोक्तदोषसंस- र्गावकाशः, आत्मा हि परमस्वतन्त्रोधिगुणः, “सर्वस्य वशीस- वस्येशानः" "एतस्य वाक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः" "भीषास्माद्वातः पवते भीषोदेति सूर्यः" ‘অঙ্গালাহা सुखदुःखयोः" "ईश्वरप्रे- रितोगच्छेत्स्वर्ग वाश्वभ्रमेव वे"त्यादिश्रुतिभ्यः, नाप्यनुगता- बच्छेदकाभावः, अखण्डोसाधिरूपानुगतावच्छेदकस्य सत्या- आत्मनः गुरुभक्तिमन्दाकिन्याख्यव्याख्योपेतम् । १९ . an त्, ननु स्वाभाविकभेदाभेदवादोपि ब्रह्मणः स्वत एव जीवभा. धाभ्युपगमात् गुणवदोषाश्च स्वाभाविका भवेयुरिति निर्दोषब्रह्म तादात्म्योपदेशा विरुद्धा एवेति चेन्न, स्वरूपतो जीवेशयोरभेदान भ्युपगमात्, तथा हि ब्रह्मणश्चेतनाचेतनयोश्च स्वरूपेणा ऽभेदाभा- धः इतरेतरात्यस्तविलक्षणत्वात् “अस्थूलमनगु" इत्यादिश्रुतेः, तत्र चेतनस्याणुत्वेन निर्देशाहत्वम् अचेतनस्य स्थूलत्वेन ब्रह्म णश्च तयोविलक्षणत्वेनेतिविवेकः, एवमेव तस्य तयोश्चसर्वात्म- स्वसर्वनियन्तृत्वसर्वव्यापकत्वस्वतन्त्रसत्वसाधारत्वादियोगेन प्र. मात्मकत्वतनियम्यत्वतद्याप्यत्वतत्तन्त्रसत्वपराधेयत्वादियोगेन चा- भेद इतिसिद्धान्तजाह्नव्यां श्रीदेवाचार्यपादैर्दत्तोत्तरत्वात्, विशेष- श्च तत्रैव द्रष्टव्यः, ननु भेदाभेदयोरितरेतरविरुद्धत्वात्कथंसामा- नाधिकरण्यमिति चेन्न, श्रुतिगम्यत्वात् न तण परास्तुं श- क्या, अन्यथा “ऽणोरणायान्महतोमहीया" नित्यादिपरस्परविरु- द्धत्वाद्धेयमेव भवद्भिर्वोदकैः, न च तेषां श्रुतिप्राप्तत्वाद्यवस्थ. यैव भाव्यमन्यथाश्रुतिवाध इंति वाच्यम् , प्रकृतेपि तुल्यत्वा. स् इत्यलं विस्तरेण, विशेषस्तु श्रुत्यन्तकल्पवल्ल्यामुक्तः, एतेषां सं. शयानां नाशक इत्यर्थः, चकारो विपर्यवादिसमुच्चयार्थः। भिन्ना- मिन्ने स्वाभाविकाचिन्त्यानन्तकल्याणगुणाब्धौ ब्रह्मणि औपाधि. कभेदाश्रयत्वकल्पितभेदाश्रयत्वकेवलभेदाश्रयत्वविशिष्टाद्वैतत्वादिप- क्षेष्वेकतमस्य कल्पनं निर्गुणत्वमायाकहिपतगुणवत्त्वं वा विफ- र्पयज्ञानं श्रुतिविरुद्धत्वादनुपपन्नत्वाञ्च, एवमन्यदप्यनुसन्धेयं, तथा भूतविपर्ययान् भिनत्तीति विपर्ययभत्तेति चकारार्थः । ताहेतुमाह- सर्वागमविशारद इति । सर्वेष्वपि आगमेषु शास्त्रेषु विशारदो निपुणः नित्यमुक्तत्वेना- परिच्छिन्नज्ञानत्वात् "सदा पश्यन्ति सूरय” इतिश्रुतेः, पदवा- क्यप्रमाणनिर्णयविषयककौशल्यासाधारणाश्रयः, अन्यथा संशय. भेत्तृत्वासम्भवात, हेतुहेतुमद्भावो कात्र विवक्षितः' सर्वसं- शयभेत्तृत्वात्सर्वागमविशारदः, सर्वागमविशारदत्वाद्वा सर्वसंशय- भेत्तेत्यर्थः "सगुरुमेवाभिगच्छेत्सामिपाणिः श्रोत्रियंब्रह्मनिष्ठ"मि- तिश्रुत्युक्तलक्षणं वाऽत्र विवक्षितं, तथा च श्रोत्रियपदस्य सर्वाग.

२० लघुस्तवराजस्तोत्रम् edure काल: मविशारद इति व्याख्यानम्, ब्रह्मनिष्ठमिति पदस्य सर्वसंशयभे- ततियोध्यम्, उभयविधानावच्छिन्नानुभूत्यसाधारणाश्रयत्वादाचा. र्यपादानामिति संक्षेपः, ॥९॥ कालादिसम्बन्धाभावंदर्शयन् नित्यमुक्तत्वदर्शयति- कालकर्मगुणातीतइति। कालकर्मगुणातीतः सर्वदाचारतत्परः ॥ श्रीकृष्णस्यकृपापात्रं प्रेमसंपुटपुष्कलः ॥ १० ॥ भूतभविष्यद्वर्त्तमानचिरक्षिप्रादिप्रत्ययासाधारणहेतुः प्राकृतद्रव्यादेः तत्सम्बद्धचेतनस्वभावादेनिसङ्कोचादेश्च परिण- मनादिहेतुश्च, कर्माणि सञ्चितक्रियमाणप्रारब्धरूपाणि पुण्यापु- ण्यलक्षणानि, गुणाः सत्वरजस्तमांसि, उपलक्षणं चैतत् क्लेशता- पविकारादीनां, तत्र क्लेशः पञ्चधा, "अविद्यास्मितारागद्वेषाभिनि. वेशाः" "तापस्त्रिधा, अध्यात्मिकांधिदैविकाधिभौतिकभेदात, वि. कारःषड्विधः, जन्मास्तित्ववृद्धिपरिणामापक्षयनाशभेदात् , तत्प्र- योजकप्रकृतिसम्बन्धश्च, एभ्योतिक्रान्तः, सर्वदेति अत्रान्वेतव्यः, एतेन नित्यमुतलक्षणमप्युक्तं भवति, त्रैकालिकसंसारदुःखविषय- कसामान्यज्ञानानाश्रयत्वे सति सदैव स्वभावतो भगवदनुभा- विततत्स्वरूपगुणादिविषयकानुभववत्त्वं तत्त्वम्, अस्य च तत्र स- मन्वयात तथात्वमित्यनवद्यम् , किञ्च सर्वदाचारतत्परइति ॥ सर्वस्मिन्नपि काले भगवच्छास्त्रोक्ताचारपरायणः यद्वा सर्वदश्चा- सावाचारतत्परश्चतिविग्रहः, सर्वभ्यो भक्तेभ्यो वाच्छितं ददातीति स. वंदः, यद्वा सर्व पुरुषार्थ ददातीति तथोक्तः, यद्वा सर्वमनाचारतन्मू- लदोषं सदाचारप्रतिबन्धकं धतिखण्डयतीति तथा, यद्वा सवां- नपि स्कोश्रितान् तबुद्धीश्च स्वानुग्रहेण दायति शोधयतीति तथोक्तः सर्वदः, आचारः शास्त्रोक्तभागवतधर्माचरणरूपः स एव परः प्रधानं यस्य स चासौ सचेत्यर्थः, अत एव श्रीकृष्णस्य कृपापात्रम् इति । सर्वदेशकालादिषु तदनुकूलाचारपरत्वादेव तस्य प्रेष्ठः । किश्च प्रेमसम्पुटपुष्कल इति ।

दृश्यते न वहव इात यावत्, “एष महिमा ब्राह्मणस्य न कर्मणा गुरुभक्तिमन्दाकिन्याख्यव्याख्योपेतम् । २१ प्रेम्णो भगवदीयगुणादिविषयकस्य सम्पुटः स चासौ पुष्कल- श्चेति विग्रहः सदैवाविर्भूतभगवद्विषयकानुभूतित्वात् ॥ १० ॥ निर्विकारत्वं दर्शयन्नाह तारुण्यमित्यादिना । तारुण्यं वयसा प्राप्तो न विकारमनाः कचित् । एतत्सुमहिमा कोऽपि विरलो दृश्यते भुवि ॥१२॥ वयसातारुण्यं प्राप्तोपि काले विकारमना न भवति भवानिति संवन्धः विकारहेतोः प्रकृतिसंवन्धादरभावात् ब्रह्मवत् । तथाभूतस्यात्यन्तदौलभ्यं दर्शयन्नन्यानपि अवतारविशेषान् सूचयन्नाह। एतत्सुमहिमेति। एष सुष्ठु महिमा यस्य स तथा भूतो भवादृशो भुवि विरलो वर्द्धतेनोकनीया"निति श्रुतेः ॥ ११ ॥ अथ स्वभक्तानां साधनाभावेऽपि पुरुषार्थसाधकत्वं श्रीभगवत आचार्यस्य व्यञ्जयस्तौति । किंदुरापादनं तेषां कृष्णमार्गानुवर्तिनामिति । किंदुरापादनं तेषां कृष्णमार्गानुवर्तिनाम् । आसिद्धमपि सिद्धं स्यात्तत्कृपापाङ्गवीक्षणैः ॥१२।। कृष्णस्य मार्गोऽत्रा ऽऽचार्योपदिष्टसम्प्रदायाश्रयणम्, तदनुवर्तिनां दुरापादनं दुःसाध्यं किं न किमपि दुःसा- ध्यमित्यर्थः, कुत इत्यत्राह असिद्धमपि सिद्धं स्यादिति, अ. नेकैरप्युपायैरप्यकृतात्मभिः सत्सम्प्रदायशास्त्राचार्यपराङ्मुखैर- सिद्धमप्राप्यमपि तेषां तत्साधनाभावेऽपि सिद्धं स्यादिति । यावैसाधनसम्पत्तिः पुरुषार्थचतुष्टये । तया विना तदाप्नोति नरोनारायणाश्रयः। इत्यादिस्मृतेः। ननु साधनं विमा फलं सिद्धिः कथमसम्भवात् अन्यथा woman २४ लघुस्तवराजस्तोत्रम् वृद्धो गुणशक्त्यादिभिवृहत्तमो भगवान्वासुदेवः परब्रह्मशब्दामि. धेयः, "बृहन्तो गुणा अस्मि"नितिश्रुतेः तं सेवनशील:, किञ्च वृद्धिकर्तेति। स्वाश्रितानां वृद्धि वृहद्ज्ञानप्रकाशरूपां करोतीति तथा । किञ्च भर्त्तति । शानभक्त्यादिना भक्तान् विभौति । तहेतुः सर्वस्यपालक इति । "सर्वे श्रेयांसिपश्यन्तु" इत्यादिशास्त्रोक्तसर्वविषयक श्रेयास. ङ्कल्पपूर्वकोपदेशप्रभावेन सर्वस्य जगतो भाविश्रेयस्कस्य पालक इति भावः ॥ १४॥ किञ्च मन्दानां शाट्यनिर्वृत्त्या सर्वसौभाग्यदायक इति- मन्दानां शाव्यनिवृत्त्यासर्वसौभाग्यदायकः। आचारवैरिणो हन्ता कार्यसिद्धिप्रदायकः ॥१५॥ मन्दा अल्पबुद्धयस्तेषां शाट्यं शठस्य भावो वञ्चकता तस्यनित. ४त्यानिवारणेन सुष्टुभगः षागुण्यं यस्य स सुभगः भगवान् श्रीकृष्ण: ऐश्वर्यस्यसमग्रस्यधर्मस्ययशसः श्रियः। ज्ञानवैराग्ययोश्चैव षण्णां भगइतीङ्गना । इति श्रीपराशरोक्तः। सुभगस्य भगवतो भावः सौभाग्यं परं श्रेयः मोक्षः सर्वस्मै तस्यदायकः । किञ्च आचारवैरिणोहन्तति । आचारः शास्त्रोक्तसदाचारः भागवतधर्मस्तस्य वैरिणो बाह्या- स्तान्त्रिकावा राक्षसावा तान् हन्तीतितथासः । किंच कार्यसिद्धिप्रदायक इति । क्रियते इति कार्याणि अनुष्ठेयानि पुरुषार्थसाधनानि कर्म. ज्ञानादीनि तेषां सिद्धिस्तत्प्रतिवन्धकनिरासेन स्वरूपसंपत्तिस्ता- प्रकर्षणददातीति तथासः॥ १५ ॥ किं च आचारभ्रष्टजीवानां शनैर्युक्त्याप्रबोधयनिति ।

गुरुभक्तिमन्दाकिन्याख्यव्याख्योपेतम् । , आचारभ्रष्टजीवानां शनैर्युक्त्या प्रबोधयन् ।। भगवन्मार्गशुद्ध्या च कृतार्थीकृतभूतलः ॥ १६ ॥ आचारः संप्रदायशास्त्रोक्तधर्मानुष्ठानं तस्माद्भ्रष्टाश्च्युतास्तद्धी ना इति यावत् ते च ते जीवाश्च तेषामनादिकालाद्धर्महीनानां शनै. स्तत्तदधिकारानुसारेण तत्तबुद्ध्वानुसारेण च क्रमशः यथामन्दोपि जानीयात्तथा भूतया युक्त्या भगवत्प्राप्तिसाधनपरम्परोपदेशेनेत्यर्थः अकृतार्थम् कृतार्थ क्रियते इति कृतार्थीकृतं भूतलं येनसः ॥ १६ ॥ संप्रदायविमुखान् शोचनाह-- हतलोकोयमिति। हतलोकोऽयमज्ञः स्याद्वर्तमाने विभावसोः॥ आचार्यरूपिणः सम्यक् जाड्यशीतेन दाह्यते ॥ १७ ॥ वर्तमानेसमये आचार्यरूपिणो विभावसोः शरणं विनाऽयं हत. लोकः स्यादित्यध्याहृत्यान्वेतव्यं, “पृथक् विनानाने"ति सूत्रात्पञ्चमी, अयं जीवसंघातः हता नष्टा लोका यस्य सः यद्वा हतोलोकः प्रका- शोशानं यस्य सः तथाभूतः सन्नाः स्यात्, सम्भावनायां लिङ् अज्ञत्वेहेतुमाह- जाड्यशीतेन दाह्यते इति । जडस्य भावो जाड्यं तदेव शीतं तेन दाहाते जड़ीकृत्य नाश्य. ते इत्यर्थः। तथा च मोक्षधर्मेजनकः। नविनागुरुसंवन्धं ज्ञानस्याधिगमः कृतः॥ गुरुः पारयिता तस्य ज्ञान प्लवामिहोच्यते इति ॥ १७ ॥ सर्वानप्युपदिश्य वात्सल्याद्यसाधारणगुणयोगात्तद्धितश्रुत्युक्ता- साधारणश्रेयासाधनमुपदिशन्नाह- सत्यवाक्यं च शृणुतेति । सत्यवाक्यं च शृणुत त्यत्रका तर्कवितर्कताम् ॥ आचार्य शरणं यात कलौ निस्तारहेतवे ॥ १८ ॥ हे जना इति सम्बोधनमध्याहर्त्तव्यं, ह जनाः भवतां हितोप-

D
२६
लघुस्तवराजस्तोत्रम्
देष्टुरुद्दिधीमम सत्यं यथार्थमबोधितविषयकं वाक्यं शृणुत ।
किं तद्वाक्यम्, अस्माकं हितं चेतर्हि कथ्यतामित्यत्राह-
तर्कवितर्कता त्यत्का आचार्यशरणं यातेति ।
तव वाक्यर्थाङ्गीकारे श्रेयोऽस्माकं स्याद्वानवेत्यादि सङ्कल्प.
विकल्पादिकं संशयं विपर्ययादिरूपमयथार्थत्वं वा त्यत्का, “संश-
यात्माविनश्यति” “नायंलोकोस्ति न परो न सुखं संशयात्मन""
इत्यादिशास्त्रात्, “सगुरुमेवाभिगच्छत्समित्पाणिः श्रोत्रियं ब्रह्म-
निष्ठम्" "आचार्यदेवोभवे"त्यादिश्रुतेः, "आचार्योपासनं शौच"मिति
भगवदुकेश्व,।
तत्प्रयोजनमाह-
कलौनिस्तारहेतव इति ।
संसारादिति शेषः, संसारभ्रमणदुःखनाशार्थमिति यावत् क-
लिशब्दप्रयोगादस्मिन्युगे आचार्याश्रयणस्य मुख्यत्वं द्योतितम् ॥१८॥
वात्सल्यादिगुणान् दर्शयन्नाह ।
भकानुग्रहकर्त्ताचेति ॥
भक्तानुग्रहकर्ता च सर्वसौख्यप्रदः शुभः ॥
वालवोधी कृपादृष्टिनित्तरहितः परः ॥ १९ ॥
भक्तेभ्यः आत्मानन्यभजनशीलेभ्योऽनुग्रहकर्ता, अनुग्रहोनाम.
स्वात्मीयतयानुग्रहणमात्मसात्करणम् आत्मसात्कतत्यर्थः-
अनुग्रहफलमाह।
सर्वसौख्यप्रद इति ।
सर्व सौख्यं मोक्षलक्षणं ददातीति तथा, यद्वा सर्वेभ्यः सौख्यं प्र-
ददातीति तथा,
अतः शुभ इति, सर्वमङ्गलमूर्तित्वात् स्वयं कल्याणरूपः।
किञ्च वालवोधीति, वाला अज्ञाः शास्त्रसंस्कारवर्जिंतास्तान
वोधनशीलः।
किञ्च कृपादृष्टिरिति, सौम्यदृष्टिरित्यर्थः।
किञ्च निवृत्तरहित इति, नितरांवर्तते इति निवृत्तः प्रकृतिसं-
बन्धस्तद्रहितः नित्यमुक्तत्वात्, अत एव परः पूर्णः श्रेष्ठो वा, ॥१९॥

गुरुभक्तिमन्दाकिन्याख्यव्याख्योपतम् । किञ्च आकारोभक्तिमार्गस्यति । आकारो भक्तिमार्गस्य भेदरनसमन्वितः ॥ अनन्तभावभाक्तिश्च लभ्यतेऽत्र समाहितः ॥ २० ॥ निगमनस्थानं भक्त्युत्पत्तिस्थानमित्यर्थः॥ किञ्चभेदरत्नसमन्वित इति । भिद्यतेऽनेनेति भेदः साक्षात्काररूपानुभवः संशयविपर्ययकोश- हृदयग्रन्थिभेदकत्वात् । भिद्यतेहृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्यकर्माणि तस्मिन्दृष्टेपरावरे ॥ इति श्रुतेः। स एव रत्नरूपस्तेन समन्वितो भूषित इति ।। किञ्च अनन्तभावभक्तिश्चलभ्यतेऽत्रेति। अत्र भगवति श्रीमदाचार्य भगवदूपे अनन्तभावभक्तिर्लभ्यते अनन्तोऽपरिच्छिन्नो भावः स्वभावो यस्याः सा अनवच्छिन्नस्वभा- वा भक्तिरित्यर्थः यद्वा त्वत्तः सकाशात् अत्र भगवति रमानिवासे श्रीकृष्णे विषयेऽनन्तभावभक्तिस्त्वदीयमाना त्वदनन्यभक्तैर्लभ्यते प्रा- प्यत इति योजना। तत्र हेतुमाह- समाहित इति । भवान्सर्वेष्वपि कालेषु स्वाश्रितानां परभक्तिदाने समाहितः सावधानः एतदर्थकावतारत्वाद्भवत इत्यर्थः ॥ २०॥ किञ्च स्वार्थहीन इति । स्वार्थहीनः परार्थी च महोदारदयानिधिः ।। यौवनैश्वर्यसामग्री येन विष्णौ निवेदिता ॥ २१ ॥ स्वस्मै अर्थ्यन्ते इध्यन्ते इति स्वार्थाः शब्दादयो विषयास्तै- हीनस्तत्संकल्पशून्यः स्वभावतोऽस्पृष्टवासनासंस्कारत्वात् । अत एव परार्थी चेति । परेभ्योऽर्थः परार्थः संसारदुःखनिवारणरूपः स विद्यतेऽस्येति २८ लघुस्तवराजस्तोत्रम् परार्थी संसारचक्रभ्रमणदुःखपीडितजनतोद्धरणार्थवान् जगदुदि- धीर्षुरित्यर्थः, यद्वा परस्मैभगवतेऽर्थः परार्थः तदाज्ञाप्रवर्तनरूपो ऽस्य विद्यते स परार्थी भगवदाज्ञारूपभागवतधर्मोपदेष्टेत्यर्थः, परा- र्थित्वादेव महोदारदयानिधिः, अतिमन्देभ्योऽपि स्वप्रपन्नेभ्यो भगव. त्स्वरूपादिविषयकज्ञानदानशीलत्वान्महोदारः “योवाएतदक्षरमवि दित्वा गार्यस्माल्लोकात्प्रेति सकृपण" इतिश्रुत्युक्तकार्पण्यहर्तृत्वात् । कार्पण्यहरणोत्सुक इति वक्ष्यते च । कथमेवंविधस्वभावः, यतोदयानिधिः, निर्हेतुकपरदुःखदुःखि- त्वे सति तन्निराचिकीर्षा दया, तस्या निधिः दयासमुद्र इत्यर्थः महोदारश्चासौ दयानिधिश्चेति तथासः, दयागुणवश्यत्वात्प्रपत्तिमा- त्रेणापि तत्तदीष्टं ददातीति भावः. ननु सर्वोऽपि जनः स्वप्रपन्नाय यथाशक्ति ज्ञानादि दात्येव दयानिधेः कथं प्रपत्तेरपेक्षा तथात्वे वैषम्यापत्ते१र्वारत्वादिति चेन्न, अप्रार्थितोनगोपाये"दित्यादिशा- स्त्रात्प्रपत्तिरपेक्षितैव अन्यथा सर्वमोक्षप्रसङ्गात् वैषम्यस्य तु पक्ष- पातविवर्जित इत्यस्मिन्पदेव्याख्यायामेवपरिहतत्वादलंविस्तरेण,। इदानीं- या वै साधनसंपत्तिः पुरुषार्थचतुष्टये ॥ तया विना तदाप्नोति नरो नारायणाश्रयः। इत्यादिशास्त्रातू, साधनेषु प्रपत्तेरेव प्राधान्यं दर्शयन् तदेव संप्रदायनिष्ठान् शिक्षयंश्च आचार्यकृतां तामेव प्रपत्तिं दर्शयति । यौवनैश्वर्यसामग्री येन विष्णौ निवेदितेति । येनभगवताऽऽचार्येण यौवनैश्वर्यसामग्री विष्णौ सर्वेश्व- रे श्रीकृष्णे निवेदिता सोऽस्मदादीनामुद्धर्ते त्यध्याहृत्य योजनीयं, "ममोद्धाभवार्णवा"दितिवक्ष्यति, यौवनं चैश्वर्य चानयोः समा- हारः यौवनैश्वर्य, तच्च भुक्तिमुत्योरुपायत्वात्सामग्रीत्युक्तम् , तत्र यौवनं यूनो भावः कर्म वा विग्रहवलचेष्टादिकम्, ऐश्वर्यम् निग्रहा- दिसामर्थ्य- निग्रहानुग्रहाभ्यां वै श्रीकृष्णेन समानता। इत्यनन्तरमेव वक्ष्यते। तत्सर्व भगवति निवेदितम् । - गुरुभक्तिमन्दाकिन्याख्यव्याख्योपेतम् । २९ sama । त्वां विना नान्यमुद्दिश्य करिष्ये किश्चिदप्यहम् , ॥ इत्यादिशास्त्रात्, तदनुवृत्यर्थकावतारत्वात् तस्योपलक्षणं चै- तदात्मनोऽपि, तथा च आत्मात्मीयं सर्व भगवदर्थमेव, आत्मात्मी- यभरन्यासो भगवति कृत इत्यर्थः ॥ २१ ॥ अथ श्रीमदाचार्य भगवद्भावं ख्यापयन्नाह- आचार्यों विष्णुरूपो हि पुराणेष्विति निर्णय इति । प्राचार्यो विष्णुरूपो हि पुराणेष्विति निर्णयः ॥ निग्रहानुग्रहाभ्यां वै श्रीकृष्णेन समानता ॥ २२ ॥ आचार्यः साक्षाद्विष्णुरूप एव तथात्वे च सर्वैः सदोपास्य इत्यर्थः। तत्र प्रमाणमाह-- पुराणेविति। तथापाझे- देवद्युतिस्तुतौ। भक्तिर्यथा हरौ मे ऽस्ति तद्वदिष्टा गुरौ यदि ॥ समास्थितेन सत्येन स्वं दर्शयतु मे हरिरिति । विष्णुधर्मे च । देवतायां च मन्त्रे च तथा मन्त्रप्रदे गुरौ । भक्तिरष्टविधा यस्य तस्य विष्णुः प्रसदिति । यद्वा पुरातनत्वात् पुराणशब्दो वेदवाचक इत्युक्तार्थः, वेदेषु. निर्णयोनामनिर्णीतोर्थः, गुरुरेव परं ब्रह्म गुरुरेव परा गतिः । "आचार्यदेवोभवे"त्यादिश्रुतेः, यस्माद्देवो जगन्नाथः कृत्वा मर्त्यमयीं तनुम् । मग्नानुद्धरते लोकान कारुण्याच्छास्त्रपाणिना ॥ तस्माद्भक्तिर्गुरौ कार्या संसारभयभीरुणेति- जगदाख्यानसंहितायाम् ॥ पञ्चरात्रे। वैष्णवज्ञानवतारं यो विद्याद्विष्णुवद्गुरुम् ॥

। लघुस्तवराजस्तोत्रम् पूजयेद्वाङ्मनःकायैः स शास्त्रज्ञः स पण्डितः । श्लोकपादस्य वक्तापि यतः पूज्यः सदैव हि । किंपुनर्भगवद्विष्णोः स्वरूपं वितनोति यः॥ यावदायुस्त्रयः पूज्याः सिद्धान्तो गुरुरीश्वरः । पूर्व ज्ञानाथ पश्चात्तु कृतघ्नत्वापनुत्तये ॥ इति। तत्रैवान्यत्रव्यतिरेके ॥ येषां गुरौ च जध्ये च विष्णौ च परमात्मनि । नास्ति भक्तिः सदा तेषां वचनं परिवर्जयेदिति ॥ एवमन्यान्यपि वाक्यान्यनुसन्धेयानि,। ऐश्वर्यासाधारणगुणों दर्शयन्नाह--- निग्रहानुग्रहाभ्यां वै श्रीकृष्णेन समानतेति । यथा श्रीकृष्णः कंसमिथ्यावासुदेवादीनां निग्रहाधिकारिणां नि- गृहीतवान् पाण्डवोद्धवादीनामनुग्रहाधिकारिणां चानुगृहीतवान् तथैवायमपि भगवत्पराङ्मुखानां शास्त्रवाह्यानां निग्रहं कृत्वा स्व- पादभाजां सदाचारवतां ह्यनुग्रहं करोतीति तत्साम्ये दृष्टान्तः । “यस्य देवे पराभक्ति"रित्यादिना ऽतिदेशवाक्येन तत्साम्यभक्तिः करणीयतया निरूपिता, विशेषशङ्कातु यथाश्रीभगवदुपासनस्य स्वातन्त्र्येण कर्त्तव्यता श्रुतिशतर्विधीयते, न तथा ऽऽचार्योपासने- स्येति, न च "समुद्र मेवाभिगच्छे"दित्यादेः सत्वान्नोक्तदोषयोग इति वाच्यम्, तस्य विधिवाक्यस्य पराङ्गत्वेन स्वन्तत्रविधित्वाभावा- दिति समाधानं तूक्तवाक्यस्य पराङ्गविधानपरत्वेपि गुरोः परमे. श्वरत्वश्रवणात्तदैक्यवाक्यतार्थ स्वातन्त्र्यमप्यविरुद्धम् , । तथोक्तंश्रीनारदपञ्चरात्रे। गुरुरेव परं ब्रह्म गुरुरेव परं धानम् । गुरुरेव परः कामी गुरुरेवपरायणम् ॥ गुरुरेव परा विद्या गुरुरेव परा गतिः । अर्चनीयश्च वन्द्यश्च कीर्तनीयश्च सर्वदा । ध्यायेजपेनमेद्भक्त्या भजेदभ्यर्थयेन्मुदा । उपायोपेयभावेन तमेव शरणं व्रजेत् ।

गुरुभक्तिमन्दाकिन्याख्यव्याख्योपेतम् । शरीरं चासुविज्ञानं वासः कर्मगुणान्वसून् । गुर्वर्थ धारयेद्यस्तु स शिष्यो नेतरः स्मृत इति । अन्यत्रापि। गुरुपादाम्बुजं ध्यायेद् गुरोर्नाम सदा जपेत् । श्रीगुरोर्वा कथां चैव गुरोरन्यन्न भावयेत् । इत्यादिना च गुरूपासनस्य स्वातन्त्र्यविधानादिति संक्षेपः॥२२॥ पूर्वश्लोकेन गुरोः श्रीभगवतासाम्यं निरूपितम्- शास्त्रमुखेनेदानी ततोप्याधिक्यमाविष्कुर्वन् श्रीगुरुंस्तौति । हरौरुष्टइति। हरौ रुष्टेगुरुस्त्राता गुरौ रुष्टे न कश्चन ॥ तस्मात्सर्वप्रयत्नेन प्रसाद्यः सर्वदेहिनाम् ॥ २३ ॥ यद्यपि हरेरप्यसाधारणवात्सल्यादियोगादिना रोषो न भवति तथापि महदपराधादिना तज्ञापनार्थ रोषादिसम्भावना क्रियते जीवादृष्टोपाधिनेतिबोध्यं सचगुरुप्रार्थनया निवर्त्तत इत्याह । गुरुनातेति। श्रीगुरौ रुष्टे तु न कोपि त्राणहेतुरित्याह- गुरौरुष्टेनकश्चनेति । वहियामिणि भगवति गुरुरूपे रुष्टे सति साक्षाद्भगवानपि त्राता न भवति कुतोऽन्य इत्यर्थः। नारायणोऽपयाति गुरोः प्रच्युतस्य दुर्बुद्धेः । कमलं जलादपेतं शोषयति रविनतोषयति ॥ इति जयदाख्यानसंहितावचनात् । ततः किं कार्यमित्यत आह- तस्मात्सर्वप्रयत्नेन प्रसाद्यः सर्वदेहिनामिति । तस्मादन्यगत्यभावात्सर्वदेहिनामिति सर्वैर्देहिभिरित्यर्थः, सर्व प्रयत्नेन येन केन प्रकारेण गुरुरेव प्रसाद्यः प्रसादनीय इत्यर्थः तव एव श्रेय इति भावः। हरौ रुष्टेगुरुस्त्राता गुरौ रुष्टे न कश्चन । तस्मात्सर्वप्रयत्नेन गुरुमेव प्रसादयेत॥ ।

reasons- ३२ लघुस्तवराजस्तोत्रम् इति पुराणोक्तार्थसङ्ग्रहरूपोऽयं श्लोकः ॥ २३ ॥ तस्माच्छ्रीगुरुर्मर्त्यवुया कदापि नाऽवमाननीय इत्यात्मोद्देशेन विश्वं शिक्षयन्नाह- आचार्ये मानुषी बुद्धिर्न कर्त्तव्या कदाचनेति । आचार्ये मानुषी बुद्धिनकर्तव्या कदाचन ।। अस्माभिः श्रेय इच्छद्भिर्यतः स्थानं हि श्रेयसाम्॥२४॥ अस्माभिः आचार्य श्रीभगवन्मनुजावतारे मानुषीबुद्धिः अस्म- दादिवदसावपि मनुष्य एवेति साम्यबुद्धिरध्यवसायः न कर्त्तव्य इति निषेधवाक्यसङ्ग्रहार्थः। यो विष्णोः प्रतिमाकारे लोहबुद्धिं करोति वा। यो गुरौ मानुषं भावमुभौ नरकपातिनौ ॥ इत्यादिनिषेधशास्त्रातू । तत्राधिकारिस्वरूपं दर्शयति ॥ श्रेय इच्छद्भिरिति । श्रेयोविमुखानां कामचारिणां व्यावृत्त्यर्थमिदं विशेषणं तत्र हेतुमाह- यतः स्थानं हि श्रेयसामिति । यतः श्रीगुरोः प्रसादाच्छ्रेयसां सर्वमङ्गलानां स्थानं वैष्णवपदं वैकुण्ठाख्यं परमात्मविषयकानुग्रहो वा लभ्यत इति शेषः, यद्वा यतो यस्माद्धेतोः श्रीगुरोः तदुपासनं वा श्रेयसां स्थानं तस्मान्मानुषी- बुद्धिस्तत्र कदापि न कर्त्तव्येति योजना “साहिविद्यां जनयति तच्छ्रेष्ठं जन्म तस्मै द्रुह्येन्न कर्हिचि"दितिश्रुतिः, । एकाक्षरप्रदातारमाचार्य योऽवमन्यते ॥ श्वानयोनिशतं प्राप्य चाण्डालेष्वभिजायते । इत्यादिस्मृतेश्च" ॥२४॥ इदानीं श्रीमदाचार्याणामनन्तगुणत्वात्तदनुग्रहस्य देशकालादि. निरपेक्षत्वं सर्वसिद्धिहेतुत्वं च निरूपयन्स्तौति । यस्मिन्नहनियहोवेति ।

गुरुभक्तिमन्दाकिन्याख्यव्याख्योपेतम् । यस्मिन्नहनि यद्येव करोति कृपयाऽऽत्मसात् ॥ तयेव सर्वसिद्धिः स्यान्न काङ्क्षा तिथिवारयोः ।। २५ ॥ यस्मिन्निति । सामान्यपदप्रयोगः उत्तमदिवसादिव्यावृत्त्यर्थः, कस्मिंश्चिदपि दिवसे इत्यर्थः, यद्येवेति, यस्मिन्नपि मुहूर्तादौ नक्षत्रतिथ्यादौ न तत्र नक्षत्रति- थ्यादिविचारापेक्षेति अन्ययोगव्यवच्छेदरूपावधारणार्थः, यस्मि- कास्मिश्चिदपि दिवसे नक्षत्रमुहूर्तादौ वा करोति कृपया. ऽऽत्मसात्जीवमित्यध्याहरणीयं कृपयात्मसात्करोति तबैव स. र्वसिद्धिः स्यात् तस्मिन्नेव क्षणे सर्वसिद्धिः स्यादितिवाक्यार्थः, एवकारो ऽन्ययोगव्यवच्छेदार्थक इति स्वयमेव व्यवच्छेद्यं दर्शय ति, नकासातिथिवारयोरितिस्पष्टार्थः, नक्षत्रादीनामप्युपलक्षणं वोध्यं, ननु यदि सिद्धिहेतूनां पुष्यादिनक्षत्राणां सिद्धादियोगा- नां तथैवोत्तमवारतिथ्यादीनामभावस्तर्हि कार्यसिद्धिरपि दुर्निरू- प्या कारणाभावे कार्याभावस्य नियतत्वादित्याशङ्ख्यात्यन्तायोग- व्यवच्छेदार्थकेन तत्र प्राप्तेनैवकारेण परिहरति स्यादेवेति नस्या- दिति न अपितुस्यादेवेत्यर्थः, ननु कारणाभावे कथंसिद्धिरितिचेत्तत्राह- कृपयेति । भवतः श्रीमत आचार्यस्य कृपाकामधेनुरूपायाः प्रधानवी. जभूतायाः सत्वान्न कारणाभावशङ्कावकाशइत्यर्थः, यावै साधनसंपत्तिः पुरुषार्थचतुष्टये । तया विना तदाप्नोति नरो नारायणाश्रयः ।। इतिस्मृतेः। “यमेवैष वृणुते तेन लभ्य इतिश्रुतेः॥ २५ ।। अथसंस्कारदातृत्वेन स्तुवन्नाह । पञ्चसंस्कारदायीचेति । ५ ३४ लघुस्तघराजस्तोत्रम् पञ्चसंस्कारदायी च ममोहर्ता भवार्णवात् तेषां प्रत्युपकारार्हो न कोपि जगतीतले ॥ २६ ॥ संस्कारो नाम कार्यान्तरयोग्यतापादनं, यथा ब्राह्मणाद् ब्राह्मण्यां जातोपि उपनयनं विनाऽध्ययनयोग्यता नास्ति, तेन चाध्ययन- योग्यतापादनं तथैव तापादिसंस्कारेण भगवत्परिचर्यादियोग्यता. पादनं वैष्णवत्वं संस्कारः, स च पञ्चविधः। तापः पुण्डू तथा नाम मन्त्रो यागश्च पञ्चमः ॥ अमी हि पञ्च संस्काराः परमैकान्तहेतवः। इतिनारदपञ्चरात्रोक्तेः॥ तत्र तापो नाम श्रीविष्णोरायुधशङ्खचक्रादिधारणम् । तथासामवेदे। "पवित्रमग्निः अग्निवै सहस्त्रारः सहस्रारो नेमिः नेमिना तप्त- तनुाह्मणः सायुज्यसालोक्यमाप्नोतीति" "सहोवाच याज्ञवल्क्यः तस्मात्पुमानात्महिताय प्रेम्णा हरि भजेद्यत्सुश्लोकमौलेर्ध- भीण्यग्निना संधत्ते तस्माद्धामैव ब्रह्मविदाप्नोतिपरमिति” ,पवित्रं ते विततं ब्राह्मणस्य ते प्रभुर्गात्राणि पर्येषि विश्वतः अतप्ततनु नतद्धामाऽश्नुते शृतास इद्वहन्तस्तत् समास" इति “एभिर्वयमुरुक- मस्य चिरङ्किता लोके सुभगा भवेम तद्विष्णोः परमं पदं येऽभि. गच्छन्ति लाञ्छिता" इत्यादि श्रुतिभ्यः । तद्धारणनियमस्थानानि चत्वारि ज्ञेयानि ।। नैमिषे मथुरायां च द्वारवत्यां तथैव च । सुदर्शनाश्रमे चैव संस्कुर्याद्देशिकः सदा ।। तप्तैश्चक्रादिभिर्विष्णोः शिष्यस्वाराज्यलब्धये । एषु स्थलेषु चक्रादेराविर्भावः सदा हरेः॥ इत्यभियुक्तोक्तेः। विशेषस्तु गुरुनतिवैजयन्त्यामुक्तः ॥ अन्यत्र स्थलेषु कञ्चित्कालं शीतलमुद्रामेय धारयेदितिभावः ।। विस्तृतश्च पूर्वाचार्यैस्तत्प्रकारविशेषः श्रीसदाचारप्रकाशे ॥ १॥ अथपुण्डम् ।

गुरुभक्तिमन्दाकिन्याख्यव्याख्योपेतम् । ३५ धृतो पुण्ड्रः परमेशितारं- नारायणं सांख्ययोगाभिगम्यम् । ज्ञात्वा विमुच्यते नरः समस्तैः। संसारपाशैरिह चैव विष्णुम् । इति महोपनिषदि । धृतोद्धपुण्ड्रः श्रितचक्रधारी। स्वरेण मन्त्रेण सदा हृदि स्थितम् ।। परात्परं यो महतो महान्तम् ।। इति कमठशाखायाम् । तिलकस्वरूपं च यजुर्वेदे हिरण्यकशिशाखायाम् ।। "हरेः पादाकृतिमात्मनो हिताय मध्ये छिद्रमूर्द्धपुण्ड्यो धारय- ति स पुण्यभाग्भवति स मुक्तिभाग्भवती"त्यादिश्रुतिभ्यः । तिलकद्रव्यं च प्रधानं गोपीचन्दनमेव श्रौतत्वात् । "सहोवाच भगवान्वासुदेवो वैकुण्ठस्थानोद्भवं मम प्रीतिकरं मद्भक्तैर्ब्रह्मादिभिर्धारितं विष्णुचन्दनं ममाङ्गे प्रतिदिनमालिप्तं गो. पीभिः प्रक्षालनाद् गोपीचन्दनमाख्यातं मदङ्गलेपनं पुण्यं चक्रती. ऑदिसंस्थितं शङ्खचक्रसमायुक्तं पीतवर्ण मुक्तिसाधनं भवति । इत्यादिश्रुतिभ्यः। तदभावे गङ्गातीर्थीद्युद्भवं तुलसीमूलस्थितं वा द्रव्यमपि ग्राह्य- मेवेतिसंक्षेपः॥२॥ नामेति। वैष्णवी समाख्यति यावत्, “अङ्कयेच्छङ्खचक्राभ्यां नाम कुर्या- व वैष्णवम्" इत्यादिश्रुतेः, तञ्च श्रीहरिगुरुतत्क्षेत्रादिसम्बन्धवदेव धार्य नान्यत्तत्सम्बन्धशून्यं तदन्यसम्बन्धवद्वतिविवेकः ॥ ३ ॥ मन्त्रस्तुवैष्णवः स्वसम्प्रदायपरंपराप्राप्त एव ग्राह्यो देयश्च, "अमुं पञ्चपदं मनुमावर्तयेद्यः स यात्यनायासतः केवलं तत्पदंतत्" इति श्रुतेः, यश्च श्रीरामकृष्णादिमन्त्रा न मुक्तिहेतवस्तदुपास- कानां फलविशेषमात्रदायका अपितु नारायणादिमन्त्र एव मो- क्षहेतुरिति केषांचित्स्वबुद्ध्युत्प्रेक्षित उद्घोषः स तुच्छ एवानुप- पन्नत्वात् , तथाहि श्रीकृष्णादिमन्त्राणां मोक्षहेतुत्वं प्रमाणाभा- वावा वाधकसत्त्वावेति विवेचनीयं, नाद्यः "अमुं पञ्चपदं मनु" ६ लघुस्तवराजस्तोत्रम् मित्यादिश्रुतीनां विद्यमानत्वात्, नापिद्वितीयः अप्रसिद्धत्वात् , यदि स्वानुभव एव प्रमाणं तर्हि तद्विपरीतस्यापि वक्तुं शक्यत्वा- त, किञ्च श्रीकृष्णमन्त्रस्य मुक्तिसाधकत्वं भवतामनिष्टं तर्हि त. चरमोपदेशश्लोकस्यापि तद्विषयकत्वेन तुल्ययोगक्षेमात्तस्यानुष्ठा- नमपि व्यर्थमेव, किमर्थ नित्यजाप्यतया तस्य स्थापनं मन्त्ररह- स्येषु संग्रहश्च, किञ्च श्रीनारायणात् श्रीकृष्णादिलीलावताराणां भिन्नत्वमभिन्नत्वं वा भवतामभिप्रेतं, भेदपक्षेऽपि स्वरूपभेदो गुणशक्तयादितारतम्यं वा, नाद्यः परमेश्वरस्यानेकत्वापत्तेः, - हाक्यप्रतिपादकं सर्वमपि वेदान्तशास्त्रं दत्ततिलाञ्जलि स्यात्, गुणशक्त्यादितारतम्याङ्गीकारेऽपि- मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय । अहं सर्वस्य प्रभवो मत्तः सर्व प्रवर्तते ॥ अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः। इत्यादिश्रीमुखोक्तयः- परं ब्रह्म परं धाम पवित्रं परमं भवान् । इत्यारभ्य- सर्वमेततं मन्ये यन्मां वदासि केशव ॥ इत्यन्तं श्रीपार्थोक्तयः अथ निरवधिकातिशयकल्याणकतानान- न्तज्ञानानन्दैकस्वरूपः स्वाभाविकानवधिकातिशयज्ञानशक्तिवलै- श्वर्यधैर्यतेजःप्रभृत्यसंख्येयकल्याणगुणमहोदधिरित्यारभ्य ह्मभूतः पुरुषोत्तमो नारायणो ब्रह्मादिस्थावरान्तनिखिलजगत्स्त्र टा स्वरूपेणावस्थितो ब्रह्मादिदेवमनुष्याणां ध्यानार्चनाद्यगोचरो ऽपारकारुण्यसोशील्यौदार्यमहोदधिः स्वमेव रूपं तत्सजातीयसं. स्थानं स्वस्वभावमजहदेव तेषु लोकेष्ववतीय तैस्तैराराधितस्त- त्तदिष्टानुरूपं धर्मार्थकाममोक्षफलं प्रापयन् भूभारावतारणापदे- शेनास्मदादिनामपि संसारदुःखशमनाय सकलमनुष्यनयनविष. यतां गत इत्यादिभाष्यारम्भः “मत्तः परतरं नान्य"दित्यस्यापि यथा सर्वस्यापि प्रकृतिद्वयस्य कारणत्वेन सर्वाचेतनवस्तुशेषि- णश्चेतनस्यापि शेषित्वेन कारणतया शोषितया चाहमेव परत- रस्तथा ज्ञानशक्तिवलादिगुणयोगेन चाहमेव परः मत्तो व्यति. परब.

गुरुभक्तिमन्दाकिन्याख्यव्याख्योपेतम् । रिक्तं सञ्चित्ज्ञानवलादिगुणयोगि परतरं नास्तीति भवतामाचा- यभाष्यम् परं ब्रह्म परं धाम इत्यस्य श्लोकस्य भाष्ये उदाहृतानि श्रीतवाक्यानि “यतोवाइमानि भूतानि जायन्ते" इत्यारभ्य “परंज्यो- तीरूपं सम्पये"त्यन्तानि- "आहुस्त्वामृषयः सर्वे" इत्यस्य भाष्ये चोक्तानि- एष नारायणः श्रीमान् क्षीरार्णवनिकेतनः॥ नागपर्यमुत्सृज्यहागतो मथुरां पुरीम् । पुण्या द्वारवती तत्र यत्रास्ते मधुसूदनः ॥ साक्षाद्देवः पुराणोऽसौ स हि धर्मः सनातनः । ये च वेदविदो विप्रा ये चाध्यात्मविदो जनाः ॥ ते वदन्ति महात्मानं कृष्णं धर्म सनातनम् । पवित्राणां हि गोविन्दः पवित्रं परमुच्यते ॥ पुण्यानामपि पुण्यो ऽसौ मङ्गलानां च मङ्गलम् । त्रैलोक्यं पुण्डरीकाक्षो देवदेवः सनातनः ॥ आस्ते हरिरचिन्त्यात्मा तत्रैव मधुसूदनः । यत्र नारायणो देवः परमात्मा सनातनः ॥ तत्र कृत्स्नं जगत्पार्थ तीर्थान्यायतनानि च । तत्पुण्यं तत्परं ब्रह्म तत्तीर्थ तत्तपोवनम् ॥ तत्र देवर्षयः सिद्धाः सर्वै चैव तपोधनाः । आदिदेवो महायोगी यत्रास्ते मधुसूदनः ।। पुण्यानामपि तत्पुण्यं माभूत्ते संशयोऽत्र वै । कृष्ण एव हि लोकानामुत्पत्तिरपि चाप्ययः॥ कृष्णस्य हि कृते भूतमिदं विश्वं चराचरम् । इत्यादीन्यार्षवाक्यानि दत्ततिलाञ्जलिकानि स्युः, किञ्च गुणश. त्यादितारतम्याङ्गीकारेऽनीश्वरत्वप्रसङ्गः स्यात् लीलावतारोऽनी- श्वरः ऐश्वर्यतारतम्ययोगात् ब्रह्मरुद्रादिवदित्यनुमानात्, "न त त्समश्चाभ्यधिकश्च दृश्यते । नत्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यः ॥ इत्यादिश्रुतिस्मृतिव्याकोपाच्च । अपिच युष्मत्संप्रदायप्रवर्तकस्य भाष्यकारस्य भाष्यानङ्गी- लघुस्तवराजस्तोत्रम् करणे भवतामेवाचार्यविमुखत्वापत्तिर्दुर्वारोत द्वितीये भवतांप्र- तिज्ञाभङ्गात् अस्माकमिष्टापत्तेश्च । तस्मात्सर्वेषामपि वैष्णवमन्त्राणां मोक्षहेतुत्वमेव, सकामा- धिकारिणां च कामपूर्तये [पासनात्तेषां मोक्षाभावो निर्विवा- दः, नारायणमन्त्रेपि तस्य तुल्यत्वादित्यलविस्तरेण ॥४॥ यागश्चति- यागो नाम श्रीविष्णोरर्चावतारः श्रीशालग्रामादिः "यज्ञोवै. विष्णु"रिति श्रुतेः, तदर्चननियमः पञ्चमसंस्कार इति सोपः, पञ्च- मशब्दः अधिकसंख्याब्यावृत्त्यर्थः, एषां संस्काराणां इति यावत् चकारात् तदनुष्ठानप्रकारोपदेष्टापि बोध्यम् । अथ स्वस्मिन् श्रीगुरुकृतोपकारान् स्मरन्नाह- ममोद्धाभवार्णवादिति । यद्यपि नित्यमुक्तत्वात् प्रत्युत संसारिजनतोद्दिधीर्षयावतीर्ण- स्वाञ्च न तत्र क्लेशादिसंसारिकर्मयोगसंभावनाद्यवकाशशङ्कापि, तथापि लोकसंग्रहार्थ तथोक्ति ने विरोधावहा, यथा श्रीनारदस्य भगवदवतारत्वेपि अशजनान गुरूपसत्तिप्रकारं संजिग्राहयिषया श्री- सनत्कुमारस्याने स्वशोकादिसंसारधर्माणामाविष्कारः “सोहंभगवः शोचामी"त्यादिश्रुतिमुखोत्या, यथावा श्रीपुरुषोत्तमस्यावतारच. रिते लोकवल्लीलानुकरणत्वान्ननिर्दोषादिविरोधस्तद्वदत्राप्यनुसन्धे. यम्, एवमेव पूर्वोत्तर उक्तवक्ष्यमाणवाक्येष्वपि विवेको शेयः,अन्यथा "शङ्खावतारः पुरुषोत्तमस्येत्यादिविश्वाचार्यवाक्यविरोधो दुर इति संक्षेपः। एवं चेत् तर्हि त्वया तत्प्रत्युपकारार्थमवश्यं प्रयतितव्यमित्याशयाह- तेषां प्रत्युपकारा) न कोपि जगतीतल इति । तेषां श्रीमदाचार्यकृतोपकाराणां प्रत्युपकर्तुं योग्यः प्रत्युपका- रसमर्थ इति यावत् न कोपीति, जगतीतले भूतले न जातो न जनिष्यति न वर्तते मनुष्यमात्र इत्यर्थः, जगतीत्युपलक्षणार्थ स्वर्गा. दीनां तत्रत्यैर्देवैरप्यशक्यमित्यर्थः । ब्रह्मविद्याप्रदानस्य देवैरपि न शक्यते । प्रतिप्रदानमथवा दद्याच्छक्तित आदात् । इति स्मृतेः । , गुरुभक्तिमन्दाकिन्याख्यव्याख्योपेतम् । ३९ - यद्वा न कोपीति धरातले उपायो लोके वेदे च नास्तीति, अदृश्यत्वादित्यर्थः ॥ २६ ॥ अथ स्वदैन्यमाविष्कुर्वन् प्रार्थयते । कश्मलक्रोधग्रस्तोऽहम् इति । कश्मलक्रोधग्रस्तोऽहमविद्याग्रन्थिपीडितः मामुद्धर जगन्नाथ चिरकालस्य दुःखिनम् ॥ २७॥ कश्मलक्रोधाभ्यां प्रस्तो वशीकृतः । तत्र हेतुमाह- अविद्याग्रन्थिपीडित इति! सर्वदोषभूतानादिकात्मिकाविद्याग्रन्थिना पीडितः' यान्त्रितः हे जगन्नाथ चिरकालस्यानादिकालस्य दुःखिनं तं पूर्वोक्तकश्म- लादिनुन्नं मामसाधारणकारुण्यादियोगेनोद्धर । जगन्नाथेति संबोधनं स्वोद्धरणहेतुद्योतकम् । यस्मात्वं जगदुद्धारकः ममापि जगदन्तःपातित्वाविशेषादव. श्योद्धरणीयत्वमिति भावः ॥ २७ ॥ ननु अन्येपि समुद्धरणहेतव उपायाः शास्त्रेषु प्रसिद्धास्ताननु ष्ठाय कृतार्थो भविष्यसीति चेत्तत्राह- किं करोमीति। किंकरोमि वगच्छामि त्वत्तो ऽन्यन्न हि दैवतम् सर्वे स्वार्थपरिभ्रष्टा दृश्यन्ते जगतीतले ॥२८॥ न किंचिदुपायानुष्ठानं कर्तुं शक्कोस्मीति,उपायानां तदनुष्ठातॄणां च स्वातन्त्र्याभावातू, अनुष्ठानेपि अनुग्रहसहायं विना अकिंचित्कर- त्वाच, "नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन शु. ण्वन्तोपि ववो न विद्यु"रित्यादिना साधनानां व्यभिचारश्रवणात् तस्मात्त्वमेव शरण्यत्वेन मया वरणीय इत्याह । कगच्छामीति॥ तत्रहेतुमाह । इति ॥ ande ne लघुस्तवराजस्तोत्रम् स्पष्टार्थः । ननु अनुग्रहकर्त्तारोप्यनेके ब्रह्मादयः उपास्यत्वेन प्रसिद्धास्त- दाश्रितो भूत्वा कृतकृत्यो भव किं मच्छरणेनेत्याशझ्याह । सर्व स्वार्थपरिभ्रष्टा दृश्यन्ते जगतीतले । इति । सर्वेपि ब्रह्मरुद्रेन्द्रादयो देवाः जगतीतले लोकत्रयेपि स्वार्थपरि- भ्रष्टाः स्वार्थो भगवत्स्वरूपादिविषयकानुभूतिविशेषः स्मृतिसंता- नरूपो वा तस्मात्परिभ्रष्टास्तद्रहिता इत्यर्थः दृश्यन्ते इत्यत्र शास्त्रे. वितियोजनीये, तथाच । प्रजापतिं च रुद्रं चाप्यहमेव सृजामि वै। तो हि मां न विजानीतो मम मायाविमोहितौ ॥ इत्यादिवाक्यात् । ब्रह्माद्याः सकला देवा मनुष्याः पशवस्तथा ॥ विष्णुमायामहावर्त्तमोहान्धतमसा वृताः। आराध्यं त्वामभीप्सन्ते कामानात्मविशुद्धये ॥ इति वैष्णवे अदितिवचनं च । ते परजन्यत्वात् परोपशिक्षितत्वात् परदत्तपरिच्छिन्नैश्वर्यव- स्वात् कर्मतन्त्रत्वाञ्च नाश्रयणीया इति यावत्, स्वस्य त्राणएवा- शक्ताः परत्रातृत्वस्य तु का वार्तेति भावः, अस्य विस्तरस्तु "नान्या गतिः कृष्णपदारविन्दा"दित्यस्य विवरणे श्रीपुरुषोत्तमा- चार्यचरणैर्विशदीकृतत्वादत्रोपरम्यते “अथ ये ऽन्यथा ऽतो वि. दुरन्ये राजानस्तेक्षय्यलोका भवन्ती"ति श्रुतेः, व्याख्याताचेयं श्रीपुरुषोत्तमाचार्यपादैः, भूमोपासनस्य सार्वज्ञाद्यनवच्छिन्नफलं निरूप्य, अथोक्तोपासनदाढ्यार्थ परिच्छिन्नोपास्यविषयकपरिच्छिन्नफल- कान्यदेवाद्युपासनपरान् मूढान्निन्दति भगवतीश्रुतिः । अथेति पक्षान्तरे, अत उपदिष्टसिद्धान्ताद्विपर्ययं देवान्तरमुपा- स्थत्वेन निश्चितवन्तः कथमिव जानन्तीत्यपेक्षायां ज्ञानस्यानु- करणमाह अन्येराजान इति । - गुरुभक्तिमन्दाकिन्याख्यव्याख्योपेतम् । ४१ अन्ये ब्रह्मरुद्रादयोऽपि राजानः उपासिताः सन्तो मोक्षदा- तारः स्वतन्त्रा मोक्षार्थिनोपासनीया इति ते क्षय्यलोका भवन्ति स्वर्गपशुपुत्रादयो जन्मादिलक्षणहेतवो लोकाः फलानि भवन्ति । अन्तवत्तु फलं तेषांतद्भवत्यल्पमेधसाम् । आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन ॥ इति भगवदुक्तेः। किञ्च तेषां क्षेत्रशत्वाविशेषेण मोक्षदातृत्वाऽपरिच्छिन्नश्वया. दियोगाभावात् मोक्षदानानहत्त्वं शिवनवोकं स्वानुभूतं चाह घण्टा- कर्णाहरिवंशे। अहंकैलाशनिलयमासाद्य वृषभध्वजम् । आराध्य तं महादेवमस्तुवं सततं शिवम् ॥ ततः प्रसन्नो मामाह वृणीष्वति वरं हरः । ततो मुक्तिर्मया तत्र प्रार्थिता देवसन्निधौ ॥ मुक्तिम्प्रार्थयमान् मा पुनराह त्रिलोचनः । मुक्तिप्रदाता सर्वेषां विष्णुरेव न संशयः॥ तस्माद्गत्वा वदरी तत्राराध्य जनार्दनम् । मुक्ति प्राप्नुहि गोबिन्दासरनारायणाश्रमे ।। इत्यादिना। भारते कर्मपारतन्त्र्यमपि स्फुटमेव ॥ युगकोटिसहस्राणि विष्णुमाराध्य पद्मभूः । पुनस्त्रैलोक्यधातृत्वं प्राप्तवानिति शुश्रुमः । इति । महादेवः सर्वयज्ञे महात्मा । हुत्वात्मानं देवदेवो वभूव। विश्वाल्लोकान् व्याप्यविष्टभ्यकीया। विराजते द्युतिमान् कृत्तिवासाः। इति। कालपरिच्छेदोपि श्रूयते । एको ह वै नारायण आसीनब्रह्मानेशान इत्यादि। किञ्च “योन्यांदेवतामुपास्ते अन्यो ऽसावन्योऽहमस्मिन् सके. द यथा पशु"रित्यादिना तदुपासकानां पशुत्वश्रवणाच्च, यद्वा ६ लघुस्तवराजस्तोत्रम् स्वार्थपरिभ्रष्टत्वं नाम स्वार्थपरत्वेन परेषां धर्महानिकर्तृत्वं तत्र सकामानां स्वर्गादिसाधनतपोयोगादिभ्रंशकत्वं कन्दुवि. श्वामित्रादिचरिते प्रसिद्ध, निष्कामानां साधनभ्रंशे तु तेषां सा- मर्थ्यमेव नास्तीतिविवेकः, "तस्य ह न देवा नाभूत्या ईशत' इति श्रुतेः, हनेत्यव्ययपदम् अप्यर्थे, देवा ब्रह्मरुद्रादयोऽप्यस्य नि- कामानन्यभक्तस्य विदुषः अभूत्यै पराभवाय न ईशते समर्था न भवन्तीत्यर्थः, तथापि विघ्नाचरणं तेषां स्वभाव एव पर). योऽसहिष्णुत्वात् “यदेतद्ब्रह्म मनुष्या विशुस्तदेषां देवानामप्रिय"मि. तिश्रुतेः ॥ २८॥ किञ्च अनन्यशरणत्रातेति । अनन्यशरणत्राता रक्षकः शरसंमतः॥ निरयक्लेशसन्त्रस्त आगतोऽस्मि तवान्तिके॥२९॥ नान्यः शरणमुपायादिश्रेयोहेतुर्येषां ते ऽनन्य शरणाः स्वपाद- मूलैकसाधनकास्तेषां त्राता रक्षकः सर्वेषां भक्तानामितिशेषः । किञ्चशरसम्मत इति॥ श्वासात्मना शरति ब्रह्मणो निःशरतीति शरो वेदः "अस्य म. हतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेद" इति श्रुतेः, तस्य सम्मतस्तत्तुल्यः यथा मात्रादेरपि वत्सलतरो वेदो जीवानां पुरुषार्थबोधनेन तद्रक्षकस्तद्वत् , यद्वा शरति निश्शर- त्यस्माद्विश्वमिति शरः श्रीभगवान् पुरुषोत्तमस्तत्सम्मतस्ततुल्यः तदनुकूलो वेति, तत्र त्राता रक्षक इत्यनयोः सामान्यविषयप- रत्वेन पुनरुक्तिर्निरसनीया, तत्र त्रातृत्वं बुद्ध्यादीनां कामादिवि- षयेभ्यो विमुखीकर्तृत्वं, रक्षकत्वं च वहिःकरणानां शब्दादि- भ्यो रक्षणमिति विवेकः, उक्तलक्षणस्य त्रातुस्तव अन्तिके च चरणयोः छायायामागतोऽ. स्मि प्राप्तोऽस्मि कुत इत्यपेक्षायां हेतुमाह- निरयक्लेशसंत्रस्त इति । निरये रोरवादी ये क्लेशा यमकिङ्करयातनोद्भवास्तेभ्यो ऽति. PARAN गुरुभक्तिमन्दाकिन्याख्यव्याख्योपेतम् । शयेन त्रासमापन्नः, उपलक्षणंचैतत् जन्ममरणादिलक्षणसंसारचक्र- स्य, संसारचक्रभ्रमणाञ्च संत्रस्त इति ॥ २९ ॥ वेदनां गर्भसम्बन्धं नाऽश्नामि त्वदनुग्रहात् ॥ तथा साधय मां देव पाहिपाहि कृपानिधे ॥ ३० ॥ हे देव त्वदनुग्रहात् तव कारुण्यादिगुणयोगजन्मप्रसादतः गर्भ- संवन्धं जन्मादिजन्यदुःखं वेदनां मरणाद्यवस्थाजन्यं च दुःखं यथा नाइनामि नानुभवामि तथा मां पाहि पाहि संसारादिति शेषः, अत्यादरे वोप्सा, कथंरक्षणीयइत्यपेक्षायां तत्प्रकारं प्रार्थयते । तथा मां साधयेति ॥ शिक्षयेत्यर्थः। रक्षणेहेतुमाह- कृपानिधे इति। स्वाभाविकयावदात्मवृत्तिपरिपूर्णकृपादिसद्गुणानां निधिरनपा- यिनिवासस्थानं, निधीयतेऽस्मिन्निति निधिरित्यधिकरणव्युत्पत्तिा- ध्या, तस्य सम्बोधनमेतत् , ननु कृपादिगुणयोगे सत्यपि सामर्थ्या- भावे कथं रक्षामीति चेत्तत्रोक्तम्- देवेति। सर्वज्ञाद्यखिलसामर्थ्यसम्पन्नस्त्वमसीति भावद्योतनार्थमिदं द्वि- तीयं सम्बोधनम् ॥ ३०॥ ननु "ऋतेज्ञानानमुक्तिः" "तमेवविदित्वातिमृत्युमेती"त्यन्व- यव्यतिरेक श्रुतेः, यद्वा "भक्तिरेवैनं दर्शयती"त्यादिश्रुतेः, परया भक्त्यैव श्रेयः प्राप्तिरिति, ते च ज्ञानभक्ती बुद्धिशुद्धिसापेक्षे, बु- द्धिशुद्धिश्च स्ववर्णाश्रमोचितधर्मानुष्ठानेन, धर्मानुष्ठानं शास्त्रोक्त- विध्यपेक्षितमिति वैदिकानां प्रक्रिया, तथा च विधिनिर्णीतस्ववर्णाद्य- नुकूलधर्मानुष्ठानेनान्तःशुद्धिं सम्पाद्य ज्ञानभक्त्येकतरेण मुक्तः स्याः किं मच्छरणेनेति चेत्तत्राह- विध्यविधी न जानामीति । Noman लघुस्तब राजस्तोत्रम् विध्यविधी न जानामि न जानामि त्वदचनम् ।। स्वीयानुग्रहभावेन भनाकामं प्रपूरय ॥ ३१ ॥ अयं विधिस्तेनायं धर्मो विधेयः अयमाविधिनिषेधस्तेनायम. धर्मों निषिद्ध इत्येतदहं न जानामि तथाभूतं ज्ञानं नास्तीत्यर्थः, यदि तद्विषयकज्ञानमेव नास्ति, तर्हि तदनुष्ठानस्य का वाति भावः, ननु कर्मणो दुज्ञेयत्वात् “गहना कर्मणो गति"रिति भगवद्वच. नातू, तथापि अर्चनादेः सौकर्यात्तदेवानुष्ठेयं, तस्यापि श्रेयोमूलत्वा- दिति चेत्तत्राह, नजानामि। त्वदर्चनविषयकज्ञानस्यैवाभावस्तदनुष्ठानस्य तु को प्रसङ्ग इत्यर्थः, ननु साधनाभावे कथमिव फलासद्धिरित्या- शझ्याह- स्वीयानुग्रहभावेन मनःकामं प्रपूरयोति । स्वीयश्चालाउनुग्रहश्च स्वीबध्वजन्यमयु वाऽनुग्रहस्तस्य भा- वो विषयता तेन स्त्रीयानुप्राविषयीकरणेनेति यावत्, मनःका- में काम्यते मुमुक्षुभिरिति कामः श्रीभगवद्भावापत्तिलक्षणो मो- क्षः मनःकामशब्दाभिधेयस्तं सर्वेषां साधनानां तवानुग्रहकि- करत्वात् तेनैव सर्वसिद्धिः सुलभेति तात्पर्यार्थः, “यमेवैष वृणु- ते तेन लभ्यः” "तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्म- हिमानमात्मन” इत्यादिश्रुतेः, ननु साधनान्तराभावे ऽनुग्रहमा- त्रेण सिञ्चङ्गीकारे नैर्वृण्यादिदोषप्रसङ्गात्साधनविषयकशास्त्र- ब्याकोपाच्चति चेत्सत्यं, त्वदनुग्रहयोगात् तत्क्षणमेव सर्व. साधनसम्पत्तेः सम्भवात् उभयोरपि साधनसाध्ययोस्त्वदनुग्रह- प्रयुक्तत्वादिति ब्रूमः , यथा स्तनन्धयवालस्य रोगापत्तौ औषध. भक्षणानहत्वेन तन्मात्रौषधभक्षणादेवौषधभक्षणरोगनाशौ तत् स्तनपानेनैव भवतः, तथा सर्वसाधनानुष्ठानानहस्यापि मम त्व- दनुग्रहेणैव साधनसाध्ययोः सिद्धिः सम्भवत्येवेति भावः ३१ ॥ सर्वसाधनहीनत्वं दर्शयन् प्रार्थयतेद्वाभ्यां- HERE गुरुभक्तिमन्दाकिन्याख्यव्याख्योपेतम् । नियताचारहीनोहमिति । नियताचारहीनोऽहं कामुको लोभलम्पटः ॥ नियमानन्ददासोऽयमित्याकर्ण्य गिरां प्रभो ॥ ३२ ॥ यथा न लज्जसे धीमन तथा सम्पादय क्रमात तवावतारो भूतानां लोकदयविधायकः ॥ ३३ ॥ - "अहरहः संध्यामुपासीत' "यावजीवमग्निहोत्रं जुहोती' इत्यादिविधिना विहितो धर्मो नियताचारस्तेन हीनो ऽस्मि । नियतस्य तु सन्यासः कर्मणो नोपपद्यते । मोहात्तस्य परित्यागस्तामसः परिकीर्तितः । सन्ध्याहीनो ऽशुचिनित्यमनर्हः सर्वकर्मसु । इत्यादिनिषेधस्य विषयोऽस्मीतिभावः । अत एव कामुको लोभलम्पटइति । शुद्धिहेतुभूतधर्मयोगाभावात् प्रत्युत तत्प्रतिभटकामलोभादि- योगात् सर्वपापिष्ठाधिराजो नरकनिष्ठा.स्मीति भावः, त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । कामः क्रोधस्तथा लोभस्तस्मादेतत्रयं त्यजेत् । इतिभगवदुक्तेः। ननु यद्येवंभूतोऽसि तर्हि- अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् । नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि । इत्यादिशास्त्रात्स्वकृतं त्वया ऽवश्यं भोक्तव्यमेव कथं मया ऽनु. ग्रहणीय इत्याशङ्ख्य स्वस्य लज्जानिवारणार्थमित्याह । नियमानन्ददासोऽयमिति । अयममुको नियमानन्दस्य सर्वज्ञसर्वशक्तिविष्णुरूपस्य दासो भूत्वा कामादिदोगग्रस्तत्वान्नरकं प्राप्स्यते इति या लोकानां गिरा राशि चामात्यदोषाः स्युः पत्नीदोषाश्च भर्तरि । तथा शिष्यार्जितं पापं गुरुं प्राप्नोति निश्चितम् । इति शास्त्रीया च या गिरा तामाकर्य श्रुत्वा त्वं यथा न लजसे लजां न गच्छसि तथा मां क्रमात्सम्पादय, आmar ।

लघुस्तवराजस्तोत्रम् क्तिदानादिभिः पूरणीयोऽहं भवता, हे प्रभो हे धोपन् इति सम्बोधनाभ्यां सर्वसामर्थ्य सार्वज्ञादिपराभ्यां समर्थानां सर्वज्ञानां स्वाकीर्तिगिराश्रवणमतिदुःसहमिति सूचयति, अं- स्माकं तु न दोषावहं निरयप्राप्तिश्रवणवत् दुःखहेतुत्वं नास्ति नुकूल्यसङ्कल्पादिषउङ्गान् सम्पा(१)दयित्वा स्वात्मसात्कृत्वा परभ. परं तु भवतोऽकीर्तिश्रवणमस्माकमपि दुःसहमेव, अतो ममान- ङ्गीकारे उभयत्राऽनिष्टतमो दोषयोगः, अङ्गीकारे च उभयत इष्ट- योगः इतिविचार्य स्वकीर्तिलाभाय चाहमवश्यमनुग्रहणीय इतिभावः, यद्वा ननु स्यादेतद्यदि तथाभूताधमोद्धरणे मम शक्तिः स्यान तु साऽस्ति तस्मादकीर्तिश्रवणोद्भवं दुःखं मयाऽवश्यं सोढव्य. मित्याशङ्कामुक्ताभ्यां सम्बोधनाभ्यां निराकरोति हे प्रभो सर्वसा. माश्रय हेधीमन् सर्वज्ञानाश्रय तव किञ्चिदप्यशक्यं नास्तीतिभावः। ननु सर्वशक्त्यादियोगेपि किमिति आत्मसात्करणीयोऽसि हे- त्वभावादित्याशझ्याह। तवाऽवतारो भूनानां लोकद्वयविधायक इति । लोकद्वयविधानं चात्र निःश्रेयोभिकालिणां साधनसाध्यरूप- योगक्षेमवहनमेव बोध्यम् ॥ ३२ ॥ ३३ ॥ एवं प्रार्थितेन श्रीमदाचार्येणा ऽऽत्मसात्कृतमात्मानमाकलय्या. स्वभाग्यमभिनन्दन्नाह- धन्योस्मीत्यादिना। धन्यो ऽस्म्यनुगृहीतोऽस्मि विष्णुना प्रभविष्णुना ।। यच्छिरसि स्थितं नाम नियमानन्द इत्यपि ॥ ३४ ॥ अहं धन्योऽस्मि सफलजन्माऽस्मि कृतकृत्य इति यावत् कृत्यशे. षाभावात् किमत्रकारणमित्याशङ्ख्याह । विष्णुना ऽनुगृहीतोस्मीति । विष्ण्वनुग्रह एव कृतार्थत्वे हेतुरिति भावः । अथ विष्णोर्विशेषणम्- प्रभविष्णुनेति । प्रभवनशीलेनेति "बहुस्यां प्रजायेय" इति श्रुतेः. यदि विष्णोरनु. (१) सम्पादयित्वोतिपाठः प्रमादिकः, सस्पाधइति तु भवितुं युक्तम् ।

गुरुभक्तिमन्दाकिन्याख्यव्याख्योपेतम् । Aman पुनः सा. गृहीतो न स्यां तर्हि एतादृशदुर्लभस्य लाभो मम मन्दभाग्यस्य दु. प्राप्यः स्यादित्यर्थः । तदनुग्रहस्यैव को वा ज्ञापक इत्यपेक्षायामाह- यच्छिरसि स्थितं नाम नियमानन्द इत्यपीति । यस्य पूर्वोक्तदोषाद्यसाधारणाश्रयस्यापि मम शिरसि नियमा- नन्द इति नाम स्थितमस्ति नियमानन्द दास इति लौकिक्यामपि वाण्यां नियमानन्द इति शब्दस्य नित्यसंबन्धो ज्ञात, एष नित्यसं- बन्धः श्रीभगवदनुग्रहं विना दुर्लभ इत्यर्थः, यदि नाम संबन्धमा- त्रेणापि कृतार्थोस्मीति तर्हि पूर्णानुग्रहेण कृतार्थः स्यामिति कि वक्तव्यमिति कैमुत्यन्यायसूचको ऽत्रापीति शब्दः, यथा लोके राज्ञो नामाङ्कितपत्रधारिणमपि पुमांसं लोका बहु मन्यन्ते कि क्षात्संबन्धेन तद्वत् प्रकृतेरपीति भावः ॥ ३४॥ अथ हर्षभरेण पुनस्तद्गुणान्वर्णयन् स्तौति । देवनद्यां समाश्लिष्ट इति । देवनद्यां समाश्लिष्टः शोभी सर्वाङ्गसुन्दरः ॥ निःस्पृहो निर्ममः शान्तः पूर्वाचारसमन्वितः ॥ ३५॥ देवनदी गोदावर्याख्या गङ्गा तस्यां सम्यक् स्नातः । किंच शोभीति । शोभास्यास्तीति शोभी, तदेव दर्शयति सर्वाङ्गसुन्दरः, अङ्गप्रत्यङ्गनिरतिशयसौन्दर्याश्रयः, लावण्यमाधुर्यादीनामध्युप- लक्षणमेतत् । एवं रूपाश्रितगुणानुक्त्वा स्वरूपगुणानाह- निःस्पृह इति । स्वभावतो निर्गता स्पृहा यस्मात्सः आत्मरतित्वेनाप्तकामत्वाच्च "आत्मरतिरात्मक्रीड"इत्यादिश्रुतेः, किञ्च निर्मम इति । ममकारास्पदस्य भगवदात्मकत्वेन तदीयत्वनिश्चयात् ।।

४८ लघुस्तवराजस्तोत्रम् . यक्षरं तु भवेन्मृत्युञ्यक्षरं ब्रह्म शाश्वतम् । ममेति च भवेन्मृत्यु न ममेति चशाश्वतम् । इतिसूत्रकारोक्तेः । किश्वशान्त इति । संयतचित्तमनाः नित्यमुक्तत्वेन क्षोभादिहेतुप्रकृतिसम्बन्धा. स्पृष्टमाहात्म्यातू। किञ्च पूर्वाचारसमन्वित इति । पूर्वेषां श्रीसनत्कुमारनारदादीनामाचारः श्रीपञ्चरात्रनिरूपि- तभागवतधर्मस्तेन समन्वितः, तदनुष्ठानतत्परः लोकसंग्रहार्थमिति शेषः, तदर्थमेवावतारत्वात् , ॥ ३५ ॥ किञ्चगम्भीरमतिः। गम्भीरमतिगोस्वामी स्वाश्रयाणां सुखावहः ॥ द्वन्द्वातीतस्वभावश्च कार्पण्यहरणोत्सुकः॥ ३६ ॥ गम्भीरा इयत्तावच्छेदेनाकलयितुमशक्या कुतकर्मतिर्यस्य सः अक्षतज्ञानत्वात्। किञ्चगोस्वामीति । गवामिन्द्रियाणां स्वामी स्ववशकर्तृत्वात् , यद्वा गवां श्रुतीन स्वामी तदुक्तार्थप्रवर्तकत्वात् गोः पृथिव्या चा स्वामी तद्भारभू- तामिनाशकत्वेन तद्रक्षकत्वात् । किञ्च स्वाश्रयाणां सुखावह इति । स्वमेव भगवांच्छ्रीमदाचार्य आश्रय उपायोपेयसम्बन्धादिरूपो येषां ते स्वाश्रया अस्मदादयः तेषां सुखं परमनिःश्रेयोलक्षणमा- वहति प्रापयतीति तथा। किञ्च द्वन्द्वातीतस्वभावश्चेति । द्वन्द्वानि शीतोष्णसुखदुःखानि तान्यतिक्रम्य स्थितः स्वभा- वो यस्य सः। किञ्चकार्पण्यहरणोत्सुक इति । स्वाश्रितानां कार्पण्यम् अनात्मज्ञत्वं “यो वा एतदक्षरमविदित्वा गार्यस्माल्लौकात्प्रेति स कृपण" इति श्रुतेः, तस्य हरणे नाशने उ. त्सुकः सदोद्युक्तः ॥ ३६॥ किञ्च वेदाध्ययनविख्यात इति- गुरुभक्तिमन्दाकिन्याख्यव्याख्योपेतम् । वेदाध्ययनविख्यातः परमार्थपरायणः । श्रीकृष्णप्रियदासश्च श्रीकृष्णे कृतमानसः ॥ ३७॥ वेदाध्ययनं जगति विख्यातं येन सः । परमार्थपरायणः। "परमार्थस्त्वमेव" इतिस्मृतः परमार्थः परमपुरुषरूपः सर्वशो जगजन्मादिहेतुर्मुक्तोपसृप्यो मुमुक्षुभ्येयो ब्रह्मरुद्रन्द्रादिवन्दितपाद- पीठः शास्त्रयोनिर्मुकुन्दो भगवांच्छ्रीकृष्णः स्वतन्त्रसन्ताश्रय एवो- स्कृष्टमयनं निवासस्थानं यस्य सः सदैव तत्करस्थत्वात्, यद्वा अयनं आश्रयो निष्ठास्पदं यस्य सः यद्वा परायणं प्राप्यं यस्य सः। तत्र हेतुमाह। श्रीकृष्णप्रियदास इति । दालेषु प्रियदासः श्रीकृष्णस्य प्रियदासस्तथोक्तः, यहा प्रियश्चा- सौ दासश्चेति तथोक्तः प्रेष्ठप्रेष्ठतमत्वयोरप्युपलक्षणं सर्वसम्ब- न्धाश्रयत्वात्, अत एव श्रीकृष्णकृतमानस इति । श्रीकृष्णे कृतं स्थापितं मानसं मनो येन सः एतेन तदनुयायि- भिरपि मनः श्रीकृष्ण एव योजनीयमिति सूचितम् ॥ ३७ ॥ किञ्च वैष्णवैः श्लाघनीय इति । वैष्णवैः श्लाघनीयश्च वैष्णवानां प्रियङ्करः ॥ वैष्णवप्रियसर्वार्थों वैष्णवैकपरायणः ॥ ३८ ॥ वैष्णवैर्विष्णुदेवताकैस्तदनन्याश्रितः साधुभिः साम्प्रदायिकैः स्तवनाचनादिविषयीकर्तुं योग्य इत्यर्थः । तत्र हेतुमाह। वैष्णवानां प्रियंकर इति । स्वप्रियकर्ता ऽवश्यमेव पूज्य इत्यर्थः। किञ्च वैष्णवप्रियसर्वार्थ इति । वैष्णवानां प्रियाः प्रेमविषयाः सर्वेऽप्यर्था आचारविशेषा यस्य सः, यद्वा सर्वश्चासावर्थः पुरुषार्थश्च सर्वार्थः वैष्णवानां प्रियश्चा. सौ सर्वार्थश्चति विग्रहः, ।

लघुस्तवराजस्तोत्रम्
तत्रतुः,
वैष्णवैकपरायण इति ।
वैष्णव एव एकं मुख्यं परमुत्कृष्टमयनं निष्टाविषयो यस्य सः
वैष्णवशब्दो ऽत्र विष्णोराराधनाख्यो धर्मो विवक्षितः, तस्यैव वै-
ष्णवानां मुख्योत्कृष्टनिष्ठाविषयत्वात् , यद्वा विष्णोर्भावो वैष्णव-
स्तद्भावापत्तिलक्षणो मोक्षो विवक्षितः, मुक्तगम्यत्वात् , यद्वा वि-
ष्णोरिदं वैष्णवं वैकुण्ठाख्यं मुक्तप्राप्यं परमं धाम तदेव मुख्यमु-
स्कृष्टं निवासस्थानं यस्येतिविग्रहः, यद्वा वैष्णवानामेकं प्रधान
परं केवलमाश्रयत्वादयनं शरणं यस्य स तथोक्तः ॥३८॥
किञ्च वैष्णवोद्वेगहारीचेति-
वैष्णवोद्वेगहारी च सदा वैष्णवदुःखहा ॥
शोभायो वैष्णवाकीर्णः शोभते उडुराडिव ॥३९॥
वैष्णवानामुढेगः संशयविपर्ययमूलभूतो बुद्धिदोषस्त हरणशी-
लः यद्वा उद्वेगः कदा प्राप्स्यामः कदा चक्षुषा साक्षात् पश्याम
इत्यादिस्वरूपकः, यद्वा संसारचक्रभ्रमणालाधारणहेतुरात्मविष-
यकलक्षणोऽविवेक उद्वेगशब्दाभिधेयस्तं हरणशीलः, यद्वा
यस्मान्नोद्विजते लोको लोकानोद्विजते च यः।
इत्यादिश्रीमुखोक्तेः, परेभ्य उद्विजनं परोद्धजनं या उद्वेगः
स्वभावविशेषस्तं हरणशीलः, चकारात् उद्वेगादिकारणानादि.
दैवीमायासम्वन्धनिवारकोऽपीति शेयम्, अत एव
सदावैष्णवदुःखहेति ।
वैष्णवानां दुःखं हन्तीति तथा सः, दुःखं मोक्षप्रतिबन्धकम-
नादिकर्मरूपं बोध्यम् , सर्वदुःखमूलत्वात्, ।
किश्च शोभाढ्य इति ।
प्रपन्नरक्षणरूपस्वाराज्यश्रियाभिषिक्तः श्रीभगवदनवच्छिन्नानु-
भूतिलक्षणशोभासम्पन्नो वा वैष्णवाकीर्णः शोभतइति, वैष्णवैः
स्वाश्रितैः साम्प्रदायिकैरावृतः विराजते इति,
अत्र दृष्टान्तमाह।
उडुराडिवेति ।
तारागणैरावृतो निशाकरो यथा शोभते तद्वत् ॥ ३९ ॥

गुरुभक्तिमन्दाकिन्याख्यव्याख्योपेतम् । अथात्मदैन्यकथनपूर्वकं तस्य महिनो ऽपरिच्छिन्नत्वेन दुर्खे यत्वं व्यञ्जयस्तौति । वालइत्यादिना। घालो लाल्यस्त्वया स्वामिन् देशकालविमोहितः॥ न जानामि न जानामि कीदृशो महिमा तव ॥४०॥ हे स्वामिन् अहं त्वया लाल्यः अनुकम्पनीयः कीदृशोऽहं वाल स्तत्रापि देशकालविमोहितइति । देशकालादिविषयकमोहाश्रयः देशकालादिविवेकशून्यत्वादे- वानुकम्ध्य इत्यर्थः, यदि देशकालादीनामेव ज्ञानं नास्ति तर्हि त्वन्महिमविषयक- ज्ञानाभाव इति का वातैति कैमुत्यं सूचयन्नाह । न जानामीति। कीडशो महिमा तवेति कीदृशः किम्प्रकारकः केनोपमानीकर्तु- महं कियान् वा परिमाणत इति को वा स्वरूपत इति न जानामि अज्ञानोत्कर्षद्योतनाय वीप्सा ॥४०॥ अथात्माभिप्रेतं विज्ञापयन् ग्रन्थमुपसंहरति- लघुस्तवेनेति। लघुस्तवेन भो नाथ भो आचार्यशिरोमणे ॥ दासोऽयमिति मांज्ञात्वा भक्तिं देहि पदाम्बुजे॥४१॥ इति श्रीवैष्णवाचार्यश्रीनिवासाचार्यविरचितं ॥ लघुस्तवराजस्तोत्रं सम्पूर्णम् * लघुनि मिताक्षरपदानि यत्र स लघुः सचासौ स्तधस्तेन स्तु- तिव्याजमात्रेणेति भावः, यद्यपि बालवुद्धित्वात् मम महिमवर्णन- ज्ञानानधिकरणं तथाप्ययं मम दासः दासत्वेन जगति विख्यात- स्तस्मान्मया त्मसात्करणीय इति मां ज्ञात्वा स्वपदाम्बुजे भक्ति देहीति वाक्यार्थः। तत्रानुग्रहविशेषे त्वरां प्रार्थय संबोधयति ॥

लघुस्तवराजस्तोत्रम् भोनाथइति । "नाथूयाच्ोपतापैश्वर्याशीःषु"ज्ञानभक्त्यादियाञापादानभूतः परिपूर्णेश्वर्यो वा नाथपदार्थों विवक्षितः, तत्र प्रथमव्याख्यानन ज्ञानभक्त्यादेः प्रार्थना द्वितीयेन तहानयोग्यरूपसामर्थ्याविष्कार इति विवेकः, ननु स्यादेतत् भक्त्यादीनां दातृत्वं तदानादिशक्त्याश्रयत्व- योगश्च यदि कश्चिदन्यो मत्समोऽभ्यधिको वा आचार्यान्तरोन स्यानत्वेतदस्तीत्याशङ्कय सम्बोधनान्तरमाह- भो आचार्यशिरोमणे इति । आचार्येषु मुख्यस्त्वमेव सम्प्रदायप्रवृत्त्यर्थावतीर्णत्वात् अन्ये. षां तु तव मतैकैकदेशानुयायित्वादिति आचार्यशिरोमणिवप्रयो- गाभिप्रायः, ॥४१॥ श्रीश्रीनिवासगिरिजा ह्याद्याचार्याधिगामिनी। श्रेयस्तनोतु साधूनां गुरुभक्तिसरिद्वरा ॥१॥ श्रीगुर्वनुग्रहो ध्येयः संसाराब्धेश्च कुम्भजः । अज्ञानतमसो भानुर्मुक्तिदाने हरियथा ॥२॥ वन्दे श्रीनियमानन्दं नियमेन निजाश्रितान् । आनन्दयन्तमाचार्य चक्ररूपिणमीश्वरम् ॥ ३ ॥ वैकुण्ठाब्धिसमुद्भूतः श्रीनिवासार्यचन्द्रमाः। मताम्बुद्धौ जयत्यद्धा कर्मतापतमोपहः ॥ ४ ॥ हरिः ॐतत सदिति श्रीहयग्रीवानुग्रहजीवनेनस्वभूदेवपदान- न्याश्रितेनपुरुषोत्तमप्रसादाख्येन वैष्णवेन विरचिता गुरुभक्तिमन्दा- किनी समाता।

. ३ ... १ (१५) शिवस्तात्रावली । उत्पलदेवविरचिता । प्रमेयरत्नावश्च श्रीक्षेमराजविरचितवृत्तिसमेता(वेदान्तः)२ (२९) अनुमानचिन्तामणिव्याख्यायाः शिरोम. (१६) मीमांसाबालप्रकाशः जैमिनीयद्वादशाs- णिकृतदीधित्या जागदीशी टीका । १३ ध्यायार्थसंग्रहः श्रीभट्टनारायणात्मजभट्ट- (३०) वीरमित्रोदयः । महामहोपाध्यायश्रीमित्र- शङ्करविरचितः । ( मीमांसा ) मिश्रविरचितः परिभाषा-संस्कारप्रका- 2.७) प्रकरणपञ्चिका प्रभाकरमतानुसारि-मी- शात्मकः। सापिण्यदीपकश्च २१ मांसादर्शनम् । महामहोपाध्यायश्रीशालि- (३१) वीरमित्रोदयः । महामहोपाध्यायश्रीमि- कनाथमिश्रविरचितम् श्रीशङ्करभट्टकृता त्रामिश्रविरचितः आहिकप्रकाश: मीमांसासारसंग्रहश्च सम्पूर्णः (मीमांसा)३ (३२) स्मृतिसारोद्धारः विद्वद्वरविश्वम्भरांत्रिपाठि- संकलितः १८) अद्वैतसिद्धिसिद्धान्तसारः । पण्डितप्रवर- श्रीसदानन्दव्यासप्रणतिस्तत्कतव्याख्यास- (३३) वेदान्तरत्न मञ्जूषा । श्रीभगवत्पुरुषोत्त- मलकृतः । (वेदान्तः) माचार्यकृता। १९) कात्यायनश्रौतसूत्रम् । महामहोपाध्याय- (३४) प्रस्थानरत्नाकरः । गोस्वामिश्रीपुरुषोत्त- मजीमहाराजाविरचित श्रीकर्काचार्यविरचितभाष्यसहितम् । १३ (६५) वेदान्तपारिजातसौरभं नाम ब्रह्ममीमांसा. २०) ब्रह्मसूत्रभाष्यम् । श्रीभास्कराचार्यविर- भाष्यं श्रीनिम्बार्काचार्यविरचितम् । चितं सम्पूर्णम् ( वेदान्तः) ३ (६६) योगदर्शनम् । परमहंसपरिव्राजकाचार्य- २१) श्रीहर्षप्रणीतं खण्डनखण्डखायम् । आ- नारायणतीर्थविरचित-योगसिद्धान्तचन्द्रि नन्दपूर्णविरचितया खण्डनफक्किकावि- कासमाख्यया व्याख्यया संवलितम् । २ भजनाख्यया व्याख्यया विद्यासागरीतिप्र- (३७) वेदान्तदर्शनम् । परमहंसपरिव्राजका सिद्धया समेतम् । (वेदान्तः) चार्यश्रीरामानन्दसरस्वतीस्वामिकृत ब्रह्मा- (२२) आख्यातचन्द्रिका श्रीभट्टमल्लविरचितार मृतवर्षिणीसमाख्यव्याख्यासंवलितम् । ४ (२३) श्रीलक्ष्मीसहस्त्रम्-बालबोधिनीव्याख्य- (३८) विश्वप्रकाशः । कोशः । विदूरश्रीम- याऽवतरणिकया च साहितम् हेश्वरसूरिविरचितः। (२४) ब्रह्मसूत्रवृत्तिः मरीचिका श्रीब्रजनाथभ- (३९) श्रीसुबोधिनी । श्रीवल्लभाचार्यविनिर्मिता कृता (वेदान्तः) श्रीमद्भागवतव्याख्या गोस्वामीश्रीविठ्ठलना- (२५) क्रोडपत्रसंग्रहः । अत्र श्रीकालीशङ्करसि- थदीक्षितविरचितटिप्पणीसहिता। श्रीम- द्धान्तवागीशविरचितानि अनुमानजागदी- दागवतदशमस्कन्धजन्मप्रकर्ण श्रीसुबो- श्याः प्रत्यक्षानुमानगादाधर्याः प्रत्यक्षानु- धिनीटिप्पण्यो:-प्रकाश: गोस्वामि श्रीश्री मानमाथुर्या व्युत्पत्तिवादस्य शक्तिवादस्य पुरुषोत्तमजीमहाराज विरचित मुक्तिवादस्य शब्दशक्रिप्रकाशिकायाः कु- (४०) वीरमित्रोदयः । महामहोपाध्यायश्रीमि- सुमाञ्जलेश्च क्रोडपत्राणि मिश्रविरचित: पूजाप्रकाशः। २६) बह्मसूत्रम् , द्वैताद्वैतदर्शनम् । श्रीसुन्दरभ- (४१) वेदान्तसिद्धान्तसंग्रहः । श्रुतिसिद्धान्ताप- टरचितसिद्धान्तसेतुकाऽभिधटीकासहि- रनामकः । श्रीब्रह्मचारिवनमालिमिश्रविर- तश्रीदेवाचार्यप्रणीतसिद्धान्तजाह्नवीयुतम्२ चितः। वेदान्तकारिकावली श्रीपुरुषोत्तम- २७) षडदर्शनसमुच्चयः । बौद्धनैयायिकका- प्रसाद शर्मकृता अध्यात्मसुधातरङ्गि- पिलजैनवेशेषिकजैमिनीयदर्शनसंक्षेपः । प्याख्यटीकयासहिता मणिभद्रकृतटीकया सहितः । हरिभद्रम- (४२) स्वानुभवादर्शः। श्रीमत्परमहंसपरिव्राज रिकृतः। काचार्यनारायणाश्रमाशिष्यमाधवाश्रमाविर २८) शुद्धाद्वैतमार्तण्ड: प्रकाशव्याख्यासहितः। चितः । स्वकृतटीकाविभूषितश्च । .... ..

The Chokhamba Sanskrit Series No 254

Author
Kasmirika Kesav Bhatta
Title
The Chokhamba Sanskrit Series No 254
File name
The Chokhamba Sanskrit Series No 254
Text
OCR done
Publisher
Sanskrit Series Office Benares
Language
Sanskrit
Pages
117
Library
Bharti Bhawan Library Allahabad
DLI number
273860
Barcode
5990010894468.00
Scanning centre
IIIT, Allahabad
Digital publisher
Digital Library Of India
VMLT id
M8TUEd2JIcH
Download PDF

The Chokhamba Sanskrit Series No 254