G.N.Jha Kendriya Sanskrit Vedyapeetha,Allahabad,U.P.,India
Kattakarshiromani
Front matter
आनन्दात्रमसंस्कृतग्रन्थावालि
अन्धा १२५
कलाकारशिरोमणिः।
--
CHOWKHAMBA SIN KOIT SERIES OFFIO:
POBox NOS.
Gopalmandic Lane, VAR INA31-1.
No text on this page.
आनन्दाश्रमसंस्कृतग्रन्थावलिः। ग्रन्थाकः १२५॥ स्वोपज्ञया महालक्ष्मीमुक्तावल्याख्यव्याख्यया संवलितः श्रीदेवराजविरचितः कुट्टाकारशिरोमाणः। सोऽयम आपटेकुलोत्पन्नेन दत्तात्रेयसूनुना बलवन्तरायेण आनन्दाश्रमस्थपण्डितानां साहाय्येन संशोधितः। रावबहादुर इत्युपपदधारिभिः गंगाधर बापूराव काळे जे. पी. इत्येतैः पुण्याख्यपत्तने श्रीमन् 'महादेव चिमणाजी आपटे' इत्याभिधेय- महाभागप्रतिष्ठापिते . आनन्दाश्रममुद्रणालये आयसाक्षरैर्मुद्रयित्वा प्रकाशितः। शालिवाहनशकाब्दाः १८६६ । ख्रिस्ताब्दाः १९४४। ( अस्य सर्वेऽधिकारा राजशासनानुसारेण स्वायत्तीकताः )।
082X
IK S
Rasga
28843
25
ALLAHABAD
G N. Sha Library
a
Verified By95
कँट्टाकारशिरोमणेः परिचयः । । तथाच भो अभिज्ञमणय आनन्दाश्रममकाशित शास्त्रीयग्रन्थकुसुमामोदामाणपण- यिनो ज्योतिर्विद्वरा गाणितिकधौरेयाश्च किंचिदिहावधत्त । महालक्ष्मीमुक्तावली- संवलितं कुट्टाकारशिरोमणिनामानमपूर्वग्रन्थं पण्डितशिरोमणीनां श्रीमतों हस्ते समर्पयितुं नितान्तं प्रमोदते नः स्वान्तम् । उत्सहते च गणकामणीनां प्रकृतविषये जिज्ञासोत्पत्त्यर्थं ग्रन्थशिरोमणि कुट्टाकारं परिचाययितुम् । अतस्तत्स्वरूपं संक्षेपतः प्रकाश्यते- छेदनार्थात्कुट्टधातोनिष्पन्नः कुट्टशब्दो लीलावत्यादौ प्रसिद्धं कुट कशब्दावनोध्यं भाज्यभाजकादिगणनं यत्र तादृशं गणितविशेषं ब्रूते। 'भाष्यो हारः क्षेपकश्चापवर्त्यः केनाप्यादौ संभवे कुट्टकार्थम् । इत्युक्तत्वात्। आकार- शब्द: स्वरूपवचनः कुट्टस्य गणितविशेषस्य आकारः स्वरूपपदर्शको ग्रन्थः कुट्टाकारः । स च शिरोमणिरिवेत्युपमितसमासेन कुटाकारशिरोमणिरिति प्रकृतग्रन्थस्य नामधेयं संपन्नम् । तदुक्तमेतद्मन्था- भ्यातफलं प्रदर्शयतां देवराजेनैव मुले-कुट्टाकारशिरोमणिमिममभ्यसवि हटेन यो मनसा । तरणेः प्रसादतोऽयं सहसा तान्त्रिकशिरोमणिर्भवति ॥ इति । तस्यैतस्य कुट्टशब्दवाच्यस्य गणितविशेषस्य साग्रकुटाकारो निरग्रकुटाकारः संश्लिष्टकुट्टाकारो मिश्रश्रेढीमिश्रकुट्टाकारश्चेत्येवं स्थूलतोऽत्र चत्वारो भेदा दृग्गो चरी भवन्ति । वारकुट्टाकारवेलाकुट्टाकारौ तु निरग्रफुट्टाकारस्यैवावान्तरभेदौ । संश्लिष्टकुटाकारस्त्रिपकारक इति मूल एव स्पष्टम् । प्रकृतग्रन्थनिर्मात्रा देवराने- नाव परिच्छेदवयं प्रकल्प्य यस्मिन् परिच्छेदे यस्य यस्य कुट्टाकारस्य लक्षणोदा- हरणोपपत्तिसहितं विवेचनं कृतमस्ति तस्य तस्य परिच्छेदस्य तत्तत्कुटाकारनाम- घटितमभिधेयं प्रदत्तमित्यालक्ष्यते । यथा प्रथमपरिच्छेदे सायकुटाकारस्य विवृ- तत्वात् ' सागपरिच्छेदः प्रथमः' इति । अस्मिन् परिच्छेदे द्वाविंशतिराः समदृश्यन्ते । एवं निरअपरिच्छेदो द्वितीयः । अत्र निरग्रकुट्टाकारादेः संश्लिष्ट- कुट्टाकारस्य च त्रिपकारस्य वर्णनादार्याणानेकोना नवतिः संलक्ष्यते । तृतीये मिश्रश्रेढीमिश्रकुट्टाकारपरिच्छेदे चैकोनविंशतिसंख्याका आर्याः प्रणी- ताः सन्ति । एवं ग्रन्थरचना संपादिताऽस्ति । ग्रन्थान्तरे तु वल्लिकाकुट्टा- कारः स्थिरकुट्टाकारश्चेत्यपरौ द्वौ भेदो लक्ष्येते । तयोर्मध्ये वल्लिकाकुट्टाकारस्य [२] विचारो वृद्धार्यभटस्य साक्षाच्छिष्येण भास्करण वेदान्धियुगमिते (४४४)शक- समये निर्मिते महाभास्करीयादिग्रन्थे विस्तरशो वर्तते । सोऽसौ महास्करीय- ग्रन्थोऽपि सटीकोऽचिरेणैव कालेन प्रकाश्येताऽऽनन्दाश्रमसंस्थया। भरतखण्डेऽस्मिन् ब्राह्म आर्यः सौर इत्येवं त्रयः प्रामुख्येण ज्योतिष- सिद्धान्तग्रन्थाः सन्ति । तेषां मध्ये कस्मिन्देशे कः सिद्धान्त आदरणीय इत्ये- तत्पदर्शितमग्रिमश्लोके- गोदावरीविन्ध्यनगान्तराले श्रीब्रह्मपक्षाद्गणितं विधेयम् । गोदावरीदक्षिण आर्यपक्षो विन्ध्याचलादुत्तरतो हि सौरः ॥ इति । तवाऽऽयभटाचार्येण भूनेत्राब्धि(४२१)मिते शकसमये लिखित आर्य- भटीयग्रन्थे गणितपादे(३२-३३)श्लोकयोः कुट्टकनामा विषयोऽयं वोटकेन कथितः । परं त्वनेन देवराजेनात्र निरुक्तकुट्टाकारभेदा नियमपरिषद्धया गणितशास्त्रीयपद्धत्या सविस्तरं वर्णिताः । अथ च ते ते प्रश्नाः कथमुपपाद- नीयास्तदपि मूलप्रमाणं धृत्वा नियमबद्धां रीतिमनुसृत्य प्रदर्शितम् । तत्तत्कु- ट्टाकारविषयकगणितप्रक्रियाया मध्यमाद्यधिकारिणामपि यथावदर्थबोधो भूया- दित्यनुसंधाय स्वेनैव स्वग्रन्थोपरि महालक्ष्मीमुक्तावली नाम व्याख्या व्यरचि । अतो नवानवानेकाङ्कुरोत्पादनेन बुद्धिमुल्लासयन्तं प्रकृतं ग्रन्थाशरामाणं कुट्टा- कारं वारं वारं समभिवाच्य प्राचीनानां गणितशास्त्रतत्त्वविदामाचार्याणां सेखा- न्तिकी सरलां सरसां सुखावबोधां च सुव्यवस्थितनियमनियन्त्रितां गणितप- क्रियापस्थापनचातुरीमास्वादयन्त्वधुनातना अर्वाचीनगणितरीत्यभिज्ञा अपि गणकोत्तंसा विद्वांस इत्यभ्यर्थये । स एष निरुक्तः कुट्टाकाराशरोमाणिर्नैव स्वतन्त्रो ग्रन्थः, अपि त्वार्य- भटाचार्यप्रणीतं कुट्टाकारविषयकं द्वाविंशत्रयस्त्रिंशश्लोकात्मकं यत्स्त्रयुगलं तस्य व्याख्यानविशेष एवेत्यवगन्तव्यम् । तदुक्तं स्वेनैव स्वग्रन्थे मूल एव- आचार्यायभटोदितकुट्टाकारार्थसूत्रयुगलस्प । कुट्टाकारशिरोमणिनामा व्याख्याविशेष एवैषः ॥ इति । अथैष प्ररुतग्रन्थपणेता देवराजोऽत्रिकुलाभरणस्य स्कन्धत्रयवेदिनः सिद्धान्तवल्लभ इति प्रसिद्धापरनाम्नः श्रीवरदराजाचार्यस्य तनय इति ग्रन्थ- समाप्तौ तदुल्लेखादवसीयते । परं त्वनेनायं कुट्टाकारग्रन्थः कदा निरमायाति विशेषतो ज्ञातुं यद्यपि न शक्यं तथाऽपि द्वितीयपरिच्छेदे शेषे लीललावती- गतानां निराकुट्टाकारविषयाणां कतीनांचन श्लोकानामुद्धतत्वात्सिदान्तशिरो- मणिकाराद् भास्कराचार्यादनन्तरं नाम शा० (१०७२)समये परुतग्रन्थः पादु- रासीदिति निश्चयेनानुमातुं न कियानपि कश्चिदपि प्रतिबन्ध इत्यवधेयम् । तस्यास्य सटीककुट्टाकारशिरोमणः संशोधने पुस्तकद्वयं सहायभूतमभूत् । तत्रैकमादावन्ते च भूयसांऽशेन त्रुटितम् । द्वितीयं समग्रमप्यतीव स्थूलतः शुद्धियुतम् । तदेतत्पुस्तकद्वयं भाण्डारकरपाच्यविद्यामन्दिराधिकतैः · गोडे । इत्युपाहपाध्यापकैर्महीशरनगरात्तञ्जावरनगर।च्च महता प्रयासेन नागों लिप्यां प्रतिच्छायाकृतं संपाद्य मुद्रणाथै प्रदत्तमिति तेषामविस्मरणार्हाः खलूपकतीः शिरसा बहामि । तदेवमतिप्रौढविषयस्यान्यत्र क्वाप्यमुद्रितस्य कुट्टाकाराशरोमणिग्रन्थस्य संशोधने प्रथमत एवं प्रवृत्तस्य कै. पितृचरणप्रसादलब्धप्राचीनगणितशाख- रीतिदृष्टेरपि मम तादृशबुद्धिप्रागल्भ्याभावाद्यावदपेक्षितसाधनसामध्यभावाच्च पदे पदे च्युतयः संभवेयुः । तासामावेदनेन मामनुगृह्णन्तु परोपकारनिरता ग्राहकमहाशया इति प्रार्थयते- -- पुण्यपत्तनम् । श० १८६६ का०शु०९ बुधवासरः। आपटेइत्युपादत्तात्रेयसूनुर्बलवन्तरायः । ( आनन्दाभमव्यवस्थापकः)।
प्रथमावृत्तौ पुस्तकानि ( २५०)।
: कुट्टाकाराशरोमाणः। অনাগত ॐ तत्सद्ब्रह्मणे नमः। श्रीदेवराजविरचितः (स्वोपज्ञया महालक्ष्मीमुक्तावल्याख्यव्याख्यया संवलितः ) नत्वा श्रीरमणं गुरूनपि मया प्रोक्तो मुदे धीमता- माचार्यभटोक्तकुट्टयुगलीव्याख्याविशेषोऽमु(सु)कः । कुटाकाराशरोमणिः स्फुटपदैरङ्गैश्च सांकेतिकै- वाक्यैरप्यनुयोगवृत्तसहितैर्व्याख्यायते विस्तरात् ॥ अथायं देवराजः प्रारिप्सितस्य ग्रन्थस्य निर्विघ्नेन परिसमाप्तये प्रचयगमनाय चाऽऽद्यया गीत्या स्वाभिमतदेवताप्रणिपातं कृत्वा ग्रन्थारम्भं पतिजानीते- नत्वा रमाधरण्यौ वरदार्यसुतेन देवराजेन । आर्यभटाचार्यकृतः कुट्टाकारः प्रकाश्यते स्पष्टम् ॥ १ ॥ रमाधरण्यौ लक्ष्मीभूमिदेव्यौ । नत्वा प्रणिपत्य । वरदाय सुतेन देवराजेना- विकुलतिलकस्य सिद्धान्तबल्लभ इति पसिद्धापरनाम्नः श्रीवरदार्यस्य वनयेन देवराजेन । देवराज इति ग्रन्थकर्तुरभिधानम् । अनेनाऽऽयभटाचार्यरुत आर्यभट- विरचितः कुटाकारः साग्रनिरग्ररूपेण द्विविधः खण्डनात्मको गणितविशेषः । कुट्ट च्छेदनभनियोः (पा. धा. चु. उभ. सेट् ) । कुट्यते छिद्यते खण्ड्यतेऽनेनेति करणे[ *वञ् ] । टाप्पत्ययः । स्वरूपवचनः । अतः कुट्टास्वरूपः कुटाकार इति । स्पष्ट व्यक्तं प्रकाश्यते व्यज्यते । अस्य ग्रन्थस्य कुटाकारशिरोमाणरिति नाम विज्ञा. यते । एतद्ग्रन्थोपसंहारगीत्यां 'कुटाकारशिरोमणिमिममभ्यस्यति ' इति वच- नदर्शनात् । अत्र च तन्नामकरणमिति ज्ञातत्वादेतग्रन्थार्थावबोधेनाऽऽचार्य- भटपणीतकुट्टाकारसूत्रयुगलस्याप्यर्थः सम्यग्व्यक्ती भविष्यतीति तस्यायं व्या- ख्याविशेषो भवतीत्युपपन्नम् ॥ १ ॥ अथ कुट्टाकारस्य वैविध्यं तदुक्तक्रमं चाऽऽययाऽऽह- कुट्टाकारौ भवतः सामनिरग्राविहाऽऽदितः सायम् । संक्षिप्य दर्शयित्वा ततो निरनः प्रदर्श्यते व्यक्तम् ॥३॥ कुट्टाकारौ सामनिरग्रौ भवतः । इह सायकुट्टाकारनिराकुट्टाकारयोर्मध्य *करणाधिकरणयोश्च(पा. सू. ३१ ३ . ११५) । *- PHORAHASRANA महालक्ष्मीमुक्तावलीसहितः- - आदितः प्रथमतः सायं साग्रकुट्टाकारं संक्षिप्य समस्य दयित्वा । उक्त्वे- त्यर्थः। ततः सायकथनानन्तरं निरयो निरग्रकुट्टाकारो व्यक्तं स्फुटं प्रदर्श्यते । उच्यत इति यावत् ॥ २॥ अथात्र के सिद्धान्तमवलम्ब्य भागहारभाज्योक्तिरिति न ज्ञायत इति तज्ज्ञानार्थमार्ययाऽऽह- अत्र हरभाज्यराशी भास्करसिद्धान्तमार्गमवलम्ब्य । उच्यते दैवज्ञैरार्यभटीये च तौ समारोप्यौ ॥३॥ अत्रेह ग्रन्ये हरभाज्यराशी हरराशिश्चतयंगसंबन्धिरविमासचान्द्रदिनसा वनदिवसादिः। भाज्यराशिश्चतुर्युगसंबन्ध्यधिमासावमदिनग्रहमगणादिः। तौ भास्करसिद्धान्तमार्ग श्रीसूर्यसिद्धान्तस्य पन्थानमवलम्ब्योच्येते तो पूर्वोक्तौ हरभाज्यराशी दैवज्यौतिषकैरार्यभटीये चाऽऽयभटसिद्धान्तेऽपि समारोप्यो । अथ श्रीसूर्यसिद्धान्ताश्रयणेन यद्यदुच्यते तत्र चाऽऽयभटसिद्धान्ताश्रयणे चोन्नयमित्यर्थः ॥ ३॥ अथाऽऽर्यया सायविषयं प्रश्नं स्पष्टयति- उद्दिष्टहारकद्वयसंभक्तविभाज्यराशिशेषाभ्याम् । यः सपदि भाज्यराशिं कथयति भूमौ स सानविद्भवति ॥ ४ ॥ उद्दिष्टहारकद्वयसंभक्तविभाज्यराशिशेषाभ्यामिति । विभक्तव्यो रा- शिविभाज्यराशिः । हारकयोईयं हारकद्वयम् । उद्दिष्टं च तद्धारकद्वयं चोद्दिष्ट- हारकद्वयम् । तेषु संभक्त उद्दिष्टहारकद्वयसंभक्तः । उद्दिष्टहारकद्वयसं- भक्तचायं विभाज्यराशिश्चोद्दिष्टहारकद्वयसंभक्तविभाज्यराशिः । शेषौ तथोक्तौ ताभ्यामुद्दिष्टाभ्यां भाज्यराशि यः सपदि कथयति स भूमौ सायविद्भवति । अत्रेदं प्रश्नस्वरूप-यस्मिन्कस्मिंश्चिद्भाज्य- , राशावुद्दिष्टाभ्यां भिन्नसंख्याभ्यां याभ्यां काभ्यां भागहाराभ्यां पृथक्पृथग्वि- भक्ते ये शिष्येते ताभ्यामतुल्यसंख्याभ्यां कथिताभ्यां भाज्यराशिः सद्योऽन्वे- षणीय इति । एतदुपलक्षणम् । एकस्मिन्नेव भाज्यराशौ पृथक्पृथग्बहुभिरुद्दि- विधभागहारविभक्त शेषाभ्यां विलक्षणाभ्यामुक्ताभ्यां भाज्यराशिरन्वेष्टव्य इत्येवमादौ प्रश्ने( नौ ) । अत्र भागहाराणां भक्त शेषसाम्यवैषम्यवशाद्वैवि- ध्यम् । एतच्चोत्तरत्र व्यक्ती भविष्यति ॥ ४ ॥ तस्य : कुट्टाकाराशरोमाणः। अथोक्तप्रश्नभङ्गार्थमा-माह- नव अधिकायाद्यार्यायगमाचार्यभटविरचितं साये। आरोप्य तत्र जातैः कर्मकदम्बैः प्रसाधयेद्भाज्यम् ॥ ५॥ आचार्यभटविरचितमधिकायाद्यार्यायुगं साम आरोप्य तंत्र जातैः कर्म- कदम्बैर्भाज्यं प्रसाधयेत् ॥ ५ ॥ अत्रैतदार्यभटाचार्यप्रणीतं कुट्टाकारयुग्मविषयमधिकारादिसूत्रद्वयम्- *अधिकाग्रभागहारं छिन्द्यादूनाग्रभागहारेण । शेषपरस्परभक्तं मतिगुणमयान्तरे क्षिप्तम् ॥ ६ ॥ अध उपरि गुणितमन्त्ययुगूनाग्रच्छेदभाजिवे शेषम् । अधिकाग्रच्छेदगुणं द्विच्छेदाप्रमधिकाग्रयुतम् ॥ ७ ॥ इति । एतत्सूत्रद्वयं प्रश्नभङ्गार्थ सायमधिकृत्य व्याख्यायते । अधिकाग्रभागहा- रमिति । अवाग्रशब्दः शेषवचनः । सायकोटिरितिवत् । अधिकमग्रं यस्य सोऽधिकारः। भागहारो भाजकः । अधिकारश्चासौ भागहारश्चाधिका- प्रभागहारः । येनं भाज्यराशौ भक्त शेषमन्यस्माच्छेषादधिकसंख्यं भवति सोऽधिकाग्रभागहार इत्यर्थः । ऊनाप्रभागहारेणोनमितरस्माच्छेषादीन- मयं शेषं यस्य स ऊनायः । ऊनापश्चासौ भागहारश्च स तथोक्तः । तेन च्छिन्द्याद्विभजेत् । एतच्च सति संभवे कर्तव्यम् । अधिकाग्रभागहारमूना- अभागहारेण च्छिन्द्यादिति पृथग्वाक्यकरणादत्र लब्धेन प्रयोजनं नास्तीति ज्ञाप्यते । अथ शेषपरस्परभक्तम् । भक्तं भजनम् । भावे निष्ठा । अत्र कार्यमिति पदमध्याहार्यम् । शेषयोः परस्परभजनं कार्यम् । एतदुक्तं भवति । ऊनाप्रभा- गहारेणाधिकाग्रभागहारे हते यच्छिष्यते तेनोनाग्रभागहारं विभजेत् । तत्र ( आर्यभटीये (.शा. ४२१ ) गणितपादे श्लो० ३२-३३)। तथा-ब्राह्मस्फुटसिद्धान्ते (शा० ५५० ) कुट्टकाध्याये श्लो० ३-५ पृ०२९४ । महावीराचार्य कृतमणितसारसंग्रहे (शा० ७७५ ) वल्लिकाकुट्टीकारे श्लो० ११५ ॥ पृ० ८०) । लघुआर्यभटीये ( शा० ८७५ ) कुट्टकाध्याये श्लो०३ पृ०२२४ । सिद्धान्तशिरोमणिकार(१०७२ )भास्कराचार्यकृते कुटटकविवरणे श्लो० ५१ पृ० ५९ ।
। . महालक्ष्मीमुक्तावलीसहितः- लब्ध फलत्वेन कुत्रचित्स्थापयेत् । ततस्तच्छेषेणाधिकायभागहारं शेष विभ- जेत् । लब्धं पूर्व स्थापितस्य फलस्याधः स्थापयेत् । ततस्तच्छेषेणोनाप्रभाग- हारशेषं विभजेत् । लब्धं पूर्वनिहितयोः फलयोरधो निदध्यात् । एवं तावत्कु- ांद्यावरफलपतिः समा भवति। शेषावप्यल्पाविति । अथ मतिगुणं मत्या गुणितं कार्यम् । एतदुक्तं भवति । परस्परभक्तशेषयोर्यद्यल्पमुपरि स्थितं तद्यथासंख्यमग्रा- न्तरेण क्षिप्तं चाधः स्थितनान्येन भक्तं शुध्यति । सा मतिः। तथाऽल्पमुपरि स्थितं परस्परभक्तशेषं गुणितं कार्यमिति । अत्रैतदनुसंधेयम् । पूर्वमुपर्यधोभावेन निहितानां समपट्टीनां फलानामधो मतिसंज्ञं गुणमपि स्थापयेदिति । एतच मतिगुणमित्यस्यार्थान्तराङ्गीकरणेन सिध्यति । तद्यथा-मतिगुणं गुणो गुणकारः। गुणकारस्तु गुणको गुणो वर्धक इत्यपि ' इति सिद्धान्तदर्पणकारो गोविन्द- भट्टयज्वा । मतिरेव गुणो मतिगुणः । मत्याख्यो गुण इत्यर्थः। तं स्थाप- योदति । नन्वत्र स्थापयेदिति नोक्तं तत्कथम् । एवमत्रोच्यते । मत्तिगुणमिति कर्मणः श्रवणादन सकर्मक किंचिक्रियापदमिति विज्ञाप्यते । तत्र स्थापये- दित्यनवधम् । अग्रान्तरे । अअयोरन्तरमग्रान्तरम् । उद्दिष्टाभ्यां भागहारा- भ्यां भाज्यराशौ पृथक्पृथग्विभक्ते ये शिष्येते तयोविवरमिति यावत् । तस्मि- निक्षिप्तं निहितं कार्यम् । अत्र मतिगुणितं प्रकृतम् । तस्मान्मतिगुणितमत्रा- ग्रान्तरे निधेयमिति । अत्रैतदनुसंधेयम् । यदत्र मतिगुणितमग्रान्तरे क्षिप्तं च तत्स्वाधःस्थितेनान्येन विभज्य लब्धं फलं मतेरधस्तान्निध्यादिति । एतच मति गुणमित्यादिना सूचितं सूत्रकृतत्यवगन्तव्यम् । अध उपरि गुणितम् । अत्र अधःशब्देनोपर्यंधोभावेन विन्यस्तेषु समतिषु फलपदेषु मत्यादिकमुपान्त्यमुच्यते । उपरिशब्देनोपान्त्यस्योर्ध्वपतिस्थम् । गुण शब्देन गुणत्वम् । तस्मादुपान्त्यस्य तदुपरि फलस्य चान्योन्य गुणनं कार्यम् । एतदुक्तं भवति । मत्यादिकेनोपा- न्त्येन तदुपरि फलं गुणयेदिति । ननु चात्र मुख्यवृत्त्या सर्वाधःस्थितस्यान्त्यस्य फलस्य वाचकोऽधःशब्दः कथमुपान्त्यमाह । अत्रोच्यते । अन्त्ययुगित्यस्थ विषयाभावात् । अन्त्ययुगुपान्त्येन गुणितं तदुपरिफलमत्र प्रकृतम् । तदन्त्येन युक्तं कार्यम् । एवं तावत्कार्यं यावद्द्वावेव राशी भवतः । राशिद्वयमावे त्वधउपरिगुणितमित्येतन्न प्रवर्तते । तस्मादत्राधोराशिना प्रयोजनं नास्तीति स त्याज्यः । नारच्छेदभाजिते । छेदो भागहारः । “ भागहारो हरी हारो हारकश्छेदभाजको ” इति गोविन्दभट्टसोमसुत् । अत्रोपरिराशिः प्ररुतः ।
कुट्टाकारशिरोमाणिः।
तस्मिन्सति संभवे पूर्वोक्तेनोनाग्रभागहारेण भक्ते सति शेषं यच्छिष्ट तत् ।
। अवैतदनुसंधेयम् । यत्रोनाग्रच्छेदभाजिते शेषमित्यत्र शेषं नास्ति तत्रोनाग्रच्छे-
दमा निधेयमिति । अधिकारच्छेदगुणम् । पूर्वोक्तेनाधिकायभागहारण
गुणितम् । अधिकाग्रयुतम् । अत्राप्यग्रशन्दः शेषवचनः । अधिकं चैतदनं
चाधिकाग्रम् । तेन युक्तं द्विच्छेदायम् । इहाप्यनशब्दः शेषवचनः । द्वौ छेदौ
विच्छेदौ । अत्राष्टादशपुराणानामितिवचन इव संख्यावाचिना द्विशब्देन च्छेदौ
विशेष्येते इति विशेषणसमासः । तयोरग्रे विच्छेदौ यस्य स्त इति मत्वर्थी-
योऽच्यत्ययः। द्विच्छेदानवद्भाज्यराश्यन्तरं भवतीत्यर्थः । अयं भाज्यराशिः
प्रथमः । अत उत्तरेखामपरिमितानां भाज्यराशीनामानयनपकारः पश्यते । त-
धथा-अधिकाग्रभागहारमित्येतदादिनोनापच्छेदभाजिते शेषमित्यन्वेन गाण-
तेन यन्निष्पद्यते तदध्रुवम् । तत्रैकगुणितमूनाप्रभागहारं निक्षिप्याधिकाग्रभागहा-
रेण गुणयित्वा तत्राधिकाग्रं युञ्ज्यात् । ततस्तादृशः कश्चिद्भाज्यराशि-
भवति । ध्रुवे द्विगुणितमूनाग्रभागहारं दत्त्वा तद्धिकाग्रभागहारेण [ हत्वा ]
तत्राधिकमयं निध्यात् । ततस्तदपरः कश्चित्तादृशो भाज्यराशिभवति । एवं
त्र्यादिषु गुणितमूनाय[ भाग हारं ध्रुवे निक्षिप्योक्तप्रक्रियया भाज्यराशि-
सहसमानयेत् । अथात्र केषुचित्पश्नविशेषेषु मत्यन्तराण्यङ्गीकृत्योक्तध्रुवाणि
रुत्वा तद्वशेनाप्युक्तमक्रिययाऽपरिमितान् भाज्यराशीनानयेत् । अत्रेदमनुसं-
धेयम् । अ(य)बोनाप्रभागहारेणाधिकाग्रभागहारः शुध्यति तत्राधिकारयुक्तोऽ-
विकाग्रभागहारः प्रथमो भाज्यराशिर्भवति । तत्रैकादीष्टसंख्यागुणितोऽयभा-
गहारः स्वाग्रयुक्तस्तदनन्तरादिस्तदुत्तरो भाज्यराशिर्भवतीति । इहैतदप्यनुसंधे-
यम् । शेष परस्परभक्तमित्यत्र यत्र फलपतिरेका भवति तदा शेषयोरप्येकः
शुध्यति । यत्र च फलपङ्की द्वे भवतस्तदा शेषयोश्चैकः शुध्यति । तत्रोभयत्र
प्रथमत एव प्रत्यासन्नां मति कल्पयित्वा तयाऽधिकाग्रभागहारं हत्वा तत्रा-
धिकमग्रमर्पयेत् । एवं कृते प्रथमो भाज्यराशिर्भवति । अत्र प्रथमत
एव कल्पिता प्रत्यासन्नां मतिमेकादीष्टसंख्यागुणितोनाग्रभागहारयुक्तां कृत्वाऽ-
घिकाग्रभागहारेण हत्वा तत्राधिकमयं च दत्त्वा तदपरान् भाज्यशीनानयेत् ।
अत्रापि केषुचित्मश्नविशेषेषु प्रथमत एव मत्यन्तराण्युररीकृत्य तदशादनन्तरो-
तपक्रिययाऽन्यानपि भाज्यराशीनानयेदिति । एतानि सर्वाणि परे विशेषाच
क्रमेणोदाहरणमुखेन स्पष्टी क्रियन्ते ॥ ६ ॥ ७ ॥
- महालक्ष्मीमुक्तावलीसहितः- उद्देशक:-अष्टादशभिरेकायो यो भवेद्राशिरुद्धृतः। एकोनत्रिंशता चाऽऽप्तः सप्ताग्रस्तं सुधीर्वद ॥१॥(c)॥ अत्राधिकाग्रभागहार एकोनविंशत्(२९) । अस्मिन्नूनाग्रभागहारेणाष्टादशकेन (१८)च्छिन्ने शिष्टराश्योरुपरिराशिरेकादशसंख्यः(११)। अधोराशिरष्टादशसं- रख्यः(१८)। एतावुपर्यधोभावेन स्थापितौ ११ । अथोपरिराशिनैकादशकेन १८॥ (११) स्वाधोराशावष्टादशके(१८) विभक्ते लब्धमेकम् (१)। ततस्तच्छेषण सप्तकेन(७) स्वोपरिराशावेकादशके(११) भक्ते लब्धमेकम(१) । इदं पूर्वफल- स्पाधो निहितम् । तच्छेषेण चतुष्केण(४) स्वाधोराशौ सप्तके(७) विभ- ते लन्धमेकम्(१) । इदं पूर्वफलयोरधो दत्तम् १, १, १, । ततस्तच्छेषेण विकेण(३) स्वोपरिराशौ चतुष्के (४) विभक्ते लब्धमेकम् (१) । एतत्पूर्वफला- नामधी विन्यस्तम् १, १, १, १, । इत्थं चतसः फलपतयः । शेषयोरुपर्येक (१)अधस्त्रीणि १, ३ । अग्रान्तरं षट्कम् (६) । अत्र युग्माः फलपतयः शेषावपि लघूछताविति मतिः कल्प्यते । अयं रूपात्मक उपरिराशिः कया संख्यया गुणितः षटकामतेनाग्रान्तरेण युक्तश्च स्वाधोराशिना विकेण शुध्य- तीति लब्धा प्रत्यासन्ना मतिस्त्रिसंख्याका(३) । एषा चतुर्णा पूर्वेषां फलानामधो निहिता १, १, १, १, ३ । अथोपरिराशौ मतिगुणितेऽग्रान्तरेण च युक्त नवक(९) जातम् । अस्मिन्स्वाधोराशिना विकेण(३) हते लब्धं त्रयम्(३)। एतन्मतेरधस्ताद्दत्तम् १, १, १, १, ३, ३ । एषा फलवल्लीत्युच्यते । अथै- तेषु समतिष्पान्त्येन मतिसंज्ञकेन विकेण गुणेन गुणिते रूपात्मके तदुपरिफलेऽ- न्त्येन विकेण च युक्ते षट्कं (६) जातम् । ततः शिष्टेषु पञ्चसु पदेषूपान्त्येन षटकेन गुणिते रूपात्मके तदुपरिफलेऽन्त्येन मतिसंज्ञकेन विकेण च युक्ते नवकं (९) जातम् । ततः शिष्टेषु चतुर्षपान्त्येन नवकेन गुणिते रूपात्मके तदुपरिफ- लेऽन्त्येन षट्केन च युक्ते पञ्चदशक(१५) जातम् । ततः शिष्टेषु त्रिकेषूपा- त्पेन पञ्चदशकेन गुणिते रूपात्मके तदुपरिफलेऽन्त्येन नवकेन युक्ते चतुर्विंश- ति(२४) जाता । एवं वल्ल्युपसंहारः कृतः । अथात्र पदत्रयाभावादधउपरिगु- णितमन्त्ययुगित्येतन्न पवर्तत इत्यत्राधोराशिः प्रमृष्टः । अथ चतुर्विंशति- १ क. शिरप्रकृतः।
HOMEORDS RAHATMA कुट्टाकारशिरोमाणः । (२४) संख्याकोपरिराशावूनाग्रच्छेदेनाष्टादशकेन(१८) भक्ते षट्क(६) शि- ध्यते । अस्मिन्नधिकाग्रच्छेदेनकोनविंशता(२९) गुणितऽधिकाग्रेण सप्तकेन(७) च युक्त एकाशीत्युत्तरं शतम्(१८१) । अयं द्विच्छेदारः प्रथमो भाज्यराशिः। अयमष्टादशमि(१८)विभक्त एकाग्र एकोनविंशता२९सप्तायः७ । अथान्येऽपि भाज्यराशय उदाह्रियन्ते । अत्रोनायभक्तशेष षट्कम्६ । अस्मिन्नेकगुणितोनाम- .भागहारेणाष्टादशकेन १८युक्ते चतुर्विंशति २४र्जाता। अस्यामधिकाग्रच्छेदेनैको- नविंशता२९गुणि तायामधिकाग्रेण सप्तकेन७ च युक्तायां त्र्यधिकं शतसप्तकं ७०३ जातम् । अयं चात्रान्यो भाज्यराशिः । अथोनाग्रच्छेदभक्तशेषे६ द्विगुणेनोनामच्छेदेन ३६युक्त ४२अधिकाग्रच्छेदं२९गुणयित्वा तत्राधिकार्य स- तकण्युक्तं पञ्चविंशत्युत्तरशतद्वयाधिकसहसा १२२५जातम् । अयं चापरो भा- ज्यराशिः। एतौ चानन्तरौ भाज्यराशी अष्टादशभिः १८ एकाग्रौ। एकोनत्रि- शता२९ सप्तायौ । एवंप्रकारेण भाज्यराशिसहस्रमानेतव्यम् ॥ ८॥ अथ प्रश्नविशेष उदाह्रियते । उद्देशक:- आकृत्यै(२२)कादशाग्रा(११) ये सप्तामा(७) मनुभि(१४)हताः। आसन्ना राशयोऽष्टौ तानाचक्ष्व मतिमद्वर ॥२॥ ९॥ अत्र पूर्वोक्त प्रक्रियया रूपात्मिकायाः प्रथमाया मतेराश्रयणेनाऽऽनीताः प्रथमतृतीयपञ्चमा विषमा भाज्यराशयः कमेण लिख्यन्ते । तत्र प्रथमः सप्त- सप्तति( ७७ )संख्यः । तृतीयः पञ्चाशीत्युत्तरशतवय( ३८५ )संख्यः । पञ्चमः सप्तोनशतसप्तक(६९३)संख्यः। सप्तमः सैकसहस्र(१००१)संख्यः। अत्र द्वितीयादिसमभाज्यराशयः प्रथममत्यवलम्बनेन सेत्स्यन्तीति तदनन्तरां चतुष्टयात्मिकां मतिमवलम्ब्य पूर्वोक्तमाक्रिययाऽऽनीतो द्वितीयो भाज्यराशिरेक- विशदुत्तरशतद्वय( २३१ )संख्यः । चतुर्थ एकोनचत्वारिंशदाधिकपञ्चशत- ( ५३९ )संख्यः । षष्ठः सप्तचत्वारिंशदुत्तरशताष्ट( ८४७ )संख्यः । अष्टमः पश्चपञ्चाशदुत्तरैकादशशत( ११५५ )संख्यः । एवमेतेऽष्टापि राशयो द्वाविंशत्या (२२) विभक्ता एकादश ( ११ ) शेषा भवन्ति । चतुर्दशभिः सप्त शेषाः । एवमेवंविधप्रश्नाविषये भाज्यराशय आनेतव्याः ॥९॥ अथ यत्रोनाग्रभागहोरेणाधिकाग्रभागहारः शुध्यति तत्रोदाह्रियते। उद्देशक:- यस्यग्रः सप्तभिर्भक्तः सप्तत्या दशकाग्रकः। जानासि यदि तं राशिं ब्रूहि सांवत्सराग्रणीः ॥३॥ १० ॥ य महालक्ष्मीमुक्तावलीसहितः- अबोनाप्रभागहारेण सप्तकेनाधिकाग्रभागहारः सप्ततिसंख्यः शुध्यति । तस्मादत्र सप्ततिसंख्याकेऽधिकाग्रभागहारेऽधिकाग्रेण दशकेन युक्तेऽशीति- (८०)र्जाता । अयमत्र प्रथमो भाज्यराशिः। अयं सप्तभिभक्तस्ययो भवति । सप्तत्या दशकायः। अथ द्विगुणेऽधिकाग्रभागहारे ( १४० )। अधिकाग्रेण (१०) युक्ते पञ्चाशदुत्तरशतं ( १५० ) जातम् । अयमत्र द्वितीयो भाज्यराशिः। एवं भाज्यराशिसहस्रमानेतव्यम् ॥ १० ॥ अथ शेषपरस्परभक्तमित्यत्र फलपङ्क्तिरेका भवति । तदा शेषयोरप्येकः शुध्यति । तबोदाहियते । उद्देशकः- यो दिग्भि( १०)र्विहतस्त्र्ययो रूपायलिभिरुद्धृतः । तं राशिं शीघ्रमाचक्ष्व वेत्सि चेद्गणकोत्तम ॥ ४॥ ११ ॥ अबोनाग्रभागहारेण त्रिकेणाधिकाग्रभागहारे दशके हृत उपरिराशिरे- कसंख्यः । अधोराशिस्त्रि( ३ )संख्यः । अवोपरिराशिनाऽधोराशिः शुध्यति। फलपङ्क्तिरप्येका भवति । अतोऽवाऽऽदावेव मतिः कल्प्यते । अयं रूपात्मक उपरिराशिः केन गुणितोऽयान्तरेण द्विके( २ )न च युक्तः स्वाधोराशिना विकेण शुध्यतीति लब्धा प्रत्यासन्ना मती रूपात्मिका (१)। अनया गुणि- तेऽधिकाग्रभागहारे दशकसंख्ये (१०) अधिकाग्रेण त्रिकेण ( ३ ) च युक्ते त्रयोदशकं ( १३ ) जातम् । अयमत्र प्रथमो भाज्यराशिः। अयं दश- भिस्त्याः विभिरेकाग्रः । अथाव रूपात्मिकायां मतावेकगुणोनाग्रभागहारे त्रिके दत्ते चतुष्कं ( ४ ) जातम् । अस्मिन्नधिकाग्रभागहारेण दशकेन गुणि- तेऽधिकाग्रेण त्रिकेण च युक्ते विचत्वारिंश( ४३)ज्जाता । अयमत्र द्वितीयो भाज्यराशिः । एष च दशभिस्यमः। त्रिभिरेकामः। एवं भाज्यस- इसमानेयन् ॥ ११ ॥ अथात्र प्रश्नविशेष उदाहियते । उद्देशक:- ये राशयोऽष्टभक्ताश्चेच्चतुरमा भवन्त्यपि । अष्टाग्रा द्वादशाप्ताश्चेत्तेष्वाद्यांश्चतुरो वद ॥ ५॥ १२ ॥ अवादावेव कल्पितायां रूपात्मिकायां मत्यामधिकाग्रभागहारेण द्वाद- शाकेन गुणितायामधिकाग्रेणाष्टकेन युतायां विंशति( २० )जाता । अयं प्रथमो भाज्यः । अथ द्वितीयया रूपत्रयात्मिकया मत्या पूर्ववदानीतो द्वितीयो र १ ख. त्रिकेणकायः ।
poran कुट्टाकाराशरोमाणः। भाज्यश्चतुश्चत्वारिंश( ४४ )संख्यः। अथ तृतीयया रूपपञ्चकरूपया मत्या पूर्ववदानीतस्तृतीयो भाज्यराशिरष्टषष्टि( ६८ )संख्यः । अथ चतुझं रूप- सप्तकरूपया मत्या पूर्ववदानीतश्चतुर्थो भाज्यराशिनिवति( ९२ )संख्यः । एवमेते चत्वारो भाज्यराशयोऽष्टाभिश्चतुरग्रा द्वादशभिरष्टाग्राः ॥ १२ ॥ अथ यत्र “ शेषपरस्परभक्तम् ” इत्यत्र फलपती द्वे भवतस्तदा शेष- योरप्येकः शुध्यति । तत्रोदाहियते- उद्देशक:-अष्टाभिश्चतुरग्रो यो व्यग्रोऽष्टादशभिर्हतः। क्षिप्रमाख्याहि तं राशि साग्रे यद्यस्ति संस्तवः ॥ १३ ॥ अबोनापच्छेदेनाष्टादशकेनाधिकाग्रच्छेदोऽष्टसंख्यश्छेत्तुं न शक्यते । तस्मादव यथास्थितयोरेवानयोः परस्परभजनं कार्यमित्युपरिराशिनाऽष्टकेनाधो- राशावष्टादशके विहते द्वयं शिष्यते । तेनाष्टसंख्यः स्वोपरिराशिः शु. ध्यति । फलपती च द्वे भवतः । तदवाऽऽदावेव प्रत्यासन्नां मति कल्पयित्वा पूर्ववदानीतः पथमो भाज्यराशिविंशति( २० )संख्यः । अयमष्टभिश्चतुरमः । अष्टादशभिर्व्ययः । एवमेवंविधा भाज्याः साध्याः ॥ १३ ॥ अथ द्विविधबहुभागहारवभाज्यराशिमश्नविषय उदाहियते- उद्देशक:-प्रकृतेस्तिसभि(३)भक्तो यो राशिः स्याद्विशेषतः। चतुर्दशायः संस्कृत्या(२४)तिसृभिस्तं वदाऽऽशु मे ॥७॥१४॥ एषां द्विविधानां षण्णां हराणां सकाशादपवयं हरौ द्वौ द्वौ । तद्- धमपवर्तकेन सगुणयेदियुक्तपक्रियया पूर्वमनारच्छेदोअधिकाग्छेदश्वाऽऽनी- यते । तद्यथा-एकविंशद्वाविंशवेश्चापवर्तकाभावादनयोराहतिः पक्षरसार्णव- ( ४६२ )संख्या । अथास्यास्त्रयोविंशतेरप्यपवर्तकाभावादनयोः संवर्गः षड- क्षितर्कदिक( १०६२६ )संख्यः । अत्रायमूनाग्रच्छेदः । अथ चतुाशतेः पञ्चविंशतेश्चापवर्तकाभावादनयोराहतिः पूर्णखतर्क पूर्णखतक( ६०० संख्या । अथास्याः षड्विंशतेश्चापवर्तको द्वि( २ )संख्यः । अनेनापवर्तितयोरेतयो- बंधः खात्राङ्काराम( ३९०० )संख्यः । अयमपवर्तकेन द्विकेन गुणितः पूर्णाभ्रवसुमनि( ७८०० )संख्यः । अत्रायमधिकाग्रच्छेदः । अथैवमाग- १ क. स्थाप्याः । २ ख. पकः । ३ क. °दस्याऽऽ । ४ क. संसर्गः । ५ व. भिख. ! .
सा १० महालक्ष्मीमुक्तावलीसहित:- ताभ्यामाभ्यामूनाग्रच्छेदाधिकागच्छेदाभ्यां द्वादशसंख्याकेनायान्तरेण च पूर्व- बदधिकामभागहारामित्येवमादिनाऽऽनीतः पञ्चमो भाज्यराशिर्मनुवेदमुनिकतराम- रवि( १२३४७४ १४ )संख्यः । अयमेकविंशत्या द्वाविंशत्या त्रयोविंशत्या च विभक्तो द्वयनः । चतुर्विंशत्या पञ्चविंशत्या षड्विंशत्या च चतुर्दशामः। अवाप्येवंविधा भाज्यराशयः पूर्ववदानेयाः॥१४॥ अथ प्रश्नान्तरमुदाहियते- उद्देशक:-नवत्या सैकयैकायो यो विंशत्या निरग्रकः । द्रुतमाचक्ष्व दैवज्ञ तं राशिं मम पृच्छतः॥ ८ ॥ १५ ॥ अत्रैकनवतिसंख्येनाधिकागच्छेदेन विंशतिसंख्येनोनाग्रच्छेदेन रूपात्म- केनाग्रान्तरेण च प्राग्वदानीत आद्यो भाज्यराशि खाष्ट( ८२० )संख्यः। अयमेकनवत्या रूपायः, विंशत्या शन्यागः । अतोऽन्येऽप्येवंविधा भाज्यरा- शयः पूर्ववदानेयाः " १५ ॥ अथ भिन्न बहुभागहारभिन्नबह्वयसागकुट्टाकारविषयमाद्वयमाह- 'भिन्नबहुभागहारे कुट्टाकारे विभिन्न बह्वये । हरयोदयोयोर्यों भाज्यः सोऽयं भवेद्धरस्तस्य ॥ हरयोः संवर्गः स्यादेवं कार्यं पुनः पुनस्तावत् । यावद्विभाजको द्वौ भवतो भाज्योऽत्र पूर्ववत्साध्यः ॥ अस्यार्थ उदाहरणेन व्यक्ती भविष्यति- उद्देशक:-सप्तादिभिस्त्रिभिर्भक्ते यस्मिन्रूपशराब्धयः । शेषाः क्रमाद्भवेयुस्तं राशिमाचक्ष्व तान्त्रिक ।।९।१६।। *लीलावतीग्रन्थे कचिदेते श्लोका दृश्यन्ते । ते च प्रकृतोपयुक्तत्वादनोद्धियन्ते- हारे विभिन्ने गुणके च भिन्ने स्यादाद्यराशेर्गुणकस्तु साध्यः । द्वितीयभाज्यघ्नतदायजो गुणः क्षेपो भवेत्क्षेपयुतो द्वितीये ॥ द्वितीयभाज्यघ्नतदाद्यहारो भाज्यो भवेत्तत्र हरो हरः स्यात् । एवं प्रकल्प्यापि च कुट्टकेऽथ जातो गुणश्चाऽऽद्यहरेण निधनः ॥ गुणो भवेदाद्यगुणेन युक्तो हरघ्नहारोऽत्र हरः प्रदिष्टः । अथ तृतीयेऽपि तथैव कुर्यादेवं बहूनामपि साधयेत्तु ॥ १ ख. अत्रा।
कुट्टाकारशिरोमणिः। 11 अत्र क्रमादिमे हारीः ७, ८, ९ । अप्राणीमानि १,५,४, एवाद्याभ्यां हराभ्यामग्रान्तरेण चोक्तवदानीतो भाज्यराशिरेकोनत्रिंशत्संख्यः (२९) । अयं सप्तभिर्भक्तो रूपायः (१)। अष्टभिः पञ्चायः (५)। अथायमेव भाज्यस्तृतीयेन सह कर्मणि कर्तव्ये ' हरयोदयोईयोर्यो भाज्यः सोऽयं भवेत् । इत्ययं भवति । अस्याग्रस्य च्छेदयोर्वधः 'तस्य हरयोः संवर्गो हरः स्यात् ' इति च्छेदो भवति । स चात्र षट्पश्चाशत्संख्यः( ५६ ) । अस्याग्रमेकोनविंशत्संख्यम् (.२९) । भाज्यराशिस्तृतीयच्छेदोनदश( ९ )संख्यः। अस्यायं वेद- ( ४ )संख्यम् । अग्रान्तरं पञ्चविंशति( २५ )संख्यम् । अथाऽऽद्या- भ्यां छेदाभ्यामनेनामान्तरेण चोक्तवदानीतस्त्रिच्छेदारो भाज्यराशिः पञ्चाशीति- (८५ )संख्यः। अयं सप्तभिर्भक्त एकाग्रः (१)। अष्टभिः पञ्चायः (५)। नवभिश्चतुरग्रः ( ४ ) । एवमेवंविधपश्नविषये भाज्यराशय आने- तव्याः॥ १६॥ अथात्रैव प्रश्नविशेष उदाहियते- उद्देशक:-को राशिः कैहरौमिनर्भक्तो भिन्नावशेषकः । स एवात्रैक्ययुक्तश्चेत्तैर्हरैरेव शुध्यति ॥ १०॥ १७ ॥ अत्राऽऽदौ स्वेच्छयाऽग्राणि कल्पयित्वा तदशावक्ष्यमाणप्रकारेण तेषां तेषां छेदानुत्पाद्यानन्तरपदर्शितभिन्नबहुभागहारभिन्नबह्वग्रभाज्यराश्यानयन- पकारेण भाज्यराशिमानयेत् । अवेष्टायवशात्तच्छेदानयनार्थमिदमाभियुक्तपणी सूत्रम्- अग्राणीष्टानि स्युस्तद्योगोऽयान्वितः पृथक्छेदाः । अौक्ययुते भाज्ये वियुते त्वौक्यमग्रोनम् ॥ अस्यार्थः-अग्राणि शेषाणीष्टानि स्युः । अभिप्रेतानि कल्प्पानि भवेयुः। तद्योगोऽप्रयोगः पृथगग्रान्वितः पृथक्पृथक्तदग्रयुतः सन् छेदास्तत्तदनव- न्तश्छेदाः स्युः । अप्रैक्ययुते भाज्ये भाज्यराशौ तत्तच्छेदानां निरपदानार्थ- मगयोगेन युक्ते सत्येतद्वेदितव्यम् । वियुते तु भाज्यराशौ तत्तच्छेदानां निर- अदानार्थमग्रयोगेन हीने सति पुनः ' अप्रैक्यमग्रोनम् । अग्रयोगः पृथक्पृथक् तत्तदनवियुतः संस्तत्तदग्रवन्तश्छेदाः स्युः । उदाहरणम्- अत्र कल्पितान्यप्राणीमानि त्रीणि ( ३) । चत्वारि ( ४ )। पत्र १२ महालक्ष्मीमुक्तावलीसहितः- (५)। एषां योगो रवि( १२ )संख्यः । एष वेधा निहितः १२, १२, १२ । एषु पूर्ववत्कल्पितेष्व गोषु ३-४-५ क्षिप्तेषु जाताश्छेदाः पञ्चदश (१५)। षोडश ( १६ ) सप्तदश ( १७ )। एषां क्रमेणापाणि पूर्व- लिखितान्येव ३-४.५। एभिश्छेदैरतरग्रैश्चानन्तरपदार्शतभिन्नबहुभागहारभिन्न- बहनभाज्यराश्यानयनप्रकारेणाऽऽनीतो भाज्यराशिर्वसुरसपूर्णान्धिः (४०६८)। एष पञ्चदशभिर्भक्तस्ययः ( ३ ) । षोडशभिश्चतुरमः ( ४ )। सप्तदशभिः पञ्चायः ( ५ ) । अथायमेव भाज्यराशिरग्रैक्येन द्वादशकेन( १२) युक्त- श्वेदोभश्छेदैनिरपश्च भवति । एवमेवंविधा भाज्यराशयः साध्याः॥१७॥ अथांगैक्यहीनं भाज्यानयनमुदाहियते- उद्देशकः-को राशिः कैर्हर्भिन्नैर्भक्तो भिन्नावशेषकः। स एवागैक्यहीनश्चत्तहरैरेव शुध्यति ॥ ११ ॥ १८ ॥ अत्र पूर्ववत्पथमं स्वेच्छयाऽग्राणि परिकल्प्य तद्वशात् ‘वियुते त्वौक्य- मयोनम् । इत्युक्तप्रकारेण तेषां छेदानुत्पाद्य भिन्नवहुहारभिन्नवह्वग्रभाज्यान- यनप्रकारेण भाज्यमानयेत् । अत्र पूर्ववत्कल्पितान्य ग्राणीमानि पञ्च ( ५ ) सप्त ( ७ ) नव (९)। एषां योगश्चन्द्रकर( २१ )संख्यः । अयं विधा निहितः २१-२१-२१ । एभ्य एष्वग्रेषु ५-७-९ त्यक्तेषु जाताश्छेदाः षोडश ( १६ ) चतुर्दश ( १४ ) द्वादश ( १२ )। एषां क्रमेणापाण्य- नन्तरप्रदर्शितान्येव ५-७-९ । एभिरगैरेतच्छेदैश्च भिन्नबहुभागहारभिन्नबह्व- ग्रभाज्यराश्यानयनप्रकारेणाऽऽनीतो भाज्यराशिः शररसरामेन्दु( १३६५ )- संख्यः । अयं षोडशभिः पञ्चायः । चतुर्दशभिः सप्तामः । द्वादशभिर्नवागः ५-७-९ । अयमेव भाज्यराशिरग्रयोगेन कुपक्ष( २१ )संख्येन हीनश्चे- देभिश्छेदैनिरयो भवति । एवमेवंपकारा भाज्यराशय आनेतव्याः। नन्वन्त- रयोः प्रश्नयोः ॥ स एवागैक्ययुक्तश्चेत्तैहरैरेव शुध्यति । स एवाक्यहीन- अत्तहरैरेव शुध्यति । इति च निरग्रता प्रतीयते । तदनुपपन्नमनयोः सायाधि- कारे कथनम् । सत्यम् । ' को राशिः कैहर्भिन्नैर्भक्तो भिन्नावशेषकः । इति साग्रताऽपि दृश्यत इति युक्तमुक्तम् । अथ कक्ष्याकुट्टाकारः प्रदर्श्यते । तबाऽऽदौ कक्ष्याग्रहानयनं ज्ञातव्यम् । अतस्तदुच्यते- १ ख. |क्यादीनां भा। HARPAN । कुट्ठाकारशिरोमाणिः । . *खव्योमखत्रपखसागरषट्कनागव्योमाष्टशन्ययमरूपनगाष्टचन्द्राः (१८- ७१२०८०८६४००००००.) इति भगवता सूर्येणोपदिष्टयाऽऽकाशकक्ष्पया गुणिते स्वेष्टदिनगणे सहस्राहतेन ग्रहकक्ष्याभूदिनसंवर्गेण विभक्ते लब्धं भगणादि अहो भवेत् । शेषं कक्ष्यायम् । इष्टदिनानां स्वकक्ष्यागुणाकारः सहस्रगुणो ग्रहक- क्ष्याभूदिनसंवर्गो भागहारः। एतावपवर्तिताविष्टदिनानां गुणहरौ भवतः। एतस्नि- पक्षेऽपवर्तितयाऽऽकाशकक्ष्यया निहते स्वाभिमतदिनगणेऽपवर्तितेन सहसनिहतय- हकक्ष्याभूदिनाभ्यासेन विहते लब्धं भगणादिग्रहः । शेष कक्ष्यायम् । अथवा खकक्ष्याभूदिनयोरपवर्तितयोर्यत्खकक्ष्यातो लब्धं तदिष्टदिनानां गुणः। यत्तु भूदिनतो लब्धं तेन सहस्रगुणितेन गुणिता ग्रहकक्ष्या तेषां भागहारः। अस्मि- पक्षे पुनरिष्टदिनगणेऽपवर्तितया खकक्ष्यया गुणिते सहस्रगुणितेनापवर्तितभूदि- नेन गुणितया ग्रहकक्ष्यया विभक्ते लब्धं भगणादिमध्यग्रहः । शेषं कक्ष्यायम् । - एवं विभिः प्रकारैः कक्ष्याग्रहानयनं कक्ष्या चोक्तम् । एष्वन्तिमप्रकारे यत्के- क्ष्यागं तदेवोद्दिश्यते । अस्य भागहारः सहस्रग्नेनापवर्तितभूदिनेन गुणिता ग्रह- कक्ष्या । उद्देशकः- कक्ष्यायं सवितुः खखाक्षिशिखरिक्ष्माक्ष्यद्रिचन्दाकृति- व्यर्थाध्यब्धिरसाभ्रतर्ककरभूसंख्यं १२६०- ६४४५२२२१७२१७२०० मृगाङ्कस्य तु । लक्षनाभ्रकरार्थवाणनवकव्यष्टेशनागवंगा ७६८ ११८२९५५२०००००० व्यग्रं भाज्यमहर्गणं च भगणान्यातानवीन्द्वोर्वद ॥ १८ ॥ न्यासः-रवेः कक्ष्याग्रमिदम् (१२६०६४४५२२२१७२१७२००) इदमत्राधिकागम् । अथ स्व( ख )कक्ष्याभूदिनयोः — विभजेद्धारविभाज्यौ । इति परस्परभक्तयोः शेषं वेद( ४ )संख्यम् । एष स्व( ख )कक्ष्याभूदिनयो- रपवर्तकः । अनेनापवर्तिता खकक्ष्या प्रयुतघ्ननृपद्व्यबृद्विखाष्टादिरसान्धि- (४६७८०२०२१६०००००० )संख्या । अपवर्तितं भूदिनमचलार्थकता- गद्विवेदान्धिनवपावक( ३९४४७९४५७ )संख्यम् । एतत्सहस्रगुणितम् ( ३९४४७९४५७०००) । अथानपवर्तितायां खकक्ष्यायां सहस्रनैर्यु- *( सूर्यसिद्धान्ते भूगोलाध्याये श्लो० ९० ) ६० भागहारो नवाष्टविषट्खसिद्ध( २४०६३८९ )संख्यः । अपवर्तितोनाम- महालक्ष्मीमुक्तावलीसहितः- गग्रहभगणैर्विभक्तायां योजनात्मिका ग्रहकक्ष्या भवतीति लन्धा रविकक्ष्या १२ द्वादशयोजनषष्टयशसहितखखतिथिरामाग्निवेद( ४३३१५००-संख्या एषा पूर्वलिखित सहलाहताऽपवर्तितभूदिनाभ्यस्ता व्योमाघशकनवविश्वनवाष्टतर्क- वेदाष्टशैलगजषड्वसुखादिचन्द्र( १७०८६८७८४६८९१३९१४०० )सं- ख्या। अयमवाधिकाग्रभागहारः । चन्द्रस्य कक्ष्यायमिदम् (७६८११८२- ९५५२०००० ) । एतदिहोनागं प्रागुक्तकमलन्धमेव । चन्द्रकक्ष्या खत्रयाब्धिद्विदहन( ३२४००० )संख्या । एषा सहस्रनाऽपवर्तितभूदिन- गुणिता प्रयुतघ्नाष्टषट्खाब्धिवेदानीशाष्टाघ( गा ( १२७८११३४- ४०६८०००००.० )संख्या । अयमत्रोनाग्रभागहारः । अग्रान्तरं खखाक्ष्य- त्यष्टिवीषुरसषद्व्यङ्क द्विरामाष्टत्रिगजेश( ११८३८३२६९२६६५२१७- २०० )संख्यम् । अवैतेऽधिकाग्रभागहारोनाग्रभागहारायान्तरराशयोऽपवर्तनं प्रयच्छन्तीत्यपवयं प्रदर्श्यन्ते । अवापवर्तकः पूर्णाभ्रताकतिखाग्नितर्कव्योमा- प्रचन्द्रगिरि( ७१००६३०२२६०० )संख्यः । अनेनापवर्तितोऽधिकाय- भागहारोऽप्ययुतगुणधृति( १८०००० )संख्यः । अपवर्तिताग्रान्तरं याकतिमुनिरसनुप( १६६७२२२ )सख्यम् । एभिराधिकाग्रच्छेदगुणमित्ये- तदन्तेन कर्मकदम्बेन जातो राशिर्वसुमनिगिरिरविगजाब्धि( ४८१२७७८) संख्यः । अयमत्र केनापवर्तकेन गुणितोअधिकाग्रयुक्तश्चार्बुदाहताष्टिद्विनखखाष्टा- दिरससिन्धु (४६७८०२०२१६००००००००)संख्यः। अयं द्विच्छेदायो भाज्यराशिः। अस्मिन्नपवर्तितखकक्ष्यया गुणेन विभक्ते लब्धो राशिः सहस- ( १००० )संख्यः । एष स्वेष्टदिनगणः। अथ विच्छेदाग्रे भाज्यराशावन- पवर्तितेनाधिकाग्रभागहारेण विच्छेदेन ह( ह )ते लब्धौ गतौ रविभगणौ दौ (२) । शिष्टमुद्दिष्टरविकक्ष्यायतुल्यम् । अथ दिच्छेदाने भाज्यराशाववानपवर्तितोनाग्रभागहारेण चन्द्रच्छेदेन विहते गताश्चन्द्रभगणाः षट्त्रिंशत् ( ३६)। शेषमुद्दिष्टरविकक्ष्यायसमम् । एवं द्वयोः कक्ष्याग्रयोसद्दिष्टयोः सतोरानयप्रकारः । बहूनां कक्ष्यायेद्दिष्टेषु भिन्नबहुभागहाराभिन्नबह्वग्रयोः कुट्टाकारानयनप्रकारेण भाज्पराश्यहर्गणगत- लब्धा NAREAM ANARAINERN कुट्टाकाराशरोमाणः। भगणाः साध्याः । एवं सूर्यसिद्धान्तमार्गमवलम्ब्य कक्ष्याकुट्टाकारानयनं प्रदर्शितम् । आर्यभटीयानुसारेण कक्ष्याकुट्टाकारानयने तु विशेषः । अत्र सूर्यसिद्धान्तानयनमार्गेणैतदानयने यत्र यत्रा सहस्रगुणनमुक्तं तत्तदिह न कर्त- व्यम् । अन्या सर्वाऽपि प्रक्रिया समाना ॥ १८ ॥ अथ खिलविशेषानुपपन्नप्रश्न उदाहियते-उद्देशक:- योऽष्टाभिनंवभिः षइभिर्दशभिश्चतुरग्रकः। याद्यैश्चतुर्भिरेकागस्तं राशिं व्याहराअसा ॥२३॥१९॥ अत्र षड्भिरष्टभिर्वा यो राशिश्चतुरस्रो भवति स कथं चतुर्भिभ्यिां वा रूपायो भवतीत्यालोच्य प्रश्नोऽयमनुपपन्न इति ब्रूयात् । एवमन्येऽप्यनुपपन्नाः प्रश्ना बोधव्याः॥ १९ ॥ अथ खिलविषय उदाहियते-उद्देशक:- द्विचत्वारिंशता व्यग्रः षड्विंशत्यैकशेषकः। यो राशिस्तं द्रुतं ब्रूहि सायं वेद भवान्यदि ॥२४॥२०॥ अत्र पूर्वबदागतानि प्रत्येकं रूपात्मकान्युपर्यंघोभावेन निहितानि फलानि १,१,१,१। शेषयोरुपरिराशिर्लोचन( २ )संख्यः । अधोराशिर्वेद- ( ४ )संख्यः। अत्र मतिः कल्पयितुं न शक्यते । तस्मादिह भाज्यराशिः खिल इति वक्तव्यम् । यत्र च्छेदयोरपवर्तकोऽस्ति सोऽग्रान्तरस्य तु नास्ति तत्र भाज्यराशेः खिलत्वं दृष्टव्यम् । यत्रैषां त्रयाणामपि सदृशोऽपवर्तकोऽस्ति तदभावो वाऽनाखिलत्वं दृष्टव्यम् । एवं सागविषयेऽधिकारादिसूत्रयुगं पति- पत्तणां बुद्धिव्यामोहो मा भूदित्येकयैव च रीत्या व्याख्यातम् । अथैतदेवात्र किंचिद्विकल्प्य व्याक्रियते- पूर्व शेषपरस्परभक्त मतिगुणमग्रान्तरे क्षिप्तम् । इत्यत्र फलपङ्क्त्यां समायां सत्यामग्रान्तरं । समं रुखा मतिं कल्पयित्वा तथाऽल्पमुपरिराशिं गुणयित्वा तच्चानान्तरे क्षिप्त्वा तद्घोराशिना हत्वा लब्धं समपङ्क्तीनां फलानामधो निहिताया मतेरधस्तान्निध्यादित्युक्तम् । इदानीं तत्र विषमायां फलपलयामग्रान्तरमृणं कृत्वा मतिं परिकल्प्य तयाऽ- ल्पमघोराशि संगुण्य तस्मादग्रान्तरं विशोध्य .. नदुपरिराशिना विभज्य लब्धं विषमपतीनां फलानां मध्ये मतेस्धः स्थापयेदित्युच्यते । अन्यत्सर्व पूर्ववत् । एवं कृतेऽपि पूर्वदर्शितमखिलमुद्दाहरणजात माशः सेत्स्यत्येव ! 28843 . A ALLAHARI BAN सा १६ महालक्ष्मीमुक्तावलीसहितः- अस्मिन्पक्षे 'अग्रान्तरे । इत्यन्तं विभक्तिविपरिणामो दृष्टव्यः। अग्रान्तरे- णेति । छन्दोवत्सूत्राणि भवन्तीत्युक्तत्वाच्छन्दसि हि विभक्तिविपरिणामः प्रसिद्धः । क्षिप्तमित्येतदवहीनमित्यस्योपलक्षणम् । तस्मादग्रान्तरेणोनमिति सिद्धं भवति । तथैव वास्तु पाठः। ऊनाग्रभागहारं छिन्द्यादधिकाग्रभागहारेण । शेषपरस्परभक्तं मतिगुणमयान्तरे क्षिप्तम् ॥ अधउपरिगुणितमत्ययुगाधकाग्रच्छेदभाजिते शेषम् । ऊनाग्रच्छेदगुणं द्विच्छेदाग्रं विहीन शेषयुतम् ॥ इति । अस्मिन्पाठे यदा समायां फलपट्टयां मतिकल्पनेष्टा तदाध्यान्तरमृणं रुत्वा मतिं कल्पयेत् । यदा विषमायां तस्यां मतिकल्पनाऽभिमता तदाध्यान्तरं धनं कृत्वा मतिं कल्पयेत् । एवमधिकारादिसूत्रयुगलं साग्रमधिकृत्य विस्तरेण व्याख्यातम् ॥ २० ॥ अर्थतत्सूत्रयुगलस्य विषयमार्यया दर्शयति- अवशेषविषमभावे शेषस्यैकस्य शन्यतायां च । अवतरति सूत्रयुगलकमिदमन्यत्र तु निगते कर्म ॥९॥२१॥ इदं सूत्रयुगलकमवशेषविषमभावकस्य शेषस्य शून्यतायां चावतरति । अन्यत्र तु कर्म निगद्यते । यत्राग्रयोरुभयोर्बहूनां वाऽभावः समत्वं वा तत्र कर्मोच्यत इत्यर्थः । सूत्रायुगलकमित्यत्र स्वार्थ कमत्ययः ॥ २१ ॥ तदिदं कर्माऽऽर्ययाऽऽह- शेषाभावे हारावपवर्त्यामू परस्परं हत्वा । अपवर्तकेन गुणयेच्छेषसमत्वे तु शेषमपि युज्यात् ॥३०॥२२॥ अस्यास्तूदाहरणमेव व्याख्यानम् ॥ २२ ॥ इति श्रीदेवराजविरचिते कुट्टाकारशिरोमणौ सायप- रिच्छेदः प्रथमः ॥ १ ॥ - अथ द्वितीयः परिच्छेदः। उद्देशकः-द्यायैर्दशकपर्यन्तों राशिः शून्यशेषकः। तं राशिमभिधेहि द्राक् तान्त्रिकग्रामणीर्मम ॥ २५ ॥२३॥ . SHREE NRNA RUKH कुट्टाकारशिरोमाणिः। १७ अत्र व्यादिषु नवसु च्छेदेषु द्विसंख्याकस्यास्य त्रिसंख्यस्य द्वितीयस्य चापवर्तकाभावांदनयोः संवर्गः षट्(६)संख्यः । अयमादितो द्वयोश्छेद- योनिरग्रो भाज्यराशिः । अथास्य च चतुःसंख्याकस्य तृतीयस्य चापवर्तको दि( २ )संख्यः । अनेनापतितयोः क्रमात् त्रिद्विसंख्याकयो( ३, २) रेतयोर्वधोऽपि षट्(६)संख्यः । अयमपवर्तकेन द्विकेन गुणितः सूर्य(१२) संख्यः । अयमादितस्त्रयाणां निरयो भाज्यः । अथास्य च पञ्चसंख्यस्य चतुर्थस्य चापवर्तकाभावादनयोर्चातः षष्टि(६०)संख्यः । अयं चतु) निरयो भाज्यः । अथास्य च षट्संख्यस्य पञ्चमस्य चापवर्तकः षट्(६) संख्यः । अनेनापवर्तितयोः क्रमाद्दशैक(१०-१)संख्ययोरेतयोरभ्यासो दशक(१०)संख्यः । अयमपवर्तकेन षट्केन गुणितः षष्टि(६०) संख्यः। अयमादितः पञ्चानां छेदानां निरग्रो भाज्यराशिः। अथास्य च सप्तसंख्यस्य षष्ठस्य चापवर्तकाभावादनयोर्वधो नखवेद(४२०)संख्यः । अयं षण्णां निरनो भाज्यः । अथास्थ चाष्टसंख्यस्य सप्तमस्य चापवर्तक- चतुः( ४ )संख्यः । अनेनापवर्तितयोरेतयोरभ्यासो दिङ्नेत्र ( २१० ). संख्यः । अयमपवर्तकेन चतुष्केण गुणितः खाब्धिगज(८४०)संख्यः । अयं सप्तानां भेदानां निरनो भाज्यः । अथास्य च नवसंख्याकस्य चाष्टमस्य चापवर्तकस्त्रि(३) संख्यः । अनेनापवर्तितयोरेतयोः संवर्गश्च खाब्धिगजसंख्यः (८४०)। अयमपवर्तकेन त्रिकेण गुणितो नखतत्त्व(२५२०)संख्यः । अयमष्टानां हाराणां निरग्रो भाज्यराशिः । अथास्य च दशसंख्यस्य नवमस्य भागहारस्य चापवर्तको. दशक( १०)संख्यः । अनेनापवर्तितयोरेतयोर- भ्यासः पक्षतत्त्व(२५२)संख्यः । अयमपवर्तकेन दशकेन निहतः पूर्वव. नखतत्त्व(२५२०)संख्यः । अयं द्विपूर्वाणां दशपर्यन्तानां नवानां भाग- हाराणां निरयः प्रत्यासन्नो भाज्यराशिः ॥ २३ ॥ अथ शेषसाम्यविषय उद्देशकः- दव्याधैर्दशकपर्यन्तै वभिर्भाजकैर्हतः। यो भवेद्राशिरेकाग्रस्तमाचक्ष्वाविलम्बितम् ॥ २४ ॥ अब पूर्ववदानीतो नखतत्त्व( २५२०)संख्यो भाज्यराशिरेकेनामेण युक्तः (२५२१)पत्यासन्नो भाज्यराशिः । एवमनेन न्यायेन सूर्यन्दुजीव- भौमशरेश्वराणां बुधाशीयोच्चयोश्चन्द्रोच्चपातयोश्च विचगाचनयनं कर्त L १८ महालक्ष्मीमुक्तावलीसहितः- व्यम् । उदाहरणं तु ग्रन्थविस्तरभयान प्रदर्श्यते । अत्र च-पूर्वेण पूर्वेण गतेन युक्तं स्थानं विनाऽन्त्यं प्रवदन्ति संख्याः । इच्छाविकल्पः क्रमशोऽभिनीय नीचे निवृत्तिः पुनरन्यनीतिः( २३ ) ॥ बृहत्संहितायामध्याये( ७६ ) श्लोकः ( २२ ) वराहमिहिरः । इत्याचार्योक्तप्रकारेणैषामेकयुगविषयाः प्रश्ना नव( ९)। द्वियुगविषयाः षट्तित्( ३६)। त्रियुगविषयाश्चतुरशीतिः (८४) । चत्यंगविषया रसनेत्रचन्द्र( १२६ )संख्याः । पञ्चयुगविषयाश्च तावन्तः ( १२६ )। षड्युगविषयीश्चतुरशीतिः ( ८४ ) । सप्तयुगविषयाः अतिशत् ( ३६ )। अष्टयुगविषया नव' ( ९ )। नवयुगविषयः प्रश्न एक: (१)। एवं संभ्य रुवाण( ५११ )संख्याः प्रश्नाः संभवन्ति । अत्र रविचन्द्रभौमजीवशनैश्चराणां बुधकाव्यशीघोच्चयोश्चन्द्रोचपात्योश्च युगैः शून्यायो राशिर्वसुद्वयष्टादिरूपाङ्कसप्तादितिथि( १५७७९१७८२८ ). संख्याः। आर्यभटीये तु व्योमशन्यशरादीन्दुरन्ध्रायदिशरेन्दु(१५७७९१ ७५०८)संख्यः । एवं सामकुट्टाकारो दर्शितः ॥ २४ ॥ इत्यत्रिकुलाभरणस्य स्कन्धत्रयवेदिनः सिद्धान्तवल्लभ इति प्रसिद्धापर- नाम्नः श्रीवरदराजाचार्यस्य तनयेन देवराजेन विरचितायां कुट्टाकारशिरोमणिटीकायां महालक्ष्मीमुक्तावल्या सायपरिच्छेदः प्रथमः ॥ १ ॥ अथ निरग्रपरिच्छेदो द्वितीयो व्याख्यायते । तवाऽऽदौ निरविषयं प्रश्नमार्यया प्रकटयति- हारकभाज्यक्षेपैरुद्दिष्टगुणफले य आख्याति । स निरमविदां श्रेष्ठो दैवज्ञानां महीतले भवति ॥ १॥ य उद्दिष्टै गहारकभाज्यक्षेपैर्गुणफले आख्याति स महीतले निरनविदा देवज्ञानां मध्ये श्रेष्ठो भवति । तत्रेदं प्रश्नशरीरम्--उद्दिष्टोऽयं भाज्यराशिः केन गुणकारेण गुणितः, उद्दिष्टेनानेन संख्यान्तरेण वियुक्तः संयुक्तो वा उद्दिष्टेनानेन भागहारेण विभक्तः शुध्येत्तादृशः को वान' गुणकारः किं. वा फलमिति । एतच्चोत्तरत्रोदाहरणेन व्यक्ती भविष्यति ॥ १ ॥ अथ तत्पश्नभङ्गायाऽऽर्यामाह- कुट्टकसूत्रद्वितयं संयोज्य निरयकुट्टपद्धत्याम् । तत्रत्यैः कर्मचयैर्विद्वान् विदधीत गुणकफले ॥ २ ॥ १ स. गुणाका । २ ख. गुणाका । SEN HAR MEENHERIRAT HINA कुट्टाकाराशरोमाणः। १९ अत्र विद्वच्छन्देन तान्त्रिक उच्यते । कुट्टकसूत्रद्वितयं पूर्वलिखितं कुट्टाकारयुग्मविषयमार्यभटीयस्थमधिकाराद्यार्यासूत्रयुगलं निरयकुट्टपद्धत्यां निरप्रकुट्टाकारमार्गे संयोज्य सम्पग्योजयित्वा तवत्यैर्निरमकुट्टाकारग- णितसंबन्धिभिः कर्मचयैः कर्मसमूहैर्गुणकफले गुणकश्च फलं च गुणकफले ते अत्र विदधीत कुर्यात् । अत्र यद्यपि सर्व सूत्रद्वयं नोपयुज्यते तथाऽपि प्राचुर्या- तदनादृत्य कुट्टकसूत्रद्वितयमित्त्युक्तमित्यवगन्तव्यम् ॥ २ ॥ अधाधिकाग्रादिसूत्र प्रस्तुतपश्नभङ्गार्थं निरग्रमधिकृत्य व्याक्रियते । अ- धिकाग्रभागहारम् । अवाय शन्देन संख्याऽभिधीयते । भागहारशब्देन चात्र भागहारभाज्यराश्योः परस्परं भाजकत्वात्तौ द्वावपि गृह्यते । अत्र ग्रहैकत्वव- देकत्वमविवक्षितम् । अतोऽयमर्थः संपन्नः । अधिकसंख्याको हरभाज्यराशी इति । उनाग्रभागहारेण च्छिन्द्यात् । अत्राप्यनशब्दः संख्यावचनः । जनसं- ख्येन भागहारेण विभजेत् । अपवर्तकेन संभवे सत्यपवर्तयेदित्यर्थः । अथायं कथमपवर्तको ज्ञायते तदानयनमन्यत्रोक्तम्- विभजेत हरविभाज्यो परस्परं यावदेति संशुद्धिम् । एकस्थयोस्तदपरस्छेदो हरभाज्ययोर्भवति ॥ इति । अत्र च्छेदशब्दोऽपवर्तकपर्यायः । इह येनापवर्तकेन हरभाज्यावपवर्यते तेन ऋणात्मकस्य वा धनात्मकस्य वा क्षेपस्यापर्वर्तनमप्यर्थसिद्धमिति न कण्ठो- क्तम् । यत्र हरभाज्ययोरपवर्तनमप्यस्ति क्षेपस्य तु तन्नास्ति तदुदाहरणं खिलं विद्यात् । उक्तं च- "भाज्यहरपक्षेपान् सदृशच्छेदेन संभवे छिन्यात् । स चेद्विभाज्यहरयोश्छेदो न क्षेपकस्य च खिलं तत् ॥ इति । एषमुदाहरणस्याऽऽदौ सम्यकाखिलत्वं विज्ञायापवर्तनस्य संभवे सति हर- भाज्यक्षेपानपवर्तयेत् । अत्रेदमनुसंधेयम् । अपवर्तनेऽप्यनपवर्तनेऽपि भाज्ये भाजकाद्नेऽधिकेऽप्यविशेषेण सर्वदा भाज्यराशेरधो भाजकराशि विन्य- सोदिति । शेषपरस्परभक्त मतिगुणमित्येतद्वयमपि भाज्ये भागहारादूने सति पूर्ववत् । आधिके तु विषमायां फलपतो सत्यामस्य मतिः कल्प्या। अवापि मतिकल्पनायामेवमालापः । अयमुपारराशि: केन गुणित उद्दिष्टेन संख्याविशे- पेण युक्तो वियुक्तो वाऽनेन स्वाधौराशिना शुध्यतीति । अग्रान्तरे क्षिप्तम् । अत्राप्यग्रशन्दः संख्यावचनः । अन्तरशन्दो विशेषवचन: । [न] विवरवचनः ।
महालक्ष्मीमुक्तावलीसहितः- अब मतिगुणितं प्रकरणं तदुद्दिष्टे धनात्मके रूपात्मके संख्याविशेषे क्षितं का. यम् । एतदुपलक्षणम् । तदृणक्षेपेण शोध्यमित्यस्य(र्थः) । अधउपरिगुणितम- न्त्ययुगिति वल्ल्युपसंहारः पूर्ववत् । ऊनाग्रच्छेदभाजिते शेषम् । अत्राप्ययश- न्देन संख्योच्यते । छेदशब्देन पूर्ववद् हरभाज्यावभिधीयते । शेषस्य चैकत्व- मविवक्षितम् । संभवे सत्यूनसंख्याभ्यामपवार्तताभ्यां हरभाज्याभ्यां क्रमादुप- यघोराश्योविभक्तयोः शेषे कुट्टाकारफले भवतः । अन्विष्यमाणः प्रत्यास- नो गुणकारस्तत्र फलं च लब्धं भवतीत्यर्थः । अब भाज्ये भागहारादपिके सति त्वपवर्तिताभ्यां हरभाज्याभ्यां क्रमादधउपरिराश्योविभक्तयोः शेषे गुणफले भवतः । अधिकारच्छेदगुणमित्याद्यत्र नोपयुज्यते ॥ २ ॥ अवायं संग्रहश्लोकः- कुटाकारे निरग्रे समधिकवपि च्छेदतो भाज्यराशौ लब्धे युग्मे मतिः स्यादुपरि फलमधो वर्धकः स्याद्विहीने । युग्मे लब्धे मतिः स्यादुपरि तु गुणकोऽधः फलं स्यादृढेन च्छेदेनाऽऽप्ते गणेऽस्मिन्गुणक इह फले भाज्यभक्त फलं स्यात् ॥३॥ अस्यार्थः-निरग्रकुट्टीकारे भाज्यराशौ भागहारादधिके सति तत्र शेष- परस्परभक्तमिति लब्धानां फलानां पतनै विषमायां सत्यां मतिः कल्प्या । तदा तत्र वल्ल्युपसंहारे कृतेऽधोराशिगुणः । उपरिराशिः फलम् । अथ भाज्ये छेदाने सति तत्र फलपश्यां समायां मतिः कल्प्या । तदोपरिराशिर्गुणः । अधोराशिः फलम् । अत्रोभयत्र सति संभवे गुणेऽपवर्तितेन हारेण विभक्ते शेषो गुणः फले चापवर्तितेन भाज्येन विभक्ते शेषं फलं भवतीति । इदं सर्व- मुद्दाहरणेन व्यक्ती भविष्यति । अत्रेदमनुसंधेयम् । भाज्ये भागहारादूनेऽधिके च यत्र शेषपरस्परभक्तमित्यत्र फलपङ्क्तिरेका भवति तदा शेषयोश्चैकः शुध्यति । भाज्ये भागहारादूने सत्येव शेषपरस्परभक्तमित्यत्र फलपङ्क्ती द्वे भवतः । तदा शेषयोरप्येकः शुध्यति । तत्रोभयत्राऽऽदावेव प्रत्यासन्नां मति . कल्पयित्वा तया भाज्यं गुणयित्वा स्वाधःस्थेन च्छेदेन विभजेत् । लब्धं फलं भवति । मतिरेव गुणः ॥ ३॥ १ ख. बद्धकः। AALORE PARDER कुट्टाकारशिरोमाणिः । अथ खिलविषय उदाहियते- उद्देशकः-खाध्यमयो हताः केन युताः पञ्चभिराहताः। पूर्णार्थमार्गणैः शुद्धाः शीघ्रं गुणफले वद ॥ ४ ॥ अब भाज्यः खवेदराम( .३४० संख्यः । छेदोऽत्र खभूतशर- ( ५५० )संख्यः । धनक्षेपः शर( ५ )संख्यः । एषु भाज्यभाजकयोः परस्परभक्तयोः शेषो दिक(१०)संख्यः। अयमनयोहरभाज्ययोरपवर्तकः । क्षेप- 'स्त्वनेन भक्तो न शुध्यति । तस्मादुद्दिष्टोदाहरणं खिलमिति वक्तव्यम् ॥४॥ अब भाज्ये भागहारादूने तत्रैवानपवर्तनविषय उदाहियते-उद्देशक:- चन्द्रेशाः (१११) केन गुणिता रूप(१)युक्ता द्विखामिभिः(३०२)। भक्ताः शुद्धा गुणफले ब्रूहि तूर्ण निरगवित् ॥ ५ ॥ अत्रापवर्तनं नास्ति । भाज्योऽपि भाजकाद्धीनः । अतस्तत्रोक्तप्रक्रिय- याऽऽनीतः प्रत्यासन्नो गुणः शरधृति( १८५)संख्यः । तवाऽऽगतं फलं गजतर्क( ६८ )संख्यम् । अथैवमागतयोरनयोर्गुणफलयोः क्रमादेकदिव्या- दिसंख्यागुणिती हरभाज्यौ क्षिप्त्वा गुणफलसहस्रमानयेत् । तद्यथा-पूर्वमागते शरधृति ( १८५)संख्य गुणके रूपगुणे रूपगुणे द्विखामि( ३०२)संख्ये भाजके क्षिप्ते मुनिवसुकृत( ४८७ )संख्याको गुणो भवति । एवं पूर्वमागते गजतक( ६८ )संख्ये फले रूपमुणे चन्द्ररुद्र ( १११)संख्ये भाज्ये दत्ते नवात्यष्टि( १७९ )संख्यमन्यत्फलं भवति । एवमन्यान्यपि गुणफला- न्यानयेत् ॥ ५ ॥ अथाव क्षेपमृणं परिकल्प्योदाह्रियते- उद्देशकः--चन्द्रेशाः केन गुणिता रूपहीना द्विखाग्निभिः । भक्ताः शुद्धा गुणफले ब्रूहि तूर्णं निरगवित् ॥ ६॥ अधोक्तवदानीतो गुणो मुनिरुद्र ( ११७ )तरूपः । फलं रामवेद- (४३ )तव्यम् । अथानयोर्गुणफलयोः क्रमादेकदिव्यादीष्टसंरूपागुणिती हरभाज्यौ क्षिप्त्वा गुणफलसहरूामानयेत् ॥ ६ ॥ अथात्रापवर्तनविषय उदाह्रियते-उद्देशकः-- खान्ध्यग्नयो ( ३४०) हताः केन युता दशभि(१०)राहताः। पूर्णार्थमार्गणैः( ५५०.) शुद्धाः शीघ्र गुणफले वद॥७॥ अत्र भाज्यमाजकयोः परस्परभक्तयोः शेषो दिक( १० )संख्यः । KARARIANTERNET महालक्ष्मीमुक्तावलीसहितः- - अपमापवर्तकः । अनेन हरभाज्यक्षेपानपवयोक्तवदानीतो गुणः मति(२१)- संख्यः ।। फलं त्रयोदशसंख्यम् । अथानयोः क्रमादिष्टसंख्यागणितावपवर्तिती हरभाज्यो क्षिप्त्वा गुणफलशतमानयेत् ॥ ७ ।। अधात्र क्षेपमृणं कल्पयित्वोदाहियते- उद्देशक:-खाब्ध्यनयो हताः केन हीना दशभिराहताः। पूर्णार्थभार्गणैः शुद्धाः शीघ्रं गुणफले वद ॥ ८ ॥ अत्रोक्तवदानीतो गुणो वेदाग्नि( ३४ )संख्यः । फलं प्रकृतिसंख्यम् । ( २१)। अथानयोः क्रमादिष्ट गुणावपवर्तितौ हरभाज्यौ दत्त्वा गुणफल- शतमानयेत् ॥ ८॥ अथ भाज्ये भाजकादधिके तत्राप्यनपवर्तनविषय उदाह्रियते- उद्देशक:-द्विखाभयो ३०२हताः केन रूपयुक्ता हरेन्दुभिः (१११)। भक्ताः शुद्धा गुणफले ब्रूहि तूर्ण निरपवित् ॥ ९ ॥ अत्रोक्तमक्रिययाऽऽनीतो गुणो रामवेदसंख्यः( ४३ ) । फलं मुनिरुद- (११७ )संख्यम् । अथैतयोः क्रमादिष्टगुणौ हरभाज्यौ क्षिप्त्वा गुणफल- शतमानयेत् ॥ ९॥ अथात्र क्षेपमृणं परिकल्प्योदाहियते- उद्देशक:-द्विखामयो हताः केन रूपहीना हरेन्दुभिः । भक्ताः शुद्धा गुणफले ब्रूहि तूण निरगवित् ॥ १० ॥ अत्राऽऽगतो गुणो गजतर्क( ६८ )सेख्यः। फलं शरधृति( १८५ ). संख्यम् । अथानयोः क्रमादिष्टगुणौ हरभाज्यौ क्षिप्त्वा गुणफलसहसमान- येत् ॥ १०॥ अधावापवर्तनविषय उदाहियते- उद्देशकः-वार्थेषवो(५५०)हताः केन युता दशभि(१०)राहताः। खवेदपुष्करैः(३४०) शुद्धाः शीघ्र गणफले वद ॥ ११ ॥ अवाऽऽगतो गुणः परुति( २१ )संख्यः । फलं कृताग्नि( ३४ )सं- ख्यम् । अथानयोः क्रमादिष्टगुणावपवर्तितौ हरभाज्यौ क्षिप्त्वा गुणफलसहस- मानयेत् ॥ १० ॥ अथात्र क्षेपमृणं कल्पयित्वोदाहियते- - कुट्टाकाराशिरोमाणः । उद्देशकः-खार्थेषवो हताः केन हीना दशभिराहताः। खवेदपुष्करैः शुद्धाः शीघं गुणफले वद ॥ १२ ॥ अत्राऽऽगतो गुणो रामभू( १३ )संख्यः । फलं प्रकृति( २१)- संख्यम् । अथानयोः क्रमादिष्टगुणापतिता हरभाज्यौ दत्त्वा गुणफलसहसमा- नयेत् ॥ १२ ॥ अथात्र वैराशिकमार्गः पदयते- उद्देशकः- खार्थेषवो हताः केन हीना दशभिराहताः। खवेदपुष्करैः शद्धाः शीघ्रं गुणफले वद ॥ १३ ॥ अत्रापवर्तको दशक( १० )संख्यः । अनेनापतितो भाज्यसशिः पञ्चपञ्चाश( ५५ )। त्संख्यः । भाजकश्चतुस्त्रिंश( ३४ )त्संख्यः । ऋणक्षेपः पश्च(५)संख्यः । एभिरधिकाग्रभागहारमित्येवमादिनाऽऽनीतो गुण एक- त्रिंश(३१)संख्यः । फलं पञ्चाश (५०)त्संख्यम् । एते गुणफले त्रैराशिके. नापि सिध्यतः । तद्यथा-खार्थेषवो हताः केन हीना दशभिराहताः। खो- दपुष्करैः शुद्धा इत्यत्रोदाहरणेऽनन्तरोक्तोदाहरणे चापवर्त्य दृढीकृतौ हर- भाज्यौ समानौ ऋणरूपावपवर्त्य दृढीकृतौ क्षेपौ तु क्रमादनयो रूप भूत ५ संख्यौ । अबोदाहरणद्येऽपि दृढयोहरभाज्ययोवैषम्याभावात्रैराशिकम- वतरति । यदि रूप( १ )संख्येन दृढेन क्षयक्षेपेण क्रमाद् द्विख(कु)१२- प्रकृति २१ संख्ये गुणफले लब्धे पञ्चसंख्येन ५ दृढेनानेन क्षयक्षेपेण कियतीत्येवं वैराशिकेन लब्धो गुणः पञ्चषष्टि( ६५ )संख्यः। फलं पश्चोत्तरशत( १०५)संख्यम् । एतयोः कमाढाभ्यां चतुस्त्रिंशत् (३४)- पश्चपञ्चाश( ५५ )संख्याभ्यां विभक्तयोः शिष्टे गुणफले एकविंशत्(३१) पश्चपश्चाश(५०)संख्ये । एवमत्र त्रैराशिकेनाऽऽनीतयोर्गुणफलयोरधिका- ग्रादिसूत्रानीतयोश्च वैषम्यं नास्ति । एवं धनक्षेपविषयेऽनपवर्तनविषये च वैराशिकसरणिरुलेया । अत्रेदमनुसंधेयम् । अयं त्रैराशिकमाों भाज्ये भाग- हारादूनेअधिके वाऽपवर्तनविषयेऽनपवर्तनविषये वा सर्वदा समान इति । एवं निराविषये तावदिदमधिकागादिसूत्र युग प्रतिपत्तॄणां बुद्धिक्षोभो भा भूदि- त्येकयैव रीत्या व्याकृतम् । अथैतदेवात्र किंचिदिकल्प्य व्याख्यायते । पूर्व १ ख. माझोक (१३) । SMITRAMDELESIOSHI ३४ महालक्ष्मीमुक्तावलीसहितः- यत्रोदाहरणे भाज्यो भागहारादूनसंख्यस्तत्र ‘शेषपरस्परभक्तं मति गुणमयान्तरे- क्षिप्तम्' इत्यत्र फलपङ्कयां समायां सत्यां मतिः कल्प्या। मतिगुणितोपरिराशि- रुद्दिष्टक्षेपेण च यथास्वसंस्कृतः स्वाधोराशिना विभजनीय इत्युक्तम् । इदानीं तत्फलपतयां विषमायां मतिः कल्पनीया। मतिगुणितोऽल्पोऽधोराशिरुद्दिष्टेन क्षेपेणापि वाम स्वसंस्कृतस्वोपरिराशिना विभजनीय इत्युच्यते । यत्र चोदाह- रणे भाज्यो भागहारादधिकस्तत्र फलपतयां विषमायां मतिः कल्पयितव्या । मतिनिहतोऽल्प उपरिराशिरुद्दिष्टेन क्षेपेण च यथास्वसंस्कृतः स्वाधोराशिना विभाज्य इति पूर्वमुक्तम् । इदानीं त्वत्र फलपङ्कौ समायां मतिः कल्प्या। मतिगुणितोऽल्पोऽधोराशिरुद्दिष्टेन क्षेपेण च वाम संस्कृतः स्वोर्ध्वराशिना हरणीय इत्युच्यते । अन्यत्सर्वं पूर्ववत् । एवं कृतेऽपि पूर्वपदार्शतमाखलमुदा- हरणजातं प्रायशः सिध्यत्येव । एवमधिकाग्रादिसूत्रद्वयं निरग्रामधिकृत्य समा- सतो व्याख्यातम् ॥ १३ ॥ अथ संश्लिष्टकुट्टाकारास्त्रयः । तेषु यत्रैको भागहारस्तदग्राणि च भिन्नरूपाणि भिन्नरूपा भाज्याश्चोद्दिश्यन्ते स पथमः- अत्रोद्देशक:-रुद्रा११विश्वे१३सायकाःपशैलवेदाः४७ केनाभ्यस्तावर्जितास्ते क्रमेण । रूपैरीशैः ११ सप्तभिः७ शीतभासा धृत्या १८भक्ताः शद्धिमाप्ता वदेस्तम् ॥ १४ ॥ अत्र पूर्ववदानीतो गुणः पञ्चसंख्यः ॥ १४ ॥ अथ यत्रैको भाज्यो भिन्नरूपा भागहारास्तग्राणि च तादृशान्युदिश्यन्ते सं द्वितीयः- अत्रोद्देशक:-केनाभ्यस्ता रामवाणाश्चतुर्धा ५३-५३-५३-५३ वेदै ४ रकै १२ वासवै १४ रक्षि १०२ दिग्भिः । हीना भूपैः १६ खार्णवैः ४०षट्कतः ६६ खेशै ११०भक्ताः शुद्धिमाप्ता गुणः कः ॥ १५ ॥ अत्र पूर्ववदानीतो गुणो वेद( ४ )संख्यः ॥ १५॥ अथ यत्र भाज्या भागहाराश्च भिन्नात्मकास्तादृशानि तदअाणि चोदि । स वतीय:-अत्रोद्देशक:-- १ NOR २५ १ तं जी कुट्टाकाराशरोमाणः। चन्द्रामराः३३१ शरशिवा ११५मुनिरामसूर्याः१२३७ केनाऽऽहताः शिखिसुरै३३३नव९भित्रिवेदैः ४३ । हीना रसाग्निमनुभी १४३६रविभि१२गंजेशैः११८ शुद्धाः क्रमेण वद गुणमाशु विद्वन् ॥ १६ ॥ अत्रत्यो गुणस्तूत्तरत्र प्रदर्शयिष्यते ॥ १६ ॥ एषु पथमद्वितीययोः संश्लिष्टकुट्टाकारयोरेकस्य योऽधिकारादिसूत्र- लन्धो गुणः स सर्वेषां समान इति न तयोः किंचिदपि वक्तव्यमस्ति । अतस्तो विहाय तृतीयविषय आर्थे आह- भिन्नहरभाज्यकुट्टे सर्वेषां पूर्ववद्गुणाः साध्याः । भाज्योऽल्पगुणहरः स्याद्धारोऽन्यहरो गुणान्तरमृणाम् ॥१७॥ तज्जगुणभाज्यघातः साल्पगुणः स्फुटगुणोऽस्य हरघातः। हर इह ताभ्यां परगुणहाराभ्यां गुणक उक्तवत्साध्यः ॥ १८॥ अनयोरर्थस्तूदाहरण मुखेन व्यक्ती भविष्यति । अत्रत्यः प्रश्नश्लोकः पू. वमेव लिखितः । एतच्छ्लोके यो भाज्याः । तेषां क्रमाद् भागहाराश्च त्रयः। ऋणरूपाण्यग्राणि च क्रमेण त्रीणि। एषु प्रथमो भाज्यश्चन्द्रामर(३३१)संख्यः। अस्य च्छेदो रसानिमनु(१४३६)संख्यः । अत्र ऋणाग्रं शिखि सुर(३३३)सं. ख्यम् । एभिः पूर्ववदानीतः प्रथमो गुण रूयष्टाक्षि(२८३)संख्यः । अथ द्वि- तीयो भाज्यः शरशिव(११५) संख्यः । अस्य च्छेदो रवि(१२)संख्यः । अत्र ऋणायं नव( ९ )संख्यम् । एभिः पूर्ववदानीतो गुणस्त्रि(३)संख्यः । अथ तृतीयो भाज्यो मुनिरामसूर्य(१२३७)संख्यः। अस्य हारो गजेश(११८)संख्यः। इह ऋणायं त्रिवेद(४३)संख्यम् । एभिः पूर्ववदानीतो गुणः सप्तरस(६७)संख्यः। अथ प्रथमद्वितीययो(ज्यराश्योः साधारणो गुण आनीयते । प्रथमगु- णस्यष्टाक्षि(२८३)संख्यः। द्वितीयगुणस्त्रि(३)संख्यः । अत्र द्वितीयगुणस्याल्प- त्वाद्भाज्येऽल्पगुणहरत्वं स्यादित्यल्पगुण उत्पाद्यमाने यश्छेदः सोऽत्र भाज्यो भवेदिति । द्वितीयगुण उत्पाद्यमाने यश्छेदः सोऽत्र भाज्यो भवेत् । स च रवि(१२)संख्यः। “हारोऽन्यहरः' इत्यधिकगुण उत्पाद्यमाने यश्छेदः स भाजको भवेदित्यत्राधिके प्रथमगुण उत्पाद्यमाने यश्छेदः स भाजको भवेत् । स च रसानिमनु(१४३६)संख्यः । गुणान्तस्मृणाग्रामिति पथमाहितीययो- Y २३ महालक्ष्मीमुक्तावलीसहित:- - गुणयोर्विवरमृणक्षेपो भवेत् । स च खाष्ट्राक्षि(२८०)संख्यः । एवमागतैर्भाज्य- भाजकक्षेपैनिरग्रकुट्टाकारपायया यो गुण उत्पादितो भवति स. तज्जगुणः । स चात्र त्रिमनु(१४३)संख्यः। तस्य पूर्वप्रदर्शितभाज्यस्य च रवि(१२)संख्यस्य संवर्गो नृपात्यष्टि(१७१६)संख्यः । एषोऽत्र तज्जगुणभाज्यघातः । असौ 'सा- ल्पगुणः' इत्यत्रत्येन विसंख्येनाल्पेन गुणेन युक्तश्छिद्ररूपमुनीन्दु(१७१९)संख्यः। एष प्रथमद्वितीययोर्भाज्यराश्योः साधारणो गुणः। अयमेवात्र स्फुटगुण उच्यते । अथ तृतीयभाज्यस्य पूर्वभाज्ययोश्चानन्तरोक्तप्रकारेण साधारण गुणे साध्ये स्फु- टगुण एव गुणः । अस्य हर इति स्फुटगुणस्य प्रथमच्छेदयोः संवर्गच्छेदो भ- वेदित्यत्र प्रथमच्छेदस्य रवि(१२)संख्यस्य रसाग्निमनु(१४३६)संख्यस्य द्विती- यच्छेदस्य च घातो रव्यत्यष्टि(१७२३२)संख्यः । असौ छेदः । अथाभ्यां गुणच्छेदाभ्यां चेह ताभ्यां परगुणहाराभ्यां गुणक उक्तवत्साध्य इति त्रयाणां भाज्यानां साधारणो गुणः साध्यते । अत्र स्फुटगुणात्तृवीयो गुणोऽल्पः । अतोऽत्र गजेश(११८)संख्यः। तृतीयच्छेदो भाज्यः। स्फुटगुणस्य रदद्व्यत्यष्टि- (१७२३२)संख्यश्छेदो भाजकः । स्फुटगुणस्य च्छिद्ररूपमुनीन्दु(१७१९) संख्यस्य सप्तरस(६७)संख्यस्य तृतीयगुणस्य च विशेषी व्यर्थनृप(१६५२) संख्यः । एष क्षयक्षेपः । एभि ज्यभाजकक्षयक्षेपनिरग्रकपकारेणाऽऽनीतस्तन- गुणः शक्र(१४)संख्यः । अस्य च गजेश(११८)संख्यस्य भाजकस्य च वधो व्यर्थाष्टि(१६५२)संख्यः । अयमत्राल्पेन सप्तरस(६७)संख्येन तृतीयगुणेन युतः पूर्ववच्छिद्रूपमुनीन्दु(१७१९)संख्यः । अयमत्र स्फुटगुणः । अयमेवात्र प्रयाणां भाज्यराशीनां साधारणो गुणः । एवमेवंविधप्रश्नेषु गुणाः साध्याः ॥१७॥१८॥ अथ पूर्वोक्तनिरग्रन्यायेन चतुर्युगसंबन्धिनोऽधिमासावमदिवसग्रहभगणा- दीभाज्यराशीकल्पयित्वा चतुर्युगसंबन्धिनः सूर्यमासचान्द्रवासरभूमिसावनदि- चसादीन्भागहारांश्च परिकल्प्याधिकावमभागादिशेषानपि क्षयक्षेपान्परिकल्प्य तत्र कुट्टाकारफलमन्यान्कांश्चन विशेषानपि दर्शयिष्यन्नादावधिमासशे- पावलम्बनेन प्रश्नत्रयमार्यया प्रकटयति- अधिकाग्रनिधिमासान्रविमासान्दिनगणांश्च यो बूते । सलिलनिधिमेखलायां स भवति सांवत्सरागणी मा ॥१९॥ १ ख. ग्रादधि। STANDAR कुट्टाकारशिरोमाणः। स्पष्टार्थयमार्या ॥ १९ ॥ अर्थतत्मस्तुतप्रश्नत्रयभङ्गार्थमात्रयमाह- सिद्धहतमधिक शेष द्वेधा विन्यस्य खाद्रिषट्कनखैः । नवखेषुव्यद्रिरसैर्हत्वा नन्दाष्टवह्नितर्करसैः॥ २० ॥ खचतुष्काङ्गकुपक्षैः क्रमेण विभजेत्फले पृथग्भवतः। शेषे गताधिमासा रविमासाश्च क्रमादिह भवन्ति ॥२१॥ तद्योगं युगदिवसैहत्वा विभजेत शीतकरमासैः । लब्धं फलं सरूपं शेषे सति तद्भवेदिवसवृन्दम् ॥ २२ ॥ चतुर्विंशति( २४ मनमुद्दिष्टमधिकमास शेषमुपर्यधोभावेन द्विधा स्थापयित्वा तदुपर्यधोराशी खादिषट्कनखैः ( २०६७० ) नवखेषुद्व्यदि- रसैश्च ( ६७२५०९) क्रमादत्वा नन्दाष्टवह्नितकरसैः (६६३८९) खचतुष्काङ्गकुपक्षैश्च ( २१६०००० ) सति संभवे क्रमेण विभजेत् । अत्र लन्धाभ्यां प्रयोजनं नास्ति । इह शेषौ क्रमाद्गताधिमासा गतरविमासाश्च भवन्ति । अत्र गताधिमासवृन्दं फले सति रविमासचयः कुट्टाकाराख्यो गुणः । अथ गताधिमासगतरविमासयोगं वसुव्यष्टादिरूपासप्तादितिथि- (१५७७९१७८२८ )संख्यैश्चतुर्युगदिनैहत्वा रसत्रिगुणरामाग्निवेदपुष्करसा- यकैः ( ५३४३३३३६ ) चतुर्युगचन्द्रमासैर्विभजेत् । अत्र फलं लब्धं फलं चान्द्रमासशेषे विद्यमाने तस्य भागहारार्धादूनाधिकमनपेक्ष्य सर्वदा रूप( 1 )- युक्तं कार्यम् । तद्दान्तावधिकानां गतानां चान्द्राणां मासानामनुपातसिदः सावनदिनसमूहः स्यात् ॥ २० ॥ २१ ॥ २२ ॥ उद्देशकः-सूर्याद्रिनन्दविधुराममहीधरसंख्यो दृष्टो मयांऽत्र मतिमनधिमासशेषः । अस्मादिमानधिकमासचयान्विवस्व- न्मासांश्च तद्युतिभवानि वदेरहानि ॥ २३ ॥ अत्राधिमासशेषोऽयं ( ७३१९७१२ )। अयं सिद्ध( २४ )हतः सा- टतानवेदाधाग्नि( ३०४९८८ )संख्यः । अंयमुपर्यधोभावेन ( ३०४९- ८८ । ३०४९८८ ) द्विधा विन्यस्तः । अवोपरिराशिः खादिषट्कनखैः (२०६७०) गुणितः खरसातिधतिदिक्कृतखाग्निषट्(६३०४१० १९६०) १ ख. भ्यां फलाभ्यां प्र।
Titupbeta २८ महालक्ष्मीमुक्तावलीसहित:- m संख्यः। अस्मिन्नन्दाष्टवह्नितर्करसैः ( ६६३८९ ) विभक्ते शेषः सप्ताटा- ष्टि( १६८७ )संख्यः । अयं गताधिमास वयः। अथाधोराशिनवखेषुव्य- हिरसैः ( ६७२५०९ ) गुणितः पक्षाङ्कगष्टाब्धिमुनिभगिरिदिगिषुनख(२०५८ १०७१७४८९२ )संख्यः। अस्मिन्खचतुष्काङ्क(ग )कुपक्षैः ( २१६- ०००. ) विभक्त शेषो व्यङ्कगष्टाब्धीषु( ५४८९२ )संख्यः । अयं गत- रविमासनिवहः । अथ गताधिमासगतरविमासयोगो नवादीषुरसेषु(५६५७९)- संख्यः । अयं गतचान्द्रमाससमूहः । एष चतुर्युगभूमिसावनदिनैर्गुणितः सूर्या- न्धिखाङ्कादिरविखाद्रिताराङ्कनष्ट( ८९२७७० १२७९० ४ १२ )संख्यः । अस्मिन्चतर्यगचान्द्रमासौभक्त लब्धं रुद्राष्टाधावचष्टि १६७०८११संख्यम् । अत्र शेषोऽष्टितानवेदाग्निद्व्यद्रि७२३४९१६संख्यः। अत्र शेषोऽस्तीति लन्धं रूपयुक्तं सूर्याष्टखाद्यष्टि १६७०८१२ संख्यम्। एतद्गतानां दर्शान्तावधिकानां चान्द्राणां मासानां त्रैराशिकसिद्धं भूसावनदिनवृन्दं भवति ॥ २३ ॥ अथाऽऽयंया क्षयदिनशेषावलम्बनेन कांश्चित्प्रश्नान् स्फुटयति- अवमायादिष्टदिनं विनेष्टदिवसैग्रहांस्तदग्राणि । अधिमासानपि यातान्यो वक्ति स एव दैवज्ञः॥२४॥ अत्र चत्वारः प्रश्नाः। एतेष्ववमायादिष्टदिनं यो वक्ति स एव दैवज्ञ इति प्रथमः। अवेष्टदिनमिति जात्येकवचनम् । अवमदिनशेषादानीतैरिष्टदिवसङ्ग्रहास्तच्छेषग- ताधिकमासाश्च विज्ञेयाः । अतोऽवमायाज्ज्ञातैरिष्टदिवसैविनाऽवमायादेव ग्रहान् यो वदति स एव दैवज्ञ इति द्वितीयः । अत्र ग्रहशब्देन भगणाद्या वाञ्छिता- न्ताः सचन्द्रोच्चपाता बुधशुक्रशीघोच्चसहिता मध्यग्रहा उच्यन्ते । अथावमा- ग्रादागतैरिष्टदिवसैविनाऽवमायादेव ग्रहशेषान् यो वक्ति स एव दैवज्ञ इति तृतीयः । अथावमायावगतैरिष्टदिवसैविनाऽवमायादेव यातानधिमासान् यो वक्ति स एव दैवज्ञ इति चतुर्थः । अत्र प्रश्नचतुष्टयेऽपि दैवज्ञशब्देन कुटा- कारज्ञ उच्यते । एवमुत्तरत्रापि द्रष्टव्यम् ॥ २४ ॥ अथैषां पश्नानां भङ्गार्थमायोपश्चकमाह- अवमाग्रं वेदहृतं चन्द्राग्निगुणे पुनन्दनागघ्नम् । रामरसेपुखपर्वतनेत्राङ्गहृतं गतावमं शेषम् ॥२५॥ SHAYARI कुट्टाकारशिरोमाणिः । वेदहृतं क्षयशेष मुनिषड्गुणकृतिविलोचनाद्रिशरैः । निहतं नखाभ्रखेषुस्वराम्बराकाशवेदसंभक्तम् ॥ २६ ॥ शेष गतावमोनं तद्विद्यादिष्टदिवससंघातम् । गतमवमं कुदिनहृतं क्षयाग्रयुक्तं भचक्रसंगुणितम् ॥ २७ ॥ कुदिनहतावमभक्तं फलं भचक्रादिको भवति खेटः । शेषं युगावमहृतं तच्छेषं संभवेत्फलं लब्धम् ॥ २८ ॥ वर्णसरेभागुणैर्यातान्यवमानि ताडयित्वाऽथ । गुणषट्पञ्चखशैलाद्विरसैलब्धा गताधिमासाः स्युः ॥२९॥ उद्दिष्टमवमशेषं वेद( ४ )हतं ततश्चन्द्राग्निगुणेषुनन्दनागैः (८९५३३१) हतं रामरसेषुखपर्वतनेवाङ्गैः ( ६२७०५६३ ) हृतं कार्यम् । अत्र शेष गतावमदिनं भवति । एतत्फलं भवति । अथोद्दिष्टमवमानं वेद( ४ )हतं ततो मुनिषड्गुणकृतिविलोचनाद्विशरैः ( ५७२२०३६७ ) निहतं नखानखेषु- स्वराम्बराकाशवेदैः ( ४००७५००२०) संभक्तं कार्यम् । अत्र शेषं गत- चान्द्रदिनं भवति । कुट्टाकाराख्यो गुणोऽप्येतदेव । एतद्गतावमदिनोनं कार्यम् । अत्र यच्छेषं तदिष्टदिवससंचयं जानीयात् । अथातीतमवमादनं युगभूमिसावन- गुणितं तत उद्दिष्टोनावमदिन शेषेण युक्तं जिज्ञासितस्य ग्रहस्य युगभगणैः संगुणितं युगभूसावनगुणितैयुगावमदिनैभक्तं कार्यम् । अत्र लब्धं फलं भगणा- दिजिज्ञासितो मध्यग्रहो भवति । अत्र यच्छेषं तद्युगावमदिनहतं कार्यम् । अत्र लब्धं फलं तच्छेषं भवति । एतदुक्तं भवति । मध्यग्रहों भगणरूपश्चे- तदा लब्धं भगणशेष भवति । सराश्यन्तश्चेत्तद्राशिशेषम् । सभागान्तश्चेत् तद्भागशेषम् । सलिप्तान्तश्चेत्कलाशेषम् । सविकलान्तश्चेत्नावकलाशेषं भवतीति । अथ गतावमदिनानि वर्णसुरेभाङ्कगुणैः ( ३९८३३४ ) हत्वा गुणषट्पञ्चखशैलद्विरसैः ( ६२७०५६३ ) हरेत् । अत्र लब्धा गताधिमासा भवन्ति । अत्र शेषे भागहारादिधिकेऽप्यर्थोत्तरत्वेन रूपक्षेपो न कार्यः । नन्वत्रावमाग्रेणैव गताधिमासानयने कर्तव्ये गतावमदिनैस्तदानयनं प्रदर्शितम् । कथमेतदवोच्यते-अवमायादेवाऽऽनीगतैरवमैंगताधिमासेष्वानीतेष्वपि पारम्पर्ये- णावमायादेव गताधिमासानयनमित्यदोषः ॥२५॥२६॥२७॥२८॥२९॥ सह महालक्ष्मीमुक्तावलीसहितः- उद्देशक:-पूर्णाभ्रतकनयनेषुनवार्थनाग- रामेन्दुसंख्यमवमाप्रमतो दिनानि । एतैर्विनाऽम्बरचरान्भगणादिशेषान् a याताधिमासनिवहं तु वदाऽऽशु विद्वन् ॥ ३० ॥ अत्रायमवमदिनशेषः (१३८५९५२६०० ) । अस्मादुक्तवदानी- तान्यभीष्टदिनानि सूर्याष्टखान्याष्टि( १६७०८१२ )संख्यानि । एभिरिष्टदि- नैविनोद्दिष्टेनैव क्षयाग्रेणोक्तवदानीतो भगणात्मको रविमध्यो वर्णाद्रीषुरुत (४५७४ )संख्यः । भगणशेषो वसुव्यङ्गान्ध्यङ्कषडीशार्थ( ५११६९४६ २८ )संख्यः । एवं राश्यन्तादयो रविमध्यास्तत्तच्छेषाश्चन्द्रादयस्तत्तन्छेषा अप्यानेयाः । अथात्रोक्तवदानीता गताधिमासाः सप्ताष्टाष्टि ( १६८७). संख्याः। अवोदितो गणनकर्मलवुत्वहेतो वासराहृतयुगक्षयवासरोधः । षट्पश्चतर्कवसुनागकुशैलनन्दतत्त्वाग्न्यगादिगिरिचाणनवाग्नि(३९५७७७- ३२५९७१८८६५६ )संख्यः ॥ ३० ॥ अथाऽऽर्यया कौचित्पश्नौ दर्शयति- ग्रहमध्यैक्याद्भादेर्वितत्परान्तादिनानि यो वदति । तन्मध्यानि च तस्मात्पृथक्पृथग्दिनचयं विना स सुधीः ॥३१॥ भादेराश्यादेवितत्परान्तात्तत्पराणां षष्टयंशो विनत्परा । तदन्ताद् ग्रहमपैक्यादुद्दिष्टग्रहमध्यमसंयोगादिनानीष्टभूवासरााण यो वदति स तुधी- रित्येकः प्रश्नः । दिनचयं विना ग्रहमध्यैक्यादानीतमिष्टदिनसमूहं विना । तस्माद् ग्रहमध्यक्यादेव । तन्मध्यानि च । अत्र द्वित्वमविवक्षितम्। तेन संयुक्तयो- ग्रहयोर्मध्यमौ संयुक्तानां ग्रहाणां मध्यमानपि पृथक्पृथग्यो वदति स सुधीरि- त्यपरः प्रश्नः । अव ग्रहमध्यैक्यानयनं प्रदर्श्यते । इष्टग्रहयोरिष्टग्रहाणां वा युगभगणान्योजयित्वा तैरिष्टदिनानि हत्वा युगभूदिनैरेवे विभजेत् । अत्र लब्धा भगणास्तानपास्य शेषं द्वादशादिभिर्हत्वा युगभूदिनैरेव विभजेत् । लन्धा राश्यादयो भवन्ति । एवं वितत्परान्तं कुर्यात् । अत्र वितत्पराशेषे युगभू- दिनार्धादधिके सत्य!त्तरत्वेन वितत्परास्वेकां वितत्परां निक्षिपेत् । एवं कृते ग्रहमध्यैक्यं भवति । एवमागतग्रहमध्यैक्यावम्बलनेनैवात्र प्रश्नद्वयमिति मन्तव्यम्॥ ३१ ॥ MEDIA अत्र कुट्टाकारशिरोमाणः । अथैतत्पश्नद्वयभङ्गाथमात्रियमाह- ग्रहमध्यमसंयोगं वितत्परहित्य दृढदिनैहत्वा । नियुतहतपडिपुरसरसवेदैविभजेत्फलं क्षयक्षेपः ॥ ३२ ॥ तदृढभगणैक्यदिननिरग्रमार्गेण गुणफले कुर्यात् । तत्रिगुणो दिननिकरः फलं ग्रहाणां गतानि चकाणि ॥३॥ मध्यैक्यं चक्रयुतं तत्तद्भगणैः पृथक् पृथग्हत्वा । तद्भगणैक्येन भजेत्तत्तन्मध्यं फलं सपर्यायम् ॥ ३४ ॥ अत्राऽऽदौ दृढदिनदृढभगणै क्ययोः स्वरूपं दर्शयति । उद्दिष्टग्रहयोरुहिक टग्रहाणां वा युगभगणान् संयोज्य तेषां युगभूदिनानामप्यपवर्तकोऽस्ति चेत्तेन संयुक्तानुद्दिष्टग्रहभगणान्युगभूदिनानि चापवर्तयेत् । एवमपवर्तितानि युगदिनान्यत्र दृढदिनानि । एवमपवर्तितमिष्टग्रहयोरिष्टग्रहाणां वा युगभगणैक्यं दृढभगणै- क्यम् । अपवर्तको नास्ति चेयुगदिनान्येव दृढदिनानि । उद्दिष्टग्रहयुगभगणयोग एव दृढभगणैक्यमिति । अथोद्दिष्टग्रहभगणैक्यं वितत्परीकृत्य तान् दृढदि- नैहत्वा चक्रवितत्पराभिः ( ४६६५६००००० ) विभजेत् । अत्र शेषे चक्रवितत्परार्धादधिके सत्य!त्तरत्वेन रूपं फले क्षिपेत् । एवमानीतं फल- मंत्र ऋणक्षेपः । दृढभगणयोगो भाज्यराशिः । दृढदिनचयो भाजकः । एभि- रुक्तवद्गुणफले आनयेत् । अत्र गुण इष्टदिनसमूहः । फलं तु संयुक्तग्रहगत- भगणाः। अथ गतभगणयुक्तं ग्रहमध्यैक्यं संयुक्तेषु ग्रहेष्वेकस्य युगभगणैः पृथक् पृथग्गुणयित्वा संयुक्तग्रहयुगभगणैक्येन विभजेत् । लब्धं सपर्याय तन्मध्यं भवति । संयुक्तग्रहेषु यस्य यस्य युगभगणैर्गुणितं तस्य तस्य भगणादि- मध्यं भवतीत्यर्थः । अत्र प्रक्रिया सम्यक् प्रदर्शितेति नोद्दिश्यते । एवमुत्तरत्रापि यत्र यत्र प्रक्रिया सम्यक्पदर्शयिष्यते तत्र तत्र नोद्दिश्यत इति मन्तव्यम् ॥ ३२ ॥ ३३ ॥ ३४ ॥ अथाऽऽर्यया ग्रहविकलाशेषावलम्बनेन कांश्चनानुयोगानाह- विकलाशेषादिवसान् मध्यं दिवसैविनाऽन्यतच्छे पात् । अवमदिनैस्तच्छेषावधिमासांश्च ब्रवीति यः स कृती ॥३५॥ अत्र सप्त प्रश्नाः । एषु विकलाशेषाद्दिवसान्यो ब्रवीति स कृतीति प्रथमः । विकलाशेषादेव विकलाशेषवन्मध्यं यो वतीति द्वितीयः । विकलापादानीत insaili HE ARTI
m
महालक्ष्मीमुक्तावलीसहितः-
रिष्टदिवसैविना विकलायादेवान्यग्रहमध्यान्यो वदतीति तृतीयः । विकलाग्र-
णाऽऽनीतरिष्टदिनविना विकलाग्रेणैवान्यग्रहविकलाशेषान्यो वदतीति चतुर्थः ।
विकलाग्रादागतैरभीष्टदिनविना विकलाग्रादेव गतावमादिनानि यः कथयतीति
पञ्चमः । विलिप्ताशेषादवगतानि दिनानि विना विलिप्ताशेषादेवावमादिनशेष
यो वदतीति षष्ठः। विलिप्तायाजातेभ्योऽभीष्टदिनेभ्यो विना विलिप्तिकायादेव
गताधिमासान् यो ब्रूते स कृतीति सप्तमः ॥ ३५ ॥
अर्थतेष्वाद्ययोः प्रश्नयोर्भङ्गार्थं गुणफले प्रदर्शयिष्यन्नादौ तदुक्त-
क्रममार्ययाऽऽह-
अथ गुणफले क्रमेण प्रतिखेटमिहैकयाऽऽययोच्यते ।
दिनकरबुधकाव्यानां साधारणमेव ते निगद्यते ॥३६॥
एतदुक्तं भवति । चन्द्राङ्गारक बुधबृहस्पतिशनैश्चराणां बुधकाव्यशीघो-
च्चयोश्चन्द्रोच्चपातयोश्च प्रत्येकमेकार्यया गुणफले क्रमेण उच्यते । रविबुधभार्ग-
वाणां तु साधारण प्रेवैकयाऽऽर्यया गुणफले क्रमेणोच्यते इति ॥ ३६ ॥
रविभृगुविदां नवाम्बरशैलाक्ष्यत्यष्टिनयनशरचन्द्राः।
गिरिपूर्णवेदवह्नयगशरकृतरामाङ्कनन्दरामशराः ॥ ३७ ॥
सूर्यकाव्यबुधानां गुणः ( १५२१७२७०९ ) । एषां फलं ( ५३-
१९३४५७३४०
०७ ) ॥ ३७॥
चन्द्रस्य दन्तिसिन्धुरनन्दाकाशाङ्गवनिभूमिरसाः।
भूयुगनवककृतानलखशरर्तुवियच्छ शाङ्कनन्दकराः॥३८ ।।
चन्द्रस्य गुणः ( ६१३६०९८८ ) । अस्य फलं ( २९१०६५०
३४९४1)॥ ३८ ॥
धरणीसुतस्य नखतिचन्द्रार्थशरद्वयक्षपानाथाः ।
स्वरवियदुदधिगुणार्थद्विकृताद्रिक्ष्माधराङ्गवह्नियमाः ॥३९॥
भौमस्य गुणः ( १२५५११८२० ) फलं ( २३६७७४२५३४०७ )
॥ ३९ ॥
विच्छीघ्रस्य वियद्रसगुणनन्दकृताभ्रचन्द्रशरपक्षाः।
ऋषिखाब्धिगुणहयाचलभूताब्ध्यर्थाष्टरन्ध्रतर्कगुणाः ॥४०॥
बुधशीघोच्चस्य गुणः ( २५१ ० ४९३६० )। अस्य फलं ( ३६-
१९८५४५७७३४०७)॥ ४२ ॥
कुट्टाकाराशरोमाणः। सुरपूजितस्य गुणरसबाणाक्षिनवाग्निवाहुरजनीशाः। तुरगवियदब्धिपुष्कररन्ध्राकाशाष्टगगनमुनिरामाः । ४१॥ गुरोर्गुणः ( १२३९२५६३ ) । फलं (३७०८०९३४.७) ॥४॥ सितशीघ्रस्य युगाष्टकमुनिवमरसनयनकुञ्जरेशानाः । हयशून्यमनुशराभ्रद्वयसिन्धमृगाङ्कन्दरगजताः ॥ ४२ ॥ शुक्रशीघोच्चस्य गुणः ( ११८२६८७८४)। अस्य फलं ( ६८२- १४२०५१४०७ ) ॥ ४२ ॥ सौरस्य रन्ध्रसप्तकवर्णाष्टकवह्निखाभ्रवायुसखाः। शैलाभ्रसिन्धभूधरमुनिखरसेन्दुरसकृष्णवनिः॥४३॥ शनैश्चरस्य गुणः ( ३००३८ ४७९ ) । फलं ( ३६१६०७७१.७) चन्द्रोच्चस्य रसग्रहरसवसुशरशिखिमहीधराङ्कभुवः। गिरिगगनसागरग्रहगजमार्गणतर्कलोकरन्ध्रनगाः॥४४॥ चन्द्रोच्चस्यानिशून्याश्वीति ( सूर्य सि० अ० १ श्लोक ३३ ) पागनु- सारेण गुणः (१९७३५८६९६ )। अस्य फलं (७९१४६५८९४.७ ) ॥४४॥ - राहोर्नवतिथिभूभृद्राणाकाशाद्रिविष्णुपदरामाः । अचलाम्बरार्णवस्वररूपाद्रिनवर्तभूतसार्थाः ॥ ४५ ॥ वामं पातस्य वस्वनीति । (सूर्यसि० अ० १ श्लोक ३३) पाठानुरोधेन राहो- गुणः (३०७८५७१५९)। अस्य फलं ( ५८५६९ ११७४०७) ।।४५॥ अथैवं दर्शितैगुणफलरिष्टदिनविकलाग्रहानयनमार्याभ्यामाह- गुणनिहतं विकलायं कदिनविभजेद्यत्र परिशिष्टम् । पारावारैर्विभजेत्तत्फलमिष्टं भवदिवसवृन्दम् ॥ ४६ ॥ विकलाशेष स्वफलहत्वा विकलीकृतहरेच्चकैः । अवशेषमाप समुद्रर्विभजेल्लब्धं विलिप्तिकाखेटः॥ ४७ ॥ गुणनिहतं विकला शेष भूदिनभिजेत् । अत्र लब्धेन नास्ति प्रयोजनम् । अत्र परिशिष्टं यत्तत्पारावारैविभजेत् । अथ विकलाशेषमेव स्वफलेहत्या विकलीकतैर्विकलागवद्ग्रहभगणैविभजेत् । अत्रापि( लब्धेन प्रयोजन १क. लेहत्वा । PREE R महालक्ष्मीमुक्तावलीसहितः- नास्ति । अत्रावशेषमपि समुद्रैविभजेत् । अत्र लब्धं विलिप्तारूपो मध्यग्रही भवेत् ॥ ४६ ॥ ४७॥ अथैवमागताभिग्रहविकलाभिस्तद्विकलाशेषेण चान्यग्रहमध्यतच्छेषक्षयदि- नतच्छेषाधिमासानामानयनपकारमाय-चतुष्टयेनाऽऽह- अहविकला [ युग ]दिनहता विकलाप्रयुता धरुवं भवेत्तत्तु । , जिज्ञासितस्य भगणैः संताड्य ज्ञातमण्डलैहत्वा ॥ ४८ ॥ लब्धं कुदिनैर्विभजेत्फलमिह जिज्ञासितो ग्रहो भवति । शेष तद्विकलागं भवत्यथ प्राक्प्रदर्शितध्रुवकम् ॥ ४९ ॥ हत्वा युगावमदिनविभजेडिकलीकृतैः खचरचकैः । लब्धे भूदिवसाप्ते फलशेषौ स्तः क्षयाहतच्छेषौ ॥ ५० ॥ ध्रुवमधिमासैहत्वा विभजेत्खचरस्य भगणविकलाभिः । लब्धं फलं कुदिवसैविभजल्लब्धं भवेयुरधिमासाः ॥ ५१ ॥ ग्रहविकला युगदिनाहता उद्दिष्टविकलाशेषयुक्ताश्च कार्याः। एवं कृते तद्ध्वं भवति । तत्तु ज्ञातुमिष्टस्य ग्रहस्य युगभगणैः संगुण्योद्दिष्टविकलाम- वग्रहयुगभगणैर्ह ( है )त्वा तत्र लब्धं च भूदिनैर्विभजेत् । अवाऽऽगतं फलं जिज्ञासितो मध्यग्रहो भवति । शेषं तद्विकलाशेषं भवति । अथ पूर्वोक्तधरुवं युगावमदिनैर्हत्वा विलिप्तीकतैरुद्दिष्टशेषवद्ग्राहयुगभगणैर्विभजेत् । अब लब्धे भूदिवसाप्ते सति फलशेषौ क्रमाद्तावमदिनतच्छेषौ भवतः । अथ ध्रुवं युगाधिमासैहत्वोद्दिष्टविकलाग्रतो ग्रहस्य युगभगण विकलाभिहरेत् । अत्र लब्धं फलं च युगभूदिनैहरेत् । अत्राऽऽगतं फलं गताधिमासाः स्युः ॥४८॥ ४९ ॥ CAT उद्देशकः-विलिमामात्पूष्णः पडिपुनवखाष्टीभगगन- क्षमासंख्यादस्मात्त्वरितमभिधत्स्वेष्टदिवसान् । विनैभिर्भास्वन्तं विधुमपि तदगं क्षयदिनं ततश्चैतच्छेषं वद तदधिमासानपि गतान् ॥ ५२ ॥ रवेविकलाशेषामिदं ( १०८१६०९५६) । अस्मादुक्तवदानीता दिवसाः सूर्याष्टखाव्यष्टि ( १६७०८१२ )संख्याः । एभिर्विना रविविकलामादे- बोक्तपफारेणाऽऽनौतो विकलारविस्विभाव्यिविध्यण्डद्व्यङ्केषु( ५९२८३२४- RAPALINEPAL REKHALKARMER A SALAMA HATTA H कुट्टाकाराशरोमाणः । ३७३ संख्यः । विकलाचन्द्रः सप्तेन्दुविर साब्ध्यगान्धितत्वाकादि(७९२५- ४७४६२१७ )संख्यः । चन्द्रविकलाशेषः संकृत्यग्मितिथिलतषड्वेदाद्रि(७४. ६४१५३२-४)संख्यः । क्षयदिवसा गजार्थेषुषडाक्ष(२६५५८)संख्याः । अव. माय खात्राङ्गाब्धीषुनन्दार्थाष्ट लोक(१४८५९५४६००)संख्यम् । अधिमासाः सप्ताष्टाष्टि(१६८७)संख्याः । एतत्सर्वं रविविकलामादेवोक्तवदानीतम् ॥५२॥ अथ भगणादिषैरिष्टदिनग्रहोपायमार्ययाऽऽह- भगणग्रहभागलिप्ताशेषं भगणाग्रमेव रचयित्वा । तेन दिनग्रहविकलाः कुर्याद्भगणादिखेचरांश्चाऽऽभिः॥५॥ उद्दिष्टभगणादिशेषं विकलाशेष कृत्वा तेनोक्तमार्गेणेष्टदिनानि ग्रहविकला- वाऽऽनयेत् । अथाऽऽभिप्रेहविकलाभिर्युक्त्या भगणग्रहादींश्च कुर्यात् ॥ ५३ ॥ अथ स्वस्वविकलाग्राग्रहाणां साधारणं विकलामध्यानयनं सार्ध- याऽऽर्ययाऽऽह- सिन्धुहृते विकलाग्रे खत्रयरसरन्ध्रभास्करैर्भक्ते । यच्छेषं तद्धत्वा शैलाकाशाम्बुधिस्वराभिकरैः ॥ ५४ ॥ खखखर्तुनन्दमर्यविभजेच्छेषं ग्रहो विलिप्तात्मा। सिन्धु( ४ )हते विकलाये खत्रयरसरन्धभास्करै( १२९६००० भक्ते सति तच्छेषं शैलाकाशाम्बुविस्वराग्निकरै( २३७४०७ )हत्वा खख- खर्तुनन्दसूर्यै( १२९६०० )विभजेत् । लब्धेन प्रयोजनं नास्ति । शेष विकलात्मको मध्यग्रहो भवति । अत्रेदमनुसंधेयम् । यस्य विकलामाद्यदेवमा- नीतं मध्यं तत्तस्यैवेति ॥ ५४ ॥ अथाऽऽर्यया धनक्षेपविषयप्रश्नमाह- यो वेददिवसखेटौ विकलाशेषोनयगदिनांघेन । भारतवर्षे सोस्मिन्भजति धनक्षेपमार्गवेदित्वम् ॥ ५५ ॥ विकलाशेषोनयुगदिनौधेन दिवसखेटौ यो वेद सोऽस्मिन्भारतवर्षे धन- क्षेपमार्गवोदित्वं भजति ॥ ५५ ॥ अथैतत्पश्नभङ्गार्थमार्याद्वयं सार्धमाह- निजनिजगुणफलराशी निजनिजदृढदिवसभाज्यराशिभ्याम् ॥५६॥ )- महालक्ष्मीमुक्तावलीसहितः- मह्यादिहावशेषौ खचराणां गुणफले क्रमाद्भवतः । ताभ्यां जलनिधिभक्तौ विमौविकायोन युगदिनस्तोमौ॥५॥ हत्वा विभजेदृढदिनभाज्याभ्यामत्र ये च परिशिष्टे । तत्राऽऽदिमं दिन स्यादपरं खेटो विमौर्विकारूपः ॥ ५८ ॥ अत्र युगदिनचतुर्थांशः सर्वेषां दृढदिवसः । स्वस्व विकलीकृतयुगभग- गचतुर्थांशः स्वस्वभाज्यराशिः। एवंविधाभ्यां निजनिजदृढदिवसभाज्यराशिभ्यां । कमात्पूर्वोक्तौ निजनिजगुणफलराशी जद्यात् । इहावशेषो कमात्वचराणां निजनिजगुणफले भवतः । ताभ्यां कमाज्जलनिधि( ४ )भक्तौ द्वावुद्दिष्टौ विमौर्विकामोनयुगदिनस्तोमो हत्वा निजनिजदृढभाज्याभ्यां क्रमाद्विभजेत् । अत्र लब्धाभ्यां प्रयोजनं नास्ति । अब ये च परिशिष्टे स्तस्तवाऽऽदिमं दिनं स्वात् । अपरं बिमौर्विकारूपः खेटः स्यात् । विमौर्विका विकला ॥ ५६ ॥ : M अथ स्वस्वविकलाशेषोनयगदिनैः सर्वेषां साधारणं विकलाग्रहानयनप- कारं साधयाऽऽययाऽऽह- अथवा वारिधि(४)भक्तान्स्वस्वविलिप्ताग्रहोन युगदिवसान्। रामाङ्कभूतवसुशरदिग्भिः( १०५८५९३ )संताड्य चक्रविक- लाभिः( १२९६०० ) ॥ ५९ ॥ विभजेत तत्र शेषा भवन्ति खचरा विलिप्तिकात्मानः । सष्टोऽर्थः । अत्रानन्तरोक्ते प्रकारद्वयेऽपि धनक्षेपत्वाद्विकलाग्रह एका विकलाऽधिका भवेत् ॥ ५९ ॥ अथाऽऽर्यया विकलाग्रहाश्रयणे दिनविकलाशेषविषयौ प्रश्नांवाह- विकलाग्रहादिनौघं विकलाशेषं च यो भणति शीघ्रम् ॥६०॥ चतुरुदधिमेखलायां चतुरमनीपो भवत्यसौ भूमौ । स्पष्टार्थयमार्या ॥ ६० ॥ अथैतत्पश्नभङ्गार्थमध्यर्धामा-माह- ब्रहविकलाः कुदिनहता भगणविलिप्ताहृता दिनं लब्धम् ॥६१॥ SHANTSTAN AM HTS अत्र - - कुट्टाकारशिरोमणिः। शेषेऽत्र सति तु लब्धं सैकं कार्य ततो दिवसवृन्दम् । शेषोनभागहारो विकलाशेषो भवेद्रेहेऽप्यस्य ॥ ६२ ॥ भूदिनहता ग्रहावकला विकटीकृतग्रहयुगभगणहताः कार्याः । शेषाभावे लब्धमेवेष्टं दिनं भवति । शेषे सति तु लब्धं सैकं कार्यम् । ततः स्वेष्टदिवसवृन्दं भवति । अत्र शेषाभाचे विकलाशेषो नास्ति । शेषे सति तु शेषोनं विकलीकृतग्राहयुगपर्यायवृन्दं विकलाग्रं भवेत् । अत्र शेषाभावः का- दाचित्कः ॥ ६१ ६२ ॥ अथाऽऽर्ययकस्यैव ग्रहस्यैकदिनजातभगणराशिभागकलाविकलाशेषयो- गादिष्टदिनानि यो बत्ति स एव कुट्टाकार वेदेत्याह- चक्रसदनांशलिप्ताविलिप्तिका|क्यतोऽभिमतदिवसान् । यो जानाति स भूम्यां कुट्टाकारं स एव जानीते ॥ ६३ ॥ अवतारिकया गतार्थेयम् ॥ ६३ ॥ अथैतत्प्रश्नभङ्गाय सार्धामा-माह- अत्राक्ये कुदिनैर्विहृते शेषं भवेत्क्षयक्षेपः । त्र्यव्यङ्काद्रिकुविश्वैर्गुणितं ग्रहचक्रमस्य भाज्यं स्यात्॥६४॥ कुदिनच्छेदस्त्वेतैगुणकं कर्यादसावभीष्टदिनम् । अवोद्दिष्टे भागादिशेषयोगे सति संभवे क्षितिदिनैविभक्ते सति याच्छ- ध्यते तदत्र ऋणक्षेपः स्यात् । नो चेद्भगणादिशेषयोग एवात्र ऋणक्षेपः स्यात् । व्यव्यङ्कगद्रिकुविश्वै( १३१७९७३ )गुणतानि ग्रहयुगचक्राण्यत्र भाज्यराशिभवेत् । क्षितिदिनानीह भाजकः स्यात् । एतैस्तु पूर्वोक्तमार्गेण गुण- मानयेत् । एवमागतोऽयं गुण एवेष्टदिनानि स्युः । अत्र वारकुट्टाकारो द्वि- विधः । अवोद्दिष्टभगणादिशेषावलम्बननैकः । उद्दिष्टग्रहावलम्बनेनापरः । एवं वेलाकुट्टाकारोऽपि वेदितव्यः। अत्र यावुद्दिष्टग्रहाश्रयणेन वारवेलाकुट्टा- कारौ ताबुत्तरत्र प्रदर्शयिष्यते । अत्र तूद्दिष्टभागाद्यग्राश्रयेणाऽऽनीयमानौ यो वारवेलाकुट्टाकारौ तो क्रमेण पदश्यते । वारकुट्टा कारगतभगण शेषावलम्बे- नोद्देशकः-देवेन्द्रार्चितवारपूर्तिसमये राजीवबन्धोरभू- च्चकाग्रं नियुताहताष्टककरमाभन्मही(१७२८०००००)संमितम् । भूयोऽप्येतदभूत्सितेन्दुकुंजविद्वारावसाने समं तत्कालान्वद वारकुट्टकविधौ यद्यस्ति ते संस्तवः ॥ ६४ ॥ १ख. दग्रहेन्द्रस्य ।
ट महालक्ष्मीमुक्तावलीसहितः- अथैतदादिपश्नभङ्गायाऽऽर्यासप्तकमाह- खचराणां युगभगणा भाज्यो राशिर्भवेत्तदानीं तु ॥ ६५ ॥ भगणागे ह्यद्दिष्टे तद्भगणामं भवेहणक्षेपः। भवनीभूता भगणा भाज्यो राशिर्भवेत्तदानीं तु ॥ ६६ ॥ भवनागे तूद्दिष्टे तद्भवनाग्रं भवेदृणक्षेपः । भागाग्रे तूद्दिष्टे तद्भागागं भवेदणक्षेपः ।। ६७ ॥ भागीभूता भगणा भाज्यो राशिर्भवेत्तदानीं तु । लिप्तांग्रे तूद्दिष्टे तल्लिप्तागं भवेदृणक्षेपः ॥ ६८ ॥ लिप्तीभूता भगणा भाज्यो राशिर्भवेत्तदानीं तु । विकलागे तूद्दिष्टे तद्विकलागं भवेदृणक्षेपः ॥ ६९ ॥ विकलीभूता भगणा भाज्यो राशिर्भवेत्तदानीं तु । युगभूसावनदिवसान्येवं स्याद्भाजकोऽत्र सर्वत्र ॥ ७० ॥ एभिभाजकभाज्यक्षेपर्यो भवति वर्धकः सोऽत्र । आदिमकालस्तस्मिन्दृढदिवसान्बुद्धिसंगुणान्युक्त्वा ॥ ७१ ॥ अभिहितवारांस्तांस्तान्कालानन्यांश्च साधयेत्प्राज्ञः। भगणशेष उद्दिष्टे सति तदुद्दिष्टं भगणशेष क्षयक्षेपः स्यात् । तदा पुन- ग्रहाणां चतुर्युगभगाणा भाज्यराशिः स्यात् । अत्र हिशब्दो हेतौ । यस्मादुद्दि- भगणशेषमृणक्षेपो भवति तस्माद्ग्रहयुगभगणा भाज्यराशिः स्यादिति । राशिशेष उद्दिष्टे सति तदुद्दिष्टं राशिशेषमृणक्षेपः स्यात् । तदानीं तु द्वादश- ( १२ )गुणितयुगभगणा भाज्यः स्यात् । भागशेष उद्दिष्टे तु तदुद्दिष्टं भागशेषमृणक्षेपः स्यात् । तदानीं तु षष्टयुत्तरशतत्रया( ३६० )हता युग- भगणा भाज्यः स्यात् । कलाशेष उद्दिष्टे तु तदुद्दिष्टं कलाशेषमृणक्षेपः स्यात् । तदानीं तु खरखषड्धन ( २१६०० )निहता युगभगणा भाज्यः स्यात् । विकलाशेष उद्दिष्टे सति तदुद्दिष्टं विकलाशेषमणक्षेपः स्यात् । तदानीं तु खत्रपर्वङ्कारि १२९६०० )भ्यस्ता ग्रहचतुर्युगभगणा भाज्यराशिः स्यात् । अत्र सर्वत्र चतुर्युगभूदिनान्येव भागहारो भवेत् । एवं प्रदर्शितैरतर्भा- ज्यभाजकक्षेपैः पूर्वोक्तप्रकारेण यो गुणो भवति स इहोद्देशकश्लोकपथमक- थितवारान्तान्तः प्रथमकालः स्यात् । अथ तस्मिन्नायकाले मतिगुणितान्दृढ- Fa कुट्टाकारशिरोमाणिः। दिवसान् निक्षिप्योद्देशकश्लोकान्तरोक्तवारान्तान्तानन्यान् कालानपि कुट्टकग- णितज्ञः साधयेत् । एतदुक्तं भवति । दृढदिनेषु सप्तहतेषु यच्छिष्यते तदवल- म्बनेन दृढदिवसानां कियतीभिरावृत्तिभिरुद्दिष्टवाराः समायान्तीत्यालोच्य तावतीभिरावृत्तिभिर्गुणितान्दृढदिवसान् गुणयित्वोद्देशकश्लोकान्तरोक्तवाराव- सानानन्यान्कालानपि साधयेत् । अत्र फलं तदुद्दिष्टभगणादिशेषवशाद्यथा- क्रमं ग्रहभुक्तभगणादिभिर्भवति । न्यासः-अबोद्देशकश्लोकस्थो रविभगणशेषोऽ- यम्( १७२८००००० ) । अयमत्र ऋणक्षेपः। रवियुगभगणाः खचतुष्कर- दार्णवाः ( ४३२०००० ) भाज्यराशिः । युगभूदिवसाः 'वसुद्वयष्टादि- रूपाङ्कसप्तादितिथयः ( १५७७९१७८२८) भाज्यराशिः। एभि ज्य- भाजकक्षेपैः पूर्ववदानीतो गुणः खाब्धि( ४० )संख्यः । अयमेवोद्देशकश्लोक- प्रथमोक्तगुरुवारान्तान्तः सृष्टयादिर्दिनगणः । एष प्रथमकालः । अस्मिन्नेक- गुणे सप्तेष्वन्ध्यवाद्रिस्ताब्यङ्कानि( ३९४४७९४५७ )संख्ये दृढदिने दत्ते सप्ताङ्काब्ध्यङ्कादिवेदाब्धिग्रहाग्नि( ३९४ ४७९४९७ )संख्यः शुक्रवासरावसानः सृष्टयादिर्दिनगणः । एष द्वितीयकालः । अथ पूर्वमागते गुणे ४० चतुर्गुण दृढदिने क्षिप्ते वसुरसाष्टाद्रीन्द्वकाद्रिमुनितिथि( १५७७९- १७८६८ )संख्यश्चन्द्रवारान्तान्तः सृष्टयादिर्दिनगणः । अयं तृतीयकालः। अथ गुणे ४० पञ्चगुणदृढदिने क्षिप्ते तत्त्वत्र्ययङ्काग्निद्व्ययतिधृति ( १९- ७२३९७३२५ )संख्यः कुजवारान्तान्तः सृष्टयादिर्दिनवजः । एष चतु- थकालः । अथ गुणे षड्गुणदृढदिने क्षिप्ते दिवसुशैलरसादिव सुरसत्रिवि ( २३६६८७६७८२ )संख्यः) । बुधवारान्तान्तः सृष्टयादिदिनवजः। एष पञ्चमकालः। एवमेतेषु पञ्चकालेषु यथास्वभगणेति ( सूर्यसि० अ० १ श्लो० ५३ ) सूर्यसिद्धान्तोक्तप्रकारेणाऽऽनीतं रविभगणशेष नियुताहताष्टकर- क्ष्माभन्मही ( १७२८००००० समितं भवति । एवं सूर्यस्य राश्यादिशे- पैरन्येषां भगणादिशेषैर्वारकुट्टाकारः कर्तव्यः। अथ बारकुट्टाकारखेलाकुटा- कारयोः को वा विशेषः । उच्यते । वारान्तकालजनितं ग्रहं वा ग्रहभगणा- दिशेषं वाऽवलम्ब्य वारकुट्टाकारः प्रवर्तते । वारान्तकालादन्यकालजनितं ग्रह वा भगणादिशेषं वाऽवलम्ब्य वेलाकुट्टाकारः प्रवर्तत इति । अथ वेलाकुट्टा- कारः प्रदर्श्यते । तत्राऽऽदो वेलायां ग्रहभगणादिशेषाणि ज्ञातव्यानीति तदा नयनमुच्यते । भागानुबन्धजातौ रूपगुण च्छेदगुणस्वांशयुतेष्टदिनकृन्दं तत्रत्येन SAR .. .. ४० महालक्ष्मीमुक्तायलीसहित:- च्छेदेन गुणयित्वा तदंशयुक्तं कृत्वा तच्च ग्रहयुगभगणैः संगुण्य तवत्यच्छेद- निहतैर्युगभूदिनैर्विभजेत् । लब्धं भगणा भवन्ति । तस्मिन्द्वादशादिगुणिते पूर्व- वद्विभक्ते च लब्धं राश्यादयः। शेषं राश्यादिशेषम् । उदाहरणम् । अत्र कल्पितस्वच्छेदांशसहितोऽभीष्टो दिनगणः १३५२.१।२ । अत्रोपरिपति- स्थो रूपगुणः स चात्र द्वीषुविश्व( १३५२ )संख्यः । मध्यमपति- स्थोंऽशः । स पुनरिह रूप( १ )मितः । अधःपङ्क्तिस्थश्छेदः । स पुनरत्र द्विक २मितः । अथ रूपगुणे ( १३५२ ) तत्रत्येन च्छेदेन ( २) गुणिते ( २७०४ ) तवत्येनांशेन च ( १) युक्ते जातो राशिः पञ्चाश्रम( २७. ०५)संमितः। अस्मिन्बुधयुगभगणैः खचतुष्करदार्णवै ( ४३२००००) गुणिते( ११६८५६००००० ) तत्रत्यच्छेदेन द्विकेन (२) गुणितैर्युगभूदिनैः षड्बाणरसाग्न्यिष्टेषुतिथ्यग्नि( ३१५५८३५६५६ )संख्यविभक्ते लब्धा भगणास्त्रयः । शेषं दन्तखान्यङ्कखाष्टेन्दुद्विद्वि( २२१८०९३०३२ )- संख्यम् । तदेव बुधस्य भगणाग्रम् । एतस्मिन्द्वादशादिगुणिते पूर्ववाद्विभक्ते च लब्धं राश्यादयो भवन्ति । शेषं राश्यादिशेष भवति ॥६५॥ ६६ ॥ ६७ ॥ ६८ ॥ ६९ ॥ ७० ॥ ७१ ॥ अत्र यद्भगणशेष तधुनोद्दिश्यते- लङ्कनमध्याह्नकाले हिमकिरणतनूजन्मनो मण्डलायं दन्ताभ्राग्न्यङ्कखाष्टक्षितिनयनभुजासंख्यमासीदमुष्मात् । पर्यायानस्य यातानभिमतदिवसव्यूहमंशेन युक्तं वेलाकुट्टोपदेशो बलवदवगतश्चेत्त्वया ब्रूहि शीघ्रम् ॥७२॥ अर्थतत्पश्नभनय सार्धमार्याद्वयमाह- वेलाकुट्टाकारे छेदाभ्यस्तः कुवासरश्छेदः । प्रक्षेपभाज्यराशी पुनरस्मिन्वारकुट्टवद्भवतः ॥ ७३ ॥ एभिः संपाद्यते यो फलगुणको तयोः फलं त्वत्र । उद्दिष्टशेषवशतो गतभगणादिर्भवेदिह गुणस्तु ॥ ७४ ॥ छेदहतो दिवसगणः शिष्टं तच्छेदयोगिनोंऽशाः स्युः। अस्मिन् वेलाकुट्टाकारे मण्डलादिशेषानयने 'भागानुवन्धजातौ रूपगुणच्छेदसंगुणः साशः। ALIA HPANESH PAN कुट्टाकारशिरोमाणः। इत्यत्र यश्छेदस्तेन गुणिता युगभूदिवसा भाजको भवति । बारकुट- टाकारे भगणादिशेषेषु क्षिप्तेषु सत्सु तत्र यौ क्षेपभाज्यावुक्तौ तावत्रापि समा- नौ । एतैभीजकक्षेपभाज्या फलगुणावुत्पद्येते तयोः फलं त्विह भगणशेष उद्दिष्टे सति ग्रहभुक्तभगणा भवन्ति । राशिशेष तद्दिष्टे तत्फलं ग्रहभुक्तराशयः। भागशेषे पुनरुद्दिष्टे तत्पुनर्ग्रहभुक्तभागाः । लिप्ताने पुनरुद्दिष्टे तत्तु ग्रहमुक्त (क्ति)- लिप्ताः । विलिप्ताग्रे तूद्दिष्टे सति तत्फलं ग्रहमुक्त(क्ति)विलिप्ता भवन्ति । अत्र यो गुणस्तस्मिंस्तु भगणाद्यमानयने भागानुबन्धजातावित्यत्र यश्छेदस्तेन विहते सति लन्धमिष्टदिनानि भवन्ति । शिष्टं तच्छेदसंबन्धिनोंऽशा भवेयुः । उदाहरणम्-बुध- स्याद्दिष्टं भगण शेषमिदम्(२२ १८०९३०३२)। अयमृगक्षेपः। अत्र भगणशेषो- द्दिष्टत्वाद्बुधस्य युगभगणा इमे(४ ३२००००)भाज्यराशिः । इह चक्रशेषा- नयने भागानुबन्धजातावित्यत्र च्छेदो द्वि(२)समितः । अतो द्विगुणिता दि- वसा एते ( ३१५५८३५६५६ ) भाजकराशिः। एवमतेः क्षेपभाज्यभाजकैः पूर्ववदानीतं फलं त्रि( ३ )संमितम् । एतबुधभुक्तभगणाः। गुणः पश्चा- भ्रभ( २७०५ )संमितः । एतस्मिंस्त्विह चक्रशेपानयने भागानुबन्धजाला- वित्यत्र द्वि(२)संमितेन च्छेदेन विभक्ते लब्धं द्वीषुविश्व( 1३५२ )संरुणं जातम् । एतदभीष्टदिनगणः । शिष्टं तच्छेद(२)संवन्ध्यंशो रूप(१)मितो जातः । एवं च्छेदांशसहितो दिनगणोऽयं १३५२।१२। इत्थं वारद्वयंशे कुट्टाकारः प्रदार्शतः । एवमनेन न्यायेन वारत्र्यंशवारचतुरंशवारपञ्चांशवार- षडंशादिषु कुट्टाकारो योज्यः ॥ ७३ ॥ ७४ ।। अथ वारषष्टयंशे लिप्ताशेषाश्रयणेनाद्देशकः लिप्तायामर्धरात्रात्प्रभृति विघटिका सप्तशत्यां गतायां सैकायां खाभ्रतर्कत्रिगुणकृतशराष्टाभ्रशैलैकनागाः । लिप्तागं सूर्यसूनोः समभवदमुना वासरानशयुक्तान् लिप्तान्तं मर्यसूनुं कथय विघटिका कुट्टवेदिन्ममाऽऽशु॥७॥ अत्रे शनैश्चरस्य कलाशेषम् ( ८१७०८५४३३६०० )। अय- मृण क्षेपः । तस्य युगभगणा भुजङ्गषट्पञ्चरसवेदनिशाकराः ( १४६५६८) (सूर्यसि० अ० १श्लो०३२) भाज्यराशिः । वारस्य खखषड्रामांशो (३६००) विनाडीति खवषड्रामगुणिता युगदिवसा ( ५६८०५०४१८०८००) भाजकाशिः। एभिः क्षेपभाज्यभाजकैः पूर्वबदानीतो गुणो भूखाङ्कलादिवे- । HEALTD SALAIYAAR EDO ४२ महालक्ष्मीमुक्तावलीसहितः- ज्वालति(२२५०७९०१)संख्यः । अस्मिन्खखषड्रामैविभक्ते लब्धमभीष्टदि- नगणो द्वीषुद्विषट्(६२५२)संख्यः । शिष्टा विनाडिकाः सैकसप्तशत ७०१ । ३६० ० संख्यः। एवं सच्छेदांशसहितोऽभीष्टदिनगुणः ६२५२ । ७०१ । ३६० ० । फलं कृतवेदार्कि(१२५४४) सख्यम् । एतत्कालात्मकं सौरमध्यम् । अथानुकलासु क्रमादनुपातादारोपितासु षड्राशय (६)। एकोनत्रिंशद्भागा(२९)- श्वतस्त्रः ( ४ ) कलाश्च । एवमिदं राश्यादिकलान्तं सौरमध्यम् ॥ ७५ ॥ अथ ग्रहाश्रयणेन वारवेलाकुट्टाकारानयने प्रथमतो ग्रहस्य भगणादिशेष ज्ञातव्यम् । अतस्तदुद्दिष्टग्रहानुगुण्येन धीमताऽप्यूयमित्यार्ययाऽऽह- खचरावलम्बकुट्टे परिवर्ताद्यग्रमादितो ज्ञेयम् । तत्परिवर्ताद्यनं सुधियोां कथितखेचरेन्द्रवशात् ॥ ७६ ॥ अत्र परिवर्ताद्यग्रमूयमित्येतत्परिवर्ताद्यग्रेणानन्तरं तद्वशावेलावारकुट्टा- कारावप्यूद्यावित्यस्योपलक्षणम् । अत्रायमूहेन सिद्धोऽर्थः । वारकुट्टाकारे भगणात्मके ग्रह उद्दिष्टे सति ग्रहस्योद्दिष्टान् भगणांश्चतुर्युगदिनैर्गुणयित्वा तस्य चतर्यगभगणैविभज्य लब्धं कुत्रचिनिधाय शेष तस्य चतुर्युगभगणेभ्यस्त्यजेत् । ततस्तच्छेषं भवति । अत्रैवमागतं भगण शेष क्षयक्षेपः । ग्रहस्थ चतुर्युगभगणा भाज्यराशिः। चतुगदिनानि भाजकराशिः। एभिः पूर्ववद्गुणफले कुर्यात् । तयो- गुणोऽभीष्टदिनगणो भवति । फलं ग्रहभुक्तभगणा भवन्ति । अथ परिवर्तादौ रा- श्यन्ते ग्रह उद्दिष्टे से ग्रहं राशीकृत्य भूदिनैः संगुण्य राशीकतैस्तस्य युगपरिवर्ते- श्छित्त्वा फलं क्वचित्स्थापयित्वाऽवशेष स्वभागहाराज्जह्यात् । तच्छेषं तु राशिशेषम् । अत्र राशि शेषमृणक्षेपः । राशीकता युगपरिवर्वा भाज्यः । भूदिनानि भाजकः । एतैः प्रागुक्तवद्गुणफले कुर्यात् । तत्र गुणोऽभीष्टदिनगणः । फलं तु गतराशि- गणः । अथ चक्रादौ भागान्ते अह उद्दिष्टे तं भागीकृत्य क्षितिवासरैस्ताडयित्व भागीकृतैस्तस्य युगचळवच्छिद्याऽऽप्तं कुत्रचिविन्यस्य शिष्टं स्वहारका- च्छोधयेत् । तच्छेषं तु भागशेषम् । अत्र भागशेषणक्षेपः । भागीकृतग्रहस्य युगभगणा भाज्यः । क्षितिवासरा भाजकः । एभिरुक्तवद्गुणफले कुर्यात् । तयोर्गुणोऽभीष्टदिवसचयः । इह फलं तु गतभागगणः । अथ पर्यायादौ कलान्ते ग्रह उद्दिष्टे तं कलीकृत्य भूदिवसः संताइच कलीकृतस्तस्य युगपर्याभक्त्वा १ क. "तकेन्द्रव । 1 THANE PHONOMPASSES HSLIFTHMACHAR IMACHAR कुट्ठाकारशिरोमाणिः । 7 लब्धं क्वचिहत्त्वाऽवशिष्टं स्वच्छेदाच्छोधयेत् । तच्छेषं तु कलाशेषम् । अब कलाशेषमृणक्षेपः । कलीकृतास्तस्य युगपर्याया भाज्यः । भूदिवसा भाजकः । एतैः प्रागुक्तवद्गुणफले विद्ध्यात् । तयोर्गुणोऽभीष्टदिवससमूहः । अब फलं तु गतकलासमूहः । अथ पर्यायादौ विलितान्ते ग्रह उद्दिष्टे तं विलिप्तीकृत्य भूसावनैर्वर्धयित्वा विलिप्तीकृतैस्तस्य युगपर्यायः पविभज्य लब्धं फूलमन्यत्र कुत्रचित्पालयित्वा शिष्टं स्वभाजकात्संशोधयेत् । तच्छेषं तु विक- लाशेषम् । इह विकलाशेषमृणक्षेपः । विलिप्तीकृतग्रहस्य युगपर्याया भाज्यः। भूसावनदिनानि भाजकः । एभिः पूर्वोक्तमार्गेण गुणफले कुर्यात् । तत्र गुणोऽभिमतवासरनिवहः । फलं तु ग्रहमुक्तविकलावृन्दम् । अत्र सर्वत्र यद्य- त्फलं तत्तत्तत्र तत्र शेषाभावेऽभीष्टदिनानि भवन्ति । तत्र तत्र शेषे सति तु सैकं तत्तत्फलमभीष्टदिनानि भवन्ति । अथ अहस्य राशिस्थानमात्र उद्दिष्टे पुनरुद्दिष्टांस्तस्य राशीन् दृढदिनैः संवर्ध्य द्वादशभि( १२)विभजेत् । अब लब्धं भगणशेषम् । अथ राश्यादी भागान्ते ग्रह उद्दिष्टे तं भागीकृत्य दृढदिनैहत्वा खाङ्गाग्निभिः( ३६० )विभजेत् । लब्धं भागशेषम् । अथ रा- श्यादौ कलान्ते ग्रह उद्दिष्टे तं कलीरुत्य दृढदिनैर्हत्वा खखनृपनेः ( २१६०० ) हरेत् । लब्धं भगण शेषम् । अथ राश्यादौ विलिप्तान्ते ग्रह उद्दिष्टे तं विलिप्तीकृत्य दृढदिनैहत्वा खाम्राङ्गाङ्कगः ( १२९६०० ) विभजेत् । इहापि लब्धं भगण शेषम् । अत्र सर्वत्र भगणशेषमृणक्षेपः। ग्रहस्य दृढभगणा भाज्यः । दृढदिवसा भाजकः । एभिर्गुणफले कुर्यात् । तयोर्गुणोऽभिप्रेतदिनबजः । फलं गतभगणाः । अत्र सर्वत्रः दिवसाश्चतुर्युगभग- णाश्चापवर्तिताः क्रमाद् दृढदिवसा दृढभगणाश्च भवन्ति । अथ ग्रहस्य भाग- स्थानमात्र उद्दिष्टे तानुद्दिष्टान् भागान् दृढदिनैहत्वा विंशता विभजेत् । लब्धं राशिशेषम् । अथ भागादौ लिप्तास्थानान्ते ग्रह उद्दिष्टे तं लिप्तीकृत्य दृढ- दिनकृत्वा खाभ्राष्टभूभि( १८०० )भिजेत् । लब्धं राशिशेषम् । अथ भागादौ विलिप्तान्ते ग्रह उद्दिष्ट तं विलिप्तीकृत्य दृढवासरहत्या खखाप्राष्ट- दिग्भि( १०८००० विभजेत् । लब्धं राशिशेषम् । अन सर्वत्र राशिशेषमृणक्षेपः । राशिशेषदृढमण्डला भाज्यः । दृढासरा भाजकः । १ ख. शिभूता है। H - एते९१ १४ महालक्ष्मीमुक्तावलीसहितः- तैर्गुणफले कुर्यात् । तयोर्गुणो वाञ्छितदिनौषः। फलं गतराशिगणः । तत्र सर्वत्र चतुर्युगदिवसा राशीकृताश्चतुर्युगभगणाश्चापवर्तिताः कुमाद् दृढदिवसा राशहिता दृढमण्डलाश्च भवन्ति ॥ ७६ ॥ अथ राश्यादिलिप्तान्तग्रहाश्रयवारकुट्टाकारावलम्बनेनोद्देशकः-- चापे भागा विंशतिर्लिनिक द्वे आसीत्मरेमध्यमं सौम्यवारे । भूयोऽप्येतज्जीववारे कदा स्याब्रूयाः कालौ तौ गतान् पर्ययांश्च॥७७ अत्रेदं राश्यादिकलान्तं गुरोमध्यं (८२०१२)। एतत्कलीकृतं द्व्यभ्रषट्- कतिथि( १५६०२ )संख्यं जातम् । एतदद्वत्यैः सप्तेष्वब्यङ्काद्विकृता- भ्यङ्कलाग्नीभि( ३९४४७९४५७ )दृढदिनैनिहतं चक्रकलाभि(२१६००). विभक्तं चा!त्तरयोगेन सह षडर्थाग्न्यष्टाग्न्यङ्कनब्ध्यष्टद्वि(२८४९३८३५६)- संख्यं जातम् । अयमिह ऋणक्षेपः । गुरोश्चतुर्युगभगणचतुर्थी शमिता अत्रत्या ०५५दृढभगणा भाज्यराशिः। इह पूर्वोक्तान्येतानि (३९४ ४७९४५७) दृढदिनानि भाजकराशिः। एतैः पूर्ववदानीतो गुणस्त्रिद्विखाष्टाग्नीन्द्रतत्त्व(२५- १४३८०२३)संख्यः । अयं सृष्टयादिरिष्टदिनगणः । अयमेव बुधवारान्तान्त:- प्रथमकालः अत्र फलं सप्तत्रिखाष्टार्थ(५८०३७)संख्यम् । एतदेवात्र गुरुभक्तभग गाः। अथैकदिनदृढ युक्तः प्रथमकाल एवं गुरुवारान्तावसानः सृष्ट्यादिवितीयः कालः। स च खाष्टाध्यद्रीन्द्वकार्थाब्धिषट् ६४५९१७४८०)संख्यः। अस्मि- काले गुरोर्गतभगणाद्व्यङ्कखाकेन्द्राः( १४९०९२) । एवं ग्रहाश्रयवारकुट्- टाकारः प्रदर्शितः । अनया रीत्या] ग्रहाश्रयवेलाकुट्टाकारोऽप्युन्नेयः । अत्र घौ ग्रहाश्रयेण वारवेलाकुट्टाकारौ तो कदाचिद्भवतः। कदाचिद्व्यभिचरतः। तस्मात्तावसमीचीनौ ॥ ७७ ॥ अथ सूर्याब्दावसानचन्द्रादिष्टग्रहराश्यादिमध्यान्तार्कवत्सरांश्चन्द्रादीष्ट- ग्रहगतभगणादींश्च यो वदति स निरग्रकुट्टाकारे प्रवीण इत्येक प्रश्नमार्यया सष्टयति- मूर्याब्दपूर्तिकाले चन्द्रादीष्टग्रहं समालोक्य । अर्केष्टयातभगणानाचष्टे यः स दक्षिणः कुट्टे ॥ ७८ ॥ अवतारिकया गतार्थेयम् ॥७८॥ अथैतत्पश्नभञ्जनाय साधीमा-माह- दिनकरभगणाश्छेदश्चन्द्रादीष्टग्रहस्य चकाणि । - CHHATRA BREAST .. .. E कुट्ठाकारशिरोमणिः । भाज्यक्षेपस्तृह्यो ग्रहमध्यमसिद्धिवासनां दृष्ट्वा ॥७९॥ तैर्जनिते गुणकाप्तीये चार्काब्दा गतेष्टभगणाश्च । अब क्षेपोत्सादनं विनाऽन्योऽर्थः सुबोधः । अतस्तदेव प्रदश्यते । ग्रहस्य राशिस्थानमात्र उद्दिष्टे सत्यूद्दिष्टान् राशीन युगरविभगणैः खचतुष्करदाणवैः (४३२००७२ ) संगुण्य द्वादभिविभज्य लब्धं भगणशेषात्मकः क्षयक्षेपः ( १२.६००० ) । अथ राश्यादौ भागान्ते ग्रह उद्दिष्टे तं भागीकृत्य पूर्वव- संगुण्य चक्रभागै( ३६० )विभज्य लब्धमृणक्षेपः । अथ राश्यादौ विक- लान्ते ग्रह उद्दिष्टे तं विकलीकृत्य चकै वि ]कलाभि(१२९६०००)- विभज्य लब्धमृणक्षेपः ॥ ७९ ॥ अब रात्रिस्थानमात्रचन्द्रमध्यावलम्बनेनोद्देशक:- सूर्याब्दपूर्ती मृगलाञ्छनस्य भपञ्चकं दृष्टमतोऽरुणाब्दान् । यातानथेन्दो गणांश्च तूर्णमाख्यातु कुट्टे कुशलो भवांश्चेत् ॥८॥ अत्र भाज्यश्चतुर्युगभगणाः । भाजको रविभगणाः । अत्रोक्तप्रक्रियानीतो नियुताहतधृति( १८००००० )संख्योऽयमृणक्षेपः एभिरानीताः सूर्यान्दाः खत्रयतिथि( १५००० )संख्याः )संख्याः । चन्द्रगतभगणा रदेष्वधनख ( २००- ५३२ )संख्याः ॥ ८० ॥ अथ कटज्ञातगुणानयनमार्ययाऽऽह- लब्धे भाजकगुणिते वारक्षेपण संस्कृते भक्ते । भाज्येन लभ्यते यत्तद्गुणकारो भवेदिति ज्ञेयम् ॥ ८१ ॥ अस्यास्त्वर्थ उदाहरणेन व्यज्यते । निरनविषये पूर्वलिखितोद्देशकश्लो- कोऽयम्- चन्द्रेशाः (१११) केन गुणिता रूप(१)युक्ता द्विखाग्निभिः(३० भक्ताः शुद्धा गुणफले ब्रूहि तूर्णं निरनवित् ।। अत्र कुट्टाकारगणितसिद्धे गुणफले शरधति (१८५)गजतर्क(६८) संख्ये । एवमागताल्लब्धाद्गुणानयनार्थमियमार्या । लब्धामिद ( ६८ )मेतदनेन भाजकेन ( ३०२ ) गुणितं ( २०५३६ ) इदमनेन धनक्षेपेण १ धनर्ण- वैपरीत्येन संस्कृतम् (२०५३५)। एतदनेन ( ११३ ) भाजकेन विभज्य लब्धम् ( १८५) । इदं कुट्टाकारगणितसिद्धगुणकारतुल्यमेव ॥ ८१ ॥ १ क. कलाभि (२१६००) र्वि। A EARTICISHRSTARMERA LASHES महालक्ष्मीमुक्तावलीसहित:- अथाऽऽर्यया विकलाशेषाद्विकलाद्यानयनमुच्यत इति प्रतिजानीते- विकलाशेषाद्विकलाः कलाः कलागं लवायं च । भानि तदगं भगणाग्रमपि यथा स्युस्तदुच्यते कर्म ॥८॥ अथ पतिज्ञानमर्थमायाँचतुष्टयेन सार्थेनाऽऽह- विश्वघ्नाद्विकलायात्खसिद्धभक्तावशेषवेदांशे । षष्टेस्त्यक्ते विकलास्तद्युगादिवसाह(ह)तिः सविकलागा ॥८॥ खाङ्गैर्हृतात्कलाग्रं तद्वेदांशात्रिचन्द्रसंगुणितात् । खरसविहृतावशेषे खरसेभ्यः शोधिते कलाशेषम् ॥ ८४॥ तयुगदिवसाभ्यामः सकलाग्रः षष्टिभाजितोऽशाग्रम् । विश्वहततयुगांशात्वगुणाप्ताच्छेषहीनहारोंऽशाः॥ ८५ ॥ तद्भुदिनसंवर्गः सांशायः खामिभिर्हतो भागम् । तत्तुयाँशेकाप्ते शेषे हारोच्चशोधिते भानि ॥ ८६ ॥ तद्भमिसावनवधः सह शेषोऽहतो भगणशेषः । त्रयोदश(१३)गुणिवाहिकलाशेषाञ्चत्वारिंशदाधिकशतवयेन (२४०) भक्ताद्योऽवशेषस्तस्य यश्चतुर्थी शस्तस्मिन्षष्टे(६०)स्त्यक्ते यच्छिष्यते तद्वि- कला भवन्ति । अथ तासां गतभूदिनानां च योऽभ्यासः स विकलाशे- पयुक्तः षष्टया( ६० )भक्तश्च कार्यः । अत्र यल्लभ्यते तद्विकलाशेष भवति । अथ तस्य चतुर्थांशात्त्रयोदशगुणितात्षष्टया भक्ताद्यदवशिष्यते तस्मिन् षष्टयास्त्यक्ते योऽवशेषः स लिसा भवन्ति । अथ तासां युगदिनाना- मपि यो वधः स लिप्ताशेषयुक्तषष्टया भक्तश्च कार्यः । लब्धं भागशेषं भवति । अथ तस्य चतुर्थांशात्रयोदशगुणात्रिंशा( ३० )द्भक्ताद्यच्छिष्ट तस्मि- स्त्रिंशतस्त्यक्ते शेषो भागा भवन्ति । अथ शेषाणां युगभूदिनानां चाभ्यासः सभागशेषस्त्रिंशद्भक्तश्च कार्यः । लब्धं राशिशेषं भवति । अथ राशिशेषच - तुर्थांशे द्वादशभक्ते यः शेषस्तस्मिन् द्वादशभ्यस्त्यक्ते यच्छिष्यते तद्राशयो भवन्ति । अथाव शेषाणां भूदिनानां च यः संवर्गः स राशिशेषयुक्तो द्वाद- शभिर्विभक्तश्च कार्यः । लब्धं भगणशेषं भवति । ननु विकलाशेषाद्दिवसानि- त्यादिना पूर्वोक्तेन सर्वमेतत्सिद्धं तत्किमतेन सिद्धसाधनेन । तत्र कुट्टाकारगणितमत्र विपरीतगणितमित्यदोषः ॥ ८२ ॥ ८३ ॥ ८४ ॥ ८५ ॥८६॥ . सत्यम् । THA SED 7 कुट्टाकाराशरोमाणः। पूर्व विकलाशेषादिवसानित्येवमादिना ज्ञावमहविकलाग्राज्जिज्ञासिवन- हभगणादिशेषानयनमुक्तम् । इदानी प्रकारान्तरेण तदेव विवक्षुस्तद्विषयमनुयो- गमार्यया स्पष्टयति- पूर्व विकलाशेषायादन्यस्येष्टभगणशेषादीन् । अविलम्बितं भणति यः कुट्टकंविदां सिन्धुरः स भवेत् ॥८॥ स्पष्टोऽर्थः ॥ ८७ ॥ अथैतत्पश्नभञ्जनायाऽद्यमाह- कथितविकलावशेषस्थिरगुणगुणितेष्वभीष्टचकेषु । भक्तेषु भूमिदिवसैर्यः शेषस्तद्गुणोक्तविकलाग्रे ॥ ८८ ॥ क्षितिदिनभक्त शेषे वेदहृतेऽभीष्टखचरभगणाग्रम् । राश्यादिशेषगणने चैवं रव्यांदि ( १२३६०२१६००- १२९६००० )गणितपरिवतैः ॥ ८९ ॥ इति श्रीदेवराजविरचिते कुट्टाकारशिरोमणौ निरमपरिच्छेदो द्वितीयः ॥ २॥ उद्दिष्टस्थ ग्रहविकलाशेषस्य यः स्थिरगुणः पूर्वं रविभृगुविदा नवाम्बरे- त्येवमादिना पठितस्तेन गुणिवेष्वभीष्टग्रहयुगभगणेषु यः शेषस्तद्गुणितोद्दिष्ट- विकलावशेषस्थिरगुणगुणितेषु जिज्ञासितस्य द्वादशगुणितयुगचकेषु भूदिनभक्तेषु यः शिष्यते तेन गुणिते तूद्दिष्टविकलाशेष भूदिनभक्ते यच्छिष्टं तद्वेदविहतं जिज्ञासितस्य राशिशेषं भवति । अनया दिशा भागादिशेषाश्चाऽऽनेयाः ॥ ८८ ॥ ८९ ॥ अथ संप्रदायाविच्छेदार्थं भास्कराचार्यकृतलीलावतीगतानि सोदाहरणानि निरअकुट्टकसूत्राणि कतिचिल्लिख्यन्ते-- भाज्यो हारः क्षेपकश्चापवर्त्यः केनाप्यादौ संभवे कुट्टकार्थम् । येन छिनौ भाज्यहारौ न तेन क्षेपश्चैतदुष्टमुद्दिष्टमेव ॥ परस्परं भाजितयोर्ययोर्यः शेषस्तयोः स्यादपवर्तनं सः। स्वेनापवर्तेन विभाजितौ यौ तौ भाज्यहारौ दृढसंज्ञको स्तः ॥ १ ख. एकस्य विलिहावाद । २ ख. "कवेदी समिधुरझानाया। ३ स्व, रिलेधः AMES । ४८ महालक्ष्मीमुक्तावलीसहितः- मिथो भजेत्तौ दृढभाज्यहारौ यावद्विभाज्ये भवतीह रूपम् : फलान्यधोऽधस्तद्धो निवेश्यः क्षेपस्तदन्ते खमुपान्तिमेन ॥ . स्वोर्चे हतेऽन्त्येन युते तदन्त्यं त्यजेन्मुहुः स्यादिति राशियुग्मम् । ऊों विभाज्येन दृढन तष्टः फलं गुणः स्याधरो हरेण ॥ एवं तदेवात्र यदा समास्ताः स्युलब्धयश्चेद्विषमास्तदानीम् । यदागतौ लब्धिगुणौ विशोध्यौ स्वतक्षणाच्छेषमितौ तु तौ ! श्रीभास्करीयलीलावत्यां कुट्टकाध्याये श्लो० १-५॥ इति करणसूत्राणि पश्च ॥ PROTim एषामर्थः-संभवे सति कुट्टकार्थमादौ केनाप्यपवर्तितेन भाज्यो भाजकः क्षेपकश्चापवर्तनीयः । येनापवर्तकेन भाज्यभाजको विभक्तौ तेन विभक्तः क्षेपो न शुध्येच्चेत्तदुष्ट मुद्दिष्टमेव । खिलमित्यर्थः । ययोः परस्परभक्तयोर्यच्छेषं तत्तयोरपवर्तकं स्यात् । यौ भाज्यभाजको स्वेनापवर्तकेन भक्तौ तौ दृढसंज्ञो भवेताम् । एक दुपलक्षणम् । भाज्यभाजकयोर्योऽपवर्तकस्तविभक्तः क्षेपोऽपि दृढसंज्ञ इति । तौ दृढभाज्यभाजको परस्परं तावद्विभजेद्यावद्विभाज्ये रूपं भवति । अत्र विभाज्य शब्देन भाज्यभाजकयोः परस्परभजनात्तावुभा- वप्यभिधीयते । परस्परभजने क्रियमाणे यानि फलानि लभ्यन्ते तान्य- धोऽधो निधेयानि । तेषामधो दृढक्षेपस्तथा निधेयः । अन्ते खं निधेयम् । क्षेप- स्याधः शून्यं निधेयमित्यर्थः । उपान्तिमेन 'स्वोर्चे हतेऽन्त्येन युते तदन्त्य त्यजेन्मुहुः स्यादिति राशियुग्ममिति ' वल्ल्युपसंहार उच्यते । माक्स्पष्टार्थ- भभिहितः । ऊर्ध्वराशिढेन भाज्येन तनूकृतः फलं भवेत् । अधोराशिदृढ- भाजकेन गुणः स्यात् । एवं पङ्क्तौ समायां वेदितव्यम् । विषमायां तु तस्या- मेवमागतौ लब्धिगुणौ क्रमादृढभाज्यभाजकाभ्यां विशोध्य सिद्धेष्टौ लब्धिगुणौ भवत इति ज्ञेयम् । अत्र कुट्टाकारे निरये समधिकरपुषीत्यादिनियमो नास्ति ॥ १ ॥ २॥ ३ ॥ ४ ॥ ५ ॥ उद्देशकः-एकविंशतियुतं शतद्वयं यद्गुणं गणक पञ्चषष्टियुक् । पञ्चवर्जितशतद्वयोद्धृतं शुद्धिमेति गुणकं वदाऽऽश तम् ॥९॥ श्रीभास्करीयलीलावत्यां कुट्टकाध्याये- १. प्य शिष्टौ ल ! HARSOHARRAN HIRBA MANOHARANA कुट्टाकाराशरोमाणः। न्यासः-भाज्यः २२१ । हारः १९५ । क्षेपः ६५ । भाज्यभाजकयोः परस्परभक्तयोः शेष १३ । अनेनापवर्तिता दृढ संज्ञा भाज्यभाजकक्षेपाः क्रमे- णेमे १७-१५–५ । परस्परभजनार्थमुपर्यधोभावेन विन्यस्तौ भाज्यभाजको १७ । १५ । अनयोः परस्परभक्तयोर्लब्धे क्रमेणोपर्यधोभावेन निहिते १ । ७) अनयोरधः क्षेपो दत्तः ॥१५॥ एषामधः शून्यं निक्षिप्तम् ११७५० अन वल्ल्युपसंहारे कृते जातौ राशी ४०३५इमौ दृढभाज्यभाजकाभ्यां १७।१५ तष्टौ जातौ लब्धिगुणौ ६।५ । अत्रापि त्रैराशिकमार्गः पूर्ववद्यो- ज्यः । नन्वेवं मतिकल्पनायासमन्तरेण कुट्टकगणिते विद्यमाने किमर्थमार्य- भटाचार्यादिभिर्मतिकल्पनाऽङ्गीकृता । अत्रोच्यते । साये तावदवश्यं मतिकल्प- नया भवितव्यम् । अतः साग्रनिरग्रयोईयोरपि सास्त्वित्यङ्गीकृतेत्यदोषः ॥९॥ इत्यत्रिकुलाभरणस्य स्कन्धत्रयवेदिनः सिद्धान्तवल्लभ इति प्रसिद्धापरनाम्नः श्रीवरदराजाचार्यस्य तनयेन देवराजेन विरचितायां कुट्टाकाराशरोमाण- टीकायां महालक्ष्मीमुक्तावल्यां निरमारिच्छेदो द्वितीयः ।। अथ मिश्रश्रेढीमिश्रकुट्टाकारपरिच्छेदस्तृतीयः । अथ मिश्रश्रेढीमिश्रकुट्टाकारपरिच्छेदो व्याख्यायते। अस्मिन्परिच्छेदे मनतद्भङ्गेषु यथा भवमुपकरणानां वर्गवर्गमूल घनघनमूलसंकालवाचाधिनवर्ग- चितिघनघनचितिवनश्रेढीफलानामानयनविधिरार्यभटीये गणित सारे द्रष्टव्यः। इह तु ग्रन्थविस्तरभयान्न प्रदर्श्यते । अत्राऽऽदावार्यया प्रश्नत्रयं व्यञ्जयति- अथ संकलितघनैक्याद्धनपदयोगाच्च वर्गधनयोगात् । विकलावशेषजातादिनमभ्यूह्यं विवेकिना पुंसा ॥ १ ॥ अत्र पदशब्देन विकलाशेषो (शेषरूपो) गच्छ उच्यते । विकलावशेष- जाताद्वर्गधनयोगाच्च विवेकिना पुंसा दिनमप्यूह्यम् । अत्र यद्यपि संकलिता- दियोगो मुख्यवृत्त्या विकलावशेषजातो न भवति तथाऽपि योगिनां तज्जात- त्वमवलम्ब्य तथोक्तम् ॥ १ ॥ एषां भङ्गार्थमार्यामाह- कथितमिह यद्यदैक्यं तस्भिस्तस्मिंश्च विहितघनमूले । पूर्णतया घनमूलं यद्यत्तत्तद्विलिप्तिकाशेषम् ॥ २ ॥ MIRE U महालक्ष्मीमुक्तावलीमहितः- AR इह यद्यदैक्यं कथितं तस्मिंस्तस्मिंश्च विहितघनमूले सति पूर्णतया यद्य- द्घनमूलं तत्तदत्र विलिप्तिकाशेषं भवेत् । विलिप्तिकाशेषाज्जातादिष्टदिनानयनं पागेवोक्तम् । अतस्तत्र न वक्तव्यम् ॥ २ ॥ अथ प्रश्नान्तरमार्ययाऽऽह- घनचितिघनवगैक्याद्विपूर्वलिप्तायसंभवादिवसान् । सद्यः समीक्षते यः स वेद(एव)गणितानि वेद वसुमत्याम् ॥३॥ यो विपूर्वलिप्ताग्रसंभवाचनचितिघनवगोरक्यादिवसान् सद्यः समी- क्षते स एव वसुमत्यां गणितानि वेद । विपूर्वं लिप्ता विलिप्ताः॥ ३ ॥ एतत्पश्नभङ्गार्थमा-माह- बनचितिघनवगैक्ये कृतवर्गपदेऽत्र यो भवेच्छेषः। एतस्य वर्गमूलं यत्तद्विकलावशेषः स्यात् ॥ ४ ॥ स्पष्टोऽथः ॥ ४ ॥ अथाऽऽया प्रश्नान्तरमाह-- लिप्ताषष्ट्यंशाग्रे जातात्संकलितघनचितिघनैक्यात् । यो भवति चितिघनोऽस्माद्यो दिननिवहं वदत्यसो धीमान्॥५॥ अथैतत्पश्नभङ्गार्थमा-माह- षड्गुणितादुद्दिष्टात्पूर्ण घनमूलमिह च यत्तस्मात् । वर्गभवं मूलं यत्तस्माद्विघ्नात्पदं विलिप्तागम् ॥ ६ ॥ इह षड्गुणिवादुद्दिष्टाद् यत्पूर्ण बनमूलं तस्मादृर्गभवं मूलं विलिप्तान भवति ॥६॥ अथाऽऽर्यया प्रश्नान्तरं व्यनक्ति- पदकातिसंकलितक्याल्लिप्ताषष्टव्यंशशेषसंजातात् । इष्टदिनानां निवहः शक्यं सुधिया सुखेन विज्ञातुम् ॥ ७॥ अन पदशब्दो गच्छवचनः । लिप्ताषष्टयंशशषजातात्पदकृतिसंकलि- तानां समासादिष्टदिननिवहः मुधिया सुखेन विज्ञातुं शक्यम् । शक्यमित्य- व्ययम् । शक्यमरविन्दसुराभिरिति कालिदासः ॥ ७ ॥ अथैतत्पश्नभङ्गार्थमायाँमाह- कृतिपदसंकलितैक्ये संकलितं स्यात्कृशानुभिर्भक्ते । संकलिते नयनह ते विहितपदे शेषमात्रविकलागम् ॥ ८ ॥ RE MAHAS कुट्टाकारशिरोमणिः। ५० कनिर्वर्गः । पदं गच्छः । संकलितं प्रसिद्धम् । ऐक्यं योगः। विकला- शेषभवानां कृतिपदसंकलितानामैक्ये कशानुभि( ३ )भक्ते सति लब्धं संकलितं स्यात् । अथैवमागते संकलिते नयनहते विहितवर्गमूले च सत्यत्र शेषं विकलाग्रं भवति ॥ ८ ॥ अथाऽऽर्यया प्रश्नान्तरमाह- योऽम्बरचरेन्द्रलिप्तापूर्णरसांशावशेषजातेन । वर्गचितिघनेन दिनं विद्याद्विद्याविशेषवानेषः ॥ ९॥ लिप्तापूर्णरसांशा विलिप्ताः । शिष्टं स्पष्टम् ॥ ९ ॥ अथैतत्पश्नभङ्गार्थमा माह- त्रिगुणादर्गचितिधनाद्यत्पूर्णत्वेन धनपदं भवति । तद्ग्रहविकलाशेषं भवतीति विपश्चिता विनिर्देश्यम् ॥१०॥ त्रिगुणादिकलाग्रभावावर्गचिनिधनाद्यत् पूर्णत्वेन घनमूलं भवति तद्ग्रह- विकलाशेषं भवतीति विपश्चिता विनिर्देश्यम् ॥ १० ॥ अथाऽऽर्यया प्रश्नान्तरमाह- घनवर्गवर्गचितिघनसंकलितसमासतः समुद्दिष्टात् । खचरविलिप्ताग्रभवात्कथमपि गदितुं दिनं बुधैः शक्यम्॥११॥ समासो योगः । खचरविलिप्तायवशात् समुद्दिष्टाद् धनवर्गवर्गचितिधन- संकलितसमासतो बुधैदिनं कथमपि कथयितुं शक्यम् ॥ ११ ॥ अथैतत्पश्नभङ्गार्थमा-माह- अत्रोद्दिष्टे राशौ सागरभक्त फलं भवति यत्तत् । वर्गचितिघनस्त्वभुना विकलाग्रं साधयेद्बुधः प्राग्वत्॥१२॥ अवोद्दिष्टे राशौ सागरैश्चतुभिर्भक्ते यत्कलं भवति तद्विकलाग्रजातो वर्ग- चितिधनः । अमुना बुधः प्राग्वविकलायं साधयेत् ॥ १२ ॥ अथाऽऽर्यया प्रश्नान्तरमाह- कृतिघनसंकलितैक्यात्वचरविलिप्तावशेषसंभूतात् । वासरचयं वदेद्यो वागीशो भवति भूतले स पुमान् ॥ १३ ॥ स्पष्टोऽर्थः ॥ १३॥ अथैतत्पश्नभङ्गार्थमा-माह- कृतिघनसंकलितैक्ये वह्निहते भवति वर्गसंकलितम् । तस्माद्गगनचराणां प्राग्वद्विकलावशेषमानेयम् ॥ १४ ॥ HEIDO - MUSIC , On પૂરું महालक्ष्मीमुक्तावलीसहितः वर्गसंकलित वर्गचितिघनम् । शिष्टं स्पष्टम् ॥ १४ ॥ अथाऽऽर्यया प्रश्नान्तरमाह- विकलाशेषेष्टांशश्रेढ्यां विकलावशेषभक्तायाम । यत्तेनांशमुखाभ्यामुत्तरतश्चेष्टदिनचयो वाच्यः ॥ १५ ॥ ' *इष्टं व्येकं दलितं सपूर्वमुत्तरगुणं समुखमध्यम् । इष्टगुणितमिष्टधनम् । इत्यार्यभटीयसूत्रानीतमिष्टधनमत्र श्रेढीशब्देनोच्यते। विकलाशेषस्य रूपांश- द्व्यंशव्यं शादीष्टांशजाता श्रेढी विकलाशेषेष्टांशश्रेढी। तस्यां विकलावशे- षभक्तायां शुद्धायां सत्यां यत्फलं भवति तेनांशादिमोत्तरैश्च कथितैरिष्टदिन- निचयो वाच्यः ॥१५॥ अथैतत्पश्नभञ्जनायाऽऽर्यामाह- अंशहते फलराशौ विमुखे चोत्तरहते हते द्वाभ्याम् । रूपयुतेऽशकगुणिते यत्स्याद्विकलाग्रमेव तद्भवति ॥१६॥ उद्दिष्टे फलराशावुद्दिष्टेनांशेन गुणितेन तदुद्दिष्टेन मुखेन हीने तदुद्दिष्टेनो- त्तरेण भक्ते ततो द्वाभ्यां( २ ) गुणिते ततो रूप(१)सहिते पुनश्चांश ( शे )गुणिते यत्स्यातद्विकलायं भवति । व्यक्त्यर्थमेतदुदाहरणेन प्रदर्श्यते । अत्र ग्रहस्य कल्पितो विकलाशेषः शत ( १०० )संख्यः । अस्य चतुर्थांशः पश्चविंशति- (२५)संख्यः । इदमिष्टम् । अत्र प्रथमं श्रेढीफलभानीयते । इष्टम् (२५) । एतद्व्येकम् । चतुर्विंशति( २४ )संख्यम् । एतद्दलितं द्वादश( १२ )संख्यम् । इदमन कल्पितेनोत्तरेण त्रिकेण गुणितं षट्विंश ( ३६ )संख्यम् । एतत्क- ल्पितेन मुखेन चतुष्टयेन( ४ )युक्तं चत्वारिंश ( ४० )त्संख्यम् । इदं मध्यध- नम् । एतदुद्दिष्टेन पञ्चविंशति( २५)संख्येनांशेन गुणितं सहस्र( १००० संख्यं जातम् । इदमत्र विकलाशेषेष्टांशश्रेढी । इयं विकलाशेषेण शत- ( १०० )संख्येन भक्ता शुध्यति । अत्र फलं दश( १० )संख्यम् । अस्मि- वांशे मुखे चोत्तरे च कथिते सति विकलाग्रमानेतुं शक्यम् । तस्मात्कथितैरे- भिश्चतुभिर्विकलायमानीयते । इह फलराशिर्दश ( १० )संख्यः । अयमंशेन चतुष्टयेन( ४ ) गुणि तश्चत्वारिंश(४०)त्संख्यः । अयं सुखेन चतुष्टयेन( ४ ) हीनः षट्त्रिंश ( ३६ )त्संख्यः । अयमुत्तरेण विकेण( ३ ) भक्तो द्वादश- ( १२ )संख्यः । एष द्वाभ्यां गुणितश्चतुर्विंशति ( २४ )संख्यः। अयं रूपेण ( १ )सहितः पञ्चविंशति ( २५ )संख्यः । अयं पुनरप्यंशेन चतुष्टयेन( ४ ) गुणितः शत( १०० )संख्यः । एष ग्रहस्य विकलाशेषः ॥ १६ ॥ ( *आर्थभान गणितपाले लेक १९) .. NAAMS BAR कुट्टाकाशिरोमाणः। ५३ अथाऽऽययोपसंहरति- दिङ्मात्रेण मयाऽस्मिन्कट्टाकारः प्रदर्शितो ग्रन्थे । शेषोऽखिलो विशेषो भाष्यादौ दृश्यतां विपश्चिद्भिः॥१७॥ भाष्यमार्यभटीयविषयं भास्कराचार्यविरचितम् । आदिशब्देन भट्टब्रल- गुप्तविरचितब्रह्मसिद्धान्तादिरभिधीयते । शिष्टं सुबोधम् ॥ १७ ॥ अथैष ग्रन्थो न स्वतन्त्रः, कित्वार्यभटाचार्यमणीतकुट्टाकारविषय सूत्रयु- ग्मस्य कुट्टाकारशिरोमणिनामधेयो व्याख्यानविशेष एवेत्यार्ययाऽऽह- आचार्यभटोदितकट्टाकारार्थसूत्रयुगलस्य । कुट्टाकारशिरोमणिनामा व्याख्याविशेष एवैपः ॥१८॥ इयमवतारिकया विवृतार्था ॥ १८ ॥ अर्थमं ग्रन्थमभ्यस्यतां फलं दर्शयितुमा-माह- कुट्टाकारशिरोमणिमिममभ्यस्त्राति दृढेन यो मनसा । तरणेः प्रसादतोऽयं सहसा तान्त्रिकशिरोमणिर्भवति ॥१९॥ इति श्रीदेवराजविरचिते कुटाकारशिरोमणी मिश्रीमिश्रकुट्टा- कारपरिच्छेदस्तृतीयः ।। ३॥ मका इम कुटकारशिरोमाण दृढेनाध्यापृतेन मनसा योऽभ्यस्थति संशीलयति स तरणेरादित्यस्य प्रसादतः सहसा तान्त्रिकशिरोमणिर्भवति । तान्त्रिको ज्ञात- सिद्धान्तः ॥ १९ ॥ सदृर्ण सूत्रकलिता समवृत्ताऽतुला नवा । समर्पिता महालक्ष्म्यै टीका मुक्तावली मया ॥ इत्यत्रिकुलाभरणस्य स्कन्धत्रयवेदिनः सिद्धान्तबल्लभ इति प्रसिद्धापरनान्न: विरदराजाचायस्य तनयेन देवराजेन विरचितायां कुट्टाकारशिरोमणि टीकायां महालक्ष्मीमुक्तावल्यां मिश्रश्रेढीमिश्रकुट्टाकारपरिच्छेदस्तृतीयः॥३॥ समाप्ता चेयं महालक्ष्मीमुक्तावली नाम कुट्टाकारशिरोमणिटीका । 9851013 •.