Scl

The Patanjali Charita Of Rambhadra Dikshit

Pandit Shiva Datta

PDF Proofread

Front matter

All rights reserved by the publisher.] Publisher :-Pandurang Jawaji, "Nirnaya-sagar' Presse Printer :-Ramchandra Yesu Shedge, 26-28, Kolbhat Lane, Bombay काव्यमाला.५१. श्रीरामभद्रदीक्षितप्रणीतं पतञ्जलिचरितम् । जयपुरमहाराजाश्रितमहामहोपाध्यायपण्डितशिवदत्त- शर्मणा, मुम्बापुरवासिपरवोपालपाण्डुरङ्गा- त्मजकाशीनाथशर्मणा, पणशीकरोपाह- लक्ष्मणात्मजवासुदेवशर्मणा च संशोधितम् । द्वितीयावृत्तिः। मुम्बय्यां पाण्डुरङ्ग जावजी इत्येतैः स्वीये निर्णयसागराख्यमुद्रणालयेऽङ्कयित्वा प्राकाश्यं नीतम् । १९३४ Aata se मल्या १०. आणकाः।

No text on this page.

काव्यमाला।
श्रीरामभद्रदीक्षितप्रणीतं
पतञ्जलिचरितम्।
प्रथमः सर्गः।
अस्ति श्रियश्चन्द्रमसः सुधायाः कल्पद्रुमाणां च पिता पयोधिः ।
रुन्धन्समन्ताद्वलयं धरण्या दधाति यः खच्छदुकूललीलाम् ॥ १ ॥
तरङ्गिणी वारुणराजधानीधेनुस्तनप्रस्तुतदुग्धजन्मा ।
बहिष्प्रसर्पद्भुजगाधिराजभङ्गीमिवाङ्गीकुरुते यदनेः ॥ २ ॥
अन्ये गुणाः सन्ति तथापि मन्ये माधुर्यमन्यादृशमेव यस्य ।
यतो मधुद्वेषकदेव जातो निषेवमाणः पुरुषो यदम्भः ॥ ३ ॥
घना यतः प्रावृषिका गृहीत्वा पयांसि शङ्खोदरपाण्डुराणि ।
दरीगृहान्तर्गतभूतसङ्घाः कैलासशैला इव संचरन्ति ॥ ४ ॥
मन्थभ्रमन्मन्दरवेगकीर्णान्व्योमीङ्गणे वारिकणान्यदीयान् ।
विद्याधरी विनममौक्तिकाभानद्यापि पश्यन्त्युडुकैतवेन ॥ ५ ॥
यमुद्गतैरावतदानधारानिःष्यन्दनीलीभवदेकदेशम् ।
तटस्थमाखादितकालकूटं भर्ग समं प्राग्ददृशुः सुरेन्द्राः ॥ ६ ॥
उदेष्यता पूर्वमुडुप्रियेण विशिष्य यस्मिन्गमिते विवृद्धिम् ।
मन्थाद्रिशृङ्गे वसता शिवेन क्षीराभिषेकः क्षणमन्वभावि ॥ ७ ॥
यस्यानुलिप्तः क्षणमुद्गतश्रीकराजकिञ्जल्करजोभिरूमिः ।
कुलाद्रिकन्याकुचकुङ्कुमात बिडम्बयामास भुजं पुरारेः ॥ ८ ॥

२
काव्यमाला।
मन्थानशैलभ्रमिवातनुन्नैः प्रादुर्भवत्कल्पतरुप्रसूनैः ।
सुगन्धिभिश्चारुसुधारसानामुदित्वराणामुपचस्करे यः ॥ ९॥
यो मन्दरेण क्षुभितोऽपि गाढं पुंसा पुरोभागमुपेयुषेव ।
सतां कवीनामिव शब्दबन्धोरसंबुधानां रुचिरं व्यतानीत् ॥ १० ॥
आत्तेन यस्मादमृतद्रवेण जीवन्ति देवा इति नात्र चित्रम् ।
विषं निपीयापि यतः समुत्थं व्यजेष्ट किं नान्तकमष्टमूर्तिः ॥ ११ ॥
मरुद्गणैर्यन्मथनावसाने तटार्पिता वासुकिमन्थरज्जुः ।
दिगन्तसान्द्रीकृतदुग्धगन्धं तरङ्गवाताङ्कुरमाचचाम ॥ १२ ॥
निर्मथ्य यं साधु यथाखदेशं निर्लिपलोकैर्दिवि नीयमानः ।
यतो यतो याति स मन्दराद्रिस्ततस्ततोऽभूयत दुग्धवृष्ट्या ।। १३ ।।
पयांसि यस्य प्रथमं प्रविष्टान्यादाय मन्थाचलकन्दरेषु ।
पुष्णन्ति यत्नेन विनैव भूता भूतेशभूषाभुजगानजस्रम् ॥ १४ ॥
सारज्ञ एकः स सरोरुहाक्षो जज्ञे सुधाजृम्भितसौरभेयः ।
यदन्तराले जलजन्तुशून्ये कदापि मीनः कमठः कदापि ॥ १५ ॥
तस्यान्तरे श्रान्त इवागमान्तकान्तारसंचारवशादशेत ।
फणीन्द्रशय्यां पवमानतूलैरापूरणीयामधिरुह्य शौरिः ॥ १६ ॥
कदाचिदासादितयोगनिद्रमभूतपूर्वेण वर्गरिम्णा ।
अधोक्षजं वोढुमदक्षिणोऽभूत्पर्यभूतः फणिनामधीशः ॥ १७॥
निरुद्धमुक्तश्वसितस्तदानीमभीक्ष्णमच्छूनकृशं फणीन्द्रः ।
मतङ्गजक्लिष्टमृणालकल्पमनेकधा वृत्तमधत्त भोगम् ॥ १८॥
संभ्रान्तदृक्पञ्चशतीचतुष्को जिहासहस्रद्वयलीढसक्का ।
शतैर्मुखानां दशमिर्विमुञ्चन्फूत्कारमुग्रं ददृशे स शेषः ॥ १९ ॥
तं तादृशं वीक्ष्य पलायितेषु सनत्कुमारादिषु तापसेषु ।
समीपमागत्य बली गरुत्मान्पर्याकुलः किंचिदिदं बभाषे ॥ २०॥

१ सर्गः] पतञ्जलिचरितम् । न दृश्यते शेष भवान्पुरेव वदाधुना किं तव बैमनस्यम् । प्रज्ञां बलं धैर्यमुदारतां च पश्यामि नान्यस्य तवेव लोके ॥ २१ ॥ निबध्य चण्डेन समीरणेन स्पर्धा पुरा दुर्धरभोगभीमः । चकर्थ तं मेरुगुहान्तरे त्वं चञ्चत्फणामण्डलरुद्धवेगम् ॥ २२ ॥ विशालमूर्वीवलयं तरस्त्री सशैलकान्तारनदीसमुद्रम् । त्वमुत्तमाङ्गस्य समुन्नतस्य महत्तमोष्णीषदशामनैषीः ॥ २३ ॥ गत्वैव धातुर्भुवनं युगान्ते कृतस्तुतिः प्राञ्जलिभिर्मुनीन्द्रः । विसृष्टफूत्कारविषानलस्त्वं विश्वत्रयं धक्ष्यसि दुनिरीक्ष्यः ॥ २४ ॥ जगत्रयं यो जठरे बिभर्ति विश्वानि भूतानि च यस्य पादः । भोगेन बिभ्रत्पुरुषं तमाद्यं भवान्न वेद्यः परमेष्ठिनोऽपि ॥२५॥ संजल्पितैः किं समरे गृहीत्वा कारागृहं यो रुरुधे महेन्द्रम् । तस्यापि लङ्केशसुतस्य हन्ता स लक्ष्मणस्ते किल मूर्तिभेदः ॥ २६ ॥ इत्थं गरुत्मन्तमुदीरयन्तं स दुर्वहश्रीशशरीरखिन्नः। कथंचिदालम्ब्य धृति फणीन्द्रो गिरा शनैर्गद्गदया जगाद ॥२७॥ मुरद्विषो मूर्तिरियं पुरेव मयाद्य धर्तुं महती न शक्या । परीक्षितुं मां गरिमा धृतः किमनेन सत्वं मम वा गृहीतम् ॥ २८॥ इति ब्रुवन्नेव स पन्नगेन्द्रः शरीरभारेण हरेश्वचाल । खगेश्वरो मन्दरगौरवाभ्यां तदा भुजाभ्यां द्रुतमाललम्बे ॥ २९ ॥ किमेतदित्युज्झितकेलिपद्मा पयोधिकन्यापि तदा भयेन । नवाम्बुजाभेन नवाम्बुजामं निष्पीडयामास करं करेण ॥ ३० ॥ ततः स्फुरत्पद्मदलाभिरामं प्रमोदबाष्पाकुलपक्ष्ममालम् । उदाढरोमाञ्चितमूर्तिरक्ष्णोरुन्मीलयामास युगं मुरारिः ॥ ३१ ॥ लघूभवन्तीमथ तस्य मूर्ति लक्ष्मीपतेर्वोढुमहिः शशाक ।

काव्यमाला । जहर्ष च श्रीधुतकेलिपद्मा यथास्थितं विष्णुरथश्च तस्थौ ॥ ३२ । प्रणम्य भक्त्या परमं पुमांसं पिप्रच्छिषुस्तत्तनुभारहेतुम् । विद्वत्प्रियान्व्याकरणानुशिष्टान्प्रायुक्त शब्दान्पवनाशनेन्द्रः ॥ ३.३ ।। यदि प्रसादों मयि यद्यहं च श्रोतुं जगन्नाथ भवामि योग्यः । वदात्र हेतुं यद शिश्रियस्त्वमभूतपूर्वं वपुषो गुरुत्वम् ॥ ३४ ॥ इत्युक्तमीशेन भुजंगमानां श्रुत्वा मुकुन्द स्मितकन्दलेन । मुक्ताफलालंकृतविद्रुमाभं बिम्बाधरं बिभ्रदुवोचदेवम् ॥ ३५॥ शृणु त्वमाश्चर्यमिदं. फणीन्द्र शुश्रूषुरुद्धाट्य, दृशां सहस्रे । साम्यं बिभर्ति स्मरतो यदन्तः कायेन मे कुङ्मलितः कदम्बः ॥३६॥ निरुद्धनिश्वासमवाप्य योगं स्थिरीकृते धारणया. च चित्ते । अदृश्यत दागपनीतमायानैपथ्यमीशस्य परस्य नृत्तम् ॥.३७ ॥ असत्करासङ्गरणन्मृदङ्ग चतुर्मुखास्फालितचारुतालम् । बिडौजसोदञ्चितवेणुनादं वाणीकरवाणितवल्लकीकम् ॥ ३८ ॥ कपदलोलानदीतरङ्गं धर्माम्बुसिक्तालिकभस्मपुण्ड्रम् भुजान्तरोद्भूतभुजङ्गहारं कटीविराजत्करिचर्मकक्ष्यम् ॥ ३९ ॥ अमर्त्यलोकैरनिमेषभावमासादितं शश्वदभिष्टुवद्भिः । अवेक्ष्यमाणाद्भुतसंनिवेशशिञ्जानमञ्जीरपदारविन्दम् ॥ ४० ॥ अनल्पकल्पद्रुमपुष्पवर्षे चिदम्बरे हेमसभान्तराले । कालीसमक्षं कलितप्रमोदैः प्रशस्यमानं मुनिभिः पुराणः ॥ ११ ॥ आनन्दनृतं, नटनायकस्य क्षेमं ददद्वृष्टवते जनाय । यावन्मयादर्शि फणीन्द्र तावत्त्वया वपुर्णौरवमन्वभावि ॥ ४२ ॥ इति ब्रुवाणं रमणं रमाया नूनं तदुक्तिश्रवहर्षनुन्नः । गलप्रमोदाश्रुकणापदेशादानर्च मुक्तामणिभिः फणीन्द्रः ॥ ४३ ॥.

१ सर्गः] पतञ्जलिचरितम् । रोमाञ्चिते तस्य शरीरमञ्चे क्षणं विनिन्ये नलिनेक्षणोऽपि । कुरङ्गदष्टाग्रंकुशंप्ररोहे करीव तीरे कमलाकरस्य ॥ ४४ ॥ श्रीश त्वदुक्तिश्रवणेन नीते चक्षुःसहस्रे मम चारितार्थ्यम् । तथापि पश्येयमवश्यमैशं नृत्तं प्रसीदेति स तं ययाचे ॥ ४५ ॥ स याचमानाय सरोरुहाक्षस्तस्मै पुनर्विस्मयमादधानः । कथामथो माक्षिकमाक्षिपन्त्या भुजङ्गराजाय गिरा जगाद ॥ ४६॥ पणीति कश्चिन्मुनिरस्ति पूर्व स पाणिनं नाम कुमारमाप । खतुल्यनाम्ना तनयेन सोऽपि दाक्षीमुदूढी दृढमभ्यनेन्दत् ॥ ४७ ॥ स पाणिनो दक्षभुवा पुरन्ध्या रिपुः पुराणामुमयेव रेमे । काले मुनिः स्कन्द इव प्रसूतो हर्ष तयोः पाणिनिरप्यकार्षीत् ॥४८॥ तपोभिराराधयतः कठोरैस्तस्य प्रसन्नस्तरुणेन्दुचूडः । अघोषयद्दण्डविघटनेन चण्डं करस्थं डमरुं पुरस्तात् ।। ४९ ॥ शब्दावलेाकरणं चिकीर्षास्तदा मुनेः पाणिनिसंभवस्य । मृडस्य चण्डा डमरुपणादाः शास्त्रादिसूत्राणि चतुर्दशासन् ॥ ५० ॥ इतीश्वरानुग्रहतो निबध्नन्सूत्राणि स व्याकृत शब्दजालम् । सुष्टु प्रयोगं कथयन्ति यस्य खोकसोपानपरंपरेति ॥ ५१ ॥ कात्यायनः कर्कशया प्रसाद्य तपस्यया चन्द्रकलावतंसम् । तस्याथ सूत्रेषु पदार्थबोधप्रवर्तकं वार्तिकमाबबन्ध ।। ५२ ॥ १. सर्पाणां रोमाभावेऽपि कविभी.रोमाञ्चो, वर्ण्यते. तथा च- 'मन्दोद्भूतैः शिरोभिर्मणिभिरगुरुभिः प्रौढरोमाञ्चदण्ड- स्फायन्निर्मोकसंधिप्रसरदुरुगलसन्मदखेदपूराः । जिढायुग्माभिपूर्णाननविषमसमुद्गीर्णवर्णाभिरामं वेलाशैलान्तभाजो भुजगयुक्तयस्त्वद्गुणानुगिरन्ति । इति मुरारिः.

or काव्यमाला। प्रयुक्तया व्याकरणस्य सूत्रैः सवार्तिकैः साधुतया पदानाम् । अदुग्ध गौलौकिकवैदिकात्मा चिराय दुग्धं त्रिदिवं जनानाम् ॥ ५३॥ श्रुत्वा निजस्योपरि चार्तिकानि सूत्रप्रबन्धस्य स सूत्रकारः । कात्यायनेन प्रथितान्यकुप्यत्कालो हि धीरेऽपि करोति मोहम् ॥५४॥ प्रकम्पितोष्ठं परिवर्तिताक्षं पादक्रमन्यञ्चितभूमिभागम् । तमाश्रमं पाणिनिराजगाम कात्यायनस्तिष्ठति यत्र योगी ॥ ५५ ॥ तमापतन्तं कुपितं मुनीन्द्रो दृष्ट्वापि सज्जीकृतपाद्यपात्रः । कात्यायनः प्रत्युदगान्न यावत्तं पाणिनिस्तावर्षि शशाप ॥ ५६ ॥ यस्मादविज्ञाय मम प्रभावं वृषध्वजानुग्रहभाजनस्य । सूत्रेष्वनुक्तोक्तदुरुक्तचिन्तावृथोद्यमं वार्तिकमातनिष्ठाः ॥ ५७ ॥ तस्मात्पतेदेव तनुस्तवेयमित्युद्धतं पाणिनिशापवाक्यम् । आकर्ण्य तूर्णं स विवृद्धमन्युः कात्यायनोऽपि प्रति तं शशाप ॥५८॥ भवानजानन्भगवत्प्रसादविवर्तभूतान्यपि वार्तिकानि । मह्यं यतः शापमदान्मदेन ततो विशीर्यंत तवापि मूर्धा ॥ ५९॥ इति त्रयोदश्यभिधानवत्यां तिथौ मिथः शापविसृष्टदेहौ। उभौ मुनीन्द्रौ स्वकृतैस्तपोभिः पत्युः पशूनां पदमाश्रयेताम् ॥ ६ ॥ आचार्ययोरद्भुतबोधभाजोरालोचयन्तः परलोकयात्राम् । तदादि वैयाकरणा महान्तस्तस्यां तिथौ न प्रसजन्ति शास्त्रम् ॥ ६१ ।। ततो विवत्रे बुधमण्डलाय सवार्तिकं पाणिनिसूत्रबन्धम् । स व्याघ्रभूतिः सह पाणिनीयः श्वोभूतिना वाक्यकृदाश्रवेण ॥ १२ ॥ भोगीन्द्र तेषां भुवि वार्तिकानामशेषविद्वज्जनदुर्ग्रहाणाम् । भाष्यं महकुर्विति भक्तरक्षी नियोक्ष्यते त्वां किल नीलकण्ठः ॥६३॥ तदा नियोगात्तरुणेन्दुमौलेर्धरातले त्वं विहितावतारः ।

२ सर्गः] पतञ्जलिचरितम् । चिदम्बरक्षेत्रगतः पवित्रं नेत्रोत्सवं द्रक्ष्यसि नृत्तमैशम् ॥ ६४ ॥ इति मुरमथनोत्त्या मोदमानः फणीन्द्र- स्त्रिपुरहरनियोगं दीर्घकालादवाप्य । तदपि परिदिदृक्षुस्ताण्डवं चन्द्रमौले- रखतरितुमवन्यामंशतश्चाशशंसे ॥ ६५ ॥ इति श्रीयज्ञरामदीक्षितपुत्रस्य रामभद्रयज्वनः कृतौ पतञ्जलिचरिते सर्गः - प्रथमः १. द्वितीयः सर्गः । भूतलेऽथ जननोचितमाएं वंशमीक्षितुमविक्षददृश्यः । जन्तुविस्मृतपरस्परवैरं तापसाश्रमवनान्तमनन्तः ॥ १ ॥ यंत्र काननचरो गजराजो वीतकर्दममृणालविशङ्की । जृम्भणेषु चटुलेन करेण व्याचकर्ष किल केसरिदंष्ट्राम् ॥ २ ॥ 'शुण्डालेन सलीलमेष कलभो वक्रान्मृणालोज्ज्वलं जृम्भारम्यविकखरान्मृगपतेर्दष्ट्राङ्कुरान्कर्षति । एषा बल्सतरी च मातरि तृणान्यत्तुं गतायां क्वचि- शोपिन्या वरकन्दरस्थितिजुषः स्तन्यं पयथूषति ॥' इत्यदसीयजानकीपरिणयनाटके. 'उलूकानां काकैरुदभवदुदासीनवसतिः रहःक्रीडा सिंहैरनुकलमभून्मत्तकरिणाम् । अजानां गोपुच्छरजनि जनितप्रीतिभिरयः (?) समालापोऽन्योयं शुककुलबिडालस्य समभूत् ॥' समूह सर्पाप्यां समजनि सदा जाकुलकुलै- मयूरेन्द्रान्निद्रां फणिकुलमदः प्रापयति च । गर्वा योगक्षेमे कृतमतिरभूदयाघ्रनिकरो मृगाणी संबन्धः श्वभि“रन्योन्यमहितः।' इत्यप्पयदीक्षितीयमौरीमायूस्चम्पूर.

१
काव्यमाला।
अम्बरान्तरगते. रविबिम्बे यत्र चानुदिनमातपभीतान् ।
पन्नगान्वनमयूरयुवानः पालयन्ति गरुता विततेन ॥ ३ ॥
यत्र चत्वरमपास्य तटान्ते. चवितुं गवि तृणानि गतायाम् ।
द्वीपिनी रसनया परिलिह्य. स्तन्यमर्पयति वत्सतरस्य ॥ ४ ॥
यत्र मुक्तकुहरं हिमभीतं रक्षितुं निजमुखेन गृहीत्वा ।
मूषिकार्भकमरण्य बिडाली. मूलकोटरमगस्य निनायः ॥ ५ ॥
कृष्णसारवदनार्पितदर्भ कीरदत्तयवकल्पितहव्यम् ।
हस्तिपुष्करसमाहृतनीरं हृष्यति स्म तदवेक्ष्य वनं सः ॥ ६ ॥
तत्र कापि ददृशे मुनिकन्या गोंणिकेंति गुणसिन्धुरनेन ।
या हि यापयति पुत्रनिमित्तं दारुणेन तपसा दिवसानि ॥ ७ ॥
जन्म तापसकुंले परिशुद्धे शीलमीशगृहिणीस्पृहणीयम् ।
तां च वीक्ष्य तपसा ग्लपिताङ्गी मातरं स मनसा निरनैषीत् ॥८॥
दातुमय॑महिमद्युतयेऽम्भः पूर्तमञ्जलिपुटे विनिधाय ।
सा निमील्य नयने भगवन्तं भास्करं हृदि तदा परिदध्यौ ॥ ९ ॥
प्राज्ञमर्पय सुतं मम भाखन्नन्तरित्थमभिसन्धिजुषोऽस्याः ।
पन्नगाधिपतिरकनियुक्तः प्राविशजनितुमञ्जलिगर्भम् ॥ १० ॥
संभृतार्थ्यजलमञ्जलिमुच्चैः सा सहस्रकिरणं प्रति देवम् ।
यावदुत्क्षिपति तावदमुष्मातापसाकृतिरहिः स पपात ॥ ११ ॥
पादयोगपरिपावितभूमि सा सुवर्णगिरिदृष्टपटुत्वम् ।
दक्षिणं कलयितुं कमलेशं तं ददर्श नवमर्कमिवाग्रे ॥ १२ ॥
मेधया विमलया चिरमन्ताप्य निष्पतितयेव बहिश्च ।
शारदेन्दुमहसः सहचर्यापाण्डरं भसितकुण्ठनयाङ्गे ॥ १३ ॥
धावितो मनसि सत्त्वगुणेन द्रौ गुणावपि रजस्तमसीयौः।
तौ जटाभरमृगाजिनदम्भाद्दर्शयन्तमिव चोवमधश्च ॥ १४ ॥

२ सर्गः]
पतञ्जलिचरितम् ।
चित्तसङ्गिहरशेखरचन्द्रस्थित्यपेक्षकमिवोडुकदम्बम् ।
दक्षिणेन विमलं. श्रवणेन स्फाटिकाक्षवल्यं कलयन्तम् ॥१५॥
वल्कबिम्बमुदितस्मितमीषद्वारिजं विकचमित्युपयान्तीम् । .
चञ्चरीकपटलीमिव कण्ठे. शंकराक्षमणिधाम दधानम् ॥ १६ ॥
पुत्र एष मम पुण्यविपाकात्प्रादुरास किल पावकतेजाः ।
इत्युपेत्य मुदिता सहसा सा मूर्तिं तं मुनिकुमारमजिघ्रत् ॥ १७ ॥
प्रस्नुतस्तनमुदञ्चितबाष्पं विस्मृतव्रततपोविधिखेदम् ।
पुत्रलाभसुखनाम्नि समुद्रे मज्जती स जननीं प्रणनाम ॥१८॥
तं तदाभिवदितुं प्रणतं प्राङ्गाम तस्य जननी विततान ।
यत्पतन्नभवदञ्जलितोऽसौ तत्पतञ्जलिरिति प्रथमानम् ॥ १९ ॥
श्रावितश्च स तदाभिवदन्त्या नाम तत्प्रथममेव जनन्या।
चिन्तितस्त्वदुपकण्ठमुपयामित्युदीर्य तपसे चलितश्च ॥ २० ॥
दर्शितद्रुमलताफलपुष्पे दक्षिणोदधितटेऽथ निवेश्य ।
चन्द्रचूडकरुणाघटना: दारुणे तपसि चारु स तस्थौ ॥ २१ ॥
आत्मनोऽपि भरणे धरणी मां प्रागियं नियुयुजे यदशक्ता ।
न व्यथेत तदसाविति तस्यां स न्यधत्त चरणाङ्गुलिमेकाम् ॥ २२ ॥
अर्कमण्डलगतः सहसा मे शंकरोऽभिमतमर्पयितेति ।
सोऽवगम्य तदिवाथ जिघृक्षुः खं भुजद्वयमुदक्षिपदूर्ध्वम् ॥ २३ ॥
नायमीक्षितचरो नयनै मूर्ध्नि भूभृत इति प्रहिताक्षः ।
चापलादिव स चण्डमरीचिं संददर्श न ततो विरराम ॥ २४ ॥
तिष्ठता तपसि भक्षयितव्य कन्दमूलफलपर्णमपास्य ।
पूर्वजन्मकृतवासनया किं पूतमभ्यवजहार स वासम् ॥ २५ ॥
आगतां शुचमनीक्षितभाखान्नित्यशीतलरसातलवासात् ।
हातुमूष्मदिवसेषु स हर्षादध्युवास शिखिपञ्चकमध्ये ॥ २६॥

काव्यमाला। शार्ङ्गधन्वशयनत्वदशायां ताडितस्य तरलाब्धितरङ्गैः । तस्य किं क्षतमभूदुदवासे शीतले शिशिरकालदिनेषु ॥ २७ ॥ प्राबिलेशयतया दुरचापान्यासनानि यदनेन जितानि । अद्भुताय तदसूत्रुरुधे यन्नात्र चित्रमनिलाशितयास्य ॥२८॥ चक्षमे वपुषि कर्तुमनूनन्यासमङ्कुरितकर्णकराशिः। सांप्रतं किल स तापसरूपो मातृकाक्षरगणस्य फणीन्द्रः ॥२९॥ रुन्धति श्वसितमन्तरमुष्मिन्नीक्षणप्रभृतिरिन्द्रियवर्गः । अर्यमातप इवाहरपाये स्पन्दितुं बहिरलं न बभूव ॥ ३० ॥ प्राणरोधमतनिष्ट यदायं सा पुनः प्रथममेव ततोऽपि । कुण्डलिन्यभवदस्य वशे स्यात्तत्र कुण्डलिनि तत्किमयुक्तम् ॥ ३१ ॥ पद्मकोशदलनं कृतमासीदुद्यतोषसि सहस्रकरेण । प्रांगभूवमसहस्रमुखः किं नेति तत्स इव सोऽपि चक्रार ॥ ३२ ॥ चन्द्रचूडचरणाम्बुजयुग्मध्यानसंततिरसानुभवेन । निर्मलास्य धिषणा परिणेमे चन्द्रिकेव शरदागमनेन । ३३ ॥ गोणिकासुततपःकृतशङ्का गोत्रभित्प्रभृतयस्त्रिदिवेशाः। तत्तपो दलयतेति तदानीं प्रेरिरँन्नमरवारनताङ्गीः ॥ ३४ ॥ अङ्गभाज इव कल्पकवल्यो जङ्गमा इव मनोजपताकाः । विभ्रमैरथ विटान्नमयन्त्यः सुभ्रुवो ववलिरेऽस्य पुरस्तात् ॥ ३५ ॥ स्रस्तनीविनहनं च्युत्तचेलव्यञ्चितस्तनमृतकृतमध्यम् । १. 'अर्कमातप' इति पुस्तकान्तरे. २. "प्रागभूवमसहस्रकरः किम्' क. ३. 'प्रेरयन्' ख. ४. 'सस्तनीविनहनच्युतचेलं क. 'आरकसंकुचदपाशमुदस्तहस्तमुन्नम्रितस्तनमृजूकृतमध्यभागम् । नीवीसमुच्छ्रसितदर्शितनाभिदेशं निद्राविशेषकलुषा कुरुतेऽङ्गभङ्गम् ॥' इत्यदसीयशृङ्गारतिलकमाणे.

२ सर्गः] पतञ्जलिचरितम् । पाणिना विटपमानमयन्ती पल्लवानहत काचन तासु ॥३६॥ एकया विकचचम्पकक्लुप्तं गद्दुकं कचभरे विनिधातुम् । दोर्युगं नखपदोज्ज्वलमूलं नोद्धृतं न विरतं च नताझ्या ॥ ३७॥ कल्पितं बकुलदाम कराभ्यामर्पयाम्यहमिहेति हसन्ती । आहृतांशुकमदर्शयदेका हेमकुम्भसदृशं कुचभारम् ॥ ३८ ॥ वीक्ष्य कानकशुके कुचयुग्मं द्रागनुद्रवति दाडिमबुद्ध्या । स्रंसमानजघनांशुकमीषदृश्यनामिबिलमद्रवदन्या ॥ ३९ ॥ अन्यया तरुतले तरलाक्ष्या वारितोऽपि वलयस्खनितेन । आपतन्मधुकरोऽधरबिम्बं पातकी परिचुचुम्ब चिराय ॥ ४०॥ खेदबिन्दुकमनीयकपोला श्वासकम्पितघनस्तनकुम्भा । भूतले निहितजानुयुगान्या कन्दुकं प्रतिजधान कराभ्याम् ॥ ४१ ॥ मा विकर्ष मम वेणिलतामित्याहतः करजुषा कमलेन । किं व्यथेति पुनरेव तरुण्या चुम्ब्यते स्म सुकृती ननु वहीं ॥ ४२ ॥ संप्रदर्य नवमौक्तिकहारं संमुखे नवमृणाललतेति । केलिचंक्रममिवोपदिशन्ती कापि दूरमहरत्कलहंसम् ॥ ४३ ॥ संनिधौ किमपि चारु नदन्तं मामयं बत विडम्बयतीति । कणकणितपाणिकपोतं कापि केलिकमलेन जघान ॥ १४ ॥ चारु वाममधिरोप्य कराजं दक्षिणेन परिमृष्टपतत्राम् । मञ्जुलानि रणितानि तदानीं शारिकां कलमपाठयदेका ॥ ४५ ॥ प्रौढयौवनमदोद्धतलीलं पञ्चबाणपिककेलिविलासम् । इत्थमन्तिकंचरं सुरनारीचक्रमेत्य तमियेष विकर्तुम् ॥ १६ ॥ लोलहेमवलयेन विराजन्मुद्रिकेण धृतिभिः सह यूनाम् । पाणिपल्लवयुगेन मृदङ्गस्ताडितोऽजनि कयापि तरुण्या ॥ १७ ॥ १. 'गर्भ' ख.

१२ काव्यमाला । कञ्चकस्थगितवल्गदुरोज कन्दलत्कणितकङ्कणहस्तम् । तन्वती तरलतां तरुणानां तालयोयमघट्टयदन्या ।। ४८ ॥ कण्ठजृम्भितकलखनभझ्या कामिनां अमिसृजा हृदयेषु- अङ्गुलीभिरिव पल्लवयन्त्या वल्लकीमपरया समगायि ॥ १९॥ पक्कबिम्बफलरोचिषि धन्यं वेणुमेकमधरे विनिवेश्य । कापि वादनमिषेण मृगाणां कर्णयोरपि मधूनि ववर्ष ॥ ५० ॥ स्पन्दमानकबरीभरमाल्यं मन्दहासमधुराधरबिम्बम् । धर्मवारिकणमौक्तिकपति क्लिन्नपत्रमकराङ्ककपोलम् ॥ ५१ ॥ भावसूचनविलोलकराग्रं संहतस्तनलुठन्मणिहारम् । चारुनूपुरझलज्झलिताड्रिन्यासमेणनयनानटदेका ॥ ५२ ॥ केशमाल्यमकरन्दतुषारो वीटिकारसलवङ्गसुगन्धी । सुध्रुवां कुचतटाहतिमन्दस्तं तदामजदृषि वनवातः ॥ ५३॥ इत्यमर्त्यवनिताललितेन क्षोदितोऽपि न चचाल स योगी । वाति चण्डपवनो वसुमत्यां तावता चलति किं गिरिरीषत् ॥ ५४ ॥ काचिदेत्य तदनु प्रमदानामालिलिङ्ग तमुरोजयुगेन । कानने कलभकुम्भनिकाषादस्य किंचिदधिकं न ततोऽभूत् ॥ ५५ ॥ आदधे वपुषि तस्य ततोऽन्या वक्रपाटलमुखानि नखानि । खेलतामुपरि तद्विहगानामातनोत्पदनखार्पणभङ्गीम् ॥ ५६ ॥ कापि वक्त्रकमलेन मृगाक्षी तत्कपोलमथ चारु चुचुम्ब । न व्यकारि स ततोऽपि तपस्वी लेहनादिव कुरङ्गशिशूनाम् ॥ ५७ ॥ तस्य तत्र मतिनिर्जितकामे यौक्तस्य विफलोऽजनि यत्नः । किं करोतु बलिना युधि नाथे पातिते परनृपेण भटौघः ।।.५८ ॥ १. "वातु' ख. 'न पादपोन्मूलनशक्तिरंहः शिलोचये मूर्च्छति मारुतस्य' इति रघुवंशे.

३ सर्गः]
पतञ्जलिचरितम्
१३
तादृशं भुवि कुशासनभाजं धारिताक्षवलय करपद्मे ।
नासिकाग्रनिहिताक्षमवेक्ष्य व्यस्मयन्त सुरविभ्रमवत्यः ॥ ५९ ॥
विभ्रमैरपि निजैरविकार्य तं विरागमिव मूर्तमवेक्ष्य ।
शापदानचकिता हरिणाझ्यस्तस्य किंचिदपचक्रमुरग्रात् ॥ ६० ॥
हृष्यतः शतमखस्य नियोगासिद्धचारणगणेन तदानीम् ।
पातिताजनि मुनेरुपरिष्टात्पारिजातकुसुमोत्करवृष्टिः ।। ६१ ॥
तावदम्बुदकदम्बगभीरा दध्वनुस्त्रिदिवदुन्दुभयश्च ।
या विमोहयितुमागतवत्यस्ताभिरेव ननृते च वधूभिः ॥ ६२ ॥
तस्यातिदुष्करमवेक्ष्य तपः प्रसन्नो
दातुं वरं तदुचितं दययाथ तसै ।
कैलासगौरमधिरुह्य वृषं महान्त-
मर्धेन्दुमौलिरुमया सममाविरासीत् ।। ६३ ॥
इति श्रीयज्ञरामदीक्षित पुत्रस्य रामभद्रयज्वनः कृतौ पतञ्जलिचरिते
द्वितीयः सर्गः।
तृतीयः सर्गः।
अथ वीक्ष्य स शैलकन्यया सहितं चन्द्रकलाधरं पुरः ।
रभसादुदतिष्ठदासनात्प्रणमन्नञ्जलिना पतञ्जलिः ॥ १ ॥
तदुपागमहर्षविस्मयौ स्तिमितं यद्यपि तं वितेनतुः ।
स तथापि चकार दण्डवत्प्रणिपातं भुवि भक्तियन्त्रितः ॥ २ ॥
प्रणिपत्य समुत्थितस्तदा मुदितो मूर्ध्नि कृताञ्जलिमुनिः।
तरुणेन्दुवतंसमादरात्तमुपश्लोकयितुं प्रचक्रमे ॥ ३ ॥

१४ काव्यमाला। श्रुतयोऽपि न शक्नुवन्ति ते स्तुतये किं पुनरीश मादृशः । भणितिणती भवद्गुणान्परिशुध्येदिति किं तु मे मतिः ॥ ४ ॥ जगदीश यदेकमद्वयं तव सच्चित्सुखलक्षणं वपुः । विधिविष्णुहरा इति त्रिधा बिभिदे तन्निजयैव मायया ॥ ५॥ तव देव गिरा यथार्थया ननु कर्माणि नरा वितन्वते । सुखबोधमयं सुमेधसः परमं ब्रह्म वदन्ति केवलम् ॥ ६ ॥ अतिसुन्दरमस्तु मे सदा हृदये त्वद्वपुरिन्दुभूषणम् । नियतं खलु यस्य दर्शनात्स्मरणीयो रमणो रतेरभूत् ॥ ७ ॥ जैडमेव रथाङ्गमेकमप्यपरं द्वादशधा विभज्यते । कुरथेन ततस्त्वया कथं विजितं वैरिपुरत्रयं विभौ ॥ ८ ॥ भवदाश्रयणेन मार्गणा अपि लक्ष्मीपतयो भवन्ति यत् । विपरीतमभूदिदं यतोऽजनि लक्ष्मीपतिरेव मार्गणः ॥ ९ ॥ १. 'अतीतः पन्थानं तव च महिमा वाङ्मनसयो. रतद्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि । स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः पदे त्वर्वाचीने पतति न मनः कस्य न वचः ॥' इति महिम्नःस्तोत्रे. 'मम त्वेतां वाणी गुणकथनपुण्येन भवतः पुनामीत्यर्थेऽस्मिन् पुरमथन बुद्धिर्व्यवसिता ॥' इति महिम्नःस्तोत्रे. ३. 'रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो रथाङ्गे चन्द्रार्को रथचरणपाणिः शर इति। दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बरविधि- विधेयैः क्रीडन्यो न खलु परतत्राः प्रभुधियः ।' इति महिनःस्तोत्रे.

३ सर्गः ] पतञ्जलिचरितम् । अपि सेव्यमनेकशाखया भजतामप्यधिकं फलप्रदम् । परमेश भवन्तमीदृशं जगतः स्थाणुरिति ब्रुवन्त्यहो ॥ १० ॥ विनिहत्य रणेऽन्धकं कलाघरचूडामणिरप्यहो भवान् । न खलु त्रपते ततो यतः परिपूर्ण त्वयि नास्ति पौरुषम् ॥ ११ ॥ किमिहाद्भुतमस्ति यज्जटातटिनी कामपि तावकी पपौ । जलधिं चुलुकीचकार किं तव भक्तोऽपि न कुम्भसंभवः ॥ १२ ॥ तव पञ्चमुखानि लोचनान्यपि तु त्रीणि तथाष्टमूर्तयः । इति शैलसुतातिसुन्दरं किमिति त्वामवृणीत गेहिनम् ॥ १३ ॥ वसनं करिचर्म वाहनं वृषभः कोऽपि विभूषणं फणी । अशनं विषमासिका गिराविति चित्रं जगतां त्वमीशिषे ॥ १४ ॥ वहतो नृकरोटिमालिकामनुलिप्तस्य परेतभस्मना । पितृकानननर्तकस्य ते प्रमथेशस्य गुणास्तु पावनाः ॥ १५ ॥ अरुणेन पदाम्बुजेन ते मम चित्रं क्रियते मनः शुचि । मृदुनाप्यमुना भुजान्तरं कठिनं न त्रुटितं यमस्य किम् ॥ १६ ॥ विजिताजतेन निर्मितौ विषमेषोरिषुधी इवाहृतौ । कलये हृदि काङ्कितप्रदे तव जके तरुणेन्दुशेखर ॥ १७ ॥ गजहस्तजिगीषयेव यौ धृततारक्षवचर्मकङ्कटौ । गिरिजाकरमर्दनोचितौ भवदूरू भव भावये हृदि ॥ १८॥ तव मध्यमहं तनुं भजे नितरामीयति यत्र नाभये । प्रलयोद्धतरुद्रलोचनद्रुतरूप्याद्रिनदीजलश्रमः ॥ १९ ॥ भुजगाभरणं भुजान्तरं भसितोलितमीश ते भजे । स्फटिकाद्रिशिलातलं यथा करिकीर्णाम्बुजनालकोमलम् ॥ २० ॥ अरुणाङ्गुलिपल्लवी नखद्युतिसंभावितपुष्पडम्बरौ । कलिमोचन कालकण्ठ ते कलयेऽहं करकल्पपादपौ ॥ २१ ।।

काव्यमाला।
मुखचन्द्रसमीपवर्तिनीमरुणामीश घनावलीमिवः ।
तव नौमि 'जटापरम्परां सितविद्युन्निभगाङ्गनिर्झराम् ॥ २२ ॥
अविवेकतमोनिवृत्तये विलसन्तं विषमास्त्रशासनम् ।
मधुरस्मितचेन्द्रिकोदयं वदनेन्दु तव चिन्तये हृदि ॥ २३ ॥
इति तं पुलकोद्मैः स्तनौ हृदि भक्त्या प्रमदाश्रुणा दृशोः ।
वचसि स्तुतिभिश्च संगतं परितुष्यन्प्रभुरब्रवीदिदम् ॥ २४ ॥
तपसा तव शेष तोषितो वितरिष्यन्वरमागतोऽस्मि ते।
अचिरेण वृणीष्व तं यतो वपुरीदृक्तव वारितं सुखात् ॥ २५ ॥
चरितं निजमादितः स्मरन्नथ शेषेति निमन्त्रितो मुनिः ।
पदवार्तिकभाष्यनिर्मिती प्रथमं पाटवमभ्ययाचत ॥ २६ ॥
अथ तस्य जगत्रयप्रभोर्नटनालोकनयोग्यतां पुनः ।
मुनिमर्थयमानमात्मनः स तथास्त्वित्यवदन्मुदा मृडः ॥ २७ ॥
अयि वत्स चिदम्बराभिधं नगरं त्वं व्रज काननाध्वना ।
तव तत्र नटेयमीक्षितुं दययेत्यन्तरधादुदीर्य सः ॥ २८ ॥
इति तस्य गिरा चिदम्बरं नगरं प्रास्थित नाट्यलिप्सया ।
मुदितः स मुनिर्मुमुक्षया भवतप्तो निकटं गुरोरिव ॥ २९ ॥
अपरं प्रविशन्वनं वनादपरं चाश्रममाश्रमाद्रजन् ।
ददृशे स पवित्रदर्शनः सुरसिन्धोरिव पाथसां भरः ॥ ३० ॥
पथि तं फलपुष्पसंचयैः परिपूज्येव मुनि वनद्रुमाः ।
पवनाकुलपल्लवच्छेलासफलं जन्मन इत्यनर्तिषुः ॥ ३१ ॥
बुधमृद्धरसा पदे पदे परिपाकच्युतपुष्पकोमला ।
पदवी तमनन्दयत्कवेः पठितव्याकरणस्य वागिव ॥ ३२ ॥
गिरिनिर्झरशीकरान्किरन्सममारण्यविहङ्गकूजितैः ।
मुषितद्रुमपुष्पसौरभो मुदुमाधत्त वनानिलो मुनेः ॥ ३३ ॥

३ सर्गः] पतञ्जलिचरितम् । १७ कटिबद्धमृगादनत्वचं कपिलोन्नद्धजटाभरं मुनिम् तमवेक्ष्य तरक्षवो वने न पलायन्त न चाभिचक्रमुः ॥ ३४ ॥ चटुलाक्षमुदञ्चिताननं चलवालाञ्चलमीषदन्तरम् । कुतुकेन कुरङ्गशावकास्तमृर्षि ज्ञातिमिवानुदुद्रुवुः ॥ ३५ ॥ कपयस्तदवेक्षणे तरून्यथयामासुरसाधुभिः पदैः । पदशास्त्र इवानधीतिनः कवयः कर्णपथान्विपश्चिताम् ॥ ३६॥ तमवेक्ष्य निनिन्दुरुच्चकैरपदे पक्कणकुक्कुराः पथि । सरसस्य कवेः क्रमं गिरामवकाक्षमयेव दुर्धियः ॥ ३७॥ दहशे किल तेन गच्छता गिरिनद्यां कलहंसमण्डली । कियदप्यसूगुक्षिता तनौ गिरिशस्येव कपालमालिका ॥ ३८ ॥ अचलो तलादवस्थितं निपतन्तं स ददर्श निर्झरम् । रविरश्मिजिता कृतं ध्वजे विपिनेनेव दुकूलपल्लवम् ॥ ३९ ॥ कठिनोपलघट्टनोत्थितान्पतितान्निर्झरपाथसां कणान् । चलितानविशेषतोऽग्रहीचमराणामपि वालधीन्मुनिः ॥ ४०॥ निबिडोपलगर्तनिःसरत्फणिफूत्कारभियापसर्पिणः । हरिणा नयनैः समाकुलैः पदवीमुत्पलिनी मुनेर्व्यधुः ॥ ११ ॥ ज्वलितारुणपल्लवानलश्चिरिबिल्वप्रसवैकलाजया । अचलस्य करग्रहोत्सवो वनलक्ष्म्येति विनिश्चिकाय सः ॥ ४२ ॥ मधुरध्वनयो मधुव्रता मदनिष्यन्दमलीमसे पथि । अवदन्मुनये निरक्षरं द्विपमासन्नसरोवगाहिनम् ॥ १३ ॥ तरुमूलविहारिणो दरीभुवि भल्लूकगणानजीगणत् । मृडकण्ठरुचीन्वनश्रियः कचभारांनिव जङ्गमान्मुनिः॥ ४४ ।। १. 'ननगुरुचकः' इति ख-पुस्तके ननर्दुरुच्चकैः' इति भव्यः पाठो भवेत्. २. 'चिरिबिल्वप्रसवैकरम्यया' क. २ १८ काव्यमाला। मृगराजकराहतित्रुटत्करिकुम्भच्युतमौक्तिके पथि । निबिडोडुकदम्बडम्बरे स मुनिश्चन्द्र इवाम्बरे ययौ ॥ ४५ ॥ अतिलङ्य वनानि जग्मुषा ददृशे तेन चिदम्बरं पुरम् । इह ताण्डवयिष्यतीश्वरः कृपयेति प्रथमं गणैर्वृतम् ॥ ४६ ॥ पृथुलश्रवसो बृहन्मुखा गडकण्ठा गिरिसन्निभोदराः । विकटोच्छूितजानवः स्मरं विहसन्तीव यदागता गणाः ॥ १७ ॥ तमसामिव देहिनो भरा यमुनाया इव पिण्डिता झराः । जलदा इव मूर्तसंचराः प्रमथा यत्परितो विजहिरे ॥ ४८ ॥ विहरन्ति तरक्षुभिर्मिथो निनदैर्यत्र निगृह्णते हरीन् । मुखविक्रियया च तर्जयन्त्यगकन्यापरिचारिणीर्गणाः ॥ १९ ॥ कुसुमाहृतये गणैः प्रभोनवमुन्मत्तवनं प्ररोप्यते । अपि यत्र विमृश्य लूयते प्रसवामोदघना च केतकी ॥ ५० ॥ अनुलेपनसंग्रहं प्रभोः प्रमथा यत्र परे वितन्वते । परितर्जितघोरफेरवं प्रतिपद्यैव परेतभूतलम् ॥ ५१ ॥ मलयद्रुमकोटरान्तरादपि वल्मीकबिलोदरादहीन् । चकृषुः किल यत्र भूषणं नवमीशाय गणाः प्रदित्सवः ॥ ५२ ॥ मलयाद्रिपटीरवासितान्द्रुतिगर्तेषु समीरणार्भकान् । प्रभुकङ्कणकुक्षिपूरणं तनितुं यत्र गणा निरुन्धते ॥ ५३ ॥ पुरदाहमनङ्गपातनं गरलाखादनमन्तकक्षतिम् । गजदानवखण्डनं जगुः प्रमथा यत्र चरित्रमैश्वरम् ॥ ५४ ॥ कलयन्ति विभूतिभस्त्रिकां कतिचिद्यत्र गृहीतसूचयः । अपरैरपि नाम सीव्यते नवरुद्राक्षमणिप्रसञ्जनात् ॥ ५५॥ विलसद्भसितत्रिपुण्डूका धृतरुद्राक्षकिरीटमौलयः ।

३ सर्गः ] पतञ्जलिचरितम् । १९ कति यत्र नयन्ति वासरान्शिवपञ्चाक्षरमन्त्रजापिनः ।। ५६ ॥ शिवभक्तगणे प्रदक्षिणक्रमणं यत्परितो वितन्वति । भसितैरपरः समुन्नतो वरणोऽकरप्यत तत्तनुच्युतैः ॥ ५७ ॥ घटनाय जटाहिमांशुना परिगृहन्त्युडुमण्डलीमिव । शिवमर्चयितुं यदाश्रया द्विजलोका धवलार्कमञ्जरीम् ॥ ५८ ॥ गिरिशार्चनबिल्वपल्लवग्रहजैः पाणिषु कण्टकक्षतैः । कमलप्रमुखाङ्करेखिका वसतां यत्र बतोपमीयते ॥ ५९॥ निवसन्ति दिवः कति श्रियः कति वाण्यः कति मुक्तयः कति । इति वेनि न तत्र याः शिवो विनियुक्त प्रतिभक्तपूरुषम् ।। ६० ।। मृडनाट्यदिदृक्षुभिर्जनैः परितस्तन्नगरं परिष्कृतम् । प्रविशन्ददृशे पतञ्जलिः प्रथमं व्याघ्रपदा तपखिना ॥ ६१ ॥ स समाधिशा निशामयन्फणिनामेष पतिः पतञ्जलिः । इति तस्य सभाजनार्थमानयदयं सह पाद्यवारिणा ।। ६२ ।। उपचारमुपेत्य तत्कृतं स च माध्यंदिनसंभवं मुनिम् । कुशलं फणिनामधीश्वरः परिपप्रच्छ तपःसमाधिषु ॥ ६३ ॥ तावेवं परिचयलब्धगाढसख्या- वग्रण्यौ शिवपदपद्मभक्तिभाजाम् । त्रैयक्षं नटनमहोत्सवं दिदृक्ष योगीन्द्रौ कनकसभामगाहिषाताम् ॥ ६४ ॥ इति श्रीयज्ञरामदीक्षितपुत्रस्य रामभद्रयज्वनः कृतौ पतञ्जलिचरिते तृतीयः सर्गः

२०.
काव्यमाला ।
चतुर्थः सर्गः।
वासवादिभिरथामरैस्तदा चोदितेन भुवि विश्वकर्मणा ।
ताण्डवाय गिरिशस्य निर्मिता तत्र हाटकमयी सभा बभौ ॥ १ ॥
यत्र हेमवलभीविलम्बिनो दिव्यमौक्तिकसरा विरेजिरे ।
सर्वतः सुरगिरेरधित्यकां. संगता इव नवोडपतयः ॥ २॥
यत्र सिन्धुचलशैवलाङ्कितं नाभिपङ्कजमिवेन्दिरापतेः ।
गारुडाश्मखचितं हिरण्मयं पुण्डरीकमुपरि व्यराजत ॥ ३ ॥
चञ्चलध्वजपटाञ्चलाञ्चितं यत्सुवर्णशिखरं समुन्नतम् ।
अन्वकारि हरिवज्रतो भिया मेरुणा तनुरुहाणि धुन्वता ॥ ४ ॥
वीक्ष्य मां सफलयध्वमक्षिणी भो नस इति गिरेव शंसति ।
या विशङ्कटविटङ्ककोटिभाक्किंकिणीगणघणघणारवैः ॥ ५ ॥
यद्विशालमणिजालकान्तरादुत्पतन्त्यगरुधूपपतयः ।
आह्वयन्त इव शैवमीक्षितुं नर्तनोत्सवममर्त्यसुन्दरीः ॥ ६ ॥
यत्र काञ्चनवितानसंयतो नन्दनद्रुकुसुमस्रजां गणः ।
अश्रु भाविहरनृत्तदर्शनप्रेमजं मधुमिषादिवोज्झति ॥ ७ ॥
शातकुम्भवलभीसमुन्नतवातबद्धमुकुरावलीच्छलात् ।
या बिभर्ति नयनानि कौतुकादाभिरूप्यमिव वीक्षितुं निजम् ॥ ८ ॥
द्वारपार्श्वयुगले हिरण्मये गारुडाश्मकदलीवनश्रिया |
या परस्परसमागमाईयोः शंसतीव घटने मनोज्ञताम् ॥ ९॥
आदितोऽन्तत उपोढविभ्रमैर्यत्र मौक्तिकसरैश्चकाशिरे ।
हेमतोरणमरीचिवीचयो राजहंसनिचयैरिवागतैः ॥ १० ॥
अत्यवर्तत यदीयकाञ्चनस्तम्भजालमनरालमुन्नतम् ।
अप्यहीनगुणभूषमुन्मिषद्वक्रिमाणममरालयं गिरिम् ॥ ११ ॥

- ४ सर्गः] पतञ्जलिचरितम् । २१ देवताप्रतिकृतीर्यदन्तरे शिल्पिनाः मणिमयीः प्रकल्पिताः । देवताः नथममागता नटं द्रष्टुमैशमिति मेनिरे नराः ॥ १२ ॥ यत्र भान्ति कुरुविन्दनिर्मितत्रोटयो मरकतच्छदाः शुकाः । एष्यदीशगणराट्करस्फुरदाडिमग्रहकृतादरा इव ॥ १३ ॥ यत्र यत्र फलपुष्पमण्डितं वृक्षषण्डमरुचद्विनिर्मितम् । प्रागरण्यमिव नन्दिहुंकृतिस्तम्भितं चरति शंकरे तपः ॥ १४ ॥ भान्ति यत्र मणिकुट्टिमे नरा बिम्बिता भगवतो नटिष्यतः । संजिघृक्षव इवालयाले पारितोषिकविभूषणान्यहीन् ॥ १५ ॥ सिक्तमृष्टतलमुच्छ्रितध्वजं स व्यतीत्य पुरमार्गमायतम् । तां सभामथ त्रिवेश तादृशीं व्याघ्रपादनुगतः पतञ्जलिः ॥ १६॥ कायवानिव तपःसमुच्चयो जङ्गमेव शिवभक्तिरूर्जिता । खात्मबोध,इव, मूर्तिसंचरस्तावृषी ऋषिगणोऽन्ववर्तत ॥ १७ ॥ यत्पुराणकिटिनापि शौरिणा न व्यलोकि चरणद्वयं प्रभोः लोकयेमहि तदेव किंत्विति व्यस्मयन्त मुनयस्तदा मुहुः ॥ १८.। आगताः प्रथममेव भूतले नीलनीरदनिभा गणास्तदा। विद्रवन्नरवितीर्णमार्गया सर्वतः समचरन्त लीलया ॥ १९ ॥ भूतनाथनंटने दिदृक्षया भूतलेऽवतरता दिवौकसाम् । उन्मुखक्षितिमयूरवीक्षितो. दुन्दुभिध्वंनिरभूदंथाध्वनि ॥ २० ॥ निर्जरानथ कदाप्यनीक्षितानीक्षितुं भुवि दिवोऽवरोहतः । दिव्यदुन्दुभिरवावकर्णनात्सन्ननाह कुतुकी नृणां गणः ॥ २१ ॥ अम्बरे ददृशिरेऽथ सुन्दरा हाटकाङ्गदकिरीटकुण्डलाः । अञ्चलालिखितहंसवाससः पञ्चविंशवयसो दिवौकसः ।। २२ ।। तेषु मेषवरवाहनश्चतुःशृङ्गमौलियुगलः शिखोज्ज्वलः । सक्सवादिवहबाहुसप्तकः प्रत्यदृश्यत हुताशनत्रिपात् ।। २३.॥

२२ काव्यमाला। साध्वसेन शिवभक्तसंनिधिं यः स्थितः परिहरंश्चिरादपि । तं मृकण्डतनये कृतागसं शाम्भवा ददृशुरम्बरेऽन्तकम् ॥ २४ ॥ मूर्तयामुनतरङ्गवल्लरी विभ्रमावहमहासिभासितः । पाणिराननमुदग्रदंष्ट्रमप्याचचक्ष इव नैर्ऋतं नृणाम् ॥ २५॥ दन्तलमजलमर्त्यजाङ्गलक्रूरदूरविवृतास्यकन्दरम् । आगतस्य वरुणस्य मानवास्तत्र वाहनमवेक्ष्य तत्रसुः ।। २६॥ योऽधिरुह्य पृषतं करे वहन्केतुमत्वरत पांसुकेतनः । तं नरा निरणयन्धिया खया तातमाशरपुरीदहः कपः ॥२७॥ अभ्रसिन्धुतरिविश्रमस्पृशा निष्पपात दिवि पुष्पकेण यः। तं गदोज्वलभुजं महागदं किन्नराधिपमलोकयन्नराः॥ २८ ॥ चन्द्रखण्डकृतचारुशेखरः पुण्डरीकदलपाण्डराकृतिः । शूलपाणिरहिजालभूषणः प्रादुरास वृषवाहनो हरः ॥ २९ ॥ राहुरुज्झति मुहुर्निगीर्य मां पालयेति शशिनेव सेवितः । आतपत्रवपुषा स चाययौ वज्रपाणिरिभराजवाहनः ॥ ३० ॥ रम्भयास्य चरमोपविष्टया चामरद्वयमधूयताभितः। लोलहंसमिथुनान्तरस्फुरत्पद्म चारु विदधे यदाननम् ॥ ३१ ॥ मेनकापि विततार वीटिकां चन्द्रखण्डसुरभि शचीपतेः । तेन सा हि जगृहे मृणालिका दन्तिनेव करिणीकरार्पिता ॥ ३२॥ अग्रतस्तदनु सिद्धचारणा वारणाधिपधृतस्य वज्रिणः। वृत्रजम्भवलपाकंपातनख्यातमस्तुवत बाहुविक्रमम् ॥ ३३ ॥ तच्चिदम्बरपुरं पुरंदरे साकमम्बरचरैः समागते । प्राङ्नटेशनटनादहो मुदा तत्र मर्त्यहृदयान्यनर्तिषुः ॥ ३४ ॥ १. 'केतुमत्वरितपासुकेतनम्' ख.

४ सर्गः]
पतञ्जलिचरितम् ।
२३
शङ्खमर्दलमृदङ्गदुन्दुभिध्वानसंकथितमुत्सवं तदा ।
वीक्षितुं किमु जनस्य नाविशन्कर्णरन्ध्रमितरेतरोक्तयः ।। ३५ ॥
रेजिरे दिगधिपा वनौकसो व्याघ्रपाद्गणवराः पतञ्जलिः ।
पौरजानपदमानवास्तदा संमताः कनकसंसदन्तरे ॥ ३६॥
यावदन्तरनघः पतञ्जलिातुमीशममिमीलदक्षिणी ।
तावदागमनशंसि धूर्जटेः काहलीरणितमाशु शुश्रुवे ।। ३७ ॥
येन निःसरति काहलीरवस्तत्र वर्मनि जना दृशो दधुः।
लोचनानि निदधुश्च यत्र ते तत्र संन्यधित शंकरः खयम् ॥ ३८ ॥
दर्शनोत्सुकसुपर्वपतयहपूर्विकापरिगताग्रभूमिकम् ।
नन्दिहस्तधृतवेत्रसंगमत्राससंकुचदवेक्षकाङ्गकम् ॥ ३९ ॥
चन्दनद्रवसमुक्षणक्षणक्षिप्तपुष्पचयसिद्धचारणम् ।
सान्द्रितध्वजपताकितान्तरस्निग्धगत्यगरुधूपवल्लिकम् ॥ ४० ॥
मर्दलानुगुणनृत्यदप्सरःपादनूपुरनिनादमेदुरम् ।
संनिधानगतदिव्यमागधप्रस्फुरज्जयजयोक्तिबन्धुरम् ॥ ४१ ॥
आगतेभमुखमूषिकश्रमश्वासतृप्ततदलंक्रियोरगम् ।
आपतद्गुहशिखण्डिताण्डवप्रक्रमिप्रमथडिण्डिमारवम् ॥ ४२ ॥
तुन्दिलैकगणधारितामलच्छत्रमच्छशशिखण्डमण्डितम् ।
उक्षवाहनमुमासमन्वितं तं ददर्श गिरिशं पतञ्जलिः ॥ १३ ॥
वामपार्श्वगतवारिजेक्षणं दक्षिणेऽम्बुजभुवा कृताञ्जलिम् ।
वन्दितं चरमभागमाश्रितैर्वासवप्रभृतिभिः सुपर्वभिः ॥ १४ ॥
सर्वतोऽपि सनकादिभिर्मुदा सेव्यमानमृषिमिश्चिरंतनैः ।
नारदेन महती नखाञ्चलैर्विध्यता च मृदुगीतवैभवम् ॥ ४५ ॥
नूपुरोरगफणामणिश्रियामङ्कुरैररुणितेन योऽभिणा ।
नूतनातपनिपातपाटलं पश्यतां हृदि निनाय पङ्कजम् ॥ १६ ॥

काव्यमाला। भालपावकहुते सरे रतावप्यपास्तविहृतौ वृथास्थितौ । केलिरत्नमुकुराविवैतयोर्जानुमण्डलमिषाद्विभर्ति यः ॥ ४५ ॥ व्याघ्रचर्मपरिकर्मशालिनी सक्थिनी गुरुतरे दधाति यः ।। देवदैत्ययुधि दिग्गजेन्द्रयोरागृहीतकवचौ कराविव.॥ ४८॥ मण्डलं दिनकरस्य मध्यतो नीयमानमुनिनिर्मितान्तरम् । यस्य नूनमपदिश्य काञ्चनं पट्टबन्धमुदरे विराजते ॥४९॥ भाति यस्य किल कण्ठलम्बिनी शंकराक्षमणिमालिकोरसि । कालकूटकलुषीकृता गलान्निर्गतेव निगमाक्षरावली ॥ ५० ॥ कृष्णसर्पकृतचारुकङ्कणैर्यश्चतुर्भिरपि भाति बाहुभिः । शक्रवाहनगजः शशिप्रभैरिन्द्रनीलवलयै रदैरिव ॥ ५१ ॥ भासमानभसितत्रिपुण्ड्या यो ललाटतुहिनांशुलेखया । पश्चबाणवपुरिन्धनानलं लोचनं वहति कुब्मलीकृतम् ॥ ५२ ॥ यस्य मौलिरपि धातृसौधभूनिर्गताम्रतटिनीनिपातजम् । फेनपिण्डमिव वेगवक्रितं कान्तमुद्वहति. खण्डमैन्दवम् ॥ ५३ ॥ शंकरोऽथ चलमौलिजाह्नवीवारिपूरणरणत्करोटिकम् । दक्षिणेतरकरावलम्बितश्रीशपाणि वृषभादवातरत् ॥ .५४ ॥ सोऽवतीर्य गिरिसन्निभाद्वृषात्साकमद्रिसुतया सविभ्रमम् । प्राविशत्कनकसंसदन्तरं पश्यतामिव शरीरिणां मनः ॥ ५५॥ तापसप्रमथदेवमानवैः सान्द्रिता विलसति स्म सा सभा । शंकरेण मधुनेव चारुणी भूरिभूरुहकरम्बितावनी ॥ ५६ ॥ अञ्जलिस्तबकितेन मौलिना कीर्तिवर्णनकृता मुखेन च । जन्मिनो जनिशमार्थमर्थयामासुरीशमचिरेण नर्तितुम् ॥ ५७ ॥ व्याघ्रपादमृषिमीरितस्तवं तं पतञ्जलिमपि स्तवोन्मुखम् । वीक्ष्य शीतलहशा शिवोऽवदन्नर्तनं मम निरीक्ष्यतामिति ॥ ५८ ।

४ सर्गः] पतञ्जलिचरितम् । २५ नर्तनाय गिरिशे कृतत्वरे चत्वरे महति. हेमसंसदः । सास्तु शब्द इति वेत्रपाणिना सर्वतो जगदतर्जि नन्दिना ॥ ५९ ॥ सिद्धचारणकरान्तनिर्गलन्मुग्धपुष्पनिचये सभान्तरे । नन्दितर्जनवशात्कुतूहलादप्यतिष्ठदपसंकथो जनः ॥ ६० ॥ तत्र शंकरकटाक्षचोदितश्चारुमर्दलमवादयद्धरिः । यः पयोद इति पुष्कराश्रितो नीलकण्ठनटनोचितध्वनिः ॥ ६१ ॥ कामजिन्नटनकारणेन वा भारतीकुचयुगभ्रमेण वा । तत्र तालयुगलीमथाददे पाणिपङ्कजयुगेन पद्मभूः ।। ६२ । रम्भया हृतरसे रदच्छदे वंशनालमवसज्य वासवः । वादनादपि विमोहयञ्जनानाददे किल न वासवस्थितिम् ॥ ६३ ॥ वादय द्रुतमितीव शंसता स्फाटिकाक्षवलयेन दक्षिणे। आश्रिता श्रवसि चारुवल्लकी वादनं व्यतनुत प्रियाविधेः ॥ ६४ ॥ आयतेन फणिना जटाभरं मध्यभागमिभचर्मकक्ष्यया । बनतः प्रियतमस्य नर्तितुं वीक्ष्य संभ्रममुमा स्मितं व्यधात् ॥ ६५ ॥ वीक्षणोचितममांसचक्षुषा नर्तनोत्सवमवेक्षितुं निजम् । शंभुना सकलदेहिनां तदा दिव्यमक्षि दिदिशे दयालुना ॥ ६६ ॥ संददर्श सपदि भ्रमज्जटाताडितोडपटलं तदा जनः । व्यालनूपुररणत्पदार्पणन्यञ्चितक्षिति नटेशनर्तनम् ॥ ६७ ॥ १. 'यः पयोद इव पुष्कराश्रितो' क. 'महीं पादाघातागजति सहसा संशयपदं . पदं विष्णोम्यद्भुजपरिघरुग्णग्रहंगणम् । मुहौदोस्थ्यं यात्यनिभृतजटाताडिततटा जगद्रक्षायै त्वं नटसि ननु वामैव विभुता ॥' इति महिम्नःस्तवे. .

काव्यमाला। धर्मवारिकणकन्दलगवद्भस्मपुण्ड्रपरिकर्मितालिकम् । कण्ठलम्बितहराक्षमालिकाच्छेदकीर्णमणिहारि किंकरम् ॥ ६८॥ मध्यसीन्नि गलिताहिबन्धनव्याकुलद्विरदचर्मकक्ष्यकम् । पादताडितधरातलक्रमप्रोन्मिषत्पटपटायिताकुलम् ॥ ६९ ॥ मण्डलभ्रमिषु कीर्णजाह्नवीशीकरस्वपितचक्रवालकम् । बाहुवेगपवनाभिपूरितक्रन्ददन्तरदिगद्रिकन्दरम् ॥ ७० ॥ उद्धृतैकचरणाम्बुजप्रभासृज्यमानपरिवेषविग्रहम् । उत्पलोदरसहोदराम्बिकालोचनान्तवलनैकगोचरम् ॥ ७१ ॥ शाम्बरीयवनिकामथाक्षिपन्सप्रपञ्चमयनर्तनं शिवः । द्रागदर्शयत गोणिकासुतं व्याघ्रपादमितरानृषीनपि ॥ ७२ ।। तेन ते स्वयमिदं जगन्मृषा जानते स्म परमार्थतः पुनः । ब्रह्म तत्परमनादि सच्चिदानन्दलक्षणमनन्तमद्वयम् ॥ ७३ ॥ इत्यवेक्ष्य नटनं जगत्पतेर्भक्तिभारलुलितेन चेतसा । तुष्टुवुस्तमखिलाः शरीरिणः श्रेयसा स समयोजयच्च तान् ॥ ७४ ॥ नृत्तं तत्फणिपतये स दर्शयित्वा प्राहेदं प्रणयकिरा गिरा गिरीशः । त्वं कृत्वा भुवि पदशास्त्रवार्तिकानां भाष्यं तद्विवृणु ततो दिवं व्रजेति ॥ ७५ ॥ आज्ञाप्यैवं फणिनमपरान्सोऽनुगृह्याक्षिपातै- रौर्या साकं विधिहरिगणैश्चापि शंभुस्तिरोऽभूत् । हर्षाश्चर्यस्तिमितहृदयौ व्याघ्रपाद्गौणिकेया- वस्तूयेतामृषिभिरनटद्यत्कृते चन्द्रचूडः ॥ ७६ ।। इति श्रीयज्ञरामदीक्षितपुत्रस्य रामभद्रयज्वनः कृतौ पतञ्जलिचरिते चतुर्थः सर्गः ५ सर्गः] पतञ्जलिचरितम् । पञ्चमः सर्गः। अथ नटनमवेक्ष्य चन्द्रमौलेरपसरति त्रिदशबजे विमानैः । कलिमलहृतये नृणां मुनी तौ लिलिखतुरादिनटं क्वचित्प्रदेशे ॥ १॥ विलिखितमधुनापि संयमिभ्यां शिवमवलोक्य नटं चिदम्बरेशम् । अपहतकलुषाः कलौ मनुष्या दधति भवाब्धिविलङ्घनक्षमत्वम् ॥ २॥ कतकुलतिलकेन कल्पितानामथ मुनिना पदशास्त्रवार्तिकानाम् । जगदुपकृतये चकार भाष्यं महदचिरेण पतञ्जलिमहात्मा ।। ३ ॥ तमृषिमनुययुस्तदीयभाष्यं पिपठिषवः किल पण्डिताः सहस्रम् । गुरुपरिचरणाहते कुतो वा भवति परं सुलभा जनेन विद्या ॥ ४ ॥ तदनु यवनिकां वितत्य गूढं वपुरनया च पतञ्जलिविधाय । उपविशत बहिस्तिरस्करिण्याः पठत कृतिं च ममेति तानुवाच ॥५॥ मम स तु न भवेन्मनःप्रियो मां य इह तिरस्करिणीमुदस्य पश्येत् । इति पुनरभिधाय पाठनार्थ फणिपतिरूपमृषिः समाललम्बे ॥ ६ ॥ अथ गुरुचरणेन शान्तिमन्त्रान्प्रथममजापिषुरुत्तरं च पाठात् । अहरहरखिला बुधाः कृती स्याद्गुरुवचसि स्थित एव हीष्टसिध्या ॥७॥ कृतिपठनमुखे गुरोस्तदन्तेऽप्यतनिषत व्यधिकान्दशप्रणामान् । बहुमतविनया बुधाः किमन्यत्सुकृतमिहास्ति गुरुप्रणामतोऽपि ॥ ८ ॥ पठति बुधगणे फणीन्द्रभाष्यं करधृतपुस्तकमुच्चकैस्तदने। सुत इव सुखयास्य वाक्यभङ्गया निशमयताममृतद्रवः श्रवःसु ॥ ९ ॥ दुरवगमपदार्थबोधहेतोरमृतरुचेरिव चन्द्रिकाविशुद्धा । भणितिरहिपतेर्बुधावलीनामपनयति स तमस्तदा समस्तम् ॥ १०॥ अहमहमिकया स्थितं क्षिपद्भिः परिचितगौतमजैमिनिप्रबन्धैः । सुमतिभिरनुयुक्तमर्थमुक्त्या झटिति स युक्तिभिरिद्धया विववे ॥११॥ १. 'बहुमतविबुधा बुधाः' ख.

काव्यमाला। किमपि विघटयन्किमप्यनुज्झन्किमपि समुज्ज्वलयंश्च वार्तिकेषु । नृप इव भटमण्डलेषु भाष्ये व्यहरत राज्य इवास्य वातिगुम्फः ॥१२॥ तुहिनशिखरितुङ्गशृङ्गपातक्षणरणदड़नदीतरङ्गभङ्गीम् । परिभवति पतञ्जले पठन्तो वचसि दधुः किल विस्मयं तदा ते.॥१३॥ अधिफणिकृति तावदेव पेटुर्विलसति यावति वासरूपसूत्रम् । विनयभरजुषो विचक्षणास्ते बहुतपसां हिं भवेत्तदन्तपाठः ॥ १४ ॥ प्रतिपुरुषमिहाननैः कियद्भिर्युगपदयं वदतीति विस्मयेन । अपहृतमनसोऽथ लेऽपनिन्युः सपदि तिरस्करिणीं तदीक्षणाय ॥ १५॥ विवृतफणसहस्रमुग्रंदष्ट्र क्षितितलकुण्डलितार्धभोगभीमस् । प्रसृतपरिहतोभयाग्रजिडं तरलदृशं तमथ व्यलोकयंस्ते ॥ १६ ॥ दधुरर्थ सदृशीस्तनूः स्मरेण त्रिपुररिपोरलिकाक्षिलक्षितेन । अपि दश विदुषां शतानि पुंसो गुरुवचनव्यतिलङ्घनं ह्यनर्थः ॥ १७॥ फणिप्रतिरमिवीक्ष्य तादृशांस्तान्कथमिदमित्यनुचिन्त्य यावदास्त । परिसरमुपसृत्य तावदेक प्रणमितमौलिरिदं भयादवादीत् ॥ १८ ॥ फणिवरं भगवन्प्रसीद. मा. बहिरगम जलमोचनाय यावत् । विधुतयवनिकाः कृतापराधा बत मम तावदिति स्थिताः सतीर्थ्याः ॥१९॥ इति गदितगिरं शशाप कोपाद्यदविहितोत्तरशान्तिमन्त्रपाठः । बहिरसि गतवान्पठन्मदीयां कृतिमपि तद्भव राक्षसोऽञ्जसेति ॥ २० ॥ प्रणिपतनगुणस्तवप्रबन्धैः फणिपतिरस्य कथंचन प्रसन्नः । धृतजटिलमनुष्यमूर्तिरित्थं तमवददापदमुत्क्षिपन्निवोत्या ॥ २१ ॥ मा भज वत्स विषादं मत्वा कर्माणि जगति चित्राणि । कथमिव में त्वयि कोपः कथमिव शापश्च तादृशोऽपरथा ॥ २२ । निष्ठायां किं रूपं पचेरिति त्वं बुधान्पृच्छ । १. "विवृतफणमुदप्रमुग्रदंष्ट्रम्' क. - ५ सर्गः] पतञ्जलिचरितम् । २९ पक्कमिति वदति यस्तं मम कृतिमध्याप्य मुच्यसे शापात् ॥ २३ ॥ : व्याकरणमहाभाष्यं मत्कृतमखिलं मम प्रसादात्ते । स्फुरतु यथेष्टं याहीत्युक्त्वा तमृषिस्तिरोदधे सहसा ॥ २४ ॥ सूत्राणि योगशास्त्रे वैद्यकशास्त्रे च वार्तिकानि ततः । कृत्वा पतञ्जलिमुनिः प्रचारयामास जगदिदं त्रातुम् ॥ २५ ॥ गोनाख्यं देशं प्राप्य नमस्कृत्य गोणिकां जननीम् । तस्यां त्रिदिवगतायां तस्थौ शेषः स्वयं स मुनिः ॥ २६ ॥ . अथ स.पतञ्जलिशिष्यो रक्षो. भूत्वाधिरुह्य वटमेकम् । पचिरूपं निष्ठायां पृच्छन्पचितमिति वादिनोऽखादीत् ॥ २७ ॥ अथ बहुषु गतेषु वत्सरेषु द्विजमुपकण्ठमुपेयिवांसमेकम् । पुनरपि तदपृच्छदेव रक्षो झटिति स पक्वमिति स्फुटं जगाद ॥२८॥ द्विजगिरमवकर्ण्य कर्णरम्यामवतरति स वटात्तदाशु रक्षः । अयमुदयति शापमोक्षकालो मम गुरुणोक्त इति प्रहृष्यदन्तः ॥ २९ ॥ द्विजवर वद को भवान्कुतस्त्यस्तव किमिहागमने प्रयोजनं वा। कृतमतिरसि पाणिनीयशास्त्रे यदि च रुचिः पठ मत्फणीन्द्रभाष्यम् ॥३०॥ इति कथयति रक्षसि प्रहृष्यन्निदमगदीदहमस्मि चन्द्रगुप्तः । उपगम इह मेऽयमुज्जयिन्याः पठितुमहीश्वरभाष्यमन्तिके ते ॥ ३१॥ इति गदितवते द्विजाय तस्मै फणिपतिभाष्यमशेषमाचचक्षे । शुचिरनिशमसंविशन्ननग्नंस्तदपि च मासयुगेन सोऽध्यगीष्ट ॥ ३२॥ प्रतिदिवसमसौ पाठ यावद्भुजगकृतौ किल रक्षसः समीपे । अपचितवटपत्रजालगर्ने नखशिखरेण दृढं लिलेख तावत् ॥ ३३ ॥ अथ पृथुलशिरोणुमात्रकण्ठं चलदतिशुष्कपिचण्डमायतोरु । हसिमभृदकृशाङ्क्रिपाणि रक्षो वपुरपहाय स दिव्यमूर्तिरासीत् ॥ ३४ ॥ १. 'पुनरपि तदपृच्छदेष रक्षो' क. २. अथ पृथुशिथिलशिरोणुमात्रकण्ठं क.

काव्यमाला। ब्रज सुखमवनौ कुरु प्रचारं भुजगकृतेरिति तं स शेषशिष्यः । दिवमगमदुदीर्य सोऽपि बद्ध्वा वटदलसंचयमंशुके प्रतस्थे ॥ ३५ ॥ नखलिखितपतञ्जलिप्रबन्धं वटदलजालकमुत्तरीयबद्धम् । शिरसि दधदभीष्टलाभहृष्टः स निववृते वनवर्त्मना मनीषी ॥ ३६ ॥ पथिकपरिगृहीतवृक्षमूलस्थलमचलखगमप्रवृत्तवातम् । दिशि दिशि विसृतातपोष्म भेजे पथि चलता किल तेन मध्यमाहः ३७ तदनु पथि चलन्स चन्द्रगुप्तः सरितमवैक्षत कामपि प्रसन्नाम् । विकचकमलगर्भरेणुगन्धी श्रममपहन्ति नृणां यदूर्मिवातः ॥ ३८ ॥ बभुरनवरतं यदम्बुलोलेष्वलिकलमाः कमलेषु संचरन्तः । वसतिषु शयितं श्रियो जनन्याः प्रभुमिव पञ्चशरं गवेषयन्तः ॥३९॥ अदधुरिव वनानि सैल्लकानां परिमललोलदलिब्रजच्छलेन । निगलमतरलेतरं यदूमौ झटिति नियन्त्रयितुं दृशो जनानाम् ॥ ४० ॥ कुमुदमुकुलजालकं यदीये पयसि बभौ करिदन्तकान्तकान्ति । पथिकतरुणदुर्दशानिमित्तं पतितमिवोडुकदम्बमम्बरान्तात् ॥ ११ ॥ अविरलमसितं यदम्बुपूरे कुवलयकुमलमण्डलं चकाशे । पथिकयुवविहन्तुरङ्गजस्य स्थितमिव जालमकीर्तिकन्दलानाम् ॥ ४२ ॥ पयसि विहरतोऽनिशं यदीये कलनिनदः कलहंसमण्डलस्य । श्रुतिषु परिणनाम पान्थयूनां कुपितमनोभवयोधसिंहनादः ॥ १३ ॥ प्रसृमरमवकर्ण्य चक्रवाकप्रणदितमध्वनि तीरभाजि यस्याः। विनमितमुदितस्मितं तरुण्या वदनमलुम्पत वल्लभस्य धैर्यम् ॥ ४४ ॥ परिणतिविगलत्कदम्बपुष्पस्तबकपरागकरम्बितां यदूर्मिम् । न पुनरुपससार दावबुद्ध्या वनकलभस्तृषितोऽपि वारि पातुम् ॥४५॥ १. 'भुजगकृतेरिति स शेषशिष्यः' ख. २. 'हल्लकानाम्' ख. ३. 'पथिक- युवति हन्तुरङ्गजस्य क.

५ सर्गः] पतञ्जलिचरितम् । शिखरितटनिषण्णमेणशावं कमपि यदम्बुनि लम्भितानुबिम्बम् । ततकरकमलं गृहीतुकामा पतिहसिता शबरी परं ललज्जे ॥ १६ ॥ तटरुहसहकारमञ्जरीणां पयसि मुहुः प्रतिबिम्बितानि यस्याः । मधुकरकुलमुज्झितारविन्दस्पृहमसकृद्धमयांबभूवुरुच्चैः ॥ ४७ ॥ यदुपवनरसालवाटिकायां मणितमनुत्सुकया भिया विधातुम् । अरमत सुदृशा कयापि जारो मदकलकोकिलकूजितानि शृण्वन् ॥४८॥ ततमपि मणितं तटे यदीये तरुविटपायकलकणकपोते । इह विहरति जारयुग्ममन्तर्निचुलनिकुञ्जभुवीति न व्यनक्ति ॥ १९ ॥ कमलदलदृशा विटं कयाचित्कृतसमयं यदुपान्तनीपवन्याम् । व्यवहितविवृतोऽसकृत्कलापी तरुषु कचनमकृन्निनाय दूरम् ॥ ५० ॥ स्फटिकनिभविसर्पिचन्द्रपादे कुवलयसौरभचोरगन्धवाहे । दयिततमपदानि जारिणीभिर्निशि निशि यत्पुलिने गवेषितानि ॥५१॥ व्रतिमतिततिभिः प्रतानिनीनामिह विजहार चिराय जारयुग्मम् । इति निजकुहरप्रकीर्णभूषामणिभिरुवाच यदीयतीरकुञ्जः ॥ ५२ ।। करचरणपदानि यत्तटान्ते नवपुलिने निहितानि कुञ्जगहें । दयितसहचरीजनाय तस्याश्चतुरमचक्षत जारकेलिभेदम् ॥ ५३ ॥ विदितनिजपथेऽपि शालिगोपी कथमिति पृच्छति पान्थयूनि मार्गम् । अयमिति 'विहितस्मिता च सास्मै निरदिशदिक्षुवणं यदन्तिकस्थम् ५४ स्तनभरमभिवीक्ष्य शालिगोप्याः पथिकयुवा श्रम इत्यशेत कुछु । अविरलपुलकस्तनी वितेने दिशि दिशि सा च दृशौ तटे यदीये॥५५॥ पथिकयुवरदक्षताधरा यत्तटभुवि काचन शालिगोपकन्या । १. 'लम्बितानुबिम्बम्' क. २. परिहसिता' क. ३. 'परिबिम्बितानि' क. ४. विहितस्मिता च वामे' क. ५. 'दृशस्तटे यदीये क. ६. 'शालिगोप- कान्या' क.

काव्यमाला। सहचरमैतिसंदधै चटूक्त्या न दशति केलिशुको न मां सख़ीति ॥५६॥ सलिलविहरमाणसारसाक्षीकुचतटकुङ्कुमपकिला यदूमिः । पथिकयुवजनस्य पश्यतोऽन्तःकरणमरजयदद्भुतं न तत्किम् ॥ ५७ ॥ तटमधिवसतो विटस्य तन्वी सपदि यदम्बुनि मज्जतीमवेक्ष्य । लमजनि मनो मृषा न चेदं यदियममज्जदिहापि साङ्गभूषा ॥ ५८॥ स्तनशिखरितटे तलोदरीणामतिकठिने पतिता दृशो विहाय । समजनि हृदयेषु हन्त पीडा तरुणजनस्य तटस्थितस्य यस्याः ॥ ५९॥ अहरदधररागमाससाद स्तनतटकुङ्कुममाममर्श काञ्चीम् । जघनघटनया चचाल यस्याः सलिलभरः सुकृती नितम्बिनीनाम् ॥६॥ गिरितटकठिनोपलाभिघातस्खलनझलज्झलितोरुनिझरा या । प्रकटसहचरापराधरोषक्षणपरुषोक्तिरिवाङ्गना बभासे ॥६१ ॥ अथ स बुधवरः श्रमेण तस्याः किमपि निपीय जलं तदुमूले । दलचयमुपधाय वस्त्रबद्धं लिखितपतञ्जलिवाङ्मयं निद्रौ॥.६२॥ तावन्निद्रावशमयमगाद्यावदस्योपधानं वत्सः कश्चिद्वटदलचयग्रासलोलश्चकर्ष । उत्थायाथ प्रसनचटुलादक्षिपद्वत्सवक्रा- तद्दन्तालिक्षतलिपि हठात्केषुचित्तद्दलेषु ॥ ६३ ।। इति श्रीयज्ञरामदीक्षितपुत्रस्य रामभद्रयज्वनः कृतौ पतञ्जलिचरिते पञ्चमः सर्गः। १. 'इति संदधे' ख. २. जल-जड, 'किमसुभिर्लपितैर्जड मन्यसे मयि निमजतु भीमसुतामनः । मम किल श्रुतिमाह तदर्थिकां नलमुखेन्दुपरां विबुधः स्मरः ॥' इति नैषधकाव्ये.

६ सर्गः] पतञ्जलिचरितम् । ३३ षष्ठः सर्गः। बुधं ततः सिन्धुतटे प्रतिष्ठितं बुभुक्षितं काचिदवेक्ष्य तं वधूः । नवं वहन्ती नवनीतमाययौ करेण पीयूषमिवादिमोहिनी ॥ १ ॥ विजेतुकामस्य विलासिनीगणं मनोभुवः खगलतां मनोहराम् । चमत्कृतां चम्पकपुष्पमालया कयापि वेणीकपटेन बिभ्रतीम् ॥ २॥ अभिप्रपन्नैरमितो मधुव्रतैः सरोजकिञ्जल्कपरागशङ्कया। कचापदेशाद्दधती करम्बितं चिराय सिन्दूररजोधिकारुणम् ॥ ३ ॥ निशाकरार्धे निटिलेन निर्जिते तदीयकीर्तिप्रथमाकुरोपमाम् । ललन्तिकामौक्तिकपतिमुज्ज्वलां ललाटपट्टे ललिते वितन्वती ॥ ४ ॥ दृशा ललाटस्थितया महेश्वरो ददाह यं दर्शितबाहुविक्रमम् । प्ररोहयन्ती प्रसवास्त्रमेव तं विचित्रयेवालिकचित्रकश्रिया ॥५॥ क्षमे न किं वा पुरुषस्य पश्यतः प्रदातुमावां हृदये धनंजयम् । इतीव कर्णव्यतिलङ्घनोद्यते दृशौ दधाना दलिताम्बुजद्युती ॥ ६ ॥ रुचिं सुवर्णधुतिभूषणस्थिता बबन्ध मुक्तावलिरुज्ज्वला ययोः । तयोविशेष गमिता कपोलयोस्तमालपत्राङ्कुरलेखननिया ॥ ७ ॥ द्विजान्विशुद्धानपि नित्यमाश्रयन्नेवाधरः पल्लवविभ्रमं जहौ । इतीव नासाभरणस्य रश्मिभिर्निबध्नती रागभृतं तमायतैः ॥ ८॥ शरीरसौन्दर्यपयोधिजन्मना गलेन पुष्पायुधवीरकम्बुना । धृतस्य हारस्य कुचेभकुम्भयो रुचा दिशन्ती करशीकरश्रमम् ॥ ९॥ भृशं गभीरं हृदयं हृदान्तरं विगाहमानेन मनोजदन्तिना । बहिष्प्रकाशं गमितौ पृथून्नतौ चिराय कुम्भाविव बिभ्रती कुचौ ॥१०॥ १. 'बुधस्ततः' क. २. 'नवनीतमादधौ' ख. ३. 'विलासिनो गणं ख. ४. 'सुवर्णश्रुतिभूषणस्थिता' इति क-पुस्तकपाठः साधुरिति भाति. ५. 'न चाधरः पल्लवविभ्रमं जहाँ' इति ख-पुस्तकपाठ एव शुद्धो भाति. ३ ३४ काव्यमाला। प्रविष्टनाभीबिलमन्मथोरगस्फुटेन्द्रनीलोद्गतकान्तिकन्दलैः । अभिन्नया मेचकरोमलेखया कृशेऽवलग्ने कृतरामणीयका ॥ ११ ॥ विलोचनान्याक्षिपता विलासिनां सलीलमन्यत्र समर्पितान्यपि । कलेन काञ्चीरणितेन बिभ्रती मनोजपीठं जघनस्य मण्डलम् ॥ १२ ॥ युवप्रपञ्चे युगपत्समुज्झितुं शरान्कराभ्यामपि शम्बरारिणा । निषङ्गयुग्मं निदधे यदार्जितं तदेव जङ्घाकपटेन बिभ्रती ॥ १३ ॥ तरङ्गवेगेन तटान्तमागतैः स्थलारविन्दं यदि सिन्धुमौक्तिकैः । वृताञ्चलं कैरपि तेन बिभ्रती कृतोपमानौ चरणौ नखोज्वलौ ॥ १४ ॥ कलकणकाञ्चननूपुरोज्वलं समाह्वयन्तं सहसेव मन्मथम् । अलक्तकश्रीजितरक्तसंध्यकं पदक्रम चारु शनैर्वितन्वती ॥ १५ ॥ ततः सपात्रं नवनीतमङ्गना धरातले तस्य निधाय पार्श्वतः । प्रणम्य बद्धाञ्जलिरित्थमर्थयांबभूव भक्तिप्रतिपन्नया गिरा.॥ १६ ॥ बुधेन्द्र पूर्वं बहवस्तपोधनाः फलाम्बुदर्भाजिनबर्हिरर्पणैः । मया कुमार्या परितोषिता भृशं प्रसादसर्वस्वमिदं वचोऽवदन् ॥ १७ ॥ इहागमिष्यत्यखिलं पतञ्जलेरधीत्य भाष्यं किल कश्चन द्विजः । तदीयशिष्यादचिरेण रक्षसः प्रणम्य तं पूजय पद्मलोचने ॥ १८ ॥ प्रचारयिष्यन्कृतिमात्मनः खयं पतञ्जलिस्तद्वपुषाभवद्भुवि । स पूजितस्त्वां परिणीय कन्यकां गरीयसि श्रेयसि वर्तयिष्यति ॥१९॥ इतीरितां योगिजनेन शृण्वती गिरं द्विजं तं मृगयेऽधुनाप्यहम् । स चेद्भवाञ्जन्म कृतार्थमेव मे त्वयि प्रसन्ने किमु दुर्लभं मया ॥ २० ॥ गिरां प्रपञ्चैरथवा किमीदृशैः पुनाति ते दर्शनमेव देहिनः । तथापि भोक्तुं नवनीतमाहृतं मया प्रसादं कुरु दृश्यसे श्रमी ॥ २१ ॥ १. 'विलोचनान्याक्षिपतः' का विलोचनान्याक्षिपतो ख. २. द्वितीय पादः क-पुस्तके नास्ति. ३. 'वरीयसि श्रेयसि' क.

६ सर्गः ] पतञ्जलिचरितम् । ३५ चिरादिति प्रार्थयमानया तया समाधिदृष्टागमिपूर्वचेष्टितः । कृतस्मितस्तन्नवनीतमर्पितं यथेष्टमश्नन्स जहौ परिश्रमम् ॥ २२ ॥ तदिङ्गितैरेव विजानती द्विजं पतञ्जलेराकृतिभेदमागतम् । तमब्रवीदुद्वह मां कृपानिधे तुरीयवर्णप्रभवामपि त्विति ॥ २३ ॥ जगाद तामेवमुदीरितो द्विजो मनोरथो मानिनि ते फलोन्मुखः । उदूह्य वर्णत्रयकन्यका यतो विवोढुमीहेऽन्तिमवर्णजामिति ॥ २४ ॥ तदुक्तिमाकर्ण्य गृहं निनाय सा तमुल्लसद्यौवनमिन्दुसुन्दरम् । तया ततस्तज्जननीवितीर्णया समं पुरीमुज्जयिनी जगाम सः ॥ २५ ॥ वटदुपर्णस्थितवर्णमेलनादथैष भाष्यं निखिलं पतञ्जलेः । लिलेख वत्सक्षतदुर्ग्रहाक्षरे स्थले क्वचित्कुण्डलनामकल्पयत् ॥ २६ ॥ निजे गृहे तत्र निविश्य पाठयंस्तदुज्जयिन्यां फणिभाष्यमाश्रुवान् । निनाय कालं नियमेन स द्विजः प्रियासु तुल्यं चतसृप्वपि स्थितः ॥२७॥ तदीयपातञ्जलभाष्यपाठनप्रभावसंदर्शनकौतुकादिव । तदा वसन्तस्तरुपुष्पपल्लवप्रैसञ्जनव्यञ्जितमूर्तिराययौ ॥ २८ ॥ नवप्रवाला नृपकेलिकानने बभासिरे बालरसालवल्लिषु । जगत्रयीजेतुरनङ्गभूभुजो भुजप्रतापा इव दृष्टिगोचराः ॥ २९ ॥ वनेषु शाखाः सहकारभूरुहामदर्शयन्त प्रतिपर्व कुमलान् । चिरोज्झितेषु व्यसनोन्मुखस्मरप्रविद्धगात्रोत्पतितानिवाशुगान् ॥ ३० ॥ मधुव्रते गायति मञ्जु पार्वतः श्रमाम्बुतुल्यं मैकरन्दमुज्झती । पुरो ननर्तेव पिकस्य पश्यतः समीरलोला सहकारमञ्जरी ॥ ३१ ॥ क्षणं भ्रमन्व्योनि शनैः क्षुपाञ्चले पदं वितन्वन्परितो विलोकयन् । समीरधूतामपि चूतमञ्जरी न चञ्चरीको विजहौ चिरं पिबन् ॥ ३२ ॥ १. 'तदीयपातालभाष्यपाठनापभाव' क२. 'प्रसाधनव्यजित' इति.क.. ३. 'मकरन्दमुज्झति' क-ख.

काव्यमाला। मृगीदृशां मानपरिग्रहानयः प्रियेषु मा भूदिति शम्बरद्विषः । अननभावादिव शासनाक्षरं पिकस्य कण्ठादुदियाय पञ्चमः ॥ ३३ ॥ रसालशाखामवलम्ब्य कश्चन द्विजश्चिरायाधिजगे कलखरम् । मनोजतत्त्वोपनिषद्विरस्तथा प्रियेषु मानं सुदृशो यथा जहुः ॥ ३४ ॥ द्विजोऽपि रागं प्रतिपद्य चक्षुषो रजस्खलामेव रसालमञ्जरीम् । अचुम्बदेको मधुपप्रियामिति स्मितं वितेने कुरबस्य कोरकः ॥ ३५॥ रसेन गन्धेन रजोभिरुज्वलैरुपागतं सा तमुपाचरत्तथा । अचुम्बदाजिघ्रदमृक्षदादराद्यथा द्विरेफः कुरवस्य मञ्जरीम् ॥ ३६ ॥ मनोरमां चम्पकमञ्जरी वने न षट्पदो वीक्षितुमेव चक्षमे । कथं नु दृष्ट्यापि सुवर्णसंभवा गृहीतुमर्हा मधुपस्य गायतः ॥ ३७ ॥ दिशत्यशोके कुसुमानि सुभ्रुवामकल्पतार्निवयावकाङ्कितः । नवागसां नादितरत्ननूपुरो विलासिनामाहननाय केवलम् ॥ ३८ ॥ युवा वियोगेऽभिनवानि केसरे स्थितानि पुष्पाणि दृशां निरीक्षितुम् । न चक्षमे यानि वधूकचार्पितान्यमूनि जिघ्रन्प्रजहर्ष संगमे ॥ ३९ ॥ रतान्ततान्तस्य रहो विलासिनीकचार्पितं केसरदाम कामिनः । अभीक्ष्णमाघ्रातमभूच्छमापहं तदीयबिम्बाधरचुम्बनादपि ॥ ४० ॥ चकास्ति कीदृक्कियदत्र सौरभं नवेषु पुष्पेष्विति बोद्धुमिच्छवः । अशोकपुन्नागरसालमल्लिकावनेषु संचेरुरिवालिकुञ्जराः ॥ ४१॥ वसन्तसंसर्गवती वनस्थली श्लथालका षट्पदजालकश्रिया । रराज मल्लीमुकुलैरितस्ततो विहारकीर्णैरिव हारमौक्तिकैः ॥ ४२ ॥ कचित्सितं निर्मलमल्लिकारुचा क्वचिच्च गौरं नवचम्पकश्रिया । परत्र ककेलिदलविषारुणं त्रिवर्णमुद्यानमभूत्किमद्भुतम् ॥ १३ ॥ १. अयं श्लोकः ख-पुस्तके नास्ति. २. 'मधुपप्रियाम्' इत्येव पुस्तकद्वयेऽपि.

६ सर्गः]
पतञ्जलिचरितम् ।
वपुर्विलिम्पन्सहकाररेणुना प्रफुल्लमल्लीपरिरम्भसंभ्रमी ।
निपीतकङ्केलिलतादलाधरश्चचार मन्दं किल दक्षिणोऽनिलः ॥ ४४ ॥
रतान्तधर्मोदकबिन्दुसुन्दरं मुखाम्बुजं मुग्धदृशां प्रशंसितः ।
सुवर्णजालान्तरतः समागतश्चचुम्ब धन्यो मलयाचलानिलः ॥ १५ ॥
शरैः किमन्यैरिह शम्बरद्विषो वियोगिनां प्राणवियोगकर्मणि ।
यतः परार्थोऽजनि फुल्लमल्लिकावनान्तसंचारसुगन्धिराशुगः ॥ १६ ॥
न मध्यमहाय बबन्ध कक्ष्यया न चाददे कार्मुकमाहवोद्भटः ।
वसन्तमन्दानिलयोगमात्रतो जिगाय कामो जगतामपि त्रयम् ॥ ४७ ।।
वधूजनानां परिचारिका मधौ वियोगिनामप्यवियोगिनामपि ।
प्रवालशय्यां किल पर्यकल्पयन्नदीनिकुञ्जेषु च नर्मवेश्मसु ॥ १८ ॥
तव स्वभावं तरलेक्षणे विदन्न जातु कान्तो मधुमत्यवर्तत ।
इतीरिते प्रोषितवल्लभा सखीजनेन रोमाञ्चमधादुरोजयोः ।। ४९ ॥
समागतस्ते प्रिय इत्युवाच सा कृतं किमस्यै हृदि पारितोषिकम् ।
वदेति सख्या गिरमेव शृण्वती वधूरनङ्गज्वरमत्यजन्मधौ ॥ ५० ॥
सखि प्रगल्भो मधुरेष दृश्यते गतो य इत्यर्घमुदीर्य जालके ।
निधाय दृष्टिं सहसा नितम्बिनी मितेन सख्यै वचनं समापयत् ॥५१॥
चलद्रसालस्तबकोऽत्र वर्तते वसन्त इत्याशु समेयुषि प्रिये ।
पपात पश्चात्सुदृशो हगञ्चलं सखीषु केलीसदने तु पूर्वतः ॥ ५२ ॥
वधूर्वसन्ते बिसकङ्कणं करे दृशोरुदश्रु स्तनयोरुशीरवत् ।
प्रियस्य दूरादुपसेदुषो गृहं शरीरमेवाकुरुतोपदापदे ।। ५३ ।।
यथा सितक्षामकपोलमाननं निरीक्ष्य नार्या नितरां ननन्द सः।
सपत्रलेखं दयितः सकुङ्कुमं तथा न देशान्तरतः समागतः ॥ ५४ ॥
समाप्तिहीनाधरबिम्बचुम्बनामनुज्झितोरोजदृढोपगृहनाम् ।
निशां निनीषन्नपि संल्लपस्थितो मधौ प्रवासी पतिरेत्य कान्तया ॥५५॥

३८ काव्यमाला। नृणां तृतीयप्रथमार्थसाधने प्रशस्तमासाद्य मधुं स भूसुरः । मखेन यष्टव्यमयष्ट दैवतं नयेन दारांश्चतुरोऽप्यरीरमत् ।। ५६ ॥ प्रियाश्चतस्रः प्रतिपेदिरे शनैः शरत्प्रसन्नामिव चन्द्रिका दिशः। द्विजस्य हर्षार्णववृद्धिदायिनीं नितान्तरम्यामथ दौहृदश्रियम् ॥ ५७ ।। बभूवुरासां श्रमवारिबिन्दवो मुखेषु केलीकमलग्रहादपि । विहारिकारण्डवपातिताः कणास्तरङ्गिणीनां सरसीरुहेष्विव ॥ ५८ ॥ तदा तदीयास्तनवश्चकाशिरे परिष्कृता दौहृदपाण्डिमश्रिया । शशाङ्ककान्त्येव शरत्प्रसन्नया करम्बिताः काश्चन सालभञ्जिकाः॥५९॥ रसान्तरादप्यवकृष्य केवलं मनो बबन्धुर्हदि योषितस्तदा । निसर्गतः सर्गविधौ हि वेधसः प्रियाप्रिये वस्तुषु न व्यवस्थिते ॥६॥ क्रमेण तासामसितभ्रुवां घनाः पयोधरा नीलमुखाश्चकाशिरे । सुरेन्द्रनीलोपलमुद्रिताञ्चला मनोभवाहा॑ इव हैमसंपुटाः ॥ ६१ ॥ तनुस्फुरत्पाण्डिमचण्डिकारुचा कलाधरे गर्भगते निरूपिते । तमखिनी तत्कुतुकादिवागतां बभार रोमावलिमङ्गनागणः ॥ ६२ ॥ विनेतुमेकं बलिमेव चक्षमे समुत्थितं विष्णुपदं पुरा युगे । इति स्थितामप्यवधूय तत्तुलां वधूवलम्यान्यहरन्वलित्रयम् ॥ ६३ ॥ ततो मुहूर्ते रुचिरे द्विजोत्तमैः पुरंधिभिः पूरितचत्वरे गृहे । स शास्त्रदृष्टेन पथा मृगीदृशां समन्वतिष्ठत्समयोचिताः क्रियाः॥६४॥ कृतैर्यथाचोदितमेव कर्मभिर्विरेजिरे विप्रवरस्य सुभ्रवः । कृषीवलस्यौषधयः प्ररोपिताः खकाललब्धैरिव वर्षवारिभिः ॥ ६५ ॥ दिनेषु ताः सत्पुरुषोदयोचितेष्वरालकेश्यो विदुषां शिखामणेः । क्रमात्कुमारॉन्कमनीयतेजसो मणीनिवासोषत सिन्धुशुक्तयः ॥ ६६ ॥ PM १. दप्यवकये का 'दप्यपकृष्यं ख.

9 सर्गः]
पतञ्जलिचरितम् ।
स पुत्राणां तेषां जननसमयार्दाणि विधिव-
द्वितन्वन्कर्माणि द्विजकुलकृताशीः परिषदि ।
यथा यस्सै यावद्यदभिलषितं देयमददा-
तथा तस्मै तावत्तदुपनमितं खेन तपसा ॥ ६७ ॥
इति श्रीयज्ञरामदीक्षितपुत्रस्य रामभद्रयज्वनः कृतौ पतञ्जलिचरिते
षष्ठः सर्गः ।
सप्तमः सर्गः।
विदधक्रियाः शुभतराः परस्परं
प्रविभिन्नवर्णविलसत्परिग्रहः ।
निगमश्चतुर्भिरिव साधुभिः स्वरै-
स्तनयैरथ द्विजवरो व्यरोचत ॥१॥
यमजीजनप्रथमवर्णकन्यका
तनयं द्विजो वररुचिं तमाख्यया ।
खयमाजुहाव कतवंशजन्मनः
पदशास्त्रवार्तिककृतः पवित्रया ॥२॥
यमसूत चन्द्रमिव सिन्धुवीचिका
नृपकन्यकास्य विततान नाम सः ।
भुवि सोऽयमर्क इव विक्रमें भवे-
दिति विक्रमार्क इति विश्रुतं भुवि ॥ ३ ॥
वचसैव भर्तुमयमर्हति स्वयं
वसुधां नयानयविभागचुञ्चुना ।
इति वैश्यजातनुभुकः स भट्टिरि-
त्यभिधां चकार भटिधातुवाच्यवित् ॥ ४ ॥

काव्यमाला।
धरणीं बिभर्ति दशभिः शिरःशतैः
प्रलये हरिष्यति च यो विषार्चिषा ।
फणिनोऽस्य भर्तृहरिरित्यभिख्यया
स समाह्वयच्चरमवर्णजासुतम् ॥ ५ ॥
सुदृशां तदा सुतमुखानि दृष्टयो
मधुरस्मितानि मुहुरालुलोकिरे।
कमलानि गाढकुतुकाः कुमुद्वती-
तरलालिपलय इव क्षपात्यये ॥ ६ ॥
चरणं करद्वयगृहीतमेककं
शिशुभिर्निवेशितमशोभतानने ।
शशिनि प्रपन्नमिव पूर्वमिन्दिरा-
कमलद्वयेन विधिपीठपङ्कजम् ॥ ७ ॥
शिशवस्तदा ददृशिरे महीतले
नमिताननाः सुलभजानुचंक्रमाः।
फणिनं सहस्रवदनं प्रशासितुं
खधियेव विश्वमधरं विविक्षवः ॥८॥
अकृताहिरज्जुगिरिमन्थसंग्रह
प्रबलासुरामरकुलानपेक्षणम् ।
अपकालकूटभयमाहतः पपौ
सुतजल्पितामृतरसं स भूसुरः ॥९॥
जननीकराग्रमवलम्ब्य पाणिभि-
भवनाङ्गणे यदवलन्त बालकाः।
क्षितिमण्डले स किल तस्य पुत्रिता-
यशसामभूद्दिगवलम्बनक्रमः ॥१०॥

७ सर्गः ] पतञ्जलिचरितम् । ४१ जनकस्ततो विहितमक्षरक्षण- ग्रहणं निरीक्ष्य शिशुभिस्त्रिहायणैः । सति यौवने कथममी न भाविनः श्रुतवन्त इत्ययममोदत स्वयम् ॥ ११ ॥ उपनीय तानुपदिदेश स श्रुती- स्तनयं सुबुद्धिमपि तुर्यमन्तरा । खयमेव तास्तमचिरात्तु वत्रिरे चतुरं विलासिनमिवान्ययोषितः ॥ १२ ॥ अथ दर्शनानि षडपि न्यवेशय- तनयेषु स त्रिषु न चान्तिमे द्विजः । अभजन्त तानि तमगेषु वर्षति स्तनयित्नुरब्धिमुदकानि यान्ति हि ॥ १३ ॥ तनयानपाठयदयं पतञ्जले- महती कृति मतिमतां गणैः सह । पठने तु भर्तृहरिरुत्सुकोऽपि तै- विनिवारितश्चरमवर्णभूरिति ॥ १४ ॥ विजने जगाद पितरं कृताञ्जलि- विनयेन भर्तृहरिराचरन्नमः । महनीयपाणिनिमतानुकूलया लवलीसुगन्धपदबन्धया गिरा ॥ १५ ॥ १. षड् दर्शनानि. तदुक्तं शास्त्रनिर्णये- 'कपिलस्य कणादस्य गौतमस्य पतजले। व्यासस्य जैमिनेश्चैव दर्शनानि षडेव तु ॥' २. पञ्चदशश्लोकस्योत्तरार्धस्तदनन्तरीयस्य पूर्वार्धश्च ख-पुस्तके न स्वः.

४२
काव्यमाला।
भगवन्पतञ्जलिरभून्महीतले
भवदाकृतिः प्रथयितुं निजां कृतिम् ।
इति वर्णयन्ति मुनयः पुराविदो
मम तेन भाष्यपठने मनोरथः ॥१६॥
कुहरं विधाय किमपि क्षमातले
कुरु मामिहस्थमुपरिस्थितो भुवि ।
पठतश्च पाठय कृति पतञ्जले-
र्यदहं पठेयमनवेक्षितोऽखिलैः ॥ १७ ॥
कतमोऽपि मामपि भवन्तमन्तरा
कमनीय एव किल रश्मिरायतः ।
चलयेयमेनमथ चोद्यमस्ति चे-
न्मम तत्र भाष्यमसकृत्प्रबोधय ॥ १८ ॥
विहितं यदीत्थमतिसंहिता बुधा
निखिला भवन्ति भवति श्रुतं च मे ।
फणिभाष्यमान्तमपि चिन्त्य सिद्धये
किमपि प्रसीद मयि तत्कृपानिधे ॥ १९ ।
इति पुत्रवाक्यमवकर्ण्य सोऽब्रवी-
दिदमेवमस्तु भवतो यथेप्सितम् ।
शृणु वत्स किंचिदवधाय मे वचो
गुरुसंप्रदायपदवीसमागतम् ॥ २०॥
यदि गौतमस्य मतमप्रतिष्ठितं
यदि जैमिनेः श्लथयितुं क्षमं नयैः ।
यदि भिक्षुशास्त्रमिदमाविलं ख़लै-
न तथा पतञ्जलिमतं तु दुष्यति ॥ २१ ॥

७ सर्गः] पतञ्जलिचरितम् । इतरस्य शास्त्रनिचयस्य कारका मनुजेषु केचन परं तु तापसाः । भगवाञ्जगद्भरणसंहृतिक्षमः फणिराज एव पदशास्त्रभाष्यकृत् ॥ २२॥ अशुचिं शठं विषयलुब्धमास्तिक- द्विषमप्रवृत्तगुरुशास्त्रभक्तिकम् । यदि शिष्यमानयति भाष्यमुद्गुण- न्विपदं तयोर्वदति दृग्गतः फणी ॥ २३ ॥ प्रयतः प्रसन्नहृदयो 'जितेन्द्रियः प्रवणो महसु गुरुशास्त्रभक्तिमान् । फणिनः कृतिं पठति चेन्न हीयते न भजत्यघं न गुरुणा विरुध्यते ॥ २४ ॥ प्रथमं विचिन्तय गति तथा गतां पदसूत्रवार्तिककृतोर्द्वयोरपि । फेणिशिष्यचेष्टितमपि श्रुतं ततो बहुविघ्नमेव पदशास्त्रशीलनम् ॥ २५ ॥ कुशलाय वृद्धिरिति सिद्ध इत्यथे- .. , त्युदितं पदत्रयमुपक्रमे कृतेः । यदृषित्रयेण पैठतां निरागसां मत एव मङ्गलमुंदेत्यनिर्गलम् ॥ २६ ॥ प्रथमोत्तरस्य फलमाह्निकस्य य- त्पठने पतञ्जलिरनल्पमब्रवीत् । १. 'सुकृती कृति' ख. २. 'फणिशिष्यचेष्टितमपि द्रुतं' क. ३. 'पठिता- निरागसां' क. ४. 'उदेसनर्गलम्' क. ५. 'प्रथमोत्तमस्य क.

काव्यमाला। उपलक्षणं तदखिलाहिकावले- महतः फलस्य विवृतं मनीषिभिः ॥ २७ ॥ यदि रक्षसा यदि गणैर्यदि है- यदि चामयेन परिगृह्यते द्विजः । स पतञ्जलेरहरहः पठन्कृति द्रुतमभुते सुखमिति प्रचक्षते ॥ २८॥ न च तुर्यवर्णवनितासुतस्य ते कथमागमाङ्गपदभाष्यसंस्तवः । इति शङ्कयमस्ति यदसि त्वमात्मवि- न भवादृशे विधिनिषेधयोग्यता ॥ २९॥ इति जल्पितं जनयितुर्निशम्य स प्रतिपद्यते स्म परमं तु विस्मयम् । क्षितिगर्भमन्दिरगतः पतञ्जले- रपठीत्कृतिं च बुधकुञ्जराद्गुरोः ॥ ३० ॥ पठिते पतञ्जलिनिबन्धने द्विजः कृतदारकर्मणि च पुत्रमण्डले । शुकशिष्यगौडपदगुर्वनुग्रहा- चरमाश्रमं सुरनदी च शिश्रिये ॥ ३१ ॥ चतुराननेन विधिनेव मुञ्चता समधिष्ठितं जगदशेषमात्मनि । भजतामुना परमहंससेव्यता- मथ विश्वनाथपुरमाददे श्रियम् ॥ ३२ ॥ यदुदञ्चितध्वजपटे समीरणैः कृतनर्मधर्मकणिकानिवारणे ।

७ सर्गः] पतञ्जलिचरितम् । निपतन्ति नीलनलिनत्विषो नभ- श्वरसिद्धचारणपुरंघिदृष्टयः ॥ ३३ ॥ दिवसात्ययेषु सुरमुग्धसुभ्रुवो दिवि विमितप्रियहठाहृतांशुकान् । कुचकुड्मलान्पिदधते ससंभ्रम यदुदप्रकेतनदुकूलपल्लवैः ॥ ३४ ॥ सततं यदीयसदनाप्रवासिन- स्तरुणव्रजस्य तरलं दृगञ्चलम् । रमयन्ति संनिहितनन्दनद्रुम- स्तबकाहोद्यतभुजामरीस्तनाः ॥ ३५ ॥ यदुदग्रसौधभुवि बिम्बविभ्रमे- प्वधरेषु नन्दनशुकैर्निपातिभिः । जनिते भये दधति मुग्धसुध्रुवां परिरम्भसंभ्रमसुखं विलासिनः ॥ ३६ ।। सुरकुञ्जरे स्पृशति शुण्डयाम्बुज- स्तबकोऽयमित्यमरसिन्धुबिम्बितौ । खपयोधरौ यदतितुङ्गसौधगा सुदती पतिं सभयमेत्य सखजे ॥ ३७ ॥ रजनीषु यन्मणिशिरोगृहस्थिताः प्रियपाणिपङ्कजनिपीडितोरवः । सुदृशोऽनिलं च्युतवतंसपल्लवाः स्तुवते विधूनसुरदीर्घिकोत्पलम् ॥ ३८ ॥ निशि यद्विहारमणिकुट्टिमाङ्गणे गलितो वधूचिकुरमल्लिकाचयः। .

काव्यमाला। प्रतिबिम्बितादुडुगणाद्विभिद्यते निजसौरभेण निबिडीकृतालिना ॥ ३९ ॥ घनयावकाङ्कनिजपादमुद्रितं नवहंसतूलशयनं सखीजने । निपुणं विलोकयति यत्र मुग्धया. संपदि न्यमन्जि महति त्रपाम्बुधौ ॥ ४० ॥ तरुणी गृहाग्रमधिरुह्य दृष्टव- त्यमरीः सहस्रमनिमेषलोचनाः। रमणस्य यत्र मणिसालभञ्जिका- निकटेऽपि नानुमनुतेऽधरग्रहम् ।। ४१ ॥ मकरी विलेखनविधौ नवोढया विवृतौ निरीक्षितुमुरोजकुमलौ । अपि संवृतस्फटिकभित्तिमन्तरा बत यंत्र निन्दति युवा विवृण्वतीम् ॥ ४२ ॥ परिरम्भचुम्बनविधायिदम्पति- प्रतिमामवेक्ष्य यदगारभित्तिषु । रहसि प्रियेण शयने सहस्थितिः कियदन्वमन्यत परं नवोढया ॥ ४३ ॥ शिखिपिच्छकस्य समवेक्ष्य चन्द्रकं वलभीविटङ्कपटलावलम्बिनः । यदुदारसद्मनि नवोढया सखी- नयनभ्रमादपसृतं प्रियान्तिकात् ॥ १४ ॥ 1. १. 'युवा विवृण्विति' का

७ सर्गः]
पतञ्जलिचरितम् ।
४७
रमणस्य यत्र वसतोऽपि दूरतः
प्रतिबिम्बमेव मणिभित्तिदर्शितम् ।
परिरब्धुमुद्यतभुजा नवा वधू-
विजनेऽपि हन्त विरराम केवलम् ॥ ४५ ॥
कुपितां निशम्य रमणीं नवागसा
दयितेन तीव्रमनुनेतुमीयुषा ।
यदगारसीन्नि मणिसालभञ्जिका
प्रणता भिया परिहसत्सखीजनम् ॥ १६ ॥
निशि यत्र वेश्मनि विधूपलस्फुर-
द्वलभीवलीकगलदम्बुशीतले ।
तरुणो निदाघसमयेष्वपि प्रिया-
कुचकुम्भगाढपरिरम्भमातनोत् ।। ४७ ।।
घनसारपङ्ककलिते तपागमे
यदगारकुट्टिमतले युवा गतः।
निपतिष्यतीमिव सखीजनान्तिका-
चलितां सलीलमबलां करेऽग्रहीत् ॥ १८ ॥
जलदागमे जलजलोचनाः पुन-
ईढबद्धजालककवाटमालयम् ।
अधिशय्य यत्र रमणादधीयते
चिरकालविस्मृतमिव स्मरागमम् ॥ १९ ॥
न हि कश्चिदस्ति. किल भिक्षुको जनो
यदधिष्ठितेषु धनधान्यशालिषु ।
परिधातुमप्यसुलभैकवाससं
भवमन्तरेण धृतमैक्षभाजनम् ॥ ५० ॥

४८ काव्यमाला। . वसनानि वा मणिविभूषणानि वा सुलभानि यत्र धनिषु प्रदातृषु । नटतस्त्विहादिजटिलस्य किं ब्रुवे वसनं दिगाभरणमस्थिमण्डलम् ॥ ५१ ॥ मणिकर्णिकां गतवता शरीरिणा श्रुतिभूषणं किमपि यत्र लभ्यते । इति विस्मयः क इह तत्किलाद्भुतं यदसावुपागमदहीनकङ्कणम् ॥ ५२ ।। मणिकर्णिकाम्भसि तनूस्त्यजन्ति ये मनुजास्ततोऽपहृतकोशपञ्चकाः। अपि यत्र मुञ्चति मृडो न हि क्षणं स तथाविधः कितवशेखरो न किम् ॥ ५३ ।। श्रवणे किमप्युपदिशन्विभूतिम- प्यलिकेऽर्पयनुरसि चास्थिमालिकाम् । हरते स यत्र मणिकर्णिकातटे जटिलो यदस्ति जगतीह देहिनाम् ॥ ५४॥ निखिलस्मृतीरयमतीत्य वर्तता गिरिशो न दण्डधरतो बिभेतु वा । करुणाकरोऽप्यपहरन्कथं नृणां तनुमेव यत्र न पुनः प्रयच्छति ॥ ५५ ॥ खतनूरपास्य मणिकर्णिकातटे सहसा विमुक्तिमनुधावतां नृणाम् । १. अयं श्लोकः ख-पुस्तके नास्ति. २. 'मृडोनभीक्षणं' इति ख-पुस्तके वर्तते. अतश्चिन्तनीयः को वा पाठः शुद्ध इति. ३. 'अर्पयन्शिरसि' क.

७ सर्गः] पतञ्जलिचरितम् । मनसो गुणास्त्रय इव च्युता बेमु: मणिविद्रुमेन्द्रमणयो यदापणे ॥ ५६ ॥ परिशुद्धिदापि बत यत्र जाह्नवी मलिनीकरोति किल मजतां गलान् । कथये किमन्यदतिशीतलापि सा घटयत्यहो करतले हुताशनम् ॥ ५७ ॥ सरिदन्तरे जलमशीलितं नृणा- मवमाढमाशु तुदते परं शिरः बत यत्र दिव्यसरितस्तु तत्पुनः कुरुतेऽधिरुह्य सततं च पञ्चधा ॥ ५८ ॥ स्तुतिपात्रमस्तु सुरदीर्घिका कथं यदियं यदन्तरचरी निमज्जताम् । समये करे च निटिलेच पावकं विनिधाय पाययति हा महाविषम् ॥ ५९ ।। यदि धर्तुमिच्छति करोटिकालजं. यदि कर्णवेष्टनमहिं चिकीर्षति। यदि वा पिपासति विषं जनस्तदा विदधातु यत्र विबुधापगाप्लवम् ॥ ६० ।। शुचिरद्रिजारमणनेत्रनिर्गतः प्रथमो ददाह किल काममूष्मलम् । इति शीतलः सुरनदीझरो नृणा- मपरोऽपि यत्र षडरीनपोहति ॥ ६१ ।। १. 'मलिनीकरोति बत' क. २. 'जलमशीतलम्' इति क-पुस्तकस्थपाठो न साधुर्दश्यते. ३. 'यदन्तरचिरं' ख. '. ४. 'कामकुमलमू ख. H काव्यमाला। मनुजाय यत्र मणिकर्णिकातटे स तु तस्य जल्पति मर्नु तनुत्यजे । अपि यः पिशाचनिचयस्य नायकः कपयः प्रपत्तिमथ यस्य कुर्वते ।। ६२ ।। निजचापभिन्निजनिषङ्गभङ्गकृ- निजभक्तपङ्किगलदारणो रणे। इति यत्र भूतपतिरीर्ण्ययेव त. त्पदमर्पयत्यहह पामरेष्वपि ।। ६३ ।। सं तु विश्वनाथपुरमावसन्यतिः समुपेयुषां सदसती हि वस्तुनी । वचनेन चञ्चुकलनेन विष्टपे विविवेच हंस इव दुग्धपाथसी ।। ६४ ॥ उपसंहृतेन विषयानुधावना- त्परमे व एव परिनिष्ठितेन च । समवृत्तिना सहृदयेन पप्रथे सुखदुःखयोः सखिसपत्नयोरपि ।। ६५ ॥ खपनप्रपञ्चसदृशं जगत्रयं विदुषा मृषा मरुमरीचिवारिव । अमुना खरूपमवशेषितं धिया परमात्मबोधसुखमात्रलक्षणम् ॥ ६६ ॥ सुरसिन्धुरोधसि गिरीशसंनिधा- वतिनीय तत्र कियतोऽप्यनेहसः । १. 'स तु विश्वनाथपुरमावसद्यतिः' क.

८ सर्गः ]
पतञ्जलिचरितम् ।
विरहासहरनुगतः स योगिभिः
परिपावनं बदरिकाश्रमं ययौ ॥ ६७ ॥
ब्रह्माद्वैतं पश्यताशेषविश्वं
गोविन्दखामीति गीतेन लोके ।
पुण्यक्षेत्रे तत्र नारायणीये
कांश्चित्कालानाश्रमे तेन तस्थे ॥ ६८॥
इति श्रीयज्ञरामदीक्षितपुत्रस्य श्रीरामभद्रयज्वनः कृतौ पतमलिचरिते
सप्तमः सर्गः।
अष्टमः सर्गः।
प्रव्रज्य तातचरणे परया विरत्त्या
काशी गिरीश इव पावयति द्वितीये ।
ज्ञानेन शास्त्रजनितेन गृहीतधैर्या-
स्तस्यात्मजा वररुचिप्रमुखा न मम्लुः॥१॥
नात्यन्तमेव परिचिक्लिशुरिन्द्रियाणि
नाप्यन्ववर्तिषत तानि यथाभिलाषम् ।
खखानुरूपमवलम्बितशास्त्रमार्गाः
सर्वेऽपि संजगृहिरे सदृशं त्रिवर्गम् ॥ २ ॥
सर्वासु शास्त्रपदवीषु विचक्षणोऽपि
ग्रन्थान्व्यधागणित एव जनोपकारान् ।
तेष्वग्रजो वररुचिर्दिवसेश्वरो हि
प्राच्यामुदेत्यखिलदिक्ष्वपि निर्निरोधः ॥ ३ ॥

काव्यमाला । तस्यानुजो भवति. यः किल विक्रमार्कः संक्रन्दनेन सुरलोकसभान्तराले । स खर्नटीनटनविभ्रमतारतम्य- जिज्ञासया पटुरहूयत नाट्यदृष्टौ ॥ १ ॥ निश्चित्य शासितवते दिवि तारतम्यं नाट्येषु गोत्रभिददादभिनन्द्य तस्मै । राज्यं कुरु त्वमुपविश्य समाः सहस्र- मस्मिन्क्षिताविति ततो मणिपीठमेकम् ॥ ५ ॥ रत्नासनेन सुरकिंकरधारितेन साकं समागतवतो गिरमग्रजस्य । भट्टिर्निशम्य सचिवोऽस्य भवन्नुपाया- हे चायुषामुपनिनाय तदा सहस्रे ॥ ६ ॥ मासान्पड़ेकशरदो मणिपीठमध्य- मध्यास्य राज्यमकरोदनुजोपदेशात् अन्यानरण्यचर एव तु षट्च मासा- नित्यायुषामलभताथमुभे सहस्र ॥ ७ ॥ भट्टिस्तदा सकलशास्त्रविशारदत्वा- दुध्यानया नयविवेकधुरां वहन्त्या' । कार्येषु तस्य नृपतेः खयमप्रमाद्य न्बोटाभरन्नट इवाजनि रज्जुमार्गे ॥ ८ ॥ बुद्ध्याग्रिमोऽपि जनुषा चरमः कनीया- ब्रामस्य राक्षसरिपोश्चरितप्रबन्धम् । नामाग्रजस्य परिगृह्य स भट्टिकाव्य मित्याततान सुपर्दैः पदशास्त्रलक्ष्यैः ॥ ९ ॥ r ८ सर्गः] पतञ्जलिचरितम् । संदर्भणेन च स भर्तृहरिः पदानों. कंदपकार्मुकरसार्पणकर्मठेन । शृङ्गारनीतिविगतस्पृहतानुबन्ध- मन्याच पद्यशतकत्रयमांततान ॥१०॥ ग्रन्थोऽधिकृत्य किल वाक्यपदे बुधानां चक्रेऽर्थ तेन निखिलार्थविबोधहेतुः । यस्यातनोद्विवरणप्रणयेन हेला- राजः शशीव किरणेन विवृद्धिमब्धेः ॥ ११ ॥ वत्सक्षतं सपितृकुण्डलितं यथाव- द्रुध्याकलय्य लिपिजालकसन्तरन्तः । टीका पतञ्जलिकृतस्य सपादलक्ष ग्रन्थात्मनातनुतः भाष्यनिबन्धमस्य ।।१२ ॥ अत्यन्तदुर्गहमशेषमनीषिवर्ग- र्भावं पतञ्जलिकृतेर्मनसा स पश्यन् । तस्य स्फुटं विवरणे पटुतां निजांच दुर्वास्गर्वगरिमोष्मलमाह-चेदम् ।। १३ ॥ अहो भाष्यमहो भाष्यमहो वयमहो वयम् । मामदृष्ट्वा गतः स्वर्गमकृतार्थः पतञ्जलिः ॥ १४ ॥ इत्युक्तिसंजनितगुर्वपराधयोगा- ट्टीका न तस्य लभते स भुवि प्रतिष्ठाम् । विद्यां न दूषयति किं विनयव्यपायो नासावियोग इव योषितमुज्ज्वलाङ्गी ॥ १५ ॥ इत्थं सुमन्त्रसचिवैस्तमसोऽपगत्या, शुद्धैश्चतुर्मिरुरुकीर्तिभिरुजयिन्याम् ।

काव्यमाला। कालस्तदा कलिरपि प्रथते स.पुण्य. स्त्रेतेव दाशरथिभिर्मनुराजधान्याम् ॥ १६ ॥ अत्रान्तरे सरिति नक्रगृहीतपादः संन्यस्तशंकरमुनिर्दुरिताद्विमुक्तः । गोविन्ददेशिकपदाम्बुजदर्शनाय : बद्धादरी बदरिकाश्रममन्वियाय ॥ १७ ॥ शैलान्वनानि सरितो नगराणि पल्ली- आमाञ्जनानपि पशून्पथि सोऽथ पश्यन् । नन्वैन्द्रजालिक इवाद्भुतमिन्द्रजालं ब्रह्मैवमेव परिदर्शयतीति मेने ॥ १८ ॥ दण्डान्वितेन धृतरागधनाम्बरेण काशीपुरं कलितविश्रमनीलकण्ठम् । तेन प्रविष्टमजनिष्ट दिनावसाने चण्डत्विषा च शिखरं चरमाचलस्य ॥ १९ ।। वन्यद्विपस्य चरमाचलवासभाजो हस्तेन केलिचटुलेन गृहीतकीर्णैः । तत्रत्यगैरिकस्जोभिरिवानुलिप्त- मारुण्यमाप भृशमम्बुजबन्धुबिम्बम् ॥ २० ॥ व्यातन्वता विहरणं वरुणावरोध- कान्ताजनेन चरमाचलकन्दराग्रे । विक्षिप्तरत्नमयकन्तुकविभ्रमस्य पात्रं बभूव परिपाटलमर्कबिम्बम् ॥ २१ ॥ प्रत्यग्गिरेरुपरि कुङ्कुमपाटलाभ- श्वण्डधुतिः क्षणमलक्ष्यत्र जीवलोकैः ।

८ सर्गः] पतञ्जलिचरितम् । न्यस्तः पुरा हनुमता निजवाललग्नः प्रासादशृङ्ग इव पतिमुखस्य वहिः ॥ २२॥ आकृष्य सर्वमहिमद्युतिरंशुजालं विद्वानिवेन्द्रियगणं विषयप्रपञ्चात् । आरुह्य चान्तिममिवाश्रममद्रिशृङ्ग- मानन्दमद्वयमिवापरमब्धिमाप ॥ २३ ॥ हृत्वानुतापभरिते द्विजराजलक्ष्मी पाश्चात्यमब्धिमघनिष्कृतयेऽनुमखुम् । चण्डद्युतौ व्रजति संभ्रमतोऽस्य शीर्णा रेजुस्त्विषस्त्रिचतुरा इव सांध्यरामाः ॥ २४ ॥ भूमण्डलस्य कवलीकरणाय पूर्व तालीवनं प्रविशता तमसां भरेण । संदर्शिता ननु चमूविनिवेशभङ्गया कालीकटाक्षकलुषः किल कालिमैकः ॥ २५ ॥ चक्रद्वयीमधिगताम्बुजनालडोला- मन्योन्यसंघटितपक्षपुटामकाण्डे । 'भानोः पश्चिमशैलकन्दरकुटीमभ्येयुषः संभ्रमा- संध्यारागमिषेण किं विगलिता भान्ति त्विषः पञ्चषाः। कि बैना कृतनिश्चयेन कवलीकर्तुं महीमण्डली- माक्रान्ता प्रथमं धनेन तमसा नीला तमालाटवी ॥' इति शृङ्गारतिलकभाणे. 'चक्रद्वन्द्वं चटुलनलिनीनालडोलाधिरूढं गाढाश्लिष्टं त्यजति रजनीजातविश्लेषदुःखम् । नकं भुक्त्वा नवकुमुदिनी विश्रमार्थी विभाते गञ्जागेहं विकचकमलं गाहते चञ्चरीकः ॥' इति शृङ्गारतिलकभाणे. १. २.

६ काव्यमाला. दूरे वियोजितवतो दिवसात्ययस्य दुष्कीर्तिवृन्दमिव. संददृशे तमिस्रम् ॥ २६ ॥ तत्कालसंकुचदशेषदुलाग्ररोधा- गर्भ रणन्मधुकर कमलं वहन्ती। अम्भोजिनी दिनकरप्रियविप्रयोगा- दन्तःप्रवृत्तरुदितेवः तदा व्यलोकि ॥ २७ ॥ यद्वारुणीपतिरसेवत पङ्कजिन्याः पादं तदर्पयितुमप्यविदन्पृथिव्याः । दूरे खलु न्यपतदम्बरमप्यपास्य हीहीति नीलनलिनी व्यहसीदिवाग्रे ॥ २८॥ आसायमम्बुजवनीमलिराप्रभात- माश्रित्य तत्समयमत्यजदेव दूरे। के स्थातुमिच्छति मुखे मुकुलीकृतेऽपि, स्थान न चेत्कुवलये कचिदप्यलभ्यम् ॥ २९ ॥ दिष्ट्या वृता. वसुमती तमसा घनेन निम्नोन्नतानि भुवि तेन समीकृतानि । इत्यादरादभिसृतिः कुलटाजनस्य जाता तदा सदधिपेन विना यथेष्टम् ॥३०॥ प्राप्तो ह्यहं त्रिजगति द्विजराजभावं. बिम्बाधरे मुहुरभीकभुजङ्गदष्टे । हाँ, क्षमेत सुदृशां रसपारवश्य- मित्यस्तरिन्दु रुदियाय मिलक्कलकः ॥ ३१॥ १. 'कः स्थातुमिच्छति' ख.

८ सर्गः] पतञ्जलिचरितम् । चन्द्रोदयेन सहसा. बिभिदे तमिला त्रय्यन्तबोधविधिनेव चिरादविद्या । द्रागन्वभूयत तदा किल जीवलोकैः कोऽप्यद्भुतः सुखमयः परिणामभेदः ॥ ३२ ॥ तां तारकाहितरुचिं तमसो निहन्त्री : तापस्य चोज्ज्वलमृगाङ्ककरां त्रियामाम् । काश्यामसेवत तदा किल शंकराख्यो लिङ्गे शिवस्य महिते मनसा च मूर्तिम् ॥ ३३ ॥ आत्मानमेकमखिलेष्वयमद्वितीय पश्यन्नपि व्यवहरन्निवं लोकरीत्याः।" तुष्टाव नूतनसुधातुलितैर्वचोभि- रेवं प्रपन्नकरुणाकरंमिन्दुमौलिम् ॥ ३४ ॥ कस्त्वामवाङ्मनसगोचरमस्तु शक्तः स्तोतुं सहख तदिह स्तुतिसाहसं में । देव स्तवाय तव यन्निंगमाः प्रवृत्ताः श्वानो बभूवुरपराधिन इत्यवमि ॥ ३५ ॥ चित्तेऽधकारिणि मम ऋमितुं क्षमेत पादाब्जमेकमपि तावकमिन्दुमौले.। अस्त्यक्षि यस्य हरिणार्पितमर्चनार्थ मञ्जीरपन्नगफणामणिदीपिका.चे ।। ३.६॥ यद्वीयसे श्रुतिगिरा त्वमपाणिपाद- स्तद्विश्वसन्ति भुवनानि विनामरौ द्वौः। १. 'भुवनानि विभों विना द्वौ ख. अयं पाठः समीचीनतरति दृश्यते.

काव्यमाला। ते भानुं करप्रहृतिकल्पितदन्तभङ्गं पादाहतित्रुटितवक्षसमन्तकं च ॥ ३७॥ जानीमहे जगदधीश्वर यः पुरा नालक्षयजवनमप्यधिरुह्य हंसम् । अत्रेविधिः स तनयस्त्वयि भक्तिभाजी भूत्वाधिगच्छति शिरः शिशिरः शशाङ्कः ॥ ३८ ॥ अन्विष्यतो मुहुरपि श्रमशुष्कतालो. तुश्चिराय जनितात्खलु विप्रलम्भात् । यत्पापमुत्थितमपास्तमिदं ममेति पार्थाहतः किमु विवेद तवेश मूर्धा ॥ ३९ ॥ न स्तस्तवेश पितरौ श्वशुरः शिलात्मा. व्यालः खमार्गणतनुः सुतयोरथैकम् । लोकाः कुमारमितरं विदुरेकदन्तं त्वं भिक्षुकोसि वसितुं वसनं कुतस्ते ॥ १० ॥ मौनं विधाय गुरुरस्म्यहमित्यकाण्डे किं विप्रलम्भयसि मूलगतो वटस्य । प्राचो मुनीनपि वृषध्वज यत्प्ररूढो नाद्यापि ते विगलितः पशुपालभावः ।। ४१ ॥ दग्धस्त्वया प्रथमतः प्रमथेश कामो दग्धं पुरत्रयमथ मितलीलयैव । धत्से करेऽग्निमधुनापि जगन्ति दग्धं बिभ्यत्यतस्त्वदिह पञ्च यमादयोऽपि ॥ ४२ ॥ 'चित्रं वटतरोर्मूले वृद्धाः शिष्या गुरुयुवा । गुरोस्तु मौनं व्याख्यानं शिष्यास्तु च्छिन्नसंशयाः ॥'. १.

८ सर्गः] पतञ्जलिचरितम् । त्वत्तोऽधिको हरिरिति ब्रुवतो यदास्तां स्तब्धौ भुजौ नियमिनोऽग्यधिकं ततस्त्वाम् । निश्चिन्वतो घटभुवस्तु स विन्ध्यशैल- संभेदनेऽप्यभवदस्खलितः प्रभावः ॥ ४३ ॥ सर्वेश्वरोऽसि भव नास्ति तवान्तकोऽपि हृष्टाः प्रजा दधति चाप्यधुना विवृद्धिम् । ख्यातो भिषक्तम इति त्वमतो विनृत्य- स्यानन्दतो यदि विनृत्य किमासितव्यम् ॥ ४४ ॥ इत्थं कृतस्तुतिरवाप्य ततः प्रसन्ना- अय्यन्तसूत्रमृदुभाष्यनिबन्धशक्तिम् । काशीपुरान्निरगमत्सविकासभाजः प्रातः सरोजमुकुलादिव चञ्चरीकः ॥ ४५ ॥ अद्वैतदर्शनविदां भुवि सार्वभौमो यात्येष इत्युडुपबिम्बसितातपत्रम् । अस्ताचले वहति चारुपुरःप्रकाश- व्याजेन चामरमधादिव दियघोनः ॥४६॥ तारास्तदा ददृशिरे तरला नलिन्या हृत्वा श्रियं शशिनि धावति साध्वसेन । तत्संभ्रमत्रुटितहारलता विशीर्णा मुक्ता इव त्रिचतुरा गगनान्तराले ॥ १७ ॥ १. 'गोविन्दादधिकं न देवतमिति प्रोत्तार्य हस्तावुभौ' इति. २. 'ताराखदा ददृशिरे विरला' ख. विद्यमानः पाठः साधीयान्भाति.

! काव्यमाला । अम्भोजकाननमहोत्सवलक्षणानि शीतांशुकान्तिशिथिलीकृतिसूचकानि । तावन्निशम्यं चरणायुधकूजितानि शय्यामहो. परिजहार न जारयुग्मम् ॥ १८ ॥ सर्वां निशामपि विनीय विमुक्तनिद्रा संकेतितादपसृतापि तदा निकुञ्जात् । वामेन. हन्त नयनेन चलेन किंचि- जाराङ्गना सरभसं विनिवर्तते स्म-॥ १९॥ राज्ञोऽवरोधभवनेषु कवाटिकाना मुद्घाटनादजनि यवनितं तदानीम् । कामागमस्य गणनावसरे क्धूनां ज्यायाननध्ययनहेतुरयं. बभूव ॥ ५० ॥ सवात्मना व्यपसृतं न यदा तमिस्र मन्दं तदा स्पृशति गन्धवहेऽङ्गमङ्गम् । नाथागमात्प्रथमतो नलिनी देधानी वक्के विकासमपि कम्पितमूर्तिरासीत् ॥ ५१ ॥ पुष्पंधयीविकसितात्कियदुत्पतन्ती नालीककुमलमुखानलिनाकरस्य । 'अम्भोजकाननमहोत्सवलक्षणानि शीतांशुकान्तिशिथिलीकृतिसूचकानि । आविर्भवन्ति मिथुनश्रुतिदुःसहानि कुकूरुतानि चरणायुधकण्ठनालात् ॥' इति शृङ्गारतिलभाणे.

८ सर्गः] पतञ्जलिचरितम् । ६१ व्योमद्रुमाग्रगति डुविहंगमेषु मुक्ता निपातधुटिकेव तदा बभासे ।। ५२ ॥ अस्या भविष्यति किमुपशमो निशायाः संद्रक्ष्यते सहचरी च मया पुनः किम् । इत्याकुलं दयितया सह दीपिकायां कोकं सखीवं समयोजयदुर्मिरेका ।। ५३ ॥ दूरापसारिततमोरुचिरालकेन प्रांचीमुखं परिमंशत्यरुणे करेण । द्रष्टुं ढिया किमसितोत्पलिनीभिरग्रे तावत्प्रसूननयनानि निमीलितानि ॥ ५४ ॥ पूर्वाचलोपवनसी म्नि पुरंदरस्य स्त्रीभिर्विहृत्य निशि निःसरतः प्रभाते । ... तावद्दधार परिवारवधूगृहीत. माणिक्यखेटकतुलां मिहिरस्य बिम्बम् ॥.५५ ।। उत्पिञ्जराम्बररजःकपिशालिचक्र व्याजेन मे वितनुते दिगियं मघोनः । नीराजनामिति तदानु नवातपेन रत्नांशुकेन समभावि विवखताः सा ।। ५६ ॥ दृष्ट्य पति परवेधूकुचकुङ्कुमाङ्क- दोर्मध्यमप्युषसि भाति नवातपोऽयम् । अस्योरसीति हृदि विश्वसती.लताङ्गी.. मेने तदा न दयितेन न चानुनिन्ये ॥ ५७ ॥ ..

काव्यमाला। पद्माकरोऽयमरविन्दविकासलक्ष्मी सानन्दमुदहति सांप्रतमित्यलीनाम् । नादच्छलादिव जगुर्मधुरं तदानीं दिग्योषितो धृतनवातपकुङ्कुमाङ्गयः ॥ ५८ ॥ बिम्बे भजत्युदयमम्बुजबान्धवस्य दध्यौ तदा पुरुषमेकमृषिः स दिव्यम् । आह श्रुतिर्भगवती किल यं हिरण्य- श्मशृं हिरण्यकचमा प्रणखात्सुवर्णम् ॥ ५९ ॥ तेनान्ववर्ति महता कैचिदुष्णशालि शीतं वचित्कचिजु कचिदप्यरालम् । उत्कण्टकं कचिदकण्टकवत्वचिच्च तद्वर्त्म मूर्खजनचित्तमिवान्यवस्थम् ।। ६० ॥ आत्मानमक्रियमपव्यथमीक्षितापि पान्थैः समं स चलितः पथि लोकरीत्या । आदत्फलानि मधुराण्यपिबत्पयांसि प्रायादुपाविशदशेत तथोदतिष्ठत् ।। ६१ ॥ तेन व्यनीयत तदा पदवी दवीय- स्यासादितं बदरिकाश्रमभूतलं च । . शंसन्ति यत्र वसतिं तरवो मुनीनां शाखाभिरुज्वलमृगाजिनवल्कलाभिः ॥ ६२ ॥ आदेशमेकमनुयोक्तुमयं व्यवस्य- प्रादेशमात्र विवरप्रतिहारभाजम् । १. 'क्वचिदुष्णशाली' क. तत्प्रामादिकमिति भाति.

८ सर्गः] पतञ्जलिचरितम् । ६३ तत्र स्थितेन कथितां यमिनां गणेन गोविन्ददेशिकगुहां कुतुकी ददर्श ॥ ६३ ॥ तस्याः प्रपन्नपरितोषदुहो गुहायाः स त्रिः प्रदक्षिणपरिक्रमणं विधाय । द्वारं प्रति प्रणिपतञ्जपतां पुरोगं तुष्टाव तुष्टहृदयस्तमपास्तशोकम् ॥ ६४ ।। पर्यवृतां भजति यः पतगेन्द्रकेतोः पादाङ्गदत्वमथवा परमेश्वरस्य । तस्यैव मौलिधृतिसार्णवशैलभूमेः शेषस्य विग्रहविशेषमहं भजे त्वाम् ॥ ६५ ॥ दृष्ट्वा पुनर्निजसहस्रमुखीमभैषु- रन्तेवसन्त इति तामपहाय भूयः । एकाननेन भुवि यस्त्ववतीर्य शिष्या- नन्वग्रहीन्ननु स एव पतञ्जलिस्त्वम् ॥ ६६ ॥ तस्मिन्निति स्तुवति कस्त्वमिति ब्रुवन्तं दिया समाधिपथरुद्धविसृष्टचित्तम् । गोविन्ददेशिकमुवाच तदा स वाग्मिः प्राचीनपुण्यजनितात्मविबोधचिह्नः ॥ ६७ ॥ खामिन्नहं न पृथिवी न जलं न तेजो न स्पर्शनो न गगनं न च तद्गुणा वा । नापीन्द्रियाण्यपि तु विद्धि ततो विशिष्टो यः केवलोऽस्ति परमः स शिवोऽहमस्मि ॥ ६८॥ १. 'अपास्तचेत्यम्' क. २. 'दृष्ट्वा पुरा निजसहस्रमुखीम्' ख. ३. 'समा- विपथरूढि' ख.. ४. 'स वाग्मी प्राचीनपुण्यजनितं भुवि बोधचिहः' ख. A 'काव्यमाला। आकर्ण्य शंकरमुनेर्वचेनं तदित्थ- मद्वैतदर्शनसमुत्थमुपात्तहर्षः । स प्राह शंकर स शंकर एव साक्षा- जातस्त्वमित्यहमवैमि समाधिनेति ॥ ६९॥ तस्याथ दर्शितवतश्चरणौ गुहायां द्वारे ह्यपूजयदुपेत्य स शंकरायः । आचार इत्युपदिदेश स तत्त्वमस्मै गोविन्दतापसगुरुर्गुरवे यतीनाम् ॥ ७० ॥ गोविन्ददेशिकमुपास्य चिराय भक्त्या तस्मिन्स्यिते निजमहिन्नि विदेहमुक्त्या । अद्वैतभाष्यमुपकल्प्य दिशो विजित्य काञ्चीपुरे स्थितिमवाप स शंकरायः ॥ ७१ ॥ गोविन्दस्य अतिकुलगुरोः सिद्धिमाकर्ण्य कृत्वा यत्कर्तव्यं तदपि वररुच्यादयो भ्रातरस्ते । खे खे कर्मण्यवहितधियो विद्यया कीर्तिमन्त- श्चत्वारोऽपि स्थितिमभिमतामुज्जयिन्यामकुर्वन् ॥७२॥ इति श्रीयज्ञरामदीक्षितपुत्रस्य श्रीरामभद्रयज्वनः कृती पंतजलिचरितेऽष्टमः सर्गः । समाप्तोऽयं ग्रन्थः। ta १. 'द्वारेऽभ्यफूजयदुपेत्य' क, २. आकर्ण्य काले' क..

No text on this page.

No text on this page.

The Patanjali Charita Of Rambhadra Dikshit

Author
Pandit Shiva Datta
Other authors
Ccl
Title
The Patanjali Charita Of Rambhadra Dikshit
File name
The Patanjali Charita Of Rambhadra Dikshit
Text
OCR done
Citation
1934
Publisher
Pandurang Jawaji Nirnay Sagar Press
Language
Sanskrit
Pages
69
Library
Scl
DLI number
326610
Barcode
2020010008733.00
Scanning centre
City Central Library, Hyderabad
Digital publisher
par informatics, hyderabad
VMLT id
MAghlTLo9VI
Download PDF

The Patanjali Charita Of Rambhadra Dikshit