S.v.c.l.r.c

Srimad Bhagavath Dashamaskanda Subhodini

1\6\2003

PDF Proofread

Front matter

પરમ ભગવદીય શેઠ છગનલાલભાઈ વાલજીભાઈ આ કપલવણિગ ભગવદ્ધર્મપરાયણનું જન્મ ભાવનગરના શિહેરમાં વિ. સં૧૯૧૬ના ફાગુન શુક્લ તૃતીયાને સેમવારે થયું હતું. તે જ ગામમાં બાલશિક્ષણ સમાપ્ત કરીને વ્યાપાર સં. ૧૯૧લ્માં છગનલાલભાઈ મુંબઈ આવ્યા. કહે છે કે ત્યારે કેઈક દાલવાલાની દુકાને માસિક બે પીઆના પગારથી નેકરીમાં રહ્યા, જે રકમની વૃદ્ધિ માસિક આઠ પીઓ સુધી સં. ૧૫માં પહોંચી હતી. વિ. સં. ૧૭૧ના ફ. શુ. ૩ને દિવસે રામબાઈ સાથે તેમનાં શુભ લગ્ન થયાં, મુંબાઈના ભાતબજારમાં શેઠ ત્રિકમદાસ મૂલજી નામના કેઈક ભાટીઆના સહાયથી કણની દુકાન આ ભાગ્યવાનું વૈષ્ણવે માંડી અને ૧૯૩ માં તે શેઠ અમૃતલાલ કાશીનાથના ભાગમાં દેશી સાકરની પણ દુકાન ખોલી, જે ૧૯૮૧ પર્યન્ત ચલાવી. શ્રી ઘનશ્યામલાલજીના મન્દિરમાં નિયમિશઃ દર્શનાર્થે આવતા આ વૈષ્ણવશિરેમણિ સાથે સં. ૧લ્પલ્માં મારે ગાઢ પરિચય થયું ત્યારથી દુર્ભાગ્યે જ એક પણ દિન એવો હશે કે શ્રી- સુધિનીજીની નિત્યકર્મ થતી ભગવસ્થામાં “ છગનભાઈ” મારે ત્યાં અનુપસ્થિત હોય. એમના સમાગમમાં આવેલા શ્રીમાન ગોસ્વામિબાલકમાં વા અન્યમાં ધર્મબાધક દેષ દૃષ્ટિપથ થતાં તે શ્રીમાનેને શ્રીમદ્રાચાર્યચરણશ્રીમભુચરણક્ત નિર્દોષ સદાચાર સવિનય ગાભર્યું નિવેદતા. નન્દઢારમાં શ્રીમતી વૈષ્ણવપરિષત થઈ ત્યારે ભગવદિચ્છાથી તે સંસ્થાનું તત્રિત્વ અને સં. ૧૭૧માં શ્રીવાગીશલાલજીના મંદિરમાં મન્નિત્વ છગનભાઈને પ્રાપ્ત થયું, શ્વાસપીડિત સતે પણ આ ઉભય સંસ્થાની ઉન્નતિ આ સન્મિત્રે યથાશક્તિ કરી આપી. સં. ૧૯૭૧માં મારું પુને જવું થયું ત્યારથી છગનભાઈને સમ્બન્ધ વાડીલાલભાઈ ધીરજભાઈ અને તેલીવાલા સાથે નિસર્ગતઃ વૃદ્ધિ પામતે ગયે. સં. ૧૮રના ફા. શુ. ૩ની રાત્રિએ ૧ળા વાગે સિહેરમાં છગનભાઈનું લૌકિક અ નિવૃત્ત થઈ ગયું, તે પહેલાં મુંબાઈથી નીકલ્યા ત્યારે સર્વે પરિચિત વૈષ્ણને ભાવપૂર્વક છેલ્લા જયશ્રીકૃષ્ણ કરી આવ્યા હતા. પરલેકગમનને દિવસે પણ આ જ પ્રકારે તેમણે મદિરે જઈને સંયે ભગવદીયને અનિમ “જયશ્રીકૃષણ કરી લીધા હતા, રાત્રિએ તત્રત્ય ઉભયે વૈષ્ણવમંડલીની એકતા સાધી આપીને નિજ ગેહમાં નિમન્વિત તે સર્વ જ વૈષ્ણને પ્રેમપૂર્વક દુગ્ધફલાદિ લેવડાવી દીધા પછી તે સર્વને પણ અન્ય “જયશ્રીકૃષ્ણ કરી લીધા હતા. દશેક વાગે નિજ ધર્મ- પત્નીને મૃતક કષ્ટમાં સ્વયં તેડી ગયા, અને તે કેકને ગોમૂત્રાદિથી વિશુદ્ધ કરી નંખાવ્યા. એક જ કાસ થતાં વમન થયું, અને “શ્રીનાથજી શ્રીયમુનાજી એ પરમપવિત્ર શને ઉચ્ચાર કરીને નડીઆદના શ્રીવ્રજરત્નજીના સેવક છગનભાઈ શ્રીમવલલભાધીશ્વરના ચરણકમલમાં પ્રાપ્ત થઈ ગયા. શાન્ત પવિત્ર છગનભાઈના વૈષ્ણવતામય જીવનની તેમની જ સુન્દર પ્રણાલીને અનુસરતાં તેમની પાછલ રહેલાં તેમનાં ધર્મપત્ની રામબાઈ, તેમ જ હરિલાલભાઈ ન્હાનાલાલભાઈ કૃષ્ણદાસ- ભાઈ અને પુરુષોત્તમદાસભાઈ એ ચાર સસન્તાન પુત્ર અને દેવરબહેન તથા ત્રિવેણીબહેન એ સર્વે જ નિજ વૈષ્ણવ જન્મનું સાફલ્ય કરે છે, મુંબાઈ, ૫. ગ. શાસ્ત્રી, શ્રી સિતારાવ,

-
一
-
出:

॥ श्रीकृष्णाय नमः ॥ ॥ श्रीगोपीजनवल्लभाय नमः ॥ ॥श्रीमदाचार्यचरणकमलेभ्यो नमः ॥ श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां द्वितीये तामसप्रकरणेवान्तरप्रमाणप्रकरणे प्रथमः स्कन्धादितः पञ्चमोध्यायः । ॥ ५ ॥ श्रीशुक उवाच । नन्दस्त्वात्मज उत्पन्ने जाताहादो महामनाः । आहूय विप्रान् वेदज्ञान् स्नातः शुचिरलकृतः ॥ १॥ वाचयित्वा स्वस्त्ययनं जातकर्मात्मजस्य वै । कारयामास विधिवत् पितृदेवार्चनं तथा ॥२॥ एवं चतुर्भिरध्यायैर्जन्म विष्णोनिरूपितम् । हेतूद्यमोत्तराङ्गैश्च राजसादिगुणैर्युतम् सप्तसप्ततिभिः कृत्यं हरेरत्र निरूप्यते । भगवान् स्वेन धमैश्च सप्तधैकादशेन्द्रियैः ॥ २ ॥ कृत्यं चकार यस्माद्धि ततस्तावद्भिरुच्यते । त्रिविधानि च कर्माणि त्रिविधानां हिताय हि ॥ ३ ॥ तत्त्वातिक्रमणे रोधस्तामसे राजसे भवेत् । कालातिक्रमणे शिष्टे कालस्तत्रैकविंशतिः ॥ ४ ॥ "द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका · असावा दित्य एकविंश" इतिश्रुतेः लौकिकेषु तु धर्मेषु यत्रैव हरिवेशनम् । निवर्तते तदेवात्र वहेर्दारुमयं यथा स्वभावस्यान्यथाभावो न वै शक्यः कथञ्चन । अतस्त्रिविधजीवेषु त्रिविधा भगवत्कृतिः लौकिक तामसे मुख्य कामान्ता च कृतिः स्फुटा। कामोद्भूते तथाप्रीतिस्तेनादौ तन् निरूप्यते ॥ ७ ॥ बाललीला मध्यलीला प्रौढलीला तथैव च । कामलीलेति लोके वै चतस्त्रः सुखदाः स्मृताः ॥ ८ ॥ एक भगवतः कार्य बह्वर्थानां च साधकम् । प्रपञ्चविस्मृतिः सर्वा तदासक्तिश्च वर्ण्यते ॥ ९ ॥ येनैव विविधा भक्ता न स्मरन्ति जगत् क्वचित् । कृष्णे च सन्नतात्मानस्तत् कार्य भगवत्कृतम् ॥ १० ॥ बाललीला सप्तविधा प्रथमं सा निरूप्यते । बालभावरता ये हि तेषां रोषस्ततो भवेत् ॥ ११ ॥ उत्सवाविष्टचित्ता ये येप्याश्चर्याभिवेशिनः । अलौकिकरता ये च ये चोपद्रवणोत्सुकाः ॥ १२ ॥ स्त्रीस्वभावरता ये वै ये च तत्त्वे च लौकिके । सर्वोद्योगपरा ये च तेषां रोधो निरूप्यते ॥ १३ ॥ जन्मोत्सवो हरेरत्र पञ्चमे विनिरूप्यते । आवश्यकं परित्यज्य कृतं तदिति चोच्यते ॥ १४ ॥ अन्यथाज्ञानशङ्का च तेनैव विनिवार्यते । उत्सवस्त्वन्यथा न स्याद् द्रव्यानयनमेव च ॥ १५ ॥ आसक्तिबोधनार्थाय तस्यान्ते भयवर्णनम् ॥ १५ ॥ पूर्व "यशोदाशयने सुतं निधाय तत्सुतामादाय गृहानगा"दित्युक्तं, “जातं परमबुध्यत" इति च, ततो मायायां निर्गतायां यशोदा प्रबुद्धा पुत्रं ज्ञातवती, ततः सर्वेषु यदासीत् तदाह नन्दस्त्वात्मज इति, पितुः पुत्रः, अतो नन्दो जातकर्म कारयामासेतिसम्बन्धः, तुशब्दः पूर्वकथां व्यावर्तयति शङ्कां च व्यावर्तयति, तदाह आत्मज उत्पन्न इति, यस्य यथा प्रतीतिस्तथैव शुकेनानूद्यते, भगवता तथैव तेषां बुद्धेः श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां झो० ३- धेनूनां नियुते पादाद विप्रेभ्यः समलङ्कृते । तिलादीन् सप्तरत्नौधाञ् शातकौम्भाम्बराटतान् ॥३॥ कालेन स्नानशौचाभ्यां संस्कारैस्तपसेज्यया । शुध्यन्ति दानैः सन्तुष्टया द्रव्याण्यात्मात्मविद्यया ॥४॥ सम्पादनात् , अन्यथा तद् भगवच्चरित्रं न स्यात् , अत आत्मनः सकाशाज्जातः पुत्र एवायमिति नन्दर बुद्धिः, तदाह आत्मज उत्पन्न इति, वासुदेवोत्रैवाविर्भूत इतिसिद्धान्तः, अन्यथा केवलमायाजनितं स्तन्यं भग वान् न पिवेत् सिद्धवत्कारेण च शुको न वदेत् , अन्तःकरणप्रतीत्यापि पुत्रोयमितिनिश्चयार्थमाह जाताल्हार इति, यद्यपि पुत्रजन्मज्ञान एवाह्लादस्तथाप्यन्यथाज्ञानमपि भवेदिति तव्यावृत्त्यर्थं जन्मैव निमित्तत्वेनोक्तं रूपान्तरेपि स्वीकृतेनुभावोवर्जनीयो भवत्येव, अतः प्राकृतोपि नन्दो महामना जातः, प्राकृतानामल्पमेद मनो भवत्यल्पकार्यकारि, महत् महत्कार्यकारि मनो यस्य महान्तमुत्सवं करिष्यामीति, सोपि विधिपूर्वक कर्तव्य इति ब्राह्मणाकारणं कृतवानित्याहाहूयेति, विशेषेण प्रान्तीति तेषां पूरकत्वमुक्तं, अन्यथार्थ नाशकत्वेन ते निन्दिताः स्युः, उत्सवे तेषामाकारणे हेतुमाह वेदज्ञानिति, "यावतीवै देवतास्ताः सर्वा वेदविदि ब्राह्मणे वसन्ती"तिश्रुतेः, सर्वदेवतासान्निध्ये हि महानुत्सवः, तत्र विहितानि कर्माण्याह स्त्रात इत्यादि, स्नानं नैमित्तिकं, सूतकसम्भावनायामाह शुचिरिति, अन्यामपि शुद्धिं सम्पादितवान् , अलङ्कृत इति, अल- दूरणं शुभसूचकं, विशिष्टालङ्कार उत्सवः सर्वजनीनो भवति ॥ १ ॥ सर्वकर्मस्वादौ स्वस्तिवाचनं, जात- कर्मेति कर्मनामधेयं, क्षत्रियवैश्ययोरन्यद्वारा कारणं, विधिः पुरोहितशाखानुसारेण, आत्मजस्येति पुत्रे यो विधिः, भगवान् स्वस्मिन् पुत्रत्वं प्रकटितवानिति वैदिककर्मणां सार्थकत्वं गाभिकबैनिकदोषाभावकीर्तनं च तथैव, नैमित्तिको वात्मसंस्कारपक्षः, भगवच्चरित्रमेवेदमितिसिद्धान्तः, पितृदेवार्चनं नान्दीश्राद्धं, तथा विधानपूर्वकं युगलेन संस्कारनिरूपणं प्रवृत्तिमार्गनिष्ठत्वाय ॥ २ ॥ "महामना" इतिविशेषणस्य कृत्यमाह धेनूनामिति, नियुतं लक्षं, लक्षद्वयमपि प्रत्येकमलङ्कृतं, भगवत्सान्निध्याद् द्रव्यक्रियाणां न परिक्षयः, विप्रेभ्य इति समुदायेन दानं, सङ्कल्पमात्रव्यावृत्त्यर्थमाह प्रादादिति, विशेषेण पूरकत्वान्नास्यापि परिक्षयः, तिलादीनिति तिलपर्वतान् , रत्नौघानिति पृथक् , रत्नानामोघः समूहो येष्विति वा, शातकौम्भेन सुवर्णेनाम्बरैश्चातान , अन्नेषु तिला मुख्याः, "गावो हिरण्यं वासांसि तिला रत्नानि चे"तिपञ्चानां दानं, सर्वाण्येव सर्वदैवत्यानि ॥ ३ ॥ बहु दत्तमितिशङ्का वारयितुं तस्य ततोपि बह्वस्तीति वदञ् छुद्ध्यर्थमपि तेनैतावद् दातव्यं भवतीति वदन् समानैरन्यैः कालादिभिः सह द्रव्यं निरूपयति कालेनेति, कालादिना प्राणिनः सर्वे शुध्यन्ति, नव शोधकानि, तत्र कालो मुख्यः सर्व कालोद्भवमिति, उत्पन्नः पुत्रः शतं वर्षाणि जीवति, तत्र दश दिनानि षट्त्रिंशच्छतानामेको भागो भवति, सम्पूर्णे काले तावान् कालस्त्वशुद्धः, एवं द्रव्याण्यपि ज्ञातव्यानि, जननादौ कालेनैव शुद्धिर्न स्नानादिना, वंशशुद्धिजनकः कालः, स्नानं सम्पूर्णदेहशोधकं, शौचमेकदेशस्य, लौकिकव्यवहारार्थ त्रिधेयं शुद्धिः, अदृष्टायुत्पत्त्यर्थ त्रिधा शुद्धिमाह, संस्कारैर्जातकर्मादिभिदेहो वैदिककर्मार्थ संस्कृतो भवति, एतेषां भूतसंस्कारकत्वमेव, तपस्त्वन्तःकरणशोधक, अदृष्टोत्पत्तिद्वारेति केचित् , इज्या यागः, तेन भगवान् सन्तुष्यति, एवमाधिभौतिकस्याध्यात्मिकस्याधिदैविकस्य संस्कारकाणि त्रीणि निरूपि- तानि, एवं षड्विधैरपि सर्वे शुध्यन्ति, बहिःशुद्धिमाह दानैरिति, दानैर्द्रव्याणि शुध्यन्ति, दानव्यति- w श्लो०५-९.] तामसप्रमाणप्रकरणे स्कन्धादितः पञ्चमोध्यायः । . सौमङ्गल्यगिरो विप्राः मूतमागधबन्दिनः । गायकाश्च जगुर्नेदुर्भेर्यो दुन्दुभयो मुहुः ॥५॥ ब्रजः सम्मृष्टसंसिक्तद्वाराजिरगृहान्तरः। चित्रध्वजपताकास्रक्चैलपल्लवतोरणैः ॥६॥ गावो वृषाश्च वत्साश्च हरिद्रातैलरूषिताः । विचित्रधातुबर्हस्रग्वस्त्रकाञ्चनमालिनः ॥ ७ ॥ महाहवस्त्राभरणकञ्चुकोष्णीपभूषिताः । गोपाः समाययू राजन् नानोपायनपाणयः ॥ ८ ॥ गोप्यश्चाकर्ण्य मुदिता यशोदायाः सुतोद्भवम् । आत्मानं भूषयाञ्चक्रुर्वस्त्राकल्पाञ्जनादिभिः ।। ९॥ रेकेण द्रव्याणां न शुद्धिः, वित्तानुसारेण च दानं, अतो लक्षद्वयदानं गवां शुद्धयर्थमेव, अल्पानि प्राप्तानि सन्तुष्टचैव शुध्यन्ति, अतो द्रव्यशुद्धौ द्वयमुक्तं, आत्मा तु जीवः, आत्मविद्ययैव शुध्यति “सोह- मस्मी"त्यादिरूपया ॥ ४ ॥ एवं प्रसङ्गानन्दस्य माहात्म्यमुक्त्वाग्रे वक्ष्यमाणमुत्सवमुपपत्त्या निरूप्योत्सवमनेकप्रकारमाह सौमङ्गल्येतिदशभिः, विद्याकृतो यावानुत्सवः स प्रथमं निरूप्यते, सौमङ्गल्यं सुमनलता, यैवेदैः पौराणैर्वावयैर्मङ्गलं भवति तच्च निरन्तरं पठन्तीति सौमङ्गल्यप्रतिपादिका गिरो येषामित्युक्तं, गिरां वैयर्थ्याभावो विप्रपदेनोक्तः, सूताः पौराणिकाः, मागधा वंशशंसकाः, बन्दिनो वैतालिकाः, तेपि सौमङ्गल्य- गिरो जाताः, गायका अन्ये केवला नृत्यादिसहिताश्व, स्त्रियश्च वाद्यवादकाश्च, नेदुः, भेर्य उत्सवसूचिकाः, दुन्दुभयो मङ्गलवाद्यानि शुभकर्ममात्रे प्रवृत्तानि, मुहुः श्रमपर्यन्तं वादयित्वा पुनर्निवृत्ता वादयन्तीति, एतद् वाद्यमपि सङ्गीतशास्त्रप्रसिद्धं, अतो विद्याकार्य सर्वमुक्तम् ॥ ५ ॥ भूसंस्काराननेकविधानाह व्रज इति, सम्यङ् मृष्टा रजोदरीकरणेनोज्ज्वलीकृतास्ततः सम्यक् सिक्ता गन्धोदैारादयो यस्मिन् , द्वाराणि बाह्यानि, अन्तराणि च, अजिरमङ्गणं, गृहान्तरं गृहमध्यं, गृहा अन्तराणि च, तदुपरिभागानामपि मार्जनं भवति, एतादृशो बजो जातः, चित्रध्वजादिभिरपि युक्तो जातः, एते बहिःशोभाजनकाः, गरुडादिचिह्निता ध्वजाः, जयपत्राङ्किताः पताकाः, उभये विचित्राः, सनो मालाः पुष्पनिर्मिताः, चैलैः पल्लवैश्च कृतास्तोरणा इति वस्त्रादिभिर्यावानलङ्कारो भवति स सर्वोपि तत्र कृत इत्यर्थः ॥ ६ ॥ गवां शोभामाह गाव इति, गावो बलीवर्दा धेनवश्व, वृषाश्च स्थूलककुदो महान्तः, चकारादवान्तरभावापन्ना वृद्धाश्च, वत्सा वत्सतर्यश्च, सर्वे हरिद्रायुक्ततैलेन रूषिताः, विचित्रा गैरिकादिधातवः, बर्हाणि मयूरपिच्छानि, वस्त्राणि काञ्चनमालाश्च वर्तन्ते येषां, हरिद्रातैलं मङ्गलार्थे, धात्वादयः शोभार्थाः ॥ ७ ॥ गोपानां शोभामाह महाहेति, अमूल्यानि वस्त्राणि यानि स्थापितानि तान्यपि तस्मिन् दिवसे परिहितानीति ज्ञापयितुमाह महाति, अमूल्यानि वस्त्राणि परिधेयान्याभरणान्यपि तथा, बहिः कञ्चुकोष्णीषैभूषिताः कटिबन्धनरपि, तेषामकथनमुत्सवासक्तिख्याप- नार्थ, गोपा बनान्तरस्थिता अपि यावन्तो नन्दपरिचिताः सर्वे सम्यगाययुः, राजनितिसम्बोधनमुत्सववर्ण- नायां सम्मत्यर्थ, नानाविधान्युपायनानि वस्त्राभरणदुग्धध्यादीनि, रिक्तहस्तगमनाभावार्थमेतदुक्तं न तु नन्दस्यं तैः काचित् समृद्धिः ॥ ८ ॥ गोपीनामप्युत्सवमाह चतुर्भिः, गोप्यश्चतुर्विधाः सम्बद्धा असम्बद्धाश्चो- 40 श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [श्लो० १०-१२. नवकुडामकिञ्जल्कमुखपङ्कजभूतयः । बलिभिस्त्वरित जग्मुः पृथुश्रोण्यश्चलत्कुचाः ॥१०॥ गोप्यः सुमृष्टमणिकुण्डलनिष्ककण्ठ्यश्चित्राम्बराः पथि शिखाच्युतमाल्यवर्षाः । नन्दालयं सवलया बजतीविरेजुालोलकुण्डलपयोधरहारशोभाः ॥ ११ ॥ ता आशिषः प्रयुञ्जानाश्चिरं पाहीति बालके । हरिद्राचूर्णतैलाद्भिः सिञ्चन्त्योजनमुज्जगुः ॥१२॥ भयविधा अपि सङ्गता असङ्गताश्च, गोप्य इति, चकारादन्या अपि तत्र तत्र निलीनास्तथाविधा भूत्वा गता इति निरूप्यते, ब्राह्मणस्त्रियोन्याश्च, तासां नन्दप्राधान्याभावात् , यशोदाया अपत्योत्पत्तिसम्भावना- रहितायाः सुतस्याकस्मादुद्भवं श्रुत्वा श्रवणेनैवान्तःसन्तोषस्तासां जातः, चतुर्विधपुरुषार्थस्तासां विशेषाकारेण सेत्स्यतीत्याकण्यैव मुदिता न तु निश्चयमप्यपेक्षन्ते, तासां निवेदनीय आत्मैवेत्यात्मानमेव भूषयाञ्चक्रुः, आत्मपदप्रयोगश्च शरीरादीनामप्यविकृतत्वाय, सशरीराणामेव ब्रह्मानन्दानुभवात् , उत्तमानि वस्त्राणि परिधाय तथाकल्पान्याभरणान्यपि, अञ्जनं कजलं, आदिशब्देन तिलकमाल्यादीनि ॥ ९ ॥ श्रवणादि गमनपर्यन्तमात्मालङ्कारो यावता भवति तावत् कृत्वा गता इत्याह नवेति, ताः सर्वा देवतारूपा भगवत्सम्मुखे गच्छन्त्यो विकसितवदना जाताः सोलौकिको विकास इति तं वर्णयति, चर्वितताम्बूलाः सुलक्षणवशाद् वारक्तरेखायुक्ता मुखभागास्तासां, नूतनं कुड्डमं काश्मीरं तस्य ये किञ्जल्का उत्तमा आरक्तास्त एव योनितास्तिलकादौ पिष्टा वा रेखाकाराः कृतास्तत्सदृशा वा किञ्जल्काः, एतादृशानि मुखपङ्कजानि तैर्भूतिर्यासां, गन्धो रूपं तथा स्पर्शः कटाक्षभ्रमरोक्तयः । ताभिश्चतुष्टयं ज्ञेयं रसं ज्ञास्यति माधवः ॥ १॥ बलिः पूजासाधनानि लगादीनि, यद्यपि सर्वस्वमेव नेयं तथापि वरितं जग्मुः, त्वरागमनं तासा- मत्यशक्यं, यतः पृथुश्रोण्यश्चलत्कुचाः, अत्युच्चतया कुचयोश्चलनं गमनप्रतिबन्धकं भवति, यत्राशक्यं ताः सम्पादयन्ति तत्र शक्ये कः सन्देह इतिभावः, अत एव माल्यानां बन्धनं शिथिलं, त्वरया यथाकथञ्चिद्. बन्धनात् , तेन मार्गे च्युतिरग्रिमवाक्ये कथयिष्यते ॥ १० ॥ एवं गच्छन्तीनां स्वरूपमुक्त्वा नन्दगृहे प्रविशन्तीनां स्वरूपमाह गोप्य इति, दूरादागत्य यथाकथञ्चिद् यदा ता निकटे समागतास्तदा सर्वशोभानां प्राकट्याद् विरेजुरिति ता वर्णयति, गोप्य इतिपुनर्ग्रहणमग्रपश्चाद्भावेन समागतानां सम्भूयगमनार्थ, नन्दालयं बजतीविरेजुर्विशेषेण रेजुः, पूर्व पिहिताभरणा अपि प्रकटाभरणा जाताः, तथा प्रकटवस्त्राः, माल्यानां पुष्पाणां शिखातश्च्युतानां गतिसूचिका दृष्टिरिव मार्गे जाता, वलयानामपि शब्दतो रूपतश्च प्राकट्यं, व्यालोलाः कुण्डले पयोधरौ हाराश्च, तैः शोभा यासां, तद्ता राजसास्तामसाः सात्त्विकाश्च लोला जाताः, अनेन तासामुत्सवासक्तिरुक्ता, सुष्ठु मृष्टे उज्ज्वले मणियुक्त कुण्डले यासां, निष्कयुक्तः कण्ठो यासामस्ति ता निष्ककण्ठ्यः, पूर्वोक्ताश्च ता निष्ककण्ठ्यश्च, विचित्राण्यम्बराणि यासां, पथि शिखातश्च्युतानां माल्यानां वर्षा यासां ताः, नन्दालय नन्दगृहं, सवलया वलयसहिताः, व्यालोलकुण्डलपयोधरहाराणां शोभा याभिः ॥११॥ तत्रागतानां कृत्यमाह ता आशिष इति, ता गोप्य एवमुत्कण्ठतया समागता आशिषः प्रयुञ्जाना जाताः, तासां भगवदावेशात् सत्या एवाशिषो निर्गता इत्याह चिरं पाहीति बालके, आशिषो न परोक्षतया निरूपयन्ति किन्तु प्रत्यक्षतयेति पाहीतिमध्यमपुरुषप्रयोगः, तासां सर्वभावेन पालनमल्पकाल श्लो०१३-१६.] तामसप्रमाणप्रकरणे स्कन्धादितः पञ्चमोध्यायः । अवाद्यन्त विचित्राणि वादित्राणि महोत्सवे । कृष्णे विश्वेश्वरेनन्ते नन्दस्य ब्रजमागते ॥ १३ ॥ गोपाः परस्परं दृष्टा दधिक्षीरघृताम्बुभिः । आसिञ्चन्तो विलिपन्तो नवनीतैश्च चिक्षिपुः ॥ १४ ॥ नन्दो महामनास्तेभ्यो वासोलारगोधनम् । सूतमागधबन्दिभ्यो येन्ये विद्योपजीविनः ॥ १५॥ तैस्तैः कामैरदीनात्मा यथोचितमपूजयत् । विष्णोराराधनार्थाय स्वपुत्रस्योदयाय च ॥ १६ ॥ एवेति ज्ञात्वा बहुकालरक्षार्थ प्रार्थना, एतदपि प्रत्येकं वचनं, तासां प्रत्येकं भगवत्स्फुरणात् , एवमाशिषः प्रयुञ्जाना भगवद्भावेनात्यन्तं मत्ता हरिद्राचूर्णतैलजलान्येकीकृत्य परस्परं सिञ्चन्त्योजनं भगवन्तमुज्जगुः, हरिद्राचूर्णयोर्मेलन आरक्तो भवति, तैलेन च सम्पृक्तं न कदापि त्यजति बहुकालमिममर्थं ज्ञापयति, जले योजितं प्रसृतं भवति, ननु कुलस्त्रीणां कथमेवम्भावस्तत्राहाजनमुज्जगुरिति, भगवद्भावस्य ज्ञापकमजनपदं, स हि भगवांस्तत्र जात इति ताभिर्जातं, अतो भगवति प्राप्ते सर्वापेक्षाभावात् तथा सिञ्चन्त्य उच्चैर्जगुः ॥१२॥ एवं विद्यावतां भूमेर्गवां गोपानां गोपीनां चालङ्कारा निरूपिताः, लौकिकवाद्यकृतमुत्सवमाहावाद्यन्तेति, स्वभावतो दशविधानि वाद्यानि विचित्राणि ततोप्यनन्तानि महोत्सवे भगवतो जन्मोत्सवे वादका वादया- मासुः, महोत्सवे निमित्तमाह कृष्णे विश्वेश्वर इति, कृष्ण इति, सज्ञा नामकरणानन्तरमेव भवतीति भगवति नियमाभावात् पूर्वसञ्ज्ञानामेव गर्गेणोक्तत्वात् “ कृषि वाचकः शब्दो णश्च निर्वृतिवाचक " इतिवाक्यात कृष्णः सदानन्दः, आनन्दे चावश्यं वादित्राणि, किञ्च विश्वेश्वरे विश्वस्यैव नियन्तरि, महति समागतेन्ततो गत्वा वादित्राण्यपि वादनीयानि, बालके बालकान्तरवच्छङ्का नास्तीति सर्वथा महोत्सवः कर्तव्य इत्याहा- नन्त इति, न विद्यतेन्तो यस्य, अनन्तः कालोवा, अन्यथा स मारयेदिति, तत्रापि नन्दस्याल्पस्य तत्रापि व्रजेल्पगृहे महति समागते महोत्सवः कर्तव्य एव, अन्यथा महानपकुर्यात् , किञ्च "द्रोणो वसूना"मित्यारभ्य "ततो भक्तिर्भगवति" "कृष्णो ब्रह्मण आदेश" मित्यन्तैर्वाक्यैः परमभक्तत्वेन नन्दस्य तदा वादित्रवादन- मुचिततरम्॥१३॥ गोपिकानां भगवत्स्मरणेनैव भगवदावेशो जातो गोपानां तु भगवत्सन्निधाने भगवद्धर्मप्राकट्य आवेश इति भगवदाविष्टानां गोपानामुत्सवप्राकट्यमाह गोपा इति, दधिक्षीरघृताम्बुभिर्मिलितैः परस्पर- मासिञ्चन्तो दध्यादि मुखेषु विलिम्पन्तो नवनीतैः पिण्डैश्चिक्षिपुरन्योन्यस्योपरि प्रक्षिप्तवन्तः, अथवा यस्य यत्प्राप्तिः केचिद् दध्ना केचित् क्षीरेण केचिद् घृतेनाम्बुभिश्च, आसिञ्चनं तुल्यतया, लिम्पनमाधिक्ये, अति, रसाविष्टे नवनीतैःक्षेपोतिमत्ततया, एवं सर्वेषां महानुत्सव उक्तः ॥ १४ ॥ एवं सर्वकृत उत्सवे सर्वेभ्यो दानरूपं नन्दस्योत्सवमाह नन्दो महामना इतित्रिभिः, विद्यावतामन्येषां च स्त्रीणां च सर्वाभीष्टदानं, तत्र विद्यावतां प्रथमतो दानमाह महामना इति, विद्यातारतम्येन दानं, तत्रैक एव बहुविद्यो भवति तथा सति बहुदानं तत्र कर्तव्यं भवति तत्राल्पसत्त्वस्य लोभः स्यात् तन्निवृत्त्यर्थमाह, तेभ्यः पूर्वोक्तेभ्यः, वासांस्यलङ्करणानि गावो धनं च गोधनं गोष्ठं वा, अनेन ब्राह्मणेभ्य एव वस्त्रालङ्कार- पूर्वकमेकैकस्मा एकमेकं गोष्ठं दत्तवानिति लक्ष्यते, अन्येषामनुवादाच्चान्येभ्यो यथायोग्यं दत्तवानित्याह सूतेति, एतेभ्यो दानं कीर्त्यर्थं, ये चान्ये गायका वैद्या ज्योतिर्विदश्च, अन्येपि शाकुनिकाःस्त्रियश्च- तेभ्यः सर्वेभ्य एव वासोलङ्कारगोधनानि दत्तवानितिसम्बन्धः ॥ १५ ॥ अन्येभ्यो दानमाह तैस्तैरिति, .

श्लो०२०-२२.] तामसप्रमाणप्रकरणे स्कन्धादितः पञ्चमोध्यायः । - वसुदेव उपश्रुत्य भ्रातरं नन्दमागतम् । ज्ञात्वा दत्तकरं राज्ञे ययौ तदवमोचनम् ॥ २० ॥ तं दृष्ट्वा सहसोत्थाय देहः प्राणमिवागतम् । प्रीतः प्रियतमं दोभ्यो सस्वजे प्रेमविह्वलः ॥ २१॥ पूजितः सुखमासीनः पृष्ट्वानामयमादृतः। प्रसक्तधीः स्वात्मजयोरिदमाह विशाम्पते ॥ २२॥ वेतिसंशये मनसि खेदो भवतीति श्रीनन्दसंवादेन तन्निराकरणपूर्वकं तयोरप्युत्सवः सम्पत्स्यत इत्युत्सवानन्तरम- व्यवधानेनैव व्रजेन्द्रस्य मथुरागमनमुच्यते, एवं सत्युत्सवलक्षणोध्यायार्थोप्यान्तः सङ्गच्छत इति तमाह गोपा- निति, एतेन वसुदेवकृतस्थितिनिषेधानन्तरं व्रजेद्रस्य पुनर्मथुरायामनागमनाद् ब्रज एव कंसनरपेक्ष्येण यथासुखं स्थित्या भगवदैश्वर्यमपि निरूपितं भविष्यति, पूर्व रक्षायामनादरः स्थितः, इदानीमादरेण गोकुलरक्षार्थ गोपानन्तरङ्गानादिश्य स्वयं मथुरां गतः, करो हि सर्वाभिः प्रजाभिर्दीयते, इदानीमपि तस्मिन् देशे श्राव- ण्यनन्तरमेव करप्रवृत्तिः, वर्षपर्यन्तं यद् देयं तदेकदा दीयते महद्भिः, नन्दस्तु महान् भवतीति तन्नामग्रहणं, कुरूद्वहेतिसम्बोधनं राजधर्मज्ञापनार्थ, यद्यप्यासक्तिज्ञापनार्थ पश्चात् करदानं निरूपितं तथापीश्वरे भगवति विद्यमानेन्येभ्यः करदानमनुचितमिति ततःप्रभृति तन्निवृत्त्यर्थम् ॥ १९ ॥ वसुदेवपुत्रो भविष्यतीतिशङ्कानिवृत्त्यर्थमुत्सवाधिक्यस्य ज्ञातत्वात् कंसकृतोपद्रवाभावार्थ कंसमन्त्र- णस्य श्रुतत्वाद् विशेषरक्षार्थ च शीघ्रं नन्दं ततः प्रेषयितुं वसुदेवसमागमनवार्ता निरूप्यते, चतुर्णा मध्य एकस्याप्यभावे नोत्सवः सिध्येदिति, तत्र प्रथमं वसुदेवसमागमनमाह वसुदेव इति, मायाकृतस्य ज्ञापन भगवत्कार्यमिति भगवच्चरित्रता, वसुदेवस्य नन्दस्य च धर्मभ्रातृत्वं, यस्मिन् कल्पे वस्वादिदेवा ब्रह्मण एव जाताः कश्यपोपि भवति ब्रह्मण एव तदा भ्रातृत्वं सिद्धमेव, ततः पूर्वजन्मनि तथैवेति जन्मान्तरेपि धर्म- भ्रातृत्वं, तदाह भ्रातरमिति, आगमनात्पूर्व चेच्छृणुयान्निवारयेदेव, करदानात् पूर्वमपि चेजानीयात् तदा न दापयेत् , दानपर्यन्तं च राजकीयास्तदवमोचने समायान्ति, तेषामज्ञानार्थ ज्ञात्वा दत्तकरं राज्ञ इति चोक्तं, अवमोचनमुत्तरणस्थानं, शकटादिकमवमुच्य यत्र स्थीयते ॥ २० ॥ भ्रातृत्वज्ञापनार्थ नन्दस्य सन्मानमाह तं दृष्ट्वेति, सहसोत्थानमत्यादरज्ञापकं, लोकव्यवहारादपि भवतीति तद्व्यावृत्त्यर्थमाह देहः प्राणमिवागतमिति, मूर्छितो देहः प्राणे समागते शीघ्रमुत्तिष्ठति तेनोविशेष च प्राप्नोति यथायःपिण्डोग्निसम्बन्धे तथा सर्वदेवतामये वसुदेवे निकटे समागते तेजो ज्ञानं सर्वे च सद्गुणा वसुदेवनिष्ठा अत्र समागता वसुदेवाधिदैविकं रूपं च, तदाह प्राणे समागते देह इवेति, इदं तु भगवञ्चरित्रमेव, अत एवात्यन्तं प्रीतः, आगमनेन सर्वस्व प्राप्त्या चात्यन्तं प्रीतः, प्रियतमस्तु व्यवहारे स्निग्धो भवति, परमार्थश्च मायां दूरीकृत्य भगवन्तं दत्तवानिति, नह्येतादृशादधिकः प्रियो भवति, इदानीं च सर्वस्वं दत्तवान् , क्षेमालिङ्गनमाह दो| सस्वज इति, अन्यत् तु कृत्यमालिङ्गनत्यागं च न कृतवानित्यत्र हेतुमाह प्रेमविह्वल इति, प्रेम्णोद्गतेन विवशो जातः, एतादृशोपि पुनः स्थानस्थितोग्रिमकार्यं कृतवानितिभगवच्चरित्रम् ॥ २१ ॥ लौकिकमाह पूजित इति, अन्यथा देवगुह्यमुच्यमानमस्मिन् न स्थिरीभवेत् , आदौ पूजितस्ततः सङ्कोचाभावेन सुखमुपविष्टः स्वयमप्यनामयमारोग्यं पृष्ट्वा “वैश्यं पृच्छेदनामय"मितिवाक्यादाहतो नन्देन परमादरेण गृहीतः, देवगुह्यकथनार्थ हेतुमाह प्रसक्तधीः, स्वात्मजयोरिति, एकः पुत्रो नन्देनापि ६ श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [श्लो० १७-१९. रोहिणी च महाभागा नन्दगोपाभिनन्दिता । व्यचरद् दिव्यवासःस्रक्कण्ठाभरणभूषिता ॥ १७ ॥ तत आरभ्य नन्दस्य व्रजः सर्वसमृद्धिमान् । हरेनिवासात्मगुणै रमाक्रीडमभून् नृप ॥ १८ ॥ गोपान् गोकुलरक्षायां निरूप्य मथुरां गतः। नन्दः कंसस्य वार्षिक्यं करं दातुं कुरूद्वह ॥ १९ ॥ येषां येषां ये ये कामा अभिलषितास्तैस्तैः कामैर्विष्णुबुद्ध्या तानपूजयत् , अदीनात्मेति, न दीनोलुब्ध आत्मान्तःकरणं यस्य, ननु यद्यदेयं प्रार्थयेत् कश्चिदैत्यो वा तदा किं कुर्यात् तत्राह यथोचितमिति, उचित- मनतिक्रम्य, देये सम्प्रदाने चोचितत्वं, एवं सर्वेषां पूजनप्रयोजनमाह विष्णोराराधनार्थायेति, विष्णु- प्रीत्यर्थ, स्वपुत्रस्याभ्युदयार्थच, तस्य ज्ञानानुरोधाद् भिन्नतया कथनं, चकाराद् ग्रहादिप्रार्थनार्थम् ॥ १६ ॥ स्त्रीभ्यो दाने रोहिण्यै दत्तं भयादप्रकटं भवेदिति भगवदावेशाद् दातुः प्रतिग्रहीतुश्च भयाभावे ज्ञापयितुं रोहिणीचरित्रं निरूपयति रोहिणी चेति, भगवदागमनव्यतिरेकेणापि बलभद्रोत्पत्त्यैव सा कृतार्थेत्याह महाभागेति, यद्यपि देवकीव्यतिरिक्ता अन्या अपि वसुदेव स्त्रियो भाग्यवत्यस्तथापीयं बाललीलादि द्रक्ष्यतीति महाभागेति वा, चकारात् सर्वा एव स्त्रियः, स्त्रीष्वेव गुप्ततया प्रचारं वारयति नन्दगोपाभिनन्दितेति, प्रचारार्थ निर्भयस्थित्यर्थ च, अत एव दिव्यानि वासांसि स्रनः कण्ठाभरणानि तैर्भूषिता, त्रिविधानि हि स्त्रीणामलङ्करणानि भवन्ति वस्त्रमयानि सुवर्णमयानि पुष्पमयानि च, तत् त्रयं निरुक्तं, चरणहस्तयोः स्वभावतोपि भवन्ति, कण्ठाभरणानि तु पदकहारादीनि वैशेषिकाणि, अतस्तेषां ग्रहणं, विशेषेणाचरत् , गृहिणीव सर्वकार्यकर्ती जाता, अनेन रोहिणीसम्बधादयं कृष्ण इतिज्ञानकृतं भयमपि निवारितम् ॥ १७ ॥ एवं सर्वैः प्रकारैः सर्वस्वे व्ययिते नन्दस्य सर्वसमृद्ध्यभावमाशङ्कय भगवन्निवासात् तस्य महती समृद्धि तेत्याह तत आरभ्येति, यदा पूर्वोक्तदानानि दत्तवांस्ततःप्रभृति विष्णुबुद्ध्या पूजित- त्वात् तस्याप्यानुषङ्गिकमेव तत् फलं, सर्वा धनपशुज्ञानादिसमृद्धयो न केवलं नन्दस्य किन्तु सर्वेषा- मित्याह व्रज इति, न केवलं समृद्धिमानं किन्तु वैकुण्ठवत् कान्तिविशेषोपि जात इत्याह हरेरिति, गोकुले गवां सम्मात् स्थानं कुश्लिष्टमेव भवत्यतस्तदभावार्थमेतद् वक्तव्यं, कान्तिश्चाधिदैविकी सर्वोत्तमा, सा लक्ष्मीनिवासादेव भवतीति तदाह रमाक्रीडमभूदिति, रमाया आसमन्तात् क्रीडा यस्मिंस्तद् रमाक्रीडं वैकुण्ठस्थानं तदभूत् , हरेनिवासात्मगुणैरिति, स हि सर्वदुःखहर्ता भक्तानां वैकुण्ठपर्यन्तं गमनमप्यसह- मान इहैव बैकुण्ठं समानीतवानित्यर्थः, आनीतेपि वैकुण्ठे यदि भगवान् न तिष्ठेत् तत्रापि त्रिभुवनसुन्दररूपेण तत्राप्यैश्वर्यादिस्वसर्वगुणप्राकटयेन तदा वैकुण्ठेपि शोभा न स्यात् तदाह पदत्रयेण निवासात्मगुणैरिति, निवासः स्थानं गृहं स्थिति, आत्मा देहः परमानन्दरूपः, गुणा ऐश्वर्यादयः, तैः कृत्वा रमायाः क्रीडनं, स्थितौ स्थितिः परमानन्दविग्रहेण रमणं गुणैरासमन्ताद् रमणमिति, नृपेतिसम्बोधनं यत्रैव राजा तिष्ठति सैव राजधानी भवतीतिज्ञापनं सम्मत्यर्थम् ॥ १८ ॥ एवमुत्सवं निरूप्य तस्य स्थानस्य वैकुण्ठत्वं चाकृत्रिमोत्सवार्थ निरूप्योत्सवसिद्धिपर्यन्तमत्यावश्यक- मपि न कृतवानिति ज्ञापयितुं जात उत्सवेन्तरासक्तिज्ञापनार्थ भगवदर्थमुत्तमवस्तूनामानयनार्थं च मथुरां प्रति गतवानित्याह गोपानिति, अथवा देवकीवसुदेवयोरपि स्नेहातिशयाद् गोकुले भगवन्नयनं कोपि जानाति न श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [श्लो० २३-२५. , वसुदेव उवाच। दिष्टया भ्रातः प्रवयस इदानीमजस्य ते । प्रजाशाया निवृत्तस्य प्रजा यत् समपद्यत ॥ २३ ॥ दिष्टया संसारचक्रेस्मिन् वर्तमानः पुनर्भवः । उपलब्धो भवानद्य दुर्लभं प्रियदर्शनम् ॥ २४ ॥ नैकत्र प्रियसंवासः सुहृदां चित्रकर्मणाम् । ओधेन व्युह्यमानानां प्लवानां स्रोतसो यथा ॥ २५ ॥ ज्ञायते परस्तु न ज्ञायत इति साक्षादुभयोः कुशलं प्रष्टुमशक्यमतः साधारणं प्रष्टव्यमिति तस्य प्रकृतानुप- योगित्वमाशङ्कय हेत्वर्थमाह प्रकर्षेण सक्ता धीर्यस्येति, इदं वक्ष्यमाणं, साधारणं रूपमाह विशां पत इति, देशानां राजेतिसम्बोधनं गूढवचनज्ञानार्थम् ॥ २२ ॥ आदौ तं पुत्रवत्त्वेन प्रोत्साहयति दिष्टयेति, हे भ्रातः प्रवयसो वृद्धस्य ते प्रजाशायां निवृत्तायां प्रजाशायाः स्वयमपि निवृत्तस्य प्रजा समपद्यतेति यद् दिष्टया परमभाग्येन, इदानीमप्यप्रजस्थति, यद्यपि स्पष्टतया निरूपितः प्रजाभावस्तथाप्यन्वये भ्रमो भगवत्कृतो निरूपितः, अप्रजस्येति, कृत्रिमप्रजापि न सम्पादितेति ज्ञापित, वृद्धत्वात् स्वरूपायोग्यता निरूपिता, आशाया निवृत्तत्वात् प्रयत्नो निवारितः, इच्छाया अपि निवृत्तत्वात् पुरोहितादिद्वारापि प्रयत्नो निवारितः, प्रजाशब्दोपत्यमात्रवाची, अतो नानृतं, समपद्यते- त्यकस्मादागमन, मायायामपि रेतोजनितत्वाभावाय वृद्धत्वादिकीर्तनं, तं प्रति भगवत्यपि तथात्वज्ञापनायोभयं भगवदिच्छयातो दिष्टयेत्युक्तं, अनेन सामान्यतस्तस्य स्वरूपमप्युक्तं, अन्यथा भ्रातृवञ्चने दोषः स्यात् ॥२३॥ आगमने जातं दर्शनं चाभिनन्दति दिष्टचेति, अस्मिन् संसारचक्रे वर्तमानः पुनर्भवः पुनरुत्पन्नो मयोपलब्ध इति यदेतदपि दिष्टया, संसारो हि चक्रभ्रमात्मकः, भ्रमणे पतितोत एवाधो गच्छेत् , दूरे स्थितस्तु परिभ्रमेत् , चक्रे वर्तमानस्तु पुनर्न दृश्यत एव, चक्र एव वर्तमाने उभयोरन्यतरस्य वा मजन- सम्भवात् , मग्नश्चेत् पुनरुत्तिष्ठति तस्य पुनर्भव एव, तथा सर्वमारकस्य कालस्य संवत्सरात्मकस्य वशं गताः पुन- वत्सरान्ते चेत् तिष्ठन्ति तदा पूनर्भूता एव, संवत्सरः प्रजापतिर्जातो जनकत्वात् , अन्यथा कालो भवेत् , तत्रापि पुत्रादिसौख्यं चेत् प्राप्नुयात् तदा पुनरुत्पन्नः पुत्ररूपेणालौकिकः स्यात् , एतद् भाग्यव्यतिरेकेण न भवतीति दिष्टया, अतः संसारचक्रे स्थितिरपि दिष्टया, पुनर्भवोपि दिष्टया, मयोपलब्धोपि दिष्टया, मृत्यु- रस्मन्निकटे सदा वर्तत इति, भवानिति स्नेहः, अद्येत्यलभ्यलाभः, एतस्य केवलमदृष्टसाध्यत्वे हेतुमाहुर्दुर्लभं प्रियदर्शनमिति, संसारे सर्वमप्रियं दुःखदत्वात् , तत्र प्रियदर्शनं दुर्लभमेव, प्रियस्य प्रीतिजनकस्य ॥ २४ ॥ एवं खेदेव स्थातव्यमितिशङ्कां परिहरन्ननागमनदोषं च परिहरन् दर्शनस्य दुर्लभत्वमुपपादयति नैकत्रेति, प्रिययोरेकत्र संवासो न सम्भवति, तत्रापि सुहृदां बन्धूनां मध्ये प्रिययोः, तत्र हेतुश्चित्रकर्मणा- मिति, यद्येकं कर्म भवेदेकत्रोत्पन्ना भवेयुः प्रपायामेकदा सह समागता इव, तत्राप्यनियमः, तदैव मिलि. तानां चित्रं कर्म येषां, कर्माधीनाः कर्मणैवोत्क्रान्तिगत्यागतिमन्तो भवन्ति, न केवलं कर्माधीना एव, तत्रापि कालो महान् बाधक इति दृष्टान्तेन कालस्य बाधकत्वमाहौधेनेति, प्रवाहेण यथा विशेषत उह्यमानाः क्षणं मिलिताः पुनर्वियुक्ता भवन्ति, तत्रापि प्लवा नौकारूपाः, तत्रोभयोः प्रवर्तकत्वं जलस्य कर्णधारस्य च, प्रवाहस्य सहजत्वख्यापनाय स्रोतस इत्युक्तं, अनेन प्लवानां गमनागमनमध्ये सङ्गतिः , श्लो० २६-२९.] तामसप्रमाणप्रकरणे स्कन्धादितः पञ्चमोध्यायः। ९ कञ्चित् पशव्यं विरुज भूर्यम्बुतृणवीरुधम् । बृहद्वनं तदधुना यत्रास्से त्वं सुहृद्भुतः ॥ २६ ॥ भ्रातर्मम सुतः कच्चिन्मात्रा सह भवद्बजे । तातं भवन्तं मन्वानो भवद्भयामुपलालितः ॥ २७॥ पुंसस्त्रिवर्गोभिहितः सुहृदो ह्यनुभावितः । न तेषु क्लिश्यमानेषु त्रिवर्गोर्थाय कल्पते ॥ २८ ॥ अहो ते देवकीपुत्राः कंसेन बहवो हताः । एकावशिष्टावरजा कन्या सापि दिवं गता ॥ २९ ॥ क्षणमात्रमेव भवतीति निरूपितं पारेगतस्यापि दर्शनाभावश्च ॥ २५ ॥ एवं दर्शनं नन्दं चाभिनन्द्य देवगुह्यप्रकारेणाह कचिदिति, कचित् सम्भावनाप्रश्ने, बृहद्वनं पशव्यं कचित् ? पशूनां हितं पशव्यं, यत्र पशवो रमन्ते परम्परया पशुस्थान आधिदैविकपशुसद्भावे वा पशूनां रमणं, तत्रापि विरुज , क्वचिद् देशविशेषे पशूनां रोगा भवन्ति यत्रैवाकाले पशुनाशः, सर्वथा रोगाभावस्तु भगवत्सान्निध्यादिति सामान्याभावेन भगवत्त्वं ज्ञापितं, पशूनां भक्ष्यादिसम्पत्तिं च पृच्छति, भूरीण्यम्बूनि तृणादीनि वीरुधो लताश्च यस्मिन् , जलानां बहुत्वं सरसताख्यापकं, तेन दुग्धसम्पत्तिरपि निरूपिता, तृणानां बहुत्वं पशूनामभिवृद्धिहेतुः, वीरुषामाधिक्यं घृताधिक्यजनकं सौगन्ध्यजनकं च, सम्भावनायां हेतुमाह बृहद्वनमिति, अर्थतः शब्दतश्च बृहद्वनं, शब्दतो धर्महेतुश्चोक्तः, तदिति प्रसिद्धं, अधुना यत्रास्त इति, सर्वदास्थितिस्थानं तु प्रष्टव्यं न स्यात् , कदाचित् तस्य स्थिति!ष्ठेष्वपि भवतीति तद्व्यावृत्त्यर्थमाह सुहृद्भुत इति, बन्धुभिः कुटुम्बेनापि सहितो यत्र वर्तस इत्यर्थः ॥ २६ ॥ एवं देशकुशलतां पृष्ट्वा बालकयोः कुशलं पृच्छति भ्रातरिति, अन्यत्र भार्यापुत्रयोः स्थापनमनुचितमिति भ्रातरित्युक्तं, मम सुत इति स्वानुभवः, मात्रा सह भवद्रजे कुशली कच्चित् ? रक्षामात्रमेव तव कर्तव्यं, बालकशुश्रूषा त्वन्यत एव सिद्धा, भाराधिक्यं वा, तातं भवन्तं मन्वान इतिदीनत्वं, पालनादिकं लौकिकं न प्रष्टव्यमेव यतो भवद्भयां नन्दयशोदाभ्यामुपलालितः, पालन- प्रीणनानन्तरमुपलालनमतस्ते च निरूपिते, भगवांस्तु न प्रष्टव्य एव, प्रकारान्तरेण तु पृष्ट एव ॥ २७ ॥ नन्विदानीं तवापि सर्वा समृद्धिरस्त्यतः कथं दैन्यं भाषस इत्याशङ्कयाह पुस इति, पुंसस्त्रिवर्गों धर्मार्थकामाख्यः शास्त्रेभिहितः कर्तव्यत्वेन समीचीनत्वेन च परं सुहृदः सम्बन्धी चेत् , एकाकिना तु मोक्षः किल सम्पादनीयो न धर्मादित्रयं, हि युक्तश्चायमर्थः, एकाकिनस्त्रिवर्गविध्यभावात् प्रयोजनाभावाच्च, सुहृत्पदेन चेतनविषयमात्रत्वमुक्तं, तेन यत्र क्वापि त्रिवर्गफले सुहृदो भवन्त्येव, किञ्च न सुहृत्सम्बन्धमात्रेण त्रिवर्गस्योपयोगः किन्तु सुहृदैवानुभावितः पुष्टः सह संवर्धित इत्यर्थः, ततः किमत आह न तेष्विति, तेषु क्लिश्यमानेषु सुहृत्सु सत्सु त्रिवर्गः पुरुषार्थाय न कल्पते पुरुषार्थरूपो न भवति, तेषां तत्र मुख्यत्वात्, यथात्मनः कंसस्य पुत्रमारकत्वान्नाकारणं देवकीपुत्रत्वं सम्भाव्यतेति, अतो दीनत्वमुचितमेव ॥ २८ ॥ द्रव्यादिदानं तु भेदजनकं, एतत् पृष्टमवचनेनैवाङ्गीकृत्य वसुदेवस्य सम्भावनामाह नन्दः अहो इति, लोकरीत्या तस्य दुःखे निरुक्ते दुःखाभावो भवति, परमार्थ- ज्ञाने च वसुदेवस्य सुखं भवति, वृत्तान्तकथनेन स्वस्यैतदन्वेषणं सर्वदेति ज्ञापित, बसुदेवस्था १. सामान्याभाव इतिसप्तम्यन्तोपि पाठः। २. सर्वदैवेतीत्यपि पाठः। " श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [लो० ३०-३२. नूनं ह्यदृष्टनिष्ठोयमदृष्टपरमो जनः । अदृष्टमात्मनस्तत्त्वं यो वेद न स मुह्यति ॥ ३० ॥ वसुदेव उवाच । करो वै वार्षिको दत्तो राज्ञे दृष्टा वयं च वः। नेह स्थेयं बहुतिथं सन्त्युत्पाताश्च गोकुले ॥ ३१ ॥ इति नन्दादयो गोपा प्रोक्तास्ते शौरिणा ययुः। अनोभिरनडुयुक्तैस्तमनुज्ञाप्य गोकुलम् ॥ ३२ ॥ बह्वः स्त्रियस्तासां पुत्राश्च कुशलिनोपि देवकीपुत्राः कंसेन बहव एव षड् हताः, सर्वैरेव भगवद्गुणैः सह तस्य द्रोहः सिद्धः, अत एव अहो इत्याश्चर्य, एको हि मारणीयः, एका त्ववशिष्टावरजा, सर्वान्ते जाता, एतद् भगवच्चरित्रं, अन्यथान्यवचनानां निरूपणमत्र नोपयुज्येत, सापि चेदपत्यादिकमुत्पाद्य विवाहानन्तरं गच्छेत् तथापि देवक्याः कृते वंशस्तिष्ठेत् तव्यावृत्त्यर्थमाह कन्येति, सापि सिद्धापि देवता- रूपापि पुत्राभावखेदनिवर्तिकापि दिवं गता स्वयमेवोड्डीय सशरीरं गता, अनेन न केवलं कंसस्यैव दोषो भाग्यमेव तादृशमिति ज्ञापितं, अन्यथा पश्चात् सा समागच्छेत् ॥ २९ ॥ कंसकृतं तु भयं तस्या नास्तीति तस्मादेतादृशेर्थेदृष्टमेव प्रयोजकमित्याह नूनमिति, सर्वस्यापि पुरुषस्यादृष्टे निष्ठा, अयं तु कर्मप्रधानः, यत् किञ्चित् करोतु पर्यवसानमदृष्टाधीनमित्यर्थः, प्रारम्भोप्यदृष्टाधीन एवेत्याहादृष्ट- परम इति, अदृष्टमेव परमं नियामकं प्रवर्तकं यस्य, अदृष्टादेव प्रवर्तते, अदृष्टानुसारेणैव फलं च प्राप्नोती- त्युक्तं, अत्र हेतुर्जन इति, यस्तु जायते स कर्मवशादेव, कर्मवादिनां तथैव सिद्धान्तः, अतः कर्माधीनं सर्व ज्ञात्वा यस्तिष्ठति तस्य शोको न भवतीत्याहादृष्टमिति, आत्मनस्तत्त्वं यथार्थरूपं प्रवर्तकनिवर्तकं यथा ब्रह्मवादिनां ब्रह्म यथा भगवांस्तथा कर्मात्मतत्त्वमिति यो मन्यते स न मुह्यति, पक्षान्तरेषूपालम्भोपि कश्चित् स्यात् , कर्मपक्षे स्वकृतत्वान्न कोप्युपालभ्यो न प्रार्थनीयः, पक्षान्तरे तु प्रकारान्तरेण मोहः स्यात् , एवं शोकापनोदनाथ कर्मतत्त्वमुपदिष्टम् ॥ ३० ॥ एवं सम्भाषणेन कियत्कालं स्थित्वा ततो नन्दं प्रेषयितुं वसुदेवस्तस्य भयमुत्पादयति कर इति, तत्कृतमनूयते कृतकार्यत्वज्ञापनाय, वार्षिकः करो राज्ञे दत्तो वयं च सहृदो दृष्टा अतः कौतुकार्थ नेह बहुतिथं स्थेयं, तत्र हेतुर्गोकुले चकारादन्यत्राप्युत्पाताः सन्ति, तथामन्त्रणस्य श्रुतत्वात् ॥ ३१ ॥ एतावच्छ्रवणमात्रेणैव नन्दादयस्ततः शीघ्र निर्गता इत्याहेतीति, निर्गमने प्रधानगुणभावस्य विस्मृतत्वान् नन्दादय इति, निर्गमने सर्व एवोक्ताः, इत्येवं शौरिणोक्ताः, न त्वधिका काचित् सम्भावना जाता, स्वतस्तेषां गमनेपि सामर्थ्य न जातमिति साधनानां पुरस्कारमाहानोभिरिति, अनडुयुक्तैर्योजितबलीवर्दै, तमनुज्ञाप्य तमपि ततः स्वगृहं प्रेषयित्वा लोके यथा स्नेहोभिव्यक्तो न भवति तथा कृत्वा गोकुलं ययुः, मध्ये कंसाद्युपद्रवमप्राप्य सुखेन गोकुलं प्रविष्टा इत्यर्थः । गोकुलोत्सवमीशानं गोपगोपीगवां हितम् । ज्ञानतः कर्मतश्चैव तामसानां नमाम्यहम् ॥ १ ॥ ३२॥ ॥ इति श्रीमद्भागवतसुबोधिन्यां श्रीमद्वल्लभदीक्षितविरचितायां दशमस्कन्धविवरणे द्वितीये तामसप्रकरणे- वान्तरप्रमाणप्रकरण ऐश्वर्यनिरूपकप्रथमाध्यायस्य स्कन्धादितः पञ्चमाध्यायस्य विवरणम् ॥

॥ द्वितीयः स्कन्धादितः षष्ठोध्यायः॥ श्रीशुक उवाच। नन्दः पथि वचः शौरेन मृषेति विचिन्तयन् । हरि जगाम शरणमुत्पातागमशङ्कितः ॥ १॥ कंसेन प्रेषिता घोरा पूतना बालघातिनी । शिशंश्चचार निघ्नन्ती पुरग्रामव्रजादिषु ॥ २॥ चरित्रमद्भुतं शास्त्रे लोकेपि भगवत्कृतम् । पूतनासुपयःपानं षष्ठे रक्षा निरूप्यते ॥ १ ॥ एकं कार्य भगवतो बह्वर्थानां तु साधकम् । अतो दुष्टवधो रक्षा बालकानां ततः कृता ॥ २ ॥ वीर्य भगवतो वयं मायया भगवत्कृतम् । दुःखं तस्मात् तु मुक्तिर्हि निरोधोक्तेर्न दूषणम् ॥ ३ ॥ भयं निवत्यं वीर्येण द्विविधं बाह्यमान्तरम् । आन्तरं शब्दजं बाह्यं पूतनाजनितं तथा ॥ ४ ॥ प्रथमं वाक्यादुत्पन्नमन्तर्भयं भगवत्स्मरणेन नाश्यत इत्याह नन्द इति, श्रवणमात्रेणैव भयान्निर्गता मध्ये गन्तुमप्यशक्ता वाक्यं विचारितवन्तः किमस्माकं भयं कंसकृतं भविष्यतीति ततो निर्गमनार्थमुक्तमाहोस्विद् यथाश्रुतमेव गोकुले भयमस्तीति तद्वाक्यं विचार्यान्यार्थमपि बाधितार्थ वदन्ननृतीभवतीति निश्चित्य निर्णय- माह शौरेर्वचो मृषा न भवतीतीममर्थ विशेषेण चिन्तयन् पथि कार्यान्तराभावानिश्चिन्ततया तमेवार्थ विचारयन् हृदयेनापि संवादं प्राप्य भयनिवृत्त्यर्थ हरि शरणं जगाम, 'सन्ती'तिवचनं न विचारितं, अन्यथा जीवनमेव न स्यात् , किन्तु शङ्कामात्रं जातं, तदप्युत्पातागमनस्य, कदाचिदुत्पात आगच्छेदिति न त्वागत इति नापि निश्चयस्तदाहोत्पातागमशन्ति इति, उत्पातागमार्थ शङ्कां प्राप्तः, एवसन्देहकरणं भगवच्चरित्रं वस्तुतस्तु यदा वसुदेव आह तदैव पूतना गोकुले समागता ॥ १ ॥ एवमान्तरं भयं निवयं बाह्यं भगवान् निवर्तयतीति प्रथमतो भयप्राप्तिमाह कंसेनेति साधेरष्टभिः, प्रथमतः सामान्यतस्तस्याः सर्वोपद्रवकर्तृत्वमाह यतो मारणीयेति, कंसेन प्रेषिता शिशून निघ्नन्ती चचारेति सम्बन्धः, ईश्वरप्रेषितायाः कार्यमावश्यकं स्त्रिया बालेषु स्नेहो भवतीति कथं प्रेषणमितिचेत् तत्राह घोरेति, जन्मादिसंस्कारेण संस्कृतान् वैदिककर्मणा सम्बद्धास्तत्तदधिष्ठातृदेवतादिरक्षितान् कथं मारयतीत्यत आह पूतनेति, पूतानपि नयतीति पूतना, पुरुषानप्युत नयतीति वा, अतोतिबलिष्ठा, सर्वानेव मारयितुं शक्ता, ननूक्तं देवादीनां रक्षकत्वं तत्राह बालघातिनीति, यथा देवानां रक्षणसामर्थ्य तथा तस्या बालघातकत्वं, भगवता तथैव निष्पादिता, अत एव शिशूस्त्रिवर्षपूर्वान् निन्नन्ती चचार, यदि भक्षयेत् तदाल्पेनापि निवृत्ता भवेत् , किन्तु बालकानां प्राणान्' पीत्वा पीत्वा गच्छति, त्रिगुणेष्वपि स्थानेषु तस्या अप्रतिघात इति पुरेषु सात्त्विकेषु ग्रामेषु राजसेषु व्रजेषु तामसेषु च विद्यमानाम् शिशून् मारयन्ती तदेकप्रयोजना चचार, आदि- १२ श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [ श्लो० ३-५. न यत्र श्रवणादीनि रक्षोन्नानि स्वकर्मसु । कुर्वन्ति सात्वतां भर्तुर्यातुधान्यश्च तत्र हि ॥ ३ ॥ सा खेचयेकदोपेत्य पूतना नन्दगोकुलम् । योषित्वा माययात्मानं प्राविशत् कामचारिणी ॥४॥ तां केशवन्धव्यतिषक्तमल्लिकां बृहन्नितम्बस्तनकृच्छ्रमध्यमाम् । मुवाससं कम्पितकर्णभूषणत्विषोल्लसत्कुन्तलमण्डिताननाम् ॥ ५ ॥ शब्देन खेटखटवाटीप्वपि ॥ २ ॥ नन्वेवं सति पूर्वमपि कोपि बालकस्तदापि न जीवेदत आह न यत्रेति, यत्र सात्वतां भर्तुर्भगवतो देवादिपोषकस्य श्रवणादीनि नवविधानि षड्डिधानि वा तत्रापि रक्षोन्नानि वा यैर्गुणै राक्षसा एव हन्यन्ते यथा रघुनाथचरित्राणि ताटकादिमारणरूपाणि, स्वकर्मसु रक्षककर्मसु स्वधर्मेषु वा 'स्वशब्देनाधर्मशाखाः सर्वा एव निवारिताः, तत्र तु भवन्त्येव यातुधान्यः, तदीया वा ते, “यस्य स्मृत्या चे"तिवाक्यात् स्वधर्मा भगवच्छ्रवणाद्यभावे पूर्णा एव न भवन्ति, रक्षांसि सर्वत्र देशादिषु तिष्ठन्ति, अत एवा पहता असुरा” इत्यादिमन्त्राः, अत एव रक्षसां पूर्व तत्र सम्बन्धात् तत्सम्बन्धेन यातुधान्यः समा- यान्ति, यातुधानसम्बन्धी यत्रकुत्रचिदिति सर्वत्र तत्तत्स्वामिनिराकरणसमर्थाः, युक्तश्चायमर्थः, भर्तृषु विद्यमानेषु स्त्रीणां गतिरबाधिता भवतीति, रक्षोमारकैरेव रक्षोनिवृत्तिर्यथा वायुवशाद् दीपे गच्छति तैलेन न प्रतीकारस्तथा रक्षोनव्यतिरिक्तैर्न प्रतीकारः, मन्त्राणां तु स्वाध्यायपोषितानामेवापहतपाप्मत्वाद । अग्निं वै जात "- मित्युपाख्यानेपहतपाप्मत्वं तस्यैव निरूपित, मर्यादायामाधिदैविकाध्यात्मिकाधिभौतिकेघूत्तरमुत्तरं बलीयः सापेक्षसामर्थ्याच्च तदधिष्ठातृदेवताप्रेरणेन परस्मिन् फलजननसामर्थ्यात् , भगवांस्तु सर्वगतः, भक्तिमार्गश्च स्वप्राकट्यार्थ विशेषेण हेतुः कृतः, अतः सात्वतामेव भर्तुः श्रवणादीनि रक्षोनानि भवन्ति, आगन्तुकैरागन्तुकानामेव निवारकत्वं न तु सहजानां, एवं प्रबलदुर्बलभावे बाध्यबाधक भाव उचितः, अनेनाग्रे श्रोतुः शङ्कापि नित्रारिता, वर्णाश्रमधर्मवत्त्वेन स्वमात्रसम्बन्धिषु न तु भगवदर्थ केषु कर्मसु यत्र भगवन्नामश्रवणेनैव रक्षोनिवृत्तिस्तत्र साक्षाद्भगवति विद्यमाने का चिन्तेति, एतदर्थमेव स्वपदम् ॥ ३ ॥ एवं तस्याः सर्वोपद्रवकर्तृत्वं सूपपत्तिकमुपपाद्य गोकुलेपि तस्याः समागमनमाह सा खेचरीति, एकदेति यस्मिन् काले देवादीनां न सम्बन्धः, आश्लेषानक्षत्रे विषघटिकायां मृत्युयोगे भूमिष्ठे भगवति, भूमिः सर्व- देवरक्षितेति कथं तस्या आगमनमित्याशङ्कयाह खेचरीति, तद्धर्मवत्त्वेन प्रतिपादितं वैकुण्ठादेरागतस्य मर्यादानाशकत्वबोधनार्थ, नन्दस्य गोकुलमिति, नन्दे विद्यमाने गोषु वागन्तुं न शक्नुयात् , उभयोरपि तत्राभावात् समागतेति, आदौ निकटे समागत्य यत्र स्थिता माया प्रवेशं कृतवती तत्र स्थित्वा ततोग्रे गमना- सामर्थ्यात् स्वस्येष्टदेवतां मायारूपं भगवन्तं ध्यातवती तदा भगवान् मायारूपस्तां स्त्रीरूपां यशोदादितुल्यां कृतवान् “मायेत्यसुरा"इतिश्रुतेः “तद्धनान् भूत्वावती"ति च, तदाहोपेत्यात्मानं मायया योषित्वेति, आत्मानं योषितं कृत्वेत्यर्थः, तदा प्राविशत् , ननु तथाप्यज्ञाता स्त्री कथं प्रवेशं प्राप्तवतीति तत्राह कामचारिणीति, कामं यथेच्छं चरतीति तथा, प्रवेशे तरुणीरूपं कृतवतीति पुरुषा न निवारयिष्यन्तीतिनिश्चयः, यत्रयत्र काम- प्रवेशस्तत्रतत्र प्रवेष्टुं शक्तेति, अतो यथा मूर्तिमति काम उद्रिक्ते वा प्राणिनामन्धत्वमेवं तस्यामपीत्युक्तम् ॥ ४ ॥ सर्वव्यामोहनाथ भगवत्कृतं तस्या रूपं वर्णयति तां केशेतिद्वाभ्यां स्वरूपचेष्टाभेदेन, मायाकृतमेव रूपमिति हिरण्याभरणाम्बरादिभिरेव तस्या मोहकत्वमुच्यते, केशबन्धे व्यतिषक्ता मल्लिका यस्यां. दूराद् श्लो० ६-७.] तामसप्रमाणप्रकरणे स्कन्धादितः षष्ठोध्यायः। १३ वल्गुस्मितापाङ्गविसर्गवीक्षितर्मनो हरन्ती वनितां ब्रजौकसाम् । अमंसताम्भोजकरेण रूपिणी गोप्यः श्रियं द्रष्टुमिवागतां पतिम् ॥ ६ ॥ बालग्रहस्तत्र विचिन्वती शिशूञ् यदृच्छया नन्दगृहे सदन्तकम् । बालं प्रतिच्छन्ननिजोरुतेजसं ददर्श तल्पेनिमिवाहितं भसि ॥ ७॥ दर्शनेन गन्धेन च व्यामोह उक्तः, बन्धे मल्लिकास्तु न पतन्ति, मल्लिका तत्कालपुष्पोपलक्षिका, सौन्दर्यं गन्धश्च तत्रैव प्रतिष्ठितौ, स्थूलनितम्बस्तनैरल्पमध्येन च सर्वबन्धसहितसम्भोगयोग्यता निरूपिता, वस्त्रं चोत्तमं रस- जनक, कम्पिते ये कर्णभूषणे कुण्डले तयोस्त्विषोल्लसन्ति यानि कुन्तलानि तैर्मण्डितमाननमिति, मुखे सौन्दर्य मोहाथै निरूपितं, कर्णभूषणमुपरिभागस्थं वा, तेन कुण्डलयोरपि कान्तिः, भूषणस्य सर्वोत्तमत्वं निरूपयति ॥ ५ ॥ तस्याश्चेष्टामाह वल्गुस्मितेति, सहजस्मिताभावाय वल्गुस्मितमित्युक्तं, तत्सहितं यदपाङ्गनिरीक्षणं कटाक्षदर्शनं तदप्यनेकविधमलसवलितादिरूपं तदाह बहुवचनेन, अपाङ्गानां विशेषेण सा यत्र वीक्षितेषु, अतो बजौकसां मनो हरन्ती, व्रजस्थिता विवेकरहिता भवन्ति, अनेनैव गोपैर्निवारणं प्रतिषिद्धं, मन इत्येक- वचनं सर्वेषामेकरूपत्वबोधनाय, अत एव गोपैः सा सम्यग् दृष्टापि न गोपीभिरेव परं दृष्टा, तास्तु पूर्णज्ञान- वत्योपि भगवत्कृतं तद्रूपं मत्वा भगवच्चरित्रत्वाद् घातकत्वमबुद्ध्वा स्वभोगार्थ लक्ष्मीमेवाकारितवानिति ज्ञात- वत्यः, न हि लक्ष्म्यां दासीनां वैमनस्यं सम्भवति, तदाह गोप्यो द्रष्टुमागतां तां श्रियमेवामंसत, तथैव च भगवान् रूपं सम्पादितवानिति, लक्ष्म्या असाधारणं चिह्नमाहाम्भोजकरेणोपलक्षितेति, लीलाकमलयुक्तेन करेण, अनेन रिक्तहस्ततापि निवारिता, रूपिणीमिति स्वस्मिन्नावेशातिरिक्तरूपां, तत्रापि पतिं द्रष्टुकामा न केनापि निवार्या, अतो गोप्यः पुरस्कारमेव कृतवत्य इति न तासां बाधकत्वम् ॥ ६ ॥ सा गोकुलेपि बालकान्वेषणार्थमेव प्रवृत्ता न तु साक्षाद्भगवन्निकटे स्वतो गतेत्याह बालग्रह इति, बालान् गृह्णातीति बालग्रहः, भगवांस्तु न बाल इति तत्र तस्या नाग्रहः, तत्र गोकुले शिशून् विचिन्वती चचार, विचयन एव प्रवृत्ता जाता, न तु कञ्चिन्मारितवती भगवतो रक्षकत्वात्, तदा भगवान् स्वनिकट एव तामानीतवानित्याह यदृच्छया नन्दगृहे बालं ददर्शेति, भगवदिच्छाव्यतिरेकेण सवेरेवोपायैस्तत्र गमनमशक्यं, नन्वेषा कृत्रिमा दुष्टा कथं भगवन्तं दृष्टवतीत्याशङ्कयाहासदन्तकमिति, असतामन्तको मारकः, तांश्च दृष्ट्वैव मारयति, अतो मारणीयानामपि दर्शनं न बाधितं, नन्दगृहेप्यसन्तो भगवता निवारणीयाः, तस्या बालाविष्ट- चित्तायास्तत्र विचारो न जात इति सूचनार्थमाह बालमिति, तथाप्यलौकिककान्त्या कथं न विचारो जात इत्यत आह प्रतिच्छन्ननिजोरुतेजसमिति, प्रतिच्छन्नं स्वेनैवाच्छन्नं प्रतिकूलार्थ वाच्छन्नं निजं यदुरु तेजः, वैष्णवतेजसि प्रकटेसुरघातकं तदिति दन्दह्यमाना निवर्तेत, सर्वथा कान्तितिरोधाने यशोदादीनां भयं स्यादत आहोर्विति, यावता तस्या आगमनं सम्भवति तावत् तिरोधानं, भगवतः क्रियाज्ञानशक्ती अतिरोहिते सर्वदा प्रकृतेपि च तदुपयोगात्, ततः कथं ताभ्यां न निवारितेत्याशङ्कयाह तल्प इति, तल्पे शयानो बालकः क्रियारहितो भवति, अवस्थया क्रियाशक्तेस्तिरोभावः, तत उत्थाने चलनेन सह क्रियाविर्भविष्यति, ज्ञानशक्तेः प्रकाशः सहजो यतो ब्रह्मविदामपि ज्ञाने सति तद् भवति स कथं न बाधक इत्याशङ्कयाहाग्निमिवाहितं भसीति, यथाग्निहोत्रिणा भस्मनाग्निस्तिरोहितः क्रियते काले प्रादुर्भावार्थ तत्तेजोन्यन् नाशयेन्न तु स्वजनितं, अतो ज्ञानशक्त्या जनिता येच्छा तया तिरोहितं प्रवृत्तिपर्यन्तं न बाधकं भवति ॥ ७ ॥ स्वतो ज्ञानशक्तेर्वाधक- त्वमाशङ्कय तस्या अपि तिरोधानमाह विबुध्येति, ज्ञानशक्तेः स्वरूपमेतत् कीर्तितं, न तु बोध उत्कर्षार्थ- श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [ श्लो०८-९ विबुध्य तां बालकमारिकाग्रहं चराचरात्मा स निमीलितेक्षणः । तमङ्कमारोपयदन्तकान्तकं यथोरगं सुप्तमबुद्धिरज्जुधीः ॥ ८॥ तां तीक्ष्णचित्तामतिवामचेष्टितां वीक्ष्यान्तराकोशपरिछदासिवत् । वरस्त्रियं तत्पभया च धर्षिते निरीक्षमाणे जननी ह्यतिष्ठताम् ॥९॥ मुक्तः, पुरोवर्तीन्द्रियसन्निकर्षे सङ्केतितस्य स्मरणमिव तस्या दर्शनेन तदीया गुणा उद्भूता इत्येतदर्थमाह तां बालकमारिकाग्रहमिति, प्रसिद्धिप्रेरणादिकं तच्छब्देनोक्तं, मुख्यं दोषमनुवदति, बालकानां मारिका बाल- घातिनी, तथाभूता सती ग्रहरूपा च, गृह्णन्तीति ग्रहाः, मारयितुं चेन्न शक्नुवन्ति शीघ्रं गृहीत्वापि तावत् तिष्ठन्ति तथा प्रतीकारेपि, ननु तद्युत्थाय कथं न मारितवास्तत्राह चराचरात्मेति, स्थावरजङ्गमानामयमात्मा यदि मर्यादा त्यजेत् तदा जीवजडयोविलय एव स्यात् , अस्तु विलय इति चेत् तत्राह स इति, स मूलभूतो जगत्कर्ता, ज्ञानमतिरोहितमेव भवतीति तस्य तिरोधानार्थ यत्नं कृतवानित्याह निमीलितेक्षणो जात इति, एवं सर्वोशेना- बाधे जाते सा समागत्य भगवन्तं गृहीतवतीत्याहानन्तमिति, ग्रहणे शङ्काभावार्थमनन्तपदं, अनेनान्यदपि सूचितमक्लिष्टकर्मा भगवान् स्वतो न कश्चिन्मारयति तयैव परं स्वतः कालो गृहीत इति निकट उपविश्य तपङ्के समारोपयत् , कालो हि घातकानां हितकारीतिशङ्काव्युदासार्थमाहान्तकमिति, स हि सर्वमारकः, नन्वारोपणे क्रियाशक्तिः प्रबुद्धा कथं न बाधिका जातेत्याह यथोरगं सुप्तमिति, सर्पाणामतितामसत्वात् तेषा- मत्यन्तं निद्रा, अतो मारणपर्यन्तं न क्रिया तेषु, तथा भगवतोपि क्रिया सर्वथा नाविभूता, ननु स्पर्शेग ज्ञान- शक्तिस्तेजः कथं नाविभूतमिति चेत् तत्राहावुद्धिरज्जुधीरिति, अबुद्धयाज्ञानेन सर्प रज्जुधीर्यस्य, रज्जुर्वन्धिका, सर्पो मारकः, स्नेहेन स्तने दत्ते मय्यनुरक्तो भविष्यतीत्यापाततो बुद्धिर्न तु मारकत्वं जानाति यथा रज्जुबुद्ध्या गृहीतः सर्पः स्वस्पर्शेपि न ज्ञानं जनयति, अतो भगवज्ञानं तेजोपि स्पर्शेन नाविर्भूतमित्यर्थः ॥ ८ ॥ ननु यशोदारोहिणीभ्यां कथं सा न निवारितेत्याह तां तीक्ष्णचित्तामिति, तां निरीक्ष्य तत्प्रभया धर्षिते जननी जनन्यावतिष्ठतां निवारयितुं वाशक्ते जाते यशोदारोहिण्योर्मोहाभावात् , भगवत्समीपे मायाया विलयात् , तद्गता धर्मा सर्वे भाता इत्याह तामित्यादिपदैः, तच्छब्देन तद्गताः पूर्वधर्माः सर्वे निरुक्ताः, पूर्व प्रवेशार्थ व्यत्तिा मोहनाभिनिविष्टा च, इदानीं तु तदुभयाभावात् चित्तक्रौर्य प्रकटीभूतं ताभ्यां ज्ञातं निरूपयति तीक्ष्णचित्तामिति तस्या अन्तर्गतो दोषो निरूपितः, बहिर्गतान् निरूपयत्यतिवामचेष्टिता- मिति, अत्यन्तं वामं वक्र कठिनस्पर्शादिरूपं चेष्टितं यस्याः, एवमन्तर्बहिस्तस्या दोषं दृष्ट्वापि स्वतो निवारणेशक्तावपि रक्षकेभ्यो निवेदनाभावे हेतुमाहान्तराकोशपरिच्छदासिवदिति, अन्तरा गृहमध्येन्तर्वा महतां, तत्रागमनमयुक्तं मध्यस्थितानां चाप्रयोजकत्वं ज्ञातं, किञ्च कोश एव परिच्छदो वेष्टनसाधनं यस्यैता- दृशोसिः खड्गः, आसमन्तात् कोश इति वा, अतिधनयुक्तः परिच्छदो वा यस्य, अनेन बहिर्मुखलोका अन्तर्गतं दृषणं तद्गतं येनकेनचिदुच्यमानं न गृह्णन्त्येव, अत ऐवं ज्ञात्वा ताभ्यां न कश्चिन्ज्ञापितः, तथाभूतं प्रकृते विशेषणमाह वरस्त्रियमिति, वरणीया स्त्री परपसुन्दरी, अतः पुरुषमात्रेणैव वरणीयेति न कोप्येनां मारयिष्यतीतिभावः, स्त्रीणां त्वसामर्थ्यमेव, तथापि भगवत्स्नेहात् प्रयत्न एव कर्तुमुचितो न बौदासीन्यमिति चेत् तत्राह तत्तभया च धर्षिते इति, तस्याः प्रभा भगवत्कृता, राक्षसो भावो मानुषभावोप- मर्दकः, अतस्तस्याः प्रभयोमे अपि धर्षिते, चकाराद् भगवदिच्छया च, अत एव निरीक्षमाणे एवातिष्ठतां, १. यस्य तादृश इत्यपि पाठः। २. एवेत्यपि पाठः ।

श्लो० १०-११.] तामसप्रमाणप्रकरणे स्कन्धादितः षष्ठोध्यायः। १५ तस्मै स्तनं दुर्जरवीर्यमुल्खणं घोराङ्कमादाय शिशोर्ददावथ । गाढं कराभ्यां भगवान् प्रपीड्य तत् प्राणैः समं रोषसमन्वितोपिबत् ॥ १०॥ सा मुश्चमुञ्चालमितिप्रभाषिणी निष्पीड्यमानाखिलजीवमर्मणि । विवृत्य नेत्रे चरणौ भुजौ मुहुः प्रस्विन्नगात्रा क्षिपती रुरोद ह ॥ ११ ॥ अजननीत्यपि, जनने हि सहजो भावो भवति, जनन्यावपीति वा ॥ ९॥ एवमप्रतिवन्धे यत् कृतवती तदाह तस्मा इति, तस्मै सम्भृतसर्वधर्माय भगवते स्तनं ददौ, अन्यथा दातुमेव न शक्नुयात् , स्तनमेकं, ननु दत्ते स्तने तस्याः कः पुरुषार्थ इति चेत् तत्राह दुर्जरवीर्यमिति, दुर्जरं वीर्य यस्य स्तन्यस्य, स्तने स्तन्यं तिष्ठ- तीति स्तन्यदानमप्रत्यक्षमिति स्तनपदप्रयोगः, न केवलं परिणामाहितकर्तृत्वं किन्तूल्बणं क्रूरं, ग्रहणदशाया- मप्यनिष्टजनकं, नन्वेवं भगवति कथं कृतवती तत्राह घोरेति, कदाचित् स्तनं न पिबेदिति लालनार्थ शिशो- रङ्कमादाय बालकस्याङ्कस्थानं स्पृशन्त्युत्तोलयन्ती ततो भगवतः पृष्ठभाग ऊरुणा परिगृहीतः, दक्षिणहस्तेन स्तनं निःपीडयन्ती वामहस्तेन भगवतोङ्ककस्थानमुत्तोलयन्ती स्तनं ददावित्यर्थः ॥ ९३ ॥ अथ तस्याः क्रियासमाप्त्यनन्तरं भिन्नप्रक्रमेण भगवान् स्तन्यमपिबदित्याह गाढमिति, यथा निर्बन्धेन पाययिष्यामीतियत्नं कृतवती तथा भगवान् स्तन्यमप्यदत्वा पलायिष्यतीति निग्रहस्यावश्यकर्तव्यत्वात् कराभ्यां गाढं स्तनं प्रपीड्यापिबदितिसम्बन्धः, एवं निर्भयतया स्तनपानप्रवृत्तौ हेतुमाह भगवानिति, ईश्वरत्वात् स्त्रीमारणदोषः परिहृतः, “पुमान् योषिदुत क्लीब" इतिवाक्याद् वीर्यवत्त्वाज् जीरणादिसामर्थ्य द्योतितं, यशो- वत्त्वादलौकिकचरित्रकरणं, श्रीयुक्तत्वान्न प्रकारान्तरेण मारणं तादृशशोभानाशप्रसङ्गात् , ज्ञानित्वात् तस्या दोषपरिज्ञानेन मारणावश्यकत्वं, वैराग्ययुक्तवाद् दैत्यपक्षवधो न बाधकः, एवं तस्या मारणे हेतुषटकं, गुणै- र्धर्मिणा च मोक्षदानं, अन्यथा न पिबेत् , अत एव तस्याः सर्वप्रायश्चित्तार्थ प्राणैः सममपिबत् , प्राणरक्षार्थ हि तया सर्व कृतं, प्राणे तु भक्षिते सर्व भगवदर्पणं भवति, शिशूनां प्राणा अप्यत्र सन्तीति तेषामपि मुक्तिः सूचिता, बहुवचनेन च प्राणपदेनेन्द्रियाण्यपि गृह्यन्ते, ततः सर्वैव सामग्री तदीया पीता भवति, ननु निन्दितपदार्थ भगवान् कथं गृहीतवानपहतपाप्मा हि स तत्राह रोषसमन्वित इति, रोषेण सम्यग- न्वितः, यथा तदीयोंशो दुष्टो भगवति सम्बद्धो न भवति यथा वा स सर्वोप्यंशो दग्धो भवति, भगवान् सर्वसमन्वित इति क्रोधसमन्वितत्वेपि न दोषः, पूर्व रोषसम्बन्धो नास्तीति वक्तुं प्राणैः समं रोषसमन्वित इत्युक्तं, सर्वात्मकत्वात् नासङ्गत्वक्षतिः, न तु तस्या मारणार्थ रोषोपेक्ष्यते, वीर्यस्योक्तत्वात् स्तनद्वारापि प्राणपानं न विरुध्यते, साधनफलरूमा तदीया क्रिया नाशितेति ज्ञापयितुं कराभ्यामित्युक्तम् ॥ १० ॥ अतो भगवता पेपीयमाने स्तने तत्र स्थितो भगवान् मायारूपोपि भगवत्येव प्रविष्टः, तत्सङ्ग आधि- दैविक्री पूतनापि भगवति प्रविष्टा, आध्यात्मिक्यास्तु कृत्यमाह सा मुश्चमुञ्चेति, सा पूर्वमेवं निर्बन्धयुक्तापि भगवता निःपीडिता तदानीमपि भगवत्स्वरूपमज्ञात्वा वचनत्रयमुक्तवती मुञ्चमुञ्चालमिति, यथा प्राकृते बालके पेपीयमाने च स्तनव्यथायां मुञ्चेत्युच्यते, अतिव्यथायां पुनः, पुनर्बालकस्य क्षुन्निवृत्तेति ज्ञात्वालमित्याह, बालो हि स्वबुद्ध्या पूर्णतां न जानात्यन्योक्तं च गृह्णात्यत आह, अन्तःस्थितो दुष्टभावो गतः, तेन लौकिकभाषोक्ता, मात्रोश्च परिज्ञानार्थ गतेपि प्राणे भगवत्सम्बन्धस्य विद्यमानत्वात् प्राणवत्या एव तस्याश्चेष्टामाहेतिप्रभाषिणीति, "भगवान् कराभ्यां प्रपीडयेति यदुक्तं तद् बालकेन स्तने मर्दनं पीडाजनकं न भविष्यतीत्याशङ्कयाहाखिलजीव- मर्मणि निष्पीड्यमानेति, जीवस्य मर्मस्थानानि बहूनि यत्र प्रहारेण जीवो गच्छति, अखिल एव जीवमर्मणि - श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [ श्लो० १२-१३. तस्याः स्वनेनातिगभीररंहसा साद्रिमही द्यौश्च चचाल सग्रहा। रसा दिशश्च प्रतिभेदिरे जनाः पेतुः क्षितौ वज्रनिपातशङ्कया ॥ १२ ॥ निशाचरीत्थंव्यथितस्तना व्यसुादाय केशांश्चरणौ भुजावपि । प्रसार्य गोष्ठे निजरूपमास्थिता वजाहतो वृत्र इवापतन्नृप ॥ १३ ॥ मस्थाने नितरां पीड्यमाने सति, निष्पीड्यमाना वा, वस्तुतस्त्वखिलेत्युक्त्वा मर्मणीत्येकवचनं यदुक्तं नाखिलपदं जीवविशेषणमेव, तथा च तया स्वस्मिन्नानीता ये बालकानां जीवास्ते स्वजीवमर्मस्थाने थापिताः सन्तीति तान् स्वस्मिन्नानेतुं भगवांस्तन्निप्पीडनमेव कृतवानित्यभिप्रेतोर्थः, बालकद्रोहाज्ञायां भग- नेव निमित्तमिति तादृशानां स्वस्मिन्नानयनमावश्यकमिति तथा, अत एव बाललीलारसं ताननुभावयन् स्नामप्यनुभावितवानत एव "नाहं भक्षितवानि"तिवचनं सत्यं, अत एव तस्या उरसो भगवत्क्रीडायोग्यतापि क्तानां तत्र स्थितिरासीद्यतः, एत एव व्रतप्रसङ्गे च "वयस्यै"रितिपदेन वक्ष्यन्ते, तदातिव्यथया वृत्तवाङ् नेत्रे विवृत्य विपरीततया प्रसार्य चरणौ भुजौ चेतस्ततः क्षिपन्ती नितरां स्विनं सम्पूर्ण गात्रं स्यास्तादृशी सती रुरोद, उच्चैःशब्दं कृतवती, अतिबालकस्पर्श एवम्भाव आश्चर्यजनको भवतीति हेत्युक्तं, नेनान्तःपीडा महती तस्याः सूचिता भगवतश्च पराक्रमः, आकर्षणात्मकवायौ प्रविष्ट एवं कृतवानिति वीर्य रूपित, सात्त्विके नेत्रे हस्तपादौ राजसौ गात्रं तामसमिति त्रिगुणपीडा निरूपिता, रजो मध्यस्थमुभयसङ्गतं वतीति द्वयं निरूपित, निर्गमनसमये प्राणस्य महान् घोषो रोदनं तेनाकृष्ट एव प्राणो भगवताकृष्ट इति पितम् ॥ ११ ॥ भगवतो माहात्म्यं शृङ्गग्राहिकया प्रदर्शयिष्यन् भगवदाकृष्यमाणप्राणकृतस्वनस्य माहात्म्यमाह स्याः स्वनेनेति, शब्दस्त्वमूर्तो मूर्तकार्य चेत् कुर्यात् तदालौकिकं भवति, चरणाद्याघातेन हि कम्पो भवति, ब्देनैव तथा जातमित्याह मही द्यौश्च चचालेति, तत्तदधिष्ठातृदेवतानां भीतत्वात् कम्प इति केचित् , रुषोत्तमस्य वीर्यमवताराणामपि वीर्यादधिकमिति ज्ञापयितुं ब्रह्माण्डविग्रहस्य पुरुषस्यापि स्वनेन कम्पो जात युच्यते, एकदैव सर्वत्र कम्पननने हेतुरतिगभीररंहसेति, अत्यन्तगभीरमधस्तलविदारणसमर्थमुपरिस्थित- जनसमर्थं च रहो वेगो यस्य तेन, पर्वतप्तहिता पृथिवी, ग्रहनक्षत्रादिसहिता द्यौः, चकारात् तदुपरितना |काः, पर्वतानां महत्त्वात् स्थिरत्वात् कम्पाभावमाशङ्कयाद्रिसहितेत्युक्तं, ग्रहाणां भचक्रे ध्रुवे प्रतिष्ठितानां लनाभावमाशय सग्रहेति, उभयोरुभयं वरप्राप्तं च “नक्षत्रविहिताहं चित्रविहिताह"मितिश्रुतेः, पाताल- शामसम्बन्धाद् दूरस्थितत्वाञ्चलनाभावमाशङ्कयाह रसा दिशश्चेति, तासामपि चलनं प्रतिस्वनजननं धिकं, तत्रत्यानां तु न किञ्चिदवशिष्टमित्याह जनाः पेतुः क्षिताविति, ननु कम्प उपपत्तिरुक्ता देवताभयात् घभयाद्वेति जनानां विवेकधैर्यादियुक्तानां पाते को हेतुरितिचेत् तत्राह वज्रनिपातशङ्कयेति, वज्र एव पतितः चेत् पतिष्यति वा तेन भयादेव पातः, विवेकेनापि पातः सम्भवति, उच्चैःस्थिते तस्य तेजोसहमानो वस्तं मारयेदिति ॥ १२ ॥ एवं स्वनकृतकार्येण वीर्यमाहात्म्यमुक्त्वा भगवदाकृष्टानां प्राणानां पुनरावृत्तिमाशङ्कय तत् परिहरन् नायाः सर्वजनीनं मरणमाह निशाचरीति, इत्थंव्यथितस्तना व्यसुर्भूत्वापतत्, निशाचरीति कठिन- णत्वं निरूपितं, तादृश्याः शीघ्र प्राणपरित्याग आश्चर्यहेतुर्भवति, राक्षप्ता व्यथां महतीमपि सहन्ते, दृश्यपीत्थं व्यथितस्तना जाता, येन साङ्गे सम्पूर्ण एव शरीरे महान् क्षोभो जातः, ततः प्राणानपि - १८ श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [श्लो० १७-२०. , सन्तत्रसुः स्म तद् वीक्ष्य गोपा गोप्यः कलेवरम् । पूर्व तु तन्निस्वनितभिन्नहत्कर्णमस्तकाः ॥ १७ ॥ वालं च तस्या उरसि क्रीडन्तमकुतोभयम् । गोप्यस्तूर्णं समभ्येत्य जगृहुर्जातसम्भ्रमाः ॥ १८ ॥ यशोदारोहिणीभ्यां ताः समं बालस्य सर्वतः । रक्षां विदधिरे सम्यग् गोपुच्छभ्रामणादिभिः ॥ १९ ॥ गोमूत्रेण स्नापयित्वा पुनर्गोरजसार्भकम् । रक्षां चक्रुः सशकृता द्वादशाङ्गेषु नामभिः ॥ २० ॥ मृतशरीरं, नन्वेतावत्कालमदर्शनं कुतस्तत्राह पूर्वमिति, तस्या निस्वनितेन रोदनेन भिन्नानि हृदयकर्ण- मस्तकानि येषां, तामसभूयिष्ठत्वात् त्रिविधावयवाः सर्वत्र निरूप्यन्ते ॥ १७ ॥ एवं तस्या रूपं सकार्य निरूप्य स्वापेक्षया भगवन्तमुत्कृष्टं दृष्टवन्त इति वक्तुं भगवन्तं पूतनाहृदये स्थितं वर्णयति बालमिति, एतावतीं पूतनां मारयिष्यन्नपि न स्थूलरूपं कृतवान् , अत एव कृष्णावतारचरित्रमत्यलौकिकं, अवस्थासाधनविरुद्ध- कार्यत्वात् , चकाराद् बालं ददृशुः पूतनां च, चस्त्वर्थे वा स्वसमानधर्मव्यावृत्त्यर्थ, तस्या उरसि क्रीडन्तमिति सर्वेषां हृदयेन्तर्बहिरपि क्रीडतीति सूचितं, न हि तल्लोकदृष्टया क्रीडास्थानं भवति नापि मुग्धभावेन क्रीडा तथा सत्यपरिचितदर्शने भयाविष्कारं कुर्यात् , तत् तु नास्तीत्याहाकुतोभयभिति, " संवीक्ष्य तत्रसु-" रिति पूर्वेणैव सम्बन्धः, दृष्ट्वेत्येव वा, बासस्य भिन्नविषयत्वापत्तेः, कलेबरदर्शने त्रासः स्वविषयकः, भग- वद्दर्शने तु भगवद्विषयकः ॥ १७ ॥ इत्येवं दृष्ट्वा यत् कृतवत्यस्तदाह गोप्य इति, गोपापेक्षया गोपीनां स्नेहः साहसं वाधिकमिति ता एव ग्रहीतुं प्रवृत्ताः, अत एवाविचारेण तूर्णमभ्येत्य जगृहुः, भगवद्रहणानन्तरं जातसम्भ्रमा जाताः पूतनादेहं दृष्ट्वा भगवत्सम्बन्धं च, महानयमुत्पात इति मनसि सञ्जातभया जाताः ॥ १८ ॥ ततः स्वातन्त्र्येण किञ्चित् कर्तुमशक्ता यशोदारोहिणीभ्यां सहिता जाताः, यशोदारोहिण्योः स्त्रीप्रकृतिकत्वाद् गोपीना- मग्निकुमारत्वेनर्षित्वाद् गोपानां तत्तदभिमानिदेवत्वात्, तत्रापि केवलभगवदुपासकानां गोपसम्बन्धरहित- त्वादुपायमन्त्रद्रष्टुत्वेन प्रसिद्धा इति ता इत्युक्तं, यशोदारोहिणीभ्यां समं बालस्येति वा सम्बन्धः, सहार्थे समशब्दः, सममित्यव्ययं, ननु भगवानयमिति ज्ञात्वा कथं रक्षां चक्रुस्तत्राह बालस्येति, यतो भगवान् बालभावं प्राप्तः, अतो यथान्य उपचारास्तथैतदपि कर्तव्यमित्यर्थः, सर्वत इति, अन्तर्बहिः केनाप्यंशेन यथानिष्ट- सम्बन्धो न भवति तथा, रक्षा कर्मविशेष मन्त्राभिमन्त्रणरूपं, विदधिरे कृतवत्यः, सम्यगित्याधिदैविकप्र- कारेण तत्तदैवतं तत्रतत्र स्थापितक्त्य इत्यर्थः, आदौ स्थितस्थ दैत्यसम्बन्धस्य परितो वा विद्यमानस्याधि- भौतिकादित्रितयस्य निवृत्तिं गोपुच्छभ्रामणादिभिः कृतवत्यः, आधिभौतिकमनिष्टं तीर्थस्नानादिना गच्छति, गवां पुच्छेषु तीर्थानि सन्ति, तेषां भ्रामणे मन्त्रेण तत्रत्यानि तीर्थानि परितः स्थापितानि भवन्ति, आदि- शब्देन मन्त्रध्याने अपरयोनिवर्तके ॥ १९ ॥ एवमेकप्रकारेण बाह्यतो रक्षा कृता लोकसिद्धा परम्परया प्राप्ता, आर्षज्ञानेनापि सिद्धां रक्षामाह गोमूत्रेणेति, बालकं तथैव गोमूत्रेण स्नापयित्वा पुनर्गवामागतानां सम्मुखं खुरोद्भूतरजसा स्नापयित्वा, आर्द्र शरीरे रजः सर्वत्र सम्बद्धं भवतीति पुनःस्लापन, ननु कथं भग- वति संस्काराः क्रियन्त इत्याशङ्कयाहार्भकमिति, पूर्व केवलमन्त्रेण कृता रक्षा, इदानीं सद्रव्येणेति श्लो०१४-१६.] तामसप्रमाणप्रकरणे स्कन्धादितः षष्ठोध्यायः । , " पतमानोपि तदेहस्त्रिगव्यूत्यन्तरद्रुमान् । चूर्णयामास राजेन्द्र महदासीत् तदद्भुतम् ॥ १४ ॥ ईषामात्रोरदंष्ट्रास्यं गिरिकन्दरनासिकम् । गण्डशैलस्तनं रौद्रं प्रकीर्णारुणमूर्धनम् ॥ १५ ॥ अन्धकूपगभीराक्षं पुलिनारोहभीषणम् । बद्धसेतुभुजोर्वधि शून्यतोयहदोदरम् ॥ १६ ॥ त्यक्तवती, प्राणत्यागोपि वैकल्यात् , तदाह व्यादाय मुखं केशांश्चरणौ भुजावपि प्रसार्य गोष्ठेवीरवद- भूमावपि कृत्रिमरूपग्रहणकारणाभावाद् भगवत्सम्बन्धेन कृतार्थत्वान्निजरूपमास्थितापतत् , तस्याः स्वरूप- मत्यन्तं स्थूलं सर्वोपद्रवकारीति दृष्टान्तेनाह वृत्र इवेति, वृत्रः स्वेच्छयापि पतति ततः पुनरुत्थानं भवेदिति वज्राहत इत्युक्तं, नृपेतिसम्बोधनं महत्त्वेन विश्वासार्थ, मुखव्यादानादिकं प्राणोत्क्रमणार्थं न भवति किन्तु नाडीनां वायुवशादाकर्षे तथा सर्वचेष्टा, मुखव्यादानेनैव देहक्लेशो निरूपितः, आदिमध्यावसानेषु क्लेशो जात इति वक्तुं केशचरणभुजानां ग्रहणं, प्रसारणं सत्त्वपरित्यागेन मुक्तिसूचकं, निजरूपं राक्षसं रूपं, यथा वृत्रे हते त्रयो लोकाः स्वस्थास्तथापूतनावधे जाता इति, एवमाध्यात्मिकपूतनाया मरणमुक्तं, आधिभौतिक्या भूमौ पातः ॥ १३ ॥ साधारणस्थितिलॊके पूर्वाध्याये निवारिता । अविद्यापूतना नष्टा गन्धमात्रावशेषिता ॥ १ ॥ अतः परं निरोधस्तु गोकुले सुगमो भवेत् । प्रपञ्चविस्मृतिः सा हि कृष्णासक्तिसमन्विता ॥ २ ॥ एवं पूतनाया वधमुक्त्वा काचित् स्यप्रयोजिका मारितेतिशङ्कां दूरीकर्तुं तस्या देहस्य मृतस्यापि महत्त्वमाह पतमानोपीति, अपिशब्देन कृत्रिमसामर्थ्य ततोपि महद् रूपं भवतीति सूचितं, त्रिगव्यूत्यन्तर- द्रुमान् क्रोशषटुमध्यस्थितवृक्षांश्चूर्णयामासेतिभारस्थौल्यमुक्तं लम्बताप्युक्ता, भगवीर्यस्य स्पष्टत्वात् , लोके तदेव महदद्भुतमासीत्, अलौकिकात्मनेपदप्रयोगेन तदेहदाह एव तानि काष्ठान्युपयोक्ष्यन्त इति ज्ञाप्यत एतच्च भगवदिच्छयेति च, गोकुलवासिनां गव्यूतिरेव प्रसिद्धा, त्रिगव्यूत्यधिको देशस्तैर्न दृष्ट इति तावदेवोक्तं, राजेन्द्रेति, इन्द्रेण वृत्रवधः कृत इति तन्नाम्ना सम्बोधनं विश्वासार्थम् ॥ १४ ॥ तद्रपमवयवशो वर्णयतीषेतिद्वाभ्यां, ईषा लाङ्गलदण्डश्चतुर्हस्तः, ईक्षामात्रोया दंष्ट्रा यस्मिन्नास्ये, अनेन तत्र कृषी. वलानां दण्डस्थानीया एव दंष्ट्रा जातेत्युक्तं, तादृशमास्यं यस्मिन् रूपे, गिरेः कन्दरप्राया नासिका यस्य, क्रीडास्थानं तज्जातमिति, गण्डशैला: पर्वताच्युताः स्थूलाः पाषाणाः, गण्डशैलाविव स्तनौ यस्य, प्रकीर्णा अरुणवर्णा मूर्धजा यस्य ॥ १५ ॥ अन्धकूपवद् गभीरे अक्षिणी यस्य, पुलिनवन् नदीसैकतप्रदेशवदारोह- स्थानं जघनभागस्तद् गुह्येन भीषणं भयानकं, बद्धाः सेतव इव भुजावूरू अनी यस्य, शून्यं तोयं यस्मिन् तादृशहदवदुदरं यस्य, नव विशेषणानि प्राकृतगुणानां सर्वेषां समवायार्थानि, अविद्या हि नवधा भीषिका ॥ १६ ॥ अत एव तादृशावयवैविभीषिका जातेत्याह सन्तत्रसुरिति सम्यक् तत्रसुर्भीताः, स्मेति प्रसिद्धे, भगवत्सान्निध्याद् भयाभावमाशङ्कय प्रमाणं कथयन्नाह संवीक्ष्येति, प्रथमत अज्ञानान्न तथा भयं सम्यग्दर्शने तु भयं जातमिति, गोपा गोप्य इति, तेषां मुग्धभावेन सम्यग्दर्शनप्राप्तिनिरूपिता, कलेवरं ३ श्लो० २१-२२.] तामसप्रमाणप्रकरणे स्कन्धादितः पप्ठोध्यायः । , गोप्यः संस्पृष्टसलिला अङ्गेषु करयोः पृथक् । न्यस्यात्मन्यथ बालस्य बीजासमकुर्वत ॥ २१ ॥ अव्यादजोख़िमणिमांस्तव जान्वथोरू यज्ञोच्युतः कटितटं जठरं हयास्यः । हृत् केशवस्त्वदुर ईश इनस्तु कण्ठं विष्णुर्भुजं मुखमुरुक्रम ईश्वरः कम् ॥२२॥ रक्षायां विशेषः, सशकृता गोरजसेति गोमयेन सहिता गोखुरमृत्तिका पुनरङ्गेषु स्थापिता, द्वादशाङ्गानि भवन्ति पुरुषे "द्वे सक्था” वित्यादिश्रुतेः, स्मार्तानि वा, “ ललाटं बाहुमूले च हृदयं नाभिपार्श्वकं कण्ठः स्कन्धौ कटिर्मूर्धा स्तनौ चेति विदुर्बुधाः", नामभिः केशवनारायणमाधवगोविन्दविष्णुमधुसूदनत्रिविक्रम- वामनश्रीधरहृषीकेशपद्मनाभदामोदरेति ॥२०॥ एवमियं द्वितीया रक्षा निरूपिताध्यात्मिकी, आधिदैविकीमाह गोप्य इति, पूर्व कर्तृकर्मणोरसंस्कारः, कर्मण एव मध्यमे, कर्तुरपि तृतीये, प्रथममात्मसंस्कारो द्विविधो निरूप्यते सम्यक्स्पृष्टसलिला इति, बहिः स्नानमन्तराचमनं चोक्तं, ततो बीजमन्त्रानेकादशात्मनि न्यासं कृतवत्यः, स्वस्मिन्नागतायां देवतायामन्यस्मिन् स्थापनमनुभवसाक्षिकं भवति, ततस्त्याजित आधिदैविको दोषः स्वात्मानं वा गृह्णीयाद् बलिष्ठदोषस्य त्याजकग्राहकत्वाद् , “अग्निं वै जात"मित्यत्र तथोक्तेः, आत्मन्यपि द्विगुणा रक्षा कृता करणकर्तृभेदेन, साक्षात्करणे कर्तरि च दोषसम्बन्धसम्भवात् , तदाहाङ्गेषु वक्ष्यमाणेषूक्तेषु वा तैरेव नामभिः, करयोरिति, करतलकरपृष्ठाभ्यां सह दशाङ्गुलीषु दक्षिणाङ्गुष्ठमारभ्य वामाङ्गुष्ठपर्यन्तासु, पृथगिति करयोरेव वा सम्बध्यते, तेनाङ्गुलिचतुष्टये पर्वत्रये न्यासो भवति, “ अङ्गुल्यङ्गुष्ठपर्वस्वि"तिवचनात् , पृथगिति दशन्यासा वा निरूपिता मातृकान्यासादयः, एवमात्मनि न्यस्य सर्वदेवताधारभूताः सत्योथ भिन्नप्रकारेण देवताः सर्वाः बहिः स्थिता विधाय बालस्य भगवतोङ्गेषु बीजैरेकादशभिासमकुर्वत कृतवत्यः ॥ २१ ॥ बीजानि स्थानानि च गोप्यानीति भङ्गयन्तरेण देवताप्रार्थनरूपेण रक्षा स्तोत्ररूपां वद- नाहाव्यादिति, भगवत एकादश रूपाणि मूलतः प्रसिद्धानि वैष्णवतन्त्रे, अन्यानि तु न समर्थान्युपढौकनेना- रोपितसामर्थ्यानि वा भवन्ति, तत्र प्रथममजो न जायत इत्यविकृतो मूलभूत इति यावत् सोक्षरात्मको भवति, सोक्षरात्माजो भगवतोझिमव्यात् , अधिरथमाध्यात्मिकः, स त्वाधिदैविक इत्यन्तर्याम्यवतारादिरूपे पादत्व- मस्ये"तिनिरूपणात् , ततः स एव सर्वोपास्यरूपो भवन् दुर्जेयत्वादणिमान् भवति, बीजरूपाण्येतानि नामान्य- विकृतानि भवन्ति, जानुद्वयं सोव्यात् स्थूलादने सूक्ष्मभावात् , एतद द्वयं प्रमेयबलेन रूपद्वयेन निरूपित, प्रमाणवलेन पुनः पृथङ् निरूपयत्यथेति, अनेन भक्तिमार्गो ज्ञानमार्गश्च प्रमेयबलादेव सिध्यतीति ज्ञापितं, यज्ञ अरू अव्यात्, स हि प्रजननात्मकः, अच्युतो यज्ञस्यैवाधिदैविकं रूपं कटितटमव्यात् , स हि रक्षको न केनापि प्रकारेण च्युत इति, वेदानां यज्ञानां च नित्यताप्युक्ता, हयास्यो जठरमव्यात् , नष्टेषु वेदेषु रक्षणार्थमवतीर्णः, उदरं सर्वमेव जगत् , तच्च कर्मणा परिपाल्यत इति यज्ञे प्रादुर्भूत उक्तः, हृद् हृदयं केशवोव्यात् , कश्वेशश्च केशौ तयोर्व सुखं यस्मादिति, ब्रह्मशिवयोर्बुद्धयहङ्कारनियामकयोरपि सुखदातान्त- र्यामी हृदयपरिपालको भूयात् , हृदयं स्तनयोर्मध्ये निम्नस्थानं, उरस्तूचस्थानं, स्तनादुपरि कण्ठादधस्त्वदुर ईशोव्यात् , यस्त्वाधिदैविककालरूपो येन प्रकृतेर्गुणाः क्षुब्धा भवन्ति, त्वदुर इति, उरसि लक्ष्मीरपि वर्तते, अतस्तव्यावृत्त्यर्थं त्वत्पदं, इनस्तु कण्ठं, तुशब्दो ब्रह्माण्डमध्यस्थितं वक्तुं बहिःस्थिताद् व्यावृत्तिमाह, इन: सूर्यान्तःस्थितो नारायणः स कण्ठमव्यात्, सरस्वतीस्थानं तत् , त्रयीमयात्मकश्च सः, ततो जगद्रक्षायां १. लुप्तं क्वचित् ।

२० श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [श्लो० २३-२५. चयग्रतः सहगदो हरिरस्तु पश्चात् त्वत्पार्श्वयोधनुरसी मधुहाजनश्च । कोणेषु शङ्ख उरुगाय उपर्युपेन्द्रस्ताक्ष्यः क्षितौ हलधरः पुरुषः समन्तात् ॥ २३ ॥ इन्द्रियाणि हृषीकेशः प्राणान् नारायणोक्तु । श्वेतद्वीपपतिश्चित्तं मनो योगेश्वरोवतु ॥ २४ ॥ पृश्निगर्भस्तु ते बुद्धिमात्मानं भगवान् परः। क्रीडन्तं पातु गोविन्दः शयानं पातु माधवः ॥ २५ ॥ स्थितः क्रियाशक्तिर्विष्णुर्भुजमव्यात् क्रिया मुजयोरेव प्रतिष्ठितेति, ततो भक्तबाधकत्वेन दैत्येषु समागतेषु तन्निवृत्त्यर्थं समागतो वलिबन्धनकर्तारुक्रमो वामनो मुखमव्यात् , ततः कं शिर ईश्वरोव्यात् , यस्तु सङ्कर्षणरूपो “यस्य केशौ सितकृष्णौ” स शिरः प्रधानभूत इति शिरःपालनं युक्तमेव॥२२॥ एवं पादादिशिरोन्तानां रक्षा प्रार्थनया निरूपिता, बाह्यतः परितो रक्षामाह चयग्रत इति, पुरुषस्य यावन्तो भागा बहिर्भवन्ति तेषु तत्र तत्र प्रयोजको रक्षत्विति प्रार्थयन्ति, चक्री चक्रपाणिश्चक्रं गृहीत्वाग्रे रक्षतु पूर्वभागं परिपालयतु,सहगदो गदाधरो गदासहितः पश्चादव्यात् पृष्ठभागं परिपालयतु, ननु महतः कथं पृष्ठभागपरिपालनमुच्यते तत्र प्रार्थनया हेतुमाह हरिरस्त्विति, स हि सर्वदुःखहर्ता, यथा वा प्रार्थनया गजेन्द्रमागत्योद्धृतवान् न तु वैमनस्य विचारितवान् , अत इदानीमपि प्रार्थनया पश्चाद्धरिः स्वयमस्तु स्थितः सन् पालयत्वित्यर्थः, त्वत्पार्थयो- दक्षिणवामयोधनुर्धरोसिधरश्च मधुसूदनोजनश्चाव्यात् , दक्षिणपार्श्वे धनुर्गृहीत्वा राक्षसांस्तत्रत्यान् दूरादेव (मधुहा) मारयतु, अजन उत्तरपार्थे सर्वज्ञानिसेव्यः सर्वेषां जन्मादिसर्वदुःखनाशकोसिं गृहीत्वाविद्याछेदकोव्यात्, आयुधयोरपि स्वतःसामर्थ्य द्योतयितुं भिन्नतया निरूपणं, चकारादुत्तरभागस्थिता हरिवर्षादिमूर्तयोपि पालयन्त्वि- त्युक्तं, कोणेषु चतुर्षु विदिक्षु शङ्ख गृहीत्वोरुगायश्चावतु, शब्दो हि स सर्वेषां दैत्यानां दर्पहन्ता "विष्णो- मुंखोत्थानिलपूरितस्ये"तिवाक्यात् , अत एव प्रत्येकं कोणेषु भिन्ना निरुक्ताः, सोप्युरुगाय उरुभिर्नारदादि- भिर्गीयत इति, अत एकेनैव सर्वत्र रक्षा सम्भवति, उपर्युपेन्द्रस्ताोव्यात् , गरुडारूढो मन्वन्तरावताररूपः, गरुडस्यापि रक्षकत्वं, उभावप्युपर्येव भवतः, क्षितौ हलधरो हलं गृहीत्वा सङ्कर्षणोधोभागे पालयतु, एवं प्रत्येक रक्षामुक्त्वा सामान्यत आहुः पुरुषः समन्तादिति, पुरुषो नारायणः समन्तात् पालयतु, यस्योदरे सर्वे वर्तन्त इति स हि सर्वत्र तिष्ठति ॥ २३ ॥ एवं बाह्यरक्षामुक्त्वाध्यात्मिकांशभूतानां प्राणादीनां रक्षामाहु- रिन्द्रियाणीति, हृषीकाणामिन्द्रियाणामेव नियामकत्वेन स्थितः, 'अव्यादिति पूर्वेण सम्बन्धः, इन्द्रियाणि दश, चक्षुषश्चक्षुरूपत्वाद् भगवतः प्राणान् नारायणोवतु, प्राणापानादयो दश प्राणाः, नारं जीवसमूहस्तदयति प्रेरयति प्रविशतीति वा, प्राणमूलकं हि सर्वमतो नारायणात् प्राणरक्षा, अन्तःकरणचतुष्टयस्य रक्षामाह श्वेतद्वीपपतिर्वासुदेवः, श्वेतद्वीपस्य शुद्धसत्त्वरूपत्वाच्चित्तरक्षकश्च स भवत्येव, अनिरुद्धो योगिभिः संराध्यः, अतो योगीश्वरो मनोव्यात् , योगशास्त्रं च मनोमूलकमेव ॥ २४ ॥ बुद्धिं प्रद्युम्नः सर्ववंशकर्ता प्रथम पृश्निगर्भो जात इति स एवावतु, आत्मानमहङ्कारं भगवान् सङ्कर्षणोवतु, स चास्मात् परश्चतुर्मूर्तावुक्तः, आत्मानं जीवरूपं च परः पुरुषोत्तमोव्यात् , देहं च भगवान् सर्वनियामकोव्यादात्मानमेव वा भगवान- व्यादिति, कृत्रिमभगवत्त्वव्यावृत्त्यर्थ पर इति, सर्वावस्थासु रक्षां प्रार्थयन्ति क्रीडन्तं बालकलीलया शृङ्गयग्न्यादि- ध्वपि गच्छन्तं गोविन्दः पातु, यस्तु सदा गवामिन्द्रो गुप्ततया रक्षकः, शयानं माधवः पातु, लक्ष्म्यास्तत्र प्रयोजकत्वात् ॥ २५॥ वजन्तं शनैर्बाललीलया गच्छन्तं वैकुण्ठः पातु, स हि गतिदानार्थमेव वैकुण्ठं निर्माय , श्लो० २६-२८.] तामसप्रमाणप्रकरणे स्कन्धादितः षष्ठोध्यायः । २१ .. व्रजन्तमव्याद् वैकुण्ठस्त्वासीनं त्वां श्रियः पतिः । भुञ्जानं यज्ञभुक् पातु सर्वग्रहभयङ्करः ॥ २६ ॥ डाकिन्यों यातुधान्यश्च कूष्माण्डा येर्भकग्रहाः। भूतप्रेतपिशाचाश्च यक्षरक्षोविनायकाः ॥ २७ ॥ कोटरारेवतीज्येष्ठापूतनामातृकादयः । उन्मादा ये ह्यपस्मारा देहमाणेन्द्रियद्रुहः ॥ २८ ॥ स्थितः, अनेन सर्वत्र पदस्थापने कोमलत्वादिसुखदो भवत्विति प्रार्थितं, आसीनमुपविष्टं त्वां लक्ष्मीपतिरवतु, स हि लक्ष्मीविवाहसमय उपविष्टो लक्ष्म्या वृतः, तादृशभावापन्नः सर्वसौभाग्ययुक्तो लक्ष्मीपतिरासीनमवतु, सर्वमेव जगद् भगवत्युपविश्य तिष्ठतीति, तदर्थमाह त्वामिति, एवं देहावस्थाचतुष्टयमुक्त्वा क्रियावस्थायामाह भुञ्जान- मिति, स्तन्यं दुग्धादिकं वा स्वतश्चौर्यादिना वा, यज्ञभोक्ता विष्णुः पातु, भोजने क्रियायां कालफलनियामका ग्रहाः सन्ति, तैरवश्यं स्वकालोद्भवं फलं देयमित्याशङ्कयाह सर्वग्रहभयङ्कर इति, सर्वेषां ग्रहाणां कालक्रिया- द्रव्यादिनियामकानां नवग्रहाणां भयजनको भवति, अन्यथा यज्ञादीनां फलदातृत्वं न स्यात् तत्तत्कालफलमेव तेषां स्यात्, अतो यदा यज्ञभोक्ता फलं प्रयच्छति तदा ग्रहा निवृत्ता भवन्ति, निवृत्तिरपि न वचनादिना किन्तु रूपमेव दृष्ट्वा भीता निवृत्ता भवन्ति, तत उक्तं भयङ्कर इति ॥ २६ ॥ एवं सहजदोषाणां निवर्तकैर्निवृत्तिं प्रार्थयित्वागन्तुकान् दोषान् गणयन्त्यः स्वत एव तेषां भगवन्नामो- चारणेन निवृत्तिमा किन्य इतित्रिभिः, एके महादेवसम्बन्धिनो दोषाः स्थूला अन्य आध्यात्मिका मध्यमास्ततोप्याधिभौतिका निकृष्टाः, स्वप्नादिष्वेव तेषां भयजनकत्वं, डाकिन्यः स्त्रिय एव दुष्टा दास्य इव पतिरहिताः सेनारूपाः, यातुधान्यो यक्षादिस्त्रियः, चकारात् तदवान्तरभेदाः, कूष्माण्डादयः पुरुषाः, कुत्सितो य ऊष्मा तत्कृता अण्डा इव ये भवन्ति, कूष्माण्डशब्दो यौगिको दुष्टमहादेवगण- वाचकः, प्रलये तेषां विनियोगः, रूढो लौकिकः, नैमित्तिको वैदिकः, अतो दोषगणनायां तदुभयव्यावृत्त्यर्थं य इत्युक्तं, अर्भकग्रहा अर्भकरूपा ग्रहाः, तेपि पिशाचविशेषाः, बालका एव भूत्वा सर्वान् गृह्णन्ति, भूतप्रेतपिशाचाः प्रसिद्धा यक्षरक्षांसि च, विनायका विघ्नकर्तारः, ते सच्छिन्नभिन्ना भवन्तीति तेषामधि- पतिविनायक उक्तः, स तु न क्वापि स्वत आयातीति तन्निवृत्त्यर्थ य इत्यत्राप्यनुसन्धेयम् ॥ २७ ॥ ततो हीनाः स्वतन्त्रस्त्रीरूपाः, कोटरा पूर्वदेशे "कुठारे"ति प्रसिद्धा, तथा रेवती, रेणुकेति केचित् , ज्येष्ठा दक्षिणदेशे प्रसिद्धा, पूतनेयमेव, अज्ञानात् कीर्तनं, वस्तुतस्त्वेते मन्त्रास्ते च यादृशास्तादृशा एव कीर्तनीयाः, अन्यथा "मन्त्रो हीनः स्वरतो वर्णतो वे"तिवाक्यान्मन्त्रस्यान्यथात्वेन रक्षोपयोगित्वं न स्यात् , तेन तथाकीर्तनं तज्ज्ञानेपि, अत एवाप्रस्तुतस्यापि वृद्धग्रहस्य कीर्तनं, मातृकाः षोडश प्रसिद्धाः, आदिशब्देन सर्वा एव ग्रामदेवताः, एतावत्यः स्त्रियः, उन्मादादयः पुरुषाः, उद्गतो मादो यैः, यतः प्राणिन उन्मत्ता भवन्ति, य इतिरोगव्यावृत्त्यर्थ, अपस्मारा अपि बुद्धिभ्रंशहेतवः, यतो रोगरूपा अपि भवन्तीति य इति तेष्वपि ग्रहणं, उभयेषामुभयत्वं लोकसिद्धमिति तद्व्यावृत्तिर्युक्तैव, त्रिविधानन्यानाह देहाणेन्द्रियद्रुह इति, केचिद् देह- द्रोहं कुर्वन्ति येन देहे निरन्तरं पीडा भवति तथा प्राणेषु येन क्षुधादिन भवतीन्द्रियाणां च स्राव- बाधिर्यादि ॥२८॥ भौतिकानाह, स्वमदृष्टाः स्वम एव भयपलायनशिरश्छेदादिदर्शनहेतवो महोत्पाताश्च, तेषां लक्षणं स्वप्नाध्याये भवति, वृद्धवालग्रहाश्च भवन्ति, नियतास्तेभगवदीयं भ्रामयन्त्येव, अतः पिशाचवद् .

श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [श्लो० २९-३२. स्वमदृष्टा महोत्पाता वृद्धबालग्रहाश्च ये । सर्वे नश्यन्तु ते विष्णोर्नामग्रहणभीरवः ॥ २९ ॥ श्रीशुक उवाच । इतिप्रणयवद्धाभिर्गोपीभिः कृतरक्षणम् । पाययित्वा स्तनं माता सन्यवेशयदात्मजम् ॥ ३०॥ तावन् नन्दादयो गोपा मथुराया व्रजं गताः । विलोक्य पूतनादेहं बभूवुरतिविस्मिताः ॥ ३१ ॥ नूनं बतर्षिः सञ्जातो योगेशो वा समास सः। स एव दृष्टो ह्युत्पातो यथाहानकदुन्दुभिः ॥ ३२ ॥ तवद् वृद्धो बालश्च तिष्ठति, अत्रापि कालरोगव्यावृत्त्यर्थं य इति, एवं सर्वाननूद्य विनियोगमाहुः सर्व- उक्ता अनुक्ताश्च ते सर्वेस्मद्वाक्यात् स्वत एव नश्यन्तु पलायन्तां, तेषां निवृत्तौ नाधिक: प्रयास इति षणमाह नामग्रहणमात्रेणैव भीरव इति, विष्णोस्ते तवैव नामग्रहणेन न ते तिष्ठन्ति कुतः पुनस्त्वत्समीप तोस्माभिर्वचनादेव निराक्रियन्ते ॥ २९ ॥ एवं सर्वप्रकारेण त्रिविधामपि रक्षां कृतवत्यस्ततो यज्जातं तदाहेतीति,प्रणयेन स्नेहेन बद्धाभिर्न तु लौकिक- येन बद्धपदान्न प्रेरणया नापि निवारितास्तिष्ठन्तीति ज्ञापितं, गोपीभिरितिपुनर्वचनं मध्ये ब्राह्मणादि- जया कृतमितिव्यावृत्त्यर्थ, कृतं रक्षणं यस्य, रक्षाबन्धनादिकमपि कृतमिति ज्ञायते, पूतनास्तनपाने- तीर्णशङ्का व्यावर्तयति पाययित्वा स्तनमिति, माता यशोदा, गोपिकादीनां भाव्यर्थज्ञानात् स्तनादानं, पद्रवज्ञापकं च स्तनपानं, आत्मजं पुत्रं, सन्यवेशयत् सम्यक् पल्यङ्के न्यवेशयच्छायितवती ॥३०॥ एवं बुद्धयुत्पादनादेतद् भगवच्चरित्रं निरोधरूपं च स्पष्टमेव, एवं पूतनावधं कृत्वाग्रिंमलीलासिद्धयर्थ- निशेषं चाभिमन्त्रणादिना सम्यग् जातमिति स्थापयित्वा पूतनाया मोक्षो जात इति ज्ञापनार्थमग्रिमचरित्र- भते तावदिति यावद्ध्यायसमाप्ति, देहसौरभ्येण हि मुक्तेति ज्ञातव्यं, रूपदर्शनाद् भयं जायत इति ग्रहश्च, तद् दाहे स्पष्टं भवति, तद्दाहश्च प्रभुसाध्यः, अतो नन्दागमनमाह तावदिति, यावद् गोप्य एतावत् वत्यस्तावत्काले जाते मथुरायां गता नन्दादयः पूर्वोक्तगोपिकानां पतयो गोपिकाप्राधान्यात् प्रा- ये नोक्ताः, मथुरायाः सकाशाद् व्रजं गताः, शुकस्तत्रैव भगवति स्थित्वा वदतीति गता इत्युक्तवान् , तादृशं नादेहं विलोक्यातिविस्मिता जाता लौकिकं न स्मृतवन्तः, अन्यथा तेषां निरोधो न स्यात् , बाल- डायां तेषामासक्तिर्न वक्तव्येति तदर्थ व्यापारान्तरं कर्तव्यमिति ॥३१॥ तेषामत्र प्रमाणपरतामाह नूनमिति, ति खेदे, वसुदेवो नूनं ऋषिरेव सञ्जातः, पूर्व क्षत्रियः स्थित इदानीमृषिर्जातः, ऋषिवाक्यमेव हि णं, ननु लौकिके ऋषिरप्रयोजकोन्यथा मन्त्राणां लौकिकत्वं स्यादत आह योगेशो वा स यगासेति, योगेश्वराः सर्व जानन्ति योगचक्षुषा, समिति सभायामपि ज्ञानात् , स वसुदेवः प्रसिद्धत्वात् , प तदुचितमिति नासम्भावना, तस्य वाक्यस्य संवादमनुवदन्ति स्वज्ञानदाक्य यमुत्सातमानकदुन्दुभिराह एवास्माभिदृष्ट इति, हीति युक्तश्चायामर्थः, “ तदुदितः स हि यो यदनन्तर" इतिन्यायाद् याह- कसंवादित्वं परिहरन्नाहानकदुन्दुभिरिति, आनका दुन्दुभयश्च तस्य जन्मनि नेदुरतः प्रा- कमेव तस्य ज्ञानम् ॥ ३२ ॥ ततः सर्व एव व्यवहारसिद्धयर्थं तस्याः कलेवरं परशुभिभिछत्त्वा श्लो० ३३-४१.] तामसप्रमाणप्रकरणे स्कन्धादितः षष्ठोध्यायः । २३ कलेवरं परशुभिश्छित्वा ते तु व्रजौकसः । दूरे क्षिप्वावयवशो ददहुः काष्ठवेष्टितम् ॥ ३३ ॥ दह्यमानस्य देहस्य धूमश्चागरुसौरभः । उत्थितः कृष्णनिर्मुक्तसपद्याहतपाप्मनः ॥ ३४ ॥ पूतनालोकबालनी राक्षसी रुधिराशना । जिघांसयापि हरये स्तनं दत्वाप सद्गतिम् ॥ ३५ ॥ किं पुनः श्रद्धया भक्त्या कृष्णाय परमात्मने । यच्छन् प्रियतमं लोके रक्तास्तन्मातरो यथा ॥ ३६॥ पद्भयां भक्तहृदिस्थाभ्यां वन्द्याभ्यां लोकवन्दितैः । अङ्गं यस्याः समाक्रम्य भगवानपिबत् स्तनम् ॥ ३७ ॥ यातुधान्यपि सा स्वर्गमवाप जननीगतिम् । कृष्णभुक्तस्तनशीरा: किमु गावो नु मातरः ॥ ३८ ॥ पयांसि यासामपिबत् पुत्रस्नेहस्नुतान्यलम् । भगवान् देवकीपुत्रः कैवल्याद्यखिलार्थदः ॥ ३९ ॥ तासामविरतं कृष्णे कुर्वतीनां सुतेक्षणम् । न पुनः कल्प्यते राजन् संसारोज्ञानसम्भवः ॥ ४०॥ कटभूमस्य सौरभ्यमवघ्राय व्रजौकसः। किमिदं कुत एवेति वदन्तो ब्रजमाययुः॥४१॥ छित्त्वाक्यवशो दूरे क्षिप्त्वा राशीकृत्य गन्धादिव्यावृत्त्यर्थ काष्ठवेष्टितं कृत्वा निर्दहन् (निरदहन् ), जले क्षिप्ते राक्षसानां गतिर्दुज्ञेयेति पुनर्जीवेत् , अदाहे वा खण्डशो नयेयुः पश्चाद् योजयेयुः, अतो दाह एवोचित इति तेषां बुद्धिस्तस्या मुक्तिज्ञापनाय भगवता तथा सम्पादित, भस्मान्त एव मुक्तिरिति श्रुत्यभिप्रायः ॥ ३३ ॥ तस्या मुक्तिलक्षणमाह दह्यमानस्य देहस्य सम्बन्धी धूमः, काष्ठभ्रमव्यावृत्त्यर्थं तथोक्तं, चकारादङ्गारा अपि सोज्ज्वला देहोपि घृतवज् ज्वलतीति ज्ञातव्यं, अगैरुजनितधूमवत् सौरभ्यं यस्य सोगरुसौरभः सर्वजनीनार्थमुत्थित ऊर्ध्वगतः, ऊर्ध्वगमनमप्युत्तमगतिज्ञापकं, ननु दुष्टाया देहस्य कथं तथात्वमित्याशङ्कय हेतुमाह कृष्णनिर्भुक्तसपद्याहतपाप्मन इति, यदैव कृष्णेन नितरां भुक्तं तस्याः स्तन्यं प्राणाश्च कृष्णभुक्त एव सपदि तस्मिन् कृष्णमुक्तक्षण इत्यर्थः, सपदीत्यव्ययं, कृष्ण- मुक्तस्य सपद्यप्यवहितः क्षणस्तस्मिन्नेवासमन्ताद् हतं नष्टं पाप्म यस्य देहस्य, आहतपाप्मा देहः ॥ ३४ ॥ ॥ ३५-४० ॥ एवं देहधूमे निर्गते यदासीत् तदाह कटधूमस्येति, अत्र षट् श्लोका विगीताः सर्वत्र दृश्यन्ते तेप्यध्यायत्रयवद् व्याख्येयाः, स्पष्टत्वाद् वोपेश्यन्ते, तन्मातरो (३६) 'वसुदेवस्त्रिय' इति व्याख्यातारः, कटस्य प्रेतदाहस्थानस्य चितायाः सम्बन्धिधूमस्य सौरभ्यमवघ्राय व्रजौकसो गोरक्षणार्थ कार्यान्तरार्थ वा दूरे गताः किमिदमाश्चर्यमिति व्याकुलाः समीचीनं गन्धमाघ्रायागरुवलतीति ज्ञात्वा कुत एवेतिवदन्तस्तत्तत्कार्य परित्यज्य व्रजमेवाययुः, अनेन व्रजस्थानां सर्वेषामेव प्रपञ्चविस्मृतिरुक्ता भगवदनुमावस्यान्तःप्रवेशश्च, येना- न्तःस्थितः प्रपञ्चो निवर्तिष्यते, तामसः प्रपञ्चस्तामसी च पूतना, अतो युक्तं गन्धस्य प्रपञ्चनाशकत्वम् ॥४१॥ , १. अगुर्वित्यादिपाठोपि । २. चोपेत्यादिरपि ।

श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [श्लो० ४२-४४. , ते तत्र वर्णितं गोपैः पूतनागमनादिकम् । श्रुत्वा तन्निधनं स्वस्ति शिशोरासन् सुविस्मिताः ॥ ४२ ॥ नन्दः स्वपुत्रमादाय प्रोष्यागत उदारधीः । मूर्ध्यवघ्राय परमां मुदं लेभे कुरूद्वह ॥ ४३ ॥ य एतत् पूतनामोक्षं कृष्णस्याकमद्भुतम् । शृणुयाच्छ्रद्धया मल् गोविन्दे लभते गतिम् ॥ ४४ ॥ तेषामपि निदानपरिज्ञाने विस्मय एव जात इत्याह ते तत्रेति, तत्र गोकुले गोपैणितं पूतनागमनादिकं श्रुत्वा, आदिशब्देन स्तनदानादिप्रकारं तन्निधनं पृतनामरणं च शिशोः स्वस्ति कल्याणं त्रयं श्रुत्वा, अत्यन्तविस्मिता जाताः, सर्वेषामग्र आगमनमेवाश्चर्य, अकस्मान्मरणं, ततोपि तस्या महत्या भक्षको मृत्युर्बालं त्यक्तवानिति सुतरां विस्मयः ॥ ४२ ॥ नन्दस्य प्रोषितस्य पुत्राघ्राणं विहितमित्याजन्मदुर्लभं तदिदानी कृत- वानित्याह नन्द इति, आश्चर्ये जिज्ञासोत्पद्यते नटविद्यायां तथादर्शनात् , स्वपुत्रं बलभद्रव्यावृत्त्यर्थ, विहित- त्वादादाय हस्ते गृहीत्वा, तथाकरणे हेतुः प्रोष्यागत इति, नूतनमिदं कर्म कृत्वा बहु देयमिति मनसि कृतवान् , भगवते च नानाविधान्याभरणानि कृत्वा समानीतवांस्तदाहोदारधीरिति, उदारा धीर्यस्य तदानी- मुत्पन्ना, सर्वापि बुद्धिरुदारा नन्दस्यापि मोक्षदात्री, तस्य तामवस्थां ये च भावयन्ति, मूयुपघ्राणं विहितं वात्सप्रेण सूक्तेन “दिवस्परी"त्यादिना, गन्धेन प्रपञ्चस्य नाशितत्वाद् भावदाघ्राणे परमानन्दो हृदि जात इत्याह परमां मुदमिति, कुरूद्वहेतिसम्बोधनं समस्तोपाख्यानविश्वासार्थम् ॥ ४३ ॥ पूतनाया मोक्षं स्थापयितुं कैमुतिकन्यायेन तच्चरित्रश्रोतॄणामपि मोक्षादप्यधिकफलां भक्तिं फलत्वेनाह य एतदिति, एतत् पूतनामोक्षं कृष्णस्यार्भक बाल्यसम्बन्धि चरित्रमद्भुतं लौकिकोपपत्तिरहितं, अनिष्टार्थ मारणमिष्टजनकमिति वा निशम्य श्रद्धया युक्तो भवति, अमयो वा भवति, देवभावं प्राप्नोति, देवा हि सत्ये प्रतिष्ठिताः, सर्वथेदं सत्यमिति मन्यते, स गोविन्दे गति मोक्षं रति वा लभते, इदमपि 'विगीत'मिति केचित् ॥ ४४ १. रतिमित्यपि पाठः । इति श्रीमद्भागवतसुबोधिन्यां श्रीमद्वल्लभदीक्षितविरचितायां दशमस्कन्धविवरणे द्वितीये तामस प्रकरणेवान्तर- प्रमाणप्रकरणे वीर्यापरनामधर्मनिरूपकद्वितीयाध्यायस्य स्कन्धादितः पष्ठाध्यायस्य विवरणम् ।

॥ तृतीयः स्कन्धादितः सप्तमोध्यायः ।। VIRAL ॥श्रीराजोवाच ॥ येनयेनावतारेण भगवान् हरिरीश्वरः। करोति कर्णरस्यानि चरितानि च नः प्रभो ॥१॥ यच्छृण्वतोपैत्यरतिवितृष्णा सत्त्वं च शुध्यत्यचिरेण पुंसः । भक्तिहरौ तत्पुरुषे च सख्यं तदेव हारं वद मन्यसे चेत् ॥ २ ॥ पूतनासुपयःपानं भगवत्त्वाय यत् कृतम् । अलौकिकत्वज्ञानाय तत् षष्ठे विनिरूपितम् ॥ १ ॥ ततोप्यलौकिकं लोके विशेपासक्तिबोधकम् । सप्तमे त्रिविधं प्राह शकटोत्पाटनादिकम् ॥ २ ॥ उत्क्षेपणमवक्षेपः प्रसारणमितीर्यते । राजसानां तामसानां सात्त्विकानां च सङ्ग्रहे ॥ ३ ॥ सुप्तं चित्तमथोल्लास्थ त्याजयित्वा च लौकिकान् । स्वासक्तिसिद्धये प्रीत्या दुःखं च कृतवान् क्वचित् ॥ ४ ॥ यशो हि सर्वगं चेत् स्यात् स्वातत्तथैव च तद् भवेत् । यशोदानन्दयोरत्र नि:प्रपञ्चो विधीयते ॥ ५ ॥ आनुषङ्गिकमन्येषां गोपानां सर्वदेहिनाम् । गोपीनामिति तत्राद्ये यशोदाया वितन्यते ॥ ६ ॥ पूर्वाध्याय आश्चर्योत्पादनेन प्रपञ्चविस्मृतिं कारयित्वा विशेषाकारेण यशोदायाः स्वासक्तिं वक्तुं मतान्तरे प्रपञ्चविस्मृतिमात्रस्यैव पुरुषार्थत्वात् तदासक्तिं न वक्ष्यतीत्याशङ्कय राजा पृच्छति येनयेनेतित्रयेण, सर्व चरित्रं हितकृद् गुणकृच्च ततोधिकम् । तत्रापि स्नेहजनकं तद् वक्तव्यमितिस्थितिः ॥ १ ॥ आदौ सर्वमेव चरित्रं भगवतः सर्वोत्तममित्याह, येनयेन मत्स्यकूर्मादिमध्ये यानियानि चरितानि करोति तानि नः कर्णरस्यानीतिसम्बन्धः, कृष्णावतारचरित्र एव कस्यचित् प्रीतिपक्षे तद्तो भेदो द्वेषापरपर्याय: सिध्येदिति तन्निवृत्त्यर्थमेतद् वक्तव्यं येनैवावतारेण करोतीति, अवतारपरत्वे लौकिक- बुद्धिर्भगवति भविष्यतीति तत्रानादरश्च वक्तव्यः, तदाह वीप्सया, वस्तुतस्तु भगवान् करोति, कृती प्रयोजनं हरिरिति, तथाविर्भाव उपपत्तिरीश्वर इति, इदानीन्तनानामस्माकं तथाभाग्याभावाद् दर्शना- भावेपि भवदादिप्रसादात् कर्ण्यरस्यानि भवन्ति, लोक उपनिबन्धनाभावशङ्कापि नास्तीत्याह चरितानीति, उपनिबद्धं कृत्यं चरित्रं, चकारात् महतां मुखादकस्मादप्युक्तं, न इति श्रोतॄणां सर्वेषां, प्रभो इतिसम्बोधन- मन्तःकरणज्ञानार्थमन्यथाकथने दण्डकरणे सामर्थ्याथ च ॥ १ ॥ यद्यपि साभिप्राये ज्ञाते सर्वमेव चरित्रमेतादृशगुणजनकं भवति तथाप्यापाततोपि यच्चरित्रं सर्वदोषनिवृत्तिपूर्वकं सर्वगुणदायकं भवति २६ श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [ श्लो० ३-५. अथान्यदपि कृष्णस्य तोकाचरितमद्भुतम् । मानुषं लोकमासाद्य तज्जातिमनुरुन्धतः ॥३॥ ॥ श्रीशुक उवाच ॥ कदाचिदौत्थानिककौतुकाप्लवे जन्मक्षयोगे समवेतयोषिताम् । वादित्रगीतद्विजमन्त्रवाचकैश्चकार मूनोरभिषेचनं सती ॥४॥ नन्दस्य पत्नी कृतमज्जनादिकं विप्रैः कृतस्वस्त्ययनं सुपूजितः । अन्नाज्यवासःस्रगभीष्टधेनुभिः सञ्जातनिद्राक्षमशीशयच्छनैः ॥५॥ तद् वक्तव्यमित्याह यच्छृण्वत इति, यच्चरित्रं शृण्वतः पुरुषस्य भगवच्चरित्रविषयिणी यारतिः सापैति माहात्म्ये स्वोपकारे च ज्ञाते तथात्वं, विशेषेण संसारविषयिणी तृष्णा चापैति संसारस्य बाधकत्वे ज्ञाते, गुणदोषाभावरूपावेतौ साधारणौ दोषाभावरूपौ वा, गुणानाह सत्त्वं च शुध्यति, अचिरेण शीघ्रमेव, पुंसः स्वतन्त्रस्य, सत्त्वमन्तःकरणं, शुध्यति कामक्रोधादिवासनारहितं भवति, ज्ञानात्मनः संसारातीतचरित्रे श्रुते यथा भगवतो मुखारविन्दे त्रैलोक्यवर्णनं, किञ्च भक्तिहरौ यथोलूखलबन्धने, तत्पुरुषे भगवत्सेवके सख्यं यथा यमलार्जुनभञ्जने, चकारात् तत्सेवकसेवकेपि, तदेव हारं मनोहारि यथा भवति तथा वदेति- प्रार्थना, यदि मन्यस इति, तादृशं फलमस्य सिध्यत्विति यदि तव कृपा, यथाधिकारेण बोधने मनोहारि भवति, एवं पञ्चविधं चरित्रं पृष्टं, तद् वक्ष्यति क्रमेण तृणावर्तवधादि, आश्चर्यरूपस्तृणावर्तवध इत्यरति- गच्छति, तृष्णा च संसारेण गच्छति, भगवति सर्वसत्त्वात् , अन्तःकरणं देहेन्द्रियादिकमैपि शुध्यति, भगवतो नामधौत्]दिश्रवणेन, उलूखलबन्धने भक्तिर्यमलार्जुनभङ्गे सख्यमिति ॥ २ ॥ एतत्पञ्चविधात् पूर्वमपरमेकं कृष्णासक्तिजनकं साधारण्येन वक्तव्यमित्याहाथान्यदपीति, अथेति भिन्नप्रक्रमे, आदावेव वक्तव्यं, अनन्तरं शीघ्रमेव वक्तव्यं, अन्यदपि यथा बाल्ये पूतनावधः, तथापि बाल्ये यच्चरित्रं, कृष्णस्येति, अव- तारान्तरबाल्यचरित्रव्युदासः, बाल्ये चरित्रसम्भवार्थं वा भगवतो नाम, तोकाचरितं तोकेनाचरितं, तोक उत्थानासमर्थः, तदप्यद्भुतमलौकिक, लोके हेतुकल्पनारहितं, तत्रापि लौकिकमावेन कृतमित्याह मानुषं लोकमासाद्येति, मनुष्यलोकं भूमिं मानुपभावं चासाद्य स्वीकृत्य, तज्जाति शिशोर्जाति- लीलामनुरुन्धतो जातिलीलामनतिक्रम्य यथा गोपालशिशोः, तादृशं पूतनावधतुल्यमेकं वक्तव्यमिति- , . प्रार्थना ॥ ३॥ शुकस्तादृशमेव शकटभङ्गलक्षणं चरित्रमाह कदाचिदितिचतुर्दशभिः सर्वेन्द्रियाणामन्तःकरणस्य च प्रीतिजनकं, आदावुत्सवमाह कदाचिदिति, औत्थानिकं कर्म निष्क्रमणात्मकं “चतुर्थे मासि निष्क्रम” इति, तस्मिन्नेव दिवसे रोहिणीनक्षत्रं, औत्थानिकं कर्म कृत्वा तत्र कौतुकाविष्टे चित्ते जात उत्सवेन तत् कर्म कर्तव्यमिति विचिन्त्य तस्मिन् दिवसे जन्मर्कस्यापि योगे सति समवेतानां योषितां सर्वस्त्रीणां मध्ये तूर्यादिवादित्रैर्नानाविधगीतैः स्त्रीकर्तृकैः पुरुषकर्तृकैश्च द्विजानां ब्राह्मणानां मन्त्रवाचकैः सह मूनोः पुत्रस्याभि- षेचनं कलशस्थापनपूर्वकं ब्राह्मणैः क्रियमाणं मन्त्रवत्प्रोक्षणरूपं चकार, मङ्गलस्नानादिकं तु पूर्वमेव कृतमस्ति, प्रोक्षणसंस्कारेभ्युदयो भवति, यतः सा सती पतिव्रता पत्युस्तथेच्छेति, अन्यत्रोत्सवकरणाभावार्थं वा ॥ ४ ॥ एवं महोत्सवमुक्त्वा बालकविस्मरणार्थ बालकस्य पल्यङ्के स्थापनमाह नन्दस्य पत्नीति, नन्दस्य पत्नी १. "श्रित्येत्यपि पाठः । २. चस्य विवरणम् । ३. चौर्यादीत्यादिरपि पाठः ।

ला० ५.] तामसप्रमाणप्रकरण स्कन्धादितः सप्तमाध्यायः। २७ औत्थानिकौत्सुक्यमना मनस्विनी समागतान पूजयती व्रजौकसः । नैवाशृणोद् वै रुदितं सुतस्य सा रुदन् स्तनार्थी चरणावुदक्षिपत् ॥ ६॥ नन्दकार्यमवश्यं करोति, अन्यथा तदभावे ज्ञातीनां वैमनस्यं स्यात्, अतः कृतमज्जनादिकं भगवन्तं सञ्जात- निद्राक्षं शयनं कारितवतीतिसम्बन्धः, आदौ स्त्रीणामाकारणं कृत्वा स्नानस्थानमलङ्कृत्य नानाविधगीतैस्तैलेन नानाविधसुगन्धद्रव्यैः स्नानं कारयित्वाभरणानि परिधाप्य कस्तूरीगोरोचनादितिलकं दत्वा धूपादिना चार्द्रता दूरीकृत्य सर्वाभरणभूषितं विधाय तदनन्तरं विप्रैः कृतस्वस्त्ययनं कृतं रक्षाबन्धनादिकं यस्य तादृशं, तेभ्यो ब्राह्मणेभ्यो बहु दत्वा सन्तुष्टानामाशिषं गृहीत्वा श्रान्ताभिनयने कृते सञ्जातनिद्राक्षं मन्यमाना शयनं कारितवती, अन्नमोदनः, आज्यं घृतं, सङ् माला, वासो वस्त्राणि, अभीष्टं प्रार्थितं, धेनवश्च, तैः सवेरेव पूजिता ब्राह्मणाः, तेषां ब्राह्मणानां ज्ञानशक्तिसङ्कोचार्थ सञ्जातनिद्राक्षता, अन्यथाशिषो न प्रयुञ्जीरन् , शनैरिति, यथा निद्राभङ्गो न भवति तथा हस्तलाघवेन, ब्राह्मणानां प्रीतिश्चतुर्विधा भवति, आदौ साज्य- भोजनेन, पश्चाद वस्त्रैः, उभाभ्यां स्वयं पूर्णा भूत्वैहिके यावदपेक्षितं तत् प्रार्थयन्ति, ततो वैदिककर्मसिद्ध्यर्थ धेनवश्च, एवं चतुर्भिः पूजिताः, लौकिकख्यापनार्थ मालया च, पूजिता अन्तःकरणपूर्वकं स्वस्त्ययनं कुर्वन्ति, तेषां यथा परमार्थसर्वदृष्टिस्तिरोहिता भवति तथा सम्यङ् निद्रा ॥ ५॥ एवं कृते प्रसङ्गात् सर्वेषामेव बहि- र्मुखता जातेत्याहौत्थानिकौत्सुक्यमना इति, ब्राह्मणार्थे निमीलने कृते भगवतो ज्ञानशक्तेनिमीलितत्वा- लौकिकप्राबल्यं, अथापि प्रपञ्चात् पूर्वाध्यायाभ्यां निरोधस्योक्तत्वान्नात्यन्तं लौकिके यशोदाया बुद्धिः किन्तु भगवत्सम्बन्धिलौकिके, तदाहौत्थानिके कर्मणि शोभार्थ यदौत्सुक्यमुत्सुकता लौकिकाभि- निवेशस्तत्रैव मनो यस्या इति, भगवत्सम्बन्धस्य गौणत्वात् प्रवाहस्य बलिष्ठत्वाद् भगवदंशमपि परित्यज्य लौकिकसम्भावनार्थमभिमानवती च जातेत्याह मनस्विनीति, एवं बाह्याभ्यन्तरभेदेन तस्या बहिर्मुखत्वं जातं, स्वकार्यमपि कृतवतीत्याह समागतान् पूजयतीति, येलौकिकव्यवहारेण सम्पगागतास्तान् पूजयती (पूजयन्ती), मालाकुङ्कुमोपहारैर्बालाः पुरुषाः स्त्रियश्च सर्वे पूजिता इति पुल्लिङ्गनिर्देशः, ते चेत् सन्तो भवेयुः सर्वथा भग- बदीयास्तथापि न दोपः स्यादिति तद्व्यावृत्त्यर्थमाह व्रजौकस इति, व्रज एव तामस ओक: स्यानं येषामिति तामसभूयिष्ठ एव स्थिता न तां पदवीमारोढुमर्हन्ति, भगवांस्तु निरोधार्थमेव समागत इति लौकिक- प्रकारेणैव प्रपञ्चविस्मरणपूर्वकं स्वासक्तिं करिष्यन् रोदनं कृतवान् मदीया अप्येवं बहिर्मुखा जायन्त इति च ज्ञापयितुं, कल्पान्तरे ज्ञानशक्तितिरोभावे तस्मिन् शकटे दैत्यः कश्चिदाविष्टः स नेतुं समागत इति तन्निवृत्त्यर्थं रोदनं शकटाक्षेपश्चेत्याहुः, अत एव ब्रह्माण्डपुराणे " शकटासुरखण्डन" इतिभगवन्नाम, अत्र तु शकटमात्रं तद्धर्माभिनिवेशो वा, साधारणधर्माणां परित्यागासम्भवात् , एवं सर्वभावेन बहिर्मुखत्वे भगवता प्रबोध्यमानापि प्रकारं न गृहीतवतीत्याह नैवाशृणोदिति, एवकारेण श्रवणसम्भावनापि निवारिता, ननु श्रुत्वैव कार्यव्यग्रोपेक्षां कृतवतीति कथं न कल्प्यते तत्राह वै निश्चयेन, अन्यथा चित्तमर्धमप्यत्रागतं भवेत् तदाधिकरोदनेनापि समागच्छेत् , अतस्तन्निषेध एव, सुतस्य रुदितं श्रुतं न विलम्ब सम्पादयति, तत्रापि सा महता कष्टेन प्राप्तपुत्रा, अश्रवणे वा हेतुः पूर्वोक्तन्यायेन बहिर्मुखेति, तदा भगवान् रोदनमात्रेण कार्यासिद्धिं ज्ञात्वा रुदनेव स्तनार्थी सन् चरणावूर्ध्वमुदक्षिपत् , यथा बालकाश्चरणावूर्ध्वधर्षणेन प्रसारयन्ति, वाक्यापेक्षया कृतेः प्रबलत्वात् तथाकरणं, अनेन भगवान् मनसैव निरोधं कथं न कृतवानिति परिहृतं, १. अत एव जागरोत्सवे वचन गृहविशेषे धूपोपचारः । २. श्रीधरादयः । .

. श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [श्लो० ७. अधःशयानस्थ शिशोरथीन:प्रवालमृगडिहतं व्यवर्तत । विध्वस्तनानारसकुप्यभाजनं व्यत्यस्तचक्राक्षविभिन्नकूवरम् ॥ ७ ॥ केवलक्रियायां क्रियाबुद्धिः स्यात् , शकटभङ्गेप्यक्लिष्टकारित्वं न स्यात् , एवं कृते त्वानुषङ्गिकं जातमिति न क्लिष्टं, पूर्व रोदनं यशोदाया बहिर्मुखत्वज्ञापनायान्यथा मनसैव कथं न कुर्यात् ? अयं च निरोधः स्वार्थः, अन्यथा पञ्चानां परार्थानामग्रे वक्ष्यमाणत्वात् पञ्चपर्वाविद्या तेनैव नाश्यत इति व्यर्थमेतत् स्यात्, तच्च स्वप्रयोजनं स्तनार्थित्वं, स्वार्थमुत्पन्नस्य स्वनियोगावश्यकत्वज्ञापनाय स्तनमेवापेक्षते न तु पानं, तदने वक्ष्यति स्वयमेव " नाहं भक्षितवा'निति मृत्प्रसङ्गे, अतः पूतनास्तनपानसमये यावन्तो बालास्तद्भक्षिता अत्र समा- गतास्तेषामन्नार्थमवश्यं स्तनापेक्षा, दुष्टत्वं पूतनासम्बन्धिक्रोधेनैव नाशितं, तान् स्वसमानत्वेन सम्पादयितुं स्वभोग्यगोपिकादर्शनदोषाभावार्थ तानेव तासु समारोपयितुं ज्ञानं चोपदेष्टुं प्रथम स्वकीयमेव सर्वथा निर्दुष्टं तेभ्यो ददाति, ते च बहवः पीडिता भवन्ति, अतः स्तनेर्थित्वं, भक्त्यैव तेषां निस्तारो जात इति ख्यापयितुं चरणयोर्ध्या- पार उक्तः, अवतारविषयिणी भक्तिरतिपुष्टेति ज्ञापयितुं द्विवचनम् ॥६॥ एवं कृते यज् जातं तदाहाधःशयान- स्येति, अधस्तादवलम्बे शकटस्य पृष्ठभागाधः पल्यङ्के शायितो भगवाञ् छायार्थ, यदि निरोधो नाङ्गीक्रियते तर्हि भवत्कृता छायापि मास्त्विति ज्ञापयितुं शकटाक्षेप इतिज्ञापयत्यधःशयानस्येति, शिशोरित्युत्थाना- समर्थस्य, तथाबुद्धिः सम्पादितेति नान्यथा करणं, भगवतो भिन्नतया सम्बन्धित्वेन निरूपणं चरणस्यैव माहात्म्यज्ञापनार्थ, अनः शकट, अल्पकप्रवालमृद्वद्मिहतं सद् व्यवर्तत विपरीततया पतितं, तद्गतानां कार्याणां नाशस्त्वग्रे वक्ष्यते, सकार्यस्यानसो भङ्गो जातः, पूतनायां तु भगवत ओष्ठद्वयसम्बन्धो हस्त- द्वयसम्बन्धश्च जात इति तदपेक्षयाधिकमाहात्म्यज्ञापनार्थमल्पसम्बन्धो वक्तव्यः, अत एव विचारक्रमेणैतानि चरित्राणि गृहीतानि, तदुक्तं द्वितीयस्कैन्धविवरणे, अत्यन्तमल्पावल्पको प्रवालापेक्षयापि मृदू, अल्पको वा प्रवालो नूतनाम्रपत्रमत्यारक्तं तदपेक्षयापि मृदु भगवच्चरणारविन्दं तथैवारक्तमूर्ध्वरेखायुक्तं च, तादृशाघ्रिभ्या- मङ्घ्रिणा वा हतमल्पं ताडितं सच् चलनेप्ययोग्यं विपरीततया पतितं, मारणसमये चरणस्य महत्त्वं जातं भविष्यतीतिशङ्काव्युदासाय प्रवालतुल्यतया वर्णितं, मृदुत्वमात्रे दृष्टान्तो मा भवत्वित्याकृतावपि समानमिति वक्तुमल्पकता निरूपिता, तदपेक्षयापि मृदुत्वकथनं शकटादेः प्रत्युत सुखजनकमिति ज्ञापयितुं “पदा शकटोप- वृत्त” इतिविचार एकमेव पदं गृहीतमत्र तु चरणावित्युक्तं, समासे सन्दिग्धत्वात् करणतकस्यैव युक्तेत्यङ्घ्रिणा हतमितिसमासः, अतोवस्थासाधनवैपरीत्यं कार्ये निरूपित, भाराकान्तमनो वालयितुं न शक्यमिति ख्यापयितुं विशेषणद्वयमाह बाह्याभ्यन्तरभेदेन विध्वस्तेति, विशेषेण ध्वस्तान्यधःपतितानि नाना- विधरसयुक्तानि घृतमधुगुडदधिनवनीतादियुक्तानि कुप्यभाजनानि चर्मणा निर्मितानि रसस्थापनार्थ, कुप्यानि तस्मिन् देशे प्रसिद्धानि, अनेन तेषां स्थापनमपि भगवतो न सम्मतं सर्वनिधेभगवत एव विद्यमानत्वात् ,भाजनपदेन तान्येव व्यवहारपात्राणीति ज्ञापितं, एवं शकटस्थितानां सर्वेषामधःपात उक्तः, न हि भगवदुपरि रसान्तरं स्थातुं कोति, अतो भक्तरल्पांशेनापि ते सर्वे निराकृताः, भिन्नरसवान् भगवदुपरि स्थितः स्वरूपतोपि नष्ट इत्याह व्यत्यस्तचक्राक्षविभिन्नकूबरमिति, व्यत्यस्ते इतस्ततः पतिते चक्रे तन्मध्ये स्थितोक्षोपि लोहमय इतस्ततः पतितो यस्य विशेषेण भिन्नं कुबरमग्रिमभागो लम्बो यस्य, व्यत्यस्तचक्राक्षं च तद् विभिन्नकूबरं च, संसारकालचक्र उभयसङ्ग्राहकश्चाहङ्कारो विशेषेणात्यन्तमस्तं गतो भवति, भक्त्येकदेशेनापि क्रियाशक्तेमहत्त्वात् १, “स्थापकेत्यादिपाछोपि प्रतीयते । २. आयुईरतीतिश्लोके ।

श्लो० ८.१०.] तामसप्रमाणप्रकरणे स्कन्धादितः सप्तमोध्यायः। २९ सम्प्रत्यय" दृष्ट्वा यशोदाप्रमुखा व्रजस्त्रिय औत्थानिके कर्मणि याः समागताः । नन्दादयश्चाद्भुतदर्शनाकुलाः कथं स्वयं वै शकटं विपर्यगात् ॥ ८॥ ऊचुरव्यवसितमतीन् गोपान् गोपीश्च बालकाः । रुदतानेन पादेन क्षिप्तमेतन संशयः ॥९॥ न ते श्रदधिरे गोपा बालभाषितमप्युत । अप्रमेयं बलं तस्य बालकस्य न ते विदुः॥१०॥ तथात्वमुचितमेव, कूवरमुच्चस्थानमप्यस्तीति कूबरं तद् विशेषेण कालात्मकेन भिन्नं भवत्येव, स्वभावत उच्चा अपि भगवद्विरुद्धधर्मा भक्त्यंशेन नश्यन्तीति, अनेन भगवांस्तद्गृहमेव दूरीकृतवानित्युक्तम् ॥ ७ ॥ तदा लौकिकनाशात् तन्नाशद्वारा तत्कर्तरि भगवत्यभिनिविष्टा इति वक्तुं प्रथमतस्सर्वेषां तन्नाशचित्तत्वमाह दृष्ट्वेति, दूरे पतितमन एव दृष्ट्वा न तु भगवन्तं तत्सम्बन्धं वा, स्त्रीषु यशोदा मुख्या पुरुषेषु नन्दः, गोपिकानां ज्ञानं भविष्यतीति तव्यावृत्त्यर्थमाह व्रजस्त्रिय इति, तथापि " मुख्य कार्य- इतिन्यायेन गोपिका एव व्रजस्त्रियो भविष्यन्तीत्याशङ्कयाहौत्थानिके कर्मणि याः समागता इति, यशोदायाः साधारण्ये प्रवेशान्मुख्या अपि साधारण एवाभिनिविष्टा नन्दादयोप्यौत्थानिक कर्मेति कृत्वा गृह एव स्थिताः, अन्यतोपि समागता अन्ये चकारेणोक्ताः, स्त्रीणामपेक्षयाद्भुतदर्शनेनाकुला जाताः, किं जातं किं भविष्यतीति शकटपाते सर्वे हेतुं विचारयन्तीत्याह कथमिति, स्वयमेव बलीवर्दाद्या- वातव्यतिरेकेणैव वै निश्चयेन स्वयमेव शकटं विपर्यगात् विपर्ययं प्राप्तवद् विपरीततया परितश्च भिन्न- तया शकलतश्चागाद् कथं तावद्दूरे पतितमित्यर्थः ॥ ८ ॥ भगवत्यत्यन्तमसम्भावना तेनान्योक्तेपि निमित्ते तेषां विश्वासो न जात इत्याह द्वाभ्यामूचुरिति, ननु विपरीतभावनायुक्तेभ्यो न मितिसिद्धान्तात् कथमुक्तवन्त इत्याशङ्कयाह वालका इति, ज्ञानवन्तोपि विवेकरहिताः परस्व- भावाधिकारादिकं न विचारितवन्तः, तर्हि कथं ज्ञानवत्त्वमित्याशङ्कय तेषां श्रोतृणां विपरीतज्ञानं स्वभावदोषश्च नास्तीत्याहाव्यवसितमतीन् गोपान् गोपीश्चेति, न व्यवसिता निश्चयं प्राप्ता मति- येषां, उपायान्वेषणपरा एव न तु विपरीततया किञ्चिन्निश्चितवन्तस्तथा सति न वक्तव्याः स्युः, गोपा गोप्य इति स्वभावतो दोषाभावो गोरक्षणधर्मपातिव्रत्यधर्मश्चोक्तः, चकारात् तादृशा एव ब्राह्मणाः, अन्येपि, उपायान्वेषणेपृष्टेनापि वक्तव्यमित्यनेन बालकेन रुदतैतदनः पादेन क्षिप्तं नास्त्यत्र संशयः, न हि दृष्टेनुपपन्नं नाम व्याघातात् , दृष्टानुसारिण्येव कल्पना च कर्तव्या, अतः संशयाभाव इति बालाभिप्रायः, रोदनं निमित्तमिति नास्यापि दोषः, कर्तृकरणयोरसम्भावनया नाङ्गीकृतवन्तः ॥ ९॥ प्रत्यक्षमेतत् प्रत्यक्ष- मूलकं च वाक्यं तर्कविरुद्धं नाङ्गीकर्तव्यमिति, तदाह न ते श्रदधिरे गोपा इति, गोप्यस्तु मध्यस्था जाताः, त इति बहिर्मुखाः, ज्ञानं तु जातं, अत्यन्तासत्यप्यर्थे शब्दाज् ज्ञानोत्पत्तिसम्भवात् , अतो ज्ञातवन्तो न तु श्रद्दधिरे, यतो गोपा अलौकिकज्ञानरहिताः, हेत्वन्तरमप्याह बालभाषितमप्युतेति, बाला भ्रमाद- दृष्टमपि वदन्ति, भूतादिना तथा कृते क्षिप्तोपि पादोन्यथासिद्धः करणत्वेन ज्ञात इति, बालास्तु भगवत्परा भगवत्सामर्थ्य भूताद्यभावं च दृष्टवन्तः, अन्यैस्तु तदर्शनाभावात् स्वप्रतीतिसिद्धमेवाङ्गीक्रियत इति, अश्रद्धायां हेतुमाहाप्रमेयमिति, बालकस्य बलं न ते विदुः, यद्यपि बलं न प्रत्यक्ष तथापि कार्येणानुमीयते, स्वस्मिन्' कार्यकरणभावस्य प्रत्यक्षसिद्धत्वात् , यद्ययं बलिष्ठः स्यात् स्वयमप्यन्तत उत्तिष्ठतु कार्यान्तरं वा वक्तव्य- , श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [ श्लो० ११-१३. , रुदन्तं सुतमादाय यशोदा ग्रहशङ्किता। कृतस्वस्त्ययनं विप्रैः सूक्तैः स्तनमपाययत् ।। ११ ॥ पूर्ववत् स्थापितं गोपैलिभिः सपरिच्छदम् । विप्रा हुत्वार्चयाञ्चक्रुर्दध्यक्षतकुशाम्बुभिः ॥ १२॥ येसूयानृतदम्भेाहिंसामानविवर्जिताः ॥ न तेषां सत्यशीलानामाशिषो विफलाः कृताः ॥ १३ ॥ कुर्याद् रोदनं च न कुर्यात् , अतो नैयायकवदिदानीन्तनमीमांसकवद् वा भ्रान्ता बलं न विदुरित्यर्थः, तत्र हेतुरप्रमेयमिति, न तेषां दोषो नापि तर्कस्य, किन्तु तस्य बालकस्य बलमेवाप्रमेयं प्रमातुमयोग्य मलौकिका- स्तु ये भावा न तांस्तकेंण योजये"दिति तु न तेषां बुद्धिः, अलौकिकत्वनिश्चयाभावात् सन्देहस्त्वनेन जातः, जिज्ञासोत्पादिका तु पूतना, वसुदेववाक्यपूतने च सन्देहोत्पादिके, यद्यपि बालका अलौकिकं जानन्तीत्यपि न जानन्ति तथापि मुख्येनैव चरितार्थत्वादेकमेवोक्तम् ॥ १० ॥ ततोत्यन्तमविचार्य लौकिक एवं प्रवृत्त इत्याह रुदन्तमित्यादिसप्तभिः, चतुष्टयमत्र कर्तव्यमुत्पातोयमिति रोदनप्रतीकारो ग्रहकृतोपद्रवस्य बालकानिष्टस्य निवृत्तिः शकटस्थापनं शकटसम्बन्ध्युत्पातपरिहारश्च, वस्तुतस्तु द्वयमेव कर्तव्यं रोदनप्रतिकारः शकटस्थापन च, तथा सतिलौकिकबुद्धिदृढा भविष्यतीति तन्निवृत्त्यर्थ भगवदिच्छयोत्पन्नभ्रमस्य वर्णनं भगवञ्चरित्रत्वाय, तत्रादौ भगवद्विषयकं द्वयमाह, तेषामज्ञानस्थापनार्थ भग्नेपि शकटे रोदनं, ग्रहसम्भावनायामपि मुतत्वाद् ग्रहणं, यशोदेति लौकिकबुद्धिनिपुणेति ग्रहशङ्कासम्भावना, कश्चिद् बालग्रहादिस्तत्र प्रविष्टो रोदनं कारयतीतिसम्भावना, अतः शीघ्रं स्तनं न दत्तवती किन्त्वभिज्ञैर्ब्राह्मणैः कृतं स्वस्त्ययनं यस्य रक्षाबन्धनाभिमन्त्रादिकं स्वस्त्ययनं सुष्टुक्तं येषां वचनं प्रमाणमतस्ते रक्षां कृत्वा तद्गतदोषादर्शनात् सुष्ठूक्तवन्तः, ततः स्तनमपाययत् ॥ ११ ॥ एवं भगवति द्वयमुक्त्वा शकटे द्वयमाह षद्धिर्भगवद्गुणैरेवानिष्टनिवृत्तेः, पूर्ववदिति, यथा तस्यानसः संस्थानं पूर्वमासीद् यथा वा कुप्यस्थितिस्तदाह पूर्ववदेव गोपैः स्थापितमिति, बलिभिरिति तस्य महत्त्वमुक्तं, परिच्छदादिसहितं, तस्य परितो भागा एव परिच्छदा, अथवा पूनार्थ परिच्छदं वा सम्पादितवन्तः, तादृशं शकटमेव शकटाधिष्ठात्री देवतां तत्रावाह्य विप्रास्तदभिज्ञा विशेषेण रिक्त- पूरणसमर्थाः, प्रथमतोनिष्टनिवृत्त्यर्थ सामान्यतो होमं कृत्वाज्येन व्याहृतिभिः सर्वत्र निवृत्ते सामान्यहोमः पश्चात् तच्छकटमर्चयाञ्चक्रुर्दधिमिश्रिता अक्षतास्तस्य परितः स्थापिताः कुङ्कुमाक्षता इव कुशसहितानि प्रोक्षण- जलानि च, ब्राह्मणैः क्रियमाणं समन्त्रकमेव भवति ॥ १२ ॥ एवं सामान्यत उभयोः प्रतीकार उक्तः, यशोदाप्रेरणयैवैतदुभयं जातं, नन्दस्तु विशेषाकारेण द्वयमेकत्र स्थापयित्वा शान्ति कृतवानित्याह येसूयातेति- चतुर्भिः, नन्दस्यादौ ब्राह्मणेषु वैशिष्टयबुद्धिस्ततः शकटे समारोप्याभिषेकस्ततः स्वस्तिवाचनादिपूर्वकं होमो दानं च, एवं कृतस्य वैयर्थ्याभावसाधनं च पञ्चमे वक्ष्यति, तत्रादौ ब्राह्मणेषु महत्त्वबुद्धिर्जातेत्याह य इति, ब्राह्मणे चेदलोकिकी बुद्धिस्तद्वाक्याद् भगवत्यप्यग्रे भविष्यतीति सूचितं, ब्राह्मणाः स्वभावत उत्तमा अविकृतब्रह्मस्वरूपा दोषषट्केन तु ते प्राकृता भवन्ति, भगवति तु षड् गुणा अधिकाः, निर्दुष्टो ब्राह्मणो धर्मी भगवांश्चैक- स्तुल्यो वा, अतो यथा भगवद्विचारितं सत्यमेव भवति तथा ब्राह्मणोक्तमपि सत्यं भवति कृतं तु सर्वेषां पूर्वाविरोधि, तत्र ब्राह्मणेषु षड् दोषास्तत्सामर्थ्यप्रतिबन्धकास्तदहितास्तु निर्दष्टास्तान् दोपान् वर्जनार्थ गणयति, कामक्रोधलोभा दोषा अप्यवस्थाविषयभेदेनैव दोषा भवन्तीति ते न गणिताः, तत्कार्यभूता एव " श्लो० १४-१७.] तामसप्रमाणप्रकरणे स्कन्धादितः सप्तमोध्यायः। ३१ , इति वालकमानीय सामयजुरुपाकृतैः ॥ जलैः पवित्रौषधिभिरभिषिच्य द्विजोत्तमैः ॥ १४ ॥ वाचयित्वा स्वस्त्ययनं नन्दगोपः समाहितः ॥ हुवा चाग्निं द्विजातिभ्यः प्रादादन्नं महागुणम् ॥ १५ ॥ गावः सर्वगुणोपेता वासःस्रक्रुक्ममालिनीः ।। आत्मजाभ्युदयार्थाय प्रादात् ते चान्वयुञ्जत ॥ १६ ॥ विप्रा मन्त्रविदो युक्तास्तैर्याः प्रोक्तास्तथाशिषः ॥ ता निःफला भविष्यन्ति न कदाचिदपि स्फुटम् ॥ १७ ॥ सर्वावस्थासु सर्वविषया ये दोषास्ते दोषा इति षड् गण्यन्ते, असूया मुख्यो दोषः, अदुष्टे दोषारोपणात् , अयं बाह्यविषयको दोपः, अनृतं वाचनिको मिथ्याभाषणरूपः, दम्भः परस्य स्वोत्कर्षख्यापकचेष्टादिः, "निमित्ताभावे तु नैमित्तिकाभाव"श्चेत् तदा दम्भः, ईर्ष्या परगुणानामसहनेन दोषचिन्तनं मानसं, ततो हिंसा मारणं, तस्मिन्नपि सम्पन्ने मानोभिमानः, एवमेकेनैव त्रिदोषेण प्राणी नष्टो भवति किम्पुनद्वयेन ? असूयानृते दम्भहिंसे ईर्ष्यामानौ वाक्कायमनसामेत एव दोषाः, एतद्विवर्जिताश्चेत् तेषामाशिषो न विफलाः कृता भवन्ति, विफलकर्तारस्तु निवृत्ता इति, ननु प्रकृतिसम्बन्धो वर्तत इति कायवाङ्मनोदोषनिवृत्तावपि स्वभावदोषस्य विद्यमानत्वात् कथं निर्दुष्टतेत्याशङ्कयाह सत्यशीलानामिति, सत्यमेव शीलं स्वाभाविको धर्मो येषां, यद् भगवतः सत्यरूपमुक्तं तदेव तेषां स्वभावः सत्यत्रतादिः, एतादृशा ब्राह्मणा ब्रह्मविदः, तेषामिति पुनरनुसन्धानं वाक्यसमये दोषाभाववत्त्वज्ञापनार्थम् ॥ १३ ॥ अत उत्पातेषु सत्स्वपि तेषां वाक्यान्निवृत्ता भविष्यन्तीति ज्ञात्वा बालकं शकटे समारोप्याभिषेकं कारितवानित्याहेतीति, स्वयं यशोदा हस्ताद् गृहीत्वा तत्र शकटनिकटे समानीय वेदत्रयविद्भिर्ब्राह्मणैः सामयजुत्रिविधैरपि मन्त्रैरुपाकृतैरुप समीप आसमन्तात् कृतै- मन्त्रैरलौकिकत्वेनोत्पादितजलैः पवित्रा औषधयो येषु शतावर्यादयस्तादृशैः, पवित्रैरनुपहतै लैरभिषिच्य स्नानं कारयित्वा मार्जयित्वा च ॥ १४ ॥ ततो भगवन्तमलङ्कृत्य स्वस्तिपुण्याहवाचनादिकं कारयित्वा स्वयं नन्दगोप उपविश्य स्वयमपि समाहितः सावधानो भूत्वा ब्राह्मणसन्निधाने होमं कृत्वा ब्राह्मणानावपि होमं कृतवांस्तदाह द्विजातिभ्यः प्रादादन्नमिति, महागुणं बहुव्यञ्जनसहितं भोजितवानित्यर्थः ॥ १५ ॥ तदा दक्षिणा गावः सर्वगुणोपेता बहुदोग्भ्यः सुन्दर्यः साध्व्यश्च, गवामलङ्कारार्थं वासः सङ् माला रुक्ममयाः सुवर्णमय्यो मालाश्च, सर्वालङ्करणयुक्ता गावो दत्ता इत्यर्थः, प्रयोजनमाहात्मनाभ्युदयार्थायेति, आत्मजस्य भगवतोभ्युदयोभिवृद्धिः स एव तस्यार्थः प्रयोजनं, अयमर्थशब्दोर्थान्तरव्युदासार्थः, ते चान्वयुञ्जत, अनु पश्चात् प्राप्त्यनन्तरमाशिषोयुञ्जत योजितवन्तः, न केवलमुक्तवन्तः ॥ १६ ॥ ननु कथमेवं ज्ञायते तत्राह विप्रा इति, प्रथमतो विपा विशेषेण पूरका निर्दुष्टास्तदैव तेषां विशेषपूरकत्वं भवति, तत्रापि मन्त्रविद ऋषयस्तत्रापि युक्ताः सत्कर्मकर्तारः, एवं गुणत्रययुक्तैर्या आशिषः प्रोक्तास्ताः कदाचिदपि निष्फला न भविष्यन्ति, स्फुटं सत्यं, अतस्तैर्योजनं युक्तमेव ॥ १७ ॥ एवमेकं चरित्रं यशोदानन्दयोः भगवत्परतासाधकं निरूप्य पृष्टानां पञ्चानां मध्ये प्रथमस्योत्तरत्वेनोपा- ख्यानमारभत एकदेत्यष्टादशभिः । ."

श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [ श्लो० १८-१९. एकदा रोहमारुढं लालयन्ती सुतं सती ॥ गरिमाणं शिशोर्वोढुं न सेहे गिरिकूटवत् ॥ १८ ॥ भूमौ निधाय तं गोपी विस्मिता भारपीडिता ॥ महापुरुषमादध्यौ जगतामास कर्मसु ॥ १९ ॥ वाचिकं कायिकं चोक्तं मानसं तूच्यतेधुना । अन्यथाज्ञानतः सर्व करोतीति भविष्यति ॥ १ ॥ लौकिकेनापि भावेन यावत् कृष्णैकतानता। तावन्नूतनकृत्यानि न करोति हरिः स्वयम् ॥ २ ॥ वर्षेण तु परावृत्तिर्धर्माणां भवतीति हि । अतो वर्षान्तरे कृत्यं तृणावर्तगतं कृतम् ॥ ३ ॥ देहबुद्धिर्भगवति निवृत्ता चेन्निवर्तते । तत्पराणां देहमतिः सजातीयाविशेषतः ॥ ४ ॥ अष्टादशविद्यास्वपि भगवतो देहो नास्तीति ज्ञापयितुमेकदैव गुरुत्वं लघुत्वं चोच्यते, पूतनावधमारभ्य कंसो जानाति गोकुले। हरिरस्ति जगद्वन्द्यो मम हन्तेति सर्वथा ॥ ५ ॥ तमानेतुं तृणावर्त ततः प्रेषितवान् स्वयम् । त्रयो ह्यत्यन्तबलिनः सर्वकार्यविचक्षणाः ॥ ६ ॥ तृणावर्तो बकः केशी तत्राप्याद्यो महान् स्मृतः । तृणवत् सकलं विश्वमावर्तयति सर्वथा ॥ ७ ॥ तृणावर्तस्ततः प्रोक्तस्तमादौ प्राहिणोत् ततः ॥ ७ ॥ भगवान् सर्वज्ञः, तृणावर्त मथुरातः प्रचलितं ज्ञात्वा गुरुपदार्थ जनयतीति स्वयमेव गुरुर्जातः, तत्र यशोदाया गुरुत्वज्ञानं भवत्विति तस्यास्ततो व्युदासार्थं च तस्या अङ्क उपविष्टः स्तनं पिबन्नेव गुरुर्जात- स्तद् भगवतः सहजं गुरुत्वं तदानीमाविर्भूतं, तद् गुरुत्वं यशोदा ज्ञातवतीत्याहैकदेति, कालविशेषस्तत्राज्ञातो- निमित्तश्च, रोहमङ्कमारूढमारुह्योपविष्टं, स्वयमेव लालयन्ती कुन्तलानि प्रसारयन्ती मुखचुम्बनादिना भगवतो हासं जनयन्ती जाता, सुते हि तत् कर्तव्यं, सतीति तस्यास्तथाभाग्ये हेतुभूतो धर्म उक्तः, लौकिकभावेनैव स्नेहादि करोतीति तन्निवृत्त्यर्थ गुरौ जाते शिशोर्गरिमाणं वोढुं न सेहे न शक्ता, गिरि. कूटवद् गिरिसमूहमिव यथा भूमिरप्यैकत्र पर्वतकोटीनां समुदायं न सहते, इयमप्यदितिराधिदैविकरूपापि न सेह इति वक्तुं दृष्टान्तः, अन्यथायुक्तो दृष्टान्तो नोक्तः स्यात्, क्रमेण भगवान् गुरुर्जात इति न तस्या भङ्गः ॥ १८ ॥ अत एव यावच्छक्यं गृहीत्वाशक्ये भूमौ स्थापितवतीत्याह भूमौ निधायेति, तं भगवन्तं, भूमौ स्थापने हेतुभूतस्याविवेकस्य निधानमाह गोपीति, यद्यपि महती तथापि गोपभार्या, स्थापनानन्तरं भारं स्मृत्वा विस्मिता, ननु पुत्रगुरुत्वं मातुः सुखदं भवतीति कथं विस्मय इति चेत् तत्राह भार- पीडितेति, भारेण पीडिता, अलौकिकोयं भारः पीडाजनकत्वाद् , अतो विस्मिता, अग्रे भीतापि भविष्यतीति क्रमेण माहात्म्यज्ञानात् , तदा किं कर्तव्यमिति विचार्योत्पातशङ्कया महापुरुषं पुरुषोत्तम अन्यथा श्लो०२०-२२.] तामसप्रमाणप्रकरणे स्कन्धादितः सप्तमोध्यायः । दैत्यो नाना तृणावर्तः कंसभृत्यूः प्रणोदितः ॥ चक्रवातस्वरूपेण जहारासीनमर्भकम् ॥ २० ॥ गोकुलं सर्वमाकृण्वन मुष्णेश्वझूषि रेणुभिः ॥ पूरयन् सुमहाघोरं शब्देन प्रदिशो दिशः ॥ २१ ॥ मुहूर्तमभवद् गोष्ठं रजसा तमसावृतम् ॥ सुतं यशोदा नापश्यत् स्वयं न्यस्तवती यतः ॥ २२॥ दध्यौ ध्यातवती, सर्वानिष्टनिवृत्त्यर्थ महापुरुष एवायमिति वा ध्यातवती जगतां ब्रह्माण्डकोटीनामपि मध्ये स्वामिनं, अयं सर्वजगतां महापुरुष इति, सतीतिपदाद् गुरुत्वेन पुरुषान्तरं ज्ञात्वा व्रतक्षतिभयभीतेव परमपुरुषं सर्वेषामेव भर्तारं ज्ञातवती, आसमन्ताद् दध्याविति भवत्ययं न वेति ध्यानं प्रतीत्यर्थ, ततो भगवन्तं ज्ञात्वा तस्य परिचर्यार्थ स्नानादिकर्मस्वास, तत्तत्कार्याणि कर्तुमारब्धवतीत्यर्थः, क्षणवियोगे प्राणा एव गच्छेयुः, समागतस्तु मोहयिष्यतीति न काप्यनुपपत्तिः, लालनफलमानुषङ्गिकं ज्ञानमिति च, अज्ञानाद् वा जगतो भर्तारं भगवन्तं ध्यात्वा गृहकर्मसु गतेति, उभयोराद्यः साधीयान् ॥१९॥ एवं मातरि निर्गतायां तृणावर्तः समागत इत्याह, दैत्य इति जात्यैव क्रूर उक्तो नाम्नैव तृणावर्त इतिमाहात्म्य- मप्रतीकारे हेतुः, कंसभृत्य इत्यवश्यानिष्टकर्तृत्वज्ञापकं, प्रणोदित इति तेनैव कंसेन प्रकर्षेण प्रेरितः, एवं चतुर्भिधमैस्तस्य महत्त्वमुक्तं तन्निराकरणे भगवन्माहात्म्यज्ञापनार्थ, दैत्यत्वेन देवविरोधित्वं नाना महाबलत्वं भृत्यत्वेन स्वधर्मो वचनं ततोप्यावश्यक, सत्त्वरजस्तमोगुणानां प्रत्येक समुदायभेदेन विरोधित्वं चोक्तं तं तृणवद् भगवान् निराकरिष्यतीति चतुर्विधपुरुषार्थबाधकत्वेनोक्तस्तादृशः सर्ववञ्चनार्थ कृत्रिमवेषं कृत्वा जहारेत्याह चक्रवातस्वरूपेणेति, चक्रस्वरूपो वातश्चक्रवातः, चक्रवाते स्वरूपं यस्य, परितश्चक्रवातं कृत्वा वायुरायातीति भ्रममुत्पाद्य तत्सङ्ग एव लघुदेह उपविष्टं भगवन्तं निधिमिव जहार, ननु महत्त्वात् कथं जहारेत्याशझ्याहार्भक- मिति, वेगवशान्महाबलः स्वोपास्यभगवबलाद् भगवन्तं जहार, सहजबले उत्थातुमेव न शक्नुयात् , अत एव भग- वानक्लिष्टकर्मा ॥२०॥ तस्य तृणावर्तस्योपासितमायारूपस्य भगवन्माहात्म्यमाह पञ्चभिः, अविद्यारूपस्तेषामिति, अयोग्यतादर्शने हि हरेश्चादर्शनं ततः। सर्वाज्ञानं ततः स्वस्मिन् यशोदास्नेह एव च ॥ १ ॥ गोपिकानां तथा स्नेहः पञ्चपर्वाणि लौकिकात् ॥ प्रथमतो ज्ञानं तत्कृतं वक्तव्यं, ज्ञानेशत्रयं वेद्यांश इन्द्रियांशोन्तःकरणांशश्चेति त्रयाणामपि तत्कृतदोष- सम्बन्धमाह, स हि न तूष्णीं जहार किन्तु गोकुलं सर्वमावृण्वन्नन्धकारेण वेष्टयन्', तमोगुणकार्यमेतत् , रजोगुणकार्यमाह मुष्णन् चढूंषि रेणुभिरिति, सर्वेषां दृष्टिः पांसुभिः कृत्वा हृता, देवतात्वात् सा दृष्टिस्तेन च गृहीता स पश्यति ते न पश्यन्तीति, न तु केवलं तिरोहिता, अन्तःकरणे वैयग्र्यं चोत्पादयतीत्याह पूरयन्निति, सुमहाघोरं यथा भवति तथा शब्देन दश दिशः पूरयन् यथा कुसूले धान्यं निर्बन्धेनापि पूर्यत एवं यथा सर्वदिक्षु भयमुत्पद्येत तथा शब्दं पूरितवान् , आधिदैविकादित्रयस्यापि भयमुत्पादयितुं पदत्रयं सुमहाघोरमिति, प्रदिश इति प्रकृष्टा दिशो देवसम्बन्धिन्यः, अनेन देवपक्षपातिनामेव भयं न दैत्यपक्षपातिनामित्युक्तम् ॥ २१ ॥ ततो भगवदर्शनमाह मूहूर्तमिति, बहिःस्थितानां गोकुलदर्शनमपि न जातं, बहिर्मुखानां भगवद्दर्शनं कथं भविष्यतीति वदन् दृष्टान्तपूर्वकमाह, मुहूर्त घटिकाद्वयं, गोष्ठं सर्वमेव गोकुलं रजसा पांसुना तमसा तमोरूपेण रजोजनिततमसा वावृतमासीत् , ततोन्तःस्थितं भगवन्तं यशोदापि नापश्यत्, सुतबुद्धिश्च जाता, ननु भगवदर्शनं सर्वेषामेव दुर्लभं किमाश्चर्यं यशोदा नापश्यदिति तत्राह स्वयं न्यस्तवती यतः, यतः स्वयमेव तत्र न्यस्तवती स्थापितवती, स्वस्थापितं स्वयं द्रष्टुमुचितमेव तथाप्य- .

३४ श्रीमद्भागवतदशमस्कन्धसुबोधिन्या [श्लो० २३-२६. नापश्यत् कश्चनात्मानं परं चापि विमोहितः ।। तृणावर्तविसृष्टाभिः शर्कराभिरुपद्रुतः ॥ २३ ॥ इति खरपवनचक्रपांशुवर्षे सुतपदवीमबलाविलक्ष्य माता ॥ अतिकरुणमनुस्मरन्त्यशोचद् भुवि पतितामृतवत्सका यथा गौः॥२४॥ रुदितमनुनिशम्य तत्र गोप्यो भृशमनुतप्तधियोश्रुपूर्णमुख्यः ॥ रुरुदुरनुपलभ्य नन्दसूनुं पवन उपारतपांशुवर्षवेगे ॥ २५ ॥ तृणावर्तः शान्तरयो वात्यारूपधरो हरन् । कृष्णं नभोगतो गन्तुं नाशनोद भूरिभारभृत् ॥ २६ ॥ दर्शनमाश्चर्य, यत इति सप्तम्यर्थे वा, स्वयं न्यस्तवतीति भ्रमाभावः ॥ २२ ॥ यथा भगवति विदिते सर्व विदितं भवत्येवं भगवत्यविदिते सर्वमेवाविदितं जातमित्याह नापश्यदिति, कोप्यात्मानं स्वदेहं परं परदेहं च नापश्यत् , चकाराद् घटपटादिकं च, शब्दादिनापि प्रतीतिर्न जातेत्याह विमोहित इति, विशेषेण मोहितः, विचाज्ञानकार्यमपि प्राप्तवानित्याह, तृणावर्तेन विशेषेण सृष्टाभिः शर्कराभिर्विशेषेणोपद्रुतः पीडितः, तामसपीडैवाज्ञानकार्यम् ॥ २३ ॥ एवमज्ञानं सकार्य निरूप्य तदपगमार्थ यशोदाया गोपिकानां च भगवति प्रेमातिशयमाह भिन्नवृत्तेन द्वाभ्यां, तत्र गोपिकायां भगवति पुत्रत्वेन स्नेहातिशयमाहेतीति, एवं तृणावर्तकृत उपद्रवे जात इत्येतावति सति, खरः पवनो यस्य चक्रस्य स खरपवनचक्रस्तृणा- वर्तस्तस्य पांशुवृष्टिभिः कृत्वा वर्षासु मार्गानिव सुतपदवीं पुत्रमार्गमितस्ततः पर्यटन्त्यप्यविलक्ष्य ध्वज- वज्राङ्कुशाम्भोनचिरैरपि चिह्नितां भूमिमदृष्ट्वा माता सर्वथा स्नेहाधिकरणं क्वचिद् भगवानात्मानं विहाय गत इति भगवतः कृपोत्पादनार्थमतिकरुगं यथा भवति तथानुस्मरन्त्यशोचदात्मानं शोचितवत्यकृतार्थाह- मिति, ततो भगवद्विरहाद् भुवि पतिता जाता, क्रियाशक्तिलृप्ता, ज्ञानशक्तिरपि लुतेति वदन् मूर्छिता जातेति दृष्टान्तेनाह मृतात्सका यथा गौरिति, गौरज्ञानजन्तुस्तत्रापि वत्से गतेतिविवेकाभावान्मूर्छिता भवत्येव, अमृतवत्यकेति मृतवत्सका तु मृतमाघ्राय निवृत्तैव भवति, नष्टवत्सैव तथा भवति ॥ २४ ॥ एवं यशोदायाः परमस्नेहेन मूर्छापर्यन्तमवस्था निरूपिता, गोपिकानामाह रुदितमिति, अनुनिशम्येति, गोप्यः स्वयमेव ज्ञानसम्पन्ना भगवति नीयमाने रोदनं कुर्वन्त्यः स्वरोदनं शृण्वन्त्योन्यरोदनमपि श्रुतवत्य इत्यनुनिशम्येत्युक्तं, तत्र भगवद्गृहे, गोप्यो भगवदीयाः, भृशमत्यर्थमनुतप्ता धीर्यासामस्माभिस्तत्र भगवन्तं गृहीत्वा कथं न स्थितमित्यनुतापयुक्ताः स्वबुद्धिदोषं स्मरन्त्यो भृशं तप्ता अश्रुप्रोन्छनेप्यशक्ता अश्रु- पूर्णमुख्यो जाताः, अश्रुभिः पूर्ण मुखं या सामिति, स्वयं तत्र गृहे गत्वा नन्दसूनुमनुपलभ्य रोदनेपि लौकिक- दोषनिवृत्त्यर्थं प्रभुपुत्रमनुपलभ्य सर्वाः संहत्य रुरुदुः, एवं रोदने क्रियमाणे देवतान्तर्हिता, तस्यामन्तर्हितायां पवनोप्युपारतः पांशुवर्षस्य वेगो यस्य तादृशो जातस्तस्मिन् ॥ २५ ॥ तथा जाते तृणावर्तोपि शान्त. वेगो जात इत्याह तृणावर्त इति, प्राप्ते भगवति नयन एव सामर्थ्यस्य व्यापृतत्वात् पूर्व वात्यायां रूपधरो भूत्वा हरन्नाकाशं गतः कृष्णं हरन् गन्तुं नाशक्नोत् , उच्चैर्गमन एव देवतावशाद् बलं जातं न तिर्यग्गमने, तत्र हेतुभूरिभारभृदिति, स्वसामर्थ्यापेक्षयाप्यधिकं भारं बिभ्रत् ॥ २६ ॥ ततोशक्तौ यत् कृतवांस्तदाह तमश्मानमिति, तं भगवन्तं बालकं सूक्ष्मरूपमतिगरिष्ठमश्मानं हीरकं नीलमणिं वा मन्यमानो जातस्तत्र हेतुरात्मनो गुरुमत्तयेति, आत्मनोप्यतिबलिष्ठस्यापि गुरुमत्तयाशक्यगौरवेण कृत्वाश्मानं मन्यमानो १. अतीति लुप्तं वचन।

श्लो० २७-३०.] तामसप्रमाणप्रकरणे स्कन्धादितः सप्तमोध्यायः। , तमश्मानं मन्यमान आत्मनो गुरुमत्तया ॥ गले गृहीत उत्सृष्टुं नाशक्नोद तार्भकम् ।। २७ ॥ गलग्रहणनिश्चेष्टो दैत्यो निर्गतलोचनः । अव्यक्तरावो न्यपतत् सहबालो व्यसुजे ॥ २८ ॥ तमन्तरिक्षात् पतितं शिलायां विशीर्णसवय करालम् । पुरं यथा रुद्रशरेण विद्धं स्त्रियो रुदन्त्यो ददृशुः समेताः ॥ २९ ॥ आदाय मात्रै प्रतिहृत्य विस्मिताः कृष्णं च तस्योपरि लम्बभानम् । तं स्वस्तिमन्तं पुरुषादनीतं विहायसा मृत्युमुखात् प्रमुक्तम् ॥ ३० ॥ जातः, तत उत्त्रक्ष्यामीति विचार्य भगवता गले गृहीतस्सन्नुत्स्रष्टुमपि नाशकोत्, ननु हस्तौ मोचयित्वा कथं न त्यक्तवानित्याहाद्भुतार्भकमिति, अद्भुतोलौकिकः, त्यानने क्रियमाणे सम्बन्धो भवति, विपरीता हि भगवल्लीला, प्राप्तव्य इत्युक्ते न प्राप्नोति त्यज्यत इत्युक्ते न त्यस्तो भवति ॥ २७ ॥ तदा भगवान् यत् कृतवांस्तदाह गलग्रहणेति, उच्चस्थाने बालकस्वभावख्यापक इन गलं गृह्णाति भगवान् , देहेन प्राणैः सह त्यक्तव्यः, तत्प्रियत्वस्यैव देहादौ समारोपणात् , तस्मिन् विद्यमाने भगवान् न त्यक्तो भवति, हस्ते गृहीत्वा त्यजन्निव तदा गलग्रहणेन निश्चेष्टो जात इति, तदा भगवान् दयया त्यक्ष्यतीत्याशङ्ग्याह दैत्य इति, अत एवातिनिःपीडनेन निर्गते लोचने यस्य, शब्देनापि भयं जनयिष्यामीति विचार्य ततोपि पीडितोव्यक्तरावो जातः, न व्यक्तो रावः शब्दो यस्य, तदा विवशः सन्' हृदयस्थितबालक एवं व्रजमध्ये न्यपतत्, न हि गोकुलसर्वस्वं कश्चिदन्यत्र नेतुं शक्तः, नितरामपतदिति सर्वाङ्गे भूमिसम्बन्ध उक्तः ॥२८॥ तदा मायायां गतायां पतन्' सर्वजनीनो जात इत्याह तमन्तरिक्षात् पतितमिति, अन्तरिक्षाद् दूरादाकाशान् निरालम्बाच्छिलायां पतितं भगवदासक्ताः स्त्रियो ददृशुरितिसम्बन्धः, ब्रजमध्ये महान् पाषाणो भवति यत्र स्थितो नन्दः सर्वमेव दोहमनुसन्वत्ते, सा शिला ब्रह्मपुत्रीव स्थिता दैत्यघातिनी, अत एव विशीर्णाः सर्वेवयवा यस्य, मृतोपि सर्वेषां भयानकः किं पुनर्जीवन्नित्याह करालमिति, करालः क्रूरो भगवता मारणीयत्वे हेतुः, पुरं यथा रुद्रशरेण विद्धमिति, सर्वोपद्रवकारीणि पुराणि तैर्लोका अतिपीडिता अतः सर्वदेवप्रार्थनया भगवांस्तं मारितवान् नो चेददृश्य एव भवेत् , न तु गच्छेत्, विकलस्यापि मारणे हेतू रुदशरेण स्वेनैव नारायणेन विद्धमिति, न हि दुष्टेषु वधक्रियया व्याप्तेषु दयोचिता, त्रिपुरं यथा शरेण विद्धमेव परिभ्रमत् पतति तथा पतितं रुदन्त्यो रोदनं विस्मृत्याश्चर्याद् ददृशुः, यथास्थानस्थिता अपि तदा समेताश्च जाताः॥२९॥ तथाभूता यत् कृतवत्यस्तदाहादायेति, तस्योपरि लम्बमानं भगवन्तमादाय मात्रे प्रतिहत्य समर्प्य स्तनपानादिना स्वस्थ ज्ञात्वा विस्मिता जाताः परमाश्चर्यं प्राप्तवत्यः, राक्षसस्पर्शे सहजदोषजनकेपि दोषस्पर्शाभावात् , अपहतपाप्मन एवैतत् सम्भवति, अपहतपाप्मवनिश्चयाभावाद् विस्मयः, किञ्च विस्मयान्तरेपि हेतुमाहुः कृष्णं च तस्योपरि लम्बमानमिति, वायुर्लघुः कृष्णः पूर्वं गुरुरनुभूतो लघुरधस्तात् पतितो विशीर्णो भगवास्तु तस्योपरिभागे तमस्दृष्ट्वैव पत्रपाषाणाविव पाषाणे पतिते पत्रं तदुपरि लम्बमानं शनैः शनैरायाति तद्वन् मध्यत एवादायेतिसम्बन्धः, अत आदायैव च विस्मिताः, प्रतिहत्य च विस्मिताः, चकारात् पतितं दैत्यमपि दृष्ट्वा विस्मिताः, भगवन्तमभीतं दृष्ट्वा वा, एवमान्तरालौकिकदोषाभावाद् विस्मयत्रयमुक्तं, बाह्यलौकिकदोषा- भावाद् विस्मयत्रयमाह पुरुषादनीतं विहायसा मृत्युमुखात् प्रमुक्तमिति, पुरुषादा राक्षसाः पुरुषमेवादन्तीति, श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [श्लो० ३१-३२. , गोप्यश्च गोपाः किल नन्दमुख्या लब्ध्वार्भकं प्रापुरतीच मोदम् ॥ ३१ ॥ समेत्य चैकत्र कृताशिषोमला विचारयामासुरुपायमत्र ॥ ३२॥ अहो वतात्यद्भुतमेष रक्षसा बालो निवृत्तिं गमितोभ्यगात् पुनः। हिंस्रः स्वपापेन विहिसितः खलः साधुः समत्वेन भयाद् विमुच्यते ॥ ३३ ॥ तेन शरीरोपघातोवयवोपघातो वावश्यम्भावी, प्रमादाद् विगलितस्यापि तथेत्याह विहायसेति, आकाशमार्ग उच्चैम्त्यक्तोपि खेदं प्राप्नोति, न चानयोरन्यथापि सम्भवो यतो नियतमृत्युरूपावेतौ, तथापि सर्वथा सम्बन्धा- भावे कदाचिदुर्वरितोपि भवेत् तदपि नास्तीत्याह मृत्युमुखात् प्रमुक्तं, ल्यब्लोपे पञ्चमी, मृत्युमुखं प्राप्य स्वेच्छया प्रकर्षेण मृत्यु मारयित्वा स्वयं मुक्तं मृत्युदैत्ये स्थितो मुखमाकाशे, एवं त्रिविधादपि मृत्योर्मुक्त इति लौकिकाश्चर्याणि, एतादृशोपि स्वस्तिमान् कल्याणवान् , शोभा हर्षो वा केनाप्यंशेन न न्यून इति ॥३०॥ एवं तासामाश्चर्याभिनिवेशमुक्त्वा प्रपञ्चे विस्मृते भगवदासत्या परमानन्दं च प्राप्तवत्य इत्याह गोप्य- चेति, गोष्यश्चकारादन्यस्त्रियोपि गोपा अप्यर्भकं लब्ध्वा प्रमोद प्रापुः, तेषां विस्मयस्यानुक्तत्वात् प्रपञ्च- विस्मरणाभावे प्रकृष्टो मोदो न सम्भवतीति युक्त्यभावेपि प्रमाणस्य बलिष्ठत्वाजात एवेति किलेत्याह, उपपत्तिं चाह नन्द एव मुख्यो येषामिति, मुख्ये प्रपञ्चविस्मरणस्य सिद्धत्वात् परमानन्द उचितः, तदाहार्भकं बालकं लब्ध्वा, अवस्थापि परमानन्दजनिका, अतीव मोदं परमानन्द प्रापुः ॥ ३१ ॥ अर्धमात्रमत्र पतितं यत्र सम्बन्धो निरूपितो भवति, सर्वा गोप्यो गोपा यशोदानन्दमुख्या एकत्रोपविश्य विमर्ष कृतवन्तस्तं विमर्ष- माहाहो इतिद्वाभ्यां, समेत्य चैकत्र कृताशिषोमला विचारयामासुरूपायमत्र, एवमर्थः सखण्डो भवति ॥३२॥ भगवतो नयनमारभ्य स्वस्त्यागमनपर्यन्तं यत् किञ्चित् कृत्यं तत् सर्वमहो आश्चर्य, नात्रोपपत्तिः काचित् सम्भवति, आश्चर्यमपि लोके प्रसिद्धं भवति यथा नटविद्यायां मायायां स्वप्ने च, ततोप्येतदधिकमित्याहात्यद्भुत- मिति, मायायां प्रदर्शनमात्रमिति, जातं त्वद्भुतं यत् पुनः क्षणान्तरेन्यथा न भवति, ततोपि यत् कदा- चिदपि न जातं क्वचिदपि तदत्यन्तमद्भुतं, तत् स्वस्यात्यन्तमनिष्टमिति तत् स्मृत्वा बतेत्याहुः, एष इत्यक्षता- व्याहतत्वं प्रत्यक्षेण प्रदर्शितं, विपरीतहेतुः सुदृढो जात इत्याह रक्षसा क्रूरेण बालोतिसूक्ष्म इतो निवृत्तिं गमितो दूरे नीतोन्येन नीतः स्वयमागत इत्याश्चर्यं बालत्वात् , तत्रापि रक्षसा, निवृत्ति- पदेन क्रियानिप्पत्तिरपि सूचिता, एवं सति पुनरागमने कोपपत्तिरितिशङ्कायामाहुर्हिस्र इति, हिंस्रो मारको राक्षसः स्वपापेनैव विहिंसितः, मृत्युस्तत्र तिष्ठत्येवान्यमारणार्थं स तु पापपुरःसरमेव प्रवर्तते, अतःपूर्व बहूनां वधानां कृतत्वात् स्वाधारे पापमस्ति, अपापे विषये चेत् प्रयुक्तस्तमगृहीत्वा व्याघुट्यागच्छन् स्वाश्रय- मेव गृह्णातीति हिंस्रः स्वपापेन विहिसितो भवति, किञ्च मृत्युरत्यन्तं दुष्ट आश्रये न तिष्ठति, अतोपि हेतोस्तं भक्षितवानित्याह खल इति, खलः पिशुनः, न ततो दुष्टोस्ति जगति कश्चित् , विषये पापाभावमाहुः साधुः समत्वेन भयाद् विमुच्यत इति, अपहतपाप्मरूपं ब्रह्मैव, तस्यापि बहूनि रूपाणि सन्ति, तत्रापि यत् समं रूपं तत् सर्वदोषरहितं भवति, “निर्दोष हि समं ब्रह्मे"तिवाक्यात् , यः सर्वत्र समदृष्टिः स दोषाभावान हन्यते, यस्तु साधुः स समदृष्टिरेव भवति, अतोयं बालकोपि समदृष्टिः साधु- भवितुमर्हति, अतः साधुरयं समवेन भयादुपस्थिताद् विशेषेण मुच्यते, एतावता कृत्रिमभगवत्त्वं ज्ञातमिति, एवं ज्ञाननिष्ठैनिर्णयः कृतः ॥ ३३ ॥ कर्मनिष्ठानां निर्णयमाह किं नस्तपश्चीर्णमिति, पर्वजन्मन्यस्माभिः सवेरेव किञ्चित् तपश्चीर्णं येन तपसैतादृशो बालको निधिरूपोस्माकं स्थाने तिष्ठति, एवं राजतानां सिद्धान्तः, सात्त्विकानामाहाधोक्षजार्चन मिति, न हि तपसालौकिकं प्राप्यते, अयं च बालको लोकोत्तरोतोय . ,

6
श्लो०३४-३६.] तामसप्रमाणप्रकरणे स्कन्धादितः सप्तमोध्यायः ।
कि नस्तपश्चीर्णमधोक्षजार्चनं पूर्तेष्टदत्तमुत भूतसौहृदम् ।
यत् सम्परेतः पुनरेव बालको दिष्टया स्वबन्धून् प्रणयन्नुपस्थितः ॥ ३४ ॥
दृष्ट्वाद्भुतानि बहुशो नन्दगोपो बृहदने ।
वसुदेववचो भूयो मानयामास विस्मितः ॥ ३५ ॥
एकदार्भकमादाय स्वान्मारोप्य भामिनी ।
प्रस्तुतं पाययामास स्तनं स्नेहपरिप्लुता ॥ ३६॥
विष्णुप्रसादादेव प्राप्यते, विष्णुश्च पूजितः प्रसन्नो भवति, तत्रापि साधारणरूपेण पूनितः साधारणमेव फलं
प्रयच्छति, अस्माभिरस्त्वलौकिकप्रकारेण पूजितस्तदाहाधोक्षजेति, अधोक्षजं ज्ञानं यस्मात् , शास्त्रदृष्टया
शोधितैरर्चनं नेन्द्रियबलकार्य, तामसानां निर्णयमाह पूर्तेष्टदत्तमिति, पूर्त खातादि, इष्टं यागादि,
दत्तं तुलापुरुषदानादि, लौकिकप्रकारा एते, अतिबहिर्मुखानामेष निर्णयः, अन्तर्मुखानामाहोत भूतसौहृद-
मिति, सर्वेषु भूतेषु भगवानस्तीति तेषु दानमानादिभिः सौहृदं कर्तव्यं, तत् केवलं ज्ञानमार्गे प्रविशति तद्व्या-
वृत्त्यर्थमुतेत्युक्तं, भूतसौहृदमपि पूर्वोक्तेन सह लोकवत् सर्वाण्येव कर्माणि कुर्वन् लोकसौहृदमपि करोति
तस्येदं फलमित्यन्तर्मुखानां कर्मिणां सिद्धान्तः, एवं कल्पनायां हेतुमाह यदिति, कर्मिणां लौकिकत्वादमङ्गलवचनं
लोकोक्त्या न निन्दितं, पुनरेव पूर्ववत् , बालकोपि दिष्टया स्वभाग्येनापि स्वगृहे स्वबन्धून् स्वस्य पित्रादीन्
प्रकर्षेण नयन् सर्वलोकप्रसिद्धान् कुर्वन् उपस्थित इति यत् ॥ ३४ ॥ एवं सर्वेषां निर्णय उक्तः, नन्द-
स्तूत्पातसम्भवे हेत्वन्तरं ज्ञातवान् नान्य इति विशेषमाह दृष्ट्वेति, बहुशोभृतानि दृष्ट्वा वसुदेववचो मानया-
मासेतिसम्बन्धः, पूतनाशकटतृणावर्तास्त्रयः प्रसिद्धाः, अन्येप्येवंविधाः शतशः, सर्वाण्येवागुतानि रसान्तर्वि-
स्मारकाणि, नन्दगोप इति सम्पूर्ण नाम ज्ञानक्रियासमन्वितमनाश्चर्य हेतुः परमैश्चर्यपरिज्ञानात् , बृहद्वन
एवैतज्जायत इति भूयो वसुदेववचो मानयामास, स हि ज्ञान एव महत्त्वं मन्यते न तु क्रियायां,
भाव्यर्थ-
स्यैव तादृशत्वात् , किमाश्चर्यं यद्यत्यलौकिकं स्यात् पूर्व कैरपि न ज्ञायते ज्योतिःशास्त्रादौ न प्रसिद्धमिति
तस्य ज्ञानमेव स्मृत्वा विस्मितश्च जातः ॥ ३५ ॥
एवमेकमुपाख्यानं पञ्चानां मध्ये निरूपितं, द्वितीयमाहैकदेतिचतुर्भिः ।
भक्तिर्ज्ञान तथा पूर्ण विस्मयश्च ततः परम् । जातो लौकिकमावस्य दृढत्वादिति रूप्यते ॥ १ ॥
आदौ स्वतन्त्रा पूतना निवर्तिता ततः परतन्त्रोपि शकटस्ततः सर्वमारकः, हेत्वन्तरं च न प्रदर्शितं,
तथाप्यसम्भावनाया दृढत्वान्न दृढा भगवत्यासक्तिर्भविष्यतीत्यसम्भावनानिवृत्त्यर्थं स्वस्मिन् भगवत्येव तादृशं
रूपं प्रदर्शितवान् भगवान् , स्वधर्मनिष्ठधर्मपरिज्ञाने भक्तिरेव हेतुरिति प्रथमतो भक्तिमाह, एकदा गृहकार्यादि-
वैयग्र्याभावदशायां भगवदेकप्रवणचित्तदशायां वा, अर्भकं बालकं कलवाक्यं वर्षाविक, आदाय क्रीडन्तं बलात्
स्वयं गृहीत्वा, स्वस्याङ्क समारोप्य सर्वोतममासनं दत्वा भामिनी परमसौभाग्यवती, सर्वाभरणभूषितं च विधाय,
भामिनी भामयुक्ता च, तेन भगिन्या अपि सौभाग्यं द्योतितं, एवं परम्परासौभाग्यवती स्वतः कर्मवशाच्चोत्तमा,
प्रकर्षेण स्नुतं स्नेहवशान्निर्गतं स्नेहेन च परिप्लुतान्तर्बहिर्व्याप्ता जातस्नेहकार्या च स्तनं पाययामास,
'प्रयतात्मत्वं भामिनीपदेनोक्तं, प्रशब्देन 'भक्त्युपहृत'त्वमुक्तं, स्नेहपरिप्लवाद् भक्त्यादानमुक्तं, अन्तःस्थित-
बालानामल्पतृप्तत्वात् स्वतोपानं, अपेक्षाया अपि विद्यमानत्वादन्यप्रेरणया पानं, अत एव भगवतो न
सर्वपानं, अधिकपाने बालानामुपद्रवो भवतीति, प्रयोनककर्तृव्यापारनिवृत्त्यर्थं भक्तिप्रवणां कृत्वा स्वधर्म दर्शित-
वान् “ये यथा मां प्रपद्यन्त" इतिन्यायेन भक्त्युद्गततद्धर्म गृहीत्वा कृपया फलरूपं स्वधर्मज्ञानं सम्पादयति ॥३६॥

J
३८
श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां
[श्लो० ३७-३९.
पीतप्रायस्य जननी सा तस्य रुचिरस्मितम् ।
मुखं लालयती राजन् जृम्भतो ददृशे त्विदम् ॥ ३७ ॥
खं रोदसी ज्योतिरनीकमाशाः सूर्येन्दुवाद्विश्वसनाम्वुधींश्च ।
द्वीपानगांस्तहुहितृर्वनानि भूतानि यानि स्थिरजङ्गमानि ॥ ३८ ॥
सा वीक्ष्य विश्वं सहसा राजन् सञ्जातवेपथुः ।
सम्मील्य मृगशावाक्षी नेत्रे आसीत् सुविस्मिता ॥ ३९ ॥
अतो दानाभिनिवेशं परित्यज्य कौतुकाभिनिविटा भगवद्धर्मपरा प्रदर्शितं धर्म दृष्टवतीत्याह पीतमायस्पेति,
सर्वात्मना भगवता न पीतमेव, आपाततः पीतं, तथाकरणे हेतुर्जननीति, जननबुद्धिः स्वेनैवोत्पादितेति-
भगवच्चरित्रं, सा पूर्वोक्तभक्तियुक्ता, कार्यार्थ भक्तेः पुनरनुसन्धान कार्यदशायां सद्भावज्ञापनाय, तस्येति
निरोधार्थमागतस्य, रुचिरं स्मितं यस्य मुखस्य, मोहसहितं स्नेहं जनयतीति परमसौन्दर्य भावयन्ती
तादृशं मुखं लालयन्ती जाता, राजनितिसम्बोधनं राजलीलायामस्यानुभवः सिद्ध इत्यग्रे वक्ष्यमाणस्यापूर्व-
त्वात् सावधानतया स्थातव्यमितिज्ञापनार्थ, अग्निवायू ज्ञानक्रियारूपे ते यशोदायां योजयितुं जृम्भा
भगवतः, अन्यथा द्रष्टुं सा न शक्नुयात् , भिन्नं जगन् मायिकं वा तत्र दृष्टवतीतिपक्षं व्यावर्तयितुं
तुशब्दः, इदं जगज्जृम्भतो भगवतोन्मुखद्वारा भावति ददृशे, इदं ब्रह्माण्डमात्रस्यैव प्रदर्शनं, अग्रे
सम्यगधिकारे सिद्धे सर्वस्यापि प्रदर्शनं वक्ष्यति ॥ ३७ ॥ "शुभ्वाद्यायतनं स्वशब्दादित्यधिकरणे
प्रपञ्चाधारत्वे ब्रह्मत्वं सिद्धं तदचिन्त्यानन्तशक्तिमति सर्व सम्भविष्यतीत्याश्चर्य विहाय भगवत्परं चित्तं
भवति, तत्र दृष्टं भ्रमव्यावृत्त्यर्थं गणयति खमिति, आदौ खमाकाशं विस्तीर्ण, ततो रोदसी द्यावापृथिव्यौ
तत् तु तदाधारं, तथा ज्योतिरनीकं ज्योतिश्चक्रं द्यावापृथिव्याधारं, दश दिशस्तत एव विभक्ताः, सूर्येन्दुवह्नय-
त्रिविधं ज्योतिः, श्वसनो वायुः, अम्बुधयः समुद्राः, भूम्याकाशावुक्तावेव, एवं पञ्च भूतान्युक्तानि, भूमिभेदा
द्वीपादयोलौकिकज्ञानार्थ सप्त द्वीपाः, नगाः पर्वतास्तव्यावर्तकास्तदवान्तरज्ञानहेतवः, तदुहितरो नद्यः,
वनानि तदवान्तरभेदा अल्पीयांसोपि, ततोपि सूक्ष्मा दृष्टा इत्याह भूतानीति, यानि प्रसिद्धान्यपि यथा कल्प-
वृक्षा यथा वा नारदादयो ब्रह्मादयो वा, आधाराधेयभावस्तु तस्या न प्रतीतोकस्माज्जृम्भानन्तरमेव सर्व
दृष्टम् ॥ ३८ ॥ अग्नीषोमात्मकत्वाच्च जगतोद्यापि तस्यास्तथाधिकारो न जात इत्यधिकारार्थ प्रदर्श्य
पुनर्नेत्रनिमीलने तत् तिरोहितं कृत्वा विस्मयाविष्टैव भगवता कृतेत्याह सा वीक्ष्येति, विश्व तया
पूर्व श्रुतमिदानीं दृष्टं, सहसा गमनादिकारणव्यतिरेकेणैव, न जानाति भगवता द्वयं सम्पादितमिति, "तस्माज
अभ्यमानादग्नीषोमौ निरक्रामता"मितिश्रुतेः, तिरोभावप्रस्तावात् सिद्धवत्कारेणोक्तं, सहसेत्यकस्मात् , तस्मिन्
दृष्टे सम्यग् जातो वेपथुः कम्पो यस्यास्ततः समोचीनमेव विश्वमधिकाराभावाद् भयानकं जातं, ततो नेत्रे
सम्मोल्य तत्र स्वभावो हेतुर्बलिष्ठ इति दृष्टान्तमिवाह मृगशाववदक्षिणी यस्याः, मृग एव भीरुस्ततोपि शायो
बालकः, सौन्दर्य चाणोनिरूपितं भगवद्दर्शनयोग्यत्वाय, ततोन्तःकरणे विस्मय एवोत्पन्न इत्याह सुविस्मिता-
सीदिति, सुतरां विस्मितासीत् , पूर्व कार्यदर्शनापेक्षयापि कारणे दृष्टेधिको विस्मयो जात इत्यर्थः ।
पूतनासुपयःपाता बालदुःखनिवारकः । प्रपञ्चस्मृतिहन्ता च गोकुले राजते हरिः ॥ १ ॥
स्वासक्त्यर्थ शकटभित् तृणावर्तविनाशकः । सामर्थ्यज्ञापनार्थाय विश्वाधारः प्रसीदतु ॥ २ ॥ ३९ ॥
इति श्रीमद्भागवतसुबोधिन्यां श्रीमद्वल्लभदीक्षितविरचितायां दशमस्कन्धविवरणे द्वितीये तामसप्रकरणे-
वान्तरप्रमाणप्रकरणे यशोनिरूपकतृतीयाध्यायस्य स्कन्धादित: सप्तमाध्यायस्य विवरणम् ॥ ७ ॥

चतुर्थः स्कन्धादितोष्टमोध्यायः ।। ॥ श्रीशुक उवाच॥ गर्गः पुरोहितो राजन् यदूनां सुमहातपाः। ब्रजं जगाम नन्दस्य वसुदेवप्रणोदितः ॥१॥ तं दृष्ट्वा परमप्रीतः प्रत्युत्थाय कृताञ्जलिः । आन_धोक्षजधिया प्रणिपातपुरस्सरम् ॥२॥ मुपविष्ट कृतातिथ्यं गिरा सूनृतया मुनिम् । नन्दयित्वाब्रवीद् ब्रह्मन् पूर्णस्य करवाम किम् ॥३॥ येनैव तु चरित्रेण सत्त्वं शुध्यति सर्वथा । सर्वस्य मूलं यद्यस्मात् तदष्टम उदीयते ॥ १ ॥ नामान्यग्रे शोधकानि ततो रूपाण्यनेकशः । ज्ञानं भक्तिश्च भाग्यं च पञ्चार्थाः सर्वशोधकाः ॥ २ ॥ संस्कृतान्येव नामानि शोधकानीति संस्कृतिः । स्वेच्छालीलाविशिष्टं हि रूपमानन्दभावतः ॥ ३ ॥ अन्येच्छया कृतान्यत्र चरित्राणि ततोन्यथा । ज्ञानं प्रत्यक्षतो दृष्टं माहात्म्यज्ञानपूर्वकम् ॥ ४ ॥ स्नेहश्चालौकिके तद्वद् हेतुश्च महतां कृपा । पूर्वस्मिन् हृदये सिद्धे स्वत एवाग्रिमं भवेत् ॥ ५ ॥ तत्राङ्गं द्वितयं प्रोक्तं गुरुर्दुःसङ्गवर्जनम् ॥ ५ ॥ निरोधे भगवदासक्तिसिद्धयर्थमन्तःकरणशुद्धयर्थं च भगवतो नामकरणोत्सवमाह गर्ग इत्येकविंशत्या, चिरकालोत्पन्नोसंस्कृत एव तिष्ठत्विति स्वतो नामाकरण चिरकालातिक्रमश्च तथैवभगवत्प्रेरणात् कालस्य निमित्तत्वाभावान्न कोपि दोषस्तज् ज्ञात्वा वसुदेवः स्वपुरोहितं प्रेषयामास क्षत्रियाणां पुरोधसैव संस्काराः क्रियन्त इति वसुदेवश्चात्मानमाधिदैविकवसुदेवं नन्दे स्थापितवान् , तेन बलभद्रभगवतोरविशेषेण पुत्रत्व- ज्ञानादिकं न दोषाय, भयनिवृत्त्यर्थं बोधनं चापेक्षितं प्रसङ्गात् , अन्यथा प्राकृतानामलौकिकबुद्धिरपि बाधि- कातो नामकरणहेतुभूतो गर्गः समागत इत्याह गर्ग इति, राजनितिसम्बोधनं गुप्तचर्या राजपरिज्ञातेति ज्ञापनार्थं, यदूनां पुरोहितो वंशस्यैव स्वत एव हितकारी, तेनान्तःकरणशुद्धिरुक्ता, महानुभावत्वमाह सुमहातपा इति, सुमहत् तपो यस्य सः, अकस्मात् कार्यसिद्धिं मुहूर्त ज्ञात्वा नन्दस्य ब्रजं जगाम, अन्यत्र स्थितः शुको वदति, पितुराज्ञाव्यतिरेकेण पुत्रसंस्कारो न कर्तव्य इति तदर्थमाह वसुदेवेन प्रकर्षेण चोदितः प्रेरितः ॥ १ ॥ आगतस्य पुरस्कारमाह तं दृष्ट्वेति, आकासितपदार्थदर्शनात् परमप्रीतिः, प्रत्युत्थानं धर्मनिष्ठताज्ञापनार्थ, कृताञ्जलिविनीतस्तेनान्तःकरणशुद्धिरुक्ता, अतिथिरयमित्यत्र भगवत्पूनां कृतवानि- त्याहानचेति, अतिथिबुद्ध्यापि पूज्यते हरिबुद्ध्याप्यतिथि रातिथ्येन तु विप्राय" इतिवाक्यात् , तदाहा- धोक्षजधियेति, चतुर्भुजं भगवन्तं ज्ञात्वानर्चा! कृतवान् , तत्रापि भक्तिमार्गानुसारेणेत्याह प्रणिपात- पुरःसरमिति, प्रणिपातोपराधदूरीकरणं, तद् दासस्यैव नित्यसेवकस्य सम्भवति नान्यस्य ॥ २ ॥ एतदेव- पुरःसरमग्रे यथा भवति तथा प्रार्थनां वक्तुं किञ्चिदुक्तवानित्याह सूपविष्टमिति, सुष्टु गमनक्लेशाभावेन वैयग्र्यं परित्यज्योपविष्टं, स्वकृत्यमाह कृतमातिथ्यं यस्मै यस्मिन्निति वा, अतिथेहितं भोजनान्तं कर्म तद् गृहस्थ- कर्तव्यं, भक्तिमार्गानुसारेण पूजितत्वादस्मिन् स्नेहेधिके जाते गद्गदया वाण्याब्रवीत् , येन स सर्वमेव , ४० श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [श्लो०४-६. महविचलनं नृणां गृहिणो दीनचेतसाम् । निःश्रेयसाय भगवन् कल्पते नान्यथा कचित् ॥ ४॥ ज्योतिषामयनं साक्षात् यत् तज् ज्ञानमतीन्द्रियम् । प्रणीतं भवता येन पुमान् वेद परावरम् ॥ ५॥ त्वं हि ब्रह्मविदां श्रेष्ठः संस्कारान् कर्तुमर्हसि । वालयोरनयोर्नृणां जन्मना ब्राह्मणो गुरुः ॥ ६ ॥ सामर्थ्य विनियुङ्ग्यात् , कापट्याभावायाह मुनिमिति, स हि सर्वज्ञस्तदैव सर्व जानाति, अन्यत्र भगवद्- बुद्धया स्तोत्रं क्रियमाणमारोपितविषयं भवतीति तन्निवृत्त्यर्थमाह सूनृतयेति स्तोत्रेण, नन्दयित्वा सन्तुष्टं ज्ञात्वात्रवीत् , ब्रह्मन्नितिसम्बोधनं ब्राह्मणस्य तत्परमोत्कर्षख्यापनं, अयं ब्रह्मशब्दः परब्रह्म- वाचक इति ख्यापयितुं पूर्णस्य करवाम किमित्याह, "बृहत्त्वाद् बृंहणत्वाद् ब्रह्म' दश दिक्षु किर्मीरित- मिह तादृशस्यान्यैः कर्तव्य उपकारे देशाभावात् कृत्रिमस्थ हीनत्वात् तत्रापि सदृशस्याज्ञानात् किं करवाम ? देहेन्द्रियान्तःकरणानां न्यूनत्वात् तत्रोपकारः कर्तुं शक्यते, ब्रह्मभूततदध्यातनिवृत्तेस्तत्र कृतं न प्रयोजनाय भवतीति ॥३॥ एतावतास्माभिः कोप्युकारः कर्तुं न शक्यत इत्युक्तं, त्वया त्वनुक्तमेव क्रियत इत्याह महद्विचलनमिति, महान्तः स्वतः कार्याभावान्न कुत्रापि गच्छन्ति तादृशाश्चेद् गच्छन्ति परोप- कारार्थमेव गच्छन्तीति ज्ञातव्यं, विशेषेण चलनं ग्रामान्तरगमनं न तु स्नानाद्यर्थ, तत्र परार्थे विचार्यमाणे यस्यैव गृहे गच्छन्ति तस्यैव कार्य साधयन्तीति निश्चीयते, अन्यथा गृहासक्तचित्तानां वृद्धानां तत्रापि परम दुःखेन पीडितानां दीनचेतसां गृहे न गच्छेयुस्तेषां च मुख्य प्रयोजनं तदुःखनिवृत्तिस्ततः परमानन्दावाप्ति- रिति, अतो निःश्रेयसायैव गमनं, तादृशफलदाने सामर्थ्य भगवन्निति, यद्यपि ते न प्रार्थयन्ति तथापि गमनमेव तथा कल्पत, अन्यथा एतत्फलानुद्देशे क्वचिदपि देशे गमनं न कल्पते ॥४॥ एवं ब्रह्मवित्त्वेन परोपकारैककार्यत्वेन च स्तुत्वा सर्वज्ञतामुपपाद्य तत्सार्वश्यं यथान्येषामब्रह्मविदामपि भवति तथोपायं कृतवानिति स्तौति ज्योतिषा- मयनमिति, अनेनान्यस्यापि तत्तत्पदार्थरहितस्यापि तत्तत्पदार्थकरणसामर्थ्य द्योतितं ग्रहादिबलाहितस्यापि तद्वल- जनकत्वं, ज्योतिषां सूर्यादीनामयनं स्थानमिदमित्यतया यस्मिन् क्षणे यो ग्रहो यत्र वर्तते तस्य ज्ञानं यस्मात् तज् ज्योतिषामयनं ज्योतिःशास्त्रं, अलुक्समासः, ज्योतिषां सम्बन्धि वायनं ज्ञानं यस्मात्, तत्रापि सामान्यतो ग्रन्थ- कर्तारः सुगमाः परोपजीवकाः, त्वं तु ब्रह्मसूर्यवत् साक्षात्कर्ता, तत्रापि यत् प्रसिद्धंसर्ववाद्यप्रतिपन्नं तादृशमेव तत् त्वदुक्तं तच्छास्त्रं केवलं ज्ञानमेव ब्रह्मस्वरूपं "यस्मिन् विदिते सर्वमिदं विदितं भवतीति," तच्च ज्ञानरूपं शास्त्रमती- न्द्रियमिन्द्रियागोचरमन्यस्य बुद्धिगम्यमपि न भवति गुरूपदेशव्यतिरेकेणैतादृशं शास्त्रं भवता प्रणीतं येन शास्त्रेण कृत्वा पुमान् परावरं वेद,भूतभविष्य वेद परं, स्त्रापेक्षया पुरुषोत्तमपर्यन्तं, अबरं परमाणुपर्यन्तम् ॥५॥ अतः सर्वज्ञो भवान् ब्राह्मणोत्तमोत्तमः, अतः पुत्रयोः संस्कारान् कर्तुमर्हसीत्याह त्वं हीति, ब्रह्मविदेव ब्राह्मणः स हि सर्वज्ञः, त्वं तुब्रह्मविदामपि श्रेष्ठोन्यस्यापि ज्ञानोसादने यत्नकरणात् , अतो बालयोरनयोः संस्कारान् कर्तुमर्हसि यथैकं नामकरणं तथान्यान्यपि कर्माणि विद्याभाग्यफलकानि संस्कारत्वेनाप्युक्तानि जातेष्टयादी- न्यैन्द्राबार्हस्पत्यादीनि चान्यानि च प्रसिद्धानि, लोके साम्प्रतं लुप्तानि, उभावप्येतावसंस्कृतौ, ननु गुरुणा पुरोहितेन कर्तव्यं न तु येनकेनचिदिति चेत् तत्राह जन्मना ब्राह्मणो गुरुरिति, उत्पत्तिमात्रेण सर्वोपि श्लो०७-१०.] तामसप्रमाणप्रकरणे स्कन्धादितोष्टमोध्यायः । ४१ ॥ गर्ग उवाच ॥ यदूनामहमाचार्यः ख्यातश्च भुवि सर्वतः। सुतं मया संस्कृतं ते मन्यते देवकीसुतम् ॥ ७ ॥ कंसः पापमतिः सख्यं तव चानकदुन्दुभैः। देवक्या अष्टमो गर्भो न स्त्री भवितुमर्हति ॥ ८॥ इति सश्चिन्तयञ् छुत्वा देवकीदारिकावचः । यदि हन्ता गताशङ्कस्तर्हि तन्नोनयो भवेत् ॥९॥ ॥ श्रीनन्द उवाच ॥ अलक्षितोस्मिन् रहसि मामकैरपि गोत्रजम् । कुरु द्विजातिसंस्कार स्वस्तिवाचनपूर्वकम् ॥ १० ॥ ब्राह्मणो गुरुभवति, अतो भवानपि गुरुरित्यवश्यं कर्तव्यम् ॥६॥ तत्र गर्गो गुप्ततयैतत् कर्तव्यमिति साक्षात् तथोक्ते ग्रामीणत्वान्न मंस्यत इति वैदिके कर्मण्यसुराणां ज्ञानमयुक्तमिति “यद्वेदमुच्चैर्यज्ञेन चराम तन्नोसुराः पाप्मानुविदन्त्युपांशूपसदाचराम तथा नोसुराः पाप्मा नानुवेत्स्यन्ती'तिश्रुतेः, तथापि यावल्लौकिकभयं नोच्येत तावन्न निवर्तत इतिभयमुत्पादयति त्रिभिर्यदूनामिति, सर्वज्ञानां वचनं सर्वतोमुखं भवति सर्व स्पष्टं वदन्ति च न वदन्ति च, उच्यमानमप्यनुक्तमिव भवति, "द्रव्यसंस्कारविरोधे द्रव्यं बलीय” इतिन्यायेनोच्चैः क्रियमाणे द्रव्यविरोधो भवति, विरोधे कारणं कंसः, तस्यापि देवकीपुत्रः, मया कृतः संस्कारो देवकीपुत्रत्वं ख्यापय- तीत्याहाहं सर्वेषामेव यदूनां यदुवंशोद्भवानामाचार्यः संस्कारकर्ता नान्येषां, तत्रापि भुवि सर्वतः ख्यातो मदीयाः सर्व एव धर्माः सर्वेषां प्रसिद्धा भवन्ति, अतोत्रागमनमपि प्रसिद्धमेव, ततः किम् ? अत आह ते सुतं मया संस्कृतं कंसो देवकीसुतमेव मन्यते, निर्धारितोयमर्थः ॥७॥ यादवान्यस्य मया संस्कारो न क्रियत इति मन्यतां को दोष इति चेत् तत्राह कंसः पापमतिरिति, स हि मारकोतो देवकीपुत्रत्वज्ञानमनिष्टजनकं, नन्वत्र देवकीपुत्रस्य कः प्रसङ्गः ? तत्राह सख्यं तव चानकदुन्दुभेरिति, अतः सखिगृहेष्टमः पुत्रः स्थापितोयमिति मन्यते, चकारोर्थविशेषख्यापकः, सोपि दुष्टस्तव च सख्यमित्युभयोः सम्बन्धित्वज्ञापनाय षष्ठ्यौ, ननु देवकी- गर्भः स्त्रीरूपस्तेन दृष्ट एव कथं सन्देह इति चेत् तत्राह देवक्या अष्टमो गर्भः स्वमारकत्वेन श्रुतः स्त्री भवितुं नाहति ॥ ८ ॥ कथमियं स्त्रीति सञ्चिन्तयन् कंसो मारयेदितिसम्बन्धः, शङ्कायां कारणान्तरमप्यस्तीत्याह श्रुत्वा देवकीदारिकावच इति, देवक्या दारिका बालिका तस्या वचः "किं मया हतया मन्द जातः खलु तवान्तकृ"दिति, अतोस्या आकाशवाण्याश्चैकार्थे विचार्यमाणे देवक्याः पुत्रो रात्रावत्रानीय वसुदेवेन स्थापित- स्तव च कन्या तत्र नीतेति फलति तदापीतिसम्भावनायामागताशङ्कः सन् हन्ता हनिष्यति, तथा सति नोस्माकं महाननयः स्यात् , अतस्तव पुत्रस्य संस्कारो मया प्रसिद्धतया न कर्तव्य इति फलितम् ॥ ९॥ नन्दस्तस्य प्रतीकारमाहालक्षित इति । ज्ञापितं च हरेस्तत्त्वं स्नेहाधिक्यान्न बुध्यते । अतो निरोधः कर्तव्यः शास्त्रं तत्राप्रयोजकम् ॥ १ ॥ अस्मिन् गोष्ठे गुप्तस्थाने मामकैरप्यलक्षितोनुमानेनाप्यज्ञातः सन् द्विजातिसंस्कारं कुरु, अनेनेयं वार्ताप्येकान्त एव कृतेति ज्ञायते, गवां ब्रजे न कश्चिदभिज्ञो नागरिकवद् , गवां बुद्ध्या तुल्या एव सम्भवन्ति, मामकानां स्वरूपं मया ज्ञायत इति तेषामज्ञानं साधनीयं, एतेनान्ये व्याख्याताः, ?

४२ श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [श्लो० ११-१४. ॥ श्रीशुक उवाच ॥ एवं सम्प्रार्थितो विप्रः स्वचिकीर्षितमेव तत् । चकार नामकरणं गूढो रहसि बालयोः ॥ ११ ॥ ॥ गर्ग उवाच ॥ अयं वै रोहिणीपुत्रो रमयन् सुहृदो गुणैः । आख्यास्यते राम इति बलाधिक्यान् बलं विदुः ॥ १२ ॥ यदूनामपृथग्भावात् सङ्कर्षणमुशन्त्युत ॥ १३ ॥ आसन् वर्णास्त्रयो ह्यस्य गृह्णतोनुयुगं तनूः । शुक्लो रक्तस्तथा पीत इदानीं कृष्णतां गतः ॥१४॥ द्विजातीनां मन्त्रवत्संस्कारो भवति, अन्येषाममन्त्रकं, अतो मन्त्रप्राधान्येनैव कर्तव्यं नोत्सवप्राधान्येन तदाह द्विजातिसंस्कारमिति, मङ्गलमावश्यकमिति विचार्य मङ्गलमपि वैदिकमेव कर्तव्यमित्याह स्वस्तिवाचन- पूर्वकमिति, स्वस्तिवाचनं पुण्याहवाचनं, पुण्याहःस्वस्त्यृद्धयस्त्रिस्त्रिरुक्ताः स्वस्तिवाचनं, तत् सर्वकर्म- स्वावश्यकम् ॥ १०॥ एवमुक्ते स्वाभिलषितं सिद्धमिति कृतवानित्याहैवं स प्रार्थित इति, ज्ञातेपि लोके प्रतीकारं करिष्यामीति तस्याभिप्राय इति ज्ञापयितुं विष इति शीघ्रं च तस्य कर्तव्यमिति पुरोहितत्वात् स्वस्थ चिकीर्षितमेव तन् नामकरणं कर्म प्रसिद्धमिति वा सर्वत्र, गूढः स्वयमपि गुप्तः सन् वेशान्तरेण यावत् तत्र तिष्ठति, रहस्येकान्ते, उभयोरपि नामकरणमुभयोरनुगुणमुहूर्ते, बालयोरिति केशाभिप्रायो वा ॥ ११ ॥ ज्येष्ठानुक्रमेण नामकरणं कुर्वन्नादौ ज्येष्ठस्य नामत्रयमाहायमिति सार्धेन, वस्तुतो ब्रह्मण्यव्यवहार्य स्वरूपतो नामाभा वात् सङ्केताभावाद् गुणयोगादेव नामानि भवन्ति, उभावत्र पुत्रौ वसुदेवस्य, तत्रैको मातृनाम्नापरः पितृनाम्ना, प्रथमं गुप्ततया मातृनाम्ना नामाहायं वै निश्चयेन रोहिणीपुत्रोतो रौहि- णेय इत्युक्तो भवति, रोहिण्यामाविर्भूतस्यावेश इति च, वै निश्चयेनेति यशोदायाः पुत्रत्वे सन्देह इति ज्ञापितं, यदि भगवान् प्राकृतः केनाप्यंशेन भवेत् तदा याशोदेयो दैवकेय इतिनाम भवेद् यथा रौहिणेय इति, तस्मादयमेव वै निश्चयेन रोहिणीपुत्रः, किञ्च योनिकृतसम्बन्धाध्यासोप्यस्य दृढ इत्याह रमयन् सुहृदो गुणैरिति, सुहृदः सर्वानेव सम्बन्धिनो गुणैः स्वसामथ्र्यैः पालनपोषणप्रीणनादिभी रमयन् लोके राम इत्या- ख्यास्यते, गुणैः सुस्वभावादिभिर्वा, अयं च बलिष्ठो भविष्यति तथा ग्रहदर्शनादित्यन्यबुद्धिः, अतो बलाधि- क्याद् बलरूपमेवैनं विदुः ॥ १२ ॥ भगवदाज्ञया मायाकृतमपि कर्मास्मिल्लोके प्रसिद्धं भवत्विति "गर्भ- सङ्कर्षणात् सङ्कर्षण" इतिभगवद्वचनाद् देवगुह्यत्वात् तल् लोके न वक्तव्यमिति प्रकारान्तरेण सङ्कर्षणव्युत्पत्ति- माह यदूनामिति, यदूनां मध्येस्य न पृथग्भावोस्ति सर्वत्रात्मबुद्धिरेव, अत एव भगवता मातृद्वयमस्य सम्पादित भिन्नमातृसुतेषु वैराभावज्ञापनार्थ, अतो भगवत्कृतं संवदतीति नात्यन्तं दोषोपि, यदूनां वास्मिन् पृथग्भावो नास्तीति सम्यक् सर्वेषामाकर्षणमाकारणं यस्मिन्निति सङ्कर्षणमुशन्ति बदन्ति, उतापि, अनेन सङ्कर्षणपदा- दर्थान्तरं मुख्यमस्तीति ज्ञापितम् ॥१३॥ चतुर्मूर्भगवतश्चत्वारि नामानि वक्तव्यानि तत्र द्वयमाह द्वयं तु गुप्ततया- नेकभेदभिन्नं वक्ष्यति चतुष्टयस्य च द्वये प्रवेशश्च, तत्रादौ कृष्णोयमिति नाम वक्तव्यं, तत्र भगवन्नाम कथमस्येति- शङ्कां वारयन् वर्णपरत्वेन सत्यं वदन्नाहासन्निति, अयमनुयुगं तनूगृह्णाति, अन्यथा युगमेव न स्यात् , भगवान् जगच्चेतिद्वयं युगशब्देनोच्यते, तत्रैकश्चेन्नाविर्भवेदेकमेव स्यान् न तु युगलं, धात्वर्थोपयोगो द्वयोरेव, अतो भगवतावश्यमनुयुगमवतारः कर्तव्यस्तत्र युगधर्मख्यापनार्थ रूपं च तथा कर्तव्यं, अन्यथा लोकानां प्रतीतिर्न श्लो०१५-१६.] तामसप्रमाणप्रकरणे स्कन्धादितोष्टमोध्यायः । ३ प्रागयं वसुदेवस्य कचिज जातस्तवात्मजः । वासुदेव इति श्रीमानभिज्ञाः सम्प्रचक्षते ॥ १५ ॥ बहूनि सन्ति नामानि रूपाणि च सुतस्य ते । गुणकर्मानुरूपाणि तान्यहं वेद नो जनाः ॥ १६ ।। स्यात् , तदाह शुक्लो रक्तस्तथा पोत इति त्रयो वर्णा अस्यासन् , अग्रेच कलिर्भविष्यति तत इदानीं कृष्णतां गतः कृष्णवर्ण प्राप्तवानित्यर्थः, एनं कृष्णत्वं न प्राप्तवत् किन्त्वयमेव कृष्णत्वं प्राप्तः सर्वगतत्वात् सर्वसमन्वयाच्च, अनेन परब्रह्मतोक्तैव "कृषि वाचकः शब्दो णश्च निवृतिवाचकः तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयत" इतिनि- वचनात् , यद्यपि सदैव कृष्णस्तथापि प्राकृतसत्त्वस्याप्यनाश्रयेषु स्वस्वरूपात्मकसत्त्वप्रकटनात् तादृशेष्वपि स्वरूपानन्ददानादिदानीमेव कृष्णवं प्रकटितवानित्यर्थः, एतद्गोपनाय शब्दच्छलेन वर्णक्रममुक्तवान्, तेनायं सङ्कर्षणरूपोप्युक्तः कालानुगुणत्वात् , पुरुषोत्तमरूपोप्युक्तः सर्वसमन्वयात् ॥१४॥ नामान्तरमाह प्रागयमिति, कचिद् देशविशेषे प्राक् त्वद्गृहागमनात् पूर्वमेव वसुदेवस्य पुत्रो जातो वसुदेवस्येति तवेति च सामानाधि- करण्यादाधिदैविकस्य वसुदेवस्य तवात्मनो जात इत्युक्तं भवति, अनेन प्रद्युम्नताप्युक्ता, वसुदेवे शुद्धसत्त्व आविर्भावाद निरुद्धता च, वस्तुतस्त्वयं तवात्मजः कचिद् वसुदेवस्य जात इति तस्य बुद्धिः, वासुदेवत्वे हेतु: श्रीमानिति, लक्ष्मीपतिरयमित्यर्थः, इमं गूढाभिप्रायमभिज्ञा एतन्द्वातारोभितोस्य स्वरूपं ये जानन्ति “यावान् यश्चास्मि यादृश" इति, अत एव सम्यक्त्वेन प्रकर्षेण च चक्षते ॥१५॥ एवं नामद्वयमुक्त्वा गुणयोगादयमनन्त- नामेति सर्वशास्त्रेषु तानि नामानि स्वत एव ज्ञातव्यानीत्यतिदिशति बहूनीति, बहून्यसङ्ख्यातानि नामानि रूपाणि च, अन्यथा क्रियायां निवृत्तायां तन्नाम न स्यात् पाचकपाठकवत् , रूपं चेत् तादृशं भिन्नं भवति तदा क्वचिद् गुणयोगात् प्रवृत्तरूपे नामावश्यकत्वाद् गवादिवत् सर्वदा भगवति चकारान्नामरूपयोः क्रियायाश्च नित्यत्वं प्रतिपादयति सन्तीति, तेन भगवान् गोवर्धनमुद्धरन् सर्वदा वर्तत इति गोवर्धनोद्धरणधीरः क्रियानामभ्यां सहितो गोवर्द्धनोद्धरणरूपः सर्वदा वर्ततेद्यापि प्रतिकृत्यनुभवो भक्तानामतोनन्तान्येव रूपाणि नामानि चास्यैव कृष्णस्य भगवतः, तदाह सुतस्य त इति, अन्यथा तस्य भ्रमो भवेत् , वसुदेवस्य विद्यमानत्वान् न वाक्य बाधितार्थ, स्तुत्यर्थमननुरूपाण्यपि कदाचिद् भवन्तीति तद्व्यावृत्त्यर्थमाह गुणकर्मानुरूपाणीति, गुणा- नामौदार्यादीनां कर्मणां कालीयदमनादीनां चालौकिकानां, नामान्यप्यलौकिकानि भवन्तीति गुणकर्मानु- रूपाणि तानि रूपाणि नामानि चालौकिकत्वेनाहमेव वेद नो जनाः, व्यवहरन्त्युच्चारयन्ति च तथापि विचाराभावान्न जानन्ति, यतो जना जननादिभावधर्मयुक्ताः क्लिष्टा इत्यर्थः, विचारस्तु क्रियायामनित्य- तायां रूपे वा कालादिपरिणामेन प्रतिक्षणमन्यभावे तत्सम्बन्धेन प्राप्तं नामान्यदान्यस्मिन् वा सम्बन्ध- रहितत्वाद् वाचकमेव न भवेत् , ततो निरर्थकानि नामानि न फलन्ति, नाप्यन्तःकरणं शोधयन्ति, अतः स्व- रूपाज्ञानेन केवलमुच्चारितानि रूपसम्बन्धाभावात् स्वतोप्यलौकिकत्वाज्ञानादग्न्युच्चारणे दाहाभाववद् भगवन्- नामोच्चारणेपिन प्रपञ्चनिवृत्तिः, नामानि च वर्णात्मकत्वेनैव ज्ञातानि पुरुषं जगच्च नामयन्त्युच्चारयितुरग्रे वश्यतया स्थापयन्तीति नामानि रूपवन् नामरूपस्यापि भगवतो रूपाणि, यथा भगवद्रूपं प्राकृततुल्यं प्रतीयते ग्राहक- दोषादेवं नामान्यपि लौकिकानां ग्राहकदोषादेव लौकिकवर्णयुक्तानीव प्रतीयन्ते, वस्तुतस्त्वखण्डान्येव तथा ज्ञानपूर्वकं शुद्धभावेन वस्तुतत्त्वे ज्ञात एव तद्बुद्ध्योच्चारितानि, न तु लोकसिद्धानुवादकरूपाणि, नामानि सर्व- पुरुषार्थानि फलन्ति नान्यथेतिसिद्धान्तोतो लोकन्यायेनोच्चारयितरि फलाभावे दोषसम्बन्धे वा न काप्यनुपपत्तिः, ४ श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [श्लो० १७-१८ एष वः श्रेय आधास्यद् गोपगोकुलनन्दनः । अनेन सर्वदुर्गाणि यूयमञ्जस्तरिष्यथ ॥ १७ ॥ पुरानेन ब्रजपते साधवो दस्युपीडिताः। अराजकेरक्ष्यमाणा जिग्युर्दस्यून् समेधिताः ॥ १८ ॥ एतस्यैव तारतम्येन चित्तशुद्ध्यतिशयो नाम्ना भवति, अन्यथा त्वावृत्तं स्वाधिदैविकसहितमेवेति कदाचित् फलति यद्याधिदैविकोबोधपर्यन्तमावर्तेत, कालादीनां तु नाममाहात्म्यज्ञानादुच्चारयितुः परित्यागः, अनुगुणत्वात् सारूप्येण साधकमिति लौकिकस्यापि प्रवर्तनापरत्वेन मोक्षदातृत्वमित्यजामिलोपाख्यानस्यापि न वैयर्थ्य, अन्यथा तत एव वैकुण्ठे गमनं स्यात् , अत उपायपरत्वमेव लौकिकस्य, तस्मात् सृष्टुक्तं तान्यहं वेद नो जना इति, अनेनानन्तान्येव नामान्युक्तान्युपास्यरूपाणि चान्तःकरणशोधकानि, तदवस्थां भगवद्रूपस्य स्मृत्वा तन्नाम ग्राह्यमिति, अन्यथा नामप्रसङ्गे रूपकथनं व्यर्थ स्यात् ॥१६॥ ज्योतिःशास्त्राभिज्ञत्वाद् रूपनामज्ञानार्थ भगवतो गुणकर्माण्याह चतुर्भिस्तत्रादौ द्वयेन कर्माण्याहैष व इति, एष भगवान् परिदृश्यमानो वो युष्माञ् श्रेय आधास्यद् धृतवान् पोषितवान् वा, पूतनासुपयःपानादिकं यद् भगवता कृतं तद् भवतां श्रेयोनिमित्तं, अविद्या हि पञ्चपर्वा सा नाशिता शकटः संसारात्मको भञ्जितोविद्याकार्यरूपो मोहात्मकश्च तृणावर्तो मारितः, एवं त्रिदोषदूरीकरणेन ज्ञानोत्पादनेन चासमन्ताच्छ्रेयोधास्यत् , स्वयं सर्वपुरुषार्थरूपोपि दोषवशाद् ग्रहीतु- मन्यैर्न शक्यत इति दोषदूरीकरणद्वारा श्रेयोधारकवं, किञ्च न केवलं सकृद् दत्तवान् किन्तु धृत्वैव तिष्ठति, अतोग्रेपिदास्यति यावता च भवद्भिः परमश्रेयो गृहीतो (गृहीतं ) भविष्यति तावत् करिष्यतीत्याकारः, भूते लङ्, तेन सिद्धं भवतां श्रेय इत्युक्तं, अनेन भवद्रक्षार्थ बहूनि कर्माणि करिष्यतीति कर्माण्युक्तानि, एवं दोषाभावार्थ करिष्यमाणानि कृतानि कर्माणि चोक्त्वा परमानन्ददायकान्यपि कर्माणि करिष्यतीत्याह गोपगोकुलनन्दन इति, गोपान् गोकुलं च नन्दयतीति, गोपशब्देन गोप्योपि गृहीताः, गोकुलशब्देन तत्सम्बन्धिनश्च यावन्त- स्तदुपजीवकाः, उभयविधानप्यानन्दयिष्यतीतिक्रीडा तत्प्रतिघातवधश्चोक्तः, ननु त्वया कंसो ज्ञात्वा मार- यिष्यतीति भयं जनितं तत्र का गतिरिति चेत् तत्राहानेनेति, अनेन भगवता सर्वाण्येव दुर्गाणि सङ्कट- स्थानानि कंसोपद्रवरूपाणि सर्वाणि यूयमञ्जसानायासेन सर्व एव तरिष्यथ, अतः कंसादिभयमपि न कर्तव्यं, इदं तु वसुदेवस्यास्माकं चोपद्रवो भविष्यतीत्युक्तं न तु भवतामितिभावः॥१७॥ एवं सर्वदुःखनिवृत्तिपूर्वकसर्वपुरुषार्थ- सिद्धिरस्माद् भवतामित्युक्तं, अतोस्य चिन्ता नास्तीत्युक्तमेव, मोक्षोप्यस्माद् भविष्यतीति वक्तुं तदर्थमिन्द्रिय- जयमपि वक्तुं पूर्वोक्तेपि प्रमाणमाह पुरानेनेति, हे व्रजपते, अनेन भगवता कृत्वा दस्युपीडिता अपि साधवः समेधिताः सन्तो दस्यू जिग्युः क्षुद्रोपद्रवोपि चोरवत् कंसादिभिः कर्तुं न शक्यो यतोस्य स्वभावकृति- रेव तादृशी, ब्रजपत इतिसम्बोधनं सर्वस्यापि व्रजस्य यथासुखं विहरणयुक्तस्य सर्वतः कुशलं भविष्यतीति ज्ञापयति, तेन यत्र क्वापि स्थातव्यं न चिन्तेतिभावः, पुरेतिवचनात् सदातनोयं न तु त्वद्गृहेधुनावतीर्ण इति ज्ञापित, अनेनेति न तस्यावतारः किन्त्वयमेव, सम्बोधनं तु ज्ञानाभावज्ञापकं, दस्यवो रावणादयः 'त्रसदस्यु'पदे तथा निर्वचनस्योक्तत्वात् “यस्यामिमे षण् नरदेवदस्यव” इति भवाटव्यामेन्द्रियाणि चोक्तानि कंसोपि तृणावर्तादिप्रेषणाद् दस्युः, नन्वनेन दस्यवो मारिता इत्यत्र किं प्रमाणम् ? तत्राह साधव इति, यद्यन्त:- करणस्थितचोरान् बहिःस्थितांश्च न मारयेत् तदा साधव एव न भवेयुः, विशेषाकारेणापि मारयतीत्याह . ? १, आदास्यदित्यपि पाठः। २, प्रथमान्तोपि पाठः।

४५ श्लो०१९-२०.] तामसप्रमाणप्रकरणे स्कन्धादितोष्टमोध्यायः । य एतस्मिन् महाभागाः प्रीतिं कुर्वन्ति मानवाः । नारयोभिभवन्त्येतान् विष्णुपक्षानिवासुराः॥१९॥ तस्मान् नन्दात्मजोयं ते नारायणसमो गुणैः। श्रिया कीर्त्यानुभावेन गोपायस्व समाहितः ॥ २० ॥ दस्युपीडिता इति, दस्युभिरुपहतधनाः, पुनः समेधितास्तथैव कृतास्ततोप्यधिकाश्च, ततो जिग्युः स्वयमेव ताञ् जितवन्तः, अतो भवन्तोप्यनेन समेधिताः स्वयमेव दस्यूज जेष्यन्ति, एवं भगवतस्त्रिविधानि कर्माणि निरूपि- तानि सर्वदोषनाशकानि सर्वसुखजनकानि सर्वसामर्थ्यजनकानीति, ननु कथं साधूनां दुष्टोपद्रवः पूर्व राज्ञां विद्यमानत्वात् तत्राहाराजक इति, न विद्यन्ते राजानो यस्मिन् देशे, परशुरामेण सर्वे हताः कालेन च विवेका- दयोत एवारक्ष्यमाणा रक्षकापेक्षामपि न कृतवन्तः, अतः कंसापेक्षां परित्यज्य स्वतन्त्रतया राजवत् स्थातव्यमित्युपदेशोप्युक्तः ॥ १८ ॥ एवं कर्माण्युक्त्वा गुणानाह य एतस्मिन्निति, गुणास्त्वनुभावरूपाः क्रिया नापेक्षन्ते, ये महाभागा एतस्मिन् भगवति प्रीति स्नेहं कुर्वन्ति तानरयो नाभिभवन्ति, स्वत एव तर्हि सर्व एव कथं प्रीतिं न कुर्वन्तीत्याशङ्कय भगवत्प्रीतौ स्वरूपयोग्यता सहकारियोग्यता चापेक्ष्यत इत्याह मानवा मनो ताः सद्धर्मरूपा धर्मार्थ एवोत्पन्ना इति स्वरूपयोग्यानां " मन्वन्तराणि सद्धर्म" इतिवाक्यात् , महा. भागा इति “जन्मान्तरसहस्रेषु तपोध्यानसमाधिभिः नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायत” इति- वाक्यात् परमभाग्येनैव प्रीतिर्जायते, प्रीतिमिति सर्वदेकविधप्रीतिकरणार्थमेकवचनं पटवद् वृद्ध्यर्थ वा खण्डशःकरणाभावार्थ वा हेतुस्तूक्त एव, य इतिप्रसिद्धतया तेषां निर्देशः, भवन्तस्त इति प्रतिनिर्देशार्थः, एतान् परिदृश्यमानान् गोकुलस्थान् , नन्वन्तर्यामिप्रेरणेनैव ते न बाधन्ते, अवश्यं चैनद् वक्तव्यं, भक्तिस्त्वन्तर्यामि- प्रेरणार्था, ततो नानेन प्रकारेण भगवद्गुणा उक्ता भविष्यन्तीत्याशझ्याह विष्णुपक्षानिवासुरा इति, विष्णुः पक्षे पक्षपाते येषां विष्णुरेषां रक्षक इति येषु ज्ञानमतः स्वकृतिवैयर्थ्यशङ्कयासुरा न बाधन्ते, अन्तर्यामी तेषां नान्यथाप्रेरक आसुराणामासुरभावेनैव प्रेरणनियमात् , अतो विशेषाकारेणैव पालयिष्यतीति सर्वजनीनत्वात् , अम्बरीषादिचरित्रे तथा प्रसिद्धः, अस्य प्रीतेरेषोनुभावः, गुणास्त एव ये सानुभावाः परम्परयाप्यनुभावं सम्पादयन्ति, अनेन साक्षाद्गुणा अनन्ता एव वक्तुमशक्या इति सूचितम् ॥ १९ ॥ एवं गुणे प्रदर्शन- मात्रमुक्त्वा विशेषाकारेण वदन्नुपसंहारमिषेण रक्षामुपदिशति तस्मादिति, यस्मादयं महानुभावः पूर्वोक्त- कर्मालौकिकस्तस्मात्, हे नन्द सर्वानन्दकारिन् , त्वन्नामसार्थकत्वाय चैनं पालयेतिभावः, अयं ते कुमारो गुणैः कृत्वा नारायणसमो नारायणस्य समः, त्रिविधोपि नारायणोक्षरं पुरुषोतामी च, गुणैरेव कृत्वा तत्समः, कर्माणि त्वधिकानि, अनुभावश्च, नराजातानीतिपक्षे यावन्तो जीवगणाः सृष्टावुत्पन्नास्ते सर्वे भगवद्गुणख्यापकास्तावद्गुणप्रसिद्ध्यै तावद्रूपो जात इति, द्वितीयपुरुषस्य तु विशेषेण स्वप्सम्बन्धयोग्यजीवराशिपरिग्रहात् स्वतुल्यतामापादयितुं स्वभावनिवर्तकाः सानुभावा गुणा उक्ताः, तृतीय- पुरुषे त्वन्तर्यामिणि जीववश्य इव तदधीनत्वेन तस्य सर्वकार्थप्रेरक इति भक्तिजनका असाधारणा गुणा उक्ताः, त्रिविधा अपि भगवति कृष्णे सन्तीति गुणैः कृत्वा नारायणसमानः, धर्मान्तरैरपि नारायणसमतामाह श्रिया कीर्त्यानुभावेनेति, ब्रह्माण्डमध्ये नारायणत्रयं यो वैकुण्ठे लक्ष्मीसहितो यः सूर्यमण्डले सर्ववेदसहितो यो भूमौ सर्वब्राह्मणेषु यज्ञनारायणस्तत्सदृशोपि, यथा सर्वजगज्जनन्या अक्षरानन्दरूपाया सर्वशोभानिधानरूपाया य एतत्रयकर्ता, लक्ष्म्या जगज्जनकत्वं तस्या अपि परमानन्दः सर्वशोभारूपाया अपि शोभा, यथा व्यापिवैकुण्ठस्थो १. ०भावैश्चेत्यपि पाठः । - ४ श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [श्लो० २१-२२. ॥ श्रीशुक उवाच॥ इत्यात्मानं समादिश्य गर्गे च स्वगृहं गते नन्दः प्रमुदितो मेन आत्मानं पूर्णमाशिषाम् ॥ २१॥ कालेन व्रजता तात गोकुले रामकेशवौ । जानुभ्यां सहपाणिभ्यां रिङ्गमाणौ विजहतुः ॥ २२ ॥ भगवान् लक्ष्म्या एतावत् करोति एवं कृष्णोपि करोति, यथा सवितृमण्डलस्थः कीर्ति स्थापयति सर्वलोकेषु "न ह्यस्मिन्नुदिते दिनकरे सकलं कमलायते भुवन"मितिवाक्यात् कीर्तिः सूर्ये प्रतिष्ठिता यतः सर्वेषां स्वत एव शीताज्ञानादिसर्वदुःखनिवृत्तिः सर्वसुखं च भवत्येवं कृष्णकीर्तिरपि, यतः प्रभृत्युदितस्ततः प्रभृति सूर्य- वदेव भागवतादिषु प्रकाशते, यथा यज्ञा आधिदैविकाः सर्वेषां सर्वकार्यकर्तारो दूरादेव माहात्म्यज्ञापकास्तथा महानुभावो भगवान् , एवं षड्भिर्नारायणैस्तुल्यो भगवान् कृष्णो गुणैः षड्गुणैः, श्रिया कीर्यानुभावेन च तस्यैव विवरण, एवं भगवद्गुणानुक्त्वा चकारेण "सत्यं शौच''मित्यादिप्रथमस्कन्धोक्तगुणानपि सङ्गृह्य परम- निधानत्वेनोपपाद्य सावधानान्तःकरणो भूत्वा प्रपञ्चविस्मरणेन गोपायस्वेत्युपदिशति गोपायस्व समाहित इति, एतावता सर्वथावेक्षा कर्तव्या न क्वापि गन्तव्यं न नेय इत्युक्तम् ॥ २० ॥ एतावदुक्त्वा गते यज्जातं तदाहेतीति, आत्मानं नन्दं भगवन्तं वा सम्यगादिश्योपदिश्य, गर्गे स्वगृहं मथुरां गते नन्दस्तद्वाक्यात् प्रमुदितः सन्नाशिषामाशीभिः पूर्णमात्मानं मेन इतिसम्बन्धः, स्वस्यायोग्यत्वेन महतो ज्ञानान्न भीतो जातो नाप्ययं पुत्रो न भवतीति ज्ञात्वा दुःखितो जातो येनकेनापि प्रकारेण प्राप्तत्वाद् गर्गोक्तं प्रमाणमिति ज्ञापयितुं कृष्णो भगवानात्मेति नन्दश्च कृतार्थ इतित्रयं ज्ञापयितुमात्मपदं, सम्यगुपदेशो नास्मिञ् शङ्का कर्तव्या नाप्यन्यस्माद् भयं सम्यग् रक्षणीयश्चेत्यादेश आज्ञा, अन्यथा गर्गोपि क्रुध्येदिति, एता- वदुपदेशं कृत्वा नामकरणं च गर्गे गच्छति यदि कंसो मध्ये व्यसनं कुर्यात् तदापि चित्तस्वास्थ्यं न भवतीति गर्गे स्वगृहं गत इत्युक्तं, चकाराद् बालकयोः स्वस्मिन्नप्यन्येषु वा तत्र स्थितेष्वत्यन्तरङ्गेषु स्वगृहं गतेषु गोकुलेपि गर्गकर्मणोः प्राकट्याभावार्थ, तदा नन्दः सार्थकनामा भविष्यामीति प्रकर्षेण मुदितः प्राप्तमहानिधिः, आशिषां सर्वकामितपदार्थानामन्येषां च पूरणार्थ पूर्णपरमातिशयकाष्ठां प्राप्तं मेने, स्वमनस्येव तथा ज्ञातवान् ॥ २१ ॥ एवं नामचरित्रमुपपाद्य रूपचरित्रं वक्तुं भगवद्गतिः कालरूपेति तस्मिन्नेवाधिदैविके गच्छति सति भगवद्गतिरित्याह कालेनेतिदशभिः, दशधा भगवद्रूपमत्र वक्ष्यतेवान्तरानन्तभेदयुक्तं, गतौ गतिविशेषे च भूमौ रूपद्वयं हरेः । यशोदायां तथा रूपमुपविष्टं त्रिधा मतम् ॥१॥ अन्याश्रितं स्वतश्चैव कथञ्चित् सर्वथा तथा । उत्थितं तु त्रिधा रूपं युक्तं त्रिवि वलीलया ॥२॥ बालकैमुग्धलीलाद्या धाट्यधौर्त्यसमन्विते । निर्गुणावस्थरूपे च ज्ञापिते तु ततः परम् ॥ ३॥ सात्त्विकादिविभेदेन तत्तद्धृदयगामिनि । तांस्तांस्तु क्रमशो भावान् दूरीकृत्यान्तिमे स्थिरा ॥ ४ ॥ यशोदार्थमियं लीला प्रसङ्गादन्यगामिनी । यदैव ता गृहे व्यग्रास्तदेवं दशधा हरिः ॥५॥ तत्रादावुपविष्टस्य हरेरल्पचलनात्मिकां गतिलीलामाह कालेनेति, स्वतो व्रजता कालेन कृत्वाल्पेनैव गोकुले तत्रापि यशोदाया अङ्गणे रामकेशवावुभावपि नामकरणेन भगवदावेशाद् भगवन्तौ योगिध्येयो ब्रह्मादिवन्द्यश्च रामकेशवौ, मत्वर्थीयो वप्रत्ययश्चात्र सौन्दर्यार्थ परिगृह्यते, वस्तुतस्तु लौकिक एव केशवशब्दस्तद्धितान्तः, .. .. .

श्लो० २३.] तामसप्रमाणप्रकरणे स्कन्धादितोष्टमोध्यायः। , तावङ्घ्रियुग्ममनुकृष्य सरीसृपन्तौ घोषप्रधोषरुचिरं व्रजकर्दमेषु । तन्नादहृष्टमनसावनुसृत्य लोकं मुग्धप्रभीतवदुपेयतुरन्ति मात्रोः ॥ २३ ॥ न तु भगवद्वाचकः, केशयोर्व सुखं यस्मादित्यर्थे प्रत्ययापेक्षाभावात् , उभयो,नाधिकभावेपि वयसि स्थितयोः समाना गतिः, भगवत्सन्निधाने नामद्वारा सम्बन्धानन्तरमेव भगवत्त्वमत उभौ जानुभ्यां सहपाणिभ्यां रिङ्गमाणौ जातौ शनैस्तदान्योन्यं विजहतुर्विहारं कृतवन्तौ क्रीडां कृतवन्तावित्यर्थः । जानुभ्यां गमनं विष्णोदैत्यानां मर्दनाय हि । बलिदैत्यपतिर्भूत्वा न निवारयति स्वतः ॥ १ ॥ उपविष्टयोर्नम्रीभूतयोर्गमनं पादाधीनमेवेति जानुभ्यामेव गमनमुच्यते, पाण्योस्तु सहभावः, तत्र प्रतिष्ठा- भावात् , सम्पूर्णेनापि शरीरेण रिङ्गमाणाविति जानुभ्यां सह रिङ्गमाणाविति सहपदप्रयोगः, अनेन मध्येल्पचलनेपि भूमौ शयानावेव भवतः पुनरुत्थाने च तथा, एवं रूपाणि भगवतः सहस्राणि ध्येयानि हसद्- रूपाणि क्षणमुपविष्टानि क्षणं प्रचलितानि च ॥ २२ ॥ इयं प्रथमगतिरुत्तर श्लोकोक्तगतिपर्यन्तमनुसन्धेयोत्तरो. त्तरपुष्टा, उत्तरस्यादिना पूर्वावसानस्य न्यायसिद्धत्वात् , द्वितीयमाह तावज्रीति, गतिविलासा अत्र नि- रूप्यन्ते, प्रथमतोलसवलितगतिः, तावुभावपि, एको भगवानिति न वैलक्षण्यं, जानुभ्यामेव गच्छन्तौ मध्येमध्ये जानुपीडामिव भावयन्तौ, अघ्रियुग्ममनुकृष्य पादाग्रमधोमुखं कृत्वा जानुपर्यन्तं भूमिष्ठं विधाय शनै- राकृष्य पश्चाच्छीघ्रं सरीसृपन्तौ द्रुतं गच्छन्तौ भवतः, तथा गमने हेतुमाह घोषप्रघोषरुचिरमिति, घोषः शब्दः प्रकृष्टो घोषस्ताभ्यां रुचिरं यथा भवति तथा प्रथमं गच्छन्तौ नूपुरक्षुद्रघण्टिकादीनां वादनमाकर्णयन्ताविव शब्दे दत्तकर्णी शब्दगति विचारयन्तावङ्घ्रियुग्ममनुकृष्य शनैश्चलितौ, स शब्दः किं स्वाभरणादेव जायतेन्य- स्मादिति वेति विचारयितुं गतेः शैव्यं कुरुतः, तदा प्रघोषो भवति, तस्यापि विचारार्थ पुनः स्थितौ भवतः, तदा प्रघोषेण रुचिरं यथा भवति तथा सरीसृपन्तौ भवतः, पुनरेवं घोषप्रघोषाभ्यां बहुधा गतितरतम- भावं प्राप्तौ बजकर्दमेषु गतौ भूमिदेहसम्बन्धकृतशब्दवैलक्षण्यग्रहणाय, तत्रापि चेच्छन्द आभरणानामेव नान्यस्येति तन्नादहृष्टमनसौ जातो, अस्मद्त्या तदनुगामी शब्दोपि रुचिरो भवतीत्येवं बहुधावृत्तिर्मन:परि- तोषार्था, अनेन भगवान् चरित्रं कृत्वा तत्प्रतिपादकं च वाक्यं विधायोभयोर्योग्यतायां सन्माननं वक्तुः श्रोतुश्च करोतीति लक्ष्यते, एवं तयोरेव परस्परं गतिलीलामुक्त्वान्यानुरोधेनापि गतिलीलामाहानुसृत्य लोकमिति, यं कञ्चित् स्त्रियं पुरुष वा गच्छन्तमनुगच्छन्तौ गन्तव्यमेवेति कथमन्यथायं गच्छेदिति कियद्रं गमनानन्तरं तस्मिन् परिवृत्य दृष्टं दूरं गते वा मुग्धपभीतवत् स्वमातुरन्ति समीप उपेयतुरितिसम्बन्धः, गमने ज्ञानद्वयं, अस्मदीयाः केचन गच्छन्तीत्यतोस्माभिरपि गन्तव्यं गन्तव्यमेव वा, तथा सत्येकाकिना न गन्तव्यमिति तस्मिन् दूरं गते पश्चात् पुरस्ताच्चासहायमात्मानं मत्वा भीतौ भवतः, व्याधुट्य प्रदर्शने तु नायं मदीय इति मुख एव परिचयात् धर्मान्तरे तथा बुद्ध्यभावात् मुग्धवत् परावृत्तिर्भवति, मुग्धश्चासौ प्रभीतश्चेति, प्रकर्षभये मुग्धभावोपि हेतुः, अन्यथा भये कारणा- भावात् "तस्मादेकाकी बिभेती"ति भयमात्रकारणत्वेपि प्रकर्षभये नान्यो हेतुः, गमनागमनलीला शीघ्र सिद्धैव तथापि मुग्धभीतभावौ गमनागमनयोः क्रमेण सौन्दर्यसूचकौ, उभयत्र वा, तथैकाकिना नात्र स्थातव्यमिति गमनं, बालकयोः परिचयो मातर्येवावशिष्ट इति वदिति, ज्ञात्वापि तथानुकरणेन पुनर्गमनागमने, तत्र हास्यादिना बहवः प्रकारा भावुकानां मनोहरा भवन्ति, लोकमित्यालोकवन्तमुज्ज्वलवस्त्रादियुक्तं, मात्रोरन्तीत्यनेनैव सामीप्ये सिद्धे पुनरुपेतिग्रहणं कदाचिदागत्योपर्येव पततः कदाचिन्मध्ये कदाचिददूरविप्रकर्षणेतिप्रकारभेदज्ञापकम् ॥ २३ ॥ - ४८ श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [श्लो० २४-२५. तन्मातरौ निजसुतौ घृणया स्तुवन्त्यो पङ्काङ्गरागरुचिरायुपगृह्य दोभ्या॑म् । दत्वा स्तनं प्रपिबतोः स्म मुखं निरीक्ष्य मुग्धस्मिताल्पदशनं ययतुः प्रमोदम् ॥२४॥ यङ्गिनादर्शनीयकुमारलीलावन्तर्बजे तदबलाः प्रगृहीतपुच्छैः । वत्सरितस्तत उभावनुकृष्यमाणौ प्रेक्षन्त्य उज्झितगृहा जगृहुर्हसन्त्यः ॥ २५ ॥ एवं नानाविधगमनागमनाभ्यामुपविष्टलीला स्वतन्त्रतया बहुधा वर्णिता, मात्रा सह नानाविधक्रियाभिः सहितस्योपविष्टस्य लीलामाह तन्मातराविति, यशोदारोहिण्यौ निजसुतौ स्वं स्वं सुतं घृणयौत्कण्ठ्यस्नेहेन स्तुवन्त्यौ पङ्क एव योयमङ्गरागस्तेन रुचिरौ दोभ्यामुपद्यालिङ्गय स्तनं दत्वा पिवतोश्च मुखं निरीक्ष्य प्रकर्षेण मोदं ययुरितिसम्बन्धः, नृत्यन्ताविव समागच्छन्तौ धृत्वा वा नृत्यं कुर्वन्तौ मातृप्रेरणया वान्यप्रार्थनया वा नृत्यन्तं पश्यन्तौ वा, स्तोत्रे पञ्चधा नृत्यं हेतुः, लीलाभावाश्चासङ्ख्याताः, रोषभावाश्च त्रिविधाः स्तोत्रविषयाः, तत्र स्तोत्रं द्वेधा सम्भवति परमार्थतो लोकतश्च, लोकतो घृणा, घृणयास्तुवन्त्यावितिपदच्छेदे परमार्थतः स्तोत्रं, घृणयोपलक्षिते वा मातरौ, भगवद्व्यतिरिक्त सर्वत्र घृणा सञ्जातेति, 'सघृण' इत्यादौ 'घृणा' स्नेहदयाप्युच्यते, भगवत्कर्तृकोपगृहनदशा भिन्ना ताभ्यामुपगूढयोरन्या, अत्रापि बहवो भेदाः सम्भवन्ति, स्तनपानदशा तु स्वतन्त्रा, आलिङ्गितयोर्वा भयाभावात् स्तनपानं, निरीक्षणलीलापि बहुविधा, सर्वत्र प्रमोदः फलमुभयोर्मातृत्वमन्यथा शङ्कितं भविष्यतीति बुद्धिदाार्थ निरूपितं, भगवतोपि मातरि वैलक्षण्यभावाजननार्थ निजसुतावित्युक्तं, भगवत्सम्बन्धेपि सर्वपुरुषार्थानां भगवद्रूपेण भिन्नतया वा ज्ञानाभावाय घृणा निरूपिता, भौमाः सर्व एवावयवास्सुगन्धा भवन्ति, विजातीयैश्योपहता अन्यथा भवन्त्यलौकिकं तेजश्चेद् भवति तदोत्तमता भवति, तत उच्यन्ते कस्तूरीकुङ्कुमचन्दनादिष्वङ्गरागपदानि, वस्तुतस्तु मृदवयवा एवं गन्धतेजोभ्यां सहितास्तथा व्यपदिश्यन्ते, भगवत्सम्बन्धाद् दोषनिवृत्तिपूर्वकगुणाधानमुचितमेव, अतः पङ्क- स्याङ्गरागत्वं, पङ्कपदप्रयोगाच्चैवं ज्ञायते, अङ्गसम्बन्धानन्तरमेवाङ्गरागत्वमिति, रुचिराविति परमार्थापेक्षया- धिक्यं सूचयति, स्वेनैव ह्यङ्गरागत्वं सम्पादितं स्वतेजसानुभावेन वा पुनस्तेनैव रुचिरत्वमङ्गरागस्य माहात्म्यख्यापनाय, ततोप्यधिकतेजस आविर्भावः प्रत्यक्षतः पङ्कदर्शनयुक्तयोरपि पङ्काङ्गरागरुचिरत्वं निस्त- न्दिग्धं भावितमिति दोभ्या॑मुपगृहनमुक्तं, निर्दुष्टभाव एव भगवत्युचित इति न तु दोषत्वमङ्गीकृत्य, अविहितभावख्यापनार्थ दत्वा स्तनमित्युक्तं, अन्यथा मुक्तिलीलायां प्रवेशः स्यात् , गमनागमनाभ्यां बालकाः क्षुधिता इति प्रकर्षेण पानं, नन्वेवं स्त्रीणां बाललीला कथं भवद्भिरवगता योगे ध्याने वा कैवल्य- स्यैव भाव्यत्वाद् गमनं तु नास्त्यवर्णितत्वादित्याशङ्कयाह स्मेति, सर्वलोकप्रसिद्धैषा लीला, अतो नालौकिक- प्रकारो ज्ञाने वक्तव्यः, मुखमित्येकवचनमेकस्यावेशितत्वेन प्रकरमेकमेव मुखमिति ज्ञापयितुं, तदने विस्तरेण वक्ष्यते, ननु मुखस्य भक्तिरूपत्वात् तत्र सम्यनिरीक्षणे जाते कथं लौकिकभावः सिध्येदित्या- शङ्कयाह मुग्धस्मिताल्पदशनमिति, स्मितस्य दन्तानां च मायास्नेहरूपत्वान्मोहकत्वं, मुग्धं सुन्दर मितमल्पता स्वासक्तिजनकता च निरूपिता, मोहक त्वन्यत्रैवासक्तिं जनयति, अल्पदशनानि च, तथा क्षीरकणसहिता दन्तपतिरुक्ता, अतो लौकिकालौकिकभावयोर्मिश्रणात् प्रकृष्टो मोदः ॥ २४ ॥ एवं लीलात्रयं फलान्तं निरूपित, स्वत:स्थितयोलीला आह यहङ्गनेतित्रिभिः, अत्र सर्वा एवं स्त्रियोधिकारिण्यः, अन्यासां सामान्यतो निरोधाभावे तत्सङ्गदोषेण जनन्योनिरोध उच्यमानो न भवेत् , राजसभावास्तु कोटिशो भवन्ति तान् सर्वानेव सङ्ग्रहीतुं यङ्गिनादर्शनीयकुमारलीलावित्युक्तं, अङ्गनास्तु ४९ , श्लो० २६.] तामसप्रमाणप्रकरणे स्कन्यादितोष्टमोध्यायः। शृङ्ग्यग्निदंष्ट्रयसिजलद्विनकण्टकेभ्यः क्रीडापरावतिचलौ स्वसुतौ निपेद्धम् । गृह्याणि कर्तुमपि यत्र न तज्जनन्यौ शेकात आपतुरलं मनसोनवस्थाम् ॥ २६ ॥ तरुण्यस्तासां दर्शनीया कुमारलीला ययोः, तास्त्रिविधा भवन्ति कौतुकाविष्टा रमाविष्टाः कामाविष्टाश्चति, यदैव तौ तासां दर्शनीयलीलौ तदैवातिमुग्धत्वख्यापनार्थ वत्सपुच्छावलम्बनेन स्थितौ भवतः, लौकिकाभिनि- वेशभयाच्छुकेन न विशेषत उक्तः, कुमारोत्र द्विवार्षिकः, कुत्सितो मारो यस्मादिति कन्दर्पकोटिलावण्याधिक- सुन्दर उक्तस्तद्गतोत्कृष्टभावा अप्यस्मिन् निरूपिताः, अङ्गनानां दर्शनीयभावनाथ जातानुभावानां वा निर्भयेन दर्शनार्थ यहींति, तृणावर्तवधपर्यन्तमन्यदा वा यावदयं भावो न जात इति तावन्निरन्तरदर्शनं न जातमिति ज्ञापित, दृष्टिस्पर्शसम्बन्धैत्रिविधाः सुखदा उक्ताः, एतादृशावङ्गनादर्शनीयकुमारलीलो, अन्तर्बन इति, ब्रजमध्ये सर्वासामेव दर्शनयोग्यस्थाने, तदबला ब्रजबाला अन्यत्र गमनयोग्यतारहिताः, वत्सरितस्ततोनुकृप्यमाणौ जगृहुरितिसम्बन्धः, वत्सा गोपुत्राः, भगवाँल्लीलार्थं कर्माङ्गदेवताभावं तदवलम्बनं वा करोति, ते तु मूढा इतस्ततः प्राकृते वैकृते च संयोजयन्ति यथा गर्दभपादच्छेदनं कृत्वा "विष्णवे शिपिविष्टाय जुहोती "त्यति- रिक्तस्य शान्त्या” इतिफलाथै, एतेपि वत्सा भगवता प्रकर्षण गृहीतं पुच्छं येषां द्वयोरकस्य वा प्रकर्षण ग्रहणान्न तेषां धावनं, प्रदर्शनार्थमेव यतो मुग्धभावः, अतो न स्खलनमत्र, उभाविति भगवान् स्वत आवेशतश्च क्रीडतीति वक्तुं, अनुकर्षणं शनैः शनैः कर्षणं, भगवानपि वत्समाकर्षति वत्सतर्यश्च भगवन्तं, अतो वत्सस्यापि नेष्टगतिः, अत इतस्तत आकर्षणं, वत्सैरितिबहुवचनं धृतस्य पलायनेपि पुनरन्यग्रहणार्थ, एवं पराधीनभगवद्गतिं दृष्ट्वा प्रेक्षन्त्य एव स्थिताः, अत्रैव तात्पर्ययुक्ता उपनिषद इव स्थिताः, नत्वन्याधीनत्वेनान्यथा ज्ञातवत्यः, एवं कर्मभ्यस्त्याजयित्वा स्वार्थ ग्रहणमाश्रमपरित्यागन्यतिरेकेण न सम्भवतीति गृहं बिडालादि- भिरप्युपद्रुतं परित्यज्य तदवेक्षामकृत्वा जगृहुः, हसन्त्य इति, अस्मत्परिग्रहे नैवमितस्तत आकर्षणं भवति न वा स्खलनसम्भावना, प्रेक्षन्त्यो ज्ञानपरा उज्झितगृहा विरक्ता हसन्त्यः फलार्थिन्यस्त्रिविधानां ग्रहणार्यमुक्तं, ग्रहणानन्तरं विनियोगस्तु पूर्वमेव कथितः, सम्भूयग्रहणपक्षे स्वतोपि सर्वतो नयनं सम्भवति, उज्झितगृहा इतिवचनादन्यत्रापि नयनं, हसन्त्य इत्यपि तथा, किं बहुना सर्वासामेव यथा ग्रहणं भवति तथा भगवान्, गोपुच्छधारणलीलेयं पराधीना निरूपिता ॥ २५॥ स्वतो गतिलीलामनेकविधामाह शृङ्गीति, गोपिकास्तु स्वत्वभावदोषरहिताः, अलौकिकभावेनापि वशीकृताः, विचाराभावाद् रसेनापि तारुण्यात् कौतुकेनाप्यन्यार्थ च निरूपिताः शीघ्रमेव विस्मृतप्रपञ्चा भगवदासक्ता निरूपिताः, यशोदारोहिण्यौ तु तद्विपरीते इति तयोस्तदुभयसम्पादनार्थ षड्गुणैः स्वेन च सप्तवा लीलां कृतवान् , इष्टस्य दुष्टसम्बन्धे शिष्टः पुष्टिं विमुञ्चति । नान्यथेति हरिः प्रीतः सत्यः क्रूरगतो भवेत् ॥ १ ॥ शृङ्गिणो दंष्ट्रिणश्चैव पक्षिणश्च विघातकाः । चेतनास्त्रिविधा एव ततोन्ये तु चतुर्विधाः ॥ २ ॥ कृत्रिमाः सहजास्तेपि खड्गाग्निजलकण्टकाः ॥ २३ ॥ शृङ्गिणो गावः, अग्निधूमार्थ स्वेदार्थ वा कृतः, दंष्ट्रिणो मर्कटाः, असिः खड्गादिसाधनानि, जलं कूप- गर्तादिस्थितं, कलशादिस्थितं वा पातनात्, द्विनाः पक्षिणः शुकादयः, कण्टकानि च्छित्वा स्थापितानि परितो वेष्टनरूपाणि, तेभ्यो निवारणं वचनान्न भवति, आज्ञाकारित्वेपि चाञ्चल्यात् , वस्तुतस्त्वाज्ञां दातुमपि न प्रेरयति, उपद्रवज्ञाने निर्बन्धेन निवारणं, तत् तु कर्तुमयुक्तमित्याह क्रीडापराविति, क्रीडैव परोत्कृष्टा नियामिका ययोर्बालकयोः, तर्हि क्रीडासाधनानि सम्यस्थले कृत्वा देयानीति चेत् तत्राहातिचलाविति, अत्यन्तं चलौ, तमुन्यः कश्चित् तदवेक्षकः स्थाप्य इति चेत् तत्राह स्वसुताविति, स्वेनैव सूताविति तदर्थं क्लेश- सर्वप्रकारेण जगृहुः, %D श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [ श्लो० ० २७-२८. कालेनाल्पेन राजर्षे रामः कृष्णश्च गोबजे । अधृष्टजानुभिः पद्भिर्विचक्रमतुरञ्जसा ॥ २७ ॥ ततस्तु भगवान् कृष्णो वयस्यैव्रजबालकैः । सहरामो व्रजस्त्रीणां चिक्रीडे जनयन् मुदम् ।। २८॥ कृष्णस्य गोप्यो रुचिरं वीक्ष्य कौमारचापलम् । शृण्वन्त्याः किल तन्मातुरिति होचुः समागताः ॥ नात् स्नेहाधिक्याच नान्यविनियोगं कुरुतः, क्रिययैव च निषेधः कर्तव्यस्ततस्तत आदाय सम्यक् स्थाने पनीयौ, तथा प्रतिक्षणं क्रियमाणे गृहकार्य तयोरपि भोजनस्नानादिनिमित्तकार्य न सिध्येत् तदाह गृह्याणि मपीति, गृहेवश्यकर्तव्यानि गृह्याणि, लौकिकनिष्ठता भगवन्निष्ठता च परस्पर विरुद्धा, आसक्तिस्तुल्या यलीलैवेति, पञ्चमलीला तु वक्ष्यति, तदर्थ सर्वपरित्यागं, उभयोस्तुल्यत्वख्यापनायापिशब्दः, यदा न शेकाते मनसोनवस्थामापतुर्वैयग्र्यं चिन्तां च प्राप्तवत्यौ, तयोर्जनन्याविति ताभ्यां सह क्रिया निषिध्यत { ज्ञापित, क्षणमपि मनसो नैकत्र स्थैर्य तयोर्जातमित्यर्थः ॥ २६ ॥ एवं मात्रोनिरोधार्थ बहु- गां लीलामुक्त्वा स्वतन्त्रतया स्थितस्य भूमेमर्दनक्लेशनिवृत्त्यर्थ पद्भ्यां संवाहयन्ताविव गतिविलासं कृत- तावित्याह कालेनाल्पेनेति, यदर्थं तत् कर्तव्यं तत् प्रयोजनमल्पमित्यल्पेनैव कालेन गोत्रजे पद्भिर्विचक्र- :, अञ्जसानायासेनैव नान्यावलम्बनापेक्षा, कालो गत्यात्मक इतिक्रीडायामिवात्रापि करणता, अल्पस्य लस्य कोमलत्वात् , कोमलचरणस्पर्शे भूमेः खेदो गच्छतीत्यल्पत्वमुक्तं, राजर्ष इत्युभयधर्मवत्त्वेन सम्बोधन- ग्रेमचरित्रश्रवणाधिकारबोधकं निरोधानुसन्धानार्थं च, रामः कृष्णश्चेतिनामग्रहणं रत्युत्पादनसामर्थ्यजन- यान्तःस्थितरूपेण बहिःपरमानन्दविषयरूपेण च भूमेः सुखदानार्थ, स्वतन्त्रतयोभयोस्तथात्वाय भिन्न- पा निरूपणं, चकारस्तूमयसमुच्चयार्थः, विषयस्यान्तर्नयने मनप्तो बहिरानयने च विनियोगात्, गवां बन ते खुराघातक्लेशः स्पष्टतया तत्र निरूपितः, जान्वाधर्षणेनैव दैत्यवधेग्रिमकार्य व्यथै स्यादिति पद्भिरिति, नेकधा पादस्थापनविशेषेण चक्रमतुः, “छन्दसि लुङ्लङ्लिट' इतिस्मृतेः, भगवत्क्रियाया नातीतत्वं सर्वथा तिव्यम् ॥ २७ ॥ एवं राजसी लीलां कृत्वा लीलान्तरं कृतवानित्याह ततस्त्वितित्रिभिः, राजसतामसीं मसराजसीं च स्वतो वक्तुमनुचितां मत्वान्यमुखेन निरूपयितुं मध्ये वाक्यान्तरं ततश्चैतुर्मिनिरूपितं भवति, वं भूमिक्लेशनिवृत्त्यनन्तरमक्लिष्टभूमौ स्वाशैर्वालकैः सह महाराजलीलां कृतवानित्याह ततस्त्विति, तु- ब्दः पूर्वलीलाव्यावृत्त्यर्थः, नातः परं परतन्त्रलीला, स्वातन्त्र्ये सामर्थ्यार्थमाह भगवानिति, आवेशिनः वातन्त्र्ये दौर्बल्यात् कृष्ण एवोक्तो रामस्तु सहभावेन, एकेन कालेन भगवत्सेवकेन ते गृहीता इति तैः ह क्रीडेतिज्ञापयितुं वयस्यैरित्युक्तं, समानं वयो येषां ते वयस्याः, देशोप्येक इत्याह ब्रजबालकैरिति, क्रीडायां बगला मुख्याः, रामस्तु स्वान्तर्निविशतीति सहराम इत्युक्तं, अत्र लीलायां साक्षान्निरोधो व्रजस्त्रीणामेव, तासा- मेव तथात्वात्, ज्ञानद्वारा यशोदायास्तत्र सर्वथागृहीतपरित्याजनाथ लीलां कुर्वन्नादौ लौकिकप्रकारेण तासा- ननुरागं जनितवानित्याह व्रजस्त्रीणां मुदं जनयन्निति, ब्रजसम्बन्धान्निरोध आवश्यकः, ययैव क्रीडया यथा कृतया तासां सन्तोषो भवति, न तु स्वसामर्थेन, अन्यथा प्रयोजनत्वेन करणे तन्निर्देशो न स्यात् , निरोधजनकत्वं स्वस्यैवेति स्वधर्मत्वेन निर्दिष्टं, कार्यसाधनत्वेन बालकानामुपयोगो रामस्य रक्षकत्वेन, स्वतः सन्तोषजननं, राजलीलायां च स्वयं राजा मन्त्री रामः सेवका बालका इति यावत्यो गोप्यो यादृग्भावापन्नास्तत्तदनुगुणां लीलामनन्तामेव भगवान् कृतवानित्यर्थः ॥ २८ ॥ यास्तु सर्वथा प्राकृतस्वभावा लौकिकवाक्यपरिनिष्ठिता दशश्लोकात्मके रूपप्रकरणेत्रायं श्लोकोधिको वक्ष्यमाणलीलाद्वयप्रसिद्धिबोधक इति निर्भयरामभट्टाः ।

श्लो० २९.] तामसप्रमाणप्रकरणे स्कन्धादितोष्टमोध्यायः। ॥ श्रीगोप्य ऊचुः॥ वत्सान् मुञ्चन् कचिदसमये क्रोशसञ्जातहासः स्तेयं स्वाहत्यथ दधि पयः कल्पितैस्तेययोगैः। मर्कान् भोक्ष्यन् विभजति स चेन्नात्ति भाण्डं भिनत्ति द्रव्यालामे सगृहकुपितो यात्यनुक्रोश्य तोकान् ॥ २९ ॥ वा तासां प्रपञ्चविस्मरणं साधारणसात्त्विकलीलया न भवतीति यत्रैव ता आसक्तास्तदेव कार्य नाशयंस्तन्निरोध कृतवान्, तच्चेत् सह्यं स्यात् सर्वथा निरोधो न सिध्यदिति तत्कार्यमसह्यमानमिति ज्ञापयंस्तथाविधा गोप्य उपालम्भं कृतवत्य इत्याह कृष्णस्येति, स्वतन्त्रकर्तृत्वं भगवत एवेति न बाला नापि राम उक्तः किन्तु कृष्ण एवोक्तः, रुचिरं मनोहरं भवत्येव, निरोधस्तु सिद्धः, तथापि न स्वतोस्माकं तथामन इति स्वदोप- परिहारार्थ यशोदायै निवेदयन्ति, ननु सर्वतःपूर्णा भगवत्कृपया प्राप्तसम्पदः कथमेवमुपालम्भं कृतवत्य इत्याह गोप्य इति, गोपभार्यात्वादेवं, न भगवति दोषदृष्टया, तथावचने निरोधो न सिध्येदित्याशक्याह कौमारचापलमिति, कौमारवयस एव चापलं चपलता, वयस एवायं दोपो न तु भगवत इति तासां बुद्धिः, सम्यगागता लोकन्यायेन समागता न तूपालम्भनार्थमेव, तन्मातुर्यशोदायाः शृण्वन्त्याः सत्याः प्रोचुः, एतादृशं वचनमयुक्तमपि सर्वलोकप्रसिद्धत्वादुच्यत इति स्वस्य दोषाभावख्यापनायाह किलेति ॥ २४ ॥ भगवतो निरोधलीलां तत्तदोषदूरीकरणार्थे कृतां तदभिनिवेशेन तावत् कृतस्वदोषरहिता भगवद्गुणान् गणेयन्ति पड्डिधान् जीवस्य दोषरूपान् भगवतो गुणान् , ईश्वरो हि हीनं कर्म न करोति, वत्समोचन मनीश्वरं कर्मे "ति केचित् , सर्वमोक्षदाता भगवानक्षयनिधिकर्ता यावद्दिनं क्षुधितान् वत्सान् मातृसमागमेपि दुःखिता मा भवन्विति मर्यादासमयोल्लङ्घनं कृत्वा वत्सान् मुञ्चति, कचिदिति, यत्र वत्सविमोक आतृप्तेः पूर्वबन्धनमशक्यं, आक्रोशे कृते भगवानमानी मानदस्तासां दुर्बुद्धिं ज्ञावा सञ्जातहासो भवति, मायोत्तरोत्तरं मोहिका प्रवृद्धा भवति, एवं बहिःस्थितानामान्तरं दुःखं क्षुत्कृतं मोहकृतं च नाशयति, मोहोपि सम्यड् मोहो जायते भगवद्विषयको येनकेनाप्पुपायेन सर्वोपि मनोव्यापारो भगवद्विषयक इतिलक्षणः, एवमुभयविधान् कृतार्थीकृत्य स्वकोयेषु स्वयं भोक्तव्यमिति स्वान्तःस्थितबालकानन्नादिना संवर्धयितुं वीर्यविरुद्धमिव चौर्येण भुङ्ग इत्याहुः स्तेयमिति, यस्तु हरति स चोरः, हरिहि भगवान् स्मरणेनैव सर्व हरति, स्तेयेन प्राप्तं स्तेयं पक्वान्नाद्योदनव्यञ्जनात्मकं सूपादि पायसान्तं, तत्रापि यत् स्वादु भवति रस्य, गोपिकागृहे स्वयमुपविश्य बालका- नुपवेश्य तामन्यत्रैव प्रेषयित्वा यद्यत् स्वादिष्ठं खण्डलड्डुकादिकं मोदकादिकं च भुते, अथ तृप्त्यनन्तरमन्नसमा- प्त्यनन्तरं वा, दधि पयः प्रथमं दधि पश्चात् पयः, पयःपानान्तं शनैर्भोजनं करोतीत्यर्थः, चौर्ये भगवता उपाया बहव एव कल्पिताः, दूरे शिक्ये स्थाली पूर्णजलां स्थापयित्वाधश्वेच्छेते तदापि नालेन जलं पीत्वा स्थालीमुत्तार्य वंशद्वारा समारुह्य नयति, एवमनेकप्रकारा अपरिज्ञाने, परिज्ञानेपि नवनीतभाण्डे भाण्डमग्रे स्थापयित्वा सावधानस्थितायामपि दुग्धादिना पूर्णमुखस्तदक्ष्णोः फूत्कारं कृत्वाक्षिनिमीलने नयति क्षणादृदृष्टश्च भवति, न सोस्त्युपायो येन भगवतः सकाशाद् रक्षितुं शक्यते, इतोपि भगवतोवाड्मनोगोचरा उपायास्ते सर्वे भगवतैव कल्पिता:, न तु चोरशास्त्रे सिद्धाः, "बालकैः सह भुत' इत्येके, वस्तुतस्त्वन्तःस्थितबालकप्रीत्यर्थमेव तथा करोति, स्वयं भोक्ष्यन् बालकेषु तृप्तेषु मर्कान् विभजति, मर्का मर्कटा:, मर्केभ्यो विभजतीत्यर्थः, ते हि पूर्व रामावतारभक्तास्तेष्वपि तृप्तेषु स्वयमध्यात्मा स्वीकृतभावो भुते, जगदात्मा सोपि चेन्नात्ति योत्ता १. अत्र श्लोकप्रतीकं त्रुटितमिति प्रकाशकाराः ।

श्रीमद्भागवतदशमस्कन्धसुबोधिन्या [ श्लो० ३०-३१. हस्ताग्राह्ये रचयति विधि पीठकोलूखलाये- छिद्रं ह्यन्तर्निहितवयुनः शिक्यभाण्डेषु तद्वित् । ध्वान्तागारे धृतमणिगणं स्वाङ्गमर्थप्रदीपं काले गोप्यो यहि गृहकृत्येषु सुष्टु व्यग्रचित्ताः ॥ ३० ॥ एवं धाष्ट्यान्युशति कुरुते मेहनादीनि वास्तौ स्तेयोपायविरचितकृतिः सुप्रतीको यथास्ते । इत्थं स्त्रीभिः सभयनयनश्रीमुखालोकिनीभिः व्याख्यातार्था प्रहसितमुखी न ह्युपालब्धुमैच्छत् ॥ ३१ ॥ " यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः मृत्युर्यस्योपसेचनं क इत्था वेद यत्र स इतिश्रुतेः, स प्रसिद्धः, तदेकं भगवद्रूपं भोक्तृ, स त्वत्यन्तमेव शुद्धान् भुते, यत् पुनर्मोक्षसम्बन्धि न भवति दैत्याविष्टत्वात् स चेन्नात्ति न भक्षयति तदा भाण्डं भिन्नत्ति दैत्यानां सम्बन्ध्यन्यैर्न भक्षणीयमिति, द्रव्याणामभावे त्वलामे वान्यत्र स्थापिते सगृहकुपितो भवति, सगृहे गृहसहिते गृहस्थे कुपितो भवति, अयुक्तकरणात् , गृहो हि धर्मार्थमेव भवति, धर्माभावे गृहवैयर्थात् , धर्मश्च द्रव्यैर्भवति, द्रव्यसाधकाश्च पुरुषाः, ईश्वरस्य कोप- भयाद् दिनान्तरे समृद्धिं करोत्येव, अथवा गृहस्थं बहिर्मारयेत् ताडयेद् वा, एवमलौकिकः क्रोधः, लौकिकमाह यात्यनुक्रोश्य तोकानिति, तोकान् बालकान् स्तनन्धयान् , त्वदपेक्षयाप्यन्तःस्थिता बालकास्तेषु क्षुधितेषु तदीयेन भवता स्थातुमयुक्तं भवतीत्यनुक्रोश्य रोदनं वा कारयित्वा मयि विमुखे रुद्रः प्रवेक्ष्यतीति ॥ २९ ॥ एवं भगवतः षड् गुणा निरूपिताः, धौत्र्ये क्रियाप्रकारमुक्त्वा ज्ञानप्रकारमाह हस्ताग्राह्य इति, पञ्चविधं ज्ञानं सप्रकारं निःप्रकारं च काले वस्तुनि निःसाधनमल्पासाध्येत्यन्तासाध्ये चान्धकारस्थापित आलोकापेक्षायां सप्रकारं ज्ञानं, अनेन पूर्णा विद्या निरूपिता भवति, लौकिकबुद्ध्या तु सर्वं ज्ञानं परोपद्रवायेति तदीयांशानां ज्ञाने तज्ज्ञानमपि भवतीति वस्तुतस्तूपकार एव, यत्र भगवतः कुसूलादौ वस्तु हस्तेनाग्राह्य भवति तत्र पीठ उलूखलमधोमुखं प्रतिष्ठाप्य तदुपरि बालकं वा निवेश्य गृहवंशान् वा धृत्वा वस्तु गृह्णाति, रिक्तभाण्डेषु तु न प्रयत्नं करोति, तत्र हेतुरन्तर्निहितवयुन इति, अन्तर्भाण्डे मध्ये निहितं वयुनं ज्ञानं यस्य, शिक्यभाण्डेषु दुग्धादियुक्तेष्वन्तः कुन्तादिना छिद्रं करोति, अधस्ताच्च भाण्डान्तरं स्थापयति, दध्यादौ तु न करोति, शर्करादौ तु पातयति, घनीभूते दध्यादौ च, तत् सर्वं वेत्ति तद्वित् , ध्वान्तागारे तु धृतमणिगणं स्वाङ्ग- मर्थतः प्रदीपभूतं रचयति यदिदानीमप्रकाशमानमपि तदानीमन्धकारगृहे सूर्यवत् प्रकाशते मणींश्च प्रकाश- यति, अर्था एव वा प्रदीपा भवन्ति, स्वाङ्गमेव वार्थार्थप्रदीपा यस्य न त्वन्यस्मिन्नागते, एतदपि सर्व काले, यदा गोप्यो न जानन्त्येव दूरे वा गता भवन्ति, किञ्च यहि गृहकृत्येषु पाकादियु मन्दस्नानादौ बालकतर्पणे वात्यावश्यके सुष्ठ व्यग्रं चित्तं यासां मथनादिसमये वा कालविलम्बे वा घृतमेव नोत्पद्येत ॥३०॥ एवं ज्ञानप्रकारमुक्त्वा पर्यवसानमाहुरेवंधाष्ट्यानीति, हे उशति कमनीये, धाट्यानि वस्त्रविमोचनादीनि कुरुते, उशति कमनीये भाण्डादौ च मेहनादीनि कुरुते, वास्तौ यत्र वास्तुदेवता पूजिता भवति, किञ्च स्तेयोपायैर्धमजनकविरचिता कृतिराकृतिर्यस्य पतिवत् पुत्रवद् भ्रातृवच्च तिष्ठति तत्र कार्यार्थमेतादृशोपि सुपतीकः साधुवदास्ते, धाष्ट्यादिकरणं पुरीषादिकरणं चौर्यकरणं रूपान्तरकरणं साधुवत् स्थितिश्चेतिपञ्चधा- रूपसङ्गहः, देहवदिन्द्रियवत् प्राणवदन्तःकरणवदात्मवच्चेतिपञ्चधाज्ञानस्य पञ्चविशेषभूतानि रूपाणि, एवं क्रिया- + श्लो० ३२-३३.] तामसप्रमाणप्रकरणे स्कन्धादितोष्टमोध्यायः । एकदा क्रीडमानास्ते रामाद्या गोपदारकाः । कृष्णो मृदं भक्षितवानिति मात्रे न्यवेदयन् ॥ ३२॥ सा गृहीत्वा करे पुत्रमुपालभ्य हितैषिणी। यशोदा भयसम्भ्रान्तप्रेक्षणाक्षमभाषत ॥ ३३॥ रूपान् ज्ञानरूपानाकृतिरूपान् निरूप्योपसंहरतीत्थमिति, एवम्प्रकारेण स्त्रीभिर्व्याख्यातार्थापि प्रहसितमुखी सत्युपालब्धु नैच्छत् , उपालम्भे द्वयं कार्य स्त्रीणां मनोरञ्जनं बालकस्य भयजननं च, तदुभयं प्रथमत एव जातं, भयसहितं नयनं यस्य सभयनयनो भगवान् तस्य श्रीयुक्तं मुखं तदालोकिनीभिः, एवमुपालम्भनकोपि भगवन्मुखनिरीक्षिका एव, ज्ञानशक्तेरेव भयं न तु क्रियाशक्तेस्तदाह सभयं नयनं यस्येति, श्रीसंयुक्तं मुखं, आक्रोशवतीनां दृष्टिभंगवद्विषयिणी मा भवत्विति श्रिया मूर्तिमत्यैव मध्ये व्याप्तं, अतः सभयनयनं यथा भवति तथा श्रीमुखस्यालोकिनीभिः, एवं व्याख्यातोर्थः स्वगृहव्यापाररूपो यस्यां, तथा सति लोक- दृष्ट्या भगवतो धौ] स्मृत्वोभयोर्भयनयने दृष्ट्वा भगवान् स्त्रियश्च भीता भगवान् मत्तः स्त्रियो भगवतो मत्तश्चेत्यनेकरसाभिनिविष्टा प्रकर्षेण हसितमुखी भगवन्तमुपालब्धुं नैच्छत् , नामलीलया वसुदेवः कृतार्थ एव जातः, इयं तु लौकिकन्यायेन प्राप्तमनोरथा लौकिकभावदाादेव दोषान् न गृहीतवती न तु माहात्म्यज्ञानात् ॥ ३१ ॥ अक्लिष्टकर्मा भगवांश्च यावन्नात्यन्तासत्त्या वैयग्र्यं न प्राप्नोति तावन्न वदति नापि प्रदर्शयति, अनेन च प्रकरणेन तस्याः स्वविषयकोध्यासो निवर्तितः, यतो वाच्यतासहनं जातं, भगवद्विषयकगाढाध्यासेन सोप्युद्गतः स्वसमानविषयकविरोधेनैव निवर्तिष्यत इति तदर्थं प्रकरणान्तरमारभते ज्ञानरूपमन्तःकरणशोधक- मेकदेत्येकादशभिर्मनसो ह्येकादश वृत्तयस्तासां निवृत्त्यर्थमेकादशधा ज्ञानं वक्तव्यं, दोषनिवृत्तये यत्नो वाक्यं वाक्यं च तस्य नुत् । तत्साधिका कृतिविष्णोर्ज्ञानं पूर्वनिवारकम् ॥ १॥ ज्ञानस्योत्कर्षसिद्ध्यर्थं विषयाणां च वर्णनम् । ततो भयं तन्निवृत्तौ पूर्वपक्षस्य युक्तयः ॥२॥ सिद्धान्तेन प्रतिष्ठानं भीतायाः शरणागतिः ॥ २६ ॥ भगवत्यध्यासस्य दृढत्वाद् भिन्नविपयको दोषो न बाधक इति समानाश्रयविषयकं दोषं बाला अनिरुद्धा आहुरित्याह, एकदा यदा भगवत्प्रवणमेव चित्तं स्थितं, आक्रीडमाना आ समन्तात् क्रोडां कुर्वाणाः, समानभावेन सर्वेषु क्रीडा रसजनिका भवति, अतो भगवति साम्ये स्फुरिते विवेकिनां स्वस्मिन् दोषदर्शनवद् भगवत्यपि दोषं दृष्टवन्तः, त इति ये स्त्रीणां सुखार्थे नीतास्तेषां स्त्रीसङ्गान्निरोधस्याकृतत्वाद् भगवति दोष- दृष्टियुक्तेति, तत्तत् कार्य प्रदर्शयितुं रामाधा इत्युक्तं, स हि रमयति एव सर्वा स्त्रियोतो दोषदृष्टिः, गोप- बालका इति, गोपा अनिरुद्धाः, गोभिः सह सङ्गात् तत्तुल्यज्ञानास्तेषां बालका इति स्वरूपतोपि दोषसम्भव- हेतुः, स्वसम्बन्धिस्तनादिपानेन पुष्टान् स्वचरणसम्बन्धिभक्तिरसालोडितमन्नां बालकेभ्योन्तःस्थितेभ्यो ददद् बहिर्मुखैर्दध्यादिभक्षणवन्मृद्भक्षणमपि कल्पितं ततस्तदनिष्टं मत्वा बालाः प्रोचुः कृष्णो मृदं भक्षितवानिति, पञ्चवर्षपर्यन्तं मात्रा शिक्षणीय इति मात्रे न्यवेदयन् , सम्भावितं तदिति ॥ २ ॥ तेन देहापकारं ज्ञात्वा दोषनिवृत्त्यर्थ यत्नं कृतवतीत्याह सा गृहीत्वेति, एकस्मिन् करे पुत्रं गृहीत्वाभाषतेतिसम्बन्धः, सेति निरोध- मध्यस्थिता, भगवति क्रियाशक्तिरेव लौकिकी तस्या दृढेति करे गृहीत्वेति तावानेवांशस्तया गृहीत इति, भगवांस्तु पुन्नाम्नो नरकात् त्रायते, येन पापेन मातापितरौ पुरुषशब्दवाच्यमुपलक्षणात् स्त्रीशब्दवाच्यं च श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [श्लो० ३४-३५. ॥ यशोदोवाच ॥ कस्मान् मृदमदान्तात्मन् भवान् भक्षितवान् रहः । वदन्ति तावका होते कुमारास्तेग्रजोप्ययम् ॥ ३४ ॥ ॥श्रीकृष्ण उवाच ॥ नाहं भक्षितवानम्ब सर्वे मिथ्याभिशंसिनः । यदि सत्यगिरस्तहि समक्षं पश्य मे मुखम् ॥ ३५ ॥ शरीरमस्थिपुरीषादिव्याप्तं सर्वरोगादिगृहं तामिस्रादिसर्वनरकेभ्योधिकं प्राप्तवन्तौ स्वयं तत्र सन्ततौ प्रविष्टस्तत् कार्य स्वयं करिष्यंस्तदोषमङ्गीकृत्य तौ तस्माद् देहसम्बन्धात् त्रायत इति पुत्रो भवति, तादृशमुपालभ्योपा- लम्भनं कृत्वालभनमिव क्रूरं वाक्यमुक्त्वा स्वस्य परमनिधानरूपः पुत्रः कुशलो भवत्विति हितमेवान्वेष- माणा यशोदा परमभागवती ज्ञानेप्यधिकारिणी मारणे कृतेन्तःस्थिताः क्लिष्टा भविष्यन्ति ततो महापुरुष- द्रोहान्नास्याः कदापि ज्ञानं भविष्यतीतिभयेन सम्भ्रान्तं प्रेक्षणं यस्याक्षस्य, प्रदर्शयिष्यमाणं ज्ञानमेव स्वाधिकरणस्याग्रे भविष्यमाणस्य विरोधिगुणप्रादुर्भावाद् गमनप्रतिबन्धशङ्कया सम्यग् भ्रान्तं प्रेक्षणं गमनरूपं यस्य तथाविधं भवति, भगवत्प्रेरणया गन्तव्यमेव विरोधी च गुणो बलिष्ठो बाधां मा करोत्विति तादृशं भगवन्तं कायिकव्यापारेण योजयित्वा भगवत्प्रेरिताभाषत वाक्यमेवोक्तवती, तद्वाक्यं च भगवता परिहर्तव्यं क्रिया चेदशक्या भवेद् भक्तद्रोहात् ॥ ३३ ॥ यशोदाया वाक्यमाह कस्मादिति, इच्छया भक्षितमिति चेत् सेच्छापकारिणीति तन्निवारणमुचितं तदकरणादुपालभ्य एवेतिसम्बोधनेनाहादान्तात्मन्निति, न दान्त आत्मान्तःकरणं यस्य, अन्तःस्थितबालापरिज्ञानादाह भवान् भक्षितवानिति, रह एकान्ते, निष्कास्य बालकान् भक्तिं ग्राहयितुं देवगुह्यत्वादेकान्त एव कृतवान् , तद् बाला बहिःस्थिता अस्मद्वञ्चनार्थमेकान्ते भक्षितवानित्याहुः, प्रमाणमाह वदन्ति तावका इति, त्वदीयास्त्वनृतं न वदन्तीति, हि युक्तश्चायमर्थः, तेपि हितकारिण इति, अन्यथाकल्पने नाद्यापि समर्था इति वयो निर्दिशति कुमारा इति, तेषां जीवत्वात् कल्पक- त्वाभावेपि भ्रमः सम्भवति यथादृष्टं च वचनमतोपि न परमार्थदृष्टिरिति चेत् तत्राह तेग्रजोप्ययमिति, अग्रे जातत्वात् काचिद् बुद्धिरुत्कृष्टा, वदतीत्यत्र प्रमाणमाहायमिति, प्रत्यक्षमेव वदतीति नानासम्भावना ॥ ३४ ॥ भगवद्व्यतिरिक्तानामन्यधर्मः प्रवर्तते । यदा यत्र हरिः स्वामी नाविष्टः सोन्यथा वदेत् ॥ १॥ इति, भगवांस्तु तद्वाक्यं विषयबाधान्न प्रमाणमाप्तानां भ्रान्तत्वादित्याह नाहमिति, हे अम्बेतिसम्बोधनमप्रतार- णाय, अनेन तस्यां महती कृपा प्रदर्शिता, अहं तु न भक्षितवान् , बालकैक्षितमितिभावः, एवंसम्बोधनेन स्ववाक्यप्रामाण्यमुक्त्वा विरोधवाक्यमाह सर्व इति, एते बालकाः सरामा गोप्यश्च ये केचिन्मया यत्किञ्चिद् भक्षितं यदाकदापीत्याहुस्ते सर्व एव मिथ्याभिशंसिनो मिथ्यानृतमेवाभिशंसन्ति, “ अनश्नन्नन्यो अभि- चाकशीती"तिश्रुतिविरोधात् , “यस्य ब्रह्म च क्षत्र" "मत्ता चराचरग्रहणाद् " " भुङ्क्ते विश्वभुगि"त्यादि- वाक्यान्याधिदैविकरूपधर्मप्रतिपादकानि, अतः पुराणपुरुषपराणि न भवन्तीति ये केचिद् भगवन्तं भोक्तारं मन्यन्त उपदिशन्ति च ते सर्वे मिथ्याभिशंसिनः, नैवेद्यं च तुष्टिदं भवति निवेदनमात्रेण, आरण्यानां भक्षणं त्वन्तःस्थितभक्तानां शुद्धान्नसम्बन्धेन कृतार्थत्वायातः “पत्रं पुष्प"मितिवाक्यं न विरुध्यते, नन्वत्र किं युक्तं किं भगवान् भक्षयति न वेति ? भक्षयतीत्येव बहुवाक्यसंवादात् प्रत्यक्षतो दर्शनाद् “भुङ्क्त” इत्यादि- वाक्यानां यथाश्रुतार्थत्वसिद्धे "रनश्नन्नन्य' इतिवाक्यं जीवभोगजननार्थ समागतोन्तर्यामी जीवभोग्यं जीव- भोग्यप्रकारेण न भुङ्क्त इत्येतावन्मात्रपरं तस्मात् प्रत्यक्षसंवादाद् भक्षणमेव सत्यमिति चेत् तत्राह यदि सत्यगिर श्लो० ३६-३८.] तामसप्रमाणप्रकरणे स्कन्धादितोष्टमोध्यायः । यद्येवं तर्हि व्यादेहीत्युक्तः स भगवान् हरिः । व्यादत्ताव्याहतैश्वर्यः क्रीडामनुजबालकः ॥ ३६ ॥ सा तत्र ददृशे विश्वं जगत् स्थाष्णु चरिष्णु च । साद्रिद्वीपाब्धिभूगोलं सवाय्वनीन्दुतारकम् ॥ ३७ ॥ ज्योतिश्चक्रं जलं तेजो नभस्वान् वियदेव च । वैकारिकाणीन्द्रियाणि मनो मात्रा गुणास्त्रयः ॥ ३८ ॥ इति, लोके वाक्यं संवादि प्रमाणं, तदर्थमत्र संवादो नास्तीत्यनूद्य दूषयति, तहि समक्षं प्रत्यक्ष स्वचक्षुषा वाक्य- संवादार्थ मुखमध्यं पश्य, यदि भक्षितं भविष्यति तदंशास्तद्गन्धश्च भविष्यति, सर्व भक्षितमितिशङ्कायां च कालान्तरभक्षणस्यापि निवारणार्थ च भक्षणप्रयोजनं मुखेस्ति न वेति तदपि द्रष्टव्यमितिभावः ॥ ३५ ॥ लौकिका युक्तिपुरःसरं पदार्थं गृह्णन्तीति यशोदा तद्वाक्यमङ्गीकृत्य तत्रापेक्षितं प्रार्थयित्वा द्रष्टुमुद्युक्ता ततो भगवान् प्रदर्शितवानित्याह यद्येवमिति, यदि प्रत्यक्षसंवादि तद्वाक्यं नान्येषां तदा व्यादेहि मुखव्यादानं कर्तव्यं, एवमुक्तो व्यादत्तेतिसम्बन्धः, स इति, स यतो निरोधार्थमेवागतः, अन्यथा लौकिकपरमार्थयोभिन्न- विषयत्वाल्लौकिके परमार्थप्रदर्शनमयुक्तं स्यात्, निरोधसामर्थ्य भगवानिति, करणावश्यकत्वे हेतुहरिरिति, अन्यथा प्राणिनः कृतार्था न भविप्यन्तीति, विशेषेणादत्त मुखं प्रसारितवान् , ननु प्राकृतस्वीकारात् स्वधर्माणां तिरोभावसम्भवात् कथं सर्वसंवादो भविष्यतीत्याशङ्कयाहाव्याहतैश्वर्य इति, न केनापि प्रकारेण व्याहतमैश्वर्य यस्य, ननु तर्हि कथं प्राकृतस्वीकारः ? तत्राह क्रीडार्थमेव मनुजबालको न तु प्रदर्शनार्थमपि, अतः क्रियाशक्तावेव लौकिक्यां तिरोभावः, तदपि विशेषप्रयोजनाभावे, अन्यदा तु क्रियाशक्तेरपि प्राकटयं, ज्ञानशक्तिस्त्वतिरोहितैव सर्वदा, अतः प्रदर्शितवानित्यर्थः ॥ ३६ ॥ सापि भगवता प्रेरिता भगवदिच्छ्या प्राप्तज्ञानशक्तिस्तन्मध्यस्थितं जगद् दृष्टवतीत्याह सा तत्रेति, मा निरोधमध्यस्थिता तत्र मुखविवरे विश्वं ददृशे, आपाततो दर्शनं व्यावर्तयितुं विशेषाकारेण दृष्टं निर्दिशति जगदितिद्वाभ्यां, विश्वमिति समुदायेन भगवद्रूप- माधिदैविकं वा, जगदन्यल्लौकिक विश्वरूपं प्रतिकृतिरूपमित्यौपनिषदा आधिदैविकमिति ब्रह्मविदः कार्य- कारणरूपमित्युभयोः समाधानमिति विचारकाः, जगति मैदानाह स्थाष्णु चरिष्णु चेति, स्थावरं जङ्गमं च, चकारात् तद्धर्मा सर्व एव, साद्रिद्वीपाब्धिभूगोलमित्यधः खण्डः, उपरिखण्डं वक्ष्यत्यग्रिमश्लोके, अयमपि भेदस्तया ज्ञात इति, अद्रयो मेदियो द्वीपा जम्ब्वादयोब्धयो लवणादय एतैः सहितं भूगोलं, सवाय्वनीन्दु- तारकमिति भूगोलस्यैव विशेषण, वायुस्तत्रोपलभ्यत एव, अग्निश्च, इन्दुः प्रथमाहुतिफलरूपः, “सोमो राजा भवती"तिश्रुतेः, यद्वा यज्ञियं रूपं भूमिष्ठं तत्र वर्तत इति “यदस्यां यज्ञियमासीत् तदमुष्यामदधा"दिति- श्रुतेः, तारका अपि भूमिष्ठा भोगार्थ तत्र गच्छन्तीति पुनरायान्ति चेति तारका अपि भूमिष्ठा एव श्येना इव ॥३७॥ उपरितनं दलमाह ज्योतिश्चक्रमिति, जलं मध्यस्थितं “सलिलं वा इदमन्तरासी"दिति वृष्टिवियद्- गङ्गा च, तेज इति सूर्यादिध्रुवान्तानां किरणाः, विद्युदादयो वा, नभस्वान् वायुरुपरितनः, वियदाकाशो वैकारिकाणि सात्त्विकानि सर्वविकारसाध्यानि वेन्द्रियाधिष्ठातृरूपाणीन्द्रियाणि ब्रह्माण्डाद् बहिः स्थितानि, ब्रह्माण्डमपि गृहे घटवत् प्रतीयते, इन्द्रियाणि च ततो बहिः पदार्थान्तरवत् , सर्वदर्शनप्तामर्थ्य भगवता दत्तमित्युक्तमेव, इन्द्रियाणि राजसानि मनश्च सात्त्विकं मात्रास्तामसास्तेषां निधानभूता गुणाश्च त्रय श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [ श्लो० ३९-४१. : , एतद् विचित्र सहजीवकालस्वभावकर्माशयलिङ्गभेदम् । सूनोस्तनौ वीक्ष्य विदारितास्ये व्रजं सहात्मानमवाप शङ्काम् ॥ ३९ ॥ किं स्वममेतदुत देवमाया किं वा मदीयो बत बुद्धिमोहः। अथो अमुष्यैव ममार्भकस्य यः कश्चनौत्पत्तिक आत्मयोगः ॥ ४०॥ अथो यथावन वितर्कगोचरं चेतोमनःकर्मवचोभिरञ्जसा । यदाश्रयं येन यतः प्रतीयते सुदुर्विभाव्यं प्रणतास्मि तत्पदम् ।। ४१ ॥ इति, अहङ्कारगुणाः प्रकृतिगुणा मायागुणाश्च ॥ ३८ ॥ एवं दृष्टमनूद्य तदर्शनेन तस्या अपूर्वत्वाद् भयं जातमित्याहैतदिति, विचित्रमिति, युक्त्यापि न निर्णेतुं शक्यं, करणान्यपि दृष्टवतीति तान्यनु- वंदति, जीवकालस्वभावकर्माशयलिङ्गानां भेदस्तत्सहितं जगत् , जीवास्त्रिविधा देवमानुषदानवाः, कालोपि तथा भूतभविष्यद्वर्तमानरूपः, स्वभावः प्रकृतिधर्मो भगवद्रूप इति निबन्धे विवृतं कर्म च, आशयो हृदयकोशो यस्मिन्नाशेरते जीवाः, लिङ्ग लिङ्गशरीरं स्थूलकोशात्मकं, लिङ्गभेदा वा स्त्रीपुन्नपुंसकाः, एतत् सर्वं स्थानविशेषस्यापरिज्ञानात् सूनोस्तनौ वीक्ष्येत्युक्तं, विदारितमास्यं यस्मिन्नन्तर्बहिः सर्वत्रैव जगद् व्याप्तमिति वदस्तनौ विदारितास्य इतिपदद्वयं, स्वप्नभ्रमव्युदासार्थ व्रजमपि दृष्टवती, माया- व्युदासायात्मानं, आत्मना सहितं व्रजमितिविशिष्टकथनं सर्वभ्रमव्युदासाय, एवमभ्रमेण सर्व दृष्ट्वा शङ्का- मवाप ॥ ३९ ॥ अस्याः शङ्काया व्युदासार्थ लौकिकप्रकारेण पक्षानाशङ्कय परिहरति किं स्वप्न इति, अन्यदा प्रतीतं यत् कदाचित् प्रतीयते तत् त्रिधा भवति स्वप्नेपि कदाचिदलौकिकं प्रतीयते तस्य स्थानस्य सन्ध्यत्वा- च्छीघ्रगमनात्"कास्न्येनानभिव्यक्तस्वरूपत्वाच्च"प्रकृते तद्वैलक्षण्यान्नायं स्वप्नो भवितुमर्हति पूर्वापरानुसन्धानाच, अतः पक्षान्तरमाहोत देवमायेति, मायामानं नात्यन्तमोहक देवानां तु माया मनुष्यव्यामोहिका भवति मोहवशाच्चातिरिक्तभानमपि सम्भवतीत्याशङ्कय सा भगवति न सम्भवति भगवत्प्रयत्नानन्तरभावित्वादस्य भगवत्कृतापि माया न भवति तथा सति स्थिरता न स्यान् मम च तत्र दर्शनं न स्यादुभयोश्चादर्शनं, तर्हि दर्शनमेव भ्रान्तमितिपक्षं स्वीकरोति किं वा मदीयो बत बुद्धिमोह इति, बुद्धिमोहोप्येतादृशः कदापि न जात इति विशेषमाह मदीय इति, अन्यैर्न दृश्यत एव, तथा सति ते वदेयुः, न हि दृष्टेनुपपन्नं नामेति- न्यायात् , मदीय एवायं बुद्धिमोहः, एवं सति स्वस्य महत्त्वाद् बतेतिहर्षः, यद्येवं स्याद् बालकान्तरे स्थलान्तरे- प्येवमुपलभ्येत, अस्मिन्नेव बालक उपलभ्यत इति न पूर्वोक्तपक्षाः किन्त्वस्यैव कश्वनानुभाव इत्याहाथो इति पूर्वपक्षव्युदासाथै, अमुष्येत्यप्रेपि परिदृश्यते सूक्ष्मस्तस्मिंश्च जगद् विशालं, पमार्मकस्येति, पूर्व भावदाढ्य, अन्यथा निरोधो न स्यान्मुक्तिश्च स्यादिति, कोयं तव बालकस्य गुण इति चेत् तत्राह यः कश्चनेति, भिन्न- तयेदमित्थतया वा ज्ञातुं न शक्यते, इदानीमेव देवतान्तरसम्बन्धाज्जातं भविष्यतीत्याशङ्कयाहौत्पत्तिक इति, स्वाभाविकोय "मुत्पत्तिशिष्टः” पूर्वमप्यनुभूतत्वात् पूतनादीनां मारणाच्च, केवलं प्रदर्शकत्वे पूतनादीनां वधो न स्यात् , अत आत्मयोगः, आत्मन एव भगवतो योगरूपेयं विभूतिरित्यर्थः ॥ ४० ॥ एवं भगवद्विभूतिरूप- मेतदिति ज्ञात्वा यत् कर्तव्यं तत् कृतवतीत्याहाथो इति, अथो दर्शनानन्तरं यस्माद् भगवतः सकाशादेतत् प्रतीयते यत् सुदुर्विभाव्यं, अतः सोलौकिको भवतीति तत्पदं प्रणतास्मीतिसम्बन्धः, एतदर्शनस्यालौकिकत्वं वक्तुं लौकिकबुद्ध्यविषयत्वमाह चेतोमनःकर्मवचोभिः, यथावद् वितर्कगोचरं न भवतीति, चित्तं योगादिभावितं, मनाकर्मवचांसि लौकिकानि, अलौकिकबुद्ध्यापि नैतावत् कल्पयितुं शक्यत इदमित्थमिति, , श्लो० ४२-४३.] तामसप्रमाणप्रकरणे स्कन्धादितोष्टमोध्यायः । अहं ममासौ पतिरेष मे सुतो ब्रजेश्वरस्याखिलवित्तपा सती । गोप्यश्च गोपाः सहगोधनाश्च मे यन्माययेत्थं कुमतिः स मे गतिः ॥४२॥ ॥ श्रीशुक उवाच ॥ इत्थं विदिततत्वाया गोपिकायाः स ईश्वरः । वैष्णवीं व्यतनोन्मायां प्रजास्नेहमयीं विभुः ॥ ४३ ॥ अतीन्द्रियाणामपि दृष्टत्वान्मनसो बहिरस्वातन्त्र्याल्लौकिकप्रवणत्वाच्च कायिकमत्रादृष्टं गृहीतमदृष्टवशादप्येतन्नि- र्णयो वक्तुं न शक्यतेलौकिकत्वात् , परस्परव्याघाताच्च न वचसा, आपाततःकल्पनायामपि यथावद् वितर्कगो- चरं न भवति, तथैव मायिकमित्यादिपक्षकल्पनायामप्यञ्जसा सामस्त्येन नोपपद्यते, न हि स्वस्यापि तत्र पूर्वा- परानुसन्धानसहितस्य प्रतीतिः सम्भवति, तथैव पदार्थानां विचारेपि स्थैर्य च, अवस्थादेशकालाश्च, किञ्चतत्, सर्वप्रदर्शकः स्वमाहात्म्यार्थ स्वभिन्ने स्थाने प्रदर्शयति स्वस्मिंश्च पदार्थानां भाररूपत्वान्न स्थापयेत् , स्वावस्थादेशकालानां भ्रमासम्भवात् , येन च चक्षुषा प्रतीयते तच्चक्षुरपि नास्मदीयं, अन्यथा विद्यमानानां ज्योतिश्चक्रस्थपदार्थानामन्यदापि दर्शनं स्यात् , अतः सामर्थ्य दत्वा स्वत एव स्वस्मिन् विद्यमानं जगत् स्वमाहात्म्यज्ञापनार्थ प्रदर्शितवान् , अतो ज्ञातमाहात्म्या तत्पदं प्रणतास्मि "नमो नम" इत्येतावत् सदुप- शिक्षितमितिशास्त्रार्थत्वात् ॥ ४१ ॥ प्रणतायाः प्रार्थनामाहाहमिति, सर्वापि दुर्बुद्धिर्भगवत्प्रणताया गच्छतीति दुर्बुद्धीगणयति, आदावहं यशोदेति ममासौ नन्दः पतिरित्येष भगवान् विश्वाधारो मे सुत इत्यहं पुन- ब्रजेश्वरस्याखिलवित्तपा सती पतिव्रता चेति, नन्दस्य व्रजेश्वरत्वं तत्स्त्रीत्वं च स्वस्य ततस्तस्य धनसम्बन्ध. स्तद्रक्षकत्वं च स्वस्य तदपि सामस्त्येनोभयत्र, तत्रापि पातिव्रत्यं भगवानपि परपुरुष इति तदभजनं च, अतः "स्त्रीणां पतिरेव विष्णु"रिति च, एता गोप्यो गोपभार्याः स्त्रियोस्मदीयाश्चेति, चकारात् तद्वालकास्तत्सम्बन्धाश्च तथा गोपाः सहगोधनाः स्वपरिकरसहिता गोष्ठसहिताश्चैते सर्वे मे यन्माययेत्थं कुमतिरहं स मे गतिरस्तु, अहमिति चतुर्विधोध्यासो जातिलिङ्गकुलदेहभेदेन, ममेतिशतप्रकाराः पतिपुत्रधनगोपगोपीगवां षड्डिधानामनेक- प्रकारत्वात् , इत्थमहं कुबुद्धिर्यन्मायया म आत्मनो जीवरूपस्य ब्रह्मरूपस्य वा कुत्सिता चासौ मतिश्च, तदीया माया हि तेनैव निवर्त्या, बुद्धिप्रकाराः सर्वे मायाया एवेति न तैः स्वकार्यसिद्धिः, मायातिरिक्तस्त्वमेव मायामोह- विषयत्वात् पृथक्तया पुनर्म इतिवचनं मायासम्बन्धव्युदासाथ सम्बद्धस्यैव गतित्वाभावाय, गतिरत्र प्राप्य- स्वरूपं फलं, एवमुपालम्भार्थं प्रवृत्ता शरणं गता जाता ॥ ४२ ॥ एवं ज्ञाने जाते भक्तिसुखं न प्राप्स्यतीति भत्त्यानन्दस्य ब्रह्मानन्दापेक्षया महत्त्वाद् भक्तार्थ दैव्या मायया मोहितवानित्याहेत्थमितित्रिभिः, एवं पूर्वोक्तप्रकारेण विदितं तत्त्वं यया तत्त्वज्ञानानन्तरं तस्या मातृ- त्वाभावाद् गोपिकाया इत्युक्तं, ननु भगवान् ज्ञानं कुतो नाशितवान् तत्राह स इति, स निरोधकर्ता, ननु नाशनीये ज्ञाने किमर्थमुत्पादितवान् वा किमर्थ नाशितवानित्युभयाभिप्रायो ज्ञातव्य इति चेत् तत्राहेश्वर इति, स हि कर्तुमकर्तुमन्यथाकर्तुं समर्थोन्यथा च करोति, अतो नात्रोपपत्तिरन्वेष्टव्या, वैष्णवीमाधिदैविकी स्नेह- सम्बन्धिनीं निरोधोपयोगिनीं विशेषेणातनोद्, विहितस्नेहभावव्युदासार्थमाह प्रजास्नेहमयीमिति, यावदात्मीय- तया परमस्नेहे रस उत्पद्यते न तावदीश्वरभावेन भयज्ञानस्य स्नेहप्रतिबन्धकत्वादत्र च लौकिकत्वेपि प्रजारूपेण स्नेह उचितो नान्यथेत्यनन्तविधासु मायासु प्रजास्नेहमयीमेव व्यतनोत् , ननु विरोधिज्ञानस्य जातत्वात् कथं प्रजा- बुद्धिर्भगवति भविष्यतीत्याशङ्क्याह विभुरिति, स हि सर्वसमर्थः, एकस्मिन्नेव वस्तुनि कोटिंधाबुद्ध्युत्पादनसमर्थः, अन्यथा पूर्वविरुद्धधर्मा उत्तरत्र न भवेयुः ॥ ४३ ॥ १. ० रेष्टव्येत्यपि पाठः ।

श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [श्लो०४४-४७ . सद्यो नष्टस्मृतिर्गोपी सारोप्यारोहमात्मजम् । प्रवृद्धस्नेहकलिलहृदयासीद् यथा पुरा ॥ ४४ ॥ त्रय्या चोपनिषद्भिश्च साङ्ख्ययोगैश्च सात्वतैः । उपगीयमानमाहात्म्यं हरिं सामन्यतात्मजम् ॥ ४५ ॥ ॥ राजोवाच॥ नन्दः किमकरोद् ब्रह्मन्छेय एवम्महोदयम् । यशोदा च महाभागा पपौ यस्याः स्तनं हरिः॥ ४६॥ पितरौ नान्वविन्देतां कृष्णोदारार्भके हितम् । गायन्त्यद्यापि कवयो यल्लोकस्य मलापहम् ॥ ४७ ॥ प्रक्षिप्ता जालवन् माया तया ज्ञानं विनाशितम् । प्रमाणानां बलं दग्ध्वा मोहयामास गोपिकाम् ॥१॥ मायामोहे ज्ञानं नष्टमित्याह सद्य इति, तदानीमेव नष्टा स्मृतिर्यस्याः, अत्र भगवन्मतमनुभवस्मरण योर्मध्ये न संस्कारोनुभवः स्मृतिमेव जनयति, यथेन्द्रियसंयोग उत्तरोत्तरमनुभवोद्बोधकस्तथा स्मृतिरपि केनचि बोध्यते नाश्यते च, निरन्तरनाशोत्पत्ती अप्रामाणिके वेदविरुद्धे, विवेकेन ज्ञानोबोधनमाशङ्कयाह गोपीति, तत्रापि सारोहमङ्कस्थानं भगवन्तमारोप्य प्रवृद्धस्नेहकलिलहृदया सती पूर्ववदेवासीत् , बहिर्व्यापारोपि ज्ञानसाध्य आरोपणात् पूर्ववत् कृतः स्नेहोप्यान्तरः, ज्ञानानन्तरमान्तरः स्नेहोन्यथा भविष्यतीत्याशङ्कय प्रवृद्धस्नेहेन कलिलं हृदयमित्युक्तं, न हि विहितस्नेहे हृदये कलिलता भवति, कलिलमत्र पङ्किलमिव मोहसहितः स्नेह स्तादृशमेव हृदयं जातमिति कालान्तरेपि न कलिलनिवृत्तिः, पूर्वावस्थापरित्यागे मायया भक्तत्वमेव स्यान न तु निरोध इति यथा पुरेत्युक्तम् ॥ ४४ ॥ अतःपरं प्रमाणान्तरेणापि न स्मृत्युबोध इत्याह त्रय्येति त्रयी वेदत्रयी, तत्र क्रियाशक्तेः प्रतिपादितत्वाद् भगवन्माहात्म्यप्रतिपादकत्वं, उपनिषत्स्वपि ब्रह्मप्रतिपाद नाद् भगवज्ञानशक्तिप्रतिपादनं, साङ्ख्येपि नित्यानित्यवस्तुविवेको भगवत्सम्बन्धतद्राहित्यभेदेनैव, योगेरि निश्चिन्ततया भगवञ्चिन्तनं, चकारात् पशुपतिमतेपि भगवन्माहात्म्यनिरूपणमेव, तथा सात्वतैष्णवतन्त्रैरपि वेदस्य द्विरूपत्वात् , षड्दर्शनैरप्युपगीयमानमाहात्म्यो भगवांस्तादृशं तावन्ति प्रमाणानि श्रुत्वापि हरिमात्मज मेव सामन्यत, अतो भक्तौ प्रतिष्ठिताविहितायां पुत्रभावेन ॥ ४५ ॥ एतस्या एतावत्त्वं कथं न त्वन्यासामितिशङ्कां परिहरन् महापुरुषकृपामाह सप्तभिः, नन्दः किम करोदितिप्रश्नो द्वयेन कर्मव्युदासस्य वक्तव्यत्वात् , ब्रह्मन्नितिसम्बोधनं ज्ञानार्थ, नामप्रकरणे नन्दस्यैः प्रथमतो निरोधकथनात् , किं श्रेयो धर्मरूपं, लोकवेदयोरप्रसिद्धत्वात् प्रश्नः, प्रसिद्धार्थमेवाहैवम्महोदयमिति एवम्महानुदयोभ्युदयो भगवान् पुत्र इति यस्य श्रेयप्तः, भिन्नतया यशोदाया अपि निरूपणार भिन्नतया प्रश्नो यशोदा चेति, नन्दापेक्षयापि निरन्तरसम्बन्धान्महाभागा, किञ्च यस्याः स्तन सर्वदुःखहर्तापि पपौ, सा हि जानाति झुन्निवृत्त्यर्थ भगवान् पिबतीति, अतो “हरेरपि” सा "हरि"रित्युत्त भवति, बालकतोषपक्षेपि तदीयस्तन्येनैव तथाकरणादुत्कर्षः ॥ ४६ ॥ ननु प्रसिद्धमेव तत्सुकृतं यथा वसुदेवे कृतमिति चेत् तत्राह पितराविति, यद्यपि पितरौ जातौ तथापि तादृश आनन्दो नानुभूतो यादृश एताभ्या मनुभूतस्तदाह नान्वविन्देतामिति, एतदनन्तरमपि नाविन्देतां, अग्रेन्यथैव करैणात् , अयं महानानन्द इति ज्ञापयति कृष्णोदारा के हितमिति, कृष्णस्या के हितं बालचेष्टितं, अनधिकारिणोपि सर्वपुरुषार्थदानादुदा १. तथेन्द्रिय० । २. विरुद्धवादिनामेव मतसिद्धे । ३. कारणात् । , , श्लो०४८-५०.] तामसप्रमाणप्रकरणे स्कन्धादितोष्टमोध्यायः । ॥ श्रीशुक उवाच॥ द्रोणो वसूनां प्रवरो धरया भार्यया सह । करिष्यमाण आदेशं ब्रह्मणस्तमुवाच ह ॥४८॥ ॥ द्रोण उवाच ॥ जातयोौँ महादेवे भुवि विश्वेश्वरे हरौ । भक्तिः स्यात् परमा लोके ययाञ्जो दुर्गतिं तरेत् ॥ ४९ ॥ अस्त्वित्युक्तः स एवेह बजे द्रोणो महायशाः। जज्ञे नन्द इति ख्यातो यशोदा सा धराभवत् ॥ ५० ॥ साधनफलं हीनं तत्रापि लौकिकं साध्यफलादेप्यधिकः परमानन्दः स चेत् साध्यस्वर्गादिसाधनं तदा पशु- पुत्रादिजन्यमलौकिकं सुखं लौकिकं च तादृशमेव, तत्र साधनोत्कर्षे साध्योत्कर्षों दृष्टो लोके यथोत्तमैः सूत्र- रुत्तमः पटो यथोत्तमशर्करया भक्ष्यमिति, यत्र परमानन्द एव प्रथमकक्षा तेन साध्यं लौकिकं लौकिकवत्ततो- प्यधिक ततोप्यलौकिकं दिव्यपुत्रपश्वादिरूपं ततोपि स्वर्गादिस्तदिदमुक्तं कृष्णः परमानदः स चार्भकस्तस्य च लीला साप्युदारेति साक्षाल्लीला परमदुर्लभेति किं वक्तव्यम् ? यतः शब्दतोपि श्रुता परमानन्दं जनयतीत्याह गायन्त इति, अद्यापि व्यासादयः शब्दरसाभिज्ञा निर्दुष्टशब्दार्थवक्तारो रसवद्वत्तारो वा तेन रसेन मत्ता गायन्ति, अयापीति कालविलम्बेपि तद्रसानुवृत्तिः सूचिता, किच यच् चरित्रं लोकस्य मलं दूरीकरोति, अतो दोषनिवर्तकं गुणाधायकं च श्रुतमपि भवति तत्र साक्षात्तादृशभोक्तृणां किं भाग्यं वक्तव्यमित्यर्थः ॥४७॥ अत्र महापुरुषकृपैव कारणमिति वक्तुमुपाख्यानमारभते द्रोण इतिपञ्चभिः ।। प्रार्थना प्रश्नदाने च भक्तिरागमनं हरेः॥॥ पूर्वकल्पेष्टवसुषु द्रोणो नाम कश्चिद् , यद्यप्यस्मिन् कल्पे न तस्य भार्या धरा तथापि कल्पान्तरे तथेति न विरोधः, तस्मिन् कल्पे वस्वादयो ब्रह्मण एव जाता इति सृष्ट्यर्थमाज्ञापितो भार्यया सह सृष्टिलक्षणमादेशं करिष्यमाणस्तं ब्रह्माणमुवाच, हेत्याश्चर्ये व सृष्टिकर्तृत्वं व भक्तिरिति ॥ ४८ ॥ प्रार्थनामेवाह जातयो- रिति, भुवि जातयो वावयोर्हरौ भक्तिः स्यात् , प्रार्थनायां लिङ्, शास्त्रतः साधनैश्च जायमाना ज्ञानकर्मणो- रल्पत्वाञ् जीवेषु न परमा भवति, वरप्रसादाल लौकिकानामुत्कर्ष इव भक्तेरप्युत्कर्षो भविष्यतीति परमा प्रार्थ्यते, लोकोपकारं दृष्ट्वा यत्र क्वचिद् भक्तिर्भवति यथा धातरि तन्न पुरुपार्थरूपं, तद्व्यावृत्त्यर्थमाह महादेव इति, यतः परमधिको देवो नास्ति यस्तु देवेषु परमां काष्ठां प्राप्तः स महादेवः, स्वयं वसुः, ब्रह्मा च देवेषु श्रेष्ठ- स्ततोपि महान् महादेवो भवन् पुरुषोत्तम एव भवति, स्वतउत्कर्ष उक्तः, कार्यतोप्युत्कर्षमाह विश्वेश्वरे हराविति, सर्वस्यापि सर्वफलदातरि सर्वस्यापि सर्वदुःखनिवारके, ततः किं स्यात् ? अत आह ययाञ्जो दुर्गति तरेदिति, देहसम्बन्धो दुर्गतिः, अनायासेन तरणं भक्त्यैव, अन्यकृतत्वान्नौकारूढवद् ब्रह्मा पुनः साधनोप- देशयोरसमर्थः ॥ ४९ ॥ ब्रह्मवाक्यं न मृषा भवतीति भगवत्प्रसादादस्त्वित्येवाह, ततः स्वे स्वर्ग एव सृष्टि- मुत्पादितवांस्ततोधिकारे समाप्ते प्रलये च जाते ब्रह्मलोके स्थितो भाविभगवदवतारं ज्ञात्वा ब्रह्मणा प्रेरितः स एव द्रोण इह बजे नन्द इत्याख्यातो जज्ञे, पूर्वनामाग्रे न प्रकाशनोयभिति भगवानानन्दोयं नन्द इति फलग्रहणार्थ व्याप्ति परित्यज्य शिष्टांशेन प्रसिद्धः, नन्वस्य वरः कथं न क्षीणः सृष्टेरपि गतत्वादित्याशङ्क्याह दधिकः । २. भगवान् । ३. गतः । . ? .

श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [श्लो० ५१-५२. ततो भक्तिभंगवति पुत्रीभूते जनार्दने । दम्पत्योर्नितरामासीद् गोपगोपीषु भारत ॥ ५१ ॥ कृष्णो ब्रह्मण आदेशं सत्यं कर्तुं व्रजे विभुः। सहरामो वसंश्चक्रे तेषां प्रीतिं स्वलीलया ॥ ५२ ॥ महायशा इति, महद् यशो यस्य, यावद्यशस्तावन्न क्षीयत इति, यशोदापि सैवाभवत् , अन्यथा व्यभिचारे धर्मक्षयाद् भक्तिर्न भवेत् ॥ ५० ॥ ततो जातयोरेव भक्तिर्जातेत्याह तत इति, भगवति भक्तिर्जाता भजन- सहितप्रेमात्मिका, ननु साधनव्यतिरेकेण कथं जातेत्याशङ्ग्य प्रकारमाह पुत्रीभूत इति, अपुत्र एव पुत्रत्वं ज्ञापितवानिति पुत्रीभूतः, जायत एव पुत्रे स्नेहो भक्तिश्च, ननु भगवान् किमित्यवतीर्णः? तत्राह जनार्दन इति, जनामुत्पादिकामविद्यामर्दयतीति, अतो मोक्षदानार्थमागतः, प्रसङ्गादिदमपि कृतवान् न तु प्रासङ्गिक- मुत्पादयितुमर्हति सर्वार्थं च तथा जातोतो दम्पत्योः स्वधर्मनिष्ठयोनितरां भक्तिरासीत् , गोपगोपीषु सत्सु तन्मध्ये वा सत्सङ्गव्यतिरेकेणापि, भारतेतिसम्बोधनं सर्वेष्वेव वंशीयेषु सत्सु यया भरत एवालौकिको जात इति ज्ञापयितुम् ॥ ११ ॥ नन्वेतज्जातं भगवद्वाक्याच् चेत् तदा निरोधो भगवत्क्रियमाणो न भविष्यती- त्याशङ्कयाह कृष्ण इति, भगवान् हि सर्वमेव योजयितुं शक्नोति, अतो ब्रह्मण आदेशं वरं सत्यं कर्तुं व्रजे समागत्य बलभद्रसहितो वसंस्तत्रत्यानां तेषां सर्वेषामेवं स्वलीलया प्रीतिं चक्रे, स्वस्याधिकारी ब्रह्मेति तद्वाक्यं सत्यं कर्तव्यं, यद्यन्यत्र साधनवति देशे तमुत्पादयेद् वरे सन्देहोपि भवेत् तदर्थ बजे समागतः, नन्वयुक्ते देशे कथमागत इति चेत् तत्राह विभुरिति, स हि सर्वसमर्थः, सर्वत्रैव स्थित्वा सर्व कर्तुं शक्नोति बलभद्रो वेदात्मा, साक्ष्यर्थं सह गृहीतः, तेषां प्रीतिजननेन स्वेच्छास्थित्यधिको व्यापारोत आह वसंश्चत्र इति, ब्रह्मवाक्यापेक्षयाधिकं च कृतवानित्याह तेपामिति, येष्वेतौ स्थितौ तेषामपि स्वलीलया प्रीतिं कुर्वन् लीलयेति मनोरञ्जिका क्रियोक्ता ॥ ५२ ॥ इति श्रीमद्भागवतसुबोधिन्यां श्रीमद्वल्लभदीक्षितविरचितायां दशमस्कन्धविवरणे द्वितीये तामसप्रकरणे- वान्तरप्रमाणप्रकरणे श्रीनिरूपकचतुर्थाध्यायस्य स्कन्धादितोष्टमाध्यायस्य विवरणम् ॥ ८ ॥ १. कर्म० । २. मेवम् । ३. स ।

॥ पञ्चमः स्कन्धादितः नवमोध्यायः॥ एकदा गृहदासीषु यशोदा नन्दगेहिनी। कर्मान्तरनियुक्तासु निर्ममन्थ स्वयं दधि ॥ १॥ यानि यानीह गीतानि तद्धालचरितानि च दधिनिर्मथने काले स्मरन्ती तान्यगायत ॥ २॥ शास्त्रार्थतो यथा भक्तिहरौ भवति निश्चला । तदर्थं नवमे प्राह चरित्रं परमाद्भुतम् ॥ १ ॥ स्वरूपं च कृपालुत्वं हरेफ़्तव्यमञ्जसा । अतो दयासुसंमिश्रं ज्ञानमत्र निरूप्यते ॥ २ ॥ निरोधो यदि भक्तानां स्वस्मिन् स्वस्य च तेषु च। तदोभयसुसम्बन्धाद् दृढो भवति नान्यथा ॥ ३ ॥ ज्ञानवैराग्यरूपैर्हि स्वाधीनो भगवान् भवेत् । अतोध्यायत्रये लीला जोवाधीना निरूप्यते ॥ ४ ॥ अतिपौरुषमेतद्धि जीवानामिति निश्चितम् । द्वादशाङ्गमतिक्रम्य षड्भिर्वश्या भवेद गुणैः ॥ ५ ॥ पञ्चपर्वामविद्यां हि लोकानामपि नाशयेत् । अतः पञ्चभिरुक्तो हि विचारो भगवद्गतः ॥ ६ ॥ तत्र प्रथमं यशोदाया अतिपौरुषं कार्य सिद्धमिति वक्तुं क्रियया भगवत्प्राप्तिमाहैकदेतिदशभिः, भक्तिहि दशविधा गुणातीतया भगवान् प्राप्यते नवविधसहितस्नेहेन वा, ततो द्वाभ्यां वशीकरणोद्यमः काण्डद्वयसमावेशार्थस्ततो वशीकरणं षड्भिः पञ्चभिरविद्याबाधनमिति । निवारितापि संसारे मोहिता सङ्गता पुनः । गुणगाने स कालोभूच् छ्मो द्वाभ्यां ततोभवत् ॥१॥ अतः कृतो निषेधो हि भक्तिसारं हरिः पपौ। ततो रिक्ता पूर्वबुद्ध्या सङ्गतान्यच् चकार ह ॥ २ ॥ एवं निरुद्धा चेद् भ्रान्ता कोपयुक्तो हरिभवेत् । धौयं दृष्ट्वा लोकदृष्ट्या प्रीता तस्मान्न पश्यति ॥ ३ ॥ जिज्ञासायां ततो दृष्ट्वा प्राप्त्यर्थं यत्नमाचरत् । विरुद्धांस्तान् हरित्विा तपसे निर्गतम्ततः ॥ ४ ॥ पूर्णे तपसि तत्प्राप्तिरेवं दशभिरुच्यते । परोक्षवादा ऋषयः परोक्षं च हरिप्रियम् ॥ ५ ॥ आसक्तिं चेत् स्वतःकुर्याज्जीवः कृष्णः पलायते । तदा दृढो निरोधः स्यान् नान्यथेत्येप निर्णयः॥ ६ ॥ पूर्वाध्याय आधिदैविकमोहस्य प्रतिपादितत्वात् तत्कार्यमाहैकदेति, यदा भगवदिच्छया सर्वा एव गृहदास्यः क्षेत्रादिसंस्कारार्थं तत्प्रसङ्गाल्लतादिगृहनिर्माणार्थ वा गतास्तदा यशोदा स्वयं दधि निर्म- मन्थेतिसम्बन्धः दास्यश्चतुर्विधाः प्रभुभ्यो देया गोष्ठक्षेत्रविचारिकाश्चान्या यशोदासख्यो नन्दभोग्या गृह- कार्यकर्त्यश्च, तत्र गृहदासीषु कर्मान्तरनियुक्तासु सत्सु प्रकरणाद् भगवदभ्युदयार्थमेव कर्मान्तरमिति लक्ष्यते स्वतःकरणे हेतुर्नन्दगेहिनीति, गेहिन्याः कमैतदावश्यकम् ॥१॥ एवं संसारव्यापृतिरपि भगवदीयानां भग- वद्गुणगानार्थमेव जातेत्याह यानियानीति, उपनिबन्धनं स्वेनैव कर्तुं शक्यते स्त्रीणामद्यापि तथामामाद, यानि प्रसिद्धानि भगवचरित्राणि पूर्वमिह गोकुले वा शास्त्रतो लोकतश्च तन्मध्ये यानीह प्रसिद्धानि, वीप्सय सर्वाण्येव, अनेन गानमेव मुख्यं न तु दधिमन्थनमिति ज्ञापित, अन्यथा शीघ्रं दधिमन्यने सर्वाणि गीतानि गातुं न शक्यानि स्युः, तस्य बाल चरितानि स्वदृष्टानि चकाराद् गोपिकादिभिरप्युक्तानि, तस्य भगवते बालचरितानि येषु तानि वा गीतानि चकारादन्यानि च, दनो नितरां मथनं यस्मिन् काले, भगवते १. ०भवद् । २. धर्म:।

श्लो० ५-७.] तामसप्रमाणप्रकरणे स्कन्धादितो नवमोध्यायः। ६३ " तमङ्कमारूढमपाययत् स्तनं स्नेहस्रुतं सस्मितमीक्षती मुग्वम् । अतृप्तमुत्सृज्य जवेन सा ययावुत्सिच्यमाने पयसि त्वधिश्रिते ॥५॥ स जातकोपः स्फुरितारुणाधरं सन्दश्य दद्भिर्दधिमण्डभाजनम् । भित्त्वा मृषाश्रुषदश्मना रहो जघास हैयङ्गवमन्तरङ्गतः ॥ ६ ॥ उत्तार्य गोपी सुशृतं पयः पुनः प्रविश्य सन्दृश्य च दध्यमत्रकम् । विलोक्य भग्नं स्वसुतस्य कर्म तज् जहास तं चापि न तत्र पश्यती ॥७॥ भगवता प्रीति नितेति भगवदर्थ प्रपञ्चासक्तिं परित्यज्य स्तनं पायितवतीत्याह तमङ्कमिति, स्वयमेवाङ्कमारूढ- मीषदुत्थितं स्तनमपाययत् , यथा सा विमुच्य न गच्छति तदर्थमङ्कमारूढो दैत्यानाक्रमयितुं च, स्नेहसुत- मिति नास्याः स्तनपानजनितोपि क्लेशः, यद्यपि मोहितायाः प्रपञ्चासक्तिमहती गृहे च बहु कार्य दास्यश्च न सन्ति तथापि मन्दहाप्सयुक्तं मुखं पश्यन्त्यपाययत् , इदानीं स्थित्यर्थ मोहनं पूर्वमोहनस्य सङ्कोचश्च, एवं निर्बन्धेन स्थापितापि दोषवशात् त्यक्त्वा निर्गतेत्याहातृप्तमुत्सृज्येति, न तृप्ता यस्मिन् प्रतिबन्धं कुर्वाण- मप्युत्सृज्योर्ध्व त्यक्त्वा जवेनातिवेगेन सा पूर्वोक्ता प्रबलप्रपञ्चा ययौ, उद्देश्यपर्यन्तं गतवती, गमने लौकिक- मावश्यकं कार्यमाहोत्सिच्यमाने पयसीति, अधिश्रितेग्नौ स्थापिते पयस्युत्सिच्यमाने विष्यन्दमाने सति विष्यन्दनं द्रव्यनाशकं दोषजनकं च, तुशब्दः प्रक्रमान्तरमाह, भगवदनुरोधेन यथा मन्थानं परित्यज्य भग- वदनुरोधं कृतवती मथनाविरोधेनैवं भगवदनुरोधेन दुग्धोत्तारणं न कृतवती किन्तु भगवदनुरोधं परित्यज्यैव कृत- वतीति ॥५॥ ततो बालकानामतृप्तत्वाद् भगवान् जातकोपो जातः, यतः स बालकरक्षकः, बालकरक्षाप्रतिघाते भक्तिमार्गावेशेन वैषम्यादकस्मादेव क्रोधो जातः, स्थित एव निमित्तवशादुद्गतः, ततः कोपो यशोदां मार- यिष्यतीति लोभं तद्गतं भाण्डं च स्फोटितवानित्याहाधरं दद्भिस्सन्दश्य दृषदश्मना दधिमण्डभाजनं भित्त्वेति, अधरस्य दंशे हेतुः स्फुरितारुणेति, स्फुरितोरुणवर्णश्च जात इति लोभाद् भगवत्परित्यागे लोभ- स्यैवापराधो भवति तदा लोभ आधिदैविको यशोदां मारयितुमाध्यात्मिकं वा स्वयं विज्ञापनार्थमागतः, तदा स्फुरणं जातं, तत् त्रयं निवारणीयं, रजोगुणश्च प्रादुर्भूतो जातस्त्रयमुत्पादयितुं भिन्नं तदुभयमपि निवारयितु- मोष्ठदंशः, दन्ताः स्नेहकला यशोदानिष्ठाः, तैस्तेषां निवारणं कृतं, अनुकरणं तु स्पष्टमेव, दधिमण्डस्तकं, तदाधारभूतं भाण्डं नवनीतं तु भिन्नं जातमस्ति, ततो दृषदश्मना दृषत्सम्बन्धिकुट्टनपाषाणेन भित्त्वा दैत्याविष्टेव सा निर्गता तेषां दैत्यानामाधिदैविकानां यज्ञायुधेनैव जनितशब्देन निवारणं कर्तव्यं, तत्र महति शब्दे क्रिय- माणे भाण्डमेव भिन्नं, एवमुपकारं कृत्वा मृषाश्रुर्जातः, दधिभाण्डभङ्गेपि दोषसम्भवात् , यद्यपि स्वतः कृत- मङ्गे दोषो नास्ति तथापि रुद्रः समागत इति लोके ज्ञापयितुमभ्रूण्यवर्तयत् , अन्यथा भाण्डदेवताया भङ्गो न स्यात्, अश्रूणां कार्य च रजतादि नैमित्तिकं च तदुभयाभावान् मृषाश्रुत्वं, यशोदाया नाशशङ्कया वा, तथापि रक्षकः स्वयमित्यश्रूणां मृषात्वमेव, वस्तुतस्तु भाण्डे दैत्य आविष्टः, तद्वधार्थमेव तत् कृतवान् , ततस्तस्याः श्रमः सार्थको भवत्विति हैयङ्गवं रह एकान्ते बालका) जघास, जहारेति वा, स्वस्यापि भक्षणं प्राप्स्यतीत्यन्तरगतो भेदं प्राप्तवान् , ततः प्रभृति ते भिन्नाः कृताः, गृहमध्ये गतः, तत्राप्येकान्त आधि- दैविकदैत्यानामगम्यस्थाने बालकार्थमेव जघास भक्षितवान् ॥ ६ ॥ ततो यज्जातं तदाह उत्तार्येति, पयस्तु सुशृतं सम्यक् पक्वं तदुत्तार्य भूमौ स्थापयित्वा पुनः सुशृतमिति प्रथममुत्सेक उत्तार्य पुनरधिश्रित्य ततः १. प ।

६२ श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [श्लो० ३-४. सौमं वासः पृथुकटितटे विभ्रती सूत्रनद्धं पुत्रस्नेहसुतकुचयुगं जातकम्पं च सुभ्रूः । रज्ज्वाकर्षश्रमभुजबलत्कङ्कणौ कुण्डले च स्विनं वक्त्रं कबरविगलन्मालती निर्ममन्थ ॥३॥ तां स्तन्यकाम आसाद्य मथ्नन्ती जननी हरिः गृहीत्वा दधिमन्थानं न्यषेधत् प्रीतिमावहन् ॥ ४॥ गुणगानस्य स एव काल:, यस्मिन् काले क्रियाशक्तेराधिदैविकस्यापीन्द्रियं मथितं भवति, तदाह दनो नितरां मथनं यस्मिन् काल इति, ननु कथं तस्यैव कालस्य गाने हेतुत्वमिति चेत् तत्राह स्मरन्तीति, तानि गीतानि स्मरन्ती, तस्मिन्नेव काले गीतानां स्मरणं भवतीति ॥ २॥ एवं गानपरतया मथने क्रियमाणे गानस्यामृत- रूपत्वाद् दधिमथनं न भवतीति गानस्य गौणभावं सम्पाद्य भगवद्भजनौपयिक देहमपि पीडयित्वा भगवदुपभोग्यं रसमपि निरुध्य तद्देवतामपि निवार्य भौतिकी क्रियां श्रमजनिकां भक्तिमपि पीडयन्ती मुक्तानामपि क्षोभजनिकां क्रियां कृतवतीत्याह क्षौमं वास इति, क्षौम पट्टवस्त्रं तदतिपिच्छिलं भवतीति तदाक्र्थ सूत्रेण दोरकेण नद्धं क्रियते, उत्थिता सती मथनं करोति मथनावेशाद् वस्त्रस्याप्यननुसन्धानमिव वक्तुं स्थूले कटितटे बिभ्रती- त्युक्तं, कटिस्थौल्यान् मध्ये कृशभावेन बद्धं वासः परं न पतति, अयुक्तकरणं वा ज्ञापयितुं वस्त्रादिसौन्दर्य वर्ण्यते, तटपदेन चास्या गतिरूपत्वं नद्या इव प्रदर्शितं, अनेनावश्यकशरीरापेक्षापि मथनार्थ परित्यक्तेति सूचितं, पुत्रस्नेहेन सहजधर्मेणाधिक्यात् प्रेरितं दुग्धं बहिरपि निःसरन् न विचारवतीत्याह पुत्रस्नेहेति, दुग् यद्यपि स्त्रवति तथापि पुत्रस्नेह एव सुतो यत्र तादृशं कुचयुगं बिभ्रती स्नेहे वृथा गच्छति सति तदभि मानिनी देवता भीता सती कुचयुगमपि कम्पयति, तादृशमपि बिभ्रती, अनेनाधिभौतिकाध्यात्मिकाधिदैविका पेक्षामपि त्यक्तवतीत्युक्तं भवति, चकारादन्तर्यामिप्रेरणामपि, नन्वेवमतिक्रमे भगवता रक्षकत्वेन स्थापितौ दण्डधरै मृत्युयमौ कथं न तां दण्डितवन्तावित्याह सुभूरिति, शोभने ध्रुवौ यस्याः, "भ्रुवौ यम' इतिवाक्याद भाव्यर्थमङ्गी कृत्य पर्यवसानाच् छोभनभूत्वं, रज्जोर्नेत्रस्याकर्षेण यः श्रमस्तत्सहितं भुजद्वयं तावत्पर्यन्तं चलन्ति कङ्कणा ययोरेतादृशौ हस्तौ विभ्रती, अनेन भक्तिमार्गः कर्ममार्गश्च तद्देवास्तन्नियमाश्च सर्वे क्लिष्टा इत्युक्तं, कुण्ड साङ्ख्ययोगं द्वयमपि क्लिष्टं, सर्वत्र बिभर्तीतिसम्बन्धः, चकाराच्छिरश्च जातकम्पमित्यनुवर्तते, एतदर्थमे पृथनिर्देशः, अन्यथा खुतसकम्पकुचयुगमित्येव वदेत् , वक्रमपि स्विनं, परमक्षोभात् स्वेदयुक्तं, निर्गतसा भक्तिरप्युच्यते, कबरे केशपाशे सिद्धस्थानेषु विगलन्ती मालती यस्यां, कबरात् केशपाशात् सिद्धस्थाना विगलन्ती मालती यस्यामिति वा, मा लक्ष्मीरलं यस्मिस्तादृशं जगदतिक्रम्य वर्तत इति मालती ब्रह्मवि सापि गच्छति, एवं प्रपञ्चासक्ता निर्ममन्थ, आकृतिमात्रवर्णनायां वैयर्थ्य शुकवाक्यविरोधश्च भवेत् ॥ ३ पूर्ववद् भगवान् बालकानामर्थे स्तन्यकामः सञ् छूमं वारितवानित्याह तामिति, आसाद्य निकटे गत्वा नैकटर दर्शनाभ्यां क्रियाज्ञानाभ्यामुभयविधनिरोधसिद्धिः, मनन्तीमिति दध्नो विकृतत्वं स्वस्यापि प्रयासः, जननीमि निरोधावश्यकत्वं, तथाबुद्धिस्तेनैव कृतेति, हरिरिति सामान्यतोपि सर्वदुःखहर्ता साम्प्रतं कर्तुरत्यन्तान्याभिनिवेश करणप्रतिबन्धमेव कृतवानित्याह गृहीत्वा दधिपन्थानमिति, मन्थानं दण्डं हस्तेन धृता प्रीतिमावइन् न्य धन्मथन निषेधं कृतवान् निषेधेपकारापकरणाय प्रीतिमावहन्निति, यथा तस्याः स्वस्मिन् प्रीतिर्भवति तथा कुर्वन सर्वाङ्गं चालयन् हस्तौ पादौ चैव विचालयन् । मुखाब्जे मधुरारावं बिभ्रत् कृष्णः समागतः ॥१॥ , श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [श्लो०८-१०. उलूखला परि व्यवस्थितं मर्काय काम ददतं शिविस्थितम् । हैयङ्गवं चौर्यविशङ्कितेक्षणं निरीक्ष्य पश्चात् सुतमागमच्छनैः ॥८॥ तामात्तयष्टिं प्रसमीक्ष्य सत्वरस्ततोवरुह्यापससार भीतवत् । गोप्यन्वधावन् न यमाप योगिनां क्षमं प्रवेष्टुं तपसेरितं मनः ॥९॥ अन्वश्चमाना जननी बृहचलच्छोणीभराक्रान्तगतिः सुमध्यमा । जवेन विसंसितकेशबन्धनच्युतप्रसूनानुगतिः परामृशत् ॥ १० ॥ शृते पुनरुत्तारितवतीत्यर्थः, प्रविश्य मथनस्थानं, अनेनाङ्गणे पयोधिश्रितमिति ज्ञायते बहिगृहे मन्थनं तद्गृह प्रविश्य सन्दृश्य च दध्यमत्रकं भग्नममत्रकं भाण्डं सम्यग् दृष्ट्वा कर्तृकरणकर्मणां याथार्थ्य, चकारात् नवनीताभावं च दधिमण्डप्रवाहं च, ततस्तत्कर्म स्वसुतस्येति च सन्दृश्य सम्यग् ज्ञात्वा लौकिकाविष्टचित्ता दैत्यानां निवारणा- जहास हास्यं कृतवती न तु क्रोधं, भगवांश्चेत् तत्रैव तिष्ठेन् न किञ्चित् कुर्यात् तदा स्वस्यैवापराध इत्यतृप्तपरित्यागात् तूष्णीमेव तिष्ठेत् ॥७॥ भगवांस्तु रूढं तस्या लौकिकज्ञानं दूरीकर्तु दृढमिति ज्ञापयितुं वा तस्यास्तामसभावोत्पत्त्यर्थं ततो गतः, तत्र च गत्वा पूर्वमपि दैत्यावेशेन यत् सम्पादित हैयङ्गवादिकं तदपि शिक्ये स्थितं कामं यथेच्छं मर्कटाय प्रयच्छति मर्कटोपि दंष्ट्रित्वात् क्रूरजन्तुहैयङ्गवमप्यनुपयुक्तं शिक्य च निर्ऋतिपाशः स्वयं चोलूखला रुपरि व्यवस्थितो भवति, उलूखलं विपरीतं कृत्वा तत्र स्थितः, तेषां दोषनिवृत्त्यर्थ यज्ञपुरुषो भूत्वा "सुपर्णचयन" इव स्थितः, अग्ने भिरूपत्वादुलूखलस्य तदुपरि स्थितः सन्न"तिरिक्तमतिरिक्ताय प्रयच्छति रिक्तस्य शान्त्यै," ततो यशोदान्तः प्रविश्य तथाभूतं पुत्रं दृष्टवतीत्याहोलू- खलाङ्ग्रेरिति, पूर्व तत्र भगवददर्शने मर्कटोपि न दृष्टस्तेन शङ्कापि, अतोन्वेषणमपि कर्तव्यं, अन्वेषणे पुनश्चित्तं भगवत्परं जातमिति भगवन्तं दृष्टवती दोषाणामप्रयोजकत्वज्ञापनायोलूखलं विपरीतं कृतं तदा सुपर्ण एव विपरीतः कृतो भवति, अतः सर्वदोषनाशकाग्नेरपि यत्र वैपरीत्यं तत्र दोषाणां किं वक्तव्यमिति ज्ञापितं, काममिति यथेच्छं सन्देहाभावाद् देयमेव ह्य गोः सम्बन्धि हैयङ्गवं पूर्वकालगोसम्बन्धि नवनीतं, चोय जाते विशङ्किते ईक्षणे यस्य, भगवता चौर्यं कृतमस्ति तस्याश्चौर्यदोषनिवारणाय सर्वपतिरपि तथाभावोत्पाद- नाल्लोकानुसारेण नवनीतहरणे चौर्यमित्युच्यते, तत्र दोषदृष्टौ तस्या ज्ञानं कालेन नाश्यत इति विशेपाकारेण वा शङ्कितमीक्षणं यस्य तथा भवति, चौर्यविशङ्कितायां वेक्षणं यस्य, उभयथापि तस्या ज्ञाननाशशङ्का, तादृशं स्वयं निरीक्ष्य सुतं पश्चात् पृष्ठभागे पृष्ठे च पश्यन्ती पापदृष्टिः शनैरागमत् , ईषन्मात्रमागतवती, न हि पापदृष्टिः शीघ्रमागन्तुमर्हति ॥ ८ ॥ ततस्तां दृष्ट्वायोग्या स्प्रष्टुमिति ततो निर्गतवानित्याह तामात्तयष्टि- मिति, यष्टिरत्र गोवत्सनिवारिका, तस्या भगवत्यपि वत्सबुद्धिर्जाता, आत्ता गृहीता यष्टिर्यया, दर्शनादेव न पलायितवान् किन्तु तस्या अन्तर्गतं बाह्यं च भावं प्रकर्षेण सम्यग् दृष्ट्वा नैकट्यमपि नाहतीति ज्ञात्वा तदोष- परिहारार्थ त्वरासहितस्ततोवरुह्यापससार प्रतिमुखतयैव पलायनं कृतवान् , तस्या दोषेण स्वस्मिन् स्थितबाल- कानामपि दोषो भविष्यतीति ज्ञापयितुं दृष्टान्तमाह भीतवत् , यथा भीतस्तदपकारं स्वस्मिन जानाति तथा भगवानपि तद्दोष स्वस्मिन् विचारितवान् , अनेनैव न भीत इति ज्ञापितं, सापि गोपी, अतोन्यधावत्, अनु पश्चाद् धावनं कृतवती, तस्या अविवेकं प्रकटयितुं शुको भगवन्तं विशिनष्टि यं भगवन्तं योगिनां सिद्ध- योगानां निवृत्तदोषं मनस्तत्रापि तपसेरितं प्रेरितं धर्मेण संस्कृतमपि प्रवेष्टुं नाप न प्राप्तवत् , अत इयमप्यर्था- देव न प्राप्तवतीत्यर्थः ॥ ९ ॥ एवं भगवति दोषदर्शने भगवदीयोपि भगवन्तं न प्राप्नोतीत्युक्तं, तादृशेपि भगवान् कृपां करोतीति भगवत्कृपया भगवन्तं स्पृष्टवतीत्याहान्वञ्चमानेति, प्रतिकूलोपि भगवदर्थ श्रमः तत्, , .

श्लो० ११.] तामसप्रमाणप्रकरणे स्कन्धादितो नवमोध्यायः । ६५ भवति । कृतागसं तं प्ररुदन्तमक्षिणी कषन्तमञ्जनमषिणी स्वपाणिना। उद्वीक्षमाणा भयविह्वलेक्षणं हस्ते गृहीत्वा भिषयन्त्यवागुरत् ॥ ११ ॥ सार्थकः, श्रोणी अन्वञ्चमानाश्रोण्योराकर्षणं कुर्वन्ती रथाकर्षणे बड़ीवर्दवद् भाराक्रान्तगतिर्जाता भरेण भारे- णाक्रान्ता गतिर्यस्या., दुष्टा गतिीरेणैवाक्रान्ता, ततो बुद्धिरपि दोषादेनिवृत्ता गमनार्थमेव प्रवृत्ता, तदाह सुमध्यमेति, जननीतिवचनात् सदुग्धयोः स्तनयोरपि भारः सूचितः, जननीवाच न वर्णितः, वस्तुतस्त्व- जननी, जननी न काचिदप्येवं करोति, सुमध्यमेत्यनेन मध्ये भका बहिामोहिता, परं दुष्टभावाद भारेण गत्याक्रमणमुक्त्वा शोभनमध्यभावं वदस्तस्या दोषाभावं गुणं चोक्तवान् , अभिमानाभावार्थ चाह जवेनेति, वेगेन विशेषेण संसितानि केशवन्धाच्च्युतानि प्रसूनानि तेषामनु पश्चाद् गतिर्यस्याः, पुष्पाण्यपि सङ्गे चलन्ति, प्रकृष्टा सूना येषां तानि प्रमूनानि, उत्तारणमात्रेणैव ते नश्यन्तीति देवाद्यर्थ च तेषां सूना, तान्यपि बद्धा स्थापितवती, तानि च पुनः केशबन्धाद् विगलितानि, उत्पतिप्रलयौ तदविष्ठान्यौ देवते च तत्रैव सम्बद्धे तद्रूपाणां च बन्धनं यत्र ततस्तु मुक्ता न पुनजन्मभानः, ततो मोक्षश्च भगवदर्थक्रियया, अतः केशानामपि बन्धविमोचकस्तत एव विस्रंसितः केशबन्धस्ततश्च्युतानि प्रमूनानि, एतस्या दोषाभावो गुणो मुक्तानुगतिश्चेतिधर्मत्रयेण भगवन्तं परामृषत् परितो धृतवती, आलिङ्गितवतीत्यर्थः, तस्या दोषभावं दृष्ट्वा भगवान् रोदिति तस्या विवेक_शलक्षणमपराधं च कृतवान् , यशोदाबुद्ध्या तु भाण्डभेदन- मपराधः, अत्यन्तमौढ्यदोषनिवृत्त्यर्थं च ज्ञानशक्तेर्वर्षणमपि करोति, ज्ञानशक्तिस्तु भगवत्कृत्यैव सोञ्जला यथायथात्मा परिमृज्यत" इतिवाक्यात् , यशोदाया निरोधः सर्वथा व्यर्थो मा भवत्विति स्वकार्य तद्भावं च दृष्ट्वा भयेन विह्वले ईक्षणे यस्य, सोपाधिकं निरुपाधिकं च ज्ञानं तस्या गमिष्यत इति विह्वलता ॥१०॥ एवं परमकृपालुं गृहीत्वा यत् कृतवती तदाह कृतागसमिति, कृत आगोपराधो येन, कोयमपराध इत्या- काङ्क्षायामाह तमिति व्यामोहक,यशोदाबुद्धौ तु भाण्डभेत्तारं, यद्यपि स्वयमीश्वरो न कोप्यपराधो भवति तथाप्येषा व्यामोहिका लीला, तामत्यन्तं व्यामोहितवाञ् यथाग्र उत्तरलीलासु प्रतिबन्धिका न भवति, अन्यथात्यन्तमा- सक्ताग्रिम कार्ये प्रतिबन्धिकैव स्यात् "तच्चासुराणां मोहाय सतामपि च कुत्रचित्" "सा मां विमोहयति भीरपि यद् बिभेती"तिवाक्यान् निदानाज्ञानाञ्च मोहः, लोकदृष्टया मारयिष्यतीति प्रकर्षेण रोदनं, इदमपि द्वितीय व्यामोहकं,अक्षिणी कषन्तमिति बालभावदायकरणं, पूर्व कृतमोहस्य दाढयार्थमञ्जनं शोभार्थ तयैव कृतमञ्जन- साधनीभूत मषीयुक्ते अक्षिणी, स्वपाणिनेति, पर्यायेगैकेनैव पाणिना भगवदीयक्रिययैव भक्तिरूपया नयन मुज्ज्वलं न भवतीति कषन्तमिति, तत्रत्या कण्डूरपि नाशिता, तेन रजोगुणोपि शामितो मारणसाधनीभूतः, अत एव तिष्ठन्नपि भगवांस्तादृशचेष्टया स्थितस्तां न दृष्टवान् , सैव पुनस्तमुद्रीक्षमाणो विलोकयन्ती न तु पादौ, तथा सति भक्तिर्वा भवेत् , भगवांस्तु परितः स्थिता गोपीः पश्यति तासामपि दोषारोपाभावार्थ भयं, अन्तः- स्थितोप्ययं भावो मोहनार्थमेव प्रकटितः, एवं त्रिभिधर्मः सा मोहिता नातः परमुत्थास्यति, अत एवाग्रेस्याः कापि स्नेहकला न निरूपिता, ६ शृण्वन्त्यश्रूण्यवानाक्षी' दिति तु गुणानां माहात्म्यं “जनन्युपहृतं प्राश्य" तत्कथाश्रवणोत्सुके "त्यादि तु रोहिणीसहभावात् तस्या अपि भावोस्यां सङ्क्रान्त उक्तः, नन्दस्यैव मुख्यत्वात् , एतादृशी भावतः सर्वाङ्गसम्बन्वं परित्यज्य हस्ते गृहीत्वा भिषयन्ती भीषयन्यवागुग्त् , आगूरणसङ्कल्पं कृतवती यथा पामरा अनिष्टागरणानि कुर्वन्ति, अनेन तस्या अनृतवादित्वमपि निरूपितम्॥११॥ ततः किं कृतवतीत्याकाङ्क्षायामाह त्यक्त्वा यष्टिमिति, अनेन पूर्व यष्टिरानीतेतिलक्ष्यते तेन मनोदुष्टा, ܀܀ , श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [ श्लो० १२-१४- त्यक्त्वा यष्टिं सुतं भीतं विज्ञायाभकवत्सला। इयेष किल तं बर्द्ध दाम्नातद्वीर्यकोविदा ॥ १२ ॥ न चान्तर्न बहिर्यस्य न पूर्व नापि चापरम् । पूर्वापरं बहिश्चान्तर्जगतो यो जगञ्च यः ॥ १३ ॥ तं मत्वात्मजमव्यक्तं मर्त्यलिङ्गमधोक्षजम् । गोपिकोलूखले दाम्ना बबन्ध प्राकृतं यथा ॥ १४ ॥ मनःसङ्कल्पं च त्यक्तवती, तेन मनोदोषस्य गतत्वाच् चिकित्स्यत्रिदोषा जातेति निरूपयति, यष्टिं त्यक्त्वा सुतं भीतं विज्ञाय भगवद्धर्मानपि ज्ञात्वाकवत्सला जाता, तथापि तस्या न सर्वात्मना दोषनिवृत्ति- रित्याहेयेषेति, निरूपकस्यापि दोषो भवतीति शुको भीतः सन्नाह किलेति, प्रसिद्धिरेषा नास्माभिस्तदा दृष्टं नापि भावितं कदाचिदपि, दाना बद्धमियेषेत्यन्तःकरणशरीरपरिकरदोषा निरूपिताः, नन्वसाध्ये कथं प्रवृत्ता ? लोकेनिष्टेपि प्रवर्तमाना असाध्ये न प्रवर्तन्त इति तत्राहातवीर्यकोविदेति, तस्य भगवतो वीर्य न जानातीति, पूतनातृणावर्तादयो मारिताः कोस्या मारणे प्रयाप्त इति ॥ १२ ॥ शुकोपि तां दूषयन्निव बन्धाभावे परमार्थतो युक्तिं प्रदर्शयति न चान्तरिति, भगवति बन्धाभावो द्वेधापि भवति, भगवत्स्वरूपविचारेण बन्धनसाधन- स्वरूपविचारेण च, तत्रादौ स्वरूपं विचारयति, बन्धनं हि कार्यद्वयं सम्पादयति बहिनिरोधमन्तस्तापं च, तत् तस्यैव भवति यस्यान्तर्बहिर्भावो भवति, भगवांस्तु पूर्णः सर्व व्याप्य तिष्ठतीति न कस्मादपि भगवानन्तर्भवति, निरवयवत्वाच्च न कोपि तस्य परिच्छेदकः, चकारादन्तःशब्दव्यवहार्य आकाशोतः सशब्दोपि भगवति न प्रवर्तत इत्युक्तं, अन्तर्यामिब्राह्मणे सर्वान्तरो भगवानुक्तो न तु भगवतोन्तरं क्वचित् , सर्वान्तरः केनान्त- र्भावमापद्येत ? आधारत्वे तु नान्तरभावना, रूपादिषु तथोपलब्धेः, न हि फलस्यान्तः स्वरूपं तिष्ठति बीनवत् , तथा सत्यदृश्यः स्यात् , अतो न केनाप्यंशेन भगवतोन्तरमस्ति, नापि बहिः, व्यापकत्वात् , बहिःस्थित एवाकाशोन्तस्तिष्ठतीति नाकाशाद् बहिरस्ति किञ्चित् , अनेनान्तःकरणे खेदो बहिरावरणं वा नास्ती- त्युक्तं, किञ्च बन्धनं हि वेष्टनात्मकं तद् दिग्विभागे सति भवति, निरवयवस्यानिरूप्यस्य स्वत एव भासमानस्य ज्ञातृज्ञेयभावतिरोधायकस्य केनाप्यंशेन पूर्वभावोपरभावो वा न सम्भवति, अनेनैव दक्षिणोत्तरभावा अपि परिहृताः, सर्वत्र स्थितः पूर्वापरभावमेव मन्यते, अतः स्वरूपकृता वा दिकृता वान्तरादिधर्मा भगवति न सन्तीति न बन्धसम्भावना, साधनस्वरूपविचारेणापि न भवतीत्याह पूर्वापरमिति, रज्ज्वादीनां पूर्वभागे परभागे चायमेव वर्तते, तत्र यशोदैव प्रमाण, भगवति सर्व दृष्टवती यतः, सर्वस्यापि भगवान् बहिरपि भवति व्यापकत्वात् , अन्तरपि भवति सर्वान्तरत्वात् , चकारात् स्वरूपमपि, किञ्च जगतो य एतावान् , यतो जायते गच्छति चेति जगत् , यदि भगवानेतावन्न स्यात् कथं जगद् भवेत् ? पूर्वभावाभावे न भवेत् परभावाभावे न गच्छेत् , जगतश्चेद् भगवान् बहिर्न भवेद् जगति गच्छति गच्छेद , यदि सर्वान्तरो न भवेज जगदितिविशिष्टं सर्वप्रतीतिसिद्धं न भवेत् , अन्तःस्थितभगवद्धभैरेव जगतो विवक्षितधर्मवत्त्वात् , किञ्च यो जगत्, न हि स्वात्मना स्वयं बद्धो भवति, तथा सति बन्धकानां वैयर्थ्यापत्तेः, किञ्च जग- न्मयोय सर्वमेव जगद्व्याप्य तिष्ठति,एतदाज्ञयैव जगत् कार्य करोति, ततः कथमयं स्वबन्धने जगत् प्रेरयेत् ? अतो न केनापि प्रकारेण भगवतो बन्धनमस्तीति निश्चिन्ता भक्ताः ॥ १३ ॥ तादृशं योन्यथा विचारयति स निष्फल- प्रयासो भवतीति तां दृषयन्निव तस्याप्यज्ञानमाह तमिति, तं पुराणपुरुषोत्तममात्मजं स्वशरीराज्जातं मन्वा १. जगन्मय इत्यपि पाठः । ܚ श्लो० १५-१६] तामसप्रमाणप्रकरणे स्कन्धादितो नवमोध्यायः। . तद दाम बध्यमानस्य स्वार्भकस्य कृनागसः । द्वय१लोनमभूत् तेन सन्दधेन्यच्च गोपिका ॥ १५ ॥ यदासीत् तदपि न्यूनं तेनान्यदपि सन्दधे । तदपि द्वयङ्गुल न्यूनं यद्यदादत्त बन्धनम् ॥ १६ ॥ दाम्ना बबन्धेतिसम्बन्धः, देहस्तु प्राकृतस्तस्या इति तज्जातः सुतरां प्राकृतो भवति, ननु क्वचिन् महान्तोपि पुत्रा जायन्ते देवादयोपि ततो लोके कारणवैलक्षण्यस्यापि दृष्टत्वात् कथमात्मनत्वे तथा कर्तुं शक्यत इति चेत् तत्राहाव्यक्तमिति, न केनाप्पंशेन व्यक्तं, ये हि महान्तो भवन्ति ते स्वधर्मान् प्रकटीकुर्वन्ति यथा भरतादयः, भगवांस्तु तथा न करोतीति प्राकृतबुद्धिस्तेषां दृढा, मध्यमावस्थानामेव तथा करणं न तु परम- काष्ठां गतस्य, किञ्च यदि गुप्त एव संस्तूष्णीं तिष्ठेत् तथापि सन्देहः स्यादन्यवाक्येन वा माहात्म्यं जानीयुः प्रत्युत भगवान् विपरीतवर्मान् बोधयत्यतः कथं प्रतीतिरित्याह मर्त्यलिङ्गमिति, मयस्यात्यन्तप्राकृतस्य लिङ्गानि यस्मिन्निति, तथैव स्वरूपं गुणांश्चेष्टां च प्रदर्शयतीत्यर्थः, ननु तथाप्यत्यन्ताभिज्ञा यथा नटं परिचिन्वन्ति तथा सर्वविलक्षणानन्तगुणवत्त्वादानन्दमयत्वाच्च कथं न ज्ञायत इत्याशङ्क्याहाधोक्षजमिति, अधोक्षजं ज्ञानं यस्मादिति, न हि भगवान् गुणा वा कस्यचिदपि चक्षुर्गोचरा भवन्ति, इच्छा तु नास्ती- त्यवगम्यते विरुद्धप्रदर्शनात् , किञ्चेयं च यशोदा गोपिकातिप्राकृतरूपा, अतोनभिज्ञा कथं जानीयात् ? उलूखलो- परि पादं दत्वा भगवान् क्रीडति, अग्नेश्च नाभिर्भवति, अतो भगवान् गोकुलस्थितमुलूखलं स्वाश्रयत्वेन ज्ञापयितु- मत्र बन्धनं कारितवान्' गोपिकायास्तु बुद्धिर्यथान्यत्र न गच्छतीति, दाम पशूनां बन्धकं, ननूलूखलदाम- हस्ताधिष्ठितदेवानां कथं तूष्णीष्म्भावः ? तबाह प्राकृतं यथेति, तेषामपि बुद्धिर्भगवता तथा सम्पादितेति ॥१४॥ अयं देहाकारेण भासमान एव भगवान् सच्चिदानन्दरूप इति गुणोपसंहारन्यायेन "न चान्तर्न बहिर्यस्ये"- त्यादिधर्मा अस्यैवेति ज्ञापयितुं बन्धनेप्युपायं वदन् भगवान् सामिबद्धो जात इत्याह, भगवता स्वस्मिन् दोषद्वयं प्रदर्शितं तत्पुत्रत्वमपराधश्च, तदा रज्जुरन्तर्बहिःस्थितं भगवन्तं तिरोहितं मत्वा वेष्टनं कृतवती स्वयं बहिःस्थितान्तःस्थितस्य भगवतः, तदाह तदाम बध्यमानस्येति, अन्यथा बहिरपि रज्जुर्न भवेद् वेष्टकमपि न भवेत् , तथापि परितो वेष्टनरूपा न जाता, पूर्वापरयोर्भगवत एव सत्त्वात् , अतो व्यङ्गुलं न्यूना जाता, लोकपरिमाणे प्रथमपरिमाणमङ्गुलिः, तत्र प्रथमातिक्रमे कारणाभावादल्पवैलक्षण्ये महतो योजनाया- माश्चर्यमपि भवतीति द्वयङ्गुलोनमेवाभूत् , रज्वाद्यन्तयोर्यो भगवान् स एवायं क्रोडीकृतः, न तु ततः केनापि धर्मेण भिन्न इति ज्ञापयितुमेवमाह व्यापकत्वस्य दर्शनार्थमेव तिरोभावाद् रज्जुस्थूलतायामपि नोदरस्थौल्य, प्रतिबिम्बादौ तथोपलब्धेः, अतो वैलक्षण्याज्ञानात् तेनान्यदपि दाम तावत्प्रमाण सन्दधे योजितवती, चकाराद् विसदृशमपि ततोपि स्थूलं, नन्वङ्गुलद्वये न्यूने किमित्येतावद् योजितवती ? तत्राह गोपिकेति, मौढ्यं तस्या अनुवर्तत इति ॥ १५ ॥ ततः किमभूदित्याशङ्कायामाह यदासीदिति, उभयोः सम्बन्धे पुनः सैकैव रन्जुर्जाता, तदाह यदासीदिति, उभयोः सम्बन्धे यदेकमासीदित्यर्थः, तदपि पूर्वोक्तन्यायेनैव न्यून- मासीद द्वयङ्गुलं तेनापि विशिष्टेन पुनरन्यत् सन्दधे तृतीयं, तदपिव्यङ्गुलमेव न्यून, "त्रिसत्या हि देवा” इति, भगवतो जगदाद्यन्तःस्थितिरित्रयं प्रदर्शिता, मानुषभावं ततोपि बहुवारं कृतवतीत्यनुवदति यद्यदादत्त बन्धन- मिति, यद्यदेव योजनार्थ गृहीतवती तत्तदेव द्वयङ्गुलोनमभूत् ॥१६॥ सर्वा एव गोप्योङ्गणमध्ये तथा करणाद् , . , श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [ श्लो० १७-१९. एवं स्वगेहदामानि यशोदा सन्दधत्यपि । गोपीनां सुस्मयन्तीनां स्मयन्ती विस्मिताभवत् ॥ १७ ॥ स्वमातुः स्विन्नगात्राया विस्रस्तकबरसनः। दृष्ट्वा परिश्रमं कृष्णः कृपयासीत् स्वबन्धने ॥ १८ ॥ एवं प्रदर्शिताह्यङ्ग हरिणा भक्तवश्यता । स्ववशेनापि कृष्णेन यस्येदं सेश्वरं वशे ॥ १९ ॥ द्रष्टुमागताः, अद्यापि तथा ननिरुद्धा इति तदा स्मयन्त्यो जाता गर्विष्ठाः सन्मुखा वा स्वस्यापि भुनबन्धनादिकं भावयिष्यन्त्यः सुस्मयन्त्यो जाताः, गृहस्थसर्वदामव्ययकरणेपि न बन्धनं निवृत्तमित्याहैवमिति पूर्वोक्तन्यायेन सर्वाण्येव दामानि योजितवती, यतो यशोदा यशो ददाति यति वा, सन्दधत्यपि द्वयङ्गुलन्यूनभावाद् विस्मिताभवदितिसम्बन्धः, यशोदागृह एव भगवता पुत्रत्वमपराधश्च दर्शित इति तद्देहदामान्येवान्तर्वहिभंग- वत्तिरोभावात् सम्बद्धानि न तु गेहान्तरस्थितानि, अन्यासां तु तदर्थप्रवृत्तिरेव नास्ति,अन्तर्बहिस्तिरोधानाभावात् , रजूनामानयनं यशोदाकर्तृकमेव, न हि तादृश्या अन्य: सहायं कर्तुमर्हति, पूर्व तु वारद्वयं त्रययोजनायां रोषे गते स्मयन्ती जाता, ततोपि वहुवारयोजनायां विस्मिता चाभवत्, आश्चर्य प्राप्तवती, ततो रन्जूनामन्वेषणार्थं निर्बन्धेन यत्नं कृतवती ॥ १७ ॥ ततः सामर्थ्याभावे गोपिकानां समक्षं परमलजां प्राप्य भग्नमानसप्तङ्कल्पा मृतप्रायासीत् तदा भगवान् परमकृपालुस्तादृशदुष्टेष्वपि सद्बुद्ध्या युक्तमपि कृतवानित्याह स्वमातुरिति, ततो भगवान् कृपया स्वबन्धन आसीदितिसम्बन्धः, तत्र कारणत्रयमाह स्वमातुः स्विन्नगात्राया विसस्तकबरसन इति,मातुर्हि परितोष: कर्तव्यः,"मातृदेवो भव" “एभ्यो माता गरीयसी"तिवाक्याल नापि तस्या अपत्यान्तरमस्ति यो ह्युपस्थितं दुःखं निवारयेद् यत इयं स्वस्यैव मातातो मा ख्यापयित्वा तस्या दुःखमसहमानेन तथा कृतं, किञ्च गोकुलवासिनां खेददूरीकरणार्थमागतो भगवान् स स्विन्नगात्रायाः सर्वाङ्गे जातस्वेदाया न परिश्रां दूरीकुर्यात् ? किञ्च गोकुलवासिनां सर्वसौभाग्यदानार्थमाग स कथं विस्रस्ताः कबरात् केशपाशात् स्रजो यस्यास्तादृशीं पश्येत् ? अनेन सर्वाभरणानामेव तिरोभावः सूचितः, एवमेतादृश्याः परिश्रमं दृष्ट्वेतस्ततः पर्यटनं खेदः प्रस्वेदो मुखशोषो महती च ग्लानिरित्यादिः परि शब्दार्थः, तत्रापि भगवान् कृष्णः सदानन्दोननुभूतदुःखदुःखितानामसमक्षः परदुःखमपि न पश्यति तदपूर्व यशोदादुःखं दृष्ट्वा कृपया व्याप्तो मात्रथे स्विन्नगात्रार्थे स्रगभावार्थे च स्वस्यैव स्वयं बन्धकरूपगुणा- मुलत्रयभूतो जातः, द्वाभ्यां पूरितमङ्गुलमात्रं च बन्धनं जातं, तदा स्वस्यैव स्वयमेव बन्धने जात आसीत् प्रकरणाद् गृहीत इत्यवक्तव्यत्वान्नोक्तम् ॥ १८ ॥ ननु किमर्थ भगवानेतावत् कृत्वा बन्धनरूपो जात इति चेत् तत्राहैवमिति, एवमपकारिणि लोके स्वकीयत्वमात्रभिमानेनाप्येतावतीमभूतपूर्वो कृपां करोतीति स्वस्य भक्तवश्यता प्रदर्शिता, प्रदर्शनस्यापि प्रयोजनमाह हरिणेति, स हि सर्वदुःखहर्ता तत्त्वसिद्धयर्थम- सम्बन्धेन दुःखहर्तृत्वेतिप्रसङ्गात् संसारविलयः स्यादिति सम्बन्धार्थ कृपालुतां प्रदर्शयति, कृपा च सर्व- धर्मधर्मिभ्यो बलिष्ठेति वक्तुं भक्तवश्यताशब्देनैवोक्ता, ननु भक्त्या चेद् धर्मधर्मिणामुपमर्दः क्रियते तदा स्वरूपस्य प्रच्युतत्वात् फलाभावात् प्रदर्शनमपि व्यर्थं स्यादित्याशझ्याह स्ववशेनापीति, स हि स्ववश एव न केनाप्युपमद्यः, अनेन फलप्ताधकत्वमुक्तं, फलरूपत्वमाह कृष्णेनेति, नन्वेवं कृतन्यो महान् ब्रह्मादिन मस्यते ततो माहात्म्यस्य न्यूनभावान्न तथा फलत्वमित्याशझ्याह यस्येदं सेश्वरं वश इति, तत्तदधिष्ठातृदेवतासहितं सर्व जगद् यस्य वशे, अतो नान्यथाभावनं केनचिदपि कर्तुं शक्यमितिभावः ॥१९॥ ३ श्लो० २०-२२.] तामसप्रमाणप्रकरणे स्कन्धादितो नवमोध्यायः। नेमं विपञ्च्यो न भवो न श्रीरप्यङ्गसंश्रया। प्रसादं लेभिरे गोपी यत् तत् प्राप विमुक्तिदात् ॥ २० ॥ नायं सुखापो भगवान् देहिनां गोपिकासुतः । ज्ञानिनां चात्नपोतानां यथा भक्तिमतामिह ।। २१ ॥ कृष्णस्तु गृहकृत्येषु व्यग्रायां मातरि प्रभुः। अद्राक्षीदर्जुनौ पूर्व गुह्यकौ धनदात्मजौ ।। २२ ॥ नन्वेतादृशो भावः पूर्वमपि सिद्धस्ततः शास्त्रप्रसिद्वत्वात् किं प्रदर्शनेनेत्याशझ्याह ने विरश्य इति, इमं प्रसादं न कश्चित् पूर्व प्राप्तवान् भक्ता एव हि महान्तः प्राप्नुवन्नि, तत्र भक्तेषु भक्त्या स्वरूपतश्च महान्तस्त्रयः पुत्रो ब्रह्मा भक्तः प्रवृत्तिमार्गसर्वधर्मप्रवर्तकः सर्वेषां हेतुभूतस्तथा महादेवोपि पौत्रः सर्वनिवृत्तिधर्मप्र. वर्तकः प्रलयकर्ता गुणावतारश्च भगवदर्थमेव सर्वपरित्यागेन तपस्तपति ततोपि लक्ष्मीर्भार्या ब्रह्मानन्दभूतोरस्यपि लब्धपदा जगजननी निरन्तरं पादसेवनपरा,एवमेते त्रयोपि यदीम प्रसादं न प्राप्तवन्तस्तदा कोन्यः प्राप्तुमर्हति ? तदाहेमं प्रसादं न वा विरश्यो न वा भवो न वा श्रीः, प्रत्येक समुदायाभ्यां प्रसादं न ले भिरे, न च तेषां दोषोस्तीति शङ्कनीय, यतस्त्रयोप्यङ्गमेव सम्यगाश्रयन्ति, एका वक्षोन्यो नाभिमन्यः पादाविति, तेषां त्रयाणा- मपि गुणावताराणां यद् दुर्लभं तदन्येषां दुर्लभमेव, स क: प्रसाद इत्याशक्य तमनुबदति गोपी यत् तत् प्रापेति, जात्या स्वरूपतो हीना, प्रमादस्तत्रैव प्रसिद्धो न तु केनविन्निरूपितः, न हि सर्वमोचकः कश्चिदात्मानं बध्नाति, खेदस्तु ज्ञानमपि दत्वा विदेहकैवल्यं वा दवा मोचयितुं शक्यते किं स्वयं बन्धनेन ? अतः प्रसिद्धः प्रसादोयमेव नान्य इत्यर्थः॥२०॥ननु ते महान्तो मूढा चेयमिति मूढानुरोधेन कृतार्थः कथं प्रमादः स्यात् ? तत्राह नायं सुखाप इति, न ह्यत्र बन्धनं निरूप्यते किन्तु वश्यता, सा न कस्यापि सिध्यति, यावन्तः कर्मिणो देहानि- मानिनो येपिज्ञानिनो निरभिमाना मुक्ता उभयेषामप्ययं भगवान् न मुखापः सुखेन प्राप्तुं शक्यः, तत्रहेतु- र्देहिनामिति, एकत्र देहाभिमानो दोषोन्यत्र नैरपेक्ष्यं, तदाह ज्ञानिनां चात्मपोतानामिति, आत्या स्वरूपं पोतः संसारसमुद्रतरणोपायो येषां न हि समुद्रतरणमात्रेण पारस्थितो महाराजः प्राप्यते,भक्तिमतां त्विहैव सुलभः, तत्र हेतुर्गोपिकासुत इति, यतो गोपिकाया:सुतो जातः, अतः सर्वे भक्ता भवन्वित्येवं भगवता कृतमितिभावः, इहेत्यस्मिन्नवतारे भक्तिमतामिति भक्तेविशेषणत्वमुक्तं न तु भक्तानाम् ॥२१॥ एवं स्वमनोरथे सिद्धे गोपिका बहिर्मुख्यो यथायथं गताः, भगवांस्तु तथा न गतः किन्तु तस्यामेवावस्थायां महत् कार्य कृतवानित्याह कृष्णस्त्विति, तुशब्दः पूर्वसम्बन्धं व्यावर्तयति नायं बन्धनव्यग्रः कृष्णः, सा चेद् भगवन्तं वशीकृत्य तथैव तिष्ठेन् न किञ्चित् कुर्याद् भगवान् , निरोधस्य सिद्धत्वात् , सा पुनर्ग्रहकृत्ये व्यग्रा जाता,तथा जातायां यमला- र्जुनवृक्षावद्राक्षीत् तत्पातनेन च तस्याः प्रपञ्चविस्मरणं करिष्यामीति, ननु कोयमत्याग्रहः ? तत्राह मातरीति, तस्यामप्यवस्थायां पातने सामर्थ्यमस्तीति ज्ञापयति प्रभुरिति, अर्जुनौ जातिविशेषवृक्षौ 'सखि' शब्दवाच्यौ, ननु गोपिकार्थ कथं तयोः पातनमपराधाभावादित्याशझ्याह पूर्व गुह्यकाविति, देवयोनिभूतौ वृक्षौ जातो, अतस्तयोवृक्षत्वमनभिप्रेतं, तथापि प्रयोजनाभावात् सम्बन्धाभावात् किमिति मोचनीयावित्याशझ्याह धन- दात्मनाविति, धनदः कुबेरो भक्तस्तस्य पुत्रौ ॥ २२ ॥ ननु तौ महान्तौ कथमेवं जातौ ? तत्राह पुरेति, पूर्व श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [ श्लो० २३. ? पुरा नाग्दशापेन वृक्षता प्रापितौ मदात् । नलकूबरमणिग्रीवावितिख्यातौ श्रियान्वितौ ॥ २१ ॥ नारदशापेन वृक्षवं प्राप्तौ, ननु नारदः किमिति शा दत्तवान् ? तत्राह मदादिति, श्रीमदेन म तौ, अतो मदाद्धेतो रदशापः शापेन च वृक्षत्वमिति, ननु तथाभावयोग्यावेव तौ किमिति मुच्येते इत्याशझ्याह नलकूबरमणिग्रीवावितिख्याताविति, नलः कूबरो यस्य नलोतिसुन्दरः सोपि कुञ्जतुल्यो मणियुक्ता ग्रीवा यस्यैवन्नाम्ना ख्यातो, तेषां नामख्यातिश्च न शान्तेति तदुद्धारो युक्तः, किञ्च श्रिया चान्वितो, अद्यापि तौ परित्यज्य श्रीन गता, अतः कीर्तिश्रियोविद्यमानत्वादुद्धारमर्हतः ॥ २ ॥ इति श्रीमद्भागवतसुबोधिन्यां श्रीमद्वल्लभदोक्षितविरचितायां दशमस्कन्धविवरणे द्वितीये तामसप्रकरणे- वान्तरप्रमाणप्रकरणे ज्ञाननिरूपकपञ्चमाध्यायस्य स्कन्धादितो नवमाध्यायस्य विवरणम् ॥

॥ षष्ठः स्कन्धादितो दशमोध्यायः ॥ ॥ श्रीराजोवाच ॥ कथ्यतां भगवन्नेतत् तयोः शापस्य कारणम् । यत् तद् विगर्हितं कर्म येन देवऋषेस्तमः ॥१॥ ॥ श्रीशुक उवाच ॥ रुद्रस्यानुचरौ भूत्वा मुदृप्तौ धनदात्मजौ । कैलासोपवने रम्ये मन्दाकिन्यां मदोत्कटौ ॥ २॥ एवं तु नवमाध्याये भक्तिरुक्तातिदुर्लभा । कृष्णसेवकसख्यस्य हेतुर्दशम उच्यते ॥ १ ॥ वैराग्यं भगवद्धर्मः षड्गुणोत्र निरूप्यते । गुणानां भगवत्त्वाय स एव हि यतोभवत् ॥ २ ॥ वैराग्यमनिवर्त्य तु भगवद्वाक्यतो भवेत् । विशेषतस्तु यद्वाक्यं न निवर्तेत केनचित् ॥ ३ ॥ तादृशं शापरूपं स्याद् भक्तानामेव तादृशम् । अतो वैराग्यकथने शापो मोक्षावधिर्मतः ॥ ४ ॥ शापोद्यमस्तथा हेतुः शापश्चापि प्रसादभाक् । वाक्यस्यापि फलं शीघ्र स्तुतिश्चानुग्रहस्तथा ॥ ५ ॥ षड्भिादशभिश्चैव त्रिभिः षड्भिस्तथैव च । दशभिः पञ्चमिश्चेति षडाः क्रमतो मताः ॥ ६ ॥ अपूर्वत्वाच्छोतुमिच्छा तेन प्रश्नः परीक्षितः । स्वस्यापि ताहशत्वेन तद्वन्मोक्षाशया पुनः ॥ ७ ॥ पूर्वाध्यायान्ते शापेन यमल र्जुनौ जाताविति श्रुत्वा कथं वा तेषां भगवानुद्धारको जात इति पृच्छति कथ्यतामिति, भगवन्नितिसम्बोधनं कथनेन स्वदुःखदूरीकरणसामर्थ्याथ, एतदिति, हृदये बाधकत्वेन स्थितं, नयोनलकूबरमणिग्रीवयोरेकरूपस्य शापस्य कारण, चतुष्टयं तु तेनैव वक्तव्यं शापविस्तारो विमोक्षणं स्तुति- भगवत्प्रसादश्चेति, अतोधिकं द्वयं पृच्छति यत् तद् विहितं कर्मेति, यत् प्रसिद्धं तादृशशापहेतुभूतं जातं तदवश्यं विगहि निन्दितमेव भवति, देवानां तु पापं न सम्भवतीति प्रश्नः, किञ्च येन कृत्वा देवऋषेदेव- तानामपि मन्त्रद्रष्टुस्तमः क्रोधो भवति, अनेन शापे हेतुः स्पष्टः, विहितेन शापोद्यमः, सर्वो हि विगर्हिते कृते शापं दातुमुद्युक्तो भवति, देवर्षिस्तु साधारणे न भवतीति विशेषतो हेतुर्वक्तव्यः ॥ १ ॥ तत्र प्रथमं विगहितेन शापोद्यममाह षड्भी रुदम्येति, उन्मादश्च प्रमादश्च निन्दिताचरणं तथा । महत्स्वपि तथा धाट्यप्तिद्ध्यर्थं महतां दृशिः ॥ १ ॥ धाष्ट्यं तयोर्न सङ्घस्य ततश्चोद्यम ईर्यते ॥ १३ ॥ प्रथमतो महतस्तथात्वमनुचितमित्याह रुद्रस्य महादेवस्य रुद् रोगाणि द्रावयतीति तादृशस्य सेवकयो रोग- सम्बन्धोनुचितः, अनुचरपदेन पश्चादेव चलनस्योचितत्वादणुमात्रविभेदोपि दोषायेति तादृशावपि भूत्वा सुदृप्तौ जातौ धनेनातिमत्तौ, तत्र हेतुर्धनदात्मजाविति, धनं सर्वेभ्यो ददातीति तदात्मनस्य धनित्वं सिद्धमेव, उभयोश्च सहक्रीडा निन्दिता, उभौ च दुष्टो जातो, तत्रापि महादेवस्य गृहरूपो यः पर्वतः कैलास- स्तस्योपवन आरोपितफलपुष्पप्रधाने वने, तत्रापि रम्ये सर्वदोषविवर्जिते वने, स्वभावतो विरक्तो महादेवस्तस्य स्थाने विरक्ता एव तिष्ठन्ति, तत्राप्युपवने योगिनां भगवचिन्तनस्थाने, तत्रापि रम्ये भगवत्प्रसादस्थाने, ततोप्यधिकदोषमाह मन्दाकिन्यामिति, मन्दाकिनी भागीरथी प्रसिद्धा, मन्दाकिन्यां दोषाभावात् , तत्रापि मद उत्कटो ययोः, अयं मदो धनादिकृत एव, सुरादिकृतस्त्वग्रे वक्ष्यते ॥ २ ॥ , , , तं श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [ श्लो० ३-७. वारुणी मदिरां पीत्वा मदापूर्णितलोचनौ । स्त्रीजनैरनुगायद्भिश्चैरतुः पुष्पिते बने ॥ ३॥ अन्तः प्रविश्य गङ्गायामम्भोजवनराजिनि । चिक्रीडतुर्युवतिभिर्गजाविव करेणुभिः ॥ ४ ॥ यदृच्छया च देवर्षिर्भगवांस्तत्र कौरव । अपश्यनारदो देवौ क्षीवाणौ समबुध्यत ॥ ५ ॥ दृष्टा वीडिता देव्यो विवस्त्राः शापशङ्किताः। वासांसि पर्यधुः शीघ्रं विवस्त्रौ नैव गुह्यकौ ॥६॥ तौ दृष्ट्वा मदिरामत्तौ श्रीमदान्धौ सुरात्मजौ । तयोरनुग्रहार्थाय शापं दास्यन्निदं जगौ ॥ ७ ॥ महतः स्वरूपदोषा उक्ताः, आगन्तुकदोपैः सदुष्टक्रियामाह वारुणीमिति, द्वन्द्वजो हि दोषो दुर्निवार इति द्वयोः सम्बन्धः, वारुगी वरुणोद्भवा, अमृतसङ्ग उत्पन्ना दैत्यभावत्रोधिका, तत्रापि मदिरा मादिका- सुरभावादप्यधिकदोषननिका, तां वारुणी मदिरां पीत्वा मदेनावृणिते लोचने ययोविरुद्ध ज्ञानवन्तौ, तत्राप्यनु पश्चाद् गायद्भिः स्त्रीभिः सहितौ, सङ्गदोषो मोहहेतुः सम्बन्धश्च, पुष्पिते वने रजोयुक्ते चेरतुर्धभ- माणौ जातो, मन्दाकिन्यामिति सामीप्यसप्तमी, कैलासोपवने सति, मन्दाकिन्यामपि सत्यां, मदो- स्कटाविति वा, अतः पुषिते वन इति न दोषवचनेन विरोधः ॥ ३ ॥ दोवान्तरमाहान्तःप्रविश्येति, जले क्रीडा गङ्गायां निषिद्वा "गङ्गा पुण्यजलां प्राप्य त्रयोदश विवर्जयेदि त्यत्र क्रीडाया निषिद्धत्वात् , तत्रापि नोद्धृत्य किन्वन्तः पविश्य, अम्भो नानां वनराजयो वनपतयो यत्र, अनेन भगवत्सान्निध्यमपि गङ्गाकृत- पूनार्थं लक्षितं, गजाविव करेणुभिरिति क्रीडायामनवधानतोक्ता ॥ ४ ॥ विषयं निरूप्य शापहेतोः समागम- माह यहच्छयेति, देवपिरिति भाव्यर्थपरिज्ञानं देवयोनीनामुपकारकर्तृत्वं च ज्ञापित, भगवानिति सर्वसामथ्र्य, कार्यभगवत्वानि भगवत्कृपासाध्यानि, तत्रेति तस्यां गङ्गायां, कौरवेतिसम्बोधनं महतोपि वंश उत्पन्नः प्रपाद्यतीति स्वदृष्टान्तेन ज्ञानार्थ, आदौ देवावपश्यत् ततः क्षीबागौ समबुध्यत, क्षीवशब्दोकारान्तो नकारा- न्तोपि, क्षीवा मत्तः, देवानां स्वर्षिसम्भानाभावयोगात् ॥ ५ ॥ ततो यज्जातं तदाह तं दृष्ट्रेति, नारदं दृष्ट्वा देव्योप्सरसो विवस्त्राः सत्यः स्वस्मिन् नारदे चैकैकं धर्म ज्ञातवत्यः, स्वस्मिन् लज्जा जाता कामोद्बोधेनानिष्ट- जनकत्वे शापशङ्का, वस्त्रपरिधानेनाभयं भवतीति शीघ्रं यावदृषेः क्षोभो न भवति ततः पूर्वमेव पर्यधुः, गुह्य कावपि विवस्त्रो, नग्नदर्शनमप्यमङ्गलं निषिद्धं स्त्रीसङ्गात् क्षोभकं च, तत्रापि गुह्यको, गुह्यं कं ययोः ॥६॥ तथा सति तयोः शापोपक्रममाह तौ दृष्टुति, सुत्मजौ भूत्वा मदिरापत्तावसुरकार्यं कृतवन्तौ, श्रीमदेन चान्यौ मनुष्यदोषं च प्राप्तवन्तौ, अत उभयोः फलं महापुरुषसान्निध्ये भवती " त्यत्यन्तनिन्दितैर्दोषैर्जन्तुः स्थावरतां व्रजे"दित्येतयोः स्थावरत्वमेव युक्तमिति विचार्य कर्मगैवैतद् भविष्यतीति निश्चित्य कृपया परीत- स्तयोरनुग्रहार्थ शापं दास्यन्निदं वक्ष्यमाणं हेतुभूतं जगौ, अन्यापराधे बालकेन कृते पित्रा शिक्षणं कर्मसाध्यम- निष्टमपि फलं नात्यन्तं दुःखदं भवतीति कर्माधिकारिफलभावनातः पूर्वमेव स्वयं शापं दत्तवान् , महापुरुषदृष्ट्योबुद्धं च जातं; अतो न वने वृक्षौ जातो, वृक्षाणां मध्येर्जुनजातीयानां मुक्तिः प्रसिद्धा " नर्मदातीरसञ्जाताः सरलार्जुनपादपा नर्मदातोयसंस्पर्शाद् यान्ति ते परमां गति"मितिवाक्यात् , तत्रापि गवां छायाजनक, महतो नन्दस्याभिज्ञापकौ च भविष्यतः, फलं तूत्कृष्टं भविष्यत्येवातः कर्मफलाच्छापः समीचीनः ॥ ७ ॥ -- श्लो०८-१०.] तामसप्रमाणप्रकरणे स्कन्धादितो दशमोध्यायः । ७ ॥ श्रीनारद उवाच ॥ न ह्यन्यो जुषतो जोष्यान बुद्धिभ्रंशो रजोगुणः । श्रीमदाभिजात्यादियंत्र स्त्रीद्यूतमासवः ॥ ८॥ हन्यन्ते पशवो यत्र निर्दयैरजितात्मभिः । मन्यमानैरिदं देहमजरामृत्यु नश्वरम् ॥९॥ देवसंज्ञितमप्यन्ते कृमिविड्भस्मसंज्ञितम् । भूतध्रुक् तत्कृते स्वार्थ किं वेद निरयो यतः ॥ १० ॥ ननु शापे दत्ते कदाचिदुत्कृष्टकर्मापि सम्भवति ततः पापक्षये मुक्तिरेव कदाचिद् भवेत् सत्सङ्गे भक्तिर्वा ततः किमिति शापं दत्तवानित्याशङ्ग्य तयोः सत्कर्मसत्सङ्गौ दुर्लभाविति तदर्थ तयोविद्य- मानदोषस्य तदुभयाजनकत्वं निरूपयति द्वादशभिने ह्यन्य इति, सन्मार्गः सत्सङ्गो वा सबुद्ध्या भवति, श्रीमदेन तु सद्बुद्धिः कदापि नोलद्यते, तदाहान्यो जोष्यान् जुषतः प्राणिनो बुद्धेर्धशहेतुर्न भवति, बुद्धिरत्र सात्त्विकी “सत्त्वात् सञ्जायते ज्ञान"मिति, तस्य बाधकं त्रिविधं गुणा विरुद्धा आश्रय- नाशकमाश्रयविरोध्यन्तरजनकं च, तदत्र श्रीमदात् त्रयं भवति, यद्यपी "न्द्रियविषयाौराक्षिप्तं ध्यायतां मन- श्चेतनां हरते बुद्धेः स्तम्भस्तोयमिव हृदा''दिति विषयमात्रलेवनमेव बुद्धिभ्रंशहेतु-तत्रापि यथा श्रीमदाद् बाह्याभ्यन्तरदोषसंसर्गरूपादन्यः प्रकारान्तरेगोत्पन्नो विषयानुभवः, साधनस्य द्वन्द्वन्वाभावात् परिहार्यो भवति, अयं स्वपरिहार्यः, यतस्तेनान्तर्बहिर्दोषौ जन्येते इत्याहाभिनात्यादिरिति, “विद्यामदो धनमदस्तथैवाभि- जनो मद एते मदा मदान्धानां त एव हि सतां दमा इति, तत्र धनमदो मध्यम उभयमदयोः साधको यथा मध्यमं गृहं दग्धं सत् पार्श्वस्थितयोरपि दाहं सम्पादयति, आभिजात्यस्यादिः श्रीमदस्ततोप्यनर्थ- सम्पादकः, तस्य मदान्तरापेक्षया दुष्टविषयजनकत्वं हेतुत्वेनाह यत्र स्त्रीधूनमाप्तब इति, अन्यान्यपि दूषणानि वक्ष्यति, ततः प्रथमं दोषत्रयमाह यदपरिहार्य, प्राणिनः सर्वहेतवः कायवाङ्मनांसि, तत्र स्त्री कायनाशिका द्यूतमनृतं वाङ्नाशकं, आसवो बुद्धिनाशकः, आसवो मदिरा, “द्यूतं पानं स्त्रिय' इत्यधर्मपादा अप्येते, तत्रापि प्रथमं स्त्रीनिर्देशस्तेष्वप्याधिक्यख्यापकः,"न तथास्य भवेन्' मोहो बन्धश्चान्यप्रसङ्गतो योषित्सङ्गाद् यथा पुंसो यथा तत्सङ्गिसङ्गत" इति, श्रीमदे त्वेते भवन्त्येव धनमदकृतस्त्रियोसत्या एव भवन्ति ॥ ८ ॥ दोषा- न्तराण्याह हन्यन्ते पशवो यत्रेति, यत्र श्रीमदेन प्रत्यहं भक्षणार्थ पशवो हन्यन्ते, निर्दयैरिति, बाला आमा अपि हन्यन्त इति सूचित कोमलमांसत्वात् , किञ्चाजितात्मभिः सर्वाण्येव पापानि क्रियन्ते, "नूनं प्रमत्तः कुरुते विकर्म यदिन्द्रियप्रीतय आघृणोती'त्यत्र निरूपणात् , तेषां स्वेष्टसाधनताज्ञानवतां कथं स्वानिष्टे प्रवृत्तिरितिचेत् तत्राह मन्यमानैरिति, पूर्वोक्तप्रकारेण विषयभोगः स्वभावतः सुखहेतुर्भवति पर्यवसाने परलोके च दुःखहेतुर्भवति, स च परलोकोस्य देहस्य नाशे, ते हि धनमदेन वस्तुतत्त्वं न जानन्ति, अत इदं शरीरं नश्वरमप्यजरामृत्यु जानन्ति जरामृत्युरहितम् ॥९॥ ननु सत्यमेव देवा अजरामरा इति तत्राह देवसंज्ञितमपीति, यथाजाशब्दोजायां न योगेन वर्तते किन्तु ब्रह्म कदाचित् तेन रूपेण सोमाहरणार्थ गतवदिति तथा निर्जरा इत्यपि, यथा मनुष्याणां यावता कालेन जरा मृत्युर्वा भवति तथा न भवतीति यया न स्वपिति पश्चा- च्छायी प्रथमबोधी च तमाहुन स्वपितीत्यविकारिणस्तथात्वाद् वा वस्तुतस्तु देहत्वाद् देवसंज्ञितमप्यन्तवदेव भवति, अतोन्ने कृमिविभस्मसंज्ञितमेव भवति, देहत्य विधातिपत्तिर्दह्यते भक्ष्यते विशीर्यते वा, विशीर्णपक्षे अमरा श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [ श्लो० ११-१४ देहः किमन्नदातुः स्वं निषेक्तुर्मातुरेव वा । मातुःपितुर्वा बलिनः क्रेतुरग्नेः शुनोपि वा ॥ ११ ॥ एवं साधारणं देहमव्यक्तप्रभवाप्ययम् । को विद्वानात्मसात्कृत्वा हन्ति जन्तून् कृतेसतः॥ १२ ॥ असतः श्रीमदान्धस्य दारिद्यं परमाञ्जनम् । आत्मौपम्येन भूतानि दरिद्रः परमीक्षते ॥ १३ ॥ यथा कण्टकविद्धाङ्गो जन्तोनॆच्छति तां व्यथाम् । जीवसाम्यं गतो लिङ्गैन तथाविद्धकण्टकः ॥१४॥ कृमयो भवन्ति भक्षणेन ततो विड भवति दाहे भस्म, पूर्व देवसंज्ञामपि प्राप्यान्ते कृमिविड्भस्मसंज्ञाः प्राप्नोति, एवं सति यस्तादृशदेह कृते भूतध्रुव स किं स्वार्थ वेद ? अपि तु न वेद, यतो भूतद्रोहान्नरकपातः, विशेषाकारेण हननमुक्तमिति श्रीमदस्य तदव्यभिचारात् प्रकृतेपि तदस्तीति हिंसा निन्दा, अनेन दृष्टान्तेन स्त्रीसेवका अपि स्वार्थ न विदुरित्युक्तं, अतः स्वार्थापरिज्ञानाद् धर्मसत्सङ्गाभावाच् छाप उचित एवेतिभावः, अनेन देहाथ प्रयत्नो न कर्तव्य इत्यर्थादुक्तम् ॥ १० ॥ तच् छास्त्रान्तरे विरुध्यति, "आत्मानं सततं रक्षेद् दारैरपि धनैरपी"ति "तस्मादस्य वधो राजन् सर्वार्थवध उच्यत" इत्यादिवाक्यै रक्षाया अवश्यविधानात्, तत्राह देहः किमन्नदातुः स्वमिति, अविचाराद् देहे रक्षार्थ प्रयत्नवचनानि, विचारे तु न रक्षणीयं स्यादिति सन्देहननकान् पक्षानाह, देहः केन सम्बन्धेन सम्बन्धी भवतीति विचारणीय,तत्रात्मा न भवति, अल्पविवेकेनापि तद्भेददर्शनात् , आत्मीयत्वं तु भवति,सा चात्मीयता किन्निबन्धना ? बहूनामेवैकस्मिञ् छरीर आत्मीयत्वबुद्धिः, शरीरस्योत्पत्तिर्द्विविधा, आद्या प्रत्यहं च जायमाना, प्रत्यहं चेद् देहोन्नदातुर्भवत्यन्नमयत्वाच्च देहस्य, आद्यश्चेनिषेतः पितुः, लोकप्रतीत्या चेदुत्पत्तिर्मातुर्भवति, परलोकसाधकत्वे मातुःपितुर्भवति, पुत्रिकापुत्रपक्षे तथैवशास्त्रार्थत्वात् , एषा स्वरूपस्थितिः, वैषयिकस्थितिमप्याह क्रेतुर्वा बलिन इति, यो वा विक्रीणीते यो वा बद्ध्वा गृह्णाति ? अन्त्यविचारश्चेदनेः शुनोथ वेति ? कृमिपक्षे न स्वत्वं कस्यचित् ॥ ११ ॥ ततः किमत आहैवमिति, एवं सर्वेषां साधारणं देहमात्मसात्कृत्वा को वा जन्तून् हन्तीतिसम्बन्धः, तत्रापि विद्वान् , यतोयं देहः साधारणः, वस्तुतस्त्वयं देहो न पूर्वोक्तानां मध्ये कस्यचिदपि भवितुमर्हति, यतोव्यक्तमेव प्रभव उत्पत्तिस्थानमप्ययस्थानं च, नन्वेतादृशा घातका अपि बहवो दृश्यन्त इति चेत् तत्राहुरसत इति, ये सच्छब्दवाच्या देवाः, सन्तोपि ते नैवंविधा इत्यर्थः ॥ १२ ॥ तर्हि किं कर्तव्यमित्याकाङ्क्षायामाहासत इति, असतो लक्षणं श्रीमदान्धस्येति, श्रीमदेनान्धस्य, यथा भगवान् “यस्यानुग्रहमिच्छामि हरिष्ये तद्धनं शनै रिति तथा नारदोप्याह, यथा काचकामलादिनान्धस्याञ्जने दत्ते दृष्टिर्भवति न तु स्वभावत एवान्धस्य, अयं च श्रीमदेनान्धः, श्रिया अभावो येनैव भवति तदेवाञ्जनं भवति, तद् दारिद्यमेव, दारियं नाम दुरदृष्ट- सहितसम्पत्त्यभावः, सन्त्यञ्जनान्यन्यान्यपि व्याध्यादीनि, परं दारियं परममञ्जनं, न केवलं दारिद्यस्य दोषनिवर्तकत्वं किन्तु गुणजनकत्वमपीत्याहात्मौपम्येनेति, आत्मोपमानं यत्र तन् ज्ञानमात्मौपम्यं, यथात्मनि सुखदुःखानुभवस्तथा सर्वस्येत्यनुसन्धानं यथात्मसुखार्थे यतते दुःखनिवृत्त्यर्थं च न तु दुःखार्थ तथा सर्वेषा- मपि सुखदुःखाभावार्थे यतत इत्यर्थः ॥ १३ ॥ आत्मौपभ्येन भूतानां दर्शनं दरिद्रस्यैव नान्यस्येत्यर्थे दृष्टान्तमाह यथेति, दारिद्यं सर्वदुःखनिदानं, दारियं गतः सर्वाण्येव दुःखान्यनुभवति, न त्वदरिद्रः प्रतीकारबाहुल्यात् , स्वानुभवेनैव कण्टकेन विद्धाङ्गः कण्टकव्यथामन्यस्मै न वाञ्छति जातामपि

श्लो० १५-१९.]
तामसप्रमाणप्रकरणे स्कन्धादितो दशमोध्यायः ।
दरिद्रो निरहंस्तम्भो मुक्तः सर्वमदैरिह ।
कृच्छ्रे यदृच्छयामोति तद्धि तस्य परं तपः ॥ १५॥
नित्यं क्षुत्क्षामदेहस्य दरिद्रस्यान्नकाङ्क्षिणः ।
इन्द्रियाण्याशु शुष्यन्ति हिंसापि विनिवर्तते ॥ १६॥
दरिद्रस्यैव युज्यन्ते साधवः समदर्शिनः ।
सद्भिः क्षिणोति सन्तर्षं तत आराद् विशुध्यति ॥ १७ ॥
साधूनां समचित्तानां मुकुन्दचरणैषिणाम् ।
उपेक्ष्यः किं धनस्तम्भैरसद्भिरसदाश्रयैः ॥ १८ ॥
तदहं मत्तयोर्माव्या वारुण्या श्रीमदान्धयोः ।
तमो मदं हरिष्यामि स्त्रैणयोरजितात्मनोः ॥ १९ ॥
दूरीकरोति, लिङ्गैः स्वानुभवैः परदुःखज्ञापकैः कृत्वा जीवसाम्यं गतः सर्वेषु जीवेषु समत्वं
प्राप्तः, न तथाविद्धकण्टक: समत्वं प्राप्नोति ॥ १४ ॥ ननु तथापि दारिद्यस्य दुःखरूपत्वात् फलो-
त्तमत्वेपि स्वरूपतोनिष्टरूपत्वात् कथं स्तूयत इत्याशङ्याह दरिद्रस्येति, दारियं मोक्षसाधकमतः
स्वरूपतो दुःखरूपमपि तपोवदाशास्यमेव, तस्य मोक्षसाधकत्वमाह दरिद्रः प्रथमतो निरहंस्तम्भः, अहं-
लक्षणः स्तम्भो निर्गतो यस्मात् , मोक्षेहङ्काराभावः करणं, अहमित्यस्यात्मपरत्वव्यावृत्त्यर्थ स्तम्भपदं,
अहङ्कारस्तम्भेनैवाज्ञानगृहं सुस्थिरं भवति, किञ्च सर्वमदैरपि मुक्तो भवति, यहच्छयैव च कृच्छं
क्लेशाधिक्यं प्राप्नोति,ततः किमत आह तद्धि तस्य परं तप इति, यत् कष्टेन तपः कर्तव्यं तत् तस्य स्वभावत
एव सम्पद्यते, विहितत्वं त्वप्रयोजकम् ॥ १५ ॥ किञ्च मोक्ष इन्द्रियजयो योगशास्त्रसिद्धः साधनत्वेन यथा
साङ्ख्येहङ्काराभावो दारिद्य इन्द्रियजयः स्वभावत एव भवति, तदाह नित्यमिति, सर्वदा क्षुत्क्षामदेहस्यान-
काक्षिण इन्द्रियाण्याशु शुष्यन्ति, “विषया विनिवर्तन्ते निराहारस्य देहिन” इतिवाक्याद् , दरिद्रस्येतिहेतुः,
इन्द्रियप्रागल्भ्याभावादेव हिंसा निवर्तते ज्ञानेन्द्रियप्रागल्भ्याभावाच्च तद्धेतुभूता तृष्णापि विषयाभावाच
॥१६॥ मनोरथरूपा तृष्णा त्ववशिष्यते, तस्या अपि निवृत्तिमाह दरिद्रस्यैवेति, साधुसङ्गात् तृष्णापगमः, ते
हि भगवत्प्रेरिता परिभ्रमन्ति लोकानामुद्धारार्थ, तेनावृतत्वाद् दरिद्रस्यैव गृहे गच्छन्ति, तेषां काण्डद्वयनिष्णात-
त्वमाह साधवः समदर्शिन इति, तत्रापि विश्वासार्थ सदाचार एव मुख्यः, तदाह सद्भिः क्षिणोति सन्तर्ष-
मिति, सन्तर्षस्तृष्णा समीचीनापि, धर्मार्थमपि यात्रार्थमपि वा धनाकाङ्क्षा, ततः शीघ्रमेव सिध्यति ॥ १७ ॥
ननु सन्तोपि भक्ष्यादिरहिते दरिद्रगृहे कथं गच्छेयुः ? तत्राह साधूनामिति, सतां धनिनां च परस्परविरुद्धा
धर्माः, ते हि साधवः सदाचाराः, ते ह्यसन्तोसदाचाराः, साधवस्तु समचित्ताः, ते तूपेक्ष्या एव विषमचित्ताः,
समचित्तानां विषमचित्ता उपेक्ष्या एव भवन्ति, साधवस्तु मुकुन्दचरणैषिणो मोक्षदातुश्चरणान्वेषणपराः,
अन्ये त्वसदाश्रयाः, असत्स्वेव हि धनं तिष्ठति, तदर्थ तच्चरणान्वेषिणो यतस्तमेवाश्रित्य तिष्ठन्ति, अतो धन-
स्तम्भैर्धनेन स्तम्भप्राया जाता गृहभारवाहकास्तैर्न किञ्चित् कृत्यमित्यर्थः ॥१८॥ एकोप्यंशो नोभयोस्तुल्यः,
अतः श्रीमदनिवृत्तिः कर्तव्या, दारिद्यं च सम्पादनीयं, निन्दितकर्मणा च स्थावरत्वं, मददूरोकरणं तु सता-
मावश्यकं, सतां दृष्टिर्हि ब्रह्मज्ञानवत् सर्वदोषनिवर्तिका, अन्यथा त्रिदोषयुक्ता नाशमेव यास्यन्तीति तयोर्दोषान्
गणयति माध्व्या मत्तयोः, माध्वीपदेन रस्यत्वादनिवृत्तिः, फलं तु नाशकमेव, वारुणी दैत्यत्वप्सम्पादिका,
श्रीमदेन चान्धौ स्त्रैणौ च, अतो दोषत्रयं दूरीकरिष्यामि तमोज्ञानं मदोजितेन्द्रियत्वं च ॥ १९ ॥

श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [ श्लो० २०-२४ यदिमौ लोकपालस्य पुत्रौ भूत्वा तमाप्लुतौ । न विवाससमात्मानं विजानीतः सुदुर्मदौ ॥ २० ॥ अतोर्हतः स्थावरतां स्यातां नैव यथा पुनः । स्मृतिः स्यान् मत्प्रसादेन तत्रापि मदनुग्रहात् ।। २१ ॥ वासुदेवस्य सान्निध्यं लब्ध्वा दिव्यशरच्छते । वृत्ते स्वलोकतां लब्ध्वा लब्यभक्ती भविष्यथः ॥ २२ ॥ ॥ श्रीशुक उवाच ॥ स एवमुक्तो देवर्षिगतो नारायणाश्रमम् । नलकूबरमणिग्रीवावासतुर्यमलार्जुनौ ॥ २३ ॥ ऋषेभगवतस्तस्य सत्यं कर्तुं वचो हरिः। जगाम शनकैस्तत्र यत्रास्ता यमलार्जुनौ ॥ २४ ॥ एवं हेतुं निरूप्य शापमाह प्रसादान्तं त्रिमियदिति, दोषानुवादः शापश्च प्रसादश्चेत्यनुक्रमात् ।। ॥ अनुवादमाह यद् यस्मात् कारणादिमौ लोकपालस्य कुबेरस्य रक्षायां प्रतिष्ठितस्य पुत्रौ भूत्वा तत्पदाभिषेकयोग्यौ तमसा प्लुतो, किञ्च विवाससं नग्नमात्मानं च न विजानीतः, किञ्च सुदुर्मदौ ॥ २० ॥ अतो दोषत्रयेण स्थावरतां शुद्धतामप्तत्वमर्हतः, कर्मण एव तथाफलं भवतीति, ततः किमत आह यथा पुनरेव नैवं स्याताम् । ज्ञाननाशः क्रियानाशो भोगनाशस्तथैव च । दुःखं शीघ्रं चानिवृत्तिवृक्षत्वे हि भवन्ति वै ॥ १ ॥ ननु कर्मणैवैतद् भविष्यति तत्र कः प्रसाद इति चेत् तत्राह स्मृतिः स्यान् मत्प्रसादेनेति, पूर्वजन्म- वृत्तान्तस्मरणं शापेन वृक्षभावस्मरणं च यद्यपि वृक्षयोनौ न भवति सत्त्वांशाभावात् तथाप्यहं भगवत्कृपया सर्वभावं प्राप्त इति मदंशो गुप्त एव तत्रापि वर्ततेग्निवदत्राहं चेत् प्रसन्न उद्रिक्तसत्त्वगुणस्तदा मदंश- स्तत्रापि प्रकटो भविष्यतीति स्मृतिः स्यात् , तत्रापि तस्मिन्नपि जन्मनीदानीमपि, किञ्चाधिकोनुग्रहोपि क्रियते, प्रसादस्तु स्वधर्माविर्भावः, अनुग्रहस्तु परदोषाणां स्वीकारः, अतस्तदीयदोषोस्माभिर्गृहीत इति कर्मफलस्यापि भोगात् ॥ २१ ॥ वासुदेवस्य सानिध्यं प्राप्स्यथः, पुरुषापराध इति पुरुषायुःपर्यन्तं भोगः, देवत्वाद् दिव्यं दिव्यशरच्छते वृत्तेतीते वासुदेवस्य सान्निध्यं लब्ध्वा ततः स्वलोकतां च लब्ध्वा नलकूबरत्वं च प्राप्य पूर्वावस्थातो विशिष्टौ लब्धभक्ती भविष्यथो भक्तिस्तत्र प्राप्तव्या, अनेनाप्राप्तभक्तरेव स्वसाधनरूपा भक्तिर्भवति गच्छति चानयोस्तु नैसर्गिकी रतिर्भविष्यतीतिभावः ॥ २२ ॥ एवमुक्त्वा ब्रह्मवाक्यमन्यथा न भविष्यतीति तादृशवाक्यमुच्चार्य ततो गत इत्याह स एवमिति, स नारदो देवगुह्यकर्ता, एवमुक्तः कर्तरि क्तः, पश्चान्नारायणाश्रमं गतस्तदोषपरिहारार्थ, तन्ज्ञानार्थ देवर्षिरिति, मिलितानां मध्ये नारदस्य गमनमुक्त्वा नलकूबरयोराह नलकूबरमणिग्रीवाविति, यमलावेकत्रोत्पन्नौ मूले मिलितो, अर्जुनो जातिविशेषः ॥ २३ ॥ एवं शापदातुः प्रायश्चित्तं शापग्रहीतुः शापफलप्राप्तिश्चेति निरूप्य स्मृतिरपि तत एव भविष्यतीति तामनुक्त्वानुग्रहफलं भगवत्सान्निध्यं तयोर्जातमित्याहर्षेरिति, स ७७ श्लो० २५-२७.] तामसप्रमाणप्रकरणे स्कन्धादितो दशमोध्यायः। देवर्षि प्रियतमो यदिमौ धनदात्मजौ । तत् तथा साधयिष्यामि यद् गीतं तन् महात्मना ॥ २५ ॥ इत्यन्तरेणार्जुनयोः कृष्णस्तु यमयोर्ययो । आत्मनिर्वेशमात्रेण तिर्यग् गतमुलूखलम् ॥ २६ ॥ बालेन निष्कर्षयतान्वगुलखलं तद् दामोदरेण तरसोत्कलिताघ्रिबन्धौ । निष्पेततुः परमविक्रमितातिवेपस्कन्धप्रवालविटपौ कृतचण्डशब्दौ ॥ २७ ॥ हि भाव्यर्थ जानात्येव तज् ज्ञात्वैव तथोक्तवानिति, किञ्च भगवतापि स्वकृपया तस्मिन् भगवत्त्वं सम्पादितं, तदाह भगवत इति, तस्यर्षित्वं भगवत्त्वं वाक्यसत्यत्वं च कर्तुं, स्वयं च सर्वदुःखहर्ता, यत्र यमलार्जुनावास्तां तत्र शनकैगामादावेव, आरावे पुनः स्त्रीणामनुसरणं भविष्यतीति भगवानेवम्प्रकारेण तत्र गतस्तौ ज्ञापयितुं यत्र स्त्रियो मामेवं कुर्वन्ति तत्र युवां कथं न करिष्यन्त्यतः स्त्रीसङ्गो न कर्तव्य इति तदानीमपि स्त्रीदर्शनाभावाय शनैर्गतः, तयोरागमनं न सम्भावितमिति यत्र तावेवास्तां तत्र स्वयंगतः ॥ २४ ॥ एवं भगवत्सेवकेषु भग- वत्कृपा, अतो भगवत्सेवकानुवृत्तिः कर्तव्येति गत्वा भगवान् यमलार्जुनयोर्भङ्गं करिष्यतीति तत् कुतः सान्निध्यं तु वरप्राप्तं तथैव च भक्तिरपि भविष्यति सानिध्यादेवेदं शरीरं परित्यज्य नलकूबरत्वमेव प्राप्स्यतोतो भङ्गोनुचित इत्याशक्य भगवतोभिप्रायमाह देवर्षिरिति, एकमत्र सन्दिग्धं, स्मृतिर्जाता न वेति, तदपि प्रकटीकर्तव्यममर्यादरूपं च, देवर्षिराह यत् सत्त्वगुणोद्रेकेपि दुर्लभं तदतितामसे भवत्विति, ननु तन् मिथ्यैव भवत्वविचारितवचनादित्याशझ्याह मे देवर्षिः प्रियतम इति, आर्पज्ञानमर्यादा भज्येत, नारदश्च मदीयः, यन् मत्सेवकैः कृतं तन् मयैव कृतमिति, तत्राप्यत्यन्तं प्रियः प्रीतिविषयः, अतः स्नेहात् सर्वमेव कर्तव्यं, अन्यथा स्नेहमर्यादापि न स्यात् , यद् यस्मादिमौ च धनदात्मजौ, कुबेरोतिभक्तः, अतो मूलभावश्च शुद्धः, अतस्तावन्त- मर्थं त्याजयित्वा धनदांशे भक्त्युपयोग्यंशं योजयित्वा तत्रैव स्वयं प्रविश्य शुष्कौ कृत्वा स्वाधिदैविकभावेन तद् विदीर्ण विधाय तत उद्धृत्य दृढभक्ती कर्तव्यौ तदा नारदवाक्यं सत्यं भवति, तथैवाहं साधयिष्यामि यत् तेन गीतं तत् तथा, ननु किं परार्थ एतावानुद्यमः ? तत्राह महात्मनेति, महानव तस्यात्मा, महत्त्वं भग- वत्प्रवेशात् ॥ २५ ॥ इति विचार्य भगवानुभयोरन्तः प्रविष्ट इत्याहेत्यन्तरेणेति, यमयोरर्जुनयोरन्तरा कृष्णो ययौ, केवलं बहिरेव ययावितिपक्षं दूषयितुं तुशब्दः, सदानन्दरूपत्वाद् दोषो दुःखं च तयोस्तदानीमेव निवृत्तं, भगवत्सम्पृक्तं तूलूखलं दारुमयं भवतीति स्वसजातीयोद्धारार्थमात्मनो भगवतो वृक्षयोनिर्वेशमात्रेणोलू- खलं तिर्यग्भूतं जातं, ऋजुत्वे तु तदपि मध्ये निर्गच्छेत् तदा तु पुनर्भगवत्सम्बद्धं यदि सजातीयं न मोचयेत् तदा स्वस्याधिदैविकत्वं जातं व्यर्थं स्यात् ॥ २६ ॥ एवमुलूखले तिर्यक्प्रकारेण पतिते भगवान् यत् कृतवांस्तदाह बालेनेति, उलूखलं निष्कर्षता वालेन तरसोत्कलिताघ्रिबन्धौ निष्पेततुः, भूमे- भगवत्सम्बन्धादाता सात्त्विकभावात् , अतः शिथिलसर्वभागावाकर्षणोत्कलिताघ्रिबन्धौ जातो, अन्वगनु- कूलतयाकृष्टं यथा भवति तथोलूखलं नितरां कर्षतेति, उलूखलाकर्षणेन तावप्याकृष्टौ, अन्वगीषदिति वा, दामोदरेत्यन्वर्थनाम, बालस्योदरेणाकर्षणमल्पमेव भवति तत्राप्यूलूखलस्य स्थूलस्य, रज्जुरपि सूक्ष्मात्या- कर्षेण नश्येत् , अनेनापि साक्षाद्भगवानित्युक्तं, रज्जूलुखलयोरभङ्गेप्यर्जुनयोर्भङ्गात् , उपपत्तिस्तु रज्जुर्भगवद्रूपेति पूर्वमुक्तं, उलूखलं त्वाधिदैविक रूपं प्राप्तवत् , अतो युक्तमेव मूलतः पतनं, क्रियाशक्तेरल्पीयस्या अप्युद्गताया महत् कार्य जातमित्याह परमविक्रमितातिवेपस्कन्धप्रवालविटपाविति, परमं विक्रम प्रापितौ परमविक्रमितौ

श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां
[श्लो० २८-२९.
तत्र श्रिया परमया ककुभः स्फुरन्तौ सिद्धावुपेत्य कुजयोरिव जातवेदाः।
कृष्णं प्रणम्य शिरसाखिललोकनाथं बद्धाञ्जली विरजसाविदमूचतुः स्म ।। २८ ॥
॥ नलकूबरमणिग्रीवावुचतुः॥
कृष्ण कृष्ण महायोगिस्त्वमाद्यः पुरुषः परः ।
व्यक्ताव्यक्तमिदं विश्वं रूपं ते ब्रह्मणो विदुः ॥ २९ ॥
यथा भीमेन हनुमता वा बलाच्चाल्येत परमविक्रमितयोरिव योयमतिवेपः स्कन्धप्रवालविटपानां ययोः,
स्कन्धस्य चलनमतिकठिनं ततोप्यल्पप्रवालानां पृथक्तया चलनमत्याश्चर्य ताभ्यां युक्तानां विटपानां चलनमिति,
किञ्च कृतश्चण्डः शब्दो याभ्यां, पाते महाबू छब्दः, आसुरभावस्य वा नाशदशायां तदभिमानिनः शब्दः,
एवमसुरनाशिकाया भगवक्रियाशक्तेर्माहात्म्यमुक्तम् ॥ २७ ॥ एवं तयोर्दोषपरिहारमुक्त्वा गुणमाह तत्रेति,
परमया श्रिया दश दिशः स्फुरन्त्यो जातास्तावपि स्फुरन्तौ सन्तावुपेत्येतिसम्बन्धः, अस्यैव स्फुरच्छब्दस्य
विभक्तिलिङ्गविपरिणामेन दिक्शब्देनापि सम्बन्ध, प्रकाशमानया तत्सम्बन्धिन्या वा कृत्वा तत्र देशे तयोवृक्ष-
योर्वा स्फुरन्तौ निर्गच्छन्तौ श्रिया विराजमानौ ततो निर्गतौ, ककुभः सम्बन्धि तेजो विद्युति दृष्टं, अत एव
परमशोभात्वेन निर्दिष्टं, यथा दामोदरेण मोचनमेवं नग्नेनापि पीताम्बरतुल्यतेजःसम्पादनमित्यद्भुतचरित्रमुक्तं,
निर्गमनात् पूर्वमेव यावदभीष्टं तावद् रूपं सम्पन्नमिति सिद्धौ, कुजयोवृक्षयोः सकाशादागत्य भगवन्निकटे, पूर्व-
वृत्तान्तज्ञानवतामपि भ्रममिवोत्पादयन्तौ ताविति दृष्टान्तेनाह जातवेदा इवेति, दृष्टान्तेपि द्वित्वमत्यन्तदुर्लभं,
कुजयोररणिद्वयरूपयोः सकाशाद् यथा श्रौतोग्निमवति, जातो वेदो यस्मात् , क्रियाकाण्डनिमित्तजन्मा वह्नि-
रिवेत्यर्थः, ततो भगवन्तं प्रणम्य पूर्वज्ञानस्य दायाच् छिरसेति, साष्टाङ्गनमस्कारं भूमौ कृत्वा देवानामितर-
नमस्कारशङ्कां भूमिसम्बन्धशङ्कां च व्युदस्य बद्धाञ्जली भूत्वा भगवन्तं वक्ष्यमाणप्रकारेणोचतुः स्मेति-
सम्बन्धः, शापविमोक्षे जातेपि भगवन्तमपृष्ट्वास्तुत्वा च न गन्तव्यं यतो भगवानखिललोकनाथः सर्वलोकाधि-
पतिः स्वयमेकलोकाधिपतेः पुत्रौ तदाज्ञाव्यतिरेकेण गते तस्मिल्लोके स्थितिरपि न स्याद् भक्तिस्तु दूरे,
अञ्जलिबन्धो विज्ञापनार्थः, तादृशयोः कथं भगवत्स्तोत्रेधिकार इत्याशझ्याह विरजसाविति, अत्रासम्भा-
वनाव्युदासाय स्मेतिप्रसिद्धिरुक्ता ॥ २८ ॥
दशभिः प्राणभृच्छलोकैश्चक्रतुः स्तोत्रमुत्तमम् । ज्ञानवैराग्ययोरत्र निर्णयः समुदीरितः ॥ १ ॥
मूलरूपो भवान् पूर्व जगद्रूपस्तथैव च । मध्यरूप इति त्रेधा ज्ञानरूपो निरूपितः ॥ २ ॥
माहात्म्यज्ञापनार्थाय दुर्जेयत्वं च वर्णितम् । सर्वरूपोपि सर्वस्मिन् गृह्यमाणैर्न गृह्यते ॥ ३ ॥
आध्यात्मिकस्ततो नायं भौतिकोपि ततो न हि । दैविकत्वेन सर्वः स्यात् द्वयं तस्माच्च जायते ॥ ४ ॥
अतः सर्वत्वकर्तृत्वे ज्ञानभक्ती फलिष्यतः । अतो ज्ञानं निरूप्यादौ भक्तिमाहतुरुत्तमाम् ॥ ५ ॥
अनेनैव च वैराग्यं ज्ञानाजनकता यदि । तदा सर्व परित्याज्यमन्यथा स्याद् विनाशनम् ॥ ६ ॥
भक्तिसिद्ध्यैतु यज् ज्ञानं श्लोके षष्ठे निरूप्यते । अन्यथाभावशङ्काया व्यावृत्त्यर्थं भवान् परः ॥ ७ ॥
भगवन्तं नमस्कृत्य गमनप्रार्थना कृता । तदयुक्तं भक्तिमतामिति भक्तिस्तु षड्गुणा ॥ ८ ॥
भक्तैः सहैव सा कार्या परोक्षेणैव सिध्यति । गुप्तो रसस्तदोबुद्धो रसतां याति नान्यथा ॥ ९ ॥
गुणप्रधानभावत्वमेकत्र
हि विरुध्यते । अतोत्र भगवॉल्लोलां स्वयं कर्तुं समुद्यतः ॥१०॥
स्वस्यैव रसभोगार्थ परार्थं वेत्यनिर्णयः । ताभ्यां विमोचनं नैव शक्यं पक्षद्वयेपि हि ॥११॥

लो० ३०-३१.] तामसप्रमाणप्रकरणे स्कन्धादितो दशमोध्यायः । त्वमेकः सर्वभूतानां देहास्वात्मेन्द्रियेश्वरः । त्वमेव कालो भगवान् विष्णुरव्यय ईश्वरः ॥ ३० ॥ त्वं महान् प्रकृतिः सूक्ष्मा रजःसत्त्वतमोमयी । त्वमेव पुरुषोध्यक्षः सर्वक्षेत्रविकारवित् ॥ ३१ ॥ पूर्वस्मृतिः सन्दिग्वेति तन्निर्णयार्थ भगवानागत इत्युक्तं, सा स्मृतिः सर्वलोकप्रसिद्धा भवत्विति कृष्ण- स्वरूपं ज्ञातं निरूपयतः, "ज्ञानी प्रियतमोतो म" इतिवाक्यात् , अन्यथा सर्वैव स्तुतिविरुध्यते, तत्र प्रथम पुरुषोत्तमो भवानित्याहतुः कृष्णकृष्णेति, आदरे वीप्सा, कृष्णः सदानन्दः, स एव कृष्णनामा च, उभय- विधाज्ञाननिवृत्त्यर्थं वा तथोक्तं, आकृत्या चेष्टया च नावयोभ्रंम् इत्याहतुर्महायोगिन्निति, लौकिका अपि नानायोगचर्यायां प्रवृत्ता हीनभावं न प्राप्नुवन्ति कुतः पुनर्निर्दोषपूर्णगुणविग्रहः ? अतो नामरूपे वर्णनीयेथे न बाधके, आद्य इति, मूलभूतत्वमेव महत्त्वं, सर्वैर्हि स्वापेक्षया महत्त्वं ज्ञातव्यं, आधस्तु तथा, आद्यत्वं मतान्तरे- चेतनस्यापि सम्भवतीति तद्व्यावृत्त्यर्थमाह पुरुष इति, साङ्ख्यतुल्यतामाशङ्कयाहतुः पर इति, पुरुषोत्तम इत्ययः, निराकार पक्षनिवृत्त्यर्थ पुरुषपदं, तस्मिन् पक्षेयं विकृतो भवेदेव, परःकालादीनामपि नियन्ता, एवं भगवतो मूलरूपत्वं निरूप्य कार्यरूपाभावे मूलरूपत्वं नोपपद्यत इति कार्यस्य चान्यथात्वे तस्य गौणत्वमविकृतत्वमसङ्गित्वं च विरुध्यत इति कार्यरूपमपि त्वमेवेत्याहतुळक्ताव्यक्तमिदमिति, इदं सर्वमेव जगद् द्विरूपमेव भवति कालेना- परिगृहीतमव्यक्तं भवति परिगृहीतं व्यक्तं भवति, आकाशपरमाण्वादीनामपि व्यक्ततेति केचित् , तदा सर्वमेव जगत् कालादितृगस्तम्बान्तं व्यक्तमव्यक्तं च भवति, अवयुत्यानुवादो वा, उभयथापीदं जगत् तवैव रूपं,अत्र प्रमाणमाहतुर्ब्रह्मगो विदुरिति, ब्रह्मणो वेदात् , ब्राह्मणा इति वा, ते ब्रह्मण इति वा, तदा सर्वा एवश्रुतयःप्रमा- णमित्युक्तं भवति, रूपमिति स्वरूपं निरूपकं वा ॥२९॥ एवं सर्वरूपत्वं भगवतो निरूप्याधिदैविकप्रकारेणापि सर्वरूपत्वमाहतुस्त्वमेक इति, तत्तदाधिदैविकानां भेदो भविष्यतीत्याशक्याहतुरेक इति, देवादीनामुत्तमत्वात् तदाधिदैविकत्वमस्तु कृमिकीटाधिदैविकत्वं तु न भविष्यतीत्याशझ्याहतुः सर्वभूतानामिति,आब्रह्मतृणस्तम्बान्त- जातिभेदानां देहा असवः प्राणा आत्मान्तःकरणमिन्द्रियाणीश्वरो जीवः, स्वात्मा जीवो वा, इन्द्रियपदेन प्राणाः, इन्द्रियाण्यन्तःकरणं च, ईश्वरोन्तर्यामी, आधिभौतिकादीनामीश्वरो वा, देहद्वयसहितजीवस्य वा, नियामकत्वपक्षे भिन्नतया कालादीनामपि तयात्वमिति कालादिरूपतामाहतुस्त्वमेव काल इति, कालो भगव- च्चेष्टेति केचिद् , वस्तुतस्तु त्वमेव कालः, तत्र हेतुमाहतुर्भगवानिति, ऐश्वर्यं सर्वस्यापि कालकृतमेवेति काल एवे- श्वरः, तथा बलमपि, तारुण्य एव बलं, तपोयोगादिभिरपि कालपुष्टैरेव बलं सिध्यति, यशोपि काल एव,न हि सर्वदा कस्यचिद् यशो भवति, एवमन्येपि गुणाः, कालान्वयव्यतिरेकात् काल एव षड्गुणहेतुरिति गम्यते, ननु कालस्तु विष्ण्वात्मकः, यो हि व्यापको भवति स कलयति न हि योयं व्याप्तुं न शक्नोति स कलयति, अतो विष्णुरेव कालो नान्य इत्याशङ्क्याहतुर्विष्णुरिति, त्वमेव विष्णुराधिदैविकः कालो यज्ञरूपो वा पालको वा सत्त्वा- त्मकः, तस्य भिन्नत्वे भगवतस्तदधीनत्वं स्यात् , अव्ययोक्षरमपि त्वमेव, अन्यथा भगवतः समवायित्वं न स्यात् , अक्षरमेव हि समवायिकारणं प्रकृतिपुरुषोपादानत्वात् , “ सर्व समाप्नोषि ततोसि सर्व" इति सर्वत्वमन्यथाप्युप- पद्यते, वस्तुनः परिच्छेदकत्वं न सर्ववादिसम्प्रतिपन्नं, अतोक्षरो भगवानेवेश्वररूपमप्यन्तर्यामिरूपं भिन्नरूपं वाधिकारित्वेन निर्दिष्टं यस्यासाधारणो धर्म ऐश्वर्यं भवति ॥ ३० ॥ एवमाधिदैविककालादिरूपत्वं निरूप्या- ध्यात्मिकत्वमाधिभौतिकत्वं च निरूपयितुं मध्यमभावं निरूपयति त्वं महानिति, सर्वस्यापि जगतो- . श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [श्लो० ३२-३३. गृह्यमाणैस्त्वमग्राह्यो विकारैः प्राकृतैर्गुणैः । कोन्विहार्हति विज्ञातुं प्राक् सिद्धं गुणसंवृतः ॥ ३२ ॥ तस्मै तुभ्यं भगवते वासुदेवाय वेधसे । आत्मयोतैर्गुणैश्छन्नमहिम्ने ब्रह्मणे नमः ।। ३३ ।। कुरभूतो महान् , तस्यापि क्षेत्ररूपं प्रकृतिः, तस्या अपि कार्योत्पत्तिसाधारणरूपं योनिवद् या प्रकृतिः सा मुक्ष्मा, तस्या अपि मूलभूता गुणाः, तन्मय्याधिदैविकी प्रकृतिर्गुणाश्च त्वमेव, एवं पञ्चरूपत्वमुक्तं, एवं योनि- रूपत्वमुक्त्वा बीजरूपत्वमाहतुस्त्वमेव पुरुष इति, तस्याः प्रकृतेः पुरुषस्तस्यास्तावत्त्वसम्पादकः,अध्यक्षःसाक्षी, साक्षिरूपं भिन्नमितिसिद्धान्तः, क्षेत्रज्ञश्च तथा क्षेत्राभिमानी जीवः सोपि क्षेत्रज्ञो भवति, क्षेत्रं जानातीतिव्युत्पत्त्या यः क्षेत्रज्ञः स मुख्यो भवान् ,एतावता यत्रैव प्रमाणप्रवृत्तिः केनापि प्रकारेण तदेव भवानित्युक्तं भवति ॥ ३१ ॥ तत् प्रमाणं श्रुतिरेव न तु प्रत्यक्षमित्यलौकिकत्वसम्पादनार्थ भगवतः प्रत्यक्षग्राह्यत्वं निराकरोति गृह्यमाणैरिति, गृह्य- माणैर्घटपटादिभिः कृत्वा त्वमग्राह्यः, तद्रूपोपि तैगृहीतैर्न गृहीतो भवसि, न वातैः सह, तेषां धर्माणां त्वदाश्रयाणां धाश्रयसहभाननियमात् , तत्रहेतुर्विकारेरिति, विकारे हि प्रकृतिर्न प्रतीयते यथा सन्निपाते, तत्र प्राकृत- स्तिरोभवति, स्वप्रकाशमेव हि जडैः सह भासते यथा ज्ञान विषयः, तथा भगवानपि विषयान् प्रकाशयन् विषयैः सह कुतो न भासत इति चेत् तत्राहतुः प्राकृतैरिति, प्रकृतिर्हि नडा पुरुषाच्छादिका, प्रकृतौ प्रविष्टं पुरुषं न प्रकाशयति तथा प्राकृतैरपि तत्र स्थितो भगवानाच्छाद्यत इति न भगवान् गृह्यते, ज्ञानं त्वन्यनिष्ठं, ननु पुरुषो भगवान् प्रकृति त्रियमुपमर्य कथं न प्रकाशत इत्याशझ्याहतुर्रागैरिति, गुणा हि बन्धका रञ्जकाश्च, अतः प्रकृतौ प्रविष्टस्तद्गुणानुरक्तम्तगुणैर्वशीक्रियत इति तैः सह न प्रकाशते, ननु गुणाः साम्प्रतमेव जाता भगवांस्तु मूलभूत इति गुणक्षोभात् पूर्वमेव ज्ञात्वोत्तरत्रापि तदनुवृत्तिः कथं न क्रियत इत्याशक्य तत् परिहरन्तौ भगवां- स्तथैव करोतीत्यत्र हेतुं वदन्तौ तादृशस्य भक्तिमार्गप्रवर्तकत्वमाहतुः कोन्विहाहतीति, इहास्मिन् संसारे, न्विति वितर्के,पश्चादुद्भूतः को वा प्राक् सिद्धं गुणक्षोभात् पूर्वस्थितं विज्ञातुमिदमित्थतया द्रष्टुपर्हति ? अपितु न कोपि नन्वयमप्यात्मत्वान्नेदानीं सिद्धः कुतो नाहतीति चेत् तत्राहतुर्गुणसंवृत इति, गुणैर्वेष्टितः,गुणा हि पूर्वबुद्धिं दूरी कृत्य स्वरूपमप्यावृतवन्तः, अतो ज्ञातृज्ञेययोरावरणान्न ज्ञानं सम्भवति ॥३२॥ तर्हि कयं निस्तार इति चेत तत्राहतुस्तस्मै तुभ्यमिति,केवलं तस्मै सर्वदुर्जेयाय तुभ्यं नानाविनोदयुक्ताय नमः, "ननु तमेव विदित्वातिमृत्यु मेती"तिश्रुतेः कथं भगवदज्ञाने निस्तार इति चेत् तत्राहतुर्भगवत इति, भगवन्ज्ञानगुणेन भगवज्ञानं, अज्ञातो प्रमेयत्रलेन निस्तारयतीति “ भक्तिस्तत्र प्रयोजिका" “ यस्यामतं तस्य मतं मतं यस्य न वेद सः अवि ज्ञातं विजानतां विज्ञातमविनानता"मितिश्रुत्याज्ञात एव ज्ञातो भवति, अतो भगवानीश्वरः केन ज्ञातुं शक्यः किञ्च प्रमाणबलेनाज्ञातोपि स्वतो ज्ञातुं शक्यः, यतोयं वासुदेवः, वसुदेवे शुद्धे सत्त्व आविर्भवतीति, आविर्भूत सैंवेरेव ज्ञातुं शक्यः, नन्वेतदेव सर्वं कुतो भवेत् साधनपरता साधनोत्पत्तिः सत्वशुद्धेराविर्भाव इति ? तत्राह वैधत इति, स हि सर्व विदधाति, अन्यथा तेन कृतस्तन्मार्गो व्यर्थः स्यात्, नमो धीमहीति वा, हृद प्रत्यक्षे भगवति तत्पादयोः शिरः स्थापयित्वा मनप्ता यन्नमनं तत् सोपस्करं धीमहीत्यर्थः, अतोन्तःकरण प्रत्यक्ष एव भगवान् न बहिःप्रत्यक्षविषयः, तर्हि बहिर्नास्तीत्येव मन्तव्यं, तत्राहतुरात्मयातेगुगैच्छन्नमहिर इति, आत्मना स्वेनैव द्योतो येषां, गुणा अपि भगवतैव प्रकाश्यन्ते यथा सूर्येण मेघाः, त एव तस्यावर भवन्ति, न हि गाढान्धकारे निशायां मेघा दृश्यन्ते, एवं सैवरेव विषयैरात्मनैव प्रकाशितैश्छन्नो महि ?

श्लो० ३४-३६. तामसप्रमाणप्रकरणे स्कन्धादितो दशमोध्यायः। . , यस्यावतारा ज्ञायन्ते शरीरेष्वशरीरिणः । तैस्तैस्तुल्यातिशयैर्वीयर्देहिष्वसङ्गतैः ॥ ३४ ॥ स भवान् सर्वलोकस्य भवाय विभवाय च । अवतीर्णीशभागेन साम्प्रतं पतिराशिषाम् ॥ ३५ ॥ नमः परमकल्याण नमस्ते विश्वमङ्गल । वासुदेवाय शान्ताय यदूनां पतये नमः ॥ ३६ ॥ यस्य, अतो न प्रकाशते, वस्तुतस्तु वर्तत एव सर्वत्र, अन्तर्बहिःस्थितौ हेतुमाहतुब्रह्मण इति, “ बृहत्त्वाद् बृहणत्वाद् ब्रह्म,” अतः सर्वत्रैव वर्तसे परमन्तरेव प्रकाशसे न बहिरिति ॥ ३३ ॥ तर्हि कथमवताराद् बहिः प्रकाशरूपो भगवान् भवतीति? तत्राहतुर्यस्यावतारा इति, मत्स्यादिषु शरीरेषु क्वचिदेव मत्स्यविशेषेलौकिकभावो दृश्यते स च न जीवधर्मो भवतीत्यशरीरिणस्तव तेष्ववतारा इति ज्ञायन्ते, अशरीरिण इतिवचनाच्छरीरा- कृतिरेव तत्र प्रकाशते न तु तच्छरीरं, अन्यथा वृद्धिर्नोपपद्यते, सामर्थ्य परमधिकं भवेत् , तस्माच्छरीराकारेण भासमानं भगवद्रूपमेवेति न तुल्यमतिशयो वा यस्य यस्मादन्यत्र तदतुल्यातिशयं, कालापेक्षया नान्यस्य वीर्यमस्ति कालमर्यादां चेदुल्लङ्घति तदा भगवदीर्यमतुल्यातिशयमिति ज्ञायते, सोपि नैकविधः पराक्रमः, क्षणेन विश्वरूपो भवति, क्षणेन वामनो दृश्यश्चादृश्यश्च बहिरन्तः परिच्छेदो व्यापकश्च, अतो ज्ञायते सर्वेष्वेव देहिष्वसङ्गतैः कदाप्यसम्बद्धभगवानेवायमिति न तु प्रत्यक्षतया भगवानिति निश्चेतुं शक्यत इत्यर्थः, तत्रापि कदाचिच्चेदलौकिकं भवति कल्प्येतापि कयश्चिजातमिति, सर्वदा चेदवाङ्मनोगोचरा अनुभावास्तदा कथं न ज्ञायेत ? तदाहतुस्तैस्तैरिति, एवमवतारेषु भगवज्ञानमानुमानिकं न प्रत्यक्षमित्युक्तम् ॥ ३४ ॥ प्रकृते तु शब्दादेव नारदकृपया वा भगवानेतदर्थमागत इति ज्ञायत इत्याहतुः स भवानिति, यः पूर्वोक्तः सर्वप्रमाणवेद्यो लौकिकैरवेद्योन्तःकरणप्रत्यक्षोवतारी चतूरूपो भवान् , अत एव सर्वस्यैव लोकस्य भवायोद्भवायैश्वर्याय च, अंशेन भागेन च साम्प्रतमवतीर्णः, यतो भवानाशिषां पतिः, स्वरूपतो भवाँश्चतूरूपो विवृतः प्रकारेण, ततोप्यधिकास्त्वत्र गुणाः, सर्व एव लोका उत्पादनीयाः, ततस्तेभ्यः स्वसमानैश्वर्यादिकं च देयं भगवत्यंशतः समागते सर्वे भगवदीयाः शुद्धसत्त्वांशेनैवाविर्भवन्ति भग- वत्सेवौपयिकदासरूपांशेन वा सर्वे लोकाः स्वदासभावेनाविर्भवन्त्वितीच्छया भगवानेकदेशभावं प्रकाशित- वान् , समुदाये ग्रहणभजनाद्यनुपपत्तेः, न हि प्रलयाग्निः सेवितुं शक्यते, किञ्च भागाः कलाः, कलयाव- तीर्णः, सर्वेषां सर्वकलाकौशलाय सर्वाः कलास्तदैव प्रादुर्भवन्ति यदि मूलभूतः कलारूपेणाविर्भवति तदैव च सर्वाः कलाः पूर्णा भवन्ति, इदं स्वोपयोगायोक्तं, स्वस्यापि वैष्णवरूपेणोद्भवो भक्तिकलाश्च पूर्णा भविष्यन्तीति, एता एवाशिषः, अग्रे प्रार्थ्यमानत्वात् , मानुषभावेन नानाविधाः क्रीडा भक्तानुत्पाद्य तेषु भक्तिस्थापनार्था इत्यर्थः ॥ ३५ ॥ किञ्चित् प्रार्थयितुं नमस्कारं कुरुतो नम इति, आदिमध्यावसानेषु नमनं मनआदिभिः ॥३॥ आदौ कायिकं नमनं, तत्र फलं परमकल्याणेति, कल्याणानां निधानरूपो भगवान् , कल्याणानि शुभफलानि पुत्रजन्मादीनि लोके प्रसिद्धानि, परमानन्दः परमकल्याणः, कायेन नमस्कृतः शरीरोप- भोगाय परमकल्याणः प्रादुर्भवति, नमस्त इति वाचनिकं, ते तुभ्यमितिकीर्तनात् , तस्य फलं विश्वमङ्गल इति, वेदादिनिर्माणाद् विश्वस्मै तत्साध्यफलरूपो मङ्गलं भवति, अन्ते नमनं मानसं, तदर्थ मनस्याविर्भावाय ८२ - श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [श्लो० ३७-३९. अनुजानीहि नौ भूमंस्तवानुचरकिङ्करौ । दर्शनं नौ भगवत ऋषेरासीदनुग्रहात् ॥ ३७॥ वाणी गुणानुकथने श्रवणौ कथायां हस्तौ च कर्मसु मनस्तव पादयोनः । स्मृत्यां शिरस्तव निवासजगत् प्रणामे दृष्टिः सतां दर्शनेस्तु भवत्तनूनाम् ॥ ३८ ॥ ॥ श्रीशुक उवाच ॥ इत्थं सङ्कीर्तितस्ताभ्यां भगवान् गोकुलेश्वरः । दाम्ना चोलूखले बद्धः प्रहसन्नाह गुह्यकौ ॥ ३९ ॥ वासुदेवायेति, शान्तायेति ज्ञानरूपाय, केवलमाविभूते नारदवदज्ञाते तथापुरुषार्थो न भवतीति शान्तं लयविक्षेपशून्य रूपमाविर्भावो ज्ञानं चोक्तं, फलमाह यदूनां पतय इति, भगवान् स्वामी फलं यथा यदूनाम् ॥ ३६ ॥ एवं नमस्कृत्य गमनार्थ प्रार्थयेते अनुजानीहीति, नावावामनुजानीहि, अनुज्ञा प्रयच्छ, भूमन्नितिसम्बोधनं स्वस्य तत्र स्थातुमयोग्यतार्थ, तदेवाहतुः स्वानुचरकिङ्कराविति, तवानुचरस्य नारदस्य किङ्करी दासौ, सेवकसेवकत्वमेवोचितं न तु त्वत्सेवकत्वमावयोः, यतस्त्वं भूमा महान् , न ह्यल्पेन महतः सेवा कर्तुं शक्यते, ननु दर्शनयोग्यता यदा तदा सेवायोग्यता सिद्धैव ततः कथमयोग्यावितिचेत् तत्राहतु- दर्शनं नौ भगवत ऋषेरासीदनुग्रहादिति, महाराजसेवकः स्वभृत्यं कदाचिन् महाराजस्थानं नयति नैतावता तस्य महाराजसेवायोग्यता भवति, अतो दर्शनान्यथानुपपत्त्या न सेवायोग्यता, भगवतो दर्शन- मृघेरनुग्रहादिति, ऋषेभगवत इति गुरुदेवतयोरक्याथ सहनिर्देशः ॥ ३७ ॥ एवं गमनं प्रार्थयित्वा तत्र गतयोक्ति प्रार्थयेते वाणीति, षडङ्गानि पुरुषे प्रधानानि, वाकू श्रोत्रे च करौ चित्तं शिरश्चक्षुस्तथैव च । षडेते भगवत्कार्ये यदि सक्ताः कृतार्थता ॥ १ ॥ कीर्तने श्रवणे चैव गुणानां रूपदास्यके । स्वरूपस्मरणे नत्यामवतीर्णस्य दर्शने ॥ २ ॥ गुणानामुत्कर्षाधायकधर्माणां कीर्तने वाण्यस्तु, तत्रैव सा विनियुक्ता भवतु, यथा वराय दत्ता कन्या नान्यगा- मिनी भवति नाप्यन्यः प्रार्थयते नापि पतिभयात् सान्यसम्बन्धिनी कथञ्चिदपि भवति तथा वाणी भवतु, एवमेव श्रवणौ कथायां, हस्तावुभावपि भगवतः सर्वकर्मस्वाष्टयामिकेषु, चकारात् पादावपि मन्दिरगमनादिषु, तद्- व्यतिरेकेण हस्तसेवा नोपपद्यत इत्युभयमेकरूपं, तब पादयोः स्मृत्यांनो मनोस्तु स्मरणे सर्वानेव भक्तानेकी- कृत्याहतुः, पादयोरितिद्विवचनं रूपान्तरे तथाभावाय, शिरस्तु प्रणामे, चतुरङ्गया भक्त्या भगवतः सर्वस्थितिः सर्वान्तरत्वं च स्फुरिष्यति, अतः सम्बोधनं, यतो हे निवासजगदिति, निवासभूतं जगद् यस्येति, दृष्टिस्तु सतां दर्शनेस्तु, भगवदर्शनं तु धाट्यान्न प्रार्थित, ननु तेषां दर्शने किं स्यात् ? तत्राहतुर्भगवत्तनूनामिति, भगवतस्तनूरूपास्ते, तत्र भवान् वर्तत इति तथा, अयोगोलके वह्निर्यथा वा गङ्गायां जलम् ॥ ३८ ॥ एवं गमनभत्त्योः प्रार्थनायां कृतायां सर्वथा भक्तौ शीघ्रमेव लयो भविष्यतीति किञ्चिन् मोहयित्वा किञ्चिद् दत्तवानित्याहेत्थमिति, एवङ्कारेण सम्यक् कीर्तितस्तोषपर्यन्तं स्तुतः प्रहसन् गुह्यकावाह, सर्व- करणदानयोः समर्थ इतिज्ञापयति भगवानिति, शीघ्रं तयोर्मुक्तौ गोकुले स्वस्य क्रीडायामन्यप्रवेशो भविष्यतीति ज्ञापयति गोकुलेश्वर इति, गोकुलवासिनामेव साम्प्रतं तद् युक्तं न त्वन्येषां, अतो गोकुलक्रीडासमाप्तिपर्यन्तं तथामोहनमुचितमेव, किञ्च दानोलूखले च बद्धा, यस्तु गोकुलरसभोगार्थ तत्र गौणभावंप्राप्तस्तेषु वा रसाधिक्य- सिद्ध्यर्थ तदधीनो जातः, देवयोर्गोकुले स्थितयोः पूजा कापि न जातेतिशङ्कापि न कर्तव्या यतो गोकुलेश्वरो दाम्ना बद्धः, वस्तुतस्त्वीश्वर एव लोकदृष्टयापि नन्दस्यायमेव पुत्र इतीश्वर एव स चेद् दाम्ना यन्त्रितस्तदा कस्य श्लो०४०-४२.] तामसप्रमाणप्रकरणे स्कन्धादितो दशमोध्यायः । ८३ , ॥ श्रीभगवानुवाच ॥ ज्ञातं मम पुरैवैतदृषिणा करुणात्मना । यच्छ्रीमदान्धयोर्वाग्भिविभ्रंशोनुगृहः कृतः ॥ ४० ॥ साधूनां समचित्तानां सुतरां मत्कृतात्मनाम् । दर्शनानो भवेद् बन्धः पुंसोक्ष्णोः सवितुर्यथा ॥ ४१ ॥ तद् गच्छतं महाभागौ नलकूबरसादनम् । सञ्जातो मयि भावो वामीसितः परमोभवः ॥ ४२॥ गोकुले सन्मानं स्यात् ? उचितं चैतद् , देवयोरत्र वृक्षत्वं, एवं गोकुलवासिनां वृत्तान्तं स्मृत्वा महसन् वक्ष्यमाणम- ब्रवीत् यद् युवाभ्यां प्रार्थ्यते तत् किमपि नावशिष्टं, मदधिकारिणैव तत्सम्पादनात् , द्वयं हि पुरुषार्थो मुक्तिर्मयि प्रेम च, निरोधस्योभयरूपत्वात् ॥३९॥ प्रपञ्चविस्मृतिर्मुक्तिः सा पूर्वमेव जातेत्याह ज्ञातमिति, ममैतत् पूर्वमेव ज्ञातमासीद् यद् ऋषिणा करुणात्मना श्रीमदान्धयोविभ्रंशः कृतः, सेवकाः कदाचित् स्वेच्छयापि कुर्वन्तीति तव्यावृत्त्यर्थ ज्ञानमुच्यते, न केवलं ज्ञातं किन्वभिमतमित्यषिप्रशंसा, ततो मयैतावत् कृतमित्यर्थाज् ज्ञापितं, अतो न प्रार्थनीयं किञ्चिदवशिष्यत इतिभावः, शापो ह्यपकारे भवति स शापदातुः समानाधिकरणो भवति, परदुःखमपि दृष्ट्वा कारुणिको दुःखितो भवति, तदाह करुणात्मनेति, करुणायुक्त आत्मान्तः- करणं यस्येति, भाव्यर्थावश्यम्भावज्ञानाद् ऋषित्वं, युवयोस्त्वतिक्लिष्टत्वमाह श्रीमदान्धयोरिति, अन्ध- तमस उद्धारोवश्यं कर्तव्यः, वाग्भिरितिवचनमात्रं तेनोक्तं, ज्ञापनार्थ कृतिस्तु मयैव कृता, अत एव वाग्भिर्यो विभ्रंशोज्ञानरूपः स त्वनुग्रह एव ॥ ४० ॥ नन्ववश्यम्भावि चेत् तथात्वं किमिति नारदेनोक्तं ? वचनात् तूष्णीम्भाव एवोचित इति चेत् तत्राह साधूनामिति, ये हि साधवस्तेषां दर्शने पुनर्बन्धो न भवति, ते हि ज्ञानव्याप्ता वह्निनायःपिण्ड इव, यथा तत्सम्बन्धेग्नेरप्यधिको दाहो भवत्येवमेव ब्रह्मज्ञानापेक्षयापि सदर्शने बन्धनिवृत्तिर्भवति, साधवः सदाचाराः समचित्ता ज्ञानिनः, अतो ज्ञानकर्मणोः सद्भावादेते मुक्ता एतेमुक्ता इतिवलक्षण्यज्ञानं न समदर्शित्वबाधकं, नापि तैस्तथा सम्पाद्यते, किन्तु तेषां दर्शनमेव मुक्तिसाधकं, किञ्च नितराम्मत्कृतात्मनामिति, मयि कृत आत्मा यैः समर्पितात्मानः, मत्कृते वात्मा येषां, कर्मज्ञानभक्तीनां तेषु सिद्धत्वाद् बन्धः सर्वथा न भवति, तमो निवर्तितं कर्मणा रजो ज्ञानेन सत्त्वं भक्त्येत्यतो न केनाप्यंशे- नावशिष्यते, अत एव पूर्णकर्माणो वस्वादिभावं प्राप्नुवन्ति ततोपि ज्ञानिनो ब्रह्मविदः सनकादय इव भवन्ति, ततोपि भक्ता मद्भावं प्राप्नुवन्तीति तदाह दर्शनानो भवेद् बन्ध इति, पुंस इति, मर्यादाधिकारिणस्तु ततो बन्धो निवर्तते, अहं वनधिकारिणोपि निवर्तक इतिविशेषः, तथाप्यप्रार्थितं कथं दत्तवन्त इत्याशक्य दृष्टान्तेन निराकरोत्यक्ष्णोः सवितुर्यथेति, अक्ष्णोर्बन्धनमन्धकारः, स सवितृदर्शने निवर्तत एव ॥ ४१ ॥ न हि वस्तुशक्तिः प्रार्थनादिकमपेक्षते तस्मान्मोक्षस्तु पूर्वमेव सिद्धो भक्तिरपि सिद्धेति वदन् प्रार्थितमाह तद् गच्छतमिति, भक्तेः कारणमाह महाभागाविति, अनन्तकोटिजन्मपुण्यपापयोरुपार्जितयोर्मध्ये दिव्यशत- वर्षपर्यन्तं मत्प्रतीक्षाभावनात् सर्वमेव पापं नष्टं, पुण्यं त्ववशिष्यते, तदुक्तं महाभागाविति, नलकू- बरेत्येकस्यैव प्रसादः, सादनं गृहं, यत्रावसादं प्राप्तौ, अनेन तत्रासक्तिन भविष्यतीति सूचितं, मयि तु मद्विषयको भाव: प्रेमलक्षणकः सञ्जात एव, तेनैव श्रवणादिकं स्वत एव भविष्यति, अप्रार्थितत्वादनभिमतमि- त्याशक्याहेप्सित इति, तत्र हेतुः परमोभव इति, भाव एवान्तिमजन्मरूपो न तस्मादप्यन्यज् जन्म भवतीति ८४ श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [ श्लो० ४३. ॥श्रीशुक उवाच॥ इत्युक्तौ तं परिक्रम्य प्रणम्य च पुनः पुनः । बद्धोलूखलमामन्य जग्मतुर्दिशमुत्तराम् ॥४३॥ परमत्वं, अतो जन्मभिः क्लिष्टानां सर्वेषामेव मयि भावः प्रार्थनीयो भवति, अतो वां युवयोरपीप्सितत्वात् सम्यग् जातः ॥ ४२ ॥ एवमुक्तौ तत्रोचितं कृत्वा गतवन्तावित्याहेत्युक्तौ, तमिति बालकव्युदासः, बहुवारं प्रदक्षिणां कृत्वा प्रतिप्रदक्षिणं नमस्कृत्य चकारात् स्वदीनतां चाविष्कृत्य लीलाभावादिभिरप्यमोहितौ सन्तौ बद्ध- मुलूखलं यस्मिन्निति, आमन्त्र्य 'गच्छाव' इत्युक्त्वोत्तरां दिशं स्वस्थानं जग्मतुः, एवं गोकुलवासिनोवृक्षयोरपि निरोध उक्तः॥ ४३ ॥ इति श्रीमद्भागवतसुबोधिन्यां श्रीमद्वल्लभदीक्षितविरचितायां दशमस्कन्धविवरणे द्वितीये तामसप्रकरणे- वान्तरप्रमाणप्रकरणे वैराग्यनिरूपकषष्ठाध्यायस्य स्कन्धादितो दशमाध्यायस्य विवरणम् ॥

॥ सप्तमः स्कन्धादित एकादशोध्यायः ॥ AL ॥ श्रीशुक उवाच ॥ गोपा नन्दादयः श्रुत्वा द्रुमयोः पततो रवम् । तत्राजग्मुः कुरुश्रेष्ठ निर्घातभयशङ्किताः ॥ १ ॥ भूम्यां निपतितौ तत्र ददृशुर्यमलार्जुनौ । बभ्रमुस्तदविज्ञाय लक्ष्यं पतनकारणम् ॥ २ ॥ उलूखलं विकर्षन्तं दाम्ना बद्धं च बालकम् । कस्येदं कर्म आश्चर्यमुत्पात इति कातराः ॥ ३॥ निरोधः सर्वभावेन वर्णनीयो हि गोकुले । स्त्रीणां स चोक्तः पुंसां च नन्दप्राधान्यभावतः ॥ १ ॥ एकादशे ततोध्याये पूर्वावस्थामशेषतः । त्याजयित्वा तु नन्दस्य कृष्णभावो निरूप्यते ॥ २ ॥ मोचनं मुग्धलीला च स्थानान्तरपरिग्रहः । तत्र लीला वत्सरको ज्ञानं चेति निरूप्यते ॥ ३ ॥ षड्भिस्त्रिभिः षोडशभिश्चतुर्भिः षड्भिरेव च। नवभिः पञ्चभिश्चेति सप्तार्थाः सगुणो हरिः ॥ ४ ॥ स्वार्थ तु भगवान् कार्यस्तथात्वं ज्ञाप्यते पुनः। सर्वस्वं हरिरवेति तदर्थ त्याग ईयते ॥ ५ ॥ वृन्दावने स्थिती हेतुर्भगवत्तोषतः परम् । नास्तीतिज्ञापनायोक्ता प्रीतिलीलोपयोगिषु ॥ ६ ॥ वत्सचारणदोषस्य निवृत्तिवत्समारणम् । गोपालदोषव्यावृत्त्यै बकस्यापि विनाशनम् ॥ ७ ॥ स्थानत्यागे हरीच्छेव कारणं न तु दुष्टता । तज् ज्ञापयितुमत्रापि बकवत्सौ विनाशितौ ॥ ८ ॥ अतो विमर्शो गोपानामानन्दश्च निरूपितः। तदर्थमेव च हरेर्बालभावो न चान्यथा ॥ ९॥ सम्पन्ने तु ततस्तस्य परित्यागोपि वय॑ते ९ ॥ तत्र प्रथमं प्रपञ्चविस्मरणपूर्वकं भगवदासक्तिं वक्तुं भयविमोकावाह गोपा नन्दादय इतिषड्भिर्नन्दार्थ- मेवैतदिति ज्ञापयितुं नन्दादय इति, गोपा इति स्वतःसामर्थ्याभावः, भगवतोद्भुतलीलामाह श्रुत्वा द्रुमयोः पततो रवमिति, पततोर्दुपयोरिदानीं वः श्रुतो यदा तौ स्तुत्वा निर्गती, इदं नान्यशक्यं, ततस्तत्राजग्मुः, कुरुश्रष्टेतिविश्वासार्थ, सर्वेषां तत्रागमने हेतुर्निर्घातभयशङ्किता इति, निर्घातो निरभ्रविद्युत्पातस्तत्कृतं भयं कस्यचिदुपद्रवो भाव्यनिष्टसूचनम् ॥ १ ॥ आगतानां ज्ञानमाह भूम्यामिति, भूमौ निपतितावर्जुनौ दृष्टवन्तः, ततोन्यत्र तौ चेत् पतितौ भवतस्तदा कालान्तरत्वं न दोषायेति तद्व्यावृत्त्यर्थमाह तत्रेति, यत्रैव स्थितौ तत्रैव पतितौ, आर्द्रता च तेषां दृष्टिगम्या न भवति, बहिर्मुखत्वात् , जातायामपि तत्राप्याकर्षणस्यापेक्षितत्वात् तस्य पतनस्य कारणमविज्ञाय बभ्रमः, ननु प्रत्यक्षस्याभावेप्यनुमानेन कथं न कल्प्यते ? तत्राह लक्ष्यमिति, लक्ष्क्ष्यमप्यविज्ञाय, ते ह्यतिनैयायिका युक्तिवाधितं प्रमाणं न किमपि मन्यन्ते, अतो व्याप्तस्याभावान्नानुमानेन पतनकारणज्ञानम् ॥२॥ ननु भगवानस्त्येव प्रत्यक्षसिद्धः कोत्र सन्देह इति चेत् तत्राहोलूखलमिति, उलूखला- कर्षणं कुर्वन्तं तदानीमपि ततोप्यग्रे गच्छन्तं वृक्षयोर्मध्ये स्थितं, अन्यत्र गमनाभावे हेतुर्दान्ना बद्धमिति, च कारादुलूखलेन सह वृक्षयोः पातं बालकं चेति वा बालकत्वादेव न स्वतो मोचनं, भगवन्तं हेतुत्वेन प्रत्यक्षसिद्ध- मष्यन्यथासिद्धं कृतवन्त इत्याह कस्येदमिति, इदं बन्धनलक्षणं कस्य कर्म ? कर्मेतिवचनं, व्याकुलत्वज्ञापकं, किञ्च १. कुत इत्यपि पाठः।

८६ श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [ श्लो० ४-७. बालाः प्रोचुरनेनेति तिर्यग् गतमुलूखलम् । विकर्षता मध्यगेन पुरुषावप्यचक्ष्महि ॥ ४ ॥ न ते तदुक्तं जगृहुन घटेतेति तस्य तत् । बालस्योत्पाटनं तोः केचित् सन्दिग्धचेतसः ॥ ५ ॥ उलूखलं विकर्षन्तं दाना बद्धं स्वमात्मजम् । विलोक्य नन्दः प्रहसद्वदनो विमुमोच ह ॥ ६॥ गोपीभिः स्तोभितोनृत्यद् भगवान् बालकः कचित् । उद्गायति कचिन्मुग्धस्तद्वशो दारुयन्त्रवत् ॥ ७॥ कुतोवा हेतोरेतद् बन्धनमिति, आश्चर्यमिति, बालकस्य बन्धनं तेन पातनं त्वसम्भवितमेवात आश्चर्यमेवैतदुभय- मपि, पातनमेव वा, नन्वकारणकार्योत्पत्तिः कथम् ? तत्राह उत्पात इति, अयमुत्पातो देवदैत्यादिकृतो भाव्यनिष्ट- सूचको न तु सर्वथा युक्तिबाधितो भगवता कृत इति कार्यकारणभावे प्रत्यक्षसिद्धेपि न तथात्वमङ्गीकर्तुं शक्यते, अत एव भ्रान्तो नैयायिकस्तर्कविरुद्धं न मन्यते, “अलौकिकास्तु ये भावा न तांस्तर्केण योजयेदि"तिवाक्याच्च, तर्हि किं जातं तादृशज्ञानस्य फलमित्याकाङ्क्षायामाहोत्यात इति कातराः, पातस्तूत्पातरूपः, अग्रे च भयं भविष्यतीति कातरा भयव्याकुला जाता इत्यर्थः ॥३॥ अत एव बालकैरुच्यमानमपि वाक्यं नाङ्गीकृतवन्त इत्याह बालाः प्रोचुरितिद्वाभ्यां, सर्व एव बाला यथादृष्टार्थवादिनः कल्पनासमर्थाः कारणं प्रोचुः, तेषां वाक्य- माहानेनेति, अनेन वृक्षौ पातितौ, प्रकाराकाङ्क्षायामाहुस्तिरश्चीनमुलूखलं विकर्षतेति, तिर्यक् पतितमुलूखलं तं विशेषेण कर्षता, कर्षणेपि प्रयोजनमाहुर्मध्यगेनेति, मध्ये स्थितः किं कुर्यात् १ नचैतज् ज्ञानं भ्रान्तमित्याशङ्का- यामाहुः पुरुषावप्यचक्ष्महीति, वृक्षाद् द्वौ पुरुषौ निर्गतौ तावप्यस्माभिर्दृष्टाविति, अतः स्वदृष्टं लौकिकमलौकिक चोक्तवन्तः ॥४॥ तदुभयमपि तैर्नाङ्गीकृतमित्याह न ते तदुक्तं जगृहुरिति, ते गोपा बालकोक्तं न सत्यमिति गृहीतवन्तस्तत्र हेतुर्न घटेनेति, तस्य बालकस्य तर्वोरुत्पाटनं सर्वथा युक्तिवाधितं, केचन पुनरार्द्रनैयायिकाः सन्दिग्धचेतसो जाताः, शकटतृणावर्तयोर्भङ्गदर्शनात्, न तु तेषामपि कश्चन निर्धारः ॥५॥ नन्दस्तु सन्दिग्धोपि तं विचारं दूरीकृत्य मोचितवानित्याहोलूखलमिति, तदानीमपि विकर्षन्तमिति शीवमोचने हेतुः, दाना बद्धमिति मोचने निमित्तं, स्वमात्मजमिति स्वस्यैवावश्यकत्वं, स्वमिति व्याकुलतापरिज्ञानार्थ, स्वपदप्रयोगात् भगवद्भावं प्राप्त इतियुक्तिरपि, तेषामज्ञानं न तेषां बुद्धिदोषेण किन्तु भगवतैव कार्यत इति, प्रहसदन इति धौर्त्यस्मरणात् , तस्यापि ज्ञानाभावस्त्वनेनोक्तः, विशेषेण मोचनं सर्वासामेव रज्जूनां पृथक्करणं, हेत्याश्चर्य, स्वबन्धनं तेन मोचितमिति भगवल्लक्षणो बन्धो भगवतैव मोचयितुं शक्यते नान्येनेत्यत इदमाश्चर्यमेव ॥ ६ ॥ गोपीनां वशमा प्राप्तस्य भगवतो लीलामाह गोपीभिरितित्रिभिः। विद्योपजीविना सेवां येनैव च सुखं भवेत् । राजप्ती तामसी लीलां सात्विकी च चकार ह ॥ १ ॥ तत्र प्रथमं राजसी लीलामाह, गोपिकाः प्रत्येकं स्वस्वगृहं नीत्वा 'नृत्यं कुरु भगवॅल्लड्डकानि दास्यामी'त्युक्तो नृत्यति, तत्रापि स्तोभितः, 'कृष्ण एव सम्यङ् नृत्यं जानाति कर्तु न राम'इत्युक्तः, स्तोभा शून्यप्रशंसा यथा स्तोभाक्षराणि भभभेति, तथा गोपीभिर्यथाकथञ्चित् स्तुतोनृत्यन् नृत्यं करोति, लडथै लङ्, तत्रापि नृत्ये न प्राकृतवन् नृत्यति किन्तु यथा तण्डुर्यथा वा पार्वती, ततोपि सहस्रगुणमत्यन्तं नृत्यति, तदनुचितं, किं पामराणां स्थाने तथानृत्येनेति? तदाह भगवानिति, षड्गुणैश्चर्यसम्पन्नो न ह्यन्यथा नृत्यं कर्तुमर्हति, तर्हि तासामप्यने नाहत्येवेति चेत् तत्राह बालकः कचिदिति, कचिद् वा गोकुले स्वस्य बालभावं प्रदर्शितवानिति, बालवदिति- . " , श्लो०८-१०.] तामसप्रमाणप्रकरणे स्कन्धादित एकादशोध्यायः । विभर्ति कचिदाज्ञप्तः पीठकोन्मानपादुकम् । बाहुक्षेपं च कुरुते स्वानां च प्रीतिमावहन् ॥ ८॥ दर्शयंस्तद्विदां लोक आत्मनो भृत्यवश्यताम् । व्रजस्योवाह वै हर्ष भगवान् बालचेष्टितैः ॥९॥ गोपवृद्धा महोत्पाताननुभूय बृहदने । नन्दादयः समागम्य बजकार्यममन्त्रयन् ॥ १०॥ पाठे कचिद् भगवान् शास्त्रानुसारेण नृत्यति कचिद् बालवत् केवलं देहपादचालनमात्रं करोति मुग्धभावख्याप- नाय, ततोपि कयाचित् 'कृष्ण गाये'त्युक्त उद्गायति, उच्चैस्तूष्णीं गानं करोति यथा सर्वासां हास्यं भवति, अथवा क्वचिदूर्ध्व गायति यथाशास्त्र कचिन्मुग्धोशास्त्रमपि बालवत् , किञ्च नृत्यगानयोर प्येवमुत्यायैवमुपविष्ट एवं सुप्तो गानं कुर्वि'त्युक्तस्तथैव गायतीत्याह तद्वशो दारुयन्त्रवदिति, गोपिकावशो भूत्वा दारुपुत्रिकावन् नृत्यति गायति च ॥७॥ लीलान्तरमाह बिभर्तीति, सर्वत्र कचिदितिपदेन क्वचित् करोति क्वचिन्न करोतीति ज्ञातव्यं, अन्यथा तथास्वभाव आश्चर्यं न स्याद् बहुधा प्रार्थनं च, कचिदाज्ञप्तः पीठमानयोन्मानं तण्डुलादिमानपात्र- मानय पादुके दारुमये आनये'त्युक्तः केवलं बिभर्ति न तूत्थापयितुं शक्नोति, अशक्तिभावनां च करोति यथा प्राकृता बालाः कुर्वन्ति, एकवद्भावः स्थूले सूक्ष्मे प्रशस्ते निन्दिते तुल्यत्वज्ञापनार्थः किञ्च बाहुक्षेपं च कुरुते, 'मया सह मल्लयुद्धं कुर्वित्युक्तो बाहुविस्फोटनं करोति, चकारादुपर्यपि पतति, बलाविर्भावेन तं चालयतीव, ननु किमित्येवं करोति? तत्राह स्वानामिति, येन कारणेन तेषु स्वत्वं सम्पादितं तेनैव प्रीति- मुद्रहञ् यावतैव तेषां प्रीतिर्भवति, न त्वधिकं करोतीत्यर्थः ॥ ८ ॥ लीलाद्वयं विशेषतो निर्दिश्य सामान्यतः सर्वामेव लीलां सझेपेणाह दर्शयन्निति, बालचेष्टितैर्भगवान् व्रजं हर्षयामास, व्रजे यावद्विधा प्राणिनस्तेषामपि यथायथा हर्षो भवति, स च हस्तेष्वेव तिष्ठति सोपि स्थितः पुष्टो भाररूपो भवति तदा तेषां वहनाशक्तौ तेषां हर्ष भगवानुवाह, तदपि न विषयत्वेन किन्तु करणत्वेनेत्याह बालचेष्टितैरिति, ननु बालचेष्टा फलपर्यवसा- यिन्यो न भवन्ति स्वरूपत एवं परं मोहे सुखजनिकास्तत् कथं तादृशे हर्षे करणता? तत्राह भगवानिति, यावतानुपपत्तिः परिहृता भवति तावान् धर्मो भगवच्छब्दाद् ग्राह्यः, ननु किमेवं प्राकृतानामत्र स्थितानां वैकुण्ठ- मनीत्वा स्वयमागत्य विपरीतभावेन तथाकरणे प्रयोजनमित्याशक्याह तद्विदां भगवत्स्वरूपविदामात्मनो भृत्यवश्यतां दर्शयन्निति, यतस्ते भृत्या भरणीयाः स्वेनैव न केवलं प्रदर्शनमात्रपरत्वं, तथा सति कापट्येनापि स्यादित्याह वै निश्चयेनेति, आत्मन इत्यनेन वश्यतादोषः परिहृतः, ये त्वज्ञास्ते व्यामोहिता एव, ये जानन्ति तेषां ज्ञानस्य भक्त्युपयोगः, तत्तदनुसारिणोपि तत्त्वेनैव ग्राह्या इति न किञ्चिदनुपपन्नम् ॥ ९ ॥ एवं बृहद्वनक्रीडामुक्त्वा सर्वदेवाधिष्ठितवृन्दावने क्रीडां वक्तुं भगवत्प्रेरितानां तेषां निर्गमनार्थ मन्त्रमाह, उद्यमो मुख्यसम्पत्तिमन्त्री हेतु स्त्रिभिस्ततः । निर्धारितपरित्यागः स्थानान्तरगुणास्ततः ॥ १ ॥ कृष्णाज्ञयेति कालस्य नापेक्षातोनिवारणम् । पञ्चभिर्गमनं चैव रतिस्तत्र हरेः परा ॥ २ ॥ एवं कलाभिर्भगवान् पूर्णो वृन्दावने बभौ ॥ २३ ॥ प्रथम मन्त्रार्थमुद्यममाह गोपवृद्धा इति, गोपेषु ये वृद्धाः पूर्वापरानुसन्धानसहिताः, बृहदनमन्वर्थनाम, पूर्व कदाचिदपि तत्रोत्पत्त्यभाव उत्पातानामिदानीं तु महोत्पाताः पूतनामरणादयः, नन्दोपि वृद्धप्रायः प्रधान- व्यतिरेकेण विचारो न निर्वहतीति समागम्य सम्यगेकत्रोपविश्य, व्रजसम्बन्ध्यवश्यकर्तव्यममन्त्रयन् ॥१०॥ सर्वेषां वक्तृत्वं न सम्भवतीति प्रधानं व्यपदिशति तत्रेति, उपनन्दनामा नन्दसम्बन्धी गोप इति धर्मप्रधानः, ज्ञान- ८८ " श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [श्लो० ११-१४. तत्रोपनन्दनामाह गोपो ज्ञानवयोधिक । देशकालार्थतत्वज्ञः प्रियकृद रामकृष्णयोः ॥ ११ ॥ उत्थातव्यमितोस्माभिगोकुलस्य हितैषिभिः । आयान्त्यत्र महोत्पाता प्रजानां नाशहेतवः ॥१२॥ मुक्तः कथञ्चिद् राक्षस्या बालन्या बालको ह्यसौ । हरेरनुग्रहानूनमनश्वोपरि नापतत् ॥ १३॥ चक्रवातेन नीतोयं दैत्येन विपदं वियत् । शिलायां पतितस्तत्र परित्रातः सुरेश्वरैः ॥ १४ ॥ वयोभ्यां च परिणतः,देशकालार्थानामपि कस्मिन् देशे कस्मिन् काले कोर्थः कर्तव्य इतितत्त्वज्ञः, तादृशोप्यभक्त- श्वेत् सर्व व्यर्थ स्यादिति रामकृष्णयोः प्रियकृदाहेतिप्सम्बन्धः, नाम्ना नन्दस्य म एव मन्त्रद इति ज्ञापित, गोप इति तन्मध्यपाती तुल्येष्टानिष्टः, तादृश एव मन्त्राहः, ज्ञानं तु वयसा प्रतिष्ठितं भवतीत्युभयाधिक्यं, इदं मन्त्रे मुख्यमङ्ग, लोकानभिज्ञो न शास्त्रार्थज्ञानमात्रान् मन्त्री भवतीति देशादिज्ञानमुक्तं, इद गमनं स्वार्थ चेन् निरोधेन विरुध्यत इति भगवत्पीतिरुक्ता प्राधान्यप्रतिपत्त्यर्थ, द्वयोनिर्देशः साधारणनिरोधत्वात् , असाधारण- निरोधो भगवतैव क्रियते साधारणस्तूभाभ्यामिति ॥ ११ ॥ मन्त्रमाहोत्थातव्यमिति, इदं स्थानं परित्यक्तव्यं, परितो यद्यपि बनाः सन्ति ते तिष्ठन्तु मा वा, अस्माभिस्तूत्थातव्यं, ननु कर्माधीनत्वाज जगतः सर्वत्रैव यद् भाव्यं तद् भविष्यतीति किं गमनेनेति चेत् तत्राह गोकुलस्य हितैषिभिरिति, गोकुलस्य ये हितं वाञ्छन्ति कालकर्मपक्षौ परित्यज्य लौकिकन्यायेन ये हितचिन्तकास्तैरवश्यमेतत् कर्तव्यं, यत् साधनानि भगवता दत्तानि ज्ञानकरणादीनि तान्यन्यथा व्यर्थानि स्युः, अतो विरोध एव तयोभिन्नं प्रामाण्यं, यावन्न विरोधस्तावत् करणानामेव मुख्यं प्रामाण्यं, उत्थाने हेतुमाहायान्त्यत्र महोत्साता इति, अलौकिकोनिष्टहेतुरुत्पातः सर्वनाशकः । महोत्पातो बुधै यो यत्र तत्त्यागमर्हति ॥ १ ॥ महोत्पाताः पूतनादयः, तेषां सोढव्यतां निराकरोति प्रजानां नाशहेतब इति, हेतौ कार्यमावश्यकं, महतां देवाद्युपासकानामनिष्टाभावेपि प्रजोपद्रवोपि वारणीयस्तैः, “प्रक्षालनाद्धि पङ्कस्ये"तिन्यायेन प्रतीकारा- पेक्षया त्यागः श्रेष्ठः ॥ १२ ॥ उत्पातानेव गणयन्ति तामसराजतसात्त्विकान् , उत्पाताः प्रतीकारसहिता उच्यन्ते, अन्यथा तन्निवृत्तिरेव न स्यादुत्पातत्वं वा, अत एव राक्षस्था पूतनयासावेव बालको मुक्तः, दृष्टहेतुपरिज्ञानाभावात् कथञ्चिदित्यदृष्टं साधन कल्पितं, कार्यस्य कारणावश्यकत्वात् , राक्षस्या बालन्येति जातिक्रियादौषौ, मुक्तत्वं निःसन्दिग्धमित्यसाविति प्रदर्शितः, अलौकिकमुपायमाह हरेरनुग्रहादिति, एतदेव हेतुद्वयं शकटभनेप्याकर्षत्यनश्चोपरि नापतदिति चकारेण, नूनमिति स्वदर्शनात् ॥१३॥ तृणावर्ते लौकिकानि बहूनि साधनान्याह चक्रवातेनेति, चक्रवातः प्रसिद्धस्तृणावर्तः कंसभृत्य इति, अतो दैत्य इत्युक्तं, वियदाकाशं नीतः, तदपि नाल्परं किन्तु विपदं, यावद्दूरे श्येनादयः परिभ्रमन्ति, वयः पक्षिणस्तेषां पदमिति, यद् वियत् नीतवांस्तद् विपदमेव नीतवानिति वा, सरस्वती तु तस्यायमेव विपद्रूपः, विपद् व्ययं प्राप्नुवद् यथा भवति तथा प्रतिक्षणं क्षीयमाणेन नीतः, तत्रोभयोर्गतयोर्मध्य एकः शिलायां पतितस्तत्रैव प्रदेशे पर उपयव सुरेश्वरैः परित्रातः, न देवमात्रकृत्यं तादृशं, रुद्रास्तु घातुकाः, तदुपमर्दस्तु सुरेश्वरैरेव कर्तुं शक्यः, रुद्राधिपतिः पुनस्तेषामनुकूल इति बहवोत्र पुनस्तादृशा रक्षका उक्ता "बहूनामनुग्रहो न्याय्य इति, परितस्त्राणं न केनाप्यंशेन बाधाभावार्थम् ॥ १४ ॥ प्रस्तुतमाह यन्नेति, अनयोर्दुमयोरन्तरं प्राप्य बहवो बाला अत्र श्लो० १५-२०. तामसप्रमाणप्रकरणे स्कन्धादित एकादशोध्यायः। ८९ यन्न म्रियेत द्रुमयोरन्तरं प्राप्य बालकः । असावन्यतमो वापि तचाप्यच्युतरक्षणम् ॥१५॥ यावदौत्पातिकोरिष्टो व्रजं नाभिभवेदितः । तावद् बालानुपादाय यास्यामोन्यत्र सानुगाः ॥१६॥ वनं वृन्दावनं नाम पशव्यं नवकाननम् । गोपगोपीगवां सेव्यं पुण्याद्रितणवीरुधम् ॥१७॥ तत् तत्रायैव यास्यामः शकटाञ् युतमा चिरम् । गोधनान्यग्रतो यान्तु भवतां यदि रोचते ॥१८॥ तच्छ्रुत्वैकधियो गोपाः साधुसाध्वितिवादिनः ।बजान् स्वान् स्वान् समायुज्य ययू रूढपरिच्छदाः॥१९॥ वृद्धान्बाला स्त्रियोराजन् सर्वोपकरणानि च । अनस्स्वारोप्य गोपाला यत्ता आत्तशरासनाः ॥२०॥ स्थिताः कोपि नोपद्रुतः, असौ भगवानन्यतमः, अन्यो वा कश्चिद् भगवान् देवैः सर्वदा रक्षित इत्यन्यस्य नामग्रहणं, तमप्प्रत्ययेन हीनोपि कश्चिन्नोपद्रुत इत्यमङ्गलशब्दोचारणं स्नेहात्, प्राकृतानां सहनं प्राकृतत्वमन्यथा न परिज्ञायेत, येषां वाङ्मनसोरव्यवस्था तेत्यन्तं प्राकृता येषां मनसोपि नाव्यवस्था तेत्यन्तं सन्तः, अत्राच्युतो भगवानेव रक्षकः, स हि सर्वत्र च्युतिरहितोन्तर्यामी ततो बालकानुत्पातस्थाना- दन्यत्र नीतवान् ॥ १५॥ अतो भगवतो वारत्रयं देवानां च रक्षणं जातमित्यतः परं य उत्पातः समायास्यति तस्य न प्रतीकार इति ततः पूर्वमेव गमनमुचितमित्याह यावदिति, उत्पातेन जातोरिष्टो मरणादिरूप इति यावद् व्रज नाभिभवेत् तावदितो बालानादाय सानुगाः सपरिकरा अन्यत्रैव यास्यामः, निर्धारित- मेतद् वचनं, बालानां कर्मता, उत्पातास्तत्सम्बन्धिन एव दृष्टा इति, स्थलान्तरमन्विष्यास्य परित्याग उचित इति ॥ १६ ॥ स्थलान्तरं सगुणं निर्दिशति वनं वृन्दावनमिति, वृन्दा मधोः पुत्री, तन्नाम्ना नूतनं वनं वृन्दावन, स्त्रीप्राधान्यात् तत्र न दैत्यसम्बन्धः, भगवता पुनर्जालन्धरवधार्थ सा परिगृहीता, अतो देवताधिष्ठानाद् देवदैत्यानामनुरोध्यं तत् स्थानं, अतस्तत्रोत्पातशङ्काभावः, तदाह वृन्दावन, नामेति प्रसिद्धं तथा तन् नव- काननमिति, न शीर्णवृक्षास्तत्र सन्ति नापिशृगालसर्पोदीनां तत्र स्थितिः, अतः सर्वे गुणाः सर्वदोषाभावश्चोक्ताः, किञ्चालौकिकोपि तत्रत्यो गुणः समीचीन इति ज्ञायते यत् पशव्यो भवति पशूनां हितः, ते ह्यरण्योपजीवि- नोरण्यपात्रास्तेषां यद्धितमलौकिकप्रकारेणापि समीचीनमिति, किञ्च तस्मिन् वने त्रिविधा भूमिरस्ति, अतिगुप्तातिप्रकटा तृणादिगह्वरा च, तदाह गोपीनां गोपानां गवां च सेव्यमिति, अन्येषामपि नन्दपुरो- हितप्रामाणिकानां तत् सेव्यमित्याह पुण्याद्रितणवीरुधमिति, पुण्योद्रिर्गोवर्धनः, तृणानि बर्हिः, वीरुधः सोमः करीराणि वा, अतस्तामसानां राजसानां सात्त्विकानां च हितकारि तत् स्थानमित्युक्तम् ॥ १७ ॥ एवं स्थान- प्रशंसायां सर्वे गोपाला आहुस्तत्तत्राद्यैव यास्याम इति, तस्मात् कारणाद् यदि वृन्दावनं तादृशं ततोचैव तत्र यास्यामः, एवं सर्वेषां सङ्कल्पे प्रधानभूता उपनन्दादय आहुः शकटाञ् युङ्ग मा चिरमिति, शकटानां बलीवर्दैः सह योजनं साधनं, विलम्बनिषेध उत्पातभयशङ्कया ॥ १८ ॥ एवं भयसाधनयोनिर्देशे यत् कृतवन्त- स्तदाह श्रुत्वेति, मध्ये तेषां न वैमत्यं यतो गोपास्तुल्याः, तादृशोर्थः स्वस्यात्यन्तमभीष्ट इति मन्त्रवाक्य- प्रशंसा, गच्छन्त एव वदन्तीतिवादिनः, ते सर्वेवान्तरभिन्नभिन्नव्रजाधिपतयः स्वस्य यत्र यत्र भिन्नतया गावः स्थितास्तान् समुदायेनैव वत्सगोविभागमकृत्वा सम्यगायुज्य योजयित्वाग्रे प्रस्थाय शकटेष्वारोपितोपकरणाः सर्व एव ततो ययुः ॥ १९॥ गताश्चतुर्विधा इति ज्ञापयितुं तमोरजःसत्त्वनिर्गुणरूपान् पृथक् पृथक् चतुर्भिः श्लोकै- राह, तत्र प्रथममाह वृद्धान् बालान् स्त्रिय इति, अत्यन्तं प्राकृता वृद्धा बालाः स्त्रियश्च, राजनितिसम्बोधन कदाचित् तीर्थयात्राद्यर्थं सकुटुम्बस्य प्रस्थाने त्वदीयानामपि तथाप्रस्थितिस्तवानुभवसिद्धतिज्ञापनाय, देशा- न्तरनिवासार्थमाज्ञतानां त्वदीयानां यथा तथेति वा, सर्वोपकरणानि च शकटेष्वारोप्य गोपाः सर्वे पदातय आयत्ता बद्धकवचा आत्तशरासना गृहीतधनुषस्तामसत्वाद् राजसेष्वेव सम्बन्धः ॥ २० ॥ गोधनानीति, श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [ श्लो० २१-२६. - गोधनानि पुरस्कृत्य शृङ्गाण्यापूर्य सर्वतः । तूर्यघोषेण महता ययुः सह पुरोहिताः ।। २१ ॥ गोप्यो रूढरथा नूनकुचकुङ्कुमकान्तयः । कृष्णलीलां जगुः प्रीता निष्ककण्ठ्यः सुवाससः॥ २२ ॥ तथा यशोदारोहिण्यावेकं शकटमास्थिते । रेजतुः कृष्णरामाभ्यां तत्कथाश्रवणोत्सुके ॥ २३ ॥ वृन्दावनं सम्प्रविश्य सर्वकालसुखावहम् । तत्र चक्रुर्ब्रजावासं शकटैरर्धचन्द्रवत् ॥२४॥ वृन्दावनं गोवर्धनं यमुनापुलिनानि च । वीक्ष्यासीदुत्तमा प्रीती राममाधवयोर्नुप ॥२५॥ एवं व्रजौकसांप्रीतिं यच्छन्तौ बालचेष्टितौ । कलवाक्यौ स्वकालेन वत्सपालौ बभूवतुः ॥ २६ ॥ गोधनानि गावः पुरस्कृत्याने नीत्वा निर्भया शृङ्गाण्यापूर्य, ते तु शृङ्गवादित्रा एव, सर्वत इति सकृदेव महान् घोषः, प्रभूणां निर्गमनमाह तूर्यघोषेणेति, पुरोहिता ब्राह्मणा वैश्ययाजकाः ॥२१॥ गोपिकास्तु भगवद्- भोग्याः सात्त्विक्यो भिन्नतयैव निर्गता गोप्य इति, स्थास्तूत्तमा अश्वयोजिता वृषभयोजिता वा, नूतनाः कुच. कुकुमकान्तयो यासां, वयःसाधनशोभाभोग्या उक्ता भगवत एवेति ज्ञापयितुं तद्गुणानेव गायन्त्यो निर्गता इत्याह कृष्णलीलामिति, एकवचनेन स्वोपयोगिन्येव लीला निरूपिता, कृष्णपदेन च न केवलं निरोधपरा किन्त्वानन्दमयीति, प्रीता इति मनस्तोषः, निष्ककण्ठ्य इति साभरणाः, सुवाससश्चेति देहपरिष्कार उक्तः, गुणगानादेव वाक्परिष्कारोपि, एतासामेव रथो भगवांस्तु तास्वेव प्रतिष्ठितो गच्छति ॥२२॥ यशोदारोहिण्यो- भगवत्सम्बन्धाद् गुणातीतयोः पृथग्गमनमाह तथेति, शकटो मध्यस्थितः, अनो निकृष्ट रथस्तूत्तमः, तथेति- सौन्दर्य गुणगानं च, निर्दिष्टं स्थानं यशोदायाः, भगवांश्च प्रधानभूत इति सार्धद्वयवार्षिको भगवान् , अतो यशोदाक्रोडे स्थितस्तथा रामोपि, कृष्णरामाभ्यां सहिते ताभ्यां कृत्वा वा रेजतुः, गोपिकानां निकटे तयोर्गमन- माह तत्कथाश्रवणोत्सुके इति नामलीलानुरक्तिस्तयोः सूचिता ॥२३॥ न केवलं तत्र गताः किन्तु तत्र प्रतिष्ठिता इत्याह वृन्दावनभिति, वृन्दावनभूमिस्तस्मिन् कल्पे यमुनोत्तरभागे गोवर्धनचाक्रूरस्थाने तदुत्तरणमल्प- प्रवाहा च यमुना ह्रदाः परं तत्रागाधा नन्दस्थानं च तत्रैव, अस्मिन् कल्पे तु प्रदेशास्तत्तदधिष्ठातृदेवताधि- ठिता विशकलिततया पतिता इति न काप्यनुपपत्तिः, उत्तरणपक्षेप्यल्पप्रवाहेति नोत्तरणं निरूपितं, वर्षाकाल एवं यमुनाया महत्त्वमिति, एते बृहद्वनं परित्यज्य वृन्दावनं सम्यक् प्रविश्य शकटैरर्धचन्द्रवद् व्रजावासं चक्रुः, वेष्टनस्थानीया गृहाः, मध्ये गवां स्थानं, प्रथममेवैतत् , पश्चाद् यथासुखमेव स्थितिः, अर्धचन्द्राकारे बहिरं सर्व- ग्राह्यं भवति, गृहाणां निर्माणं तत्र नापेक्ष्यते, यतो वनमेव सर्वकालं सुखमावहति, शकटैरिति, रथानां क्रीडार्थ स्थापन, अनांसि काष्ठाद्यानयनानि, महादेवो हि पशुपतिस्तचिह्नमर्धचन्द्रः, अतः प्रतिष्ठितो भवतीति ॥२४॥ तत्र भगवतश्चरित्रमाह सामान्यतो वृन्दावनमिति, वृन्दावनं राजसं गोवर्धनः सात्त्विको यमुनापुलिनानि च दृष्ट्वोत्तमा प्रीतिरासीत्, अतः प्रीतः पूर्वोक्तप्रकारेण लीलां कृतवानित्युक्तं भवति, नृपेतिसम्बोधन दर्शनेन प्रीती राजलीलेति ज्ञापयितुम् ॥ २५ ॥ एवं सामान्यलीलामुक्त्वा स्त्रीनैरपेक्ष्येण विशेषतो बाललीलां वक्तुं वत्सचारणलीलामुपक्रमत एवमिति यावदध्यायसमाप्ति, पूर्वप्रकारेण वजौकसांब्रजमध्यस्थितानां प्रीतिं यच्छन्तावेव स्वकालेनाधिदैविकेन सेवार्थ- मागतेन कृत्वा वत्सपालयोग्यौ वर्षत्रयाधिकौ जातो, देशकालाद्युपद्रवाभावाय वालचेष्टितौ कलवाक्याविति पदद्वयं, मनसा तु प्रीतिं भावयत्येव कायेन वाचा च भावयतीति बालयोरिव चेष्टितानि ययोः, कलमव्यक्त- मधुरं वाक्यं ययोः, व्रजौकसां प्रीतेरनुवृत्तिः पूर्वकृतनिरोधनिवृत्त्यभावाय भगवति योग्यताफलयोः पृथङ् निरूपणाभावाद् वत्सपालकावेव सञ्जातावित्युक्तम् ॥ २६ ।। तयोर्वत्सपालने क्रीडामाह त्रिभिरविदूर इति, श्लो० ०२७-३०.] तामसप्रमाणप्रकरणे स्कन्धादित एकादशोध्यायः । अविदूरे ब्रजभुवः सह गोपालदारकैः । चारयामासतुर्वत्सान् नानाक्रीडापरिच्छदौ ॥२७॥ कचिद् वादयतो वेणून क्षेपणैः क्षिपतः कचित् । कचित् पादैः किङ्किणीभिः कचित् कृत्रिमगोषैः ॥२८॥ वृषायमाणौ नर्दन्तौ युयुधाते परस्परम् । अनुकृत्य रुतैर्जन्तूंचरतुः प्राकृतौ यथा ॥२९॥ कदाचिद् यमुनातीरे वत्सांश्चारयतोः स्वकैः । वयस्यैः कृष्णवलयोजिघांसुर्दैत्य आगमत् ॥३०॥ अन्नापि क्रीडा त्रिरूपा, तत्र प्रथमं व्रजभुवोविदूरे यत्र स्थितैर्बजो दृश्यते व्रजस्थाश्च पश्यन्ति, ब्रजभूम्यपेक्षया सा तृणयुक्ता विलक्षणेति ज्ञापयितुं ब्रजभुव इत्युक्तं, गोपालानां दारकाः समान- वयसस्तान् कृतार्थीकर्तुं बहुभिः सह क्रीडोत्तमा भवतीति क्रीडासाधनसहितावेव वत्सांश्चारयामासतुः, भ्रमर- चक्रसूक्ष्मदण्डकाष्ठखण्डकृत्रिमरथवादिवाकर्षणादीनि क्रीडापरिच्छदानि, तानि गृहीत्वैवायान्ति गच्छन्ति च, अनेन सामान्यतः क्रीडा निरूपिता, वत्सपालनं तु मुख्यं सूक्ष्मगोपालानां सहभावश्च ॥ २७ ॥ उभयोरत्र निरोधो वक्तव्यः, नन्दसहचरितानां निरोधनिरूपणाय, साधनैश्च क्रीडां प्रथमत आह प्रथमं कचिद् वेणून् वादयतोर्वेणुर्बहुच्छिद्रवंशस्तेषामवान्तरभेदा बहव इति बहुवचनं, शिरोव्यापारा अनेनोपलक्षिताः, क्षेपणा रज्ज्वादिनिर्मिता मध्ये लोष्टादि स्थापयित्वा भ्रामयित्वा लोष्टादिकं दूरे क्षिपन्ति तज्जातीया अपि बहुविधाः, एवमुभावपि क्षिपतो लोष्टादीनि दूरे प्रक्षिपतो मत्प्रक्षिप्तमेतावदूरे गच्छतीति ज्ञापनार्थ, कचिदिति यत्रान्योपद्रवशङ्का न भवति, हस्तयोः क्रीडा निरूपिता, कचित् पादैः किङ्किणीभिः सहितैर्नृत्यतः क्षिपतो वा लोष्टादीनि, कदाचिन् मृदादिनिर्मिता ये गोषा उभयतश्चक्रयुक्ता तानारुह्य बजतः, गोपाला वा कृत्रिमवृषाभवन्ति, तैः सह युद्धादिकं वा कुरुतः, तैर्वान्यान् क्षिपन्ति तमारोपयित्वा क्वचित् पातयन्ति ॥ २८ ॥ एवं शिरोबाहुपादयुद्धस्थानैश्चतुर्विधा लीला निरूपिता, सम्पूर्णेन लीलामाह वृषायमाणाविति, स्वयमेव वृषरूपौ भवतः कृत्रिमप्रकारेण, तथैव च नर्दन्तौ शब्दं कुरुतः, परस्पर- मन्योन्यं च युयुधाते, कायवाङ्मनोलीलाः प्रदर्शिताः, युद्धं कायिकमपि मनोधर्मप्राधान्यान् मानसं, एवं स्वतोलीलां निरूप्यानुकारेणापि स्वतोलीलामाहानुकृत्येति, जन्तून् मण्डूकादीन् मयूरादींश्चानुकृत्य तत्सरूपौ भूत्वा तैस्तैः सहानुकारेण तेषामपि भ्रममुत्पाद्य सर्वा एव लीलाः कृतवन्तौ, तत्र स्वैश्वर्यभावनया तथा कृतवन्तावितिशङ्कां वारयति प्राकृतौ यथेति, यथा प्राकृतौ लौकिकसाधनैरेव तत्तदनुकरणं कुरुतस्तथा भगवान् सर्वविधबालकानां मनोरञ्जनार्थं तेषां दोषदूरीकरणाथ निरोधार्थ च तथालीलां कृतवान् , जीवास्तु द्विविधा इत्युभयोस्तथाकरणम् ॥ २९ ॥ एवं भगवतो लीलामुक्त्वा पाल्यानां वत्सानां दोषरूपं वत्सासुरं मारितवानित्युपाख्यानमारभते कदा- चिदितिषड्भिः, यदा वत्सानां निरोधो भगवता विचारितः स एव कालः, यमुनातीरे वत्सांश्चारयतोस्तयोः सतोर्दैत्य आगमदितिसम्बन्धः, प्राकृता एव हि सदोषांश्चारयन्ति निरोधार्थ प्रवृत्तस्तु निर्दोषानेव पालयतीतिज्ञापनार्थ तेषां वत्सानां मिलितानां योयमासुरो भावः स एकीभूतो वत्सासुर इति तद्वधो निरूप्यते, यमुनातीर इति, तेषां शुद्धत्वे जलं हेतुः, दैत्यागमने तु यमभगिनीत्वं हेतुरिति, स्वकैवयस्यैः सहेति, येन्तःस्थिता बालास्ते निष्कासिता अत एव भगवद्भावमापन्नास्ते हि सर्वथा समानवयसो भवन्ति, अतो भक्तकालक्रोडीकृताः सख्ययोग्या भवन्तीति कृष्णबलयोश्चारयतोः सतोरितिपूर्वमिव सम्बन्धः, जिघांसु- र्घातकः क्रूरो दैत्यः पाल्यमानदोषरूपत्वादनामा, आगमत् क्रीडास्थाने समागतः ॥ ३० ॥ तस्य ग्रहणमाह तं वत्सरूपिणमिति, स प्रसिद्धो दोषात्मा वत्सस्येव रूपमस्यास्तीति वत्सरूपी तादृशोपि यदि पृथक् तिष्ठेत् . , ९२ श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [ श्लो० ३१-३६. तं वत्सरूपिणं वीक्ष्य वत्सयूथगतं हरिः । दर्शयन् बलदेवाय शनैर्मुग्ध इवासदत् ॥३१॥ गृहीत्वापरपादाभ्यां सह लागूलमच्युतः। भ्रामयित्वा कपित्थाग्रे प्राहिणोद् गतजीवितम् ॥३२॥ स कपित्थैर्महाकायः पात्यमानैः पपात ह । तं वीक्ष्य विस्मिता बालाः शशंसुः साधुसाध्विति ॥३३॥ देवाश्च परिसन्तुष्टा बभूवुः पुष्पवर्षिणः । वत्सासुरं हतं श्रुत्वा व्रजे गोप्यश्च विस्मिताः ॥३४॥ तौ वत्सपालको भूत्वा सर्वलोकैकपालको । सप्रातराशौ गोवत्सांश्चारयन्तौ विचरतुः ॥३५॥ स्वं स्वं वत्सकुलं सर्वे पाययिष्यन्त एकदा । गत्वा जलाशयाभ्यासं पाययित्वा पपुर्जलम् ॥३६॥ तदा केनचिञ् ज्ञायेतापि परं वत्सयूथगते वत्ससमूहे वत्ससमानाकृतिरूपो भूत्वा प्रविष्टः, मारणं तु तेषा- मुद्धारार्थ यतोयं सर्वदुःखहर्ता, बलभद्रादेरप्यन्यधर्मसम्बन्धाद् वाच्यतानिराकरणाय बलदेवाय प्रदर्शितवानय- मसुरो वत्स इति प्रदर्शितत्वादेव दैत्यस्वरूपमाविश्चकार, नो चेदवाच्यतां वा सम्पादयेत्, तथाभावे बल- भद्रेणाङ्गीकृते शनैर्यथा भगवत्कृत्या दैत्यत्वोबोधो न भवति तथा मुग्ध इवाजानन्निव वत्सान्तरं गृह्णन् क्रीडार्थमयमपि गृहीतः, तदाह मुग्ध इवासददिति, अवसादं प्रापितवानित्यर्थः, ग्रहणमात्रेणैव निष्पीडित एवावसन्नो जातो विशीर्णो वा गतिसाम्याद् धृतो वा, सम्यग्ग्रहणपर्यन्तमज्ञानाय मुग्धभावः ॥ ३१ ॥ ततो गृहीत्वा मारितवानित्याह गृहीत्वेति,महाबलत्वेन पुच्छभ्रामणादिनापराधकरणाभावाय लाङ्घलेन सहापर- पादाभ्यामपरपादौ गृहीत्वा, स्वस्य मारणादिशङ्का तु नास्त्येव, यतोयमच्युतः, कपित्थाग्रे भ्रामयित्वा कपित्थफलपातनार्थ प्राहिणोत् , एका क्रिया भगवतोनेकक्रिया सम्पादयतीति कपित्थपातनार्थ वृक्षोपरि पातनम- मुत्त्यर्थं च न प्राणापगमो भगवद्धस्तसम्बन्धे नापि भूमौ नापि वृक्षेन्तरिक्ष एव प्राणापगमः, अत एव गतजीवितमन्तरिक्ष एव गतप्राणं प्राहिणोत् ॥ ३२ ॥ बालकैस्तु भ्रामणे प्रहरणे च तच्छरीरं न दृष्टमेव, पश्चात् सफलं दृष्टमित्याह स कपित्थैरिति, कपित्थैः फलैः सह तेनैव पात्यमानः स महाकायः पपात ह बालैतिं स्थूलं कपित्थफलं शाखा वा पततीति तस्य पातः स्थूलता चात्याश्चर्यमिति हेत्याह, पतितं तं वीक्ष्य बालाश्च विस्मिता जाताः कुतोयं दैत्यः कथं पतित इति, भगवत्पातितं ज्ञात्वा साधुसाध्विति शशंसुः, ज्ञानं धारणं प्रक्षेपो मारणं चेति प्रत्येकं प्रशंसेति ज्ञापयितुं वीप्ताश्चर्यभावज्ञापकं वा, अनेन लोकेवाच्यता परिहृता ॥ ३३ ॥ लोकान्तरेप्यवाच्यपरिहाराय देवानामभिनन्दनमाह देवाश्चेति, देवाश्च साधुसाध्विति शशंसुः परि- सन्तुष्टाः परितः सन्तुष्टाश्च जाताः दैत्यवधाद्, वत्सेषु देवानां दैत्यानां च भोगः, इदानीं देवानामेवेति परितस्तोषः, पुष्पवर्षिणश्च बभूवुः, तेषां वाड्ननःकायव्यापारा निरूपिताः, अर्धमत्र पतितं, वत्सासुरं हतं श्रुत्वा व्रजे गोप्यश्च विस्मिता इत्येवमर्थम् ॥ ३४ ॥ एवं वत्सासुरे हते पुनर्वत्सान्तरशङ्कया वत्सचारणं बाला भगवान् वा न कृतवन्त इत्याशङ्कापरिहारार्थमाह वत्सपालको भूत्वेति, सर्वलोकैकपालकावपि वत्सपालको भूत्वा विचेरतु- रितिसम्बन्धः, कदाचिन्न वत्सचारणं किन्तु तद्वृत्तिमानिव निरन्तरं चालयति, अतो वस्सपालका इत्येव लोके प्रसिद्धिः, सर्वलोकेकपालकाविति च, एकपदमप्राधान्यपालकव्यावृत्त्यर्थं, भूत्वेतिमध्ये निवेश उभय- प्रसिद्धिख्यापकः, वेदाल्लोकप्रसिद्धिटुंबलेति, वत्सपालकत्वं नोक्तं भविष्यतीत्याशङ्क्य प्रथमं निर्दिष्टं, सन्ध्या- पर्यन्तं वत्सचारणं कर्तव्यं, अतो वत्सानां स्तनपानसमय एव प्रातरशनं कृत्वा सप्रातराशौ गवां वत्सान् धर्मोपयोगिनश्चारयन्तौ स्वयमपि विचेरतुः ॥ ३५ ॥ एवं वत्सानां दोषं परिहृत्य पालानामपि दोषं परिहर्तु दम्भात्मकं बकं मारितवानित्युपाख्यानमारभते स्वं स्व- मितिनवभिः, श्लो० ३७-४०.] तामसप्रमाणप्रकरणे स्कन्धादित एकादशोध्यायः। - ते तत्र ददृशुर्वाला महासत्त्वमवस्थितम् । तत्रसुवज्रनिर्भिन्न गिरेः शृङ्गमिव च्युतम् ॥ ३७॥ स वै बको नाम महानसुरो बकरूपधृत् । आगत्य तरसा कृष्णं तीक्ष्णतुण्डोग्रसद् बली ॥ ३८ ॥ कृष्णं महाबकग्रस्तं दृष्ट्वा रामादयोर्भकाः । बभूवुरिन्द्रियाणीव विना प्राणैर्विचेतसः ॥ ३९ ॥ तं तालुमूलं प्रदहन्तमग्निवद् गोपालसूनुं पितरं जगद्गुरोः। चच्छदं सद्योतिरुपाक्षतं बकस्तुण्डेन हन्तुं पुनरभ्यपद्यत ॥ ४०॥ यमुनाजलपानेन दोषः सर्वो विनिर्गतः । एकीभूतो बकः प्रोक्तो जलपानात् स दृश्यते ॥ १ ॥ अतः पानं दर्शनं च तेनोपद्रव एव च । ततः सर्वापराधश्च तद्वधोपाय एव च ॥ २ ॥ तद्वधश्च स्तुतिर्देवैर्गोपानां तोष एव च । तथैव गोकुलस्थानां नव प्राणा हि शोधिताः ॥ ३ ॥ प्रथमं बकदर्शनार्थ यमुनायां चारितान् वत्सा जलं पाययित्वा स्वयमपि जलं पीतवन्त इत्याह स्वं स्व- मिति, वत्सकुलं वत्ससमूहं सर्वेषामेव बहवो वत्सा इति सर्वेषां गमनं, अन्यथा सर्वेषां दर्शनं न स्यात् , तुल्योयं बकः सर्वेषामिति सर्वेषां समानक्रिया, एकदेति यदा बालका दोषान् मोचनीया इति भगवदिच्छा तदा, जलसमीपं गत्वा वत्सकुलं जलं पाययित्वा स्वयं जलं पपुः ॥३६॥ ततो दोषात्मकं बकं दृष्टवन्त इत्याह ते तत्रेति, ते सर्व एव तत्र जलनिकटे बाला भीरवो महासत्त्वं भयानकमवस्थितं निकटे मारकत्वेन स्थित प्रथमतो दृदृशुः पश्चात् तत्रसुः, तथापि भगवत्कृपया ते तं हतमेव ज्ञातवन्तः, अन्यथा महाभयेन प्राण- वियोगो भवेत् , तदाह वज्रेण निर्मिन्नस्य गिरेः शृङ्ग च्युतमिव तं दृशुः, कंसो हि जगदुपद्रवकर्ता भग- वता वज्रेण हत एव, तस्यायं शृङ्गस्थानीयः, सोप्यत्र च्युतः, नास्य व्याधुट्यगमनशङ्केत्यतः क्रीडार्थमेव विनि- योगो न तु पीडार्थ, केवलं बालानां दर्शनमात्रेणैव भयमिति ॥ ३७ ॥ ते सर्वे बाला भगवता निष्प्र- पञ्चीकृता इति तेषां दोषोयं भगवन्तमपकृतवानित्याह स वै बक इति, नामप्रसिद्ध्यैव तस्य दोषः स्पष्टः, महा- नसुर इति वत्सापेक्षयापि महान् , भगवदीयानां दोषत्वात् , बकरूपमेव च बिभर्ति तस्योपास्या देवता सैवेति स्वरूपतः प्रसिद्धा च, देवानुग्रहाच महान , अत एव तरसा शीघ्रमागत्य कृष्णं सदानन्दं लोभानृतरूपौ तुण्डौ यस्य तादृशो बली क्रियाशक्तिप्रधानो ग्रासं कृतवान् , आनन्दो हि लोभेन सच् चानृतेन ग्रस्यत एव, 'तं यथायथोपासत' इतिश्रुतेः, भगवतैव भगवान् वशीकृतः, गोपानां भगवत्प्रेमज्ञापनार्थमेव तथा कृत इति ॥३८॥ ततस्तेषां प्रेमाणमाह कृष्णमिति, महाबक उास्यस्तेन कवलीकृतं दृष्ट्वा रामादयोपि विचेतसो जाताः, तत्प्राणत्वात् , तेषां क्रियायां ज्ञाने वा सर्वथा सामर्थ्य गतमितिज्ञापनार्थ दृष्टान्तमाह विना प्राणैरिन्द्रियाणीवेति, एकस्तु न लोके दृष्टान्त इति ज्ञापयितुं प्राणैरितिबहुवचनम् ॥ ३९ ॥ लोभानृता- भ्यामेव सदानन्दतिरोभाव इति तुण्डदेशादधोगतः सरस्वतीस्थाने वेदानां प्रामाण्याथ तालुमूलं ज्वालितवान् , तीक्ष्णद्रव्याणामपि मरिचादीनां दाहकत्वमस्तीति तद्व्यावृत्त्यर्थमनिवज् ज्वालनमुक्तं, तथा दहन्तं त्यक्तवानित्याह तमिति, तालुमूलं कण्ठस्थानं, प्रकर्षो गिलनासामर्थ्यसम्पादकः, नन्वपहतपाप्मा कथं तालुमूलसम्बद्धो जात इत्याह गोपालसूनुमिति, तथाभावं सम्पादयन्नेतदपि कृतवानित्यर्थः, ननूभयमपि किमिति प्रदर्शितवानित्याशङ्कयाह पितरं जगद्गुरोरिति, ब्रह्मणोपि पिता, स हि सर्वानुपदिशति 'तत्त्व- मसी'ति, तत्रासम्भावनया न कोपि तथात्वं मन्यते तस्यैतन्निदर्शनार्थं भगवता कृतं, अनेनैव महत्त्वमपि सूचितं, कथं मारयिष्यतीतिशङ्का च परिहृता, किञ्च साधारणोपि ब्राह्मणो गरुडेन भक्ष्यमाणो गरुडस्यापि तालु ददाह किं पुनर्ब्रह्मणोपि पिता परब्रह्म ? अतश्चच्छद बहिनिष्कासितवान् , अन्यथा ज्वलित एव स्यात्, यदि ९४ श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [ श्लो०४१-४४ तमापतन्तं स निगृह्य तुण्डयो>ों बकं कंससखं सतां गतिः। पश्यत्सु बालेषु ददार लीलया मुदावहो वीरणवद् दिवौकसाम् ॥ ४१ ॥ तदा वकारि सुरलोकवासिनः समाकिरन् नन्दनमल्लिकादिभिः । समीडिरे चानकशङ्कसंस्तवैस्तद् वीक्ष्य गोपालसुता विसिस्मिरे ॥ ४२ मुक्तं बकास्यादुपलभ्य बालका रामादयः प्राणमिवैन्द्रियो गणः। प्रत्यागतं तं परिरभ्य निर्वृताः प्रणीय वत्सान् ब्रजमेत्य तज् जगुः ॥ ४३ ॥ श्रुत्वा तद् विस्मिता गोपा गोष्यश्चातिप्रियादृताः । प्रेत्यागतमिवौत्सुक्यादेवन्त तृषितेक्षणाः ॥४४॥ तावदेव कृत्वा गच्छेत् तदा जीवेद् वा, पुनरिति रुषा केनाप्यंशेनाक्षतं भगवन्तं तुण्डेन सम्पुटितेन पीडयितु- मभ्यपद्यत, अतिरोषाद् देवता तिरोहिता ॥ ४०॥ स्वसामर्थ्येन चेन् मारयितुं प्रवृत्तस्तदा दूरादेव भगवान् मारितवानित्याह तमापतन्तमिति, तं बकमासमन्तात् पतन्तं स कृष्णो दुःखदूरीकर्ता निगृह्य धृत्वा निग्रहं कृत्वा तुण्डद्वयं पृथग् धृत्वा ददार विपाटितवान् , ननु मारणे को हेतुः । तत्राह कंससखमिति, अन्यथा कसो न मारितः स्यादिति, कंसोपि किमिति मारणीय इति चेत् तत्राह सतां गतिरिति, सतां स एव रक्षकः, अन्यथा सद्रक्षा न स्यादिति, बालानामेव दोष इति पश्यत्सु बालेषु ददार, केचित् पुनर्बकहन्ता बकादनिर्गतो न भवतीति महादेवादिवरसत्यकरणार्थ तुण्डं प्रविष्ट इत्याहुः, तत् सत्यं चेत् कल्पान्तराभिप्रायं, तस्य विदारणे हस्तयोः प्रयासमाशङ्क्याह लीलयेति, ननूपासकवध उपास्यदेवानां दुःखं स्यादित्याशङ्क्याह दिवौकसां मुदावह इति, देवानां तेन सन्तोष एवात एव समागतानां दिवौकसां स्वर्ग- त्युत्तमे स्थितियुक्तानां तच्छकलद्वयमधोमुखतया स्थापितमतिकोमलमासनमिव जातमित्याह वीरणवदिति, वीरणं तृणविशेषस्तेनासनं निर्मीयते, अतस्तद्वधे देवानां हितमेव, लोमानृताभ्यां सह दम्भ गते भूमौ देवा हविर्भानो भवन्तीति ॥४१॥ एवं तदधिष्ठातृदेवानां सन्तोषमुक्त्वा स्वर्गवासिनां सर्वेषामेव तद्वधे सन्तोषमाह तदेति, बकारि बकहन्तारं सर्ववेदब्राह्मणपक्षपातिनं सुरलोकवासिनः सर्व एव नन्दनवनोद्भवमल्लिकादिपुष्पैः समाकिरन् पुष्पवृष्टिं कृतवन्तः, गोपानां महत्त्वज्ञापनार्थमेतद् वर्ण्यते, केवलपुष्पवृष्टिर्बालानां ज्ञापिका न भवतीति स्तोत्रवादित्राणि चाह समीडिर इति, आनकशङ्खाभ्यां सहितैः संस्तवैः सम्यगीडिरे सम्यक् स्तुतवन्तः, वाद्यद्वयं राजसतामसयोरपि स्तोत्राशक्तयोः सङ्ग्रहार्थ, एतत् सर्व दृष्ट्वा गोपालसुता अतिमुग्धाः कृष्णं स्वसमानं ज्ञातवन्तो विसिस्मिरे परमं विस्मयं प्राप्तवन्तः॥४२॥ पूर्व महत्त्वमानं ज्ञातमधुना त्वाश्चर्य जातं ततो भगवता सह व्रजमागत्य तन्माहात्म्यमुक्तवन्त इत्याह मुक्तमिति, वचनं हि हृदये प्ररूढं भवति भगवत्प्राप्ति- रत्यभीप्सितेति ज्ञापयितुं दुनिमित्तापगमे तथा भवतीति बकास्यान्मुक्तमुपलभ्येत्युक्तं, स्नेह एव तेषां स्फुरितो न तु माहात्म्याद् भयमिति ज्ञापयितुमाह बालका इति,रामस्यापि तदा गौणभावाद् बालकतुल्यतेत्याह रामा- दय इति, भगवदागमनात् पूर्वं न ते रामादयः किन्तु नामान्तरमेव प्राप्ताः, यथा प्राण विनन्द्रियो गणो गोलक- मात्रपर्यवसितः, प्रत्यागतं पुनरागतं ते भगवन्तं परिरभ्य निता: सुखिनो जाताः, बकमारणानन्तरमपि न बालका भगवत्समीपं गता मूर्छिता इवातिखेदेन पतिताः पुनरुगताः, भगवानेव परं प्रत्यागतः से चेत् सदानन्द आलिङ्गितः सर्वतःसम्बन्धोभूत तदा निताः, तदा वत्सान् प्रणीयेतस्ततो गतान् समानीय व्रजमेत्य तद् बकवधादिकं जगुरुक्तवन्तः॥४३॥ ततो यज् जातं तदाह श्रुत्वेति, तद्वकवधं श्रुत्वा गोपा गोप्यश्च विस्मिताः, गोपीनां विशेषमाहातिप्रियाहता इति, अतिप्रियेण भगवताहताःप्राप्तादराश्च जाताः, ततः परमानन्देन दृष्टवत्य १. सर्वैः सदानन्द इत्यपि पाठः । : " श्लो०४५-४८.] तामसप्रमाणप्रकरणे स्कन्धादित एकादशोध्यायः । ९५ अहो बतास्य बालस्य बहवो मृत्यवोभवन् । अप्यासीद् विप्रियं तेषां कृतपूर्व यतो भयम् ॥४५॥ अथाप्यभिभवन्त्येनं नैव ते घोरदर्शनाः । जिघांसयैनमासाद्य नश्यन्त्यनौ पतङ्गवत् ॥४६॥ अहो ब्रह्मविदां वाचो नासत्याः सन्ति कर्हिचित् । गर्गो यदाह भगवानन्वभावि तथैव तत् ॥४७॥ इति नन्दादयो गोपाः कृष्णरामकथां मुदा । कुर्वन्तो रममाणाश्च नाविन्दन् भववेदनाम् ॥४८॥ इत्याहौत्सुक्यात् प्रेमाधिक्यादवितृप्तेक्षणा अतृप्तनयना ऐक्षन्तेति, पामराणां बुद्धिमनुसृत्याश्लीलमप्याह शुकः, सा हि प्रीतौ परमा काष्ठा, औत्सुक्यं प्रेमातिभरतयामर्यादं भवति, तेन सर्वपरित्यागेन भादिशङ्कामपि परित्यज्य दृष्टवत्यः, इयं बुद्धिस्तेषां नारोपिता किन्तु सहजेति ज्ञापयितुं नेत्रयोरतृप्तिमाह ॥ ४४ ॥ तच् छ्रुत्वा विमर्शकाणां नन्दादीनां यज् जातं तदने वक्तुं तेषां विचारमाह त्रिभिरहो इति, तामसा आहुरहो इति, अहो इत्याश्चर्ये, एकस्यैव बहव उपद्रवा इति बतेतिखेदे, स्वस्य तादृशं दुरदृष्टमिति, अस्यैव बालस्य, किमपि तत्र हेतुं कल्पयन्ति कृतपूर्व यतो भयमिति — यो हन्ति स हन्यत । इतिन्यायाद् भयं तु कृतपूर्वं भवति, स्वयं चेदन्यस्मै करोति तदा प्राप्नोति भगवांस्तु न करोति ते तु कुर्वन्तीति तेषामेव भय- मुचितम् ॥ ४५ ॥ राजसास्तु तेषामपकारो न तत्कर्मणा केवलेन किन्तु भगवन्माहात्म्यादित्याहुरथापीति, यद्यपि कृतपूर्व भयं भवति, तथाप्ययुक्ते कृते प्रयत्ना नश्यन्ति, अन्यथा पूर्वमेव ते कथं न नष्टा भवेयुः ? तस्मादप्येनं भगवन्तं नैवाभिभवन्ति, अभिभवार्थमप्यागता नाभिभवं कर्तुं शक्नुवन्ति, न चाप्रयोजकाः, यतस्ते पूतनादयः प्रसिद्धाः, अस्तु तेषां बलं दूरे, घोरमेव दर्शनं येषां, दृष्टा एव भयजनका भवन्तीत्यर्थः, तत्र दृष्टान्तमाह जिघांसयैनमासाद्य स्वयमेव नश्यन्ति, अभिप्रायप्रयत्नविरुद्धं फलं प्राप्नुवन्ति, तदसम्भावित मत्वा दृष्टान्त उच्यते पतङ्गवदिति, ते हि पक्षवन्तः सूक्ष्माः कीटा आत्मानं महान्तं मन्यमाना नरा मूढा अग्निं तेजस्विनं मत्वा किमित्युपासते वयं त्वग्निं दूरीकरिष्याम इति महतोवमननां कृत्वा निर्वाणार्थ प्रवृत्ताः स्वयमेव नश्यन्ति,दग्धा भवन्ति, न त्वग्नेःकाचित् क्षतिः, एवमयं भगवानतितेजस्वी तान् मारयतीति युक्तम्॥४६॥ अन्ये पुननन्दादय प्रमाणबलसिद्धमिममर्थ मन्यमाना नात्यद्भुतमिति प्रमाणमेव स्तुतवन्त इत्याहाहो इति, अहो इत्याश्चर्ये, कथं वा ब्रह्मविदोग्रिमवृत्तान्तं जानन्तीति, तत्रोपपत्तिब्रह्मविदामिति, 'यस्मिन् विदिते सर्वमिदं विदितं भवतीति, अत एव तेषां वाचः कदाचिदप्यसत्या न भवन्ति, तादृशी वाङ् नोत्पद्यत एवेति वक्तुं सन्तीत्युक्तं, ननु का ब्रह्मविदां वाच इत्याकाङ्क्षायामाह गर्गों यदाहेति, तत्र हेतुर्भगवानिति, ब्रह्मविदो हि ब्रह्मैव भवन्तीत्यतस्तेषां वाक्यप्रामाण्यात् तथैव तदन्वभावि, वेदवादिनो हि शब्दस्य नानुवादकत्वं मन्यन्ते किन्तु विधायकत्वमत ईश्वरो वेद एव तद्वाक्यादेव फलसिद्धिर्न तु फलसाधकत्वेनेश्वरापेक्षेति, "अनेन सर्वदुर्गाणि यूयमञ्जस्तरिष्यथेति "नारायणसमो गुणै"रिति, अतस्तद्वाक्यादस्य बालस्य तादृग्गुणा जायन्त इतिभावः ॥४७॥ एवं नन्दादीनां त्रिविधं ज्ञानं निरूप्य फलितं वदन् भगवत्कृतं नन्दनिरोधमनूद्योपसंहरतीतीति, इतिभावेन नन्दादयो गोपाः कृष्णरामकथा स्वतन्त्रतया फलत्वेन कुर्वन्तस्तयैव कथया जातया परमनिवृत्या रममाणाः, चकाराद् विस्मृतदेहा जातब्रह्मात्मानुभवा वा भववेदनां संसारतापं नाविन्दन् न ज्ञातवन्तः, प्रपञ्चविस्मृतिः सर्वा तदासक्तिश्च निरोध इति भगवत्कृतं कार्य नन्दादिषु फलितम् ॥ ४८ ॥ एवं बाल्यभावेन कृते नन्दनिरोधे प्रतिष्ठिते सति येन भक्तेन कालेन क्रोडीकृतास्ते निरुद्धास्तं कालमपि सिद्धे प्रयोजने त्यक्त- वानित्याहैवविहारैरिति, एवं पूर्वोक्तप्रकारैः कालस्य हारैलीलारूपैः करणैः सह वा कौमारं जहतुः, ननु विजातीयानां कथं कौमारनिवर्तकत्वं ? तबाह कौमारैरिति, कुमारावस्थोद्भवैररणेरुत्पन्नेनैव वह्निनारणिः ६ श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [श्लो०४९ एवंविहारैः कौमारैः कौमारं जहतुजे । निलायनैः सेतुबन्धैर्मर्कटोत्प्लवनादिभिः ॥ ४९ ॥ शाम्यतीति, तानि चरितानि त्रिविधानीति गणयति निलायनैरिति, वैरेव विहारैर्बज एव कौमारं जहतुः, अतो ब्रज एव कुमारो जातः कुमारी च, अतोने वक्तव्याः 'कुमार्यः कृष्णचेतस' इति करिष्यन्ति च लीलां लतागृहादिषु लीना भगवद्वशीकरणप्रयत्ना गृहस्वमर्यादोल्लङ्घनकच॑श्च, भगवान् कुमारावस्थायां निलायनक्रीडां करोति, स हि परमानन्दो भूत्वा स्वाज्ञानार्थं मायया ज्ञानशक्तिं रुणद्धि, तथात्रापि गोपादीनां चशूषि पिधत्ते पश्चान्निलीय तिष्ठति तथान्ये गोपालाः, किञ्च जले प्रवहति सेतुबन्धान् कुर्वन्ति, रामावतारे ह्येक एव बन्धः कृतः, एकैव सीतेति, अत्र यमुनादिषु बहूनेव बन्धान् करोति यतः पुलिनादिषु गत्वा रमण सिध्यति, किञ्च मर्कटोत्प्लवनादिकमपि करोति, वृक्षाद् वृक्षान्तरे गच्छति सर्वशाखाफलभोगार्थ, एकस्यामप्यारूढः सर्वफलं भुङ्क्ते न तु तस्य भिन्नः प्रक्रमोपेक्ष्यते, आदिशब्देन मण्डूकप्लुत्यादिकमपि, ब्राह्मणोपि भवति क्षत्रियोपि भवति सर्वमेव रसमेकन स्थित एव गृह्णाति, न तु तस्य मर्यादा प्रतिवन्धिकेति, एवं यावद्भिर्भावैर्यावन्तो गोकुलवासिनो ग्रहीतुं शक्यास्तान् सर्वानेव विहारान् कृतवान् , मूलरूपलीला जगद्रूपलीला वेदरूपलीलेति लीलात्रयं परिचायकत्वेनोक्तं, अतः परं कौमारकार्य नास्तीति ताभि-लाभिः सह कौमारावस्थां जहतुः ॥ ४९ ॥ इति श्रीमद्भागवतसुबोधिन्यां श्रीमद्वलभदीक्षितविरचितायां दशमस्कन्धविवरणे द्वितीये तामसप्रकरणे. वान्तरप्रमाणप्रकरणे धर्मिनिरूपकसप्तमाध्यायस्य स्कन्धादित एकादशाध्यायस्य विवरणम् ॥ ॥ समाप्तमवान्तरं तामसप्रमाणप्रकरणम् ॥

॥ परिशिष्टम् ॥ ॥ कौतुकलीलानिरूपकप्रक्षिप्ताध्यायत्रयात्मकम् ॥ तत्रादौ प्रथमोध्यायः॥ ॥ श्रीशुक उवाच॥ कचिद् वनाशाय मनो दधद् व्रजात् प्रातः समुत्थाय वयस्यवत्सपान् । प्रबोधयञ् सृङ्गरवेण चारुणा विनिर्गतो वत्सपुरःसरो हरिः॥१॥ तेनैव सार्धं पृथुकाः सहस्रशः स्निग्धाः सुशिग्वेत्रविषाणवेणवः । स्वान् स्वान् सहस्रोपरि सङ्ख्ययान्वितान् वत्सान पुरस्कृत्य विनिर्ययुर्मुदा ॥२॥ कृष्णवत्सैरसङ्ख्यातैयूंथीकृत्य स्ववत्सकान् । चारयन्तोभलीलाभिर्विजस्तत्र तत्र ह ॥ ३ ॥ फलप्रवालस्तबकसुमनःपिच्छधातुभिः । काचगुञ्जामणिस्वर्णभूषिता अप्यभूषयन् ॥ ४ ॥ मुष्णन्तोन्योन्यशिक्यादीज्ञातानाराञ्च चिक्षिपुः। तत्रत्याश्च ततो दूराद्धसन्तश्च पुनर्ददुः॥५॥ कथामात्रं हरेर्वाच्यं सर्वत्रेत्यत्र केचन । कथां वक्तुं भागवतीं कचित् सिद्धामलौकिकीम् ॥ १ ॥ योजयित्वा त्वाधुनिका अध्यायत्रितयं जगुः । शब्दार्थसङ्गतीनां हि स्पष्टा तत्र विरुद्धता ॥ २ ॥ लोकप्रसिद्धेस्तच्चापि कथञ्चिद् रूप्यते स्फुटम् ॥ २ ॥ पूर्वाध्यायान्ते "कौमारं जहतुव्रज" इत्युक्तं, " ततश्च पौगण्डवयः श्रितौ बजे बभूवतुस्तौ पशुपाल- सम्मता" वित्येव सन्दर्भस्तथापि भगवच्चरितमिव वत्सापहरणं पद्मपुराणे प्रसिद्धमिति तां कथामाश्रित्याघासुरवधं ब्रह्मस्तुति च पूर्वापरयोनिवेश्य कौतुकलीला भगवतः प्रदर्शिता, लोका हि लौकिके कौतुकिनो भवन्ति, तत्र तु प्रथमेध्याये लीलामाह सुविस्तराम् । अघासुरस्य च वधं मुक्तिश्चापि स्वयुक्तितः ॥ १ ॥ प्रथम भगवतो दशभिःश्लोकैलीलामाह, कचित् कदाचित् , वनाशायाशनमाशो वनेशनं कर्तु मनो दधद् विभ्रत् प्रातःकाले बजादुत्थाय विनिर्गत इतिसम्बन्धः, वयस्याश्च ते वत्सपाश्च, शृङ्गारवेणैव तेषामुत्थापन, कृष्णस्यैवायं व इतिज्ञापनार्थ चारुणेति, दोहानन्तरं वत्सान् गृहीत्वा निर्गतः॥१॥ तदा सर्वेपि निर्गता इत्याह तेनैवेति, तेनैव भगवता सार्धं पृथुका बालाः सहस्रशो निर्गताः स्निग्धाः प्रेमला भगवति, शोभना शिक् शिक्यमोदनसहितं वेत्रं वत्सचारणार्थ विषाणं वादनार्थ वेणुश्च ते येषां सन्ति स्वकीयान् वत्सान् पुरस्कृत्य तेपि मुदा गृहेभ्य ययुः, एकैकस्य सहस्रसङ्ख्यात उपरि सङ्ख्याऽयुतमित्यादि तया सङ्ख्यया- न्वितान् ॥ २॥ तान् सर्वानेव स्ववत्सकान् कृष्णवत्सेषु योजितवन्त इत्याह कृष्णवत्सरिति, भगवद्वत्सः सह स्ववत्सान् यूथीकृत्य, अन्यथा स्वच्छन्दलीला न भवति, ततोपि पृथग्भूतान् कदाचिन्निर्गच्छन्तोर्भ- लीलाभिरेव तांश्चारयन्तो विजहुस्तत्रतत्र क्रीडितवन्तः ॥ ३॥ फलादिभिश्च स्वशरीरं भूषितवन्त इत्याह फलेति, पूर्व काचादिभिर्भूषिता अपि पुनर्वन्यैरभूषयन् , स्तबकाः पुष्पगुच्छानि, सुमनसः केवलपुष्पाणि, पिच्छानि मयूरपिच्छानि, गैरिकादिधातवः, गुञ्जाफलानि वन्यान्यपि नित्यं तिष्ठन्तीति काचादिषु गणितानि ॥ ४ ॥ बालकानामन्योन्यं क्रीडामाह मुष्णन्त इति, अन्योन्यस्य शिक्यादीन् मुष्णन्ति, ततोनेन मदीयं नीतमिति ज्ञात आराद् दूरादेव चिक्षिपुः प्रक्षिप्तवन्तः, ततोपि येषु ते शिक्यादयः पतितास्तेपि ताम् छिक्यानन्यांश्च ९८ श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [ श्लो०६-१४. यदि दूरं गतः कृष्णो वनशोभेक्षणाय तम् । अहम्पूर्वमहम्पूर्वमिति संस्पृश्य रेमिरे ॥६॥ केचिद् वेणून वादयन्तो ध्मान्तः शृङ्गाणि केचन। केचिद् भृङ्गै प्रगायन्तः कूजन्तः कोकिलैः परे ॥७॥ विच्छायाभिः प्रधावन्तो गच्छन्तः साधु हंसकैः । बकैरूपविशन्तश्च नृत्यन्तश्च कलापिभिः ॥ ८॥ विकर्षन्तः कीशवालानारोहन्तश्च तैर्दुमान् । विकुर्वन्तश्च तैः साकं प्लवन्तश्च पलाशिषु ॥ ९ ॥ साकं भेकैविलवन्तः सरित्मस्रवसम्प्लुताः । विहसन्तः प्रतिच्छायाः शपन्तश्चप्रतिस्वनान्॥१०॥ इत्थं सतां ब्रह्मसुखानुभूत्या दास्यं गतानां परदैवतेन । मायाश्रितानां नरवालकेन सार्धं विजहुः कृतपुण्यपुञ्जाः॥ ११ ॥ यत्पादपांसुबहुजन्मकृच्छूतो धृतात्मभिर्योगिभिरप्यलभ्यः । स एव यद्दग्विषयः स्वयं स्थितः किं वर्ण्यते दिष्टमतो ब्रजौकसाम् ॥ १२ ॥ अथाघनामाभ्यपतन्महामुरस्तेषां सुखक्रीडनवीक्षणाक्षमः । नित्यं यदन्तर्निजजीवितेप्मुभिः पीतामृतैरप्यमरैः प्रतीक्ष्यते ॥ १३ ॥ दृष्ट्वार्भकान् कृष्णमुखानघासुरः कंसानुशिष्टः स बकीवकानुजः। अयं तु मे सोदरनाशकृत् तयोयोरथैनं सवलं हनिष्ये ॥ १४ ॥ दूराच्चिक्षिपुः, ततो हसन्तश्च पुनर्ददुस्तेभ्य एव ॥ ५ ॥ यदि दूरं गतः कृष्णो भवति तदा तस्मिन् दूर गते वनशोभाया दर्शनार्थमहं पूर्व स्प्रक्ष्यामीत्यहमिकया भगवन्तं संस्पृश्य रेमिरे ॥ ६ ॥ तत्र केचिद् बाला वेणून वादयन्तो जाताः केचन शृङ्गाणि ध्मान्तो वादयन्तो जाताः, केचित् पुनर्भृङ्गैः सह तथैव गायन्तस्तथैव कोकिलैः सह कूजन्तः॥ ७ ॥ केचित् पुनरुपरि गच्छतां वयसां छायाभिर्मण्डलाकृतिभिः प्रकर्षेण धावन्तो जाता हंसैः सह साधु गच्छन्तश्च बकैः सह तथैवोपविशन्तः कलापिभिर्मयूरैः सह नृत्यन्तश्च जाताः ॥ ८ ॥ कीशा लम्बपुच्छा वानरास्तेषां बालान् पुच्छानि विशेषेण कर्षन्तो बालानेव च धृत्वा तैः सह द्रुमाना- रोहन्तो मुखविकारांश्च कुर्वन्तो मर्कटवदेव पलाशिषु वृक्षेषु प्लवन्त उत्प्लुत्य गच्छन्तो भूमौ च ॥९॥ भेकै- मण्डूकैः सह, सरितो नद्यः, प्रस्रवा झरणाः, सम्प्लुतास्तैरेव, गर्ता वा, स्त्रीलिङ्गपाठश्चिन्त्यः, प्रतिच्छाया दर्पणादिप्रतिबिम्बानि प्रतिस्वनांस्तटादिषु निर्गताम् छब्दान् स्वशब्दानुरूपाम् छपन्तश्च भवन्ति ॥ १० ॥ तेषां भाग्यमभिनन्दतीत्थमितिद्वाभ्यां, लोका त्रिविधा ज्ञानिनो भक्ताः प्राकृताश्च, तत्र भगवान् सर्वेषां तत्तबुद्ध्यनुसारेण स्फुरति "तं यथायथोपासते तथैव भवती"तिश्रुतेः, तत्र सतां ज्ञानिनां ब्रह्मरूपः सद्रूपः सुखरूप आनन्दरूपोनुभुतिरूपो ज्ञानरूपस्तादृशेन सह ते विजढुरिति बालकानां भाग्यं दास्यं गतानां भक्तानां परो नियन्ता स्वामी दैवतमाराध्यो मायाश्रितानां प्राकृताना केवलं नरवालकः, एवं सर्वैः सर्वप्रकारेणापि विभाव्येन सार्धं कृतः पुण्यपुञ्जो यैस्ते विजढुः ॥११॥ महच्च तेषां भाग्यं यत् तेषां दृष्ट्यग्रे भगवांस्तिष्ठतीत्याह यत्पादपांसुरिति बहुजन्मतपसा जितेन्द्रियैर्योगिभिरपि शरीरेन्द्रियान्तःकरणशुद्धि- युक्तैरपि यत्पादपांसुरलभ्यः स एवैष कृष्णो येषां बालकानां सर्वेषामेव व्रजस्थितानां वा स्वयमेव स्थितो न तु तैः प्रार्थितोपि, अतो बजौकसां भाग्यमवाङ्गनोगोचरं किं वर्ण्यते ? १२ ॥ एवं क्रीडायां मध्येघासुरः समागत इत्याहाथेत्येकविंशतिभिस्तस्य मुक्त्यन्ता कथा निरूप्यते, अघो- न्वर्थनामा तेषां बालकानां सुखक्रीडनस्य वीक्षणेप्यक्षमा यस्य, नित्यं सर्वदा यदन्तरघासुरनाशोमरैः प्रतीक्ष्यते, तत्रहेनिजजीवितेप्सुभिरिति, यद्यपि ते पीतामृताः, अतोयमत्यन्तं दुष्टोमृतादीनामपि स्तुसामर्थ्यनाशकः ॥ १३ ॥ अर्भकान् बालकान् कृष्ण एव प्रमुखो येषां कंसेन प्रेपितः स प्रसिद्धो - ९९ शो० १५-२३.] प्रक्षिप्रेपु प्रथमः स्कन्धादितो द्वादशोध्यायः। एते यदा मत्सुहृदोस्तिलापः कृतास्तदा नष्टसमा बजौकसः । प्राणे गते वर्मसु कानुचिन्ता प्रजासवः प्राणभृतो हि ये ते ॥ १५ ॥ इति व्यवस्थाजगरं बृहद् वपुः स योजनायाममहाद्रिपीवरम् । धृत्वाद्भुतं व्यात्तगुहाननं तदा पथि व्यशेत ग्रसनाशयः खलः ॥ १६ ॥ धराधरोष्ठो जलदोत्तरोष्ठो दर्याननान्तो गिरिशङ्गदंष्ट्रः । ध्वान्तान्तरास्यो वितताध्वजिह्वः परुषानिलश्वासदवेक्षणोष्णः ॥ १७ ॥ तं दृष्ट्वा तादृशं सर्वे मत्वा वृन्दावनश्रियम् । व्यात्ताजगरतुण्डेन ह्युत्प्रेक्षन्ते स्म लीलया ॥ १८ ॥ अहो मित्राणि गदत सत्त्वकूटं पुरःस्थितम् । अस्मत्सङ्गसनव्यात्तव्यालतुण्डायते न वा ॥ १९ ॥ सत्यमर्ककरारक्तमुत्तराहनुवद् धनम् । अधराहनुवद्रोधस्तत्मतिच्छाययारुणम् ॥ २०॥ प्रतिस्पर्धेते सक्किभ्यां सव्यासव्ये नगोदरे । तुङ्गशृङ्गालयोप्येतास्तदंष्ट्राभिश्च पश्यत ॥ २१ ॥ आस्तृतायाममार्गोयं रसनां प्रति गर्नति । येषामन्तर्गतं वान्तमेतदप्यन्तराननम् ॥ २२ ॥ दावोष्णखरवातोयं श्वासवद् भाति पश्यत । तदग्धसत्त्वदुर्गन्धोप्यन्तरामिषगन्धवत् ॥ २३॥ बकी पूतना बकश्च तयोरनुजः, तस्य सङ्कल्पमाहायं विति, त्विति पक्षान्तराणि व्यावर्तयति, अयं तु भगवान् मे सोदरयोर्धात्रो शकर्ता न कर्मकालादि, अतस्तयोईयोरर्थ उपद्रवं करिष्यामीति ॥१४॥ ततो बालकाना- मप्युपद्रवो भविष्यतीत्याहैत इति, मत्सुहृदोर्मद्भात्रोस्तिलापः कृतास्तिलोदकपाया मृतानां तृप्तिहेतवः, तदा बजौकसो गावःस्त्रीपुरुषाश्च नष्टसमा नष्टप्रायाः, यथा प्राणे गते वर्मसु देहेषु गमनाथ का चिन्ता ? बालकाश्च व्रजवासिनां प्राणरूपाः, यतः प्राणभृतः प्रजासवः प्रवासवः प्राणा येषाम् ॥ १५ ॥ इत्यध्यवसायं कृत्वाजगरमजगरवत् स्थूलं वपुर्धृत्वा पथि व्यशेत योजनमात्रमायामो विस्तारो यस्य वपुषः, महाद्रिवत् पर्वतवत् स्थूल भ्रमार्थमत्यद्भुतं व्यात्तं गुहावदाननं यत्र, असनार्थमेव शयनं कृतवान् , दया तु नास्ति यतः खलः ॥ १६ ॥ तस्य रूपमनुवर्णयति धरेति, धरायां भूमावघरोष्ठं यस्य, जलदेषु मेघेषूत्तरोष्ठं यस्य, दरीवत् कन्दरवदाननान्तो मुखमध्यं यस्य, गिरेः शृङ्गवद् दंष्ट्रा यस्य, ध्वान्तयुक्तमन्तरास्यं, वितताध्ववन् मार्गवज् जिह्वा यस्य, परुषः स्पर्शदुःसहो योनिलस्तद्वच् वासः, दववद् दवानलवदीक्षणयोरुष्णःस्पर्शो यस्य, श्वासेन सहित ईक्षण उष्णो वा, तादृशमपि दृष्ट्वा बालका न भीताः किन्तु स्वेष्टत्वेनैव कल्पितवन्तः ॥१७॥ अत एव तेषां न भयं जातमसद्भावाभावादित्याशयेनाह तं दृष्टुति, तं तादृशं दृष्टा वृन्दावनश्री- रेवैषेति मत्वा क्षणं ध्यात्वा भवति न वेत्यजगरतुण्डतुल्यत्वेन श्रियमेवोत्प्रेक्षितवन्तः, श्रीरेषा परमजगर- तुण्डवद् दृश्यत इति, स्मेतिप्रसिद्धिः, स्वस्य भयाभावाल्लीलया यत्किञ्चित् कल्पयन्ति स्म ॥ १८ ॥ कल्पनामेवाह पञ्चभिः, अहो इत्याश्चर्य, मित्राणि सर्वाणि गदत इति सम्बोधनं वा, सत्त्वकूटं कपटसत्त्वं पुरस्थितमने वर्तमानमस्मत्सङ्यसनार्थमेव व्या प्रसारित व्यालतुण्ड मिवाचरति न वेतिनिर्णयो वक्तव्य इत्यर्थः ॥ १९॥ तत्र नवापक्षं दूरीकृत्योत्प्रेक्षार्थ व्यालतुण्डत्वमेव सम्पादयन्ति सत्यमिति, अर्ककरै- रारक्तमुत्तराहनुवद् घनं पश्यत,अधराहनुवद् रोधश्च तस्यैवारक्तमेघस्य प्रतिच्छाययारुणवर्णम् ॥ २० ॥ मुकिणीभ्यां कृत्वा सव्यासव्ये पर्वतकन्दरे प्रतिस्पर्धेते, वस्तुतः कन्दरैव सृक्विणीव दृश्यते, तुङ्गानां शृङ्गाणामालयः पङ्क्तयोपि तद्दष्ट्राभिः प्रतिस्पर्धन्ते, नात्र सन्देहः, पश्यत ॥ २१ ॥ आस्तृत आ- समन्तादायाममार्गो योजनपरिमितो रसनां प्रति गर्जति रसनावद् भासते, गर्जनादिकं तुल्यत्वाय, येषां शृङ्गाणां दंष्ट्राणामन्तर्गतमपि ध्वान्तमन्तराननं प्रति गर्जति ॥ २२ ॥ दाववद दावानलवदुष्णः खरश्च श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [ श्लो० २४-३०. अस्मान् किमत्र ग्रसिता निविष्टानयं तथा चेद् बकवद् विनझ्यति । क्षणादनेनेति वकार्युशन्मुखं वीक्ष्योद्धसन्तः करताडनैर्ययुः ॥ २४ ॥ इत्थं मिथोतथ्यमतज्ज्ञभाषितं श्रुत्वा विचिन्त्येत्यमृषा मृषायते । रक्षो विदित्वाखिलभूतहत्स्थितः स्वानां निषेधुं भगवान् मनो दधे ॥ २५ ॥ तावत् प्रविष्टास्त्वसुरोदरान्तरं परं न जीर्णाः शिशवः सवत्साः । प्रतीक्षमाणेन बकारिवेशनं हतस्वकान्तस्मरणेन रक्षसा ॥ २६ ॥ तान् वीक्ष्य कृष्णः सकलाभयप्रदो ह्यनन्यनाथान् स्वकरादवच्युतान् । दीनांश्च मृत्योर्जठराग्निघासान् घृणादितो दिष्टकृतेन विस्मितः ॥ २७ ॥ कृत्यं किमत्रास्य खलस्य जीवितं न वा अमीषां च सतां विनाशनम् । द्वयं कथं स्यादिति संविचिन्त्य तज् ज्ञात्वाविशत् तुण्डमशेषग्धरिः ॥ २८ ॥ तदा धनच्छदा देवा भयाद्धाहेति चुक्रुशुः । जहषुर्ये च कंसाद्याः कौणपास्त्वघवान्धवाः ॥२९॥ तच्छ्रुत्वा भगवान कृष्णस्त्वव्ययः सार्भवत्सकम् । चूर्णीचिकीर्षारात्मानं तरसा वधे गले ॥३०॥ वातोयं, दावानलेन वोष्णः, श्वासवद् भाति पश्यत विचारयत, तत्र दावानले दग्धानां सत्त्वानां दुर्गन्धोन्तरोदरे यदामिषमपक्क्मांसं यत् तेन भक्षितं तस्य गन्धवद् भाति ॥२३॥ तद्येवं सति किं कर्तव्य- मित्याशय गन्तव्यमेवेति निर्धार्य बाधकं दूरीकुर्वन्त्यस्मानिति, अत्र प्रविष्टानस्मान् किमयं ग्रसिष्यति? तथा चेद् वकवदेव क्षणादेव नाशं यास्यत्यनेनैव कृष्णेनैवैषोध इति निश्चित्य बकारे गवत उशत् कमनीयं मुखं वीक्ष्यो– हसन्तः करताडनैः सहिताः प्रवेष्टुं ययुः॥२४॥ भगवान् पुनर्मा प्रविशन्तु सर्पोयं भक्षणार्थ स्थित इति यावद् वदति तदर्थ च यावन् मनसि विचारयति तावदेव प्रविष्टा इति श्लोकद्वयसम्बन्धः, इत्थं पूर्वोक्तप्रकारेण मिथो बालकैस्तथ्यमेवातथ्यवद् भाषितं तेषां वाक्यं श्रुत्वा विचिन्त्य सत्यमयमजगर एवेति निश्चित्यामृषैव राक्षसो मृषायतेजगरवत् तिष्ठति श्रीरिव वा बुद्धिमुत्पादयति, अतोयं राक्षस एवेति विदित्वा स्वानां नि- षेधार्थस्वान् निषेधुं सर्वज्ञो भगवान् मनो दधे विचारितवांस्तावदेव बालका असुरोदरान्तरं प्रविष्टाः सवत्सा गतप्राणा अपि तदुदराग्निना न जीर्णाः, जरणे तेषामुपमर्दोपेक्ष्यते, स तु न जात इत्याह, बकारिप्रवेशं प्रतीक्षमाणेन हतयोर्बकीबकयोरन्तस्मरणं मृत्युस्मरणं यस्य तेन रक्षसा दृढवैरानुबन्धेन जातिदुष्टेनापि भगवत्- प्रतीक्षया न जीर्णाः ॥ २५-२६ ॥ भगवतो विचारमाह तान् वीक्ष्येति, कृष्णः सर्वेषामभयदाता तेषां गो. कुलवासिनां च, सर्व एवानन्यनाथाः, न विद्यतेन्यो नाथो येषां, इदानीं च स्वकरादवच्युता अकस्मात् तन्मुखे पतिताः, नाप्युपेक्षणीया दीनाः, मृत्योरघस्यैव जठराग्नेांसाः कवलरूपाः, दिष्टकृतेन तथाभूतां- स्तान् दृष्ट्वा भगवान् विस्मितो जातः ॥ २७ ॥ विचारयति कृत्यं किमत्रेति, यद्ययं मार्यते बालका अपि गमिष्यन्ति, अन्यान् कृत्वा गृहनयने कृतेप्येते नष्टा एव, अतो बालका रक्षणीया अयं च मारणीयः, एतदुभयं मत्प्रवेशेनैव भवतीति तुण्डमविशत् , यतोयमशेषग घरिश्च सर्वदुःखहर्ता, अस्य खलस्य जीवितं यथा न स्यादमीषांवा सतां विनाशनं यथा न स्यादेतद् द्वयं कथं स्यादितिफलद्वयमेकं साधनं च सञ्चिन्त्य तादृश- मुपायं ज्ञात्वा प्रविष्टः ॥२८॥ तदा देवाः कंसादयश्चाकाशमार्गेण द्रष्टुमागताः, तत्र देवा घनच्छदा मेघान्तरिताः पश्यन्ति ते हाहेति चुक्रुशुः कंसाया जट्टषुहर्ष प्राप्तवन्तः कंसाद्याः सर्व एव ये केचनाघस्य बान्धवाः कौणपा राक्षप्ताः ॥ २९॥उभयेषां हर्षविषादौ श्रुत्वा भगवान् कृष्णोव्ययः स्वतो भयरहितः साभवत्सकं बालक- वत्ससहितमात्मानं चूर्णीचिकीर्षीरस्य गले वधे स्थूलो जातः ॥३०॥ ततोतिकायस्य स्थूलस्य सर्पस्य .

श्लो० ३१-३८.] प्रक्षिप्तेषु प्रथमः स्कन्धादितो द्वादशोध्यायः । १०१ ततोतिकायस्य निरुद्धमार्गिणो झुट्टीर्णदृष्टेभ्रंमतस्त्वितस्ततः । पूर्णोन्तरङ्गे पवनो निरुद्धो मूर्धन् विनिष्पाट्य विनिर्गतो बहिः ॥ ३१ ॥ तेनैव सर्वेषु बहिर्गतेषु प्राणेषु वत्सान् सुहृदः परेतान् । दृष्ट्या स्वयोत्थाप्य तदन्वितः पुनर्वक्रान् मुकुन्दो भगवान् विनिर्ययौ ॥ ३२ ॥ पीनाहिभोगोत्थितमद्भुतं महज्योतिः स्वधाम्नोज्ज्वलयद् दिशो दश । प्रतीक्ष्य खेवस्थितमीशनिर्गमं विवेश तस्मिन् मिषतां दिवौकसाम् ॥ ३३ ॥ ततोतिहृष्टाः स्वकृतोकृताहणं पुष्पैः सुरा अप्सरसश्च नर्तनः । गीतैः सुगा वाद्यधनाश्च वाद्यकैः स्तवैस्तु विप्रा जयनिःस्वनैर्गणाः ॥ ३४ ॥ तदद्भुतस्तोत्रमुवाद्यगीतकजयादिनैकोत्सवमङ्गलस्वनान् । श्रुत्वा स्वधाम्नोन्त्यज आगतोचिराद् दृष्ट्वा महेशस्य जगाम विस्मयम् ॥ ३५ ॥ राजन्नाजगरं चर्म शुष्कं वृन्दावनेद्भुतम् । व्रजौकसां बहुतिथं बभूवाक्रीडगह्वरम् ॥ ३६ ॥ एततू कौमारजं कर्म हरेरात्माहिमोक्षणम् । मृत्योः पौगण्डके वाला दृष्टवोचुर्विस्मिता व्रजे ॥ ३७ ॥ नैतद् विचित्रं मनुजार्भमायिनः परावराणां परमस्य वेधसः । अधोपि यत्स्पर्शनधूतपातकः प्रापात्मसाम्यं त्वसतां सुदुर्लभम् ॥ ३८ ॥ निरुद्धमुखमार्गवत उद्गीणे निर्गते दृष्टी चक्षुषी यस्य, इतस्ततश्च भ्रमतो देहं विक्षिपतोन्तरङ्गे शरीरमध्ये पूर्णः पवनो निरुद्धः सन् मूर्धानं विनिष्पाट्य बहिनिर्गतो मुख्यप्राणो ब्रह्मरन्ध्रेण विनिर्गतः॥३१॥तेनैव च मार्गेण सर्व एव प्राणा इन्द्रियाण्यात्मा च बहिर्निर्गतास्तदा परेतान् वत्सान् सुहृदो बालकान् स्वयामृतदृष्ट्योत्थाप्य सजीवान् कृत्वा तैः सह मुकुन्दो भगवान् वक्राद् विनिर्ययौ मुखमार्गेणैव निर्गतः, प्राणगमनानन्तरं सूक्ष्मो भूत्वा तथा कृतवान् ॥३२॥ भगवति बहिर्निगतेघस्य सायुज्यमाह, पीनो योयमहिः सर्पस्तस्य भोगाच् छरीरा- दुत्थितमद्भुतं महस्तेजोरूपं ज्योतिः प्रकाशमानं स्वधान्ना स्वतेजसा दश दिश उज्वलयद् बहिः स्थितं सद् भगवन् निर्गमनं प्रतीक्ष्य निर्गते तस्मिन् विवेश पश्यतां दिवौकसां सतां, तेजोरूपं लिङ्गशरीरं प्रविष्टमिति मायावादिनः ॥ ३३ ॥ ततो देवानां सुखं जातमित्याह ततोतिहृष्टा इति, स्वार्थ देवार्थमेव करोतीति स्वकृत् तस्य भगवतोहणं पूजामकृत कृतवन्तः पुष्पैः, अप्सरश्च नर्तनैः, पूजामकृतेति सर्वत्रसम्बन्धः, सुष्ठु गायन्तीति सुगास्ते गीतैर्वायं घनो येषां ते वाघधना विप्रास्तु स्तवैवैष्णवगणा जयनिःस्वनैरहणमकृत ॥ ३४ ॥ तदा ब्रह्मणोप्याश्चर्य जातमित्याह तदद्भुतेति, तेषामद्भुतस्तोत्रादिकं श्रुत्वा स्वधानोन्ति स्वगृह- समीपेजो ब्रह्मा तत आगतोचिराच्छीघ्रमेव दृष्ट्वा भगवन्तं महेशस्य भगवतः सामर्थ्य च दृष्ट्वा विस्मयं जगाम, स्तोत्रं सुवाचं गीतं जयशब्दाश्च तैर्योयमनेकोत्सवस्तत्सहितान् मङ्गलस्वनान् , ते शब्दा ब्रह्मलोक- पर्यन्तं गताः, तच् छुत्वा ब्रह्मा समागतो विस्मयमाप ॥ ३५ ॥ मुक्तस्य देहो भगवद्भक्तानां क्रीडार्थ जात इत्याह राजनिति, वृन्दावने शुष्कं गन्धरहितं व्रजौकसां बहुकालमाक्रीडाथ गह्वरं गुप्तस्थानं बभूव ॥ ३६ ॥ आश्चर्यान्तरमाहैतदिति, भगवतः कौमारावस्थायां जातमेतत् कर्मात्मनोहेः सकाशान् मोक्षण- रूपं मृत्योरेव मोक्षणरूपं हरेः पौगण्डावस्थायां जातस्य शरीरं शुष्कं दृष्ट्वा विस्मिताः सन्तो व्रजे समागत्योचुः, “अद्यानेन महाव्याल” इति वक्ष्यति ॥ ३७ ॥ अघासुरस्य मुक्तिं युक्त्या समर्थयति नैतद् विचित्रमितिद्वाभ्यां, मनुजार्भो मनुष्ययालः स एवं १०२ श्रीमद्भागवतदर्शमरकन्धसुबोधिन्यां [ श्लो० ३९-४४. सकृद्यदङ्गमतिमान्तराहिता मनोमयी भागवतीं ददौ गतिम् । स एव नित्यात्मसुखानुभूत्याव्युदस्तमायः परमोङ्ग किं पुनः॥ ३९ ॥ ॥ सूत उवाच ॥ इत्थं द्विजा यादवदेवदत्तः श्रुत्वा स्वरातुश्चरितं विचित्रम् । पप्रच्छ भूयोपि तदेव पुण्यं वैयासकि यन्निगृहीतचेताः ॥ ४० ॥ ॥राजो उवाच॥ ब्रह्मन् कालान्तरकृतं तत्कालीनं कथं भवेत् । यत् कौमारे हरिकृतं विदुः पौगण्डकेभकाः ॥४१॥ तद् ब्रूहि मे महायोगिन् परं कौतूहलं गुरो । नूनमेतद्धरेरेव माया भवति नान्यथा ॥ ४२ ॥ वयं धन्यतमा लोके गुरोपि क्षत्रबन्धवः । यत् पिबामो मुहुस्त्वत्तः पुण्यं कृष्णकथामृतम् ॥ ४३ ॥ ॥ सूत उवाच॥ इत्थं स्म पृष्टः स तु बादरायणिःसंस्मारितानन्तहृताखिलेन्द्रियः । कृच्छ्रात् पुनर्लब्धबहिर्देशिः शनैः प्रत्याह तं भागवतोत्तमोत्तमम् ॥ ४४ ॥ मायातद्वतो भगवत एतद् बालमोक्षणमघासुरमोक्षो वा न विचित्रं, वस्तुतोयं परावराणां परमो ब्रह्मादीना- मस्मदादीनां च नियन्ता कर्ता च, अघोपि पापरूपो यत्स्पर्शनेन धूतपातकः प्रक्षालितपाप आत्मसाम्य भगवत्समतामसतां दुष्टानां सुदुर्लभं प्रापेति यत् तत्र हेतुः ॥ ३८ ॥ सकृद् यस्य भगवतोङ्गप्रतिमा शरीर- समाना मानसी मूर्तिरन्तराहिता हृदये स्थापितापि भागवतीं गतिं ददौ ददाति तत्र स एव नित्यात्म- सुखानुभूतिः सच्चिदानन्दरूप आत्मा व्युदस्तमायः पूर्णज्ञानेनैव गतमायः परमकाष्ठा प्राप्तोन्तराहितः सन् मुक्तिं ददातीति किं पुनर्वक्तव्यम् ॥ ३९ ॥ एतावदुक्त्वा शुकः परमनिर्वृतः तूष्णीमास तदा राजा पृच्छतीत्याह सूतः, हे द्विजाः शौनकादयः, यादवदेवेन कृष्णेन दत्तो विष्णुरातः स्वरातुः स्वरक्षितुश्चरितं श्रुत्वा भूयोपि तदेव पप्रच्छ यतो विचित्रं पुण्यं च, वैयासकि शुकं, येन चरित्रेण निगृहीतं चेतो यस्य ॥ ४० ॥ प्रश्नमेवाह त्रिभिब्रह्मन्नितिसम्बोधनं ज्ञानार्थ, यदुक्तं " कौमारे हरिकृतं पौगण्डे कीर्तित"मिति तत्र शङ्का कालान्तरकृतं तत्कालीनं कथं भवेदिति, तदेवाह यत् कौमारे हरिकृतं बालकाः पौगण्डके विदुरिति ॥ ४१ ॥ यद्यपि भविष्यति किञ्चित् कारणं तथापि तन् मे मह्यं ब्रूहि, अज्ञानं तु तव नास्तीत्याह हे महायोगिन्निति, किञ्चैतत् परं कौतूहलं, एतावन् ज्ञायते नूनमेतद्धरेरेव माया भवति, अन्यथा तेषां भ्रमो न स्यात् , अतो भगवञ्चरित्रमिति वक्तव्यम् ॥४२॥ कथनार्थ स्वश्लाघां करोति वयं धन्यतमा इति, क्षत्रिया- धमा अपि वयं धन्यतमा यतो भवान् गुरुः, किञ्च त्वत्तः कृष्णकथामृतं यतो मुहुः पिबामः ॥ ४३ ॥ एवं पृष्टो जातसमाधिरपि शुकः पुनराहेत्याह मूतः, इत्थं पृष्टो बादरायणिः सम्यक स्मारितो योयमनन्तस्तेन हृतान्यखिलेन्द्रियाणि यस्य, तादृशोपि कृच्छ्रात् पुनर्लब्धबहिर्दृष्टिः शनैः प्रत्याह समाधे- विरतस्योच्चैर्भाषणं न सम्भवतीति, भागवतोत्तमानां मध्य उत्तम प्रतीतिकथने हेतुः ॥ ४४ ॥ ॥ इति श्रीमद्भागवतसुबोधिन्यां श्रीमद्वल्लभदीक्षितविरचितायां दशमस्कन्धविवरणे प्रक्षिप्ताध्यायत्रये प्रथमाध्यायविवरणम् ॥ a parveermom १ भूत्यभिव्युदस्तमाय इतिच्छन्दोनुरुद्धः पाठः ।

॥ प्रक्षिप्तेषु द्वितीयोध्यायः ॥ , ॥ श्रीशुक उवाच ॥ साधु पृष्टं महाभाग त्वया भागवतोत्तम । यन्नूतनयसीशस्य शृण्वन्नपि कथां मुहुः ॥ १ ॥ सतामयं सारभृतां निसों यदर्थवाणीश्रुतिचेतसामपि । प्रतिक्षणं नव्यवदच्युतस्य यत् स्त्रिया विटानामिव साधुवार्ता ॥२॥ शृणुष्वावहितो राजन्नपि गुह्यं वदामि ते । ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यमप्युत ॥ ३ ॥ तथाघवदनान् मृत्यो रक्षित्वा वत्सपालकान् । सरित्पुलिनमानीय भगवानिदमब्रवीत् ॥ ४ ॥ ॥श्रीभगवानुवाच ॥ अहोतिरम्यं पुलिनं वयस्याः स्वकेलिसम्पन्मृदुलाच्छवालुकम् । स्फुटत्सरोगन्धहृतालिपत्रिकध्वनिप्रतिध्वानलसद्रुमाकुलम् ॥ ५॥ अत्र भोक्तव्यमस्माभिर्दिवारूढं क्षुधार्दिताः । वत्साः समीपेपः पीत्वा चरन्तु शनकैस्तृणम् ॥६॥ तथेति पाययित्वार्भा वत्सानारुह्य शावले । मुक्त्वा शिक्यानि बुभुजुः समं भगवता मुदा ॥ ७ ॥ कृष्णस्य विष्वक् पुरुराजिमण्डलै रम्याननाः फुल्लदृशो वजार्भकाः। सहोपविष्टा विपिने विरेजुइच्छदा यथाम्भोरुहकर्णिकायाः ॥ ८॥ द्वितीये वत्सहरणं बालैब्रह्मभ्रमस्ततः । स्तोत्रस्योपक्रमश्चैव भोजनादि निरूप्यते ॥ १ ॥ अभिनन्दति द्वाभ्यां साधु पृष्टमिति, भगवच्चरित्र एव स्थिरा बुद्धिरिति महाभागत्वं , भागवतोत्तमेति सहजोत्तमता, सर्वदेवेशकथां शृण्वन्नपि यन् नूतनमिव करोषीति ॥ १ ॥ किञ्चोचितमेव तव यतः सतां सार- भृतां भक्तिमतां निसर्गः स्वभावोय, तमेव स्वभावमाहार्थवाणीश्रुतिचेतसामपि यस्मादयं स्वभावः,अर्थों धनं वाणी वाक् श्रुतिः श्रोत्रं चेतोन्तःकरणं, एतान्यपि स्वभावत एव भगवत्प्रवणानि, तदाह प्रतिक्षणं नव्यवन् नूतनवदच्युतस्य वार्तेति यद् रस आविष्टे स्वभाव एव तथा भवतीति, दृष्टान्तमाह यथा स्त्रिया वार्ता विटानां श्रुता कीर्तिता भाविता वा सुखदा परमसाधुवार्ता सा भवति, इयं तु साधुवातिविशेषः ॥ २ ॥ महदद्भुतमस्ति सावधानतया श्रोतव्यमित्याह शृणुष्वेति, अवहितः सावधानः, गुह्यमप्येतत् तुभ्यं वदामि यतः स्निग्धस्य प्रेमवतः शिष्यस्य गुरवो गुह्यमपि वदन्ति ॥ ३ ॥ वत्सापाहरणार्थमघमुखान् मोचितानां बालकानामुत्तरवृत्तान्तमाह तथेत्येकादशभिः, अघस्य वदनान् मृत्योरेव रक्षित्वा वत्सपालकान् सरित्पुलिनं यमुनातीरमानीय भगवानिदं वक्ष्यमाणमब्रवीत् ॥ ४ ॥ अहोतिरम्यमिदं पुलिनमतोत्रास्माभिर्भोक्तव्यमिति, वयस्या इति स्नेहेन सम्बोधनं, स्वस्य केलिः क्रीडा तत्र या सम्पन् मृदुलाच्छवालुकारूपता सा वर्तते यत्र तस्मादत्र क्रीडापि कर्तुं शक्यते भोक्तुं च, अन्ये- प्यस्मिन् पुलिने गुणाः सन्तीत्याह स्फुटन्ति यानि सरोरुहाण्यत्यन्तं निबिडतया स्थितानि सर:- शब्देनैवोच्यन्ते, अतः स्फुटद् यत् सरस्तस्य गन्धेन हृता वशीकृता अलयो भ्रमराः पत्रिणः पक्षिणश्च तेषां ध्वनिस्तस्य यत् प्रतिध्वानं प्रतिशब्दस्तेन लसन्तो ये द्रुमास्तैराकुलं व्याप्तं, तत्रत्यानि पुष्पाणि फलानि च पुलिने पतन्तीति ॥ ५ ॥ अत्रैव भोजने हेतुर्दिवारूढमिति, महद् दिनं जातं क्षुधा च सर्वे पीडिताः, अत एव वत्साः समीपेपः पीत्वा शनकैस्तृणं चरन्तु ॥ ६ ॥ एवं भगवतोक्ता बालास्तथैव कृतवन्त इत्याह तथेति, अर्भा वत्सान् पाययित्वा शाड्डल उत्तमतृणवति देश आरुह्यारोहं कारयित्वा स्वयं शिक्यानि मुक्त्वा भगवता समं बुभुजः ॥ ७ ॥ तेषां भोजनार्थमुपविष्टानां प्रकारमाह कृष्णस्येति, विष्वक् परित , १०४ .. श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [श्लो० ९-१५. केचित् पुष्पैदलैः केचित् पल्लवैरकुरैः फलैः । शिग्भिस्त्वम्भिदृषद्भिश्च बुभुजुः कृतभाजनाः ॥ ९ ॥ सर्वे मिथो दर्शयन्तः स्वस्वभोज्यरुचिं पृथक् । हसन्तो हासयन्तश्चाभ्यवजहः सहेश्वराः ॥ १० ॥ विभ्रद वेणुं जठरपटयोः शृङ्गवेत्रे च कक्षे वामे पाणौ ममृणकवलं तत्फलान्यङ्गुलीषु । तिष्ठन् मध्ये स्वपरि मुहृदो हासयन् नर्मभिः स्वैः स्वर्गे लोके मिषति बुभुजे यज्ञभुग् बालकेलिः ॥११॥ भारतैवं वत्सपेषु भुञ्जानेष्वच्युतात्मसु । वत्सास्त्वन्तर्वने दूरं विविशुस्तृणलोभिताः ॥१२॥ तान् दृष्ट्वा भयसन्त्रस्तानूचे कृष्णोस्य भीभयम् । मित्राण्याशान मा विरमतेहानेष्ये वत्सकानहम् ॥१३॥ इत्युक्त्वाद्रिदरीकुञ्जगह्वरेष्वात्मवत्सकान् । विचिन्वन् भगवान् कृष्णः स पाणिकवलो ययौ॥१४॥ ॥ शुक उवाच ॥ अम्भोजन्मजनिस्तदन्तरगतो मायाकस्येशितुर्द्रष्टुं मञ्जमहित्वमन्यदपि तद्वत्सानितो वत्सपान् । नीत्वान्यत्र कुरूद्वहान्तरदधात् खेवस्थितो यः पुरा दृष्ट्वाघासुरमोक्षणं प्रभवतः प्राप्तः परं विस्मयम् ॥१५॥ आवरणवत् स्थिताः पुरूणि पतिमण्डलानि मण्डलत्वाकारेण पौर्वापर्येणोपविष्टाः सर्व एव भगवत्सम्मुखा अत एव फुल्लदृशो ब्रजबालकाः सहैकदैवोपविष्टा विपिनेरण्ये तत्रान्यो लौकिको न पश्यतीति विशेषेण रेजुर्यथा छदाः पत्राण्यम्भोरुहकर्णिकायाः परितो राजन्ते ॥ ८ ॥ तेषां भोजनपात्राण्याह केचिदिति, पुष्पादीनि प्रसार्य तैरेव कृतभाजनाः सन्तस्तदुपर्योदनं स्थापयित्वा बुभुजुः ॥९॥ बालकानां लौकिकत्वाद् भोजने प्रकार- माह सर्व इति, स्वस्वभोज्यस्यौदनादे रुचिमन्यस्मै प्रदर्शयन्ता, पृथगिति भोज्यप्रकारविशेषाणां लड्डकादीनां, ततः स्तोत्रनिन्दाभ्यां हसन्तो हासयन्तश्चेश्वरसहिता अभ्यवजहुर्भोजनं कृतवन्तः, एवमानन्दभोजन ईश्वरसाहित्यमेव हेतुः, सर्वैरानीतान्यन्नान्येकीकृत्याग्रभागं भगवतो दत्वा भगवत्कृपयाक्षय्यान्ना बुभुजुः॥ १० ॥ भगवानपि भुक्तवानिति वदन् ध्यानार्थ तादृशं रूपमनुवर्णयति बिभ्रद् वेणुमिति, मल्लवत् कटितटे पीताम्बर- मस्ति तत्र हस्ते स्थितानां वेण्वादीनां मध्ये वेणुं जठरपटयोर्मध्ये स्थापितवाञ् छुङ्गं वेत्रं च कक्षयोः, वामे पाणौ ममृणं चिकणं घृतदध्यादिवेष्टितं कवलमोदन, सर्वत्र विभ्रदितिसम्बन्धः, तत्र ध्योदन उचितानि फलानि जम्बीरकादीन्यङ्गुलीषु सन्धिषु वा बालकानां मध्ये तिष्ठन् स्वस्य परितो वर्तमानान् मुहदो बालकान् स्वैरसाधारणैर्नर्मभिः स्वर्गे लोके तत्रस्थितदेवेषु मिषत्सु सत्सु सर्वयज्ञभोक्ता बुभुजे, वालस्येव केलिविनोदो यस्य ॥ ११ ॥ एवं सर्वेषां भोजने जायमाने किञ्चिद्भुतमिव जातं तदाह भारतेति, वत्सपेषु भुञ्जानेष्वच्युतात्मसु विस्मृतदेहेषु सत्सु वत्साः स्वयमेवान्तर्वने वनमध्ये तृणेन लोभिता दृरं गताः ॥ १२ ॥ ततो बालका भयसन्त्रस्ता जातास्तांस्तथाविधान् दृष्ट्वा कृष्णो भगवानूचे यतोयं निर्भयः, तत्रहेतुरस्य भीभयमिति, अस्य जगतो या भीर्मृत्युस्तस्यापि भयरूपो " भीषास्माद् वातः पवत' इतिश्रुतेः, भगवतो वाक्यमाह मित्राणीति, हे मित्राण्याशाद् भोजनान् मा विरमताहमिहैव वत्सकानानेष्ये ॥ १३॥ इत्युक्त्वा भगवांस्ततो गत आदौ स्ववत्सकान् विचिन्वन् स पाणिकवलसहित एवाद्रिदरीकुञ्जगह्वरेषु ययौ, आदौ कियद् दूरे गतस्तत्र वत्सानदृष्ट्वाद्रेः पर्वतस्य गोवर्धनादेर्दरीषु कन्दरासु कुञ्जेषु द्रोणीषु गहरेषु भयानकस्थानेषु सर्वत्रैव गतः ॥ १४ ॥ ननु निकट एव वत्साः सम्भवन्ति कथं दूरे गत इत्याशक्य मध्ये ब्रह्मणा वत्सा हृता इत्याहाम्भो- जन्मजनिरिति, अम्भोजन्म कमलं तत्र जनिर्जन्म यस्य, नाभिकमल एवोत्पन्नस्तदन्तस्तन्मध्य एवागतः सन् माया कस्य मायाबालकस्येशितुर्भगवतो मञ्जुमहित्वं दृष्ट्वाघसायुज्यलक्षणमन्यदपि द्रष्टुमरण्याद् वत्सान् ७ १०५ श्लो० १६-२२.] प्रक्षिप्तेषु द्वितीयः स्कन्धादितस्त्रयोदशोध्यायः । ततो वत्सानदृष्ट्वैत्य पुलिनेपि च वत्सपान् । उभावपि वने कृष्णो विचिकाय समन्ततः॥ १६ ॥ काप्यदृष्ट्वान्तर्विपिने वत्सान् पालांश्च विश्ववित् । सर्वं विधिकृतं कृष्णः सहसावजगाम ह ॥ १७ ॥ ततः कृष्णो मुदं कर्तुं तन्मातॄणां च कस्य च । उभयायितमात्मानं चक्रे विश्वकृदीश्वरः ॥ १८ ॥ यावद्वत्सकवत्सपाल्पकवपुर्यावत्कराध्यादिकं यावद्यष्टिविषाणवेणुदलशिग् यावद्विभूषाम्बरम् । यावच्छीलगुणाभिधाकृतिवयो यावद्विहारादिकं सर्वं विष्णुमयं गिरोङ्गवदजः सर्वस्वरूपो बभौ ॥१९॥ स्वयमात्मात्मगोवत्सान परिवार्यात्मवत्सपैः । क्रीडनात्मविहारैश्च सर्वात्मा प्राविशद् ब्रजम् ॥२०॥ तत्तद्वत्सान् पृथङ् नीत्वा तत्तद्गोष्ठे निवेश्य सः। तत्तदात्माभवद् राजंस्तत्तत् सम प्रविष्टवान् ॥२१॥ तन्मातरो वेणुरवत्वरोत्थिता उत्थाप्य दोभिः परिरभ्य निस्ताः । स्नेहस्नुतस्तन्यपयासुधासवं मत्वा परं ब्रह्म सुतानपाययन् ॥ २२ ॥ पुलिनाद् वत्सपांश्च नीत्वान्यत्र स्थापयित्वा, हे कुरूदहेतिविश्वासार्थ, स्वयमन्तर्धानं कृतवान् , नीत्वेत्युभयत्र सम्बन्धः, ननु किमित्येवं कृतवानित्याशङ्क्याह यः पुरा ख आकाशेवस्थितः सन्नधासुरमोक्षणं दृष्ट्वा परं विस्मयं प्राप्तः, ननु किमाश्चर्य भगवतः सकाशान् मुच्यत एवेति तत्राह प्रभवत इति, प्रकर्षेण भवत्यस्माज् जगदिति प्रभवो भगवान्, ततस्तस्मादुत्पत्तिरेवोचिता स्वदृष्टान्तेन न तु मुक्ति- रितिविस्मयः, अन्यथा स्वस्यापि मुक्तिः स्यात् ॥ १५ ॥ ततो भगवान् वनाददृष्टैवैत्य पुलिनेपि वत्सपानदृष्ट्वा प्रायेणेते वत्सपाः स्वयमपि वत्सानन्वेष्टुं गता इत्युभावप्युभयविधानपि वने भगवान् समन्ततो विचिकाय ॥ १६ ॥ ततोन्तर्विपिने कापि वत्सान् वत्सपश्चिादृष्ट्वा विचारे क्रियमाणे विश्ववित् सर्वज्ञो विधिकृतं सर्वमिति सहसा शीघ्रमेवावजगाम ज्ञातवान् हेत्याश्चर्यम् ॥ १७ ॥ ततो भगवान् ब्रह्मणो मुदं कर्तुं बालकान् नानीतवान् , तथा सति तस्य स्वप्रयासवैयर्थ्यात् खेद एव भवेत् , तूष्णीं गृहगमने तु तन्मातॄणां खेदो भवेत् , अत उभयेषां मुदं कर्तुमात्मानमुभयायितं चक्रे यतोयं विश्वकृत् , कोयं प्रयासः ? ननु तज्जनकानां कालकर्मस्वभावानामभावात् कथं कृतवानित्याशङ्क्याहेश्वर इति ॥ १८ ॥ इयं सृष्टिरात्मसृष्टिरेव जातेत्याह यावदिति, यावन्तो वत्सा वत्सपाश्च सङ्ख्यया तावान् भगवानेव जातोल्पकानि वपूंषि जातः, यावदिति पदार्थानतिवृत्तौ, वत्सकवत्सपाल्पकवपुर्यावत् तावद्रूपो जात इत्यवधारणे वा, कराझ्यादिकं यावत् तावदपि जातो यष्टिविषाणवेणुदलशिग् यावद् विभूषाम्बरं च यावत् तावदपि जातः, शीलगुणाभिधाकृतिवयो यावद् विहारादिकं च यावत् तावद्रूपः सन् बभावितिसम्बन्धः, ननु कथमेवं जात इत्याशङ्क्याह सर्वस्वरूप इति, नन्वेकस्य कथं सर्वभावस्तत्राह "सर्व विष्णुमयं जग"दित्यत्रवाक्ये “सर्व विष्णुमय"मितिप्रतीकग्रहणं, “सर्व विष्णुमय"मित्येवमूपा या गीस्तस्या अङ्गवदर्थवत् 'सर्वं विष्णुमयं जगदितिवाक्यार्थो यथाश्रुतो यथोपपद्यत आत्मसृष्ट्याधिदैविकसृष्ट्या वा यथैवोपपद्यते तथैवैतदपि जातमिति ज्ञातव्यम् ॥ १९ ॥ एवं सर्वरूपो भूत्वा रूपाणां विनियोगमाह स्वयमिति, स्वयमेव भगवानात्मना स्वेनैवात्मरूपान् गोवत्सान् परिवार्यात्मरूपैरेव वत्सपैस्तत्तद्वत्सान् परिवार्य सह वात्मरूपैरेव विहारैः क्रीडन् स्वयमेव धर्मिधर्मभावं प्राप्तः सर्वात्मा व्रज प्राविशत् ॥ २० ॥ ततस्तत्तद्वत्सान् पूर्ववदेव यावता मार्गेण यत्र गम्यते तावद् दूर एव ततस्ततः पृथङ् नीत्वा तत्तद्गोष्ठे निवेश्य स्थापयित्वा स एव भगवान् तत्तदात्माभवत् तत्र स्थित्यर्थ तत्तद्भावं प्राप्तवान् बन्धनादिभावं ततो वत्स- रूपेण तत्तत् सम गृहं सेनतेन प्रकारेण प्रविष्टवान् ॥ २१ ॥ एवं तेषां कार्यमुक्त्वा गोपिकानां पूर्ववदेव तेषु वृत्तिमाह तन्मातर इतिद्वाभ्यां, वेणुरवे श्रुते त्वरयोत्थिता जाताः, उपविष्टानपि बालकान्' दोभि- १४ १०६ श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [श्लो० २३-२८. . ततो नृपोन्मर्दनमज्जलेपनालङ्काररक्षातिलकाशनादिभिः। संलालितः स्वाचरितैः प्रहर्षयन् सायं गतो यामयमेन माधवः ॥ २३ ॥ गावस्ततो गोष्ठमुपेत्य सत्वरं हुङ्कारघोषैः परिहूतसङ्गतान् । स्वकान् स्वकान् वन्सतरानपाययन् मुहुलिहन्त्यः सवदौधसं पयः ॥२४॥ गोगोपीनां मातृतास्मिन् सर्वाः स्नेहदिकां विना । पुरोक्दास्वपि हरेस्तोकता मायया विना ॥ २५ ॥ बजौकसां स्वतोकेषु स्नेहवल्ल्यावमन्वहम् । शनैनिःसीम वधे यथा कृष्णे त्वपूर्ववत् ॥ २६ ॥ इत्थमात्मात्मनात्मानं वत्सपालमिषेण सः । पालयन् वत्सपो वर्ष चिक्रीडे वनगोष्ठयोः ॥ २७॥ एकदा चारयन् वत्सान् सरामो वनमाविशत् । पञ्चषासु त्रियामामु हायनापूरणीष्वजः ॥ २८ ॥ रुत्थाप्य परिरभ्य निता जाता देहस्वभावोपि तदधिष्ठातृकृतस्तथैव जात इत्यत्यन्तस्नेहेन स्नुतं तनूद्भवं यत् पयस्तदेव सुधारूपमासवं मादकं च जातं तादृशं पयः परं ब्रह्म सुतान् मत्वा- पाययन् , वस्तुतस्त्वेते मुक्तस्तना भवन्ति ॥२२॥ ततो बहिरपि सेवां कृतवत्य इत्याह हे नृप, प्रथममुन्मर्दनं तैलपिष्टेनोद्वर्तनं, ततो मज्जो मज्जनं, स्नानमितियावत् , ततो लेपनं गन्धादिना, ततोलङ्काराः, ततो रक्षा, ततस्तिलकादि, ततोशनं भोजनं, ततो वार्तासुखशयनादि, तैः सैवरेव संलालितः सन् स्वाचरितैर्यथापूर्व बालका आचरन्ति तादृशचरित्रैः प्रकर्षेण हर्षयम् जातः, नन्वेतावता भूयान् कालो लगति तत् संसारव्यापूतानां प्रत्यहं कथं सम्भवतीत्याशझ्याह सायं गत इति, सायङ्कालेपि गतस्तावद्भावं प्राप्नोति, तत्रहेतुर्यामयमेनेति, यामस्य कालस्य प्रहरात्मकस्य यमेन नियमेन, यावतैतावान् कालो भवति तावत् सूर्यगतिः कुण्ठिता भवतीत्यर्थः, कथमेवमत आह माधव इति, लक्ष्मीपतिरयमतः सर्वसम्पत्तिः, कालस्य च नियन्तातो न कालकृतानुपपत्ति- रिति ॥ २३ ॥ एवं मातृणां बालेषु वृत्तिमुक्त्वा गवां वत्सेषु वृत्तिमाह गाव इति, ततो वत्सप्रीत्यनन्तरं गावोपि गोष्ठमुपेत्य सत्वरं त्वरया हुङ्कारघोषैः स्वकृतैर्दुङ्कारशब्दैः परिहूता आहूताश्च ते सङ्गताश्च, ततस्तादृशान् स्वकान् स्वकान् वत्सतरान् स्थूलवत्सानप्यपाययन् स्नेहान् मुहुर्लिहन्त्यः, न चाग्रे दोह: कथं भविष्यतीत्याशङ्कनीयं, यतः स्वदेवौधसमोधःसम्बन्धि पयो न त्वन्तःस्थितम् ॥ २४ ॥ एवमुभयविधानां पूर्ववत् स्थितिमुक्त्वा विशेषमाह गोगोपीनामिति, गवां गोपीनां च मातृता मातृभावः सेवादिरूपः सर्वोप्यस्मिन् नूतनपुत्रेपि पूर्ववदेवासीत् , परं स्नेहर्धिकां विना स्नेहर्द्धिस्त्वधिका जाता, आस्वपि गोगोपीषु हरेस्तोकता पूर्ववदेवासीत् , स्तोकेषु यादृशो भावः सा स्तोकता मातृविषयिणी स्तोकनिष्ठा हरेरप्यासीद् यथा- पूर्व, स्तोकानां परमिदानीं भगवति स धर्मो मायया जातः, अतो मायया विना मायां परित्यज्य स्वरूपतः पूर्व- वदेवासीदित्यर्थः ॥ २५ ॥ एवमारम्भ एव स्नेहाधिक्यमुक्त्वा तस्य वृद्धिमाह व्रजौकसामिति, स्वतोकेषु स्वस्वबालकेषु स्नेहवल्ली शीघ्रमेव वर्धमानान्वहं वधे, शनैरिति वैलक्षण्याज्ञानार्थ, ततो निःसीम ववृधे, यथा कृष्णे तु पूर्ववत् , कृष्णे त्वपूर्ववदेव, कृष्णशब्दः सप्तम्यन्तो वारद्वयमावर्तते ॥ २६ ॥ एवं भगवच्चरित्रं नूतनमुक्त्वोपसंहरतीत्थमिति, आत्मा कृष्ण आत्मना वत्सरूपेणात्मानं वत्सरूपं वस्तुतः स्वयमेव वत्सः पाल इतिमिषमात्रं व्याजमात्र, तेन स एव वत्सपो भूत्वात्मानं पालयन् वनगोष्ठयोर्वने गोष्ठे च चिक्रीडे क्रीडां कृतवान् ॥ २७ ॥ इदानीं गोकुलवासिनां सर्वेषां मध्ये बलभद्रस्य भगवत एवंलीलया ज्ञानं जातमिति वक्तुमुपाख्यान- मारभत एकदेति, यदा भगवत इच्छा, वत्सान् पालयन् बलभद्रसहितो वनमाविशत्, यत्र गह्वरे वने श्लो० २९-३५.] प्रक्षिप्तेषु द्वितीयः स्कन्धादितस्त्रयोदशोध्यायः । १०७ ततो विदुराचरतो गावो वत्सानुपव्रजम् । गोवर्धनाद्रिशिरसि चरन्त्यो ददृशुस्तृणम् ॥२९॥ दृष्ट्वाथ तत्स्नेहवशोस्मृतात्मा स गोव्रजोत्यात्मपदुर्गमार्गः। द्विपात् ककुद्रीव उदास्यपुच्छोगा कृतैरास्नुपया जवेन ॥ ३० ॥ समेत्य गावोधोवत्सान् वत्सवत्योप्यपाययन् । गिलन्त्य इव चाङ्गानि लिहन्त्यः स्वौधसं पयः॥ ३१॥ गोपास्तद्रोधनायासमोळ्यलज्जोरुमन्युना । दुर्गाध्वकृच्छ्रतोभ्येत्य गोवत्सैर्ददृशुः सुतान् ॥ ३२॥ तद्वीक्षणोत्प्रेमरसाप्लुताशया जातानुरागा गतमन्यवोर्भकान् । उदूह्य दोभिः परिरभ्य मूर्ति घ्राणैरवापुः परमां मुदं ते ॥ ३३ ॥ ततः प्रवयसो गोपास्तोकाश्लेषसुनिताः । कृच्छ्राच्छनैरपगतास्तदनुस्मृत्युदश्रवः ॥३४॥ वजस्य रामः प्रेमवीक्ष्यौत्कण्ठ्यमनुक्षणम् । मुक्तस्तनेष्वपत्येष्वष्यहेतुविदचिन्तयत् ॥३५॥ गावश्चरन्ति तत्र गतः पञ्चषासु रात्रिषु हायनापूरणीषु सत्सु वत्सापहरणे वर्षमात्रं जातं पञ्च वा षडू वा रात्रयो न्यूनाः, त्रियामा इत्यल्पत्वं, अज इति वत्सपालरूपेण तन्मातृभ्यो न जातः केवलं स्वयमेव तथा वर्तत इतिज्ञापनार्थमुक्तम् ॥ २८ ॥ ततो यदासीत् तदाह विशेषेण दूराद् दूरे चरतो वत्सानुपत्रज व्रजसमीप एव स्थितान् ब्रजसमीपारण्ये स्थितानित्यर्थः, गोवर्धनादिशिरसि चरन्त्यो गावो ददृशुः ॥२९॥ यद्यपि गवां तृणमत्यभीष्टं तथापि तत् परित्यज्य वत्सस्नेहाद् वत्ससमीपमागता इत्याह दृष्ट्वेति, पूर्वमपि पश्यन्ति कदाचित् तदव्यावृत्त्यर्थं भिन्नप्रक्रममाहाथेति, तत्स्नेहेन वत्सल्लेहेन वशीकृतस्तस्नेहवशोत एवा- स्मृत आत्मा देहो येन स प्रसिद्धोपि गोव्रजः सर्वा एव गावोत्यात्मपदुर्गमार्गो जातः, अतिक्रान्ता आत्मपा गोपाला दुर्गश्च मार्गों येन, रक्षकानतिक्रम्य कण्टकादिभूयिष्ठमपि प्रदेशं मार्गव्यतिरेकेणैवातिक्रम्यागत इत्यर्थः, किञ्च द्विपाज जातो योजितपादद्वयेनैवोप्लवनेनैव धावति, ककुदि ग्रीवा यस्य, उर्ध्वमास्ये पुच्छं यस्यैतादृशः सन्नगाद वत्ससमीपे समागतो हुङ्कृतैः सह, आसमन्तात् स्रवतीत्यामु, आनु पयो यस्य स आनुपया जवेनागतः ॥३०॥ ततः समेत्य वत्सवत्योप्यघोवत्सांस्त्यक्तवत्सानप्यपाययन् , तत्राप्यङ्गानि गिलन्त्य इत्र लिहन्त्यः स्नेहमुद्रिन्त्यस्तथा कुर्वन्ति, नात्र तासां कश्चन दोषो यतः स्वौधसं स्वस्यैवौधसि स्थितं पयः ॥ ३१ ॥ एवं गवां स्नेहाधिक्यमुक्त्वा गोपानां स्नेहाधिक्यमाह गोपा इतित्रिभिः, प्रथमत तस्य गोत्रजस्य रोधनार्थ योयमायासस्तस्मिन् विफले जाते यन् मौव्यमितिकर्तव्यताज्ञानाभावो जातस्तस्मिञ् जाते पश्चाल्लज्जा जाता, एवं दोषत्रयेणोरुमन्युर्जातः, तेन मन्युनाविचारितक्लेशा एव दुर्गाध्वनि यः कृच्छ्रः क्लेशस्ततोपि समेत्य क्लेशं प्राप्यापि मिलित्वा गोवत्सैः सह मिलितान् सुतान् ददृशुः॥३२॥ क्लेशः कोपो लज्जा मौढ्यमायास- श्वेतिपञ्चदोषयुता अपि वस्तुनाशमपि दृष्ट्वा पश्चात् पुत्रदर्शने सर्व विस्मृतवन्त इत्याह तद्वीक्षणेति, तेषां पुत्राणां वीक्षणेन यत् प्रेम जातं तस्य रसेनाप्लुताशया व्याप्तान्तःकरणाः प्रथमतोपि जातानुरागा अतो गतमन्यवो जाताः, ततोर्भकान् बालकानुयोर्ध्वमुत्थाप्य दोभिः परिरभ्य, बहुवचनं समुदायाभिप्राय, मूर्ध्नि प्राणैराघ्राणनैः कृत्वा ते परमां मुदमवापुः ॥ ३३ ॥ ततो निर्गमनेप्यशक्ता जाता इत्याह तत इति, प्रवयसो वृद्धा अपि गोपास्तोकानां बालानामाश्लेषेण सुष्ठु निर्दृता जाताः कृच्छ्रादेव शनैस्ततोपगतास्तेषां बालकानामनुस्मृत्योदश्रवोपि जाताः ॥ ३४ ॥ एवं दृष्ट्वा रामस्य शङ्का जातेल्याह ब्रजस्येवि, ब्रजस्य प्रेमद्धि दृष्ट्वा मुक्तस्तनेष्वप्यपत्येष्वोत्कण्ठ्य- श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [ श्लो० ३६-४२. किमेतदद्भुतमिव वासुदेवेखिलात्मनि । ब्रजस्य सात्मनस्तोकेष्वपूर्व प्रेम वर्धते ॥ ३६ ॥ केयं वा कुत आयाता दैवी वा नायुतासुरी । प्रायो मायास्तु मे भर्नान्या मेपि विमोहिनी ॥३७ ।। इति सञ्चिन्त्य दाशार्हो वत्सान् सवयसानपि। सर्वानचष्ट वैकुण्ठं चक्षुषा वयुनेन सः ॥ ३८॥ नैते सुरेशा ऋषयो न वैते त्वमेव भासीश भिदाश्रयेपि । सर्व पृथक्त्वं निगमात् कथं वदेत्युक्तेन वृत्तं प्रभुणा बलोवैत् ॥ ३९ ॥ नावदेत्यात्मभूरात्ममानेन त्रुव्यनेहसा । पुरोवदन्द क्रीडन्तं ददृशे सकलं हरिम् ॥ ४०॥ यावन्तो गोकुले बालाः सवत्साः सर्व एव हि । मायामये शयाना मे नाद्यापि पुनरुत्थिताः ॥४१॥ इन एनेत्र कुत्रत्या मन्मायामोहितेतरे । तावन्त एव तत्राब्दं क्रीडन्तो विष्णुना समम् ॥ ४२ ॥ मनुक्षणं लालमतां दृष्ट्वाहेतुवित् सन् हेतुमज्ञात्वाचिन्तयत् ॥ ३५ ॥ चिन्तामाह किमेतदिति, एतद् गवां गोपानां च स्वतोकेषु भावलक्षणं किमेतद् यल्लोकयुक्तिप्रमाणैर्विरुध्यते ? अत एवाद्भुतं भवितुमर्हति, नदपि न भवति, वासुदेवेखिलात्मनि सति किं भगवत्सान्निध्यादेवाहोस्विन् निमित्तान्तरमस्तीति- मन्देहः, व्रजस्य सात्मन इति, स्वसहितस्य सर्वस्यैव ब्रजस्य स्तोकेषु बालकेष्वपूर्वमभूतपूर्व प्रेम वर्धत इति यदेतदद्भुतमिवेतिसम्बन्धः ॥ ३६ ॥ तर्हि काचिन् माया भविष्यतीत्याशङ्कयाह केयं वेति, इयं वेति, इयं का वा माया? कुनो वायाता ? तत्र स्वरूपे सम्बन्धिभेदेन भेदान् निर्दिशति, देवी देवमम्बन्धिनी नारी नरसम्बन्धिन्यासुर्यसुरसम्बधिनी वा ? एते पूर्वपक्षाः, प्रायेण मम भतुरेव मायास्तु, सिद्धान्तीयं भविष्यति, तत्र हेतुर्यतो मे ममापि विमोहिनी, अतो नान्या ॥ ३७ ॥ एवं सञ्चिन्त्य दाशार्हो वलभद्रो निदिध्यासनेन वत्सान् वयस्यसहितान् सर्वानपि स्वव्यतिरिक्तान् वैकुण्ठमचष्ट, अयं मापि गणः केवलं भगवानिति, तत्र प्रमाणं वयुनेन चक्षुषा ॥ ३८ ॥ एवं दृष्ट्वा सन्दिहानो भगवन्तं पृच्छति नेते सुरेशा इति, हे भगवन् पूर्वमस्माभिआयत एते वत्सपाः सुरेशा इन्द्रादय एते च वत्सा ऋषय इति वेदार्थद्रष्टारः स्तन्यपातारः, इदानीं तु पुन ते सुरेशा न वैत ऋषयः किन्तु त्वमेव तत्तद्रूपेण भासि, ननु सत्यमेव ब्रह्मवादस्तथैवेतिचेत् तत्राह भिदाश्रयेपीति, अभेदाश्रये सर्व भगवानेव नात्र सन्देहः, भेदाश्रयेपि स एवेत्याश्चर्य, अतोत्र वेदानामभावात् सर्व पृथक्त्वं कथं ? तन् निगमाद् वद वेदवाक्याद् बोधय भेदपक्षे श्रुतिः कथं सर्वब्रह्मतां वदतीति, तदा भगवतोक्तोर्थात् पूर्ववृत्तान्तं बलो बलभद्रोवैत् ॥ ३९ ॥ एवं बलभद्रं ज्ञापयित्वा ब्रह्माणमपि ज्ञापितवानिति च ब्रह्मणः समागमनमाह तावदेत्येति, आत्मभूरयं ब्रह्मा, अन्यथा सापराधो नष्टो भवेदेव तावदेव शीघ्रमेवैत्यागत्य पुरोवदेवाब्दमब्दपर्यन्तं क्रीडन्तं सकलं पालकवत्ससहितं हरिं ददृशे, ननु ब्रह्मा कथमेतावद्विलम्बं कृतवान् ? तत्राहात्ममानेन त्रुध्यनेहसेति, अनेहा काल आत्मनो ब्रह्मणो मानेन, त्रुटिरत्राङ्गुलिस्फोटनमात्रं विवक्षितं न तु तृतीयस्कन्धगणितत्रुटिकालः, अतः शीघ्रमेवागतोपि स्वकालवशाद् वर्षानन्तरमागतः ॥ ४० ॥ आगतस्य दृष्टवतो विचारमाह यावन्त इतिद्वाभ्यां, गोकुले यावन्तो बाला वत्साश्च ते सर्व इतो मया नीता मायामये लोके मया स्थापिताः शयाना एव तिष्ठन्त्यद्यापि पुनर्नोत्थिताः ॥ ४१ ॥ एते चात्र पुनदृश्यन्त इत एवैते उत्पन्ना उद्भता वा भवितुमर्हन्ति न तु तत आगन्तुं, अन्यथात्र कुत्रत्याः ? कैलक्षण्यं च दृश्यत इत्याह मन्मायामोहितेभ्य इतर एते, आश्चर्य च तावन्त एव तत्रैव स्थाने तद्रूपा एव, विष्णुना सममन्दं क्रीडन्त एते कुत्रत्या इतिसम्बन्धः ॥ ४२ ॥ अत्र ब्रह्मण उभयथाबुद्धिः किं भगवन्मायया तदानीमेव निर्मिता बाला मयानीता आहोस्वित् सत्या एवेत्येते वा सत्या निर्मिता वेति- ?

श्लो०४३-५०.] प्रक्षिप्तेषु द्वितीयः स्कन्धादितस्त्रयोदशोध्यायः । एवमेतेषु सुचिरं ध्यात्वा सर्वात्मनात्मभूः । सत्याः के कतरे नेति ज्ञातुं नेष्टे कथञ्चन ॥ ४३ ॥ एवं सम्मोहयन् विष्णुं विमोहं विश्वमोहनम् । स्वयैव माययाजोपि स्वयमेव विमोहितः ॥ ४४ ॥ तम्यां तमोवन् नैहारं खद्योताचिरिवाहनि । महतीतरमायैश्यं निहन्त्यात्मनि युञ्जतः ॥ ४५ ॥ तावत् सर्वे वत्सपालाः पश्यतोजस्य तत्क्षणात् । व्यदृश्यन्त घनश्यामाः पीतकौशेयवाससः ॥ ४६॥ चतुर्भुजाः शङ्खचक्रगदाराजीवपाणयः | किरीटिनः कुण्डलिनो हारिणो वनमालिनः॥४७॥ श्रीवत्साङ्गददोरत्नकम्बुकणपाणयः । नूपुरैः कटकैर्भाताः कटिसूत्राङ्गुलीयकैः ॥ ४८ ॥ आ िमस्तकमापूर्णास्तुलसीनवदामभिः । कोमलैः सर्वगात्रेषु भूरिपुण्यवदर्पितैः ॥४९॥ चन्द्रिकाविशदस्मेरैः सारुणापाङ्गवीक्षितैः । स्वकार्थानामिव रजःसत्त्वाभ्यां स्रष्टपालकाः॥ ५० ॥ युक्तिभिरनुचिन्तने क्रियमाणे निर्धारो न जात इत्याहैवमिति, एतेषु बालेषूभयविधेषु चिरं ध्यात्वाप्यात्मभू- रपि के सत्याः कतरे नेति ज्ञातुं नेष्टे न समर्थो जातः कथञ्चन युक्त्यापि ॥ ४३ ॥ तर्हि किं जात- मित्याकाङ्क्षायामाहैवमिति, विष्णुं विमोहयन् विष्णुविमोहार्थं प्रवृत्तः स्वयमेव विमोहितो जातः, तत्र हेतु- विमोहं विश्वमोहनमिति, भगवान् स्वयं मोहरहितोन्यांश्च विमोहयति, अतो भगवतामोहितोपि स्वयैव मायया- जोपि सन् स्वयमेव विमोहितः ॥ ४४ ॥ तद् युक्तमेवेत्याह तम्यामिति, तमिस्रा रात्रिस्तमी तस्यां नैहार- तमोवल् लोकस्य व्यामोहाथ नीहारादप्यन्धकारो जायते स चेद् रात्रौ भवेत् सोपि न दृश्येत, लोकाना- मदर्शनं त्वन्यथैव सिद्धमतो महामायायुक्ते भगवत्यन्या माया स्वपदमेव न प्राप्नोति किं पुनः कार्य प्राप्स्यति ? एवं मोहकसाधर्म्यण ब्रह्ममायाया अप्रयोजकत्वमुक्त्वा भगवदने ब्रह्मणोप्यप्रयोजकत्वमाह खद्योताचिरिवाहनीति, अहनि खद्योताचिः स्वयमपि न प्रकाशते कुतो घटादीन् प्रकाशयिष्यति? दूरे सूर्यप्रकाशनाशा अत एव महतीतरस्य माया वैश्यमीशत्वं वा युञ्जतः पुरुषस्य महतो मायैश्यं प्रयुञ्जतो मायामैश्य च निहन्तीत्यर्थः ॥ ४५ ॥ एवं चिन्ताकुलिते ब्रह्मणि भगवान् स्वरूपं प्रदर्शितवानित्याह तावदिति, यावदयं विचारयति तावत् पश्यत एवाजस्य सतस्तत्क्षणादेव सर्वे वत्सा पालाश्च घनश्यामा व्यदृश्यन्त नीलमेघश्यामा भाता ब्रह्मणा वा दृष्टाः सर्वे च पीतपट्टाम्बरधारिणः ॥ ४६ ॥ चतुर्भुजाः, यस्य यस्य धर्मस्य प्राकट्यार्थ यादृशो वैकुण्ठमूर्तिस्तादृशा एत इति भुनादयो निरूप्यन्ते, चत्वारो भुजाः प्रत्येकं येषां, शङ्खचक्र- गदाराजीवानि प्रत्येकं पाणिषु येषां, राजीवं कमलं, सर्वे किरीटिनः किरीटाभरणयुक्ताः कुण्डला- भरणयुक्ता मुक्ताहारयुक्ता वनमालायुक्ताश्च ॥४७॥ सारूप्यं गतानामप्येतद् भवतीत्यसाधारणाञ्छीवत्सादि- धर्मानाह, श्रीवत्सो दक्षिणावर्तरोमरेखा, अङ्गदं बाहुवलयं, दोरत्नानि दोषां बाहूनां रत्नानि बाहव एव वा रत्नानि, कम्बुसदृशानि कङ्कणानि, एतत्सहिताः प्रत्येकं पाणयो येषां, नुपूरैश्चरणाभरणैः कटकैहस्ता- भरणैश्च भाताः कटिसूत्रेणाङ्गुलीयकैश्च भाताः ॥ ४८ ॥ तुलसीनूतनमालाभिराङ्घिमस्तकं नखशिखाग्र- पर्यन्तमासमन्तात् पूर्णास्तानि च दामानि कोमलतुलसीनिर्मितानि, सर्वगात्रेषु च पृथक्पृथक समर्पितानि, समर्पकाश्च भूरिपुण्यवन्तः ॥४९॥ असाधारणं भगवद्भावं तत्र वर्णयति चन्द्रिकेति, चन्द्रिकावद् विशदाः स्मेरा मन्दहासा अरुणान्यपाङ्गवीक्षितानि स्मेरैर्वीक्षितैश्च स्वकार्थानां भक्तपुरुषार्थानां स्रष्ट्रपालका जाताः, वीक्षितैः पुरुषार्थानामुत्पत्तिः स्मेरैः पालन, तत्रोपपत्तिं वदन् दृष्टान्तमाह रजःसत्त्वाभ्यामिवेति, अरुण- वर्णत्वाद् बीक्षितं रजस्तुल्यं, शुभ्रत्वात् स्मेरं सच्चतुल्यं, रजसोत्पाद्यते सत्त्वेन परिपाल्यते ॥५०॥ किन्चात्मा १११ श्लो० ५८-६३.] प्रक्षिप्तेषु द्वितीयः स्कन्धादितस्त्रयोदशोध्यायः । ततोर्वाक् प्रतिलब्धाक्षः कः परेतवदुत्थितः । कृच्छ्रादुन्मील्य वै दृष्टीराचष्टेदं सहात्मना ॥ ५८ ॥ सपद्येवाभितः पश्यन् दिशोपश्यत् पुरः स्थितम् । वृन्दावन जनाजीव्यं द्रुमाकीर्णं समाप्रियम् ॥५९॥ तत्र नैसर्गदुर्वैराः सहासन् नृमृगादयः । मित्राणीवाजितावासगतरुट्तर्षकादिकम् ॥ ६०॥ तत्रोद्वहत्पशुपवंशशिशुस्वनाव्यं ब्रह्माद्वयं परमनन्तमगाधबोधम् । वत्सान् सखीनिव पुरा परितो विचिन्वदेकं सपाणिकवलं परमेष्ठयचष्ट ॥६॥ दृष्ट्वा त्वरेण निजधोरणतोवतीर्य पृथ्व्यां वपुः कनकदण्डमिवा निपात्य । स्पृष्ट्वा चतुर्मुकुटकोटिभिरङ्घ्रियुग्मं नत्वा मुदश्रुसुजलैरकृताभिषेकम् ॥ ६२ ॥ उत्थायोत्थाय कृष्णस्य चिरस्य पादयोः पतन् । आस्ते महित्वं प्राग्दृष्टं स्मृत्वा स्मृत्वा पुनः पुनः॥६३॥ भगवतोसाधारणमहिमान्येषां तर्कविषयोपि न भवति, अतः कथं द्रष्टुं शक्यते ज्ञातुं वा ? तदेव कुतस्तत्राह स्वप्रमितिक इति, स्वस्यैव भगवत एव प्रमितिर्यस्य, केवलं स्वसंवेद्यमेव तन् न त्वन्यसंवेद्यं, तत्रापि हेतुरजातः परत्रेति, प्रकृतेः परः सः, प्रकृतौ चान्ये, अतो यत्र भगवांस्तत्रान्यो नास्तीति भगवत्संवेद्यमेव भगवन्- माहात्म्यं, ननु श्रुत्वा कथं न ज्ञायते ? तत्राहातन्निरसनमुखब्रह्मकमिताविति, ब्रह्मव्यतिरिक्तस्य निरसन- द्वारैवोपनिषदो ब्रह्मस्वरूपं बोधयन्ति न तु साक्षादाहत्य, सङ्केतग्रहाभावात् , वैदिकव्यवहारेपि यावदयं बहिर्मुखस्तत्र प्रविशति तावद्वाहिनिरसनेनैव प्रवेशनीयः प्रविष्टस्तु तद्भावमेव प्राप्स्यतीति स्वसंवेद्य एव भविष्यति, अतः प्रथमाधिकारे श्रुतिस्तथैवा हाथात आदेशो नेति नेती'ति, अतः श्रुतयोप्याहत्य न वदन्तीति युक्तमेव तस्य द्रष्टुमशक्तिर्मोहश्च ततो दुःखं चेति ॥ ५७ ॥ भगवतैवं कृते मूर्छित एव ब्रह्मा पतितस्तत: कियत्कालानन्तरमुत्थितः, अर्वागेव प्रतिलब्धमक्षं ज्ञानं येन, लोकदर्शनार्थमेवोत्थितो न तु भगवदर्शनार्थमिति व्यर्थमस्योत्थानमिति दृष्टान्तमाह परेतवदिति, यथा मृत उत्तिष्ठति केनचिन्निमित्तेन तथायमप्युत्थितः पूर्व मृतो मूर्छितः पश्चादुत्थित इति वा, कुच्छ्रादतिकष्टेनैव दृष्टीरुन्मील्येदं जगदेव दृष्टवान् ॥ ५८ ॥ ततः सपद्येवाभितः पश्यन् दिशोपश्यत् , ततः पुर:स्थितं वृन्दावनं चापश्यत् ततस्तस्मिन् वने जीवनार्थमागताँ- लोकानप्यपश्यत् , तदाह जनाजीव्यमिति, द्रुमाकीर्णमिति द्रुमैर्व्याप्तं न तु शून्यारण्य, समं च तदासमन्तात् प्रियं च ॥ ५९ ॥ ततस्तत्रत्यान् मृगानपि दृष्टवानित्याह तत्र नैसर्गदुर्वैरा इति, स्वभावत एव दुष्टवैरा अप्यश्वमहिषादयः सहैवासन नरा मृगाश्च, किञ्च मित्राणीव, तत्र हेतुरजितस्य भगवत आवासेन गता रुट् तर्षा तृष्णान्येपि कामादयो दोषाः, गतरुट्तर्षादिकं यथा भवति तथा सहासन्नितिसम्बन्धः ॥६०॥तस्मिन् बने भगवन्तमपि पूर्ववद् दृष्टवानित्याह तत्रोद्वहदिति, तत्र वृन्दावन उद्वहत्पशुपवंशशिशुत्वनाट्यं येन वस्तुत- स्त्वद्वैतं ब्रह्मैव, परं कालादिनियन्तृ, अनन्तमत एवापरिच्छिन्नं, अगाधो बोधो यस्य, उद्वहदिति भिन्नपदं वा विचिन्वदित्यनेन सम्बध्यते, सखीन् वत्सांश्च परितो विचिन्वन्तं, विचिन्वन् यो वर्तते तमितियोजना एकमेव वर्षात् पूर्वमेव गृहीतं कवलं हस्ते यस्य, पाणौ कवलं तेन सहितमचष्ट दृष्टवान् ॥६१॥ ततो भगवन्तं दृष्ट्वा त्वरेण निजधोरणतो विमानादवतीय विमानं परित्यज्य भूमौ समागत्य पृथिव्यां स्वस्य वपुः कनकदण्डमिवा समन्तात् पातयित्वा परिवर्तनेन चतुर्मुकुटकोटिभिरध्रियुगं स्पृष्ट्वा पुनर्वाचापि नत्वाश्रुजलैः प्रेमाश्रुभिः पादयुग्मस्यैवाभिषेकमकृत ॥ ६२ ॥ ततोपि पुनःपुनरुत्थाय कृष्णस्य पादयोः पतन् स्तब्ध इवास्ते, तत्र हेतुः प्राग्दृष्टं महित्वं पुनः पुनः स्मृत्वा स्मृत्वा ॥ ६३ ॥ ततः पुनर्मूर्छा परित्यज्य ११० श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [ श्लो० ५१-५७ आत्मादिस्तम्बपर्यन्तैर्मृतिमद्भिश्वराचरैः । नृत्यगीताद्यनेकाह: पृथक्पृथगुपासिताः ॥५१॥ अणिमाद्यैर्महिमभिरजाद्याभिर्विभूतिभिः । चतुर्विंशतिभिस्तत्वैः परीता महदादिभिः ॥५२॥ कालस्वभावसंस्कारकामकर्मगुणादिभिः । स्वमहिध्वस्तमहिभिर्मतिमद्भिपासिताः ॥ ५३॥ सत्यज्ञानानन्तानन्दमात्रैकरसमूर्तयः । अस्पृष्टभूरिमाहात्म्या अपि ह्युपनिषदृशाम् ॥ ५४ ॥ एवं सकृद् ददर्शाजः परब्रह्मात्मनोखिलान् । यस्य भासा सर्वमिदं विभाति सचराचरम् ॥ ५५ ॥ ततोतिकुतुकोवृत्त्य स्तिमितैकादशेन्द्रियः । तद्धाम्नाभूदजस्तूष्णीं पूर्देव्यन्तीव पुत्रिका ॥ ५६ ॥ इतीरेशेतये निजमहिमनि स्वप्रमितिके परत्राजातोतनिरसनमुखब्रह्मकमितौ । अनीशेपि द्रष्टुं किमिदमिति वा मुह्यति सति चछादाजो ज्ञात्वा सपदि परमोजाजवनिकाम् ॥ ५७ ॥ ब्रह्मा स्तम्बस्तृणस्तम्बो ब्रह्मादितृणस्तम्बपर्यन्तैराधिदैविकैर्मृतिमद्भिर्विग्रहवद्भिश्चराचरैः स्थावरैर्जङ्गमैश्च पृथक्पृथगुपासिता इतिसम्बन्धः, पृथगुपासने हेतुर्नृत्यगीताद्यनेकाहर्यथाधिकारं स्वस्य धर्मा भगवत्- सेवोपयिकाः पृथक पृथक् सन्तीति सर्वेषां पृथगुपासनम् ॥ ५१ ॥ अणिमाद्यष्टैश्चर्यैरपि सेविताः, अणिमा- दीनां महित्वं माहात्म्यरूपत्वं, अजाद्या विभूतयः, उत्पत्तिव्यतिरेकेणैव स्वस्योत्पत्तिभावमन्येषां चोत्पत्ति सम्पादयति या शक्तिः साजा, सादिर्यासां लक्ष्म्यादीनां, ताभिरपि प्रत्येकमुपासिताश्चतुर्विशतितत्त्वाभि- मानिन्यो देवताः ॥५२॥ कालादयोप्यभिमानिदेवाः, गुणाः सत्त्वरजस्तमांसि, आदिशब्देन नामसृष्टिवर्गः सर्वोप्यासन्यादयश्च, तेषां माहात्म्यमाह स्वमहिध्वस्तमहिभिरिति, स्वमहिम्नैव ध्वस्तो महिमान्येषां यैः, भगवन्महिम्ना वा ध्वस्तमहिमानः, ते च सर्वे मूर्तिमन्तः, तैरपि 'पृथक्पृथ'गुपासिताः ॥ ५३ ॥ धर्मानुक्त्वा स्वरूपमाह सत्येति, सत्यज्ञानमनन्तशब्देन दोषाभावः, इतरान्यत्वमानन्दश्च स्वरूपे दोषाभावोप्य- वश्यं वक्तव्यः, तन्मात्रा एकरसा मूर्तयो येषां, रसभेदस्तु विजातीयसंश्लेषाद् भवति, उत्कर्षमाहास्पृष्टभूरीति, उपनिषद्दग्भिरपि न स्पृष्टं भूरि माहात्म्यं येषाम् ॥५४ ॥ एवं सर्वमेव भगवत्स्वरूपं वर्णयित्वोप- संहरंस्तस्य दर्शनमाह, अजो ब्रह्माप्येवं सकृदेव ददर्श सर्वानेव परब्रह्मात्मनः परब्रह्मरूपान् , एकं हि परब्रह्म प्रसिद्धं दृश्यते त्वनन्तरूपमिति, नन्वेकेन ब्रह्मणा कथमेतावन्तो दृष्टास्तत्राह यस्येति, यस्य भगवतो भासेदं सर्वमेव सचराचरं विभाति, अतो भगवदिच्छयैव भगवद्भासा सर्वज्ञो जातः ॥ ५५ ॥ ततोतिकुतुकेनातिसन्तोषेणोद्वृत्त्य दृष्टीः परावृत्त्य स्तिमितान्येकादशेन्द्रियाणि यस्य तादृशो जातः, तेन हर्षादपि स्तोत्रे न समर्थो जातः, अशक्यं च स्तोत्रं, प्रदर्शितस्य मनसाप्याकलयितुमशक्यत्वात् , हेत्वन्तरमप्याह तद्धाम्नाभूदिति, भगवत्तेनसा निष्प्रतिभो ब्रह्मा तूष्णीमासीत् , तत्र दृष्टान्तो लौकिक: पूर्देव्यन्ती पुत्रिकेव, पूर्दैवी सवेरेव पुरवासिभिः पूज्यते न तु तन्निकटस्था पुत्रिका, न हि समानदेशस्थिति- मात्रेण पूजार्हता भवति, अतस्तदानीं दृष्टैः सँवरेवायमुपेक्षित इति निष्प्रतिभत्वमुचितमेव ॥ ५६ ॥ एवम- प्रयोजके ब्रह्मणि जाते भगवांस्तद्रूपमुपसंहृतवानित्याहेतीरेश इति, इत्यमुना प्रकारेणेरेशे वाक्पती ब्रह्मणि द्रष्टुमप्यनीशे मुह्यति च सति तस्य मोहादिक्लेशं ज्ञात्वाजाजवनिकां मायारूपतिरस्करिणी चछादा- च्छादितवान् , तदुपरि प्रसारितवान् , यथा ब्रह्मणो दर्शनं न भवति, उद्घाटितमाययैव तेषां दर्शनं न तु निर्माण- मत आच्छादनेदर्शनं. युक्तमेव, ननु ब्रह्मणो मोहेदर्शने च को हेतुस्तत्राहु निज़महिमन्यतये सति, , . ,

११२
[ श्लो० ६४.
श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां
शनैरथोत्थाय विमृज्य लोचने मुकुन्दमुद्रीक्ष्य विनम्रकन्धरः ।
कृताञ्जलिः प्रश्रयवान् समाहितः सवेपथुर्गद्गदौडतेलया ॥ ६४ ॥
शनैरुत्थाय नेत्रे विमृज्य ततो निर्मलचक्षुषा मुकुन्दमुद्रीक्ष्य विशेषेण नम्रा कन्धरा यस्य तादृशो जातः,
ततः कृताञ्जलिः प्रश्रयवान् विनयसहितः समाहितः सावधानः सवेपथुः कम्पमानो गद्गदयेलया
सरस्वत्यैडत स्तोत्रं कृतवान् ॥ ६४ ॥
॥ इति श्रीमद्भागवतसुबोधिन्यां श्रीमद्वलभदीक्षितविरचितायां दशमस्कन्धविवरणे प्रक्षिताध्यायेषु
द्वितीयाध्यायविवरणम् ॥ २ ॥

॥ प्रक्षिप्तेषु तृतीयोध्यायः॥ ॥ ब्रह्मोवाच ॥ नौमीड्य तेभ्रवपुषे तडिदम्बराय गुञ्जावतंसपरिपिच्छलसन्मुखाय । वन्यस्रजे कवलवेत्रविषाणवेणुलक्ष्मश्रिये मृदुपदे पशुपाङ्गजाय ॥१॥ अस्यैव देव वपुषो मदनुग्रहस्य स्वेच्छामयस्य तनुभूतमयस्य कोपि । नेशे महि त्ववसितुं मनसान्तरेण साक्षात् तवैव किमुतात्मसुखानुभूतेः ॥२॥ ज्ञाने प्रयासमुदपास्य नमन्त एव जीवन्ति सन्मुखरितां भवदीयवार्ताम् । स्थाने स्थिताःश्रुतिगतां तनुवाङ्मनोभिर्ये प्रायशोजित जितोप्यसितैत्रिलोक्याम्॥३॥ स्तुतिब्रह्मप्रसादश्च वत्सानां पुनरागतिः । स्नेहोपपत्तिः श्रवणे फलं चेति निरूप्यते ॥ १ ॥ प्रथमं व्याकुलो ब्रह्मा दृष्टं रूपं वर्णयन् नमस्यति नौमीति “णु स्तुतौ" स्तौमि भगवन्तं, तत्र हेतुं सम्बोधनेनाह हे ईड्येति, सँवरेव स्तूयतेतो मयापीति, “प्रयोजनमनुद्दिश्य कोपि न प्रवर्तत" इति किमर्थं स्तोत्रमित्याशङ्क्याह त इति, ते तुभ्यमेष, त्वमेव फलं न त्वहं, ब्रह्मप्राप्तिश्च तपोज्ञानादिभिः किं स्तोत्रेणेति चेत् तत्राहाभ्रवपुष इति, नास्माकं फलं शब्दविषयकं ब्रह्म किं त्वेतदेव प्रत्यक्षतो दृश्यं तदपि प्राकृतचक्षुषैव तत्रापि सर्वाभरणभूषितं तत्रापि प्राकृतालङ्कारसहितं तत्राप्येतदवस्थापन्नमिति वक्तुं तथाविशेषणान्याहाभ्रवन् मेघवद् वपुर्यस्य नीलमेघश्यामाय, तडिद्वत् पीतमम्बरं यस्य, गुञ्जाफलानामवतंसः परितो मयूरपिच्छानि तैर्लसन मुखं यस्य, वनोद्भवानां पुष्पाणां स्रग् यस्य, कवलं ध्योदनो हस्ते, वेत्रविषाणे कक्षयोः, वेणुर्जठर- पटयोः, एतान्येव यानि लक्ष्माणि चिह्नानि तैः श्रीः शोभा यस्य, मृदू पादौ यस्य, पशुपस्य नन्दस्याङ्गाच जातो नन्दसूनुः, अनेन यथैव व्यवहारो लौकिकस्तद्विषय एव भगवानस्माकं फलरूपोस्त्वित्यर्थः ॥ १॥ लौकिके प्राकृते भावे यस्य भावः स भक्तिमान् । हीनभावं तं विदित्वा योन्यथा वेद सोधमः ॥ १॥ यद् गृह्णाति यथैवायं रोधयत्यत्र लौकिके । तत् प्रमाणमिहास्माकं नान्यद् भिन्नाधिकारतः॥ २ ॥ नन्वेतदेव फलत्वेन किमिति प्रार्थ्यते ? प्रदर्शनार्थमेवैतदतः श्रुतिसिद्धमेव फलत्वेन प्रार्थ्यता- मित्याशक्याहास्यैवेति, एतदप्यस्माकं महत् फलं, यस्य हि स्वरूपानुभावौ ज्ञायते तत् फलमिष्टं भवति, अस्माकं त्वेतस्यापि स्वरूपानुभावौ न बुद्धिगोचरावत इदमेव फलत्वेन धाष्ट्यादेव प्रार्थ्यते, देवेतिसम्बोधन- मुपास्यत्वाय, अस्यापि वपुषो महि महिमानमन्तरेणापि मनसान्तर्मुखेन विचारयुक्तेनापि मनसाहं ब्रह्मापि नेशे "कश्चिद् धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षु"रितिपक्षं व्यावर्तयति, यद्यपीदं वपुर्मदनुग्रहं मय्यनुग्रहो यस्य, ब्रह्मकृपयैवावतारो ब्रह्मवचनाच्च गोकुले समागमनं ब्रह्मणि कृपयैवेदानीं प्रादुर्भाव इति, अत इदं रूपं ब्रह्मार्थमेव, तर्हि कथं न माहात्म्यं ज्ञायत इत्याशझ्याह स्वेच्छामयस्येति, स्वस्य येच्छा तन्मयोयं, इच्छा त्वपराधेन्यथा भवतीति न नियमो मय्यनुग्रहमेव करिष्यतीति, न च कालकर्मस्वभावानां नियामकत्वं, तथा सति ब्रह्मण- स्तेनुकूला इत्यनुग्रहमेव करिष्यतीति कल्पयितुं शक्यते, अतः कालावधीनत्वाभावे हेतुमाह तनु- भूतमयस्येति, कोप्यहमपि, यत्रास्य रूपस्यैव महिमा न ज्ञायते तत्र साक्षात् तवैव श्रुत्यैकसमधिगम्यस्यात्म- सुखानुभूतेः स्वत एव बोभूयमानाशेषपुरुषार्थस्वरूपस्य सच्चिदानन्दरूपस्य वा, यद्यप्येतदेव तत् तथाप्य- प्रतीयमानमपि फलत्वेन भिन्नतया निर्दिष्टम् ॥२॥ नन्वेवं सति कथं ज्ञानार्थ यतन्ते ? तत्राह ज्ञाने प्रयासमिति, १५४ G श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [ श्लो०४-६. श्रेयःसुति भक्तिमुदस्य ते विभो यतन्ति ये केवलबोधलब्धये । तेषामसौ क्लेशल एव शिष्यते नान्यद् यथा स्थूलतुषावघातिनाम् ॥ ४ ॥ पुरेह भूमन् वहवोपि योगिनस्त्वदर्पितेहा निजकमलब्धया। विबुध्य भक्त्यैव कथोपनीतया प्रपेदिरेञ्जोच्युत ते गतिं पराम् ॥ ५ ॥ अथापि भूमन् महिमागुणस्य ते विबोद्भुमर्हत्यमलान्तरात्मभिः । अविक्रियात् स्वानुभवादरूपतो ह्यनन्यबोध्यात्मतया न चान्यथा ॥६॥ ज्ञानं द्विविधं भगवतः स्वस्य च, तत्र स्वज्ञानमपि भक्त्यैव भवतीति वक्तव्यं, भगवज्ञानं तु न कस्यापि भवति, न ह्यापानतो दृष्टो भगवान् ज्ञातो भवति नापि श्रुतः, भक्त्यापि तत्त्वं ततो ज्ञानमिति प्रवेशोपयोग्येव ताव- देवापेक्ष्यत इति, अतो ज्ञाने प्रयासमुदूर्ध्वमेवापास्य दूरीकृत्य तव द्वारकादिस्थानेषु स्थिता देशदोषाभावाय यत्र क्वाप्युपविष्टा वा सद्भिर्मुखरितां भगवदीयवार्ता स्वस्य श्रुतिगतां कर्णगतां तनुवाङ्मनोभिर्नमन्तो ये जीवन्ति ते प्रथमतः प्रसिद्धा भवन्ति, किं बहुना ? तैरजितोपि भवाञ् जितः, अयमेको मार्गः सर्वेषां पुरुषार्थ- सिद्ध्यर्थ प्रसिद्धः सुगमः, आदौ स्थानस्थितानां जीविकोपवाभावादिः स्वतःसिद्धः, सन्तश्च सर्वत्र भगवदाज्ञया परिभ्रमन्ति, तेषां चैतदेव कृत्यं, भगवद्गुणगाने ते मुखरा एव भवन्ति, तत्रापि कथायां ज्ञात्वा वक्तव्यमिति न नियमः, केवलं भगवदीया भगवत्सम्बन्धिनी वार्ता भवतु न तूपपन्नानुपपन्ना वेति, तत्राप्यना- यासेन स्वकणे समागता भवति, परं कायवाङ्मनोभिनमस्या सा, तदनुगुणतया कायवाङ्मनांसि स्थापनीयानि, न तु तत्र विरोध आचरणीयः, एतावदेव कृत्यमत्र साधनं जीवनमेव न तु कर्मकरणादिकमपि, प्रायश इति ते चेद् भावान्तरं न कुर्युः कालादयः प्रतिबन्धकत्वाद्वा, अतोनेनैव प्रकारेणाग्रिमतनानां निस्तारो मम स्वनेनैव स्वरूपेणेतिस्वतन्त्रः पक्षो निरूपितः ॥३॥ ये तु पुनः स्वज्ञानार्थ यतन्ते तेन च पुरुषार्थ साधयितुं ते भ्रान्ता एवेत्याह श्रेयःस्रुतिमिति, श्रेयसः स्रुतिः प्रत्रवः, मृतिर्गतिर्वा, यया भक्तिर्हि चिन्तामणिरूपा प्रार्थ्यते चेदन्यदिवात्मज्ञानापि प्रयच्छति तादृशीमपि परित्यज्य केवलं स्वरूपज्ञानमेवास्त्विति ये यतन्ते तेषामसौ यत्नः क्लेशल एव शिष्यते, क्लेशयुक्तः क्लेशलो न तु फलयुक्तोपि, तेन प्रयत्नेन गौणमपि फलं साधितं भविष्यतीतिशङ्कां वारयति नान्यदिति, अन्यत् फलं प्रासङ्गिकमपि न भवतीत्यर्थः, ननु तपस्यादिना यत्ने कथं नान्यफलसिद्धिरन्तःकरणशुद्धिर्वा भवेदित्याशङ्ग्य दृष्टान्तमाह स्थूलतुषावघातिनामिति, महता कप्टेनाप्युत्पादिताः स्थूलतुषा अवहता अपि स्वरूपत एव परं नश्यन्ति न तु कश्चन तेषु सारांशोस्ति, अतः सत्त्वमूर्तेरस्वीकारे सत्त्वाभावाच् छुद्धिज्ञानादिकं न भवत्येव, मौड्यात् प्रवृत्ताः क्लिष्टा एव भवन्तीत्यविवादम् ॥४॥ अस्मिंश्च मार्गे फलसिद्धिर्बहूनां जातेत्याह पुरेति, हे भूमन् व्यापक, पूर्वमपि विद्यमान, इहास्मिन् बहवोपि सङ्घशो योगिनो योगेनावधृतभक्तिसामर्थ्याः, अत एव त्वय्यर्पितेहा चेष्टा यैस्तेनैव समर्पणलक्षणेन कर्मणा त्वत्सेवालक्षणकर्मणा वा लब्धया भक्त्यैव विबुध्य स्वरूपं ज्ञात्वा हेच्युत केनापि प्रकारेण च्युतिरहित ते गति मार्ग येन प्रकारेण त्वं गच्छसि तां प्रपेदिरे, पश्चात् त्वदनुगानां न कापि चिन्ता, अञ्जोनायासेनैव परां लोकातीतां प्रपेदिरे प्राप्तवन्तः, अत आत्मज्ञानापेक्षायामप्ययमेव मार्ग उचितः॥५॥ एवं लौकिकप्रकारं समर्थ- यित्वा वैदिकं च व्यवस्थया निरूप्य पौराणिकप्रकारेणापीदमेवोपास्यं न त्वन्तर्यामिरूपमिति वक्तुं तदपेक्षयास्य माहात्म्यं वदिष्यन्नन्तर्यामिरूपं सुकरत्वेन निरूपयत्यथापीति, हे भूमन् ? अगुणस्य गुणातीतस्य ते महिमा- मलान्तःकरणैर्बोद्धं बोधगोचरीभवितुमर्हति योग्यो भवति, हेतौ तृतीया, बोधविषयो महिमा भवति, यथा बोधे श्लो०७-१०.] प्रक्षिप्तेषु तृतीयः स्कन्धादितश्चतुर्दशोध्यायः। गुणात्मनस्तेपि गुणान् विमातुं हितावतीर्णस्य क ईशिरेस्य । कालेन यैर्वा विमिताः सुकल्पैर्भूपांसवः खे मिहिका शुभासः ॥७॥ तत् तेनुकम्पां प्रसमीक्षमाणो भुञ्जान एवात्मकृतं विपाकम् । हृद्वाग्वपुभिर्विदधन् नमस्ते जीवेत यो मुक्तिपदे स दायभाक् ॥ ८॥ पश्येश मेनार्यमनन्त आये परात्मनि त्वय्यपि माथिमायिनि । मायां वितत्येक्षितुमात्मवैभवं ह्यहं कियानच्छमिवाचिरनौ ॥ ९॥ अतः क्षमस्वाच्युत मे रजोभुवो ह्यजानतस्त्वत्पृथगीशमानिनः । अजावलेपान्धतमोन्धचक्षुष एषोनुकम्प्यो मयि नाथवानिति ॥ १० ॥ कर्ता योग्यो भवत्येवं कर्मापि "ग्रामो गन्तुमर्हती"तिवत् , अन्तःकरणनैर्मल्येगुणस्य महिमा चित्ते प्रकाशते दर्पणे मुखवत् प्रयासाभावात् , चित्तं हि सत्त्वाकारं तद् गृह्णाति, अग्रहणे हेत्वभावात् , तत्र विकारं हेतुत्वेनाशक्य परिहरत्यविक्रियादिति, न विक्रिया यस्मिन् , विकारे हि सति शुद्धचित्तेन न गृह्यते, किञ्च शुद्धं चित्तमात्म- गाम्यात्मस्थितमेव पदार्थ गृह्णाति, महिमा पुनरात्मनिष्ठ एव, अतोपि ग्रहणयोग्यो भवतीत्याह स्वानुभवादिति, स्वस्यानुभव एवानुभवो यस्य, आत्मग्रहणेनैव गृह्यत इति स्वशब्देनात्मा, महिम्न एव स्वशब्दवाच्यत्वे महिम्न एवानु पश्चाद् भव उद्भवो यस्मान् महिमसम्बन्ध्यनुभवोन्तःकरणे भवति, गुणातीतस्य चेत् तथा महिमा न भवति तदान्तःकरणे ज्ञानं न भवेदेव, अत एवात्मानमपि गृह्णन् स्वजनकं ज्ञापयत्येव, स्वस्यायं महिमानुभवरूप एव वा, स्वयमेवानुभवस्तथा सति स्वप्रकाश एव, किञ्च शुद्धे ह्यन्तःकरणे ब्रह्माकारेण परिणते रूपवत्पदार्था एव न गृह्यन्ते महिमा तु ब्रह्मभूत एवेति भिन्नरूपत्वाभावाद् बोद्भुमर्हति, तदाहानन्यबोध्यात्मतयेति, अन्येन बोध्य आत्मा स्वरूपं यस्य तादृशभिन्नोयमात्मत्वेनैव भासमानत्वात् , अन्तःकरणधर्मा वा एते निर्दिष्टाः, सर्व- विकारं परित्यज्य ज्ञानरूपेण परिणतं सप्रापच्चिकविषयग्रहणहेतुभूतवासनारहितं सत् स्वत एव स्फुरज् ज्ञानरूप- मन्तःकरणं भगवन्महिमानं गृह्णातीति ॥६॥ गुणात्मनस्तु महिमा ज्ञातुं न शक्यत इत्याह गुणात्मनस्त इति, सर्वगुणरूपो भगवानेव जातस्ते च गुणा अनन्तास्तेषां विमानेपि कश्चिन्न शक्तः, यतः सर्वजगद्धितार्थमवतीर्णः, बहवोपि मिलित्वा नेशिरे, महतापि कालेन सुकल्पैरतिसमर्थैर्भूपांसवो विमिता भवन्ति पंचाशत्कोटिघनस्य गणनायां धनान्तरवत् तदपि गणयितुं शक्येत, ख आकाशे मिहिका हिमकणाः, धुभासो ज्योतिश्चक्र- तेजोंशाः, एते तामसा राजसाः सात्त्विकाः सर्वहितार्थं प्रवृत्ताः परिमितत्वात् गणितुं शक्याः, अपरिमितास्तु भगवद्गुणा गणितुं न शक्याः ॥ ७ ॥ अतो ये सगुणोपासकास्ते गुणज्ञानाग्रहं परित्यज्यास्मदुक्तानुसारेण चेत् प्रवृत्तास्तदा कृतार्था भवन्तीत्याशयेनाह तत् तस्मात् कारणात् तेनुकम्पां कृपामेव प्रकर्षेण समीक्षमाणः कदा कृपां करिष्यतीति तावत्पर्यन्तमात्मकृतमेव विपाकं कर्मविपाकं भुञ्जानो हृदयमेव मनो वाङ्मनोवपुर्भिस्ते नमो विदधद् यो जीवेत स मुक्तिपदे दायभाग् भवति, यथा पितृद्रव्ये जीवन् पुत्र एव भागी ॥ ८ ॥ एवमूपस्यैव भगवतः सर्वोपास्यत्वमुक्त्वा स्वापराध क्षमापयितुमनुवदति पश्येति, हे ईश मेनार्य दुष्टत्वं पश्य, अनार्यमेवाहानन्त उत्तरावविरहित आये पूर्वावधिरहिते परमात्मनि नियामकात्मरूपेन्तबर्हिःस्थित एतादृशे त्वय्यपि मायिनामपि मायिनि मोहके, प्रकृतोपयोगि विशेषणमेतत् , तादृशे मायां वितत्यात्मवैभवमीक्षितु- मैच्छं, अनेन प्रदर्शनार्थमेवैतदित्यपराधाभावोपि सूचितः, परमेतदप्यनुचितं, तत्र हेतुमाह कियानहमिति, को वाहूं वराकः ? तत्र दृष्टान्तोग्नावर्चिरिवेति, न ह्यग्नेर्वालाविशेषोग्निमेवं कर्तुमर्हति ॥ ९॥ अतोनुचितं यद्यपि श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [श्लो० ११-१४ काहं तमोमहदहखचराग्निवार्भूसंवेष्टिताण्डघटसप्तवितस्तिकायः । केदृग्विधाविगणिताण्डपराणुचर्या वातावरोमविवरस्य च ते महित्वम् ॥ ११ ॥ उत्क्षेपणं गर्भगतस्य पादयोः किं कल्पते मातुरधोक्षजागसे । किमस्तिनास्तिव्यपदेशभूषितं तवास्ति कुक्षेः कियदप्यनन्तः ॥ १२ ॥ जगत्रयान्तोदधिसम्प्लवोदे नारायणस्योदरनाभिनालात् । विनिर्गतोजस्त्वितिवाङ् न वै मृषा किन्त्वीश्वर त्वन्न विनिर्गतोस्मि ॥ १३ ॥ नारायणस्त्वं न हि सर्वदेहिनामात्मास्यधीशोखिललोकसाक्षी । नारायणोङ्गं नरभूजलायनात् तच्चापि सत्यं न तवैव माया ॥ १४ ॥ तथापि क्षमस्व यतस्त्वमच्युतस्तव न काचित् क्षतिः, मम चायं सहजो दोषो यतोहं रजोभूः, तत्राप्यजानतः, अर्थात् तव माहात्म्यं, तत्र हेतुस्त्वत्तः पृथगेवाहमीश इत्यभिमानयुक्तः, हेत्वन्तरमप्याहाजोहं न कस्मादप्युत्पन्न इति योयमवलेपो गर्वो वस्तुतस्त्वज एव, तेनावलेपेनान्धं चक्षुर्यस्य, क्षमायां हेतुमाहैषोनुकम्प्यो मयि नाथ- वानिति,एष ब्रह्मानुकम्प्यः,कुतः? मय्येव सत्ययं नाथवान् , अन्यथा त्वनाथ एव स्यात् ,अतो ब्रह्मण एतावत्त्वं मत्त एवेति क्षमोचिता ॥१०॥ एवमाधिभौतिकब्रह्माणमात्मानं तिरस्कृत्याधिदैविकमपि तिरस्करोति काहमिति, तमः प्रकृतिर्महन् महत्तत्त्वमहमहङ्कारः खमाकाशश्चरो वायुरग्निर्वार्जलं भूमिश्चेत्यष्टावरणानि तैः सम्यग् वेष्टितो योय- मण्डरूपो घटस्तस्मिन् घटे सप्तवितस्तिपरिमितः कायो देहो यस्य, वितस्तिमात्रं शिरः परित्यज्य कायः सप्तवितस्तिर्भवति, ईग्विधानामविगणितानामण्डपरमाणूनां गतिर्यत्र तादृशो वाताध्वो गवाक्षः, गवाक्षे हि सूर्यकिरणेषु त्रसरेणूनां गतिर्दृश्यत इति गवाक्षवद् रोमविवराणि यस्य, तादृशस्य ते महत्त्वं क्वाहं च क्वेति सर्वथा परीक्षायामयोग्यता ॥ ११ ॥ आध्यात्मिकस्यापि ब्रह्मणः स्वरूपमाश्रित्यापराधक्षमापनामाहोत्क्षेपण- मिति, गर्भगतस्य पादयोरुत्क्षेपणं मातुरागसे किं भवति ? अपराधाय न कल्पते, ननु विषमो दृष्टान्त इति चेदस्तिनास्तिव्यपदेशाभ्यां भावाभावशब्दाभ्यां भूषितमलङ्कृतं जगत् तव कुक्षेरनन्तर्बहिः किम् ? सर्वं हि तव कुक्षौ, अतो ममापि सर्वमध्ये पातान् नापराध इत्यर्थः, अनेनापि प्रकारेणापराधक्षमापनं, अयं साधारणः पक्ष इति ॥ १२ ॥ विशेषप्रकारेण स्वस्य पुत्रत्वं भगवतः पितृत्वं चाह जगत्त्रयेति, जग- त्रयस्यान्ते प्रलये य उदधिसम्प्लव उदधीनां संश्लेषस्तस्मिन् प्रलयोदके नारायणस्योदरनाभि- नालात् कमलादजो विनिर्गत इतिवाङ् न मृषा, उपाख्यानानामपि सत्यार्थप्रतिपादकत्वात् , अत एव हे ईश्वर किं त्वत्तोहं न निर्गतः १ अपि तु निर्गत एवास्मि ॥१३॥ ननु नाहं नारायण इति चेत् तत्राह नारायण- स्त्वमिति, त्वं किं नारायणो न हि ? यतो नारायणत्वसाधका हेतवः सन्ति, तानाह सर्वदेहिनामात्मेति, नारं जीवसमूहस्तदयनं यस्येति, आत्मा हि सर्वभूतेषु तिष्ठति, “अहमात्मा गुडाकेश सर्वभूताशयस्थित" इति- वाक्यात् , किञ्च नारमयते प्रेरयतीति नारायणः, अस्मिन्नपि पक्षेधीश्वरत्वाद् भवान् नारायणो“नराज् जातानि तत्त्वानि नाराणीति विदुर्बुधास्तेषामधीश्वरः साक्षान् नारायण इतिस्मृत"इतिवाक्यात् , नारं जीवसमूहमयते जानातीति चेत् तथापि भवान् नारायणो यतोखिललोकसाक्षी, ननु नैवं नारायणशब्दो व्युत्पन्नः कि"न्त्वापो नारा इति प्रोक्ता आपो वै नरसूनवः अयनं तस्य ताः पूर्वं तेन नारायणः स्मृत' इतिवाक्यान् नरोत्पन्नजलायनान् नारायण इति चेत् तत्राह नारायणोङ्गमिति, नरभूजलायनाद् यो नारायणः स तवाङ्गं पुरुषत्वात् "पुरुषो ह वै नारायणोकामयते"तिश्रुतेः,"विष्णोस्तु त्रीणि रूपाणि पुरुषाख्यान्यथो विदुः प्रथमं महतः स्रष्ट द्वितीयं खण्ड- ,

श्लो० १५-१८.]
प्रक्षिप्तेषु तृतीयः स्कन्धादितश्चतुर्दशोध्यायः।
११७
तत् चेज् जलस्थं तव सत् जगद्वपुः किं मे न दृष्टं भगवस्तदैव ।
किं वा सुदृष्टं हृदि मे तदैव कि नो सपद्येव पुनर्व्यदर्शि ॥ १५ ॥
अत्रैव मायाधमनावतारे ह्यस्य प्रपञ्चस्य बहिःस्फुटस्य ।
कृत्स्नस्य चान्तर्जठरे जनन्यामायात्वमेव प्रकटीकृतं ते ॥ १६ ॥
यस्य कुक्षाविदं सर्व सामं भाति यथा तथा । तत् त्वय्यपीह तत् सर्व किमिदं मायया विना ॥१७॥
अद्यैव त्वतेस्य किं मम न ते मायात्वमादर्शित-
मेकोसि प्रथमं ततो ब्रजसुहृद्वत्साः समस्ता अपि ।
तावन्तोसि चतुर्भुजास्तदखिलैः साकं मयोपासिता-
स्तावन्त्येव जगन्त्यभूस्तदमितं ब्रह्माद्वयं शिष्यते ॥१८॥
संस्थितं तृतीयं सर्वभूतस्थं तानि ज्ञात्वा विमुच्यत" इतिवाक्यान् नारायणस्तवाङ्गमवतारः,किञ्च नारायणशब्दो
वस्तुतस्तथा न व्युत्पन्न एव, यतो जलवासस्य प्रदर्शनमात्रपरत्वात् , न ह्यवस्तुना शब्दो व्युत्पद्यते, अन्यथा
रजतदाने शुक्तिकामपि दद्यात् , अतो जलस्थितेः प्रदर्शनमात्रपरत्वात् तेन न नारायणयोगार्थः सिध्यति, तदाह
तच्चापि सत्यं नेति, जलाधिकरणत्वं न सत्यं किन्तु तव मायैव ॥१४॥ तस्य मायिकत्वार्थे तर्कमाह, तच् चेत्
जलस्थमिति, तद् वपुश्चेत् सज् जलोपरि च वर्तते तदा मे मया किं तदैव न दृष्टं ? यो हि स्थूलपदार्थः परि-
च्छिन्नो योग्ये वर्तते स दृश्यते यथा घटः, अतस्तदा मया न दृष्टमिति न तज् जले तिष्ठति, नन्वयोग्यत्वान्न दृश्यते न
त्वविद्यमानत्वादित्याशझ्याह किं वा सुदृष्टं हृदि मे तदैवेति ? न हि हृदये जलमस्ति, अतो जलस्थितिर्न नारा-
यणशब्दप्रवृत्तिप्रयोजिका, किञ्च सपद्येव पुनः किं नो व्यदर्शि ? अस्मभ्यं कथं न दर्शितवान् ? यद्यहं तस्य
नारायणस्यैव पुत्रः, लोके हि पितापुत्रावन्योन्य प्रत्यक्षसिद्धौ भवतः, न हि तयोरन्यतरोयोग्यो भवितुमर्हति,
वस्तुतो भवानेव नारायणो न तु सः, नारं सर्वमेवायते प्रविशति यमिति नारायणः सर्वजगदाधारः, स
भवानेव न तु सः ॥ १५॥ तस्योदर एवाहं स्थितो जगत् कृतवाञ् यदि जगत् तत्र सहनं तिष्ठेत् मम
कृतिळा स्यादन तु तिष्ठतीत्याहात्रैवेति, हे मायाधमन मायानिवारक, अनेन मायासम्बन्धो भगवति
निराकृतः, अस्य प्रपञ्चस्य बहिःस्फुटस्य कृत्स्नस्याप्यन्तर्जठरे ते जनन्यामायात्वमेव प्रकटीकृतं,
"अथो
अमुष्ये"तिवाक्यात् , अतः सत्यप्रपञ्चाधारत्वाद् भवानेव नारायणः ॥ १६ ॥ ननु विश्वाधारो नारायण एव
पुरुषस्तस्मिन् विश्वप्रतीतेरतोहं प्रपञ्चमध्ये स्थितः सूक्ष्मो नारायणो न भवामीति चेत् तत्राह यस्येति, यस्य
नारायणस्य कुक्षाविदं सर्वं सात्ममात्मसहितं भाति तथा त्वय्यपीह भाति, अतो विशेषाभावाद् भवानपि
नारायणः,यस्तु भेदः परिच्छेदोन्यथाप्रतीतिरेतत् सर्व किंमायया विना? अपि तु तव व्यामोहिकया शक्त्या
माययैवं भासते भवान् परिच्छिन्न आधेयो नारायणाद् भिन्न इति, अतः पुरुषस्य नारायणपक्षेपि भवान्
नारायणः ॥१७॥ किञ्च नारायणः पुरुषोत्तमः स एव सर्वं न त्वन्यो नारायणो भवतीति चेत् तत्राहाद्यैवेति,
अद्यैव ते त्वया त्वदृतेस्य प्रपञ्चस्य भिन्नतया सत्त्वं नास्तीति ज्ञापयितुं मायात्वमादर्शितं, ये हि भिन्न-
तया जगद् भगवद्व्यतिरिक्तमस्तीत्याहुस्तेद्यैव भ्रान्ताः कृता यतः सर्वं त्वमेवेति, तदुपपादयत्येकोसि प्रथम
यदा मया वत्सा अपहृता बालाश्च ततो व्रजस्य सम्बन्धिनः सुहदो बाला वत्साश्च ततः समस्ता अपि
सर्वब्रह्माण्डरूपस्ततः क्षणानन्तरं तावन्तोपि भगवत्स्वरूपाश्चतुर्भुजा दृष्टास्तत्राप्यखिलैब्रह्माण्डैस्तवत्यैर्वा मया
चोपासितास्तावन्त्येव जगन्ति त्वमेवाभूः, अतःकारणाद् ब्रह्माद्वयमेव शिष्यते, न त्वन्यः पदार्थो विचार्य-
माणः सिध्यति, तस्माद् भवानेव नारायण इति समर्थितम् ॥ १८ ॥

११८ श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [ श्लो० १९-२२. अजानतां त्वत्पदवीमनात्मन्यात्मात्मना भाति वितत्य मायाम् । सृष्टाविवाहं जगतो विधान इव त्वमेषोन्त इव त्रिनेत्रः ॥१९ ।। सुरेष्वृषिष्वीश तथैव नृष्वपि तिर्यक्षु यादस्स्वपि तेजनस्य । जन्मासतां दुर्मदनिग्रहाय प्रभो विधातः सदनुग्रहाय च ॥ २० ॥ को वेत्ति भूमन् भगवन् परात्मञ् योगेश्वरोतीभवतस्त्रिलोक्याम् । काहो कथं वा कति वा कदेति विस्तारयन् क्रीडसि योगमायाम् ॥ २१ ॥ तस्मादिदं जगदशेषमसत्स्वरूपं स्वप्नाभमस्तधिषणं पुरुदुःखदुःखम् । त्वय्येव नित्यसुखबोधतनावनन्ते मायात उद्यदपि यत् सदिवावभाति ॥ २२॥ अतः परं भवान् स्वाम्यहं सेवक इति सकृदपराधः सेवकस्य भ; सोढव्य इति वक्तुं सर्ववस्तूनां तत्त्वमाहाजानतामित्यादिदशभिः, त्वत्पदवीमनानतामेतदने वक्ष्यमाणं सर्व तत्त्वं न तु त्वत्पदवीं जानते, एवमपि तेन तत्त्वेन न तेषां निस्तारो भ्रमतत्त्वभावात् , किन्तु तेषामपि तव पादाम्बुजानुग्रहलेशादेव मुख्यतत्त्व- प्राप्तिर्न तु भावित्वेन, भ्रान्ते निरीश्वरमाङ्ख्यादिपरिकल्पिते न काचित् सिद्धिरिति, तत्र तेषां प्रथमं भ्रममाहा- नात्मनीति, अनात्मनि देहादावात्मात्मना देह आत्मेन्द्रियेणात्मना कृत्वा भाति, नन्वनात्मनि कथं कर्तृत्वं करणत्वं चेत्याशङ्क्याह वितत्य मायामिति, मायां वितत्य विस्तारयित्वानात्मन्येवात्मबुद्धिं सम्पादयति, तत्र दृष्टान्तो यथा सृष्टावहं ब्रह्मा, ब्रह्मा हि देहो न हि स कर्ता भवति, जगत्कर्तृत्वं भगवत एवेति जगतो विधाने स्थापने त्वमिव यथा गुणावतारो विष्णुः पालकत्वं च भगवत एवेति विष्णुरपि चतुर्भुजादिरूप इति त्वमिवे- त्युक्तं, एष त्रिनेत्रः, अत एवेदानी महादेवोप्यागत इति ज्ञायते, नाप्ययमन्तकर्ता, "जन्माद्यस्ये"तिन्याय उत्पत्तिस्थितिलया भगवतः सकाशादेवेत्युक्तं, अतो यथोत्पत्तिस्थितिप्रलयकर्तारो वयं कल्पिता एवं देहोप्यात्मा, इन्द्रियाणि च करणाण्यात्मा, अहमन्यथा पश्यामीति सामानाधिकरण्यप्रतीतिर्नोपपद्येत ॥ १९ ॥ नन्वेवं भ्रमे सति कथं निस्तार इति चेत् तत्राह सुरेष्विति, भ्रान्तानां स्वरूपस्वतत्त्वपरिज्ञापनाय, सुरेषु देवेषु वामनरूपेण, ऋषिषु परशुरामरूपेण, तथा नृषु रामरूपेण, तिर्यक्षु वराहरूपेण, यादःसु मत्स्यकूर्मरूपेणा- जनोपि जन्म कृतवान् , अन्यथा तत्त्वं को वा जानीयात् को वोपदिशेत् ? अतस्तव जन्मासतां दुर्मद- निग्रहाय सदनुग्रहाय च, दुष्टनिग्रहे तदुपद्रवस्तदावेशेन बुद्धिनाशश्च निराकृतो भवति ॥२०॥ ननु तद- व्यतिरेकेणापि वेदादिना कथं न तत्त्वपरिज्ञानं ? तत्राह को वेत्तीति, तत्त्वं भवान् भवल्लीला च, तत् को वा जानाति ? वेदस्तु व्याख्यात्रभावान् मूकवन् नार्थं समर्पयति, भूमन्निति, व्यापकत्वादेकदेशे स्थितो न जानातीत्युक्तं, भगवन्निति, षड्गुणैश्वर्यसम्पन्नत्वादनीशत्वादिगुणयुक्तः कथं जानीयात् ? न हि पामरा विदुष- स्तत्त्वं जानन्त्यनीशो वेश्वरस्याविरक्तो वा विरक्तस्य, परात्मन्निति, परमात्मनस्तत्त्वं न हि जीवो जानाति, योगेश्वरेति, न हि स्वच्छन्दगतेबद्धो जानाति, किञ्च सापि लीला क वा जायते ? अहो आश्चर्ये, न हि मत्स्यादिरूपे ज्ञानप्रकाश उचितः, कथं वा जायते ? न हि भगवतो लीलासमुद्रे प्रस्तरणादिरूपा कस्यचिद् बुद्धिगम्या भवति, कति वा लीलाप्रकारा भवन्ति कदा वा भवन्तीति न कोपि वेद, तत्र हेतुर्विस्तारयन् क्रीडसि योगमायामिति, यदि मायामविस्तारयन् क्रीडेत् तदा लोको जानीयादपि, अतस्त्वत्स्वरूपं त्वमेव जानासीति तत्त्वोपदेशार्थ तवावतारः ॥ २१ ॥ एवं देहाद्यात्मभावं भवान् दूरीकरोतीत्युक्त्वा प्रपञ्चेपि योयं भ्रमः प्रपश्चमिथ्यात्वं भिन्नतयापि सत्यत्वं सोपि निवर्तत इत्यतिदिशति तस्मादिति, इदं जगदशेषमसत्स्वरूपम- , , लो०२३-२५.] प्रक्षिप्तेषु तृतीयः स्कन्धादितश्चतुर्दशोध्यायः । एकस्त्वमात्मा पुरुषः पुराणः सत्यः स्वयज्योतिरनन्त आद्यः। नित्योक्षरोजस्रसुखो निरञ्जनः पूर्णोद्वयो मुक्त उपाधितोमृतः ॥ २३ ॥ एवंविधं त्वां सकलात्मनामपि स्वात्मानमात्मात्मतया विचक्षते । गुर्वकलब्धोपनिषत्सुचक्षुषा ये ते तरन्तीव भवानृताम्बुधिम् ॥ २४ ॥ आत्मानमेवात्मतया विजानतां तेनैव जातं निखिलं प्रपञ्चितम् । ज्ञानेन भूयोपि च तत् प्रलीयते रज्ज्वामहे गभवाभवौ यथा ॥ २५॥ सतां बहिर्मुखानामिव स्वरूपं यस्य सन्मार्गप्रतिबन्धकं, अत्र ममतायां भगवद्वैमुख्यं भवतीति स्वरूपतोप्य. नित्यमुदयास्तमितप्रायं, तदाह स्वमाभमिति, स्वमस्येवाभा यस्य, किञ्च ज्ञानप्रतिबन्धकं चैतत् , यतोस्ता गता धिषणा यस्मात् , किञ्च क्लेशरूपं च, पुरुदुःखादपि दुःखं यस्मात् , एतादृशमपि त्वय्येव सदिवाव- भाति त्वन्निमित्तं यथा सन् नारदादिस्तथा घटादिरपि भाति भगवत्सेवासाधकत्वात् , तत्र हेतुर्नित्यमुखबोध- तनावनन्त इति, उदयास्तमितत्वं नित्यस्य भगवतः सम्बन्धान नित्यमिवाभाति, पुरुदुःखदुःखमपि सुखा- त्मकमाभाति, अस्तधिषणमपि बोधात्मकमाभाति, अनित्यमप्यनन्त आभातं नित्यमिव भासते, भ्रमादप्युद्- गतं देहात्मज्ञानं सेवौपयिकत्वात् सदिवावभाति, अतः सर्वमेव जगत् त्वत्सम्बन्धे सति समीचीनं, अन्यथा विपरीतमिति जगतस्तत्वम् ॥ २२ ॥ भगवतस्तत्त्वमाहैकस्त्वमात्मेति, त्वमादावेक एवं सजातीयविजातीय- स्वगतभेदशून्यः, तत आत्मा त्रिविधो नीवरूपोन्तर्यामिरूपो विभूतिरूपश्च जातः, ततः पुराणः पुरुषः पुरु- षोत्तमः, अथवैको ब्रह्मवादे, आत्मा योगे, पुरुषः साङ्ख्ये, पुराणो वैष्णवे, सत्यः पाशुपते, सत् त्यदिति- भेदे सत्यो जगद्रूपो वा, एवं पञ्चविधोपि स्वयङ्योतिः स्वप्रकाशो न तु जडः, अनन्तोन्तशून्य उत्तरावधि- रहितः, आद्यः पूर्वावधिरहितः, नित्यः सदैकरूपः, न तु वृद्धिक्षयवान् यथा समुद्रश्चन्द्रो वा, एवं प्रपञ्चरूपत्वे दोपचतुष्टयं निवार्य भगवतो रूपान्तराण्याहाक्षर इति, शब्दब्रह्माक्षररूपः प्रकृतिपुरुषकारण- रूपो वा, तेन ज्ञानविषय उक्तः, तत्साध्यमोक्षरूपत्वमाहाजनसुख इति नित्यसुखरूपः, तस्मिन्नपि सुखे प्राप्तदोषान् निवारयति निरन्तरसुखरूपमप्यज्ञानयुक्तं भवति यथा सुषुप्तिः, तद्व्यावृत्त्यर्थमाह निरञ्जन इति, अञ्ज नमविद्या तद्रहितः, परिच्छेदोपि भवति तद्व्यावृत्त्यर्थमाह पूर्ण इति, तरतमराहित्यार्थमाहाद्वय इति, केन- चिदुपाधिनैव भोक्तव्यमितिशङ्कां वारयति मुक्त उपाधित इति, यथा स्त्रीसुखं पुरुषेणैव भोक्तव्यं पुरुषसुखं स्त्रियैव तथा ब्रह्मानन्दानुभवे न कोप्युपाधिरपेक्षितः, किञ्च स्वरूपतोपि स ऋतोलौकिकः श्रुत्यैकसमधिगम्यो न तु लौकिकप्रमाणवेद्यः, अन्यथा पूर्वोक्तरूपो न स्यात् , एभिरेव षोडशविशेषणैदेहाद् वैलक्षण्यमपि " पोडशकलोयं पुरुषः, देहस्तु बाल्यकौमारादिभेदेनानेको नापि व्यापको नाप्यात्मेत्यादि स्वय- मूा, एकादशेन्द्रियपञ्चमहाभूतेभ्यो वा वैलक्षण्यं ज्ञातव्यं, षोडशकलो वा नारायण एभिरुक्तः ॥ २३ ॥ एवं भगवत्स्वरूपमुक्त्वैवंविधं ये वक्ष्यमाणप्रकारेणोपासते ते भ्रान्ता इत्याहैवंविधमिति पञ्चभिः, एवं षोडशकलं त्वां सकलात्मनामपि सर्वजीवानामात्मानं देहरूपमात्मरूपं चात्मन एव स्वस्यैवात्मतयाहमेव भगवानिति ये विचक्षते पश्यन्ति तत्र विषयप्रबोधको गुरुरको ज्ञानकरणमुपनिषदेव चक्षुः, य एवमहमेव परं ब्रह्मेति जानन्ति ते भवानृताम्बुधि तरन्तीव सर्वब्रह्मेतिज्ञाने सर्वतरणं केवलमात्मन एव ब्रह्मत्वेन ज्ञाने यः संसारोनृतरूपः केवलं स्वमोहात् कल्पितोहम्ममात्मा स एवाम्बुधिस्तरणेशक्यः, तादृशमपि तरन्तीव दोषाधारस्यानिवृत्तत्वात् , अन्त- दोष एव निवृत्तो न तु देहेन्द्रियविषयाणां, अतोनृताम्बुधिस्तीर्णोप्यतीर्णप्राय इत्यर्थः॥२४॥ ननु सर्वस्यैव तेन ज्ञानेन कथं न विलयः ? तत्राहात्मानमेवेति, ते ह्यात्मानमेवात्मतया जानन्ति, अतस्तेनैवभ्रमाद् यावञ् जातं

१२०
श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां
[ श्लो० २६-२८.
"
अज्ञानसंज्ञो भवबन्धमोक्षौ द्वौ नाम नान्यौ स्त ऋतज्ञभावात् ।
अजस्रचित्यात्मनि केवले परे विचार्यमाणे तरणाविवाहनी ॥ २६ ॥
त्वामात्मानं परं मत्वा परमात्मानमेव च । आत्मा पुनर्बहिर्मग्य अहोज्ञजनताज्ञता॥२७॥
अन्तर्भवेनन्त भवन्तमेव ह्यतत् त्यजन्तो मृगयन्ति सन्तः ।
असन्तमप्यन्त्यहिमन्तरेण सन्तं गुणं तं किमयन्ति सन्तः ॥ २८ ॥
निखिलमपि प्रपञ्चितं प्रपञ्चाकारेणात्मीयतया परिकल्पितं ज्ञानेन भूयोपि तदेव तावन्मात्रमेव लीयते न तु कृति-
साध्य, तत्र दृष्टान्तो रज्ज्वामहेः कल्पितस्यैव सर्वस्य भोगस्य कायस्य भवाभवावुत्पत्तिनाशौ सर्पोयं नायं सर्प इति
स्वबुद्धिकल्पितस्यैव नाशो नान्यस्य जगतो भगवत्कृतस्य नापि स्वकृतस्य भ्रमात् सर्पदेहे रज्जुन पुनरावर्तते नायं
सर्प इति ज्ञातेपि, अतोज्ञानकृतमेव निवर्तते नान्यदित्यहम्ममाभिमान एव गच्छति नान्यत् ॥२५॥किञ्च वस्तुतोस्य
तदपि न निवर्तते, मुक्तोहमिति ब्रह्माहमित्येतदप्यज्ञानकृतमेव, आत्माज्ञानादेवैवमपि जानाति, बन्धस्य तज्जनित-
त्वेन कार्यत्वाविशेषान् ज्ञानमोक्षावन्यज्ञानकार्यमेव, न हि शयानः स्वप्न उत्थाय भोजनादिकमपि कुर्वन् वस्तुत
उत्थितो भवति, स्वप्नस्यानिवृत्तेः, तथा भगवच्छतेरज्ञानस्याप्यनिवृत्तेन तेषां परमार्थतो मोक्षोपि सम्भवति तत्र
हेतुमाह ऋतज्ञभावादिति, मोक्षस्त्वृतज्ञानरूपः, न त्वज्ञानजनितज्ञानरूपः, भगवज्ज्ञानशक्त्यैव मोक्ष इत्येकादशे
वक्ष्यति, किञ्च मोक्षो हि भगवति सायुज्यं, स चाजस्रचिदात्मा नित्यचिदानन्दरूपः, तत्राज्ञानकृतप्रपञ्च-
ज्ञानयोरभावाज् जीवस्याज्ञानकृतज्ञानेन कथं प्रवेशः स्यात् ? तदाह केवल इति, किञ्च स तु परो नियामकः,
न हि नियम्यैर्भगवदाज्ञाव्यतिरेकेण निकटे गन्तुं शक्यते, अतो जीवब्रह्मज्ञानिनो न मोक्षः, तत्रोपपत्तिं वदन्
दृष्टान्तमाह विचार्यमाणे तरणाविवाहनी इति, सूर्ये विचार्यमाण एव अहनी भवतो न तु स्वबुध्या,
अन्यथा निमीलिताक्षः स्वयमेव रात्रिं कुर्यात् प्रसारिताक्षश्च दिनं, अतः सूर्य एवागते दिनमपगते रात्रिरिति
केवलं खण्डाद्वैतवादिनो भ्रान्ता एव ॥ २६ ॥ किञ्च ये स्वात्मब्रह्मविचारकाः सर्वसङ्गं परित्यज्य देशान्तरे
गत आत्मा प्राप्तव्य इति परित्यागं कुर्वन्ति तेतिभ्रान्ता इत्याह त्वामात्मानमिति, त्वं कृष्णः सर्वात्मा सर्वरूप-
स्तादृशं त्वां भिन्नं मत्वा नाहं सर्वः किन्तु विलक्षण इति परं च भगवद्रूपमेव ज्ञानप्रकाश्य आत्मा भगवद्विभूति-
रूपो भावनया स्फुरितो व्यापकत्वादिधर्मः साङ्ख्यादिस्मृतिसिद्धस्तमात्मानं मत्वा, स तु न जीवरूपः कदा.
चिदपि न हि घटः पर्वतो भवति, अतः परमात्मा पुनर्बहिर्गत्वा सन्न्यासं गृहीत्वा मृग्य इत्यहो अज्ञानां भ्रान्त-
जनानां भ्रमपरम्परा ! कथमेते प्रमाणमप्यविचार्य भ्रान्ता भवन्तीत्याश्चर्यम् ! एवं खण्डभावयुक्तानां "यदा ह्येवैष
एतस्मिन्नु दरमन्तरं कुरुतेथ तस्य भयं भवती' तिश्रुत्युक्तं तेषां भयं निरूप्य ये पुनरिहैवान्तःकरणे भगवञ्चिन्तका
अन्तर्यामिणमितरपरित्यागेन भावयन्ति ते कृतार्थाः॥२७॥ एकत्र लब्धपदं चित्तमन्यदपि प्राप्स्यतीत्याहान्तर्भव
इति, अन्तर्भवतीत्यन्तर्भवो हृदयाकाशस्तस्मिन् ,हे अनन्त देशकालवस्तुपरिच्छेदरहित, तत्रापि विद्यमानं भवन्त-
मेव ये मृगयन्ति ते सन्तो भवन्ति,अन्वेषणे प्रकारमाहातत् त्यजन्त इति,न तद् यत्र येषु साधनेषु भगवञ्चिन्तनं
सम्यङ् न भवति तदतत् त्यजन्तो विरुद्धसाधनपरित्यागेन निरन्तरं भगवच्चिन्तकाः सन्त इत्युक्तं भवति, किञ्च
भ्रमबुद्धिमपि त्यक्त्वा भगवच्चिन्तनं कर्तव्यमिति दृष्टान्तेनाहासन्तमपीति, अविद्यमानमप्यहिं सर्पमन्तरेण तद्-
व्यतिरेकेणान्ति निकटे सन्तं गुणं रज्जूं किमयन्ति जानन्ति? अन्तरशब्दो नानार्थः सोत्रापरित्यागवाची, भ्रम-
प्रतिपन्नं विषयमपरित्यज्य वस्तुस्वरूपचिन्तनं न सम्भवति,अतो मूलभ्रमप्रतिपन्नं देहात्मभावं व्यामोहकशास्त्र-
प्रतिपन्नं च भावं परित्यज्य हृदये विद्यमानो भगवान् भावनीयः, पुनः सन्त इतिपदं ते तथैव भावयन्तीति-
प्रमाणकथनार्थम् ॥ २८ ॥

श्लो० २६.] ४९ तामसप्रमाणप्रकरणे स्कन्वादितोष्टमोध्यायः। शृङ्ग्यग्निदंष्ट्रयसिजलद्विजकण्टकेभ्यः क्रीडापरावतिचलौ स्वसुतौ निषेद्धम् । गृह्याणि कर्तुमपि यत्र न तज्जनन्यौ शेकात आपतुरलं मनसोनवस्थाम् ॥ २६ ॥ तरुण्यस्तासां दर्शनीया कुमारलीला ययोः, तास्त्रिविधा भवन्ति कौतुकाविष्टा रसाविष्टाः कामाविष्टाश्चेति, यदैव तौ तासां दर्शनीयलीलौ तदैवातिमुग्धत्वख्यापनार्थ वत्सपुच्छावलम्बनेन स्थितौ भवतः, लौकिकाभिनि- वेशभयाच्छुकेन न विशेषत उक्तः, कुमारोत्र द्विवार्षिकः, कुत्सितो मारो यस्मादिति कन्दर्पकोटिलावण्याधिक- सुन्दर उक्तस्तद्गतोत्कृष्टभावा अप्यस्मिन् निरूपिताः, अङ्गनानां दर्शनीयभावनाथ जातानुभावानां वा निर्भयेन दर्शनार्थं यहींति, तृणावर्तवधपर्यन्तमन्यदा वा यावदयं भावो न जात इति तावन्निरन्तरदर्शनं न जातमिति ज्ञापित, दृष्टिस्पर्शसम्बन्धैत्रिविधाः सुखदा उक्ताः, एतादृशावङ्गनादर्शनीयकुमारलीलौ, अन्तर्वज इति, ब्रजमध्ये सर्वासामेव दर्शनयोग्यस्थाने, तदबला ब्रजबाला अन्यत्र गमनयोग्यतारहिताः, वत्सै रितस्ततोनुकृष्यमाणौ जगृहुरितिसम्बन्धः, वत्सा गोपुत्राः, भगवाँल्लीलार्थ कर्माङ्गदेवताभावं तदवलम्बनं वा करोति, ते तु मूढा इतस्ततः प्राकृते वैकृते च संयोजयन्ति यथा गर्दभपादच्छेदनं कृत्वा "विष्णवे शिपिविष्टाय जुहोती" "त्यति- रिक्तस्य शान्त्या” इतिफलार्थ, एतेपि वत्सा भगवता प्रकर्षेण गृहीतं पुच्छं येषां द्वयोरेकस्य वा प्रकर्षण ग्रहणान्न तेषां धावनं, प्रदर्शनार्थमेव यतो मुग्धभावः, अतो न स्खलनमत्र, उमाविति भगवान् स्वत आवेशतश्च क्रीडतीति वक्तुं, अनुकर्षणं शनैः शनैः कर्षणं, भगवानपि वत्समाकर्षति वत्सतर्यश्च भगवन्तं, अतो वत्सस्यापि नेष्टगतिः, अत इतस्तत आकर्षणं, वत्सैरितिबहुवचनं धृतस्य पलायनेपि पुनरन्यग्रहणार्थ, एवं पराधीनभगवद्गति दृष्ट्वा प्रेक्षन्त्य एव स्थिताः, अत्रैव तात्पर्ययुक्ता उपनिषद इव स्थिताः, नत्वन्याधीनत्वेनान्यथा ज्ञातवत्यः, एवं कर्मभ्यस्त्याजयित्वा स्वार्थ ग्रहणमाश्रमपरित्यागत्र्यतिरेकेण न सम्भवतीति गृहं बिडालादि- भिरप्युपद्रुतं परित्यज्य तदवेक्षामकृत्वा जगृहुः, हसन्त्य इति, अस्मत्परिग्रहे नैवमितस्तत आकर्षणं भवति न वा स्खलनसम्भावना, प्रेक्षन्त्यो ज्ञानपरा उज्झितगृहा विरक्ता हसन्त्यः फलार्थिन्यस्त्रिविधानां ग्रहणार्थमुक्तं, ग्रहणानन्तरं विनियोगस्तु पूर्वमेव कथितः, सम्भूयग्रहणपक्षे स्वतोपि सर्वतो नयनं सम्भवति, उज्झितगृहा इतिवचनादन्यत्रापि नयनं, हसन्त्य इत्यपि किं जगृहु:, सर्वासामेव यथा ग्रहणं भवति तथा भगवान्, गोपुच्छधारणलीलेयं पराधीना निरूपिता ॥ २५॥ स्वतो गतिलीलामनेकविधामाह शृङ्गीति, गोपिकास्तु स्वत्वभावदोषरहिताः, अलौकिकभावेनापि वशीकृताः, विचाराभावाद् रसेनापि तारुण्यात् कौतुकेनाप्यन्यार्थ च निरूपिताः शीघ्रमेव विस्मृतप्रपञ्चा भगवदासक्ता निरूपिताः, यशोदारोहिण्यौ तु तद्विपरीते इति तयोस्तदुभयसम्पादनार्थ षड्गुणैः स्वेन च सप्तधा लीलां कृतवान् , इष्टस्य दुष्टसम्बन्धे शिष्टः पुष्टिं विमुञ्चति । नान्यथेति हरिः प्रीतः सत्यः क्रूरगतो भवेत् ॥ १ ॥ शृङ्गिणो दंष्ट्रिणश्चैव पक्षिणश्च विघातकाः । चेतनास्त्रिविधा एव ततोन्ये तु चतुर्विधाः ॥ २॥ कृत्रिमाः सहनास्तेपि खड्गाग्निजलकण्टकाः ॥ २३ ॥ शृङ्गिणो गावः, अग्नि—मार्थ स्वेदार्थ वा कृतः, दंष्ट्रिणो मर्कटाः, असिः खड्गादिसाधनानि, जलं कूप- गादिस्थितं, कलशादिस्थितं वा पातनात्, द्विजाः पक्षिणः शुकादयः, कण्टकानि च्छित्वा स्थापितानि परितो वेष्टनरूपाणि, तेभ्यो निवारणं वचनान्न भवति, आज्ञाकारित्वेपि चाञ्चल्यात् , वस्तुतस्त्वाज्ञां दातुमपि न प्रेरयति, उपद्रवज्ञाने निर्बन्धेन निवारणं, तत् तु कर्तुमयुक्तमित्याह क्रीडापराविति, क्रीडैव परोत्कृष्टा नियामिका ययो लकयोः, तर्हि क्रीडासाधनानि सम्यक्स्थले कृत्वा देयानीति चेत् तत्राहातिचलाविति, अत्यन्तं चलौ, तमुन्यः कश्चित् तदवेक्षकः स्थाप्य इति चेत् तत्राह स्वसुताविति, स्वेनैव सूताविति तदर्थ क्लेश- तथा, बहुना सर्वप्रकारेण श्रीमद्भागवतदशमस्कन्धसुबोधिन्या [ श्लो० २७-२८. कालेनाल्पेन राजर्षे रामः कृष्णश्च गोबजे । अधृष्टजानुनिः पद्भिर्विचक्रमतुरञ्जसा ॥ २७ ॥ ततस्तु भगवान् कृष्णो वयस्यैव्रजबालकैः। सहरामो ब्रजस्त्रीणां चिक्रीडे जनयन् मुदम् ।। २८॥ कृष्णस्य गोप्यो रुचिरं वीक्ष्य कौमारचापलम् । शृण्वन्त्याः किल तन्मातुरिति होचुः समागताः ॥ २८ ॥ सहनात् स्नेहाधिक्याच नान्यविनियोगं कुरुतः, क्रिययैव च निषेधः कर्तव्यस्ततस्तत आदाय सम्यक् स्थाने स्थापनीयौ, तथा प्रतिक्षणं क्रियमाणे गृहकार्य तयोरपि भोजनस्नानादिनिमित्तकार्य न सिध्येत् तदाह गृह्याणि कर्तुमपीति, गृहेवश्यकर्तव्यानि गृह्याणि, लौकिकनिष्ठता भगवन्निष्ठता च परस्पर विरुद्धा, आसक्तिस्तुल्या मध्यलीलैवेति, पञ्चमलीलां तु वक्ष्यति, तदर्थ सर्वपरित्याग, उभयोस्तुल्यत्वख्यापनायापिशब्दः, यदा न शेकाते तदा मनसोनवस्थामापतुर्वैयग्र्यं चिन्तां च प्राप्तवत्यौ, तयोजनन्याविति ताभ्यां सह क्रिया निषिध्यत इति ज्ञापित, क्षणमपि मनसो नैकत्र स्थैर्य तयोर्जातमित्यर्थः ॥ २६ ॥ एवं मात्रोनिरोधार्थ बहु- विधां लीलामुक्त्वा स्वतन्त्रतया स्थितस्य भूमेमर्दनक्लेशनिवृत्त्यर्थ पद्भ्यां संवाहयन्ताविव गतिविलासं कृत- वन्तावित्याह कालेनाल्पेनेति, यदर्थ तत् कर्तव्यं तत् प्रयोजनमल्पमित्यल्पेनैव कालेन गोबजे पद्भिर्विचक्र- मतुः, अञ्जसानायासेनैव नान्यावलम्बनापेक्षा, कालो गत्यात्मक इतिक्रीडायामिवात्रापि करणता, अल्पस्य कालस्य कोमलत्वात् , कोमलचरणस्पर्शे भूमेः खेदो गच्छतीत्यल्पत्वमुक्तं, राजर्ष इत्युभयधर्मवत्त्वेन सम्बोधन- मग्रिमचरित्रश्रवणाधिकारबोधकं निरोधानुसन्धानार्थ च, रामः कृष्णश्चेतिनामग्रहणं रत्युत्पादनसामर्थ्यजन- नायान्तःस्थितरूपेण बहिःपरमानन्दविषयरूपेण च भूमेः सुखदानार्थ, स्वतन्त्रतयोभयोस्तथात्वाय भिन्न- तया निरूपणं, चकारस्तूमयसमुच्चयार्थः, विषयस्यान्तर्नयने मनसो बहिरानयने च विनियोगात्, गवां ब्रज इति खुराधातक्लेशः स्पष्टतया तत्र निरूपितः, जान्वाधर्षणेनैव दैत्यवधेग्रिमकार्य व्यर्थं स्यादिति पद्भिरिति, अनेकधा पादस्थापनविशेषेण चक्रमतुः, "छन्दसि लुङ्लङ्लिट' इतिस्मृतेः, भगवत्क्रियाया नातीतत्वं सर्वथा ज्ञातव्यम् ॥ २७ ॥ एवं राजसी लीलां कृत्वा लीलान्तरं कृतवानित्याह ततस्त्वितित्रिभिः, राजसतामसी तामसरानसीं च स्वतो वक्तुमनुचितां मत्वान्यमुखेन निरूपयितुं मध्ये वाक्यान्तरं ततश्चैतुर्भिनिरूपितं भवति, एवं भूमिक्लेशनिवृत्त्यनन्तरमक्लिष्टभूमौ स्वाशैालकैः सह महाराजलीलां कृतवानित्याह ततस्त्विति, तु- शब्दः पूर्वलीलाव्यावृत्त्यर्थः, नातः परं परतन्त्रलीला, स्वातन्त्र्ये सामर्थ्यार्थमाह भगवानिति, आवेशिनः स्वातन्त्र्ये दौर्बल्यात् कृष्ण एवोक्तो रामस्तु सहभावेन, एकेन कालेन भगवत्सेवकेन ते गृहीता इति तैः सह क्रीडेति ज्ञापयितुं वयस्यैरित्युक्तं, समानं वयो येषां ते वयस्याः, देशोप्येक इत्याह बनवालकैरिति, क्रीडायां बाला मुख्याः, रामस्तु स्वान्तर्निविशतीति सहराम इत्युक्तं, अत्र लीलायां साक्षान्निरोधो बनस्त्रीणामेव, तासा- मेव तथात्वात्, ज्ञानद्वारा यशोदायास्तत्र सर्वथागृहीतपरित्याजनार्थ लीलां कुर्वन्नादौ लौकिकप्रकारेण तासा- मनुरागं जनितवानित्याह व्रजस्त्रीणां मुदं जनयन्निति, वनसम्बन्धान्निरोध आवश्यकः, ययैव क्रीडया यथा कृतया तासां सन्तोषो भवति, न तु स्वसामर्थेन, अन्यथा प्रयोजनत्वेन करणे तन्निर्देशो न स्यात् , निरोधननकत्वं स्वस्यैवेति स्वधर्मत्वेन निर्दिष्टं, कार्यसाधनत्वेन बालकानामुपयोगो रामस्य रक्षकत्वेन, स्वतः सन्तोषजननं, राजलीलायां च स्वयं राजा मन्त्री रामः सेवका बालका इति यावत्यो गोप्यो यादृग्भावापन्नास्तत्तद्नुगुणां लीलामनन्तामेव भगवान् कृतवानित्यर्थः ॥ २८ ॥ यास्तु सर्वथा प्राकृतस्वभावा लौकिकवाक्यपरिनिष्ठिता १. दशश्लोकात्मके रूपप्रकरणेत्रायं श्लोकोधिको वक्ष्यमाणलीलाद्वयप्रसिद्धिबोधक इति निर्भयरामभट्टाः । , , श्लो० २९.] तामसप्रमाणप्रकरणे स्कन्वादितोष्टमोध्यायः। - , ॥श्रीगोप्य ऊचुः॥ वत्सान् मुञ्चन् कचिदसमये क्रोशसञ्जातहास: स्तेयं स्वाद्वत्यथ दधि पयः कल्पितैस्तेययोगैः। मर्कान् भोक्ष्यन् विभजति स चेन्नात्ति भाण्डं भिनत्ति द्रव्यालाभे सगृहकुपितो यात्यनुक्रोश्य तोकान् ॥ २९ ॥ वा तासां प्रपञ्चविस्मरणं साधारणसात्त्विकलीलया न भवतीति यत्रैव ता आसक्तास्तदेव कार्य नाशयंस्तन्निरोध कृतवान् , तच्चेत् सह्यं स्यात् सर्वथा निरोधो न सिध्येदिति तत्कार्यमसह्यमानमिति ज्ञापयंस्तथाविधा गोप्य उपालम्भं कृतवत्य इत्याह कृष्णस्येति, स्वतन्त्रकर्तृत्वं भगवत एवेति न बाला नापि राम उक्तः किन्तु कृष्ण एवोक्तः, रुचिरं मनोहरं भवत्येव, निरोधस्तु सिद्धः, तथापि न स्वतोस्माकं तथामन इति स्वदोष- परिहारार्थ यशोदायै निवेदयन्ति, ननु सर्वतःपूर्णा भगवत्कृपया प्राप्तसम्पदः कथमेवमुपालम्भं कृतवत्य इत्याह गोप्य इति, गोपभार्यात्वादेवं, न भगवति दोषदृष्ट्या, तथावचने निरोधो न सिध्येदित्याशङ्क्याह कौमारचापलमिति, कौमारवयस एव चापलं चपलता, वयस एवायं दोपो न तु भगवत इति तासां बुद्धिः, सम्यगागता लोकन्यायेन समागता न तूपालम्भनार्थमेव, तन्मातुर्यशोदायाः शृण्वन्त्याः सत्याः प्राचुः, एतादृशं वचनमयुक्तमपि सर्वलोकप्रसिद्धत्वादुच्यत इति स्वस्य दोषाभावख्यापनायाह किलेति ॥ भगवतो निरोधलीलां तत्तदोषदूरीकरणार्थे कृतां तदभिनिवेशेन तावत् कृतस्वदोषरहिता भगवद्गुणान् गणयन्ति षड्विाञ् जीवस्य दोषरूपान् भगवतो गुणान् , ईश्वरो हि हीनं कर्म न करोति, वत्समोचन"मनीश्वरं कर्मे"ति केचित् , सर्वमोक्षदाता भगवानक्षयनिधिकर्ता यावद्दिनं क्षुधितान् वत्सान् मातृसमागमेपि दुःखिता मा भवन्विति मर्यादासमयोल्लङ्घनं कृत्वा वत्सान् मुञ्चति, कचिदिति, यत्र वत्सविमोक आतृप्तेः पूर्वबन्धनमशक्यं, आक्रोशे कृते भगवानमानी मानदस्तासां दुर्बुद्धिं ज्ञात्वा सञ्जातहासो भवति, मायोत्तरोत्तरं मोहिका प्रवृद्धा भवति, एवं बहिःस्थितानामान्तरं दुःखं शुत्कृतं मोहकृतं च नाशयति, मोहोपि सम्यङ् मोहो जायते भगवद्विषयको येनकेनाप्पुपायेन सर्वोपि मनोव्यापारो भगवद्विषयक इतिलक्षणः, एवमुभयविधान् कृतार्थीकृत्य स्वकीयेषु स्वयं भोक्तव्यमिति स्वान्तःस्थितबालकानन्नादिना संवर्धयितुं वीर्यविरुद्धमिव चौर्येण भुङ्ग इत्याहुः स्तेयमिति, यस्तु हरति स चोरः, हरिहि भगवान् स्मरणेनैव सर्व हरति, स्तेयेन प्राप्त स्तेयं पक्वान्नाद्योदनव्यञ्जनात्मकं सूपादि पायसान्तं, तत्रापि यत् स्वादु भवति रस्य, गोपिकागृहे स्वयमुपविश्य बालका- नुपवेश्य तामन्यत्रैव प्रेषयित्वा यद्यत् स्वादिष्ठं खण्डलड्डुकादिकं मोदकादिकं च भुङ्क्ते, अथ तृत्यनन्तरमन्नसमा- प्त्यनन्तरं वा, दधि पयः प्रथमं दधि पश्चात् पयः, पयःपानान्तं शनैर्भोजनं करोतीत्यर्थः, चौर्ये भगवता उपाया बहव एव कल्पिताः, दूरे शिक्ये स्थाली पूर्णजला स्थापयित्वाधश्वेच्छेते तदापि नालेन जलं पीत्वा स्थालीमुत्तार्य वंशद्वारा समारुह्य नयति, एवमनेकप्रकारा अपरिज्ञाने, परिज्ञानेपि नवनीतभाण्डे भाण्डमग्रे स्थापयित्वा सावधानस्थितायामपि दुग्धादिना पूर्णमुखस्तदक्ष्णोः फूत्कारं कृत्वाक्षिनिमीलने नयति क्षणाददृष्टश्च भवति, न सोस्त्युपायो येन भगवतः सकाशाद् रक्षितुं शक्यते, इतोपि भगवतोवाङ्नोगोचरा उपायास्ते सर्वे भगवतैव कल्पिता:, न तु चोरशास्त्रे सिद्धाः, "बालकैः सह भुत' इत्येके, वस्तुतस्त्वन्तःस्थितबालकप्रीत्यर्थमेव तथा करोति, स्वयं भोक्ष्यन् बालकेषु तृप्तेषु मर्कान् विभजति, मर्का मर्कटाः, मर्केभ्यो विभजतीत्यर्थः, ते हि पूर्व रामावतारभक्तास्तेष्वपि तृप्तेषु स्वयमध्यात्मा स्वीकृतभावो भुते, जगदात्मा सोपि चेन्नात्ति योत्ता १. अत्र श्लोकप्रतीकं त्रुटितमिति प्रकाशकाराः ।

५२ श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [ श्लो० ३०-३१. हस्ताग्राह्ये रचयति विधि पीठकोलूखलायै- श्छिद्रं यन्तर्निहितवयुनः शिक्यभाण्डेषु तद्वित् । ध्वान्तागारे धृतमणिगणं स्वाङ्गमर्थप्रदीप काले गोप्यो यहि गृह कृत्येषु सुष्टु व्यग्रचित्ताः ॥ ३०॥ एवं धाट्यान्युशति कुरुते मेहनादीनि वास्तौ स्तेयोपायविरचितकृतिः सुप्रतीको यथास्ते । इत्थं स्त्रीभिः सभयनयनश्रीमुखालोकिनीभिः व्याख्यातार्था प्रहसितमुखी न झुपालब्धुमैच्छत् ॥ ३१ ॥ यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः मृत्युर्यस्योपसेचनं क इत्था वेद यत्र स इतिश्रुतेः, स प्रसिद्धः, तदेकं भगवद्रूपं भोक्तृ, स त्वत्यन्तमेव शुद्धान् भुङ्क्ते, यत् पुनर्मोक्षसम्बन्धि न भवति दैत्याविष्टत्वात् स चेन्नात्ति न भक्षयति तदा भाण्डं भिन्नत्ति दैत्यानां सम्बन्ध्यन्यैर्न भक्षणीयमिति, द्रव्याणामभावे त्वलाभे वान्यत्र स्थापिते सगृहकुपितो भवति, सगृहे गृहसहिते गृहस्थे कुपितो भवति, अयुक्तकरणात् , गृहो हि धर्मार्थमेव भवति, धर्माभावे गृहवैयर्थ्यात् , धर्मश्च द्रव्यैर्भवति, द्रव्यसाधकाश्च पुरुषाः, ईश्वरस्य कोप- भयाद् दिनान्तरे समृद्धिं करोत्येव, अथवा गृहस्थं बहिर्मारयेत् ताडयेद् वा, एवमलौकिकः क्रोधः, लौकिकमाह यात्यनुक्रोश्य तोकानिति, तोकान् बालकान् स्तनन्धयान् , त्वदपेक्षयाप्यन्तःस्थिता बालकास्तेषु क्षुधितेषु तदीयेन भवता स्थातुमयुक्तं भवतीत्यनुक्रोश्य रोदनं वा कारयित्वा मयि विमुखे रुद्रः प्रवेक्ष्यतीति ॥ २९ ॥ एवं भगवतः षड् गुणा निरूपिताः, धौत्य क्रियाप्रकारमुक्त्वा ज्ञानप्रकारमाह हस्ताग्राह्य इति, पञ्चविधं ज्ञानं सप्रकारं निःप्रकारं च काले वस्तुनि निःसाधनमल्पासाध्येत्यन्तासाध्ये चान्धकारस्थापित आलोकापेक्षायां सप्रकारं ज्ञानं, अनेन पूर्णा विद्या निरूपिता भवति, लौकिकबुद्ध्या तु सर्वं ज्ञानं परोपद्रवायेति तदीयांशानां ज्ञाने तज्ज्ञानमपि भवतीति वस्तुतस्तूपकार एव, यत्र भगवतः कुसूलादौ वस्तु हस्तेनाग्राह्य भवति तत्र पीठ उलूखलमधोमुखं प्रतिष्ठाप्य तदुपरि बालकं वा निवेश्य गृहवंशान् वा धृत्वा वस्तु गृह्णाति, रिक्तभाण्डेषु तु न प्रयत्नं करोति, तत्र हेतुरन्तर्निहितवयुन इति, अन्तर्भाण्डे मध्ये निहितं वयुनं ज्ञानं यस्य, शिक्यभाण्डेषु दुग्धादियुक्तेष्वन्तः कुन्तादिना छिद्रं करोति, अधस्ताच्च भाण्डान्तरं स्थापयति, दध्यादौ तु न करोति, शर्करादौ तु पातयति, घनीभूते दध्यादौ च, तत् सर्व वेत्ति तद्वित् , ध्वान्तागारे तुधृतमणिगणं स्वाङ्ग- मर्थतः प्रदीपभूतं रचयति यदिदानीमप्रकाशमानमपि तदानीमन्धकारगृहे सूर्यवत् प्रकाशते मणींश्च प्रकाश- यति, अर्था एव वा प्रदीपा भवन्ति, स्वाङ्गमेव वार्थार्थप्रदीपो यस्य न त्वन्यस्मिन्नागते, एतदपि सर्व काले, यदा गोप्यो न जानन्त्येव दूरे वा गता भवन्ति, किञ्च यहि गृहकृत्येषु पाकादिषु मन्दस्नानादौ बालकतर्पणे वात्यावश्यके सुष्ठ व्यग्रं चित्तं यासां मथनादिसमये वा कालविलम्बे वा घृतमेव नोत्पद्येत ॥३०॥ एवं ज्ञानप्रकारमुक्त्वा पर्यवसानमाहुरेवंधाष्ट्यानीति, हे उशति कमनीये, धाष्ट्यानि वस्त्रविमोचनादीनि कुरुते, उशति कमनीये भाण्डादौ च मेहनादीनि कुरुते, वास्तौ यत्र वास्तुदेवता पूजिता भवति, किञ्च स्तेयोपायैर्धमजनकविरचिता कृतिराकृतिर्यस्य पतिवत् पुत्रवद् भ्रातृवच्च तिष्ठति तत्र कार्यार्थमेतादृशोपि सुपतीकः साधुवदास्ते, धार्षट्यादिकरणं पुरीषादिकरणं चौर्यकरण रूपान्तरकरणं साधुवत् स्थितिश्चेतिपञ्चधा- रूपसङ्गहः, देहवदिन्द्रियवत् प्राणवदन्तःकरणवदात्मवच्चेतिपञ्चधाज्ञानस्य पञ्चविशेषभूतानि रूपाणि, एवं क्रिया- n श्लो० ३२-३३.] तामसप्रमाणप्रकरणे स्कन्धादितोष्टमोध्यायः । एकदा क्रीडमानास्ते रामाद्या गोपदारकाः । कृष्णो मृदं भक्षितवानिति मात्रे न्यवेदयन् ॥ ३२ ॥ सा गृहीत्वा करे पुत्रमुपालभ्य हितैषिणी। यशोदा भयसम्भ्रान्तप्रेक्षणाक्षमभाषत ॥ ३३ ॥ रूपान् ज्ञानरूपानाकृतिरूपान् निरूप्योपसंहरतीत्थमिति, एवम्प्रकारेण स्त्रीभिर्व्याख्यातार्थापि प्रहसितमुखी सत्युपालब्धं नैच्छत् , उपालम्भे द्वयं कार्य स्त्रीणां मनोरञ्जनं बालकस्य भयजननं च, तदुभयं प्रथमत एव जातं, भयसहितं नयनं यस्य सभयनयनो भगवान् तस्य श्रीयुक्तं मुखं तदालोकिनीभिः, एवमुपालम्भनकोपि भगवन्मुखनिरीक्षिका एव, ज्ञानशक्तेरेव भयं न तु क्रियाशक्तेस्तदाह सभयं नयनं यस्येति, श्रीसंयुक्तं मुखं, आक्रोशवतीनां दृष्टिर्भगवद्विषयिणी मा भवत्विति श्रिया मूर्तिमत्यैव मध्ये व्याप्तं, अतः सभयनयनं यथा भवति तथा श्रीमुखस्यालोकिनीभिः, एवं व्याख्यातोर्थः स्वगृहव्यापाररूपो यस्यां, तथा सति लोक- दृष्ट्या भगवतो धौयं स्मृत्वोभयोर्भयनयने दृष्ट्वा भगवान् स्त्रियश्च भीता भगवान् मत्तः स्त्रियो भगवतो मत्तश्चेत्यनेकरसाभिनिविष्टा प्रकर्षेण हसितमुखी भगवन्तमुपालब्धुं नैच्छत् , नामलीलया वसुदेवः कृतार्थ एव जातः, इयं तु लौकिकन्यायेन प्राप्तमनोरथा लौकिकमावदाादेव दोषान् न गृहीतवती न तु माहात्म्यज्ञानात् ॥ ३१ ॥ अक्लिष्टकर्मा भगवांश्च यावन्नात्यन्तासक्त्या वैयग्र्यं न प्राप्नोति तावन्न वदति नापि प्रदर्शयति, अनेन च प्रकरणेन तस्याः स्वविषयकोध्यासो निवर्तितः, यतो वाच्यतासहनं जातं, भगवद्विषयकगाढाध्यासेन सोप्युद्गतः स्वसमानविषयकविरोधेनैव निवर्तिष्यत इति तदर्थ प्रकरणान्तरमारभते ज्ञानरूपमन्तःकरणशोधक- मेकदेत्येकादशभिर्मनसो ह्येकादश वृत्तयस्तासां निवृत्त्यर्थमेकादशधा ज्ञानं वक्तव्यं, दोषनिवृत्तये यत्नो वाक्यं वाक्यं च तस्य नुत् । तत्साधिका कृतिविष्णोर्ज्ञानं पूर्व निवारकम् ॥ १ ॥ ज्ञानस्योत्कर्षसिद्ध्यर्थं विषयाणां च वर्णनम् । ततो भयं तन्निवृत्तौ पूर्वपक्षम्य युक्तयः ॥२॥ सिद्धान्तेन प्रतिष्ठानं भीतायाः शरणागतिः ॥ २६ ॥ भगवत्यध्यासस्य दृढत्वाद् भिन्नविपयको दोषो न बाधक इति समानाश्रयविषयकं दोषं बाला अनिरुद्धा आहुरित्याह, एकदा यदा भगवत्प्रवणमेव चित्तं स्थितं, आक्रीडमाना आ समन्तात् क्रोडां कुर्वाणाः, समानभावेन सर्वेषु क्रीडा रसजनिका भवति, अतो भगवति साम्ये स्फुरिते विवेकिनां स्वस्मिन् दोषदर्शनवद् भगवत्यपि दोषं दृष्टवन्तः, त इति ये स्त्रीणां सुखार्थे नीतास्तेषां स्त्रीसङ्गान्निरोधस्याकृतत्वाद् भगवति दोष- दृष्टिर्युक्तेति, तत्तत् कार्य प्रदर्शयितुं रामाधा इत्युक्तं, स हि रमयति एव सर्वा स्त्रियोतो दोषदृष्टिः, गोप- बालका इति, गोपा अनिरुद्धाः, गोभिः सह सङ्गात् तत्तुल्यज्ञानास्तेषां बालका इति स्वरूपतोपि दोषसम्भव- हेतुः, स्वसम्बन्धिस्तनादिपानेन पुष्टान् स्वचरणसम्बन्धिभक्तिरसालोडितमन्नां बालकेभ्योन्तःस्थितेभ्यो ददद् बहिर्मुखैर्दध्यादिभक्षणवन्मृद्भक्षणमपि कल्पितं ततस्तदनिष्टं मत्वा बालाः प्रोचुः कृष्णो मृदं भक्षितवानिति, पञ्चवर्षपर्यन्तं मात्रा शिक्षणीय इति मात्रे न्यवेदयन् , सम्भावितं तदिति ॥ २२ ॥ तेन देहापकारं ज्ञात्वा दोषनिवृत्त्यर्थ यत्नं कृतवतीत्याह सा गृहीत्वेति, एकस्मिन् करे पुत्रं गृहीत्वाभाषतेतिसम्बन्धः, सेति निरोध- मध्यस्थिता, भगवति क्रियाशक्तिरेव लौकिकी तस्या दृढेति करे गृहीत्वेति तावानेवांशस्तया गृहीत इति, भगवांस्तु पुन्नाम्नो नरकात् त्रायते, येन पापेन मातापितरौ पुरुषशब्दवाच्यमुपलक्षणात् स्त्रीशब्दवाच्यं च , श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [श्लो० ३४-३५. ॥ यशोदोवाच॥ कस्मान् मृदमदान्तात्मन् भवान् भक्षितवान् रहः । वदन्ति तावका ह्येते कुमारास्तेग्रजोप्ययम् ॥ ३४ ॥ ॥श्रीकृष्ण उवाच ॥ नाहं भक्षितवानम्ब सर्वे मिथ्याभिशंसिनः । यदि सत्यगिरस्तहि समक्षं पश्य मे मुखम् ॥ ३५ ॥ शरीरमस्थिपुरीषादिव्याप्तं सर्वरोगादिगृहं तामित्रादिसर्वनरकेभ्योधिकं प्राप्तवन्तौ स्वयं तत्र सन्ततौ प्रविष्टस्तत् कार्य स्वयं करिष्यंस्तदोषमङ्गीकृत्य तौ तस्माद् देहसम्बन्धात् त्रायत इति पुत्रो भवति, तादृशमुपालभ्योपा- लम्भनं कृत्वालभनमिव क्रूर वाक्यमुक्त्वा स्वस्य परमनिधानरूपः पुत्रः कुशलो भवत्विति हितमेवान्वेष- माणा यशोदा परमभागवती ज्ञानेप्यधिकारिणी मारणे कृतेन्तःस्थिताः क्लिष्टा भविष्यन्ति ततो महापुरुष- द्रोहान्नास्याः कदापि ज्ञानं भविष्यतीतिभयेन सम्भ्रान्तं प्रेक्षणं यस्याक्षस्य, प्रदर्शयिष्यमाणं ज्ञानमेव स्वाधिकरणस्याग्रे भविष्यमाणस्य विरोधिगुणप्रादुर्भावाद् गमनप्रतिबन्धशङ्कया सम्यग् भ्रान्तं प्रेक्षणं गमनरूपं यस्य तथाविधं भवति, भगवत्प्रेरणया गन्तव्यमेव विरोधी च गुणो बलिष्ठो बाधां मा करोत्विति तादृशं भगवन्तं कायिकव्यापारेण योजयित्वा भगवत्प्रेरिताभाषत वाक्यमेवोक्तवती, तद्वाक्यं च भगवता परिहर्तव्य क्रिया चेदशक्या भवेद् भक्तद्रोहात् ॥ ३३ ॥ यशोदाया वाक्यमाह कस्मादिति, इच्छया भक्षितमिति चेत् सेच्छापकारिणीति तन्निवारणमुचितं तदकरणादुपालभ्य एवेतिसम्बोधनेनाहादान्तात्मन्निति, न दान्त आत्मान्तःकरणं यस्य, अन्तःस्थितबालापरिज्ञानादाह भवान् भक्षितवानिति, रह एकान्ते, निष्कास्य बालकान् भक्तिं ग्राहयितुं देवगुह्यत्वादेकान्त एव कृतवान् , तद् बाला बहिःस्थिता अस्मद्वञ्चनार्थमेकान्ते भक्षितवानित्याहुः, प्रमाणमाह वदन्ति तावका इति, त्वदीयास्त्वनृतं न वदन्तीति, हि युक्तश्चायमर्थः, तेपि हितकारिण इति, अन्यथाकल्पने नाद्यापि समर्था इति वयो निर्दिशति कुमारा इति, तेषां जीवत्वात् कल्पक- त्वाभावेपि भ्रमः सम्भवति यथादृष्टं च वचनमतोपि न परमार्थदृष्टिरिति चेत् तत्राह तेग्रजोप्ययमिति, अग्रे जातत्वात् काचिद् बुद्धिरुत्कृष्टा, वदतीत्यत्र प्रमाणमाहायमिति, प्रत्यक्षमेव वदतीति नात्रासम्भावना ॥ ३४ ॥ भगवद्व्यतिरिक्तानामन्यधर्मः प्रवर्तते । यदा यत्र हरिः स्वामी नाविष्टः सोन्यथा वदेत् ॥ १ ॥ इति, भगवांस्तु तद्वाक्यं विषयबाधान्न प्रमाणमाप्तानां भ्रान्तत्वादित्याह नाहमिति, हे अम्बेतिसम्बोधनमप्रतार- णाय, अनेन तस्यां महती कृपा प्रदर्शिता, अहं तु न भक्षितवान् , बालकैर्भक्षितमितिभावः, एवंसम्बोधनेन स्ववाक्यप्रामाण्यमुक्त्वा विरोधवाक्यमाह सर्व इति, एते बालकाः सरामा गोप्यश्च ये केचिन्मया यत्किञ्चिद् भक्षितं यदाकदापीत्याहुस्ते सर्व एव मिथ्याभिशंसिनो मिथ्यानृतमेवाभिशंसन्ति, “ अनश्नन्नन्यो अभि- चाकशीती"तिश्रुतिविरोधात् , “यस्य ब्रह्म च क्षत्र" “मत्ता चराचरग्रहणाद् " " भुङ्क्ते विश्वभुगि"त्यादि- वाक्यान्याधिदैविकरूपधर्मप्रतिपादकानि, अतः पुराणपुरुषपराणि न भवन्तीति ये केचिद् भगवन्तं भोक्तारं मन्यन्त उपदिशन्ति च ते सर्वे मिथ्याभिशंसिनः, नैवेद्यं च तुष्टिदं भवति निवेदनमात्रेण, आरण्यानां भक्षणं त्वन्तःस्थितभक्तानां शुद्धान्नसम्बन्धेन कृतार्थत्वायातः पत्रं पुष्प"मितिवाक्यं न विरुध्यते, नन्वत्र किं युक्तं किं भगवान् भक्षयति न वेति ? भक्षयतीत्येव बहुवाक्यसंवादात् प्रत्यक्षतो दर्शनाद् "भुङ्क्त”इत्यादि- वाक्यानां यथाश्रुतार्थत्वसिद्धे'रनश्नन्नन्य” इतिवाक्यं जीवभोगजननार्थ समागतोन्तर्यामी जीवभोग्यं जीव- भोग्यप्रकारेण न भुङ्क्त इत्येतावन्मात्रपरं तस्मात् प्रत्यक्षसंवादाद् भक्षणमेव सत्यमिति चेत् तत्राह यदि सत्यगिर - " श्लो० ३६-३८.] तामसप्रमाणप्रकरणे स्कन्धादितोष्टमोध्यायः । ततो यद्येवं तर्हि व्यादेहीत्युक्तः स भगवान् हरिः। व्यादत्ताव्याहतैश्वर्यः क्रीडामनुजबालकः ॥ ३६ ॥ सा तत्र ददृशे विश्वं जगत् स्थाष्णु चरिष्णु च । साद्रिद्वीपाब्धिभूगोलं सवाय्वग्नीन्दुतारकम् ॥ ३७ ॥ ज्योतिश्चक्रं जलं तेजो नभस्वान् वियदेव च । वैकारिकाणीन्द्रियाणि मनो मात्रा गुणास्त्रयः ॥ ३८ ॥ इति, लोके वाक्यं संवादि प्रमाणं, तदर्थमत्र संवादो नास्तीत्यनूद्य दूषयति, तर्हि समक्षं प्रत्यक्षं स्वचक्षुषा वाक्य- संवादार्थ मुखमध्यं पश्य, यदि भक्षितं भविष्यति तदंशास्तद्गन्धश्च भविष्यति, सर्व भक्षितमितिशङ्कायां च कालान्तरभक्षणस्यापि निवारणार्थ च भक्षणप्रयोजनं मुखेस्ति न वेति तदपि द्रष्टव्यमितिभावः ॥ ३५ ॥ लौकिका युक्तिपुरःसरं पदार्थ गृह्णन्तीति यशोदा तवाक्यमङ्गीकृत्य तत्रापेक्षितं प्रार्थयित्वा द्रष्टुमुद्युक्ता भगवान्' प्रदर्शितवानित्याह यद्येवमिति, यदि प्रत्यक्षसंवादि तवाक्यं नान्येषां तदा व्यादेहि मुखव्यादानं कर्तव्यं, एवमुक्तो व्यादत्तेतिसम्बन्धः, स इति, स यतो निरोधार्थमेवागतः, अन्यथा लौकिकपरमार्थयोभिन्न- विषयत्वाल्लौकिके परमार्थप्रदर्शनमयुक्तं स्यात् , निरोधसामर्थ्य भगवानिति, करणावश्यकत्वे हेतुर्हरिरिति, अन्यथा प्राणिनः कृतार्था न भविष्यन्तीति, विशेषेणादत्त मुखं प्रसारितवान् , ननु प्राकृतस्वीकारात् स्वधर्माणां तिरोभावसम्भवात् कथं सर्वसंवादो भविष्यतीत्याशङ्कयाहाव्याहतैश्वर्य इति, न केनापि प्रकारेण व्याहतमैश्वर्य यस्य, ननु तर्हि कथं प्राकृतस्वीकारः ? तबाह क्रीडार्थमेव मनुजबालको न तु प्रदर्शनार्थमपि, अतः क्रियाशक्तावेव लौकिक्यां तिरोभावः, तदपि विशेषप्रयोजनाभावे, अन्यदा तु क्रियाशक्तेरपि प्राकट्यं, ज्ञानशक्तिस्त्वतिरोहितैव सर्वदा, अतः प्रदर्शितवानित्यर्थः ॥ ३६ ॥ सापि भगवता प्रेरिता भगवदिच्छ्या प्राप्तज्ञानशक्तिस्तन्मध्यस्थितं जगद् दृष्टवतीत्याह सा तत्रेति, मा निरोधमध्यस्थिता तत्र मुखविवरे विश्व ददृशे, आपाततो दर्शनं व्यावर्तयितुं विशेषाकारेण दृष्टं निर्दिशति जगदितिद्वाभ्यां, विश्वमिति समुदायेन भगवद्रूप- माधिदैविकं वा, जगदन्यल्लौकिकं विश्वरूपं प्रतिकृतिरूपमित्यौपनिषदा आधिदैविकमिति ब्रह्मविदः कार्य- कारणरूपमित्युभयोः समाधानमिति विचारकाः, जगति भेदानाह स्थाष्णु चरिष्णु चेति, स्थावरं जङ्गमं च, चकारात् तद्धर्मा सर्व एव, साद्रिद्वीपाब्धिभूगोलमित्यधः खण्डः, उपरिखण्डं वक्ष्यत्यग्रिमश्लोके, अयमपि भेदस्तया ज्ञात इति, अद्रयो मेदियो द्वीपा जम्ब्वादयोब्धयो लवणादय एतैः सहितं भूगोलं, सवास्वनीन्दु- तारकमिति भूगोलस्यैव विशेषण, वायुस्तत्रोपलभ्यत एव, अग्निश्च, इन्दुः प्रथमाहुतिफलरूपः, “सोमो राजा भवती"तिश्रुतेः, यद्वा यज्ञियं रूपं भूमिष्ठं तत्र वर्तत इति “यदस्यां यज्ञियमासीत् तदमुष्यामदधा"दिति- श्रुतेः, तारका अपि भूमिष्ठा भोगार्थ तत्र गच्छन्तीति पुनरायान्ति चेति तारका अपि भूमिष्ठा एव श्येना इव ॥३७॥ उपरितनं दलमाह ज्योतिश्चक्रमिति, जलं मध्यस्थितं "सलिलं वा इदमन्तरासी"दिति वृष्टिवियद्- गङ्गा च, तेज इति सूर्यादिध्रुवान्तानां किरणाः, विद्युदादयो वा, नभस्वान् वायुरुपरितनः, वियदाकाशो वैकारिकाणि सात्त्विकानि सर्वविकारसाध्यानि वेन्द्रियाधिष्ठातृरूपाणीन्द्रियाणि ब्रह्माण्डाद् बहिः स्थितानि, ब्रह्माण्डमपि गृहे घटवत् प्रतीयते, इन्द्रियाणि च ततो बहिः पदार्थान्तरवत् , सर्वदर्शनसामर्थ्य भगवता दत्तमित्युक्तमेव, इन्द्रियाणि राजसानि मनश्च सात्त्विकं मात्रास्तामसास्तेषां निधानभूता गुणाश्च त्रय , श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [ श्लो० ३९-४१. एतद् विचित्र सहजीवकालस्वभावकर्माशयलिङ्गभेदम् । सुनोस्तनौ वीक्ष्य विदारितास्ये व्रज सहात्मानमवाप शङ्काम् ॥ ३९ ॥ किं स्वप्रमेतदुत देवमाया किं वा मदीयो वत बुद्धिमोहः । अथो अमुष्यैव ममा कस्य यः कश्चनौत्पत्तिक आत्मयोगः ॥ ४०॥ अथो यथावन्न वितर्कगोचरं चेतोमनःकर्मवचोभिरञ्जसा । यदाश्रयं येन यतः प्रतीयते सुदुर्विभाव्यं प्रणतास्मि तत्पदम् ।। ४१ ॥ इति, अहङ्कारगुणाः प्रकृतिगुणा मायागुणाश्च ॥ ३८ ॥ एवं दृष्टमनूद्य तदर्शनेन तस्या अपूर्वत्वाद् भयं जातमित्याहैतदिति, विचित्रमिति, युक्त्यापि न निर्णेनुं शक्यं, करणान्यपि दृष्टवतीति तान्यनु- वंदति, जीवकालस्वभावकर्माशयलिङ्गानां भेदस्तत्सहितं जगत् , जीवास्त्रिविधा देवमानुषदानवाः, कालोपि तथा भूतभविष्यद्वर्तमानरूपः, स्वभावः प्रकृतिधर्मो भगवद्रूप इति निबन्धे विवृतं कर्म च, आशयो हृदयकोशो यस्मिन्नाशेरते जीवाः, लिङ्ग लिङ्गशरीरं स्थूलकोशात्मकं, लिङ्गभेदा वा स्त्रीपुन्नपुंसकाः, एतत् सर्व स्थानविशेषम्यापरिज्ञानात् मूनोस्तनौ वीक्ष्येत्युक्तं, विदारितमास्यं यस्मिन्नन्तर्बहिः सर्वत्रैव जगद् व्याप्तमिति वदंस्तनौ विदारितास्य इतिपदद्वयं, स्वप्नभ्रमव्युदासार्थ व्रजमपि दृष्टवती, माया- व्युदासायात्मानं, आत्मना सहितं व्रजमितिविशिष्टकथनं सर्वभ्रमव्युद्धामाय, एवमभ्रमेण सर्व दृष्वा शङ्का- मवाप ॥ ३९ ॥ अस्याः शङ्काया व्युदासाथ लौकिकप्रकारेण पक्षानाशङ्कय परिहरति किं स्वम इति, अन्यदा प्रतीतं यत् कदाचित् प्रतीयते तत् त्रिधा भवति स्वप्नेपि कदाचिदलौकिकं प्रतीयते तस्य स्थानस्य सन्ध्यत्वा- च्छीघ्रगमनात्"कास्न्येनानभिव्यक्तस्वरूपत्वाच्च"प्रकृते तद्वैलक्षण्यान्नायं स्वप्नो भवितुमर्हति पूर्वापरानुसन्धानाच, अतः पक्षान्तरमाहोत देवमायेति, मायामात्रं नात्यन्तमोहकं देवानां तु माया मनुप्यव्यामोहिका भवति मोहवशाच्चातिरिक्तभानमपि सम्भवतीत्याशङ्कय सा भगवति न सम्भवति भगवत्प्रयत्नानन्तरभावित्वादस्य भगवत्कृतापि माया न भवति तथा सति स्थिरता न स्यान् मम च तत्र दर्शनं न स्यादुभयोश्चादर्शनं, तर्हि दर्शनमेव भ्रान्तमितिपक्षं स्वीकरोति किं वा मदीयो बत बुद्धिमोह इति, बुद्धिमोहोप्येतादृशः कदापि न जात इति विशेषमाह मदीय इति, अन्यैनं दृश्यत एव, तथा सति ते वदेयुः, न हि दृष्टेनुपपन्नं नामेति- न्यायात् , मदीय एवायं बुद्धिमोहः, एवं सति स्वस्य महत्त्वाद् बतेतिहर्षः, यद्येवं स्याद् बालकान्तरे स्थलान्तरे- प्येवमुपलभ्येत, अस्मिन्नेव बालक उपलभ्यत इति न पूर्वोक्तपक्षाः किन्त्वस्यैव कश्चनानुभाव इत्याहाथो इति पूर्वपक्षव्युदासार्थ, अमुष्येत्यग्रेपि परिदृश्यते सूक्ष्मस्तस्मिंश्च जगद् विशालं, ममा कस्येति, पूर्व भावदाढय, अन्यथा निरोधो न स्यान्मुक्तिश्च स्यादिति, कोयं तव बालकस्य गुण इति चेत् तत्राह यः कश्चनेति, भिन्न- तयेदमित्थतया वा ज्ञातुं न शक्यते, इदानीमेव देवतान्तरसम्बन्धाज्जातं भविप्यतीत्याशङ्कयाहौत्पत्तिक इति, स्वाभाविकोय "मुत्पत्तिशिष्टः” पूर्वमप्यनुभूतत्वात् पूतनादीनां मारणाच्च, केवलं प्रदर्शकत्वे पूतनादीनां वधो न स्यात् , अत आत्मयोगः, आत्मन एव भगवतो योगरूपेयं विभूतिरित्यर्थः ॥ ४० ॥ एवं भगवद्विभूतिरूप- मेतदिति ज्ञात्वा यत् कर्तव्यं तत् कृतवतीत्याहाथो इति, अथो दर्शनानन्तरं यस्माद् भगवतः सकाशादेतत् प्रतीयते यत् सुदुर्विभाव्यं, अतः सोलौकिको भवतीति तत्पदं प्रणतास्मीतिसम्बन्धः, एतदर्शनस्यालौकिकत्वं वक्तुं लौकिकबुद्ध्यविषयत्वमाह चेतोमनःकर्मवचोभिः, यथावद् वितर्कगोचरं न भवतीति, चित्तं योगादिभावित, मनाकर्मवचांसि लौकिकानि, अलौकिकबुद्ध्यापि नैतावत् कल्पयितुं शक्यत इदमित्थमिति, श्लो० ४२-४३.] तामसप्रमाणप्रकरणे स्कन्धादितोष्टमोध्यायः । अहं ममासौ पतिरेष मे सुतो व्रजेश्वरस्याखिलवित्तपा सती । गोप्यश्च गोपाः सहगोधनाश्च मे यन्माययेत्थं कुमतिः स मे गतिः ॥ ४२ ॥ ॥श्रीशुक उवाच ॥ इत्थं विदिततत्त्वाया गोपिकायाः स ईश्वरः । वैष्णवीं व्यतनोन्मायां प्रजास्नेहमयीं विभुः ॥ ४३ ॥ अतीन्द्रियाणामपि दृष्टत्वान्मनसो बहिरस्वातन्त्र्याल्लौकिकप्रवणत्वाच्च कायिकमत्रादृष्टं गृहीतमदृष्टवशादप्येतन्नि- यो वक्तुं न शक्यतेलौकिकत्वात् , परस्परव्याघाताच्च न वचसा, आपाततःकल्पनायामपि यथावद् वितर्कगो- चरं न भवति, तथैव मायिकमित्यादिपक्षकल्पनायामप्यञ्जसा सामस्त्येन नोपपद्यते, न हि स्वस्यापि तत्र पूर्वा- परानुसन्धानसहितस्य प्रतीतिः सम्भवति, तथैव पदार्थानां विचारेपि स्थैर्य च, अवस्थादेशकालाश्च, किञ्चैतत्, सर्वप्रदर्शकः स्वमाहात्म्यार्थ स्वभिन्ने स्थाने प्रदर्शयति स्वस्मिंश्च पदार्थानां भाररूपत्वान्न स्थापयेत् , स्वावस्थादेशकालानां भ्रमासम्भवात् , येन च चक्षुषा प्रतीयते तच्चक्षुरपि नास्मदीयं, अन्यथा विद्यमानानां ज्योतिश्चक्रस्थपदार्थानामन्यदापि दर्शनं स्यात् , अतः सामर्थ्य दत्वा स्वत एव स्वस्मिन् विद्यमानं जगत् स्वमाहात्म्यज्ञापनार्थ प्रदर्शितवान् , अतो ज्ञातमाहात्म्या तत्पदं प्रणतास्मि "नमो नम्" इत्येतावत् सदुप- शिक्षितमितिशास्त्रार्थत्वात् ॥ ४१ ॥ प्रणतायाः प्रार्थनामाहाहमिति, सर्वापि दुर्बुद्धिर्भगवत्प्रणताया गच्छतीति दुर्बुद्धीगणयति, आदावहं यशोदेति ममासौ नन्दः पतिरित्येष भगवान् विश्वाधारो मे मुत इत्यहं पुन- जेश्वरस्याखिलवित्तपा सती पतिव्रता चेति, नन्दस्य व्रजेश्वरत्वं तत्स्त्रीत्वं च स्वस्य ततस्तस्य धनसम्बन्ध. स्तद्रक्षकत्वं च स्वस्य तदपि सामस्त्येनोभयत्र, तत्रापि पातिव्रत्यं भगवानपि परपुरुष इति तदभजनं च, अतः "स्त्रीणां पतिरेव विष्णु"रिति च, एता गोप्यो गोपभार्याः स्त्रियोस्मदीयाश्चेति, चकारात् तद्वालकास्तत्सम्बन्धाश्च तथा गोपाः सहगोधनाः स्वपरिकरसहिता गोष्ठसहिताश्चैते सर्वे मे यन्माययेत्थं कुमतिरहं स मे गतिरस्तु, अहमिति चतुर्विधोध्यासो जातिलिङ्गकुलदेहभेदेन, ममेतिशतप्रकाराः पतिपुत्रधनगोपगोपीगवां षड्डिधानामनेक- प्रकारत्वात् , इत्थमहं कुबुद्धिर्यन्मायया म आत्मनो जीवरूपस्य ब्रह्मरूपस्य वा कुत्सिता चासौ मतिश्च, तदीया माया हि तेनैव निवा, बुद्धिप्रकाराः सर्वे मायाया एवेति न तैः स्वकार्यसिद्धिः, मायातिरिक्तस्त्वहमेव मायामोह- विषयत्वात् पृथक्तया पुनर्म इतिवचनं मायासम्बन्धव्युदासार्थ सम्बद्धस्यैव गतित्वाभावाय, गतिरत्र प्राप्य- स्वरूपं फलं, एवमुपालम्भार्थं प्रवृत्ता शरणं गता जाता ॥ ४२ ॥ एवं ज्ञाने जाते भक्तिसुखं न प्राप्स्यतीति भत्त्यानन्दस्य ब्रह्मानन्दापेक्षया महत्त्वाद् भक्तार्थ दैव्या मायया मोहितवानित्याहेत्थमितित्रिभिः, एवं पूर्वोक्तप्रकारेण विदितं तत्त्वं यया तत्त्वज्ञानानन्तरं तस्या मातृ- त्वाभावाद् गोपिकाया इत्युक्तं, ननु भगवान् ज्ञानं कुतो नाशितवान् तत्राह स इति, स निरोधकर्ता, ननु नाशनीये ज्ञाने किमर्थमुत्पादितवान् वा किमर्थ नाशितवानित्युभयाभिप्रायो ज्ञातव्य इति चेत् तत्राहेश्वर इति, स हि कर्तुमकर्तुमन्यथाकर्तुं समर्थोन्यथा च करोति, अतो नात्रोपपत्तिरेन्वेष्टव्या, वैष्णवीमाधिदैविकी स्नेह- सम्बन्धिनीं निरोधोपयोगिनीं विशेषेणातनोद , विहितस्नेहभावव्युदासार्थमाह प्रजास्नेहमयीमिति, यावदात्मीय- तया परमस्नेहे रस उत्पद्यते न तावदीश्वरभावेन भयज्ञानस्य स्नेहप्रतिबन्धकत्वादत्र च लौकिकत्वेपि प्रजारूपेण स्नेह उचितो नान्यथेत्यनन्तविधासु मायासु प्रजास्नेहमयीमेव व्यतनोत् , ननु विरोधिज्ञानस्य जातत्वात् कथं प्रजा- बुद्धिर्भगवति भविष्यतीत्याशङ्क्याह विभुरिति, स हि सर्वसमर्थः, एकस्मिन्नेव वस्तुनि कोटिंधाबुद्ध्युत्पादनसमर्थः, अन्यथा पूर्वविरुद्धधर्मा उत्तरत्र न भवेयुः ॥ ४३ ॥ १. ० रेष्टव्येत्यपि पाठः । .

५८ श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [श्लो० ४४-४७. सद्यो नष्टस्मृतिर्गोपी सारोप्यारोहमात्मजम् । प्रद्धस्नेहकलिलहृदयासीद् यथा पुरा ॥ ४४ ॥ अय्या चोपनिषद्भिश्च साङ्ख्ययोगैश्च सात्वतैः । उपगीयमानमाहात्म्यं हरिं सामन्यतात्मजम् ॥ ४५ ॥ ॥राजोवाच॥ नन्दः किमकरोद् ब्रह्मञ्छ्रेय एवम्महोदयम् । यशोदा च महाभागा पपौ यस्याः स्तनं हरिः॥ ४६॥ पितरौ नान्वविन्देतां कृष्णोदारार्भके हितम् । गायन्त्यद्यापि कवयो यल्लोकस्य मलापहम् ॥ ४७ ॥ प्रक्षिप्ता जालवन् माया तया ज्ञानं विनाशितम् । प्रमाणानां बलं दग्ध्वा मोहयामास गोपिकाम् ॥१॥ मायामोहे ज्ञानं नष्टमित्याह सद्य इति, तदानीमेव नष्टा स्मृतिर्यस्याः, अत्र भगवन्मतमनुभवस्मरण- योर्मध्ये न संस्कारोनुभवः स्मृतिमेव जनयति, येथेन्द्रियसंयोग उत्तरोत्तरमनुभवोद्बोधकस्तथा स्मृतिरपि केनचिद् बोध्यते नाश्यते च, निरन्तरनाशोत्पत्ती अप्रामाणिके वेदविरुद्धे, विवेकेन ज्ञानोबोधनमाशङ्कयाह गोपीति, तत्रापि सारोहमङ्कस्थानं भगवन्तमारोप्य प्रवृद्धस्नेहकलिलहृदया सती पूर्ववदेवासीत् , बहिर्व्यापारोपि ज्ञानसाध्य आरोपणात् पूर्ववत् कृतः स्नेहोप्यान्तरः, ज्ञानानन्तरमान्तरः स्नेहोन्यथा भविष्यतीत्याशक्य प्रवृद्धस्नेहेन कलिलं हृदयमित्युक्तं, न हि विहितस्नेहे हृदये कलिलता भवति, कलिलमत्र पङ्किलमिव मोहसहितः स्नेह- स्तादृशमेव हृदयं जातमिति कालान्तरेपि न कलिलनिवृत्तिः, पूर्वावस्थापरित्यागे मायया भक्तत्वमेव स्यान् न तु निरोध इति यथा पुरेत्युक्तम् ॥ ४४ ॥ अतःपरं प्रमाणान्तरेणापि न स्मृत्युबोध इत्याह त्रय्येति, त्रयी वेदत्रयी, तत्र क्रियाशक्तेः प्रतिपादितत्वाद् भगवन्माहात्म्यप्रतिपादकत्वं, उपनिषत्स्वपि ब्रह्मप्रतिपाद- नाद् भगवज्ञानशक्तिप्रतिपादनं, साङ्ख्येपि नित्यानित्यवस्तुविवेको भगवत्प्सम्बन्धतद्राहित्यभेदेनैव, योगेपि निश्चिन्ततया भगवञ्चिन्तनं, चकारात् पशुपतिमतेपि भगवन्माहात्म्यनिरूपणमेव, तथा सात्वतैर्वेष्णवतन्त्रैरपि, वेदस्य द्विरूपत्वात् , षड्दर्शनैरप्युपगीयमानमाहात्म्यो भगवांस्तादृशं तावन्ति प्रमाणानि श्रुत्वापि हरिमात्मज- मेव सामन्यत, अतो भक्तौ प्रतिष्ठिताविहितायां पुत्रभावेन ॥ ४५ ॥ एतस्या एतावत्त्वं कथं न त्वन्यासामितिशङ्कां परिहरन् महापुरुषकृपामाह सप्तभिः, नन्दः किम- करोदितिप्रश्नो द्वयेन कर्मव्युदासस्य वक्तव्यत्वात् , ब्रह्मन्नितिसम्बोधनं ज्ञानार्थ, नामप्रकरणे नन्दस्यैव प्रथमतो निरोधकथनात् , किं श्रेयो धर्मरूपं, लोकवेदयोरप्रसिद्धत्वात् प्रश्नः, प्रसिद्धार्थमेवाहैवम्महोदयमिति, एवम्महानुदयोभ्युदयो भगवान् पुत्र इति यस्य श्रेयसः, भिन्नतया यशोदाया अपि निरूपणाद् भिन्नतया प्रश्नो यशोदा चेति, नन्दापेक्षयापि निरन्तरसम्बन्धान्महाभागा, किञ्च यस्याः स्तनं सर्वदुःखहर्तापि पपौ, सा हि जानाति क्षुन्निवृत्त्यर्थ भगवान् पिबतीति, अतो "हरेरपि” सा "हरि"रित्युक्तं भवति, बालकतोषपक्षेपि तदीयस्तन्येनैव तथाकरणादुत्कर्षः ॥ ४६ ॥ ननु प्रसिद्धमेव तत्सुकृतं यथा वसुदेवेन कृतमिति चेत् तत्राह पितराविति, यद्यपि पितरौ जातौ तथापि तादृश आनन्दो नानुभूतो यादृश एताभ्या- मनुभूतस्तदाह नान्वविन्देतामिति, एतदनन्तरमपि नाविन्देतां, अग्रेन्यथैव करणात् , अयं महानानन्द इति, ज्ञापयति कृष्णोदारार्भके हितमिति, कृष्णस्या के हितं बालचेष्टितं, अनधिकारिणोपि सर्वपुरुषार्थदानादुदारं १. तथेन्द्रिय० । २. विरुद्धवादिनामेव मतसिद्धे । ३. कारणात् ।

श्लो०४८-५०.] तामसप्रमाणप्रकरणे स्कन्धादितोष्टमोध्यायः । ५९ ॥ श्रीशुक उवाच ॥ द्रोणो वसूनां प्रवरो घरया भार्यया सह । करिष्यमाण आदेशं ब्रह्मणस्तमुवाच ह ॥४८॥ ॥ द्रोण उवाच ॥ जातयोनौं महादेवे भुवि विश्वेश्वरे हरौ । भक्तिः स्यात् परमा लोके ययाञ्जो दुर्गतिं तरेत् ॥ ४९ ॥ अस्त्वित्युक्तः स एवेह बजे द्रोणो महायशाः । जज्ञे नन्द इति ख्यातो यशोदा सा धराभवत् ॥ ५० ॥ साधनफलं हीनं तत्रापि लौकिकं साध्यफलादप्यधिकः परमानन्दः स चेत् साध्यस्वर्गादिसाधनं तदा पशु- पुत्रादिजन्यमलौकिकं सुखं लौकिकं च तादृशमेव, तत्र साधनोत्क साध्योत्कर्षों दृष्टो लोके यथोत्तमैः सूत्र- रुत्तमः पटो यथोत्तमशर्करया भक्ष्यमिति, यत्र परमानन्द एवं प्रथमकक्षा तेन साध्यं लौकिकं लौकिकवत्ततो- प्यधिक ततोप्यलौकिकं दिव्यपुत्रपश्वादिरूपं ततोपि स्वर्गादिस्तदिदमुक्तं कृष्णः परमानदः स चार्भकस्तस्य च लीला साप्युदारेति साक्षाल्लीला परमदुर्लभेति किं वक्तव्यम् ? यतः शब्दतोपि श्रुता परमानन्दं जनयतीत्याह गायन्त इति, अद्यापि व्यासादयः शब्दरसाभिज्ञा निर्दुष्ट शब्दार्थवक्तारो रसवद्वक्तारो वा तेन रसेन मत्ता गायन्ति, अद्यापीति कालविलम्बेपि तद्रसानुवृत्तिः सूचिता, किञ्च यच् चरित्रं लोकस्य मलं दूरीकरोति, अतो दोषनिवर्तकं गुणाधायकं च श्रुरमपि भवति तत्र साक्षात्तादृशभोक्तृणां किं भाग्यं वक्तव्यमित्यर्थः ॥४७॥ अत्र महापुरुषकृपैव कारणमिति वक्तुमुपाख्यानमारभते द्रोण इतिपञ्चभिः ॥ प्रार्थना प्रश्नदाने च भक्तिरागमनं हरेः॥॥ पूर्वकल्पेष्टवसुषु द्रोणो नाम कश्चिद् , यद्यप्यस्मिन् कल्पे न तस्य भार्या धरा तथापि कल्पान्तरे तथेति न विरोधः, तस्मिन् कल्पे वस्वादयो ब्रह्मण एव जाता इति सृष्ट्यर्थमाज्ञापितो भार्यया सह सृष्टिलक्षणमादेशं करिष्यमाणस्तं ब्रह्माणमुवाच, हेत्याश्चर्ये व सृष्टिकर्तृत्वं क्व भक्तिरिति ॥ ४८॥ प्रार्थनामेवाह जातयो- रिति, भुवि जातयो वावयोर्हरौ भक्तिः स्यात् , प्रार्थनायां लिङ्, शास्त्रतः साधनैश्च जायमाना ज्ञानकर्मणो- रल्पस्वाञ् जीवेषु न परमा भवति, वरप्रसादाल् लौकिकानामुत्कर्ष इव भक्तेरप्युत्कर्षो भविष्यतीति परमा प्रार्थ्यते, लोकोपकारं दृष्ट्वा यत्र क्वचिद् भक्तिर्भवति यथा धातरि तन्न पुरुषार्थरूपं, तव्यावृत्त्यर्थमाह महादेव इति, यतः परमधिको देवो नास्ति यस्तु देवेषु परमां काष्ठां प्राप्तः स महादेवः, स्वयं वसुः, ब्रह्मा च देवेषु श्रेष्ठ- स्ततोपि महान् महादेवो भवन् पुरुषोत्तम एव भवति, स्वतउत्कर्ष उक्तः, कार्यतोप्युत्कर्षमाह विश्वेश्वरे हराविति, सर्वस्यापि सर्वफलदातरि सर्वस्यापि सर्वदुःखनिवारके, ततः किं स्यात् ? अत आह ययाञ्जो दुर्गतिं तरेदिति, देहसम्बन्धो दुर्गतिः, अनायासेन तरणं भक्त्यैव, अन्यकृतत्वान्नौकारूढवद् ब्रह्मा पुनः साधनोप- देशयोरसमर्थः ॥ ४९ ॥ ब्रह्मवाक्यं न मृषा भवतीति भगवत्प्रसादादस्त्वित्येवाह, ततः स्वे स्वर्ग एव सृष्टि- मुत्पादितवांस्ततोधिकारे समाप्ते प्रलये च जाते ब्रह्मलोके स्थितो भाविभगवदवतारं ज्ञात्वा ब्रह्मणा प्रेरितः स एव द्रोण इह बजे नन्द इत्याख्यातो जज्ञे, पूर्वनामाग्रे न प्रकाशनीयमिति भगवानानन्दोयं नन्द इति फलग्रहणार्थ व्याप्तिं परित्यज्य शिष्टांशेन प्रसिद्धः, नन्वस्य वरः कथं न क्षीणः सृष्टेरपि गतत्वादित्याशङ्याह १. ० दधिकः । २. भगवान् । ३. गतः ।

श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [श्लो० ५१-५२. ततो भक्तिभंगवति पुत्रीभूते जनार्दने । दम्पत्योनितरामासीद् गोपगोपीषु भारत ॥ ५१ ॥ कृष्णो ब्रह्मण आदेशं सत्यं कर्तु बजे विभुः। सहरामो वसंश्चक्रे तेषां प्रीतिं स्वलीलया ॥ ५२ ॥ महायशा इति, महद् यशो यस्य, यावधशस्तावन्न क्षीयत इति, यशोदापि सैवाभवत् , अन्यथा व्यभिचारे धर्मक्षयाद् भक्तिर्न भवेत् ॥ ५० ॥ ततो जातयोरेव भक्तिर्जातेत्याह तत इति, भगवति भक्तिर्जाता भजन- सहितप्रेमात्मिका, ननु साधनव्यतिरेकेण कथं जातेत्याशङ्ग्य प्रकारमाह पुत्रीभूत इति, अपुत्र एव पुत्रत्वं ज्ञापितवानिति पुत्रीभूतः, जायत एव पुत्रे स्नेहो भक्तिश्च, ननु भगवान् किमित्यवतीर्णः? तत्राह जनार्दन इति, जनामुत्पादिकामविद्यामर्दयतीति, अतो मोक्षदानार्थमागतः, प्रसङ्गादिदमपि कृतवान् न तु प्रासङ्गिक- मुत्पादयितुमर्हति सर्वार्थ च तथा जातोतो दम्पत्योः स्वधर्मनिष्ठयोनितरां भक्तिरासीत् , गोपगोपीषु सत्सु तन्मध्ये वा सत्सङ्गव्यतिरेकेणापि, भारतेतिसम्बोधनं सर्वेष्वेव वंशीयेषु सत्सु यथा भरत एवालौकिको जात इति ज्ञापयितुम् ॥ ५१॥ नन्वेतज्जातं भगवद्वाक्याच् चेत् तदा निरोधो भगवत्क्रियमाणो न भविष्यती- त्याशझ्याह कृष्ण इति, भगवान् हि सर्वमेव योजयितुं शक्नोति, अतो ब्रह्मण आदेशं वरं सत्यं कर्तुं व्रजे समागत्य बलमद्रसहितो वसंस्तत्रत्यानां तेषां सर्वेषामेवं स्वलीलया प्रीति चक्रे, स्वस्याधिकारी ब्रह्मेति तद्वाक्यं सत्यं कर्तव्यं, यद्यन्यत्र साधनवति देशे तमुत्पादयेद् वरे सन्देहोपि भवेत् तदर्थ बजे समागतः, नन्वयुक्ते देशे कथमागत इति चेत् तत्राह विभुरिति, स हि सर्वसमर्थः, सर्वत्रैव स्थित्वा सर्व कर्तुं शक्नोति, बलभद्रो वेदात्मा, साक्ष्यर्थं सह गृहीतः, तेषां प्रीतिजननेन स्वेच्छास्थित्यधिको व्यापारोत आह वसंश्चक्र इति, ब्रह्मवाक्यापेक्षयाधिकं च कृतवानित्याह तेषामिति, येष्वेतौ स्थितौ तेषामपि स्वलीलया प्रीतिं कुर्वन् , लीलयेति मनोरञ्जिका क्रियोक्ता ॥ ५२ ॥ इति श्रीमद्भागवतसुबोधिन्यां श्रीमद्वल्लभदीक्षितविरचितायां दशमस्कन्धविवरणे द्वितीये तामसप्रकरणे- वान्तरप्रमाणप्रकरणे श्रीनिरूपकचतुर्थाध्यायस्य स्कन्धादितोष्टमाध्यायस्य विवरणम् ॥ ८ ॥ कर्म । २. मेवम् । ३. स । , . १.

॥ पञ्चमः स्कन्धादितः नवमोध्यायः॥ -onaka एकदा गृहदासीषु यशोदा नन्दगेहिनी। कर्मान्तरनियुक्तासु निर्ममन्थ स्वयं दधि ॥ १॥ यानि यानीह गीतानि तद्धालचरितानि च दधिनिर्मथने काले स्मरन्ती तान्यगायत ॥२॥ शास्त्रार्थतो यथा भक्तिहरौ भवति निश्चला । तदर्थ नवमे प्राह चरित्रं परमाद्भुतम् ॥ १ ॥ स्वरूपं च कृपालुत्वं हरेख़तव्यमञ्जसा । अतो दयासुसंमिश्रं ज्ञानमत्र निरूप्यते ॥ २ ॥ निरोधो यदि भक्तानां स्वस्मिन् स्वस्य च तेषु च। तदोभयसुसम्बन्धाद् दृढो भवति नान्यथा ॥ ३ ॥ ज्ञानवैराग्यरूपैर्हि स्वाधीनो भगवान् भवेत् । अतोध्यायत्रये लीला जीवाधीना निरूप्यते ॥ ४ ॥ अतिपौरुषमेतद्धि जीवानामिति निश्चितम् । द्वादशाङ्गमतिक्रम्य षड्भिर्वश्यो भवेद् गुणैः ॥ ५ ॥ पञ्चपर्वामविद्यां हि लोकानामपि नाशयेत् । अतः पञ्चभिरुक्तो हि विचारो भगवद्गतः ॥ ६ ॥ तत्र प्रथमं यशोदाया अतिपौरुषं कार्य सिद्धमिति वक्तुं क्रियया भगवत्प्राप्तिमाहैकदेतिदशभिः, भक्तिर्हि दशविधा गुणातीतया भगवान् प्राप्यते नवविधसहितस्नेहेन वा, ततो द्वाभ्यां वशीकरणोद्यमः काण्डद्वयसमावेशार्थस्ततो वशीकरणं षड्भिः पञ्चभिरविद्याबाधनमिति । निवारितापि संसारे मोहिता सङ्गता पुनः । गुणगाने स कालोभूच् छूमो द्वाभ्यां ततोभवत् ॥ १ ॥ अतः कृतो निषेधो हि भक्तिसारं हरिः पपौ। ततो रिक्ता पूर्वबुद्धया सङ्गतान्यच् चकार ह ॥ २॥ एवं निरुद्धा चेद् भ्रान्ता कोपयुक्तो हरिभवेत् । धौयं दृष्ट्वा लोकदृष्ट्या प्रीता तस्मान्न पश्यति ॥ ३ ॥ जिज्ञासायां ततो दृष्ट्वा प्राप्त्यर्थं यत्नमाचरत् । विरुद्धांस्तान् हरित्विा तपसे निर्गतस्ततः ॥ ४ ॥ पूर्णे तपसि तत्प्राप्तिरेवं दशभिरुच्यते । परोक्षवादा ऋषयः परोक्षं च हरिप्रियम् ॥ ५ ॥ आसक्तिं चेत् स्वतः कुर्या जीवः कृष्णः पलायते । तदा दृढो निरोधः स्यान् नान्यथेत्येष निर्णयः ॥ ६ ॥ पूर्वाध्याय आधिदैविकमोहस्य प्रतिपादितत्वात् तत्कार्यमाहैकदेति, यदा भगवदिच्छया सर्वा एव गृहदास्यः क्षेत्रादिसंस्कारार्थं तत्प्रसङ्गाल्लतादिगृहनिर्माणार्थ वा गतास्तदा यशोदा स्वयं दधि निर्म- मन्थेतिसम्बन्धः दास्यश्चतुर्विधाः प्रमुभ्यो देया गोष्ठक्षेत्रविचारिकाश्चान्या यशोदासख्यो नन्दभोग्या गृह- कार्यकर्त्यश्च, तत्र गृहदासीषु कर्मान्तरनियुक्तासु सत्सु प्रकरणाद् भगवदभ्युदयार्थमेव कर्मान्तरमिति लक्ष्यते, स्वतःकरणे हेतुर्नन्दगेहिनीति, गेहिन्याः कमैतदावश्यकम् ॥ १ ॥ एवं संसारव्यापृतिरपि भगवदीयानां भग- वद्गुणगानार्थमेव जातेत्याह यानियानीति, उपनिबन्धनं स्वेनैव कर्तुं शक्यते स्त्रीणामद्यापि तथामामाद, यानि प्रसिद्धानि भगवच्चरित्राणि पूर्व मिह गोकुले वा शास्त्रतो लोकतश्च तन्मध्ये यानीह प्रसिद्धानि, चीप्सया सर्वाण्येव, अनेन गानमेव मुख्यं न तु दधिमन्थनमिति ज्ञापितं, अन्यथा शीघ्रं दधिमन्थने सर्वाणि गीतानि गातुं न शक्यानि स्युः, तस्य बालचरितानि स्वदृष्टानि चकाराद् गोपिकादिभिरप्युक्तानि, तस्य भगवतो बालचरितानि येषु तानि वा गीतानि चकारादन्यानि च, दनो नितरां मथनं यस्मिन् काले, भगवतो १. ०भवद् । २. धर्मः।

श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां
[श्लो० ३-४.
सौमं वासः पृथुकटितटे बिभ्रती सूत्रनद्धं
पुत्रस्नेहसुतकुचयुगं जातकम्प च सुभ्रूः ।
रज्ज्वाकर्षश्रमभुजचलत्कडुणौ कुण्डले च
स्विनं वक्त्रं कबरविगलन्मालतो निर्ममन्थ ॥३॥
तां स्तन्यकाम आसाद्य मथ्नन्ती जननी हरिः
गृहीत्वा दधिमन्थानं न्यषेधत् प्रीतिमावहन् ॥ ४॥
गुणगानस्य स एव कालः, यस्मिन् काले क्रियाशक्तराधिदैविकस्यापीन्द्रियं मथितं भवति, तदाह दनो नितरां
मथनं यस्मिन् काल इति, ननु कथं तस्यैव कालस्य गाने हेतुत्वमिति चेत् तत्राह स्मरन्तीति, तानि गीतानि
स्मरन्ती, तस्मिन्नेव काले गीतानां स्मरणं भवतीति ॥ २॥ एवं गानपरतया मथने क्रियमाणे गानस्यामृत-
रूपत्वाद् दधिमथनं न भवतीति गानस्य गौणभावं सम्पाद्य भगवद्भजनौपयिकं देहमपि पीडयित्वा भगवदुपभोग्यं
रसमपि निरुध्य तद्देवतामपि निवार्य भौतिकी क्रियां श्रमजनिकां भक्तिमपि पीडयन्ती मुक्तानामपि क्षोभजनिकां
क्रियां कृतवतीत्याह क्षौमं वास इति, क्षौम पट्टवस्त्रं तदतिपिच्छिलं भवतीति तद्दाार्थ सूत्रेण दोरकेण नद्धं
क्रियते, उत्थिता सती मथनं करोति मथनावेशाद् वस्त्रस्याप्यननुसन्धानमिव वक्तुं स्थूले कटितटे बिभ्रती-
त्युक्तं, कटिस्थौल्यान् मध्ये कृशभावेन बद्धं वासः परं न पतति, अयुक्तकरणं वा ज्ञापयितुं वस्त्रादिसौन्दर्य
वर्ण्यते, तटपदेन चास्या गतिरूपत्वं नद्या इव प्रदर्शितं, अनेनावश्यकशरीरापेक्षापि मथनार्थ परित्यक्तेति
सूचितं, पुत्रस्नेहेन सहजधर्मेणाधिक्यात् प्रेरितं दुग्धं बहिरपि निःसरन् न विचारवतीत्याह पुत्रस्नेहेति, दुग्धं
यद्यपि स्रवति तथापि पुत्रस्नेह एव सुतो यत्र तादृशं कुचयुगं बिभ्रती स्नेहे वृथा गच्छति सति तदभि-
मानिनी देवता भीता सती कुचयुगमपि कम्पयति, तादृशमपि विभ्रती, अनेनाधिभौतिकाध्यात्मिकाधिदैविका-
पेक्षामपि त्यक्तवतीत्युक्तं भवति, चकारादन्तर्यामिप्रेरणामपि, नन्वेवमतिक्रमे भगवता रक्षकत्वेन स्थापितौ दण्डधरौ
मृत्युयमौ कथं न तां दण्डितवन्तावित्याह सुभूरिति, शोभने भ्रुवौ यस्याः, "भ्रुवौ यम' इतिवाक्याद् भाव्यर्थमङ्गी-
कृत्य पर्यवसानाच् छोभनभूत्वं, रज्जोर्नेत्रस्याकर्षण यः श्रमस्तत्सहितं भुजद्वयं तावत्पर्यन्तं चलन्ति कङ्कणानि
ययोरेतादृशौ हस्तौ बिभ्रती, अनेन भक्तिमार्गः कर्ममार्गश्च तद्देवास्तन्नियमाश्च सर्वे क्लिष्टा इत्युक्तं, कुण्डले
साङ्ख्ययोग द्वयमपि क्लिष्टं, सर्वत्र विभीतिसम्बन्धः, चकाराच्छिरश्च जातकम्पमित्यनुवर्तते, एतदर्थमेव
पृथङ्गिद्देशः, अन्यथा जुतसकम्पकुचयुगमित्येव वदेत् , वक्रमपि विनं, परमक्षोभात् स्वेदयुक्तं, निर्गतसारा
भक्तिरप्युच्यते, कबरे केशपाशे सिद्धस्थानेषु विगलन्ती मालती यस्यां, कवरात् केशपाशात् सिद्धस्थानाद्
विगलन्ती मालती यस्यामिति वा, मा लक्ष्मीरलं यस्मिस्तादृशं जगदतिक्रम्य वर्तत इति मालती ब्रह्मविद्या
सापि गच्छति, एवं प्रपञ्चासत्ता निर्ममन्थ, आकृतिमात्रवर्णनायां वैयर्थ्य शुकवाक्यविरोधश्च भवेत् ॥ ३ ॥
पूर्ववद् भगवान् बालकानामर्थे स्तन्यकामः सञ् छूमं वारितवानित्याह तामिति, आसाद्य निकटे गत्वा नैकट्य-
दर्शनाभ्यां क्रियाज्ञानाभ्यामुभयविधनिरोधसिद्धिः, मनन्तीमिति दनो विकृतत्वं स्वस्यापि प्रयाप्तः, जननीमिति
निरोधावश्यकत्वं, तथाबुद्धिस्तेनैव कृतेति, हरिरिति सामान्यतोपि सर्वदुःखहर्ता साम्प्रतं कर्तुरत्यन्तान्याभिनिवेशात्
करणप्रतिबन्धमेव कृतवानित्याह गृहीत्वा दधिनन्थानमिति, मन्थानं दण्डं हस्तेन धृत्वा प्रीतिमावइन् न्यषे-
धन्मथननिषेधं कृतवान् निषेधेपकारापकरणाय प्रीतिमावहन्निति, यथा तस्याः स्वस्मिन् प्रीतिर्भवति तथा कुर्वन् ,
सर्वाङ्गं चालयन् हस्तौ पादौ चैव विचालयन् । मुखाब्जे मधुरारावं बिभ्रत् कृष्णः समागतः ॥१॥४॥

श्लो० ५-७.] तामसप्रमाणप्रकरणे स्कन्धादितो नवमोध्यायः। तमङ्कमारूढमपाययत् स्तनं स्नेहस्रुतं सस्मितमीक्षती मुग्वम् । अतृप्तमुत्सृज्य जवेन सा ययावुत्सिच्यमाने पयसि त्वधिश्रिते ॥ ५॥ स जातकोपः स्फुरितारुणाधरं सन्दश्य दद्भिर्दधिमण्डभाजनम् । भित्त्वा मृषाश्रुदृषदश्मना रहो जघास हैयङ्गवमन्तरङ्गतः ॥ ६ ॥ उत्तार्य गोपी सुशृतं पयः पुनः प्रविश्य सन्दृश्य च दध्यमत्रकम् । विलोक्य भग्नं स्वसुतस्य कर्म तज् जहास तं चापि न तत्र पश्यती ॥७॥ भगवता प्रीति नितेति भगवदर्थ प्रपञ्चासक्तिं परित्यज्य स्तनं पायितवतीत्याह तमङ्कमिति, स्वयमेवाङ्कमारूढ- मीषदुत्थितं स्तनमपाययत् , यथा सा विमुच्य न गच्छति तदर्थमङमारूढो दैत्यानाक्रमयितुं च, स्नेहस्रुत- मिति नास्याः स्तनपानजनितोपि क्लेशः, यद्यपि मोहितायाः प्रपञ्चासक्तिर्महती गृहे च बहु कार्य दास्यश्च न सन्ति तथापि मन्दहासयुक्तं मुखं पश्यन्त्यपाययत् , इदानीं स्थित्यर्थ मोहनं पूर्वमोहनस्य सङ्कोचश्च, एवं निर्बन्धेन स्थापितापि दोषवशात् त्यक्त्वा निर्गतेत्याहातृप्तमुत्सृज्येति, न तृप्ता यस्मिन् प्रतिबन्धं कुर्वाण- मप्युत्सृज्योर्ध्वं त्यक्त्वा जवेनातिवेगेन सा पूर्वोक्ता प्रबलप्रपञ्चा ययौ, उद्देश्यपर्यन्तं गतवती, गमने लौकिक- मावश्यक कार्यमाहोत्सिच्यमाने पयसीति, अधिश्रितेग्नौ स्थापिते पयस्युत्सिच्यमाने विष्यन्दमाने सति विष्यन्दनं द्रव्यनाशकं दोषजनकं च, तुशब्दः प्रक्रमान्तरमाह, भगवदनुरोधेन यथा मन्थानं परित्यज्य भग- वदनुरोधं कृतवती मथनाविरोधेनैवं भगवदनुरोधेन दुग्धोत्तारणं न कृतवती किन्तु भगवदनुरोधं परित्यज्यैव कृत- वतीति ॥५॥ ततो बालकानामतृप्तत्वाद् भगवान् जातकोपो जातः, यतः स बालकरक्षकः, बालकरक्षाप्रतिघाते भक्तिमार्गावेशेन वैषम्यादकस्मादेव क्रोधो जातः, स्थित एव निमित्तवशादुद्गतः, ततः कोपो यशोदां मार- यिष्यतीति लोभं तद्भुतं भाण्डं च स्फोटितवानित्याहाधरं दद्भिस्सन्दश्य दृषदश्मना दधिमण्डभाजनं भित्त्वेति, अधरस्य दंशे हेतुः स्फुरितारुणेति, स्फुरितोरुणवर्णश्च जात इति लोभाद् भगवत्परित्यागे लोभ- स्यैवापराधो भवति तदा लोभ आधिदैविको यशोदां मारयितुमाध्यात्मिकं वा स्वयं विज्ञापनार्थमागतः, तदा स्फुरणं जातं, तत् त्रयं निवारणीयं, रजोगुणश्च प्रादुर्भूतो जातस्त्रयमुत्पादयितुं भिन्नं तदुभयमपि निवारयितु- मोष्ठदंशः, दन्ताः स्नेहकला यशोदानिष्ठाः, तैस्तेषां निवारणं कृतं, अनुकरणं तु स्पष्टमेव, दधिमण्डस्तकं, तदाधारभूतं भाण्डं नवनीतं तु भिन्नं जातमस्ति, ततो दृषदश्मना दृषत्सम्बन्धिकुट्टनपाषाणेन भित्त्वा दैत्याविष्टेव सा निर्गता तेषां दैत्यानामाधिदैविकानां यज्ञायुधेनैव जनितशब्देन निवारणं कर्तव्यं, तत्र महति शब्दे क्रिय- माणे भाण्डमेव भिन्नं, एवमुपकारं कृत्वा मृषाश्रुर्जातः, दधिभाण्डभङ्गेपि दोषसम्भवात् , यद्यपि स्वतः कृत- भङ्गे दोषो नास्ति तथापि रुद्रः समागत इति लोके ज्ञापयितुमश्रूण्यवर्तयत् , अन्यथा भाण्डदेवताया भङ्गो न स्यात् , अश्रूणां कार्यं च रजतादि नैमित्तिकं च तदुभयाभावान् मृषाश्रुत्वं, यशोदाया नाशशङ्कया वा, तथापि रक्षकः स्वयमित्यश्रूणां मृषात्वमेव, वस्तुतस्तु भाण्डे दैत्य आविष्टः, तद्वधार्थमेव तत् कृतवान् , ततस्तस्याः श्रमः सार्थको भवत्विति हैयङ्गवं रह एकान्ते बालकार्थं जघास, जहारेति वा, स्वस्यापि भक्षणं प्राप्स्यतीत्यन्तरगतो भेदं प्राप्तवान् , ततः प्रभृति ते भिन्नाः कृताः, गृहमध्ये गतः, तत्राप्येकान्त आधि. दैविकदैत्यानामगम्यस्थाने बालकार्थमेव जघास भक्षितवान् ॥ ६ ॥ ततो यज्जातं तदाह उत्तार्येति, पयस्त सुशृतं सम्यक् पक्वं तदुत्तार्य भूमौ स्थापयित्वा पुनः सुशृतमिति प्रथममुत्सेक उत्तार्य पुनरधिश्रित्य तत . १. °ष्प।

" - श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [श्लो०८-१०. उलूखला परि व्यवस्थितं मर्काय कामं ददतं शिविस्थितम् । हैयङ्गवं चौर्यविशङ्किनेक्षण निरीक्ष्य पश्चात् सुतमागमच्छनैः ॥८॥ तामात्तयष्टिं प्रसमीक्ष्य सत्वरस्ततोवरुह्यापससार भीतवत् । गोप्यन्वधावन् न यमाप योगिनां क्षमं प्रवेष्टुं तपसेरितं मनः ॥ ९॥ अन्वश्चमाना जननी बृहच्चलच्छोणीभराक्रान्तगतिः सुमध्यमा । जवेन वित्रंसितकेशबन्धनच्युतप्रसूनानुगतिः परामृशत् ॥ १० ॥ शृते पुनरुत्तारितवतीत्यर्थः, प्रविश्य मथनस्थानं, अनेनाङ्गणे पयोधिश्रितमिति ज्ञायते बहिर्गृहे मन्थनं तद्गृह प्रविश्य सन्दृश्य च दध्यमत्रकं भग्नममत्रकं भाण्डं सम्यग् दृष्ट्वा कर्तृकरणकर्मणां याथार्थ्य, चकारात् नवनीताभावं च दधिमण्डप्रवाहं च, ततस्तत्कर्म स्वसुतस्येति च सन्दृश्य सम्यग् ज्ञात्वा लौकिकाविष्टचित्ता दैत्यानां निवारणा जहास हास्यं कृतवती न तु क्रोधं, भगवांश्चेत् तत्रैव तिष्ठेन् न किञ्चित् कुर्यात् तदा स्वस्यैवापराध इत्यतृप्तपरित्यागात् तूष्णीमेव तिष्ठेत् ॥७॥ भगवांस्तु रूढं तस्या लौकिकज्ञानं दूरीकर्तु दृढमिति ज्ञापयितुं वा तस्यास्तामसभावोत्पत्त्यर्थ ततो गतः, तत्र च गत्वा पूर्वमपि दैत्यावेशेन यत् सम्पादित हैयङ्गवादिकं तदपि शिक्ये स्थितं कामं यथेच्छं मर्कटाय प्रयच्छति मर्कटोपि दंष्ट्रित्वात् क्रूरजन्तुहैयङ्गवमप्यनुपयुक्तं शिक्यं च निर्ऋतिपाशः स्वयं चोलूखलाङ्ग्रेपरि व्यवस्थितो भवति, उलूखलं विपरीतं कृत्वा तत्र स्थितः, तेषां दोषनिवृत्त्यर्थं यज्ञपुरुषो भूत्वा "सुपर्णचयन'' इव स्थितः, अग्ने भिरूपत्वादुलूखलस्य तदुपरि स्थितः सन्न"तिरिक्तमतिरिक्ताय प्रयच्छति रिक्तस्य शान्त्यै," ततो यशोदान्तः प्रविश्य तथाभूतं पुत्रं दृष्टवतीत्याहोलू- खलाङ्ग्रेरिति, पूर्वं तत्र भगवददर्शने मर्कटोपि न दृष्टस्तेन शङ्कापि, अतोन्वेषणमपि कर्तव्यं, अन्वेषणे पुनश्चित्तं भगवत्परं जातमिति भगवन्तं दृष्टवती दोषाणामप्रयोजकत्वज्ञापनायोलूखलं विपरीतं कृतं तदा सुपर्ण एव विपरीतः कृतो भवति, अतः सर्वदोषनाशकाग्नेरपि यत्र वैपरीत्यं तत्र दोषाणां किं वक्तव्यमिति ज्ञापितं, काममिति यथेच्छं सन्देहाभावाद् देयमेव तत् , ह्यं गोः सम्बन्धि हैयङ्गवं पूर्वकालगोसम्बन्धि नवनीतं, चोर्यै जाते विशङ्किते ईक्षणे यस्य, भगवता चौर्य कृतमस्ति तस्याश्चौर्यदोषनिवारणाय सर्वपतिरपि तथाभावोत्पाद- नाल्लोकानुसारेण नवनीतहरण चौर्यमित्युच्यते, तत्र दोषदृष्टौ तस्या ज्ञानं कालेन नाश्यत इति विशेषाकारेण वा शङ्कितमीक्षणं यस्य तथा भवति, चौर्यविशङ्कितायां वेक्षणं यस्य, उभयथापि तस्या ज्ञाननाशशङ्का, तादृशं स्वयं निरीक्ष्य सुतं पश्चात् पृष्ठभागे पृष्ठे च पश्यन्ती पापदृष्टिः शनैरागमत् , ईषन्मात्रमागतवती, न हि पापदृष्टिः शीघ्रमागन्तुमर्हति ॥ ८ ॥ ततस्तां दृष्ट्वायोग्या स्प्रष्टुमिति ततो निर्गतवानित्याह तामात्तयष्टि- मिति, यष्टिरत्र गोवत्सनिवारिका, तस्या भगवत्यपि वत्सवुद्धिर्जाता, आत्ता गृहीता यष्टिर्यया, दर्शनादेव न पलायितवान् किन्तु तस्या अन्तर्गतं बाह्यं च भावं प्रकर्षेण सम्यग् दृष्ट्वा नैकट्यमपि नाहतीति ज्ञात्वा तदोष- परिहारार्थ त्वरासहितस्ततोवरुह्यापससार प्रतिमुखतयैव पलायनं कृतवान् , तस्या दोषेण स्वस्मिन् स्थितबाल- कानामपि दोषो भविष्यतीति ज्ञापयितुं दृष्टान्तमाह भीतवत् , यथा भीतस्तदपकारं स्वस्मिन् जानाति तथा भगवानपि तदोषं स्वस्मिन् विचारितवान् , अनेनैव न भीत इति ज्ञापितं, सापि गोपी, अतोन्वधावत्, अनु पश्चाद् धावनं कृतवती, तम्या अविवेकं प्रकटयितुं शुको भगवन्तं विशिनष्टि यं भगवन्तं योगिनां सिद्ध- योगानां निवृत्तदोष मनस्तत्रापि तपसेरितं प्रेरितं धर्मेण संस्कृतमपि प्रवेष्टुं नाप न प्राप्तवत् , अत इयमप्यर्था- देव न प्राप्तवतीत्यर्थः ॥ ९ ॥ एवं भगवति दोषदर्शने भगवदीयोपि भगवन्तं न प्राप्नोतीत्युक्तं, तादृशेपि भगवान् कृपां करोतीति भगवत्कृपया भगवन्तं स्पृष्टवतीत्याहान्वश्चमानेति, प्रतिकूलोपि भगवदर्थं श्रमः , - श्लो० ११.] तामसप्रमाणप्रकरणे स्कन्धादितो नवमोध्यायः । कृतागसं तं प्ररुदन्तमक्षिणी कपन्तमञ्जनमषिणी स्वपाणिना। उद्वीक्षमाणा भयविह्वलेक्षणं हस्ते गृहीत्वा भिषयन्त्यवागुरत् ॥ ११ ॥ सार्थकः, श्रोणी अन्वञ्चमानाश्रोण्योराकर्षणं कुर्वन्ती रथाकर्षणे बल्लीवईवद् भाराकान्तगतिर्जाता भरेण भारे- णाक्रान्ता गतिर्यस्या., दुष्टा गतिमीरेणैवाक्रान्ता, ततो बुद्धिरपि दोषादेनिवृत्ता गमनार्थमेव प्रवृत्ता, तदाह सुमध्यमेति, जननीतिवचनात् सदुग्धयोः स्तनयोरपि भारः सूचितः, जननीलाच न वर्णितः, वस्तुतस्त्व- जननी, जननी न काचिदप्येवं करोति, सुमध्यमेत्यनेन मध्ये भता बहिामोहिता, परं दुष्टभावाद भारेण गत्याक्रमणमुक्त्वा शोभनमध्यभावं वदस्तस्या दोषाभावं गुणं चोक्तवान्, अभिमानाभावार्थ चाह जवेनेति, वेगेन विशेषेण संसितानि केशबन्धाच्च्युतानि प्रसूनानि तेषामनु पश्चाद् गतिर्यस्याः, पुष्पाण्यपि सङ्गे चलन्ति, प्रकृष्टा सूना येषां तानि प्रमूनानि, उत्तारणमात्रेणैव ते नश्यन्तीति देवाद्यर्थं च तेषां सूना, तान्यपि बद्धा स्थापितवती, तानि च पुनः केशबन्धाद् विगलितानि, उत्पतिप्रलयौ तदविष्ठात्र्यौ देवते च तत्रैव सम्बद्धे तद्रूपाणां च बन्धनं यत्र ततस्तु मुक्ता न पुनजन्मभानः, ततो मोक्षश्च भगवदर्थक्रियया, अतः केशानामपि बन्धविमोचकस्तत एव वित्रंसितः केशबन्धस्ततश्च्युतानि प्रमूनानि, एतस्या दोषाभावो गुणो मुक्तानुगतिश्चेतिधर्मत्रयेण भगवन्तं परामृषत् परितो धृतवती, आलिङ्गितवतीत्यथैः, तस्या दोषभावं दृष्ट्वा भगवान् रोदिति तस्या विवेकभ्रंशलक्षणमपराधं च कृतवान् , यशोदाबुद्ध्या तु भाण्डभेदन- मपराधः, अत्यन्तमौढ्यदोषनिवृत्त्यर्थं च ज्ञानशक्तेर्वर्षणमपि करोति, ज्ञानशक्तिस्तु भगवत्कृत्यैव सोडवला भवति “ यथायथात्मा परिमृज्यत" इतिवाक्यात् , यशोदाया निरोधः सर्वथा व्यर्थो मा भवत्विति स्वकार्य तद्भावं च दृष्ट्वा भयेन विद्वले ईक्षणे यस्य, सोपाधिकं निरुपाधिकं च ज्ञानं तस्या गमिष्यत इति विह्वलता ॥१०॥ एवं परमकृपालुं गृहीत्वा यत् कृतवती तदाह कृतागसमिति, कृत आगोपराधो येन, कोयमपराध इत्या- काङ्खायामाह तमिति व्यामोहर्क,यशोदाबुद्धौ तु भाण्डभेत्तारं, यद्यपि स्वयमीश्वरो न कोप्यपराधो भवति तथाप्येषा व्यामोहिका लीला, तामत्यन्तं व्यामोहितवाञ् यथान उत्तरलीलातु प्रतिबन्धिका न भवति, अन्यथात्यन्तमा- सक्ताग्रिम कार्ये प्रतिबन्धिकैव स्यात् "तच्चासुराणां मोहायसतामपि च कुत्रचित्” “सा मां विमोहयति भीरपि यद् बिभेती"तिवाक्यान् निदानाज्ञानाच्च मोहः, लोकदृष्टया मारयिष्यतीति प्रकर्षेण रोदनं, इदमपि द्वितीय व्यामोहक,अक्षिणी कपन्तमिति बालभावदायकरणं, पूर्व कृतमोहस्य दाढचार्थमञ्जनं शोभार्थ तयैव कृतमञ्जन- साधनीभूतषीयुक्ते अक्षिणी, स्वपाणिनेति, पर्यायेणैकेनैव पाणिना भगवदीयक्रिययैव भक्तिरूपया नयनमुज्ज्वलं न भवतीति कषन्तमिति, तत्रत्या कण्डूरपि नाशिता, तेन रजोगुणोपि शामितो मारणलाधनीभूतः, अत एव तिष्ठन्नपि भगवांस्तादृशचेष्टया स्थितस्तां न दृष्टवान् , सैव पुनस्तमुद्रीक्षमाणोर्ष विलोकयन्ती न तु पादौ, तथा सति भक्तिर्वा भवेत् , भगवांस्तु परितः स्थिता गोपीः पश्यति तासामपि दोषारोपाभावार्थ भयं, अन्तः- स्थितोप्ययं भावो मोहनार्थमेव प्रकटितः, एवं त्रिभिधर्मः सा मोहिता नातः परमुत्थास्यति, अत एवाग्रेस्याः कापि स्नेहकला न निरूपिता, “ शृण्वन्त्यश्रूण्यवानाक्षी''दिति तु गुणानां माहात्म्यं “जनन्युपहृतं प्राश्य" "तत्कथाश्रवणोत्सुके "त्यादि तु रोहिणीसहभावात् तस्या अपि भावोस्यां सङ्क्रान्त उक्तः, नन्दस्यैव मुख्यत्वात् , एतादृशी भगवतः सर्वाङ्गसम्बन्ध परित्यज्य हस्ते गृहीत्वा भिषयन्ती भीषयन्यवागुम्त्, आगूरणसङ्कल्पं कृतवती यथा पामरा अनिष्टागरणानि कुर्वन्ति, अनेन तस्या अनृतवादित्वमपि निरूपितम्॥११॥ ततः किं कृतवतीत्याकाङ्क्षायामाह त्यक्त्वा यष्टिमिति, अनेन पूर्व यष्टिरानीतेतिलक्ष्यते तेन मनोदुष्टा श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [ श्लो० १२-१४. त्यक्त्वा यष्टिं सुतं भीतं विज्ञायाभकवत्सला। इयेष किल तं बर्द्ध दाम्नातद्वीयकोविदा ॥ १२ ॥ न चान्तर्न बहिर्यस्य न पूर्व नापि चापरम् । पूर्वापरं बहिश्चान्तर्जगतो यो जगच्च यः ॥ १३ ॥ तं मत्वात्मजमव्यक्तं मर्त्यलिङ्गमधोक्षजम् । गोपिकोलूखले दान्ना बबन्ध प्राकृतं यथा ॥ १४ ॥ मनःसङ्कल्पं च त्यक्तवती, तेन मनोदोषस्य गतत्वाच् चिकित्स्यत्रिदोषा जातेति निरूपयति, यष्टिं त्यक्त्वा सुतं भीतं विज्ञाय भगवद्धर्मानपि ज्ञात्वाकवत्सला जाता, तथापि तस्या न सर्वात्मना दोषनिवृत्ति- रित्याहेयेषेति, निरूपकस्यापि दोषो भवतीति शुको भीतः सन्नाह किलेति, प्रसिद्धिरेषा नास्माभिस्तदा दृष्टं नापि भावितं कदाचिदपि, दाम्ना बटुमियेषेत्यन्तःकरणशरीरपरिकरदोषा निरूपिताः, नन्वसाध्ये कथं प्रवृत्ता ? लोकेनिष्टेपि प्रवर्तमाना असाध्ये न प्रवर्तन्त इति तत्राहातवीर्यकोविदेति, तस्य भगवतो वीर्य न जानातीति, पूतनातृणावर्तादयो मारिताः कोस्या मारणे प्रयास इति ॥ १२ ॥ शुकोपि तां दूषयन्निव बन्धाभावे परमार्थतो युक्ति प्रदर्शयति न चान्तरिति, भगवति बन्धाभावो द्वेधापि भवति, भगवत्स्वरूपविचारेण बन्धनसाधन- स्वरूपविचारेण च, तत्रादौ स्वरूपं विचारयति, बन्धनं हि कार्यद्वयं सम्पादयति बहिनिरोधमन्तस्तापं च, तत् तस्यैव भवति यस्यान्तर्बहिर्भावो भवति, भगवांस्तु पूर्णः सर्व व्याप्य तिष्ठतीति न कस्मादपि भगवानन्तर्भवति, निरवयवत्वाच न कोपि तस्य परिच्छेदकः, चकारादन्तःशब्दव्यवहार्य आकाशोतः सशब्दोपि भगवति न प्रवर्तत इत्युक्तं, अन्तर्यामिब्राह्मणे सर्वान्तरो भगवानुक्तो न तु भगवतोन्तरं क्वचित् , सर्वान्तरः केनान्त- र्भावमापद्येत ? आधारत्वे तु नान्तरभावना, रूपादिषु तथोपलब्धेः, न हि फलस्यान्तः स्वरूपं तिष्ठति बीजवत् , तथा सत्यदृश्यः स्यात्, अतो न केनाप्यंशेन भगवतोन्तरमस्ति, नापि बहिः, व्यापकत्वात् , बहिःस्थित एवाकाशोन्तस्तिष्ठतीति नाकाशाद् बहिरस्ति किञ्चित् , अनेनान्तःकरणे खेदो बहिरावरणं वा नास्ती- त्युक्तं, किञ्च बन्धनं हि वेष्टनात्मकं तद् दिग्विभागे सति भवति, निरवयवस्यानिरूप्यस्य स्वत एव भासमानस्य ज्ञातृज्ञेयभावतिरोधायकस्य केनाप्यंशेन पूर्वभावोपरभावो वा न सम्भवति, अनेनैव दक्षिणोत्तरभावा अपि परिहृताः, सर्वत्र स्थितः पूर्वापरभावमेव मन्यते, अतः स्वरूपकृता वा दिकृता वन्तरादिधर्मा भगवति न सन्तीति न बन्धसम्भावना, साधनस्वरूपविचारेणापि न भवतीत्याह पूर्वापरमिति, रज्ज्वादीनां पूर्वभागे परभागे चायमेव वर्तते, तत्र यशोदैव प्रमाणं, भगवति सर्व दृष्टवती यतः, सर्वस्यापि भगवान् बहिरपि भवति व्यापकत्वात् , अन्तरपि भवति सर्वान्तरत्वात् , चकारात् स्वरूपमपि, किञ्च जगतो य एतावान् , यतो जायते गच्छति चेति जगत् , यदि भगवानेतावन्न स्यात् कथं जगद् भवेत् ? पूर्वभावाभावे न भवेत् परभावाभावे न गच्छेत् , जगतश्चेद् भगवान् बहिर्न भवेद् जगति गच्छति गच्छेद, यदि सर्वान्तरो न भवेज जगदितिविशिष्टं सर्वप्रतीतिसिद्धं न भवेत्, अन्तःस्थितभगवद्धभैरेव जगतो विवक्षितधर्मवत्त्वात् , किञ्च यो जगत्, न हि स्वात्मना स्वयं बद्धो भवति, तथा सति बन्धकानां वैयर्थ्यापत्तेः, किञ्च जग- न्मयोय सर्वमेव जगद्व्याप्य तिष्ठति,एतदाज्ञयैव जगत् कार्य करोति, ततः कथमयं स्वबन्धने जगत् प्रेरयेत् ? अतो न केनापि प्रकारेण भगवतो बन्धनमस्तीति निश्चिन्ता भक्ताः ॥ १३ ॥ तादृशं योन्यथा विचारयति स निष्फल- प्रयासो भवतीति तां दूषयन्निव तस्याप्यज्ञानमाह तमिति, तं पुराणपुरुषोत्तममात्मजं स्वशरीराज्जातं मन्वा १. जगन्मय इत्यपि पाठं । .

१२१ श्लो० २९-३३.] प्रक्षिप्तेषु तृतीयः स्कन्धादितश्चतुर्दशोध्यायः । अथापि ते देव पदाम्बुजद्वयप्रसादलेशानुगृहीत एव हि । जानाति तत्त्वं भगवन्महिनो न चान्य एकोपि चिरं विचिन्वन् ॥ २९ ॥ तदस्तु मे नाथ स भूरिभागो भवोत्र वान्यत्र तु वा तिरश्वाम् । येनाहमेकोपि भवजनानां भूत्वा निषेवे तव पादपल्लवम् ॥३०॥ अहोतिधन्या व्रजगोरमण्यः स्तन्यामृतं पीतमतीव ते मुदा । यासां विभो बत्सतरात्मजात्मना यत्तृप्तयेद्यापि न चालमध्वराः ॥३१॥ अहोभाग्यमहोभाग्यं नन्दगोपनजौकसाम् । यन्मित्रं परमानन्दं पूर्ण ब्रह्म सनातनम् ॥३२॥ एषां तु भाग्यमहिमाच्युत तावदास्तामेकादशैव हि वयं बत भूरिभागाः । एतद्धृषीकचषकैरसकृत् पिबामः शर्वादयोद्ध्युदजमध्वमृतासर्व ते ॥ ३३ ॥ यद्यप्येवम्भावनान्तःकरण उचिता तथापि भजनमार्गव्यतिरेकेण तच्छास्त्रव्यतिरेकेण च भगवन्माहात्म्यं न परिज्ञातं भवतीति केवलचिन्तनं तथा नोपयोगाय भगवदाविर्भावं सम्पादयति नापि प्रपञ्चनिवृत्ति- मित्याहाथापीति, हे देव ते पदाम्बुजद्वयप्रसादलेशेनैवानुगृहीतो भगवन्महिम्नस्तत्त्वं जानाति बहूनां मध्य एकोपि चिरमपि विचिन्वन्नन्यो न जानाति ॥ २९ ॥ तस्मादावश्यकत्वाल् लाघवाच्च भगवन्मार्गेणैव भगवान् सेव्यो नान्य इतिशास्त्रार्थान् मम भगवद्भक्तेषु जन्मास्त्विति प्रार्थयते तदस्तु मे नाथेति, हे नाथ, भक्तिमार्गानुसारेण सम्बोधनं,स भूरिभागो भवो मेस्तु,अत्र गोकुलेन्यत्र वा, किंबहुना ? तिरश्चामपि मध्ये, येन भवेन जन्मनाहमपि भवज्जनानां मध्य एको भूत्वा तव पादपल्लवं निषेवे, अन्यथा वि- जातीयैः सह भक्ता भजनं न कुर्वन्ति ॥३०॥ एवं स्वप्रार्थनामुक्त्वा गोकुलवासिनां भाग्यमभिनन्दत्यहो इति, बजे स्थिता गावो रमण्यश्च धन्याः, यतस्तै त्वया स्तन्यामृतं पीतमत्यर्थ सन्तोषपूर्वकं च, तत्र प्रकारमाह, यासां गोरमणीनां वत्सतरात्मनात्मजात्मना च, विभो सर्वभवनसमर्थ, कथमेतावता भाग्यमित्याशङ्क्याह यत्तृप्तय इति, यस्य भगवतस्तृप्तयेद्यापि अध्वरा यागा नालं न समर्थाः ॥३१॥ किञ्च न केवलमेतावन्मात्र- मेव किन्त्वन्यदपि करोतीत्याहाहोभाग्यमिति, पूर्वकाण्डस्याप्रयोजकता स्वतः स्तनपानेनैव कृता, उत्तरकाण्ड- स्याप्यप्रयोजकतां कृतवानित्युच्यते यद् ब्रह्म मित्रमिति, ब्रह्म हि सर्वसमं मित्रं हि विषमं हिताचरणाद- हितादिदूरीकरणाच्च, भगवांस्तु ब्रह्मापि संस्तेषां मित्रं जातस्तत्प्रतिपक्षान् हन्ति तांश्च सर्वतः परिपालयतीति, अहोभाग्यमहोभाग्यमितिवीप्सया पुनःपुनर्भाग्यस्मरणं ज्ञापयति, नन्दगोपस्य व्रजे ये तिष्ठन्ति तेषां सर्वेषामेव, अथवादौ नन्दस्य भाग्याभिनन्दनं ततो गोपानां ततो ब्रजौकसामितिक्रमोपपत्तिः स्पष्टैव, किञ्च नोपकारेणैव तेषां कृतार्थता किन्तु स्वयमानन्दरूपः फलात्मा स्वरूपानुभवं कारयति, तदाह परमानन्दं पूर्ण सनातनमिति, अनित्यपरिच्छेदरहितो ह्यानन्दः फलमिति ॥ ३२ ॥ एवामधिभौतिकस्य जन्म- प्रार्थनेन तेषां भाग्याभिनन्दनेन च भगवान् स्तुतः, इदानीमाध्यात्मिकरूपस्य स्वस्यैवाभिनन्दनेन स्तौत्येषा- मिति, तुशब्दः पूर्वापेक्षयाप्याधिक्यकथनार्थः, एषां भाग्यस्य महिमा तावदास्तां ततः पूर्वमेतदेव निरूपयिष्यामः, एतन्निरूपणे तु ततस्त्रयोदशगुणमेषां भाग्यमर्थादेवोक्तं भविष्यति, वयमेतेषां गोकुलवासिना- मिन्द्रियाधिष्ठातृदेवा एकादश " दिग्वातार्कप्रचेतोश्विवह्नीन्द्रोपेन्द्रमित्रका"श्चन्द्रश्चेति, केचिदन्तःकरण- चतुष्टयस्य भिन्न भिन्नमाहुस्तदा चतुर्दश त्रयोदश वा भवन्ति, सर्वानात्मतया गृहीत्वा वदति वयमिति, बतेति हर्षे, भूरि भाग्यमेषां, यद्येते गोकुलवासिनो नोत्पन्ना भवेयुस्तदास्माकमधिष्ठातृता विफलैव स्यात् , भाग्ये निदानमाहैतऋषीकचषकैरिन्द्रियपानपात्रैरसकृद् वारंवारमध्युदजमध्वमृतासवं शर्वादयो महादेव- १६ १२२ श्रीमद्भागवतदशमस्कन्धसुबोधिन्यां [ श्लो० ३४-३८ तद् भूरिभाग्यमिह जन्म किमप्यटव्यां यद् गोकुलेपि कतमाधिरजोभिषेकम् । यज्जीवितं तु निखिलं भगवाननन्तस्त्वद्यापि यत्पदरजः श्रुतिमृग्यमेव ॥३४॥ एषां घोषनिवासिनामुत भवान् किं देव रातेति नश्वेतो विश्वफलात् फलं त्वदपरं कुत्राप्ययन् मुह्यति । सद्वेषादिव पूतनापि सकुला त्वामेव देवापिता ये धामार्थसुहृत्मियात्मतनयमाणाशयास्त्वत्कृते ॥ ३५॥ तावद् रागादयः स्तेनास्तावत् कारागृहं गृहम् । तावन् मोहोध्रिनिगडो यावत् कृष्ण न ते जनाः॥३६॥ प्रपञ्चं निष्प्रपञ्चोपि विडम्बयसि भूतले । प्रपन्नजनतानन्दसन्दोहं प्रथितुं प्रभो ॥ ३७ ॥ जानन्त एव जानन्तु किं बहूक्त्या न मे प्रभो । मनसो वपुषो वाचो वैभवं तव गोचरः ॥३८॥ सहिता वयं पिबामः, अतिरेवोदजं कमलं तत्र मध्वेव मकरन्द एवामृतासवं मिष्टं देहादिविस्मारकं च, रोमाञ्चः स्वेदश्च दशमकार्य, अन्येषामुपयोगः स्पष्ट एव, पुंसामपि बालककन्योत्पादनादिद्वारा मित्रको परित्यज्य शर्वादय एकादशैव वा ॥३३॥ एवं गोकुलवासिना भाग्यमभिनन्ध वृन्दावनबृहद्वनादिष्वपि ये वृक्षादयोपि जाता लतागुल्मादयश्च कीटादयो वा तेषामपि भाग्यमभिनन्दति तद् भूरिभाग्यमिति, तदेव जन्म भूरिभाग्यमधिक- भाग्ययुक्तं, इह वृन्दावने गोकुले वा किमण्यप्रयोजकमपि जन्म, तत्र हेतुः कतमस्य परब्रह्मणोजिरजसामभि- षेको यत्र, कतमस्य गोकुलवासिनो वा यस्यकस्यचित् , येषामुत्पन्नानां गोकुलवासिनां वा निखिलमपि जीवितं स्वार्थ परार्थमैहिकपारलौकिकार्थं च सर्वमेव भगवाननन्तः, अनन्तपदेन ब्रह्मवादप्रकारो व्यावर्तितः, किन्तु विशेषप्रकारेण रजसा माहात्म्यमाहाद्यापि यस्य भगवतः पदरजः श्रुतिमृग्यमेव, श्रुतयो हि भगवत्- पदान्वेषणपरा ब्रह्म भगवत्पदं ज्ञात्वा "ब्रह्म पुच्छं प्रतिष्ठा" तद् विष्णोः परमं पद "मित्यादिभिब्रह्म प्रशंसन्ति, रजःप्राप्तौ तु कृतार्थाः सत्यो न पुनर्बोधयेयुः प्रयोजनाभावात् ॥३४॥ तेषां फलमेतदेव न भवति, सेवायाः क्रियमाणत्वात् , अतस्तत्फलं कथं नाभिनन्द्यत इत्याशक्य तत् फलं न ज्ञायत एवेत्याहैषामिति, एतेभ्यो घोषनिवासिभ्य एतत्सेवासाध्यमेतत्सम्बन्धि हे देव त्वं किं राता? किं दास्यसीति नोस्माकं चित्तं त्वत्तोन्यत् फलं कुत्रापि ब्रह्माण्डे सकलेप्ययद् गच्छन् विमुह्यति, यतस्त्वमेव विश्वस्यैव फलं परमानन्दस्त्वत्तोन्यत् कथं फलं भविष्यति ? तात्मानमेव दास्यामीति चेत् तत्राह, सद्वेषादिवेति, सतो यशोदाया वेषाद् वेषं प्राप्य वेषाद्धेतोर्वा पूतना सकुला भ्रातृसहितापि त्वामेवापिता प्रापिता, अर्थात् त्वयैव, देवेतिसम्बोधनं पूज्याथै, ये पुनस्त्वदर्थमेव धाम गृहमर्थों धनं सुहृदो मित्राणि प्रियाः प्रीतिविषयाः पदार्था आत्मा देहस्तनयाः पुत्राः प्राणा इन्द्रियाणि चाशयोन्तःकरणमेतत् सर्व केवलं त्वत्कृते त्वदर्थम् ॥३५॥ नन्वेतेषां संस्कारो जीवतामेव निवर्तनीयः पूतना तु मारितेति संसारनिवृत्तिं दास्यामीति चेत् तत्राह तावदिति, गृहादिषु रागादयस्तावदेव स्तेना विवेकधैर्यापहारकास्तावदेव गृहमपि कारागृह बन्धनस्थानं तावदेव पुत्रादिषु मोहोनिनिगडः पादशृङ्खला यावत् कृष्ण न ते जनास्त्वत्सेवका न भवन्ति, त्वत्सेवकानां त्वेतानि त्रीण्यपि साचिकादीनि सेवौपयिकानीति शास्त्रतोप्यभिलाषितान्येव ॥ ३६ ॥ नन्वेतत् सर्व साक्षात्स्वरूपे युक्तं न तु कृत्रिम इत्याशझ्याह प्रपञ्चमिति, निष्प्रपञ्चोपित्वं प्रपञ्चं विडम्बयसि प्रापञ्चिकेपि चष्टां करोषि, तत्र हेतुः प्रपन्ना या जनता तस्या आनन्दसन्दोहमानन्दसमूहं प्रथितुं स्थूलं कर्तुं, ननु विपरीतरूपेण कथं तदधिकं भविष्यतीत्याशङ्क्याह प्रभो इति, सर्वप्रकारेणापि सर्वसमर्थः ॥ ३७ ॥ ननु ज्ञानेनाप्यानन्दप्रथनसम्भवात् किमिति प्रपञ्चं विडम्बयतीत्याशङ्क्याह जानन्त इति, ये जानन्तो भवन्ति त एव जानन्तु वस्तुतो ज्ञानं स्वप्नप्रबोधरूपं, अतो भ्रान्ता एव ते, ननु तथा सति तन्मतं दूषणीयमिति चेत् श्लो० ३९-४५.] प्रक्षिप्तेषु तृतीयः स्कन्धादितश्चतुर्दशोध्यायः । १२३ अनुजानीहि मां कृष्ण सर्वं त्वं वेत्सि सर्ववित् । त्वमेव जगतां नाथो जगदेतत् तवार्पितम् ।। ३९ ॥ श्रीकृष्ण वृष्णिकुलपुष्करजोषदायिन् क्ष्मानिर्भरद्विजपशूदधिवृद्धिकारिन् । उद्धर्मशावरहर क्षितिराक्षसधुगाकल्पमार्कमर्हन् भगवन् नमस्ते ॥ ४० ॥ ॥ श्रीशुक उवाच ॥ इत्यभिष्ट्रय भूमानं त्रिः परिक्रम्य पादयोः । नत्वाभीष्टं जगद्धाता स्वधाम प्रत्यपद्यत ॥४१॥ ततोनुज्ञाप्य भगवान् स्वभुवं प्रागवस्थितान् । वत्सान् पुलिनमानिन्ये यथापूर्वसखं स्वकम् ॥ ४२ ॥ एकस्मिन्नपि यातेन्दे प्राणेशं चान्तरात्मनः । कृष्णमायाहता राजन् क्षणार्ध मेनिरेभकाः ॥४३॥ किं किं न विस्मरन्तीह मायामोहितचेतसः । यन् मोहितं जगत् सर्वमभीक्ष्णं विस्मृतात्मकम्।। ४४ ॥ ऊचुश्च सुहृदः कृष्णं स्वागतं तेतिरंहसा । नैकोप्यभोजि कवल एहीतः साधु भुज्यताम् ॥ ४५॥ तत्राह किं बहूत्येति, बहूत्या कि प्रयोजनम् ? अल्पेनैव तु दृष्यते, न हि मत्तः कश्चिन् महानस्ति वेदगर्भोर्स मम तु मनसो वपुषो वाचोपि वैभवं न गोचरो न ज्ञातुं शक्यं, न देहकृत्या परिच्छेत्तुं शक्यं, स हि सर्व करोति तथा भगवद्वैभवमपि कृत्वा प्रदर्शयिष्यतीतिशङ्कयोक्तं वचसां विषयो न भवत्येव तथा चेतसोपि ॥३८॥ एवं स्तुत्वा गमनं प्रार्थयति बालकानामानयनार्थमनुजानीहीति, गन्तुमनुज्ञां प्रयच्छ, कृष्णेतिसम्बोधनं स्वस्य प्रेमख्यापनार्थ, प्रेषणेपराधाभावे वा न किञ्चिन् मया वक्तव्यं यतस्त्वमेव सर्व वेत्सि यतः सर्ववित् , तत्र गतस्य स्वातन्त्र्यशङ्का न कर्तव्या, यतस्त्वमेव जगतां नाथः, अतोधिकारस्थित्यर्थं प्रेषय, एतज् जगत् तवैव त्वयैव चार्पितं मयि स्थापितं, अतः प्रेषणमुचितमेव ॥ ३९ ॥ गच्छन् नमस्यति हे कृष्णेति, वृष्णयो यादवास्तेषां कुलमेव पुष्करं तस्य जोषो विकासस्तस्य दायिन्निति सूर्यरूपतोक्ता, क्षमा पृथिवी निर्जरा देवा द्विजा ब्राह्मणाः पशवश्च त एवोदधिस्तस्य वृद्धिकारिनिति चन्द्ररूपता, उद्धर्मः पाषण्डधर्मस्तदेव शावर तस्य निवारकेत्यग्नि- रूपता, क्षितिराक्षसधुगिति, क्षितावुत्पन्ना ये राक्षसास्तान् द्रोग्धीत्यवतारप्रयोजनं, आकल्पं नमस्त इति, आर्कमर्हन्निति, अर्कमभिव्याप्य सर्वपूज्येति स्वस्यापि नमस्कारे हेतुः ॥ ४० ॥ एवं स्तुत्वा गत इत्याहेतीति, भूमानं पूर्वमनन्तकोटिब्रह्माण्डरूपेण प्रदर्शितात्मानं त्रिः परिक्रम्य पुनः पादयोनत्वाभित इष्टं भगवन्तं स्वाभिलषितं स्वस्य धाम वा प्रत्यपद्यत प्रस्थितः, गत इतियावत् ॥४१॥ ततो भगवत्कृत्यमाह तत इति, यावद् गत्वा ब्रह्मा स्वगृहं बालकान् वत्सांश्चानयति तावद् भगवानेव ब्रह्माणमनु- ज्ञाप्य प्रागवस्थितान् वत्सान पुलिनमानिन्ये, पुलिनमपि स्वकमेव, यत्र पूर्व बालकाः स्थितास्तत्रापि यथा- पूर्वसखं पुलिनं यथापूर्व सखायो यत्र पूर्व पुलिने बालकान् पूर्ववदुपवेश्य पश्चाद् वत्सानयनाथ गत इव वत्सान पुलिनमानिन्ये ॥ ४२ ॥ तदा बालकाः समागतं भगवन्तं कथं ज्ञातवन्त इत्याकाङ्क्षायामाहैकस्मिन्न- पीति, एकस्मिन्नप्यब्दे वर्षे याते गत आत्मनः प्राणेशमन्तरा भगवन्तं विनाल्पोपि कालो यत्र विरहाद् भूयान् भवितुमर्हति तत्र तावन्तमपि कालं कृष्णमायया आहता व्याप्ता न तु ब्रह्ममायया क्षणार्धमेवाभका मेनिरे ॥ ४३ ॥ ननु कथमेतावतः कालस्य विस्मरणम् ? तत्राह किं किमिति, मायामोहितचेतसः किं किं न विस्मरन्ति ? यद् यस्मात् सर्वमेव जगत् मोहितं सदभीक्ष्णं सर्वदैव विस्मृतात्मकं विस्मृत आत्मा येन तादृशम् ॥ ४४ ॥ अत एव स्वसुहृदं कृष्णमूचुस्ते त्वयातिरंहसा स्वागतमिति, तत्र हेतुत्वेनाहु कोप्य- भोजि कवल इति, तव गमनानन्तरमेकोपि कवलो नाभोजि न भुक्तः, अनेन भगवति प्रेमापि सूचि अत एवैहि, मध्ये पूर्ववत् तिष्ठ, साधु भुज्यतामिति ॥ ४५ ॥ ततो भगवता तथैव कृतमित्र श्रीमद्भागवतदशमस्कन्धसुबोधिन्या लो०४६-५५. ततो हसन् हृषीकेशोभ्यवहृत्य सहार्भकैः । दर्शयंश्चर्माजगरं न्यवर्तत वनाद् ब्रजम् ॥ ४६॥ बहप्रसूनवनधातुविचित्रिताङ्गः प्रोदामवेणुदलशृङ्गरवोत्सवाव्यः । वत्सान् गृणन्ननुगगीतपवित्रकीर्तिगोपीगुत्सवशिः प्रविवेश गोष्ठम् ॥ ४७ ।। अद्यानेन महाव्यालो यशोदानन्दसूनुना। हतोविता वयं चास्मादिति बाला व्रजे जगुः ॥४८ ॥ ॥ राजोवाच॥ ब्रह्मन् परोद्भवे कृष्णे इयान् प्रेमा कथं भवेत् । योभूतपूर्वः स्तोकेषु स्वोद्भवेष्वपि कथ्यताम् ॥ ४९ ॥ ॥श्रीशुक उवाच॥ सर्वेषामपि भूतानां नृप स्वात्मैव वल्लभः । इतरेपत्यवित्ताद्यास्तद्वल्लभतयैव हि ॥५० ।। तद् राजेन्द्र यथा स्नेहः स्वस्वकात्मनि देहिनाम् । न तथा ममतालम्बिपुत्र वित्तगृहादिषु ॥५१॥ देहात्मवादिनां पुंसामपि राजन्यसत्तम । यथा देहः प्रियतमस्तथा न ह्यनु ये च तम् ॥५२॥ देहोपि ममताभाक् चेत् तासौ नात्मवत् प्रियः। यज् जीर्यत्यपि देहेस्मिञ् जीविताशा बलीयसी॥ ५३॥ तस्मात् प्रियतमः स्वात्मा सर्वेषामपि देहिनाम् । तदर्थमेव सकलं जगदेतच् चराचरम् ॥५४॥ कृष्णमेनमवेहि स्वमात्मानमखिलात्मनाम् । जगद्धिताय सोप्यत्र देहीवाभाति मायया ॥५५॥ अर्भकैः सहाभ्यवहृत्य भुक्त्वाघासुरस्य च चर्म प्रदर्शयन् वनाद् व्रज प्रति न्यवर्तत ॥ ४६ ।। समागच्छन्तं भगवन्तं वर्णयति बहेति, प्रोदामगोबन्धनरज्जुर्दोहसम्बन्धि, अधिको वा, वत्सान् गृणन्नुच्चारयन् , अनुगै- बोलकैर्गीता पवित्रा कीर्तिर्यस्य, गोपीदृशामुत्सवरूपा दृष्टिर्यस्य ॥ ४७ ॥ ततो वालका अघासुरवधं व्रज आहुरद्यानेनेति, केचिद् यशोदानुनेत्यन्ये नन्दसूनुनेति, वयं चास्माद् व्यालादद्विताः ॥ ४८ ॥ एवं भ्रान्तमोहनिवृत्त्यर्थ सर्वसिद्धान्तमुपपाद्य स्नेहाश्रयविवेचनार्थ प्रक्रियान्तरमारभते, स्नेहः स्वात्म- निष्ठः स चात्मा भगवाञ् जीवो वा, सहजस्नेहो भगवति जीवे तत्सम्बन्धात् तदंशत्वादाहोस्वि जीव एव ? तथा सति भगवति स्नेहः कथमित्याक्षिपते ब्रह्मन्निति, जीवस्य देहेन सम्बन्धस्ततः पुत्रादिषु ततो नन्दे ततो नन्दपुत्र इतिक्रमः, परोद्भवे स्वप्राणापेक्षयापि योधिकः प्रेमा स कथं भवेत् स्वोद्भवेष्वपि स्तोकेपु योभूतपूर्वः ? अतोत्र सिद्धान्तः कथ्यताम् ॥ ४९ ॥ तत्र भगवति स्नेहमुपपादयति सर्वेषामिति, लोके तावत् सर्वेषां प्रेमविषय आत्मा देहः, इतरेपत्यवित्ताया- स्तस्य देहस्य वल्लभतया प्रियतया, युक्तश्चायमर्थः, अन्यथा परबालके परदेहे वा स्नेहः स्यात् ॥५०॥ तत्रापि तारतम्यमित्याह तद् राजेन्द्रेति, देहाभिमानवतां यथा स्वस्वकात्मनि देहे स्नेहोहमभिमानविषयत्वान्न तथा पुत्रवित्तादिषु ममताविषयत्वात् ॥ ५१ ॥ नन्वत्र देहो वात्मा वा कः प्रियतेन सहजोभिनिर्दिष्टः ? आत्मा चेत् स न देहातिरिक्तः प्रतीतः केनापि पामरेणातः प्रेम कथम् ? तत्र देहश्चेत् को हेतुरित्याकाङ्क्षा- यामाह देहात्मवादिनामिति, अस्ति देहव्यतिरिक्त आत्मा पामराणामपि मते, तथाप्यङ्गीकृत्याप्युच्यते देह एव आत्मा येषामपि वादिनां, राजन्यसत्तमेतिसम्बोधनं स्नेहार्थ, यथा देहः प्रियतमो न तथा पुत्रादयः ॥ ५२ ॥ पश्चादल्पविवेकेन देहोपि ममताभाक् चेत् तासावेव देह आत्मवत् पूर्वानुभूतदेहवदहमभिमान- युक्तदेहवत् प्रियो न भवति, किञ्च प्राणश्चेदात्मा तदापि प्राणवन्न देहः प्रियः, यज् जीर्यत्यपि देहेस्मिन्नपि देहे बलीयसी तस्य जीविताशा ॥५३ ॥ तस्मादात्मा प्रिय इत्यविवाद, तदर्थ चान्यत् ॥ ५४ ॥ स चात्मा कृष्ण एवेत्याह कृष्णमेनमिति, अखिलात्मनामयमात्मा, अस्यैव स्नेहः सहजो धर्म एतद्विषयकस्तदंशः पश्चादन्यत्र गच्छति तदंशेषु, एतन् मैत्रेयीब्राह्मणे वाक्यान्वयादित्यधिकरणे स्पष्टमस्माभिव्युत्पादितं, भग- श्लो०५६-६१.] श्रीमद्भागवतदशमस्कन्धसुबोधिन्या प्रक्षिप्तेषु तृतीयः स्कन्धादितश्चतुदेश। वस्तुनो जानतामत्र कृष्ण स्थाष्णु चरिष्णु च । भगवद्रूपमपर नान्यद् वस्त्विद किञ्चन् । सर्वेषामेव भावानां भावार्थो भवति स्थितः। तस्यापि भगवान कृष्णः किमतद् वस्तु रूप्यताम्।। ५७ , समाश्रिता ये पदपल्लवप्लवं महत् पदं पुण्ययशो मुरारेः । भवाम्बुधिवत्सपदं परं पदं पदं पदं यद् विपदां न तेषाम् ।। ५८ ॥ एतत् ते सर्वपाख्यातं यत् पृष्टोहमिह त्वया ! यत् कौमारे हरिकृतं जगुःपौगण्डकेभकाः ।।५।। एतत् सुहृद्भिश्चरितं मुरारेरघार्दनं शाडुलजेमनं च । व्यक्तेतरचूपमजोर्वभिष्टवं पृण्वन् शृणन्नेति नरोखिलार्थान् ॥६॥ एवं विहारैः कौमारैः कौमारं जहतुर्ब्रजे । निलायनैः सेतुबन्धैर्मर्कटोत्प्लवनादिभिः ॥ ६१ ॥ वद्धर्मा एवान्यत्र कार्येशे च भासन्त इति, ननु कृष्णः कथमात्मा ? तत्राह जगद्धितायेति, केवलं जगद्रक्षार्थ मायया देहीवाभाति वस्तुतस्तु ब्रह्मैव ॥ ५५ ॥ किञ्च कृष्णं जानतां सर्वमेव स्थावरजङ्गमात्मकं भगवद्रूपं भाति यदन्यन् नास्त्येव किश्चन, ननु भगवतः कथमेवप्रूपम् ? तत्राहापरमिति, परं कृष्णरूपमपरं जगत् , अतो महापुरुषप्रतीत्यापि कृष्णो भगवान् , “यस्मिन् विदिते सर्वमिदं विदितं भवनी"ति तदैव सङ्गच्छते॥५६॥ किञ्च न केवलं सर्वस्य भगवत्त्वे महतां दृष्टिरेव प्रमाणमपि तु युक्तिरप्यत आह सर्वेषामिति, सर्वपदार्थानाम- बाधितोर्थो भवति कारणे स्थितः, कारणातिरिक्तं कार्य नास्तीति, तस्य कारणस्यापि कारणं तत्त्वं भग- वानेव, अतद् भगवद्व्यतिरिक्तं वस्तु किं निरूप्यताम् ? ॥६७ ॥ स्नेहोपि धर्मो जगद्वत् पूर्वमुत्पन्नोतो भग- वत्येव युज्यत इति प्रसङ्गात् तस्य कारणत्वमुक्तं, सर्वपुरुषार्थरूपत्वाच्च तस्मिन् स्नेह इत्याह समाश्रिता इति, ये मुरारेः पदं समाश्रिताः पुण्यं यशो यस्य पदपल्लव एव प्लवस्तत् स्वभावतोपि महत् पदं तेषां भवाम्बुधिर्वत्मपदं परं पदं तु विपदां यत् पदं न तत् तेषां पदम् ॥५८॥ उपसंहरत्येतत् त इति, कौमारे यद्धरिणा कृती तत् पौगण्डे परिकीर्तितमित्यत्र, तत्रानुपपत्तिः परिहृतेत्यर्थः॥५९॥ अध्यायत्रयश्रवणकीर्तनयोः फलमाहैतदिति, आदौ मुरारेः सुहृदां बालकानां चरितं क्रीडा ततोघार्दनं ततः शाहले जेमनं भोजन चकाराद् वत्सापहरणं, व्यक्तादितरमव्यक्तमलौकिकं भगवद्रूपमजस्योर्वभिष्टवं स्तोत्रं, एतत् सर्व शृण्वन् गृणन्नपि पुरुषार्थान् प्राप्नोति ॥ ६० ।। ॥ इति श्रीमद्भागवतसुबोधिन्यां श्रीमदल्लभदीक्षितविरचितायां दशमस्कन्धविवरणे प्रक्षिप्ताध्यायेषु तृतीयाध्यायविवरणम्॥३॥ । कौतुकलीला समाहा ॥ ॥ श्रीकृष्णार्पणमस्तु ।

श्रीमनलभाचार्यनन्धरलमालायां प्रकाशिता अन्यथा M - ... wwma + O 4. m ... ... १. गायत्रीभाष्यम् २, श्रीमद्भगवद्गीता ताकदीपादिसहिता ३. प्रस्थानरमाकर, श्रीपुरुपोत्तमगोत्वामिविरचितः ४. अधिकरणसमतो निर्भयरामविरचितः ५, शाण्डिल्यभक्तिसूत्रभाष्यं मुरलीदासविरचितम् ६. श्रीगदहभाचार्यचरितं ७. सरदीपश्रीमहणुभाष्यप्रायनलबकः १-०-८ १. श्रीमद्भागवतदशमस्कन्धद्वितीयतामसाख्यप्रकरणे प्रथम प्रमाणाप्रकरण प्रक्षिताध्यायत्रययुतम् १-०-. म. - ... " Our द्वितीय . 59 For Prearea-ASOORAKSCOMSEX || विज्ञापनम् ॥ मुद्रो नम्पन्ने ज्ञातं यदिहैव श्रीमन्मनलालगोरवामिनां श्रीविभङ्गालसिल्लिो श्रील्म मजून निराजन्ते हस्ताक्षराणि येषु दशमस्कन्धप्रारम्भादत्रैवपर्यन्तं विराजति श्रीसुबोधिन्यायिक पार्थिनाः श्रीमन्मन- लालाः ईनानुनु दिरे शोधमपि । एवं अनिवनिरूद्धगोस्वामिनां नटपुरस्थमोहनलालशास्त्रियां च सहायेन संसाध्यमानं शोलपत्रमचिरेणैव नेष्यते प्रामाश्यामितिश्रीः। HTTACODEIREEKSOEKSOCKE, - कृष्ण एक्त्यार KOSDEPOSIEXGOOKS EXSOTKOOOKSOME पवादन्यत्र गच्छति

Srimad Bhagavath Dashamaskanda Subhodini

Title
Srimad Bhagavath Dashamaskanda Subhodini
File name
Srimad Bhagavath Dashamaskanda Subhodini
Text
OCR done
Citation
1953
Published
1\6\2003
Language
Sanskrit
Pages
146
Library
S.v.c.l.r.c
DLI number
326835
Barcode
9000000008928.00
Scanning centre
S.V. Digital Library, Tirupati
Digital publisher
Udl TTD Tirupati
VMLT id
MB3CRpDwH4N
Download PDF

Srimad Bhagavath Dashamaskanda Subhodini