Bharti Bhawan Library Allahabad

Kramdipika No 236

Mahamahopadhyaya Kasmirika Keshav Bhatta

PDF Proofread

Front matter

4६६६१ 2122 उता मन August 1917. THE A. COLLECTION OF RARE & EXTRAORDINARY SANSKRIT Works NO. 236. CHOWKHAMBA SANSKRIT SERIES; F - क्रमदीपिका। श्रीमन्महामहोपाध्यायकाश्मीरिक केशवभट्टविरचिता। विद्याविनोदश्रीगोविन्दभट्टाचार्य कृतविवरणोपेता। श्रीयुतकान्यकुब्जकुलाङ्करेणसाहित्यसांख्ययोगमीमांसाधनेक शास्त्राध्यापकेन-विश्वविदित श्रीदुःखभञ्जनशर्मकवीन्द्रात्मजेन श्रीदेवीप्रसादशर्मणा शुक्लेनकविना संशोधिता KRAMADIPIKA, By Mahamahopadhyaya Kasmirika Keshav Bhatta WITH A COMMENTARY BY Sri Govind Bhattacharya. FASCICULUS II- PUBLISHED & SOLD BY THE SECRETARY, CHOWKHAMBA SANSKRIT SERIES OFFICE. BENARES. AGENTS:- OTTO HARRASSOWITZ, LEIPZIG: PANDITA JYESHTHARAM MUKUNDAJI, BOMBAY: PROBSTHAIN & CO; BOOKSELLERS, LONDON. Printed by Jai Krishna Das Gupta, at the Vidya Vilas Press. BENARES. Price Rupee one.

भारती-भवन पुस्तकालय प्रयाग क्रमिक संस्था९६६१ विभाग ॥ श्रीः ॥ 29/27 - ::- मानन्दवनविद्योतिसुमनोभिः सुसंस्कृता । सुवर्णाऽङ्कितभव्याभशतपत्रपरिष्कृता ॥१॥ चौखम्बा-संस्कृतग्रन्थमाला मञ्जुलदर्शना । रसिकालिकुलं कुर्यादमन्दाऽऽमोदमोहितम् ॥२॥ स्तवकः-२३६ १ अस्यां चौखम्बा- संस्कृतम्रन्थमालायां प्रतिमासं पृष्ठशतके सुन्दरैः सीसकारैरुत्तमेषु पत्तेषु एकः स्तवको मुद्रयित्वा प्रकाश्यते । एकस्मिन स्तवके एक एव अन्धो मुद्यते । २ प्राचीना दुर्लभाश्चामुद्रिता मीमांसावेदान्तादिदर्शनव्याकरणधर्मशालसाहित्यपुराणादिग्रन्थ एवाऽत्र सुपरिष्कृत्य मुद्यन्ते । ३ काशिकराजकीयप्रधानसंस्कृतपाठशालाsध्यापकाः पण्डिता अन्ये च शास्त्रदृष्टयो विद्वांस एतत्परिशोधनादिकार्यकारिणो भवन्ति । ४ भारतवर्षीयैः,ब्रह्मदीयः,सिंहलद्वीपवासिभिश्चैतद्ग्राहकैर्देयं वार्षिकमग्रिमं मूल्यम्-मुद्रा: आनका:- ५ अन्यैर्देयं प्रतिस्तव ६ प्रापणव्ययः पृथग् नास्ति । ... ... ... 0 ... La.. ... ... ... .. ... .. साम्प्रतं मुद्रयमाणा ग्रन्थाः- सूत्रस्य यतीन्द्रश्रीमद्विज्ञानभिक्षुकृतव्या- (१) संस्काररत्नमाला । गोपीनाथभट्टकृता ख्यानम् । सम्पूर्ण । (वेदान्तः) ६ खण्डे २ (९) स्याद्वादमञ्जरीमल्लिषेणनिर्मिता सम्पूर्णा २ (२) शब्दकौस्तुभः । भट्टोजिदीक्षितकृतः १२ (१०) सिद्धित्रयम्-विशिष्टाद्वैतब्रह्मनिरूपणपरम् (३) श्लोकवार्तिकम् । भट्टकुमारलविरचितम् श्रीभाष्यकृतां परमगुरुभिः श्री श्रीयामु- पार्थसाराथमिश्रकृतन्यायरत्नाकराख्यया नमुनिभिर्विरचितम् । सम्पूर्ण(वेदान्तः)१ व्याख्यया सहितम् । सम्पूर्णम् । १० (१२) न्यायमकरन्दः । श्रीमदानन्दबोधभधार- (४) भाष्योपबृहितं तत्त्वत्रयम् । विशिष्टाद्वैत काचार्यसंगृहीतः । आचार्यचित्सुखमुनि- दर्शनप्रकरणम् । श्रीमल्लोकाचार्यप्रणीतम्। विराचितव्याख्योपेतः ( वेदान्तः) श्रीनारायणतीर्थविरचितभादृभाषाप्रकाश- (१२) विभक्त्यर्थनिर्णयो म्यायानुसारिप्रथमादि- सहितं सम्पूर्णम् ( वेदान्तः) सप्तविभक्तिविस्तृतविचाररूप: म. म. (५) करणप्रकाशः । श्रीब्रह्मदेवविरचितः १ श्रीगिरिधरोपाध्यायविरचितः सम्पूर्ण (६) भादृचिन्तामणिः । महामहोपाध्यायश्री (म्यायः) गागाभट्टविरचिता। तर्कपादः(मीमांसा)२ (१३) विधिरसायनम् । श्रीअप्पयदीक्षितकृतम्। (७) न्यायरत्नमाला श्रीपार्थसारथिमिश्रविर सम्पूर्णम् ( मीमांसा ) चिता सम्पूर्णः ( मीमांसा) २ (१४) न्यायसुधा (तन्त्रवार्तिकटीका) भस्मो- (८) ब्रह्मसूत्रभाष्यम्-बादरायणप्रणीतवेदान्स- मेश्वरविरचिता। (मीमांसा) .... ... ... .... २ १६६६० चतुर्थपटलम् । १०१ स्यात्पश्चमी तहदिति प्रदिष्टाः । प्राणादिमुद्रा निजमन्त्रयुक्ताः ॥ ५९ ॥ कनिष्ठोपकनिष्ठिके कनिष्टानामिके द्वे स्वाङ्गुष्ठमूर्धा स्पृशेत् इह मुद्रा प्रथमा तथा तर्जनीमध्यमे स्वाङ्गुष्ठमूर्धा स्पृशेत् अनामिकामध्यमिके च तेन स्पृशदेवं व्यानमुद्रा अनामातर्ज- नीमध्यमाः तेन स्पृशेत् चतुर्थी उदानस्य तास्तिस्त्रः कनिष्ठास- हिताः तद्वत् स्वाङ्गुष्ठमूर्ती यदि स्पृशेत्तदा समानमुद्रा इत्यनेन प्रकारेण प्राणादिमुद्राः प्रदिष्टाः कथिताः किम्भूताः यथायोग्य- स्वमन्त्रसहिताः मन्त्रसाहित्येन तासां मुद्रात्वम्भवति विल्वमुद्रा- वदित्यर्थः ॥५८ ॥ ५९ ॥ के ते मन्त्रा इत्याकालायां प्राणादीनां मन्त्रानाह- प्राणति। प्राणापानव्यानोदानसमानाः क्रमाचतुर्थ्यन्ताः । ताराधारा वध्वा चेद्धाः कृष्णाध्वनस्त्विमे मनः॥६०॥ प्राणादयः पञ्च क्रमाच्चतुर्थीविभक्तिसहिताः तथा ताराधाराः ॐकाराधाराः प्रणवाद्या इत्यर्थः तथा कृष्णाध्वनोऽग्नेर्वध्वा प्रियया इद्धा उद्दीप्ताः सम्बद्धाः स्वाहाकारान्ता इत्यर्थः एवं च सति ॐप्राणायस्वाहाइत्याद्याः पञ्च मन्त्रा भवन्तीत्यर्थः॥ ६० ॥ निवेद्यमुद्रां प्रदर्शयन्मत्रं च दर्शयति- ततो निवेद्य मुद्रिका प्रधानया करदये ॥ स्पृशन्ननामिकां निज मनुं जपन् प्रदर्शयेत् ॥६१॥ ततस्तदनन्तरं निवेद्यमुद्रां प्रदर्शयेत् किंकुर्वन् करद्वये करयो. रनामिकां प्रधानया ऽङ्गुष्ठेन स्पृशन् पुनः किंकुर्वन् निजं स्वीयं मनुं. मन्त्रं प्रज पन् ॥ ६१॥ मन्त्रमुद्धरति- भारती- १०२ सटीकक्रपदीपिकायाः ऋमिक र विभाग नन्दति। नन्दजोऽम्युमनुचिन्तुयुङनतिः । पावरामरुवात्मने ऽनि च ॥ रुद्ध युनिवेद्य मात्मभू। मांसपार्वमनिल स्तथाऽमियुक् ॥ ६२ ॥ नन्दजः ठकारः अम्बु वकारः मनुः औकारः विन्दुः एतैर्युक्ता नतिनमः पावःपकारः राइति स्वरूपं मरुतू यकारः अवात्मने इति ऽनिस्वरूपं रुद्ध इति स्वरूपं उचतुर्थी अनिरुद्धशब्दश्चतुर्थीयुक्त इत्यर्थः निवेद्यमिति त्रयः आत्मभूः ककारः मांसो लकार: पार्श्वः पकारः लकारयकाराभ्यां युक्तोऽनिलो यकार: मीति स्वरूपं तथा वॉनमः परायाऽवात्मने अनिरुद्धाय नैवेद्यं क- ल्पयामि इतिमन्त्रः ॥१२॥ मण्डलमभित इति मण्डलमाभितो मन्त्री वीजा कुरभाजनानि विन्यस्य । पिष्टमयानपिदीपान् घृतपूर्णाविन्यसेत्सुदीप्तशिखान् ॥ ६३ ॥ मण्डलपरितो वीजाङ्करपात्राणि संस्थाप्य तथैव पिष्टकृतान घृतपरिपूर्णान् प्रज्वलितशिखान् प्रदीपान् स्थापयेत् ॥ ६३ ॥ दीक्षाङ्गहोमविधि दर्शयति- अथेति। अथ संस्कृते हुनवहेऽमलधी- रभिवाद्य सम्यगभिपूज्य हरिम् ॥ जुहुयात् सिताघृतयुतेन पय:- परिसाधितेन सितदीधितिना ॥ ६४ ॥ GorakR चतुर्थपटलम् । १०३ अष्टोत्तरं सहस्रं समाप्य होमं पुनर्वलिंदद्यात् । राशिष्वधिनाथेभ्यो नक्षत्रेभ्यस्ततश्च करणेभ्यः ॥६५॥ अथानन्तरं शास्त्रोक्तसंस्कारैः संस्कृते वह्नौ निर्मलवुद्धिः यथो. क्तरूपं हरिमावाह्य गन्धादिभिश्च यथाविधि संपूज्याऽष्टोत्तरसहस्रं जुहुयात् केन सितदीधितिना भक्तेन कीदृशेन पयःपरिसाधितेन दुग्धपरिपाचितेन परमानेनेत्यर्थः पुनः कीदृशेन सिताघृतयुतेन शर्कराघृतसहितेन अनन्तरं यथोक्तहोमं समाप्याऽवशिष्टपरमानेन राशिषु मेषादिषु अधिनाथेभ्यो राशिदेवताभ्यो मङ्गलादिभ्यः नक्षत्रेभ्योऽश्विन्यादिभ्यः करणेभ्यो ववादिभ्यो वलिं दद्यात् प्रयोग. स्तु मेषवृश्चिकाधिपतये मङ्गलाय एष वलिनमः एवं वृषतुलाधिपतये शुक्राय मिथुनकन्याधिपतये बुधाय कर्कटाधिपतये चन्द्राय सिंहा. धिपतये सूर्याय धनुर्मानाधिपतये गुरवे मकरकुम्भाधिपतये शनये एष वलिनमः एवम् अश्वनीभरणीकृत्तिकापादीयमेषराशये एष वलिनम इत्यादि एवं वववालवकौलवतौतिलगरवणिजविष्टिभ्यः एष वलिनमः ॥ ६४ ॥६५॥ पूजानन्तरं प्रकारमाह- सम्पाद्यति । सम्पाद्य पानीयसुधां समर्थे । दत्वाऽम्भ उद्वास्य मुखाचिरास्ये ।। नैवेद्यमुद्धृत्य निवेद्य विष्वक्- सेनाय पृथ्वीमुपलिप्य भूयः ॥ ६६ ।। पानीयमेव धेनुमुद्रया सुधां कृत्वा पानार्थ कृष्णाय समा. उम्भों दत्वा जलमाचनार्थ दत्वा मुखार्चिदेवमुखान्नैवेद्येऽवतारितं ते. जः आस्ये देवमुखे उद्वास्य निवेश्य नैवेद्यमुत्तोल्य विश्वक्सेनाय दे- ब्रगणाय नैवेद्यं समर्प्य पृथिवीमुपलिप्य ॥ ६६ ।। गण्डूषदन्तधवनाचमनास्थहस्त- मृज्यानुलेपमुखवासकमाल्यभूषाः।

१०४ सटीकक्रमदीपिकायाः ताम्वूलमप्यभिसमर्प्य सुवाद्यनृत्य- गीतैः सुतृप्तमभिपूजयतात्पुरेव ॥ ६७ ॥ भूयः पुनरपि गण्डूषं चलुकोदकं दन्तधवन दन्तकाष्ठं दन्तधव- नन्दन्तधावनमितित्रिपाठिनः आचमनं शेषाचमनंद्विराचमनम् आस्यहस्तयोम॒ज्यं मुखहस्तयोः प्रोञ्छनवस्त्रम् अनुलेपश्चन्दनादिः मुखं वास्यते सुरभि क्रियते अनेनेति मुखवासङ्कर्पूरादि माल्यं पुष्पं भूषाऽलङ्करणं ताम्बूलमपि समुच्चये एतानि समर्प्य पुनरेव यथार्पूव पूजा कृता एवं सुवाद्यनृत्यगीतैः सुतृप्तंहारं नत्वा अभिपूजयेत् ॥६७॥ गन्धादिभिः सपरिवारमथा ऽर्घमस्मै । दत्वा विधाय कुसुमाञ्जलिमादरेण स्तुत्वा प्रणम्य शिरसा चुलुकोदकेन स्वात्मानमर्पयतु तच्चरणाजमूले ॥ ६८ ॥ कैर्गन्धादिभिः सपरिवारं पूर्वोक्तावरणसहितम् अथानन्तरम् अस्मै हरये अयं दत्वा आदरेण पुष्पाञ्जलिन्दत्वा स्तुत्वा शिरसा प्रणम्य तश्चरणारविन्दमूले स्वात्मानं चुलुकेन अयशेषजलेन समर्पयतु ॥ ६८ ॥ आत्मनः समर्पणमन्त्रमाह- इत इत्यादिना स्वात्मसमर्पणे इत्यन्तेन ग्रन्थेन । इतः पूर्व प्राणवुद्धिदेहधर्माधिकारतो जागृत्स्वप्नसुषुप्त्यवस्थासु मनसा वाचा कर्मणा ह स्ताभ्यां पद्भ्या मुदरेण शिश्ना यत्स्मृतं यदुक्तं यत्कृतं तत्सर्व ब्रह्मार्पणं भवतु स्वाहा मां मदीयं च सकलं हरये सम्यगर्पये तत्सदिति च प्रोक्तमन्त्रः स्वात्मसमर्पणे॥ अनुस्मरन्कलशगमच्युतं जपेत् । सहस्रकं मनुमथ साष्टकं बुधः ॥ Homen चतुर्थपटलम् । १०५ RAMA वपुष्यथो दितिजजितः समावृती- विलाप्य तास्तदपि नयेत्सुधात्मताम् ।। ६९ ॥ एतच्च मन्त्रत्रयं स्पष्टत्वान्नलिख्यते अनुस्मरन्निति- अथानन्तरं बुधः पण्डितः कलशगङ्कम्भादिनिष्ठं हरिश्चिन्तयन् साष्टकम् अष्टसहितं सहस्त्रं मनुं मन्त्र जपेत् अथानन्तरं दितिज- जितः श्रीकृष्णस्य वपुषि शरीरे ताः पूर्वोक्ताः समावृतीः आवरणदे- वता विलाप्य विलीना इति विचिन्त्य तदपि देववपुः सुधात्मताम् अमृतता नयेत् ॥ ६९॥ ध्वजेति- ध्वजतोरणदिक्कलशादिगता- मपि मण्डपमण्डलकुण्डगताम् ।। अभियोज्य चितिं कलशे कुसुमैः । परिपूज्य जपेत्पुनरष्टशतम् ॥ ७० ॥ कलशे चितिं मन्त्रदेवतां चैतन्यरूपम् आभियोज्य कुसुमैः पुष्पैः सम्पूज्य पुनरष्टसहितं शतं जपेत् किम्भूतां चितिं ध्वजतोरण- दिकलशादिगतां न केवलं ध्वजादिगताम् अपितु मण्डले मण्डपे कुण्डगताम् ॥ ७०॥ अथेति- अथ शिष्य उपोषितः प्रभाते। कृतनत्यः सुसिताम्बरः सुवेशः ।। धरणीधनधान्यगोकुलै- धिनुयाद्विप्रवरान् हरेः प्रसत्त्यै ॥ ७१ ॥ अथानन्तरम् उपोषितः कृतोपवासः शिष्यः प्रभाते प्रातः काले कृतनित्यकृत्यः शुक्लवस्त्रधरः सुवेशः शोभनभूषणः धरणी पृथिवी धनं सुवर्णादि धान्यं ब्रीह्यादि गौर्दोग्ध्री दुकूलं पट्टवस्त्रम् एतैर्यथा १४ सटीकक्रमदीपिकायाः योग्यं विप्रवरान् ब्राह्मणश्रेष्ठान् धिनुयात् प्राणयेत् किमर्थ हरेः श्रीकृष्णस्य प्रसादार्थम् ॥ ७१ ॥ भूय इति- ब्राह्मणान् . Jammam भूयः प्रतर्प्य प्रणिपत्य देशिकं । तस्मै परस्मै पुरुषाय देहिने ॥ तां वित्तशाव्यं परिहृत्य दक्षिणां। दत्वा तनुं स्वांच समर्पयेत्सुधीः ॥७२॥ भूयः पुनरपि प्रतl सन्तोष्य पुनः कथनम् अत्यन्त तर्पणार्थ परीत्यति पाठे प्रदक्षिणी कृत्येत्यर्थः देशिकं' गुरुं प्रणिप- त्य नमस्कृत्य तस्मै गुरवे देहिने देहधारिणे परस्मै पुरुषाय श्रीकृ- ष्णाय धनशाठ्यं परिहृत्य वैभवानुसारेण तां प्रसिद्धां वित्तार्द्ध चतुर्थाशं वा दत्वा न तु दक्षिणामिव मन्त्रादानानन्तरमेव तत्प्रसङ्गा- स्वां स्वीयां तनुं सुबुद्धिः समर्पयेत् ॥ ७२ ॥ अथेति- अथाऽभिषेकमण्डपे सुखोपविष्टमासने । गुरुर्विशोधयेदमुं पुरेव शोषणादिभिः ॥ ७३ ॥ अथानन्तरं गुरुः अमुं शिष्यं पुरेव पूर्ववदेव शोषणादिभिः भू- तशुद्ध्यादिभिर्विशोधयेत् कीदृशम् आभिषेकमण्डपे आसने सुखो- पविष्टम् ॥ ७३॥ पीठेति- पीठन्यासावसानं वपुषि विमलधीय॑स्य तस्यासिकाया- मन्त्रेणाऽभ्यर्च्य दूर्वाक्षतकुसुमयुतारोचनां के निधाय॥ आशीर्वादै बिजानां विशदपटुरवैर्गीतवादित्रघोषै- माङ्गल्यैरानयत्तं कलशमभिवृतस्तत्समीपं प्रतीतः।।७४॥ तस्य शिष्यस्य वपुषि शरीरे पीठन्यासावसानं पीठन्यासपर्यन्तं सकलं न्यासं विनस्य आसिकाया आसनस्य मन्त्रेणासनं पूजयित्वा । . चतुर्थपटलम् । १०७ रोचना मस्तके निधाय तिलकं कारयित्वा कीदृशीं रोचनां दूर्वा- क्षतपुष्पसहिताम् अनन्तरं द्विजानामाशीर्वादैर्गीतिमङ्गलादिशब्दैः कीदृशैरेतै विशदपटुरवैः स्पष्टोत्तमशब्दैः तथा अन्यैरपि माङ्गल्यै मङ्गलस्योपयुक्तैः सहितं तं कलसम् अभिवृतः आचार्यत्वेन वृतः तत्समीपं शिष्यसमीपम् आनयेत् कीदृशः शिध्यात्मीयतया प्रतीतो विश्वासान्वितो यः कश्चिदित्यर्थः इतित्रिपाठिनः ॥ ७४ ॥ तेनेति- तेनाऽभिलीनमाणिमन्त्रमहौषधेन । धान्ना परेण परमामृतरूपभाजा ।। सम्पूरयन्वपुरमुष्य ततो वितन्वन् । तत्सामरस्यमभिषेचयताद्यथावत् ॥ ७५ ।। कुम्भस्य पल्लवान् शिष्यशिरसि निधाय तेनकलसेनेत्यर्थाद्यथा धत् यथायुक्तप्रकारेणाऽभिषेचयेत् अभिषेचनं कुर्यात् । तदुक्तम्। विधिवत् कुम्भमुद्धृत्य तन्मुखस्थान सुरद्रुमान् । शिशोः शिरसि विन्यस्य मातृकां मनसा जपेदिति ॥ किम्भूतेन अभिलीनः संलीनः मणिनव रत्नानि मन्त्रः ऋक् महौ- षधं दिव्यपिप्पलीप्रभृति यत्र तेन कीदृशेन परेण धाम्ना परतेजस्व- रूपेण पुनः कीदृशेन परमामृतरूपभाजा परमामृतरूपमयेन किड्कुर्वन् अमुष्य शिशो र्वपुः शरीरं पूरयन् किङ्कुर्वन् ततस्तदनन्तरं तत्साम- रस्यं तेन तेन तेजोरूपेण कलशैक्यं वितन्वन् ॥ ७५ ॥ अभिषेकमाह- क्षाद्यैरित्यादि। शाचैरान्तैर्वणैरभिपूर्णतनुस्विरुक्तमन्त्रान्तः । परिहितसिततरवसनद्वितीयो वाचंयमः समाचान्तः७६ क्षआदिर्येषां तैः आन्तैः अकार अन्तो येषां तैवणे मातृकाक्षरै १०८ सटीकक्रमदीपिकायाः मूलमन्त्रत्रिजपावसानैरभिषिक्तशरीरः शिष्यः धृतनवीनातिशुक्ल- वसनयुगलः मौनी कृतद्विराचमनः ॥ ७६ ॥ वहुशः प्रणम्य देशिकनामानं हरिमथोपसङ्गम्य । तद्दक्षिणत उपास्तामभिमुखमेकाग्रमानसः शिष्यः॥७७॥ वहुवारं देशिकनामानं गुरुरूपं हरिं नत्वा अथानन्तरम् उपसंगृह्य गुरुचरणौ व्यत्त्यस्तहस्तद्वयं कृत्वा तद्दक्षिणतो गुरुदक्षिणे अभिमुखं गुरुसन्मुखम् एकाग्रमानसः एकचित्तस्तिष्ठेत् उपविशेत् ॥ ७७॥ न्यासैरिति । न्यासैर्यथाविधि तमच्युतसाद्विधाय । गन्धाक्षतादिभिरलङ्कतवर्मणो ऽस्य ॥ ऋष्यादियुक्तमथ मन्त्रवरं यथावद् । ब्रूयात्रिशो गुरुरनय॑मवामकर्णे ॥ ७८ ॥ अथानन्तरं यथाविधि यथोक्तप्रकारेण न्यासैः पञ्चाङ्गन्यादिभिः ते शिष्यम् अच्युतसाद्विधाय श्रीकृष्णरूपं कृत्वा गन्धाक्षत भूषितशरीरस्याऽस्य अवामकणे दक्षिणकणे ऋषिच्छन्दोदे तम् अनय॑ममूल्यं मन्त्रवरं मन्त्रश्रेष्ठं त्रिशः त्रिवारं ब्रूयात् यथावत् यथोक्तप्रकारेण स च प्रकारः प्रथमं दक्षिणहस्ते गुरुजलं ददाति अमुकमन्त्रं ददामीति अनेन शिष्योऽपि ददस्व इति ब्रूयात् ततो मन्त्रं दद्यादिति अत्राऽवश्यं वारत्रयं गुरुणा मन्त्रः पठनीयः दत्ते याव- च्छिष्यस्य मन्त्रः स्वायत्तो भवति तावत्पठनीय इति ॥ ७८ ॥ मन्त्रग्रहणानन्तरं शिष्यकृत्यं दर्शयति- गुरुणेति । गुरुणा विधिवत्प्रसादितं,। मनुमष्टोवंशतं प्रजप्य भूयः ।। अभिवाद्य ततः शृणोतु सम्यक् - समयान्भक्तिभरण नम्रमूर्तिः ॥ ७९ ॥ पैः वि- चतुर्थपटलम् । १०९ यथाविधि गुरुणा हेतुना प्राप्तं मन्त्रं प्रसाधितम् अनुग्रहेण दत्तमि- तत्रिपाठिनः अष्टौ ऊर्द्ध यस्य तस्य तदष्टाधिक शतं प्रजप्य भूयः पुनरपि गुरुमभिवाद्य नमस्कृत्य दण्डवत्प्रणम्य ततो गुरुतः समयान् आचारान् सम्यक्त्वा शृणोतु यत्तु विद्यामष्टकृत्वो जपेदिति तत्त- न्यूनसङ्ख्याकजपनिषेधपरं कीदृशा भक्त्यतिशयेन नम्रशरीरः ॥७९॥ मन्त्रदानानन्तरं गुरुकृत्यमाह- दत्वेति । दत्त्वाशिष्याय मनुं न्यस्याऽथ गुरुः कृतात्मयजनविधिः॥ अष्टोत्तरं सहस्रं स्वशक्तिहान्यनवाप्तये जप्यात् ॥८०॥ अथानन्तरं गुरुः शिष्याय मन्त्रं दत्वा न्यस्य न्यासादिकं कृत्वा कृतात्मयजनविधिः कृताभ्यन्तरयागः अष्टाधिकं सहस्रं स्वसा. मर्थ्यहान्यनवाप्तये स्वसामर्थ्यरक्षार्थ दत्तमन्त्रं जपेत् ॥ ८० ॥ शिष्यकृत्यमाह- कुम्भादिकमिति। कुम्भादिकं च सकलं गुरवे समर्य सम्भोजयेद् द्विजवरानपि भोज्यजातैः ॥ कुर्वन्त्यनेन विधिना य इहाऽभिषेकं । ते सम्पदा निलयनं हि त एव धन्याः ॥ ८१ ॥ कुम्भादिकं सकलं मण्डलसहितं मण्डपावस्थितद्रव्यं गुरवे समय॑ दत्वा भोज्यसमूहै ईिजश्रेष्ठान्सन्तोषयेत् एतत्करणस्य फलमाह इह जगति अनेन विधिना अनया परिपाट्या ये अभि- षेकं कुर्वन्ति ते सम्पदा सर्वसमृद्धीनां निलयनं स्थानं त एव धन्याः पुरुषार्थभागिनः ॥ ८१ ।। उक्तमर्थमुपसंहरति- सतिप्यति । संक्षिप्य किञ्चिदुदितादीचासंस्मरणाय हि विशदधियाम् NOR ११० सटीकक्रमदीपिकायाः एतां प्रविश्य मन्त्री सर्वान् जपेज्जुहोतु यजेच्च मनून्॥८२॥ इति श्रीकेशवाचार्य विरचितायां क्रमदीपिकायां दीक्षापूजानामचतुर्थपटलः ॥४॥ किञ्चित् सङ्क्षिप्य दीक्षा उक्ता कथिता विशदधियां निर्मलबुद्धी- नां संस्मरणाय एतां दीक्षां प्रविश्य प्राप्य मन्त्री साधकः सर्वान् मन्त्रान् जपेत् यजेज्जुहोतु ॥ ८२ ॥ इति श्रीक्रमदीपिकायां चतुर्थपटलः ॥ ४॥ 44100mm अधुना दीक्षितस्य मन्त्रविधि दर्शयति- चैत्रे कृत्वैतन्मासि कर्माऽच्छपक्षे । पुण्यः भूयो देशिकात्प्राप्य दीक्षाम् ॥ तेनाऽनुज्ञातः पूर्व सेवां द्वितीये। मासि द्वादश्यामारभेताऽमलायाम् ॥ १ ॥ चैत्रे मासि पुण्यः शुभनक्षत्रे अच्छपक्षे शुक्लपक्षे एतत्कर्म म- त्रदीक्षात्मकं कर्म कृत्वा भूयः पुनरपि देशिकात् गुरोर्दीक्षां म- न्त्रोपदेशं प्राप्याऽनन्तरं तेन गुरुणा ऽनुज्ञातः द्वितीये मासि वैशाखे अमलायां द्वादश्यां तिथौ पूर्वसेवां पुरश्चरणमारभेत् । चैत्रे दुःखाय दीक्षा स्यात्- इति वचनं गोपालमन्त्रभिन्नदीक्षाविषयम् ॥१॥ कृत्वेति- कृत्वा मानाचं कर्म देहाचनान्तं । वाऽश्रित्य प्रागीरितं मन्त्रिमुख्यः ।। SeaSUP पञ्चमटलम् । शुद्धो मौनी सन् ब्रह्मचारी निशाशी। जप्याच्छान्तात्मा शुद्धपद्मावदाम्ना ॥२॥ मन्त्रिमुख्यः साधकः स्नानमारभ्यात्मयागान्तं कर्म कृत्वा प्रा- गीरितं वाऽऽश्रित्य पूर्वोक्तपूजाप्रकारमाश्रित्य शुद्धो गायत्रीजपेन निष्पापः ब्राह्मणाद्युक्तवाह्यान्तरशौचयुक्तो मौनी वाग्यतः ब्रह्मचारी अष्टविधमैथुनत्यागी निशाशी रात्रिभोजी शान्तात्मा अनुद्धतचित्तः शुक्लपद्मवीजमालया जप्यात् । अत्रैवमागमान्तरोक्तं वोद्धव्यम् । शुभे दिने क्रोशं क्रोशद्वयं वा क्षेत्रं विहारार्थ परिकल्प्य क्षीर- द्रुमभववितस्तिपरिमिताऽष्टकीलकाः प्रत्येकमेकदैव वा दशकृत्वः शतकृत्वो वा जपित्वा अष्ट दिग्देवताः संपूज्य मध्ये क्षेत्रे क्षेत्र पालवलिं दत्वा पूजां कृत्वा पूर्वाद्यष्टदिक्षु तानिखन्यात् तत्र त. त्र तत्तन्नाम्ना दिक्पतिवलिं च दत्वा दीपकं च दत्वा जपपूर्वदि- वसे एकभोजनमुपवासो वा गुरुं ब्राह्मणांश्च तर्पयेत् । तथाच सनत्कुमारकल्पे । विप्रांश्च भोजयेदन्नभोजनाच्छादनादिभिः। बहुभिर्वस्त्रभूषाभिः सम्पूज्य गुरुमात्मनः ॥ आरभेत जपं पश्चात् तदनुज्ञापुरस्सरमिति । ततो निमदिने स्नानादिकं कृत्वा सङ्कल्पं कुर्यात् ॐअद्यो- नम इत्याधुश्चार्याऽमुकमन्त्रस्य सिद्धिकाम इयत्संख्याकजपतद्द- शांशामुकद्रव्यहोमतदशांशामुकद्रव्यतर्पणतदशांशामुकाभिषेकतद्द- शांशब्राह्मणसंप्रदानकभाज्यदानात्मकपुरश्चरणकर्म करिष्ये इति सङ्कल्पं कुर्यात् ततो मन्त्रर्षिच्छन्दोदेवतानां कामस्थाने पुरश्च- रणजपे विनियोग इति । जपे चायं नियमः। नैरन्तर्यविधिः प्रोक्तो न दिनं व्यतिलवयेन् । शयन दर्भशायां श्रुचिः प्रयतमानसः। दिवसातिकमे दोषः सिद्धिवाधः प्रजायते । नारदीये ।

११२
सटीकक्रमदीपिकायाः
शनैः शनैरविस्पष्टं न द्रुतं न विलंवितम् ।
न न्यूनं नाधिकं वाऽपि जपं कुर्याद दिने दिने।
तथान्यत्र।
अनन्यमानसः प्रातः कालान् मध्यंदिनावधि ।
नारदीये तथैव च।
नवदन्नस्वपन् गच्छन्नान्यत्किमपि संस्मरन् ।
न क्षुज्जृम्भणहिकादिविकलीकृतमानसः।
मन्त्रासद्धिमवाप्नोति तस्माद्यनपरो भवेत् ।
उष्णीषी कञ्चुकी नग्नो मुक्तकेशः तथैव च ।
प्रसारितपाणिपाद नोच्चपादासनो भवेत् ।
तथा वैशम्पायनसंहितायाम् ।
स्नानं त्रिसवनं प्रोक्तमशक्तौ द्विः सकृ त्तथा ।
अस्नातस्य फलं नाऽस्ति न चाऽतर्पयतः पितॄन् ।
नाऽसत्यमभिभाषेत नेन्द्रियाणि प्रलोभयेत् ।
शयनं दर्भशय्यायां शुचिः प्रयतमानसः।
तद्वासः क्षालयेन्नित्यमन्यथा विघ्नमावहेत् ।
नैकवासा जपेन्मन्त्रं बहुवस्त्री कदाचन ॥
उपर्यधो वहिर्वस्त्रे पुरश्चरणकृद्भजेत् ।
तथा नारदीये।
स्त्रीशूद्राभ्यां न सम्भाषे द्रात्रौ जपपरो न च ।
जपेन सन्ध्याकालेषु प्रदोषे नो भयेषु च ।
ब्राह्मणानीतवस्त्रशुद्धजलेनकर्मकृद्भभवेदिति ॥२॥
जपितुः कृत्यमाह-
तन्वन्निति।
तन्वन् शुश्रूषां गोषु ताभ्यः प्रयच्छन् ।
ग्रासं भूतेषु प्रोद्वहँश्चानुकम्पाम् ॥
मन्त्राधिष्ठात्री देवतां वन्दमानो।
दुर्गा दुर्वोषध्वान्तभानुं गुरुं च ॥ ३ ॥

पञ्चमपटलम्। tandane गोषु शुश्रूषां गोपरिचर्या धूमकण्डूयनादिरूपां सेवा विस्तार- यन् किंकुर्वन् ताभ्यो गोभ्यो ग्रासं प्रयच्छन् गोपालमन्त्र एव प्रासादिकम् अत्रोपादानादन्यत्रानुक्तेश्च भूतेषु प्राणिषु करुणां धा- रयन् मन्त्राधिष्ठातृदेवतां दुर्गाम् अज्ञानान्धकारसूर्य गुरुं च वन्दमानः॥३॥ कुर्वनिति- कुर्वन्नात्मीयं कर्म वर्णाश्रमस्थं । मन्त्रं जप्त्वा त्रिः मानकाले ऽभिषिञ्चत् ।। आचामन पाथस्तत्वसङ्ख्याप्रजप्तं । भुञानश्चाऽन्नं सप्तजप्ताञ्जनादि ॥४॥ स्वीयं वर्णाश्रमोतं कर्म कुर्वन् आत्मीयं आत्मनो यो वर्णो ब्राह्म- णादि यो वाऽऽ श्रमो ब्रह्मचर्यादिस्तत्र तत्रस्थं कर्म विहितं त. तत्कुर्वन्नित्यर्थः मन्त्रजप्तजलेन काले वारत्रयं स्वात्मानमभिषिञ्चे- त् तत्वसंख्याप्रजप्तं द्वात्रिंशत्संख्याप्रजप्तं पञ्चविंशतिप्रजप्तं वा त था जलम् आचमन् इत्थमेवाऽन्नं भुञ्जानः पुनः कीदृशः सप्तजप्त अञ्जनादि कजलादि यस्य स तथा आदिशब्देन गन्धमाल्यादीनां परिग्रहः अञ्जनाद्य इति क्वचित्पाठः॥४॥ जपस्थानमाह- अद्वेरिति । अद्रेः शृङ्गे नद्यास्तटे विल्वमूले। तोये हृद्दन्ने गोकुले विष्णुगेहे ॥ अश्वत्थाधस्तादम्बुधेश्चाऽपि तीरे । स्थानेष्वेतेष्वासीन एकैकशस्तु ॥५॥ प्रजपेदयुतचतुष्कं दशाक्षरं मनुचरं पृथक् क्रमशः ।। अष्टादशाक्षरं चेयुतद्यमित्युदीरिता सङ्ख्या ॥६॥ पर्वतशृङ्गे नदीतीरे विल्ववृक्षसमीपदेशे हृदयप्रमाणजले गो- -- सटीकक्रमदीपिकायाः ठे विष्णुप्रतिमाधिष्ठितगेहे पिप्पल वृक्षसमीपदेशे. समुद्रस्य तीरे अष्टसु स्थानेषु आसीन उपविष्टः एकैकश एकैकस्मिन् स्था- ने स्थानेषु क्रमशः क्रमेण पृथक् अयुतचतुष्कं कृत्वा दशाक्षरमन्त्रं जपेत् यदाऽष्टादशाक्षरमन्त्रः तदा ऽयुतद्वयं कृत्वा इति जपसंख्यो- दीरिता अत्र न प्रतिस्थानम् अयुतचतुष्कायुतद्वयजपः किन्तु तथा जप्तव्यं येन सर्वत्र जपेन तावत्येव संख्या भवति अन्यथा ऽष्टसु स्थानेषु जपेना ऽष्टादशाक्षरे षोडशायुतजपः स्यात् । प्रपञ्चसारेऽपि । अयुतद्वितयावधिजपः स्यादिति । यद्यप्यष्टादशाक्षरे इयं संख्या तथा ऽपि तुल्यन्यायादशाक्षरे ऽपि इयमेव व्यवस्थेति रुद्रधरः ॥ ५॥६॥ उक्तेषु स्थानेषु क्रमेणाऽऽहारनियममाह । शाकमिति। शाकं मूलं फलं गोस्तनन्नवदधिनी भैक्षमन्नं च सक्तुं दुग्धान्नं चेत्यदान क्षितिधरशिखरादौ क्रमात्स्थानभेदे। एक चैषामशक्तौ गदितमिह मया पूर्वासेवाविधानं- नित्तेऽस्मिन्पुनश्च प्रजपतु विधिवत्सिद्धये साधकेशः।।७॥ क्षितिधरशिखरादौ पूर्वोक्तपर्वतशृङ्गादौ स्थानविशेषे क्रमादे. कै क्रमेण विहितं शाकं वास्तुकादि मूलं शूरणादि फलम् आ- ब्रादि गोस्तनभवं दुग्धं दधि च द्वन्द्वःभैक्षं भिक्षात उपलब्धमन्नं च प्रशस्त हैमतिक सितास्विन्नं सक्तुं भृष्टयवचूर्ण दुग्धान्नं पायसम् अदानो भक्षमाणः जपं कुर्यात् मितोदनम् । शस्तानं च समश्नीयान् मन्त्रसिद्धिसमीया । तस्मान्नित्यं प्रयत्नेन शस्तानाशी भवेन्नर इति ॥ अशक्तं प्रत्याह एकमिति अशक्तो चैषामद्रिशृङ्गाद्यष्टस्थानानां पञ्चमपटलम् । १२५ मध्ये एक स्थानं समाश्रित्य शाकाद्यष्टविधेवेक भोजनमाश्रित्य जपं कुर्यात् । तदुक्तं नारदीये । मृदु सोष्णं सुपक्कं च कुर्याद्वै लघु भोजनम् । नेन्द्रियाणां यथा वृद्धि स्तथा भुञ्जीत साधकः ॥ यद्वा तद्वा परित्याज्यं दुष्टानां सङ्गमं तथा । इह ग्रन्थे पूर्वसेवाविधानं मया गदितम् कथितम् अस्मिन्निवृत्ते सम्पूर्णे पुरश्चरणजपे पुनश्च प्रजपतु सिद्धये विशिष्टफलसिद्धये विधिवत् यथोक्तप्रकारेण अत्र केचिदस्मिन्पूर्वसेवारम्भे कर्मणि निर्वृत्ते समाप्ते पुनःपुरश्चरणजपं करोत्वित्याहुः ॥ ७ ॥ देहार्चनान्ते दिनशो दिनादौ- दीक्षोक्तमार्गान्यतरं विधानम् । आश्रित्य कृष्णं प्रयजेद्विविक्ते- गेहे निषण्णो हुतशिष्टभोजी ॥ ८॥ देहार्चनान्तदेहपूजावसाने दिनशः प्रतिदिनं दिनादौ प्रातर्दीक्षो. कमार्गेषु षोडशपञ्चोपचारादिषु अन्यतरमेकं वर्माश्रित्य कृष्णं प्रयजेत् पूजयतु आवरणभेदाद्धर्मभेदः कीदृशः विविक्त एकान्ते गृहे निषण्ण उपविष्टः पुनःकीदृशः हुतशिष्ट भोजी प्रात्यहिकजप- दशांशहोमावशिष्टभोजी ॥ ८ ॥ प्रकारान्तरमपि महते फलाय पुरश्चरणमाह- दशलक्षमिति रुद्रधरः। वयं तु पश्यामः। प्रकृतयथोक्तपुरश्चरणमाह ॥ दशलक्षमिति । दशलक्षमक्षयफलप्रदं मनुं प्रतिजप्य शिक्षितमतिर्दशाक्षरम् जुहुयाद् गुडाज्यमधुसंप्लुतैर्नवै । ररुणाम्बुजैर्तुतवहे दशायुतम् ॥९॥ MER सटीकक्रमदीपिकायाः शुद्धमतिः साधकः अक्षयफलदं मोक्षफलं दशाक्षरं मनुं दशल- क्षं प्रतिजप्य हुतवहे संस्कृताग्नौ अरुणाम्बुजैररुणकमलै र्दशायुतं लक्षमेकं जुहुयात् कीदृशैः गुडाज्यमधुसंप्लुतैः गुणघृतमधुस- युक्तः ॥ ९ ॥ शुधिरोति- शुषिरयुगलवर्ण चेन्मनु पञ्चलक्ष. प्रजपतु जुहुयाच प्रोक्तक्लप्त्याऽर्द्धलक्षम् । अमलमतिरलाभे पायसैरम्धुजानां. सहितघृतसितरेवाऽऽरभेहोमकर्म ॥१०॥ शुषिरयुगलवर्ण शुषिरं छिद्रं नवसंख्यात्मकं तस्य युगलं द्वन्द्वम् अष्टादशाक्षरं जपेत् तदा पञ्चलक्ष प्रजपतु प्रोक्तक्लुप्त्या पूर्वोक्तप- रिपाट्या चाऽर्द्धलक्षं जुहुयात् यथोक्तहोमद्रव्यालाभे द्रव्यान्तरमाह अमलमतिरिति शुद्धमतिः अम्बुजानां पद्मानामलाभे ऽप्राप्तौ पा- यसैः परमान्नै होममारभेत कीदृशैः सहिते घृतसिते येषु तैः घृ- तशर्करासहितैरित्यर्थः स्वाहान्तेन होमपूजेति सर्वत्र बोद्धव्यं हो. मादेश्चानुष्ठानप्रकारो मत्कृतहोमानुष्ठानपद्धतेरवगन्तव्यः । नारदीयेयथा ॥ जपस्य तु दशांशेन होमः कार्यो दिने दिने । अथवा लक्षपर्यन्तं होमः कार्यों विपश्चितेति ॥१०॥ होमाशक्तं प्रत्याह- अशक्तानामिति। असक्तानां होमे निगमरसनागेन्द्रगुणितो- जपाकार्यश्चेति द्विजनृपविशामाहुरपरे ॥ सहोमश्चेदेषां सम इह जपोहोमरहितो- य उक्तो वर्णानां स खलुविहितस्तच्चलदृशाम् ॥११॥ तावद्व्याद्यसम्पत्त्या होमकमणि असमर्थानां ब्राह्मणक्षत्रिय- पञ्चमपटलम् । वैश्यानां यथासंख्यं निगमा वेदाश्चत्वारः रसाः षट् नागेन्द्राः अष्टौ एतैर्गुणिते जपो ऽनुष्ठेय इत्यपरे आचार्या आहुः तत्रकृत एव जपः एतै गुणित इति रुद्रधरः । वस्तुतस्तु। होमाशक्ती जपं कुर्याद्धोमसंख्याचतुर्गुणम् । षड्गुणं चाष्टगुणितं यथासंख्यं द्विजातयः। इति पुरश्चरणचन्द्रिकोक्तमेव युक्तं पश्यामः । होमकर्मण्यशक्तानां विप्राणां द्विगुणो जपः ॥ इतरेषां तु वर्णानां त्रिगुणो हि विधीयते। इति एतेषां मतापेक्षया अपर इत्युक्तम् एतेषां च मते तर्पणादि. व्यतिरेकेण मूलभूतजपद्विगुणजपेनैव पुरश्चरणसिद्धि भवति तथैव ग्रन्थान्तरे ऽभिधानात् एषां ब्राह्मणादीनां होमसहितश्चेजपः त- दा त्रयाणामपि अयुतचतुष्टयादिसमानमेव वर्णानां ब्राह्मणादीनां होमरहितो य उक्तो जपः अत्र होमरहितो य श्चतुर्गुणो जप इति भैरवत्रिपाठिनः स एव तञ्चलदृशां तत्पत्नीनां विहितः ॥ ११ ॥ शूद्रप्रत्याह- यं वर्णमाश्रितो यः शूद्रः स च तन्नतभ्रुवाम् । विदधीतजपंविधिवच्छद्धावान् भक्तिभरावनम्रतनुः१२॥ ब्राह्मणादीनां मध्ये यं वर्ण शूद्रः समाश्रितः स तन्नतभवां तेषा मेव द्विजात्यादीनां स्त्रीणां विहितं जपं विधिवत् कथितप्रका- रेणविहितं कुर्यात् कीदृशः श्रद्धायुतः पुनः कीदृशः भक्तिभरेण भ- क्तयतिशयेन नम्रा तनुः शरीरं यस्य स तथा जपश्चायं होमरहित इति रुद्रधरः ॥१२॥ पुरश्चरणोत्तरकृत्यमाह- पुनरिति । पुनरभिषिक्तो गुरुणा विधिवद्विश्राण्य दक्षिणां तस्मै अभ्यवहार्य च विप्रान्विभवःसम्प्रीणयेच भक्तियुतः १३॥ गुरुणा पुनरपि विधिवत् यथोक्तविधिना अभिषिक्तः कृताभिषे. me MAHAS सटीकक्रमदीपिकायाः कः तस्मै गुरवे दक्षिणां विश्राण्य दत्वा विप्रानभ्यवहार्य भोजयित्वा भक्तियुतः सन् संप्रीणयेत् धनधान्यादिभिःप्रीतिं कुर्यात् ॥ १३ ॥ सिद्धमन्त्रस्य कृत्यमाह- इतीति। इति मन्त्रवरद्वितयान्यतरं- परिसाध्य जपादिभिरच्युतधीः । प्रयजेत्सवनत्रितये दिनशो- विधिनाऽथ मुकुन्दममन्दमतिः ॥ १४ ॥ इत्यनेन प्रकारेण मन्त्रद्वितयान्यतरं मन्त्रद्वितययोर्मध्ये एकं जपा- दिभि जपपूजाहोमतर्पर्णादिभिः परिसाध्य साधयित्वा अच्युतधीः अच्युते श्रीकृष्णे धीर्बुद्धिर्यस्य स तथा यद्वा अच्युता न क्षरिता विष्णौ बुद्धिर्यस्य स तथा सवनत्रितये सन्ध्यादित्रये दिनशः प्रति- दिनं विधिना उक्तप्रकारेण मुकुन्दं कृष्णं प्रयजेत् पूजयतु अमन्दम- तिः शुद्धमतिः ॥ १४ ॥ पूजायां प्रातःकालिकध्यानमाह- अथेति । अथ श्रीमदुद्यानसंवीतहैम- स्थलोद्भासिरत्नस्फुरन्मण्डपान्तः। लसत्कल्पवृक्षाध उद्दीप्तरत्न- स्थलीधिष्ठिताम्भोजपीठाधिरुढम् ॥ १५ ॥ सप्तश्लोकान्तं कुलकम् । अथानन्तरं भक्तिनम्रः भक्त्यतिशयेन नम्रदेहः प्रगे प्रातःकाले कथितरूपं कृष्णमनुस्मृत्य ध्यात्वा तदङ्गेन्द्रवज्रादिभिः तस्य कृ- ष्णस्याङ्गानि पूर्वोक्तानि हृदयादीनि इन्द्रादयो दश दिक्पालाः वज्रा. दयस्तदायुधानि च तैः सह पूजयित्वा तं कृष्णं सिता शर्करा मो. चा कदली विशेषः हैयङ्गवीनं सद्योजातघृतम् एभिस्तथा दना वि- DeetSm पञ्चमटलम् । मिश्रेण दधिसंयुक्तेन दौग्धेन पायसेन च मन्त्री सम्प्रीणयेत् कीद- शं श्रीमत् शोभायुक्तं यदुद्यानं क्रीडावनं तेन संवीतं वेष्टितं यद्धै- मस्थलं लसत्काञ्चनभूमि स्तत्रोद्भासीनि उद्गतकिरणानि यानि या- नि रत्नानि तैः स्फुरन् देदीप्यमानो यो मण्डप स्तस्या ऽन्तर्मध्ये दे. दीप्यमानो यः कल्पवृक्ष स्तस्याध श्छायावाम् उद्गता दीप्ति र्यस्य तादृशं रत्नमयं यत्स्थानं तदधिष्ठितं तत्रावस्थितं यदम्भोज पनं तदेव पीठं तत्राधिरूढ मुपविष्टम् ॥ १५ ॥ महानीलेति। महानीलनीलाभमत्यन्तवालं. गुडस्निग्धवक्रान्तविसस्तकेशम् । अलिब्रातपर्याकुलोत्फुल्लपद्म- प्रमुग्धाननं श्रीमदिन्दीवराक्षम् ॥ १६ ॥ पुनः कीदृशं महानील इन्द्रनीलः तद्वन्नीलाभं श्यामं पुनः अत्य- न्तवालं पञ्चवार्षिकं पुनः गुडाः कुटिलाः स्निग्धाः चिकणाः क- र्णान्ते कपोले विस्त्रस्ताः पर्याकुलाः वक्रान्तेतिपाठे विश्रस्ता मुखा- वलम्विताः केशा यस्य तम् अलिवातेन भ्रमरसमूहेन पर्याकुलं च- चलं व्याप्तं वा यत्फुल्लं विकसितं पद्मं तद्वत्प्रमुग्धं मनोहरम् आन. नं मुखं यस्य तं पुनः श्रीमत् दोषरहितं यदिन्दीवर नीलपमं त त्सदृशे अक्षिणी यस्य तम् ॥ १६ ॥ चलदिति- चलत्कुण्डलोल्लासिसंफुल्लगण्डे- सुघोणं सुशोणाधरं सुस्मितास्यम् । अनेकाइमरश्म्युल्लसत्कण्ठभूषा- लसन्तं बहन्तं नखं पौण्डरीकम् ॥ १७ ॥ पुनः कीदृशं चञ्चले ये कुण्डले ताभ्यामुन्नतो उल्लसितौ शो- भमानी संफुल्लौ विकाशितौ गण्डौ यस्य तं पुनः शोभमाना घो- -

१२०
सटीकक्रमदीपिकायाः
णा नासा यस्य तं पुनः सुशोणो लोहितो ऽधरो यस्य तं पुनः
शोभनं यत् स्मितमीषद्धास स्तद्युक्तमास्यं यस्य तं पुनः अनेका.
नि यान्यश्मानि इन्द्रनीलप्रभृतीनि रत्नानि तेषां ये रश्मयः किर-
णाः तैरुल्लसन्ती या कण्ठभूषा तया लसन्तं शोभमानं पुनः पौ-
ण्डरीकं व्याघ्रसम्बन्धिनखं वहन्तं धारयन्तम् ॥ १७ ॥
समुद्धूसर इति-
समुद्धृसरोरःस्थलं धेनुधूल्या
सुपुष्टाङ्गमष्टापदाकल्पदीप्तम् ।
कटीरस्थले चारुजङ्घान्तयुग्मे-
पिनद्धं कणत्किङ्किणीजालदाम्ना ॥ १८ ॥
पुनः कीदृशं धेनुधूल्यागोरजसा समुद्धूसरं धूसरितम् उरः
स्थलं यस्य तं गवामनुगमनात् सुष्टु पुष्ट मङ्गं यस्य तं कीदृशं अ-
ष्टापदाकल्पदीप्तं सुवर्णघटितालङ्कारेण शोभमानं पुनः कीदृशं
क्वणत्किङ्किणीजालदाम्ना शब्दायमानक्षुद्रघण्टिकासमूहमालया
कटिस्थले श्रोणितटे चारुजङ्घान्तयुग्मे मनोहरगुल्फद्वयोर्द्धप्रदे
शे पिनद्धं वद्धम् ॥ १८ ॥
हसन्तमिति-
हसन्तं हसबन्धुजीवप्रखून-
प्रभां पाणिपादाम्बुजोदारकान्त्या।
करे दक्षिणे पायसं वामहस्ते ।
दधानं नवं शुद्धहैयङ्गवीनम् ॥ १९ ॥
MARRIA
पुनः कीदृशं।
पाणिपादाम्बुजोदारकान्त्या हस्तचरणपद्मविपुलशोभया हस-
द्वन्धुजीवपुष्पकान्ति हसन्तं उपहसन्तम् पुनः कीदृशं दक्षिणे
करे हस्ते पायसं सव्यहस्ते वामकरे नवं नूतनं शुद्धं निकलुषं
हैयङ्गवीनं नवनीतं ह्योगोदोहोद्भवं घृतं दधानं धारयन्तम् ॥ १९ ॥

पञ्चमपटलम् । १२१ Cass महीति- महीभारभूतामरारातियूषा- मनःपूतनादीनिहन्तुं प्रवृत्तम् ॥ प्रभुं गोपिकागोपगोवृन्दवीतं- सुरेन्द्रादिभिर्वन्दितं देववृन्दैः ॥ २० ॥ पुवः कीदृशं महीभारभूतामरारातियूथान् पृथिवीमाररूपदै- त्यसमूहान् अनःपूतनादीन् शकटासुरप्रभृतीन् निहन्तुं प्रवृत्तं पुनः कीदृशं प्रभुं समर्थम् ईश्वरं पुनः कीदृशं गोपिका गोपस्त्री गोपः गौः एतेषां समूहेन वीतं वेष्टितं पुनः कीदृशम् इन्द्रादिभिर्देवस- मूहैनमस्कृतम् ॥ २०॥ प्रगे पूजयित्वत्यनुस्मृत्य कृष्पां- तदनेन्द्रवज्रादिकैर्भक्तिननः ॥ सितामोचहैयङ्गवीनैश्च दना । विमिश्रेण दोग्धेन सम्प्रीणयेत्तम् ॥२१॥ पूर्वश्लोकेव्याख्यातमपि क्रमानुरोधेन व्याख्याते प्रगे प्रातःका ले उक्तप्रकारेण कृष्णमनुस्मृत्य ध्यात्वा उपचारैः सम्पूज्य अङ्गा- द्यावरणैः सह सम्पूज्य नैवेद्यं दद्यात् नैवेद्यद्रव्यमाह सितेति सिता शर्करा मोचा कदली हैयनवीनं दोग्धेन पायसेन ॥२१॥ प्रातःसवनपूजाफलमाह- इतीति इति प्रातरेवार्चयेदच्युतं थो- नरः प्रसहं शश्वदास्तिक्ययुक्तः ॥ लभेताचिरेणैव लक्ष्मी समग्रा. मिहत्य शुद्धं परं धाम भूयात् ॥ २२॥ इत्यनेन प्रकारेण प्रत्यहं शश्वत्सर्वदा आस्तिक्ययुक्तः सन् यो- नरः प्रातःकाले अच्युतमर्चयेत् तमेवावश्यं पूजयति स इह १२२ सटीकक्रमदीपिकायाः लोके अचिरेणैवाल्पकालेनैव समयां सम्पूर्णी लक्ष्मी सम्पदं ल- भते प्राप्नोति प्रेत्य देहं परित्यज्य परं शुद्धं ब्रह्माख्यं महः भूयात् प्राप्नोति तत्सरूपो भवतीत्यर्थः ॥ २२ ॥ प्रातः पूजायामेव नैवेद्यं तर्पणं च दर्शयति- अन्होमुखइति । अन्होमुखेऽ नुदिनमित्यभिपूज्य शौरिं- दना थ वा गुडयुतेन निवेद्य तोयैः ॥ श्रीमन्मुखे समनुतप्यं च तद्धिया तं- जप्यात्सहस्रमथ साष्टकमादरेण ॥ २३ ॥ अथवा शब्दः पादपूरणे इति पूर्वोक्तप्रकारेण अन्होमुखे प्रातः- काले अनुदिनं प्रत्यहं शौरि कृष्णम् अभिपूज्य गुडसहितेन दध्ना नैवेद्यं दत्वा जलैस्तद्धिया गुडसहितबुद्ध्या श्रीमतः कृष्णस्य मुखे समनुतl अथानन्तरं तं मन्त्रमादरेण साष्टकं सहस्रम् अष्टोत्तर- सहस्त्रं जपेत् ॥ २३ ॥ मध्यदिनसवनध्यानमाह- मध्यंदिन इति मध्यंदिने जपविधानविशिष्टरूपं. वन्धं सुरर्षियतिखेचरमुख्यवृन्दैः ।। गोगोपगोपवनितानिकरैः परीतं. सान्द्राम्वुदच्छविसुजातमनोहराङ्गम् ॥ २४ ॥ चतुर्थश्लोकस्थक्रियया योजना एवमनेन प्रकारेण मध्यन्दिने मध्यान्हे नन्दजं कृष्णं ध्यात्वा इन्दिरा श्रीस्तस्या आप्त्यर्थम् अर्च- यतु कीदृशं जपविधानेन विशिष्टं रूपं यस्य तं जपार्थ यत् ध्यानम् अथ प्रकटसौरभेत्यादि तृतीयपटलोक्तध्यानं तदेवात्रापीति त्रिपा. ठिनः पुनः कीदृशं वन्यं श्रेष्ठं पुनः कीदृशं सुरा इन्द्रादय ऋषय नारदादयः यतयः सनकादयः खेचरा स्वर्गवासिनः एतेषां मुख्या श्रेष्ठाः तेषां वृन्दैः समूहै। तथा गौः गोपः गोपस्त्री च एतेषां निकरैः and- पञ्चमटलम् । १२३ समूहैः परीतं वेष्टितं सान्द्रो निविडो यो अम्बुदो मेघस्तद्वच्छवि. यस्य तत् अथ च सुजातं दोषरहितम् अथ च मनोहरं नेत्रोत्सव- कारकमङ्गं यस्य २४॥ मायूरपत्रपरिक्लप्तवतंसरम्य- धम्मिलमुल्लसितचिल्लिकमम्वुजाचम् ।। पूर्णेन्दुविम्बवदनं मणिकुण्डलश्री. गण्डं सुनासमतिसुन्दरमन्दहासम् ॥ २५ ॥ पुनः कीदृशं- मयूरस्येदं मायूरं पत्रं पक्षः मायूरं च तत्पत्रं चेति मायूरपत्रं तेन परिक्लप्तो यो वतंसः शिरोभूषणम् । वष्टिभागुरिरल्लोपमवाप्योरुपसर्गयोः इत्यकारलोपः। तेन रम्यो मनोहरो धम्मिल्लः केशपाशो यस्य ते. पुनः कीह- शम् अम्बुजवत् पद्मवत् अक्षिणी यस्य स तथा तं पुनः कीदृशं सं- पूर्णो य इन्दुविम्वश्चन्द्रमण्डलं तद्वद्वदनं मुखं यस्य स तथा तं पु नाकीदृशं मणिमयं यत् कुण्डलं तेन श्रीयुक्तौ शोभासहितौ ग- ण्डो यस्य तं पुनः कीदृशं शोभना नासा यस्य तं पुनः कीदृशं म- नोहरेषद्धास्ययुक्तम् ॥ २५ ॥ पीताम्बरं रुचिरनूपुरहारकाञ्ची- केयूरकोर्मिकटकादिभिरुज्ज्वलाङ्गम् ।। देव्यानुलेपनपिशङ्गितमंसराज- दम्लानचित्रवनमालमनदीप्तम् ॥ २६ ॥ पुनः कीदृशं पीतमम्बरं वस्त्रं यस्य तं पुनः कीदृशं मनोहरनूपु. रादिभिः शोभितमङ्गं यस्य तं हारो मुक्तावली काञ्ची क्षुद्रघण्टिका केयूरमङ्गदम् ऊर्मिर्मुद्रिका कटकः कङ्कणः आदिपदेन किरीटादीनां परिग्रहः पुनः कीदृशं देवसंबन्धिना ऽनुलेपनेन कुङ्कुमादिना पि- शङ्गितं पिञ्जरितम् अंसे स्कन्धे राजन्ती शोभमाना अम्लाना अक्लि- सटीकक्रमदीपिकाया: या चित्रा नानाप्रकारिका वनमाला पत्रपुष्पमयी आपादलम्विनी माला यस्य तं पुनः कीदृशम् अनङ्गवत् कामवत् दीप्तम् ॥ २६ ॥ वेणुं धमन्तमथवा स्वकरे दधान- सव्येतरे पशुपयष्टिमुदारवेषम् । दक्षे मणिप्रवरमीप्सितदानदक्षम् ॥ ध्यात्वैवमर्चयतु नन्दजमिन्दिराप्त्यै ॥ २७ ॥ पुनः कीरशम् । घेणुं धमन्तं पादयन्तम् अथवा पक्षान्तर स्वकरे सव्येतरे वाले गोरक्षणदण्डं दधानं तथा दक्षे दक्षिणे ईप्सितदानदक्षं मणि धानं पुनः कीदृशम् उदारवेषम् उद्भटवेषमिति रुद्रधरः वस्तुतस्तु वेणु वादयन्तं तदेवदर्शयति अथेति वामकरे सव्यं दक्षिण वामयो रित्यभिधानात् द्वयोरेवात्रतन्त्रणसंग्रहः तत्र सव्ये द्वितीयवाम- हस्ते पशुपयष्टिं पशुरक्षणार्थ यष्टिं दण्डं तथा सव्ये दक्षिणे हस्ते मणिप्रवरं मणिश्रेष्ठं चिन्तामणि दधानं कीदृशं मणिप्रवरम् ईप्सित- दानदक्षं वाञ्छितार्थदानक्षमम् इत्यर्थः ॥ २७ ॥ आवरणनैवेद्यदानप्रकारमाह- दामादिकोति। दामादिकाङ्गदयितासुहृदधिपेन्द्र- वज्रादिभिः समभिपूज्य यथाविधानम् ॥ दीक्षाविधिप्रकथितं च निवेद्यजातं- हैमे निवेदयतु पात्रवरे यथावत् ॥ २८॥ दाम आदिर्यस्य आदिपदेन सुदामादीनां परिग्रहः अङ्गानि पूर्वो- कानि पञ्च दयिता रुक्मिण्याद्याः सुहृदो वसुदेवाद्याः अध्रिपा मन्दाराद्याः पूर्वोक्ता इन्द्रादयो दश दिक्पालाः वज्रादीनि च तेषाम् आयुधानि पूर्वोक्तानि एतैर्यथाविधानं यथोक्तप्रकारेण कृष्णं सं- MODrama पञ्चमपटलम् । १२५ पूज्य दीक्षाविधाने कथितं नैवेद्यसमूहं हैमे सुवर्णमये पात्रश्रेष्ठे यथावत् निवेदयतु ॥ २८ ॥ होमादिकमाह- अष्टोत्तरमिति । अष्टोत्तरं शतमथो जुहुयात्पयोन्नैः । सर्पिःप्लुतैः सुसितशर्करथा विमित्रैः । दंघालिं च निजदिक्षु सुरर्षियोगि- वर्गोपदैवतगणेभ्य उदग्रचेताः ॥ २९ ॥ अनन्तरं पयोन्नैः पायसैः सर्पिप्लुतैः सुसितशर्करया विमित्रैः अतिशुभ्रशर्करया मिलितैः अष्टाधिकं शतं जुहुयात होमं कुर्यात् । साहचर्यात् कल्पनालाघवाच होमोक्तद्रव्येणैव निजदिक्षु स्वस्व- दिक्षु सुरर्षियोगिवर्गोपदैवतगणेभ्यो वलिं दद्यात तत्र सुरा विर- श्चिप्रभृतयः पूर्वदिक्स्थाः ऋषयो नारदादयो दक्षिणदिक्स्थाः योगिवर्गः सनकादिः पश्चिमदिक्स्थ उपदेवगणाः यक्षसिद्धगन्ध- र्वविद्याधराद्याः उत्तरदिवस्था इतित्रिपाठिनः उपदेवगणाः दशदि- क्पाला इतिरुद्रधरः उदग्रचेता उद्भटचित्तः सोत्साह इत्यर्थः ॥ २९ ॥ नवनीतेति। नवनीतमिलितपायसधियाऽर्चनान्ते जलैर्मुखे तस्य । सन्तर्प्य जपतु मन्त्री सहस्रमष्टोत्तरशतं वाऽपि॥३०॥ अर्चनान्ते पूजावसाने तस्य देवस्य मुखे नवनीतेन मिलितं सम्बद्धं यत् पायसं तबुध्या जलैः सन्तयं तर्पणं कृत्वा मन्त्री साधकः अष्टाधिक सहस्रं शतं वा जपतु ।। ३०॥ एतत्फलमाह- RAIL अह्नइति। अहो मध्ये बल्लवीवल्लभं तं- नित्यं भक्त्या ऽभ्यर्चयेत् यो नराग्रयः ॥

१२६ सटीकक्रमदीपिकायाः देवाः सर्वे तं नमस्थान्ति शश्वत् । वर्तरन् वै तदशे सर्वलोकाः ॥ ३१ ॥ यो नराग्यो नरश्रेष्ठः अह्नः मध्ये मध्याह्ने तं वल्लवीवल्लभं गोपी. प्रियं नित्यं सर्वदा भक्त्या सात्विकेन भावेनार्चयेत् तं नरश्रेष्ठं सर्वे देवाः नमस्यन्ति तथा शश्वत्सर्वदा सर्वे जना एव तद्वशे वर्तेरन् तद्वश्याः स्युरित्यर्थः ॥ ३१ ॥ मेधेति। मेधायुःश्रीकान्तिसौभाग्ययुक्तः। पुत्रैमित्रै!महीरत्नधान्यैः ॥ भोगैश्चान्य भूरिभिः सन्निहान्यो- भूयात् भूयो धाम तचाच्युताख्यम् ॥ ३२ ॥ तथा इह लोके मेधा धारणावती बुद्धिः आयुः जीवनं श्रीः लक्ष्मीः कान्तिः शरीरशोभा सौभाग्यं सर्वजनप्रियता एतै युक्तः सम्बद्धः तथा पुत्रैरौरसैः मित्रैः सुहृद्भि गौः पृथिवी रत्नं धान्य व्रीह्यादिः एतैश्च तथा अन्यैर्भूरिभिः प्रचुरैः सुखैराज्यः उपचितः सन्पुनः देहावसाने अच्युताख्यं कृष्णनामकं तेजो महो भूयात् तद्रूपो भवतीत्यर्थः ॥ ३२॥ तृतीयकालपूजाव्यवस्थामाह- तृतीयेति। तृतीयकालपूजायामस्ति कालविकल्पना। सायान्हे निशि वेत्यत्र वदन्त्येके विपश्चित:॥३३॥ तृतीयकालपूजायां कालस्य वेलायां विकल्पना विकल्पोऽस्ति तमेवाह सायाढे सन्ध्यायां निशि रात्री वेति अत्र एके विपश्चितो वदन्ति ॥ ३३॥ किं तत्राह- पञ्चमपटलम् । १२७ दशाक्षरेणेति । दशाक्षरेण चेद्रात्रौ 'सायान्हे ऽष्टादशाणतः । उभपीमुभयेनैव कुर्यादित्यपरे जगुः ॥ ३४ ॥ चेद्यदि दशाक्षरेण मन्त्रेण पूजादिकं तदा रात्रौ यद्यष्टादशाणतो अष्टादशाक्षरेण मन्त्रेण तदा सायाह्न इत्ये केषां मतम् अपरे पुनः उभयीम् उभयपूजाम् उभयेनैव दशाक्षरेणा अष्टादशाक्षरेण च तत् कुर्यात् इति जगुः कथयन्ति तथा चैच्छिको विकल्प इतिभावः ॥३४॥ सायाह्नइत्यादि- अत्र नवश्लोकान्तं कुलकम् । सायान्हे द्वारवत्यां तु चित्रोद्यानोपशोभिते । यष्टसाहस्रसंख्यातै भवनैरभिसंवते ॥ ३५ ॥ हंससारससंकीर्णैः कमलोत्पलशालिभिः । सराभिरमलाम्भोभिः परीते भवनोत्तमे ॥३६॥ उद्यत्प्रद्योतनद्योतसद्युतौ मणिमण्डपे । मृदास्तरे सुखासीनं हेमाम्भोजासने हरिम्॥३७॥ नारदायैः परिवृतमात्मतत्वविनिर्णये। तेभ्यो मुनिभ्यः स्वं धाम दिशन्तं परमक्षरम्॥३८॥ सायाह्ने एवमेताहशवेषधारिणं हरिं ध्यात्वाऽर्चयेत् कीदृशं मृ- द्वास्तरकोमलासनरूपे हेमाम्भोजासने कनकपद्मासने समासीनम् उपविष्टं कुत्रावस्थितं मणिमण्डपे किंविशिष्टे उद्गच्छन् यः प्रद्योत- नः सूर्यः तस्य द्योतस्य समाना द्युति यस्य तस्मिन् कुत्र भवनो- त्तमे गृहश्रेष्ठे किंविशिष्टे चित्रोद्यानोपशोभिते बहुधोपवनसेविते पुनःकिंविशिष्टे द्वारवत्यां विद्यमाने पुनः किंविशिष्टे भवनैहै- रभिसंवृते कीदृशैः यष्टसहस्त्रसंख्यातः । पुनः किंविशिष्टे- १२८ सटीकक्रमदीपिकाया: सराभिः सरोवरैः परीते कीदृशैः अमलाम्भोभिनिर्मलजलैः पुनः कीदृशैः हंससारससंकीर्णैः हंसादिपक्षिगणाप्तः पुनःकीदृशैः कम- लोत्पलशालिभिः पद्मोत्पलसहितैः । हरि कीदृशं- नारदाद्यैः मुनिभिः परिवृतं वेष्टितं किमर्थमात्मतत्व- निर्णये आत्मतस्वनिश्चये निमित्ते पुनः कीदृशं तेभ्यो नारदादिभ्यः स्वं धाम ज्ञानस्वरूपमात्मानं कथयन्तं पुनःकीदृशं परमविद्या- तत्कार्यरहितं पुनःकीदृशम् अक्षरम् अविनाशि ॥३५॥३६॥३७॥३८॥ इन्दीवरनिभं सौम्यं पद्मपत्रारुणेक्षणम् । निग्धकुन्तलसंभिन्नकिरीटमुकुटोज्ज्वलम् ॥३९॥ पुनः कीदृशं- इन्दीवरनिभं नीलाम्भोजसदशं खौम्यम् उग्रतारहितं पुनः की- दृशं पद्मपत्रवदायते दीर्धे ईक्षणे यस्य तं पुनः स्निग्धाः चिक्कणा ये कुन्तलाः केशास्तैः सम्भिन्ने मिलिते किरीटमुकुटे ताभ्यामु- ज्ज्वलं देदीप्यमानं तत्र किरीटशब्देन ललाटाश्रितः त्रिशृङ्गोऽल- ङ्कारविशेषः कथ्यते मुकुटशब्देन च मूर्ध्नि मध्यभागाश्रितं तच्च दीपशिखाकारो ऽलङ्कारविशेषः कथ्यते ॥ ३९ ॥ चारुप्रसन्नवदनं स्फुरन्मकरकुण्डलम् । श्रीवत्सवक्षसं भ्राजत्कौस्तुभं वनमालिनम् ॥४०॥ पुनः कीदृशं चारु मनोहरं प्रसन्नं फलदायि वदनं यस्य तं स्फुरती देदीप्यमाने मकराकृती कुण्डले यस्य तं पुनः श्रीवत्सो विप्रपादप्रहारकृतचिह्नविशेषो वक्षसि यस्य तं पुनः भ्राजन् देदीप्य- मानः कौस्तुभो मणिविशेषो यस्य तं पुनः वनमालाधारिणम् ॥ ४०॥ काश्मीरकपिशोरस्कं पीतकौशेयवाससम् । हारकेयूरकटकरसनायैः परिष्कृतम् ॥ ४१ ॥ पुनः कीदृशं- Home M पश्चमपटलम् । १२९ काश्मीरेण कुङ्कुमवर्णम् उरो यस्य तं पुनः पीतवस्त्रधारिणं पुनः हारः मुक्ताहारः केयूरमङ्गदं वाह्वलङ्कारः कटकः कङ्कणः रसना क्षुद्र- घण्टिका आदिशब्देनाऽङ्गुलीयकादेः परिग्रहः एतैःपरिष्कृतम् शो- भितम् ॥ ४१ ॥ हृतविश्वम्भराभूरिभारं मुदितमानसम् । शङ्खचक्रगदापदमराज जचतुष्टयम् ॥४२॥ पुनकीदृशं हृतोऽपनीतो विश्वम्भरायाः पृथ्व्या भूरिभरो वृहद्भारो ऽसु. रादिलक्षणो येन तं पुनः मुदितं दृष्टं मानसं यस्य तं पुनः शङ्खचक्र- गदापझैः शोभितं बाहुचतुष्टयं यस्य तम् ॥ ४२ ॥ एवं ध्यात्वा ऽर्चयेन्मन्त्री तदङ्गैः प्रथमावृतिम् । द्वितीयां महिषीभिस्तु तृतीयायां समर्चयेत् ॥४३॥ अत्र पूजायाम् अङ्गैः पूर्वोक्तैः पञ्चाङ्गैः प्रथमावरणं भवति द्विती- यावरणं महिषीभिः रुक्मिण्यादिभिः तृतीयायामावृतौ दिक्षु पूर्वा- दिदिक्षु वक्ष्यमाणान् नारदादीन अग्रे च विनतासुतं गरुडं पू. जयेत् ॥ ४३ ॥ तानवाह। नारदं पर्वतं जिष्णुं निशठोडवदारकान् । विश्वक्सेनं च सैनेयं दिक्ष्वग्रे विनतासुतम् ॥४४॥ पर्वतनामा मुनिविशेषः जिष्णरर्जुनः निशठो यादवविशेषः उद्धवोऽपि तथा दारुकः कृष्णसारथिः विध्वक्सेनः भाण्डागारिकः शैनेयः सात्यकिः ॥ ४४ ॥ लोकेशैस्तत्पहरणैः पुनरावरणद्वयम् । इति संपूज्य विधिवत्पायसेन निवेदयेत् ॥ ४५ ॥ लोकेशैरिन्द्रादिभिरेकमावरणं तत्प्रहरणैस्तदायुधैर्वज्रादिभिरप- सटीकक्रमदीपिकायाः -- ति रावरणं एवं क्रमेणाऽवरणद्वयं इत्यनेन प्रकारेण पञ्चावरणकेन सं. पूज्य विधिवदिक्षा कथित्त पायसं दद्यात् ॥ ४५ ॥ तर्पणप्रकारं जपसंख्यां च दर्शयति । तर्पयित्वेति- तर्पयित्वा खण्डमिरैर्दुग्धबुया जलैहरिम् । जपेदष्टशतं मन्त्री भावयन् पुरुषोत्तमम् ॥ ४६ ॥ खण्डेन शर्करया विमिध मिलितं यदुग्धं तद्बुद्ध्या जलैः कृष्णं तर्पयित्वा पुरुषोत्तमं भावयन् ध्यायन् मन्त्री साधकः अष्टाधिक- शतं जपेत् यद्यपि तर्पणस्य क्त्वाप्रत्ययेन पूर्वकालता प्रतीयते तथापि प्रथमं जपः तदनु तर्पणं कार्य तथैवानुक्रमात् सम्प्रदायाचे- रुद्रधरः॥४६॥ पूजास्विति- पूजासु होमं सर्वासु कुर्यान्मध्यंदिन ऽथवा । आसनादर्यपर्यन्तं कृत्वा स्तुत्वा नमेत्सुधीः॥४७॥ सर्वासु तिवृध्वपि पूजासु होमं कुर्यात् पक्षान्तरमाह अथवेति मध्यंदिने मध्याह्नपूजायां वा होमं कुर्थादित्यर्थः आसनादिति आस- नमन्त्रादारभ्याऽपर्यन्तं कृत्वा स्तुत्वा स्तवनं कृत्वा नमेत् दण्डव त्प्रणमेत् अवसानाघेपर्यन्तमितिपाठे अयमर्थः पूजां कृत्वा पूजाशेष कर्तव्यार्थ्यमवशेषयित्वा मध्येहोमं कृत्वा ततः पूजाशेषाध्यमवसा- नाय॑संज्ञकं पराङ्मुखार्ष्यापरपर्यायं दद्यादित्यर्थः ॥ ४७ ॥ समयेति- समर्यात्मानमुद्रास्थ तत्स्वे हृत्सरसीरहे । विन्यस्य तन्मयो भूत्वा पुनरात्मानमर्चयेत्॥४८॥ आत्मसमर्पणमन्त्रेण स्वात्मानं परमेश्वरे समर्प्य तत् परमेश्व रतेजः पूजास्थानादुद्धास्य उद्धृत्त्य स्वकीयहृदयपझे विन्यस्य त. न्मयो भूत्वा पुनरात्मानं पूजयेत् ॥ ४८ ॥ सायाहपूजाफलमाहmana पञ्चमपटलम् । landana सायाह्नइति । सायान्हे वासुदेवं यो नित्यमेवं यजेन्नरः । सर्वान् कामानवाप्यान्ते स याति परमांगतिम् ॥४९॥ यो नरः सायाह्ने वासुदेवं नित्यं सर्वदा एवं कथितप्रकारेण य- जेत् पूजातर्पणहोमादिभिः परितोषयेत्सर्वान् कामान्वाञ्छितानान् अवाप्य देहावसाने परां गतिं विष्णुसायुज्यं प्राप्नोति ॥ ४९ ॥ रात्राविति- रात्रौ चेन्मन्मथाक्रान्तमानसं देवकीसुतम् । यजेद्रासपरिश्रान्तं गोपीमण्डलमध्यगम् ॥ ५० ॥ चेद् यदि रात्री पूजा क्रियते तदा रालः क्रीडाविशेषस्तेन परि- श्रान्तं देवकीनन्दनं यजेत् मन्मथेलाक्रान्तं मानसं हृदयं यस्य तं पुनः गोपीनां मण्डलं गोष्ठीविशेषः तस्य मध्ये स्थितम् ॥ ५० ॥ रासक्रीडादर्शयति । पृथुमिति । पृथु सुवृत्तं ममृणं चितस्ति- मात्रोन्नतं को विनिखन्य शङ्खम् । आक्रम्य पयामिनरेतरात्त- हस्तैर्धमोऽयं खलु रासगोष्टी ॥ ५१ ॥ इतरेतरात्तहस्तैः परस्परगृहीतहस्तैः अयंभ्रमोभ्रमणरासगो- ष्टी किंकृत्वा कौपृथिव्यां पृथुस्थूलंसुवृत्तवर्तुलाकारं मसृगंस्निग्धं- वितस्तिमात्रोत्थितंद्वादशाङ्गुलप्रमाणेनोस्थितंशङ्ककाष्ठखण्डविनि- खन्य पुनःकिंकृत्वा पन्यांशङ्कमाक्रम्यनियन्त्र्य ॥ ५१ ॥ ध्यानमाह- स्थूलेत्यादि। स्थलनीरजसूनपरागभृता। लहरीकणजालभरेण सता ॥

सटीकक्रमदीपिकायाः मरुता परितापहृताऽध्युषिते । विपुले यमुनापुलिने विमले ॥५२॥ द्वादशश्लोकान्तं कुलकम् । कल्याणमयस्वरूपमजं विचिंत्यप्रथमोदितपीठवरे पूर्वोक्तदीक्षा- सम्बन्धिपूजापीठश्रेष्ठेविधिवत् यथाविधि प्रयत्नेन पूजयेत् कीदृशं यमुनापुलिने यमुनातटे इतरतरवद्धकरप्रमदागणकाल्पितरासवि- हारविधौ अन्योन्यवद्धहस्तस्त्रीसमूहपरिकल्पितक्रीडाविशेषविधौ- मणिशङ्कुगंमणिमयशङ्कमध्यगतं कीदृशेपुलिने वायुनाऽध्युषिते आ- क्रान्ते कीदृशेन स्थलनीरजंस्थलकमलन्ततपुष्पपरागभृता तत्केश- रसंनिकृष्टपुष्परजोयुक्तेन अनेन सौगन्ध्यवर्णितं पुनः लहरीतरङ्ग- स्तस्यकणजालंविन्दुसमूहः तस्य भरेणप्रकर्षेणलता उत्कृष्टे- नयुक्तेनेतित्रिपाठिनः अनेन शैत्यमुक्तम् पुनः परितापहृताखेद- विनाशकेन-अनेन मान्द्यमुक्तं पुनः कीदशेपुलिने विपुलेविस्तीर्णेपुनः विमलेशुद्धे ॥५२॥ अशरीरनिशातशरोन्मथित. प्रमदाशतकोटिभिराकुलिते । उडुनाथकरैर्विशदीकृतदिक प्रसरे विचरभ्रमरीनिकरे ॥ ५३ ॥ पुनः कीहशे- अशरीरः कामः तस्य यो निशातशरस्तीक्ष्णवाणस्तेनउन्माथि. सायीकृता याः प्रमदास्तासां शतकोटिभिराकुलीकृते इतस्ततोव्या. से पुनः कीदृशे उडुनाथश्चन्द्रस्तस्यकरैः किरणैर्विशदीकृतः प्रका- शिलोदिप्रसरोदिगवकाशोयत्रतस्मिन् पुनःकीदृशे विचरन्तीभ्र- मन्तीयानमरीतस्यानिकरः समूहोयत्रतस्मिन् ॥ ५३ ॥ विद्याधरकिन्नरसिद्धसुरैः। गन्धर्वसुजङ्गमचारणकैः ॥ दारोपहितैः सुविमानगतैः । खस्थैरभिदृष्टपुष्पचयैः ॥ ५४ ।। indean पुनः कीदृशे- पञ्चमपटलम् । १३३ विद्याधरप्रभृतयोयथाप्रसिद्धाः तथाभुजङ्गमः हस्तपादादिशरी- रान्वितोनागलोकस्थः सर्पः एतैारोपहितैः सस्त्रीकैः शोभन- विमानगतैः आकाशनिष्ठैः कृतपुष्पवृष्टिसमूहः आकुलिते ॥ ५४॥ इतरेतरवडकरप्रमदा- गणकल्पितरासविहारविधौ ।। मणिशङगमप्यमुनावपुषा । बहुधा विहितस्वकदिव्यतनुम् ॥ ५५ ॥ पुनः कीदृशं कृष्णम् अमुनावपुषा अनेन मणिशङ्कुगतेन शरी- रण नानाप्रकारकृतस्वीयदिव्यशरीरम् ॥ ५५ ॥ सुदृशामुभयोः पृथगन्तरगं- दयितागणबद्धभुजद्वितयम् ॥ निजसङ्गविजृम्भदनङ्गशिखि- ज्वलिताङ्गलसत्पुलकालियुजाम् ॥ ५६ ॥ पुनः कीदृशम्। सुदृशां कामिनीनामुभयोईयोः पृथक् द्वयद्वय क्रमेण अन्तरगं मध्यगतं पुनः कीदृशं दायितागणेन नारीसमूहेन वद्धं स्वहस्तेना- न्योन्यं ग्रन्थितं भुजद्वितयं यस्यतम् एतेनैतदुक्तं भवति कामिन्यो- मध्येकामिनीनामेव हस्तेन गृहीतहस्तः परमेश्वर इति अपि समुच्चयेन केवलं शङ्कगं कामिनीनामपि अन्तरेण युक्तामिति भावः । कीदृशां निजसङ्गेन गोपालकृष्णसङ्गेन विजृम्भमाणः प्रज्वलितोयो अनङ्गशिखीकामाग्निस्तेन ज्वलितं प्रदीप्तं यदङ्गं तत्र लसन्ती- शोभमाना या पुलकालीरोमाञ्चपङ्किस्तया युज्यन्ते इति ताज- स्तासाम् ॥ ५६ ॥ विविधश्रुतिभिन्नमनोज्ञतर- स्वरसप्तकसूर्छनतालगणैः ॥

सटीकक्रमदीपिकायाः भ्रममाणममूभिरुदारमणि- स्फुटमण्डनशिञ्जितचारुतरम् ॥ ५७ ॥ पुनः कीदृशम् । अमूभिर्गोपीभिः सहभ्रममाणं भ्रमीकुर्वाणं कैः विविधो नानाप्र- कारः श्रुतिर्नामस्वरारम्भकावयवः शब्दविशेषः तेनभिन्नं सङ्गतं मनो शतरम् अतिहृदयग्राहि यत्स्वरसप्तकं निषादेत्यादि तस्ययामूर्छना- एकविंशतिप्रकारिका भागतालाश्वतालपरितालादयः ऊनपञ्चाशत् एतेषाङ्गणैः समूहैः पुनः कीदृशम् उदारउदूढोयोमणिस्तस्यस्फुटं प्रब्यक्तम् अतितेजस्वितयायन्मण्डनन्तस्य शिञ्जितं शब्दितं तेन चारुतरं हृदयंगमम् ॥ ५७॥ इति भिन्नतनुमणिभिर्मिलितं तपनीयमयैरिव मारकतम् ॥ मणिनिर्मितमध्यगशङ्कुलस- द्विपुलारुणपङ्कजमध्यगतम् ॥ ५८ ॥ पुनः कीदृशम्- इति भिन्नतनुम् । अनेन प्रकारेणगोपीभिर्मिलितदेहङ्गोपालकृष्णं कमिव तपनीय- मयैः सुवर्णमयैः मणिभिर्मिलितं प्रथितंमरकतमणिमिव पुनः कीर- शं मणिनिर्मितोमध्यगतो यः शङ्कः तल्लग्नंलसद्देदीप्यमानंयद्विपुलं- वृहदरुणपङ्कजन्तस्यमध्यगतम् ॥ ५८ ॥ अतसीकुसुमाभतनुं तरुणं- तरुणारुणपदमपलाशदृशम् ॥ नवपल्लवचित्रसुगुच्छलस- च्छिखिपिच्छपिनद्धकचप्रचयम् ॥ ५९ ॥ पुनः कीदृशम्- अतसीप्रसिद्धा तस्याः कुसुमानीवाभादीप्तिर्यस्यास्तनोस्ताहशी- तनुर्यस्य तं पुनःकीदृशन्तरुणेति नूतनारुणपद्मपत्रसरशनेत्रं पुनः पञ्चमपटळम् । १३५ कीदृशं नवेति नूतनपल्लवनानाविधस्तवकशोभमानमयूरपुच्छसम्ब- द्धकेशसमूहम् ॥ ५९॥ चटुलभुवमिन्दुसमानमुखं मणिकुण्डलमण्डितगण्डयुगम् ॥ शशरक्तसक्दशनच्छदनं. मणिराजदनेकविधाभरणम् ॥ ६० ॥ पुनः कीदृशं- चटुलभरुवञ्चललताकं पुनः कीदृशं शुक्लपक्षीयपूर्णचन्द्र- सदृशाननं पुनःकीदृशं मणिमयकुण्डलंशोभितगण्डद्वयं पुनः कीदृशं शशशोणिततुल्याधरं पुनः कीदृशं मणिना शोभमाननाना प्रकाराभरणम् ॥ ६॥ असनप्रसवच्छदनोज्ज्वलस- इसनं सुविलासनिवासभुवम् ॥ नवविद्रुमभद्रकाशितलं । भ्रमराकुलदामविराजितनुम् ॥ ६१ ॥ पुनः कीदृशम्- असनोवृक्षविशेषः तस्यप्रसवः पुष्पंतस्यछदनं पत्रं च तद्वदु- ज्ज्वलंशोभमानं मनोहरं वस्त्रं यस्यतं पुनः कीदृशं शोभनक्रीडावि चित्रस्थानं पुनः कीदृशं नवोनूतनोयोविद्रुमःप्रवालस्तद्वत् भद्रं मनो- हरं करानितलंयस्यतं पुनः कीदृशं भ्रमरैराकुलंव्याप्तं यत् पुष्पदा- ममालातेनविराजितं भुजद्वयंयस्यतं यद्वामालयाविराजितातनुर्य- स्यतम् ॥६१ ॥ तरुणीकुचयुक्परिरम्भमिलत्- घुसणारुणवक्षसमुक्षगतिम् ।। शिववेणुसमीरितगानपरं । स्मरविह्वलितं भुवनैकगुरुम् ॥ ६२ ।। पुनः कीदृशं युवतीनां स्तनद्वयालिङ्गनसम्बद्धकुङ्कुमारुणित- १ सटीकक्रमदीपिकायाः मुरःस्थलंयस्यतं पुनः कीदृशम् उक्षगतिवृषभगतिं पुनः कीदृशं- शिवःकल्याणप्रदोयोवेणुवंशस्तेनसमारितं संपादितं यद्गानङ्गीतं- तत्परन्तदासक्तं पुनः कीदृशं स्मरेणकामेनविह्वलितमनायत्तं पुनः कीदृशं भुवनत्रयस्य एकम् आद्वतीयं गुरुम् ।। ६२ ॥ प्रथमोदितपीठवरे विधिवत् ।। प्रयजेदिति रूपमरूपमजम् ।। प्रथमं परिपूज्यतदङ्गतिं । मिथुनानि यजेद्रसगानि ततः ॥ ६३ ॥ इतिरूपमजं प्रथमोदितपीठवरे पूर्वकथितदेवताक्लप्तपीठेय. जेत् अरूपंनिर्गुणम् आवरणानिदर्शयति प्रथममिति तदङ्गवृतिपूर्वो- क्ताङ्गावरणं प्रथमं परिपूज्यततस्तदनन्तरंमिथुनानिकेशवकीत्यादी- निरासगानिरासक्रीडागतानि ॥ ६३ ॥ दलषोडशके स्वरमूर्तिगणं । सहशक्तिकमुत्तमरासगतम् ।। सरमामदनं स्वकलास हितं । मिथुना हमथेन्द्र पविप्रमुखान् ॥ ६४ ।। दलषोडशकेषोडशपत्रेपूजयेत्- मिथुनमेवकथयति स्वरमूर्तिगणम् इति स्वरभवा अकारादिव. भवाः केशवादिषोडशमूर्तयः स्वरमुर्तिगणं कीदृशं सहशक्ति- कंकीर्त्यादिशक्तिसहितं पुनः कीदृशं उत्तमोयोरासः तत्रगतं क्वचि- दुत्तररासगतमिति पाठः तत्रमध्यरासेपरमेश्वरपूजाउत्तरादिरासे केशवादिकं पूजयेत् पुनः कीदृशं- रमाश्रीवीजं मदनाकामवीजम् एताभ्यां सहितं पुनः कीदृशं स्व- कीया याः कलाः षोडशस्वराः तैः सहितं प्रयोगश्च श्रीक्लीम अंकेश. वकीर्तिभ्यांनमः इत्यादि पुनः कीदृशं मिथुनाहं मिथुनसंज्ञकम् अथा- नन्तरम् इन्द्रपविप्रमुखान् इन्द्रादीन् वज्रादींश्च पूजयेदित्यर्थः ॥ ६४॥ पूर्वोक्तावृतिसंख्यापूर्वकंनैवेद्यं कथयति ।

पञ्चमपटलम् । इतीति। इति सम्यग, परिपूज्य हरि- चतुरावृतिसंवृतमामतिः॥ रजतारचितेचषके ससितं- सुशृतं सुपयोऽस्य निवेदयतु ॥६५॥ अनेन प्रकारेणचतुरावरणवेष्टितममुंहरिसम्यक्यथाविधिसम्पू. ज्यश्रद्धावान् रजतारचितरूप्यनिर्मितेचषकेपात्रे अस्यहरेः स. सितं सशर्करं सघृतंघृतसहितं पाठान्तरम् सुसृतम् आवर्तितं- पयोदुग्धंनिवेदयतु ॥ ६५ ॥ विभवे सति कांस्यमयेषु पृथक चषकेषु तु षोडशसु क्रमशः मिथुनेषु निवेद्य पयः ससितं विदधीत पुरोवदथो सकलम् ॥ ६६ ।। विभवेसतियदितादृशमैश्वर्यभवतितदाकांस्यघटितेषुपृथक् ए. कैकंषोडशचषकेषुक्रमेणमिथुनगणेषुससितं पयोनिवेद्य अथानन्तरं पुरोवत् निवेदयामिभगवते इत्यादयुक्तप्रकारेणसकलं पूजाविशेष- समापयेत् ॥ ६६ ॥ रासपूजाफलमाह। सकलति। सकलभुवनमोहनं विधि यो- नियतममुं निशिनिश्युदारचेताः ॥ भजति स खलु सर्वलोक पूज्यः । श्रियमतुलां समवाप्य यात्यनन्तम् ॥ ६७ ।। अमुम्बिधिंरासपूजाप्रकारं सकलभुवनमोहनं सकलभुवनवश्य- करं नियतमवाधेन योनिशिनशिप्रतिरजनिउदारचेताः प्रसन्नमनाः सन् सम्यक्भजतिकुर्यात् ससर्वलोकपूज्यः सन् अतुलामतिशयितां १८ १३८ सटीकक्रमदीपिकायाः श्रियंसमृद्धिंसमवाप्य अनन्तंविष्णुंयाति प्राप्नोति ॥ ६७ ॥ निशिवेति- निशि वा दिनान्तसमये- मपूजयेनियशोऽच्युतं भक्त्या ॥ समफलमुभयं हि ततः- संसाराधि समुत्तितीर्षति यः॥ ६८ ॥ यः पुमान् संसारसागरन्तरितुमिच्छतिसोऽच्युतं भक्त्यानिशि वा दिनान्तसमयेवासंध्यायां पूजयेत् नित्यशः प्रत्यहंहियतः उभयनि- शासंध्यापूजनद्वयंसमफलं ततस्तस्माद्धेतोः निशिवादिनान्तवापूज- येदित्यर्थः ॥ ६८ ॥ उसमुपसंहरति । इत्येवमिति। इत्येवं मनुविग्रहं मधुरिपुं यो वा त्रिकालं यजे. त्तस्यैवा ऽखिलजन्तुजातदयितस्थाऽम्भोधिजावेश्मनः॥ हस्ते धनमुखार्थमोक्षतरवः सवर्गसम्प्रार्थिताः सान्द्रानन्दमहारसद्रवमुचो येषां फलश्रेणयः ॥ ६९ ॥ इति अमुनाप्रकारेणयः पुमान्मन्त्रशरीरंमधुसूदनंत्रिकालंवा पूज- यते तस्यनानाविधप्राणिसमूहवल्लभस्य अम्भोधिजावेश्मनोलक्ष्मी- निवासस्यधर्मादिपुरुषार्थचतुष्टयवृक्षाः हस्तेभवन्तीतिशेषः कीदृशाः सतांवर्गः समूहः तेनप्रार्थिताः संसर्गीतिपाठेसंसर्गिभिर्निकटस्थैः यद्यपिमोक्षस्थफलंनास्तितथापिमोक्षपदेन्तद्धेतुभूतं तत्वज्ञानमुक्तं येषां वृक्षाणांफलपतयः नित्यानन्दब्रह्मस्वरूपमहारसद्रवदाः ॥ ६९ ॥ अथेति। अथोच्यते पूर्वसमीरितानां- पूजावसाने परमस्य पुंसः॥ कल्पस्तु काम्येष्वपि तर्पणानां विना ऽपि पूजां खलु यैः फलं तत् ॥ ७० ॥ :

पञ्चमपटलम् । अथामन्तरं परमस्वपुंसः श्रीगोपालकृष्णस्य पूजावसाने पूजा- भन्तरं पूर्वसमीरितानां श्रीमन्मुखइत्यादिकथितानांनित्यतर्पणानां कल्पः प्रकारः काम्येवापतर्पणेषुप्रकारउच्यतेयैस्तर्पणैः पूजां वि. नापि तत्फलं पूजाफलं प्राप्नोतियथापूजातथैवतर्पणम् ॥ ७० ॥ संतप्यति संत पीठमन्त्रैः सकृत्सकृत्प्रथममच्युतं तत्र । आवाय पूजयेत्तं तोथैरेवाखिलैः समुपहारैः ॥७॥ प्रथमं पाठमन्त्रैराधारशक्त्यादिमन्त्रैः पीठाङ्गभूतदेवतां सकृत्सक- देकैकवारसंतर्य अनन्तरंतत्रतोयमयेपीठे अच्युतमाघाघजलैरेवेग- न्धादिसकलोपचारात्मकैः पूजयेत् ॥ ७१ ॥ ववति । वध्वाऽथ धेनुमुद्रां तोयैः सम्पाद्य तर्पणद्रव्यम् ॥ तवुद्ध्याऽञ्जलिना तं सुवर्णचषकीकृतेन तर्पयतु ॥७२॥ ततोधेनुमुद्रांवट्वातोयैस्तर्पणद्रव्यं संपाद्य तद्व्यरूपतयातोयं भावयित्वातबुद्ध्यातत्कथितद्रव्यतर्पणद्रव्यबुद्ध्वातं कृष्णंतर्पयतु के नाञ्जलिनाकीदशेनसुवर्णचषकतयाविचिन्तितेनेत्यर्थः ॥ ७२ ॥ विंशतीति। विंशतिरष्टोपेता कालत्रयतर्पणेषु संख्योक्ता॥ भूयः स्वकालविहितान्सकृतर्पयेच्च परिवारान् ॥७३॥ कालत्रयतर्पणेषुत्रिकालतर्पणेषु एकस्मिन् कालेऽष्टोपेता अष्टा- विंशतिः तर्पणस्यसंख्योक्ता पुनः स्वकालविहितान्स्वस्मिन् प्रातर्म- ध्याह्नादौ येयविहिताः परिवारा आवरणदेवतास्तान्सकदेकैकवारं- सन्तर्पयेत् ॥ ७३॥ कालत्रयस्यतर्पणद्रव्यमाह। प्रातरिति । प्रातर्दधिगुडमिश्र मध्यान्हे पायसं सनमीत्तम् ।।

१४० सटीकक्रमदीपिकायाः क्षीरं तृतीयकाले ससितोपलमित्युदीरितं द्रव्यम् ॥७४॥ गुडसहितंदधिप्रातःकालेनवनीतसहितं पायसमध्याह्नेससितो- पलं शराधिकारसहितक्षीरंतृतीयकाले इत्यमुनाप्रकारेणद्रव्यतर्प- णद्रव्यं कथितम् ॥ ७४॥ तपर्णमन्त्र माह- तर्पयामीत्यादि। तर्पयामिपदं योज्यं मन्त्रान्ते स्वेषु नामसु॥ द्वितीयान्तेषु तु ततः पूजाशेषं समापयेत् ॥ ७॥ मन्त्रान्ते मूलमन्त्रावसाने स्वकीयानि तर्पणीयदेवतानां नामानितेषु तत्समीपेषु द्वितीयान्तेषु अमुकदेवतामित्यादिरूपेषु तर्पयामीतिपदं योज्यम् अनन्तरं पूजाशेषं समापयेत् ॥ ७५ ॥ उत्तरकृत्यमाह- अभ्युक्ष्येति । अभ्युश्यतत्प्रसादाद्भिरात्मानं प्रपिवेदपः॥ तजप्त्वा तमथोबास्य तन्मयः प्रजपेन्मनुम् ॥७६॥ तत्प्रसादाद्भिः परमेश्वरप्रसादतर्पणजलैः आत्मानं शरीरं निस्वातजावामन्त्रजप्त्वा अपः प्रपिवेत् अथानन्तरंतंदेवमु. दास्यवहदये संयोज्यतन्मयः सन्मन्त्रं जपेत् ॥ ७६ ॥ सप्रकारंसद्ध्यं काम्यंतषणमाह- अथति। अथ द्रव्याणि काम्येषु वक्ष्यन्ते तर्पणेषु तु॥ तानि प्रोक्तविधानानामाश्रित्यान्यतरं भजेत्॥७७॥ अथानन्तरंकाम्येषु तर्पणेषु यानिनारदादिभिः कथितानिद्रव्या- णितानिवक्ष्यन्ते प्रोक्तविधानानांत्रिकालोक्तविधानानाम् अनन्तरम् एकंविधानमाश्रित्यकाम्यतर्पणकर्मभजेत् ॥ ७७ ॥ दृष्यरित्यादि। MOHANDAR पञ्चमपटलम् । १४१ द्रव्यैः षोडशभिरमुं प्रतर्पयेदेकशश्चतुर्वारम् ॥ स चतुःक्षीराद्यन्तैः सकृजलाधन्तमच्युतंभक्त्या ॥७॥ षोडशभिव्यैरभु श्रीकृष्णं एकशश्चतुर्वारं तद्रव्यबुद्ध्या जलैरेवतर्पयेत् कीदृशैः चत्वारि क्षीराणि आद्यं येषां तैः । षो- डशद्रव्याणाम् आदौ दुग्धाञ्जलिचतुष्टयम् अन्ते च चतुष्टयमित्यर्थः सकृजलाद्यन्तमिति क्रियाविशेषणम् तथा च प्रथममेकवारं ज- लेन ततश्चतुर्वारं ततः चतुर क्षीरैः ततः सकृजलेन इति पर्यः वसन्नम्॥७८॥ षोडशद्रव्याण्याह- पायसमिति। पायसदाधिककृसरङ्गौडानपयोदधीनि नवनीतम् ॥ आज्यं कदलीमोचारजस्वलाचोचमोदकापूपम् ॥ ७९ ॥ पृथुकं लाजोपेतं द्रव्याणां कथितमिह षोडशकम् ॥ लाजान्तेऽन्त्यक्षीरात्प्राक्समर्प्यसितोपलापुजैः ॥८॥ पायसंपरमानं दाधिकं दध्नापरिष्कृतम् अन्नं कृसरं मुद्गौदनं गौडान्नं गुडोदकपक्वम् अन्नम्-पयोदुग्धम् दधि प्रसिद्धम् नवनीतम् आज्यम् घृतम् कदली चम्पाकदली मोचास्वर्णकदली रजस्वला कदलीविशेषः चोचोऽपि कदलीविशेषः मोदको लड्डुकः अ- पूपम् पूलिका पृथुकं चिपिटकं लाजसमेतम् लाजसहितम् इति द्रव्याणां षोडशकम् कथितम् इह ग्रन्थे लाजेति । लाजतर्पणान. न्तरम् अन्त्यचतुःक्षीरतर्पणात् पूर्व सितोपलापुजैः श्वेतशर्करास. मूहैः भावनया तोयभावापनैः सकृत्संतर्पयेत् ॥ ७९ ॥ ८०॥ उक्तकाम्यतर्पणस्यफलमाह- प्रगइति। प्रगे चतुःसप्ततिवारमित्यमुं- प्रतर्पयेद् योऽनुदिनं नरो हरिम् ।।

१४२
सटीकक्रमदीपिकायाः
and
अनन्यधीस्तस्य समस्तसंपदः ।
करे स्थिता मण्डलतोऽभिवाञ्छिताः॥ ८१ ॥
इत्यनेनप्रकारेणप्रगेप्रातःकालेचतुःसप्ततिवारम् अमुंहरिकृष्णं-
योनरः अनुदिनं प्रत्यहमनन्यधीः एकाग्रचित्तः सन्संत-
र्पयेत् तस्यपुंसः मण्डलतः एकोनपञ्चाशदिवसात् अर्वागितित्रि-
पाठिनः अष्टचत्वारिंशदिवसाभ्यन्तर इतिलघुदीपिकाकरः पञ्चत्रि-
शदिवसाभ्यन्तर इति रुद्रधरः अभिवाञ्छिताआकाशिताः सकल-
सिद्धिसमृद्धयः हस्तस्थिताभवन्ति अत्रसितोपलापुञ्जस्य गणना
नकार्या ॥ ८१ ॥
काम्यतर्पणान्तरमाह-
धारोष्णोति ।
धारोष्णपक्कपयसीदधिनवनीते घृतं च दौग्धान्नम् ।
मत्स्यण्डीमध्वमृतं द्वादशशः तर्पयेनवभिरेभिः।।८२॥
धारोष्णम्पयः तदानींतनमवनिष्पादितंदुग्धंतथापक्वम्पयः सा.
धितंदुग्धंधारोष्णपक्केचपयसीच अमूधारोष्णपक्वपयसीदधिप्रसिद्धं-
नवनीतं घृतंदोग्धानं पायसंमत्स्यण्डीशर्कराविशेषः सशर्कर
विनष्टदुग्धमितित्रिपाठिनः मधुप्रसिद्धम् अमृतंएतैर्नवभिद्रव्या-
दशवारंतर्पयेत् ॥ ८२॥
एतस्यफलमाह-
तर्पणेति ।
तर्पणविधिरयमपरः पूर्वोदितसमफलोऽष्टशतसंख्यः॥
कार्मणकर्मणि कीत्तौ जनसंवनने विशेषतो विहितः८३
अयं तर्पणप्रकारः पूर्वोक्ततर्पणप्रकाराद्भिन्नः कीदृशः पूर्वकथि.
ततर्पणफलसमफलः पुनः कीदृशः अष्टोत्तरशतप्रमाणकः ततोनव-
भिव्यदिशकृत्वातर्पणेनाष्टोत्तरसंख्याभवति पुनः कीदृशः कार्मण-
कर्मणिवश्यकरणकर्मणितथाकीत्तौसत्कथायां जनसंवननेलोकवशी.
करणेलोकप्रियत्वेनवाविशेषणविहितः॥८॥

पञ्चमपटलम् । १४३ । तर्पणान्तरमाह- सखण्डेति। सखण्डधारोष्णधियामुकुन्दं- वजन् पुरग्राममपि प्रतl | लभेत भोज्यं सरसंसभृत्यै- सांसिधान्यानि धनानि मन्त्री ॥ ८४ ॥ शर्करायुक्तसद्योदुग्धबुद्ध्याजलेन मुकुन्दं प्रतप्यं नगरं तथा ग्राम वजन साधकः अनुगैः सह सरसंमधुरादिरससहितं भक्षणीयं तथा वस्त्राणिधान्यानि सुवर्णादीनि प्राप्नोति ॥ ८४ ॥ तर्पणस्या ऽशेषफलदातृतां तर्पणोत्तरकृत्यं च दर्शयति । यावदित्यादि। यावत्संत्तर्पयेन्मन्त्रीतावत्संख्यंजपेन्मनुम् । तर्पणेनैव कार्याणि साधयेदखिलान्यपि ॥ ८५ ।। अखिलानि समस्तानि कार्याणि वाञ्छितानि तर्पणेनैव विनापि पूजाहोमं साधयेत् अत्र यावत्संख्यं तर्पणं करोति तावत्सं- ख्यं मन्त्रंजपेत् ॥ ८५॥ प्रयोगान्तरमाह- द्विज इति। द्विजोभिक्षावृत्तिर्य इह दिनशो नन्दतनयः स्वयं भूत्वा भिक्षामटति विहरन् गोपसुदृशाम् ॥ अमा चेतोभिः स्वैललितललितैनर्मविधिभिः दधिक्षीराज्याच्यां प्रचुरतरभिक्षा स लभते ॥८६॥ भिक्षावृत्तिर्जीवनोपायो यस्य स द्विजोत्रैवर्णिकोदिनशः प्रतिदिनं स्वयं नन्दतनयो भूत्वातद्रूपेणात्मानं विचिन्त्यइह भिक्षामटतियाचते किङ्कुर्वन् स्वकीयर्ललितललितैः अतिमनोहरैः नर्मविधिभिः क्रीडाकर्मभिर्गोपसुदृशां गोपत्रीणां चेतोभिः सार्द्ध JmAo १४४ सटीकक्रमदीपिकायाः विहरन् अमाशब्दः सहाथै सदधिदुग्धघृतप्रचुरां बहुभिक्षा प्राप्नोति ॥ ८६ ॥ यन्त्रमाह- मध्य इति। मध्ये कोणेषु षट्स्वप्यनलपुरपुटस्यालिखेत्कणिकायां- कन्दर्प साध्ययुक्तं विवरगतषडणद्विशः केशरेषु ॥ शक्ति श्रीपूर्वकानिद्विनवलिपिमनोरक्षराणि च्छदाना- मध्ये वर्णान् दशानां दशलिपिमनुवर्यस्य चकैकशो ऽजम् ॥ ८७॥ दशदलपद्म विलिख्यकर्णिकायां षट्कोणं वह्निगृहं वि. लिख्यवह्निगृहयुग्मस्य मध्ये षट्कोणेषु विलिखेत् लेखन प्रकारमाह कर्णिकायां मध्ये साध्यनामसहितम् अमुकस्यामुकं सिद्धत्वित्यनेन सहितं कन्दर्प कामवीज विलिखेतू तथाविवरगतं षडण षट्कोणगतवक्ष्यमाणषडक्षरं विलिखेत् तथा केशरेषु दशदलमूलेषु द्विशः द्वौद्वौकृत्वाद्वितवलिपिमनोरष्टादशाक्षरम- न्त्रस्य शक्तिश्रीपूर्वकानि भुवनेश्वरीवीजश्रीबीजाद्यान्यक्षराणि- विलिखेत तथा दशानां पत्राणां मध्ये दशलिपिमनुवर्यस्य दशा- क्षरमन्त्र श्रेष्ठस्य वर्णान् एकैकशोविलिखेत् ततोऽब्जंपद्मम् ॥ ८७ ॥ भूसझना ऽभिवृतमस्रगमन्मथेन । गोरोचनाऽभिलिखितं तपनीयसूच्या ॥ पट्टे हिरण्यरचिते गुलिकीकृतं तद्- गोपालयन्त्रमखिलार्थदमेतदुक्तम् ॥ ८८ ॥ (गोपालयन्त्रमुक्तं किंभूतम् ) भूविम्वेन चतुरस्रेण वेष्टितं कुर्या- त् कीदृशेनभूसाना अनगमन्मथेनकोणगतकामवीजेनएतदखिला- र्थदं गोपालयन्त्रमुक्तं कीदृशं सुवर्णशलाकयागोरोचनादिनासुवर्ण- रचितपट्टलिखितम् अनन्तरंवर्तुलीकृतम् ॥ ८८ ॥ संस्कारधृतफलंदर्शयति- SD पञ्चमपटलम्। यशः सम्पातति। संपातसिक्तमभिजप्तमिदं महद्भि- र्धाय जगत्त्रयवशीकरणैकदक्षम् । रक्षायशःसुतमहीधनधान्यलक्ष्मी सौभाग्यलिप्सुभिरजस्त्रमनय॑वीर्यम् ॥ ८९ ॥ इदंयन्त्रसंपातसिक्तम् आहुतिदानशेषपुरःस्थितघृतसिक्तं तथा- मन्त्रेणाभिमन्त्रितं रक्षाभयनिवारणं सत्कथाप्रकाश सुतः पुत्रः महीपृथिवी धनं सुर्वणादि लक्ष्मीः सर्वसंपत्तिः सौभाग्यं सर्वजनप्रियत्वम् एतत्प्राप्तुमिच्छद्भिर्महद्भिः शौचयुक्तैः सततंधारणीयम् अयमर्थः यथोक्तं यन्त्रसम्पाद्यप्राणप्रति- ष्टांकृत्वापञ्चगव्यपञ्चामृतादिभिः अभिषिच्य अष्टोत्तरशतंसहस्रंवा. संपातघृतसिक्तं कृत्वा यथोक्तसंख्यंजप्त्वाधारयेदितिकीदृशंजगत्- त्रयायत्तीकरणकुशलं पुनः अनर्घ्यवीय॑महाप्रभावम् ॥ ८९ ॥ यन्त्रस्यदर्शयति धारणादन्यत्राप्युपयोगं- भूतोन्मादेति । भूतोन्मादापस्मृतिविषमू विभ्रमज्वरानाम् । ध्यायशिरसि प्रजपेन्मन्त्रमिमं झटितिशमयितुंविकृतिम् ॥ ९० ॥ भूतः श्मशानदेशवर्ती अदृश्यरूपोऽनिष्टकारीउन्मादश्चित्त- विभ्रमः अपस्मृतिरपस्मारणयोगः विषमूर्छाकारिस्थावरं जङ्गम- श्व मूर्छा अचेष्टा विभ्रमः प्रमादः ज्वरोरोगविशेषः एतैरा नां पीडितानां शिरसिमस्तकोपरि इदं यन्त्ररूपंध्यायन्इमङ्गोपालम- न्त्रजपेत् किर्तुविकृतिझटितिशीघ्रंशमयितुं नाशयितुम् ॥ ९० ॥ यन्त्रेषडक्षरमन्त्रमुद्धरति- स्मरेति। स्मरत्रिविक्रमाक्रान्तश्चक्रीष्णायहृदित्यसौ ॥ षडक्षरोऽयं संप्रोक्तः सर्वसिद्धिकरोमनुः ॥ ९१ ॥ स्मरः कामवीजत्रिविक्रमः ऋकारः तेनक्रान्तः संबद्धः चक्री.

ककारः तथा इतिषणायोति स्वरूपहनमः इत्यनेन प्रकारेणासौ. षडक्षरोऽयं मन्त्रः सम्प्रोक्तः सर्वसिद्धिकरः आखिलकामदः ॥ ९१॥ सटीकक्रमदीपिकायाः शक्तिबीजमुद्धरति । क्रोड इति । क्रोडोऽग्निदीप्तामायाचीलवलाञ्छितमस्तकः ।। सैषाशक्तिः परासूक्ष्मानित्यासंवित्स्वरूपिणी॥१२॥ क्रोडोहकारः कीदृश अग्निनारेफेणदीप्तः पुनः मायावीदीर्घ- ईकारः तद्युक्तः पुनः लवेनविन्दुनालाच्छितमस्तकं यस्यसतथा. सानुस्वारइत्यर्थः एपाशक्तिः पराउत्कृष्टासूक्ष्मामृणालतन्तुसदृशी- नित्याजन्मनाशरहितासंवित्स्वरूपिणी स्वप्रकाशरूपिणी ॥ ९२ ॥ श्रीवीजमुद्धरति- अस्थीति। अस्थ्यग्निगोविन्दलबैलक्ष्मीवीजसमीरितम् ॥ आभ्यामष्टादशालिपिः स्थाविंशत्यक्षरोमनुः॥१३॥ अस्थिशकारः अनिःरेफः गोविन्दोदीर्घ ईकारः लवोविन्दुः एतैः संयुक्तः श्रीवीजसमीरितंकथितम् आभ्यां शक्तिश्रीवीजाभ्यां सहितः पूर्वोक्तावादशाक्षरमन्त्रः विंशत्यक्षरोभवति ।। ९३ ॥ परमेश्वर-पूजास्थाननियतिदर्शयति । शालग्राम इत्यादिना। शालग्राममणीयन्त्रे मण्डले प्रतिमासुच ॥ नित्यं पृजाहरेः कार्या नतु केवलभूतले ॥ ९४ ॥ शान्टग्राम प्रसिद्धेमणौगोमेदपद्मरागादौयन्त्रेऽस्मिन्नेवगोपाल- यन्त्रमण्डले सर्वतोभद्रादीसोमसूर्याग्निमण्डलेवेति रुद्रधरः प्रति- मासुमुवादिगोपालप्रतिमायाम् अत्रहरेनित्यं सर्वदापूजाकार्या नतुकेवालायां भूमी ॥ २४ ॥ कथिनप्रकाराणां फलंदर्शयति- पञ्चमपटलम् । १४७ इतीति । इति जपहुतपूजातर्पणाचैर्मुकुन्द य इह भजति मन्वोरेकमाश्रित्यनित्यम् ॥ स तु सुचिरमयत्नात्प्राप्यभोगान् विशेषान् पुनरमलतरन्तद्धामविष्णोः प्रयाति ॥ ९५ ॥ इति श्रीकेशवभट्टाचार्यविरचितायां क्रमदीपिकायां पञ्चमः पटलः ॥ ५॥ इतिकथितप्रकारैर्जपहोमपूजातर्पणैः आदिपदादभिषेकादिनायो- मुकुन्दनित्यंसेवते किं कृत्वा मन्योर्दशाष्टादशाक्षरयोरेकंगृहीत्वा इहलोके अयत्नात्सुचिरंसर्वकालं सर्वान्भोगान्प्राप्यपुनरन्ते प्र. सिद्ध निर्मलन्तेजः प्राप्नोतितद्धामाभवतीत्यर्थः ॥ ९५ ।। इति श्रीगोविन्दविद्याविनोदभट्टाचार्यविरचिते क्रमदीपिका- विवरणपञ्चमः पटलः ॥९५ ॥ अथैवं साधितमन्त्रयोःप्रयोगादीन् दर्शयति । विनियोगानिति। विनियोगानथो वक्ष्ये मन्त्रयोरुभयोः समान ॥ तदर्थकारिणोऽनन्तवीर्यान्मन्त्रांश्च कांचन ॥ १ ॥ अथो अनन्तरं मन्त्रयोदशाष्टादशाक्षरयोः समान् ध्यानविशे- षेणविनियोगान् तथा तदर्थकारिणोऽनन्तवीर्यान् वहुफलदातॄन् कांश्चिन्मन्त्रान् वक्ष्ये ॥१॥ प्रयोगार्थ दशाष्टादशाक्षरयोर्ध्यानमाह ।

सटीकक्रमदीपिकायाः ककारः तथाक इतिष्णायेति स्वरूपहृन्नमः इत्यनेन प्रकारेणासौ. षडक्षरोऽयमन्त्रः सम्प्रोक्तः सर्वसिद्धिकरः आखिलकामदः ॥ ९१ ॥ शक्तिवीजमुद्धरति । क्रोड इति । क्रोडोऽग्निदीप्तोमायावीलवलाञ्छितमस्तकः ।। सैषाशक्तिः परासूक्ष्मानित्यासंवित्स्वरूपिणी॥९२॥ क्रोडोहकारः कीदृश अग्निनारेफेणदीप्तः पुनः मायावीदीर्घ- ईकारः तद्युक्तः पुनः लवेनविन्दुनालाच्छितमस्तकं यस्यसतथा. सानुस्वारइत्यर्थः एषाशक्तिः पराउत्कृष्टासूक्ष्मामृणालतन्तुसदृशी. नित्याजन्मनाशरहितासंवित्स्वरूपिणी स्वप्रकाशरूपिणी ॥ १२॥ श्रीवीजमुद्धरति- अस्थीति। अस्थ्यग्निगोविन्दल वैलक्ष्मीवीजसमीरितम् ॥ आभ्यामष्टादशलिपिः स्वाविंशत्यक्षरोमनुः॥१३॥ अस्थिशकारः अग्निरेफः गोविन्दोदीर्घ ईकारः लवोविन्दुः एतैः संयुक्तैः श्रीवीजंसमीरितंकथितम् आभ्यां शक्तिश्रीवीजाभ्यां सहितः पूर्वोक्ताष्टादशाक्षरमन्त्रः विंशत्यक्षरोभवति ॥ ९३ ॥ परमेश्वर-पूजास्थाननियतिंदर्शयति । शालग्राम इत्यादिना। शालग्रामेमणौयन्त्रे मण्डले प्रतिमासुच ॥ नित्यं पूजाहरेः कार्या नतु केवलभूतले ॥ ९४ ॥ शालग्रामे प्रसिद्धेमणौगोमेदपद्मरागादौयन्त्रेऽस्मिन्नेवगोपाल- यन्त्रमण्डले सर्वतोभद्रादौसोमसूर्याग्निमण्डलेवेति रुद्रधरः प्रति- मासुसुवर्णादिगोपालप्रतिमायाम् अत्रहरेनित्यं सर्वदापूजाकार्या नतुकेवलायां भूमौ ॥ ९४ ॥ कथितप्रकाराणां फलंदर्शयति- पञ्चमपटलम् । इतीति । इति जपहुसपूजातर्पणाद्यैर्मुकुन्द य इह भजति मन्वोरेकमाश्रित्यनित्यम् ॥ स तु सुचिरमयत्नात्प्राप्यभोगान् विशेषान् पुनरमलतरन्तद्धामविष्णोः प्रयाति ॥ ९५ ॥ इति श्रीकेशवभट्टाचार्यविरचितायां क्रमदीपिकायां पञ्चमः पटलः ॥५॥ इतिकथितप्रकारैर्जपहोमपूजातर्पणैः आदिपदादभिषेकादिनायो- मुकुन्दंनित्यंसेवते किं कृत्वा मन्वोर्दशाष्टादशाक्षरयोरेकंगृहीत्वा इहलोके अयत्नात्सुचिरंसर्वकालं . सर्वान्भोगान्प्राप्यपुनरन्ते प्र. सिद्धं निर्मलन्तेजः प्राप्नोतितद्धामाभवतीत्यर्थः॥ ९५ ॥ इति श्रीगोविन्दविद्याविनोदभट्टाचार्यविरचिते क्रमदीपिका- विवरणेपञ्चमः पटलः ॥ ९५ ॥ अथैवं साधितमन्त्रयोःप्रयोगादीन् दर्शयति । विनियोगानिति । विनियोगानथो वक्ष्ये मन्त्रयोरुभयोः समान ॥ तदर्थकारिणोऽनन्तवीर्यान्मन्त्रांश्च कांश्चन ॥१॥ अथो अनन्तरं मन्त्रयोदशाष्टादशाक्षरयोः समान ध्यानविशे- षेणविनियोगान् तथा तदर्थकारिणोऽनन्तवीर्यान् वहुफलदातॄन् कांश्चिन्मन्त्रान् वक्ष्ये ॥१॥ प्रयोगार्थ दशाष्टादशाक्षरयोानमाह ।

सटीकक्रमदीपिकायाः वन्द इति। वन्दे तं देवकीपुत्रं सद्योजातं शुसप्रभम् ॥ पीताम्बरं करलसच्छङ्खचक्रगदाम्बुजम् ॥ २॥ उक्तरूपं प्रसिद्धं देवकीपुत्रंसद्योजातं वालकं घुसप्रभम् आका- शलमानकान्ति श्यामम्पीतवस्त्रं करे लसन्ति शोभमानानि शङ्खचक्र- गदापद्मानियस्यतं वन्देनमस्करोमि ॥२॥ एवमिति- एवं ध्यात्वाजपेल्लक्षं मन्त्रं ब्राह्ममुहूर्त के ॥ स्वादुप्लुतैश्च कुसुमैः पलाशेरयुत हुनेत् ॥ ३ ॥ एवममुनाप्रकारेणब्राझे मूहर्त्तकेउदयात्प्राक्दण्डद्वये दण्डचतुष्टय इति कश्चित् मन्त्रम् उभयोरेकं लक्षंजपेत् अनन्तरं पलाशपुष्पैः स्वादुप्लुतैघृतमधुशर्करासाहितैर्दशसहस्रजुहुयात् ॥ ३ ॥ फलमाह- मन्वोरिति । मन्वोरन्यतरेणैवं कुर्याद्यः सुसमाहितः ॥ स्मृति मेधां मतिवलं लब्ध्वा स कविराड् भवेत् । स्थान्मनुस्तत्समजपध्यानहोमफलोऽपरः ॥ ४॥ मन्वोर्दशाष्टादशाक्षरयोरन्यतरेणएकनसुसमाहितः सुसंयतः । सन् य एवं कुर्यात् स स्मृति स्मरणं मेधांधारणावतीवुद्धिं मति सम्यक् ज्ञानं वलंमहाप्राणत्वम् एतत्तवं प्राप्य कविराट् कविश्रेष्ठो- भवति स्यादिति अपरो ऽग्रेवक्ष्यमाणमन्त्रः कथितमन्त्रद्वयसमान- जपध्यानहोमफलोभवति ॥ ४॥ मन्त्रमाह- श्रीमन्मुकुन्दति । श्रीमन्मुकुन्दचरणौसदेतिशरणन्ततः । अहं प्रपद्य इत्युक्तो मौकुन्दोऽष्टादशाक्षरः ॥५॥ श्रीमन्मुकुन्दचरणौ सदेतिस्वरूपन्ततस्तदनन्तरंशरणमिति स्व- पञ्चमपटलम् । १४९ न रूपम् अहं प्रपद्य इति स्वरूपमित्यनेनप्रकारेण मौकुन्दो मुकुटा म्बन्धी अष्टादशाक्षरो मन्त्रः कथितः ॥ ५ ॥ ऋष्यादिकमाह- नारद इति। नारदोऽस्य तु गायत्री मुकुन्दश्वार्षिपूर्वकाः प्रातः प्रातः पिवेत्तोयं जप्तं योऽष्टोत्तर शतम् ।। अनेन षड्भिर्मासैः स भवेद्भुतधरो नरः ॥ ६ ॥ अस्यमन्त्रस्य नारदोमुनिर्गायत्रीछन्दोमुकुन्दोदेवताऋषिपूर्वकाः ऋष्याद्याः ऋषिच्छन्दोदेवताइत्यर्थः तेचनारदादयः। प्रयोगमाह । प्रातः प्रत्यहम् अष्टोत्तरशतं जप्तं मन्त्रजप्तंजलं पिवेत्सनरो अ- नेनविधानेनषड्भिर्मासैः श्रुतधरोभवेत् ॥ ६ ॥ प्रयोगान्तरमाह- उपसंहृतदिव्याङ्गं पुरोवन्मातुरङ्कगम् । चलदोश्चरणं वालं नीलाभं संस्मरन् जपेत् ॥७॥ उपसंहृतदिव्याङ्गं त्यक्तचतुर्वाहुरूपं धृतवाहुद्वयं पुरावत् यथा- वसुदेवसद्मनि भीतेन दिव्याङ्गमुपसंहृतं मातुरङ्कगं देवकीकोडेस्थि- तंचलद्दोश्चरणं चञ्चलहस्तपादं वालंशिशुनीलाभकृष्णंसंस्मरन् ॥७॥ अयुतं तावदेवाज्यैर्जुहुधाच्च हुताशने ॥ सलभेदचलाभक्तिं श्रद्धां शान्ति च शाश्वतीम्॥८॥ अयुतं जपेत् तावदेवानावाज्यघृतैर्जुहुयात् यः स स्थिरां परमे- श्वरविषयिणीमाराध्यत्वबुद्धिं शुद्धां शास्त्रवोधिते ऽर्थे ऽवश्यम्भा- विनिश्चयाऽऽत्मिकां शान्ति मोक्षरूपां शाश्वती नित्यां प्राप्नोतिदशा- शादशाक्षरयोर्विशेषध्यानमिदं प्रयोगार्थमिति भैरवत्रिपाठिनः ॥ ८॥ मन्त्रान्तरमाह- READ

१५०
सटीकक्रमदीपिकायाः
।
मनुनैतदिति ।
मनुनैतत्समस्तान्ते मरुन्नमितशब्दतः ॥
वाललीलात्मने हुंफट् नम इत्यमुनाऽथवा ॥९॥
अथवा अमुनावश्यमाणमन्त्रेणैतत्प्रयोगजातं साधयेत् म.
न्त्रमाह समस्तेति स्वरूपम् अस्याऽन्ते मरुन्नमित इति स्वरूपम्
एतस्माच्छब्दात् बाललीलात्मने हुंफडिति स्वरूपं नम इति
स्वरूपम् अयमप्यष्टादशाक्षरः दशाष्टादशाक्षरसमानः ॥ ९ ॥
ऋष्यादीनाह-
नलति।
नलकूवरगायत्रीबालकृष्णा इतीरिताः ॥
ऋष्याद्याः सिद्धयः सर्वाः स्युर्जपाबैरिहामुना॥१०॥
अस्य मन्त्रस्य ऋष्याद्याः ऋषिः छन्दो देवता नलकूवरप्रभृतयः
तत्र नलकूवरो मुनिर्गायत्री छन्दः वालकृष्णोदेवता इति इह भुवने
जपाद्यः सर्वाः सिद्धयोभवन्ति ॥१०॥
लम्बितमिति।
लम्वितं वालशयने रुदन्तं वल्लवीजनैः ॥
प्रेक्ष्यमाणं दुग्धबुद्ध्या तर्पयेत्सोऽश्नुते ऽशनम्॥११॥
वालशयनेआन्दोलिकायां लम्बितं स्थितं रुदन्तं क्रन्दमानं व.
ल्लवीजनैर्गोपीभिः प्रेक्ष्यमाणं दृश्यमानं प्रेर्यमाणमिति पाठे चाल्य-
मानमित्यर्थः दुग्धबुद्ध्याजलेन तर्पयेत् अशनं भक्ष्यवस्तु अश्नुते
प्राप्नोति ॥ ११॥
मन्त्रान्तरमाह--
अमुना वा ऽन्नरूपान्ते रसरूपपदं वदेत् ॥
तुष्टरूपनमोहन्द्रमन्नाधिपतये मम ॥
अन्नं प्रयच्छस्वाहेति त्रिंशदर्णोऽन्नदो मनुः ॥१२॥

पञ्चमपटलम् । अमुनामन्त्रेण पूर्वोक्तं कुर्यात् । मन्त्रमाह अन्नरूप इति शब्दान्ते रसरूप इति स्वरूपं तुष्टरू- पेति स्वरूपं नमोद्वन्द्वामिति नमोनम इति स्वरूपम् अन्नाधिपतये ममानं प्रयच्छस्वाहेति त्रिंशदक्षरो अन्नदमन्त्रः दशाष्टादशाक्ष- रसमानः ॥ १२॥ ऋष्यादीनाह- नारदेति । नारदानुष्टुवन्नाधिपतयोऽस्यर्षिपूर्वकाः ॥ भूतवालग्रहोन्मादस्मृतिभ्रंशाग्रुपद्रवैः पूतनास्तनपातारं अस्तमूर्ध्नि स्मरन् जपेत् ॥१३॥ सासुचूषणनिभिन्नसर्वाङ्गी रुदतीं च ताम् ॥ आविश्य सर्वेमुक्त्वा तं विद्रवन्ति द्रुतं ग्रहाः॥१४॥ अस्य मन्त्रस्य नारदोमुनिः अनुष्टुप्छन्दः अन्नाधिपतिर्देवता प्रयोगमाह भूतति भूतपिशाचादिलिग्रहो रोगविशेषः उन्मादाश्चि. त्तभ्रमः स्मृतिभ्रंशः सम्मोहः एतैरुपद्रवरुपतापैः अस्तमूर्ध्नि उप- तप्तमस्तके पूतनास्तनपायिनं कृष्णं स्मरन् मन्त्रं जपेत् ॥ १३ ॥ तां पूतनां रुदती क्रन्दमानां भावयेत्- पुनः कीदृशी सासुचूषणं सह प्राणेन यत् चूषणं समाकर्षणं तेन निर्मिन्नमना. यतं सर्वाङ्गं यस्याः सा तथा तां किं भूत्वा जपेत् आविश्य अहमेव हरिरिति भावयित्वा अनन्तरं तं प्रस्तं सर्वे ग्रहा उपद्रवा मुक्त्वा परित्यज्य द्रुतं शीघ्र विद्रवन्ति पलायन्ते अत्र दशाष्टादशाक्षरयो- विशेषध्यानमिदं प्रयोगार्थमिति त्रिपाठिनः ॥ १४ ॥ प्रयोगान्तरमाह- जुहुयादिति । जुहुयात् खरमञ्जर्या मञ्जरीभिर्विभावसौ। सुस्नातः पञ्चगव्याद्भिः पूतनाहन्तुरानने ॥ १५ ॥ खरमार्या अपामार्गस्य मञ्जरीभिरग्रभागैः पञ्चगव्यजलैः सिक्कै- १५२ सटीकक्रमदीपिकायाः विभावसौ वह्नौ पूतनाहन्तुः कृष्णस्यानमरूपे जुहुयात् ॥ १५ ॥ प्राशयेच्छिष्टगव्यं तत् कलसेनाभिषेचयेत् ॥ साध्यं सहस्रजप्तेन सर्वोपद्रवशान्तये ॥ १६ ॥ होमावशिष्टं पञ्चगव्यसाध्यं प्राशयेत् सहस्त्रजन पूर्वोक्तवि- धिनासाधितेन कलसेन वाऽभिषेचयेत् सर्वोपद्रवनिवृत्त्यर्थम् ॥१६॥ मन्त्रान्तरमाह- अमुनैतदिति । अमुनैतवादशार्ण हुंफट्स्वाहान्तकेन वा ॥ ऋष्याद्या ब्रह्मगायत्रीग्रहन्नहरयो ऽस्य तु ॥ १७ ॥ एतत्पूर्वोक्तप्रयोगद्वयं वक्ष्यमाणमन्त्रेण वा कुर्यात् मन्त्रमाह द्वादशेति पूर्वोक्तवासुदेवद्वादशाक्षरान्तेहुंफट्स्वाहेति षोडशाक्षरो- मन्त्रः दशाष्टादशाक्षरसमानः ऋष्यादिकमाह ऋष्याद्याइति ऋषि- प्रभृतयो ब्रह्मादयः तत्र ब्रह्मा ऋषिः गायत्रीछन्दः अहनरूपो हरिदेवता ॥ १७ ॥ निजति। निजपादाम्बुजाक्षिप्तशकटं चिन्तयन् जपेत् ॥ अयुतमन्त्रयोरेकं सर्वविघ्नोपशान्तये ॥ १८ ॥ निजचरणकमलनिक्षिप्तशकटं हरिंचिन्तयेत् मन्त्रयोः पूर्वमन्त्रा- परमन्त्रयोरेकमयुतं जपेत् किमर्थ सकलविघ्नोपशमनार्थ दशाष्टा- दशाक्षरयोरेव सर्वविघ्नशान्त्यर्थ विशेषध्यानमिति त्रिपाठिनः ॥१८॥ अधुना पूर्वोक्तश्रीमन्मुकुन्देत्यादि चतुर्जा मन्त्राणामङ्गावर- णानि दर्शयति- अङ्गानीति । अङ्गान्धमीषा मन्त्राणामाचक्रादिभिरर्चना ।। अङ्गैरिन्द्रादिवज्राद्यैरुदिता सम्पदे सदा ॥ १९ ॥ अमीषां कथितमन्त्राणाम् आचक्रादिभिर्दशाक्षरकथितैरङ्गानि Anoon पश्चमपटलम् । १५३ कार्याणि अर्चना पूजातु अझैस्तथेन्द्रायैस्तदायुधैश्चेति सम्पत्त्यर्थ सदा कथिता ॥ १९॥ मृत्युञ्जयविधिं दर्शयति । दशाष्टादशाक्षरयोर्वाऽऽरोग्याथै विशेषध्यानमाह-वाल इत्या- दिनेति त्रिपाठिनः। वाल इति । वालो नीलतनुर्दो दध्युत्थं पायसन्दधत् ॥ हरिवो ऽव्यावीपिनखकिङ्किणीजालमण्डितः॥२०॥ हरिवोयुष्मान् रक्षतु कीदृशः वालः पञ्चवर्षीयः पुनः कीदृशः नीलतनुः पुनः कीदृशः हस्ताभ्यां दध्युत्थं नवनीतं पायसं परमा- नञ्च धारयन् पुनः कीदृशः व्याघ्रनखक्षुद्रघण्टिकासमूहाभ्यामलं- कृतः ॥ २०॥ ध्यात्वैवमग्नौजुहुयात् शतवीर्याङ्कुरत्रिकैः । पयःसर्पिःप्लुतैर्लक्षमेकं तावजपेन्मनुम् ॥ २१ ।। एवंभूतं हरिंध्यात्वावह्नौ शतवीर्याकुरैः दूर्वाङस्त्रिभिः- कीदृशैः। पयोदुग्धं सर्पिघृतं ताभ्यां प्लुतैःसिक्तैः एकं लक्षंजुहुयात् लक्ष- मेकंजपेत् ॥ २१॥ गुरवे दक्षिणां दत्वा भोजयेद्धिजपुङ्गवान् । स ह्यब्दानां शतं जीवेन्न रोगी नाऽत्र संशयः॥२२॥ अनन्तरंगुरवेदक्षिणांदत्वाब्राह्मणान्भोजयेच्च स वर्षाणां शतं रो- गरहितः सन् जीवेत् अत्रसंशयोनास्ति ।। २२ ॥ मन्त्रान्तरमाह- अत्रेति। अत्राऽपरोमनुदिशार्णान्ते पुरुषोत्तम । आयुर्मेदहिसम्भाष्य विष्णवे प्रभविष्णवे ॥२३॥ २० MINS १५४ सटीकक्रमदीपिकायाः नमोन्तो ब्यधिकत्रिंशदोऽस्थर्षिस्तु नारदः छन्दोऽनुष्टुपदेवता च श्रीकृष्णोऽङ्गान्यतो ब्रु॥२४॥ एतादृशेकायें परो मन्त्रोऽस्ति । मन्त्रमाह- द्वादशाक्षरवासुदेवमन्त्रान्ते पुरुषोत्तम इति स्वरूपम् आयुर्मेदे- हीतिस्वरूपं विष्णवेप्रभविष्णवे इति स्वरूपं नमइत्यन्तोद्यधिक- त्रिंशदोद्वात्रिंशदक्षरोमन्त्रः कथितः तु पुनः अस्यमन्त्रस्यनारदऋ- षिरनुष्टुप्छन्दोदेवता श्रीकृष्ण इति अतोऽनन्तरम् अङ्गानिब्रुवे- वदामि ॥ २३ ॥२४॥ रवीति- रविभूतेन्द्रियवसुनेत्राणैश्चात्मनेयुतैः। महानन्दपज्योतिमायाविद्यापदैः क्रमात् ॥ २५ ॥ द्वादशपञ्चपञ्चाष्टद्विसंख्यातैमन्त्राक्षरैरात्मनेपदान्तमहानन्दादि- पदैः सह क्रमेण पञ्चाङ्गानि, सहानन्देत्यपिक चित्पाठः ॥ २५ ॥ एतस्यपुरश्चरणादिमाह- जप्त्वेति । जप्त्वा लक्षमिमं मन्त्रमयुतं पायसै नेत् । पूर्ववर्वयाजुह्वदायुर्दीर्घतरलभेत् ॥ २६ ॥ इमं मन्त्रं लक्षं. जप्त्वापायसैरयुतहुनेत् जुहुयात् एवं मन्त्रं संसाध्यपूर्ववदूर्वयाऽङ्कुरकैः दुग्धवृतमिलितैलक्षमेकंजुहुयात् । जपँश्च दीर्घतरमतिशतमायुः प्राप्नोति ॥ २६ ॥ दारयन्तमिति- दारयन्तं वकं दोया कृष्णं संगृह्य तुण्डयोः। स्मरन् शिशूनामातङ्केस्पृष्ट्वाऽन्यतरमभ्यसेत् ॥ तज्जप्ततिलजाभ्यङ्गाद्भवेयुः सुखिनश्च ते ॥ २७ ।। शिशूनां वालानामातङ्केभयेसमुपस्थिते तान् वालान् स्पृष्टा- कृष्णंस्मरन् अन्यतरमुक्तेष्वकंमन्त्रमभ्यसेजप्यात् कीदृशंकृष्णं क- ககக पञ्चमपटलम् । १६५ - राभ्यांतुण्डयोः संगृह्य वकनामानमसुरं विदारयन्तं तन्मन्त्रजप्त- तैलाभ्यङ्गात्तेवालाः सुखिनोभवन्ति स्मरनिति शिशुनामानं कृष्पां- स्मरन् के शिरसिस्पृष्टाजप्यादितिवोद्धव्यमत्रदशाष्टादशाक्षरयो- विशेषध्यानमिति त्रिपाठिनः ॥ २७ ॥ अस्मिन्नेववालरक्षार्थेऽन्योपिमन्त्रीस्तीत्याह- अत्राप्यन्य इति। अत्राऽप्यन्यो मनुर्वालवपुषे वहिवल्लभा । गोरक्षायां कणद्वेणुं चारयन्तं पशुंस्तथा ॥ २८ ।। वालवपुषे इति स्वरूपंवन्हिवल्लभतिस्वाहा अस्मिन्नर्थगोरक्षायां च विशेषध्यानमाह कणादिति वेणुवादनपरं पश्चारयन्तं कृष्णं- स्मरन् जप्यात् ॥ २८ ॥ अस्मिन्नेववालकरक्षार्थेगोरक्षायां च मन्त्रान्तरमाह- उक्त्वति। उक्त्वा गोपालकपदं पुनर्वेशधराय च । वासुदेवाय वर्मास्त्रशिरांस्यष्टादशाक्षरः ॥ २९ ॥ गोपालक इत्युक्त्वापुनर्वेशधराय इत्युक्त्वावासुदेवायेतिवदेत् वर्महुम् अत्रं फाडतिशिरः स्वाहा एतानिवदेत् एवं सति अष्टा- दशाक्षरोभवति ॥ २९॥ मनोनारदगायत्रीकृष्णादिरनेनवा । कुर्याद्गोपालसंरक्षामाचक्रायङ्गिना बुधः ॥ ३० ॥ अस्यपूर्वोक्तस्यचमनोनारदोमुनिर्गायत्रीच्छन्दः श्रीकृष्णोदेवता अनेनवामन्त्रेणउक्तद्रव्यादिनावागोपालरक्षांकुर्यात् कीदृशेन आच. काद्यङ्गयुक्तेन ॥३०॥ विषहरणप्रयोगमाह- कुम्भीनसेति। कुम्भीनसादिक्ष्वेडात्तौ दष्टमूर्ति स्मरन् हरिम् । वृत्यन्तं कालियफणारङ्गे ऽन्यतरमभ्यसेत् ॥ ३१॥ IMome १५६ सटीकक्रमदीपिकायाः दृशा पीयूषवर्षिण्या सिञ्चन्तं तत्तनुं बुधः । तर्जयन् वामतर्जन्या तं द्रामोचयते विषात् ॥३२॥ कुम्भीनसादिक्ष्वेडातौं सर्पविषपीडायाम् । कुम्भीनसास्तु ते सर्पा ये स्युदृष्टिविषोल्वणाः ॥ इति धरणिः। आदिपदावृश्चिकादिसंग्रहः दष्टमूर्ध्नि आतमस्तके स्पृष्ट्वा का. लियः नागविशेषस्तस्यफणासैवरङ्गभूमिस्तत्रनृत्यन्तं स्मरन् अन्य- तममन्त्रमभ्यसेत् जपेत् कीदृशं हरिं तत्तनुंशरीरम् अमृतवर्षिण्या दृष्टया सिचन्तं किंकुर्वन्स्मरेत् बामतर्जन्यातर्जयन् एवं सति तं दष्टं मन्त्री द्राक्शीघ्रविषान्मोचयेत् अत्रदशाष्टादशाक्षरयोर्विशेष. ध्यानमितित्रिपाठिनः ॥ ३१ ॥ ३२ ॥ प्रयोगान्तरमाह- आपूर्यति । आपूर्यकलशं तोयैः स्मृत्वा कालियमर्दनम् । जप्त्वाऽष्टशतमासिश्चेदिषिणं स सुखी भवेत् ॥३३॥ कलशंतोयैरापूर्याऽनन्तरङ्कालियमर्दनंदेवं स्मृत्वा ऽऽष्टाधिकं शतं जप्त्वातेनकलशेनविषिणं विषयुक्तम् आसिञ्चेत् अनन्तरं- विषात्सुखीभवति ॥ ३३॥ कालियमर्दनमन्त्रमाह- काव्यमध्य इति। काव्यमध्ये लियस्यान्ते फणामध्योदिवर्णकान् । उक्त्वा पुनर्वदेन्नृत्यङ्करोति तमनन्तरम् ॥ ३४ ॥ नमामि देवकीपुत्रमित्युक्त्वा नृत्यशब्दतः। राजानमच्युतं ब्रूयादिति दन्तलिपिमनुः ॥ ३५ ॥ काव्य इत्यक्षरद्वयोर्मध्ये लियस्योति स्वरूपम् एतस्यान्ते फणा- मध्योदि इति स्वरूपम् इत्यन्तान् वदेत् अनन्तरं नृत्यं करोति- तमिति अनन्तरं नमामिदेवकीपुत्रम् इति वदेत् अनन्तरं नृत्य- Relan पञ्चमपटलम् । शब्दतः नृत्यशब्दान्ते राजानमच्युतामिति ब्रूयादित्यनेन प्रकारेण- दन्तलिपि त्रिंशदक्षरोमन्त्रः कथितः ॥ ३४ ॥ ३५॥ अस्य मन्त्रस्य अङ्गादीनिदर्शयति- अस्येति । अस्याऽङ्गान्याधिभिर्व्यस्तैः समस्तैनारदो मुनिः। छन्दोऽनष्टुपदेवता च कृष्णः कालियमर्दनः॥३६॥ अस्य मन्त्रस्य व्यस्तैरेकैकम् अविभिश्चतुर्भिः पादैः समस्तै- मन्त्रात्मकैश्चाङ्गानिपञ्चाङ्गानिकथितानि मुनिः नारदः छन्दो ऽनुष्टुप कालीयमर्दनः कृष्णोदेवता ॥ ३६ ॥ पुरश्चरणमाह- जप्य इति । जप्यो लक्षं मनुरयं होतव्यं सर्पिषाऽयुतम् । अङ्गदिक्पालवज्राघरचनाऽस्य समीरिता ॥ ३७॥ अयं मन्त्रः लक्षं जप्यः सर्पिषाघृतेन पुनरयुतं होतव्यम् अङ्ग- दिक्पालवज्राद्यैस्त्रिभिरावरणैरर्चनापूजाकथिता ॥ ३७॥ प्रयोगमाह- क्रियति। क्रिया सर्वा च कर्तव्याविषनी पूर्वमीरिता । सदृशोऽनेन जगति नहि क्ष्वेडहरो मनुः ॥ ३८ ॥ पूर्वमन्त्रकथिता विषघ्नी सर्वा क्रिया अमुनैवमन्त्रेण कर्त्तव्या हियतः जगतिसंसारे अनेनमन्त्रेण सदृशः समानः श्वेडहर: वि. षहरोनास्ति ॥ ३८॥ विषघ्नं प्रयोगान्तरमाह- अङ्गैरिति । अङ्गैः शुकतरोः पिष्टैगुलिका धेनुवारिणा । आननस्याऽञ्जनालेपैर्विषघ्नी साधिताऽमुना॥३९॥ शुकतरोः करावृक्षस्येति भैरवत्रिपाठिनः किंशुकवृक्षस्येति १५८ सटीकक्रमदीपिकायाः लघुदीपिकाकारः अङ्गैस्त्वग्भिरिति रुद्रधरः पञ्चाङ्गैरिति त्रिपाठिनः धेनुवारिणासवत्सागोमूत्रेण पिष्टैः संपादितागुलिका अमुनामन्त्रे- णसाधितासतीविषनी भवति कैराननस्याऽअनालेपप्रकारैः ॥ ३९ ॥ अधुनाप्रयोगान्तरं दर्शयति । उद्दण्डेति । उद्दण्डवामदोर्दण्डधृतगोवर्धनाचलम् । अन्यहस्ताङ्गुलीव्यक्तस्वरवंशार्पिताननम् ॥ ४० ॥ ध्यायन् हरिं जपन्मन्बोरकं छत्रं विना व्रजेत् । वर्षवाताशनिभ्यः स्याङ्कयं तस्य नहि क्वचित् ॥४१॥ उत्तोलितो यो वामवाहुदण्डस्तेनधृतो गोवर्धनाचलोयेन तम् अन्यहस्ताङ्गुलिभिः व्यक्तस्वरोयस्य बंशस्यतत्रार्पितमाननं येनतम् एवभूतं हरिंचिन्तयन् मन्वोर्दशाष्टादशाक्षरयोरेक जपन् छत्रं वि. नाव्रजेत् यस्तस्य वृष्टिवायुवज्रादिभ्योभयं कापिनविद्यते ॥४०॥४१॥ प्रयोगान्तरमाह- मोघेति । मोघमेघौघयत्नापगतेन्द्रं तं स्मरन् हुनेत् । लवणैरयुतसंख्यातैरनादृष्टिन संशयः ॥ ४२ ॥ मोघोनिष्फलोयोमेघसमूहस्तस्य यत्नः तेनापगतः इन्द्रो यस्मात् तमेतादृशंहरिं चिन्तयन् अयुतसंख्यातैर्लवणैर्जुहुयात् अनन्तर- मनावृष्टिर्भवति नात्र संशयः ॥ ४२ ॥ प्रयोगान्तरमाह- क्रीडन्तमिति । क्रीडन्तं यमुनातोये मज्जनप्लवनादिभिः। तच्छीकरजलासारैः सिच्यमानं प्रियाजनैः ॥४३॥ ध्यात्वाऽयुतपयःसिक्तः हुनेद्वानीरतर्पणैः । वृष्टिर्भवत्यकालेऽपि महती नाऽत्र संशयः॥४४॥ यमुनाजलेमजनोन्मजनैः क्रीडन्तं क्रीडांकुर्वन्तं पुनः कीदृशं पञ्चमपटलम् । १५९ - प्रियाजनैः रुक्मिणीप्रभृतिभिस्तच्छीकरजलासारैः यमुनाजलधा- रारूपैः सिच्यमानम् एवंभूतं कृष्णं ध्यात्वावानीरतर्पणैः वेतसस- मिद्भिः पयःसिक्तैर्दुग्धोक्षितैरयुतं जुहुयात् एवं सति अकालो- ऽपि महतीवृष्टिभर्वति नात्र संशयः॥४३॥४४॥ अनेनैवध्यानेन प्रयोगान्तरमाह- अमुमेवेति । अमुमेव स्मरन् मुनि विषस्फोटज्वरादिभिः । सदाहमोहैरातस्य जपेच्छान्तिभवेत् क्षणात्॥४५॥ दाहमोहसहितैर्विषस्फोटज्वरादिभिरार्तस्य मूनि मस्तके अ. मुमेवपूर्वोक्तरूपं कृष्णं ध्यात्वाजपेत अनन्तरं तस्यपीडितस्य क्षणाद् शान्तिः स्वास्थ्यं भवति॥४५॥ एतस्यामेवाऽत्तौप्रकारान्तरमाह- अथ वेति। अथवागरुडारूढं वलप्रम्नसंयुतम् । निजज्वरविनिष्पिष्टज्वराभिष्टुतमच्युतम् ॥ ४६॥ ध्यात्वा ज्वराभिभूतस्य मूय॑न्यतरमभ्यसेत् । शान्ति बजेदसाध्योऽपि ज्वरः सोपद्रवः क्षणात्४७॥ अथवाज्वराभिभूतस्य मस्तकेऽच्युतं ध्यात्वा अन्यतरम् द्वयो- मध्ये एकं मन्त्रम् अभ्यसेत् जपेत् कीदृशम् अच्युतं गरुडारूढं पुनः कीदृशं वलप्रद्युम्नाभ्यां संयुतं पुनः कीदृशं निजज्वरेणवैष्णवज्व- रेणशीताख्येनाऽऽयुधरूपेणविनिष्पिष्टः चूर्णितो यो रौद्रज्वरउष्णा- ख्यायुधरूपस्तेनस्तुतम् अनन्तरम् अस्याऽसाध्योपिज्वरः शीघ्रमेव नाशं गच्छति कीदृशोज्वरः उपद्रवोगात्रपीडादि तत्सहितः॥४६॥४७॥ अनेनैव ध्यानेन प्रयोगान्तरमाह- ध्यात्योति । ध्यात्वैवमन्नावभ्यर्च्य पयोऽक्तैश्चतुरङ्गुलैः । जुहुयादमृताखण्डैरयुतं ज्वरशान्तये ॥ ४८ ॥ एवं पूर्वोक्तरूपं कृष्णं ध्यात्वा वन्हौ सम्पूज्यज्वरशान्त्यर्थ च- ।

सटीकक्रमदीपिकायाः Nepmaste तुरनुलपरिमितैर्दुग्धसिक्कैरमृताखण्डैगुडूचीखण्डरयुतंजुहुयात् ॥४८॥ प्रयोगान्तरमाह- निशातेति। निशातशरनिभिन्नभीष्मतापनुदं हरिम् । स्मृत्वा स्पृशन् जपेदात पाणिभ्यां रोगशान्तये॥४९॥ निशातः तीक्ष्णो यः शरस्तेन निभिन्नो विद्धो योभीष्मस्तस्य यस्तापस्तहरति एवंभूतं हरिंध्यात्वा आर्तज्वरादिपीडितं पाणिभ्यां स्पृष्ट्वाज्वरनाशार्थ मन्वोरेकतरंजपेत् ॥ ४९ ॥ प्रयोगान्तरमाह- अपमृत्युविनाशायेति । अपमृत्युविनाशाय सान्दीपनिसुतप्रदम् । ध्यात्वाऽमृतलताखण्डैः क्षीराक्तैरयुतं हुनेत्॥५०॥ सान्दीपनिः कृष्णगुरुः तस्य सुतप्रदं कृष्णंध्यात्वा अमृतल- ताखण्डैः गुडूचीखण्डैः क्षीराक्तैर्दुग्धसिक्तैरयुतंहुनेत् जुहुयात् कस्मै अपमृत्युरकालमरणं तस्य विनाशाय निवृत्तये ॥ ५० ॥ प्रयोगान्तरमाह- मृतपुत्रायेति। मृतपुवाय ददतं सुतान् विप्राय सार्जुनम् । ध्यात्वा लचं जपदेकं मन्वोः सुतविवृद्धये ॥५१॥ मृतपुत्राय विप्राय पुत्रान् ददतं सार्जुनं अर्जुनसहितं ध्या- स्वामन्चोरेकं लक्षं जपेत् किमर्थ सुतवृद्धिानिमित्तम् ॥ ५१ ॥ प्रयोगान्तरमाह- पुत्रजीवेति । पुत्रजीवेन्धनयुते जुहुयादनलेऽयुतम् । तत्फलैर्मधुराक्तैः स्युः पुत्रा दीर्घायुषोऽस्य तु ॥५२॥ जीयापुत्रेति यस्य प्रसिद्धिः तस्य इन्धनेन युते संपादिते वन्ही तत्फलैः पुत्रजीवाफलैर्मधुराक्तस्त्रिमध्वक्तैर्मन्वोरेकेनाऽयुतं जुहुयात षष्ठपटलम्। अनन्तरम् अस्य होमकर्तुः पुत्राः दीर्घायुषो भवन्ति ॥ ५२ ॥ प्रयोगान्तरमाह- क्षीरेति। क्षारदुक्काथसंपूर्णमभ्यर्च्य कलशं निशि । जप्त्वाऽयुनं प्रगे नारीमाभषिञ्चेद् द्विषदिनम्॥५३॥ सा वन्ध्याऽपि सुतान् दीर्घजीविनोगदर्जितान् । लभते नात्रसंदेहस्तज्जप्ताज्याशिनी सती ॥५४॥ कलशपूरणविधानेन क्षीरवृक्षवाथेन सम्पूर्ण कलशं निशिरात्री सम्पूज्याऽयुतं जप्त्वा प्रगे प्रातःकाले पुत्रार्थिनी स्त्रियं द्विषट् दिनं द्वादश दिनानि व्याप्याऽभिषिञ्चेतू अनन्तरं साऽभिषिक्ता पन्ध्या. ऽपि अपत्यजननसमययोग्या अजनितापत्याऽपि पुत्रान् दीर्घायुषो. रोगरहितान् प्राप्नोति किम्भूता सती मन्त्रजप्ताज्यभोजिनी सती अत्रार्थ सन्देहो नास्ति ॥ ५३॥ ५४ ॥ प्रयोगान्तरमाह- प्रातरिति। प्रातवाचंयमा नारी बोधिच्छदपुटे जलम् । मन्त्रयित्वाऽष्टोत्तरशतं पिवेत्पुत्रीयती ध्रुवम् ॥५५॥ प्रातः काले वाचंयमा मौनिनी पुत्रीयती आत्मनः पुत्रमिच्छन्ती बोधिच्छदपुटे पिप्पलपत्रपुटे जलं मन्वोरन्यतरेणाष्टोतरशतं जप्तं मासं व्याप्य पिवेत् अनन्तरं पुत्रं प्राप्नोतीति शेषः । जलपानमन्त्रमाह । देवकीपुत्रति । अत्रप्रसङ्गात् अस्मिन् ग्रन्थे अनुक्तोऽपि सन्तानगोपालमन्त्रः कथ्यते। तद्यथा। देवकीपुत्र गोविन्द वासुदेव जगद्गुरो। देहि मे तनयं कृष्ण त्वामहं शरणं गतः । अस्य मन्त्रस्य नारदोमुनिः अनुष्टुप्छन्दः सन्तानप्रदोगो- पालकृष्णोदेवता पदैर्व्यस्तैः समस्तैर्वा पञ्चाङ्गानि । २१ १६२ सटीकक्रमदीपिकाया: ध्यानं यथा । शङ्खचक्रधरं कृष्णरथस्थंच चतुर्भुजम् । सर्वाभरणसन्दीप्तं पीतवाससमच्युतम् । मयूरपिच्छसंयुक्तं विष्णुतेजोपहितम् । समर्पयन्तं विप्राय नष्टानानीय वालकान् । करुणामृतसंपूर्णदृष्ट्येक्षन्तं च तं द्विजमिति ॥ ५५ ॥ प्रयोगान्तरमाह- प्रहितामिति। प्रहितां काशिराजेन कृत्यां छित्वा निजारिणा। तत्तेजसा तन्नगरी दहन्तं भावयन हरिम् ॥५६॥ स्वस्नेहाक्तैर्डनेद्रात्रौ सर्षपैः सप्तवासरम् । कृत्या कारमेवाऽसौ कुपिता नाशयेद् ध्रुवम्॥५॥ प्रहितां प्रेषितां काशीश्वरेण कृत्यां घातकत्री निजारिणा नि- जचक्रेणछित्वा अनन्तरं तत्तेजसा तस्य काशिराजस्य नगरी दहन्तं कृष्णं भावयन् स्वस्नेहाक्तैः सर्षपतैलयुक्तैः सर्षपैः सप्त- दिनानि व्याप्य रात्रौ मन्वोरेकतरेण जुहुयात् अथाऽनन्तरम् असौ कृत्या क्रुद्धा सती ध्रुवं निश्चितं कर्तारमेव नाशयेत् ॥ ५६ ॥ १७ ॥ प्रयोगान्तरमाह- आसीनमिति। आसीनमाश्रमे दिव्ये वदीषण्डमण्डिते । स्पृशन्तं पाणिपदमाभ्यां घण्टाकर्णकलेवरम् ॥५८॥ ध्यात्वाऽच्युतं तिलैलक्षं हुनेत्रिमधुराप्लुतैः । मुक्तये सर्वपापानां शान्तये कान्तये तनोः ॥५९ ।। घदरीषण्डोवदरीसमूहस्तेनमण्डिते शोभितेदिव्येउत्कृष्टे आ. श्रम आसीनम् उपविष्टं तथा हस्तपङ्कजाभ्यां घण्टा करणस्यमहादेवमूर्तेः कस्यचिन् महादेवभक्तस्य वाकलेवरंश- रीरंस्पृशन्तमच्युतन्ध्यात्वातिलैः त्रिमधुराप्लुतैघृतमधुशर्करामि ARIHAR षष्ठपटलम् । m श्रितैमन्वोरेकेनलक्षं जुहुयात् किमर्थमोक्षाय तथा सकलपापानां विनाशार्थ तथा तनोदेहस्यकान्तयेदीप्त्यर्थम् ॥ ५८॥ १९ ॥ प्रयोगान्तरमाह- द्वेषयन्तमिति । वेषयन्तं रुक्मिवलौ द्यूतासक्तौ स्मरन् हरिम् । जुहुयादिष्टयोर्दिष्ट्यै गुलिका गोमयोद्भवाः ॥ ६ ॥ धूतासक्तौ द्यूतकर्मकुर्वन्तौ रुक्मिवलभद्रौ द्वेषयन्तंपरस्परं द्वेषमु. त्पादयन्तंहरिस्मरन् गोमयोत्पन्ना गुलिका मन्वोरेकेन जुहुयात् । अत्र सहस्रहोमोवोद्धव्यः । अनुक्तायान्तु संख्यायांसहस्रंतत्रनिर्दिशेत् । इति वचनातू। किमर्थम् । इष्टयोर्मित्रयोर्दिष्ट्यैविद्वेषणार्थम् ॥ ६॥ प्रयोगान्तरमाह- ज्वलदिति । ज्वलबहिमुखैर्वाणैर्वर्षन्तं गरुडध्वजम् धावमानं रिपुगणमनुधावन्तमच्युतम् ॥ ६१ ॥ ध्यात्वैवमश्यसेन्मन्वोरकं सप्तसहस्रकम् । उच्चाटनं भवेदेतद्रिपूणां सप्तभिर्दिनः ।। ६२ ।। ज्वलन् देदीप्यमानो योवन्हिस्तद्वन्मुखंयेषां तैर्वाणैर्वर्षन्तंताड. यन्तं तथा गरुडारूढं तथा धावमानं शत्रुसमूहमनुपश्चाद्धावन्तं हरिंध्यात्वामन्वर्दिशाष्टादशाक्षरयोरेकं सप्तसहस्रमभ्यसेत् जपेत् एवं कृते सतिएतस्यशबूणां सप्तभिर्दिनैरुचाटनं भवतिस्वदेशादपया नं भवति ॥ ६१॥२॥ प्रयोगान्तरमाह- उतक्षिप्तेति । उतक्षिप्तवत्सकं ध्यायन् कपित्थफलहारिणम् । अयुतं प्रजपेत्साध्यमुच्चाटयति तत्क्षणात् ॥ ६३ ॥ उत्क्षिप्तऊईक्षिप्तोवत्सोवत्सरूपोवत्सकासुरोयेनतथा कपित्थ- १६४ सटीकक्रमदीपिकाया: स्यफलंहरतीति कृष्णध्यात्वामन्वोर्मध्येएकमयुतंजपेत् । अनन्तरं तत्क्षणात्शीघ्रमेवसाध्यमुश्चाटनीयमुश्चाटयति ॥ ६३ ॥ प्रयोगान्तरमाह- आत्मानमिति । आत्मानं कसमथनं ध्यात्वा मञ्चान्निपातितम् । कंसात्मानमरि कर्षन् गतासु प्रजपेन् मनुम् ॥ ६४ ॥ अयुतं जुहुयादाऽस्य जन्मोडुतरुतर्पणैः । अपि सेवितपीयूषो म्रियतेऽरिनसंशयः ॥ ६५ ॥ आत्मानं कंसमथनं कृष्णंध्यात्वाकंसमथनात् मनोरैक्यं पि. चिन्त्य तथा रिपुंकंसस्वरूपम् अपगतप्राणं ध्यात्वारिपुकसयोरभेदं विचिन्त्येति भावः मञ्चाधाकृतम् आकर्षयन् आकर्षणं भावय- म्मन्वोरेक मयुतं जपेत् अस्यरिपोः जन्मोडुतरतर्पणैः समिद्भिर्जुयाच कारस्करोऽथधात्रीस्यादुदुम्वरतरुः पुनः। जम्बूखदीरकृष्णाख्यावंशपिप्पलसंज्ञको। नागरोहितनामानौ पलाशप्लक्षसंशको। अम्वष्ठविल्वार्जुनाख्यंविकतमहीरुहः । वहलः सवलः खर्जुण्डिलः पनसार्कको। शमीकदम्बाम्रनिम्वमधुका ऋक्षशाखिनः । इति । सप्तविंशतिनक्षत्राणांवृक्षाः। जन्मनक्षत्रवृक्ष एवं कृतेसेवितपीयूषोपिनियतेनात्रसंशयः॥६॥६५॥ इदं प्रयोजनं प्रकारान्तरेणापिभवतीतिदर्शयति । अथवेति । अथवा निम्वतैलाक्तहुनेधोभिरक्षः। अयुतं प्रयतो रात्रौ मरणाय रिपोः क्षणात् ॥ ६६ ॥ निन्वतैलसितैः अक्षजैः विभीतकसमिद्भिःप्रयतः पवित्रा सन् CONOMIND षष्ठपटलम् । रात्रीमन्वोरेकेन अयुतं हुनेत् किमर्थ शत्रोः शीघ्रविनाशाय ॥ ६६ ॥ अस्मिन्नेवार्थे प्रयोगान्तरमाह- दोषेति। दोषारिष्टवलब्योषकासास्थिकर्णनिशि ॥ हुनेदेरण्डतैलाक्तैः स्मशानस्थोऽरिशान्तये ॥ ६७ ॥ दोषाहरिद्रा अरिष्टदलं विभीतकपत्रमिति रुद्रधरः भल्लातक पत्रमितिरुद्रधरः निस्वपत्रमिति भैरवत्रिपाठिनः व्योषन्त्रिकटु- कं कार्पासाऽस्थिकासवीजं कणः पिप्पलीएतैमिलितैरेरण्डतै- लसिक्तैः स्मशानस्थः मृतसंस्कारस्थानस्थः सन् निशिरात्रौमा म्योरेफेनजुहुयात् किमर्थ शत्रुनाशार्थम् ॥ ६७ ॥ रागान्मारणप्रयोगे प्रायश्चित्तमाह- नशस्तमिति। न शस्तं मारणं कर्म कुर्याच्चेदयुतं जपेत् । हुनेछा पायसैस्तावत् शान्तये शान्तमानसः॥ ६८ ॥ मारणं कर्म शिष्टजनस्य न प्रशस्तं तथा ऽपियदिवारागीत कुर्यात्तदामन्वोर्मध्येएकं मन्त्रम् अयुतं जपेत् परमानेनवा अयुतं जुहुयात् शान्तये पापनाशाय शान्तमानसोनिमत्सरः ॥ ६८॥ प्रयोगान्तरमाह- जयकाम इति। जयकामो जपेल्लवं पारिजातहरं हरिम् । स्मरन् पराजयस्तस्य न कुतश्चिद्भविष्यति ॥ ६९ ॥ जयकामः पुमान् वलादिन्द्रसकाशात्स्वर्गस्थपारिजातापहारिणं कृष्णं भावयन् मन्वोरेकं लक्षं जपेत् एवं कृतेतस्य भङ्गः कस्माद- पिनभविष्यतीति ॥ ६९ ॥ प्रयोगान्तरमाह- AUR ear सटीकक्रमदीपिकायाः पार्थ इति । पार्थे दिशन्तं गीतार्थ व्याख्यामुद्राकरं हरिम् । रथस्थं भावयन् जप्याद्धर्मवृध्यै शमाय च ॥ ७० ॥ पार्थे अर्जुनेगीतार्थ दिशन्तं कथयन्तं तथा व्याख्यामुद्राकरे. यस्यतम् उत्तानतर्जन्यङ्गुष्ठयुताब्याख्यामुद्रा तथा रथारूढं हरि. भावयन् मन्वोरेकं लक्षं जपेत् किमर्थ धर्मोत्पत्त्यर्थ मोक्षार्थञ्च ॥७॥ प्रयोगान्तरमाह- लक्षमिति। लक्षं पलाशकुसुमैर्हनेद्यो मधुराप्लुतैः । व्याख्याता सर्वशास्त्राणांस कविर्वादिराड् भवेत्॥७॥ यः पलाशपुष्पैघृतमधुशर्करामित्रैर्मन्वोरेकेनलक्षं जुहुयात् सः सकलशास्त्राणांव्याख्याताकविराट्कविश्रेष्ठश्वभवेत् ॥ ७१ ॥ प्रयोगान्तरमाह- विश्वेति। विश्वरूपधरं प्रोद्यद्भानुकोटिसमद्युतिम् । द्रुतचामीकरनिभमाग्निसोमात्मकं हरिम् ॥ ३२॥ अर्काग्निद्योतदास्पानिपङ्कजं दिव्यभूषणम् | नानायुधधरं व्याप्तविश्वाकाशावकाशकम् ॥ ७३ ॥ राष्ट्रपूर्णामवास्तूनां शरीरस्य च रक्षणे । प्रजपेन्मन्त्रयोरेकतरं ध्यात्वैवमादराव ॥ ७४ ॥ विश्वरूपधरम् एतद्व्याचष्टे उद्यदादित्यकोटिसमानकान्ति तथा द्रवीभूतसुवर्णतुल्यं तथा अग्निसोमस्वरूपं सूर्यसोमा- त्मकमिति त्रिपाठिनः तथा सूर्याग्निवदुज्ज्वलं मुखं पादपद्मं यस्य तथा चारुभूषणं तथाविविधशस्त्रधरं तथा व्याप्तसंसाराकाशाभ्य. न्तरम् एतादृशं हार ध्यात्वा आदरात मन्त्रयोरेकं जपेत् किमर्थ

व्यस्तम् एकैकं सर्व समस्ता
षष्ठपटलम् ।
१६७
राष्ट्रोदेशः पूनगरं ग्रामोऽल्पजनवासस्थानं वास्तुएकगृहस्वामि
वासः क्षेत्रम् इति गोविन्दमिश्राः वस्त्विति पाठे हिरण्यादि एतेषां
शरीरस्य च रक्षणेरक्षानिमित्तम् ॥७२॥७३॥ ७४॥
प्रकारान्तरमाह-
अथ वेत्यादि ।
अथवा व्यस्तसर्वाधिरचिताङ्गार्जुनर्षिकम् ।
त्रिष्टुप्छन्दसिकं विश्वरूपविष्ण्वधिदैवतम् ।। ७५॥
जपेद्गीतामनुं स्थानेहृषीकेशाद्यमाज्यकैः ।
हुनेहा सर्वरक्षायै सर्वदुःखोपशान्तये ॥ ७६ ॥
इति श्रीकेशवभट्टाचार्यविरचितायां
क्रमदीपिकायां षष्ठः पटलः ॥ ६ ॥
अथवा स्थानेहृषीकेशाद्यंगीतामनुं जपेत् किंभूतं मनुं
म् अङ्गं पञ्चाङ्गम् अर्जुनः ऋषिर्यत्रतं व्यस्तसर्वाधिरचिताङ्गश्चा-
जुनऋषिकश्चेति द्वन्द्वः तं त्रिष्टुप्छन्दो यत्रतं विश्वरूपोविष्णुर-
धिदेवता यस्य तम् आज्यकैघृतैहुनेद्वा वाशब्दः समुच्चयेहुनेत् टीका-
न्तरेउक्तप्रयोगेषु यत्र जपहोमयोः संख्या न उक्ता तत्र संनिधानो-
क्ता गृह्यते तदभावेऽष्टोत्तरंसहस्त्रंशतं वा अष्टौसहस्राणीत्येके।
जगन्मोहनाख्यतन्त्रे।
लक्षं वाप्ययुतं वापि सहस्रं शतमेव च ।
कार्याणां गौरवान्मन्त्रीतत्तद्धोमंसमाचरेत् ॥ ७५ ॥ ७६ ॥
इति श्रीक्रमदीपिकायां विवरणे षष्ठः पटलः॥६॥

१६८ सटीकक्रमदीपिकायाः अनेकमन्त्रकथनार्थ सप्तमं पटलमुपकामति । धक्ष्य इत्यादिना। वक्ष्येऽक्षयधनावात्यै प्रतिपति श्रियः पतेः । सुगुप्तां धननाथाचैर्धन्यैर्या क्रियते सदा ॥१॥ श्रियः पतेर्गोपालस्य प्रतिपत्तिध्यानं मन्त्रपूजाध्यानादिप्र- कारं वा वक्ष्ये या प्रतिपत्तिर्धननाथाद्यैः कुवेरप्रभृतिभिर्महा- धनैः क्रियते कस्यै अक्षयमविनाशि यद्धनं तत्प्राप्त्यै सुगुप्तां ना- त्यन्तप्रकटितां द्विजैरित्यर्थः १ द्वारवत्यामित्यादि सप्तश्लोकैर्मध्यकुलकम् । द्वारवत्यां सहस्रार्कभास्वरैर्भवनोत्तमैः । अनल्पैः कल्पवृक्षश्च परीते मण्डपोत्तमे ॥ २॥ अच्युतो ध्येयः कुत्र द्वारवत्त्यां मणिमण्डपे मणिसिंहासनाम्वुजे आसीनो द्वारकानगरीगतमणिमण्डपावस्थितमणिमयसिंहासन- पद्मोपविष्टः मणिमण्डपे कीदृशे भवनोत्तमैः गृहोत्तमैः कल्पवृक्षश्च परीते वेष्टिते किम्भूतैः सहस्रसूर्याः तद्वद्भास्वरैर्दीतैरनल्पैर्विस्तरैः २ पुनः कीदृशे। ज्वलद्रनमयस्तम्भहारतोरणकुड्यके । फुल्लत्रगुल्लसचित्रवितानालम्विमौक्तिके ॥ ३ ॥ ज्वलन्तिदीप्तानियानिरत्नानि तन्मयंतप्रधानंस्तम्भः गृहाधा- रभूतं द्वारतोरणं कुड्यं भित्तिर्यत्र तस्मिन् प्रफुल्लाविकासनीयानक पुष्पमालाउल्लसच्छोभमानं पवित्रं नानाप्रकारं वितानं तत्रालम्वि- मौकिकंयत्र तत्र॥३॥ पुनः कीदृशे मणिमण्डपे। पद्मरागस्थलीराजद्रत्ननद्योश्च मध्यतः । अनारतगलद्रत्नसुधस्य स्वस्तरोरधः ॥४॥ पनरागमयीयास्थली राजद्देदीप्यमानरक्षमयी च धानदी सप्तमपटलम् । तयोर्मध्ये स्वस्तरोः पारिजातस्याधः स्वस्तरोः किंभूतस्य अनारतं सर्वदागलन्तीरत्नमयी सुधा अमृतं यस्य तस्य ॥४॥ पुनः कीदृशेमणिमण्डपे- रत्नप्रदीपावलिभिः प्रदीपितदिगन्तरे । उद्यदादित्यसंकाशे मणिसिंहासनाम्बुजे ॥ ५ ॥ रत्नप्रदीपावलिभिज्वलद्रनैः प्रदीपितम् उद्भासितं दिशामन्तरा- लम् अवकाशो यत्र मणिसिंहासने किंभूते उद्यन् प्रादुर्भवन् य आदित्यस्तस्य सङ्काशे सदृशे ॥५॥ अच्युतः किम्भूतः। समासीनोऽच्युतो ध्येयो द्रुतहाटकसंनिभः । समानोदितचन्द्रार्कतडित्कोटिसमद्युतिः ॥ ६ ॥ द्रुतहाटकसन्निभः द्रवीभूतस्वर्णतुल्यः समानोदिता एकदो. द्गता या चन्द्रार्कानां कोटिः तडितामपि कोटिः तत्समा- धुतिर्यस्य सः॥६॥ पुनः किम्भूतः- सर्वाङ्गसुन्दरः सौम्यः सर्वाभरणभूषितः॥ पीतवासाश्चक्रशङ्खगदापद्मोज्वलभुजः॥७॥ सर्वाङ्गेनमुखादिना सुन्दरोरम्यः सौम्योऽनुद्धतः सर्वाभरणेनकु- ण्डलाद्यलंकारेणभूषितः पीतवासापीतेवाससीयस्यसः शङ्खचक्रग. दापःउज्वलादीप्ताभुजायस्यलः॥७॥ पुन कीहश:- अनारतोच्छलद्रत्नधारौघकलशं स्पृशन् । वामपादाम्बुजाग्रेण मुष्णता पल्लवच्छविम् ॥ ८ ॥ वामपादाम्बुजाण अनारतं सर्वदाउच्छलन्तीयारनधारात. स्याओधःप्रवाहोयत्रसचासोकलसश्चेति कर्मधारयः स्पृशन् वाम- २२ MINS सटीकक्रमदीपिकायाः मपादाम्बुजाण किम्भूतेन पल्लवच्छविमुष्णताकिशलयकान्ति चोरयता ॥८॥ अष्टमहिषीध्यानमाह- रुक्मिणीसत्यभामेऽस्य मूर्ध्निरत्नौघधारया॥ सिश्चिन्त्यौदक्षवामस्थेस्वदोस्थिकलशोत्थया ॥९॥ रुक्मिणीसत्यभामेध्येयेकिम्भूते अस्यहरेमूर्ध्निशिरसिरत्नप्रवा- हधारयासिचन्त्यौ कीदृशे दक्षवामस्थे अत्र रुक्मिणीदक्षिणेसत्या. वामे किम्भूतयाधारयास्वहस्तस्थघटोद्भवया ॥९॥ नानजितीसुनन्देच ध्येये- एतेकीदृशे। नाग्नजितीसुनन्दा च दिशन्त्यौकलशौतयोः ।। ताभ्यां च दक्षवामस्थेमिन्त्रविन्दासुलक्ष्मणे ॥१०॥ तयो रुक्मिणीसत्यभामयोः स्थानरत्नघटौदिशन्त्यौददत्यौकी- दृशेदक्षवामस्थे तथा मित्रविन्दासुलक्ष्मणेदक्षिणवामस्थेध्येयेकिम्भू- तेताभ्यांनानजितीसुनन्दाभ्यां कलशंदिशन्तीभ्याङ्कलशंददत्यौ ॥१०॥ रत्ननद्यासमुद्धृत्यरत्नपूर्णौ घटौतयोः । जाम्बवतीसुशीला च दिशन्त्यौदक्षवामगे ॥ ११ ॥ तथा दक्षवामे जाम्बवतीसुशीलेचध्येयेकिम्भूते रतनद्यारत्न- पूर्णौघौसमुदधृत्यतयोर्मित्रविन्दासुलक्ष्मणयोर्दिशन्त्यौ ॥ ११ ॥ वहिः षोडशसाहस्रसंख्याताः परितः स्त्रियः ॥ ध्येयाः सकलरत्नौघधारयुक्लशोज्ज्वलाः ॥१२॥ तद्वहिः परितः षोडशसाहस्रसंख्याताः प्रियाध्ययाः किम्भूताः कनक सुवर्ण रत्नानिपद्मादीनितेषामोधः समूहः तस्यधारा युन- तीति तद्युक्यः कलसः तेनदीप्ताः ॥ १२ ॥ तद्वाहिश्चाष्टनिधयोध्येया:- कीरशाः।

सप्तमपटलम् । तद्वाहिश्चाष्टनिधयः पूरयन्तोधनैर्धराम् ॥ तबहिष्णयः सर्वे पुरोवच्चसुरादयः ॥ १३ ॥ धरांपृथ्वींधनैः पूरयन्तः तद्वहिर्वृष्णयोयादवाध्येयाः अनन्तरं पु. रोवत् दिक्षुस्थिताः सुरादयः देवर्षिसिद्धाविद्याधरगन्धर्वप्रभृत. योरत्नाभिषेकं कुर्वन्तोध्येयाः ॥ १३ ॥ ध्यात्वेति- ध्यात्वैवं परमात्मानं विंशत्यर्ण मनुंजपेत् ।। चतुर्लक्ष हुनेदाज्यैश्चत्वारिंशत्सहस्रकम् ॥१४॥ एवं परमात्मरूपम् अशरीरिणं ध्यात्वाविंशत्यक्षरं मन्त्रं चतुर्लक्ष- जपेत् आज्यघृतेश्चत्वारिंशत्सहस्रक हुनेत् जुहुयात् ॥ १४ ॥ विंशत्यक्षरमन्त्रमुद्धरति- शक्तीति। शक्तिश्रीपूर्वकोऽष्टादशाविंशतिवर्णकः ॥ मन्त्रेणानेन सदृशोमनुर्नहिजगत्तये ॥१५॥ शक्तिःभुवनेश्वरीवीजं श्रीः श्रीवीजम् एतद्वीजयपूर्वकः पूर्वो. काष्टादशाक्षरमन्त्रः एवं विंशत्यक्षरोभवतीत्यर्थः अनेनमन्त्रणसह- शोमन्त्रीजगन्नयनास्ति ॥ १५ ॥ ऋष्यादिकंदर्शयति- ऋषिब्रह्मा च गायत्री छन्दः कृष्णस्तुदेवता ॥ पूर्वोक्तवदेवास्य वीजशत्यादिकल्पना ॥ १६ ॥ अस्यमन्त्रस्य वीजशक्त्यादिकल्पना पूर्वोक्तवत् दशाक्षरवत् तथा च दशाक्षरस्ययद्वीजादिकन्तदस्यापीत्यर्थः॥ १६ ॥ पूजाप्रकारमाह- कल्प इत्यादिना। कल्पः सनत्कुमारोक्तोमन्त्रस्था ऽस्योच्यते ऽधुना ॥

सटीकक्रमदीपिकायाः
पीठन्यासादिकं कृत्वा पूर्वोक्तक्रमतः सुधीः ॥ १७ ॥
अस्यमन्त्रस्य सनत्कुमारकथितः पूजाप्रकार:
संप्रतिमयाकथ्यते
पूर्वोक्तक्रमतः दशाक्षरोक्तप्रकारेणपीठन्यासप्राणायामादिकं कृत्वा॥१७॥
करबन्दाङ्गुलितलेष्वगषदकं प्रविन्यसेत् ॥
मन्त्रेण व्यापकं कृत्वा मातृकांमनुसंपुटाम् ॥ १८ ॥
संहारसृष्टिमार्गेण दशतत्वानिविन्यसेत् ॥
पुनश्चव्यापकं कृत्वा मन्त्रवर्णीस्तनौन्यसेत् ॥ १९ ॥
उभयकराङ्गुलिषु उभयकरतलेषु च षडङ्गानि क्रमान्न्यसेत्मन्त्रे.
णेतिविंशत्यक्षरमन्त्रेणव्यापकं सर्वतनौन्यासं कृत्वामातृकां मातृका-
न्यासंमनुलपुटांविंशत्यक्षरपुटितप्रत्यक्षरां पूर्वोक्तमातृकास्थानेषु
विन्यसेत् प्रयोगश्चहीं अंह्रीं नम इत्यादिः एवंभपर्यन्तं द्विरावृतिः
ततो ही श्रींहीं श्रींनमः क्लीं क्रीपं क्लीं क्रीनम इत्यादिः संहारसृष्टि
मार्गणदशतत्वानिमहीसलिलप्रभृतीनि विन्यसेत् पुनरपि विंशत्य-
क्षरमन्त्रेण व्यापकन्यासंकृत्वाविंशतिमन्त्राक्षराणि तनौस्वशरीरे
न्यसेत् ॥ १८॥ १९ ॥
अक्षरन्यासस्थानान्याह-
मूर्तीति ।
मूर्दिनभाले वोर्मध्येनेत्रयोः कर्णयोनसोः ॥
आननेचिवुके कण्ठेदोर्मूले हृदि तुन्दके ॥ २० ॥
नाभौ लिङ्गे तथा ऽऽधारेकट्योर्जान्वोश्चजङ्घयोः ॥
गुल्फयोः पादयोन्यसेत्सृष्टिरेषासमीरिता ॥ २१ ॥
मस्तकेभाले ललाटे भ्रूमध्ये इत्यादावेकैकमक्षरं न्यसेत् आ-
धारेलिङ्गाधस्त्रिकोणस्थाने एषसृष्टिन्यासप्रकारउक्तः ॥ २० ॥२१॥
स्थिति हृदादिकांसान्ता संहृतिश्चरणादिका ॥
विधायैवं पञ्चकृत्वास्थित्यन्तमूर्तिपञ्जरम् ॥
मुष्टिस्थिती च विन्यस्य षडङ्गन्यासमाचरेत् ॥ २२ ॥

PURPIPARAN
सप्तमपटलम् ।
हृदादिकांसांता स्थितिः हदयमारभ्यां ऽसपर्यन्तन्यासः स्थितिः
संहृतिश्चरणादिकापादावारभ्यमूर्धान्तन्यासः विधायेति एवं
पञ्चवारान् स्थित्यन्तं न्यासं कृत्वा इति गृहस्थाभिप्रायेण तथा
पूर्वोक्तमूर्तिपअरन्यासं कृत्वा पुनः सृष्टिस्थितीविन्यस्य सृष्टिस्थि-
तिप्रकारेणमन्त्रवर्णान् विन्यस्य षडङ्गन्यासमाचरेत् ॥ २२ ॥
षडङ्गानिदर्शयति-
गुणेति ।
गुणाग्निवेदकरणकरणाक्ष्पक्षरैर्मनोः॥
मुद्रांववाकिरीटाख्यांदिग्वन्धं पूर्ववच्चरेत् ॥
ध्यात्वाजप्त्वार्चयेद्देहेमूर्तिपञ्जरपूर्वकम् ॥ २३ ॥
मनोर्मन्त्रस्य गुणास्त्रयः अग्नयस्त्रयः वेदाश्चत्वारः करणमन्तःकर-
णचतुष्टयं पुनः करणचतुष्टयम् अक्षिद्वयमेतैरक्षरैर्मन्त्रसम्भवैः
षडङ्गानिकार्याणीत्यर्थः
मुद्रामिति
किरीटाख्यां किरीटाभिधांबद्ध्वा कृत्वाकिरीटाद्यामिति पाठे
कौस्तुभश्रीवत्समुद्रयोः परिग्रहः पूर्वदस्त्रमन्त्रेणदिग्वन्धनं कुर्यात्
आत्मपूजामाह
ध्यात्वति
पूर्वोदितं ध्यानं कृत्वाऽष्टोत्तरशतं च जप्त्वामूर्तिपञ्जरपूर्वकं
देहेपूजयेत् तथाचाssभ्यन्तरेप्रथमं परमेश्वराराधनं तदनु मूर्ति
पञ्जरस्यतदनु सृष्टिस्थितिन्यासंतदनुषडङ्गस्योति ॥२३॥
वाह्यपूजाप्रकारमाह-
RSS
अथेति ।
अथवाद्येऽर्चयेद्विष्णुंतदर्थ यन्त्रमुच्यते ॥
गोमयेनोपलिप्योवी तत्र पीठं निधापयेत् ॥ २४ ॥
अथात्मपूजानन्तरं वाह्येविष्णुं पूजयेत् तत्पूजाथै पूजास्था-
नमुच्यते गोमयजलेन पृथिवीमुपलिप्य तत्र लिप्तस्थाने पीठं
पूजाधारप्रियं पात्रं स्थापयेत् ॥ २४ ॥

ऽक्षरत्रयं कृत्वाविलिखेत् पत्राष्टकेवक्ष्यमाणं मालामन्त्रं षट्शः षडक्ष. सटीकक्रमदीपिकायाः विलिप्यगन्धपडूनलिखेदष्टदलाम्बुजम् ॥ कर्णिकायां तु षट्कोणं ससाध्यं तत्र मन्मथम् ॥२५॥ अनन्तरं तत्पीठं चन्दनपङ्केन विलिप्यतत्राष्टदलपनं विलि- ख्यकार्णिकायां पविलिख्यमध्यस्थानेषट्कोणपुटितं वह्निपुरदयं लिखेत् तत्र षट्कोणमध्येससाध्यं कर्मसहितंसाध्यनामसहित मन्मथं कामवीजं लिखेतू साध्यग्रहणात् धारणार्थमप्येतद्वोद्धव्य. मितित्रिपाठिनः॥ २५॥ शिष्टैस्तं सप्तदशभिरचरै वेष्टयेत्स्मरम् ॥ प्राग्रक्षो ऽनिलकोणेषु श्रियं शिष्टेषु संविदम् ॥२६॥ शिष्टेसप्तदशभिरक्षरैस्तंकामवीजं वेष्टयेत् षट्कोणस्य पूर्वनि ऋतिवायव्यकोणेषु श्रियं श्रीवाजत्रयं लिखेत् शिष्टेषुत्रिषुकोणेषु पश्चिमेशानाग्निकोणेषु संविदं भुवनेश्वरीवीजं विलिखेत् ॥ २६ ॥ षडक्षरं संधिषु च केशरेषु त्रिशस्त्रिशः ॥ विलिखेत्स्मरगायत्री मालामन्त्रंदलाष्टके ॥ २७ ॥ षड्शः संलिख्य तद्वाह्ये वेष्टयेन्मातृकाक्षरैः ॥ भूविम्वं च लिखेदाद्ये श्रीमाये दिग्विदिक्ष्वपि ॥२८॥ सन्धिषु षट्कोणसन्धिषु षडक्षरङ्कामवीजपूर्वकं कृष्णायनम इति षडक्षरं लिखेत् केशरस्थाने कामगायत्रीं वक्ष्यमाणां त्रिशो. राणिकृत्वाविलिख्य पद्मवाह्येमातृकाक्षरैर्वेष्टयेत् । मातृकावेष्टनवाह्य- एववक्ष्यमाणस्वरूपं भूविम्वंचलिखेत् भूविम्वदिग्विदिक्षु श्रीमा- येदिक्षुश्रीवी कोणेषु भुवनेश्वरीवीजं लिखेदित्यर्थः ॥ २७॥२८॥ एतद्यन्त्रं हाटकादिपट्टेष्वालिख्य पूर्ववत् ॥ साधितं धारयेद्योवै सोऽर्च्यतेत्रिदशैरपि ॥ २९ ॥ एतद्यन्त्रं पूजायामप्युपयुक्तं योधारयेत्सदेवैरपि पूज्यते किं कृत्वासुवर्णरजतताम्रादि पट्टेषु यथा कथितद्रव्येणालिख्य पूर्ववद्यः पूजासु यद्वापूर्वमन्त्रवत् कृतप्राणप्रतिष्ठादिक्रियं कीदृशं सा.

सप्तमपटलम् । १७५ धितं यथाकथितप्रकारेणसम्पादितं प्रजप्तं च ॥ २९ ॥ कामगायत्रीमुद्धरति । स्याद्गायत्रीकामदेवपुष्पवाणी तु अन्तकौ ॥ विद्महेधीमहियुतौ तन्नोनङ्गः प्रचोदयात् ॥ जप्याजपादौ गोपालमनूनांजनरञ्जनीम् ॥ ३० ॥ कामदेवपुष्पवाणशब्दो क्रमेण चतुर्थ्यन्तौ किंभूतौविद्महेधी- महिशब्द सहितौ तदनु तन्नोनङ्गः प्रचोदयादिति स्वरूपम् एवं सतिकामगायत्रीस्यात् भवति जप्यादिति गोपालमन्त्राणां जपादौ जपोपक्रमेएतांकामगायत्री जप्यात् । यतइयं जनरञ्जनी वश्यकरी- मित्यर्थः ॥ ३०॥ मालामन्त्रमुद्धरति नत्यन्त इत्यादिना नत्यन्ते कामदेवाय डेन्तंसर्वजनप्रियम् ॥ उक्त्वा सर्वजनान्ते तु संमोहनपदंतथा ॥ ३१ ॥ ज्वलज्वल प्रज्वलतिउक्त्वासर्वजनस्य च ॥ हृदयंममचयावशङ्करुयुगंशिरः॥ कृत्वामदनमन्त्रोऽष्टचत्वारिंशद्भिरक्षरैः ॥ ३२ ॥ नमः शब्दान्तेकामदेवायोति स्वरूपं तदनुचतुर्थ्यन्तं सर्वजन- प्रियशब्दमुच्चार्यतदनुसर्वजनशब्दमुक्त्वासंमोहनपदं वदेत् तदनु- ज्वलज्वलप्रज्वलेति स्वरूपमुक्त्वासर्वजनस्यहृदयममेतिस्वरूपमु- क्त्वावशामिति स्वरूपमुक्त्वाकुरुकुरुइति स्वरूपमुक्त्वाशिरः स्वाहा इति वदेत् एवं च सति अष्टचत्वारिंशदक्षरकैर्मदनमन्त्रः कथितः॥ ३१ ॥ ३२॥ विनियोगदर्शयति- जपादाविति। जपादौमारवीजाद्यो जगत्त्रयवशीकरः ॥ भूगृहं चतुरस्त्रं स्यात्कोणवज्राद्यलंकृतम् ॥ ३३ ॥ MES MNSINE सटीकक्रमदीपिकायाः यन्त्रे यथोद्भूतएवजपपूजाहोमादौतु यदिकामवीजाद्यो भवति तदाजगत्रयवशीकरणक्षमः यदायं मन्त्रः स्वतन्त्रेणजप्यतेतदेति- त्रिपाठिनः। भूगृहमुद्धराति । भूगृहामिति कोणसंलग्नाष्टवज्रालंकृतचतुरस्रं कोणचतुष्टयस- हितं भूविम्वमिति पाठोवा ॥ ३३ ॥ यन्त्रपूजाप्रकारमाह- पीठंपूर्ववदश्यय॑मूर्तिसंकल्प्यपौरषीम् ॥ तत्रा ऽऽवाह्याऽच्युतं भक्त्यासकलीकृत्यपूजयेत् ॥३४॥ पूर्ववत् दशाक्षरवत् गुर्वापीठपूजान्तमभ्यर्च्यतत्रपौरुषींपुरुषा कृति मूत्तिपारमेश्वरी विचिन्त्य तत्र मूर्तावच्युतमावाह्यसकली- कृत्यभक्त्या पूजयेत् सुषुम्णाप्रवाहनाड्यापुष्पयुक्त उत्तानपाणी- हृदयस्थमूर्तेस्तेजः संयोज्यतेजोदेवताब्रह्मरन्ध्रेणदेवशरीरगतं विचिन्त्यस्वस्वमुद्रया वाह्ये संस्थाप्य सनिधाप्यसंनिरुधाव गुण्ठ्यसकलीकृत्यदेवताङ्गेषडङ्गन्यासंकृत्वाषोडशोपचारैः सम्पूजये- दित्यर्थः ॥ ३४ ॥ आसनेति- आसनादि भूषणान्तं पुनर्व्यासक्रमात् यजेत् सृष्टिस्थितीषडङ्गंच किरीटंकुण्डलद्वयम् ॥ ३५ ॥ चक्रशवगदापद्ममालाश्रीवत्सकौस्तुभान् । गन्धाक्षतप्रसूनैश्चमूलनाभ्यर्च्य पूर्ववत् ॥ ३६ ॥ आसनादिविभूषान्तं यथा स्यादेवं पूजयेत् आसनमारभ्य- भूषान्तैरुपचारैः पूजयेदित्यर्थः पुनासक्रमात् सृष्टयादीन् य- जेत् प्रथम दृष्टयादीनां न्यासम्विधायततस्तान् पूजयेत् अथ- वान्यासक्रमाद्यथातेषां न्यासः कृतस्तेन क्रमेणेत्यर्थः॥ ३५॥ गन्धाक्षतेति- अक्षतायवागन्धाक्षतपुष्पैश्च पूर्ववत् मूलमन्त्रेणकृष्णं पूजयि- त्वासप्तावृतीः सम्पूजयोदित्यर्थः ॥३६ ॥ amaka आवरणान्याह- सप्तमपटलम्। १७७ आदाविति आदौ वहिपुरबन्द्रकोणेष्वनानि पूजयेत् ।। सहृच्छिरःशिखावर्मनेत्रमस्त्रमिति क्रमात् ॥ ३७॥ प्रथमं वह्निपुरयुगलसम्बन्धिषट्कोणेषु आग्नेयकोणमारभ्य. षडङ्गानि पूजयेदित्यर्थः अङ्गान्याह। सहृदिति । सहहृदावर्तत इति सहृत् हृदयं शिरः शिखावर्मकवचंनेत्रमस्त्रं चेति प्रथमावरणम् ॥ ३७॥ द्वितीयावरणमाह- घासुदेव इति । वासुदेवः सङ्कर्षणः प्रद्युम्नथाऽनिरुद्धकः ॥ अग्न्यादिदलमूलेषु शान्तिः श्रीश्च सरस्वती ॥ ३८ ॥ रतिश्च दिग्दलेष्वास्ततोऽष्टौ महिषीर्यजेत् ॥ रुक्मिण्याद्या दक्षसव्ये क्रमात् पत्राग्रकेषु च ।। ३९ ॥ अग्न्यादिकोणदलमूलेषु केशरस्थानेषु वासुदेवादयः पूज्या- स्तथैवपूर्वादिचतुर्दिक्षुदलमूलेषुशान्त्यादयः पूज्या इत्यर्थः । तृतीयावरणमाह। ततोऽष्टाविति । तदनन्तरम्। अष्टौमाहिष्यः पूज्या इत्यर्थः ता हि रुक्मिण्याद्या इति । पूजास्थानमाह । दक्षसव्ये इति। परमेश्वरस्य दक्षिणभागेचतस्रः वामभागेचतस्रः क्रमेण पूज्या इत्यर्थः॥ ३८ ॥ ३९ ॥ चतुर्थावरणमाह- तत इति । २३ मान Man leone १७८ सटीकक्रमदीपिकायाः ततः षोडशसाहन सकृदेवार्चयेत्प्रियाः॥ इन्द्रनीलमुकुन्दाद्यान्मकराऽनङ्गकच्छपान् ॥ ४० ॥ पद्मशङ्खादिकांश्चाऽपि निधीनष्टौ क्रमाद्यजेत् ॥ तद्वाहिश्चेन्द्रवज्राये आवृती सम्प्रपूजयेत् ॥ ४१ ।। पूर्वादिदलानेषुषोडशसहस्रं प्रियाः देवपत्नीः सकृदेवएफक्रमे- णैवाञ्चयेत्। पञ्चमावरणमाह- इन्द्रनीलाद्यानष्टौ निधीन पूर्वादिक्रमेण पूजयेत् अत्रेन्द्रादि- शब्दानन्तरं प्रत्येकंचतुर्थ्यन्तं निधिपदंदेयं प्रयोगश्च ॐइन्द्रनि- धयनमः इत्यादिः। षष्ठसप्तमावरणद्वयमाह- तद्वहिरिति । तद्वाह्ये इन्द्रादिकं वज्रादिकं च पूजयेत् ॥ ४० ॥४१॥ आवरणानि सन्दर्यनैवेद्यं दर्शयति- इतीति। इति सप्तावृतिवृतमभ्याऽच्युतमादरात् ॥ प्रीणयेद्दधिखण्डाज्यमिश्रेण तु पयोऽधसा ॥ ४२ ॥ इत्यनेन प्रकारेण सतावरणवेष्टितं कृष्णमादरपूर्वकं सम्पूज्य दधिशर्कराघृतसहितेन पायसेन प्रीणयेदित्यर्थः ॥ ४२ ॥ राजोपचारामिति। राजोपचारं दत्त्वाऽथ स्तुत्वा नत्वा च केशवम् ॥ उदासयेत् स्वहृद्य परिवारगणैः सह ॥ ४३ ॥ छत्रचामरादीनिदत्वा अथानन्तरं स्तवं कृत्वा अष्टाङ्गपश्चा- ङ्गान्यतरेण प्रणम्य परिवारगणैः सह केशवं हृदये उद्वासयेत् उत्तो- ल्य स्थापयेत् ॥४३॥ न्यस्वेति । न्यस्त्वाऽऽत्मानं समभ्यर्च्य तन्मयः प्रजपेन्मनुम् ॥ रत्नाभिषेकध्यानेज्याविंशत्याश्रितरिता ॥४४॥ - सप्तमपटलम् । जपहोमार्चनानैोऽमुं प्रभजते मनुम् ।। तद्देश्म पूर्यते रत्नैः स्वर्णधान्यैरनारतम् ॥ ४५ ॥ न्यस्त्वा पूजापूर्वोक्तं सृष्टयादिन्यासं कृत्वा आत्मपूजां विधाय तन्मयः पूज्यदेवस्वरूपो भूत्वा पूजाङ्गमन्त्रं जपेत् । प्रकृतमुपसंहरति- रत्नति । ध्यानं च इज्या च पूजा च इत्यर्थः तथा च यस्यां पूजायां कृष्णस्यरत्नाभिषेकध्यानं तत्र कृष्णस्य विंशत्यक्षरोक्ता पूजेयमुक्ता। फलं दर्शयति । जपति जपादिभिर्यो अमुं मन्त्रं सेवते तस्य गृहं पद्मरागादिभिः रत्नैः काञ्चनै र्धान्यैश्चाऽनारतमनवरतं पूर्यते ॥४४॥४५॥ पृथ्वी पृथ्वी करे तस्य सर्वसस्यकुलाकुला ॥ पुत्रौमित्रैः सुसम्पन्नः प्रयात्यन्ते परां गतिम् ॥ ४६ ।। तथा पृथ्वी महती-पृथिवी साधकस्य करे आयत्ता भवति किंभूता सर्वस्य धान्यादेः कुलेन समूहेनाकुला परिपूर्णा तथा औरसपुत्रैः सुहृद्भिश्च समेतः सन् शरीरपातानन्तरं विष्णुलोकं गच्छति ॥ ४६॥ प्रयोगं दर्शयति । वह्नाविति । वहावभ्यर्च्य गोविन्दं शुक्लपुष्पैः सतण्डुलैः । आज्याक्तैरयुतं हुत्वा भस्म तन्मूर्ध्नि धारयेत् । तस्या ऽन्नादिसमृद्धिः स्यात्तदशे सर्वयोषितः॥४७॥ यथोक्तप्रकारेणाग्निमाधाय तत्र यथोक्तप्रकारेण गोविन्द सम्पूज्य घृताक्तैस्तण्डुलसहितैः शुक्लपुष्पैर्दशसहस्राणि हुत्वाहो- माग्निभस्म यः पुमान् मुर्भिधारयेत् तस्य नानासमृद्धिः सम्प- त्तिर्भवति सर्वाश्च स्त्रियस्तदायत्ता भवन्ति ॥४७॥ प्रयोगान्तरमाह- 8 aneman १८० सटीकक्रमदीपिकायाः आज्यैरिति । आज्यैर्लक्ष हुनेद्रक्तपौर्वा मधुराप्लुतैः ॥ श्रियातस्यैन्द्रमैश्वर्य तृणलेशायते ध्रुवम् ॥४८॥ घृतैः केवलैः घृतमधुशर्करायुतैः रक्तपद्मा यो लक्षं जुहोति तस्य साधकस्य श्रियालक्षम्या कृत्वा इन्द्रसम्बन्धि ऐश्वर्य तृण- समानं भवति ध्रुवमुत्प्रेक्षायाम् ॥ ४८ ॥ प्रयोगान्तरमाह- शुक्लेति । शुक्लादिवस्त्रलाभाय शुक्लादिकुसुमैर्हनेत् ॥ त्रिमध्वक्तैर्दशशतमाज्याक्तैर्वाऽष्टसंयुतम् ॥ ४९ ॥ शुक्लादिवस्त्रप्राप्त्यर्थ घृतमधुशर्करासहितैः शुक्लयुष्पैः घृताक्तैर्वा अष्टाधिकंदशशतं जुहुयात् ॥ ४९ ॥ प्रयोगान्तरमाह- क्षौद्रसिक्तैरिति । नौद्रसिक्तैः सितैः पुष्पैरष्टोत्तरसहस्रकम् ॥ हुनन्नित्यं स षड्मासान पुरोधा नृपतेर्भवेत् ॥ ५० ॥ मधुमिश्रितैः शुक्लपुष्पैरष्टाधिकसहस्रं प्रत्यहं यो जुहुयात स षट्के अतीते राज्ञः पुरोहितो भवति ॥५०॥ दशाष्टेति- दशाष्टादशवर्णोक्तं जपध्यानहुतादिकम् ॥ विध्यात्कर्म चाऽनेन ताभ्यामप्यत्र कीर्तितम् ॥५१॥ दशाष्टादशाक्षरयोरुक्तं जपध्यानहोमादिकम् अनेनमन्त्रेणकुर्या- त् अत्र मन्त्रे कथितं प्रयोगादिकं ताभ्यां च कुर्यात् ॥ ५१ ॥ मन्त्रान्तरमाह- श्रीशक्तिरिति। श्रीशक्तिस्मरकृष्णाय गोविन्दाय शिरो मनुः ॥ रव्यों ब्रह्मगायत्रीकृष्णादिरथाऽस्य तु ॥५२॥ श्रीवीज शक्तिवीजं स्मरः कामवाजं कृष्णायगोविन्दा- ED JABARD -- सप्तमपटलम् । योतस्वरूपं शिरःस्वाहेति स्वरूपं रव्यर्णोद्वादशा!मन्त्रः ऋषि- रादौयषान्तेऋष्यादयो ब्रह्मगायत्रीकृष्णा ऋष्यादय इत्यर्थः अस्य- ब्रह्माऋषिः गायत्रीछन्दः कृष्णोदेवता इत्यर्थः वीजशक्या- दिपूर्ववत् ॥५२॥ वीरित्यादि। वीजैस्त्रिवेदयुग्माणैरङ्गषद्कमिहोदितम् ॥ विंशत्योंदितजपध्यानहोमार्चनक्रिया। मन्त्रोऽयं सकलैश्वर्यकाटिभिः सेव्यताम्बुधैः॥५३॥ इह मन्त्रे अङ्गषट्कंषडङ्गं कथितं कैस्त्रिभिऊजैरङ्गत्रयं तथा त्रिवेदयुग्माणैः त्रिभिश्चतुर्भिाभ्यां चाऽपराङ्गत्रयमिति । विशेति । अयं मन्त्रः विंशत्यक्षरमन्त्रोक्तजपध्यानहोमपूजासहितः सकलै. श्वर्यकामैः पण्डितैरुपास्यताम् ॥ ५३॥ मन्त्रान्तरमाह- श्रीति। श्रीशक्तिकामपूर्वोऽङ्गजन्मशक्तिरमान्तकः ॥ दशाक्षरः सरावादौ स्याचेच्छक्तिरमायुतः ॥ मन्त्री विकृतिरव्यर्णावाचक्रायङ्गिनाविमौ ॥ ५४ ॥ श्रीवीजं भुवनेश्वरीवीजं कामवीजं च एते पूर्वे यस्य दशाक्ष- रस्य तथा ऽङ्गजन्म कामवीजं शक्तिःभुवनेश्वरीवीजं रमाश्री- वीजम् एते अन्ते यस्यदशाक्षरस्य एवंभूताद्यन्तविशिष्टो दशाक्षरो. षोडशाक्षरमन्त्रोभवति तथा सएव दशाक्षरोमन्त्रः आदीशक्ति- रमायुतः भुवनेश्वरीश्रीवीजसाहतश्चेनदाद्वादशाक्षरमन्त्रोभवति एवं च सति इमौ विकृतिरव्य षोडशाक्षरद्वादशाक्षरौ मन्त्रौ आचक्राद्य- शिनौ दशाक्षरोक्तानि आचक्राद्यङ्गानि ययोस्तादृशौ शेयो ॥५४ ॥ विंशत्यर्णेति- विंशत्योंक्तयजनविधी ध्यायेदथाऽच्युतम् ॥

१८२
सटीकक्रमदीपिकायाः
वरदाभयहस्ताभ्यां श्लिष्यन्तं स्वाङ्कगे प्रिये ॥
पद्मोत्पलकरे ताभ्यां श्लिष्टं चक्रदरोज्ज्वलम् ॥५५॥
विंशत्यक्षरकथितपूजाप्रकारावेतौ अथानन्तरम् अच्युतं चि.
न्तयेत् कीदृशं स्वागे स्वक्रोडस्थिते प्रिये लक्ष्मीसरस्वत्यौ यद्वा
रुक्मिणीसत्यभामेश्लिष्यन्तम् आलिङ्गन्तं काभ्यांवरदाभयहस्ताभ्यां
वरंददातीतिवरदः नविद्यतेभयं यस्मात्स वरदाभयौ च तौहस्तौ-
चेतिवरदाभयहस्तौताभ्यामित्यर्थः प्रियेकीदृशे प_सामान्यपङ्कजम्
उत्पलं नीलपनं ते करयोर्ययोस्ते ताहविधे पुनःकीदृशंताभ्यां प्रिया-
भ्यां श्लिष्टम् आलिङ्गितं पुनः कीदृशं शङ्खचक्राभ्यामुज्ज्वलम् ॥५५॥
पुरश्चरणजपादिकमाह-
दशलक्षेत्यादि ।
दशलक्षं जपेदाज्यैस्तावत्सहस्रहोमतः ॥
सिद्धाविमौ मनू सर्वसम्पत्सौभाग्यदौ नृणाम्॥५६॥
दशलक्षसंख्यंजपेत् आज्यघृतैस्तावत्संख्यसहस्रहोमतोदशस.
हस्त्रहोमतः सिद्धौ इमौ मन्त्रौ मनुष्याणां सर्वैश्वर्यसर्वजनप्रि-
यप्रदौ भवतः ॥ ५६ ॥
इदानींक्रमेणमन्त्रमुद्धरतिमारशक्तीत्यादिना।
मारशक्तिरमापूर्वः शक्तिश्रीमारपूर्वकः ।।
श्रीशक्तिमारपूर्वश्च दशार्णो मनवस्त्रयः ॥ ५७ ॥
अन्नाद्यः कामभुवनेश्वरीश्रीवीजपूर्वो दशाक्षरः भुवनेश्वरी
श्रीर्मारः पूर्वो यस्यतिद्वितीयः श्रीभुवनेश्वरीकामवीजपूर्वो दशाक्षर
इति तृतीयः ॥ ५७॥
एतेषां मनुवर्याणामादिदशावत् ।।
शङ्खचक्रधनुर्वाणपाशाङ्कुशधरोऽरुणः॥
वेणुं धमन् धृतं दोभ्या कृष्णो ध्येयो दिवाकरे ॥२८॥

सप्तमपटलम् ।
१८३
-
आये मनौ ध्यानमेवं द्वितीये विंशदर्णवत् ॥
दशावत् तृतीयेऽङ्गदिक्पालाद्यैः समर्चना ॥ ५९ ॥
पञ्चलक्षं जपेत्तावदयुतम्पायसै नेत् ॥
ततः सिध्यन्ति मनवो नृणां सम्पत्तिकान्तिदाः॥६०॥
एतेषामित्यादिसुगमम् ।
दिवाकरेसूर्यमण्डले ॥ ५८ ॥ ५९ ॥ ६ ॥
स्पष्टं मन्त्रान्तरमुद्धरति-
अष्टादशाणेति ।
अष्टादशार्णी मारान्तो मनुः सुतधनप्रदः ॥
ऋष्याद्यष्टादशाभॊक्तं मारारूढस्वरैः क्रमात् ।।
अङ्गान्यस्य मनोरङ्गदिक्पालाद्यैः समर्चना ॥६॥
कामवाजान्तः पूर्वोक्ताष्टादशाक्षरमन्त्रः सुतधनप्रदः मारारुढै-
नपुंसकरहितकामवीजसहितैः दीर्घस्वरषट्कैः क्रांक्रीमित्यादिषट्कैः
क्रमादस्यमनोः षडङ्गानि ॥ ६१ ॥
ध्यानमाह-
पाणी पायसपकमाहितरसं विभ्रन्मुदादक्षिणे ।
सव्ये शारदचन्द्रमण्डलनिभं हैयङ्गवीनन्दधत् ।
कण्ठे कल्पित पुण्डरीकनखमत्युद्दामदीप्तिं बहन
देवोदिव्यदिगम्बरो दिशतु बासौख्यं यशोदााशशुः ६२
पाणौपायसपक्वं सुपक्कं पायसं सुस्वाद्वित्यर्थः अत्युद्दामदीप्तिम्
अत्युद्भटकान्ति दिव्यइति दिव्यश्चासौदिगम्बरश्चेतिसमासः दिव्यदे
वस्वरूप इति ॥ २॥
दिनशोऽभ्यर्च्य गोविन्दं द्वात्रिंशल्लक्षमानतः ॥
जप्त्वा दशाशं जुहुयात्सिताज्येन पयोऽन्धसा॥३३॥
सिताज्येनपयोऽन्धसाशर्कराघृतसहितेनपरमान्नेन ।। ६३ ॥
पद्मस्थंदेवमभ्यर्च्य तर्पयेत्तन्मुखाम्बुजे ॥
क्षीरेण कदलीपक्कैदना हैयङ्गवेन च ॥ ६४ ॥

१८४ सटीकक्रमदीपिकायाः सुतार्थी तर्पयेदेवं वत्सराल्लभते सुतम् ॥ यद्यदिच्छति तत्सर्व तर्पणादेव सिद्ध्यति ॥ ६५ ॥ क्षीरेणेत्यादिना तर्पणंयदुक्तं तजलेनैवक्षीरादिद्रव्यबुद्ध्याका. र्यम् ॥ ६४ ॥ ६५ ॥ मुन्त्रान्तरमुद्धरति- वाग्भवमिति। वाग्भवं मारवीजं च कृष्णायभुवने श्वरी ॥ गोविन्दाय रमा गोपीजनवल्लभडेशिरः ॥ ६६ ॥ चतुर्दशस्वरोपेतः शुक्लः सर्गी तदूर्ध्वतः ॥ द्वाविंशत्यक्षरो मन्त्रो वागीशत्वस्य साधकः ॥६७॥ वाग्भवम् ऐम् इति वीजं मारवीजं क्लीं कृष्णायेतिस्व- रूपंभुवनेश्वरीवीजं हींगोविन्दायेति स्वरूपं रमाश्रीवीजंगो- पीजनवल्लभ इति स्वरूपं 3 चतुर्थंकवचनं शिरः स्वाहा शुक्ल: शकारश्चतुर्दशस्वरेणोपेतः औकारसहितः शुक्रइति पाठे दन्त्यस- कारः संशुक्रात्मनेनमइति न्यासविधानात् सर्गीविसर्गसहितः तदूर्द्धत इति तस्यउर्द्धम् तस्यएकविंशत्यक्षरस्यउर्द्धतः प्रथमवी. जमेतदिति रुद्रधरः। तदूर्द्धतः- स्वाहाकारो तः इति लघुदीपिकाकारः । अनेनवीजेन सहद्वाविंशत्यक्षरोमन्त्रोभवति कीदृशोऽयं वच- नेश्वरत्वदाता ॥६६॥ ६७॥ अष्टादशाणेति- अष्टादशार्णवत्सर्वमङ्गादिकमस्य तु ॥ पूजा च विंशत्योक्ता प्रतिपत्तिस्तु कथ्यते ॥ ६८ ॥ अस्य ऋषिच्छन्दोधिष्टातृदेवतावीजशक्त्यङ्गानि सर्वाणि अष्टाद- शार्णवतू यथाष्टादशाक्षरमन्त्रे तथात्रापीत्यर्थः पूजा पुनः विंश. त्यक्षरकथिता वोद्धव्या प्रतिपत्तिानं कथ्यतेपुनः ॥ ६८॥ - सप्तमपटलम्। १८५ घामोद्धति । वामोदर्ध्वहस्ते दधतं विद्यासर्वस्वपुस्तकम् ॥ अक्षमालां च दक्षोर्चे स्फाटिकीं मातृकामयीम्॥६९॥ शब्दब्रह्ममयं वेणुमधःपाणिद्वयेरितम् ॥ गायन्तं पीतवसनं श्यामलं कोमलच्छविम् ॥ ७० ॥ वर्हि वहकृतोत्तसं सर्वज्ञं सर्ववेदिभिः ॥ उपासितं मुनिगणैरुपतिष्ठेद्धरिं सदा ॥७१ ॥ श्लोकत्रयेणात्रादिकुलकम्- हरिम् उपतिष्ठेत् ध्यायेत् वामो हस्ते विद्यासर्वस्वपुस्तकं वेदान्तपुस्तकं धारयन्तं दक्षो? पञ्चाशतूसंख्यमातुकाक्षरसंमिता पञ्चाशत्स्फटिकवद्धामक्षमालांधारयन्तं पुनः कीदृशम् अधः स्थितकरद्वयन ईरितं वादितं शब्दब्रह्ममयं शब्दब्रह्मस्वरूपं वेणुरन्ध्र दधानं पुनः कीदृशं वेणुनैवगायन्तम् पुनः कीदृशं पातेवस्त्रेयस्यतं श्यामवर्ण च पुनः कीदृशं कोमलामनोहरा छविर्यस्य सतथातं पुनः कीदृशं वीमयूरस्तस्यवर्ह पिच्छं तेन कृत उत्तंसः शिरो- भूषणं येनतं पुनः कीदृशं सर्वसाक्षिणं पुनः कीदृशं सर्वदाउपा- सितं सेवितं कैः सर्ववेदिभिः अतीतानागतझैः मुनिगणैः स- नकादिभिः ॥ ६९ ॥ ७० ॥ ७१ ॥ पुरश्चरणमाह- ध्यात्वैवमिति । ध्यात्वैवं प्रमदावेशविलासम्भुवनेश्वरम् । चतुर्लक्षं जपेन्मन्त्रमिमं मन्त्री सुसंयतः ॥ ७२ ॥ एवं पूर्वोक्तं भुवनेश्वरं श्रीकृष्णं प्रमदास्त्रीतस्या वेशः सं. स्थानविशेषः तस्य विलास आल्हादो यस्यतं प्रमदारूपधा- रिणमित्यर्थः यद्वास्त्रीरूपधरं स्त्रीविलासश्च ध्यात्वा इसमन्त्रंलक्ष- चतुष्टयं जपेत्सुसंयतः सन पूर्वोक्तपुरश्चरणवान् ॥ ७२ ॥ होममाह।

१८६ सटीकक्रमदीपिकायाः पलाशेति- पलाशपुष्पैः स्वाद्वक्तश्चत्वारिंशत्सहस्रकम् ॥ जुहुयात्कर्मणाऽनेन मनुः सिद्धो भवेद् ध्रुवम् ॥७३॥ घृतमधुशर्करान्वितैः पलाशपुष्पैश्चत्वारिंशत्सहस्रक जुहुया. तु अनेनविधिना अवश्यमन्त्रः सिध्यति ॥ ७३ ॥ फलंदर्शयति- योऽस्मिन्निति। योऽस्मिन्निष्णातधामन्त्री वर्तते वगह्वरात् ॥ गद्यपद्यमयी वाणी तस्य गङ्गाप्रवाहवत् ॥ ७४ ।। यो मन्त्री अस्मिन् मन्त्रेनिष्णातधीर्दत्तमतिर्वर्तते तस्य साधक. स्यवक्रगह्वरात् मुखमध्यतो गद्यपद्यमयीवाणीप्रवर्तते गङ्गाप्रवा- हवत् विशुद्धानवरतत्वेनगङ्गाप्रवाहेणोपमा ॥ ७४ ॥ सर्वेति- सर्ववेदेषु शास्त्रेषु सङ्गीतेषु च पण्डितः ॥ संवित्तिं परमां लब्ध्वा चाऽन्ते भूयात्परम्पदम् ॥७॥ सर्वेषुऋग्वेदादिषुशास्त्रेषुवेदान्तेषुपण्डितोविवेकबुद्धियुक्तः सन् संवित्तिम् उत्कृष्टज्ञानं प्राप्य अन्तेदेहावसानेविष्णुलोकं प्राप्नोति॥७५॥ मन्त्रान्तरमाह- तारामिति । तारं हृद्भगवान् ॐऽन्तो नन्दपुत्र पदं तथा ॥ ऽऽनन्दान्ते वपुषेऽस्थ्यग्निमायान्ते दशवर्णकः ॥ ७६ ॥ अष्टाविंशत्यक्षरोऽयं ब्रुवे द्वात्रिंशदक्षरम् । नन्दपुत्रपदं द्वेऽन्तं श्यामलाङ्गं पदं तथा डेन्ता वालवपुःकृष्णगोविन्दा दशवर्णकः ॥ ७७ ॥ तारंप्रणवः हत् नमः ऽन्तः चतुर्थ्यन्तो भगवान् भगवत इति स्वरूपं MARIAN

सप्तमपटलम्।
१८७
नन्दपुत्रं तथा उन्तं चतुर्थ्यन्तं नन्दपुत्रायोति पदान्ते आनन्द इति
शब्दशेषे वपुषे इति स्वरूपम् अस्थिशकारः अग्नीरेफर मायादीर्घ
ईकारः तथा च श्रीवीजम् अस्याऽन्तेदशार्णकः दशाक्षरमन्त्रः एते.
नायं मन्त्रः अष्टाविंशत्यक्षरो भवति ।
अधुना द्वात्रिंशदक्षरमन्त्रान्तरमुद्धरति ।
ब्रुवे वच्मीति।
प्रतिज्ञामन्त्रमुद्धरति ।
नन्दति।
नन्दपुत्रपदं चतुर्थ्यन्तं श्यामलाङ्गं पदमपि चतुर्थ्यन्तं वालवपुः
कृष्णगोविन्दशब्दाश्च प्रत्येकं चतुर्थ्यन्ताः अनन्तरं पूर्वोक्तदशाक्ष-
रमन्त्रः एतेन द्वात्रिंशदक्षरोमन्त्रो भवति ॥ ७६ ॥ ७७॥
ऋष्यादिकं दति-
अनयोरिति।
अनयो रदऋषिः छन्दस्त्रिष्टुवनुष्टुभौ ॥
आचक्राचैरङ्गमङ्गदिक्पालाद्यैश्च पूजनम् ॥ ७८ ॥
अनयो रदऋषिः यथाक्रमं त्रिष्टुवनुष्टप्छन्दसी आचक्राद्यैः
पूर्वोक्तैरङ्गपञ्चकम् अङ्गदिक्पालवज्राद्यैरावरणपूजनं पाठपूजातु
पूर्ववत् ॥ ७८॥
ध्यानं दर्शयति-
दक्षिण इति।
दक्षिणे रत्नचषकं वामे सौवर्णवेत्रकम् ॥
करे दधानं देवीभ्यामाश्लिष्टं चिन्तयेद्धरिम् ॥ ७९ ॥
हरिचिन्तयेत् कीदृशं-
दक्षिणहस्तेरत्नपात्रं वामहस्तेसुवर्णघटितवेदधानं पुनः की-
दृशंदेवीभ्यांलक्ष्मीसरस्वतीभ्यां रूक्मिणीसत्यभामाभ्यां वा आलि-
ङ्गितम् ॥ ७९ ॥

१८८
सटीकक्रमदीपिकायाः
जपदिति-
जपेल्लक्षं मनुवरौ पायसैरयुतं हुनेत् ॥
एवं सिद्धमनुमन्त्री त्रैलोक्यैश्वर्यभाग भवेत् ॥८॥
मन्त्रश्रेष्ठौ प्रत्येकं लक्षंजपेत् ।
अनन्तरं परमानेनदशसहस्रं जुहुयात् अनेनसिद्धोमन्त्रीयस्य-
मन्त्री लोकत्रयेश्वर्यभाजनं भवति ॥ ८०॥
मन्त्रान्तरमाह-
तारेति।
तारश्रीशक्तिबीजाढ्यं नमोभगवतेपदम् ॥
नन्दपुत्रपदळेऽन्तं भूधरो मुखवृत्तयुक् ॥
मासान्ते वपुषे मन्त्र उनविंशतिवर्णकः ॥ ८१ ॥
तारंप्रणवः श्रीवीजं भुवनेश्वरीवीजम् एतद्वाजत्रयाढ्यं नमोभग-
घते इति स्वरूपंततश्चतुर्थ्यन्तनन्दपुत्रपदं भूधरोवकारः मुख-
वृत्तमाकारः तद्युक्तः मांसोलकारस्तदन्तेवपुषे इति स्वरूपम् एतेन
उनविंशतिवर्णकोमन्त्रउद्धृतोभवति ॥ ८१॥
ऋषिब्रह्माऽनुष्टुप्छन्दस्तथाऽन्यदुदितं समम् ॥
अयं च सर्वसम्पत्तिसिद्धये सेव्यताम्बुधैः ॥ ८२॥
अस्य मन्त्रस्य ब्रह्माऋषिः छन्दोनुष्टुप् अन्यदुदितम् अन्यत्स-
समानं पूर्वोक्तवद्वेदितव्यमित्यर्थः ॥ ८२ ॥
मन्त्रान्तरमुद्धरति-
तारमित्यादिना ।
तारं हृत् भगवान् डेऽन्तो रुक्मिणीवल्लभस्तथा ॥
शिरोऽन्तः षोडशार्णोऽयं रुक्मिणीवल्लभायः॥८३॥
तारः प्रणवः हृन्नमः चतुर्थ्यन्तोभगवान् तथा चतुर्थ्यन्तो-
रुक्मिणीवल्लभशब्दः शिरोन्तः स्वाहाशब्दान्तः एतेनरुक्मिणी-
वल्लभाख्यः षोडशाक्षरोमन्त्रः कथितः ॥ ८३ ॥

सप्तमपटलम् । १८९ where सर्वसम्पत्प्रदो मन्त्री नारदोऽस्य मुनिःस्मृतः ॥ छन्दोऽनुष्टुप् देवता च रुक्मिणीवल्लभो हरिः॥ एकहग्वेदमुनिहग्वणैरस्याऽङ्गपञ्चकम् ॥ ८४ ॥ अस्यऋषिर्नारदः अनुष्टुप्छन्दः रुक्मिणीवल्लभोहरिदेवतेति । एकति अस्य मन्त्रस्य पञ्चाङ्गानि भवन्ति कैः मन्त्रस्यएकद्विचतुःसप्त- द्विवर्णैः॥ ८४॥ ध्यानमाह- तापिच्छति। तापिच्छच्छविरङ्कगाम्प्रियतमा स्वर्णप्रभामम्वुज- प्रोद्यद्वामभुजां स्ववामभुजयाश्लिष्यन् सचिन्ताश्मना शिलष्यन्ती स्वयमन्यहस्तविलसत्सौवर्णवेत्रश्चिर- म्पायादोऽसनसूनपीतवसनो नानाविषो हरिः॥८॥ तापिच्छच्छविस्तमालकान्तिहरिवों युष्मान् पायात् रक्षतु किंकुर्वन् अङ्कस्थांगौराङ्गीप्रियतमा चिन्तामणिरत्नसहितेन ह. स्तेन आलिङ्गन् किंभूतां पद्मोल्लसत्मनोहरवामकरां पुनः किं. भूतां स्वयमात्मना आत्मानं देवं वा दक्षिणकरण आश्लिष्यन्तीम् आलिङ्गन्ती कीदृशोहरिः आलिङ्गनान्यहस्ते शोभमानः काशनद- ण्डो यस्य तथा पुनः कीदृशः असनवृक्षपुष्पवत्पीतवस्त्रे यस्यस पुनः कीदृशः नानाप्रकारोऽलङ्कारोयस्य ॥ ८५ ॥ पुरश्चरणमाह- ध्यात्वति । ध्यात्वैवं रुक्मिणीनाथं जप्याल्लक्षमिमं मनुम् ।। अयुतं जुहुयात्पररुणैर्मधुराप्लुतैः ॥ ८६ ॥ एवं पूर्वोक्तं रुक्मिणीवल्लभं सक्मिणीनाथं ध्यात्वाइममन्त्रं

सटीकक्रमदीपिकायाः
लक्षमेकं जपतु घृतमधुर्शकरासिक्तैः लोहितपझैरपि दशसहस्रं
जुहुयात् ॥८६॥
पूजां दर्शयति-
पूजयेदिति ।
अर्चयेन्नित्यम.स्तं नारदाचैर्दिशाधिपः ॥
वज्राद्यैरपि धर्मार्थकाममोक्षाप्तये नरः ॥ ८७॥
पीठपूजापूर्ववत् आवरणपूजातु कथ्यते प्रत्यहं तं हरिं पूजयेत्
कैरङ्गैराचक्राद्यैः सायाह्नपूजोक्तैः नारदप्रभृतिभिश्च दिशाधिपैरि-
न्द्रायैः तेषामायुधैर्वज्रायैः कीदृशं पुरुषार्थचतुष्टयप्रदम् ॥ ८७ ॥
मन्त्रान्तरमुद्धरति-
लीलादण्डेति।
लीलादण्डावधौ गोपीजनसंसक्तदो पदम् ॥
दण्डान्ते बालरूपेति मेघश्यामपदं ततः ॥ ८८॥
भगवान् विष्णुरित्युक्त्वा वहिजायान्तको मनुः ॥
एकोनत्रिंशदोऽस्य मुनिारद ईरितः ॥ ८९ ॥
छन्दोऽनुष्टुप् देवता च लीलादण्डधरो हरिः॥
मन्वन्धिकरणाग्न्यब्धिवषैरङ्गक्रिया मता ॥ ९० ॥
लीलादण्डावधौ लीलादण्डशब्दान्ते गोपीजनसंसक्तदोःपदम्
अनन्तरंदण्डशब्दान्ते वालरूपेतिपदं तदनुमेघश्यामेतिपदं ततः
शब्दोऽपि काकाक्षिवत् सम्बध्यते तदनुभगवान् विष्णुः सम्बोध-
नान्तमुक्तास्वाहाशब्दान्तएकोनत्रिंशदक्षरोमन्त्रउदध्रियतामित्यर्थः ।
अस्य मन्त्रस्य नारदऋषिरन्ष्टुपूछन्दोलीलादण्डोहरिदेवतेति ।
मन्वन्धीति-
अस्य मन्त्रस्याऽङ्गक्रिया मनुश्चतुर्दशः अब्धिश्चतुष्टयं करणं प-
अग्नित्रयश्चत्वारोब्धिरेतत्संख्याकर्मन्त्रवर्गमता संमता पञ्चा-
झानीत्यर्थः ॥ ८८ ॥ ८९॥९० ॥

सप्तमपटलम् ।
WINKAR
ध्यानमाह-
संमोहयन्निति ।
संमोहयनिजकवामकरस्थलीला-
दण्डेन गोपयुवतीः सुरसुन्दरीश्च ॥
दिश्यान्निजप्रियतमांसगदक्षहस्तो.
देवः श्रियं निहतकंस उरुक्रमो वः ॥ ९१ ॥
देवः श्रीकृष्णः वोयुष्मभ्यं श्रियंलक्ष्मीदिश्यात प्रयच्छतु
किंकुर्वन् गोपयुवतीः सुरयुवतीश्च संमोहयन् केन स्वीय.
वामहस्तस्थविलासवेत्रेण कीदृशो निजप्रियांसगदक्षहस्तः
स्वीयवल्लभावाहुमूलस्थितदक्षिणकरः प्रियसखांसगदक्षहस्तइति
पाठे निजसखांसगतदक्षिणहस्तः पुनः कीदृश उरुर्महान् क्र.
मः पराक्रमायस्य सतथा ॥ ११ ॥
पुरश्चरणमाह-
ध्वात्वेति।
ध्यात्वैवं प्रजपेल्लक्षमयुतं तिलतण्डुलैः ॥
त्रिमध्यक्तैर्हनेदङ्गदिक्पालाद्यैः समर्चयेत् ॥ ९२ ॥
एवं पूर्वोक्तं कृष्णध्यात्वालक्षमेकं जपेत् तदनु घृतमधुशर्करास-
हितैस्तिलतण्डुलैर्दशसहस्रं जुहुयात् ।
अङ्केति।
पीठपूजा पूर्ववदावरणपूजापञ्चाङ्गैरिन्द्राद्यैश्चेति ॥ ९२ ॥
प्रात्यहिकपूजाफलमाह-
लीलेति ।
लीलादण्डं हरि यो चै भजते नित्यमादरात् ॥
स पूज्यते सर्वलोकैस्तम्भजेदिन्दिरा सदा ॥ ९३ ।।
योमनुष्यः प्रत्यहं लीलादण्डधरं हरि सेवते स सर्वजनैः पूज्यते
तम् इन्दिरालक्ष्मीः सर्वदाभजते ॥ १३ ॥

dange
m
१९२
सटीकक्रमदीपिकायाः
মান্নার
प्रयोदशेति।
त्रयोदशस्वरयुतः शाी मेदः सकेशवः ॥
तथा मांसयुगम्भाय शिरः सप्ताचरो मनुः ॥ ९४ ॥
त्रयोदशस्वरॐकारस्तेनयुतः शाीगकारः मेदोवकारः कीदृशः
सकेशवः अकारसहितः तथा मांसयुगं लकारद्वयमिति भाय शिरः
स्वाहा अनेनसप्ताक्षरोमन्त्रः उक्तः ॥९४॥
ऋष्यादिकमाह-
आचक्राधैरिति ।
आचक्राचैरङ्गक्लप्सिारदोऽस्य मुनिः स्मृतः ॥
छन्द उष्णिग्देवता च गोवल्लभ उदाहृतः॥ ९५ ॥
आचक्राद्यैः पञ्चाङ्गकरणम् अस्य मन्त्रस्य नारदऋषिः उष्णिक-
छन्दः गोवल्लभः कृष्णोदेवतेति ॥ ९५ ॥
ध्यानमाह-
ध्येय इति ।
ध्येयोऽच्युतः स कपिलागणमध्यसंस्थः ।
ता आह्वयन् दधक्षिणदोष्णि वेणुम् ॥
पाशं सयष्टिमपरत्र पयोदनीलः ।
पीताम्वरोऽहिरिपुपिच्छकृतावतंसः ॥ ९६ ॥
अच्युतः
कृष्णोध्येयः कीदृशः कपिलागणोगोविशे-
षसमूहस्तस्याभ्यन्तरवर्ती किङ्कुर्वन् ताः कपिला आह्वयन् अ-
भिमुखीकुर्वन् पुनः कीदृशः अदक्षिणदोष्णि वामहस्तेन सरन्ध्रवं-
शं वहन् अपरत्र दक्षिणहस्ते दण्डसहितगोबन्धनरज्जु दधत्
पुनः कीदृशः पयोदनीलो मेघश्यामः पीतवसनः पुनः कीदृशः
अहिरिपुर्मयूरः तस्य पिच्छं शिखण्डः तेन कृतोऽवतंसः कर्णालङ्कारः
शिरोभूषणं वा येन स तथा॥ ९६ ॥

सप्तमपटलम्। imanoran पुरश्चरणमाह मुनिलक्षति। मुनिलक्षं जपेदेतद् धुनेत्सप्तसहस्रकम् ॥ गोक्षीरैरङ्गदिक्पालमध्येऽर्य गोगणाष्टकम् ॥ ९७ ।। इममन्त्रं मुनिलक्षं सप्तलक्षं जपेत् गोदुग्धैः सप्तसहस्रं जुहुयात् अङ्गपूजा ऽनन्तरं दिक्पालपूजायाः प्राक् गोगणा- ष्टकं पूजनीयं गोगणाष्टकं च प्रथमादि यथा स्यात् । सुवर्णवर्णा कपिला द्वितीया गौरपिङ्गला । तृतीया गौरपिङ्गाक्षी चतुर्थी गुडपिङ्गला ॥ पञ्चमी अभ्रवर्णा स्यादेताः स्युरुत्तमा गवाम् । चतुर्थीपिङ्गला षष्ठी सप्तमी खुरपिङ्गला अष्टमी कपिला गोषु विज्ञेयः कपिलागणः । इत्यनेनोक्तम् ॥९७ ॥ प्रयोगान्तरमाह- अष्टोत्तरेति । अष्टोत्तरसहस्रं यः पयोभिर्दिनशो हुनेत् ।। पक्षात्स गोगणैराख्यो दशार्णनैष वा विधिः॥९८॥ गोदुग्धैः प्रतिदिनं योऽष्टाधिकं सहस्रं जुहुयात् स पञ्चदश- दिनाभ्यन्तरे गोसमूहेन सम्पन्नो भवति एषविधिप्रयोगो दशा- क्षरमन्त्रेण वा कार्य इत्यर्थः॥९८॥ HORAAND मन्त्रान्तरमाह- सलवेति । सलवो वासुदेवो हृत् उऽन्तं च भगवत्पदम् ॥ श्रीगोविन्दपदं तद्वत् द्वादशार्णोऽयमीरितः॥ ९९ ॥ लवोबिन्दुःतत्सहितो वासुदेवः ओंकारः अर्थात्प्रणवः ॐनमः सटीकक्रमदीपिकायाः walam चतुर्थ्यन्तं भगवत्पदं तथा श्रीगोविन्दपदं चतुर्थ्यन्तम् एतेन द्वादशाक्षरो मन्त्र उद्धृतः ॥९९ ॥ ऋष्यादिकमाह- मनुरिति । मनु रदगायत्रीकृष्णादिरथाऽङ्गकम् ॥ एकाक्षिवेदभूतार्णैः समस्तैरपि कल्पयेत् ॥ १० ॥ क्वचिन्मुनिरिति पाठोनयुक्तः असमन्वयात् पौनरुक्त्याच किन्तु मनुरित्येव पाठः । अयमिति पाठोयुक्त्यालभ्यत इति रुद्रधरः। अथाऽङ्गपञ्चकं कल्पयेत् 'कैः एकद्विचतुःपञ्चभिः तथा ओं नमो भगवते श्रीगोविन्दाय अस्त्रायफट् इति ॥ १०॥ ध्यानमाह- वद्धइति। वन्दे कल्पद्रुमूलाश्रितमणिमयसिंहासने सन्निविष्टं । नीलाभं पीतवस्त्रं करकमललसच्छववेत्रं मुरारिम् ॥ गोभिः सप्रश्रवाभितममरपतिप्रौढहस्तस्थकुम्भ- मच्योतत्सौधधारास्नपितम- भिनवाम्भोजपत्राभनेत्रम् ॥ १०१ ॥ मुरारि बन्दे कीदृशं कल्पवृक्षमूलावस्थिते पद्मरागमणिघटि- ते सिंहासने उपविष्टं पुनः कीदृशं नीलाभश्यामं तथा पीतवस्त्रं तथा हस्तपझे शोभमानौ शङ्खवेत्रौ यस्य तं तथा सप्रस्वाभिः क्षीरस्तनाभिः गोभिवृतं वेष्टितं तथा अमरपतेरिन्द्रस्य प्रौढोव- लिष्ठो यो हस्तस्तदवस्थितो यः कुम्भः घटस्तस्मात् प्रस्रवदमृत धाराभिः स्नपितं तथा अभिनवं नूतनं यदम्भोज पद्मं तस्य पत्रवदा- भा कान्तिनयनयोर्यस्यतम् ॥ १०१ ।। पुरश्चरणमाह- Homeper सप्तमपटलम् । १९५ amaMOM ध्यात्वेति- ध्यात्वैवमच्युतं जप्त्वा रविलक्षं हुनेत्ततः ॥ दुग्धादशसाहस्रं दिनशोऽमुं समर्चयेत् ॥ १०२ ॥ एवं पूर्वोक्तमच्युतं ध्यात्वा द्वादशलक्षं जप्त्वा दुग्धैर्वादशसहस्त्रं जुहुयात प्रत्यहं वा अमुं पूजयेत् ॥ १०२ ॥ आयतनादिषु पूजाविशेषं दर्शयति- गोष्ठ इति । गोष्ठे प्रतिष्ठितं चाऽऽत्मगेहे वा प्रतिमादिषु ॥ समस्तपरिवारार्चास्ताः पुनर्विष्णुपार्षदाः ॥ १०३ ।। द्वाराग्रे वलिपीठेऽाः पक्षीन्द्रश्च तद्ग्रतः ॥ चण्डप्रचण्डौ प्राक् धातृविधातारौ च दक्षिणे ॥१०४॥ जयः सविजयः पश्चाबलः प्रवल उत्तरे ॥ ऊढ़े द्वारश्रियं चेष्ट्वा द्वास्थेशान युग्मशोऽर्चयेत्॥१०॥ पूज्यो वास्तुपुमांस्तत्र तत्र द्वाःपीठमध्यगः । द्वारान्तःपार्श्वयोरा गङ्गा च यमुना निधी ॥१०६॥ कोणेषु विघ्नं दुर्गाञ्च वाणी क्षेत्रेशमर्चयेत् अर्चयेद्वास्तुपुरुषं वेइममध्ये समाहितः ।। देवतार्चानुरोधेन नैऋत्यां वा विचक्षणः ॥ १०७॥ गोष्ठे गोस्थाने प्रतिष्ठितं स्थापितं तथा आत्मगेहे सुवर्णाः दिघटितप्रतिमादिषु प्रतिष्ठितं विष्णुं पूजयेदिति पूर्वेणान्वयः ताः पूर्वोक्ता एव समस्तपरिवारपूजाः कार्याः तथा वक्ष्यमाणाश्च- विष्णुपार्षदाः पूर्वादिचतुर्दाराग्रभागे वलिदानपीठे द्विशः पूख्या: अत्र त्रिपाठिनः । द्वादशाक्षरगोविन्दमन्त्रस्य पूजाप्रसङ्गेन पूर्वोक्तदीक्षापूजायां तथात्रिकालपूजास्वपि पूर्वादिचतुर्दारपूजा विशेषतः कर्तव्यत्वेन ज्ञातव्या समस्तपरिवारायाऽच्युताय नमोनमः विणुपार्षदेभ्योनमो.

। सटीकक्रमदीपिकायाः नमः अनेनमन्त्रद्वयेन पूर्वादिचतुरानभागे वलिदानपीठे पूज- येदित्यर्थः । पक्षीन्द्रोगरुडः तदग्रतः वलिदानपीठाग्रतः पूज्यः । विष्णुपार्षदान् दर्शयति। प्रागिति । द्वारपूजामाह । ऊ इति। चतुरस्रचतुर्दारो भागे द्वारश्रियं पूजयित्वा चण्डादीन् द्वौद्वौ. कृत्वा पूजयेत् । अनुक्रमेण पूर्वद्वारमारभ्य द्वारवलिपीठयोर्मध्ये वास्तुपुरुषाय न मइति पूजयेत् । द्वारान्त इति। चतुर्दारमध्योभयफलके गंगायमुने पूज्ये तथा शङ्खनिधिपा- निधी च पूज्यौ। तदनु मण्डपे प्रविश्याऽऽग्नेयादिकोणेषु विघ्नदुर्गासरस्वतीक्षेत्रे. शाः क्रमेण पूज्याः मण्डपमध्ये ब्रह्मस्थाने पुनर्वास्तुपुरुषं संयतः सन् पूजयेत् ॥ १०३ ॥ १०४ ॥१०५ ॥ १०६ ॥ १०७ ।। अस्त्रमुद्धरति- तारमिति। तारं शाङ्गपदं डेऽन्तं सपूर्व च शरासनम् ॥ हुंफट् नतिरित्युक्त्वा ऽस्त्रमुद्रया ऽग्रे स्थितो हरेः॥१०८॥ पुष्पाक्षतं क्षिपेद्दिक्षु समासीता ऽऽसने ततः विधेयमेतत् सर्वत्र स्थापितेषु विशेषतः ॥ १०९ ॥ तारं प्रणवः शापदं ऽन्तं चतुर्थ्यन्तं सपूर्व सशरासनशब्द चतुर्थ्यन्तं हुंफट्नमः इति उक्त्वा पुष्पाक्षतं चतुर्दिक्षु अस्त्रमुद्रया- छोटिकया निक्षिपेत् कीदृशः हरेरग्रे स्थितः ततः आसने स्वोचिते- उपविशेत् एतत्सर्व सर्वपूजादौ कर्तव्यं स्थापितेषु प्रतिमादिषु पुनर्विशेषतः कर्तव्यमेव ।। १०८ ॥ १० ॥ पीठापूजामाह-

सप्तमपटलम् ।
।
आत्मेति ।
आत्मार्चनान्तं कृत्वाऽथ गुरुपति पुरोक्तवत् ॥
श्रीगुरुन् परमाद्यांश्च महास्मत्सर्वपूर्वकान् ॥ ११० ॥
स्वदेहे पूर्वोक्तस्वरूपेण पीठमारभ्य सम्पूज्य हृदि भगवन्तमभ्य
या॑ऽनन्तरं वाह्यपीठे पूर्ववत् पूर्वोक्तदीक्षाप्रकरणकथितोत्तरदि.
विभागे इति वद् गुरुपङ्गिं पूजयेत् ।
गुरुपतिमेवाह-
श्रीगुरूनिति ।
श्रीशब्दपूर्वान् गुरून् परमगुरुन् ।
प्रयोगाश्च-
श्रीगुरुभ्योनमः
श्रीपरमगुरुभ्योनमः
श्रीमहागुरुभ्योनमः
श्रीअस्मद्गुरुभ्योनमः
सर्वगुरुभ्योनमः ॥११०॥
तत्पादुकानारदादीन्पूर्वसिद्धाननन्तरम् ॥
ततो भागवतांश्चेष्ट्वा विघ्नं दक्षिणतोऽर्चयेत् ॥१११॥
तत् पादुकाभ्यः नारदादिभ्यः पूर्वसिद्धेभ्यः भागवतेभ्य इति
लघुदीपिकाकारः ।
श्रीगुरुपादुकाभ्योनमः श्रीपरमगुरुपादुकाआदिगुरुपादुकामहा-
गुरुपादुकाअस्मद्गुरुपादुकासर्वगुरुपादुकाभ्योनमः ।
इति त्रिपादिनः ।
एवं गुरुपडिपीठस्योत्तरे समभ्यर्च्य दक्षिणे गणेशं पूजयेत्॥११॥
पूर्ववत इति-
पूर्ववत् पीठमभ्यर्च्य श्रीगोविन्दमथाऽर्चयेत्
रुक्मिणी सत्यभामां च पार्श्वयोरिन्द्रमग्रतः॥११२॥
पृष्टतः सुरभिश्चेष्ट्वा केशरेष्वङ्गदेवताः
अा हृदादिवर्मान्ता विश्वस्त्रं कोणकेषु च ॥११३॥

सटीकक्रमदीपिकायाः पूर्वोक्तप्रकारेणाऽऽधारशक्त्यादिपीठमन्त्रान्तं सम्पूज्य देवमा- वाह्य अादिमिरुपचारैः पूजयेत् । आवरणपूजामाह- रुक्मिणीमिति । गोविन्ददक्षिणवामयोः पार्श्वयोः कर्णिकायां रुक्मिणी सत्यभामा च संपूज्या देवाग्रे च इन्द्रं सम्पूज्य देवपृष्ठे तु सुरा पूर्वादिचतुर्दि- क्कोणेषु केशरेषु हृदादिवर्मान्ता अङ्गदेवता पूज्याः केशरेषु कोणेष्ठ पुनरस्त्रमङ्गं पूजयेत् ॥ ११२॥ ११३ ॥ कालिन्दीति- कालिन्दीरोहणीनाग्नजित्याद्याः षट् च शक्तयः॥ दलेषु पीठकोणेष्ठ वढयाद्यांश्च किङ्किणीः ॥११४॥ दामानि यष्टिवेणुश्च पुरः श्रीवत्सकौस्तुभौ अग्रतो वनमालां च दिश्वष्टासु ततोऽर्चयेत् ॥११५॥ पाञ्चजन्यं गदां चक्रं वसुदेवं च देवकीम् ॥ नन्दगोपं यशोदां च सगोगोपालगोपिकाः ॥११६॥ कालिन्द्याद्याः शक्तयो देवपत्न्यः पत्रेषु पूज्याः आदिपदेन सुन- न्दामित्रविन्दासुलक्ष्मणापरिग्रहः आग्नेयादिपीठकोणेषु किङ्किणी- दामादीन् पूजयेत् तत्र श्रीकृष्णक्षुद्रघण्टिकाम् अग्निकोणे ॥ गोरक्षणार्थ दामानि नैर्ऋते गोप्रेरणार्थ लकुटं वायौ वंशम् ईशामकोणे देवस्याऽग्रे श्रीवत्सकौस्तुभौ श्रीवत्सकौस्तुभाग्रतः वनमालां तदुपरि अष्टदिक्षु पाञ्चजन्यादय इति । पाञ्चजन्यायनमः सगोगोपालगोपिकाभ्यो नमः इत्यन्ताः पूज्याः आदिपदेन गदाचक्रवसुदेवदेवकीनन्दयशोदापरिग्रहः११४॥११५।।११६॥ इन्द्राद्या इति- इन्द्राधाः कुमुदाद्याश्च विश्वक्सेनं तथोत्तरे ॥ कुमुदः कुमुदाक्षश्च पुण्डरीकोऽथ वामनः || शङ्कुकर्णः सर्वनेत्रः सुमुखः सुप्रतिष्ठितः ॥ १.१.७ ॥ इन्द्राद्याः स्वस्वदिक्षु पूज्याः तदस्त्राणि वत्रादीन्यादिशन्दग्रा. 7 सप्तमपटलम् । ह्याणि तथा कुमुदाद्याश्वाऽष्टगजाः तदुपरि स्वस्वदिक्षु पूज्याः तद्वहिवतोत्तरे विश्वक्लेनं पूजयेत् । कुमुदादीनां नामान्याह- कुमुदाइति ११७ ॥ पूजाफलमाह- एकेति। एककालं द्विकालं चा त्रिकालं चेति गोष्ठगम् श्रीगोविन्दं यजनित्यं गोभ्यश्च यवसप्रदः ॥११८॥ दीर्घजीवी निरातको धेनुधान्धधनादिभिः पुत्रैमिरिहाऽन्योऽन्ते प्रयाति परमं पदम् ॥ ११९ ॥ गोष्टगं बजगं कृष्णं प्रत्यहम् एककालं द्विकालं त्रिकालं- पूजयेत् गोभ्यश्च ग्रासप्रदः सन्निह लोके चिरायुर्निभयो धेनुधा- न्यसुवर्णादिभिः पुत्रमित्रादिभिश्च सम्पन्नो भवति देहपातान्ते च विष्णुलोकं च गच्छति ॥ १९८ ॥ ११९ ॥ मन्त्रान्तरमाह- उद्वेति । ऊर्द्धदन्तयुतः शाी चक्री दक्षिणकर्णयुक् ॥ मांसं नाथाय नत्यन्तो मूलमन्त्रोऽष्टवर्णकः ॥१२०॥ उर्ध्वदन्तः ओकारः तेन सहितः शाी गकारः चक्री ककारः दक्षिणकर्णयुक् उकारसहितः मांसो लकारः नाशायेति स्वरूपं. नत्यन्तो नमःपदान्तः अयमष्टाक्षरोमूलमन्त्रसंशकः। २०॥ ऋष्यादिकमाह- ऋषिरित्यादि। ऋषिब्रह्मां च गायत्रीछन्दः कृष्णस्तु देवता ॥ युग्मवर्णैः समस्तेन प्रोक्तं स्यादङ्गपञ्चकम् ॥ १२१ ॥ अस्यमन्त्रस्य ब्रह्माऋषिः गायत्रीछन्दः श्रीकृष्णोदेवता चशब्दो. ऽनुक्तसमुच्चये तेनवीजशक्त्यधिष्टातृदेवता दशाक्षरवत् तथा अस्य सटीकक्रमदीपिकायाः मन्त्रस्य मन्त्रोत्थवर्णानां चतुर्भिर्युग्मवर्णैश्चतुरङ्गं समग्रेण च म. न्त्रेणापञ्चकं ज्ञेयम् ॥१२१ ॥ ध्यानमाह- पञ्चवर्षमिति । पञ्चवर्षमतिदृप्तमङ्गणे- धावमानमलकाकुलेक्षणम् ॥ किङ्किणीचलयहारनपुरैः रञ्जितं स्मरत गोपवालकम् ॥ १२२ ॥ गोपशिशुं नमत कीदृशं पञ्चवर्षवयस्थं तथा अतिवलिष्ठं तथा प्राङ्गणे धावमानं तथा चातिचञ्चलेक्षणं तथा किङ्किणी- क्षुद्रघण्टिका वलयः कङ्कणः हारोमुक्ताहारः नूपुरस्तुलाको. टिरेतैरञ्जितं भूषितम् ॥ १२२ ॥ पुरश्चरणमाह- ध्यात्वैवमिति । ध्यात्वैवं प्रजपेदष्टलक्षं तावत्सहस्रकम् ॥ जुहुयात् ब्रह्मवृक्षोत्थसमिद्भिः पायसेन वा ॥ १२३॥ एवं पूर्वोक्तं ध्यात्वा अष्टलक्षं मन्त्र जपेत् तदनुपलाशवृक्षस- मिद्भिः परमान्नेन वा ऽष्टसहस्रं जुहुयात् ॥ १२३ ॥ पूजाप्रकारमाह- प्रासादे इति । मासादे स्थापितं कृष्णममुना नित्यशोऽर्चयेत् द्वारपूजादि पीठाचनान्तं कृत्वोक्तमार्गतः ॥ १२ ॥ घवलगृहे स्थापितं कृष्णम् अमुना वक्ष्यमाणप्रकारेण प्रत्यहं पूजयेत् द्वारपूजामारभ्य पीठपूजापर्यन्तं पूर्वोक्तमन्त्र- वर्मना कुर्यात् ॥ १२४ ॥ मध्य इति । - 4.. ... २ .... (१५) शिवस्तोत्रावली । उत्पलदवविरचिता । प्रमैयरत्नावश्च श्रीक्षेमराजविरचितवृत्तिसमेता(वेदान्तः)२ (२९) अनुमानचिन्तामणिव्याख्यायाः शिरोम. (१६) मीमांसाबालप्रकाशः जैमिनीयद्वादशाऽ णिकृतदीधित्या जागदीशी टीका । १३ ध्यायार्थसंग्रहः श्रीभट्टनारायणात्मजभट्ट- (३०) वीरमित्रोदयः । महामहोपाध्यायश्रीमित्र- शङ्करविरचितः। (मीमांसा) २ मिश्रविरचितः परिभाषा-संस्कारप्रका- (१०) प्रकरणपश्चिका प्रभाकरमतानुसारि-मी- शात्मकः । सापिण्यदीपकश्च मांसादर्शनम् । महामहोपाध्यायश्रीशालि- (३१) धीरमित्रोदयः । महामहोपाध्यायश्रीमि- कनाथमिश्रविरचितम् श्रीशङ्करभट्टकृता त्रमिविरचितः आह्निकप्रकाश: मीमांसासारसंग्रहश्च सम्पूर्णः (मीमांसा)३ (३२) स्मृतिसारोद्धारः विद्वद्वरविश्वम्भरात्रिपाठि- संकलितः (१८) अद्वैतसिद्धिसिद्धान्तसारः। पण्डितप्रवर- श्रीसदानन्दव्यासप्रणीतस्तत्कृतव्याख्यास- (३३) वेदान्तरत्न मञ्जूषा । श्रीभगवत्पुरुषोत्त- मलङ्कृतः । (वेदान्तः) माचार्यकृता। (१९) कात्यायनश्रौतसूत्रम् । महामहोपाध्याय- (३४) प्रस्थानरत्नाकरः । गोस्वामिश्रीपुरुषोत्त- मजीमहाराजविरचित श्रीकर्काचार्यविरचितभाष्यसहितम् । १३ (३५) वेदान्तपारिजातसौरभं नाम ब्रह्ममीमांसा- (२०) अमसूत्रभाष्यम् । श्रीभास्कराचार्यविर- भाष्यं श्रीनिम्बार्काचार्यविरचितम् । १ चितं सम्पूर्णम् ( वेदान्तः) (१६) योगदर्शनम् । परमहंसपरिव्राजकाचार्य- (२१) श्रीहर्षप्रणीतं खण्डनखण्डखाद्यम् । आ- नारायणतीर्थविरचित-योगसिद्धान्तचन्द्रि नन्दपूर्णविरचितया खण्डनकक्किकावि- कासमाख्यया व्याख्यया संवलितम् । २ भजनाख्यया व्याख्यया विद्यासागरीतिप्र- (३७) वेदान्तदर्शनम् । परमहंसपरिव्राजका सिद्धया समेतम् । (वेदान्तः) चार्यश्रीरामानन्दसरस्वतीस्वामिकृत ब्रह्मा- (२२) आख्यातचन्द्रिका श्रीभट्टमल्लविरचितार मृतवर्षिणीसमाख्यव्याख्यासंबलितम् ।। (२३) श्रीलक्ष्मीसहस्रम्-बालबोधिनीव्याख्य- (३८) विश्वप्रकाश: । कोशः । विद्वद्वरश्रीम- याऽवतरणिकया च साहितम् हेश्वरसूरिविरचितः। (२४) ब्रह्मसूत्रवृत्तिः मरीचिका श्रीब्रजनाथभ-(३९) श्रीसुबोधिनी । श्रीवल्लभाचार्यविनिर्मिता कृता (वेदान्तः) श्रीमद्भागवतव्याख्या गोस्वामीश्रीविठ्ठलना- (२५) क्रोडपत्रसंग्रहः । अत्र श्रीकालीशङ्करसि थदीक्षितविरचितटिप्पणीसहिता । श्रीम- द्धान्तवागीशविरचितानि अनुमानजागदी- दागवत्तदशमस्कन्धजन्मप्रकर्ण श्रीसुबो- श्याः प्रत्यक्षानुमानगादाधर्याः प्रत्यक्षानु- धिनीटिप्पण्यो:-प्रकाशः गोस्वामि श्रीश्री मानमाथुर्या व्युत्पत्तिवादस्य शक्तिवादस्य पुरुषोत्तमजीमहाराज विरचित मुक्तिवादस्य शब्दशक्तिप्रकाशिकायाः कु- (४०) वीरमित्रोदयः । महामहोपाध्यायनीमि- सुमाञ्जलेश्च क्रोडपाणि मिश्रविरचितः पूजाप्रकाशः। (२६) ब्रह्मसूत्रम् , द्वैताद्वैतदर्शनम् । श्रीसुन्दरभ- (४२) वेदान्तसिद्धान्तसंग्रहः । श्रुतिसिद्धान्ताप- टरचितसिद्धान्तसेतुकाऽभिधटीकासहि- रनामकः । श्रीब्रह्मचारिवनमालिमिश्रविर- तश्रीदेवाचार्यप्रणीतसिद्धान्तजाह्नवीयुतम्र चितः। वेदान्तकारिकावली श्रीपुरुषोत्तम- (२७) षडदर्शनसमुच्चयः । बौद्धनैयायिकका प्रसाद शर्मकृता अध्यात्मसुधातरङ्गि- पिलजैनवैशेषिकजमिनीयदर्शनसंक्षेपः । ण्याख्यटीकयासहिता मणिभद्रकृतटीकया सहितः । हरिभद्रमु- (४२) स्वानुभवादर्शः। श्रीमत्परमहंसपरिबाज रिकृतः। काचार्यनारायणाश्रमाशिष्यमाधवाश्रमावर (२८) शुद्धाद्वैतमार्तण्डः प्रकाशव्याख्यासहितः। चितः । स्वकृतटीकाविभूषितश्च । ... ... २ . १ (Sb (४३) याज्ञवल्कस्मृतिः । बालम्भट्टीसमाख्या (४८) विरमित्रोदयः । लक्षणप्रकाशः । व्याख्यासमलड्कृतमिताक्षरासहिता । व्य महामहोपाध्यायश्रीमित्रमिश्रविरचितः। ७ वहाराध्यायः ११ । (४९) बृहदारण्यकवार्तिकसार श्रीमद्विद्यारण्यस्वा- (४४) गादाधरी । श्रीगदाधरभट्टाचार्यचक्रव- मिविरचितः । महेश्वरतीर्थकृतयालघुसं- तिकृता । श्रीगने शोपाध्यायविरचिततत्त्व ग्रहाख्यया टीकया समलंकृतः । चिन्तामण्या श्रीरघुनाथतार्किकाशिरोमणि- (५०) वीरमित्रोदयः । राजनीतिप्रकाशः । महा- विराचितदीधित्या च गर्भिता। महोपाध्यायश्रीमित्रमिविरचितः । (४५) शास्त्रदीपिका । श्रीपार्थसारथिमिग्र प्रणि- (५१) पूर्वमीमांसा अधिकरणकौमुदी । श्रीमन्म- ता। रामकृष्णविरचितयुक्तिस्नेहप्रपुरण्या हामहोपाध्याय पं० रामकृष्णभट्टाचार्य- ख्यव्याख्यया सहिता तर्कपाद । वीरचिता परिशिष्टाधिकरणनिरूपणपूर्व- (४६) वैयाकरणसिद्धान्तलघुमजूषा महामहो के टिप्पण्या परिष्कृत। १ पाध्याय-श्रीनागेशभट्टविरचित।। (५२) प्रसस्तपादभाष्यटीकासंग्रहः । तत्र क- श्रीमदुर्बलाचार्य: बालम्भट्टाभ्यां विर णादरहस्यम् । श्रीशंकरमिश्रविरचितम १ चितकुञ्जिकाकलावटीकाव्यसंवलिता । ८ (५३) क्रमदीपिका । श्रीमन्महामहोपाध्याय (४७) व्याकरणसिद्धान्तसुधानिधीः । पर्वतीय काश्मीरिककेशवभद्रविरचिता। विद्यावि- विश्वेश्वरमरिविरचितः। नोदश्रीगोविन्दभट्टाचार्यकृतविवरणोपेत र ६ हरिदासगुप्तः, चौखम्बा बनारस सिटी पत्त्रादिप्रेषणस्थानम्

Kramdipika No 236

Author
Mahamahopadhyaya Kasmirika Keshav Bhatta
Title
Kramdipika No 236
File name
Kramdipika No 236
Text
OCR done
Publisher
Sanskrit Series Office Benares
Language
Sanskrit
Pages
106
Library
Bharti Bhawan Library Allahabad
DLI number
272878
Barcode
5990010894213.00
Scanning centre
IIIT, Allahabad
Digital publisher
Digital Library Of India
VMLT id
MJh5dCcIaLS
Download PDF

Kramdipika No 236