Bharatiya Jnanpith Delhi
The Vrttavartika
Front matter
No text on this page.
No text on this page.
No text on this page.
TRIVANDRUM SANSKRIT SERIES.
Na. CXXXI.
órī Citrodayamanjarī.
No. XX.
THE
VRTTAVĀRTIKA
OR
sri Rämapāniyāda
EDITED BY
K. SAMBASI VA SASTRI
Cunasor of the Department for the Publication
of Oriental Manuscripta, Trivandrumo.
PUBLISHED UNDER THE AUTIIORITY OF THE GOVERNMENT OF
HIS HIGHNESS TAB MAHARAJA OF TRAVANCORE
TRIVANDRUM:
PRINTED RY THE SUPERINTENDENT, GOVERNMENT PRKK®,
1987.
(All Rights Reserved.)
No text on this page.
अनन्तशयनसंस्कृतग्रन्थावलिः।
प्रन्थाङ्क १११.
श्रीचित्रोदयमअरी।
प्रन्थाः२०.
श्रीरामपाणिवादविरचितं
वृत्तवार्तिकम्
पौरस्त्यग्रन्थप्रकाशनकार्याध्यक्षेण
के. साम्बशिवशानिणा
संशोषितम् ।
अननशयने
महोसतमहामहिमश्रीचित्रावतारमहाराजशासनेन
राजकीयमुद्रणयन्त्रालये तदध्यक्षेण
मुदायित्वा प्रकाशितम्।
कोखम्बामा.. स्वान्ना १९५०
No text on this page.
NE
॥श्रीः॥
श्रीमूलावनिपालमौलिमणिना सक्कल्पितश्रीरिव
श्रीमूलात्मजनिस्तथा सहजया लक्ष्म्या च सम्भावितः।
स्वातिज्योतिरिवादितः समुदितश्चित्रावतार: स्वयं
मार्ताण्डाग्रसरो विराजति महाराजः स रामामिधः॥
मास्ववर्णमणिः प्रवालमृदुला श्रुत्याचलकारिणी
श्रीमदचिवसुन्धरानवयशोराशिप्रकाशामिका ।
उत्फुलत्सुकृतिप्रसाधनधृतामोदोनदाडिण्डिमा
श्रीचित्रोदयमञ्जरी सुमनसां सर्वस्वमुज्जृम्भताम् ।।
के. साम्पशिवशाली.
ਦੇਰੀ
No text on this page.
P R E F A CE. Vittavårttika is a rare attempt in the field of prosody and is of considerable help to students and scholars. In pursuance of the author's statement :--- 'वृत्तानि यानि काव्यादौ सन्ति तानि प्रवदमहे।' (gol to 4.) this work has gained universal approbation as it purports a terse treatment of all the metres employed in Kavya literature. The author striv.:s for the exposition, especially for pupils, of non-vedic me res, grouped in the order of Prastara without laying much stress upon the Vedic ones and this truth is expressed by himself in the following verse : "बालानामुपयोगार्थ या कृता वृत्तकारिका । उदाहरणवोगेन सा मया पूरयिष्यते ॥" (C0 1.) The work falls into two divisions, the text consisting of Karikās and the commentary containing explanatory sentences illustrative of them. In the introductory verse beginning with more the personal pronoun 497 in the instrumental case may be held to be common to get and grand and as such I conclude that both the Karikas and the commentary owe their origin to the same individual. The frequent use of pare in the exordial remarks to the first Karikā introducing certain metres led me to infer that the reference is only to the humble author and to none else. If it meant otherwise the necessity of a commentary on the work would not have arisen as such import is derogatory to the dignity of the original. Another work entitled TESTET is found embedded herein illustrating the metres in the order of Prastara. This has four Paricchedas and towards the end 13 Karikās are devot. ed to Prastara: 'समान्यर्वसमान्यत्र विषमाणि च कानिचिद' (1. to 4.) 'अनिर्दिष्टान्यसंशत्वाद् वृत्तमेदं प्रचक्षते।' (Telf. sto vr.) "मात्रावृत्तानि कथ्यन्ते गणानां नियम विना । कक्षितोऽपि स भूबिष्टं प्रयोगेषुनरवते ॥" (T. 17. *..)
१ These verses explain briefly the nature of the metres based upon letters and syllabic instants: "प्रस्तारितानि वृत्तानि बहुसंख्यानि सन्ति हि । तेषां संहान सर्वेषां प्रयोगोऽपिन श्यते ॥" (प...को..) 'संज्ञावतां च सर्वेषां प्रयोगः प्रापिको पतः । मतः प्रयोगे साधूनामेव क्षणमुच्यते॥' (1...को. ७.) Thus the work comes to a close by chalking out a useful path. From the concluding verse of the work: 'विभाज्य वृत्तशावाणि तेभ्यः संक्षिप्य चोधृतम् । रामेग पाणिवादेन तदेतद् इत्तवार्तिकम् ॥' (१.३८.) it is evident that its originator is the eminent poet Ramapāņivarla. He might have been a disciple of Narayana Bhittapada of Melputtür, the celebrated author of Narayaniya and other treatises and might have flourished in the latter half of the 16th century A. D. Some identify him with Kunjan Nambiar who had written Manipravālam and other numerous works in Malayalam, but there are others who hold an entirely different view. In case TTATURA occurring in the following verse, "अनन्तभक्तिप्रवणान्तरका- ननन्तरामार्जितपुण्यपूरान् । मनन्तवागणवकर्णधारा- ननन्तधान: स्वगुरूनुपासे ॥" is interpreted as one who had domiciled in Anantasagana, tha inference that Ramapā ņivāda's preceptor was a resident of Trivandrum is correct. His date may be deduced from Narayana Bhattapada's commentary on the Dbatukavya as the latter half of the 16th century A. D. and so he must have lived much later than Narayana Bhattapāda. Other works by the author are the following: १. विष्णुविकासः १. राघवीयम् १. मुकुन्दशतकम् ४. शिवसकर
3
श्रीकृष्णविलासब्याख्या (विलासिनी)
क. विशुविकासब्याख्या (विष्णुप्रिया)
.. राघवीयव्याख्या (बाकपाध्या)
पातुकाव्ययाल्या (विवरणम् )
1. चन्द्रिका
१०. कलावावी
११. मदनकेतुचरितम्
११. सीतारापवम्
११. पातन्त्रम्
१५. प्राकृतसूत्रवृत्तिः
१५. कंसवधम् (प्राकृतकाव्यम्)
The only available manuscript used for this publication
belongs to M. R. By. Narayapan Narayanan Elayatu Avl.,
Vembanattillam, Ambalappuzha, Travancore. It is about
a hundred years old. Expressing the debt of gratitude I
owe to the owner thereof, I deem it a great privilege to
present this work, helpful to all lovers of Sanskrit Literature,
to the enlightened public.
Trivandrum,
30-12-1112.
.. SAMBASIVA SASTRI.
..
No text on this page.
॥श्रीः॥ निवेदना। इवं वृत्तवार्षिकं नाम किमप्यपूर्वणस्थानं निवन्धनं वृविज्ञानसम्पादन- कुतुतिनां विद्यार्थिनां न केवलं, व्युत्पन्नानामपि महत उपकाराय । 'वृत्तानि बानि काव्बादौ सन्ति तानि प्रचक्ष्महे ।' (पृ. ३. लो० ५.) इति वक्ष्यमात्रदृष्टानां वृत्तानां सङ्ग्रप निरूपणपरमिदं ततोऽपि सर्वजनीनं सम्पयते । केवलपस्तारपरम्परापरिवृत्तानां वृत्तानामगैकिकच्छन्दोमन्दिरगतानां सम्भवमात्रतः प्रदर्शनायानायस्यतानेन वार्तिककारेण सुबइपकृतं विशिष्य शिष्येभ्यो बालेभ्यः । तदिदं तत्त्वं स्वयमेववमुदृश्यते "बालानामुपयोगार्थ या कृता वृत्तकारिका । उदाहरणयोगेन सा मया पूरयिष्यते ॥" (पृ० १.) इति । अत्र कारिकाः, सोदाहरणानि विवरणवाक्यानि चेवि द्वयी घटना दृश्यते। द्वयी व सा मन्ये काममेकप्रभवा, यद् - उपक्रमगते सम्मति समुद्धृते बाला- नामिति प्रतिज्ञासोके मोत्यस्मदा कारिकाया उदाहरणयोगेन पूरणायाबैक- स्मिन्नस्मदि सामानाधिकरण्यं बोभ्यते, प्रथमकारिकावतारिकायां 'कानिचि- च्छन्दांसि विवेक्तुकामः कश्चिदिति दर्शनात् कबिदा परामृश्यमानो विनीताद् विवरणकारादनन्य एव कति प्रतिभाति, अन्यथा विवरणीयमूलकारिकाणा- मगौरवमापाबमानं विवरणोल्लानं न सहेत । अत्र वृत्तवार्षिक आनुष्टुमानि मस्तारक्रमागतान्युदाहरणानि मदर्शयन्ती रासक्रीडाप्रतिपादिका नाम्ना रासक्रीडामा काचिदन्यापि कृतिरन्तर्भवति । यत्र परिच्छेदाम्पत्वारोऽन्ते प्रस्तारक्रमच त्रयोदशभिः कारिकामिर्षटिताः । 'समान्यर्षसमान्यत्र विषमाणि च कानिचित् ।' (१० ३. श्लो० ५.) 'अनिर्दिष्टान्यसंज्ञत्वाद् वृत्तभेदं प्रचक्षते । (पृ. २६. लो. १२.)
२ "मात्रावृत्तानि कथ्यन्ते गणाना नियम विना । लक्षितोऽपि स भूयिष्ठं प्रयोगेषु न दृश्यते ।" (पृ. ३२. श्लो० ६..) इत्यादिभिः सहकारिकाभिः समस्तमपि वृत्तशास्त्रबोपनीयं वस्तुजातं वर्णमा- त्रावृचालक, "प्रस्तारितानि वृत्तानि बहुसङ्ख्यानि सन्ति हि । तेषां संज्ञा न सर्वेषां प्रयोगोऽपि न रश्यते ॥" (१० ३. श्लो० ६.) "संज्ञावतां च सर्वेषां प्रयोगः प्रायिको यतः । अतः प्रयोगे साधूनामेव लक्षणमुच्यते ॥" (पृ. ४. श्लो० ७.) इति दिशा साम्प्रतं सोपयोग कवितमिति सद्यः सम्पूर्णमिदं निवन्धनम् । मस्य च निवन्धनस्य कर्ता कश्चिद् रामपाणिवादनामा महाकविरिति, "विमाव्य वृपशाबाणि तेभ्यः संक्षिप्य चाद्धृतम् । रामेण पाणिवादेन तदेतद् वृत्तवार्षिकम् ॥" (पृ० ३१.) इति प्रन्यान्तिमपयेन ज्ञायते । स चावं रामपाणिवादः श्रीनारायणीयादिबहु- प्रबन्धकर्तुः श्रीनवपुरग्रामवास्तव्यश्रीनारायणभट्टपादस्य शिष्य हति क्रिस्त्व- ब्दीयषोडशशतकोतरार्पजीवी कैश्चित् परिगण्यते । श्रीकृष्णचरितमणिप्रबाला- दिनककैरलीयप्रबन्धनिर्मातुः कुश्शन्संज्ञितादमिम इति केचिद् भिन्न इति परे पामुं नकषा शन्ते । "अनन्तभक्तिप्रवणान्तरका- ननन्तरायातिपुण्यपूरान् । अनन्तवागर्णवकर्णधारान् अनन्तधाम्नः स्वगुस्नुपासे ॥" (पृ० १.) इति अनन्तधामपदेनानन्तशयननिवासिन इत्यप्पर्षस्वीकारे तु काममस्य गुरुचर- गैरसदनन्तशयनमपि कदाचिदषिष्ठितं सम्भाव्यते । सर्वथा श्रीमनारायणभह- ४. पादीयधातुकाव्यव्याख्यानावसौ किस्त्वब्दीयषोडशशतकपूर्वार्षजीविनो मट्टपा- दादर्वाचीन इति निश्चमचम् । अस्य च कवेरन्याः कामन कृतयः सहदयमान्याः प्रस्ताव्याः १. विष्णुविलासः। २. राघवीयम् । मुकुन्दशतकम् । शिवशतकम् । श्रीकृष्णविरुणसन्याख्या (विगसिनी)। ६. विष्णुविलासव्याल्या (विष्णुप्रिया)। राघवीयव्याख्या (पालपाठ्या)। धातुकान्यव्याख्या (विवरणम्) । चन्द्रिका । १०. लीलावती। ११. मदनकेतुचरितम् । १२. सीताराघवम् । १३. पञ्चतन्त्रम् । १४. प्राकृतसूत्रवृत्तिः। कंसवधम् (प्राकृतकाव्यम्) । अस्य च प्रसाधन उपयुक्ता मातृका निकाममद्वितीया वधिराज्या- न्तर्गत- अम्बप्पुळवेम्पनाट्टिल्लं श्रीमनारायणन्इळयतुस्वामिका माकी वत्सरशतकपर्युषिता । सदयमिमा प्रदायोपकृतवते ग्रन्थावामिने महती कृत- तामनुस्मरन् संस्कृतभाषाप्रणयिसकलोपकारकमिदं वार्तिकं सपः सम्मुद्य सतां समक्षं समर्पयनस्मि स एष धन्यधन्यः ॥ अनन्तशयनम् के. साम्बशिवशास्त्री. ३०-१२-११२.
No text on this page.
विषयानुक्रमणी। विषयः. पृष्ठम्. २ ३ ६ ८ मङ्गलाचरणम् गणसङ्ख्या गणानां साङ्केतिकनामकथनम् गणखरूपकथनम् चिकीर्षितकथनम् सहृदयचमत्कारकारिणामेव वृत्तानामत्र लक्षणकथनमिति प्रतिज्ञा पथ्यावक्त्रलक्षणम् प्रमाणिकाविद्युन्मालामाणयकानां लक्षणम् चम्पकमालामत्तयोर्लक्षणम् मनोरमोपेन्द्रवजेन्द्रवज्राणां लक्षणम् उपजातिलक्षणम् उपजातिभेदाः भद्रिकासुमुख्योर्लक्षणम् शालिनीरथोद्धतयोर्लक्षणम् स्वागतामौक्तिकमालाश्रीवृत्तानां लक्षणम् वंशस्थेन्द्रवंशद्रुतविलम्बितानां लक्षणम् तोटककुसुमचित्रभुजङ्गप्रयातनवमालिनीनां लक्षणम् रथोद्धतगतिप्रमिताक्षरामणिमालानां लक्षणम् महितोज्ज्वलास्रग्विणीमालतीप्रभाणां लक्षणम् नवतामरसमहर्षिणीक्षमाचञ्चलीकावलीनां लक्षणम् मत्तमयूरीरुचिरामजुभाषिणीनां लक्षणम् वसन्ततिलकप्रहारकलिकेन्दुवरनानां लक्षणम् शशिकलामालिनीशिखरिणीनां लक्षणम् पृथ्वीहरिणीकटकानां लक्षणम् ९ १०,११ १२ १३ १५ १७ १८ २० २१ २२ २३
२
विषयः,
पृष्ठम्.
"
मन्दाक्रान्ताकौमुदीशार्दूलविक्रीडितानां लक्षणम्
मेघविष्फूर्जितासुवदनास्रग्धराणां
वृत्तभदस्य
द्रुतमध्यावेगवत्युपचित्राणां
अपरवक्त्रापुप्पिताप्रावैतालीयवसन्तमालिकानां
हरिणप्लुताभद्रविराडुद्गतानां
उपस्थितप्रचुपितामृतधारयोः
पादान्ते गुरुलघुव्यवस्था
आर्यालक्षणम्
गीत्युपगीत्युद्गीत्यार्यागीतीनां लक्षणम्
२४
२५
२६
२७
२८
२९
"
"
"
३१
२
३२
३३
॥श्रीः ॥ श्रीरामपाणिवादविरचितं वृत्तवार्त्तिकम् अनन्तभक्तिप्रवणान्तरङ्गा- ननन्तरायार्जितपुण्यपूरान् । अनन्तवागणवकर्णधारा- ननन्तधाम्नः स्वगुरूनुपासे !! बालानामुपयोगार्थ या कृता वृत्तकारिका । उदाहरणयोगेन सा मया पूरयिष्यते ॥ इह तावत् पिङ्गलादिभिराचायैर्निबहाना लौकिकानां वर्णमात्राविभागभाजां छन्दसां प्रपञ्चेपु काव्यादिप्रयोग- सोपयोगानि कानिचिच्छन्दांसि विवेक्तुकामः कश्चिदात्म- गुरुपरदैवतानुस्मरणपूर्वकमारिप्सितं प्रतिजानीते - गुरुपादान् नमस्कृत्य हेरम्बं भारतीमपि । क्रियते पद्यबन्धानां वृत्तलक्षणकारिका ॥१॥ कारिका नाम लक्षणवाक्योपपादकः श्लोकसङ्घातः । अथ गणसङ्ख्यामुपन्यस्यति अष्टौ सन्ति गणास्ते तु वर्णत्रिकतया मिताः; गुर्वात्मकवर्णत्रयप्रस्तारवर्धिता ह्यष्टौ प्रकारभेदा गण इत्युच्यन्ते । . P.T 844. 500.25.112. :
२ वृत्तवार्तिके तेषां च प्रत्येक साङ्केतिक नाम प्रस्तौति मगणो भगणश्चैव जगणः सगणस्तथा ॥२॥ नगणो यगणश्चैव रगणस्तगणस्तथा । अमीषां तु गुरुत्वलघुत्वभेदेन भेदाः । तदाहुः- "सानुस्वारो विसर्गान्तो दीपों युक्तपरश्च यः । वा पादान्तस्त्रसौ ग्वको ज्ञेयोऽन्यो मात्रिको ल् ऋजुः ॥" इति । अस्यार्थः- अनुस्वारवान् दीर्घवान् विसर्गान्तः संयोगपरश्च यो वर्णः सः गः स्यात् गुमः स्यादित्यर्थः । वक्र- संज्ञश्च स्यात् । पादान्तगतस्तु वों विकल्पेन गुरुसंज्ञः स्यात् । उक्तलक्षणादन्यस्तु मात्रिक एकमात्रो वर्णों लः स्यात् लघुः स्यादित्यर्थः । ऋजुसंज्ञश्च स्यादिति। अत्र वक्र- ऋजुसंज्ञाफलं तु प्रस्तारलेखाविन्यासरूपमिति बोध्यम ।। गुरोर्ग इति वा संज्ञा लघोल इति वा भवेत् ॥ ३॥ यथायोग्यं गुरुर्ग इति वा लघुल इति वा प्रयोक्ष्यते इत्यर्थः ॥ अथ गणानां स्वरूपमाह त्रिगो म आदिगो भः स्यान्मध्यगो जोऽन्त्यगस्तु सः । त्रिलो न आदिलो यः स्यान्मध्यलो रोऽन्त्यलस्तु तः॥ त्रयो गा गुरवो यस्य स त्रिगः । एवं त्रिल इत्यादि। एवं च गुरुत्रयात्मको मगणः । आदिगुरुर्भगणः । मध्यगु- रुर्जगणः । अन्त्यगुरुः सगणः । लघुत्रयात्मको नगणः । आदिलघुर्यगणः । मध्यलघू रगणः । अन्त्यलघुस्तगण इति सिद्धम् ॥ --
३
समवृत्तप्रकरणम् ।
अथ चिकीर्षितमाह
समान्यर्धसमान्यत्र विषमाणि च कानिचित् ।
वृत्तानि यानि काव्यादौ सन्ति तानि प्रचक्ष्महे ॥५॥
समानीति । तदाहुः
"अङ्घयो यस्य चत्वारस्तुल्यलक्षणलक्षिताः।
तच्छन्दःशालतत्त्वज्ञाः समवृत्तं प्रचक्षते ॥"
इति । अर्धसमानाति । तच्चाहुः-
"प्रथमाघिसमो यस्य तृतीयश्चरणो भवेत् ।
द्वितीयस्तुर्यवद् वृत्तं नदर्धसममुच्यते ॥"
इति । विषमाणीति । तदप्याहुः
"याय पादचतुष्केऽपि लक्ष्म भिन्नं परस्परम् ।
तदाहुविषमं वृत्तं छन्दःशास्त्रविशारदाः ॥"
इति । अत्र च यानि समानि यानि चार्धसमानि काव्यादौ
सन्ति तानि वृत्तानि प्रचक्ष्महे । यानि तु विषमाणि तानि
कानिचित् प्रचक्ष्मह इत्यन्वयः । विषमाणां हि प्रयोगवै.
कल्यात् तान्यल्पशः प्रचक्ष्मह इत्यर्थों यथा स्यात् । का-
व्यादावित्यादिशब्देन नाटकतोटकादयो गृह्यन्ते । विषमा-
णीत्यनेनैव प्रायशश्वरणेषु भिन्नलक्षणानामार्यादीनां मात्रा-
वृत्तानामपि स्वीकारः॥
प्रस्तारितानि वृत्तानि बहुसंख्यानि सन्ति हि ।
तेषां संज्ञा न सर्वेषां प्रयोगोऽपि न दृश्यते ॥६॥
वृत्तवार्तिक प्रस्तारितानीति । “पादे सर्वगुरावाद्यालधुं न्यस्य गुरोरधः । यथोपरि तथा शेष भूयः कुर्यादमुं विधिम् ।। ऊने दद्याद् गुरूनेव यावत् सर्वलघुर्भवेत् ।' इति लक्षितरीत्या वर्धितानीत्यर्थः ॥ कृतसंज्ञान्यपि सर्वाणि न सहृदयचमत्कारकारीणीत्याह संज्ञावतां च सर्वेषां प्रयोगः प्रायिको यतः । अतः प्रयोगे साधूनामेव लक्षणमुच्यते ॥ ७॥ छन्दांसि तावत् षडविंशतिः "उक्तात्युक्ता तथा मध्या प्रतिष्ठान्या सुपूर्विका । गायत्र्युष्णिगनुष्टुप् च बृहती पतिरेव च ॥ त्रिष्टुप् च जगती चैव तथातिजगती मता । शक्करी सातिपूर्वा स्यादष्टयत्यष्टी ततः स्मृते ॥ धृतिश्चातिधृतिश्चैव कृतिः प्रकृतिराकृतिः। विकृतिः संकृतिश्चैव प्रोक्ताभिकृतिरुत्कृतिः ॥" इति ॥ एषां छन्दसां मध्य अनुष्टुभमारभ्यैव प्रदर्शयामीत्याह-- अनुष्टुवादिच्छन्दांसि लौकिकान्येव भूयशः । नाम्ना यत्या च कथ्यन्ते निर्देशकमतो गणैः ॥ ८॥ अनुष्टुबादीति । ततोऽधस्तनानामलौकिकत्वाल्लक्षणा- भिधानमनतिप्रयोजनम् । उपरितनानामपि प्रकृत्यन्तमेवाय- मारम्भः । वक्ष्यति च- "आकृत्यादावप्रयोगबाहुल्यात् तत्र न क्रमः।"
५ यथा समवृत्तप्रकरणम् । इति । नाम्नेति । पथ्यावकं प्रमाणिका विद्युन्मालेत्यादि- व्यपदेशेनेत्यर्थः । यत्येति । यतिः पदच्छेदः । तदुक्तं- "श्लोकेषु नियतस्थानं पदच्छेदं यतिं विदुः।" इति । निर्देशकमत इति । कारिकासु येन क्रमेण गणा नि- र्दिश्यन्ते तेनैव क्रमेण लक्ष्येषु निक्षिप्यन्त इत्यर्थः । "मनोरमा नरजगैरि"ति निर्देशे नगणात् परं रगणः ततः परं जगणः ततः रं गुरुरित्यादिक्रमेण गण- विन्यासः ॥ अथानुष्टुपच्छन्दः प्रारभ्य वृत्तलक्षणानि प्रणिवनाति- ओजे मो रो गुरुद्वन्द्वं युग्मे मो रो लगावपि । पथ्यावकं विदं वृत्तं भेदो भूयाननुष्टुभि ॥ ९॥ ओज इति प्रथमतृतीयादयो विषमसङ्ख्याः । तदु- क्तम् "अयुगोजाख्यं विषमं स्थानं युग्युग्मसंज्ञकं तु समम् ।" इति । ओजे प्रथमे तृतीये च पादे मगणरगणौ गुरुद्वयं च, युग्मे द्वितीये तुरीये च पादे मगणरगणौ लघुर्गुरुश्च यत्र क्रमेण विन्यस्यन्ते तत् पथ्यावक्रं नाम वृत्तम् । भेदो भू- यानिति , समवक्त्रार्धसमवऋविषमवक्त्रयुग्मविपुलादिभेदेना- नुष्टुभानि वृत्तानि बहुधा भियन्ते । किन्तु विस्तरभयादति- प्रयोजनाभावाच्च न प्रदर्यन्ते इति भावः । पथ्यावक्त्रस्यो. दाहरणं त्वयमेव कारिकाश्लोकः । इदमत्रोदाहरणान्तरं- "वेदा वाचः प्रसन्नानां दृष्टेनं त्वनुग्रहः । येषां वासः पदं मुक्तेरीडे तानेव भूसुरान् ॥"
६
वृत्तवार्तिके
नन्वत्रोदेशक्रमभङ्गः प्राप्नोति । समान्यर्धसमानि विषमाणि
चेति प्रक्रम्यार्धसमस्य प्रथमं प्रदर्शितत्वादिति चेत् । मैवम् ।
अनुष्टुभ एव प्रथममुपक्रान्तत्वेन तदन्तःपातिनोऽर्धसमस्यापि
तावदवसरप्राप्तत्वेनापरिहार्यत्वात् ॥
अथानुष्टुभ्येव समकक्ष्याविष्टां प्रमाणिकां लक्षयति -
प्रमाणिका जरौ लो गः
यत्पादे जगणरगणौ लघुर्गुरुश्व, सा प्रमाणिका नाम ।
यथा-
"स्मरान्धकारघस्मरं स्मरान्तकरय विग्रहम् ।
स्मरान्तरान्तरा मनः स्थिरं तदेव नापरम् ॥"
विद्युन्माला ममौ गगौ।
नन्वत्र सरूपयोर्मकारयोर्गकारयोश्चैकशेषः कस्मान्न
भवति । उच्यते । अविवक्षितत्वात् । वक्तुर्विवक्षापूर्विका
हि शब्दप्रवृत्तिः । अथवा स्पष्टार्थः । तदुतं-
"एकशेषमनादृत्य कचित् स्पष्टार्थसिद्धये ।
सरूपाणामपि इन्हें छान्दसीयाः प्रयुञ्जते ॥"
इति । यत्पादे मगणद्वयं गुरुद्वयं च सा विद्युन्माला नाम
यथा-
"विद्युन्मालालोलान् भोगान् मुक्त्वा मुक्तौ यत्नं कुर्याः ।
ध्यानोत्पन्नं निस्सामान्य सौख्यं भोक्तुं यद्याकाङ्केत् ॥"
भतौ लगौ माणवकं
यत्पादे भगणतगणौ लघुर्गुरुश्च तन्माणवकं नाम ।
यथा
समवृत्तप्रकरणम् । "वारवधूकेलिमयी वागुरिकां प्राप्य जनः । मारकिरातास्त्रहतो माररिपो! वारय तम् ।।" अथानुष्टुप्पकरणमुपसंहरति एतावानत्र विस्तरः ॥१०॥ इति ॥ अथालौकिकप्रायवृत्तां बृहतीमतिक्रम्य गच्छन्नाह बृहत्यां न प्रयोगार्ह वृत्तं पङ्क्त्यां तु कथ्यते । अनर्हत्वं तु श्रोतृणामहृदयावर्जकत्वम । पङ्क्तिर्नाम दशाक्षरपादं छन्दः॥ अस्ति चम्पकमालाख्यं भमसा गः शरैः शरैः ॥ ११ ॥ शरैरिति लौकिकसंख्यया विरामनिर्देशः । तदुक्तं - "रुद्राद्रिसमुद्रादिलोंकाद विषयोचितोऽवधार्योऽत्र ।" इति । मगणमगणसगणगुरुभिरुपलक्षिता पञ्चभिः पञ्चभि- वर्णविरामवती चम्पकमाला नाम । यथा "अन्यगुणौघे सत्यपि येषा- मच्युतभक्तिचेतसि नास्ते । संप्रति तेषामाद्रियते क- श्चम्पकमालां भृङ्गवदीहाम् ॥" युगै रसैः परिच्छिन्ना मत्ता स्यान्मभसा गुरुः । यत्पादे मगणभगणसगणगुरवः स्युः, सा चतुर्भिः षड्भिविरामवती मत्ता नाम । यथा- "लीलारामे कलकलकूज- लोलम्बालीशुककलकण्ठे।
८ वृत्तवार्तिके धन्यो मन्ये सह रमणीभिः सान्द्रानन्दं नयति वसन्तम् ॥" मनोरमा नरजगैः नगणरगणजगणगुरुभिरुपलक्षिता मनोरमा नाम । यथा "हरिपदाम्बुजादुदेयुषी हरजटाटवीमुपेयुषी। दुरितहारिणी शरीरिणा- ममरवाहिनी पुनातु वः ॥" एवंविषेष्वनुक्तयतिस्थानेषु पदान्ते यतिरिति बोध्यम् । अथ त्रिष्टुभ्युपक्रमः ॥ १२ ॥ उपक्रमः प्रस्तावः । अनेन तत्रानतिसंक्षेपः सूचितः । त्रिष्टुब् नाम एकादशाक्षरपादं छन्दः ॥ उपेन्द्रवज्रा कथिता जतजेभ्यो गुरुद्वयम् । यत्पादे जगणस्तगणो जगणो गुरुद्वयं च, सेयमुपे- न्द्रवज्रा नाम । यथा "सरोजिनीमानसरागवृत्ते- रनर्कसम्पर्कमतर्कयित्वा । मदन्यदानं प्रति शङ्कितेय- महो महीयस्तव साहसिक्यम् ॥" ततजेभ्यो गुरुद्वन्द्वमिन्द्रवजाभिधीयते ॥ १३ ॥ यत्पादे तगणद्वयं जगणो गुरुद्वयं च, सेयमिन्द्र- वज्रा नाम । यथा समवृत्तप्रकरणम् । "आकीटमाकैटभरि तुल्यः स्वाभीष्टलाभात् कृतकृत्यभावः । मिन्मस्पृहाणां प्रति चार्थमर्थ द्विष्टत्वामिष्टत्वमपव्यवस्थम् ॥" अयानयोः सङ्करेषूपजातय हत्याह- अनयोरादिजतयोः कामचारप्रयोगयोः । चतुर्दशप्रकाराः स्युः सङ्करादुपजातयः ॥ १४॥ अनयोरुपेन्द्रवज्रेन्द्रवज्रयोः आदिभूतयोर्जगणतग- णयोः कामचारो यथेष्टप्रयोगो ययोस्तयोः सङ्करात् चतुर्दशप्र- कारा उपजातयो नाम स्युः । तत्र तावत् पूर्वार्धे जावुत्तरार्धे - तौ यथा "अथात्मनः शब्दगुणं गुणज्ञः पदं विमानेन विगाहमानः । रत्नाकरं वीक्ष्य मिथः स जायां रामाभिधानो हरिरित्युवाच ॥" तपरीत्येन यथा "पूर्वानुभूतं स्मरता च यत्र कम्पोचरं भीरु ! तत्रोपगृढम् । गुहाविसारीण्यतिवाहितानि मया कथविद् धनगर्जितानि ॥" प्रथमपादे ता, शेषपादत्रये जा यथा "बन्यायनानाविधमल्लयुद्ध- प्रमोदितैः केलिवने मरुद्भिः । C
१०
वृत्तवार्तिक
प्रसूनवृष्टिं पुनरुक्तमुक्तां
प्रतीच्छतं भैमि ! युवां युमानौ ॥"
तद्वैपरीत्येन यथा
"अथोपगृटे शरदा शशाङ्के
प्रावृड ययौ शान्ततडित्कटाक्षा ।
कासां न सौभाग्यगुणोऽङ्गनानां
नष्टः परिभ्रष्टपयोधराणाम् ॥"
प्रथमतृतीययोस्तः, द्वितीयचतुर्थयोों यथा-
"अस्त्युत्तरस्यां दिशि देवतात्मा
हिमालया नाम नगाधिराजः।
पूर्वापरौ वागिनिधी विगाय
स्थितः पृथिव्या इव मानदण्डः ॥"
तद्वैपरीत्येन यथा
"तमध्वरे विश्वजिति क्षितीश
निरोपविभागितकोशजातम् ।
उपात्तविद्या गुरुदक्षिणाबी
कौत्सः प्रपेदे वरतन्तुशिष्यः ॥"
प्रथमद्वितीयचतुर्थेषु जस्तृतीये तो यथा
"अनन्तरत्नप्रभवस्य यस्य
हिमं न सौभाग्यविलोपि जातम्
एको हि दोपो गुणसन्निपाते
निमज्जतीन्दोः किरणेष्विवाङ्कः ॥"
समवृत्तप्रकरणम् । तद्वैपरीत्येन यथा "तं भूपतिर्भासुरहेमराशि लब्धं कुबेरादभियास्यमानात् । दिदेश कौत्साय समस्तमेव पादं मुझेरोरिव पन्नभित्रम् ॥" प्रथमचतुर्थयोस्तः, द्वितीयकृतीमोल यथा "सप्तण्छदक्षीरकप्रवाह- मसह्यमाघ्राय गदं तदीयन । विलचिताधोरगतीत्रयत्नाः सेनागजेन्द्रा विधीवभूवुः ।।" तद्वैपरीत्येन यथा "प्रचेतसा मे हितैरुदारैः पाण्मासिकैरिन्दुकरावदातैः। मुक्ताफलैर्गुम्भित एष हारो विना क्व विश्राम्यतु ते स्तनाभ्याम् ॥" प्रथमद्वितीयतृतीयेषु जश्चतुर्थे तो यथा- "जगाद चैनामयमगराजः सुराङ्गनाप्रार्थितयौवनश्रीः । विनीतनागः किल सूत्रकारै- रैन्द्रं पदं भूमिगतोऽनुभुङ्गे ॥ तपरीयेन यथा "पाण्ड्योऽयमंसार्पितलम्बहारः क्लप्ताङ्गरागो हरिचन्दनेन ।
१२
वृत्तवार्तिके
आभाति बालातपरक्तसानुः
सनिझरोद्वार इवाद्विराजः ॥"
प्रथमतृतीयचतुर्थेषु जो द्वितीये तो यथा -
"इति स्वसुभोजकुलप्रदीपः
सम्पाद्य पाणिग्रहणं स राजा ।
महीपतीनां पृथगईणार्थ
समादिदेशाधिकृतानधिश्रीः ॥"
तद्वैपरीत्येन यथा
"तिस्रत्रिलोकप्रथितेन मार्ध-
मजेन मार्गे वसतीरुषित्वा ।
तस्मादपावर्तत कुण्डिनेशः
पर्वात्यये सोम इवोष्णरश्मेः ॥"
इत् ।
उपजातयः समाप्ता इत्यर्थः ॥
ननौ रलो गुरुयंत्र भद्रिका नाम सा भवेत् ।
यत्र नगणद्वयं रगणो लघुर्गुरुश्च सा भद्रिका नाम ।
यथा
"दशमुखकुलदावपावकं
दशरथकुलमौलिमण्डनम् ।
करधृतशरकार्मुकं भजे
कमपि तममितप्रभं विभुम् ॥"
नगणाज्जगणद्वन्द्वे सुमुखी नाम सा लगौ॥१५॥
समवृत्तप्रकरणम् । १३ -- स्पष्टम्। यथा "मम हृदये सततं स्फुरतात तनुरतसीकुसुमप्रतिमा । बजतरुणीनयनोत्सवदा नरकरिपोरमला सुमुखी ।। भगणत्रयसंयुक्तं दोधकं गुरुयुग्मभाक् । स्पष्टम् । यथा "इत्थममुं विलपन्तममुञ्चद् दीनदयालुतयावनिपालः । रूपमदार्श धृतोऽसि यदर्थ गच्छ यथेच्छमथेत्यभिधाय ॥ 'पादान्तस्थं विकरूपेने ति वचनादत्र चतुर्थपादान्ताक्ष- रस्य लघुत्वेऽपि न लक्षणदोषः ॥ शालिनी मततेभ्यो गौ विरतिर्युगवाजिभिः ॥१६॥ यत्पादे मगणस्तगणद्वयं गुरुवयं च सा चतुर्भिः सप्तभिर्विच्छिन्ना शालिनी नाम । यथा "वीचीवातःशीकरक्षोदशीत- राकर्षद्भिः पद्मकिझल्कगन्धान् । मोहे मोहे रामभद्रस्य जीवं स्वैरं स्वैरं प्रेरितैस्तर्पयेति ॥" रेफो नकारो रेफश्च लगौ चेयं रथोद्धता ।
वृत्तवार्तिके स्पष्टम् । यथा "तावदित्थमथ भीमनन्दनां दारसारमधिगम्य नैषधः । तां तृतीयपुरुषार्थवारिधेः पारलङ्घनतरीमरीरमत् ॥” रनमा गुरुयुग्मं च स्वागतेति निगद्यते ॥ १७ ॥ पथा "नैव नः प्रियतमोभयथासौ यद्यमुं न वृणुते वृणुते वा । एकतो हि धिगमूमगुणज्ञा- मन्यतः कथमदःमतिलम्भः॥" अथ मौक्तिकमाला तु नयभेभ्यो गुरुद्वयम् । स्पष्टम् । यथा "कलकलकाधीकरणजालं मधुरविहारं मानसचोरम् । कमपि पुमांसं कामसमानं नबघननीलं बालमुपासे ॥" भतनेभ्यो गुरुद्वन्द्वं श्रीवृत्तं विन्द्रियै रसैः ॥ १८ ॥ तुशब्दोऽत्र मौक्तिकमालातो वैपरीत्यद्यातकः । अत्र प- अभिः षड्भिर्विच्छेदः। यथा "वंशनिनादैरमृतसमान- राहतचित्तं निखिलजनानाम् ।
समवृत्तमकरणम् । १५ " गोपवधूटीकुचघुसृणाङ्क- श्रीमदुररकं नमत कुमारम् ॥ मथ द्वादशाक्षरपादां जगतीं लक्षयितुमाह - जगत्यामथ कथ्यन्ते पद्यवृत्तानि कानिचित् । जतो जरौ च वंशस्थं जगणतगणाभ्यां परौ जगणरगणौ यत्र, तद्वंशस्थं नाम । यथा "श्रियःपतिः श्रीमति शासितुं जग- ज्जगन्निवासो वसुदेवसद्मनि । वसन् ददशावतरन्तमम्बरा- हिरण्यगर्भाङ्गभुवं मुनि हरिः ॥" इन्द्रवंशा ततौ जरौ॥ १९ ॥ यथा "गोपालबालस्य कलिन्दनन्दिनी- तीरेषु सञ्चारयतो गवां कुलम् । राधापरीरम्भसमुत्सुकात्मनो मागें विलम्बो मुदमातनोतु वः॥" नभाभ्यां च भराभ्यां च युक्तं द्रुतविलम्बितम् । यथा “जनयति त्वयि वीर ! दिशां पती- नपि गृहाङ्कणमात्रकुटुम्बिनः ।
वृत्तवार्तिक रिपुरिति श्रुतिरेव न वास्तवी प्रतिभयोन्नतिरस्तु कुतस्तु नः ॥" ससाभ्यां च ससाभ्यां च युक्तं तोटकमुच्यते॥२०॥ यथा "अथ जाम्बवदङ्गदनीलनले- रपरैरपि वानरवीरभटैः। सहितः स हितैरहितान्तकरः प्रययावभिविन्ध्यमवन्ध्यगतिः ॥" वृत्तं कुसुमचित्राख्यं नयाभ्यां चेत् परौ नयौ। यथा "अखिलरसानामविकलधाम्ना- ममृतसमानामितसुखानाम् । स्मरतरलानामिव तरुणीनां कविभणितीनां क इव वितृप्येत् ॥" याभ्यां याभ्यां भुजङ्गप्रयातमित्यभिधीयते ॥२१॥ यगणचतुष्कयुक्तं भुजङ्गप्रयातं नाम । यथा- "प्लवङ्गप्रवीरावसामयेता. मभङ्गाभिमानप्रसङ्गातिधोरम् । नदन्तौ गभीरं मदं तो वहन्ती बृहन्ताविवाशान्तदन्तावलौ द्वौ।" नजाभ्यां च भयाभ्यां च सहिता नवमालिनी।
समवृत्तप्रकरणम् । १७ यथा-- "नमत नवाम्बुवाहमिव नीलं तडिदुपमानपीतनवचेलम् । सुरपतिचापचारुवनमालं धृतकरुणामृतं कमपि वालम् ॥" जसाभ्यांच जसाभ्यां च रथोडतगतिर्मता ॥ २२ ॥ यथा "सरागसुमना मगलगमना परीतमदना सरोजवदना । उदाररचना मनोज्ञवचना स्मरेण जनिता मदीयवनिता ॥" सजाभ्यां च ससाभ्यां च सहिता प्रमिताक्षरा । यथा-- "रुचिराकृतिः कनकसानुमथो परमः पुमानिव पतिं पतताम् । धृतसत्पथस्त्रिपथगामभितः स तमारुरोह पुरुहूतसुतः ॥" तयाभ्यांच तयाभ्यां च मणिमाला रसै रसैः॥ २३॥ अत्र षड्भिः षभिर्विच्छेदः। यथा "गङ्गाफणिमालाबालेन्दुकलाभि- स्तुङ्गामलशोभं कोटीरभरं ते । अङ्गारपिशङ्गं नेत्रं च ललाटे गङ्गाधर! शम्भो ! ध्यायाम्यनिशं भोः " ॥
वृत्तवार्तिके ननाभ्यां च भराभ्यां च सहिता महितोज्ज्वला । यथा-- “यतिभिररहिते यमुनातटे कुहचन वनितानिकरावृते । समरसवसतिः कमलापति- गमयति समयं स महामतिः ॥" रराभ्यां च रराभ्यां च स्त्रग्विणीनाम गद्यते॥२४॥ यथा- "गोरसं चोरयन् गोपिकामन्दिरे गोकुलं पालयन् गोपबालैः : समम् । केकिपिञ्छोल्लसत्केशपाशो हरिः सन्ततं सञ्चरेदन्तरङ्गे स मे ॥" नजाभ्यां च जराभ्यां च मालतीवृत्तमुच्यते । यथा. "धनजनयौवतलोभयन्त्रितो विफलयसे किमु जन्म दुर्मते!। मुनिजनशोभिनि जाह्नवीतटे निवस सुखं निजबन्धमुक्तये ॥" ननाभ्यां च रराभ्यां च प्रभा स्यान्मुनिभिः शरैः ॥२५॥ अत्र सप्तभिः पञ्चभिर्विरामः । यथा "मृगपरशुधरं मृडानीयुतं शशिरुचिरजटं शमस्यास्पदम् ।
समवृत्तप्रकरणम् । स्फटिकमणिनिभं फणीन्द्राश्चितं प्रणम मम मनः! पशूनां पतिम् !" नजाभ्यां च जयाभ्यां च नवतामरसं विदुः यथा "सकृदपि मज्जनमम्बरनद्यां सुकृतवतापि सुदुर्लभमाहुः । ननु यतनीयममुत्र यतः स्या- दचलसुतापतिरूपसरू(पः १ पम्) ॥" अथ त्रयोदशाक्षरपादामतिजगतीं प्रस्तुवन्नाह ततश्चातिजगत्यां तु ब्रूमो वृत्तानि कानिचित् ॥२६॥ मनौ जरौ गुरुर्यत्र गुणैर्दिग्भिः प्रहर्षिणी । अत्र त्रिभिर्दशभिर्विरामः । यथा "सत्रान्ते सचिवसखः पुरस्क्रियामि- गुर्वाभिः शमितपराजयव्यलीकान् । काकुत्स्थश्चिरविरहोत्सुकावरोधान् राजन्यान् स्वपुरनिवृत्तयेऽनुमेने ॥" तुरग विरामा तु क्षमा ननतता गुरुः ॥ २७ ॥ भत्र सप्तभिः षभिर्विरामः । यथा "ज(ग ? योति गुणनिधिर्जानकीवल्लभो जगति गतिरयं जीवसन्धारिणाम् । भजनमजनुष: कारणं यद्विभोः सुजनमहितयोस्तस्य पादाब्जयोः॥" पमो रौ गुरुयंत्र चञ्चलीकावली तु सा ।
वृत्तवार्तिके यथा "मुगरातेर्वक्षो मुग्धजीमूतनीलं निराकुर्वाणायाः कुत्र ते लक्ष्मि ! सौख्यम् । निकेते नीचानां निष्ठुरे सक्तिमत्या भवत्या दौश्शील्यं हन्त नाचापि शान्तम् ॥" मगणस्तगणो यत्र यगणः समणो गुरुः ॥ २८ ॥ तत्तु मत्तमयूरीति वृत्तं बेदैर्घहैर्यतिः । चतुर्भिर्नवभिर्विच्छेदः । यथा- "मध्येमार्ग मत्तमयूगीरवरम्यं संरुडार्क सफलपुष्पैस्तरुसङ्खः। उत्कूलापैः कूपतटाकैरुपपन्नं मार्गश्रान्ताः स्फीतमरण्यं ददृशुस्ते " युगैर्महः परिच्छिन्ना रुचिरा जभसा जगौ ॥ २९ ॥ अत्र चतुभिर्नवभिश्छेदः । यथा "अभून्नृपो विबुधसखः परन्तपः श्रुतान्वितो दशरथ इत्युदाहृतः । गुणैर्वरं भुवनहितच्छलेन यं सनातनः पितरमुपागमत् स्वयम् ॥" सजो सजौ गुरुयंत्र सा भवेन्म भापिणी । यथा “परिपाण्डुदुर्बलकपोलसुन्दर दधती विलोलकबरीकाननम् ।
समवृजमकरणम् । २१ करुणस्य मूर्तिरथवा शसरिणी विरहव्ययेव वनति जानकी ॥" अब चातुर्दशाक्षरमादायां शकर्या वृत्तत्रयं प्रवर्तयति. शक्कों तभजा जो गौ वसन्ततिलकं मतम् ॥३०॥ यत्र तगणभगणी जमणद्वयं गुरुद्वयं च, तद् वसन्त. तिलकं नाम । यथा "श्यामावदातमरविन्ददलायताक्षं बभूकपुष्परुचिसधरपाणिषादम् । सीतासाममजितं भूतचापबाणं रामं नमामि शिरसा रमणीयवेषम् ॥" ननौ भनौ लगी यत्र प्रहारकलिका हि सा। प्रहरणकलिकेति च मतान्तरम् । यथा "अखिलतनुभृतामभयदमनिशं फणिगणवलयं शितपरशुधरम् । नसिसितभसितैरविकलशिवदं हरकरकमलं प्रणमत बिमलम् ॥" जयेन्दुपदना यत्र भजसा नो गुरुद्वयम् ॥ ३१ ॥ यथा- "शश्वदुपस्थितिलयप्रभुरमेयो मिश्रितवपुर्णिरिजका कुचनताङ्गया । विश्वमनबन्धस्मानबुरुहम्मो दुश्शकुनदोषमपहन्तु मम शम्भुः ॥" भय पञ्चदशाक्षरपादामतिशकरीमवतारयति- - - २२ वृत्तवारिक इदानीमतिशकर्या वृत्तद्वयमिहोच्यते । नानाभ्यां ननसैश्चापि युक्ता शशिकला किल ॥३२॥ नगणचतुष्केण सगणेन च युक्ता शशिकला नाम । यथा "कलकलमुखरितमणिमयवलयं पुलकिततनु घनमनसिजविसरम् । श्रमजलकणगणपरिमिलदलकं मधुरिपुनिधुवनमनुभव सुभगे!" ननौ मयौ यकारश्च मालिनी वसुवाजिभिः । अत्राष्टभिः सप्तभिर्विरामः । यथा "किमपि किमपि मन्दं मन्दमासत्तियोगा- दविचलितकपोलं जल्पतोरक्रमेण । अशिथिलपरिरम्भव्यापृतैकैकदोष्णो- रविदितगतयामा रात्रिरेवं व्यरंसीत् ॥" न चास्मिन्नुदाहरणे द्वितीयपादान्ते यगणो न दृश्यते, जगण एव दृश्यत इति लक्षणभङ्गः शक्यः । 'वा पादान्त' इति परिभाषितत्वात् ॥ अथालौकिकमायवृत्तामष्टिमतिक्रम्य गच्छन्नाह अष्टयामलौकिकं वृत्तमस्यष्टयां तावदुच्यते ॥ ३३ ॥ भत्यष्टिर्नाम सप्तदशाक्षरपादं छन्दः ॥ ऋतुरुदैः शिखरिणी यमौ नसभला गुरुः ।
समवृत्तप्रकरणम् । २३ षड्भिरेकादशभिरत्र विच्छेदः । यथा "बहिः सर्वाकारप्रवणरमणीयं व्यवहरन् पराम्यूहस्थानान्यपि तनुतराणि स्थगयते । जनं विहानेकः सकलमतिसन्धाय कपटै- स्तटस्थः स्वानर्थान् घटयति च मौनं च भजते॥" वमुग्रहयतिः पृथ्वी जसो जसयला गुरुः ॥ ३४ ॥ अत्राष्टभिर्नवभिश्छेदः । यथा "प्रिये! जनकनन्दिनि! प्रकृतिपेशलामीदृशीं कथं ग्लपयितुं सहे तव शिरीषमृहीं तनुम् । गृहीतहरिणीगणत्रिकविसारिनानासिरा- क्षतिक्षरितशोणितारुणवृकानने कानने ॥" रसोपायहयैश्छिन्ना नसौ मरसला गुरुः । हरिणी षड्भिवतुर्भिः सप्तमिवात्र विरतिः । यथा "व्रजति कुमुदे दृष्ट्वा मोहं दृशोरपिधायके भवति च नले दूरं तारापतौ च हतौजसि । लघु रघुपतेर्जायो मायामयीमिव रावणि- स्तिमिरचिकुरग्राहं रात्रि हिनस्ति गभस्तिराट् ।” नजभा जो जो लगौ च कटकं विदुः ॥ ३५ ॥ यथा "तरुणतमालनीलबहलोन्नमदम्बुधराः शिशिरसमीरधूतघननूतनवारिकणाः ।
वृत्तवार्तिके कथमवलोकयेयमधुना. हरि तिमती- मैदकलनीलकण्ठकलहैर्मुखराः ककुभा ॥" उपायैश्च नयैर श्वेविरामो यत्र विद्यते। मन्दाक्रान्ता तु सा ज्ञेया मौ नतलगा मुरुः ॥७॥ चतुर्भिः षभिः सप्तभिरत्र विरतिः । यथाः- "तन्वी बाला मृदुतनुरिति त्यज्यतामत्र साकाः लोके मत्तभ्रमरपतनान्मसरी किन्नु भयाः । तस्मादेषा रहसि भवता निर्दयं मर्दनीया मन्दाक्रान्ता विसृजति रसं नेक्षुयाहि समयमः॥" भथाष्टादशाक्षरपादायां धृत्यां वृत्तमेकमाह धृत्यां तु नगणहन्द्वं रगणानां चतुष्टयम् । हरिद्भिर्वसुभिश्छेदो यत्र स्यात् कौमुदीह सा. अत्र दशमिरष्टभिर्विच्छेदः । यथा "रघुपतिरपि जालवेदोविशुद्ध प्रम्ख प्रियां: प्रियसुहृदि विभीषणे सङ्गमय्यः श्रियं वैरिणः । रविसुतसहितेन तेनानुयातः सौमित्रिणा मुजविजितविमानरत्नाधिरूढः प्रतस्थे पुसमा अथैकोनविंशत्यक्षरपादामतिधृतिमुदिशति अतिधृत्यां तु सूर्याश्चैविरामो यत्र दृश्यते । मसौ जसौ तः शार्दूलविक्रीडितमिदं तगौ ॥ ३८ ॥ यत्र मगणसगणजगणसगणताणताणावस्तद् हादशभिः सप्तभिर्विच्छिन्नं शार्दूलविक्रीडितं नाम। यथा-- समवृत्तप्रकरणम् । "वाणि! त्वत्पदपद्मरेणुकणिका या स्वान्तभूमि सता सम्प्राप्ता कवितालता परिणता सैवेयमुज्जृम्भते । त्वत्कर्णेऽपि चिराय यत्किसलयं सूक्तापदेशं शिरः- कम्पभ्रंशितपारिजातकलिकागुच्छे विधत्ते पदम् ॥" यमौ नसौ ररौ गश्च मेघविष्फूर्जिता भवेत् । रसैनयैस्तुरङ्गैश्च विरामो यत्र विद्यते ॥ ३९ ॥ षभिः षड्भिः सप्तभिरत्र विरतिः। यथा "धनाभोगोन्मत्तानविनयमदकोषलोभान्धचित्ता- ननङ्गव्यामुग्धानभिमतवधूवञ्चिताशेषवित्तान् । दुरीशानासेवे शिव ! शिव ! धनाशापिशाचीगृहीतः सकृद् ध्याने सर्व दिशति करुणाभाजि लक्ष्मीसहाये ॥" अथ विंशत्यक्षरपादायां कृत्यामवतरति. कृत्यामश्चै गैः षड्भिर्विश्रान्तिं लभते तु या। मरौ भनौ यमौ लो गः सेयं सुवदना मता॥४०॥ यथा- "उत्तुङ्गास्तुकूलं सुतमदसलिलाः प्रस्यन्दिसलिलं श्यामाः श्यामोपकण्ठद्रुममतिमुखराः कल्लोलमुखरम् । स्रोतःखातावसीदत्तटमुरुदशनैरुत्खातिततटाः शोणं सिन्दूरशोणा मम गजपतयः पास्यन्ति शतशः ॥" अथैकविंशत्यक्षरपादा प्रकृति प्रस्तुववाह प्रकृत्यां मुनिशैलाश्वैर्विश्रमो यत्र विद्यते । मरी भनौ यत्रयं च स्रग्धरा नाम सा भवेत् ।। ४१ ॥
२६ - वृत्तवार्तिके अत्र स्रग्धरायां सप्तभिः सप्तभिः सप्तभिर्विरतिः। यथा- "स्वच्छन्दैकस्तनश्रीरुभयमतमिलन्मौलिचन्द्रः फणीन्द्र- प्राचीनावीतवाही सुखयतु भगवानर्धनारीश्वरो वः। यस्यार्धे विश्वदाहव्यसनविसृमरज्योतिरर्धे कृपोचद्- बाष्पं चान्योन्यवेगप्रशमसिमिसिमाकारि चक्षुस्तृतीयम्॥" रनौ रनौ रनौ रश्च प्रयुज्यन्ते क्रमेण चेत् । अनिर्दिष्टान्यसंज्ञत्वाद् वृत्तभेदं प्रचक्षते ॥१२॥ यथा "कामबाणजनितामया जगति कामिनीजनमुपासते कामिनो विविधकामितातिशयभूमितामलमुपागताः । सोमशेखरपदारविन्दमभिरामकामफलदं शिवं क्षेमकारमपि नो भजन्ति शिव! राम ! राम! किमहं ब्रुवे ॥" इत्यं समवृत्तानि प्रदार्घसमवृत्तानि प्रदिदर्थयिषुराह - माकृत्यादावप्रयोगबाहुल्यात् तत्र न श्रमः। आकृतिर्नाम द्वाविंशत्यक्षरपादं छन्दः । तस्य का- व्यादौ भूयशः प्रयोगाभावात् तल्लक्षणं नोच्यत इत्यर्थः। तथैव विकृतिसङ्कृत्यभिकृत्युत्कृतयोऽपीति पञ्चेमानि छन्दांस्युपे- क्षितानि ॥ अथासमवृत्तानि कथ्यन्ते यानि कानिचित्॥१३॥ 'प्रथमाधिसमो यत्रेत्यादिना लक्षितपूर्वाणि अर्ध- समवृत्तानि यानि कानिचित् क्रमं विना कतिपयानि कथ्य- न्ते- २७ बर्षसमवृत्तप्रकरणम् । अयुग्मे भभभा गो गो युग्मे नजजया यदि । द्रुतमध्यति तद्वृत्तं महासममुच्यते ॥४४॥ 'महाधसममित्यर्धसमेषु कश्चिद् भेदः । मयुग्मे प्रथम- तृतीयपादयो गणत्रयं गुरुद्वयं च, युग्मे द्वितीयचतुर्थपादयो- नगणो जगणद्वयं यगणश्च यदि स्युस्तदा द्रुतमध्या नाम | यथा "मजुलवञ्चुलकुञ्जकुटीरे मधुकरकूजितपूजितपुष्पे । राधिकया सह गूढरतानि स्मरघटितानि जयन्ति मुरारेः॥" अयुग्मे सससा गश्च युग्मे तु भभभा गगौ । यदि वेगवती नाम वृत्तं वृत्तविदो विदुः॥ ४५ ॥ अयुजि सगणत्रयं गुरुश्च , युजि भगणत्रयं गुरुद्वयं च यत्र सा वेगवती नाम । यथा "अरुणौ चरणौ करुणाब्धेरारणितामलनूपुरभाजौ । यमुनापुलिने कलहंसैराहतसन्निधिकाववतां वः ॥" त्रिसकारं लघुगुरू ओजे युग्मे तु भत्रयम् । गुरुद्वयं च यत्र स्यादुपचित्रं तदुच्यते ॥ ४६ ॥ स्पष्टम् । यथा "हिमशैलमुतासहितं भजे बालशशाङ्ककलाङ्कितमौलिम् । कटकीकृतवासुकिपनगं कामदमामयनाशनमीशम् ॥"
२८ पृषवारिके विषमे ननरा लो गः समे नजजरा यदि । तत् स्यादपरवक्त्राख्यं वृत्तरत्नाकरे स्थितम् ॥१७॥ यथा "सुरभिलवनमालयाश्चित तरलितहारमुदारकौस्तुभम् । मरतकमणिशोभमाश्रये नरकरिपोर्विपुलं मुजान्तरम् ॥" अयुग्मपादे नयुगं रेफो यश्च प्रयुज्यते । युग्मे नजजरा गश्च पुष्पिताना हि सा स्मृता॥४८॥ यथा "क्षणमपि विरहः पुरा न सेहे नयननिमीलनखिन्नया यया ते श्वसितु कथमसौ रसालशाखां चिरविरहेण विलोक्य पुष्पिताग्राम् ॥" ओजे ससौ जगौ यत्र युग्मे सभरला गुरुः । वैतालीयमिदं वृत्तं वृत्तशास्त्रेषु निश्चितम् ॥ १९॥ यथा "अपि लोकयुगं दशावपि श्रुतदृष्टा रमणीगुणा अपि । श्रुतिगामितया दमस्वसुर्व्यतिभाते सुतरां धरापतेः ॥" विषमे ससजा गौ च समे सभरया यदि। वसन्तमालिका नाम वृत्तमेतदुदाहतम् ॥ ५० ॥ "मलिनश्चपलाशयो जलात्मा समयलाध्यतमो बभूव वृष्टया ।
२९
विषमवृतएकरपाम् ।
शतमप्यपहन्ति दूषणानां
परमेको हि गुणः परोपकारः॥"
यस्यामयुजि सदन्द्वात् सकारोऽथ लघुरुः ।
युजि च स्युर्नभभरा यदि सा हरिणप्लुता ॥ ५१ ॥
यथा
"द्रविणं तरुणी सुहृदः सुता
भवनसम्पदरातिपराभवः।
निश्मास्यदमुनि.न चेद् विधिः
समभविष्यदयं विफलो भवः ।"
ओजे तु तजरा गश्च युग्मे मसजगा गुरुः ।
वृत्तं भद्रविराण नाम काव्यादौ विरलं तु तत्॥५२॥
विरलमिति अचारुत्वात् तुच्छप्रयोगमित्यर्थः ।
यथा
"लक्ष्मीपतये नमोऽस्तु तस्मै
दत्ते यो वरदः स्वमाश्रितेभ्यः।
स्त्रीयां दयितां निजं च देहं
तत्तुल्यः कतमोऽस्ति दानशौण्डः ।"
इत्थमर्धसमवृतानि लक्षयित्वा 'यस्य पादचतुर्थेऽपी'त्यादिलक्षितपूर्व
विषमवृत्तं प्रवर्तयन्नाह
अथो विषमवृत्तेषु वित्राण्यत्र प्रचक्ष्महे ।
आदिमे सजसा लश्च द्वितीये नसजा गुरुः ॥ ५३॥
तृतीये भनजा लो गश्चतुर्थे सजसा जगौ ।
यत्र सङ्घटिता एवमुद्ता नाम सा भवेत् ॥ ५४॥
३० वृत्तवार्तिके यथा "अथ वासवस्य वचनेन रुचिरवदनस्त्रिलोचनम् । क्लान्तिरहितमभिराधयितुं विधिवत् तपांसि विदधे [धनञ्जयः॥ प्रथमे मसजा भो गौ द्वितीये सनजा रगौ । तृतीये तु ननौ सश्च चतुर्थे नत्रयं जयौ ॥ ५५ ॥ उपस्थितप्रचुपितं नाम वृत्तमिदं विदुः । यथा "कोटीरे वहते तुषारदीधितिखण्डं फणिनां गणमपि ताञ्च जझुकन्याम् । शतमपि विधिशिरसा- मनुदिनमचलदुहितनाथ ! नमस्ते ॥" नत्रयं प्रथमे यश्च नचतुष्कं सगौ ततः ॥ ५६ ॥ नषट्कं च तृतीये गौ चतुर्थे नवयं गुरू । भवेदमृतधाराख्यं वृत्तमीदृशलक्षणम् ।। ५७ ॥ यथा - "उदयति शशिमुखि! शशिबिम्बं वलति मलयमरुदुरुपरिमलवाही । ज्वलति मनसि मदनहुतभुगति हि गतघृणा त्वं वहसि यदभिमानम् ॥ " पादान्तगुरुलधुव्यवस्था । ३१ इह सामान्येनेदमवधार्यमित्याह - पादान्ते गुरुसंज्ञाया विभाषास्वं यदीरितम् । व्यवस्थितविभाषात्वं तस्य स्यादिष्टसिद्धये ॥५८॥ 'वा पादान्त' इति पादान्तगतस्य वर्णस्य पाक्षिकत्वेन गुरुत्वं यदनुशिष्टं तद् व्यवस्थितं भवितुमर्हति । किं कार- णम् । इष्टसिद्धयर्थम् । एवंकृते किं कृतं भवतीति चेदुच्यते - भवेदुपेन्द्रवज्रादेरोजान्तेषु विकल्पतः । नियमेनेतरेषां तु गुरुत्वमविकल्पितम् ।। ५९ ॥ उपेन्द्रवज्रादेरिति । अत्र परिगणनम्--उपेन्द्रवज्रा, इन्द्रवज्रा, उपजातयः, वसन्ततिलकम् , इत्येतेषामेव तावत् प्रथमतृतीयपादान्तवर्णेषु गुरुत्वस्य विकल्पेन लघुत्वं न त्वन्येषामिति भाष्यादौ स्थितम् । द्वितीयचतुर्थपादान्तवर्णेषु विकल्पस्तु सर्वेषामपि वृत्तानां सर्वसम्मत एव । प्रथमतृती- यपादान्तवर्णेष्वेवायं नियम इति बोध्यम् । अत्र तावदुपे- न्द्रवज्रोदाहरणे "मदन्यदानं प्रति शङ्कितेयम्" इत्यादौ । इन्द्रवज्रोदाहरणे 'श्रीरामपादाम्बुजरेणुपूरसंपर्कसम्पादित- शापमोक्षामि"त्यादौ । एवमुपजात्युदाहरणे "अनन्तरत्नप्रभ- वस्य यस्य हिममि"त्यादौ । तथा वसन्ततिलकोदाहरणे "लोकेशकेशवशिवानपि यश्चकार शृङ्गारसान्तरभृशान्तरशान्तभावान् । पञ्चेन्द्रियाणि जगतामिषुपञ्चकेन संक्षोभयन् वितनुतां वितनुर्मुदं वः ॥"
३२
वृत्तवार्षिक
इत्यादौ च प्रथमतृतीयपादान्ते लघुत्वमुपपद्यत एव । परि-
गणितवृत्तव्यतिरिक्तानां तु सर्वेषामोजपादान्ते गुरुत्वस्य वि-
कल्पो न कर्तव्य इत्यर्थः । कथं तर्हि -
"केकया च शिखिना मृदुधूतकेतकीसुमनसा मरुता च।"
इति स्वागतायामोजपादान्ते लघुत्वं दृश्यते । इदमसाध्वेवेति
गृहाण ।
अथ मात्रावृत्तान्याह
मात्रावृत्तानि कथ्यन्ते गणानां नियम विना ।
लक्षितोऽपि स भूयिष्ठं प्रयोगेषु न दृश्यते॥ ६० ॥
गणानां नियमे हि वृत्तशास्त्रकारैः "लक्ष्मैतत् सप्त-
गणा गोपेता भवति नेह विषमे ज” इत्याचार्यादीनां ल-
क्षणमुक्तम् । तद्धि प्रयोगेषु भूयशो न दृश्यत इति गण-
नियम विनैव मात्रामात्रप्रदर्शनेन कानिचिद् वृत्तानि कथ्यन्त
इत्यर्थः॥
ओजे द्वादशमात्रत्वं मात्रावृत्तेषु सर्वशः।
तेन युग्मे तु यो भेदः स एवात्र प्रदर्यते ॥ ६१ ॥
प्रथमतृतीयपादयो दशमात्रत्वं तावदार्यादिषु न
व्यभिचरतीति नैतत् प्रदर्शनीयम् । द्वितीयचतुर्थपादयोस्तु
भिन्नलक्षणत्वात् तत्रैवायमारम्भ इति प्रथमतृतीयपादयो-
दिशमात्रत्वं विधिरूपेणानुवादेन प्रदर्शयन्नार्यादीनां युग्मेषु
विशेषलक्षणं प्रणिबन्नाति ॥
अष्टादशकला यस्या द्वितीये चरणे स्थिताः ।
तुरीये पञ्चदश चेदार्या नाम भवेदसौ ॥ १२ ॥
मात्रावृत्तप्रकरणम् । कला मात्राः । तास्तु यस्याः द्वितीयपादेऽष्टादश, चतुर्थपादे पञ्चदश चेद् भवन्ति, सेयमार्या नाम । यथा "स्तनयुगमश्रुखातं समीपतरवर्तिहृदयशोकामेः। चरति विमुक्ताहारं व्रतमिव भवतो रिपुस्त्रीणाम् ॥" अष्टादशैव मात्राश्चेद् युग्मयोर्गीतिरेव सा। यथा "मधुरं वीणारणितं पञ्चमसुभगध कोकिलारावः । गीतिश्व सुन्दरीणामधुना कुसुमायुधं प्रबोधयति ॥" तयोः पञ्चदशेताश्चेदुपगीतिरिति स्मृता ॥६३ ॥ तयोः युग्मपादयोरेता मात्राः । यथा "उवह मुहाइ बहूणं महुमअतंबाइ रम्माइ । अगळिअसंझाराअं मिअंकबिम्बं हसन्तिव्व ॥" भार्या व्यत्यस्तविन्यस्तामुद्गीति मुनयो विदुः । व्यत्यस्तविन्यस्ता विपरीतन्यस्ताम् । द्वितीये पश्च- दश तुरीयेऽष्टादशेति हि व्यत्यासः । यथा "उज्ज्वलकनककिरीटं मकराकृतिकुण्डलोपेतम् । कौस्तुभवनमालाञ्चितभुजान्तरालं भजामि गोविन्दम् ॥" आर्यागीतिस्तदा मात्रा युग्मयोविंशतिर्यदा ॥६४॥ यथा "णमह अवंढिभतुंगं अविसारिअवित्थअं अणोणअगहिरं ! अप्पळहुअपरिसंह अणाअपरमत्थपाअडं महुमहणम् ॥"
२४ वृत्तवार्तिके मात्रावृत्तप्रकरणम् । - अथवा "प्रदिशतु गिरिशस्तिमिता ज्ञानदृशं वः श्रियं च गिरिशस्तिमिताम् । प्रशभितपरमदमायं सन्तः सञ्चिन्तयन्ति परमदमायम् ॥" अथोपसंहरन्नाह वृत्तशास्त्रप्रपञ्चानां दिङ्मात्रमिह दर्शितम् । पेन तीर्थेन बालोऽपि शास्त्राब्धिमवगाहते ॥ १५॥ पिङ्गलजनाश्रयादिभिराचार्यैः सविस्तरमुपनिबद्ध- त्वात् बहुलीभूतानां छन्दश्शास्त्राणां दिङ्मात्रं मार्गमात्रमत्र दर्शितम् । तत् किमर्थमित्याह-येनैव तीर्थेनावतारेण वालोऽप्यल्पप्रज्ञोऽपि शास्त्रमेवाब्धिमवगाहतेऽवतरति । प्रमु- ग्धोऽपि दिङ्मात्रप्रदर्शनद्वारा स्वाभीष्टं देशं प्राप्नोतीति सकलं मङ्गलम् । विभाव्य वृत्तशास्त्राणि तेभ्यः संक्षिप्य चोद्धृतम् । रामेण पाणिवादेन तदेतद् वृत्तवार्तिकम् ॥ इति वृत्तवार्तिके मात्रावृत्तप्रकरणं समाप्तम् ।।
वृत्तवार्तिके (रासक्रीडा।) "भास्वहंशादाविर्भूतं भास्वद्रूपं मुक्तारत्नम् । सीतावक्षोजालङ्कारः श्रीरामो वः श्रेयो देयात् ॥ १॥ अहं विष्णो रासकीडामहं मोहादाचक्षाणः । परीहासस्यैक पात्रं भविष्यामि प्रज्ञामाजाम् ॥२॥ गोपवेषं संगृह्वानो गोपवाटीमध्यासीनः । गोपनारीजारः स्वैरं गोपबालैः साकं रेमे ॥३॥ यमुनातीरे सानन्दं रममाणोऽसौ गोविन्दः। तरुणीसवानाऋटुं मुरलीनादं सम्तेने ॥ ४ ॥ आकर्ण्य वेणोरुद्राण लोकाभिरामं सङ्गीतम् । आघूर्णमानास्तिर्वञ्चोऽप्यापूर्णमोदाः सजाताः ॥५॥ मिथो विरोधान् मुञ्चन्तो मृगाधिराजा मातङ्गैः। कुरङ्गपोताः शार्दूलैः समं निषण्णाः सानन्दम् ॥ ६ ॥ तत्र तरूणां शाखाने चित्रमहो ते भल्लूकाः । कृत्रिमभावं सम्प्राप्तापक्रमशीला ये पूर्वम् ॥ ॥ स्वकुलतोऽत्यन्तप्रीत्या नकुलयोषाणां मध्ये । मुखमुपासीना नागा निशमयन्ति स्मोद्गीतम् ॥ ८ ॥ कालिन्दीतटे गोविन्द केलीलम्पटे सम्भूते । तिर्यग्योऽप्यभूवन् प्रीताः किं बमोमुदोऽत्रान्वेषाम्॥९॥ * भानुष्टुभानि प्रस्तारक्रमागतान्युदाहरणानि कय्यन्ते । G.P.T.844. 600.8-5-1112.
रासक्रीडावी तदानी ब्रजवासिन्यस्तदाकर्णयन्त्यो गीतम् । समस्तं त्यजन्त्यो गोप्यः समन्ताद् वनान्तं भेजुः॥ १०॥ कामसायकैराविडा रामसोदरे सम्बद्धाः । चित्तवृत्तयो गोपीनां कुत्र वाम्यतो रज्यन्ते ॥ ११ ॥ स्वपितु स्वयं मे भर्ता स्वपितुश्च किं वक्तव्यम् । इति काचन प्राबाजीदतिकामुकी गोविन्दे ॥१२॥ कि मे तनयेनासाचं कि मे भवनेनावाप्यम् । सिध्येदखिलं कृष्णेऽस्मिन्नित्थं युवती यातैका ॥ १३ ॥ मनो रमते यत्रासौ जनोरमणो नारीणाम् । अतो भवानस्माकं मतो दृढमित्येकागात् ॥ १४ ॥ किं मम धनैर्नश्यद्भिः किं मम जनै यद्भिः। अच्युतपदावाप्तिमें निश्चलसुखेल्सम्यागात् ॥ १५ ॥ मुरमथनो जीवो मे परममुना विश्लिष्टा । तनुरधुना निर्जीवा पुनरिति काप्यानंहे ॥ १६ ॥ इत्थं सर्वा नितम्बिन्यो मुक्तशङ्का मुकुन्दं तम् । वृन्दारण्ये समासीनं वृन्दीभूताः समासेदुः ॥ १७ ॥ नदीशैलान् नवारण्यान्यतीत्यारानिशारम्भे । समायन्तारिमा दृष्ट्वा रमानाथो जगादेदम् ॥ १८ ॥ स्वागतं वो विलासिन्यो! वेगतो मामुपेतानाम् । कारणं किं वने घोरे स्वैरयाने निशाकाले ॥ १९॥ त्रसदेणीदृशो यूयं क च गोपालमुन्दर्यः । कच सिंहादिसत्त्वानां पदमेतच्च कान्तारम् ।। २० ॥
प्रथमः परिच्छेदः।
कुण्ठेतररमी भीमाः कण्ठारवैरुपायान्तः ।
कण्ठीरवाः करीन्द्राणां कुम्भस्तलीविभिन्दन्तः ॥ २१ ॥
नखाप्रलममुक्तीचाः मुखावरुग्णसारङ्गाः ।
इतश्चरन्ति कान्तारे कथं न भीतिरुत्पन्ना ॥२२॥
रात्रिरहो महाघोरा कोऽत्र चरेद् वधूलोके ।
कुत्र गतो विवेको वश्चित्रमिदं स्वतन्त्रत्वम् ॥ २३ ॥
बजत भो नितम्बिन्यो । ब्रजपदं निजं भूयः ।
अनुचितः कुलस्त्रीणामपरपुरुषे रागः ॥ २४ ॥
भर्तृणामथ शुश्रूषा कर्तव्या खलु युष्माभिः ।
भारः कुलनारीणां कर्तारोऽखिलसिद्धीनाम् ॥२५॥
कुलस्त्री कुलसखाता खलस्त्रीजनचापल्यम् ।
विधत्ते बत या नारी पतत्येनसि सा घोरे ।। २६ ॥
दैवत खलु नारीणां केवलं पतिरेतासाम ।
तत्र या विमुखी सेयं कुत्र वा कुशलं विन्देत् ॥ २७ ॥
जस्ठो जटिलो रोगी विकृतो विरसो बासौ ।
करणारहितो वास्तु स्वपतिर्न परित्याज्यः ॥ २८ ॥
मा मा कुरुत वैमुख्य कामातुरितचित्तेभ्यः ।
कुत्रापि निजकान्तेभ्यस्तत्राप्यधिकतान्तेभ्यः॥ २९ ॥
अहोनुखलु कामोऽयं महादुरितहेतुर्वः ।
परेण रतिमिच्छन्त्यः पतींस्त्यजथ हा कष्टम् ॥ ३०॥
गोकुलवनिताः कस्मादाकुलमनसो यूयम् ।
मामकवचने धम्य सम्प्रति नहि तिष्ठध्वे ॥११॥
रामसयां
विरहविधुरस्वान्तान् मदनदहनक्लान्तान् ।
त्वरितमधुना कान्तानभिसरत भो दान्तान् ॥ ३२ ॥
आशापाशच्छेददात्रं क्लेशाधानस्यैकपात्रम् ।
आकर्येदं कृष्णवाक्यं शोकाविमा उजुरेताः ॥३।
हरे! मा मा वोच एवं स्मरेणालं वाध्यमानाः।
त्वदायत्ता गोपनारीर्मुदा त्वं नः पाहि शौरे । ॥३॥
वल्लभस्त्वं वीतपुण्यैर्दुर्लभस्त्वं मल्लवैरिन् ! ।
विश्वगस्त्वं विश्रुतस्त्वं विश्रमस्त्वं विज्वरस्त्वम् ॥ ३५ ॥
पतिरेकस्त्वं परात्मन्! गतिरेकस्त्वं जनानाम् ।
जनको मित्रं तनूजो जननी च त्वं मुरारे ! ॥ ३६ ॥
जीवो भवान् जीवबन्धो! देवो भवान् देहभाजाम् ।
भावो भवान् भाग्यराशे! को वा भवान् नाधुना नः
[॥१७॥
वयं तु गोप्यो भवन्तं विना न कञ्चिद् भजामः ।
सरोकहिण्यो दिनेशाहते कमन्यं श्रयन्ते ॥ १८ ॥
तावकदासीरिमा नः पावकतुल्यैः स्मरासैः ।
तापितचित्ता निकामं प्रापय शौरे । समीपम् ॥ १९ ॥
सरसिजपाटलं दागुरसि नो देहि पाणिम् ।
स्मरपारातङ्कशान्त्यै परमिदं मेषजं नः॥ ॥
पश्येमान् पयोधरस्थान पाटीरद्रवानुलेपान् ।
संसक्तान मिजोरसि तवं सन्देहं विना विषयाः॥१॥
रमाया पनस्तनाचा समामर्दितं विभो। ले।
लनीनः कदा मुशौर।सशेतां भुजान्तरालम् ॥२॥
प्रथमारियो
वन्यमालया विषक्त धन्यतामये विविके ।
वत्सलामाने सवोरस्युत्सुकाविमौ स्तनौ नः ॥ १३ ॥
परितापशोषिता नः परिरम्भणेन गाढम् ।
परिहयाधुना त्वं परिपाहि शाङ्गपाणे! ॥ ४ ॥
चेतोरचितं वधूनां दातुं हि भवानिवानीम् ।
एतादृगिदं स्वरूपं नेता जगतो विधत्ते ॥ ४५ ॥
मयूरकलापमालामनोज्ञकचावलीकम् ।
भरालघनालकश्रीविराजि विशालफालम् ॥ १५ ॥
कुमकृतोर्ध्वपुण्डूं पङ्कजवलायताक्षम् ।
अण्डजसमानवेछत्कुण्डलविलासिगण्डम् ॥ १७ ॥
तिलकुसुमाभघोणं विलसदपाङ्गशोणम् ।
स्फुरदरुणाघरोष्ठं प्रविशददन्तशोभम् ॥ १८ ॥
राकाचन्द्रप्रतिमास्य लोकामन्दस्मितलास्यम्।
कम्युच्छायाहरकण्ठं कम्रश्रीपूरमकुण्ठम् ॥१५॥
उरः श्रीकौस्तुभरत्नस्फुरण्ड्रीवत्सकचिह्नम् ।
समालोलहनमालं समाविभ्रद् घननीलम् ॥ ५० ॥
वेणुशकावनुवेलं पाणियुग्मे वहमानम् ।
शोणशोचिनखजालं शोभमानामलचेलम् ॥ ५५ ॥
मणिमत्काञ्चनकाचीणिजालातिमनो(ज्ञः ज्ञम)।
जघनं पीतदुकूलं सुपनं विश्रवारम् ॥ ५२ ॥
चारुसकाण्डसुजवं चातुर्यसीम विधातुः ।
भाताम्रपानसरोज तोभिराममशेषम् ॥ ५३ ॥
रासक्रीडायां रमापते! तव रूपं रसायनं नयनानाम् । मनोहरं महनीयं धनोपमं कमनीयम् ॥१४॥ लोचनगोचरतां नो यातमहोबत भाग्यम् । मा वद मा वद वामं मानद ! पूरय कामम्॥ ५५ ॥ सफलता नयनानां सपदि नः समुपेता। सरसकोमलमेतद्वपुरदर्शि यतस्ते ॥ ५६ ॥ मुग्धेस्ते मुरलीनादैः स्निग्धं नः श्रवणसौख्यम् । तच्छेषाननुभवान्नो दाता किं ननु भवानो ॥ ५० ॥ कथं त्वामनभियान्त्यः सजीवा मुवि वसामः । ध्रियन्ते क नु चकोर्यः सुधांशुं परिजहत्यः ॥ ५८ ॥ वासुदेव! तव दासीरत्वद्वियोगमसहन्तीः । त्वत्समीपमुपयान्तीर्मा त्यज त्वमधुना नः ।। ५९ ॥ करुणाकर ! हरे! ते चरणाम्बुजयुगं नः । शरणं शिरसि दिव्याभरणं विरचयेदम् ॥ ६॥ रामानुज! तव चेतो रामाजनसुखहेतो! । कामातुरमनसां नः कामाननुसरतु द्राक् ॥ ६१ ।। भवानखिलजनानां भवार्णवपतितानाम् । भवत्यविकलमात्मा भवाघमरशरण्यः ॥ ६ ॥ ताशि भवति तुष्टे तुष्यति सकललोकः । तेन हि गृहपतिभ्यो नो वयमिह बिभीमः ॥ ६३ ॥ अशरणजनबन्धो! भृशतरगुणसिन्धो।। जनमिममतिमायाघनतम! परिपायाः ॥१४॥ इत्वनापमस्तारे प्रथमः परिच्छेदः ।
अथ द्वितीयः परिच्छेदः ।
गोपनीणामेवंविधा वाचः श्रुत्वा दामोदरः।
कारुण्याईः स्मेराननश्वारूदारा वाचोऽगदीत् ॥ १॥
मनो रासक्रीडोत्सुकं ममेदानीमुद्दीपितम् ।
वरोरूणां वाक्यामृतैर्विरोधोक्तिमें क्षम्यताम् ॥ २ ॥
कामलीलाकूलषः कामिनीनां वो विनमः ।
यामुनोऽयं देशोऽद्भुतो यामिनीयं चायामिनी ॥३॥
ललनाकेलिकौतुकी वलमानोऽहं कानने ।
मिलितो गोपीमण्डलैललितो मे भाग्योदयः ॥ ४॥
चन्द्रातपोऽयं शोभते सान्द्रामृतामिष्यन्दनः।
कन्दर्पलीलावल्लरीकन्दः किलायं कामिनाम् ॥ ५ ॥
चकोरजातेजीवनं चकास्ति कामोद्दीपनम् ।
तुषारभानोर्मण्डलं पुरोहरित्तीकुण्डलम् ॥६॥
उन्नतयोर्वक्षोजयोश्चन्दनलेपो योषिताम् ।
मन्दहसश्रीरानने चन्द्रकराणामुद्गमः ॥ ७ ॥
चटुलभृङ्गीतारकैः स्फुटमसावुन्मीलितैः ।
कुमुदनेत्रैरीक्षते कुमुदिनीन्दोरागमम् ॥ ८॥
सर्वेषां मनोमोहनः शर्वाणीपतेर्भूषणम् ।
उद्गच्छत्यसौ चन्द्रमा उदीर्णस्फुरश्चन्द्रिकः ॥१॥
मुखानां सखा वः शशी सुखानां विधाता स्वयम् ।
प्रकाशं समुहासते प्रकामं दृशो रञ्जनम्॥१०॥
पुष्पचापसेनापतिः पुष्पगन्धधूपादिभिः ।
पूजनीय एषोऽधुना पूर्णचन्द्रबिम्बाननाः! ॥ ११ ॥
८
रासक्रीडायां
यमुनातटे शोभने यमिना मनोलोभने ।
रमयामहे वो वयं रमया समा योषितः! ॥१२॥
आगच्छत मे सनिधौ वेगादधुना गोपिकाः!।
रागाम्बुनिधो लीयता राजीवहशा मानसम् ॥ १३॥
स्मरोऽपि निजं कार्मुकं करोतु करे सज्जितम् ।
प्रसूनशरांचानघान् प्रयोक्तुमना जृम्भताम् ॥ १४ ॥
चञ्चलहशां वो मनोवञ्चनमसौ मन्मथः ।
वाञ्छति स चेदाशुगैः पञ्चभिरलं किं भवेत् ॥ १५ ॥
शरदिजपुष्पावलीः शरयतु पुष्पायुधः ।
विकिरतु वीराप्रणीविहृतिषु सोऽस्मासु ताः॥ १५ ॥
रासक्रीडाविनोदने रामाणां वो मनोरथाः ।
सम्पूर्यन्ते मयामुना सम्यङ् मारेण चाधुना ॥ १७ ॥
इति श्रुत्वा हरेर्वाचो रतिक्रीडादृतात्मनः ।
अतिप्रीता बजाङ्गनाः स्मितं कृत्वा तमब्रुवन् ॥ १८ ॥
नाथ! शौरे । नमोऽस्तु ते दीनबन्धो! नमोऽस्तु ते ।
नन्दसूनो! नमोऽस्तु ते रम्यमूर्ते! नमोऽस्तु ते ॥ १९ ॥
उचितं ते वचोऽमृतं रुचिरं नो रमापते।।
मुचिरं वाञ्छितं सुखं सुतरामद्य साधयेः ॥ २० ॥
वृन्दावने विलासिनीवृन्दावने समुद्यतः ।
वृन्दारकाभिवन्ध ! गोविन्दाधिकं विराजसे ॥ २१ ॥
स्मरातिसुन्दरो भवानुढमन्दरो भवान् ।
उरोधृतेन्दिरो भवान् गुणैकमन्दिरो भवान् ॥ २२ ॥
द्वितीयः परिच्छेईः । सज्जनवल्लभो भवान् दुर्जनदुर्लभो भवान् । कालियमर्दनो भवान् केलिविवर्धनो भवान् ॥ २३ ॥ कमललोचनो भवान् शमलमोननो भवान् । पतगवाहनो भवान् परममोहनो भवान् ॥ २४ ॥ इत्येवं नुतिशालिनीरत्यन्तप्रणयाकुलाः । आदाय ब्रजयोषितो गोविन्दो यमुनातटे ॥ २५ ॥ लतामण्डपमावसनितान्तादरमावहन् । विहासोल्लसिताननो विहारानयमातनोत् ॥ २६ ॥ वलपीनपयोधरालिङ्गनेन रमापतिः । अङ्गनाजनमुच्चकैरङ्गजातुरमादधे ॥ २७ ॥ अथ कामपि कामिनीमतिकातरलोचनाम् । श्रवणे कथनच्छलात् स चुचुम्ब मुखाम्बुजे ॥ २८ ॥ लीलावलितकन्धरी बीळातिशयबन्धुराम् । आत्माकमधिरोपितामालिङ्गदथ राधिकाम् ॥ २९ ॥ प्रवालशयने कयाप्यरालकचभारया । अशेत सह माधवो विशेषरतिलोलया ॥ ३० ॥ कामपि कलभाषिणी कामितरतितोषिणीम् । कैतवकलहायितां भीतवदनमद्धरिः॥ ३१ ॥ विरुवदलिजालया तरुकुसुममाला। सचकितहशः स्त्रियाः कचमथ बबन्ध सः ॥ ३२ ॥ अन्यासङ्गाशङ्कितया धन्यामन्यामात्तरुषम् । तत्पदान्ते स प्रणतरसपारेहं प्रार्थितवान् ।। ३३ ।।
१०
रासक्रीडायां
कुचाम्यां ते हन्त शपे सुचाङ्गि! त्वद्वनिताम् ।
अहं बाले! नाहतवानिति प्रोचे कामपि सः॥ ३४॥
त्वहनितामिति अन्यवनितामित्यर्थः । त्वदन्यपर्यायः।
भिन्नभिन्नाकारतया सन्नताङ्गीनां निकरम् ।
सर्वमेकोऽप्यारमयनिर्विशेष नन्दसुतः ॥ ३५ ॥
ललनासङ्ख्यानुगुणं कलयन स्वाश्चापि तनूः ।
रमयामासाशु हरी रमणीयास्ता रमणीः॥ ३६ ॥
इत्येष रत्येकमनाः प्रत्येकमत्यादरवान् ।
रामासु रेमे भगवान् कामा हि सीमारहिताः ॥ ३७ ॥
मया सहायं रमते महानुभावो भगवान् ।
तृणाय मन्ये तरुणीर्गुणैविहीना इतराः ॥ ३८ ॥
मामकसौभाग्यमिदं कामुकचूडामणिना ।
मद्गुणबढेन दृढं यद् गणितान्या न वधूः ॥ ३९ ॥
मम मुखादस्य दृशौ मधुरिपोनों चलतः ।
मम विलासेन हृतं हृदयमप्यस्य विभोः॥४०॥
सर्वासामहो सुदृशां गर्वोऽभून्मनस्यधिकम् ।
सर्वेशे वशंगमिते सम्मोहो न कस्य भवेत् ॥ ४१ ॥
समस्तान्तरात्मतया समस्थो रमारमणः।
विदित्वा विकारममुं विभुर्द्राक् तिरोहितवान् ॥ १२ ॥
राधिका मदेन तदा बाधिता न सातितराम् ।
तेन हेतुना भगवानेनया सहान्तरधात् ॥ ४३ ॥
मुरशासनेऽथ गते मुहुर्मुहुः सुदृशः ।
लुलुठुमहीपतिता रुरुदुः शुचा बहुधा ॥ ४ ॥
द्वितीयः परिच्छेदः ।
हा हा क गतोऽसि हरे। हा हा छलिता भवता ।
स्नेहादिह सम्मिलिता मोहाकुलिता वनिताः। ४५ ॥
अहो तव शाठ्यमिदं महाजनहास्यकरम् ।
महावनमध्य इमा विहाय गतस्य हरे! ॥ १६ ॥
पञ्चशरबाणहता वश्चयसि हा वनिताः ।
किं चरितमीहगहो मुञ्चसि यदात्मवधूः ॥ ४० ॥
तव विरहेण वयं दवशिखिनेव हरे!।
शिव शिव दग्धतमा विवलनमातनुमः ॥४८॥
क्रीडाशाली ननु भवान् पीडामात्रा ननु भवान् ।
गोपीनां नो विहितवानन्तःशल्यं निहितवान् ।। १९ ॥
दयासिन्धो। तव दया क याता सा मधुरिपो।।
यया ग्राहग्रसनजाद् भयात् त्रातो गजपतिः ॥ ५० ॥
ज्ञातमेतत् तव विभो! कातराक्षीषु न कृपा ।
पूतनामापि स भवान् पूतनामाशु हतवान् ॥ ५१ ॥
तरुणीभिर्विहरणे विरसस्त्वं यदि हरे! ।
तव राधां प्रति रतिर्भवतीदं किमुचितम् ॥ ५२ ॥
रन्तुं तया सह रहो हन्त त्वया सलु गतम ।
मन्तुं विनापि सुमते! किन्तूझिता बत वयम् । ५३ ।।
प्रसीद हे मुररिपो। प्रकाशय द्रुततरम् ।
निजं वपुनिरुपमं भजन्ति यत् सुकृतिनः ॥ ५४ ॥
राधिकया सुभगया रागवशादवशया ।
पीतरसाधरपुटं स्मेरमुखामृतकरम् ॥ ५५ ॥
१२ रासक्रीया जलधिजाकुचपदाङ्कितभुजान्तरतटम् । जलजकोमलदलायतविलोचनयुगम् ॥ ५५ ।। शिञ्जानप्रचलमणीमजीराञ्चितचरणम् । मन्दारप्रसवरजःसन्दोहैः सुरभिकचम् ॥ ५७ ।। मनोज्ञं वपुरयि! ते मनो नः स्मरति सदा । कदा तन्नयनपथे सदानन्दन! भविता ॥ ५८ ॥ माहवारिधिपतिता हा हता वयमखिलाः । गेहतो विपिनमिदं गाहिता बत भवता ॥ ५९ ॥ छलिताः किमिति हरे! फलितास्तव कुहनाः। ज्वलिताः स्मराशिखिनः कलिताः प्रथममहो ॥१०॥ नानारतिवितरणादेनान् परिशमयितुम् । प्रारभ्यत च भवता प्रालीयत च तरसा ॥ ६१ ॥ अहो कठिनहृदयो भवानजनि रजनीः । मुधा किमिह कुरुते सुधाकरधवलिताः ॥१२॥ सक्तजनकजननीभर्तृतनयभवनाः। मक्तसरसहृदयारत्यक्तुमुचितमिह नः ॥ ६३ ।। युवतिजनशरणे भवति गतकरुणे । किमिह बहुरुदितैरनवरतमुदितैः ॥ ६ ॥ इत्यनुष्टुप प्रस्तारे द्वितीयः परिच्छेदः ।।
भय तृतीयः परिच्छेदः।
एवं तासु क्रोशन्तीषु देवोऽमुश्चद् राधा चापि ।
शोकाविग्ना सापि प्राप शोभाहीना दीनोवाच ॥१॥
अहं चापि त्यक्ता तेन सहारण्यं सम्प्राप्तापि ।
अहो कष्टं गोविन्देन वि(हाता ? हीना)याः किं देहेन ॥
क प्रयातः श्रीकान्तोऽद्य तत्प्रियाः! किं नो जानीथ ।
अप्रियं किं तस्याकारि यत्प्रकोपाद् यातः कापि ॥३॥
(मृग मार्ग)यामो वेगादत्र मृगपक्षिव्याकीर्णेषु ।
विपिनेषु प्राप्य प्राप्य विचरन्त्यो यत्नेनापि ॥ ४॥
सम्मार्गयन्त्यः कान्तारभूमौ मुकुन्दं सर्वत्र ।
पप्रच्छुरेता वृक्षांम वल्लीमंगौघानन्यांश्च ॥ ५ ॥
अशोकवृक्ष! त्वं ब्रूहि सशोकभारा नोऽयैव ।
किमम्बुजाक्षो दृष्टोऽत्र समीक्षितदाख्याहि ॥ ६ ॥
कङ्कणकाचीकेयूरकुण्डलहारानङ्गेषु ।
संकलयन् कोऽप्यारक्तपङ्कजनेत्रो दृष्टो नु ॥ ७ ॥
नवघनश्यामः कोऽपि तव समीपं प्राप्तो नु ।
नवतमाल! त्वं ब्रूहि तव सवर्णो यो भाति ॥ ८ ॥
मायागोपवेषः कोऽपि जायावृन्दमुज्झित्वैव ।
यातः कापि चूत ! ब्रूहि नाथस्त्वामुपेतः किं नु ॥ ९ ॥
विचिन्वन्ति विक्रोशन्ति वितन्वन्ति वैक्लब्यानि ।
विभोरस्य विश्लेषेण विषण्णानि गोवृन्दानि ॥१०॥
"
रासक्रीडायो
सम्बरन्ति कान्तारेषु सम्पतन्ति भूपृष्ठेषु ।
सम्भ्रमन्ति सर्वाशासु गोपयौवतानामानि ॥ ११ ॥
कृतमाल! किं कुर्याम कृतकर्मदोषेणैव ।
इह जन्मनीमे तापनिकरा हि सम्बध्नन्ति ॥ १२ ॥
गोपीजन एवं नाम पापी जन एवाकारि ।
देवेन विधात्रा हन्त हे वेतस! किं जानासि ॥ १३ ॥
तवान्तिककुजे येन दिवानिशमानन्देन ।
सहाद्भुतलीलातानि स हा क गतो वेगेन ॥ १४ ॥
केसरतरो! त्वं किं नु केशवगतिं जानासि ।
केवलमसौ हा हन्त देवनमुपेक्ष्यांहिष्ट ॥ १५ ॥
पशुकुलपालो यत्र शिशुपशुपाकारेण ।
समचरदत्र कापि स तु न तु दृष्टोऽद्यापि ॥ १६॥
कं देशं प्राप्य पश्येम तं देवं नावगच्छेम ।
सन्देशं प्रापयेमाथ सन्देहं मुञ्चता केन ॥ १७ ॥
चकोरि। त्वं समासाद्य सकाशं वासुदेवस्य ।
उदन्तं नोऽखिलं ब्रूहि मुदं ते सोऽपि कुर्वीत ॥ १८ ॥
श्रीपते! त्वद्वियोगेन गोपिकास्तापिता हन्त ।
कानने कानने यान्ति दीनतां क्षीणतां चापि ।। १९ ॥
विलपन्त्यो विषीदन्ति विचरन्त्यो विचिन्वन्ति ।
विरुद(न्त्यो ? त्यो) विमुह्यन्ति विलुठन्त्यो विमूर्छन्ति ॥
लीलास्तवानुगायन्ति बालास्तवानुशोचन्ति
वीला विनानुधावन्ति विश्वेश! किं न जानासि ॥ २१ ॥
तृतीयः परिच्छेदः ।
१५
अहर्निशं न निद्रान्ति महान्तमाधिमृच्छन्ति ।
न भोज्यपेयमिच्छन्ति नदीवनानि गच्छन्ति ।। २२ ॥
त्वञ्चरितानि पृच्छन्ति पक्षिमृगादिसत्त्वानि ।
अक्षिजलानि मुगन्ति वृक्षतलानि सिवन्ति । २५ ॥
शिशिरवातरम्याणि शशिमयूखसान्द्राणि ।
जलकणानुविनानि नलिनगन्धमुग्धानि ॥ २४ ॥
वापीकूपतटाकादितीराण्यन्यमनोज्ञानि ।
गोप्यो हन्त विनिन्दन्ति गोविन्द ! त्वदयोगेन ॥२९॥
शशाङ्कांशुविशुद्धासु निशाखेव समस्तासु ।
विषीदन्ति भृशं नाम निषीदन्ति न कुत्रापि ॥ २१ ॥
बल्लवीजनदुःखानि वक्तुमेव न शक्यानि ।
एहि माधव ! वेगेन पाहि तं जनमद्यैव ॥ २७ ॥
ललनाजनसन्तापकलनाय निलीनोऽसि ।
फलमग! किमेतेन वलसूदनसोदर्य। ॥ २८ ॥
कामातुरशरीरासु मा मा विमुखताकारि ।
नाथेन भवता कृष्ण! नारीषु तव दासीषु ॥ २९ ॥
प्रकामरमणीयाङ्ग! सकाशमुपसङ्गम्य ।
प्रकाशय वपुर्देव! सुखाकुरु सखीराः॥३०॥
सुन्दररमणीयानि नन्दज! भवदङ्गानि ।
विन्दतु सुहगोषः स नन्दतु न चिरादेव ॥ २१ ॥
विरहिाण जने कृष्ण ! विरचय दयामाशु ।
परिसरमुपायाहि परिणतसुखं देहि ॥ ३२ ॥
१६ रासकीडायो एवं बृया हे चकोरि! देवं गोविन्दं समेत्य । वेगादागन्ता ततः स वेदान्तावेद्यो जनो हि ॥ १३ ॥ शुकि! त्वं वा तत्र गच्छ सुतः शौरेरस्ति यत्र । मनुष्योक्त्या वक्तुमद्य ननु त्वं प्रागल्भ्यमेषि ॥ २४ ॥ वल्लभानां वचनं हि कल्यबुद्धे ! कष्टमेव । अप्रियं ते ताभिरङ्ग! कल्पितं किं कञ्जनाम! ॥ ३५ ॥ भवदर्थे भर्तृपुत्रभवनानि प्रोज्झितानि । कति शैलाः काननानि सरितो वा लङ्कितानि ।। ३६ ॥ वल्गूचलत्कुण्डलानि वामालकामण्डलानि । एवं त्वया सङ्गतानि देवेश! किं विस्मृतानि ॥ ३७॥ कलकणसारसानि कलिन्दजासैकतानि । गलन्मरन्दाम्बुजानि मिलन्मरालावलीनि ॥ ३८ ॥ बालमृगीसकुलानि तालतमालाङ्कितानि । नीलगलैरञ्चितानि शैलतटीकाननानि ॥ ३९ ॥ निकटगोवर्धनानि निखिलगोवर्धनानि सुजनवृन्दावनानि सुभग! वृन्दावनानि ॥ ४०॥ सर्वाण्येव संविहाय सर्वात्मा भवानपीह । निलीनो वसत्यतो हि निर्विण्णाः स्त्रियो भवन्ति ॥४१॥ प्रसीद प्रभो। मुकुन्द ! मुसीवद् वनान्तरेषु । वधूनां कुलं समेत्य विधेहि प्रमोदमस्य ॥ १२ ॥ इन्दुकुन्दमन्दहाससुन्दराननाम्बुजाय । नन्दगोपनन्दनाय सन्ततं नमो नमोऽस्तु ॥ ४३ ।।
तृतीयः परिच्छेदः ।
सुरलोकरञ्जनाय सुरवैरिभञ्जनाय ।
नतिरस्तु कञ्जनाभ! भवते निरञ्जनाय ॥४४॥
नारायण ! वासुदेव! नाथाजित! देवदेव।।
नारीजनमादरेण नानागुणशील! पाहि ।। १५ ॥
इति स्तुहि शारिकेऽध जगत्पतिमेनमेत्य ।
प्रसत्स्यति माधवः स समेष्यति सद्य एव ॥ १६ ॥
एहि सविधं कुरङ्गि! देहिजनमोहनाङ्गि।।
ब्रूहि कुत आगतासि काहि तव वृत्तिरत्र ॥ ४० ॥
तृणजलमात्रवृत्ति वनतलमध्यसुप्ति ।
प्रणयिजनावियुक्ति मृगकुलमेव साधु ॥४८॥
अस्मादृश्यो दयितेन विस्मयन्ते विरहेषु ।
दुःखायन्ते दुरितन दुष्काले सत्यचिरेण ॥ ४९ ॥
सुखायन्ते सुकृतेन सुजन्मानो यदि सन्ति ।
मुकालश्चेदुपयाति स कालो नो न उपैति ॥ ५.॥
न श्रुतं किं मृगशाब ! विश्रुतं नो विपिनेषु ।
वैशसे यद् दयितेन वञ्चिता हा बयमय ॥ ५१ ॥
रतिलीलासमये स रमणो नो रभसेन ।
भपरापेन विनापि विपिनेऽस्मिस्त्यजति स्म ॥ १२ ॥
सारङ्ग! सारमवेहि दूरं गतेऽपि स एव ।
मारं स्वचारमिवात्र सारम्भमाविशति स्म ॥ ५५ ॥
भयं पुनः कलहाय दयां विना घटते च ।
शरोत्करैर्हदयानि करोति नस्त्रुटितानि ॥ ५४ ॥
रासक्रीडायां किं करवाम वयं तु किं कथयाम बतेह । कं शरणं च भजाम के खलु देशमयाम ॥५५॥ मुरहराच्युत! कृष्ण! वरद ! नाथ! मुकुन्द ! गरुडवाहन! देव! कुरु कृपामधुनैव ॥ ५५ ॥ योषाणामयि सुरेश! दोषाणां शतमपीह । क्षाम्य त्वं सकलमद्य काम्यत्वं दधदतीव ॥ ५७ ॥ वदन्तीरिति वनेषु वलन्तीरतिघनेषु । बजस्तीरनु तदा स कृपावानजनि तत्र ॥ ५८ ॥ मन्दहासकलितेन चन्द्रबिम्बतुलितेन । सान्द्रकान्तिसदनेन सुन्दरेण वदनेन ॥ ५९ ।। करुणामृतमयेन कमलायतपुटेन । भयमोचनपरेण नयनाश्चलयुगेन ॥.॥ नीलोपलमसूणेन लोलार्पितधुसूणेन । लक्ष्मीमणिभवनन वक्षःस्थलफलकेन ॥ ११ ॥ मुजङ्गवरनिभेन भुवोऽतिभरहरेण । वराभरणयुतेन कराम्बुरुह्युगेन ॥१२॥ काञ्चनवसनलम्बिकाश्चिभिरतिशुभेन । शिजितमणिघटेन मञ्जुलकटितटेन ॥५॥ मुखकररुचिपूरनखमणिनिकरण । सरसिजमृदुलेन पादतलयुगलेन* ॥ १४ ॥ * मातृकायामिह दृष्टं तृतीयपरिच्छेदावसानवाक्यमाथानपतितं स्यात्
चतुर्षः परिच्छेदः ।
वंशीनालीनादामृतधारानन्दल्लोकेन च ।
आविर्भूतो रूपेण स गोविन्दोऽसौ मोदेन च ॥६५॥
(इष्यानुष्टुप्पस्तारे तृतीयः परिच्छेदः ।)
अथ चतुर्थः परिच्छेदः।
कृपोकुलं नेत्राश्चलकृताश्लेषं तोषादथ ।
मुकुन्दं तं दृश्वाखिलवधूलोकेनोदश्वसि ॥१॥
उल्ललडम्मिल्लाञ्चितमल्लिकामालासंहति ।
वल्लवीवृन्दं तन्निजवल्लभं प्राप्यावन्दत ॥ २ ॥
जगदे देवेनापि च जगदेकालम्बे मयि ।
कुपिताः किं यूयं बत कुहनाकर्मालम्बिनि ॥ ३ ॥
दुर्वारगर्वाविष्कृति दुर्बोधनिर्वाधादिह ।
युष्माकमन्तः किश्चन मालिन्यमत्राजायत ॥४॥
तदेतदातुं खलु तदा तिरोभूतोऽस्मि हि ।
तथा न राधाजृम्भत ततो ह्यनैषं तामपि ॥ ५॥
सापि च दृप्ता किञ्चन संवह कण्ठे मामिति ।
यहूत तत्रावोचत तत् पुनरेषाप्यौज्झ्यत ॥६॥
विगतदोषाः सम्प्रति पशुपयोषाः! क्रीडत ।
सुखमशेषं विन्दत सुचिरमेवं नन्दत ॥७॥
श्रुत्वा तस्य वाणीमिति मुक्त्वा शोकदैन्यानि च ।
युक्तास्तेन गोप्योऽप्यनुरक्ताः केलिमारप्सत ॥ ८ ॥
नदन्ति कचित् काश्चन वदन्ति कचित् काश्चन ।
वसन्ति कचित् काश्चन हसन्ति कचित् काधन ॥९॥
२०
रासक्रीडायां
गीयते कयाचिन्मधु पीयते कयाचित् खलु ।
तुष्यते कयाचिद् बहु रुष्यते कयाचित् किल ॥१०॥
तदिदं मनोमोहनचरितं हरेः सम्प्रति ।
अवलोकितुं चेतसि कुतुकं न किं वो बत ॥ ११ ॥
इत्यादि तदा नारदवाक्यानि समाकर्ण्य च ।
सत्राशनसङ्घा अपि तत्राययुराशूपरि ॥ १२ ॥
सचारणसिद्धा अपि सकिन्नरयक्षा अपि ।
सतापससाध्या अपि समाययुरेते दिवि ॥ १३ ॥
नारदमुनीन्द्रः स च पर्वतमुनीन्द्रोऽपि च ।
तुम्बुरुवसिष्ठौ भृगुकाश्यपपुलस्त्या अपि ॥ १४ ॥
कलकलगुञ्जत्पदकटकविभूषा दिवि ।
सुरवरयोषा अपि नटनमथाकुर्वत ॥ १५ ॥
वादंवादं मुदा मृदु वाद्यं माद्यत् तदा खलु ।
गायं गायं बताकृत नृत्तं नारीकुलं बहु ॥ १६ ॥
जय श्रीमन् ! जनार्दन! जगन्नाथ! प्रसीद च ।
इति स्तुत्वा हरि मुरततिाप्ता तदोपरि ॥ १७॥
वासुदेवो मनोहररासलीलारतोऽजनि ।
भासमानो मिलन्मृदुहासशोभी व्यरोचत ॥ १८॥
प्रतिगोपि व्यदृश्यत रतिशाली सुरैरथ ।
अतिमायो वनेषु च स तु पूणों व्यलोक्यत ॥१९॥
वृक्षा लतास्तृणानि च वृन्दावने मृगा अपि ।
गोवर्धनादयोऽपि च गोविन्दतामधुः किल ॥ २० ॥
चतुर्थः परिच्छेदः
२१
मकोपया कयाचन मलज्जया कयाचन ।
ममोदया कयाचन सरोदया कयाचन ॥ २१ ॥
आमितया कयाचन हासितया कयाचन ।
स्थापितया कयाचन गोपितया कयाचन ॥ २२ ॥
सह वसन्नदृश्यत सह चरनदृश्यत ।
सह हमनदृश्यत बहुप्रियः स तत्र हि ॥ २३ ॥
नानाखेलनलालितनारीसंहतिना खलु ।
प्रीतनाखिलचेतननाथेनालमरम्यत ॥ २४ ॥
कुचालिङ्गनचुम्बनकचामर्दमुखानि च ।
नखालेखनमोहनसुखालापशतानि च ॥ २५ ॥
नीवीमोचनसाहसभावितातिरसानि च ।
तानि तानि विनोदनताण्डवानि स चाकृत ॥ २६ ॥
मुरलीमृदुवादनतरलीकृतचेतसि ।
तरुणीजनसंसदि हरिणा समराज्यत ॥ २७ ॥
कामाकुलितमानसरामाजनमनोहति ।
दामोदर इदं जगदामोदत तदा खलु ॥ २८ ॥
अमन्दसुखसन्तति समग्रशुभसङ्गति ।
समस्तविभवावलि जगत्रयमराजत ॥ २९ ॥
किन्नरमुनिचारणपन्नगविबुधा अथ ।
तुष्टुवुरखिला अपि तुष्टमतिममुं दिवि ॥ ३० ।।
जय जय जनार्दन ! जय जय जगन्मय!।
जय जय जनाश्रय! जय जय हरे! जय ॥ ११ ॥
२२
रासक्रीडा
लोकानां नाथे भवति लोले लीलायां भवति ।
सर्वोऽयं लोको भवति सानन्दो गोपीभवति ॥ ३२ ॥
हयग्रीवाख्ये द्विषति निगूढं वेदान् हरति ।
महामत्स्योऽभूः सपदि महात्मन् ! विष्णो ! त्वमपि ॥३३॥
मन्दरं मग्नं पयसि मायया धर्तु त्वमसि ।
कामठं रूपं झटिति भेजिवान् पूर्व वरद! ॥ ३४ ॥
पृथिवीचोरं कमपि दनुजं हन्तुं तदनु ।
पृथुवाराहं न किमु धृतवान् रूपं त्वमयि ! ॥ ३५ ॥
दैत्यो हिरण्यो जगति योऽभूद् दुरात्मा तमथ ।
हन्तुं नृसिंहत्वमपि हन्त त्वयाधारि किल ॥ ३६ ॥
जगवयं सर्वमपि पदत्रयेणैव खलु ।
हृतं त्वया माणवकवपु ता मारमण! ॥ ३७ ॥
भार्गवरामस्त्वमथ भूमिभुजां वंशमपि ।
घोरकुठारार्चिषि न किं हुतवानप्रतिम! ॥ ३८ ॥
तदनु सीताहृदयकमलभानुस्त्वमपि ।
दशमुखं तं समिति निहतवान् किं न किल ॥ ३९॥
तालाकोऽधुना त्वमसि नीलाम्बरो जगति ।
हालां कामिनीरपि च लीलां कारयन् भजसि ॥ ४ ॥
यशोदात्मजस्त्वमसि यशोभाजनं किमपि ।
सुशोभानिधे! कमलविशालाक्ष! हे सुभग! ॥ ११ ॥
खड्गपाणिना तुरगपृष्ठवासिना बरद।।
कल्किना त्वया जगति सम्भविष्यते सपदि ॥ १२ ॥
२१
चतुर्यः परिच्छेदः।
अवतारजातमिह भवता कृतं हि किल ।
भवतापिना जगति भविता हिताय खलु ॥ ३ ॥
लोकाधिपते ! विधुरलोकाधिहते भवतु ।
नाथाय नमो विमतमाथाय च ते सुमुख! ॥४४॥
इति स्तुतचारुगुणनिधिस्त्रिदशैः स खलु ।
वधूनिकरेण सह मघोर्दमितारमत ॥ ४५ ॥
मजुतरकेलिरसरजितवधूवितति ।
गुलदलिनीसरसकुञ्जतलवासरति ॥ १६ ॥
कलमृदुवेणुरवपुलकितसर्वतनु ।
गलरवदूरजितकलगलगीततति ॥४७॥
रासक्रीडासुखमिति मासान् रम्यान कतिचन ।
गोपीजालैः सह किल गोविन्दोऽसावतनुत ॥ ४८ ॥
प्रभातायामथ निशि शुभाकारो हरिरपि ।
कदाचित् ता अवदत मुदा गोपीरिति किल ॥ १९ ॥
यामिनीयं विरमति यात यूयं द्रुतमिह ।
कामितानां शतमपि साधितं यत् स्वयमपि ॥ ५० ॥
मिहिरोऽसावुदयति स हि किञ्चित् प्रतपति ।
तिमिरौघं तिरयति हिमबाधां शमयति ॥ ५१ ॥
अम्भोजिनी करचयसम्भावितां मृदु मृदु ।
फुल्लाननां कलयति सल्लीलया विट इव ॥ ५२ ॥
सकुड़मैरिव निजकरोत्करौःश दिशि ।
विलेपनं रचयति विलासवानयमपि ॥ ५५ ॥
२४ रासक्रीडायां चक्रवधूकुलमपि शकहरिन्मुखमनु । दत्तविलोचनमथ चित्तमुदं प्रभजति ॥ ५४॥ विघटितं तदपि हि मुघटितं समजनि । सकलकोकयुगलनिकरमाकलयत ॥ ५५ ॥ भृङ्गाणां विततिरपि झङ्कारैर्मुखरयति । सर्वाशावलयमिह सम्प्रीता विचरति च ॥ ५६ ॥ विनिद्रः करिकलभसमूहो विपिनमुवि । समुत्तिष्ठति सपदि समुद्घाम्यति च दिशि ॥ ५७ ॥ आकुलं पतिभिरथ गोकुलं प्रति सरत । शोभनं दिनमपि च लोभनं ननु भवतु ॥५८ ॥ इति ताः पशुपकुलतरुणीरवददथ । अगमन्निजमपि च भगवान् भवनमपि ॥ ५९ ॥ लीलारमितपशुपबालाविततिरपि च । कृष्णोऽनिशमपि खलु पुष्णातु व इह भुवि ॥६॥ इदं सकलमनुजमुदं प्रविरचयतु । यथासुखमिह हरिकथामृतमनवधि ॥ ६१ ॥ मङ्गलमनिशमपि भङ्गविरहितमिह । सङ्कलयतु मम तु सम्प्रति हरिरवतु ॥ ६२ ॥ हरिपदसरसिजयुगमनुदिनमपि । मम हृदि निवसतु शममपि जनयतु ॥ १३ ॥ इत्यनुष्टुप्पस्तारे चतुर्षः परिच्छेदः ॥
पस्तारकमः।
२५
भ्यरस्तजन्नगैर्लान्तैरेभिर्दशभिरक्षरैः ।
समस्तं वाङ्मयं व्याप्तं त्रैलोक्यमिव विष्णुना ॥
कलकलकाश्चीकङ्कणजालं
मधुरविहारं मानसचोरम् ।
कमपि पुमांसं कामसमानं
नवघननीलं बालमुपासे ॥
इति रामपाणिवादविरचितमनुष्टुप्पकरणं समातम् ।।
स्मरान्धकारपस्मरं स्मरान्तकस्य विग्रहम् ।
स्मरान्तरान्तरा मनः स्थिरं तदेव नापरम् ॥ १ ॥
नष्टस्य यो भवेदङ्कस्तस्याःऽधे समे च लः ।
विषमे चैकमादाय तस्याऽर्षे गुरुर्भवेत् ॥२॥
उद्दिष्टं द्विगुणेनापादुपर्यङ्कान् समालिखेत् ।
लघुस्था ये तु तत्राद्धास्तैः सैकैर्मिश्रितैर्भवेत् ॥३॥
वर्णान् वृत्तभवान् सैकानोत्तराधर्यतः स्थितान् ।
एकादिक्रमशश्चैतानुपर्युपरि निक्षिपेत् ॥ ४॥
उपान्त्यतो निवर्तेत त्यजन्नेकैकमूर्ध्वतः।
उपर्याचाद् गुरोरेवमेकड्यादिलगक्रिया ॥५॥
लगक्रियाकसन्दोहे भवेत् सन्या विमिश्रिते.
उदिष्टाकसमाहारः सैको वा जनयेदिमाम् ॥
यदुभर्ता श्रीकृष्णस्तइनवान् जातसारोऽलम् ।
मुवि परतरो रणे कः साधुनरवापरथससूतो यः ॥ ॥
२१ प्रस्तारक्रमः। क्षेमेन्द्रः श्रीकृष्णो वीरनृपो देवनप्रवः । तहनवान् प्रलयादिर्मुजगचयो जातसारोऽलम् ॥८॥ तिलमशुचिरसौ कलया भावपरं चारुदर्दुरविरामः । तुच्छमदाभिज्ञोऽयं श्रीमान्यः साधनप्रज्ञः॥ ९॥ वनं गत्वाधिकं भनो दीनस्तदेहगो जनः । चापी रथी ससूतो यः प्राग(म ? भूद्) भूमिमण्डले ॥१०॥ भाति ददानः कथितं हरिसच्छायः प्रभुलोंके । इयमेव सप्तविंशत्यन्ता सङ्ख्याष्टतः समासाद्य ॥११॥ पादे सर्वगुरावाद्याधुं न्यस्य गुरोरेधः । यथोपरि तथा शेषं भूयः कुर्यादमुं विधिः ॥ १२ ॥ ऊने दद्याद् गुरूनेव यावत् सर्वलघुर्भवेत् । प्रस्तारोऽयं समाख्यातश्छन्दोविचितिवोदभिः ॥१३॥ शुभं भूयात् लोकानुक्रमणिका। लोकः. पृष्ठम्. वाकः. पृष्ठम् २२ २६ २२ २८ १५ अखिलतनु अखिलरसानामविका अङ्यो यस्य अथ जाम्बवदाद अथ वासवस्य मथात्मनः शब्द अथोपगूढे शरदा अनन्तरत्नप्रभव अन्यगुणोघे अपि लोकयुगं अभून्नृपो विबुध अयुगोजाख्यं अरुणौ चरणौ अस्त्युत्तरस्यां दिाश आकीटमाकैटभ आकृत्यादावप्रयोग इति स्वसुर्भोज इत्थममुं विल उक्तायुक्ता उज्ज्वलकनक उत्तुङ्गास्तुङ्ग उदयति शशिमुखि उवह मुहाइ एकशेप-नादृत्य कलकलकाची २१ कलकलमुख १६ कामबाण ३ किमपि किमपि १६ कोटीरे वहते ३० क्षणमपि विरहः ९ गयाफणिमाला १० गोपालबालस्य गोरसं चोर .जगाद चैनामय २८ जनयति त्वयि २० जयति गुणनिधि ५ णमह अवंढि २७ तं भूपतिर्भासुर १० तन्वी बाला ९ तमध्वरे विश्व ४ तरुणतमाल १२ तावदित्थमथ १३ विसस्त्रिलोक ४ दशमुखकुल ३३ द्रविणं तरुणी २५ धनजनयौवत ३० धनाभोगोन्मत्ता ३३ नमत नवाम्बु ६ नैव नः प्रियतमो १४ परिपाण्डुदुर्बल १५ १९ ३३ ११ २४ ३ १४ १२ २९ २५ २० श्लोकः. पृष्ठम्. ३१ १४ २५ ७ ६ १३ २३ २१ २ पृष्ठम्. । श्लोकः. ११ / बोकेशकेशव ४ | वंशनिनादै ९ । वाणि! त्वत्पद ११ वारवधूकेलि ३ विद्युन्मालालोलान् ३४ | वीचीवातः २३ वेदा वाचः प्रस १६ ब्रजति कुमुदे ९ शश्वदुदयस्थिति २३ । श्यामावदात २७ | श्रियः पतिः ३३ | श्लोकेषु नियत २० | सकृदपि मज्जन १३ | सत्रान्ते सचिव २८ | सप्तच्छदक्षीर २० सरागमुमना १८ सरोजिनमिानस सानुस्वारो ३ सुरभिलवन २४ स्तनयुगमश्रु १७ | स्मरान्धकारघस्मरं ७ स्वच्छन्दैकस्तन २९ हरिपदाम्बुजा ७ हिमशैलसुता पाण्डयोऽयमंसा पादे सर्वगुरा पूर्वानुभूतं प्रचेतसा मे प्रथमानिसमो प्रदिशतु गिरिश प्रिये ! जनकनन्दिनि! प्रवङ्गवारा बन्धाव्यनाना बहिः सर्वाकार मज़ुलवन्चुल मधुरं वीणा मध्येमार्ग मत्त मम हृदये मलिनश्चपलाश मुरारातेर्वक्षो मृगपरशुधरं यतिभिररहिते यस्य पादचतुप्के रघुपतिरपि रुचिराकृतिः कनक रुद्राद्रिसमुद्रादि लक्ष्मीपतये लीलारामे १५ ५ १९ ११ ८ २ ૨૮ ३३ w w v LIST OF SANSKRIT PUBLICATIONS FOR SALE. RS. As. P. Ho Bhaktimanjari (Stuti) by H. H. Svati SrI tiama Varma Maharaja. 1 0 0 स्यानन्दूरपुरवर्णनप्रबन्ध: Syanandurapuravarnanaprabandha (Kavya) by H. H. Svati Sri Rama Varma Mahārāja, with the commentary Sundart of Rajaraja Varma Koil Tampuran. 200 Trivandrum Sanskrit Series, No. 1-24 Daiva (Vyakaraña) by Deva with Purusakāra of Kronalllasukamuni (out of stock). 1 0 0 No. 2-अभिनवकौस्तुभमाला दक्षिणामूर्तिस्तवी Abhinavakaustubhamala and Daksinamurtistava by Kronalīlābukamuni (out of stock). O 0 2 0 No. 3- Toyce: Nalabhyudaya (Kavya) by Vamana Bhatia Bana (second edition). 0 4 0 No. 4-festeruta: Sivalilarnava (Kavya) by Nilakanta Díkşita (out of stock). 200 No. 5-offeeVyaktiviveka (Alankara) by Mahima-Bhatte with commentary (out of stock). 2 12 0 No. 6-regler Durghatavrtti (Vyakarana) by Saraṇadeva (out of stock). 2 2 0 0 NO. 7-ब्रह्मतत्त्वप्रकाशिका Brahmatattvapraka. sika (Vedanta) by Sadasivendradarasvati (out of stock). 2 4 0 No. 8-yaraya Pradyumnabhyudaya (Nataka) by Ravi Varma Bhopa (out of stock). 1 0 0 2 RS. AS. P. No. 9-ferratanatet Virupaksapancasika (Vedanta) by Virūpākşanātha with the commentary of Vidyācakravartin (out of stock). 0 8 0 No. 10—ATERIET Matangalila (Gajulakşaņa) by Nīlakantha (out of stock). O 8 0 No. 11-audsecure Tapatisamvarana (Nāțaka) by Kulasekhara Varma with the coininentary of Sivarāma (out of stock). 2 4 0 No. 12_CATECH Paramarthasara (Vedānta) by Adišeşil with the cominentury of Răglavānanga (out of stoch). 0 8 0 No. 13-THETH Subhadradhananjaya (Nātika) by Kula&ckburit Virma with the commentry or Sivirāma (out of stock), 2 0 0 No. 14-tfarar: Nitisara (Níti) by Kānandakii, with the commentary of Sankarārya (out of stock). 38 0 No. 15—FeHelter Svapnavasavadatta (Nåțakil) by Blärit (second edition). 1 8 0 No. 16-afagritucratory Pratijnayaugandharayana (Nātika) by Bhasa (out of stock). 180 No. 17-9 Pancaratra (Nataka) ly Bhūsil (out of stock). 1 0 0 No. 18-tietotera Narayaniya (Stuti) by Nārāyaṇa Bhatti witli the commentary of Debainaņgalavārya 4 (second edition). No. 19-HTÄUTEx: Manameyodaya (Nināinsa) by Nārāyaṇa Bhatta and Nārāyana Papdita (out of stock). 1 4C No. 20-2HT Avimaraka (Nataka) by Bhasa (out of stock). 1 8 0 No. 21– reelta Balacarita (Nätaka) by Bhāsa (out of stock) 1 0 0 3 RO. A8. P. No. 22-rim-dana-gareret USATO Cha Madhyamavyayoga-Duta - vakya-Ducaghatotkaca-Karnabhara and Urubhanga (Ná tälkil) boy Bhasa (out of stork). 1 80 No. 23-amriuferit Nanartharnayasam - ksepa (kos) by kesilVilstīmin (Part I, 1st and 2011 Kandas). (out of stuck). 1 12 0 No. 24-Hufcurar: Janakiparinaya (Kavya) by Cakra Kuuvi (out of stwik!). 1 0 0 No. 25-Tong Terstralen Kanadasiddhantacandrika (Nyāya) by Gangadharasūr'i (out of stock). 0 12 0 No. 26–3167 Abhisekanataka by Bhisa (out of stock). 0 12 0 No. 27-AAFHET: Kumarasambhava (Kīvya) by Kaļidāsa with the two coinmentarios, Prakūsikū of Arunagirinātha and Vivaraņ1 of Nārāyana Paudita (Part 1, 1st and 2nd Sargns) (out of stock). 1 12 0 No. 28-CREAX: Vaikhanasadharmaprasna (1:01:atr:) loy: Vikhines (out of stock). 0 8 0 No. 29-Tratertureretett: Nanartharnayasam - ksepa (Košil) by Kovalsvinnin (Part 11, 3rd Kāņờn) (out nj' stock). 24 0 No. 30-argiea Vastuvidya (Silp:1) (vut of stuck). ( 12 0 No. 31-ararefererereta: Nanartharnavasam - ksepa (Kosil) by kesilvils Jimin (Part III, 4t1, 5th and 6th Kändis). 1 0 0 No. 32-SATSETEHET: Kumarasambhava (Kavya) by Kalidasa with the two commentaries, l'rukāśikā of Aruņagirinatha and Vivaraụ:l of Narayana l'aņdita (Part II, 3rd, 4th an:j 5th Surgas) (out of stock). % 8 0 RS. 48. P. No. 33-road Yararuoasangraha (Vyakarara) with the commentary DIpaprabha of Narayana (out of stock). 080 No. 4-forator: Manidarpana (Nyāya) by Rājacadamaņimakhin. 1 4 0 No. 35-Aforenre: Manisara (Nyāya) by Gopinatha. i 80 No. 36-SHTCerare: Kumarasambhava (Kavya) by Kalidasa with the two commentaries, Prakasika of Arunagirinatha and Vivasaņa of Narayana Pandita (Part 111, 6th, 7th and gtb Sargas). 3 0 0 No. 37-Haitare Asaucastaka (Smrti) by Vararuci with commentary. 0 4 0 No. 88-TAKERETA Namalinganusasana (kiosa) by Amarasimha with the com. mentary Tikasarvasva of VandyaghatIya Sarvananda (Part I, 1st Kanda). 2 0 0 No. 39-17 Carudatta (Nataka) by Bhasa (out of stock). 0 12 0 No. 40—WSERCEITE Alankarasutra by Rājanaka Ruyyaka with the Alankárasarvasva of Mankhaka and its commentary by Samudrabardha (second edition). 2 8 0 No, 41-URH450 Adhyatmapatala (Ve. danta) by A pastamba with Vivarana of Sri Sankara-Bhagavat-Pada (out of stock). 04 0 No. 42-APATE Pratimanataka by Bhaga (out of stock). 1 8 0 No. 43-Trafeguar Namalinganusasana (Koša) by Amarasimha with the two commentarios, Amarakosodghatana of KsTrasvåmin and TIkasarvasva of Vandyaghatiya Sarvānauda (Part II, 2nd Kanda, 1.6 vargas). 280 No. 44-anya Tantrasuddha by Bhattaraka Vedottama (out of stock). 04 0 5 RS. AS. P. No. 45–4980744 Prapanoahrdaya. 1 0 0 No. 46-fchiereret: Paribhasavrtti (Vy&- karapa) by NTlakunta Dikoita. 0 8 0 No. 47—fererafarersari Siddhantasiddhanjana (Vedanta) by Kropananda Sarasvati (Part I.) 1 12 0 No. 48—fereratergrama Do. Do. (Part II). 2 0 0 No. 49-toatform Goladipika (Jyotiņa) by Parameávara. 0 4 0 No. 50-Taragua Rasarnayasudhakara (Alankara) by Singa Bhūpåla. 3 0 0 No. 51-TAPORTgareth Namalinganusasana (Koba) by Amarasimha with the two commentaries, Amarukošodgha tana of K$Irusvāmin and TIkåsarvasva of VandyaghatIya Sarvånanda (Part III, 2nd Kanda, 7-10 vargas). 2 0 0 No. 52TArenas Namalinganusasana (Kosa) by Amarusimha with the conmentury Tika sarvasva of Vandyaghatîya Sarvånanda (Part IV, 3rd Kánda). 18 8 0 No. 53-acefaurer: Sabdanirnaya (Vedanta) by Prakaså tmayatîndra. 0 12 0 No. 54fterefarrefarart: Sphotasiddhi. nyayavioara (Vyakarana). 0 4 0 No. 55-H CELICETTA Mattavilasaprahasana (Nataka) by Mahendravikramavarian. (out of stock). O 8 0 No. 56–Hgmiegamat Manusyalayacandrika (Silpa) (out of stock), 0 8 0 No. 57— getcaftar Raghuviracarita (Kavya). 1 4 0 No. 58–frutmerritory Siddhantasiddhanjana (Vedanta) by Kronananda_Sarasvati (Part III). 2 0 0 80 6 RO. AS. P. No. 59-Nagananda (Nâțaka) by Harşadleva with the commentary Virnarsinf of Sivirâma (out of stock). 3 4 0 No. 60-agegra: Laghustuti by Laghubhattâraka with the commentary of Rayhavânauda. O 8 0 No. 61–79&TETTU Siddhantasiddhanjana (Vidäitä; low kit'sùananda Sarasvati (Part. IV). 1 4 0 No. 62--HHATHAE: Sarvamatasangraha. (wit of stock). 080 No. 63–FAKTETETT Kiratarjuniya (Kavya) by Buāravi with the commentary Sa. Ladárthudipikar of Citralıhani (1, 2 and 3 Sargas). 2 8 0 No. 64_haryant: Meghasandesa loy kalielīsa with the commentary Pral5pal of Dakşinâvartanātha. 0 12 0 No. 65--Th Mayamata (Šilpa) lug Maynmuni out of stock:). 3 4 0 No. 66 -- HETAT Maharthamanjari (Darsilni) with the commentary Parimala of Mahesvarânanda. 24 0 No. 67--Oregat: Tantrasamuccaya (Tantra) by Nûrîyan: with the commentary Vimarsinſ of Sankara (l'art I, 1-1 latalās) (out of stock). 3 stock).' 3 10 No. 68-atagalat: Tattvaprakasa (Āmuma) by Sri Bhojadeva with the commentary Tatpuryudipikā of Sri Kumāra 1 12 0 No. 6:) - falaramaya arata: Isanasivagurudevapaddhati(Tantra)y lsin.uśivagurudevamiera Part 1, Sananyapada). 1 80 No. 10—Asgattieq: Aryamanjusrimula. kalpa (Part 1). 2 8 0 RS. AS. P. No. 71-TECT:Tantrasamuccaya(Tantra) by Nûrîyana with the commentary Vimarsint of Sankara(Part II, 7--12 Patalās) (out of stock). 3 8 0 No. 72-aarag aarafa: Isanasivagurudevapaddhati (Tantr:1) luy Isūlitaivaguruderamisrat (Part II. Vantrupada). 4 0 0 No. 73—aculagregatzt: Isvarapratipattiprakasa (Velānta) lıyMadhusūclanasarilsynLT. 0 4 0 No. 74–199CProfa: Yajnavalkyasmrti with the commentary Balakridâ of Vibyarâpâcârya. (Part I Acara and Vyavahárt Adhyâyax). 3 4 0 No. 75-forcar Silparatna (Silpnil) by Srikumira (Part 1). 2 12 0 No. 76-artisgeftatica: Aryananjusrimulakalpa (Part II). 3 0 0 No. 77-ayrafaretya yafa: Isanasivagurudevapaddhati (Tantra) by Isannsivargurudevanuisrit (Part 111, Kriyapāda 1--30 litlalás). 0 0 No. 78—SaatTTIETEETH Asyalayanagrhyasutra with the commentary Anāvilā of Faruclattācārya. 260 No. 79---Spectreh Arthasastra of kantalya with commentary by Mahāmahopadhyāya T. Ganapati Sāstri (Part I, 1 & 2 Adhikaranas). 3 12 0 No. 80-quatrert Do. Do. (Part II, 3-7 Adhikaranā.). 4 0 No. 81-TCRieta:Yajnavalkyasmrti with the comincntary Balakrida of Vibyilrūpācārya (Part II. Prayascittadhyaya). 200 No. 82-ailer Arthasastra of Kautalya with commentary by, Mahamahupā. dhyāya T. Gapupati Sastri (Part III, 8-15 Adhikarapās). 3 4 0 8 BS.AS. P. No. 83farfaraggarefa: Isanasivagurudevapaddhati (Tantra) by Ioanasivagurudevamisra (Part IV, Kriyapåda 31–64 Patalas and Yogapada). 8 8 0 No. 84-rasgar ney: Aryamanjusrimulakalpa (Part III). 2 0 0 No 85-forucificat Visnusamhita (Tantra). 2 8 0 No. 86—reftar Bharatacarita (Kavya) by Kropakavi. 8 0 NO. 87-TASTETT: Art: Sangitasamayasara (Sangſta) of Sangſtakara Parkve deva. 1 2 0 No. 88–84127: Kavyaprakasa (Alankara) of Mammaţabhatta with the two commentaries the Sampradayaprukasinf of Sri Vidyacakravartin and the Sâhityacadâmani of Bhattagopala (Part I, 1-5 Ullåsas). 3 no No. 89-feireten: Sphotasiddhi (Vyakarapa) by Bharatamitra. 0 80 No. 90-IHIER Mimamsaslokayartika with the commentary Kasika of Sucaritamisra (Part 1). 2 8 0 No. 91-errorHorasastra of Varahamihirdcarya with the Vivarana of Rudra. 3 0 0 No. 92-cateraarc Rasopanisat. 0 No. 93-tightArt Yedantaparibhasa (Vedānta) of DharmarājádbvarIndra with the commentary Prakasiku of Peddādſkşita. 1 8 0 No. 94-traft Brihaddesi (Sangſta) of Matangamuni. 1 8 0 No. 95 sure that Ranadipika (Jyotisa) of Kumaragapaka. 0 4 0 2 0 18. M. P. No. 96-TUTT Rksamhita with the Bhagya of Skandasvåmin and the cornmentary of Venkatamadhav&rya (Part I, 1st Adhyâya in 1st Aptaka). 1 8 0 No. 97-नारदीयमनुसंहिता Naradiyamanasamhita (Smrti) with Bhagya of Bhavasvamin. 200 No. 98 freycan Silparatna (Silpa) by Śrfkumára. (Part II.) 8 8 0 No. 99-Terma Mimamsasloka- Yartika (Mimamsa) with the commentary Katika of Sucaritamiára (Part II). 200 No. 100—16494127: Kavyaprakasa (Alankara) of Murmatabhatta with the two commentaries, Sampradayaprakasint of Srividyacakravartin and Sahityacndamani of Bhattagopala. (Part II, 6-10 UÌAs&s). 5 0 0 500 No. 101-White Aryabhatīya (Jyotiga) of Aryabhatācārya with the Bhagya of Nilakanthasomasutyan (Part I. Ganitapada). 2 8 0 No. 102-tie Dattila (Sangſta) of Dattilamuni. 0 4 0 No. 103-: Hamsasandesa (Vedanta) with commentary. 0 8 0 No. 104-eragat Sambapanoasika (Stuti) with commentary. ino No. 105-afweta: Nidhipradipa of Sidalhabrikanthabambhu. 040 No. 106-serer Prakriyasaryasya (Vyakarana) of Sri Narayana Bhatta with commentary (Part I.) 100 10 RB. As. P. No. 107--forcare Kavyaratna (Kávra) of Arhaddása 0 120 No. 108--Saroelersport Balamartandavijaya Natakit) of Devarajakavi. 1 8 0 No. 109-ATTET: Nyayasara with the commentary of Vaendepostri, 18 ( No. 110–phie Aryabhatiya (Jyotisa) of Arviobutacūryal with the Bhagya of Nilukanyhasomisutviin.(Part II. Kalakrivāpāda) 1 00 No. 111-guldu: Hridayapriya (Vaivlyaku) by i': runesvara, 3 0 0 No. 112- BTTTT TIHTIRI Kucelopakhyana and Ajamilopakhyana (Sunglia) by H. H. Svåti Sri Rama Varma Maharaja. 0 4 0 No. 113--Ent: Sangitakrtis (Gäna) of H.I.Vári Sri Rāma Varina Maliariju. 1 0 0 No. 114 - AccTHTHIHT Sahityamimamsa (Alankan) 1 0 0 No. 115 - Haifeat Rksamhita (with the Bhagya of Skandastamin and the comentary of Venkatamādhavärya) (Part 1] 2nd Allhyāya in Ist Astiikat.) 1 8 0 No. 116-Perrety Vakyapadiya (Vyā karopa) with the coinmentary l'rakfruakaprakabilliy Helarajil son of Bhatirāja. (Part 1). 1 8 0 No. 117-editur CUTH Sarasvatikantabharana (Vyäkarıņa) by Blojudeva with the commentary of Sri Narayana Dandanátha, 1 8 0 11 BO. AS. P. No. 118-TTTH TO Balaramabharata (Natya) by Balarāma Varma Vanci Maharaja. 2 8 0 No. 119-federatua: Vivekamarthanda (Vedanta) of. Visvarā padeva 0 8 0 No. 120-atatert Saunakiya. 0 8 0 No 121-ACETTA: Vaikhanasagama (Tantra) of Marſci, 200 No. 122- gantererater Prabodhaoandrodaya (Nataka) by Kfgnamisrayati with the commentary Natakabharaṇa of Sri Govindamrtabhagavān. 2 0 0 No. 123– TTiferente: Sangramavijayo daya(Jyotişa). 2 0 0 No. 124-ACCEST Haramekhala of Mahuka with commentary (Part I chapters 2, 3 & 4) 1 g 0 No. 125 terraar: Kokasandesa (Kavya) by Vişnuträta. 08 0 No. 126currfa: Karanapaddhati (Jyotiga). O 4 0 No. 127—Ecraciuerieur Sarasvatikanthabharana by Bhojadeva with the commentary of Sri Narayana Dandanatha. 180 No. 128—TRERT: Bhringasandesa (Kavya) by Vasudeva, 06 0 No. 129--ETERET: Hamsasandesa (Kávya) 0 4 0 No. 130—HETTAT: Mahanayaprakasa. 0 No. 131-run Yrttayartika 8 0 Apply to:- The Superintendent, Government Press, Trivandrum. 8 0 1
No text on this page.
No text on this page.