बनस्थली विद्यापीठ

याज्ञवल्क्यस्मृति

याज्ञवल्क्य · 2009/04

PDF Proofread

Front matter

पुस्तकालय
SOCSOCrogroG
केन्द्रीय
250COMPOS002020
वनस्थली विद्यापीठ
ga.28
श्रेणी संख्या
m 58y:-
पुस्तक
संख्या
अवाप्ति क्रमांक
२२/43/

1929. w --- THK Solo HOWKHAMBA SANSKRIT SERIES, А. 'OLLECTION OF RARE & EXTŘAORDINANÝ SANSKRIT Works. NO: 373 Fisterreta: श्रीमित्र मिश्रकृत'चीरमित्रोदय'टीकया श्रीविज्ञानेश्वरकृत- 'मिताक्षरा'टीकया च सहिता । साहित्याचार्य-खिस्ते नारायणशास्त्रिणा Fillèctriqueza IISTS FTATTITIETOTT et rigtigar! pistered according to Act Ked of 1867 (All Rights Reserved.) YĀJŇAVALKYA SMRTI With the Commentary vf Mitra Mis’ra's Viramitrodaja and Vijnanes’vara’s Mitāksará. Edited By Pt. Näräyaņa Sastri Khisto Sahityācharya, Assistant Librarian, and Pt. Jagannātha S'āstrī Hos'inga Sāhityopīdhyāya, Sãdholāl Scholar, Sarasvati Bhavana, Bonaros, FASCICULUS VII- A PRINTED-PUBLISHED & SOLD BY TIL SECRETARY, CHOWKHAMBA SANSKRIT SERIES OFFICE, Vidya Vilas Press, North of Gopal Mandir, Benares. 1927 Ons 20A SSAGRIGelsdiseksisississississiGaisisissississis श्रीः आनन्दवनविद्योतिसुमनोभिः सुसंस्कृता । सुवर्णाऽङ्कितभव्याभशतपत्रपरिष्कृता ॥ १ ॥ . चौखम्बा-संस्कृतग्रन्थमाला मंजुलदर्शना । रसिकालिकुलं कुर्यादमन्दाऽमीदमोहितम् ॥ २॥ स्तवकः-३७३ Printed by Jai Krishna Das Gupta net the Vidya Vilas Pri'ss, Bences. Gki/RAGICKOOL 909009ICKSON - 2 Agents: Luzac & co, Booksellers, LONDON. Otto Harrassowitz, Leipzig: GERMANY. The Oriental Book-supplying Agency. POONA. 3 दायविभागप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता । ६०१ इत्यत्र दत्रिमग्रहणस्य पुत्रप्रतिनिधिप्रदर्शनार्थत्वात्। पितृधनहारि. त्वं तु पूर्वस्य पूर्वस्याभावे सर्वेषामविशिष्टम् । (मनुः९।१८५)-'नभ्रा. तरो न पितरः पुत्रा रिक्थहराः पितुः । इत्यौरसव्यतिरिक्तानां पुत्र. प्रतिनिधीनां सर्वेषां रिक्थहारित्वप्रतिपादनपरत्वात् । औरसस्य तु (मनुः ९।१६३)-'एक एचौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः । इत्यने व रिक्थभाक्त्वस्योक्तत्वात् । दायादशब्दस्य [१] दायादानापे दापयेत्' इत्यादौ पुत्रव्यतिरिक्तरिक्थभाग्विषयत्वेन प्रसिद्धत्वाच्च । वासिष्ठादिषु वर्गद्वयेऽपि कस्यचिद्यत्ययेन पाठो गुणवदगुणवद्विषयो वेदितव्यः । गौतमीये तु पौत्रिकेयस्य दशमत्वेन पाठो विजातीयवि. पयः । तस्मात् स्थितमेतत्पूर्वपूर्वाभावे परः परोंऽशभागिति । यत्तु (९।१८२ )-'मातृणामेकजातानामेकश्चेत्पुत्रवान् भवेत् । सर्वे ते तेन पुत्रेण पुत्रिणो मनुरब्रवीत् ॥ इति । तदपि भ्रातृपुत्रस्य पुत्रीकरण- सम्भवेऽन्येषां पुत्रीकरणनिषेधार्थम् , न पुनः पुत्रत्वप्रतिपादनाय । 'तत्सुता गोत्रजा वन्धुः' इत्यनेन विरोधात् ॥ १३२ ॥ (मिता०) इदानीमुक्तोपसंहारव्याजेन तत्रैव नियममाह सजातीयेविति । समानजातीयेष्वेव पुत्रेषु अयं पूर्वाभावे परः पर इत्युक्तो विधिः न भिन्नजातीयेषु । तत्र च कानीनगूढोत्पन्नसहो. ढजपोनर्भवाणां सवर्णत्वं जनकद्वारेण न स्व(२)रूपेण । तेषां वर्णजा. तिलक्षणाभावस्योक्तत्वात् । तथानुलोमजानां मूर्धावसिक्तादीनामौ. रसेप्वन्तर्भावात्तेषामप्यभावे क्षेत्रजादीनां दायहरत्वं बोद्धव्यम् । शूद्रापुत्रस्त्वौरसोऽपि कृत्स्नं भागमन्याभावेऽपि न लभते । यथाह म. नुः (९.१५४)-'यद्यपि स्यात्तु सत्पुत्रो (३)यद्यपुत्रोऽपि वा भवेत् । नाधिकं दशमाहृद्याच्छूद्रापुत्राय धर्मतः ॥ इति। यदि सत्पुत्रो वि. धमानद्विजातिपुत्री यद्यपुत्रोऽविद्यमानद्विजातिपुत्रो वा स्यात्तस्मि. न्मृते क्षेत्रजादिर्वान्यो वा सपिण्डः शूद्रापुत्राय तद्धनादशमांशाद- धिकं न दयादित्यस्मादेव क्षत्रियावैश्यापुत्रयोः सवर्णापुत्राभावे सक. लधनग्रहणं गम्यते ॥ ( मिता०) अधुना शूद्रधनविभा(४)गे विशेषमाह-- जातोऽपीत्यादि । शूद्रेण दास्यामुत्पन्नः पुत्रः कामतः पितुरि- (१) (मनुः ८५१६० ) 'दानप्रतिभुवि प्रेने' इति पूर्वार्धमस्य । दानप्रतिभुवि तु पितरि मृने पुत्र पणे दापयेदिनि तस्यार्थः। (२) स्वरूपद्वारेण ग. । (३) व्यसत्पुत्रोऽपि वा भवेदिति पाठः । (४) विमागेपि ग.। ७६ ६०२ याज्ञवल्क्यस्मृतिः। [ व्यवहाराध्यायः। . च्छया भागं लभते । पितुरूवं तु यदि परिणीतापुत्राः सन्ति तदा ते भ्रातरस्तं दासीपुत्रं अर्धभागिनं कुर्युः । स्वभागादर्धं दारित्यर्थः।। अथ परिणीतापुत्रा न सन्ति तदा कृत्स्नं (१)वनं दासीपुत्रो गृह्णीयात् यदि परिणीतादुहितरस्तत्पुत्रा वा न सन्ति । तत्सद्भावे त्वर्धभा- गिक एव दासीपुत्रः । अत्र च शूद्रग्रहणाद्विजातिना दास्यामुत्पन्नः पितुरिच्छयाप्यंशं न लभते नाप्यर्धे, दूरत एव कृ(२)त्स्नम्। किंत्व. नुकूलश्चेजीवनमात्रं लभते ॥ १३३-१३४ ।। ( वी० मि०) अथ द्वादशविधपुत्राभावे धनग्राहिणो निरू- पयति- पत्नी दुहितरश्चन पितरौ भ्रातरस्तथा ।। तत्सुता(३) गोत्रजो वन्धुः शिष्यः सब्रह्मचारिणः ॥१३॥ एपामभावे पूर्वस्य धनभागुत्तरोत्तरः ।। स्वातस्य ह्यपुत्रस्य सर्ववर्णेष्वयं विधिः ।। १३६ ॥ अपुत्रस्य द्वादशविधपुत्रहीनस्य पौत्रप्रपौत्रहीनस्य स्वर्यातस्य मृतस्य पल्यादीनामेषामुक्तानां मध्ये पूर्वपूर्वाभावे उत्तरोत्तरी धन- भाग् भवतीत्ययं विधिरपुत्रधनग्रहणप्रकारः सर्ववर्णेषु तुल्यः । तत्र प्रथमं पत्नी धनभाक् , सा च विवाहसंस्कृता वोध्या। 'पत्युनों यज्ञसं. योगे' (पासू०४।१।३३) इति स्मरणात् । अत्र विशेपमाह कात्यायनः- पत्नी भर्तुर्धनहरी या स्यादव्यभिचारिणी। तदभावे तु दुहिता यद्यनूढा भवेत्तदा । पल्या व्यभिचारिणीत्वे त्वाह नारदः- पुत्राभाव तु दुहिता तुल्यसन्तानदर्शनात् । पत्न्यसत्त्वेऽनूढाः पितृसवर्णदुहितरोधनभागिन्यः, उक्तकात्यायन: वचनात् । इदं पुत्रिकापरमिति केचित् । तदयुक्तं पत्नीसत्त्वेऽपि तस्या धनग्राहितत्वात् । 'तृतीया पुत्रिकेति वसिष्टवचनेन तस्याः पुत्रत्व- वोधनात् । अङ्गादङ्गात्स भवति पुत्रवद् दुहिता नृणाम् । तस्यामात्मनि जीवत्यां कथमन्यो धन हरेत् ॥ - (१) धनं गृह्णीयात् ग. घ. । (२) कृत्स्नं धनं ग.। (३) तत्त्ता गोत्रजा बन्धुशिप्यसब्रह्मचारिणः-इति मुद्रितपुस्तके पाठः ।

दायविभागप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता । ६०३ -- - सदृशी सदृशोनोढा साध्वी शुश्रूषणे रता। . ! कृताऽकृता वा पुत्रस्य पितुर्धनहरी मता ।। इति वृहप्पस्पतिवचनाच्च । अत्र चोढात्वं कृताया एव विशेषणं. न त्वकृताया अपि कात्यायनवचनानुरोधादिति दाक्षिणात्याः । वस्तुतस्तु अल्लीबा चाऽकृता मानसीपुत्रिका सन्दिग्धतया पुत्रमध्येऽपरिगणिते. वाऽत्र दुहितृपदार्थः । 'निरिन्द्रियाया अदायः स्त्रियः' इत्योत्सर्गि कवचनात् । पिता हरेदपुत्रस्य रिक्थं भ्रातर एव वा । इति मनुवचनस्य सङ्कनेचलाघवांच्चेति मैथिलादीनामाचारानुसा. री पन्थाः । पितरौ मातापितरौ । तत्र निरिन्द्रिया' इत्यादिवंच नद्वयात्- अपुत्रस्याऽथ कुलजा पत्नी दुहितरोऽपि वा। तदभावे पिता माता भ्राता पुत्राश्च कीर्तिताः॥ इति कात्यायनीयपाठक्रमाच । यद्यपि पितुस्तदसत्त्वे च मातुर्धन भागित्वम् । 'अपुत्रस्य धनं पत्न्यभिगामि तदभावे दुहितगामि तद. भाव पितृगामि तदभावे मातृगामीति विष्णुवचनेन चैतदिति स्फु. टम् । इत्थं च विग्रहवाक्ये 'मातृशब्दस्य पूर्वनिपातात् पित्रपेक्षया वैमात्रेयाजनकत्वेन साधारणप्रत्यासत्तिसत्त्वाच्चेति मिताक्षारालिखनं चिन्त्यम् । मातुरभावे सहोदरास्तदभावे भ्रातृसुतः तदभावे गोत्र जः सपिण्डकुल्यादिर्यथासन्निहितसम्बन्धः, तदभावे बन्धुः- आत्मपितृष्वसुः पुत्रा आत्ममातृष्वसुः सुताः। आत्ममातुलपुत्राश्च विज्ञेया आत्मवान्धवाः ॥ इति परिभाषितः । तदभावे शिष्यस्तदभावे सब्रह्मचारी एक स्मादाचार्यात्प्राप्तोपनयनवेदाऽध्ययनः । अत्र चकारेण सहोदर. भ्रात्रभावे चैमात्रेयभ्रातुरधिकार, तथापदेनात्मवन्धूनामभावे पितृ- वन्धूनां तदभावे मातृवन्धूनां परिभाषितानां तदभावे आचार्यस्थ चाऽधिकारं समुचिनोति । सम्बन्धसान्निध्यात् 'आर्चायाभावेऽन्ते- दासी'त्यापप्तम्बवचनाच्चेति संक्षेपः । नारदः- सर्वेषामप्यभावे तु ब्राह्मणा रिक्थभागिनः। विद्याः शुचयो दान्तास्तथा धर्मो न हीयते ॥ अहार्य ब्राह्मणद्रव्यं राज्ञा नित्यमिति स्थितिः। इतरेषां तु वर्णानां सर्वाभावे हरेन्नृपः ॥-॥१३५-१३६ ॥ ।

६०४ याज्ञवल्क्यस्मृतिः। [ व्यवहाराध्यायः । . ( मिता० ) मुख्यगौणसुता दायं गृह्णन्तीति निरूपितम् । तेषा. मभावे सर्वेषां दायादक्रम उच्यते- पत्नीत्यादि । पूर्वोक्ता द्वादशपुत्रा यस्य न सन्ति असा- वपुत्रः तस्यापुत्रस्य स्वर्यातस्य परलोकं गतस्य धनभाक् ध. नग्राही एषां पत्न्यादीनामनुक्रान्तानां मध्ये पूर्वस्य पूर्वस्याभावे उत्तरोत्तर इति . सम्वन्धः । सर्वेषु मूर्धावसिकादिषु(१) अनुलोमजेषु प्रतिलोमजेषु वर्णेषु च ब्राह्मणादिपु अयं दायग्रहणविधियग्रहणक्रमो वेदितव्यः। तत्र प्रथमं पत्नी धन(२). भाक् । पत्नी विवाहसंस्कृता 'पत्यु! यज्ञसंयोगे' इति स्मरणात् । एकवचनं च जात्यभिप्रायेण । नाश्च वह्वयश्चेत्सजातीया विजाती. याश्च तदा यथांश विभज्य धनं गृह्णन्ति(३)। वृद्धमनुरपि पत्न्याः समग्रधन()सम्वन्धं वक्ति-'अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता । पत्न्येव दद्यात्तत्पिण्डं कृत्स्नमंशं लभेत च ॥ इति ! बृह- द्विपणुरपि-'अपुत्रधनं पत्न्यभिगामि तदभावे दुहितृगामि तदभाने पितृगामि तदभावे मातृगामि' इति । कात्यायनोऽपि-पत्नी पत्युः र्धनहरी या स्यादव्यभिचारिणी। तदभावे तु दुहिता यद्यनूढा भवे. त्तदा' ॥ इति । तथा 'अपुत्रस्या(५)थ कुलजा पत्नी. दुहितरोऽपि वा। तदभावे पिता माता भ्राता पुत्राश्च कीर्तिताः' इति । वृहस्पति रपि–'कुल्येषु विद्यमानेपु पितृभ्रातृसनाभिषु ।। असुतस्य प्रमीत. स्य पत्नी तद्भागहारिणी ॥ एतद्विरुद्धानीव(६) वाक्यानि लक्ष्यन्ते- 'भ्रातृणामप्रजाः प्रेयात्कश्चिञ्चेत्प्रव्रजेत वा। विभजेरन् धनं तस्य शेषा. स्ते स्त्रीधनं विना ॥ भरणं चास्य कुरिन् स्त्रीणामाजीवनक्षयात् । रक्षान्त शय्यां भर्तुश्चेदाच्छिन्द्युरितरासु तुः ॥ इति । पत्नीसद्भावेऽपि भ्रातॄणां धनग्रहणं पत्नीनां च भरणमात्रं नारदेनोक्तम् । मनुना तु (९।१८५)-'पिता हरेदपुत्रस्य रिक्थं भ्रातर एव वा' इत्य पुत्रस्य धनं पितुभ्रातुर्वेति दर्शितम् । तथा (मनुः ९।२१७)-'अनपत्यस्य पुत्रस्य माता दायमवाप्नुयात् । मातयपि च वृत्तायां पितुर्माता हरे. द्धनम् ' ॥ इति मातुः पितामह्याश्च धनसम्बन्धो: दर्शितः । शहना. पि--'स्वर्यातस्य ह्यपुत्रस्य भ्रातृगामि द्रव्यं तदभावे पितरौ हरेयातां (१) दिष्वनुलोमजेषु सूतादिषु प्रतिलोमजेघु ब्राह्मणादिषु अयं ग. । (२) भाक् विवाह ग. घ.! (१) गृह्णन्ति यथा ख. । (४) धनग्रहणं घ..। (५) स्यार्यकुलजा क. ख. (६) नि चावाक्यांनीह ग.

दायविभागप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता। ६०६ ज्येष्ठा वा पत्नी' इति भ्रातृणां पित्रोर्येष्ठायाश्च पल्याः क्रमेण धन. सम्वन्धो दर्शितः । कात्यायनेनापि-विभक्ते संस्थिते द्रव्यं पुत्रा- भावे पिता हरेत् । भ्राता वा जननी वाथ माता वा तस्पितुः क्रमा त् ॥ इति । एवमादीनां विरुद्धार्थानां वाक्यानां.योगीश्वरेण व्यवस्था दर्शिता । 'पत्नी गृह्णीयात्' इत्येतद्वचनजातं विभक्तभ्रातृस्त्रीविषयम् । सा च यदि नियोगार्थिनी भवति । कुत एतत् नियोगसव्यपेक्षायाः पत्न्या धनहरणं न स्वतन्त्राया इति । 'पिता हरदपुत्रस्य' इत्यादिव. चनात्तत्र व्यवस्थाकारणं वक्तव्यम् । नान्यद्यवस्थाकारणमस्तीति । गौतमवचनाच पिण्डगोनर्षिसम्वन्धा रिक्थं भजेरन् . स्त्री वाऽनप. त्यस्य वीजं लिप्लेत' इति । अस्यार्थ:-पिण्डगोत्रर्षिसम्बन्धा अन- पत्यस्य रिकथं भजेरन् स्त्री वा रिक्थं भजेत् यदि वीजं लिप्सतेति । मनुरपि (९।१४६)-'धने यो विभृयाद्भातुर्मूतस्य स्त्रियमेव वा । सोऽपत्यं भ्रातुरुत्पाद्य दद्यात्तस्यैव तद्धनम् ॥ इति । अनेनैतद्दर्श. यति विभक्तधनेऽपि भ्रातर्युपरतेऽपत्यद्वारेणैव पन्या धनसम्बन्धी नान्यथेति । तथाऽविभक्तधनेऽपि (मनुः ९।१२०)-'कनीयान् ज्ये. भार्यायां पुत्रमुत्पादयेद्यदि । समस्तत्र विभागः स्यादिति धर्मों व्य. वस्थितः ॥ इति । तथा वसिष्ठोऽपि 'रिक्थलोभानास्ति 'नियोगः' इति रिक्थलोभान्नियोगं प्रतिषेधयन् नियोगद्वारक एव पत्न्याः धन- सम्बन्धो नान्यथेति । लियोगाभावेऽपि पत्न्या भरणमात्रमेव नारद. वचनात् 'भरणं चास्य कुर्वीरन् स्त्रीणामाजीवनक्षयात्' इति । योगी. श्वरेणापि किल वक्ष्यते-'अपुत्रा योपितश्चैषां भर्तव्याः साधुवृत्तयः । निर्वास्या व्यभिचारिण्यः प्रतिकूलास्तथैव च ॥ इति । अपि च-- द्विजातिधनस्य यथार्थत्वात्स्त्रीणां च यज्ञऽनधिकाराद्धनग्रहणमयु. क्तम् । तथा च केनापि स्मृतम्-'यज्ञार्थ द्रव्यमुत्पन्नं तत्रानधिकता. स्तु ये । अरिक्थभाजस्ते सर्व ग्रासाच्छादनभाजनाः ॥ यज्ञार्थ वि. हितं वित्तं तस्मात्तद्विनियोजयेत् । स्थानेषु धर्मजुष्टेषु न स्त्रीमूर्ख. विधर्मिपु' ॥ इति । तदनुपपन्नम् , 'पत्नी दुहितरः' इत्यत्र नियोगस्या- प्रतीतेरप्रस्तुतत्वाच्च । अपि चेदमत्र वक्तव्यम् । पत्न्याः धनग्रहणे नियोगो वा निमित्तं तदुत्पन्नमपत्यं वा । तत्र नियोगस्यैव निमित्तत्वे अनुत्पादितपुत्राया अपि धनसम्बन्धः प्राप्नोति । उत्पन्नस्य च पुत्रस्य धनसम्बन्धो न प्राप्नोति । अथ तदपत्यस्यैव निमित्तत्वं, तथा सति ६०६ याज्ञवल्क्यस्मृतिः। [ व्यवहाराध्यायः। पुत्रस्यैव धनसम्बन्धात्पनीति नारब्धव्यम् ॥ अथ स्त्रीणां पतिद्वारको धनसम्बन्धः पुत्रद्वारको वा नान्यथेति मतम् । तदप्यसत् । (मनुः ९६१९४)-'अध्यन्यध्यावहनिकं दत्तं च प्रीतिकर्मणि । भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृतम्' ॥ इत्यादिविरोधात् । किं च-सर्वथा पुत्राभावे ‘पती दुहितरः' इत्या- रब्धम् । तत्र नियुक्ताया धनसम्बन्धं वदता क्षेत्रजस्यैव धनसम्ब. न्ध(१) उक्तो भवति । स च प्रागेवाभिहित इति 'अपुत्रप्रकरणे पत्नी'- ति नारब्धव्यम् । अथ 'पिण्डगोत्रार्षिसम्वन्धा रिकथं भजेरन् स्त्री वानपत्यस्य वीज वा लिप्सेत' इति गौतमवचनान्नियुक्ताया धनसम्बन्ध इति । तदप्यसत् । न हि यदि बीजं लिप्सेत तदाऽनपत्यस्य स्त्री धनं गृह्णीयादित्ययमर्थोऽस्मात्प्रतीयते । किन्तु 'अनपत्यस्य धनं पिण्ड- गोत्रर्षिसम्बन्धा भजेरन् स्त्री वा सा(२) स्त्री वीज वा लिप्सेत संय. ता वा भवेत् ' इति तस्या धर्मान्तरोपदेशः। वाशब्दस्य पक्षान्तर वचनत्वेन यद्यर्थाप्रतीतेः । अपि च संयताया एव धनग्रहणं युक्तं न नियुक्तायाः स्मृति- लोकनिन्दितायाः । 'अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता । पत्न्येव दद्यात्तत्पिण्डं कृत्स्नमंशं लभेत च ॥ इति संयताया एव धनग्रहणमुक्तम्। तथा नियोगश्च निन्दितो मनुना (९।६४)- 'नान्यस्मिन् वि. धवा नारी नियोक्तव्या द्विजातिभिः । अन्यस्मिन् हि नियुञ्जाना धर्म हन्युः सनातनम्' ॥ इत्यादिना । यत्तु वसिष्ठवचनम् 'रिक्थ. लोभानस्ति नियोगः' इति. तदविभक्त संसृष्टिनि वा भर्त. रि. प्रेते तस्या धनसम्बन्धो नास्तीति स्वापत्यस्य न्धार्थ नियोगो न कर्तव्य इति व्याख्ययम् । यदपि नारदवचनम्- 'भरणं चास्य कुऊरन् स्त्रीणामाजीवनक्षयात्' इति, तदपि 'संसृ(३)- टानां तु यो भागस्तेषामेव स इष्यते' इति संसृष्टानां प्रस्तुतत्वा त्तत्स्त्रीणामनपत्यानां भरणमात्रप्रतिपादनपरम् । न च 'भ्रातॄणामप्र- जाः प्रेयादित्येतस्य संसृष्टिविषयत्वे 'संस(३)प्टानां तु यो भाग' इ. त्यनेन पौनरुक्त्यमाशङ्कनीयम् । यतः पूर्वोक्तविवरणेन स्त्रीधनस्या. (१) सम्बन्धो युक्तो घ.। (२) सा बीजं वा घ.। (३) संसृष्टिनां तु. घ.। धनसम्ब.

दाय विभागप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता । । विभाज्यं तत्स्त्रीणां च भरणमा विधीयते । यदपि 'अपुत्रा योषित. श्चैषाम्' इत्यादिवचनं तत् क्लीवादिस्त्रीविषयमिति व(१क्ष्यते । यत्तु 'द्विजातिधनस्य यज्ञार्थत्वात् स्त्रीणां च यज्ञेऽनधिकाराद्धनग्रहणमयुक्त- मिति, तदसत् । सर्वस्य द्रव्यजातस्य यज्ञार्थत्वे दानहोमाद्यसिद्धेः। अथ यशशब्दस्य धर्मोपलक्षणत्वादानहोमादीनामपि धर्मत्वात्त दर्थत्वमविरुद्धमिति मतम् । एवं तहर्थकाययोर्धनसाध्ययोरसिद्धिरेव स्यात् । तथा सति 'धर्ममर्थ च कामं च यथाशक्ति न हापयेत्, । तथा 'न पूर्वाह्नमध्यन्दिनापराह्नानफलान् कुर्याद्यथाशक्ति धर्मार्थकामे भ्यः । तथा 'न तथैतानि शक्यन्ते संनियन्तुमसेवया, इत्यादियाज्ञ वल्क्यगौतममनुवचनविरोधः । अपि च धनस्य यज्ञार्थत्वे हिरण्यं धार्यमिति हिरण्यधारणस्य क्रत्वर्थतानिराकरणेन पुरुषार्थत्वमुक्त' तत्पत्युद्धृतं स्यात् । किं च यज्ञशब्दस्य धर्मोपलक्षणपरत्वेस्त्रीणामपि पूर्तधर्माधिकाराद्धनग्रहणं युक्ततरम् । यत्तु पारतंत्र्यवचनं 'न स्त्री स्वातन्त्र्यमर्हति' इत्यादि, नदस्तु पारतव्यं, धनस्वीकारे तु को वि. रोधः । कथं तर्हि 'यज्ञार्थ द्रव्यमुत्पन्नम्' इत्यादिवचनम् , उच्यते- 'यज्ञार्थमेवार्जितं यद्धनं तद्यज्ञ एव नियोक्तव्यं पुत्रादिभिरपी'त्येवंपरं तत् । 'यज्ञार्थ लब्धमददद्भासः काकोपि वा भवेत्' इति दोषश्रवणस्य पुत्रादिष्व(२)विशेषात् । यदपि कात्यायनेनोक्तम्-'अदा(३)यिक राजगामि योपिभृत्योर्ध्वदेहिकम् । अपास्य श्रोत्रियद्रव्यं श्रोत्रियेभ्यः स्तदर्पयेत् ॥ इति । अ(३)दायिकं दायादरहितं यद्धनं तद्राजगामि. राज्ञो भवति, योषिभृत्योर्ध्वदेहिकमपास्य, तत्स्त्रीणामशनाच्छादनो. पयुक्तं और्ध्वदेहिकं धनिनः श्राद्धाधुपयुक्तं चापास्य परिहत्य राज. गामि भवतीति सम्बन्धः । अस्यापवा(४)द उत्तरार्धे । 'श्रोत्रियद्रव्यं च योषिभृत्योर्ध्वदेहिकमपास्य श्रोत्रियायोपपादये दिति। एतदप्यवरु- द्धस्त्रीविषयम् । योषिग्रहणात् । नारदवचनं च-'अन्यत्र ब्राह्मणात् तु राजा धर्मपरायणः। तत्स्त्रीणां जीवनं दद्यादेष दायविधिः स्मृतः ॥ इत्यवरुद्धस्त्रीविषयमेव । स्त्रीशब्दग्रहणात् । इह तु पत्नीशव्दादूढायाः संयताया धनग्रहणमविरुद्धम् । तस्माद्विभक्तासंसृष्टिन्यपुत्रे स्वर्याते पत्नी धनं प्रथमं गृह्णातीत्ययमर्थः सिद्धो भवति । विभागस्योक्त. (१) वक्ष्यति घ० (२) दिष्वप्यविशेषात् घ.. (३) आदायकं घ.। (१) ऽपवादः । श्रोत्रिय ख. घ.। कि ६०८ याज्ञवल्क्यस्मृतिः। [ व्यवहाराध्यायः। त्वात्संसृष्टिनां तु वक्ष्यमाणत्वात् । एतेनाल्पधनविषयत्वं "श्रीक(१). रादिभिरुक्तं निरस्तं वेदितव्यम् । तथा ह्यौरसेपुं पुत्रेषु सत्स्वपि जी. वद्विभागे अजीवद्विभागे च पल्याः पुत्रसमांशंग्रहणमुक्तम्-'यदि कुर्यात्समानंशान् पत्न्यः कार्याः समांशिकाः' इति । तथा -'पितुरुर्व विभजतां माताप्यंशंसमं हरेत्' इति च। तथा सति अपुत्रस्य स्वर्यातस्य धनं पत्नी भरणादतिरिक्तं न लभत इति व्यामोहमात्रम् । (२)थ 'पन्यः कार्याः समांशिकाः' इत्यत्र 'माताप्यंशं. समं हरेत्' इत्यत्र च च जीवनोपयुक्तमेव ध(३)नं स्त्री हरतीति मतम् । तदसत् । अंशश. ब्दस्य समशब्दस्य चाऽऽनर्थक्यप्रसङ्गात् । स्यान्मतम् । वहुधने जीव. नोपयुक्तं धनं गृह्णाति, अल्पेतु पुत्रांशसमांशं गृह्णातीति । तच्च न वि. धिवैपस्यप्रसङ्गात् । तथा हि 'पल्यः कार्याः समांशिका 'माताप्यशं लमं हरेत्' इति च बहुधने जीवनमानोपयुक्तं वाक्यान्तरमपेक्ष्य प्र. तिपादयति, अल्पधने तु पुत्रांशसममंशं प्रतिपादयतीति । य()या चातुर्मास्येषु'द्व(५)योः प्रणयन्ति' इत्यत्र पूर्वपक्षिणा सौमि- कप्रणयनातिदेशे हेतुत्वेन प्राप्तया उत्तरवेद्या 'न वैश्वदेवे उत्तरवेदिमुप. किरन्ति न शुनासीरीये' इत्युत्तरवेदिप्रतिपेधे दर्शिते राधान्तैकदेशिना 'न सौमिकप्रणयनातिदेशप्राप्ताया उत्तरवेद्याः प्रथमोत्तमयोः पर्वणो. रयं प्रतिपेधः किन्तु-उपात्र(६)वपन्तीति प्राकरणिकेन वचनेन प्राप्ताया उत्तरवेद्या प्रतिषेधोऽयमित्यभिहिते पुनः पूर्वपक्षिणा-उपान वपन्ती. ति प्रथमोत्तमयोः पर्वणोः प्रतिपेधमपेक्ष्य पाक्षिकीमुत्तरवेर्दि प्रा(७). पयति, मध्यमोस्तु निरपेक्षमेव नित्यवदुत्तरवेदि प्रापयतीति विधि. वैपम्यं दर्शितम् । राद्धान्तेऽपि विधिवैपम्यभयात्प्रथमोत्तमयोः पर्व णोरुत्तरवेदिप्रतिपेधो नित्यानुवादो द्वयोः प्रणयन्तीत्याद्यर्थवादपर्या- लोचनया-उपात्र वपन्तीति मध्यमयोरेववरुणप्रघाससाकमेधपर्वणो. रुत्तरवेदि विधत्त इति दर्शितम् । यदपि मतम् (मनुः ९१९८५).-'पिताहरदपुत्रस्य रिक्थं भ्रातर एव वा' इति मनुस्मरणात् , तथा-'स्वर्यातस्य ह्यपुत्रस्य भ्रातृगामि (१) श्रीकरादिभिः घ. । (२) तथा पत्यः घ.। (३) स्त्रीधनामिति मतं घ. । (४) तथा ख. । (५) द्वयोर्वरुणप्रघाससाकमेधपर्वणोः । (६) तूपात ख. तूपात्रःघ.. तूपात्रमित्येकस्मिन्प्राचीनपुस्तके.। (७) प्रतिपादयति. ग. ध..

दायविभागप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता । ६०९ लभत बहुधने , . द्रव्यं तदभावे पितरौ हरया(१)तां ज्येष्ठा वा पत्नी' इति शङ्खस्मर- णाच्च अ(२)पुत्रस्य धनं भ्रातृगामीति प्राप्तं, 'भरणं चास्य कुर्वीरन्स्त्रीणामाजीवनक्षयात' । इत्यादिवचनाच्च भरणोपयुक्तं धनं पत्नी इत्यपि स्थितम् ।। एवं स्थिते अपुत्र स्वर्याते भरणोपयुक्तं पत्नी गृह्णाति शेषं च भ्रातरः । यदा तु पत्नीभरणमात्रोपयुक्तमेव द्रव्यमस्ति ततो न्यून वा तदा किं पन्येव गृह्णात्युत भ्रातरोऽपीति विरोधेपूर्ववलीयस्त्वज्ञापनार्थ पत्नी दुहितर इत्यारब्धमिति । तदप्यत्र भगवानाचार्यों न मृष्यति । यतः (मनुः ९।१८५)-'पिता हरेदपुत्रस्य रिक्थं भ्रातर एव वा' इति विकल्पस्म. (३)रणान्नेदं क्रमपरं वचनमपि तु धनग्रहणेऽधिका(४)रप्रदर्शनमा- अपरम् । तव्यासत्यपि पत्न्यादिगणे घटत. इति व्याचचक्षे । शहव. चनमपि संसृ(५)प्टभ्रातृविषयामिति । अपि चाल्पविषयत्वमस्माद्वच. नात्प्रकाराद्वा नावगम्यते । 'धनभागुत्तरोत्तरः' इत्यस्य च पत्नी दुहि. तर' इति विषयद्वये वाक्यान्तरमपेक्ष्याल्पधनविषयत्वस् , पिनादिपु तु धनमात्रविपयत्वमिति पूर्वोक्तं विधिवैषम्यं तदवस्थमेवेति यतिक चिदेतत् । यत्तु हारीतवचनम्-'विधवा यौवनस्था चेनारी भवति कर्कशा। आयुपः क्षपणार्थ तु दातव्यं जीवनं तदा ॥ इति, तद. पि शङ्कितव्यभिचारायाः सकलधनग्रहणनिषेधपरम् । अस्मादेव व(६)चनादनाशङ्कितव्यभिचारायाः सकलधनग्रहणं गम्यते । एतदे. वाऽभिप्रेत्योक्तं शङ्खन्न 'ज्येष्ठा वा पत्नी' इति । ज्येष्टा गुणज्येष्ठा अना. शङ्कितव्यभिचारा, सा सकलं धनं गृहीत्वान्यां कर्कशामपि मातृव. पालयतीति सर्वमनवद्यम् । तस्मादपुत्रस्य स्वर्यातस्य. वि. भक्तस्यासंसृष्टिनो धनं परिणीता स्त्री संयता सकलमेव गृह्णातीति स्थितम् । तभावे दुहितरः । दुहितर इति वहुवचनं समानजातीयानाम- समानजातीयानां च समविषमांशप्राप्त्यर्थम् । तथा च कात्यायन:- 'पत्नी भर्तुर्धनहरी या स्यादव्यभिचारिणी । तदभावे तु दुहिता यद्य. नूढा भवेत्तदा ॥ इति । वृहस्पतिरपि-'भर्तुर्धनहरी पत्नी तां विना दुहिना स्मृता । अङ्गादगात्सम्भवति पुत्रवद् दुहिता नृणाम् ॥ त. (१) हरेतां घ.। (२) अपुरधनं घ.। (३) श्रवणात घ.। (४) धिकारमावनदर्शनवरं घ.। (५) संसृष्टविषयं घ.। . (६) वचनादशङ्कित ख. । ७६॥

६१० याज्ञवल्क्यस्मृतिः। [ व्यवहाराध्यायः । 7 - स्मारिपतृधनं त्वन्यः कथं गृह्णीत मानवः ॥ इति । तत्र चोढानूढास. मवायेऽनूढेव गृह्णाति । तदभावे तु दुहिता यद्यनूढा भवेत्तदा' इति विशेपस्मरणात् । तथा प्रतिष्ठिताप्रतिष्ठितानां समवाये (१)अप्रति. प्ठिता । 'स्त्री(२)धनं दुहितॄणामप्रत्तानामप्रतिष्ठितानां च' इति गौत. मवचनस्य पितृधनेऽपि समानत्वात् । न चैतत्पुत्रिकाविषयमिति मन्तव्यम् । तत्समः पुत्रिकासुत इति पुत्रिकायास्तत्सुतस्य चौरस- समत्वेन पुत्रकारणेऽभिधानात्। चशब्दाद् दुहित्रभावे दौहित्रोधनभा क् । यथाह विष्णुः-'अपुत्रपौत्रसन्ताने दौहित्रा धनमाप्नुयुः । पूर्वेषां तु स्वधाकारेपौत्रा दौहित्रिका मताः ॥ इति ।मनुरपि [९।१३६]-'अ- (३)कृता वा कृता वापि यं विन्देत्सदृशात्सुतम् । पौत्री मातामहस्तेन दद्यात्पिण्डं हरेद्धनम्। ॥ इति । तदभावे पि(४)तरौ मातापितरौ धनभाजौ । यद्यपि युगपदधि- करणवचनतायां द्वन्द्वस्मरणात् तदपवादत्वादेकशेषस्य धनग्रहणे पित्रोः क्रमो न प्रतीयते तथापि विग्रहवाक्ये मातृशब्दस्य पूर्वनिपा. तादेकशेषाभावपक्षे च मातापितराविति मातृशब्दस्य पूर्व श्रवणात् पाठक्रमादेवार्थक्रमावगमाद्धनसम्बन्धेऽपि क्रमापेक्षायां प्रतीतकमा. नुरोधेनैव प्रथमं माता धनभाक् तदभावे पितेति गम्यते । किञ्च पिता पुत्रान्तरेष्वपिसाधारणोमातातुन साधारणीति प्रत्यासत्यतिशयात् 'अनन्तरः सपिण्डाद्यस्तस्य तस्य धनं भवेत्' इति वचनान्मातुरेव प्रथमं धनत्रहणं युक्तम् । न च सपिण्डष्वेव प्रत्यासत्तिर्नियामिका अ. (९) अप्रतिष्ठित्ता अनपत्या निर्धना वा । (२) स्त्रीपदं पितुरप्युपलक्षकमिति संप्रदायविदः । (३) अकृतति । अकृता वा कृता वेति पुत्रिकाया एव द्वैविध्य, तत्र 'यदपत्यं भवेदस्यां तन्मम स्यात्स्वधाकरम्' इत्यभिधाय कन्यादानकाले वरानुमत्या या क्रियते सर कृता, अभिसंधिमात्रकृदा वाग्व्यवहारेण न कृता अकृता । इत्यादि कुल्लूकः, अक्षता पा क्षता वापि ग. । (४) व्यवहारमयूखे-दौहित्राभावे पिता तदभावे माता। तथा च कात्यायनः 'अपुत्रस्यार्यकुलजा पत्नी दुहितरोऽपि वा । तदभावे पिता माता भ्राता पुत्राः प्रकीर्तिताः' ॥ विष्णुश्च–'अपुत्रधनं पत्यभिगामि, तदभावे दुहितृगामि, तदभावे दौहित्रगामि, तदभावे पितृगामि, तदभावे मातृगामि, तदभावे भ्रातृगामि, तदभावे भ्रातृपुत्रगामि, तदभावे सकुल्यगामि' इति । यत्तु विज्ञानेश्वर:-द्वन्द्वा- पवादके पितरावित्येकशेषे क्रमाप्रतीतावपि तदर्थवोधके विग्रहवाक्ये मातृशब्दस्य पूर्वनिपातात् अपवायद्वन्द्वात्क्रमानुसारात् पितुः पुत्रान्तरसाधारण्यात मातुस्त्वसाधारण्याचादी मातुस्तदभावे पितुर्धनग्रहणमूचे तदेतद्वचाविरोधादपास्तम् । विग्रहवाक्ये मातृशब्दस्य पूर्वनिपात एकशेषस्य द्वन्द्ववैकल्पिकत्वेन तदपवादत्वे साधारण्यासाधारण्ययोः क्रमनियामकत्वे मानाभावाच्च ।।

दायविभागप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता । ६११ पि तु समानोदकादिष्वप्यविशेषेण धनग्रहणे प्राप्ते प्रत्यासत्तिरेव नि. यामिकेत्यस्मादेव वचनादवगम्यत इति। मातापित्रोर्मातुरेवं प्रत्या. सत्यतिशयाद्धनग्रहणं युक्ततरम् । तदभावे पिता धनभाक् । पित्रभावे भ्रा[२]तरो धनभाजः । तथा च मनुः [१९।८५]-'पि- ता हरेदपुत्रस्य रिक्थं भ्रातर एव वा' इति । यत्पुनर्धारेश्वरेणोक्तम् [९:२१७] -'अनपत्यस्य पुत्रस्य माता दायमवाप्नुयात् । मातर्यपि च वृत्तायां पितुर्माता हरेद्धनम् ॥ इति मनुवचनाजीवत्यपि पित. रि मातरि वृत्तायां पितुर्माता पितामही धनं हरेन्न पिता । यतः पि. तृगृहीतं धनं विजातीयेष्वपि पुत्रेषु गच्छति, पितामहीगृहीतं तु स. जातीयवेव गच्छतीति पितामह्येव गृह्णातीति । तदप्याचार्यों नानुमा न्यते। विजातीयपुत्राणामपिधनग्रहणस्थोक्तत्वात् 'चतुस्त्रिोकभागाः स्यु' ( मनुः ९।१८९) इत्यादिनेति । यत्पुनः- अहार्य ब्राह्मण- द्रव्यं राज्ञा नित्यमिति स्थितिः' इति मनुस्मरणं तन्नृपाभिप्रायं न तु पुगभिप्रायम् । भ्रातृष्व(२)पि सोदराः प्रमथं गृह्णीयुः भिन्नोदराणां मात्रा विप्रकर्षात् । 'अनन्तरः सपिण्डाद्यस्तस्य तस्य धनं भवेत्। । इति स्मरणात् । सोदराणामभावे भिन्नोदरा धनभाजः । भ्रातॄणामप्यभावे तत्पु. त्राः पितृक्रमेण धनभाजः । भ्रातृभ्रातृपुत्रसमवाये भ्रातृपुत्राणामनधि. कारः । भ्रात्रभावे भ्रातृपुत्राणामधिकारवचनात् । यदा त्वपुत्रे भ्रात. रि स्वर्याते तद्भातॄणामविशेषेण धनसम्बन्धे जाते भ्रातृधनविभागा. प्रागेव यदि कश्चिद्भाता मृतस्तदा तत्पुत्राणां पितृतोऽधिकार प्राप्ते तेषां भ्रातॄणां च विभज्य धनग्रहणे पितृतो भागकल्पनेति युक्तम् । भ्रातृपुत्राणामप्यभावे गोत्रजा धनभाजः। गोत्रजाः पितामही सपिण्डाः समानोदकाश्च । तत्र पितामही प्रथमं धनभाक् । ( मनुः ९४२१७)-'मातर्यपि च वृत्तायां पितुर्माता धंनं हरेत् ' इति मात्रन- न्तरं पितामह्या धनग्रहणे प्राप्त पित्रादीनां भ्रातृसुतपर्यन्तानां व द्धक्रमत्वेन मध्येऽनुप्रवेशाभावात् 'पितुर्माता धनं हरेत्' इत्यस्य (२) अत्र केचन-सोदराभावे भिन्नोदरास्तदभावे सोदरसुता इत्याहुस्तन्न । (२) भ्रातृपदस्य सोदरे शक्त्या भिन्नोदरे च गोण्या वृत्तिद्वयविरोधात् । केचित्तु भ्रातर इत्यत्र 'भ्रातृपुत्रौ स्वसृदुाहतृभ्याम् ' इत्यनुशासनात् भ्रातरश्च स्वसारश्च भ्रातर इति विरूपकैकशेषेण भ्रा. त्रभावे भागन्य इत्याहुस्तन्न । विरूपैकशेषे मानाभावात् ।

६१२ याज्ञवल्क्यस्मृतिः । [व्यवहाराध्यायः । । वचनस्य . धनग्रहणाधिकारप्राप्तिमात्रपरत्वादुत्कर्षे' तत्सुतानन्तरं पितामाही गृह्णातीत्यविरोधः । पितामह्याश्चाभावे समानगोत्रजाः (१)सपिण्डाः पितामहादयो धनभाजः। भिन्नगोत्राणां सपिण्डानां वन्धुशब्देन ग्रहणात् । तत्र च पितृसन्तानाभावे पितामही पितामहः पितृव्यास्तत्पुत्राश्च क्रमेण धनभाजः। पितामहसन्तानाभावे प्रपितामही प्रपितामहस्तत्पुत्रास्तत्सूनवश्चेत्येवमासप्तमात्समानगोत्राणां सपिण्डा: नां धनग्रहणं वेदितव्यम् । तेपामभावे समानोदकानां धनसम्बन्धः । ते च सपिण्डानामुपरि सप्त वेदितव्याः । जन्मनामज्ञानावधिका वा । यथाह बृहन्मनुः–'सपिण्डता तु पुरुपे सप्तमे विनिवर्तते । समानोदकभावस्तु निवर्तेताचतुर्दशात् ॥ जन्मनाम्नोः स्मृतेरके त. त्परं गोत्रमुच्यते' ॥ इति । गोत्रजाभाचे वन्धवो धनभाजः । वन्धवश्च विविधाः आत्मव. न्धवः पितृ(२)वन्धवो मातृवन्धयश्चेति । यथोक्तम्-'आत्मपितृप्वसुः पुत्रा आत्ममातृष्वसुः सुताः । आत्ममातुलपुत्राश्च विज्ञेया आत्म. बान्धवाः ॥ पितुः पितृष्वसुः पुत्राः पितुर्मातृवसुः सुताः । पितु. तुलपुत्राश्च विज्ञेया पितृवान्धवाः ॥ मातुः पितृप्वसुः पुत्रा मातुर्मातृण्वसुः सुताः । मातुर्मातुलपुत्राश्च विज्ञेयाः मातृवान्धवाः'। इति । तत्र चान्तरङ्गत्वात्प्रथममात्मवन्धवो धनभाजस्तदभावे पि. तृवन्धवस्तदभावे मातृवन्धव इति क्रमो वेदि(३)तव्यः । बन्धूनाम (१) तदभावे भगिनी 'अनन्तरः सपिण्डायस्तस्य तस्य धनं भवेत् ' इति मनूक्तः। 'बहयो ज्ञातयो यत्र सकुल्या बान्धवास्तथा । यस्त्वासनतरस्तेषां सोनपत्यधनं हरेत् ॥ इति बृहस्प- त्युक्तेः । तस्या अपि भ्रातृगोत्रोत्पन्नत्वेन गोत्रजत्वाविशेषाच । सगोत्रता परं नास्ति न च सात्र धनग्रहणप्रयोजकत्वनाका इति व्य० मयूखः । (२) मनुस्मृतौ 'तदभावे सकुल्यः स्यादाचार्यः शिष्य एव वा' इत्यत्र सकुल्यशब्देन सगोत्र- समानोदकानां मातुलादीनां बन्धुत्रयस्य ग्रहणम् । योगीश्वरवचनेऽपि बन्धुपदेन मातुललक्षण- मन्यथा मातुलादीनामग्रहणमेव प्रसज्येतेति तत्पुत्राणां धनाधिकारस्ततः प्रत्यासन्नानां तेषां स नेति महदनौचित्यमापयेत । (६) ननु पन्यादीनां सर्वेषां मृतनिरूपितानामेव धनभावत्वं बान्धवानामपि तथैवास्तु अतः कथं पितुर्मातुश्च वान्धवानां धनसम्बन्धः, 'पितुः पितृष्वसुः पुत्राः' इत्यादि तु संज्ञासंझिसम्बन्धमा- पार्थ न धनसम्बन्धार्थमिति चेदुच्यते । विनाप्येतद्वचनं पितृमातुलपितृन्यादिष्विव पितृमातृवा- न्धवेष्वपि योगेनैव तच्छब्दप्रवृत्तिसम्भवे संज्ञासंजिसम्बन्धवोधनानर्थक्यापत्तेः । तेन ब-धनुद्दिश्य धनसम्बन्धविधौ पितृमातृबन्धुपापणेनैव वचोर्थवना । बन्धद्देशेनाशौचादिविधावप्येवमेवेति दिक् ।

दायविभागप्रकरणम् । ] वीरमित्रोदयामिताक्षरासहिता । ६१३ भावे आचार्यः तदभावे शिष्यः । पुत्राभावे यः प्रत्यासन्नः सपि- ण्डस्तदभावे आचार्यः। आचार्याभावेऽन्तेवासीत्यापस्तम्बस्मरणात् । शिष्याभावे सब्रह्मचारी धनभाक् । येन सहैकस्मादाचार्यादुप- नयनाध्ययनतदर्थज्ञानप्राप्तिः स सब्रह्मचारी । तदभावे ब्राह्मणद्रव्यं यः कश्चित् श्रोत्रियो गृह्णीयात् । श्रोत्रिया ब्राह्मणस्यानपत्यस्य रि. क्थं भजेरन्' इति गौतमस्मरणात् । तदभावे ब्राह्मणमात्रम् । यथाह मनुः (९।१८८)-'सर्वेषामप्यभावे तु ब्राह्मणा रिक्थभागिनः । त्रै- विद्याः शुचयो दान्तास्तथा धर्मो न हीयते ॥ इति । न कदाचिदपि ब्राह्मणद्रव्यं राजा गृह्णीयात (९।१८९)-'अहार्य ब्राह्मणद्रव्यं राज्ञा नित्यमिति स्थितिः' इति मनुवचनात् । नारदेनाप्युक्तम्-'ब्राह्मणा- र्धस्य तन्नाशे दायादश्चेन्न कश्चन। ब्राह्मणायैव दातव्यमेनस्वी स्यान्नुः पोऽन्यथा' ॥ इति । क्षत्रियादिधनं सब्रह्मचारिपर्यन्तानामभावे राजा हरेत् , न ब्राह्मणः । यथाह मनुः ( ९।६८९ )-'इतरेषां तु वर्णानां सर्वाभावे हरेन्नृपः' । (१)इति ॥१३५-१३६ ॥ (१) वीरमित्रोदये तु---अत्राय मृतपुंधनाधिकारक्रमः । तत्र प्रथमं पुत्रः तदभावे पौत्रः तद- भावे प्रपौत्रः । मृतपितृकपोत्रमृतपितृपिनामहकपत्रियोस्तु पुत्रेण सह युगपदधिकारः । प्रपौत्रपर्य- ताभावे पनी । सा च प्राप्तभर्तृदाया भर्तृकुलं तदभावे पितृकुलं वा समाश्रिता सती शरीररक्षार्थ भदायं भुञ्जीत । तथा भर्तुरुपकारार्थ ययाकथंचिदानादिकमपि कुर्वीत । न तु स्रीधनवत्स्वच्छन्द विनियुञ्जीत । तदभाव दुहिता । तत्र प्रथम कुमारी तदभाव वाग्दत्ता तदभावे चौढा । सा च पुत्रवती संभावितपुत्रा च द्वे युगपदेवाधिकारिण्वो 1. वन्ध्या विधवा च पुत्रहीना. नाधिकारिणी । उढाया अभावे दौहित्रः । नदभाव पिता तदभावे भ्राता । तत्रापि प्रथम सोदरः तदभावे वैमात्रेयः । मृतम्य भ्रातृसंमृष्टत्वे तु सोदरमात्रविषये प्रथमं संसृष्टसोदर एवाधिकारी तदभारे चासमृष्टसोदरः । एवं वैमात्रेयमात्रविषये प्रथम संसप्टेवमात्रेयः तदभावे चाससृष्टवैमात्रेयः । यदा तु संसृष्टः तदा ता- वुभौ तुल्यवदधिकारिणौ । भ्रातृणामभाव भ्रातुः पुत्रः । तत्रापि प्रथमं सोदरभ्रातृपुत्रः तदभावे वै- मात्रेयभ्रातृपुत्रः । संसर्गे तु सोदरभ्रातृपुत्र मात्रविषये प्रथम संमृष्टसोदरभ्रातृपुत्रः तदभावे. चासंसृष्ट- सोदरभ्रातृपुत्रः । वैमात्रयभ्रातृपुत्रमात्रविषये प्रथम संसृष्टवैमात्रेयभ्रातृपुत्रः । तदभाव चासंमृष्टवैमात्रे- यभ्रातृपुत्रः । यदा तु सोदरभ्रातृपुत्रोऽसंसृष्टो वैमात्रेयभ्रातृपुत्रश्च संमृष्टः तदा द्वौ मातृवत्तुल्याधिकारि- गौ। भ्रातृपुत्राभावे तु भ्रातृपौत्रः । तत्रापि भ्रातुः सोदरासोदरक्रमः संसर्गासंसर्गक्रमश्च बोध्यः । तद- भावे पितृदौहित्रः । स च सोदरभगिनीपुत्रः तदभावे पैमात्रेयभागनीपुत्रश्च । तदभाव पितुः सहो- दरः । तदभावे , पितुर्वैमात्रेयः । तदभावे पितृसादरपुत्रपितृवैमात्रेयपुत्रपितृसोदरपौत्रपितृवैमात्रेयपी- प्राणां क्रमेणाधिकारः । तदभावे पितामहदौहित्रः तत्रापि पितृसोदरभागिनीपुत्रः वैमात्रेयभागनीपुत्रश्च । घक्ष्यमाणप्रपितामहदोहित्राधिकारप्येवम् । तदभावे पितामहः । तदभावे पितामही । तदभावे पितामहसोदरभ्रातृवैमात्रेयभ्रातृतत्पुत्रपौत्रप्रपितामहदौहित्राः क्रमेणाधिकारिणः । एतावत्पर्यन्तानां ७७ याज्ञवल्क्यस्मृतिः। [ व्यवहाराध्यायः । N ( वी० मि० ) गृहस्थस्य धनग्राहिणः कथायित्वा वानप्रस्थादे. स्तानाह- वानप्रस्थ यतिब्रह्मचारिणां रिक्थभगिनः । क्रमेणाचार्यसच्छिष्यधर्मभ्रात्रेकतीर्थिनः ॥ १३७ ।। अर्थस्य निचयं कुर्यात् कृतमाश्वयुजे त्यजेत् । इति वचनाद्वानप्रस्थस्य यद्रिक्थं, योगसंभारभेदांश्च गृह्णीयात्पादुके तथा । इति वचनाद्यद्यतेः रिक्थं, आच्छादनार्थ नैष्ठिकब्रह्मचारिणो यत् क्लादि रिक्थं तद्रागिन आचार्यादयः क्रमेण पूर्वाभाव पर इति क्रमेण भवन्ति । आचार्यो गुरुः, सच्छिप्य आत्मश्रवणधारणादिक्षमः शि. ध्या, एकतीर्थी एकस्माहुरोहीतविद्यः स एव च धर्माचरणे धाता पितृतुल्यस्य गुरोरेकत्वात् ।। १३७ ॥ ( मिता० ) पुत्राः पौत्राश्च दायं गृह्णन्ति तदभावे पत्न्यादय इ. त्युक्तं, इदानीं तदुभयापवादमाह- वानप्रस्थेति । वानप्रस्थस्य यतेब्रह्मचारिणश्च क्रमेण प्रतिलोम- क्रमेणाचार्यः सच्छिष्यो धर्मभानेकतीर्थो च रिक्थस्य धनस्य भा. गिनः । ब्रह्मचारी नैष्ठिकः उपकुर्वाणस्य तु धनं मात्रादय एव गृह्य- न्ति । नैष्ठिकस्य तु धनं तदपवादत्वेनाचार्यों गृह्णातीत्युच्यते । यतेस्तु धनं सच्छिष्यो गृह्णाति । सच्छिष्यः पुनरध्यात्मशास्त्रश्र- वणधारणतदर्थानुष्ठानक्षमः दुर्वृत्तस्याचार्यादेरपि भागान हत्वात् । वानप्रस्थस्य धनं धर्मभ्राकतीर्थी गृह्णाति । धर्मभ्रा. धनिभोग्यपिण्डदातृणा त्वभावे धनिदेयापिण्डभोक्तृणा पातुलादीनामधिकारस्तदभाव धनिमातृ- ऽवसीयस्याधिकारः। तदभावे मातुलपौत्राणां क्रमेणाधिकारः । तदभावे चाधस्तनसकुल्याना ध- निभोग्यलेपदातॄणा प्रतिप्रणप्तृप्रभृतिपुरुषत्रयाणा क्रमणाधिकार । तदभावे पुनरूतनसकुल्याणा धनिदेयलेपभोक्तृणा वृद्धप्रपितामहादिसन्ततीनामासत्तिक्रमेणाधिकारः । तदभावे समानोदका- नामधिकार । तेषामभावे चाचार्यस्य तदभावे शिष्यस्य तदभावे सहवेदाध्यायिब्रह्मचारिणोऽधि- कारः । तदभावे चैकग्रामस्थसगोत्रसमानप्रवरयोः क्रमेणाधिकार. ! उक्तपर्यन्ताना सर्वेषा संबन्धि- नामभावे ब्राह्मणधनवर्ज राजा गृणीयात् । ब्राह्मणधन तु त्रैविद्यादिगुणयुक्ता ब्राह्मणा गृह्णीयु । एवं वानप्रस्थधन भ्रातृत्वेनानुमतोऽपरो वानप्रस्थं एकतीर्थसेवी गृणीयत् । तथा यत्तिधनं स- च्छिध्यः । नैष्ठिकब्रह्मचारिणो धनमाचार्यः । उपकुर्वाणस्य तु ब्रह्मचारिणो धनं पित्रादिPणीया- दिति ज्ञेयम् । - 1 दायविभागप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता । ६१५ तां प्रतिपन्नो भ्राता, एकतीर्थी एकाश्रमी, धर्मभ्राता चासावेंकती. र्थी च धर्मभ्राकतीर्थी । एतेषामाचार्यादीनामभावे पुत्रादिषु स- स्वप्येकतीर्येव गृह्णाति । ननु 'अनंशास्त्वाश्रमान्तरगताः' इति वसिष्ठस्मरणादाश्रमान्तरगतानां रिक्थसम्बन्ध एव नास्ति कुत. स्तद्विभागः । न च नैष्टिकस्य स्वार्जितधनसम्ब(१)न्धो युक्तः । प्रतिग्रहादिनिषेधात् । 'अनिचयो भिक्षुः' इति गौतमस्मरणात् भि. क्षोरपि न स्वार्जि(२)तधनसम्बन्धसम्भवः । उच्यते-वानप्रस्थस्य तावत् 'अहो मासस्य षण्णां वा तथा संवत्सरस्य वा । अर्थस्य निचयं कुर्यात्कृतमाश्वयुजि त्यजेत् ॥ इति वचनाद्धनसम्बन्धोऽस्त्ये. व । यतेरपि-'कौपीनाच्छादनार्थ (३)वा वासोऽपि विभृयाश्च सः। योगसम्भारभेदांश्च गृह्णीयात्पादुके तथा' ॥ इत्यादिवचनाद्वस्त्र. पुस्तकसम्बन्धोऽस्त्येव । नैष्ठिकस्यापि शरीरयात्रार्थ वस्त्रादिसम्ब. न्धोऽस्त्येवेति तद्विभागकथनं युक्तमेव ।। १३७ ।। ( वी० मि० ) अपुत्रस्य स्वर्यातस्य पत्न्यादिर्धनभागित्युक्तम- पवदति-- संसृष्टिनस्तु ससृष्टी सोदरस्य तु सोदरः ॥ दद्यादपहरेच्चांऽशं जातस्य च मृतस्य च ।। १३८ ॥. अन्योदर्यस्तु मंसृष्टी नान्योदर्यो धनं हरेत ।। असंसृष्टयपि (४)चाऽऽदद्यात् संसृष्टो नान्यमातृजः ॥१३९।। संसृष्टी-- विभक्तो यः पुनः पित्रां भ्रात्रा चैकत्र संस्थितः । पितृव्येणाऽथवा प्रीत्या स तत्संसृष्ट उच्यते ।। इति वृहस्पतिनोक्तः संसृष्टधनवान् पुत्रहीनस्याऽपरस्य संसृष्टि- नो मृतस्यांऽशमपहेरत् गृह्णीयात् न तु संसृष्टिनः पत्न्यादिः । जा तस्य संसृष्टिमरणकाले गर्भस्थस्य पश्चादुत्पन्नस्य तु 'संसृष्टि- पुत्रस्य तत्पितृसम्बन्धिनमंशं दद्यात् । यस्य तु सोदरो वैमात्रयश्च संसृष्टी तस्य सोदर एव संसृष्टी धनं हरेन्नान्योदर्यः संसृष्टी । अत्र -- - - (१) सम्बन्धः प्रतिग्रहादिः घ.। (३) हि वासोऽपि बिभृयालथा क, (२) धनसम्भवः घ.। (४) वा-इति मु० पु० पाठः । ।

६१६ याज्ञवल्क्यस्मृतिः। [ व्यवहाराध्यायः। - हेतुरसंसृष्टयपि संसृष्टसोदर एव पत्नीदुहितहीनस्य धनं गृह्णाति, न तु तत्सत्वेऽन्यमातृज इति । तथा च संसृष्टत्वाविशेषेऽपि सम्ब- न्धसान्निध्यकृतोऽयं विशेष इति भावः । अपिचेत्यननाऽविभक्तस्य भ्रातुः सोदरस्य सत्वे पत्न्यादिर्धनं नाऽऽदद्यादिति प्रागलिखित. वसिष्ठवचनसिद्धमपवादं समुच्चिनोति । आयेन तुशब्देन पत्न्यादेर्ध- नहारित्वं, द्वितीयेन पितृव्यादिसंसृष्टिनो धनहारित्वं, तृतीयेना. ऽविभक्तवैमात्रेयस्य धनहारित्वाभावं व्यवच्छिनत्ति । चकारैः प. त्यादिसत्त्वेऽपि संसृष्टिनो वैमात्रयेसंसृष्टिसत्त्वे सोदरसंसृष्टिन एव, संवृष्टिसत्त्वेऽपि संसर्गोत्तरजातसंसृष्टिपुत्रस्य ऋणप्रदानं समु. चिनोति ॥ १३८-१३९ ।। (मिता० ) इदानीं स्वर्यातस्य पुत्रस्य पत्न्यादयो धनभाज इत्य- स्यापवादमाह- संसृष्टिन इति । विभक्तं धनं पुनर्मिश्रीकृतं संसृष्टं तदस्यास्ती. ति संसृष्टी । संसृष्टत्वं च न येन केनापि किं तु पित्रा भ्राता पितृ. व्येण वा । यथाह बृहस्पतिः-'विभ(१)क्तो यः पुनः पित्रा भ्रात्रा वैकत्र संस्थितः। पितृव्येणाथवा प्रीत्या स तत्संसृष्ट उच्यते ॥ इति । तस्य संसृष्टिनो मृतस्यांशं विभागं विभागकाले अविज्ञातग. र्भायां भार्यायां पश्चादुत्पन्नस्य पुत्रस्य संसृष्टी दद्यात् । पुत्राभावे संसृष्टयेवापहरेद् गृह्णीयान्न पत्न्यादिः ।। (मिता० ) संसृष्टिनस्तु संसृष्टीत्यस्यापवादमाह- सोदरस्येति । संसृष्टिनः संसृष्टीत्यनुवर्तते । अतश्च सोदरस्य संस(२)ष्टिनो मृतस्यांशं सोदरः संसृष्टी संसृष्टानुजातस्य सुतस्य दद्यात् । तदभावे (३)अपहरेदिति पूर्ववत् सम्बन्धः । एवं च सोदरा. सोदरसंसर्गे सोदरसंसृष्टिनो धनं सोदर एव संसृष्टी गृह्णाति न भिन्नोदरः संसृष्टयपीति पूर्वोक्तस्यापवादः ॥ १३८ ॥ (१) अत्र वाक्ये पितृभ्रातृपितृव्यैरेव सह संमूटता नान्यन । वचनेऽनुपादानादिति मिताक्षरा- दिपु विभागकर्तृसामानाधिकरण्येनेव सेति युक्तम् । पित्रादिपदानि तु विभागकर्तृमात्रोपलक्ष- काणि 'अर्धमन्तर्वेदि मिनोत्यंध वहिर्वेदी' तिवत् । अन्यथा वाक्यभेदात् । तेन पनीपितामहभ्रातृ- पौत्रपितृव्यपुत्रादिभिरपि सह संसृटता भवति । विभक्तो य एकत्र स्थित: स संसट इति सामाना- धिकरण्याविभक्तधात्रोः पुत्रादीनां न संसर्गः । विद्यमानं भावि वा धनमावयोः पनविभागावधि सा- धारणमित्याकारिका बुद्धिरिच्छा वा संसर्गः । व्य. मयूखः । (२) संसृटिनो धनं घ.। (६) दिति सम्बन्धः घ.। । ।

दायविभागप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता । (मिता ) इदानीं संसृष्टिन्यपुत्रे स्वर्याते संसृष्टिनो भि(१)न्नो- दरस्य सोदरस्य चासंसृष्टिनः सद्भावे कस्य धनग्रहणमिति विव- क्षायां द्वयोर्विभज्य ग्रहणे कारणमाह- अन्योदर्य इति । अन्योदर्यः सापत्नो भ्राता संसृष्टी धनं हरेत् न पुनरन्योदर्यो धनं हरेदसंसृष्टी। अनेनाऽन्वयव्यतिरेकाभ्यामन्योद. र्यस्य संसृष्टित्वं धनग्रहणे (२)कारणमुक्तं भवति । असंसृष्टीत्येतदु: त्तरेणापि सम्बध्यते । अतश्चासंस्कृष्टयपि संसृष्टिनो धनमाददीत । कोऽसावित्यत आह-संसृष्ट इति । संसृष्टः एकोदरसंसृष्टः सोदर इति यावत् । अनेनासंसृष्टस्यापि सोदरस्य धनग्रहणे सोदरत्वं का. रणमुक्तं, संस्कृष्ट इत्युत्तरेणापि सम्बध्यते । तत्र च संसृष्टः संसृष्टी- त्यर्थः । नान्यमातृजः । अत्रैवशब्दाध्याहारेण व्याख्यानं कार्यम् , संसृष्ट्यप्यन्यमातृज एव संसृष्टिनो धनं नाददीलेति । एवं चासंस. ट्यपि वाऽऽदद्यादित्यपिशब्दश्रवणात् संसृष्टो नान्यमातृज एवे- त्यवधारणनिषे(३)धाच्चासंसृष्टसोदरस्य संसृ(४)ष्टभिन्नोदरस्य च विभज्य ग्रहणं कर्तव्यामित्युक्तं भवति । द्वयोरपि धनग्रहणकारणस्यै- कैकस्य सद्भावात् । एतदेव स्पष्टीकृतं मनुना ( ९।२१० )-'विभ- (५)क्ताः सहजीवन्तो विभजेरन् पुर्नयदि' इति संसृष्टिविभागं प्रक्रम्य (९।२११।२१२)-'येषां ज्येष्ठः कनिष्ठो वा हीयेतांशप्रदानतः । नि- येतान्यतरो वापि तस्य भागो न लुप्यते ॥ सोदर्या विभजेयुस्तं स. मेत्य सहिताः समम् । भ्रातरो ये च संसृष्टा भगिन्यश्च सनाभयः' ।। इति वदता । येषां भातृणां मध्ये ज्येष्ठः कनिष्ठो वा मध्यमो वांश प्रदानतोऽशप्रदाने सार्वविभक्तिकस्तसिः, विभागकाले इति या- वत् । हीयेत स्वांशात् भ्रश्येत आश्रमान्तरपरिग्रहेण ब्रह्महत्यादिना वा म्रियेत वा तस्य भागो न लुप्यते । अतः पृथगुद्धरणीयो न, संस प्टिन एव गृह्णीयुरित्यर्थः । तस्योद्धृतस्य विनियोगमाह-सोदर्या विभजेयुस्तमिति । तमुद्धृतं भागं सोदर्याः सहोदरा असंसृष्टा अपि समेत्य देशान्तरगता अपि समागम्य सहिताः संभूय (६)समं न न्यूनाधिकभावेन । ये च भ्रातरो भिन्नोदराः संसृष्टास्ते च सना- (१) भित्रोदरस्याससृष्टिनः सोदरस्य च घ.। (२) मुक्तं । असंसृष्टी घ. (६) निषेधादसंमृष्ट घ. ।। (४) संसृष्टिनो भित्रोदरस्य च घ. । (५) संसृष्टाः सहजीवन्त इत्यपि पाठान्तरम् । (६) सममन्यूनाधिक. घ.।

६१८ याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः । भयो भगिन्यश्च विभ(१)जेयुः । समं विभज्य गृह्णीयुरिति स्प. टोऽर्थः ॥ १३९ ॥ (वी० मि० ) पुत्रपत्न्यादिसंसृष्टिनां धनग्रहणापवादं क्वचिदाह- क्लीवोऽथ पतितस्तजः पङ्गुरुन्मत्तको जडः ।। अन्धोऽचिकित्स्यरोगाद्या भर्तव्यास्ते (२)निरंशकाः॥१४॥ अथशब्दाजन्मावधिवधिरसमुच्चयः। आद्यपदेन मूकपितृद्विट्न- भृतीनां समुच्चयः। अनंशी क्लीवपतितौ जात्यन्धवधिरौ तथा । उन्मत्तजडमूकाश्च ये च केचिनिरिन्द्रियाः ॥ इति मनुवचनात् । पितृद्विट् पतितः षण्ढो यश्च स्यादौपपातिकः ।, औरसा अपि नैतेऽशं लभेरन् क्षेत्रजाः कुतः ।। इनि नारदवचनाच्च । तज्जः पतितादुत्पन्नः, पङ्गुः पादविकलः, जडो मन्दान्तःसंज्ञः ॥ १४० ॥ (मिता० ) पुत्रपन्यादिसंसृष्टिनां यदायग्रहणमुक्तं तस्यापवादमाह- क्लीव इति । क्लीवस्तृतीयाप्रकृतिः । पतितो ब्रह्महादिः । तज्जः प. तितोत्पन्नः । पङ्गुः पादविकलः । उन्मत्तकः वातिकपैत्तिकश्लैष्मिक- (३)सांनिपातिकग्रहावेशलक्षणेरुन्मादैरभिभूतः। जडो विकलान्तः करणः हिताहितावधारणाक्षम इति यावत् । अन्धो नेत्रेन्द्रियवि. कलः । अचिकित्स्यरोगोऽप्रतिसमाधेयय(४)क्ष्मादिरोगग्रस्तः। आ- द्यशब्देनाश्रमान्तरगतपितृद्वेण्युपपातकिवधिरमूकनिरिन्द्रियाणां ग्र. हणम् । यथाह वसिष्ठः-'अनंशास्त्वाश्रमान्तरगताः' इति । नारदे. नापि-'पितृद्विट् पतितः षण्ढो यश्च स्या(६)दौपपातिकः। औरसा अपि नैतेंऽशं लभेरन् क्षेत्रजः कुतः ॥ इति। मनुरपि (९।२०१)-'अ. नंशी क्लीवपतितौ जात्यन्धवधिरौ तथा। उन्मत्तजडमुकाश्च ये च (१) समं विभजयु ख. (२) भर्तन्या स्युनिरं०-इति मुद्रितपुस्तके पाठ । (३) संनिपातमहा ख.। (४) क्षयादिरोग, घ । (६) स्यादपयात्रित इति पाठ । अपयात्रितो राजद्रोहायपराधेन बन्धुभिर्घटस्फोटादिना वहि-- ऽकृत इति मदन । व्यवसायार्थ नावादिना समुद्रमध्ये द्वीपान्तर गत इति युक्तम् । 'द्विजस्याब्धौ तु नौयातु. शोषितस्याप्यसवद.' इति तस्य कला ससर्गनिषेधात् । राजद्रोहाद। घटस्फोटवहिष्कार- योरविधानाच्च 1 व्य. म. ।

दायविभागप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता । -~- - केचिन्निरिन्द्रिया:' ।। इति । निरिन्द्रियो निर्गतमिन्द्रियं यस्मात्याध्या- दिना स निरिन्द्रियः । एते क्लीवादयोऽनंशाः रिक्थभाजो न भवन्ति । केवलमशनाच्छादनदानेन पोषीया भवेयुः। अभरणे तु पतितत्व- दोषः । (९।२०२)-'सर्वेषामपि तु न्याय्यं दातुं शत्त्या मनीषिणा । ग्रासाच्छादनमत्यन्तं पतितो ह्यददद्भवेत् ॥ इति मनुस्मरणात् । अत्यन्तं यावजीवमित्यर्थः । एतेषां विभागात्प्रागेव दोषप्राप्तावनंश. त्वमुपपन्नं न पुनर्विभक्तस्य । विभागोत्तरकालमप्यौषधादिना दोषनि- हरणे भागप्राप्तिरस्त्येव । 'विभक्तेषु सुतो जातः संवायां विभागभा. क्' इत्यस्य समानन्यायत्वात् । पतितादिषुतुपुंलिङ्गत्वमविवक्षितम् । अतश्च पत्नीदुहितृमात्रादीनामप्युक्तदोष(१)दुष्टानामनंशित्वं वेदित- व्यम् ॥ १४०॥ (वीमि० ) क्लीवादीनामनंशित्वात्तत्पुत्राणामप्यनंशित्वं तत्क- न्यापन्यादिभरणानावश्यकत्वं च प्रसक्तमपाकरोति- औरसाः क्षेत्रजा(२)स्तेषां निर्दोषाः भागहारिणः ।। मुताश्चैषां प्रभर्तव्या यावद्वै भईसात्कृताः ।। १४१ ।। अपुत्रा योपितश्चैषां भर्तव्याः साधुवृत्तयः ।। निर्वाम्या व्यभिचारिण्यः प्रतिकूलास्तथैव च ॥ १४२ ।। तेषां क्लीवादीनां क्षेत्रजाः क्लीवादीनामौरसाश्च पुत्राः क्लीवत्वा. दिदोपशून्याश्चेत्तदा भागहारिणो भवन्ति । एषां क्लीवादीनां क्षेत्र जाः क्लीवभिन्नाः कन्यका यावद्भर्तृसात्कृता वराय प्रतिपादिता स्तावत्प्रकर्पण स्वकन्यादिसादृश्येन भर्तव्याः । एषां क्लीवादीनां यो. पितश्च क्लीवत्वानिश्चयवशाद्विवाहिताः साधुवृत्तयः सदाचाराश्चेत्त दा भर्तव्याः । व्यभिचारिण्यः तथाऽतिशयेन प्रतिकूलाश्च निर्वा. स्या गृहान्निष्कासनीयाः । आद्येन चकारेण संस्कर्तव्या इति, द्वि. तीयेन सुरापानादिकारिण्य इति समुच्चीयते । एवकारेण भर्तव्य त्वं व्यवच्छिनत्ति ॥ १४१-१४२ ॥ (मिता०) क्लीवादीनामनंशित्वात्तत्पुत्राणामप्यनंशित्वे प्राप्ते इद. औरसा इति। एतेषां क्लीवादीनामौरसा क्षेत्रजा वा पुत्रा निर्दोषा (१) दोषाणामनांशिवं घ.। (२) क्षेत्रजासत्वेषा-इति मु० पु० पाठः । . माह- ६२२ याज्ञवल्क्यस्मृतिः। [:व्यवहाराध्यायः । अप्रजःस्त्रीधनं भर्तुाह्मादिषु चतुर्वपि ॥ दुहितॄणां प्रसूता चेच्छेषेषु पितृगामि तत् ॥ १४५ ।। अप्र(१)जायां विद्यमानदुहितृपुत्रान्यतरकभिन्नायांमतीतायां त- स्त्रीधनं चान्धवास्तत्सम्बन्धिनोऽवाप्नुयुः । अत्र चायं विशेषः- ब्राह्मदैवार्षप्राजापत्येषु चतुर्पु विवाहेष्वप्रजायाः स्त्रिया धनं भर्तुः । शेषेषु चतुर्पु विवाहेषु, अपिशव्दाद्विवाहाभावेऽपि तद्धनं पितृगा- मि । यदि तु प्रत्ता भवति पुत्रदुहितविहीना च तदा दुहितॄणां च तद्धनं स्वं भवति । तदभावे च दौहित्रः प्रागन्वयपदेनाभिहतो धन भाक् । प्राक्लिखितमनुवचनेन दुहितृसत्त्वेऽपि दौहित्राणां किञ्चिदंश. बोधनात् । अत्र ब्राह्मदेवार्षगान्धर्वप्राजापत्येषु यद्धनम्- अतीतायामप्रजसि भर्तुरेव तदिष्यते । इति मनुवचनाद्गान्धर्वविवाहे भर्तृपित्रोः समो भाग इति ध्येयम् ॥ १४४-१४५ ॥.. (मिता०) एवं स्त्रीधनमुक्तं तद्विभागमाह- अतीतायामिति । तत्पूर्वोक्तं स्त्रीधनमप्रजासि अनपत्यांयां दुहित. दौहित्रीदौहित्रपुत्रपौत्ररहितायां स्त्रियामतीतायां मृतायां बान्धवा भदियो वक्ष्यमाणा गृह्णन्ति ॥ १४४॥ .(मिता०) सामान्येन बान्धवा धनग्रहणाधिकारिणो दर्शिताः, इदानी विवाहभेदेनाधिकारिभेदमाह- अग्रजःस्त्रीति। अ(२)प्रजा स्त्रियाः पूर्वोक्तायाः ब्रह्मादेवार्षप्राजापत्येषु चतुर्षु विवाहेषु भार्यात्वं प्राप्ताया अतीतायाः पूर्वोक्तं धनं प्रथमं भर्तुः भवति । त(३)दभावे तत्प्रत्यासन्नानां सपिण्डानां भवति । शेषेवा- सुरगान्धर्वराक्षसपैशाचेषु विवाहेषु तदप्रजःस्त्रीधनं पितृगामि माता च पिता च पितरौ तौ गच्छतीति पितृगामि । एकशेषनिर्दिष्टाया अपि मातुः प्रथमं धनग्रहणं पूर्वमेवोक्तम् । तदभावे तत्प्रत्यासन्नानां धनग्रहणम् । सर्वेष्वेव विवाहेषु प्रसूतापत्यवती चेद् दुहितृणां तद्धनं ܝܝ (१) अप्रजायां-इत्यारभ्य तत्त्रीधन-इत्यन्तो ग्रन्थः ख० पुस्तके नास्ति । (२) अप्रजसः स्त्रियाः घ. । (६) भत्रभावतत्प्रत्यासन्नानां सपिण्डानां पित्रभावे च तत्प्रत्यासन्नानां सपिण्डानामिति, तत्रापि तेनास्याः प्रत्यासन्नास्तत्प्रत्यासन्नाः तद्दारा तत्कुले. प्रत्यासन्ना इति यावत् ।

। दायविभागप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता । ६२३ भवति । अत्र दुहितृशब्देन दुहितदुहितर उच्यन्ते, साक्षाद् दुहितॄणां 'मातुर्दुहितरः शेषम्' इत्यत्रोक्तत्वात् । अतश्च मातृधनं मातरि वृत्ता. यां प्रथमं दुहितरो गृह्णन्ति । तत्र चोढानूढासमवायेऽनूढेव गृह्णाति । तभावे च परिणीता । तत्रापि प्रतिष्ठिताऽप्रतिष्ठितासमवाये प्रति ष्ठिता गृह्णाति । तदभावे प्रतिष्ठिता। यथाह गौतमः-स्त्रीधनं दुहि: तृणामप्रत्तानामप्रतिष्टितानां च' इति । तत्र चशब्दात्प्रतिष्ठितानां च । अप्रतिष्टिता अनपत्या निर्धना वा । एतच्च शुल्कव्यतिरेकेण । शुल्कं तु सोदाणामेव । 'भगिनीशुल्कं सोदर्याणामूर्ध्व मातुः' इति गौतमवचनात् । सर्वासां दुहितॄणामभावे दुहितृदुहितरो गृह्णन्ति । 'दुहितॄणां प्रसूता चेत्' इत्यस्माद्वचनात् । तासां भिन्नमातृकाणां वि. षमाणां समवाये मातृद्वारेण भागकल्पना । 'प्रतिमातृतो वा स्व(१). वर्गेण भागविशेषः' इति गौतमस्मरणात् । दुहितृदौहित्रीणां सम. वाये दौहित्रीणां किंचिदेव दातव्यम् । यथाह मनुः (९।१९३)-'या- स्तासां स्युर्दुहितरस्तासामपि यथार्हतः। मातामह्या धनात्किचि- प्रदेयं प्रीतिपूर्वकम् ॥ इति । दौहित्रीणामप्यभावे दौहित्रा धनहा. रिणः । यथाह नारदः-'मातुर्दुहितरोऽभावे दुहितॄणां तदन्वयः' इति । तच्छव्देन संनिहितदुहितृपरामर्शात् । दौहित्राणामभावे पु. त्रा गृह्णन्ति । ताभ्य ऋतेऽन्वय इत्युक्तत्वात् । मनुरपि दुहितॄणां पु- त्राणां च मातृधनसम्बन्धं दर्शयति (९।१९२)--'जनन्यां संस्थितायां तु समं सर्वे सहोदराः। भजेरन मातृकं रिक्थं भगिन्यश्च सनाभयः ॥ इति । मातृकं रिक्थं सर्वे सहोदराः समं भजेरन् सनाभयो भगिः न्यश्च समं भजेरनिति सम्वन्धः । न पुनः सहोदरा भगिन्यश्च सं. भूय भजेरनिति इतरेतरयोगस्य द्वन्द्वैकशेषाभावादप्रतीतेः । विभा ग(२)कर्तृत्वान्वयेनापि चशब्दोपपत्तेः। यथा देवदत्तः कृषि कुर्याद्य. ज्ञदत्तश्चेति । समग्रहणमुद्धारविभागनिवृत्त्यर्थम् । सोदरग्रहणं भि. नोदरनिवृत्त्यर्थम् । अनपत्यहीनजातिस्त्रीधनं तु भिन्नोदराप्युत्तमजाः तीयसपत्नीदुहिता गृह्णाति । तदभावे तदपत्यम् । यथाह मनुः (९। १९८)-'स्त्रियास्तु यद्भवेद्वित्तं पित्रा दत्तं कथंचन । ब्राह्मणी तद्धः रेत्कन्या तदपत्यस्य वा भवेत् ॥ इति । ब्राह्मणीग्रहणमुत्तमजात्युप- (१) स्ववर्गे भाग ग. स्वस्त्रवर्गेण घ. I .. .(२) कर्तृत्वेनान्वयेनापि घ.।

६२४ याज्ञवल्क्यस्मृतिः । [ व्यवहाराध्यायः । लक्षणम् । अतश्चाऽनपत्यवैश्याधनं क्षत्रियाकन्या गृह्णाति । पुत्राणाम- भावे पौत्राः पितामहीधनहारिणः । 'रिक्थभाज ऋणं प्रतिकुर्युः' इति गौतमस्मरणात् । 'पुत्रपौत्रैर्ऋणं देयम्' इति पौत्राणामपि पितामह्यू. (१)णापाकरणेऽधिकारात् । पौत्राणामप्यभावे पूर्वोक्ता भर्नादयो वा. न्धवा धनहारिणः ॥ १४५ ॥ (वी० मि०) स्त्रीधनप्रसङ्गेन वाग्दत्तकन्याया असुरादिविवाहार्थ पित्रादिगृहीते धने व्यवस्थामाह- दत्त्वा कन्यां हरन् दण्ड्यो व्ययं दद्याच्च सोदयम् ।। मृतायां दत्तमादद्यात् परिशोध्योभयव्ययम् ।। १४६ ।। कन्यां वाचा दत्त्वा हरन तस्मै अप्रयच्छन् द्रव्यानुवन्धाद्यनुसा. रेण राज्ञा दण्ड्यः । व्ययं विवाहाथै वरेण व्ययितं धनं सोदयं वृद्धि: सहितं दद्यात् । वाग्दानकर्ता कन्याया देवान्मरणे उभयोः स्वस्य कन्यापित्रादेश्च परिशोध्य स्वदत्तं वस्त्रालङ्कारहिरण्यादि वर आद. द्यात्, न तु वृद्धिम् । परिशोधनाभिधानेन कन्यापितृव्ययितादतिरि- च्यमानत्वाभावे वरेण न ग्राह्यमिति दर्शितम् । चकारेण व्ययदानद- ण्डयोः साहित्यमभिप्रेति ॥ १४६ ॥ (मिता०) स्त्रीधनप्रसङ्गेन वाग्दत्ताविषये किंचिदाह- दत्त्वेति । कन्यां वाचा दत्त्वापहरन्द्रव्यानुवन्धाद्यनुसारेण राशा दण्डनीयः। एतच्चापहारकारणाभावे । सति तु कारणे 'दत्तामपि हरेत्कन्यां श्रेयांश्चेद्वर आवजेत्' इत्यपहाराभ्यनुज्ञानान्न दण्ड्यः । यच्च वाग्दाननिमित्तं वरेण स्वसम्बन्धिनां कन्यासम्वन्धिनां वोपचारार्थ धनं व्ययीकृतं तत्सर्व सोदयं सवृद्धिक कन्यादाता वराय दद्यात् ॥ (मिता० ) अथ कथंचिद्वाग्दत्ता संस्कारात्प्राङ् म्रियते (२)तदा किं कर्तव्यमित्यत आह- मृतायामिति । यदि वाग्दत्ता मृता तदा यत्पूर्वमङ्गुलीयकादि (३)शुल्कं वरेण दत्तं तद्वर आददीत । परिशोध्योभयव्ययम् उभ. योरात्मनः कन्यादातुश्च यो व्ययस्तं परिशोध्य विगणय्यावशिष्टमा. ददीत । यत्तु कन्यायै मातामहादिभिर्दत्तं शिरोभूषणादिकं वा [४]क्र. (१) पितामघृणापाकरणाधिकारात ख. । (२) मियेत तदा ग. घ. । () शुल्कं वा वरेण ख. । (१)क्रमागतं ख.. .

दायविभागप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता। ६२५ - मायातं तत्सहोदरा भ्रातरो गृह्णीयुः । रिक्थं मृतायाः कन्याया गृह्णी. युः सोदरास्तदभावे मातुस्तदभावे पितुः' इति बौधायनस्मरणात्१४६॥ (वी० मि०) मृतायाः स्त्रीधनहारी निरूपितः, प्राक् जीवन्त्या. धनहारिणमाह- दुर्भिक्षे धर्मकार्ये च व्याधौ संप्रतिरोधके ।। गृहीतं स्त्रीधनं भर्ता न स्त्रियै दातुमर्हति ॥ १४७ ॥ संप्रतिरोधके बन्दीकरणादौ । चकारेण भर्तुर्धनाभावे सतीति सर्वत्रान्वितं विशेषणं समुच्चिनोति । शेषं सुगमम् ॥ १४७ ॥ (मिता० ) मृतप्रजास्त्रीधनं भर्तृगामीत्युक्तम् । इदानीं जीवन्त्याः सप्रजाया अपि स्त्रियाः धनग्रहणे क्वचिद्भर्तुरभ्यनुज्ञामाह- दुर्भिक्ष इति । दुर्भिक्षे कुटुम्बभरणार्थ, धर्मकायें अवश्यकर्तव्ये, व्याधौ च, सं(१)प्रतिरोधके वन्दिग्रहणनिग्रहादौ द्रव्यान्तररहितः स्त्रीधनं गृह्णन् भर्ता न पुनातुमर्हति। प्रकारान्तरे(२)णापहरन् दद्यात् । भर्तृव्यतिरेकेण जीवन्त्याः स्त्रिया धनं केनापि दायादेन न ग्रहीत. व्यम् । ( मनुः ८।२९)-'जीवन्तीनां तु तासां ये तद्धरेयुः स्ववा. न्धवाः । ताञ्छिष्याच्चौरदण्डेन धार्मिकः पृथिवीपतिः': ॥ इति दण्ड विधानात् । तथा ( मनुः ९२००)-पत्यौ जीवति यः स्त्रीभिर लङ्कारो (३)धृतो भवेत् । न तं. भजेरन् दायादा भजमानाः पतन्ति ते ॥ इति दोषश्रवणाच्च ॥ १४७ ॥ ( वी० मि०) आधिवेदनिकं स्त्रीधनं प्रागुक्तं विवृणोति- अधिविन्नस्त्रियै दद्यादाधिवेदनिकं समम् !! न दत्तं स्त्रीधनं यस्यै दत्तं त्वधं प्रकीर्तितम् ॥ १४८ ॥ अधिविना कृतसापत्न्या या स्त्री तस्यै आधिवेदनिकं सपत्नीप रिणयननिमित्तं धनं परिणीयमानायै दीयमानेन धनेन सममदत्तस्त्री. धनाये दद्यात् । स्त्रीधने प्रागेव दत्ते तु परिणीयमानायै दीयमानस्य धनस्यार्धमाधिविनायै देयत्वेन प्रकीर्तितम् ॥ १४८ ॥ (मिता०.) आधिवेदनिकं स्त्रीधनमुक्तं तदाह- अधिविन्नेति । यस्या उपरि विवाहः साधिविन्ना सा चासौ स्त्री चेत्यधिविन्नस्त्री तस्यै अधिविन्नस्त्रियै आधिवेदनिकमधिवेदनानिमित्तं (१) संप्रतिरोधक इति व्याधिविशेषणं कार्यानुष्ठानबांधक इति च तदर्थ इत्याह वाचस्पतिः । (१) यापहृतं दयात् घ.। (३) धृतो भादिना तस्यै दत्तः स तया'धृत इत्यर्थः ।:: ७८ । - ६२६ याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः । धनं समं यावदधिवेदनार्थ व्ययीकृतं तावद्दद्यात् । यस्यै भा(१)श्व. शुरेण वा स्त्रीधनं न दत्तम् । दत्तें पुनः स्त्रीधने आधिवेदनिकद्रव्य- स्याध दद्यात् । अर्धशब्दश्चात्र समविभागवचनो न भवति । अतश्च यावता तत्पूर्वदत्तमाधिवेदनिकसमं भवति तावद्देयमित्यर्थः ॥ १४८ ॥ (वी मि० ) एवं विभागमुक्त्वा तस्य सन्देह निर्णायकानाह- विभागनिन्हवे ज्ञातिवन्धुसाक्ष्यभिलेखितः ॥ विभागभावना ज्ञेया गृहक्षेत्रैश्च यौतकैः ।। १४९ ॥ नाऽऽवयोविभागो जात इत्येवं विभागस्याऽपलापे ज्ञातिभिः पितृकुलप्रभवैः, वन्धुभिस्तद्भिन्नैः सम्बन्धिभिः साक्षिभिः प्रागुक्त- लक्षणैः अभिमतार्थसाधकैलखितैविभागपत्रैहैः क्षेत्रश्च यौतकै यतिकवदसाधारणीभूतैर्विभागस्य भावना पूर्वमुत्पादना प्राड्विवा- कादिना ज्ञेया निर्णयां । चकारेण पृथगायव्ययधनाः कुसीदं च परस्परम् । वणिक्पथं च ये दद्युर्विभक्तास्ते न संशयः ॥ इत्यादिनारदोक्तविभागलिङ्गानां दिव्यस्य च सङ्ग्रहः ॥१४९ ॥ इति श्रीमत् याज्ञवल्क्यव्याख्याने दायाविभागप्रकरणम् ॥ ( मिता० ) एवं विभागमुक्त्वा इदानीं तत्सन्देहे निर्णयहेतूनाह- विभागनिह्नव इति । विभागस्य निहवे अंपलापे ज्ञातिभिः 'पिं. तृवन्धुभिर्मातृवन्धुभिः मातुलादिभिः साक्षिभिः पूर्वोक्तलक्षणैर्लेख्येन च विभागपत्रेण विभागभावना विभागनिर्णयो ज्ञातव्यः । तथा यौ(२)तकैः पृथक्कृतैर्गृहक्षेत्रैश्च । 'पृथक्कृष्यादिकार्यप्रवर्तनं पृथक्प- श्वमहायज्ञादिधर्मानुष्टानं च नारदेन विभागलिङ्गमुक्तम्-'वि(३)भा. गधर्मसन्देहे दायादानां विनिर्णयः। ज्ञातिभिर्भागलेख्येन. पृथक्कार्य: प्रवर्तनात् ॥ भ्रातृणामविभक्तानामेको धर्मः प्रवर्तते । विभागे सति धर्मोऽपि भवेत्तेषां पृथक् पृथक् ॥ इति । तथापराण्यपि विभाग लिङ्गानि (४)तेनैवोक्तानि-'साक्षित्वं प्रातिभाव्यं च दानं ग्रहणमेव च । विभक्ता भ्रातरः कुर्यु विभक्ताः कथंचन' ॥ इति ॥ १४९ ॥ - इति रिक्थविभागप्रकरणम् । (१) श्वशुरेण भर्ना वा ख. । (२) यौतकैः पृथक्कृत्तैहरैरिति विशेषणविशेष्यभावः व्य. म.। (३) इदं पयं घ. पुस्तकेऽधिकं । (४) तेनैव नारदेन ।

सामाविवादप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता । ६२७ - -- - (वी० मि० ) अथ सीमाविवादे निर्णयमाह- सीम्नो विवादे क्षेत्रस्य सामन्ताः स्थविरादयः ।। गोपाः सीमाकृषाणाश्च सर्वे च वनगोचराः ॥ १५० ॥ नयेयुरेते सीमानं स्थूला(१)ङ्गारतुषटुमैः। सतुवल्मीकनिम्नास्थिचैत्यायैरुपलक्षितम् ॥ १५१. ॥ ग्रामादिद्वयसम्बन्धिनः सीम्नो मर्यादाविवाद सामन्तादय एते प्रागुक्ताः स्थूलाङ्गारादिभिरुपाक्षतं चिन्हितं सीमानं नयेयुनिश्चिनुयुः। सामन्तस्वरूपमाह कात्यायन:- ग्रामो ग्रामस्य सामन्तः क्षेत्र क्षेत्रस्य कीर्तितम् । गृहं गृहस्य निर्दिएं समन्तात्परिरभ्य च ॥ यः परिवृतो वेष्टयित्वा चतुर्दिक्षु स्थितो ग्रामः स ग्रामस्य सा- मन्तः । एवं क्षेत्रगृहयोरपीत्यर्थः । ग्रामादिपदेन तत्र स्थिता लोका उच्यन्ते । स्थविरो वृद्धाः। आदिपदेन मौलोद्धृतयोर्ग्रहणम् । वृद्धा. दिलक्षणं कात्यायनेनोक्तम्- निप्पाद्यमानं यदृष्टं तत्कार्य तद्गुणान्वितैः । वृद्धा वा यदि वाऽवृद्धास्ते तु वृद्धाः प्रकीर्तिताः॥ ये तत्र पूर्व सामन्ताः पश्चाद्देशान्तरं गताः । तन्मूलत्वात्तु ते मौला ऋषिभिः परिकीर्तिताः ।। उपश्रवणसंभोगकार्याख्यानोपंचिन्हिताः। उद्धरन्ति पुनर्यस्मादुद्धृतास्ते ततः स्मृताः ॥ गोपा गोचारकाः, सीमाकृपाणाःसीमासन्निहितक्षेत्रकर्षकाः,सर्वे वनचारिणोव्याधाःशाकुनिकवनपालंकादयः।चकाराभ्यां कैवर्तोञ्छः त्तिप्रभृतीनां मूलखातकव्यालग्राहिप्रभृतीनां च समुञ्चयः। तथा च मनु:- व्याधान् शाकुनिकान् गोपान कैवर्तान्मूलखातकान् । व्यालग्राहानुछवृत्तीनन्यांश्च वनगोचरान् ॥ इति।स्थूलोऽङ्गारोऽग्नेरुच्छिष्टं काष्ठम् । स्थलागारति क्वचित्पाठः, तदा स्थलमुन्नतो भूप्रदेश इति व्याख्येयम् । तुपा धान्यत्वचः, द्रुमाः प्लक्षादयः, सेतुर्वन्धः, वल्मीको मध्यदेशे दिवाउभींदु इति प्रसिद्धः उच्चप्रदेशः, निम्नं गादि, आस्थ प्रसिद्धं, चैत्यो ग्रामोपलक्षकवृक्षः । (१) स्थलाङ्गारेति मुद्रितपुस्तके पाठः ।

६२८ याज्ञवल्क्यस्मृतिः। [ व्यवहाराध्यायः । आद्यपदेन शर्करादिसङ्ग्रहः । तदाह मनुः- अश्मनोऽस्थीनि गोवालांस्तथा भस्म कपालिकाः । करीषमिष्टकाङ्गारान् शर्करा वालुकास्तथा । यानि चैवप्रकाराणि कालाद् भूमिर्न भक्षयेत् । तानि सन्धिषु सीमाया अप्रकाशानि कारयेत् ॥१५०-१५१॥ (मिता० ) अधुना सीमाविवादनिर्णय उच्यते--: सीन इति, नयेयुरिति च । ग्रामद्वयसम्बन्धिनः क्षेत्रस्य सीन्नो विवादे तथैकनामान्तर्वर्तिक्षेत्रमर्यादाविवादे च सामन्तादयः स्थला. गारादिभिः पूर्वकृतैः सीमालक्षणैरुपलक्षितां चिह्नितां: सीमां नयेयु- निश्चिनुयुः। सीमा क्षेत्रादिमर्यादा । सा चतुर्विधा जनपदसीमा ग्रामसीमा क्षेत्रसीमा गृहसीमा चेति । सा च यथासम्भवं पञ्चल क्षणा । तदुक्तं नारदेन-ध्वजिनी मत्स्यिनी. चै नैधानी भयव. र्जिता । राजशासननीता च सीमा पञ्चविधा स्मृता' ॥ इति । ध्वः जिनी वृक्षादिलक्षिता, वृक्षादीनां प्रकाशत्वेन ध्वजतुल्यत्वात् । मस्थिनी सलिलवती, मत्स्यशब्दस्य स्वाधारजललक्षकत्वात् । ने- धानी निखाततुषाङ्गारादिमती, तेषां निखातत्वेन निधानतुल्यत्वात् ।। भयवर्जिता अर्थिप्रत्यर्थिपरस्परसम्प्रतिपत्तिनिर्मिता। राजशासन- नीता ज्ञातृचिहाभावे राजेच्छया निर्मिता । एवंभूतायां षोढा विवादः सम्भवति । यथाह कात्यायनः-'आधिक्यं न्यूनता चांशे अस्तिना- स्तित्वमेव च । अभोगभुक्तिः सीमा. च षड् भूवादस्य हेतवः ॥ इति । तथा हि~~ममात्र पञ्चनिवर्तनाया भूमेरधिका भूरस्तीति के नचिदुक्ते पञ्चनिवर्तनैव नाधिकेत्याधिक्ये विवादः। पञ्चनिवर्तना मदीया भूमिरित्युक्तेन ततो न्यूनैवेति न्यूनतायाम् । पञ्चनिवर्तनो ममांश इत्युक्ते अंश एव नास्तीत्यस्तिनास्तित्वविवादः सम्भवति । मदीवा भूः प्रागविद्यमानभोगैव भुज्यते इत्युक्तेन सन्तता चिरन्तन्येव मे भुक्तिरित्यभोगभुक्तोः विवादः । इयं मर्यादेयं वेति सीमाविवाद इति पप्रकार एव विवादः सम्भवति । षट्प्रकारेऽपि. भूविवादे श्रु. त्याभ्यां सीमाया अपि नियमानत्वात्सीमानिर्णयप्रकरणे तस्या. न्तर्भावः समन्ताद्भवाः सामन्ताः । चतसृषु दिक्ष्वन(१)न्तरग्रामा यदस्ते च प्रतिसीम व्यवस्थिताः। 'ग्रामो ग्रामस्य सामन्तः क्षेत्र (१) अनन्तरा ग्रामादयः घ. ! . 1 सीमाविवादप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता । क्षेत्रस्य कीर्तितम् । गृहं गृहस्य निर्दिष्टं समन्तात्परिरभ्य हि' ॥ इति । यथा। सामन्तग्रहणं च तत्संसक्तायुपलक्षणार्थम् , उक्तं च कात्या. यनेन-'संसक्तकास्तु सामन्तास्तत्संसक्तास्तथोत्तराः । संसक्तसक्तसं. सक्ताः (१)पद्मकाराः प्रकीर्तिताः ॥ इति । स्थविरा वृद्धाः। आदिग्रह- णेन मौलोख़्तयोर्ग्रहणम् । वृद्धादिलक्षणं च तेनैवोक्तम्-'निष्पा. द्यमानं यदृष्टं तत्कार्य तद्गुणान्वितैः । वृद्धा वा यदि वाऽवृद्धास्ते तु वृद्धाः प्रकीर्तिताः ॥ ये तत्र पूर्व सामन्ताः पश्चाद्देशान्तरं गताः। त. न्मूलत्वात्तु ते मौला ऋषिभिः परिकीर्तिताः ॥ उपश्रवणसभागका. र्याख्यानोपचिह्निताः। उद्धरन्ति पुनर्यस्मादुद्धृतास्ते ततः स्मृताः ॥ इति । गोपाः गोचारकाः । सीमाकृषाणाः मनुनोक्ताः ( ८।२६०) 'व्याधाञ्शाकुनिकान्गोपान् कैवर्तान्मूलखातकान् । व्यालया(२)हानु. छवृत्तीनन्यांश्च वनगोचरान्' ॥ इति । स्थलमुन्नतोभूप्रदेशः । अङ्गा- रोऽग्नेरुच्छिष्टम् । तुषा धान्यत्वचः । द्रुमा न्यग्रोधादयः । सेतुर्जलप्र. वाहबन्धः। चैत्यं पाषाणादिवन्धः। आदिशकेन वेणुवालुकादीनां ग्रह णम् । एतानि च प्रकाशाप्रकाशभेदेन द्विप्रकाराणि । यथाह मनुः (८२४६-२४८) 'सीमावृक्षांश्च कुर्वीत न्यग्रोधाश्वत्थकिंशुकान् । शाल्मलीशालतालांश्च क्षीरिणश्चैव पादपान् ।। गुल्मान्वणूंश्च विविधा. शमीवल्लीस्थलानि च। शरान् (३)कुञ्जकगुल्मांश्च यथा सीमा न नश्यति ॥ तडागान्युदपानानि वाप्यः प्रस्रवणानि च । सीमासन्धिषु कार्याणि देवतायतनानि च ॥ इति प्रकाशरूपाणि । (मनुः ८।२४९ २५२)-'उपच्छन्नानि चान्यानि सीमालिङ्गानि कारयेत् । सीमाज्ञाने नृणां वीक्ष्य नित्यं लोके विपर्ययम् ॥ अश्मनोऽस्थीनि गोवालांस्तु: षान्भस्म कपालिकाः । करीषमिष्टकाङ्गारशर्करावालुकास्तथा ॥ या. नि चैवंप्रकाराणि कालाद् भूमिर्न भक्षयेत्। तानि सन्धिषु सीमाया मप्रकाशानि कारयेत ॥ एतैर्लिङ्गैर्नयेत्सीमां राजा विवदमानयोः' । इति प्रच्छन्नलिङ्गानि । एतैः प्रकाशाप्रकाशरूपैलिङ्गैः सा- मन्तादि(४)प्रदर्शितैः सीमां प्रति विवदमानयोः सीमानिर्णयं कु. र्याद्राजा ॥ १५०-१५१॥ (वी० मि०) यदा तूक्तचिह्नानि न सन्ति विद्यमानान्यपि वा लि (२) पद्माकाराः ग०। (२) माहौस्तूञ्छवृत्तीन् ग.। ( ३ ) कुब्जकगुल्मांश्च ग. घ. । (४) प्रकाशितैःघा कर याज्ञवल्क्यस्मृतिः । [ व्यवहाराध्यायः । झालिङ्गतया सन्दिग्धानि तदा निर्णयोपायमाह- सामान्ता वा समग्रामाश्चत्वारोऽष्टौ दशाऽपि वा ।। रक्तस्रग्वसनाः सीमां नयेयुः क्षितिधारिणः ॥१५२॥ सामन्ता उक्तलक्षणाः, समग्रामाः प्रत्यासन्नग्रामीणाश्चत्वारोऽष्टौ दश वा स्वयं निश्चितसीमानो रक्तमाल्यवस्त्रवन्तो मूर्धधृतक्षितिख. ‘ण्डाः सन्तः सीमां नयेयुर्निश्चयेयुः । अपिवेत्यव्ययसमुदायो विकल्पा. र्थः। सामन्ता वेति वाकारेण साक्षिणोऽभिप्रैति । यदाह मनुः- साक्षिप्रत्यय एवासीत्सीमावादविनिर्णये । इति । तथा- साक्ष्यभावे च चत्वारो ग्रामाः सीमान्तवासिनः । सीमाविनिर्णयं कुर्युः प्रयता राजसन्निधौ ।। कात्यायन: स्वार्थसिद्धौ प्रदुष्टेषु सामन्तेष्वर्थगौरवात् । तत्संसक्तैस्तु कर्तव्य उद्धारो नात्र संशयः ।। संसक्तसक्तदोषे तु तत्संसक्ताःप्रकीर्तिताः । कर्तव्या न प्रदुष्टास्तु राज्ञा धर्म विजानता ॥ तथा साक्षिणः प्रक्रम्य स एव- तेषामभावे सामन्तमौलवृद्धोधृतादयः। मनु:- शिरोभिस्ते गृहीतोर्वी स्रग्विणो रक्तवाससः । सुकृतैः शापिताः स्वैः स्वैबूंयुस्ते तु समञ्जसम् ।। एवमभिधानानन्तरं विपक्षं यावद्राजदैवकं सामन्तादीनां यदि न भवति तदा राज्ञा तत्कृता सीमा निश्चेतव्या । सीमाचक्रमणे कोशे पादस्पर्श तथैव च । त्रिपक्षपक्षसप्ताहं राजदैवकमिप्यते ॥ इति कात्यायनवचनात् ॥ १५२ ॥ (मिता० ) यदा पुनश्चिह्नानि न सन्ति विद्यमानानि वा लिङ्गा- लिङ्ग तया सन्दिग्धानि तदा निर्णयोपायमाह-- सामन्ता इति । सामन्ताः पूर्वोक्तलक्षणाः । समग्रामाश्चत्वारो- ऽष्टौ दशापि वेत्येवं समसंख्याः प्रत्यासन्नग्रामीणाः । रक्तस्रग्विणो र- ताम्बरधराः मूर्ध्यारोपितक्षितिखण्डाः सीमानं नयेयुः प्रदर्शयेयुः । - सीमाविवादप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता । सामन्ता वेति विकल्पाभिधानं स्मृत्यन्तरोक्तसाक्ष्यभिप्रायम् । य. थाह मनुः (वा२५३)--'साक्षिप्रत्यय एव स्यात्सीमावादविनिर्णये' इति । तत्र च साक्षिणां निर्णतृत्वं मुख्यम् । तदभावे सामन्तानाम् । तदुक्तम् । (मनुः ८।२५८ )--'साक्ष्यभावे तु चत्वारो ग्रामाः सी. मान्तवालिनः । सीमाविनिर्णयं कुर्युः प्रयता राजसन्निधौ' । इति । तदभावे तत्संसक्तादीनां निर्णतृत्वम् । यथाह कात्यायन:- 'स्वार्थसिद्धौ प्रदुष्टेपु सामन्तेष्वर्थगौरवात् । तत्संसक्तैस्तु (१)कर्तव्य उद्धारो नात्र संशयः ॥ संसक्तस(२)क्तदोषे तु तत्संसक्ताः प्रकीर्ति ताः । कर्तव्या न प्रदुष्टास्तु राज्ञा धर्म विजानता' ॥ इति । सामन्ता धभावे मौलायो ग्राह्याः । 'तेषामभावे सामन्तमौलवृद्धोद्धृता- दयः । स्थावरे षट्प्रकारेऽपि कार्या नात्र विचारणा' ॥ इति कात्या- यनेन क्रमविधा(३) नात् । एते च सामन्तादयः संख्यागुणातिरेकेण सम्भवन्ति । 'सामन्ताः साधनं पूर्व निर्दोषाः स्युर्गुणान्विताः । द्विगुणास्तूत्तरा ज्ञेयास्ततोऽन्ये त्रिगुणा मताः' ॥ इति स्मरणात् । ले च साक्षिणः सामन्तादयश्च स्वैः स्वैः शपथैः शापिताः सन्तः सीमां नयेयुः । (मनुः ८.२५६)-'शिरोभिस्ते गृहीत्वो] स्रग्विणो रक्तवाससः । सुकृतैः शापिताः स्वैः खैनयेयुस्ते समंजसम्॥ इति स्मरणात् । नयेयुरिति बहुवचनं द्वयोनिरासार्थ नैकस्य । 'एकश्चे. दुन्नयेसीमां सोपवासः समुन्नयेत् । रक्तमाल्याम्बरधरो भूमिमादाय सूर्धनि' ॥ इति नारदेनैकस्याभ्यनुज्ञानात् । योऽयं-नकः समुन्नये- सीमां नरः प्रत्ययवानपि । गुरुत्वादस्य कार्यस्य क्रियैषां बहुषु स्थिताः । इत्येकस्य निषेधः स उभयानुमतधर्मविद्यतिरिक्तविषय इत्य: विरोधः । स्थलादिचिह्नाभावेऽपि साक्षिसामन्तादीनां सीमाशाने "उपायविशेषो नारदेनोक्तः-'निम्नगापहृतोत्सृष्टनष्टचिह्नासु भूमिपु । तत्प्रदेशानुमानाच्च प्रमाणाद्भोगदर्शनात् ॥ इति । निम्नगया नद्या अपहृतेनापहरणेनोत्सृष्टानि स्वस्थानात्प्रच्युतानि नष्टानि वा लिङ्गानि यासु मर्यादाभूमिपु तत्र तत्मदेशानुमानादुत्सृष्टनष्टचिहानां प्राचीन प्रदेशानुमानात् ग्रामादारभ्य सहस्रदण्डपरिमितं क्षेत्रमस्य ग्रामस्य पश्चिमे भागे इत्येवंविधात्प्रमाणाद्वा प्रत्यर्थिसमक्षविप्रतिपन्नाया अ. स्मातकालोप(४)लक्षितभुक्तेर्वा निश्चिनुयुः । बृहस्पतिनाचात्र विशेषो (१) कुर्वीत घ. । (२) दोषेषु ग. । (६) क्रमाभिधानात् घ. । (१) पलवितैर्युक्तेर्वा घ. ।

-- याज्ञवल्क्यस्मृतिः। [ व्यवहाराध्यायः। ॥ - दर्शितः-'आगमं च प्रमाणं च भोगकालं च नाम च । भूभागलक्षणं चैव ये विदुस्तेऽत्र साक्षिणः' ॥ इति । एते च (१)साक्षिसामन्ता- दयः शपथैः श्राविताः सन्तः कुलादिसमक्षं राज्ञा प्रष्टव्याः। यथाह मनुः (८१२९४)-'ग्रामेयककुलानां तु समक्ष सीमिन 'साक्षिणः । प्रष्टव्याः सीमलिङ्गानि त्योश्चैव विवादिनोः ॥ इति । तेच पृष्टाः साक्ष्यादयः ऐकमत्येन समस्ताः सीम्नि निर्णयं ब्रूयुः। तैनिीता सी(२)मां तत्प्रदर्शितसकललिङ्गयुक्तां साक्ष्यादिनामान्वितां चावि स्मरणार्थ पत्रे समारोपयेत् । उक्तं च मनुना ( ८।२६१)-'ते पृष्टास्तु यथा युः समस्ताः सीम्नि निर्णयम् । निवनीयात्तथा सीमा सर्वो. स्तांश्चैव नामतः ॥ इति । एतेषां साक्षिसामन्तप्रभृतीनां सीमाच. क्रमणदिनादारभ्य यावत्रिपक्षं राजदैविकं व्यसनं चेन्नोत्पद्यते तदा तत्प्रदर्शनात्सीमानिर्णयः। अयं च राजदैविकव्यसनावधिः कात्या. यनेनोक्तः-सीमाचक्रमणे कोशे पादस्पर्श तथैव च। त्रिपक्षपक्ष सप्ताहं दैवराजिकमिष्यते' ॥ इति ॥ १५२ ॥ (वी०मि०) यदा त्वमीपां त्रिपक्षाभ्यन्तरे रोगादिश्यते तदा तेपां दण्डः कार्य इत्याह- अनृते तु पृथग्दण्ड्या राज्ञा मध्यमसाहसम् ॥ अनृते तेषां मिथ्यावचने निमित्तभूते राज्ञा पृथक् प्रत्येकं मध्यम साहसं पञ्चपणशतानि दण्ड्यास्ते सामनतदयः ।। (मिता०) यदा त्वमीपामुक्तसाक्ष्यवचसा त्रिपक्षाभ्यन्तरे रोगादि दृश्यते, अथवा प्रतिवादिनिर्दिष्टाभ्यधिकसंख्यागुणसाक्ष्यन्तरविरुद्ध वचनता तदा ते मृषाभाषितया दण्डनीयास्तदाह- अमृत इति । अनृते मि(३)थ्यावादने निमित्तभूते सति सर्वे, सामन्ताः प्रत्येकं मध्यमसाहसेन. चत्वारिंशंदधिकेन पणपञ्चशतेन दण्डनीयाः । सामन्तविषयता चास्य (४)साक्षिमौलादीनां स्मृत्य न्तरे दण्डान्तरविधातादवगम्यते । यथाह मनुः ( ८१२५७)-'यथो तेन नयन्तस्ते पूयन्ते सत्यसाक्षिणः । विपरीतं नयन्तस्तु दाप्याः स्युर्द्विशतं दमम्' ॥ इति । नारदोऽपि-अथ चेदनृतं व्रयुः सामन्ताः सीमनिर्णये । सर्वे पृथक् पृथग्दण्ड्या राज्ञा मध्यमसाहसम्' ॥ इति (१) साक्षिण. सामन्तादयः घ. । (२) सीमानं ख. (३) मिथ्यावदते गः। (४) साक्ष्यमौलत्वादीनो घ.। ।

सीमाविवादप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता । सामन्तानां मध्यमसाहसं दण्डमभिधाय-शेषाश्चेदनृतं ब्रूयुर्नियुक्ता भूमिकमणि । प्रत्येकं तु जघन्यास्ते विनेयाः पूर्वसाहसम्' ॥ इति तत्संसक्तादिषु प्रथमं साहसमुक्तवान् । मौलादीनामपि तमेव दण्ड- माह -'मौलवृद्धादयस्त्वन्ये दण्डगत्या पृथक् पृथक् । विनेयाः प्रथमेनैव साहसेनाऽनृते स्थिताः ॥ शत । आदिशब्देन गोपशाकु: निकव्याधवनगोचराणां ग्रहणम् । यद्यपि शाकुनिकादीनां पापरत. स्वाल्लिङ्गप्रदर्शन एवोपयोगो न साक्षात्सीमानिर्णये तथापि लिङ्गद- र्शन एव मृषाभाषित्वसम्भवाद्दण्डविधानमुपपद्यत एव । अनृते तु पृथक् दण्डया इत्येतद्दण्डविधानमज्ञानविषयम् । 'वहूनां तु गृहीतानां न सर्वे निर्णयं यदि । कुर्युर्भयाद्वा लोभाद्वा दण्ड्यास्तूत्तमसाहसम्॥ इति ज्ञानविषये साक्ष्यादीनां कात्यायनेन दण्डान्तरविधानात् । तथा साक्षिवचनभेदेऽप्ययमेव दण्डस्तेनैवोक्तः-'कीर्तिते यदि भेदः स्याद्दण्ड्यास्तूत्तमसाहसम्' इति । एवमज्ञानादिनाऽनृतवदने सा. क्ष्यादीन् दण्डयित्वा पुनः सीमाविचारः प्रवर्तयितव्यः । 'अज्ञानोक्तौ दण्डयित्वा पुनः सीमां विचारयेत्' इत्युक्त्वा 'त्यत्वा दुष्टांस्तु साम- न्तानन्यान्मौलादिभिः सह । संमिश्रय कारयेत्सीमामेवं धर्मविदो विदुः ॥ इति निर्णयप्रकारस्तेनैवोक्तः ॥ अभावे ज्ञातृचिन्हानां राजा सीम्नः प्रवर्तिता ।। १५३ ।। (वी०म०) यदि ज्ञातारश्चिह्वानि वा न सन्ति तदा राजा स्वेच्छा- नुसारेण सीम्नः प्रवर्तिता प्रवर्तयिता । अन्तर्भावितोऽत्र ण्यर्थः । यदाह नारदः- यदा तु न स्युर्शातारः सीमायां न च लक्षणम। तदा राजा द्वयोः सीमा नयेद् दृष्ट्वा च तत्स्वयम् ॥ मिताक्षरायां विववादास्पदीभूतभूमेः समविभागेन राज्ञा सीमां प्रवर्तयेदिति व्याख्यातम् । वृहस्पतिः- अन्यग्रामात्समाहृत्य दत्ताऽन्यस्य यदा मही। महानद्याऽथवा राज्ञा कथं तत्र विचारणा ॥ नद्योत्सृष्टा राजदत्ता यस्य तस्यैव सा मही। अन्यथा न भवेल्लाभो नराणां राजदेवतः ॥ क्षयोदयौ जीवनं च देवराजवशान्नृणाम् । तस्मात्सर्वेषु कार्येषु तत्कृतं न विचालयेत् ॥ .७८॥

याज्ञवल्क्यस्मृतिः। [ व्यवहाराध्यायः । ग्रामयोरुभयोर्यत्र मर्यदा कल्पिता नदी । क्षयोदये न चाल्पासौ चालयन् दण्डमहति ॥ एकत्र कूलपातं तु भूमेरन्यत्र संस्थितिम् । नदीतीरे प्रकुरुते तस्य तां न विचालयेत् ॥ कूलपातक्रमे या भूः सोत्तरं स्वामिन इत्यर्थः । क्षेत्रं समस्तभुल्लङ्घन्य भूमिः स्वस्था यदा भवेत् । तदा स्रोतःप्रवाहेण पूर्वस्वामी लभेत ताम् ॥ क्षेत्रोल्लङ्घनेन नदीसञ्चारे लछिन्ता भूः पूर्वस्वामिन एव तिष्ठ- तीत्यर्थः ।। १५३॥ (मिता० ) यदा पुनः सामन्तप्रभृतयो ज्ञातारश्चिह्नानि च न स. न्ति तदा कथं निर्णय इत्यत आह- अभाव इति । ज्ञातॄणां सामन्तादीनां लिङ्गादीनां च वृक्षादीनाम. भावे राजैव सीम्नः प्रवर्तिता प्रवर्तयिता। अन्तर्भावितोऽत्र ण्यर्थः । ग्रामद्वयमध्यवर्तिनी विवादास्पीभूतां भुवं समं प्रविभज्य अस्येयं भूरस्येयमित्युभयोः समर्प्य तन्मध्ये सीमालिङ्गानि कुर्यात् । यदा त. स्यां भूमावन्यतरस्योपकारातिशयो दृश्यते तदा तस्यैव ग्रामस्य सकला भूः समर्पणीया । यथाह मनुः ( ८१२६५ )-'सीमायामविक ह्यायां स्वयं राजैव धर्मवित् । प्रदिशेद् भूमिमेकेपामुपकारादिति स्थितिः ॥ इति ॥ १५३ ॥ (वी०मि०) ग्रन्थलाघवार्थमुक्तविधिमन्यत्राऽतिदिशति- आरामायतनग्रामनिपानोद्यानवेश्मसु ॥ एष एव विधिज्ञेयो वर्षाम्बुप्रनहादिपु ।। १५४ ॥ आराम उपवनं, आयतनं पलालकूटादिस्थापनार्थ विभक्तो भूप्र. देशः, ग्रामो नगरादेरप्युपलक्षकः, निपानं कूपवाप्यादि, उद्यानं क्रीडार्थभूप्रदेशः, वेश्म गृहं, वर्षाम्वुप्रवाहः वर्षणजलसमुद्भूतप्रणा- ली, एषु एष एव सीमायामुक्त एव विधिनिश्चयप्रकारः । आदिपदेन क्षेत्रद्वारादिसङ्ग्रहः । अत्र बृहस्पतिः- निवेशकालादारभ्य गृहवार्यापणादिकम् । येन यावद्यथा भुक्तं तस्य तन्न विचालयेत् ॥ वातायनाः प्रणाल्यश्च तथा नियूहवेदिका । चतुःशाले स्यन्दनिकाः प्राङ्निविष्टा न चालयेत् ॥

सीमाविवादप्रकरणम् ।] वीरमित्रोदयमिताक्षरसिाहता । . - प्रणाली जलमार्गः, नि!हवेदिका नागदन्तवेदिका, चतुःशालं चतुारं गृहं, स्यन्दनिका पटलप्रान्तः ओसारीति प्रसिद्धा। कात्यायनः- वृष्टिपातं प्रणालं च न कुर्यात्परवेश्मनि । बृहस्पतिः- वर्चःस्थानं व्रम्हचर्य गर्तो विष्ठानुसेवनम् । अत्यारात्परकुड्यस्य न कर्तव्यं कदाचन ॥ तथा- यान्त्यायान्ति जना येन पशवश्चाभिवारिताः। तदुच्यते संसरणं न रोद्धव्यं तु केनचित् ॥ कात्यायन:- - विण्मूत्रोदकचक्रं च वन्हिश्वभ्रे निवेशयेत् । अरनिद्वयमुत्सृज्य परकुड्यां निवेशयेत् ॥ चक्र तैलादियन्त्रम् । तथा- सीमामध्ये तु जातानां वृक्षाणां सेवयोर्द्वयोः । फलं पुष्पं च संजातं क्षेत्रस्वामिपु निर्दिशेत ॥ द्वयोः क्षेत्रयोः स्वामिषु । अन्यक्षेत्रेषु जातानां शाखा यत्राऽन्यसंस्थिताः । स्वामिनं तं विजानीयाद्यस्य क्षेत्रेषु संस्थिताः ॥ शाखा इति शेषः ॥ १५४॥ (मिता० ) अलत्यामप्यतद्भावाशङ्कायामस्याः स्मृनेयायमूलतां दर्शयितुमतिदेशमाह- आरामेति । आरामः पुष्पधलोपचयहेतुर्भूभागः । आयतनं नि वेशनं (१)पलालकूटाद्यर्थ विभक्तो भूप्रदेशः । ग्रामः प्रसिद्धः । ग्राम ग्रहणं च नगरायुपलक्षणार्थम् । निपानं पानीयस्थानं वापीकूपप्रभृ- तिकम् । उद्यानं क्रीडावनम् । वेश्म गृहम् । एतेष्वारामादिप्वयमेव सामन्तसाक्ष्यादिलक्षणो विधितिव्यः । तथा प्रवर्षणोद्भूतजलप्र. वाहेपु अनयोहयोर्मध्येन जलोधः प्रवहति अनयोर्वत्येवंप्रकारे वि वादे आदिग्रहणात्प्रासादादिष्वपि प्राचीन एव विधिर्वेदितव्यः । त था च कात्यायनः क्षेत्रकूपतडागानां केदारारामयोरपि । गृहप्रासा दावसथनृपदेवगृहेषु च ॥ इति ॥ १५४ ॥ (१) पलालादिकुटायर्थ घ. ।

याज्ञवल्क्यस्मृतिः। [ व्यवहाराध्यायः । (वीमि०) सीमाप्रसङ्गेन तदतिक्रमे दण्डमभिधानस्तमेवं द ण्डमन्यत्रापि ग्रन्थलाघवार्थमाह- मर्यादायाः प्रभेदे तु सीमातिक्रमणे तथा ।। क्षेत्रस्य हरणे दण्डा अधमोत्तममध्यमाः ।। १५५ ॥ क्षेत्रादिव्यवच्छेदिका साधारणी भूर्मर्यादा तस्याः प्रकर्षण भेदने सीमाया अतिक्रमणे तद्वहिः कर्षणादौ क्षेत्रस्य परकीयस्थ भयादि. प्रदर्शनेन हरणे च यथाक्रममधमोत्तममध्यमसाहसा दण्डाः का. र्याः । तथापदेन क्षेत्रस्येत्यत्रान्वितेन गृहारामादिसङ्ग्रहः । तुशब्देना. ऽनुलक्ष्यभेदनव्यवच्छेदः ॥ १५५ ॥ (मिता० ) सीमानिर्णयमुक्त्वा तत्प्रसङ्गेन मर्यादाप्रभेदनादौ दण्डमाह- मर्यादाया इति । अनेकक्षेत्रव्यवच्छेदिका (१)साधारणा भूमर्यादा तस्याः प्रकर्षेण भेदने सीमातिक्रमणे सीमा(२)मतिलजन्य कर्षणे क्षे. त्रस्य च भयादिप्रदर्शनेन हरणे यथाक्रमेण अधमोत्तममध्यमसाहसा दण्डा वेदितव्याः। क्षेत्रग्रहणं चात्र गृहारामाद्युपलक्षणार्थम् । यदा पुनः स्वीयभ्रान्त्या क्षेत्रादिकमपहरति तदा द्विशतो दमो वेदितव्यः । यथाह मनुः ( ८१६४)-'गृहं तडागमारामं क्षेत्रं वा भीषया हरन् । शतानि पञ्च दण्ड्यः स्यादज्ञानाद् द्विशतो दमः ॥ इति । अपहियमा णक्षेत्रादिभूयस्त्वपर्यालोचनया कदाचिदुत्तमोऽपि दण्डः प्रयोक्तव्यः। अत एवाह-वधः सर्वस्वहरणं पुराग्निर्वासनाङ्कने । तदङ्गच्छेद इत्यु. तो दण्ड उत्तमसाहसः ॥ इति ॥ १५५ ॥ (वी० मि०) क्षेत्रस्य हरणे दण्ड इत्युक्तमपवदति-- न निषेधोऽल्पबाधस्तु सेतुः कल्याणकारकः॥ परभूमि हरन कूपः स्वल्पक्षेत्रो वहूदकः ॥ ११६ ॥ यदि क्षेत्रस्वामिनोऽल्पा वाधा पीडा यतस्तादृशः सेतुर्वन्धः कल्याणस्य परकीयस्य बहूपकारस्य कारकः स्यात्तदा क्षेत्रस्वामिना तत्र सेतुकर्ता न निषेध्यः न निवारणीयः । परभूमि हरन्नपीत्युभयत्रा ऽन्वितम् । स्वल्पक्षेत्रस्य बहूदककूपो न निषेध्यः । तुशब्देन सम्पूर्ण क्षेत्रदूषकतया बहुवाधस्य सताव्यवच्छेदः ॥ १५६ ॥ १ (२) साधारणी ग.। (९) सीमामनतिलय ख.।

सीमाविवादप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता । . (मिता० ) यः पुनः परक्षेत्रे सेतुकूपादिकं प्रार्थनयाऽर्थदानन वा लब्धानुज्ञो निर्मातुमिच्छति तनिषेधतः क्षेत्रस्वामिन एव दण्ड इत्याह- न निषेध्य इति । परकीयां भूमिमपहरन्नाशयन्नपि सेतुर्जलप्रवाह- वन्धः क्षेत्रस्वामिना न प्रतिषेध्यः स चेदीषत्पीडाकरो बहूपकारकश्च भवति । कूपश्चाल्पक्षेत्रव्यापित्वेनाल्पबाधो बहूदकत्वेन (१)कल्याण. कारकश्वातो बहूदको नैव निवारणीयः। कूपग्रहणं च वापीपुष्करि- ण्याद्युपलक्षणार्थम् । यदा पुनरसौस (२)र्वक्षेत्रवर्तितया वहुवाधो नद्या. दिसमीपक्षेत्रवर्तितया वाल्पोपकारकस्तदासौ निषेध्य इत्यर्थादुक्तं भवति । सेतोश्च द्वैविध्यमुक्तं नारदेन 'सेतुश्च द्विविधो ज्ञेयः खेयो वन्ध्यस्तथैव च। तोयप्रवर्तनात्यो वन्ध्यः स्यात्तन्निवर्तनात् ॥ इति । यदा त्वन्यनिर्मितं सेतुं भेदनादिना नष्टं स्वयं संस्करोति तदा पूर्वस्वामिनं तद्वंश्यं नृपं वा पृष्ठैव संस्कुर्यात् । यथाह नारदः- पूर्व प्रवृत्तमुत्सन्नमपृष्ट्वा स्वामिनं तु यः । सेतुं प्रवर्तयेत्कश्चिन्न स तत्फल. भाग्भवेत् ॥ मृते तु स्वामिनि पुनस्तद्वंश्ये वापि मानवे । राजानमाम- न्य ततः कुर्यात्सेतुप्रवर्तनम्' इति ॥ १५६ ॥ ( वी०मि०) परक्षेत्र सेतुं कूपं वा चिकीर्षता प्रार्थनयाऽर्थदानेन वा क्षेत्रस्वामिनं तदभावे राजानं वाऽनुज्ञाप्य स कार्य इत्यभिप्रेत्याह- स्वामिने योऽनिवेद्यैव क्षेत्रे सेतुं प्रवर्तयेत् ।। उत्पन्ने स्वामिनो भोगस्तदभावे महीपतेः ॥ १५७ ॥ तदुत्पन्ने फले सस्यवृधतिशये क्षेत्रस्वामिनो भोगो न तु क- तुः । यादे तु स्वामी नास्ति तदा महीपतेस्तत्फलभोगः । एवकारः स्वामिन इत्यत्रान्वेति, तेन सेतुकतुर्व्यवच्छेदः ॥ १५७ ।। (मिता०) क्षेत्रस्वामिनं प्रत्युपदिष्टम् । इदानी सेतोः प्रवर्तयितारं प्रत्याह- स्वामिने इति । क्षेत्रस्वामिनमनभ्यु(३)पगम्य तदभावे राजानं वा यः परक्षेत्रेसेतुं प्रवर्तयत्यसौ फलभाङ्न भवत्यपितु तदुत्पन्ने फले क्षेत्रस्वामिनो भोगस्तदभावे राज्ञः। तस्मात्प्रार्थनया अर्थदानेन वा क्षेत्रस्वामिनं तदभावे राजानं वानुज्ञाप्यैव परक्षेत्रे सेतुः प्रवर्तनीय इति तात्पर्यार्थः ॥ १५७ ॥ (१) बहूपकारफो नैव घ.. (२) समग्रक्षेत्र घ.। (३) भ्युपगमय्य घ. ७९ याज्ञवल्क्यस्मृतिः। [ व्यवहाराध्यायः। (वी०मि०) क्षेत्रप्रसङ्गेनाह- फालाहतमपि क्षेत्रं यो न कुर्यान(१) कारयेत् ॥ स प्रदाप्यः कृष्टफलं क्षेत्रमन्येन कारयेत् ।। १५८ ॥ अहमिदं क्षेत्रं कृषामीति क्षेत्रस्वामिनेऽङ्गीकृत्य फालाहतमीष- द्धलेन विदारितमपि क्षेत्रं यः पश्चात् स्वयं न करोति न वा परद्वारा कारयति स कृष्टस्य क्षेत्रस्य यावदुचितं फलं सामन्तादिकल्पितं प्र. दाप्यः । तच्च क्षेत्रं तस्मादाच्छिद्य अन्येन कर्पण कारयेत् ॥ १५८ ॥ इति श्रीसकलसामन्तचक्रचूडामणिमरीचिमञ्जरीनीराजितचर. णकमलश्रीराजाधिराजमधुकरसाहिसूनुश्रीमन्महाराजाधिराजचतुरु. दधिवलयवसुन्धराहृदयपुण्डरीकविकासदिनकरथीवीरसिंहदेवोद्यो- जितश्रीहंसपण्डितात्मजश्रीपरशुरामसृरिसूनुसकलविद्यापारावारपा. रीणधुरीणश्रीमन्मित्रमिश्रकृते श्रीवीरमित्रोदयाख्याने श्रीयाज्ञवल्क्य. व्याख्याने सीमाविववादप्रकरणम् ॥ (मिता) क्षेत्रस्वामिना सेतुर्न प्रतिपेध्य इत्युक्तम् । इदानीं तस्यैव प्रसक्तानुप्रसक्त्या क्वचिद्विध्यन्तरमाह- फालाहतमिति । यः पुनः क्षेत्रस्वामिपार्चे अहमिदं क्षेत्रं कृपा- मीत्यङ्गीकृत्य पश्चादुत्सृजति न चान्येन कर्पयति तच्च क्षेत्रं यद्यपि फालाहतं ईषद्धलेन विदारितं न सम्यग्वीजावापाई तथापि तस्या- कृष्टस्य फलं यावत्तत्रोत्पत्त्यर्ह लामन्तादिकल्पितं तावदसौ कर्पको दापनीयः । तच्च क्षेत्रं पूर्वकर्षकादाच्छिद्यान्येन कारयेत् ॥ १५८ ॥ इति सीमाविवादप्रकरणम् । ( वी०मि० ) यथ स्वामिपालविवादप्रकरणमारभ्यते- मापानष्टौ तु महिपी सस्यघातस्य कारिणी ।। दण्डनीया तदर्ध तु गौस्तदर्धमजाविकम् ॥ २५९ ॥ महिषी अष्टौ माषान् दण्डनीया। सस्यनाशकारिणी गौस्तदर्ध माषचतुष्टयं दण्डनीया । अजाविकं तु छागो मेषश्च सस्यनाशकारी तदर्ध मापद्वयं दण्डनीयमिति विपरिणामेनाऽन्वयः । अत्र महिन्या. (१) न कुर्यायो न कारयेत् इति मु० पु० पाठः ।

स्वामिपालविवादप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता । ६३९ ॥ दीनां धनशून्यत्वेन दण्डासम्भवात्तत्स्वामी तत्पालकोऽस्तु । माष. श्चात्र राजतः प्रागभिहितो राजतद्वयपरिमितो ग्राह्यः । सौवर्णैर्माषकैः संख्यादण्डकर्मसु शस्यते । पशूनां सस्यचरणे मारन्यैस्तु राजतैः ।। इति भाष्यकारवचनात् । एतच्चाऽज्ञानविषयम् ।ज्ञानपूर्वे तु कात्यायन:- दापयेत्पणपादं गां द्वौ पादौ महिषर्षी तथा । तथाऽजाविकवत्सानां पादो दण्डः प्रकीर्तितः ॥ पणः कार्षापणः । तस्य पादश्चतुर्थाशः । 'अजादेः पाददण्डनं रा. त्रौ भक्षणे द्रष्टव्यामिति रत्नाकरः । मापं गां दापयेद्दण्डं द्वौ माषौ महिषीं तथा । तथाऽजाविकवत्सानां दण्डः स्यादर्धमाषिकः ॥ इति नारदवचनं तु प्ररोहयोग्यमूलावशेषभक्षणपरम् ॥ १५९ ॥ (मिता०) व्यवहारपदानां परस्परहेतु(१)हेतुमद्भावाभावात् 'ते. षामाद्यमृणादांनम्' इत्यादिपाठक्रमो न विवक्षित इति व्युत्क्रमेण स्वामिपालविवादोऽभिधीयते- माषानिति । परसस्यविनाशकारिणी महिषी अष्टौ माषान् दण्ड नीया। गौस्तदर्ध चतुरो माषान् । अजा मेषाश्च माषद्वयं दण्डनी याः। महिष्यादीनां धनसम्बधाभावात्तत्स्वामी पुरुषो लक्ष्यते । मा. षश्चात्र ताम्रिकपणस्य विंशतितमो भागः । 'मापो विंशतिमो भागः पणस्य परिकीर्तितः' इति नारदस्मरणात् । एतच्चाज्ञानविषयम् । ज्ञानपूर्वेतु 'पणस्य पादौ द्वौ गां(२) तु द्विगुणं महिषीं तथा । तथा. ऽजाविकवत्लानां पादो दण्डः प्रकीर्तितः ॥ इति स्मृत्यन्तरोक्तं द्र. टव्यम् । यत्पुनर्नारदेनोक्तम्-'माषं गां दापयेद्दण्डं द्वौ मापौ महिषीं तथा । तथाजाविकवत्सानां दण्डः स्यादधमाषिकः ॥ इति, तत्पुनः प्ररोहयोग्यमूलावशेपभक्षणावेषयम् ॥ १५९ ॥ भक्षयित्वोपविष्टानां यथोक्ताद्विगुणो दमः ।। (वी०मि० ) परक्षेत्रे सस्यं भक्षयित्वा तृप्ता अनिवारितास्तत्रैव यापविशन्ति महिध्यादयस्तदा पूर्वोक्तात् द्विगुणो दमो दण्डः का. यः । सवत्सानां तु भक्षयित्वोपविष्टानां पूर्वोक्ताश्चतुर्गुणो दण्डः कार्यः . (१) हेतुमद्भावात् घ.। (२) गां तद्विगुणं घ.I:

- याज्ञवल्क्यस्मृतिः। [ व्यवहाराध्यायः। वसतां द्विगुणः प्रोक्तः सवत्सानां चतुर्गुणः । इति वचनात् ॥ १६०॥ (मिता०) अपराधातिशयेन क्वचिद्दण्डद्वैगुण्यमाह- मक्षयित्वेति । यदि पशवः परक्षेत्रे सस्यं भक्षयित्वा तत्रैवानि. वारिताः शेरते तदा यथोक्ताद्दण्डाद् द्विगुणो दण्डो वेदितव्यः । सब सानां पुनर्भक्षयित्वोपविष्टानां यथोक्तदण्डाच्चतुर्गुणो दण्डो वेदि. तव्यः । वसतां द्विगुणः प्रोक्तः सवत्लानां चतुर्गुणः' इति वचनात् !! सममेषां विवीतेऽपि खरोष्ट्र महिषीसमम् ।। १६० ॥ (व०मि० ) विवीतं प्रचुरतृणं गवादिचरणस्थानं परेण रक्ष्यमा णम् । तत्र तृणभक्षकानामेषां महिष्यादीनां समं क्षत्रं सस्यभक्षण- तुल्यं दण्डनीयम् । खरश्च उष्ट्रश्च खरोष्ट्रं तन्महिषीसमं यादृशे स. स्यघाते महिण्या यादृशो दण्डस्तादृशे तादृशो दण्डः खरोष्ट्रयोरपी. त्यर्थः ॥ १६०॥ (मिता०) क्षेत्रान्तरे पश्वन्तरे चातिदेशमाह- सममिति ! विवीतः प्रचुरतणकाष्ठो रक्ष्यमाणः परिगृहतो भूप्र. देशः । तदुपधातेऽपीतरक्षेत्रदण्डेन समं दण्डमेषां महिष्यादीनां वि. चात् । खराश्च उष्ट्राश्च खरोष्ट्रं तन्महिषीसमम् । महिषी यत्र यादृशेन दण्डेन दण्ड्यते तत्र तादृशेनैव दण्डेन खरोष्ट्रमपि प्रत्येकं दण्ड. नीयम् । सस्योपरोधकत्वेन खरोष्ट्रयोः प्रत्येकं महिषीतुल्यत्वाद्दण्ड. स्य चापराधानुसारित्वात्खरोष्ट्रमिति समाहरो न विवक्षितः ॥१६०॥ (व०मि० ) सस्यघाते न केवलं दण्डनीयः, किन्तु क्षत्रस्वामिने फलमपि दाप्य इत्याह- यावत्सस्यं विनश्येत्तु क्षेत्री ता(१)वत्फलं लभेत् ।। .. गोपस्ताड्यश्च गो(२)मी तु पूर्वोक्तं दण्डमर्हति ।। १६१ ॥ यावत्सस्यं महिष्यादिभक्षणेन नश्येत्तावतः सस्यस्य समुचितं फलमुपचयं क्षेत्रस्वामी लभेत् महिध्यादिस्वामिसकाशादित्यर्थः । तुशब्देन विनष्टातिरिक्तस्य तरक्षेत्रस्य सस्यफलं व्यवच्छिनत्ति । गो- पस्तु ताड्य एव न तु क्षेत्रफलं दद्यात् । सस्यभक्षणजन्यक्षीरादेः (१) तावत्स्यान्सत्रिणः फलम् । इति मुम्पु० पाठः। (२) गोपस्ताड्यस्तु गोस्वामी-इति क० ख० पु० पाठः । ।

स्वामिणलविवादप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता । ६४१ - - स्वामिनोपभोगादिति भावः । ताडनं च प्रागुक्तदण्डस्याप्युपल. क्षकम् । या नष्टा पालदोषण गौस्तु सस्यानि नाशयेत् । न तत्र गोमिनो दण्डः पालस्तं दण्डमहति ॥ इति वचनात् । गोमी गोस्वामी । उपलक्षणं चैतत् , महिष्यादि- स्वामिनामपि पूर्वोक्तं दण्डमर्हति ।तुशब्देन ताडनं व्यवच्छिनत्ति॥१६१॥ (मिता०) परस्यविनाशे गोस्वामिनो दण्ड उक्तः। इदानी क्षेत्र स्वामिने फलमप्यसौ दापनीय.इत्याह- यावदिति । सस्यग्रहणं क्षेत्रोपचयोपलक्षणार्थम् । यस्मिक्षेत्रे याव-पलालधान्यादिकं गवादिभिर्विनाशितं तावत्क्षेत्रफलमेतावति क्षेत्र एतावद्भवतीति सामन्तैः परिकल्पितं तत्क्षेत्रस्वामिने गोमी दा. पनीयः । गोपस्तु ताडनीय एव न फलं दापनीयः। गोपस्य च ता. डनं पूर्वोक्तधनदण्डसहितमेव पालदोषेण सस्यनाशे द्रष्टव्यम् । 'या नष्टा पालदोषेण गौस्तु सस्यानि नाशयेत् । न तत्र गोमि(१)नो दण्डः पालस्तं दण्डमहति ॥ इति वचनात् । गौमी पुनः स्वापराधेन स- स्यनाशे पूर्वोक्तं दण्डमवार्हति न ताडनम् । फलदानं पुनः सर्वत्र गो(२)स्वामिन एव । तत्फलपुष्टमहिण्यादिक्षीरेणोपभागद्वारेण त. क्षेत्रफलभागित्वात् । गवादिभक्षितावशिष्टं पलालादिकं गोमिनैव ग्रहीतव्यम् । मध्यस्थकल्पित(३)मूल्यदानेन क्रोतप्रायत्वात् । अत एवं नारद:--'गोभिस्तु भक्षितं सस्यं यो नरः प्रतियाचते। सामन्तानु: मतं देयं धान्यं यत्तत्र वापितम् ॥ पलालं (४)गोमिने देयं धान्यं वै कर्षकस्य तु' । इति ॥ १६१ ॥ ( वी०मि० ) क्षेत्रविशेष पशुविशेपे चाऽभिहितं दण्डादिकम पवदति- पथि ग्रामविवीतान्ते क्षेत्रे दोपो न विद्यते ॥ अकामतः कामचारे चौरवद्दण्डमहति ।। १६२ ॥ महोक्षोत्पृष्टपशवः सूतिकागन्तुकादयः ।। पाला येषां तु(५) ते मोच्या राजदैवपरिप्लुताः ।। १६३ ॥ (२) गोमिनो दण्डः ख.। (२) गोमिन एव ग.। (६) मूल्यद्वारेण घ.. (१) गोमिना देयं ख. १५) पालो येषां न ते इति मु० पु० पाठः ।

६४२ याज्ञवल्क्यस्मृतिः। [ व्यवहाराध्यायः । . - मार्गे ग्रामविवीतानां समीपवर्तिस्वक्षेत्रे स्वामिनः पालस्य चा निच्छया गवादिभिक्षतेऽपि दोषो गोस्वामिनः । पालस्य चाऽपरा. धो दण्डादिप्रयोजको न भवति । कामतो गवादीनां चारणे तु चा. रकश्चौर इव दण्डमर्हति । अयं च दोषाभावः क्षेत्रस्याऽनावृतत्वेऽल्प. कालं तद्भक्षणे च द्रष्टव्यः । यत्राऽपरिवृतं धान्यं विहिंस्युः पशवो यदि । न तत्र प्रणयेद्दण्डं नृपतिः पशुरक्षिणाम् ॥ इति मनुवचनात् । 'पथि ग्रामविवीतान्ते न दोषोऽन्यवृते धान्य. कालमिति विष्णुवचनाच्च । महोक्षो वीजसेक्ता वृषभः । उत्सृष्टपशवो वृषोत्सर्गादौ त्यत्ता वृपभवत्सप्रिभृतयः । सुतिका प्रसवोत्त. रमनिर्गतदशाहा । आगन्तुकाः स्वयूथभ्रष्टा देशान्तरादेवागताः । आदिना- अदण्ड्या हस्तिनोऽश्वाश्च प्रजापाला हि ते स्मृताः। इत्यादिस्मृत्यन्तरोक्ताः । मोच्याः दण्डनीयाः। येषां गवादीनां पालाराजदैवकेन परिप्लुता अस्वाधीनत्वात् ते विमोच्याः। उत्सृष्टानां स्वामिविरहेण दण्डाप्रसक्त्या दृष्टान्तार्थ तदुपादानमित्युपगन्त. व्यम् । तुशब्देनोक्तातिरिक्तानां मोच्यत्वव्यवच्छेदः ॥ १६२--१६३ ॥ (मिता०) क्षेत्रविशेषे अपवादमाह- पथीति । पथि ग्रामसमीपवर्तिनि क्षेत्रे ग्रामविवीतसमीपवर्तिनि च क्षेत्रे अकामतो गोभिर्भक्षिते गोपगोमिनोईयोरप्यदोषः । दोषाभाव प्रतिपादनं च दण्डाभावार्थ विनष्टसस्यमूल्यदानप्रतिषेधार्थ च । कामचारे कामतश्चारणे चौरवत् चौरस्य यादृशो दण्डस्तादृशं द. ण्डमर्हति । एतच्चानावृतक्षेत्रविषयम् । ( मनुः ८।२३८ ) 'यत्रापरि. वृतं धान्य विहिंस्युः पशवो यदि । न तत्र प्रणयेद्दण्डं नृपतिः पशु रक्षिणाम्॥ इति दण्डाभावस्यानावृतक्षेत्रविषयत्वेन मनुनोक्तत्वात् । आवृते पुनर्मार्गादिक्षेत्रेऽपि दोषोऽस्त्येव । वृतिकरणं च तेनैवोक्तम् । (मनुः ८।२३९) 'वृतिं च तत्र कुर्वीत यामुष्ट्रो नावलोकयेत् । छिद्रं निवारयेत्सर्व श्वसूकरमुखानुगम् ॥ इति ॥ १६२ ।। (मिता०) पशुविशेषेऽपि दण्डाभावमाह:- महोति । महांश्चासावुक्षा च महोक्षो वृषः सेक्ता । उत्सृष्टपशवः वृषोत्सर्गादिविधानेन देवतोद्देशेन वा त्यक्ताः। सृतिका प्रसृता अनि ।

स्वामिपालविवादप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता । ६४३ - दशाहा ! आगन्तुकः स्वयूथात्परिभ्रष्टो देशान्तरागतः । एते मोच्याः परसस्यभक्षणेऽपि न दण्ड्याः । येषां च पालो न विद्यते तेऽपि दै. वराजपरिप्लुताः देवराजोपहताः सस्यविनाशकारिणो न दण्ड्याः । आदिशब्दग्रहणाद्धस्त्यश्वादयो गृह्यन्ते । ते चोशनसोक्ताः-'अद. ण्ड्या हस्तिनो ह्यश्वाः प्रजापाला हि ते स्मृताः । (१)अदण्ड्यौ का- णकुब्जी च ये शश्वत्कृतलक्षणाः ॥ अदण्ड्यागन्तुकी गौश्च सूतिका वाभि(२)सारिणी । अदण्ड्याश्चोत्सवे गावः श्राद्धकाले तथैव च ॥ इति । अत्रोत्सृष्टपशूनामस्वामिकत्वेन दण्ड्यस्वासंभवात् दृष्टान्तार्थ. मुपादानम् । यथोत्सृष्टपशवो न दण्ड्या एवं महोक्षादय इति ॥ १६३ ।। (वी० मि० ) कस्मिन्काले पशूनामपराधे स्वामी दण्ड्यः कस्मि- श्च पाल इत्यपेक्षायां रात्रिकालीनेऽपराधे स्वामी दिवातने पाल इत्यु. त्तरमभिसन्धाय पालमधिकृत्य प्राह- यथापितान् पशून् गोपः सायं प्रत्यर्पयेत्तदा ॥ प्रमादमृतनष्टांश्च प्रदाप्यः कृतवेतनः ॥ १६४ ॥ पालदो(३)पाद्विनाशे तु पाले दण्डो विधीयते ।। अर्धत्रयोदशपण: (४)स्वामिनो द्रव्यमेव च ॥ १६५ ॥ यथा व्रणादिरहिताः संख्याविशेषविशिष्टाश्च पशवः स्वामिना प्रातःकाले गोपेऽर्पितास्तथैव तान् गोपः सायं प्रत्यर्पयेत् । दिवा स्वप्रमादेन मृतान् मूल्यद्वारेण चोपहरणादिना नष्टानदर्शनं प्राप्तांश्च प्रदाप्यः, यदि स कृतवेतनः कल्पितवेतनः स्यात् । चौरादिहतस्या- प्यानयनाशक्यत्वे स्वामिने तन्मूल्यं द्रव्यमेव विधीयते देयतया व्यवस्थाप्यते । दोषान्मरणे चौरादिहरणे वा पशूनां पालस्य अर्धपः णत्रयोदशः पणोऽर्धाधिकद्वादशपणमितो दण्डः स्वग्राह्यो राज्ञा विधीयते । आद्यचकारेण श्वभिन्ननिपतितादिसञ्जाहः । तुशब्देन व (१) अदण्डयाः काणकूटाश्च वृषाश्च कृतलक्षणाः इति पाठः । कूटः एकशंगः । कृतलक्षणः प्रततायसेन कृतलाञ्छनः। (२) अभिसारिणी स्वयूथात्प्रच्युता पुनः स्वयूथगामिनी । (६) पालदोषविनाशे तु-इति मु० पु० पाठः । (४) अर्धत्रयोदेशपण इति अर्धरहितत्रयोदशपणः सार्धद्वादशपण इति यावत् । 'तास्तृतीयपू. र्धपदाः समानाधिकरणेन समस्यन्त उत्तरपदलोपश्च' इति वार्तिकादुत्तरपदलोपी कर्मधारयः । यत्तु विज्ञानेश्वरेणार्धाधिकत्रयोदशपणो दण्डः इति 'व्याख्यातं तत् सार्धद्विमात्रादिषु अधत्रिमाप्रादीति महाभाष्यकारशब्दप्रयोगदर्शनादुपेक्ष्यम् । -- - ६४४ याज्ञवल्क्यस्मृतिः । [ व्यवहाराध्यायः । लात्कारण गृहीत्वा चौरव्याघ्रादिकं स्वामिने कथयितुः पालस्य द. ण्डादिकं व्यवच्छिनत्ति । तदाहतुर्मनुनारदौ- विक्रम्य तु हृतं चौरैर्न पालो दातुमर्हति । यदि देशे च काले च स्वामिनः स्वस्य शंसति ॥ बृहस्पतिश्च- अव्यायच्छन्नविक्रोशन् स्वामिने चाऽनिवेदयेत् । वोदुमहति दोपं तं विनयं चैव राजनि ॥ द्वितीयेन चकारेण दण्डसाहित्यार्थकेन तद्विकल्पशङ्कां व्यु. दस्यति ॥ १६४-१६५ ॥ (मिता० ) गोस्वामिन उक्तमिदानी गोपं प्रत्युपदिश्यते- यथार्पितानिति । गोस्वामिना प्रातःकाले गणयित्वा यथासम. र्पिताः पशवस्तथैव सायंकाले गोपो गोस्वामिने पशून् विगणय्य प्र. त्यर्पयेत् । प्रमादेन स्वापराधेन मृतान्नष्टांश्च पशुन् कृतवेतनः कल्पि- तवेतनो गोपः स्वामिने दाप्यः । वेतनकल्पना च नारदेनोक्ता-'गवां शताद्वत्सतरी धेनुः स्याद्वि(१)शताभृतिः । प्रतिसंवत्सरं गोपे सं. दोहश्चाष्टमेऽहनि' ॥ इति । प्रमादनाशश्च मनुना स्पष्टीकृतः (८।२३२) 'नष्टं जग्धं च कृमिभिः श्वहतं विषमे मृतम् । हीनं पुरुषकारेण प्रदद्यात्पाल एव तु ॥ इति । प्रसह्य चौरै(२)रपहृतं न दाप्यः । य. थाह मनुः (८०२३३)-'वि(३)क्रम्य तु हृतं चौरैर्न पालो दातुमर्ह- ति । यदि देशे च काले च स्वामिनः स्वस्य शंसति ॥ इति । दै(४). वमृतानां पुनः कर्णादि प्रदर्शनीयम् । ( ८२३४) 'कर्णी चर्म च वा- लांश्च वस्ति (G)स्नायुं च रोचनाम् । (६)पशुषु स्वामिनां दद्यान्मृ. तेष्वङ्गा(७)नि दर्शयन् ॥ इति मनुस्मरणात् ॥ १६४ ॥ (पिता० ) पालदोषेति । किं च पालदोषेणैव(८)पशुविनाशे अर्धाधिकत्रयोदशपणं दण्डं पालो दाप्यः । स्वामिनश्च द्रव्यं विनष्ट पशुमूल्यं मध्यस्थकल्पितम् । दण्डपरिमाणार्थः श्लोकोऽन्यत्पूर्वो. क्तमेव ॥ १६५॥ (१) द्विशताद् मृतिः घ.। (२) अपहृतान् ख.। (३) विधुष्यत्विति पाठान्तरम् । (४) दैवराजमृतानां ख. (५) स्नायूनि रोचनाम् । (६) पशुस्वामिषु दयातु मृतेश्वगानि घ.1 (७) अङ्कादि दर्शयेत् इति पाठः । (८) दोषेण पशु घ.।

स्वामिपालविवादप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता । ६४५ - ( वी० मि०) ननु क्षेत्रादिव्याप्त देशे कथं गवां वृतिः सञ्चारणं वा स्यात सर्वत्र दण्डसंभवादत आह- ग्रामेच्छया गोपचारे भूमी राजवशेन वा ॥ द्विजस्तृणैधःपुष्पाणि सर्वतः स्ववदाहरेत् ॥ १६६ ।। धनुशतं परीणाहो(१)ग्रामक्षेत्रान्तरं भवेत् ॥ द्वे शते खर्वटस्य स्यान्नगरस्य चतुःशतम् ॥ १६७ ॥ गोप्रचारो गवां चारणार्थोऽकृष्टो भूभागो ग्रामवासिजनेच्छया भूम्यल्पत्वमहत्त्वापेक्षया राजेच्छया वा परिकल्पनीयः। द्विजश्च तृण. काप्टपुष्पाणि सर्वतोदिशं परिगृहीतादपि भूभागात् स्ववत् स्वक्षेत्रादि- वत् आहरेत् । एवं गवां वृत्तिमुपपाद्य सञ्चरणमुपपादयति धनुःश. तमिति । चतुर्हस्तपरिमितं धनुः तच्छतपरिमितं परीणाहश्चतुर्दिक्षु त्याज्या भूमिः ग्रामक्षेत्रयोरन्तरं भवेत् । खर्वटो ग्रामादुत्कृष्टो नगरा. धमः । तस्य धनुःशतद्वयं क्षेत्रान्तरं, नगरस्य च धनुःशतचतु. एयं क्षेत्रान्तरं चतुर्दिक्षु त्याज्यं भवेत् । तथा च सञ्चार- णावस्थानादौ गवादीनां स देश उपयुज्यते, अतो न तत्र दण्ड इति तात्पर्यम् ॥ १६६-१६७ ॥ इति श्रीमत् याज्ञवल्क्यव्याख्याने स्वामिपालविवादप्रकरणम् ॥ (मिता०) गोप्रसङ्गात् गोप्रचारमाह- ग्रामेच्छयेति । ग्रामेच्छया ग्राम्यजनेच्छया भूम्यल्पत्वमहत्त्वा- पेक्षया राजेच्छया वा गोप्रचारः कर्तव्यः। गवादीनां (२)चरणार्थ कियानपि भूभागोऽकृष्टः परिकल्पनीय इत्यर्थः । द्विजस्तृणेन्धनाद्य- भावे गवाग्निदेवतार्थ तृणकाष्ठकुसुमानि सर्वतः स्ववदनिवारित आ हरेत् । फलानि (३)त्वपवृतादेव। 'गोग्न्यर्थ तृणमेधांसि वीरुधन- स्पतीनां च पुष्पाणि स्ववदाददीत फलानि चापरिवृतानाम्' इति गौतमस्मरणात् । एतच्च परिगृहीतविषयम् । अपरिगृहीते तु द्विज. व्यतिरिक्तस्यापि परिग्रहादेव स्वत्वसिद्धेः। यथा तेनैवोक्तम्-'स्वा- मी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु' इति । यत्पुनरुक्तम्-'तृणं वा यदि वा काष्ठं पुष्पं वा यदि वा फलम् । अनापृच्छन्हि गृहानो - (१) मामे क्षेत्रा०-इति मु० पु० पाठः। (२) प्रचारणार्थ ख.। (३) वपरीवृतादेव ख.। ७९॥

याज्ञवल्क्यस्मृतिः। [ व्यवहाराध्यायः । हस्तच्छेदनमर्हति' ॥ इति, तत् द्विजव्यतिरिक्तविषयमनापद्विषयं वा गवादिव्यतिरिक्तविषयं वेति ॥ १६६ ॥ (मिता० ) इदमपरं गवादीनां स्थानासनसौकर्यार्थमुच्यते- धनुःशतमिति । ग्रामक्षेत्रयोरन्तरं धनुःशतपरिमितं परिणाहः । सर्वतोदि(१)शमनुप्तसस्य कार्यम् । खर्वटस्य प्रचुरकण्टकसन्तान स्य ग्रामस्य द्वे शतं (२)परिणाहः । नगरस्य बहुजनसंकीर्णस्य ध. नुषां चतुःशतपरिमितमन्तरं कार्यम् ।। १६७ ॥ इति स्वामिपालविवादप्रकरणम् । - वी० मि० ) अथाऽस्वामिविक्रयाख्यं व्यवहारपदमुपक्रमते- स्वं लभेताऽन्यविक्रीतं क्रेतुर्दोषोऽप्रकाशिते ।। हीनाद्रहो हीनमूल्ये वेलाहीने च तस्करः ॥ १६८ ।। नष्टापहृतमासाद्य हर्तारं ग्राहयेन्नरः ।। देशकालातिपत्तौ च गृहीत्वा स्वयमर्पयेत् ।। १६९ ।। विक्रेतुर्दर्शनाच्छुद्धिः स्वामी द्रव्यं नृपो दमम् ।। क्रेता मूल्यमवाप्नोति तस्माद्यस्तस्य विक्रयी ।। १७० ॥ आगमेनोपभोगेन नष्ट भाव्यमतोऽन्यथा ।। पञ्चकन्धो दमस्तत्र(३) राज्ञा तनाविभाषिते ॥ १७१ ॥ स्वात्मीयं द्रव्यं अन्येनाऽस्वामिना विक्रीतं केतुः सकाशात् स्वा- मी लभते । अस्वामितविक्रयस्य केतृस्वत्वाप्रयोजकत्वात् । केतु- श्चाऽप्रकाशेन कृते क्रये दोषो दण्डप्रयोजको भवति । प्रकाशक्रये तु न दण्डः। अथ मूलमनाहार्य प्रकाशक्रयशोधितम् । अदण्ड्ये मुच्यते राज्ञा नाप्टिको लभते धनम् ॥ इति मनुवचनात् । तथा हीनादसंभाव्यमानतद्रव्यस्वामित्वाभा. वात् । तथा रह एकान्ते हीनमूल्ये चाल्पतरमूल्यार्पण के क्रये क्रेता तस्करः चौरवद्दण्ड्यः । चकारेण दासादिविक्रीतसमुच्चयः । त. (१) दिदेवनुप्तसस्य घ.। (२) परीणाहः ख.. (३) दमस्तस्य राजे-इति मु० पु. पाठः। .

अस्वामिविक्रयप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता। ६४७. - दाह नारदः- अस्वाभ्यनुमताद्दासादसतश्च जनाद्रहः । हीनभूल्यमवेलायां क्रीणस्तदोषभाग् भवेत् ॥ नस्वामिनोऽपहनमस्वामिना द्रव्यमासाद्य क्रयेण प्राप्य क्रेता स्वामिनाभियुक्तो हर्तारं नरं राजपुरुषादिना ग्राहयेत् । तदाह नारदः- न क्रयेदागमं क्रेता शुद्धिरस्य तदागमात् । विपर्यये तुल्यदोषः सर्व तहण्डमर्हति ॥ विपर्यये मूलनिगहने देशकालवशेनाऽतिपत्तौ राजपुरुषाद्यस. निधाने तु स्वयमेव क्रेता स्वाम्यभियुक्तो विक्रेतारं स्वा- मिनेऽर्पयेत् । अत्र हेतुः-विक्रेतुर्दशनात् स्वामिने प्रदर्श नात् केतुः शुद्धिर्दण्डप्रयोजकापराधविरहः स्यात् । चस्त्वर्थः । एवं विक्रयी तद्रव्यस्य । यतस्तस्मात् केतृदर्शितात् स्वामी द्रव्यं क्रयविपयीभूतं क्रेता च तन्मूल्यं राजा चाऽपराधानुसारेण दण्डमवा. प्नोतीत्यर्थः । अवाप्नोतीत्युक्तं, तत्र स्वत्वं यदि स्वामिना सा. ध्यते तदैवमित्याह आगमैनाते । नष्टद्रव्यं आगमेन प्रतिग्रहादि- ना उपभोगेन च, अतोऽन्यथा प्राणान्तरे वा नाटिकेन भाव्य स्वस्वत्ववत्त्वेन साधनीयम् । तेन नाष्टिकेन स्वत्वे तत्राविभाक्तेि तु पञ्चवन्धः पञ्चमांशो दमो राज्ञा ग्राह्यः । पञ्चमांश इति क्वचिः त्पाठः । राज्ञे इति चतुर्थ्यन्तपाठे तु देय इति शेपः । अत्रेदं पर्य. वसितम्-अस्वामिविक्रीतं द्रव्यं स्वामिना तदानीं विद्यमानं स्वत्वं साधनीयं, क्रेत्रा च प्रकाशकयो राजदण्डाभावार्थ वोधनीयः । स्वा. मिने च विक्रेता प्रदर्शनीयस्तत्सकाशात् स्वयं मूल्यं गृहीत्वा स्वा- मिने क्रय्यं वस्तु राज्ञे दण्डं च दापयेत् । तस्याऽऽनयनाशक्यत्वे तु न द्रव्यं स्वामिने सर्वमध वा दद्यात् । अप्रकाशकये तु दण्डमपि राज्ञे दद्यादिति । तदाह कात्यायनः- नाष्टिकस्तु प्रकुर्वीत तद्धनं ज्ञातृभिः स्वकम् । अदत्तत्यक्तविक्रीतं कृत्वा स्वं लभते धनी ॥ वृहस्पतिः- वणिग्वीथीपरिगतं विज्ञातं राजपूरुषैः । अविज्ञाताश्रयात् क्रीतं विक्रेता यत्र वा मृतः ॥ .

६४८ याज्ञवल्क्यस्मृतिः। [ व्यवहाराध्यायः । स्वामी दत्त्वार्धमूल्यं तु प्रगृहीयात् स्वकं धनम् । अथ मूलमनाहार्यमित्याद्युक्तम् , अनुवाक्यं तु विक्रेतुर्विदेशे विद्य- मानत्वे सतीत्यविरोधः॥ १६८-१७१ ।। ( मिता०) संप्रत्यस्वामिविक्रयाख्यं व्यवहारपदमुपक्रमते । त- स्य च लक्षणं नारदेनोक्तम्-'निक्षिप्तं वा परद्रव्यं नष्टं लब्ध्वापहृत्य वा । विक्रीयते समक्षं यत्स शेयोऽस्वामिविक्रयः ॥ इति, तत्र कि- मित्याह- स्वमिति । स्वमात्मसम्बन्धि द्रव्यं अन्यविक्रीतमस्वामिविक्री यदि पश्यति तदा लभेत गृह्णीयात् । अस्वामिविक्रयस्य स्वत्वहेतु त्वाभावात् । विक्रीतग्रहणं दत्ताहितयोरुपलक्षणार्थम् । (१)अस्वा. मिविक्रीतत्वेन तुल्यत्वात् । अत एवोक्तम्-'अस्वामिविक्रयं दानमा धिं च विनिवर्तयेत्' इति । केतुः पुनरप्रकाशिते गोपिते (२)क्रय्ये दोषो भवति । तथा हीनात्तत्तद्रव्यागमोपायहीनाद्रहसि चैकान्ते संभाव्यद्रव्यादपि हीनमूल्येनाल्पतरेण च मूल्येन क्रये वेलाहीने वे. लया हीनो वेलाहीनः क्रयो राव्यादी कृतस्तत्र च क्रेता तस्करो भवति तस्करवद्दण्डादिभाग्भवतीत्यर्थः । यथोक्तम्-'द्रव्यमस्वा. मिविक्रीतं प्राप्य स्वामी तदाप्नुयात् । प्रकाशे क्रयतः शुद्धिः केतुः स्तेयं रहःक्रयात् ॥ इति ॥ १६८ ।। (मिता० ) स्वाम्यभियुक्तेन क्रेत्रा किं कर्तव्यमित्यत आह- नष्टेति । नष्टमवहृतं वान्यदीयं क्रयादिना प्राप्य हर्तारं विक्रे(३)- तारं नरं ग्राहयेत् चौरोद्धरणकादिभिः आत्मविशुद्ध्यर्थ राजदण्डा. प्राप्त्यर्थ च । अथाविदितदेशान्तरं गतः कालान्तरे वा विपन्नस्तदा मूलसमाहरणाशक्तेर्विक्रेतारमदर्शयित्वैव स्वयमेव तद्धनं नाष्टिकस्य समर्पयेत्, तावतवासी शुद्धो भवतीति श्रीकराचार्येण व्याख्यातं तदिदमनुपपन्नम् । 'विक्रेतुर्दर्शनाच्छुद्धिः' इत्यनेन पौनरुक्त्यप्रसङ्गा. तू । अतोऽन्यथा व्याख्यायते नष्टापहृतमिति । नाष्टिकं प्रत्ययमुपदे शः । नष्टमपहृतं वात्मीयद्रव्यमासाद्य केतुर्हस्तस्थं ज्ञात्वा तं हरि क्रेतारं स्थानपालादिभिहियेत् । देशकालातिक्रमे स्थानपालाद्यसं. निधाने तद्वि(४)ज्ञापनकालात्प्राक् पलायनशङ्कायां स्वयमेव गृहीत्वा तेभ्यः समर्पयेत् ।। १६९ ॥ (१) अस्वामिक्रीतेन ख. । (२) क्रये घ.। (६) विक्रेतारं ग्राहयेत् ग, । (४) तद्विज्ञापकात्माक घ.!

अस्वामिविक्रयप्रकरणम् । ] वीरमित्रोदयामिताक्षरासहिता । ६४९ - : (.मिता० ) ग्राहित हर्तरि किं कर्तव्यमित्यत आह- विक्रेतुरिति । यद्यसौ गृहीतः क्रेता न मयेदमपहृतमन्यसकाशा- क्रीतमिति वक्ति तदा तस्य ऋतुर्विक्रेतुर्दर्शनमात्रेण शुद्धिर्भवति । न पुनरसावाभियोज्यः। किं तु तत्प्रदर्शितेन विक्रेत्रा सह नाष्टिकस्य विवादः । यथाह बृहस्पतिः–'मूले समाहृते क्रेता नाभियोज्यः क. थचन । मूलेन सह वादस्तु नाष्टिकस्य विधीयते ॥ इति। तस्मिन् विवादे यद्यस्वामिविक्रयनिश्चयो भवति तदा तस्य नष्टापहृतस्य ग. वादिद्रव्यस्य यो विक्रयी विक्रेता तस्य सकाशात्स्वामी नाष्टिकः स्वीयं द्रव्यमवाप्नोति । नृपश्चापराधानुरूपं दण्ड, क्रेता च मूल्यमवा. मोति । अथासौ देशान्तरगतस्तदा योजनसंख्यया आनयनार्थ कालो देयः । 'प्रकाशं वा क्रयं कुर्यान्मूलं वापि समर्पयेत् । मू. लानयनकालश्च देयस्तत्राध्वसंख्यया ॥ इति स्मरणात् । अथावि. ज्ञातदेशतया मूलमाहर्तुं न शक्नोति तदा क्रय शोधयित्वैव शुद्धो भ- वति । 'असमाहार्यमूलस्तु क्रयमेव विशोधयेत्' इति वचनात् । यदा पुनः साक्ष्यादिभिर्दिव्येन वा क्रयं न शोधयति मूलं च न प्रद- शर्यति तदा स एव दण्डभाग्भवति-इति । 'अनुपस्थापयेन्मूलं क्रयं वाप्यविशोधयन् । यथाभियोगं धनिने धनं दाप्यो दमं च सः ॥इति मनुस्मरणात् ॥ १७० ॥ (मिता०) 'स्वं लभेतान्यविक्रीत'मित्युक्तं, तल्लिप्सुना किं कर्तव्य- मित्यत आह- आगमेनेति । आगमेन रिक्थक्रयादिना उपभोगेन च मदीयमिदं द्रव्यं तच्चैवं नष्टमपहतं वेत्यपि(१) भाव्ये साधनीयं तत्स्वामिना । अतोऽन्यथा तेन स्वामिना अविभाविते पञ्चवन्धो नष्टद्रव्यस्य पञ्च. मांशो दमो नाप्टिकेन राज्ञे देयः। अत्र चायं क्रमः-पूर्वस्वामी नष्ट- मात्मीयं साधयेत् । ततः क्रेता चौर्यपरिहारार्थ मूल्यलाभाय च विक्रेतारमानयत् । अथानेतुं न शक्नोति तदात्मदोषपरिहाराय क्रयं शो(२)धयित्वा द्रव्यं नाष्टिकस्य समर्पयेदिति ॥ १७१ ॥ (१) वेति भाष्यम् घ. । (२.) साधयित्वा ग.।

६५० याज्ञवल्क्यस्मृतिः । [ व्यवहाराध्यायः । ( वी०मि० ) अस्वामिनो विक्रेतुस्तत्सकाशात् केतुश्च प्रच्छादेन -स्वामिनो दण्डमाह- हृतं प्रनष्टं यो द्रव्यं परहस्तादवाप्नुयात् ।। अनिवेद्य नृपे दण्ड्यः स तु पण्णवतिं पणान् ॥ १७२ ॥ दण्ड्यः । तुशब्देन निवेदने दण्डं व्यवच्छिनत्ति ।। १७२ ॥ ( मिता० ) तस्करस्य प्रच्छादकं प्रत्याह- हृतमिति । हृतं प्रनष्टं वा चौरादिहस्तस्थं द्रव्यं अनेन मदीयं द्र. व्यमपहृतमिति नृपस्यानिवेद्यैव दर्पादिना यो गृह्णाति असौ षडुत्तरा. नवतिं पणान्दण्डनीयः । तस्करप्रच्छादकत्वेन दुष्टत्वात् ॥ १७२ ॥ ( वीणमि० ) यदि प्रणष्टं वस्तु स्वामिना नानीयते किं तु राजपुरु- षेण तदा व्यवस्थामाह- शौल्किकैः स्थानपालैर्वा नष्टापहतमाहृतम् ।। अर्वाक् संवत्सरात् स्वामी हरेत परतो नृपः ॥ १७३ ॥ पणानेकशफे दद्याञ्चतुरः पञ्च मानुषे । महिषोष्ट्रगवां द्वौ द्वौ पादं पादमजाविके ॥ १७४ ॥ शुल्काधिकृतैःस्थानरक्षिभिर्वाहृतं नष्टापहृतं द्रव्य, तद्राक्षा संवत्स. रपर्यन्तं रक्षणीय, ततोऽर्वाक स्वामी नाष्टिकः स्वतो विभाविते सति हरेत्प्राप्नुयात् । परतो वर्षादूर्ध्वमविभावितपरस्वत्व द्रव्यं नृपो हरेत् । प्रणष्टद्रव्यरक्षानिवन्धनां भृतिमाह-एकशफेऽश्वादो नष्टे द्रव्ये चतु. रः पणान् राजे नाष्टिको दद्यात् । मानुषे च नष्टद्रव्ये पञ्च पणान् । महिषोष्ट्रगवां सम्बन्धिरपेक्षणे द्वौ द्वौ प्रत्येकं, अजाविके छागे मेषे च प्रत्येकं पादं पादं दद्यात् पणस्य । प्रणष्टाधिगतं द्रव्यं राजा ज्यद्वं निधापयेत् । अर्वाक् व्यव्दाद्धरेत्स्वामी परतो नृपतिहरेत् ।। इति मनुवचनं तु श्रुतवृत्तसम्पन्नब्राह्मणविषयं, प्रकृतवचनं तु तद्भिन्नपरमित्यविरोधः ॥ १७३-१७४ ॥ इति श्रीमत्० याज्ञवल्क्यव्याख्याने अस्वामिविक्रयप्रकरणम् ॥ (मिता० ) राजपुरुषानीतं प्रत्याह- शौलिककैरिति । यदा तु शुल्काधिकारिभिः स्थानरक्षिभिर्वा नष्टमपहृतं द्रव्यं राजपा प्रत्यानीतं तदा संवत्सरादर्वाक् अस्वामिविक्रयप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता । ६५१ प्राप्तश्चेत् नाष्टिकस्तद्रव्यमवाप्नुयात् । ऊर्ध्व पुनः संवत्सराद्राजा गृह्णीयात् । स्वपुरुषानीतं च द्रव्यं जनसमूहेषूद्धोष्य यावत्संवत्सरं राज्ञा रक्षणीयम् । यथाह गौतमः-'प्रनष्टस्वामिकमधिगम्य राक्षे प्र.. युर्विख्यातं संवत्सरं राज्ञा रक्ष्यम्' इति । यत्पुनर्मनुना विध्यन्तरमु. क्तम् ( ८.३० )-'प्रनष्टस्वामिकं द्रव्यं राजा व्यव्दं निधापयेत् । अ. कि व्यब्दाद्धरेत्स्वामी परतो नृपतिहरत्' ॥ इति तच्छुतवृत्तसंपन्न ब्राह्मणविषयम् । रक्षणनिमित्तषड्भागादिग्रहणं च तेनैवोक्तम् (मनुः ८.३३ )-'आददीताथ षड्भागं प्रनष्टाधिगतान्नृपः । दशमं द्वादशं वापि सतां धर्ममनुस्मरन्' ॥ इति । तृतीयद्वितीयप्रशमसंवत्सरेषु, यथाक्रमं षष्ठादयो भागा वेदितव्याः। प्रपञ्चितं चैतत्पुरस्तात् ॥१७३।। (मिता० ) मनूक्तषड्भागादिग्रहणस्य द्रव्यविशेषेऽपवादमाह- पणानिति । एकशफे अश्वादौ प्रनष्टाधिगते तत्स्वामी राशे रक्ष णनिमित्तं चतुरः पणान्दद्यात् । मानुषे मनुष्यजातीये द्रव्ये पञ्च प- णान् । महिषोष्ट्रगवां रक्षणनिमित्तं प्रत्येकं द्वौ द्वौ पणो अजाविक पुनः प्रत्येक पाद पादम् । दद्यादिति सर्वत्रानुपज्यते । अजाविक मिति समासनिर्देशेऽपि पादं पादमिति वीप्सावलात्प्रत्येक सम्बन्धो. ऽवगम्यते ॥ १७४॥ इति अस्वामिविक्रयप्रकरणम् । . . ( वी०मि० ) सम्प्रति दत्ताप्रदानिक व्यवहारपदम्- अथ देयमदेयं च दत्तं चाऽदत्तमेव च । व्यवहारेषु विज्ञेयो दानमार्गश्चतुर्विधः ॥ इति नारदोक्तं निरूपयति- खं कुटुम्बाऽविरोधेन देयं दारसुतादृते. ॥ नान्वये सति सर्वस्वं यच्चान्यस्मै प्रतिश्रुतम् ॥ १७५ ॥ प्रतिग्रहः प्रकाशः स्यात्स्थावरस्य विशेषतः ।। देयं प्रतिश्रुतं चैव दत्त्वा नापहरेत्पुनः ॥ १७६ ॥ स्वं आत्मीयं द्रव्यं भार्यापुत्रव्यतिरिक्तं कुटुम्बस्याऽवश्यभरणी. यस्य भरणाविरोधेन देयं कुटुम्बभरणावशिष्टं देयमित्यर्थः । एवं देय- याज्ञवल्क्यस्मृतिः। - . -- ६५२ [ व्यवहाराध्यायः । मुक्त्वाऽदेयमाह अन्वये पुत्रपौत्रादिसन्ताने विद्यमाने सर्वस्वं न दे- यम् , अन्यस्मै यत्प्रतिश्रुतं दातुमङ्गीकृतं तत्तदतिरिक्ताय न देयम् । चकारेण ऋष्यन्तरोक्ताऽदेयसमुच्चयः । तथा च वृहस्पतिः- सामान्यपुत्रदाराधिसर्वस्वन्यासयान्वितम् । प्रतिश्रुतं तथाऽन्यस्य न देयं त्वष्टधा स्मृतम् ॥ सामान्यमनेकस्वामिकं पुत्रदारयोश्च विमतयोरेवाऽदेयत्वम् । विक्रयं चैव दानं च न नेयाः स्युरनिच्छवः । दाराः पुत्रास्तु सर्वस्वमात्मन्येव तु. योजयेत् ॥ आपत्काले तु कर्तव्यं दानं विक्रय एव वा। इति कात्यायनवचनात् । अनुमतौ च विशेषमाह वसिष्ठः-'न त्वे. कं पुत्रं दद्यात् प्रतिगृह्णीयाद्वा, स हि सन्तानाय पूर्वेषां, न स्त्री पुत्र दद्यात् प्रतिगृह्णीयाद्वाऽन्यत्रानुज्ञानाद्भर्तुः'। अन्यत्राऽनुज्ञानादिति दान मात्रेऽन्वितं, प्रतिग्रहे विद्यमानत्वेनाऽननुज्ञाने सत्यप्यभ्यधिकारात् । अत्र निषिद्धाचरणादधर्मो भवति, न तु दानासिद्धिरेव सर्वस्वदानादा.. विति स्मृतिसारः । दानं च विभजते वृहस्पतिः- भृतिस्तुष्टया पण्यमूल्यं स्त्रीशुल्कमुपकारिणे । शुद्धानुग्रहसंप्रीत्या दत्तमष्टविध स्मृतम् ॥ अदत्तमाह नारदः- अदत्तं तु भयक्रोधकामशोकरुगन्वितैः । तथोत्कोचपरीहासव्यत्यासच्छलयोगतः ॥ वालमूढास्वतंत्रातमतोन्मत्तापवर्जितैः। कर्ता ममायं कर्मेति प्रतिलाभेच्छ्या च यत् आर्तेन धार्थ दत्तं तु दत्तमेव । अदत्त्वा तु मृते दाप्यस्तत्लुतो नात्र संशयः । इति कात्यायनवचनात् । बृहस्पतिः प्रतिलाभेच्छया दत्तमपात्रे पात्रशङ्कया। कार्ये वा धर्मसंयुक्ते स्वामी तत्पुनराप्नुयात् ।। देयप्रसङ्गेन प्रतिग्रहस्य प्रकाशमेव कर्तव्यत्वमाह प्रतिग्रह इति । वि. वादवारणाय प्रकाशः प्रतिग्रहः कार्यः, स्थावरस्य तु विशेषतः प्रकाश मेव प्रतिग्रहः। सुवर्णादेरिव तस्याऽऽत्मनिष्ठत्वेन दर्शयितुमशक्यत्वात्। अथ प्रकृतमाह-धर्मार्थ प्रतिश्रुतं यत्तद्देयमेव यद्यसौ सम्प्रदानभूतो ॥

दत्ताप्रदानिकप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता। ६५३ न धर्मच्युतो भवति । 'प्रतिश्रुत्याप्यधर्मसंयुक्ताय न दद्यादिति गौतम- वचनात् । न्यायेन दत्तं सप्तविधमुक्तं दत्त्वा पुन वाऽपहरेत् । चकारणा' षोडशविधमदत्तमपहरेदिति वाक्यार्थः समुच्चीयते ॥ १७५-१७६ ॥ इति श्रीमत्० याज्ञवल्क्यव्याख्याने दत्ताप्रदानकं प्रकरणम् ॥ . - (मिता० ) अधुना विहिताविहितमार्गद्वयाश्रयतया द(१)त्तानपा कर्म दत्ताप्रदानिकभिति च लब्धाभिधानद्वयं दानाख्यं व्यवहारपदम. भिधीयते । तत्स्वरूपं च नारदेनोक्तम्-'दत्वा द्रव्यमसम्यग्यः पुनः रादातुमिच्छति । दत्ताप्रदानिकं नाम :व्यवहारपदं हि तत्' ॥ इति । असम्यगविहितमार्गाश्रयेण द्रव्यं दत्त्वा पुनरादातुमिच्छति यस्मिन् वि(२)वादपदे तहत्ताप्रदानिकं दत्तस्याप्रदानं पुनर्हरणं यस्मिन्दाना ख्ये तद्दत्ताप्रदानिकं नाम व्यवहारपदम् । विहितमार्गाश्रयत्वेन तत्प तिपक्षभूतं तदेव व्यवहारपदं दत्तान(१)पकर्मत्यर्थादुक्तं भवति । द त्तस्यानपकर्म अपुनरादा(३)नाख्यं यत्र दानाख्ये विवादपदे तहत्ता. नपकर्म । तञ्च देयादेयादिभेदेन चतुर्विधम् । यथाह नारद:-'अथ देयमदेयं च दत्तं वाऽदत्तमेव च । व्यवहारेषु विज्ञेयो दानमार्गश्चतु- विधः' ।। इति । यत्र देयमित्यनिषिद्धदानक्रियायोग्यमुच्यते । अदेय- मस्वतया निषिद्धतया वा दानानहम् । यत्पुनः प्रकृतिस्थेन दत्तमः व्यावर्तनीयं तद्दत्तमुच्यते । अदत्तं तु यत्प्रत्याहरणीयं तत्कथ्यते । तदेतत्संक्षेपतो निरूपयितुमाह- स्वमिति । स्वमात्मीयं कुटुम्बाविरोधेन कुटुम्बानुपरोधेन कु. टुम्बभरणावशिष्टमिति यावत् तद्दद्यात् । तद्भरणस्यावश्यकत्वात् । यथाह मनुः ( ८१३५)-'वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः । अप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीत् ॥ इति । स्वं कुटु म्चाविरोधेनेत्यनेनादेयमेकविधं दर्शयति । स्वं दद्यादित्यनेन चास्व. भूतानामन्वाहितयाचितकाधिसाधारणनिक्षेपाणां पञ्चानामप्यदेयत्वं व्यतिरेकतो दर्शितम् । यत्पुनर्नारदेनाष्टविधत्वमदेयानामुक्तम्-'अ- वाहित याचितकमाधिः साधारणं च यत् । निक्षेपः पु(४)त्रदारांश्च सर्वस्वं चान्वये सति ॥ आपत्स्वपि हि कष्टासु वर्तमानेन देहिना । अदेयान्याहुराचार्या यच्चान्यस्मै प्रतिश्रुतम् ॥ इति । एतददेयत्वमा (१) दत्तानपाकर्म ख.। (२) व्यवहारपदे ग.। (३) रादानं ग.। (४) पुत्रदारंच ग.. .

1 . ६५४ याज्ञवल्क्यस्मृतिः । [व्यवहाराध्यायः । त्राभिप्रायेण न पुनः स्वत्वाभावाभिप्रायेण । पुत्रदारसर्वस्वप्रतिश्रुतेषु स्वत्वस्य सद्भावात् । अन्वाहितादीनां स्वरूप प्रागेव प्रपश्चितम् ।। (मिता० ) स्वं दद्यादित्यनेन दारसुतादेरपि स्वत्वाविशेपेण देयत्वप्रसङ्गे प्रतिषेधमाह- दारसुतादिति । दारसुताइते दारसुतव्यतिरिक्तं स्वं दद्यान्न दार- सुतमित्यर्थः । तथा पुत्रपौत्राद्यन्वये विद्यमाने सर्व धनं न दद्यात् । 'पुत्रानुत्पाद्य संस्कृत्य वृत्तिं चैषां प्रकल्पयेत्' इति स्मरणात् । तथा हिरण्यादिकमन्यस्मै प्रतिश्रुतमन्यस्मै न देयम् ॥ १७५ ।। (मिता० ) एवं दारसुताव्यतिरिक्तं देयमुक्त्वा प्रसङ्गाददेयधन. ग्रहणं च प्रतिगृहीत्रा प्रकाशमेव कर्तव्यमित्याह- प्रतिग्रह इति । प्रतिग्रहणं प्रतिग्रहः सः प्रकाशः कर्तव्यो विवाद निराकरणार्थम् । स्थावरस्य च विशेपतः प्रकाशमेव ग्रहणं कार्यम् । तस्य सुवर्णादिवदात्मनि स्थितस्य दर्शयितुमशक्यत्वात् ॥ (मिता० ) एवं प्रासङ्गिकमुक्त्वा प्रकृतमनुसरन्नाह-- देयमिति । देयं प्रतिश्रुतं चैव । यत् यस्मै धर्मार्थ प्रतिश्रुतं तत्तस्मै देयमेव यद्यसौ (१)धर्मात्प्रच्युतो न भवति । प्रच्युते न पुनर्दात. व्यम् । 'प्रतिश्रुत्याप्यधर्मसंयुक्ताय न दद्यात्' इति गौतमस्मरणा- त् । दत्त्वा नापहरेत्पुनः। न्यायमार्गेण यद्दत्तं तत्सप्तविधमपि पुनः नापहर्तव्यम् , किं तु तथैवानुमन्तव्यम् । यत्पुनरन्यायेन दत्तं तददत्तं षोडशप्रकारमपि प्रत्याहर्तव्यमेवेत्यर्थादुक्तं भवति. ! नारदेन च- 'दत्तं सप्तविधं प्रोक्तमदत्तं षोडशात्मकम्' इति प्रतिपाद्य दत्तादत्तयोः स्वरूपं विवृतम्-'पण्यमूल्यं भृतिस्तुण्ट्या स्नेहात्प्रत्युपकारतः । स्त्रीशुल्कानुग्रहार्थं च दत्तं दानविदो विदुः ॥ अदत्तं तु भयकोधशो- कवेगरुगन्वितैः । तथोत्कोचपरीहासव्यत्यासच्छलयोगतः ॥ वालमू. ढास्वतन्त्रातमत्तोन्मत्तापवर्जितम् । कर्ता ममेदं कर्मेति प्रतिलाभेच्छ. या च यत् ॥ अपात्रे पात्रमित्युक्त कार्ये वा (२)धर्मसंहिते। यहत्तं स्यादविज्ञानादत्तमिति तत्स्मृतम् ॥ इति । अयमर्थः-पण्यस्य क्रीतद्रव्यस्य यन्मूल्यं दत्तम् , भृतिवेतनं कृतकर्मणे दत्तम् , तुष्ट्या वन्दिचारणादिभ्यो दत्तम् , स्नेहाद् दुहितृपुत्रादिभ्यो दत्तम् , प्रत्युपः कारतः (३)उपकृतवते प्रत्युपकाररूपेण दत्तम् , स्त्रीशुल्कं परिणयः (२) धर्मप्रच्युतो घ.। () धर्मसंयुते ख.। (६) उपकृते घ.।

दत्ताप्रदानिकप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता। ६५५ नार्थ कन्याशंातिभ्यो यद्दत्तम्, यच्चानुग्रहार्थमदृष्टार्थ दत्तं तदेतत्स. तविधमपि दत्तमेव न प्रत्याहरणीयम् । भयेन वन्दिग्राहादिभ्यो द. 'त्तम् , क्रोधेन (१)पुत्रादिभ्यो वैरनिर्यातनायान्यस्मै दत्तम् , पुत्रवि. योगादिनिमित्तशोकावेशेन दत्तम् , उत्कोचेन कार्यप्रतिवन्धिनिरा- सार्थमधिकृतभ्यो दत्तम्, परिहासनोपहासेन दत्तम् । (२)एकः स्वं द्रव्यमन्यस्मै ददात्यन्योऽपि तस्मै ददातीति दानव्यत्यासः । छल- योगतः शतदानमभिसंधाय सहस्त्रमिति परिभाष्य ददाति । वाले(३). नाप्राप्तपोडशवर्पण । मूढेन लोक(४)वादानभिज्ञेन । अस्वतन्त्रेण पु. बदासादिना । आतेन रोगाभिभूतेन । मत्तेन मदनीयमत्तेन । उन्म: नेन वातिकाद्युन्मदग्रस्तेन वा अपवर्जितं दत्तम् । यथायं (५)मदीयमिदं कर्म करिष्यतीति प्रतिलाभेच्छया दत्तम् , अचतुर्वेदाय चतुर्वेदोऽह- मित्युक्तवते दत्तम् , यशं करिष्यामीति धनं लब्ध्वा द्यूतादौ विनियु. जानाय दत्तमित्येवं पोडशप्रकारमपि दत्तमदत्तमित्युच्यते । प्रत्या- हरणीयत्वात् । आर्तदत्तस्यादत्तत्वं धर्मकार्यव्यतिरिक्तविषयम् । 'स्व. स्थेनातन वा दत्तं श्रावितं धर्मकारणात् । अदत्त्वा तु मृते दाप्यस्त- सुतो नात्र संशयः ॥ इति कात्यायनस्मरणात् । तथेदमपरं संक्षिप्तार्थ. बचनं सर्वविवादसाधारणम् । ( मनुः ८।१६८)-'योगाधमनविक्रीतं योगदानप्रतिग्रहम् । यस्य वाप्युपधिं पश्येत्तत्सर्व विनिवर्तयेत्' ।। इति । योग उपाधिः । येनागामिनोपाधिविशेषेणाधिविक्रयदानप्रतिग्र. हाः कृतास्तदुपाधिवि(६)गमे तान् क्रयादीन्विनिवर्तयेदित्यस्यार्थः । यः पुनः पोडशप्रकारमपि अदत्तं गृह्णाति यश्चादेयं प्रयच्छति तयोर्द- ण्डो नारदेनोक्तः-गृह्णात्यदत्तं यो लोभाद्यश्चादेयं प्रयच्छति । अदे यदायको दण्ड्यस्तथा दत्तप्रतीच्छकः ॥ इति ॥ १७६ ॥ इति दत्ताप्रदानिक नाम प्रकरणम् । ( वी०मि० ) अथ क्रीतानुशयाख्यं विवादास्पदम्- क्रीत्वा मूल्येन यः पण्यं क्रेता न बहु मन्यते । क्रीतानुशय इत्येतद्विवादपदमुच्यते ॥ (२) पुत्रादिवर घ.। (२) एकोऽपि स्वं द्रव्य ख.। (E) अप्राप्तव्यवहारेण ग. । (४) लोकवेदा घ.. (५).मदीयंकर्म ख.। . (६) धिगमे क्रयादीन् घ.।

६५६ योज्ञवल्क्यस्मृतिः। ::[ व्यवहाराध्यायः । इति नारदेन लक्षितमुपक्रमते- दशैकपश्चसप्ताह मासव्यहार्थमासिकम् ।। वीजायोबाह्यरत्नस्त्रीदोह्यपुंसां परीक्षणम् ॥ १७७ ।। दशाहादिपर्यन्तं वीजादीनां परीक्षणं, तथा च तावत्लमयमध्ये यदि क्रीते वस्तुनि अनुशयस्तदा परावर्तनीयं, न तु तदूर्ध्वमित्यर्थः । दशाहमेकादशाहं पञ्चाहं सप्ताह मासं ज्यहं अर्धमासं च वीजानाम: यसां वाह्यानामश्वादीनां रत्नानां स्त्रीणां दास्यादीनां दोह्यानां गवा. दीनां पुसां दासादीनां यथाक्रममन्वति । .क्रीत्वा विक्रीय वा पण्यं यस्येहानुशयो भवेत् । सोऽन्तर्दशाहे तद्रव्यं दद्याच्चैवाऽऽददीत वा ॥ परेण तु दशाहस्य नाऽऽदद्यान्नैव दापयेत् । आददानो ददच्चैव राज्ञा दण्डयः शतानि षट् ॥ इति मनुवचनं तु वीजपरमेव । अविज्ञातं तु यत् क्रीतं दुष्टं पश्चाद्विभावितम् । क्रीतं तत्स्वामिने देयं पण्यं कालेऽन्यथा न तु ।। इति कात्यायनवचनात् । काले परीक्षाकाले । अन्यथा तदूर्ध्वम् । इदं च सर्वमपरीक्ष्य क्रीते द्रष्टव्यम् , 'अविज्ञातमिति कात्यायने- नाभिधानात् । परीक्षेत स्वयं पण्यमन्येषां च प्रदर्शयेत् । परीक्षितं बहुमतं गृहीत्वा न पुनस्त्यजेत् ॥ इति वृहस्पतिवचनात् । उक्तकालमध्येऽपि क्रीतद्रव्यपरावर्तने वि. शेषमाह नारदः- क्रीत्वा मूल्येन यो द्रव्यं दुष्क्रीतं मन्यते क्रयी । विक्रेतुः प्रतिदेयं तत्तस्मिन्नेवाऽन्ह्यविक्षतम् ।। द्वितीयेऽन्हि ददत् क्रेता मूल्यात्रिंशांशमाहरेत् । द्विगुणं तु तृतीयेऽन्हि परतः केतुरेव तत् ॥ परत इति दोह्यपरम् । क्रीत्वा चाऽनुशवात्पण्यं त्यजेहोह्यादि यो नरः । अदुष्टमेव काले तु स मूल्याहशमं वहेत् ॥ इति कात्यायनवचनं परीक्षणोत्तरावधिकालपरम् । द्वयमपि वेदं क्रीतानुशयप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता । ६५७ क्रीतद्रव्यस्य ऋतृवशीकृतत्वभावे । अन्यथा तु- क्रीत्वा गच्छन्ननुशयं क्रयी हस्तमुपागते । षड्भागं तंत्र मूल्यस्य दत्त्वा क्रीतं त्यजेद् बुधः ॥ इति वचनाद्यवस्था । न सावधं न च न्यून न दूरे न तिरोहितम् । इति मनुवचनात् क्रयकाले ज्ञातदोषं तु वस्तु न परीक्षणकाल- मध्येऽपि परावर्तनीयम् । परिभुक्तं च यद्वासः क्लिष्टरूपं मलीमसम् । सदोषमपि तत् क्रीतं विक्रेतुर्न भवेत्ततः॥ इति नारदवचनात् ॥ १७७ ॥ (मिता० ) अथ क्रीतानुशयः कथ्यते । तत्स्वरूपं नारदेनोक्तम्-- 'क्रत्विा मूल्येन यः पण्यं क्रेता न वहु मन्यते । क्रीतानुशय इत्येत. द्विवादपदमुच्यते' ॥ इति । तत्र च यस्मिन्नहनि पण्यं क्रीतं तस्मिा नेवाह्नि तदविकृतं प्रत्यर्पणीयमिति तेनैवोक्तम् । 'क्रीत्वा मूल्येन य. त्पण्यं दुःक्रीतं मन्यते क्रयी। विक्रेतुः प्रतिदेयं तत्तस्मि(१)न्नेवाय. विक्षतम् ॥ इति । द्वितीयादिदिने तु प्रत्यर्पणे विशेषस्तेनैवोक्तः-- 'द्वितीयेहि ददत्ता मूल्यात् त्रिंशांश(२)माहरेत् । द्विगुणं तु तृतीये. ऽह्नि परतः केतुरेव तत् ' ॥ इति । परतोऽनुशयो न कर्तव्य इत्यर्थः । एतच्च बीजातिरिक्तोपभोगादिविनश्वरवस्तुविषयम् । वीजादिक्रये पुनरन्य एव प्रत्यर्पणविधिरित्याह- दशकेति । बीजं ब्रीह्यादिवीजम् । अयो लो(३)हम। वाह्यो चलीवादिः । रत्नं मुक्ताप्रवालादि । स्त्री दासी । दोह्यं (४)महिष्या. दि । पुमान् दासः । एषां वीजादीनां यथाक्रमेण दशाहादिकः परी. क्षाकालो विज्ञेयः । परीक्ष्यमाणे च बीजादौ यद्यसम्यक्त्ववुद्ध्यानुशयो भवति तदा दशाहाद्यभ्यन्तर एव क्रयनिवृत्तिन पुनरूलमित्युपदेश- प्रयोजनम् । यत्तु मनुवचनम् ( दा२२२ )-'क्रीत्वा विक्रीय वा किं. चिद्यस्येहानुशयो भवेत् । सोऽन्तर्दशाहात्तद् द्रव्यं दद्याञ्चवाददीत च' ॥ इति, तदुक्तलोहादिव्यतिरिक्तो(५)पभोगाविनश्वरगृहक्षेत्रयान शयनासनादिविषयम् । सर्व चैतदपरीक्षितक्रीतविषयम् । यत्पुनः [६]परीक्ष्य न पुनः प्रत्यर्पणीयमिति समयं कृत्वा क्रीतं तद्विक्रेत्रे न (१) तस्मिन्नेवाहि वीक्षितमिति पाठः । (२) मावहत् ख.। (३) लोहादि ख.। (४) माहिष्यादि ख.। (५) पभोगाविनश्वर ख.। (६) परीक्षित घ... -- ८०॥

६५८ याज्ञवल्क्यस्मृतिः। [.व्यवहाराध्यायः । । प्रत्यर्पणीयम् । तदुक्तम्-'क्रेता पण्यं परीक्षेत प्राक् स्वयं गुणदोप- तः । परीक्ष्याभिमतं क्रीतं विक्रेतुर्न भवेत्पुनः' ॥ इति ॥ १७७॥ (वीमि० ) वीजादिपरीक्षणप्रसङ्गेन स्वर्णादिपरीक्षणमाह- अग्नौ सुवर्णमक्षीणं रजते द्विपलं शते ॥ अष्टौ पुणि सीसे च ताने पञ्च दशाऽयसि ॥ १७८ ।। शते दशपला वृद्धिरौर्णे कार्पाससौत्रिके ।। मध्ये पञ्चपला सौत्रे(१) सूक्ष्मे तु त्रिपला मता ॥ १७९ ॥ कार्मिके रोमवद्धे च त्रिंशद्भागः क्षयो मतः ॥ न क्षयो न च वृद्धिश्च कौशेये वाल्कलेषु च ।। १८० ॥ देशं कालं च भोगं च ज्ञात्वा नष्टे वलावलम् । द्रव्याणां कुशला ब्रूयुर्यत्तद्दाप्यमसंशयम् ॥ १८१ ॥ सुवर्णमुत्तमं अग्नौ न क्षीणं भवति । रजते शते शतपलमिते द्विपलमग्नौ क्षीणं भवति । त्रपुपि रङ्गे सीसे च पलशते अष्टौ पला. नि, ताने पलशते पञ्च पलानि, अयसि पलशते दशपलानि अग्नौ क्षीयन्ते ।चकारेण कांस्यस्य त्रपुताम्रयोनिकस्य तदंशानुसारेण क्षयः समुच्चीयते । ऊणैः . कासवा सूत्रैः स्थूलैर्निर्मिते कम्बलपटादो शतपलमिते दशपलमिता वृद्धिः । मध्येऽनतिसूक्ष्मे शतपलमिते पञ्चपला वृद्धिः । अतिसूक्ष्मसूत्रके तु तस्मिन् पलशतमिते त्रिपल. मिता वृद्धिर्मता मण्डादिसम्बन्धादभिज्ञसंमता । यत्र निष्पन्ने पटादौ स्वस्तिचक्रादिकं सूच्या क्रियते तत्कार्मिकं, यत्र प्रावारा दौ रोमाणि वध्यन्ते तद्रोमवद्धं, तत्र त्रिंशत्तमो भागः क्षयो मतः । कौशेये कृमिकोशोत्थे सूत्रनिर्मिते पट्टवस्त्रादौ वल्कलप्रभवेपु च न क्षयो न वा वृद्धिः । चकारैगोंधूमादीनां बहूनामनुक्तानां पेप. णादौ क्षयवृद्ध्योरभावः समुच्चीयते । अनुक्तविशेपेषु च शाणक्षोमा- दिपु द्रव्याणां मूलहासवृद्धिज्ञा देशं कालमुपभोगं नष्टद्रव्यस्य सा- रासारतां च ज्ञात्वा यद् युस्तदसंशयं दाप्यमिति । चकारेण हास. योग्यस्थाने हासनीयमिति समुच्चीयते ॥ १७८-१८१ ॥ इति श्रीमत्० याज्ञवल्क्यव्याख्याने क्रीतानुशयप्रकरणम् । (१) मध्ये पञ्चपला वृद्धिः-इति मु. पु० पाठः ।

[ कीतानुशयप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता । ६५९ . (मिता०) दोह्यादिपरीक्षाप्रसङ्गेन स्वर्णादेरपि परीक्षामाह- अग्नाविति । वह्नौ प्रताप्यमानं सुवर्ण न क्षीयते । अतः कटका- दिनिर्माणार्थ यावत्स्वर्णकारहस्ते प्रक्षिप्तं तावतुलितं तैः प्रत्यर्पणीय म् । इतरथा क्षयं दाप्या दण्ड्याश्च । रजते तु शतपले प्रताप्यमाने पलद्वयं क्षीयते । अष्टौ त्रपुणि सीसे च । शते इत्यनुवर्तते । पुणि सीसे च शतपले प्रताप्यमानेऽष्टौ पलानि क्षीयन्ते । ताने पञ्च द. शायसि-ताने शतपले पञ्चपलानि, अयास दशपलानि क्षीयन्ते । अत्रापि शत इत्येव । कांस्यस्य तु अपुताम्रयोनित्वात्त(१)दनुसारेण क्षयः कल्पनीयः । (२)ततोऽधिकक्षयकारिणः शिल्पिनो दण्ड्याः॥१७८॥ (मिता० ) क्वचित्कम्बलादौ वृद्धिमाह- शत इति । स्थूलेनौर्णसूत्रेण यत्कम्बलादिकं क्रियते तस्मिन् श- तपले दशपला वृद्धिर्वेदितव्या । एवं कार्पाससूत्रनिर्मिते पटा दौ वेदितव्यम् । मध्ये अनतिसूक्ष्मसूत्रनिर्मिते पदादौ पञ्चपला वृद्धिः । सुसूक्ष्मसूत्ररचितं शते त्रिपला वृद्धिर्वेदितव्या । एतञ्चाप्रक्षालितवा- सोविषयम् ॥ १७९ ॥ ( मिता० ) द्रव्यान्तरे विशेषमाह- कार्मिक इति । कार्मिकं कर्मणा चित्रण निर्मितम् । यत्र निष्पन्ने पटे चक्रस्वस्तिकादिकं चि(३)त्रं सूत्रैः क्रियते तत्कार्मिकमित्युच्यते । य. त्र प्रा(४)वारादौरोमाणि वध्यन्तेस रोम(५)वद्धः। तत्र त्रिंशत्तमो भागः क्षयो वेदितव्यः । कौशेये कोशप्रभवे वाल्कलषु वृक्षत्वनिर्मितेषु व. सनेषु वृद्धिहासौन स्तः, किन्तु (६)यावद्वयनार्थ कुविन्दादिभ्यो दत्तं तावदेव प्रत्यादयम् ॥ १८० ॥ (मिता०) द्रव्यानन्त्यात्प्रतिद्रव्यं क्षयवृद्धिप्रतिपादनाशक्तेः सामा. न्येन हासवृद्धिज्ञानोपायमाह- देशमिति । शाणक्षौमादौ द्रव्ये नष्टे ह्रासमुपगते द्रव्याणां कुशलाः द्रव्यवृद्धिक्षयाभिज्ञाः देशं कालमुपपभोगं तथा नष्टद्रव्यस्य वलावलं सारासारतांच परीक्ष्य यत्कल्पयन्ति तदसंशयं शिल्पिनो दाप्याः॥१८॥ इति क्रीतानुशयप्रकरणम् ॥ - - : (९) त्तदंशानुसारेण घ०। (२) इतोधिक खः। (३) चित्रै सूत्रैः ख०। (४) प्रान्तादी ग०। (५) रीमबन्धः घ० । (६) यावद्वानार्थ घ०। . + '. याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः । 0 (वीमि०) अथाऽभ्युपेत्याशुश्रूषानाम' प्रकरणमारभते । त- स्वरूपं तु नारदोक्तम्-- अभ्युपेत्य तु शुश्रूषां यस्ता न.प्रतिपद्यते । अशुश्रूषाभ्युपेत्यैतद्विवादपदमुच्यते ॥ इति । मनुना च वेतनाप्रदान एवास्य विवादपदस्य कयाचिद्विवक्ष- याऽन्तर्भावमभिप्रेत्य पृथगनभिधानात् । शुश्रूषकश्च पञ्चविधः-शि- ध्योऽन्तेवासी भृतकोऽधिकर्मदासश्चेति । तत्र शुभं कर्म चतुर्णामशुः भं कर्म दासस्य भवति । अशुभं दासकर्मोक्तं शुभं कर्मकृतां स्मृतम् । गृहद्वाराशुचिस्थानरथ्यावस्करशोधनम् ।। गुह्याङ्गस्पर्शनोच्छिष्पविण्मूत्रग्रहणोज्झनम् । इच्छतः स्वामिनश्चाऽङ्गैरुपस्थानमथाऽन्ततः ॥ अशुभं कर्म विज्ञेयं शुभमन्यदतः परम् । इति नारदवचनात् । तत्र शिष्यो वेदविद्यार्थी, अन्तेवासी शि. ल्पभिक्षार्थी, भृतको वेतनेन कर्मकर्ता, अधिकर्मकृत् कर्म कुर्वताम- धिष्ठाता, दासश्च- गृहजातस्तथा क्रीतो लब्धो दायादुपागतः । अनाकालभृतश्चैव आहितः स्वामिना च यः॥ मोचि(१)तो महतश्चर्णायुद्धप्राप्तः पणे जितः । तवाहमित्युपगतः प्रव्रज्यावसितः कृतः ।। भक्तदासश्च विज्ञेयस्तथैव वडवाहृतः । विक्रेता चात्मनः शास्त्रे दासाः पञ्चदश स्मृताः ॥ इति नारदेनोक्तः। तत्र शिष्यस्य वृत्तिः- आहूतश्चाप्यधीयीत लब्धं चाऽस्मै निवेदयेत् । इत्यादिना प्रागभिहिता । भृतकाऽधिकर्मकृतोस्तु वेतनादानप्र- करणे वक्ष्यते । दासान्तवासिनोस्त्वत्राह- वलाहासीकृतश्चौरविक्रीतश्चापि मुच्यते ।। स्वामिप्राणप्रदो भक्तत्यागात्तनिष्क्रयादपि ।। १८२ ।। प्रव्रज्यावसितो राज्ञो दासस्स्वा(२)मरणान्तिकः ।। वर्णानामानुलोम्येन दास्यं न प्रतिलोमतः ॥ १८३ ।। (१) मोहितो-इति क.पु०पाठः । (२) दास आमरणान्तिकः -इति मु० पु० पाठः ।

अभ्युपेत्याशुश्रूषाप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता । ६६१ बलात्कारेण दासीकृतः, चौरैर्विक्रीतश्च दासीकृतः, चकाराऽपि कोराभ्यां तेन दत्त आधीकृतश्च मुच्यते दासकर्मणः । यश्च चौरव्या- प्राद्याक्रान्तस्य स्वामिनः प्राणान् रक्षति स च' मुच्यते । अपिका- रेण दास्यमोक्षहेत्वन्तरसमुच्चयः । तदाह नारदः- अनाकालभृतो दास्यान्मुच्यते गोद्वयं ददत् । सम्भक्षितं यद् दुर्भिक्षे न तच्छुध्येत कर्मणा ॥ भक्तस्योपेक्षणात्सद्यो भक्तदासः स मुच्यते । आहितोऽपि धनं दत्त्वा स्वामी यद्येनमुद्धरेत् ॥ ऋणं तु सोदयं दत्त्वा ऋणी दास्यात्प्रमुच्यते ॥ तवाऽहमित्युपगतो युद्धप्राप्तः पणे जितः । प्रतिशीर्षप्रदानेन मुच्येरंस्तुल्यकर्मणा ॥ कृतकालव्यपगमात् कृतकोऽपि विमुच्यते। निग्रहाद्वडवायास्तु मुच्यते वडवाहृतः॥ तुल्यकर्मणा स्वकर्मतुल्यकर्मकरणेन । वडवाया दास्या निग्रहात् सम्भोगत्यागात् । कात्यायन:- स्वदासी यस्तु सङ्गच्छेत् प्रसूता च भवेत्तदा। अवेक्ष्य बीजं कर्तव्या अदासी सान्वयातु सा ॥ इदं तु स्वामिनः पुत्राद्यसत्व एवेति प्रकाशपारिजातरत्नाकरादयः । प्रसादेनाप्यदासः कार्यस्तत्र विधिमाह नारदः- स्खं दांसमिच्छेद्यः कर्तुमदासं प्रीतमानसः। स्कन्धादादाय तस्याशु भिन्द्यात् कुम्भं सहाऽम्भसा ।। साक्षताभिः सुपुष्पाभिमूर्धन्यद्भिरवाकिरन् । अदास इति चोत्ला निःप्राङ्मुखस्तमथोत्सृजेत् ॥ ततःप्रभृति वक्तव्यः स्वाम्यनुग्रहपालितः । भोज्यानोऽथ प्रतिग्राह्यो भवत्यभिमतः सताम् ।। कात्यायनः - . दासस्य तु धनं यत्स्यात स्वामी तस्य प्रभुः स्मृतः । प्रसादविक्रयाद्यं तु न स्वामी धनमर्हति ॥ दासेनोढा त्वदासी या सापि दासत्वमाप्नुयात् । यस्माद्भर्ता प्रभुस्तस्याः स्वाम्यधीनः प्रभुर्यतः ॥ प्रसादेति । स्वात्मप्रसादेनाऽऽत्मविक्रयेण च यल्लब्धं तद्धनं स्वामी ८१ ६६२ याज्ञवल्क्यस्मृतिः ।। [ व्यवहाराध्यायः । - नाहतीत्यर्थः। दासेनेति। अत्र यदि व्ययादासपदोपस्थापितप्रतियोगि- कमेवादासीत्वं, ततोऽस्वामिकाऽन्यस्वामिका वा परिणीता संती वरस्वामिनः स्वीभवति। अर्थाच दासोढत्वं पूर्वस्वामिदासमोक्षहेतुभि- रिति लभ्यते। अत एव तत्प्रकरणे वाक्यामिदम् । पूर्वस्वाम्यनुमत्या च दासकृतो विवाहः स्वत्वहेतुः । विमतिविषये तु चेटिकापरिण- यवन्न पूर्वस्वामिस्वत्वहानिः । आधुनिकास्तु यदि प्रागनुमति विना दासेनोढा तदा गौरीवराटिकामात्रमनस्वामिने दातव्यमुत्तरस्वा. मिना, न तु दास्यनुत्पत्तिरेव । गौरीवराटिकाग्रहणमात्रप्रयोजकस्येव दासत्वस्य पूर्वस्वामिनिरूपितस्य तत्र सत्त्वादिति वदन्ति । यत्तु- न स्वामिना विसृष्टोऽपि शूद्रो दास्यात्प्रमुच्यते । निसर्गजं हि तत्तस्य कस्तं तस्माद्यपोहतु ॥ इति मार्कण्डेयपुराणे हरिश्चन्द्रवाक्यं, तद्दासनिन्दापरम्। अन्यथा तस्यैव दास्यान्मोक्षो न स्यादित्यवधेयम् । प्रव्रज्येति । संन्यासन हणानन्तरं ततः प्रच्युतो यो भवति स राज्ञो दास आमरणान्तिकः मरणावधि विद्यमानदासभावः, अस्य न दासस्य मोक्ष इति भावः । वर्णानामिति । अनुलोमक्रमेणैव दास्यं भवति न प्रतिलोमक्रमेण । यथा ब्राह्मणस्य क्षत्रियो दासो न तु वैश्यस्येत्यादि । इदं तु प्रवज्याव. सितभिन्नपरम्। वर्णानां प्रातिलोम्येन दासत्वं न विधीयते । स्वधर्मत्यागिनोऽन्यत्र दारवदासता मता ॥ इति नारदवचनातू । वर्णानामिति प्रवज्यावसित इति च ब्राह्मण भिन्नपरम् । प्रव्रज्यावसितं यत्र त्रयो वर्णा द्विजातयः। निर्वासं कारयेद्विमं दासत्वक्षत्रविन्नृपः ॥ क्षत्रविदिति समाहारद्वन्द्वः ॥ २८२-१८३ ॥ ( मिता० ) साम्प्रतमभ्युपेत्याशुश्रूषाख्यमपरं विवादपदमभिधातु: मुपक्रमते. । तत्स्वरूपं च नारदेनोक्तम्- 'अभ्युपेत्य तु शुश्रूषां यः स्तां न प्रतिपद्यते । अशुश्रूषाभ्युपेत्यैतद्विवादपदमुच्यते ॥ इति । आ(१)ज्ञाकरणं शुश्रूषा तामङ्गीकृत्य पश्चाद्यो न संपादयति तद्विवा- दपदमभ्युपेत्याशुश्रूषाख्यम् । शुश्रूषकश्च पञ्चविधः-शिष्योऽन्तेवा (१) आज्ञाकारणं खं, ।

॥ अभ्युपेत्याशुश्रूषाप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता । ६६३ सी भृतकोऽधिकर्मकृदास इति । तेषामाद्याश्चत्वारः कर्मकरा इत्यु. च्यन्ते, ते च शुभकर्मकारिणः। दासाः पुनर्गृहजातादयः पञ्चदशप्र. काराः। गृहद्वाराशुचिस्थानरथ्यावस्करशोधनाद्यशुभकर्मकारिणः । तदिदं नारदेन स्पष्टीकृतम्-'शुश्रूषकः पञ्चविधः शास्त्रे दृष्टो मनीषि- 'भिः । चतुर्विधाः कर्मककरास्तेषां दासास्त्रिपञ्चकाः ॥ शिष्यान्तेवा. लिभृतकाश्चतुर्थ(१)स्त्वधिकर्मकृत् । एते कर्मकरा ज्ञेया दासास्तु गृहजादयः ॥ सामान्यमस्वतन्त्रत्वमेषामाहुर्मनीषिणः । जाति(२)क. मकतस्तूक्तो विशेषो वृत्तिरेव च ॥ कर्मापि द्विविधं ज्ञेयमशुभं शुभ. मेव च । अशुभं दासकर्मोक्तं शुभं कर्मकृतां स्मृतम् ॥ गृहद्वाराशु चिस्थानरथ्यावस्करशोधनम् । गुह्याङ्गस्पर्शनोच्छिष्टविण्मूत्रग्रहणो. ज्झनम् ॥ इच्छतः स्वामिन(३)श्चाङ्गैरुपस्थानमथान्ततः। अशुभं क. म विज्ञेयं शुभमन्यदतः परम् ॥ इति । तत्र शिष्यो वेदविद्यार्थी । अन्तेवासी शिल्पशिक्षार्थी । मूल्येन यः कर्म करोति स भृतकः । कर्म कुर्वतामधिष्ठाताऽधिकर्मकृत्। अशुचिस्थानमुच्छिष्टप्रक्षेपार्थ गर्ता. दिकम् । अवस्करो गृहमार्जितपस्वादिनिच(४)यस्थानम् । उज्झनं त्यागः । भृतकश्चात्र त्रिविधः। तदुक्तम् -'उत्तमस्त्वायुधीयोऽत्र म. ध्यमस्तु कृषीवलः । अधमो भारवाही स्यादित्येवं त्रिविधो भृतः' । इति । दासाः पुनः-'गृहजातस्तथा क्रीतो लब्धो दायादुपागतः। अनाकाल(१)भृतस्तद्वदाहितः स्वामिना च यः ॥ मोक्षि(६)तो.महत श्वर्णाझुद्धप्राप्तः पणे जितः । तवाहमित्युपगतः प्रवज्यावसितः कृतः॥ भक्तदासश्च विज्ञेयस्तथैव वडवाहृतः । विक्रेता चात्मनः शास्त्रे दा- साः पञ्चदश स्मृता ॥ गृहे दास्यां जातो गृहजातः । क्रीतो मूल्ये. न । लब्धः प्रतिग्रहादिना । दायादुपागतः पित्रादिदासः। अनाकाल. भृतो दुर्भिक्षे यो दासत्वाय मरणाद्रक्षितः। आहितः स्वामिना धन. ग्रहणेनाधितां नीतः। ऋणमोचनेन दासत्वमभ्युपगतः ऋणदासः । युद्धप्राप्तः समरे विजित्य गृहीतः । पणे जितो यद्यस्मिन्विवांदे परा. जितोऽहं तदा त्वदासो भवामीति परिभाष्य जितः । तवाहमित्युप: गतः तवाहं दास इति स्वयं संप्रतिपन्नः। प्रव्रज्यावसितः प्रव्रज्या- तश्च्युतः । कृतः एतावत्कालं त्वदास इत्यभ्युपगमितः। भक्तदासः (१) श्वाधिर्मकृत घ.। (२) कर्मकरस्तूक्तो ख.। (३) स्वामिनः स्वाङ्गै घ.। (४) निर्वापस्थानम् घ.। (५) भृतश्चैव घ.। (६) मोचितो घ.। 1 . ।

याज्ञवल्क्यस्मृतिः।. [ व्यवहाराध्यायः। - सर्वकालं भक्तार्थमेव दासत्वमभ्युपगभ्य यः प्रविष्टः । वडवाहृतः वडवा गृहदासी तयाहृतः तल्लोभेन तामुद्वाह्य दासत्वेन प्रविष्टः । य आत्मानं विक्रीणीतेऽसावात्मविक्रेतेत्येवं पञ्चदश प्रकाराः। यत्तु मनुना ( ८।४१५)-ध्वजाहतो भक्तदासो गृहजः क्रीतदन्त्रिमौ । पै. तृको दण्डदासश्च सप्तैते दासयोनयः ॥ इति सप्तविधत्वमुक्तं तत्ते. षां दासत्वप्रति(१)पादनार्थ न तु परिसंख्यार्थम् । तत्रैपां शिष्यान्ते. वासिभृतकाधिकर्मदासानां मध्ये शिष्यवृत्तिः प्रागेव प्रतिपादिता। 'आहूतश्चाप्यधीयीत लब्धं चास्मै निवेदयेत्' इत्यादिना । अधिक मभृतकानां तु भृति वेतनादानप्रकरणे वक्ष्यते । 'यो यावत्कु. रुते कर्म तावत्तस्य तु वेतनम्' इत्यादिना ।। दासान्तेवासिनोस्तु धर्मविशेषं वक्तुमाह- बलादिति। वलात् बलावष्टम्भेन यो दासीकृतः । यश्चौरैरपहत्य विक्रीतः।अपिशव्दादाहितो दत्तश्च स मुच्यते।यदि स्वामी नमुञ्चति तर्हि राज्ञा मोचयितव्यः। उक्तं च नारदेन-"चौरापहृतविक्रीता ये च दासीकृता बलात् । राज्ञा मोचयितव्यास्ते दास्यं तेपु हि नेष्य. ते' ॥ इति । चौरव्याघ्राद्यवरुद्धस्य स्वामिनः प्राणान्यः प्रददाति र. क्षत्यसावपि मोच(२)यितव्यः । तदिदं सर्वदासानां साधारणं दा. स्यनिवृत्तिकारणम् । 'यो वैषां स्वामिनं कश्चिन्मोचयेत्प्राणसंश. यात् । दासत्वात्स विमुच्येत पुत्रभागं लभेत च' ॥ इति नारदस्म- रणात् । भक्तदासादीनां प्रातिस्विकमपि मोक्षकारणमुच्यते । अना- कालभृतभक्तदासौ भक्तस्य त्यागादासभावादारभ्य स्वासिद्रव्यं या- वदुपभुक्तं तावद्दत्त्वा मुच्येते। आहितर्णदासौ तु तनिष्क्रयाद्यद् गृ. हीत्वा स्वामिना आहितो यच्च दत्त्वा धनिनोत्तमर्णान्मोचितस्तस्य प्रत्यर्पणान्मुच्यते । नारदेन विशेषोऽप्युक्तः-'अनाकालभृतो दा. स्यान्मुच्यते गोयुगं ददत् । सम्भक्षितं यद् दुर्भिक्षे न तच्छुचेत कर्म- णा ॥ भक्तस्योत्क्षेपणात्सद्यो भक्तदासः प्रमुच्यते। आहितोऽपि धनं दत्त्वा स्वामी यद्येनमुद्धरेत् ॥ ऋणं तु सोदयं दत्त्वा ऋणी दास्यात्प्र. मुच्यते ॥ इति । तथा तवाहमित्युपगतयुद्धप्राप्तपणजितक(३)तकब डवाहतानां च प्रातिस्विकं मोचनकारणं च तेनै(४) वौक्तम् । यथा- ॥ (१) प्रतिपादनपरम। . १२) मोचनीयः घ. । (३) कुतवडवा घ.। (१) नारदेनैव।

. - अभ्युपेत्याशुश्रूषाप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता । ६६५ 'तवाहमित्युपगतो युद्धप्राप्तः, पणे जितः । (१)प्रतिशीर्षप्रदानेन.मु. च्येरंस्तुल्यकर्मणा ॥ कृतकालव्यपगमात्कृतकोऽपि विमुच्यते । नि. ग्रहाद्वडवायास्तु: मुच्यते वडवाहृतः ॥ इति । दासेन सह सम्भोग निरोधादित्यर्थः । तदेवं गृहजातक्रीतलब्धदायप्राप्तात्मविक्रयिणां स्वामिप्राण(२)प्रदानतत्प्रसादरूपसाधारणकारणव्यतिरेकेण. मोक्षो नास्ति । विशेषकारणानभिधानात् । दासमोक्षश्चानेन क्रमेण कर्त. व्यः। 'स्वं दासमिच्छेद्यः कर्तुमदासं प्रीतमानसः । स्कन्धादादाय तस्यासौ भिन्द्यात्कुम्भं सहाम्भसा ॥ साक्षताभिः सपुष्पाभिमूर्धन्य. द्भिरवाकिरेत् । अदास इत्यथोक्त्वा त्रिः प्राङ्मुखं तमवासृजत् ' । इति तेनैवोक्तम् ॥ १८२॥ (मिता०) प्रव्रज्यावसितस्य तु मोक्षो नास्तीत्याह- प्रवज्येति । प्रव्रज्या संन्यासस्ततोऽवसितःप्रच्युतः। अनभ्युपग. तप्रायश्चित्तश्चेद्राज्ञ एव दासो भवति । मरणमेव तद्दासत्वस्या(३). न्तोऽन्यस्मिन्काले न मोक्षोऽस्ति ॥ (मिता०) वर्णापेक्षया दास्यव्यवस्थामाह- वर्णानामिति । ब्राह्मणादीनां वर्णानामानुलोम्येन दास्यम् । ब्राह्म- णस्य क्षत्रियादयः । क्षत्रियस्य वैश्यशुद्रौ । वैश्यस्य शूद्र इत्येवमा. नुलोम्येन दासभावो भवति न प्रातिलोम्येन । स्वधर्मत्यागिनः पुनः परिव्राजकस्य प्रातिलोम्येनापि दासत्वमिष्यत एव । यथाह नारद:- 'वर्णानां प्रातिलोम्येन दासत्वं न विधीयते । स्वधर्मत्यागिनोऽन्यत्र दारवदासता मता ॥ इति ॥ १८३ ॥ (वीमि० ) दासधर्मानभिधायाऽन्तेवासिधर्मानाह- कृत शिल्पोऽपि निवसेतु कृतकालं गुरोगृहे ।। अन्तेवासी गुरुमाप्तभोजनस्तत्फलपदः ॥ १८४ ।। त्वद्गृहे एतावत्कालं वसिष्यामीति कृतं व्यवस्थापितं कालं व्याप्य गुरोहे कृतशिल्पोऽपि लव्धशिल्पविद्योऽपि अन्तेवासी गु. रोः सकाशात् प्राप्तं भोजनं येन तादृशः तस्य शिल्पस्य फलं वेतनं गुरवे ददन्निवसेत् । शिल्पातिरिक्तं च कर्म नान्तेवासिनं कारयेत् । (१) मतिशीयः प्रतिनिधिः । (२) प्रदानात्तत्प्रसाद घ.। (३) स्यान्तो नान्तरा प्रतिमोक्षोस्ति घ.।

६ याज्ञवल्क्यस्मृतिः। [ व्यवहाराध्यायः । तदाह नारदः- न चाऽन्यत्कारयेत्कर्म पुत्रवचनमाचरेत् । शिक्षयन्तमदुष्टं च यस्त्वाचार्य परित्यजेत् । वलाद्वासयितव्यः स्याद्वधबन्धौ च सोऽहति ॥ तथा- तथा- गृहीतशिल्पः समये कृत्वाचार्य प्रदक्षिणम् । शिक्षितश्चानुमान्यैनमन्तेवासी निवर्तते ॥ १८४ ॥ इति श्रीमत्० याज्ञवल्क्यव्याख्याने अभ्युपेत्याशुश्रूषाप्रकरणम् । (मिता०) अन्तेवासिधर्मानाह- कृतशिल्प इति । अन्तवासी गुरोहे कृतकालं वर्षचतुष्टयमा. युर्वेदादिशिल्पशिक्षार्थ त्वगृहे वसामीति यावदङ्गीकृतं तावत्कालं वसेत् । यद्यपि वर्षचतुष्टयादागेव लब्धापेक्षितशिल्पविद्यः । कथं निवसेत् ? गुरुप्राप्तभोजनः गुरोः सकाशात्प्राप्तं भोजनं येन स त. थोक्तः । तत्फलप्रदः तस्य शिल्पस्य फलमाचार्याय प्रददातीतितत्फ- लप्रदः । एवंभूतोवसेत् । नारदेन विशेषोऽप्यत्र दर्शितः-'स्वशिल्पमि- च्छन्नाहर्तु वान्धवानामनुज्ञया । आचार्यस्य वसेदन्ते कृत्वा कालं सुनिश्चितम् ॥ आचार्यः शिक्षयेदेनं स्वगृहे दत्तभोजनम् । न चान्य कारयेत्कर्म पुत्रवच्चैनमाचरेत् ॥ शिक्षयन्तमसंदुष्टं य आचार्य परि- त्यजेत् । बलाद्वासयितव्यः स्याद्वधवन्धौ च सोर्हति ॥ शिक्षितोऽपि कृतं कालमन्तेवासी समाप्नुयात् । तत्र कर्म च यत्कुर्यादाचार्यस्यैव तत्फलम् ॥ गृहीतशिल्पः समये कृत्वाचार्य प्रदक्षिणम् । शिक्षित. श्वानुमान्यैनमन्तेवासी निवर्तते' ॥ इति 1 वधशब्दोऽत्र ताडनार्थः दोषस्याल्पत्वात् ।। १८४॥ इत्यभ्युपेत्याशुश्रूषाख्यं विवादपदम् । (वीमि०) अधुना संविधतिक्रमं विवादपदं निरूपयितुमु. पक्रमते- राजा कृत्वा पुरे स्थानं ब्राह्मणाल्यस्य तत्र तु ॥ त्रैविधं वृत्तिमद् ब्रूयात् स्वधर्मः पाल्यतामिति ॥ १८५ ॥ राजा स्वपुरे धवलगृहादिरूपं स्थानं कृत्वा तत्र ब्राह्मणान् n.

संविधतिक्रमप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता । ६६७ न्यस्य स्थापयित्वा त्रैविधं वेदत्रयसंपन्नं वृत्तिमद् भूहिरण्यादिसंपन्नं च कृत्वा स्वस्थ वर्णाश्रमनिमित्तो धर्मो भवद्भिः पाल्यतां . क्रियता. मिति ब्रूयात व्यवस्थापयेत् । तुशब्देन वृत्तिपरिकल्पनं विना व्यव. स्था व्यवच्छिद्यते ॥ १८५॥ (मिता० ) संप्रति संविद्यतिक्रमः कथ्यते । तस्य च. लक्षणं ना. रदेन व्यतिरेकमुखेन दर्शितम्-'(१)पाखण्डिनेगमादीनां स्थितिः समय उच्यते। समयस्यानपाकर्म तद्विवादपदं स्मृतम् ॥ इति । पारिभाषिकधर्मेण व्यवस्थानं समयस्तस्यानपाकाव्यातक्रमः परि- पालनं ततिक्रम्यमाणं वि(२)वादपदं भवतीत्यर्थः ॥ तदुपक्रमार्थ किंचिदाह- राजेति । राजा स्वपुरे दुर्गादौ स्थानं धवलगृहादिकं कृत्वा तत्र ब्राह्मणान्न्यस्य स्थापयित्वा तद्राम(३)णजातं त्रैविद्यं वेदत्रयसंपन्नं वृत्तिमद् भूहिरण्यादिसंपन्नं च कृत्वा स्वधर्मो वर्णाश्रमनिमित्तः श्रुति. स्मृतिविहितो भवद्भिरनुष्ठीयतामिति तान् ब्राह्मणान् ब्रूयात् ॥ १८५ ॥ ( वी०मि० ) एवं कृतव्यवस्थेस्तयत्कार्य तदाह- निजधर्माविरोधेन यस्तु सामायिको भवेत् ।। सोऽपि यत्नेन संरक्ष्यो धर्मो राजकृतश्च यः ॥ १८६ ॥ यः सामयिको गोप्रचारदेवगृहपालनादिरूपः समयागोचारका. दिकारितराजकृतव्यवस्थानिष्पन्नो धर्मः, यश्च शत्रुमण्डले तुरंगाद- यो न प्रस्थाप्या, मम राज्येऽतिथिभिरकृतभोजनैर्न यथा स्थीयते त. था कर्तव्यमित्यादि धर्मो राज्ञा कृतः स्वेच्छया समाज्ञप्तः सोऽपि स्व. धर्मः पाल्यतामिति व्यवस्थितो यो निजधर्माणामविरोधेन तैाह्मणैः यत्नेन संरक्षणीयः संपादनीयः । तुशब्देन निजधर्मविरुद्धस्य सामयि. कस्य रक्षणं व्यवच्छिनत्ति । अपिशब्देन- पूगणिगणानां च सङ्केतसमयक्रिया। बाधाकाले तु सा कार्या धर्मकार्य तथैव च ॥ इति बृहस्पत्यायुक्तराजतदीयपुरुषव्यवस्थापितातिरिक्तसमयबन्धं समुच्चिनोति । चकारेण राजाधिकृतं समुश्चिनोति ॥ ॥ १८६ ॥ (१) पाखण्डिनो वेदमार्गविरोधिनो वाणिज्यादिकराः । नैगमास्तदविरोधिनः । आदिपदेन त्रैवि- यानां ग्रहणम् । (२) व्यवहारपदं घ.। (३) तद्ब्राह्मणवातं ख।

६६८ याज्ञवल्क्यस्मृतिः। [ व्यवहाराध्यायः । (मिता० ) एवं नियुक्तैस्तैर्यत्कर्म कर्तव्यं तदाह- निजेति । श्रौतस्मातधर्मानुपमर्दैन समयान्निष्पन्नो यो धर्मों गोप्रचारोदकरक्षणदेवगृहपालनादिरूपः सोऽपि यत्नेन पालनीयः । तथा राज्ञा च निजधर्माविरोधेनैव यः सामयिको धर्मो यावत्पथिक भोजनं देयमस्मदराति(१)मण्डलं तुरङ्गाद्यो न प्रस्थापनीया इत्येवं. रूपः कृतः सोऽपि रक्षणीयः ॥ १८६ ॥ (वी० मि०) एतादृशव्यवस्थालङ्घने दण्डमाह- गणद्रव्यं हरेधस्तु संविदं लङ्घयेच्च यः ।। सर्वस्वहरणं कृत्वा तं राष्ट्राद्विप्रवासयेत् ॥ १८७ ।। अतिक्रमे तस्य सर्वस्वहरणं कृत्वा तं राजा निष्कासयेदित्यर्थः । अत्र ग्रन्थलाघवाय गणद्रव्यहारिदण्डस्याभिधानमवगन्तव्यम् । अयं च दण्डोऽनुवन्धातिशये द्रष्टव्यः । अनुवन्धाल्पत्वे तु- यो ग्रामदेशसङ्घानां कृत्वा सत्येन संविदम् । विसंवदेनरो लोभात्तं राष्टाद्विप्रवासयेत् ।। निगृह्य दापयेदेनं समयव्यभिचारिणम् । चतुःसुवर्ण पनिष्कं शतमानं तु राजतम् !! इति मनूक्तदण्डानामन्यतमो जातिशत्त्याद्यपेक्षया कल्पनीयः॥१८७॥ (मिता०) एवं समयधर्मः परिपालनीय इत्युक्त्वा तदतिक्रमादौ दण्डमाह- गणद्रव्यमिति । यः पुनर्गणस्य ग्रामादिजनसमूहस्य सम्वन्धि साधारणं द्रव्यमपहरति, संवित्समयस्ता समूहकृतां रा(२)जकृतां वा यो लवन्येदतिक्रामेत्तदीयं सर्व धनमपहृत्य स्वराष्ट्राद्विप्रवासये. निकासयेत् । अयं च दण्डोऽनुबन्धाद्यतिशये द्रष्टव्यः । अनुवन्धा. ल्पत्वे तु (मनुः ८४२१९४२२०)-'यो ग्रामदेशसंघानां कृत्वा सत्येन संविदम् । विसंवदेन्नरो लोभात्तं राष्ट्राद्विप्रवासयेत् ॥ निगृह्य दापये. देनं समयव्यभिचारिणम् । चतुःसुवर्ण षनिष्कं शतमानं च राज- तम् ॥ इति मनुप्रतिपादितदण्डानां निर्वासनचतुःसुवर्णषनिष्कश. तमानानां चतुर्णामन्यतमो जातिशक्त्याद्यपेक्षया कल्पनीयः ॥१८७॥ (१) मग्डले घ.। (२) राज्ञा कृतां ग, ।

संविधतिक्रमप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता। ६६९ - - (वी० मि०) राजव्ययस्थापित इव ग्रामादिसमूहवाव्यिव- स्थापितोऽप्यों न लङ्घनीय इत्याह- कर्तव्यं वचनं सर्वैः समूहाहतवादिनाम् ।। यस्तत्र विपरीतः स्यात् स दाप्यः प्रथम दमम् ॥ १८८ ।। समूहहितं सेतुबन्धनकारित्वादिकं वदतां कर्तव्यमिति ब्रुवतां वचनं तत्सर्वेरेव संपादनीयम् । यस्तु तत्र विपरीतः प्रतिकूल स्यात् स प्रथमसाहसं दमं दाप्यः॥ १८८ ॥ (मिता०) इदं च तैः कर्तव्यमित्याह- कर्तव्यमिति । गणिनां मध्ये ये. समूहहित(१)वादनशीलास्त. द्वचनमितरैर्गणानामन्तर्गतैरनुसरणीयम् ।। (मिता०) अन्यथा दण्ड इत्याह- यस्तत्रेति । यस्तु गणिनां मध्ये समूहहितवादिवचनप्रतिबन्ध कारी स राज्ञा प्रथमसाहसं दण्डनीयः ॥ १८८ ॥ (वी० मि० ) तादृशवचनकारिषु राजकृत्यमाह- समूहकार्य आयातान् कृतकार्यान विसर्जयेत् ॥ स दानमानसत्कारैः पूजयित्वा महीपतिः ॥ १८९ ॥ समूहहितकार्यार्थ स्वसमीपमागतान् कृतकार्यान् सर्वानेव दान- मानसहितैः सत्कारैः पूजयित्वा महीपतिर्विसर्जयेदित्यर्थः ॥ १८९ ।। (मिता०) राज्ञा चे(२)त्थं गणिषु वर्तनीयामित्याह- समूहकार्य इति । समूहकार्यनिवृत्त्यर्थ स्वपार्वं प्राप्तान् गणिनो निर्वर्तितात्मीयप्रयोजनान् दानमानसत्कारैः स राजा परितोष्य वि. सर्जयेत् ॥ १८९॥ ( वी० मि० ) यदा समूहकार्यार्थ सर्वे राजसन्निधि नाऽऽयान्ति किं तु सर्वरेक एव तत्र प्रहीयते, तदा कथं सर्वेषां सत्कार इ. ~ त्यत आह- .. समूहकार्ये प्रहितो यल्लभेत तदर्पयेत् ।। एकादशगुणं दाप्यो यद्यसौ नाऽर्पयेत्स्वयम् ॥ ११० ॥ समूहहिते कार्ये निमित्तभूते प्रहित एकः कश्चिद्राजसन्निधौ यत् (१) हितवदन घ.। (२) चैवं गणिषु वर्तितव्यं घ. । ८१॥

याज्ञवल्क्यस्मृतिः। [ व्यवहाराध्यायः । लभेत तत्सर्वेभ्यो विभज्याऽर्पयेत् । यद्यसौ स्वयं नार्ययेत्तदा राजा- ऽपितमेकादशगुणितं दाप्यः । तथा चैकस्य यः सत्कारो राज्ञा कृतः स एव सर्वेषामपीति भावः ॥ १९०॥ (मिता०) समूहदत्तापहारिणं प्रत्याह- समूहकार्यप्रहित इति । समूहकार्यार्थ महाजनैः प्रेरितो राजा पार्वे यद्धिरण्यवस्त्रादिकं लभते तदप्रार्थित एव महाजनेभ्यो निवे. दयेत् । अन्यथा लब्धादेकादशगुणं दण्ड दापनीयः ॥ १९० ॥ धर्मज्ञाः शुचयोऽलुब्धा भवेयुः कार्यचिन्तकाः ॥ कर्तव्यं वचनं तेषां समूहहितवादिनाम् ॥ १९१ ॥ ( वी० मि० ) श्रौतस्मार्तधर्मज्ञा वाह्यान्तरशौचवन्तो लोभशून्याः समूहहितकार्यचिन्तकाः राज्ञा कर्तव्या भवेयुः । एतेषां समूहहितवा- दिनां वचनमकरणे दण्डप्रसत्त्याऽवश्यं सर्वैः कर्तव्यमित्यर्थः ॥१९॥ (मिता०) एवंप्रकाराश्च कार्यचिन्तकाः कार्या इत्याह- धर्मज्ञा इति । श्रौतस्मार्तधर्मज्ञा बाह्याभ्यन्तरशौचयुक्ता अर्थेष्व- लुब्धाः कार्यविचारकाः कर्तव्याः। तेषां वचनमितरैः कार्यमित्येतदा. दरार्थ पुनर्वचनम् ॥ १९१॥ (वी० मि० ) त्रैविद्यानामुक्तं धर्म श्रेण्यादिष्वतिदिशति- श्रेणिनैगमपाखण्डिगणानामप्ययं विधिः ।। भेदं चैषां नृपो रक्षेत्पूर्ववृत्तिं च पालयेत् ।। १९२ ।। एकपण्यशिल्पोपजीविसमुदायः श्रेणयो, नैगमाः पौराः, पाख. ण्डिनो वेदप्रामाण्यानभ्युपगन्तारः, गण आयुधीयादीनामेककर्मप्र. वृत्तानां समुदायः । अयं निजधर्माविरोधेनेत्यादिना प्राग् विहितो विधिः । अपिशब्देन राजाधिकारिणां समुच्चयः । प्रसङ्गादेतेषु राज्ञः कृत्यमाह पूर्वसिद्धां तेषां वृत्तिं पालयेत् । आधचकारेण प्रागुक्तानां ब्राह्मणानां समुच्चयः। द्वितीयचकारेणाऽवृत्तीनां वृत्ति कल्पयेदिति समुच्चीयते ॥ १९२॥ इति श्रीमत्० याज्ञवल्क्यव्याख्याने संविधतिक्रमप्रकरणम् ।। -

वेतनादानप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता।
६७१
(मिता) इदानी विद्यानां प्रतिपादितं धर्म श्रेण्यादिम्वति-
दिशन्नाह-
श्रेणीति । एकपण्यशिल्पोपजीविनः श्रेणयः । नगमाः ये वेदस्या.
तप्रणीतत्वेन प्रामाण्यमिच्छन्ति पाशुपतादयः । पाखण्डिनो ये वेद-
स्य प्रामाण्यमेव नेच्छन्ति नग्नाः सौगतादयः । गणो व्रातः आयु.
धीयादीनामेककर्मोपजीविनाम् । एषांचतुर्विधानामप्ययमेव विधिों
निजधर्माविरोधेनेत्यादिना प्रतिपादितः । एतेषां च श्रेण्यादीनां भेदं
धर्मव्यवस्थानं नृपो रक्षेत् पूर्वोपात्तां वृत्तिं च पालयेत् ॥ १९२ ॥
इति संविद्यतिक्रमप्रकरणम् ।
-
-
(वी० मि० ) अथ-
भृत्यानां वेतनस्योक्तो दानादानविधिक्रमः ।
वेतनस्थाऽनपाकर्म तद्विवादपदं स्मृतम् ।।
इति नारदोक्तं वेतनानपकर्माख्यं विवादपदं निरूपयति-
गृहीतवेतनः कर्म त्यजन् द्विगुणमावदेत् ॥
अगृहीते समं दाप्यो भृत्यै रक्ष्य उपस्करः ॥ १९३ ॥
गृहीतवेतनो भृतकोधिकर्मकृच्चाऽङ्गीकृतं कर्म त्यजन् सम
व्यवस्थापितवेतनतुल्यं धनं महीक्षिता दाप्यः । अथ बलाद् भृति द.
त्वा कर्म कारयितव्यः ।
कर्माऽकुर्वन् प्रतिश्रुत्य कार्यों दत्त्वा भृति बलात् ।
इति नारदवचनात् । इदमारभ्याऽकुर्वतः । अनारंभे तु-
भृतोऽना” न यो कुर्यादात्कर्म यथोदितम् ।
स दण्ड्यः कृष्णलान्यष्टौ न देयं चास्य वेतनम् ॥
इति मनुवचनाद्यवस्था । 'त्यजनित्यनेन स्वकृते कर्मत्यागे
दण्ड उक्तः, अन्यथा तु-
स्वामिदोषादपक्रामन् यावत्कृतमवाप्नुयात् ।
इति नारदवचनाद्यवस्था द्रष्टव्या । भृत्यैश्च स्वामिनः उपस्करः
प्रग्रहलाइलादिको रक्षणीयः । अरक्षणे च भृत्यैतनष्टं स्वामिने दे.
यमिति भावः। यत्र यादृशी भृतिः परिभाषिता स्वामिभृत्याभ्यां ता.
दृशी तत्र भृतिभृत्येन लभ्यत इति स्पष्टत्वादुपेक्ष्या ॥ १९३ ॥

६७२ याज्ञवल्क्यस्मृतिः। व्यवहाराध्यायः । (मिता०) संप्रति वेतनस्यानपाकर्माख्यं व्यवहारपदं प्रस्तूयते । तत्स्वरूपं च नारदेनोक्तम्-(१) भृत्यानां वेतनस्योक्तो दानादानविधि. क्रमः । वेतनस्यानपाकर्म तद्विवादपदं स्मृतम् ॥ इति । अस्यार्थः-(१) भृत्यानां वेतनस्य वक्ष्यमाणश्लोकैरुक्तो दानादानविधिक्रमो यत्र वि. चापदपदे तद्वेतनस्यानपाकर्मत्युच्यते । तत्र निर्णयमाह- गृहीतेति । गृहीतं वेतनं येनासो स्वाङ्गीकृतं कर्म त्यजन् अकुर्वन् द्विगुणां भृति स्वामिने दद्यात् । यदा पुनरभ्युपगतं कर्म अगृहीते एव वेतने त्यजति तदा समं यावद्वेतनमभ्युपगतं तावदाप्यो न द्विगुणम्। यद्वाङ्गीकृतां भृतिं दत्त्वा बलात्कारयितव्यः । 'कर्माकुर्वन्प्रतिश्रुत्य कार्यों दत्त्वा भृति बलात् ' इति नारदवचनात् । भृतिरपि तेनैवो. ता-(२)भृत्याय वेतनं दद्यात्कर्मस्वामी यथाक्रमम् । आदौ मध्ये. ऽवसाने वा कर्मणो यद्विनिश्चितम् ॥ इति । तैश्च भृत्यैरुपस्कर (३)उ- पस्करणं लागलादीनां प्रग्रहयोकादिकं यथाशक्त्या रक्षणीयम् । इत- रथा कृष्यादिनिष्पत्त्यनुपपत्तेः ॥ १९३ ॥ (वी० मि०) परिभाषिते वेतने कर्म कुर्वतों भृतकस्य किं देय- मित्यत आह- दाप्यस्तु दशमं भाग वाणिज्यपशुसस्यतः ॥ अनिश्चिस भृतिं यस्तु कारयेत्स महीक्षिता ॥ १९४ ॥ यस्तु स्वामी भृति वेतनमनिश्चित्य कर्म वाणिज्यादिकं भृतक- द्वारा कारयेत् स वाणिज्यपशुसस्यवृद्धेर्दशमं भागं भृतकाय मही. क्षिता दाप्यः। इदं तुसीरवाहकपरम्। त्रिभागं पञ्चभांग वा गृह्णीयासीरवाहकः। भक्ताच्छादभृतः सीराद्भागं भुञ्जीत पञ्चमम् ॥ इति बृहस्पतिवचनात् । त्रिभागो भक्ताच्छादनदानाभावे ।। १९४॥ (मिता०) भृतिमपरिच्छिद्य यः कर्म कारयति तं प्रत्याह- दाप्य इति । यस्तु स्वामी वणिक् गोमी क्षेत्रिको वा अपरिच्छि. नवेतनमेव भृ(४)त्यं कर्म कारयति स तस्माद्वाणिज्यपशुसस्थलक्ष- णात्कर्मणो यल्लब्धं तस्य दशमं भागं भृत्याय महीक्षिता राज्ञा दा. पनीयः ॥ १९४ ॥ (१) भूतानां घः! (२) भृताय घ.। (३) उपकरणं घ..I. (१) भृत्यकर्म ग. घ.. .. -- वेतनादानप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता । ६७३ - (वी० मि०) भृतकस्यापराधेन स्वामिनो लाभहासे वेतन- हासमाह- देश कालं च योऽतीयाल्लाभं कुर्याच्च योऽन्यथा ।। तत्र स्यात्स्वामिनश्छन्दोऽधिकं देयं कृतेऽधिके १९५ ॥ यस्तु भृतकः पण्यकृष्याधुचितं देशं कालं चाऽतीयात् विक्रय कर्षणादिकमकुर्वन लवयेत् यश्चाऽन्यथा स्वाम्यसंप्लुतेन बहुव्ययादि. ना लाभं कुर्यात्तत्र तस्मिन् भृतके स्वामिनो वेतनदाने छन्द इच्छा यावदिच्छति तावद्दद्यान्न तु संपूर्ण वेतनमित्यर्थः । यदा पुनर्देशकालविज्ञतयाऽधिकं लाभं भृतकः करोति तदा व्यवस्थापि- ताद्दशमभागादेश्वाधिकं वेतन देयम् । आद्यचकारेण केतृविशेषादिक द्वितीयचकारेणाऽमुलहासं समुच्चिनोति ॥ १९५ ॥ (मिता०) अनाज्ञप्तकारिणं प्रत्याह- देशमिति । यस्तु भृत्यः पण्यविक्रयाशुचितं देशं कालं च पण्य- विक्रयाद्यकुर्वन्द(१)ोदिनोल्लङ्घयत्तस्मिन्नेव वा देशे काले च ला. भमन्यथा व्ययाधतिशयसाध्यतया हीनं करोति तस्मिन्भृतके भृति- दानं प्रति स्वामिनश्छन्द इच्छा भवेत् । यावदिच्छति तावद्दद्यान्न पु. नः सर्वामेव भृतिमित्यर्थः । यदा पुनर्देशकालाभिज्ञतयाऽधिको ला. भः कृतस्तदा पूर्वपरिच्छिन्नाया (२)भृतेरधिकमपि धनं स्मामिना भृत्याय दातव्यम् ।। १९५॥ (वी० मि० ) अनेकभृतकसाध्यं कर्माधिकृत्याह- यो यावत् कुरुते कर्म तावत्तस्य तु वेतनम् ॥ उभयोरप्यसाध्यं चेत्साध्यं कुर्याद्यथाश्रुतम् ॥ १९६ ॥ एकमेव कर्म यधुभाभ्यां बहुभिर्वा क्रियमाणं न्यूनाधिकश्रमेणं स. माप्यते तदा स्वस्वकर्मानुसारेण न्यूनमधिकं च तस्य विभज्य वेत. नं देयमुभयोबहूनां वाऽसाध्यमपि चेत् । द्वितीयभृतकदोषेणाऽसिद्धं चेत्यपिकारार्थः । साध्येः कर्मणि यथाऽङ्गीकृतं कुर्यात् । एतस्य कर्मण इदं वेतनमिति परिभाषितं वेतनं कर्मणः समाप्तावेव देयं, न त्वेकदेशस्य कृतस्य वेतनं देयम् । । वा तत्कर्मवेतनं प्रत्येक भृतके (१) दाहिनमुल्लंघयेत् घ.। (२) भृतेररि किमपि धनमधिकं ख.। ८२ ६७४ याज्ञवल्क्यस्मृतिः । , [ व्यवहाराध्यायः । भ्यो देयं किं तु मिलिताभ्यां मिलितेभ्यो वा एकमेव वेतनं विभज्य देयमिति पर्यवसितार्थः ॥ १९६ ॥ (मिता०) अनेकभृत्यसाध्यकर्मणि भृतिदानप्रकारमाह- यो यावदिति । यदा पुनरेकमेव कर्म नियतवेतनमुभाभ्यां क्रिय माणं उभयोरप्यसाध्यं चेद्याध्याद्यभिभवादुभाभ्याम्, अपिशव्दाद्वहु- भिरपि यदि न परिसमापितं तदा यो भृत्यो यावत्कर्म करोति तावत्ता स्मै तत्कृतकर्मानुसारेण मध्यस्थकल्पितं वेतन देयं न पुनः समम् । न चावयवशः कर्मणि वेतनस्यापरिभाषितत्वाददानमिति मन्तव्यम् । साध्ये तूभाभ्यां कर्मणि निर्वर्तिते यथाश्रुतं यावत्परिभाषितं तावदुः भाभ्यां देयं, न पुनः प्रत्येकं कृत्स्नं वेतनं नापि कर्मानुरूपं परिकल्प्य देयम् ।। १९६ ॥ (वी०मि०) 'भृत्य रक्ष्य उपस्करः' इत्युक्तं, तत्राऽरक्षणे कर्मप्राति- कूल्ये च दण्डमाह- अराजदैविकं नष्टं भाण्डं दाप्यस्तु वाहकः ॥ प्रस्थानविघ्नकृच्चैव प्रदाप्यो द्विगुणां भृतिम् ।। १९७ ॥ प्रक्रान्ते सप्तमं भागं चतुर्थ पथि सन्यजन् । भृतिमर्थपथे सर्वी प्रदाप्यस्त्याजकोऽपि च ॥ १९८ ॥ न विद्यते राजवैदिकं यस्य तादृशं भाण्डं वाहकेऽज्ञानान्नाशित तदावाहको दाप्यः।तुशब्देन राजदैविकन]व्यवच्छिनत्तिाविवाहाद्य- र्थ व्यवस्थापिते दिने प्रस्थानविघ्नकारी भृतको भृत्यान्तरासम्भवे द्विगुणांभृति प्रकर्षेण ताडनादिनाऽतिशयपीडाकरेण प्रकारेण दाप्यः। एवकारेण कालान्तरे कर्मकारणव्यवच्छेदः । चकारणाऽर्धमार्गे विल- म्बातिशयकारिणः समुच्चयः । प्रक्रान्ते कर्मण्यारब्धे भृत्यान्तरस- म्भवे तत्कर्म त्यजन् सप्तम भागं. पथि स्वदेशमध्ये मार्ग सन्त्यजन् चतुर्थ भार्ग, अर्द्धपथे त्यजन् सर्वां भृति भृतकः प्रदाप्यः । यश्च भृ. त्यं दुरुपदेशादिना कर्म त्याजयति सोऽपि द्विगुणादिकां भृतिं दा. प्यः । अपिचेति विकल्पव्युदासाय । दण्डसमुच्चयार्थ मनु:-- आर्तस्तु कुर्यात् स्वस्थः सन् यथाभाषितमादितः । स दीर्घस्यापि कालस्य स्वं लभेतैव वेतनम् ॥ अन्तरितदिनानि गणयित्वा कर्मणा तावन्त्यहानि पूरयेदित्यर्थः।

वेतनादानप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता । ६७५ यदि तु स्वस्थतादशायामप्यालस्यादिना न करोति तदान भृ. तिं लभते । यथोक्तमार्तः स्वस्थो वा यस्तकर्म न कारयेत् । न तस्य वेतन देयमल्पोनस्याऽपि कर्मणः ।। इति मनुवचनादिति संक्षेपः ॥ १९७-१९८ ॥ इति श्रीमत् यज्ञवल्क्यव्याख्याने वेतनादानप्रकरणम् । . ( मिता०) आयुधीयभारवाहको प्रत्याह- अराजदैविकामेति । न विद्यते राजदैविकं यस्य भाण्डस्य तत्त. थोक्तम् । तद्यदि प्रशाहीनतया वाहकेन नाशितं तदा नाशानुसारे- णासौ तद्भाण्डं दापनीयः। तदाह नारदः-'भाण्डं व्यसनमाग. च्छेद्यदि वाहकदोषतः । दाप्यो यत्तत्र नश्येत्तु देवराजकृताहते' । इति ।। यः पुनः विवाहाद्यर्थ मङ्गलवति वासरे प्रतिष्ठमानस्य तत्प्र. स्थानौपयिकं कर्म प्रागङ्गीकृत्य तदानीं न करिप्यामीति प्रस्थानवि. घ्नमाचरति तदासौ द्विगुणां भृति दाप्यः । अत्यन्तोत्कर्षहेतुकर्मनि- रोधात् ॥ १९७॥ (मिता० ) किञ्च- प्रक्रान्त इति । प्रक्रान्ते अध्यवसिते प्रस्थाने स्वाङ्गीकृतं कर्म यस्त्यजति असौ भृतेः सप्तमं भागं दाप्यः । नन्वत्रैव विषये प्रस्थान- विघ्न कृदित्यादिना द्विगुणभृतिदानमुक्तं; इदानीं सप्तमो भाग इति विरोधः । उच्यते । भृत्यान्तरोपादानावसरसम्भवे स्वाङ्गीकृतं कर्म यस्त्यजति तस्य सप्तमो भागः । यस्तु प्रस्थानलग्नसमय एव त्यजति तस्य द्विगुणभृतिदानमित्यविरोधः । यः पुनः पथि प्रक्रान्ते गमने वर्तमाने सति कर्म त्यजति स भृतेश्चतुर्थ भागं दाप्यः । अर्धपथे पुनः सर्वी भृतिं दाप्यः । यस्तु त्याजकः कर्मात्यजन्तं त्याज यति स्वामी पूर्वोक्तप्रदेशेष्वसावपि पूर्वोक्तसप्तमभागादिकं भृत्याय दापनीयः । एतच्च व्याधितादिविषयम् । ( मनुः ८१२१५)-भृत्यो. उनाों न कुर्याद्यो दोत्कर्म यथोचितम् । स दण्ड्यः कृष्णलान्यष्टौ न देयं तस्य वेतनम् ॥ इति मनुवचनात् । यदा पुना(१)धाव. (१) बाध्या वपगमे ग.। .

६७६ । ।" याज्ञवल्क्यस्मृतिः। [ व्यवहाराध्यायः । पगतेऽन्तरितदिवसान्परिगणय्य पूरयति तदा लभत एव वेतनम् । (८।२१६)-'आर्तस्तु कुर्यात्स्वस्थः सन्यथाभाषितमादितः । स दीर्घस्यापि कालस्य स्वं लभेतैव वेतनम्' ॥ इति मनुस्मरणात् । यस्त्वपगतव्याधिः स्वस्थ एव वाऽलस्यादिना स्वारब्धं कर्माल्पोनं न करोति परेण वा न समापयति तस्मै वेतनं न देयमिति । यथाह मनुः ( ८।२१७ )-'यथोक्तमार्तः स्वस्थो वा यस्तत्कर्म न कारयेत् । न तस्य वेतन देयमल्पोनस्यापि कर्मणः' ॥ इति ॥ १९८ ॥ इति वेतनादानप्रकरणम् । - (वीमि०) अथ द्यूतसमाह्वयं नाम विवादपदम्- अप्राणिभिर्यत् क्रियते तल्लोके दूतमुच्यते । प्राणिभिः क्रियते यस्तु स विज्ञेयः समाह्वयः ॥ इति मनुवचनात् द्विधा विभक्तमुपक्रमते- ग्लहे शतिकद्धस्तु सभिकः पञ्चकं शतम् ।। गृह्णीयाद् धूर्तकितवादितरात्पञ्चकं शतम् ॥ १९९ ॥ स सम्यक्पालितो दद्याद्राज्ञे भांगं यथाकृतम् ॥ जितमुद्राहयेज्जेत्रे दद्यात्सत्यं वचः क्षमी ॥ २०० ।। प्राप्ते नृपतिना भागे प्रसिद्ध धूर्तमण्डले ।। जितं ससभिके स्थाने दापयेदन्यथा स(१) तत् ॥ २०१ ॥ द्रष्टारो व्यवहाराणां साक्षिणश्च त एव हि ।। राज्ञा सचिन्ह(२) निर्वास्याः कूटाक्षोपधिदेविनः ॥२०२॥ द्यूतमेकमुखं कार्य तस्करज्ञानकारणात् ॥ एष एव विधिज्ञेयः प्राणिद्यूते समाह्वये । २०३ ।। परस्परसंप्रतिपत्त्या कितवपरिकल्पितः पणो ग्लह इत्युच्यते, त. त्र ग्लहे शतिका शतिपरिमिता वृद्धिर्यस्य तस्माद् धूर्तकितवाजयि. नः कितवात् द्यूतकारिणः सकाशात् पञ्चकं शतं शतसुवर्णादीपञ्च सुवर्णादिकं सभिको द्यूतसमाधिष्ठाता गृह्णीयात् । इतरात् शतन्यून: (१)न तत्-इति मु० पु० पाठः । (२) सचिन्हा-इति क० ख० पु० पाठः ।

द्यूतसमाह्वयप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता । ६७७ वृद्धेर्दशकं शतं दश माषान् गृह्णीयादित्यर्थः । तुशब्देन पराजितात् पञ्चकशतादिग्रहणं व्यवच्छिद्यते स सभिको राज्ञा सम्यक् उक्त- वृत्तिकल्पनया परास्कन्दनिवारणेन च पालितः सन् राशे यथाकृतं व्यवस्थानक्रमेण स्वप्राप्तद्रव्यस्य भागमंशं राज्ञे दद्यात् । जितग्लहं जेने दद्यात् । पश्चात्पराजितस्थाने स्वयमुद्राहयेत् साधयित्वा गृही- यात् । सत्यवचनं क्षमा च तदुभयवान् । सत्यवचो दद्यादित्यर्थः। यदि तु सभिको नोद्राहयितुं शक्नोति तदा राज्ञा दापनीयमित्याह प्राप्त इति । नृपतिना स्वस्य भागे प्राप्ते प्रसिद्ध अप्रच्छन्ने धूर्तमण्डले कितवसमाजे सभिकसहिते स्थाने जितं सभिकाय दापयेद्राजा । यद्वा स्थाने क्रीडास्थाने स राजा सभिके दापयेदिति योज्यम् । अ. न्यथा राज्ञा भागेऽप्राप्ते प्रच्छन्ने वा धूर्तमण्डले सभिकानधिष्ठिते स्था- ने वा जितं तु न राजा दापयेत् । द्यूत सम्बन्धिनां व्यवहाराणां द्र धारो निर्णायकाः साक्षिणश्च त एव । पक्कारेण स्त्रीबालवृद्धिकितवे. त्यादिदोषाभावापेक्षाव्यवच्छेदः । कूटैः कपटसम्बन्धेरक्षादिभिरु- पधिना वञ्चनहेतुना च मणिमंत्रौषधादिना ये दीव्यन्ति ते राज्ञा स- चिन्ह निर्वास्याः। तदाह नारदः- कूटांक्षदेविनः पापान् राजा राष्ट्रात विवासयेत् । कण्ठेऽक्षमालामासज्य स ह्येषां विनयः स्मृतः ॥ - एवं च- द्यूतं समाह्वयं चैव यः कुर्यात्कारयेत च । तान् सर्वान् घातयेद्राजा शूद्रांश्च द्विजलिङ्गिनः ॥ इति मनुवचनादौ कूटज्ञदेवनपराण्येवेति मन्तव्यम् । सभिका- ख्य एको राजपुरुषो मुखं प्रधानं यत्र तादृशं घूतं कार्य चोरपरिच. यार्थम् । 'ग्लहे शतिकवृद्धिरित्यायुक्तं धूतधर्म समाह्वयेऽतिदिश- ति-एष एवेति । प्राणिना मल्लमेषादिना निर्वयें छूते समाह्वयनामके पूर्वोक्त एव विधिः प्रकारो ज्ञेय इत्यर्थः । बृहस्पतिः- अन्योन्यं परिगृहीताः पक्षिमेषमृगादयः । प्रहरन्ते कृतपणास्तं वदन्ति समाह्वयम् ॥ द्वन्द्वयुद्धेन यः कश्चिदवसादमवाप्नुयात् । तत्स्वामिना पणो देयो यस्तत्र परिकल्पितः ।। ग्लहः प्रकाशः कर्तव्यो निर्वास्याः कूटदेविनः ।

६७८ याज्ञवल्क्यस्मृतिः । [ व्यवहाराध्यायः । नारदः- अनिर्दिष्टं तु यो राज्ञा द्यूतं कुर्यात्तु मानवः । न स तं प्राप्नुयात् कामं विनयं चैव सोर्हति ॥ परीहासकृतं यच्च यच्चाप्यविदितं नृपे। तत्रापि प्राप्नुयात कामं विनयं चैव सोऽर्हति ॥ विष्णु:-'धूने कपटाक्षदेविनां करच्छेदः, उपधिदेविनां च सन्दंशो. Sङ्गुष्ठतर्जन्योः॥.१९९-२०३ ॥ इति श्रीमत् याज्ञवल्क्यव्याख्याने द्यूतसमाह्वयप्रकरणम् ॥ (मिता० ) अधुना द्यूतसमाह्वयाख्यं वि(१)वादपदमधिक्रियते । तत्म्वरूपं च नारदेनाभिहितम्-'अ(२)क्षबध्नशलाकाद्यैर्देवनं जि. मकारितम् । पणक्रीडावयोभिश्च पदं धूतसमाह्वयम् ॥ इति । अक्षाः पाशकाः । व्रध्नश्चर्मपट्टिका । शलाका दन्तादिमय्यो दीर्घचतुरस्राः। आद्यग्रहणाच्चतुङ्गरादिक्रीडासाधनं करितुरङ्गरथादिकं गृह्यते । ते रप्राणिभिर्यदेवनं क्रीडा पणपूर्विका क्रियते । तथा वयोभिः पक्षिभिः कुक्कुटपारावतादिभिः चशब्दान्मल्लमेषमहिषादिभिश्च प्राणिभिर्या पण पूर्विका क्रीडा क्रियते तदुभयं यथाक्रमेण द्यूतसमाह्वयाख्यं वि वादपदम् । धूतं च समाह्वयश्च द्यूतसमाह्वयम् । तदुक्तं मनुना- ( ९।२२३ )-'अप्राणिभिर्यस्क्रियते तल्लोके द्यूतमुच्यते । प्राणिभिः क्रियमाणस्तु स विज्ञेयः समायः ॥ इति । तत्र द्यूतसभाधिकारिणो वृत्तिमाह- ग्लह इति । परस्परसम्प्रतिपत्त्या कितवपरिकल्पितः पणो ग्लह इत्युच्यते । तत्र ग्लहे तदाश्रया शतिका शतपरिमिता तदधिकपरि- माणा वा वृद्धिर्यस्यासौ शतिकवृद्धिस्तस्माद्भूतकितवात्पञ्चकं शत. मात्मवृत्त्यर्थ सभिको गृह्णीयात् । पञ्चपणा आयो यस्मिन् शते तत्पञ्चकं शतम् । तदस्मिन्वृद्ध्यायलाभ'इत्यादिना कन् । जित. ग्लहस्य विंशतितमं भागं गृह्णीयादित्यर्थः। सभा कितवनिवासार्थी यस्यास्त्यसौ सभिकः। कल्पिताक्षादिनिखिलक्रीडोपकरणस्तदुप. चितद्रव्योपजीवी सभापतिरुच्यते। इतरस्मात्पुनरपरिपूर्णशतिकवृद्धः कितवाद्दशकं शतं जिनद्रव्यस्य दशम भागंगृह्णीयादिति यावत्॥१९९॥ (3) व्यवहारपदमधि घ.। (२) अक्षवन्ध ख...

झूतसमाहृयप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता । ६७२ - (मिता० ) एवं क्लप्तवृत्तिना सभिकेन किं कर्तव्यमित्याह- स इति । य एवं क्लप्तवृत्ति ताधिकारी स राज्ञा धूर्तकितवेभ्यो रक्षितस्तस्मै राशे यथा सम्प्रतिपन्नमंशं दद्यात् । तथा (१)जित यद्रव्यं तदुद्राहयेत् बन्धकग्रहणेनासेधादिना च पराजितसकाशा. दुद्धरेत् । उद्धृत्य च तद्धनं जेत्रे जयिने समिको दद्यात् । तथा क्षमी भूत्वा सत्यं वचो विश्वासार्थ द्यूतकारिणां दद्यात् । तदुक्तं नारदेन 'सभिकः कारयेत् द्यूतं देयं दद्याञ्च तत्कृतम्'। इति ॥२०॥ (मिता० ) यदा पुनः सभिको दापयितुं न शक्नोति तदा राजा दापयदित्याह- प्राप्त इति । प्रसिद्ध अप्रच्छन्ने राजाध्यक्षसमन्विते ससभिके सभिकसहिते कितबसमाजे सभिकेन च राजभागे दत्ते राजा धूर्तकितवमविप्रतिपन्नं जितं पणं दापयेत् । अन्यथा प्रच्छन्ने सभि. करहिते अदत्तराजभागे (२)द्यूते जितपणं जे न दापयेत् ॥ २०१ ॥ (मिता० ) जयपराजयविप्रतिपत्तो निर्णयोपायमाह- द्रष्टार इति । द्यूतव्यवहागणां द्रष्टारः सभ्यास्त एव कितवा एव राज्ञा नियोक्तव्याः । न तत्र श्रुताध्ययनसम्पन्ना इत्यादिनियमो. ऽस्ति । साक्षिणश्च द्यूते द्यूतकारा एव कार्याः । न तत्र स्त्रीवालक वृद्धकितवेत्यादिनिषेधोऽस्ति ॥ (मिता० ) कचित् द्यूतं निषेधुं दण्डमाह- राक्षेति । कूटैरक्षादिभिरुपधिना च मतिवञ्चनहेतुना मणिमन्त्री षधादिना ये दीव्यन्ति तान् श्वपदादिनाङ्कयित्वा राजा स्वराष्ट्रान्नि सियेत् । नारदेन तु निर्वासने विशेष उक्तः-'कूटाक्षदेविनः पापान् राजा राष्ट्राद्विवासयेत् । कण्ठेऽक्षमालामासज्य स ह्येषां विनयः स्मृतः ॥ इति । यानि च मनुवचनानि द्यूतनिषेधपराणि (मनुः९।२२४)- 'द्यूतं समाह्वयं चैव यः कुर्यात् कारयेत वा । तान्सन्धिातयेद्राजा शुद्रांश्च द्विजलिङ्गिनः' ॥ इत्यादीनि, तान्यपि कूटाक्षदेवनविषयतया राजाध्यक्षसभिकरहितद्यूतविषयतया च योज्यानि ॥ २०२ ।। (मिता० ) किञ्च- धूतमिति । यत्पूर्वोक्तं द्यूतं. तदेकमुखं एकं मुखं प्रधानं यस्य - (१) जितं द्रव्यमुद्ग्राहयेत् ख. । (२) राते पण जेने ख.।

-- ६८० याज्ञवल्क्यस्मृतिः। [ व्यवहाराध्यायः । सुतस्य तत्तथोक्तं कार्यम् । राजाध्यक्षाधिष्ठितं राज्ञा कारयितव्यमिः त्यर्थः। तस्करज्ञानकारणात् , तस्करज्ञानरूपं प्रयोजनं पर्यालोच्य । प्रायशश्चौर्यार्जितधना एव कितवा भवन्त्यतश्चौरविज्ञानार्थमेकमुखं कार्यम् ॥ ( मिता० ) तधर्म समाह्वयेऽतिदिशन्नाह- एष इति । ग्लहे शतिकवृद्धरित्यादिना यो द्यूतधर्म उक्तः स एव प्राणिद्यूते मल्लमेषमहिषादिनिर्वत्यै समाह्वयसंज्ञके ज्ञातव्यः।। २०३ ॥ इति द्यूतसमाह्वयाख्यं प्रकरणम् । ( वी०मि०) अथ वाक्पारुष्यं नाम विवादपदम्- देशजातिकुलादीनामाक्षेपं न्यङ्गसंयुतम् । यद्वचः प्रतिकूलार्थ वाक्पारुष्यं तदुच्यते ॥ इति नारदेन लक्षितं निरूपयति- सयासत्यान्यथास्तोत्रैयूंनाङ्गेन्द्रियरोगिणाम् ।। क्षेपं करोति चेद्दण्ड्यः पणान्यर्धत्रयोदशान् ॥ २०४ ।। अभिगन्तास्मि भगिनीं मातरं वा तवेति ह ।। शपन्तं दापयेद्राजा पञ्चविंशतिकं दमम् ॥ २०५ ।। अर्थोऽधमेषु द्विगुणः परस्त्रीपूत्तमेषु च ।। दण्डप्रणयनं कार्य वर्णजात्युत्तराधरैः ।। २०६ ।। प्रातिलोम्यापवादेषु(१)चतुसिद्विगुणा दमाः ॥ वर्णानामानुलोम्येन तस्मादर्धिहानितः ॥ २०७ ।। वाहुग्रीवानेत्रसक्थिविनाशे वाचिके दमः ॥ शत्यस्तदपिका पादनासाकर्णकरादिषु ।। २०८ ॥ अशक्तस्तु वदन्ने दण्डनीयः पणान दश ।। तथा शक्तः प्रतिभुवं दाप्यः क्षमाय तस्य तु ॥ २०९ ॥ (१) द्विगुणत्रिगुणा दमाः इति मु० पु०पाठः ।

वाक्पारुण्यप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता । ६८१ 'पतनीयकृते क्षेपे दण्डो मध्यमसाहसः ।। उपपातकयुक्ते तु दाप्यः प्रथमसाहसम् ॥ २१० ॥ विद्यनृपदेवानां क्षेप उत्तमसाहसः ।। मध्यमो जातिपूगानां प्रथमो ग्रामदेशयोः ॥ २११ ।। वाक्पारुष्यं तावत्रिविधम् । तदाह बृहस्पतिः- देशकालकुलादीनां क्षेपः पापे नियोजनम् । द्रव्यं विना तु प्रथमं वाक्पारुष्यं तदुच्यते ॥ भगिनीमातृसम्बन्धमुपपातकशंसनम् । पारुष्यं मध्यम प्रोक्तं वाचिकं शास्त्रवेदिभिः ।। अभक्षापेयकथनं महापातकदूषणम् । पारुष्यमुत्तमं प्रोक्तं तीव्र मर्माभिघट्टनम् ।। इति । द्रव्यं पदार्थ विनाऽसत्यमिति यावत्, तेनासत्यं पापसामा- न्याझ्वकल्यनीचकुलत्वाद्यभिधानमधममसत्यमुपपातकाभिधानं म- ध्यममसत्यं महापातकाभिधानमुत्तमं वाक्पारुष्यमित्यर्थः। तत्राद्ये दण्ड उच्यते । सत्यमन्धोऽसीत्याद्यभिधानससत्यमनन्धादे. स्तथाभिधानम् । अन्यथास्तोत्रं निन्दापर्यायस्तुतिवाक्यमन्धादेः पुण्डरीकचक्षुरसीत्याद्यभिधानम् । एतैश्चत् न्यूनाङ्गादीनां सम्बधि न्यूनाङ्गत्वन्यूनेन्द्रियत्वरोगित्वप्रभृति पर्यायम् । क्षेपं भर्त्सनं करोति तदाऽर्धत्रयोदश सार्द्धद्वादश पणान् दण्ड्यः । इदं च समजातिगुण- परम् । तदाह बृहस्पतिः- समजातिगुणानां तु वाक्पारुष्यं परस्परम् । विनयोऽभिमतः शास्त्रे पणा अर्धत्रयोदश ।। समानयोः समो दण्डो:न्यूनस्य द्विगुणस्तु सः । उत्तमस्यद्धिकल्पोक्तो वाक्पारुष्यं परस्परम् ।। मात्रादौ तु वाक्पारुष्ये विशेषमाह मनुः- मातरं पितरं जायां भ्रातरं श्वशुरं गुरुम् । आक्षारयन् शतं दाप्यः पन्थानं चाऽददगुरोः ॥ मात्रादेर्निरपराधत्वे जायायाः सापराधत्वे चैतदिति मिताक्षरा । तव भगिनीं मातरं वाऽभिगन्तास्मि मिथुनं भूयोऽपि भोक्ष्यमाणोऽह- मिति शपन्तं उद्वेजयन्तं समजातिगुणं राजा पञ्चविंशतिपणमितं ८२॥ - - ६८२ याज्ञवल्क्यस्मृतिः। [ व्यवहाराध्यायः । । दमं दापयेत् । वाशब्दो अनास्थायां, तेन पुत्री जायां वा तवाऽभिग. न्ताहमित्यादिकमपि सङ्गृहीतम् । हशब्दः पादपणे । अर्धत्रयोदश. पणमितः पञ्चविंशतिपणमितो वा यो दण्डः समेषतः सोऽधमेषु पतनीयेप्व? भवति । परस्त्रीपूत्तमेषु च समेपूक्तो द्विगुणों भवति । अधमोत्तमत्वेन जात्या गुणेन वा वर्णतत्सङ्करपरस्परं वाक्पारुष्यं स्वाह दण्डेति ।वर्णा ब्राह्मणादयः, जातयो मूर्धावसिक्तादयः उत्तराधरा उत्तमाधमास्तैःपरस्परमाक्षेपे दण्डस्य प्रकर्षण नयनमूहनं कार्यम् । यथा मूर्द्धावसिक्तं ब्राह्मणाद्धीनं क्षत्रियादुत्कृष्टमाश्य ब्राह्मणः क्षत्रियाक्षे. पनिमित्तदण्डात्सार्द्धगुणं ब्राह्मणाक्षेपनिमित्तदण्डात्पादोनं दद्यादिति। अर्थोऽधमेप्वित्युक्तं दृष्टान्ततयाऽभिधान एवाऽधमतरोत्कृष्टंतरादौ विशेषमाह प्रातिलोम्येति । वर्णानां प्रातिलोम्यनाऽपवादो हीनतर. हीनरुत्कृष्टस्याक्रोशस्तेषु चतुर्गुणादयो यथाक्रम दमाः। आनुलोम्ये. न हीनहीनतमे क्रमेणोत्कृष्टेनाक्षेपे तस्मात्समानवर्णदण्डार्धाऽधहानि. क्रमेण दमा भवन्ति । यथा ब्राह्मणस्याक्षेपे यो ब्राह्मणस्य दण्डः त च्चतुर्गुणः शुद्रस्य तत्रिगुणो वैश्यस्य तद्विगुणः क्षत्रियस्य ब्राह्मणा. क्षेपे दण्डः। ब्राह्मणस्य ब्राह्मणाक्षेपे यो दण्डः क्षत्रियाक्षेपे तदर्ध वैश्या. क्षेपे नच्चतुर्थाशः शूद्राक्षेपे तदष्टमांशो दण्डो ब्राह्मणस्य भवति । एवमन्यदुहनीयम् । वाहुं तव छिनधीत्यादिवाचिके वहाादिविनाशे शत्यः शतपणमितो दमः । पादादिषु विनाशे वाचिके सति शतामि तो दमः समानगुणजातिमतः। सक्थि ऊरुः, आदिग्रहणास्फिगादेर- प्रधानस्याङ्गस्य सङ्ग्रहः । इदं च बाहुच्छेदादिशक्तपरम्। अशक्तस्तु एवं वदन् दश पणान् दण्ड्यः । शक्तंश्च बाहुच्छेदाद्याक्षेपकारी. तस्याशक्तस्य क्षेमाय उत्तरकालं वाहुच्छेदाद्यभावाय प्रतिभुवं दाप्यः। तुशब्देनाऽधिकतमशक्तिकव्यवच्छेदः। तथांशब्देन प्रतिभुवोऽभा. वे राज्ञा बन्धनीय इति समुच्चीयते । उत्तमाधमभेदेनाऽत्रापि न्यूना- धिक्यम् । उत्तमेऽधमे मध्यमे च वाक्पारुंध्ये त्वाह-पतनीयैाह्मण. वधादिभिः कृते क्षेपे भर्सने मध्यमसाहसो दण्डः । उपपातकयुक्त क्षेपे तु प्रथमसाहसं दण्डः दाप्यः। मध्यमसाहसादिकं प्राग्लक्षितम् । इदं च समानगुणादिपरम् । उत्तमाधमभेदेन न्यूनाधिक्यं चोहनी. यम् । विद्यानां वेदत्रयसम्पन्नानां नृपाणां देवतानां च क्षेपे आदि. पदेन वृक्षादिच्छेदनसङ्ग्रहः । भर्सने ब्राह्मणस्योत्तमसाहसो, जाति- - वाक्पारुष्यप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता। - पुगादीनां मूर्धावसिक्तादिसमूहानां क्षेपे मध्यमसाहसो, ग्रामस्य दे. शस्य च क्षेपे प्रथसाहसो दण्डः। क्षत्रियादेस्तु द्वैगुण्यादिकमूह- नीयम् । पतनीयाकोशे मनुः- ब्राह्मणक्षत्रियाभ्यां तु दण्डः कार्यों विधानतः । ब्राह्मणे साहसः पूर्वः क्षत्रिये चैव मध्यमः ॥ शूद्रानुवृत्तौ वृहस्पतिः- विक्रोशकस्तु विप्राणां जिह्वाछेदनमहति । तथा- नामजातिग्रहं तेषामाभद्रोहण कुर्वतः विधेयोऽयोमयः शङ्कज्वलनास्ये दशाङ्गुलः ॥ इदं तु मालर्यानुवन्धातिशयपूर्वकाक्रोशपरमित्याभाति॥२०४-२११॥ इति श्रीमत् याज्ञवल्क्यव्याख्याने वाक्पारुष्यप्रकरणम् । (मिता० ) इदानीं वाक्पारुष्यं प्रस्तूयते । तल्लक्षणं चोक्तं नार. देन- 'देशजातिकुलादीनामाक्रोशं न्यङ्गसंयुतम् । यद्वचः प्रतिकूलार्थ वाक्पारुष्यं तदुच्यते' ॥ इति । देशादीनामाकोशं न्यङ्गसंयुतम् । उच्चैर्भाषणमाक्रोशः, न्यङ्गमवद्यं तदुभययुक्तं यत्प्रतिकूलार्थमुद्वेगज ननार्थ वाक्यं तद्वाक्पारुष्यं कथ्यते । तत्र कलहप्रियाः खलु गौडा इति देशाक्रोशः । नितान्तं लो(१)लुपाः खलु विप्रा इति जात्या. क्रोशः । क्रूरचरिता ननु वैश्वामित्रा इति कुलाक्षेपः । आदिग्रहणा. स्वविद्याशिल्पादिनिन्दया विद्वच्छि(२)ल्प्यादिपुरूषाक्षेपो गृह्यने । तस्य च दण्डतारतम्यार्थ निष्ठुरादिभेदेन त्रैविध्यमभिधाय तल्लक्षणं तेनैवोक्तम्-'निष्ठुराश्लीलतीव्रत्वादपि तत्त्रिविधं स्मृतम् । गौरवा- नुक्रमात्तस्य दण्डोऽपि स्यात्क्रमाद् गुरुः । साक्षेपं निष्ठुरं ज्ञेयमश्ली लं न्यङ्गसंयुतम् । पतनीयैरुपाक्रोशैस्तीत्रमाहुर्मनीषिणः' ॥ इति । तत्र धिसूर्ख(३) जाल्ममित्यादि साक्षेपम् । अत्र न्यङ्गमित्यसभ्यम् । अवा भगिन्यादिगमनं तद्युक्तमश्लीलम् । सुरापोऽसीत्यादिमहापात. काद्याक्रोशैर्युक्तं वचस्तीत्रम् ॥ (१) खलु लोलुपाः ख.। (२) शिल्पादि ख. घ.। (६) धिमूर्ख जाल्मस्त्वमित्यादि ग.।

६८४ याज्ञवल्क्यस्मृतिः। [ व्यवहाराध्यायः । तत्र निष्ठुराक्रोशे सवर्णविषये दण्डमाह- सत्यासत्येति । न्यूनाङ्गाः करचरणादिविकलाः । न्यूनेन्द्रिया नेत्रश्रोत्रादिरहिताः । रोगिणो दुश्चर्मप्रभृतयः । तेषां सत्येनासत्येना. न्यथास्तोत्रेण च निन्दार्थया स्तुत्या । यत्र नेत्रयुगलहीन एपोऽन्ध इत्युच्यते तत्सत्यम् । यत्र पुनश्चक्षुष्माने(१)वान्ध इत्युच्यते तदस. त्यम् । यत्र विकृताकृतिरेव दर्शनीयस्त्वमसीत्युच्यते तदन्यथास्तो. त्रम् । एवंविधैर्यः क्षेपं निर्भर्त्सनं करोत्यसौ अर्धाधिकद्वादशपणान्द- ण्डनीयः । (मनुः ८२७४ )--'काणं वाप्यथवा खञ्जमन्यं वापि तथाविधम् । तथ्येनापि ब्रुवन्दाप्यो दण्डं कापणावरम् ॥ इति यन्मनुवचनं तदतिदुर्वृत्तवर्णविषयम् । यदा.पुनः पुत्रादयो मात्रादीन् शपन्ति तदा शतं दण्डनीया इति तेनैवोक्तम् । ( मनुः ८१२७५ )-- 'मातरं पितरं जायां भ्रातरं श्वशुरं गुरुम् । आक्षारयन् शतं दाप्यः पन्धानं चाददद् गुरोः' ॥ इति । एतच्च सापराधेषु मात्रादिपु गुरुपु निरपराधायां च जायायां द्रष्टव्यम् ।। २०४॥ (मिता० ) अश्लीलाक्षेपे दण्डमाह-- अभिगन्तास्मीति । त्वदीयां भगिनीं मातरं वा अभिगन्तास्मीति शपन्तं अन्यां वा त्वजायामभिगन्नेत्येवं शपन्तं राजा पञ्चविंशतिकं पणानां पञ्चाधिका विंशतिर्यस्मिन्दण्डे स तथोक्तस्तं दमंदापयेत्॥२०॥ ( मिता० ) एवं समानगुणेषु वर्णिषु दण्डमभिधाय विषमगुणेषु दण्डं प्रतिपादयितुमाह- अर्ध इति । अधमेवाक्षेत्रापेक्षया न्यूनवृत्तादिगुणेष्वों दण्डः । पूर्ववाक्ये पञ्चविंशतेः प्रकृतत्वात्तदपेक्षयार्धः सार्धद्वादशपणात्मको द्रष्टव्यः । परभार्यासु पुनरविशेषेण द्विगुणः पञ्चविंशत्यपेक्षयैव पञ्चा- शत्पणात्मको वेदि(२)तव्यः । तथोत्तमेपु च स्वापे क्षयाधिकश्रुतवृ. त्तेपु दण्डः पञ्चाशत्पणात्मक एव ॥ (मिता०) वर्णानां मूर्धावसिक्तादीनां च परस्पराक्षेपे दण्डकल्प नामाह- दण्डेति । वर्णा ब्राह्मणादयः । जातयो मूर्धावसिक्ताद्याः । वर्णाश्च जातयश्च वर्णजातयः। उत्तराश्च अधराश्च उत्तराधराः वर्णजातयश्च (१) नेपोऽन्ध इति ख.। (२) द्रव्यः घ.।

वाक्पारुण्यप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता । ते उत्तराधराश्च वर्णजात्युत्तराधराः तैः वर्णजात्युत्तराधरैः परस्पर- माक्षपे क्रियमाणे दण्डस्य प्रणयनं प्रकर्षेण नयनमूहनं वेदितव्यम् । तच्च दण्डकल्पनमुत्तराधरैरिति वि(१)शेषेणोपादानादुत्तराधरभा- वापेक्षयैव कर्तव्यमित्यवगम्यते । यथा मूर्धावसिक्तं ब्राह्मणाद्धीनं क्ष- त्रियादुत्कृष्टं चाक्रुश्य ब्राह्मणः क्षत्रियाक्षेपनिमित्तात्पञ्चाशत्पणदण्डा. त्किचिदधिकं पञ्चसप्तत्यात्मकं दण्डमर्हति । क्षत्रियोऽपि तमाश्य ब्राह्मणाक्षेपनिमित्ताच्छतदण्डा(२)द्धीनं पञ्चसप्ततिमेव दण्डमर्हति । मूर्धावसिक्तोऽपि तावाश्य तमेव दण्डमर्हति । मूर्धावसिक्ताम्वष्ठयोः परस्पराक्षेपे ब्राह्मणक्षत्रिययोः परस्पराक्रोशनिमित्तको यथाक्रमेण दण्डौ वेदितव्यौ । एवमन्यत्राप्यूहनीयम् ॥ २०६ ॥ (मिता०) एवं सर्ववर्णविषये दण्डमभिधाय वर्णानामेव प्रतिलो. मानुलोमाक्षेपे दण्डमाह- प्रातिलोम्येति । अपवादा अधिक्षेपाः। प्रातिलोम्येनापवादाः प्रातिलोम्यापवादास्तेषु ब्राह्मणाक्रोशकारिणोः क्षत्रियवैश्ययोर्यथाक्र- मेण पूर्ववाक्याड्विगुणपदोपात्तपञ्चाशत्पणापेक्षया द्विगुणाः शतपणाः, त्रिगुणाः सार्धशतपणा दण्डा वेदितव्याः । शूद्रस्य ब्राह्मणाक्रोशे ता. डनं जिह्वाच्छेदनं वा भवति । यथाह मनुः (दा२६७)-'शतं ब्राह्मण माक्रुश्य क्षत्रियो दण्डमहति । वैश्योऽध्यर्धशतं द्वे वा शुद्रस्तु वधमः हति ॥ इति ।विद्शूद्रयोरपि क्षत्रियादनन्तरैकान्तरयोस्तुल्यन्यायतया शतमध्यर्धशतं च यथाक्रमेण क्षत्रियाक्रोशे वेदितव्यम् । शुद्रस्य च वैश्याक्रोशे शतम् । आनुलोम्येन तु वर्णानां क्षत्रियविदशुद्राणां ब्रा. ह्मणेनाक्रोशे कृते तस्माद्राह्मणाक्रोशनिमित्ताच्छतपरिमितात्क्षत्रिय दण्डात्प्रतिवर्णमधस्यार्धस्य हानि कृत्वाऽवशिष्टं पञ्चाशत्पञ्चवि(३)श. तिसार्धद्वादशपणात्मकं यथाक्रमं ब्राह्मणो दण्डनीयः । तदुक्तं मनुना (८।२६८)--'पञ्चाशद्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने। वै(४)श्ये स्यादर्धपञ्चाशच्छूद्रे द्वादशको दमः ॥ इति । क्षत्रियेण वैश्ये शूद्रे वाक्रुष्टे यथाक्रमं पञ्चाशत्पञ्चविंशतिको दमौ । वैश्यस्य च शूद्राक्रोशे पञ्चाशदित्यूहनीयम्। 'ब्राह्मणराजन्यवत्क्षत्रियवैश्ययोः' इति गौतमस्म. - (१) विशेषोपादानात ख.। (e) पञ्चविंशत्य द्वादश घ. । ८३ (२) दण्डादूनं ख.। (४) वैश्यस्य चार्धपञ्चाशत् घ.!

६८६ याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः । - रणात् । 'विट्शूद्रयोरेवमेव स्वजातिं प्रति तत्त्वतः' इति (८१२७७) मनुस्मरणाच्च ॥ २०७॥ (मिता०) पुनर्निष्ठुराक्षेपमधिकृत्याह-- बाहुग्रीवेति । बाह्वादीनां प्रत्येकं विनाशे वाचिके वाचा प्रतिपा. दिते तव वाहू छिनमीत्येवंरूपे शत्यः शतपरिमितो दण्डो वेदित. व्यः । पादनासाकर्णकरादिपु आदिग्रहणात्स्फिगादिषु वाचिके विनाशे तदर्धिकः तस्य शतस्यार्ध तदर्धं तद्यस्यासत्यसौ तदर्धिकः पञ्चाशत्पणिको दण्डो वेदितव्यः ॥ २०८ ॥ (मिता०) किंच- अशक्त इति । यः पुनर्वरादिना क्षीणशक्तिस्त्वद्वाहाद्यङ्गभङ्ग क. रोमीत्येवं शपत्यसौ दशपणान् दण्डनीयः । यः पुनः समर्थः पूर्ववदा. क्षिपत्यसौ पूर्वोक्तशतादिदण्डोत्तरकालं तस्याशक्तस्य क्षे(१)मार्थ प्रतिभुवं दापनीयः ॥ २०९ ॥ (मिता०) तीव्राक्रोशे दण्डमाह- पतनीयेति । पातित्यहेतुभिर्ब्रह्महत्यादिभिवर्णि(२)नामाक्षेपे कृते मध्यमसाहसं दण्डः । उपपातक(३)संयुक्ते पुनर्गोघ्नस्त्वमसीत्येवमा- दिरूपे क्षेप प्रथमसाहसं दण्डनीयः ॥ २१० ॥ (मिता०) किंच- विद्येति । त्रैविद्याः वेदत्रयसंपन्नास्तेषां राज्ञां देवानां च क्षेपे उत्तमसाहसो दण्डः । ये पुनर्ब्राह्मणमूर्धावसिक्तादिजातीनां पूगाः संघास्तेषामक्षेपे मध्यमसाहसो दण्डः। ग्रामदेशयोः प्रत्येकमाक्षेपे प्रथमसाहसो दण्डो वेदितव्यः ॥ २११ ॥ इति वाक्पारुष्यं नाम विवादपदप्रकरणम् । ( वी० मि० ) अथ दण्डपारुष्यमुपाक्रमते । तत्स्वरूपं च नार- देनोक्तम्- परगानेष्वभिद्रोहो हस्तपादायुधादिभिः । भस्मादिभिश्चोपघातो दण्डपारुष्यमुच्यते ॥ इति । आदिपदेनावृक्षादिच्छेदनसङ्ग्रहः । तत्रादौ दण्डपारुष्यमनेन (१) क्षेमाय घ.। (२) वर्णानामाक्षेप ग.। (१) 'सम्बन्धे तु घ.।

दण्डपारुण्यप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता । ६८७ कृतं न वेति लन्देहे निर्णायकानि तावदाह असाक्षिकहते चिन्हैयुक्तिभिश्चागमेन च ॥ द्रष्टव्यो व्यवहारस्तु कूटचिन्हकृतो (१)भयात् ॥२१२॥ असाक्षिकं रहसि हते पादायुधादिना ताडिते हन्ना विप्रतिपत्तौ च कृतायां स व्यवहारश्चिन्हैर्वणादिभिर्देहस्थैर्युक्तिभिः प्रयोजनप. लोचनादिभिः आगमेन जनप्रवादेन चकारात् दिव्येन द्रष्टव्यो निर्णेतव्यः । कूटेति कपटचिन्हातिरिक्तैरित्यर्थः । तुशब्देनाऽहमनेन ताडित इति वामात्रेण दण्डप्रणयादि व्यवच्छिनत्ति ॥ २१२ ॥ (मिता०) दण्डपारुष्यं नाम सम्प्रति प्रस्तूयते । तत्स्वरूपं च ना. रदेनोक्तम्-'परगात्रेवभिद्रोहो हस्तपादायुधादिभिः । भस्मादिभिश्चो. पघातो दण्डपारुष्यमुच्यते' ॥ इति । परगात्रेषु स्थावरजङ्गमात्मक- द्रव्येषु हस्तपादायुधैरादिग्रदणाद्रावादिभिर्योऽभिद्रोहो हिंसनं दुःखो. त्पादन तथा भस्मना आदिग्रहणाद्रजापतकरीषाद्यैश्च य उपघातः संस्पर्शनरूपं मनोदुःखोत्पादनं तदुभयं दण्डपारुष्यम् । दण्ड्यतेऽने नेति दण्डो देहस्तेन यत्पारुष्यं विरुद्धाचरणं जङ्गमादेव्यस्य तद्दण्ड. पारुण्यम् । तस्य चावगोरणादिकारण(२)भेदेन त्रैविध्यमभिधाय ही. नमध्यमोत्तमद्रव्यरूपकर्मत्रैविध्यात्पुनस्वैविध्यं तेनैवोक्तम्-'(३)तस्या पिदृष्टं त्रैविध्यं हीनमध्योत्तमक्रमात् । अवगो(४)रणनिः(५)सङ्गपातनक्ष. तदर्शनैः ॥ हीनमध्योत्तमानां च(६) द्रव्याणां समतिक्रमात् । त्रीण्येव साहसान्याहुस्तत्र कण्टकशोधनम् ॥ इति । निःसङ्गपातनं निःश- प्रहरणम् । त्रीण्येव साहसानि त्रिप्रकाराण्येव सहसा(७)कृतानि दण्डपारुष्याणीत्यर्थः। तथा वाग्दण्डपारुष्ययोरुभयोरपि द्वयोः प्रवृ. तकलहयोर्मध्ये यः क्षमते तस्य न केवलं दण्डाभावः किन्तु पूज्य एव । तथा पूर्व कलहे प्रवृत्तस्य दण्डगुरुत्वम् । कलहे च बद्धवैरानु सन्धातुरेव दण्डभाक्त्वम् । तथा द्वयोरपराधविशेषापरिज्ञाने दण्डः समः । तथा श्वपचादिभिरार्याणामपराधे कृते सजना एव दण्डापने- . (१) विना---इति क० ख० पुस्तकयोः पाठः । (२) करणभेदेन ख.। (६) तस्योपदृष्टं ख.। (४) गुरी उद्यमने इत्यस्य रूपम् । (५) निःशङ्कापातन घ.. (६) तु-इति पाठान्तरम् । (७) साहसात्कृतानि-इति पाठान्तरम् ।

1 याज्ञवल्क्यस्मृतिः। ६८८ [ व्यवहाराध्यायः । ऽधिकारिणस्तेपामशक्यत्वे तान् राजा घातयेदेव नार्थ गृह्णीयादि. -त्येवं पञ्च प्रकारा विधयस्तेनैवोक्ताः-'विधिः पञ्चविधस्तूक्त एतयोरु. भयोरपि । पारुष्ये सति संरम्भादुत्पन्ने क्रुद्धयोईयोः ॥ स मान्यते यः क्षमते दण्डभाग्योऽतिवर्तते । पूर्वमाक्षारयेद्यस्तु नियतं स्यात्स दोष- भाक् ॥ पश्चाद्यः सोऽध्यसत्कारी पूर्वे तु विनयो गुरुः। द्वयोरापन योस्तुल्यमनुबध्नाति यः पुनः ॥ स तयोर्दण्डमाप्नोति पूर्वो वा यदि वेतरः । पारुष्यदोषावृतयोर्युगपत्सम्प्रवृत्तयोः ॥ विशेषश्चेन लक्ष्येत विनयः स्यात्समस्तयोः। श्वपाकषण्डचण्डालव्यङ्गेषु वधवृत्तिषु ।। हस्तिपत्रात्यदासेषु गुर्वाचार्यनृपेषु च । मर्यादातिक्रमे सद्यो घात एवानुशासनम् ॥ यमेव ह्यतिवर्तेरनेते सन्तं जनं नृषु । स एव वि. नयं (१)कुर्यान्न तद्विनयभाङ् नृपः ॥ मला ह्येते मनुष्याणां धनमेषां मलात्मकम् । अतस्तान्धातयेद्राजा नार्थदण्डेन दण्डयेत्' ॥ इति । एवंसूतदण्डपारुष्यनिर्णयपूर्वकत्वाद्दण्डप्रणयनस्य तत्स्वरूपसन्देहे निर्णयहेतुमाह- अलाक्षिकहत इति । यदा कश्चिद्रहस्थमनेन हत इति राशे निवे- यति तदा (२)चिह्नवर्णादिस्वरूपगतैर्लिङ्गयुक्त्या कारणप्रयोजनपर्या- लोचनात्मिकया आगमेन जनप्रवादेन चशब्दाद्दिव्येन वा कूटचिह्नक- तसम्भावनाभयात्परीक्षा कार्या ॥ २१२ ॥ ( वी० मि०) अथात्र दण्डपारुष्यनिश्चयानन्तरकृत्यं दण्डं यथा- यथमाह प्रकरणसमाप्तिपर्यन्तेन- भस्मपङ्करजःस्पर्श दण्डो दशपणः स्मृतः ।। अमेध्यपाणिनिष्ठथूतस्पर्शने द्विगुणस्ततः ॥ २१३ ॥ समेष्वेवं परस्त्रीषु द्विगुणस्तूत्तमेषु च ॥ हीनेष्वर्धदमो मोहमदादिभिरदण्डनम् ॥२१४॥ भस्मपङ्करजोभिः प्रत्येकं परस्य स्पर्श योजने तत्कर्तुर्दशपण. मितो दण्डः । अमेध्यमथुप्रभृति, पारिणश्चरणस्य पश्चाद्भागः, नि. ठयूतं मुखश्लेष्म एतैः परस्य स्पर्शने कृते तत्कर्तुस्ततो दशपणावि. गुणो दण्डः । एवं दण्डः समेषु सवर्णेषु द्रष्टव्यः । परभार्यासूत्तमेषु च वर्णेपु विपये तादृशापराधे कृते समेषूक्ताईण्डात् द्विगुणो दमः । (१! कुर्यान्नूनं विनयभाक् । (२) चित्रणादि ख.।

दण्डपारुष्यप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता । ६८९ हीनेषु वर्णेषु विषये तादृशापराधे समेषतस्य दण्डस्याओं दमः कार्यः । मोहोऽनभिज्ञता, मदो मद्यादिभिः । आदिपदेनोन्मादपरि- ग्रहः । एतैर्भस्मादिस्पर्शने कृतेऽपि दण्डाभावः । चकारेणोत्तरोत्तरं त्रिगुणचतुर्गुणौ दण्डाविति समुच्चीयते । कात्यायनः-- छर्दिमूत्रपुरीषाद्यैरापाद्यः स चतुर्गुणः। षड्गुणः कायमध्ये तु मूर्ध्नि त्वष्टगुणः स्मृतः ॥ चतुर्गुणत्वादिकं दशपणाद्वोध्यम् ॥ २१३-२१४ ॥ (मिता०) एवं निश्चिते साधनविशेषेण दण्डविशेषमाह भस्मेत्यादि । भस्मना पङ्केन रेणुना वा यः परं स्पर्शयत्यसौ दश. पणं दण्डं दाप्यः । अमेध्यमिति अश्रुश्लेष्मनखकेशकर्णविदूषिका- भुक्तोच्छिष्टादिकं च गृह्यते । पाणिः पादस्य पश्चिमो भागः । निष्ठा. तं मुखनिःसारितं जलम् । तैः स्पर्शने ततः पूर्वाद्दशपणाद्विगुणो वि. शतिपणो दण्डो वेदितव्यः । पुरीषादिस्पर्शने पुनः कात्यायनेन वि. शेषः उक्तः–'छर्दिमूत्रपुरीषाद्यैरापाद्यः स चतुर्गुणः । षड्गुणः का. यमध्ये स्यान्मूर्ध्नि त्वष्टगुणः स्मृतः ॥ इति। आद्यग्रहणाद्वसाशुक्रा. सुनजानो गृह्यन्ते । एवंभूतः पूर्वोक्तो दण्डः सवर्णविषये द्रष्टव्यः । परभार्यासु चाऽविशेषेण । तथोत्तमेषु स्वापेक्षयाऽधिकश्रुतवृत्तेषु पूर्वो. क्ताद्दशपणाविंशतिपणाच दण्डाद्विगुणो दण्डो वेदितव्यः । हीनेषु स्वापेक्षया (१)न्यूनवृत्तश्रुतादिषु पूर्वोक्तस्यार्धदमः पञ्चपणो दशप. णश्च वेदितव्यः । मोहश्चित्तवैकल्यम् । मदो प्रद्यपानजन्योऽवस्था. विशेषः। आदिग्रहणाबहावेशादिकम् । एतैर्युक्तेन भस्मादिस्पर्शने कृतेऽपि दण्डो न कर्तव्यः ॥ २१३-२१४ ।। विमपीडाकरं छेद्यमगमहाह्मणस्य च(२) ।। उद्गणे प्रथमो दण्डः संस्पर्शे तु तदर्धिकः।। २१५ ॥ उद्गुणै हस्तपादे तु दशविंशतिको दमौ ॥ परस्परं तु सर्वेषां शस्त्रे मध्यमसाहसः ॥ २१६ ।। ब्राह्मणस्य ताडनादि पीडाकरं क्षत्रियादेरङ्गहस्तपादादि छेद्यम् । चकारेण क्षत्रियपीडाकर वैश्यशूद्रयोः, वैश्यपीडाकरं च शूद्रस्याङ्गं -- (१) न्यूनश्रुतादिषु ख.। (२) तु---इति मु० पु० पाठः ।

- . ६९० याज्ञवल्क्यस्मृतिः । [ व्यवहाराध्यायः। समुच्चीयते। केन केन- येन केनचिदङ्गेन हिंस्याच्छ्रेयांसमन्त्यजः । छेत्तव्यं तत्तदेवाऽस्य तन्मनोरनुशासनम् ।। इति मनुवचनात् । तुशब्दपाठ ब्राह्मणागच्छेदव्यवच्छेदः । उद्गूणे वधार्थमुद्यते शस्त्रादौ प्रथमसाहसो दण्डः । उद्गुरणार्थ शस्त्रादेः स्वयं स्पर्शमात्रे कृते तु प्रथमसाहसामितो दण्डः। प्रथम- साहसश्च शूद्रेतरपरः । शूद्रमुपक्रम्य- पाणिमुद्यम्य दण्डं वा पाणिच्छेदनमहति । इति मनुवचनात् । सर्वेषां समवर्णानां तु परस्परं हस्ते उद्गुणे दशपणो दमः । पाद उद्गुणे विंशतिपणपरिमितो दमः । शस्त्र उद्गुणे मध्यमसाहसो दमः । आद्यतुशब्देन निपातनव्यवच्छेदः । द्वितीयतुशद्वेनाऽसमानजातीयानामुक्तदण्डव्यवच्छेदः ॥२१५-२१६|| ( मिता० ) प्रातिलोम्यापराधे दण्डमाह- विप्रेति । ब्राह्मणानां पीडाकरमब्राह्मणस्य क्षत्रियादेर्यदङ्गं करच. रणादिकं तच्छेत्तव्यम् । क्षत्रियवैश्ययोरपि पीडां कुर्वतः शूद्रस्याङ्ग च्छेदनमेव । (मनुः ८२७९)-'यन केनचिदङ्गेन हिंस्याच्छ्रेयांसमः न्यजः । छेत्तव्यं तत्तदेवास्य तन्मनोरनुशासनम् ॥ इति, द्विजाति. मात्रस्यापराधे शूद्रस्याङ्गच्छेदविधानाद्वैश्यस्यापि क्षत्रियापकारिणो. ऽयमेव दण्डस्तुल्यन्यायत्वात् । उद्गुणे वधार्थमुद्यते शस्त्रादिके प्र. थमसाहसो दण्डो वेदितव्यः। शूदस्य पुनरुद्गूर्णेऽपि हस्तादिच्छे. दनमेव । ( ८२०८) 'पाणिमुद्यम्य दण्डं वा पाणिच्छेदनमहोते' इति मनुस्मरणात् ।। उद्गुरणार्थ शस्त्रादिस्पर्शने तु तदर्धिकः प्रथमला. हसादर्धदण्डो वेदितव्यः । भस्मादिसंस्पर्शे पुनः क्षत्रियवैश्ययोः प्रा. तिलोम्यापवादेषु द्विगुणत्रिगुणा दमा इति वाक्पारुष्योक्तन्यायन क- ल्प्यम् । शूद्रस्य तत्रापि हस्तच्छेद एव । ( ८१२८२) 'अवनिष्ठीवतो दीवावोष्ठौ छेदयेन्नृपः । अवम्बयतो मेमवशर्धयतो गुदम् ॥ इति मनुस्मरणात् ॥ २१५॥ मिता० ) एवं प्रातिलोम्यापराधे दण्डमभिधाय पुनः सजाति. मधिकृत्याह- उद्गुण इति । हस्ते पादे वा ताडनार्थमुद्गुणे यथाक्रमं दशपणो विंशतिपणश्च दण्डो वेदितव्यः । परस्परवधार्थ शस्त्रे उद्गुणे सर्वेषां - दण्डपारुण्यप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता। व(१)णिनां मध्यमसाहसो दण्डः ॥ २१६ ॥ (वी० मि० ) समानजातीयानेव कृत्वाह- पादकेशांशुककरोल्लुश्चनेषु पणान् दश ॥ पीडाकाँशुकांवेष्टपादाध्यासे शतं दमः ॥ २१७ ॥ शोणितेन विना दुःखं कुर्वन् काष्ठादिभिर्नरः ॥ द्वात्रिंशतं पणान् दाप्यो द्विगुणं दर्शनेऽसृजः ॥ २१८ ॥ कर(२)पाददतो भङ्गे छेदने कर्णनासयोः ।। मध्यो दण्डो व्रणोद्भेदे मृतकल्पहते तथा ।। २१९ ।। चेष्टाभोजनवाग्रोधे नेत्रादिप्रतिभेदने । कन्धराबाहुसक्श्नां च भङ्गे मध्यमसाहसः ।। २२० ॥ एक नतां बहूनां च यथोक्ताद्विगुणो दमः ।। पादादीनां परकीयानामुल्लुश्चनेषु झटित्याकर्षणेषु दश पणा दमः । पीडिते वस्त्रावेष्टपूर्वकनिष्ठुराकृष्टस्य स्वचरणारोपपूर्वकं पी. डायां शतं पणा दम इत्यर्थः । शोणितं यथा न दृश्यते तथा काष्ठा- दिभिः परं ताडयन्नरो द्वात्रिंशतं पणान् दाप्यः । असृजो रुधिरस्य दर्शने तु द्विगुणं दाप्यः । त्वगादिभेदे तु विशेषमाह मनुः-- स्वरभेदकः शतं दण्ड्यो लोहितस्य च दर्शकः। मांसभत्ता च षनिष्कान् प्रवास्यस्त्वस्थिभेदका इति । करादित्रयस्य प्रत्येकं भङ्गे कर्णस्य नासाया अवच्छेदने रूढवणस्योद्भदने मृतकल्पो यथा भवति तथा हते ताडिते च म. ध्यमसाहसो दण्डः । तथापदेनांगुलिच्छेदसङ्ग्रहः। चेष्टेति । गमन भोजनवचनानामन्यतमस्य निरोधेन जिह्वादिप्रतिभेदेन कन्धरा ग्रीवा, बाहुः भुजः, सक्थि ऊरुः एतदन्यतमस्य भङ्गे च मध्यमसाहसो दण्डः । चकारेण पाणिप्रभृतिसङ्ग्रहः । एकं बहवो यत्रघ्नन्ति तत्रैकस्य हन्तृत्वे यो दण्डो यत्रोक्तस्तद्विगुणस्तस्मिन्नपरेदण्ड इत्यर्थः, न हीनो. त्तमभेदे । न चात्र दण्डाधिक्यन्यूनते द्रष्टव्ये ॥ (१) वर्णानां घ. । (२) करदन्तपादभड़े-इति क. पु० पाठः ।

६९२ याज्ञवल्क्यस्मृतिः । [ व्यवहाराध्यायः । किञ्च- कलहापहृतं देयं दण्डश्च द्विगुणस्ततः ॥ २२१ ॥ कलहे वर्तमाने यदेकेनापरस्याऽपहृतं तत्तेन देयं परस्मै ततस्त- स्माद्विगुणश्च दण्डोऽपहारनिमित्तको राज्ञा देयः ॥ २२१ ।। - (मिता०) किञ्च- पादेति । पादकेशवस्त्रकराणामन्यतमं गृहीत्वा य उल्लुञ्चति झटि- त्याकर्षयति असौ दशपणान्दण्ड्यः। पीडा च कर्षश्चांशुकावेष्टश्च पादाध्यासश्च पीडाकर्षांशुकावेष्टपादाध्यासं तस्मिन्समुच्चिते शतं दण्ड्यः । एतदुक्तं भवति । अंशुकेनावेष्ट्य गाढमापीड्याकृष्य च यः पादेन घट्टयति तं शतं पणान्दा(१)पयेदिति ॥ २१७ ॥ (मिता०) किञ्च- शोणितेनेति । यः पुनः शोणितं यथा न दृश्यते तथा मृदु ताडनं काष्ठलोष्टादिभिः करोत्यसौ द्वात्रिशतं पणान्दण्ड्यः । यदा पुनर्गाढ. ताडनेन लोहितं दृश्यते तदा द्वात्रिंशतो द्विगुणं चतुःषष्टिपणान्द. ण्डनीयः । त्वमांसा(२)स्थिभेदे पुनर्विशेषो मनुना दर्शितः (८।२८४ ) 'स्वरभेदकः शतं दण्ड्यो लोहितस्य च दर्शकः । मांसभेत्ता च पनि एकान्प्रवास्यस्त्वस्थिभेदकः' ॥ इति ॥ २१८ ॥ (मिता० ) किञ्च- करपादेति । करपाददन्तस्य प्रत्यकं भने कर्णनासस्य च प्रत्येक छेदने रूढवणस्योद्भेदने मृतकल्पो यथा भवति तथा हते ताडिते म- ध्यमसाहसो वेदितव्यः । अनुवन्धादिना विषयस्य साम्यमत्रा. पादनीयम् ॥ २१९ ॥ (मिता० ) किञ्च- चेष्टेति । गमनभोजनभाषणनिरोधे नेत्रस्य आदिग्रहणाजिह्वायाश्च प्रतिभेदने । कन्धरा ग्रीवा, वाहुः प्रसिद्धः, सक्थि ऊरुस्तेषां प्रत्येक भञ्जने मध्यमसाहसो दण्डः ।। २२० ॥ (मिता० ) अपिच- एकमिति । यदा पुनर्वहवो मिलिता एकस्याङ्गभङ्गादिकं कुर्वः न्ति तदा यस्मिन्यस्मिन् अपराधे यो यो दण्ड उक्तस्तत्र तस्माद् द्वि- - (१) दमयेति ग.। (२) मांसास्थिविभेदे ख.।

दण्डपारुण्यप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता । ६९३ गुणो दण्डः प्रत्येक वेदितव्यः । अतिक्रूरत्वात्तेषां प्रातिलोम्यानुलो. म्यापरा(१)धयोरप्येतस्यैव सवर्णविषयेऽभिहितस्य दण्डजातस्य चा- पारुष्योक्तक्रमेण हानि वृद्धिं च कल्पयेत् । 'वाक्पारुष्ये य एवोक्तः प्रा(२)तिलोम्यानुलोमतः । स एव दण्डपारुष्ये दाप्यो राज्ञा यथाक्र- मम् ॥ इप्ति स्मरणात् ॥ (मिता०) किञ्च- कलहेति । कलहे वर्तमाने यद्येनापहृतं तत्तेन प्रत्यर्पणीयम् । अ. पहृतद्रव्याद्विगुणश्वापहारनिमित्तो दण्डो देयः ॥ २२१ ॥ दुःखमुत्पादयेद्यस्तु स समुत्थानजं भयम् ॥ दाप्यो दण्डं च यो यस्मिन् कलहे समुदाहृतः ॥ २२२ ॥ यस्तु ताडने व्रणादिकमुत्पादयेत् स औषध्यादिना व्रणादिपी. डितस्य सम्यगुत्थानार्थ जातं द्रव्यव्ययं दाप्यः । यावता तस्यो. पधादिकं जायते तावद् द्रव्यं दाप्य इत्यर्थः । व्रणाहुत्पादनस्थले न केवलं तहानमेवं, किंतु यस्मिन्कलहे यो दण्डः समान्यत उदाहृत- स्तमपि दाप्यः । चकारेण च समुच्चयार्थकेन विकल्पं वारयति॥२२२॥ (मिता० ) किञ्च- दुःखमिति । यो यस्य ताडनाद् दुःखमुत्पादयेत्स तस्य व्रणरोप. णादौ औषधार्थ पथ्यार्थ च यो व्ययः क्रियते तं दद्यात् । समुत्थान व्रणरोपणम् । यस्मिन्कलहे यो दण्डस्तं च दद्यान्न पुनः समुत्थान: जव्ययमात्रम् ।। २२२ ॥ (वी० मि० ) एवं द्वष्यपुरुषशरीरे दण्डपारुष्ये दण्डमभिधाय तद्भिन्ने दण्डपारुष्ये तमाह- अभिघाते तथा छेदे भेदे कुड्यावपातने ।। पणान् दाप्यः पञ्च दश विंशति तययं तथा ॥ २२३ ॥ दुःखोत्पादि गृहे द्रव्यं क्षिपन् प्राणहरं तथा ।। षोडशायः पणान्दाप्यो द्वितीयो मध्यमं दमम् ॥ २२४ ।। - (१) पराधप्येतस्येव घ.। (२) एवोक्तः प्रतिलोमानुलोमतः । स एव दण्डपारुष्ये राज्ञा कार्यो यथाक्रमम् 'घ. । ..

६९४ याज्ञवल्क्यस्मृतिः। [ व्यवहाराध्यायः । दुःखे च शोणितो दें(१) शाखागच्छेदने तथा । दण्डः क्षुद्रपशूनां (२)स्याविपणप्रभृतिः क्रमात् ।। २२५ ॥ लिङ्गस्य छेदने मृत्यौ मध्यमो मूल्यमेव च ॥ महापशूनामेतेषु स्थानेषु द्विगुणो दमः ।। २२६ ॥ प्ररोहिशाखिनां शाखास्कन्धसर्व विदारणे ॥ उपजीव्यगुमाणां च विंशतेर्द्विगुणो दमः ।। २२७ ॥ चैत्यश्मशानसीमामु पुण्यस्थाने सुरालये ।। जातद्रुमाणां द्विगुणो दमो वृक्षे च विश्रुते ॥ २२८ ॥ गुल्मगुच्छापलतामतानौषधिवीरुधाम् ।। पूर्वस्मृतादर्धदण्डः स्थानेषूक्तेषु कर्तने ॥ २२९ ॥ कुड्यस्य भित्तेः अवपातने भूमिनिपातने अभिधाते मुद्गरादिना हनने छेदने खड्गादिना द्वैधीकरणे भेदे यष्ट्यादिना विदारणे । यथाशव्दस्त्रिप्वप्यन्वेति । मुद्रादिनेत्युक्तास्तदर्थाः । पञ्च दश विंश- तिश्च पणाः क्रमेणऽभिघातादौ विकल्पेनाऽन्वीयन्ते, अवपातने तु समुच्चयेन । तद्ययं कुड्यस्य पुनः करणार्थ व्ययितं धनम् | तथाश- ब्देन साहित्यं विवक्षितम् । दुःखोत्पादनशीलं कण्टकादि द्रव्यं, प्रा. णहरं सर्पादि परस्य गृहे येन प्रकारेण प्रक्षेपो दुःखोत्पादकस्तथा क्षिपन् दण्ड्यः । तत्राद्यः कण्टकादिक्षेप्ता पोडश पणान् , द्वितीयः सदिक्षता मध्यमलाहसं दमं दाप्यः । क्षुद्रपशूनां हरिणच्छागा- दीनां ताडने दुःखोत्पादं शोणितं नावणे शाखायाः ! शृङ्गादिरूपायाः छेदेन अङ्गस्य चरणादेः छेदेन द्विपणः प्रभृतिरादिर्यस्य स दण्डगणः क्रमेण स्यादित्यर्थः । अत्र द्वित्वसंख्याया एव श्रवणाद् द्वयं द्वयं पणा.. नां वर्द्धते । क्रमशः क्षुद्रपशूनां लिङ्गस्य छेदने मारणे वा मध्यमसा. हसो दण्डः स्यात् , मूल्यं च स्वामिने स दद्यात् । महापशूनां तु दुः. खोत्पादादिपु विषये क्षुद्रपशुपूक्तानां दण्डानां द्विगुणा दण्डाः का. र्याः । चकारेणाऽत्रापि मूल्यदानम् । एवकारेण दुःखोत्पादादिषु च. तुर्यु मूल्यदानव्यवच्छेदः । प्ररोहशाखिनां वटादिवृक्षाणामुपजीव्य. (१) शोणितोत्यादे-इति मु० पु पाठ.। • (२) तु-इति मु० पु० पाठः ।

दण्डपारुष्यप्रकरणम् । ] वीरमित्रोदयमिताक्षरासहिता। ६९५ द्रुमाणामाम्रादीनां च शाखाया मूलतन्निर्गमस्थानरूपस्कन्धस्य सर्व- स्य समूलस्याऽवयविनश्च विदारणे विंशतिपणादारभ्य द्विगुणा दमा भवन्ति, विंशतिश्चत्वारिंशदशीतिः पणाः क्रमेण त्रिषु दण्डा इति यावत् । चकारेण प्ररोहिणामेव ग्रामादिस्थैरुपवेशनाद्यर्थमुपजी. व्यत्वे तद्विदारणे पुनस्तद्वैगुण्यमिति समुञ्चीयते ।चैत्यं मनोरमस्थानं, सीमा प्रामादिद्वयमर्यादा तासु पुण्यस्थाने यज्ञादिस्थले सुरालये देवस्थाने जातानां द्रुमाणां शाखादिविदारणे विश्रुते विख्याते पिप्प- लादौ वृक्षे च शाखादिषु विदारितेषु पूर्वोक्ताद्विशतिपणादेर्द्विगुणो दम इति । चकारेण समुत्थानव्ययदानं समुच्चीयते। गुल्मा अनतिदी- घनिबिडलता मालत्यादयः, गुच्छा अवल्लीरूपा असरलाः कुरण्टा. दयः, क्षुपाः सरलप्रकाण्डाः करवीरादयः, लता दीर्धयायिन्योऽति. सुक्तादयः, ता एव स्थूलप्रतानाः काण्डप्ररोहरहिताः सारिवादयः, औषध्यः फलपाकान्ताः शाल्यादयः, छिन्ना अपि विविध प्ररोहन्ती- ति वीरुधो गुडूचीप्रभृतयः । आसां शाखादिपूक्तेषु कर्तने छेदने पूर्व स्मृताविंशतिपणादेर| दशपणादिर्दण्डः। समुत्थानव्ययदानं चात्रा- ऽपि द्रष्टव्यम् । मनुः-- पाणिमुद्यम्य दण्डं वा पाणिच्छेदनमर्हति । पादेन प्रहरन् कोपात्पादच्छेदनमर्हति ॥ सहासनमभिप्रेप्सुरुत्कृष्टस्याऽवकृष्टजः । कट्या कृताको निर्वास्यःस्फिचं वाऽस्यावकर्तयेत् ।। अवष्टीवयतो दवावोष्ठौ छेदयेन्नृपः । अवमूत्रयतो मेढ़मवशर्धयतो गुदम् ॥ केशेषु गृह्णतो हस्तौ छेदयेदविचारयन् । पादयोर्दाढिकायां च ग्रीवायां वृषणेषु च ॥ ब्राह्मणविषये शूद्रस्यायं दण्डः । शस्त्रप्रयोगे विष्णु:--'शोणितेन वेना दुःखमुत्पादयिता त्रिशतं पणान् सह शोणितेन चतुःषष्टिम् । वेस्तरमयाच्च नेह दण्ड्यन्तराण्यभिधीयन्ते ॥ २२३-२२९ ॥ इति श्रीमत्याज्ञवल्क्यव्याख्याने दण्डपारुण्यप्रकरणम् ॥ ॥

* याज्ञवल्क्यस्मृतिः। [ व्यवहाराध्यायः । (मिता० ) परगात्राभिद्रोहे दण्डमुक्त्वानन्तरं वहिरङ्गार्थनाशे दण्डमाह- अभिघात इति । मुद्रादिना कुड्यस्याभिघाते विदारणे द्वि(१)धा- करणे च यथाक्रमं पञ्चपणो दशपणो विशतिपणश्च दण्डो चेदित व्यः । अवपातने पुनः फुड्यस्यैते त्रयो दण्डाः स(२)मुच्चिता ग्राह्याः। पुनः कुड्यसंपादनार्थ च धनं स्वामिने दद्यात् ॥ २२३ ॥ (मिता० ) अपिच- दुःखोत्पादीति । परगृहे दुःखजनकं कण्टकादि द्रव्यं प्रक्षिपन् पोडश पणान् दण्ड्यः । प्राणहरं पुनर्विपभुजङ्गादिकं प्राक्षिपन्मध्यमसा. हसं दण्ड्यः ॥ २२४ ॥ (मिता०) पश्वभिद्रोहे दण्डमाह- दुःख इति । क्षुद्राणां पशूनां अ(३)जाविकहरिणप्रायाणां ताडनेन दुःखोत्पादने असृक्स्रवणे शाखागच्छेदने । शाखाशब्देन चात्र प्रा. णसंचाररहितं शृङ्गादिकं लक्ष्यते । अङ्गानि करचरणप्रभृतीनि । शाखा चाङ्गं च शाखाङ्ग तस्य छेदने द्विपणप्रभृतिर्दण्डः । द्वौ पणौ यस्य दण्डस्य स द्विपणः । द्विपणः प्रभृतिरादिर्यस्य दण्डगणस्यासो द्विपणप्रभृतिः । स च दण्डगणो द्विपणश्चतुःपणः षट्पणोऽष्टपण इ. त्येवंरूपो न पुनर्द्विपणस्त्रि(४)पणश्चतुप्पणः पञ्चपण इति । कथमिति चेदुच्यते अपराधगुरुत्वात्तावत्प्रथमदण्डाहरुतरमुपरितनं दण्ड. त्रितयमवगम्यते । तत्र चाश्रुतत्रित्वादिसंख्याश्रयणाद्वरं श्रुतद्विसं. ख्याया एवाभ्यासाश्रयणेन गुरुत्वसंपादनमिति निरवद्यम् ॥ २२५ ॥ मिता०) किञ्च- लिङ्गस्येति । तेषां क्षुद्रपशूनां लिङ्गच्छेदने मरणे च मध्यमसा. हसो दण्डः । स्वामिने च मूल्यं दद्यात् । महापंशुनां पुनगाँगजवा- जिप्रभृतीनामेतेपु स्थानेषु ताडनलोहितस्रा(५)वणादिपु निमित्तेषु पूर्वोक्ताहण्डाद्विगुणो दण्डो वेदितव्यः ॥ २२६ ॥ (मिता०) स्थावराभिद्रोहे दण्डमाह- प्ररोहीति । प्ररोहा अङ्करास्तद्वन्त्यः शाखाः प्ररोहिण्यः याश्छि- नाः पुनरुप्ताः प्रतिकाण्डं प्ररोहन्ति ताः शाखा येषां वटादीनां ते प्र. (१) द्वैधीकरणे घ.. (२) समन्विताः घ.. (1) अजाविहारणानां घ. । (४) मिश्चतुःप ख.। (५) लावणादिनिमित्तेषु ख. । ४ - काशीसंस्कृतसीरीज-पुस्तकमाला । 1 इयं काशी-संस्कृतग्रन्थमाला विभागशः प्रकाशिता भवति । एतस्यां प्राचीनाः नवीनाथ दुर्लभाः सुलभाश्च अत्युपयुक्ताः संस्कृतग्रन्थाः काशिकराजकीयसंस्कृतपाठशालीयैः 'पण्डितैरन्यैरपि विद्वद्भिः संशोधिताः क्रमेण संमुद्रिता भवन्ति । अस्यां प्रका- श्यमाणानां ग्रन्थानां मूल्यं सू/पने प्रकाशितं वर्तते । परतु एतस्या नियमेनाऽविच्छिन्नतया निश्चितग्राहकमहाशयानां प्रतिमुद्रा- शतकं पञ्चविंशतिमुद्राः ( कमिशन ) परावर्तिता भवेयुः मार्गव्ययश्च न पृथक् दातव्यो भवेत् । तत्र मुद्रितग्रन्थनामानि । मूल्यम् । १ नलपाकः नलविरचितः। संपूर्णः ( पाकशास्त्रम् १) रु० १-८ २ संक्षेपशारीरकम् । रामतीर्थस्वामिकृतान्वयार्थचोधिनीटीका- सहितम् । ( वेदान्तं १) रु०८-० ३ वैशेषिकदर्शनम् । पं० श्रीदुण्डिराजशास्त्रिकृतविवरणोपेताभ्यां प्रशस्तपादाप्योपस्काराभ्यांसमन्वितम् (वैशेपिकं१)रु०२-८ ४ श्रीसूक्तम् । विद्यारण्यपृथ्वीधरश्रीकण्ठाचार्यकृतभाष्यत्रयेण टिप्पण्या च समलङ्कृतम्। ( वैदिकं १) रु० ०-६ ५ लघुशब्देन्दुशेखरः ( भैरवी ) चन्द्रकलाटीकासहितः-प्रथम भाग अव्ययीभावः। ५ लघुशब्देन्दुशेखरः ( भैरवी) चन्द्रकलाटीकासहितः तत्पुरुषादि- समाप्तिपर्यन्तः। द्वितीय भाग (व्याकरणं १) रु०८-० ६ कारिकावली मुक्ता दिन० राम० शब्दखण्डसहिता तथा "गुण निरूपणदिनकरीय” महामहोपाध्याय पं० श्रीलक्ष्मणशास्त्रि. कृतव्याख्यासहिता। ( न्यायं १) रु०६-० ७ पञ्चीकरणम् । वार्तिकाभरणालङ्कृतवार्तिकटीकया-तत्त्वचन्द्रि कासमवेतविवरणेन च समन्वितम् । (वेदान्तं २)रु००--८ ८ अलङ्कारप्रदीपः। पण्डितवरविश्वेश्वरपाण्डेयनिर्मितः। रु००-८ ९ अनङ्गरङ्ग:महाकविकल्याणमल्लविरचितः। (कामशास्त्रं१) रु० ०-१२ १० जातकपारिजातः। श्रीवैद्यनाथशर्मणाविरचितः। (ज्यो०१) रु० २-० ११ पारस्करगृह्यसूत्रम् । कात्यायनसूत्रीयश्राद्ध-शौच-स्नान-भोजन- कल्पसहितम् । ( कर्मकाण्डम् १) रु० ०--- १२ पुरुषसूक्तम् । सायणभाष्य-महीधरभाष्य-मंगलभाष्य-नि- म्बार्कमतभाप्यचतुष्टयसहितम् । (वैदिकं २) रु० १---४ १३ श्रीमत्सनत्सुजातीयम्-श्रीमच्छङ्करभगवत्पादविरचितभाष्येण नीलकण्ठीव्याख्ययाच संवलितम्। ( वेदान्तं ३) रु० १ २ काशीसंस्कृतसीरीज़ । १४ कुमारसंभवं महाकाव्यम् । महाकवि-श्रीकालिदासवि० । सली. वनी-शिशुहितैषिणी-टीकाद्वयोपेतम् सम्पूर्णम् । (काव्यं२) प्पणा। - . - . १५ श्रुतबोधश्छन्दोग्रन्थः । आनन्दवर्द्धिनीतात्पर्यप्रकाशाख्यसंस्कृत- भाषाटीकासहितः। (छंदः १) रु० ०-६ । १६ कारिकावली। मुक्तावली-न्यायचन्द्रिकाटीकाद्वयसहिता सटि- (न्यायं २) रु०१-६ १७ पारस्करगृह्यसूत्रम्। काण्डद्वये हरिहर गदाधर० तृतीयकाण्डे ह रिहर-जयराम-प्रणीतभाग्येण समलङ्कनम् । हरिहरभाध्यस हितस्नानत्रिकण्डिकासूत्र-गदाधरभाष्यसहितश्राद्धनवक- ण्डिकासूत्रैः यमलजननशान्ति-पृष्टोदिवि-शौच-भोजन कामदेवकृतभाष्यसहितोत्सर्गपरिशिष्टसूत्रैः परिष्कृत-टिप्प. ण्यादिभिः सहितं च। ( कर्मकाण्ड २)रु०३-० १८ संक्षेपशारीरकम्-मधूसूदनीटीकासहितम् संपूर्ण (वेदान्तंट)रु०८-० १९ लघुजूटिका-अर्थात् अभिनवा परिभाषेन्दुशेखरपरिष्कृतिनि- मितिः। (व्याकरणं २) रु. ०-८ २० कातीयष्टिदीपकः । ( दर्शपौर्णमासपद्धतिः) महामहोपाध्यायः पं० श्रीनित्यानन्दपन्तपर्वतीयविरचितः। (कर्मकाण्ड) रु० १. २१ सप्तपाठि-श्रीशिवमहिम्नस्तोत्रम् श्रीगन्धर्वराज पुष्पदन्ताचार्य- विरचितम् । हरिहरपक्षीय-मधुसूदनीटीकया ( संस्कृतटी. का-संस्कृतपद्यानुवाद-भाषाटोका-भाषापद्यानुवाद्-भाषा विम्ब ) पञ्चमुखीनाम्न्या टीकया-शक्तिमहिम्नस्तोत्रण च समन्वितम्। { स्तोत्रवि० १) रु० २~० २२ बौद्धाऽऽचार्यश्रीधर्मकीर्तिप्रणीतः सटीकन्यायविन्दुः-भाषा- टीकासहितः ( बौद्धन्याय वि० १) रु०१-८ २३ सपरिष्कृत-दर्पणसहितवैयाकरणभूषणसारः (व्याकरणं ३) रु० ४... २४ न्यायवार्तिकतात्पर्यटीका श्रीवाचस्पतिमिश्रविरचिता। सम्पूर्ण ( न्यायविभाग ३) रु०६-० २५ मीमांसान्यायप्रकाशः (आपदेवीयः) श्रीचिन्नस्वामिशास्त्रिकृतया सारविवेचिन्या व्याख्यया सहितः ( मीमांसा१)रु०२-० २६ पौरोहित्यकर्मसारः (टिप्पणीसमलंकृतः) प्रथमो भागः श्रीरमा. । कान्तशर्मणा संगृहीतः। ( कर्मकाण्डवि० ३') रु० ०-४ २७ लघुशब्देन्दुशेखरः म० म० श्रीनागेशभट्टविरचितः। अव्ययी. भावान्तो भागः, म०म० पण्डित श्रीनित्यानन्दपन्त-पर्वतीय कृतशेखरदीपकाख्येन टिप्पणेन समुज्ज्वलितः। (व्या०४)रु०४-: २८ रघुवंशमहाकाव्यम्। महाकविश्रीकालिदासविरचितम् पञ्चसर्गा. त्मकम् । स० म० श्रीमल्लिनाथस्मृरिकृतसञ्जीविनीटीकया पं० श्रीकनकलालठक्कुरकृताऽर्थप्रकाशिकाटीकया च सम. लङ्कृतम् । काव्यवि०३)रु०,०-१२ ..

काशीसंस्कृतसीरीज़। ३० न्यायकुसुमाञ्जलीः । न्यायाचार्यपदाङ्कितश्रीमदुदयनाचायविरचि. तः। महामहोपाध्यायरुचिदत्तकृतमकरन्दोद्भासितमहामहो. पाध्याय वर्द्धमानोपाध्यायप्रणीतप्रकाशसहितः (न्याय४) रु०६-० ३१ परिभाषेन्दुशेखरः । म०म० श्रीनागेशभट्टरचितःम०म० भैरव- मिश्रविरचितया भैरवीत्यपराख्यया परिभाषाविवृत्या-तत्त्व- प्रकाशिकया टीकया च सहितः। (व्याकरणं ४) रु०३-० ३२ अर्थसंग्रहः । पूर्वमीमांसासारसंग्रहरूपः। श्रीलौगाक्षिभास्करविरचि. तः।श्रीमत्परमहंसपारव्राजकाचार्यश्रीरामेश्वरशिवयोगिभिक्षु. विरचितमीमांसार्थकौमुद्याख्यव्याख्यासहितः।(मीमां०२) रु०१-० ३३ न्यायवार्तिकम् न्यायदर्शनवात्स्यायनभाप्योपबृंहणम् । परमर्षि- भारद्वाजोहयोतकरविरचितम् । महर्षि-गोतमादिचरितसम्व लितवृहत्भूमिकासहितम् । (न्यायं वि०५) रु.६-० ३४ शुक्लयजुर्वेदसंहिता । वाजसनेयिमाध्यन्दिनशाखीया। श्रीमदुव्व- टाचार्यविरचितमन्त्रभाप्येण श्रीमन्महीधराचार्यविरचितवेद- दीपेन च सहिता। ( भाग १-२-३-४ ) (वैदिकं ३) रु०८-० ३५ शुक्लयजुर्वेदकाण्वसंहिता । श्रीसायणाचार्यविरचितभाप्यसहिता। १ अध्यायादारभ्य २० अध्यायपर्यन्ता । (वैदिकं ४) रु०६-० २६ सिद्धान्तलेशसंग्रहः । श्रीमदप्पयदीक्षितविरचितः। श्रीमत्परमहंस- परिव्राजकाचार्यकृष्णानन्दतीर्थविरचितया कृष्णालङ्काराख्य- या व्याख्यया समलंकृतः। (वेदान्तं ४) रु०६-० ३७ काशिका | श्रीपाणिनिमुनिविरचितव्याकरणसूत्राणां वृत्तिः वि. द्वद्वर-वामन-जयादित्यविनिर्मिता। (व्याकरणं ५) रु०६-। ३८ प्राकृतप्रकाशः । भामहकृतः । श्रीमद्वररुचिप्रणीतप्राकृतसूत्रसहि- तः । टिप्पण्या च संयोजितः । (व्याकरणं ६) रु०१-४ ३९ जीवन्मुक्तिविवेकः श्रीमद्विद्यारण्यस्वामिविरचितः । भाषानुवा- दसमेतः। (वेदान्तं ५) रु०२-० ४० श्रीनारदीयसंहिता । ब्रह्मणोपदिष्टो नारदमहामुनिप्रोक्तो ज्यौतिष- (ज्योतिषं २) रु००-६ ४१ मेदिनीकोश:-मेदिनीकारविरचितः । (कोशं १) रु०१-८ ४२ मीमांसादर्शनम् । श्रीशबरस्वामिविरचितभाप्यसहितम् (भाग--२) (मीमांसा ३) रु० १०-० ४३ न्यायदर्शनम् । श्रीगोतममुनीप्रणीतम् । श्रीवात्स्यायनमुनीप्रणीत. भाष्यसहितम् । श्रीविश्वनाथन्यायपञ्चाननभट्टाचार्यविरचि- तन्यायसूत्रवृत्त्यनुगतम् । टिप्पण्यादिसहितम् (न्यायं ६) २०३-० ४४ दानमयूखः। विद्वद्वरश्रीनीलकण्ठभट्टविरचितः। (धर्मशास्त्रं१) रु०१-८ ४५ कालमाधवः। विद्वद्वरश्रीमाधवाचार्यविरचितः। (धर्मशास्त्रं२) रु०१-८ ग्रन्थः। .

४ - । h लङ्कतम् संपूर्णम् । रु११-४ काशीसंस्कृतसीरीज़ । ४६ भास्वती । श्रीमच्छतानन्दविरचिता । श्रीमातृप्रसाद ( दैवज्ञभू- पण) पाण्डेयेन कृताभ्यां छात्रबोधिनीनाम संस्कृतसोदाहरण भापाटोकाभ्यां सहिता । (ज्योतिपं ३) २०२ ४७ फक्किकाप्रकाशः। उपाध्यायोपाह्ववैयाकरणकेसरीविरुदाङ्कितमैधि- लेन्द्रदत्तशर्मविरचितः पं० सीतारामशर्मकृतटिप्पण्या विभूषितः। (व्याकरणं ७) रु०१-४, ४८ मिताक्षरा । श्रीगौडपादाचार्यकृतमाण्डूक्यकारिकाव्याख्या-श्रीम: त्परमहंसपरिव्राजकाचार्यस्वयम्प्रकाशानन्दसरस्वतीस्वामि- कृता।शंकरानन्दकृतमाण्डूक्योपनिषद्दीपिका चा (वेदा०६)रु- ४९ काव्यप्रकाशः । श्रीमम्मटाचार्यविरचिनः । पं० श्रीहरिशङ्करशर्मणा, मैथिलेन संगृहीतया नागेश्वरीटीकयाऽलङ्कतः (काव्य०४) रु०४ - ५० अधिकरणकौमुदी । श्रीदेवनाथठक्कुरकृता । (मीमां० ४) रु०१- ५१ रघुवंशमहाकाव्यम् । महाकविश्रीकालिदासविरचितम् महामहो पाध्याय श्रीमल्लिनाथकृतसञ्जीविनीटीकयोपेतम् पं० श्रीकन कलालठक्कुरेण विरचितया भावचोधिनी टिप्पण्या सम- ५२ काथबोधः।साजनीकृत टीकोपेतः । दत्तात्रेय सम्प्रदायाऽनुगतः। रु०-८ ५३ रसचन्द्रिका । पर्वतीय-पण्डितप्रवर-श्रीविश्वेश्वरपाण्डेय निर्मिता (काव्य०६)रु०१- ५४ अलङ्कारमुक्तावली । पर्वतीय-विद्वद्वर-श्रीविश्वेश्वर पाण्डेय- निर्मिता- ( काव्य० वि०७) रु०-१२- ५५ वृत्तरत्नाकरः-भट्टकेदारप्रणीतः । नारायणभट्टीयव्याख्यासहितः। सम्पादकनिर्मितविषमस्थलटिप्पणोपेतः। श्रुतबोधच्छन्दो- सञ्जरीसुवृत्ततिलकैश्च समेतः । (छंद वि० १) ६-८-० ५६ अलङ्कारशेखरः । केशवमिश्रकृतः । साहित्योपाध्याय वेतालोपाह श्री अनन्तरामशास्त्रिणा भूमिकादिभिः संभूप्य संशोधितः । ( अल० वि०१)१-४ ५७ शक्तिवादः-टीकात्रयोपेतः। श्रीगदाधरभट्टाचार्यप्रणीतः । कृष्ण- भट्टकृतया मञ्जूषया-माधवभट्टाचार्यनिर्मितया विवृत्या श्रीमन्माध्वसंप्रदायाचार्यदार्शनिकसार्वभौमसाहित्यदर्शना. द्याचार्यतकरत्नन्यायरत्न गोस्वामिदामोदरशास्त्रिरचितया विनोदिन्या च समेतः। ( न्या० वि० ७)२-०- जयकृष्णदास-हरिदासगुप्तः, पत्रादिप्रेषणस्थानम् चौखम्बा संस्कृत सीरीज श्राफीस, विद्याविलास प्रेस, गोपालमंदिर के उत्तर फाटक वनारस सिटी। +

No text on this page.

याज्ञवल्क्यस्मृति

Author
याज्ञवल्क्य
Title
?????????????????
File name
याज्ञवल्क्यस्मृति
Text
OCR done
Citation
1927
Published
2009/04
Publisher
विद्याविलास प्रेस, बनारस
Language
Sanskrit
Pages
102
Library
बनस्थली विद्यापीठ
Classification
Literature
DLI number
408310
Barcode
99999990064794.00
Scanning centre
Banasthali University
Digital publisher
Digital Library Of India
VMLT id
MOrzIutTk7c
Download PDF

याज्ञवल्क्यस्मृति