Scl

Sarvedic Prasnothari

Pandit_sri_vishveswara_jha

PDF Proofread

Front matter

No text on this page.

No text on this page.

No text on this page.

|| श्रीः॥
६ हरिदास-संस्कृत-ग्रन्थमाला
१३७
-oGNDA
|| श्रीः ।।
स्वरवैदिक-प्रश्नोत्तरी
पाणिनीयशिक्षाप्रश्नोत्तरीसहिता ।
(द्वितीयं संस्करणम् )
-
लेखक
पण्डित श्री विश्वेश्वर झा
संस्कृताध्यापक म्यु० बो० जूनियर हाईस्कूल,
दशाश्वमेध, काशी
प्रकाशक:-
जयकृष्णदास-हरिदास गुप्ता
चौखम्बा संस्कृत सीरिज आफिस,
विद्याविलास प्रेस, बनारस
सं० २००९]
[सन् १९५२
मूल्यं 1)
पुनर्मुद्रणादिकाः सर्वेऽधिकाराः प्रकाशकाधीनाः

प्राकथन स्वरवैदिक प्रश्नोत्तरीका यह अभिनव परिवर्तित संस्करण छात्रों को परीक्षामें ही नहीं अपितु अध्ययनके लिये भी अधिक उपयोगी सिद्ध होगा। इस संस्करणमें सन् १९२५ से १९५२ ई. तककी परीक्षाओं में आये हुए स्वरवैदिक तथा पाणि नीयशिक्षाके प्रश्नों के उत्तर प्रकरणानुसार, दिये गये हैं तथा साथ ही साथ जिन २ वर्षों में वे (श्न बार २ पूछे गये हैं उन २ वर्षों की संख्याओंका उल्लेख भी उत्तरके साथ कर दिया गया है। प्रश्नोंके अविकल रूप ९६ पृष्ठ से आगे छपे प्रश्नपत्रों में यथा स्थान सर मिलेंगे । जिज्ञासु छात्रोंको चाहिए कि अध्ययन के समय से ही स्वरवैदिक प्रकरणके साथ ही साथ इस प्रश्नोत्तरी को भी पढ़ें। ऐसा करने पर छात्रोंको भविष्य में प्रश्नोत्तरी रटनेकी आवश्यकता नहीं होगी और इस प्रकार की प्रश्नोत्तरी छापने का हमारा उद्देश्य भी सफल होजायगा । हम चाहते हैं कि जिस ग्रन्थको जो प्रश्नोत्तरी हो वह उस ग्रन्थके अध्ययनमें छात्रोंको विशेष सहायक होते हुए, प्रश्नोत्तर लेखनका पथप्रदर्शक भी हो । अतः हमने चौखम्बा संस्कृत पुस्तकालयके अन्तर्गत एक अभिनव प्रश्नोत्तरी मालाकी भी स्थापना की है, जिसमें प्रथमासे आचार्य परीक्षा निर्धारित सभी ग्रन्थोंको प्रश्नोत्तरियाँ अभिनव रूपकी प्रकाशित हो रही हैं । विशेष जानकारीके लिये निःशुक्ल सूचीपत्र मंगाकर पदिये। विजया दशमी सं० २००९ विनीत प्रकाशक .

॥ श्रीगणेशाय नमः॥
स्वरवैदिक-प्रश्नोत्तरी
॥
पार्वतीशिवयोरङ्के मोदकाशनसंरतः
गणेशो विघ्नशैलनो मङ्गलं तनुतात् सदा ॥
श्रीविश्वेश्वरविश्वविश्रुतपुरीवास्तव्यविश्वेश्वरः ।।
श्रीयागेश्वरशर्मणो बुधमणेविख्यातकीर्तेः सुतः ।।
स्वं तातञ्च गुरुं सुबोधजनक श्रीबालबोधाभिधं ।
नत्वा वैदिकक्रियास्वरभवप्रश्नोत्तरी निर्मिमे ।।
अथ वैदिकप्रकरणे प्रथमोऽध्यायः।
वैदिकप्रक्रियायाः लौकिकप्रक्रियातो भेदहेतुनिरूपणम् (ई० १५४६ )
ननु रक्षोहागमलघ्वसन्देहाः प्रयोजनमिति भाष्यात् 'ब्राह्मोन निष्कारणो धर्मः
षडङ्गो वेदोऽध्येयो ज्ञेयश्च' इति श्रुतेश्च कृत्स्नस्यैव व्याकरणस्य वैदिकशब्दसाधुत्वार्थ
प्रवृत्ततया-लोके पदपदार्थों यौ न तौ वेदेऽथवात्र तौ। रूपमेदात् पदं भिन्नमुत्ताना-
दिभिदास्फुटा।
वर्णेकत्वात् पदैकत्वं क्वाचित्की रूभिन्नता ।
प्रायिकेण पदैक्येन तदर्थंक्य तथाविधम् ॥
इति जैमिनीयन्यायमालोक्तरीत्या वैदिकशब्दानां लौकिकशब्दाऽभिन्नतया च
स्वरवैदिकप्रक्रिययोः लौकिकप्रक्रियातः पृथक् कृतेः क आशय इति चेदुच्यते-
लौकिकशब्देभ्यः-श्रात्मना, जहार, देवाः, देवरित्यादिभ्यो भिन्नाना-त्मना, जभार,
देवासः, देवेभिः, इत्यादीनां वैदिकशब्दानां सत्त्वेन तन्मात्रव्युत्पादकवैदिकप्रक्रियायाः
पृथक्करणम् । अत एव केषां शब्दानां ? लौकिकानां वैदिकानां चेति महाभाष्ये
नोट:-जो जो प्रश्न जिन जिन वर्षों में पूछे गये हैं उन उन वर्षों ( ईस्वियों) के
उल्लेख प्रश्नके आगे कोटको कर दिये गये हैं। प्रश्नों का अविकल स्वरूप पुरतकके अन्तमें
छपे प्रश्नपत्रोंमें देखिये।

२ स्वरवैदिकप्रश्नोत्तरी। लौकिकेभ्यो भिन्नतयैव वैदिकान् व्याहरति भगवान् भाष्यकारः। स्वरस्तु लौकिकप्र- योगे काव्यादौ नाद्रियते इति तत्प्रक्रियाया अपि लौकिकप्रक्रियातः पृथक् करणमिति उपरितनोक्तन्यायमालास्थपद्याभ्यामपि प्रायिकेण पदैक्येनेत्यनेन लौकिके- भ्यो भिन्ना अपि वैदिकाः शब्दाः सन्तीति सूचितमित्यलम् । क्षेत्रस्य पतिना (१९३५)-अत्र प्रयोगे समासाऽभावाद् घिसंज्ञायामप्राप्तायां “षष्टीयुक्तश्छन्दसि वा” इति सूत्रेण वैकल्पिकषिसझायाम् “श्राडो नाऽस्त्रियाम्" इति सूत्रेण आङो नादेशे पतिना इति, एवञ्च 'क्षेत्रस्य पतिना' इति भवति । नभस्वत् (१९४९)-नभसा तुल्यम् इति विग्रहे "तेन तुल्यं क्रिया चेद्वतिः" इति तिप्रत्यये “ससजुषोरुः" इति रुत्वे प्राप्ते “नभोगिरोमनुषां वेत्युपस- वयानम्" इति मत्वे भत्वादुत्वाभावे 'नभस्वत्' इति भवति । लोके तु 'नभोवत्' इति । अङ्गिरस्वत् ( १९२७)-अङ्गिरसा तुल्यम् अङ्गिरस्वदिति विग्रहे अङ्गिरस् शब्दात् “तेन तुल्य क्रिया चेद्वतिः" इति सूत्रेण वतिप्रत्ययेऽनुबन्धलोपे तद्धितान्त. त्वात् प्रातिपदिकत्वे "सुपो धातुप्रातिपदिकयोः” इति सुपो लुकि "नभोऽजिरोमनुषां वेत्युपसङ्ख्यानम्" इति भत्वे भत्वाद्रुत्वाभावे 'अङ्गिरस्वत्' इति । लोके तु “अङ्गिरो- वत्" इत्येकमेव रूपं भवति । मनुष्वदग्ने ( १९३२, ४३)-मनुषा तुल्यमिति विग्रहे अत्र "जनेरुसिः" इति विहित उसिप्रत्ययो बाहुलकान्मनेरपि भवति ततश्च उसि भनुस् इत्यत्र "श्रादेशप्रत्यययोः' इति षत्वे तुल्यार्थे पूर्ववद् वतिप्रत्यये "नभोशिरोमनुषां वेत्युप- सङ्ख्यानम्" इति भत्वे भत्वाहत्वाभावे 'मनुष्चदग्ने' इति । वृषण्वसुः (१९३३, ४४, ४७, ५०) वृषन् वर्षकं मु यस्य स वृषण्व- सुरित्यत्रान्तर्वर्तिनी विभक्तिमाश्रित्य पदत्वे सति नलोपः प्राप्तः वृषन्नित्येतद् वसु- अश्व-एतयोत्र परतो भं स्यादित्यर्थक "वृषण्वस्वश्वयोः" इत्यनेन भत्वाद्धार्यते । अत एव (भत्वादेव ) “पदान्तस्य" इत्यनेन णत्वनिषेधोऽपि न भवति। "श्रलोपोऽनः" इति सूत्रे 'अङ्गस्य इत्यधिकारात् अल्लोपो न अनङ्गत्वात् । वृषणश्वः (१९४२, ४६)-वृषा अश्वो यस्यासौ वृषणश्वः' इत्यत्रान्तर्वतिनी विभक्तिमाश्रित्य पदत्वे सति नलोपः प्राप्तः “वृषण्वस्वश्वयोः" इत्यनेन भत्वाद्वायते । अत एच "पदान्तस्य" इत्यनेन णत्वनिषेधोऽपि न भवति । “अल्लोपोनः" इत्यत्र "अङ्गस्य" इत्यधिकारात् अल्लोपो न अनङ्गत्वात् ।

वैदिकप्रकरणे प्रथमोऽध्यायः । ३ ऋकता गणेन ( १९३१)-अयस्मयादीनि छन्दसि साधूनि भवन्तीत्य- र्थक “अयस्मयादीनि च्छन्दसि" इति सूत्रस्थायस्मयादिगण ऋकतेत्यादिपाठात् "उभयसंज्ञान्यपीति वक्तव्यम्” इति वार्तिकबलात् सत्यां पदसंज्ञायां "चोः कुः" इत्यनेन कुत्वे भसंज्ञायाञ्च जातायां जश्त्वाभाने "ऋक्वता" इतीष्टसिद्धिः कुतः जश्त्वविधानार्थायाः पदसंज्ञाया भत्वसामर्थ्येन बाधात् । अन्यथा जश्त्वमेव स्यात् कुत्वं न स्यादितीष्टप्रयोगहानिः स्यात् । अतः पदत्वात्कुत्वं भत्वाजश्त्वाऽभाव एव । न चात्र “अनन्तरस्य विधि; भवति प्रतिषेधो वा" इति न्यायम्बाधित्वोभयसंज्ञा- विधाने किम्प्रमाणमानन्तर्यादेकैव स्यादिति वाच्यम् । उभयसंज्ञान्यपीति वार्ति- कबलात् । नैनं हिन्वन्त्यपि वाजिनेषु ( १९२८, ३६, ४८.)- वाजिनेषु' इत्यस्य अयस्मयादिगणे पाठात् “अयस्मयादीनि च्छन्दसि" इति सामर्थ्यात् “उभयसंज्ञान्य. 'पीति वक्तव्यम्" इत्यनेन भत्वे पदत्वे च जातेऽस्य पदत्वानश्त्वे भत्वात्कुत्वाऽभावे 'बाजिनेषु' इति भवति । 'इन्धिभवतिभ्यां च' (१९४४)-प्रत्याख्यातमिदं सूत्रमिन्धेश्छन्दोविषय- त्वात् भुवो वुको नित्यत्वात्ताभ्यां लिटः किवचनानर्थक्यमिति । अयमभिप्रायः- इन्धेर्भाषायां "इजादेश्व गुरुमतोऽनृच्छः” इत्यामा भाव्यं छन्दसि तु अमन्त्रे इति प्रतिषेधात् यद्यप्याम् नास्ति तथापि “छन्दस्युभयथा” इति लिटः सार्वधातुकत्वे स्त्विात्समीधे इति नलोपः । भमभावस्वार्धधातुकत्वाच्छन्दसि दृष्टानुविधानात् । 'बभूव' इत्यत्र च "परनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीय” इति परिभाषया परान्नित्यस्य वुको बलीयस्त्वात् । कृताकृतप्रसङ्गित्वेन नित्यत्वात् लदो सिद्धे प्रत्या ख्यातमिदं सूत्रमिति शुभम् । समीधे दस्यु हन्तमम् ( १९४९, ५२) सम्पूर्वक-भि इन्धी-धातोः लिटि "आदिमिंटुडव" इति मिलोपे लिट इटि एत्वे द्वित्वे अभ्यासकार्ये "इन्धिभवतिभ्यां च" इति कित्त्वे कित्त्वात् “अनिदिताम्" इति नलोपे 'समीधे' इति भवति । बभूव (१९५०)-भू धातोलिटि रूपं भवति, अत्र “इन्धिभवतिभ्यां च" इति कित्त्वाद् वृद्धयभावे 'भुवो वुक्' इति वुगागमे शेषकार्य बभूव इति । इति प्रथमोऽध्यायः .

अथ द्वितीयोध्यायः यवाग्वाऽग्निहोन्नं जुहोति ( १९४१, ४३)-अत्र यवागूशब्दाद् द्वितीयायां प्राप्तायां "तृतीया च होश्छन्दसि” इति तृतीयाविभक्तौ अग्निहोत्रशब्दाद् द्वितीया भवनि, अग्निहोत्रशब्दो हविषि वर्तते । यस्याग्निहोत्रमधिश्रितममेध्यमापयेतेत्यादि- प्रयोगदर्शनात् । अग्नयेहूयते इति व्युत्पत्तेश्च । यवाग्वाख्यं हविर्देवतो द्देशेन त्यक्त्वा प्रक्षियतीत्यर्थः। गामस्य तदुहः सभायां दीव्येयुः ( १९३७)-अत्र “दिवस्तदर्थस्य" इति प्राप्तषष्ठीम्बाधिता "द्वितीया ब्राह्मणे" इति द्वितीयाविभक्तौ 'गामस्य तदहः सभायां दीव्येयुः' इति भवति । या खर्वेण पिबति तस्यै खर्वः (१९३१) इत्यत्र “षयर्थे चतुर्थीति वाच्यम्" इत्यनेन षष्टीस्थाने चतुर्थीति तस्यै' इति, तेन ‘या खर्वेण पिबति तस्यै खर्वः' इति भवति । घृतस्य यजते ( १९४०, ४५)-अत्र प्रयोगे “यजेश्च करणे” इति सूत्रेण षष्ठीविभक्तिस्तेन 'घृतस्य यजते' इति, लोके तु 'घृतेन यजते' इति भवति । घस्तानूनम् ( १९४९, ५०)-अदे जि-अदो बहुल घस्लादेशः स्याच्छ- न्दसि इत्यर्थक-"बहुलं छन्दसि” इति सूत्रेण घस्लादेशे 'बहुलं छन्दसि, न माङयोगे' इत्यनेनाडभावे 'घस्तात्' इति भवति । संग्धिश्च मे ( १९२६, ४४, ४७, ५०) अदनं ग्धिः । अदेः तिनि "बहुल छन्दसि” इति सूत्रेण घस्लादेशे “घसिभसोर्हलि च” इत्युपधालोपे “झलो भलि' इति सूत्रेण सलोपे “मषस्तथो|ऽधः" इति सूत्रेण धत्वे घस्य जश्त्वे ग्धिरिति । नच जश्त्वे कर्तव्येऽल्लोपस्य स्थानिवत्त्वमिति वाच्यम् , "न पदान्तद्विर्वचन वरेयलोपस्वरसवर्णाऽनुस्वारदीर्घजश्चविधिषु" इति सूत्रेण जश्त्वे कर्तव्ये तनिषेधात् । ततः समाना ग्धिः सग्धिरिति समानशब्देन समासे “समानस्य च्छन्दस्यमूर्द्धप्रमृत्युद- केषु" इति सूत्रेण समानस्य सादेशे विभक्तिकायें 'सरिधः' इति भवति । वृत्रं हनति वृत्रहा ( १९३३, ३८)-अत्र वाक्यांशे हनतीत्यत्र हन् धातोः लटि तिपि शपि “अदिप्रभृतिभ्यः शपः” इति शपो लुकि प्राप्ते 'बहुलं छन्दसि" इत्यनेन बाहुलकात् शपो लुगभावे 'हनति' इति, लोके तु 'हन्ति' इति भवति । त्राध्वं नो देवा: ( १९२७, ३१, ३५)-पालनार्थक- डकारेत्संज्ञक 'त्रै वैदिकप्रकरणे द्वितीयोऽध्यायः । धातोलोटि ध्वमि शपि "बहुलं छन्दसि” इति सूत्रेण अदादिभिन्नस्यापि शपो लुकि एतत्सामर्थ्यादेव "आदेच उपदेशेऽशिति" इति सूत्रेणात्वे 'त्राध्वम्' इति सिद्धम् , लोके तु 'बायध्वम्' इति बोध्यम् । दाति प्रियाणि ( १९३२ )-दाधातोः लटि तिपि शपि “बहुलं छन्दसि" इति अदादिभिन्नेऽपि क्वचिल्लुक् तेनात्र जुहोत्यादिस्थेऽपिशपो लुकि दाति प्रियाणि', इति, लोके तु 'ददाति' इति भवति । मन्मते तु शपः श्लौ कृतेऽपि “बहुलं छन्दसि" इत्यनेन बाहुलकात् द्वित्वं न,अतः "दाति प्रियाणि' इति लोके तु ददाति इति भवति । पूर्णा विवष्टि ( १९२९ )-वश् धातोः लटि तिपि अत्र होत्यादिमिन्नेऽपि श्लुर्भवतीत्यर्थक “बहुलं छन्दसि" इति सूत्रेण आदादिकादपि वधातोः परस्य शपः श्लौ 'श्लौ' इति द्वित्वे हलादिः शेषे "भृञामित्" 'बहुलं छन्दसि' इति सूत्रेणाभ्यासस्येकारे “वश्वभ्रस्जसजमृजयजराजधाजच्छशां षः” इति सूत्रेण शस्य पत्वे "ष्टुना टुः” इति टुत्वे 'विवष्टि' इति । अक्षन्नमीमदन्त हि ( १९४३) अत्ते कि अनुबन्धलोपे मि-आदेशे "लुसनोर्घस्तृ" इति घस्लादेशे चिल-प्रत्यये च्लेस्सिजादेशे प्राप्ते तम्प्रबाध्य “मन्त्रे घसहरणशवृदहावृकृगमिजनिभ्यो लेः' इति च्लेलुकि घस्लादेशस्य “गमहन जनखनघसां लोपः कित्यनकि" इति सूत्रेणोपधालोपे “शासिवसिघसीनां च" इति षत्वे चत्वे झेरन्तादेशे "इतश्च" इति सूत्रेणेकारस्य लोपे अहागमे तकारलोपे अक्षन्' इति भवति । प्रणङ्मय॑स्य ( १९३०)-प्रपूर्वान्नशे कि तिपि लौ “मन्त्रे धसहरणश- बुदहावृकृगमिजनिभ्यो लेः” इति च्ले कि "इतश्च" इतीकारस्य लोपेऽडागमा:- भावे "हल्ल्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्" इति सूत्रेण तकारस्य लोपे "उपस- दसमासेऽपि णोपदेशस्य" इति णत्वे "नशेर्वा” इतिकुत्वे मर्त्यस्य इति मकारेऽनु- नासिकेपरे "यरोऽनुनासिके ऽनुनासिको वा' इति उकारे प्रणङ्मय॑स्य इति सिद्धम् , लोके 'प्राणशत्' इति भवति । आवः ( १९५०)-आपूर्वकवृन धातो कि तिपि अनुबन्धलोपे च्लो 'मन्त्रे घसहरणश.' इत्यादिसूत्रेण च्लेलुकि अडागमे गुणे रपरे "इतश्च" 'इतीकारलोपे 'हलङयान्भ्यो दीर्घात्' इति तकारस्य लोपे विसर्गे "आवः" इति भवति।

ur स्वरवैदिकप्रश्नोत्तरी मान आधक ( १९२८, ४८)-आपूर्वक दधातो कि तिपि च्लो “मन्त्रे वस." इत्यादिसूत्रेण च्ले कि 'इतश्च' इतीकारस्य लोपे हल्ङ्यादिना तकारस्य लोपे अडागमे "दादेर्धातोः” इति सूत्रेण हस्य धत्वे "एकाचो वशो भए झषन्तस्य स्वोः" इति सूत्रेण भष्मावे जश्त्वे चर्वे च मान आधक्' इति भवति । आप्राद्यावा पृथिवी ( १९३६ )-श्राङ्पूर्वक-प्राधातो ङि सिपि च्लौ "मन्त्रे घसहरणरावृदहावृच्कृगमिजनिभ्योलेः” इति सूत्रेण च्ले कि "इतश्च" इतीकारस्य लोये रुत्वे यत्वे यलोपे च 'पाप्राद्याका पृथिवी' इति । अक्रन्नुषासः ( १९३४, ४६, ४९)-कृधातो ङि झिप्रत्यये च्लौ "मन्त्रे. घसहरणशवृदहाच्कृिगमिजनिभ्यो ले इति सूत्रेण च्ले कि “सार्वधातुकम- पित्" इति बिद्भावेऽडागमेऽनुबन्धलोपे 'झोन्तः' इति झस्यान्तादेशे झेङित्वाद्गु- णाभावे यणि "इतश्च" इतीकारस्य लोपे संयोगान्तलोपे 'अन्' इति सिद्धम् । इति द्वितीयोध्यायः अथ तृतीयोध्यायः प्रजनयामकः ( १९४२)-प्रपूर्वक-ईकारेत्संज्ञक-जन्धातोः णिचि लुछि "अभ्युत्सादयां प्रजनयां चिकयां रमयामकः पावयां क्रियाद्विदामक्रनिति च्छन्दसि" इति सूत्रेण निपातनापण्यन्ताजनेराम्प्रत्ययेऽकोऽनुप्रयोगे गुणेऽयादेशे "श्रामः" इति. सूत्रेण लुडो लुकि प्रजनयामकः" इति, लोके प्राजीजनत् इत्यर्थः । विदामक्रन् ( १९२७, ४७) विदधातोर्मुडि “अभ्युत्सादयां प्रजनयां चिकयां रमयामका पावयां क्रियाद्विदामक्रनिति च्छन्दसि" इति सूत्रेण आमि लुडन्त करोत्यनुप्रयोगे तस्य मि-आदेशे “झोऽन्तः" इत्यन्तादेशे विदाम् + + अन्ति इति जाते निसतजात् गुणाभावे यणि “लुङ्लङलुवडुदात्तः” इत्यडागमें “इतश्च" इतीकारलोपे संयोगान्तलोपे “विदामक्रन्” इति सिद्धम् । लोक तु 'अवेदिषुः' इति भवति । मात्वाग्नि_नयीत् ( १९४४, ४६ )-ण्यन्तात् ध्वन् धातो कि तिपि च्लौ च्लेः "णिश्रितुश्रुभ्यः कर्तरि च" इति चलेश्वलादेशे प्राप्ते "नोनयतिध्वनयत्येलय- त्यर्दयतिभ्यः" इति तनिषेधे “च्लेसिसच्” इति सिजादेशे इचोरित्वे इडागमे 'इतश्च' इतीकारस्य लोपे “अस्तिसिचोऽपृक्त' इति सूत्रेण तकारस्य ईडागमे ध्वनि+इ+ ..

वैदिकप्रकरणे तृतीयोऽध्यायः । स्+ ईत् इति आते गुणेऽयादेशे 'इट ईटि' इति सलोपे अडागमे प्राप्ते 'न मायोगे' इति तनिषेधे दीधै 'ध्वनयीत्' इति, अतः मात्वाग्निनयीत् इति, लोके तु घटादेर- दिध्वनत् चुरादेरदध्वनत् इति भवति । छन्दसि निष्टl० व्याख्या (१९५२)"छन्दसि निष्टर्यदेवहूयप्रणीयो- नीयोच्छिष्यमर्यस्तर्याध्वर्यखन्यखान्यदेवयज्यापृच्छयप्रतिषीत्र्यब्रह्मवाद्यभाव्यस्तायोप- चाय्यपृडानि' इति सूत्रस्वरूपम् । निष्टादयः शद्वाश्छन्दसि निपात्यन्ते इति सूत्रार्थः। कृन्ततेनिस्-पूर्वात् "ऋदुपधाच" इति सूत्रेण क्यपि प्राप्ते निपातवात् ण्यत् , आद्यन्तयोविपर्यासः, निसः षत्वं च-'निष्टक्र्य' चिन्वीत पशुकामः । देवशब्द उपपदे ह्वयते होतेर्वा क्यप् दीर्घश्च-स्पर्धन्त वा उ ‘देव हू । प्र उत्ने आभ्यां नयतेः क्यप्-'प्रणीयः' 'उन्नीय'। उत्पूर्वाच्छिषेः क्यप्-'उच्छिष्यः' । मुस्तबध्वृभ्यो यत्-- 'मर्यः' 'स्तर्या, स्त्रियामेवायम्' 'ध्वर्यः । खनेर्यण्ण्यतौ-खन्यः' 'खान्यः' । यजेयः-शु- न्धध्वं दैव्याय कर्मणे 'देवयज्याय' । आङपूर्वात् जीप्सार्थक मृच्छेः क्यप् 'अहिज्या०' इति सम्प्रसारणम्-'आपछय' धरुणं वाज्यर्षति । प्रतिपूर्वक-तन्तुसन्तानार्थकषिवु- धातोः क्यपि षत्वे 'हलि च' इति दी विभक्तिकार्ये च 'प्रतिषीव्यः' इति । ब्रह्मणि चदेव्रुत्-'ब्रह्मवाद्यम्' ।" लोके तु “वदः सुपि क्या च” इति क्यपश्यतौ। भवतेः स्तौतेश्च ण्यत्-भाश्यः' 'स्ताव्यः' । उपपूर्वात् चिनोतेय॑त् आयादेशश्च पृडे उत्तरपदे- 'उपचाय्यपृडम् ।। निष्टयम् ( १९३१)-निसुपसर्गपूर्वककृत्-धातोः "ऋदुषधाच्च” इति सूत्रेण क्यपि प्राप्ते तम्प्रबाध्य "छन्दसि निष्टक्र्यदेवहूयप्रणीयोश्नीयोच्छिष्यमर्यस्तर्याध्वर्यखन्य- खान्यदेवयज्यापृच्छयप्रतिषीयब्रह्मवायभाव्यस्ताव्योपचाय्यपृडानि" इति सूत्रेण नि- पातनात् ण्यति प्रत्ययेऽनुबन्धलोपे श्राद्यन्तयोविपर्यासे निसः षत्वे गुणे रपरे ष्टुत्वे विभक्तिकार्ये 'निष्टय॑म्' इति भवति । मर्यः ( १९१४, ४१) डकारेत्संज्ञक-मृधातोः “छन्दसि निष्टक्यदेवहूयप्रणी- योनीयोच्छिष्यमर्यस्तर्याध्वर्यखन्यखात्यदेवयज्यापृच्छयप्रतिषीयब्रह्मवायभाव्यस्ताव्यो पचाप्यपृडानि" इति सूत्रेण निपातनात् यत् प्रत्यये गुणे रपरे प्रातिपदिकत्वे सौ रुत्वे विसर्गे च कृते 'मर्यः' इति । स्तर्या ( १९४३) स्तन धातोः “छन्दसि निष्टवर्यदेवहूयप्रणीयोनीयोच्छि- व्यमर्यस्तर्याध्वर्यखन्यखान्यदेवयज्यापृच्छयप्रतिषीयब्रह्मवाद्यभाव्यस्ताव्योपचाय्यपृडा- is , स्वरवैदिकप्रश्नोत्तरी। नि" इति सूत्रेग निपातनात् यत् प्रत्यये गुणे रपरे 'अजायतष्टाप' इति टापि सौ सुलोपे 'स्तम्' इति भवति । देवयज्यायै ( १९२८, ३७ )-“छन्दसि निष्टक्र्यदेवहूयप्रणीयोन्नीयोच्छि- ध्यमर्यस्तर्याध्वर्यखन्यखान्यदेवयज्यापृच्छयप्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्योपचाय्यपृडा- नि" इति सूत्रे देवयज्येति निपातनात् देवशब्दे उपपदे यज् धातोः यत् प्रत्यये टापि 'देवयज्या' शब्दस्य 'चतुर्थ्येकवचने 'देवयज्याय' भवति । ब्रह्मवाद्यम् ( २९२६, ३२)-अत्र “छन्दसि निष्टक्र्यदेवहूयप्रणीयोनीयो- च्छिष्यमर्यस्तविर्य खन्यखान्यदेवयज्याछथप्रतिषीव्यब्रह्मवाद्यभात्यस्ताव्योपचाय्य- पृडानि' इति संत्रेण निपातनात् ब्रह्मणि वर्ण्यति अनुबन्धलोपे उपधा, वृद्धौ णि- लोपे सौ अमि पूर्वको "ब्रह्मवाद्यम्' इति, लोके तु वदः सुपि क्यप् च इति क्यप्यतो तेन 'ब्रह्मोद्यम्' 'ब्रह्मवद्यम्' इति रूपद्वयम् । पृतनापाट (१६४४, ५२)-अत्र सुप्युपदे सहेणिवः स्यादित्यर्थक “छन्दसि सहः” इति सूत्रेण मर्षणार्थक-षड्धातोविप्रत्यये सर्वापहारे "धात्वादेः षः सः" इति सत्वे प्रातिपदिकादिकार्य हस्य ढवे सुलोपे “सहेः साडः सः" इति षत्वे 'पृत- नाषाट्' इति । दित्यवाट् (१९५१) अत्र दित्योपपदात् वह धातोः “वहश्च" इति विप्रत्यये प्रातिपदिकादिकार्ये उपधा वृद्धौ हस्य ढत्वे जश्त्वे व सुलोपे 'दित्य- वाट् इति सिद्धम् । अब्जाः ( १९३४,४३)-अप्सु जाताः अब्जाः इत्यत्राबुपपदान्नन् धातोः "जनसनखनक्रमगमो विद्” इति सूत्रेण विट् प्रत्यये विटः सर्वापहारे “विक्नोरनु- नासिकस्यात्" इति सूत्रेणात्वे जश्त्वे विभक्तिकार्य 'अब्जाः' इति भवति । दधिकाः ( १९३६)-दधि कामति दधिकाः इत्यत्र “जनसनखनकमगमो विट्" इति सूत्रेण विटि सर्वापहारे “विड्वनोरनुनासिकस्यात्" इति सूत्रेणादादेशे सौ रुत्वे विसर्गे 'दधिक्राः' इति भवति । अग्रेगाः (१९५०)-अग्रे गच्छति अग्रेगा अत्र “जनसनखनक्रमगमो विट्" इति सूत्रेण विटि सर्वापहारे "विड्वनोरनुनासिकस्यात्" इति सूत्रेणादादेशे "हलद- न्तात् सप्तम्याः" इति सूत्रेण सप्तम्यलुकि सौ रुत्वे विसर्गे 'अग्रेगाः' इति भवति । उक्थशासः (१९३६) उक्थानि उक्थैर्वा शंसन्ति इति उक्थशासः यज- वैदिकप्रकरणे तृतीयोऽध्यायः । मानाः । अत्र “मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन्" इति सूत्रेण विनि प्रत्यो नलोपे “अत उपधायाः” इति सूत्रेण वृद्धौ जसि विभक्तावनुबन्धलोपे सस्य सत्वे विसर्गे “उक्थशासः" इति भवति । अवयाः (१९३१)-अवपूर्वकयज् धातोः "अवयाः श्वेतवाः पुरोडाश्च" इत्य- नेन निपातनात् डस् प्रत्योऽनुबन्धलोपे डिवाहिलोपे सम्बुद्धयेकवचने सौ निपात- नात् दीर्घ सुलोपे रुत्वे विसर्गे च 'अवयाः' इति भवति । नन्विदं सूत्रं व्यर्थम्-“मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन्” इति सूत्रस्थेन श्वेतवहादीनां डैस्पदस्येति चार्तिकेच डसि कृते सौ "अत्वसन्तस्य चाधातोः” इति दी सत्वे विसर्गे 'अवयाः' श्वेतक्षा, इत्यादि सिद्धमिति चेन्न असम्बुद्धिग्रहणस्य "अत्वसन्तस्य चाधोः” इति सूत्रेऽधि- कारात् सम्बुद्धौ ‘अवयाः, श्वेतवाः' इत्यादौ 'अत्वसन्तस्य.' इति सूत्रस्याऽप्रवृत्ते. रिति दिक् । उपयट ( १९५१)-उपोपपदात् यज्धातोः “विजुपेछन्दसि” इत्यनेन सूत्रेण विच् प्रत्यये सर्वापहारे प्रातिपदिकत्वे विभक्तिकार्य 'उपयट्' इति भवति । चक्राणा वृष्णिम् (१९३३)--'कृ' धातोः लिटि तस्य स्थाने "लिटः कानज्वा कसुश्च” इति सूत्रेण कानजादेशेऽनुबन्धलोपे द्वित्वे "उरत्" इत्यत्वे रपरत्वे 'हलादिः शेषः" इति रेफस्य लोपे “कुहोश्चः' इति चुत्वे यणादेशे णत्वे टापि विभक्तिकायें "चक्राणा वृष्णिम्" इति सिद्धम् । वीरुधः पारयिष्णवः ( १९२९, ४६)-पारीतिण्यन्तात् "रोश्छन्दसि" इति सूत्रेण इष्णुच प्रत्ययेऽनुबन्धलोपे ऐरयादेशे जसि विभक्तावनुबन्धलोपे गुण- वादेशे सस्य रुत्वे विसर्गे 'पारयिष्णवः' इति भवति । अघायुः ( १६३५, ३८, ५२)-परस्याघमिच्छतीत्यर्थे छन्दसि परेच्छायां क्यज् वक्तव्य इति क्यचि प्रत्ययेऽनुबन्धलोपे “अवाघस्यात्" इति सूत्रेणादादेशे 'अघाय' इति जाते “क्याच्छन्दसि" इति उप्रत्ययेऽकारस्य लोपे 'अघायु' इत्यस्य प्रातिपदिकत्वे सौ रुत्वे विसर्गे 'अधायुः' इति भवति । इयं ते नव्यसी मतिः ( १९४१)-अत्र वाक्यांश मन् धातोः “मन्त्रे वृषे- षपचमनविदभूवीरा उदात्तः" इति सूत्रेण क्तिन् प्रत्यये तिनः उदात्तत्वे च “लश- क्वतद्धिते" इति ककारस्येत्संज्ञायां लोपे च जाते नकारस्य "हलन्त्यम्" इतीत्त्वे जाते "अनुदात्तोप." इति नकारस्य लोपे प्रातिपदिकत्वे सौ रुत्वे विसर्गे च 'मतिः' इति भवति एवञ्च 'इयन्ते नव्यसी मतिः' इति ।

" स्वरवैदिकप्रश्नोत्तरी। अद्य ममार ( १६३३, ३७, ४७)-अत्र वाक्यांशे 'ममार' इत्यत्र वर्तमान कालिकलप्रयोगस्थानेऽपि “छन्दसि लुङ्जब्लिटः" इति सूत्रेण लिटि लिग्निमि- तककायें 'ममार' इति । पचे 'नियते' इति भवति । प्रण आयूंषि तारिषत् ( १९३०, ३१, ४०, ४२, ४५)-तृधातोः “लिङर्थ लेद" इति लेटि “सिब्बहुलं लेटि" इति लेटि परे मध्ये सिपि ततः लेटः स्थाने तिपि प्रत्यये चानुवन्धलोपे “लेटोऽडाटौ" इति अडागमे "इतश्च लोपः परस्मैपदेषु' इति इतो लोपे “सिब्बहुल णिद्वक्तव्यः" इति वार्तिके न सिपः णिद्वद्भावे इडागमे धातो. कारस्य वृद्धौ षत्वे चोक्तं रूपं सिद्धम् । लोके लेट् लकारस्तु भवत्येव नहि, लोटि तु 'तरतु' इति भवति पताति विधुन ( १९३४)-पतनार्थकलकारेत्संज्ञकपत्धातोः छन्दसि लेटि तिपि "लेटोऽडाटौं” इति सूत्रेण तिपः आडागमेऽनुवन्धलोपे पताति' इति भवति । प्रियः सूर्ये प्रियो अमाभवाति ( १६४६)-भूधातोश्छन्दसि लेटि तिपि 'लेटोऽडाटौ" इति सूत्रेणाडागमेऽनुवन्धलोपे गुणेऽवादेशे भवाति' इति भवति । मादयैते ( १९३९ ) हर्षार्थकमदी धातोः णिचि णिजन्तात् लेटि आतामि शपि गुसोऽयादेशे मादय आतामिति स्थिते "आत ऐ” इति सूत्रेण प्रथमाकारस्य ऐ' आदेश "टित आत्मनेपदानां टेरे" इति द्वितीयाकारस्यत्वे 'मादयते' इति । उपसंवादाऽऽशङ्कयोश्च ( १६३६)-पणबन्धे आशङ्कायाञ्च लेट् स्यात् इत्यर्थः । अहमेवपशूनामीशै। नेन्जिमायन्तो नरकं पताम । इत्युदाहरणे। गृमाय जिह्वया मधु ( १९३२, ४३, ४८ )-ग्रहधातोः लोटि सिपि सेही श्नाप्रत्यये शानजादेश प्राप्ते "छन्दसि शायजपि" इति सूत्रेण श्नः शायजादेशेऽनु- बन्धलोपे सम्प्रसारणे पूर्वरूपे 'हग्रहोर्भश्छन्दसि" इति हस्य भकारे 'गृभाय' इति सिद्धम् । लोके 'गृहाण' इति भवति । गृभ्णामि ते ( १९२९, ४६ )-ग्रहधातोर्लटि मिपि सार्वधातुकत्वे श्नाप्रत्य. येऽनुबन्धलोपे सम्प्रसारणे 'गृह्णामि' इत्यत्र "हृयहोर्भश्छन्दसि' इत्यनेन हकारस्य भकारे 'गृभ्णामि' ते इति सिद्धम् । लोके 'गृह्णामि' इति भवति । मध्वा जभार ( १९२९, ३४) हरणार्थकमकारेत्संज्ञकहधातोः लिटि तिपि भलि द्वित्वे अभ्यासकार्ये वृद्धौ रपरत्वे 'जहार' इति, अत्र "हप्रहोर्भश्छन्दसि' इत्य- नेन हकारस्य भकारे 'जभार' इति । लोके तु 'जहार' इति भवति । व्यत्ययो बहुलम् (१९२७)-विकरणानां बहुलं व्यत्ययः स्याच्छन्दसि, वैदिकप्रकरणे तृतीयोऽध्यायः । ११ इत्यर्थः। 'पाण्डा शुष्मस्य भेदति, अत्र भेदतीत्यस्य रौधादिकात् श्नमि सति भिनत्ति इति प्राप्तेऽनेन शपि भेदतीति भवति । 'जरसा मरते पतिः' अत्र 'म्रियते' इति प्राप्त तौदादिकशप्रत्ययेन । 'इन्द्रो वस्तेन नेषतु' अत्र नयतु इति प्राप्ते नयतेर्लोट् शप् सिपो द्वौ विकरणौ । 'इन्द्रेण युजा तरुषेम वृत्रम्। 'तरेम' इत्यर्थः तरतेर्विध्यादौ लिङ् उः सिप शप् च त्रयो विकरणाः । इत्यादि । जरसा मरते पतिः ( १९३६, ४६ )-अत्र मृङ् धातोर्लटि ते "तुदादिभ्यः शः' इति प्राप्ते “व्यत्ययो बहुलम्” इति व्यत्य रेन शपि अनुबन्धलोपे गुणे रपर "टित आत्मनेपदानां टेरे" इत्येत्वे 'मरत' इति सिद्धम् । लोके । शप्रत्यये सति 'रिशयग्लिज ” इति रिंडादेशे इयङि 'म्रियते' इति भवति । इन्द्रो वस्तेन नेषतु ( १९५०)-'नेषतु' इत्यत्र 'नयतु' इति प्राप्ते नयतेर्लोट निपातनात् शप् सिपौ द्वौ विकरणौ "व्यत्ययो बहुलम्" इति ध्यत्यये जाते सति च नि+सिप्+शप् + ति इति जाते इकारपकारयोः शकारपकारयोश्चेत्संज्ञायां नि+ स्+अ+ति इति स्थिते गुणे' षत्वे एरुत्वे 'नेषतु' इति लोके तु 'नयतुं' इति । इन्द्रेण युजा तरुषेम वृत्रम् ( १९४२ )-अत्र तरतेर्विध्यादौ लिङ् लकारे मसि “व्यत्ययो बहुलम्" इति बाहुलकात् 'उ' 'सिप्' 'शप' च व्यत्ययेन जाते इकारपकारयोः शकारपकारयोश्चेत्संज्ञायां लोपे गुणे रपरे यासुटि उटावितो नित्यंडित इति सलोपे "अतोयेयः' इति इयादेशे 'लोपो व्योलि, इति यलोपे "आ. द्गुणः" इति गुणे 'तरुषेम' इति अत्रोप्रत्ययान्तस्य सिपं प्रत्यङ्गत्वात् “सार्वधातुका- र्द्धधातुकयोः" इति गुणः प्राप्तः सिबन्तस्य शपि लघूपधगुणश्च प्राप्तो बाहुलकान भवति। सुप्तिङपग्रहेति( १९४४ )-'सुप्तिङपग्रहलिङ्गनराणां कालंहलचस्वरकर्तृयडां च । व्यत्ययमिच्छति शास्त्रकृदेषां सोऽपि च सिद्धयति बाहुलकेन ।' शास्त्रकृत् पाणिनिः श्राचार्यः एषां सुप्रभृतीनां व्यत्ययमिच्छति सोऽपि तथाविधी व्यत्ययः बाहुलकेन (बहुलस्य भावः वाहुलकं तेन बाहुलकेन । मनोज्ञादित्वादु )। सिद्धयति । सुप्तिादीनां क्रमशः उदाहरणानि-धुरि दक्षिणायाः अत्र दक्षिणस्या- मिति प्राप्ते इति सुपः, उदाहरणम् । 'चषाल ये अश्वयूपाय तक्षति' अत्र 'तक्षन्ति' इति प्राप्त इति तिङ उदाहरणम् । उपग्रहः ( २१३१, ३९)-परस्मैपदात्मनेपदे इति ।

१२ स्वरवैदिकप्रश्नोत्तरी। 'ब्रह्मचारिणमिच्छते' ( १९३९ )-इच्छति' इति प्राप्ते परस्मैपदस्योदाह- रणम् । 'प्रतीपमन्य ऊर्मियुध्यति' 'युध्यते' इति प्राप्ते, आत्मनेपदस्योदाहरणम् । मधोस्तृप्ता इवासते' मधुनः इति प्राप्ते इति लिञ्जस्योदाहरणम् । नरः पुरुषः 'अधा स वीरैर्दशभिर्वियूयाः' वियूयात् इति प्राप्त । कालः कालवाची प्रत्ययः 'श्वोऽग्नीना- थास्य॑मानेन' लुटो विषये लृट् । 'तमसो गा अदुक्षत्' 'अधुक्षत्' इति प्राप्ते । 'मित्रवयं च सूरयः' मित्रावयम्' इति प्राप्ते । स्वरव्यत्ययस्य फलम्-'गवामिव श्रियसे' इत्यत्र 'तुमर्थे सेसेन्०' इत्यनेन कसेनि कृते "नित्यादेर्नित्यम्” इति अायुदात्ते प्राप्ते व्यत्ययेन मध्योदात्तता भवति । कर्तृशन्द्रः कारकमात्रपरः तथा च तद्वाचिनां कृत्तद्धितानां व्यत्ययः । 'अन्नादाय' अन्नमत्तीत्यन्नादस्तस्मै अन्ने कर्मण्युपपदेऽदेः कर्मण्यणि प्राप्ते अः अवग्रहे विशेष इति ( अणि कृते अन्न आदाति, अचि तु अन्न अदायेति भावः) यडो यशब्दादारभ्य "लियाशिष्य" इति डकारेण प्रत्याहारः तेन व्यत्यो प्रेदतीत्यादिशक्त एव । 'कव्यः॥ मन्त्रं वोचेमाग्नये ( १९४४ )-चचेराशीलिङि मसि "लिब्याशिष्य" इति सूत्रेण मसोङि अनुबन्धलोपे "वच उम्" इति उमि मित्त्वादन्त्यादचः परत्वे 'व+उच+म इति जाते गुणे यामुटि उभयसंज्ञात्वात् इयादेशे यलोपे सलोपे 'बोचेम' इति । एवञ्च 'मन्त्रं वोचेमाग्नये' इति भवति । पितरं च दृशेयं मातरं च ( १९४९ )-दृश् धातोलिङ् िअमि "दृशेरग्व- इत्यगि यासुटि इयादेशे गुणे शेयम्' इति लोके तु 'पश्येयम्' 'इति भवति । पपिः सोमम् ( १९३८)-पा धातोः “आगमहनजनः किकिनौ लिटच" इति सूत्रेण किप्रत्य प्रेऽनुबन्धलोपे लिड्वदतिदेशेन द्वित्वादिकार्ये आकारस्य लोपे -सौ रुत्वे विसर्गे च कृते 'पपिः' इति सिद्धम् । ददिर्गाः ( १९३१, ३३ )-दाधातोः “आगमहनजनः किकिनी लिट् च" इति सूत्रेण किप्रत्योऽनुबन्धलोपे लिड्वदतिदेशेन द्वित्वे अभ्यासत्वे हस्वे "आतो लोप इटिच" इत्याकारलोपे 'ददि' इति तस्मात् सौ रुत्वे विसर्गे च 'ददिः' इति भवति । अत्र किकिनो स्थाने तिवादयस्तु न लिड्वदतिदेशेन स्वरूपाबाधेनैव कार्यातिदेशात् । ॥

वैदिकप्रकरणे तृतीयोऽध्यायः । १३ जगुरिः ( १९२६ )-गृधातोः “श्रादृगमहनजनः किकिनौ लिट् च” इति सूत्रेण कि प्रत्यये लिड्वद्भावे द्वित्वात् परत्वात् "बहुलं छन्दसि" इत्युत्वे प्राप्ते "द्विर्वचनेऽचि” इति निषेधादुत्वाऽभावे द्वित्वे "उरत्" इति सूत्रेणात्वे रपरे "हलादिः शेषः" इति रेफस्य लोपे "अभ्यासे चर्च' इति जश्त्वे जग + इ इति स्थिते “बहुलं छन्दसि" इति उत्तरस्योत्वे रपरे 'जगुरि' इत्यस्मात् सौ रुत्वे विसर्गे 'जगुरिः' इति सिद्धम् । ननु लिड्वभावादेव सिद्धे किग्रहणं- किमर्थमिति चेन्न ऋच्छत्यृताम्” इति गुणबाधनार्थं कित्त्वस्य चारितार्थ्यात् । लोके तु "अग्नि इति स्यात् । गवामिव श्रियसे ( १९४५)-श्रयतेः “तुमर्थे सेसेनसे सेनक्सेकसेनध्यै- अध्यनकध्यकध्यैन्शध्यैशध्येन्तवैतवेतवेनः" इति सूत्रेण तुमथ कसेन् प्रत्ययेऽनु- बन्धलोपे इयादेशे 'श्रियसे' इति, अत्र नित्वादायुदात्तः । इह मन्त्रे मध्योदात्तः पठ्यते तत्र बाहुलकात् प्रत्ययस्वरो बोध्यः । लोके 'तु' 'श्रयितुम्' इति । आहुवध्यै ( १९४१ )-श्राङपूर्वकजुहोतेः “तुमर्थे सेसेनसेअसेनवसेकसेनध्यै- अध्यनकध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ्तवेनः” इति सूत्रेण तुमर्थे फध्यै प्रत्ययेऽनुबन्ध- लोपे उवडादेशे 'बाहुबध्यै' इति । कध्यैन् प्रत्यये कृते सर्व पूर्ववत् नित्वात् नित्स्वरः (नित्त्वादायुदात्तः )इति विशेषः । लोके तु 'आहोतुम्' इति भवति । वायवे पिबध्यै ( ११२९, ३५)-पाधातोः “तुमर्थे सेसेनसेश्रसेन्- क्सेकसेनध्यैअध्यनकध्यैकध्यैन्शध्यैशध्येन्तवैतवेतवेनः" इति सूत्रेण तुमथै शध्यैन् प्रत्ययेऽनुबन्धलोपे “तिशित्सार्वधातुकम्" इति सार्वधातुकसंज्ञायां शपि “पाघ्राध्मा- स्थाम्नादाणदृश्यर्तिसर्तिशदसदां पिवजिघ्रधमतिष्ठमनयच्छपश्यर्छौशीयसीदाः” इति सूत्रेण पा इत्यस्य पिबादेशे पररूपे नित्त्वादाद्युदात्ते 'पिबध्यै' इति । दातवा उ ( १९३२, ३७)-दाधातोः “तुमसेसेनसेअर्सेनक्सेकसेनध्यै- अध्यनकध्यैकध्यैन्तवैतवेतवेनः" इति सूत्रेण तुमर्थे तवै प्रत्यये दातवै उ इति जाते आयादेशे “लोपः शाकल्यस्य" इति यलोपे 'दातवा उ इति भवति । विभाजं नाशकत् ( १९२८)-विभक्तुमित्यर्थे विपूर्वक भज्धातोः “शकि- णमुल्कमुलौ च" इति णमुल्प्रत्ययेऽनुबन्धलोपे णित्वात् "अत उपधायाः” इति सूत्रेण उपधाकारस्य वृद्धौ विभक्तिकार्ये 'विभाज नाशकत्' इति भवति । लोके तु 'विभक्तुस्' इति भवति ।

१४ स्वरवैदिकप्रश्नोत्तरी। अपलुपं नाशकत् ( १९४०, ४३)-अपलोप्तुमित्यर्थे अपपूर्वकच्छेदना- र्थकलुप्धातोः “शकि णमुल्कमुलौ च" इति सूत्रेण कमुत्प्रत्योऽनुबन्धलोपे कित्वा- द्गुणाभावे विभक्तिकार्ये 'अपलुपंम्' इति । ईश्वरो विलिखः ( १९३३) अत्र प्रयोगांशे 'विलिखः' इत्यत्र विपूर्वक- लिखक्षतोः “ईश्वरे तोसुन्कसुनौ” इति सूत्रेण तुमर्थे कसुन् प्रत्ययेऽनुबन्धलोपे कित्वात् गुणाभावे "क्त्वातोसुन्कसुनः” इति सूत्रेणांव्ययत्वे अव्ययत्वाच्च “अव्य- यादाप्पः” इति सुपो लुकि 'विलिखः' इति अत्र प्रत्ययलक्षणेन "अत्वसन्तस्य चाऽधातोः” इति दीर्घस्तु न भवति “न लुमताऽङ्गस्य” इति प्रत्ययलक्षणनिषेधात् । • न म्लेच्छितवै ( १९३४, ४४ )-अत्र प्रयोगांशे म्लेच्छधातोः 'कृत्यार्थे तवैकेन्केन्यत्वनः' इति सूत्रेण तव प्रत्यये इडागमे सौ विभक्तावव्ययत्वात् सुलोपे 'म्लेच्छितचै' इति 'न म्लेच्छित' इत्यस्य न म्लेच्छितव्यम्' इत्यर्थः । उदेतोः (१९४४,४१)-अत्र उत्पूर्वक-इण्धातोः “भावलक्षणे स्थेणकृम्- वदिचरिहुतमिजनिभ्यस्तोसुन्" इति सूत्रेण तोसुन् प्रत्ययेऽनुबन्धलोपे गुणे अव्यय- त्वात् सुपो लुकि सस्य रुत्वे विसर्गे 'उदेतोः' इति सिद्धम् । इति तृतीयोऽध्यायः। अथ चतुर्थोऽध्यायः प्रभ्वी (१९३६ )-प्रभुशब्दात् “भुवश्च'' इति सूत्रेण डीषप्रत्ययेऽनुबन्ध- लोपे यणादेश सौ सुलोपे 'प्रभ्वी' इति सिद्धम् । द्वथचश्छन्दसि (१९२८)-इति सूत्रस्वरूपम् । विकारे मयट् स्यात् , इत्यर्थः । शरमयं बर्हिः । यस्य पर्णमयी जुट्टः । इत्युदाहरणम् । " सभेयो युवा ( १९४४, ४५, ५२ )-पत्र प्रयोगांशे ‘समेयः' इत्यत्र सभायां साधुः इति विग्रहे "सभाया यः" इति सूत्रेण यप्रत्यये प्राप्ते तम्प्रबाध्य सप्तम्य- न्तात्सभाशब्दात ढः स्यात् साध्वर्थे इत्यर्थक "ढश्छन्दसि” इति सूत्रेण ढप्रत्यये "आयनेयीनीयियः फढखछपी प्रत्ययादीनाम्" इति सूत्रेण ढस्य-एयादेशे आकारस्य लोपे सौ रुत्वे विसर्ग 'समेयः' इति सिद्धम् । लोके तु 'सभ्यः' इति भवति ।

वैदिकप्रकरणे चतुर्थोऽध्यायः । १५ सोमस्येव मौञ्जयतस्य भक्षः (१९४१)-अत्र प्रयोगांशे 'मौजवतः' इत्यत्र मुञ्जवान् नाम पर्वतः तत्र भवः मौजवतः तस्य इति विग्रहे मुखशब्दादौत्सर्गिकोण- प्रत्ययो भवति । अत्र छन्दसि यथायथं शैषिकाणामणादीनां घादीनां चापवादस्वरू- पोयं भवेच्छन्दसि' इति सूत्रविहितयत्प्रत्यवः । परन्तु सर्वविधीनां छन्दसि वैकल्पिकत्वात् पक्षे तेऽपि प्रत्ययाः भवन्ति अतः अत्र श्रौत्सर्गिकाणप्रत्यये णत्त्वा- दायचो वृद्धौ षष्ठीविभक्तौ इसि रूपम् 'मौजवतः' इति बोध्यम् । तमु त्वा पाथ्यो वृषा (१९३१, ५१)-अत्र प्रयोगांशे 'पाथ्यः' इत्यत्र पाथसि जले भवः पाथ्यः इति विग्रहे "पाथोनदीभ्यां ड्यण" इति सूत्रेण ज्यण प्रत्ययेऽनुबन्धलोपे डित्वाहिलोपे प्रातिपदिकत्वे विभक्तिकार्ये 'पाथ्य इति सिद्धम् । चनो दधीत नाद्यो गिरो मे (१९३३, ५०)-अत्र वाक्यांशे 'नायः' इत्यत्र नद्यां भवः इति विग्रहे “पायोनदीभ्यां ड्यण्" इति क्यणप्रत्ययेऽनुबन्धलोपे णित्वादायचो वृद्धौ डित्वाहिलोपे विभक्तिकार्ये 'नायः' इति सिद्धम् । अनुसखा सयूथ्यः ( १९२८, ३२)-अत्र प्रयोगांशे सयूथशब्दात् “सग- मसयूथसनुताद्यन्" इति सूत्रेण यन्प्रत्ययेऽनुवन्धलोपे प्रातिपदिककार्ये 'सयूथ्यः इति । अग्रियः ( ९१५१)-अपशब्दात अग्रे भव इति विग्रहे “अगायत्" 'घच्छौ' इति घप्रत्यये “आयनेयीनीयियः फढखछयां प्रत्ययादीनाम्" इति घस्ये- यादेशे अकारस्य लोपे विभक्तिकार्य 'अग्रिया' इति सिद्धम् । समुद्रिया अप्सरसो मनीषिणः (१९३५)-अत्र प्रयोगांशे समुद्रिया इत्यत्र समुन्दतीति समुद्रः "स्फायितचीति' रगागमे निष्पन्न समुद्रशब्दात् “समुद्रा. भ्राद्धः" इति सूत्रेण धप्रत्यये "आयनेयोनीयियः फढखछयां प्रत्ययादीनाम्" इति सूत्रेण घस्येयादेशेऽकारस्य लोपे विभक्तिकायें 'समुद्रिया' इति भवति । बर्हिष्येषु निधिषु प्रियेषु ( १९२७ )-Jहधातोः 'बृहतेन लोपश्च' इति सूत्रेण इस्प्रत्यये वृहतेनेलोपे च गुणे रपरे बर्हिस् शब्दात् बर्हिषि दत्तम् इति व्युत्पत्तौ “बर्हिषि दत्तम्” इति सूत्रेण यत्प्रत्योऽनुबन्ध लोपे षत्वे सुपि बर्हिो' इति सिद्धम् । याते अग्ने रक्षस्या तनूः ( १९३८, ४२, ४४ ) हन्यतेऽनया सा हननी १६ स्वरवैदिकप्रश्नोत्तरी। रक्षसां हननी रक्षस्येति विग्रहे "रक्षोयातूनां हननी" इति सूत्रेण रक्षस शब्दात् यत् प्रत्यये विभक्तिकार्य 'रक्षस्या' इति सिद्धम् । तद्वानासामुपधानो मन्त्र० (१९४०, ४८)-"तद्वानासामुपधानो मन्त्र इत्तीष्टकासु लुक् च मतोः" इति सूत्रस्वरूपम् । तदस्ति अस्य अस्मिन् वा तद्वान् । उपधीयते अनेनेत्युपधानम् । तथा च मत्वन्तात् प्रथमासमर्थादासामिति षष्टयर्थे यत्स्यात. तत्प्रथमासमर्थमुपधानो मन्त्रश्चेत् स भवति, यत्तदासामिति निर्दिष्टमिष्टका- श्वेत भवन्ति । मतोश्च लुक् । अथवैवं बोध्यम्-मत्वन्तप्रकृतिकात् प्रथमान्तात् उपधानकरणीभूतमन्त्रार्थकादिष्टकारूपसम्बग्विनि यत् स्यान्मतोश्च लुक् इत्यर्थः । उदाहरणश्चात्र-र्चस्याः'। 'ऋतव्याः । वर्चस्याः ( १९३९)-वर्चस्वानुपधानो मन्त्र आसामिष्टकानाम् इति वर्चस्या इति वर्चस् शब्दात् "वद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः" इति सूत्रेण यत्प्रत्ययेमतुपो लुकि जसि विभक्तिकार्य 'वर्चस्याः' इति सिद्धम् । ऋतव्याः ( १९४३, ४६, ५२ )-ऋतुशब्दोयस्मिन्मन्त्रेऽस्ति स ऋतुमान ऋतुमानुपधानो मन्त्र आसामिष्टकानाम् ‘ऋतव्याः' इति विग्रहे पूर्ववत् “तद्वानासामु- पधानो मन्त्र इतीष्टकासु लुक् च मतोः" इति सूत्रेण यत्प्रत्यये मतुपो लुकि विभक्तिकाय "ऋतव्याः" इति । आश्विनीरुपदधाति ( १९४९)-अश्वः अस्ति अस्य इत्यश्वशब्दात् “अत इनिठनो" इति सूत्रेणेनि प्रत्यये तदन्तात् मतुपि प्रत्यये च कृते अश्विमान् स उप- धानो मन्त्र प्रासामिष्टकानामिति विग्रहे “अश्विमानण्" इति सूत्रेणाणि विहिते मतोश्च लुकि टिलोपे प्राप्ते “इनण्यनपत्य" इति प्रकृतिभावे णित्त्वादायचो वृद्धौ डोपि विभ- क्तिकार्ये 'आश्विनीः' इति सिद्धम् । एवञ्च 'आश्विनीरुपदधाति' इति भवति । वयस्यासु मूनों मतुप ( १९४७ )-"वयस्यासु मूर्नो मतुप्" इति सूत्र- स्वरूपम् । "तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः" इति सर्व सूत्रमनु- वर्तते। मतोरिति पदमावर्त्य पञ्चम्यन्तं बोध्यम् । तथा चमतुबन्तो यो मूर्धन्शब्द- स्ततो मतुप् स्यात् प्रथमस्य मतोलृक् च वय शब्दवन्मन्त्रोपधेयास्विष्टकासु । यस्मिन् मन्त्रे मूर्धवयः शब्दौ स्तस्तेनोपधेयासु मूर्धन्वतीरुपदधातीति प्रयोगः । मूर्धन्वतीरुपदधाति (१६४४ )-पत्र प्रयोगांशे 'मूर्धवच्छब्दात पूर्वेण वैदिकप्रकरणे चतुर्थोऽध्यायः । १७ (तद्वानासामिति० ) यति प्राप्ते “वयस्यासु मूनों मतुप्” इति मतुपि प्रथमस्य मतोलुंकि च कृते "अनो नुट्" इति नुडागमे उटावितौ डीषि विभक्तिकार्ये “मूर्ध- न्वतीः इति भवति । नभस्यो मासः ( १९४७)-अत्र प्रयोगाशे 'नभस्यः' इत्यत्र नभोऽभ्रं तद- स्मिन्नस्तीति विग्रहे मतुपं बाधित्वा “मत्वर्थे मासतन्चोः” इति सूत्रेण यत्प्रत्यये विभक्तिकार्ये 'नमस्यः' इति भवति । अोजस्या तनूः ( १९४० )-प्रोजो यस्याः यस्यांचा अस्ति इति विग्रहे मतुरू बाधित्वा “मत्वर्थे मासतन्वोः" इति सूत्रेण यत्प्रत्ययेऽनुबन्धलोपे लापि सु विभक्तौ दीर्घे सस्य लोपे 'ओजस्या' तनूः इति सिद्धम् । मधव्यः (१९२८, ३२, ५२) मधुशद्वात् “मधोर्य च” इति सूत्रेण चकारात् यत् प्रत्ययेऽनुबन्धलोपे “ोर्गुणः” इति सूत्रेण गुणेनादेशे प्रातिपदिकत्वे सौ रुत्वे विसर्गे 'मधव्यः' इति । वेशोभगीनः ( १९३६) वेशोवलं तदेव भगः तदस्यास्तीति वेशोभगीनः। वेशोभग्यः अत्र "वेशोयशश्रादेर्भगाद्यलखौ" इति सूत्रेण खप्रत्यये "आयनेयीनीयियः फढखछयां प्रत्ययादीनाम्" इति सूत्रण खस्य ईनादेशेऽकारस्य लोपे सौ रुत्वे विसर्गे 'वेशोभगीनः' इति भवति । ये ते पन्थाः सवितः पूर्व्यासः (१९३०, ५०)-अत्र प्रयोगांशे पूर्व्या- सः अत्र पूर्वैः कृतमिति विग्रहे 'पूर्वैः कृतमिनयौ च' इति सूत्रेण यत्प्रत्य- येऽनुबन्धलोपेऽकारस्य लोपे पूर्व्यशद्वाजसि “श्राज्जसेरसुक्” इति असुकि कित्त्वाद- त्यावयवे अनुबन्धलोपे सस्य रुत्वे विसर्गे च कृते 'पूर्व्यासः' इति सिद्धम् । लोके तु 'पौर्विकाः' इति भवति । यस्येदमयं हविः (१९२९)-"अद्भिः संस्कृतम्” इति विग्रहे तृतीया- न्तादपशद्वात् “अद्भिः संस्कृतम्" इति सूत्रेण यत्प्रत्ययेऽनुबन्धलोपे सुपो लुकि विभक्तिकायें 'अप्यम्" इति भवति एवञ्च 'यस्येदमप्यं हविः' इति भवति । सहस्रियासो अपां नोर्मयः (१९४८)-अत्र वाक्यांशे सहस्रेण सम्मिताः (सम्मितः सदृशस्तुल्यः इत्यर्थः) इति विग्रहे तृतीयान्तात्सहस्रशद्वात्सम्मितमित्ये- तस्मिन्नर्थे घः स्यादित्यर्थक "सहस्रण समितौ पः" इति सूत्रेण घप्रत्यये "श्राय- . २स्व०प्र० १८ खरवैदिकप्रश्नोत्तरी। नेयीनीयियः" इति घस्यादेशे “यस्येति च” इत्यकारस्य लोपे विभक्तिकार्य 'सह- सियासः' इति भवति । सोम्योब्राह्मणः ( १९३३, ४४)-सोममर्हतीति विग्रहे “सोममर्हति यः' इति सूत्रेण यप्रत्ययेऽकारस्य लोपे विभक्तिकार्ये “सोन्यः' इति भवति । यज्ञार्हवा. ह्मण इत्यर्थः। सोम्यं मधु (१९४७) सोमस्य विकारः सोम्यं मधु इति अत्र सोमशद्वात् भये च" इति मयडर्थे यप्रत्यये “यस्येति च” इत्यकारस्य लोपे विभक्तिकार्ये 'सोम्य' मधु इति भवति सोममयमित्यर्थः । मधव्यः (१९५२)-मधुशद्वात् “मधोः" इति सूत्रेण मयडर्थे यत् प्रत्ययेऽनुबन्धलोपे गुणेऽवादेरो विभक्तिकार्ये 'मधव्यः' इति भवति । सप्तदशाक्षरश्छन्दस्यः (१९३७-४५) इत्यत्र "अक्षरसमूहे छन्दस उप- सल्यानम्” इति छन्दः शब्दात् यत्प्रत्यये सौ रुत्वे विसर्ग 'छन्दस्यः" इति एवञ्च सप्तदशाक्षरश्छन्दस्यः इति भवति । शिवतातिः ( १९५२ )-शिवस्य भावः शिवतातिः अत्र "भावे च” इति सूत्रेण शिवशब्दात् तातिप्रत्यये विभक्तिकार्य शिवतातिः' इति भवति । शन्तातिः (१९४६)-अत्रापि 'भावे च' इति सूत्रेण शम्शद्वात् ताति प्रत्यये परसवणे विभक्तिकार्ये 'शन्ताति' इति भवति । इति चतुर्थोऽध्यायः समाप्तः। अथ पञ्चमोऽध्यायः विशिनः (१९५२)-विशतिगोत्राणि परिमाणमेषामिति विग्रहे "शन् शतो. डिनिश्छन्दसि तदस्य परिमाणमित्यर्थे वाच्यः" तत्र 'विंशतश्चेति वाच्यम्" इति डिनि प्रत्ययेऽनुबन्धलोपे “तिविंशतेडिति' इति तिलोपे विभक्तिकार्ये "विशिनः" इति भवति । यज्ञं विप्रस्य मावतः (१९४१,५०) अहमिवेति मावान् तस्य मावत: अत्र "युष्मदस्मदोः सादृश्ये वतुवाच्यः" इति वतुपि "प्रत्ययोत्तरपदयोश्च" इति वैदिकप्रकरणे पञ्चमोऽध्यायः । सूत्रेण मादेशे श्रा सर्वनाम्नइत्यात्त्वे षष्टीविभक्तौ असि रुत्वे विसर्गे च 'मावतः' इति भवति । सादन्यं विदथ्यम् ( १९५० )-सदनं गृहमर्हति इति सादन्यमत्र विदथो यज्ञस्तमर्हति' अत्र सदनशब्दात् “छन्दसि च" इति सूत्रेण यत् प्रत्यये "अन्येषा- मपि दोर्षः" इति दीर्घ विभक्तिकायें ‘सादन्यम्' इति । विदथ्यमत्रापि यदनेन सूत्रेण । संवत्सरीणः ( १९२७, ५१)-संवत्सरे जातः संवत्सरीणः इति विग्रह संवत्सरशद्वात् “सम्परिपूर्वात्ख च” इति सूत्रेण खप्रत्यये "आयनेयीनीयियः फ ढ ख छ घां प्रत्ययादीनाम्" इति खस्येनादेशे “यस्मेति च" इत्यकारलोपे णत्वे विभक्तिकार्य 'संवत्सरीणः' इति भवति । यदुद्वतो निवतः ( १९४२ )-अत्र “उपसर्गाच्छन्दसि धात्वर्थे” इति सूत्रेणोपसर्गात् वति प्रत्यये 'यदुद्वतो निवतः' इति भवति । उद्गननिर्गतादित्यर्थः । पञ्चथम् ( १९४३) पञ्चानां पूरणमित्यर्थे डटि कृते मटं बाधित्वा “थट च छन्दसि” इति थडागमेऽनुबन्धलोपे विभक्तिकार्य 'पञ्चथम्' इति भवति मटि 'पञ्च- मम्' भवति । लोके तु 'पञ्चमम्' इत्येकमेव रूपम् । उभयाविनम् ( १९३०)-उभयशद्वात् “बहुलं छन्दसि" इति विनिप्रत्य- येऽनुबन्धलोपे “छन्दोविन् प्रकरणेऽष्ट्रामेखलाद्वयोभयरुजाहृदयानां दीर्घश्चेति वक्त- व्यम्" इति वार्तिकेन दोर्षे विभक्तिकार्ये 'उभयाविनम्' इति । रथीरभूत् ( १६३१)-रथोऽस्यास्तीति रथीरिति विग्रहे रथशद्वाद् “छन्द- सीवनिपौ च वक्तव्यौ” इति सूत्रेण ईप्रत्ययेऽकारस्यलोपे रथीशद्वात् सौ रुत्वे विसर्गे च कृते 'रथीः' इति सिद्धम् एवञ्च रथीरभूत्' इति बोध्यम् । सुमङ्गलीरियं वधूः ( १९३४, ३६, ४९ )-मुष्टु मङ्गलं सुमङ्गलम् “सुः पूजायाम्' इति समासः सुमङ्गलमस्ति अस्या अस्य वेति 'सुमङ्गली' अत्र “छन्दसि- चनिपौ च वक्तव्यौ" इत्यनेन सुमङ्गलशब्दात् मत्वर्थे ईप्रत्ययेऽकारस्य लोपे सौ रुत्वे विसर्गे च कृते "सुमङ्गलीः' इति भवति । तयोहिलौ च छन्दसि ( १९३४ )-इति सूत्रस्वरूपम् । 'इदन्तदोर्यथा- सङ्खयं ( इदं शब्दादा तत् शब्दार्हिल ) स्तः' इति सूत्रार्थः । इदाहि व उपस्तु- तिम् । तर्हि । इत्युदाहरणम् ।

स्वरवैदिकप्रश्नोत्तरी। कथा ग्रामं न पृच्छसि ( १९२९ ) केन हेतुना न पृच्छसीत्यर्थः । 'कथा' इत्यत्र "था हेतौ च छन्दसि” इति सूत्रेण किमस्था प्रत्यये "प्राग्दिशो विभक्तिः" इत्यधिकाराद्विभक्तिसंज्ञायां "किमः कः' इति सूत्रेण किमः कादेशे अव्ययत्वे सुपो- लुकि 'कथा ग्रामं न पृच्छसि' इति घटक 'कथा' इति सिद्धम् । कथा दाशेम ( १९३२, ३८, ४३)-केन हेतुना दद्याम इत्यर्थे किम् शब्दात् “था हेतौ च च्छन्दसि” इत्यनेन किमस्थाप्रत्यरे तस्य "प्राग्दिशो विभक्तिः" इत्यधिकारात् विभक्तिसंज्ञायां "किमः कः" इति कादेश अव्ययसंज्ञायां सुपोलुकि 'कशा' इति भवति एवञ्च ‘कथा दाशेम' इति भवति । आसुतिं वरिष्ठः ( १९२८)-कर्तृशब्दात् “तुश्छन्दसि” इति सूत्रेण इष्टन् प्रत्ययेऽनुबन्धलोपे "तुरिष्टेमेयस्सु" इति तृलोपे 'करिष्ठ' इत्यस्य प्रातिपदिकत्वे विभ. क्तिकार्ये 'करिष्ठः' इति भवति । तं प्रत्नथा ( १९३५, ५२ )-प्रत्न शब्दात् “प्रत्नपूर्वविश्वेमात्याल् छन्दसि' इति सूत्रेण थालूप्रत्ययेऽनुवन्धलोपेऽव्ययत्वे सुपोलुकि 'प्रत्नथा' इति सिद्धम् । अनसन्तानपुंसकाच्छन्दसि ( १६३६ )-इति सूत्रस्वरूपम् । अन्नन्तात् असन्ताच नपुंसकात् तत्पुरुषाच् स्यात् स च समासान्त इत्यर्थः । ब्रह्मसामं भवति' 'देवच्छन्दसानि' इत्युदाहरणम् । ब्रह्मसामं भवति ( १९३३, ३९)-अत्र “अनसन्तानपुंसकाच्छन्दसि" इति सूत्रेणटचि प्रत्ययेऽनुबन्धलोपे शेषकार्ये 'ब्रह्मसामंभवति' इति भवति । उभयतोदतः प्रतिगृह्णाति ( १९२६)-उभयतो दन्ताः यस्येति विग्रहे "छन्दसि च" इति सूत्रेण दन्तशब्दस्य 'दत' आदेशेऽनुबन्धलोपे शसि रूपम् । लोके तु 'लभयतोदन्तान् 'उभयतोदन्तकान्' इति । हतमाता ( १९५१)-हता माता यस्येति हतमातेत्या “नयुतश्च" इति सूत्रेण कपि प्राप्ते "ऋतश्छन्दसि" इति सूत्रेण तनिषेधे 'हतमाता' इति भवति । इति पञ्चमोऽध्यायः। , अथ षष्ठोऽध्यायः यो जागार ( १९४७ )-अत्र प्रयोगांशे जागृधातोलिटि प्रथमपुरुषैकवचने 'तिपि गलि 'एकाचो द्वे प्रथमस्य' इति नित्ये द्वित्वे प्राप्ते "छन्दसि चेति वक्तव्यम्" इति विकल्पेन विधानात् द्वित्वाभावपक्षे णित्वात् ऋदौ रपरत्वे 'जागार' इति एवञ्च 'यो जागार' इति वोध्यम् । दाधार यः पृथिवीम् ( १९३७, ४५ )-अत्र प्रयोगांशे 'दाधार' अत्र धृधा- तोलिटि तिपि णलि द्वित्वेऽभ्यासकार्ये वृद्धौ रपरत्वे 'दधार' इति जाते “तुजादीना, दीर्घोऽभ्यासस्य” इति सूत्रेणाभ्यासदीर्घ 'दाधार' इति सिद्धम् एक्च 'दाधार यः पृथिवीम्' इति भवति । स तूताव ( १९३२, ५१ )-तुः इति सौत्रो धातुस्तस्मालिटि तिपि णला- देशेऽनुवन्धजोपे आर्द्धधातुकत्वे द्वित्वे वृद्धौ आवादेशे 'तुताव' इति स्थिते 'तुजादीनां दीर्घोऽभ्यासस्य” इति सूत्रेणाभ्यासस्य दीर्धे 'तूताव' इति । तृचं सूक्तम् ( १९३४, ३९ )-तिस्रः ऋचः यस्मिन् तत् तृचमिति विग्रहे 'ऋक्पूरब्धूः पथामानक्षे” इत्यप्रत्यये "ऋचित्रेरुत्तरपदादिलोपश्च च्छन्दसि" इत्यनेन ऋचि शब्दे परे त्रे सम्प्रसारणै उत्तरपदादेलोपे च जाते ततश्च सौ अमादेशे पूर्व- रूपे च 'तृचम्' इति भवति । रेवान् ( १९४०) रयिशब्दात् “तदस्यास्त्यस्मिन्निति मतुप्' इति सूत्रेण मतुपि “रयेमतो वहुलम्" इति सम्प्रसारणे “सम्प्रसारणाच्च” इति सूत्रेण पूर्वरूपे "छन्दसीरः" इति सूत्रेण मकारस्य वकारे गुणे विभक्तिकार्ये 'रेवान्' इति सिद्धम् । श्रितानो ग्रहाः ( १९४६ )-पाकार्थकञकारेत्संज्ञक 'श्री' धातोः निष्ठायां क्त- प्रत्ययेऽनुवन्धलोपे "अपस्पृधेथामानुचुरानृहुचिच्युषेतित्याजश्रातात्रितमाशीराशीर्ताः' इति सूत्रेण निपातनात श्रीणातेह्रस्वत्वे जाते विभक्तिकार्ये 'श्रितानो ग्रहाः' इति घटक- 'श्रिता' इति सिद्धम् । चिखाद ( १६५२ ) दैन्यार्थकखिदधातोलिटि व्यत्ययेन परस्मैपदे तिपि णलि द्वित्वेऽभ्यासकार्ये चिखिद् + अ इति जाते “खिदेश्छन्दसि” इति सूत्रेणैचः आत्वे "चिखाद" इति श्रात्वाभावपक्षे 'चिखेद' इति भवति । भय्यः ( १९४३, ४७)-बिमेत्यस्मादिति भय्य इत्यत्र 'कृत्यल्युटो बहुलम्' , २२ स्वरवैदिकप्रश्नोत्तरी। इत्यनेनापादाने वाहुलकात् यति प्रत्ययेऽनुबन्धलोपे “भय्यप्रवय्ये च छन्दसि" इति सूत्रेण यतिपरेऽयादेशनिपातनात् 'भय्य' इति जाते सौ रुत्वे विसर्गे 'भय्यः इति भवति। प्रकृत्यान्तः पादमव्यपरे ( १९२९, ३५)-इति सूत्रस्वरूपम् । ऋक्पादम- ध्यस्थ एक प्रकृत्या स्यात् अति परे न तु वकारयकारपरेऽति । उपप्रयन्तो अध्वरम् । मुजाते अश्वसूनृते । इत्युदाहरणे । उप प्रयन्तो अध्वरम् ( १९३३)-अत्र प्रयोगे “एडः पदान्तादति" इति सूत्रेण पूर्वरूपे प्राप्ते "प्रकृत्यान्तः पादप्रव्यपर' इति सूत्रेण प्रकृतिभावे 'उपप्रयन्तो अध्वरम्' इति भवति । तेनो अवन्तु ( १९२९, ४१ )-अवतेलोटि प्रथमपुरुषवहुवचने 'अवन्तु' इति भवति ततः ते नो अवन्तु इति दशायां “एङः पदान्तादति” इति सूत्रेण पूर्वरूपे प्राप्ते तम्प्रयाध्य "अयादवद्यादवक्रमुरवतायमवन्त्ववस्युषुच" इति सूत्रेण प्रकृतिभावे 'ते नो अवन्तु' इति भवति । कुशिकासो अवस्यवः ( १९३१)-अत्रापि “एक पदान्तादति" इति पूर्व- रूपे प्राप्ते तम्प्रवाध्य "अव्यादवद्यादवक्रमुरवतायमवन्त्ववस्युषु च" इति सूत्रेण प्रकृतिभावे 'कुशिकासो अवस्यवः' इति भवति । उरो अन्तरिक्षम् ( १९४५)-अत्रापि “एडः पदान्तादति' इति पूर्वरूपे प्राप्ते तम्प्रबाध्य “यजुष्युरः" इति सूत्रेण प्रकृतिभावे,'उरो अन्तरिक्षम्' इति भवति । यजुषि पादाभावादनन्तःपादार्थ वचनम्-अस्याशयः ( १९४५) ननु 'उरो अन्तरिक्षम्' इत्यत्र "प्रकृत्यान्तः पादमव्यपरे" इत्यनेनैव प्रकृतिभावे सिद्ध व्यर्थोयं योग इत्याशङ्कयाह-“यजुषि पादाभावादनन्तः पादार्थं वचनम्' इति । आपोजुषाणो० ( १९४२ )-आपो जुषाणो वृष्णो वर्षिष्ठेऽम्बेऽम्बालेऽम्बिके पूर्वे । इति सूत्रेण यजुषि अति प्रकृतिभावो भवति । तेन 'आपो अस्मान् मातरः' 'जुषाणो अग्निराज्यस्य' इत्यादौ प्रकृतिभावः। “अम्बे अम्बाले अम्बिके' अत्र अस्मादेव वचनात् “अम्बार्थनद्योह्रस्वः" इति सूत्रेण हस्वो न भवति । अङ्ग इत्यादौ च ( १९४०)-प्रकृत्या भवतीत्यस्य सम्बन्धः। अतिक्रान्त- प्रत्यवमशिना तच्छब्देन इतिशब्दार्थ व्याचष्टे-तस्याङ्गशब्दस्यादिस्तदादिः तद्रूपो - वैदिकप्रकरणे षष्ठोऽध्यायः। २३ योऽकारस्तस्मिन् परे पूर्वो य एङ् स प्रकृत्या भवतीत्यर्थः। नन्वत्र चकारः किमर्थ इति चेच्छृणु । असति चकारेऽङ्गशब्दस्यैवै तदादावति परतः प्रकृत्या भवतीत्यर्थः। तथा च 'अङ्ग अङ्गे' इत्यत्रैव स्यात् 'अङ्गे श्रदीव्यत्' इत्यत्र न स्यात् । सति तु तस्मि- नङ्गशब्दस्य य एङ् यत्र कुत्रचित् अति प्रकृत्या भवति तदादौ चाति परतो यः कश्चिदेङ् स प्रकृत्या भवतीत्ययमों भवति तेन 'अङ्ग अङ्गे अदीयत्' 'प्राणो अङ्गे इत्युभयत्राऽपि भवति । अयं सो अध्वरः (१९३७) अत्रापि पूर्वरूपे प्राप्ते "अनुदात्ते च कुधपरे' इति सूत्रेण प्रकृतिभावे 'अयं सो अध्वरः' इति भवति । त्रीरुद्रेभ्यो अवपथाः ( १९४२) अत्रांशे 'अव पथा' अत्र वप् धातोर्लङि थासि शपि अडागमे 'तिदङतिङः' इति अनुदात्तत्वेरुत्वे विसर्गे बरुद्रेभ्यो + अव- पथाः' इति दशायां पूर्वरूपे प्राप्ते “अवपथासि च” इति सूत्रेण प्रकृतिभावे 'त्रिरुद्रेभ्यो अवपथा' इति भवति । अभ्र आँ अपः ( १९३४, ३८)-अत्र “श्राडोऽनुनासिकश्छन्दसि" इति सूत्रेण अकारे परे आडोऽनुनासिके जाते अभ्र औं अपः' इति भवति । अत्र "उप- देशेऽजनुनासिक इत्' इति सूत्रेण इत्संज्ञा तु न भवति सूत्रे उपदेशग्रहणात् । ईषा अक्षो हिरण्ययः ( १९३२) इत्यत्र “ईषा अक्षादीनां छन्दसि प्रक- तिभावो वक्तव्यः” इति वार्तिकेन प्रकृतिभावे 'ईषा अक्षो हिरण्ययः' इति भवति । ज्या इयम ( १९२८, ३९)-अत्र गुणो प्राप्ते “ईषा अक्षादीनां छन्दसि प्रकृतिभावो वक्तव्यः" इत्यनेन प्रकृतिभावे 'ज्या इयम्' इति भवति । पूषा अविष्टु ( १९३६ )-अत्र सवर्णदीर्वे प्राप्ते “ईषा अक्षापीनां छन्दसि प्रकृतिभावो वक्तव्यः” इति प्रकृतिभावे पूषा अविष्टु' इति भवति । एष स्य भानुः ( १९३५) अत्र “स्यश्छन्दसि बहुलम्" इति स्योत्तरसु इत्यस्य लोपे 'एष स्य भानुः' इति भवति । ह्रस्वाञ्चन्द्रोत्तरपदे' मन्त्रे (१९३२) इति सूत्रस्वरूपम् । ह्रस्वात्परस्य चन्द्रशब्दस्योत्तरपदस्य सुडागमः स्यान् मन्त्रे, इत्यर्थः । 'सुश्चन्द्र दस्म' 'हरिश्चन्द्रो मरुद्गणः' इत्युदाहरण। सुश्चन्द्र दस्म ( १९३९,४२,५०)-पत्र प्रयोगांशे सु+चन्द्र इति स्थिते स्वरवैदिकप्रश्नोत्तरी। "ह्रस्वाच्चन्द्रोत्तरपदे मन्त्रे' इति सूत्रेण ह्रस्वात् परस्य चन्द्रशब्दस्योत्तरपदस्य मुडागमे उटावितौ “स्तोः थुना श्रुः” इति सूत्रेण श्रुत्वे 'सुश्चन्द्र' इति एवञ्च "सुश्चन्द्र दस्म' इति भवति । सोमः सधस्थम् ( १९२७, ३१)-सह तिष्ठतीत्यर्थे “बातोऽनुपसर्गे कः' इति सूत्रेण स्थाधातोः कप्रत्ययेऽनुबन्धलोपे “आर्द्धधातुक शेषः” इति सूत्रेणार्द्ध धातुकत्वे "ातो लोप इटि च" इति सूत्रेणाकारस्य लोपे 'सधमादस्थयोश्छन्दसि' इति सूत्रेण सहस्य सधादेशे विभक्तिकार्ये सधस्थम्' इति, लोके 'सहस्थम्' इति भवति एवञ्च ‘सोमः सधस्थम्' इति । मरुद्भिरुनः पृतनासु साहला (१९३८, ४८)-अत्र प्रयोगांशे सहेः तृचि अनादिकार्ये सह २ ता इति स्थिते ढवधत्वष्टुत्वढलोपादिकार्ये दोघे प्रातिशाख्य- भाष्येणाचोमध्यस्थस्य डस्यलत्वे ढस्य हुश्च विहिते 'साला' इति भवति । (अत्रत्यप्रश्नोत्तरेऽचोर्मध्यस्थस्पैत्यादि प्रातिशाख्यं कौमुदीमूलएव पर्याप्तम् ) इति अष्टापदी (१९५१) अष्टौ पादा अस्या इति विग्रहे बहुव्रीहिसमासे समा- सत्वात् सुपोलुकि “छन्दसि च” इति सूत्रेण अष्टन आत्वे “सङ्ख्यासुपूर्वस्य” इति सूत्रेण पादोत्तराकारस्यलोपे “पादोऽन्यतरस्याम्” इति डोपि अनुबन्धलोपे विभक्ति- कार्य 'श्रष्टापदो' इति भवति । नू मतः ( १९२६, १३, ३६)-अत्र "ऋचितुनुघमक्षुतकुत्रोरुष्याणाम्" इति सूत्रेण 'न' इत्यस्य दी 'नू' मर्तः इति । लोके नु मतः इति । भरता जातवेदसम् ( १९३०, ३९)-अकारेत्संज्ञकभृधातोर्लोटिथप्रत्यये सार्वधातुकत्वे शपि अनुबन्धलोपे गुणे रपरे "लोटो लङ्वत्' इति लङ्वद्भावे "तस्थस्थमिम तान्तन्तामः" इति सूत्रेण तादेशे "ऋचि तुनुधमक्षुतङ्कुत्रोरुष्याणाम्" इति दीर्धे “भरता” इति सिद्धम् लोके तु 'भरत' इति भवति । शृणोत ग्रावाणः इत्यत्र ऋचि तुनु० दीर्घत्ववारणप्रकारः (१९३७ )- "ऋचि तुनुघमक्षुतङ्कुचोरुष्याणाम्" अत्र सूत्रे तमिति थादेशस्य जित्वपक्षे ग्रहणम् तेन 'ऋणोत ग्रावाणः' अत्र न दीर्घः अत्र ( शृणोत इत्यत्र) 'तप्तनप्तनथंनाच' इति तबादेशेन पित्त्वात् हिरवं नास्ति । "निपातस्य'च" इत्यनेनैवत्वादीनां दीर्घत्वे सिद्धे ऋचि तुनुघ० इति वैदिकप्रकरणे षष्ठोऽध्यायः । २५ सूत्रे तुनुघेत्यादीनां फलम् (१९३८)-ननु “ऋचि तुनुघमक्षुतकुत्रोरुष्याणाम् इति सूत्रस्थतुनुघेत्यादीनां निपातत्वात् “निपातस्य च” इत्यनेनैव दी सिद्धे त्वादी- नां ग्रहणं व्यर्थमिति चेन्न । अद्रव्यार्थाश्चादयो निपातसंज्ञाः स्युरेवश्च द्रव्यार्थानां त्वादीनां दीर्घार्थ "निपातस्य च" इति सूत्रस्याऽप्रवृत्त्या त्वादीनां ग्रहणस्याऽवश्यक- त्वात् । इति शम् । यत्रा नश्चका ( १९४६)-अत्र प्रयोगांशे यत्रा' अत्र “ऋचि तुनुघमक्षुत- कुत्रोरुष्याणाम्” इति सूत्रेण दीर्घे 'यत्रा' इति एवञ्च यत्रानश्चक्रा" इति भवन्ति । द्वयचोतस्तिकः ( १९४५ )-दौ अचौ यस्मिन् स तस्य वचः, तिङ् प्रत्या- हारः (तिपः आरभ्य महिपर्यन्तम् ) अन्ते यस्य सः तस्य तथा च यच्कविशि- टस्य तिङन्तस्यातो दीर्घः स्यादृचि इति सूत्रार्थः। 'चक्रा जरसम प्रत्युदाहरणम् । चक्रा जरसम् (१९४०)-चक्रेतिलिटो मध्यमपुरुषबहुवचनस्य रूपमत्र "द्वय- चोऽतस्तिङः" इति सूत्रेण दीर्षे 'चक्रा' इति भवति । एवञ्च चकन जरसम्' इति भवति । पूरुषः ( १९५२)-अत्र पुरुषशब्दात् सौ रुत्वे विसर्गे पुरुषः एवं स्थिते अन्येषामपि पूर्वपदस्थानां दीर्घः स्यादित्यर्थक “अन्येषामपि दृश्यते" इति सूत्रेण पकारोत्तरवर्तिन उकारस्य दीर्घ 'पूरुषः' इति । दीर्घाभावपक्षे पुरुषः इति रूपद्वयं मन्त्रे भवति । लोके तु केवलं पुरुषः' इत्येकमेव रूपं भवति । बहुलं छन्दस्यमाङयोगेऽपि ( १९३८ )-इति सूत्रस्वरूपम् माङयोगेऽप्य- 'मायोगेऽपि बहुलमडाटौ भवतः, अमाङयोगेऽपि न भवतः माङयोगेऽपि च भवतः इत्यर्थः । जनिष्ठा उग्रः सहसे तुराय । मा वः क्षेत्रे परवीजान्यवाप्सुः । इत्युदाहरणे। इरयो रे अत्र द्विवचनग्रहणफलम् ( १९४६ ) इर इत्येतस्य रे आदेशः स्याच्छन्दसि इत्यर्थः । अत्र द्विवचननिर्देशात् लक्षणप्रतिपदोक्तपरिभाषा न प्रवर्तते तद्यथा-उदाहणे विविच्यते । प्रथमं दध्र आपः (१६४७)-अत्र प्रयोगांशे धामो लिटि मादेशे झस्य "लिटस्तमयोरेशिरेच्" इति सूत्रेण 'इरेवि' कृते द्वित्वेऽभ्यासकार्य "इरयो रे" इति सूत्रेण 'इरे' इत्यस्य परत्वात् रेभावे कृतेऽनजादित्वादालोपेऽप्राप्ते रेभावस्याभीयत्वे- नासिद्धत्ताल्लोपे रेशब्दस्येटि कृते पुनरपि “इरयोरे” इति रे आदशे 'दः' इति । ननु 'लक्षणप्रतिपदोक्तपरिभाषया कथमिडागमविशिष्ट "इरयो रे" इत्येतस्य प्रवृत्तिरिति 'चेन्न इरयोरिति द्विवचननिर्देशात् लक्षणप्रतिपदोक्तपरिभाषायाः अप्रवृत्तः।

२६ स्वरवैदिकप्रश्नोत्तरी। शकुना इव पप्तिम ( १९२६)-पतनार्थकपत्त-धातोः लिटि मसि आर्द्ध- धातुकत्वे मादेशे मस्य इडागमेऽभ्यासत्वे 'हलादिः शेषे "तनिपत्योश्छन्दसि" इति सूत्रेणोपधालोपे 'पप्तिम' इति सिद्धम् । लोके 'पेतिम' इति भवति । शृणुधी गिरः ( १९३८)-श्रुधातोः लोटि सिपि हौ "श्रुवः पृच' इति सूत्रेण श्रुवः शृभावेश्नुप्रत्यये विधानसामर्थ्यात् "उतश्च प्रत्ययादि"ति हेलुंगभावे "श्रुणुपृकृवृभ्यश्छन्दसि” इति सूत्रेण हेधिरित्यादेशे “अन्येषामपि” इति दीर्घ 'शृणधी” इति भवति । उरुणस्कृधि ( १६४३ )-कृधातोः लोटि सिपि हौ “नश्च धातुस्थोरुषुभ्यः” इति सूत्रेण णत्वे "कः करत्०" इत्यादि सूत्रेण विसर्जनीयस्य सत्वे 'श्रुशृणुपृकृवृ- भ्यश्छन्दसि । इति देधौं कृते 'उरुणस्कृधि' इति भवति । रारन्धि ( १९३५)रम्धातोर्लोटि रमेर्व्यत्ययेन परस्मैपदे सिपि तस्य हो 'अन्तिश्च” इति सूत्रेण देधि रित्यादेशे शपि शपः श्लो अभ्यासत्वे हलादिः शेषेऽभ्यासदीधैं 'रारन्धि' अत्र “अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलिविङति” इति सूत्रेण मलोपस्तु न हेरडित्वात् । अस्मे प्रयन्धि (१९३२) -प्रपूर्वकयम्धातोर्लोटि सिपि “सद्यपिच्च” इति 'हि' आदेशे शपि छन्दसि पक्षे पित्त्वादवित्वे "अतिश्च" इति 'हेधि' रित्यादेशे "बहुलं छन्दसि" इति शपो लुकि 'प्रयन्धि' इति भवति । त्मना देवेषु ( १९२९, ३३ )-श्रात्मना देवेषु इत्यवस्थायां “मन्त्रेष्वाड्या- देरात्मनः" इति सूत्रेण आत्मन्शब्दस्यादेराकारस्य लोपे 'त्मना देवेषु' इति भवति । त्वं रजिष्ठमनुनेषि (१९४६ )-अत्र प्रयोगांशे ऋजुशब्दादतिशयार्थे इष्टन्प्रत्ययेऽनुबन्धलोपे टिलोपे 'ऋजिष्ठ' इति जाते विभक्तिकार्य अत्र छन्दसि "विभाष|श्छन्दसि" इति सूत्रेण ऋजुशब्दस्य ऋतः स्थाने रकारादेशे 'रजिष्टम्' रकारादेशाभावपक्षे 'ऋजिष्ठम्' इत्युभयरूपं भवति । वास्त्व्यम् ( १९३९)-वास्तुनि भवमिति विग्रहे "ऋत्व्यवास्त्व्यवास्त्वमा. ध्वीहिरण्ययानि छन्दसि” इति सूत्रेण वास्तुशब्दात् निपातनात् यत् प्रत्यये यणादेशे च विभक्तिकायें वास्त्व्यम्' इति सिद्धम् । इति षष्टोऽध्यायः अथ सप्तमोऽध्यायः नेतराच्छन्दसि (१९३१) इतरशब्दात् परयोः स्वमोरडादेशो न स्याच्छन्दसि इत्यर्थः । उदाहरणञ्चात्र 'वानमितरम्' इति । वाघ्नमितरम् ( १९३९ )-इत्यत्र “अद्डतरादिभ्यः पञ्चभ्यः" इति सूत्रेण स्वमोरडादेशे प्राप्ते "नेतराच्छन्दसि” इति तनिषेधे “अतोम्" इत्यमादेशे पूर्वरूपे 'इतरम्' इति भवति । सुपां सुलुक्० (१९४५)-"सुपी सुलुपूर्वसवर्णाच्छेयाबड्यायाजालः' इति सूत्रस्वरूपम् । सुपां स्थाने सु-लुक्-पूर्वसवर्ण-आ-आत्-शे-या-डा-ज्या-याच्- पाल् एते आदेशाः स्युश्छन्दसि इत्यर्थः । उदाहरणानि च यथा 'ऋजवः सन्तु पन्थाः' अत्र पन्थानः इति प्राप्त सुः । परमे व्योमन् (१९४३)-अत्र प्रयोगांशे 'व्योमनि' इति प्राप्ते अनेन डे कि 'परमे व्योमन्' इति। धीतीमती सुष्टुती' अत्र धीत्या, मत्या सुष्टुत्या' इति प्राप्ते अनेन पूर्वसवर्णदीर्घः । या सुरथा रथीतमोभा देवा दिविस्पृशा। यो सुरथौ दिविस्पृशौ इति प्राप्ते आ भवति । नताद्ब्राह्मणम् । अत्र नतमिति प्राप्ते आत् । या देव विन तात्वा । अत्र यम् इति प्राप्ते । नयुष्मे वाज-बन्धवः, अस्मे इन्द्रावृहस्पती इत्यादौ युष्मासु, अस्मभ्यम् इति प्राप्ते शे । उरुया धृष्णुया अत्र उरुणा, धृष्णुना इति प्राप्ते या । नाभा पृथिव्याः ( १९३७)-पत्र प्रयोगांशे 'नाभौ' इति प्राप्ते अनेन सूत्रेण डा कृते डित्वाहिलोपे 'नाभा' इति, लोके 'नाभौ' इति भवति । ता अनुष्ठयो- च्यावयतात् । अनुष्ठानमनुष्टा । व्यवस्थावदङ् आडो ड्या । साधुया । साध्विति प्राप्ते याच । वसन्ता यजेत । वसन्ते इति प्राप्त आलू । इत्युदा- हरणानि । अर्विया ( १९५१)-अत्र ऊरुशब्दात् तृतीयैकवचने टाविभक्तौ नादेशम्बा- धित्वा “इयाडीयाजीकाराणामुपसङ्ख्यानम्" इतीयादेशे यणादेशे ऊर्विया' इति ऊरुणा इति प्राप्ते । हतिं न शुष्कं सरसी शयानम् (ई० १९४१)-अत्रांशे 'सरसी' अत्र "इयाडीयाजीकाराणामुपसङ्खथानम्" इति डेरीकारे 'सरसी' इति 'सरसि' इति प्राप्ते । लोके 'सरसि' भवति । अत्र डेरीकारे आधुदात्ते पदे प्राप्ते व्यत्ययेनान्तोदात्तता ।

स्वरवैदिकप्रश्नोत्तरी। 'प्रबाहवा सिमृतम्' ( १९४४ )-अत्र तृतीयैकवचने 'प्रबाहुना' इति प्राहे "पाड्याजयारामुपसंख्यानम्" इति श्राङि जातेऽनुवन्धलोपे घिसंज्ञात्वात् “धेर्डिति" इति सूत्रेण गुणेऽवादेश 'बाहवा' इति भवति एवञ्च 'प्रवाहवा' इति काशिकायां तु प्रवाहुनेति प्राप्ते इत्युक्तं तत्ससासभ्रमादित्यवधेयम् । प्रेति न समस्तं पृथक्स्वरदर्श- नात् पदकारैर्विच्छिद्य पाठाच्च । अत आख्यातान्वयीतिध्येयम् । वधी वृत्रम् ( १९२६, ४४)-अत्र प्रयोगांशे 'वधीम्' अत्र हन्धातोलृद्धि 'हनो वध लिङि' 'लुङि च" इति सूत्रेण हनो वघादेशे मिपि च्लो "चले सिचि" इति सूत्रेण च्लेस्सिजादेशे इचावितौ इटि "तस्थस्थमिपां तान्तन्तामः” इति सूत्रेण मिपोऽमादेशे तस्य "अमो मश्” इति मशादेशे शित्वात्सर्वादेशे “अस्तिसिचोऽपृक्त" इति सूत्रेण ईटि व रकारस्येत्संज्ञायां लोपे च “इट ईटि" इति सिचोलुकि “अकः सवर्णेदीर्घः” इति सवर्णदोघे "बहुलं छन्दसि" इति सूत्रेणाडागमाभावे 'बधीम्' इति साधुः । मकाराकारस्तूचारणार्थः । लोकेतु 'अवधिषम्' इति बोध्यम् । लोपस्त आत्मनेपदेषु ( १६३३ )-इति सूत्रस्वरूपम् । आत्मनेपदेषु यस्तकारस्तस्य छन्दसि विषये लोपः स्यात् इत्यर्थः । देवा अदुह्र, दक्षिणतः शौ। इत्युदाहरणे। देवा अदुह (१९२५)-दुहधातो ङि तस्य 'मि' रित्यादेशे “आत्मनेपदे- वनतः” इति सूत्रेणझस्यादादेशेऽडागमे "बहुलं छन्दसि" इति रुडागमेऽनुबन्ध- लोपे "लोपस्त श्रात्मनेपदेषु' इति सूत्रेण तकारस्य लोपे (अकारयोः) पररूपे 'अदुह' इति । लोके 'अदुहत' इति भवति । दक्षिणतः शये (१९३५)-अत्र 'शेते' इति प्राप्ते तत्र शेतेघटक- तकारस्य "लोपस्त 'आत्मनेपदेषु' इति सूत्रेण तलोपेऽयादेशे 'शये' इति भवति । लोके तु शेते' इति भवति । वारयध्वात् (१९२५) वृधातोणिच्यनुवन्धलोपे वृद्धौ- रपरत्वे बारि इत्यस्य धातुत्वे लोटि तस्य ध्वमादेशे शपि अनुबन्धलोपे गुणेऽयादेश 'वारयध्वम्' इति जाते "ध्वमो ध्वात्। इति सूत्रेण ध्वमोध्वादादेशे 'वारयध्वात्' इति सिद्धम् । लोके 'वारयध्वम्' इति । नूनं कृणुतात् ( १६१८)-हिंसाकरणार्थकेकारेत्संज्ञक-कृवधातोः लोटि थ- प्रत्यये सार्वधातुकत्वे "इदितो नुम् धातोः" इति नुमि उमावितौ "चिन्विकृण्व्योरच" वैदिकप्रकरणे सप्तमोऽध्यायः । २९ इति सूत्रेण 'उ' प्रत्यये वकारस्याकारेऽकारस्य लोपे “तस्थस्थमिपां तान्तन्तामः इति सूत्रेण तादेशेणत्वे 'कृणुत' इति जाते "तस्य तात्" इति सूत्रेण तस्य तात् इत्यादेशे 'नूनं कृणुतात् , इति भवति लोके 'कृणुत' इति भवति । मरुतस्तज्जुजुष्टन ( १९२७) ईकारत्संज्ञकप्रीतिसेवनार्थकजुषधातोः लोटि- ध्वमि “तप्तनप्तनथनाच" इति सूत्रेण ध्वमित्यस्य तनादेशे व्यत्ययेन परस्मैपदत्वे श्लौ च जाते "श्लौ” इति द्वित्वे "पूर्वोऽभ्यासः" इति अभ्याससंज्ञायां "हलादिः शेषः” इति सूत्रेणाभ्यासषकारस्य लोपे धुत्वे जुजुष्टन' इति सिद्धम् लोके तु "जुष. ध्वम्' इति भवति । नभो भरन्त एमसि ( १९३०, ५०) आछुपसर्गर्वक-इण्धातोर्मसि सार्वधातुकत्वे शपि शपो लुकि "इदन्तो मसि” इति सूत्रेण मस इकारान्तावयवे गुणे ‘एमसि' इति सिद्धम् लोके तु 'एमः' इति भवति ।। दिवं सुपर्णो गत्वाय ( १९२५, २९, ३६, ४३ )-गम्धातोः क्त्वाप्रत्यमे "अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो मलि किडति" इत्यनुनासिकलोपे "क्त्वो यक्” इति क्त्वः यगागमेऽनुबन्धलोपे 'गत्वाय' इति भवति लोके 'गत्वा' इति ज्ञेयम् । इष्टवीनं देवान् ( १९३४)-यज्धातोः क्त्वाप्रत्ययेऽनुबन्धलोपे “वचिस्व- पियजादीनां किति" इति सूत्रेण सम्प्रसारणे षत्वे टुत्वे “इष्टवानमिति च” इति सूत्रेण ईनमन्तादेशे 'इष्टवीनम्' इति भवति । 'इन्ट्या' इति लोके भवति । स्विन्नः स्नात्वी मलादिव ( १९४४ )-शौचार्थक हणाधातोः क्त्वाप्रत्यो "धात्वादेः षः सः' इति सत्वे "निमित्तापाये नैमित्तिकस्याप्यपायः" इति नियम- बलात् णस्य नकारे 'स्नात्वा' इत्यस्याव्ययत्वेऽव्ययत्वात् सुपो लुकि- 'स्नात्वा' अत्र "स्नाल्यादयश्च इति सूत्रेणाकारस्य ईकारे' 'स्नात्वी' इति। लोके तु 'स्नात्वा' भवति । पीत्वीसोमस्य वावृधे ( १९३१, ३९)-पिबतेः क्त्वाप्रत्ययेऽनुबन्धलोपे आर्द्धधातुकत्वे “घुमास्थागापाजहातिसां हलि” इति सूत्रेण पकारोत्तराकार- स्पेकारे पीत्वा इति जाते "स्नाल्यादयश्च” इति सूत्रेणाकारस्येकारे 'पीत्वी' इति लोके 'पीत्वा' इति । देवासः ( १९, ३३, ५१ )-देवशब्दानसि विभक्तावनुबन्धलोपे “आजसेर- . ३० स्वरवैदिकप्रश्नोत्तरी। सुक्" इति सूत्रेणासुगागमे कित्त्वात् 'श्राद्यन्तौ टकितौ” इति सूत्रेणान्त्यादचापरत्वे- ऽनुवन्धलोपे पूर्वसवर्णदीचे सस्य रुत्वे विसर्गे 'देवासः' इति । लोके तु देवाः इति भवति । ब्राह्मणासः (१९५७)-ब्राह्मणशब्दात् जसि विभक्तावनुवन्धलोपे “आजसे- रसुक्” इति सूत्रेणासुगागमे कित्त्वादन्त्यादचः परत्वेऽनुबन्धलोपे पूर्वसवर्णदीबै सस्य रुत्वे विसर्ग 'ब्राह्मणासः' इति । लोके तु 'ब्राह्मणाः इति भवति । 'इन्द्रो धीचो अस्थभिः (१९५०) अत्र प्रयोगांशे 'अस्थभिः' अत्र अस्थिशब्दात भिस्विभत्तौ "छन्दस्यपि दृश्यते” इति सूत्रंणानडादेशेऽनुबन्धलोपे नकारस्य लोपे 'अराभिः' इति भवति लोके 'अस्थिभिः' इति भवति । ततुरिः ( १९४८, ५२)-तरतेः “बहुलं छन्दसि” इति बलात् “आगमह- नजनः किकिनौ लिट् " ति किन्प्रत्ययेऽनुबन्धलोपे लिटि “बहुलंछन्दसि” इति उत्वे तस्य "द्विर्वचनेऽचि” इति स्थानिवद्भावात् 'तृ' इत्येतस्य द्वित्वेऽभ्यासत्वेऽ भ्यासकार्ये ('उरत् इत्यत्वे रपरत्वे) लोपे रपरत्वे 'ततुरि' इति जाते सौ रुत्वे 'विसर्ग 'ततुरिः' इति सिद्धम् । ग्रसितस्कभित० (१९३७)-ग्रसितस्कभितस्तभितोत्तभितचत्तविकस्तावि- शस्तृशंस्तृशास्तृतस्तृतरूतृवस्तृवरूतृवरूत्रीरुज्ज्वलितिक्षरितिवमित्यमितीति च । इति सूत्रस्वरूपम् । एतेऽष्टादश निपात्यन्ते । क्षमितेः पाठपक्षे तु एकोनविंशतिः। तत्र 'प्रसु' अदने 'स्कम्भु' 'स्तम्भु रोधनार्थों सौत्रौ । एतेषांमुदित्वान्निष्टायामितिप्रतिषेधे प्राप्ते इग्निपात्यते । युवं शचीभिर्मसिताममुञ्चतम् । विस्कभिते अजरे। येन स्वः स्तभितम् । सत्येनोत्तभिता भूमिः । स्तभितेत्येव सिद्धे उत्पूर्वस्य पुनर्निपातनमन्योप- सर्गपूर्वस्य माभूदिति । 'चते. याचने । 'कस' गतौ आभ्यां क्तस्येडभावः । चत्ता इतश्चत्तामुतः । त्रिधाह श्यावमश्विनाविकस्तम् । उत्तानाया हृदयं यद्विकस्तम् । निपा- तनबहुत्वापेक्षम् सूत्रे बहुवचनंविकस्ता इति तेनैकवचनान्तोऽपि प्रयोगः साधुरेव । रासु' हिंसायाम् 'शंसु स्तुतौ 'शासु' अनुशिष्टौ एभ्यस्तृच इडभावः । एकस्त्वष्टुरश्व- स्याविशस्ता । ग्रावग्राम उत शंस्ता । प्रशास्ता पोता । 'तृ' प्लवनतरणयोः। 'वृ संभक्तौ । 'वृन' वरणे। एभ्यस्तृच उट ऊट एतावागमौ निपात्यते। तरुतारं स्थानाम् । तख्तारम् । वरुतारम् वरूतारम् । वरूत्रीभिः सुशरणो नो अस्तु | पत्र डीबन्तनिपातनं प्रपश्चार्यम् । वरूतृशब्दो हि निपातितः। ततो जीपा गतार्थत्वात् ।

वैदिकप्रकरणे सप्तमोऽध्यायः । उज्ज्वलादिभ्यश्चतुर्थ्यः शपः इकारादेशो निपात्यते । 'ज्वल' दीप्तौ 'क्षर' संचलने। 'टुवम्' उद्भिरणे 'अम्' गत्यादिषु । इह क्षरितीत्यस्याऽनन्तरं क्षमितीत्यपि केचित् पठन्ति । तत्र 'क्षमूष' सहने इति धातुर्बोध्यः । भाषायां तु ग्रस्तस्कब्धस्तब्धोत्तब्ध- चतितविकसिताः । विशसिता। शंसिता। शासिता। तरिता । तरीता । वरिता । वरीता । उज्ज्वलति । क्षरति । पाठान्तरे क्षमति । वमति । अमति । इति शम् । सत्येनोत्तभिता भूमिः (१९४६)-अत्र प्रयोगांशे 'उत्तभिता' अत्र उत्पूर्व कोकारेत्संज्ञकस्तम्भधातोः निष्ठायां क्तप्रत्ययेऽनुबन्धलोपे "उदितो वा" इति क्त्वायाँ वेटत्वात् “यस्य विभाषा" इतीनिषेधे प्राप्ते “ग्रसितस्कभितस्तभितोत्तभितचत्तविक- स्ताविशस्तृशंस्तुशास्तृतस्तृतरूतृवस्तृवरूतृवरूत्रीरुज्ज्वलितिक्षरितिवमित्यमितीति च" इति सूत्रेण निपातनात् इडागमेऽनुबन्धलोपे सन्धिकार्ये (परसवर्णादिकार्य ) टापि 'उत्तभिता' इति भवति । अत्र सूत्रे ( ग्रसित०) स्तभितेयेव सिद्धे उत्पूर्वस्य पुन- निपातनमन्योपसर्ग पूर्वस्य स्तमितेः मा भूदिति ज्ञापनार्थम् । प्रमिणन्ति व्रतानि ( १९३६ )-मीनातेर्लटि झिप्रत्यये मेरन्तादेशे "हिनु- मीना" इति णत्वे "मीनातेनिगमे” इति सूत्रेण ह्रस्वे णत्वे 'प्रमिणन्ति' इति सिद्धम् लोके तु प्रमीणन्ति' इति भवति । सर्वमा इदम् ( १९४२ )-अस्धातोर्लकि तिपि शपि शपोलुकि “आडजा; दीनाम्" इति सूत्रेणाटि “श्राटश्च" इति सूत्रेण वृद्धौ “इतच" इतीकारलोपे “अस्ति- सिचोऽपृत्ते" इतीडागमे प्राप्ते “बहुलं छन्दसि" इतीडभावेऽपृक्तत्वाद्धल्यादिलोपे आ+स् इदम् इति जाते सस्य रुत्वे विसर्ग संहितायां “भोभगो." इति रोयत्वे "लोपः शाकल्यस्य” इति यलोपे 'आ इदम्' इति एवम् सर्वमा इदम् इति भवति लोके तु आसीत्' इति भवति । आनुषगजुजोषत् (१९३०)-प्रीतिसेवनार्थक ईकारेत्संज्ञकजुष्धातोर्लेटि व्यत्य- येन परस्मैपदे तिपि “इतश्च लोपः परस्मैपदेषु" इतीकारस्य लोपे “लेटोडाटौं' इत्यटि व्यत्ययेन शपः श्लौ "श्लौ" इति सूत्रेण द्वित्वे अभ्यासकार्ये लघूपधगुणस्य “नाभ्य स्तस्याचिपिति सार्वधातुके” इति सूत्रेण निषेधे प्राप्ते “नाभ्यस्तस्याचीति निषेधे बहुलं छन्दसीति वक्तव्यम्” इति लघूपधगुणे 'जुजोषत्' इति भवति । लोके लेट: लकारो न भवति लोटि 'जुषताम्' इति भवति ।

३२ स्वरवैदिकप्रश्नोत्तरी। नित्यं छन्दसि इत्यनेन किं भवति ( १९४२) अनेन सूत्रेण छन्दसि विषये चड्युपधाया ऋवर्णस्य ऋन्नित्यं भवति । अवीवृधत् (१९५२)-भाषार्थकोकारेत्संज्ञकणिजन्तवृधधातो ङि तिपि च्लौ च्लेश्वद्धि द्वित्वेऽभ्यासत्वे "उरत्' इत्यत्वे रपरत्वे हलादिः शेषे अडागमेऽनुब- न्धलोपे अभ्यासस्येत्वे दीघे "इतश्च" इतीकारलोपे “नित्यं छन्दसि” इति सूत्रेण चच्युपधाया ऋवर्णस्य नित्यं 'ऋत्' इत्यादेशे तेन गुणाभावे 'अवीवृधत्' इति भवति । ' जनीयन्तोन्वग्रवः ( १९४०)-जनमिच्छन्त इति विग्रहे क्यचि प्रत्ययेऽनु- बन्धलोपे "अपुत्रादीनामिति वाच्यम्" इति बलात् "क्यचि च" इति सूत्रेणावर्ण. स्थेकारे लटि लटा,शत्रादेशे जसि विभक्तिकार्य ‘जनीयन्तः' इति भवति । अश्वायन्तो मघवन् ( १९३२)-अश्वशब्दात् क्यच्यनुबन्धलोपे “अश्वा- घस्यात्" इति सूत्रेणाद्रादेशो 'अश्वाय' इति जाते लटि लटः स्थाने शत्रादेशे अनुव- न्धलोपे जसि विभक्तिकार्ये 'अश्वायन्तः' इति सिद्धम् । वृका अघायवः (१९२७) अघशब्दात् “छन्दसि परेच्छायां क्यच्" . इति सूत्रेण क्यचि प्रत्ययेऽनुबन्धलोपे “क्याच्छन्दसि' इति सूत्रेण क्यजन्तात् उप्रत्यो सति दीर्धे प्राप्ते "न छन्दसि" इति निषेधे “अश्वाघस्यात्" इति सूत्रेण घोत्तरवर्तिनोऽकारस्याऽऽति निष्पन्नादघायुशब्दाज्जसि विभक्तिकार्ये 'अघायवः' इति सिद्धयति । अकृत्सार्वधातुकयोर्दीर्घः इत्यनेनैव दीर्घ सिद्धे 'अश्वाघस्यात्' इत्यस्य फलम् ( १९४०) ननु 'अश्वायन्तो मघवन्' ‘मा त्वा वृकाअघायवः' इत्यादौ "अकृत्सार्वधातुकयोर्दीर्घः' इत्यनेन दीर्घेणैव सिद्ध "अश्वाघस्यात्" इति सूत्रं व्यर्थ- मिति चेन "म छन्दसि" इति निषेधो नेत्वमात्रस्य किन्तु दीर्घस्यापीति ज्ञापनेन 'अश्वायन्तो मघवन्' 'मात्वा वृका अघायवः' इत्यादीनां सिद्धयेऽस्त्य ( अश्वावस्यात् इत्यस्य) आवश्यकत्वात् । देवसुम्नयोर्यजुषि काठके (१९४१) इति सूत्रस्वरूपम् अनयोः ( देवसु- म्नयोः) क्यचि आत् स्याद्यजुषि कठशाखायाम् । इति वाक्यार्थः । कव्यध्वरपृतनस्यचिलोपः (१९४५)-इति सूत्रस्वरूपम् । कवि-अध्वर- पृतना एषामन्त्यस्य लोपः स्यात् क्यचि परे ऋचि विषये । इति व्याख्यार्थः ।

वैदिकप्रकरणे सप्तमोऽध्यायः । सपूर्वया निविदा कव्यतायोः । अध्वर्यु वा मधुपाणिम् । दमयन्तं पृतन्युम् । इत्युदा- हरणानि । गर्भ माता सुधितं वक्षणासु ( १९४२ )-सुपूर्वकदधातेः क्तप्रत्ययेऽनुबन्धलोपे “सुधित वसुधित नेमधित धिष्व धिषीय च" इति सूत्रेण निपातनात् आकारस्येत्वे विभक्तिकार्ये 'सुधितम्' इति भवति । धिष्व वज्रम् ( १९२६)-धाधातोः लोटि थासि सार्वधातुकत्वे “थासः से" इति सूत्रेण थासः से आदेशे "सुधित वसुधित नेमधित धिष्व धिषीय च” इति सूत्रेण धकारोत्तराकारस्येत्वे "सवाभ्यां वामौ" इति वकारादेशे "आदेशप्रत्यययोः” झते. सूत्रेण षत्वे 'घिच इति । लोके तु 'धत्स्व' इति भवति । दाधर्ति० ( १९३९-५२ )-दाधर्तिदर्घर्तिर्षिोभूतुतेतिक्तेलाऽऽपनी- फणसंसनिष्यदत्करिक्रत्कनिकदद्भरिभ्रदविध्वतोदविद्युतत्तरित्रतःसरीसृपतंवरीवृज. न्मर्मज्याऽऽगनीगन्तीति च" एते दाधर्तिप्रभृतयः अष्टादश छन्दसि निपात्यन्ते । तत्र यथा श्राद्यास्त्रयः ( दाधर्ति दर्धति दर्धर्षि ) अनवस्थानार्थकधृडो धारयते, (णिजन्तस्य धृतो वा) रूपम् । तत्र-अतिसक्षेपपुरस्सरं लिख्यते-दाधीत्यत्र धारयतेर्लटि शपि शपः श्लौ णिलुकि अभ्यासकार्य अभ्यासस्य दीर्घत्वं च निपा- त्यते । धृडो वा शे प्राप्त व्यत्ययेन शप् तस्य श्लावभ्यासस्य दीर्घत्वं च निपात्यते अत्र परस्मैपदमपि निपात्य तस्यैव यग्लुक्यभ्यासस्य रुगाद्यपवादकं दीर्घत्वं निपा- त्यते इति । दर्धर्तीत्यत्र-यच्लुक्पक्षे दाधर्तीति निपातनेन प्राप्तस्य दीर्घस्याभावो निपात्यते । “रुनिकौ च लुकि" "ऋतश्च" इत्येव रुक् सिद्धः। श्लुपक्षे तु गपि निपात्यः । दर्धर्षीत्यत्र यङ्लुक्पक्षे न किञ्चिन्निपातनं किंतु श्लावेव । भवतैर्य लुगन्तात् लोटि तिबादिकायें निपातनात् यङलुगन्तस्य गुणाऽभावे बोभूतु इति । (भाषायां तेन गुणो लभ्यते ) ननु “भुसुवास्तडि" इत्मेच गुणनिषेधे निपातनमन- र्थकमिति चेत्सत्यम् । ज्ञापकाथं तर्हि निपातनम् । एतज्ज्ञापयति अन्यन्न यङलुग- न्तस्य गुणप्रतिषेधोल भवतीति तेन 'बोभवीति' इत्यत्र भाषायां गुणः सिद्धस्तदेत- दाह-तेनभाषायां गुणो लभ्यते इति । तिजेर्यङलुगन्तात्तनिपात्यते शेष कार्य पूर्ववत् 'तेतिक्ते' इति । 'अलर्षि' युध्म खजकृत्पुरन्दर इति । (१९४७) अलर्षि 'ऋ' गतौ लटि सिमि शरि श्लो 'श्लौ' इति द्वित्वेऽभ्यासत्वे अभ्यासस्य हलादिः शेषापवादों रेफस्य लत्वं निपात्यते । “अतिपिपयोश्च" इत्यभ्यासस्य प्राप्तस्येत्वस्याभावो निपात्यते । ३ स्व०प्र० . ३४ स्वरवैदिकप्रश्नोत्तरी। अलतिदक्षउत ( १९५०)-इदमपि अलर्षिवत् वोध्यम् । केवलंतिपि रूपमिदं भवति इति विशेषः । सिपा निर्देशो न तन्त्रम् । फणतेरापूर्वस्य यङलुगन्तस्य शतरि अभ्यासस्य नीगागमो निपात्यते 'अन्वापनीफणत्' । स्यन्देः सम्पूर्वस्य यङलुकि तरि अभ्यासस्य निक धातुसकारस्य षत्वम् । करोतेर्यङलुगन्तस्याभ्यासस्यचुत्वा- भावः। 'करिक्रत्' इति । कनिक्रदजनुषम् ( १९६० )-'कनिक्रदत्' अत्र दाधर्ति दर्धर्ति दर्धर्षि बोभूतु तेतिक्ते इत्यादिसूत्रेण कनिक्रदत् इति निपातनात् क्रन्दे कि तिपि च्लौ च्लेरकि द्विर्वचनेऽभ्यासकार्ये “कुहोवु०" इति सूत्रेण प्राप्तस्याभ्यासस्य चुत्वस्याभावे 'इतश्च" इतीकारलोपे निगागमेऽनुबन्धलोपे नकारलोपे च कनिक्रदत् इति ततः संहितायां धुत्वे 'कनिक्रदलनुषम्' इति भवति । लोके तु 'अक्रन्दीत्' इति । विभतेरभ्यासस्य जश्त्वाभावः । वि यो भरिभ्रदोषधीषु । दविध्वतो रश्मर सूर्यस्य ( १९२८) अत्र प्रयोगांशे 'दविध्वतः' इत्यत्र . "दाधर्ति " इत्यादिना यजुगन्तशत्रन्तध्वरतेरभ्यासस्य निपातनात् विगागमे धातो- ऋकारलोपे च 'दविच्चत्' शब्दस्य 'दविश्वतः' इति भवति । शत्रन्तावस्थायां नुम् तु न भवति "नाभ्यस्ताच्छतुः" इति निषेधात् । गुतेर्यब्लुगन्तस्य शतरि अभ्यासस्य सम्प्रसारणाभावोऽत्वं , विगागमश्च निपा- त्यते तेन दविद्युतत् दिद्यच्छोशुचानः। तरतेः शतरि श्लौ अभ्यासस्य रिगागमः। सहोर्जा तरित्रतः। सुपेः शतरि श्लो द्वितीयकवचने रीगागमोऽभ्यासस्य । वृजेः शतरि श्लावभ्यासस्य रीक् । मृजेलिटि णल् अभ्यासस्य रुक् धातोश्चयुक् । वक्ष्यन्ती वेदागनीगन्ति कर्णम् ( १९४६ ) अत्र प्रयोगांशे गमेराङपूर्वस्य लटि श्लावभ्यासस्य चुत्वाभावो नीगागमश्च निपात्यते । अलर्षि युध्म खजकृत्पुरन्दरः । ( १९४७ ) अलति दक्ष उत । ( १६५०) कनिक्रदजनुषम् । ( १९३०) दविध्वतो रश्मयः सूर्यस्य । ( १९२८) वक्ष्यन्ती वेदागनीगन्ति कर्णम् । (१९४६ ) एते सर्वे प्रयोगाः 'दाधर्ति सूत्रस्थप्रयोगसाधनावसरे साधिताः द्रष्टव्याश्च ते । गृष्टिः ससूत्र स्थविरम् ( १९३७) सूतेलिटि "ससूवेति निगमे” इति सूत्रे वैदिकप्रकरणे अष्टमोऽध्यायः । “ससूर्व इति पाठात् निपातनात् परस्मैपदे तिपि णलादेशेऽनुवन्धलोपे द्वित्वे अभ्या- सत्वे निपातनादेववुगागमेऽभ्यासस्यात्वे 'ससूव' इति। लोके तु 'मुषु।' इति भवति । पूर्णा विवष्टि-( १९४९ ) कान्त्यर्थकवशधातोर्लटि तिपि शपि शपः श्लौ द्वित्वे "बहुलं छन्दसि" इत्यभ्यासस्येत्वे "वश्वभ्रस्जसृजमृजयजराजभ्राजच्छशां पः" इत्यनेन षत्वे ष्टुत्वे 'विवष्टिं इति भवति । इति सप्तमोऽध्यायः अथ अष्टमोध्यायः प्रप्रायमग्निः (१९२७ ) अत्र प्रयोगांशे "प्रसमुपोदः पादपूरणे' इति सूत्रेण द्वित्वे 'प्रप्रायमग्निः' इति भवति । एवंविधस्य भाषायां प्रयोगो नास्तीति छन्दस्ये- वेदं विधानम् । अक्षण्वन्तः ( १९४६-५०) अशिशब्दान्मतुपि "अस्थिदधिसक्थ्यक्ष्णा- मनकुदात्तः” “छन्दस्यपि दृश्यते" इत्यनकि नुटोऽसिद्धत्वात् पूर्व नलोपे भूतपूर्व- गत्या 'अनो नुट्" इति नुटि उटावितौ णत्वे वत्वे जसि रूपम् । ननु यदि परादि- र्नुट् क्रियते तस्य मतुपग्रहणेन ग्रहणात् “मादुपधायाश्च मतोर्वोऽयवादिभ्यः” इति वत्वं मतुपस्तु न स्यात् नुटा व्यवधानात् । यदि तु पूर्वान्तो नुट क्रियते तर्हि णत्वं न स्यात् । ‘पदान्तस्य' इति निषेधादिति चेत्सत्यम् । नुटोऽसिद्धत्वान्नोक्तदोषः । नन्वेवमवग्रहे दोषः स्यात्, अक्षणिति णान्तं ह्यवगृह्णाति अक्षत्यकारान्तमवमहीतु- मुचितमिति चेत्सत्यम्, न लक्षणेन पदकारा अनुवाः पदकारैर्नामलक्षणमनुवर्तनीयं तस्माद्यथालक्षणं पदं कर्तव्यमिति महाभाष्ये स्थितम् । किं च ईयिवांसम् इत्यादौ पदत्वं विनापि अवग्रहः क्रियते । पूर्वेभिरग्निनेत्यादौ सत्यपि पदत्वे न क्रियते इति । नसत्तनिषत्तानुत्तप्रतूर्तसूर्तगूर्तानि छन्दसि" ( १६४६ ) एतानि छन्दसि निपात्यन्ते । सदेननपूर्वान्निपूर्वाच्च निष्टायां नत्वाभावो निपात्यते । नसत्तमजसा, निषत्तमस्य चरतः । उन्दैनअपूर्वस्यानुत्तम् निपातनात् भवति । प्रतूर्तमिति त्वरतेः तुर्वीत्यस्य वा । सूर्तमिति 'सृ' इत्यस्य । गूर्तम्-इति गूरी इत्यस्य । एतानि उदाहरणानि सन्ति । निषत्तमस्य चरतः (१९२९) निपूर्वकलकारेत्संज्ञकषद्धातोः “धात्वादेः षः सः" इति. सूत्रेण सकारे निष्टासंज्ञकक्तप्रत्ययेऽनुबन्धलोपे “सदिरपतेः" इति स्वरवैदिकप्रश्नोत्तरी। सूत्रेण सकारस्य षत्वे "रदाभ्यां निष्ठातो नः पूर्वस्य च दः” इति निष्टातकारस्य नत्वे प्राप्ते "नसत्तनिषत्ताऽनुतप्रतूर्तसूर्तगूर्तानिच्छन्दसि” इति सूत्रेण निपातनात् नत्वाभावे चत्वं विभक्तिकायें 'निषत्तम्' इति भवति । एवञ्च 'निषत्तमस्य चरतः' इति भवति । भुवरिति ( १९२९ ) अत्र “भुवश्च महाव्याहृतेः" इति भुवसः सकारस्य रेफे भुवरिति रुत्वपक्षे भुव इति भवति । ये ३ यजामहे ( १९४७ ) अत्रांशे ये अत्र “ये यज्ञकर्मणि" इति सूत्रेण ये इत्यस्य प्लुते जाते थेश्यजामहे' इति भवति । अग्निमा ३ वह (१९५०) अत्रांशे “ब्रूहिप्रेभ्यश्रौषड्वौषडावहानामादेः" इति सूत्रेणाबहादेः प्लुते जाते 'अग्निमा ३ वह' इति भवति । अग्नीत्प्रेषणेपरस्य च ( १९४२ ) अग्नीधः प्रेषणे आदेः प्लुतस्तस्मात् परस्य च प्लुत इत्यर्थः । अद्यामावास्येत्यात्थ ३ ( १९४० ) पत्र प्रयोगे "निगृह्याऽनुयोगे च” इति सूत्रेण वाक्यस्य टेः प्लुतत्वे "अद्यामावास्येत्यात्थ ३' इति भवति । अङ्गयुक्तं तिडाकाङ्कम् (१६४६ ) इति सूत्रस्वरूपम् । अङ्गत्यनेन युक्त तिङन्तं तिब्प्रत्ययान्तमित्यर्थः प्लवते प्लुततामाप्नोति प्लुतो भवतीत्यर्थः । अङ्ग कूज ३ इदानी ज्ञास्यसि जाल्म । इत्यादि । प्रतिश्रवणे च (१९४६ ) इति सूत्रस्वरूपम् । वाक्यस्य टेः प्लुतोऽभ्युपगमे प्रतिज्ञाने श्रवणाभिमुख्य च इति व्याख्यार्थः । गां मे देहि भोः । हन्त ते ददामि ३ । नित्यः शब्दो भवितुमर्हति ३ । दत्त किमात्थ ३ । इत्युदाहरणानि । हन्त दुदामि ३ (१९४२-४७ ) अत्र "प्रतिश्रवणे च” इति सूत्रेण वाक्यस्य टेः प्लुते जाते 'हन्त ते ददामि ३' इति भवति । अग्निचिद्भाया३त् ( १९४०) अत्र "चिदिति चोपमार्थे प्रयुज्यमाने" इति सूत्रेण प्लुते 'अग्निचिद् भाया ३ त्' इति । अधः स्विदासीत् ( १९३८ ) अत्र “विचार्यमाणानाम्" इति विहितप्लुतस्य "उपरिस्विदासीदिति च” इति सूत्रेणानुदात्तत्वे 'अधः स्विदासी ३ तू इति भवति । अभिरूपक ३ अभिरूपक रिक्तं बे आभिरूप्यम् (१९४६ ) अत्र ३ वैदिकप्रकरणे अष्टमोऽध्यायः । "स्वरितमानेडितेऽसूयासंमतिकोपकुत्सनेषु” इति सूत्रेण स्वरितस्य प्लुतत्वे 'अभिरू- पक ३ अभिरूपक रिक्तं ते आभिरूप्यम्' इति भवति । क्षियाशीःश्रेषेषु तिडकातम् इति सूत्रस्वरूपम् । आकाङ्क्षस्य तिङन्तस्य टेः स्वरितः प्लुतः स्यात् इत्यर्थः । प्लुतावैच इदुतौ ( १९२९ ) इति सूत्रस्वरूपम् । दूराद्धृतादिषु प्लुतो विहि- तस्तत्रैव ऐचः प्लुतप्रसङ्गे तदवयदाविदुतौ प्लवेते, इत्यर्थः । ऐ ३ तिकायन । औ ३ पगव । इत्युदाहरणे । अग्ना ३ इ पत्नीवः ( १९२८) अत्र प्रयोगे “आमन्त्रिते छन्दसि प्लुत- विकारोयं वक्तव्यः" इत्यनेन प्लुतविकारे अग्ना ३ इ पत्नीवः इति भवति । तयोर्वावचि संहितायाम् ( १९३९ ) इदुतार्यकारवकारौ स्तोऽचि संहिता- यामित्यर्थः। अग्ना ३ यिन्द्रम् ( १९४७ ) अत्र “तयोविचि संहितायाम्" इति सूत्रे- रोकारस्य यकारे 'अग्ना ३ यिन्द्रम् इति भवति । तयोर्वावचिसूत्रारम्भप्रयोजनम् ( १९२६, ३९, ४१, ४३, ४५ ) ननु "इको यणचि'' इत्यनेनैव सिद्ध लक्ष्ये "तयोविधि संहितायाम्" इति सूत्रं व्यर्थ- मिति चेन्न इदुतोरसिद्धत्वेनास्यावश्यकत्वात् । न च 'सिद्धः प्लुतः स्वरसन्धिषु' कथं ज्ञायते प्लुतप्रगृह्या अचीति प्रकृतिभावविधानात् । यस्य हि विकारः प्राप्तस्तस्य प्रकृतिभावो विधेयः प्लुतस्यासिद्धत्वेन तस्य स्वरसन्ध्याख्यो विकारः प्राप्नोति । अस्तु प्लुतः सिद्धः किंयातमिदुतोः ? उच्यते-प्लुतप्रकरणे यत्कार्य तत् स्वरस- न्धिषु सिद्धमिति सामान्येन ज्ञापकमाश्रयिष्यते ततश्चेदुतोरपि सिद्धत्वासिद्ध एव यणादेशः किमर्थमिदमिति वाच्यम् सवर्णदीर्घत्वस्य शाकल्यस्य च निवृत्यर्थमस्या- वश्यकत्वात् । यदीदं नोच्येत अग्ना ३ इ इन्द्रम, पटा ३ उ उदकम् इत्यत्र षाष्टिक यणादेशं बाधित्वा सवर्णदीर्घः स्यात् । अग्ना ३ याशेत्यादौ च "इको सवर्णे शाकल्यस्य ह्रस्वश्च” इति प्रकृतिभावः स्यात्तद्वाधनार्थमिदं वक्तव्यमेव । ननु च तन्निवृत्तये यत्नान्तरमस्ति किं पुनस्तत्प्लुतपूर्वस्य यणादेशो वक्तव्यः सवर्णदीर्घनि- वृत्यर्थः शाकलनिवृत्त्यर्थश्च तच्चावश्यं वक्तव्यं य इक् प्लुतपूर्वः न च प्लुतविकारः भो ३ इ इन्द्र भोयिन्द्र गायतीति भोशब्दस्य छान्दसः प्लुतः ततः परस्येकारस्य निपातत्वात् प्रकृतिभावे प्राप्ते तम्प्रबाध्य यणादेशार्थं तस्यावश्यं कर्तव्यत्वे तेनैव ३८ स्वरबैदिकप्रश्नोत्तरी! यणा सिद्ध पुनरपि व्यर्थमेवेति चेन्न यवयोरसिद्धत्वादुदात्तस्वरितयोर्यणः स्वरितोऽ- नुदात्तस्येत्यस्य बाधनार्थमस्याऽवश्यकत्वात् । तथा चोक्तं वृत्तिकृता--- किन्तु यणा भवतीह न सिद्धं य्वाविदुतोर्यदयं विदधाति ।। तौ च मम स्वरसन्धिषु सिद्धौ शाकलदीविधी तु निवत्यौँ ॥११॥ इक् च यदा भवति प्लुतपूर्वस्तस्य यणं विदधात्यपवादम् ॥ तेन तयोश्च न शाकलदीधौँ यणस्वरबाधनमेव तु हेतुः ॥२॥ अस्यायमर्थः-“इकोयणचि" इति यणादेशेन किं रूपं नसिद्धयति यतोऽय- माचार्य इदुतोवौं विदधाति तौ चेदिदुतौ स्वरसन्धिषु सिद्धौ ममेति सूत्रकारेणै- कीभूतस्य वचनम् । एवञ्चोदिते परिहरति--"शाकलदीर्घविधौ तु निवत्यौ' इति पुनश्चोदयति इक् च यदेति वार्तिककारोऽपि इकः प्लुतपूर्वस्य यणं विदधाति स च प्रकृतिभावस्येव शाकलदीर्घविध्योरपि अपवादः । ततश्च तेनैव यणा एतयोरपि इदुतोः शाकलदीधौं न भविष्यत इति नार्थ एतेन । परिहरति ‘यणस्वरेति' यणस्व- रवाधनमेव हेतुः सूत्रारम्भस्येति दिक् । मतुवसो रु सम्बुद्धौ छन्दसि । (१९३७) मत्वन्तस्य वस्वन्तस्य च रुः स्यात् सम्बुद्धौ छन्दसि विषये इत्यर्थः । इन्द्र मरुत्व इह पाहि सोमम् । हरिवो मेदिनं त्वा । इत्युदाहरणे। 'हरिवो मेदिनं त्वा ( १९२९, ३३, ४३, ४८)-हरयो विद्यन्ते यस्येति विग्रहे "तदस्यास्त्यस्मिन्निति मतुप्" इति मतुपि अनुबन्धलोपे “छन्दसीरः" इति. मकारस्य वकारे हरिवच्छब्दात् सम्बुद्धयेकवचने सौ "उगिदचां सर्वनामस्थानेऽ- धातोः' इति सूत्रेण नुमि उमावितौ "हल्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्" इति सूरेश सुलोपे संयोगान्तलोपे च कृते "अलोन्त्यस्य' इति परिभाषाबलात् "मतुवसो रु सम्बुद्धौ छन्दसि" इति सूत्रेण नकारस्य रुत्वे “संयोगान्तलोपो रोरुत्वे सिद्धो वक्तव्य" इति बलात् “हशि च" इत्युत्वे गुणे च हरिवो' इति एवञ्च 'हरिवो मेदिनं त्वा' इति भवति । दाश्वान साहान् मीढ्वांश्च ( ९४४६ )-इति सूत्रस्वरूपम् । एते प्रयोगाः ( दावान् साह्वान् , मीत्वान् , एते) वसु प्रत्ययान्ताः निपात्यन्ते । उदाहरण तु स्पष्टमेव । पशुंस्तांश्चक्रे ( १९५० ) पशुन् तानिति स्थिते "नश्छव्यप्रशान्' इति सूत्रेण वैदिकप्रकरणे अष्टमोऽध्यायः। नित्ये रुत्वे प्राप्ते तम्प्रवाध्य "उभयथर्धा” इति सूत्रेण विभाषा रत्वे पूर्वत्र "अत्राs- नुनासिकः पूर्वस्य तु वा” इति वानुनासिके उत्तरत्र अनुनासिके च रेफस्य विसर्गे सत्वे 'पशूस्ताश्चके” इति भवति । महाँ इन्द्रो य ओजसा ( १२४६, ४७) अत्रांशे 'महान्' अत्रत्यनकारस्य सत्वे यत्वे लोपे “आतोऽटि नित्यम्” इति नित्यमनुनासिके 'महाँ इन्द्रो य ओजस' इति भवति। आतोऽटि नित्यम् ( १९२५ ) अटि परतो रोः पूर्वस्यातः स्थाने नित्यमनु- नासिकः स्यात् । 'महाँ इन्द्रः' इत्यत्र रो पूर्वस्यातः स्थानेऽनुनासिकः । तैत्तरीयाणी मते तु सूत्रफले चिन्त्यम् । छन्दसि वाऽप्रामेडितयोः (१९२५) 'अग्ने त्रातर्ऋतस्कवि: गिरिन विश्वत- स्पृथुः अत्र विसर्गस्य सकारादेशः। सुपेशस्करति (१९४६ ) अत्र “कः करत्करतिकृधिकृतेष्वनदितेः” इति सूत्रेण 'सुपेशः करति अत्रत्यविसर्गस्य सत्वे 'सुपेशस्करति' इति सिद्धम् । दिवस्पातु ( १९५२ ) अत्र पञ्चमीसमासे ‘पातौ च बहुलम्" इति सूत्रेण च 'दिवः पातु अत्रत्यविसर्गस्यसकारे 'दिवस्पातु' इति भवति । तमसस्पारमस्य ( १९३८) अत्र षष्टीसमासे “तत्पुरुषे कृति" इत्यलुकि रुत्वे विसर्गे “षष्ठथाः पतिपुत्रपृष्टपारपदपयस्पोषेषु' इति सूत्रेण षष्टीविसर्गस्य सादेशे "तमसस्पारमस्य" इति सिद्धम् । रायस्पोषं यजमानेषु ( १९४१) अत्रापि पूर्ववत् षष्ठीसमासेऽलुकि रुत्वे विसर्गे “षष्ठयाः पतिपुत्रपृष्ठपारपदपयस्पोषेषु” इति षष्टीविसर्गस्य पोषे परे सकारे "रायस्पोषम्' इति एवञ्च रायस्पोषं यजमानेषु' इति भवति । निसस्तपतावनासेवने ( १९२५) निसः सकारस्य मूर्द्धन्यः स्यात् । निष्टतं रक्षो निष्टता अरातयः । अत्र सकारस्य मूर्द्धन्यादेशः। त्रिभिष्टुं देव सवितः (१९३७) एतद्वाक्यघटक त्रिभिष्ट्दम्' इत्यत्र 'त्रिभिः त्वम्' इति स्थिते सत्वे “युष्मत्तत्ततक्षुष्वन्तःपादम्" इति सूत्रेण सस्य मूर्धन्यादेशे “टुना टुः" इति ष्टुत्वे 'त्रिभिष्ट्वम्' इति भवति । एवञ्च 'त्रिभिष्ट्वं देव सवितः' इति भवति । तेभिष्ट्वा ( १९५१ ) एवमेव कार्ये जाते तेभिः त्वा इति स्थिते सत्वे “युष्मत्तत्त- तक्षुष्वन्तः पादम्" इति सस्य षत्वे ष्टुत्वे 'तेभिष्ट्वा इति भवति ।

स्वरवैदिकप्रश्नोत्तरी। अप्स्वग्ने सधिष्टव ( १९४२) अत्रांशे च पूर्ववत् 'सधिः तव इति स्थिते सत्वे सस्य "युष्मत्तत्ततक्षुष्वन्तः पादम्” इति सूत्रेण सस्य षत्वे टुत्वे 'सधिष्टव' इति एवञ्च अप्स्वग्ने 'सपिष्टव' इति भवति । व्यसीदत् ( ११९२६ ) विपूर्वकलकारेत्संज्ञक-षद्धातोः “धात्वादेः षः सः" इति सूत्रेण सत्वे लङि तिपि शपि प्राप्ते तम्प्रबाध्य “तुदादिभ्यः शः” इति शेऽनु- वन्धलोपे सार्वधातुकत्वे “पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसतिशदसदां पिबजिघ्रधमतिष्ठ- मनयच्छपश्यर्छौशीयसीदाः” इति सूत्रेण सीदादेशे “लुङ्लङलुवडुदात्तः इति सूत्रेणाडागमे यणदेशे “इतश्च' इतीकारस्क लोपे “सदिरप्रतेः" इति नित्यमूर्धन्या- देशे प्राप्ते तम्प्रबाध्य 'नियभिभ्योऽव्यवाये वा छन्दसि” इति वैकल्पिकमूर्द्धन्या देशे व्यषीदत्' इति मूर्धन्याभावपक्षे 'व्यसीदत्' इति सिद्धम् । लोके तु 'व्यषीदत्' इत्येकमेव रूपं भवति। अभ्यष्टौत् (१९५१) स्तुत्यर्थकष्टुधातोः “धात्वादेः षः सः" इति सत्त्वे "निमित्तापाये नैमित्तिकस्याऽप्यपायः” इति न्यायेन तकारे 'स्तु' इति जाते लडि तिपि शपि शपो लुकि अडागमे 'इतश्च' इतीकारलोपे "उतोवृद्धिलुकि हलि” इति वृद्धौ "निव्यभिभ्योऽव्यवाये छन्दसि” इति सस्य षत्वे ष्टुत्वे 'अभ्यष्टोत्' इति भवति । मूर्द्धन्याऽभावपचे 'अभ्यस्तोत्' इति भवति । सुमणः (१९४०) अत्र प्रयोगे “छन्दस्य॒दवग्रहात्" इति सूत्रेण णत्वे 'नृमणः' इति भवृति । पितृयाणम् ( १९३८-४४ ) अत्रापि “छन्दस्य दवग्रहात्” इति सूत्रेण णत्वे 'पितृयाणम्' इति सिद्धम् । अभीषु णः (१९४७-५०) अत्र प्रयोगांशे अस्मदादेशस्य नस् इति स्थिते 'इकः सुमि' इति सूत्रेण दी नस् अत्रत्यनकारस्य "नश्च धातुस्थोरुषुभ्यः" इति णत्वे विसर्गे 'अभीषु णः' इति भवति । मो षु णः ( १९३५) अत्र प्रयोगे अस्मदादेशस्य नसित्यत्रत्यनकारस्य नश्च धातुस्थोरुषुभ्यः इति सूत्रेण णकारे सकारस्य रुत्वे विसर्गे च मो षु णः' इति सिद्धम् । इत्यष्टमोऽध्यायः॥ इति वैदिकी प्रक्रिया समाप्ता।

अथ स्वरप्रकरणम् तत्र प्रथम साधारणस्वर: गोपायतं नः (१९४४-४७)- 'गुप्' इत्यस्य “धातोः" इत्यन्तोदात्ते तत आयप्रत्यये "आयुदात्तच" इति प्रत्ययस्वरेणायुदात्ते ततः “सनाद्यन्ताधातवः" इति सूत्रेण धातुसंज्ञायां "धातोः” इति यकाराकारस्योदात्ते, प्रागुक्तयोरुदात्तयोः सतोः पश्चात् प्रवृत्तत्वात् सति शिष्टः स यकाराकार एवोदात्तः, अतोऽयमेव बलवान् । तस्य "अनुदात्तसुप्पितौ' इति सूत्रेण कृतानुदात्तेन शबकारेण सह अतो गुणे" इति पररूपे कृते “एकादेश उदात्ते- नोदात्तः” इत्युदात्ते थसस्तमादेशे तस्य “तास्यनुदात्तद्धिदुपदेशात् ०" इत्यनेनादुप- देशात् परत्वादनुदात्तत्वम् । तस्य च "उदात्तादनुदात्तस्य स्वरितः” इति स्वरिते, 'स्वरितात्संहितायाम्' इति नकारस्य एकश्रुतौ ‘गोपायतं नः' इति । नन्वत्र तमिति स्वरितमाश्रित्य "अनुदात्तं पदमेकवर्जम्” इति परिभाषया शेषनिघातः स्यादिति चेन्मैवम् । यथोद्देशपक्षाश्रयणेनेयं परिभाषा त्रिपाद्यां न प्रवर्तते इत्यत्र ज्ञापकं तव्यत- स्तित्वं “यतोऽनावः" इति च । सतिशिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्य इति वाच्यम् ( २६, २८, ३०, ४०, ४३, ४९ )- सति शिष्टेति-यो हि यस्मिन् सति शिष्यते स शिष्टः तस्य बाधको भवती- त्यर्थः। एतच्च सति शिष्टस्य वाधकत्वं न्यायसिद्धम् । तथा हि उदात्तस्वरितविधि. भिरेकवाक्यतामापनयाऽनया शेषनिघातः क्रियते तत्रोत्सर्गस्यापवादस्य वा चरमा या प्राप्तिस्तत्रास्या उपस्थाने पूर्वा प्रवृत्तिर्वाध्यते । तद्यथा-औपगवत्वमित्यत्राणप्रत्यये त्वप्रत्यये च "आयुदात्तश्च” इति प्रार्तमानं स्वस्यैव प्रथमप्रवृत्तिं बाधते द्वितीयप्रवृत्त्या लक्ष्यं परिनिष्टापयतीतिदिक् "गोपायतं नः" उदाहरणम् । ननु यदि सति शिष्टः स्वरो बलीयांस्तहि सति शिष्टत्वात् विकरणस्वरोऽपि बलीयान् स्यात तथाच 'गृणीत' इत्यादि मध्योदात्तं पदं स्यादत आह-अन्यत्र विकरणेभ्य इति। सति शिष्टोऽपि विकरणस्वरः प्रत्ययस्वरं न बाधते इत्यर्थः। अत्र च ज्ञापकं तासेः परस्य लसार्व. धातुकस्यानुदात्तविधानम् । तथाहि यद्यपि लावस्थायां तासिर्विधीयतेत थापि लकार- मात्रापेक्षत्वादन्तरङ्गेषु परेषु च लादेशेषु कृतेषु पश्चात्तासिरिति तत्स्वरस्य सति शिष्ट- त्वात् शेषनिघातेनैव सिद्धरनर्थक तत्स्यात् । इति शम् । ७ ४२ स्वरवैदिकप्रश्नोत्तरी। देवीं वाचम् ( १९२५,३६,४१, ४७ ) देवशद्वस्याच्प्रत्ययान्तत्वात् “चितः” सूत्रेणान्तोदात्तत्वे पचादिषु 'देवट' इति पाठात् "टिड्ढाणद्वयसदनअमात्रच्त- यप्ठकठकमवरपः” इति सूत्रेण डीपि तस्य "अनुदात्तौ सुप्पितौ" इति सूत्रेणानुदा- तत्वे “यस्येति च” इति सूत्रेणाकारस्य लोपे “अनुदात्तस्य च यत्रोदात्तलोपः” इति सूत्रेण डीबुदात्तः। ननु “अनुदात्तस्य च यत्रोदात्तलोपः" इति सूत्रे अनुदात्तस्येति व्यर्थम् नादात्ते स्वरितेवा परे उदात्तलोपोऽस्ति । न च प्रसज्यते इति प्रासङ्गः अत्र कर्मणि पूर्व “कर्षात्वतो घोऽन्त उदात्तः" इत्यन्तोदात्तत्वे "उपसर्गस्य घमनुष्ये वहुलम्' इत्युपसर्गस्य दीर्दै तं वहतीति “प्राग्घितायत्" इति सूत्रेण यति तित्त्वातस्वरिते तस्मिन् परे "यस्येति च" इति लोपः । एवञ्चात्र स्वरिते परे उदात्तलोपोऽस्त्वेति वाच्यम् । स्वरिते हि विधीयमाने परिशिष्टम् “अनुदात्तं पदमेकवर्जम्" इत्यनुदात्तं तत्कुत उदात्तलोप इति चेत् सत्यम् ‘मा हि धुक्षाताम्' इत्यत्र दुहेर्नुडि आत्मनेपदे आतामि “शल इगुपधादनिटः क्सः” इतिच्लेः क्से आतामित्यस्य “तास्यनुदात्तेन्द्धि- दुपदेशाल्लसार्वधातुकमनुदात्तमविडोः” इति लसार्वधातुकाऽनुदात्तत्वं क्सः प्रत्ययस्वरेणोदात्तः। क्सस्याचि इति सूत्रेणाल्लोपः अत्र “कर्षात्वतो घोऽन्त उदात्तः” इत्यतः 'अन्त' इत्यधिकारादन्त्यस्योदात्तत्वं स्यात् सति तु तस्मिन्नादेर्भव- तीत्यलं पल्लवितेन । नोट-(प्रयोगमात्रसाधनप्रश्ने 'ढोबुदात्तः' अत्र पर्यन्तमेवोत्तरं पर्याप्तम् ) -सुबामन्त्रिते पराङ्गवत्स्वरे ( १९२५, ५१ ) सुबन्तमामन्त्रिते परे परस्या- ङ्गवत्स्यात् स्वरे कर्तव्ये इत्यर्थः । उदाहरणश्चात्र-द्रवत्पाणी शुभस्पती' । द्रवत्पाणी शुभस्पती (१९२७, ४४, ४५) अत्र “सुवामन्त्रिते पराङ्गवत्स्वरे" इति सूत्रेण परस्याङ्गवत्त्वात् श्रायुदात्तत्वे "द्रवत्पाणी शुभस्पतो" इति अत्र शुभ इति शुभेः क्विवन्तात्षष्ठयन्तस्य परशरीरानुप्रवेशे षाष्टिकमामन्त्रितायुदात्तत्वम् । न चाष्ट मिको निघातः शङ्कयः पूर्वामन्त्रितस्याविद्यमानत्वेन पादादित्वात् । अयमग्ने जरिता ( १९४१ ) अत्र “सुबामन्त्रिते पराङ्गवत्स्वरे” अनोपरि “षष्ठयामन्त्रितकारकवचनम्" इति परिगणनं कृतं तेन 'अयमग्ने जरिता इत्यत्र नाझचत्स्वरः इति । आ ते पितर्मरुताम् ( १९४६ ) अत्रैव “पूर्वाङ्गवच्चेति वक्तव्यम्” इति लिखितम् तेनात्र मरुतामिति परं पदं पूर्वस्य पितरित्यस्याङ्गवद् भवति । पितरित्या- मन्त्रितनिघातेनानुदात्तं ततः परं मरुतामित्येतदप्यनुदात्तमेव भवतीत्यर्थः । "" स्वरप्रकरणे साधारणस्वरः। उच्चर'धीयान ( १९४३ ) "अव्ययानां न" इति वचनात् 'उच्चैरधीयान' अत्र “आमन्त्रितस्य च” इत्याद्युदात्तत्वं न । न च निषेधवैयर्थ्यम् “निपाता आयु- दात्ताः” इत्यायुदात्तत्वस्यानिवारणादिति वाच्यम् । स्वरादिष्वन्तोदात्तयोरुच्चैर्नीचैः शब्दयोः पाठात् इति । उपाग्न्यधीयान ( १६३० ) अत्र “अव्ययीभावस्य त्विष्यते” इति पराङ्गवद्- भावेन “आमन्त्रितस्य च" इति सूत्रेणायुदात्तत्वे 'उपारन्यधीयान' इति भवति । उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य (१६३१, ३७) इति सूत्र- स्वरूपम् । उदात्तस्थाने स्वरितस्थाने च योयण ततः परस्यानुदात्तस्य स्वरित स्यात् इत्यर्थः । 'अभ्यभि हि' स्वरितस्ययणः-'खलप्व्याशा' इत्युदाहरणम्- खलप्व्याशा ( १९३०, ४०, ४३, ५०) अत्र 'खलपूशब्दः कृदुत्तरपद- प्रकृतिस्वरेणान्तोदात्तः तस्य “ोः सुपि" इत्यनेन यण स उदात्तयण ततः परस्य डिप्रत्ययस्य सुप्त्वात् “अनुदात्तौ सुप्पितौ' इति सूत्रेणाऽनुदात्तत्वे तस्यानुदात्तस्य "उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य" इति सूत्रेण स्वरिते 'खलव्याशा इति । अत्र “उदात्तयणो हत्पूर्वात्" इत्युदात्तत्वं तु न भवति । "नोब्धात्वोः” इति तनिषेधात् । तस्य च स्वरितेकारस्य यणि ततः परस्याशाशब्दाकारस्य "उदात्त- स्वरितयोर्यणः स्वरितोऽनुदात्तस्य” इत्यनेनैव स्वरितः। आशाशब्दो हि "श्राशाया अदिगाख्या चेत्" इत्यन्तोदात्तत्वादनुदात्तादिः । अत्र आशाशब्दस्य शेषनिघातस्तु न भवति, श्राशाशब्दप्रथमाकारस्थानिकस्य स्वरितस्य त्रैपादिकत्वेनाऽसिद्धत्वात् । ननु यणादेशम्प्रति स्वरितस्यासिद्धत्वात् स्थानिन्थेव यणप्रवृत्तेः यथा 'औजढत्' इत्यत्र हतशब्दे द्वित्वं प्रवर्तते न तु ढशब्दे। न च स्वरितयणः परस्येत्याश्रयणात् सिद्धत्वं शङ्कयम् तथा सति "उदात्तादनुदात्तस्य स्वरितः” इत्यनेन यत्र स्वरितः क्रियते तत्रापि ह्यसिद्धत्वं न स्यात् । न चेष्टापत्तिः लक्ष्यविरोधात् । “प्रत्यग्निरुष- सामग्रमख्यत्" इत्यादौ स्वरितादर्शनात् । न च "नोदात्तस्वरितोदयम्' इति निषेधः शवयः “अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा' इति न्यायेन "उदात्तादनुदात्तस्य" इति यत्र प्राप्तिस्तन्मात्रस्य निषेधात् । अन्यथा "खलप्व्याशान्या अग्निाद्या अस्मान्” इत्यादावपि निषेधापत्तिरिति चेदत्राहुर्भाष्यकाराः-योगविभागः करिष्यते । उदात्तयणः परस्यानुदात्तस्य स्वरितो भवति । ततः 'स्वरितयणः', 'उदात्तयणः' इत्य- नुवर्तते उदात्तयणः इत्येवं योऽभिनिवृत्तः स्वरितस्तद्यणः परस्यानुदात्तस्य स्वरितः स्यादित्यर्थः । एवञ्चास्यैवाश्रयात् सिद्धत्वं नान्यस्येति शम् ।

४४ बरवैदिकप्रसोत्तरी। सूचना ('ननु यणादेशम्प्रति' इत्यादि सविस्तरप्रश्नोत्तरं बोध्यम् । प्रयोग- मात्रप्रश्ने तु नन्वितः पूर्वलिखितमेव पर्याप्तमितिज्ञेयम् ) वोऽश्वाः (१९३२, ४४, ४८, ५१) “बहुवचनस्य वस्नसौं” इत्यत्र "अनुदात्तं सर्वमपादादौ" इत्यस्याधिकारात् 'वस्' इत्यस्यानुदात्तत्वे "अशेः कन्" इति व्युत्पादनादश्वशब्दस्यापि आयुदात्ते वसो रुत्वे उत्वे “एङः पदान्तादति' इति पूर्वरूपे “एकादेश उदात्तेनोदात्तः” इति सूत्रेण उदात्तत्वे 'वोऽश्वाः' इति भवति । "कावरं मरुतः (१९४२ ) अत्र किमोत् इत्यति 'काति' इति किमः क्कादेशे 'तित्स्वरितम्' इत्यनेन स्वरिते-अवरशब्दः "स्वाङ्गशिटामदन्तानाम्" इत्युदात्तः तयोर्दीर्घः “एकादेश उदात्तेनोदात्तः" इति दीधैंकादेश उदात्तः 'क्वावर मरुतः' इति । स्वरितो वानुदात्ते पदादौ ( १९२९, ३२, ३६ ) अनुदात्ते पदादौ परे उदात्तेन सहैकादेशः स्वस्तिो वा स्यात् इत्यर्थः । उदाहरणचात्र-ची३८ ज्योतिर्ह- दये । अस्य श्लोको दिवीयते । स्वरितो वानुदात्तेपदादौ” अत्र व्यवस्थितविभाषाफलम् ( १९४१) अत्र सूत्रस्थविभाषा "व्यवस्थितविभाषा" अतः एकादेशस्थानिभूतयोः ह्रस्वेका- रयोरेव स्वरितः तेन 'वीदं ज्योतिर्हृदये' अत्र स्वरितः । दीर्घप्रवेशे ("अस्यश्लो. कोदिवीयते"--घटकदिवीयतेऽत्र ) तु “एकादेश उदात्तेनोदात्तः" इत्युदात्तः किञ्च 'एडः पदान्तादति" इति पूर्वरूपे रचरित एव “सोऽयमगात्" । प्रार्थः (१९४१)-उदात्तस्वरितस्थाने यो यण् स क्षेत्रसन्धिः' । प्रश्लेषः ( १९४१)-हस्वयोर्यत्र सवर्णदीर्घः स 'प्रश्लेषः' उच्यते । अभिनिहितार्थः (१९४१) यत्र 'एङःपदान्तादति' इति पूर्वरूपं सः-अभिनि- हितसन्धिरुच्यते । क्रमश उदाहरणानि 'वीदं ज्योतिः' 'अभ्यभिहि 'तेऽवदन्' इति । अग्निमीले ( १९२५, २६, ३९, ४२, ५१)-अत्राग्निशब्दः फिटस्वरेण "फिषोऽन्त उदात्तः" इति सूत्रेणान्तोदात्तः । अम् सुप्त्वात् “अनुदात्तौ सुप्पितौ" इति सूत्रेणानुदात्तः । “अमि पूर्व' इति सूत्रकृतैकादेश "एकादेश उदात्तेनोदात्तः" इत्यनेनोदात्तः । 'ईले' इति तु 'ईड' स्तुती लटि उत्तमपुरुषैकवचनम् । “द्वयोश्चास्य स्वरयोर्मध्यमेत्य सम्पद्यते स डकारो लकारः" इति प्रातिशाख्येन डस्य लत्वे “तिबद्ध- तिः" इति सूत्रेणातिङन्तादग्निशब्दात् परस्य 'ईले' शब्दस्य निघातः “उदात्ताद- स्वरप्रकरणे साधारणस्वरः । नुदात्तस्य स्वरितः इति ईकारस्य स्वरित 'अग्निमीले' इति । न च मकारेण व्यय- धानम् "स्वरविधी व्यञ्जनमविद्यमानवत्" इति परिभाषणात् । ननु “तित्वरितम्" इत्यस्यानन्तरमिदं वक्तव्यम् , एवञ्च स्वरितग्रहणं न कर्तव्यं भवतीत्याशङ्कयाह मूले. ऽस्याप्यसिद्धत्वाच्छेषनिघातो न। यदि तत्र क्रियते “अनुदात्तं पदमेकवर्जम्" इत्येतत् प्रवर्तेत, इह प्रकरणे न प्रवर्तते स्त्ररितस्यासिद्धत्वात् तेन द्वयोरप्युदात्तस्वरि- तयोः श्रवणं सिद्धमिति शम् । तमीशानासः ( १९४६ )-तमिति तच्छब्दस्य द्वितीयैकवचनमन्तोदात्तर : ऐश्वर्यार्थक 'ईश' धातोरस्माच्छानच् । ईशानशब्दाज्जसि “आज्जसेरसुक्" इत्यनु गागमे कृते रूपम् । (शानचः) चित्त्वादन्तोदात्तत्वम् जसः सुप्त्वादनुदात्तत्वम् । एवञ्च "उदात्तादनुदात्तस्य स्वरितः” इति सूत्रेण ईकारस्य सकाराकारस्य ब स्वरितत्वम् । इति शम् । प्र य आरुः ( १९४५)-'ये' इति यच्छब्दस्य प्रथमाबहुवचनं फिटस्वरे. णान्तोदात्तम् । आरुरिति अतॆलिटि प्रथमपुरुषबहुवचनं झिः तस्य “परस्मैपदानां णलतुसुस्थलथुसणल्वमा इत्युस् प्रत्ययस्वरेणोदात्तः। न च “तितिङः” इति निघातः शङ्कयः “यवृत्तानित्यम्” इति निषेधात् । आकारस्य "उदात्तस्वरितप- रस्य सन्नतरः" इति वक्ष्यमाणसूत्रेण सन्नतरादेशः। अत्र 'नोदात्तस्वरितोदयम- गार्यकाश्यपगालवानाम्' इति सूत्रेण अगायेकाश्यपगालवमते स्वरितनिषेधः। गार्या- दिमते तु स्वरितत्वम् इति । एकश्रुतिः (१६३१, ५०)-उदात्तादीनां स्वराणामविभागेनावस्थानमेक- श्रुतिः । आगच्छ भो माणवक । आगच्छ भो माणवक ( १६५२ )-अत्र "दूराद्भूते च” इति वाक्यस्य टेः प्लुत उदात्तः। 'एकश्रुति दुरात्सम्वुद्धौ' इति । प्रत्युदाहरणे तु त्रैस्वयमेव भवति । तत्राङ "उपसर्गाश्चाभिवर्जम्" इत्यायुदात्तः। गच्छेति तिङन्तस्य. निघालः। भोशी "निपाता आधुदात्ताः" इत्यायुदात्तः । शेषस्यामन्त्रितनिधातः। अग्निर्मूर्धा दिवः ककुत् ( १९३०) अत्र “अङ्गेनिनलोपश्च" इत्यनेन निष्पन्नोऽग्निशब्दः प्रत्ययस्वरेण फिट्स्वरेण वाऽन्तोदात्तः । मुर्वी बन्धने 'कनिन् युवृषितक्षिराजिधन्वि' इत्यतः कनिनि वर्तमाने "श्वन्नुक्षन्पूषन्' इत्यत्र मूर्धन्शब्दः कनिन्प्रत्ययान्तोऽन्तोदात्तो निपातितः। दिवशद्वात् परस्य षटयेकवचनस्य "ऊडि- दम्पदाद्यप्पुम्रद्युभ्यः" इत्युदात्तत्वम् । ककुच्छदः प्रातिपदिकस्वरेणाऽन्तोदात्तः एवं ४६ ल्वरवैदिकप्रश्नोत्तरी। कृतेषु सत्सु “यज्ञकर्मण्यजपन्यूडसामसु" इति सूत्रेणैकश्रुतौ ‘अग्निर्मूर्धा दिवः ककुत्' इति भवति । एकश्रुतित्वन्नाम उदात्तादीनाम् स्वराणामविभागेनावस्थानमेक- श्रुतिः । जपो नाम उपांशुप्रयोगः* यथा जले निमग्नस्य । न्यूखाः नाम ( १९३२) षोडश ओङ्काराः । गीतिषु सामाख्या । जपोनुकरणमन्त्रः। उदात्तस्वरितपरस्य सन्नतरः ( १९३३, ४४ )-इति सूत्रम् । उदात्तस्व- रितौ परौ यस्मात् तस्यानुदात्तस्यानुदात्ततरः स्यादित्यर्थः। सरस्वति शुतुद्रि । व्यच- क्षंयत्स्वः । इत्युदाहरणे। सन्नतरः ( १६३१, ४४ )-'अनुदात्ततरः' इत्यर्थः । सरस्वति शुतुद्रि ( १९४३ )-अत्र मे शब्दमाश्रित्यसरस्वतीत्यस्यामन्त्रित- निधातः। शुतुद्रिशद्वस्य तु न पादादित्वात् । “आमन्त्रितस्य च" इति षाष्ठेन शुतु- द्रीत्यस्योदात्तं प्रथममक्षरं तस्मिन् परे पूर्वस्य सरस्वतीकारस्य "उदात्तस्वरितपरस्य सन्नतरः" इति सूत्रेण सन्नतरे ( अनुदात्ततरे ) 'सरस्वति शुद्रि' इति भवति । व्यचक्षयत्स्वः ( १९४५)-चीति उपसर्गत्वादायुदात्तः। ततः परस्याचक्ष- यदितितिङन्तस्य "तिः" इति निघातः। स्वरिति "न्यवरौ स्वरिती" इति स्वरितः तस्मिन परे "उदात्तस्वरितपरस्य सन्नतरः” इति सूत्रेण यकारस्य सन्नतरः “व्यचक्षय॒त्स्वः' इति भवति । इति साधारणस्वरः। OGoo- अथ धातुस्वरः स्वपन्ति ( १९२६, २९, ४७ )-अत्र प्रयोगे "स्वपादिहिंसामच्यनिटि" इति सूत्रेण खसार्वधातुकपरे वैकल्पिकायुदात्तो भवति। पक्षे प्रत्ययस्वरेण मध्योदात्तता भवति । तत्र स्वपन्ति । हिंसन्ति ( १९३१,३५) इत्यत्रापि “स्वपादिहिंसामच्यनिटि" इति सूत्रेण लसार्वधातुकपरे चैकल्पिकायुदात्ते 'हिंसन्ति' इति भवति पने प्रत्ययस्वरेण मध्योदा- त्तता जाता तथा च हिंसन्ति । इति । * लक्षणम्-शनरुच्चारयेन्मन्त्रमीषदोष्ठौ न चालयेत् । अपरनं श्रुतः किञ्चित् स 'उपांशु' जपः स्मृतः।

स्वरप्रकरणे धातुस्वरः। अभ्यस्तानामादिः ( १९२५, २८ ) अनिव्यजादौ लसार्वधातुके परेऽभ्यस्ता नामादिरुदात्तः । उदाहरणञ्चात्र ये ददति प्रिया वसु । दधाना इन्द्रे । ये दर्दति प्रिया वसु ( १९४८)-दानार्थकड्डजकारेत्संज्ञकदाधातोः लटि 'मि' आदेशे शपि श्लौ द्वित्वेऽभ्यासत्वे "अदभ्यस्तात्" इत्यदादेशे "श्नाभ्यस्त- योरातः” इत्यालोपे अत्र अनिटयजादौ लसार्वधातुकेपरे 'अभ्यस्तानामादिदात्त इत्यर्थक “अभ्यस्तानामादिः" इति सूत्रेणाद्युदात्तत्वे 'ये ददति प्रिया वसु' इति भवति । भीहीभृहुमदजनधनदरिद्राजागरां प्रत्ययात् पूर्व पिति (१९४९.). इति सूत्रस्वरूपम् । भीप्रभृतीनामभ्यस्तान पिति लसार्वधातुकेपरे प्रत्ययात्पूर्वमुदात्तं स्यात् इत्यर्थः। ममर्नु नः परिज्मा ( १९२७, ४१, ४३ ) मदेर्लोटि तिपि शपि 'बहुलं छन्दसि' इति शपः श्लौ द्वित्वेऽभ्यासकार्ये उत्वे 'ममत्तु' अत्र प्रयोगे “भोहीभृहु- मदजनधनदरिद्राजागरां प्रत्ययात् पूर्व पिति" इति सूत्रेण प्रत्ययात्पूर्वस्योदात्तत्वे ममत्तु नः परिज्माघटक ममत्तु इति । जागर्षित्वम् ( १९२६, ५२)-अत्र प्रयोगे "भीहीभृहुमदजनधनदरिद्रा- जागरां प्रत्ययात्पूर्वपिति" इति सूत्रेण लसार्वधातुकेपरे प्रत्ययात्पूर्वस्योदात्तत्वम् , तेन स्वरविधी सप्तम्यास्तदन्तत्वज्ञापनात् लिदन्तस्य स्वरो न शकनीयः । चिकीर्षकः ( १९३२, ३४, ३७, ५१) सन्नन्तात् 'चिकीर्ष' इत्यस्मात् ण्वुल तस्याकादेशे “लिति' इति सूत्रेण ककारेकार उदात्ते 'चिकीर्षकः' इति नचा- त्राल्लोपस्य स्थानिवत्वम् स्वरविधौ तनिषेधात् । लोलूयं लोलूयम् ( १९५० )-अत्र प्रयोगे यन्ताण्णमुल् “नित्यवीप्सयोः' इति द्वित्वम् अत्र प्रथमः लोलूयशब्दः “आदिर्णमुल्यन्यतरस्याम्" इति श्रायुदात्तः लू इति स्वरितः ततश्चत्वारः प्रचयाः। पने लित्स्वरोऽपि बोध्यः । लूयते केदारः स्वयमेव ( १९४५) अत्र प्रयोगे “अचः कर्तृयकि' इति सूत्रेण उपदेशेऽजन्तानां कर्तृयक्कि परे अायुदात्तो वा भवतीत्यर्थकेन आदिमध्यौ पर्यायेणोदात्तौ “तास्यनुदात्तेत्' इत्यादिसूत्रेण 'ते' इत्यस्यानुदात्तत्वम् । लूयते केदारः स्वयमेव । पते (लूयते केदारः स्वयमेव ) इति भवति । मा हि चीकरताम् ( १६२५, ४९)-'कृ' धातोर्णिचि अनुबन्धलोपे लुङि तसि तस्य तामादेशे च्लो "णिश्रिद्रुश्रुभ्यः कर्तरिच" इति चलेश्वगदेशेऽनुबन्ध- ४८ स्वरवैदिकप्रश्नोत्तरी। लोपे कृ++अ+ तामिति स्थिते “चङि'' इति द्वित्वेऽभ्यासत्वेऽभ्यासकार्ये वृद्धौ रपरत्वे उपधाह्रस्वे "णेरनिटि" इति लोपेऽडागमे प्राप्ते "न मायोगेइति तन्नि- बेधे सन्वभावादिकार्ये 'मा हि चीकरताम्' इत्यत्रादुपदेशात्परत्वेन लसार्वधातुकानु- दात्तत्वेकृते चङ एव स्वरे प्राप्ते “चङ्यन्यतरस्याम्” इति सूत्रेण धात्वकार उदात्तः एतदभावे चदात्तः। इति धातुस्वरः । अथ प्रत्ययस्वरः चतुरः कल्पयन्तः ( १९४२, ४६ ) अत्र चतेरुरन् इति निष्पन्नचतुर् शब्दस्य शसि रूपं भवति । अत्र “ज्नित्यादिनित्यम्” इति नित्वादायुदात्तत्वे प्राप्त तम्प्रबाध्य “चतुरः शसि" इत्यन्तोदात्तत्वे 'चतुरः' कल्पयन्तः इति । चतस्रः पश्य (१९४२ ) अत्र नित्वात् “नित्यादिनित्यम्” इति आधुदात्त- ता भवति । अत्र चतस् + अस् इति स्थिते परत्वात् “अचिर ऋतः” इति रेफादेशे तसाराकारस्योदात्तत्वं प्राप्नोति किन्तु अचिरऋतः इति रादेशस्य पूर्वविधौ स्थानि- वत्त्वान्नेह भवति । नच "स्वरविधौ स्थानिवत्त्वनिषेध इति वाच्यम् ," "स्वरदीर्घय- लोपेषु लोपाजादेश एव न स्थानिवत्' इति नियमेन तनिषेधात् । अध्वर्युभिः पञ्चभिः (१९४५) अत्र प्रयोगे "मल्युपोत्तमम्” इति सूत्रे- णोपोत्तमस्योदात्तत्वे 'अध्वर्युभिः पञ्चभिः” इति भवति । सर्वम् सर्वे, सर्वस्य (१२५, २९, ३२, ३३ ) एषु “सर्वस्य सुपि” इति सूत्रेण सर्वशब्दस्याऽयुदात्तत्वे 'सर्वम्' इत्यादयः भवन्ति । सौवर्यः सप्तम्यस्तदन्तसप्तम्यः ( १९३०) ननु ''भीह्रीभृहुमदजनधनद- रिद्राजागरां प्रत्ययात्पूर्व पिति" इति सूत्रे पूर्वग्रहणाभावेनैव सिद्धे पूर्वग्रहणं व्यर्थ- मिति चेन्न-"सौवर्यः सप्तम्यस्तदन्तसप्तम्यः" इति ज्ञापनार्थं तस्यावश्यकत्वात् । तेन “सर्वस्य सुपि” इत्यस्य सुबन्तस्य सर्वस्येत्यर्थात् 'सर्वप्रियः' इत्यादौ स्वरसिद्धिः "नित्यादिनित्यम्" इत्यत्र विदन्तस्य निदन्तस्त्यर्थलाभश्वेलम् । . अयं पन्थाः ( १९३४, ४२, ४९ ) पथिन् शब्दात् सौ “पथिमथ्यभुक्षामात्" इत्याकारादेशे "थोन्यः" इति न्यादेशे रुत्वे विसर्गे 'पन्थाः' इत्यत्र “पथिमथोः सर्व- नामस्थाने" इति सूत्रेणायुदात्ते पन्थाः' इति भवति ।

४६ स्वरप्रकरणे प्रातिपदिकस्वरः ! अन्तश्च तवै युगपत् ( १९३२) इति सूत्रस्वरूपम् । तवैप्रत्ययान्तस्या- द्यन्तौ युगपदायुदात्तौ स्तः इत्यर्थः । ‘हर्षसे दातवा उ' इत्युदाहरणम् । दातवा उ (१६२८,३७)–ददातेः “कृत्यार्थे तवैकेनकेन्यत्वनः" इत्यनेन तवै प्रत्यये दा+तवै+3 इति जाते ऐकारस्याऽऽयादेशे “लोपः शाकल्यस्य" इति यकारस्य लोपे दातवा उ इति जाते “अन्तश्च तवै युगपत्" इति सूत्रेण तवै- प्रत्ययान्तस्याद्यन्तयोर्युगपदुदात्तयोः कृतयोः 'दातवा उ इति भवति । यत्र केवल 'दातवै' तत्र सन्धिकार्य न कर्तव्यमिति । अन्यत्सर्वं पूर्ववत् बोध्यम् । जयोऽश्वः ( १९२५)-जयत्यनेन 'जयः' इति विग्रहे जिधातोः “एरच्य इति सूत्रेण अच प्रत्ययेऽनुबन्धलोपे गुणेऽयादेशे 'जय' इत्यस्य प्रातिपदिकत्वे सौ रुत्वे वि सर्गे 'जयः' इति साधुः। अत्र "जयः करणम्" इति जयशब्दस्यायुदात्तो भवति । चञ्चा ( १९२६) अत्र "संज्ञायामुपमानम्" इति सूत्रेणायुदात्तो भवति । स्वरविधौ प्रत्ययलक्षणंन (१९३०) चञ्चेव चञ्चेत्यत्र कनि कनो लुपि प्रत्यय- लक्षणेन नित्त्वात् “नित्यादिनित्यम्" इत्येवसिद्धे “संज्ञायामुपमानम्' इदं सूत्रं व्यर्थ सत् ज्ञापयति-"क्वचित् स्वरविधी प्रत्ययलक्षणं न" इति । निष्टा च द्वथजनात् (१९३६)-निष्टान्तस्य द्वयचः संज्ञायामादिरुदात्तो न- त्वाकार इत्यर्थः । 'दत्तः' इत्युदाहरणम् । आशितम् (१९४४) अत्रप्रयोगे कर्तृवाची आशितशब्दः श्रायुदात्तः इत्य- र्थक "आशितः कर्ता” इति सूत्रेणाद्युदात्तः । रिक्तः ( १९५२ )-रिचिर विरेचनेऽस्मात् निष्टात प्रत्ययेऽनुबन्धलोपे रिक्त' इत्यस्य प्रातिपदिकत्वे सौ रुत्वे विसर्ग 'रिक्तः' घट इत्यर्थे "रिक्त विभाषा" इति सूत्रेण विभाषयायुदात्ते रिक्तः इति । संज्ञायां तु “निष्ठा च द्वयजनात्” इति नित्यमा- युदात्तत्वं पूर्वविप्रतिषेधेन । एवञ्च रिक्तः, रिक्तः इति भवतः। तुभ्यं हिन्वानः (१९३९)--युष्मशब्दात् विभक्तौ " प्रथमयोरम्" इत्यमि “तुभ्यमयौ उयि” इति तुभ्यादेशे 'तुभ्यम्' अत्र “यि च" इत्यायुदात्तत्वे 'तुभ्यम्' इति। मह्यं वातः पवताम् (१९२६, ३५)-अत्र “यिच" इति सूत्रेण परे आधु- दात्तो भवति तथा व 'मह्यम्' इति भवति । युञ्जन्त्यस्य काम्या ( १९४५)-अत्र प्रयोगांश कमेणिडन्तादचो यत् इति ४ स्व०प्र० स्वरबैदिकप्रश्नोत्तरी। यत् टापि 'काम्या' अत्र “यतोऽनावः' इति यत्प्रत्ययान्तस्य द्वयच आयुदात्तत्वे 'कान्या' इति । ईडयो नूतनैलता (१९२५, ३३, ४६, ५०)-ईडितुं शक्य इति विग्रहे 'ई' धातोः "ऋहलोर्ण्यत्' इति ण्यत् प्रत्ययेऽनुवन्धलोपे 'ईडय' इत्यस्य प्रातिपदिकत्वे सौ. रत्वे विसर्गे "ईडवन्दवृशंसदुहांण्यतः” इतिसूत्रेण 'ईङय' इत्यस्यायुदात्तत्वे 'ईड्यः' इति भवति । वार्यम् ( १९२६ )-अत्रापि “ईडवन्दवृशंसदुहां ण्यतः” इति सूत्रेण 'वार्य इत्यस्यायुदात्तः। इन्धानः (१९२९, ३१) इत्यत्र "विभाषा वेण्विन्धानयोः” इति सूत्रेण वैक- ल्पिकायुदात्तो भवति । अत्र इन्धानशब्दो यदि चानशन्तस्तदा चित्त्वादन्तोदात्तः । यदा च शानजन्तस्तदा लसार्वधातुकाऽनुदात्तत्वेकृते उदात्तनिवृत्तिस्वरेण मध्योदात्तः "श्नसोरल्लोपः' इत्युपत्तस्य श्नमोऽकारस्य लोपात् सर्वथाप्यप्राप्तमायुदात्तत्वं पक्षे विधीयते इति । शरावती ( १६२५, ३६,३८, ३९, ४१)-शरास्सन्त्यस्याम् इति ( शरा- वती नाम नदीति ) विग्रहे शरशब्दात् “नयां मतुप्" इति सूत्रेण मतुपि अनुबन्ध. लोपे "मादुपधायाश्च मतोर्वोऽयवादिभ्यः" इति सूत्रेण मकारस्य वकारे "शरादी- नाच" इति सूत्रेण दीर्चे डीपि सौ सुलोपे 'शरावती' इत्यत्र “मतोः पूर्वमात्सझायां स्त्रियाम्” इति सूत्रेण भतोः पूर्वस्याकारस्योदात्तत्वे 'शरावती' इति भवति । वेत्रवती ( १९४७, ५१)-अत्र “अन्तोऽवत्याः” इति सूत्रेणावतीशब्द- स्यान्त उदात्तः। इति प्रातिपदिकस्वरः। अथ फिस्वरे (प्रातिपदिकस्वरे ) प्रथमः पादः । फिटसूत्राणां पाणिनीयैरुपादेयत्वम् ( १९३५, ४१, ५०, ५१ )-फिडिति पूर्वाचार्यप्रसिद्धया प्रातिपदिकमुच्यते तदाह "फिषोन्त उदात्तः' इति सूत्रार्थे 'प्राति- पदिकं फिट् इति । ननु कथमपाणिनीयानि सूत्राण्युपन्यस्यन्ते पाणिनीयसूत्रैर्यः स्वर आयाति स एव प्रमाणम् । तथा च "शताच ठन्यतावशते” इति सूत्र कैयटः- "नियतकालाश्च स्मृतयों व्यवस्थाहेतवः" इति मुत्रित्रयमतेनाद्यत्वे साध्वसाधुप्रविभागः स्वरप्रकरणे फिटस्वरः। इति । नैतत् 'अपाणिनीयान्यपि फिटसूत्राणि पाणिनीयैराश्रीयन्ते' इति भाध्याज्ज्ञाप नात् । तथाच "आद्युदात्तश्च” इति सूत्रे भाष्यं “प्रातिपदिकस्य चान्तः” इति प्रकृतेर- न्तोदात्तत्वं शास्तीति । तथा तस्मिन्नेव सूत्रे प्रत्ययायुदात्तत्वस्याऽवकाशः, यत्रानुदात्ता प्रकृतिः समत्वं सिमत्वमिति । नहि "फिषोऽन्त उदात्तः” त्वत्त्वसमसिमेत्यादिफिट- सूत्राश्रयणं विना प्रकृतेरन्तोदात्तत्वं च सम्भवतीति दिक् । पाटला (१९४१)-पाटलेति ओषधिविशेषस्य संज्ञात्र "लघावन्त' इति आप्ते “पाटलापालङ्काम्बासागरार्थानाम्" इति सूत्रेणान्तोदात्तः । गेहम् ( १९२८) अत्र “नविषयस्यानिसन्तस्य" इति सूरेणाद्युदात्ते प्राप्ते "गेहार्थानामस्त्रियाम्" इत्यनेनान्तोदात्ते 'गेहम्' इति भवति । ध्यपूर्वस्य स्त्रीविषयस्य (१९३१)-धकारयकारपूर्वो योऽन्त्योऽच् स उदात्तः स्यात् इत्यर्थः । 'अन्तर्धा' इत्युदाहरणम् । जाया ( १९२९, ३१, ३९)-अत्र "ध्यपूर्वस्य नीविषयस्य” इति सूत्रेण 'अन्त्यो उदात्तः। क्षत्रिया ( १९४० )-अत्र प्रयोगे “यान्तस्यान्त्यात् पूर्वम्” इति फिटसूत्रेण मध्योदात्तत्वे क्षत्रशब्दात् “क्षत्राद्धः" इति सूत्रेण घविधानेन "अायुदात्तश्च" इति सूत्रेण प्रत्ययस्यायुदात्तत्वे वा 'क्षत्रिया' इति मध्योदात्ता भवति । नखम् ( १९४३, ५१ )-अत्र "स्वाङ्गशिटामदन्तानाम्” इति फिटसूत्रेणा- युदात्तत्वे प्राप्ते तम्प्रवाध्य “खान्तस्यामादेः” इति फिटसूत्रेणान्तोदात्ते 'नखम् इति। सुखम् ( १९५२) अत्रापि “खान्तस्याश्मादेः” इति सूत्रेणान्तोदात्तः । बंहिष्ठः ( १९३२)-अतिशयेन बहुलः वंहिष्ठः इति व्युत्पत्तौ बहुलशब्दात् "अतिशायने तमबिष्टनौ" इति सूत्रेण बहुलशब्दात् इष्ठन् प्रत्ययेऽनुबन्धलोपे "प्रिय- स्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्वहिगर्वर्षित्रपदाधिवृन्दाः" इति सूत्रेण बंहिरित्यादेशे नित्वात् “नित्यादिनित्यम्" इत्यायुदात्तत्वे प्राप्ते तम्प्र- बाध्य "हिष्ठवत्सरतिशत्थान्तानाम्" इति सूत्रेणान्तोदात्तत्वे 'बंहिष्ठः' इति भवति । परिवत्सरः (१९४२ )-अत्र अव्ययपूर्वपदप्रकृतिस्वरं बाधित्वा "हिष्ट- वत्सरतिशत्थान्तानाम्" इति सूत्रेणान्तोदात्तत्वे ‘परिवत्सरः' इति । दक्षिणो (बाहुः) (१९३८, ४४ )-अत्र “स्वाहाख्यायामादिर्वा" इति सूत्रेण दक्षिणस्याद्यन्तयोः पर्यायेणोदात्तयोः कृतयोः 'दक्षिणो बाहुः' 'दक्षिणो बाहुः' इति भवति।

५२ E स्वरवैदिकप्रश्नोत्तरी कृष्णो नोनय वृपन ( १६५० )-अत्र "वर्णानां तणतिनितान्तानाम् इति प्राचुदात्तत्वे प्राप्ते तम्प्रवाध्य "कृष्णल्यामृगाल्याचेत्” इति सूत्रेणान्तोदात्तः । पृष्ठम् ( १९४१, ४४) अत्र "स्वाशिटामदन्तानाम्" इत्याद्युदात्तत्वे प्राप्ते तम्प्रबाध्य 'पृटस्य च” इति सूत्रेण वान्तोदात्तः । पृष्ठम्, पृष्टम् । इति । कृत्तिकानक्षेत्रम् (१९४२)-अत्र “नक्षत्राणामविषयाणाम्” इत्यन्तोदात्तत्वे प्राप्ते “न कुपूर्वस्य कृत्तिकाख्या चेत्” इति निषेधे “लघावन्ते द्वयोश्चबह्वषो गुरुः इति सूत्रेणायुदात्तत्वम् । घृतम् (१९३४) अत्र “नरिवषयस्यानिसन्तस्य” इति सूत्रेणाद्युदात्तत्वे प्राप्ते तम्प्रबाध्य “घृतादीनां च' इत्यन्तोदात्तत्वे 'घृतम्' इति । ज्येष्ठः (१९४७)-अत्र "ज्येष्ठकनिष्टयोर्वयसि' इति सूत्रेणान्तोदात्तः । इति फिटस्वरे प्रथमः पादः । . . अथ फिट्स्वरे द्वितीयः पादः। नविषयस्यानिसन्तस्य ( १९३२, ३७) इति सूत्रस्वरूपम् । इसन्तव- जितस्य नित्यनपुंसकस्यादिरुदात्तः स्यात् इत्यर्थः । वने नवा यः। इत्युदाहरणम् । नप् ( १९३१, ३९, ४४) नपुंसकम् इत्यर्थः । तिलाः ( १६३३) अत्र प्रयोगे "तृणधान्यानां च द्वयषाम्” इति सूत्रेणाद्यु- दात्ते तिलाः' इति । पञ्च ( १६५२ ) अत्र "ब्रः सङ्ख्यायाः” इति सूत्रेणाद्युदात्ते पञ्च' इति स्वाङ्गशिटामदन्तानाम् ( १६३४, ३६, ३८ ) इति सूत्रस्वरूपम् । स्वाङ्ग- वाचिनामदन्तानां सर्वनाम्नामादिरुदात्तः स्यात् इत्यर्थः। कर्णाभ्यां छुवुकादधि । श्रोष्टाविव मधु । विश्वो विहायाः। इत्युदाहरणानि शिट् ( १६३२) सर्वनाम' इत्यर्थः । वृकः (१९४२)-अत्र 'प्राणिनां कुपूर्वम्” इति सूत्रेणायुदात्तः । कन्दुकः ( १६४२) अत्र "खय्युवर्णं कृत्रिमाख्याचेत्" इति सूत्रेण खयि परे उवर्णस्योदात्तत्वे 'कन्दुकः' इति । तस्य नाक्षः ( १९४८)-अत्र प्रयोगे "अक्षस्यादेवनस्य" इति सूत्रेण श्रायुदात्तः। .

५३ स्वरप्रकरणे फिटवरः। लघावन्ते द्वयोश्च बह्वषो गुरुः ( १९३३) इति सूत्रस्वरूपम् । अन्ते लचौ द्वयोश्च लघोः सतोहच्कस्य गुरुरुदात्तः स्यात् इत्यर्थः । कल्याणः । कोला- इलः, इत्युदादरणे स्तः । कल्याणः (१०३५, ३९, ४५)-अत्र "लघावन्ते द्वयोश्च बह्वषो गुरुः" इति सूत्रेण पर्यायेणादिमध्याबुदात्तौ ततश्च कल्याणः' 'कल्याण इति भवति । कोलाहलः कोलाहलः (१९२९) अत्र "लघावन्ते द्वयोश्च बह्वषो गुरुः" इति बच्कस्य गुरुरुदात्तः। मल्लिकाः (१९२८)-अत्र "स्त्रीविषयवर्णाक्षुपूर्वाणाम्” इति सूत्रेणायुदात्तः। तित्तिरि': ( १९२७ )-अत्र “शकुनीनां च लघुपूर्वम्” इति पूर्व लघुदात्तः । केकयः ( १९३७ )-अत्र जनपदशब्दानामषान्तानाम्" "इत्यनेनायुदात्ते केकयः' इति । पललम् ( १९३६) अत्र प्रयोगे “हयादीनामसंयुक्तलान्तानामन्तः पूर्वं वा' इति सूत्रेणायुदात्तत्वे 'पललम्' इति । अनेनैव अन्त्यात्पूर्वस्योदात्तत्वे 'पललम्' इति भवति । कृषिः ( १९३४ )-अत्र प्रयोगे "इगन्तानां च द्वयषाम्” इति सूत्रेणायु- दात्तत्वे 'कृषिः' इति भवति । इति फिटस्वरे द्वितीयः पादः। अथ फिट्स्वरे तृतीयः पादः। रसना ( १९४२) अत्र “स्वाङ्गानामकुर्वादीनाम्" अवस्थाकुर्वादीनां पाठा- दत्र प्रयोगेऽस्य सूत्रस्याप्राप्तौ “स्वाङ्गशिटामदन्तानाम्" इति सूत्रेणाद्युदात्तत्वे 'रसना' इति भवति । सुगन्धितेजनाः ( १९४०, ४४, ४५)-अत्र प्रयोगे "सुगन्धितेजनस्य ते वा" इति सूत्रेण आदिर्द्वितीयं तेशब्दश्चेति त्रयः पर्यायेणोदात्ताः तेन 'सुगन्धितेजमाः' 'सुगन्धितेजनाः' 'सुगन्धितेजनाः' इति भवति । सनाथां सभा (१९४९)-अत्र प्रयोगे “थान्तस्य च नालधुनी" इति सूत्रेण नाशब्दो लघु च उदात्तौ स्तः । ईषान्तस्य हयादेरादिर्वा ( १९३५) इति सूत्रस्वरूपम्। ईषान्तस्य स्वरवैदिकप्रश्नोत्तरी ( हयिति हल्संज्ञा तेल ) हलादेरादिरुदात्तो वा स्यात् इत्यर्थः। 'हलीषा' 'लाङ्गलोषा' इत्युदाहरणे स्तः । हलीषा ( १९५२ ) अत्र "पान्तस्य हयादेरादिर्वा" इति सूत्रेण विभाषया- युदात्तत्वं भवति । उशीरदाशेरः (१९४९)-उशीरदाशेरकपालपलालशैवालश्यामाकशारीरश- रावहृदयहिरण्यापत्यदेवराणाम् । इति सूत्रस्वरूपम् । एषाम् ( उशीर, दाशेर, कपा- लभृितीनां ) शाब्दनामादिरुदात्तः स्यात् इत्यर्थः । इति फिटस्वरे तृतीयः पादः । G GXO- अथ फिट्स्वरे चतुर्थः पादः । पारावतः (१९४२)-अत्र “पारावतस्योपोत्तमवर्जम्” इति सूत्रेण उदात्तत्वे क्रमेण पारावतः' पारावतः, 'पारावतः' इति भवति । स्थालीपाकः ( १ ९५२ )-अत्र “धूम्रजानुमुञ्जकेशकालवालस्थालीपाकाना- मधूजलस्थानाम्” इत्युदात्तत्वे 'स्थालीपाकः” इति भवति । न्यर्बुदम् ( १९२८ )-अत्र “न्यर्बुदव्यल्कशयोरादिः” इत्यादिस्वरितत्वे 'न्यबुंदम्' इति भवति। तिल्यम् ( १९४२ )-तिलानां भवनं क्षेत्रं तिल्यमित्यत्र "तिल्यशिक्यकाश्म- र्यधान्यकन्याराजमनुष्याणामन्तः” इति सूत्रेणान्तस्वरित 'तिल्यम्' इति भवति । स्तुरीरुत्वत्( १९५० )-अत्र "त्वत्त्वसमसिमेत्यनुच्चानि" इत्यनेनानुदात्तः। उतत्वः पश्यन् ( १६४५)-अत्र "त्वत्वसमसिमेत्यनुच्चानि" इत्यने- नानुदात्तः। स्वाहा ( १९३१, ३३ )-अत्र "निपाता आद्युदात्ताः" इति सूत्रेण आधुदा- त्तत्वे "स्वाहा' इति भवति । तन्नेमिमृभवो यथा ( १९४८)-अत्र 'यथा' शब्दः पादान्तेऽनुदात्तः स्या- दित्यर्थक “यथेति पादान्ते” इति सूत्रेणानुदात्तत्वे तन्नेमिमृभवो 'यथा' इति भवति । पटुपटुः ( १९३२, ४०, ५१) अत्र “प्रकारादिद्विरुक्तौ परस्यान्त उदात्तः" इति सूत्रेणान्तोदात्तत्वे “पटुपटुः" इति भवति । ननु “कर्मधारयवदुत्तरेषु' इति. " स्वरप्रकरणे प्रत्ययस्वरः। कर्मधारयवद्भावादेव “समासस्य" इत्यन्तोदात्तत्वे सिद्धे व्यर्थमिदमिति वाच्यम् तस्य पाणिनीयात् पूर्व प्रवृत्तत्वेनाऽदोषात् । दिवेदिवे ( १९४१, ५१ )-अत्र प्रयोगे शेषं सर्वमनुदात्तम्" इति सूत्रेण द्विरुक्तस्य परमनुदात्तम् । इति फिटस्वरे चतुर्थः पादः। अथ प्रत्ययस्वरः। नभन्तामन्यके समे (१९४४)-अत्र प्रयोगांशे अन्यशब्दात् 'अव्ययसर्व- नाम्नामकच् प्राक् टेः" इति सूत्रेणाकच्प्रत्यये अन्यकशब्दस्य प्रथमाबहुवचने अकचः परा 'टिः' "चितः सप्रकृतेर्बकजर्थम्" इति सूत्रेणोदात्ता जाता । कौञ्जायनाः ( १९३२ )-कुञ्जस्यापत्यानि बहूनि इति विग्रहे “गोत्रे कुक्षा- दिभ्यश्च्फम्" इति सूत्रेण उफन्प्रत्यये अनुबन्धलोपे तद्धितान्तत्वात् प्राति- पदिकत्वे सुपो लुकि फस्यायनादेशे वृद्धौ "प्रातच्फलोरस्त्रियाम्" इति सूत्रेण ज्यप्रत्यये "ज्यादयस्तद्राजाः' इति तद्राजसंज्ञायाँ "तद्राजस्य बहुषु तेनैवास्त्रियाम्" इति सूत्रेण लुकि विभक्तिकार्ये "तद्धितस्य' इति सूत्रेणान्तोदात्ते “कौञ्जायनाः'' इति । ननु 'चितः सप्रकृते बहकजर्थम्" इत्यनेनैवान्तोदात्तत्वे सिद्धे सूत्रमिदं व्यर्थमिति वाच्यम्, जित्स्वरबाधनार्थमस्यावश्यकत्वात् । यदाग्नेयः ( १६३१, ३३, ३५)-अग्निशब्दात् “अग्नेर्डक्" इति सूत्रेण ढकि प्रत्यये तद्धितान्तत्वात् प्रातिपदिकत्वे सुपो लुकि आद्यचो वृद्धौ ढस्य “आयने- योनीयियः फडखछयां प्रत्ययादीनाम्” इति सूत्रेण ढस्यैयादेशे विभक्तिकार्ये "कितः' इति सूत्रेणान्तोदात्ते 'आग्नेयः' इति भवति । वाचा विरूपः (१६४५, ४७)-अत्र प्रयोगांशे "सावेकाचस्तृतीयादिर्वि- भक्तिः” इति सूत्रेण 'वाचा' इत्यत्र तृतीया विभक्तिरुदात्ता। परमवाचा--(१९४४ )-अत्र "अन्तोदात्तादुत्तरपदादन्यतरस्यामनित्यस- मासे” इति सूत्रेण विभाषया तृतीया विभक्तिरदात्ता पक्षे वाशब्द उदात्तः। प्रष्ठौहः ( १९४४ ) अत्र “छन्दसि सहः” “वहश्च” इति विप्रत्यये सर्वा- पहारे 'वाह ऊठ्' इत्यूठि निष्पन्नः 'प्रष्टवाह् शब्दः "गतिकारकोपपदात् कृत्" इति सूत्रेणान्तोदात्तः । प्रष्ठवाह शब्दस्य शसि रूपम् । तेनात्र एकाजन्तोदात्तेभ्यः पराड- 6 स्वरवैदिकप्रश्नोत्तरी सर्वनामस्थान-विभक्तिरुदात्ता स्यादित्यर्थक "उडिदम्पदायप्पुत्रैद्युभ्यः” इति सूत्रे- गोदात्तत्वम् । अत्र प्रष्टौहशब्दल्यानेकाच्त्वेऽपि ऊठशब्दस्यकाच्त्वमेवेति दिक् । अक्षयवा ( १९३०)--अक्षैर्दीव्यतीति विग्रहे किपि सर्वापहारेऽन्तरङ्गत्वा- दूठि यणादेशे उपपदसमासे कृत्त्वरेणान्तोदात्तत्वे 'अक्षयुवा' इति भवति । “ऊडिदं- पदाद्यप्पुप्रेशुभ्यः” इति सूत्रोपरि "ऊठ्युपधाग्रहणं कर्तव्यम्” इत्युक्तम् । तेन उपधा- भूत ऊल् गृह्यते न त्वन्त्यः इत्यर्थः । पञ्चमीनिर्देशात् परस्यैव ग्रहणे प्राप्ते वचनम् , तेलान ( अक्षयुवेत्यादौ ) विभक्तरायुदात्तत्वं न भवति । अहरहर्जायते मासि मासि (१९२७)—अत्र मासीति प्रयोगे “ऊडिदंपदा. धम्पुम्रद्युभ्यः' इति सूत्रेणासर्वनामस्थानङिविभक्तरुदात्तत्वे अहरहर्जायते मासि मासि" इति भवति । उपत्वाग्ने दिवे दिवे ( १९३०) अत्र प्रयोगे "ऊडिदंपदायप्पुनैद्युभ्यः” इति सूत्रेणोदात्तत्वे 'उपत्वाग्ने दिवे दिवे” इति भवति । अष्टाभिर्दशभिः ( १९३४ )-अत्र "अष्टनो दीर्घात्" इति सूत्रेण मिसः उदात्तत्वे 'अष्टामिः' इति भवति । सूत्रार्थश्व-दीर्घान्तादष्टनः पराऽ- सर्वनामस्थानविभक्तिरुदात्ता भवति । अत्र चाष्टनशब्दे प्राप्तं "झल्युपोत्तमम्" इति- प्रबाध्य विभक्तरुदात्तत्वम् । 'अष्टभिः' इत्यत्र तु "झल्युपोत्तमम्" इत्यनेनैव स्वरः सिद्धो भवति। नन्वत्रापि “अष्टन या विभक्तौ” इत्यनेनात्वं विकल्पस्य तद्विधावभावा- दितिचेत् , युक्तम् इहस्थमेव दीर्घग्रहणमात्वविकल्पमष्टनो ज्ञापयति । नो चेत् दीर्घ- ग्रहणमेवव्यर्थं स्यात् । ज्ञापयति च कृतात्वनिर्देशस्य षसंज्ञाम् । अन्यथा सावकाशो ह्यात्वपक्षेऽष्टनः स्वरः परत्वादनात्वपक्षे षट्स्वरेणव बाधिष्यते इति किं तेन दीर्घ- ग्रहणेनेति शम् । जानती ( १९२९ )-शत्रन्तजानतीत्यत्र “आयुदात्तश्च" इत्यनेन शत्रन्तो- दात्तत्वे "शतुरनुमो नद्यजादो” इति सूत्रेणेकारस्योदात्तत्वे 'जानती' इति भवति । उदात्तयणो हल्पूर्वात् ( १६२९, ४८)-उदात्तस्थाने यो यण हल्पूर्वस्त- स्मात्परा नदी अजादिश्च शसादिविभक्तिरुदात्ता स्यात् इति व्याख्यार्थः । 'चोदयित्री सूनृतानाम्' एषा ते नेत्री । इत्युदाहरणे स्तः। चोदायित्री सूनृतानाम् ( १९४३) चोदयित्री इति तृजन्तत्वात् “चितः" इत्यन्तोदात्ते कृते "उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य" इति प्राप्ते तम्प्रबाध्य "उदात्तयणो हल्पूर्वात्" इति सूत्रेणोदात्तत्वे 'चोदयित्री' इति भवति ।

। म्वरप्रकरणे प्रत्ययस्वरः " नेत्री-( १९३६, ४५)-अत्र तृजन्तत्वात् "चितः” इति सूत्रेणान्तोदात्तत्वे प्राप्ते तम्प्रबाध्य “उदात्तयणो हल्पूर्वात्" इति सूत्रेणोदात्तत्वे 'नेत्री' इति भवति । सेत्पृश्निः सुभ्वे' (१९३०)-अत्र क्विवन्तस्य सुभू इत्यस्य कृदुत्तरपदप्रकृ- तिस्वरेणान्तोदात्तत्वेऽन्तोदात्तभूतस्य सुभूशब्दस्य चतुर्येकवचने “ओः मुपि” इति यणादेशे “उदात्तयणो हत्पूर्वात्" इति सूत्रेणोदात्तत्वे प्राप्त “नोधात्वोः" इति तन्नि- बेधे “सुभ्वे" इति भवति । अक्षण्वन्तः ( १९३७, ४४)-अभिशब्दान्मतुपि “अस्थिदघिसक्थ्यषणा- मनकुदात्तः” इति “छन्दस्यपि दृश्यते""इत्यनङि कारस्येत्संज्ञायां लोपे च "अनो नुद्" इत्यस्यासिद्धत्वात् पूर्व नलोपे ततो भूतपूर्वगत्या मतुपो नुदि उटावितौ “माटु- पधायाच मतोर्वोऽयवादिभ्यः” इति मकारस्य वत्वे णत्वे "हस्वनुड्भ्यां मतुप्" इति सूत्रेण नुटः परस्य मतुपः उदात्तत्वे 'अक्षण्वन्तः' इति भवति । स्वरविधौ व्यञ्जनमविद्यमानवदित्येतदननेष्यते ( १९३०, ४५ )-ननु 'मरुत्वान्' इत्यत्र “स्वरविधौ व्यञ्जनमविद्यमानवत्" इति परिभाषया तकारस्या- विद्यमानवत्वेन ह्रस्वान्तात्परत्वस्य मतुपि सत्वेन "ह्रस्वनुड्भ्यां मतुप्' इति स्वरा- पत्तिरत आह-"स्वरविधौ व्यञ्जनमविद्यमानवत्' इत्येतदत्र नेष्यते इति । अयं भावः- "नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु' इति सूत्रे पृथिव्यादिपर्युदासो व्यर्थः। उदात्तत्वादेरज्धर्मतया पकारस्यैवादी सत्वेनाऽनुदात्तादित्वाभावादिति तत्सामर्थ्येन स्वरविधाविति परिभाषा कल्प्यते, ततश्च पकारस्याविद्यमानत्वेनानुदात्तादित्वसत्वात् "देवता द्वन्द्वे च" इति प्राप्तप्रकृतिस्वरस्य निषेधप्राप्तौ पर्युदासः सार्थक इति । एवञ्च ज्ञापकसाजात्यात् स्वरत्वव्याप्यधर्मावच्छिन्नोद्देश्यताके विधावेव स्वरविधावित्यस्य प्रवृत्त्या प्रकृते "हस्त्रनुड्भ्यां मतुप्' इत्यस्य स्वरत्वव्याप्यधर्मावच्छिन्नोद्देश्यताक- त्वाऽभावात् परिभाषाऽप्रवृत्तौ "मरुत्वान्' इत्यत्र न स्वर इति । नव इषुमानित्यत्र "ह्रस्वनुड्भ्याम् मतुप्" इत्यस्याऽप्रवृत्तयेऽन्तोदात्तादित्यनुवृत्तेरावश्यकतया अस्यापि स्वरत्वव्याप्यधर्मावच्छिन्नविषयतायाः प्रतिवन्धकं व्यञ्जनं न भवतीत्यर्थस्वीकारेणा- न्तोदात्तत्वबुद्धेः प्रतिबन्धासम्भवेऽपि हस्वान्तत्ववुद्धेः प्रतिबन्धात् ह्रस्वनुड्भ्यामि- त्यस्याप्रवृत्तेः । अतएव नुग्रहणं चरितार्थम् । अन्यथा ह्रस्वान्तत्वादेव सिद्धे तद् व्यर्थ स्यादित्यलम् । “स्वरविधौ व्यञ्जनमविद्यमानवत्" अत्र यतोऽनाव इत्यत्रस्थः 'अनाव' इति निषेधोपि ज्ञापकः, इत्यादि विस्तरभिया समाप्यते।

५८ स्वरवैदिकप्रश्नोत्तरी। नामान्यतरस्याम् ( १९४२ )-इति सूत्रस्वरूपम् । मतुपि यो ह्रस्वस्तदन्ता- दन्तोदात्तात्परो नामुदात्तो वा स्यात् इत्यर्थः । चेतन्ती सुमतीनाम् ( १९५२ )-सुमतीनामत्र सुमतिशब्दोबहुव्रीहिः सुम- तिशब्दस्य षष्ठीबहुवचने सुमतीलामत्र नसुभ्याम्” इति सूत्रेणान्तोदात्तत्वे “नाम- न्यतरस्थाम्" इति सूत्रेण नामुदात्तो वा जातः । तेन पनेऽनुदात्तस्य स्वरितत्वम् । त्रिभिष्ट्वं देव ( १९३१, ३५, ५२ )-इत्यत्र “त्रिचतुभ्यो हलादिः" इति सूत्रैण त्रिशब्दात्परस्य हलादिविभक्तरुदात्तत्वे भिसः उदात्तत्वं सिद्धयति । नांत्र सूत्रे “अन्तोदात्तात्' इत्यस्यानुवृत्तिः । अनुवृत्तौ पञ्चानां नवानां चतुर्णाम् इत्यत्र न स्यात् । “नः सङ्घयायाः” इत्याद्युदात्तत्वात् । तर्हि क्व स्यात् ? सप्ता- नामष्टानाम् । अत्र च सप्ताटनशब्दौ घृतादित्वादेव “घृतादीनाञ्च" इत्यन्तोदात्ता- विति दिक् । क्वं नूनम् ( १९३४, ५१)-अत्र "किमोत्' इत्यति अनुबन्धलोपे तित्प्र- त्ययस्यान्तः स्वरितः स्यादित्यर्थक "तित्स्वरितम्” इति सूत्रेणान्तस्य स्वरितत्वे "काति" इति सूत्रेण किमः क्वादेशे 'क' इति एवञ्च ‘क नूनम्' इति भवति । तास्यनुदात्तेत् ( १९२६, ४०, ४९)-"तास्यनुदात्तेन्दिदुपदेशालसा- र्वधातुकमनुदात्तमहिन्वडोः" इति सूत्रस्वरूपम् । तास्यादीनां समाहारद्वन्द्वः । उप- देशग्रहणं सम्भवव्यभिचाराभ्यां हिदद्भ्यां सम्बध्यते, नतु तास्यनुदात्तेद्भ्याम् डिदिति कर्मधारयः । उपदिश्यते इति उपदेशः । तस्याकारेण डिता च विशेषणा- तदन्तविधिः तथाच सूत्रार्थः–तासेरनुदात्तेती दिन्तोपदेशादकारान्तोपदेशाच्च परं लसार्वधातुकमनुदात्तं स्यात् हिन्वौ वर्जयित्वा । उदाहरणानि-तासि-कर्ता, कर्तारी, कारः । अनुदात्तेत्-य प्रास्ते । तिः-अभिचष्टे अनृतेभिः । अदुपदेशात्-पुरु- भुजा चनस्यतम् , वर्धमानं स्वे दमे। प्रत्युदाहरणानि-तास्यादिभ्यः किम्-अभि- वृधे गृणीतः, उपदेशग्रहणात् नेह-'हतो वृत्राण्यार्या, लग्रहणं किम्-कतोह निम्नानाः। सार्वधातुके किम्-शिश्ये, अहिन्वोः किम्-हुते । यदधीते । य आस्ते ( १९४१)-अत्र "तास्यनुदात्तेन्दिदुपदेशाल्लसार्वधातुकमनु- दात्तमन्विङो” इति सूत्रेण लसार्वधातुके अनुदात्त 'य आस्ते' इति भवति । इन्धे राजा ( १९२७)-अत्र प्रयोगे "तास्यनुदात्तेन्दिदुपदेशाल्लसार्वधा- तुकमनुदात्तमहिन्वडोः” इति सूत्रेणानुदात्तत्वे प्राप्ते "विन्दीन्धिखिदिभ्यो नेति वक्तव्यम्" इत्यनेन तनिषेधे 'इन्धे राजा' इति भवति । .

५६ स्वरप्रकरणे समासस्वरः। यासिष्टं वर्तिरश्विनौ (१९४२, ४४, ४९)-अत्र "आदिःसिचोऽन्यतरल्याम्" इति सूत्रेणाद्युदात्तत्वे ‘यासिष्टं वर्तिरश्विनौ' इति । लुलविथ ( १९४१, ४६ )-अत्र "थलि च सेटीडन्तो वा” इति सूत्रेण. चत्वारोऽपि पर्यायेणोदात्ताः जाताः । यदाहवनीये' (१९३२, ३३, ३९)-बाहुलकादधिकरणे श्रीणनीर्थात् कर्मणि वा अनीयर् प्रत्यये ततो गतिसमासे कृदुत्तरपदप्रकृतिस्वरे "उपोत्तम रिति” इति सूत्रेणोपोत्तमस्योदात्तत्वे 'आहवनीये' इति भवति । इति प्रत्ययस्वरः। अथ समासस्वरः। शस्त्रीश्यामा (१९२९)-अत्र प्रयोगे “उपमानानि सामान्यवचनैः" इति समासे “समासस्य” इति सूत्रेण अन्तोदात्त प्राप्त तम्प्रवाध्य “तत्पुरुषे तुल्या- र्थतृतीयासप्तभ्युपमानात्र्ययद्वितीयाकृत्याः' इति सूत्रेण पूर्वपदप्रकृतिस्वरत्वे 'शस्त्री- श्यामा' इति भवति । अत्र शस्त्रीशब्दः गौरादिङीषन्तोदात्तः। मुहूर्तसुखम् ( १६४६ )-त्रअ “तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्यय- द्वितीयाकृत्याः" इति सूत्रेण पूर्वपदप्रकृतिस्वरत्वम् । अत्र “कालावनोरत्यन्तसंयोगे च" इति द्वितीयासमासे मुहूर्तशब्दः पृषोदरादित्वादन्तोदात्तः । कृष्णसारङ्गः ( १९४३, ४७ )-अत्र “वर्णों वर्णेष्वनेते” इति सूत्रेण पूर्वप- दप्रकृतिस्वरे 'कृष्णसारङ्गः' इति भवति । कृष्णशब्दो नक्प्रत्ययान्तः । “कृष्णस्यामृगा- ख्याचेत्' इत्यन्तोदात्तो वेदे । भाषायां तु "वर्णानां तणतिनितान्तानाम्" इत्याधु- दात्तो भवति । अरित्रंगाधम् ( १९४४ )-तत्प्रमाणम् इत्यर्थः । अरित्रं नौकाष्ठं तस्य (अरित्रस्य ) गाध स्पृश्यमानतलम् अरित्रगाधम् । गाध्यते इति गाधः 'गाई' प्रति- ष्टायाम् “कर्मणि घञ्" अर्धर्चादित्वात् क्लीबत्वम् “अर्तिलूधूसूखनसहचर इत्रः" इति सूत्रेण इत्रप्रत्ययः। इत्रान्तोऽरित्रशब्दो मध्योदात्तः प्रत्ययस्वरेण, षष्टीसमासे "समासस्य' इत्यन्तोदात्ते प्राप्ते "गाधलवणयोः प्रमाणे” इति पूर्वपदप्रकृतिस्वरत्वे 'अरित्रगाधम्' इति भवति ।

तस्य स्वरवैदिकप्रश्नोत्तरी गोलवणम् ( १९३३ -"गोडोंः' इति सूत्रेण डोप्रत्ययेऽनुबन्धलोपे डित्वाहिलोपे पठीसमासे "समासस्त्र' इति सूत्रेणान्तोदात्त प्राप्ते तन्प्रवाध्य “गाधल- वणयोः प्रमाणे" इति सूत्रेण पूर्वपदप्रकृतिस्वरे जाते 'गोलवणम्' इति भवति । यावद्गवे दीयते तावदित्यर्थः । गमनचिरन् ( १६४४ ) गम्धातोर्युटि ल्युडन्तः गमनशब्दः 'लित्स्वरः' विशेषणसमासश्च तथा च "समासस्य” इत्यन्तोदात्तत्वे प्राप्ते “प्रतिवन्धि चिरट्टाछ्योः" इति सूत्रेण पूर्वपदग्रकृतिस्वरत्वे 'गमनचिरम्' इति भवति । गमनं कारणविकलतया चिरकालभावि कृच्छ्योगि च अतिबन्धि जायते । ननु सामाना- "धिकरण्ये विशेषणसमासो भवति न चेह तदस्ति गमनशब्दस्य गतिवाचित्वाचिर- शब्दस्य कालवाधित्वात् । नए दोषः चिरकालवाचिनि गमनेऽत्र चिरशब्दो वर्तते गमनमत्र विशेष्यं तद्विशेषणे तु चिरकृच्छे तत्र विशेष्यस्य पूर्वनिपातार्थं मयूरव्यंस- कादित्वमप्येष्टव्यम् । उच्चारपदेन प्रस्थितः ( १९४० )-उच्चारो घनन्तस्तेन “थाथपत्र जाज- वित्रकाणाम्" इति सूत्रेणान्तोदात्तः ततश्च उच्चारस्य पदमिति षष्ठीतत्पुरुषसमासे "समासस्य” इति सूत्रेणान्तोदात्ते प्राप्त “पदेऽपदेशे” इति सूत्रेण पूर्वपदप्रकृति- स्वरे 'उच्चारपदेन प्रस्थितः' इति भवति । उचारः पुरीषक्रिया तस्य पदेन व्याजेन प्रस्थितः गतः इत्यर्थः। रज्जुशारदम् ( १६२७, ४१, ४४ )-अत्र "सृजेरमुम् च” इति सृजेहः स च नित् धातोरसुमागमः सलोपश्च तत्र सृजेरन्त्यादचः परेऽसुमि सलोपयणादेशेऽ. सुम्सकारस्य श्रुत्वे जश्त्वे च रज्जुरिति भवति।तत्र प्रत्ययस्य नित्वात् "नित्यादिनि- त्यम्" इति सूत्रेण श्राद्युदात्तो भवति, अत्र समासे “समासस्य' इति सूत्रेण अन्तो- दात्ते प्राप्ते तम्बाध्य "शारदेनातवे" इति सूत्रेण पूर्वपदप्रकृतिस्वरत्वे ‘रज्जुशारदम्' इति भवति । पितृसंहशः (१९४२)-अत्र पितृशब्दः तृजन्तः चित्स्वरेणान्तोदात्तः ततश्च समासे “समासस्य" इत्यन्तोदात्ते प्राप्ते तम्प्रबाध्य सादृश्यवाचिनितत्पुरुषे पूर्वपदं प्रकृत्या एतयोरुत्तरपदयोरित्यर्थक “सदृशप्रतिरूपयोः सादृश्य" इति सूत्रेण पूर्वपदप्रकृतिस्वरे 'पितृसदृशः' इति भवति । नन्वत्र “पूर्वसदृशसमोनार्थ' इति तृतीयासमासे कृते 'तत्पुरुषे तुल्यार्थ'-इत्येव सिद्धम् । न च तुल्यार्थयोगे षष्ठया अपि स्वरप्रकरणे समासस्वरः। विहितत्वेन षष्टीसमासार्थमिदमिति वाच्यम् । तत्रानभिधानात् घटीसमासो नेत्यस्य सुवचत्वादिति चेन्मैवम् । अलुक्समासानुरोधेन षष्टीसमासस्वीकारस्यावश्यकत्वात् इत्यादिविषयस्य प्रयोगमात्रप्रश्ने नास्ति आवश्यकतेति विज्ञेयम् । मात्रोपज्ञोपक्रमच्छाये नपुंसके ( १९३९) मात्रादिषु परतो नपुंसक- वाचिनि तत्पुरुषे पूर्वपदं प्रकृतिस्वरं स्यादित्यर्थः । भिक्षामात्रम् । पाणिन्युपज्ञम् ! नन्दोपक्रमम् । इषुच्छायम् । इत्युदाहरणानि । पाणिन्युपज्ञम्-( १९३२, ४५ )-उपज्ञामते इत्युपज्ञा अत्र “आतचोप- सर्गे” इति सूत्रेण कर्मण्य पाणिनिशब्दः इअन्तत्वादायुदात्तः । अस्य उपज्ञा इति षष्टीतत्पुरुषसमासे "उपज्ञोपक्रमम्" इत्यादिना नपुंसकत्वे “समासस्य” इत्यन्तो- दात्त प्राप्ते तम्प्रवाध्य “मात्रोपझोपक्रमच्छाये नपुंसके” इति सूत्रेण पूर्वपदप्रकृति- स्वरत्वे "पाणिन्युपज्ञम्” इति सिद्धम् । छात्रप्रियोऽनध्यायः ( १९४६ )-अत्र छात्रशब्दः "छत्रादिभ्यो णः' इति विहितणप्रत्ययान्तः प्रत्ययस्वरेणान्तोदात्तः तथा च समासे "समासस्य" इति सूत्रे- णान्तोदात्ते प्राप्ते "प्रीतौ च” इति सूत्रेण पूर्वपदप्रकृतिस्वरत्वे 'छात्रप्रियोऽजध्यायः' इति बोध्यम् । गोस्वामी (१९५१)-अत्र षष्टीसमासे “समासस्य” इति सूत्रेण अन्तो. दात्तत्वे प्राप्ते "स्वं स्वामिनि" इति सूत्रेण पूर्वपदप्रकृतिस्वरे 'गोस्वामी' इति भवति । भूपतिः ( १९३० )-अत्र प्रयोगे भुवः पतिः भूपतिः इति विग्रहे. समासे "समासस्य” इति सूत्रेणान्तोदात्त ततश्च “पत्यावश्वये” इति सूत्रेण प्रकृतिस्वरे प्राप्ते "न भूवाचिदिधिषु" इति तन्निषेधे भूपतिः' इति भवति । भुवनपतिः ( १९५२)-अत्रापि भुवनस्य पतिरिति विग्रहे षष्टीतत्पुरुष- समासे “समासस्य” इत्यन्तोदात्ते “पत्यावैश्वर्य” इति प्रकृतिस्वरे प्राप्ते वा भुवनम्" इति विकल्पेन तनिषेधे 'भुवनपतिः' इति भवति । पक्षेपूर्वपदप्रकृतिस्वरत्वम् । गमनाबाधम् ( १९४३ ) श्रापर्वकलोडनार्थकलकारेत्संज्ञकबाधधातोः कर्मणि धम् "नित्यादिनित्यम्” इति सूत्रेणाद्युदात्ते गमनशब्दो लित्स्वरेणायुदात्तः गमनमाबाध्यते निकटतरमिति विशेषणसमासे मयूरव्यंसकादित्वात् वा समासे "समा- सस्य” इति सूत्रेणान्तोदात्त प्राप्ते "आशङ्काबाधनेदीयस्सु सम्भावने" इति सूत्रण पूर्वपदप्रकृतिस्वरत्वे 'गमनाबाधम्' इति भवति ।

स्वरवैदिकप्रश्नोत्तरी । गर्भननेदीयः ( १९४१ )-अत्र 'नेदीय इति अतिशयेनान्तिकं नेदीयः अन्तिकशब्दादतिशयेऽर्थ ईयमुनि प्रत्यये "अन्तिकबाढयोः” इत्यादिसूत्रेण नेदादेशे मयूरव्यंसकादित्वात्समासे "समासस्य” इति सूत्रेणान्तोदात्ते प्राप्ते “श्राशङ्कावाध. नेदीयस्मु सम्भावने” इति सूत्रेण पूर्वपदप्रकृतिस्वरे 'गमननेदीयः' इति भवति । भद्रसंविधान ( १९३१, ४७)-मद्रस्य सविधम् मद्रसविधम् इत्यत्र षष्टी- समासे “समासस्य' इति सूत्रेणान्तोदात्ते प्राप्ते तम्प्रवाध्य सामीप्यार्थेषु सविधादि- यूत्तरपैदेषु पूर्वपदं प्रकृत्या स्यातत्पुरुषे इत्यर्थक “सविधसनीडसमर्यादसवेशसदेशेषु सामीप्" इति सत्रेण पूर्वपदप्रकृतिस्वरे 'मद्रसविधम्' इति भवति । मद्रसवेशम्-(१९३७)-अत्र मद्रस्य सवेशम् इति स्थिते षष्टीसमासे "समासस्य” इति सूत्रेणान्तोदात्त प्राप्ते तम्प्रबाध्य सामीप्यार्थेषु सविधादिषूतरपदेषु पूर्वपदं प्रकृत्या स्यात् तत्पुरुषे इत्यर्थक "सविधसनीडसमर्यादसवेशसदेशेषु सामीप्ये" इति सूत्रेण पूर्व पदप्रकृतिस्वरे 'मद्रसवेशम्' इति भवति । गमनज्येष्ठम् ( १९४० ) अत्र समासे मयूरव्यंसकादित्वात् राजदन्ता- दित्वात् वा विशेषणस्य ज्येष्ठ इत्यस्य परनिपाते “समासस्य” इति सूत्रेणान्तोदात्ते प्राप्ते "श्रज्यावमकन्पापवत्सु भावे कर्मधारये” इति सूत्रेण पूर्वपदप्रकृतिस्वरे 'गम- नज्येष्ठम्' इति । कुमारभ्रमणा ( १९३४, ५१)-कुमारी श्रमणा कुमारश्रमणा अत्र "प्रातिप- दिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्" इति परिभाषया “कुमारः श्रमणादिभिः" इति सूत्रेण कुमारीशब्दस्य समासे पुंवद्भावे "समासस्य” इति सूत्रेणान्तोदात्ते प्राप्त "कुमारच" इति सूत्रेण पूर्वपदप्रकृतिस्वरे कुमारशब्दात् पचाद्यविधानेन कुमार- शब्दस्य "चितः" इत्यन्तोदात्त “कुमारभ्रमणा" इति । कुमारप्रत्येनाः (१९४२, ४९ )-प्रतिगतमेनोऽस्य प्रत्येनाः कुमारश्चासौ प्रत्येनाः कुमारप्रत्येनाः अत्र कर्मधारयसमासः । तत्र कुमारशब्दस्य अन्तोदात्ते प्राप्त "आदिः प्रत्येनसि' इति सूत्रेण कुमारशब्दस्य आयुदात्तत्वे 'कुमारप्रत्येनाः' इति भवति । पञ्चारनिः ( १९४५)-पश्चारत्नयः प्रमाणमस्य पञ्चारनिः अत्र तद्धितार्थे द्विगुः “प्रमाणेलो द्विगोनित्यम्' इति मात्रचो लुकि “समासस्य' इत्यन्तोदात्त प्राप्ते "इगन्तकालकपालभगालशरावेषु द्विगौ' इति सूत्रेण पूर्वपदप्रकृतिस्वरे ‘पञ्चारनिः' इति अत्र पञ्चन् शब्द श्रायुदात्तो, वर्तते ।

स्वरप्रकरणे समासस्वरः। पञ्चदिष्टिः ( १९३२ )-अत्र “समासस्य" इति सूत्रेण नित्यान्तोदात्तत्वे प्राप्ते "दिष्टिवितस्त्योश्च" इति सूत्रण वैकल्पिकपूर्वपदप्रकृतिस्वरे “पञ्चदिष्टिः" इति पक्षेऽन्तोदात्ते पञ्चदिष्टिः' इति रूपद्वयम् भवति । साङ्काश्यसिद्धः-( १९३३)-“वुञ्छुण्" इत्यादिसूत्रेण सङ्काशशब्दात् ण्यप्रत्ययेऽन्तोदात्तेऽनुबन्धलोपे आद्यचो वृद्धौ अकारस्य लोपे च ततः समासे समा. सस्य' इति सूत्रेणान्तोदात्ते प्राप्ते तम्प्रवाध्य "सप्तमीसिद्धशुष्कपक्कबन्धेवकालात्" इति सूत्रेण पूर्वपदप्रकृतिस्वरे 'साङ्काश्यसिद्धः' इति भवति । पूर्वपदन्त्वन्तोदशम् । भ्राष्ट्रपक्कः ( १९३५)-ष्ट्रन्नन्तभ्राष्ट्रशब्दः नित्त्वादायुदात्तः ततश्च समांसे "समासस्य" इत्यन्तोदात्ते प्राप्ते तम्प्रबाध्य "सप्तमी सिद्धशुष्कपक्ववन्धेष्वकालात्" इति सूत्रेण पूर्वपदप्रकृतिस्वरे 'भ्राष्ट्रपक्वः' इति भवति । श्वाफल्कचैत्रकाः ( १९४६ ) अत्र द्वन्द्वसमासे 'वफल्कचैत्रकाभ्यामण" इत्यणि णित्वादायचो वृद्धावाद्युदात्तत्वे “समासस्य” इसन्तोदात्त प्राप्ते तम्प्रवाध्य "राजन्यबहुवचनद्वन्द्वन्धकवृष्णिषु' इति सूत्रेण पूर्वपदप्रकृतिस्वरे जाते 'श्वाफल्क चैत्रकाः' इति भवति । द्वादश ( १९५१) द्वौ च दश च द्वादश इति द्वन्द्वे समासे "द्वयष्टनः संख्याया" इति सूत्रेणात्वे द्वादश इत्यत्र समासे सति “समासस्य” इत्यन्तोदात्तत्वे प्राप्ते तम्प्रबाध्य “सङ्ख्या” इति सूत्रेण पूर्वपदप्रकृतिस्वरे 'द्वादश' इति भवति । पाणिनीयरौढीयाः ( १९३६, ४१, ४४, ४५)-पाणिनेः रौढेश्च छात्राः इति पाणिनीया रौढीयाः, पाणिनीयाश्च रौढीयाश्च इति पाणिनीयरौढीयाः अत्र पाणिनिरौढिशब्दाभ्यां "वृद्धाच्छः" इति सूत्रेण छप्रत्यये "आयनेयीनीयियः फढखछयां प्रत्ययादीनाम्" इति सूत्रेण छस्येयादेशे इकारस्य लोपे छस्वरेण मध्योदात्तयोः पाणिनीयाश्च रौढीयाश्चेति द्वन्द्वसमासे “समासस्य” इति सूत्रेणान्तो- दात्ते प्राप्ते तम्प्रवाध्य "प्राचार्योपसर्जनश्चान्तेवासिनि" इति सूत्रेण पूर्वपदप्रकृतिस्वरे 'पाणिनीयरौढीयाः' इति भवति । अत्र रौढिशब्दात् “इअश्च” इत्यण्न “नद्वयचः प्राच्यभरतेषु इति तन्निषेधात् । महानत्रीहि०—(१९४९) "महान् ब्रीह्यपरागृष्टीवासजाबालभारभारतहैलि- हिलरौरवप्रवृद्धेषु'' इति सूत्रस्वरूपम् । महच्छब्दः प्रकृत्या ब्रीद्यादिषु दशसु परेषु इत्यर्थः।

स्वरवैदिकप्रश्नोत्तरी! महाबीहिः-(१९३१) महांश्चासौ ब्रीहिरिति विग्रहे समाले समासत्वात् प्राति- पदिकत्वे सुपो लुकि "प्रान्महतः समानाधिकरणजातीययोः" इति सूत्रेणात्वे "समासस्य” इति सूत्रेणान्तोदात्ते प्राप्त तम्बाध्य "महान् ब्रीह्यपरालगृष्टीष्वासजा- बालभारभारतहैलिहिलौरवप्रवृद्वेषु" इति सूत्रेण व्रीहिपरे महच्छब्दस्य प्रकृतिभावे 'महानीहिः' इति भवति । महावैश्वदेवम्-- (१९५०) अत्र “वर्तमाने पृषन्महत०' इत्यत्र तथा निपात- नात्महच्छन्दोन्तोदात्तः ततश्च समासे "प्रान्महतः” इत्यात्वे “समासस्य" इत्य- न्तोदात्त प्राप्त तम्प्रवाध्य “क्षुल्लकस्य वैश्वदेवे” इति सूत्रेण पूर्वपदप्रकृतिस्वरे "महा- वैश्वदेवम्” इति । कुरुगार्हपत:-(१९४०), ४९ "कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्लीलदृढरूपापारे- वडवाततिलकद्रूः पण्यकम्बलो दासीभाराणाञ्च” इति सूत्रस्वरूपम् । एषां सप्तानां समासानां दासीभारदेश्व सूर्वपदं प्रकृत्या स्यात् इत्यर्थः। रिक्तगुरुः-(१९४२) रिक्तो गुरुः रिक्तगुरुरत्र “रिक्ते विभाषा'' इति सूत्रेण रिक्तशब्दः श्रायुदात्तः ततश्च समासानन्तरं “समासस्य” इति सूत्रेणान्तोदात्ते प्राप्त 'कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्लीलदृढरूपापारेवडवातैतिलकद्रूःपण्यकम्बलो दासी- भाराणाच" इति सूत्रेण पूर्वपदप्रकृतिस्वरे 'रिक्तगुरुः' इति भवति । पारेवडवा-(१९४४) पारेवडवा अत्र निपातनादिवायें समासे विभक्त्यलोपे- च पारशब्दः घृतादित्वादन्तोदात्तः । ततश्च समासानन्तरं "समासस्य' इति सूत्रेणा- न्तोदात्ते प्राप्त तम्प्रबाध्य "कुरुगाहपत" इत्यादिसूत्रेण पूर्वपदप्रकृतिस्वरे 'पारेवडवा' इति भवति। पण्यकम्बलः-(१९२७) अत्र प्रयोगे “अवधपण्यवर्या गर्थपणितव्यानिरो- धेषु" इति सूत्रेण निष्पन्नस्य पण्यशब्दस्य “यतोऽनावः” इति सूत्रेणाद्युदात्तत्वे पण्यश्चासौ रम्बलः पण्यकम्बल इति समासे "समासस्य" इति सूत्रेणान्तोदात्त प्राप्त तम्प्रबाध्य “कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्लीलदृढरूपापारेवडव तिलकद्रूःपण्यक- म्बलो दासीभाराणाञ्च" इति सूत्रेण पूर्वपदप्रकृतिस्वरे ‘पण्यकम्बलः' इति भवति । यूपदारु-(१९३३, ४५) यूपाय दारु इति यूपदारु अत्र समासे “समासस्य" इति सूत्रेणान्तोदात्ते प्राप्त “चतुर्थी तदर्थे” इति सूत्रेण चतुर्थ्यन्तपूर्वपदस्य पूर्वपद- प्रकृतिस्वरे 'यूपदारु' इति भवति । अत्र निदिति दीर्घश्चत्यनुवर्तमाने "कुयुभ्यां च' इति सूत्रेण पप्रत्यये दीर्वं च निष्पन्नयूपशब्दः नित्त्वादायुदात्तः इति बोध्यम् ।

स्वरप्रकरणे समासस्वरः। गोहितम् (१९२६)-गवे हितम् इति गोहितमत्र समासे "समासस्य” इति सूत्रेणान्तोदात्ते प्राप्ते तम्प्रबाध्य "क्तच" इति सूत्रेण पूर्वपदप्रकृतिस्वरे ‘गोहितम्' इति भवति। श्रेणिकृताः (१९४३)-अत्र श्रेणिशब्दस्यायुदात्तस्य कर्मधारयसमासे “समा- सस्य” इत्यन्तोदात्तत्वे प्राप्ते तम्प्रबाध्य “कर्मधारयेऽनिष्ठा" इति सूत्रेण पूर्वपदप्रकृति- स्वरे 'श्रेणिकृताः' इति भवति । त्वोतासः (१९२८, ४१)—अत्र त्वयाऊताः रक्षिताः त्वोतासः। मपर्यन्तस्य 'प्रत्ययोत्तरपदयोश्च' इति त्वादेशे छान्दसत्वाद्दकाराकारलोपे ऊता इति अवतेः क्त "ज्वरत्वर" इत्यादिनोठि “एत्येधत्यूट्सु” इति सूत्रेण छान्दसत्वाद् वृद्धरिडागमस्य- चाभावे जसि “श्राज्जसेरसुक्' इत्यसुगि “तृतीया कर्मणि" इति सूत्रेण पूर्वपदप्रकृति- स्वरे “एकादेश उदात्तेनोदात्तः" सूत्रेण उदात्तत्वे ततः स्वरितप्रचये जाते 'खोतासः' इति भवति । रुद्रहतः (१६३८)-रुद्रेण हतः ‘रुद्रहतः' इति समासे “समासस्य" इत्यन्तो- दात्त प्राप्त "तृतीया कर्मणि" इति पूर्वपदप्रकृतिस्वरे 'रुद्रहतः' इति भवति, अत्र रुद्र- शब्दः रगन्तत्वेनान्तोदात्तः। गतिरनन्तरः (१९५१) कर्मार्थे तान्ते परेऽव्यवहितो गतिः प्रकृत्या स्या- दित्यर्थः । पुरोहितम् । इत्युदाहरणम् । पुरोहितम् (१९३६, ३७,४२, ४७, ५१) अत्र “पूर्वाधरावराणामसि पुर- धवश्वैषाम्" इत्यसिप्रत्ययान्तः प्रत्ययस्वरेणान्तोदात्तः पुरःशब्दः । हितशब्दोपि धामोनिष्ठायां “दधातेर्हिः" इति सूत्रेण ह्यादेशे प्रत्ययस्वरेणान्तोदात्तः। "पुरोऽ- व्ययम्" इति गतिसंज्ञायां “कुगति प्रादय” इति समासे समासान्तोदात्ते "तत्पुरुषे तुल्यार्थ' इत्यत्र्ययपूर्वपदप्रकृतिस्वरे, कृत्स्वरे, थाथादिस्वरे च पूर्वपूर्वोपमर्दैन प्राप्ते "गतिरनन्तरः" इति पूर्वपदप्रकृतिस्वरः । गतिरनन्तरः । अत्रानन्तरग्रहणफलम् ( १९४०)-"गतिरनन्तरः" इति सूत्रस्थानन्तरग्रहणफलमाह-अभ्युद्धृतः' इति, इह च हृतशब्दस्य उच्छब्देन समासे पुरोहितमित्यत्रेव गतिस्वरेणाद्युदात्त उद्धृतशब्दः तस्य पुनरभिशब्देन समासः । तस्य “कृग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्” इति परिभाषया उद्धृतशब्दः तान्तः उत्तरपदम् । एवं समासान्तोदात्तत्वे प्राप्ते तद्बाधकाव्ययपूर्वपदप्रकृतिस्वरे ५स्व०प्र० स्वरवैदिकप्रश्नोत्तरी। तदपवादे कृत्स्वरे तदपवादस्थाथादिस्वरः प्राप्तस्तमपोह्यामेरयं स्वरः स्यात् सोऽनन्त- रग्रहणेन वार्यते। नन्वनन्तरग्रहणेनाप्यसौ दुर्वारः कृद्ग्रहणपरिभाषयोद्धृतशब्दस्य तान्तत्वेऽ. मेस्तदानन्तर्यसत्त्वादिति चेन्मैवम् । अनन्तरग्रहणसामर्थ्याद्धि धातोरनन्तरा गतिरा- श्रीपत्ते अभिश्च न तथा । नन्वेचं मा भूदर्भः स्वरः इष्टसिद्धिस्तु कथम् ? अभ्युद्धृतशब्दे हि उच्छब्दस्य- स्वरः इष्यते "संसृष्टं धनमुभयं समाकृतम्' इति मन्त्रे समाकृतशब्दे आः स्वरदर्श- नात् । न चास. प्रकृतसूत्रेण सिद्धथति- प्रथमसमासे तत्प्रवृत्तावपि द्वितीयसमासे थाथादिस्वरस्य प्राप्तेरक्तत्वात् , न च तं बाधित्वा गतिस्वरः प्रवर्तते इति वाच्यम् द्वितीयसमासे उदः पूर्वपदत्वाभावात् । अत्रोच्यते धातोरनन्तर इति व्याख्यानादेव पूर्वपदत्वं विनापि स्वरोऽयं प्रवर्तते नहि तप्रकृतिभूतं धातुम्प्रति पूर्वपदत्वं गतेः सम्भवति तस्माद युद्धृतै, समासकृतम् इति तावत्सुस्थम् । दूरादागतः-(१९३०)-अत्र प्रयोगे थ, अथ, घन,क्त, अच् , अप् , इत्र, क, एतदन्तानां गतिकारकोपपदात् परेषामन्त उदात्तः स्यादित्यर्थक “थाथपक्का- जबित्रकाणाम्” इति सूत्रेणान्तोदात्त दूरादागतः' इति भवति । तवै चान्तश्च युगपत-(१९३८) तवैप्रत्ययान्तस्यान्त उदात्तो गतिश्चानन्तरः प्रकृत्या युगपञ्चैतदुभयं स्यादित्यर्थः । अन्वे तवा उ । इत्युदाहरणम् । धन्वेतवा उ ( १९४५, ४८)-अत्र “उपसर्गाश्चाभिवर्जम्' इति सूत्रेण 'अनु" रायुदात्तः । “तवै चान्तश्च युगपत्” इति सूत्रेण तवैप्रत्ययान्तस्यान्त उदात्तः गतिश्चानन्तर प्रकृत्या युगपञ्चैतदुभयम् जातम् । द्विसुवर्णधनम् ( १६४०)-दै सुवर्णे परिमाणमस्येति द्विसुवर्णं तदेव धनं द्विसुवर्णधनमत्र समासानन्तरं "समासस्य" इति सूत्रेणान्तोदात्त प्राप्ते "हिरण्यपरिमाणं धने” इति सूत्रेण वैकल्पिकपूर्वपदप्रकृतिस्वरे 'द्विसुवर्णधनम् इति पक्षे समासस्वरेऽ- न्तोदात्ते 'द्विसुवर्णधनम्' इति भवति । प्रथमवैयाकरणः (१९४५)-अत्र प्रथमशब्दः प्रथेरमजन्तः समासे "समा- सत्य" इत्यन्तोदात्ते प्राप्ते "प्रथमोऽचिरोपसम्पत्तौ” इति सूत्रेण प्रथमशब्दस्य विभाषया प्रकृतिभावे - 'प्रथमवैयाकरणः' इति भवति सम्प्रति व्याकरणमध्येतुं प्रवृत्त इत्यर्थः ।

स्वरप्रकरणे समासस्वरः। ६७ यत्र चैयाकरणानामाद्यः मुख्यो वा यः स प्रथमवैयाकरणः एवमर्थः क्रियते तत्र 'प्रथमवैयाकरणशब्दः नित्यमन्तोदात्त एवेति बोध्यम् । आर्यकुमारः (१९२९)-आर्यश्चासौ कुमार इति विग्रहे कर्मधारयसमासे सुपोलुकि “समासस्य” इति सूत्रेणान्तोदाते प्राप्लेतम्प्रवाध्य “आर्यों ब्राह्मणकुमारयोः" इति सूत्रेण पूर्वपदस्य आर्यशब्दस्य वैकल्पिकप्रकृतिभावे ततश्च आर्यशदस्य ग्यदन्तत्वादन्तस्वरिते 'आर्यकुमारः' इति भवति । आर्यब्राह्मणः ( १९३५, ३८)-आर्यशब्दस्य ण्यदन्तत्वात् “तित्स्वस्तिम्" इति सूत्रेणान्तस्वरितत्वे आर्यश्वासौ ब्राह्मणः इति कर्मधारयसमासे "समासस्य" इति सूत्रेणान्तोदात्ते प्राप्ते ब्राह्मणकुमारयोरुत्तरपदयोरायः पूर्वपदं प्रकृतिम्बरं वा स्यात् कर्मधारये इत्यर्थक "आर्यो ब्राह्मणकुमारयोः' इति सूत्रेण प्रकृतिस्वरे 'ब्राह्मणः' पक्षे आयब्राह्मणः इति भवति । राजब्राह्मणः (१९५२)-अत्र राजनशब्दः कनिन्प्रत्ययान्तत्वादायुदात्तः ततश्च कर्मधारये समासे "समासस्य" इति सूत्रेणान्तोदात्ते प्राप्त “राजा च" इति प्रकृति- भावे 'राजब्राह्मणः' इति भवति । राजप्रत्येमाः ( १९५०)-अत्र प्रतिगतमेनः पापं यस्य सः प्रत्येनाः राज्ञः प्रत्येनाः राजप्रत्येनाः इति विग्रह समासे “समासस्य" इति सूत्रेणान्तोदात्ते प्राप्ते “षष्टी प्रत्येनसि" इति सूत्रेण पूर्वपदप्रकृतिस्वरे 'राजप्रत्येनाः' इति भवति । ग्रामनापितः (१९४६)-अत्र बीसमासे "समासस्य” इति सूत्रेणान्तोदात्ते प्राप्ते "ग्रामः शिल्पिनि" इति सूत्रेण विभाषया पूर्वपदप्रकृतिस्वरे 'ग्रामनापितः इति भवति। वैयाकरणहस्ती ( १९४४ )-अत्र "सप्तमीहारिणौ धर्येऽहरणे" इति सूत्रेणाद्युदात्तः । गवाध्यक्षः (१९४७)-अत्र“समासस्य" इति सूत्रेणान्तोदात्ते प्राप्तेतम्प्रबाध्य "विभाषाध्यक्षे” इति सूत्रेण पूर्वपदमायुदात्तम् । गोत्रान्तेवासिमाणव० (१९३६)-"गोत्रान्तेवासिमाणवब्राहणेषु क्षेपे” इति सूत्रस्वरूपम् । गोत्रवाचिनि, अन्तेवासिनि चोत्तरपदे माणवब्राह्मणयोश्च क्षेपवाचिनि समासे पूर्वपदमाद्यदात्तं स्यात् इत्यर्थः । भार्यासौश्रुतः । कुमारीदाक्षाः । श्रोदनपा- णिनीयाः । भिक्षामाणवः । भयब्राह्मणः । इत्युदाहरणानि ।

६८ A स्वरवैदिकप्रश्नोत्तरी। भार्यासौश्रुतः ( १९३९ )-सुष्टु शृणोति इति सुश्रुत् तस्यापत्यं सौश्रुतः । भार्याप्रधानः सौश्रुतः इति विग्रहे शाकपार्थिवादित्वादुत्तरपदलोपिसमासे "गोत्राऽ- न्तेवासिमाणवब्राह्मणेषु क्षेपे” इति सूत्रेण पूर्वपदस्यायुदात्तत्वे 'भार्यासौश्रुत इति भवति । 'दन्तलेखकः (१९४३) अत्रस्थस्य लेखकशब्दस्य “वुल्तृचौ" इति ण्वुलप्रत्य- येऽकादेशे यस्य दन्तलेखनेन जीविका इत्यर्थे "नित्यं क्रीडेति" समासे 'समासस्य" इत्यतोदात्ते प्राप्ते "अके जीविकार्थे' इति सूत्रेण पूर्वपदस्यायुदात्तत्वे ‘दन्तलेखकः' इति भवति । उद्दालकपुष्पभञ्जिका ( १९३७, ४५)-अत्र “नित्यं क्रीडे”ति समासे “समासस्य" इति सूत्रेणान्तोदात्ते प्राप्त तम्प्रबाध्य प्राग्देशवाचिनां या क्रीडा तद्वा- चिनि समासे अकप्रत्ययान्ते परे पूर्वमायुदात्तं स्यादित्यर्थक “प्राचा. क्रीडायाम्” इति सूत्रेणाद्युदात्तत्वे “उद्दलपपुष्पभञ्जिका' इति भवति । तन्तुवायः (१९२७,२८,३३)-पत्र प्रयोगे 'वे' धातोः "ह्वावामश्च' इत्यणि आत्वे अनुबन्धलोपे युगागमेऽनुबन्धलोपे समासे “शिल्पिनि चाकृञः” इति सूत्रे- णायुदात्तत्वे 'तन्तुवायः' इति भवति । गोपालः (१९३२)-गाः पालयतीति 'गोपाल' इत्यत्र "गोतन्तियवं पाले" इति सूत्रेण पालशब्दे परे श्रायुदात्तत्वे 'गोपालः' इति । उष्ट्रकोशी (१९३५, ३८)-अत्र प्रयोगे “उपमानं शब्दार्थप्रकृतावेव” इति सूत्रेण क्रोशीति णिन्यन्ते उत्तरपदे परे उपमानवाचिनः पूर्वपदस्योष्ट्र इत्यस्याधु- दात्तत्वे 'उष्ट्रकोशी' इति भवति । उपमा शब्दार्थप्रकृतावेवात्रप्रकृतिग्रहणप्रयोजनम् (१९३४, ४४)-"उप- मानं शब्दार्थप्रकृतावेव” इति सूत्रेऽसति प्रकृतिग्रहणे शब्दार्थात् परो यो णिनिस्त- दन्ते उत्तरपदे आद्युदात्तं स्यात् इत्यर्थो विज्ञायेत तथा च यत्रापि धातूपसर्गसमुदा- याच्छब्दार्थात् परो णिनिस्तत्रापि स्यात् । “कृद्ग्रहणे गतिकारकपूर्चपदस्यापि ग्रहणम्" इति परिभाषया णिन्नन्तोत्तरपदत्वाऽनपायात् । प्रकृतिग्रहणे तु न भवति । योऽत्र धातु सौ शब्दार्थः यश्च शब्दार्थों धातूपसर्गसमुदायो न ततो णिनिर्विहितः इति भावः । इत्यभिप्रायेणाह कौमुद्यां प्रकृतिरेव यत्रोपसर्गनिरपेक्षा शब्दार्था तत्रैव यथा स्यात् इह मा भूत-गर्दभोच्चारीति ।

३ स्वरप्रकरणे समासस्वरः। ६६ युक्तारोही ( १९२९ )-अत्र प्रयोगे “समासस्य” इति सूत्रेणान्तोदात्ते प्राप्ते तम्प्रवाध्य “युक्तारोह्यादयश्च" इति सूत्रेणाद्युदात्ते ‘युक्तारोही' इति भवति । मल्लग्रामः (१९१)-मल्लानां ग्राम इति विग्रहे समासे समासत्वात् प्रातिपदि. कत्वे सुपो लुकि “समासस्य' इति सूत्रेणान्तोदाचे प्राप्ते तम्प्रबाध्य "ग्रामेऽनिवसन्तः" इति सूत्रेण ग्रामे परे पूर्वपदस्योदात्तत्वे 'मल्लग्रामः' इति भवति । ब्रह्मनगरम् (१६३६)-अत्र प्रयोगे “अमहन्नवं नगरेऽनुदीचाम्" इति सूत्रेण नगरे परे पूर्वस्यायुदात्ते 'ब्रह्मनगरम्' इति भवति । अधिकार्मम् (१९४२) अत्र प्रयोगे अर्मे चाऽवर्णं यच् अच्” इति सूत्रेण' आद्युदात्ते प्राप्त “न भूताधिकसञ्जीवमद्राश्मकज्जलम्” इति निषेधे 'समासस्य' इत्य- न्तोदात्ते 'अधिकार्मम्' इति भवति । गुडोदकम् (१९४७)-गुडमिश्रमुदकम् गुडोदकम् अत्र प्रयोगे “उदकेऽके- वले” इति सूत्रेण पूर्वपदस्यान्तोदात्त स्वरे कृते चैकारशे. "स्वरितो वाऽनुदात्ते पदादौ” इति विभाषया स्वरिते. 'गुडोदकम्' इति भवति । स्वीसभम् (१९३३)-अत्र "सभायां नपुंसके'' इति सूत्रेण पूर्वपदस्यान्तोदा- त्तत्वे 'स्त्रीसमम्' इति भवति । नान्दीपुरम् (१९५२)-अत्र प्रयोगे "पुरे प्राचाम्” इति सूत्रेण पूर्वपदस्या- न्तोदात्तत्वे 'नान्दीपुरम्' इति भवति । फकलपुरम् (१६३०)-इत्यत्र "पुरे प्राचाम्” इति पुरे परेऽन्तोदाक्तत्वे प्राप्त "न हास्तिनफलकमार्देयाः” इति सूत्रेण तनिषेधे “समासस्य” इति सूत्रेणान्तोदा- त्तत्वे 'फलकपुरम्' इति भवति । आचार्योपसर्जनश्चान्तेवासिनि(९९३३, ३५)-आचार्योपसर्जनान्तेवासिनि परे दिक्च्छब्दाः अन्तोदात्ताः भवन्ति इत्यर्थः । पूर्वपाणिनीयाः इलुदाहरणम् । उत्तरपदवृद्धौ सर्वं च (१६२७), -उत्तरपदस्येत्यधिकृत्य या वृद्धिर्विहिता तद्वत्युत्तरपदे परे सर्वशब्दो दिक्शब्दश्चान्तोदात्तो भवति । तेन 'सर्वपाचालकः' अपरपाञ्चालकः इति । अत्र उत्तरपदस्याधिकाराभावे 'सर्वभासः' 'सर्वकारकः' इत्यत्र दोषापत्तिरिति । अपरकृष्णमृत्तिका (१९४६)-अत्र प्रयोगे “दिक्सङ्ख्ये संज्ञायाम्" इति सूत्रेणान्तोदात्ते प्राप्ते तम्प्रबाध्य दिक्शब्दाः पूर्वपदानि अन्तोदात्तानि स्युर्मामा- स्वरवैदिकप्रश्नोत्तरी। दिषूनरेषु इत्यर्थक “दिक्शब्दा ग्रामजनपदाख्यानचानराटेषु' इति सूत्रेण पूर्वप- दस्य दिशब्दवाचकस्यान्तोदात्ते 'अपरकृष्णभृत्तिका' इति भवति । सर्वपाञ्चालकः (१९४१) अत्र प्रयोगे "उत्तरपदवृद्धौ सर्वं च” इति सूत्रेण सर्वशब्दस्यान्तोदात्तत्त्रे “सर्वपाञ्चालकः' इति भवति । विश्वकर्मा (१९३७)-विशेः क्विन् नित्त्वादायुदात्ते ततश्च बहुव्रीहिसमासे संज्ञा- त्वात् “बहुव्रीहौ विश्वं संज्ञायाम्" इति सूत्रेण पूर्वपदभूतस्य विश्वशब्दस्यान्तोदा- तत्वे-'विश्व इति भवति । विश्वेदेवाः (१९३४)-पत्र "समासस्य” इति सूत्रेणप्राप्तमन्तोदात्तम्बाधित्वा पूर्वपदप्रकृतिस्वरेण प्राप्तस्यायुदात्तस्यापवादभूतेन “बहुव्रीही विश्वं संज्ञायाम्" इति सूत्रेण पूर्वपदभूतम्य श्विशब्दस्यान्तोदात्ते 'विश्वदेवाः' इति भवति । अविश्व पं सत्पतिम् (१९४२) अत्रापि “समासस्य” इति सूत्रेण प्राप्तम- न्तोदात्तम्बाधित्वा पूर्वपदप्रकृतिस्वरेण प्राप्तस्यायुदात्तस्यापवादभूतेन “बहुब्रोही विश्वं संज्ञायाम्' इति सूत्रेण पूर्वपदभूतस्य विश्वशब्दस्यान्तोदात्तत्वे 'अविश्वदेवं सत्पतिम् इति भवति। वृकोदरः (१९३८, ४४)-वृकस्येवोदरमस्येति वृकोदरः अत्र पूर्वपदप्रकृ- तिस्वरं बाधित्वा 'उदराश्वेषुषु” इति सूत्रेण पूर्वपदस्यान्तोदात्तत्वे 'वृकोदरः' इति भवति । प्रधौतपादः (१९३६, ४२)-गतिशुद्धथर्थक-उकारेत्संज्ञकप्रपूर्वकधावधातोः निष्टाक्तप्रत्य ऽनुबन्धलोपे "च्छ्वोः शूडनुनासिके च" इति सूत्रेणोठि "एत्येधत्यूठ्सु". इति सूत्रेण वृद्धौ प्रधौतशब्दस्य गतिस्वरेणाद्युदात्तत्त्वे 'प्रधौतपादः' इत्यत्र "निष्टोप- सर्गपूर्वमन्यतरस्याम् ' इति सूत्रेण निष्टान्तपूर्वपदस्यान्तोदात्तत्वे 'प्रधौतपादः' इति भवति। अन्तोदात्तत्वाभावपक्षे 'प्रधौतपादः' इति भवति । मत्स्यचूर्णम् (१९२५)-अत्र मत्स्यस्य चूर्णमिति षष्टीसमासे “समासस्य च" इति सूत्रेणा तादात्ते मत्स्यचूर्णम्' इति भवति । "चूर्णादीन्यप्राणिषष्ठयाः” इति सूत्रेऽप्राणिष याः इत्युक्तत्वात् नात्र षष्टयन्तात्परस्य चूर्णस्यायुदात्तत्वम् । काण्डपृष्ठः (१९२८) कण्ठादीन्युत्तरपदानि संज्ञौपम्ययोरायुदात्तानि स्युर्बहु- बीही इत्यर्थक "कण्ठपृष्टग्रीवाजचंच" इति सूत्रेणाद्युदात्ते काण्डपृष्टः' इति भवति । सुग्रीवः (१९३२)- अत्रापि "कण्ठपृष्टग्रीवाजधञ्च" इति सूत्रेण उत्तरपद- स्यायुदात्तत्वे 'सुग्रीवः' इति भवति ।

स्वरप्रकरणे समासवरः। साम्राज्याय सुक्रतुः (१९४८,५०)-अत्र प्रयोगे "क्रत्त्यादयश्च" इति सूत्रेण सोः परे अायुदात्ते ‘साम्राज्याय सुक्रतुः' इति भवति । सुवीरेण (१९३०)-अत्र “वीरत्रीयौँ च” इत्यनेन सूत्रेणायुदात्ते 'सुवीरेण' इति भवति। उपकूलम् (१९३१, ३५)-कूलस्य समीपमुपकूलमिति विग्रहे अव्ययीभावस- मासे कूलादीन्युत्तरपदान्यायुदात्तानि स्युः इत्यर्थक “कूलतीरतूलमूलशालाऽक्षसमम- व्ययीभावे' इति सूत्रेणायुदात्तत्वे उपकूलम्' इति भवति । उपशालम् (१९३९)-अत्रापि पूर्ववदव्ययीभावसमासे “कूलतीरतूलमूलशा-. लाक्षसममव्ययीभावे” इति सूत्रेणोत्तरपदस्याचुदात्तत्वे 'उपशालम् इति भवति । प्रजाकाण्डम् (१९४१)- अत्र उपमितं व्याघ्रादिभिरिति समासे “समासस्य" इति सूत्रेणान्तोदात्ते प्राप्ते तम्प्रवाध्य “चेलखेटकटुककाण्ड गर्हायाम्" इति सूत्रेण काण्डस्यायुदात्तत्वे 'प्रजाकाण्डम्' इति भवति । दाण्डायनस्थलम् ( १९२६)-अत्र प्रयोगे “कूलसूदस्थलकर्षाः संज्ञायाम्" इति सूत्रेणाद्युदात्ते 'दाण्डायनस्थलम्' इति । शितिपादः (१९४०)-अत्र शितिरिति 'वर्णानां तणतिनितान्तानाम्" इति सूत्रेणायुदात्तः पादशब्दश्च वृषादित्वात् “वृषादीनां च" इति सूत्रेणाद्युदात्तोऽत्र समासे सति "समासस्य" इति सूत्रेणान्तोदात्ते प्राप्ते तम्प्रवाध्य “शितेनित्याऽबह्वज्बहुव्रीहा- वभसत्' इति सूत्रेण शितेः परस्यः नित्याबह्वचः उत्तरपदस्य प्रकृतिस्वरे 'शितिपादः' इति भवति । उच्चैः कारम् ( १९५२ )-अत्र “गतिकारकोपपदात् कृत्' इति सूत्रेण "समासस्य' इति प्राप्तम्बाधित्वा प्रकृतिस्वरे 'उच्चैः कारम्' इति भवति । "गतिकारकोपपदात् कृत्” अत्र कृग्रहणफलम् (१९ ३२, ३६, ३८,४५, ४८, ४९, ५१)-अत्र सूत्रे कृद्ग्रहणङ्किमर्थम् । निर्गतः कौशाम्ब्या निष्कौशा. म्बिरित्यत्र माभूत् । नैतदस्ति । 'यक्रियायुक्ताः प्रादयस्तं प्रत्येव गत्युपसर्गसंज्ञाः' भवन्ति । न च कौशाम्बीशब्दम्प्रति क्रियोयोगः कारकञ्च क्रियायामेव सम्भवति । उपपदमपि धात्वधिकारे सप्तमीनिर्दिष्टं प्रत्ययनिमित्तमुच्यते । तदेवं गत्यादिभिरपि क्रियावाच्युत्तरपदमाक्षिप्यते, धातोच क्रियावाचित्वम् तस्माच्च द्वये प्रत्ययाः तिङ- कृतश्च, तत्र तिजन्तेन समासाभावात् कृदन्तमेव सम्भवति । 'अनुव्यचलत्' इत्यत्र तु न गतित्वनिबन्धनसमासः किं तर्हि "सुप" इति योगविभागात् समासः। तस्मा- . ७२ स्वरवैदिकप्रश्नोत्तरी । न्नार्थः कृद्ग्रहणेनेत्यत आह--"कृद्ग्रहणं विस्पष्टार्थम् इति' य एवं प्रतिवक्तुमस- मर्थस्तं प्रति विस्पष्टार्थ क्रियते इत्यर्थः । ननु विस्पष्टार्थमपि क्रियमाणे कृद्ग्रहणे आमन्ते न प्राप्नोति प्रपचतितरामिति ततश्च समासस्वरं बाधित्वाऽव्ययस्वर एव स्यादत आह–प्रपचतितरामित्यादि' इत्येके इत्यस्य कृद्ग्रहणं विस्पष्टार्थम् । आमन्ते च दोषाभाव इति केचिदाचार्या व्याचक्षते इति । अपचतिदेश्यार्थं विति। आदिशब्देन 'प्रपचतिकल्पम्' 'प्रपच- तिदेशीयः' 'प्रपचतिरूपम्' इत्येतेषां त्रयाणां ग्रहणम् । प्रपचतिदेश्यादौ अर्थः प्रयोजनं यस्य तत् तथोक्तम् । अयमभिप्रायः न विस्पष्टार्थं कृद्ग्रहणम् । अपि तु प्रपचतिदेश्यादौ यत्र सति शिष्टं स्वरान्तरं नास्ति तत्रापि स्वरो माभूदव्ययपूर्वपद- प्रकृतिस्वर एव न्यथा स्यादित्येवं तत् प्रयोजनमाहुः। अत्र हरदत्तः-इदं तु वक्तव्यम् । प्रपचतितरामित्यादौ तरबन्तेन समासे पश्चा- दाम् भवन् प्रत्ययग्रहणपरिभाषया पचतितरस्यैव घान्तत्वात्तत एव स्यात् तत्र को दोषः सोपसर्गस्य घान्तस्यैकपद्याभावादाम् । प्रपचतितरां देवदत्तेत्यादावाम एकान्त- रमामन्त्रितमनन्तिके इत्येष विधिर्न स्यात् शेषनिघातश्च प्रशब्दस्य न स्याद्भिन्न- पदत्वात् । तस्मात् प्रशब्दस्यामन्तेन समासोऽङ्गीकर्तव्यो न तरबन्तेन । समास- त्वात् समुदायस्य प्रातिपदिकत्वे विभक्तावैकपद्यं भवति, स्वरे तु दोषप्रसङ्गात् कृद्ग्र- हणमपि त्यक्तव्यमिति भाष्ये स्थितम् । एवं स्थिते प्रपचतिदेश्यादौ का गतिरिति जानन्तु सुधियः। उभे वनस्पत्यादिषु युगपत् ( १९३४) एषु पूर्वोत्तरपदे युगपत् प्रकृत्या स्याताम् इत्यर्थः । वनस्पति वन श्रा। बृहस्पति यः। इत्युदाहरणम् | शचीपतिम् (१९२८)-अत्र षष्ठीसमासे "समासस्य" इत्यन्तोदात्ते प्राप्ते तम्प्रबाध्य "लमे वनस्पत्यादिषु युगपत्" इति सूत्रेण पूर्वोत्तरपदयोः युगपत् प्रकृति- भावेन तेन पतिरित्यत्र प्रत्ययस्वरेणायुदात्ते शचीत्यत्र शारिवादित्वात् डीनि नित्त्वा- दायुदात्तत्वे 'शचीपतिम्' इति भवति । आप इन्द्रावरुणौ (१९४७, ४९) अत्र द्वन्द्वसमासे “देवता द्वन्द्वे च" इति सूत्रेणान्तोदात्ते प्राप्ते तम्प्रबाध्य "देवताद्वन्द्वे च' इति सूत्रेण युगपद् प्रकृतिभावे तेन "ऋजेन्द्रान" इति निष्पन्नः रनन्त इन्द्रशब्द "कृवृदारिभ्य उनन्" इति निष्पन्नः वरुणशब्दश्च उभौ आयुदात्तौ।

. स्वरप्रकरणे समासस्वरः। ७३ आवसथः (१९२९, ३२, ३८)-आकुपसर्गपूर्वकवस्धातोः “उपसर्ग वसेः' इति सूत्रेणाथप्रत्यये “थाऽथधक्ताजवित्रकाणाम्” इति सूत्रेणान्तोदात्ते 'आवसथः' इति भवति । प्रक्षयः (१९४१)-अत्र “एरच्" इति सूनेणाच्प्रत्यये गुणेऽयादेशे प्रातिपदि- कत्वे सौ रुत्वे विसर्गे 'प्रक्षयः' अत्रावस्थायां "थाऽथघअक्ताजबित्रकाणाम्" इति सूत्रे- 'णान्तोदात्ते प्रक्षयः' इति निष्पन्नः । न च क्षयशब्दस्याचप्रत्ययान्तत्वात् कृदुत्तरपदप्रकृतिस्वरेणैवान्तोदात्तत्वं सिद्धम् इति वाच्यम् । “क्षयो निवासे” इति क्षयशब्दस्यायुदात्तत्वात् । मुप्तप्रलपितम् (१९४६)-अत्र प्रयोगे "इत्थं भूतेन कृतमितिच" इति सूत्रेण तान्तस्योत्तरपदस्य (प्रलपितस्य ) अन्तोदात्तत्वे 'सुप्तप्रलपितम्' इति भवति । प्रमत्तगीतम् ( १९४१) अत्रापि “इथं भूतेन कृतमिति च' इति सूत्रेण तान्तस्योत्तरपदस्य (गीतस्य) अन्तोदात्तत्वे साधु । अध्ययनपुण्यम् (१६३४,४१)-अध्ययने पुण्यमिति विग्रहे-'सुप्सुपा" इति सूत्रेण सप्तमीयोगविभागाद् वा समासे “सप्तम्याः पुण्यम्' इति सूत्रेण सप्तम्यन्ता. त्परस्य पुण्य इत्युत्तरपदस्यान्तोदात्तत्वे 'अध्ययनपुण्यम्' इति भवति। माषोनम् ( १९४३)-अत्र तृतीयातत्पुरुषसमासे “ऊनार्थकलहं तृतीयायाः" इति सूत्रेण तृतीयान्तात् परस्योनशब्दस्यान्तोदात्तत्वे माषोनम्' इति भवति । तिलमिश्राः (१९४४) अत्र तृतीयान्तात्परमनुपसर्ग मिश्रमन्तोदात्तं स्याद- सन्धौ इत्यर्थक "मिश्रं "चानुपसर्गमसन्धौ” इति सूत्रेणान्तोदात्तत्वे 'तिलमिश्राः' इति भवति । अकार्णवेष्टकिकम ( १९३० )'कर्णवेष्टकाभ्यां सम्पादि कार्णवेष्टकिकम् न कार्णवेष्टकिकमकार्णवेष्टकिकम्' इत्यत्र ‘सम्पादिनि' इति सूत्रेण उभि प्रत्ययेऽनुबन्ध लोपे तद्धितान्तत्वात् प्रातिपदिकत्वे 'सुपोधातुप्रातिपदिकयोः' इति सूत्रेण सुपो लुकि “ठस्येकः” इति सूत्रेण ठस्येकादेशे "तद्धितेष्वचामादे" इति सूत्रेणायचो वृद्धौ कार्णवेष्टकिकशब्दः निष्पन्नः ततश्च नसमासे “नको गुणप्रतिषेधे सम्पाद्यहंहिताऽ- मर्थास्तद्धिताः" इति सूत्रेणान्तोदात्ते “अकार्णवेष्टकिकम्' इति भवति । अतीक्ष्णम् ( १९२६) इत्यत्र “विभाषा तृन्नन्नतीक्ष्णशुचिषु" इति सूत्रेण वैकल्पिकान्तोदात्तत्वे 'अतीक्ष्णम् इति । न तीक्ष्णमिति विग्रहः । पक्षे अव्ययस्वरः इति बोध्यम् ।

स्वरवैदिकप्रश्नोत्तरी। तत्पञ्चमः (१९४१)-अत्र प्रयोगे "बहुव्रीहाविदमेतत्तद्भ्यः प्रथमपूरणयोः क्रियागणने" इति सूत्रेण तच्छन्दात् पस्योत्तरपदस्यान्तः उदात्तः। देवमित्रः (१९३१, ४१)-अत्र मित्राजिनयोरुत्तरपदयोरन्तः-उदात्तः स्यात् बहुव्रीही संज्ञायामित्यर्थक "संज्ञायां मित्राजिनयोः' इति सूत्रेणान्तोदात्ते 'देवमित्र' इति भवति । कृष्णाजिनम् ( १९४०)-अत्र प्रयोगे मित्राजिनयोरुत्तरपदयोरन्त उदात्तः स्यादित्यर्थक "संज्ञायां मित्राजिनयोः'' इति सूत्रेणान्तोदात्ते 'कृष्णाजिनम्' इति भवति। वस्त्रान्तरः (१९२८)-व्यवधानवाचकात् . परमन्तरमन्तोदात्तमित्यर्थक "व्यगयिनोऽन्तरम्" इति सूत्रेणान्तोदात्तेऽस्मादेवज्ञापकात् अन्तरशब्दस्य परनिपाते 'वस्त्रान्तरः' इति भवति । गौरमुखः (१९३४,४७)-गौरं ( गौरवर्णम् ) मुखं यस्यासौ गौरमुखः इत्यत्र "मुखं स्वाङ्गम्” इति सूत्रेण मुखमित्युत्तरपदस्यान्तोदात्ते गौरमुखः' इति भवति । प्रक्षालितमुखः ( १९२६, ४१)-इत्यत्र "निष्ठोपमानादन्यतरस्याम्” इति सूत्रेण वैकल्पिकान्तोदात्तत्वे 'प्रक्षालितमुखः इति । पक्षे निष्टोपसर्ग इति पूर्वपदा- न्तोदात्तत्वम् । प्रक्षालितं मुखं येन यस्य वेति विग्रहः । दन्तजातः (११५१) अत्र समासे “वा जाते” इति सूत्रेण विभाषया जातश- ब्दस्यान्तोदात्ते जाते ‘दन्तजातः' इति । पने पूर्वपदप्रकृतिस्वरः तत्र दन्तशब्दस्य स्वाङ्गशिटामदन्तानाम्” इति सूत्रेणायुदात्तत्वम् । बहुव्रीहिकः (१९३०)-अत्र बहुशब्दस्य "फिषोन्त उदात्तः" इति सूत्रेणा- न्तोदात्ते “बहोर्नववदुत्तरपदभूम्नि" इति सूत्रेण नमः परस्योत्तरपदस्यैव स्वरवि- धानेन 'नमसुभ्याम्' इति सूत्रेणोत्तरपदस्यान्तोदात्ते बहुव्रीहिकः' इति भवति । तस्येलिमे प्रवणे (१९५०)-बहुव्रीहिसमासे तत्पुरुषे वा समासे "प्रनिरन्तः' इति णत्वे "समासस्य” इति बाधित्वा पूर्वपदप्रकृतिस्वरे प्राप्ते “वनं समासे” इति सूत्रेणोपसर्गादुत्तरपदस्य वनस्यान्तोदात्तत्वे 'तस्येदिमे प्रवणे' इति भवति । अन्तर्वणो देशः ( १९४३)-इत्यत्र “अन्तः” इति सूत्रेण वनस्यान्तोदा- तत्वे "प्रनिरन्तः" इति णत्वे 'अन्तर्वणो देशः' इति भवति । पर्यन्तः ( १९३६)-अत्र प्रयोगे "अन्तश्च” इति सूत्रेणान्तोदात्तः । निरुपलम्: ( १९२९)-निर्गतः उपलः यस्मात् अथवा निर्गतः उपलः इति स्वरप्रकरणे समासस्वरः । प्रादिसमासे सुपो लुकि निरुपलशब्दस्य “निरुदकादीनि च” इति सूत्रेणान्तोदात्ते 'निरुपलम्' इति भवति । अनुज्येष्ठम् ( १९२६)-अनुगतो ज्येष्टमनुज्येष्टस्तम् अनुज्येष्टम् इत्यत्र 'अनोरप्रधानकनीयसी" इति सूत्रेणान्तोदात्तः । अनुपुरुषः ( १९३३) अन्वादिष्टः पुरुषः अनुपुरुषः इत्यत्र “पुरुषश्चान्द्रा- दिष्टः" इति सूत्रेणान्तोदात्ते 'अनुपुरुषः' इति । अत्यङ्कुशो नागः(१९४०)-अङ्कुशमतिकान्त इत्यत्यङ्कुशो नाग इति विग्रहे समासे समासप्रयुक्तकार्ये 'अत्यङ्कुशः' इत्यत्र अतेः परमकृदन्तं परशब्दश्चान्तोदात्तः' , स्यादित्यर्थक-"अतेरकृत्पदे” इति सूत्रेणान्तोदात्ते अत्यङ्कुशोनागः' इति भवति । प्रत्यंशुः ( १६३५, ४६)-प्रतिगतः अंशुरिति 'प्रत्यंशुः' अत्र प्रयोगे "प्रतेरं- वादयस्तत्पुरुषे” इति सूत्रेण 'अंशु' इत्यस्यान्तोदात्तत्वे 'प्रत्यंशुः' इति भवति । प्रतिजनः ( १६३०)-इत्यत्र "प्रतेरंश्वादयस्तत्पुरुषे, इति सूत्रेणान्तोदात्ते 'प्रतिजनः' इति भवति । उपाजिनम् ( १९४१)-इत्यत्र “उपाद् द्वयजजिनमगौरण्य” इति सूत्रेणे. पात् परस्याजिनस्यान्तोदात्तत्वे 'उपाजिनम्' इति भवति । विभाषोत्पुच्छे (१९२७)-उच्छब्दात्परः पुच्छशब्दः अन्तोदात्तो वा स्यात् तत्पुरुषे इत्यर्थः । 'उत्क्रान्तः पुच्छादुत्पुच्छः' यदा तु पुच्छमुदस्यति उत्पुच्छयते “एरच" उत्पुच्छस्तदा 'थाथादि' स्वरेण नित्यमन्तोदात्ते प्राप्त विकल्पोयम् । सेयमुभयत्र विभाषा । तत्पुरुषग्रहणाभावे उदरतं पुच्छं येन स 'उत्पुच्छः' इत्यत्र दोषापत्तिरिति तत्पुरुषग्रहणमिति । त्रिपादूर्ध्वः ( १९२८ )-त्रयः पादाः यस्येति त्रिपात् अत्र समासे “संख्या- सुपूर्वस्य” इति सूत्रेण पादशब्दस्याकारस्य लोपे "द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ' इति सूत्रेणान्तोदात्त त्रिपादूर्ध्वः' इति । त्रिमूर्द्धानं सतरश्मिम् ( १९४८)-अत्रापि "द्वित्रिभ्यां पाद्दन्मूर्धसु 'बहुव्रीहौ" इति सूत्रेणान्तोदात्त 'त्रिमूर्धानं सप्तरश्मिम्' इति । द्वित्रिभ्यां पद्न्मूर्धसु बहुव्रीहौ (१९३५)-अत्र सूत्रे 'मूर्धन्' इत्यकृ- तसमासान्त एव मूर्धन्शब्दः किमर्थमेतादृश उपादीयते इति, तस्यैतत्प्रयोजनम् असत्यपि समासान्तेऽन्तोदात्तत्वं यथा स्यात् । एतदेव ज्ञापकमनित्यः समासान्तो भवतीति । यद्यकृतसमासान्तस्योपादानम्, तर्हि यदा समासान्तः क्रियते तदा न - ७६ स्वरवैदिकप्रश्नोत्तरी। प्राप्नोति, कुतः शब्दान्तरत्वादितिचेन्न, वहुव्रीहिकार्यत्वात्, तदेकदेशत्वाच्च समासा- न्तेऽपि प्रवृत्तेः तस्य बहुव्रीहेरेकदेशः समासान्तस्तस्य भावस्तस्मात् । तदेवं बहुव्रीहि- कार्यत्वात्तदेकदेशत्वेनाश्रयणात् समासान्तस्येति यदा समासान्तः क्रियते तदापि विधिरयं भवत्येवेति शम् । चक्रसक्थः ( १९४१) अत्र षजन्तः सक्थशब्दः तेन समासान्तस्य- षचश्चित्वान्नित्यमेवान्तोदात्तत्वं भवति । “सक्थं चाक्रान्तात्" इति सूत्रे आक्रान्त- ग्रहणाभावेऽत्रापि सूत्रमिदं प्रवर्तेत तथा च चित्त्वान्नित्यमन्तोदात्तत्वं बाधेतेत्या- शयः इति शम् । परादिश्च परान्तश्च ( १९४३ )-परादिश्च परान्तश्च पूर्वान्तश्चापिदृश्यते ॥ पूर्वादयश्च दृश्यन्ते व्यत्ययो बहुलं यतः ॥ १ ॥ इति श्लोकवार्तिकम् । एतस्योदाहरणानि-क्रमशः बोध्यानि-तुविजाता उरुक्षया' । 'नि येन मुटिहत्यया' । 'यत्रिचक्रः' । 'विश्वायुधेहि' । वस्तुतः परादि- श्चैत्यस्योदाहरणं चोदयित्री सूनृतानाम्' इति विस्तरस्तु सुबोधिन्यां द्रष्टव्यः । इति समासस्वराः। अथ तिङन्तस्वराः। तिको गोत्रादीनि कुत्सनाभीक्ष्एक्योः ( १९४०, ४२ )-ननु किं कुत्स- नाभीक्ष्ण्यग्रहणं गोत्रादीनां पाठविशेषणम्, एतयोरर्थयोर्गोत्रादीनि भवन्ति तानि च तिङः पराण्यनुदात्तानि भवन्ति, आहोस्विदनुदात्तविशेषणं तिङः पराणिगोत्रादीन्यनुदा- तानि भवन्त्येतयोरर्थयोरिति । अस्मिन् विचारे निर्णयमाह-'कुत्सनाभीक्ष्ण्यग्रहणं' पाठविशेषणम् । अयं चार्थो योगविभागाल्लभ्यते । “तिङो गोत्रादीनि" इत्येको योगोऽनुदातविधानार्थः । "कुत्सनाभीक्ष्ण्ययोः" इति द्वितीयो योगः। गोत्रादीनी- त्येव । परिभाषेयम्-इह शास्त्रे गोत्रादीनि कुत्सनाऽभीक्ष्ण्यविषयाण्येच ग्राह्याणि । तेनान्यत्रापि (चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेरित्यत्रापि) गोत्रादिग्रहणे कुत्सनादावेव कार्य ज्ञेयमिति शम् । अग्निमीले ( १९४७) अग्निशब्दः "फिषोन्त उदात्तः” इति सूत्रेणाथवा निप्रत्ययस्वरेणान्तोदात्तः, अम् सुप्त्वात् "अनुदात्ती सुप्पिती" इति सूत्रेणानुदात्तः "अमि पूर्वः" इति सूत्रकृतैकादेशः “एकादेश उदात्तेनोदात्तः” ७७ स्वरप्रकरणे तिङन्तस्वरः । नोदात्तः 'ईले' तु 'ईड' स्तुतौ लटि प्रथमपुरुषैकवचनम् प्रातिशाख्येन डस्य "तिङतिङः' इति सूत्रेणातिङन्तादग्निशब्दात् परस्य ईलेशब्दस्य निघातः त्तादनुदात्तस्य स्वरितः' इति ईकारस्य स्वरितत्वे 'अग्निमीले' इति । नच रेण व्यवधानम् "स्वरविधी व्यञ्जनमविद्यमानवत्" इति परिभाषणात् । (अतः परं विशदविवेचना स्वरसंचारप्रक्रियास्थप्रयोगेऽवलोकनीया) नह भोक्ष्यसे ( १९३०, ४३) इत्यत्र "तिङतिङः" इति सूत्रेण निघा- प्राप्ते "नह प्रत्यारम्भे" इति तनिषेधे “तास्यनुदात्तेनन्दिदुपदेशाल्लसार्वधा- नुदात्तमविडोः” इति सूत्रेण से इत्यस्य निघाते ततश्च मध्योदात्त पदे 'नह से' इति भवति । सत्यं भोक्ष्यसे (१९२९,४४)-अत्र “तिङतिङः" इति सूत्रेण निघाते प्राप्त प्रश्ने" इति सूत्रेण तनिषेधे 'सत्यं भोक्ष्यसे' इति । अत्र ( भोक्ष्यसे ) इति दात्तम् । आ हि ष्मा याति (१९४८)-अत्र ष्माप्रयोगे छान्दसत्वात् दीर्थे षत्वे तत्वादनुदात्ते प्राप्ते "हि च" इत्यनेनानुदात्तस्य निषेधे 'आहिष्मा याति' इति । हिशब्दोवधारणे हेतौ चेति बोध्यम् । आ हि रुहन्तम् ( १९४९) अत्रापि रुहन्तमित्यत्र 'हि च' इति सूत्रेणा- तस्य निषेधे 'श्रा हि रुहन्तम्' इति भवति । छन्दस्यनेकमपि साकाङ्क्षम्-( १९३८) होत्यनेन युक्तं साकाङ्क्षम- अपि नानुदात्तं भवति । अनृतं हि मत्तो वदति पाप्माचैनं युनाति । दाहरणम् । यथा पचति शोभनम् ( १९२६)---अत्र “पूजायां नानन्तरम्” इति गानुदात्तस्वर एव । यावत् प्रपचति शोभनम् ( १९५०) अत्र हि 'पूजायां नानन्तरम्' त्योपरि "उपसर्गव्यपेतं च” इत्युक्तं तेनात्रापि बोध्यम् । ('अनुदात्तस्वर एव इत्यर्थः) “पूजायां नानन्तरम्' इत्यनेनैव सिद्धे किमर्थमिदमिति वाच्यम् र्गव्यवधानार्थमस्यावश्यकत्वात् । अहो कटं करिष्यति ( १९२६)-अत्र प्रयोगे. “शेषे विभाषा' इति सूत्रेण ल्पकानुदात्तो भवति ।

३ स्वरवैदिकप्रश्नोत्तरी अधीष्व माणवक पुरा विद्योतते विद्युत् ( १९२७ )-अत्र प्रयोगे “तिङतिङः' इति सूत्रेण प्राप्त स्वरं बाधित्वा “पुरा च परीप्सायाम्' इति सूत्रेण वैकल्पिकानुदात्तत्वे "अधीष्व माणवक पुरा विद्योतते विद्युत्” इति । पक्षे द्योतते इति धातुस्वरेणायुदात्तत्वे “तास्यनुदात्तेङिददुपदेशालसार्वधातुकमनुदात्तमहिन्वोः इरि. लसार्वधातुकनिघाते 'अधीष्व माणवक पुरा विद्योतते विद्युत्' इति भवति । कि क्रियाप्रश्नेऽनुपसर्गमप्रतिषिद्धम् ( १९३५ )-क्रियाप्रश्ने वर्तमानेन विशब्देन युक्तं तिङन्तं नानुदातं स्यादित्यर्थः । किं द्विजःपचत्याहोस्विद् गच्छति । इत्युदाहरणम् । किं द्विजः पचमाहोस्विद्गच्छति ( १६४८)-पत्र प्रयोगे आहोस्विदेको निपात आद्युदात्तः ततः "किं कियाप्रश्नेऽनुपसर्गमप्रतिषिद्धम्” इति सूत्रेणनिषेधे जाते ततो धातुस्वरेणाद्युदात्तत्वे किं द्विजः पचत्याहोस्विद्गच्छति' इति । अत्र केचित् पूर्व किं युक्तं तन्न निहन्यते उत्तरं तु न किं युक्तम् इति तन्निह- न्यत एवेति । अन्ये तु यद्यप्येकस्याख्यातस्य समीपे किंशब्दः श्रूयते, तथापि सर्वस्य संशयविषयस्य तेन योग इति उभयत्रापि निषेधेन भाव्यमिति । अत्र हरदत्तः-अन्ये त्याहुः पूर्व किंयुक्तमिति ते मन्यन्ते-अस्तु द्वयोः संशयविषयत्वं किंशब्देन तु श्रुतक्रियाविषय एव प्रश्नो योत्यते । क्रियान्तरविषयस्तु प्रश्नः श्राहोस्विदित्यनेन क्रियाप्रश्न इति चोच्यते । तस्मात्तस्यैव निघातप्रतिषेध इति। एहि मन्ये भक्तं भोक्ष्यसे भुक्तं तत्त्वतिथिभिः (१९४६)-पत्र "एहि मन्ये प्रहासे लुट्” इति सूत्रेण एहि मन्ये इति युक्तस्य लुडन्तस्य पूर्ववज्जाते तत्सिद्धम् । अत्र मन्यसे भोदये इत्यर्थे "प्रहासे च मन्योपपदे” इत्यादिना ‘मन्ये भोक्ष्यसे' इति पुरुषव्यत्ययः। जातु भोक्ष्यसे ( १९२७, २८, ३०, ४७ )-अत्र प्रयोगे “तितिकः'' इति सूत्रेण निघातस्वरे प्राप्ते "जात्वपूर्वम्” इति सूत्रेण तनिषेधे" तास्यनुदात्तन् दिदुपदेशालसार्वधातुकमनुदात्तमहिन्वोः” इति सूत्रेण से इत्यस्य निघाते मध्योदात्ते पदे जातुशब्दस्य निपातत्वात् “निपाता अायुदात्ताः” इति सूत्रेणाद्युदात्तत्वे 'जातु भोक्ष्यसे' इति भवति । कटं जातु करिष्यति ( १९२६ )-पत्र कटशब्दः फिट्वात् "फिओन्त उदात्तः" इति सूत्रेणान्तोदात्तः। जातुशब्दो निपातत्वात् "निपाता आधुदात्ताः" स्वरप्रकरणे तिङन्तस्वरः। ७६ इति सूत्रेणाद्युदात्तः करिष्यसि इत्यत्र “तिङतिङः" इति सूत्रेणानुदात्तः । “जात्व- पूर्वम्” इति सूत्रेण निषेधस्तु न भवति सूत्रेऽपूर्वग्रहणात् । कश्चिद्भुङ्क्त ( १९३३ )-अत्र प्रयोगे "तिङतिङः” इति सूत्रेण निघातस्त्ररे प्राप्ते 'किं वृत्तं च विदुत्तरम्" इति सूत्रेण तन्निषेधे 'कश्चिद्भुङ्क्त' इति भवति। आगच्छ देव ग्रामं प्रविश ( १९२५)-अत्र “लोट च” इति सूत्रेण अनुदात्तत्वस्य निषेधे प्राप्ते तम्प्रबाध्य “विभाषितं सोपसर्गमनुत्तमम्” इति सूत्रेण वैकल्पिकानुदात्तत्वे तत् सिद्धयति । अत्र विशेति पक्षे निहतं पक्षे • शप्रत्ययस्वरेणा- न्तोदात्तं, यदान्तोदात्तन्तदा “तिङि चोदात्तवति” इति सूत्रेण गतेनिघातः । हन्त प्रविश ( १६२८,३२,५१)-अत्र प्रयोगे "तिकति:" इति सूत्रेण निघाते प्राप्ते तस्य "निपातैर्यद्यदि" इति नित्यनिषेधे प्राप्ते तम्प्रबाध्य 'हन्त च" इत्यनेन वैकल्पिकानुदात्तत्वे कृते 'हन्तं प्रविश' इति । परेऽन्तोदात्ते हन्त प्रविश' इति भवति । हन्त कुरु (१९२६)-अत्र “हन्त च" इति सूत्रेण वैकल्पिकानुदात्तस्य सोप- सर्गे एव प्रवृत्तरत्राप्रवृत्त्या 'निपातैर्यद्यदि' इति सूत्रेण निघातप्रतिषेधे 'हन्त कुरु' इति भवति । आम् पचसि देवदत्ता३ ( १९२७, ४३, ४७ । अत्र प्रयोगे "आमन्त्रि- तस्य च” इति सूत्रेण सर्वस्यानुदात्तत्वे प्राप्त "श्राम एकान्तरमामन्त्रितमनन्तिके" इति निषेधे “आमन्त्रितस्य च" इति सूत्रेणामन्त्रितस्यायुदात्तत्वे “श्रामपचसि देवदत्ता ३' इति भवति । यद्धितुपरं छन्दसि ( १९३१) इति सूत्रस्वरूपम् । धकारयकारपूर्वो योऽन्त्योच् स उदात्तः स्यात् इत्यर्थः । अन्तर्दा । छाया । माया । जाया । इत्युदाहरणानि । देवः पचतीष-(१९२६)-अत्र देव इत्यस्य "फिषोन्त उदात्तः” इति सूत्रेणान्तोदात्ते ततश्चानुदात्तत्वे प्राप्ते "चनचिदिवगोत्रादितद्धिताडितेष्वगतेः" इति सूत्रेण निषेधे 'देवः पचतीव' इति भवति । देवः पचति च खादति च ( १९४२ )-अत्रापि पूर्ववत्कार्ये जातेऽनुदा- तत्वे प्राप्ते "चादिषु च" इति सूत्रेण निषेधे तत्सिद्धम् । हेति क्षियायाम् ( १९२५)-हयुक्ता प्रथमा तिङ्विभक्तिर्नानुदात्ता स्यात् स्वस्वैदिकप्रश्नोत्तरी। क्षियायाम् घम्मेव्यतिक्रमे इत्यर्थः । उदाहरणचात्र-स्वयं ह रथेन याति ३ उपा- ध्यायं पदातिं गमयति, उपाध्याये पदाती गच्छति सति शिष्यस्य रथेन गमनं प्रति- विद्धमिति धर्मव्यतिक्रमः : उपाध्यायं पदातिं गमयति / १६४६) अत्र"हेति क्षियायाम्" इति सूत्रेण हयुक्ततिङन्तस्यै निषेधेन ‘उपाध्यायं पदाति गमयति' इत्यत्र निषेधाभावात् ‘तिक- तिङ इति निघातो भवति । उपाध्याये पदातौ गच्छति सति शिष्यस्य रथेन गमनं प्रतिषिद्धमित्याचारभेदः । वैवावेति च छन्दसि ( १९.२५)-आभ्यां युक्तं प्रथमं तिङन्तमनुदात्तं वा स्याच्छन्दसि । वै स्फुटार्थे क्षमायाञ्च वाव प्रसिद्धौ स्फुटार्थे च उदाहरणञ्चात्र 'अहर्वे देवानामासीत् 'अयं वाव हस्त आसीत् । अहवै देवानामासीत् ( १६४७ ) अत्र “तिङतिङः” इति सूत्रेण प्राप्त- निधातम्बाधित्वा “वैवावेति च छन्दसि" इति सूत्रेण वैयुक्तस्य तिङन्तस्य विभाषया- नुदात्तत्वे 'अहवं देवानामासीत्' इति भवति । अयं वाव हस्त आसीत् ( १९२७-५०)-अत्र प्रयोगे "तिङतिङः" इति सूत्रेण निधाते प्राप्ते तम्प्रबाध्य 'आभ्यां युक्तं प्रथमं तिङन्तमनुदात्तं वा स्याच्छ- न्दसि' इत्यर्थक “वैवावेति च छन्दसि” इति सूत्रेण विभाषयानुदात्तत्वे 'अयं वाव हस्त आसीत्' इति भवति । अजामेकां जिन्वति ( १६४४, ४६ )--अत्र प्रयोगांशे जिविः प्रीणनार्थः तेन इदित्वान्नुम् । लटि तिपि शपि 'जिन्वति' इति । ततोऽनुदात्तत्वे प्राप्ते “एका- न्याभ्यां समर्थाभ्याम्" इति सूत्रेण निषेधे 'अजामेकां जिन्वति' इति भवति । प्रजामेकां रक्षति ( १९२६)-अत्रानुदात्तत्वे प्राप्ते "एकान्याभ्यां समर्था- भ्याम्” इति सूत्रेण निषेधे 'प्रजामेकां रक्षति' इति भवति । यो भुङ्क्ते ( १९३१)-अत्र य इति प्रातिपदिकस्वरेणान्तोदात्तः ततश्च "तितिङः" इति सूत्रेण निघाते प्राप्त “यद्वृत्तान्नित्यम्” इति सूत्रेणानुदात्तनिषेधे 'यो भुते' इति भवति । पूजनात् पूजितमनुदात्तं काष्ठादिभ्यः (१९२५)-पूजनेभ्यः काष्टादिभ्यः पूजितवचनमनुदात्तं स्यात् इत्यर्थः । उदाहरणश्चात्र-'काष्टाध्यापकः' काष्टादयोऽद्भु- तपर्यायाः सन्तः पूजनवचनाः भवन्ति । काष्टाध्यापकः (१९३०, ३१, ४२, ५१) इत्यत्र "मयूरव्यसकादयश्च" स्वरप्रकरणे तिङन्तस्वरः। इति समासे काष्टादयोऽद्भुतपर्यायाः सन्तः पूजनवचनाः भवन्ति तेन "पूजनात्पूजित- मनुदात्तं काष्टादिभ्यः" इति सूत्रेण अनुदात्तत्वे 'काष्टाध्यापकः' इति भवति । पूजनात् पूजितः अत्र पूजितग्रहणप्रयोजनम् ( १९३७ )-पूजनात् पूजितमनुदात्तं काष्टादिभ्यः इति सूत्रस्वरूपम् । पूजनस्य पूजितापेक्षत्वात् पूजनादि- त्येव पूजितग्रहणे सिद्धे पूजितग्रहणमनन्तरपूजितलाभार्थम् । एतदेव च ज्ञापकमंत्र प्रकरणे पञ्चमीनिर्देशेऽपि नानन्तर्यमाश्रीयते इति, ज्ञापकफलञ्च “यवृत्तान्नित्यम्" इत्यस्योदाहरणे यदव्यब्वायुर्वाति' इत्यत्र व्यवहिते “यद्वृत्तानित्यम्' इति सूत्रकृत. कार्यम् भवति । सगतिरपि तिङ (१९२८)-सगतिरपि तिङ' इति सूत्रस्वरूपम् । पूजनेभ्यः काष्टादिभ्यस्तिङन्तं पूजितमनुदात्तम् इत्यर्थः । 'यत्काष्ठां प्रपचति' इत्युदाहरणम् । पचति पूति (१९४३)-अत्र प्रयोगे "कुत्सने च, सुप्यगोत्रादौ” इति सूत्रेणानुदात्तत्वे 'पचति पूति' इति भवति । गतिर्गतौ (१९२५) गतौ गतिरनुदात्तः स्यादित्यर्थः । 'अभ्युद्धरति' इत्युदाहरणम् । अभ्युद्धरति ( १९४८, ५१)-अत्र “गतिर्गतौ” इति सूत्रेणानुदात्तत्वे 'अभ्युद्धरति' इति भवति । यत् प्रपचति ( १९५२) अत्र प्रयोगे "तिङि चोदात्तवति" इति सूत्रण गतेरनुदात्तत्वे 'यत्प्रपचति' इति भवति । तिडि चोदात्तवति अत्र तिझणफलम् ( १९३३)-अत्र सूत्रे तिब्- ग्रहणं किमर्थम् । उदात्तवतः परिमाणार्थम् । अन्यथा हि यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गत्युपसर्गसंज्ञाविधानात् । तिमहणाभावे धातोरेव क्रियावाचित्वात् गतिसंज्ञा- निमित्तत्वमिति धातावोदात्तवति निधातः स्यात् प्रत्यये न स्यात् कृते तु तिग्रहणे यं धातुम्प्रति गतित्वं तद्घटके तिङन्ते उदात्तवति परे इत्येवार्थों भवति । तेन यत्प्र- करोतीत्यादि लक्ष्ये धातोः शेषनिघातेन सत्यप्यनुदात्तत्वे तिङन्तस्य उप्रत्ययस्वरेण मध्योदात्तत्वाद् गतेरेवनिधातो भवतीति शम् । इति तिङन्तस्वराः ६व०प्र० अथ स्वरसञ्चारप्रकार: अग्निमीळे पुरोहितम् ( १९३६ )-तत्र च अग्निशब्दो माधवमते "फिषोन्त उदात्तः' इति सूत्रेणाव्युत्पन्नपनेऽन्तोदात्तः । वस्तुतस्तु “घृतादीनाञ्च" इति सूत्रेण घृतादित्वादन्तोदात्तः। व्युत्पत्तिपक्षे तु निप्रत्ययस्वरेणान्तोदात्तः । अम् सुप्त्वात् "अनुदात्तौ सुप्पितौ” इति सूत्रेणानुदात्तः। "अमिपूर्वः" इत्येकादे- शस्तु “एकादेश उदात्तेनोदात्तः" इति सूत्रेणोदात्तः अग्निशब्दात् परस्य तिङन्तस्य ईले शब्दस्य “तिम्ङतिङः' इत्यनेन निघातः। “ईड्' स्तुतौ धातोः लडुत्तमैकव- चनस्येटि, टेरेत्वम् द्वयोश्चास्य स्वरयोः इत्यादिना प्रातिशाख्येन डस्य लत्वम् सत्यपि धातुत्वादायुदात्तत्वे संहिताविवक्षायां निघाते “उदात्तादनुदात्तस्य स्वरितः” इत्यनेनेकारः स्वरितः “स्वरितात्संहितायाम्" इति ‘ले' इत्यस्य प्रचयाऽपरपर्याया एकश्रुतिः। पुरः शब्दोऽन्तोदात्तः “पूर्वाधरावराणामसिपुरधवश्चैषाम्" इत्यसिप्रत्ययस्वरात्। हितशब्दोऽपि धाधातोः निष्टायां "दधातेहिः" इति सूत्रेण ह्यादेशे प्रत्ययस्वरेणान्तोदात्तः "पुरोऽव्ययम्” इति गतिसंज्ञायां "कुगति प्रादयः" इति सूत्रेण समासे समासाऽन्तोदात्ते "तत्पुरुषे तुल्यार्थ" इत्यव्ययपूर्वपदप्रकृतिस्वरे, “गतिकारकोपपदात् कृत्” इति कृदु- त्तरपदप्रकृतिस्वरे थाथादिस्वरे च पूर्वपूर्वोपमर्दैन प्राप्ते “गतिरनन्तरः' इति पूर्वपद- प्रकृतिस्वरः । पुरस्शब्दस्योकारस्य संहितायां प्रचये प्राप्ते "उदात्तस्वरितपरस्य सन्न- तरः" इत्यनुदात्ततरः । इति शम् । ऋत्विक् ( १९२८)-अत्र "ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चयुजिक्रुञ्चाञ्च' इति सूत्रेण क्विनि सर्वापहारे “सम्प्रसारणाच" इति सूत्रेण पूर्वरूपे ऋत्विच्छब्दः कृदुत्तर- पदप्रकृतिस्वरेणान्तोदात्ते 'ऋत्विक्' इति भवति । . इति स्वरसञ्चारप्रकारप्रकरणं समाप्तम् । LOGre . अथ पाणिनीयशिक्षाप्रश्नोत्तरी शिक्षालक्षणम् ( १९५१)-शिक्ष्यतेऽनया वर्णोच्चारणमिति शिक्षा। अथ च-शिक्षानाम-उदात्तानुदात्तस्वरितप्रचयाख्यस्वर-हस्वदीर्घप्लुत-अनुनासिका- ननुनासिकादिभेदभिन्नवर्णसमुदायात्मकपदोच्चारणप्रकारवोधको अन्यविशेषः । त्रिषष्टिरित्यारभ्य (का० ३-५ यावत् ) अनुस्वारो विसर्गश्चेति यावत ( १९३५, ३७, ३८, ३६, ४२, ४३, ४९, ५१, ५२)- त्रिषष्टिः चतुःषष्टिव वर्णाः सम्भवतो मताः। प्राकृते संस्कृते चापि स्वयं प्रोक्ताः स्वयम्भुवा ॥ ३५ प्रकृतेः स्वभावत एवागतं, प्रकृतेरिदं वा प्राकृतं तस्मिन् प्राकृते अपभ्रंशादि- रूपायां प्राकृत' भाषायाम् । प्राकृतभाषैव प्रकृतिः आपामरं स्वभावतस्तस्या उच्चा- र्यमाणत्वात् ततः संस्कृत्य प्रकाशिता व संस्कृतभाषेति मते इदम् । संकृतभाषेव प्रकृतिरिति मते च प्रकृतेः (संस्कृतभाषातः) आगतं प्रकृती भवं ना प्राकृतम् (अप- भ्रंशादि भाषान्तरम् ) तस्मिन् प्राकृते, संस्कृतं सर्वभाषाणां प्रकृतिभूतं तस्मिंश्चापि ( संस्कृतभाषायामपीत्यर्थः) स्वयम्भुवा विधात्रा स्वयं प्रोक्ताः अत्यादरेणोक्ताः। व्यधिका षष्टित्रिषष्टिरेवं चतुरधिका षष्टिश्चतुःषष्टि; वर्णाः अक्षराणि सम्भवतो लोकवेदयोरेतेषामेव सम्भवात् प्रसिद्धत्वात्मता इष्टाः इतोऽधिका वर्णा नेष्टा इत्यर्थः। "शम्भुमते मताः" इत्यपि पाठः क्वचिद् दृश्यते तत्र शम्भुमते (शिवानुसारिण्यस्मिन् पाणिनीये मते इत्यर्थः ) मताः अभिमताः। संस्कृतभाषातः प्राकृतापभ्रशादिभाषो द्भवश्वाभिधातृवैगुण्यादेवेति मन्तव्यम् । अत एवोक्तं हरिणा वाक्यपदीये ब्रह्मकाण्डे- "पारम्पर्यादपभ्रंशा विगुणेष्वभिधातृषु" इति । त्रिषष्टिश्चतुःषष्टिा वर्णाः के इत्याकाङ्क्षायामाह- स्वरविंशतिरेकश्च स्पर्शानां पञ्चविंशतिः । यादयश्च स्मृता ह्यष्टौ चत्वारश्च यमाः स्मृताः ॥ ४ ॥ स्वरा विंशतिरेकश्चेति-स्वरा इति 'स्व' शब्दोपतापयोः स्वर्यते शब्दयतेऽ- नेन व्यञ्जनमिति करणेऽच् प्रत्ययः । कथं ते एकविंशतिः ततश्चतुरो यथास्मृति विवृणोमि-अ इ उ ऋ एते चत्वारो ह्रस्वदीर्घप्लुतभेदेन द्वादश । लुकारस्य दीर्घा- दयो न सन्तीति स्मरणात् ह्रस्व एवोपदिश्यते अत एते त्रयोदश । ए ऐ ओ औ सन्ध्यक्षराणि सन्ध्यक्षराणामपि ह्रस्वाः न सन्तीति स्मरणात् दीर्घप्लुता एव गृह्यन्ते, . :॥ २ ॥ ८४ पाणिनीयशिक्षाप्रश्नोत्तरी। ते एतेऽष्टौ पूर्वस्त्रयोदशभिः सहैकविंशतिः । कादयो मावसानाः स्पर्शाः ( क ख ग घ ङ च छ ज म न ट ठ ड ढ ण त थ द ध न प फ ब भ म) पञ्चविंशतिः इति जिह्वामूलतालुमूर्द्धदन्तोष्टादिभिः परस्परं स्पर्शेरभिनिष्पत्य आविर्भवन्तीति स्पर्शः । पूर्वयकविंशत्या सह षट्चत्वारिंशत् । यादयश्च स्मृता ह्यष्टावितियका- रादयश्च अष्टौ ( य र ल व श ष स ह ) इति । अत्र आद्याश्चत्वारोऽन्तःस्थसज्ञाः उपरितनाश्चत्वार ऊष्माणः । पूर्वया षट्चत्वारिंशता सह चतुःपञ्चाशत् । 'चत्वारश्च माः स्मृता' इति यच्छन्तीति यमाः स्वयमेवोपरमेरन् । के ते यमाः ? लोके कु टुं गुंधु इति यमाः “अनन्त्यान्त्यसंयोगे मध्ये यमः पूर्वगुणः” इत्यौदवजिः । तथा व-हस्वादिभेदैश्चत्वारः प्रथमा द्वादश स्मृताः ॥ टुकारो ह्रस्व एवैचोऽष्टौ स्वरा एकविंशतिः ॥१॥ पञ्चविंशतिरष्टाब्धिः स्पर्शाः स्युर्यादयो यमाः ॥ अनुस्वारो विसर्गश्च क पौ प्लुतलृकारकः त्रिषष्टिरेवंवर्णाः स्युह स्वदीर्घादिभेदतः॥ अनुस्वारद्वयाद्वर्णाश्चतुः षष्टिरितीरिताः ॥ तथा च नारदः-अनन्त्यश्च भवेत्पूर्वो घन्तश्च परतो यदि । तत्र मध्ये यमस्तिष्ठेत् सवर्णः पूर्ववर्णयोः ॥ १ ॥ वर्गान्त्यान् शषसैः सार्द्धमन्तस्थैर्वाऽपि संयुतान् । दृष्ट्वा यमा निवर्तन्ते श्रादेशिकमिवाध्वगाः ॥ २ ॥ इति नारदौदव्रज्योर्मतेन यमो वर्णागम इति विधीयते । अस्मात् शास्त्रात् 'चत्वारश्च यमाः स्मृताः इति वर्णान्तरत्वेनोपदेशः संयोगशास्त्रात् । अथ चतुरक्ष- राणामुदाहरणमिति प्रकृत्य अग्निरिति यमो गकारौ द्वौ नकार इकारश्चेति । अन्ये तु यमं वर्णात्तिं मन्यन्ते । तथा च शौनकः "स्पर्शा यमानननुनासिकान् स्वान् परेषु स्पर्शष्वनुनासिकेषु' इति । पूर्वया चतुःपञ्चाशता सहाष्टपञ्चाशत्त॥ ४ ॥ अनुस्वारो विसर्गश्च ४ क पौ चापि पराश्रितौ (पराश्रयो ) दुःस्पृष्टश्चेति विज्ञेयो लकारः प्लुत एव च ॥ ५॥ स्वरमनुभवतीत्यनुस्वारः, अनु अकारानुगमेनानुस्वारः वक्ष्यति च दन्तमूल्यः स्वरानुग इति । विसर्ग इति-विविध सूज्यते क्षिप्यते इति विसर्गः । ५ क * पौ चाफि पराश्रयाविति । पराश्रयाविति-परौ ककारपकारौ श्राश्रयः स्थानं ययोस्तौ पराश्रयौ। तथा च वक्ष्यति-"अयोगवाहा विज्ञेया आश्रयस्थानभागिनः” इति ।

पाणिनीयशिक्षाप्रश्नोत्तरी अपरः पाठः-४ क ४ पावपि परौ स्मृतौ । अनुस्वारविसर्गयोः परावित्यर्थः। अपरोऽपि पाठः ४ क ५ पौ चापि कपाश्रयौ । ककारपका आश्रयः स्थानंययोस्तो कपाश्रयौ । चशब्दादनुस्वारविसर्जनीयावपि पराश्रयौ। दुःस्पृष्टश्वेतीति । ईषतस्पृष्टो वर्णधर्मो न वर्णान्तरम् | वक्ष्यति च-'अचोऽस्पृष्टा यणस्त्वीषत्' इति । तथा चौदवजिः-तत्र स्पृष्टं प्रयतनं करणं स्पर्शानाम्' 'दुःस्पृष्टमन्तःस्थानाम्' इति। यणभक्तिश्च लुकारो विद्यते । अतो लुकारो दुःस्पृष्टधर्मा चशब्दात् ऋकारः। इति शब्दः पादपूरणार्थः । तृकार इति लुवर्णात् कारप्रत्ययः । प्लुत एव चेति । लुका- रस्य दीर्घादयो न सन्तीति पूर्व परमतमुपन्यस्तं स्वमतं चाह-लकारः प्लुत एव , चेति । त्रिमात्रः चशब्दाद्धस्वञ्च । ननुवर्णानां प्रयत्नमुपरिष्टाद्वशत्येव किमर्थम- प्रस्तुतः प्रयत्नः कथ्यते ? उच्यते, प्लुतविधानार्थ तावल्नुकारः उच्चारयितव्यः उच्चा- रिते च लकारे लाघवार्थमप्रस्तुतोऽपि प्रयत्नः उच्चारितः दुःस्पृष्टश्चेति । अनुस्वा- रादयः प्लुतान्ताः पञ्च । पूर्वैरष्टपञ्चाशद्भिः सह त्रिषष्टिः । चतुःपष्टिःकथम् ? अनु- स्वारो विसर्गश्चेति पाठान्तरात् । कथंपुनरनुस्वारद्वयं ह्रस्वदीर्घभेदेनेति ब्रूमः १ तथा चौदवजिः-"अनुस्वारावं श्रां इत्यनुस्वारी हस्वदीपों दीर्घहस्वी वर्गौ” इति । श्रत एव चतुःषष्टिरिति (१) शम् । ( १९४१, ४५, ५२ । का० ६, ७, ८, ९ यावत् )-अथ वर्णसंख्यापरि- ज्ञानोत्तरकालं चिन्त्यते, क एषामुच्चारयिता कथं चोच्चारयति केनक्रमेण चेत्याह- आत्मा बुद्ध्या समेत्यार्थान् मनो युक्ते विवक्षया । मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ॥६॥ आत्मा शरीरेन्द्रियमनोबुद्धिव्यतिरिक्तः । कथं पुनरेतदवगम्यतेशरीरेन्द्रिय- मनोबुद्धिव्यतिरिक्त आत्मेति ? द्रष्टुत्वात् । द्रष्य हि दृश्यातिव्यतिरिक्तो भवति प्रयोजकत्वात् बुद्धयादीनि कर्तृप्रयोज्यानि करणत्वात् कुठारवत् इति न्यायात् श्रुतेश्च । न्यायस्तावत् -'अग्निहोत्रं जुहुयात स्वर्गकामः' इति स्वर्गादिफलसाधनानि (१) स्वराः२१ अ, आ, आ ३ इ ई ई ३, उ ऊ ऊ ३, ऋ ऋ ऋ३, ल, ए ए ३ ओ ओ ३ ऐ ऐ ३, औ औ ३ एते एकविंशतिः स्वराः। क ख ग घ ङ च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प फ ब भ म एते २५ पञ्चविंशतिः स्पर्शाः। ८ अष्टौ-यादयः तत्र-य र ल व (अन्तस्थाः) श ष स ह (ऊष्माणः) ४-कुं खुंगु यमाः ४ । 'अं १ अनुस्वारः । 'अ' १ विसर्गः। १ जिह्वामूलीयः क ख १-उपध्मानीयः परफ । १-दुःस्पृष्ट-ल इति ६३ त्रिषष्टिसंङ्ख्याकाः वर्णा । मतान्तरे-१ प्लुत ल३ अधिकः तेन ६४ चतुःषष्टि- सङ्ख्याकाः इति ।

पाणिनीयशिक्षाप्रश्नोत्तरी। कर्माणि श्रूयन्ते । स्वर्गश्च वायुशरीरोपभोग्यः तद्व्यतिरिक्तः आत्मा शरीरादेरित्यनु- मीयते । श्रुतिश्च-तस्य हैतस्य हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्का- मति चक्षुषो वा मूर्नो बाऽन्येभ्यो वा शरीरदेशेभ्यः' इति । शरीरापक्रमणाय शरी- रादिव्यतिरिक्त आत्मा । छान्दोग्यश्रुतिश्च “एवमेवैषसम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतीरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते'' इति । क एषामुच्चारयितेति पृष्टे तस्योतरं दत्तमात्मेति । कथमुच्चारयति केन क्रमेणेति प्रश्नद्वयस्योत्तरं दीयते-स श्रात्मा बुद्धया सहार्थान् वाह्यान् समेत्य सम्यगवगम्यार्थप्रत्यायनाय यदिशब्दा उच्चा- र्यन्ते तदामनो युक्ते विवक्षया वक्तुमिच्छा विवक्षा तया तच्च मनो नियुक्त 'आत्मा। मनः कायाग्निमाहन्तीति-तच्च मनो नियुक्तं सत् कायाग्निमाहन्ति कायाग्नि शरीराग्निम् । श्राभिमुख्नाहन्ति स प्रेरयति मारुतमिति-सोऽनिरभि- हतः सन्मारुतं वायु प्रेरयति। मारुतस्तुरसि चरन्मन्द्रं जनयति स्वरम् । प्रातः सवनयोग त छन्दो गायत्रमाश्रितम् ॥ ७॥ मारुतो वायुरुरसि चरन्मन्द्रं स्वरं जनयत्युत्पादयति । मन्द्रमिति मन्दे रक्प्रत्ययः। प्रातः सवनयोगमिति-प्रातः सवनेन सह योगोऽस्येति प्रातःसव- नयोगस्तम्, तथा च ऐतरेयब्राह्मणे-"अथ मन्द्रं तपति तस्मात् मन्द्रया वाचा प्रातः सवने शंसेत्” इति । गायत्रं छन्दोऽस्याश्रयः । गायत्रं गायतेः स्तुति- कर्मणः । आच्छादयति-छन्दः । कण्ठे माध्यन्दिनयुगं मध्यमं त्रैष्टुभानुगम् । तारं तार्तीयसवनं शीर्षण्यं जागतानुगम् ॥ ८॥ भारत इति वर्तते ( सम्बध्यते इत्यर्थः) सवन छन्दः स्वरं चरन्निति च । वर्णान् जनयतीति यावत् । कण्ठे चरन्वायुर्मध्यम स्वरं जनयति । कण्ठे इति 'कणेष्टः' इति ठप्रत्ययः । मध्यं दिनं युनक्तीति माध्यन्दिनं सवनभाजं त्रिष्टुप्छन्दो- ऽनुगामिनम् । तारमिति-तार्तीयसवनमिति तृतीयसवनभाजं तार स्वरं शीर्षण्य- मिति-मूर्द्धनि चरन् वायु जनयत्युत्पादयति । जागतच्छन्दोऽनुगामिनम् । जागतं छन्दोऽनुगच्छतीति जागतानुगः । शीर्षण्यमिति "शीर्षश्छन्दसि” इति शिरः शब्दस्य शीर्षभावः तत्र भवं शीर्षण्यम् । इति । सोदीर्णो मूभिहतो वक्त्रमापद्य मारुतः ॥ वर्णाञ्जनयते तेषां विभागः पञ्चधा स्मृतः ॥ ९ ॥ ।।

८७ पाणिनीयशिक्षाप्रश्नोत्तरी सः वायुरुदीर्ण ऊर्ध्वगतो मूर्धानं यावदुपरितनी गतिमलभमानः शिरः कपालेनावष्टब्धत्वात् पुनः प्रत्यावृत्य वक्त्रमेत्रापद्य वर्णाञ्जनयते उत्पादयति । पुनर्मारुतग्रहणं विस्पष्टार्थम् । तेषां विभागः पञ्चधा स्मृतः इति । तेषां वर्णानां जन्य- मानानां विभागो विवेकः पञ्चधा पञ्चप्रकारः । सङ्ख्याया विधार्थे धा इति धा। स्मृतोऽनुमतः। इति ॥९॥ अष्टौ स्थानानि वर्णानामुरः, कण्ठः शिरस्तथा । जिह्वामूलं च दन्ताश्च नासिकौटौ च तालु च ॥ १३ ॥ अतिस्फुटार्थोयं श्लोकः-तथापि वर्णानाम् अकारादीनाम् अष्टौ स्थानानि भवन्ति कानि च तानि तत्राह-उरः १ कण्ठः, २ शिरः, ३ जिह्वामूलम् , ४ दन्ताः, ५, नासिका, ६ श्रोष्टः, ७ तालु ८। कस्य वर्णस्य किं स्थानमिति त्वले वक्ष्यति । अत्र 'नासिकोष्टाविति' अरपाठः, असमासे पररूपस्याप्राप्तः | समासे चैकवद्भावापत्तरिति । ऊष्मणोऽष्टधा गतिमाह ( १९३७, ४०, ४८)- श्रोभावश्च विवृतिश्च शषसा रेफ एव च । जिह्वामूलमुपध्मा च गतिरष्टविधोष्मणः ॥ १४ ॥ ऊष्मणः विसर्गस्य । विसर्गस्य ऊष्मसंज्ञा च याज्ञवल्क्यशिक्षायां दृश्यते । तथा हि-यथा बालस्य सर्पस्य निःश्वासो लघुचेतसः। एवमूष्मा प्रयोक्तभ्यो हकारं परिवर्जयेत् ॥ इति । एवञ्च विसर्गस्य-श्रोभावः विकृतिश्च सन्ध्यभावश्च । शुषसा शकार-षकार-सकारादेशाः वा रेफः रेफादेश एव वा जिह्वामूलम् जिह्वामूलीयादेशः उपध्मा-उपध्मानीयादेशः इत्येवमष्टधा गतिर्भवति । उदाहरणानि यथा-क्रमश:- विसर्गस्य अोभावो यथा-शिवोवन्धः। साक्षात् परम्परया वा रेफस्योत्वे गुणेच ओभावो भवति तेन 'शिवोवन्द्यः' इत्यत्र विसर्ग एव अोभावं गतः । विवृतेरुदाहर- गम्-क ईशः । विवृतिलक्षणमुदाहरणञ्च याज्ञवल्क्यशिक्षायामुक्तम्- द्वयोस्तु स्वरयोर्मध्ये सन्धिर्यत्र न दृश्यते । विवृतिस्तत्र विज्ञेया यईशेति निदर्शनम् ॥ इति (श्लो० ९४ ) शकारादेशस्य 'हरिश्शेते' 'कश्शेते' षकारादेशस्य-आविष्कृतम् । 'रामष्षष्ठः' । सकारादेशस्य 'कस्कः' 'कौतस्कुतः' विसर्गस्य रेफरूपगतेः 'अहर्पतिः' 'गीपतिः' 'धूर्पतिः' जिह्वामूलीयोदाहरणं क करोति क खनति । उपध्मानीयरूपगतेः क पचति, क फलति । एतेषु अष्टसु यद्यतेषां श्रवणं नस्यात् तर्हि सति सम्भवे विसर्गःश्रूयते । - पाणिनीयशिक्षाप्रश्नोत्तरी। एतावतैवीष्मणां गत्यष्टकथनम् । ऊष्मणां गत्यष्टकथनं यस्य यत्सम्भवति तदभिप्रा- येण न तु प्रत्येकं तेषां गत्यष्टकत्वम् । ( १९३४,४०, ४१)- यद्योभावप्रसन्धानमुकारादिपरंपदम् । स्वरान्ततादृशविद्याद्यदन्यद् व्यक्तमुष्मणः ॥ १५ ॥ अत्र-यत्र तत्रेति पदद्वयाध्याहारः। यत्र यस्मिन् पदे उकार आदिर्यस्य तत्तादृशं पदं परम् यत्र तत् उकारादिपरम् तत्र यद्योभावप्रसन्धानम् संहितयौत्व- परिज्ञानं (श्रोत्वरूपसन्धिः ) दृश्यते तर्हि तत्र ताशपदम् अोभावान्तं श्रोकार स्वरान्तं स्वरस्थानिक विद्यात् जानीयात् । उदाहरणं यथा-इषेत्वोजत्वा इत्यादि त्वोतः, मेतेत्यु. अन्यद्यदोकारप्रसन्धानं तदुष्मणो विसर्गस्य स्थाने व्यक्त परिस्फुटं साक्षात् परम्परया वा निष्पन्न विद्यात् जानीयात् । यथा-'शिवोवन्धः' 'महिमातो ज्यायांश्च पुरुषः' इति च अत्र च 'महिमातो' इत्योकार प्रसन्धान यत्तद्- विसर्गप्रभवम् । अयोमणोऽष्टविधगतौ हि-'विसर्गस्थाने ओकाराद्यादेशः स्यात्' इत्यर्थस्तु न, किन्तु विसर्ग एवाऽयमोकारादिरूपां दशामापन्न इत्येवार्थः । अन्यथा तु विसर्गस्य ओकारीद्यादेशविधायकवचनाभावात् इदमष्टविधविसर्गगतिवर्णनं निखिल- मसङ्गतमेव स्यात् । अष्टौ स्थानानि वर्णानामित्युक्तं तत्र कस्य किंस्थानमित्याह त्रिभिः श्लोकैः- ( १९४४, ४९, ५२ । )- हकारं पञ्चमर्युक्तमन्तःस्थाभिश्व संयुतम् | उरस्यम् (औरस्यं) तं विजानीयात् कण्ठ्यमाहुरसंयुतम् ॥ १६ ॥ पञ्चमैः वर्गपञ्चमैर्डकारजकारनकारादिभिर्युतम् अन्तःस्थाभिः-यरलवैश्च संयुक्त त हकारं उरस्यम् उरसि भवम् उरःस्थानोद्भवम् । औरस्यमिति पाठे तत एव स्वार्थि- काऽणप्रत्यये औरस्यम् इति । विजानीयात् । एतादृशहकारस्योरःस्थानम् इति यावत् । श्रूसंयुतं हकारं च कण्ठ्यमाहुः । कण्ठस्थानप्रभवम् कथयन्ति । तत्रोदाह- रणं यथा-'मलयति' 'वलयति' । इति । स्थानान्याह ( १९५२)- कण्ठ्यावहाविचुयशास्तालव्या ओष्ठजावुपू ॥ स्युर्मूर्धन्या ऋटुरषा दन्त्या लूतुलसाः स्मृताः ॥ १७ ॥ अहौ अकारहकारौ कण्ठ्यौ कण्ठस्थानजातो, इचुयशास्तालव्याः-इकार-चवर्ग- यकार-शकाराः तालुस्थानजाताः बोध्याः, उपू-उकारपवर्गों श्रोष्टौ श्रोष्ठस्थानजातौ । ऋ-टु-र-षा-मूर्धन्याः स्युः ऋकारटवर्गरेफषकाराः मूर्धस्थानवन्तः। लु-तु-ल- पाणिनीयशिक्षाप्रश्नोत्तरी । सा दन्त्याः दन्तस्थानजाताः बोध्याः । अत्र दन्तपदं दन्तसंयुक्तदेशपरं तेन भग्मद- न्तस्याप्युच्चारणं भवत्येवेति । जिह्वामूले तु कुः प्रोक्तो दन्तोष्ठ्यो वः स्मृतो वुधैः । ए ऐ तु कण्ठतालव्या ओ औ कण्ठोष्ठजी स्मृतौ ॥ १८ ॥ व्याख्या-कुः जिह्वामूले प्रोक्तः कवर्गस्य जिह्वामूलं स्थानम् वः वकारः बुधैः दन्त्योष्ठथः स्मृतः दन्तोष्टस्थानवानित्यर्थः । ए ऐ एकारकारौ कण्ठतालव्यौ ज्ञेयौ कण्ठतालुस्थानवन्तौ बोध्यौ । ओ औ ओकारौकारौ कण्ठोष्टजौ स्मृताविति कथिता- विति । नन्वत्र कवर्गस्य जिह्वामूलस्थानकथनेन कण्ठस्थानकथनम् , 'अकुहविसर्न: नीयानां कण्ठः' इत्यादिना कौमुदीकृतामसङ्गतमितिचेन्न, कौमुदीग्रन्थे कण्ठपदस्य कण्ठतत्समीपजिह्वामूलस्थानोभयपरत्वात् । न च कवर्गस्यापि जिह्वामूलीयत्वे व्यवहा- रातिप्रसङ्ग इति वाच्यम्, जिह्वामूलीयपदस्य वर्णविशेष रूढिस्वीकारादिति । ( १६३४, ३६, ३८, ४२, ४३, ४६, ४८, ५०), अर्धमात्रा तु कण्ठ्यस्या एकारकारयोर्भवेत् । श्रोकारौकारयोर्मात्रातयोविवृतसंवृतम् ॥ १९ ॥. अर्धमात्रेति-एकारैकारयोःोकारौकारयोः कण्ठयस्यार्धमात्रा मात्रा वा भवेत् । 'तु चात्र वाथै तयोरेछैचो कण्ठ्यस्य विवृतसंवृत संवृतविवृतप्रयत्नजन्यत्वं बोध्यम् । अथ तच्छब्दो बुद्धिस्थपरामर्शकस्तेन एडेचोः परामर्शः । विवृतसंवृतमिति भावप्रधा- ननिर्देशः। संवृतञ्च विवृतञ्चति विग्रह द्वन्द्वसमासे लध्वक्षरत्वाद्विवृतस्य पूर्वप्रयोग- इत्यवधेयम् । मात्रिकं संवृतं ज्ञेयं द्विमात्रिकं तु विवृतमिति कारिकार्थः । एवञ्चाया- दिषु मात्रिकः संवृतः द्विमात्रिको विवृतः। एकारैकारयोः कण्ठयः संवृतः। ऐकारौ- कारयोस्तु कण्ठयो विवृतस्तेन संवृतावर्णघटिततालुस्थानजन्यघटितस्य तादृशौष्ट- स्थानघटितस्य च स्थाने संवृतावर्णघटिततालुस्थानजन्यघटितायादेशः । अन्यस्य च संवृतावर्णघटितस्य विवृतावर्णघटितः इति नाव्यवस्था । तस्मात् 'ए ऐ *तु . कण्ठता- लव्यौ' इति युक्तियुक्तमित्यर्थो भवति । अन्यस्तु अन्यतो बोध्य इति । संवृतं मात्रिकं ज्ञेयं विवृतं तु द्विमात्रिकम् । घोषा वा संवृताः सर्व अघोषा विवृताः स्मृताः ॥ २० ॥ स्वराणामूष्मणां चैव विवृतं करणं स्मृतम् । तेभ्योऽपि विवृतावेडी ताभ्यामैचौ तथव च ॥ २१ ॥. धोषावेति-वेति पादपूरणे "वा स्याद्विकल्पोपमयोर्वितके पादपूरणे” इति ६० पाणिनीयशिक्षाप्रश्नोत्तरी। मेदिनीकोषात् । तथा च सर्वेघोषाः संवृताः संवार प्रयत्ना बोध्याः अघोषा विवृता विकृ. तप्रयत्नाः स्मृताः कथिता इत्यर्थः । स्वराणामध्मणां शषसहानां विवृतं करणं स्मृतम् , एषां विवृतप्रयत्नो बोध्यः। एडो एकारौकारौ स्वरोष्मभ्योऽपि विवृतौ विवृततरौ ऐचौ ऐकारौकारौ ताभ्यामेकारौकाराभ्याञ्च तथैव विवृतौ विवृततमौ इति कारिकार्थः। एवञ्चकारस्य ऐकारस्य च परस्परं सवर्णसंज्ञापि न प्रयत्नभेदादिति । नैकारेण ऐकारग्रहणप्रयुक्तो दोषश्च । नन्वेकारादिषु पूर्व संवृतत्वादेरपि कथनात् कथं तेषां विवृततरत्वादिकथनमिति चेन्न, इतरांशे एव विवृतत्वाधभिधानात् । तदुपरागाच्च न संवृतत्वस्य पृथग्ग्रहणमिति स्पष्टं शेखरे ।। अनुस्वारयमानाञ्च नासिकास्थानमुच्यते । अयोगवाहा विज्ञेया आश्रयस्थानभागिनः ॥ २२ ॥ अनुस्वारयभानाञ्चेति-अनुस्वारस्य यमानाञ्च, स्थानं नासिकोच्यते । अयो- गवाहा भाष्यपरिगणिता अनुस्वारविसर्गजिह्वामूलीयोपध्मानीययमा आश्रयस्थानभा- गिनः। यत्स्वराश्रिता .तस्य तत्स्थानं तत्स्थानका विज्ञयाः। यथा 'रामः' इत्यत्र विसर्गस्य कण्ठस्थानम् । हरिः' इत्यत्र विसर्गस्य तालुस्थानम् इति । अत्र च शब्देन धमङणनानामपि सङ्ग्रहस्तेन तेषामपि नासिकास्थानमित्यपि बोध्यम् । वाहयन्ति कार्य निर्वाहयन्ति इति वाहाः न योगो वर्णसमाम्नायेषु पाठो येषां ते अयोगास्ते च ते वाहा अयोगवाहाः। अत्रानुस्वारयमानां पृथक् नासिकास्थानकथनेन नाश्रयस्था नभागिनः किन्तु तदन्यविसगादिरेवेति न भ्रमितव्यम् , आश्रयस्थानापरित्यागेन नासिकास्थानकथनात् । अतएव मादीनां नासिकास्थानत्वेऽपि ताल्वादिस्थानत्वमपि सर्वसम्मतम् । अनुस्वारोपि आश्रयस्थानभागीति मत्वैव शब्दरत्नकृता 'हरि जयति' इत्यत्रापादितो जश् जकारः स्यादित्युक्तं भावप्रकाशकृता । (१९४७) अलावुवीणानिर्घोषो दन्तमूल्यः स्वरानुगः । अनुस्वारस्तु कर्तव्यो नित्यं होः शषसेषु च ॥ २३ ॥ अलाबुनः तुम्बीफलस्य या वीणा (वाद्यविशेषः) तस्याः निर्घोष इव निर्घोषो यस्य स अलाबुवीणानिर्घोषः दन्तमूल्यः दन्तमूले भवः स्वरानुगः स्वरा- ननुगच्छतीति स्वरानुगोऽचः पर इति यावत् । ईदृशोऽनुस्वारः होः हकाररेफयोः परयोः शषसेषु च परेषु नित्यं कर्तव्यः उच्चारयितव्य इत्यर्थः । उदाहरणं यथा- बृंहणम् । कुण्डं रथेन । कंसः । इन्द्रियाणां षष्ठं मनः । हंस इति । १६३४,४०)- अनुस्वारे विवृत्यां तु विरामे चाक्षरद्वये।

- पाणिनीयशिक्षाप्रश्नोत्तरी। द्विरोष्ठचौ तु विगृह्णीयात् यत्रोकारवकारयोः ॥ २४ ॥ अनुस्वारे परे हरि वन्दे' इत्यादौ विवृत्यां स्वरसन्ध्यभावे ‘य ईशे' इत्यादौ विरामे च वर्णानामुच्चारणाभावे च 'वाक्' इत्यादौ अक्षरद्वये संयुक्तवर्ण- द्वये च उच्चारयितव्ये यत्र यत्पदघटकयोरोकारवकारयोः उच्चारयितव्ययोः द्विःद्विवारं ओष्ठयौ ओष्ठौद्विविगृह्णीयात् पृथक् कुर्यात् । श्रोष्ठ्यावित्यत्र स्वार्थिकः ष्यङ्। विवृतिः- विवेकेन पृथग्भावेन वर्तते इति विवृतिः । सा च चतुर्विधा तथा च नारदः- विवृतयश्चतस्रो वा विज्ञेया इति मे मतम् । अक्षराणि नियोगेन तासां नामानि मे शृणु ॥ ह्रस्वादिर्वत्सानुसता वत्सानुसारणी चाग्रे । पाकवत्युभयोर्हस्वा दीर्घवत्ता पिपीलिका ॥ रङ्गलक्षणोच्चारणप्रकारस्य व्याख्या ( १६३४, ३८, ४०, ४६ ) ( २६- का० आरभ्य ३० का० यावत् )- यथा सौराष्ट्रिका नारी तन इत्यभिभाषते । एवं रङ्गाः प्रयोक्तव्याः खेश्रराँ इव खेदया ॥ २६ ॥ यथा सौराष्ट्रिका सुराष्ट्रदेशजाता नारी कामिनी तक "इति अभिभाषते कथयति निरनुनासिकतकशब्दमपि त इति सानुनासिकं वक्ति। एवं रजाः प्रयोक्तव्याः उच्चारयितव्याः। तत्रोदाहरणमाह-खे अराँ' इति इदं वेदवाक्यम् नकास्य रुत्वे जाते योऽनुनासिको विधीयते स रङ्गः । रजयति पूर्ववर्णमिति रङ्गो वर्ण- विशेषः। बाहुलकात् कतरि घन् । करणे घञ् तु न युक्तः घनिचेत्यादिना नलो- पापत्तः । यथाह नारद:- नकारः स्वरसंयुक्तश्चतुर्युक्तो विधीयते । रेफो रङ्गश्च लोपश्च अनुस्वारोऽपि वा क्वचित् ।। इति ॥ लोमशशिक्षायान्तु (श्लो० ६ ) रङ्गस्य द्वैविध्यमप्युक्तम् “रङ्गस्तु द्विविधो ज्ञेयः स्वरपरो व्यञ्जनपर इति। रङ्गवर्णं प्रयुञ्जीरन् नोग्रसेत् पूर्वमक्षरम् । दीर्घस्वरं प्रयुञ्जीयात् पश्चान्नासिक्यमाचरेत् ॥ २७ ॥ (सू० रङ्गलक्षणस्य तदुच्चारणप्रकारस्य च प्रश्नोत्तरे श्लोकाः एव पर्याप्ताः किन्तु व्याख्याप्रश्ने व्याख्याप्यावश्यकी तेनाग्रे श्लोकचतुष्टयस्य व्याख्या सक्षिप्त- रूपेण कृता) रङ्गेति-पूर्वमक्षरम् पूर्वो वर्णः रङ्गवर्ण यथा नोग्रसेत् पूर्ववर्णरङ्गवर्णयोः सम्मे- लनं यथा न भवेत् तथा प्रयुषीरन् । उच्चारयेयुः। तथा रङ्गं दीर्घस्वरं प्रयुञ्जीयात् ।

१२ पाणिनीयशिक्षाप्रश्नोत्तरी । पश्चात् रङ्गस्यान्ते नासिस्थमाचरेत् उच्चारयेत् । एतच याज्ञवल्क्यशिक्षायामपि उक्तम् । यथा च- रङ्गेचैव समुत्पन्ने न ग्राह्य पूर्वमक्षरम् । स्वरं दीर्घ प्रयुञ्जीयात् पश्चान्नासिक्यमाचरेत् ॥ हृदये चैकमात्रस्त्वर्द्धमात्रस्तु मूर्द्धनि । नासिकायां तथार्द्धञ्च रङ्गस्थैवं द्विमात्रता ॥ २८ ॥ हृदये चैकमात्रस्त्वितियः हृदये एकमात्र उच्चारणीयः मूर्धनि मस्तके तु अर्द्धमात्र उच्चारणीयः। नासिकायां च अर्द्धमात्र उच्चारणीयः। एवं रङ्गस्य द्विमात्रता भवति । अतो द्विमात्रो रङ्गः करणीयः ॥२८॥ हृदयादुत्करे तिष्ठन् कांस्येन समनुस्वरन् । मार्दवं च द्विमानं च जघन्वाँर इति निदर्शनम् ॥ २६ ॥ हृदयादिति-हृदयात् हृदयप्रदेशात् उत्करे ऊर्ध्वदेशे तिष्ठन् उच्चारितो रङ्गः कांस्येन कांसपात्रस्वरेण समनुस्वरन् मार्दवं मृदुत्वं द्विमात्रम् द्विमात्रत्वञ्च प्राप्नुवन् उच्चार्य इति शेषः । जघन्वाँ'२ इति निदर्शनम् दृष्टान्त इति बोध्यम् । अत्र कांस्येन समनुस्वरन् इत्यत्र समश्वासावनुस्वरन् समनुस्वरन्निति समासः सापेक्षत्वेऽपि आर्ष- त्वाबोध्यः । शकन्धवादित्वाच्च पररूपं ज्ञेयम् । द्विमात्रमिति च भावप्रधाननिर्देशः तेन द्विमात्रमित्यस्य द्विमात्रत्वमित्यर्थो बोध्य इति ॥ २९ ॥ मध्ये तु कम्पयेत् कम्पमुभौ पाश्वौं समौ भवेत् । स रङ्ग कम्पयेत् कम्पं रथीवेति निदर्शनम् ॥ ३० ॥ मध्येत्विति-अत्रोच्चारयित्रेति कर्तृपदमध्याहार्यम् । मध्ये स्वरोच्चारणमध्यस- मये कम्पं स्वरं कम्पयेत् कम्पयुक्तमुच्चारयेत् । उभौ पावौं स्वरारम्भावसानांशौ समौ भवेत् भावयेत् अन्तर्भावितण्यर्थश्चात्र भवति । कम्पं स्वरं सरजम् रङ्गेन सहितं तु कम्पयेत् । अत्र तु शब्द एवार्थे तेन सरजमेव कम्पयेत् । नतु रङ्गरहितमित्यर्थः। अत्र दृष्टान्तमाह-रथीवेति । एतत्सर्व लोमशशिक्षायामुक्तम्- केन कम्पातितः कम्पः संयोगो येन कम्पते । किंवा कम्प इति प्रोक्तो येनासौ कम्पमुच्यते ॥ पूर्वाङ्गण हतं पूर्व पराङ्गेण तु धारितम् । व्यञ्जनेन द्विधा भिन्न : स्वरो भीतस्तु कम्पते ॥ इति । पाठकगुणदोषविचारः ( १९४७, ५१)- गीती शीघ्री शिरः कम्पी तथा लिखितपाठकः । .

पाणिनीयशिक्षाप्रश्नोत्तरी ६३ अनर्थज्ञोऽल्पकण्ठश्च षडेते पाठकाधमाः ३२ ॥ माधुर्यमक्षरव्यक्तिः पदच्छेदस्तु सुस्वरः । धैर्य लयसमर्थं च षडेते पाठका गुणाः ॥ ३३ ॥ अधमपाठकानाह-गीतीति-एते षट् पाठकामाः पाठकेष्वधमाः। अधमाश्च ते पाठकाः इति वा समासः। के च ते तानाह-गीतीत्यदि यःगीती गानं कुर्वन् पठति सः अधमः, एवं यः शीघ्री शीघ्रं पठति। शिरः कम्पी शिरः कम्पयन् पठति यश्च लिखित- पाठकः स्वलिखित स्तोत्रं पठति यश्चानर्थज्ञः अर्थज्ञानरान्यः अल्पकण्ठश्च अनभ्यस्त- पाठः एतेऽधमाः। अत्रालिखितपाठक इवि च्छेदं वहवः कुर्वन्ति । पाठकगुणानाह- माधुर्यमिति-माधुर्य सुश्राव्यं अक्षरब्यक्तिः स्पष्टाक्षरोच्चारणम् पदच्छेदः पदानां विभागः सुस्वरः शोभनः स्वरः धैर्य सुन्दरत्वम् लयसमर्थम् एते षट् गुणाः पाउकाः पाठकस्येमे पाठकाः पाठकसम्बन्धिनो गुणाः इति । अस्पृष्टादिस्वरूपप्रदर्शनमनुनासिकलक्षणंप्रयत्ननिर्देशश्च ( १९३४, ५०, ५२)- अचोऽस्पृष्टा यणस्त्वीषन्नेमस्पृष्टाः शलःस्मृताः । शेषाः स्पृष्टा हलःप्रोक्ता निबोधानुप्रदानतः ।। ३८ ॥ अच इति-अचः स्वरा (अ, इ, उ, ऋ, लू, ए, ओ, ऐ औ) एते अस्पृष्टाः स्पीभावरूपविवृतत्ववन्तः यणः यवरलाः एते ईषत् स्पृष्टाः । शलिति प्रत्याहारग्रहणं शषसहा एते नेमस्पृष्टाः अर्द्धस्पृष्टाः इत्यर्थः । तथेति पादपूरणार्थः ।शेषाः स्पृष्टाः हलः प्रोक्ता इति । हल इति प्रत्याहारग्रहणं हकारादारभ्यालकारात् । शेष इत्युपयुक्तादन्यः शेषः। यणः शलश्च ईषत्स्पृष्टाः तद्वर्जिताः हलः स्पृष्टाः स्वस्थानः कथिताः । निबो- धानुप्रदानतः इति अनुप्रदानमिति स्वस्थानादिकं घोषादि अनुप्रकर्षेण दीयते इति अनुप्रदानम् "द्वौ नादानुप्रदानौ' इत्यौदवजिः। अनुप्रदानतो बाह्यप्रयत्नात् हेतोः वर्णानां मेदं शृणु ॥ ३८ ॥ अमोऽनुनासिका न हौ नादिनो हमषः स्मृताः। ईषन्नादा यण् जशः श्वासिनस्तु खफादयः ॥ ३९ ॥ ईषच्छ्वासांश्चरो विद्याद् गोर्धामैतत् प्रचक्षते । अमिति प्रत्याहारग्रहणं न म ण न म् । अनुनासिका इति स्वस्थानरधिकाः अनुपाठाः नासिकामनुभवन्तीति अनुनासिकाः ममङणनमोऽनुनासिकानिमान् जानी- यात् । तथा च पाणिनिः 'मुखनासिकावचनोऽनुनासिकः' इति नहः इति हकारो रेफश्च नानुनासिको हकारो झषश्च झष इति प्रत्याहार ग्रहणं म भ घ ढ ध एते हादयो .

९४ पाणिनीयशिक्षाप्रश्नोत्तरी। . - नादिनः स्मर्यन्ते । नाद एषामस्तीति नादिनः । अमोऽनुनासिका न हो' इति पाठे अम इति प्रत्याहारग्रहणम्-अ इ उ ऋ ल ए ओ ऐ औ ह य व र ल म न एते अनुनासिकाः न हो न तु रेफहकारौ-अमावपि सन्तो। नादिनः हझषः स्मृताः हकारो मषश्च नादिनः। मषः म भ घढ धः । अस्थार्थे पाठद्वयात् अमां हका- ररेफवर्जितानां विकल्पेनानुनासिकत्वम् नमां तु नित्यम् तथा च शौनकः-'सचादयो या विहिता विवृत्तयः प्लुतोपधान्ताः अनुनासिकोपधाः' इति । तथा उकारश्चेति करणे युक्तो रक्तः पृक्तो द्राधितः शाकलेनेति । अकाररेफयोः प्रथमे पाठे नादित्वं, हितीयपाठे हकाररेफेयो सिकत्वप्रतिषेधः । ईषन्नादा यणजश- स्त्वितियणः कथिताः जशस्तु जकाराद्याः शकारेण प्रत्याहारः जबगडद एते यण जशश्च ईषन्मनाक् नादाः । श्वासिनस्तु खफादय इति । ख फ छ ठ थ एते श्वासिनः श्वास एषामस्तीति श्वासिनः । श्वासो घोषाणां तृतीयात् प्रथमानामुभावघोषश्चतुर्थानां युग्माः सोष्माणम् , हाते चौदवजिः । चर इति प्रत्याहारग्रहणं च ट त क प श ष स एतन्नामकान् ईषच्छवासान् जानीयात् । अन्यः स्पष्टोर्थः- वेदाङ्गानि ( २९३९, ४४, ४५ ५१)- छन्दः पादौ तु वेदस्य हतौ कल्पोऽथ पठ्यते । ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते ॥ ४१ ॥ शिक्षाघ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् । तस्मात् साङ्गमधीत्यैव ब्रह्मलोके महीयते ॥ ४२ ॥ छन्द इति-वेदस्य पादौ छन्दः पिङ्गलमुनिविरचितछन्दः शास्त्रम् । हस्तौ कल्पः पठ्यते कल्पः कल्पसूत्रं शाखान्तरीयगुणोपसंहारेण वैदिकानुष्टानक्रमविशेषज्ञा- नफलकम् । चक्षुः वेदस्य नेत्रस्थानीयम् । ज्योतिषामयनं-ज्योतिष शास्त्र निरुक्तं निघंटुः निरुक्तञ्च श्रोत्रमुच्यते वेदस्य कर्णस्थानीयमुच्यते । शिक्षेति-वेदस्य घ्राणं तु नासिका तु शिक्षा स्मृता मुखं च व्याकरणं स्मृतं पाणिनीयादि व्याकरणशास्त्र प्रोक्तम् । अत्र तु.शब्दश्चाथै यतः अङ्गविकले अनिष्ट तस्मात् साङ्गमङ्गसहितमेव वेदमधीत्य ब्रह्मलोके महीयते पूज्यते ॥ ४१-४२ ॥ नवपदशय्यामाह ( १९३९, ४०)- अन्तोदात्तमायुदात्तमनुदात्तं नीचस्वरितम् । मध्योदात्तं स्वरित द्वयुदात्तं त्र्युदात्तमिति नवपदशय्या ॥४५॥ अन्तोदात्त इत्याद्यारभ्य युदात्तमित्येतत्पर्यन्तं स्वराणां नामनिर्देशः एवश्च नवसु पदेषु शय्यास्थितिनिर्दिष्टानां स्वराणामित्यर्थः ।

१ पाणिनीयशिक्षाप्रश्नोत्तरी । नवानामप्युदाहरणानि स्वयमेवाह--"अमिः सोमः प्रवो वीर्य्य हविषां स्वबृह- स्पतिरिन्द्राबृहस्पती, इत्युदाहरणानि कथं सङ्घटनीयानि तत्राह- अग्निरित्यन्तोदात्तं सोम इत्यायुदात्तम् । प्रत्युदात्तं व इत्यनुदात्तं वीर्य नीचेस्वरितम् ॥ ४६ ॥ अग्निरित्यन्तोदात्तं फिटस्वरेण प्रत्ययस्वरेण वा सोम इत्यायुदात्तं वृषादित्वात् 'वृषादीनां च' इति भावः । प्रेत्युदात्तपदमत्र “निपाता आयुदात्ताः' इत्यनेताधु- दात्तता । व इत्यनुदात्तं पदम् "अनुदात्तं सर्वमपादादौ” इत्यधिकृत्य "बहुवचनस्य . वस्नसौ" इति तद्विधानात् । वीर्य नीचस्वारैतम् । यस्य स्वरितस्याधोभागे स्वरितस्य चिहं दीयते तन्नीचस्वरितम् "बिल्वभक्ष्यवीर्याणि छन्दसि" इत्यनेनान्तस्वरितत्वात् । हविषां मध्योदात्तं स्वरिति स्वरितम् । बृहस्पतिरिति दथुदात्तमिन्द्राबृहस्पती इति न्युदात्तम् ॥ ४७ ॥ 'हविषाम्' इति मध्योदात्तं पदम् । तथा हि "फिषोन्त उदात्तः” इति हविश्श- ब्दस्यान्तोदात्तत्वेन "अनुदात्तौ सुप्पितौ" इत्यनेन श्रामोऽनुदात्तत्वेन "उदात्तादनुदा- त्तस्य स्वरितः' इत्यामः स्वरितत्वे हविषाम् इति मध्योदात्तं पदम् । 'स्वः' इति स्वरितं "न्यस्वरौ स्वरितौ" इत्यनेन 'बृहस्पतिः' इति द्वयुदात्तं वृ' इत्यस्य 'रूप' इत्यस्य च तत्रोदात्तत्वात् । “उभे वनस्पत्यादिषु युगपत्" इत्यनेन पूर्वोत्तरपदयोः प्रकृतिस्वरेणाद्युदात्तत्वात् । 'इन्द्रा बृहस्पती वयम्' इति त्र्युदात्तं पदम् । एकस्मिन् पदे इकारस्य 'बृ' इत्यस्य 'स्प' इत्यस्य चोदात्तत्वात् । द्वयुदात्तस्य बृहस्पतिश- ब्दस्येन्द्रशब्देन समासे 'देवता द्वन्द्वे च” इति सूत्रेणोभयोः पूर्वोत्तरपदयोः युगपत् प्रकृतिस्वरे च तत्र त्र्युदात्तत्वस्य सिद्धत्वात् । (१९४४.)- कुतीर्थादागतं दग्धमपवणं च भक्षितम् । न तस्य पाठे मोक्षोऽस्ति पापाहेरिव किल्बिषात् ॥ ५० ॥ कुतीर्थात् आचारहीनात् गुरोः 'तीर्थ शास्त्राध्वरक्षेत्रोपायोपाध्यायमन्त्रिषु' इति कोषः। आगतं समधिगतं ( ब्रह्म) वेदाङ्गादिकं शास्त्रं च दग्धं भस्मीभूतमिव निःसत्वं हतप्रभावं च भवति । अपवर्णमशुद्धास्पष्टाक्षरोचारणपूर्वकमधीतं भक्षितं भुक्तमिव 'श्वशृगालादिभक्षितशचादिवत् विकलाङ्गं भवतीति (शेषः) तस्य तादृशस्य पाठे अध्ययने पारायणे वा पापाहेरिव दुष्टसादिव यथा मोक्षः जीविताशा नास्ति ६६ पाणिनीयशिक्षाप्रश्नोत्तरी । तथैव किल्बिषात् पापात् यद्वा पापाहेरिव किल्विषात पापरूपदुष्टसपात् तस्य ताह- शानाचारयुक्तगुरुपठितवेदशास्त्राध्ययनतत्परस्य तादृशाध्ययनेन पापमेव भवति न कदाचिदपि तस्मात् पापात् भवति मोक्षः । ( १९३६, ५२ )- मन्त्री हीनः स्वरतो, वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् ॥ ५२ ॥ मन्त्र इति-स्वरतः स्वरेण वर्णतः वर्णेन अक्षरेण वा हीनः रहितः मन्त्रः मिथ्या प्रयुक्तः सन् तम् अभीप्सितम् अर्थ न आह न कथयति । सः मन्त्रो वाग्वजं भूत्वा यजमानं हिनस्ति नाशयति । अनिष्टावाप्तिं करोतीति यावत् । अत्र दृष्टान्तमाह-यथा स्वरतः स्वरस्य अपराधात् स्वरकृतदोषात् इन्द्रशत्रुः इन्द्रशत्रुशब्दो यजमानं हिनस्ति हिंसितवानित्यर्थः । ननु स्वरादीनां सम्यगुच्चारणाभाव ऋत्विजां दोष इति कथमन्य- दोषेणान्यस्य नाश इति चेन्न, ऋत्विगादिकृतहोमाद्यजमाने धर्मोत्पत्तिरिव तत्कृताप- शब्दप्रयोगाद्यजमाने प्रत्यवायोत्पत्तिरिति स्वीकारात् ॥ (आख्यायिका ) पुरा किल विश्वरूपनामके त्वष्टुः पुत्रे इन्द्रेण हते सति रुष्टस्त्वष्टा इन्द्रस्य हन्तारं पुत्रान्तरमुत्पिपादयिषुराभिचारिक यागं कृतवान् तत्रेन्द्रश- त्रुर्वर्धस्वेति मन्त्र ऊहितः तत्र तत्पुरुषप्रयुक्तान्तोदात्तत्वे कर्तव्ये वहुव्रीहिप्रयुक्त आधुदात्त ऋत्विजा प्रयुक्तः इत्यर्थान्तराभिधानादिन्द्रेण सोऽपि हत इति । अतः परं विशेषः पाणिनीयशिक्षाटीकायामवलोकनीयः । इति शम् । विश्वेश्वरपुरीमध्ये श्रीविश्वेश्वरशर्मणा । परीक्षार्णवताराय कृता प्रश्नोत्तरी तरिः॥१॥ . समाप्तश्चाय ग्रन्थः।

. . स्वरवैदिक-प्रश्नपत्राणि १६२५ -माहिचीकरताम् , सर्वम् , जयोश्वः; ईड्यः, शरावती, एते सूत्रोपन्यासपुरस्सरं, साधनीयाः। २-आगच्छ देव ग्रामम् प्रविश, अत्र सूत्रोपन्यासपुरस्सरं स्वरो, वर्णनीयः । इति तियायाम , वै वा वेति च छन्दसि, पूजनात् पूजितमनुदात्तम् काष्ठादिभ्यः, गतिर्गतौ, एतानि, व्याख्याय उदाहरणेषु समन्वयो विधेयः । ३-देवीम् अत्र ईकारोऽनुदात्तः उदात्तो वा, अनिमीले, अन्न स्वरप्रक्रियाम् वर्णय, 'सुबामन्त्रिते पराड्वत्स्वरे' एतस्यार्थमुदाहरणञ्च वक्तव्यम् । 'अभ्यस्तानामा. दिः अस्य कोर्थः, उदाहरणञ्च किम् , तत्सर्वम् वाच्यम् । . ४-देवा अदुह, वारयध्वात् , दिवम् सुपर्णों गत्वाय, एतेषु वैदिकप्रक्रियोक्तम् काम सूत्रोपल्यासपूर्वकं वदन्तु । ५ - आतोऽटिनित्यम् 'छन्दसि वाप्रामेडितयोः' 'निरूस्तपशावनासेवने एषामुदा- हरणानि तेषु समन्वयश्च वक्तव्यः। १९२६ -ब्रह्मवाद्यम् , जगुरिः, उभयतोदतः प्रतिगृह्णाति, तू मतः, शकुना इव पप्तिम, वधी वृत्रम , धिष्व वज्रम , व्यसीदत्, एपा लौकिकरूपप्रदर्शनपुरस्सरं साधन- प्रकारो दर्शनीयः। २-स्वपन्ति, चञ्चा, वार्यम् , जागर्षि त्वम् , मह्यं वातः पदताम् , एषु स्वरविशेषान् प्रदर्य सति शिष्टस्वरस्य बलीयस्त्वे मूलं सोदाहरणं निर्दिश्यताम् । ३-तास्यनुदात्तेदिति सूत्रं सोदाहरणप्रत्युदाहरणं व्याख्याय 'तयो वीति' सूत्रं सप्रयोजनं व्याख्यायताम् । ४-प्रक्षालितमुखः, अतीक्ष्णम् , दाण्डायनस्थलम् , अनुज्येष्ठम् , एषु स्वरविधाय. कानि सूत्राणि वाध्यस्वरनिर्देशं विलिख्यन्ताम् । ५-यथा पचति शोभनम् , अहो कटं करिष्यति, कटं जातु करियसि देव पचतीव, प्रजामेकां रक्षन्ति, हन्त कुरु, एषु कस्कः स्वरः । १६२७ १-अङ्गिरस्वत् , त्राध्वं नो देवाः, विदामक्रन् , बर्हिप्यपु निधिषु संवत्सरीणः, सोमः सधस्थम् , मरुतस्तज्जुजुष्टन, प्रप्रायमग्निः, एषु लौकिकरूपप्रदर्शनपूर्वकं वैदिक साधनप्रकारं प्रदर्शयत। २-द्रवप्राणी शुभस्पती, ममत्तु नः, तित्तिरिः, अहरहर्जायते, इन्धे राजा, एषु 'ससूत्रनिर्देशं स्वरविशेषान् निरूपयत । ७स्व०प्र० . . , , बरवैदिकप्रश्नपत्राणि । ३०-रज्जुशारदन, पण्यकन्धला, तन्तुबाया, मत्स्यायूर्णन, एषु समासस्वर विधायक चुनोरलेखनपुरस्सर स्वरा निरूपयत । ४--जानु भोदयले, मार सि देवदत्त३ अयं वाव हस्तः आसीत् अधीष्व भाणवक, पुरा विद्योतविद्युत् , एबुवाध्यस्वरनिर्देशं स्वरविधायकानि लिखत । ५-व्यत्ययो बहुलक , उत्तरपदवृद्धौ सर्वञ्च, विमापोत्पुच्छे, इति सूत्राणां विषयान् प्रदर्शयत । १६२८ १ -वाजिनेषु, मान आध, देवयज्याय, विभाजं नाशकात , अनुसखा सयूथ्यः, मधव्यः, आसुति करिठः, ज्या इयम् , नूनं कृणुतात् ; दविश्वतो रश्मयः सूर्यस्य, अन्ना३इ पत्नीवः । एषां मध्ये नव प्रयोगेषु यानि वैदिकप्रक्रियाकार्याणि तानि ससूत्रनिर्देशं स्वेच्छया लेख्यानि । २-सतिशिष्टस्वरबलीयस्वमन्यत्र विकरणेभ्यः, अभ्यस्तानामादिः, द्वय चश्चमलिः, सगतिरपि तिङ्-एषामर्था उदाहरणानि च लेख्यानि । ३-ऋत्विक, हन्त प्रशि, जातु भोचपसे, त्रिपादूर्ध्वः, वस्त्रान्त:, शचीपतिम् काण्डपृष्ठः, तन्तुवायः, त्योतासः, न्यबुंदम् , मल्लिका, गेहम् , दातवाउ । एषां मध्ये दशसु स्थलेषु ससूत्रनिर्देशं स्वरविशेषाः प्रदर्शनीयाः। १६२६ 1-अग्धिश्च मे, पूर्णा विवष्टि, वीरुधः पारविष्णवः, गृभ्णामि ते, मध्वा जभार, वायवे पिबध्यै, यस्येदमप्यं हविः, कथा ग्रामं न पृच्छसि, ते नो अवन्तु , स्मना देवेषु, दिवं सुपर्णो गत्वाय, वृका अघायवः, निषत्तमस्य चरतः, हरिवो मेदिनं त्वा । एषां मध्ये नवसु प्रयोगेषु यानि वैदिकप्रक्रियाकार्याणि तानि सूत्रनिर्देशपुरः सरं लेख्यानि । २-प्रकृत्यान्तःपादमव्यपरे, प्लुतावैच इदुतौ, स्वरितो वाऽनुदात्ते पदादौ, उदात्तयणो हल्पूर्वात् । एषां सूत्राणामाः उदाहरणानि च लेख्यानि । ३-स्वपन्ति, सर्वे, इन्धानः, जाया, कोलाहलः, जानती, शस्त्री श्यामा, गोहिम , आर्यकुमारः, युक्तारोही , आवसथः, निरुपलम् , सत्यं भोक्ष्यसे, अग्निम् । एषां दशसु ससूत्रनिर्देशं स्वरविशेषाः प्रदर्शनीयाः। १६३० १-प्रणङ्मय॑स्य । प्रण आयूंषि तारिषत् । पूर्यासः । उभयाविनम् । भरता जातवेदसम् । नभो भरन्त एमसि । जुजोषत् । कनिक्रदजनुषम् । एषु लौकिकरूपप्रदर्शनपुरस्सरं वैदिककार्याणि प्रदर्शयत । २-उपाग्न्यधीयान । खलपव्याशा । अग्निमूर्धा दिवः ककुत् । उपत्वाने दिवे दिवे । अक्षयुवा । सेत्पृश्निः सुम्वे । एषु स्वरप्रक्रिया निर्दिश्यताम् । .

. . स्वरवैदिकप्रश्नपत्राणि । ३-सौदर्यः सप्तम्यस्तदन्तसप्तम्यः । स्वरविधौ व्यञ्जनमविंधमानवत् । स्वरविधौ प्रत्ययलक्षणं न । सति शिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्यः । इत्येतेषु वचनेषु द्वयोः प्रमाणं प्रयोजनञ्च निर्दिशत । ४-भूपतिः, दूरादागतः । फलकपुरम् । सुवीरेण । अकार्णवेष्टकिकम् । एषु कस्कः स्वरो भवति केन केन शास्त्रेण । १६३१ 3-ऋकता गणेन । बाध्वं नो देवाः । या खर्वेण पिबति तस्यै खर्वः । निष्टयम् । अवयाः। प्रण आयूंषि तारिषत् । कुशिकासो अवस्यवः । सोमः सधस्थम् । पीत्वी सोमस्य ववृधे । ददिर्गाः । पाथ्यो वृषा। रथीरभूत् । एषां मध्ये नवसु प्रयोगेषु यानि विशेषकार्याणि तानि शास्त्रनिर्देशपुरस्सरं लेख्यानि। २-नेतराच्छन्दसि। उदात्तस्वस्तियोर्यणः स्वरितोऽनुदात्तस्य । यद्वितुपरं छन्दलि । व्यपूर्वस्य स्त्रीविषयस्य । एषामर्था उदाहरणानि च लेख्यानि । ३-एकश्रुतिः। सन्नतरः । उपग्रहः । न । एषां शब्दानामा प्रदर्शनीयाः । 3-हिंसन्ति । इन्धानः । जाया । स्वाहा। त्रिभिष्टम्। मद्रसविधम् । महाव्रीहिः । मल्लग्रामः । उपकूलम् । देवमित्रः। यो भुङ्क । काष्ठाध्यापकः । आग्नेयः । एषां मध्ये नवसु प्रयोगेषु ससूत्रनिर्देशं स्वरविशेषाः प्रतिपादनीयाः। १६३२ १-मनुष्वदग्ने । दाति प्रियाणि । ब्रह्मवाद्यम् । गृभाय जिह्वया मधु । दातवा उ । अनुसखा सयूथ्यः । मधव्यः । कथा दाशेम । स तूताव ईषा अक्षो हिरण्ययः । अस्मे प्रयन्धिः । अश्वायन्तो मघवन् । एषां मध्येऽष्टसु प्रयोगेषुण्थानि वैदिकप्रक्रियाकार्याणि तानि शास्त्रनिर्देशपुरःसरं प्रदर्शनीयानि । २-हस्वाञ्चन्द्रोत्तरपदे मन्त्रे । स्वरितो वाऽनुदात्ते पदादौ । अन्तश्च तवै युगपत् । नविषयस्यानिसन्तस्य । एषामर्था उदाहरणानि च लेख्यानि । ३-शिट् । अवग्रहः । न्यूङ्खाः । यवृत्तम् । एपां शब्दानामा लेख्याः। ४-वोश्वाः । चिकीर्षकः । सर्वे । बंहिष्ठः । पटुपटुः । कौञ्जायनाः। आहवन्दीये । पाणिन्युपज्ञम् । पञ्चदिष्टिः । गोपालः । सुग्रीवः । आवसथः । हन्त प्रविश । एषां मध्येऽष्टसु प्रयोगेषु ससूत्रनिर्देशं स्वरविशेषाः प्रतिपादनीयाः। ५-गतिकारकोपपदास्कृदिति सूत्रे कगृहणप्रयोजनं प्रतिपादनीयम् । १६३३ -वृषण्वसुः। वृत्रं हनति वृत्रहा । चक्राणा वृष्णिम् । अद्य ममार । ददिर्गाः। ईश्वरो विलिखः। चनो दधीत नाद्यो गिरो मे । सोम्यो ब्राह्मणः । ब्रह्मसामं भवति । उपप्रयन्तो अध्वरम् न मतः। त्मना देवेषु । देवासः।

. রিসালাত । हरिवो मेदिनी त्याची माय ग अयोगेषु यान्दि वैदिकाक्रियाकार्याणि तानि शास्त्रनिदेशक मार्शलीयामि। २-लोपरत आत्मनेपदेषु । उदाराकरितपरस्य लातर। लघावन्ते द्वयोश्च बह्वपो गुरुः । आचापलनवान्तेवालिनि । एपामा उदाहरणानि च -लेख्याति ३-सर्वस्य ईड्यः। तिलाः । स्वाहा । आग्नेय आहवनीये। गोलवणम् । साङ्काश्यसिद्धः। यूपदारु । तन्तुवाथः । स्त्रीसमन् । कश्चिद्भुङ्क्ते अबुपुरुषः । एषां नच्थे नवसु प्रयोगेट ससूत्रनिर्देशं स्वरविशेषाः प्रति. पादनीयाः। ४-तिङि चोदात्तवतीति सूत्रे तिग्रहणप्रयोजनं प्रतिपादनीय १९३४ १- अक्रन्नुपासः। मर्यः। अब्जाः । पताति विद्युत् । मध्वा जभार । ने म्लेच्छितवैः। सुमङ्कलीरियं वधूः। तृचं सूक्तम् । अभ्राँ अपः। इष्ट्वीन देवान् । एषां मध्ये सक्षषु प्रयोगेषु यानि वैदिकप्रक्रियाकार्याणि तानि शास्त्रनिर्देशपूर्वकं प्रदर्शनीयानि । २-तयोहिलौ च च्छन्दसि । स्वाशिटामदन्तानाम् । उभे वनस्पत्यादिषु युगपत् । एषामर्था उदाहरणानि च लेख्यानि। ३-चिकीर्षकः। पन्थाः। घृतम् । कृषिः। अष्टाभिः। क्व। कुमारश्रमणा। विश्वदेवः । अध्ययनपुण्यम् । गौरमुखः । एषां सप्तसु ससूत्रनिर्देशं स्वर- विशेषाः प्रतिपादनीयाः। ४-उपमानं शब्दार्थप्रकृतावेव' इति सूत्रेप्रकृतिग्रहणप्रयोजनं प्रतिपादनीयम् ।। ५-यधोभावप्रसन्धानमुकारादि परं पदम् । स्वरान्तं तादृशं विद्याद् यदन्य- व्यक्तमूष्मणः । इत्यस्य सुस्पष्टं व्याख्या कार्या। ६-विवृतिः । अयोगवाहाः। रङ्गः। स्वासी । नादी । एषामर्थाः स्पष्टीकरणीयाः। १९३५ १-क्षेत्रस्य पतिना । ब्राध्वं नो देवाः। अघायुः। वायवे पिवध्यै। समु. द्रिया अप्सरसः। तं प्रत्नथा। एष स्य भानुः । रारन्धि । दक्षिणतः शये । मोषुणः। एषां मध्ये सप्तसु प्रयोगेषु यानि वैदिकप्रक्रियाकार्याणि तानि शास्त्र निर्देशपुरस्सरं प्रदर्शनीयानि । २-प्रकृत्यान्तः पादमध्यपरे । ईषान्तस्य हयादेरादिर्वा । किं क्रियाप्रश्नेऽनुप-- सर्गमप्रतिषिद्धम् । एषामर्था उदाहरणानि च लेख्यानि । ३-हिंसन्ति । मह्यम् । कल्याणः। आग्नेयः। त्रिभिष्ट्वम् । भ्राष्ट्रपक्वः। आर्य- । ३ स्वरवैदिकप्रश्नपत्राणि । १०१ ब्राह्मणः । उष्ट्रकोशी । उपकूलम् । प्रत्यंशुः । एषां मध्ये सप्तसु प्रयोगेषु ससूत्रनिर्देशं स्वरविशेषाः प्रतिपादनीयाः, स्वरचिह्नानि च प्रदर्शनीयानि । ४-"द्वित्रिभ्यां प्रान्मूर्धसु बहुव्रीहौ” इति सूत्रेऽकृतसमासान्तस्य मूर्धन्- शब्दस्य ग्रहणे प्रयोजनं प्रतिपाच फिट्सूत्राणां पाणिनीयैरुपादेयत्वं समर्थनीयम् । -यमस्वरूपं सुस्पष्टं प्रतिपाद्यताम् । ६-अचोऽस्पृष्टा यणस्त्वीषन्नेमस्पृष्टाः शलः स्मृताः। शेषाः स्पृष्टा हलः प्रोक्ता निबोधाऽनुप्रदानतः । अस्पृष्टादिस्वरूपप्रतिपादनपुस्सरमस्यव्याख्या कार्या । १६३६ 3-नैनं हिन्वन्त्यपि वाजिनेषु । आ प्रा द्यावा पृथिवी । दधिक्रा। मरते पतिः। प्रभ्वी देशोभगीनः । सुमङ्गलीः । पूषा अविष्टु । नुमतः। गत्वाय । अनिल तालि। एपा मध्ये सप्तसु प्रयोगेषु वैदिकप्रक्रियाकार्याणि शास्त्र- निर्देशपुरस्सरं प्रदर्शनीयानि । २-अनसन्तानपुंसकाच्छन्दसि । स्वाङ्गशिटानदन्तानाम् । गोत्रान्ते वासिमाण- वब्राह्मणेषु क्षेपे । स्वरितो वाऽनुदाते पदादौ। एषामर्थाः उदाहरणानि च लेख्यानि । ३-देवीम् । शरावती। पललम् । नेत्री। पाणिनीयरौढीयाः। ब्रह्मनगरम् । प्रधौतपादः । पर्यन्तः । एषां मध्ये पञ्चसु प्रयोगेषु ससूत्रनिर्देशं स्वरविशेषाः प्रतिपादनीयाः, स्वरचिह्नानि च प्रदर्शनीयानि । ४-(क) “अग्निमीले पुरोहितम्" इत्यस्मिन् पादे स्वरचिलैः सह स्वरसञ्चार प्रकार प्रदर्शनीयः। (ख)"गतिकारकोपपादात् कृत्" कृग्रहणप्रयोजनं सुस्पष्टं प्रतिपादनीयम्। ६-मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वज्रो यवमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् ॥ सुस्पष्टं व्याख्यायतां स्वशब्दैः । द-"अयोगवाहा विज्ञेया आश्रयस्थानमागिनः"। सविशदमेतद् व्याख्याय अयोगवाहाः के ? कथञ्च तेषामयोगवाहत्वमिति निरूपणीयम् । १६३७ ३-गामस्य तदहः सभायां दीव्येयुः। शुन्धध्वं दैव्याय कर्मणे देवयज्यायै। अद्य ममार । दातवा उ । सप्तदशाक्षरश्चान्दस्यः । दाधार यः पृथिवीम् । अयं अत्र . . वरवैदिकप्रश्नपत्राणि सो अध्वरः । सुश्चन्द्र दसा । नाभा पृथिव्याः ! गृष्टिः ससूव स्थविरम् । त्रिभिष्ट देव सवितः! एषां मध्ये लत प्रयोगेषु वैदिकप्रक्रियाकार्याणि হানিমুৰ সত্বালি। २-मतुवसो रु सम्बुद्धी छन्द्रसि! नवविषयस्याऽनिसन्तस्य । आचार्योपार्जन श्वान्तवासिनि। उदात्तस्वास्तियोर्यणः स्वरितोऽनुदात्तस्य । एषामर्था उदाहरणालिच लेख्यानि । २-चिकीर्षः। केकया। वारदै । अक्षाध्यायः सदावेश । पुरोहितम् । उहालकपुपञ्जिका । विश्वकर्मा । एका मध्यो पञ्चतु प्रयोगेषु ससूत्रनिर्देश स्वरविशेषाः प्रतिपादनीयाः, स्वरचिनानि च प्रदर्शनीयानि । ४-(क) "शृणोत ग्रावागः” इत्या "चि तुनुघा इत्यनेन दीर्घत्ववारण- प्रकारः प्रदर्शनीयः। ४-(ख) “पूजनात्पूजितमनुदात्त काष्ठादिभ्यः अत्र पूजितग्रहणप्रयोजन प्रतिपादनीयम्। ५-त्रिपष्टिश्चतुःषष्टिवावर्णाः सम्भवतो मताः। प्राकृते संस्कृते चापि स्वयं प्रोक्ताः स्वयम्भुवा । सुस्पष्टमेतद् ज्याख्याय वर्णानां त्रिषष्टित्वं च कथमिति सप्रपञ्च निरूपणीयम्। ६-ऊष्मणोऽष्टविधा गतयः सोदाहरणं निरूपणीयाः । १-वृनं हनति वृत्रहा । अघायुः। पषिः सोमम् । याते अग्ने रक्षस्या तनुः । कथा दाशेम । अभ्र आँ अपः । शृणुधी गिरः । अधः स्विदासीत् । तमसस् पारमस्य। पितृयाणम् । पृतनासु साहा। एपा मध्ये सप्तसु प्रयोगेषु वैदिकप्रक्रियाकार्याणि शास्त्रनिर्देशपूर्वकं प्रदर्शनीयानि । २-बहुलं छन्दस्यमाङ्योगेऽपि । छन्दस्यनेकमपि साकाक्षम् । तवै चान्तश्च युगपत् । स्वाङ्गशिटामदन्तानाम् । एषामर्था उदाहरणानि च लेख्यानि । ३-शरावती । रुद्रहतः । आर्यव्राह्मणः । वृकोदरः । समपादः । दक्षिणः (बाहुः) आवसथः । उष्ट्रकोशी । एषां मध्ये पञ्चसु प्रयोगेपु ससूत्र निर्देश स्वरविशेषाः प्रतिपादनीयाः स्वरचिह्नानि च प्रदर्शनीयानि । ४तिकारकोपपदात्कृत् इति सूत्रे कृद्ग्रहणप्रयोजनम् प्रतिपादनीयम्, अथवा-निपातस्य चेत्यनेनैव त्वादीनां दीर्घत्वे ऋचितुनुघेत्यादिसूत्रे तेषां ग्रहणस्य वैयर्थं निरस्यताम् । ५ अनुस्वारो विसर्गश्च क:पो चापि पराश्रिती इत्यादि सुस्पष्टमेतद्व्याख्याय दुःस्पृष्टशब्दार्थों निरूप्यताम् ।

स्वरवैदिकप्रश्नपत्राणि । १०३ . ६-अयोगवाह । यम । रङ्ग । नादिन् । श्वासिन् । इत्येतेषां शब्दानामर्थाः सोदाहरणं स्पष्टीकर्तव्याः। १९३६ 3-उपसंवादाशङ्कयोश्च । तयो-वचि संहितायाम् । निष्ठा च द्वयजनात् । मात्रोपज्ञोपक्रमच्छाये नपुंसके । एषां सूत्राणामाः लेख्याः। २-उक्थशासः । मादयते । ब्रह्मसामम् । ज्या इयम् । वानमितरम् । पीत्वी सोमस्य । भरता जातवेदसम् । ब्रह्मचारिणमिच्छते । वर्चस्याः। तृचं सूक्तम्। वास्त्व्यम् । एषां मध्ये सप्तसु प्रयोगेषु वैदिकप्रक्रियाकार्याणि शास्त्र निर्देशपूर्वकं प्रदर्शनीयानि । ३-तुभ्यम् । शरावती। जाया। कल्याणः । आहवनीये । भार्यासोश्रुतः। उपशालम् । अग्निम् । एपांमध्ये पञ्चसु प्रयोगेषु ससूत्रनिर्देशं स्वरविशेषाः प्रतिपादनीयाः स्वरचिह्नानि च प्रदर्शनीयानि । ४-उपग्रहः । स्फिग । नप । प्रचयः। इति सज्ञाशब्दान् व्याख्याय । दाधर्ति इति 'मसित' इति सूत्रं समप्रमुद्भरणीयं व्याख्यातव्यञ्च । अथवा-'तयो- विचि संहितायाम्' इति सूत्रारम्भप्रयोजनं सुस्पष्टं प्रतिपादनीयम् । ५-उदात्तादिस्वराणां 'नवपदशय्या' (नवपदसा इति पाठान्तरम) स्वरूपं सोदाहरणं स्पष्टीकर्तव्यम्। अथवा-ध्याकरणाङ्गानां वेदपुरुषस्य मुखत्यादिकं केनाभिप्रायेणेति सयु- क्तिकं प्रतिपादनीयम् । ६-वर्णानां त्रिषष्टित्वं चतुःषष्टित्वं च कथमिति सप्रपञ्च निरूपणीयम् । १९४० १-घृतस्य यजते । तारिपत् । अपलुपं नाशकत् । ओजस्या तनूः। रेवान् । चक्रा जरसम् । जनीयन्तो न्वग्रहः। अद्यामावास्येत्यात्थ३ । अग्निचित् भाया३ । नृमणाः। एतेषां मध्ये पञ्चसु वैदिकविशेषकार्याणां सप्रमाणमुल्लेखो विधेयः । अथवा-'तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतो: 'अङ्ग इत्यादौ च' इति सूत्रे सोदाहरणं व्याख्याय, अकृत्सार्वधातुकयोः' इति दीर्घेणैव लक्ष्ये सिद्धे “अश्वाघस्यात्" इति सूत्रस्य फलमस्ति नवेति विवेचनीयम् । २-'सति शिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्यः' इत्यस्य फलप्रमाणे समुल्लिख्य खलप्व्याशा । क्षत्रिया । पटुपटु । उच्चारपदेन प्रस्थितः । सुगन्धितेजनाः । एतेषु स्वरविशेषाः सशास्त्रं प्रदर्शनीयाः। ३-गमनज्येष्ठम् । द्विसुवर्णधनम् । शितिपादः। कृष्णाजिनम्।अत्यङ्कुशोनागः ।

- - १०४ स्वरवैदिकप्रश्नपत्राणि। एषु ससूत्रं स्वरान्निर्दिश्य 'तिडो गोत्रादीनि कुत्सनाभीक्ष्ण्योः' इति सूत्रे कुत्सनाऽभीचण्यग्रहणं कस्य विशेषणमिति सफलमभिधीयताम् । ४-तास्यनुदात्तेङित् 'कुरुगाहपतरिक्त०' इति सूत्रद्वयं सार्थकं वर्णयित्वा' 'गतिरनन्तरः' इत्यत्र 'अनन्तर ग्रहणस्य प्रयोजनं विशदं निरूपणीयम् । ५-'अग्निः सोमः प्रचो वीर्य हविपां स्वहस्पतिरिन्द्राबृहस्पती' अत्र स्वरान् प्रदर्श्य । अनुस्वारे विवृत्यां तु विरामे चाक्षरद्वये। द्विरोष्टयौ तु विगृह्णीयात् यत्रोकारवकारयोः । इति कारिका सुस्पष्टं व्याख्येया। अथवा- कीदृशो रङ्गवर्णः तदुच्चारणप्रकारश्न का इति, उष्मणां कति गतयइति च निगद्य-यद्योभावप्रसन्धानमुकारादिपरं पदम् । स्वरान्तं तादृशं विद्या- घदन्यव्यक्तमूष्मणः ॥ इति पद्यस्याशयो निरूपणीयः। १९४१ -यवाग्वाऽग्निहोत्रं जुहोति, मयः, इयं ते नव्यसी मतिः, आहुवध्यैः, सोम- स्येव मौञ्जवतस्य भक्षः, यज्ञं विप्रस्य मावतः, ते नो अवन्तु, इतिं न शुष्क सरसी शयानम्, रिपण्यति, रायस्पोषं यजमानेषु-एषु वैदिककार्याणि लेख्यानि। 'देवसुम्नयोयंजुषि काठके' 'क्षियाशीःषेषु तिडाकाङ्क्षम्' इत्यनयो- क्यिाौँ निर्वयं 'इको यणचि' इत्यनेन यसिद्धिमाशक्य 'तयोर्खावचि संहितायाम्' इति सूत्रस्य मूलोक्तानि फलानि पूर्वपूर्वफले रुचिप्रदर्शन. पुरस्सरं वर्णनीयानि । २- स्वरितो वानुदात्ते पदादौ' इत्यत्र व्यवस्थितविभाषायाः प्रयोजनं प्रदर्श्य, प्रप्रश्लेषाभिनिहितशब्दानामान भिधाय, देवीं वाचम्, अयमग्ने जरिता, ममत्त नः परिज्मा, शरावती-एतेषु असाधारणकार्याणि ससूत्रं प्रतिपादनीयानि। ३-फिट् सूत्राणां पाणिनीयरूपादेयत्वं प्रसाध्य पृष्ठम्, दिवेदिवे, आस्ते, गमन- नेदीयः, प्रक्षयः, प्रक्षालितमुखः, चक्रसक्थः, देवमित्रः एषां पञ्चसु स्वर- विधायकानि शास्त्राणि ब्रूत । ४-लुलविथ, रज्जुशारदमुदकम्, पाणिनीयरौढीया, त्वोतासः, सर्वपाञ्चालका, प्रजाकाण्डम्, प्रमत्तगीतम्, तत्पञ्चमः, उपाजिनम् एषां पञ्चसु प्रयोगेषु केन केन शास्त्रेण कस्कः स्वर इत्यभिधेयम् । स्वरचिह्नानि च प्रदर्शनीयानि। अथवा १०५ . स्वरवैदिकप्रश्नपत्राणि। २-(क) मारुतस्तूरसि चरन्मद्रं जनयति स्वरम् । प्रातःसवनयोगं तं छन्दो गायत्रमाश्रितम् ॥ कण्ठे माध्यन्दिनयुगं मध्यमं त्रैष्टुभानुगम् । तारं तार्तीयसवनं शीर्षण्यं जागतानुगम् ।। इमे सुस्पष्टं व्याख्येताम्। (ख) यद्योभावप्रसन्धानमुकारादिपरं पदम् । स्वरान्तं तादृशं विद्याद् यदन्यद् व्यक्तमूष्मणः ।। पद्यमेतत्प्रकृतानुसन्धानेन व्याख्यायताम् । 1-वृषणश्वः, तारिषत् , रक्षस्या, सुश्चन्द्र दस्म, सर्वमा इदम्, हन्त ते ददामि, अपस्वग्ने सधिष्टव, एषु पञ्चसु वैदिककार्याणि लेख्यानि । अथवा (क) प्रजनयामकः, इन्द्रेण युजा तरुषेम वृत्रम्, यदुद्वतो निवतः, एतेषु सूत्रोपन्यासपूर्वकं कार्यविशेषा दर्शनीयाः। (ख) 'आपो जुषाणो वृष्णो वर्षिष्ठेऽम्बेऽम्बालेऽम्बिके पूर्वेः 'नित्यं छन्दसि' आभ्यां किं काय विधीयते २-अग्निमीले, अयं पन्थाः, यासिष्टं वर्तिरश्विना, रिक्तगुरू, अधिकार्मम्, अध्ययनपुण्यम्, कावरं मरुतः, वृकः, कुमारप्रत्येनाः, आविश्वदेवं सत्पतिम्, अत्र के चित् पञ्चसु सूत्रनिर्देशपुरस्सर स्वरविशेषा लेखनीयाः। ३-(क) 'अग्नीत्प्रेषणे परस्य च 'नामन्यवरस्याम् अनयोरर्थमुपवर्णय । (ख) कृग्रहणं स्पष्टार्थम्' इत्यस्याशयो निरूप्यताम् । (ग) 'कुत्सनाभीदण्यग्रहणं पाठविशेषणम्' इत्यस्य फलं प्रदर्शनीयम् । अथवा . श्रीरुद्रेभ्यो अवपथाः, गर्भ माता सुधितं वक्षणासु, चतस्त्रः पश्य, पितृसहशः, प्रधौतपादः, अपवीणम्, देवः पचति च खादति च, काष्ठाध्यापकः, पुरोहितम, · रत्नधाः, आद्यप्रयोगयोवैदिककार्य शेषेषु केन का स्वर इति ब्रूत । ४-पाटला, परिवत्सरः, कृत्तिका नक्षत्रम्, कन्दुकः, रसना, पारावतः, तिल्यम्, एषु ससूत्रं स्वरानभिधाय उदात्तानुदात्तस्वरितानां चिह्नानि अङ्कनीयानि । (क) स्वरा विंशतिरेकश्च' इति शिक्षोकाः स्वरा विभज्य प्रदर्शनीयाः। (ख) अर्धमात्रा तु कण्ठ्या स्यादेकारैकारयोर्भवेत् । ओकारैकारयोर्मात्रा तयोर्विवृतसंवृतम् ॥ हृदयादुत्करे तिष्ठन् कांस्ये समनुस्मरन् । ।

, १०६ स्वरवैदिकप्रश्नपन्नाणि। मार्दवञ्च द्विमानञ्चजवन्वाँ इति निदर्शनम् ॥ इति पद्यद्वयं व्याख्येयम् । १६४३ ५-मनुष्वदग्ने, यवाग्वाग्निहोत्रं जुहोति, अक्षन्नमीमदन्त हि, स्तर्या, अन्जाः, गृभाय, अपलुपं नाशकतू, ऋतच्याः, पञ्चथम्, कथा दाशेम। एषु केचन सप्त प्रयोगा विशेषसूत्रोपन्यासपुरस्सरं साधनीयाः। २-भय्यः, उरु णस्कृधि, परमे व्योमन् , दिवं सुपर्णो गत्वाय, हरिवो मेदिन रंवा, एतान् संसाध्य तयोविचि संहितायामिति सूत्रस्य प्रयोजनं कौमुदी- कारपङ्क्त्युल्लेखपुरस्सरं साधु प्रतिपाद्यताम् । ३-सतिशिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्य इत्यत्र प्रमाणमुक्त्वा उच्चैर- धीयान, खलपव्याशा, सरस्वति शुतुद्रि, ममत्तु नः परिज्मा, नखम् । एशु स्वरविधायकानि सूत्राणि लिखित्वा स्वरसंचारः क्रियताम् । ४-चोदयित्री, कृष्णसारङ्गः, गमनाबाधम्, श्रेणिकृताः, दन्तलेखकः, माषोनम, अन्तर्वणो देशः, नह भोच्यसे, आम् पचसि देवदत्त, पचति पूति । एषु स्वरविधायकानि सूत्राणि लेख्यानि । ५-त्रिषष्टिं चतुष्पष्टिश्च वर्णान् लिखित्वा-"अनुस्वारयमानां च नासिकस्थान मुच्यते । अयोगवाहा विज्ञेया आश्रयस्थानभागिनः" इति पद्यं व्याख्याया अयोगवाहशब्दार्थ उच्यताम् । ६-"दाराक्षतलाजासूनां वहूत्वञ्च", "मन्द्वपकोऽकर्तरि इति सूत्रद्वयं सोदा. हरणं व्याख्याय सक्तु, अपसरस्, शब्दयोः कस्मिन् लिङ्गे साधुत्वमिति 'सप्रमाणं प्रतिपाद्यतम् । १६४४ -वृषण्वसुः, सग्धिश्च, मा त्वाग्नि नयीत् , पृतनापाट् , मन्त्रं वोचेमाग्नये, न म्लेच्छितबै; उदेतोः, सभेयो युवा, सोम्यो ब्राह्मणः, या ते अग्ने रक्षस्या तनूः। एतेषु कामपि रेखाङ्कितान् पञ्च प्रयोगान् साधयित्वा "इन्धिभव. तिभ्यां च" इति सूत्रं प्रत्याख्यायताम् । २-भूर्धन्वतीरुपदधाति, प्रबाहवा, स्विन्नः स्त्रात्वी मलादिव, वीं वृत्रम् , पितृयाणम् । एतेषु रेखाङ्कितानि पदानि विशेषकार्यविधायकसूत्रैः संसाध्य "सुप्तिङपग्रहलिङ्गनराणाम्” इति कारिका उदाहरणप्रदर्शनपुरस्सरं व्याख्येया। ३-गोपायतं नः, वोऽश्वाः, आशितम् , दक्षिणो बाहुः, सुगन्धितेजनाः, पृष्ठम् , परमवाचा, रज्जुशारदमुदकम् । एतेषु रेखाङ्कितपदेषु स्वरसंचारं विशेषसू- " , ।

स्वरवैदिकप्रश्नपत्राणि । १०७ बोपन्यासपुरस्सरं विधाय "प्रकृतिग्रहणं किं प्रकृतिरेव यत्रोपसर्गनिरपेक्षा' शब्दार्था तत्रैव यथा स्यात्" इति पक्तियाख्यायताम् । अथवा . , वत्पाणी, प्रष्ठौहः, यासिष्टं वर्तिरश्विनौ, अरित्रगाधम् , अक्षण्वन्तः, नभ- न्तामन्यके समे-एषु रेखाङ्कितेषु विशेषसूत्रोपन्यासपुरस्सरं स्वरसंचाएं विधाय सन्नतर, प्रश्लेष, क्षिप्र, नप , शब्दानामर्थान् लिखत । ४-मनचिरम् , पाणिनिरौढीयाः, पारेवडवा, वैयाकरणहस्ती, वृकोदरः, तिलमिश्राः, अजामेकां जिन्वति, सत्यं भोक्ष्यसे । एतेषु स्वरसंचारं विशेप- सूत्रोपन्यासपुरस्सरं विधाय गतिकासकोपपदात् कृदिति सूत्रघटककृग्रह- णस्य प्रयोजनमुच्यताम् । ५-हकारं पञ्चमैर्युक्तमन्तःस्थाभिश्च संयुतम् । उरस्यं तद्विजानीयात्कण्ठ्यमाहुरसंयुतम् ॥ कुतीर्थादागतं दग्धमपवर्ण च भक्षितम् । न तस्य पाठे मोक्षोऽस्ति पापाहेरिव किल्विपात् ॥ इति पद्यद्वयं व्याख्याय वेदस्य षडङ्गानि कानि के च तत्र विषया इति प्रतिपाद्यताम् । ६-अन्यूप्रत्ययान्तो धातुः, घनबन्तः, इति सूत्रद्वयं सोदाहरणं व्याख्याय प्रावृट: विग्रुट-शब्दयोः कस्मिन् लिङ्गे साधुस्वं कौ चानयोरी इति प्रतिपाद्यत- ताम् १६४५ १-घृतस्य यजते, प्रण आयूंषि तारिषत् , गवामिव श्रियसे, छन्दस्यः, दाधार यः पृथिवीम् , उरो अन्तरिक्षम् , एतान् संसाध्य "यजुषि पादाभावादनन्तः पादार्थं वचनम् अस्य क आशयः। २-'तयोविचि संहितायाम्' इति सूत्रं सोदाहरणं व्याख्यायेको यणचि सूत्रेणैवास्य गतार्थत्वे किमर्थमिदं सूत्रमिति सम्यगभिधीयताम् । सुपां सुलुक् , इयचोऽतस्तिङ, कन्यध्वरपृतनस्यर्चि लोपः, इति सूत्राणि व्याख्यायन्ताम् । ३-द्रवत्पाणी शुभस्पती,प्रय आरु, व्यचक्षयत्स्वः लूयते केदारः स्वयमेव अध्वर्युभिः पञ्चभिः, युञ्जन्त्यस्य काम्या, कल्याणः, सुगन्धितेजनाः, उत त्वः पश्यन् , वाचा विरूपः, एषा नेत्री, एषु सप्तसु स्वरान् प्रसाध्य "स्वरविधौ व्यञ्जनमविद्यमानवत् इत्येतदन्न न मरुत्वानिन्द्र, नियुत्त्वान् वायवागहि अस्याभिप्रायो वर्णनीयः। अथवा .

. १०८ स्वरवैदिकप्रश्नपत्राणि । ४-सदृशश्वेतः, पाणिन्युपशम् , पञ्चारत्नयः, पाणिनीयरौढीयाः, यूपदारु, अन्वेतवा उ, प्रथमवैयाकरणः, उद्दालकपुष्पमक्षिका, एषु पण्णां स्वरसाधुत्वं तल्लेखनप्रकारं च अदय गतिकारकोपपदात् कृत् , इति सूत्रे कृद्ग्रहणफलं प्रतिपादयत। ५-मारुतस्तूरसि चरन् मन्द्रं जनयति स्वरम् । प्रातः सवनयोगं तं छन्दो गायत्रमाश्रितम् ॥ कन्ठे माध्यंदिनयुगं मध्यमं त्रैष्टुभानुगम् । तारं तार्तीयसवनं शीर्षण्यं जागतानुगम् ॥ इमे सुस्पष्टं व्याख्याय शिक्षादीनां वेदाङ्गत्वं वेदावयवत्वेन प्रकारान्तरेण वेति विचार्यताम् , 6 १६४६ 7-वृपणश्वः, अक्रन्नुषासः, मा त्वाग्निव॑नयीत् , वीरुधः पारयिष्णवः, प्रियः सूर्ये प्रियो अग्नाभवाति, गृभ्णामि ते, जरसा मरते पतिः, एतान् संसाध्य वैदिकप्रयोगाणां लौकिकप्रयोगानतिरेकात् वैदिकप्रक्रियायाः पृथगुल्लेखे युक्ति प्रदर्शनीर्या। २-ऋतव्याः, शन्तातिः, श्रिता नो प्रहाः, यत्रा नश्चक्रा, सत्येनोत्तभिता भूमिः, वक्ष्यन्ती वेदागनीगन्ति कर्णम् , अक्षण्वन्तः, अभिरूपक३ अभिरूपक रिकं ते आभिरूप्यम् , सुपेशसस्करति, महाँ इन्द्रो य ओजसा, एषु केऽपि सप्त संसाध्या अथवा "नसत्तनिषत्तानुत्त- “अङ्गयुक्तं तिडाकातम्" "प्रतिश्रवणे च" "दाश्वान् साह्वान् मीदवाश्च" इमानि सूत्राणि सोदाहरणानि व्याख्येयानि । ३-आ ते पितमरुताम् , तमोशानासः, चतुरः कल्पयन्तः, ईड्यो नूतनैरुत, लुलविक, छात्रप्रियोऽनध्यायः, श्वाफल्कचैत्रकाः, सुप्तप्रलपितम् , प्रत्यंशुः, एहि मन्ये भक्तं भोक्ष्यसे भुक्तं तरवतिथिभिः, अजामेकां जिन्वति-एषां केष्वपि सप्तसु प्रयोगेषु स्वरविधायकानि सूत्राणि लेख्यानि । ४-मुहूर्तसुखम् , ग्रामनापितः, अपरकृष्णमृत्तिका, शोणा 'धृष्णू नृवाहसा, उपाध्यायं पदातिं गमयति, एषु प्रयोगेषु स्वरविशेषान् प्रदर्श्य- परादिश्च परान्तश्च पूर्वान्तश्चापि दृश्यते । पूर्वादयश्च दृश्यन्ते व्यत्ययो बहुलं ततः॥ इति श्लोकवार्तिकस्योदाहरणानि लिखत ।

स्वरवैदिकप्रश्नपत्राणि । १०६ . , ५-अनुस्वारयमानाञ्च नासिकास्थानमुच्यते । अयोगवाहा विज्ञेया आश्रयस्थानभागिनः ॥ यथा सैराष्ट्रिका नारी त इत्यभिभाषते । एवं रङ्गाः प्रयोक्तव्याः खे अराँ इव खेदया । इमौ श्लोको व्याख्येयौ। १६४७ १-वृषण्वसुः, सग्धिश्च मे, विदामक्रन् , अद्य ममार, सभेयः, नभस्यो मासः, सोम्यं मधु, यो जागार, भय्यः, एषु कानपि पञ्च प्रयोगान् वैदिकसूत्रोद्धर- णमुखेन निष्पाद्य तत्र लौकिकप्रयोगाकथं भवन्तीति निर्दिश्यताम् । २-प्रथमं दध्र आपः, सरसी शयानम् , ब्राह्मणासः, अलर्षि युध्म खजकृत्पु- रन्दर, महाँ इन्द्रः, ये ३ यजामहे, हन्त ते ददामि३, अग्नईयिन्द्रम् , अभी षु णः । एषु किमपि प्रयोगपञ्चक ससूत्रनिर्देशं निष्पाद्य "वयस्यासु मूनों मतुप्" इति सूत्रमनुवर्तनाऽऽवर्त्तनाभ्यां व्याख्यायताम् । ३-'गोपायतं नः' इत्यत्र स्वरसङ्घर्षक्रममुद्धाज्य व्यवस्थाप्य च तमिति स्वरि- तमादाय शेषनिघातशङ्का सप्रमाणं निराक्रियताम् । ४-देवीं वाचम् , स्वपन्ति, वेत्रवती, ज्येष्ठः, वाचा विरूपः, कृष्णसारङ्गः, मद्र सविधम् , पुरोहितम् , गवाध्यक्षः, गुडोदकम् , आप इन्द्रावरुणौ, गौर- मुखः, एषु कचित् सप्तसु प्रयोगेषु स्वोपन्यस्तसूत्रैर्नामनिर्देशेन स्वरान् विधाय जपन्युङसामशब्दानामा लिख्यन्ताम् । ५-अग्निमीले, जातु भोचयसे, आम पचसि देवदत्त३ । एषु स्वरप्रक्रियां प्रदय क्वचित प्रयोगेषु स्वरत्रयचिह्नमुल्लिख्यताम् । ६-पाठकानां गुणदोषौ निर्दिश्य निम्ननिर्दिष्टश्लोकः सोदाहरणं व्याख्याय- ताम्-अलाबुवीणानिर्घोषो दन्तमूल्यः स्वरानुगः । अनुस्वारस्तु कर्त्तव्यो नित्यं होः शपसेषु च ॥ १९४८ १-अक्रन्, तारचित्, गुग्गुलर, मावतः, श्री रुद्रेभ्यो अवपथाः, उरु णस्कृधि, एमसि, तरुतारम्, उपरि स्विदासी३त्-एषु पञ्चानां सप्रमाणं सिद्धिं प्रवर्य-नोनयति०, वेशोयश०, मन्त्रे सोमाश्वेन्द्रिय०, सुपां सुलुक, तयोविचि०-एषु चतुर्णा सूत्राणां सोदाहरणमाः प्रदय॑न्ताम्। नोदाचस्वरितोदय, त्यागराज०, तास्यनुदात्तेत्, न भूताधिक०, नाचा. यराजर्विक निपातैर्यद्यदि -एषु पञ्चानामर्थमुदाहरणानि च विलिख्य, तेऽवदन, कर्णाभ्यां छुबुकादकि, चोदयित्री सूनृतानाम, शस्त्रीश्यामा, , , ११० 3 - , . , स्वरवैदिकप्रश्नपत्राणि । सावर्णिमाण्डूकेयौ, कुसूलविलम्, इन्द्राबृहस्पती, पुत्रासो यत्र पितरो भवन्ति-एषां पट्सु स्वरसिद्धिः प्रतिपाद्यताम् । नाभि-रज्जु-अर्चिप-ब्रह्मान-कुशा-नेत्र शब्दानां लिङ्गमभिधीयताम् । १९४६ वृषणश्वः, सग्धिश्चमे, शुन्धध्वं दैव्याय, गृभ्णामि, पतयाल, माधव्या, उभयतोदतः, वर्षिष्ठे अधिनाके, वितलिरे, सोमोरितः, सुम्नयुः। एषु दशानां सप्रमाणं साधुत्वमभिधाय ऋचितुनु० भावलक्षणेस्थेण सुप्तिङपग्रह एषां त्रयाणामुदाहरणान्यर्थाश्च लेख्याः। यद्वा-तुमर्थेसेसे० मन्त्रेध सहर तद्वानासा० श्रृणु० एषां सोदाहर- णमर्थमभिधाय-गामस्य तदहः सभायां दीव्येयुः, जरसा मरते पतिः, पूर्व्यासः, बहुप्रजाः, गभीरआं उग्रपुत्रे, यजध्वनं इमानि साधय । २-सुबामन्त्रिते० अन्तोदात्तादुत्तरपदा० कुरुगार्हपत० थाथघका० स्फिग- पूत० गत्यर्थलोटालुणनचेत् एषु पञ्चानां सोदाहरणमर्थमुक्रवा--- आते पितर्मरुताम, जागर्षि त्वम्, कृषन्नित्फाल आशितम, ज्येष्ठ आह चमसा, पललम्, नभन्तामन्यकेसमे, अभिचष्टे अनृतेभिः, अन्वेतवा उ, गोकर्णः, धर्ता वज्री पुरुष्टुतः, त्रिपादूर्ध्वः, तयोरन्यः पिप्पलं स्वावत्ति, उशन्तिहि, एषां दशसु स्वरसिद्धिरुभावनीया स्वरलेखनपुरस्सरम् । ३-मिन्यन्त-तलन्त-उकारान्त-शब्दानाम्, भूमि इषु-यूष-तूल-मृत्युशब्दानां च लिङ्गनिर्णयःप्रमाणीक्रियताम् । १६५० १-नैनं हिन्वन्त्यपि वाजिनेषु, अक्षनमीमदन्तहि, प्रण आयूंषि तारिषत् , ततुरिः, याते अग्ने रक्षस्या तनुः, शिवतातिः, सुमङ्गलीः, अपांत्वेमन् , प्रथमं दध्र- आपः, कनिकदज्जनुषंम्, हरिवो मेदिनं त्वा, एषु दशानां सप्रमाणं साधुत्वम- भिधाय, छन्दसि लुङललिटः, अक्षरसमूहे छन्दस उपसंख्यानम्, प्रकृत्या. न्तःपादमध्यपरें, एषु द्वयोः सोदाहरणमर्था लेख्याः। . अथवा वयस्यासु मूओं मतुप् , साढ्यै साढ्वा साढेति निगमे, विचार्यमाणानाम्, प्लुतावैच इदुतौ, एषां सोदाहरणमर्थमभिधाय, यवाग्वामिहोत्रं जुहोति, मित्रवयं च सूरया, सभेयः, अभ्रआँ अपः, वधी वृत्रम्, अन्वापनीफणत्, एते प्रयोगाः साधु साधनीथाः। स्वस्तिात्संहिताथामनुदाचानाम्, तास्यनुदात्तेत् , राजन्यबहुवचनहन्त, उपमानं शब्दार्थप्रकृतावेव, नाव्ययदिक्शब्द०, पूजनात्पूजितमनुदान, स्वरवैदिकप्रश्नपत्राणि । १११ एषु पञ्चानां सोदाहरणमर्थमुक्त्वा, गोपायतं नः, माहि चीकरताम्, इन्धा- नोअग्निम्, धृतं मिमिक्षे, न्यडुत्तानः, ब्रह्मबन्ध्वा, रज्जुशारदम, पञ्चारनिः, छात्रि शालम्, गार्गीबन्धुः, अभिमुखम्, आहि रहन्तम्, एषां नवसु स्वरले. खनपुरस्सरं स्वरसिद्धिः प्रदर्शनीया। ५-अशनि, तिथि, इषुधि, संग्रामशब्दानाम्, योपध, षोपध, लोपध, बान्तु, शब्दानां च लिङ्गमभिधीयताम् , १६५१ १-वृषण्वसुः, बाध्वं नो देवाः, अघायुः, दिहलेण्यः, ऋतव्याः, शुनमष्ट्राव्य- चरत् , आशिरं दुहे, श्रुधी हवम् , विराजं गोपतिं गवाम् , अस्तुौर षट् , सूर्यो नो दिवस्पात, एषु दशानां सप्रमाणं साधुस्वमभिधाय, उपसंवा- दाशङ्कयोश्च, ऋचितुनुध०, तयोर्वावचि संहितायाम् , एषु द्वयोः सोदाहर- णमर्था लेख्याः। अथवा व्यत्यो बहुलम् , मत्वर्थे मासतन्वोः, तन्वादीनां छन्दसि बहुलम् , क्षिया- शी:प्रेषेषु तिढाकाक्षम् , एषां सोदाहरणमर्थमभिधाय, अज्ञत वा अस्य दन्ताः, मन्त्रं वोचेमाग्नये, सोम्य मधु, तृचं सूक्तम् , यो नः पिता जनिता, अधा शतक्रत्वो यूयम् , सहोर्जा तरित्रतः, देवां अच्छा सुमती, एते साधु साधनीयाः। २-सुबामन्त्रिते पराङ्गवत्स्वरे, बहुव्रीही प्रकृत्या पूर्वपदम् , उत्तरपदवृद्धौ सर्व च, जातिकालसुखादिभ्योऽनाच्छादनात्०, तिडो गोत्रादीनि०, गत्यर्थलो- टालुण्नचेत् ०, एषु पञ्चानां सोदाहरणमर्थमुक्त्वा, देवीं वाचम् , ममत्तु नः परिज्मा, ईडयो नूतनैरुत, वने न वायः, उतत्वः पश्यन् , धुमिरतुभिः, कठाध्वर्युः, सावर्णिमाण्डकेयौ, आर्यकुमारः, वृद्धकुमारो, धर्तावज्री पुरुष्टुतः, उशन्ति हि, एषां नवसु स्वरलेखनपुरस्सरं स्वरसिद्धिः प्रदर्शनीया। ५-श्रोणि, दुन्दुमि, सक्तु, मान, शब्दानां, तूल, दैव, पटु, श्रृंग शब्दानां च लिङ्गमभिधीयताम् । १६५२ -समीधे, पृतनापाट, अघायुः, सभेयः, ऋतव्याः, मधव्यः, शिवतातिः, अत्र पञ्चानां साधुत्वं विधेयम्, व्याख्येयं वा छन्दसि निष्टक्यति सम्पूर्ण 'सूत्रं सोदाहरणम्। २-विशिनः, प्रलयो, चिखाद, पूरुषः, ततुरिः, अवीवृधत्, भुवरिति, दिवस्पातु, . . . ७

स्वरवैदिकप्रश्नपत्राणि।
एषु पञ्च साधनीयाः, प्रदर्शनीयं वा 'दाधर्तिदर्धर्तीति' सूत्रघटकप्रयोगाणां
साधुत्वम् ।
३-आगच्छ भो माणवक, जागर्षित्वम् , रिक्तः सुखम्, पञ्च, हलीषा, स्थाली-
पाकः, एतेषु पञ्चसु स्वरविधायकबिशेषसूत्राणि लिखन्तु ।
४-त्रिभिष्टुं देव, भुवनपतिः, राजब्राह्मगः, नान्दीपुरम, उच्चैःकारम, यत्प्रपचति,
इह पञ्चसु स्वरविशेषानिर्दिशन्तु ।
५-अष्टौ वर्णजनकस्थानानि कानि ? पाठकगुणाः के ? चत्वारो यमाः के? के
अनुनासिकाः ? इदं सर्व पाणिनीयशिक्षानुसारेण निर्दिश्य 'आत्मा बुद्धया
समेत्यार्थान्' इत्यारभ्य वर्णान् जनयते इत्यन्तेन शिक्षाग्रन्थेन वर्णितोऽर्थः
स्वगीर्वाणगिरा वर्णनीयः।
.
-
.
मुद्रकः-विद्याविलास प्रेस, बनारस-१

No text on this page.

Sarvedic Prasnothari

Author
Pandit_sri_vishveswara_jha
Other authors
Ccl
Title
Sarvedic Prasnothari
File name
Sarvedic Prasnothari
Text
OCR done
Citation
1952
Publisher
Chaukamba_samskruth_series_office
Language
Sanskrit
Pages
118
Library
Scl
DLI number
326431
Barcode
2020010007501.00
Scanning centre
City Central Library, Hyderabad
Digital publisher
par informatics, hyderabad
VMLT id
MRXJe7y98lx
Download PDF

Sarvedic Prasnothari