Sanmati Library, Jaipur
Vaidik Sandhya Bhashyam
Front matter
hand
+
.
१
हिन्दुमल्लस यः पुत्रो जयनारायणः सुधीः ।
पौत्रैः सार्धमुपविष्टो दानी विश्वविडग्गणीः ॥
तेनैव श्रेष्ठिवर्येण सन्ध्यामाप्यमिदं शुभम् ।
सन्ध्याकर्मप्रचाराय श्रद्धापूर्व प्रकाशितम् ॥
वैदिकसन्ध्याभाष्यम्। ROORE श्रीमत्परमहंसपरिव्राजकाचार्योदासीनवात्माराम- 'भगवत्पूज्यपादशिष्येण श्रीमत्परमहंसपरिव्राजकाचार्योदासीनवर्य्यपण्डितस्वामिज्वाहिर- दासभगवत्पूज्यपादाधिगतवेदवेदाङ्गविद्येन श्रीमन्निखिलशास्त्रनिष्णातपण्डितखामिहरिप्रसाद- वैदिकमुनिना विरचितम् तच्च वैदिकधौरेयेण परमश्रद्धालुना श्रीमता हिन्दुमल्लजय- नारायणेन दानीत्युपसमाख्यातेन श्रेष्ठिवर्येण निर्णयसागरमुद्रणालये रामचन्द्र येसू शेडगे द्वारा मुद्रापयित्वा प्राकाश्यं नीतम् प्रथमावृत्तिः १०००] संवत् १९७४ [मूल्यं ॥)
Published by Prudit Swami IInriprasadji Tridicunni.
HARIDAR.
Printed by Ramchandra Yesu Shedge, at the Sirnaya-sayara
Press, 23, Kolbhat Lane, Bombay.
भूमिका। त्वं नः पश्चादधरानुत्तरात् पुर इन्द्र ! निपाहि विश्वतः। आरे अस्मत् कृणुहि दैव्यं भयमारे हेतीरदेवीः ॥१॥ (३र० २।५१।१६) पपा खलु सर्वेभ्यो वर्तमानसूत्रारण्यफयाज्ञवल्क्यसंहिताप्रभृतिग्रन्थेभ्यो मन्त्रतो रूपनो विलक्षणाऽपि वैदिकसन्ध्यापद्धतिर्मत्राणां विनियोगक्रमस्य साष्टवन विनियोगत्य कर्मानुरूप्येण च सर्वेभ्यः सन्ध्यापद्धत्यन्तरेभ्यः प्रश- लतमति विज्ञायते । नास्यां वैदिकसन्ध्यापद्धतौ यो मन्त्रो यत्र विन्यसि- तन्यनत्र न विन्यस्यते, यन्मिन् वा कर्मणि विनियोक्तव्यस्तत्र न विनियु- ज्यते। न चैवंविधं मन्त्राणां विन्यासक्रमस्य सौष्ठवं विनियोगस्य कर्मानुरूप्यं च कुत्रचिन सन्ध्यापद्धत्यन्तरेषु दरीश्यामहे । बहयो हि सन्ध्यापद्धतयस्त- प्रथा बहुचानामेका, तैत्तिरीयाणामपरा, वाजसनेयकानामन्या, कौथुमानां पप्पलादानां चान्याऽन्या, किंबहुना यावत्यः शाखासंहितास्तावत्यः सन्ध्यापद्धतयः । सर्वासु च तासु मन्त्राणां विन्यासक्रमो विपमः परस्परं प्रत्यक्षः । नासा नाम लोके कश्चिन् सन्ध्यापद्धतिविदामुत्तमो यः पश्य- नेव तद्वैपम्यं प्रत्यक्षतो न प्रतिपद्यते । मन्त्राणां विनियोगस्य कर्मानानु- रूप्यं च तत्र सर्वत्राचमनमत्रनिरीक्षणादेवाववोढुं पार्य्यते, नास्ति क्रिश्चिद्विशेपायासापेक्षा । यावन्तः खलु मन्त्रविनियोगविदो मेधाविनो जनाः सर्वे ते विनियोजकलिङ्गादेव मन्त्रविनियोगं कर्मानुरूपं मन्यन्ते । विनियोजकं लिङ्गं शब्दगतं भवेदर्थगतं वेति नास्ति कश्चिदाग्रहः । न च सन्ध्यापद्धन्यन्तरेषु सर्वत्राचमने कर्मणि यो यो मत्रो विनियुज्यते तत्राचमनवचनः कश्चन शब्दो विद्यतेऽर्थतो वाऽसौ कथञ्चिदाचमनमभि- धत्ते । न चाचमनवचने शब्देऽविद्यमानेऽर्थतो वाऽऽचमनाभिधानाभावे मन्त्रस्य तस्याचमने कर्मणि विनियोगस्तदनुरूपः कर्हिचिदववोढुं शक्यते । , २ , अननुरूप इति तु सर्वेपां तत्तत्सन्ध्यापद्धतिविदा सूक्ष्मदृशां पण्डितानां प्र- त्यक्षम्। तत्र विनियोजकलिङ्गाभावेऽपि जायमानो मन्त्रविनियोगश्चेत्कर्मानु- रूपो मन्येत, तदा सर्वः सर्व मत्रविनियोगं कर्मानुरूपं मन्तुं क्षमः कृतमिह तद्विनियोगमर्यादाकथया निरर्थिकया । वैदिकसन्ध्यापद्धती चाचमने कर्मणि "शं नो देवीरभिष्टय आपो भवन्तु पीतये” इति मन्त्रो विनियुज्यते । तत्र "आपो भवन्तु पीतये' इत्युभयविधं विनियोजकं लिङ्गं प्रव्यक्तम् । अपामाचमनस्य स्फुटमभिधानात् । नासौ मन्त्रो यथा शब्दतोऽपामाचमनमभिधत्ते तथाऽर्थतोऽप्यभिधत्त इति न प्रव्यज्यते । न च प्रव्यक्ते तस्मिन् जायमानस्तत्र तद्विनियोगः कर्माननुरूपः इत्युन्म- तेनापि केनचिद्वक्तुमीश्यते, विगतमत्सरेण स्वस्थमतिना कोविदेनेति तु किमु वक्तव्यम् । तदिदं दिग्दर्शनमात्रम् । मन्त्रान्तरेषु तदनानुरूप्यस्य प्रेक्षावद्भिः स्वयमुत्प्रेक्षितुं शक्यत्वात् । न चैकमेवैतद्वैशिष्टयमस्यां वैदि- कसन्ध्यापद्धतौ पद्धत्यन्तरेभ्यः, किन्तर्हि ! वैशिष्ट्यान्तरमपि वरीय- त्यते । किन्तद्वैशिष्ट्यान्तरमिति चेत् ? अनाचक्ष्महे सर्वासु ह्यन्यासु तत्तच्छाखासन्ध्यापद्धतिपु तत्तच्छाखासंहितामिमानिनत्रैवर्णिका अधि- क्रियन्ते, भगवत्यामस्यां वैदिकसन्ध्यापद्धतौं च वेदसंहितामात्राभिमा- निनः सर्वे ते वैदिका इति महदिदं वैशिष्ट्यम् । तत्तच्छाखासंहिता- भिमानं च वसिष्ठप्रभृतयः स्मृतिकृतो विस्पष्टमामनन्ति । यत्रैतदुदाहृतं भवति “पारम्प-गतो येषां वेदः सपरिवहणः । तच्छाखं कर्म कुर्वीत तच्छाखाध्ययेनं तथा" (वसि० स्मृ० ६।४३) इति । नचैताक्षं तत्तच्छाखासंहितामिमानं वैदिका बहुमूल्यमातिष्ठन्ते । तेषां दृष्टौ ह्येतदत्यल्पमूल्यकं कर्म । जातिदेशावनतिहेतुत्वात् । नूनमवि- द्याप्रभवोऽयं सर्वतत्तच्छाखासंहिताभिमानो नाम दुरभिमानः, तदुपाश्र- यश्च निखिलो वर्तमानवेदसंहितापाठभेदः, तत्तत्सन्ध्यापद्धतिभेदश्च कुत्सितो भेदः । न च जीवतीनां जातीनां धर्मस्य पुस्तकं किञ्चिदनेकधा पाठभेदः स्वप्नेऽप्यध्यास्ते, नित्यं वा सन्ध्याकर्म कदाचित् सहस्रधा वेमि- धते। जीवती चांद्यापि वैदिकी मनुप्रसूतिरेषा विशिष्टा जातिः । अतों ३ . , ने साऽऽत्मीयधर्मपुस्तकस्य वेदसंहितायाः प्रतिमन्त्रमनेकधा पाठभेदं यथा- शक्यं सोलु, सन्ध्यापद्धतिभेदं च श्रेयस्करमंवगन्तुमुत्सहते । अविद्याप्रभव- त्वात् । अविद्यांचाविद्यावती भूषणं न सारम्भादेव विद्यावतामस्माकर्मिति दूरतस्त्यक्तव्योऽसौ तत्तच्छाखासंहिताभिमानो नाम दुरभिमानः, सम्पाद- यितव्यश्च वेदसंहितामात्राभिमानो नाम सुष्वमिमानः, अनुष्ठातंत्र्य च वैदिकसन्ध्यापद्धत्यैव नित्यशः सन्ध्याकर्म 'नित्यं, न भ्रमतोऽपि पद्धत्यन्तरेण श्रेयस्कामैवैदिकैरिति भृशमाशास्महे । नचाधुनिकेयं वैदिकसन्ध्यापद्ध- तिर्न नित्यकर्मानुष्ठानाय वैदिकानामुपादानमईतीति शङ्कितुं शक्यते । प्रचाराधुनिकत्वेऽपि रूपतोऽनाधुनिकत्वात् । यथा चैषा वैदिकसन्ध्याप- द्धतिः प्रचाराधुनिकत्वेऽपि रूपतोऽनाधुनिका, तथा वयं द्वितीयावृत्ती सोपपत्तिकं सप्रमाणं च विस्तरेण वर्णयिष्यामहे । अस्ति खलु वैदिकानां नित्येपुं पञ्चसुं महायज्ञेषु ब्रह्मयज्ञो नाम ज्येष्ठो महायज्ञः, यं किल "खाध्यायः” इत्याचक्षते । यत्रैतच्छ्रुतं भवति "खाध्यायो वै ब्रह्मयज्ञः” (शतप० १११३१५।३) इति । तत्र खाध्यायो वेदाध्ययनम् । अध्ययनमध्यायः, सुष्टध्यायः स्वाध्याय इति तंव्युत्पत्तेः । “अन्येषामपि दृश्यते” (अष्टा० ६॥३॥१३७) इति दीर्घः । मध्ये वाऽऽङः प्रक्षेप इति (अष्टा० ७३।४)सूत्रे कैयटः । अभ्यु- दयनिःश्रेयसफलवत्त्वं च वेदाध्ययने सौष्टवम् । प्रत्यहं यथाविधि विधी- यमानं खलु वेदाध्ययनं नियमेनाभ्युदयं निःश्रेयसं च फलं सम्प्रयच्छति "यावन्तं ह वा इमां पृथिवीं वित्तेन पूर्णा ददल्लोकं जयति, त्रिस्तावन्तं जयति, भूयांसं वाऽक्षय्यम्, य एवं विद्वानह- रहः खाध्यायमधीते" (शतपथं० ११।३।८।३) इति श्रुते तद- न्याध्ययनं नियमेनेति तदन्तराशयः । स्वो वाऽध्यायः स्वाध्याय' इति तड्युत्पत्तिः । वेदादन्यस्याध्ययनं हि परेणापि बिंधीयमानं कथंचित् खाध्ययन मन्तुं शक्यते, वेदाध्ययनं तु खेनैव विधीयमानं स्वाध्ययन मिति तदभिप्रायः । वेद इति शास्त्रान्तरोपलक्षणम् । अत एवाह भगवान मनुः "बुद्धिवृद्धिकराण्याशु धन्यानि च हितानि चें। नित्यं ४ शास्त्राण्यवेक्षेत निगमांश्चैव वैदिकान्" (मनु० ४।१९) इति । यत्तु स्वशाखावेदाध्ययनं खाध्याय इति. केपाञ्चिद् वसिष्टादिमृत्यु- पाश्रयं व्युत्पादनम् । तदति फल्गु । सङ्कोचे प्रमाणाभावान् । "तपोविशेषैर्विविधैर्वतैश्च विधिचोदितैः। वेदः कृत्लोऽ- घिगन्तव्यः सरहस्यो द्विजन्मना" (मनु० २।१६५) इति मानववचोविरोधेन स्मृत्यन्तराप्रामाण्यस्य वक्तुं शक्यत्वात् । प्रबलं च मानवं वचो वचोऽन्तरेभ्यः सर्वदा सर्वत्र "मनुवै यत्किञ्चिद्वदत् तद्भेषजं भेषजतायै (ताण्ड्यना० २३।१६।७) इति श्रुतेनिवि- वादम् । न च तत्वाध्यायशब्दं वेदाध्ययनं विचक्षणोऽपि कश्चित् प्रतिदिन काल्यैन विधातुं चङ्खम्यते । मत्रपाठभूयस्त्वात् । अध्ययनं च प्रतिदिनं कास्न्यन भगवतो वेदस्यावश्यकम् । “स्वाध्यायोऽध्येतव्या" (शत० ११।३।८।३) इत्यविशेपेण तद्विधिश्रुतेः, अध्ययनाभावे प्रत्य- वायापत्तेश्च । तदिदमालोचयन्तः किलास्मत्पूर्वपुरुपास्तत्रभवन्तो वेदार्थ- विदो महर्पयः समग्रस्य भगवतस्तस्य प्रत्यहं नियमेन कृत्लतोऽध्ययनार कृपया परया सारभूतं मुख्यमर्थ सन्ध्यामन्त्रैरेमिः सञ्चगृहुः, समप्रान् वा वैदिकान् मन्त्रान् सन्ध्यामन्त्रैरेमिः सञ्चुकुचुः, सायंप्रातः प्रत्यहं विधितस्तद्ध्ययनेनैव च सकलवेदाध्ययनं हन्तकारप्रदानेनातिवियज्ञानु- ष्ठानमिव कथञ्चिन्मनसि चक्रुरिति महतां परामर्शः। सोऽयं तत्रभवद्भिर- स्मत्पूर्वपुरुषैर्महर्षिभिः सन्ध्यामन्त्रैः सङ्गृहीतः सारभूतो मुख्यो वैदिकोऽर्थः सङ्कुचितो वा वैदिको मन्त्रनिचयो वैदिकसन्ध्यापद्धतावेब सर्वाङ्गपूर्ण राराज्यते न सन्ध्यापद्धत्यन्तरेषु कुत्रचिदिति भूरिवैशिष्ट्यमिदं भगव- त्यामस्यां वैदिकसन्ध्यापद्धतौ पद्धत्यन्तरेभ्यः । तदेवं बहुविधं वैशिष्ट्यं नाम सर्वाङ्गसौन्दर्य समाश्रयन्ती सत्यप्येपा वैदिकसन्ध्यापद्धतिकामिनी किञ्चि- ज्योतिर्मयभाष्यभूषणानलङ्कृता भवन्ती नात्मप्रियाणामन्तर्धियां वैदिकानां मनोमुदमजीजनत् ,. अल्पविदल्पश्रुतविनिर्मितैरनेकविधकैर्व्याख्यानकल्पैः कार्णायसाभूषणैराच्छादिताखिलगात्रा भवन्ती च भवती शवरयोपितेव नागराणां, द्रष्टुमनसां केषाञ्चिदन्येपामपि नेत्रपद्मानि नातीतृपत्, सर्वत्र सर्वतः प्रकाशितव्यं प्रसङ्गमात्मवैशिष्ट्यं च ज्योतिरभावे वणिगिव मणि- मौक्तिकप्रवालादिद्रव्यजातमंशतोऽपि न जातु प्राचकाशत् , प्रत्युताभिव्यक्त- लिङ्गा विधातृकेवार्यकुमारिका पुरुपमात्रादनवशेपेण तत्सर्व प्राचिच्छदत् । तदेतदपमानमिव भगवत्यास्तस्या अभिमन्यमानरस्माभिः सर्वाङ्गदीप्तिकरं ज्योतिर्मयं दिव्यं भाप्यभूपणं निर्मातुमुद्युचि । भगवतो वेदपुरुपस्य वेदि- पुरुपत्य च परमानुग्रहेण तूर्ण तादृक्षं भाष्यभूपणमेकं यथामति निर्माय श्रद्धापूर्वकमा मूर्ध्न आ च पादतलान् सर्व शुद्धतमं दर्शनप्रियं तद्रानं सम- लमकारि । घृणासदभूतानां व्याख्यानान्तरकार्णायसाभूषणानां चोपयोगो मात्रयाऽपि न पर्यशेपि, यथायथं प्रकाशितव्यं निखिलाङ्गवैशिष्ट्यं च भग- वत्यासस्या यथासामर्थ्य सर्वशः पदे पदे प्राकाशि। तदिदमिष्टं विशिष्टं सरलं सरसं मामकं वैदिकसन्ध्यापद्धतिभाष्यं वेदार्थतत्त्वविदो विवेकिनो विद्वांसो माध्यस्थ्यधिया यथावकाशं पश्यन्तु, पठन्तु पाठयन्तु च स्वाध्या. यबुद्धयो धर्मानुष्टानमतयो व्रतिनो देशिकाच प्रतिदिनं यथाविधि निर- न्तरम् , तुप्यतु च तेन सततं विश्वमूर्तिभक्तवत्सलो भगवान् वेदिपुरुपो वेदपुरुपश्चेति मुहुर्मुहुर्मनसा वाण्या च साञ्जलि सम्प्रार्थयामहे ।।
६ अथ शुद्धाशुद्धम् । . ८ गाथात्मकं पद्यम् । पृष्ठं पतिः अशुद्ध शुद्धम् ६ १७ भर्तो यो असे मतों यो असै ६ २३ भतः मर्तव्यो मतः मर्तव्यो १ प्रत्यवायसाविशेषात् । प्रत्यवायस्याविशेषादिति । नैतद्वक्तव्यम् । निमित्तभेद- प्रत्यवायभेदाभ्यां विशेषात् । १० १८ भाषात्मकं पद्यम् । १३ ४ ब्रह्म! ब्रह्मन्! १६ १७ ब्रह्म! ब्रह्मन् ! एवमग्रेऽपि सम्बो- धनेषु सर्वत्र वेदितव्यम् । २२ १० प्राणं भविष्यतीति प्राणं पोपविष्यतीति २५ १० वज्रं शीर्षणि ऋतुम्" वनं भरति शीर्षणि ऋतुम्" ३८ १९ सोऽयं दिशोरधिपत्योर- ? सोऽयं दिशोरधिपत्योश्च क्षकयोश्च ३९ १७ पितृयानाख्यां पितृयाणाख्या अन्यद् यथामति खयं संशोध्यम् अथ वैदिकसन्ध्यावैदिकभाष्यम् सूर्य चन्द्रमसं दिवं च पृथिवीं व्योम ग्रहं तारकं, जीवानामुपभोगसाधनमिदं भोग्यं च नानाविधम् । सर्गादौ विदधाति कर्मफलदो धाता विधाता स्वयं, सत्यानन्दचिदात्मको गुरुवरो यस्तं नुमोऽहर्निशम् ॥१॥ ध्यात्वा वैदिकसिद्धान्तं ध्यात्वा च वेदिपूरुषम् । भाष्यं वैदिकसन्ध्यायाः क्रियते वैदिकाभिधम् ॥२॥ सन्ध्या किं श्रौतं कर्म स्यादहोखित् स्मार्तम् ? । श्रुत्या विहितं श्रौतं, स्मृत्या विहितं स्मार्तम् । स्मार्तमिति ब्रू ब्रूमः । किं कारणम् ? यत्कारणं श्रुतौ तद्विधानं नोपलभ्यते, स्मृतौ च तद्विधानमुपलभामहे । अस्ति तावत् स्मृतौ तद्विधानं सुव्यक्तम् “यज्ञोपवीती नित्योदकः सन्ध्या- मुपासीत वाग्यतः" ( आश्व० गृ० ३।७३) इत्येवजातीयकम् । यज्ञोपवीती यत्र दक्षिणं बाहुमुद्धरते सव्यमवधत्ते तदुपवीतं यज्ञोपवीतं, तद्वान् । नित्योदका नियतक्षानाचमनादिकः, नित्यं नियतमुदकं स्वानाचमनादिक्रियायै यस्य, स तथेति तब्युत्पत्तेः । न च स्मृतौ तद्विधाने विद्यमाने औतं कर्म सन्ध्येति कथञ्चिदास्थातुं शक्यते । सातत्वे तस्य च नास्ति कश्चित् सन्देहः । तस्मात् सातै सन्ध्याकर्मेति निश्चितम् । नैतद्वक्तव्यम् । स्मृतौ तद्विधाने श्रुतौ तद्विधानस्या- र्थिकत्वात् । यस्य खल्लु कर्मणः स्मृतौ विधानं विद्यते, श्रुतौ तद्वि- धानमर्यादापद्यते । नहि स्मृत्या खतन्त्रं किञ्चिद् विधीयते। किन्तर्हि ? यद् यद् विधीयते तत् सर्वं श्रुत्यर्थमनुसृत्य विधीयते । किं कारणम् ? ?
ๆ अवतरणिका यत्कारणं श्रुत्यर्थमनुसरन्ती सा किञ्चिद् विदधती प्रामाण्यमश्नुते, अन्यथा चाप्रामाण्यम् । मनुप्यकर्तृकत्वात् । मनुष्यकर्तृका खलु स्मृतिः । मनु- ज्याश्च सततं प्रकृतिवशगाः । तत्र खभावतो अमप्रमादादयो दोपाः सम्भाव्यन्ते । तत्कर्तृका चेत्स्मृतिः श्रुत्यर्थमननुसरन्ती वर्तेत, तदाऽनृतव्या- घातादिभिर्दोपैर्न जातु परिमुच्येत । नहि यस्याः कर्तारो भ्रमप्रमादादि- दोपदूषितचेतस्का वर्तन्ते तत्कर्तृका स्मृतिरनृतव्याघातादिभिर्देवैरात्मानं परिमोचयितुं कथञ्चिदीष्टे । अपरिमुच्यमाना च नूनं जह्यात् प्रामाण्य- मनुवीत चाप्रामाण्यम् । अनृतव्याघातादिदोपाणामप्रामाण्यहेतुत्वस्य सर्वसम्मतत्वात् । अत एव ब्राह्मणानामैतरेयप्रभृतीनां प्रामाण्यं सिपाध- यिषुस्तत्रभवान् गोतमो मुनिः पूर्वन्तावत् पूर्वपक्षसूत्रं सूत्रयाम्बभूव "तद- प्रामाण्यमनृतव्याघातपुनरुक्तदोषेभ्यः" । (न्या० २ । १ ५७ ।) इति । न च श्रुत्यर्थप्रचाराय प्रवर्तमानानामाश्वलायनप्रभृतीनां मुनीनां स्मृतिरेषा श्रुत्यर्थाननुसारिणी खमेऽपि सम्भावयितुं शक्यते, किं पुनरभ्युपगन्तुम् । श्रुत्यर्थानुसारित्वे च तस्याः श्रौतं कर्म सन्ध्या न स्मार्तमिति सुखेनापन्नम् । यदुक्तं श्रुतिविधानानुपलम्भ इति । तन्न युक्तमुच्यते । तद्विधायिकायाः श्रुतेर्विद्यमानत्वात् । विद्यते तावत् सन्ध्या- कर्मविधायिका श्रुतिः “उप त्वाऽग्ने दिवे दिवे दोषावस्तर्धिया वयम् । नमो भरन्त एमसि (ऋ० १।१।७।) इति । अग्ने अग्मिरप्रणीः, अनुशास्ता गुरुरिति यावत् , तत्सम्बोधने हे मनुष्याणाम- स्माकमग्रणीर्जगद्गुरो परमात्मन् ! दिये दिवे अहरहः प्रतिदिनं दोषा- वस्तः रात्रावनि रात्रिन्दिवयोः सन्धौ सायंप्रातः धिया मनसा त्वदे- कचेतसा नमो भरन्त: नमस्कारं सम्पादयन्तो "नमः शम्भवाय च मयोभवाय च" ( यजु० १६ । ४१) इत्यन्तं मन्त्रजातमुच्चा- रयन्तो वयं त्वत्पुत्राः सर्वे वयं मनुष्याः, स्वा-वामन्तरात्मानं भगव- न्तम्-उप+एमसि-लेटो रूपम् , “इदन्तोमसि' (अष्टा० ७ १.१ ४६) इति मस इः । उपागच्छाम उपास्महे, उपागच्छेम, गुरुमन्त्रेण गायत्र्योपासीमहीत्यर्थः । सत्यपि विधौ दर्शादिकेऽन्यस्मिन् कर्मणि जाय- - वैदिकसन्ध्यावदिकभाष्यम् । ३ .. मानः कथञ्चित् प्रमादः क्षन्तुं पार्यते, न पुनरस्मिन् सन्ध्याकर्मणि कर्हि- चिदिति द्योतयितुमुत्तमपुरुषप्रयोगः । हे अमे! सन्ध्योपासनगोचर- भवन्नियोगाश्रया वयं जाताः स इति तत्प्रयोगार्थः । यौष्माकीणाः पूर्वजाः कायेन वाचा मनसा यथासामर्थ्य विधिपरिपालनाय सन्ध्याकर्मणि यथा- कालमवतिष्ठन्ते स्म, तत्तनयैर्युप्माभिरपि यथासामर्थ्य तत्परिपालनार्थ तत्र यथावेलमवस्थातव्यमिति तत्प्रयोगाशयः । यस्त्वेप सिद्धान्तो मन्त्रेषु पट्यमानो विधिरुत्तमपुरुषप्रयोगाद् विधित्वं बाधित्वाऽभिधाय- कत्वमवलम्वत इति, स सत्यामन्यत्र विधिश्रुतौ बोद्धव्यो न सर्वत्र । सन्ध्याकर्मणि मुख्यो गायत्रीमन्त्रः । नमोमन्त्रान्तानि च मन्त्रान्तराणि तदनानि । न चार्विनाऽनुष्ठीयमानं किञ्चित् कर्म फलायावकल्पते । अतो मुख्यवदनानुष्ठानमपि तत्रावश्यकमित्येतदवबोधयितुमानायते "नमो भरन्त एमसि" इति । सूक्ष्मतमो जगतां गुरुरीश्वरोऽग्निः । अन्तरात्मत्वात् । न चान्तरात्मानं सूक्ष्मतमं भगवन्तं बाह्यात्मानः संसारिणो जनाः किश्चिद् द्वारमनपेक्ष्य सहसोपागन्तुं शक्नुवन्ति । द्वार च सुगमं न गायत्रीमन्नतोऽन्यत् किञ्चिदुदाहर्तुं शक्यते । द्वारान्तराणां सर्वेषां तदपेक्षया दुर्गमत्वस्य प्रत्यक्षत्वात् । ओमिति च तदानीं गायत्री- मन्त्रान्तर्गतत्वादनुदाहरणम् । गायत्रीमन्त्रस्य प्रतिदिनं संसारिणां मनु- प्याणां भगवति तस्मिन्नात्मोपागमने द्वारत्वं चोत्तरमीमांसायां सूत्र- याम्बभूव सूत्रकृद् भगवान् बादरायणो मुनिः "छन्दोऽभिधानान्नेति चेन्न, तथा चेतोऽर्पणनिगदात्" (वे० १ । १ । २५) इति । "गायत्री वा इदं सर्वम्” (छां० ३ । १२ । १) इति गायत्री- च्छन्दसः पूर्वत्राऽभिधानात् “यदतः परो दिवो ज्योतिः" (छां ३ । १३ । ७) इत्युत्तरस्मिन् ज्योतिर्वाक्ये ज्योतिश्शन्दं ब्रह्म नेति चेन्न, यथा प्रणवेन तथा गायत्रीच्छन्दसा जगद्गुरौ ब्रह्मणि चेतसोऽर्प- णस्योपागमनस्य निगदादभिधानादुत्तरस्मिन् ज्योतिर्वाक्ये ज्योतिश्शब्दं ब्रह्म युक्तमिति सूत्रार्थः । यद् द्वारं तन्मुख्यं, तत्साहाय्यमाचरदन्यत् सर्व चामुख्यमिति सार्वत्रिको नियमः । तस्माद् विधीयमानेऽस्मिन् सन्ध्या- - ४ - अवतरणिका कर्मणि मुख्यो गायत्रीमन्त्रो, नमोमन्त्रान्तानि च सर्वाणि मन्त्रान्तराणि तदङ्गानीति साधु प्रतिपद्यामहे । अस्ति च छन्दोगानां ब्राह्मणशेषे षड्विंशब्राझणेऽपि सन्ध्याकर्मविधा- यिका श्रुतिः "तस्माद् ब्राह्मणोऽहोरात्रस्य संयोगे सन्ध्या- मुपास्ते” (पड्विंशवा० ४।५) इति । ब्राह्मणःब्रह्म वेदः, तत्परोऽ- धिकारी जनः । उपास्ते-लेटो रूपम् , उपासीत । अध्वरमीमांसकास्तु सन्ध्याकर्मविधाने "अहरहः सन्ध्यामुपासीत" इति शाखान्तरी- यब्राह्मणश्चतिमुदाहरन्ति । साऽपि मान्नवर्णिकश्चतिमूलत्वादिह प्रमाण निर्बाधम् । न चैतावत्सु सन्ध्याकर्मविधायकेपु श्रुतिवचस्सु सत्सु सन्ध्या- कर्म सातै न श्रौतमिति वचः कथञ्चिच्छूद्धातुमुत्सद्यते । अथोच्येत- सन्ध्याकर्मणि तावदुपनीतस्याधिकारः । उपनयनं च स्मार्तः संस्कार- विशेषः । स्मृतिषु सर्वत्र तद्विधानोपलब्धेः । यत्रैतदुदाहृतं भवति "वसन्ते ब्राह्मणमुपनयीत, ग्रीष्मे राजन्यं, शरदि वैश्यम्" (आप० धर्म सू० १११।१९) इति । न च यत्कर्माधिकारसम्पादकः संस्कारः स्मार्तस्तत् कर्म न स्मार्तमिति कथञ्चिद् घटते । तस्मात् स्मात सन्ध्याकर्म न श्रौतमिति । नैतद वक्तव्यम् । दत्तोत्तरत्वात् । दत्तं यस्योत्तरं पुरस्ताद्-यस्य स्मृतौ विधानं विद्यते श्रुतौ तद्विधानमर्यादापद्यत इति । तदिह न विसर्तव्यम् । उपनयनं च श्रुतिसिद्धः संस्कारविशेष: श्रुतिदर्शनेन निःसंशयं प्रतिपद्यते, नास्ति तत्र मात्रयाऽपि स्मार्तप्रतिपत्तिगन्धा- वकाशः। दृश्यते च तत्प्रतिपादिका मान्त्रवर्णिकी श्रुतिः "अभि द्वि- जन्मा त्री रोचनानि विश्वा रजांसि शुशुचानो अस्थात् । होता यजिष्ठो अपां सधस्थे" (० २१४९।४) इति । द्वि- जन्मा-जातोपनयनसंस्कारो माणवकः, प्रथमं मातापितृभ्यां, द्वितीयमा- चार्यादिति द्वे जन्मनी यस्य स तथेति तद्व्युत्पत्तेः । शरीरेण माणवकं मातापितरौ जनयतः, तमेवोपनयनसंस्कारेण चाचार्यः । यत्रैतच्छ्रुतं भ- वति "आचार्य उपनयमानो ब्रह्मचारिणम्" (अथर्व० ११॥ ७।३) इति । स्मृतं च “स हि विद्यातस्तं जनयति १५ तच्छ्रेष्टं , ५ , , वैदिकसन्ध्यावैदिकभाष्यम् । जन्म १६ शरीरमेव मातापितरौ जनयतः" १७ ( आपस्त० धर्मसू० ११२।१५-१६-१७) इति । त्री-त्रीणि, मातृकुलं पितृकु- लमाचार्यकुलमित्येतानि त्रीणि कुलानि रोचनानि-विद्यया श्रिया यशसा दीप्तिमन्ति, व्यावहारिकं पारमार्थिकं च ज्ञानं विद्या, धनधान्य- सम्पत्तिः श्रीः, वीरकर्मजन्या कीतिर्यशः, प्रसिद्धिप्तिः, विश्वा विश्वानि रजांसि लोको रजः, साल्लोकान् जानपदाँश्च मनुष्यान् अभिशुशुचान:-अमितः सर्वतस्तपसा विद्यया च दीपयमानो होता जगद्गुरोरीश्वरस्य गुरुमन्त्रेण गायच्या प्रत्यहं सायंप्रातहीता यजिष्ठा = अतिशयेन तदेकचित्तेन तत्रात्मसाझत्यमात्माविभागं विदधानः सम्पादय- मानोऽपांसवन्तीनां पावनीनामपां सधस्थे समीपे शुचौ प्रदेशेऽ- स्थात्="छन्दसि लुङ्ललिटः" (अष्टाध्या० ३।४।६) इति विधौ लुङ्, तिष्ठेदित्यर्थः । “ब्रह्मचर्यमगामित्याह । ब्रह्मण एवैतदा- त्मानं निवेदयति । ब्रह्मचार्यसानीत्याह । ब्रह्मण एवैत- दात्मानं परिददाति । अथैनमाह को नामासीति । प्रजा- पति कः। प्राजापत्यमेवैनं तत्कृत्वोपनयते” (शत० १११५॥ ४।१ ) इति च ब्राह्मणश्रुतिः । न चैवमुपनयनस्य श्रुतिसिद्धत्वे सन्ध्या- कर्माश्रोत साधयितुं शक्यते । तस्माच्छौत सन्ध्याकर्म न स्मार्तमिति सुदृढं मनसि कर्तव्यो वैदिकः सिद्धान्तः । अथेदं सन्ध्याकर्म नित्यं स्यादाहोखिदनित्यमित्यपरो विचारः । यद् यथाकालमवश्यकर्तव्यं तन्नित्यम् , यद् यथारुचि कर्तव्यं तदनित्यम् । तत्रानित्यमिति पूर्वः पक्षः, नित्यमिति सिद्धान्तः। किन्तावत् प्राप्तम् ? अनित्यमिति वच्नः । निष्फलत्वात् । यस्य खलु कर्मणो विधिप्रदेशे किञ्चित् फलं न पठ्यते तन्निष्फलम् । न च यन्निष्फलं तदवश्यकर्तव्यं मन्दोऽपि कश्चिदनुमन्यते, प्रेक्षावानिति तु किमु वक्तव्यम् । सन्ध्याकर्म च निष्फलं सुव्यक्तम् । नहि तद्विधिप्रदेशे फलं किञ्चिदानायते । अत- एव च "फलसम्बन्धशून्यतया नियतनिमित्तेन विहितं कर्म नित्यम्" इति नित्यस्य कर्मणो लक्षणं प्रववृतेऽध्वरमीमांसकानाम् ।
aur अवतरणिका न च यथारुचिकर्तव्यत्वे सन्ध्याकर्म नित्यं भवितुमर्हति । तस्मादनित्यं सन्ध्याकर्मेति युक्तम् । नैतद्वक्तव्यम् । निप्फलत्वाभावात् । सत्यं बि- धिप्रदेशे सन्ध्याकर्मणो न किञ्चित्फलं पठ्यते, तथापि नैतावता सन्ध्याकर्म निष्फलमिति बक्तमीश्यते । किं कारणम् ! यत्कारणं जगद्गुरुरीश्वरस्ता- वदाज्ञापयति सन्ध्याकर्म । न च स पुत्रवदिमाः सर्वाः प्रजाः पालयन् निष्फलं कर्म किश्चित् कर्हि चिदाज्ञापयितुमर्हति । किं न पश्यति भवान् यदा लौकिकेश्वरा अपि खीयाः प्रजाः पालयन्तो न निष्फलं कर्म किञ्चिदाज्ञा- पयन्ति तदा करुणावरुणालयो जगद्गुरुरीश्वरः कथमाज्ञापयिप्यति । कुत- स्तर्हि सन्ध्याकर्मणो विधिप्रदेशे किञ्चित् फलं न पठ्यते । लौकिक- त्वाभावात् । एपा हि विधिप्रदेशे सर्वत्र फलान्नानपद्धतिः-यस्य खलु कर्मणः स्त्रीपुत्रधनधान्यपशुभृत्यभूप्रभृतिस्वर्गान्तं लौकिकं किञ्चित् फलं विद्यते, तत् तस्य विधिप्रदेशे पठ्यते, यस्य पुनरन्तःकरणशुद्ध्या ज्ञान- प्राप्तौ मोक्षो नामालौकिकं फलं, तब्यतिरिक्तं लौकिकं चानुपङ्गिकं छाया- गन्धवदाम्रस्य, तन्न तत्राम्नायते । सन्ध्याकर्मणश्च फलमलौकिकं, लौकिक तु छायागन्धवदाम्रस्यानुषङ्गिकमिति सनातनो राद्धान्तः । यत्रैतदानातं भवति "अयं स होता यो द्विजन्मा विश्वा दुधे वार्याणि अवस्या । भर्तो यो अस्मै सुतुको ददाश" (ऋ० १११४९। ५) इति । य-यो माणवको द्विजन्मा जातोपनयनसंस्कारः सोऽ- यं स एष होता-प्रतिदिनं सायंप्रातः शास्त्रविधिना गुरुमन्त्रेण गायच्या जगद्गुरोरीश्वरस्यानन्यचेतसा हाताऽभिध्याता विश्वा विश्वानि श्रवस्या श्रवस्यानि यशस्यानि वार्याणि-वरणीयानि लौकिकानि फलानि दधे धारयते लभतेऽनुते । या योऽयं सुतुका यथाशाखं विधिपरिपालनाद् जगत्पितुरीश्वस्य सुपुत्रो भतः भर्तव्यो माणवकोऽस्सै-तस्मै ददाश ददाति नूनमभिध्यानावर्जितः स भगवान् मोक्षमित्यर्थः । “उद्यन्तमस्तं यन्तमादित्यमभिध्यायन् कुर्वन् ब्रामणो विद्वान् सकलं भद्रमनुते" (तै० आ० २।२।२) इति च । उद्यन्तम्-उदयं प्रामु- वन्तमस्तंयन्तम्-अस्तमयं गच्छन्तमादित्यं "कालाधवनोरत्यन्तसंयोगे" ' वैदिकसन्ध्याचे दिकभाष्यम् । ( अष्टा० २।३।५।) इति द्वितीया, सूर्यस्योदयनेलायामस्तमयवेलायां च कुर्वन् सानाचमनादिकं विदधद् अभिध्यायन्-गुरुमन्त्रेण गायच्या सूर्यान्तरात्मानं जगद्गुरुगीश्वरगभितश्चिन्तयन् सकलं सर्वाङ्गपूर्ण भद्र- कल्याणं मोक्षमश्नुते-भुझे प्रामोतीत्यर्थः । न चैप श्रुतिसिद्धः सनातनो राद्धान्तः शक्यः केनचिदपहोतुम् । तस्मात् सन्ध्याकर्म निष्फलमिति रिक्तं वचः । अथोच्येन-फलवत् सन्ध्याकमेति नायं सदातनो राद्धान्तः, अम्बरमीमांसकरनभ्युपगमादिति । नैतद्वक्तव्यम् । तदनभ्युपगमस्य लौकिकफलाभिप्रायकत्वात् । यथा खलु काम्यानां नैमित्तिकानां च क- मणां लौकिकं तत्तत्फलं किञ्चिद् वेविद्यते तथा नास्ति सन्ध्याकर्मणो नित्य- त्येकान्तेन लौकिकं किञ्चित् फलमित्येप हि तदनभ्युपगमाभिप्रायो न पु. नन्तस्य किमपि फलं न विद्यत इति । सोऽयमायुप्मता नाववुद्ध इत्यस्थाने नूनं तावकं प्रत्युत्थानम् । ननुच फलवच्चेत् सन्ध्याकर्म विद्येत, तदा कान्यकर्मतो न विशिप्येत । फलवत्त्वाविशेषात् । न । विधिप्रदेशे फलान्नानानाम्नानाभ्यां विशेषस्य प्रत्यक्तत्वात् । काम्यानां कर्मणां हि वि- धिप्रदेशे सांसारिकं तत्तत्फलं किश्चिदाम्नायते, सन्ध्याकर्मणो विधिप्रदेशे च न किमपि फलमानायते । सोऽयमुभयोः प्रव्यक्तो विशेषः । कृपणाः खलु कामिनतत्तत्सांसारिकार्थकामनोपहतविवेकचक्षुपो विधिप्रदेशेषु स- वत्रानातं फलमेवैकं पश्यन्तो यथाकथञ्चिद् हतोत्साहाः प्रवर्तन्ते । न हि तेपामस्ति खमेऽपि विधिपरिपालनमुद्देशः । ब्राह्मणाः पुनर्बोप्सवः संसारि- कार्थकामनाविरहात् सततमुन्मीलितविवेकचक्षुपो विधिप्रदेशेषु सर्वत्र विधिमेवैकमवलोकयन्तो यथासमयं परमोत्साहेन वर्तन्ते । सुदृढो हि तेपामेष विश्वासः-प्रसन्ने जगद्गुरौ भगवति परब्रह्मणि परमेश्वरे नास्ति नृणां भुवि नाम किञ्चिदलभ्यम् । तत्प्रसादोपायश्च केवलं लौकिकेश्वरा- णामिव शास्त्रविधिपरिपालनमिति तदेव तेषां नित्यमुद्देशः । सोऽयमु- भयोः प्रवृत्ती विशेषः । न चैवंविधे विशेपे विद्यमाने काम्यकर्मणः स- काशान्नित्यस्य सन्ध्याकर्मणोऽविशेषः शक्तुिं शक्यते । अथोच्येत- मा नाम भूत् काम्येन कर्मणा सन्ध्याकर्मणोऽविशेषः, नैमित्तिकेन कर्मणा . अवतरणिका स्यात् । करणे निमित्तस्याकरणे च प्रत्यवायस्याविशेषात् । नैमित्तिकरय कर्मणः करणे हि निमित्तं पुत्रजन्मगृहप्रवेशादिकं, सन्ध्याकर्मणः करणे च प्रत्यहं सायंप्रातः । नैमित्तिकं कर्माकुर्वाणः प्रत्यवायी भवन लोके गहीं प्रामोति, सन्ध्याकर्माकुर्वाणश्च लोके परलोके चोभ- यत्र । यत्रतत्स्मृतं भवति “न तिष्ठति तु यः पूर्या नोपास्ते यश्च पश्चिमाम् । स शुगवद् वहिष्कार्यः सर्वस्माद् द्विजक- मणः” (मनु० २।१०३) शूद्रः अनुपनीतः। “सन्ध्याहीनोऽ- शुचिनित्यमनहः सर्वकर्मसु । यदन्यत् कुरुते कर्म न तस्य फलभाग भवेत्” (दक्ष स्मृ० २।२०) "उपतिष्ठन्ति वै सन्ध्या ये न पूर्वा न पश्चिमाम् । व्रजन्ति ते दुरात्मानस्तामित्रं नरकं नृप!" (विष्णुपु० ३।११।१००) “योऽन्यत्र कुरुते यत्न धर्मकार्ये द्विजोत्तमः । विहाय सन्ध्याप्रणति स याति नर- कायुतम्" (कूर्मपु० १।२।१८।३१) इति । प्रत्यवाया-पा- पम् । स चेश्वराज्ञाभङ्गलक्षणापराधजन्य इति वैदिकाः । विहितकर्मानु- ठानवेलायामनुष्ठानमकृत्वा यदन्यत् कायिकं वाचिकं मानसिकं वा कर्म किश्चित् क्रियते तज्जन्यः, अनुष्ठानाभावस्याभावत्वेन कारणत्वानभ्युपगमा- दित्यध्वरमीमांसकाः । यत्रेदमाहुः कुमारिलभट्टपादाः "खकाले यद- कुर्वस्तु करोत्यन्यदचेतनः । प्रत्यवायोऽस्य तेनैव नाभावेन स जन्यते” इति । खकाले विहितकर्मानुष्ठानकाले । अन्यत्- कायिकादिकं कर्म । अचेतना-विवेकशून्यो मनुष्यः । स-प्रत्यवायः । अभावेन विहितकर्मकरणाभावेन । करणमनुष्ठानम् । अभावकारणवा- दिनां च विहितकर्माकरणजन्यः स प्रत्यवाय इत्यन्यत्र विस्तरः । नैमित्तिकं कादाचित्कं, सन्ध्याकर्म च सार्वदिकमित्यपरो विशेषः । न चैवं निमित्त- प्रत्यवायादिभिर्विशेषे नैमित्तिकेन कर्मणा सन्ध्याकर्मणोऽविशेषः कथञ्चिद युज्यते । विशेषे च नित्यं सन्ध्याकमेति निश्चितं मतम् । स्यादेतत्-नित्यं चेत् सन्ध्याकर्मास्थीयेत, तदा सूतकादावपि यथापूर्व क्रियेत । यत्कर्म यथावेलमवश्यकर्तव्यं तन्नित्यमित्युक्तत्वात् । न । - or वैदिकसन्ध्यावैदिकभाप्यम् । च सूतकादी मन्त्राणामुच्चारणमिप्यते । अशुचित्वादिति । अत्र महे- स्तकादायपि क्रियेत यथापूर्व सन्ध्याकर्म, नास्ति किश्चिदवद्यम् । यत्का- रणं मन्त्राणामुगारणे तात्कालिकी शुद्धिदिकराखीयते । विशेपस्तत्रेया- नेव-सूतके मृतके भये विक्षेपे च मन्त्राः सवें मनसोचारयितव्याः, ज्वरादी च वनपरिवर्तनपूर्वकं तप्ताभिरद्धिखिराचम्य यथाकामम् । आवश्यकः सन्ध्याकर्मणि मुग्यतः काल इति सनातनः पन्थाः । अथ कोऽनी सन्ध्याकालः। ननु विधिश्रुतावेवोक्तः सायंप्रातरिति। न । व्यापकशब्दत्वात् । व्यापकशदी खलु सायंप्रातरित्येतो, न ताभ्यां सन्ध्याकमीपयुक्तः कश्चन निर्धारितः कालोऽभिधातुं शक्यते । नहि सायमित्युक्ते यथा सूर्यास्तमयादृयः कालोऽधिगम्यते तथा पूर्वः कालो नावगम्यते, प्रातरित्युत्ते च यथा सूर्योदयादूर्ध्वः कालः प्रतिपद्यते तथा पूर्वः कालो नावबुध्यते । तस्मात् सन्ध्याकर्मोपयोगी कश्चिन्निर्धारितः कालो वक्तव्यो, येन सुखेन तत् कर्म यथाकालमनुष्ठीयेतेति । तदिदमु- तरयितव्यम् । युक्ततरत्वात् । अत्राहुस्तावत् पड्विंशब्राह्मणकाराः "तस्माद ब्राह्मणोऽहोरात्रस्य संयोगे सन्ध्यामुपास्ते, स ज्योतिष्या- ज्योतिपो दर्शनात् मोऽस्याः कालः" (पड्विंश० ४।५) इति । सूय॑ज्योतिरारभ्य तारकाज्योतिरन्तः सायंसन्ध्याकालः, तारकाज्योतिरा- रभ्य सूर्यज्योतिरन्तः प्रातःसन्ध्याकाल इति तदभिप्रायः । तमिम चो- भयसन्ध्याकालं भगवान् मनुरप्यनुमन्यते "पूर्व सन्ध्यां जप- स्तिष्ठेत् सावित्रीमाऽर्कदर्शनात् । पश्चिमां तु समासीनः सम्यगृक्षविभावनात्" (मनु० २।१०१) इति । आ अर्क- दर्शनात्-अर्धास्तमिततारकाज्योतिरारभ्य सूर्योदयपर्यन्तम् । सम्य- गृक्षविभावनात् अर्धास्तमितसूर्यज्योतिरारभ्य स्फुटतारकोदयपर्य- न्तम् । केचित्तु सकलसूर्यबिम्बास्तमयादूज़ तारकोदयात् पूर्व सायं- सन्ध्याकालः, कृत्स्नतारकारसंगमनादूर्ध्व सूर्यचिम्बोदयात् प्राक् प्रात:- -सन्ध्याकाल इति सझिरन्ते । वस्तुतस्तु यावान् ज्योतिर्द्वयान्तरालकाल: , २ १० अवतरणिका सः सर्वः सन्ध्याकालः । तत्रार्धास्तमिते सूर्ये सायंसन्ध्या समारब्धव्या, तारकासु चार्धास्तमितासु प्रातःसन्ध्येति निर्धारितो वेदमार्गः । अथैपोऽन्यो विचारः किमुपस्थितेऽस्मिन् निर्धारिते काले सन्ध्याक- मणि वर्तमानेनार्थज्ञानपूर्वकमुच्चारयितव्याः सर्वे मन्त्राः, किमुतातत्पूर्व- कमिति । तत्रातत्पूर्वकमिति पूर्वः पक्षः, तत्पूर्वकमिति राद्धान्तः । किन्ता- वत् प्राप्तम् ? अतत्पूर्वकमिति निगदामः । अनपेक्षणात् । वाजसनेयिनां ब्राह्मणे तावद वेदाध्ययनविधिः श्रूयते "स्वाध्यायोऽध्येतव्यः" (शत० ११।५।६।३) इति । वैदिकैः प्रत्यहं नियमेन यथावकाशं सोप- निषत्कस्य वेदस्य मन्त्रमयस्याध्ययनं कर्तव्यमित्यर्थः । पठनमध्ययनम् । तच्च गुरुमुखोच्चारणसदृशोच्चारणम् । न च तत्रार्थज्ञानमपेक्ष्यते । विनाs- प्यर्थज्ञानं सुखेन सम्भवात् । नहि यस्य पुरुपस्यार्थज्ञानं न विद्यते ग- त्रास्तेनोच्चारयितुं न शक्यन्ते । दाक्षिणात्याः किलोदाहरणमिह युक्ततरं पश्यामः । ते हि सर्वथा मन्त्रार्थानभिज्ञाः सन्तोऽपि केचन मन्त्रोच्चारणे भूरि- दक्षा अवलोक्यन्ते । विधिशेपे च विहितमिदमध्ययनमभिव्याहरणशब्दे- नानूयमानं दृश्यते "तस्मादप्यूचं वा यजुर्वा साम,वा गायां वा कुम्व्यां वाऽभिव्याहरेद् व्रतस्याव्यवच्छेदाय" (शत. ११॥ ५।७।१०) इति । गाथा मनुष्याणां राजामात्यादीनां वृत्तस्याख्यापकं भा- षात्मकं पद्यम् । कुम्व्या आचारशिक्षापरं वाक्यम् । अभिव्याहरणम् उच्चारणम् । तत्र च नास्त्यर्थज्ञानापेक्षेति सर्वजनीनम् । मन्त्राः किल स्वरूपेणैव पुण्यमूर्तयो विद्यन्ते । भगवद्वचनत्वात् । ते यथा श्रवणमात्रेण श्रद्धाधनान् वैदिकार्मकान् पोपूयन्ते, तथोच्चारणमात्रेणापि पवित्रीकत चम्यन्ते, नास्ति संशयलवावकाशः । येषां मन्त्राणामेतादृशः स्वरूपमात्रे सामर्थ्यातिशयो वरीवृत्यते किं तदुच्चारणे स्यादायासमात्रकारिणाऽर्थज्ञा- नेन । तस्मादुपस्थिते सन्ध्याकाले सन्ध्याकर्मणि वर्तमानेनाधिकारिजनेन विनैवार्थज्ञानमुच्चारयितव्या मन्त्रा इति युक्तं निगद्यते । तदेतत् परिहर्त- व्यम् । अनाभिध्महे-अभीष्टासिद्धेरर्थज्ञानमावश्यकम् । मन्त्राः किल मनुष्याणामभीष्टसिध्यै सारम्भे जज्ञिरे। न च ते तावदभीष्टं किञ्चित् साध. " वैदिकसन्ध्यावैदिकभाष्यम् । ११ -- यितुं क्षमन्ते यावदर्थतो न ज्ञायन्ते । न च मनुष्याणामस्ति तदुच्चारणमा- त्रमभीष्टम् , येनार्थज्ञानाभावेऽपि दाक्षिणात्यानामिव कीराणां तत्सिद्धिरनु- मन्येत । पवित्रीकरणं च मन्त्राणामौत्पत्तिको धर्मो नार्थज्ञानप्रयोज्य इति तत्रार्थज्ञानापेक्षाभावेऽप्यभीष्टसिद्धौ तदपेक्षाऽवश्यं वेविद्यते । मनुष्याः खलु मन्त्राणामर्थ ज्ञात्वा तदनुकूलं रात्रिन्दिवा परिस्पन्दन्ते, परिस्पन्दमाना- श्वेश्वरानुग्रहेणालीकिकं वा लौकिकं वा तत्तदभीष्टं नूनमुपसम्पद्यन्ते, तदिदं साम्प्रदायिकानां ब्राह्मणानां विज्ञानम् । न च वाजसनेयिनां ब्राह्मणे श्रूयमाणो विधिरेतदुल्लद्धय तदुच्चारणमात्रं विधातुं पारयति । गुरुमुखो- चारणसदृशोच्चारणमात्रं च नाध्ययनं, किन्तर्हि ! अर्थज्ञानपूर्वकं गुरुमुखो- चारणसदृशोच्चारणम् । विधिशेष प्रयुक्तोऽभिव्याहारशब्दोऽप्यत्रैव पर्यवस्यति नोचारणमात्रे कीरोपने । यत्कारणं निन्द्यते स सर्वत्र यः प्रत्यहं वेदम- बानध्येति तदर्थ च न जानाति, प्रशस्यते च स सर्वत्र योऽध्येति च जानाति च "स्थाणुरयं भारहारः किलाभूदधीत्य वेदं न विजानाति योऽर्थम् । योऽर्थज्ञ इत् सकलं भद्रमनुते नाक- मेति ज्ञानविधूतपाप्मा" (नि०१।१८) इति । “यद्धीतमविज्ञातं निगदेनैव शब्द्यते । अनग्नाविव शुकधो न तज्ज्वलति कर्हि चित्” (नि० १११८) इति च । न च निन्दितस्याचरणं प्रश- स्तस्य चानाचरणं युक्तम् । पातित्यप्रसङ्गात् । अतः सन्ध्याकर्मणि वर्तमान- : वैदिकधीरेयनियमतोऽर्थज्ञानपूर्वकमुच्चारयितव्याः सर्वे मन्त्राः, श्रद्धया गुरू- पदिष्टमार्गेण चानुष्ठातव्यं यथाकालमेतत् सन्ध्याकर्म, स्यादनेनेदं भगवद- नुग्रहसम्पादनेन निश्चितमपवर्गप्रदं तूर्णम् “यदेव विद्यया करोति । अद्वयोपनिपदा तदेव वीर्यवत्तरं भवति" (छां० १।३।१०) : इति श्रुतेः । विद्यया मन्त्रार्थज्ञानेन, श्रद्धया परयाऽऽस्तिक्यबुद्ध्या, ६ उपनिषदा शुरूपदिष्टमार्गेण, वीर्यवत्तरं फलप्रदाने बलबत्तरं निष्प- . त्यूहूं त्वरितफलदमिति श्रुतिपदार्थः । अथ केयं सन्ध्या यत्र यथाकालं वर्तमानेनाधिकारिजनेनार्थज्ञानपूर्व- १. कमुच्चारयितव्याः सर्वे मन्त्रा इति निर्देधीयते । अत्र महे- - - --- - १२ अवतरणिका अहोरात्रस्य या सन्धी ब्रह्मोपासननामिका। प्रवर्तते क्रिया नित्यं सा सन्ध्या मुनिमापिता ॥११॥ रात्रेर्दिवसस्य च सन्धौ या ब्रामोपासननाम्नी क्रिया यथाशाम गायत्री- मन्त्रमुखेन वैदिकानां सततं प्रवर्तते, सा यथासम्प्रदायं वेदार्थमननकर्तृभि- मुनिभिः सन्ध्येति नाना परिभाप्यते । “सन्ध्यायन्ति सन्ध्यायते वा ब्रह्म यस्यां सा सन्ध्या" इति कालपरत्वव्युत्पत्तौ च सन्ध्या- शब्देन तत्कालिका ब्रह्मोपासनक्रिया लक्ष्यते, यथा “वसन्तादिभ्य- टक" (अष्टा० ४।२।६३ ) इत्यत्र वसन्तशब्देन वसन्तकालिका वेदा- ध्ययनक्रिया, सहचारात् "वसन्तसहचरितमध्ययनं वसन्तः" इति भाप्योक्तेः । अन्यथा विध्यनुपपत्तेः । एतेन "सन्धाबुपास्यं ब्रह्म सन्ध्या" इति व्युत्पादनमपि व्याख्यातं वेदितव्यम् । अन्यथा कालवदत्रापि विधानानुपपत्तेः । यथा खलु सन्ध्यापदस्य कालपरत्वे सन्ध्याविधि!पपद्यते तथा ब्रह्मपरत्वेऽपि नोपपद्यते । सिद्धस विधातुम- शक्यत्वात् । क्रिया हि विधीयते न सिद्धं वस्तु । कालत्रमणी च सिद्धे वस्तुनी । तस्मादुक्तव्युत्पत्तिलभ्या ब्रह्मोपासनक्रियैव सन्ध्येति सर्वाङ्ग- सुन्दरम् । तदिदं सन्ध्याकर्म सायंप्रातराचमनादारभ्यते, नमस्कारे च परिसमा- प्यते । सायंकर्मणि खानस्य विकल्पः, प्रातःकर्मणि च नियमोऽन्यत्र ज्व- रादिभ्यः । तत्रोपस्थितेऽनुष्ठानकालेऽपां सन्निधौ शुचिप्रदेशे गत्या प्रयतोऽ- भिषिक्तोऽनभिषिक्तो वा प्रक्षालितपाणिपादः सोत्तरीयो बद्धकच्छो बद्ध- शिखो यज्ञोपवीती कुशासने कम्बलासने भूमावेव वा समतलायां. पद्मास- नेन सिद्धासनेन वा यथाभ्यासमुदङ्मुखः प्रामुखो वा यथास्थानं सम- कायशिरोग्रीवो दृढमासीनो विस्मृतलोकाखिलव्यवहारो ब्रह्मैकमानसः पूर्व तावदन्तरतः पूत्यर्थमाचमनमन्त्रमुचार्य ब्रह्मतीर्थेन त्रिराचामेत् । अथा- चमनमन्त्रः- . । अम्बरीषस्य राज्ञः पुत्रः सिन्धुद्वीप ऋषिः, आपोदेवता, गायत्री छन्दः} वैदिकसन्ध्यावैदिकभाप्यम् । १३ "ओं शं नो देवीरभिष्टय आपो भवन्तु पीनये । शंयोरभिस्रवन्तु नः" ॥१॥ (ऋ० १०।९।४) ओम् हे जगद्रक्षक जगद्गुरो परमात्मन् ब्रह्म ! आप इमा आपो न अस्माकं पीतये पानाय-आचमनाय भवन्तु पार्थनायां लोट् , भवेयुः, अभिष्टये-पीताः सत्योऽभीष्टाय ब्रमप्राप्तये भवन्तु-पूर्वव- लोट, प्रभवेयुः, एवमग्रेऽपि | शम् तत्प्राप्तिप्रतिवन्धकवायाभ्य- न्तरनिखिलान्तरायनिवारणेन सुखमय्यो भवन्तु-सन्तु, तनिवारणसा- मर्थ्यद्योतनाय हेतुगर्भविशेषणम् देवी! यस्मादेताः देव्यो दिव्यशक्ति- मत्यः । न केवलमधुनाऽऽचमनवेलायामेव, अपि तु सर्वदा ना अस्माकं शंयोः चतुर्थ्यथ पष्ठी विभक्तिः, ऐहिकामुष्मिकसुखाय, तत्प्राप्तिप्र- तिबन्धकवायाभ्यन्तरनिखिलान्तरायनिवारणाय चाभिस्रवन्तु साम्मुल्ये प्रवहन्त्वित्यर्थः । लौकिकं स्याद्वैदिकं वा, यद् यत् कर्मारभ्यते, तत्सर्वं साद्गुणाय निय- मेनोमित्येतदुच्चार्य सततमारब्धव्यं वैदिकानामिति स्थितिः । यत्रतत् स्मृतं भवति "तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः । प्रव- तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम्” (गी० १७।२४) इति । वैदिकं च सन्ध्याकर्माचमनादारभ्यते । तत्राचमने किल विनि- युक्तः "शन्नो देवीः" इति मन्त्रः । अतः स ओमा सार्धमुच्चारयितव्यः । अन्यथा वैगुण्यापत्तेः । ओमोच्चाठमाणश्चोमर्थमुपादायैव खीयमर्थमभि- धत्ते न तं परित्यज्य कर्हि चित् । यत्कारणं तदानीमों तदङ्गतां भजते न खातन्त्र्यम् । अर्थपृथक्त्वं च स्वतन्त्रस्य सतो युज्यते नाङ्गभावं भजमानस्य । मन्त्रे चागभाव भजमानमप्यो मूर्द्धस्थानं लभते, शरीरस्थानं च मन्त्रः । यत्कारणं भवति तद्ब्रह्मणो मुख्यं नामधेयम् । यत्रतत्स्मृतं भवति "ओमिति नामनिर्देशो ब्रह्मणः" (सर्वानु० ४ ) इति । "तस्य वाचकः प्रणवा" (योग० १२७ ) इति च । वाचका नाम ।
. , १४ ओं शं नो देवी प्रणव ओम् । ब्रह्मणश्च भवति मूर्द्धस्थानं सुप्रसिद्धं न विवरणं किञ्चिद- पेक्षते । नामिनो मूर्द्धस्थानत्वे च नानो मूर्द्धस्थानं सर्वथा युक्तम् । मन्त्रस्यापो देवता । "आपो हि, त्रिशिरास्त्वाष्ट्रः सिन्धुद्वीपो वाऽऽम्ब- रीषः, आपो, गायत्री" इति सर्वानुक्रमणीवचनात् । आपश्चोमर्थस्य भगवतो ब्रह्मणः सर्वथा वशे वर्तन्ते । यत्रैतदानातं भवति “इन्द्रो अस्मां अरदद् वज्रबाहुरपाहन वृत्रं परिधि नदीनाम् । देवोऽनयत् सविता सुपाणिस्तस्य वयं प्रसवे याम उर्वीः" (ऋ० ३३३॥ ६) इति । "एतस्य वा अक्षरस्य प्रशासने गार्गि! प्राच्योs- न्या नद्यः स्यन्दन्ते श्वेतेभ्यः पर्वतेभ्यः प्रतीच्योऽन्या" (वृ० ३।८।९) इति च । वशवर्तिनीनां तासामिष्टप्राप्तयेऽनिष्टपरिहराय चानुकूल्यं निर्विशङ्क ब्रह्मतन्त्रमिति जगतः पितृचरणं ब्रह्मोमा सम्बोध्येष्ट- प्राप्तयेऽनिष्टपरिहाराय च तदानुकूल्यप्रार्थनं सङ्गच्छतेतराम् । मन्त्रदेवतात्वात् प्रार्थनीयाः सत्योऽप्यापश्चेतनाविरहान्मा नाम कदाचित् प्रार्थनां औपुः, शृण्वन्त्योऽपि वा मा नाम कदाचिदानुकूल्यं भाक्षुरिति वा तदन्तर्यामि- ब्रह्मप्रार्थनम् । अन्तर्यम्यानां तासामानुकूल्यं च निश्चितमिति नेदं किञ्चि- दयुक्तमाचरितं भवति । ब्रह्मणोऽन्तर्यामित्वं चापां बृहदारण्यके साक्षादा- नायते, “योऽप्सु तिष्ठन्न योऽन्तरो यमापो न विदुर्यस्यापः शरीरं, योऽपोऽन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः" (बृ. ३१७४४ ) इति । ब्रह्मचोमा सम्बोध्यमानं पितेव पुत्राणां तूर्णमा- कर्णयति प्रार्थनाहवमित्यसंशयम् । यत्रैतदानातं भवति "न घा वसु- नियमते दानं वाजस्य गोमतः । यत् सीमुपश्रवद् गिरः" (ऋ० ६।४५।२३) इति । न तदा वासयिता सर्वेषामिन्द्रो नियच्छति परिच्छिनत्ति दानं गोमतो वाजस्यान्नस्य, यदैवोपशृणोति हवान् पुत्राणा- मिति तदर्थः । “उतो घा ते पुरुष्या इदासन् येषां पूर्वेषाम- शृणोक्रषीणाम् । अधाऽहं त्वा मघवन् ! जोहवीमि त्वं न इन्द्रासि प्रमतिः पितेव" (ऋ० ७।२९।४) इति च । तेऽपि च नूनं मनुष्या एवासन् , येषां पूर्वेषामृषीणां हवमशृणोः, अद्याहं त्वां .
.. , वैदिकसन्ध्यावैदिकभाष्यम् । १५ जोहवीमि, हे इन्द्र! स्वमस्माकं पितेव प्रमितिरसि कथं न शृणोषि नो- हवमित्यर्थः । ता एता आपः प्रकृतिस्थाः फेनबुद्बदविरहिताः संहताङ्गुलिना दक्षिः णहस्तेन ब्रह्मतीर्थे निधाय मन्त्रमुच्चार्य त्रिराचमितव्याः । तदाचमनादन्त- रतः पूतिरुपजायते । यत्रैतच्छ्रुतं भवति "तद् यदप उपस्पृशति तेन पूतिरन्तरतः, पवित्रं वा आपः" ( शत० १।१।१।१) इति । उपस्पर्श: आचमनम् । पवित्रता पूतिः । आपः खलु मन्त्रेणाचम्य- माना यथाप्रकृति सत्त्वमभिवर्धयन्ति, रजस्तमसी चाभिभवन्ति । तद- भिभवादुपास्यब्रह्मप्राप्तौ व्याधिस्त्यानप्रभृतयो बाह्याभ्यन्तरनिखिलान्तरायास्त- दानीमुपरमन्ते, सत्त्वगुणाभिवर्द्धनेन च शमदमादयः साधनविशेषा अभि- निप्पद्यन्ते । वाह्याभ्यन्तरनिखिलान्तरायनिवृत्तिः साधनविशेषाभिनिष्प- त्तिश्चात्र तात्कालिकी पूतिरन्तरतः, तत्सम्पत्तौ च ध्रुवा ब्रह्मप्राप्तिः, आपश्च सम्प्रति सुखमय्यस्तत्सम्पादनात् । अत एवोच्यते "अभिष्टये भवन्तु, शं भवन्तु" इति । ब्रह्मप्राप्तिप्रतिबन्धकाः सर्वे बाह्याभ्यन्तरान्तरायाश्च योगदर्शने प्रतिपाद्यन्ते "व्याधिस्त्यानसंशयप्रमादालस्याविरति- भ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपा- स्तेऽन्तरायाः" (यो० १३०) इति। तेषां निवृत्तौ शमदमादिसाधन- विशेषाभिनिष्पत्तौ चापां सामर्थ्य देवीरिति विशेषणोपादानेन निश्चा- य्यते । यतस्ता दिव्यशक्तिमत्योऽतो न तासामेतत् किञ्चिद्भारावहमिति तदुपादानाशयः । तादृक्षकार्यकारिणी दिव्या शक्तिश्च प्रवहन्तीनामपामुप- पद्यते न तिष्ठन्तीनामित्यत आह "शंयोरभिस्रवन्तु नः” इति । सव- णमिह प्रवहणम् । प्रवहन्त्योऽपि देशान्तरे चेत् प्रवहन्ति किं नस्तेन भवे- दिति मत्वा सवतिनाऽभिः सम्प्रयुज्यते । साम्मुख्यार्थोऽभिः । यस्मिन् देशे वयं वसामस्तत्र प्रवहन्त्विति तदभिप्रायः। येऽमी बाह्याभ्यन्तरनिखि- लान्तरायास्ते विक्षेपकाः प्रत्यक्षाः । सत्सु तेषु क्षणार्द्धमपि चित्तं स्थैर्य न लमते, साधनविशेषानिष्पत्त्या च न ब्रह्मोपासनाह सम्पद्यते । विक्षिप्तस्य तस्य तदसम्पत्तेरौत्सर्गिकत्वात् । विहिते चाचमनेऽन्तरायनिवृत्त्या साधन- १६ -- ओं वाक् वाक् विशेषाभिनिष्पत्त्या च भवति क्षिप्रं तदुपासनाहम् । तत्त्वं च स्थिरत्वे सति शान्तत्वम् । ततो वयं निःसंशयं प्रतिपद्यामहे नूनमाचमनस्यैतन्मा- हात्म्यम् । तदभावेऽभावात् , तद्भावे च भावात् । यस्य तावदाचमनस्यैता- दृशं माहात्म्यं तत्सन्ध्योपासनकर्मणि वर्तमानेनाधिकारिजनेनावश्यमादौ विधातव्यं न भ्रमतोऽपि विस्मर्तव्यमित्युपदेशः ॥ १॥ विहितमाचमनम् । तेनचोपासनार्ह चित्तं सम्पन्नम् । न च तावन्मानं पर्याप्तम् । सत्यपि तस्मिन् निर्बलेन्द्रियानानामुपासनानीशत्वात् । नयु- पासनाईचित्ताः सन्तोऽपि निर्वलेन्द्रियाङ्गाः कथञ्चिब्रह्मोपासितुमीशते । तेषां तदुपासनाय यथाऽन्तःकरणस्य चित्तस्य शान्त्यादिप्रयोजक स्थैर्य- मावश्यकं, तथा बाह्येन्द्रियाङ्गानां चलमप्यावश्यकम् । तच्चेन्द्रियस्पर्शा-. यत्तम् । इन्द्रियस्पर्श: इन्द्रियाङ्गोभयस्पर्शः। प्राधान्येन तथा व्यपदेशः। स चाचमनानन्तरं यथाविधि विधातव्यः । तत्रैप मन्त्रो विनियुज्यते- "ओं वाक् वाक्, ओं प्राणः प्राणः, ओं चक्षुश्चक्षुः, ओं श्रोत्रं श्रोत्रम् , ओं नाभिः, ओं हृदयम् , ओं कण्ठः, ओं शिरः, ओं बाहुभ्यां यशोवलम्, ओं करतलकर- पृष्ठे ॥२॥ ओम् हे जगद्रक्षक जगद्गुरो परमात्मन् ब्रह्म! वाक्-आस्ये शिरसि स्थितं वागिन्द्रियं शरदः शतं प्रब्रवीतु, वाक्चागिन्द्रियसहचरं रसने- न्द्रियं शरदः शतं रसयतु १ ओम् हे जगद्रक्षक जगद्गुरो परमात्मन् ब्रह्म! प्राण-दक्षिणनासास्थोच्छासः शरदः शतमुच्छसितु, प्राणः वामनासा- स्थनिश्वासः शरदः शतं निश्वसितु, वैपरीत्येन वा दक्षिणनासास्थनिश्वासः, वामनासास्थोच्छ्वासः । केचित्तु प्राणः प्राण: वामदक्षिणनासाग्रवर्ती प्राणः शरदः शतं जिघ्रतु, निश्वासोच्छासात्मनः प्राणस्यानिन्द्रियत्वादिति व्याचक्षते २ ओम् हे जगद्रक्षक जगद्गुरो परमात्मन् ब्रह्म! चक्षुः दक्षिणनेनं, चक्षुः वामनेत्रं शरदः शतं पश्यतु ३ ओम् हे जगद्रक्षक जगद्गुरो परमात्मन् ब्रह्म! श्रोनं-दक्षिणकणे, श्रोत्रं चामकर्ण शतं शृणोतु ४ ओम्-हे जगद्रक्षक जगद्गुरो परमात्मन् ब्रह्म! नाभि = " . शरदः वैदिकसन्ध्यावैदिकभाष्यम् । १७ नामियो जाठरोऽनलः शरदः शतं पचतु ५ ओम् हे जगद्रक्षक जग- द्गुरो परमात्मन् ब्रह्म! हृदयं हृत्पा, हृत्पद्मस्थं मनो वा. शरदः शतं परिस्पन्दताम् ६ ओम्-हे जगद्रक्षक जगद्गुरो परमात्मन् ब्रह्म ! कण्ठः-ताल्वादिसहितो गलः शरदः शतं भापताम् ७ ओम् हे जगद्र- क्षक जगद्गुरो परमात्मन् ब्रह्म! शिरः मस्तिष्कं शरदः शतं सञ्चष्टाम् ८ ओम् हे जगद्रक्षक जगद्गुरो परमात्मन् ब्रह्म! बाहुभ्यां प्रथमार्थे पञ्चमी, दक्षिणबाहुर्वामवाहुश्चोभी भुजौ यशोवलं यशस्कर वीरकर्म- सामर्थ्य शरदः शतं विभृताम् ९ ओम् हे जगद्रक्षक जगद्गुरो परमात्मन् ब्रह्म! करतलकरपृष्ठे करो हस्तः, दाने हरततलं, प्रतिग्रहे च हस्तपृष्ठम् , अथवाऽसिमुष्टी हन्ततलं, परेषां तत्रासिप्रहारसहने च तन्मुष्टिच्छन्नं हतपृष्ठं शरदः शतं विधताम् १० इत्यर्थः । एप किल यजुर्मन्त्रः पूर्णा कण्डिका विनियोगभेदाद् दशमिरवान्तर- मन्त्रविभज्यते, यथा "इपे त्वोर्जे त्या" (यजु०११) इत्यादिका पूर्णा कण्डिका पञ्चभिरवान्तरमन्त्रैः । तेषां प्रत्येकस्यावान्तरमन्त्रस्य प्रतीन्द्रियं प्रत्यक्षं च विनियोगोऽत्र स्पर्शनकर्मण्यवगन्तव्यः । कार्यभेदज्ञापनाय देवतो- पस्थापनाय च प्रत्येकस्मिन् तस्मिन् मूर्धन्यों संसृज्यते । यथा हि पूर्व- मिन्नाचमनमन्त्रे खलु मन्त्रस्थाप्पदेन देवतोपस्थाप्यते तथेह प्रतिमन्नं मूर्धनि संतृप्टेनोमा देवतोपस्थाप्यते । पूर्वत्रावन्तर्यामि ब्रह्म देवता, अत्र च सर्वत्र सर्वान्तर्यामि ब्रह्म, तत्रैवोमः सम्बन्धावगमादिति विशेषः । प्रत्येक मन्त्रे तत्तदिन्द्रियाङ्गकर्माभिव्यञ्जकं क्रियापदं, शरदः शतमिति पदद्वय- श्चान्तेऽध्याहियते "वाङ्म आसन्, नसोः प्राणः, चक्षुरक्ष्णोः, श्रोत्रं कर्णयोः । अपलिताः केशाः, अशोणा दन्ताः, बहु- बाह्वोर्वलम् । १। जोरोजो जपयोर्जवः, पादयोः प्रतिष्ठा, अरिष्टानि मे अनानि, सर्वात्मा निभृष्ट" (अथर्व०-१९।६०। १।२) “पश्येम शरदः शतं, जीवेम शरदः शतं, शृणु- थाम शरदः शतं, प्रव्रवाम शरदः शतम् , अदीनाः स्याम शरदः शतम्” (यजु०३६।२४) इत्यथर्वपरिशिष्टयाजु- ३ ओं वाक् वाक् घमन्त्रसंवादात् । क्रियापदे च सर्वत्र प्रार्थनायां लः । प्रथमे मन्छे वाक्पदं शक्तिभेदाभिप्रायेण द्विः प्रयुज्यते । तत्रैक शब्दोच्चारणशक्तिक वागिन्द्रियं, द्वितीयं च रसग्रहणशक्तिकं रसनेन्द्रियं प्रतिपादयति । वागिन्द्रियस्य शक्तिर्वलं प्रवचनेन, रसनेन्द्रियस्य च रसग्रहणेनाधिगम्यते । प्रवचनं चात्र भगवतो वेदस्य, ग्रहणं च मेध्यस्यायुःसत्वबलारोग्यादि- वर्धकस्य खतो वा परतो वा खिग्धस्य स्थिरस्य रसस्याभिप्रेयते, नातो- विपरीतस्यान्यस्य कस्यचिदिति न विसर्तव्यम् । वागिन्द्रियस्य रसने- न्द्रियस्य च स्थानमास्यं, तदेव मन्त्रमुच्चार्य दक्षिणेन करेण स्पष्टव्यम् । विश्वरक्षकं जगद्गुरुं परमात्मानं ब्रह्म प्रणवेन सम्बोध्य स्थानत्सर्शने स्थानिनोऽतीन्द्रियस्य तत्तदिन्द्रियस्य सामध्ये प्रवरीवृध्यते यथा कार्य- विशेषे नियोगवेलायां पिशङ्गवाससाऽऽचार्येण प्रणवमुच्चार्य नेहा- तिशयाद् हस्ताभ्यां पृष्ठतः स्पृष्टस्य वतिनोऽन्तरात्मनः सामर्थ्यम् । किमिह चित्रमिव लोकसे-चिन्तनपदातिक्रान्तं हि भगवतो नामधेयस्य माहात्म्यम् । यत्ते चिरेणापि सम्भावनापथं नावतरति तत्प्रत्यक्षमिव निभालयते त्वरितमास्तिको जनः । त्वमपि श्रद्धत्व सोम्य ! यत्कार- णमैहिकामुष्मिकं सर्वं भद्रं श्रद्धामेवाधिवावस्यते । यत्रैतदानातं भवति "प्रियं श्रद्धे ! ददतः, प्रियं श्रद्धे ! दिदासतः। प्रियं भोजेपु यज्वखिदं म उदितं कृधि" (ऋ० १०।१५१।२) "श्रद्धां देवा यजमाना वायुगोपा उपासते । श्रद्धां हृदय्ययाऽऽकूत्या श्रद्धया विन्दते वसु" (ऋ० १०।१५११४ ) इति । आस्तिक्य- बुद्धिः श्रद्धा । भगवन्नाममाहात्म्यं शौनःशेपे सूक्ते प्रव्यक्तम् । "सदा ते नाम खयशो विवक्मि" (ऋ० ७।२२।५) इत्या- दिमन्त्रेषु च ततोऽपि स्फुटतरमित्यलमिह बहु विस्तरेण । वलं-शक्तिः साम- र्यम् । तच्च यावज्जीवं प्रतीन्द्रियं प्रत्यङ्गं च जीवनयात्रोद्वहनाय प्राणि- मात्रस्यावश्यकम् । किं पुनः प्राणिसाराणां मनुष्याणां, तत्रापि च भगव- पुत्राणामाऱ्याणाम् । नहि येषामिन्द्रियाणि बलं नाधिकुरुते, शरी- राङ्गानि वा बलं नाधिशेते, ते प्राणान् धारयन्तोऽपि जीवनयात्रामुखोई वैदिकसन्ध्यावैदिकभाष्यम् । १९ पारयन्ते । न च प्राणानां धारणमात्रं जीवनयात्रोद्वहनं कदाचिदभि- जाताः पुरुपसिंहा अनुमन्यन्ते । नूनं तद्यथोचितोद्वहनं लोके वलनि- बन्धनमिति सुध्रुवम् । अत एवाम्रायते "वलं धेहि तनूषु नो, बलमि- न्द्रानडुत्सु नः। वलं तोकाय तनयाय जीवसे, त्वं हि वलदा असि" (ऋ० ३।५३।१८) इति । शरीररथवहनसाधादनड्डा- होऽत्रेन्द्रियानानि । यद्दलाभावे खलु मनुष्याणां जीवनयात्रोद्वहनेऽपि संशयः, तदभावे सायंप्रातःसन्ध्याकर्मानुष्ठानस्य का न्वाशा । तदिदं वलं मन्त्रमुच्चार्य दक्षिणेन करेणास्याग्रे शिरसि स्पर्शनाद् वागिन्द्रिये रस- नेन्द्रिये च यथा वरिवद्धि, तथाऽन्यत्राऽपि मन्त्रोचारणपूर्वकस्पर्शनात् पाप्यातीति निश्चेतव्यम् । स्पर्शनं च प्रतीन्द्रियं प्रत्यङ्गं च सर्वत्र दक्षिणेन करेण पूर्व दक्षिणं स:व्यं तदनु वामम् । बाहुस्पर्शने च दक्षिणेन वामो वामेन दक्षिणो बाहुः स्पृश्यते युगपदिति विशेषः । अन्तिममन्त्रेण याव- जीवमदैन्यं याच्यते । दैन्यं चेह धनधान्याभावप्रयोज्यं विवक्षितं, नेन्द्रि- यादिवैकल्यप्रयोज्यम् । यावज्जीवं तदवैकल्यस्य पूर्वत्र प्रार्थनात् । धन- धान्याभावे हि मनुप्यो दीनो भवन् विश्वेषामग्रे याचमानो हस्ततलं प्रदर्श- यति, स्वयं चाकिञ्चनत्वाद् दातुमशक्तो याचमानान् वर्जयन् हस्तपृष्टम् । तदुभयं मे मा भूत् । अहं हि यावजीवं धनं धान्यं प्रयच्छन्नेव सर्वेषां हस्ततलं प्रसारितं पश्यानि, मा नामैवं मे हस्ततलं कोऽपि क्वापि कदाचिद् दर्शत् । प्रतिग्राही खमेऽपि मा भूवं, दातैव सर्वदा सर्वत्र स्यामिति मन्त्र- हृदयम् । व्याख्यानान्तरं च "त्वं ह त्यहणया इन्द्र ! धीरोऽसिन पर्व वृजिना शृणासि" (ऋ० १०५९) इत्यादिमन्त्रान्तरसम्वा- दात् । अत्रापि नास्ति किञ्चिदसंश्लिष्टम् । असिहस्तानां वीरकर्मणां प्रति- दिनं तादृशप्रार्थनस्यौचित्यात् । आर्याश्च निसर्गतो वीरकर्माणोऽसिहस्ताः प्रसिद्धा इति सायंप्रातःसन्ध्याकर्मणि वर्तमानानां तेषां तथा-प्रार्थन युज्यतेतराम् । वीरकर्मप्रशंसा च श्रूयते भगवति वेदे “ये युध्यन्ते प्रधनेषु शूरासस्तनूस्त्यजः। ये वा सहस्रदक्षिणास्तांश्चिदे- : वापि गच्छतात्” (ऋ० १०।१५४।३) इति । तथाऽध्येति च . .
२०
ओं भूः पुनातु शिरसि
शूद्रालिङ्गी भगवान् पराशरोऽपि ताम् "यं यज्ञसबैस्तपसा च
विप्राः खगैषिणो वाऽत्र यथैव यान्ति । क्षणेन यान्त्येव हि
तत्र धीराः प्राणान् सुयुद्धेन परित्यजन्तः" (पराशरस्मृ०
१।३।३६) इति । मणिबन्धस्याग्रेऽवस्थितः साङ्गुलिभगो हस्तः । अंस-
मणिबन्धयोर्मध्यवर्ती दीर्घो भागो वाहुरिति विवेकः । तत्तदिन्द्रियाङ्ग-
कर्मप्रार्थनेन तहलप्रार्थनमर्यादापद्यते । बलाभावे कर्मानिप्पत्तेः ।
तदेवेदं बलमिन्द्रियस्पर्शस्य प्रयोजनम् । तसादाचमनानन्तरमवश्यं
स तत्तन्मन्त्रमुच्चार्य यथाक्रमं विधातव्यः ॥ २ ॥
वलीनि सम्पन्नानि तावदिन्द्रियाङ्गानि चेदपवित्राणि भवेयुः, तदा
प्रमादीनि भवन्ति कर्मसलंग्नमपि चित्तं वलेनापहरेयुः । अपूतानां वलवतां
प्रमादेऽवश्यम्भाविनि वलात् परापहरणस्य प्रकृतिसिद्धत्वात् । अत्र सीमा-
निवासिनोऽपगानाः प्रत्यक्षमुदाहरणम् । मर्यते च भगवद्गीतायां प्रमादि-
नामिन्द्रियाणां बलाचित्तापहरणम् “यततो ह्यपि कौन्तेय! पुरु-
षस्य विपश्चितः । इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं
मनः” (गी० २।२०) इति । मनः चित्तम् । तदपहरणेचापूतानां
प्रमादिनामिन्द्रियाङ्गानां कर्मवैगुण्यं सुध्रुवम् । न च पूतानां सतां तेषां
चित्तापहरणं कर्हि चित् सम्भाव्यते । यत्कारणं पूतानि भवन्ति तानि
नियमेन चित्तानुकारं भजन्ते न जातु तदपहारं विदधते । पूतत्वं
पवित्रत्वं शुद्धत्वम् । तदनुदिनं मार्जनादभिनिर्वर्तते । लोके मार्जितानां
पूतत्वदर्शनात् । अतः सर्शनानन्तरमिन्द्रियाङ्गानां यथाविधि मार्जनं
विधातव्यम् । मार्जनस्य खरूपमग्रे निरूपयिष्यते । तत्रैप विनियुक्त-
-
मन्त्रपाठ:-
"ओं भूः पुनातु (शिरसि)१ ओं भुवः पुनातु (नेत्रयोः)२
ओं वः पुनातु (कण्ठे ) ३ ओं महः पुनातु (हृदये ) ४
ओं जनः पुनातु (नाभ्याम् ) ५ ओं तपः पुनातु (पादयोः) ६
ओं सत्यं पुनातु (पुनः शिरसि ) ७ ओं खं ब्रह्म पुनातु:
(सर्वत्र ) ८॥३॥
वैदिकसन्ध्यावैदिकभाष्यम् । २१ ? " ओमोऽथों ब्रह्म सर्वत्र विशेष्यम् । तत्र विशेषणतया गुणविशेष- समर्पका भूरादयः सर्वे शब्दाः । प्रार्थनायां लोट् । भूः सर्वस्य प्राणो ब्रह्म, पुनातु-शोधयतु । केत्याकाहां पूरयति शिरसि स्थानिनि स्थान- प्रयोगः, वाचि प्राणे च १ । भुवा सर्वस्य दुःखहरं सुखप्रदं वा ब्रह्म, पुनातु शोधयतु । क ? नेत्रयोः अक्ष्णोः २ । स्वः सर्वस्य सुखप्रा- प्तिस्थानं ब्रह्म, पुनातु-शोधयतु । क ? कण्ठे ताल्वादिसहिते गले ३ । महः सर्वमान्महत् पूज्यं वा ब्रम, पुनातु-शोधयतु । क ? हृदये हृत्पने मनसि वा ४ । जनः सर्वस्य जनयितृ ब्रह्म, पुनातु-शोधयतु । क? नाभ्यां नाभिस्थे जाठरेऽनले ५। तपा-तपोधर्मकं, दुष्टानां तापकं वा ब्रह्म, पुनातु-शोधयतु । कः ? पादयोःचरणयोः ६ । सत्य= सत्यचिदानन्दस्वरूपं ब्रह्म, पुनातु-शोधयतु । क ? शिरसि मस्तिप्के ७ । खं व्यापकं सर्वत्र परिपूर्ण ब्रह्म-बृहत् , वेदो वा, तत्प्रतिपाद्यं ब्रह्म, पुनातु-शोधयतु । क? सर्वत्र सर्वाङ्गेषु, सर्वेषु माणभृत्सु वा ८ इत्यर्थः । एषा पावमानी पूर्णा यजुःकण्डिका विनियोगभेदादष्यामिरवान्तरमन्त्रै- विभज्यते । तत्र क्रियान्ता मन्त्राः, शिरःप्रभृतयः शब्दाः शुद्धिस्थानप्रद- र्शनार्थाः । तत्तन्मन्त्रमुच्चार्य क क मार्जनं विधेयं शुध्यार्थिमिरिति दर्श- यितुं सप्तम्या तन्निर्देशः । दक्षिणकरेणाङ्गुल्यप्रैस्तत्तन्मन्त्रमुच्चार्य तत्तदङ्गेषु यथाक्रमं जलबिन्दूनां प्रक्षेपो मार्जनम् । तत्र विनियुक्त प्रत्येक मन्त्रे प्रयुज्यमानमोम्-पूर्ववन्मन्त्रान्तर्गतत्वाद् विशेप्यम् । भूरादिकं च तद्वि- शेषणम् । रूढ्या भूरादयः शब्दाः पृथिव्यादीन् सप्तलोकानभिदधते । . मन्त्रेषु प्रायशो रूढिर्नाद्रियते, अतस्तेषां तत्तद्गुणविशेषप्रतिपादनेन ब्रह्म- वाचकस्योमो विशेषणत्वं न दुष्यति । प्रथमे मन्त्रे शिरोग्रहणेन वाचं । प्राणं च मञ्चस्थमिव मञ्चग्रहणेन लक्षयति । पूर्वत्र तदुपादानात् । वाक् १ प्राणश्च प्रधानतः सन्ध्याकर्मण्युपयुज्येते, न चक्षुरादिकमिति विज्ञापयितुं : तत्स्थानस्य शिरसो ग्रहणम् । अस्ति च लौकिकवैदिककर्मसु सर्वत्र शिरोऽपि प्राधान्येनोपयुक्तमित्यतिरोहितम् । वाक्माणयोश्च मुख्यः प्राणो न वागिति प्राण एवेह शिर इत्यस्य मुख्योऽर्थः । तत्पवित्रतायां سم २२ ओं भूः पुनातु शिरसि तद्गुणभूताया वाचः पवित्रतायाः स्वयंसिद्धत्वात् । तन्मार्जने विनियु- तस्तावत् “ओं भूः पुनातु" इति मन्त्रः । तत्र भूरित्यस्य प्राणोऽर्थः । भवति-प्राणात्मना वरीवर्ति सर्वत्रेति तयुत्पत्तेः । सत्ताकर्मणो भवतेः कर्त- रि किपि रूपसिद्धिः । ब्रह्म च सर्वस्य प्राणः प्रसिद्धः । यत्रैतदानातं भवति "प्राणाय नमो यस्य सर्वमिदं वशे" (अथर्व . ११।४।१) “यो मारयति प्राणयति यस्मात्प्राणन्ति भुवनानि विश्वा" (अथर्व० १३।३।३ ) “यदिदं किश्च जगत्सर्व प्राण एजति निःसृतम्" (कठो० ६२) "प्राणो टेप यः सर्वभूते- विभाति" (मुण्ड० ३।१।३ ) इति । यत् सर्वस्य प्राणः, तदवश्यम- स्माकं प्राणं भविष्यतीति सार्थकं तत्प्रार्थनं, विनियोगे च सादृश्यमपरो- क्षम् । अथवा भूारेत्यस्य सदर्थः । भवतीति तद्यत्पत्तेः । अस्ति च ब्रह्म सत् । सत्यस्वरूपत्वात् । प्राणोऽपि च सन्निति विनियोगे सादृश्यम् १ । चक्षुष्मान् हि दुःखादात्मानं सततं रक्षति, सुखं वा शश्वदामोति । यस्य नास्ति चक्षुः, स पदेपदे दुःखपङ्के निमज्जति, सुखं च सम्मेऽपि न पश्यति । तस्मादू दुःखहरं सुखप्रदं वा चक्षुः । तन्मार्जने विनियुक्तः "ओं भुवः पुनातु" इति मन्त्रः । तत्र भुव इत्यस्य दुःखहरं सुख- प्रदं वाऽर्थः । भावयति सम्पादयति दुःखनाशं सुखं वा सर्वस्येति ता- त्पत्तेः । सत्ताकर्मणोऽन्तर्भावितण्यर्थाद् भवतेः कर्तर्यसुनि रूपसिद्धिः । गुणाभावश्छान्दसः । उवङादेशः । ब्रह्म च सर्वस्य दुःखहरं सुखप्रदं च सुप्रसिद्धम् । यत्रैतदानातं भवति “स नः पर्षदति दुर्गाणि विश्वा" (ऋ० १९९।१) "भधवन् ! शर्म यच्छ नः" (ऋ० १।१०२।३) इति । यत् सर्वस्य दुःखहरं सुखप्रदं च ब्रह्म, तदवश्यमसाकं दुःख- हरं सुखप्रदं वा चक्षुः पवित्रयिष्यतीति सार्थकं प्रार्थनं, विनियोगे च सादृश्यं सुव्यक्तम् । अथवा भुव इत्यस्य चिदर्थः । भावयति प्रकाशयति चेतयति सर्वमिति तद्युत्पत्तेः । अस्ति च ब्रह्म चित् । चैतन्यरूपत्वात् । चैतन्यं प्रकाशः, प्रकाशमयञ्च चक्षुरिति विनियोगे सादृश्यम् २। यस्य हि कण्ठोऽध्ययने प्रवचने व्याख्याने च श्लक्ष्णो मधुरो विशालः, स सर्वत्र . . - वैदिकसन्ध्यावैदिकभाष्यम् । २३ -सक्रियते, सत्क्रियमाणञ्च सुखमुपभुते । तस्मात् सुखप्राप्तिस्थानं कण्ठः। तन्मार्जने विनियुक्तः “ओं वः पुनातु" इति मन्त्रः । तत्र ख इत्यस्य सुखप्राप्तिस्थानमर्थः । सुष्ठु ईयते प्राप्यते सुखमस्मिन्निति तयुत्पत्तेः । सुपूर्व- कादेतेरधिकरणे विच् । गुणे यणादेशः । ब्रह्म च सुखप्राप्तिस्थानं सर्वस- म्मतम् । यत्रैतच्छ्रुतं भवति "अधा ते सुम्नमीमहे" (ऋ० ८।९५। ११) “यत्रानन्दाश्च मोदाश्च मुदः प्रमुद्' आसते । कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधि" (ऋ० ९।११२।११) “यो वै भूमा तत्सुखम्" (छां० ७।२३।१) इति । प्रार्थनसार्थक्यं विनियोगसादृश्यं च पूर्ववद् योजयितव्यम् । अथवा ख इत्यस्य सुख- मर्थः । सुत्रियते इति तद्व्युत्पत्तेः । अस्ति च ब्रह्म सुखम् । आनन्दरूप- त्वात् । कण्ठोऽपि सुखहेतुत्वात् सुखमिति विनियोगे सादृश्यम् ३॥ हृदय- पुण्डरीकं हि भगवतो ब्रह्मणः स्थानमभ्युपगम्यते "एष म आत्माऽ- न्तहृदये" (छां० ३।१४।३) “यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म, दहरोऽस्मिन्नन्तराकाश:" (छां ८।१।१) "हृद्यपेक्षया तु मनुष्याधिकारत्वात्' (वेदान्त० १।३।२५) "ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन ! तिष्ठति" (गी० १८१६१) इत्यादिश्रुतिस्मृतिभ्यः । अतएव तन्महत् पूज्यम् । तन्मार्जने विनियुक्तः "ओं महः पुनातु” इति मन्त्रः । तत्र मह इत्यस्य महत् पूज्यमर्थः । मह्यते पूज्यत इति तद्व्युत्पत्तेः । पूजाकर्मणो महेः कर्मण्यसुन् । ब्रह्म च सर्वेभ्यो महत् पूज्यम् । यत्रैतदानातं भवति “अर्चन्तस्त्वा हवामहे" (ऋ० ५।१३।१) "स वा एष महानज आत्मा" (बृहदा० ४।४। २२) "पिताऽसि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरु- गरीयान्” (गी० ११।४३ ) इति । प्रार्थनसार्थक्यं विनियोगसादृश्य । च पूर्ववदूधम् । नामौ जाठरानले हि पच्यमानादन्नाद् वीर्यमुपजायते। वीर्याच्च सर्वभूतोत्पत्तिरिति सर्वभूतोत्पत्तिहेतु मिः । तन्मार्जने विनियुक्तः "ओं जनः पुनातु” इति मन्त्रः। तत्र जन इत्यस्योत्पत्तिहेतुरर्थः । जनयति सर्वमुत्पादयतीति तव्युत्पत्तेः । उत्पत्तिकर्मणो जनेः कर्तर्यसुन् ।
, - २४ ओं भूः पुनातु शिरसि ब्रह्म च सर्वोत्पत्तिहेतुः सर्वसम्मतम् । यत्रैतच्छ्रुतं भवति "जनयिता दिवो जनयिता पृथिव्याः" (ऋ० ५।३६।४ ) “यो नः पिता जनिता यो विधाता (ऋ० १०१८२३) "एप योनिः सर्वस्य" ( माण्डूक्य० ६) "यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत् प्रयन्त्यभिसंविशन्ति तद् ब्रह्म" (तै० ३।१) इति । प्रार्थनसार्थक्यं विनियोगसादृश्यं च पूर्वमिव तय॑म् ५ । तपः खलु पादयोः धर्मः । यत्कारणमझान्तरापेक्षया तो बहु तपतः, कर्मकुर्वाणावात्मानं वा बहु तपतः । मनुप्येषु शुद्गः पादौ । "पद्भ्यां शद्रो अजायत" (ऋ० १०२०१२) इति मन्त्रवर्णात् । पद्भ्यां प्रथमार्थे पञ्चमी, पादौ । शुद्रा जघन्यो वर्णोऽजायत- अभवद् भवतीत्यर्थः । तस्यापि तपो धर्मः । यत्रैतच्छ्रुतं भवति "ब्रह्मणे ब्राह्मण, क्षत्राय राजन्यं, मरुद्भ्यो वैश्यं, तपसे शगम्" ( यजु० ३०५) इति । आलभ इति क्रियाशेपः । तैत्तिरीये दर्शनात् । आरमे प्रारभे सरीसृज्य इति तदर्थः । ब्रह्मणे-वेदाय, क्षत्राय-रक्ष- णाय, मरुद्भय: गणशो वाणिज्यायेति मन्त्रपदार्थः । तन्मार्जने विनि- युक्तः “ओं तपः पुनातु" इति मन्त्रः । तत्र तप इत्यस्य तपोधर्मकं तापर्क वा दुष्टानामर्थः । तपतीति तद्युत्पत्तेः । तपेः कर्तर्यसुन् । ब्रह्म च तपोधर्मकं तापकं च दुष्टानां निर्विवादम् । यत्रैतदानातं भवति "तपस- स्तन्महिना जायतैकम्” (ऋ० १०।१२९/३) "त्वं तपः परित- प्याजयः वः” ( ऋ० १०।१६७।१) “तपसोऽध्यजायत" (ऋ० १०।१९०११) "विश्वा अग्नेऽपदहारातीर्येभिस्तपोभिर- दहो जख्थम्" (ऋ० ७।१७) “इन्द्रो यातूनामभवत् परा- शरः” (ऋ० ७१०४।२१) इति । प्रार्थनसार्थक्यं विनियोग- सादृश्यं च पूर्ववत् कल्पयितव्यम् ६ । मस्तिष्कं खलु सत्यस्य भूमिः । तत्र हि जाग्रति सत्यं निवसति । सत्यं जीवात्मा, सत्यं तदन्तरात्मा ब्रह्म, सत्यं सत्यभाषणमिति त्रितयसाधारणमेतत् सत्यपदम् । तन्मार्जने विनि- युक्तः “ओं सत्यं पुनातु" इति मन्त्रः । तत्र सत्यस्य त्रिकालावा, वैदिकसन्ध्यावैदिकभाष्यम् । २५ । त्रिकालाबाधकामं वाऽर्थः । अस्तीति सत् , तदेव सत्यमिति तद्व्युत्पत्तेः । अस्तेः शतरि खार्थे यत् , भवादिषु वाऽर्थेषु यत् । ब्रह्म च भवति तथा "ऋतं च सत्यं च" (ऋ० १०।१९०१) "सत्यं ज्ञानमनन्तं ब्रह्म" (तै० २।१) "सत्यकामः सत्यसङ्कल्पः" (छां० ५।१) इत्यादि- श्रुतिवचनेभ्यः । प्रार्थनसार्थक्यं विनियोगसादृश्यं च पूर्ववदुत्प्रेक्ष्यम् ७ । अवशिष्टेषु सर्वाङ्गेषु विनियुज्यते शुद्ध्यर्थम् “ओं खं ब्रह्म पुनातु" इति मन्त्रः । तत्र खंपदमाकाशपर्यायं व्याप्तिमर्थमाह । सामान्यात् । ब्रह्मपदं च वृहदर्थम् । यत्रैतदानातं भवति “यस्मादिन्द्राद् बृहतः किश्च ने- मृते विश्वान्यस्मिन् सम्भृताधि वीर्या । जठरे सोमं तन्वी सहो महो हस्ते वज्रं शीर्षणि क्रतुम्" (ऋ० २।१६।२) इति । यद् बृहत् सर्वत्र व्याप्तं च ब्रह्म, तदनन्यचेतसा प्रार्थ्यमानं शिप्टेषु सर्वाङ्गेपु प्राणभृत्सु वा सर्वेपु पवित्रतामाधातुमर्हति । पवित्रत्वात् । नास्ति किञ्चिद- नुपपन्नं नाम । तथाच सार्थकं सर्वं प्रार्थनं, विनियोगश्च सर्वोऽनुरूपः ८ । तस्मात् सन्ध्याकर्मानुतिष्ठद्भिरङ्गशुद्धिमभीप्सुभिर्नियमेन तत्तन्मन्त्रमुच्चार्य तस्मिन् तस्मिन्नङ्गे यथाक्रमं मार्जनं विधातव्यम् ॥ ३ ॥ बाह्याभ्यन्तराङ्गशुद्ध्या समुदभावि । जीवात्मशुद्धिरवशिष्यते । स- न्ध्याकर्मणि बाह्याभ्यन्तरागशुद्धिवज्जीवात्मशुद्धेरप्यावश्यकत्वात् । यथा हि बाह्याभ्यन्तराङ्गशुध्यमावे खलु मनुष्यः सन्ध्याकर्मणि नाधिकार लभते, तथाऽऽत्मशुधभावेऽपि न तदधिकारं भजते । बाह्याभ्यन्तराङ्गशुद्धरुपायाः किल क्रमेणाचमनं, स्पर्शन, मार्जनम् । जीवात्मशुद्धेरुपायो विद्या तपश्च । यत्रतत् स्मृतं भवति "अद्भिर्गात्राणि शुध्यन्ति, मनः सत्येन शुध्यति । विद्यातपोभ्यां भूतात्मा, बुद्धिानेन शुध्यति" (मनु०.५/१०९) इति । भूतात्मा जीवात्मा । स च मनोविशिष्ट एव मन्तव्यो न केवल इति बोधयितुं भूतोपसृष्टात्मपदप्रयोगः । विशिष्टस्य जीनत्वं चोक्तं सांख्यदर्शने "विशिष्टस्य जीवत्वमन्वयव्यतिरे- कात्" (सांख्य० ६६३) इति । विद्याशब्देन चात्र ब्रह्मोपासना मुच्यते । तपःशब्देन च तत्साधनं शास्त्रविहितं तपः । तच सर्व प्राणा- . २६ ओं भूः, ओं भुवः यामेऽन्तर्नीयते । निरतिशयतपस्त्वात् । यावन्ति हि तपांसि शास्त्रेषु शिश्यन्ते, तेभ्यः सर्वेभ्यः प्राणायामोऽतिशय्यते । अत एवाह भगवान् पञ्चशिखाचार्यः "तपो न परं प्राणायामात्, ततो विशुद्धिर्मला- नां दीसिश्च ज्ञानस्य” इति । मनुरपि "एकाक्षरं परं ब्रह्म, प्रा- णायामः परं तपः । सावित्र्यास्तु परं नास्ति, मौनात् सत्वं विशिष्यते" (मनु० २।८३) इति । प्राणायामायाणवृत्ति- निरोधः । प्राणस्यायामः संयमो निरोध इति तद्व्युत्पत्तेः । वृत्तिा- पारः । स च श्वासप्रश्वासभेदाद् द्विविधः । उच्चासः श्वासः, निश्वासः प्रश्वासः । तस्य द्विविधस्य व्यापारस्य निरोधः प्राणायाम इति निष्कर्षः । यत्रतत् स्मृतं भवति "तस्मिन् सति श्वासप्रश्वास- योगतिविच्छेदः प्राणायामः" (यो० २१४९) इति । “अपाने जुह्वति प्राणं प्राणेऽपानं तथाऽपरे । प्राणापानगती मुद्धा प्राणायामपरायणाः" (गी० ४।२९) इति च । प्राण:-श्वासः । अपान:-प्रश्वासः । सोऽयं प्राणायामसिविधः रेचकः पूरकः कुम्भक- श्चेति । शरीरान्तर्गतस्य वायोहिः श्वासेन निःसारणे रेचकः । बहिः- स्थस्य वायोरन्तः प्रश्वासेन प्रवेशने पूरकः । श्वासप्रश्वासनिरोधेन निश्चलतयाऽवस्थाने कुम्भकः । स च द्विविधोऽन्तःकुम्भको बहिः- कुम्भकश्चेति । पूरकानन्तरं क्रियमाणः श्वासप्रश्वासनिरोधोऽन्त:- कुम्भकः । रेचकानन्तरं क्रियमाणस्तन्निरोधो बहिःकुम्भकः । अस्माद् रेचकपूरककुम्भकमेदेनोक्तात् प्राणायामत्रयादन्योऽप्यस्ति केवल- कुम्भकश्चतुर्थः प्राणायामः । तत्र रेचकपूरकापेक्षस्तृतीयः कुम्भकः, तदनपेक्षस्तृतीयकुम्भकाभ्यासपाटवजन्मा चतुर्थः केवलकुम्भक इति विशेषः । सन्ध्याकर्मणि च रेचककुम्भकः पूरककुम्भकश्च प्राणायाम उप- युज्यते नान्यः कश्चन । दक्षिणनासापुटेन रेचनं, वामनासापुटेन च पूर- णम् । वैपरीत्येनेत्येके । द्वाभ्यामेव द्वयमित्यन्ये । कुम्भकद्वये जप इति सर्वेषां नियमः । यत्रेदमुक्तं भवति “दक्षिणे रेचकं कुर्याद् वामे- नापूर्य चोदरम् । कुम्भकेन जपं कुर्यात् प्राणायामः स २७ वैदिकसन्ध्यावैदिकभाष्यम् । उच्यते" इति । सोऽयमन्तर्बहिःकुम्भके त्रिवारं क्रियमाणो जप एकः प्राणायामः सम्पद्यते । यावन्तस्ते क्रियेरन् , तावतः कुर्वीत, न्यूनान्न्यूनं त्रयं त्ववयं विदधीत खस्खश्चेत् । इतरथा त्वेकमित्यपवादः । जपे च तात्कालि- .ऽस्ति किश्चिन्मतभेदः । "ओमापो ज्योतीरसोऽमृतं ब्रह्म भूर्भुवःसुवरोम्" इति शिरोमन्त्रसहितस्य प्रणवसमायुक्तसप्तव्याहृति- पूर्वकस्स गायत्रीमन्नस्य जप इति वदचास्तैत्तिरीयाश्याचक्षते । “गायत्री शिरसा सार्ध जपेद् व्याहृतिपूर्विकाम् । प्रतिप्रणवसंयुक्तां निरयं प्राणसंयमः" (यान० स्मृ० ११२३) इति याज्ञवल्ययस्मृति- वचनम् "सच्याति समणवां गायत्रीं शिरसा सह । त्रि: पठेदायनप्राणः प्राणायामः स उच्यते" (बृह० मनु० ५५/९) इति वृद्धमनुवनोऽमृतनादोपनिपवचनं च, "भूर्भुवःस्वमहर्जन- स्तपः सत्यं तथैव च । प्रत्योङ्कारसमायुक्तस्तथा तत्सवितु: परम् ॥ ओमापो ज्योतिरित्येतच्छिरः पश्चात् प्रयोजयेत् । त्रिरावर्तनयोगात्तु प्राणायामः प्रकीर्तितः" इति योगियाज्ञ- वल्क्यवचनं च तत्र प्रमाणं पुरस्कुर्वते । दृश्यते च नारायणोपनिप- दाख्ये तैत्तिरीयारण्यकपरिशिष्टे तथाभूतमन्त्रपाठः "ओं भूः, ओं महः, ओं जना, ओं तपः, ओं सत्यम्, ओ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् । ओमापो ज्योतीरसोऽमृतं ब्रह्मभूर्भुवः सुवरोम्" (ते० आ० १०९३५) इति । शङ्करभगवत्पूज्यपादानां चैतदेव मतम् । तथा चोल्लेवुः सुव्यक्तं गायत्रीमन्त्रे भाप्ये "सर्वशक्तेः सर्वावभासकतेजोमयस्य परमात्मनः सर्वात्मकत्वद्योत- नार्थ सर्वात्मकत्वप्रतिपादकगायत्रीमन्त्रस्योपासनप्रकार: प्रकाश्यते-तत्र गायत्री प्रणवादिसप्तव्याहृत्युपेतां शिर:- समेतां सर्ववेदसारमिति वदन्ति । एवं विशिष्टा गायत्री प्राणायामापास्या, सप्रणवव्याहृतित्रयोपेता प्रणवान्ता गायत्री जपादिभिः” इति । वैदिकास्तु मनुष्याणामिदानींतनानां ओं भुवः, ओं स्त्र, ओंजना महा, २८ ओ भूः, ओं भुवः तावति लम्बायमाने मन्त्रे जपशक्तिमपश्यन्तः प्रणवसहितसप्तव्याहृतिजपमेव तत्र बहु मन्वते । "प्राणायामा ब्राह्मणस्य त्रयोऽपि विधिवत् कृताः । व्याहृतिप्रणवैर्युक्ता विज्ञेयं परमं तपः” (मनु० ६/७०) इति भगवन्मनुवचनं चात्मशरणं विदधते । प्रवलं हि सर्वभ्यो याज्ञवल्क्यप्रभृतिवचनेभ्यो नूनं मानवं वचः। यत्रैतच्छ्रुतं भवति "मनुवै यत्किञ्चावदत् त पज भेपजनायें" (ताण्ड्यत्रा० २३।१६।७) इति । तस्मादिह वैदिकं मतमेव श्रेयो न वाहृचादिकमिति साधु निभाल- यामहे ।वैदिकानामस्माकं प्राणायाम जपे विनियुक्तस्य मन्त्रस्य चेष पाठः- "ओं भूः, ओं भुवः, ओं खः, ओं ओं तपः, ओं सत्यम्” ॥४॥ ओम् ब्रह्म भूः सर्वस्य प्राणः, ओम् ब्रह्म भुवः सर्वस्य दुःख- हरं सुखप्रदं वा, ओम्ब्रह्म स्वः सर्वस्व मुखप्राप्तिस्थानम् , ओम्- ब्रह्म महा सर्वेभ्यो महत् पूज्यम् , ओम् ब्रह्म जना सर्वस्य जन- यितृ, ओम् ब्रह्म तप तपोधर्मकं, दुष्टानां तापकं वा, ओम् ब्रह्म सत्यं सत्यचिदानन्दस्वरूपमित्यर्थः । एक एष पूर्णः कण्डिकामयो यजुर्मन्त्रः सन्ध्याकर्मणि प्राणायाम नपे विनियुज्यते । तत्र वर्तमानेनाधिकारिजनेनार्थज्ञानपूर्वकमेप शनैः शनैर्नपितव्यो न त्वरितेन । वैगुण्यापत्तेरित्यादेशः ॥ ४ ॥ आत्मशुझ्या वाह्याभ्यन्तरागशुध्या च सम्पन्नतावत्सन्ध्याकर्मण्यधि- कारः । सन्ध्याकर्म च ब्रह्मोपासनकर्मत्युक्तम् । सम्प्रति तेन प्रवर्तितव्यम् । तत्प्रवृत्तौ चैष क्रमः-पूर्व स्तोतव्यं, तदनु प्रार्थयितव्यं, तदनु चोपासि- तव्यम् । स्तुतस्य प्रार्थितस्य चोपास्यस्योपासने द्रागित्येव तटासादेनाभीष्टा- र्थसिद्धेः । अतः पुरस्तादुपास्यं ब्रह्म स्तोतव्यमिति युक्तमवलोकामहे । तत्रैप तावत् प्रतिपदनुचरो नामोपास्यत्रमतुतिमन्त्रः {पिमाधुच्छन्दसोऽघमर्षणः, देवता भाववृत्तम् , छन्दोऽनुष्टुप् , "ऋतं च सत्यं चाभीद्धात् तपसोऽध्यजायत । ततो - -- वैदिकसन्ध्यावैदिकभाष्यम् । २९ राज्यजायत ततः समुद्रो अर्णवः । समुद्रावर्णवादधि संव- त्सरो अजायत । अहोरात्राणि विदधद् विश्वस्य मिषतो वशी। सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् । दिवं च पृथिवीं चान्तरिक्षमथो स्वा" ॥५॥ (१० १०१९०११-२-३) प्रात-कर्मफलम् "फ्रानं पिबन्ती सुकृतस्य लोके" (कठो० ३।१) इति श्रुतेः, अत्र तद्रहणेन तत्प्रयोजको हेतुखते, हेतौ हेतुमत्प्रयोगान, कर्मफलप्रदात्रिति तनिष्कर्षः, अनेन भोक्तृभोग्यशक्ति- यमर्थतोऽभिहितं भवति, सत्यं-त्रिकालाबाधम् , ऋतसत्ययोरभेदश्च- फारेणकेनोच्यते, नातशदार्थापितभोक्तभोग्यशक्तिद्वयाविभागो द्वितीयेन, अनंच सत्यं च ब्रष सृष्टः प्रागासीदिति शेपः । तपसः तस्य भगवतो ब्रह्मणः साल्पगत् पालोचनात्मकाज्ज्ञानापरपाया- दीक्षणात् तपसः “यस्य ज्ञानमयं तपः" (मुण्डको० ११११९) इति श्रुतेः, अभीद्धात्-कर्तरि क्तः, गर्भेण गर्भिण्या इवामितः सर्वत इद्धाद् उपचीयमानात् “तपसा चीयते ब्रह्म" (मुण्डको० १२११८) इति श्रुतेः, ब्रम-प्रकृतिः, मूलकारणात् प्रकृतेरध्यजायत-सर्वेषां पृथिव्यन्ततत्त्वानामधीश्वरं सत्ताख्यमाद्यं कार्य महत्तत्वमुदपद्यत । तता तस्मान्महत्तत्वाद् रात्री-रजस्तमोबहुलत्वाद् रात्रीकल्पोऽहकारोऽजायत । ततः तस्मादहकारात् समुद्रः स्थानिनि खानप्रयोगः, समुद्रेऽन्तरिक्ष "अम्बरं वियद् व्योम-सगरः समुद्रोऽध्वरमिति पोड- शान्तरिक्षनामानि" (निघ० ११३) इति निघण्टोः “एक: तुपर्णः स समुद्रमाविवेश" (ऋ० १०।११४।४ ) इति चान्यत्र प्रयोगोपलव्धेः, दोधूयमानः सूक्ष्मभूतग्रामः, अर्णवः स्थूलभूतगर्भः, अणीसि स्थूलभूतानि विद्यन्तेऽस्मिन्निति तदुत्पत्तेः । “असो लोपश्च" (वार्ति० ५/२) इत्यस्त्यर्थे वः, लोपश्च सस्येति रूपसिद्धिः । समुद्रादर्णवादधि-उपरिष्टात् संवत्सर स्थूलभूतवर्गः, संवत्स- रान्ते जायमानत्वात् , संवसन्ति प्राणिनोऽस्मिन्निति वा तद्व्युत्पत्तेः " - ३० ऋतं च सत्यं च अजायतादुरभवत् । मिपत: तदिदमुपलक्षणं, मियतोऽमिपतो विश्वस्य-सर्वस्य जगतो वशी-खामी धाता-विधाता परब्रह्म- परमेश्वरोऽहोरात्राणि-रात्रिदिवसानि विदधत्-विधास्यमानो यथा- पूर्व-पूर्वकल्पवत् सूर्याचन्द्रमसौ-सूयै च चन्द्रमसं चाकल्पयत- उदपादयत् । दिवं-धुलोकं, पृथिवीं पृथिवीलोकम् , अन्तरिक्ष मध्यमं लोकम् , अथो अथ खः अन्तरिक्षविशेषणम्, ग्रहनक्षत्रा- दिकं वा सर्वमकल्पयदित्यर्थः । वहृचाणां तृचस्य प्रतिपदनुचर इति पारिभाषिकं नामधेयम्, बृचस्य प्रगाथवत् । अस्य प्रतिपदनुचरस्य ऋपिर्माधुच्छन्दसोऽधमर्पणः । अत एवैतदवमर्पणं सूक्तमिति सर्वत्र व्यपदिश्यते । देवता भाववृत्तम् । छन्दोऽ- नुष्टुप् । यत्रेदमनुकान्तम् "ऋतं तृचमघमर्पणो माधुच्छन्दसो भाववृत्तमनुष्टुप्" इति । देवता मन्त्रप्रतिपाद्योऽर्थः । “या तेनो. च्यते सा देवता" इत्यनुक्रमणीवचनात् । भाववृत्तं-जगजनयितृ ब्रह्म, भावान् पदार्थान् वर्तयति निवर्तयति जनयति, कर्तरि क्तः, भावान पदार्थानां वृत्तं वर्तनं निर्वर्तनं जन्म वा यस्माद, भावे क्तः, इति तद्युत्पत्तेः भावः सत्ता, तदात्मकस्य भगवतो ब्रह्मणो वृत्तं जगजननलक्षणं चरित्रमिति वा भाववृत्तम् । सोऽयं परमार्थः । लोके खलु त्रिविधो विभागोऽनुमन्यते सजातीयविभागो विजातीयविभागः स्वगतविभागश्चेति । तत्र जीवात्म विभागः सजातीयविभागः । चेतनत्वेन ब्रह्मसजातीयत्वात् । सविकारा याः प्रकृतेर्विभागो विजातीयविभागः । जडत्वेन ब्रह्मविजातीयत्वात् “पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि" (ऋe १०१९०३) इति समानातः स्वस्य पादैविभागः स्वगतविभागः । सर्वोs प्येष सृष्टेः पूर्वं नासीत् केवलमेकमद्वितीयं सद् ब्रह्म विभागत्रयविरहित- मासीदिति सत्यपदेन प्रतिपाद्यते । विभागविरहोऽविभागः । स च भेद- गर्भोऽभेदावभासो न तु तत्त्वतोऽभेदः, तत्त्वतो वा नाश इति भोक्तृमोग्य- शक्तिद्वयमर्थापयता ऋतशब्देनावबोध्यते । कर्मफलवचनोऽयमृतशदोऽत्र कर्मफलप्रदातरि प्रयुज्यते । अन्यथा तस्य सत्यशब्देन सामानाधिकरण्या- ॥
वैदिकसन्ध्यावैदिकभाष्यम् । ३१ नुपपतेः । कर्मफलप्रदातृत्वं च भोक्तृमोग्यशक्तिद्वयस्य सद्भावे घटते न तत्त्वतोऽभेदे, तत्त्वतो वा नाशे । नहि यस्य तत्त्वतोऽभेदः समजनि नाशेन वा प्रादुरभावि, तस्य कर्मफलादानं तस्मै वा कर्मफलप्रदानं कथञ्चि- दुपपद्यते । अतो न शक्तिद्वयाविभागोऽत्र तत्त्वतोऽभेदो नाशो वा, किन्तु भेदगमोंऽभेदावभास इति तदन्तराकृतम् । द्विविधा हि पदार्था भवन्ति चेतना अचेतनाश्च । तत्र चेतना भोक्तृशक्त्यात्मनाऽचेतनाश्च भोग्यशक्त्या- त्मना तदानीं सत्यशब्दवाच्ये भगवति परब्रहाणि परमेश्वरेऽविभागेनाव- तिष्ठन्ते न तु यथावस्थितात्मनेति प्रथमचकारेणोच्यते । न केवलं कर्म- फलप्रदात ब्रम तदाऽऽसीत् , किन्तु यसै देयं यच्च देयं तदुभयशक्ति- समुचितमिति तदभिप्रायः । यद्धि सत्यशब्देनाभिधीयते तदेव नात- शब्देन प्रतिपाद्यते नारित तयोरणुमात्रोऽपि भेद इति द्वितीयचकारस्यार्थः । तथा च "क्रनं च सत्यं च” इत्यस्य भोक्तभोग्यशक्तिद्वयगर्भ कर्मफल- प्रदातृ सत्यस्वरूपं ब्रम सृष्टेः प्रागासीदित्यर्थः सम्पन्नः । कर्मफलप्रदातृ इति ऋतशब्दस्यार्थः । तेन सर्वशक्ति ब्रह्म किमर्थं जगदिदं विरचयतीति प्रश्नः सुसमाहितो भवति । कर्मफलप्रदानार्थमिति सुसमाधानम् । कर्मफल- प्रदाने च केवलं भूतानुग्रहः प्रयोजनं नात्मानुग्रहः । यत्रेदमाहुर्योग- सूत्रभाष्यकाराः "तस्यात्मानुग्रहाभावेऽपि भूतानुग्रहः प्रयो- जनम्" (यो० १२२५) इति । सृष्टेः प्राकालः प्रलयः । तत्र भोक्त- भोग्यशक्तिद्वयगर्भ ब्रह्मावृतदिति मन्त्रान्तरेऽपि स्फुटं प्रकाश्यते "न मृत्युरासीदमृतं न तर्हि, न रात्र्या अन्ह आसीत् प्रकेतः। आनीदवातं स्वधया तदेकं, तस्माद् हान्यन्न परः किश्चनास" (ऋ० १०१२९।२) इति । चेतनाचेतनात्मनो विश्वस्य जगतोऽन्तर्धार- णात् स्वधा प्रकृतिः । ततः सहार्थेऽप्रधाने तृतीयाविभक्तिः । अनेन ब्रह्मान्तर्गतत्वं तस्यास्तदानीं सुव्यक्तम् । अप्रधानस्य प्रधानान्तर्गतत्वौचि- त्यात् । तदिदं ब्रौक्षत बहु स्यामिति । तस्येक्षणात् तपसोऽन्तर्लीना भोक्तृभोग्यशक्तिप्रकृतिर्गर्भाद् गर्भिणीव किञ्चिद् विकारमनुभवन्ती विद्यु- दिव तेजसा समिद्धा मेघस्य ब्रह्मणो गर्भादू विभक्तेव प्रादुरासीत् । सेय- ऋतं च सत्यं च ३२ मस्याः प्रथमा विकारावस्था । या किल मन्त्रवणे मन इति नाना समाना- यते "कामस्तदने समवर्तताधि मनसो रेतः प्रथमं यदा- सीत्" (ऋ० १०।१२९।४) इति । सांख्या औपनिपदाश्चनां महत्त- त्वनाना समाचक्षते, मात्रवर्णिकी मन इति समाख्यां चानुमन्यते । यत्रै- तदुदाहृतं भवति "महदाख्यमाद्यं कार्य तन्मनः" (सां० ११७१) इति । सत्त्वरजस्तमसां प्रकाशक्रियास्तम्भनशक्तीनां या काचित् साम्यावस्था, यस्यामेतास्तिस्रः शक्तयः समानशक्तितामापद्यन्ते सा परम- सूक्ष्मा प्रमाणकुशलैरपि स्फुटमधिगन्तुमशक्या योगिभिश्च दुर्लक्ष्या महा- शक्तिः प्रकृतिरित्याख्यायते । जगन्माता माया लक्ष्मीरव्याकृतमव्यक्तमिति च भगवत्यास्तस्या आख्यान्तराणि । जगत्पितुर्भगवतो ब्रह्मणः सृष्टिसाक- ल्पान्तर्हितेनेक्षणेन तपसा विषमावस्थामनुभवन्त्यास्तस्याः पृथिवीपय॑न्तानां सर्वतत्त्वानां वीजभूतं सत्तामात्रं यदायु कार्यमुत्पद्यते तदस्माभिर्मन इति समाख्यायते । महत्-तत्त्वं वृहत्तत्वम् । तस्यैव च मान्त्रवर्णिकं मन इति समाख्यानमिति सांख्यसूत्रहृदयम् । तस्मादेतस्मान्महत्तत्वात् किश्चिद्रू- पान्तरं भजमानाद् यत् तत्त्वान्तरमुपजायते सोऽहकार इति परिभाप्यते "सोऽहमस्मीत्यग्रे व्याहरत्, ततोऽहनामाऽभवत्" (बृहदा० १।४।१) इत्येवमादिश्रुतिदर्शनात् । महत्तत्त्वं सत्त्ववहुलम् , रजस्तमो- बहुलोऽहङ्कारः । अत एवैषोऽत्र रात्रिशब्देनोपचर्यते । गुणसामान्यात् । रात्रिरपि भवति रजस्तमोबहुलेति न तिरोहितम् । तौ चेमी महदहकारी वैशेषिकैगौतमैर्मीमांसकैश्च ब्रह्मणस्तपसः क्षुब्धायाः प्रकृतेः भागविशेषौ खीक्रियते । सांख्ययोगैर्वेदान्तिकैश्च यथातन्त्रं परिणामविशेषौ । प्रक्रि- याभेदस्य दर्शनेषु सर्वत्राभ्युपगमान्नायं कश्चिद्दोपः । तसादहकारात् सूक्ष्म- भूतसंज्ञकानि पञ्च तन्मात्राणि जायन्ते । तत्र व्यापकं शब्दतन्मात्रम् , अणुपरिमाणानि चान्यानि चत्वारि । तान्येव वैशेषिकादिमिर्चगुकानि परिभाष्यन्ते । मन्त्रे चेमानि समुद्रनाम्ना प्रतिपाद्यन्ते । स्थानिनि स्थानो- पचारात् । समुद्रवन्ति येभ्यः स्थूलभूतानीति वा योगात् । एभ्यः पञ्चत- न्मात्रेभ्यः 'शब्दतन्मात्रादाकाशं, तत्राविभागेनावस्थितात् स्पर्शतन्मात्राद् .
वैदिकसन्ध्यावैदिकभाप्यम् । ३३ वागः, तत्राविभागेनायसितादूपतन्मात्रात् तेजः, तत्राविभागेनावस्थिताद- सतनमानादागः, ताखविभागेनावस्थिताद् गन्धतन्मात्रात् पृथिवी' इति कमेणाकाशवायुतेजःप्रभृतीनि पजम्धुलभूतानि संवत्सरान्ते प्रादुर्वाभ्यन्ते । सतपय मतानि संवत्सरशन्दनाभिधीयन्ते । मृतेभ्यः पृथिव्यादय- खयो लोका मदनक्षनादिकं च सर्व जगद् यथानियममुत्पद्यते । सोऽयं मलप्रतिपाऽर्थः। तदेतन्महान्दादिप्रथिव्यन्तसकलपदार्थोत्पत्तिकारणं ब्रा । तलव मृत्यनेतन्महन् फर्म । तथातिरकेणान्येन केनचित्कर्तुमशक्यत्वात् । ना नानाकोत्तसंयुनं प्रतिनियतदेशकालनिमित्तक्रियाफलाधिकरणं मनसाऽप्यनित्यरननापं लोकलयात्मकं विश्वमिदं जगदन्तरेण सर्वज्ञ सर्यगति ब्रा फेननिदन्येन सदसरपि पुरुषायुपः कथचिद्विधातुं शक्यते । लपनं च वान्नवं सनर तनय कर्मणा प्रवर्तत यत्किलान्येन केनचित् फर्तु न पायत । अतो यावापि वान्तवनं स्यात् सर्व तत् लवनमिदं न कहिंचि- दतिशपिनुमति । अत्यतिशयसाप्वतनैव सहान् । यथा हि खलु कस्य- निन् पुरुषसिस्यानाधारणेन तदानरणेन विधीयमाना तुतिः सर्वेभ्यः नु:यन्तरेगी विशिष्यने तथा जगतः पितृचरणस्य भगवतो ब्रमणो विन्ध जगदुत्पत्तिकर्मणा विधीयमाना नुतिरपि लुत्यन्तरेभ्यो विश्वेभ्योऽति- रियतं । भगवतन्नन्स गुत्या च मनुष्याणां दुरितनिवृत्तिरवश्यम्भाविनी, नास्ति कन्याप्यत्र किचिमत्यम् । अतएव तृचमेतत्सूक्तं यथाऽधमर्पणेन- पिंणा दृष्टवादघमर्षणनिति समात्यायत तथा भगवत्स्नुत्यतिशयभाक्त्वेन परमार्थतोऽघमर्षकत्वादप्यघमर्षणमिति च्याख्यायते । अघमर्पणसूक्तस्यास्य सर्वाषाभिमर्पकावं च विस्पष्टं समरे भगवता मनुना "यथाऽश्वमेधः ऋतुराट्र सर्वपापापनोदनः । तथाऽघमर्पणं मुक्तं सर्वपापा- पनोदनम्" ( मनु० ११।२६०) इति । यस्य खलु सर्वपापापनोदन- सामध्ये, तस्यास्त्युपास्यवक्षावर्जनसामर्थ्यमिति तु किमु वक्तव्यम् । अतो नियमतोऽनेन तृचेन प्रतिपदानुचरमन्त्रेण पूर्वमुपास्य ब्रह्म स्तोतव्यम् ॥५॥ उपास्यव्रामस्तवनं प्रावर्तिष्ट । सम्प्रति प्रार्थनं प्रवर्तिप्यते । तत्पूर्व मनसा परिक्रम्य सर्वतो द्रष्टयं फि मे नास्ति यदर्थ मया प्रार्थितव्यम् । ५ ३४ प्राची दिगग्निरधिपतिः नहि खमदृष्ट्वा प्रार्थनं युक्तम् । मा नामान्यथा प्राप्तार्थमेव प्रार्थनं प्रवृ- तत् । तस्मात् प्रथमं खस्य मनसा परिक्रमणमावश्यकम् । मनसा परि- क्रमणं च खस्याग्रतो दक्षिणतः पृष्ठतो वामतोऽधस्तादुपरिष्टादात्मना परि- भ्रमणम् । ब्रह्मोपासनकर्मणि चामिन् सन्ध्याकर्मणि सर्वाभ्यो दिग्भ्यः पूर्वी दिक् प्रशस्यते, यत्र किल भगवान् सूर्यः प्रतिदिनमुदयमासादयति । "प्राची हि देवानां दिक" (शतप० ३।१।१।२) इति श्रुतेः । सैव चास्योपासकस्य सन्ध्याकर्मानुतिष्ठतोऽग्रतो दिक् । तत्परिक्रमणे विनियुक्तस्य मन्त्रस्यैवं पाठः- "प्राची दिगग्निरधिपतिरसितो रक्षिताऽऽदित्या इपवः । तेभ्यो नमोऽधिपतिभ्यो, नमो रक्षितृभ्यो, नम इपुभ्यो, नम एभ्यो अस्तु । योऽस्मान् द्वेष्टि यं वयं द्विप्मस्तं वो जम्भे दध्मः" ॥६॥ (अधर्व० ३।२।१) प्राची-पूर्वा, दिक्-दिशा, अग्निः अग्रणीर्जगद्गुरुरीश्वरः, अधि- पतिः खामी, असित सर्वस्माच्छुप्रो ज्ञानप्रकाशः, रक्षिता-रक्षकः, आदित्या अपत्ये ण्यः, जगत्पितुरादित्यस्पेश्वरस्य पुत्रा विद्वांसः, इषवः बाणाः, नमः नमस्कारः, एभ्या-बहुवचनमादरार्थम् , पूर्व- दिगधिष्ठितेभ्योऽधिपतिभ्यः स्वामिभ्यः, नमः नमस्कारः, रक्षि- तृभ्यः रक्षकेभ्यः, नमः नमस्कारः, इपुभ्यः बाणेभ्यः, नमः नमस्कारः, एभ्यः एतेभ्यः सर्वेभ्योऽस्तु-लोडधोटे, भवतु । या दुष्टप्रकृतियः, अस्मान् ऋजुप्रकृतीनसान् , द्वेष्टि बाधते, यं-दुष्ट- प्रकृति यं, वयम्-ऋजुप्रकृतयो वयं, द्विष्मः चाधामहे, तं-दुष्ट- प्रकृति तं, वा-युष्माकमधिपतीनां, जम्मे-खादनहेतुरास्यान्तर्गतो विशेपो जम्भः, तत्र दध्मः पक्षिपाम इत्यर्थः । यस्यां दिशि खलु सूर्यः प्रागञ्चति प्रथमं प्रामोति पूर्वमुदेति, सा प्राची दिगिति व्यपदिश्यते । यत्रैतदुदाहृतं भवति "आदित्यसंयो- गाद् भूतपूर्वाद् भविष्यतो भूताच प्राची" (वैशेषि० २।२। १४ ) इति । सैव पूर्वा दिक् । सन्ध्याकर्मण्युपविष्टस्य च सेवाग्रतो " दन्त- चैदिकसन्ध्यांवैदिकभाष्यम् । ३५ दिक । अमे नाभ्युदयाय निःश्रेयसाय च संसारमार्गगन्तॄणामग्रणीराव- दयकः । यः किल सुगगं मार्ग दर्शयेत् , अरिष्टेभ्यः पापेभ्यश्च महती रसां विदध्यात् । न न जगद्गुरमीश्वरं विहाय कश्चिदन्योऽभ्युदयाय निः- शेयसाय च नपर्श दर्शचिनुमीटे, पापेभ्योऽरिष्टेभ्यश्च महती रक्षा विधातुं क्षमतं । अरूप मस्येनापशाचिन्वन चायोन्यत्वात् । जगद्गुरुरीश्वरस्तु योग्यः। यत्कारणमलि स सर्वज्ञः, अग्नि च सर्वशक्तिः । यत्रैतदा- नानं भवति "यो विश्वामिविपश्यति भुवना सं च पश्यति" (०३६३२२) "विश्वान्यस्मिन् सम्भृताऽधि वीर्यो" (म० २।१६२) इति । श्रूयते चात एव भगवतस्तगादभ्युदयाय निःयसाय न सुपथप्रदर्शनल पापानामरिष्टानां च निवर्तनस्य प्रार्थ- ना । "अग्ने ! नय सुपथा राये अस्मान् बिश्वानि देव ! वयु- नानि विद्वान । युयोध्यम्मनुहुराणमेनो भूयिष्ठां ते नम- उक्ति विधम" (यजु० ४०।१८) इति । स एप सर्वासां दिशाम- धिपतिर्भवतप्यग्रणीत्वगुणेन प्राच्या दिशोऽधिपतिनिर्दिश्यते "प्राची दिगग्निरधिपतिः" इति । यत्कारण तन्त्र तद्गुणोऽधिपतिरपेक्ष्यते । अगिरित्यन्त चामणीरर्थः सर्वसम्मतः । यत्रतदुदाहृतं भवति "अग्निः कम्मात्! अग्रणीभवति" (निरुक्त० ७१४) इति । लौकिका खलु सोऽग्रणीरमिना प्रकाशेन लुगम मार्ग दर्शयन् पृष्ठगामिनीनां सर्वासां प्रजानामितन्ततो बाणप्रक्षेपेण पापेभ्योऽरिष्टेभ्यो रक्षां विदधाति, बाण इति शनानमात्रोपलक्षणम् , जगद्गुरुरीश्वरन्तु ज्ञानेन प्रकाशेन सुपथं प्रकाशय- नितम्तनः प्रमुनर्वाणकल्पविद्वद्भिः पृष्ठगामिनीनां सर्वासामात्मीयप्रजानां पापेभ्योऽरिष्टभ्यो रक्षा सम्पादयति । तदिदं लोकेन सामान्यम् । लोकेऽग्निना प्रकादोन समो भवेन् कदाचित् कश्चित् प्रकाशो, ज्ञानप्रकाशेन समस्तु न कश्चित् प्रकाशो विद्यते । लोकोत्तरत्वात् । तदिदमवद्योतयितुमेव ज्ञान- प्रकाश इत्यप्रयुज्य तत्स्यानेऽसित इति प्रयुज्यते । भास्वरः प्रकाशः सितः । तस्य नवा बहुव्रीहिः समासः । यत्समः कश्चित् भाखरः शुभ्रः प्रकाशो न विद्यते सोऽयमसितो ज्ञानप्रकाश इत्यर्थः । मनुष्याणां ३६ प्राची दिगनिरधिपतिः रक्षकं ज्ञानमिति निर्विवादम् । तच्च रक्षाविधौ यथाविधि प्रसारमपेक्षते यथा बाणः प्रक्षेपम् । तत्प्रसारकाश्च विद्याचुश्चवो विद्वांसस्तपखिनः । नहि तैर्विना पारमेश्वरं ज्ञानं प्रजासु सर्वत्र कथञ्चित् प्रसूतिं लभते । विद्वांसश्च भागवतज्ञानप्रसारकत्वान्मनुजान्तरापेक्षया विशिष्टाः । अतएव भगवन्त- स्तेऽत्रादित्यनाम्ना बाणा इत्युपदिश्यन्ते "आदित्या इपवः” इति । आ- दित्यो जगद्गुरुरीश्वरः "तदेवाग्निस्तदादित्यः" (यजु० ३२११) इति मन्त्रवर्णात् । आदत्ते परिष्वजते पापिनोऽपि शरणागतान् जनानिति वा योगात् । यत्रतत्स्मृतं भवति "मां हि पार्थ! व्यपाश्रित्य येऽपि स्युः पापयोनयः। स्त्रियो चैश्यास्तथा शहास्तेऽपि यान्ति पराङ्गतिम्" (गीता० ९।३२) इति । तस्य पुत्रा आदित्याः। ते के स्युः? तज्ज्ञानप्रसारकास्तत्रभवन्तो विद्वांस इत्याचक्ष्महे । यद्यपि सर्वे वयं यूयं भगवतो जगद्गुरोरादित्यस्येश्वरस्य पुत्राः "शृण्वन्तु विश्वे अमृतस्य पुत्रा" (कर० १०।१३।१) इति मन्त्रवर्णात् , तथापि ब्रह्मवर्चखिनो भगवन्तो विद्वांस एव यथार्थतस्तत्पुत्राः समाख्यातुं शक्यन्ते नासदादयो हतत्विषः किङ्कराः परभृताः । पितापुत्रयोः सारूप्यस्यावश्यकत्वात् । सारूप्यं च तेजसा विद्यया न भूभारहेतुना शरीरधारणमात्रेण । यद्वा विश्वजननी भूरियमदितिः। यत्रैतच्छ्रुतं भवति "इयं वै पृथिव्यदितिः" (शतपथ० ५।३।५।३७) इति । "इयं वा अदितिः" (तै० सं० ३॥ २।६) इति च । तस्याः पुत्रा आदित्याः "दित्यदित्यादिव्यपत्युत्तरप- दात्" (अष्टा० ४।१।८५) इति पाणिनिस्मरणादपत्ये ण्यः । यथा हि लोके तत्रभवन्ती जननी विद्याशौर्य्यदीत्या दीप्यमानैस्तनपैगरिमाणमा- श्रयन्ती सर्वत्र पोपूज्यते तथा विश्वजननी भूमिरपि वीरकर्मभिर्विद्वद्भिः पुरुषसिंहैरात्मजैर्महिमानमनुभवन्ती सर्वथा मामह्यते । किं नु नामेहास्ति चित्रम् । यस्यां भूमौ वीरकर्माणो विद्वांसो न प्रजायन्ते सा भारवाहकैः किहरैः पुत्रवती भवन्त्यपि कृशतनूर्भुजण्या इव पूजावेलायां क सान विन्दते । पुनरेव हि विद्यायां वीरकर्मणि चादित्यवद्देदीप्यमानैः सर्वत्र जनन्या इव जन्मभूमेरपि सत्कारः। तस्मादादित्यस्य भगवतो ब्रह्मणः पुत्रत्वा- .
.
वैदिकसन्ध्यावैदिकभाण्यम् ।
३७
ददितेर्वा विश्वजनन्याः पृथिव्याः पुत्रत्वादादित्या विद्वांस इति साधु निबूं-
महे । ते च भगवन्तो भागवतज्ञानप्रचाराय घोपेघोपे ग्रामग्राम नगरेनगरे
सर्वेषु न जनपदेषु यत्र तत्र प्रस्ताः स्युर्वाणा इव वाणा इति सवै संश्लिष्टम्।
परिक्रम्यमानायामस्यां प्राच्यां दिशि भगयानमिरग्रणीर्जगद्गुरुरीश्वरोऽ-
धिपतिः, रक्षको ज्ञानप्रकाशः, इपवस्तप्रसारका विद्यादीप्त्या देदीप्यमाना
आदित्यास्तत्रभवन्तो विद्वांसः । ते सर्वे महामहिमत्वान्नमस्कर्तव्याः । तान्
नम कुरुते "तेभ्यो नमोऽधिपतिभ्यः' इत्यादिना । नमस्कारे
बहुवचनमादरार्थम् । आदरणीयेषु प्रायेण सर्वत्र बहुवचनं प्रयुञ्जते प्रयो-
कारोऽभिजाताः । अनापि तथाप्रयोगो नाननुरूपतामालम्बते । नमस्कृत्वा
किजिदावश्यफमुपस्यापयति "योऽस्मान् द्वेष्टि" इत्यादिना। यच्छ-
देनात्र दुष्टप्रकृतिः पुरुपविशेपो गृपते, यः किल जगद्गुरुमीश्वरं न
विश्वसिति, वैदिक धर्म च नानुतिष्ठति, वैदिकधर्मकाँश्च निष्प्रयोजन
सततं बाधते । यत्कारणमन्यत्रापि द्विपतस्तस्य शिक्षाभिप्रायेणाधःपातः
प्राणदण्डश्यार्थ्यमानः शोशून्यते “यो नो द्वेष्ट्यधरः स स्पदीष्ट ।
यमु द्विष्मस्तमु प्राणो जहातु" (ऋ० ३।५३।२१) इति ।
तथा रुद्राणां जम्भे निक्षेपोऽपि साक्षात् "यं द्विष्मो यश्च नो द्वेष्टि
तमेपां जम्भे दध्मः" (यजु० १६६४ ) इति । स यथाऽकिश्चिदु-
दिदिकान् जनानभीक्ष्णं द्वेष्टि तथा वैदिका जनाः खभावतो द्वेषम-
कुर्वाणा अपि तदुटप्रकृति पुरस्कृत्य नूनमेष स्खीयामिमां प्रकृति परित्यजेद्
जगद्गुरुमीश्वरं च विश्वसेदित्यन्तर्बुद्धयस्तं प्रद्विषन्ति । तत्र फलमदृष्ट्वा
चान्ततो दण्ड एव दुष्टप्रकृतीनां जनानां दुष्टप्रकृतिपरित्यागे परमोपायो
नान्यः कश्चनेति सनातनी पद्धतिमनुसरन्तो भागवतं दण्डं शरणमृच्छन्ति
"तं वो जम्भे दध्मः" इति । यो हि यस्याधिपत्ये वर्तते स तेनैव
दण्ड्यः शिक्षितुं नान्येन केनचिदिति युक्तं दुष्टप्रकृतेस्तस्य शिक्षार्थ
भगवतोऽधिपतेर्दण्डस्य शरणीकरणम् । मुखान्तर्गतो दन्तविशेषो जम्भः ।
तत्र तत्प्रक्षेपः शिक्षाभिप्रायेण न खादनाभिप्रायेण । शिक्षा पुनः किञ्चि-
चर्वणेन स्यात् खादमेन वा भवेत स्वतन्त्रस्तत्र सर्वथाऽधिपतिर्थीमान् ॥६॥
. ३८ दक्षिणा दिगिन्द्रोऽधिपतिः प्राच्या दिशः परिक्रमणं व्यधायि । सम्प्रति दक्षिणस्याः क्रमः । दक्षिणेन परिक्रमितव्यमिति नियमात् । तत्रैवं विनियुक्तमन्त्रः पठ्यते- "दक्षिणा दिगिन्द्रोऽधिपतिस्तिरश्चिराजीरक्षिता पितर- इषवः । तेभ्यो नमोऽधिपतिभ्यो, नमो रक्षितृभ्यो, नम- इपुभ्यो, नम एभ्यो अस्तु । योऽस्मान् दृष्टि यं वयं द्विप्मस्तं वो जम्भे दध्मः ॥ ७॥ (सर्व० ३.२०१२) दक्षिणा दक्षिणतोऽवस्थिता पूर्वाभिमुखस्य दक्षिणहम्ने वर्तमाना, दिक-दिशा, इन्द्रः सर्वश्वर्यवानीश्वरः, अधिपतिः स्वामी, तिर- श्चिराजि: नानाजातीयकर्माशयो, रक्षिता रक्षकः, पितरः कर्मिणः, इषका बाणाः । तेभ्यो नमः सबै पूर्ववत् । मुखसम्बन्धिनी खलु प्राची दिक् । यत्कारणं सा मुखस्याग्रे वर्तते । दक्षिणहस्तसम्बन्धिनी च दक्षिणा दिक् । यत्कारणं सा दक्षिणहस्ते विद्यते । अवाचीति चास्या एव नामान्तरम् । यत्कारणमस्त्रामबागच्चति भगवान् सूर्यः । अवागिति मध्याहस्य वचनम् । मुखस्य ज्ञानेन सम्बन्धो दक्षिण- हस्तस्य चैश्वर्येण । यत्कारणं मुखेन ज्ञानं सम्पाद्यते दक्षिणहस्तेन चैश्च- य॑म् । तस्यैव कर्मण्यधिकारात् । ज्ञानेश्वर्ययोश्च पूर्व ज्ञानं सम्पद्यते पश्चादैश्वर्य्यम् । तत्पौर्वापर्य्यसम्बन्धस्य निश्चितत्वात् । अतएव प्रथम प्राच्या दिशोऽग्रणीर्जगद्गुरुः सर्वज्ञेश्वरोऽधिपतिरुपदिश्यते, तदनु चास्या दक्षिणस्या दिशः सर्वैश्वर्यवानीश्वरः । सोऽयं दिशोरधिपत्यो रक्षकयोश्च परस्परसम्बन्धः । यथा ह्यग्रण्यः पुरतः खलु सर्वदा ज्ञानेन भवितव्यं, तथैश्वर्य्यवतः पुरतः सर्वदा कर्मणा वर्तितव्यम् । यत्कारणं कर्मणैव सर्वदा सर्वत्र सर्वमैश्वर्य्यमय॑ते रक्ष्यते च । नहि कर्माकुर्वन् कश्चिदैश्वर्यम- जितुं रक्षितुं वा शक्नोति । मनुपुत्राणामस्माकं च कर्मैव सर्वस्यैश्वर्य्यस्यार्जकं रक्षकं च सततमिति निर्विवादम् । अतएवाह भगवान् वेदः "कुर्वन्नेवेह कर्माणि जिजीविषेच्छत समाः” (यजु० ४०।२) इति । "नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः। शरी- वैदिकसन्ध्यावैदिकभाष्यम् । रयात्राऽपि च ते न प्रसिध्येदकर्मणः। (गी० ३१८) इति च भगवान् कृष्णः । ऐश्वर्य्यस्य नानाविधत्वात् तदर्जनरक्षणहेतु- कर्मापि नानाविधम् । हेतुमन्नानात्वे हेतुनानात्वरयौचित्यात् । अत एव मग्ने फर्माप्रयुज्य तत्साने नानाजातीयकर्माशयवचनस्तिरश्चिराजि- शब्दः प्रयुज्यते । स च बहुव्रीहिसमासेन समस्तः । तत्र तिरश्चिशब्दो नानाजातीयवचनः । यत्रैतच्छुतं भवति "पृथु 'तिरश्वा श्यसा वृहन्तम्" (म० २।१०।४) इति । तिरश्चा-नानाजातीयेन, वयसा अन्नेन, बृहन्न-प्रवृद्ध, पृथु चाशिम् । राजिशब्दश्च श्रेणिवचनः प्रसिद्धः । अन्यपदार्थः कर्माशयोऽत्रैश्वर्ययोगात् समधिगम्यते । नियत- सम्बन्धान् । कर्माशयः कति चात्रानान्तरम् । तच्च नानाश्रेणिक दृष्टचरं नापलपितुं शक्यते । तथा च तिरश्चयो नानाजातीया राजयः श्रे- गयो यस्य कमाशयस्य, स तिरश्चिराजि नाश्रेणिकः कर्माशय इति सुनि- प्पन्नम् । तस्यैतस्य कर्माशयस्य वाणाः पितरः कर्मिणः, तैरेव कर्म- प्रचारसिद्धः । पितृशब्दश्च कर्मिवचनोऽतिरोहितः । “द्वे सूती अशु- णवं पितृणामहं देवानामुत मानाम्" (ऋ० १०।८८।१५) इति मन्त्रवर्णात् । मत्यांना मनुष्याणां ये पितर: कर्मिणः, ये उत= च देवाः-उपासकाः, तेषां वे मृती-पितृयानाख्यां देवयानाख्यां च नृतिमहमशृणवमिति मन्त्रवर्णार्थः । यथा हि पूर्वत्र खलु सर्वज्ञस्य जगद्गुरो- रग्रण्योऽधिपतेर्मानेन सम्बन्धः, ज्ञानस्य च तत्प्रसारकैर्विद्वद्भिः, तथेह सर्वेश्वळवतोऽधिपतेः कर्मणा सम्बन्धः, कर्मणश्च तत्प्रसारकैः कर्मिभि- रिति न किञ्चिदसंश्लिष्टम् । तेभ्योनमःप्रभृति सर्वं पूर्ववद् व्याख्येयम्॥७॥ परिक्रान्ता दक्षिणा दिक्, अथ प्रतीची दिक् परिक्रमणीया। क्रम- प्राप्तत्वात् । तत्रास्य मन्त्रस्य विनियोगः "प्रतीची दिग चरणोऽधिपतिः पृदाकूरक्षिताऽन्नमि- पवः । तेभ्यो नमोऽधिपतिभ्यो, नमो रक्षितृभ्यो, नम इपुभ्यो, नम एभ्यो अस्तु । योऽस्मान् द्वेष्टि, यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥८॥ (अथर्व० ३।२३) . १.९५ ved - प्रतीची दिग् वरुणोऽधिपतिः प्रतीची पश्चिमा पृष्ठभागस्था, दिक्-दिशा,वरुण: जीवनप्रदेश्वरः, अधिपतिः खामी, पृदाकु: प्राणः, रक्षिता-रक्षकः, अन्नम्= अन्नाद्यं व्रीहियवादिकम् , इषवा वाणाः । तेभ्यो नमः सर्व पूर्ववत् । या हि दिक् पूर्वाभिमुखस्य पृष्ठभागे वर्तते सा प्रतीचीति व्याख्या- यते । प्रातिकूल्येनाञ्चति प्रामोति सूर्योऽस्यामिति तदुत्पत्तेः । प्राच्या- मुदयः, प्रतीच्यामस्तमय इति प्राच्यपेक्षया प्रतीच्या प्रातिकूल्यम् । एतामेव दिशं पश्चिमेति व्यपदिशन्ति दिग्विदः कोविदाः । सा यथा परिक्रमायामपेक्ष्यते दक्षिणदिगनन्तरं, तथैश्चर्यानन्तरमपेक्ष्यते जीवनम् । यत्कारणं जीवने सत्येवैश्वर्यमुपभोक्तुं शक्यते । नहि कश्चिदजीवन्नेवैश्व- र्यमुपभोक्तुं शक्नोति । भवति वा तस्मिन् जीवनं न काङ्क्षति । जीवन- वहा नाडी च पाठिक मेरुदण्डमधिवसतीति योगविदां परामर्शः। को नु नाम योगतत्त्वं विदन् पृष्ठस्थं मेरुदण्डं जीवनाधिष्ठानं नानुमन्यते । जगद्गुरुरीश्वरश्च जीवनदाता सुप्रसिद्धः । यत्रैतदाम्नातं भवति “य आत्मदा बलदा यस्य विश्व उपासते" (ऋ० १०.१२११२) इति । जीवनवहनाड्या च जीवनदातुरीश्वरस्य साम्मुख्यमावश्यकम् । तस्मिन् सत्येव जीवनातिशयसम्भवात् । तदिदमभिलक्ष्यैव पृष्ठभाजोऽस्याः प्रतीच्या दिशो जीवनप्रदेश्वरोऽधिपतिर्निर्दिश्यते "वरुणोऽधिपतिः" इति । वरुण इत्यस्य जीवनाय वरणीयोऽर्थः । यत्रैतदानातं भवति "अहेळमानो वरुणेह बोध्युरुशंस! मा न आयुः प्रमोषी:" (ऋ०१।२४।११) इति । जीवनाय च जीवनदातैव सर्वदा वेत्रीयते नान्यः । तसायुक्तस्तत्र तन्निर्देशः। यथैश्वर्य्यस्य कर्मणा सम्बन्धस्तथा जीवनस्य प्राणेन सम्बन्धः । यावद् बसिन् शरीरे प्राणस्तिष्ठति तावजीवनं, प्राणाभावे च जीवना- भावः । तदनेन जीवनस्याश्रयः प्राण इति निश्चितम् । आश्रयः सर्वत्र रक्षको भवति, रक्ष्यश्वाश्रित इति नियमः। जीवनमाश्रितम् , आश्रयः प्राणः । अत एव मन्त्रे जीवनवतामस्माकं रक्षकः प्राण उपदिश्यते "पृदाकूरक्षिता" इति । पृदाकुरिति प्राणस्य नाम । यत्रैतदानातं , - वैदिकसन्ध्यावैदिकभाष्यम् । ४१ भवति "पृदाकुसानुर्यजतो गवेषण एकः सन्नभि भूयसा" (ऋ० ८।१७।१५) इति । पृदाकुसानु:-प्राणवत्सम्भननीयः । यजतः यष्टव्यः । गवेषण:-मोक्षसुखस्य संसारसुखस्य च प्रापयिता दाता, मोक्षसुखाय गवेपितव्योऽन्वेष्टव्यो वा, अभि-अभिभवति, भूयस-बहून् शत्रून् । प्राणो हि पीड्यमानः कदाचित् कुत्सितं शब्दा- यत इति योगादपि सम्पद्यते निःसंशयमत्र पृदाकुः प्राणः । यथा हि रक्षकः खल रक्षाविधाने नियमेनेषूनपेक्षते, ज्ञानं वा विदुषः, कर्म वा कर्मिणः, तथा प्राणोऽन्नमपेक्षते । नासाविष्वाद्यभावे रक्षकादि- वदन्नाभावे कथञ्चिद् रक्षा विधातुमीप्टे । अस्ति च रक्षकादिनेष्वादिवद- नस्य प्राणेन सम्बन्धः श्रुतिसिद्धः "स तपस्तत्वा मिथुनमुत्पादयते प्राणं च रयिं च" (प्रश्नो० ११३) इति । रयिम् अन्नम् । “अन्नं हि प्राणान् विभर्ति' (शतपथ० ८।१।३।१) "प्राणो वा अन्नम्" (तै० २१७) इति च । प्रशस्त नूनं सर्वेभ्योऽन्नेभ्यः प्राणस्य रक्षकं ब्रीहियवादिकमन्नम् । अतएव समान्नायते भगवति वेदे "अध्व- यवो! यो दिव्यस्य वखो यः पार्थिवस्य क्षम्यस्य राजा । तमूर्दरं न पृणता यवेनेन्द्र सोमेभिस्तदपो वो अस्तु" (ऋ० २।१४।११) इति । हे अध्वर्य्यवः! यो दिव्यस्य यः पार्थिवस्य क्षम्यस्य च वखः बसुनो राजा, तमिन्द्रमूर्दरम् आवपनं न इव यवेन-बीह्यादेरुपलक्षणमेतत् , ब्रीहियवादिनाऽनेन सोमेभिः सोम- रसैः पृणत पूरयत, तदपः तदिदं कर्म, वा-युष्माकमस्तु-भवतु सार्वदिकमिति समानातमन्त्रपदार्थः । तस्मादिह रक्षकस्य प्राणस्येषवो श्रीहियवादिकमन्नमिति युक्तमभिहितं भवति नायुक्तम् । तेभ्योनमःसबै पूर्ववद् व्याख्यातं वेदितव्यम् ॥ ८ ॥ प्रत्यग्दिगनन्तरमुदीची दिक् परिक्रम्यते । क्रमप्राप्तत्वात् । तत्र चैष विनियुक्तमन्त्रपाठः- "उदीची दिक सोमोऽधिपतिः खजो रक्षिताऽशनि- - " . ४२ उदीची दिक् सोमोऽधिपतिः रिषवः । तेभ्यो नमोऽधिपतिभ्यो, नमो रक्षितृभ्यो, नम इषुभ्यो, नम एभ्यो अस्तु । योऽस्मान् द्वेष्टि, यं वयं द्विष्मस्तं वो जम्भे दध्मः" ॥९॥ (अथर्य० ३।२७।४) उदीची-वामहस्तेऽवस्थिता, दिक्-दिशा, सोमः=प्रियदर्शनः, अधिपति: खामी, स्वजा-खं शरीरं, तज्जनयिता चरमो धातुः, रक्षिता-रक्षकः, अशनिः ब्रह्मचर्य्यम् , इषवः बाणाः, तेभ्योनमः सबै पूर्ववत् । यस्यां दिशि भगवान् विवस्वानुदगञ्चति दूरमूर्ध्व प्राप्नोति सा दिगुदी- चीति संज्ञायते । दिगन्तरापेक्षयोर्ध्वतरत्वादुत्तरा, वामहले भवाद् वामा चैपैव दिग् प्रतिज्ञायते । उत्तरा उच्चतरा, वामा मनोहरा प्रियदर्शना चेति त्रयं समानार्थम् । अस्ति च दिगन्तरापेक्षयोदीची दिगुच्चतरा प्रिय- दर्शना च सर्वानुभवसिद्धा । नहि मनुजो भवति तत्रियदर्शनतां च नानु- भवतीत्युदाह शक्यते । यथा च दिक् प्रियदर्शना तथा तत्स्वामिनाऽपि प्रियदर्शनेन भवितव्यम् । अनुरूपसम्बन्धस्यौचित्यात् । नहि दिक् प्रिय- दर्शना स्यात् खामी च तस्याः प्रियदर्शनो न भवेदिति कथञ्चित् संश्लि- प्यते । योऽग्रणीर्विद्यते, वर्तते चेश्वरो जीवनदाता च, स प्रियदर्शनोऽपि स्यादिति बहु सुसम्बद्धमवलोकामहे । यस्य कृपया किलार्थ्याः सर्वासां प्रजानामग्रण्यः, सर्वासां प्रजानामीश्वराः सर्वासां प्रजानां जीवनदातारः, सर्वासां प्रजानां प्रियदर्शना अभूवन् , भविष्यन्ति च, स जगद्गुरुरीश्वरः सर्वासु दिक्षु वर्तमानो भवन्नग्रणीभवन्नीश्वरो भवन् जीवनदाता, प्रियदर्शनो न भवेदिति न कस्यचिदन्तर्हृदयस्य मनो मन्यते । अग्रणीत्वादिभिः प्रियदर्शनतासमवायस्यावश्यम्भावित्वात् । समवाये चोदाहरणमार्यकुल- नन्दनः पुरुषव्याघ्रो राजर्षिवर्यः खलु पाञ्चनदः श्रीगुरुगोविन्दम- गेन्द्रः, साक्षात्क्षत्रश्रीरायंकुलदिवाकरो मनुजपञ्चास्योऽतुलप्रतापो वा श्रीमान् प्रतापो नरेन्द्रः, सनातनधर्ममूर्तिरखिललोकवन्धो मर्यादापु- रुषोत्तमो वा जानकीवल्लभो भगवान रामचन्द्रः प्रव्यक्तम् । अतो युक्तः वैदिकसन्ध्यावैदिकभाष्यम् । ४३ मियदर्शनायास्तस्या उत्तरस्या दिशोऽधिपतिरपि प्रियदर्शनः । तदिदमनु- सन्धायैवोच्यते "उदीची दिक् सोमोऽधिपतिः" इति । सोमः प्रियदर्शनो जगद्गुरुरीश्वरः । यत्रैतदानातं भवति “ये पाकशंसं विह- रन्त एवैर्ये वा भद्रं दूषयन्ति सुधाभिः । अहये वा तान् प्रददातु सोम आ वा दधातु निक्रतेरुपस्थे" (ऋ० ७ १०४।९) इति । ये दुष्प्रकृतयो मां पाकशंसं परिपकवचनं सत्य- भापिणमेवैः एवकैः प्राप्तव्यैरात्मीयतत्तत्कामैहेतुभूतैर्विहरन्ते विशेपेण हरन्ति परिवदन्ति, ये वा सुधाभिः धनधान्यादिहेतुकैवलैर्भद्र-कल्या- णवर्तिनं मां दुपयन्ति दुष्टं कुर्वन्ति, तान् सर्वान् सोमा प्रियदर्शनो भगवानीश्वरोऽहये वासाय वा प्रददातु निक्रते पापदेवताया उपस्थे उत्सझे वाऽऽदधातु-अक्षिपवित्यर्थः । प्रियदर्शनः खलु सर्वो वीय्येण भवति । वीर्याभावे प्रियदर्शनताया अभावात् । नहि वीर्य न विद्यते अस्ति च प्रियदर्शन इति कचिदी- क्ष्यते । नूनं रूपं लावण्यं च सर्व सर्वत्र वीर्य्यनिवन्धनम् । न्यूनमुच्यते यदिदं देशगौरवं जातिगौरवमात्मगौरवं च, तत्सर्वं वीर्यकारणकम् । वीर्यवन्तो हि देशगौरवं जातिगौरवमात्मगौरवं चं सततं रक्षितुं प्रकल्पन्ते न वीर्यहीनाः कापुरुषाः । मनुवंशजाश्चात्मतो जातितो देशतः खवीर्य्यगुप्ताः प्रसिद्धाः । यत्रेदमाह कालीदासोऽपि रघुवंशे "खवीर्यगुप्ता हि मनुप्रसूतिः” इति । तदिदं वीर्य यह तथाऽमुत्र रक्षक समानम् । अतएवोच्यते "स्वजो रक्षिता" इति खजः चरमो धातुर्वीर्य्यम् । जनयति खं शरीरं, जायते वा शरीरा- त्खादिति तद्युत्पत्तेः । भवति चान्नादिपरिपाकेण शरीराद्वीर्योत्पत्तिः, वीर्य्याद्वा शरीरोत्पचिरिति लोकवच्छृतिसिद्धम् "रेतसः पुरुषः" (तै० २।१ ) इति । तस्यैतस्य वीर्य्यस्य प्रियदर्शनताप्रयोजकत्वं चाना- यते साक्षाद् भगवति वेदे "वत्रासो न ये खजाः स्वतवस इषं खरभिजायन्त धूतयः" (ऋ० १३१६८।२) इति । वज्ञासा प्रियदर्शनाः । स्वजा खजप्रयुक्ताः । खजो वीर्य्यम् । खतवस:- ४४ उदीची दिक् सोमोऽधिपतिः बृंहितशरीराः । यथा वीर्य्यस्य खजो नाम, तथाऽन्तिमधातुश्चरमधातु- रित्यपि नामान्तरं द्रष्टव्यम् । यथा हि रक्षकः प्राणः खलु रक्षार्थ शास्त्रदेशितं सत्त्ववहुलं त्रीहिय- वादिकमन्नमपेक्षते, यत्रैतत् समानातं भवति "तं सखायाः! पुरो- रुचं यूयं वयं च सूरयः । अश्याम वाजगन्ध्यं सनेम वाज- पस्त्यम्" (ऋ० ९।९८५१२) इति, तथा वीर्य शास्त्रदेशितं ब्रह्म- चर्य्यमपेक्षते । तदभावे रक्षाविधानस्थाशक्यत्वात् । नहि यावद् यथाशास्त्रं ब्रह्मचर्य नानुष्ठीयते तावत् स्वरूपेण सताऽपि रक्षकेण वीय्येण कथ- ञ्चिद् रक्षा विधातुं क्षम्यते । वाणस्थानापन्नं हि रक्षकस्य तस्य शास्त्रदेशितं ब्रह्मचर्यम् । तच्चानाशनिशब्देनाभिधीयते "अशनिरिपवः" इति । अशनिः ब्रह्मचर्यम् । अश्यते संहन्यते शरीरमनेनेति तयुत्पत्तेः । संहननकर्मणोऽश्नोतेरनिप्रत्ययः । संहननं सङ्घातोऽवयवानां दृढः संयोगः । यथाशास्त्रमनुष्ठीयमानो योऽवयवव्यूहदायेण शरीरमिदं वज्रोपमं विधत्ते सोऽशनिरिति तन्निष्कर्षः । अश्नोतेर्वा स्यात् खादनकर्मणोऽनिप्रत्ययः । यो रोगान् समस्तानश्नाति रोगा वा समस्ता येनाश्यन्ते सोऽशनिरिति तत्र तयुत्पादनम् । ब्रह्मचय्य हि यथाशास्त्रमनुष्ठीयमानमवयवव्यूहदायण शरीरमिदं वज्रोपमं रोगान् समस्तानपहत्य रूपलावण्यसमन्वितं च विधत्त इति कस्य नापरोक्षम् । को नु नाम पुमान् चक्षुष्मान् भवन्नेतद् ब्रह्मचर्य- माहात्म्यं प्रत्यक्षतो न पश्यति। वज्रोऽशनिरित्यपरो मार्गः । तत्रापि शरीरस्य वज्रभावे हेतुत्वाद् भवेदशनिब्रह्मचर्य यथा शरीरस्य तेजखिभावे हेतु- त्वाद्घृतं तेजः "तेजोवा आज्यम्” (ताण्ड्य०१२।१०।१८) इत्यादि- श्रुतिभ्य इत्यविरोधः । तेज़ शरीरकान्तिः । आज्यं विलीनं घृतम् । दृश्यते च बज्रभावहेतुत्वनिबन्धनो घृतेऽशनिपव्यवज्रशब्दप्रयोगोऽपि 'श्रुत्यन्तरेषु “घृतेन हि वज्रणेन्द्रो वृत्रमहन्” (ऐतरेयवा० ४।९) "वज्रो ह्याज्यम्" (शतपथ० १।३।५।१७) इत्येवञ्जातीयकेषु । यथा खलु ब्रह्मचर्य शास्त्रविधानेनानुष्ठीयमानं शरीरमिदं वज्रभावमभि- ४५ - . वैदिफसन्ध्यावैदिकभाष्यम् । नयति, तथा सुरभिघृतमधमानमिति सामान्यम् । तस्मादशनिब्रह्मचर्य- मिति समतं विवरणम् । तेभ्योनमःसवै पूर्ववद् व्याख्यातं द्रष्टव्यम् ॥९॥ उत्तरदिगनन्तरमघोदिक्क्रमः । तत्र विनियुक्तमन्त्रस्यैप पाठः- "ध्रुवा दिग् विष्णुरधिपतिः कल्माषग्रीवो रक्षिता चीरुध इपवः । तेभ्यो नमोऽधिपतिभ्यो, नमो रक्षितृभ्यो, नम इषुभ्यो, नम एभ्यो अस्तु । योऽस्मान् द्वेष्टि यं वयं द्विपमस्तं वो जम्भे दध्मः" ॥१०॥ (अथर्व० ३।२४५) ध्रुवा-निश्चला, दिक्-दिशा, विष्णुः व्यापको जगद्गुरुरीश्वरः, अधिपतिः खामी, कल्मापग्रीवः आचार्यः, रक्षिता-रक्षकः, वीरधः-छात्राः, इपवः चाणाः, तेभ्योनमः सबै पूर्ववत् । यस्यां दिशि प्रतिष्ठाय प्राच्याद्याः सर्वा दिशः परिकल्प्यन्ते सा ध्रुवा दिगिति व्यवहारं भजते । यत्कारणं सा प्राच्यादिसर्वदिगपेक्षया निश्चला वरीवृत्यते । अत एवैनां बढचाः प्राच्यादीनां सर्वासां दिशां मध्ये वर्त- मानान्मध्यमां, प्राच्यादिसर्वदिगपेक्षया प्रतिष्ठितत्वाच्च प्रतिष्ठां दिश- माचक्षते "तस्मादस्यां ध्रुवायां मध्यमायां प्रतिष्ठायां दिशि ये के च कुरुपश्चालानां राजानः सवशोशीनराणाम्" (ऐतरेयना० ३९।१) इति । परिकल्पकानां मनुष्याणामधोभागे भवनाच्चैपेवाधोदिगिति व्यपदेशं लभते । देशो दिगिति चैकोऽर्थः। सम्प्रति राज्यश्रीभुजामाजलानामाङ्गलो नामाभिजनो ध्रुवा दिगू । यत्कारणं ते तत एव प्राच्याद्याः सर्वा दिशः परिकल्पयन्ति । मनुवंशजानामस्साक- माव्णाश्चार्य्यावतों नामाभिजनो भुवा दिग् । यत्कारणमस्माभिरत एव प्राच्याद्याः सर्वा दिशः परिकल्प्यन्ते । साधु स्पष्टीक्रियते स्म चैषोऽर्थः "तस्मादस्याम्" इत्युदाहृतश्रुतौ भाप्ये सर्ववेदभाप्यका सायणाचा- र्येण "मध्यमा दिङ्मध्यदेशः । स प्राच्यादिभिः सर्वा- भिरपेक्षितत्वेन धुवो भवति । तदपेक्षयैव पूर्वा पश्चिमे त्यादिव्यवहारः। स च देशः सर्वेषां वैदिकानामाश्रयः" ४६ ध्रुवा दिग् विष्णुरधिपतिः इति । येषां च या काचिद् ध्रुवा दिक्, ते तत एव विद्यया वाणिज्येन राजलक्ष्म्या च सोत्साहं सर्वा दिशो व्यानुवते । नहि येषां जापानाभिजनो नाम ध्रुवा दिक्, ते कदाचिदा-वर्ततो विद्यादिभिर्निमित्तैः प्राच्याद्याः सर्वा दिशो व्याशितुं कल्पन्ते । तादृक्षव्याप्त्या च मनुष्याणां तदिगेव व्याप्ताऽनुमन्यते । को नु नाम स्यात् सूक्ष्मदृक्पुमान् यः किल पुण्यतमां तां व्याप्तिमतीं नानुमन्येत, यस्याः किल पुत्रनागाः प्राच्याद्याः सर्वा दिशो विद्यया वाणिज्येन राजलक्ष्म्या च सोत्साहं व्याप्नुवन्ति । यदा खल दिग् व्याप्तिमती, तदा तत्खामिनाऽपि व्याप्तिमता भवितव्यम् । सारूप्यस्य सर्वत्र न्याय्यत्वात् । तदिदमालोच्यैवान्नायते "विष्णुरधिपतिः' इति । विष्णुः व्याप्तिमानीश्वरः । वेवेष्टि सर्वं जगदिति तयुत्पत्तेः । व्याप्तिमान् व्यापक इति च समानोऽर्थः । व्याप्तिं च तस्य सर्वत्र श्रावयति वैदिकी श्रुतिः “स ओतश्च प्रोतश्च विभूः प्रजासु" (यजु० ३२८) इति । “नित्यं विभुं सर्वगतं सुसूक्ष्मम्" (मुण्डको० १११।६) "अव्यक्तात्तु परः पुरुषो व्यापकोऽलिङ्ग एव च" (कठो० ६।८) इति च । सा चेयं व्याप्तिर्न तावद्रक्षितुं पार्य्यते यावत् कश्चि- दाचार्यों न भवेत् । आचार्य एव भगवतो जगद्गुरोरीश्वरस्यासदादेश्व मनुष्यवर्गस्य व्याप्तेः सर्वत्र रक्षिता । यन्त्र हि मनुष्यजातौ कश्चिदाचार्यों न विद्यते सा तूर्णमज्ञानेन व्यामोमुह्यमाना सर्वासु प्राच्याद्यासु दिक्षु विद्यादिनिमित्तेन सम्पादितामपि खीयां चिरन्तनीं व्याप्तिं नाशयते, जगद्गुरोरीश्वरस्य व्याप्तिं चैकपदे निद्भुते । नह्येतदस्ति कस्यापि प्रज्ञावतो मनुवंशजस्याप्रत्यक्षम् । आचार्यो ह्येनां गाढमज्ञाननिद्रया प्रसुप्तां ज्ञानयष्ट्या- घातेन दैनन्दिनं प्रबोधयति, तद्व्याप्तिं च सर्वासु प्राच्याद्यासु दिक्षु यथा- शक्यं सम्पादयति, जगद्गुरोरीश्वरस्य व्याप्तिं चा पृथिव्या आ च दिवो लोकाव्यवस्थापयति श्रद्धापयति चेति क्वास्ति मात्रयाऽपि नाम तिरोहितम् । किं बहुना यथा मनुष्याणामग्रणीभावे ज्ञानमावश्यकम् , ईश्वरभावे कर्म, जीवने प्राणः, प्रियदर्शनतायां च वीर्य, तथा भूमिमण्डले व्याप्त्याः सम्पादने रक्षणे चाचार्योऽप्यावश्यकः । तं विना तत्सम्भवाभावात् । .
४७ वैदिफसन्ध्यावैदिकभाष्यम् । सोऽयमाचाय्योऽत्र फल्माषग्रीवशब्देन प्रतिपाद्यते "कल्मापग्रीवो रक्षिता" इति । कल्मापग्रीव इति समस्तं पदम् । द्विपदबहुव्रीहिः । तत्र कल्माषस्य पूर्व रूपं कर्मासः । रेफस्य लः, सस्य पः, पृपोदरादि- स्वात् । देशजात्यात्महितसाधनेषु कर्मसु सततमधिकारिणो जनानस्यति क्षिपति प्रेरयति यो भूतभौतिकगोचरोऽध्यात्मगोचरश्च शास्त्रजन्योऽनुभवः स कर्मासः । अध्यात्मविद्या पदार्थविद्या चेति तन्निष्कर्षः । अनुभवः, प्रत्ययः, साक्षात्कारो विद्येति चानन्तरम् । स चानुभवो ग्रीवायां कण्ठे यस्य स कर्मासग्रीवः । स एव रेफस्य लत्वेन सस्य पत्वेन च कल्माप- ग्रीवस्तत्रभवानध्यात्मविद्यापदार्थविद्याकण्ठः साक्षाद्भगवतो जगद्गुरोर्ब्रह्मणो मूर्तिराचार्यः । लोके खल शुक्लकृष्णमिश्रिते वर्णे कल्माषशब्दः प्रायेण व्याख्यायते । यत्रैतदुदाहृतं भवति “शुक्लगुणः शुक्ला, कृष्णगुणः कृष्णा, य इदानीमुभयगुणः स तृतीयामाख्यां लभते कल्माप इति" (महाभाष्य० ११२।३१) इति । तदनुरोधेऽपि कल्माषशब्दो न तावदाचार्य्यार्थतां विजहाति । यत्कारणं प्रकृतेस्तम- स्त्वेन तत्सम्बन्धिनी पदार्थविद्या कृष्णा, ब्रह्मात्मनोयोतिष्देन तत्सम्ब- निधन्यध्यात्मविद्या शुक्ला, तदुभयमिश्रितविद्या च शुक्लकृष्णमिश्रितरूपव- दाञ्जस्येन कल्मापशब्दा घटते, नास्ति काचिदनुपपत्तिः । प्रकृतेस्तमस्त्वं ब्रह्मात्मनोज्योतिष्वं च "उद् वयं तमसस्परि" ( ऋ० ११५०।१०) इत्युपस्थानमन्त्रे व्याकरिण्यते । कल्माषग्रीवोऽम्बिकापतिर्भगवान् शिव इति पौराणिकी वार्ता । तत्राप्याचार्य्यः कल्मापग्रीव इत्यविरुद्धम् । तस्य तद्रूपत्वोपचारात् । अध्यात्मादिसर्व विद्याचार्यश्चोमापतिर्भगवान् शङ्करो लोकविश्रुत इति नोपचारानुपपत्तिः । शिवः शङ्कर इति चैकोऽर्थः । कल्माषग्रीवोऽध्यात्मविद्यापदार्थविद्याचार्यों रक्षकः । तस्य रक्षायै विद्यते वाणापेक्षा । आचार्य्यस्य च बाणारछात्राः प्रसिद्धाः । स हि सवै कार्य छात्रैरेव सम्पादयतीति को नु नाम न जानाति । येपामध्ययना- र्थमाचार्य्यस्य विविधं छादनं शीलं, तेऽन्तेवासिनश्छात्राः । ते च महा. भागा मन्त्रे गुणसामान्येन वीरुध इत्युपादीयन्ते “वीरुध इषवः" इति ।
ऊर्ध्वा दिगु बृहस्पतिरधिपतिः वीरुधः लताः । यथा हि रसादानार्थ शाखिनं विविधं रुन्धन्ति छाद- यन्ति वीरुधो लतास्तथा विद्यादानार्थ तत्रभवन्तमाचार्य्यमन्तेवासिन- इछात्रा इति गुणसामान्यम् । शार्यक्रौर्यादिगुणसम्पन्नेषु क्षत्रियवीरेषु सिंहशब्दवद् विद्यारसादानार्थमाचार्यद्रुमाच्छादनादिगुणसम्पन्नेषु छात्रेषु वीरुच्छब्दप्रयोग इत्यभिप्रायः । अस्तु वा साक्षाद् वीरुधरछात्राः । रूपभेदेऽप्यर्थमेदाभावात् । समानायते च "इदं जनासो! विदथ महद् ब्रह्म वदिष्यति। न तत् पृथिव्यां नो दिवि येन प्राणन्ति वीरुधः" (अथर्व० १।३२।१) इति । येन महता ब्रह्मणा वेदेन वीरुधाब्रह्मचारिणश्छात्राः प्राणन्ति जीवन्ति, ब्रह्म हि छात्राणां ब्रह्मचारिणां प्राण इत्याशयः, तन्महद् ब्रह्म यद् वदि- ष्यति वदति, तदिदं जनासाहे जना विदथ-यूयं जानीथ, यत्कारणं न पृथिव्यां नो दिवि तत्-तत्तुल्यं किञ्चिद् विद्यत इति मन्त्र- पदार्थः । तेभ्योनमः सबै पूर्ववद् व्याख्येयम् ॥ १० ॥ अथोर्ध्वदिक्क्रमः । तत्परिक्रमायामेष मन्त्रः पठितव्यः- "ऊर्ध्या दिग् बृहस्पतिरधिपतिः श्वित्रो रक्षिता वर्षमिषवः । तेभ्यो नमोऽधिपतिभ्यो, नमो रक्षितृभ्यो, नम इषुभ्यो, नम एभ्यो अस्तु । योऽस्मान् देष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः" ॥११॥ (अथर्व० ३।२६) अवा-उपरिष्टाद्वर्तमाना, दिक-दिशा, बृहस्पतिः बृहत्या वेद- बाण्याः पतिः, अधिपतिः खामी, श्विन-यज्ञः, रक्षिता-रक्षकः, वर्ष-वृष्टिः, इषवः चाणाः, तेभ्योनमः सर्वं पूर्ववत् । या हि दिगुपरिष्टान्मूर्भो बोभूयते सो; दिगिति व्यवह्रियते । तस्या ऊर्ध्वत्वे च तत्स्वामिनाऽप्यूइँन भवितव्यम् । यथायोग्यसम्बन्धस्य न्याय्य- त्वात् । ऊर्ध्वश्च वेदवाण्याः पतिरीश्वरः । यत्कारणं सा सर्ववाण्यपेक्षयो; बरीवृत्यते। यत्रैतदुदाहृतं भवति "अनादिनिधना नित्या वागुत्सृष्टा खियम्भुवा । आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः" - .
वैदिकसन्ध्यावैदिकभाप्यम् । ४९ (महाभार० १२।२३३।२४) इति । यस्य किल वाणिरूर्वा स स्वय- मूर्य दति किनु वत्ताव्यम् । सोऽयमूवों वेदवाणिपतिरीश्वरोऽत्र वृह- सतिशब्देन कीर्त्यते "वृहस्पतिरधिपतिः" इति । बृहत्या वेदवाण्याः पतिरीश्वरो वृहस्पतिरिति शब्दार्थः । सोऽयं मन्त्रान्तरेणानुगन्यते "अस्से धेहि ामती वाचमासन् बृहस्पते! अनमीवामिपराम् । यथा वृष्टिं गन्तनवे बनाव दिवो द्रप्सो मधुमाँ आवि- वेश" (म० १०१९८१३ ) इति । यदा खलु वेदवाण्याः पतिह- सतिरधिपतिलदा वदवाणिप्रतिपाद्यो यज्ञ एव रक्षको वक्तव्यः । यत्कारणं यज्ञार्थनेव सर्गादौ वेदवाण्याः प्रादुर्भावः पापट्यते "अग्नि- वायुरविभ्यस्तु त्रयं ब्राह्म सनातनम् । दुदोह यज्ञसिद्धयर्थ- ऋग्यजुःसामलक्षणम्" (मनु० ११२३) इति । यज्ञस्य रक्षकत्वं धगत्वानिर्विवादम् । अतएव स प्रनामात्रस्य सर्वेष्टकामधुन सासर्यते भगवद्गीतायाम् “सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः। अनेन प्रसविष्यध्वमेप वोऽस्त्विष्टकामधुक" (गी० ३।१०) इति । धर्ना नूनं यज्ञ इति साक्षादानायते च भगवति वेदे, “यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्" (ऋ० १०८०। इत्यादिभिर्मन्नवर्णः । स एप धर्मो यज्ञोऽत्र श्वित्रशब्देनोपादी- यते "श्वित्रो रक्षिता" इति । चित्र इत्यत्र "स्फायितश्चिवचि" (उणा० २।१७०) इत्यादिना श्वेततेरक्प्रत्ययः । यः स्वयं श्वेतः शुभ्रः शुल्लो भवन् स्वाश्रयं परं श्वेतते शुक्लीकुरुते स श्वित्रा-श्वेतः शुभ्रः शुक्ल इत्यर्थः । यज्ञो धर्मो निश्चिततावदेवंखभावः । यदाऽनुष्ठीयते तदैव श्वेतः शुनः शुल्लो जायमानः खाश्रयं नरं शुक्लं विधत्ते । यत्रेदमाह मुनिवरो हारीतः “यज्ञेन लोका विमला भवन्ति यज्ञेन देवा अमृत- त्वमाप्नुवन् । यज्ञेन पापैर्वहुभिर्विमुक्तः प्राप्नोति लोकान- जरस्य विष्णोः" इत्यादिना यज्ञमहिमानमुपवर्णयन् । धर्मस्य शुक्लं रूपमधर्मस्य च कृष्णं सर्वसम्मतम् । अतएव धर्मे शुक्लपदमधर्मे च कृष्ण- पदं प्रयुके योगदर्शनकृद् भगवान् पतञ्जलिः "कर्माशुक्लाकृष्णं , ५० अर्ध्या दिग् बृहस्पतिरधिपतिः योगिनस्त्रिविधमितरेषाम्" ( यो० ४।७) इति । “चतुष्पदी खल्वियं कर्मजातिः कृष्णा शुक्लकृष्णा शुक्लाऽशुक्ला- कृष्णा चेति । तत्र कृष्णा दुरात्मनाम् । शुक्लकृष्णा बहिः- साधनसाध्या, (याज्ञिकानां)। तत्र परपीडानुग्रहद्वारेणैव कर्माशयप्रचयः । शुक्ला तपास्वाध्यायध्यानवताम् । सा हि केवले मनस्यायत्तत्वादबहिःसाधनाधीना न परान् पीडयित्वा भवति । अशुक्लाकृष्णा संन्यासिनां क्षीणक्ले- शानां चरमदेहानामिति । तत्राशुक्ल योगिन एव फलसं- न्यासादकृष्णं चानुपादानात् । इतरेषां तु भूतानां पूर्वमेव त्रिविधमिति” इति च तत्रत्यं वैयासिकं भाष्यम् । तस्माद् युक्तमिह तस्य श्वित्रशब्देनोपादानम् । रक्षको धर्मों यज्ञः । न च तस्य बाणा वृष्टितोऽन्ये सम्भवन्ति । स हि यथाशास्त्रमनुष्ठीयमानो वृष्टिं जनयति, वृष्यैव च सर्वस्य प्रजावर्गस्य रक्षा विदधाति । तस्माद् वृष्टिरेव तस्य बाणा इति युक्तं प्रतिपद्यते । तदिदं दृष्ट्दै- वाह "वर्षमिषवः” इति । वृष्टिवर्षम् । वृष्टिजनयितृत्वं च यज्ञस्य सर्वा- नुभवसिद्धम् । यस्मिन् खलु कर्मणि देवतोद्देशेनामौ खाहावौषट्प्रभृति- मन्त्रोचारणपूर्वकं हविः प्रक्षिप्यते स यज्ञ इति परिभाष्यते । अग्नौ हविः- प्रक्षेपेण धूमादिद्वारा मेघोत्पत्त्या दृष्टिरिति च निश्चितो मार्गः। यत्रै- तच्छ्रुतं भवति “अग्नेवै धूमो जायते, धूमादभ्रमभ्राद् वृष्टिः" (शतप० ५।३।५।१७) इति । स्मृतं च "अग्नौ प्रास्ताऽऽहुतिः सम्य- गादित्यमुपतिष्ठते। आदित्याजायते वृष्टिव॒ष्टेरन्नं ततः प्रजा" (मनु० ३.७६) इति । श्रुतिस्मृतयश्च नः प्रमाणम् । तस्माद् रक्षकस्य यज्ञस्य वर्षमिषव इति युक्तमुक्तमनुमन्यामहे । तेभ्यो नमः सर्वं पूर्ववद् व्याख्यातं वेदितव्यम् ॥ ११ ॥ मनसा परिक्रम्यादर्शि सम्मुखेऽप्रणीत्वं ज्ञान विद्वांसः, दक्षिणे सर्वैश्वय्य कर्म कर्मिणः, पृष्ठे जीवनं प्राणोऽन्नं, वामे प्रियदर्शनता वीर्य ब्रह्मचर्य, ध्रुवायां व्याप्तिराचार्यो अमचारिणः, मूर्ध्नि वेदवाणी , " वैदिकसन्ध्यावैदिकीयम् यज्ञो वृष्टिरिति । नूनमिदमदृष्टपूर्व दृश्यम् । मेरे नगर, पेक्ष्यते हितसाधनं, तत् सर्वं यथास्थानमवतिष्ठते । नान्यदतोऽपेक्ष- णीयं किञ्चिदवशिष्टं लोक्यते यत् प्रार्थनीयं मन्येत । शिण्यते तु केवल- मेकं मोक्षसाधनं जगद्गुरोरीश्वरस्य साक्षाद् दर्शनम् । तदेवाधुना प्रार्थ- यितव्यम् । तदर्थमुपस्थानमन्त्रास्तावदेते प्रस्तूयन्ते । उपस्थानं साज- लिवन्धं प्रार्थनम् । तत्रायमादिमो मन्त्रः- {ऋपिः प्रस्कण्वः काण्वः, देवता सूर्यः, छन्दोऽनुष्टप्} "उद्वयं तमसस्परि ज्योतिष्पश्यन्त उत्तरम् । देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम्" ।। १२ ।। (म० १।५०१०) वयम्-उपासका वयम् , उद-विभक्तिलोपश्छान्दसः, उत्कृष्टात् , भोग्यत्वमुत्कृष्टत्वम् , भोग्यात् तमसा प्रकृतेः परि परमुत्तरम्-उ- स्कृष्टवृत्तेरुच्छब्दात् तरप् , उत्कृष्टतरं, भोक्तृत्वमुत्कृष्टतरत्वम्, भोक्तारं ज्योतिः चैतन्यप्रकाशो ज्योतिष्टम् , ज्ञानं चैतन्यम् , ज्योतिस्वरूपं जीवात्मानं पश्यन्तः साक्षात्कुर्वन्तो देवत्रा "देवमनुष्यपुरुषपुरु- मर्येभ्यो द्वितीयासप्तम्योर्बहुलम्" (अष्टा० ५/१५६) इति सप्त- म्यर्थे त्रा, देवेषु द्युतिमत्यु सूर्यप्रभृतिषु प्राकृतेपु, जीवात्मसु चाप्राकृतेषु देवम् अन्तरात्मत्वेन द्योतमानं सूर्य-सूरिभिः प्राप्यमुत्तमम्-उ- स्कृष्टवृत्तेरुच्छब्दात् तमप् , साक्षित्वमुस्कृष्टतमत्वम् , अतिशयेनोत्कृष्टं साक्षिमूतं ज्योति: ज्योतीरूपं जगद्गुरुं परब्रह्म परमात्मानमगन्म: "छन्दसि लुङ्ललिटः" (अष्टा० ३।४।६) इति प्रार्थनायां लङ्, शपो लोपश्छान्दसः, "म्वोच" (अष्टा० ८।२।६५) इति धातोर्म- कारस्य नकारः, प्रामवाम-प्राप्नुयाम, प्राप्तिरनुभवः साक्षात्कारो दर्शनम् , पश्येमेत्यर्थः। त्रयः खलु मुख्याः पदार्थाः प्रकृतिर्जीवात्मा परमात्मा चेति । तत्र प्रकृतिरिह तमःशब्देन प्रतिपाति सव्यकामावात् । चैतन्यप्रकाशो हि चेतनधर्मो न जडधम: जडा च प्रकृतिरिति नै स , " . ५२ उद्वयं तमसम्परि तत्र कर्हिचिद् वोभूयते । तदभावे च युज्यते तस्यास्तमःशब्देन प्रति- पादनम् । श्रुत्यन्तरेऽपि च चैतन्यप्रकाशाभावनिबन्धनस्तत्र तमःशब्द प्रयुज्यमानो निरीक्ष्यते "तम आसीत् तमसा गूढमने" (ऋ० १०।१२९।३) इति । "आदित्यवर्ण तमसः परस्तात्” (यजु० ३१।१८) इति च । न च तमःखरूपा भवन्त्यपि तत्रभवती भगवती प्रकृतिः कर्हिचिदनुपादेया भवितुमर्हति । भोग्यत्वात् । यथा हि लोके खलु जाततनूः सीमन्तिनी भोक्तृणां भोगाय नानारूपं विभ्रती भोग्या सञ्जायते तथा प्रकृतिरपि भोक्तृणां भोगाय नानाविकारमनुभवन्ती भोग्या सम्पद्यते। भोग्यं च सर्वदा सर्वत्र भोक्तृभिरुपादीयते न जातु परित्यज्यते । भोक्त- त्वस्य भोग्यनिवन्धनत्वात् । भोग्यनिवन्धनं हि भोक्तृत्वम् । न च तद् भोग्याभावे कथञ्चिवस्थातुमर्हति । नहि भोग्यं न विद्यते भोक्ता चास्तीति सङ्गच्छते । यस्य किलावस्थानं यन्निवन्धनं, तेन तदुपादानमेवो- चितं न हानम् । जाततनूः सीमन्तिनी च भोग्या सती भोत्र्यपि वर्तते, सा यथा कामुकाय भर्ने भोगं कामयते तथाऽऽत्मनेऽप्यभिलपते ।न चात्मार्थे भोगमभिलपमाणा सा परमार्थतो भोग्या मन्तुमुत्सह्यते । विपरीता चैतस्याः सर्वथा प्रकृतिः । सा हि सर्वदा भोक्त्रर्थमेव सर्व भोगमर्थयते, तद्भोगार्थमेव चानिशं नानारूपं परिष्कुरुते, न च खमेऽपि स्वार्थ भोगं काश्ते । अतः सा परमार्थतो भोग्या न जाततनूसीमन्तिनीवदू भोक्त्री- वेषेणाच्छन्ना | तदिदं भोग्यत्वमेवात्रोत्कृष्टत्वादुच्छब्देनार्थाप्यते । तथा चोत्सहितस्य तमसो भोग्या सपरिवारा प्रकृतिरों निर्वाधः । जीवात्मानमिह पूर्वो ज्योतिश्शब्दोऽभिधत्ते । स च भोग्यायाः सपरि- वारायाः प्रकृतेः परोऽन्तरो भोक्तृत्वादिति परिशब्देनोच्यते । तस्य भोक्तृत्वं च विशेषणेनोत्तरशब्देन । यद्यपि ज्योतिश्शब्दो जीवात्मनि परमात्मनि च साधारणः प्रयुज्यते "योऽयं विज्ञानमयः प्राणेषु हृद्यन्तज्योतिःपुरुषः” (बृहदा० १।३।७) इत्येवञ्जातीयको जीवात्मनि, "ध्रुवं ज्योतिर्निहितं दृश्ये कम्” (ऋ० ६।९।५) "तच्छुम्नं ज्योतिषां ज्योति:" (मुण्डको० २।२९) इत्येव- .
५३ . , वैदिकसन्ध्यावैदिकभाष्यम् । लातीयकश्च परमात्मनि, तथापि विशेषणाभ्यामुत्तरोत्तमाभ्यां पूर्वो ज्यो- तिश्शब्दो जीवात्मगोचरःपरश्च परमात्मगोचरः प्रयुक्त इति स्फुटं विज्ञा- यते । अस्ति तावत् सपरिवारायाः प्रकृतेर्जीवात्मनश्चोत्तमः परमात्मेति सार्वत्रिको राद्धान्तः, “ये अग्नयः पाञ्चजन्या अस्यां पृथिव्या- मधि । तेषामसि त्वमुत्तमः प्र णो जीवातवे सुव" (यजु० १८१६७) इति श्रुतेः । पाञ्चजन्या: पञ्चजना मनुष्याः, तत्रात्मत्वेन वर्तमानाः अग्नयः सर्वेपामग्रण्यो जाठराग्निमन्तो वा जीवात्मान इत्यभि- प्रायः । मनुष्या मनुष्यदेहाः, खार्थे वा तद्धितः । “यस्मात् क्षरमती- तोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः" (गी० १५/१८) इति च स्मृतेः । तत्र सपरिवारा प्रकृति- स्तमश्शब्देनावाचि, परमात्मा च परेण ज्योतिश्शब्देन वक्ष्यते । शिष्यते केवलं जीवात्मेति स एवात्र पूर्वज्योतिश्शब्द इति सुखेन विज्ञातुमीश्यते । चैतन्यं ज्योतिः । तदात्मको जीवात्मा भोग्यायाः सपरिवारायाः प्रकृतेः परो भवितुमर्हति । भोक्तृत्वात् । भोक्ता हि जीवात्मा । "आत्मे- न्द्रियमनोयुक्तं भोक्तेत्याहुर्मणीषिणः" (कठो० ३।८) इति श्रुतेः । भोक्त्रथै च सर्व भोग्यम् । “तदर्थ एव दृश्यस्यात्मा" (योग० २।२१) इति स्मृतेः । यदर्थ सर्व भोग्यं स सर्वसाद् भोग्या- दर्थजातात्पर इति निश्चितम् । परत्वमिह सूक्ष्मत्वम् । उदा भोग्या सपरि- वारा प्रकृतिराख्यायते, ततोऽतिशयं द्योतयता तरपा च भोक्ता जीवा- स्मेति बहु स्पष्टं न विवरणान्तरमपेक्षते । प्रकृतिजीवात्मभ्यामुत्तमः परमात्मा । यत्कारणं स साक्षात् पश्यत्येव न भोग्यया प्रकृत्या कदाचिदासज्यते, न वा भोक्त्रा जीवात्मना जातुचिदालि- प्यते । तदिदं साक्षातृत्वमेव साक्षित्वं भगवतस्तस्यात्र तमपा प्रत्याय्यते । भोग्यत्वं प्रकृतेर्मोक्तृत्वं जीवात्मनः, साक्षित्वं च परमात्मनः साक्षाद् भग- वति वेदे समाम्नायते "द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं खाद्वत्त्यनननन्यो अभि चाकशीति" (ऋ० १११६४।२०) इति । पर्ण पक्षः, ते सुष्टुनी . - , ५४ उद्वयं तमसम्परि , शोभने विद्यते यस्य, स पक्षिविशेषः सुपर्णः, तत्सामान्यान्जीवात्मा परमात्मा चापि सुपर्णाविहोपन्यस्येते । तयोर्ज्ञानशक्तिर्दक्षिणः पक्षः, क्रियाशक्ति- रुत्तरः पक्षः । यथा हि लोके खलु कोऽपि सुपणों नान्तरेण दक्षिणोत्तर- पक्षाभ्यामात्मनीनां गगनोड्डयनलक्षणां क्रियामभिनिर्वर्तयितुं पारयते, तथा जीवात्मपरमात्मानावपि ज्ञानक्रियाशक्तिलक्षणाभ्यां दक्षिणोत्तरपक्षाभ्याम- न्तरेण नात्मनीनां जगन्निर्वहणलक्षणां क्रियामभिनिर्वर्तयितुं शक्नुतः । तौ चैतौ द्वा="सुपा सुलक्पूर्वसवर्णाच्छेयाडाब्यायाजालः" (अष्टा० ७॥१॥ ३९) इति द्विवचनौकारस्याकारः, अग्रेऽप्येवम् , द्वौ नैको, नैकात्माना- विति यावत् , अनेनैकात्मवादो व्युदस्यते । सयुजा-सयुजौ समानयोगी, योगः सम्बन्धः, खसत्तासमानसत्ताकसम्बन्धौ सदातनसम्बन्धकाविति यावत् । नियम्यः खलु शरीराध्यक्षो जीवात्मा, तस्य परमात्मना नियाम- कश्च जगद्गुरुः परमात्मा, तस्य जीवात्मना नियन्यनियामकभावलक्षणः सम्बन्धः सदातनः । सम्बन्धिनोः सदातनत्वे तत्सम्बन्धस्यापि सदातनत्वौ- चित्यात् । न तयोरागन्तुकः सम्बन्धः किन्तु सांसिद्धिक इति च तदमि. प्रायः । अनेन हि जीवात्मपरमात्मनोरौपाधिको भेदो न पारमार्थिक इति मतं निराक्रियते । तस्यौपाधिकत्वे तादृक्षसम्बन्धानुपपत्तेः । अयमेव सम्बन्धः खखामिभाव इति समाख्यायते । सखाया-सखायौ समान- ख्यानौ, चैतन्यलक्षणः प्रकाशः ख्यानं, ज्योतिरिति तत्पर्य्यायः । तद- नयोः समानं विद्यते । यथा हि परमात्मा चेतनस्तथा जीवात्माऽपि चेतनः । चैतन्यमुभयत्राविशिष्टम् । अनेन जीवात्मपरमात्मनोः सर्वथा वैशिष्ट्यं पराणुद्यते । चैतन्येनावैशियं तयो नन्दत्वेनेत्येतदपि ध्वन्यतेऽने. नेति द्रष्टव्यम् । समानम् एकम् । वृक्षं यो वृश्यते छिद्यते भिद्यते स वृक्षस्तम् । व्यष्टौ तेन देह उच्यते । तस्य च्छेदो भेवश्च प्रत्यक्षः । अन्न तत्स्थं हृदयं लक्ष्यते । समष्टौ च प्रकृतिः । सा हि विकारजातम- नुपतन्ती तदुच्छेदेनोच्छिद्यते तद्भेदेन च भिद्यत इति युक्तं तस्या अपि वृक्षत्वम् । परिषखजाते व्यत्ययेन लटः स्थाने लिट्प्रयोगः, परिप्व- जाते परिषजतः, आश्रयतः । प्रकृतिपक्षे भोग्यत्वेन जीवात्मा तमाश्रयति वैदिकसन्ध्यावैदिकभाष्यम् । ५५ नियस्यत्वेन च परमात्मेति विवेकः । तयो जीवात्मपरमात्मनो- रन्या जीवात्मा खादु-तदेतदुपलक्षणं, वाद्वखादु पिप्पलं शुक्ला- शुक्लकर्मजन्यं सुखदुःखात्मकं फलमत्ति-भुझे । यस्य यदुपार्जितं तत् तस्य खादु नापरस्येति सादुग्रहणेन सूच्यते, खादूकृत्य वा खं खं कर्म- फलं प्रत्येकमुपभोक्तव्यमित्यभिप्रायः । अन्या परमात्माऽनश्नन्-पि- प्पलमभुजानोभिचाकशीति-साक्षित्वेन प्रकाशयतीति मन्त्रार्थः । तथा श्रुत्यन्तरेऽपि च "साक्षी चेता केवलो निर्गुणश्च" (श्वेता० ६।११) इति । यथाऽस्त्युत्तमत्वात् साक्षी जगद्गुरुः परमात्मा तथा सूरिभिः प्राप्यत्यादस्ति सूर्यः । सूरयः खलु मोक्षावस्थायामेनं प्राप्नुवन्ति यथा समाधौ सुपुप्तौ च । यत्रैतच्छ्रुतं भवति "तस्यैष आत्मा विशते ब्रह्मधाम" (मुण्डको० ३।२।४) "यथा नद्यः स्यन्दमानाः समुद्रेश्स्तं गच्छन्ति नामरूपे विहाय । तथा विद्वान् नाम- रूपाद्विमुक्तः परात् परं पुरुपमुपैति दिव्यम्” (मुण्डको ३।२।८) "ब्रह्मविदामोति परम्" (तै० २।१) इति । द्योत- नाद् देवाः प्रकृतितद्विकाराः सूर्यप्रभृतयो जीवात्मानश्चोच्यन्ते । तत्रा- न्तरात्मत्वेन द्योतनाचासौ देवेपु देवः परमात्मा । तस्य सर्वान्तरात्मत्वं च श्रूयते वेदोपनिपच्छ्रुतिपु "सूर्य आत्मा जगतस्तस्थुषश्च" (ऋ० १।११५।१ ) "तदन्तरस्य सर्वस्य" (यजु० ४०५) "स्कम्भ इदं सर्वमात्मन्वदु" (अथर्व० १०।८।२) "एको देवः सर्व- भूतान्तरात्मा" ( फठो० ५।१२) "सर्वस्मादन्तरतरं यदय- मात्मा” (वृहदा० ११४८) इत्येवञ्जातीयकासु । तेषामेषां प्रकृति- जीवात्मपरमात्मनां भोग्यत्वात् प्रकृतिः स्थूला जीवात्मनः परमात्मनश्च बाखमवतिष्ठते, जीवात्मा च भोक्तृत्वात् सूक्ष्मस्तस्या आभ्यन्तरे वर्तते, जगद्गुरुः परमात्मा च तदन्तरात्मत्वात् सूक्ष्मतरस्तस्याप्यन्तरं विरा- राज्यते । बहिरन्तर्वर्तमानेपु स्थूलसूक्ष्मसूक्ष्मतरेषु च प्रकृतिजीवात्म- परमात्मसु पूर्व वहिर्वर्तमाना स्थूला प्रकृतिर्दर्शनमर्हति, तदनु तदन्तर्वर्त- मानः सूक्ष्मो जीवात्मा, तदनु च तस्याप्याभ्यन्तरे वर्तमानः सूक्ष्मतरो . . , उदु त्यं जातवेदसं ५६ जगद्गुरुः परमात्मा । नहि यावद् वहिर्वर्तमान स्थूलं वस्तु न दृश्यते, तावत् तदन्तरे वर्तमानं सूक्ष्मं तस्याप्याभ्यन्तरे वर्तमानं सूक्ष्मतरं च कर्हिचिद् दर्शनायावकल्पते । नूनं परमात्मदर्शने साधनं पूर्वमशेषविशेषतः प्रकृति- दर्शनं, तदनु च जीवात्मदर्शनम् । अत एवेह "उत्तमसस्परि वर्त- मानमुत्तरं ज्योतिः पश्यन्तो वयमुत्तमं ज्योतिः सूर्य देवं पश्येम" इति प्रार्थ्यते । युक्तश्चैतत् प्रार्थनम् । यत्कारणं सपरिवारां प्रकृतिं दृष्ट्वैव जीवात्मा, तं च दृष्ट्वैव तदन्तरात्मा परमात्मा द्रष्टुं शक्यते नान्यथेति वैदिको राद्धान्तः । सोऽयमनेन समर्थ्यतेतराम् । समार्थता महि च वेदान्तसूत्रवैदिकवृत्त्यपरनामधेये वेदान्तसूत्रवैदिकभाष्येऽपि विस्तरेणैतं राद्धान्तमिति विस्तरामिलापुकास्तत एव विदाकुर्वन्तु ॥ १२॥ अथोपस्थाने द्वितीयो मन्त्रः- {ऋषिः प्रस्कण्वः काण्वः, देवता सूर्यः, छन्दो गायत्री "उदु त्यं जातवेदसं देवं वहन्ति केतवः। दृशे विश्वाय- सूर्यम् ॥ १३ ॥ (म० ११५०11) केतवः प्रज्ञा केतुः "केतः केतुश्चेतश्चित्तं ऋतुरसुर्धीः शचीर्माया वयुनमभिख्येत्येकादश प्रज्ञानामानि" (निघण्टु ३९) इति निघण्टौ प्रज्ञानामसु पाठात् , प्रकृष्टं ज्ञानं प्रज्ञा-दर्शनं, तेनेह तदभिलाषुका उपासका लक्ष्यन्ते, उपासकाः त्य-तं प्रसिद्धं जग- जन्मादिकारणं जातवेदसं-जातमात्रस्य वेत्तारं सर्वज्ञं देवम् अन्त- रात्मत्वेन सर्वेषु पदार्थेषु द्योतमानं सूर्य-सूरिभिः प्राप्यं भगवन्तं परमात्मानम् , उनिश्चयेन, उद्वहन्ति-उत्कर्ष प्रापयन्ति, प्रार्थनैः प्रार्थितस्योत्कर्षः प्रसिद्धः । प्रार्थयन्तीति तदभिप्रायः । विश्वाय-षष्ठ्यर्थे । चतुर्थी, विश्वाधारत्वात् “सर्व समामोषि ततोऽसि सर्वः" (गी० १११४०) इति स्मृतेर्वा विश्वोऽत्र परमात्मा, तस्य विश्वस्य परमात्मनो दृशे="दृशे विख्ये च" (अष्टा० ३।४।११) इति तुमर्थे निपातः, दर्शनायेत्यर्थः । पृथक् पृथगुपासनाकर्मानुष्ठानेन प्रत्येकं यावत् फलं समवाप्यते, ततः , .. वैदिकसन्ध्यावैदिकभाष्यम् । ५७ सहस्रशोऽधिकमनेकैः सम्भूयानुष्ठानेन सम्प्राप्यते । अवाच्यः खल सर्वथा सत्योपासीनानामुपासनामाहात्म्यातिशयः । अत एवानुज्ञायते भगवति वेदे "सहस्रं साकमर्चत परिष्टोभत विंशतिः" (ऋ०११८०९) इति । तदिदगिह केतव इति बहुवचननिर्देशेनावद्योत्यते । सर्वदा सम्भूय बहुभिः सन्ध्योपासनकर्मानुष्ठातव्यमिति गूढाभिसन्धिः ॥ १३ ॥ अथोपस्थाने तृतीयो मन्त्रः- {अपिः कुत्रा आशिरसः, देवता सूर्य्यः, छन्दनिष्टप्} "चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः । आमा द्यावापृथिवी अन्तरिक्ष सूर्य आत्मा जगतस्त- स्थुपश्च" ॥१४॥ (म० ११११५३१) देवानां देवा उपासकाः, तेषां चित्रं चायनीयं पूजनीयम् , अनीकम्="अनिहषिभ्यां किच्च" (३०४।१७) इत्यनितेरीकन् , जीवनम् , अनित्यनेनेति तद्युत्पतेः, बलं वा, वलमुपास्यमेवोपासकानां नान्यदिति सम्प्रतिपत्तेः, मित्रस्य शुस्थानः सूर्यो मित्रः, मीतेः प्रमीते- स्वायते सर्व लोकमिति तयुत्पत्तेः, तस्य, वरुणस्य अन्तरिक्षस्थानो वायुरन वरुणः,'वृणोति वारयति मेघजालेनान्तरिक्षमिति तदुत्पत्तेः, तस्य, अग्नेः पृथिवीस्थानो ज्वलनोऽमिः, तस्य चक्षु खस्वकार्यदर्शकं ब्रह्म, उद्गात्="छन्दसि लुङ्ललिटः" ( अष्टा० ३।४।६) इति प्रार्थ- नायां लुङ, उद्गच्छतु, उदयं प्राप्नोतु-उपासकानामस्माकं हृदय इति शेषः । प्रकृत्यावरणापाकरणमुदयः । अन्यत्र सतोऽत्र हृदये कथमुदयः? इति शां निराकुर्वन्नाह-द्यावापृथिवी-धुलोकं पृथिवीलोकमन्त- रिक्ष मध्यमं लोकं चाप्रामातेर्लडथै लङ्, आमाति समन्ततो व्याप्य तिष्ठति । न च लोकत्रयं व्याप्य तिष्ठतोऽस्त्युपासकानां हृदये कथञ्चिदु- दयासम्भव इति शकाव्युदासः । ननु व्यापकं सदपि भवेदाकाशंवत् संयोगिमात्रम् ? नेत्याह-जगता जङ्गमस्य तस्थुषश्च-स्थावरस्य च सर्वस्य चिदचिदात्मफस्यार्थजातस्यात्मा अन्तरात्मा । ननु हृदये तदु:
, . तच्चक्षुर्देवहितं दयेन किं स्यादप्राप्यत्वात् ? नेत्याह-सूर्य:-भूरिभिः प्राप्तदर्शनैर्विद्भिः प्राप्य इत्यर्थः। यद् ब्रह्म देवानामुपासकानां पूजनीयं जीवनं वलं वा, मित्रस्य वरुण- स्थामेश्च खखकर्तव्यकर्मणो दर्शकं, धुलोकं पृथिवीलोकमन्तरिक्षलोकं च समन्ततो व्याप्यावतिष्ठते, जगतस्तस्थुपश्चान्तरात्मा सूर्यः, तन्नो दर्शनार्थ हृदये प्रकाशतामिति मन्त्राभ्युच्चयार्थः ॥ १४ ॥ अथोपस्थाने चतुर्थो मन्त्रः- {ऋषिर्दध्याथर्वणः, देवता सूर्यः, छन्दस्त्रिष्टुप् } "तचक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत्, पश्येम शरदः शतं, जीवेम शरदः शतं, शृणुयाम शरदः शतं, प्रत्रवाम शरदः शतमदीनाः स्याम शरदः शतं, भूयश्च शरदः शतात्” ॥ १५॥ (यजु० ३६।२४) तत् पुरस्तादुच्चरदित्यन्वयः । चक्षुः जगध्यापारनिर्वाहकाणां सूर्या- निलामीनां कर्तव्यस्य कर्मणो दर्शकं देवहितं देवा उपासकाः, तेभ्यो हितं प्रियं, तेषां हितकर वा, शुक्र-शुक्लं निर्मलं निप्पापं शुद्धं तत्-जगजन्मा- दिकारणं ब्रह्म पुरस्तात् सम्मुखे यथा स्यात् तथा उच्चरत्-"इतश्च लोपः परस्मैपदेपु" (अष्टा० ३।४।९७) इतीकारलोपः, उच्चरति-उदय गच्छति-खां तनूं विवृणोति । सम्मुखे स्थितमिव दर्शनं प्रयच्छतीत्यभि- प्रायः । शरदः-वर्षाणि शतम्-एकशतम् , अत्यन्तसंयोगे द्वितीया, शतवर्षाणि पश्येम-प्रार्थनायां लिङ्, लोचेमहि, भगवतस्तस्य प्रसादेन शतवर्षपर्यन्तं वयमव्याहतचक्षुरिन्द्रियाः सम्पद्येमहि, शरदः शतं- शतवर्षाणि जीवेम-पाण्याम, शतवर्षपर्यन्तमपराधीनजीवना विद्यमहि, शरदः शत-शतवर्षाणि शृणुयाम-कर्णयेम, शतवर्षपर्यन्तं सुश्रुत- श्रोत्रेन्द्रिया वर्तमहि, शरदः शतं शतवर्षाणि प्रत्रवाम-अध्याप- येम-शतवर्षपर्यन्तमस्खलितवागिन्द्रिया अवतिष्ठेमहि, शरदः शतं- शतवर्षाण्यदीनाः दैन्यरहिताः स्याम भवेम, यावज्जीवं कस्याप्यो , वैदिकसन्ध्यायैदिकभाष्यम् । दैन्यं वचो न व्याकु/महि, शरदः शतात्-शतवर्षोपरिष्टाद् भूयश्च अधिकं कालं च पश्येम जीवेम शृणुयाम प्रबवामादीनाः स्यामेत्यर्थः । यत् खलु प्राय॑ते, तत् सम्पन्नमेवेति दृढः सङ्कल्पः प्रार्थयितुस्तावदा- वश्यकः । यत्कारणं सति तस्मिन्नचिरेण तत् सम्पद्यते, प्रार्थयिता च प्रार्थनवेलायामेवैनत्सम्पद्यमानं निरीक्षते । अत एवाह भगवती श्रुतिः "क्रतुमयोऽयं पुरुषः” (शतपथ० १०६।३।१ ) इति । "स ऋतुं कुर्वीत" (छान्दो० ३।११) इति च । क्रतु: दृढः सकल्पः । ये किलागलाः "विल पावरम्” इति सझिरन्ते । अतुल- प्रभावश्चायमिति न तिरोहितं प्रज्ञावतामन्तर्धियाम् । प्रार्थ्यते चेदानीं जगतः पितृचरणस्य भगवतो ब्रह्मणः साक्षाद् दर्शनम् । तच्च भगवतस्त- स्यानुग्रहेणोपासनकर्मपरिपाकाद् यथावेलं सम्पत्स्यते । सम्पत्स्यमानं च तत् सकल्पदायण प्रार्थनवेलायामेव सम्पद्यमानं निरीक्षमाणो हर्षाति- शयादाह "तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत्" इति । ब्रह्मद- र्शनसम्पत्तेः फलममृतत्वम् “य इत्तद्विदुस्ते अमृतत्वमानशुः" (ऋ० १२१६४।२३) इति मन्त्रवर्णात् । अमृतत्वं च द्विविधम्-ऐहिक- मामुप्मिकं च । तत्रामुष्मिकं मोक्षाख्यं प्रारब्धभोगावसाने निर्वतिष्यते । यत्रैतच्छ्रुतं भवति "तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये" (छान्दो० ६।१४।२) इति । स्मृतं च "भोगेन त्वितरे क्षपयित्वा सम्पद्यते" (वेदान्तसू. ४।१।१९) इति । यत्पुनरैहिकं तच्छरदः शताद् भूयः खस्वकार्यनिर्वर्तनक्षमैश्चक्षुरादिभि- रिन्द्रियैः सर्वथा खखं जीवनम् "एतदू वाव मनुष्यस्यामृतत्वं यत् सर्वमायुरेति वसीयान् भवति" (ताण्डववा० २२।१२।२) इत्यादिश्रुतिभ्यः । वसीयान् स्वस्थः । श्रेष्ठ इति सायणः । भवति आत्मनाऽऽत्मानं बिभर्ति । तदिदं स्वस्थजीवनमेवान्ते प्रार्थनाव्याजेनो- दाव्यते "पश्येम शरदः शतं, जीवेम शरदः शतं, शृणुयाम शरदः शतं, प्रव्रवाम शरदः शतमदीनाः स्याम शरदः शतं भूयश्च शरदः शतात्" इति । सर्वदा सर्वत्रः बहुभिर्मिलितैः ६० , तच्चक्षुर्देवहितं प्रार्थनं विधातव्यं नैकैकेन मनुपुत्रेण सत्यवकाशे यावज्जीवमिति बहुवच- नप्रयोगः । तैत्तिरीयारण्यके चतुर्थे काण्डेऽप्येष मन्त्रः समानायते । तत्र चास्यैवं पाठः "तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत् । पश्येम शरदः शतं, जीवेम शरदः शतं, नन्दाम शरदः शतं, मोदाम शरदः शतं, भवाम शरदः शतं, शृण्वाम शरदः शतं, प्रत्रवाम शरदः शतमजीताः स्याम शरदः शतं, ज्योक् च सूर्य दृशे" (तत्ति० आ०.४।१२) इति । नन्दाम पुत्रपौ- अधनादिभिः समृध्येम, मोदाम-हृप्येम, भवाम-आत्मानमात्मना विभृयाम, शृण्वाम-शृणुयाम, अजीता: अजिताः, ज्योक्-चिर- कालं, दृशे द्रष्टुमाशासह इति शेषः । "तच्चक्षुर्देवहितं शुक्रम- चरत् । पश्येम शरदः शतं जीवेम शरदः शतम्" (ऋ० ७६६।१६) इति च बढचसंहितायां मन्त्रपाठः ॥ १५ ॥ उपस्थान पर्यवसितम् । इदानीं साक्षाह्मदर्शहेतुनोपासनकर्मणा प्रवर्ति- तव्यम् । तच्च द्वेधा प्रवर्तते साक्षात् केनचिद् द्वारेण च । यत्किलोपास्ये भग- वति ब्रह्मणि द्वारं किञ्चिदनपेक्ष्य व्यापारान्तरशून्यस्य चेतसो गाढं निवेशनं तैलधारावदविच्छिन्नकाकारवृत्तिसन्तानोपजननं तत् साक्षात्प्रवृत्तमित्याख्या- यते । यत् पुनरोमा वा गायत्रीमन्त्रेण वाऽन्येन वा केनचिद् वाह्याध्यात्मि- केन योगशास्त्रनिर्दिष्टेनोपायेन भावनातिशयात् पुरस्तादुपस्थितोपमे भगवति तस्मिन् प्रेमभरनम्रीभूतस्त्र चेतसो निवेशनं तत् केनचिद् द्वारेण प्रवृत्तमिति व्याख्यायते । सन्ध्योपासनकर्म च नियमतो गायत्रीमन्त्रमुखेन सततं प्रवर्तते । यत्कारणं सोऽस्ति गुरुमन्त्रः । गुरुयेनं सर्वतः पूर्वमुपनयनवेलायामुपदिशति । यत्रैतच्छ्रुतं भवति "अथास्मै सावित्रीमन्वाह ।६। गायत्रीमेव सावित्रीमनुयात् ।१३। तां वै पच्छोऽन्वाह, अथार्चशा, अथ कृत्लाम्" (शतपथ० १११५/४६-१३-१५) इति । सन्ध्योपासनकर्मणि चोपनीतस्याधिकारो नानुपनीतस्येति राद्धान्तः । जग- गुरौ भगवति ब्रह्मणि वा मनःप्रवेशनिमित्तत्त्वात् स्यादयं गुरुमन्त्रः । सूक्ष्मतमं हि जगद्गुरुर्ब्रह्म । न तत्र तावन्मनःप्रवेशं लभते प्राथमिकानां वैदिकसन्ध्यावैदिकभाष्यम् । ६१ बालबुद्धीनामुपासकानां, यावत् पूर्व केनचित् तत्प्रतिपादकशब्दविशेषेण न भाव्यते । यत्कारणं स प्राथमिकानामुपासकानां कृतेऽभ्युपगम्यते तत्रासा- धारणं निमित्तम् । यथा खलु शाटके सूत्रप्रवेशे सूची, लक्ष्ये वा शरप्रवेशे धनुर्निमित्ततां भजते, तथा जगद्गुरौ ब्रह्मणि प्रथमं मनःप्रवेशे तत्प्रतिपादकः शब्दविशेषोऽपि हेतुतां लभते । नहि प्रतिपादकशब्दविशेष हित्वा कश्चिदत्यन्तसूक्ष्मे प्रतिपाद्येऽर्थे सहसा मनःप्रवेष्टुमीष्टे । तत्प्रतिपादकः शब्दविशेपो यथा प्रणवः समाश्रीयते, तथा गायत्रीमन्त्रोऽपि समाद्रियते । अतएव छन्दोगा ब्रमणि मनःप्रवेशनिमित्तत्वाद् गायत्र्या ब्रह्मरूपतामा- मनन्ति "ब्रह्म हि गायत्री" (ताण्ड्यवा० ११।११।९) इति । निमित्तं द्वारं चेत्येकोऽर्थः । तस्यैतस्य गुरुमन्त्रापरपर्य्यायस्य महामन्त्रस्य गायत्रीमन्त्रस्य चैप प्रणवव्याहृतिसहितः पाठः- {ऋषिविश्वामित्रः, देवता सविता, छन्दो गायत्री ओम्-भूर्भुवःस्वः "तत्सवितुर्वरेण्यं भर्गो देवस्य धी- महि । धियो यो नः प्रचोदयात् ॥१६॥ (ऋ० ३१६२०१०) (यजु० ३६३) व्याहृतित्रयसहितस्योमोऽर्थः पूर्ववत् । तदनु गायत्रीमन्त्रार्थारम्भः- तत्="सुपां सुलक्०" (अप्टा० ७१।३९) इति षष्ठ्या लुक्, तस्य सर्वश्रुतिस्मृतिप्रसिद्धस्य देवस्य-चिदचिदात्मकेपु विश्वेषु पदार्थेष्वन्तरा- त्मत्वेन द्योतमानस्य प्रकाशमानस्य सवितुः जगत्प्रसवितुः, उत्पादः प्रसवः, तेन स्थितिप्रलयौ लक्ष्येते, सर्वजगदुत्पत्तिस्थितिप्रलयकारणस्य भगवतो जगद्गुरोरीश्वरस्य वरेण्यं-वृन एण्यः, वरणीयम्-आनन्दमय- त्वात् सर्वैरुपास्यतया ज्ञेयतया च सम्भजनीयं, गुणतः कर्मतः स्वरूपतो वा श्रेष्ठं, भर्गः सान्तमेतत् , जगहुःखमूलस्य पापस्य भर्जनसमथै, भर्जनं नाशः, तत्र पर्याप्तं, “वीर्यं वै भर्गः" (शतपथ० ५।४।५।१ ) इति श्रुतेः, तेजोमयं रूपं धीमहि लडथै लिङ्, आत्मनेपदं सम्प्रसारणं च छान्दसम् , व्यत्ययेन शपो लुक्, ध्यायामः, ध्यानमत्रोपासनम् , उपास्महे, या-यो देवः सविता न:-अस्माकमुपासकानां धियः द्वितीयावहु- " ६२ तत्सवितुर्वरेण्यं वचनम् , अखिलकार्यकत्रीर्बुद्धीः प्रचोदयात् प्रार्थनायां लेट् , प्रकर्षण प्रेरयेत् , सुकर्मानुष्ठानमवणा दुष्कर्मानुष्ठानविमुखाश्चास्महुद्धीविदध्यात् , दुष्कर्मानुष्ठानाभिरुचिहेतुपाप्ममलनिवारणेनास्माकीनाः धीनिर्मलीकुर्या- दित्यर्थः । तस्य श्रुतिस्मृतिप्रमितस्य जगजन्मादिकारणस्यान्तरात्मत्वेन सर्वत्र चिद- चिदात्मकेषु पदार्थेषु द्योतमानस्यान्तर्यामिणो भगवतो जगद्गुरोरीश्वर- स्यानन्दमयं तेजोमयं सर्वतः श्रेष्ठं निर्मलं शुद्ध रूपमुपास्महे, योऽस्माकं बुद्धीः पाप्ममलमपमृज्य निर्मलीकुर्यात् । येन वयं वेदविहितानि सर्वाणि कर्माणि यथाकालं निष्प्रत्यूहमनुतिष्ठन्तो यावज्जीवमैहिकमभ्यु- दयसुखं शरीरपाते चामुष्मिकं मोक्षसुखं नित्यमुपभुञ्जीमहि । जगद्गुरुरीश्वरो हि परब्रह्मपरमात्मा जगदुत्पत्त्यादिकारणत्वादिह सवि- तेति निर्दिश्यते । सूते प्रसूते विश्वं जगदिति तद्व्युत्पत्तेः । सूतिरुत्पत्तिः । तया स्थितिसंहृती लक्ष्येते । नियतसम्बन्धात् । अस्ति तावत् सूत्या स्थितिसंहृत्योर्नियतः सम्बन्धः । यत्कारणं सत्यामेव सूत्यां स्थितिसंहती प्रवर्तते । नहि न सूयते, स्थीयते संहियते चेति सम्भवति । तथा च येनेदं सर्वं जगत् सूयते, सूतं स्थीयते, स्थितं चान्ते संहियते, स जग- गुरुरीश्वरः सवितेति निर्गलितार्थः । परब्रह्मपरमात्मनो जगद्गुरोरीश्वरस्य जगदुत्पत्तिस्थितिप्रलयकारणत्वं च लोकतः श्रुतिस्मृतिभ्यां च स्फुटं प्रमे- मीयते । लोकस्तावत् पश्यति दृश्यमानेयं विविधा जगद्रचना न जात्व- चेतनकर्तृका कर्हिचिदुपपत्तुमर्हति । यत्कारणमचेतनं न चेतयते किञ्चित् , अचेतयमानस्य च प्रव्यक्ता प्रवृत्त्यनुपपत्तिः। तदनुपपत्त्या च रचनानुपपत्तिः सुतराम् । चेतनाः पुनर्जीवात्मानोऽल्पज्ञाल्पशक्तित्वाभ्यां न तां कथञ्चिद् विधातुमीशते । तस्मादस्ति कश्चित् सर्वज्ञः सर्वशक्तिश्चेतनो जगद्गुरु- रीश्वरो येन विविधेयं जगद्रचना विधीयते, विहिता च यथास्थानं स्थी- यते, स्थिता चान्ते पूर्ववत् संहियते । तदिदं लोकदर्शनं नूनमनेकशः श्रुतिस्मृतयः सुप्रमिमते "न तं विदाथ य इमा जजान" (ऋ० १०१८२७) “य इमा विश्वा भुवनानि जुहृद (ऋ० १०॥
, वैदिकसन्ध्यावैदिकभाष्यम् । ८१११) “एष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम्" (माण्डूक्यो०६) "यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत् प्रयन्त्यभिसंविशन्ति, तद्विजिज्ञा- सस्त्र तद् ब्रह्म' (तैत्तिरीयो० ३।१) “एकैकं जालं बहुधा विकुर्वन्नस्मिन् क्षेत्रे संहरत्येष देवः । भूयः सृष्ट्वा यतयः ! तधेशः सर्वाधिपत्यं कुरुते महात्मा" (श्वेताश्वतरो० ५।३) "जन्माद्यस्य यतः" (वेदान्तसू० १।१।२) "सर्वभूतानि कौन्तेय ! प्रकृति यान्ति मामिकाम् । कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम्" ( गीता० ९७ ) इत्याद्याः । जगजन्मा- दिकारणस्य जगद्गुरोरीश्वरस्य चोपासनं सर्वथा घटते नास्ति तत्राघटमानं नाम किश्चित् । यः खलु सर्वज्ञः सर्वशक्तिर्भवन्नस्ति सर्वस्यास्य जगतः प्रसविता रक्षिता प्रलेता च, सोऽभ्युदयनिःश्रेयसकामैवैदिकैः सर्वैः सततमुपासितव्यो जगद्गुरुरीश्वरः । यत्कारणं यस्य सङ्कल्पमात्रेण सर्वमिदं जगत् सूयते रक्ष्यते लीयते च, तस्मिन्नुपास्यमाने किमलभ्यं स्यादत्रभव- तामुपासकानां वैदिकशिरोरत्नानां, किं वा भवेदत्रभवञ्चस्तेभ्योऽदेयं नाम भगवतस्तस्येति सवितृपदनिर्देशेन ध्वन्यते । कासौ जगद्गुरुरीश्वरो वैदिकैः सततमुपासितव्य इति तद्विशेषणदेवपदोपन्यासेन समाधीयते । यः सर्व- त्रान्तरात्मत्वेन वर्तमानो द्योत्यते प्रकाशते स देवः । यत्रैतदुदाहृतं भवति "देवो द्योतनात्” (निरुक्त० ७।१५) इति । दीव्यतेर्वा भवेद् द्युति- कर्मणो देवः । तत्र दीव्यति प्रकाशत इति तद्व्युत्पत्तिः। सर्वत्रान्तरात्मत्वेन द्योतमानस्य जगद्गुरोरीश्वरस्य चोपासनास्थानेषु बाह्याध्यात्मिकेपु सूर्याक्षि- हृदयेषु द्योतमानत्वं सुखेनोपपद्यते । नहि यो वाह्याध्यात्मिकेपु सर्वेषु पदार्थेषु द्योततेऽन्तरात्मा भवन् , स सूर्येऽक्षिणि हृदये च न द्योतत इति युज्यते । सन्ध्योपासनकर्मणि च प्रायेण सूर्यमण्डलं हृदयं चोभयमुपास- नस्थानमुपयुज्यते । सूक्ष्मधियां वैदिकानां च हृदयमेवोपयुक्ततरं तत्स्थानं मन्यामहे । तस्मात् सततं हृदये स जगद्गुरुरीश्वरो वैदिकैः सर्वैरुपासितव्यो नान्यत्रेति देवपदनिर्देशाशयः । यथा सवितृपदेन जगद्गुरोरीश्वरस्योपा- ६४ तत्सवितुर्वरेण्यं स्वत्वं तद्विशेषणेन देवपदेन च तदुपासनास्थानं हृदयपुण्डरीकं निर्देदिश्यते तथा वरेण्यपदेन भर्ग:पदेन चोपासनाईमुपास्यस्य भगवतस्तस्य रूपमुपदेदि- श्यते। वरेण्यं वरणीयम् । सम्भजनीयमाश्रयणीयमिति च तत्पर्य्यायः । वेत्रीयते च सर्वैः सर्वत्रानन्दमयं सर्वं रूपमिति निश्चितं मतम् । भर्गः- भृज्यतेरसुन् , भर्जकं पापानाम् । तेजोमयत्वात् । यथा खलु तेजोमयो वह्निः सान्निध्यं प्राप्तानि काष्ठानि तत्क्षणानिर्दहति तथा तेजोमयो जगद्गुरु- रीश्वरः सांनिध्यं प्राप्तानां तत्रभवतामुपासकानां सर्वाणि पापानि तत्क्षणाद् वाभ्रष्टि । यन्त्रेदमानातं भवति “न तमंहो न दुरितं कुतश्चन नारातयस्तितिरुन द्वयाविनः । विश्वा इदस्माद् ध्वरसो विवाधसे यं सुगोपा रक्षसि ब्रह्मणस्पते ! (ऋ० २।२३०५) इति । स्मृतं च "सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः" (गी० १८॥ ६६) इति । तेजो विज्ञानज्योतिः। तथाच सर्वज्ञसर्वशक्तेर्जगज्जन्मादि- हेतोरन्तरात्मत्वेन सर्वत्र द्योतमानस्य तेजोमयस्य विज्ञानमयस्य भगवतः परब्रह्मणो जगद्गुरोरीश्वरस्यानन्दमयं तेजोमयं विज्ञानमयं निर्मलं शुभ्र शुद्धं यद् रूपं तद् वैदिकानां तत्रभवतामुपासकानां हृदयपुण्डरीके सततमुपासित- व्यमिति वरेण्यभर्गःशब्दाभ्यां स्फुटमुपदिष्टं भवति । भगवतस्तस्य तथा- विधं रूपं च शोश्रूय्यते श्रुतिस्मृतिपु सर्वत्र "खर्यस्य च केवलम्" (अथर्व० १०८।१) "आनन्दं ब्रह्मणो विद्वान्" (तैत्तिरीयो २३९) "आनन्दरूपममृतं यद् विभाति" (मुण्डको० २।२।७) "स यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषः, अयमेव स योऽयमात्मेदममृतमिदं ब्रह्म' (बृहदारण्यको. ३।९।२८) "विज्ञानमानन्दं ब्रह्म' (बृहदारण्यको० ३।९।२८) "प्रज्ञानं ब्रह्म" (ऐतरेयो० ३।१) "सत्यं ज्ञानमनन्तं ब्रह्म" (तैत्तिरीयो० २।१) "येन सूर्यास्तपति तेजसेद्धा" (३० ब्रा० ३।१२।९।७) "तच्छुभं ज्योतिषां ज्योतिः” (मुण्डको० २।२९) "तद्देवा ज्योतिषां ज्योतिः" (बृहदारण्यको० ४।४।१६) "ते- वैदिकसन्ध्यांथदिकभाष्यम् । ६५ जोऽसि शुक्रममृतम्" (यजु० २२।१) "ज्योतिपामपि तज्यो- तिस्तमसः परमुच्यते । ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य धिष्ठितम्” (गीता० १२।१५) इति । नच जगद्गुरोरीश्वरस्य भगवत- तस तादृक्षमानन्दमयं तेजोमयं विज्ञानमयं निर्गलं शुक्र शुझं शुभं शुद्धं रूपं तावदुपासितुं शक्यते यावदुपासकानां बुद्धिरधिकारसम्पदं न लभते । अधिकारसम्पत्-अधिकारोत्कर्षः । तत्र च वेदविहितकर्मानुष्ठान- बदपेक्ष्यते भगवततत्य परमोऽनुग्रहः । तं विना तल्लाभासम्भवात् । सोऽयं तत्परमानुग्रहोऽत्र चरमेण पादेनार्थतः समप्यते "धियो यो नः प्रचो- दयात्" इति । प्रचोदयात् सोपसृष्टायाधुदेः प्रार्थनायां लेट् । प्रेरणकर्मा चुदिः । न च बुद्धीनां प्रेरणमिह प्रार्थ्यत इति मन्तव्यम् । यत्कारणं परप्रेरिताभिर्बुद्धिभिः कर्मकरणे पुरुषाणां तत्र पारतन्त्र्यं प्रस- ज्यते, खातन्त्र्यं च हीयते । अभ्युपगम्यते च खातन्त्र्यम् । तर्हि किमिह प्रार्यते ? निर्मलीकरणं बुद्धीनामिति वदामः । निर्मला भवन्त्यः खलु बुद्धयः सूक्ष्मात्सूक्ष्मेऽप्यर्थ सुखेन प्रवेविश्यन्ते, प्रवेविश्य च यथा- विधानं तत्तत्कर्म सम्पादयन्त्योऽचिरेणाभ्युदयाय निःश्रेयसाय चैहिका- मुप्मिकफलाय निप्प्रतिवन्धं प्रकल्पन्ते । नूनं निर्मलवुद्धितन्त्रो मनुष्याणां सर्वोऽपि व्यापारः, स्यादुपासनलक्षणोऽसौ, स्याद्वाऽग्रिहोत्रादिसाधारण- कर्मलक्षणः । बुद्धीनां नैर्मल्यं च दुरितमलनिवृत्त्या सम्पद्यते न प्रकारा- न्तरेण केनचिदिति सार्वत्रिको राद्धान्तः । दुरितनिवृत्तौ च तीब्रोपायो भगवतो जगद्गुरोरीश्वरस्य परमोऽनुग्रहः । अत एव मन्त्रेषु दुरितनिवृत्ति- प्रार्थनं सर्वत्राकर्ण्यते "आशु दधिक्रां तमु नु टवाम दिव- स्पृथिव्या उत चर्किराम । उच्छन्तीर्मामुषसः सूदय- न्त्यति विश्वानि दुरितानि पर्पन्” (ऋ० ४।३९।१) "वि- श्वानि देव ! सवितर्दुरितानि परासुव । यद्भद्रं तन्न आ सुव” (ऋ० ५।८२।५) इत्येवञ्जातीयकेषु । आशु-शीघ्रगामिनं, दधिक्राम्-अभिव्याप्य सर्वस्य धारकम् । दधाति कामति च सर्वमसौ ९ नमः शम्भवाय च मयोभवाय च दधिकाः, तमिति तयुत्पत्तेः । चर्किराम विक्षिपामः स्तुतिमिति शेषः । विक्षेपो विस्तारः । सोऽयं भगवतस्तस्य परमोऽनुग्रहोऽत्र चर- मेण पादेनार्थतः समर्पितो वेदितव्यः । तथा च सर्वदुरितनिवारणेना- स्माकं बुद्धीनिर्मला विदधीतानुगृहन्नस्मानिति तत्पादार्थः पर्यवसितः । प्रणवस्य व्याहृतीनां च तिसृणामों व्याख्यायि सविस्तरं पुरस्तात् । एष सप्रणवव्याहृतित्रयोपेतो गुरुमन्त्रो महामन्त्री गायत्रीमन्त्रः सन्ध्यो- पासनवेलायामर्थज्ञानपूर्वकं मनसा शनैःशनैरुच्चारयितव्यो न्यूनान्यून त्रिवारमित्युपदेशः । नूनमनेन दीर्घकालनैरन्तर्यसत्कारासेवितेन निर्म- लायां धियां निर्वृत्ते सर्वाङ्गपूर्णे तावदुपासनकर्मणि द्रागित्येव तत्रभवतोऽ- स्योपासकस्य निरन्तरं स्फुटतरं स्पष्टतरं साक्षाद् भगवतः परब्रह्मणः परमेश्वरस्य दर्शनमुपजायते । यत्रैतदुदाहृतं भवति "तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः। दिवीव चक्षुराततम्” (ऋ० १।२२।२०) इति । तत्-प्रसिद्धं विष्णोः व्यापकस्य परब्रह्मणः पर- मेश्वरस्य परमं सर्वोत्कृष्टं पदं-खरूपं, पद्यते गम्यते सूरिभिरिति तब्युत्पत्तेः, सदा सर्वदा पश्यन्ति-साक्षात्कर्वन्ति सूरया विद्वांसः । तत्र साक्षात्कारे निदर्शनम्-इव-यथा दिवि-धुलोके व्योम्नि आततं समन्ततो रश्मिभिर्विस्तारं प्राप्तं व्याप्तं तत्रोद्यन्तमित्यभिप्रायः, चक्षुः कर्मणि द्वितीया, सूर्य "सूर्यों भूतस्यैकं चक्षुः” (अथर्व० १३।२।४५) "सूर्यों वै प्रजानां चक्षुः” (शतपथ० १३।३।८।४) "सूर्यो यथा- सर्वलोकस्य चक्षुः".(कठोप० ५।११) इत्यादिश्रुतिभ्यः, निरन्तरं स्फुटतर स्पष्टतरं पश्यन्ति, तथेत्यर्थः । दर्शनानन्तरं च ध्रुवाऽ- मृतत्वनान्युभयी मुक्तिरित्यन्यत्र विस्तरः ॥ १६ ॥ . समाप्तमुपासनकर्म । अथोपास्यदेवाय नमस्कारो विधातव्यः "भू- यिष्ठां ते नमउक्ति विधेम" (यजु०४०।१८) इति मन्त्रवर्णात् । तत्रैष विनियुज्यते नमस्कारमन्त्रः- निषिः परमेष्ठी प्रजापतिः, देवता रुद्रः, छन्दो बृहती, , । - - वैदिकसन्ध्यावैदिकभाष्यम् । "नमः शम्भवाय च मयोभवाय च । नमः शङ्कराय च मयस्कराय च । नमः शिवाय च शिवतराय च" ॥१७॥ (यजु० १६०४१) नमः नमस्कारः, शम्भवाय शं मोक्षसुखं भवत्यस्मादसौ शम्भवः, तरी मोक्षमुखहेतवे, च=पुनः मयोभवाय-मयः संसारसुखं भवत्यस्मादसौ मयोभवः, तस्मै संसारसुखहेतवे, च-नमो नमस्कारः। नमः नमस्कारः, शङ्कराय-शं मोक्षसुखं करोतीति शङ्करः, तस्मै मोक्षसुखकारिणे मोक्ष- सुखप्रदात्रे, च-पुनः मयस्कराय-मयः संसारसुखं करोतीति मयस्करः, तस्मै संसारमुखकारिणे संसारसुखप्रदाने, च-नमो नमस्कारः । नमः नमस्कारः शिवाय कल्याणरूपाय, च-पुनः शिवतराय अति- शयेन कल्याणरूपाय च नमो नमस्कार इत्यर्थः । सुखं खलु द्विविधम्-ऐहिकमामुष्मिकं च । संसारसुखमैहिकम् , मोक्षसुखमामुप्मिकम् । संसारसुखमभ्युदयसुखं चेत्यनान्तरम् । तत्र मोक्षसुखं शान्तत्वाच्छंपदेन, संसारमुखं च संसारदुःखप्रतिद्वन्द्वित्वा- न्मयःपदेनाभिधीयते । पुनरर्थः प्रथमश्चः, नमःपदपरामर्शार्थो द्वितीयः । मोक्षसुखस्य संसारसुखस्य चाधिष्ठानं दाता च जगद्गुरुरीश्वरः प्रसिद्धः । अधिष्ठानमाश्रयो हेतुरिति चैकोऽर्थः । स च स्वयं कल्याणरूपत्वादस्ति शिवः, शरणागतानां परेषां कल्याणरूपकरणाच शिवतरः । यस शिवस्य समीपं गता अपि पुमांसः खलु शिवाः सम्पद्यन्ते स नि:- संशयं भवति शिवतरः, नास्ति विवादावकाशः । शिवत्वं निष्पाप- त्वम् । तदेव कल्याणपदेन मङ्गलपदेन चाख्यायते । यः सर्वस्य जगतो गुरुर्भवन्नस्ति मोक्षसुखस्य संसारसुखस्य चाश्रयः, विद्यते मोक्षसुखस्य संसारसुखस्य च दाता, वर्तते स्वयं कल्याणरूपः, पराँश्च शरणागतान् कुरुते कल्याणरूपान्, तस्मै जगजन्मादिहेतवे सच्चिदानन्दमूर्तयेऽन्तरा- स्मने महसे देवाय गुरवे मुहुर्मुहुर्नमस्कारो भूयादित्यभ्युच्चयार्थः ।
६८ नमः शम्भवाय च मयोभवाय च , नमस्कारो नम्रीभूय सत्कारः, स्वापकविद्योतककरशिरस्संयोगविशेपा- दिना तोपस्तोषः ॥ १७ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्योदासीनवर्ध्यात्मा- रामभगवत्पूज्यपादशिष्यहरिमसादवैदिकमुनि- विरचितं वैदिकसन्ध्यादैदिकभाष्यम् ।
No text on this page.
२)
अथ श्रीमन्निखिलशास्त्रनिष्णातपण्डितखामि-
हरिप्रसादवैदिकमुनिविरचिता ग्रन्थाः
मूल्यं.
वेदान्तसूत्रवैदिकवृत्तिः
५)
न्यायसूत्रवैदिकवृत्तिः
वैशेषिकसूत्रवदिकवृत्तिः
१)
सांख्यसूत्रवैदिकवृत्तिः
योगसूत्रवैदिकवृत्तिः
वेदसंर्वस्त्र (भाषा)
सामवेदः (भाषानुवादसहितः)
JU
वैदिकसन्ध्याभाष्यम्
..]
वैदिकसन्ध्यामाप्यम् (भाषानुवादसहितम् )
J
१०
१)
प्राप्तिस्थानम्
मैनेजर महेशौपधालय
पापड़ मण्डी-
शाह आल्मी दरवाजा-
लाहौर.