Asr,melkote

Vaadavaaridhi Vol.2

Bhat't'aachaar^yaa,shriigadaadhara · 2004/12/26

PDF Proofread

Front matter

No text on this page.

No text on this page.

No text on this page.

February 1936, TAR CHOWKHAMBA SANSKRIT SERIES A COLLECTION OF RARE & EXTRAORDINARY SANSKRIT WORKS! NO. 446 वादवारिधिः। महामहोपाध्याय श्रीगदाधरभट्टाचार्यादिविपश्चिद्वरबिन काशीविश्वविद्यालय-वेदान्तप्रधानाध्यापक-दार्शनिक- प्रवरश्रीबालकृष्णमिश्रेण निया॑तः । नित्यानन्दवेदविद्यालय-प्रधानाध्यापक पण्डितवर श्रीदण्ढिराजशास्त्रिणा संशोधितः । VÂDA VÂRIDHI By M. M. SRI GADAD HARA BHATTACHARYA and others. Edited by Pandit Sri Balakrishna Misra, Vedāntā Pradhānādhyāpak, Hindu University, Benares, and Pandit Dhundhiraj Shastri, Principal, N. Veda Vidyalaya, Benares. FASCICULUS II-२. PUBLISHED & SOLD BY THE SECRETARY, CHOWKHAMBA SANSKRIT SERIES OFFICE, Benares City. 1936 OI00000 YOOOOOC * श्रीः आनन्दवनविद्योतिसुमनोभिः सुसंस्कृता। सुपर्णाऽङ्कितभव्याभशतपत्रपरिष्कृता ॥१॥ चौखम्बा-संस्कृतग्रन्थमाला मञ्जुलदर्शना । रसिकालिकुलं कुर्यादमन्दाऽऽमोदमोहितम् ॥ २॥ स्तबकः ४४६. FORWARA Printed by Jai Krishna Das Gupta at the Vidya Vilas Press, Benares.

(१०) निर्विकल्पकस्मरणवादवाचिः । . शप्रत्यक्षसामग्ल्यामसत्या बहिमपर्वतप्रत्यक्षेच्छया वहिमुख्यविशेष्यक प्रत्यक्षजननप्रसङ्गात् । वह्नित्वविशिष्टस्य वह्नः स्मरणेन जनिते पर्वतो घहिमानित्युपनीतवह्निप्रकारकचाक्षुषे वह्निमुख्यविशेष्यकत्वस्थासम्भवा. व अन्यथा वहित्वप्रकारतानिरूपितालौकिकमुख्यविशेष्यतासंसर्गेण चा. क्षुषं प्रति जनिकायाः चक्षुःसंयुक्तविशेष्यकचाक्षुषप्रकारतापन्नवह्निः त्वस्वरूपसामान्य प्रत्यासत्तेर्जनकतायां व्यभिचारप्रसङ्गात् । सामान्यध. मंप्रकारतानिरूपितविशेष्यतया जन्यप्रत्यक्ष ज्ञायमान सामान्यं प्रत्यास. त्तिरिति नव्यमतेऽपि पर्वतो वह्निमानित्यनुमितौ वहिमुख्यविशेष्यकत्वं न सम्भवति पक्षतापरामर्शबाधाभावादीनां कार्यताया विशिष्टविषय. कत्वेनैवावच्छेदात् , बहिमुख्यविशेष्यतायाः केनापि कारणेनाप्रयुक्त. त्वात , परोक्षबुद्धीनां कारणाप्रयोज्यविषयतास्वीकारे मानाभावात, विशिष्टविषयताऽखण्डविषयतयोाप्यव्यापकभावस्य च खण्डितत्वा. दिति चेत् । मैवम् , भिन्नविषयकानुमितिसामग्रीमदन्यजन्यबुद्धौ भिन्नविषयकानु- मितिसामध्यभावः तत्तदिच्छाविशिष्टजन्यप्रत्यक्षादौ च तत्तदिच्छा कार• णं, वह्निमत्पर्वतप्रत्यक्षं जायतामितीच्छाघटितातु वह्निमत्पर्वतप्रत्यक्षसा. मग्री वह्निमुख्यविशेष्यकस्वरूपव्यापकधर्मावच्छिन्नमपि प्रत्यक्षं प्रयोज- यतीत्यभ्युपगमात्, वह्निमुख्यविशेष्यताया वह्निमत्पर्वतविषयताव्याप- कस्वन्तु वह्निमुख्यविशेष्यकस्मरणादिकार्यदर्शनादभ्युपेयते इति परोक्ष. बुद्धीनामपि तत् सिध्यत्येव, वह्निमत्पर्वतविषयकानुमितिजनकसाध्य- प्रसिद्धिप्रभवात् संस्कारादेव वा वह्निरिति स्मरणमभ्युपेतव्यम् । वस्तुतस्तु निरूपकताविशेषसंसर्गेण संस्कार प्रत्यनुभवत्वेन कार. णता न तु निर्णयत्वेन गौरवात्, पर्वतो वढिमानिति वह्नित्वेन गुजा- गैरिकाद्यवगाहिषु पर्वतत्वेन गिरिगण्डोपलमृत्कूटाद्यवगाहिषु च खाने- षु नानाकारणतानामवच्छेदकुक्षौ निर्वह्निपर्वतविषयकज्ञानान्योन्याभा. वनिवेशे संख्यातोऽप्यधिकगौरवाच , संशयाञ्च संस्कारोत्पत्तिवारणाय पर्वतत्वावच्छेदेन वह्नयभावावगाहिनो ज्ञानस्य प्रतिबन्धकत्वमभ्युपेयम् । तत्प्रतिबध्यतावच्छेदकञ्च निर्वह्निपर्वतगोचरसंस्कारनिरूपितविषयताक. संस्कारत्वं, तेन पर्वतो वह्निमानिति पर्वतो वह्नयभावाभाववानिति पर्वतो वह्नयभाववदन्योन्याभाववानिति सकलसंस्कारपरिग्रहः। संशयानन्तरि. तनिश्चयाच संशयनाशानन्तरमेव संस्कारोत्पत्तिरभ्युपेतव्या। एवं वह्निप्र- कारतानिरूपितविशेष्यत्वावच्छेदेन वह्नयभावाद्यवगाहिनामप्रामाण्यशा- नानां तथाविधाप्रामाण्यविषयकसंस्कारनिरूपितविषयताकसंस्कारं प्रत्येव १३ वाद 4 वादवारिधी प्रतिबन्धकतया वह्निप्रकारकविशेष्यतावान् वह्नयभाववान वह्निमान्वेति संशयकाले वह्निप्रकारकविशेष्यतावान् वह्निमानितिसंस्कार इव पर्वतो वह्निमानिति संस्कारोऽपिनोत्पद्यते वह्निमत्पर्वतविषयताया अपि निरुक्ता. प्रामाण्यविषयकसंस्कारनिरूपितत्वनियमात् , न हि अप्रामाण्यग्रहका. लोनेन पर्वतो वह्निमानित्यनुभवेन संस्कारो जन्यते। एवं वह्निज्ञानत्वाबच्छे. देनाप्रामाण्यावगाहिनो ज्ञानस्याप्रामाण्यवद्वह्निज्ञानगोचरसंस्कारनिरू. पितविषयताकसंस्कार प्रत्येव प्रतिबन्धकत्वमास्थेम् , तेन वह्निज्ञानं प्रमा न वेति संशयकाले वहिज्ञा प्रमेति वह्विज्ञानमप्रामाण्याभाववदिति व. ह्निज्ञानमप्रामाण्यवदन्योन्याभाववदिति संस्कारा इव पर्वतो वह्निमानिति महानसं वहिमदिति वह्निमत्पर्वतवानिति वह्निमन्महानसं द्रव्यमित्याद. योऽपि संस्कारा नोत्पद्यन्ते, न हि वह्निमत्पर्वतादिविषयता जात्वपि पतिज्ञानाप्रामाण्यावगाहिना संस्कारेण निरूप्यते, यानि तु तत्तद्वयक्ति- त्वावच्छेदेनाप्रामाण्यं वह्निज्ञानत्वसामानाधिकरण्येन तत्तव्यक्तावप्रा- माण्यञ्चावगाहमानानि ज्ञानानि तेषां तत्तद्व्यक्तित्वावच्छिन्नप्रतियोगि. ताकोऽभावो वह्नित्वावच्छिन्नप्रकारतानिरूपितपर्वतत्वावच्छिन्नविशेष्यता- कसंस्कारसामान्यं प्रत्येव करणं, न तु वह्नयादिव्यक्तिभेदेन भिन्नासु का. रणतासु तत्तदप्रामाण्यज्ञानाभावनिवेशः । एवं सवाशे आहार्यव्यक्तीनां सवाशे उपेक्षाव्यक्तीनाञ्च संस्कारसामान्यं प्रत्येव प्रतिबन्धकत्वमभ्युपेयम्, आहार्यज्ञानजनकविशेषणज्ञानादेरेव विशेषणादिगोचरसंस्कारोदयात् कि. चिदंशे उपेक्षास्वरूपाणामाहार्याणां च ज्ञानानां वह्निमत्पर्वतादिविषय. कसंस्कारत्वावच्छिन्नं प्रत्येव प्रतिबन्धकत्वमभ्युपेयम् । ननु यत्र पर्वतो वह्निमानित्यनुभव एव वह्नित्वेन गुञ्जागैरिकाद्यवगा. हितया समूहालम्बनभूतः वह्नीनां वह्निप्रकारतानिरूपितपर्वतविशेष्यता- नां निरूपकः किञ्चिदंशे भवत्युपेक्षास्वरूपः, तत्र तव्यक्तेविषयभेदभिन्न प्रत्येकविषयतानिरूपकसंस्कारं प्रत्येव प्रतिबन्धकत्वमाश्रयणीयं, तथा च तव्यक्तिभिन्नानुभवस्य वह्नित्वावच्छिन्नगैरिकप्रकारतानिरूपितपर्वतवि. शेष्यताकसंस्कारं प्रति जनकत्वं तथाविधविषयतानिरूपकत्वेनावच्छिद्य- तां, प्रविशतु तत्रैव निर्णयत्वमुपेक्षाया भेदश्चेति चेन्न । सकलोपेक्षाव्यक्तिभेदावच्छिन्नकारणतायाः प्रमाणागोचरत्वात् सर्व. ज्ञेनापि प्रायशस्तावतां भेदानां ग्रहणे न किमपि प्रमाणमस्ति । न हि सर्वज्ञाः सर्वत्राबाधितानि रूपाणि प्रतियन्तीत्यागमो बोधयति, किन्तु व्यवहितं विप्रकृष्टञ्च बुभुत्सया साक्षात्कुर्वन्तीति । न च व्यव. हारकाले ताद्शी कारणता केनापि प्रमाणेन बोधयितुमिष्यते ।

(१०) निर्विकल्पकस्मरणवादवीचिः । ननु तदुपेक्षाभिन्नवह्निमत्पर्वतानुभवत्वेनैव समानविषयकसंस्कार प्रति जनकत्वम् । एवं प्रत्येकव्यक्तिभिन्नानुभवानां मिलित्वा संस्का- रोपधायकत्वोपगमानोपेक्षान्तरात्संस्कारसम्भवः । यत्र पुनरविरल- क्रमेणोत्पन्नमुपेक्षाद्वयं तत्र तदुभयभेद एकत्रैव कारणतायामभिनिविशते इते न तत्र संस्कारप्रसङ्ग इति विषयतान्तर्भावेण कारणतैवानु- भवस्य युज्यते, न तु प्रतिबन्धकत्वमुपेक्षायाः, पृथगनुभवस्य कार• णताकल्पने गौरवात् उपेक्षासमनन्तरोत्पन्नोपेक्षया संस्कारजनने क्षण- बिलम्बप्रसङ्गात् । विषयतानां तादात्म्येन स्वनिरूपकजन्यगुणादौ कारणत्वाधिक्याच इति चेन्न । एकत्र कुत्रचिदशे अपेक्षात्मकमितरांशे चापेक्षात्मकं यत्समूहा. लम्बनं तदन्योन्याभावस्थ कारणकोटावन्तर्भावे गौरवात् । तत्तदुपेक्षा- व्यक्तिभिन्नानुभवविशिष्टलस्कारत्वावच्छिन्नस्य निरूपकताविशेषससर्गे- णोत्पत्तौ तदुव्यक्तिभिन्नानुभवस्य निरूपकताविशेषसंसर्गेण कारणत्व. मिति पक्षस्यैवोचितत्वात् । चैत्रीयत्वादेर्जन्यताजनकतयोरवच्छेदकको. टिप्रवेशस्तु विषयीभूतचैत्रादिभेदभिन्नविषयताभेदावच्छिन्नकार्यकारण. भावस्वीकाराद्यपेक्षया न गौरवमावहति । विषयताव्यक्तीनान्तु स्मरणं प्रति क्लुप्तं यत्कारणत्व तदेव संस्कार प्रत्यपीति नातिरिच्यते, अनुभ- भवसंस्कारयोः संस्कारस्मरणयोश्च विषयताभेदावच्छिन्नकारणतास्वी. कारे महागौरवात् । संस्कारस्य तत्तदुपेक्षाभिन्नानुभववैशिष्टयन्तु स्व- लमवायिलमवेतत्वं स्वनिरूपकविषयतानिरूपकत्व स्ववृत्तिप्रागभावन- तियोगित्वं कालिकसंसर्गश्चेति चतुष्टयात्मकमवसेयम् । यत्रापेक्षाबुद्ध्या- स्मकः पटानुभवः, ततो वह्नयंशे उपेक्षात्मकं वह्निगुञ्जागैरिकाणां समूहाल- म्बनं, तत्र गुजाविषयतायां निरूपकताविशेषसम्बन्धेन जायमानोऽपि सं. स्कारस्तदुपेक्षाभिन्नपटानुभवविशिष्टः, तनिरूपकविषयतानिरूपकत्वाभा- वात् , विनश्यवस्थेनानुभवेन तु न कुत्रापि जन्यते सस्कारः, येन विभिन्न कालिकयोः कालिकसंसर्गाभावात् तदसंग्रहो दोपः स्यात् । कार्यसहभा. वेनैव चानुभवस्य स्मरणजनकत्वमभ्युपेयम्, तेन अविरलक्रमोत्पन्नोपेक्षा- द्वयस्य द्वितीयोपेक्षाभिन्नेन प्रथमेन विनश्यतान संस्कारजन्म। एवमांशि. कोपेक्षाव्यक्तिभिन्नानुभवस्य तथाविधानुभवविशिष्टसंस्कारे सर्वाशोपेक्षा. व्यक्तिभिन्नानुभवस्य तु संस्कारसामान्ये विषयतावृत्तिनिरूपकतासंस- गैंण कार्यकारणभावः। विषयताव्यक्तीनाञ्च स्ववृत्तिनिरूपकतासंसर्गण जन्यगुणसामान्ये जनकत्वम् , विपरीतज्ञानस्य तु विपरीतविष. यकसंस्कारनिरूपितविषयताकसंस्कारसामान्यं प्रत्येव प्रतिबन्धक- वादवारिधी त्वम् । ततद्विषयतानिरूपकसंस्कारे तु तत्तदप्रामाण्यज्ञानाभावा. दिर्जनकः । অথৰ সলমামযজালালাকিব্ধিান্তনিহিঙ্কাই থালি : नुभवस्य निरूपकताविशेषघटितस्य सामानाधिकरण्यप्रत्यासत्या जनक. त्वम् । तदात्मसमवेतसंस्कारस्य तु विषयतालिष्ठप्रत्यासत्या तदात्मस. मवेतस्मरणं प्रति एक एव कार्यकारणभाव इत्याखण्डलकार्थः । सम. वायप्रत्यासत्या कार्यकारणभावे तु पर्वतो वह्निमानिति स्मरणसंस्कारा- नुभवानां वह्निगैरिकगुजादिविषयभेदभिन्नविषयताकाधवच्छिन्नः स्मर- णसंस्कारयोः संस्कारानुभवयांश्च कार्यकारणभावकूटः। विषयताभेदेना- नुभवस्य संस्कारजनकतायां संशयसाशोपेक्षादेराशिकोपेक्षायाश्चाप्रामा. रवशानाभावस्येव तत्र प्रवेशे तेषां परस्परविशेष्यविशेषणभावे विनिग- मकाभावेन कारणतानन्त्यम् । तत्तदन्योन्याभावात्यन्ताभावादिभेदेन भिन्ना वातत्तद्विषयतानिरूपकाभावस्य कारणताकोटिरिति व्यक्तमेव गौरवम् । नन्ववं पर्वतो वह्निमानित्यनुमितिसाक्षात्कारानुभवस्य निरूपकतासंसर्गेण लौकिकविशिष्टविषयतायामपि सत्त्वात् तत्र नि- रूपकतया संस्कारस्मरणयोरुत्पत्तिप्रसङ्गः, एवं पर्वतो वह्निमानित्यनु. मितिरूपानुभवस्य पर्वतोद्देश्यतानिरूपितवह्निविधेयतायामपि निरू- पकतया विद्यमानत्वात्तत्रापि संस्कारस्मरणयोरापत्तिः इति चेत् । उच्यते-पर्वतो वह्निमानित्याकारकसंस्कारव्यक्तिवृत्तिर्या समवायसंस. विच्छिन्ना कार्यतातन्निरूपककारणतावच्छेदकावच्छिन्नाधिकरणताकूट. स्य चैत्रात्मप्रत्यासन्नस्थावच्छेदको यः क्षणः तदवच्छेदेन निरूपकतावि- शेषसंसर्गावच्छिन्नतव्यक्तिवृत्तिकार्यतानिरूपककारणताकटाधिकरण या विषयता सा तत्क्षणाव्यवहितोत्तरक्षणावच्छेदेन चैत्रात्मसमवेतसं- स्कारस्य निरूपकतासंसर्गावच्छिन्नोत्पत्तिमतीति सामान्यतो व्याप्तिः । भवति च पर्वतो वह्निमानित्यलौकिकविषयतासंस्कारव्यक्तिवृत्तिर्या स. मवायसंसर्गावच्छिन्ना कार्यता तन्निरूप झकारणतावच्छेदकावच्छिन्नानां विपरीतशानाभावसम्बन्धदर्शनादीनां तदात्मनि अधिकरणतावच्छेदको योऽनुभवोत्पत्तिक्षणस्तद्वच्छेदेन तादृश्यामलौकिकविषयतायां निरूप. कताविशेषसंसर्गावच्छिन्नकार्यतानिरूपककारयतावच्छेदकावच्छिन्नानां चैत्रीयानुभवनिरूपकत्वतत्तद्विषयतादात्म्यादीनामधिकरणत्वमिति तद्- प्यवहितोत्तरक्षणावच्छेदेन सैवालौकिकविषयतासंस्कारोश्पत्तिमती, न तु लौकिकी, यादृशविषयताकसंस्कारं प्रति समवायिप्रत्यासन्नानि कारणानि प्रसिद्धानि तथाविधाविषयताव्यक्तिवादात्स्यस्यैव सामग्रीघर- (१०) निर्विकल्पकस्मरणवादीचिः । १०१ कत्वाभ्युपगमात् , लौकिकविशिष्टविषयताविधेयत्वोद्देश्यत्वादयस्तु न तादात्म्येन जनिकाः न वा संस्कारसामग्राघटिकाः। नन्वेवमलौकिकबाधनिर्णयाव्यवहितोत्तरोत्पत्तिकलौकिकवह्निमत्य. र्वतसाक्षात्कारेण संस्कारो न जन्येत, अलौकिकवह्निप्रकारतानि- रूपितपर्वतविशेष्यताकविशिष्टवुद्धौ बाधनिर्णयस्य प्रतिवन्धकतया तत्र लौकिक्या एव वह्निप्रकारतायाः स्वीकारात् , तस्याश्च संस्कारसाम- यामननुप्रवेशात् इति चेन्न । स्वाव्यवहितोत्तरोत्पत्तिकत्व-स्वसामानाधिकरण्योभयसम्बन्धेन वाधनिर्णयवदन्यजन्यबुद्धो वार्धानर्णयस्य प्रतिवन्धकतया बाधनिश्चयो. तरलौकिकविशिष्टबुद्धावलौकिक्या अपि वहिप्रकारताया अभ्युपगमात् तस्यामेव संस्कारोत्पादात् । वढेरुपनयघटिता हि लामनी द्वेधा-एका बाधनिर्णयाभावघटिता, द्वितीया पर्वतवाहिसंयोगावच्छेदकावयवाव. च्छिन्नवह्निचक्षुःसंयोगपर्वतचक्षुःसंयोगादिकारणकलापघटिताच, इति लौकिकेऽपि झानेऽवश्यमलौकिकप्रकारता स्वीकर्तव्यैव । वस्तुतः प्रकारतापि लौकिकविषयताऽभिन्ना न भवत्येव किन्तु तदव. च्छिन्ना, लौकिकी विषयता तु निर्विकल्पकविषयतातो नातिरिच्यते इति तयोईयोः संस्कारो जन्यत एव । संस्कारे तु लौकिकविषयताप्र. कारतयो वच्छेद्यावच्छेदकभावः, किन्तु साक्षात्कारिणि ज्ञान एवेति न काचिदनुपपत्तिरिति पटायुद्बोधकसत्त्वे निर्विकल्पकं स्मरणमुपप द्यत इति सम्भाव्यते। तत्रेदमालाचनीयम्-एवमपि निर्विकल्पकविषयतायाः संस्कारनिरू- पितत्वे मानाभावः । यदि हि निर्विकल्पकविषयताव्यक्तस्तादात्म्येन का. रणत्वं प्रामाणिकं स्यात्तदा तद्घटितया सामग्रथा जायेतापि तत्र सं. स्कारः स्मरणं वा, न चैतावता गगनोदिपदादाकाशादिगोचरं निर्वि- कल्पकमुपपद्यते, नहि गगनपदनानादेनिर्विकल्पकविषयतानिरूपक. स्मरणसामग्रथामनुप्रवेशः प्रामाणिकः, न वा गगनादिवृत्तिनिर्विकल्प. कविषयता केनचिदनुभवेन निरूप्यते, शब्दबुद्धनिर्विकल्पकाजनकत्वात् लौकिकप्रत्यक्षस्थ तत्रासम्भवात् इति किमधिन ॥ महामहोपाध्यायश्रीगदाधरभट्टाचार्यविरचितो निर्विकल्प. कस्मरणवाद(२०)वीचिः समाप्तः ॥ * * ॥

वादवारिधी १ १ महामहोपाध्याय श्रीहरिरामभट्टाचार्यविरचित स्मृतिसंस्कारवाद(११)वाचिः !! ज्ञानादीनां सविषयकत्वं प्रत्यक्षसिद्धमेव, भावनाख्यसंस्कारस्य न तथा तस्यातीन्द्रियत्वात् , किन्तु कालान्तरमाविस्मृति प्रति ज्ञानस्य हेतु. ताया व्यापार विनाऽनिर्वाहात् ज्ञानव्यापारतया तादृशसंस्कार इव तस्य भावनासंस्कारस्य सविषयकत्वमन्तरेण स्मृतिविषयतानियमानि- हात् तस्य तथाहि-संस्कारस्य निविषयकत्वे पटादिस्मारकसं. स्कारात् घटादिस्मरणवारणाय तत्प्रकारकतद्विशेष्यकस्मृति प्रति त- प्रकारकतद्विशेष्यकज्ञानजन्यसंस्कारत्वेन हेतुता वाच्या, तस्य सवि. षयकत्वे च लघीयसी तत्प्रकारकतद्विशेष्यकसंस्कारस्वेन हेतुता इति लाघवज्ञानसहकृतेन जनकतायामवच्छिन्नत्ववाहकानुमानेन ता. शधर्मावच्छिन्नस्वसिद्धौ, संस्कारः सविषयक विषयत्वावच्छिन्नकार- णतावत्वात् इत्यनुमानेन संस्कारस्य सविषयता सिध्यति । अथ सामान्यतः स्मृतित्वावच्छिन्नं प्रति संस्कारत्वेनैव हेतुता न तु विषयविशेषोऽप्यन्तर्भाव्यः, तत्प्रकारकतद्विशेष्यकस्मृतित्वावच्छिन्न प्रति तादृशज्ञानत्वेनैव हेतुता वाच्या तावतैव स्मृतिविषयतानियम उपप. द्यते । यत्तु-स्मृत्युत्पादाव्यवहितपूर्वक्षणे तजनकज्ञानासत्त्वाव्यवहित. पूर्वक्षणावच्छिन्नायाः संस्कारत्वादिरूपसाक्षात्कारणतावच्छेदकावच्छि. नस्तोमात्मकसामनया: तद्विषयकस्मृतित्वावच्छिन्नोत्पत्तिप्रयोजिकायाः स्वीकरणीयत्वात् पटादिस्मारकसंस्कारदशायामपि घटादिस्मृत्युत्पाद. प्रयोजकसामग्रीसत्त्वात् तत्प्रसङ्गो दुर्वार एव-इति । तन्न, अव्यवहितप्राक्- क्षणे कालिकसम्बन्धेन ज्ञानासत्वेऽपि व्यापारसम्बन्धेन तत्सत्वात् समा. नविषयकज्ञानस्थापि स्मृत्युत्पत्तिप्रयोजकसामग्रीघटक्रत्वोपपत्तेः। न च देशे कार्योत्पत्तौ अव्यवहितपूर्वक्षणावच्छिन्नदेशनिष्ठसामग्र्येव प्रयोजिका, तत्र च विनष्टरुय ज्ञानस्यान्तर्भावो न सम्भवति, तस्याव्यवहिताक्षणा. वच्छेदेनावृत्तेः कालिकसम्बन्धेन स्वानधिकरणकालस्य स्वीयवृत्तावनव. च्छेदकत्वात् , व्यापारसम्बन्धेन तादृशक्षणस्य ज्ञानाधिकरणत्वेऽपि देशे तद्वृत्ताववच्छेदकत्वासम्भवात् , अन्यथा, एकावच्छेदेन एकत्र प्रतियोग्य. त्यन्ताभावयोवृत्तौ विरोधात् ज्ञाननाशकालावच्छेदेन ज्ञानात्यन्ताभावस्ये. तराधिकरणेऽवर्तमानताप्रसङ्गात् , विपरीतज्ञाननाशेऽपि विशिष्टबुद्धयनु. दयप्रसङ्गात् , अव्यवहितपूर्वक्षणवृत्तिसामप्रयाः देशे कार्योत्पत्तिनियामक स्वोपगमे च विपरीतज्ञानोत्तरक्षणेऽपि विशिष्टमत्यापत्तः विपरातज्ञाना.

(११) स्मृतिसंस्कारवादवाचिः। धिकरणक्षणस्याऽपि अन्यावच्छेदेन तदभावाधिकरणत्वात् तद्वतो देशस्य चान्यकालावच्छेदेन तदभाववत्त्वात् , तद्देशावच्छिन्नतदव्यवहितपूर्वक्षण- निष्ठायाः सामग्रथाः तद्देशनिष्टकार्योत्पत्तिप्रयोजकत्वेऽपि चिरविनष्टज्ञान- स्य स्मृत्युत्पादकसामग्रयन्तर्भावो न सम्भवति व्यापारसम्बन्धेन कालवृ तौ देशस्थानवच्छेदकत्वात , कालिकसम्बन्धेन काले वृत्तावेव देशस्य तथात्वात् , देशवृत्तिसामग्रयाः अव्यवहितपूर्वक्षणलत्त्वस्य देशे कार्योत्प. त्तिप्रयोजकत्वोपगमे च पूर्वोक्त एवातिप्रसङ्ग इति वाच्यम् । व्यापारसम्ब. न्धेनैव व्यापारि कारणं, तव्यवहितप्राक्क्षणावच्छिन्नलाक्षात्कारणस्तो. मीयदेशसत्तायाः अव्यवहितप्राक्क्षणावच्छिन्नं यदेककारणच्यापारसत्वं तत्सहितस्य एकदेशे तथाविधेतरकारणसमुदायसवस्य च तत्र कार्यो. त्पत्तिप्रयोजकत्वोपगमेऽनुपपत्त्यभावात् । व्यापारत्वञ्च तजन्यत्वे सति साक्षात्प्रकृतकार्यजनकत्वम् । तत्र तजन्यत्वं फलोपधानरूपं निवेश्यते, तेन पटादिज्ञानजन्य स्कार प्रति घंटादिज्ञानस्य ज्ञानत्वेन स्वरूपयोग्यत्वेऽपि तस्य न तव्यापारता इति न तादृशसंस्कारघटितसामग्रोबलात् घटा. दिगोचरस्मरणापत्तिः । जनकतायां साक्षात्वनिवेशात् घटज्ञानानु- व्यवसायस्यापि घटज्ञानस्वेन घटस्मृतिजनकतया व्यापारत्वसम्भवेना. पेक्षात्मकघटज्ञानानुव्यवसायात् पटादिज्ञानजन्यसंस्कारबलात् घटस्म- रणापत्ते वकाशः । एवं जनकत्वमसाधारणं निवेशनीयम् , तेन तादृश. घटज्ञानध्वंसस्य कालोपाधिविधया घटस्मृतिजनकत्वेऽपि न तद्वद्घट. स्मरणापत्तिः। असाधारणत्वं च जन्यत्वावच्छिना या जन्यता तदनिक- पितत्वं, कारणजन्यतावच्छेदकावच्छिन्नत्वं वा इति चेत् । एवंसति ध्वंसस्यैव ज्ञानव्यापारतासम्भवेन भावना न प्रमाणपद- वीमारोहेत् । यदि च भावनानुपगमे उपेक्षाज्ञानादपि स्मरणापत्तिः ध्वं. सरूपव्यापारस्य तत्राप्यक्षतस्वात् , तदुपगमे च तत्र संस्काराकल्पनात् नापत्तिः। न च ध्वंसद्वारा उपेक्षान्यज्ञानत्वेनैव स्मृतिजनकताऽस्तु, भव. न्मतेऽपि उपेक्षात्मक ज्ञानेन संस्कारजननवारणाय संस्कार प्रति उपेक्षा- न्यज्ञानत्वेन हेतुताया आवश्यकतया तेन रूपेण जनकत्वेऽवच्छेदकगौर. वस्य उपेक्षान्यत्वज्ञानत्वयोः विशेष्यविशेषरणभावे विनिगमनाविरह- स्याकिञ्चित्करत्वात् इति वाच्यम् । उपेक्षान्यज्ञानत्वेन स्मृतिजनकत्वे उपेक्षात्मकानां तत्तज्ज्ञानव्यक्तीनां भेदकूटस्य एकत्र ज्ञाने निवेश्यतया. ऽवच्छेदकतायाऽव्यासज्यवृत्तित्वे तावतां भेदानां विशेष्यविशेषणभावे विनिगमनाविरहेण गौरवात् एकभेदनिवेशस्यासम्भवात् उपेक्षात्व- स्थानुगतस्यानिर्वचत्वात् , चाक्षषत्वादिना सङ्करप्रसङ्गेन प्रांशिक.

वादवारिधी त्वेन च तस्य जातिवासस्सवात् । संस्कारं प्रति तेन रूपेण हेतुत्वे च तावतां भेदानां नैकत्र निवेशः, किन्तु एकैकभेदमन्त. व्यि ज्ञानस्य पृथक् पृथक् हेतुतायाः कल्प्यत्वात् उपेक्षाज्ञान- काले च तद्व्यक्तिभिन्नशानरूपकारणविरहेणापत्त्यसम्भवात् न विनिग. मनाविरहः । स्मृति प्रति च ज्ञानस्य प्रत्येकभेदान्निवेश्य नानाकारणस्व. कल्पनं न सम्भवति उपेक्षात्मकनानाशानध्वंसदशायां व्यापारसम्बन्धेन सकलकारणतावच्छेदकावच्छिन्नसत्वात् स्मरणापत्तेः। न च संस्कार प्रति तादृशनानाकारणत्वकल्पने उपेक्षात्मकशानद्वयसमवधानस्य एक. दासम्भवात् तदानीच तादृशसकलकारणतावच्छेदकावच्छिन्नसत्वात् संस्कारापत्तिरिति वाच्यम् । तदनुरोधेन यादृशयादृशोपेक्षाव्यक्तरेकदा समवधानम् तादृशतादृशोपेक्षाब्यक्त्योर्भदद्वयस्यैकत्र निवेशात् स्मृति- कारणतामते तु तथाविधसहस्रव्यक्तीनां तत्र व्यापारसम्बन्धेन एकदा सत्त्वसम्भवेन सहस्रभेदानामेकत्र निवेशनीयतया गौरवात् । अथवा शानस्य संस्कारं प्रति कार्यसहभावेनैव हेतुता, उपेक्षात्मक ज्ञानद्वयानन्तरक्षणे च पूर्वज्ञानविनाशात न तदा संस्कारसम्भवः। यद्वा संस्कार प्रति उपेक्षाज्ञानव्यक्तीनां तत्त व्यक्तित्वेन प्रतिबन्धकत्वमेव । यत्र चोपेक्षाज्ञानानन्तरमुपेक्षाज्ञानान्तरं तत्र पूर्वशाननाशानन्तरमेव संस्का- रो जायते तद्व्यक्तः प्रतिबन्धकतैव वा न कल्प्यते, द्वितीयेनेव प्रथमेनापि संस्कारजनने क्षतिविरहात्, स्मृति प्रति च नोपेक्षाव्यक्तीनां प्रतिबन्धक- तासम्भवः, तालां नाशे स्मरणापत्तेर्वज्रलेपस्वात् , नापि तद्ध्वंसानां कदाचिदुपेक्षात्मकस्य ध्वंसे अपेक्षात्मकज्ञानानन्तरमपि स्मरणानुपप- चेः, तस्मात् तत्र उपेक्षाभेदानां कारणतावच्छेदकत्वमेव स्वीकरणीयमि. ति उक्तं गौरवं दुर्वारमेव इति संस्कारसिद्धिरिति मन्यते, तदा पटाद्यंशे अपेक्षात्मकेन घटोशे चोपेक्षात्मकेन ज्ञानेन जन्यात संस्कारात् घटादिस्मृ. तिवारणाय संस्कारस्य समानविषयकत्वेन हेतुत्वमावश्यकम् , अन्यथा तादृशतादृशज्ञानव्यक्तिभेदकूटस्य एकत्र स्मृतिजनकतावच्छेदककोटौ नि. वेशनीयतया उक्तगौरवापो, मन्मते च तदुपेक्षाव्यक्तिभेदानां विभिन्नत- यैव संस्कारकारणतास्वावच्छेदकतया तत्तदुपेक्षाव्यक्तीनां घटादिविष. यक संस्कारं प्रति प्रतिबन्धकतया तत्र घटादिविषयकसंस्काररूपकारण- विरहेण तद्विषयस्मरणवारणसम्भवात् , तावतां भेदानामेकत्रानिवेशात् पटादिस्मरणानुरोधेन संस्कारस्यावश्यकतया तन्मते संस्कारहेतुत यां तत्तदावश्यकोपेक्षाव्यक्तिभेदविशेषस्य तासां संस्कार प्रति प्रतिबन्धकत्व- कल्पनस्य चालम्भवात् ।

, (११) स्मृतिसंस्कारवादवीचिः। १०५ अथ मयापि अांशिकोपेक्षाभेदाः स्मृतिजनकतावच्छेदककोटौ न नि- वेश्यन्ते, किन्तु तत्वज्ञानव्यक्तीनां घटादिविषयकस्मृतित्वावच्छिन्नं प्रति प्रतिबन्धकन्वं कल्प्यते, तादृशज्ञानोत्तरापेक्षात्मकघटादिशानात् घटादि. स्मरणोपपत्तये तादृशापेक्षात्मकमानजन्यसंस्कारव्यक्तीनां तत्र उत्तेजक- त्वमुपगम्यते इतिचेत् । एवमपि संस्कारं प्रति तत्तज्ज्ञानव्यक्तीनां प्रतिबन्धकत्वकल्पनापेक्षया गौरवमेव प्रतिबन्धकतावच्छेदकेऽधिकस्याभावान्तरस्य निवेशात् । न च सस्कारं प्रति तत्तज्ज्ञानव्यक्तीनां प्रतिबन्धकत्वे सस्कारत्वं भावनात्वं वा प्रतिबध्यतावच्छेदकमुपेयते इत्यत्र विनिगमनाविरहात् विविधप्रतिबन्ध. कताकल्पनेन महागौरवमिति वाच्यम् । भवन्मतेऽपि तत्तज्ज्ञानतत्त. संस्काराभावयोः विशेष्यविशेषणभावे विनिगमनाविरहसत्त्वात् । वस्तु. तस्तु व्यापकसंस्कारत्वजातेरप्रामाणिकत्वात् अस्मिन्मते नोक्तविनिगम नाविरहप्रसक्तिरपि। अथ संस्कारलवे स्मृतिवारणाय तदुत्पत्तौ उद्बोधकस्यापेक्षणी. यतया तस्य च फलबलकल्पनीयतया प्रयोजनाभावादेव तस्याकल्पनेन उपेक्षातः स्मरणवारणसम्भवे प्रांशिकोपेक्षाभेदाः स्मृतिजनकतावच्छेद ककोटौ न निवेश्यन्ते, न वातजन्यसंस्कारव्यक्तिमुचेजकीकृत्य प्रतिबन्ध कता कल्प्यते, नापि संस्कारस्य समानविषयकत्वेन हेतुत्व, सर्वाशे उ. पेक्षाशानादपि एवंक्रमेण स्मृतिवारणसम्भवेऽपि तादृशज्ञानजन्यपण्डसं. स्कारव्यक्तीनामप्रामाणिकानां कल्पनागौरवभयेन केवल तादृशोपेतान्य त्वं सस्कारकारणतावच्छेदककोटौ निवेश्यते, तत्तद्वयक्तीनां संस्कार प्रति प्रतिबन्धकत्वं वा कल्प्यते इति चेत् । एवंसति स्मृति प्रति ज्ञानस्य हे. तुताकल्पनं तद्वयापारतया संस्कारकल्पनं च निरर्थकम् उद्बोधकसह कृतात्ममनोयोगादिसामान्यसामग्रोत एव स्मृतिसम्भवात् । वस्तु. तस्तु सम्बन्धिपदादिज्ञानरूपोद्बोधकानामनुगतरूपेणैव स्मृतिहेतुत- या तस्सत्त्वेऽननुभूतपदार्थस्मरणवारणाय स्मृति प्रति शानहेतुतायाः तद्व्यापारतया संस्कारकल्पनायाश्वावश्यकत्वात्। आंशिकोपेक्षाज्ञानान- तर नियतोदुबोधकसत्त्वे तद्विषयकस्मरणवारणाय समानविषयकत्वमा- वश्यकमेव । अथ पदज्ञानादेः यद्यनुगतरूपेण पदशानत्वादिना हेतुता, तदाऽ. गृहीतवृत्यादिरूपसम्बन्धस्य पुंसः पदशानादितः तदर्थस्मरणप्रसङ्गः।य. दि च गृहीतवृत्तिकपदशानत्वादिना तथा, तदा स्मृतिगृहीतवृत्तिकपद. ज्ञानादितोऽपि स्मरणप्रसङ्गः । न च संस्कार विशिष्टतत्सम्बन्धिमानत्वेन १४ वाद वादवारिधी हेतुत्वान्नायं दोष इति वाच्यम् । एवमपि तादृशसस्कारस्थानुबुद्धताद. शायां सम्बन्धिज्ञानात्स्मरणापत्तेः! उबुद्धसंस्कारनिवेशे च तादृशोबो- धकानामननुगमात् अनुगतरूपेण हेतुत्वं दुर्वचम् । न च सम्बन्धिज्ञानस्य प्रतियोगिन इव सम्बन्धांशस्याप्युद्बोधककतया तस्सत्वे सम्बन्धिगोचर. शानस्यानुयोधकत्वमेव कुत इति वाच्यम् । हस्तीत्यादिना हस्त्यादि. ज्ञानेऽपि कदाचित् तनिष्ठहस्त्यादिसम्बन्धाऽस्मरणदर्शनात् सम्ब- धितावच्छेदकरूपेण सम्बन्धिज्ञानस्य नियतसम्बन्धानुबोधकत्वात् । न च तत्पदार्थसम्बन्धविषयकसम्बन्धिज्ञानत्वेन तत्पदार्थस्मृतौ अनु. गतहेतुता कल्प्यत इति वाच्यम् । सम्बन्धाविषयकस्यापि हस्त्यादि- ज्ञानस्य हस्तिपकादिस्मारकत्वात् , अन्यथा हस्तिपकादिसन्निकर्षास. त्वे हस्तिपकादिसम्बन्धित्वेन हस्त्यादिज्ञानस्यासम्भवेन हस्तिदर्शना. दितः हस्तिपकादिस्मरणानुपपत्तेः, तस्मात् सम्बन्धिनानस्यापि अन- नुगतेनैव रूपेण हेतुता। मैवम् । सम्बन्धाविषयकस्य सम्बन्धिज्ञानस्यानियतोद्बोधकतयाऽ. नियतेन तत्तदन्यक्तित्वादिना हेतुत्वेऽपि तत्तत्पदार्थसम्बन्धित्वेन तत्तत्प. दार्थसम्बन्धविषयकसम्बधिज्ञानसत्त्वे असत्यां विरोधिसामग्रयां ज्ञानसा. मान्यसामग्रीसत्वे नियमतस्तत्तत्पदार्थस्मरणोपगमात्ताद्शज्ञानस्यानु. गतरूपेणैव हेतुता कल्प्यते लाघवात्। न च तत्तद्व्यक्तित्वादिनाऽनन्तकार. रगताप्रसङ्गात् तादृशसम्बन्धिज्ञानानन्तरं तत्तत्पदार्थस्य मानसज्ञानमेव स. म्भवति उपनायकज्ञानसत्वादिति स्मरणमेव तत्राप्रामाणिकमिति वाच्यम् । तादृशसम्बन्धिज्ञानस्योद्बोधकतयैव सिद्धः स्मरामीत्यनुव्यवसायानुरोधेन स्मरणस्योपगन्तव्यत्वात् , अन्यथा संस्कारस्योपनायकतावादिनां प्राचां सर्वत्र स्मृतिस्थले उपनीतभानसम्भवेन स्मृतिमात्रस्यैव विलयापत्तेः। न च तादृशसम्बन्धिज्ञानस्य व्यभिचारात तत्पदार्थविषयकस्मृतित्वाव- च्छिन्नं प्रति हेतुता न सम्भवति, तजन्यतावच्छेदकतया उद्बोधकान्त. राधीनस्मृतिव्यावृत्तजातिविशेषकल्पनमपि न सम्भवति सकलपदार्थ. ज्ञानजन्यतावच्छेदकतया सकलपदार्थस्मृतिनिष्ठैकजातिस्वीकारे सम्ब. न्धिज्ञानजन्यएकपदार्थस्मरणे उदबोधकान्तरात् पदार्थान्तरभाने तत्र प. दार्थसम्बन्धिमानस्य व्यभिचारात् नानाजातीनामेव कल्पनीयतया तासां परस्परं सङ्करप्रसङ्गात् , अतस्तत्तद्व्यक्तित्वमेव तस्य जन्यतावच्छेदक वाच्यं, तथाचानुगतरूपेण कारणताकल्पनमपि निष्प्रयोजनं , तत्तव्य. क्तित्वेन कारणत्वेऽपि न कारणताधिक्यमिति वाच्यम् । अनन्तकारण. ताकल्पनापेक्षया कार्यतावच्छेदककोदावव्यवहितोत्तरत्वसम्बन्धेन का. . ७ (११) स्मृतिसंस्कारवादवाचिः । १०७ रणवशिष्ट्यं निवेश्य अनुगतरूपेणैव तादृशज्ञानानामेकैककारणताक. ल्पनात् । एवं सम्बन्धितावच्छेदकीमतयादृशधर्मप्रकारकज्ञानसत्वेऽसत्यां विरोधिसाग्रयां यस्य पुंसो नियमतो यादृशपदार्थस्मरणं तत्पुरुषोयता. दृशपदार्थस्मरणे सम्बन्धाविषयकस्यापि तादृशधर्मप्रकारकज्ञानस्यानुग तरूपेणैव हेतुता कल्प्यते, नतु तत्तद्व्यक्तित्वेन गौरवात् , इत्यञ्च उक्तयु- क्या गौरवमक्षतमेव । एवं भूतलं घटवन्नवेत्यादिसंशयात्मकशानात्भूत. लत्वाधवच्छिन्नविशेष्यकघटादिस्मरणवारणायतादृशस्मृतौ तादृशसंस्का- रत्वेन हेतुताया श्रावश्यकत्वात् संस्कारस्य सविषयतासिद्धिः, संशयात्म- कज्ञानात् धर्मिस्मरणाद्यनुरोधेन संस्कारस्यावश्यकतया तादृशस्मृतौ ता. दशसंस्कारत्वेनाहेतुत्वे संशयात् तादृशस्मरणस्य दुर्वारत्वात् । न च ताद- शस्मृतौ समानविषयकनिश्चयत्वेन हेतुताऽस्तु तावतैव तादृशापत्तिवार- रणसम्भवात् , भवन्मतेऽपि संस्कारविशेष प्रति तेन रूपेण हेतुताया श्राव. श्यकत्वादन्यथा तादृशसंशयात् भूतलत्वाद्यवच्छिन्नविशेष्यकघटादिप्रका रकसंस्कारोत्पत्तौ बाधकाभावात् तादृशसंस्कारत्वेन हेतुत्वेऽपि अतिप्रस ङ्गतादवस्थ्य त् इति वाच्यम् । तद्धर्मावच्छिन्नविशेष्यकतद्धर्मावच्छिन्नप्र. कारकस्मृति प्रति तद्धर्मावच्छिन्नविशेष्यकतद्धर्मावच्छिन्नाभावप्रकारका. न्यतद्धर्मावच्छिन्नविशेष्यकतद्धर्मावच्छिन्नप्रकारकज्ञानत्वरूपनिश्चयत्वापे. क्षयालधुना तद्धर्मावच्छिन्नविशेष्यकतद्धर्मावच्छिन्नप्रकारकसंस्कारत्वेन हेतुत्वात्, संशयात्तादृशसंस्कारवारणाय तत्र तादृशनिश्चयत्वेन हेतुता- कल्पनप्रयुक्तगौरवस्य फलमुखत्वेनाकिञ्चित्करत्वात् । अथवा संस्कारं प्रति ज्ञानस्य हेतुतायां तदभावाप्रकारकत्वंतत्प्रकार: कत्वयो कत्र निवेशः, किन्तु तदभावाप्रकारकत्वेन तत्प्रकारकत्वेन च पृथगेव कारणत्वम् । घटप्रकारकसंशयघटाभावाप्रकारकपटादिज्ञानाभ्या- मविरलक्रमेणोत्पन्नाभ्यामग्रिमक्षणे संस्कारविशेषापत्तिस्तु कार्यसहभावे- न ज्ञानस्य संस्कारहेतुतामुपगम्य निरसनीया, स्मृति प्रति निश्चयत्वेन हे. तुत्वे च तदभावाप्रकारकत्वतत्प्रकारकत्वज्ञानत्वाना मिथोविशेष्यविशेषण - भावेविनिगमनाविरहेण कारणताबाहुल्यमिति स्फुटमेव गौरवम् । न चैत. न्मते त्रयाणां विनिगमनाविरहेण कारणताषट्कप्रसङ्गोऽपि, भवतामपि तभावाप्रकारकत्वज्ञानत्वयोः तत्प्रकारकत्वज्ञानत्वयोश्च विशेष्यविशेषण- भावे विनिगमनाविरहेण संस्कार प्रति ज्ञानकारणताचतुष्टयं, तत्प्रकारक. त्वसंस्कारत्वयोश्च तथात्वेन स्मृति प्रति कारणताद्वयोति वाच्यम् । एव. मपि निश्चयत्वेन स्मृतिहेतुतामते कारणतावच्छेदकगौरवस्य विषयमा १०८ वादवारिधी निवेश्य सामान्यतः संस्कारत्वावच्छिन्न प्रति ज्ञानत्वेन कारणताया. श्वाधिक्यात् । अथवा संस्कारं प्रति निश्चयत्वेन हेतुताऽस्माकमपि न, किन्तु तत्प्रका- रकतद्विशेष्यकज्ञानत्वमात्रेण । संशयात् संस्कारविशेषशपत्तिस्तु तद्भा. घप्रकारकज्ञानत्वेन प्रतिबन्धकतां कल्पयित्वा वारणीया। संशवानन्तरोत्प. ननिश्चयादिद्वितीयक्षणे संस्कारनिर्वाहाय चोत्पत्तिक्षणावच्छिन्नत्वं प्रति- बन्धकतावच्छेदककोटौ निवेश्यते । ज्ञानस्य संस्कारं प्रति कार्यसहभावेन हेतुत्वात् न संशयतृतीयक्षणे संस्कारविशेषापत्तिः। निश्चयत्वेन स्मृति हेतुतामते च घटाभावाद्यप्रकारकत्वरूपैकविशेषणस्य घटवद्भुतलवान देश इत्याद्यनन्तबोधनिष्ठस्मृतिहेतुतायां निवेशे गौरवात् । वस्तुतस्तु अस्मन्मते संस्कारं प्रति तद्विशेष्यकतत्प्रकारकज्ञानत्वेनैव हेतुता न तु निश्चयत्वेन । संशयात संस्कारविशेषवारणाय तत्र संशयस्य तद्विशेष्यकतदभावप्रकारकज्ञानत्वेन प्रतिबन्धकता कल्प्यते । एवं संस्का- रस्थ निर्विषयतामते तद्विशेष्यकतदभावप्रकारकान्यतद्विशेष्यकतत्प्रका. रकज्ञानत्वरूपस्मृतिकारणतावच्छेदकतभावाप्रकारकत्वतत्प्रकारकत्व- ज्ञानत्वानां त्रयाणां विशेष्यविशेषणभावे विनिगमनाविरहेण कारणताषटकं विषयभेदेन, संस्कारं प्रति च ज्ञानत्वेनैकहेतुता विषयाभेदेन, अस्मन्मते तद्विशेष्यकतत्प्रकारकसंस्कारे तादृशज्ञानस्य तत्प्रकारकत्वज्ञानत्वयोः वि शेष्यविशेषणभावे विनिगमनाविरहेण संशयस्य प्रतिबन्धकताद्वयं, सं. स्कारस्य च स्मृति प्रति तत्प्रकारकत्वसंस्कारत्वयोः विशेष्यविशेषणभावे विनिगमनाविरहेण कारणताद्वयमिति कारणताषटकं, स्मृति प्रति ज्ञान- स्वैनेकहेतुता इति भवन्मते विषयभेदेन अनन्तकारणतासु अवच्छेदक. गौरवम् , एककारणतायाश्चाधिक्यम् । न च संशयस्य प्रतिबन्धकत्वे संशयानन्तरोत्पन्ननिश्चयात् संस्कारानुपपत्तिरिति वाच्यम् । संशयना. शानन्तरमेव तत्र संस्कारजननात् संस्कारं प्रति कार्यसहभावेन हेतुताया अपि अनभ्युपगमात् । अथवा ज्ञानस्य संस्कारं प्रति तद्भावाप्रकारकत्वेनैव हेतुत्वं,न तुवंशः थस्य प्रतिबन्धकत्वं कल्प्यते । तत्प्रकारकशानत्वेनापि कारणत्वान्तरंकल्प. नीयम् , मत उपदर्शितधर्मत्रयस्य विशेष्यविशेषणभावे विनिगमनाविरह- प्रयुक्तकारणषट्कस्य नावकाशः । स्मृति प्रति तदभावाप्रकारकत्वविशि- तत्प्रकारकमानत्वेनैव हेतुता, न तु निरुक्तधर्मावच्छेदेन पृथक्कारणता द्वयम्, तथासति घटाभावाप्रकारकपटज्ञानजन्यसंस्कारस्य सत्त्वे घटप्रका. रकसंशयजन्यसंस्कारस्य सत्त्वे च घटप्रकारकस्मरणापत्तिः प्रत्येकतादृश. , (११) स्मृतिसंकारवादवाचिः । १०९ धर्मद्वयावच्छिन्नस्य व्यापारसत्त्वातू, अस्मन्नये च क्रमोत्पन्नाभ्यां पटादि. शानघटादिसंशयाभ्यां घटादिप्रकारकसंस्कारजननस्य न प्रसङ्गः कार्यस- हभावेन ज्ञानस्य संस्कारजनकत्वात् कार्यकाले तादृशज्ञानद्वयस्यासत्त्वा- त्, एवं च संस्कारस्य निर्विषयत्वमते विषयभेदभिन्नानां कारणतानां साम्येऽपि पूर्ववत् अनन्तकारणतास्ववच्छेदकगौरवमेककारणताधिक्य. चेति। , वस्तुतस्तु स्मृति प्रति निश्चयत्वेन हेतुतामते भूतलविशेष्यकघटा. भावाप्रकारकत्वरूपैकविशेषणस्य घटविशिष्टभूतलं घटवद्भूतलविशि- ष्टदेशादि इत्यादिनानाविधविशिष्टपदार्थगोचरस्मृतिहेतुतायां निवेशनी. यतयाऽनन्तस्थले तादृशधर्मेण सह धर्मान्तराणां विशेष्यविशेषणभावे विनिगमनाविरहात् कारणतानन्त्यम्, अस्मन्मते च तथाविधसकल. विशिष्टपदार्थगोचरसंस्कारसाधारणघटविशिष्टभूतलादिविषयकसंस्का. रत्वावच्छिन्नं प्रति भूतलविशेष्यकघटाभावप्रकारकान्यज्ञानस्वादिना एकैककारणता तत एव निर्वाहः, भवतां तथाविधसकलपदार्थस्मरणे घट. विशिष्टभूतलमुख्यविशेष्यकघटनिश्चयजन्यसंस्कारस्य घटांशे संशया. स्मकपटवभूतलदेशादिविषयकज्ञानजन्यसंकारस्य च सत्वे घटवभूतल. चान्देश इत्याकारकस्मरणापत्तेस्तादृशस्मृतौ तत्समानाकारकज्ञानीयका- रणतान्तरेऽपि तन्निवेशनमावश्यकमेव, अस्मन्मते समानाकारकज्ञानस्य कार्यसहभावेन हेतुतया क्रमोत्पन्नताशसंशयतादृशनिश्चयाभ्यां घटवद्- भूतलविशिष्टदेशसंस्कारजननासंभवेन तदुत्तरं तादृशविशिष्टविषयकस्म रणापत्ते वकाशोऽपीति । अथ संशयोत्तरमेकैककोटिस्मारक उद्बोधक इत्यत एव एकैककोटि- निश्चयः, किन्तु संशयात्मकस्मरणमेव सिद्धान्तविरुद्धतया नाभ्युपेयते, तद्वारणच निश्चयत्वेन स्मृति प्रति संस्कारं प्रति च ज्ञानस्य हेतुताकल्पन. साध्यम्। तत्कल्पनेऽपि एकधर्मावच्छिन्नविशेष्यकप्रत्येककोटिनिश्चयद्वयज. न्यसंस्कारयोः युगपदुद्बोधकसमवधाने तादृशस्मरणापचेर्वज्रलेपत्वात्, अतः समानधर्मितावच्छेदकैक कैककोटिस्मरणसामग्र्याः अपरकोटिस्मृति प्रति प्रतिबन्धकत्वं स्वीकृत्यैव संशयाकारकस्मृतिर्वारयितव्या इत्यलं स. मानविषयकत्वेन संस्कारहेतुतया सामान्यतः संस्कारस्य संस्कार, त्वेन हेतुत्वेऽपि स्मृतिकारणतायां निश्चयत्वानिवेशेन गौरवानवकाशात् इति चेन्न । संशयादेकैककोटिस्मरणस्वीकारे उपेक्षात्मकसंशयात् तादृशस्मर. एवारणाय संस्कारकारणतायां तत्तदुपेक्षाव्यक्तिसहस्रभेदनिवेशे महा.

११० वादवारिधी . गौरवात्, तदपेक्षया लाघवात् स्मृति प्रति निश्चयत्वेन हेतुताया भवतैव कल्पनीयत्वात्, तदपेक्षया उक्तलाघवेन च स्मरणं प्रति समानविषयकत्वे. न संस्कारस्थ तं प्रति च निश्चयत्वेन ज्ञानस्य हेतुताया निष्प्रत्यूहत्वात् । न चोपेक्षात्मकलशयात् विशकलितानां तद्विषयपदार्थानां स्मरणवारणा- य तदुपेक्षाव्यक्तिभेदानां संस्कारजनकतावच्छेदककोटौ निवेशनमावश्य- कमिति वाच्यम् । उपेक्षानात्मकविशकलिततावत्पदार्थज्ञानानन्तरं यत्रो. पेक्षात्मकसंशयः, तदनन्तरं विशकलिततावत्पदार्थस्मरणस्यावश्यकतया तादृशव्यक्तीनां भेदनिवेशस्यानावश्यकत्वात्। एवं संस्कारस्य निर्विषय. कत्वमते मानसादिकं प्रति स्मृतिसामग्र्या उद्बोधकविशेषसमवहितघ- टादिस्मारकोदोधकादिज्ञानजन्यसंस्कारत्वेन प्रतिबन्धकता वाच्या, घ. टादिविषयकज्ञानजन्यत्वाप्रवेशे घटादिस्मारकाद्बोधकसमवहितपटादि- ज्ञानजन्यसंस्कारस्याऽपि प्रतिबन्धकताऽनपायात् । संस्कारस्य सविषय. कत्वोपगमे घटादिविषयकज्ञानजन्यसंस्कारस्य न घटादिविषयकत्वमात्र निवेश्यते इति लाघवानुरोधेनाऽपि संस्कारस्य विषयतासिद्धिः। एतन्मते संस्कारस्य विषयतानियामककार्यकारणभावकल्पनागौरवन्तु फलमुख- तया न दोषाय । वस्तुतो नानाविधोद्बोधकमनन्तर्भाव्य कल्पनीयना. नासामग्रीप्रतिबन्धकतास्ववच्छेदकलाघवेन तद्विषयकसंस्कारेतद्विषयचा. नत्वेनैककारणताधिक्यं गौरवप्रयोजकमपि । अथ तद्विषयकस्वेनाभिमतेषु संस्कारेषु बिषयताविशेषकार्यका- रिणो जातिविशेषा एव स्वीकियन्ताम्, कि विषयतया । न च ज्ञाना. दिषु क्त्तृप्ततया विषयतयैवोपपत्तौ अक्लृप्तजातिविशेषस्वीकारोऽनुचित इति वाच्यम् । घटादिविशेष्यकघटत्वादिप्रकारकस्मृतौ घटादिविशेष्य. कघटत्वादिप्रकारकसंस्कारस्य हेतुत्वे तदघटकसंस्कारत्वघटत्वप्रका- रकत्वादीनां विशेष्यविशेषणभावे विनिगमनाविरहेण कारणतावृद्धः अपच्छेदकगौरवाञ्च जातिविशेषस्य कारणतावच्छेदकतया कल्पयि- तुमुचितत्वात्, एवं जातिविशेषस्वीकारे सामग्रीप्रतिबन्धकतायामपि लाघवं सम्भवतीति । न च घटादिविषयकपटादिविषयकस्मृतिजन- कतावच्छेदकनानाजातीनां समूहालम्बनशानजन्यसमूहालम्बनसंस्कारे सामानाधिकरण्यात् एकैकविषयकशानजन्यसंस्कारे परस्परपरीहारे- ण वृत्तेः आतिसङ्करप्रसङ्गात् न जातिकल्पनासम्भव इति वाच्यम् । स. मूहालम्बनस्थले प्रत्येकविषयकनानासंस्काराणामेव स्वीकारेण तासां जातीनामैकाधिकरण्याप्रसक्तः उक्तलाघवेन जातिसिद्धौ तत्सङ्करपरीहा- राय व्यक्तिभेदकल्पनागौरवस्य फलमुखत्वेनादोषत्वात् । न च घटवद् (११) स्मृतिसंस्कारवादवाचिः । तलमिति ज्ञानादिजन्य विशिष्टस्मरणजनकसंस्कारेषु घटवदुभूतलमि- त्यादिप्रत्येकपदार्थस्मरणजनकतावच्छेदकनानाजातिस्वीकार आवश्यक एव, अन्यथा विशिष्टस्मरणस्यापि प्रत्येकविषयकतया तादृशसंस्काराद् विशिष्टस्मरणोत्पत्तेरसम्भवात् इति वाच्यम् । तत्रापि विशिष्टस्मृत्युत्पा दकसंस्कारातिरिक्तानां प्रत्येकस्मारकतावच्छेदकनानाजात्याकान्ता- नां संस्काराणां कल्प्यतया तादृशनानासंस्कारात् विशिष्टस्मरणोपपाद. नसम्भवात् एकसंस्कारे तादृशनानाजातेरेवाकल्पनात् इति चेन्न । फलमुखगौरवस्यापि दोषताया व्यवस्थापनीयत्वात् । अनन्तसंस्का- रव्यक्तीनां अनन्तजातीनां च कल्पनापेक्षयोक्तविनिगमनाविरहेणाधि- ककतिपयकारणताकल्पनस्यावच्छेदकगौरवस्यादोषतायाः प्राग व्यव. स्थापितत्वात् । तादृशव्यक्तिभेदादिकल्पनागौरवस्य जातिविशेष. कल्पनायाविरोधित्वे धूमादिलिङ्गकपरामर्शादिकार्य्यतावच्छेदककोटा. वव्यवहितोत्तरत्वस्य अन्यलिङ्गकानुमितौ व्यभिचारवारणाय निवेशे गौर- वात् , तजन्यतावच्छेदकतया अनुमित्यादौ जातिविशेषाणां नानालि ङ्गकसमूहालम्बनपरामर्शादिस्थले तेषां साङ्कय्यपरिहारानुरोधेन च नानुमित्यादेर्युगपदुत्पादस्य च सिद्धिप्रसङ्गः, न हि सजातीयज्ञानानां युगपदुत्पादसाधकाभावादन्यत् किमपि बोधकं, नियुक्तिकसिद्धान्तभ. ङ्गस्यातथात्वात् । प्रत्यक्षाद्यत्पादकाले अनुमित्यादुपगमे अनुमिनोमी त्यनुव्यवसायापत्तिवत् प्रकृतेऽतिप्रसङ्गविरहात् । नचैवं परस्परविजा- तीयनानाचेष्टानां युगपदुत्पादस्थले चेष्टाविशेषजनकतावच्छेदकजातीनां सङ्करभयेन कृतियोगपद्यस्वीकारो विरुध्येत, व्यक्तिभेदादिकल्पनागौर. वभयेन कार्यकारणभावेऽवच्छेदकगौरवादिसहितष्णतायां तत्तजातो. यचेष्टां प्रति तत्तजातीयचेष्टानिष्ठसाध्यतानिरूपितोपादानत्वस्वावच्छेद कत्वोभयसम्बन्धेन कृतित्वेन हेतुत्वमुपगम्य समूहालम्बनैककृतित एव नानावयवेषु युगपत् प्रतिनियतनानाजातीयचेष्टोत्पत्तिनिर्वाहात् कृतिवै. जात्यस्यैवासिझेरिति वाच्यम् । कृतियोगपद्यानभ्युपगमे क्षतिविरहात् , प्राचीनोग्यात्मविशेषगुणानां योगपद्यस्यैवानभ्युपगमात् । वस्तुतस्तद्विषयकस्मृति प्रतिविजातीयसंस्कारत्वेन हेतुत्वे विश्यमे देन स्मृतिसंस्कारयोरनन्तकार्यकारणभावप्रसङ्गागौरवम् , संस्कारस्य सविषयकत्वोपगमे च विषयमनिवेश्यैव समानविषयत्वप्रत्यासत्त्या का. र्यकारणभावोपगमात् न विषयभेदेन तभेद इति लाघवम् । न च व स्मृति प्रति समानविषयत्वप्रत्यासत्या संस्कारस्य हेतुत्वे द्रव्यत्वेन घटं पृथि. वीत्वेन च पटमवगाहमानेन ज्ञानेन जनितात संस्कारात् पृथिवीत्वेन .

वादवारिधी . . घटस्य द्रव्यत्वेन च पटस्य स्मरणापत्तिः, अतस्तत्प्रकारतानिरूपिततद्वि. शेष्यताशालिस्मृतौ तत्प्रकारतानिरूपिततद्विशेष्यताशालिसंस्कारस्य हे. तुताकल्पनमावश्यकम् इति विषयभेदेन हेतुताभेद आवश्यक इति वा. च्यम् । तद्धर्मप्रकारतानिरूपितविशेष्यतासम्बन्धेन स्मृति प्रति तादश सम्बन्धेन संस्कारत्वेन हेतुत्वोपगमादुक्तातिप्रसङ्गनिरासात् विषयभेदेन कारणताभेदविरहेण लाघवस्यापि सम्भवात् । अथ दर्शितविशेष्यनिष्ठविशेष्यतानिरूपित प्रकारताप्रत्यासत्या प्रकार निवेश्य तनिष्ठविशेष्यतानिरूपिनप्रकारतासम्बन्धेन स्मृति प्रति तादृशप्र. त्यासत्या तन्निष्ठप्रकारतानिरूपित विशेष्यताप्रत्यासत्यावा विशेष्य निवे. श्य तादृशप्रत्यासत्त्या तऽतुता कल्प्यते इत्यत्र विनिगमनाविरह इति चेत्। आस्तां विनिगमनाविरहादुभयविधप्रत्यासत्त्यैव कार्यकारणभावः, तथापि विशेष्यप्रकारत्वे निवेश्यात्मनिष्ठप्रत्यासत्या कार्यकारणभावक- ल्पनापेक्षया एतन्मते कार्यकारणभावानामल्पतरत्वमेव, तन्मते विशे यसहस्रस्य प्रत्येकमन्तर्भाव्य प्रकारसहस्रभेदेन सहस्रगुणितं कारणता. सहस्रम् , एतन्मते एकैक वशेष्य प्रकारत्वञ्चान्तर्भाव्य एकैककार्यका- रणभावमात्रकल्पनम् । अथवा संस्कारस्य सविषयकत्वोपगमे स्वनिरूपितविशेष्यतासम्ब. न्धेन स्मृति प्रति तादृशसम्बन्धेन विषयमन्तर्भाव्य हेतुता कल्प्यते, ता. वतैव एकसंस्कारादन्यविषयकस्मरणस्य द्रव्यत्वपृथिवीत्वाभ्यां घटप. टविषयकसंस्कारात् विपरीतप्रकारेण तदुभयस्मरणस्य वारणात् । यादृ. विषयता संस्कारनिरूपिता तादृशविषयतायामेव निरूपितत्वसम्बन्धे न स्मृत्युत्पादात् एकविषयताशालिसंस्कारादन्यविषयताशालिस्मृत्यस. म्भवात् । घटवद्भूतलमित्यादिज्ञानजन्यसंस्कारे घटत्वादिप्रकारतानि. रूपितघटादिमुख्य विशेष्यतापि स्वोक्रियते घटत्वादिप्रकारकघटादिमुख्य- विशेष्यकज्ञानघटितसामग्र्या एव तन्नियामकत्वात् , तस्याश्च घटवद् भूतलमित्यादिज्ञानकाले सत्त्वात् , अतो घटवभूतलमित्यादिज्ञानजन्यस. स्कारात् भूतलादिभासकोद्वोधकासमवधानदशायां न तादृशमुख्यविशे प्यताशालिस्मरणस्यानुपपतिः। एवञ्च स्मृतिसामग्र्याः प्रतिबन्धकतायां घटादिज्ञानजन्यसंस्कारस्य घटादिविषयसंस्कारत्वेन निबेशापेक्षया वै जात्यपुरस्कारेण निवेशे लाघवम् । यदि च तत्र जातिविशेषाः सिध्यन्ति तदा सिध्यन्तु, यदि तदुपगमे समूहालम्बनस्थले नानासस्काराणां क ल्पनीयतया गौरवं न बाधक तदा तत्र नास्माकं विद्वेषः, तसिद्धावपि उक्तलाघवेन संस्कारस्य सविषयकत्वसिद्धनिष्प्रत्यूहत्वात् इति । । ।

(११) स्मृतिसंस्कारवादीचिः । ११३ . केचित्तु संस्कारस्य सविषयकत्वानुपगमे घटादिज्ञानजन्यसंस्कारस्य पटादिस्मरणेन नाशप्रसङ्गस्तन्मते विषयमनन्तर्भाव्य संस्कारत्वस्मृतित्वा. भ्यामेव सामान्यतो नाश्यनाशकभावस्योपेयत्वात् , तद्विषयकशानजन्य- संस्कारत्वेन तद्विषयकस्मृतित्वेन नाश्यनाशकभावोपगमे गौरवात् लाघ. वेन तद्विषयकसंस्कारत्वस्यैव नाश्यतावच्छेदकत्व सिद्धः संस्कारस्य स. विषयताया निष्प्रत्यूहत्वात् । न च जनकतासम्बन्धेन स्मृतित्वावच्छि. नस्य प्रतियोगितासम्बन्धेन संस्कारनाशं प्रति हेतुत्वात्तस्संस्कारफलीभू- तस्मृत्यैव तत्संस्कारनाशः सम्भवतीति न पटादिस्मरणेन स्वाजनकघ. टादिज्ञानजन्यसंस्कारस्य नाशापत्तिरिति वाच्यम् । संस्कारस्य निर्विष. यत्वमते सामान्यतः स्मृतित्वावच्छिन्नं प्रतिसंस्कारत्वेनैव जनकत्वात्, घटादिशानजन्यसंस्कारस्यापि पटादिस्मृतिजनकतया उक्तापत्तेारयि. तुमशक्यत्वात् । तत्तद्वयक्तित्वावच्छिन्नजनकताना प्रत्यासत्तित्वेऽननुग. मात् तादृशजनकताकूटसाधारणानुगतरूपे प्रत्यासत्तितावच्छेदकत्वस्य दुर्वारत्वात् , उदुबोधकसमवधानस्थलीयस्मरणेषु उद्बोधकानां तत्त. द्वयक्तित्वेन हेतुतया तेषामेव तत्तद्वयक्तित्वावच्छिन्नोत्पादनियामकतया तत्र संस्कारस्य तत्तद्वयक्तित्वेन हेतुताया अप्रामाणिकत्वात् । एतेन स्वरूपसम्बन्धावच्छिन्नावच्छेदकताकजनकतात्वेन समवायसम्बन्धा- वच्छिन्नसंस्कारत्वनिष्ठावच्छेदकताकजनकताव्यावृत्तेन तत्तद्वयक्तिस्वा. वच्छिन्नजनकताकूटस्य प्रत्यासत्तित्वेऽपि न निस्तारः । श्रथ संस्कारस्य सविषयकत्वेऽपि तत्तत्स्मृतित्वेनैव तत्तत्संस्कारनाशकता वाच्या, तद्वि- षयकसंस्कारनाशं प्रति सामानाधिकरण्यसम्बन्धेन तद्विषयकस्मृ. तित्वेन सामान्यतः संस्कारनाशं प्रति जनकतासम्बन्धेन स्मृतित्वेन वा कारणत्वोपगमे घटपटादिगोचरसंस्कारस्य केवलपटादिविषयकस्म- रणेन नाशापत्या तदुत्तरं घटादिस्मरणानुपपत्तिः, एवञ्च संस्कारस्य निविषयकत्वेऽपि नाश्यनाशकभावः सम्भवति पटादिस्मरणेन तादृशसं. स्कारनाशेऽपि घटादिविषयकसंस्कारस्थलेतदुत्तरं घटादिस्मरणोपपत्ते। न च घटवद्भुतलमितिज्ञानात् यत्र केवलघटादिस्मरणं तत्र विशिष्टविष- यकसंस्कारो न नश्यति घटत्वान्यधर्मनिष्ठप्रकारत्वानिरूपितघटादिमु. ख्यविशेष्यताशालिसंस्कारस्यैव घटत्वादिना घटादिविशेष्यकस्मृतित्वा- वच्छिन्ननाश्यतोपगमात् , अतो न तत्रापि तदुत्तरं भूतलादिस्मरणानुप- पत्तिरिति वाच्यम् । समूहालम्बनस्थले नानासंस्कारस्वीकारे घटादि- स्मृतिनाश्यतावच्छेदकतथाविधकार्यकारिणां जातिविशेषाणामेवावच्छे- दकतालाघवानुरोधेन स्वीकर्तुमुचितत्वात् इति चेन्न । १५वादक वादवारिधी संस्कारस्य सविषयकत्वेऽपि तत्तद्वयक्तित्वेन संस्कारस्मरणयोन ना. श्यनाशकभावः अनन्ततत्कल्पनापातात् , अपितु घटत्वादिप्रकारकघटा- दिविशेष्यकसंस्कारनाशं प्रति तादृशस्मृतित्वेनैव हेतुता, तत्र कार्यस्य प्रतियोगित्वं कारणस्य च सामानाधिकरण्यं प्रत्यासत्तिः। स्वजन्यसं. स्कारस्य स्मृत्या नाशवारणाय स्वपूर्वत्वमपि हेतुतावच्छेदकसम्ब. न्धो वाच्यः। वस्तुतःस्वजन्यसंस्कारस्य स्वतृतीयक्षणेन नाशसम्भवः, प्रतियोगिता. सम्बन्धेजनाशत्वावच्छिन्नं प्रति पूर्वस्वसम्बन्धेन नाशत्वेन हेतुतायाः क्लृप्त . त्वात्,संस्कारोत्पत्तिक्षणे च तादृशसम्बन्धेन तत्र नाशरूपकारणविरहात्। नापि संस्कारोत्पत्तितृतीयक्षणे, तदव्यवहितपूर्वक्षणे स्मरणरूपकारणस्या- भावात् । अपेक्षाबुद्घ क्षणत्रयावस्थायित्वमते तस्यास्तृतीयक्षण एव सं. स्कारोत्पत्त्या अतादृश(शस्मरणजन्यसंस्कारस्य तादृशस्मरणचतुर्थक्षणे नाशप्रसङ्गः, दर्शितप्रत्यासत्यानाशरूपकारणस्य तृतीयक्षणेऽसत्त्वात्। का- लादिजन्यसंस्कारनाशे व्यभिचारवारणाय स्वसामानाधिकरण्यस्त्रपूर्व स्वकालिकविशेषणततत्रितयसम्बन्धन संस्कारे तादृशस्मृतिवैशिष्टयं त दीयकार्यतावच्छेदककोटौ निवेशनीयम् । कालिकविशेषणतानिवेशात् कालादिजन्यसंस्कारनाशे न व्यभिचारः। कालाद्रोगाद्वा संस्कारनाश इत्यादिप्रवादे कालरोगयोस्तु तत्तद्वयक्तिनैव नाशकता तत्तद्वयक्तित्वेनैव च संस्कारे तन्नाश्यतोपगमात् । तन्नाश्यतावच्छेदकतया जातिविशेषक- ल्पनन्तु न सम्यक विपरीतज्ञाननाश्यतावच्छेदकतयापि तुल्ययुक्त्या जा. तिविशेषसिद्धेरावश्यकतया उभयनाश्यसमूहालम्बनसंस्कारे जातिसङ्क. रप्रसङ्गात् । घटपटादिगोचरसमूहालम्बनसंस्कारस्य च न केवलघटादि. स्मरणेन नाशापत्तिसम्भवः, तन्नाशे पटादिस्मरणस्यापि हेतुतया ताब्द- शकारणविरहेण सामग्रोविरहात् । न च पटादिस्मरणं विनापि घटा- दिस्मरणेन स्वजन्यतावच्छेदकावच्छिन्नस्य केवलघटादिगोचरसंस्कार- नाशस्य जननात् समूहालम्बनसंस्कारे घटादिस्मरणात् तज्जन्यतावच्छे. दकावच्छिन्नोत्पत्तिर्दुरेति वाच्यम् । घटत्वादिविशिष्टघटादिमात्रविष. यकसंस्कारनाशं प्रति तादृशसंस्कारत्वेनापि प्रतियोगिनस्तादात्म्यप्रत्या- सत्त्या हेतुत्वात् , समूहालम्बनसंस्कार ताशकारणविरहेण केवलघटा- दिगोचरसंस्कारनाशकसामग्रीविरहादिति । अथवा प्रतियोगितासम्बन्धेन नाशं प्रति स्वावृत्तिविषयतासम्ब- (१) तादृशेति, अपेक्षाबुद्ध्यात्मकेत्यर्थः । एवमऽपि । ।

(११) स्मृतिसंस्कारवादवीचिः । ११५ न्धेन स्वनिष्ठभेदप्रतियोगितावच्छेददविषयतासम्बन्धेन वा न्यूनविषय. कस्मरणस्य स्मृतित्वेन प्रतिबन्धकता कल्प्यते । यत्र च प्रत्येकघटादि- गोचरसंस्काराभ्यां क्रमेण स्मृतिजन्यते तत्र घटस्मरणविनाशे सत्येव प. टस्मरणेन पटसंस्कारो नाश्यते । यत्र च तदुत्तरमपि न कस्यापि स्मरणं तत्र तदुत्तरभावीतरस्मरणाभावकालीनपटस्मरणेन कालविशेषेण वा पटसंस्कारो नाश्यते, तदितरस्मरणकालीनपटस्मरणं प्रति प्रतिबन्धकस्य समवहितत्वात् । अथवा प्रतियोगितया संस्कारनाशं प्रति स्मृतित्वेनैव हेतुता तत्र स्वावृत्तिविषयताशून्यत्वं कारणस्य प्रत्यासत्तिः, अतोन्यूनविषयकस्मर- णात् न संस्कारनाशापत्तिः। यद्वा आधेयतासम्बन्धावच्छिन्नप्रतियोगिताकस्मरणाभावविशिष्टत्वेन संस्कारनाशं प्रति प्रतिबन्धकता स्वीक्रियते, तत्र प्रतिवन्धकस्य विशेष. णताविशेषः प्रतिबध्यस्य च प्रतियोगिस्वं संसर्गः। श्राधेयता च स्वस- मानविषयताकत्वसम्बन्धेन । आधेयतासम्बन्धेनावच्छिन्नप्रतियोगिता. कस्मरणाभाव एव वा स्वाश्रयविषयतावत्त्वसम्बन्धेन प्रतिबन्धकः । सत्संस्कारविषययावद्विषयकस्मरणदशायामेव प्रतिबन्धकामावस्तादृश- संस्कारे वर्तते, न तु तदीययत्किञ्चित्स्भरणदशायां स्मरणाभाव. विशिष्टायाः विषयतायाः स्वाश्रयविषयतावत्त्वसम्बन्धेन स्मरणाभावस्य वा संस्कारे सत्त्वात् । एवं सति स्मरणस्य नाशकत्वेनैव प्रस्थितमिति चेत्, नाशकत्वं हि नाशनिर्वाहकत्वं तच्च प्रतिबन्धकताया अभावेऽपि स्म- रणेऽक्षतमेव । एतेन-घटपटादिगोचरस्मरणानां जातिविशेष एव नाश्य- तावच्छेदकः विययिताविशेषावच्छिन्नसंस्कारस्वापेक्षया लाघवात, त. पुरस्कारेणेव च प्रतियोगिनां तज्जातीयसंस्कारनाशे हेतुता यदि सामा. नाधिकरण्यं कारणतावच्छेदकप्रत्यासत्तिः स्यात् । जनकतायाः प्रत्या. सत्तित्वे च पटादिस्मारकसंस्कारस्य घटादिस्मरणजनकताविरहादेव तन्नाशापत्त्यसम्भवात् प्रतियोगिनां तेन रूपेण हेतुता न कल्प्यते, किन्तु स्मृतिरूपकारणबलात् तजनकशरीरादावपि प्रतियोगितासम्बन्धेन सं. स्कारनाशापचिवारणाय सामान्यतः संस्कारनाशं प्रति संस्कारत्वेनैव हेतुता कल्प्यते, समूहालम्बनस्थले नानासंस्कारा एव कल्प्यन्ते तत्कल्प- नागौरवस्य फलमुखत्वेनादोषत्वात् इति संस्कारो निविषयकः-इति परास्तम् । संस्कारस्य निविषयकत्वे घटपटादिस्मृतीनां विषयविशेषा. न निवेश्यानन्तनाशककल्पने गौरवात् , सविषयकत्वे तु उक्तरोत्यैक- प्रतिबध्यप्रतिवन्धकभावकल्पनयैव निर्वाहात । नच अन्नविषयकैकयू.

वादवारिधी पुरुषोयस्मरणदशायां पुरुषान्तरीयसंस्कारनाशवारणाय तत्पुरुषीयसं. स्कारनाशं प्रति तत्पुरुषोयस्मरणाभावस्यैव प्रतिबन्धकताया वाच्यतया तन्मते पुरुषभेदेनानन्तप्रतिबध्यप्रतिबन्धकभावकल्पनात् गौरवमिति वा. च्यम् । पुरुषापेक्षया विषयाणां बहुतरतया एतन्मते लाघवानपाया. दिति वदन्ति । अत्रेदं चिन्त्यते स्मरणस्य संस्कारनाशकत्वमेवाप्रामाणिक स्मरणान. न्तरमपि तज्जन्यसंस्कारेण स्मरणजननात् प्राचीनसंस्कारसत्त्वे बाधका- भावात् । अथैवं तादृशसंस्कारस्य मुक्तिपर्यन्तमवस्थानप्रसङ्ग इति चेन्, न, भवन्मतेऽपि चरमस्मरणजन्यसंस्कारस्य तत्प्रसङ्गो दुर्वारः। यदि च तस्य काल एव नाशकः, तदा प्राचीनस्यापि स एव तथाऽस्तु । न च कालस्यानुगतरूपेण नाशकत्वासम्भवात् तत्संस्कारनाशं प्रति तद्वय. क्तित्वेन नाशकता वाच्या, इत्थञ्चागत्या चरमस्मृतिजन्यसंस्कारनाशं प्रति तस्या हेतुत्वोपगमेऽपि प्राचीनसंस्कारनाशं प्रति तस्या हेतुत्वं न कल्प्यते दर्शिताभुगतनाश्यनाशकभावकल्पनयैव उपपत्तेरिति वाच्यम् । संस्कार प्रति तन्मतेऽनुभवत्वेनैव कारणताया वक्तव्यतया स्मृत्या संस्का. राजननात् चरमस्मृतिजन्यसंस्कारनाशनिर्वाहकत्वेन परानुमतकारणत एवानुभवजन्यसंस्कारनाशनिर्वाहेण कारणान्तरकल्पनाविरहात् । अनुभ- वत्वजातौ प्रमाणान्तरविरहेऽपि स्मृतिजन्यानन्तसंस्कारतन्नाशतन्निर्वाह ककारणताकल्पनापेक्षया संस्कारकारणतावच्छेदकतयाऽनुभवत्वकल्पन- स्यैवोचितत्वात् । अनुभवत्वस्य च सन्दिग्धव्यभिचारकत्वं यत्का- रणतानवच्छेदकत्वे बीजमभिहितम् , तप्यकिञ्चित्करम् , लाघवसम्भवे तादशस्यापि कारणतावच्छेदकत्वात् । (१)( न च स्मृतिजन्यसं. स्कारघटितगौरवम्, तादृशसंस्कारसिद्ध्यधीनस्येकजातिकल्पनाया एव न्याय्यत्वात् , निश्चयतया तादृशसंस्कारसिद्धः प्राग भाविनि ज्ञानत्वेन कारणताग्रहो विरोधीति तेन रूपेण कारणत्वं निष्प्रत्यूहमेव, कारणतावच्छेदकतयाऽनुभवत्वजातिसिद्धिस्तादृशसंस्कारसिद्धः प्राक् न सम्भवति कारणताया अवच्छिन्नत्वग्राहकप्रमाणस्य शानत्वावच्छिन्न- त्वमादायैव चरितार्थत्वात् तादृशसंस्कारसिद्धयधीननिश्चयविषयगोचर. स्य तदानीमनुपस्थितत्वेन ज्ञानत्वस्यावच्छेदकत्वनिरासासम्भवात्।) न च स्मृतिजन्यसंस्कारसिद्धौ व्यभिचारनिर्णयेन ज्ञानत्वन्यूनवृत्तिध. मर्मस्य कारणतानवच्छेदकत्वनिश्चयात् कारणतावच्छेदकतयाऽनुभवत्व. - (१)() एतचिक्षितः पाठोसङ्गत इव प्रतिभाति (११) स्मृतिसंस्कारवादवाचिः। सिद्धरसम्भव इति वाच्यम् । स्मरणाव्यवहितोत्तरक्षणे संस्कारोत्प- तिसन्देहदशायां तादृशक्षणं पक्षीकृत्य कालवादिहेतुना संस्कारो. त्पत्तितदभावान्यतरत्वावच्छिन्नसाधने लाघवादन्यत्र क्लृप्तस्य तद- भावस्यैव विशिष्यसिद्धया तादृशाभावप्रयोजकतया तव्यवहितप्राक्- क्षणे यत्किञ्चित्संस्कारत्वावच्छिन्नाभावसिद्धः, तादृशकारणत्वेऽनु. भवत्वेतरधर्मावच्छिन्नत्वबाधसहकृतेन अवच्छिन्नत्वग्राहकमानेन स्मृ. तिव्यावृत्तधर्मावच्छिन्नत्वसिद्धेर्निष्प्रत्यूहत्वात्, तादृशधर्मस्य लाय. वाज्जातिरूपस्यैव कारणतावच्छेदकतया सिद्धः लघुधर्मानुपस्थि- तिकालीनस्यैव तत्समनियतगुरुधर्मे कारणतावच्छेदकत्वग्रहस्य प्रामा. ण्यं कल्प्यते अतो न ज्ञानत्वेन कारणतागृहः । यदि च बाधनिश्चया दिप्रतिबध्यतावच्छेदकतया सिद्धेन परादज्ञानवृत्तिना स्मृतिसाधारण . परोक्षत्वजातिविशेषेण सङ्करात् अनुभवत्वजातिकल्पनं वति, तदा स्मृत्यन्यज्ञानस्वमेव संस्कारजनकतावच्छेदकम्, स्मृति. जन्यानामनन्तसंस्काराणां कल्पनापेक्षया तादृशगुरुधर्मस्यावच्छेदक. ताया एव कल्पयितुमुचितत्वात् , तादृशगौरवस्य ज्ञानत्वावच्छिन्न. कारणताग्रहपूर्वमशक्यनिश्चयतया प्रथमं तेन रूपेण कारणताग्रहेऽपि दर्शितदिशा स्मरणानन्तरक्षणे संस्कारानुत्पत्ति सिद्धौ तदुपपादकत. या स्मृत्यन्यत्वस्याधिकस्य गृहीतकारणतायामवच्छेदकत्वं कल्प्य ते। ध्वंसं प्रति केवलेन जन्यस्वेन हेतुताकल्पने ध्वंसानामनन्तध्वंस. कल्पनागौरवेण हेतुतायां भावत्वस्यावच्छेदकतावत् । संस्कारं प्रति स्मृतित्वेन प्रतिबन्धकत्वमेव कल्पनीयम् , ध्वंसम्प्रति प्रतियोगिमात्रस्य हेतुत्वे घटादीनां द्वितीयक्षणे विनाशकल्पनप्रयुक्तगौरवात् लाघवानुरोधेन द्रव्यविनाशे असमवायिकारणनाशादिहेतुतावत् , अन्यथा क्षणभङ्गस्य दुर्वारतापातात् । तादृशयुक्तौ च टीकाकारानुयायिभिः क्रियासंयोग. घटितपरस्परविजातीयसंयोगद्वयसामग्रीसम्वलनस्थलबत्प्रतिबन्धकताब यञ्च कल्प्यते, अन्यथा अनन्तसंयोगव्यक्तिकल्पनाधिक्यात् ॥ अथ स्मृतेः संस्कारप्रतिबन्धकत्वे "स्मृतीनां स्वजन्यसंस्कारव्यक्तिविरो- धिनीनामसद्भावादिति" टीकाकारलिखनविरोध इति चेत् , का क्षतिः ? तदनुरोधेन नियुक्तिकपक्षालम्बनानौचित्यात् । ननु व्यक्तिकल्पनागौ रवभयेनातिरिक्तकार्यकारणभावोपगमे प्राथमिकघटाउनुभवजन्यसं. स्कारादेव द्वितीयादितदनुभवोत्तरमपि तत्स्मरणोत्पत्तौ द्वितीयादि- तदनुभवजन्यसंस्कारव्यक्तीनामनन्तानां कल्पनामपेक्ष्य लाघवेन संस्कार प्रति संस्कारस्य प्रतिबन्धकत्वं कल्प्येत इति चेत् । कल्प्यत एव । एवं ७ ११८ वादवारिधी सति स्मृतित्वेन संस्कार प्रति प्रतिबन्धकताकल्पनमनुचितमिति चेत्, अनर्थकमेव । एवं परोक्षत्वजात्यनङ्गीकारपक्षे संस्कारकारणतावच्छेद. कतया अनुभवत्वजातिकल्पनमपि हेयमेव, ज्ञानत्वेन कारणत्वेऽपि अनु- भवजन्यसंस्काररूपप्रतिबन्धकवशेन स्मृत्या संस्कारस्याजनयितव्यत्वात् । अथ संस्कारं प्रति संस्कारत्वेन सामान्यतः प्रतिबन्धकत्वं न सम्भ- वति, घटज्ञानजन्यसंस्कारसत्त्वेऽपि पटज्ञानेन संस्कारजननात् इति घटा. दिविशेष्यकघटत्वादिप्रकारकशानजन्यसंस्कार प्रति ताशसंस्कारस्य प्रतिबन्धकता वाच्या, तदपेक्षया लाघवेन घटादिविशेष्यकघटत्वादिप्रका- रकसंस्कारं प्रति तादृशसंस्कारत्वेन प्रतिबन्धकतायाः कल्पयितुमुचित. त्वात् इति संस्कारस्य लविषयकस्वं निष्प्रत्यूहमेव इति चेत् । ताशयुक्त्या सिध्यतुसंस्कारस्य सविषयकत्वं न तत्रास्माकं विद्वषः। केचिनु विपरीतहाननाश्यताया भेदकतया संस्कारस्य सविषयकत्व. सिद्धिः, तथाहि-विपरीतज्ञान संस्कार नाशयति, अत एवात्मज्ञानेन श्रा. त्मनि शरीराधभेदावगाहिना मिथ्याज्ञानेन जन्यः संस्कारो नाश्यते, तस्य भूतलादिविशेष्यकघटायभावप्रकारकनिश्चयत्वेन भूतलादिविशे. ध्यकघटादिप्रकारकमानजन्यसंस्कारनाशत्वावच्छिन्नं प्रति हेतुत्वे कार्य- तावच्छेदकगौरवात् । नच भूतलादिविशेष्यकघटादिप्रकारकसंस्का- रनाशं प्रति हेतुताकल्पने विपरीतवानं विनापि समानाकारकस्मरणेन रोगादिना वा संस्कारनाशात् व्यभिचार इति नानुगतधर्मस्य नाश्य- तावच्छेदकत्वसम्भवः, तत्तव्यक्तित्वस्य च तथात्वेन विषयतातर्भावः प्रयोजनविरहात् इति कथं नाश्यतावच्छेदकतया विषयतासिद्धिरिति वाच्यम् । कालादिनाश्यसंस्कारवृत्तिजातिविशेषस्यैव नाश्यतावच्छेदक- त्वोपगमात् कालादीनामनुगतरूपेण नाशकत्वासम्भवात् स्मरणस्य सं. स्कारनाशताया निराकृतत्वात् नाशकान्तरनाश्यतावच्छेदकजातेरसम्म वेन सङ्करानवकाशात् । স্মথ অাহাৰিবাল ফানুয়ানিহীঘি লায়ালন্য হল संस्कारस्तादृशविपरीतहानेन नाश्यते, दोषविशेषज्ञानजन्यमिथ्याज्ञानं प्रति. अविरोधिना औपनायिकेन शाब्देन वा संसारिणामात्मतत्वज्ञानेन तज्ज- न्याया वासनाया न विनाशः, एवञ्च घटादिप्रकारकालौकिकचाक्षुषादि. झानजन्यसंस्कारनाशत्वावच्छिन्नं प्रति घटाभावादिप्रकारकलौकिकचाक्षु. षादिनिश्चयत्वेन कारणता कल्पनीयेति तत्तद्विषयज्ञानजन्यस्वनिवेशस्या. वश्यकतया कृतं संस्कारस्य सविषयकत्वेनेति चेत् । एवमपि अतीन्द्रियप्रकारकज्ञानं प्रति विपरीतनिश्चयमात्रस्यैव प्रति.

(११) स्मृतिसंस्कारवादवाचिः । . बन्धकतया तादृशज्ञानजन्यसंस्कारस्य विपरीतज्ञाननाश्यतायां ज्ञानविशे- षजन्यत्वनिवेशस्यानावश्यकतया तादृशशाननाश्यतावच्छेदकतयैव सं. स्कारस्य सविषयकत्वसिद्धिरिति । সুখ লালাখদমাহাফলঙ্গালা অখি कधर्माभावनिश्चयेन विनाशवारणाय तत्तद्वयक्तित्वेन नाश्यनाशकभावो वाच्या,तथा च कृतं संस्कारस्य सविषयतया, तत्तद्वयक्तिनाशत्वस्य वि. परीतज्ञानजन्यतावच्छेदकत्वेऽपि सामानाधिकरण्यरूपकारणतावच्छेदक- प्रत्यासत्त्या विपरीतज्ञानस्य संस्कारान्तरेऽपि सत्त्वेन तत्तत्संस्कारनाशं प्र. तितत्तत्संस्कारत्वेन तादात्म्यप्रत्यासत्त्या हेतुताया आवश्यकत्वे विपरी. तज्ञानस्यानुगतधर्मावच्छिन्नं प्रत्यपि कारणत्वं न सम्भवति। न च सन्हालम्बनानात्मकसंस्कारव्यक्तीनामेव विपरीतज्ञानेन फलजनने सहकारितामुपगम्यातिव्याप्तिधारणसम्भव इति वाच्यम् । यादृशसमू. हालम्वनसंस्कारः विपरोतज्ञानेन नाशयिभ्यते तादृशसंस्कारव्यक्तविप रीतज्ञानसहकारिताया आवश्यकतथा पूर्वोत्पन्नेन यत्किञ्चिदेकधर्माभा- वनिश्चयेन तन्नाशस्य दुर्वारतया विपरीतज्ञानस्य तन्नाशं प्रति तत्तव्य क्तित्वेन हेतुताया आवश्यकत्वात् इति चेन्न । उक्तातिप्रसङ्गवारणाय समूहालम्बनसंस्कारनाशं प्रति विपरीतज्ञा. नव्यक्तीनां तत्तद्व्यक्तित्वेन हेतुत्वमुपगम्यते, समूहालम्बनानात्मक. तद्धर्मप्रकारकविजातीयसंस्कारनाशं प्रति तु अनुगतरूपेण तद्धर्मामा- वप्रकारकशानानां कारणत्वमुपगम्यते, विजातीयसंस्कारनाशं प्रति विजा- तीयसंस्कारत्वेनैव प्रतियोगिनो हेतुत्वमेकं कल्प्यते, विपरीतझाननाश्यता- वच्छेदिकाच जातिः समूहालम्बनसंस्कारव्यावृत्ता इति नानुगतकारणता- वच्छेदकावच्छिन्नबलात् यत्किञ्चिदेकधर्माभावनिश्चयदशायां समूहालम्ब. नसंस्कारनाशापत्तिः। वस्तुतः समूहालस्बनजन्यसंस्कारस्य यत्किञ्चिविपरीतज्ञानेनावि- नाशे तदुचरं विषयान्तरस्येव तस्यापि विषयस्य स्मरणापत्तिः, अतस्त. नाशोऽवश्यमङ्गोकायंः, तथाच तदुत्तरं विषयान्तरस्य स्मरणनिर्वाहाया. गत्या तत्र नानासंस्कारा एव कल्पनीयाः, तथाच न कुत्रापि तत्तद्व्य. क्तित्वेन विपरीतज्ञानव्यक्तीनां नाशकता । अथैवं नाशकतावच्छेदकलाघवाय विषयभेदेन विभिन्ना एव जाति- विशेषास्तत्तद्विपरीतज्ञाननाश्यतावच्छेदकतया स्वीक्रियन्तां किं संस्कार. स्य लविषयतयेति चेन्न । यादशसमूहालम्बनोत्तरं तावत्पदार्थाभावविषयकं समूहालम्बना.

१२० वादवारिधी 4 त्मकमेव विपरीतज्ञानं जातंनतु अनन्तरतावदन्तर्गतयत्किश्चिदेकाभावज्ञान, तत्र नानासंस्कारानभ्युपगमे क्षतिविरहेण लाघवात् एकसंस्कारस्यैव क. ल्पनात् तादृशसंस्कारे नानाविपरीतज्ञाननाश्यतावच्छेदकजातीनां सङ्कर. प्रसङ्गेन नानाजातिकल्पनासम्भवात् नाश्यतावच्छेदकलाघवेन उपदर्शित स्थले नानासंस्कारकल्पनाया अनुचितत्वादिति । वस्तुतः संस्कारस्य निर्विषयकत्वे तन्नाशेविषयभेदेन विपरीतज्ञानहे. तुताभेदस्यावश्यकतयाऽनन्तकारणताकल्पनप्रसङ्गः, संस्कारस्य सविषय क्रत्वे च प्रतियोगितासम्बन्धेन संस्कारनाशं प्रति स्वीयाभावविषयतानिरू- पितप्रतियोगित्वसंसर्गावच्छिन्नप्रकारतावच्छेदकावच्छिन्नप्रकारतानिरू. पितस्वीयविशेष्यतावच्छेदकावच्छिन्नविशेष्यताकत्वस्वसामानाधिकर- एयोभयसम्बन्धेनाभावनिश्चयत्वेन विषयविशेषमनिवेश्यैव कार्यकारणभा- वकल्पनयैवोपपत्तेस्तद्धविच्छिन्नविशेष्यताकतद्धावच्छिन्नप्रकारता- कसंस्कार एव तद्धर्मावच्छिन्नविशेष्यताकतद्धर्मावच्छिन्नाभावनिश्चय. स्योक्तसम्बन्धेन सत्त्वादतिप्रसङ्गविरहात् । नचैवं वायुगुरुत्वाभाववान् घटश्च वायुत्वाभाववान् इति निश्चयात् घटो गुरुत्ववान् इत्यादिज्ञानल. न्यसंस्कारनाशापतिः, तादृशसंस्कारस्य वायुत्वावच्छिन्नविशेष्यतानि- रूपिततादृशनिश्चयोयाभावविषयतानिरूपितप्रतियोगितासंसर्गावच्छिन्न- प्रकारतावच्छेदकगुरुत्वत्वावच्छिन्नप्रकारतानिरूपितस्वीयविशेष्यताव- च्छेदकधर्मावच्छिन्नविशेष्यताकत्वादिति वाच्यम् । स्वीयविशेष्यताविशि- ष्टविशेष्यताकत्वस्यैव प्रथमसम्बन्धतया निवेशनीयत्वात् । विशेष्यतावै- शिष्टयं च स्वावच्छेदकावच्छिन्नत्वस्वनिरूपिताभावप्रकारतानिरूपित. प्रतियोगित्वसम्बन्धावच्छिन्नप्रकारतावच्छेदकावच्छिन्नप्रकारतानिरूपित. त्वोभयसम्बन्धेन वाच्यतया पूर्वकल्पस्य एकस्याभावात् उत्तरप्रकारद्व. यमेव सम्यक् इति ध्येयम् ॥ इति स्मृतिसंस्कारवादः ॥ इति श्रीमहामहोपाध्याय श्रीहरिरामभट्टाचार्येण विरचितः स्मृति- संस्कारवाद(११)वोचिः समाप्तः ॥

(१२) स्मृतिनिश्मयहेतुतावादवीचिः। स्मृतिनिश्चयहेतुतावाद(१२)वीचिः । घटगोचरस्मृति प्रति घटगोचरशानत्वेन न हेतुता, घटनिर्विकल्प- कादपि स्मरणाप। अवच्छिन्नविषयताशालिज्ञानत्वेन हेतुत्वं कल्प- यित्वा तद्वारणेऽपि, द्रव्यत्वेन घटज्ञानसत्त्वे घटत्वेन तस्मरणापत्तेः। मच घटत्वज्ञानत्वेन हेतुत्वकल्पनादेव न तादृशस्मरणापत्तिरिति वाच्यम्। घटत्वेन पटादिक्षानस्य सत्त्वे तथापत्तिसम्भवात् , किन्तु घटत्वेन तद्ध. इस्मरणं प्रति घटत्वेन तद्धटज्ञानत्वेन हेतुता, स्वजन्यसंस्कारः प्रत्या. सत्तिः । एवं तथाविधसंस्कारत्वेन तथाविधस्मृतित्वावच्छिन्न प्रति व्यापारीभूतसंस्कारस्य तथाविधसंस्कार प्रति च तथाविधज्ञानस्वेन हेतुता बोध्या। प्रथोपेक्षात्मकज्ञानात स्मरणापत्तिः । नचोपेक्षान्यत्वेन हेतुत्वकल्प. नान्नापत्तिरिति वाच्यम् । उपेक्षान्यत्वस्य दुर्वचत्वात् । न चोपेक्षात्वं जातिः, चाक्षुषत्वादिना सङ्करात् । नापि संस्काराजनकत्वम्, उपेक्षा. झानच्यावृत्तसंस्कारजनकतावच्छेदकधर्माभावात् । न च ज्ञाननिष्ठं तत्त. द्वयक्तित्वं संस्कारजनकतावच्छेदकं तथाच जनकतासम्बन्धेन संस्कार- वत्त्वेनैव हेतुत्वं पर्यवसितमिति वाच्यम् । अननुगतजनकताकूटघटित- स्वेन कारणतावच्छेदकस्याननुगमात् । अत्र स्मृति प्रत्येव ज्ञानस्य तत्त. व्यक्तित्वेन हेतुत्वम्, जनकतासम्बन्धेन स्मृतिमत्वेनैव संस्कारं प्रति हेतुतेति विनिगमनाविरहोऽपि प्रसक्तः। एवञ्च संस्कारं प्रति स्मृति. जनकत्वेन जनकत्वे ज्ञानस्थ स्मृतिजनकताज्ञानाधीनं संस्कारजनक ताज्ञानं संस्कारजनकताज्ञानाधीनमेव स्मृतिजनकताज्ञानमित्यन्योन्या. श्रयप्रसङ्ग इति चेत् । अनायत्या प्रातिस्विकरूपेणैवोपेक्षात्मकज्ञानव्यक्तीनां भेदकूटः का- रणतावच्छेदककोटौ निवेश्यते ॥ यत्तु चाक्षुषत्वादिव्याप्या नानैवोपेक्षात्वजातयः, तदवच्छिन्नप्रतियो. गिकाश्चाल्पीयांसो भेदा जनकतावच्छेदककोटौ निवेश्यन्ते । न च जाते- रांशिकत्वमिया आशिकोपेक्षाशाने तादृशजात्यस्वीकारे आंशिकोपेक्षा. ज्ञानात्स्मरणापत्तिरिति वाच्यम् । आंशिकोपेक्षाज्ञानानामनन्तव्यक्तीनां प्रातिस्विकरूपेणैव भेदस्य निवेशात् । एवमपि साशोपेक्षाज्ञानसहस्राणां तत्तद्वयक्तित्वावच्छिन्नप्रतियोगिताकभेदसहस्राणामनिवेशनीयतया ला. घवादिति । तन्न श्रद्धधीमहि । तथाविधजातीनामनुगतानतिप्रसक्तनियामकाभा. १६ पाद १२२ वादवारिधी वात् , तुल्ययुक्त्याऽऽहार्यत्वादेरपि जातित्वापत्तेश्च । उपेक्षाज्ञानव्यक्तीनां भेदाः संस्कारजनकतावच्छेदककोटावेव निवेश्याः, नतु ज्ञाननिष्ठस्मृतिज. नकतावच्छेदककोटौ, तत्र संस्कारविरहेणैव स्मृतिविरहोपपत्तः। न च विनिगमनाविरहः,संस्कारजनकतावच्छेदककोटौ तद्भेदानिवेशे सवाशे. उपेक्षात्मकहानेभ्योऽप्रामाणिकानन्तसंस्कारकल्पनापत्तेः । श्रांशिकोपेक्षा ज्ञानभेदास्तु स्मृतिजनकतावच्छेदककोटावेव निवेश्याः । न च तत्र विनि. गमनाविरहः, आंशिकोपेक्षाज्ञानादन्यांशे स्मरणोदयात् तदनुरोधेन तद्ध. तुसंस्कारस्यावश्यकत्वात्, संस्कारजनकतायामांशिकोपेक्षात्मकज्ञानव्य. क्तिभेदानिवेशे एतद्विषयकत्वरूपधर्मसात्रकल्पनम् ,इतरथा तु धर्मिकल्प, नमिति धर्मिकल्पनातो धर्मकल्पना लघीयसीत्यस्यैव विनिगमकत्वात् । एतेन-ज्ञानस्मरणयोनित्वस्मरणत्वाभ्यां सामान्यत एव कार्यकारणभावे. विषयनिवेशो न क्रियते, संस्कारस्मरणयोस्तु न तथा, तत्र विषयविशेष मन्तर्भाव्यैव तस्य वक्तव्यत्वात् । न चात्र विनिगमनाविरह इति वाच्य. म् । संस्कारस्मरणयोः कार्यकारणभावे तदनिवेशे घटगोचरोपेक्षाज्ञान- सवे पटसंस्कारसत्त्वे घटस्मरणापत्तेः। न च संस्काररूपव्यापारसम्बन्धे. न घटज्ञानाभावान्नापत्तिरिति वाच्यम् । घटांशे उपेक्षात्मकात् पटांशेऽपे- क्षात्मकात् ज्ञानात् संस्कारसत्त्वे घटस्मरणापत्तेः-इत्येषा फकिका परा. स्ता, आंशिकोपेक्षाभेदानां स्मृतिजनकतायामेव निवेशात घटांशे उपेक्षा- ज्ञानादपि घटगोचरसंस्कारोदयात् तदनन्तरं घटस्मरणापत्तेः तदन्यपट. ज्ञानसत्त्वादिति घटस्मृति प्रति घटांशे उपेक्षान्यतद्गोचरज्ञानत्वेन हेतु. ताया आवश्यकत्वात् । संस्कारस्मरणयोः कार्यकारणभावे तु विषयानि. वेशेऽपि क्षत्यभावात् । तत्र स्मृतित्वसंस्कारत्वाभ्यामेव कार्यकारणभावः पटगोचरसंस्कारसत्त्वे घटांशे उपेक्षान्यघटज्ञानस्य सस्कारसम्बन्धे. नासत्त्वादेव नापत्तिः। यथाच संस्कारस्य सविषयकत्वव्यवस्थिति- स्तथाग्रे विवेचयिष्यते । न चैवमनुमितिलक्षणस्य विशिष्टस्मरणेऽति. व्याप्तिसम्पादकस्य संस्कारानुपपत्त्यैवेत्यादिदीधितिग्रन्थस्यासंगतिः स्मृतिजनकतायामांशिकोपेक्षान्यत्वनिवेशात अनुमितिजनकतायां च तदनिवेशादिति वाच्यम् । तावता क्षतेरभावात् । वस्तुतस्तु अग्ने तत्सं. गमनप्रकारो दर्शयिष्यते ॥ एवं भूतलस्वधर्मितावच्छेदककतद्भूतलविशेष्यकघटत्वावच्छिन्न- तघटप्रकारकस्मृति प्रति तथाविधनिश्चयत्वेन हेतुतेति न संशयात्स्म- रणापतिः। अथ संस्कारजनकतावच्छेदककोटावेव निश्चयत्वं निवेश्य, तत एव (१२) स्मृतिनिश्चयहेतुतावादवीचिः । १२३ स्मरणवारणसम्भवे किं स्मृतिजनकतायां तन्निवेशेन । न च विनि- गमनाविरहः, संशयादपि धर्मिणः विशकलितकोट्योरपि स्मरणोदयेन संस्कारकल्पनायास्तत्रावश्यकत्वादिति वाच्यम् । एवंसति संस्कार. जनकतावच्छेदके तदनिवेशे संशयजन्यसंस्कारे विशिष्टविषयताकल्पन एव गौरवात् । न चोपेक्षाभेदैः सह विशेषणविशेष्यभावे विनिगमना- विरह इति स्मृतिजनकतायामेव तन्निवेश इति वाच्यम् । तथाविधांशि. कोपेक्षाभेदैः सह तत्रापि तत्प्रसङ्गादिति। मैवम् , स्मृतिजनकतावच्छेदककोटौ निश्चयवानिवेशे संशयानन्तरं स्मृतिवारणासम्भवात् । न च संस्काराभावादेवन स्मृतिरिति वाच्यम्। धयंश एव संस्कारसत्त्वात् । न च भूतलस्वावच्छिन्नविशेष्यतानिरूपित. घटप्रकारताशालिसंस्कारविरहान तथाविधस्मरणमिति वाच्यम् । तत्सं. स्कारस्य हेतुत्वाकल्पनात् स्मृति प्रति संस्कारत्वेनैव हेतुत्वात् , तद्व- च्छिन्नस्य धर्मिगोचरसंस्कारस्यैव सत्त्वात् तादृशापत्तिसम्भवात् , त. स्मात्स्मृतिजनकतावच्छेदककोटौ निश्चयत्वनिवेशनमावश्यकमेवेति । अथोपेक्षान्यत्वं न स्मृतिजनकतावच्छेदकमपितु उपेक्षात्मकज्ञानात्स्मृ. तिवारणाय संस्कारं प्रत्युपेक्षाज्ञानानां तत्तव्यक्तित्वेन प्रतिबन्धकत्वमा- स्थीयते । न चोपेक्षात्मकज्ञानानन्तरमपेक्षात्मकज्ञानात्संस्कारानुदयप्रसङ्ग इति वाच्यम् । उपेक्षात्मकनाननाशानन्तरमेव तत्र संस्कारोदयात् । नच यत्रादावुपेक्षात्मकं ज्ञानं तदनन्तरमपेक्षात्मकं तद्वितीयक्षणे च पुनरुपे. क्षान्तरं तत्र संस्कारानुदयप्रसङ्ग इति वाच्यम् । तदुपेक्षात्मकव्यक्तः प्रतिब न्धकत्वाकल्पने क्षतिविरहात् । न चाननुगम इत्याशङ्कनीयम् । भवन्मते विशेष्यविशेषणभावे विनिगमनाविरहेण महागौरवात् । इत्थं चानुमितिल- क्षणे विशिष्टस्मरणेऽतिव्याप्तिरपि सङ्गच्छते घटाभावप्रकारताऽनवच्छिन्न. घटप्रकारतावच्छिन्नभूतलस्वावच्छिन्नविशेष्यताशालिबानत्वेन भूतलत्वा- वच्छिन्नधर्मिकघटप्रकारकस्मृति प्रति हेतुतेति न कश्चिद्दोष इत्याहुः । तदूषितमन्यत्र । वस्तुतस्तु संस्कारजनकतायामेव निश्चयत्वनिवेशान्न काप्यनुपपत्तिः, तथाहि-घटत्वातिरिक्तधर्मानवच्छिन्नघटत्वावच्छिन्नप्रकारतावच्छिन्नभू- तलत्वावच्छिन्नविशेष्यताशालिघटत्वावच्छिन्नाभावाप्रकारकज्ञानस्वेन हे. तुता कल्प्यते, नीलघटवदित्याकारकज्ञानानीलघटवदित्याकारक एव संस्कारो जायते नतु कदाचिदपि घटवदित्याकारकः संस्कारः, स्मृतिहे- तुतायां तु पर्याप्तिनिवेशान्नीलांशे उपेक्षात्मकज्ञानदशायां न घटवदिति. स्मरणमिति न काप्यनुपपत्तिरिति । नच नीलघटवदित्याकारकझानान्नी.

१२४ वादवारिधी लांशे उपेक्षात्मकाद्बटवदितिसंस्कारोदयात् कथं संस्कारजनकतायां पर्याः प्तिनिवेशः स्यात्, तत्र तु नीलघटवदिति संस्कारो नोत्पद्यते नीलसंस्कार प्रति नीलांशे उपेक्षाज्ञानस्य प्रतिबन्धकत्वकल्पनात , अन्यथा तदनन्तरं नीलस्मरणापत्तरिति वाच्यम् । नीलस्मरणं प्रति संस्कारस्य जनकतायां तत्संस्कारभेदनिवेशादेव ताशस्मरणवारणे तज्ज्ञानस्य नीलसंस्कार प्रति प्रतिबन्धकत्वाकल्पनात् तदानीं नीलघटवदित्याकारकसंस्कारस्यै. वोपपत्तेरिति सम्यगालोचयामः । अथ निश्चयत्वं संशयाकारस्मरणवारणायैव निवेश्यते, तथा च घटाभाववत्तास्मरणं प्रति घटाभावप्रकारकज्ञानस्य हेतुतायां निश्चयत्व निवेशेनैव संशयाकारस्मरणवारणं शक्यम् , उभयकोटिकवानस्यैव संशयतया घटवन्नवेति संशयस्य घटाभावानिश्चयात्मकतया ततो घटा. भावस्मरणानुदयेनैव संशयाकारस्मरणासम्भवादिति घटवत्ताशानहेतु. तायां निश्चयत्वनिवेशो निरर्थकः, इत्थं च विशिष्टस्मरणेऽतिव्याप्तिरपि न सङ्गच्छते, उक्तयुक्त्या वहिव्याप्यवत्तास्मरणे तज्ज्ञानहेतुतायामपि निश्चयत्वानिवेशात् । नच संशयादेककोटिकस्मरणमपि न जायेत इति घाच्यम् । तत्र प्रमाणाभावेनेष्ठापचे। नच नास्त्येतादृशानुभवविरोधो येन गुरुणा निश्चयत्वेन न हेतुत्वमभ्युपेयेत इति दीधितिकृतोऽपि निश्चयत्व निवेशेन संशयाकारस्मरणवारणसम्भवे तत्रैव किं न निवेश्यत इति विनिगः मनाभावात् उभयत्रैव निदेशःस्यादिति वाच्यम् । घटवत्तानिश्चयत्वस्य घटाभावत्वावच्छिन्नप्रकारताशुन्यज्ञानत्वरूपस्य घटाभाववत्तानिश्चय. त्वापेक्षया गुरुत्वात् तत्रैव निश्चयत्वस्य निवेशयितुमुचितत्वात् । वस्तु. तस्तु न कुत्रापि निश्चयत्वनिवेशः, निश्चयत्वेन हेतुत्वेऽपि प्रत्येकनिश्चयज. नितसंस्काराभ्यां निययोद्वोधकलमवधानदशायां संशयापत्तिः, तद्वारणा य प्रकारान्तरानुधावने निश्चयत्वे हेतुत्वाभ्युपगमो विफल एवेति चेत्, न, संशयाकारस्मरणवारणायैककोटिस्मरणसामघ्या अपरकोटिस्म- रणं प्रति प्रतिबन्धकताया आवश्यकत्वे संशयाकारज्ञानजन्यसंस्कारादपि संशयाकारस्मरणवारणादिति, संस्कारजनकतावच्छेदककोटौ निश्चयत्वा. निवेशे संशयात्मकचानात्संशयाकारसंस्कारोत्पत्तौ अननुगतकालादी. नामपि तनाशकत्वं स्वीकार्य संशयाकारस्मरणस्य कदाप्यनुदयात्, अन्यविधस्मरणस्यालमानप्रकारकत्वेन तन्नाशानिर्वाहादिति गौर. वाद, संशयात्मकोपेक्षात्मकलानादेकैककोट्युद्धोधकदशायामेकैकको- टिस्मरणवारणाय तत्तज्शानानां प्रातिस्विकरूपेणानन्तभेदनिवेशे गौर- वात् , अनुगतसंशयान्यत्वरूपनिश्चयत्वनिवेशे लाघवाच्च । एतेन पू.

(१२) स्मृतिनिश्चयहेतुतावादवीचिः । १२५ र्वोक्तफक्किकापि निरस्ता। न चोपेक्षान्यत्वमपि अनुगतिमेव निवेशयितुं शक्यते, प्रागेव दूषितत्वात् ॥ ननु संस्कार कि मानम् ? अनुभवध्वंसस्य व्यापारत्वसम्भवात् । प्रतियोग्यभावयोरेकनाजनकत्ववादस्य प्रमाणाभावेनाश्रद्धेयत्वात् । न च अनुभवे स्मृतिप्रतिबन्धकत्वापत्तिः, कारणीभूताभावप्रतियोगित्व. स्यैव प्रतिबन्धकतापदार्थत्वादिति वाच्यम् । संसर्गाभावस्वावच्छिन्नाया अभावत्वावच्छिन्नाया वा जनकतायाः स्वावच्छिन्नप्रतियोगिताकत्वसम्ब. न्धेनावच्छेदको यो धर्मस्तवच्छिन्नत्वस्थ प्रतिबन्धकस्वपदार्थत्वात् , अत्र चाभावत्वेनाजनकत्वात्। न च शानद्वितीयक्षजनितसंस्कारेण तु. तीयक्षणे स्मरणोदयात् ध्वंसस्य व्यापारत्वासंभवात् फलस्य प्राक्काले अनुभवध्वंसाभावादिति वाच्यम् । तत्रापि क्षणविलम्वेनैव स्मरणाभ्यु- पगमादिति चेन्न। संस्कारानभ्युपगमे उपेक्षात्मकशानादपि स्मरणापत्तेः । न च स्मृ. तिं प्रति उपेक्षान्यज्ञानत्वेनैव हेतुत्वकल्पनानानुपपत्तिरिति वाच्यम् । गौरवात् । न च भवन्मते उपेक्षात्मकज्ञानात्संस्कारवारणाय तजनकता. यामुपेक्षान्यत्वनिवेशस्यावश्यकत्वेन साम्यमिति किमन्तर्गहुना संस्कारेण, स्मृतिजनकतावच्छेदककोटौ वा तत्प्रवेशेनैव सर्वसामञ्जस्यमिति वाच्य- म् । संस्कारं प्रति उपेक्षान्यज्ञानत्वेन हेतुताकल्पनस्योदीच्यत्वेन गौरवस्य फलमुखत्वात् । स्मृतिजनकतावच्छेदककोटिप्रविष्टांशिकोपेक्षाशानभेद- कूटेन सर्वांशोपेक्षात्मकशानभेदकूटेन च सह विशेष्यविशेषणभावे विनिगः मकाभावेन गौरवसम्पादकानामनिवेशे लाघवाच्च, सर्वोशोपेक्षाभेदा- नेव कारणेतावच्छेदकीकृत्य संस्कारं प्रति वानस्य हेतुतायाः कल्पयितु. मुचितत्वात् । एवं संस्कारस्वीकारे संस्कार प्रति उपेक्षाज्ञानप्रतिबन्धक- तयोपपत्तौ स्मृतिजनकतायामुपेक्षाभेदसहस्राणां विशेषणविशेष्यभावे विनिगमनाविरहेण गौरवसम्पादकानामनिवेशे लाघवाच्च । न च स्मृति प्रत्युपेक्षाशानानां प्रतिबन्धकत्वं कल्प्यत इति वाच्यम्। कालान्तरे स्मरणापतेः । न च तद्वंसानां प्रतिबन्धकत्वमिति वाच्यम् । यदा क. दाचिजातोपेक्षाज्ञानानन्तरं तदनात्मकज्ञानोत्पत्तावपि स्मरणानुदयप्रस. ङ्गात् प्रकारान्तरानुसरणेऽतीवगौरवात् । एवं विपरीतमानानन्तरोत्पन्ना- नुभवनाशात् स्मरणानुदयापत्तेः । अथ भूतलस्वावच्छिन्नधर्मिकघटवत्तास्मृति प्रति भूतलस्वावच्छि- मर्मिकघटवतावानभ्वंसाभावविशिष्टभूतलविशेष्यकघटाभावप्रकारक- झानध्वंसत्वेन प्रतिबन्धकता, वादशाभावश्च स्वप्रतियोगिविशिष्टस्वसा.

१२६ वादवारिधी मानाधिकरण्यसम्बन्धावच्छिन्नप्रतियोगिताकः स्वप्रागभावविशिष्ट स्वसामानाधिकरण्यसम्बन्धावच्छिन्नप्रतियोगिताको वा ग्राह्यः, तेन विपरीतक्षानोत्तरं ग्राह्याभावज्ञानानुद्येऽपि पूर्वज्ञानध्वंससचान्न स्मर णापत्तिः। अथवा विपरीतज्ञानध्वंसाभावविशिष्टग्राह्यज्ञानध्वंसस्य हेतु- त्वेन न तदीयज्ञानोत्तरं स्मरणापत्तिः। विपरीतज्ञामध्वंसाभावश्च स्वप्राग. भावविशिष्टस्वसामानाधिकरण्यसम्बन्धावच्छिन्नप्रतियोगिताको प्राह्यः, अतो न विपरीतक्षानोत्तरोत्पन्नानुभवनाशात्स्मरणानुपपत्तिरिति चेन्न । गौरवात् तदपेक्षया संस्कार स्वीकृत्य संस्कारनाशं प्रति विपरीत ज्ञाने जनकत्वकल्पनस्यैव लाघवेनोचितत्वात् । प्रथोद्धोधकानामनुगतरूपेणैव हेतुत्वकल्पनात् विपरीतज्ञानानन्तरं तादृशानुगतारोधकसत्त्वे स्मरणापत्तिरिति वाच्यम् । तेषामपि व्यक्ति पौर्वापर्यनिर्वाहाय तत्तद्वयक्तित्वेन हेतुत्वकल्पनाया आवश्यकत्वात् , विपरीतज्ञानोत्तरव्यक्तीनां च फलाभावेन हेतुत्वकल्पनाया अनावश्य कतयापत्त्यभावादिति चेत् । मैवम् । तेषां तत्तद्यक्तित्वेन हेतुत्वकल्पनेऽपि सामान्यसामग्रीतः सामान्यधर्मावच्छिन्नापत्तः। न च तत्तद्विशेषसामग्रीसहकृताया एव सामान्यसामग्र्याः फलजनकत्वान्न दोष इति वाच्यम् , अनन्ततत्तद्वय. क्तीनां प्रातिस्विकरूपेण सहकारित्वकल्पने गौरवात् , अन्यथोपेक्षात्मक ज्ञानानन्तरमप्युद्धोधकविरहेणैव स्मरणवारणसम्भवे उपेक्षान्यत्वेनापि हेतुताया विलयप्रसङ्गात् , उक्तयुक्त्याऽनुभवादिहेतुताविलयापत्तिश्चेति वदन्ति ॥ अथ संस्कारस्य सविषयत्वे किं मानम् ? न च स्मृतिविषयतानिया. मकत्वेन तद्विषयतासिद्धिः,ज्ञानविषयतायास्तन्नियामकत्वात् । न च तादू- शगुरुधर्मापेक्षया घटगोचरसंस्कारत्व एवावच्छेदकत्वस्योचितत्वात्सं. स्कारे सविषयतासिद्धिरिति वाच्यम् । लौकिकचाक्षुषजन्यसंस्कारस्या. नुमानादिविपरीतज्ञानानाश्यतया ज्ञानविषयजन्यतायास्तत्रावश्यं निवे. श्यत्वात् । न च स्मृतिनाश्यतावच्छेदकतया तत्सिद्धिः, घटज्ञानजन्यसं. स्कारत्वस्य तथात्वे गौरवादिति वाच्यम् । विपरीतशानजन्यसंस्कारादि नाशे व्यभिचारवारणाय स्वसामानाधिकरण्यविशिष्टकालिकविशेषणता- सम्बन्धेन स्मरणादिविशिष्टसंस्कारनाशस्य जन्यतावच्छेदकताया श्राव श्यकत्वेनैव व्यभिचारवारणस्य विषयनिवेशनं विनाप्युपपत्तः । न च माऽस्तु व्यभिचारः, एवमपि कदाचिद्घटशानजन्यस्य संस्कारस्य नाशः कदाचित्तदजन्यस्यैवेति नियामकाभाव इति वाच्यम् । प्रतियोगितासम्ब.

(१२) स्मृतिनिश्चयहेतुतावादवाचिः। १२७ न्धेन संस्कारनाशं प्रति जनकतासम्बन्धेन स्मरणत्वेन हेतुत्वाभ्युपगमात् घटज्ञानजन्यसंस्कारस्य पटस्मरणाजनकतया तत्र जनकतासम्बन्धेन स्मरणाभावान्नातिप्रसङ्ग इति चेन्न । ज्ञानजन्यतावच्छेदकतया संस्कारे विषयतासिद्धिः। तथाहि-संस्कारंप्र- तिज्ञानस्य यदि विषयामिश्रितक्षानत्वेन हेतुता, तदा उपेक्षात्मकचानात् सं स्कारापत्तिः, तद्वारणाय घटादिविषयकानन्तोपेक्षाभेदानामेकत्र निवेशे गौरवम्, परन्तुघटविषयकज्ञानत्वादिना जनकता, जन्यतावच्छेदकंच य. दिसंस्कारत्वं,तदा व्यभिचार इति घटविषयकसंस्कारत्वमेव तथेति तः सिद्धिः। यदि चोपेक्षाज्ञानभेदानां कारणतावच्छेदककोटौ न निवेशः किन्तु तादृशज्ञानात् संस्कारवारणाय संस्कारं प्रति तेषां प्रतिबन्धकत्वकल्पनमेष समीचीनं, लाघवात् , तथा च संस्कारसविषयतायां युक्त्यभाव इति वि. भाव्यते, तदा प्रांशिकोपेक्षाज्ञानप्रतिवध्यतावच्छेदकतया संस्कारे सविष. यतासिद्धिः, तथाहि-सवींशोपेक्षाज्ञानस्य प्रतिबध्यतावच्छेदकं संस्कारत्वं, तत्सत्त्वे कुत्राप्यंशे संस्कारानुदद्यात्-तद्वदांशिकोपेक्षाज्ञानस्य प्रतिवध्य- तावच्छेदकं यदि घटादिसंस्कारत्वं तदा धम्यंशेऽपि संस्कारानुदयप्रसङ्ग इति तत्तद्विषयकसंस्कारं प्रति तत्तव्यक्तित्वेन प्रतिबन्धकत्वं कल्प्यमिति संस्कारे सविषयतासिद्धिः। एवं संस्कारस्य सविषयतानभ्युपगमे घटांशे उपेक्षाज्ञानानन्तरं घटस्मरणापति:व्यापारसम्बन्धेन घटज्ञानसत्त्वात् । न चोपेक्षान्यज्ञानस्यैव संस्कारसम्बन्धेन हेतुत्वोपगमान्नापत्तिरिति वाच्य म् । तथापि पटस्मरणादपिघटज्ञानजन्यसंस्कारनाशापत्तिः। न चोक्तरो. त्या प्रतियोगितासम्बन्धेन संस्कारनाशं प्रति जनकतासम्बन्धेन स्मृति त्वेन हेतुत्वान्न दोष इति वाच्यम् । जनकतायाः स्वरूपयोग्यतारूपायाः प्रत्यासतित्वे घटबानजन्यसंस्कारस्यापि संस्कारत्वेन निखिलस्मृतिस्व. रूपयोग्यत्वात् । न च घटादिविषयकज्ञानजन्यसंस्कारत्वेनैव संस्का. रस्य हेतुता न तु सामान्यतः संस्कारत्वेन हेतुतेति वाच्यम् । तदपेक्ष्य लाघवेन घटविषयकसंस्कारत्वेनैव तथात्वकल्पनाया औचित्यात्प्रकृत. सिद्धिः। नापि फलोपधायकतायाः प्रत्यासत्तित्वम् , अननुगमात् । यदि च सामानाधिकरण्यमेव नाश्यतावच्छेदकप्रत्यासत्तिः, तथापि न निस्तारः तेन सम्बन्धेन पटस्मरणस्य घटज्ञानजन्यसंस्कारेऽपि सत्त्वात्तन्नाशापत्तेरवारणादेव तसिद्धिः । न च भवन्मते घटादिगो. चरसंस्कारनाशत्वस्य जन्यतावच्छेदकत्वेऽपि तादृशधर्मावच्छिन्नसंस्का- रनाशस्यैव पटसंस्कारे आपत्तिः कारणतावच्छेदकप्रत्यासत्या तत्का- रणसत्त्वादिति वाच्यम् । तादृशसंस्कारनाशत्वावच्छिन्नं प्रति ता- १२८ वादवारिधी . दाम्यप्रत्यासत्या तादृशसंस्कारत्वेन हेतुत्वकल्पनात् । न च सामाना. धिकरण्यस्य स्वरूपयोग्यताया वा प्रत्यासत्तिवे स्मरणजन्यसंस्कारस्य क्षणिकत्वापत्तिः स्वजन्यसंस्कारे ताशप्रत्यासत्तिभ्यां स्मरणसत्वात् , अत उपधायकतायाः प्रत्यासत्तित्वे तत्संस्कारनाशत्वं जन्यतावच्छेदक वाश्यमिति कुतः संस्कारस्य सविषयतासिद्धिरिति वाच्यम् । क्षणिकसं. स्काराभ्युपगमे क्षत्यभावात् तृतीयक्षणोत्पन्नसंस्कारादेव स्मरणनि. हात् । अस्तु वाऽननुगतोपधायकतायाः प्रत्यासत्तित्वं तत्तत्संस्कार. माशत्वानां जन्यतावच्छेदकत्वं चापेक्ष्यलाघवाद्विनश्यदवस्थत्वेनैव संस्का. रस्थ हेतुश्वम् , विनश्यदवस्थत्वं च न स्वाश्रयनाशविशिष्टत्वम् , प्राथ. यस्यात्मनो नाशासम्भवात् , अपितु स्वप्रागभावविशिष्टकालिकविशेष एतयाकृतिविशिष्टत्वमतो नापत्तिः स्वसामानाधिकरण्यावच्छिन्नस्व. प्रागभावसम्बन्धाभावात् । वस्तुतस्तु शब्दादीनां क्षणिकतावारणाय प्रतियोगितासम्बन्धेन नाशत्वावच्छिन्न प्रति स्ववृत्तिप्रतियोगिकत्वसम्ब. न्धेन नाशत्वेन हेतुताया अावश्यकत्वे तत एत्र सर्वत्र क्षणिकतावारण. सम्भव इति । नच घटवद्भूतलमितिज्ञानजन्यसंस्कारनाशत्वावच्छिन्नं प्रति घटाभाववद्भुतलमिति निर्णयत्वेन हेतुत्वमतो न दोष इति वाच्यम्। जन्यत्वादिनिवेशे गौरवात् , लाघवात् लौकिकज्ञानाजन्य तद्विशेष्यकतत्प्रकारकसंस्कारनाशत्वावच्छिन्नं प्रति तद्विशेष्यकतदभाव. प्रकारकनिर्णयस्वेन हेतुत्वोपगमात्तदवच्छिन्नजन्यतावच्छेदकघटकतया संस्कारविषयतासिद्धिरिति । एवं संस्कारविषयतानभ्युपगमे घटस्म. रणादिसामग्र्या उद्बोधकादिविशिष्टघटज्ञानजन्यसंस्कारत्वेनैव प्रति बन्धकत्वमनुभवं प्रति कल्पनीयमिति गौरवम् , स्वमते घटविषयक- संस्कारत्वेन अतिलाघवात् । न च मन्मतेऽपि संस्कारसम्बन्धेन घट. ज्ञानत्वेन प्रतिबन्धकत्वान्न गौरवमिति वाच्यम् । संस्कारादिना घटादि. स्मरणकाले ज्ञानरूपप्रतिबन्धकाभावसत्त्वेन प्रतिबध्यज्ञानापत्तिरिति स्मरणस्य घटगोचरस्मरणत्वेन हेतुता, जन्यतावच्छेदकं तु घटविषयक संस्कारनाशत्वं प्रत्यासतिर्विचारितैव । अथ स्मरणस्य संस्कारनाशकत्वे मानाभावः। स्मरणेनापि संस्का- रजननात स्मरणोत्तरमपिस्मरणोदयात्पूर्व संस्कारसत्त्वेऽपि क्षतिविरही दिति चेन्न । अनुभवानन्तरं यत्रोपेक्षात्मकस्मरणं तदनन्तरं स्मरणवारणाय तथा. त्वस्यावश्यकरवात् । अथ कालादिजन्यसंस्कारनाशे व्यभिचारः । कालाधजन्यत्वस्य नि- (१२) स्मृतिनिश्चयहेतुतावादवाचिः । १२९ . वेशे तुल्ययुक्तया तजन्यतावच्छेदककोटावपि स्मरणाजन्यत्वस्य निवेशेऽ- न्योन्याश्रयात् । नापि वैजात्यं तन्नाश्यतावच्छेदक,विपरीतक्षाननाश्यता- वच्छेदकतयापि वैजात्यसिद्धौ प्रत्येकमात्रनाश्यसंस्कारेऽपि प्रत्येकपरि. हारेण वर्तमानयोस्तयोर्घटस्मरणपटविपरीतज्ञाननाश्ये घटपटगोचरल. मूहालम्बनसंस्कारे सार्यापचेः, तत्र चैतादृशवैजात्यान्तरस्वीकारे। ऽतिगौरवापत्तेरिति चेत् । अनायत्या स्वसामानाधिकरण्यविशिष्टकालिकविशेषणतया घट- स्मरणविशिष्ठसंस्कारनाशत्वमेव तादृशस्मरणजन्यतावच्छेदकं, रोग- कालादीनां चाननुगततया तत्तव्यक्तित्वं विपरीतज्ञानस्य तु वैजात्यम् । न च किं वैजास्यं स्मरणस्य नाश्यतावच्छेदकं तद्विपरीतज्ञानस्य वेति वि. निगमनाविरह इति वाच्यम् । विपरीतनिश्चयस्य नाशकतायां नाशकता- वच्छेदकगौरवात् । अत्र वैशिष्टयस्य जन्यतावच्छेदकत्वे कार्यतावच्छेद ककोटिप्रविष्टविशेषणानां विशेष्यविशेषणभावेन नानाधर्मावच्छिन्नका. रणताया बाहुल्यापत्तेः तत्रैव वैजात्यस्य नाश्यतावच्छेदकत्वौचि. त्यादिति ॥ अथ समूहालम्बनसंस्कारस्य प्रत्येकगोचरस्मरणानाशापत्तिः, घटपटोभयविषयकसंस्कारस्य घटपटविषयकतया तन्नाशकीभूतघटस्म. रणस्य सत्त्वात् । न च पटविषयकसंस्कारनाशे पटस्मरणस्य हेतुत्वा. तस्य पटविषयकत्वेन पटस्मरणरूपनाशकाभावान्न तन्नाश इति वा. च्यम् । पटस्मरणं विनापि निरुक्तसंस्कारकार्यतावच्छेदकावच्छिन्नजन. नादत्रापि तदापत्तिसम्भवात् , तनाशाभ्युपगमे चानन्तरं पटस्मरणानुप- पत्तिः । न च चरमस्मृतित्वेन नाशकत्वान्न दोष इति वाच्यम् । वर. मत्वस्य निर्वक्तुमशक्यत्वात् । न च स्वजनकसंस्कारजन्यस्मृतिप्रागभा. वविशिष्टान्यत्वं तत् , जनकत्वादिकं तु फलोपधायकत्वादिरूपं ग्राह्यम् , अन्यथा संस्कारान्तरजन्यस्मृतिप्रागभावकालीनाया अपि चरमत्वानुपप. तिरिति वाच्यम् । स्वत्त्वघटितत्वेनाननुगमात् । स्वप्रतियोग्युपधायकसं- स्कारोपहितत्वविशिष्टकालिकसम्बन्धेन स्मृतिप्रागभावविशिष्टं यत्तदन्य- त्वरूपस्याप्यननुगतोपधायकताघटितत्वात् ,प्रथमस्मृतिश्च संस्कारं नाश. यित्वा चरमत्वशालिनी न भवतीत्यत्र नियामकाभावाच । न च वैजा. त्यमेव चरमत्वं, तञ्च फलबलकल्प्यमतो न दोष इति वाच्यम् । तादृशजा- तेरेकस्या एव सकलस्मरणनिष्ठनाशकतावच्छेदकरवे घटपटौ कुडयकु. सूलौ एतादृशसंस्कारद्वयजनितात् घटविषयककुसूलविषयकस्मरणात् कुड्यकुसूलविषयकसंस्कारनाशापतिःघटपटाविति संस्कारनाशकत्वात् १७वाद १३० वादवारिधी तेन हि तादृशजातिरत्रावश्यमुपेया। कुड्यकुसूलाविति संस्कारनाशकताय. च्छेदकजात्यन्यत्वेन घटसंस्कारनाशकस्मरणकुड्यसंस्कारनाशकस्मरणयोः परस्परपरिहारेण वर्तमानयोरुभयसंस्कारनाशकसमूहालम्बनस्मरणे सा. कपित्तरिति । न च चरमस्मृतित्वं यावत्स्मृतिसाधारणी एकैव जातिः, कार्यकारणभावस्तु तत्संस्कारनाशस्वतद्विजातीयस्मृतिस्वाभ्यामिति वा. च्यम् । तादृशजातिःप्रथमस्मरणे नास्ति किन्तु चरमस्मृतावित्यत्र निया- मकाभावात् अननुगततत्तरक्षणानामिदानीमेव नियामकत्वमङ्गीकार्यमिति गौरवम् । नचानायच्या गौरवं स्वीक्रियत इति वाच्यम् । गत्यन्तरस्य द. शयिष्यमाणस्वादिति चेत् । पत्र केचित्-घटविषयकसंस्कारस्वेन नाश्यता घटस्मरणत्वेन ना. शकता, एवं घट स्टोभयगोचरसंस्कारत्वेन नाश्यता घटपटस्मरणस्वेन नाशकता, विशिष्य प्रतियोगिनामपि तथाहेतुत्वमनापश्या कल्प्यात इत्याहुः। अन्ये तु समूहालम्बनज्ञानाद्धटादिप्रत्येकविषयका नानैव संस्कारा जायन्ते नतु समूहालम्बनसंस्कारः, तथा च घटस्मरणास्पटसंस्कारो न. श्यति नान्यः। न च समूहालम्बनात्मकसंस्कारानभ्युपगमेऽपि घटवभू- तलमिति ज्ञानाद्विशिष्टविषयक एव संस्कारोऽभ्युपेयः,अन्यथा विशिष्टस्म. रणानुपपत्तिः, तथा च भूतलसंस्कारोबोधकविरहकालीनघटमात्रविष. यकस्मरणाद्विशिष्टसंस्कारनाशापत्तिरिति वाच्यम् । घटमुख्यविशेष्यक- संस्कारत्वस्यैव घटस्मरणजनकतावच्छेदकत्वात् घटवद्भूतलमिति सं. स्कारनाशे विशिष्टविषयकस्मृतित्वेन हेस्वन्तरस्थावश्यकस्वात् , अन्यथा विशकलितघटभूतलयोः स्मरणात्तथाविधसंस्कारनाशापत्तिः । अथैवमपि घटवद्भूतलं पटवदितिसंस्कारस्य घटाभाववद्भूतलमि ति विपरीतज्ञानेन नाशे पटवदितिस्मरणानुपपत्तिः । न च यत्र तादृशसं. स्कारेण (विशिष्टसंस्कारेण) क्वचिद्विशिष्टस्मरणं जायते तत्रापि घटवद्भः तलं पटवत् भूतलमिति संस्कारद्वयमेवाभ्युपेयते न तु विशिष्टविषय. क एकः संस्कार इति वाच्यम् । यत्र विशिष्टविषयकसंस्कारस्या- वश्यकत्वं तत्रैव तादृशसंस्कारविषयीभूतएकधर्मावच्छिन्नेऽपरधर्माव- च्छिन्नप्रतियोगिताकाभावज्ञानसत्त्वे तादृशसंस्कारनाशापत्तेः । न चेष्टाप- त्तिः, तादृशविपरीतज्ञानोत्तरं तादृशस्मरणापलापप्रसङ्गादिति चेन्न । तादृशानुभवस्य प्रामाणिकत्वे तद्धर्मावच्छिन्नविशेष्यकतद्धर्मावच्छिन्न. प्रकारकसंस्कारनाशत्वावच्छिन्नं प्रति तद्धर्मावच्छिन्नविशेष्यकतद्धर्माव- च्छिन्नाभावप्रकारकज्ञानत्वेन हेतुत्वान्नानुपपत्तिः । न च तथापि वह्नि- (१२) स्मृतिनिश्चयहेतु ताबादवीचिः । व्याप्त्यभाववन्धूिम इति ज्ञानकाले वह्निव्याप्यो धूम इति संस्कारासत्त्वे विपरीतज्ञानरूपकारणवलात्तनाशापत्तिरिति वाच्यम् । तादृशसंस्का रनाशं प्रति तादृशसंस्कारस्थापि प्रतियोगिविधया हेतुत्वेन तदभावादेव तथापत्त्यसंभवादित्याहुः । इति स्मृतिनिश्चयहेतुतावाद (१२)वीचिः । अथ प्रतियोगिज्ञानकारणतावाद (१३)वीचिः । प्रतियोगितावच्छेदकप्रकारकप्रतियोगिज्ञानमभावप्रत्यक्ष कारणं तेनं विना तस्यानुदयात् । न च घटो नास्तीति प्रत्यक्षस्य घटत्वविशिष्टप्रका- रकत्वात् विशेष णतावच्छेदकप्रकारकज्ञानत्वेनैव तस्य तत्कारणत्वं न तु स्वातन्त्र्येणेति वाच्यम्। तथा सति घटत्वादिप्रकारकज्ञानाभावदशायां ने. स्याकारकप्रत्यक्षापत्तो, घटत्वादिनिर्विकल्पकानन्तरं विशेष्ये विशेषणमिति रोत्या घटाभावप्रत्यक्षापत्तेर्दुरित्वाच्च। नच तादृशाभावप्रत्यक्षयोरप्रसि. द्धत्वेन नापत्तिरिति वाच्यम् । इन्द्रिय सन्निकर्षबलाद्भावप्रत्यक्षत्वादि. रूपेणापत्तिसम्भवात् उक्तस्थले विशेषणतावच्छेदकप्रकारकशानाभा. वात् विशिष्टप्रकारकप्रत्यक्षबाधेनाभिहितप्रत्यक्ष एवं पर्यवसानात् । विशेषणतावच्छेदकघटस्वादिप्रकारकज्ञानस्य सन्निकर्षादिस. हकारितया तदभावादेव नापत्तिरिति वाच्यम्। घटवद्भुतलमित्यादिवो. धसाधारणरूपावच्छिन्नं प्रति घटत्वादिप्रकारकज्ञानस्य घटाभावादिबोध- साधारणरूपावच्छिन्नं प्रति च कारणीभूतसन्निकर्षादिसहकारिताया अ. सम्भवात् कार्यतावच्छेदकयोाप्यव्यापकभावस्य सहकारितायां तन्त्र. स्वात्, स्वतन्त्रकारणत्वे तु घटाभावचाक्षुषत्वादेरेव कार्यतावच्छेदकत्वं वाच्यम्, तच्चाभावचाक्षुषत्वादिरूपसन्निकर्षादिकार्यतावच्छेदकब्याप्यम् इति न सहकारित्वानुपपत्तिः, अभावप्रत्यक्षत्वावच्छिन्नं प्रति इन्द्रियस. म्बद्धविशेषणतायाः सामान्यतः कारणत्वस्थासम्भवेऽपि घटाभावप्रत्यक्ष. त्वादिकमेव प्रतियोगिवानकार्यतावच्छेदकमुपगन्तव्यम् । अथ पटादिज्ञानाभावदशायां घटत्वादिप्रकारकज्ञानकालीनेन्द्रियस- निकर्षादिबलात् घटाभाववत् पटाभावस्यापि प्रत्यक्षापतिः। यदि च तभावविषयकप्रत्यक्षादिकं प्रति तत्तभाववृत्तिसन्निकर्षस्य विशिष्य का- रणत्वात्तत्र च तत्तदभावप्रतियोगितावच्छेदकधर्मप्रकार कन्ज्ञानस्यैव १३२ वादवारिधो तत्तदभावप्रत्यक्षनियामकत्वात् उक्तस्थले घटाभावादिवृत्तिसन्निकर्षः स्य पटाभावादावसत्वात् पटाभावादिवृत्तिसन्निकर्षस्य च घटत्वा- दिप्रकारकज्ञानरूपसहकारित्वविरहात् नापत्तिरित्युच्यते, तदा कृतं प्रति- योगिज्ञानस्य स्वतन्त्रहेतुताकल्पनेन, घटत्वादिविशिष्टप्रकारकबुद्धिस्व. रूपसामान्यधर्मावच्छिन्नं प्रत्येव कारणीभूतघटत्वादिप्रकारकवानस्य सा. मान्यसामग्रीविधयैव सहकारित्वसम्भवात् इति चेन्न । अभाववृत्तिविषयतासम्बन्धेन प्रत्यक्ष प्रति स्वप्रकारीभूतधर्मावच्छिन्न. प्रतियोगिताकत्वसम्बन्धेनाभावनिष्ठतयैव प्रतियोगिज्ञानस्य कारणत्वं क- हप्यते, उक्तस्थले च पटाभावादौ सन्निकर्षसत्त्वेऽपि दर्शितसम्बन्धेन ज्ञा. नासत्वान्नातिप्रसङ्गः। न चैवं घटाभावत्वेन पटाद्यभावभ्रमानुपपत्तिः, इ. प्टत्वात्। एतेन-एकाभावप्रतियोगितावच्छेदकप्रकारकज्ञानात् अभावान्त. रप्रत्यक्षानुत्पत्त्या विशिष्यघटस्वादिप्रकारकज्ञानत्वेन कारणत्वं वाच्यम् . तत्र च घटाभावप्रत्यक्षस्वस्य घटाभावचाक्षुषत्वस्य वा तजन्यतावच्छे. दकत्वे घटध्वंसत्वादिप्रकारकशानं विनापि जायमाने घटो नास्तीत्याकार- कस्य घटध्वंसाभावस्य प्रत्यक्ष व्यभिचारः घटात्यन्ताभावस्य प्राचाम्मते घटध्वंसाधभावत्वात् , एवं समनियताभावैक्यमते संख्या नास्तोति प्रत्यः ते परिमाणस्वादिप्रकारकज्ञानस्य व्यभिचारः, तत्तदभावप्रत्यक्षे तत्तदभा. वप्रतियोगितावच्छेदकप्रकारकबानत्वेन हेतुत्वेऽपि घटाधभावत्वादिना प. द्वाद्यभावप्रत्येते व्यभिचारः, घटत्वादिविशिष्टप्रकारकप्रत्यक्षं प्रति घट. स्वादिप्रकारकज्ञानत्वेन कारणत्वोपगमे नेत्याकारकाभावप्रत्यक्षवारण- मशक्यम् , तस्य घटत्वादिप्रकारकशान कार्यतावच्छेदकानाक्रान्तत्वात् तादृशक्षानमन्तरेणापि इन्द्रियसन्निकर्षादिना तदुत्पादने व्यभिचाराप्रसक्तः- इत्यादिकं परास्तम् । घटाभावत्वादिना पटाद्यभावप्रत्यक्षस्थानभ्युप- गमेन उक्तकार्यकारणभावे व्यभिचारानवकाशात् । यस्य येन विना स्व. कार्यजनकत्वोपगमे व्यभिचारो न प्रसज्यते तस्य तदनपेक्षत्वे प्रत्यक्षा- दिलक्षणकार्यविशेषहेताविन्द्रियाापारत्वेऽपि जन्यज्ञानादिसामान्यका- र्यप्रसङ्गाञ्च । अथ घटत्वादिप्रकारकज्ञानासत्त्वेऽपि कम्बुग्रोवादिमानास्तीति प्रत्य- क्षोत्पतेर्गुरुधर्मस्याभावप्रतियोगितानवच्छेदकत्वमतेऽत्र व्यभिचार एवं कम्बुग्रीवादिमानित्याकारकज्ञानस्य तद्विषयीभूतघटत्वावच्छिन्नाभावे निरुतसम्बन्धेनासत्त्वादिति चेन्न । दर्शितज्ञानप्रकारीभूतकम्बुग्रीवादिमत्त्वावच्छिन्नाभावस्थापि तादृश. प्रत्यक्षोपगमात् , तस्य घटाभावविषयकत्वेऽपि गुरुधर्मस्य प्रतियोगि- (१३) प्रतियोगिज्ञानहेतुतावादवाचिः। , तावच्छेदकत्वावगाहितया भ्रमस्वस्यावश्यकतया तथोपगमे वाधका- भावात् । इदन्त्वेन तेजोऽभावप्रत्यतेऽभाववानयमित्युपनीतभाने च व्य भिचारस्तु नाशङ्कनीयः, अभावत्वलौकिकप्रकारतानिरूपितविषयता- याः कार्यतावच्छेदकत्वात् । न चैवमभावस्वनिर्विकल्पकेऽभावप्रत्य. क्षत्वस्य कार्यतावच्छेदकताक्रान्ततया प्रतियोगिज्ञानाघटिततत्तत्सा. मनीबलादपि अभावप्रत्यक्षापत्तिरिति वाच्यम् । अभावस्य निर्विकल्प. कानभ्युपगमात् , अत श्वानुपस्थितस्यापि कारणतायाः प्राचीनानुमत. त्वमिति सम्प्रदायः । अत्र नव्या:-एवक्रमेण प्रतियोगिज्ञानस्य स्वतन्त्रकारणताभ्युपगमे अभावो न घटीय इत्यादिवाधनिश्चयदशायां नेत्याकारकाभावप्रत्यक्षवार. णमशक्यम् , तदानीमभावे प्रतियोगिवैशिष्ट्यभानासम्भवात्प्रतियोगिता. नघटिताभावप्रत्यक्षसामग्रीसत्त्वाञ्च । न चोक्तनिश्चयस्याभावत्वंसामाना. धिकरण्येन घटाभावप्रकारकत्वं तदवच्छेदेन वा ? भाद्य तत्सामानाधि. करण्येनैव घटादिवैशिष्ट्यावगाहिनि घटो नास्तीति प्रत्यक्षे न तस्य वि. रोधित्वम् , अन्त्ये च तस्याभावत्वं धम्मितावच्छेदकीकृत्य घटतद भाव. प्रकारकस्याहार्यभ्रमत्वात् विशिष्टबुद्धिमानं प्रति न विरोधित्वमित्यु. भथापि नेत्याकारकप्रत्यक्षप्रसङ्गो न इति वाच्यम् । प्रभावत्वावच्छेदेन घटीयान्यत्वावगाहितादृशनिश्चयस्याभावत्वं धम्मितावच्छेदकीकृत्य घटा. भावादिप्रकारकस्वाभावेनानाहार्यत्वात्,एवमभावत्वावच्छेदेन शुद्धघटत्वा वच्छिन्नप्रतियोगिताकत्व सम्बन्धावच्छिन्नप्रतियागिताकाभावप्रकारकता- दृशनिश्चयस्याभावत्वं धर्मितावच्छेदकोकृत्य घटत्वावच्छिन्न प्रतियोगिता- कत्वसम्बन्धावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन घटप्रकारकत्वादाहार्य- त्वेऽपि संयोगादिसन्बन्धावच्छिन्नघटत्वावच्छिन्नप्रतियोगिताकत्वसम्ब. न्धावच्छिन्नप्रतियोगिताकघटाभावप्रकारस्य संयोगादिसम्बन्धावच्छिन्न घटत्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रतियोगि. ताकत्वसम्बन्धेनैव घटादिप्रकारकत्वेन संयोगादिसम्बन्धावच्छिन्नघ. टत्वावच्छिन्नप्रतियोगिताकावसम्बन्धेन घटप्रकारकत्वाभावेनानाहार्यः त्वात् । न चैवं शुद्धघटत्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन घटप्रकार. कज्ञानाविरोधित्वात् तेन सम्बन्धेन घटप्रकारकमेव घटो नास्तीतिप्र. स्यतं भविष्यतीति कथं नेत्याकारकप्रत्यक्षापतिरिति वाच्यम् । ताद्व शप्रत्यक्षस्याप्यनिष्टत्वात् , न हि सम्बन्धाच्छन्नत्वाविशेषितप्रतियोगि- तासंसर्गकमप्यभावप्रत्यक्षम्, अन्यथा तत्तत्सम्बन्धावगाहिविशिष्टबुद्धि प्रति तत्तत्सम्बन्धावच्छिन्नप्रतियोगितावगाहित्वेनैवाभावनिश्चयस्य विरो.

CC वादवारिधी धित्वेन विशिष्टधुद्धि प्रत्येव तादृशाभावप्रत्यक्षनिश्चयस्याप्रतिबन्धकताथा अनुभवविरोधापत्तेः, अत एकत्र द्वयमिति न्यायेनापि अभावत्वघटोभयः प्रकारकस्याभावप्रत्यक्षस्य घटांशे निम्मितावच्छेदकतया तादृशबाधा- प्रतिबध्यतया तस्योत्पत्तौ बाधकाभावात् नेत्याकारकप्रत्यक्षापत्तिर्न स. म्भवतीति । तन्न, प्रवृत्तित्वज्ञानस्य निम्मितावच्छेदकताकबुद्धि प्रत्यपि विरोधि तया प्रतियोगितासम्बन्धेन घटादिमवृत्तित्वज्ञानकाले तादृशप्रत्यक्षापत्ते १र्वारत्वात् ,एवं भूतलादौघटाद्यारोपे सति तेन प्रतिबन्धात् भूतलं घटाभा- ववदित्यादिप्रत्यक्षासम्भवेऽपि नेत्यादिप्रत्यक्षापत्तिः। न चैवं तादृशनिश्च. याभावानामपि इन्द्रियसम्बद्ध विशेषणतादिभिः प्रत्यक्षादिज्ञाने अपेक्षणा- नापत्तिरितिवाच्यम्। घटादिप्रत्यक्षसाधारणधर्मावच्छिन्नं प्रति हेतुभूतैरि. न्द्रियसम्बद्ध विशेषणतादिभिरभावोपनीतभानसाधारणधर्मावच्छिन्नं प्रति हेतुभूतानामुक्तबाधनिश्चयाभावानां सामग्रीत्वन विशेषसामग्रीत्वेन वा अपेक्षायाः सम्भवात् कालिकादिसम्बन्धेन घटत्वादिप्रकारकात् प्रमेय. त्वादिदिप्रकारकाञ्च ज्ञानात् घटो नास्तीत्यादिप्रत्यक्षानुदयेन समवा. यस्वरूपादिसम्बन्धावच्छिन्नप्रकारतावद्धर्मावच्छिन्न प्रतियोगिताकस्यैव कारणताघटकसम्बन्धास्यावश्यकत्वेन घटो नास्तोत्यादिप्रत्यक्षपूर्व घट- ध्वंसादिज्ञानासवस्थलेऽपि स्वरूपसम्बन्धावच्छिन्नप्रकारताघटितस. म्बन्धेन ज्ञानात व्यभिचारो दुर्वार एव । यतु-प्रतियोगिज्ञानस्य घटत्वादिप्रकारकज्ञानस्वादिनैव कारणत्वम्, कार्यतावच्छेदकञ्च घटत्वावच्छिन्नप्रकारताभिन्न प्रतियोगित्वसम्बन्धा- वच्छिन्नप्रकारत्वानिरूपिताभावनिष्ठालौकिकविषयताशालिप्रत्यक्षत्वम्, एवञ्च न क्वापि व्यभिचारो न वा नेत्याकारकाभावप्रत्यक्षापत्तिः, तस्य यावत्प्रतियोगितावच्छेदकप्रकारकज्ञानस्य काय्यतावच्छेदकाक्रान्तत्वात् प्रतियोगितावच्छेदकप्रकारकज्ञानस्य चासर्वज्ञानामभावात् सर्वज्ञाना न्तु दर्शितबाधानवतारणे यस्किञ्चित्प्रतियोगिकाभावप्रत्यक्षस्यैव स. म्भवात् , एवञ्च घटाभावत्वादिना पटाभावभ्रमोपगमेऽपि न क्षतिः, तस्य घटत्वादिप्रकारकज्ञानजन्यतावच्छेदकाक्रान्तत्वात् व्यभिचाराभावाच- इति, तन्न, यत्र नेत्याकारकमभावप्रत्यक्षं प्रसिद्ध काय्यतावच्छेदकाका- न्तञ्च तत्र व्याघात पव। अथ यद्यभावप्रत्यक्ष प्रतियोग्यविषयकं भवेतहिं यावत्प्रतियोगिज्ञा- नकार्यतावच्छेदकाक्रान्तमपि स्यात् इत्यभावप्रत्यक्षस्य प्रतियोग्यविष. यकत्वे यावत्प्रतियोगिज्ञानासमवधानमित्येव ब्रूम इति कुतो व्याघात (१३) प्रतियोगिज्ञानहेतुतावादवाचिः। १३५ . 4 इति चेत्र सामग्रीसत्त्वे कार्यस्यावश्यकत्वात् , अस्ति च यत्किञ्चित्प्रति. योगिज्ञानेन्द्रियसम्बद्धविशेषणतादिरूपा सामग्री, दर्शितस्थले थावत्प्र. तियोगिज्ञानघटिता च सा भवत्येवेति, अपि च संख्या नास्तीत्यादि. प्रत्यक्ष परिमाणादीनामप्यभावांशे विशेष्ये विशेषणमित्यादिन्यायेन भा- नापत्तिरेतावता प्रयासेनापि वारयितुं न शक्यते अर्थतादृशन्यायेन परिमाणादिभाने ताशप्रत्यक्षस्य संख्यादिप्रका- रकशानकायंतावच्छेदकाक्रान्तत्वान्नानुपपत्तिरिति चेत् । किं प्रयोजनक्षतिभिया सामग्री काय नाजयिष्यतीति स्यादिन्द्रिय. सम्बद्ध विशेषणताया भूतलादिविशिष्टविषयकघटत्वादिविशिष्टप्रकारका भावत्वविशिष्टचाक्षुषत्वादिकमेव कार्यतावच्छेदकमुक्तबाधाभावादि. कार्यतावच्छेदकम् , धर्माणाञ्च तव्यापकतया सामान्यसामग्रीत्वेनैव तेषामिन्द्रियसम्बद्धविशेषणतासहकारित्वानोपदर्शितबाधकाले नेत्याका- रकाभावप्रत्यक्षापत्तिरित्यकामेनापि वाच्यम् , एवश घटत्वादिविशिष्ट प्रकारकानुभवत्वादिलक्षणघटत्वादिप्रकारकज्ञानकार्यतावच्छेदकधर्मा- णामपि तद्व्यापकतया घटत्वादिप्रकारकज्ञानानामपि सहकारित्वनि हात् तेषामभावप्रत्यक्ष प्रति स्वतन्त्रकारणताकल्पनं व्यर्थमेव, संख्या नास्तीतिप्रत्यक्ष दर्शितपरिमाणादिविषयकत्वापत्तिरप्यापाद्याप्रसिद्धयैव निरसनीया, सर्वत्राभावे प्रतियोगितावच्छेदकविशिष्टस्यैव प्रतियोगिनः प्रकारत्वोपगमात् । न चोक्तधर्मस्य इदन्त्वप्रकारकप्रतियोग्यविशेषित. प्रत्यक्षसाधारण्याभावात नेन्द्रियसम्बद्धविशेषणताजन्यतावच्छेदकत्वमि. ति वाच्यम् । इदन्त्वप्रकारकाभावचाक्षुषत्वस्यापि जन्यतावच्छेदकत्वो. पगमात् । न चेन्द्रियसम्बद्धविशेषणताबलात्तादृशचाक्षुषादावभावत्व: स्थ प्रकारत्वेन भानम् इदन्त्वानुपस्थितौ चाभावत्वस्य निर्विकल्पकं दु- रिमभावत्वस्य चाक्षुरादिरूपेन्द्रियसम्बद्धविशेषणतावच्छेदकस्य घ. टत्वादिविशिष्टप्रतियोगिकाभावत्वेन समं व्यापकाभावेन घटत्वादि. प्रकारकज्ञानादीनां तस्याः सहकारित्वासम्भवादिति वाच्यम् । इन्द्रियसम्बद्धविशेषणविशेषणतायाअपि घटत्वादिप्रकारकस्वादिविशेषि. ताभावत्वादिचाक्षुषत्वादिकमेव जन्यतावच्छेदकमित्यभ्युपगमात् । परमार तस्तु अभावचाक्षुषत्वादिकमेव इन्द्रियसम्बद्धविशेषणता- दिजन्यतावच्छेदकमिदन्त्वाद्याकारकाभावचाक्षुषस्य घटत्वादिविशिष्टाप्र- कारकस्यालीकतया घटत्वादिप्रकारकज्ञानदर्शितज्ञानाभावादिकस्यैव च. क्षुःसंयुक्तविशेषणतादेरभावचाक्षुषदिसामग्रीत्वं कल्प्यते ॥ समाप्तोऽयम् ॥

वादवारिधी ॥ श्री परब्रह्मणेनमः॥ अथ महामहोपाध्याय गदाधर भट्टाचार्यकृतः (१४) स्वर्गवादधीचिः॥ दुःखासम्भिन्नत्वादिविशिष्टमुखत्वं स्वर्गपदशक्यतावच्छेदकमिति सिद्धान्तः । श्रादिपदेनानन्तरदुःखग्रस्त भिन्नत्वाभिलाषोपनीतत्वयोः प. रिग्रहः। अत्र दुःखासम्मिन्नत्वं न दुःखानवच्छेदकशरीरावच्छिन्नत्वम्, दुःखा नवच्छेदकीभूतखण्डशरीरावच्छिन्नेऽस्मदादिसुखे चक्रवर्तिराजसुखे चातिव्याप्तः । नापि दुःखानवच्छेदकवृत्त्येककालीनशरीरद्वयावृत्तिजा. तिमच्छरोरावच्छिन्नत्वम् , दुःखावच्छेदकावृत्तिजातिमच्छरीरावच्छि. नत्वं वा,स्वर्गिणामपि मरणकालीनदुःखपातभीरुत्वजन्यदुःखश्रवणात । अत्रोच्यते-तादृशदुःखश्रवणस्य संसारनिन्दामात्रे तात्पर्यम्, वस्तुतः स्वर्गिशरीरावच्छेदेन मरणदुःखादिकमपि नेति तस्वम् । नन्वेवं स्वर्गि: शरीरावच्छेदेन यदि दुःखं नास्ति तदा स्वर्गिणः सुखभोगानन्तरं मुक्तिन स्यात्, चरमदुःखध्वंसस्य मुक्तित्वात् स्वर्गिणश्चरमदुःखासम्भवात् , इति चेत् , मैवम्, ब्राह्मणशरीरमेव चरमदुःखसाधनम्, अन्यथा शूद्रशगे. रावच्छेदेनापि मुक्तिप्रसङ्गात् । स्वर्गिशरीरे च न ब्राह्मणत्वम् , तत्प्रयो- जकादृष्टाजन्यत्वादिति स्वर्गिणोऽपि शरीरान्तरं विना न मुक्तिः, किन्तु ब्राह्मणशरीरपरिग्रहादेव । न च श्रवणमननादावेव ब्राह्मणशरीरं हेतुर्न तु चरमदुःखेऽपि इति शूद्राणामपि मुक्तिरिष्यने, अतो दुःखाभावे स्व गिणो भोगानन्तरं मुक्तरनुपपत्तिरिति वाच्यम् । ब्राह्मणशरीरस्य विनि गमनाविरहेण परमदुःखं प्रत्यपि हेतुत्वात् , अन्यथा ब्राह्मणशरीरेणैव मुक्तिरिति बहुतरश्रुतिस्मृत्यादिविरोधप्रसङ्गात् । न चैवं स्वकीयनिखि लाशुभकर्मजदुखभोगानन्तरं स्वर्ग सनि मुक्ति स्यादिति वाच्यम् , इष्ट त्वात , स्वर्गानन्तरं ब्राह्मणशरीरपरिग्रहात् स्वीययत्किञ्चिदशुभकर्मज चरमदुःखोत्पत्तावेव मुक्तिस्वीकारात्, अन्यथा मुक्त्यभावे इष्टापत्ति गित सारम् ॥ केचितु मरणकालीनदुःखपातभोतिजन्यदुःखातिरिक्तदुःखपरमुक्तल. क्षणे दुःखपदम् ,तेन स्वर्गिणस्तादृशदुःखसत्त्वेऽपि न क्षतिरिति वदन्ति॥ अनन्तरदुःखग्रस्तभिन्नत्वञ्च स्वाव्यवहितोत्तरक्षणावच्छेदेन स्वा धिकरणवृत्ति यदुःखं तद्विशिष्टभिन्नत्वम् , स्वाव्यवहितप्राक्क्षणावच्छि.

(१५) प्रीतिवादवीचिः। न्नैकात्मवृत्तित्वसम्बन्धेन दुःखविशिष्टसुखावच्छेदकावृत्तिजातिमवच्छि नत्वमिति तु निष्कर्षः। तादृशजातिः स्वर्गिशरीरवृत्तिचैत्रस्वादिरूपा ॥०॥ अभिलाषोपनीतत्वञ्च स्वाश्रयवृत्तित्वप्रकारकस्वविशेष्यकेच्छात्वव्या. पकयथार्थत्वकत्वम्, अन्यथा इच्छोपनीतत्वस्य दुर्वचत्वात् , स्वर्गिणा- महं तत्सुखी स्यां मयि वरमुख स्यादित्यादिनिखिलेच्छानां यथार्थत्वमेव । अस्माकन्तु तादृश्याः कस्याश्चिदयथार्थत्वमपीति नासम्भवातिव्याप्ती॥ अथैवं दुःखासम्भिन्नत्वादेः प्रत्येकस्यापि स्वर्गिसुखमात्रवृत्तितया श- क्यतावच्छेदकत्वसम्भवे तादृशधर्मत्रयविशिष्टसुखत्वस्य शक्यतावच्छे दकत्वे मानाभाव इति चेन्न येन रूपेण यत्पदादन्वयबोधस्तत्पदस्य तेनैव रूपेण शक्तिस्वीकारात् । तपञ्च प्रकृते तादृशधर्मत्रयविशिष्टसुखत्वमित्येकैकमात्रस्यानतिप्रसक्तः त्वेऽपि तद्विशिष्ट एव शक्तिः कल्प्यतां विनिगमकाभावाच, अत एव- यन्न दुःखेन सम्मिन्नं न च प्रस्तमनन्तरम् । अभिलाषोपनीतञ्च तत्सुखं स्वःपदास्पदम् ॥ इत्यादिशक्तिग्राहकार्थवादोऽपि सङ्गतः। स्वःपदास्पदमिति ! स्वः पदवाच्यमित्यर्थः॥ इति महामहोपाध्यायश्रीगदाधरभट्टाचार्यविरचितः स्वर्गवाद(१४)वीचिः समाप्तः ॥ mp . (१५) प्रीतिवादवीचिः । देवताचैतन्यवादिमतेऽपि यत्र विष्णुप्रीतिरूपफलकामबोधकपदसम. भिव्याहारस्तत्रागतिरेव, तथाहि-विष्णुरीश्वरः, प्रीतिश्च सुखं, नैयायि. कादिभिश्च तदनभ्युपगमात् ईश्वरे सुखाङ्गीकर्तृभिर्भट्टादिभिरपि तत्सुखस्य जन्यत्वानभ्युपगमाश्च तत्प्रीतेः फलत्वानुपपत्तिः । न च विष्णुशब्दस्य व्याप्त्यर्थकविप्लुधातुघटिततयाऽधिकरणव्यापकार्थकत्वोपगमेन प्रीति. पदेन तस्य कर्मधारयोपगमादाधारव्यापकमुखधारायाः फलत्वेन तात्प. >विषयत्वमिति वाच्यम् । तथापि 'मधुसूदनतुष्टये' इत्यादावतिरेव । न च विष्ण्वादिशब्दः सुखविशेषे बढः, येन सुखसामान्यवाचकप्रोत्या. दिशब्दस्य कम्मधारयोपगमेन सामञ्जस्यं भवेत् । तादृशरूढिग्राहककोशा- धभावात्, प्रवृत्तिनिमित्तापरिचयेन तत्पद्घटितविधिवाक्यस्य प्रवर्तक- तानुपपत्तेश्च । १८पाद १३८ वादवारिधी अत्राहु:-प्रीतितुष्टयादिपदं सुखपर्यायपठितमप्यत्रानुरागार्थकं, त. त्रापि तत्प्रयोगदर्शनात् । अत एव 'तुष्टेर्मोचयत' इत्याचार्यश्लोके तुष्टिः रनुरक्तिरित्युपायकृता वर्द्धमानोपाध्यायेन व्याख्यातम् । तथाच विष्णौ प्रोतिरित्यादिसप्तमीसमासाश्रयणात् विष्णुविषयको विहितकर्म कर्तुः प्रीतिरूपभावविशेष एव तत्तत्कर्मफलतया विधिना बोभ्यते, तस्य स्वतोऽपुरुषार्थस्वेपि मोक्षफलकतयां काम्यत्वोपपत्तिः । न च सा. ऽप्रामाणिकी, 'परात्परतरं यान्ति नारायणपरायणाः५ इत्यादिबहुतरमु. निवचनानां विष्णोर्भक्तर्मोक्षोपायतायां प्रमाणत्वात् , आलङ्कारिकमते शृङ्गारादिस्थायिभावस्य रत्यादेः स्वप्रकाशानन्दमयसम्विदात्मकरसरू पतया परिणतिवत् देवादिविषयकरतिरूपमावस्यापि सुखरूपेणेति स्वतःपुरुषार्थत्वमेव । अत एव चमत्कारातिशयेन रसवद्भावस्यापि रस. भावतदाभासभावशान्त्यादिरक्रमः इत्यनेनालयक्रमव्यङ्गयान्तःपरिगणन सङ्गच्छते । अत एव "न योगसिद्धीरपुनर्भवं वा वाञ्छन्ति यत्पादरजा प्रपन्ना" इत्यादिवचनैर्मोक्षस्य पुरुषार्थभिन्नत्वाभिधानमपि सङ्गच्छते, विष्णुभक्कावुत्कटरागेण सर सुखविरोधिमुक्तो कामनानुदयसम्भवात् । प्रीयते भगवान् हरिः' इत्यादावपि हरिः सुखीभवतीति नार्थः, किन्तु कर्मतार्थकात्मनेपदेन धात्वर्थानुरागविषयताबोधात् भगवाननुरागविष. योक्रियते इत्येवार्थ इति न विरोधः ॥ 'तुष्यामि न तथा पुष्पैर्यथा तत्रोप. वासता इतिशिवरात्रिव्रतकथायां शिवकर्तृकतोषादिवाक्यान्यपि कथ. श्चित् सङ्गमनीयानि इति । प्रीतितुष्टयादिपदं विहिनकर्मकर्तृपुरुषीयमोक्षेच्छापर, विष्णौ तदि- च्छाया नित्यत्वेऽपि तदंशे विशेषणीभूतस्य मोक्षस्यासिद्धतया वद्विशिष्टे च्छायाः काम्यत्व निर्वाह इत्यप्याहुः। वेदान्तानुयायिनस्तु-विशुद्धचैतन्यरूपे ब्रह्मणि न सुखोत्पत्तिः, किन्तु अन्तःकरणावच्छिन्नचिद्रूपे जीवात्मनीव मायावच्छिन्नचैतन्यरूपे ईश्वरे,मायापरिणामरूपं च तत्र ज्ञानमुखादिकं, जीवात्मनि जायमानन्तत् बुद्धितत्त्वाख्याऽन्तःकरणवृत्ति, ईश्वरे जायमानञ्च तत् ईश्वरोपाधिमाया- वृत्ति । माया च गुणत्रयात्मिका श्रीकृष्णश्रीरामौ भगवत्यो हरिहरविर- श्चिप्रभृतयश्च प्रत्येकं मायांशसत्त्वतमोरजोऽवच्छिन्नचैतन्यरूपाः । अत्र च प्रमाणं 'सत्वं रजस्तम इति प्रकृतेर्गुणास्तैर्युक्तः परः पुरुष' इत्यादिभ- गवद्वाक्यम् । तथाच तेषु गुणपरिणामरूपस्थ जन्यसुखस्य सम्भवात् श्रीकृष्णादिप्रीतिकामनया कर्माचरणं शास्त्रार्थः। ईश्वरस्य जन्यज्ञाना- नभ्युपगमे 'तदक्षत बहुस्यां प्रजायेय' इति ईश्वरेक्षणबोधकश्रुतिविरो.

(१६) विष्णुप्रीतिवादवीचिः। धः। तत्रावरणोपाधिसत्त्वेन निर्वहति जन्माधुपाध्यवच्छेदः, एवमपि शिवादयो जीवा न, किन्त्वीश्वरा इति वदन्ति । न चैतन्मते सर्वाश्रयत्वेन चेश्वरस्य मनोलक्षणान्तःकरणसत्त्वे तस्य जीवत्वं दुर्वारमेवेति वाच्यम् । अन्तःकरणावच्छिन्नचैतन्यस्यैव जीव. त्वात् । तदुक्तं 'कार्योगधिरयं जीवः कारणोपाधिरीश्वर' इति । कार्य मायाकार्यान्तःकर करणमुपाधिविशेषणं यति व्युत्पत्त्या कार्योपाधिपदम- न्तःकरणावच्छिन्नार्थकम् । नच ईश्वरस्य मनोऽनभ्युपगमे 'वीक्ष्य रन्तुं मनश्चके योगमायामुपाश्रितः' इत्यादिकं श्रीकृष्णादेमनोबोधकवाक्यं वि. रुज्यत इति वाच्यम् । तत्र मनःपदस्य भावार्थकासुप्रत्ययान्तेन निष्पन्न तया अभिसन्ध्यर्थकत्वात् , अन्तःकरणार्थकत्वेतु तदानीं तत्र करणवा. सङ्गतेः । तत्र च ब्रह्मस्वरूपे भगवति उपाधेरवच्छेदमन्तरेण रात्रिवीक्षण. पूर्वकविहाराभिसन्धानस्थासम्भवात् तदुपपादकस्य भगविशेषणस्योपा. दानं 'योगमायामुपाश्रित' इति मायात्मकोपाध्यवच्छिन्न इत्यर्थकम् , एवं रीत्या सर्वत्राविरोध इति । इति प्रीतिवाद (१५)वीचिः श्रीगणेशायनमः। अथ गदाधरमहाचार्यकृतो विष्णुप्रतिवाद(१६)वाचिः। अथ देवताचैतन्यवादिमतेऽपि यत्र विष्णुप्रीतिरूपफलकामलमभिः व्याहारस्तत्रागतिरेव विष्णावीश्वरे प्रीतिपदार्थस्य सुखस्य नैयायिकैरन. भ्युपगमात् । ईश्वरे सुखाङ्गीकर्तृभिरपि तत्सुखस्य जन्यस्वानङ्गीकारेण तत्र फलत्वाप्रसक्तेः । न च विष्ण्वादिशब्दः सुखविशेषे सदस्तेन सह सुखसामान्यपरप्रीत्यादिशब्दस्य कर्मधारयोपगमेन सर्वसामजस्यमिति वाच्यम् । ईदशरूढ़िग्राहकस्य कोशादेरभावात् । अत्राहुः-प्रीतितुष्टयादिपदं मुखपर्यायपठितमप्यत्रानुरागार्थक, तत्रापि तत्पदप्रयोगदर्शनात् । अत एव- तुम्टेचियतः सर्वानतुष्टेबध्नतः पुनः । कारागारमिदं विश्वं यस्य नौमि तमीश्वरम् ॥ त्याचार्यश्लोके तुष्टिरनुरक्तिरित्युपायकृता वर्धमानोपाध्यायेन व्या. ख्यातम् , तथा च विष्णौ प्रीतिः विष्णुप्रीतिरित्यादिसमासाश्रयणाद् वि. अणुविषयको विहितकर्मकर्तुंरनुरागरूपोभावविशेष एव तत्तत्कर्मफलत. या बोध्यते, तस्य स्वतोऽपुरुषार्थत्वेऽपि मोक्षफलजनकतया काम्यत्वोपप.

वादवारिधी त्तिः । न च साऽप्रामाणिकी, “परात् परतरं यान्ति नारायणपरायणाः इत्यादिवचनानां विष्णुभक्तमोक्षोपायतायां प्रमाणस्वात् । आलङ्कारिक- मते ङ्गारादिस्थायिभावस्य रत्यादेः स्वप्रकाशानन्दमयसंविदात्मकत. या परिणतिषदेवविषयकानुरागरूपभावस्यापि सुखात्मना परिणतः स्वतः पुरुषार्थत्वमेव । अत एव चमत्कारातिशयेन रसवद् भावस्थापि 'रसभावतदाभासभावशास्यादिक्रम' इत्यादिनाऽसंलक्ष्यक्रमेषु परिगण- नमपि सङ्गच्छते । अतएव "न योगसिद्धोरपुनर्भवं वा वाञ्छन्ति यत्पाद रजप्रपन्नाः” इत्यादिभागवतमपि ॥ "तुष्यामि न तथा पुष्पैर्यथा तत्रोप. वासत" इत्यादिशिवादिकर्तृकतोषबोधकवाक्यानि यथाकथंचित् लङ्गम- नीयानि ॥ अथवा प्रीतितुष्ट्यादिपदं विष्णौ विहितकर्मकर्तृपुरुषीयमोक्षादिरूप. फलेच्छादिपरं, तदिच्छायाः नित्यत्वेऽपि विशेषणीभूतमोक्षादेरसिद्धतया तद्विशिष्टतदिच्छायाः काम्यतानिर्वाह इत्यपि प्राहुः । वेदान्तानुयायिनस्तु-विशुद्धचैतन्यरूपे ब्रह्मणि न सुखस्योत्पत्तिः कि. स्वन्तःकरणावच्छिन्नचिद्रूपे जीवात्मनीव मायावच्छिन्नचैतन्यरूपे ईश्वरे मायापरिणामरूपस्य ज्ञानमुखादेः जीवात्मनि जायमानं ज्ञानमुखादिकं बुद्धितत्त्वाख्यान्तःकरणवृत्ति, ईश्वरे च जायमानं तदीश्वरोपाधिमाया. वृत्ति, माया च गुणत्रयात्मिका तथाच श्रीकृष्णश्रीरामौ भगवत्यो हरि- हरविरिञ्चयश्च प्रत्येक मायांशसत्त्वरजस्तमोऽवच्छिन्नचैतन्यरूपाः। अत्र च प्रमाणं- सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तैर्युक्तः परः पुरुषः एक इहास्य धत्ते । स्थित्यादये हरिविरिञ्चिहरेतिसंशाः श्रेयांसि तत्र खलु सत्त्वतया नृणां स्युः॥ इत्यादि भागवतवाक्यम् । तथाच सर्वेषु गुणपरिणामरूपजन्यसुख. संभवात् श्रीकृष्णप्रीतिकामनया कर्माचरणं शास्त्रार्थः सम्पद्यते । ईश्वर जन्यज्ञानानभ्युपगमे "तदैक्षत बहुस्यां प्रजायेयेति ईश्वरेक्षणबोधकच. तिविरुध्येत, बहुत्वमुपाधिबहुत्वेन निवर्हति । जन्मायुपाधिमन्तोऽपि शिवादयो जीवा न, किन्तु ईश्वरा एव-इति । ईश्वरभजनमप्येतन्मते न निश्श्रेयसाय कल्प्यते । न चेश्वरस्य मनो- लक्षणान्तःकरणवत्त्वेन तस्य जीवत्वं दुर्वारमेव, अन्तःकरणावच्छिन्न- चैतन्यस्यैव जीवत्वात् , तदुक्तं "कार्योपाधिरयं जीवः कारणोपाधिरी. श्वर" इति। कार्यमन्तःकरणमुपाधिविशेषणं यत्रेति व्युत्पत्त्या कार्योपा. (१) प्रीतिवाद-विष्णुप्रीतिवादयोः क्वचित क्वचिच्छब्दस्य वैलक्षण्येऽपि अर्थस्य तदभावादेक्यं प्रतिभाति । सम्भवति च लेखककल्पितः शान्दभेद इति निर्माता ।

(१७) भक्तिमार्गवादवीचिः। धिपदमन्तःकरणावच्छिन्नचैतन्यार्थकम् । न च ईश्वरे मनोऽनभ्युपगमे "वीक्ष्य रन्तुं मनश्चक्रे योगमायामुपाश्रित" इति श्रीकृष्णस्य मनोबोधक वाक्यं विरुध्येतेति वाच्यम् । तत्र मनःपदस्य भावार्थकासुप्रत्ययान्तेन मनु शान इत्यनेन निष्पन्नतयाऽभिसन्धानार्थकत्वान्नान्तःकरणपरं तदानों तत्र करणत्वासंगतः। तत्र ब्रह्मस्वरूपे भगवति श्रीकृष्णे उपाध्यवच्छेद. मन्तरेण वीक्षापूर्वकविहाराभिसन्धेरसम्भवात् तदुपपादकस्य भग- वद्विशेषणस्योपादानं-'योगमायामुपाश्रित' इति, मायात्मकोपाध्यव. च्छिन्न इत्यर्थः । एवंरीत्या सर्वत्राविरोध इति वदन्ति ॥ इति गदाधरभट्टाचार्यविरचितो विष्णुप्रीतिवादवीचिः। , अथ भक्तिमार्गवाद(१७)वीचिः। अथेदं विचार्यते--ननु भक्तिमार्गे माहात्म्यमानजननहेतुतयाऽऽनुकू. ल्येनोक्तः कोऽसौ ब्रह्मवादः ? उच्यते-"एकमेवाद्वयं ब्रह्म, पुरुष एवेदं सर्व, ऐतदात्म्यमिदं सर्वे, स वै सर्वमिदं जगदित्यादिश्रुतिभिः प्रप. श्वरूपेणापि पूर्णप्रसन्नस्य स्वस्याद्वयत्वेन तदतिरिक्तस्याभावात् स्वस्य क्रीड़ार्थमाधारत्वेन प्रपञ्चरूपं सम्पादयितुं तद्रूपेणावि तो भगवानेवेति श्रुतितात्पर्यरूपः । ननु भगवत एव विलक्षणाभ्यां रूपाभ्यां द्वैतापत्तिरिति चेत् , न, "नेह नानास्ति किंचने त्यग्रिमभुत्या तद्वैलक्षण्यनिषेधात् । त. दर्थस्तु इह सर्वरूपतयाऽद्वये ब्रह्मणि प्रपञ्चरूपेऽपि सच्चिदानन्दतयैकरूपं वस्तुजातं नाना न किन्त्वब्रह्मदशायामविधया भासत एवातो न वैल. क्षण्यम् । अत एव वाचारम्भणश्रुतिविकाराणां स्वदोषेण प्रतीतानां मि. थ्यात्वं च वस्तुत्वेन सत्त्वं चाह । ननु वस्तुनोऽतथात्वे कथं तथा प्रतीति. रिति चेत् , न, मूर्तामूर्चादिनानात्वप्रतीतावप्येकरूपत्वेन वस्तुन. स्तथात्वाभावात् । अत एव न ब्रह्मविदां तथाप्रतीतिः, स्वरूपमात्रदृष्टिः त्वात् । ये पुनर्बहिर्दृष्टयस्तेषामेव तथाभानान्न वस्तुनि तथात्वम् , तात्प. यन्तिं विचाराभावेन तदृष्टरगतस्वात् , अतएव विचारसिद्ध्यर्थकत्वेन शास्त्रसार्थक्यम्। अत एव च "अखण्डं कृष्णवत्सर्वमित्याचार्यवर्याः । तस्मात् सर्वरूपमद्वयं ब्रह्मेति सिद्धम् । नन्वेवं प्रपञ्चस्य भगवदुरूपत्वे मोक्षसाधनोपदेशेषु तस्य हेयत्वोप. देशः कथं शास्त्रे युज्यत इति चेत् , सत्यम् , स्वक्रीडार्थमेव तत्सृष्टस्तत्र विचित्ररूपे जीवानां स्वीयत्वेनासक्तिभ्रमनिवारणाय, अन्यथा मुक्ताधि. कभक्तानां भजनोपयोगितया तत्परिग्रहो न स्यात् । ब्रह्मविदां वा ब्रह्म- १४२ वादवारिधी प्रतीतावहेयत्वबुद्धिर्न स्यात् । अतो भ्रमादासक्तिस्तनिवारणार्थमेव शास्त्रे तथोक्तिरिति जानीमः। ननु तदुपास्यत्वेन वेदान्तेषु प्रपञ्चरूपमेवोपदिश्येत मूलरूपत्वात् । न च वस्तु तथैवेति वक्तुं शक्यम्, सर्वत्र प्रसिद्धोपदेशादित्यधिकरणवि. रोधादिति चेन्न । वेदान्तेषु शानार्थमुपासनानिरूपणं चित्तशुद्धिहेतुत्वेन, न तु सिद्धे शा. ने तथाचालान प्रत्येव प्रपञ्चरूपे सर्वाधिकत्वज्ञानाभावेनोपासनाऽसिद्धे. स्तद्भिन्नस्य तथात्वमुच्यते, सिद्धे तु ज्ञाने सर्वत्र ब्रह्मस्फूचिर्वरणे वा भक्तिरिति नोपासनावसर इति भेदेन पूर्वमुपास्यनिरूपणमित्यर्थः, प्रत एव "वासुदेवः सर्वमित्यादिवाक्यानि । नन्वेवं शुद्धब्रह्मवादे जीवानामपि तद्रूपत्वेन भजनानुपपत्तिरिति चेत् । न, अंशशब्देन तद्रूपता तेषामंशांशिस्वेन, ब्रह्मवादे ब्रह्मणः सर्वात्मकत्वं परं तत्तद् पेण, "इन्द्रो मायामिः पुरुरूप ईयते" इति श्रुतेः। तथाच सह. जांशानां पुनः पूर्वभावसम्पत्यर्थमविद्यादोषनिवृत्त्यर्थं च भजनोपपत्ति. रिति भावः। ननु तथापि भजनमात्रपर्यवसायिनि पुष्टिमार्गे निवृत्यर्थदोषाभावा- तदनुपपत्तिरिति चेन्न । तथापि पुरुषोत्तमांशानां तेषां लीलार्थ ततो वि. युक्तानां पुनः सम्बन्धेन फलानुभवार्थम्भजनस्यावश्यकत्वात् । नन्वेवं भजनस्य साधनत्वे पुष्टिमार्गानुपपत्तिरिति चेन्न । भजनस्य तत्राभावरूपत्वेन फलरूपत्वात्तस्य साधनत्वेऽपि न क्षतिः । पुष्टि- मार्ग: स एव यत्र फलं स्वयमेव साधनमित्यसकदुक्तमाचार्यैः । अतएव पूर्व प्रादुर्भूय संयोगानुभवङ्कारयित्वा विरहेणान्तरभजनं सम्पादयितुं भगवत एव मथुरागमने रूपत्याग उच्यते । नन्वंशस्वेऽपि जोवानान्तदात्मकत्वेनान्यूनत्वाद्भजनानुपपत्तिस्तदव. स्थैवेति चेन्न । “बड्डस्यां प्रजायेये तिश्रुत्योचनीचभावेनैवेच्छया प्रकटनेन तत्र न्यूनत्वस्यापि सत्त्वात् । नन्वेवभवास्तवं न्यूनत्वमावातीति चेन्न । न्यूनत्वविशिष्टस्यैव तस्या. विर्भावात् । ननु तदिच्छायाः कारणत्वानुपपत्तिरिति चेन्न । इच्छाया ह्याविर्भावे कारणत्वं न स्वरूपस्यान्यथाकृतौ, तस्मान्मुक्तावपि कौस्तुभरूपेण स्थि. तिरिति भूषणरूपत्वेन न्यूनतायामन्यदा तथात्वे किम्वाच्यमिति कैमुति. कन्यायेन तदात्मकत्वेऽपि तदंशत्वे न्यूनत्वं न स्ववास्तवमेवेति भावः। प्रत एव फलदशायामपि सत्त्वेन भजनस्य फलता, अन्यथा साधनत्वमेव स्था. ..

(१७) भक्तिमार्गवादाचिः। त्, तथा च स्वतन्त्रभक्तिमार्गोच्छेद एव स्यात् । अत एवांशानामपरिमि. तानां सृष्टौ वह्निस्फुलिङ्गवनिर्गमेपि न न्यूनता, हस्ताद्धस्तान्तरस्थिता. विव सदूपे प्रपञ्चे स्थितत्वान्न न्यूनताशङ्कापीत्यर्थः ॥ नन्वेवं जीवानां सहजहयंशत्वे देवासुरविभागस्तेषु कथमिति चेत् । अत्र वदामि-भगवान् भेदेन क्रीडाथ प्रपञ्चरूपमात्मानमाविर्भावयति, तत्रायं प्रकारः सच्चिदानन्दं ब्रह्म, तस्य च धर्मरूपमेतत्रितयात्मकमतरं, तस्य च चिदंशा जीवाः क्रीडा) पृथगिच्छया कृताः, अन्यथा वैचिच्या. भावे क्रोव न स्यात् । अत एव जड़जीवान्तर्यामिवेकैकांशतिरोभाव. स्तथेच्छा च । अतः समुदितरूपस्य पृथककरणं क्रीडार्थ, तत्र मूलरूपेण क्रीड़ा बन्धमोक्षाभ्यामेव, ततो न लीलानित्यत्व सिद्धये बन्धमोक्षावपि नित्यौ वाच्याविति देवासुरविभागः । ननु तथापि किं देवत्वमसुरत्वं चेति चेत। उच्यते-सृष्टौ मायाशक्तेः पृथक्करणे तत्परिगृहीतत्वमसुरत्वम्, अपरिगृहीतत्वं च देवत्वमिति वि. वेकः, भगवदंशत्वेऽपि मोहाथ सृष्टौ पृथग्भूतया मायया परिगृहीतत्वाद- सुराणां सम्पुटनिःसारितस्य चौरहस्तपतितस्योपायसहस्रैरप्राप्यस्य द्रव्यस्य सम्पुटप्रवेशाभाव इव पुनर्भगवति प्रवेशाभावः । देवानान्तु कर. कलितरत्नस्य समीकृतस्य पुनः सम्पुटप्रवेश इव भवति भगवति प्रवेशः । अत एव सृष्टिमात्रमसुराणां भगवतो माययैव । तत्कृतमोहेन शानभक्ति- रूपशक्तिद्वयभार्याभावेन सायुज्यासम्भवात, अत एव भगवता "मामप्रा. प्यैवे"त्युक्तम् , तयोरेव तत्प्राप्तिहेतुत्वेन तेषु तदभावात् , तथाच पुरुषां- शजीवस्य स्त्रियों प्रवेशे तद्गृहीतस्य तस्य पुनः पुरुषाप्रवेश इव तेषां न भगवति प्रवेशः । तथापि पुत्र इव तत्रापि व्यवहारो लोके वेदे च भगवदं. शत्वमादायैव । एतेन प्रकृतिसम्बन्धांशत्वमपि व्यावहारिकमिवाभूदिति निरूपितम्। ननु तथापि प्रकृतेस्तच्छक्तित्वेन तदभिन्नाया श्रानन्दरूपत्वेनैव तत्र प्र- विष्टानामानन्द एवेति न कथं तत्प्राप्तिरिति चेन्न । प्राकट्याभावान तेषा. मानन्दगन्धोऽपीति बुध्यस्व, अन्यथा भक्तानामिवानन्दरूपदर्शने देवेतरा. णामप्यानन्दानुभवस्स्यात् , अतस्तद्रूपाप्राकट्यमेव तत्रेति मन्तव्यम् । अत एव "मम मायेति, राक्षसीमासुरीं चैवेति वाक्यद्वयबोधितसम्बन्ध तभावाभ्यामेव भगवता दैवासुरमाययोभद उक्तः । मोहोऽप्युभयत्र का. यभेदेन भिन्न एव एकत्र मोक्षार्थोऽपरत्र च बन्धार्थ इति बोध्यम् । अत एवासदूपत्वबोधनाय क्रूरत्वार्थ राक्षसीत्वमध्युक्तम् , तेषां सहजक्रूर- स्वात् उपाख्याने तेषु लक्षणत्वेन दयाभावप्रतिपादनात्, अत एव १४४ वादवारिधी "विना पशुधनादिति भागवतेऽपि लक्षणं तेषां तदेवोक्तम् । कार्यान्त. रभावाय मोहिनीत्वमप्युक्तम् । ननु प्रकृतः प्रलये, भगवति लये तद्वारा तेषामपि लयात्परम्परया भगवत्सम्बन्धे कथं न तदानन्दानुभव इति चेन्न । प्रलये तत्सम्बन्धेऽपि व्यवधानेन तदानन्दाननुभवात, अन्यथा प्रलयमुक्योर्न भेदः स्यात्, प्रल. यस्यैव मुक्तित्वे मुक्तयर्थकलाधनानुष्ठानवैयापत्तेः, नहि कोऽप्य. बालिशः प्रलयाय यतते, तो मुक्तिभिन्नैव स्वरूपानन्दानुभवरूपा, प्रल. यस्तु कृमीणामियादरवर्तित्वमानं स्वविषयानुभवश्च, न तावतानन्दानुः भवः, तस्य भक्तिसाध्यत्वात् । सा च भक्तिस्नेहरूपति तदानीं भगवद्धृ. दयस्थितिरेव । अत एव लदम्यादीनां तव स्थितिः । अत एव "साध. वो हृदयं ममेत्यादिवाक्यानि । जयदेवोऽपि "राधामाधाय हृदय" इत्युक्तवान् । अतः प्रलये निद्रायामिवानेकजन्मक्लेशापाय एवेति सर्व सुस्थम् । निजाचार्यानुकम्पातः संशयोऽयं निराकृतः। हरिदासेन तुष्यन्तु तेन ते स्वामिनो मम ॥ इति विद्वद्वर श्रीहरिदासविरचितो भक्तिमार्गवाद(१७)वीचिः समाप्तः ॥ मथ (१)नित्यसुखवाद(१८)वीचिः । ईश्वरः सुखवान वेति विप्रतिपत्तिः। अत्र प्रायः-ईश्वरो न सुखवान् सुखसामग्रयभावात् , तथाहि-धर्मारसुखमधर्माद्दुःखमिति दर्शनात् सुखत्वेनैव धर्मत्वेन लाघवात्कार्यकारणभाव इति धर्माभावात् ईश्वरे न सुखम् । न च वाजपेयादिजन्यविजातीयापूर्वस्य विजातीयस्व. गैहेतुत्वकल्पनात् सामान्यतः सुखत्वेन धर्मस्वेन कार्यकारणभावे मानाभाव इति वाच्यम् । “यविशेषयो कार्यकारणभावो वाधकं विना तत्सामान्ययोरपीति व्याप्तिबलात्तसिद्धेः, स्वव्यापारद्वारा वाजपे. यादेरेव विलक्षणसुखादिजनकत्वेनातिप्रसंगभङ्गे वाजपेयजन्यविजातीय. धर्मत्वेन विजातीयस्वर्गत्वेन हेतुत्वे मानाभावाच । न च वाजपेयादीनां विहितत्वेनैव रूपेण स्वर्गजनकत्वं, वाजपेयजन्यविजातीयापूर्वाणां तु लाघवात् समवायेन विजातीयस्वर्गजनकत्वमित्यतिप्रसङ्गभङ्ग इति स्वव्यापारद्वारा वाजपेयादीनां विजातीयस्वर्गहेतुत्वे व्यापारत्वादिन. वेशे गौरवम् । न चैवंसति विजातीयापूर्वाणां तत्त्वेन हेतुत्वे विनिगमना. (१) यद्यप्येष वादो न्यायशास्त्रप्रतिकूल तथापि उपादेयतया प्रीतिसङ्गततया च सनिवेशित इति । एवमग्रेऽपि बोध्यम् ।

(१८) नित्यसुखवादवीचिः। १४५ विरहः धर्मत्वेनापि तत्सम्भवादिति वाच्यम् । वाजपेयेन यजेनेत्यत्र तदुपस्थापितवाजपेयत्वादिनैव हेतुन्वम् , तत्र वेदेनेलाधनत्वबोधस्य विनिगमकत्वात् । दण्डे घटकारणमित्यादिपदात् दण्डत्वेनैव. रूपेण घटकारणत्वबोधस्यानुभवसिद्धत्वात् स्वव्यापारद्वारा इत्यस्य सम्बन्धेपर्यवसानेन सम्बन्धगौरवस्य बहुतरकार्यकारणभावेषु कल्पना- पत्तेरिति वाच्यम् । तत्रापि व्यापारत्वप्रवेशात् विजातीयापूर्वत्वेनैव सम्बन्धत्वात् , नहि समवायापूर्वयोरणुरपि लाघवगौरवविशेषः । न च 'नित्यं विज्ञानमानन्दं ब्रह्म, आनन्दो ब्रह्मेत्यादिश्रुतिभिरीश्वरे आन. न्दस्यबोधात् सिद्धिरिति वाच्यम् । तत्रानन्दपदेनानन्दजनकस्यैव बोध- मात् , विज्ञानानन्दयोर्ब्रह्मण्यमेदबोधस्य श्रुतिस्वरससिद्धस्य चेश्वरे नि स्यसुखस्वीकारेप्युपपादयितुमशक्यत्वाश्च । न च ज्ञानानन्दयोरभेदवा. धादेव नित्यज्ञानानन्दवत्त्वे लक्षणेति वाच्यम् । तथास्मति पूर्वरीत्याऽऽन- न्दजनके दुःखाभाववति वा लक्षणेत्यस्य वक्तं शक्यत्वादित्याहुः । नवीनास्तु-ईश्वरः सुखवान सुखवत्वेन वेदबोधितत्वात् , तथा- हि-नित्यं विज्ञानमानन्दं ब्रह्म, आनन्दो ब्रह्म' इत्यादिश्रुतयोज्ञानानन्द. योरभेदस्य बाधाल्लतणया ईश्वरस्य नित्यज्ञानानन्दवत्त्वं बोधयन्तीति । न च पूर्वोक्तयुक्त्या सुखत्वेन धर्मत्वेन कार्यकारणभावोऽत ईश्वरे सुखस्य बाधात् सुखजनके दुःखाभाववति वा लक्षाव युक्तेति वाच्यम् । ता- दृशकार्यकारणभावे मानाभावात् , यद्विशेषयोरिति व्याप्तरप्रयोजकत्वा. त् । न च लाघवात्समवायसम्बन्धेना पूर्वस्य तद्द्वारा च वाजपेया. दोनां विजातीयसुखहेतुत्वेनातिप्रसङ्गभङ्गे व्यापारस्यापूर्वस्य धर्मत्वेनैव सामान्यतः सुखत्वावच्छिन्न प्रति हेतुत्वं वाच्यमिति वाच्यम् । विजाती- यसुखत्वावच्छिन्नं प्रति विनिगमनाविरहादपि वाजपेयजन्यापूर्वाणां हेतु. त्वात् । न च वाजपेयेन यजेतेत्यत्रोपस्थितरूपेणैव कारणता बाध्यत इति. नियमे प्रमाणाभावः, तद्बोधस्यौत्सर्गिकत्वात् , अन्यथा वाजपेयेन यजे- तेत्यत्राभेदसम्बन्धेन वाजपेयविशिष्टयागत्वेन उपस्थितेनापि रूपे. णेष्टसाधनत्वबोधनं स्यात्, न चैवं सम्भवति, लाघवेन वाजपेयत्वेनैव हेतुत्वादिति, किञ्च विजातीयापूर्वसम्बन्धेनाऽपि वाजपेयादेः स्वर्गादि. पूर्ववृत्तित्वाभावेन विजातीयस्वर्गनियताव्यवहितपूर्ववृत्तिविजातीयापूर्व- जनकत्वं परिभाषिकमेव विजातीयस्वर्गकारणत्वं वाच्यम् , तथाचैताद. शकारणत्वकल्पनामपेक्ष्य तत्र लाघवेन विजातीयापूर्वत्वेनैव विजा- तीयस्वर्गहेतुत्वकल्पनाया उचितत्व मिति, एवञ्च यागादीनां विहितत्वेनैव रूपेण पूर्ववृत्तिभावेन हेतुत्वम् , अतिप्रसङ्गभङ्गस्तु विजातीयापूर्वाणां १९ वाद० वादवारिधी विजातीयस्वर्गहेतुत्वेनैव, न च इष्टप्रयोजकत्वमात्रबोधनात् यागादेः स्वर्गादिहेतुत्वसम्भवः, येन तस्य विजातीयापूर्वसम्बन्धेनातिप्रसङ्गः सम्भाव्येतापि । अथैवमवच्छेदकतासम्बन्धेन सुखत्वावच्छिन्नं प्रति शरीरत्वेन का. रणतायाः कल्पनादीश्वरे नित्यमुखबाधः । न च तादृशकार्यका. रणभावे मानाभाव इति वाच्यम् । स्तम्भाद्यवच्छेदेन सुखाद्यापत्तिवार. णाय तस्य वाच्यत्वात् । न चैवं तुल्ययुक्त्या ज्ञानत्वन शरीरत्वेन लाघ- वारकार्यकारणभावे क्लृप्ते नित्यज्ञानमपीश्वरे न सिद्धयेदिति वाच्यम् । कार्यत्वावच्छिन्नस्य समवायसम्बन्धेनोत्पत्तिं प्रति विषयतासम्बन्धेन प्रत्यक्षत्वेन हेतृत्वात सर्गाद्यकालीनद्वयणुकोत्पत्तिपूर्व जन्यज्ञानस्यास. म्भवात , नित्यज्ञानसिद्धौ जन्यज्ञानस्वस्यैवान्यथानुपपत्या शरीरकार्य: तावच्छेदकत्वात् । न च नित्यं विज्ञानमानन्दं ब्रह्मेत्यादिश्रतिरेवेश्वरे नित्यसुखं बोधयतीति वाच्यम् । तत्र लाघववशात् क्लुप्तोतकार्यकारण- भावबलेन नित्यमुखबाधे सुखजनकस्य दुःखाभाववतो वा लक्षणया बेोध. नसम्भवादित्यादेरनृक्तस्वादिति चेत् । शरीरत्वेन सुखत्वेनोक्तकार्यकारणभावें मानाभावात् । अवच्छेदक- तासम्बन्धेन तदात्मीयविजातीयसुखत्वावच्छिन्नं प्रति विजातीयचन्दन संयोगे हेतुत्वस्यावश्यकताया एवोक्तन्वात, तादृशविशेषसामग्रयभावे. नव स्तम्भाधवच्छेदेन सुखाधनापत्तेः । नचात्र संयोगे वैजात्यं कल्पयि. स्वा तादृशकार्यकारणभावकल्पने मानाभावः, तथाचावच्छेदकतासम्बन्धे. न तदात्मीयविजातीयसुखत्वावच्छिन्नं प्रति संयोगत्वेन रूपेण चन्दनसंयो. गस्य हेतुत्वात् , तस्य च स्तम्भादौ सम्भवादवच्छेदकतासम्बन्धेन तदा- रमायसुखाद्यापत्तिवारणाय शरीरत्वेन सुखत्वेन कार्यकारणभाव आवश्यक इति वाच्यम् । यथाकथञ्चित् चन्दनसंयोगाच्चन्दनस्यणुकसंयोगाद्वा वि. जातीयसुखानुत्पत्तेः विजातोयचन्दनसंयोगत्वेन हेतुत्वस्यावश्यकत्वात् , स्वीयशरीरचन्दनस्योगाच्छरीरावच्छेदेन तदात्मीयसुखानुत्पत्त्या नवापि मते तादृशमुखं प्रति विजातीयचन्दनसंयोगत्वेन हेतुताया आवश्यकत्वा. च्च। न चाभिमानिकसुखस्थले अहं विद्यावानित्यभिमानस्य विजातीयसु. खहेतुत्वम्, कार्यकारणयोः पक्षे सम्बन्धः समवायः, एवं तत्र सम्बन्धत्वेना. वच्छेदकतायाः तदात्मीयत्वम्य च प्रवेशे गौरवात् , तथा च तादृशमुख. स्य शरीरावच्छेदेनेव स्तम्भाद्यवच्छेदेनापत्तिवारणायोक्तरीत्या शरीर. त्वेन मुखत्वेन कार्यकारणभाव प्रावश्यक इति वाच्यम् । तदात्मीयतादू. शमुखस्य परात्मीयशरीरावच्छेदेनापत्तिवारणाय एतादृशमुखस्यावच्छे.

(१८) नित्यमुखवादवाचिः। १४७ दकतासम्बन्धेनोत्पत्ति प्रति तदात्मीयतादशाभिमानविशेषस्यावच्छेदक. तासम्बन्धेन हेतुत्वस्यावश्यकत्वात् , विशेषसामग्रयभावादेव स्तम्भाध- वच्छेदे। तादृशमुखाद्युत्पत्तरसम्भवात् । एतेन समवायसम्बन्धेन सुख- त्वावच्छिन्नं प्रति तादात्म्यसम्बन्धेनात्मत्वेन हेतुत्वान्नित्यमुखस्यासम्भ. वः, नित्यज्ञानप्रतिवन्दिनिरासः पूर्वमेव कृत इत्यपास्तम् । धर्मादेः सुखादिहेतुत्वेनैवात्मभिन्ने सुखाद्यत्पत्त्यसम्भवे पृथक्कार्यकारणभावे मानाभावात् , समवायिकारणत्वं तु सामान्यतः कार्यत्वेन द्रव्यत्वेन का. र्यकारणभावेनापि निर्वते । केचित्तु-प्रात्मविशेषगुणत्वावच्छिन्नं प्रति अात्मत्वेन लाघवादुधेतु- त्वम् । आत्मविशेषगुणत्वञ्च ज्ञानेच्छाकृतिधर्माधर्मसुखदुःखसाधारणो जातिविशेषः, स चारमनिष्ठसमवायिकारणतानिरूपितकायंतावच्छेदकतया सिद्धः, तत्र नित्यज्ञानानुरोधाजन्यत्वनिवेशश्चावश्यक इति नित्यसु. खबाधः । तद्वयक्तित्वेन हेतुत्वमते तु सुतरामात्मत्वेन सुखत्वेन कार्य- कारणभावे मानाभाव-इत्याहुः। ननु तथापीश्वरे सुखसत्त्वे किं मानम् । नच 'नित्यं विज्ञानमानन्द ब्रह्मे त्यादिश्रुतिरिति वाच्यम् । समानविभक्तिकपदानामभेदान्वयबोध- जनकत्वबलेन ब्रह्मणि नित्यविज्ञानानन्दानामभेदस्यैव तादृशश्रुतिभि. बोधनादिति चेन्न । न्यायनये ज्ञानत्वमुखत्वजात्योः सांकर्यभयात् बानसुखात्मकव्यक्ते. रस्वीकारात् । ईश्वरे ब्रह्मणि ज्ञानसुखाभेदस्य तन्मते बाधाद्विज्ञानपदे विज्ञानवति आनन्दपदेच प्रानन्दवति लक्षणास्वीकारात् , न चानन्दं ब्र. झेत्यत्रानन्दपदस्य नपुंसकलिङ्गत्वानुपपत्तिः, आनन्दपदस्य पुल्लिङ्गत्या दिति वाच्यम् । श्रुतौ लिङ्गव्यत्ययस्वोकारात् । यद्वानन्दपदोत्तरं युक्तार्थ. कप्रत्ययस्वीकारात्तदसिद्धः। न च तथाप्यानन्दपदस्य प्रानन्दजनके ल. णाया प्रभावेऽपि युक्तार्थकप्रत्ययस्वीकारे जनक-वरूप एव योगो मन्य. तामिति वाच्यम् । जनकत्वस्य गुरुतया समवायसम्वन्धेनानन्दवत्वस्यैव लाघवेन श्रुत्या बोधनात् । स पुनरीश्वरनिष्ठ आनन्दो लाघवान्नित्य एव कल्प्यते, प्रागभावध्वंसकल्पने तादृशानन्तकारणकल्पने च गौरवाल्लाघवेन सुखत्वादेर्धर्मादिजन्यतावच्छेदकत्वनियमेन च तादशानन्तप्रागभावध्वं. सादिकल्पनागौरवस्य फलमुखत्वाभावात् । एवञ्चेश्वरः संयोगवान द्रव्यत्वादित्यनुमित्या ईश्वरे संयोगसिद्धौ तत्संयोगप्रागभावध्वंसतत्संयो. गकारणत्वकल्पने गौरवात् संयोगा नित्य एव सिध्यत्विति प्रतिबन्धापत्ति- परिहारोऽपि न सावकाशः क्रियाजन्यसयोगस्थले सामान्यतः क्रियात्वेन १४८ वादवारिधी संयोगत्वेन घटारमसंयोगत्वेन वा कार्यकारणभावकल्पनाचेनैवेश्वरसंयो. गोपपत्तौ नित्यस्य संयोगान्तरस्येश्वरे कल्पने गौरवात् । परे तु नित्यं विज्ञानमानन्दं ब्रह्मेत्यादिश्रुतयोविज्ञानानन्दविशिष्टस्य ब्रह्मणो नित्यत्वं बोधयन्तो विशेषणस्य विज्ञानसुखादेरपि नित्यत्वं बोध. यन्ति, विशेषणस्य विशेष्यान्वयिनाऽन्वयस्य श्रुतौ व्युत्पन्नत्वात् । अतएवा रुणयैकहायन्या गवा सोमक्रीणातीत्यत्र श्रुतावारुण्यस्यापि गोविशेषण तया ऋयसाधनत्वबोधः । अधिकं शब्दमण्यालोकविस्तार विवेचयि. प्याम इत्याहुः। एवञ्च 'मानन्दं ब्रह्मणो रूपमित्यत्र प्रानन्दपदे लिङ्गव्यत्यय एव स्वरूपबाथको हेतुः । श्रानन्दपदे लक्षणया आनन्दवतो बोधने लिंगव्य त्ययेन शक्तया बोधने तु युक्तार्थकप्रत्ययस्वीकारेणोपपत्तिरित्याहुः । इति ईश्वरे नित्यमुखव्यवस्थापनवाद(१८)वीचिः॥ अथ रघुनाथशिरामाणिकृतः कृतिसाध्यतानुमान- बाद (१९) वीचिः। पाको मतकृतीति। अथ अत्र स्वेच्छाधीनमत्कृतिसाध्यत्वं साध्यं हेतु. श्व स्वचिकीर्षाप्रयोजकेच्छाविषयसाधनत्वं, तेन श्रमनाशरूपेष्टसाधनश्रमे प्राणपंचकसंचारे च न व्यभिचार इत्युच्यते, तदा तत्रापि जीवने गायाः स्वचिकीर्षास्वरूपयोग्यत्वादुक्तव्यभिचारतादवस्थ्यम् फलापधानस्य च प्रागज्ञानात् । यदि चेच्छाधीनमत्कृतिसाध्यत्वं साध्यम् इदानी मतकृति विनाऽसत्त्वे सति ओदनसाधनत्वं हेतुः तेन न प्राणपंचकसंचार व्यभिवा- र स्वरूपसदिच्छाविषयौदनादिसाधनत्वधिय एव प्रवृत्तावुपयोगित्वात स्वरूपसदिच्छाविषयत्वबोधनाय इष्टत्वेनौदनादिनिर्दश इत्युच्यते, तदा तत्रापि श्रमव्यावृत्तसाध्यलाभे श्रमनाशरूपेष्टसाधने प्रवृत्त्यापत्ते, साध्ये स्वे छाधीनत्वस्यावश्यकत्वे हेतावपि नान्तरीयके व्यभिचारितया तत्प्रवेशे व्यर्थविशभ्यता चेति, तस्मात् सत्यन्तमेव हेतुः इदानींकृतिसा. ध्यत्वमेव साध्यम् । केचित् इष्टसाधनत्वलिङ्गककार्यताज्ञानायोतसाध्यं बलवदनिष्टा- बनुबन्धीष्टसाधनत्वेन फलान्यत्वे सति बलबदनिष्टाननुबन्धित्वेन वा विशेषयन्ति । ननु यद् वस्तुगत्या बलवदनिष्टाननुबन्धोष्टलाधनं तत्र व्य. तिरेकभ्रमादसत्त्वेऽपि वा लभ्रमे प्रतिबन्धकाधन प्रवृत्तिस्तत्र व्यभिचा. रा। मैवम् , तस्यालीकतया तत्र हेत्वसत्त्वात् । अत एव न तदमिष्ट (१९) रघुनाथशिरोमणिकृतो पाकानुमानवादवाचिः । १४९ साधनत्वविशेषणं तत्र प्रवृत्त्यभावे फलोपधानमेव नास्तीति, प्रतिबंधका- भावे सतीति वा विशेषणं देयं हेतोः, साध्यं च कृतिफलोपधानम् । केचित्तु इदानी स्वेच्छाधीनमत्कृतिसाध्यत्वं साध्यं, हेतुश्चेदानीमि च्छाधोनकृति विनाऽसत्त्वे सति इष्टसाधनस्वम् , कालिकवीप्सादराच्च न. चान्तमध्यस्थितदैववशसिद्धमीनादौ व्यभिचारः । स्वविशेषणवत्ताज्ञान. समानकालीनस्य कार्यताज्ञानस्यैव प्रवर्तकत्वात् , एतद्धेतुजन्यत्वनियम स्य च तत्र मानाभावेन यदीयान्यथासिद्धया कृत्या नेष्टान्तरं तस्यैवात्र मत्. पदेन विवक्षितत्वात क्वलित्तस्याप्युक्तानुमानस्येष्टत्वात् । तृप्तभोजने व्यभिचारवारणाय इष्टसाधनत्वम् , तादृशमवच्छेदकं वा सिद्धमधुभोजन- जन्यमुखत्वादि उक्तमधुविषस्पृक्तभोजनजन्यसुखेऽपीति तादृशभोजने व्यभिचारवारणाय बलवदित्यादि । साधनत्वं च फलोपधानं वाच्यम् , अन्यथा संजातबाधभोजने प्रवृत्त्या इष्टफलायउपस्थिते व्यभिचाराभावा- देवतद्वैयर्थ्यापातात् । यद्वा स्वेच्छाधीनमत्कृति विनाऽसत्वं प्रथमदलार्थः, तेन न नान्त. रोयके व्यभिचारः। भावियौवराज्येप्येतद्वारणाय इदानीमिष्टसाधनत्वं, इष्टसाधनत्वं च फलोपधानगर्मितं विवक्षितम्, इदानी कस्यापि फलस्या. नुपधानादिति प्राहुः। अत्र च प्रथममते संजाततृप्तस्याप्रवृत्त्या तदनुत्पादात्कुत्र व्यभि. चारवारणाय विशेषणमिति विभावनीयम् । अत एवेदानी मतकृतिसा. ध्यत्वं साध्य, साध्यत्वं च तच्छक्यत्वं, तचु गुरुनये पदार्थान्तरघटित. धर्मान्तरम् , अन्यमते च कृतिविशिष्टकारणतानिरूपकत्वं स्वरूपसंबंध. विशेषः तच्च सिद्धभाविराज्यव्यावृत्तबाधावतारेपि, तथा च तत्र व्यभि- चारवारणाय बलवदित्यादि । अत्र बम इति । प्राभाकरमाशयमिति शेषः । ननु प्रसिद्ध पाके कथमे- तत्कालवृत्तित्वघटितवानं संभवति बाधात् । अत्र कश्चित् विशेषरूपेण बाधेऽपि सामान्येन रूपेण तदभावादिदानींतनत्वघटितोक्तहेत्वसंसर्गान- हादिदानीकार्यताधी विपाके । यद्वा विद्यमानपाक एव उक्तहेतुसामा. नाधिकरण्यविशिष्टपाकत्ववानयमिति ज्ञानं पक्षधर्मताज्ञानात्मकमनुमा- नं जनयति, तत्र सामानाधिकरण्यं भाविपाकघटितमपि संलगौमर्यादया भासत इति । तत्र पाकत्वेन प्रकारेण सिद्धपाके पाकः सिद्ध इति प्रहे विरोधिनि सति कृतेरसंसर्गाग्रहासम्भवात् । असंसर्गाग्रहादनुमिति. रित्यप्यपसिद्धांतात् व्याप्यतावच्छेदकप्रकारेण हेतोः पक्षतावच्छेदक- सामानाधिकरण्यग्रहं विनानुमित्यनुत्पादाच ॥ इदानींकृतिव्यतिरेका १५० वादवारिधी सत्वघटित हेत्वप्रसिद्धः तत्सामानाधिकरण्यविशिष्टपाकत्वस्य ज्ञानासं. भवात् तत्पोकस्यानुपस्थितत्वात्तद्घटितसंसगशानासंभवात् । अत्र पर्वते धूमो नास्तीति ज्ञानेऽपि पर्वतत्वंवह्निव्याप्यसमानाधिकरणमति ज्ञानादनुमित्यापत्तेश्च । अन्यस्तु पाकसाध्यमिष्टमितीच्छाया भाविपाकमादायोत्पत्या ततः पा. कसाध्यमिच्छामीतिज्ञानाद्वस्तुतो भाविनः पाकस्य पाकत्वेन प्रसिद्धिः एवं च यथोक्तहेतुज्ञानं भाविपाक एव प्रसिद्ध, पाकमित्यस्य विशेषरूपेण ज्ञातमित्यर्थः पाकत्वेन प्रसिद्धस्य पाकत्वादिविशेषरूपेण ज्ञातस्येत्यर्थ इ. त्याह । तदपिमन्दम् । भाविपाकस्य इच्छाविषयत्वानुपपत्तेः । इच्छाविष यस्वेऽपि इच्छामीति प्रत्यक्षे तदभावात् । अलौकिकप्रत्यक्षानंगीकारात शा- नान्तरस्य तद्विषयकस्य सामग्रयभावात् । अपरस्तु कालगर्भव्याप्तिग्रहः कस्यचिन्मत एवोक्तः । वस्तुतस्तद्घटितव्याप्तिग्रह एव, तथाच हेतुज्ञा. नात्सिद्धपाकं सिद्धत्वेन ज्ञातं विहायासिद्धं पाकमादाय कृतिसाध्यत्वं सि. यति नहि सिद्धत्वं यदा यत्र तदात्र तन्मतेऽसिद्धत्वं साध्यत्वं वा, एवं च कृतिसाध्यत्वं कृतौ सत्यामग्रिमक्षणे सत्वं सिद्धयदग्रिमक्षणं इदानीरूपं पक्षधर्मताबलाल्लाघवाश्चादाय सिद्धयति । न च कथमिदानीन्तनत्वं प्रका- रः मन्मते एकविशेषबाधेऽपरविशेषप्रकारकत्वनियमात् । यद्वा सर्वत्र कालो विनाबाधकं भासते यन्मते तन्मते न दोष इत्याह । तत्र कालगर्भ व्याप्तेः कृतत्वात् तद्ग्रहं विना इदानींतनत्वप्रकारकज्ञानानुपपत्तेः। यथाहि सिद्धपाके सिद्धतया ग्रहेपि मत्कृति विना असत्त्वघटितं लिङ्ग ज्ञायते कालान्तरपुरस्कारात् तथाऽतीतकालमादाय कृतिसाध्यत्वसिद्धया. ऽर्थान्तरं स्यात् तावतापि चरितार्थत्वात् । उपस्थितायाः कालान्तरीण. कृतिसाध्यतायाः कल्पने लाघवात् । पाकान्तरस्येदानींकृतिसाध्यताया- श्वानुपस्थितायाः कल्पन एव गौरवात् । नहि यत्र यदा सिद्धत्वं गृह्यते तत्र तदा साध्यस्वमसिद्धत्वं वा गुज्नये न गृह्यते किन्तु सिद्धतावस्था- विशिष्ट नासिद्धत्वं साध्यत्वं वा गृह्यते, कालभेदमादाय हे स्वरूपमात्र- प्रहे चाविरोधात् ॥ अथ कालघटितव्याप्तावपि इदानींकालस्य पक्षतावच्छेदकतया तद. वच्छेदेन कृतिसाम्यत्वं सिध्यद्वर्त्तमाने वाधाद्भाविपाकमादाय सिद्धयती. ति चेत् । एवमपि कृतेः इदानीन्तनत्वालाभात् तदुपरक्तज्ञानं हि प्रवर्त- कमिति व्यवस्थापितम् । नच व्यापकवद् व्यापकतावच्छेदकघटकस्यापि पक्षतावच्छेदककालोपरागेण सिद्धिःपर्वतोयमिदानीमारणेयवह्निमानित्य- मनुमित्यनन्तरमपि किमिदानीमरणिरस्ति नवेति संशयात् । इदानी- (१९) रघुनाथशिरोमणिकतो पाकानुमानवादवीचिः। १५१ साध्यताधीश्च हेतुः । कृत्यनन्तरसत्वस्वरूपमिदानीमिति ज्ञानं हि विरो. ध्येव विषयतया संभवति इदानीन्तनकृत्यैव कालान्तरे सेत् स्यतीति ज्ञा नात् प्रवृत्तिस्थले व्यभिचारश्च । किन्विदानींकृत्या एतदप्रिमसमये सा. ध्यमिति झानं प्रवर्तकं, तस्मात् प्रवृत्युपयोगिनः कृरिदानीन्तनत्वस्य लाभाय कालगर्भाच्याप्तिरुक्ता कथमुत्तानकदेशितेन नेया । मैवम् । वस्तुगत्या क्रियमाणपाक एव इदानीन्तनकृति विनाऽसत्रय. मासीदिष्टसाधनं चेति ज्ञानलम्भवात् । लाध्यएतदनिमकालीनत्वं तु पक्षतावच्छेदकैतदग्रिमकालसंसर्गमर्यादया लभ्यते । क्रियामाणोहि पाका एतदग्रिमकालस्थायी, अन्यथा क्षणिकत्वापत्तेः। तथाच पक्षतावच्छे- दकैतदप्रिंयकालावच्छेदेन लाभ्यं सिध्यवर्तमाने बाधाभाविपाकमादाय पर्यवस्यतीति । न चाग्रिमकालो न ज्ञाता, उत्पत्स्यमानः पाकः एतत् क्षणविरोधिकालावस्थायी क्रियात्वादित्यनेनाग्रिमकालानुभानात् । नच भाविपाकस्याज्ञानादाश्रयासिद्धिः, हेतोस्तदुरसित्वाज्ञानाच्च स्वरूपा- सिद्धिरिति वाच्यम् । पक्षतावच्छेदकप्रकारकज्ञानस्य हेतुत्वात् । तच्च शानं तत्र तजातीयेवेत्यन्यदेतत् । एतत्पर्वते धूमाभावं जानतोऽपि वलय. नुमितिप्रसंगस्य तवापि तुल्यत्वात् । इज्यत एव एतत्पर्वतत्वरूपेण एत त्पर्वतेप्यनुमितिः । अस्तु वा तादृशज्ञानमेवानुमितिविरोधीति तुल्यं म. मापि। यत्तु नानाव्यतिज्ञानं सामान्यतः संभवतीति। तत्तुच्छं, सा. मनयन्तराभावात् । न च सिद्धपाके बाधबोधेप्यनुमितेरुत्पत्तावंशतो बाधेोच्छेदः, यदंशे बाधस्तदंशेऽनुमितिविघटकनयैव तस्य दोषत्वात् । नन्वेवं भागासिद्धिर्न दोषस्तद्भागेहेतुशानाभावेपि अनुमितिसाम. प्रीसत्वात् । न उ वस्तुगत्या तद्भागे हेतुज्ञानं हेतुः । अतीतादावनुमि. त्यभावापत्तेः । नच वस्तुगत्या सकलपक्षवृत्तोरेव पक्षतावच्छेदकाधि- करणयकिंचिवृत्तितया ज्ञानं कारणम् । एवं भागासिद्धिस्थले यद्भागे हेतोर्शानं तद्भागेप्यनुमितिनं स्यात् । नचेष्टापत्तिः अनुभवविरोधात्। न. च पक्षतावच्छेदकनानात्व एव भागासिद्धिदोष इति वाच्यम् । पर्वतत्वेनैव रूपेणैततपर्वते वह्निव्याप्येततपर्वतत्वज्ञानात् पर्वतान्तरे तत्पर्वतत्वाभावं जानतोऽनुमितिप्रसङ्गः। उच्यते । भागासिद्ध भागे हेत्वभावः, तज्ज्ञानात्मकं च प्रतिबन्धक साक्षादेव, यत्र पक्षतावच्छेदकैक्यं तत्र भागे हेतुज्ञानाभावे न दोषः हेतु. सत्वादिति, तस्मादेतदपि दूषणं द्रष्टव्यमिति प्रलपितमप्यपास्तम् । नन्वसिद्ध साध्यं सिद्धं च साधनमिति सिद्धत्वसाध्यत्वयायधिकर. एयात् कथं व्याप्तिग्रहः।

१५२ बादवारिधी मैवं स्वरूपे अवच्छेदकभेदे वाऽविरोधात् । न च कथंकालघटित. व्याप्तिग्रहः एककालावच्छेदेन विरोधादिति वाच्यम् । साधनतायामि. दानीन्तनत्वासंबंधात् । केचित्तु कृत्यनन्तरभविष्यत्वमेव वर्तमानसाधारणं साध्य, प्रसिद्धपाक एव पक्षः व्याप्तिस्तु कालाघटिता यत्त्वतत्त्वयोरननुगमात्, किंतु साध्य- स्व साधनत्वयाहतुसाध्ययोरसिद्धत्वसिद्धत्वघटितत्वेनावच्छेदकभेदग्रह विना एकत्र ग्रहासम्भवेनावच्छेदकभेदस्फोरणार्थ मूलेऽपि भेदोक्ति न तु हेतुनिविष्टत्वेन, एवं च सिद्ध एव पाके व्याप्तिग्रहः, पक्षधर्मताग्रहोऽपि, भविष्यत्पाकलाभस्तु अतीतानागतविषयकप्रत्ययस्य वर्तमानकालविष. यत्वनियमात् इदानीभविष्यत्वस्य सिद्धान्त सिद्ध्वाधात् । यद्वा इदानीमित्यस्य पक्षविशेषणत्वात् पक्षतावच्छेदकावच्छेदेन सि. दुधेरित्येवचिन्तामण्यर्थः । नच तथापि भविष्यदिदानीकालीना याकृति. स्तत्साध्यत्वज्ञानाभावात् कथं प्रवृत्तिरिति वाच्यम् । भविष्यतपाकपक्ष- ककालवृत्तितानुमितौ प्रसिद्धबाधादनागतकालसिद्धौ कृतिलाध्यतानुमाने पक्षविशेषणेदानीमितिमहिम्नान्यकालीनकृतिसाध्यत्ववाधाद्भविष्यदिदा- नीमितिकृतिविशेषण(१)विशेषवह्निमानित्यपि परास्तम् । वतारात् । अवतारे इष्टापत्तेः । वस्तुतो गुरुनयेऽनागतसिधेरनुमानात् प्रागपि सम्भवः । तथाहि पाकत्वमतीतवर्तमानातिरिक्तवृति सकलपाक- वृत्तित्वात् मेयत्ववदित्यत्र पक्षधर्मताबलादनागतसिद्धिः । नच पाकेतर- वृत्तित्वमुपाधिरिति वाच्यम् । वृतिमत्त्वस्य व्यापकत्वे सम्भवति अन्य. स्थ वैयर्थ्यात् । नच तथासति साधनव्यापकत्वं स्यादिति वाच्यम्। सेय. मुभयतपाशा रज्जुरिति उपाधित्वस्यैवासिद्धेरिति । यद्वा पाकः पाकपूर्ववर्ती पाकत्वादित्यनुमानमेव तत्र मानम् ॥ इति रघुनाथशिरोमणिविरचितः कृतिसाध्यत्वानुमानवाद. (१९) वीचिः समाप्तः। तत्र बाधान. अथ अधमर्णत्ववाद (२०)वाचिः। अधमर्णस्वन्तु शोध्यत्वेनाङ्गीकृतदत्तद्रव्यग्राहकत्वे सति दत्तद्रव्य. सजातीयद्रब्यकर्मकस्वानुमतभाविदानप्रागभाववत्त्वम् तदेव स्वदृष्टजन- कं तन्नाशश्च तादृशादृष्टनाशकः । साजात्यञ्च न भेदगर्भम् , अतः गृहीत. दशितद्रव्यदातुरपि नाधमणत्वहानिः। (१) अन्न पाठयुटितः प्रतिभाति ।

(१९) अधमर्णवादवाचिः। १५३ केचित्तु दत्तद्रव्यग्राहकत्वे सति तस्सजातीयद्ब्यकर्मको यः पश्चा. देयत्वेन स्वाङ्गीकारस्तजन्यसंस्कारवत्त्वं तत् । तादृशसंस्कारनाशक- व कालरोगादिवत् तत्सजातीयद्रव्यदानादीत्याहुः । तन, स्मरणानाश्यभावनाख्ये तादृशसंस्कारे दानादेस्तनाशकत्वे च मानाभावात् । एतेन-विजातीयादृष्टवत्वमेवाधमत्वम् , तादृशवैजात्यञ्च ऋणग्रह- एजन्यतावच्छेदकतया सिद्धम् । ऋणस्वञ्च पश्चाच्छोध्यत्वेनाङ्गीकृतगृ. होतदत्तद्रव्यत्वम् , अतो मृतव्यक्तिष्वपि अधमर्णत्वव्यवहारः। तादृशा दृष्टनाशकञ्च ऋणसजातीयद्न्यदानम्, युज्यते च मृताधमणपितुस्तादृशा- दृष्टनाशाय पित्रर्णपरिशोधनं पुत्रस्य-इति बालप्रलपितमप्यपास्तम् । जीवन्मुक्तस्य प्राक्तनवशात् ऋणग्रहणे जातेऽधमर्णत्वव्यवहारो न स्यात् तत्र तादृशादृष्टासम्भवात् वासनाविरहात् । एवमृणिमुक्तपितृ- कपुत्रस्य पित्रर्णपरिशोधने प्रवृत्तिर्न स्यात, नहि निष्प्रयोजनके धन- व्ययसाध्ये कर्मणि कश्चित्प्रवर्तते इति । मुक्तपितृकपुत्रस्य वृषोत्सर्गादि- वत् वाचनिकत्वेन कथंचित्तदुपपादनेऽपि अस्य पिताऽधमर्ण इति व्यव- हारस्य सर्वजनीनस्यापलापापत्तेः । एवमपरिशोधनस्यैव उपपातक- मध्यगणनात् ऋणादाने दुरदृष्टजनकत्वस्यापसिद्धान्तत्वात् ऋणादा- नात् पूर्व तदुत्पाद्वारणस्य ऋणादानध्वंसस्य सहकारिताकल्पनेन समर्थ. नीयत्वात् ॥ श्रीपतिदचधनग्रहीतुः पश्चात् तत्सजातीयधनदातुरपि तथा- त्ववारणाय शोध्यत्वेनाङ्गीकृतान्तं दत्तविशेषणम् । ग्रहणं विनापि ताद- शप्रांगभाववतः तथात्ववारणाय सत्यन्तम् । अपहारकस्य तथा त्ववारणाय दचेति । 'तुभ्यं विद्याविशेष पश्चात् दास्यामि' इत्यङ्गीकृत्य येन विद्याविशेषो गृहीतः तस्य तथास्ववारणाय उभयत्र द्रव्यपदम् । ताद- शप्रागभावविधुरस्य दत्तधनादिग्राहकस्य तथात्ववारणाय विशेष्यदलम् । विजातीयद्रव्यान्तरकर्मकदानानुकूलप्रागभाववतो दत्तधनादिग्राहकस्य तथात्ववारणाय दत्तद्रव्यसजातीयेति । दत्तद्रव्यापहारकस्य पश्चात्त- सजातीयद्रव्यदातुश्चोत्तरस्य तथास्ववारणाय दाने स्वानुत्तमत्वम् । भावीति स्वरूपकीर्तनम् । परिशोधनात् परमपि तदत्यन्ताभावसत्वात प्रागभावनिवेशः। यत्र परिशोधनमप्रसिद्धं तत्रापि तत्प्रागभावस्वीका- रानानुपपत्तिः। वस्तुतस्तु तदुद्देश्यकत्वाभावविशिष्टस्य ऋणदानध्वंसस्थ दुरदृष्टज- नकत्वम् , वैशिष्टयञ्च स्वाश्रयपरिशोधनववृत्तित्वसम्बन्धेन । अथवा स्वदत्तशोध्यत्वेनाङ्गीकृतधनग्राहकत्वस्वाहेश्यकपरिशोधनवचित्वस. २० पादक १५४ वादवारिधी म्बन्धावच्छिन्नप्रतियोगिताकाभाववत्त्वोमयसम्बन्धेन किञ्चिद्वयक्तिविशि. टऋणदानध्वंसस्य तथात्वमिति तु सारम् । तदुद्देश्यकपरिशोधनस्याप्र. सिद्धिस्थलेऽन्योहेश्यकशोधनमादाय सम्बन्धप्रसिद्धिरिति । इत्यधमर्णवाद (१६) वीचिः समाप्तः। अथ स्नानवाद(२०)वीचिः। "यथाऽहनि तथा प्रातर्नित्यं स्नायादनातुरः । स्नातोऽधिकारी भवति देवे पैत्रेच कर्मणि ।" इत्यादिवचनप्रतिपादितं किं तावत् स्नानम् ? इति चेत् । तत्रैकदा स्वीयबहिःसर्वाङ्गन जलसंयोगः स्नानम् । तदर्थश्च एकक्षणावच्छिन्नस्वीय. सकलबहिरङ्गानुयोगिकजलप्रतियोगिकसंयोगः स्नानमिति यावत् । त त्रैकाङ्गजलसंयोगनाशोनन्तरमपरागजलसंयोगः पुनस्तन्नाशानन्तरमपरा- जलसंयोग इति रीत्या यत्र सकलाङ्गजलसंयोगस्तत्रायं स्नातीति व्यवहा. रवारणाय एकक्षणावच्छिन्नेति संयोगविशेषणम् । यद्यपि तादृशसंयोग- व्यक्तीनां नानात्वात्प्रत्येकं तेषां स्नाधात्वर्थत्वे गौरवात् तादृशसंयोगकूट. स्यैव तथात्वे लाघवमिति तत्र तादृशकूटविरहादेव स्नातीति व्यवहारा- सम्भवात् कथमेकक्षणावच्छिन्नत्वं संयोगविशेषणम् , तथापि क्रमोत्पन्न विद्यमानजलसंयोगव्यक्तीनां तथात्ववारणाय एकक्षणावच्छिन्नोत्पत्तिक- त्वार्थकमेकक्षणावच्छिन्नेति संयोगविशेषणमावश्यकम् । न च तत्रेष्टापत्तिः, अन्यथा पादादिमध्यदेशपर्यन्तजलसंयोगानन्तरशीर्षाद्यपराङ्गजलसंयोगे. ऽपि स्नातीति व्यवहारो न स्यात् ताशसंयोगव्यक्तीनामेकक्षणानुत्पत्ति- कत्वादिति वाच्यम् । तादृशसंयोगानां तत्रधारावाहिकत्वेऽपि एकक्षणात्प. बतादृशसंयोगकूटमादायैव तत्र तादृशप्रयोगसम्भवात् , यत्र विनश्यद- वस्थकारणेन संयोगो जनितः तत्र तादृशव्यवहारस्येष्टत्वात् । न च क्षण विलम्बस्य शपथनिर्णयत्वात् परक्षण इव पूर्वक्षणेऽपि तादृशव्यवहार इष्ट एव, एवं स्नानाव्यवहितप्राक्क्षणवृत्तिकृतिमादाय स्नातोति व्यव. हारः सर्वसम्मतः, अन्यथा स्थाल्यारोपणकालेऽपि पचतीतिव्यवहारो न स्थादिति वाच्यम् । तथाप्येतत्क्षणे स्नातीति प्रयोगवारणाय तत्र तद्विशेषणस्यावश्यकत्वात् । नचैवं तुल्ययुक्त्या पाकारम्भकाले प. चतीति व्यवहारो न स्यात् इत्याशङ्कनीयम् । विक्लि- त्यवच्छिन्नम्यापाररूपपाकस्य तदनुकूलकृतेर्वा तदानीमबाधात् । अत्र तत्र (२०) स्नानवादवाचिः । १५५ ताशसंयोगकूटस्य एतत्क्षणावृत्तित्वाभावात् न तादृशव्यवहार इति वैलक्षण्या अगत्या तथैव व्युत्पत्तः स्वीकारात् इति । पुरुषान्तरीयाङ्गमा. दाय तादृशव्यवहारवारणाय स्वीयत्वमङ्गविशेषणम् । तथाविधकतिप. याङ्गजलसंयोगकूटस्य तथात्ववारणाय साकल्यमङ्गविशेषणम् । ननु सकलपदस्य व्यापकतार्थकतया स्वीयबहिरङ्गत्वव्यापकजलसं. योगस्यैव स्नानत्वोक्तौ दोषाभावात् कूटनिवेशनमनर्थकम् , प्रत्युत ताद. शाङ्गत्वस्य :जलसंयोगकूटत्वावच्छिन्नव्यभिचारितया स्लानमात्रेऽसम्भ- वापत्तिश्च । न च सकलपदस्य व्यापकत्वार्थकत्वेऽपि कूटत्वानिवेशे ताब्द- शकतिपयसंयोगानां संयोगत्वेन गुणत्वादिना वा व्यापकत्वसंभवात् तत्र स्नातीति व्यवहारापचिरिति वाच्यम् । जलप्रतियोगिकसंयोगत्वावच्छि. बव्यापकताया एव निवश्यत्वात् इति चेन्न । तादशव्यापकताश्रयसंयोगानां विनिगमनाविरहेण प्रत्येकं स्नानपदा. र्थत्वे गौरवात् कूटस्यैव तथात्वौचित्यात् इत्युक्तप्रायम् । तादृशसंयो. गानामङ्गत्वव्यभिचारिकत्वादहिरित्यङ्गविशेषणम् ॥ ननु जलसंयोगत्वमत्र जलप्रतियोगिकसंयोगत्वं जलानुयोगिकसंयो- गत्वं वा ? आद्येऽङ्गमात्रक्रियाजन्यतादृशसंयोगासंग्रहः । न च तदानी ज. लादेरपि क्रियावत्त्वमावश्यक, प्रवाहरहितजले क्रियाराहित्यस्य प्रायशः संभवात् , द्वितीये ऊर्ध्वदेशाद्गलितविपुलजलधारया यत्र सर्वाङ्गीणसंयोगा एकदैव जनिताः तत्र ताशसंयोगानां स्नानत्वस्य सर्वसम्मतत्वात् तद्- संग्रहः तदानीमङ्गानां क्रियाभावेनाङ्गप्रतियोगिकत्वासम्भवात् इति चेन्न । प्रतियोगित्वानुयोगित्वान्यतरसम्बन्धेन जलविशिष्टसंयोगत्वेनैव तेषां निवेश इति ॥ न चैवं "मान्त्रं भौमं तथा दिव्यमित्यादिवचनेन स्नानस्य नानाविधत्वाभिधानात् तत्राव्याप्तिरिति वाच्यम् । तेषां स्नानप्रतिनिधि- त्वेन वैदिककर्माधिकारिताप्रयोजकत्वव्यवस्थापन एव तात्पर्यात ॥ ननु जलेजन्तुनामवगाहनसत्त्वेन स्नातीति व्यवहारापत्तिः । न चा- दृष्टप्रयोजनकत्वमपि तत्र विशेषणं देयमिति वाच्यम् । तद्वगाहनस्याप्य- दृष्टप्रयोजकत्वात्, परन्तु तेषां स्नानं न विधिविषयः विशेषानुक्तौ विधिवा. क्यस्य मानवमात्रपरत्वात् । “त्वन्नोरे नरकान्तकारिणि वरंमत्स्योऽथवा कच्छप इति स्तवेनापि तादृशसंयोगजनितादृष्टभागिताया अपिअर्थतः प्रतिपादनात् तद्विशेषणेनापि तस्य वारणासम्भवात् । न च वैदिक- कर्माधिकारिताप्रयोजकत्वेन तादृशसंयोगविशेषणात् नैष दोषः, तेषां वैदिककर्माधिकारित्वस्य शास्त्राप्रतिपादितत्वेन तदीयसंयोगानां तदप्र- योजकत्वात् इति वाच्यम् । यादृशस्नानानन्तरं किमपि वैदिककर्म १५६ बादवारिधी नानुष्ठितं तादृशस्नानासंग्रहप्रसङ्गात् इति चेन्न । 'अवगाहते, मजतीतिवत् 'स्नाती तिव्यवहारस्य इष्टत्वात् , परन्तु तेषां स्नानं न विधिविषयः विशेषानुक्तौ विधिवाक्यस्य मानवमात्रपर- त्वात् , अन्यथा तुल्यतुक्त्या पश्वादीनामपि स्नानानभ्युपगमे तत्प्रतिपा. दकशास्त्रस्य उन्मत्तप्रलपितत्वापत्तेः। केचिनु पापनाशा-दृष्टान्यतरप्रयोजकत्वविशेषणमपि तत्र देयम्, जलजन्तुनामवगाहस्य तदप्रयोजकत्वात् न तत्संग्रहः, नित्यस्नानस्यापि अदृष्टविशेषात्मकवैदिककर्माधिकारित्वप्रयोजकत्वात् नित्यकर्मणोऽपि फलजनकत्वस्थ न्यायसम्मतत्वाञ्च न तदसंग्रहः । अस्पृश्यस्पर्शनानन्तर. स्नानस्यादृष्टाप्रयोजकत्वेऽपि पापविशेषनाशप्रयोजकतया न तदसंग्रहः । न चाशौचादिकालीनवैधस्नानस्यासंग्रहः, इष्टत्वात् । न च तत्र स्नानी- तिव्यवहारा कथं लोकानामिति वाच्यम् । तत्र तादृशव्यवहारस्याप्रामा. णिकत्वात् , प्रामाणिकत्वे तु स्नाधातोरवगाहनार्थकत्वेनैवोपपत्तेरित्या हुः । तश्चिन्त्यम् । अङ्गत्वन्तु चेष्टावत्त्वं, चेष्टात्वन्तु क्रियात्वव्याप्यजातिविशेषः, अत एव तत्तदङ्गानां प्रातिस्विकरूपेण तावदन्यतमवेत वा निवेशे एकाङ्गरहि- तस्य स्नानासंग्रह इति प्रत्युक्तम्। न चैकाङ्गरहितस्य स्नानासंग्रहस्तथापि दुर्वार एव ताशसंयोगानां स्वीयाङ्गत्वव्यभिचारित्वात् इति वाच्यम् । स्वसमानकालीनत्वस्याप्यङ्गविशेषणत्वात् । बहिष्वन्तु यद्यन्न बहिष्ट्रव्य वहारस्तत्तभेद्कूटवत्वं प्रकारान्तरेण दुर्वचत्वात् । यद्यदङ्गे बहिष्ट्व व्यवहारस्तावदन्यतमत्वेन तस्य निवेशे पुनर्बहिष्ट्वविशेषणं न देयमेव । एतादृशस्नानघटकपदार्थे स्नाधातोः शक्तिलक्षणा वा इत्यन्यदेतदिति . नव्यास्तु बहिष्टविशेषणं न देयमेव बहिरङ्गसंयोगदशायामन्तरङ्गे. ऽपि संयोगा जायन्ते लोमविवरद्वारा तत्रापि जलप्रवेशात्, अत एव ए. कदा सर्वाङ्गीणजलसंयोगः स्नानमिति देवोपुराणातिरपि सङ्गच्छते इति किं बहिष्ट्रनिर्वचनेन क्षणविलम्बस्य शपथनिर्णयत्वात् बहिरङ्गमा. प्रसंयोगक्षणे तद्व्यवहाराभावेऽपि क्षतिविरहादित्याहुः ॥ इति स्नानवाद(२०)वीचिः।

(२१) वाजपेयवादवाचिः। १५७ अथ रघुनाथ शिरोमणिविरचितो वाजपेय. बाद (२१) वीचिः। ॐ नमः सर्वभूतानि विष्टभ्य परितिष्ठते । अखंडानन्दबोधाय पूर्णाय परमात्मने ॥१॥ अपूर्व पाहत्येति । स्वर्गकामनियोज्यकं यागविषयकं कायं स्थायि स्वर्गसाधनत्वेन शायमानमिति बोधादपूर्वोपस्थितेर्वा प्राक् स्वर्गकामस्य यागः कार्य इति बोधयितुं न शक्यते इत्यर्थः । शक्यत इत्यस्य स्वर्गकामे स्वर्गकामयागकार्यत्वयोरन्वयप्रयोजकरूपस्य योग्यतावच्छेदकस्य नि- योज्यत्वस्य घटे जलाहरणयोग्यतावच्छेदकछिद्रतरत्वस्येव भानासंभवा- दिति शेषः। यथा घटे छिद्रतरत्वं विनाजलाहरणं न सम्भवतीति छिद्रेत- रत्वं योग्यतावच्छेदकं, तथा स्वर्गकामस्य यागविषयककायंताबोधं विना यागः कार्यो न भवत्यतः स एव योग्यतावच्छेदक इति भावः । ननु यथा घटेन जलमाहरेदित्यत्र पदादनुपस्थितमपि छिद्रेतरत्वं घटे योग्यतावच्छेदकतया भासते तथा नियोज्यत्वस्य योग्यतावच्छेदकतया स्वर्गकामे कुतो भानं न भवतीत्यत आह स्वर्गकामेति । यद्वा माहत्य स्वर्गकामस्य योगः कार्य इति बोधो लिङा न जननीयः तस्य नियोज्य- त्वेन तस्मिन् शाब्दबोधे भानं विनेत्यर्थः। ननु तर्हि नियोज्यत्वेन स्वर्ग: कामस्य यागकायंताबोधे भानं भवत्वित्यत प्राह स्वर्गकामेति । स्वर्ग: कामस्य यागे नियोज्यत्वेन योऽन्वयस्तत्र यागनिष्ठेष्टसाधनत्वप्रकारकज्ञा. नविषयत्वरूपयोग्यताया ज्ञानाभावादित्यर्थः । तन्मते काम्ये कामिन इष्ट- साधनत्वप्रकारकज्ञानं विना कायंताबाधानुयायागनिष्ठेष्टसाधनत्वप्र- कारकज्ञानविषयत्वं पुरुषेममेदं कार्यमिति बोधविषयान्वयस्य योग्यताव. च्छेदकम् , इष्टसानत्वप्रकारखानविषयत्वं तु यागस्य न सम्भवति इष्टस्व- गैस्य कालान्तरभावित्वात् यागस्य च क्षणिकत्वादिति भावः। ननु "शु. चिः संध्यामुपासीते" त्यादौ नित्ये फलविरहाद्यथेष्टसाधनत्वप्रकारकज्ञानं विनापि शचिनियोज्यकं संध्यावन्दनविषयक कार्यमित्यनुभवो जायते, तथात्रापि स्वर्गकामनियोज्यको यागः कार्य इत्यनुभवः कुता न जायते ? अविशेषादिति प्रश्ने विशेषमाह कामनाविशिष्टस्येति । तथाच तत्र नित्ये कार्यताबोधे शौचादिमत्वमेव योग्यतावच्छेदकमिह तु काम्ये कार्य का. मिनोऽन्वये इष्टसाधनत्वज्ञानविषयत्वमेव योग्यता तस्याश्च ज्ञानं क्षणिके नास्तीति भावः । ननु तहि तत्र कोदशोऽन्वयबोधः? अत्र परिष्कृतं निर्ण- यकारमतम्-आदौ स्वर्गकामस्येदं कार्यमिति बोधुर्यागविषयक कार्य वादवारिधी स्थायि, स्वर्गसाधनस्वस्य प्रागनवगमात् कथं वाच्यसम्बन्धरूपा लक्षणा- पीति वाच्यम्, गो सदशो गवय इत्यत्रेव सामान्यतस्तवाच्यस्यावगमात प्रवृत्तिनिमित्तविशेषस्यैव प्रागनवगमात् इति संप्रदायनिर्णयः । वाजपेय. पदोपस्थापितस्वार्थेनैव सममभेदान्वयान तत्र लक्षणा । ननु प्रवृत्तिनि. मित्तविशेषस्य प्रागपरिचयात कथं तस्य स्वार्थानुभावकतेति चेत् । उ- तरकालमेव कथं तव प्रवृत्तिनिमित्तविशेषपरिचयः । अङ्गोपाङ्गविधि. पर्यालोचनयाविशेषोपस्थितिरिति चेत् । ममापि तावत् पर्यालोचनानन्त- रमेव वाजपेयपदं स्वार्थमनुभोवयतु 'इह प्रभिन्नकमलोदरे मधूनि मधु. करः पिबती'त्यत्र मधुकरपदमिव प्रागास्तां युक्तमेवेत्याहुः । तृतीया च फलकरणत्वमाह फलसाधनस्वमात्रस्य लिङनभिहितत्वा. नाभिहितार्थता, वाजपेयपदं स्वपरंतृतीयातु विशेषणस्खे, तत्वं च वाच्य. वाचकभावेन पदवाच्यत्वविशिष्ठे लक्षणामपेक्ष्य पदलक्षणैव लघीयसो वाजपेयपदवाच्याभिन्नयागे वाजपेयपदोचरतृतीयार्थकरणत्वान्वयानुप. पत्तेः, नील घटमित्यादौ विशेषणविभक्तः कर्मत्वादिवाचकत्वे तदन्वय- स्येव विशेषणविशिष्ट इति तु युक्तम् । नच द्रव्यालाभा,वाजपेयपदादु. पस्थित एव तथात्वकल्पनात् उपस्थितत्यागेऽन्यकल्पनागौरवात् । अत्रेदं विभाव्यम्-अस्तु तावत् वाजपेयसाध्यत्वमुपलक्षणमेव, तथापि न क्षतिः, तथाहि एकस्य द्वयमित्यन्वयबोधानन्तरं यागमात्र तत्फलसा. धनत्वबाधात् प्रतीतसामानाधिकरण्यकं वाजपेयसाध्यस्वमेव व्यावर्तक. मवगम्यते, असमानकालीनस्यापि सामानाधिकरण्ये व्यावर्तकत्वान. पायात, यागमात्रे च तत्साधनत्वबाधानवतारे तवापि कर्मनामधेयताक. ल्पनानवकाशात , अवच्छेदकनिश्चयेऽपि फलकारणताबोधस्य निष्परिप- थित्वात् , स्वर्गेऽग्निष्टोमादिसाध्यतावच्छेदकस्येवात्रापि फलसाधनताव. च्छेदकस्योचरकालकल्प्यत्वात् । अस्तुवाऽन्वयबोधे तद्विशेषणमेव वाज. पेयसाध्यत्वेनाग्निष्टोमादिव्यावृत्ततया उपस्थिते कर्मविशेषे तादृशफल. साधनत्वान्वयः । समानकालीनत्वं तु त्वदुक्तविरहादेव नान्वीयताम् गो. सदृशो गवय इत्यादौ गवयपद्वाच्यताबोधेगोसादृश्यादिक विशेषणमेव, वाच्यताद्यन्वये तु गौरवेण न तथेति तदीदृशान्वयबोधयार्भेदानाकलनेनो- पलक्षणविशेषणविकल्पनमन्यत्रापि निरवकाशम् , अत एव वह्निसाध्यत्वे. नोपस्थिते पाके इष्टसाधनस्वावगमः। न च तत्र वह्रिसाध्यत्वमुपलक्षण- मेव पाकमात्रस्यैव तत्साध्यत्वादिति, एवं ताशकल्पनायामपि 'वहि- विशेषेण पचेत, रथेन यायादित्यादावगतः। वस्तुतस्तु समानकालीनत्वप्रवेशेऽपि न विरोधः, तथाहि फलस्वरूप.

(२२) नियोज्यान्वयवादवाचिः। १५९ योग्यत्वस्य ज्ञानं प्रवर्तकं, तञ्च तदवच्छेदकधर्मवस्वम् मोदनादिसाधन- तावच्छेदकादिपर्यवसन्नम् , तस्य चैककालेऽपि समावेश इति कुतो विरोधः । संशयनिश्चयसाधारणफलोपधानशानस्य प्रवकत्वे तु न विरोध इति कश्चित् । इति रघुनाथशिरोमणिविरचितो वाजपेयवाद(२१)वीविः । अथ रघुनाथशिरोमाणविरचितो नियोज्यान्वयः वाद (२२) वीचिः। ॐ नमः सर्वभूतानि विष्टभ्य परितिष्ठते । अखण्डानन्दबोधाय पूर्णाय परमात्मने ॥ अत एव वाजपेयेनेत्यादि । अत्र तावदेकस्य द्वयमिति वा विशिष्टवै. शिष्टयेन वाऽन्वयः ? आधे “यथा यस्योभयं हविरातिमाछेत् स ऐन्द्रं पञ्चशरावमोदनं निपेदित्यत्र हविषि प्रथममुभयत्वान्वयबोधकल्पनायां वाक्यभेदापत्त्या युगपदवृत्तित्वप्रारुभयत्वस्य चान्वयाचाशनिर्वापप्र. योजकत्वं हविरार्तिसम्बन्धमात्रस्यावगम्यते न तूभयत्वावच्छिन्नस्यैव तस्य विशिष्टानुपस्थिते, इत्थं च प्राकरणिकोभयत्वमुभयमित्यनेनानू- द्यते न तु विवक्षितं, तदिहापि एकत्र यागे धम्मिणि तथाविधफलसा. धनत्वं वाजपेयसाध्यत्वं चान्वियात् , एवं च फलसाधनतायां यागत्वमा. त्रस्यैव प्रयोजकत्वलाभात् तस्य च यागमात्रवृत्तितया यागमात्र एव त. दर्थिप्रवृत्तिप्रसङ्गः । न च वाजपेयसाध्यत्वमुपलक्षकम् , अनतिप्रसक्तस्यो. पलक्ष्यतावच्छेदकस्यैकस्याभावात यागत्वस्यैव तथात्वेऽतिप्रसङ्गतादव- स्थ्यात् । द्वितीये तु विशिष्टवैशिष्टयस्यैककालीनतत्त्वानतिरेकितया वि. रोधो दुर्वारः । तस्माद् वाजपेययागयोरभेदान्वयः, स च वाजपेयपद. स्य तद्वाच्यपरतया समर्थनीयः। न च वाजपेयपदवाच्यत्वेन शायमान. मिति शानं न तु स्थायिस्वर्गसाधनमित्याकारकं पुरुषस्य नियोज्यत्वान्व. यबोधे इष्टसाधनत्वस्य झायमानस्य योग्यतानवच्छेदकत्वात् , अनिष्टला. धनेऽपि तथााने ममेदं कार्यमिति बोधोदयात् । वस्तुत इष्टसाधनेऽपि तथाज्ञानविरहेऽपि ममेदं कार्यमितिबोधानुदयाश्च । एवं सर्वत्र परत्र चि. न्तनीयम्। एतचापूर्वविषयकं कार्यताज्ञानं न तु यागवियषकम्, तस्य स्था. यित्वेन ज्ञानासम्भवात् तत्काले तस्य क्षणिकत्वनिश्चयात् , ततो मम नि. योज्यस्येदं काय्य स्थायिस्वर्गसाधनत्वेन शायमानमित्याकारकं पुनरपू. र्घकायंताशानं, न तु ममेदं काय्यमित्येतावन्मात्राकारं तुल्ययुक्त्या सर्वत्र बादवारिधी कार्यताबोधे नियोज्यत्वस्य स्थायित्वस्य स्वर्गसाधनत्वस्य च योग्यता. पच्छेदकस्यावश्यं भानाङ्गीकारात्। एवं सर्वत्र परत्र बोध्यम् । एवम. पूर्वकार्यताबानेऽपि बोद्धा विमृशति, अपूर्वजनिका तावत् कामिकृतिः, सा च यदि यागविषया भवति तदेवापूर्व जनयितुं शक्नोति न त्वन्यथा अन्यतस्तदनिष्यत्ते, कामिकृतिश्च यागविषया वदा भवति यदि यागः काम्यसाधनं स्यात काम्यसाधनतया ज्ञात एव कामिनः कार्यताधीनियमा व । एवं यागस्य स्वर्गसाधनत्वमुपादानेनावगत्य काम्यमानस्वर्गसाध. नत्वेनावगम्यमानो यागोऽधिकरणीभूतस्वर्गकामस्य नियोज्यस्य कार्य इत्याकारकं तृतीयं ज्ञानम् , अयमेवाधिकारित्वेनान्वयः, तत आख्यातला. मान्ये क्लुप्तश्चैत्रः पचतीत्यादाविव स्वर्गकामो यागानुकूलकृतिमानिति कर्तृत्वेनान्वयबोधश्चतुर्थः, ततः स्वर्गकामस्येदं कार्यमहमपि स्वर्गका. मस्तस्मान्मम स्वर्गकामस्य नियोज्यस्येदं कार्य स्वर्गसाधनत्वेन ज्ञायमा. नमिति युक्तिपुरःसरं यागे यष्टुः प्रवर्तकं प्रतिसन्धानमिति पञ्चमं शान. मिति पञ्चापि ज्ञानानि शब्दजान्येव, विधेः प्रवृत्तिनिर्वाहकतया तावत् पर्यन्तमाकाक्षाया अपरिपूरिति । सदसङ्गगतम, ममेदं कार्यमितिद्वितीयबोधस्यान्विताभिधानानुपयोगेन धेयर्थ्यात् । एवं विधेः प्रवर्तकतायाः परंपरयाप्युपपचेर्न यागकार्यताशा. नमपि शाब्दमिति । एवमधिकारिवादिनाऽन्वयबोधश्चिन्त्यः। तस्मात् प्रथममपूर्वे नियोज्यत्वेनान्वयः, उत्तरकालमाख्यातसामान्ये, क्लुप्तश्चैत्रः पचतीत्यादाविव यागानुकूलव्यापारवानिति कर्तृत्वेनान्वयबोध इत्यन्व. यबोधद्वयमेव समीचीनम् । प्रवर्तकं तु ज्ञानं नैयायिकानामिवानुमानिक मिति दिक् । अत्रेदमालोचनीयम्-यथा नियोज्यत्वमन्वयप्रयोजक भासत ह. त्यभ्युपगमस्तथा चिकीर्षावश्वप्रवृत्तिसामग्रीमत्वादिकमपि किमिति न भासते ? विनिगमनाविरहात् । न च येन यद्योग्यतावच्छेदकत्वेन गृहीतं तदेव तस्य भासत इति वाच्यम् । एवमपि यथा स्वर्गकामयागकार्ययो. रन्वयप्रयोजकत्वं न भवति स्वर्गकामस्यापि यागकार्यबोधाभाबे यागका. यतानुदयात्तथा नियोज्यत्वमपि योग्यतावच्छेदकं न स्यात् , क्वचिन्ममे. दं कार्यमिति बोधवतोऽपि चिकीर्षादिविरहेण यागकार्यताऽनिर्वाहात् । एवं चिकीर्षावत्त्वादिकमपि न योग्यतावच्छेदकम् , तत्सत्त्वेऽपि कदा- चित् प्रतिबन्धकेन कृतेरनुत्पत्तेः कार्यतानुदयादिति । किञ्च शाब्दबोधे सत्यवश्यं योग्यतावच्छेदकं भासते तदा कथं नियोज्यत्वं भासेत ? तद्यो. ग्यतावच्छेदकस्येष्टसाधनत्वादिकस्य पुरुषे भानं विनापि । न च तदपि (२२) नियोज्यान्वयवादवीचिः । भालत इति वाच्यम् , एवमिष्टसाधनत्वस्यापि योग्यतावच्छेदकं भा- सत इत्यनवस्था स्यात् । न चात एव योग्यतावच्छेदकातिरिक्तति विशेषणं देयमिति वाच्यम् । शाब्दबोधे योग्यतावच्छेदकस्य भानं विना शाब्दबोधो न जायत इत्येव योग्यतावच्छेदकं भासते, एवं च योग्यतावच्छेदकमपि यच्छाब्दबोधे भासते तद्योग्यतावच्छेदकभानं, विना कयं भासेतेति। नन्वेतत् सर्व घटेन जलमाहरेत्यत्रापि सम्भवति, तथाहि यथा घट. त्वं न जलाहरणयोग्यतावच्छेदकं तथा च्छिद्रेतत्त्वमपि न भवति कदा. चित्सच्छिद्रेणापि घटेन भाविना दूरस्थेन च जलाहरणासम्भवात् , एवं छिद्रतरत्वं योग्यतावच्छेदकं तद्योग्यतावच्छेदकं च छिद्रवैधम्यं तभाने कथं तद्भानं, तस्यापि भानाङ्गीकारेनवस्थेति चेन्न । तत्रापि तदुपरि दृषणमस्माभिर्दीयत एव, एवं च बाधविरह एव योग्यता, यागस्य च स्वर्गसाधत्वेन बाधप्रमानुयाद्याग इष्टसाधनम् इति शाब्दबोधो नैयायिकानामिति नापूर्ववाच्यता लोकेऽपीति दिक् । सद्बोधेोपयोगे सतीति । ममेदं कार्यमिति बोधोपयोगे सतीत्यर्थः । अन्यथा विशिष्टस्य तद्बोधे हेतुत्वं न स्यात्, विशेषणे कामनायां हेतु- त्वस्याभावादिति भावः । कामनायास्तद्वोधेोपयोगे द्वारमाह-सा चेति । कामनाया उपयोगी इत्यर्थः। एवं च नियोज्यत्वेन स्वर्गकामस्य कार्यान्वयप्रयोजकं स्वर्गसाधनस्वज्ञानं सिद्धमित्याह एवञ्चेति । नियो. ज्यान्वययोग्यतेति योग्यतापदं तज्ज्ञानपर, तदनन्तरं च भवतीत्युपेयमिति पूरणीयमतो नानन्वयः, अन्यथा स्वर्गसाधनत्वज्ञानमेवाप्रयोजकत्वेन योग्यतेति स्वर्गसाधनताबोधे सति नियोज्यान्वययोग्यतेत्यन्वितं स्यात् । ननु यदि स्वर्गलाधनताशानमन्तरेण योग्यताज्ञानविरहात् लिङा क्रियाकार्यत्वं बोधयितुमशक्यं तदा यागे स्वर्गसाधनताबोधः प्राथमि- कोऽस्त्वित्यत आह नचेति । ननुस्वर्गकामनारूपविशेषणानजन्ये कार्य- ताशाने सर्वमेव दूषणमुपपद्यते, अस्माकं मते तु लिङवेष्टसाधनतां बोध- यतीत्यतो नानुपपत्तिरित्यत आह इष्टसाधनतेति । तथाऽन्वयस्वीकारे योग्यता प्रकृते साधनत्वबाधादयोग्यत्वान्न साधनताया अन्वयः सम्भ- वतीत्येके। ननु कार्यताविधिपक्षेऽपिनियोज्यत्वेनान्वय इति तद्योग्यतासम्पत्तये प्रथमं यागस्येष्टसाधनताबोधोऽङ्गीक्रियताम्, इष्टसाधनताविधिपक्षे तुनि- योज्यत्वेनान्वयस्यानम्युपगमात् प्रथम यागेष्टसाधनताशानं कोपयुज्यत इत्यत आह इष्टसाधनतेति । इष्टसाधनताविधित्वेनैव तदुपयोग न तु २१ वादळ १६२ वादवारिधी योग्यतया इति तस्याः पदा तथा प्रथमं यागस्य तद्वोधानुसरणमित्या र्थ इत्यन्ये। ननु कार्यताविधिपक्षेऽपियदि इष्टसाधनतया यागादिबोध आवश्यक इति कर मतभेद इत्यताह कार्यताविधिपक्षेऽपीति। अन्वयप्रकारतया अ. स्वयप्रयोजकतयेत्यर्थः। तथाच कार्यताविधिपते योग्यतारूपतयेष्टसाधनत्व स्य ज्ञानम् , इष्टसाधनताविधिपक्षे पदार्थतयेति मतभेद इत्यर्थः। अपदार्थः स्यापि परनये योग्यताबललभ्यस्य शाब्दधीविषयत्वाच्छाब्दमित्युक्तं, तच्च शाब्दधीविषयाथकम् । नन्वेतावतापि कथमपूर्वस्य वाच्यत्वसिद्धिरताह मत इति । इष्टसाधनत्वेन यावत् कार्यानुपस्थितिस्तावत्तत्र योग्यतावि. रहानियोज्यत्वेन नियोज्यस्यान्वयबोधोऽनुपपन्नः। न च यागस्येष्टसा. धनवोपस्थितिः सम्भवति क्षणस्थायित्वेन साक्षादसाधनत्वात् घटक. स्यानुपस्थित्या परंपराया दुर्शेयत्वात् तदतिरिक्तस्य साधनत्वस्याभावात् अतः स्थिर एव कार्ये इष्टसाधनत्वेनोपस्थिते नियोज्यत्वेन स्वर्गकाम स्यान्वयधीः, स्थिरकार्यस्योपस्थितिस्तत्र लिशक्तिमन्तरेणानुपपन्नेति लिङस्तत्रैव शक्तिर्न तु स्वर्गसाधनत्वादिरूपेण, अतः कार्यत्वं तत्रैवान्वित न तु समभिव्याहृतक्रियायामित्यर्थः । यद्यपि शाब्दबोधात् पूर्बमपूर्वे. स्वर्गसाधनस्वरूपयोग्यताज्ञानमसम्भवि अपूर्वस्यान्वयबोधात् पूर्वमशा. तथापि परनये 'बोधनीयपदार्थे योग्यताशानं न कारणं बांधनीय- पदार्थस्यापूर्घत्वात् किन्तु पदार्थतावच्छेदकावच्छिन्ने क्वचित्तस्य शानं एवं च प्रकृते कामिकार्यत्वान्वयप्रयोजकं काम्येष्टसाधनत्वं योग्यता, सा च लिङ्पदा तावच्छेदकावच्छिन्ने घटे कामिकार्ये जलाहरणरूप- कार्यसाधने ज्ञायते इति तज्ज्ञानं शाब्धीहेतुर्भविष्यतीति वदन्ति । मिश्रास्तु स्वर्गकामः स्वनियोज्यकयागविषयकस्थायिस्वर्गसाधन कार्यक इत्येव परनये प्रथममन्वयः, अत एवाख्यातार्थविशेष्यतया स्वर्ग: कामस्य संख्यान्वयित्वमिति स्वर्गकाम इत्यत्र प्रथमा। तत्र स्वनियोज्यक. वस्थायित्वं स्वर्गसाधनत्वं च कायें अपूर्वे एवान्वेति न तु यागे, तस्य क्षणिकत्वेन स्थायित्वे बाधात् । न च स्थायित्वाधुपस्थापकपदाभावात् कथं तदन्वय इति वाच्यम् । व्यक्तमिदं मूलप्रन्थ एव। अस्तु वा उपस्थिते. वगृहीतांशसंसर्गकेषु स्थायित्वस्वर्गसाधनत्वकार्यत्वेषु लिशक्तिरित्यादि. नाऽभिधानाल्लिङ एव तदुपस्थापकत्वात् । विषयत्वं च यागापूर्वयोः सम्बन्धविधया भासत इत्यपि मूल एव सुव्यक्तम् । यद्वा नियोज्यत्वस्येव स्थायित्वादोनामपि योग्यतावच्छेदकतयैव भानमपूर्वरूपकार्ये । नचैवं नियोज्यत्वेनव स्वर्गकामस्यान्वयेऽधिकारिणोऽलाभे प्रवर्तकत्वानुपपत्ति- नात, तथा, (२३) पाकजवादवांचिः। रिति वाच्यम् । प्रथमतस्तथाभ्युपगमेप्युपादानबलेन कर्तृत्वाधिकरित्व. योरपि लाभात्। तथाहि पूर्वोक्तोपादानेन काम्यस्वर्गसाधनं याग इति प्रथ- मम् यागोऽधिकारोभूतनियोज्यस्वर्गकामकार्य इति द्वितीय, ततो यागकृ. तिस्तद्वारं विनानुपपद्यमाना कर्तारमाक्षिपति, तथाच स्वर्गकामो या. गानुकूलव्यापारवानिति तृतीयं, प्रवर्चकत्वं च नयायिकानामिवानुमा. निकमित्याहुरिति दिक् । अधिकत्वालोकादावूह्यम् । इति श्रीशिरोमणिभट्टाचार्यकृतो नियोज्यान्वयवादवीचि:(२२) सम्पूर्णः । अथ पाकजवाद (२३) वीचिः॥ अथ रूपनाशादेः पाकजन्यत्वं विचार्यते । तत्र परमाणौ समवायेन द्रव्याभाववति पाकजरूपोत्पादविनाशौ न तु द्वयणुकादाविति वैशेषिकवृद्धाः। नब्यास्तु व्यणुकादावपि पाको रूपनाश भवत्येव । पाकजरूपो. त्पादस्तु परमाणावेव व्यणुकाद्यवयविनि च रूपजरूपमेवेति वदन्ति । नैयायिकास्तु अवयविनि पाकजरूपोत्पादविनाशावामनन्ति । तत्र समवेतद्रव्यं पाकजरूपनाशवत्र वा, समवेतद्रव्यं पाकजरूपवन वेत्याका. रिका विप्रतिपत्तिः। अत्र प्राचीनवैशेषिकाः। हस्तादौ मणिसंयोगदशायां वह्निसंयोगा. हाहोत्पत्तिवारणाय संयोगसम्बन्धेन मण्यादेः प्रतिबन्धकत्वं वाच्यम्, एवं पाणौ मणिसंयोगदशायां तवयवे दाहवारणाय स्वसंयुक्तसमवा. यित्वसम्बन्धेन प्रतिबन्धकत्वं वाच्यम्, हस्तारम्भकावयवादिपरमा- णुपर्यन्तेषु दाहवारणाय स्वसंयुक्तसमवायिसमवायित्वादिगुरुतरान. न्तसम्बन्धेनानन्तप्रतिबध्यप्रतिबन्धकभावः कल्पनीयः, एवं मण्यादौ दाहवारणाय तादात्म्येन मण्यादेः प्रतिबन्धकत्वम , मण्यारम्भकावयवा- दिपरमाणुपर्यन्तेषु दाहवारणाय स्वसमवायिलमवायित्वादिसम्बन्धेन प्रतिबन्धकत्वं वाच्यम् , तथाच लाघवेन रूपनाशत्वावच्छिन्नं प्रति सम- वायेन द्रव्यस्य प्रतिबन्धकत्वादेव दाहापत्तिविरहात् । दर्शितानन्तप्रति- बध्यप्रतिबन्धकभावो न कल्पनीयः । न च तथापि अन्त्यावयविनि दाहा- पत्तिरावश्यकीति वाच्यम्। एतावता संयोगसंबन्धेन मण्यादेः प्रतिबन्ध- कत्वे समागतेऽपि उक्तदिशाऽवयवे तदवयवादौ च दाहवारणाय स्वसं. युक्तसमवायित्वादिसम्बन्धेनानन्तप्रतिबध्यप्रतिबन्धकभावकल्पनानिरा. सात् । यद्वा विलक्षणविशेषणतासम्बन्धेन रूपनाशत्वावच्छिन्न प्रति सम- १३४ वादवारिधी धित्वेन विशिष्टबुद्धि प्रत्येव तादृशाभावप्रत्यक्षनिश्चयस्याप्रतिबन्धकतायी अनुभवविरोधापत्तेः, अत एकत्र द्वयमिति न्यायेनापि अभावत्वघटोभयः प्रकारकस्याभावप्रत्यक्षस्य घटांशे निम्मितावच्छेदकतया तादृशबाधा- प्रतिबध्यतया तस्योत्पत्तौ बाधकाभावात् नेत्याकारकप्रत्यक्षापत्तिर्न स. म्भवतीति । तन्न, प्रवृत्तित्वज्ञानस्य निम्मितावच्छेदकताकबुद्धि प्रत्यपि विरोधि तयाप्रतियोगितासम्बन्धेन घटादिमदवृत्तित्वज्ञानकाले तादृशप्रत्यक्षापत्ते १रित्वात् ,एवं भूतलादौ घटाद्यारोपे सति तेन प्रतिबन्धात् भूतलं घटाभा- ववदित्यादिप्रत्यक्षासम्भवेऽपि नेत्यादिप्रत्यक्षापत्तिः। न चैवं तादृशनिश्च. याभावानामपि इन्द्रियसम्बद्ध विशेषणतादिभिः प्रत्यक्षादिक्षाने अपेक्षणा. नापत्तिरितिवाच्यम्। घटादिप्रत्यक्षसाधारणधर्मावच्छिन्नं प्रति हेतुभूतैरि. न्द्रियसम्बद्ध विशेषणतादिभिरभावोपनीतभानसाधारणधर्मावच्छिन्न प्रति हेतुभूतानामुक्तबाधनिश्चयाभावानां सामग्रीत्वन विशेषसामग्रीत्वेन वा अपेक्षायाः सम्भवात् कालिकादिसम्बन्धेन घटत्वादिप्रकारकात् प्रमेय. त्वादिदिप्रकारकाञ्च ज्ञानात् घटो नास्तीत्यादिप्रत्यक्षानुद्येन समवा. यस्वरूपादिसम्बन्धावच्छिन्नप्रकारतावद्धर्मावच्छिन्न प्रतियोगिताकस्यैव कारणताघटकसम्बन्धास्यावश्यकत्वेन घटो नास्तोत्यादिप्रत्यक्षपूर्व घट. ध्वंसादिज्ञानासवस्थलेऽपि स्वरूपसम्बन्धावच्छिन्नप्रकारताघटितस: म्बन्धेन ज्ञानात व्यभिचारो दुर्वार एव । यक्षु-प्रतियोगिज्ञानस्य घटत्वादिप्रकारकज्ञानस्वादिनैव कारणत्वम्, कार्यतावच्छेदकञ्च घटत्वावच्छिन्नप्रकारताभिन्न प्रतियोगित्वसम्बन्धा- वच्छिन्नप्रकारत्वानिरूपिताभावनिष्ठालौकिकविषयताशालिप्रत्यक्षत्वम्, एवञ्च न कापि व्यभिचारो न वा नेत्याकारकाभावप्रत्यक्षापत्तिः, तस्य यावत्प्रतियोगितावच्छेदकप्रकारकज्ञानस्य काय्यतावच्छेदकाक्रान्तत्वात् प्रतियोगितावच्छेदकप्रकारकज्ञानस्य चासर्वज्ञानामभावात् सर्वज्ञाना न्तु दर्शितबाधानवतारणे यत्किञ्चित्प्रतियोगिकाभावप्रत्यक्षस्यैव स. म्भवात् , एवञ्च घटाभावत्वादिना पटाभावभ्रमोपगमेऽपि न क्षतिः, तस्य घटत्वादिप्रकारकज्ञानजन्यतावच्छेदकाक्रान्तत्वात् व्यभिचाराभावाच्च- इति, तन, यत्र नेत्याकारकमभावप्रत्यक्षं प्रसिद्ध काय्यतावच्छेदकाका- न्तञ्च तत्र व्याघातएव । अथ यद्यभावप्रत्यक्ष प्रतियोग्यविषयकं भवेतहि यावत्प्रतियोगिज्ञा. नकार्यतावच्छेदकाक्रान्तमपि स्यात् इत्यभावप्रत्यक्षस्य प्रतियोग्यविष. यकत्वे यावत्प्रतियोगिज्ञानासमवधानमित्येव ब्रूम इति कुतो व्याघात (१३) प्रतियोगिज्ञानहेतुतावादाचिः । इति चेन सामग्रीसत्त्वे कायस्यावश्यकत्वात् , अस्ति च यत्किञ्चिरप्रति. योगिज्ञानेन्द्रियसम्बद्ध विशेषणतादिरूपा सामग्री, दर्शितस्थले थावत्प्र. तियोगिज्ञानघटिता च सा भवत्येवेति, अपि च संख्या नास्तीत्यादि. प्रत्यक्ष परिमाणादीनामप्यभावांशे विशेष्ये विशेषणमित्यादिन्यायेन भा. नापत्तिरतावता प्रयासेनापि वारयितुं न शक्यते अर्थतादृशन्यायेन परिमाणादिभाने तादृशप्रत्यक्षस्य संख्यादिप्रका- रकज्ञानकायंतावच्छेदकाक्रान्तत्वान्नानुपपत्तिरिति चेत् । किं प्रयोजनक्षतिभिया सामग्री कायं नार्जयिष्यतीति स्यादिन्द्रिय. सम्बद्धविशेषणताया भूतलादिविशिष्टविषयकघटत्वादिविशिष्टप्रकारका. भावत्वविशिष्टचाक्षुषत्वादिकमेव कार्यतावच्छेदकमुक्तबाधाभावादि. कार्यतावच्छेदकम् , धर्माणाञ्च तव्यापकतया सामान्यसामग्रीत्वेनैव तेषामिन्द्रियसम्बद्धविशेषणतासहकारित्वान्नोपदर्शितबाधकाले नेत्याका. रकाभावप्रत्यक्षापत्तिरित्यकामेनापि वाच्यम् , एवश घटत्वादिविशिष्ट प्रकारकानुभवत्वादिलक्षणघटत्वादिप्रकारकशानकार्यतावच्छेदकधर्मा. णामपि तद्व्यापकतया घटत्यादिप्रकारकज्ञानानामपि सहकारित्वनि हात् तेषामभावप्रत्यक्ष प्रति स्वतन्त्रकारणताकल्पनं व्यर्थमेव, संख्या नास्तीतिप्रत्यक्ष दर्शितपरिमाणादिविषयकत्वापत्तिरप्यापाधाप्रसिद्धयैव निरसनीया, सर्वत्राभावे प्रतियोगितावच्छेदकविशिष्टस्यैव प्रतियोगिना प्रकारत्वोपगमात् । न चोक्तधर्मस्य इदन्त्वप्रकारकप्रतियोग्यविशेषित. प्रत्यक्षसाधारण्याभावात् नेन्द्रियसम्बद्धविशेषणताजन्यतावच्छेदकत्वमि ति वाच्यम् । इदन्त्वप्रकारकाभावचाक्षुषत्वस्यापि जन्यतावच्छेदकत्वो. पगमात् । न चेन्द्रिय सम्बद्ध विशेषणताबलात्तादृशचाक्षुषादावभावत्व: स्य प्रकारत्वेन भानम् इदन्त्वानुपस्थितौ चाभावत्वस्य निर्विकल्पकं दु. रिमभावत्वस्य चाक्षुरादिरूपेन्द्रियसम्बद्धविशेषणतावच्छेदकस्य घ. टत्वादिविशिष्टप्रतियोगिकाभावत्वेन समं व्यापकाभावेन घटत्वादि. प्रकारकज्ञानादीनां सहकारित्वासम्भवादिति वाच्यम् । इन्द्रियसम्बद्धविशेषणविशेषणतायाअपि घटत्वादिप्रकारकत्वादिविशेषि. ताभावत्वादिचाक्षुषत्वादिकमेव जन्यतावच्छेदकमित्यभ्युपगमात् । परमातस्तु अभावचाक्षुषत्वादिकमेव इन्द्रियसम्बद्धविशेषणता- दिजन्यतावच्छेदकमिदन्त्वाद्याकारकाभावचाक्षुषस्य घटत्वादिविशिष्टांप्र- कारकस्यालीकतयाघटत्वादिप्रकारकज्ञानदर्शितज्ञानाभावादिकस्यैव च. क्षुःसंयुक्तविशेषणतादेरभावचाक्षुषदिसामग्रीत्वं कल्प्यते ॥ समाप्तोऽयम् ॥ तस्याः वादवारिधी ॥ श्री परब्रह्मणेनमः॥ अथ महामहोपाध्याय गदाधर भट्टाचार्यकृतः (१४) स्वर्गशदवीचिः॥ दुःखासम्भिन्नत्वादिविशिष्टसुखत्वं स्वर्गपदशक्यतावच्छेदकमिति सिद्धान्तः । श्रादिपदेनानन्तरदुःखग्रस्तभिन्नत्वाभिलाषोपनीतत्वयोः प. रिग्रहः। अत्र दुःखासम्भिन्नत्वं न दुःखानवच्छेदकशरीरावच्छिन्नत्वम्, दुःखा नवच्छेदकीभूतखण्डशरीरावच्छिन्नेऽस्मदादिसुखे चक्रवर्तिराजसुखे खातिव्याप्तः। नापि दुःखानवच्छेदकवृत्त्येककालीनशरीरद्वयावृत्तिजा. तिमच्छरोरावच्छिन्नत्वम् , दुःखावच्छेदकावृत्तिजातिमच्छरीरावच्छि. नत्वं वा,स्वर्गिणामपि मरणकालीनदुःखपातभोरुत्वजन्यदुःखश्रवणात । अत्रोच्यते-तादृशदुःखश्रवणस्य संसारनिन्दामात्रे तात्पर्यम्, वस्तुतः स्वर्गिशरीरावच्छेदेन मरणदुःखादिकमपि नेति तस्वम् । नन्वेवं स्वर्गि. शरीरावच्छेदेन यदि दुःखं नास्ति तदा स्वर्गिणः सुखभोगानन्तरं मुक्तिन स्यात्, चरमदुःखध्वंसस्य मुक्तित्वात् स्वर्गिणश्चरमदुःखासम्भवात् , इति चेत् , मैवम्, ब्राह्मणशरीरमेव चरमदुःखसाधनम्, अन्यथा शूद्रशरी. रावच्छेदेनापि मुक्तिप्रसङ्गात् । स्वर्गिशरीरे च न ब्राह्मणत्वम् , तत्प्रयो- जकादृष्टाजन्यत्वादिति स्वर्गिणोऽपि शरीरान्तरं विना न मुक्तिः, किन्तु ब्राह्मणशरीरपरिग्रहादेव । न च श्रवणमननादावेव ब्राह्मणशरीरं हेतुर्न तु चरमदुःखेऽपि इति शूद्राणामपि मुक्तिरिष्यने, अतो दुःखाभावे स्व. गिणो भोगानन्तरं मुक्तरनुपपत्तिरिति वाच्यम् । ब्राह्मणशरीरस्य विनि गमनाविरहेण परमदुःखं प्रत्यपि हेतुत्वात् , अन्यथा ब्राह्मणशरीरेणैव मुक्तिरिति बहुतरश्रुतिस्मृत्यादिविरोधप्रसङ्गात् । न चैवं स्वकीयनिखि लाशुभकर्मजदु:खभोगानन्तरं स्वर्गे सति मुक्ति स्यादिति वाच्यम् , इष्ट त्वात , स्वर्गानन्तरं ब्राह्मणशरीरपरिग्रहात् स्वीययत्किञ्चिदशुभकर्मज चरमदुःखोत्पत्ताधेव मुक्तिस्वीकारात् , अन्यथा मुक्त्यभावे इष्टापत्ति गित सारम् ॥ केचित् मरणकालीनदुःखपातभौतिजन्यदुःखातिरिक्तदुःखपरमुक्तल. क्षणे दुःखपदम् ,तेन स्वर्गिणस्तादृशदुःखसत्त्वेऽपि न क्षतिरिति वदन्ति॥ अनन्तरदुःखग्रस्तभिन्नत्वञ्च स्वाव्यवहितोत्तरक्षणावच्छेदेन स्वा धिकरणवृत्ति यदुःखं तद्विशिष्टभिन्नत्वम् , स्वाव्यवहितप्राक्क्षणावच्छि (१५) प्रीतिवादवीचिः। स्नैकात्मवृत्तित्वसम्बन्धेन दुःखविशिष्टसुखावच्छेदकावृत्तिजातिमदवच्छि नत्वमिति तु निष्कर्षः । तादृशजातिः स्वर्गिशरीरवृत्तिचैत्रत्वादिरूपा ॥०॥ अभिलाषोपनीतत्वश्व स्वाश्रयवृत्तित्वप्रकारकस्वविशेष्यकेच्छात्वव्या. पकयथार्थत्वकत्वम् , अन्यथा इच्छोपनीतत्वस्य दुर्वचत्वात् , स्वर्गिणा- महं तत्सुखी स्यां मयि वत्सुखं स्यादित्यादिनिखिलेच्छानां यथार्थत्वमेव । अस्माकन्तु तादृश्याः कस्याश्चिदयथार्थत्वमपीति नासम्भवातिव्याप्ती॥०॥ अथैव दुःखासम्भिन्नत्वादेः प्रत्येकस्यापि स्वर्गिसुखमात्रवृत्तितया श- क्यतावच्छेदकत्वसम्भवे तादृशधर्मत्रयविशिष्टसुखत्वस्य शक्यतावच्छे। दकत्वे मानाभाव इति चेन्न येन रूपेण यत्पदादन्वयबोधस्तत्पदस्य तेनैव रूपेण शक्तिस्वीकारात् । तद्रूपच प्रकृते तादृशधर्मत्रयविशिष्टसुखत्वमित्येकैकमात्रस्यानतिप्रसक्त- त्वेऽपि तद्विशिष्ट एव शक्तिः कल्प्यतां विनिगमकाभावाच, अत एव- यन्न दुःखेन सम्भिन्नं न च प्रस्तमनन्तरम् । अभिलाषोपनीतश्च तत्सुखं स्वापदास्पदम् ॥ इत्यादिशक्तिग्राहकार्थवादोऽपि सङ्गतः। स्वापदास्पदमिति । स्वः पदवाच्यमित्यर्थः॥ इति महामहोपाध्यायश्रीगदाधरभट्टाचार्यविरचितः स्वर्गवाद(१५)वीचिः समाप्तः ॥ D (१५) प्रीतिवादवीचिः । देवताचैतन्यवादिमतेऽपि यत्र विष्णुप्रीतिरूपफलकामबोधकपदसम. भिव्याहारस्तत्रागतिरेव, तथाहि-विष्णुरीश्वरः, प्रीतिश्च सुखं, नैयायि. कादिभिश्च तदनभ्युपगमात् ईश्वरे सुखाङ्गीकर्तृभिर्भट्टादिभिरपि तत्सुखस्य जन्यत्वानभ्युपगमाश्च तत्प्रीतेः फलत्वानुपपत्तिः । न च विष्णुशब्दस्य व्याप्त्यर्थकविलृधातुघटिततयाऽधिकरणब्यापकार्थकत्वोपगमेन प्रीति. पदेन तस्य कर्मधारयोपगमादाधारव्यापकसुखधारायाः फलत्वेन तात्प. यंविषयत्वमिति वाच्यम् । तथापि 'मधुसूदनतुष्टये' इत्यादावगतिरेव । न च विष्यवादिशब्दः सुखविशेषे रूढः, येन सुखसामान्यवाचकप्रीत्या- दिशब्दस्य कम्मधारयोपगमेन लामञ्जस्यं भवेत् । तादृशरूढिग्राहककोशा. द्यभावात्, प्रवृत्तिनिमित्तापरिचयेन तत्पद्घटितविधिवाक्यस्य प्रवर्तक- तानुपपत्तेश्च । १६वाद १३८ वादवारिधी तथाच अत्राहुः-प्रीतितुष्टयादिपदं सुखपर्यायपठितमप्यत्रानुरागार्थक, त- त्रापि तत्प्रयोगदर्शनात् । अत एव 'तुष्टेर्मोचयत' इत्याचार्यश्लोके तुष्टि. रनुरक्तिरित्युपायकृता वर्द्धमानोपाध्यायेन व्याख्यातम् । विष्णौ प्रीतिरित्यादिसप्तमीसमासाश्रयणात् विष्णुविषयको विहितकर्मः कर्तुः प्रीतिरूपभाव विशेष एव तत्तत्कर्मफलतया विधिना बोध्यते, तस्य स्वतोऽपुरुषार्थ वेपि मोक्षफलकतयां काम्यत्वोपपत्तिः । न च सा. ऽप्रामाणिकी, 'परात्परतरं यान्ति नारायणपरायणा इत्यादिबहुतरम निवचनानां विष्णोक्तेर्मोक्षोपायतायां प्रमाणत्वात् , आलङ्कारिकमते शृङ्गारादिस्थायिभावस्य रत्यादेः स्वप्रकाशानन्दमयसम्विदात्मकरसरू. पतया परिणतिवत् देवादिविषयकरतिरूपभावस्थापि सुखरूपेणेति स्वतःपुरुषार्थत्वमेव । अत एव चमत्कारातिशयेन रसवद्भावस्यापि रस. भावतदाभासभावशान्त्यादिरक्रमः इत्यनेनालक्ष्यक्रमव्यङ्गयान्तःपरिगणन सङ्गच्छते । अत एव "न योगसिद्धीरपुनर्भवं वा वाञ्छन्ति यत्पादरजः प्रपन्ना" इत्यादिवचनैर्मोक्षस्य पुरुषार्थभिन्नत्वाभिधानमपि सङ्गच्छते, विष्णुभक्कावुत्कटरागेण तर सुखविरोधिमुक्तौ कामनानुदयसम्भवात् । 'प्रीयते भगवान् हरिः' इत्यादावपि हरिः सुखीभवतीति नार्थः, किन्तु कर्मतार्थकात्मनेपदेन धात्वर्थानुरागविषयताबोधात् भगवाननुरागविषः योक्रियते इत्येवार्थ इति न विरोधः ॥ 'तुष्यामि न तथा पुष्पैर्यथा तत्रोप. वासता इतिशिवरात्रिव्रतकथायां शिवकर्तृकतोषादिवाक्यान्यपि कथ. श्चित् सङ्गमनीयानि इति । प्रीतितुष्टयादिपदं विहितकर्मकर्तृपुरुषीयमालेच्छापरं, विष्णौ तदि. च्छाया नित्यत्वेऽपि तदंशे विशेषणीभूतस्य मोक्षस्यासिद्धतया तद्विशिष्टे. च्छायाः काम्यत्वनिर्वाह इत्यप्याहुः। वेदान्तानुयायिनस्तु-विशुद्धचैतन्यरूपे ब्रह्मणि न सुखोत्पत्तिः, किन्तु अन्तःकरणावच्छिन्नचिद्रूपे जीवात्मनीव मायावच्छिन्नचैतन्यरूपे ईश्वरे, मायापरिणामरूपं च तत्र शानसुखादिक, जीवात्मनि जायमानन्तत् बुद्धितत्त्वाख्याऽन्तःकरणवृत्ति, ईश्वरे जायमानश तत् ईश्वरोपाधिमाया- वृत्ति ।माया च गुणत्रयात्मिका श्रीकृष्णश्रीरामौ भगवत्यो हरिहरविर. चिप्रभृतयश्च प्रत्येकं मायांशसत्त्वतमोरजोऽवच्छिन्नचैतन्यरूपाः । अत्र च प्रमाणं 'सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तैर्युक्तः परः पुरुष' इत्यादिम- गवद्वाक्यम् । तथाच तेषु गुणपरिणामरूपस्थ जन्यसुखस्य सम्भवात् श्रीकृष्णादिप्रीतिकामनया कर्माचरणं शास्त्रार्थः । ईश्वरस्य जन्यज्ञाना- नभ्युपगमे 'तदक्षत बहुस्यां प्रजायेय' इति ईश्वरेक्षणबोधकश्रुतिविरो. .

(१६) विष्णुप्रीतिवादवीचिः। धः। तत्रावरणोपाधिसत्वेन्ह निर्वहति जन्माधुपाध्यवच्छेदः, एवमपि शिवादयो जीवा न, किन्त्वीश्वरा इति वदन्ति । न चैतन्मते सर्वाश्रयत्वेन चेश्वरस्य मनोलक्षणान्तःकरणसत्वे तस्य जीवत्वं दुर्वारमेवेति वाच्यम् । अन्तःकरणावच्छिन्नचैतन्यस्यैव जीव. त्वात् । तदुक्तं 'कार्योपाधिरयं जीवः कारणोपाधिरीश्वर' इति । कार्य मायाकार्यान्तःकरणमुपाधिविशेषणं यत्रेति व्युत्पत्त्या कार्योपाधिपदमा न्तःकरणावच्छिन्नार्थकम् । नच ईश्वरस्य मनोऽनभ्युपगमे 'वीक्ष्य रन्तुं मनश्चके योगमायामुपाश्रितः' इत्यादिकं श्रीकृष्णादेर्मनोबोधकवाक्यं वि- रुद्ध्येत इति वाच्यम् । तत्र मनःपदस्य भावार्थकासुप्रत्ययान्तेन निम्पन्न तया अभिसन्ध्यर्थकत्वात् , अन्तःकरणार्थकत्वेतु तदानीं तत्र करणत्वा. सङ्गतेः । तत्र च ब्रह्मस्वरूपे भगवति उपाधेरवच्छेदमन्तरेण रात्रिवीक्षण- पूर्वकविहाराभिसन्धानस्यासम्भवात् तदुपपादकस्य भगविशेषणस्योपा. दानं 'योगमायामुपाश्रित' इति मायात्मकोपाध्यवच्छिन्न इत्यर्थकम् , एवं रीत्या सर्वत्राविरोध इति॥ इति प्रीतिवाद (१५)वोचिः श्रीगणेशायनमः। अथ गदाधरमहाचार्यकृतो विष्णुप्रतिवाद(१६)वाचिः। अथ देवताचैतन्यवादिमतेऽपि यत्र विष्णुप्रीतिरूपफलकामसमभिः व्याहारस्तत्रागतिरेव विष्णावीश्वरे प्रीतिपदार्थस्य सुखस्य नैयायिकैरन भ्युपगमात् । ईश्वरे सुखानीकर्तृभिरपि तत्सुखस्य जन्यत्वानङ्गीकारेण तत्र फलत्वाप्रसक्तः । न च विष्यवादिशब्दः सुखविशेष रूढ़स्तेन सह सुखसामान्यपरप्रीत्यादिशब्दस्य कर्मधारयोपगमेन सर्वसामञ्जस्यमिति वाव्यम् । ईदशरूढ़िग्राहकस्य कोशादेरभावात् । अत्राहुः-प्रीतितुष्टयादिपदं सुखपर्यायपठितमप्यत्रानुरागार्थक, तत्रापि तत्पदप्रयोगदर्शनात् । अत एव- तुष्टोचयतः सर्वानतुष्टर्बध्नतः पुनः । कारागारमिदं विश्वं यस्य नौमि तमीश्वरम् ॥ इत्याचार्यश्लोके तुष्टिरनुरक्तिरित्युपायकृता वर्षमानोपाध्यायेन व्या. ख्यातम् , तथा च विष्णौ प्रीतिः विष्णुप्रीतिरित्यादिसमासाश्रयणाद् वि. ईणुविषयको विहितकर्मकत्तुरनुरागरूपो भावविशेष एव तत्तत्कर्मफलत- याबोध्यते, तस्य स्वतोऽपुरुषार्थत्वेऽपि मोक्षफलजनकतया काम्यत्वोपप- ६ १४० वादवारिधी त्तिः। न च साऽप्रामाणिकी, "परात् परतरं यान्ति नारायणपरायणा:३१ इत्यादिवचनानां विष्णुभक्तमोक्षोपायतायां प्रमाणस्वात् । आलङ्कारिक- मते शृङ्गारादिस्थायिभावस्य रत्यादेः स्वप्रकाशानन्दमयसंविदात्मकत. या परिणतिवद्देवविषयकानुरागरूपभावस्यापि सुखात्मना परिणतेः स्वतः पुरुषार्थत्वमेव । अत एव चमत्कारातिशयेन रसवद् भावस्यापि 'रसभावतदाभासभावशास्यादिरक्रम' इत्यादिनाऽसंलक्ष्यक्रमेषु परिगण. नमपि सङ्गच्छते । अतएव "न योगसिद्धीरपुनर्भवं वा वाञ्छन्ति यत्पादः रजप्रपन्नाः” इत्यादिभागवतमपि ॥ "तुष्यामि न तथा पुष्पैर्यथा तत्रोप वासत" इत्यादिशिवादिकर्तृकतोषबोधकवाक्यानि यथाकथंचित् सङ्गम- नीयानि ॥ अथवा प्रीतितुष्ट्यादिपदं विष्णौ विहितकर्मकर्तृपुरुषीयमोक्षादिरूप. फलेच्छादिपरं, तदिच्छायाः नित्यत्वेऽपि विशेषणीभूतमोक्षादेरसिद्धतया तद्विशिष्टतदिच्छायाः काम्यतानिर्वाह इत्यपि प्राहुः । वेदान्तानुयायिनस्तु-विशुद्धचैतन्यरूपे ब्रह्मणि न मुखस्योत्पत्तिः कि. न्वन्तःकरणावच्छिन्नचिद्रूपे जीवात्मनीव मायावच्छिन्नचैतन्यरूपे ईश्वरे मायापरिणामरूपस्य ज्ञानमुखादेः जीवात्मनि जायमानं ज्ञानमुखादिकं बुद्धितत्त्वाख्यान्तःकरणवृत्ति, ईश्वरे च जायमानं तदीश्वरोपाधिमाया. वृत्ति, माया च गुणत्रयात्मिका तथाच श्रीकृष्णश्रीरामौ भगवत्यो हरि. हरविरिञ्चयश्च प्रत्येकं मायांशसत्त्वरजस्तमोऽवच्छिन्नचैतन्यरूपाः । अत्र च प्रमाणे- सत्वं रजस्तम इति प्रकृतेर्गुणास्तैर्युक्तः परः पुरुषः एक इहास्य धत्ते । स्थित्यादये हरिविरिञ्चिहरेतिसंज्ञाः श्रेयांसि तत्र खलु सत्त्वतया नृणां स्युः॥ इत्यादि भागवतवाक्यम् । तथाच सर्वेषु गुणपरिणामरूपजन्यसुख. संभवात् श्रीकृष्णप्रीतिकामनया कर्माचरण शास्त्रार्थः सम्पद्यते। ईश्वरे जन्यज्ञानानभ्युपगमे "तदक्षत बहुस्यां प्रजायेयेति ईश्वरेक्षणबोधकच. तिविरुध्येत, बहुत्वमुपाधिबहुत्वेन निवर्हति । जन्मायुपाधिमन्तोऽपि शिवादयो जीवा न, किन्तु ईश्वरा एव-इति । ईश्वरभजनमप्येतन्मते न निश्श्रेयसाय कल्प्यते । न चेश्वरस्य मनो. लक्षणान्तःकरणवत्त्वेन तस्य जीवत्वं दुर्वारमेव, अन्तःकरणावच्छिन्न- चैतन्यस्यैव जीवत्वात् , तदुक्तं "कार्योपाधिरयं जीवः कारणोपाधिरी. श्वर” इति। कार्यमन्तःकरणमुपाधिविशेषणं यत्रेति व्युत्पत्या कार्योपा. (१) प्रीतिवाद-विष्णुप्रीतिवादयो. क्वचित क्वचिच्छब्दस्य वैलक्षण्येऽपि अर्थस्य तदभावादेक्यं प्रतिभाति । सम्भवति च लेखककल्पितः शब्दभेद इति निर्माता । - (१७) भक्तिमार्गवादवीचिः। १४१ धिपदमन्तःकरणावच्छिन्नचैतन्यार्थकम् । न च ईश्वरे मनोऽनभ्युपगमे "वीक्ष्य रन्तुं मनश्चक्रे योगमायामुपाश्रित" इति श्रीकृष्णस्य मनोबोधक वाक्यं विरुध्येतेति वाच्यम् । तत्र मनःपदस्य भावार्थकासुप्रत्ययान्तेन मनु ज्ञान इत्यनेन निष्पन्नतयाऽभिसन्धानार्थकत्वानान्तःकरणपरं तदानों तत्र करणत्वासंगतेः । तत्र ब्रह्मस्वरूपे भगवति श्रीकृष्णे उपाध्यवच्छेद- मन्तरेण वीक्षापूर्वकविहाराभिसन्धेरसम्भवात् तदुपपादकस्य भग- वद्विशेषणस्योपादानं-'योगमायामुपाश्रित' इति, मायात्मकोपाध्यव- च्छिन्न इत्यर्थः । एवंरीत्या सर्वत्राविरोध इति वदन्ति । इति गदाधरभट्टाचार्यविरचितो विष्णुप्रीतिवादवीचिः। अथ भक्तिमार्गवाद(१७)वीचिः। अथेदं विचार्यते--ननु --ननु भक्तिमार्गे माहाल्यज्ञानजननहेतुतयाऽऽनुकू. ल्येनोक्तः कोऽसौ ब्रह्मवादः ? उच्यते-"एकमेवाद्वयं ब्रह्म, पुरुष एवेदं सर्व, ऐतदात्म्यमिदं सर्व, स वै सर्वमिदं जगदित्यादिश्रुतिभिः प्रप- वरूपेणापि पूर्णप्रसन्नस्य स्वस्यावयत्वेन तदतिरिक्तस्याभावात् स्वस्य क्रीडार्थमाधारत्वेन प्रपञ्चरूपं सम्पादयितुं तद्रूपेणाविर्भूतो भगवानेवेति श्रुतितात्पर्यरूपः । ननु भगवत एव विलक्षणाभ्यां रूपाभ्यां द्वैतापचिरिति चेत् , न, "नेह नानास्ति किंचने त्यग्रिमभुत्या तद्वैलक्षण्यनिषेधात् । त. दर्थस्तु इह सर्वरूपतयाऽद्वये ब्रह्मणि प्रपञ्चरूपेऽपि सच्चिदानन्दतयैकरूपं वस्तुजातं नाना न किन्त्वब्रह्मदशायामविद्यया भासत एवातो न वैल. क्षण्यम् । अत एव वाचारम्भणश्रुतिर्विकाराणां स्वदोषेण प्रतीतानां मि. थ्यात्वं च वस्तुत्वेन सत्त्वं चाह । ननु वस्तुनोऽतथात्वे कथं तथा प्रतीति. रिति चेत् , न, मूर्तामू दिनानात्वप्रतीतावप्येकरूपत्वेन वस्तुन. स्तथात्वाभावात् । अत एव न ब्रह्मविदां तथाप्रतीतिः, स्वरूपमात्रदृष्टिः त्वात् । ये पुनर्वहिष्टयस्तेषामेव तथाभानान्न वस्तुनि तथात्वम् , तात्प. यन्ति विचाराभावेन तद्बष्टरगतस्वात् , अतएव विचारसिद्ध्यर्थकत्वेन शास्त्रसार्थक्यम् । अत एव च "अखण्डं कृष्णवत्सर्वमित्याचार्यवर्याः । तस्मात् सर्वरूपमवयं ब्रह्मेति सिद्धम् । नन्वेवं प्रपञ्चस्य भगवदुरूपत्वे मोक्षसाधनोपदेशेषु तस्य हेयत्वोप. देशः कथं शास्त्रे युज्यत इति चेत् , सत्यम् , स्वक्रीडार्थमेव तत्सृष्टस्तत्र विचित्ररूपे जीवानां स्वीयत्वेनासक्तिनमनिवारणाय, अन्यथा मुक्ताधि. कभक्तानां भजनोपयोगितया तत्परिग्रहो न स्यात् । ब्रह्मविदां वा ब्रह्म- १४२ वादवारिधी प्रतीतावहेयत्वबुद्धिर्न स्यात् । अतो भ्रमादासक्तिस्तनिवारणार्थमेव शास्त्रे तथोक्तिरिति जानीमः। ननु तदुपास्यत्वेन वेदान्तेषु प्रपञ्चरूपमेवोपदिश्येत मूलरूपत्वात् । न च वस्तु तथैवेति वक्तुं शक्यम्, सर्वत्र प्रसिद्धोपदेशादित्यधिकरणवि रोधादिति चेन्न । वेदान्तेषु ज्ञानार्थमुपासनानिरूपणं चित्तशुद्धिहेतुत्वेन, न तु सिद्ध शा. ने तथाचालान प्रत्येव प्रपञ्चरूपे सर्वाधिकत्वज्ञानाभावेनोपासनाऽसिद्ध स्तद्भिन्नस्य तथात्वमुच्यते, सिद्धे तु ज्ञाने सर्वत्र ब्रह्मस्फूचिवरणे वा भक्तिरिति नोपासनावसर इति भेदेन पूर्वमुपास्यनिरूपणमित्यर्थः, अत एव “वासुदेवः सर्वमित्यादिवाक्यानि । नन्वेवं शुद्धब्रह्मवादे जीवानामपि तद्रूपत्वेन भजनानुपपत्तिरिति चेत् । न, अंशशब्देन तद्रूपता तेषामंशांशित्वेन, ब्रह्मवादे ब्रह्मणः सर्वात्मकत्वं परं तत्तद्र पेण, "इन्द्रो मायामिः पुरुरूप ईयते” इति श्रुतेः। तथाच सह. जांशानां पुन: पूर्वभाषसम्पत्त्यर्थमविद्यादोषनिवृत्त्यर्थं च भजनोपपत्ति रिति भावः। ननु तथापि भजनमात्रपर्यवसायिनि पुष्टिमार्गे निवृत्त्यर्थदोषाभावा- तदनुपपत्तिरिति चेन्न । तथापि पुरुषोत्तमांशानां तेषां लीलार्थ ततो वि. युक्तानां पुनः सम्बन्धेन फलानुभवार्थम्भजनस्यावश्यकत्वात् । नन्वेवं भजनस्य साधनत्वे पुष्टिमार्गानुपपत्तिरिति चेन्न । भजनस्य तत्राभावरूपत्वेन फलरूपत्वात्तस्य साधनत्वेऽपि न क्षतिः । पुष्टि- मार्गः स एव यत्र फलं स्वयमेव साधनमित्यसकृदुक्तमाचार्यैः । अतएव पूर्व प्रादुर्भूय संयोगानुभवङ्कारयित्वा विरहेणान्तरभजनं सम्पादयितुं भगवत एव मथुरागमने रूपत्याग उच्यते । नन्वंशस्वेऽपि जोवानान्तदात्मकत्वेनान्यूनत्वाद्भजनानुपपत्तिस्तदव. स्थैवेति चेन्न । “बहुस्यां प्रजायेये"तिश्रुत्योचनीचभावेनैवेच्छया प्रकटनेन तत्र न्यूनत्वस्यापि सत्वात् । नन्वेवमवास्तवं न्यूनत्वमावातीति चेन्न । न्यूनत्वविशिष्टस्यैव तस्या- विर्भावात् । ननु तदिच्छाया: कारणत्वानुपपत्तिरिति चेन्न । इच्छाया ह्याविर्भावे कारणत्वं न स्वरूपस्यान्यथाकृतौ, तस्मान्मुक्तावपि कौस्तुभरूपेण स्थि. तिरिति भूषणरूपत्वेन न्यूनतायामन्यदा तथात्वे किम्वाच्यमिति कैमुतिः कन्यायेन तदात्मकत्वेऽपि तदंशस्वे न्यूनत्वं न स्ववास्तवमेवेति भावः । मत एव फलदशायामपि सत्त्वेन भजनस्य फलता, अन्यथा साधनत्वमेव स्या.

(१७) भक्तिमार्गवादवाचिः। त, तथा च स्वतन्त्रभक्तिमार्गोच्छेद एव स्यात् । अत एवांशानामपरिमि. तानां सृष्टी वह्रिस्फुलिङ्गवन्निर्गमेपि न न्यूनता, हस्ताद्धस्तान्तरस्थिता. विव सदूपे प्रपञ्चे स्थितत्त्वान्न न्यूनताशङ्कापीत्यर्थः ॥ नन्वेवं जीवानां सहजयंशत्वे देवासुरविभागस्तेषु कथमिति चेत् । अत्र वदामि-भगवान् भेदेन क्रीडाथ प्रपञ्चरूपमात्मानमाविर्भावयति, तत्रायं प्रकार: सच्चिदानन्दं ब्रह्मा, तस्य च धर्मरूपमेतत्रितयात्मकमतरं, तस्य च चिदंशा जीवाः क्रीडाथं पृथगिच्छया कृताः, अन्यथा वैचित्र्या. भावे क्रीडेव न स्यात् । अत एव जड़जीवान्तर्यामिचेकैकांशतिरोभाव. स्तथेच्छा च । अतः समुदितरूपस्य पृथककरणं क्रीडार्थ, तत्र मूलरूपेण क्रीडा बन्धमोक्षाभ्यामेव, ततो न लीलानित्यत्वसिद्धये बन्धमोक्षावपि नित्यौ वाच्याविति देवासुरविभागः । ननु तथापि किं देवत्वमसुरत्वं चेति चेत। उच्यते-सृष्टौ मायाशक्ते पृथक्करणे तत्परिगृहीतत्वमसुरत्वम्, अपरिगृहीतत्वं च देवत्वमिति वि. वेकः, भगवदंशत्वेऽपि मोहाथ सृष्टौ पृथग्भूतया मायया परिगृहीतत्वाद- सुराणां सम्पुटनिःसारितस्य चौरहस्तपतितस्योपायसहस्ररप्राप्यस्य द्रव्यस्य सम्पुटप्रवेशाभाव इव पुनर्भगवति प्रवेशाभावः । देवानान्तु कर. कलितरत्नस्य समीकृतस्य पुनःसम्पुटप्रवेश इव भवति भगवति प्रवेशः। अत एव सृष्टिमात्रमसुराणां भगवतो माययैव । तत्कृतमोहेन शानभक्ति- रूपशक्तिद्वयभार्याभावेन सायुज्यासम्भवात, अत एव भगवता "मामप्रा. प्यैवे"त्युक्तम् , तयोरेव तत्प्राप्तिहेतुत्वेन तेषु तदभावात् , तथाच पुरुषां- शजीवस्य स्त्रियों प्रवेशे तद्गृहीतस्य तस्य पुनः पुरुषाप्रवेश इव तेषां न भगवति प्रवेशः । तथापि पुत्र इव तत्रापि व्यवहारो लोके वेदे च भगवदं. शत्वमादायैव । एतेन प्रकृतिसम्बन्धांशत्वमपि व्यावहारिकमिवाभूदिति निरूपितम् । ननु तथापि प्रकृतेस्तच्छक्तित्वेन तदभिन्नाया आनन्दरूपत्वेनैव तत्र प्र- विष्टानामानन्द एवेति न कथं तत्प्राप्तिरिति चेन्न । प्राकटयाभावान तेषा. मानन्दगन्धोऽपीति वुध्यस्व, अन्यथा भक्तानामिवानन्दरूपदर्शने देवेतरा. रणामप्यानन्दानुभवस्स्यात् , अतस्तद्पाप्राकट्यमेव तत्रेति मन्तव्यम् । अत एव "मम मायेति, राक्षसीमासुरीं चैवेति वाक्यद्वयबोधितसम्बन्ध- तदभावाभ्यामेव भगवता देवासुरमाययोभद उक्तः । मोहोऽप्युभयत्र का. यभेदेन भिन्न एव एकत्र मोक्षार्थोऽपरत्र च बन्धार्थ इति बोध्यम् । अत एवालदूपत्वबोधनाय क्रूरत्वार्थ राक्षसीत्वमध्युक्तम् , तेषां सहजकूर- स्वात् उपाख्याने तेषु लक्षणत्वेन दयाभावप्रतिपादनात् , अत एव वादवारिधी "विना पशुब्नादिति भागवतेऽपि लक्षणं तेषां तदेवोक्तम् । कार्यान्त. रभावाय मोहिनीत्वमप्युक्तम् । ननु प्रकृतः प्रलये, भगवति लये तद्वारा तेषामपि लयात्परम्परया भगवत्सम्बन्धे कथं न तदानन्दानुभव इति चेन्न । प्रलये तत्सम्बन्धेऽपि व्यवधानेन तदानन्दाननुभवात्, अन्यथा प्रलयमुक्तयोर्न भेदः स्यात, प्रल. यस्यैव मुक्तित्वे मुक्तयर्थकलाधनानुष्ठानवैयापत्तेः, नहि कोऽप्य. बालिशः प्रलयाय यतते, अतो मुक्तिभिन्नैव स्वरूपानन्दानुभवरूपा, प्रल. यस्तु कृमीणामिोदरवर्तित्वमा स्वविषयानुभवश्च, न तावतानन्दानु. भवः, तस्य भक्तिसाध्यत्वात् । सा च भक्तिस्नेहरूपति तदानीं भगवद्धृ. दयस्थितिरेव । अत एव लक्ष्म्यादीनां तत्रैव स्थितिः। अत एव "साध. व हृदयं ममेत्यादिवाक्यानि । जयदेवोऽपि "राधामाधाय हृदया इत्युक्तवान् । अतः प्रलये निद्रायामिवानेकजन्मक्लेशापाय पवेति सर्व सुंस्थम्। निजाचार्यानुकम्पातः संशयोऽयं निराकृतः। हरिदासेन तुप्यन्तु तेन ते स्वामिनो मम ॥ इति विद्वद्वर श्रीहरिदासविरचितो भक्तिमार्गवाद(१७)वीचिः समाप्तः ॥ मथ (१)नित्यमुखबाद(२८)वीचिः । ईश्वरः सुखवान्न वेति विप्रतिपत्तिः। अत्र प्रायः-ईश्वरो न सुखवान् सुखसामग्रयभावात् , तथाहि-धर्मारसुखमधर्माद्दुःखमिति दर्शनात् सुखत्वेनैव धर्मत्वेन लाघवात्कार्यकारणभाव इति धर्माभावात् ईश्वरे न च वाजपेयादिजन्यविजातीयापूर्वस्य विजातीयस्व. हेतुत्वकल्पनात् सामान्यतः सुखत्वेन धर्मस्वेन कार्यकारणभावे मानाभाव इति वाच्यम् । “यधिशेषयोः कार्यकारणभावो वाधकं विना तत्सामान्ययोरपीति व्याप्तिबलात्तसिद्धेः, स्वव्यापारद्वारा वाजपे- यादेरेव विलक्षणसुखादिजनकत्वेनातिप्रसंगभङ्गे वाजपेयजन्यविजातीय. धर्मत्वेन विजातीयस्वर्गत्वेन हेतुत्वे मानाभावाच । न च वाजपेयादीनां विहितत्वेनैव रूपेण स्वर्गजनकत्वं, वाजपेयजन्यविजातीयापूर्वाणां तु लाघवात् समवायेन विजातीयस्वर्गजनकत्वमित्यतिप्रसङ्गभङ्ग इति स्वव्यापारद्वारा वाजपेयादीनां विजातीयस्वर्गहेतुत्वे व्यापारत्वादिन. वेशे गौरवम् । न चैवंसति विजातीयापूर्वाणां तत्त्वेन हेतुत्वे विनिगमना. (१) यद्यप्येष वादो न्यायशास्त्रप्रतिकूल तथापि उपादेयतया प्रीतिसन्ततया च सन्निवेशित इति । एवमग्रेऽपि बोध्यम् ।

(१८) नित्यसुखवादवीचिः । १४५ विरहः धर्मत्वेनापि तत्लस्भवादिति वाच्यम् । शाजपेयेन यजेत्यत्र तदुपस्थापितवाजपेयत्वादिनैव हेतुन्वन , म बेहेने प्रवाधानत्वबोधस्य विनिगमकत्वात् । इण्डे। घटकारवाहित्याशियदात् दण्डत्वलेव. रूपेण घटकारणत्वबोधस्यानुभवसिद्धत्वात् स्वव्यापारद्वारा इत्यस्य सम्बन्धेपर्यवसानेन सम्वन्धगौरवस्य बहुतारकार्यकारणभावेषु कल्पना- হিনি স্বাভ। বল্লাহি ওয়াঘা মল নিষানীঘায়ুৰজনীৰ স্বয়লা , না লায়লাখবি চাম্বীনিযঃ । न च नित्यं विज्ञानमानन्दं ब्रह्म, जालन्दो ब्रह्मेत्यादिश्रुतिभिरीश्वरे आन. न्दस्यवोधात् सिद्धिरिति वाच्यम् । नत्रानन्दपदेनानन्दजनकस्टव बोध- नाव , विज्ञानानन्दयोर्ब्रह्मण्यसेदबोधस्य श्रुतिस्वरलसिद्धस्य चेश्वरे नि. त्यसुखस्वीकारेप्युपपादयितुमशक्यत्वाच । न च ज्ञानानन्दयोरभेदबा. धादेव नित्यज्ञानानन्दवत्वे लक्षणेति वाच्यम् । तथामति पूर्वरीत्याऽऽन. न्दजनके दुःखाभाववति वा लक्षणेत्यस्य वक्तुं शक्यत्वादित्याहुः । नवीनास्तु-ईश्वरः सुखवान सुखवस्वेन वेदबोधितत्वात् , हि-नित्यं विज्ञानमानन्दं ब्रह्म, आनन्दो ब्रह्म' इत्यादिश्रुतयोज्ञानानन्द . योरभेदस्य बाधाल्लक्षणया ईश्वरस्य नित्यज्ञानानन्दवत्त्वं बोधयन्तीति । न व पूर्वोक्तयुक्त्या सुखत्वेन धर्मत्वेन कार्यकारणभावोऽत ईश्वरे सुखस्य बाधात् सुखजनके दुःखामावति वा लक्षणव युक्तति वाच्यम् । ता- दृशकार्यकारणभावे मानाभावात् , यद्विशेषयोरिति व्याप्तरप्रयोजकत्वा- त् । न च लाघवात्समवायसम्बन्धेना पूर्वस्य तद्द्वारा च वाजपेया. दोनों विजातीयसुखहेतुत्वेनातिप्रसङ्गभङ्गे व्यापारस्यापूर्वस्य धर्मत्वेनैव सामान्यतः मुखत्वावच्छिन्नं प्रति हेतुत्वं वाच्यमिति वाच्यम् । विजाती- यसुखत्वावच्छिन्नं प्रति विनिगमनाविरहादपि वाजपेयजन्यापूर्वाणां हेतु. त्वात् । न च वाजपेयेन यजेतेत्यत्रोपस्थितरूपेणैव कारणता बोध्यत इति. नियमे प्रमाणाभावः, तद्बोधस्यौत्सर्गिकत्वात् , अन्यथा वाजपेयेन यजे- तेत्यत्राभेदसम्बन्धेन वाजपेयविशिष्टयागत्वेन उपस्थितेनापि रूपे जेष्टसाधनत्वबोधनं स्यात्, न चैवं सम्भवति, लाघवेन वाजपेयत्वेनैव हेतुत्वादिति, किञ्च विजातीयापूर्वसम्बन्धेनाऽपि वाजपेयादेः स्वर्गादि. पूर्ववृत्तित्वाभावेन विजातीयस्वर्गनियताव्यवहितपूर्ववृत्तिविजातीयापूर्व- जनकत्वं परिभाषिकमेव विजातीयस्वर्गकारणत्वं वाच्यम् , तथाचैताद्व- शकारणत्वल्पनामपेक्ष्य तत्र लाघवेन विजातीयापूर्वत्वेनैव विजा. तीयस्वर्गहेतुत्वकल्पनाया उचितत्वमिति, एवञ्च यागादीनां विहितत्वेनैव रूपेण. पूर्ववृत्तिभावेन हेतुत्वम् , अतिप्रसङ्गभङ्गस्तु विजातीयापूर्वाणां . १६ वाद० वादवारिधी विजातीयस्वर्गहेतुत्वेनैव, न च इष्टप्रयोजकत्वमात्रबोधनात् यागादेः स्वर्गादिहेतुत्वसम्भवः, येन तस्य विजातीयापूर्वसम्बन्धेनातिप्रसङ्गः सम्भाव्यतापि। अथैवमवच्छेदकतासम्बन्धेन सुखत्वावच्छिन्नं प्रति शरीरत्वेन का. रणतायाः कल्पनादीश्वरे नित्यसुखबाधः । न च तादृशकार्यका. रणभावे मानाभाव इति वाच्यम् । स्तम्भाधवच्छेदेन सुखाद्यापत्तिवार. णाय तस्य वाच्यत्वात् । न चैवं तुल्ययुक्त्या ज्ञानत्वन शरीरत्वेन लाघ- वारकार्यकारणभावे क्लृप्ते नित्यज्ञानमपीश्वरे न सिद्धयेदिति वाच्यम् । कार्यत्वावच्छिन्नस्य समवायसम्बन्धेनोत्पत्तिं प्रति विषयतासम्बन्धेन प्रत्यक्षत्वेन हेतृत्वात सर्गाद्यकालीनद्वयणुकोत्पत्तिपूर्व जन्यज्ञानस्यास. म्भवात , नित्यज्ञानसिद्धौ जन्यज्ञानस्वस्यैवान्यथानुपपरया शरीरकार्य: तावच्छेदकरवात् । न च नित्यं विज्ञानमानन्दं ब्रह्मेत्यादिश्रनिरवेश्वरे नित्यसुखं बोधयतीति वाच्यम् । तत्र लाघववशात् क्लुप्तोक्तकार्यकारण. भाववलेन नित्यसुखबाधे सुखजनकस्य दुःखाभाववतो वा लक्षणया बोध- नसम्भवादित्यादेरनुक्तस्वादिनि चेत् । शरीरत्वेन्द्र सुखत्वेनोक्तकार्यकारणभावे मानाभावात् । अवच्छेदक- तासम्बन्धेन तदात्मीयविजातीयसुखत्वावच्छिन्नं प्रनि विजातीयचन्दन. संयोगे हेतुत्वस्यावश्यकताया एवोक्त-वान, तादृशविशेषसामग्रयभावे. नैव स्तम्भाधवच्छेदेन सुखाधनापत्तेः । नचात्र संयोगे वैजात्यं कल्पयिः स्वा तादृशकार्यकारणभावकल्पने मानाभावः, नथाचावच्छेदकतासम्बन्धे. न तदात्मीयविजातीयसुखत्वावच्छिन्नं प्रति संयोगत्वेन रूपेण चन्दनसंयो. गस्य हेतुत्वात् , तस्य च स्तम्भादौ सम्भवादवच्छेदकतासम्बन्धेन तदा- स्मायसुखाद्यापत्तिवारणाय शरीरत्वेन सुखत्वेन कार्यकारणभाव आवश्यक इति वाच्यम् । यथाकथञ्चित् चन्दनसंयोगाच्चन्दनद्वयणुकसंयोगाद्वा वि. जातीयसुखानुत्पत्तेः विजातोयचन्दनसंयोगत्वेन हेतुत्वस्यावश्यकत्वात् , स्वीयशरीरचन्दनसंयोगाच्छरीरावच्छेदेन तदात्मीयसुखानुत्पत्त्या नवापि मते तादृशमुखं प्रति विजातीयचन्दनसंयोगत्वेन हेतुताया आवश्यकत्वा. च्च। न चाभिमानिकसुखस्थले अहं विद्यावानित्यभिमानस्य विजातीयसु. खहेतुत्वम्, कार्यकारणयोः पक्षे सम्बन्धः समवायः, एवं तत्र सम्बन्धत्वेना. वच्छेदकतायाः तदात्मीयत्वस्य च प्रवेशे गौरवात् , तथा च तादृशसुख. स्य शरीरावच्छेदेनेव स्तम्भाधवच्छेदेनापत्तिवारणायोक्तरीत्या शरीर. वेन मुखत्वेन कार्यकारणभाव आवश्यक इति वाच्यम् । तदात्मीयतादू. शमुखस्य परात्मीयशरीरावच्छेदेनापत्तिवारणाय एतादृशसुखल्यावच्छे (१८) नित्यमुखवादवाचिः । दकतासम्बन्धेनोत्पत्ति प्रति तदात्मीयतादृशाभिमानविशेषस्यावच्छेदक- तासम्बन्धेन हेतुत्वस्यावश्यकत्वात् , विशेषसामनयभावादेव स्तम्भाध- वच्छेदेन तादृशसुखाद्युत्पत्तरसम्भवात् । एतेन समवायसम्बन्धेन सुख- त्वावच्छिन्न प्रति तादात्म्यसम्बन्धेनात्मत्वेन हेतुत्वान्नित्यमुखस्यासम्भः वः, नित्यश्चानप्रतिवन्दिनिरासः पूर्वमेव कृत इत्यपास्तम् । धर्मादेः सुखादिहेतुत्वेनैवात्मभिन्ने सुखाद्यत् पत्त्यसम्भवे पृथक्कार्यकारणभावे मानाभावात् , समवायिकारणत्वं तु सामान्यतः कार्यत्वेन द्रव्यत्वेन का. यकारणभावेनापि निर्वते । केचित्तु-अात्मविशेषगुणत्वावच्छिन्नं प्रति आत्मत्वेन लाघवादुधेतु. त्वम् । आत्मविशेषगुणत्वञ्च झानेच्छाकृतिधर्माधर्मसुखदुःखसाधारणो जातिविशेषः, सचात्मनिष्ठसमवायिकारणतानिरूपितकायतावच्छेदकतया सिद्धः, तत्र नित्यज्ञानानुरोधाजन्यत्वनिवेशश्चावश्यक इति नित्यसु. खबाधः । तद्वयक्तित्वेन हेतुत्वमते तु सुतरामात्मत्वेन सुखत्वेन कार्य: कारणभावे मानाभाव-इत्याहुः। ननु तथापीश्वरे सुखसत्त्वे किं मानम् । नच 'नित्यं विज्ञानमानन्दं ब्रह्म' त्यादिश्रुतिरिति वाच्यम् । समानविभक्तिकपदानामभेदान्वयबोध. जनकत्वबलेन ब्रह्मणि नित्यविज्ञानानन्दानामभेदस्यैव तादृशश्रुतिभि. बोधनादिति चेन्न। न्यायनये ज्ञानत्वमुखत्वजात्योः सांकर्यभयात् शानसुखात्मकव्यक्ते. रस्वीकारात् । ईश्वरे ब्रह्मणि ज्ञानमुखाभेदस्य तन्मते बाधाद्विज्ञानपदे विज्ञानवति आनन्दपदेच अानन्दवति लक्षणास्वीकारात् , न चानन्दं ब्र. त्यत्रानन्दपदस्य नपुंसकलिङ्गत्वानुपपत्तिः, आनन्दपदस्य पुल्लिङ्गया दिति वाच्यम् । श्रुतौ लिङ्गव्यत्ययस्वीकारात् । यद्वानन्दपदोत्तरं युक्तार्थ. कप्रत्ययस्वीकारात्तदसिद्धः। न च तथाप्यानन्दपदस्य आनन्दजनके ल. णाया अभावेऽपि युक्तार्थकप्रत्ययस्वीकारे जनक-वरूप एव योगो मन्य. तामिति वाच्यम् । जनकत्वस्य गुरुतया समवायसम्वन्धेनानन्दवत्त्वस्यैव लाघवेन श्रुत्या बोधनात् । स पुनरीश्वरनिष्ठ आनन्दो लाघवान्नित्य एव कल्प्यते, प्रागभावध्वंसकल्पने तादशानन्तकारणकल्पने च गौरवाल्लाघवेन सुखत्वादेर्धर्मादिजन्यतावच्छेदकत्वनियमेन च तादशानन्तप्रागभावध्वं. सादिकल्पनागौरवस्य फलमुखत्वाभावात् । एवञ्चेश्वरः संयोगवान द्रव्यत्वादित्यनुमित्या ईश्वरे संयोगसिद्धौ तत्संयोगप्रागभावग्वंसतत्संयो. गकारणत्वकल्पने गौरवात् संयोगां नित्य एव सिध्यत्विति प्रतिबन्धापत्ति- परिहारोऽपि न सावकाशः क्रियाजन्यसयोगस्थले सामान्यतः क्रियात्वेन १४८ वादवारिधी संयोगत्वेन घटात्मसंयोगत्वेन वा कार्यकारणभावकल्पनातेनैवेश्वरसंयो- गोपपत्तौ नित्यस्य संयोगान्तरस्येश्वरे कल्पने गौरवात् । परे तु नित्यं विज्ञानमानन्दं ब्रह्मेत्यादिश्रुतयोविज्ञानानन्दविशिष्टस्य ब्रह्मणो नित्यत्वं बोधयन्तो विशेषणस्य विज्ञानसुखादेरपि नित्यत्वं बोध. यन्ति, विशेषणस्य विशेष्यान्वयिनाऽन्धयस्य श्रुतौ व्युत्पन्नत्वात् । अतएवा रुणयैकहायन्या गवा लोमंक्रीणातीत्यत्र श्रुतावारुण्यस्यापि गोविशेषण तया ऋयलाधनत्वबोधः । अधिकं शब्दभण्यालोकविस्तारे विवेचयि. षयाम इत्याहुः। एवञ्च 'मानन्दं ब्रह्मणो रूपमित्यत्र अानन्दपदे लिङ्गव्यत्यय एव स्वरूपबाध को हेतुः । भानन्द पदे लक्षणया प्रानन्दवतो बोधने लिंगव्य. त्ययेन शक्तया बोधने तु युक्तार्थकप्रत्ययस्वीकारेणोपपत्तिरित्याहुः । इति ईश्वरे नित्यसुखव्यवस्थापनवाद(१८)वीचिः॥ . অথ গ্ৰনাথালাঙ্গুলঃ লালাল वाद (१९) बीचिः । पाको मतकृतीति। अथ अत्र स्वेच्छाधीनमत्कृतिसाध्यत्वं साध्यं हेतु. श्व स्वचिकीर्षाप्रयोजकेच्छाविषयसाधनत्वं, तेन श्रमनाशरूपेष्टसाधनश्रमे प्राणपंचकसंचारे च न व्यभिचार इत्युच्यते, तदा तत्रापि जीवने गायाः स्वचिकीर्षास्वरूपयोग्यत्वादुक्तव्यभिचारतावस्थ्यम् फलापधानस्य च प्रागज्ञानात् । यदि चेच्छाधीनमत्कृतिलाध्यत्वं साध्यम् इदानीं मतकृति विनाऽसत्त्वे सति प्रोदनसाधलत्वं हेतुः तेन न प्राणपंचकसंचारे व्यभिचा- रः स्वरूपसदिच्छाविषयौदनादिसाधनत्वधिय रव प्रवृत्तावुपयोगित्वात् स्वरूपसदिच्छाविषयत्वबोधनाय इष्टत्वेनौदनादिनिर्दश इत्युच्यते, तदा तत्रापि श्रमव्यावृत्तसाध्यलाभे श्रमनाशरूपेष्टलाधने प्रवृत्त्यापत्ते, साध्ये स्वे छाधीनत्वस्यावश्यकत्वे हेतावपि नान्तरीयके व्यभिचारितया तत्प्रवेशे व्यर्यविशष्यता चेति, तस्मात् सत्यन्तमेव हेतुः इदानींकृतिसा. ध्यत्वमेव साध्यम् । केचिचु इष्टसाधनत्वलिङ्गककार्यताज्ञानायोक्तसाध्यं बलवदनिष्टा- ननुबन्धीष्टसाधनत्वेन फलान्यत्वे सति बलबदनिष्टाननुबन्धित्वेन वा विशेषयन्ति । ननु यद् वस्तुगत्या बलवदनिष्टाननुबन्धीष्टसाधनं तत्र व्य. तिरेकम्रमादसत्त्वेऽपि वा लभ्रमे प्रतिबन्धकाधन प्रवृत्तिस्तन्न व्यभिचा- स। मैवम् , तस्यालीकतया तत्र हेत्वसत्त्वात् । अत एव न तदर्थीमष्ट .

(१९) रघुनाथशिरोमणिकृतो पाकानुमानवादवाचिः। १४९ । साधनत्वविशेषणं तत्र प्रवृत्त्यभावे फलोपधानमेव नास्तीति, प्रतिबंधका- भावे सतीति वा विशेषणं देयं हेतोः, साध्यं च कृतिफलोपधानम् । केचित्तु इदानीं स्वेच्छाधीनमत्कृतिसाध्यत्वं साध्यं, हेतुश्चेदानीमि. च्छाधोनकृति विनाऽसत्त्वे सति इष्टसाधनस्वम् , कालिकवीपसादाच्च न. चान्तमध्यस्थितदैववशसिद्धमीनादौ व्यभिचारः। स्वविशेषणवत्ताज्ञान. समानकालीनस्य कार्यताज्ञानस्यैव प्रवर्तकत्वात् , एतद्धेतुजन्यत्वनियम. स्य च तत्र मानाभावेन यदीयान्यथालिद्धया कृत्या नेष्टान्तरं तस्यैवात्र मत् पदेन विवक्षितत्वात क्वचित्तस्याप्युक्तानुमानस्येष्टत्वात् । तृप्तभोजने व्यभिचारवारणाय इष्टसाधनत्वम् , तादृशमवच्छेदकं वा सिद्धमधुभोजन- जन्यमुखत्वादि उक्तमधुविषदंपृक्तभोजनजन्यसुखेऽपीति तादृशभोजने व्यभिचारवारणाय बलवदित्यादि । साधनत्वं च फलोपधानं वाच्यम् , अन्यथा संजातबाधभोजने प्रवृत्त्या इष्ट फलायउपस्थिते व्यभिचाराभावा- देवतद्वैयर्थ्यापातात् । यद्वा स्वेच्छाधीनमत्कृति विनाऽसत्वं प्रथमदलार्थः, तेन न नान्त. रीयके व्यभिचारः। भावियौवराज्येप्येतद्वारणाय इदानीमिष्टसाधनत्वं, इष्टसाधनत्वं च फलोपधानगर्भितं विवक्षितम्, इदानीं कस्यापि फलस्या. नुपधानादिति प्राहुः। अत्र च प्रथममते संजाततृप्तस्याप्रवृत्त्या तदनुत्पादात्कुत्र व्यभि. चारवारणाय विशेषणमिति विभावनीयम् । अत एवेदानी मत्कृतिला. ध्यत्वं साध्यं, साध्यत्वं च तच्छक्यत्वं, तत्तु गुरुनये पदार्थान्तरघटित. धर्मान्तरम् , अन्यमते च कृतिविशिष्टकारणतानिरूपकत्वं स्वरूपसंबंध. विशेषः तच सिद्धभाविराज्यव्यावृत्तबाधावतारेपि, तथा च तत्र व्यभि- चारवारणाय बलवदित्यादि । पत्र बम इति । प्राभाकरमाशयमिति शेषः । ननु असिद्धे पाके कथमे- तत्कालवृत्तित्वघटितवानं संभवति बाधात् । अत्र कश्चित् विशेषरूपेण बाधेऽपि सामान्येन रूपेण तदभावादिदानींतनत्वघटितोक्तहेत्वसंसर्गान- हादिदानीकार्यताधी विपाके । यद्वा विद्यमानपाक एव उक्तहेतुसामा. नाधिकरण्यविशिष्टपाकत्ववानयमिति ज्ञानं पक्षधर्मतावानात्मकमनुमा- नं जनयति, तत्र सामानाधिकरण्यं भाविपाकघटितमपि संलगामर्यादया भासत इति । तत्र पाकत्वेन प्रकारेण सिद्धपाके पाकः सिद्ध इति हे विरोधिनि सति कृतेरसंसर्गाग्रहासम्भवात् । असंसर्गाग्रहादनुमिति. रित्यप्यपसिद्धांतात् व्याप्यतावच्छेदकप्रकारेण हेतोः पक्षतावच्छेदक- सामानाधिकरण्यग्रहं विनानुमित्यनुत्पादाच ॥ इदानींकतिव्यतिरेका १५० वादवारिधी सत्वघटित हेत्वप्रसिद्धः तत्सामानाधिकरण्यविशिष्टपाकत्वस्य ज्ञानासं. भवात् तत्पीकस्यानुपस्थितत्वात्तद्घटितसंसगज्ञानासंभवात् । अत्र पर्वते धूमो नास्तीति ज्ञानेऽपि पर्वतत्वंवहिव्याप्यसमानाधिकरणमति ज्ञानादनुमित्यापत्तेश्च । अन्यस्तु पाकसाध्यमिष्टमितीच्छाया भाविपाकमादायोत्पत्त्या ततः पा. कसाध्यमिच्छामीतिज्ञानाद्वस्तुतो भाविनः पाकस्य पाकत्वेन प्रसिद्धिः, एवं च यथोक्तहेतुशानं भाविपाक एव प्रसिद्धं, पाकमित्यस्य विशेषरूपेण ज्ञातमित्यर्थः पाकत्वेन प्रसिद्धस्य पाकत्वादिविशेषरूपेण ज्ञातस्येत्यर्थ इ. त्याह । तदपि मन्दम् । भाविपाकस्य इच्छाविषयत्वानुपपत्तेः । इच्छाविष यत्वेऽपि इच्छामीति प्रत्यक्षे तदभावात् । अलौकिकप्रत्यक्षानंगीकारात् ज्ञा- नान्तरस्य तद्विषयकस्य सामग्रयभावात् । अपरस्तु कालगर्भव्याप्तिग्रहः कस्यचिन्मत एवोक्तः । वस्तुतस्तद्घटितव्याप्तिग्रह एव, तथाच हेतुज्ञा. नासिद्धपाकं सिद्धत्वेन ज्ञातं विहायासिद्धं पाकमादाय कृतिसाध्यत्वं सि- द्धयति नहि सिद्धत्वं यदा यत्र तदा तत्र तन्मतेऽसिद्धत्वं साध्यत्वं वा, एवं च कृतिसाध्यत्वं कृतौ सत्यामग्रिमक्षणे सत्वं सिद्धयनिमक्षणं इदानोंरूपं पक्षधर्मताबलाल्लाघवाच्चादाय सिद्धयति । न च कथमिदानीन्तनत्वं प्रका- रः मन्मते एकविशेषबाधेऽपरविशेष प्रकारकत्वनियमात् । यद्वा सर्वत्र कालो विनाबाधकं भासते यन्मते तन्मते न दोष इत्याह । तत्र कालगर्भ व्याप्तेः कृतत्वात् तद्ग्रहं विना इदानींतनत्वप्रकारकज्ञानानुपपत्तेः । यथाहि सिद्ध पाके सिद्धतया ग्रहेपि मत्कृति विना असत्त्वघटितं लिङ्ग ज्ञायते कालान्तरपुरस्कारात् तथाऽतीतकालमादाय कृतिसाध्यत्वसिद्धया. ऽर्थान्तरं स्यात् तावतापि चरिताथत्वात् । उपस्थितायाः कालान्तरीण. कृतिसाध्यतायाः कल्पने लाघवात् । पाकान्तरस्येदानींकृतिसाध्यताया- श्वानुपस्थिताया कल्पन एव गौरवात् । नहि यत्र यदा सिद्धत्वं गृह्यते तत्र तदा साध्यत्वमसिद्धत्वं वा गुज्नये न गृह्यते किन्तु सिद्धतावस्था- विशिष्टे नासिद्धत्वं साध्यत्वं वा गृह्यते, कालभेदमादाय हे स्वरूपमात्र- प्रहे चाविरोधात् ॥ अथ कालघटितव्याप्तावपि इदानींकालस्य पक्षतावच्छेदकतया तद. वच्छेदेन कृतिसाध्यत्वं सिध्यद्वर्त्तमाने वाधाद्भाविपाकमादाय सिद्धयती. ति चेत् । एवमपि कृतेः इदानीन्तनत्वालाभात् तदुपरक्तज्ञानं हि प्रवर्त- कमिति व्यवस्थापितम् । नच व्यापकवद् व्यापकतावच्छेदकघटकस्यापि पक्षतावच्छेदककालोपरागेण सिद्धिःपर्वतोयमिदानीमारणेयवह्निमानित्य- मनुमित्यनन्तरमपि किमिदानीमरणिरस्ति नवेति संशयात् । इदानी- (१९) रघुनाथशिरोमणिकृतो पाकानुमानवादवीचिः। १५१ साध्यताधीश्च हेतुः । कृत्यनन्तरसत्वस्वरूपमिदानीमिति ज्ञानं हि विरो. ध्येव विषयतया संभवति इदानीन्तनकृत्यैव कालान्तरे सेत् स्यतीति ज्ञा नात् प्रवृत्तिस्थले व्यभिचारश्च । किन्विदानींकृत्या एतदप्रिमसमये सा. ध्यमिति ज्ञानं प्रवर्तकं, तस्मात् प्रवृत्युपयोगिनः कृतेरिदानोन्तनत्वस्य लाभाय कालगर्भाज्याप्तिरुता कथमुत्तानकदेशितेन नेया। मैवम् । वस्तुगत्या क्रियमाणपाक एव इदानीन्तनकृति विनाऽसत्रय. मासीदिष्टसाधनं चेति शानसम्भवात् । साध्यएतदनिमकालीनत्वं तु पक्षतावच्छेदकैतदनिमकालसंसर्गमर्यादया लभ्यते । क्रियामाणोहि पाका एतदग्रिमकालस्थायी, अन्यथा क्षणिकत्वापत्तेः। तथाच पक्षतावच्छे. दकैतदग्निमकालावच्छेडेन साध्यं सिध्यवर्तमाने बाधाभाविपाकमादाय पर्यवस्यतीति । नचानिमकालो न ज्ञाता, उत्पत्स्यमानः पाकः एतत् क्षणविरोधिकालावस्थायी क्रियात्वादित्यनेनाग्रिमकालानुभानात् । नच भाविपाकस्याज्ञानादाश्रयासिद्धिः, हेतोस्तदुरत्तित्वाशानाच्च स्वरूपा. सिद्धिरिति वाच्यम् । पक्षतावच्छेदकप्रकारकज्ञानस्य हेतुत्वात् । तच्च ज्ञानं तत्र तजातीयेवेत्यन्यदेतत् । एतत्पर्वते धूमाभावं जानतोऽपि वह्नय. नुमितिप्रसंगस्य तवापि तुल्यत्वात् । इष्यत एव एतत्पर्वतत्वरूपेण एत पर्वतेप्यनुमितिः । अस्तु वा तादृशज्ञानमेवानुमितिविरोधीति तुल्यं म. मापि। यत्तु नानाव्यक्तिज्ञानं सामान्यतः संभवतीति। तत्तुच्छं, सा. मनयन्तराभावात् । न च सिद्धपाके बाधबोधेप्यनुमितेरुत्पत्तावंशतो बाधोच्छेदः, यदंशे बाधस्तदंशेऽनुमितिविघटकनयैव तस्य दोषत्वात् । नन्वेवं भागासिद्धिर्न दोषस्तभागेहेतुज्ञानाभावेपि अनुमितिसाम- प्रीसत्वात् । न च वस्तुगत्या तद्भागे हेतुज्ञानं हेतुः । अतीतादावनुमि त्यभावापत्तेः। नच वस्तुगत्या सकलपक्षवृत्तारेव पक्षतावच्छेदकाधि. करणयर्किचिवृत्तितया ज्ञानं कारणम् । एवं भागासिद्धिस्थले यद्भागे हेतोनिं तद्भागेप्यनुमितिनं स्यात् । नचेष्टापत्तिः अनुभवविरोधात्। न. च पक्षतावच्छेदकनानात्व एव भागासिद्धिदोष इति वाच्यम् । पर्वतत्वेनैव रूपेणैतत्पर्वते वह्निव्याप्यैतत्पर्वतत्वज्ञानात् पर्वतान्तरे तत्पर्वतत्वाभावं जानतोऽनुमितिप्रसङ्गः। उच्यते । भागासिद्धन्वं भागे हेत्वभावः, तज्ज्ञानात्मकं च प्रतिबन्धक साक्षादेव, यत्र पक्षतावच्छेदकैक्यं तत्र भागे हेतुज्ञानाभावे न दोषः हेतु. सत्वादिति, तस्मादेतदपि दूषणं द्रष्टव्यमिति प्रलपितमप्यपास्तम् । नन्वसिद्धं साध्यं सिद्धं च साधनमिति सिद्धत्वसाध्यत्वयोवैयधिकर. ण्यात् कथं व्याप्तिग्रहः।

१५२ बादवारिधी मैवं स्वरूपे अवच्छेदकभेदे वाऽविरोधात् । न च कथंकालघटित. व्याप्तिग्रहः एककालावच्छेदेन विरोधादिति वाच्यम् । साधनतायामि. दानीन्तनत्वासंबंधात् । केचित्तु कृत्यनन्तरभविष्यत्वमेव वर्तमानसाधारणं साध्य, प्रसिद्धपाक एव पक्षः व्याप्तिस्तु कालाघटिता यत्त्वतत्त्वयारननुगमात्, किंतु साध्य- व साधनत्वयाहतुसाध्ययोरसिद्धत्वसिद्धत्वघटितत्वेनावच्छेदकभेदग्रह विना एकत्र ग्रहासम्भवेनावच्छेदकभेदस्फोरणार्थ मूलेऽपि भेदोक्तिः न तु हेतु निविष्टत्वेन, एवं च सिद्ध एव पाके व्याप्तिग्रहः, पक्षधर्मताग्रहोऽपि, भविष्यत्पाकलाभस्तु अतीतानागतविषयकप्रत्ययस्य वर्तमानकालविष. यत्वनियमात् इदानीभविष्यत्वस्य सिद्धान्त सिद्धेवाधात् । यदा इदानीभित्यस्य पक्षविशेषणत्वात् पक्षतावच्छेदकावच्छेदेन लि. दुधेरित्येवचिन्तामण्यर्थः । नच तथापि भविष्यदिदानीकालीना याकृति. स्तत्साध्यत्वज्ञानाभावात् कथं प्रवृत्तिरिति वाच्यम् । भविष्यतपाकपक्ष- ककालवृत्तितानुमितौ प्रसिद्धबाधादनागतकालसिद्धौ कृतिलाध्यतानुमाने पक्षविशेषणेदानीमितिमहिम्नान्यकालीनकृतिसाध्यत्वाधाद्भविष्यदिदा- नीमितिकृतिविशेषण(१)विशेषवह्निमानित्यपि परास्तम् । वतारात् । अवतारे इष्टापत्तेः । वस्तुतो गुरुनयेऽनागतसिधेरनुमानात् प्रागपि सम्भवः । तथाहि पाकत्वमतीतवर्तमानातिरिक्तवृति सकलपाक- वृत्तित्वात् मेयत्ववदित्यत्र पक्षधर्मताबलादनागतसिद्धिः । नच पाकेतर. वृत्तित्वमुपाधिरिति वाच्यम् । वृतिमत्त्वस्य व्यापकत्वे सम्भवति अन्य. स्य वैयर्थ्यात् । नच तथासति साधनव्यापकत्वं स्यादिति वाच्यम्। सेय. मुभयतपाशा रज्जुरिति उपाधिस्वस्यैवासिद्धेरिति । यद्वा पाकः पाकपूर्ववर्ती पाकत्वादित्यनुमानमेव तत्र मानम् ॥ इति रघुनाथशिरोमणिविरचितः कृतिसाध्यत्वानुमानवाद. (१९) वीचिः समाप्तः॥ तत्र बाधान. अथ अधमर्णत्ववाद (२०)वाचिः । अधमर्णस्वन्तु शोध्यत्वेनाङ्गोकृतदत्तद्रव्यग्राहकत्वे सति दत्तद्रव्य. सजातीयद्रब्यकर्मकस्वानुमतभाविदानप्रागभाववत्त्वम् तदेव स्वदृष्टजन- कं तन्नाशश्च तादृशादृष्टनाशकः । साजात्यञ्च न भेदगर्भम् , अतः गृहीत. दशितद्रव्यदातुरपि नाधमणत्वहानिः । (१) अन पाउखुटितः प्रतिभाति ।

(१९) अधमर्णवादवीचिः। १५३ केचित्तु दत्तद्रव्यग्राहकत्वे सति तस्माजातीयद्रव्यकर्मको यः पश्चा. द्देयत्वेन स्वाङ्गीकारस्तजन्यसंस्कारवत्त्वं तत् । तादृशसंस्कारनाशक- कालरोगादिवत् तत्सजातीयद्रव्यदानादीस्याहुः । तन्न, स्मरणानाश्यभावनाख्ये तादृशसंस्कारे दानादेस्तन्नाशकत्वे च मानाभावात्। एतेन-विजातीयादृष्टवत्त्वमेवाधमणत्वम् , तादृशवैजात्यञ्च ऋणग्रह- जन्यतावच्छेदकतया सिद्धम् । ऋणस्वञ्च पश्चाच्छोध्यत्वेनाङ्गीकृतगृ. हीतदत्तद्रव्यत्वम् , अतो मृतव्यक्तिष्वपि अधमर्णत्वव्यवहारः। तादृशा दृष्टनाशकञ्च ऋणसजातीयदन्यदानम्, युज्यते च मृताधमर्णपितुस्तादृशा- दृष्टनाशाय पित्रर्णपरिशोधनं पुत्रस्य-इति बालप्रलपितमप्यपास्तम् । जीवन्मुक्तस्य प्राक्तनवशात् ऋणग्रहणे जातेऽधमर्णत्वष्यवहारो न स्यात् तत्र तादृशादृष्टासम्भवात् वासनाविरहात । एवमृणिमुक्तपित- कपुत्रस्य पित्रणपरिशोधने प्रवृत्तिर्न स्यात् , नहि निष्प्रयोजनके धन- व्ययसाध्ये कर्मणि कश्चित्प्रवर्तते इति । मुक्तपितृकपुत्रस्य वृषोत्सर्गादि. वत् वाचनिकत्वेन कथंचित्तदुपपादनेऽपि अस्य पिताऽधमर्ण इति व्यव- हारस्य सर्वजनीनस्यापलापापत्तेः । एवमपरिशोधनस्यैव उपपातक- मध्यगणनात् ऋणादाने दुरदृष्टजनकत्वस्यापसिद्धान्तत्वात् ऋणादा- नात् पूर्व तदुत्पादवारणस्य ऋणादानध्वंसस्य सहकारिताकल्पनेन समर्थः नीयत्वात् ॥ श्रीपतिदत्तधनग्रहीतुः पश्चात् तस्सजातीयधनदातुरपि तथा- त्ववारणाय शोध्यत्वेनाङ्गीकृतान्तं दत्तविशेषणम् । ग्रहणं विनापि ताटू- शप्रांगभाववतः तथात्ववारणाय सत्यन्तम् । अपहारकस्य तथा त्ववारणाय दत्तेति । 'तुभ्यं विद्याविशेष पश्चात् दास्यामि' इत्यङ्गीकृत्य येन विद्याविशेषो गृहीतः तस्य तथास्ववारणाय उभयत्र द्रव्यपदम् । तादू. शप्रागभावविधुरस्य दत्तधनादिग्राहकस्य तथात्ववारणाय विशेष्यदलम् । विजातीयद्रव्यान्तरकर्मकदानानुकूलप्रागभाववतो दत्तधनादिग्राहकस्य तथात्ववारणाय दत्तद्रव्यसजातीयेति । दत्तद्रव्यापहारकस्य पश्चात् त- सजातीयद्रव्यदातुश्चोत्तरस्य तथात्ववारणायः दाने स्वानुत्तमत्वम् । भावीति स्वरूपकीर्तनम् । परिशोधनात् परमपि तदत्यन्ताभावसत्त्वात प्रागभावनिवेशः । यत्र परिशोधनमप्रलिद्धं तत्रापि तत्प्रागभावस्वीका- रानानुपपत्तिः। वस्तुतस्तु तदुद्देश्यकत्वाभावविशिष्टस्य ऋणदानध्वंसस्य दुरदृष्टज- नकत्वम् , वैशिष्टयञ्च स्वाश्रयपरिशोधनववृत्तित्वसम्बन्धेन । अथवा स्वदत्तशोध्यत्वेनाङ्गीकृतधनग्राहकत्वस्वोदेश्यकपरिशोधनववृत्चित्वस- २० घाव १५४ बादवारिधी म्बन्धावच्छिन्नप्रतियोगिताकाभाववत्त्वोमयसम्नन्धेन किञ्चिद्वयक्तिविशि. ष्टऋणदानध्वंसस्य तथात्वमिति तु सारम् । तदुद्देश्यकपरिशोधनस्याप्र. सिद्धिस्थलेऽन्योद्देश्यकशोधनमादाय सम्बन्धप्रसिद्धिरिति ॥ इत्यधमर्णवाद (१६) वोचिः समाप्तः । अथ स्नानवाद(२०)वीचिः। "यथाऽहनि तथा प्रातनित्यं स्नायादनातुरः। स्नातोऽधिकारी भवति देवे पैत्रे च कर्मणि ।।" इत्यादिवचनप्रतिपादितं किं तावत् स्नानम् ? इति चेत् । तत्रैकदा स्वीयबहिःसर्वाङ्गेन जलसंयोगः स्नानम् । तदर्थश्च एकक्षणावच्छिन्नस्वीय. सकलबहिरङ्गानुयोगिकजलप्रतियोगिकसंयोगः स्नानमिति यावत् । त. त्रैकागजलसंयोगनाशानन्तरमपराङ्गजलसंयोगः पुनस्तन्नाशानन्तरमपरा. जलसंयोग इति रीत्या यत्र सकलाङ्गजलसंयोगस्तत्रायं स्नातीति व्यवहा. रवारणाय एकक्षणावच्छिन्नेति संयोगविशेषणम् । यद्यपि तादृशसंयोग- व्यक्तीनां नानात्वात्प्रत्येकं तेषां स्नाधात्वर्थत्वे गौरवात् तादृशसंयोगकूट. स्यैव तथात्वे लाघवमिति तत्र तादृशकूटविरहादेव स्नातीति व्यवहारा- सम्भवात् कथमेकक्षणावच्छिन्नत्वं संयोगविशेषणम् , तथापि क्रमोत्पन्न विद्यमानजलसंयोगव्यक्तीनां तथात्ववारणाय एकक्षणावच्छिन्नोत्पत्तिक- स्वार्थकमेकक्षणावच्छिन्नेति संयोगविशेषणमावश्यकम् । न च तत्रेष्टापत्तिः, अन्यथा पादादिमध्यदेशपर्यन्तजलसंयोगानन्तरशीर्षाद्यपरागजलसंयोगे. ऽपि स्नातीति व्यवहारो न स्यात् तादृशसयोगध्यक्तीनामेकेक्षणानुत्पत्ति- कत्वादिति वाच्यम् । तादृशसंयोगानां तत्रधारावाहिकत्वेऽपि एकक्षणाल्प. नतादृशसयोगकूटमादायैव तत्र ताद्शप्रयोगसम्भवात् , यत्र विनश्यद- वस्थकारणेन संयोगो जनितः तत्र तादृशव्यवहारस्येष्टत्वात् । न च क्षण विलम्बस्य शपथनिर्णयत्वात् परक्षण इव पूर्वक्षणेऽपि तादृशव्यवहार इष्ट एव, एवं स्नानाव्यवहितप्राक्क्षणवृत्तिकृतिमादाय स्नातीति व्यव. हारः सर्वसम्मतः, अन्यथा स्थाल्यारोपणकालेऽपि पचतीतिव्यवहारो न स्यादिति वाच्यम् । तथाप्येतत्क्षणे स्नातीति प्रयोगवारणाय तत्र तद्विशेषणस्यावश्यकत्वात् । नचैवं तुल्ययुक्त्या पाकारम्भकाले प. चतीति ब्यवहारो न स्यात् इत्याशङ्कनीयम् । विक्लि- त्यवच्छिन्नव्यापाररूपपाकस्य तदनुकूलकृतेर्वा तदानीमबाधात् । अत्र तत्र (२०) स्नानवादवांचिः। १५५ तादशसंयोगकूटस्य एतत्क्षणावृत्तित्वाभावात् न ताशव्यवहार इति वैलक्षण्यात् अगत्या तथैव व्युत्पत्तः स्वीकारात् इति । पुरुषान्तरोयाङ्गमा. दाय तादृशव्यवहारवारणाय स्वीयत्वमङ्गविशेषणम् । तथाविधकतिप- याङ्गजलसंयोगकूटस्य तथात्ववारणाय साकल्यमङ्गविशेषणम् । ननु सकलपदस्य व्यापकनार्थकतया स्वीयवहिरङ्गत्वव्यापकजलसं. योगस्यैव स्नानत्वोक्तौ दोषाभावात् कूटनिवेशनमनर्थकम् , प्रत्युत तानु. शाङ्गत्वस्य जलसंयोगकूटत्वावच्छिन्नव्यभिचारितया स्नानमात्रेऽसम्भ. वापत्तिश्च । न च सकलपदस्य व्यापकत्वार्थकत्वेऽपि कूटत्वानिवेशे वाद- शकतिपयसंयोगानां संयोगत्वेन गुणस्वादिना वा व्यापकत्वसंभवात् तत्र स्नातीति व्यवहारापतिरिति वाच्यम् । जलप्रतियोगिकसंयोगत्वावच्छि. नव्यापकताया एव निवश्यत्वात् इति चेन्न । तादशव्यापकताश्रयसंयोगानां विनिगमनाविरहेण प्रत्येक स्नानपदा. र्थत्वे गौरवात् कूटस्यैव तथात्वौचित्यात् इत्युक्तप्रायम् । तादृशसंयो. गानामङ्गत्वव्यभिचारिकत्वादहिरित्यङ्गविशेषणम् ॥ ननु जलसंयोगस्वमत्र जलप्रतियोगिकसंयोगत्वं जलानुयोगिकलंयो. गत्वं वा? आद्यऽङ्गमात्रक्रियाजन्यतादृशसंयोगासंग्रहः । न च तदानों ज. लादेरपि क्रियावत्वमावश्यक, प्रवाहरहितजले क्रियाराहित्यस्य प्रायशः संभवात् , द्वितीये ऊर्ध्वदेशाद्गलितविपुलजलधारया यत्र सर्वाङ्गीणसंयोगा एकदैव जनिताः तत्र ताशसंयोगानां स्नानत्वस्य सर्वसम्मतत्वात् तद्- संग्रहः तदानीमङ्गानां क्रियाभावेनाङ्गप्रतियोगिकत्वासम्भवात् इति चेन्न । प्रतियोगित्वानुयोगित्वान्यतरसम्बन्धेन जलविशिष्टसंयोगत्वेनैव तेषां निवेश इति ॥ न चैवं "मान्नं भौमं तथा दिव्यमित्यादिवचनेन स्नानस्य नानाविधत्वाभिधानात् तत्राव्याप्तिरिति वाच्यम् । तेषां स्नानप्रतिनिधि- त्वेन वैदिककर्माधिकारिताप्रयोजकत्वव्यवस्थापन एव तात्पर्यात् ॥ ननु जलेजन्तुनामवगाहनसत्त्वेन स्नातीति व्यवहारापत्तिः । न चा- दृष्टप्रयोजनकत्वमपि तत्र विशेषणं देयमिति वाच्यम् । तद्वगाहनस्याप्य- दृष्टप्रयोजकत्वात्, परन्तु तेषां स्नानं न विधिविषयः विशेषानुक्तौ विधिवा- क्यस्य मानवमात्रपरत्वात् । “त्वन्नीरे नरकान्तकारिणि वरं मत्स्योऽथवा कच्छपः इति स्तवेनापि तादृशसंयोगजनितादृष्टभागिताया अपि अर्थतः प्रतिपादनात् तद्विशेषणेनापि तस्य वारणासम्भवात् । न च वैदिक- कर्माधिकारिताप्रयोजकत्वेन तादृशसंयोगविशेषणात् नैष दोषः, तेषां वैदिककर्माधिकारित्वस्य शास्त्राप्रतिपादितत्वेन तदीयसंयोगानां वदन- योजकत्वात् इति वाच्यम् । यादृशस्नानानन्तरं किमपि वैदिककर्म १५६ वादवारिधी नानुष्ठितं तादृशस्नानासंग्रहप्रसङ्गात् इति चेन्न । 'श्रवगाहते, मजतीतिवत् 'स्नाती तिव्यवहारस्य इष्टत्वात्, परन्तु तेषां स्नानं न विधिविषयः विशेषानुक्तौ विधिवाक्यस्य मानवमात्रपर- त्वात् , अन्यथा तुल्यतुक्त्या पश्चादीनामपि स्नानानभ्युपगमे तत्प्रतिपा. दकशास्त्रस्य उन्मत्तमलपितत्वापत्तेः। केचितु पापनाशा-दृष्टान्यतरप्रयोजकत्वविशेषणमपि तत्र देयम् , जलजन्तुनामवगाहस्य तद्प्रयोजकत्वात् न तसंग्रहः, नित्यस्नानस्यापि अष्टविशेषात्मकवैदिककर्माधिकारित्वप्रयोजकत्वात् नित्यकर्मणोऽपि फलजनकत्वस्य न्यायसम्मतत्वाञ्च न तदसंग्रहः । अस्पृश्यस्पर्शनानन्तर. स्नानस्यादृष्टाप्रयोजकत्वेऽपि पापविशेषनाशप्रयोजकतया न तदसंग्रहः । न चाशौचादिकालीनवैधस्नानस्यासंग्रहः, इष्टत्वात् । न च तत्र स्नानी. तिव्यवहारः कथं लोकानामिति वाच्यम् । तत्र तादृशव्यवहारस्याप्रामा णिकत्वाद, प्रामाणिकरवे तु स्नाधातोरवगाहनार्थकत्वेनैवोपपत्तेरित्या हुः । तश्चिन्त्यम् । अङ्गत्वन्तु चेष्टावत्वं, चेष्टावन्तु क्रियात्वव्याप्यजातिविशेषः, अत एव तत्तदङ्गानां प्रातिस्विकरूपेण तावदन्यतमवेन वा निवेशे एकाङ्गरहि- तस्य स्नानासंग्रह इति प्रत्युक्तम्। न चैकाङ्गरहितस्य स्नानासंग्रहस्तथापि दुर्वार एव तादृशसंयोगानां स्वीयाङ्गत्वव्यभिचारित्वात् इति वाच्यम् । स्वसमानकालीनत्वस्याप्यङ्गविशेषणत्वात् । बहिष्वन्तु यद्यन्न बहिष्ट्रव्य वहारस्तत्तद्भेदकूटवत्वं प्रकारान्तरेण दुर्वचत्वात् । यद्यदङ्गे बहिष्ट्व व्यवहारस्तावदन्यतमत्वेन तस्य निवेशे पुनर्बहिष्वविशेषणं न देयमेव । एतादृशस्नानघटकपदार्थे स्नाधातोः शक्तिलक्षणा वा इत्यन्यदेतदिति नव्यास्तु बहिष्ट्वविशेषणं न देयमेव बहिरङ्गसंयोगदशायामन्तरङ्गे. ऽपि संयोगा जायन्ते खोमविवरद्वारा तत्रापि जलप्रवेशात्, अत एव ए. कदा सर्वाङ्गीणजलसंयोगः स्नानमिति देवीपुराणाक्तिरपि सङ्गच्छते इति किं बहिष्ट्वनिर्वचनेन क्षणविलम्बस्य शपथनिर्णेयत्वात् बहिरङ्गमा. असंयोगक्षणे तद्व्यवहाराभावेऽपि क्षतिविरहादित्याहुः ॥ इति स्नानवाद(२०)वीचिः ।

(२१) वाजपेयवादवाचिः। १५७ अथ रघुनाथ शिरोमणिविरचितो वाजपेय. बाद (२१) वीचिः। ॐ नमः सर्वभूतानि विष्टभ्य परितिष्ठते । अखंडानन्दबोधाय पूर्णाय परमात्मने ॥ १ ॥ अपूर्व पाहत्येति । स्वर्गकामनियोज्यकंयागविषयकं काय्यं स्थायि स्वर्गसाधनत्वेन ज्ञायमानमिति बोधादपूर्वोपस्थितेर्वा प्राक् स्वर्गकामस्य यागः कार्य इति बोधयितुं न शक्यते इत्यर्थः । शक्यत इत्यस्य स्वर्गकामे स्वर्गकामयागकायंत्वयोरन्वयप्रयोजकरूपस्य योग्यतावच्छेदकस्य नि- योज्यत्वस्य घटे जलाहरणयोग्यतावच्छेदकछिद्रतरत्वस्येव भानासंभवा. दिति शेषः। यथा घटे छिद्रेतरत्वं विनाजलाहरणं न सम्भवतीति छिद्रेत- रत्वं योग्यतावच्छेदक, तथा स्वर्गकामस्य यागविषयककायंताबोधं विना यागः कार्यो न भवत्यतः स एव योग्यतावच्छेदक इति भावः । ननु यथा घटेन जलमाहरेदित्यत्र पदादनुपस्थितमपि छिद्रतरत्वं घटे योग्यतावच्छेदकतया भासते तथा नियोज्यत्वस्य योग्यतावच्छेदकतया स्वर्गकामे कुतो भानं न भवतीत्यत आह स्वर्गकामेति । यद्वा भाहत्य स्वर्गकामस्य योगः कार्य इति बोधो लिङा न जननीयः तस्य नियोज्य. त्वेन तस्मिन् शाब्दबोधे भानं विनेत्यर्थः। ननु तर्हि नियोज्यत्वेन स्वर्ग: कामस्य यागकायंताबोधे भानं भवत्वित्यत आह स्वर्गकामेति। स्वर्ग- कामस्य यागे नियोज्यत्वेन योऽन्वयस्तत्र यागनिष्ठेष्टसाधनत्वप्रकारकशा. नविषयत्वरूपयोग्यताया ज्ञानाभावादित्यर्थः । तन्मते काम्ये कामिन इष्ट. साधनत्वप्रकारकशानं विना कायंताबाधानुयाद्यागनिष्ठेष्टसाधनस्वप्र. कारकबानविषयत्वं पुरुषे ममेदं कार्यमिति बोधविषयान्वयस्य योग्यताव. च्छेदकम्, इष्टसानत्वप्रकारज्ञानविषयत्वं तु यागस्य न सम्भवति इष्टस्व. गैस्य कालान्तरभावित्वात यागस्य च क्षणिकत्वादिति भावः । ननु "शु. चिः संध्यामुपासीते" त्यादौ नित्ये फलविरहाद्यथेष्टसाधनत्वप्रकारकज्ञानं विनापि शुचिनियोज्यकं संध्यावन्दनविषयकं कार्यमित्यनुभवो जायते, तथात्रापि स्वर्गकामनियोज्यको यागः कार्य इत्यनुभवः कुता न जायते ? अविशेषादिति प्रश्ने विशेषमाह कामनाविशिष्टस्येति । तथाच तत्र नित्ये कार्यताबोधे शौचादिमत्त्वमेव योग्यतावच्छेदकमिह तु काम्ये कार्य का. मिनोऽन्वये इष्टसाधनत्वज्ञानविषयत्वमेव योग्यता तस्याश्च झानं क्षणिक नास्तीति भावः । ननु तहि तत्र कोदशोऽन्वयबोधः? अत्र परिष्कृतं निर्ण- यकारमतम्-आदौ स्वर्गकामस्येदं कार्यमिति बोधुर्यागविषयक कार्य १५८ वादवारिधी . स्थायि, स्वर्गसाधनस्वस्य प्रागनवगमात् कथं वाच्यसम्बन्धरूपा लक्षणा- पीति वाच्यम्, गो सदृशो गवय इत्यत्रेव सामान्यतस्तद्वाच्यस्यावगमात प्रवृत्तिनिमित्तविशेषस्यैव प्रागनवगमात् इति संप्रदायनिर्णयः । वाजपेय. पदोपस्थापितस्वार्थेनैव सममभेदान्वयान तत्र लक्षणा । ननु प्रवृत्तिनि. मित्तविशेषस्य प्रागपरिचयात् कथं तस्य स्वार्थानुभावकतेति चेत् । उ. चरकालमेव कथं तव प्रवृत्तिनिमित्तविशेषपरिचयः । अङ्गोपाङ्गविधि- पर्यालोचनयाविशेषोपस्थितिरिति चेत् । ममापि तावत् पर्यालोचनानन्त- रमेव वाजपेयपदं स्वार्थमनुभोवयतु 'इह प्रभिन्नकमलोदरे मधूनि मधु. करः पिवती'त्यत्र मधुकरपदमिव प्रागास्तां युक्तमेवेत्याहुः । तृतीया च फलकरणत्वमाह फलसाधनस्वमात्रस्य लिङनभिहितत्वा. नाभिहितार्थता, वाजपेयपदं स्वपरंतृतीया तु विशेषणस्वे, तत्त्वं च वाच्य- वाचकभावेन पवाच्यत्वविशिष्ठे लक्षणामपेक्ष्य पदलक्षणैव लघीयसो वाजपेयपद्वाच्याभिन्नयागे वाजपेयपदोचरतृतीयार्थकरणत्वान्वयानुप पत्तेः, नीलं घटमित्यादौ विशेषणविभक्तः कर्मत्वादिवाचकत्वे तदन्वय- स्येव विशेषणविशिष्ट इति तु युक्तम् । नच द्रव्यालाभा,वाजपेयपदादु. पस्थित एव तथात्वकल्पनात् उपस्थितत्यागेऽन्यकल्पनागौरवात् । अनेदं विभाव्यम्-अस्तु तावत् वाजपेयसाध्यत्वमुपलक्षणमेव,तथापि न क्षतिः, तथाहि एकस्य द्वयमित्यन्वयबोधानन्तरं यागमात्रे तत्फलसा. धनत्वबाधात् प्रतीतसामानाधिकरण्यकं वाजपेयसाध्यत्वमेव व्यावर्तक. मवगम्यते, असमानकालीनस्यापि सामानाधिकरण्ये व्यावर्तकत्वान. पायात, यागमात्रे च तत्साधनत्वबाधानवतारे तवापि कर्मनामधेयताक- ल्पनानवकाशात् , अवच्छेदकनिश्चयेऽपि फलकारणताबोधस्य निष्परिप- थित्वात् , स्वर्गेऽग्निष्टोमादिसाध्यतावच्छेदकस्येवात्रापि फलसाधनताव. च्छेदकस्योचरकालकल्प्यत्वात् । अस्तुवाऽन्वयबोधे तद्विशेषणमेव वाज पेयसाध्यत्वेनाग्निष्टोमादिव्यावृत्ततया उपस्थिते कर्मविशेषे तादृशफल. साधनत्वान्वयः । समानकालीनत्वं तु त्वदुक्तविरहादेव नान्वीयताम् गो. सदृशो गवय इत्यादौ गवयपद्वाच्यताबोधेगोसादृश्यादिक विशेषणमेव, वाच्यताद्यन्वये तु गौरवेण न तथेति तदीदृशान्वयबोधयोर्भेदानाकलनेनो- पलक्षणविशेषणविकल्पनमन्यत्रापि निरवकाशम् , अत एव वह्निलाध्यत्वे. नोपस्थिते पाके इष्टसाधनस्वावगमः। न च तत्र वह्विसाध्यत्वमुपलक्षण- मेव पाकमात्रस्यैव तत्साध्यत्वादिति, एवं तादृशकल्पनायामपि 'वह्नि- विशेषेण पचेत, रथेन यायादित्यादावगतः। वस्तुतस्तु समानकालीनत्वप्रवेशेऽपि न विरोधः, तथाहि फलस्वरूप.

(२२) नियोज्यान्वयवादवाचिः। योग्यत्वस्य ज्ञान प्रवर्तकं, तश्च तदवच्छेदकधर्मवत्वम् अोदनादिसाधन- तावच्छेदकादिपर्यवसन्नम् , तस्य चैककालेऽपि समावेश इति कुतो विरोधः । संशयनिश्चयसाधारणफलोपधानज्ञानस्य प्रवकत्वे तु न विरोध इति कश्चित् । इति रघुनाथशिरोमणिविरचितो वाजपेयवाद(२१)वीचिः। अथ रघुनाथशिरोमाणिविरचितो नियोज्यान्वयः वाद (२२) वीचिः। ॐ नमः सर्वभूतानि विष्टभ्य परितिष्ठते । अखण्डानन्दबोधाय पूर्णाय परमात्मने ॥ अत एव वाजपेयेनेत्यादि । अत्र तावदेकस्य द्वयमिति वा विशिष्टवै. शिष्टयेन वाऽन्वयः ? आधे “यथा यस्योभयं हविरातिमाच्छेत् स ऐन्द्र पञ्चशरावमोदनं निर्धपेदित्यत्र हविषि प्रथममुभयत्वान्वयबोधकल्पनायां वाक्यभेदापत्या युगपदवृत्तित्वप्राप्रुभयत्वस्य चान्वयाचाशनिर्वापन. योजकत्वं हविरात्र्तिसम्बन्धमात्रस्यावगम्यते न तूभयत्वावच्छिन्नस्यैव तस्य विशिष्टानुपस्थितेः, इत्थं च प्राकरणिकोभयत्वमुभयमित्यनेनानू. द्यते न तु विवक्षितं, तद्वदिहापि एकत्र यागे धम्मिणि तथाविधफलसा. धनत्वं वाजपेयसाध्यत्वं चान्वियात् , एवं च फलसाधनतायां यागत्वमा. त्रस्यैव प्रयोजकत्वलाभात् तस्य च यागमात्रवृत्तितया यागमात्र एव त. दर्थिप्रवृत्तिप्रसङ्गः । न च वाजपेयसाध्यत्वमुपलक्षकम् , अनतिप्रसक्तस्यो. पलक्ष्यतावच्छेदकस्यैकस्याभावात् यागत्वस्यैव तथात्वेऽतिप्रसङ्गताव. स्थ्यात् । द्वितीये तु विशिष्टवैशिष्टयस्यौककालीनतत्त्वानतिरेकितया वि. रोधो दुर्वारः । तस्माद् वाजपेययागयोरभेदान्वयः, स च वाजपेयपद. स्य तद्वाच्यपरतया समर्थनीयः। न च वाजपेयपदवाच्यत्वेन शायमान. मिति ज्ञानं न तु स्थायिस्वर्गसाधनमित्याकारकं पुरुषस्य नियोज्यत्वान्व. यबोधे इष्टसाधनत्वस्य झायमानस्य योग्यतानवच्छेदकत्वात् , अनिष्टसा. धनेऽपि तथानाने ममेदं कार्यमिति बोधोदयात् । वस्तुत इष्टसाधनेऽपि तथाज्ञानविरहेऽपि ममेदं कार्यमितिबोधानुदयाश्च । एवं सर्वत्र परत्र चि. न्तनीयम् । एतचापूर्वविषयक कार्यताज्ञानं न तु यागवियषकम्', तस्य स्था- यित्वेन ज्ञानासम्भवात् तत्काले तस्य क्षणिकत्वनिश्चयात् , ततो मम नि. योज्यस्येदं काय्य स्थायिस्वर्गसाधनत्वेन शायमानमित्याकारकं पुनरपू- कायंताशानं, न तु ममेदं काय्यमित्येतावन्मात्राकारं तुल्ययुक्त्या सर्वत्र वादवारिधी कार्यताबोधे नियोज्यत्वस्य स्थायित्वस्य स्वर्गसाधनत्वस्य च योग्यता. बच्छेदकस्यावश्यं भानाङ्गीकारात् । एवं सर्वत्र परत्र बोध्यम् । एवम- पूर्वकार्यतासानेऽपि बोद्धा विमृशति, अपूर्वजनिका तावत् कामिकृतिः, सा च यदि यागविषया भवति तदेवापूर्व जनयितुं शक्नोति न त्वन्यथा अन्यतस्तदनिष्यत्तः, कामिकृतिश्च यागविषया वदा भवति यदि यागः काम्यसाधनं स्यात् काम्यसाधनतया ज्ञात एव कामिनः कार्यताधीनियमा त । एवं यागस्य स्वर्गसाधनत्वमुपादानेनावगत्य काम्यमानस्वर्गसाध. नत्वेनावगम्यमानो यागोऽधिकरणीभूतस्वर्गकामस्य नियोज्यस्य कार्य इत्याकारकं तृतीयं शानम् , अयमेवाधिकारित्वेनान्वयः, तत पाख्यातला. मान्ये क्लृप्तश्चैत्रः पचतीत्यादाविव स्वर्गकामो यागानुकूलकृतिमानिति कर्तृत्वेनान्वयबोधश्चतुर्थः, ततः स्वर्गकामस्येदं कार्यमहमपि स्वर्गका. मस्तस्मान्मम स्वर्गकामस्थ नियोज्यस्येदं कार्य स्वर्गसाधनत्वेन शायमा. नमिति युक्तिपुरःसरं यागे यष्टुः प्रवर्तकं प्रतिसन्धानमिति पञ्चमं ज्ञान. मिति पञ्चापि शानानि शब्दलान्येव, विधेः प्रवृत्तिनिर्वाहकतया तावत् पर्यन्तमाकाङ्काया अपरिपूर्तरिति । सदसङ्गगतमः, ममेदं कार्यमितिद्विवीयबोधस्यान्विताभिधानानुपयोगेन धैयर्थ्यात् । एवं विधेः प्रवर्तकतायाः परंपरयाप्युपपत्तेनं यागकार्यताशा. नमपि शाब्दमिति । एवमधिकारिवादिनाऽन्वयबोधश्चिन्त्यः। तस्मात् प्रथममपूर्वे नियोज्यत्वेनान्वयः, उत्तरकालमाख्यातसामान्ये, क्लुप्तश्चैत्रः पचतीत्यादाविव यागानुकूलव्यापारवानिति कर्तृत्वेनान्वयबोध इत्यन्व यबोधद्वयमेव समीचीनम् । प्रवर्तकं तु ज्ञानं नैयायिकानामिवानुमानिक मिति दिक। अत्रेदमालोचनीयम्-यथा नियोज्यत्वमन्बयप्रयोजकं भासत ह. त्यभ्युपगमस्तथा चिकीर्षाववप्रवृत्तिसामग्रीमत्त्वादिकमपि किमिति न भासते ? विनिगमनाविरहात् । न च येन यद्योग्यतावच्छेदकत्वेन गृहीतं तदेव तस्य भासत इति वाच्यम् । एवमपि यथा स्वर्गकामयागकार्ययो- रन्वयप्रयोजकत्वं न भवति स्वर्गकामस्यापि यागकार्यबोधाभाबे यागका. यतानुदयात्तथा नियोज्यत्वमपि योग्यतावच्छेदकं न स्यात् , क्वचिन्ममे. दं कार्यमिति बोधवतोऽपि चिकीर्षादिविरहेण यागकार्यताऽनिर्वाहात् । एवं चिकीर्षावत्त्वादिकमपि न योग्यतावच्छेदकम् , तत्सत्त्वेऽपि कदा- चित् प्रतिबन्धकेन कृतेरनुत्पत्तेः कार्यतानुदयादिति । किञ्च शाब्दबोधे सत्यवश्यं योग्यतावच्छेदकं भासते तदा कथं नियोज्यत्वं भासेत? तद्यो. ग्यतावच्छेदकस्येष्टसाधनत्वादिकस्य पुरुष भानं विनापि । न च तदपि (२२) नियोज्यान्वयवादवाचिः। भासत इति वाच्यम् , एवमिष्टसाधनत्वस्यापि योग्यतावच्छेदकं भा. सत इत्यनवस्था स्यात् । न चात एव योग्यतावच्छेदकातिरिक्तति विशेषणं देयमिति वाच्यम् । शाब्दबोधे योग्यतावच्छेदकस्य भानं विना शाब्दबोधो न जायत इत्येव योग्यतावच्छेदकं भासते, एवं च योग्यतावच्छेदकमपि यच्छाब्दबोधे भासते तद्योग्यतावच्छेदकभानं, विना कयं भासेतेति। नन्वेतत् सर्व घटेन जलमाहरेत्यत्रापि सम्भवति, तथाहि यथा घट. त्वं न जलाहरणयोग्यतावच्छेदकं तथा च्छिद्रेतत्त्वमपि न भवति कदा. चित्तच्छिद्रेणापि घटेन भाविना दूरस्थेन च जलाहरणासम्भवात् , एवं छिद्रेतरत्वं योग्यतावच्छेदकं तद्योग्यतावच्छेदकं च छिद्रवैधम्यं तभाने कथं तद्भानं, तस्यापि भानाङ्गीकारऽनवस्थेति चेन्न । तत्रापि तदुपरि दृषणमस्माभिर्दीयत एव, एवं च बाधविरह एव योग्यता, यागस्य च स्वर्गसाधत्वेन बाधप्रमानुयाद्याग इष्टसाधनम् इति शाब्दबोधो नैयायिकानामिति नापूर्ववाच्यता लोकेऽपीति दिक् । तद्बोधेोपयोगे सतीति । ममेदं कार्यमिति बोधोपयोगे सतीत्यर्थः । अन्यथा विशिष्टस्य तद्वोधे हेतुत्वं न स्यात्, विशेषणे कामनायां हेतु- स्वस्थाभावादिति भावः । कामनायास्तद्वोधोपयोगे द्वारमाह-सा चेति । कामनाया उपयोगी इत्यर्थः। एवं च नियोज्यत्वेन स्वर्गकामस्य कार्यान्वयप्रयोजक स्वर्गसाधनस्वज्ञानं लिद्धमित्याह एवञ्चेति । नियो- ज्यान्वययोग्यतेति योग्यतापदं तज्ज्ञानपर, तदनन्तरं च भवतीत्युपेयमिति पूरणीयमतो नानन्वयः, अन्यथा स्वर्गसाधनत्वज्ञानमेवाप्रयोजकत्वेन योग्यतेति स्वर्गसाधनताबोधे सति नियोज्यान्वययोग्यतेत्यन्वितं स्यात् । ननु यदि स्वर्गलाधनताज्ञानमन्तरेण योग्यताज्ञानविरहात् लिङा क्रियाकार्यत्वं बोधयितुमशक्यं तदा यागे स्वर्गसाधनताबोधः प्राथमि- कोऽस्त्वित्यत आह नचेति । ननुस्वर्गकामनारूपविशेषणज्ञानजन्ये कार्य- ताशाने सर्वमेव दूषणमुपपद्यते, अस्माकं मते तु लिङवेष्टसाधनतां बोध- यतीत्यतो नानुपपत्तिरित्यत आह इष्टसाधनतेति । तथाऽन्वयस्वीकारे योग्यता प्रकृते साधनत्वबाधादयोग्यत्वान्न साधनताया अन्वयः सम्भ- वतीत्येके। ननु कार्यताविधिपक्षेऽपिनियोज्यत्वेनान्वय इति तद्योग्यतासम्पत्तये प्रथमं यागस्येष्टसाधनताबोधोऽङ्गीक्रियताम्, इष्टसाधनताविधिपते तु नि- योज्यत्वेनान्वयस्थानभ्युपगमात् प्रथम यागेष्टसाधनताज्ञानं क्वोपयुज्यत इत्यत आह इष्टसाधनतेति । इष्टसाधनताविधित्वेनैव तदुपयोगो न तु २१ वादक १६२ वादवारिधी योग्यतया इति तस्याः पदा तया प्रथमं यागस्य तबोधानुसरणमित्य. र्थ इत्यन्ये। ननु कार्यताविधिपतेऽपियदि इष्टसाधनतया यागादिबोध आवश्यक इति कर मतभेद इत्यताह कार्यताविधिपक्षेऽपीति। अन्वयप्रकारतया अ. न्वयप्रयोजकतयेत्यर्थः। तथाच कार्यताविधिपते योग्यतारूपतयेष्टसाधनत्व स्य ज्ञानम् , इष्टसाधनताविधिपक्षे पदार्थतयेति मतभेद इत्यर्थः। अपदार्थ. स्यापि परनये योग्यताबललभ्यस्य शाब्दधीविषयत्वाच्छाब्दमित्युक्तं, तच्च शाब्दधीविषयाथकम् । नन्वेतावतापि कथमपूर्वस्य वाच्यत्वसिद्धिरताह प्रत इति । इष्टसाधनत्वेन यावत् कार्यानुपस्थितिस्तावत्तत्र योग्यतावि. रहानियोज्यत्वेन नियोज्यस्यान्वयबोधोऽनुपपन्नः । न च यागस्येष्टला. धनस्वोपस्थितिः सम्भवति क्षणस्थायित्वेन साक्षादसाधनत्वात् घटक. स्यानुपस्थित्या परंपराया दुर्शेयत्वात् तदतिरिक्तस्य साधनत्वस्याभावात् अतः स्थिर एव कार्ये इष्टसाधनत्वेनोपस्थिते नियोज्यत्वेन स्वर्गकाम. स्यान्वयधीः, स्थिरकार्यस्योपस्थितिस्तत्र लिशक्तिमन्तरेणानुपपन्नेति लिङस्तत्रैव शक्तिर्न तु स्वर्गसाधनस्वादिरूपेण, अतः कार्यत्वं तत्रैवान्वित न तु समभिव्याहृतक्रियायामित्यर्थः । यद्यपि शाब्दबोधात् पूर्वमपूर्वे. स्वर्गसाधनस्वरूपयोग्यताज्ञानमसम्भवि अपूर्वस्यान्वयबोधात् पूर्वमज्ञा. नात् , तथापि परनये'बोधनीयपदार्थे योग्यताज्ञानं न कारणं बोधनीय- पदार्थस्यापूर्वत्वात् किन्तु पदार्थतावच्छेदकावच्छिन्ने क्वचित्तस्य ज्ञानं तथा, एवं च प्रकृते कामिकार्यत्वान्वयप्रयोजक काम्येष्टसाधनत्वं योग्यता, सा च लिपदारतावच्छेदकावच्छिन्ने घटे कामिकायें जलाहरणरूप. कार्यसाधने शायते इति तज्ज्ञानं शाब्धीहेतुर्भविष्यतीति वदन्ति । मिश्रास्तु स्वर्गकामः स्वनियोज्यकयागविषयकस्थायिस्वर्गसाधन कार्यक इत्येव परनये प्रथममन्वयः, अत एवाख्यातार्थविशेष्यतया स्वर्ग: कामस्य संख्यान्वयित्वमिति स्वर्गकाम इत्यत्र प्रथमा । तत्र स्वनियोज्यक स्वस्थायित्वं स्वर्गसाधनत्वं च कार्ये अपूर्वे एवान्वेति न तु यागे, तस्य क्षणिकत्वेन स्थायित्वे बाधात् । न च स्थायित्वाद्युपस्थापकपदाभावात् कथं तदन्वय इति वाच्यम् । व्यक्तमिदं मूलग्रन्थ एव। अस्तु वा उपस्थिते. गृहीतांशसंसर्गकेषु स्थायित्वस्वर्गसाधनत्वकार्यत्वेषुलिशक्तिरित्यादि. नाऽभिधानाल्लिङ एव तदुपस्थापकत्वात् । विषयत्वं च यागापूर्वयोः सम्बन्धविधया भासत इत्यपि मूल एव सुव्यक्तम् । यद्वा नियोज्यत्वस्येव स्थायित्वादीनामपि योग्यतावच्छेदकतयैव भान मपूर्वरूपकार्ये । नचैवं नियोज्यत्वेनव स्वर्गकामस्यान्वयेऽधिकारिणोऽलाभे प्रवर्तकत्वानुपपत्ति, (२३) पाकजवादवाचिः। रिति वाच्यम् । प्रथमतस्तथाभ्युपगमेप्युपादानवलेन कर्तृत्वाधिकरित्व. योरपि लाभात्। तथाहि पूर्वोक्तोपादानेन काम्यस्वर्गसाधनं याग इति प्रथ- मम् यागोऽधिकारीभूतनियोज्यस्वर्गकामकार्य इति द्वितीय, ततो यागक. तिस्तद्वारं विनानुपपद्यमाना कर्तारमाक्षिपति, तथाच स्वर्गकामो या. गानुकूलव्यापारवानिति तृतीयं, प्रवकत्वं च नयायिकानामिवानुमा- निकमित्याहुरिति दिक् । अधिकन्त्वालोकादावूह्यम् । इति श्रीशिरोमणिभट्टाचार्यकृतो नियोज्यान्वयवादवीचिः(२२) सम्पूर्णः । अथ पाकजवाद (२३) वीचिः॥ अथ रूपनाशादेः पाकजन्यत्वं विचार्यते । तत्र परमाणौ समवायेन द्रव्याभाववति पाकजरूपोत्पादविनाशौ न तु व्यणुकादाविति वैशेषिकवृद्धाः। नब्यास्तु द्वयणुकादावपि पाकजो रूपनाशो भवत्येव । पाकजलपो. त्पादस्तु परमाणावेव द्वयणुकाद्यवयविनि च रूपजरूपमेवेति वदन्ति । नैयायिकास्तु अवयविनि पाकजरूपोत्पादविनाशावामनन्ति । तत्र समवेतद्रव्यं पाकजरूपनाशवन्न वा, समवेतद्रव्यं पाकजरूपवन्न वेत्याका. रिका विप्रतिपत्तिः। अत्र प्राचीनवैशेषिकाः। हस्तादौ मणिसंयोगदशायां वह्निसंयोगा. हाहोत्पत्तिवारणाय संयोगसम्बन्धेन मण्यादेः प्रतिबन्धकत्वं वाच्यम्, एवं पाणौ मणिसंयोगदशायां तदवयवे दाहवारणाय स्वसंयुक्तसमवा. यित्वसम्बन्धेन प्रतिबन्धकत्वं वाच्यम्, हस्तारम्भकावयवादिपरमा- णुपर्यन्तेषु दाहवारणाय स्वसंयुक्तसमवायिसमवायित्वादिगुरुतरान. न्तसम्बन्धेनानन्तप्रतिबध्यप्रतिबन्धकभावः कल्पनीयः, एवं मण्यादौ दाहवारणाय तादात्म्येन मण्यादेः प्रतिबन्धकत्वम , मण्यारम्भकावयवा- दिपरमाणुपर्यन्तेषु दाहवारणाय स्वसमवायिसमवायित्वादिसम्बन्धेन प्रतिबन्धकत्वं वाच्यम् , तथाच लाघवेन रूपनाशत्वावच्छिन्नं प्रति सम. वायेन द्रव्यस्य प्रतिबन्धकत्वादेव दाहापत्तिविरहात् । दर्शितानन्तप्रति- बध्यप्रतिबन्धकभावो न कल्पनीयः। न च तथापि अन्त्यावयविनि दाहा- पतिरावश्यकीति वाच्यम्। एतावता संयोगसंबन्धेन मण्यादेःप्रतिबन्ध- कत्वे समागतेऽपि उक्तदिशाऽवयवे तवयवादौ च दाहवारणाय स्वसं. युक्तसमवायित्वादिसम्बन्धेनानन्तप्रतिबध्यप्रतिबन्धकभावकल्पनानिरा. सात् । यद्वा विलक्षणविशेषणतासम्बन्धेन रूपनाशत्वावच्छिन्न प्रति सम- १६४ वादवारिधी वेतत्वसम्बन्धेन द्रब्यस्य प्रतिबन्धकत्वं वाच्यम्, तथाच द्वयणुकाद्यन्या. वयविपर्यन्तेषु विपर्ययेण न दाहोत्पत्तिः । न च तथापि परमाणौ मणि. संयोगदशायांदाहोत्पत्तिः स्यादिति वाच्यम्। इष्टापत्तः, तदानीं परमाणो दाहाभावस्य शपथमात्रेण निवारणीयत्वात् । एतत्तु उच्छृङ्खलानुयायिनः । केचित् विशेषणताविशेषेण रूपनाशत्वावच्छिन्नं प्रति तादात्म्येन परमाणाहतुत्वम् , तेन द्वयणुकाद्यन्त्यावयविपर्यन्तेषु न दाहोत्पत्तिरिति । वस्तुतस्तु विलक्षणविशेषणतया रूपनाशत्वावच्छिन्नं प्रति समवायः निरूतत्वोभयसम्बन्धेन द्रव्यस्य प्रतिबन्धकता तेन व्यणुकाद्यन्त्याव- यविपर्यन्ते न दाहोत्पत्तिः, समवायनिरूपितत्वरूपेणाधारताधेयतयाः सं हारात् । निरूपितत्वं च दिनिरूपितविशेषणताव्यावृवं ग्राह्यम् , अन्यथाऽणुमात्रस्य दिगुपाधित्वेन दिगलक्षणपरमाणावपि समवायनि रूपिताधेयताया अपि दिनिरूपितविशेषणतया द्रव्यान्तरस्य तत्रापि सत्त्वाहाहानुत्पत्तिप्रसङ्गात् दिनिकपितविशेषणताया नानात्वेन न दोषः, अन्यनिरूपितसंबन्धेनान्यस्यासत्त्वात् । समवायनिरूपितकालिकविशेष. णता च परमाणौ नास्त्येव समवेतद्रव्ये सत्त्वात् तन्मते न दाहोत्पत्तिरिति न तादात्म्ये काप्यनुपपत्तिरिति । यद्वा पक्षधर मिश्रानुयायिमते विशेषणतासम्बन्धेन रूपनाशत्वाव. च्छिन्नं प्रति समवायेन द्रब्यस्यैव प्रतिबन्धकत्वं समवायेनावयवे द्रव्य. स्य सत्त्वेऽपि वयविनि अवयवस्यासत्त्वात् । अपूर्ववादे "वाच्यवद्वा. च्यवृत्तित्वेन वाच्योपस्थितिप्रकार” इति प्रवृत्तिनिमित्तलक्षणे मणिकृता वाच्योपस्थितिप्रकार इत्यस्य सास्नादौ व्यावृत्तिर्दता, अन्यथा वाच्य. वद्वाच्यवृत्तित्वेन तद्वारणे तत्पवैयात्, तथाचातिलाधवमिति वैशेषिका विजयेरनिति वदन्ति । तदेतत्र्यायमतानुयायिनो न मन्यते । अनुगतरूपेण मणियोगादेः तत्प्रतिबन्धकत्वस्वीकारात्। तथाहि विलक्षणविशेषणतासम्बन्धेन रूप. नाशस्वावच्छिन्नं प्रति स्वाश्रयवृत्त्याधारतावच्छेदकत्वसम्बन्धेन मणिसंयो. गस्य प्रतिबन्धकत्वम्। तेन साक्षात्परम्परया शरीरारम्भकपरमाणुपर्यन्ता. वयवे मण्यादेः उक्तसम्बन्धेन सत्वान्न दाहोत्पतिः। एवं शरीरे मणौ च दाहोत्पत्तिवारणाय मणिसंयोगस्य समवायेन प्रतिबन्धकत्वं कल्पनीयम् । तथाच न्यायनये प्रतिबध्यप्रतिबन्धकभावद्वयकल्पनम् । वैशेषिकनये बहु- तरव्यक्तीनां तावत्कारणसंयोगानां तत्कारणीभूतक्रियाव्यक्तीनां च कारण त्वकल्पने महतौरवम् । अथ न्यायनये विजातीयनीलत्वावच्छिन्नं प्रति नीलस्बन हेतुत्वमिति (२४) जातिबाधकवादवीचिः। नीलपीताधन्तर्भावेन बहुतरकार्यकारणभावो वक्तव्या, वैशेषिकैस्तु क्रिया. संयोगस्थले ततद्रव्यलमवेतत्वावच्छिन्नं प्रति तादात्म्येन तत्तहव्यस्य हेतुत्वमवश्यं वाच्यम् , तेनैव नीलपीताद्युत्पत्तिनिर्वाह इति नीलपीता- धन्तर्भावेण कार्यकारणभावाभावात् लाघवम् । तत्र द्रव्यसमवेनेषु एक. वारमकोत्पादने नीलारम्भकद्रव्ये पोतोत्पतिविरहात्। न च तादृशानां क्लृप्तबहुतरव्याणां तचद्वयक्तित्वेन कारणत्वकल्पने महगौरवमिति वाच्यम् । तथापि नैयायिकमते क्लुप्तकार्यकारणभावतोऽतिलाघवात् , तथाहि प्रतिवारमेकबारमेकपाकादेकस्मिन्नेव घटादौ रूपरसगन्ध. स्पर्शाणां विनाशोत्पत्तो इति वाच्यम् । व्यक्तिस्थानीयापत्तिवारणाय तत्तद्वयक्तित्वावच्छिन्नं प्रति तत्तद्ध्यहितपूर्वोत्पन्नपाकादेहेतुत्वं तत्तद्व. यक्तित्वेन नैयायिकैरङ्गीकर्तव्यम् । तथाच तत्तद्व्यक्तिलमवेतत्वा- पच्छिन्नं प्रति वैशेषिकैरातमेव । किञ्च नैयायिकनयेऽपि क्लृप्तद्रव्येष्वपि तत्पाकजरूपरसगन्धस्पर्शव्यक्तिषु ततोव्यक्तित्वेन तद्भेदे च क्वचित पृथक्कारणत्वे क्लुप्तद्रव्यान्तर्भावेण कार्यकारणभावेऽपि क्षतिविरहात् । नच बहुतरद्रव्यारम्भकव्यक्तीनां तत्तहव्यत्वावच्छिन्नं प्रतिहेतुत्वकल्पने तथैव गौरवमिति वाच्यम्। व्यणुकादिषु समवेतद्रव्यादिषु पृथकार्य- कारणभावात् तत्तद्वयणुकादिसमवेतद्रव्यादिकारणत्वेनैव निर्वाहात, तत्तव्यणुकादिकं प्रति तत्तव्यणुकारम्भकन्यक्तीनां प्रतिबन्धकत्व. रूपेण हेतुत्वेऽपि क्षतिविरहात् , नैयायिकानामपि तत्तद्रपरलगन्धा- दिकं प्रति तत्प्रतिबन्धकत्वरूपेण हेतुत्वस्यावश्यकत्वात् । अत एव नैया. यिकेनयेऽपि घटे पाकादूपोत्पत्तिरनन्तरं कपालद्वयसंयोगनाशाद्धटनाशः पुनः कपालद्वयसंयोगः अनन्तरं घटोत्पत्तिः एकस्मिन्नेव कपाले, वैशेषिक- नयेऽपि तत्कपालसमवेतत्वावच्छिन्नं प्रति तत्कपालस्य हेतुत्वात् न घटद्वयपौर्वापर्यनियम इति, न तु घटत्वावच्छिन्नं प्रति तत्तद्वयक्त्य. व्यवहितपूर्वव्यक्तेः हेतुत्वेन गौरवमिति तत्कल्पनमपेक्ष्य तत्कल्पनाया एव लघुत्वात् ततः अनारम्भकसंयोगव्यक्तिकल्पनागौरवमिति वदन्ति । इति पाकजवाद (२३) वीचिः । अथ जातिबाधकबाद (२४) वीचिः। व्यक्तरभेदस्तुल्यत्वं सङ्करोऽथानवस्थितिः। रूपहानिरसम्बन्धो जातिबाधकसंग्रहः ॥ अयं श्लोको वैशेषिकाचार्योदयनकृतो निजमतमेवाश्रित्य । अथास्थ १६६ वादवारिधी व्याख्या । आकाशत्वं न जातिय॑क्रैक्यात्, यथाहि नानाघटव्यक्तिषु घटत्वं जातिस्तथा आकाशव्यक्तेरैक्यादाकाशत्वं न जातिः । नानाध्य. क्तिषु वर्तमानमनुवृत्ताकारं नित्यं सामान्यमिति जातिलक्षणात्, नाना. त्वस्य चाकाशेऽभावादाकाशत्वं न जातिरिति व्यक्तरभेदो जातिबाधक: प्रथमः ॥१॥ घटत्वकुम्भत्वे न जाती, व्यक्तेस्तुल्यत्वात् । ननु व्यक्तितुल्यत्वेऽपि यथा घटव्यक्तौ घटत्वद्रव्यत्वे जाती स्तस्तथाऽत्रापि व्यक्तितुल्यत्वेऽपि घट: त्वकुम्भत्वे जाती कुतो न स्यातामिति चेत् । उच्यते-न्यूनाधिकवृत्तित्वा. भावो हि तुल्यत्वं घटत्वद्रव्यस्वयोश्च न न्यूनाधिकवृत्तिस्वाभावोऽस्ति द्रव्यत्वस्य पटादावपि सद्भावात् घटत्वस्य च घट एव सद्भावात्, तस्माद्धटत्वद्रव्यत्वयोरेकदेशेनैव साम्यं न सर्वथा , घटत्वकुम्भस्वयोश्च न्यूनाधिकवृत्तित्वाभावात् सर्वथैव व्यक्तितुल्यत्वमतस्ते न जाती । यद्वा घटत्वद्रव्यत्वयाः परापरभावोऽस्ति, द्रव्यत्वं परमधिकवृत्तित्वात्, घटत्वं चापरं न्यूनवृत्तित्वात, यत्र चापरं तत्र परेण भाव्यमेव, तथात्रापि यत्र घटत्वं तत्र द्रव्यत्वमस्त्येवेति परापरभावोऽस्ति, सर्वत्र हि यत्रकस्यां व्यक्तौ जातिबाहुल्यं तत्र सर्वत्र परापरभावेन भाव्यमेवेति नियमोऽस्ति, अत्र च न परापरभावोऽस्ति यतो घटत्वं कुम्भत्वान्न परमधिकवृत्तित्वा. भावात् , नाप्यपरं न्यूनवृत्तित्वाभावादेवं कुम्भस्वमपि घटत्वान्न परं ना. प्यपर, पूर्वोक्तयुक्तः। तस्माद्धटस्वं कुम्भत्वं चैका काचिजातिरङ्गीकार्या। अन्यञ्च तत्पर्याय एष, न तु जातिः । तस्माद्घटत्वकुंभत्वे हे अपि न सामान्ये, तुल्यत्वात् , तथाहि पर्यायाः सर्वे ह्येकार्थाभिधायिनः, तत्र प्रतिपर्यायं जातित्वे जातीनां तुल्यत्वमर्थस्यैक्यात् । एवं पाणित्वकरत्व. हस्तत्वादीन्यपि पर्यायाः न सामान्यानीत्याद्यप्यूह्यम् । इति तुल्यत्वं जातिबाधको द्वितीयः ॥२॥ पृथिव्यप्तेजोवायुषु चतुर्यु द्रव्येषु मूर्तत्वभूतत्वे न सामान्ये, सङ्क- रदोषप्रसङ्गात् । नन्वेकस्यामेव घटादिव्यक्तौ घटत्वपृथिवीत्वसत्ताद्रव्यत्वसामान्यानि सन्ति, न च सङ्करदोषस्तथात्रापि भूतत्वमूर्चस्वयोः कथं सङ्करदोषः। उच्यते-परस्परव्यभिचारिणा कत्र विनिवेशः सङ्करः, घटस्वादीनां च न परस्परव्यभिचारित्वं तेषां परापरभावात, तथाहि घटादौ सत्ता पर पृथिवीत्वाधपरम्, नच मूर्त्तत्वभूतत्वयोः परापरभावः, यतो न भूतत्वं पर सामान्यम् मूत्ववापरं भूतत्वस्य मनस्यसद्भावात्, मूर्चत्वस्य मनसि सद्भावात्, नापि परं मूर्तत्वं भूतत्वं चापर,भूतत्वस्याकाशे भावान्मूर्चत्व.

(२५) लडनवादवीचिः। १६७ स्य च तत्राभावात् । यश्च परं तदपरादधिकवृत्त्येव, यश्चापरं, तत्परान्न्यू नवृत्त्येवेति नियमाञ्च, तेन भूतत्वमूर्तत्वयोः परापरभावाभावाद्वयभिचा- रित्वं व्यभिचारिणश्चैकत्र स्थितौ संकरः । तस्मात्पृथिव्यादौ भूतत्वमू- तत्वेधर्मावेव भवतो न जातिरूपे, एवं दण्डिताखडिनाद्यपि शेयमिति सङ्करो जातिबाधकस्तृतीयः ॥ ३॥ जातौ न जाति तित्वमनवस्थारूपबाधकतर्कात्तथाहि जातावपि चे. जातिस्तदा तस्यामपि जातावितरजात्या भाव्यमित्यनवस्थादौस्श्यम् , तस्माजातित्वं प्रमेयत्वादिवद्धर्ममात्रं नतु जातिरित्यवनस्थितिर्जातिबा. धकश्चतुर्थः ॥ ४॥ अन्त्यविशेषेवन्त्यविशेषत्वं न जातिस्तेषां स्वरूपहानेः। अयमाशयः. यथास्मदादीनामश्वादिभ्यो गवादिषु गोत्वादिनिमित्ता व्यावृत्तिबुद्धि- स्तथाऽस्मद्विशिष्टानां योगिनां निस्येषु तुल्याकृतिगुणक्रियेषु परमाणुषुः यनिमित्तःप्रत्याधारं विलक्षणेाऽयमिति व्यावृत्तिप्रत्ययो भवति तेऽन्स्यवि. शेषा अत्यन्तव्यावृत्तिबुद्धिहेतवः सामान्यशन्या नित्यद्रव्यवृत्तयश्चेति तेषा स्वरूपं, तेष्वपि यद्यन्त्यविशेषत्वं जातिस्तदा तेषां स्वरूपमेव होयेत, तेषामत्यन्तव्यावृत्तिबुद्धिहेतुत्वात्सामान्यशुन्यत्वाच, तस्मादन यविशेषता न जातिःस्वरूपस्यैव हानेरिति रूपहानिर्जातिबाधकः पञ्चमः ॥५॥ समवायता न जातिस्तत्र सम्बन्धस्याभावात्तथाहि घटादीनां घटत्वादिसामान्यैः सह समवायलम्बन्धोऽस्ति, यदि च समवा. येऽपि समवायत्वं जातिः स्यात् तदात्रापि केनचित्सम्बन्धेन भाव्यं, नास्ति च तत्र सम्बन्धः, ततः समवायत्वं न जातिरपि तु धर्ममात्रमेव । ननु धर्मधर्मिणारपि केनापि सम्बन्धेन भाव्यम् । न, समवायत्वं हि प्रमे. यत्वादिवभावरूपमेव नतु भावरूपम् । यद्वा समवायत्वं समवायस्य स्वरूपमेव न तु तयोर्धर्मधमिभाव इति न तत्र कश्चित्सम्बन्धो कल्प्यत इति । एवं समवायत्वसामान्यस्वीकारेऽसम्बन्धो जातिबाधकः षष्ठः ॥६॥ इति षडेते जातिबाधकाः सामान्यत्वबाधकाः इत्यर्थः । इति जातिबाधकवाद (२४) वीचिः । . अथ लङ्गनवाद (२२) वीचिः। सन्निहितदेशसंयोगानन्तरं विप्रकृष्टदेशसंयोगानुकूलव्यापारोलचनम्। तथाचाहिं लङ्घयति इत्यादो अहेनिरूपितत्वसम्बन्धन सन्निधाने विप्रकर्ष चान्वयः, पाख्यातार्थकृतौ ताद्शव्यापारस्यानुकूलत्वलम्बन्धेनान्वय इति १६८ वादवारिधी अहिनिरूपितसन्निधानाश्रयदेशसंयोगानन्तरं यदहिनिरूपितविप्रकर्षाश्र. यदेशगमनं तदनुकूलकृतिमानित्यन्वयबोधः । अहेरेकपार्श्वमात्रगामिनि तादृशप्रयोगवारणाय विशेषणविशेष्यदलम् । सन्निधानविप्रकर्षों च पर. स्वापरत्वरूपौ, अतो लाङ्गलदेशतः शीर्षदेशगमनेऽपि न तादृशप्रयोगः। सनिधानाद्यंशेऽहेविशेषणविधयैव निवेशः, नातोऽहेरसत्वदशायां तत्त. स्थलगामिनि तादृशप्रयोगः। आनन्तयंञ्चान्यवधानगर्भ, नातोऽहेर्म- ध्यसन्निहितदेशतः शिरःसन्निहितदेशवेष्टनेन पान्तिरगामिनि तथा प्रयो गः । न वा तद्देशतः पश्चादागत्य पुनस्तद्देशगामिनि तथा प्रयोगः। एकादश्यों लङ्घनमित्यादौ भोजनाभावे लक्षणा । आधेयत्वस्य प्रकृ. त्यर्थतावच्छेदकव्यापकाधेयत्वीयस्वरूपसम्बन्धेनान्वयः, नातस्तत्र किय. कालभोजनाभावेऽपि तथा प्रयोगः। रविणा लचितो मास इत्यादौ सम्ब- न्धविशेषाभावे लक्षणा इति प्राचीनाः। तन्न साधु, सन्निधानस्य साक्षा- द्धात्वर्थतानवच्छेदकतयाऽहेः कर्मत्वानुपपत्तेः विप्रकृष्टदेशस्यापि कर्म- त्वापत्तेश्च ॥ नव्यास्तु एकपार्श्वतः पान्तिरपतनं लचनम्। पावत्वञ्चायमस्य पा व इति प्रतीतिसातिको दिकसम्बन्धविशेषः, तदाश्रयत्वेनाह्यादेः कर्म: त्वं, पतनत्वन्तु गुरुत्वजन्यतावच्छेदकजातिविशेषः, तेन उक्तदोषाणां ना. वकोश इत्याहुः॥ अन्येतु विजातीयव्यापारो लङ्घनं, वैजात्यञ्च लङ्घधातुशक्यतावच्छे. दकतया सिद्धमतो न कश्चिदोष इत्याहुः। तदसत्, शक्यतावच्छेदक- तया जातिसिद्धरपसिद्धान्तत्वात् , धात्वर्थतावच्छेदकफलाभावेन तस्या. कर्मकत्वापत्तेश्च । वस्तुतः सम्बन्धविरोधिव्यापारो लङ्घन, स्वाधिकरणदेशविशेषैक. सीमासम्बन्धाव्यवहितोत्तरत्वतादृशापरसीमासम्बन्धकालीनस्वाभयस- म्बन्धेन व्यापार, प्राधेयत्वसम्बन्धेन च तद्घटकसम्बन्धेऽहेरन्वयः। तादशव्यापारश्च प्रकृते ऊर्ध्वसम्बन्धानुकूलव्यापारः। यत्र प्रथमसीमास. म्बन्धं विनैन परसीमासम्बन्धः तत्र तादशप्रयोगवारणाय प्रथमम्बन्धनिवे. शः। यत्र च प्रथमलीमासम्बन्धमानं ताशसम्बन्धानन्तरोलसम्बन्धस्त. दनन्तरं पुनस्तस्लीमासम्बन्धो वा तत्र तादृशप्रयोगवारणाय द्वितीयसम्ब. न्धनिवेशः । यत्र तादृशसम्बन्धानन्तरमहिसम्बन्धोऽनन्तरञ्चायरसीमास. म्बन्धः तदनुकूलव्यापारश्च शहिसन्निहिततृणादिसम्बन्धविरोधी तत्र तादृशप्रयोगवारणाव तृतीयसम्बन्धनिवेशः । सीमात्वन्तु तात्पर्यवशात् यथायोग्यं ग्राह्यम् । यदा पूर्वसीमातः पश्चिमसीमागमनं तत्र तत्पूर्व .

(२६) अनुभवत्वजातिवादवाचिः। १६६ स्वतत्पश्चिमत्वरूपम् । एवं क्वचिदुत्तरत्वदक्षिणत्वरूपं क्वचित् दिश. मादायापि तत्त्वं निर्वाच्यम् । 'अहिं विलय गतवान्' इत्यादौ उक्तसम्बन्धेनाहिविशिष्टसम्बन्ध. विरोधिव्यापारानन्तर्यमेव गमनादौ भासते। न च यत्राहिवृत्तिसंयो. गादिकमप्रसिद्ध तत्र तादशप्रयोगो न स्यादिति वाच्यम् । अन्ततो वा. युसंयोगस्यैव तत्र सत्वात् ॥ 'विलढ्यैकादशी भु?' इत्यादौ, “गुरुं वि. लंध्य शास्त्रेऽस्मिन्नाधिकारः कदाचन” इत्यादौ च त्याग एव लवधातुरौ- पचारिकः । “एकादश्यां विलङ्घन, ज्वरादौ लवन पथ्य मित्यादौ भोज नाभाव एव लङ्घधातोर्लक्षणा । 'विलक्ष्य मेलं त्रिदिवं प्रयातः, सेतुं वि- लङ्ग्य गतवान् लङ्कायां रघुनन्दनः' इत्यादौ अवलम्बने लङ्घधातो. लक्षणा । नच तत्तद्धर्माणां लघुतया शक्यतावच्छेदकत्वमुचितमिति वाच्यम् । भूरिप्रयोगाभावात् , शक्त रिप्रयोगनियतत्वात् तेषां लघुत्व- स्याकिञ्चित्करत्वादिति युक्तमुत्पश्यामः ॥ इति लङ्घनवाद (२६) वीचिः। अथ अनुभवत्वजातिवाद (२६) वीचिः। अनुभवत्वस्य प्रत्यक्षादिचतुष्टयसाधारणजातित्वे मानाभावः, शानं द्विविधं स्मृतिरनुभवश्चेति विभागस्य स्मृत्यन्यज्ञानत्वेनवोपपत्तः । नचानुभवामीति अनुव्यवसायातलिद्धिरिति वाच्यम् । स्वर्गादेः शा. ब्दबोधानुमित्यादेः सस्वेऽपि स्वर्गमनुभवामीत्यनुव्यवसायाभावेन सा. क्षात्कारत्वस्यैव तद्विषयत्वात् । न च विशेषणशानजन्यतावच्छेदकतया तसिद्धिरिति वाच्यम् । स्मृतौ व्यभिचारेण विशेषणशानस्य विशिष्टबु- द्धिमाने हेतुत्वासम्भवात् विशिष्टसाक्षात्कारत्वस्यैव विशेषणशानजन्य- तावच्छेदकत्वात् , विशेषणशानाभावे अनुमित्यादेरभावस्य परामर्शाय- भावेनव सम्भवात् । न चाप्रसिद्धस्य साध्यस्यानुमितौ साध्यप्रकारकत्व. वारणायानुमितावपि विशेषणज्ञानस्य हेतुत्वमावश्यकमिति वाच्यम् । साध्यतावच्छेदकरूपेण साध्यप्रकारकानुमितेः साध्यतावच्छेद कवि. शिष्टवैशिष्टयविषयताकत्वनियमेन विशेषणतावच्छेदकनिश्चयाभावा. देव तत्साध्यकानुमितेरनुत्पादात् , सामान्यसामग्रीसहिताया एव विशे. षसामग्रयाः कार्योपधायकत्वात् । अन्यथानुमिति प्रति विशेषणज्ञानस्य हेतुत्वेऽपि खण्डशो विशेषणवानसत्त्वेन विशेष्ये विशेषणमितिरीत्या सा. ध्यप्रकारकानुमितेस्तन दुर्वारत्वात् । २२ पाद १७० वादवारिधी अथैवं विशेषणतावच्छेदकनिश्चयस्य जन्यताबच्छेदकतयैवानुभवत्व. सिद्धिः स्मृत्यन्यज्ञानस्वस्य तत्कार्यतावच्छेदकत्वे गौरवात् । न च विशि- वैशिष्टयागाहिप्रत्यक्षत्वमेव तस्यापि जन्यतावच्छेदकम् । अप्रसिद्ध साध्यकानुमितेरपि साध्यप्रकारकत्वापत्तेः । न चाप्रसिद्धसाध्यस्थलीय. परामर्शविशेषस्य साध्यविशेष्यकानुमितित्वमेव कार्यतावच्छेदकमिति वाच्यम् । तत्स्थलीयसाध्यक्षाने ताद्शपरामर्शादेव साध्यप्रकारकानुमिते. रुत्पादात् । न च तथापि तजाते. प्रत्यक्षानुमितिमात्रसाधारण्यमस्तु, शाब्दबोधोपमितिसाधारराये मानाभावः, शाब्दबोधं प्रति पदजन्यविशे. षणतावच्छेदकप्रकारकनिश्चयस्य विशिष्य हेतुताया आवश्यकत्वात् , उपमिति प्रति चातिदेशवाक्यार्थज्ञानेनैव गतार्थत्वादिति वाच्यम् । प्रत्यक्षानुमितिमात्रसाधारण्यस्यानुपगमात् इति चेन्न । तथापि प्रत्यक्षादिचतुष्टयसाधारणस्य तस्यासिद्धेः।बाधबुद्धिप्रति. बध्यतावच्छेदकेन प्रत्यक्षव्यावृत्तेन स्मृतिशाब्दबोधसाधारणेन परोक्षत्वेन साङ्कर्यापत्त्या प्रत्यक्षानुमितिसाधारणस्य तस्यासिधेरसम्भवाच, तुल्य- युक्तया विपरीताविज्ञानप्रतिबन्धकताविचारोक्तयुक्तया च तजातेदुर्वार- स्वादिति केचित् । तत्र स्वतन्त्राः-विशेषणतावच्छेदकप्रकारकनिश्चयजन्यतावच्छेदक- तया शाब्दबोधव्यावृत्तमनुभवत्वम् , बाधादिबुद्धिप्रतिबध्यतावच्छेदक. तया शाब्दबोधप्रत्यक्षव्यावृत्तमपरोक्षत्वं च वयमेव जातिलाघवात् । न चैवं विशेषणतावच्छेदकप्रकारकनिश्चयजन्यतावच्छेदकस्यानुभवत्वस्य प्रत्यक्षानुमितिसाधारणस्योक्तयुक्त्या शाब्दबोधवृत्तित्व उपमितिवृत्तित्वे. ऽपिमानाभावेन परस्परमनुमितौ साङ्कापतिः, परोक्षत्वस्य प्रत्यक्षावृत्ति- त्वादिति वाच्यम् । साङ्कर्यवारणायैव विशेषणतावच्छेदकप्रकारकनिश्च. यजन्यतावच्छेदकस्यानुभवत्वस्योपमितावभ्युपगमात् , तथाचानुभवस्व. व्याप्यमेवापरोक्षत्वमिति न साङ्कर्यम् । न च बाधबुद्धिप्रतिबध्यतावच्छेद केन परोक्षत्वेन साङ्कर्यापत्याऽनुभवत्वस्य जातित्वासम्भवः विशेषणताव. च्छेदकप्रकारकनिश्चयस्य कार्यतावच्छेदके गौरवापत्तेः, परोक्षत्वस्य चा. जातित्वे बाधादिबुद्धेः प्रतिबध्यतावच्छेदके प्रत्यक्षान्यत्वशाब्दान्यस्वयोः प्रवेशे गौरवापत्तेः। न च बाधतव्याप्यादिबुद्धिसत्त्वे प्रत्यक्षानुमित्या. दिवत्स्मृतेरपि उत्पादस्यानुभवविरुद्धत्वात् स्मृतेरपि बोधादिबुद्धि. प्रतिबध्यत्वमावश्यकम् , यथोक्तगौरवस्य प्रामाणिकत्वात् , अन्यथाऽ. तिरिक्तप्रतिवध्यप्रतिबन्धकभावकल्पनागौरवभयेन प्रत्यक्षादावपि वद्वि रोधित्वविलोपप्रसङ्गादिति वाच्यम् । बाधबुद्धिसत्वे स्मृतेरनुत्पादानुभ. .

(२७) लौकिकविषयतावादवांचिः। १७१ वस्य विवादग्रस्तत्वात् , कदाचिदनुभवं प्रत्येव वा विशेषदर्शनं विरो. धीति सत्प्रतिपक्षप्रन्थे भट्टाचागैरेवाभिधानाञ्च । न च तथाप्यनुमितिभि. नज्ञानत्वस्यापि विनिगमनाविरहेण जातित्वं दुर्वारमिति वाच्यम् । अनुमितिभिन्नशानत्वस्य जातित्वेऽनुभवत्वपरोक्षत्वयोरुभयोरेव जाति. स्वासम्भवेन विशेषणतावच्छेदकप्रकारकनिश्चयबाधबुद्धरुभयोरेव कार्यः तावच्छेदके गौरवापस्या गौरवस्यव विनिगमकत्वादिति प्राहुः । इत्यनुभवत्वजातिवाद (२६) वीचिः। अथ लौकिकविषयतावाद (२७) वीचिः । अथ लौकिकविषयतां ये लौकिकसन्निकर्षजन्यज्ञानविषयता स्वीकु. चन्ति, तेषामयमभिसन्धिः-घटं साक्षात्करोमीत्यनुव्यवसायश्च घटायंशे लौकिकत्वावगाही, घटाद्युपनीतभानानन्तरं तानुशप्रतीत्यनुदयात् । घटाघशे लौकिकत्वञ्च घटादिनिष्ठविलक्षणविषयतानिरूपकत्वादन्यदु चम् । न च तदंशे प्रत्यक्षत्वमेव लौकिकत्वं, प्रत्यक्षत्वस्य जातिस्वरूप- तया अांशिकत्वासम्भवात् जातेरांशिकताया अपसिद्धान्तस्वात् । न च तद्व्यक्तिनिष्ठलौकिकसन्निकर्षजन्यत्वमेव तदंशे लौकिकत्वम् , द्रव्य. गुणायंशे लौकिकत्वशरीरे च संयोगसंयुक्तसमवायादिरूपो विशिष्यैव निवेश्यः अतो लौकिकसन्निकर्षत्वस्यानुगतस्य दुर्वचत्वेऽपि न क्षतिरिति वाच्यम् । यतो लौकिकसन्निकर्षजन्यज्ञानवृत्ति लौकिकसन्निकर्षजन्यता. वच्छेदकं लौकिकविषयत्वमवश्यमुपगन्तव्यम्, अन्यथा स्वाश्रयविषय. कत्वस्वानन्तरोत्पन्नत्वोभयसम्बन्धेन लौकिकसन्निकर्षविशिष्टप्रत्यक्षत्वा. दन्यस्य लौकिक्रमन्निकर्षजन्यत्वस्थ दुर्वचतया तस्यालोकसंयोगादिक पसहकारिविशेषासमवहितघटादिवृत्तीन्द्रियसन्निकर्षानन्तरोत्पन्नघटाधु. पनीतभानसाधारणतया तादृशघटाधुपनीतभानानन्तरं घटं साक्षात्क- रोमीत्यनुव्यवसायापत्तेर्दुरित्वात् । वस्तुता लौकिकसन्निकर्षजन्यप्रत्यक्षनिष्ठं तजन्यत्वमप्रतिसन्दधान- स्यापि पुंसो वस्तुमत्या लौकिकसन्निकर्षजन्यं यत् घटादिप्रत्यक्षं तदुत्तरं घट साक्षात्करोमि इत्यनुव्यवसायेन लौकिकसन्निकर्षजन्यत्वस्व नियम- तस्तादृशानुष्यवसायविषयता न सम्भवति । अत एव लौकिकसन्निकर्ष. घटितसामग्रीजन्यत्वस्य पूर्वोक्तातिप्रसङ्गवारणाय उक्तानुव्यवसायविषय. ताभ्युपगमोऽपि नितरां निरस्तः, लौकिकसन्निकर्षघटितसामग्रथा अतिदुईयतया तामविदुषः तथाविधानुव्यवसायस्यानुभविकत्वात् । यदेतत् तद्विषयकप्रत्यक्षत्वं विषयतासम्बन्धेन तद्विशिष्टत्वे सति प्रत्यक्ष- १७२ वादवारिधी . त्वं वा घटं साक्षात्करोमीत्यनुव्यवसायविषयः, विशेष्यतासम्बन्धेन ता दृशधर्मप्रकारकानुव्यवसायं प्रति तवृत्तिलौकिकसन्निकर्षघटितसामग्रो. जन्यज्ञानस्य तादात्म्यसम्बन्धेन तादृशसामग्रीजन्यत्वस्यैव वा स्वरूप- सम्बन्धेन हेतुत्वोपगमात् न घटाधुपनीतभानानन्तरं घटं साक्षात्करो. मीत्यनुव्यवसायापत्तिः, सामग्रीनिवेशान्नोपदर्शितसहकारिविशेषासम वहितधटादिवृत्तीन्द्रियसन्निकर्षानन्तरोत्पन्नतदुपनीतभानेन साक्षात कारित्वग्रहः। अथवमपि आकाशादिविषयकोपनीतभानानन्तरमाकाशं साक्षात्क रोमीत्यनुव्यवसायापत्तिः, विषयभेदेन कार्यकारणभावभेदस्यावश्यक तया आकाशादिवृत्तिलौकिकसन्निकर्षघाटेतसामग्रयास्तत्प्रकारकानुव्य वसायरूपफलस्य चाप्रलिया तत्रोक्तकार्यकारणभावकल्पनास. म्भवेन उक्तकारणविरहेण तादृशापत्तिवारणस्याशक्यत्वात् । न च वि षयविशेषमनन्तर्भाव्य प्रत्यक्षत्वावच्छिन्नविशेष्यतानिरूपितायाविषयित्व निष्ठा प्रकारता तन्निरूपितनिरूपितत्वसम्बन्धावच्छिन्नप्रकारतासम्बन्धे. नानुव्यवसाय प्रति लौकिकसामप्रथा एव सामान्यतो हेतुता कल्प्यते, प्राकाशादौ लौकिकसामग्रीधिरहात्तादृशप्रकारतासम्बन्धेन उक्तानुव्यव. सायापत्त्यसम्भवात् नाकाशं साक्षात्करोमीत्यनुव्यवसायापत्तिरिति वा. च्यम् । घटादिवृत्तिलौकिकसन्निकर्षविगमेऽपि घटशानसखे घट साक्षा. स्करोमीत्यनुव्यवसायोत्पत्त्या व्यभिचारेणेक्तकार्यकारणभावकल्पनाया असम्भबात् । न चाकाशं साक्षात्करोमीत्याद्यनुव्यवसायस्याप्रसि. या नापत्तिःसम्भवति, घटं साक्षात्करोमीत्याद्यनुव्यवसायस्थले घटादौ प्रसिद्धेन उक्तप्रकारतासम्बन्धेन प्रसिद्धस्य लौकिकमानसत्वावच्छिन्न- स्थापि नाकाशादावापत्तिसम्भवः, तादशसम्बन्धेन तादृशधर्मस्य कस्यचिजन्यतावच्छेदकतया आपादकविरहात्, अन्यथा भवन्मतेऽपि लौकिकविषयत्वांशे अाकाशीयत्वाधवगाहिदर्शितानुव्यवसायस्यापत्ति- सम्भवादिति वाच्यम् । घटं साक्षात्करोमीत्यनुव्यवसाये साक्षात्कारो न घटीय इत्यादिवाधबुद्धेः प्रतिबन्धकतायां घटत्वपटत्वाधन्तर्भावे ताद् शानन्तधर्मभेदेन प्रतिबन्धकतानन्त्यप्रसङ्गात् , तादृशधर्ममनन्तर्भाव्य सा- क्षात्कारत्वावच्छिन्नविशेष्यतानिऊपितप्रकारतासम्बन्धेन ज्ञानं प्रति ता द्वशविशेष्यतानिरूपिताभावप्रकारतानिरूपितप्रतियोगितासंसर्गावच्छिन्न. प्रकारतावच्छेदकतासम्बन्धेन बाधज्ञानस्य प्रतिबन्धकताकल्पनात् ताद शसम्बन्धावच्छिन्नप्रतियोगिताकतथाविधप्रतिबन्धकाभावरूपकारणवलेन भाकाशादौ उक्तप्रकारतावच्छेदकतासम्बन्धेन मानसापचेरेव उपदशिता.

(२७) लौकिकविषयतावादवाचिः। नुव्यवसायापत्तौ पर्यवसानादिति चेन्न । विषयनिष्ठप्रत्यासत्या बाधबुद्धेः प्रतिबन्धकताया अग्रे निरसनी. यतया बावुद्धयभावबलेन उपदर्शितापत्त्यसम्भवात् । यत्तु लौकिकसामग्रोजन्यत्वस्य साक्षात्त्वव्यजकत्वापेक्षया लाघवेन विषयतासिद्धिरिति । तदसत् , उपदर्शितकार्यकारणभावलाघवेना. तिरिक्तविषयतासिद्धेः सिद्धान्तविरुद्धत्वात् , अन्यथा धूमपराम- दिजन्यतावच्छेदकतया धूमलिङ्गकानुमितिवृत्तिविषयताविशेषाणां वह्नयाधनुमितिसामान्यजनकतावच्छेदकतया धूमगलोकादिलिङ्गकनि. खिलपरामशेषु विषयताविशेषाणां वा सिद्धिप्रसङ्गात् , तथाचसति व्याप्त्यादिघटितनिखिलपदार्थानां विषयतानिवेशस्याकिञ्चित्करतया स. कलव्याप्तिज्ञानानामेवानुगमसम्भवात् । एतेन लौकिकसन्निकर्षस्य जन्यतावच्छेदकम् दुर्वचं, न तावत् प्रत्यक्षत्वमुपनीतभाने व्यभिचारात् । नापि ज्ञानाजन्यप्रत्यक्षत्वं, विशिष्टबुद्ध्यादेविशेषणानजन्यतया लौकिक प्रत्यक्षात्मकतदसंग्रहप्रसङ्गात् । न च विशिष्टबुद्धौकिकसन्निकर्षजन्य तावच्छेदकानाकान्तत्वेऽपि क्षतिविरहः, ज्ञानसन्निकर्षादेव तदुपपत्तिरिति वाच्यम् । विशेषणशानादुत्तरविशिष्टबुद्धो शानसन्निकर्षाद्विशेष्यत्वानि वाहेण लौकिकन्निकर्षजन्यतावच्छेदकस्य तत्साधारण्यावश्यकत्वात् । तत्तद्विषयकज्ञानाजन्यप्रत्यक्षत्वस्य जन्यतावच्छेदकत्वमुपगम्य विशिष्टबु. द्धिसंग्रहे विषयभेदेनानन्तकार्यकारणभावप्रसङ्गात् ज्ञानसग्निकर्षादिहेतु. तायां लौकिकप्रत्यक्षे व्यभिचारवारणाय लौकिकसन्निकर्षाजन्यत्वस्य उक्तजन्यतावच्छेदकगभऽवश्यं निवेशनीयतया अन्योन्याश्रयप्रसङ्गात् । यत्तु मुख्यविशेष्यतायाश्चक्षुःसंयोगादिजन्यतावच्छेदकत्वोपगमात् उपनीतभाने न व्यभिचारः, उपनीतस्य चाक्षुषादिशाने विशेषणतयैव भाना. दिति । तदपि न, तथा सति सामान्यज्ञाने जन्ये च योगजधर्मजन्ये प्रत्यक्ष व्यभिचारस्य दुर्वारत्वादिति, उक्तयुक्त्या कार्यकारणभावावच्छेदक- कोटौ गौरवादिसहिष्णुतायां चक्षुःसयोगादिविशिष्टचाक्षुषत्वादीना. मेव चक्षःसंयोगादिजन्यतावच्छेदकत्वसम्भवेनातिरिक्तविषयताया अ. सिद्धः । वैशिष्टयञ्च स्वाश्रयविषयकत्वस्वाव्यवहितोत्तरक्षणात्पत्तिक- वामयसम्बन्धेन बोध्यम् । यदि च घटाग्रंशेऽलौकिकस्य घटवद्भुतलमि- त्यादिप्रत्यक्षस्य उक्तोभयसम्बन्धेन भूतलचक्षुःसंयोगादिविशिष्टत्वेन चक्षः संयोगादिकार्य्यतावच्छेदकाक्रान्ततया तस्य च विषयतारूपकार्थ्यताव. च्छेदकप्रत्यासत्या घटादावुत्पत्तिस्तत्र कारणाभावात् व्यभिचारस्तद- वस्था, अतिरिक्तविषयत्वोपगमे च तस्या एव प्रत्यासत्तित्वोपगमान्न १७४ वाद वारिधी व्यभिचारसम्भावनेति मन्यते, तदाऽस्माभिरपि स्वाव्यवहितप्राक्क्षणवृत्ति- चक्षुःसंयोगादिसमानाधिकरणविषयताया जन्यताघटकप्रत्यासतित्वमु. पगन्तव्यम् , जन्यतावच्छेदकधर्मः शुद्धचाक्षुषत्वादिकमेव, तत्रनोक्तव्यः भिचारसम्भावना उत्कज्ञानीयघटादिविषयताया अतथात्वात् इति । अत्र वदन्ति-घटाद्युपनीतभानानन्तरं न साक्षात्करोमोत्यनुव्यवला. या सर्वानुभवसिद्धः तादृशलामग्रीजन्यत्वस्याभावमात्मनि वा घटादि. निष्ठलौकिकसन्निकर्षजन्यप्रत्यक्षत्वावच्छिन्नाभावं नावगाहितुमीष्टे, लौ. किकसन्निकर्षाजन्यतदानीन्तनसाक्षात्कार घटादिनिष्ठलौकिकसन्नि- कर्षादिजन्यस्वाद्युपस्थितिविरहेप्युत्पत्तः, नापि तदानीन्तनसाक्षात्कार घटादिविषयकत्वस्यात्मनि वा घटादिविषयकप्रत्यक्षत्वावच्छिन्नस्या. भावमवगाहता, तत्र तादशाभावयोर्बाधात् , बाधितविषयकत्वे तादृशप्र. तीतीनां भ्रमत्वापत्तिः। पदार्थान्तरकल्पनया प्रतीतौ प्रामाण्योपपादनस म्भवे भ्रमत्वस्वीकारश्च प्रतीतिबलसिद्धपदार्थमात्रव्यत्ययप्रसङ्गपराह तः, तस्मात्तदानीन्तनसाक्षात्कारे घटादिनिष्ठविलक्षणविषयतानिरूपक स्वाभाव आत्मनि तादृशविषयतानिरूपकप्रत्यक्षत्वावच्छिन्नभावो वा विषय इति तादृशविषयताविशेषः सर्वथैवेापगन्तव्यः । अथ लौकिकसामग्रीजन्यघटादिप्रत्यक्ष प्रत्यक्षस्वरूपेण घटादिविषय. तानिरूपकत्वं, न तु घटाधुपनीतभाने, तस्य शानत्वेनैव तादृशविषयता. निरूपकत्वात् , एवञ्च तदानीन्तनसाक्षात्कार घटादिविषयत्वीयप्रत्यक्ष- स्वावच्छिन्ननिरूपकत्वाभाव आत्मनि घटादिविषयतानिरूपकतावच्छेद. कप्रत्यक्षत्वावच्छिन्नाभावो वा उपदर्शितप्रतीतिविषय इति न तद्वलाद्वि. लक्षणविषयतासिद्धिः। न च विलक्षसं विषयतानिरूपकत्वं विलक्षणविष. यत्वं वा कल्पते इत्यत्र विनियमनाविरहात् विलक्षणविषयतासिधेरा. वश्यकतेति वाच्यम् । यतोऽतिरिक्त विषयताकल्पने तन्निरूपकत्वमपि विलक्षणमवश्यं स्वीकार्यम्, उपनीतभानसाधारणविषयतानिरूपकत्वस्य तन्निरूपकतात्मकत्वे उपनीतभानस्यापि तन्निरूपकत्वप्रसङ्गात् तदनन्त. रमुक्तप्रतीत्यनुपपत्तिरिति न विनिगमनाविरह इति चेन्न । उपनीतभानब्यावृत्तप्रत्यक्षत्वावच्छिन्ननिरूपकताविशेषसिधा तथा- विधनिरूपकताकविषयतान्तरसिद्धिरप्यायातव, सामान्यविषयताया. निरूपकत्व एव प्रत्यक्षत्वावच्छिन्नत्वे घटाधुपनीतभानानन्तरं घटादिनिष्ठ- प्रत्यक्षत्वावच्छिन्ननिरूपकताकविषयत्वाभावावगाहिन्या घटो न साक्षात्- क्रियते इत्याकारकप्रतीतेभ्रमत्वापत्तेः सामान्यविषयत्वाभावस्य तत्र बाधि. नत्वात् । न चात्मनि विलक्षणनिरूपकताशालिप्रत्यक्षाभाव एव तादृशप्र.

(२७) लौकिकविषयतावादवीचिः । १७५ कि. तोतेर्षिषयः, स चाबाधित एवेति वाच्यम् । तथा सत्येतादृशानीतेघंटा द्यविशेष्यकतया घटादिविशेष्यकबोधजनकतादृशशब्दोल्लेखित्वानुपपत्तेः। अथ निर्विकल्पकीयविषयताविशेषनिरूपकत्वादेव लौकिकत्वमस्तु मतिरिक्तविषयतया । न च निर्विकल्पकीयविषयताया लौकिकविशिष्टबु. द्धिसाधारणत्वोपगमे जातित्वादिना घटत्वज्ञानात स्वरूपता घटत्वप्रका. रकप्रत्यक्षापत्तिः, तादृशविशिष्टबुद्धिजनकतावच्छेदकतावच्छेदकीभूतय. त्किञ्चित्प्रकारत्वानिरूपकघटत्ववृत्तिविषयताया भवन्मते निखिलघटस्वा. दिविषयकलौकिकप्रत्यक्षसाधारण्यादिति वाच्यम् । स्वरूपतस्तद्विशिष्ट बुद्धौ तद्विशेष्यकत्वाभाववत्तद्विषयकज्ञानत्वेनैव हेतुत्वोपगमात् , जाति. स्वादिविषयकज्ञानस्य स्वरूपतो विशिष्टबुद्धायहेतुत्वात् । नचैवं जाति- मान् घटश्चेत्याकारकज्ञानात् स्वरूपता घटत्वादिविशिष्टबुद्धधनुदयप्रसङ्ग इति वाच्यम् । विशेष्यतामिन्नतन्निष्ठप्रकारताकान्यत्वविशिष्टतद्विशेष्य- कत्वाभावस्यैव कारणतावच्छेदककोटौ निवेशनीयतया तादृशद्विविधवि. षयताशालिबाने उक्तस्थले तादृशविशिष्टबुद्धधनुदयापत्त्यसम्भवात् । न चैतादृशगुरुशरीरविशिष्टाभावस्य कारणतावच्छेदककोटिप्रवेशापेक्षया प्रकारत्वानिरूपकविषयतायास्तथात्वे लाघवमिति निर्विकल्पकीयः विषयताया विशिष्टधीव्यावृत्तत्वसिद्धिरिति वाच्यम् । कार्यकारणभा. वलाघवेनातिरिक्तविषयतासिद्धः प्रागेव निरस्तत्वादिति चेत् । नैवम्, अयं घट इत्यादिलौकिकप्रत्यक्षानन्तरोत्पन्ना घटत्वेनेम सा- क्षात्कारोमीतिप्रमा घटत्वप्रकारतानिरूपितलौकिकविषयतां तादृशो. पनीतभानानन्तरोत्पन्नं घटत्वेनेमंन साक्षात्करोमोत्यादिप्रत्यक्षं च घटत्व- সন্ধানিকথিবীন্ধিৰিবৰান্ত জ্ঞান নাৰিবায়াজ্জিা- नाभावं वा आत्मन्यवगाहते,न च निर्विकल्पकीयविषयता प्रकारतानि- रुपितेति निर्विकल्पकविषयताभिन्न विषयतासिद्धिः। न च तादशप्रत्ययो घटत्वप्रकारतानिरूपितेदन्त्वावच्छिन्नविशेष्यताकत्वविशिष्टेदवृत्तिलौकि- कविषयताकत्वमेवावगाहते, तथाच निर्विकल्पकविषयताया एवोपपत्ति. रिति वाच्यत्।तथासति घटत्वेन तद्ब्यक्तिलौकिकप्रत्यक्षहेतुभूततयाअक. संस्थानविशेषावच्छिन्नचक्षुःसंयोगविरहदशायामिदनवादिनैव लौकिक. प्रत्यक्षजनकात् यथाकथञ्चित्सन्निकर्षात् जायमाने इदन्त्वेन तद्व्यक्तिलौ. किकप्रत्यक्ष यत्र घटत्वस्थ तयक्तावुपनयमादया भानं तत्र घटत्वेनेम साक्षात्करोमीत्यनुव्यवसायानुपपत्तिः, तादशनामस्य घटत्वप्रकारतानि. रुपितेदवावच्छिन्नविशेष्यतोकस्वात् इदन्वसमानाधिकरणलौकिकविष. यतावत्त्वाच। न च घटत्वादिलौकिकविषयताकत्वविशिष्टतथाविधेदंवृ.

१७६ बादवारिधी त्तिलौकिकविषयत्वादिकं तादशप्रतीतिविषयः, ताशशामस्य घट. त्वव्यञ्जकसंस्थानविशेषावच्छिन्नसत्रिकर्षाजन्यतया घटत्ववृत्तिलौकिक विषयताकत्वाभावानोक्तापत्तिरिति वाच्यम् । एवमपि यत्र यादृशक्षा- नेनैव व्यक्त्यन्तरनिष्ठघटत्वव्यजकसन्निकर्षवशात् व्यक्त्यन्तरे घटत्वं विषयीकृतं तत्रैव तादृशापत्ते?ारत्वात् ॥ लौकिकविषयतापि प्रकारताधात्मिका न तु तदतिरिक्तति केचित् । तदसत् , तथासति भूतलं घटवत् भूतले घट इति शानभेदेन घटादिनि- ठलौकिकविषयताभेदप्रसङ्गात् , प्रकारताद्यतिरिक्तत्वे तत्रैकविषयतथैः वोपपत्तेः। उपनीतभानसाधारणप्रकारतादित एव तथाविधज्ञानानां मिथो वैलक्षण्यस्य निर्वाहात्, लौकिकविषयभेदेन भिन्नानां तेषामनुगमकं लौकिकविषयतावाद्यतिरिक्तमेव । न च लौकिकविषयतानामननुग. मेऽपि क्षतिविरहात् तदनुगमकधर्मान्तरकल्पनमफलमेवेति वाच्यम् । तदननुगमे साक्षात्करोमीत्याकारकानुगतमित्यनुपपत्तः, तन्निरूपकत्वा. भावतन्निरूपकप्रत्यक्षाभावयोरप्यनुगमासम्भवेन न साक्षात्करोमीत्यनुग- तप्रतीत्यनुपपत्तेश्च । अष्टापत्तौ विषयतात्वप्रकारतात्वादीनामपि अति- रिक्तानुगतत्वविलयप्रसङ्ग इति बहवः । वस्तुतः लौकिकप्रत्यक्षत्वावच्छिन्ननिरूपितविषयत्वमेव लौकिक विषयत्वं, न त्वतिरिक्त, क्लुप्तपदार्थेनैवोपपत्तौ अतिरिक्तकल्पनाया अन्याय्यत्वात् , लौकिकविषयत्वस्यातिरिक्तत्वे क्वचित्कार्यकारणभा. वावच्छेदकलाघवं सम्भवष्यकिञ्चित्कर, तादृशलाघवस्यातिरिक्तपदा. र्थसिद्धावनुपयुक्तत्वात् , प्रकारतात्वादिश्च प्रकारान्तरेण निर्वक्तुमशक्य. तया अतिरिच्यत इति । प्रत्यक्षत्वावच्छिन्ननिरूपितविषयतावत् चाक्षुष. त्वावच्छिन्ननिरूपितविषयताप्यतिरिक्ता, पश्यामि न पश्यामीत्यादिप्रत्य. यानां तत्साधकत्वात्, तेषां प्रत्यक्षत्वा च्छिन्ननिरूपितविषयतालम्बनस्वे स्पर्शानन्तरं पश्यामीतिप्रत्ययानुपपत्तेरिति केचित् । तादृशप्रत्ययानां चाक्षुषत्वादिविशिष्ट प्रत्यक्षत्वावच्छिन्ननिरूपितविषयता वलम्बनत्वोपग. मेनैव सर्वसामञ्जस्यात तादृशविषयतानामप्रामाणिकत्वात्, तदुपगमे क्वचित्कार्यकारणभावे लाघवं सम्भवदप्यनुपादेयमेवोक्तयुक्तरिति संक्षेपः॥०॥ इति लौकिकविषयतावाद (२७) वीचिः ।

(२८) लौकिकसं० कारणतावादवीचिः । १७७ अथ लौकिकसन्निकर्षकारणतावाद (२८) वीचिः। प्रत्यक्षानुमित्युपमितिशाब्दभेदेन प्रमाश्चतुर्विधाः। तत्रेन्द्रियसन्निकर्ष. जन्य ज्ञान प्रत्यक्षम् । जन्यता च विषयताप्रत्यासत्यवच्छिन्नाप्राह्या, तेन जन्यज्ञानमात्रस्यात्ममनोयोगजन्यत्वेऽपि न क्षतिः, जन्यज्ञानत्वावच्छिन्ना. या आत्ममनोयोगजन्यतायाः समवायप्रत्यासत्यवच्छिन्नत्वात् । लच सन्निकर्षों द्विविधः लौकिकालौकिकभेदात् । तत्र लौकिकसन्निकर्षः षड् विधः-संयोगः १ संयुक्तसमवायः २ संयुक्तसमवेतसमवायः ३ समवायः ४ समवेतसमवायः ५ विशेषणता च ६। अलौकिकसन्निकर्षत्रिविधः- सामान्यलक्षणासानलक्षणायोगजधम्मभेदात्। एतेषाश्चानुगतरूपेण प्र. त्यक्षसामान्य प्रति हेतुता न सम्भवति अनुगतानतिप्रसक्तरूपस्य ब्रह्म णोऽपि दुर्वचत्वात् । नापि द्रव्यादिविषयकलौकिकप्रत्यक्ष प्रति चक्षुः संयोगादिसाधारणेन्द्रियसंयोगत्वादिना, चक्षुरादिसाधारणेन्द्रियत्वस्या नुगतस्य निर्वस्तुमशक्यत्वात् । न चेन्द्रियत्वं जातिविशेषः, तेजस्वा. दिना सङ्करप्रसङ्गात् । अथेन्द्रियनिष्ठेश्वेकत्वेषु जातिविशेषं स्वीकृत्य विजातीयैकत्ववत् संयोगवादिना, अथवा चक्षुरादिसंयोगेष्वेव जातिविशेषः कारणताव. च्छेदकतया स्वीक्रियते । तदभ्युपगमश्चावश्यकः, अन्यथाणुदेशावच्छि. नेन्द्रियसंयोगादितो द्रव्यप्रत्यक्षप्रसङ्गादिति चेत् । सम्भवत्येतादृशरीत्याऽनुगतरूपेण कार्यकारणभावः किन्त्वप्रामा. णिकः । कदाचिच्चाक्षुष कदाचित् स्पार्शनमित्यादिनियमनिर्वाहायचा. क्षुषादौ चक्षुःसंयोगादीनां विशिष्य कारणताया वक्तव्यतयोक्तानुगत. कार्यकारणभावस्थानावश्यकत्वात् । अथ विषयेन्द्रियसन्निकर्षस्योक्तानुगतरूपेणैव हेतुता स्वीक्रियते, इन्द्रि. यमनोयोगस्य च चक्षुर्मनोयोगत्वादिना चाक्षुषत्वाधवच्छिन्नं प्रति वि. शिष्यैव हेतुतेति न चाक्षुषस्पार्शनाद्युत्पत्तावनियमः । चक्षुमनोयोगादि- श्व फलबलाश्चाक्षुषाव्यवहितप्राक्क्षण एव कल्प्यते, अतो बिषयस्य त्व. गिन्द्रियमात्रसंयोगदशायां चक्षुषा समं मनःसंयोगसत्वे चाक्षुषापत्ति. रित्येतादृशफक्किकाया नावतार इति चेन्न । विषयेन्द्रिय सन्निकर्षस्थ विशिष्य हेतुत्वानभ्युपगमे यत्र घटे स्वगि. न्द्रियमात्रसन्निकर्षः पटे चक्षुःसन्निकर्षः तदुत्तरं घटे चाक्षुषापत्तिर्वा- रयितुमशक्या, तदुत्तरं पटचाक्षुषोपत्या चक्षुमनोयोगस्यावश्यं कल्पनी. २३ घादर वादवारिधी यत्वात्(१)। यत्तु इन्द्रियमनोयोगस्य विषयविशेषोऽव्यवच्छेदक उपेयते, एवञ्च विषयताप्रत्यासत्या चाक्षुषत्वावच्छिन्नं प्रति अवच्छेदकत्वप्रत्यासत्या चक्षुर्मनोयोगादीनां हेतुताकल्पने उपदर्शितस्थले पदचाक्षुषानुरोधेन पटरूपविषयावच्छेदेनैव चक्षुमनोयोगः कल्प्यते न तु घटावच्छेदेनापि इति नातिप्रसङ्ग इति । तदसत् । तथासति विषयेन्द्रियसन्निकर्षहेतुताविलयप्रसङ्गात् विष येन्द्रियसनिकर्षशन्यकाले तत्तद्विषयावच्छेदेन इन्द्रियमनोयोगस्याक. रूपनादेवातिप्रसङ्गवारणसम्भवात् , तस्मात् द्रव्यलौकिकचाक्षुषत्वाधव च्छिन्नं प्रति चक्षुःसंगोगत्वादिना विशिष्यैव कार्यकारणभावः। लौकिकत्वस्य कार्यतावच्छेदककोटौ निवेशात् उपनीतभानादौ न व्यभिचारः । लौकिकत्वन्तु साक्षात्करोमीति प्रतीतिसाक्षिको विषय ताविशेषः । गुणादिचाक्षुषे व्यभिचारवारणाय द्रव्यनिवेशः । अथ गुणादिचाक्षुषाद्यव्यवहितप्राक्क्षणे स्वाश्रये चक्षुःसंयोगादेराव. श्यकत्वात् कथं व्यभिचारः । यदि चैकविषयसन्निकर्षात् विषयान्तरप्र. त्यक्षवारणाय विषयतासम्बन्धेन चाक्षुषादिकं प्रति समवायेन चक्षुःसंयो. गादीनां हेतुतावश्य वाच्या, तथा च विषयतासम्बन्धेन चाक्षुषाद्यधिक रणे गुणादौ समवायेन चक्षुःसंयोगाधभावाद्व्यभिचारः सम्भवतीति म. न्यसे, तदा कार्यतावच्छेदककोटौ द्रव्यनिष्ठविषयतानिवेशेप्यसौ दुर्धारः, द्रव्यविषयकचाक्षुषे गुणादेरपि विषयतया तत्रापि विषयतालक्षणका. रयतावच्छेदकप्रत्यासत्या द्रव्यविषयकचाक्षुषस्योत्पत्प्रेरिति चेन्न । कार्यतावच्छेदकोपलक्षितकार्याधिकरण एव तदभावः प्रकृते च द्रव्य. लौकिकचाक्षुषादौ गुणादेविषयत्वेऽपि द्रव्यलौकिकचाक्षुषत्वविशिष्टो वि. षयतया गुणादौ नाभ्युपेयते अतो व्यभिचारानवकाशः। प्रास्तां वा द्र व्यवृत्तिविषयतैव कार्यतावच्छेदकप्रत्यासत्तिः, कार्यतावच्छेदकधर्मस्तु शुद्धचाक्षुषस्वादिकमेव, न चैताशप्रत्यासत्या चाक्षुषत्वावच्छिन्नस्या- श्रयत्वं गुणादावस्तीति न व्यभिचारः। एकपुरुषायेन्द्रियसन्निकर्षात् पुरुषान्तरीयप्रत्यक्षवारणाय तत्पुरुषीयत्वं निवेश्यव कार्यकारणभाव: स्वीकार्यः, प्रत्यक्षनिष्ठं तत्पुरुषोयत्वञ्च तदात्मसमवेतत्वं, चक्षुरादिनिष्ठं तन्मनःसंयोगित्वं, एवञ्च इन्द्रियमनायोगस्य स्वातन्त्र्येण हेतुत्वं न कल्प्यते (१) चक्षुर्मनोयोगस्य त्वाचप्रत्यक्षानुत्पत्तिकाल एव स्वीकारे नैष दोष इति ध्येयम् ।

. (२८) लौकिकसं० कारणतावादवांचिः। १७९ तत्पुरुषीयस्वञ्च सन्निकर्षकारणताच्छेदककोटौ तन्निवेशादेव नियमतस्त. दपेक्षोपपत्तेः, अव्यवहितप्राक्क्षणे कारणतावच्छेदकविशिष्टकारणसत्ता- या एव प्रकृते फलोपधाने तन्त्रत्वोपगमात् । वस्तुतस्तत्पुरुषायचाक्षुषत्वावच्छिन्नजनकतावच्छेदकतया तत्पुरु. षीयचक्षुरादिषु जातिभेदा एव स्वीक्रियन्ते । तन्मनःसंयुक्तचक्षुःसंयोग- त्वादिना हेतुत्वे तन्मनःसंयुक्तत्वचक्षुष्टवादेमियो विशेष्यविशेषणभावे तन्मनःसंयुक्तत्वविशिष्टचक्षष्ट्वविशिष्टचक्षासंयोगत्वेन चक्षुष्ट्वविशिष्ट. तन्मनःसंयुक्तत्वविशिष्टचक्षुःसंयोगत्वेन वा हेतुत्वमित्येतादृशविनिगम- नाविरहेण कारणताबाहुल्यादवच्छेदकगौरवाच । केचित्तु तत्पुरुषीयचाक्षुषादौ समवायादिसंसर्गेण तदीयचक्षुःसंयो. गत्वादिना हेतुत्वापेक्षया लाघवालंयोगादिसंसर्गेण तदीयचक्षुष्टवादि. नैव हेतुता कल्प्यते । अथैवं संयोगादेरिन्द्रियव्यापारतानुपपत्तिस्तजन्यत्वे सति तजन्यः जनकस्यैव तद्व्यापारत्वात् , तथाच इन्द्रियस्य प्रत्यक्षप्रमितिकरणतैध न निर्वहतीति चेत्, वरमेतदर्थं तत्पुरुषीयत्वादिकमनिवेश्य द्रव्यलौकिक- प्रत्यक्षत्वावच्छिन्नं प्रति संयोगत्वेन सामान्यत एव हेतुस्वं कल्प्यता, तत्पुरुषीयचक्षुःसंयोगत्वादिना हेतुत्वेऽपि इन्द्रिये करणतानिहाय तस्य सामान्यत एव हेतुताया अवश्यकल्पनीयतया साम्यादिति वदन्ति । वस्तुतश्चक्षुःसंयोगस्वादिना न सन्निकर्षहेतुत्वं किन्तु जातिविशेषपुर. स्कारेणैव । मणुदेशावच्छिन्न सन्निकर्षादितः प्रत्यक्षवारणाय कारणताव- च्छेदकतया जातिविशेषस्वीकारस्यावश्यकतया चक्षुरादिनिवेशे प्रयोजन- विरहात्, एवञ्च समवायेन विजातीयसंयोगस्य तादृशसंयोगेन चक्षरा. देर्वा विशिष्य हेतुता कल्प्यते इत्यत्र विनिगमनाविरहादेव संयोगस्य हेतुता सेत्स्यतीति । यत्त संयोगे तत्पुरुषीयत्वस्यागुरो निर्वचतया तत्पुरुषीयचक्षुःसंयो. गत्वादिना हेतुत्वमावश्यकमिति कथं चक्षुरादिनिवेशं विना उपपत्ति रिति। तदपि न, तत्पुरुषोयचाक्षुषजनकतावच्छेदकतया संयोगगतजाति. भेदाभ्युपगमेनैवातिप्रसङ्गवारणसम्भवात् तत्पुरुषीयचक्षुःसंयोगत्वा- दिना हेतुताया अनावश्यकत्वात् । ननु सा जातिः संयोगजन्यतावच्छेदकजातिव्याप्या क्रियाजन्यताव. च्छेदकजातिव्याप्या वा इत्यत्र विनिगमकाभावात् संयोगस्य हेतुत्वे कारणताद्वयमिति चेन्न ।

१८० वादवारिधी 4 क्रियाया अवयवायविवृत्तितया यत्किञ्चिद्वयवे प्रतिक्षणं क्रियायाः सत्वेन क्रियाजन्यचक्षःसंयोगस्य संयोगजसंयोगकालेऽपि सत्त्वेन किया. जन्यसंयोगकाले च संयोगजसंयोगस्यासत्त्वेन क्रियाजन्यतावच्छेदकजा. तिव्याप्यैव सा जातिरुपेयते इति ॥ एवं द्रव्यसमवेतद्रव्यसमवेतसमवेतवाक्षुषादौ चक्षुःसंयुक्तसमवा. यतत्संयुक्तसमवेतसमवायत्वादिना हेतुतापि बोध्या । कारणतावच्छे. दकप्रत्यासत्तिश्चात्र प्रतियोगिता । यत्तु द्रव्यसमवेतचाक्षुषादावपि स्वाश्रयसमवायादिसम्बन्धेन चक्षः संयोगत्वादिनैव हेतुता, चक्षुःसंयुक्तसमवायत्वादिना प्रतियोगितासंस. र्गेण हेतुत्वेऽधिकरणे चक्षुरादिसंयोगनिरूपितसम्बत्धस्य सम्बन्धविधया समवायप्रतियोगितायाश्च वेशाधिक्येन गौरवात् इति,तत् हेयं, तथाहि कालिकादिसम्बन्धेन यः स्वाश्रयस्तत्समवायमादायातिप्रसङ्गवारणाय समवायसमवायिसमवायादिकमेव प्रत्यासत्तिरिति वक्तव्यम, एवञ्चा. धिकरणांशे चक्षासंयोगादेः समवायो मतद्वये प्रविष्टः, किन्त्वस्मन्मते समवायीयप्रतियोगितानिवेशस्याधिक्यं भवन्मते तु स्वसमवायिसमवा. यरूपसम्बन्धशरीरेऽधिकरणांशे समवायस्य विशेषणतया तत्र तत्सम्ब. म्धस्याधिकस्य निवेशनीयतया लाघवानवकाशः। वस्तुत उक्तसम्बन्धनिवेशे लाघवविरहेऽपि चक्षुःसंयुक्तसमवायत्वेन हेतुत्वे तादृशसमवायत्वरूपोपाधे तुतावच्छेदकत्वमपेक्ष्य विजातीय. संयोगत्वेन हेतुत्वे वैजोत्यस्य कारणतावच्छेदकत्वे लाघवम् , अतो द्रव्य. समवेतप्रत्यक्षादौ चक्षःसंयुक्तसमवायादिहेतुताकल्पनमफलम् । अथ तदकल्पने गुणादौ प्रत्यक्षविषयता कीदृशसामग्रीनियम्येति चेत्. प्रतिबन्धकाभावादिघटितसामग्रीनियम्यैव अथैवमसन्निकृष्टगुणादावपि कथं न प्रत्यक्षविषयता उक्तसामग्रया स्तत्राप्यक्षतत्वात् इति चेन्न । तादृशसामप्रथाः गुणादिप्रत्यक्षजनने आश्रयमासकसामग्रयाः सह. कारित्वमुपेयते, स्वाश्रयभासकसन्निकर्षादिशून्यकाले कदापि गुणादि- चाक्षुषाधनुदयात् । एवञ्च गुणादेः सन्निकर्षशुन्यतादशायां स्वाश्रयः सन्निकर्षादिरूपसहकारिविरहादेव न प्रत्यक्षापत्तिः। अथ स्वाश्रयाविषयकासनिकृष्टवायुस्पर्शादिगोचरप्रत्यक्षं स्यात्। तत्राश्रयभासकसामग्रयाः सहकारिता न सम्भवति इति चेत्,तहि द्रव्यस मवेतस्पार्शने त्वक्संयुक्तसमवायस्य हेतुताऽस्तु चक्षुःसंयुक्तलमवायच. क्षुःसंयुक्तसमवेतसमवायहेतुताकल्पनन्तु निष्फलमेव, गुणादिचाक्षुषादेः (२८) लौफिकसं० कारणतावादवचिः । १८१ . गुणादिसमवेतचाक्षुषादेश्व आश्रयाविषयकस्य क्वचिप्यनुदयेन तत्राश्रयभ- सिकसामग्रयाः सहकारितासम्भवात् । न च प्रत्यक्षविषयताया इन्द्रिय- सन्निकर्षाश्रयत्वव्याप्यतया चक्षुःलंयुक्तसमवायादेहेतुत्वमावश्यकमिति वाच्यम् । तादृशव्याप्तेरप्रामाणिकत्वादिति । तदपि हेयमेव, तथाहि गुणादौ विषयतासम्बन्धेन प्रत्यक्षोत्पादनिर्वाहकसामग्रीव्याप्तौ स्वाश्र- यभासकसामग्रया निवेशमन्तरेण तादृशलामग्रोशून्यकाले गुणादिप्रत्यक्ष स्य वारणासम्भवात् , व्याप्यत्वेनोपगतस्य सत्त्वोपगमे व्यापकापचे रावश्यकत्वात् , अतस्तथाविधसामग्रीव्याप्तौ तन्निवेशनमावश्यकमिति । अत्र च यत्क्षणावच्छेदेन यद्देशे विषयादिघटितसामग्री तव्यवहितो. त्तरक्षणावच्छेदेन तद्देशे विषयतया प्रत्यक्षमुत्पद्यते इत्येतादशसामप्रोव्याप्तौ चक्षुःसंयोगादिघटिताश्रयभासकसामग्री कुत्र निवेश्या देशे काले वा ? प्राधे गुणादीनां प्रत्यक्षविषयता न निर्वहति तत्र चक्षुःसंयोगादिघ. टितसामग्रया अभावात् । अन्त्ये घटादिचक्षुःसन्निकर्षदशायां अस- निकृष्टपटादिसमवेतगुणादिचाक्षुषापत्तिः चक्षुःसंयोगादिघटितसाम. ग्रीविशिष्टततक्षणावच्छेदेन पटादिसमवेतगुणादावपि विषयादिघटि- तसामग्रीसस्वात् अथ विषयसामान्यघटितसामग्रथाः प्रत्यक्षरूपफलव्याप्यत्वं न स्वीक्रियते यद्बलादापत्तिः स्यात् अपि तु तत्तद्विषये विषयतया प्रत्यक्षो. त्पत्तिनिर्वाहाय तत्तद्विषयघटिनसामग्रया एब प्रत्यक्षरूपफलव्याप्यत्वं स्वीक्रियते । एवञ्च पटसमवेतगुणादिव्यक्तिषु तव्यक्तिघटितलामग्री. बलादेव प्रत्यक्षमापादयिष्यसि । तश्च न सम्भवति, तत्तद्गुणादिव्यक्ति. घटितसामग्रीष्यातौ कारणतावच्छेदकप्रत्यासत्या ऐकाधिकरण्यापन्न तत्तदाश्रयव्यक्तिविषयचक्षुःसंयोगाद्यात्मकसामग्रया एव काले निवे. शात् , तदानीञ्च घटचक्षुःसंयोगसत्वेऽपि ऐकाधिकरण्यापनतत्तत्पट. चक्षुःसंयोगादिघटितसामग्रयाः क्वचिदप्यभावात् इति चेत् । सत्यम, यदि विषयस्य तत्तद्व्यक्तित्वेन हेतुता प्रामाणिको स्यात् तदेवोपदर्शितरीत्या तत्त व्यक्तित्वेन विषयं सामग्रीव्याप्तौ निवेश्याति. प्रसङ्गवारणसम्भवः, सैव न प्रामाणिकी, एतदनुरोधेन तत्कल्पने महागौरवप्रसङ्गः। तत्तद्व्यक्तित्वेन विषयस्याहेतुस्वे तु न तेन रूपेण सामग्रीव्याप्तौ निवेशः सम्भवति कारणतावच्छेदकरूपावच्छिन्नस्यैव सामग्रीघटकत्वात् । तस्मादुपदर्शितापत्तिवारणाय संयुक्तसमवायादे. हेतुत्वकल्पनमावश्यकमेवेति ॥ अथ रूपत्वादिप्रत्यक्षानुरोधेन संयुक्तसमवेतसमवायादिहेतुताया १८२ वादवारिधी आवश्यकत्वात् किं संयोगसंयुक्तसमवाययोर्हेतुस्वेन । द्रव्यगुणादिचा- क्षुषलाधारणसमवेतप्रत्यक्षवादेरेव संयुक्तसमवेतसमवायजन्यतावच्छे दकत्वोपगमात् तत एव द्रव्यगुणादिचाक्षुषादेरप्युपपत्तिः । अथात्मतत्. समवेतप्रत्यक्षानुरोधेन संयोगसंयुक्तसमवाययोहेतुत्वमावश्यक निरव. यवतया आत्मनि तत्समवेते च इन्द्रियसंयुक्तसमवेतसमवायाभावात् इति चेत् । आस्तामोशयुक्तया मनासंयोगमनःसंयुक्तसमवाययोर्मानसप्रत्य. क्षहेतुस्वमापाततः, किन्तु चक्षुःसंयोगचक्षुःसंयुक्तसमवायादिहेतुता द्र व्यतत्समवेतचाक्षुषादौ कुतः? नच द्रव्यादिचाक्षुषसाधारणरूपावच्छिन्नं प्रति चक्षुःसंयुक्तसमवेतसमवायादिहेतुत्वे कपालादिनाशोत्पत्तिकाले घ टादिचाक्षुषानुदयप्रसङ्गः, तदव्यवहितप्राक्क्षणे संयुक्तसमवेतसमवायघ. टकीभूतकपालिकादिविरहेण घटादौ संयुक्तसमवेतसमवायविरहात् इति वाच्यम् । तदानीं घटादेः प्रत्यक्षानभ्युपगमे क्षतिविरहात् । संयोगादि. हेतुतामतेऽपि यत्र कपालिकादिचक्षुःसंयोगदशायां घटोत्पत्तिः तदुत्तर- क्षणे घटादिप्रत्यक्षस्थापनीयतया साम्यात् । नच त्रुटिविश्रान्तिमते ७. टितत्समवेतप्रत्यक्षस्य संयुक्तसमवेतसमवायहेतुतयाऽनिर्वाहात् संयो. गसंयुक्तसमवाययोर्हेतुत्वमावश्यकमिति वाच्यम् । एवमपि परमाणु व्यणुकाङ्गीकर्तृनै यायिकमते त तुतायां युक्तिविरहात् इति चेत् । अत्राहुः-परमाणुघटितसन्निकर्षात् व्यणुकादौ पृथिवीत्वादिप्रत्य. क्षवारणाय संयुक्तसमवेतसमवायहेतुतायां संयुक्तांशे महत्त्वमवश्यं निवेशनीयम् , एवञ्च त्रुटितत्समवेतरूपादौ महत्संयुक्तसमवेतसमवाय. स्यासत्वात् व्यभिचार इति द्रव्यान्यसमवेतविषयकचाक्षुषत्वमेव का- यतावच्छेदकं वाच्यं, तथा च न तद्धतुतया द्रव्यतत्समवेतचाक्षुष. निर्वाह इति संयोगसंयुक्तसमवाययोहेतुत्वमावश्यकम् । अथैवमपि संयोगहेतुताकल्पनमनर्थकं द्रव्यतत्समवेतचाक्षुषसा- धारणद्रव्यसमवेतविषयकचाक्षुषत्वस्यैव चक्षुःसंयुक्तसमवायजन्यताव. च्छेदकत्वोपगमात् तत एव द्रव्यचाक्षुषस्याप्युपपत्तेरिति चेन्न । स्थूलपृथिव्याद्यसन्निकर्षदशायां परमाणुघटितसन्निकर्षात् पृथिवी. त्वादिप्रत्यक्षवारणाय संयुक्तसमवायहेतुतायां संयुक्तांशे महत्त्वनिवेश- स्यावश्यकतया त्रुटि प्रत्यक्षव्यभिचारवारणाय तजन्यतावच्छेदककोटौ द्रव्यान्यत्वनिवेशस्यावश्यकतया द्रव्यप्रत्यक्ष संयोगस्य हेतुताया श्राव श्यकत्वात् । नच महत्संयुक्तसमवेतसमवायजन्यतावच्छेदकं सद्भिन्नस. मवेतचाक्षुषत्वमेववाच्यं न तु द्रव्यभिन्ने यत्समवेतं तच्चाक्षुषत्वम्, एव पृथिवीत्वादिचाक्षुषस्य ताशसंयुक्तसमवेतसमवायजन्यतावच्छेद- (२८) लौकिकसं० कारणतावादवांचिः । १८३ कारणताव- काक्रान्ततया स्थूलपृथिव्याद्यसन्निकर्षदशायां तादृशकारणविरहेणाप. स्यभाव इति वाच्यम् । सद्भिन्नसमवेतचाक्षुषत्वस्य महत्संयुक्तसमवे. तसमवायजन्यतावच्छेदकत्वे चतुरणुकादिरूपस्थूलपृथिव्याद्यसस्निक. र्षदशायां त्रुटौ पृथिवीत्वादिप्रत्यक्षानुपपत्तेः। अथ परमारवाद्घिटितसन्निकर्षात् रूपत्वादिप्रत्यक्षवारणाय संयुक्त. समवेतसमवायहेतुतायां संयुक्तदले महत्त्वं न निवेश्यते अपितु सम. घेतांशे लौकिकविषयतासंसर्गेण चाक्षुषवत्वं, तावतापि चक्षुःसंयुक्तपर. माणुसमवेतरूपादीनां लौकिकचाक्षुषविषयस्वाभावेनोक्तापत्तिवार. णसम्भवात् । एवञ्च नीरूपानुद्भूतरूपवत्द्रव्यघटितसन्निकर्षात् संयो- गत्वरूपत्वादिप्रत्यक्षवारणाय. रूपानुद्भूतरूपाभावानां च्छेदककोटिनिवेशनमप्यनुपादेयं समवेतांशे चाक्षुषविषयत्वनिवेशेनैवो प्रपत्तेः । तथाच.सद्भिन्नसमवेतचाक्षुषत्वस्य संयुक्तसमवेतसमवायज. न्यतावच्छेदकत्वेऽपि नोपदर्शितस्थले पृथिवीत्वादिप्रत्यक्षानुपपत्तिः, तत्रा- पि पृथिवीत्वे चक्षुःसंयुक्तसमवेतचाक्षुषवत्समवायस्याक्षतत्वात् इति संयुक्तसमवेतसमवायहेतुतायो महत्त्वादिनिवेशनमफलम् । इत्यञ्च द्रव्य. गुणकर्मचाक्षुषसाधारणस्य चाक्षुषत्वस्यैव चक्षुःसंयुक्तसमवायजन्यता. वच्छेदकत्वमुपगन्तव्यमिति । न च संयुक्तसमवायस्य हेतुतायां संयुक्तांशे महत्त्वाद्यनिवेशे परमाणुघटितसन्निकर्षात् रूपप्रत्यक्षापत्तिरिति वाच्यम्। तत्र विजातीयसंयोगाभावात् । न च तथापि त्र्यणुकप्रत्यक्षानुरोधेन व्यणुके विजातीयसंयोगस्यावश्यकत्वे तद्घटितसन्निकर्षात् व्यणुके रूपप्रत्यक्षापत्तिरिति वाच्यम् । सामानाधिकरण्यसम्बधेन महत्त्वस्य द्रव्यान्यत्वस्य च चाक्षुषत्वावच्छिन्नं प्रति हेतुत्वात् संयोगहेतुतायां मा. नाभाव इति चेन्न। संयुक्तसमवेतसमवायस्य चक्षुःसंयुक्तसमवेतचाक्षुषवत्समवायत्वेन हेतुत्वे सद्भिन्नसमवेतचाक्षुषत्वस्य द्रव्यभिन्नं यत् समवेतं तच्चाक्षुषत्वस्य कालिकसंसर्गेण घटत्व(१)वद्भिन्नं यत् तञ्चाक्षुषत्वादेर्वा जन्यतावच्छेद. कत्वमित्यत्र विनिगमनाविरहेणानन्तकारणताकल्पनप्रसङ्घात् । न च म. हतसंयुक्तसमवेतसमवायत्वेन हेतुत्वमतेऽपि तस्य द्रब्यभिन्न यत्समवेत तच्चाक्षुषत्वस्यजन्यतावच्छेदकत्वमुपेयं किम्वा उक्तधर्माणामित्यत्र वि. निगमनाविरहो दुर्वार इति वाच्यम्। द्रव्यभिन्नं यत्समवेतं तच्चाक्षुष. त्वादीनां महत्संयुक्तसमवेतसमवायजन्यतावच्छेदकत्वोपगमे चतुरणुका. द्यसन्निकर्षकालीनत्रुटौ पृथिवीत्वादिप्रत्यक्षे व्यभिचारप्रसङ्गात् । तस्मात् (१) कालिकेनापि जातेः स्वरूपतोवच्छेदकत्वमिति मतेनेदम् ।

१८४ वादवारिधी द्रव्यान्ये यत् समवेतं तद्विषयकचाक्षुषत्वावच्छिन्नं प्रति महत्संयुक्तस. मवेतसमवायत्वेन हेतुत्वमेवोचितमिति ॥ स्यादेतत् द्रव्यभिन्न यत्समवेतंतच्चाक्षुषत्वावच्छिन्नं प्रति चक्षुसंयुक्त- समवेतचाक्षुषवत्समवायत्वेन द्रव्यचाक्षुषत्वावच्छिन्नं प्रति तु चक्षुःसंयो. गत्वेन हेतुता, तथाच चक्षःसंयुक्तरूमवायहेतुत्वे मानाभावः। न चैतत्कल्पे चक्षुःसंयुक्तसमवेतचाक्षुषवत्समवायस्य जन्यतावच्छेदकमुपदर्शितरूप सद्भिन्नं यत्समवेतं तच्चाक्षुषत्वं कालिकेन घटत्ववद्भिन्न यत्समवेतं तच्चा- क्षुषत्वं वेत्यत्र विनिगमनाविरहेोऽवतरतीति वाच्यम् । सद्भिन्नचाक्षुषत्वा. दीनां तथात्वे गुणकर्मचाक्षुषासंग्रहप्रसङ्गात् । मन्मते च संयुक्तसमवाय हेतुत्वानभ्युपगमारसंयुक्तसमवेतसमवायजन्यतावच्छेदकाकान्तत्वेन गु णादिचाक्षुषसंग्रहस्यावश्यकत्वात् । अर्थतन्मते द्रव्यभिन्नं यत् समवेतं तच्चाक्षुषत्वस्य मूर्तभिन्न यत्समवेतं तच्चाक्षुषत्वस्य वा चक्षुःसंयुक्तसमवेतसमवायजन्यतावच्छे. दकत्वमुपेयमित्यत्र विनिगमनाविरहात् द्रव्यभिन्नत्वसमवेतत्वयार्मि- थो विशेष्यविशेषणभावे विनिगमनाविरहाच्च कार्यकारणभावबाहुल्य. प्रसङ्ग इत्येतदपेक्षया विजातीयसमवेतचाक्षुषन्वस्यैव जन्यतावच्छेद कत्वमुपेयम् , तादृशवैजात्यञ्च द्रव्यव्यावृत्तं, तसिद्धिश्च चाक्षुषा- भावादिप्रतिबध्यतावच्छेदककोटौ प्रविष्टतया इत्यग्रे वक्ष्यामः। एवञ्च द्रव्यमात्रसमवेतानां गुणकर्मद्रव्यत्वपृथिवीत्वादीनां चाक्षुषत्वं न ततो निर्वहतीति संयुक्तसमवायहेतुताकल्पनमावश्यकम् । न च चक्षुःसंयुक्त समवायहेतुताया मपि संयुक्तांशे चाक्षुषवत्त्वनिवेशनमावश्यकम् , अन्यथा परमारवादिघटितसन्निकर्षात् पृथिवीत्वादिप्रत्यक्षापचितादव. स्थ्यात , एवञ्च, घटप्रत्यक्ष व्यभिचारवारणाय द्रव्यान्यद्रव्यसमवेत. चाक्षुषत्वमेव तज्जन्यतावच्छेदकं वाऱ्या, तत्र च द्रव्यान्यद्रव्यसमवेत. चाक्षुषत्वमूर्तीन्यमूर्तसमवेतचाक्षुषत्वादीनां तथात्वमादाय एवं द्रव्यान्यस्वद्रव्यसमवेतत्वयोर्मू न्यत्वमूर्तसमवेतत्वयोमिथो विशेष्यविशे षणभावे विनिगमनाविरहो दुर्वार इति उपदर्शितविनिगमनाविरहेण चक्षु संयुक्तसमवायहेतुताबाहुल्यसहिष्णुता एव न्याय्या इति वाच्यम् । महत्समवेतचाक्षुषत्वस्यौव चाक्षुषवत् चक्षुःसंयुक्तसमवायजन्यताव. च्छेदकत्वोपगमेन उपदर्शितविनिगमनाविरहप्रयुक्तगौरवानवकाशात् इति चेत् । तहि मयापि द्रव्यभिन्नसमवेतचाक्षुषत्व त्वस्य चक्षुःसंयुक्तसमवेतचा- क्षुषवत् समवायजन्यतावच्छेदकत्वं न वाच्यम्, अपि तु चाक्षुषवत्स 4 । (२८) लोकसं कारणतावादवीचिः। १८५ मवेतचाक्षुषत्वमेव इति नोपदर्शितविनिगमनाविरहेण चक्षुःसंयुक्तसमवे. तसमवायहेतुताबाहुल्यमिति । अत्र केचित्-सास्नादिसन्निकर्ष विना गोत्वादिप्रत्यक्षानुदयात् गो. स्वादिवृत्तिविषयतया चाक्षुषत्वाद्यवच्छिन्नं प्रति सानाद्यवच्छिन्नचक्षुः. संयोगवत्स्लमवायस्य साधनतासिद्धिः। न च एकस्यां गवि सानाधव. च्छिन्नचक्षुःसन्निकर्षकाले तदवच्छिन्न सन्निकर्षवदेकगोव्यक्तिविशेष्यक. चाक्षुषवद् गवान्तर विशेष्यकचाक्षुषोपत्तिवारणाय गोत्वप्रकारतानिरूपि. तविशेष्यतासम्बन्धेन चाक्षुषं प्रति सानाद्यवच्छिन्नचक्षुःसंयोगस्य सम. वायेन हेतुत्थमावश्यकमिति कृतं ताशचक्षुःसंयोगवतसमवायहेतुतयेति वाच्यम् । तादृशकारणत्वाकल्पने विशेष्यतासम्बन्धेन गोस्वचाक्षुषे तथा. विधसंयोगस्य हेतुत्वेऽपि यथाकथञ्चित्सन्निकर्षात् गोत्वे निर्विकल्पकवा. रणासम्भवात् । न च तदानीं गोत्वनिर्विकल्पोपगमे क्षतिविरहः निविल्प- कस्यातीन्द्रियतयाऽनुभवविरोधाभावादिति वाच्यम् । तदा निर्विकल्प. कोपगमे तदनन्तरं गौरित्याकारकोपनीतभानादिप्रसङ्गात् । न च गोस्व. चाक्षुषत्वावच्छिन्नं प्रति सास्नादिचाक्षुषत्वादिना हेतुत्वमस्तु, तत एव च लास्नाधनवच्छिन्नसन्निकर्षात् गोत्वप्रत्यक्षवारणसम्भवादिति किं ता. दृशगुरुधर्मावच्छिन्नहेतुतयेति वाच्यम् । सास्नाचाक्षुषस्य गोत्वचाक्षु. पहेतुत्वे विनश्यदवस्थसास्नासन्निकर्षात् सास्नाचाक्षुषानन्तरं यथाक- थञ्चित्सन्निकर्षात् गोत्वचाक्षुषापत्तिभिया तादृशसन्निकर्षहेतुताया वा. रयितुमशक्यत्वादित्याहुः । तदसत् , गोत्वचाक्षुषं प्रति सास्नाधवच्छिन्नचक्षुःसंयोगवत्सम. वायत्वेन हेतुत्वे एकपुरुषीयतथाविधसन्निकर्षादन्यस्य गोश्वचाक्षुष वारणाय तत्पुरुषीयत्वनिवेशस्यावश्यकतया पुरुषभेदेन कारणताबाहुल्य- प्रसङ्ग इत्येतदपेक्षया समवायेन गोत्वचाक्षुषं प्रति स्वाश्रयचक्षुःसंयुक्त. मनःप्रतियोगिकविजातीयसंयोगवत्वसम्बन्धेन सास्नाधवच्छिन्नचक्षुः संयोगहेतुताया एवोचितत्वात् , ईदृशरीत्या संयुक्तसमवाये हेतुत्व. सिद्धिः। अथैवं द्रव्यचाक्षुषादौ चक्षुःसंयोगादेरपि उपदर्शिनात्मनिष्ठप्रत्या. सत्या हेतुत्वं कि नोपेयते विषयनिष्ठप्रत्यासत्यारे पुरुषभेदेन कारण. ताबाहुल्यप्रसङ्गात् इति चेन्न । आत्मनिष्ठप्रत्यासत्त्यादरे एकव्यक्तिसन्निकर्षाद्वयक्त्यन्तरप्रत्यक्षोत्पत्ते. रिणाय विषयाणां विशिष्य निवेशे विषयाणां पुरुषापेक्षया बाहुल्येन बहुतरकारणताप्रसङ्गात् । अत्र च गोत्वादेरेकव्यक्तितया नातिप्रसङ्ग २४ धाद० ७ वादवारिधी - इत्यात्मनिष्ठप्रत्यासत्त्यैव सास्नाधवच्छिन्नचक्षुासंयोगादिहेतुतायाः कल्प. नमुचितमिति । अन्ये तु गवाक्षानवच्छिन्नसन्निकर्षात् त्रसरेणुनामणुदेशमात्रावच्छिन्न. चक्षुःसनिकर्षात् स्थूलद्रव्याणां च चाक्षुषवारणाय यथा त्रसरेणुवाक्षुषे गवाक्षावच्छिन्नचक्षुःसंयोगस्य त्रुटिभिन्नद्रव्यचाक्षुषे च स्थूलावयवाव- च्छिन्नचक्षुःसन्निकर्षस्य हेतुताकल्पनमावश्यकं, तथा तादृशलनिक- र्षकाले प्रसरेण्वादिसमवेतरूपादिचाक्षुषवारणाय त्रुटिसमवेतचाक्षुष. स्वावच्छिन्नं प्रति गवाक्षावच्छिन्नचक्षुःसंयोगवत्समवायत्वेन त्रुटिभि बद्रव्यसमवेतचाक्षुषत्वावच्छिन्नं प्रति स्थूलावयवावच्छिन्नचक्षुःसयोग वत्समवायत्वेन हेतुत्वमावश्यकमिति संयुक्तलमवायहेतुतासिद्धिः । गवाक्षावच्छिन्नत्वञ्च जालान्तर्वतिलौरतेजासंयोगावच्छेदकावच्छिन्नत्वम्। तत्संयोगस्य च विजातीयसंयोगत्वेनैव निवेशः, अतो जालान्तर्वति. स्वादे१निरूप्यत्वेऽपि न क्षतिः । स्थूलत्वञ्च महत्वम् । अथ प्रसरेणुसमवेतचाक्षुषत्वावच्छिन्नं प्रति गवाक्षावच्छिन्नचक्षुःसं. योगवत्समवायत्वेन त्रुटिभिन्नद्रव्यसमवेतचाक्षुषत्वावच्छिन्नं प्रति स्थू लावयवावच्छिन्नचक्षुःसंयोगवलमवायत्वेन च हेतुता न सम्भवति, त्रुटौ गवाक्षानवच्छिन्नसन्निकर्षदशायां त्रुटिसमवेतपृथिवीत्वादेर्घटादिसन्नि- कर्षादपि प्रत्यक्षोदयात् तदानों गवाक्षावच्छिन्नचक्षुःसंयोगवत्समवायस्य तत्र विरहेण त्रुटिभिन्नसमवेतपृथिवीत्वादेश्च चतुरणुकाद्यनवच्छिन्नसन्नि: कर्षकालेपि गवाक्षापच्छिन्नलनिकर्षात् त्रुटौ प्रत्यक्षोदयात्, तदानीञ्च तत्र स्थूलावयवावच्छिन्नसंयोगस्य विरहेण व्यभिचारात् । न च गवाक्षाव. च्छिन्नचक्षुः संयोगवत्समवायस्य जन्यतावच्छेदककोटौ प्रसरेणुनिरूपि. तायाः स्थूलावयवावच्छिन्नचक्षुःसंयोगवत्समवायजन्यतावच्छेदककोटौ. च त्रुटिभिन्नद्रव्यनिरूपिताया लौकिकविषयितायाः निवेशे न व्यभिचार इति वाच्यम् । तन्निवेशेऽपि यत्र जलीयत्रुटौ गवाक्षावच्छिन्नसन्निकर्षः घटेच स्थूलावयवावच्छिन्नसन्निकर्षः तत्र जलीयत्रुटिविषयकप्रत्यक्षस्य पृथिवीत्वेप्युत्पत्तेस्तत्र गवाक्षावच्छिन्नचक्षुःसंयोगवत्समवायस्य तदानी. मसत्त्वेन, यत्र च जलादौ स्थूलावयवावच्छिन्नसन्निकर्षः गवाक्षावच्छेदेन पार्थिवत्रुटौ सन्निकर्षात् त्रुटिभिन्नपृथिव्याश्च न सन्निकर्षः तदानीं त्रुटि. भिन्नजलाधात्मकद्रव्यविषयकप्रत्यक्षस्य विषयतया पृथिवीत्वेष्युत्पत्तेस्त- त्र च तदानीं स्थूलावयवावच्छिन्नचक्षुःसंयोगवत्समवायस्यासत्त्वेन व्यभिचारस्य दुर्वारत्वादिति चेन्न । स्वनिरूपितलौकिकविषयतानयत्रुटिसमवेतत्वलौकिकविषयत्वोभ- (२८) लौकिकसं० कारणतावादवाचिः। १८७ यसम्बन्धेन चाक्षुषत्वावच्छिन्न प्रति गवाक्षावच्छिन्नचक्षुःसंयोगवत्स. मवायत्वेन स्वनिरूपितलौकिकविषयताश्रयत्रुटिभिन्नद्रव्यसमवेतत्वलौ. किकविषयत्वोभयलम्बन्धेन चाक्षुषत्वावच्छिन्नं प्रति स्थूलावयवावच्छि- नचक्षुःसंयोगवत्समवायत्वेन हेतुता स्वीक्रियते, उपदर्शितस्थले पृथि. वीत्वे चाक्षुषव्यकिनिरूपितलौकिकविषयताश्रयत्रुटयादिसमवेतत्ववि- रहेण तादृशोभयसम्बन्धेन न तत्र चाक्षुषमुत्पद्यते इति न व्यभिचार इत्याहुः। तदपि न सम्यक् , तथाहि त्रुटितत्समवेतचाक्षुषादौ गवाक्षावच्छि नचक्षुःसंयोगत्वतादृशसंयोगवत्समवायत्वादिना हेतुता न कल्पयते, अपि तु द्रव्यचाक्षुषं प्रति विजातीयचक्षुःसंयोगत्वेन, चाक्षुषवत्समवेत. चाक्षुषं प्रति च विजातीयसंयोगवत्समवायत्वेन, गवाक्षानवच्छिन्नत्रु. टिचक्षुःसंयोगेऽणुमात्रदेशावच्छिन्नस्थूलावयविचक्षुःसंयोगे च तादृ. शजातिविशेषो न कल्प्यते तत्र फलानुत्पत्त्या तत्कल्पकाभावात् , तो न तादृशसन्निकर्षात् प्रसरेण्वादिचाक्षुषप्रसङ्गः । एवं तादृशसन्निकर्ष, दशायां त्रसरेण्वादिसमवेतचाक्षुषप्रसङ्गोपि नास्ति तदानीन्तनतवय- वचक्षुःसंयोगे वैजात्यानभ्युपगमेन विजातीयचक्षुःसंयोगवत्समवाय. विरहात् । न च यत्र प्रथमक्षणे त्रसरेणुसंयोगोत्पत्तिस्तदवयवसंयोगोत्प. त्तिश्च द्वितीयक्षणे तस्य तत्समवेतरूपादेश्व चाक्षुषं जालान्तर्वतिसौर. तेजासंयोगनाशश्च तदुत्तरमपि त्रसरेणुतत्समवतचाक्षुषप्रसङ्गा, पूर्वचा- क्षुषानुरोधेन तथाविधत्रुटिचक्षुःसंयोगे वैजात्यस्यावश्यं स्वीकरणीयत्वात् इति त्रुटिचाक्षुषतत्समवेतचाक्षुषयोर्गवाक्षावच्छिन्नचक्षुःसंयोगतवत्स- मवाययोहेतुत्वान्तरकल्पनमावश्यकमेवेति वाच्यम् । विजातीयालो. कसंयोगावच्छिन्नविजातीयचक्षुःसंयोगत्वतादृशचक्षुःसंयोगवत्समवाय. स्वाभ्यामेव द्रव्यचाक्षुषत्वचाक्षुषवत्समवेतचाक्षुषत्वावच्छिन्नं प्रति हेतुत्वोपगमात् , उपदर्शितस्थले विजातीयालोकसंयोगविरहेणैवापत्ति. विरहात् । न च तत्रालोकान्तरसंयोगसत्त्वे चाक्षुषापतिर्दुरैव इत्या. शङ्कनीयम् । तादृशालोकसंयोगे वैजात्यानभ्युपगमात् । अथ संयोगनिष्ठतादृशवैजात्ये नियामकाभावः, संयोगसामान्यसाम- प्रयास्तन्नियामकत्वे च निखिलसंयोगानामेव तदाश्रयत्वप्रसङ्गः । न च विजातीया.क्रियैव तनियामिकति वाच्यम् । तथासति यत्र एकयैव क्रियया एकस्मिन् सरेणौ गवाक्षावच्छिन्नः संयोगो जनितः, एवं यत्रैक. यैव क्रियया एकस्मिन् स्थूलावयवावच्छिन्नोऽपरस्मिश्च सूक्ष्मावयवाव- च्छिन्नः संयोगो जनितः, तत्र गवाक्षानवच्छिन्नत्रसरेणुसंयोगसूक्ष्मा.

१८८ वादवारिधी , वयवावच्छिन्नस्थूलावयविसंयोगयोस्वादशवैजात्यविरहे प्रयोजकविरहा. दिति चेत् । नैवम्, तत्तक्रियातत्तदुत्तरदेशानुयोगिकतत्तत्संयोगव्यक्तयुत्पाद. कसामग्रयेव तादृशवैजात्यप्रयोजिका, उपदर्शितस्थले गवाक्षानवच्छि. नत्रसरेणुसंयोगजनकीभतत्तक्रियात्रसरेण्वादिपोत्तरदेशघटितसाम प्रयान्तादृशवैजात्यावच्छिन्नोत्पादप्रयोजकत्वानभ्युपगमात् तादृशसंयोगे वैजात्यविरहोपपत्तिरिति । अथ क्रियाजन्यतावच्छेदकवैजात्येन सङ्करप्रसङ्गात् चक्षुःसंयोगे वैजास्यकल्पनं न सम्भवति इति चेन्न । क्रियाजन्यतावच्छेदकजातेस्तादशवैजात्यव्याप्यविरुद्धभेदेन द्विस्वो. पगमात् । तादृशवैजात्यस्यैव क्रियादिजन्यतावच्छेदकजातिव्याप्यविरु. द्धभेदेन द्वित्त्वं कथं नोपगम्यते इति नाशङ्कनीयमायतो जनकतावच्छेदक- जाते नात्वे व्यभिचारण कारणत्वानुपपत्तिः जन्यतावच्छ दकजातेा. नात्वे च कार्यकारणभावबाहुल्यमात्रमिति क्रियाजन्यतावच्छेदकजाते. नानात्वमेवाचितमिति । अथ लौकिकसन्निकर्षजन्यतावच्छेदककोटौ कारणीभूतलौकिक सन्निकर्षवैशिष्टयनिवेशनमावश्यकम् , अन्यथा लौकिकसन्निकर्ष विनापि दोषविशेषादिसहकृतोपनायकज्ञानाद्वंशादौ उरगादिभ्रमस्य तदंशे लौकि- कस्योत्पत्त्या व्यभिचारस्य दुर्वारत्वात् , तत्र लौकिकरवानुपगमे तदु. त्तरमुरगं साक्षात्करोमीत्याकारकसाक्षात्कारित्वग्रहस्यानुपपत्तेः। न च साक्षात्कारित्वव्यञ्जकलौकिकविषयताविशेष एव सन्निकर्षजन्यता. वच्छेदकतयोपगन्तव्यः, स च तादृशभ्रमव्यावृत्त एवेति न व्यभि. चार इति वाच्यम् । जन्यत्वाद्यवच्छेदकतया विषयताविशेषस्वीकारस्य सिद्धान्तविरुद्धत्वात् । एवञ्च ताशव्यभिचारवारणाय कारणनैशिष्टय. निवेशस्यावश्यकत्वे जनकतावच्छ दकजाते नात्वेप्यदोषः कार्यकारण- भावबाहुल्यस्य कार्य्यतावच्छेदकजाते नात्वेऽपि सत्त्वात् इति चेत् । माभत्तत्र व्यभिचारभिया कारणतावच्छ दकजातेरैक्यसिद्धिः, किन्तु कार्यकारणभावकल्पने लाघवेन स्यादेव, यतश्चक्षुःसंयोगादिनिष्ठप्रत्यक्ष- जनकतावच्छ दकजातेः क्रियाजन्यतावच्छेदकजातिव्याप्यविरुद्धभेदेन द्वित्वे संयोगसंयुक्तसमवायसंयुक्तसमवेतसमवायसंयुक्तविशेषणताभेदेन इन्द्रियपुरुषभेदेन च भिन्नानां संयोगघटितसन्निकर्षाणां कारणताद्वैगुण्ये- नान्तकारणताबाहुल्यम् । क्रियासंयोगजन्यतावच्छेदकजात्योः प्रत्येक वास्योगनिष्ठपैजात्यभेदेन द्वित्वे तु क्रियायाः कारणताबाडुल्यं संयो. ७ (२९) सामग्रीप्रतिबन्धकतावादर्वाचिः । गस्य चैककारणताबाहुल्यमिति । केचितु प्रत्यक्षजनकतावच्छेदकजातिः संयोगजसंयोगव्यावृत्तव, अतो नक्रियाजन्यतावच्छेदकजात्या नवा संयोगजन्यतावच्छे दकजात्या सङ्क. रप्रसङ्गः, क्रियाजन्यवक्षुःसंयोगं विना न भवत्येव चाक्षुषं, सर्वत्र चाक्षु- षस्थले फलबलेन क्रियाजन्यचक्षुःसंयोगस्यैव कल्पनात् । न च क्रिया- जन्यसयोगब्यावृत्व सा जातिः, क्रिगाजन्यसंयोगस्थलेपि अवयवसयो- गाधीनसंयोगान्तरोत्पत्यैव चाक्षुषमुत्पद्यते इत्येव कि नोपेयत इत्यत्र विनिगमनाविरह इति वाच्यम् । एवंसति इन्द्रियसंयोगनिष्ठतादृशजाते. रक्लृप्ततयाऽक्लुप्तकल्पनापातात् मन्मते तु आत्ममनःसंयोगनिष्ठक्रियाज- स्यतावच्छेदकजातेरेव चक्षुःसंयोगादावप्युपगमादित्याहुः । इति लौकिसंनिकर्षवाद(२८)वीचिः। अथ सामग्रीप्रतिबन्धकतावाद(२९)वीचिः । ॐ नमो गणेशाय । समानविषये लौकिकप्रत्यक्षसामग्रीसत्वेऽनुमितिसामग्रीसत्त्वे च लौ. किकप्रत्यक्षमेवोत्पद्यते न स्वनुमितिः, तदनन्तरं साक्षातकरोमीत्यनुव्य. वसायस्यैवोदयात् , एवं समानविषयकशाब्दानुमितिसामग्रीसमवधाने शाब्दबोध एवोत्पद्यते, न त्वनुमितिस्तदनन्तरं शाब्दयामीत्यनुव्यवसा सायस्यैवोदयादित्यतः पर्वतत्वावच्छिन्नविशेष्यनिरूपितवन्हित्वावच्छि नविधेयताकानुमितित्वावच्छिन्न प्रति पर्वतत्वावच्छिन्नविशेष्यतानिरू. पितवन्हित्वावच्छिन्नप्रकारताशालिप्रत्यक्षशान्दादिसामग्रयाः प्रतिबन्धक- त्वं कल्पनीयम् । तत्र पर्वतो वन्हिमानित्याकारकप्रत्यक्षसामग्रीदशायां वन्हिमान् पर्वतो घटवानित्याकारकानुमित्यनुदयात् तत्र व्यभिचारवा- रणाय विधेयतायाः प्रतिबध्यतावच्छेदककोटौ निवेशः । प्रातबन्धकता च न तथाविधप्रत्यक्षहेतुसमुदायत्वेन तादशचाक्षुषादिहेतुसमुदायत्वेन वा, अतीतानागतचक्षुःसंयोगादिधटितकारणसमुदायस्य एकदाऽस. स्वात् , किन्तु पर्वतचक्षुःसंयोगादिविशिष्टवन्हिचक्षुःसंयोगत्वादिना । पैशिष्टयञ्च पर्वतचक्षासंयोगस्य स्वावच्छेदकावच्छिन्नपर्वतवन्हिसंयो. गावच्छेदकावच्छिन्नत्वसम्बन्धेन, नातः पर्वतवन्हिसंयोगावच्छेदकावच्छि. नपर्वतसन्निकर्षकाले तथाविधानुमित्यनुपपत्तिः, तदानीश्च संयोगप्रत्यक्ष. सामग्रघभावेन पर्वत चन्हिमानित्याकारानुमितिलमानविषयकप्रत्यक्ष- वादवारिधी सामग्रयभावेन च तथाविधानुमित्युत्पादः प्रामाणिक एवेति बोध्यम् । प्रतिबन्धकतावच्छेदकलम्बन्धश्च स्वाश्रयचक्षुःसंयोगवन्मनःप्रतियोगिक विजातीयसंयोगवत्वरूपपरम्परासम्बन्धः, प्रतिबध्यतावच्छेदकसम्ब- न्धः समवायः अत एकपुरुषीयचक्षुःसंयोगादिघटितसामग्रीकालेऽन्य. पुरुषीयानुमित्युपपत्तिः । न चैकपुरुषायपर्वतचक्षुःसयोगविशिष्टान्यपुरु षीयवन्हिचक्षुःसन्निकर्षस्थ प्रतिबन्धकत्ववारणाय तदीयानुमिति प्रति तदीयपर्वतचक्षुःसंयोगविशिष्टतदीयवन्हिचक्षुःसंयोगत्वादिना प्रतिबन्ध- कत्वस्यावश्यकत्वे कालिकप्रत्यासत्या प्रतिबध्यप्रतिबन्धकभावकल्पनमे. वाचितमिति वाच्यम् । तत्पुरुषोयत्वनिवेशे पुरुषभेदेनानन्तप्रतिबध्यप्रति- बन्धकभावकल्पनप्रसङ्गात् । उक्तानुपपत्तेस्ताद्शपरम्पराघटितसामाना. धिकरण्यस्वावच्छेदकावच्छिन्नपर्वतवन्हिसंयोगावच्छेदकावच्छिन्नत्वोभ. यसम्बन्धेन पर्वतचक्षुःसंयोगवैशिष्ठयं निवेश्यौव वारणसम्भवात् । एवं शाब्दसामग्रयामपि आकाङ्क्षाशानादिविशिष्टयोग्यताज्ञानस्वादिना प्रति. बन्धकता बोध्या । एवमन्यत्रापि लामग्रीप्रतिबन्धकतायाः कारणतावच्छेदकप्रत्यासत्ति. घटितसामानाधिकरण्यसम्बन्धेन इतरकारणानां नैशिष्ठयं निवेश्य थकि. ञ्चित्कारणस्मैव विरोधिता बोध्या । विशेष्यविशेषणभावे विनिगम. नाविरहेण प्रतिबध्यप्रतिबन्धकमावबाहुल्यप्रयुक्तगौरवन्तु गत्यन्तराभावे- नाकिञ्चित्करमिति बोध्यम् । साधारणहेतवश्च सामग्रीप्रतिबन्धकता कुत्रापि न निवेश्याः प्रयोजनविरहादिति ध्येयम् ।। अथ वन्ह्याद्यनुमिति प्रति तत्प्रत्यक्षलामीप्रतिबन्धकतायां भिन्नविष. यकानुमितिसामग्रयभावा अपि निवेशनीयाः तेषामपि प्रत्यक्षसाम- प्रीघटकत्वाव, तादशसामग्री च तत्तदनुमितिसमानविषयकप्रत्यक्षसा. मप्रय भावघटिता, ताहशप्रत्यक्षसामग्री च तत्तत्प्रत्यक्षभिन्नविषयकानु. मितिसामग्रथभावघटितेत्यनवस्थाप्रसङ्ग इति चेन्न । घटाद्यनुमितिसामग्रीदशायां वन्हिविषयकप्रत्यक्षानुमितिसामग्री. समवधाने च यदि घटादेरिव वन्हेरप्यनुमितिः प्रामाणिकी, तदा घटा- दिविषयकप्रत्यक्षसामग्रयभावघटितघटानुमितिसामनयभाव एव वन्हि. प्रत्यक्षसामग्रीप्रतिबन्धकतायां निवेश्यते घटादिप्रत्यक्षलामप्रयभावघटि. तप्रत्यक्षसामग्रयभावनिवेशे प्रयोजनाभावात् । अशैवं घटप्रत्यक्षसामग्रीतदनुमितिसामग्रीवन्हिप्रत्यक्षसामग्रीतदनु- मितिसामग्रीकाले घटानुमितिलामग्रयभावविशिष्टप्रत्यक्षसामनयभावेन चन्ह्यानुमितिः स्यात् , एवं घटप्रत्यक्षसामग्रीरूपप्रतिबन्धकामावघटित.

(२९) सामग्रीप्रतिबन्धकतावादवाचिः । घटानुमितिलामप्रयभावेन वन्हिप्रत्यक्षमपि स्यात् इति ज्ञानयोगपद्य. प्रसङ्गः । न च तदानीं घटप्रत्यक्षसामग्रथा वन्हा नुमितिसामग्रयभावघटि. तायास्तादृशसामग्रीसत्त्वेनाभावात् तद्घटितघटानुमितिसामग्री वर्तत एवेति कथं प्रत्यक्षमिति वाच्यम्।तुल्ययुक्तथा वन्ह्यनुमितिसामनयभावा- घटितप्रत्यक्षसामग्रथमावस्यैव घटानुमितिलामगीप्रतिबन्धकतायां निवे- शात्ताशसामग्रयाश्च तत्रासत्वेन प्रत्यक्षात्पत्तौ वाधकाभावादिति चेत् । तहि घटप्रत्यक्षसामअयभावघटिततदनुमितिसामनथभाव एव वन्हि- प्रत्यक्षसामग्रीप्रतिबन्धकतायां निवेश्यते, तादृशघटप्रत्यक्षतामयाञ्च न तदन्यविषय कानुमितिसामग्रथभावनिवेशः प्रयोजनाभावादिति नानव. स्थेति । न चोक्तस्थले घटानुमितिसामग्रीसत्वे वन्ह्यादेः प्रत्यक्षलामगय. सत्त्वेन वन्ह्याद्यनुमितेरुत्पत्त्या तादृशघटप्रत्यक्षसामग्रयां घटानुमितिसा. मनयभावादिनिवेशस्यावश्यकतया तचैवानवस्थेति वाच्यम् । घटप्रत्यक्ष. सामग्रथभावघटिततदनुमितिसामग्रथमावस्यैव वन्हिप्रत्यक्षसामग्रीप्रतिब. न्धकतायां पटप्रत्यक्षसामग्रयभावघटितपटानुमितिसामग्रथमावस्यापि निवेशादेव उक्तस्थले वन्ह्याद्यनुमितरुपपत्तेः तदनुरोधेन पटाद्यनुमिति सामग्रथमावस्य तादृशघटप्रत्यक्षसामगयामनिवेशात् । उपदर्शितलाम- गीचतुष्टयलम्वलनदशायामपि अनुमितेरिव प्रत्यक्षस्याप्यनुत्पादो यद्यानु- भविकः, तदा वन्ह्यनुमितिसामग्यभावस्यैव तदनुमितिसामग्या वन्ह्या- दिप्रत्यक्षप्रतिबन्धकतायां निवेशः, तादृशवन्ह्याद्यनुमितिलामगीमध्ये च प्रयोजनविरहेण सामग्यन्तराभावानिवेशेन न तत्रानवस्थितिः । वस्तुतः वन्हिप्रत्यक्षस्य तदनु घटानुमितेश्च सामग्रीसत्त्वे वन्ह्याध. विषयकघटानुमितेरेवोपगमात् वन्ह्याद्यनुमितित्वावच्छिन्नं प्रति सामगय. न्तराभावाधटिताया वन्ह्यादिप्रत्यक्षसामगूया एकैकमेव प्रतिबन्धकत्वं क- ल्प्यते इति । एवं सामगयन्तरप्रतिबन्धकतायामपि बोध्यम्॥ वन्ह्यादिविषः यकप्रत्यक्षादिसामगीकालेप्यनुमित्सासरवे वन्ह्याद्यनुमित्युपपत्तेस्तादृशे. च्छाया उत्तेजकत्वं वाच्यं घटादिप्रत्यक्षसामग्रीसत्त्वे वन्ह्याद्यनुमित्यनु. दयात् वन्ह्याद्यनुमितित्वावच्छिन्नं प्रति वन्ह्याद्यनुमित्लाविरहविशिष्टप्र- त्यक्षसामग्रीत्यादिना प्रतिबन्धकत्वं कल्प्यम् । न च तत्र घटविषयकव. न्हाधनुमितिविषयकतया तादृशेच्छासत्त्वे वन्ह्याधनुमित्यापत्तिरिति वा. व्यम् । पर्वतविशेष्यकवन्हिविधेयकानुमितिस्थलीयप्रतिबन्धकतायां पर्वतनिष्ठविशेष्यतानिरूपितवन्हिनिष्ठविधेयताभिन्नविधेयताशून्यानुमि. तिगोचरेच्छात्वेनैव उत्तेजकत्वात् तादृशेच्छायाः केवलवन्हिविधेयकानु. मित्यविषयकत्वात् । न चानमितिर्जायतामितीच्छासत्त्वे घटाधनुमि.

१९२ वादवारिधी तिसामग्रीसस्वे वन्ह्याद्यनमित्यापत्तिरिति वाच्यम् । तदानीं वन्हिप्रत्य. क्षस्यानुदयेन वन्नुमितेरिष्टत्वात् । यत्र घटानुमितित्वेन वह्निमात्रा. मुमितिरपि विसम्वादीच्छया विषयीकृता तत्र यदि न वानमिति. पर्वतविशेष्यकत्वावच्छिन्नवह्निविधेयकत्वप्रकारताभिन्न किञ्चि द्विषयकत्वप्रकारतानवच्छिन्नानमितिविशेष्यताकेच्छात्वेनैवोत्तेजकता स्वीकार्या विशिष्टाभावकरणात् वन्हिविधेयकत्वे सति घटविधेयकानु. मितिर्जायतामित्येतादृशेच्छावारणमनुमिति यतामित्येतादृशेच्छासंग्रह श्व । अनुमितित्वप्रकारकत्वमपीच्छायां निवेश्य नाता वह्निज्ञानं जायता. मित्येतादृशेच्छासङ्ग्रहः, वन्हि प्रत्यक्षोत्पत्त्यापि तादृशेच्छाविषयसिद्ध्या तादृशेच्छाकाले नानुमितिरिति ध्येयम् । एवं प्रत्यक्षान्यज्ञानत्वादिप्रकारके च्छानां पृथगेवोत्तेजकता स्वीकार्या। न च पर्वतविशेष्यकवन्हिप्रकारक- प्रत्यक्षाविषयत्वेन च सर्वासामनुगमः, तथासति पर्वते वहिज्ञानं जायतां पर्वते वन्यनुमितिश्च जायतामित्येतादृशेच्छाया असंग्रहापो, तदानी. श्वानुमित्युत्पत्तावेव तादृशेच्छाविषयसिद्ध्याऽनुमितिरेवोत्पद्यते न तु प्रत्यक्षमित्यवधेयम् । एवं प्रत्यक्षेच्छानुमितीच्छासत्वे च प्रत्यक्षमेवोत्पद्यते न त्वनुमितिः स्वभावतो बलवत्याः सामग्रथा उभयेच्छाकालेपि बलवस्वात् इति प्रत्यक्षेच्छाविशिष्ट प्रत्यक्षसामग्रथा अनुमित्सामावमनिवेश्य समाना. कारानुमितित्वावच्छिन्नं प्रति तादशप्रत्यक्षान्यज्ञानत्वावच्छिन्नं प्रत्येव वा प्रतिबन्धकत्वान्तरं कल्प्यम् । अत्र घटप्रत्यक्षं जायतामित्येतादृशेच्छा. वारणं पूर्ववद्बोध्यम् । पर्वते वह्निनानं जायतामित्येतादृशेच्छाका. लेऽनुमित्युपपत्तये च प्रत्यक्षत्वप्रकारकत्वमिच्छायां विशेषणं देयम् । एवं चाक्षुषत्वादिप्रकारकेच्छावैशिष्टयं निवेश्य चाक्षुषादि सामग्र. याः पृथगेव प्रतिबन्धकता कल्पनीया । समानविषयकानुमिति प्रति प्रत्यक्षसामग्रया न प्रतिबन्धत्वं कल्प्यते, किन्तु तादृशप्रत्यक्षाभावस्यौव कार्यकालवृत्तितया हेतुत्वमुपेयते विनानुमित्सां समानविषयकप्रत्य. क्षामन्तरमनुमित्यनुत्पादादित्येषा फक्किका पक्षताविचारे निराकृता इति नात्र विचारिता। एवमनुमित्साविशिष्टानुमितिसामग्रीकालेऽसत्यां प्रत्यक्षेच्छायां समानविषयकस्य प्रत्यक्षस्यानुदयात् तत्रानुमित्सा. विशिष्टसमानविषयकानुमितिसामग्रयाः प्रत्यक्षेच्छामुत्तेजकीकृत्य प्रति. बन्धकता कल्पनीया, एवंसति तथाविधशाब्दं प्रति समानविषयकशा. ब्दसामग्रयपेक्षया प्रत्यक्ष सामग्रथा बलवत्वात् तत्र शाब्देच्छाविरहविशि. ष्टायाः प्रत्यक्षसामगयाः प्रत्यक्षेच्छाविरहविशिष्टशाब्देच्छाविशिष्टशाब्द.

(२९) सामग्रीप्रतिबन्धकतावादवाचिः। सामगया वा प्रतिबन्धकत्वमुपदर्शितदिशाऽवसेयम् । मिन्नविषयकानुमि. तिसामग्री सर्वतो बलवती, अन्यथा प्रत्यक्षात्मकपरामर्शानन्तरं तादृश- परामर्शप्रत्यक्षमेव स्यात् नानुमितिः । तादृशसामग्रयाश्च वहयाद्यनु. मितिसामग्रीत्वादिना प्रतिबन्धकत्वं बोध्यम् । अथ वह्निविषयकप्रत्यक्षादेरपि वह्निभिन्नवह्नित्वपर्वतत्वपर्वतादिवि- षयकतयाऽनुमित्साविशिष्टवन्यनुमितिसामगीकाले स्वविषकेच्छाधीनत. थाविधप्रत्यक्षादेरप्यनुदयप्रसङ्गः । न च पर्वतविशेष्यतानिरूपितवह्नित्वाव. च्छिन्नविधेयताभिन्नविधेयताया एव निवेशात् वह्निमान पर्वत इत्यत्र वह्नित्वादेविधेयतयाऽभानेनानुपपत्त्यभावः। विधेयत्वञ्च उद्देश्यतावच्छे. दकादिविषयताविलक्षणविषयन्वं प्रत्यक्षादिसाधारणमेव इति न तदसंग ह इति वाच्यम्। निर्धर्मितावच्छेदककघटादिज्ञानीयप्रकारतायाः विधेय. तात्वे मानाभावेन तादृशप्रत्यक्षासंग्रहप्रसङ्गात् इति चेन्न । वहित्वावच्छिन्नप्रकारतानिरूपितपर्वतत्वावच्छिन्नविशेष्यताभित्रमुः ख्यविशेष्यताशाल्यनुमितिभिन्नज्ञानत्वस्यौव प्रतिबध्यतावच्छेदकत्वोपग- मेनानुपपत्त्यभावात् । अनुमित्साविशिष्टानुमितिसामग्रीकाले तत्समान- विषयकप्रत्यक्षादिगोचरेच्छाविशिष्टप्रत्यक्षादिसामगोसत्त्वे समूहालम्बना. स्मकं भिन्नविषयकप्रत्यक्षं यदि प्रामाणिकं तदा पर्वतत्वावच्छिन्नविशेष्य. तानिरूपितवह्नित्वावच्छिन्नप्रकारताशुन्यत्वादिकं ज्ञाने निवेशनीयम् । भिन्नविषयकानुमिति प्रति अनुमित्साविरहविशिष्टप्रत्यक्षेच्छाविशिष्टप्र. स्यक्षसामग्रयाः प्रतिबन्धकता बोध्या, एवं भिन्नविषयकशाब्दसामग्रथा अपि इच्छाविशिष्टाया प्रतिबन्धकता बोध्या ॥ केचित् समानविषयकस्थलेऽपि प्रत्यक्षलामप्रथपेक्षयाऽनुमितिसा मग्रया बलवत्त्वं स्वीक्रियते अनुमितावुत्पन्नायां सिद्धिसत्वेनानुमितिसा. मायभावेन तद्वितीयक्षणे प्रत्यक्षोत्पत्या साक्षात्कारित्वग्रहस्य तृतीय. क्षण एवोपपत्तः। द्वितीयक्षण एव साक्षात्कारित्वग्रहो जायते इति तु शपथमन्तरेण न श्रद्धीमहि । अर्थतन्मते लाघवाभावेन क्षणोत्पत्त्यपलापोऽनुचितः, मन्मते समान विषयकानुमिति प्रति प्रत्यक्षसामग्रया हव तन्मतेऽपि समानविषयकप्र. त्यक्ष प्रति तथाविधानुमितिसामग्रयाः प्रतिबन्धकत्वस्य कल्पनीयतया साम्यात् । न च भिन्नविषयकानुमितिसामग्रथा भिन्नविषयकानुमित्य. न्यज्ञानत्वावच्छिन्नं प्रति नैकं प्रतिबन्धकरवं, तथासति घटादिचाक्षुषेच्छा. दिखत्वे घटादिचाक्षुषाद्युत्पत्तये घटचाक्षुषं जायतां घटशाब्दं जायता- मित्याकारकनिश्चयेच्छानामेकत्रोत्तेजकतापत्या एकविधज्ञानेच्छाकाले- २५वाद वादवारिधी ऽन्यविधज्ञानापः, किन्तु घटत्वप्रकारकघटविशेष्यकचाक्षुषत्वाधव. च्छिन्नं प्रति तादृशचाक्षुषेच्छाबिरहविशिष्टवन्यनुमितिसामग्रीत्वादिना प्रतिबन्धकता। अत्र च घटज्ञानं जायतामित्येतादृशेच्छायाः प्रत्यक्षजन. कतया चाक्षुषत्वादिप्रकारकत्वं न निवेशनीयं, अतो घटप्रत्यक्षं जायतां घटचाक्षुषं जायतामित्येतादृशेच्छानां चाक्षुषविषयकत्वेन एक एवाभा वो निवेशनीय इति ध्येयम् । नचवं वन्ह्यनुमितिसामग्रीकाले यत्किञ्चि ज्ज्ञानं जायतामित्येतादृशेच्छासत्त्वे घटादिचाक्षुषापत्तिः, वन्हिज्ञानावि. षयकत्वमिच्छायां निवेश्य तद्वारणे च यत्किञ्चिज्ज्ञानं घटचाक्षुषश्च जाय तामित्येतादृशेच्छानामसंग्रहप्रसङ्ग इति वाच्यम् । घटत्वप्रकारकत्वावच्छि. नघटविशेष्यकत्वप्रकारताभिन्न किञ्चिद्विषयकत्वप्रकारकत्वानवच्छिन्नचा- क्षुषादिनिष्ठविशेष्यत्वादिना तादृशेच्छानामुत्तेजकत्वाभ्युपगमात् । चाक्षुः षं जायतामित्येतादृशेच्छासंग्रहाय घटविषयकज्ञानं जायतामित्येताशेच्छा वारणाय उक्तप्रकारानुसरणम् । उक्तदिशैव च वारणीयानामिच्छान्तरा. णां वारणं संग्राह्यानाञ्च संग्रहः ईक्षितृभिर्विज्ञेयः । एवमनुमित्सावि. शिष्टानुमितिसामग्रीकाले चाक्षुषादिगोचरेच्छासत्त्वेऽपि भिन्नविषयकचा. क्षुषादीनामनुदयात् भिन्नविषयकानुमित्यन्यज्ञानत्वावच्छिन्नं प्रति वन्य. नुमित्साविशिष्टवन्यनुमितिसामग्रीत्वादिना प्रतिबन्धकत्वान्तरमेकैकंक- ल्पनीयम् । अत्रापि वन्हिमत्ताशानं जायतां घटज्ञानञ्च जायतामित्येतादू- शेच्छाइयसत्त्वे घटादिचाक्षुषस्यानुदयात् अनुमितित्वप्रकारकत्वं न निवेशनीयम् । यत्किञ्चिज्ज्ञानं जायतामित्याकारकानुमितिविषयकेच्छा. वारणञ्च पूर्वसामग्रयाः प्रतिबन्धकताया उभयमतसिद्धत्वेन तव विष. यमनिवेश्य अनुभित्यन्यज्ञानत्वावच्छिन्नं प्रत्येव तत्प्रतिबन्धकत्वकल्प. नात् । न च समानविषयकस्थले तन्मते प्रतिबन्धकत्वान्तरमनुमितिसाम. प्रथा इति वाच्यम्। घटचाक्षुषं जायतामित्येतादृशेच्छानांपृथक्पृथगुत्तेजक त्वानुरोधेन घटचाक्षुषत्वादीनामेव भिन्नविषयकस्थले प्रतिबध्यत्वाव. च्छेदकत्वात् तादृशप्रतिबध्यप्रतिबन्धकभावेन समानविषयकचाक्षुषा. दिवारणालम्भवात् तत्र प्रतिबध्यप्रतिबन्धकभावान्तरकल्पनाया प्राव. श्यकत्वादिति चेत् । मैवम्, सिद्धान्तिमते समानविषयकानुमितौ अनुमित्लाविरहविशि ष्टप्रत्यक्षसामग्रयाः प्रत्यक्षेच्छाविशिष्टप्रत्यक्षसामग्रयाश्च प्रतिबन्धकरवं कल्पनीयं, मन्मते तु तथाविधप्रत्यक्ष अनुमितिसामग्रयाः प्रत्यक्षेच्छावि. रहविशिष्टाया एकमेव प्रतिबन्धकत्वम् , अनुमित्साविशिष्टानुमितिसा. मया मिन्नविषयकप्रत्यक्षस्थलीयप्रतिबन्धकत्वेनैव निर्वाहः, तत्र विष.

(२९) सामग्रीमतिबन्धकतावादवाचिः । - यनिवेशे प्रयोजनाभावात् सर्वसाधारणानुमित्यन्यज्ञानस्वस्यैव तत्प्र. तिबध्यतावच्छेदकत्वोपगम इति लाघवम्। न च मन्मतेऽपि प्रत्यक्षे. च्छाविशिष्टप्रत्यक्षसामग्रयाः समानविषयकशान्दादिस्थलीयप्रतिबन्ध कतयैव निर्वाहः। तत्र शाब्दबोधानुमित्यादिसाधारणसमानविषयकपरो. क्षत्वस्यैव प्रतिबध्यतावच्छेदकत्वोपगमादिति वाच्यम्। परोक्षस्वजाते. रन्यत्र दूषितत्वात्, प्रत्यज्ञान्यत्वविशिष्टज्ञानत्वस्यैव प्रतिबध्यताव च्छेदकत्वे विशेष्यबिशेषणभावे विनिगमनाविरहेण कार्यकारण. भावबाहुल्यात् शान्दादिस्थले शाब्दत्वादेरपि प्रतिवध्यताच्छेदकताया उपगन्तव्यतयाऽनुमितिस्थले प्रत्यक्षेच्छाविशिष्टप्रत्यक्षसामग्रयाः पृथ- प्रतिबन्धकताकल्पनाया आवश्यकत्वात् , एतन्मते समानविष. यकानुमितिसामग्रया इव तथाविधशाब्दसामनया अपि प्रत्यक्ष सामग्रथा बलवस्त्राभ्युपगमे शाब्दस्थलेऽपि तादृशसामग्रयाः प्रतिब. न्धकताया प्रसिद्धत्वाञ्च । न च तव मतेऽपि समानविषयकप्रत्यक्ष. स्थलेऽनुमित्साविशिष्टानुमितिसामग्रयाः पृथक् प्रतिबन्धकत्वमावश्यक, शाब्देच्छाविशिष्टशाब्दसामग्रीजन्यसमानविषयकशाब्दबोधे व्यभिचारवा. णाय भिन्नविषयकत्वस्य भिन्नविषयकस्थलीयतादृशसामग्रीप्रतिबध्यता- वच्छेदककोटाववश्यं निवेशनीयत्वादिति वाच्यम् । प्रत्यक्षसामनथपेक्ष- या इव शाब्दसामग्र्यपेक्षया अपि समानविषयकानुमितिसामग्रया बलव. स्वोपगमात् समानविषयकशाब्देच्छाविशिष्टशाब्दसामग्रीतथाविधानुमि. त्साविशिष्टानुमितिसामग्रीकालेऽनुमितेरेवोपगमात् भिन्नविषयकत्वस्य तादृशसामग्रीप्रतिबध्यतावच्छेदककोटावनिवेशात् । वस्तुतोऽनुमित्यन्यज्ञानत्वस्य तत्समनियतजातिविशेषस्य च नित्य साधारणत्वेन जन्यतानवच्छेदकतया जन्यस्वनिवेशे गौरवात् , जन्यप्रत्य. क्षवृत्तिविशेषस्य शाब्दत्वादेश्च तादशसामग्रीप्रतिबध्यतावच्छेदकताया अावश्यकत्वात् प्रत्यक्षशाब्दादिषु भिन्नभिन्न प्रतिबध्यप्रतिबन्धकभाव आ. वश्यकः, इत्यञ्च प्रत्यक्षस्थलीयप्रतिबध्यप्रतिबन्धकभावे भिन्नविषयक. त्वादेरनिवेशेपि मन्मते व्यभिचाराभावात् एकप्रतिबध्यप्रतिबन्धकमा. वेनैव निर्वाह इति वदन्ति । तदप्यसत्, पर्वते प्रत्यक्षादिभिन्नं वन्हिवानं जायतामित्यांका. रकानुमितिविषयकेच्छाविशिष्टवन्ह्यनुमितिसामग्रीकालेऽपि घटादि. प्रत्यक्षानुदयात् भिन्नविषयकप्रत्यक्षस्थलीयप्रतिबन्धकतायामनुमिति. त्वप्रकारकतदप्रकारकेच्छासाधारणानुमितिविषयकेच्छात्वेनैव तादृशे- च्छा निवेश्यते, तथाच पर्वते वन्हिज्ञानं जायतामित्येतादृशेच्छा.

१९६ वादवारिधी व्यभिः काले वन्यनुमितिसामग्रीसत्त्वेऽपि वन्हिप्रत्यक्षस्यैवोत्पत्त्या चारवारणाय अनायत्या तत्र भिन्नविषयकत्वं प्रतिबध्यतावच्छेदक. कोटौ निवेशनीयं, तथाच तादृशप्रतिबध्यप्रतिबन्धकभावेनानिर्वा हात् अनुमितित्वप्रकारकेच्छाविशिष्टानुमितिसामग्रथाः समानवि. षयकप्रत्यक्ष प्रति प्रतिबन्धकत्वान्तरकल्पनमावश्यकमेवेति लाघवावकाशः, प्रत्युत तन्मते प्रत्यक्षसामप्रयपेक्षयाऽनन्तबाधतदभाव व्याप्यवत्ताज्ञानाद्यभावघटिताया गुरुशरीराया लिङ्गादिभेदेन वहुवि धाया अनुमितिसामग्रयाः समानविषयकप्रत्यक्ष प्रति प्रतिबन्धकतया विपरीतगौरवमिति लघुशरीराया अल्पीयस्याः प्रत्यक्षसामग्रया एव समानविषयकानुमिति प्रति प्रतिबन्धकत्वमुचितं, लघुशरीरत्वञ्च तस्या बाधाभावाधघटिततया । न च लौकिकप्रत्यक्षेऽपि तदिन्द्रियजन्यबाधा. भावस्य हेतुतया तत्सामग्रयपि बाधाभावघटितेति वाच्यम् । ईदृश. बोधाभावस्य लौकिकप्रत्यक्षे हेतुत्वेऽपि तादृशबाधकालेऽनुमितेरनुद- यात् अनुमिति प्रति प्रत्यक्षसामग्रयाः प्रतिबन्धकतायां तादृशबाधवि. रहस्य प्रयोजनविरहेणानिवेशात् , समानविषयकप्रत्यक्षं प्रति अनुमिति- सामप्रधाः प्रतिबन्धकतायान्तु बाधाभावादिनिवेशनमावश्यकम्, अन्यथा भिन्नेन्द्रियादिजन्यबाधादिकाले परामर्शादिसत्त्वेऽपि प्रत्यक्षानुत्पाद- प्रसङ्गादिति। प्रत्यक्षसामनथपेक्षयाऽनुमितिसामग्रथाः गुरुत्वे बहुत्वे च तस्या एव प्रत्यक्षसामग्रयपेक्षया बलवत्त्वमुचितं प्रत्यक्षसामग्रथा बलवत्त्वेऽनुमितसाविशिष्टानुमितिसामग्रीकाले प्रत्यक्षवारणायानुमित्- साविशिष्टानुमितिसाग्रयाः समानविषयकप्रत्यक्ष प्रति प्रतिबन्धकतायाः कल्पनीयतया गुरुशरीरानन्तसामप्रथामिच्छानिवेशेन गौरवप्रसङ्गात् , मन्मते लघुशरोरान्यतरप्रत्यक्षसामग्रोप्रतिबन्धकतायां तन्निवेशेन लाघ बात । न चानुमितिसामग्रघाः बलवत्त्वे प्रत्यक्षेच्छाविशिष्टप्रत्यक्षतामा प्रोकालेऽनुमित्साविशिष्टानुमितिसामग्रीसत्त्वे प्रत्यक्षवारणायानुमित्सा- विशिष्टानुमितिसाप्रयाः प्रत्यक्ष प्रति प्रतिबन्धकत्वं कल्पनीयमिति गुरुसा मग्रीप्रतिबन्धकतायामिच्छानिवेशनं भवन्मतेऽपीति न लाघवावकाशः किन्त्वस्मन्मतेऽपि श्रनुमितिसामग्रथा एकं प्रतिबन्धकत्वं भवन्मतेभ्यनु. मित्सावैशिष्टयं निवेश्य प्रत्यक्षेच्छाभाववैशिष्टयं निवेश्य चैकं प्रति. बन्धकस्वान्तरं तस्याः कल्पनीयमिति गुरुसामप्रयाः प्रतिबन्धकताबाहु ल्यात् गोरवमेवेति वाच्यम् । प्रत्यक्षसामग्रथा बलवत्त्वमते अनुमित्सा. विशिष्टानुमितिसामग्रीदशायां प्रत्यक्षेच्छाधीनप्रत्यक्षोपपत्तये प्रत्यक्षेच्छा. प्राथ . (२९) सामग्रीमतिबन्धकतावादवाचिः। विरहविशिष्टानुमित्साविशिष्टाऽनुमितिसामग्रीत्वेनैव प्रतिबन्धकताया वाच्यतया प्रत्यक्षेच्छानुमित्सादीनां मिथो विशेष्यविशेषणभावे विनि- गमनाविरहेणानुमित्साविशिष्टानुमितिसामग्रीप्रत्यक्षेच्छायिरहविशिष्टा- नमितिसामग्रयोः पृथक प्रतिबन्धकत्वकल्पनापेक्षया गुरुसामग्रीप्रति बन्धकताबाहुल्यात् भवन्मतेपि गौरवादिति । मैवम, सिद्धान्तिमते प्रत्यक्षेच्छाविरहानुमित्सयोरेकत्र निवेशेन वि. शेष्यविशेषणभावे विान गमनाविरहात् गुरुसामग्रयाः प्रतिबन्धकताबाहु. ल्यमिव भवन्मतेऽपि तत्रानुमितिसामग्रयां सिद्ध्यभावनिवेशस्याधिकत- या सिद्ध्यभावप्रत्यक्षेच्छाऽभावादीनां विशेष्यविशेषणभावे विनिगमनावि. रहेण तादृशसामग्रयाः प्रतिबन्धकत्वबाहुल्यम् , मन्मते तु समानविषयक. प्रत्यक्षस्थलीयानुमितिसामग्रीप्रतिबन्धकतायां सिद्ध्यभावो न निवेश्यते, अनुमित्सायास्तत्र निवेशानुमित्साकाले च सिद्धिसत्त्वेप्यनुमितेरेवोत्प. त्या प्रत्यक्षस्यानुदयात् इति नास्माकं तन्निवेशप्रयुक्तप्रतिबन्धकताबाहुः ल्यमिति प्रत्यक्षेच्छाविरहविशिष्टानुमितिसामग्रयाः प्रतिबन्धकत्वबाहुल्यं मुभयमते समानं परन्तु प्रत्यक्षेच्छाविरहमनिवेश्यानुमितिसामग्रथा इच्छाविशिष्टाया पृथक् प्रतिबन्धकतायाः भवता कल्पनीयत्वात् गुरु- सामग्रथाः प्रतिबन्धकत्वाधिक्यं दुर्वारमेवेति प्रत्यक्षसामग्रया बलवत्व- मेवोचितमिति । एवं समानविषयकशाब्दसामग्रथा अपि अनुमितिसा- मनथपेक्षया वलवत्त्वमुचितं तस्या होनबलस्वे शाब्देच्छाविशिष्टशा- ब्दसामग्रीकालेऽनुमितिवारणायानुमित्साविरहविशिष्टशाब्दसामग्रो. त्वेन प्रतिबन्धकत्वकल्पनस्यावश्यकतथाऽनुमित्साविरहेण যাই च्छादीनां मिथो विशेष्यविशेषणभावे विनिगमनाविरहेण शाब्दसाम- प्रयाः प्रतिबन्धकत्वबाहुल्यात् , मन्मते तु शाब्देच्छाऽनुमितसाभावयोः पृथक् प्रतिबन्धकतायामेव निवेशेन विशेष्यविशेषणभावे विनिगमनावि. रहस्याप्रसक्तः। न च भवन्मतेऽपि अनुमितिसामग्रीप्रतिबन्धकतायामनु. मित्साशाब्देच्छाभावयोरेकत्र निवेशात अनुमितिसामग्रयाः प्रतिबन्ध कत्वबाहुल्यात कथं लाघवमिति वाच्यम् । अनुमितिसामग्रयपेक्षया शा. ब्दसामग्रथा आकाढायोग्यतातात्पर्यज्ञानादिरूपबहुतरकारणघटितत्वेन गुरुतया तत्प्रतिबन्धकत्वबाहुल्यापेक्षयाऽनुमितिसामग्रीप्रतिबन्धकता. बाहुल्यस्यैवाचितत्वादिति दिक् ॥ ० ॥ चाक्षुषस्पार्शनसामग्रीयोगे तु चाक्षुषमेव जायते तदनन्तरं पश्या. मीत्यनुव्यवसायस्यैवोदयात् , अतः स्पार्शनं प्रति चाक्षुषसामप्रथाः प्रतिबन्धकत्वं वाच्यं तादृशसामग्रयाश्च आलोकसंयोगावशिष्टचाक्षु.

१९८ वादवारिधी षवद्वृत्तिचक्षुःसंयोगत्वेन प्रतिबन्धकता, आलोकसंयोगनिवेशात् तमः सि घटादिचक्षुःसंयोगसत्त्वेऽपि न स्पार्शनानुपपत्तिः । वाय्वादिचक्षुःसं. योगदशायां स्पार्शनोपपत्तषे चाक्षुषवदितिविशेषणम् । चाक्षुषवत्त्व. च लौकिकविषयतया, वाय्वादेरपि चाक्षुषोपनीतभानविषयत्वात् । एवञ्च रूपमहत्त्वानुद्भूतरूपाभावादीनां चाक्षुषहेतुत्वेऽपि सामग्रीप्रति बन्धकतायां न ते निवेश्यन्ते प्रयोजनाभावात् । प्रतिबध्यतावच्छेदकन्तु घटस्पार्शनस्वादिकं घटस्पार्शनं जायतामित्याकारकेच्छानां विशिष्यो. तेजकत्वानुरोधात। सकलेच्छानां स्पार्शनेच्छात्बेनैवोत्तेजकत्वे पटस्पा. र्शनं जायतामित्याकारकेच्छाकाले घटादिस्पार्शनापत्तेः। अथ घटस्पार्शनेच्छानां यदि घटस्पार्शनविषयकेच्छात्वादिना उत्ते. जकता, तदा घटवाक्षुषस्पार्शनादिसामग्रीसत्त्वे घटज्ञानं जायतामित्येता. दशेच्छासत्वे घटस्पार्शनस्य प्रसङ्गः । यदि च घटस्पार्शनत्वप्रकारके. च्छात्वादिना उजकता, तदा पटचाक्षुषसामग्रीकाले घटस्पार्शनमात्र- सामग्रीसत्त्वे घटज्ञानत्वादिप्रकारकेच्छासत्त्वे घटस्पार्शनानुपपत्तिः, तदा. नोच स्पार्शनोत्पत्रिं विना तथाविधेच्छाविषयसिद्ध्यभावात् स्पार्शनो. त्पाद प्रावश्यक इति न तनुत्पाद इष्टापत्तिरिति चेत् । घटस्पार्शनत्वाद्यवच्छिन्नं प्रति घटस्पार्शनत्वादिप्रकारकेच्छाविरह. विशिष्टघटचक्षुःसंयोगत्वघटादिस्पार्शनेच्छाविरहविशिष्टचक्षुःसंयोगत्वा भ्या प्रतिबन्धकते कल्प्येते । एवञ्च यत्र घटचाक्षुषलामग्री तत्स्पार्शन. सामग्री च तत्र घटज्ञानं जायतामित्येतादृशेच्छासत्वे घटस्पार्शने. च्छाविरहविशिष्टचाक्षुषसामग्रथभावसत्त्वेऽपि घटस्पार्शनत्वप्रकारके. च्छाविरहविशिष्टचाक्षुषसामग्रीरूपप्रतिबन्धकसत्वान्न स्पार्शनापत्तिः । पटचाक्षुषसामग्री घटस्पार्शनमात्रलामग्री घटज्ञानत्वादि. प्रकारिका च स्पार्शनेच्छा तत्र घटस्पार्शनत्वादिप्रकारकेच्छाविर. हविशिष्टघटचाक्षुषसामग्रथभावो विशेष्याभावप्रयुक्तो विशेषणाभाव. प्रयुक्तश्च घटस्पार्शनेच्छाविशिष्टसामनयभाव इति न स्पार्शनानुपप. त्तिः । अत्र च द्वितीयप्रतिबन्धकतायामालोकसंयोगादिनिवेशो नास्ति. अन्धकारस्थघटादिचक्षुःसंयोगदशायामन्धकारस्यैवेदन्त्वादिना चाक्षुः षोदयात् तदानीं स्पार्शनानुत्पादात् । प्रथमप्रतिवन्धकतायान्तु तनिवेश नमावश्यकम्, अन्यथा ऽन्धकारेण युक्तस्य घटस्य घटज्ञानं जायतामित्यो. तादृशेच्छासत्त्वेऽपि स्पार्शनानुत्पादग्रसङ्गात् इत्यवधेयम् । उभयेच्छा. काले स्पार्शनवारणाय चाक्षुषेच्छाविशिष्टचाक्षुषसामग्रया इच्छामुजि. कामकृत्वा प्रतिबन्धकत्वान्तरं कल्पनीयम्।अत्र च विषयमाश्रित्य स्पार्श (२९) सामग्रीप्रतिबन्धकतावादवाचिः । । नत्वमेव प्रतिबध्यतावच्छेदकं वाच्यम्, प्रतिवन्धकता तु घटवाक्षुषेच्छा. विशिष्टघटचाक्षुषसामग्रीत्वादिना, अतो नैकगोचरचाक्षुषेच्छाकाली- मान्यगोचरचाक्षुषसामग्रीदशायां स्पार्शनेच्छाधीनस्पार्शनानुदयापत्तिः। अथवा सामानाधिकरण्यसम्बन्धेन चाक्षुषेच्छाविशिष्टचक्षुःसंयोगत्वेनैव प्रतिबन्धकत्वं कल्प्यते, सामानाधिकरण्यञ्च स्वीयचाक्षुषनिष्ठविशेष्य- तानिरूपितविषयितासंसर्गावच्छिन्नप्रकारतासम्बन्धेन स्वाधिकरणे सम. वायेन वृत्तिः। पटचाक्षुषं जायतामित्येतादृशेच्छानाच नैतादृशसामाना. धिकरण्यं घटचक्षुःसंयोगादौ इति नानुपपत्तिः। अथ चाक्षुषेच्छादीनां इच्छात्वेन चाक्षुषत्वप्रकारकेच्छात्वेन वा निवेशः । आद्ये पटप्रत्यक्षं जायतामित्येतादृशेच्छाविशिष्टचाक्षुषसामग्रीकाले स्पा. शेनेच्छासत्त्वे पटस्पार्शनापचिः। किञ्च घटप्रत्यक्ष पार्शनञ्च जाय. तामित्येतादृशेच्छाकाले घटचाक्षुषसामग्रीसत्त्वे घटस्पार्शनानुदयप्रसङ्गः, तदानीञ्च घटस्पार्शनोत्पत्तौ तथाविधेच्छाया उभयविषयसिङ्या स्पा. शनस्यौबोत्पत्त्या तदनुत्पाद इष्टापत्तरसम्भवात् इति चेन्न । घटभिन्नविषयकस्पार्शनत्वावच्छिन्न प्रति घटचाक्षुषविषयकेच्छा. विशिष्टचाक्षुषसामग्रीत्वादिना प्रतिबन्धकता, अतो नोक्तस्थले घटस्पा. शनानुदयप्रसङ्गः। एवं विषयानाश्रितस्पार्शनत्वावच्छिन्नं प्रति चाक्षु. षत्वप्रकारकेच्छाविशिष्टघटचाक्षुषसामग्रीत्वादिना उपदर्शितसामाना. धिकरण्यसम्बन्धेन चाक्षुषत्वप्रकारकेच्छाविशिष्टचाक्षुषसामग्रीत्वादिना वा प्रतिबन्धकत्वं कल्पनीयम्, अतो न समानविषयकचाक्षुषसामग्रीकाले स्पार्शनापत्तिः । चाक्षुषसामग्रथाश्च प्रतिवन्धकता समवायेन स्पाशं. नस्य प्रतिबध्यता च पूर्वोक्तार्थनिष्ठपरम्परासम्बन्धेन, अत एकपुरुषी. यचाक्षुषसामग्रीकाले नान्यपुरुषीयस्पार्शनानुपपत्तिः । वस्तुतः यत्र स्पार्शनत्वप्रकारकेच्छा उत्तेजिका तत्र विषयनिष्ठप्र. त्यासत्यैव प्रतिबध्यप्रतिबन्धकभावः, आत्मनिष्ठप्रत्यासत्या घटस्पार्श नत्वावच्छिन्नं प्रति घटस्पार्शनत्वादिप्रकारकेच्छाविरहविशिष्टघटचा क्षुषसामग्रीत्वादिनैव प्रतिबन्धकताया विवक्षणीयत्वे विषयभेदेना. नन्तप्रतिबध्यप्रतिबन्धकमावापत्त, मन्मते विषयमनिवेश्य विषयतास. म्बन्धेन स्पार्शनं प्रति स्वीयस्पार्शनत्वावच्छिन्नविशेष्यतानिरूपितवि षयितासंसर्गावच्छिन्नप्रकारत्वसंसर्गावच्छिन्न प्रतियोगिताकस्पार्शनेच्छा. भावविशिष्टचक्षुःसंयोगत्वेन समवायप्रत्यासत्यप्रातिबन्धकताकल्पने विषयभेदेन प्रतिबन्धकताया बाहुल्याभावात् । रुषीयचाक्षुषसामग्रोकालेऽन्यपुरुषीयस्पार्शनोपपत्तये तत्तत्पुरुषोय. नचैतन्मते एकपु.

३०० वादवारिधी . पार्शनत्वावच्छिन्नं प्रति तत्तत्पुरुषीयचक्षुःसंयोगत्वेन प्रतिवन्धकरवं कल्पनीयमिति पुरुषभेदेन प्रतिबध्यप्रतिबन्धकभावबाहुल्यात न घवावकाश इति वाच्यम् । पुरुषापेक्षया विषयाणामनन्ततया पुरुषभेदेन प्रतिबन्धकताबाहुल्येऽपि लाघवसम्भवात् । स्पार्शनत्वप्रकारकतदप्र. कारकेच्छासाधारणरूपेण यत्रोत्तेजकता तत्रोपर्दाशतविषयनिष्ठप्रत्या. सत्या प्रतिबन्धकताभ्युपगमे घटादिचाक्षुषसामग्रीकाले पटादिस्पा. र्शनापत्तर्वारयितुमशक्यतया तत्र विषयं निवेश्य आत्मनिष्ठप्रत्यास स्या एव प्रतिवन्धकत्वं कल्प्यते। अथैवं तत्रापि विषयतासम्बन्धेन स्पार्शनं प्रति चाक्षुषसामग्रोवि. शिष्टस्वीयस्पार्शननिष्ठविशेष्यतानिरूपितविषयितासंसर्गावच्छिन्नप्रका. रतासंसर्गावच्छिन्न प्रतियोगिताकेच्छाभावस्य विशेषणताप्रत्यासत्याप्रति बन्धकता विषयमनिवेश्यैव कल्प्यते, सामग्रीवैशिष्ट्यश्च तादृशेच्छाभावे एककालीनत्वसम्बन्धेन वोध्यम् । एवं चाक्षुषत्वप्रकारकेच्छाविशिष्टचा- क्षुषसामगोप्रतिबन्धकतायामपि न विषयनिवेशः, किन्तु विषयमनिवेश्य विषयतासम्बन्धेन स्पार्शनत्वावच्छिन्नं प्रति स्वीयचाक्षषत्वावच्छिन्नवि. शेष्यतानिरूपितविषयिनासंसर्गावच्छिन्न प्रकारताश्रयसमवेतत्वसम्बन्धेन चाक्षषेच्छाविशिष्टचक्षःसंयोगत्वेन समवायसम्बन्धेन वा प्रतिबन्धकता कल्प्यते । कालिकविशेषणतैष वा उभयघटकप्रत्यासत्तिः । एवं चाक्षुषवि. षयकेच्छाविशिष्टचाक्षषसामग्या अपि विषयमनिवेश्य स्पार्शनं प्रति स्वीयवाक्षषनिष्ठविशेष्यतानिरूपितविषयितासंसर्गावच्छिन्नप्रकारताश्रय. समवेतत्वसम्बन्धेन चाक्षुषेच्छाविशिष्ट चक्षुःसंयोगत्वेनैव कालिका- त्यासत्या वा प्रतिबन्धकता कल्पयते । नचैवं घटप्रत्यक्ष घटस्पार्शनं च जायतामित्येतादृशेच्छाकाले घटस्पार्शनानुदयप्रसङ्ग इति वाच्यम्। स्वीय स्पार्शनत्वावच्छिन्नविशेष्यतानिरूपिततादशप्रकारताश्रयवृत्तित्वसम्बन्धेन स्पार्शनत्वप्रकारकेच्छाविशिष्टालोकसंयोगाभावस्य स्वाश्रयविषयकचा. क्षुषविषयकत्वसम्बन्धेन चाक्षुषेच्छायां वैशिष्टयनिवेशात्, उक्तस्थले तादृशेच्छायाः तथाविधस्पार्शनत्वप्रकारकेच्छाविशिष्टात्मकसंयोगामा. वविशिष्टत्वाभावेनानुपपत्त्यसम्भवात् । नचैवं घटचाक्षुषं घटस्पार्शनञ्च जायतामित्येतादृशेच्छाकाले घटस्य चाक्षषस्पार्शनसामग्रीकाले पटस्य स्पार्शनसामग्रीकाले पटादेः स्पार्शनापत्तिरिति वाच्यम्। चाक्षुषत्वप्रका रकेच्छाविशिष्टचाक्षुषसामगया अपि कालिकप्रत्यासत्यैव प्रतिबन्धक- भावोपगमात्, तत एव तादृशापचेरणात् । यत्र च घटस्य स्पार्शनमा. त्रसामग्रीदशायां घटप्रत्यक्ष स्पार्शनञ्च जायतामित्येतादृशेच्छा काशी संस्कृत सीरिज़ ग्रन्थमाला । । maa जागदीशोव्यधिकरणम् । न्यायाचार्यश्रीशिवदत्त मिश्रविरचित गंगाल्यव्याख्या टिप्पणी सहितम् । (न्यायविभागे २)०३-८ काव्यकल्पलतावृत्तिः। श्रीअमरचन्द्रयतिनिर्मिता अरिसिंहकृतसूत्रसहिता। (अलङ्कारविमागे ४) १०१-४ वैयाकरणसिद्धान्तचन्द्रिका । श्रीरामाश्रमप्रणीता। श्रीसदानन्दकृत-सुबोधिन्या, श्रीलोकेशकरकृत-तत्वदीपिकया व्याख्यया च सहिता । पं० श्रीनवकिशोरशास्त्रिणा- निर्मितया चक्रधराख्य महत्या टिप्पण्या अव्ययार्थमालया लिङ्गानुशासनप्रक्रियया उगादिकोषेण च सहिता । (व्या० वि० ११) पूर्वार्दम् । रु०२-८ उत्तरार्द्ध। २०२-८ त्रिपुरारहस्यम् ( महात्म्यखण्डम् ) साययोगशास्त्राचार्य श्रीमुकुन्दलाल शास्त्रिणा संशोधितम् । साहित्याचार्य खिस्ते-इत्युपाख्य पं० श्रीनारायणशास्त्रिणा निबद्धाभ्यां भूमिकाऽध्यायानुक्रमणिकाभ्यां च सहितम्। (पुराणेतिहास वि०१) १०५-. आपस्तम्बधर्मसूत्रम् । श्रीमद्धरदत्तमिश विरचितया उज्ज्वलाख्यया वृत्त्या संवलितम् । (कर्मकाण्डविभागे .) रु०४-. अवच्छेदकत्वनिरुक्तिः । श्रीजगदीशतकालङ्कारकृताः । न्यायाचार्य श्रीशिवदत्त- मिश्रविचित गंगाख्यव्याख्या टिप्पणी सहितः । (न्याय वि०१३) ०१ (१) संस्कारदीपकः । म०म० पण्डित श्रीनित्यानन्दपन्त पर्वतीय विरचितः । गणेशपूजादिग्रहयागान्त-पूर्वाङ्ग निरूपणात्मकः प्रथमोभागः । (कर्म० वि० ८)रु०३-० (२) संस्कारदीपकः। विवाह- गर्भाधानादिकशाबान्तसंस्कारनिरूपणात्मकः द्वितीयोभागः। (३) संस्कारदीपकः । तुलादानादि-मूलशान्त्यादि निकपणात्मकः नाम परिशिष्टदोपकः ततायोभागः । वर्षकृत्यदीपकः । कालनिर्णयव्रतोद्यापन सहितः ।म०म० पण्डित नित्यानन्द पन्त. पर्वतीय विरचितः। (कर्म० वि ९) रु०३-८ श्रौतसूत्रम् । श्रीमन्महर्षि-लाघ्यायनप्रणीतमग्निष्टामान्तम् । (कर्म० वि०१०) रु०२-० नलचम्पू: अथवा दमयन्तीकथा । महाकविश्रीत्रिविक्रमभट्टविरचिता । विषमपद. प्रकाशाख्यव्याख्यया सहिता। भावबोधिनी टिप्पणी सहिता । (का०वि०१६) ०१-४ श्रीब्रह्मसूत्रम् । श्रीभगवनिम्बाके महामुनीन्द्रविरचित वेदान्तपारिजात सौरभा- ख्यसूत्रवाक्याथन श्रीश्रीनिवासाचार्यचरणप्रणीत श्रीवेदान्तकौस्तुभभाष्येन च सनाथीकृतम् । (श्रीनिम्बार्कभाष्यम् ) (वेदान्त वि०१०) ३०३-. वाग्वल्लभः। सर्वथाऽपि नवीनोऽपूर्वः प्रौढः परमोपयोगितया नियतमुपादेयतमश्छ. न्दोनिबन्धः, श्रीमता दैवज्ञाग्रेसरेणागममामिकेण कविपुङ्गवेन दुःखभजनविदुषा विरचितः, तत्सुतेन बहुशास्त्रपारगेण कविचक्रवत्तिना महामहोपाध्यायेन देवीप्रसाद. पण्डितप्रवरेण कृतया वरवर्णिन्या टीकयोपस्कृतः । (छन्दः शास्त्र वि०४) रु०२-८ सिद्धान्तलक्षणम् । श्रीजगदीशतर्कालङ्कारकृतम् । न्यायाचार्य श्रीशिवदत्तमिश्र- विरचित गंगाख्यव्याख्या टिप्पणी सहितम् । (न्याय विभागे ४))रु०१-८ वेदभाष्यभूमिकासंग्रहः । ( सायणाचार्यविरचितानां स्ववेदभाष्यभूमिकानां संग्रहः)। [वेद० वि०५] रु०२-८ माधवीयधातुवृत्तिः । श्रीमत्सायणाचार्यावरचिता। (व्या०वि०१२) रु०५-० बौधायनधर्मसूत्रम् । श्रीगोविन्दस्वामिप्रणीतविवरणसमेतम् । [कर्म वि० ११] २०४-० ताण्डयमहाब्राह्मणम् । सायणाचार्यविरचितभाष्यसहितम् । (वेद वि०६) (प्रथमोभागः) रु०५-०-० (द्वितीयोभागः) २०७-०-० ६ काशी संस्कृत सीरिज़ प्रन्यमाला १०६ न्यायमञ्जरी। जयन्तमकृता । न्याय-व्याकरणाचायण पं० सूर्यनारायणशास्त्रिणा कृतया टिप्पण्या समेता । सम्पूर्ण । [भ्या०वि०१६] २०८-- १०७ शारदातिलकम् । श्रीमद्राघवभट्टकृतपदार्थादर्शटीकासहितम् । (तन्त्रशा० वि०१)रु०५ १०८ मन्त्रार्थदीपिका । म०म० श्रीशत्रुघ्नविरचिता । (वेद० वि०७) रु०२ १०९ शब्दशक्तिप्रकाशिका । श्रीमज्जगदीशतर्कालङ्कारविनिर्मिता । श्रीकृष्णकान्त. विद्यावागीशकृतया कृष्णकान्तीटीकया श्रीमद्रामभद्रसिद्धान्तवागीशविरचितया रामभद्रीटीकया च समलकृता। न्यायाचार्य काव्यतीर्थ पं० ढुण्डिराजशास्त्रि. कृतया छात्रोपयुक्तया विषमस्थलटिप्पण्या मुलकारिकार्थेन च सहिता। (न्या वि०१६) २०४८ ११० योगदर्शनम् ( पातञ्जलदर्शनम् ) भगवत्पतञ्जलिरचितं, राघवानन्दसरस्वतीकृत. "पातञ्जलरहस्याख्याटिप्पनीयुक्तया द्वादशदर्शनकाननपञ्चाननवाचस्पतिमिश्रवि. रचितया "तत्त्वशारद्या व्याख्यया भूषितेन विज्ञानभिक्षुनिमित"योगवार्तिक”. समुद्भासितेन मधुपुरीयकापिलमठस्थस्वामिहरिहरानन्दारण्यकृतभास्वतीवृत्त्या सहितेन भगवच्छ्रीकृष्णद्वैपायनव्यासदेवोपज्ञ-"सांख्यप्रवचन" भाष्येणोद्योति. तम, प्रदेशविशेषेषु श्रीमन्माध्वसम्प्रदायाचार्य-दार्शनिकसार्वभौम-साहित्य. दर्शनाद्याचार्य-तर्वरत्न-न्यायरत्न गोस्वामिदामोदरशास्त्रिणा विहितया टिप्पन्या "पातञ्जलप्रभागनामिकया भूमिकया च संवलितम्, ( योग. वि.३)- १११ सारस्वत व्याकरणम् । अनुभूतिस्वरूपाचार्यप्रणीतम् । श्रीचन्द्रकीतिसूरिप्रणी तचन्द्रकीर्तिनाम्न्या सुबोधिकया व्याख्यया, श्रीवासुदेवभट्टविरचितप्रसादाख्य. टीकया च समन्वितम् । कवितार्किकोत्कल-यास्क श्रीनवकिशोरशास्त्रिणा निर्मि- तया मनोरमाविवृत्या च समुद्भासितम् । पूर्वार्द्धम् । (व्या. वि. १३) ३०१- ११२ सामान्यनिरुक्ति-गादाधरी-गृढार्थतत्त्वालोकः । सर्वतन्त्रस्वतन्त्रमिथिलामण्डल मण्डन-पं० कुलपति झोपाख्य-श्रीधर्मदत्त [ श्रीबच्चा झा] शर्मविरचितः । ( न्या. वि.१७ ) रु०१- ११३ जागदीशी पक्षता। न्यायाचार्य पं० शिवदत्तमिश्र गौडत गंगाख्यव्याख्या टिप्पणीसहिता। (न्या. वि. १८) ३०१- ११४ मनुस्मृतिः। कुल्लूकमवतमन्वर्थमुक्तावलीव्याख्यया काशीस्थगवर्नमेन्ट सं. स्कृतकालेज व्याकरण-मोमांसा-धर्मशास्त्राध्यापकेन पं. नेने इत्युपाडू गोपाल. शास्त्रिसंगृहीतपरिशिष्टटिप्पण्यादिभिरपि सहिता । अत्यन्तशुद्धसंस्करणम् । सम्पूर्णम् । (धर्मशास. वि.) रु०२- ११६ व्युत्पत्तिवादः । श्रीमद्भगदाधरभट्टाचार्यचक्रवर्तिविरचितः । वैयाकरणशिरोमणि शुक्ल श्रीवेणीमाधवशास्त्रिरचित [ शालार्थ-परीक्षोपयोगि शानार्थकला टीका. सहितः। (न्या. वि. १९) रु०३- ११६ भामती। ब्रह्मसूत्रशाङ्करभाष्यव्याख्या सर्वतन्त्रस्वतन्त्रश्रीमद्वाचस्पतिमिश्रविर. चिता। न्यायाचार्य पं० दुण्डिराजशास्त्रिणा सङ्कलितया विषमस्थलटिप्पण्या सम. लकृता । तत्रायं द्वितीयाध्यायस्य द्वितीयपादान्तः प्रथमो भागः । ११७ जन्मपत्रदीपकः । सोदाहरण-सटिप्पण-हिन्दीटीकासहितः । ज्यौ० पं० श्रीवि. न्ध्येश्वरीप्रसादद्विवेदिना विरचितः । (ज्यो. वि. ५) रु००- प्राधिस्थानम्-चौखम्बा संस्कृत पुस्तकालय, बनारस सिटी

No text on this page.

No text on this page.

No text on this page.

Vaadavaaridhi Vol.2

Author
Bhat't'aachaar^yaa,shriigadaadhara
Other authors
Dhundiraja Sastri
Title
Vaadavaaridhi Vol.2
File name
Vadavaridhi Vol.2
Text
OCR done
Citation
1936
Published
2004/12/26
Publisher
Chowkambha Sanskrti Series Office ,varanasi
Language
Sanskrit
Pages
144
Library
Asr,melkote
Classification
Logic. Epistemology
Keywords
Treatise on Tarka Sangraha
DLI number
383292
Barcode
1990020047573.00
Scanning centre
ASR, Melkote
Digital publisher
Digital Library Of India
Rights
Not Available
VMLT id
MTVsi4kUKDr
Download PDF

Vaadavaaridhi Vol.2