Scl
The Charanavyuha Sutra Of Saunaka
Front matter
No text on this page.
THE
KASHI SANSKRIT SERIES
( HARIDAS SANSKRIT GRANTHAWAZA
132.
Veda Section No. 8)
THE
Charanavyuha Sutra
OF
S'AUNAKA
WITH THE COMMENTARY OF MAHIDASA
Edited with Introduction and Critical notes etc.,
BY
VEDĀCHĀRYA
PT. ANANTARĀM DOGĀRĀ S'ASTRI.
PUBLISHED BY
JAYA KRISHNA DÂS HARI DAS GUPTA
The Chowkhamba Sanskrit Series Office.
Benares City.
1938
[ All Rights Reserved by the Publishers. ]
Registered According to Act XXV of 1867.
All Rights Reserved by the Publishers,
PRINTED BY
JAYA KRISHNA DAS GUPTA,
VIDYA VILAS PRESS, BENARES CITY.
1938.
हरि दास संस्कृत ग्रन्थ मा ला स मा ख्य- काशी-संस्कृत-सीरिज़पुस्तकमालायाः १३२ वेदविभागे (८) अष्टमं पुष्पम् । महर्षिशौनकोक्तम् चरणव्यूहसूत्रम् । वैदिकशिरोमाण आचार्यमहिवासकृत भाष्यसहितम् । 'वेदाचार्य डोगरा-अनन्तरामशास्त्रिणा टिप्पण्यापरिष्कृत्य संशोधितम् । प्रकाशक:- जयकृष्णदास-हरिदास गुप्तः- चौखम्बा संस्कृत सीरिज़ आफिस विद्याविलास प्रेस, बनारस सिटी । [ अस्य पुनर्मुद्रणादिकाः सर्वेऽधिकाराः प्रकाशकायत्ताः ]
.
प्राप्तिस्थानम्-
चौखम्बा संस्कृत पुस्तकालय,
बनारस सिटी।
श्रीसद्गुरवे नमः । भूमिका। य , श्रीविश्वेश्वरकृपयाऽद्य चिरत्नो निबन्धः 'चरणव्यूह' नामा सर्वदेशी- ऋग्वेदि-यजुर्वेदि-सामवेदि-अथर्ववेदिभिः समाहतो यथानाम प्रमाणित बेदराशेः चतुर्विभाग, वेदानां विस्तार, आचार्यानुपूर्वी, शाखा-सूत्रादिभेद, जटादि विकृति, ऋग्यजुर्गानादिसख्या, मन्त्र-पद-वेष्टनादिसङ्ख्या, एक. पदाद्विपदादिभेद, हवने-अध्ययने ऋक्परिमाण, पारायणविध्यादि विषय- ख्यापकः पुनर्मुद्रापयित्वा प्राकाश्यनीतः । निर्माताऽस्य महर्षि शौनकाचार्यः। भाष्यकर्ताऽस्य वैदिकशिरोमणि- राचार्यप्रवरो महिदासशर्मा ! एष चरणव्यूहः पुरा विद्याविलासयन्त्रालये शिलाक्षरयन्त्रालये च मुद्रापयित्वा प्रकाशितोऽप्यति अशुद्ध इतिपुनरस्य परिशोधनपूर्वकम्मुद्रापण. मभिलष्यद्भिः काशिक-चौखम्बा-पुस्तकालयाध्यक्षैर्जयकृष्णदासगुप्तमहोदयै- रभ्यर्थितोऽहं सहायकपुस्तके आसाद्य संशोध्य टिप्पण्यासमलमकाष प्रार्पयञ्च तस्मै पुनर्मुद्रापयितुम् । अस्य संशोधने-प्रथमं 'महथापुस्तकालयीयं' अस्मदीयमतिप्राचीनं पुस्तकं द्वितीयं श्रीविनायकशास्त्रि बहेड़े महोदयीयं पुस्तकमिति विदाङ्कुर्वन्तु भवन्तः । अस्मिन्महतिकार्ये पर्वतीय श्रीमद्भिः पं० गङ्गादत्त 'घनपाठो' महोदयै- रष्टानां विकृतीनां प्रदानेन कृतं साहाय्यक तथा ऋग्वेदिवयः श्रीमद्भिः रामचद्र अठावले महोदयैः 'ऐतरेयब्राह्मणादि पुस्तकप्रदानादिभिः कृतं साहाय्यक पुनपुनः धन्यवादपूर्वकं स्मरामि । आशासे चायं निवन्धः पठनपाठनप्रणालिकायां प्रचार्य तत्तद्विद्यालय- प्रधानाध्यक्षाः प्रकाशकसमुत्साह वर्धयिष्यन्तीति । डोगराभवनम् मीरघाट, काशी श्रीमतामनुचरः- अनन्तरामडोगराशास्त्री
No text on this page.
श्रीसद्गुरवे नमः। अथ शौनकोक्तम्- ... । चरणव्यूहपरिशिष्टं सभाष्यं प्रारभ्यते। श्रीगणेशाय नमः। अथातश्चरणव्यहं व्याख्यास्यामः ॥१॥ ( नत्वा श्रीशमुमे च गणेशं श्रीयुतं गुरुम् । शाखादरिदमाख्यानं क्रियतेऽन्वेष्य यत्नतः ॥ १॥ यथाऽनादिहरिः ख्यातो निदानं जगतां परम् । तथा वेदोऽपि शास्त्राणां स्मृत्यादीनां महाशयः ॥२॥ तमगाधं च को वेत्ति विस्तीर्णत्वं विनेश्वरम् । तस्मात्सङ्केपतो वक्ष्ये वैदिकादिमुदे मुदा ॥३॥) डोमित्येकाक्षरं ब्रह्म नादबिन्दुकलात्मकम् । त्रिदेवत्वं त्रिमात्रं च स्फुटं विष्णुं सनातनम् ॥ ४ ॥ तं सर्वज्ञ जगत्सेतुं परमात्मानमीश्वरम् । वन्दे नारायणं देवं निरवा निरञ्जनम् ॥५॥ कृष्णद्वैपायनं वन्दे गुरुं वेदमहानिधिम् । येन चरणव्यूहेषु शाखाभेदमितं कृतम् ॥ ६ ॥ तच्छिष्यं शौनकगुरुं वेदज्ञं लोकविश्रुतम् । नत्वा तु शाकलाचार्य तथैव चाश्वलायनम् ॥ ७ ॥ एवं परम्पराप्राप्तं बालकृष्णं महागुरुम् । यस्य प्रसादाव्याख्यामि चरणव्यूहसज्ञकम् ॥ ८ ॥ 'अथशब्दो मङ्गले प्रस्ताचे च । 'अर्थ'शब्दः पूर्वमेव मङ्गलार्थ इत्यर्थः । अतः हेत्वर्थः । चरणव्यूहः । वेदराशेः चतुर्विभागाचरण ॥
सभाष्ये चरणव्यूहे- उच्यते । तस्य व्यूहः समुदायः । चतुर्वेदानां समुदायं व्याख्या. स्याम इत्यर्थः । कथमेकवेदः ? तदुक्तमारण्यके-"सर्वे वेदा सर्वे घोषा एकैव व्याहृतिः प्राण एव प्राण ऋर इत्येव विद्यात्" (ऐ० आर० २ खं० १०) इति । लस्य चतुर्विभागाः कृताः । तथा चोक्तं द्वादशस्कन्धे षष्ठाध्याये भागवते-- तेनासौ चतुरो वेदांश्चतुर्भिर्वदनैः प्रभुः । सध्याहृतिकान्त्सोङ्कारांश्चातुर्होत्र(१)विचक्षणाः ॥ १ ॥ पुत्रानध्यापयत्तांस्तु ब्रह्मर्षीन्ब्रह्मकोविदान् । ते तु धर्मोपदेष्टारः स्वपुत्रेभ्यः समादिशन् ॥ २ ॥ ते परम्परया प्राप्तास्तत्तच्छिष्यधृतवतैः । चतुर्युगेष्वश व्यस्ता द्वापरादौ महर्षिभिः ॥३॥ क्षीणायुषः क्षीणसत्वान्दुर्मेधावीप कालतः । वेदान्ब्रह्मर्षयो व्यस्यन्हृदिस्थाच्युतचोदिताः ॥ ४ ॥ अस्मिन्नप्यन्तरे ब्रह्मन् भगवाँल्लोकभावनः । ब्रह्मेशायरलोकपालांचितो धर्मगुप्तये ॥५॥ पराशरात्सत्यवत्यामंशांशकलया विभुः । अवतीर्णो महाभाग वेदं चक्रे चतुर्विधम् ॥ ६ ॥ ऋगर्वयजुःसाम्नां राशीनुद्धृत्य वर्गशः। चतस्रः संहिताश्चक्रे मन्त्रैमणिगणा इव ॥ ७ ॥ तासां स चतुरः शिष्यानुपाहूय महामतिः । एकैकां संहितां ब्रह्मकैकस्मै ददौ विभुः ॥ ८॥ पैलाय संहितामाद्यां बचाख्यामुवाच ह । वैशम्पायनसज्ञाय निगदाख्यं यजुर्गणम् ॥ ९॥ साम्नां जैमिनये प्राह तथा छन्दोगसंहिताम् । अथर्वाङ्गिरसी नाम स्वशिष्याय सुमन्तवे ॥१०॥ (१) 'विवक्षया' ० पा।
प्रथमः ऋग्वेदखण्डः। ३ पैकः स्वां संहितामूच इन्द्रममितये मुनिः। बाष्कलाय च सोऽध्याह शिष्येभ्यः संहिता स्वकाम् ॥११॥ चतुर्दा व्यस्य बोध्याय याज्ञवल्क्याय भार्गव । पराशरायानिमित्रे इन्द्रममितिरात्मवान् ॥ १२ ॥ अध्यापयत्संहिता स्वां माण्डूकेयमूर्षि कविम् । तस्य शिष्यो वेदपित्रः सौभयादिभ्य ऊचिवान् ॥ १३ ॥ शाकल्यस्तत्सुतः स्वां तु पश्चधा व्यस्य संहिताम् । वात्स्यमुद्गलशालीयगोखल्यशिशिरेष्वधात् ॥ १४॥ जातूकण्यश्च तच्छिष्यः सनिरुक्तां स्वसंहिताम् । बलाकपैजवैतालविरजेभ्यो ददौ मुनिः ॥ १५ ॥ बाष्कालिः प्रतिशाखाभ्यो वालखिल्याख्यसंहिताम् । चक्रे बालाय निर्भज्य कासाराश्चैव तां दधुः ॥ १६ ॥ बढचाः संहिता घेता एभिब्रह्मर्षिभिधृताः। श्रुत्वैतच्छन्दसां व्यासं सर्वपापैः प्रमुच्यते ॥ १७ ॥ अस्यार्थ:-व्यासापैलः संहितां पदक्रमं च त्रिविधरूपं पठि. स्वा इन्द्रप्रमितये ददौ । इन्द्रममितिश्चतुर्धा जटान्तं व्यासं कृत्वा बाकलादि अमिमित्रान्तषशिष्येभ्यः स्वसुताय माण्डूकेयाय च ददौ । माण्डुकेयस्य शिष्यो वेदमित्रस्तस्य पुत्रेभ्यः सौभर्यादि- भ्यस्तैः : स्वसुताय शाकल्याय ददौ । शाकल्यः संहितापदक्रमजटा- दण्डरूपं च पञ्चधा व्यासं कृत्वा वात्स्यमुद्गलशालीयगोखल्याशि- शिरेभ्यो ददौ । शाकल्यशिष्यो जातूकयः सानिरुक्तां संहितां बला- कपैजवैतालविरजेभ्यो ददौ । पूर्वोक्तबाष्कलपुत्रो बाष्कलिः पूर्वो- क्त सर्वशाखाभ्य उधृत्य बालखिल्याख्यसंहितां चक्रे । तां नाम्नी बालखिल्यसंहितां वालायनिप्रभृतयोऽधीतवन्तः । इति पदेषु संहि. तात्वमितिकरणवेष्टनं, उदात्ताऽनुदात्तस्वरितस्वराणां सिद्धिः, एतच्छन्दसां व्यासं विस्तारं श्रुत्वा सर्पपापैः प्रमुच्यत इत्यर्थः ।
४ सभाध्ये चरणव्यूहे- तथा च विष्णुपुराणे- ब्रह्मणा चोदितो व्यासो वेदान्यस्तु प्रचक्रमे । अथ शिष्यात्म जग्राह चतुरो वेदपारगान ॥ ऋग्वेदश्रावक पैल सञ्जग्राह महामतिः । वैशम्पायननामानं यजुर्वेदस्य चाग्रहीत् ॥ २॥ जैमिनि सामवेदस्य तथैराथर्ववेदवित । मुमन्तुस्तस्य शिष्योऽभूद्वेदव्यासस्य धीमतः ॥ ३ ॥ तथा च गृह्यसूत्रम्-"सुमन्तुजैमिनिवैशम्पायनपैलसूत्रभाष्य भारतमहाभारतधर्माचार्या"(आ० गृ००३ अ०४खं०)इति । 'जान- न्ति बाहवी' इत्यारभ्य 'माण्डूक्या'(आ०गृ०० ३१०४खं०) इत्यन्तं माण्डूकगणसमुदायः । 'गर्गी वाचक्नवी' इत्यारभ्य शाङ्खायनम् (आ. गृ० सू०३०४खं०)इत्यन्तेन शाङ्खायनगणः । एतेषां कौषीतकि- ब्राह्मणमारण्यक शाळायनसूत्रं चेति । 'ऐतरेयम्' इत्यारभ्य 'आ- श्वलायनम् (आ०० सू०३अ४खं०)इत्यन्ता आश्वलायनगणः । ए- षामैतरेयब्राह्मणमारण्यकमाश्वलायनसूत्रं चेत्यर्थः ॥१॥ तत्र यदुक्तं चातुर्वेद्य चत्वारो वेदा विज्ञाता भवन्ति॥२॥ अस्मिन् ग्रन्थे यदुक्तं चातुर्वेद्यं तेन चत्वारो वेदा विज्ञाता भवन्ति ॥२॥ तत्र ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदश्चेति ॥३॥ इति स्पष्टार्थः । “वेदा हि यज्ञार्थमभिपवृत्ता" (श्रीकगधज्यो- तिष ७ख०)। तथा च विष्णुपुराणम्- आधो वेदश्चतुष्पादः शतसाहस्रसम्मितः। ततो दशगुणः कृत्स्नो यज्ञोऽयं सर्वकापधुक् ॥ १॥ अत्रैव मत्सुतो व्यास अष्टाविंशतिमेऽत्तरे । वेदमेक चतुष्पादश्चतुर्धा व्यभजत्प्रभुः ॥ २ ॥ इति । अस्वार्थ:-आद्यो वेदो वेदविभागापूर्वकालीनो वेद- - प्रथमः ऋग्वेदखण्डः। श्चतुष्पाद:(१) ऋगादिचतुष्टयसमूहरूपः । शतसाहस्रसम्मितः॥ "दश दश तच्छतं दशशतानि, तत्सासहस्रं तत्सर्वम्" इति श्रुतेः । अनन्त- सङ्ख्याकः । “अनन्ता चै वेदा" इति श्रुतेः । ततो वेदात्मत्त कु. स्नोऽयं दशगुणा--दशविधः । “स एष यज्ञः पञ्चविधोऽग्निहोत्रं दर्शपौर्णमासौ चातुर्मास्यानि पशुः सोम"(ऐ० आर०२ खं०१५) इति श्रुतेः । तथा च-"पञ्च वा एते महायज्ञा" इत्युपक्रम्प "ब्रह्मयज्ञो देवयज्ञः पितृयज्ञो भूतयज्ञो मनुष्ययज्ञ"इति श्रुतेश्च । वैतानिका गाद्यांश्च दशयज्ञाः । अत्रान्तरे वैवस्वतमन्वन्तरे अष्टाविं- शतिमें द्वापरयुगे इति शेषः । मत्सुतो व्यासः कृष्णद्वैपायन चतुर्धा व्यभनन् । ऋग्वेदादिरूपेण चतुर्था विभक्तवान् । पाकयज्ञास्त्रिविधाः । अत्रगृह्यम्-“हुता अग्नौ हूयमाना अननौ प्रहुता ब्राह्मणभोजने ब्रह्माण हुताः" ( आ० गृ० सू० १ खं०) इति । अत्र वृत्तिकृत्--अग्नौ हुयमाना 'इविष्यस्य जुहुयात्' इत्येव- मादयो हुताः । अननौ क्रियमाणा 'अथ बलिहरणम्' इत्येव माद- यः प्रहुताः। ब्राह्मणभोजनं यत्रास्ति 'ब्राह्मणान्भोजयित्वा' इति ब्र. माणि हुताः इति । नित्याभ्यासो ब्रह्मयज्ञः पारायणं च । अत्र गृ. ह्यसूत्रम् , ब्रह्मयज्ञखण्डे-यहचोऽधीते पय आहुतिभिरेव तद्देवतास्त- यति यद्यजूंषि घृताहुतिभिर्यत्सामानि मध्याहुतिभिर्यदथर्वाङ्गिरसः सोमाहुतिभिर्यद्राह्मणानि कल्पान् गाथा नाराशंसीरितिहासपुराणा- नीत्यमृताहुतिभियदृचोऽधीते पयसः कुल्या अस्य पिन्वधा उप- क्षरन्ति"(आगृ००३अ०३खं०) इति ॥३॥ तत्र ऋग्वेदस्पाष्टौ स्थानानि भवन्ति ॥४॥ तत्र ऋग्वेदस्याष्टभेदा भवन्ति । शाकलाबाष्कलो २, ऐतरेय- ब्राह्मणारण्यको ४, शाह्वायनमाण्डूको ६, कौषीतकीयब्राह्मणारण्य. (१) 'ऋग्यजुः सामाथर्वाणश्चत्वारो वेदाः साना स शास्त्राच. स्वारः पादा भवन्ति' (नु०ताउ०१-२) सभाष्ये चरणव्यूहै- कावित्यष्टभेदाः ८ । अन्येऽष्टभेदा यथा- वेदा विकृतिशाखाश्च भेदस्तु त्रिविधस्तथा । पृथङ्नानाविधानेन व्यासेन कथितं पुरा ॥१॥ इति । अत्राष्टभेदेनाष्टस्थानेन वा विकृतिहा। विकृतिस्तु अग्रे वक्ष्या. मः । तस्माद्ब्रह्मयज्ञार्थे पारायणार्थे च ऋग्वेदस्याध्ययनं कर्तव्यम् ॥४॥ ततश्चतुष्पदेन वक्ष्यति- चर्चा, श्रावका चच्र्चका, श्रवणायपारः ॥५॥ चर्चा-अध्ययनम् । तत्र पाणिनीयसूत्रे-"चिन्ति पूजि कथि कुम्बि चर्चश्व" । एभ्योऽस्त्रियां भावादौ । चिति-स्मृत्याम् । पूजि-पूजायाम्। कथि-वाक्यप्रबन्धे । कुवि आच्छादने। चर्च-अध्य- यने । चुरादय इति । अष्टाध्यायीसूत्रे ताल्वोष्ठपुटव्यापारेण शब्दस्य श्रवणं क्रियते सा चर्चा । तदध्ययनस्य श्रावको गुरुः । तस्य च. चकः शिष्यः। श्रवणीयपारः । श्रवणीयो वेदः, तस्य पारः-समा प्तिः । इति चतुष्पदेन अध्ययनं सूचितम् । अग्रे चतुष्पदेन चत्वारि पारायणानि सूचयति । तत्पारायणं द्विविधं, प्रकृति विकृति रूपम् । का प्रकृति का विकृतिः । प्रकृतिः संहिता । सा द्विविधा । रूहा, योगा। रूढा यथा-(१)"अग्निमीडे पुरोहितम्" इति । योगा यथा- "अग्निमीडे । ईडे पुरोहितम्"(२) । इति प्रातिशाख्ये द्विती- यपटले भाष्यकारेण व्याख्यातम् ॥५॥ (१) शुक्लयजुर्माध्यन्दिनीयसंहितोदाहरणम्- हरि'ॐ समिधामिन्दुवस्वतघृतेोधयतातिथिम्॥ मास्मिन्हव्याजुहोतन ॥ १ ॥ इति । (२) क्रमोदाहरणम्-ॐ समिधामिम् । समिधेतिसम् । इधा। अमि. न्,वस्यत । दुवस्यतघृते । घृतब्बोधयत । बोधयतातिथिम् । अतिथिमि. त्यतिथिम् ॥ , -- -- - - - -- प्रथमः ऋग्वेदखण्डः। - ? अथ चतुष्पारायणं यथा-- क्रमपारः, क्रमपदः, क्रमजटः, कमदण्डश्चेति चतुष्पारायणम् ॥ ६॥ क्रमशब्द उभयसंहिता वाच्यः । स कथम् ? अनुलोमविलोमाभ्यां त्रिवारं हि पठेत्क्रमम् । विलोमेपदवत्सन्धिरनुलोमे यथाक्रमम् ॥ १ ॥ यथाक्रमं यथा संहिता इयर्थः । अन्यच्च-वर्णक्रमः, 'अक्षरस. माम्नाय एव' इत्यारण्यके । "कथमभिष्टुयादित्यक्षरशाः। चतुर- क्षरशाः । पच्छाः । अर्द्धशाः । ऋक्शाः इति" (ऐ० ब्रा०६पश्चि० ख०) ब्राह्मणम् । “भूयासि तु समाम्नानात् व्यञ्जनमात्रं तु तत्त. स्याभिधानस्य भवति" (निरु००६ अ०९ख०१३) इति नैरु. क्ताः । क्रमः संहिताचाची कयम् ? “पदप्रकृतिः संहिता" (निरु० पू०६ख०१७) इति नैरुक्तवचनात्सा क्रमरूपा इत्यर्थः । क्रमपदः । क्रमः संहिता तस्याः पदानि(१)। इति द्वे प्रकृतिपारायणे, द्वे विक- तिरूपे । विकृतिस्तु अष्टविधा भवन्ति । तच्च- जटा माला शिस्खा रेखा ध्वजो दण्डो रथो धनः। अष्टौ विकृतयः प्रोक्ताः क्रमपूर्वा महर्षिभिः ॥ १॥ इति । आसां मध्ये जटादण्डयोः प्राधान्यम् । तत्कथम् ? जटानुसारिणी शिखा । दण्डानुसारिणी माला, लेखा, वजो, रथश्च । घनस्तूभयानुसारित्वात् । अस्याः नियमवाक्यानि व्याडी. कृतजटापटले उदाहरणानि च । आस्मिन् । अस्मिन्हव्या । हव्याजुहोतन । जुहोतनेविजु- होतन ॥ १ ॥ इति । (१) पदोदाहरणम्- ॐ समितिसम् । इधा । अग्निम् । दुवस्यत । घृतैः । ब्बोधयत । अतिथिम् ॥ बा । मस्मिन् । हव्या । जुहोतन ॥ १ ॥ इति । - - - --- -- - - ----- सभाष्ये चरणव्यूहे- ८ N तत्र जटावाक्यम्- क्रमे यथोक्ते पदजातमेव द्विरभ्यसेदुत्तरमेव पूर्वम् । अभ्यस्य पूर्व च तयोत्तरे पदेऽवसानमेवं हि जटाभिधीयते ॥१॥ अस्यार्थ:-क्रमे यथोक्ते सति "क्रमो द्वाभ्याम्" इत्यादयुक्ते क्रमप्रकारे पदजातं, पदद्वयं वा, पदत्रयं वा द्विवारमभ्यसेत् । द्विवार पठेत् । अभ्यासप्रकार:-उत्तरमेव पूर्वम् । क्रमवत्पदद्वयं गृ. हीत्वा पूर्व नाम प्रथमं उत्तरपदमभ्यसेत् । तत उत्तरपूर्वपदयोः सन्धानद्वारा पूर्व द्विरभ्यस्योत्तरे पदेऽचसानम् । एवं प्रकारेणाध्ययन जटाभिधीयते, कथ्यते । हीति निश्चयार्थम् । उदाहरणेन दृश्यते 'अमिमीडऽईडनिमामिपीडे। ईडेपुरोहितपुरोहितमीडऽईडेपुरोहितम्' (१)इत्यादि ज्ञेयम् । अथ दण्डलक्षणम्- क्रममुक्त्वा विपर्यस्य पुनश्च क्रममुत्तरम् । अर्द्ध देवमुक्तोऽयं क्रमदण्डोऽभिधीयते ॥ २॥ (२)उदाहरणं यथा- 'अग्निमीडे । ईडेगिम् । अग्निमीडे। ईडेपु- रोहितम् । पुरोहितमीडेनिम्' इत्यादि ज्ञेयम् । - - - -- - - (१) जटोदाहरणम्-ॐ समिधामिममिहसमिधासमिधामिम् । समि- धेतिसम् । इयो । अग्मिन्दुवस्यतदुवस्यतामिमग्निन्दुवस्यत । दुवस्यतघृते. घृतैर्दुवस्यतदुवस्यतधृतैः। घृतैर्बोधयतबोधयतघृते तब्बोधयत । बोध- यतातिथिमतिथिम्बोधयतबोधयतातिथिम् । अतिथिमित्यतिथिम् ॥ मास्मिन्नस्मिन्नास्मिन् । अस्मिन्हव्याहव्यास्मिन्नस्मिन्हव्या। हव्या- जुहोतनजुहोतनहव्याहव्या होतन । जुहोतनेतिजुहोतन ॥ १ ॥ इति । (२) दण्डोदाहरणम्-- ॐ समिधामिम् । अमिहसमिधा । समिधामिम् । समितिसम् । - - - - -- प्रथमः ऋग्वेदखण्डः। ----- - --- अथ मालालक्षणम्- ब्रूयात्क्रमविपर्यासावर्द्धचस्यादितोऽन्ततः । अन्तं चादि नयेदेवं क्रममालेति गीयते ॥ ३ ॥ माला मालेव पुष्पाणां पदानां ग्रन्थिनी हि सा । आवर्तन्ते त्रयस्तस्यां क्रमव्युत्क्रपसक्रमाः(२) ॥ ४ ॥ इधा । अमिन्दुवस्यत । दुवस्यतामिहसमिधा । समिधाग्निम् । समिति- सम् । इधो । अमिन्दुवस्यत । दुवस्यतघृतैः । घृतैर्दुवस्यतामिस- मिधा । समिधामिम् । समितिसम् । इधौ । अग्निन्दुवस्यत । दुवस्यत- घृतैः । घृतैब्बोधयत । बोधयतधृतैर्दुवस्यताग्निहममिर्धा । समिधाग्निम् । समितिसम् । इधो । अग्मिन्द॑वस्यत । दुवस्यतघृतै) । घृतैौधयत । बोधयतातिथिम् । अतिथिम्बोधयतघृतैर्दुवस्यताग्निपमिर्धा । समिधाग्निम् । समिधेतिसम् । इधा । अमिन्द॑वस्यत । दुवस्यतघृतै । धृतब्बोधयत । बोधयतातिथिम् । अतिथिमित्यतिथिम् ।। मास्मिन् । अस्मिन्ना। आस्मिन् । अस्मिन्हव्या । हव्यास्मिन्ना । आस्मिन् । अस्मिन्हव्या । हव्या होतन । जुहोतनहव्यास्मिन्ना । आ. स्मिन् । अस्मिन्हव्या । हव्या होतन । जुहोतनेतिजुहोतन ॥१॥ इति । (१) मालोदाहरणम्- ॐ समिधाग्निम् । अग्निहसमिधा । समिधाग्निम् । समितिसम् । इधों । अमिन्दुवस्यत । दुवस्यताग्निम् । अग्मिन्दुवस्यत । दुवस्यतघृतैः । घृतैर्दुवस्यत । दुवस्यतघृतैः । घृतैधयत । बोधयतधृतैः । वृतब्बोध- यत । बोधयतातिथिम् । अतिथिम्बोधयत । बोधयतातिथिम् । अतिथि- मित्यतिथिम् ॥ आस्मिन् । अस्मिन्ना । आस्मिन् । अस्मिन्हव्या । हत्या- - - - --- - - - - - म च०२ सभाष्ये चरणव्यूहे- - - अथ शिखालक्षणम् -- पदोत्तरां जटामेव शिखामार्याः प्रचक्षते(१) ॥५॥ अथ रेखालक्षणम्- क्रमाद् द्वि त्रि चतुष्पञ्च पदक्रममुदाहरेत् । पृथक्पृथग्विपर्यस्य लेखामाहुः पुनः क्रमात(२) ॥ ६ ॥ अथ ध्वजलक्षणम्-- ब्रूयादादेः क्रमं सम्यगन्तादुच्चारयेद्यदि । स्मिन् । अस्मिन्हव्या । हव्या होतन । जुहोतनहव्या । हव्या होतन । जुहोतनेतिजुहोतन ॥ १॥ इति । (२) शिखोदाहरणम्- ॐसमिधाग्निभग्निहसमिधासमिधाग्निन्द॑वस्यत । समितिसम् । इ. धौ । अग्निन्दुवस्यतदुवस्यताग्निमग्निन्दुवस्यतघृत । दुवस्यततै तैर्दुव- स्यतदुवस्यतघृतब्बोधयत । घृतैबॅधयतबोधयतधृतैर्धतेब्बोधयतातिथिम् । बोधयतातिथिमतिथिम्बोधयतबोधयतातिथिम् । अतिथिमित्यतिथिम् ॥ आस्मिन्नस्मिन्नास्मिन्हव्या । अस्मिन्हव्याहव्यास्मिन्नस्मिन्हव्याजुहोतन । हव्याजुहोतनजुहोतनहव्याहव्या होतन । जुहोतनेतिजुहोतन ॥२॥ इति (२) रेखोदाहरणम् ॐमधुनक्तम् । नक्तम्भई । मधुनक्तम् । नक्तमुतोषस: । उप संऽउतनक्तम् । नक्तमुत । उतोषस: । उषसोमधुमत्पार्थिवरज: । र. जल्पार्थिवम्मधुमदुषस: । उषसोमधुमत् । मधुमत्पार्थिवम् । मधुमदिति. मधु । मत् । पार्थिवहरज: । रजऽइतिरजः॥ मधुद्यौरस्तुनरपिता । पितानोस्तुद्याम्मधु । मधुद्यौः। पौरस्तु । अस्तुन: । नलंपिता । पिततिपिता ॥ १ ॥ इति । - - - - D - -- - - - -- - - प्रथमः ऋग्वेदखण्डः। ११ - वर्गे च ऋचि वा यत्र पठनं स ध्वजः स्मृतः(१) ॥ ७ ॥ अथ रथलक्षणम्- पादशोऽर्च शो वाऽपि सहोक्सा दण्डवद्रथः(२) ॥ ८ ॥ (१) ध्वजोदाहरणम् - अविष्णोरकम्माणि । सखेति सखा । कर्माणिपश्यत। युज्यत्सखो । पश्यतयत: । इन्द्रस्ययुज्य: । यतोञतानि । पस्पशऽहतिपस्पशे । ब्रतानिपस्पशे । ब्रतानिपस्पशे। पस्पशऽइतिपस्पशे । यतोत्रतानि । इन्द्रस्ययुज्यं । पश्यतयत । य्युज्यल्सखा । कर्माणिपश्यत । स. खतिसखा । विष्णोलकम्माणि ॥१॥ इति । (२) रथोदाहरणम् । रथो द्विविधः । पादशः अर्द्धशश्च । प्रथमोऽयम्- ॐसमिधाग्निम् । समिधेतिसम् । इधा। अग्निहसमिधा घृतबोध. यत । बोधयतघृतैः । समिधाग्निम् । समितिसम् । इच। अग्निन्वं. स्यत । दुवस्यताग्निसमिधा । घृतब्बंधियत । बोधयतातिथिम् । अतिथि. म्बोधयतघृतै) । समिधाग्निम् । समिधेतिसम् । इधौ । अग्निन्दुवस्यत । दुवस्यततै । घृतैबौधयत। बोधयतातिथिम् । अतिथिमित्यतिथिम् ॥ इति। द्वितीयोऽयम्-ॐ स्वस्तिन: । नस्वस्ति । स्वस्तिन: । नस्व. स्ति । स्वस्तिन: । न इन्द्रः । इन्द्रनिलस्वस्ति । स्वस्तिन । नस्ता- य: । ताक्ष्योनल्स्वस्ति । स्वस्तिन: । न इन्द्र: । इन्द्रो वृद्धश्रवाएं। वृद्धश्रवाऽइन्द्रौनस्वस्ति । स्वस्तिन: । नस्तार्य: । ताक्ष्योऽअरिष्ट. नेमि । अरिष्टनेमिस्ताक्ष्योन स्वस्ति । स्वस्तिन: । न इन्द्र। इन्द्रो. वृद्धश्रवाएं । वृद्धश्रवारस्वस्ति । स्वस्तिव्वृद्धश्रवाऽहन्दीन स्वस्ति स्तिन: । नस्ताय । ताक्ष्योऽअरिष्टनेमिलं। अरिष्टनेमि स्वस्ति । -- -- - --- - - सभाष्ये चरणव्यूहे- - - - - - - स्वस्त्यरिष्टनेमिस्ताक्ष्योन स्वस्ति । स्वस्तिनः । न इन्द्र: । इन्द्रनि द्धश्रवार । वृद्धश्रवारस्वस्ति । वृद्धश्रवाऽइतिवृद्ध । श्रवाल । स्वस्तिन: । नस्वस्तित्वृद्धश्रवाऽइन्द्रोन स्वस्ति । स्वस्तिन: । नस्तार्य: । ता. योऽअरिष्टनेमिलं । अरिष्टनेमिल्स्वस्ति । अरिष्टनेमिरित्यरिष्ट । नेमिलं । स्वस्तिन। नल्स्वस्स्यरिष्टनेमिस्ताक्ष्योन स्वस्ति । स्वस्तिन- नऽइन्द।। इन्द्रोवृद्धश्रवाएं । वृद्धश्रवालस्वस्ति । वृद्धश्रवाऽइतिवृद्ध । श्रवाः । स्वस्तिन :। नट्यूषा । पूषान : स्वस्तिम्वृद्धश्रवाऽइन्द्रोनस्वस्ति । स्वस्ति- न । नस्तार्य । ताक्ष्योऽअरिष्टनेमि। अरिष्टनेमिस्वस्ति । अरिष्ट. नेमिरित्यरिष्ट । नेमि । स्वस्तिन: । नोबृहस्पति: । बृहस्पतिनस्व. स्त्यरिष्टनेमिस्ताक्ष्योनस्वस्ति । स्वस्तिन: । नऽइन्द्र: । इन्द्रौव्वृद्धध- वा । वृद्धश्रवारस्वस्ति । बृद्धश्रवाऽइतिवृद्ध । श्रवा । स्वस्तिनान- पूषा । पूषाविश्ववेदालं। विश्ववेदापूषान : स्वस्तिवृद्धश्रवाऽइन्द्रोन: स्वस्ति । स्वस्तिन: । नस्ताक्ष्य । ताक्ष्योऽअरिष्टनेमिः । अरिष्टने- मिस्वस्ति । अरिष्टनेमिरित्यरिष्ट । नेमिः । स्वस्तिन: । नोबृहस्प- ति': । बृहस्पतिर्दधातु । दधातुबृहस्पति स्वस्त्यरिष्टनेमिस्वाक्ष्योन: स्वस्ति । स्वस्तिन: । न इन्द्र: । इन्द्रोपद्धश्रवाहावृद्धश्रवाह वस्ति । वृद्धश्रवाऽइतिवृद्ध। श्रवाह । स्वस्तिन: । न पूषा । पूषाविश्ववेदाः । विश्ववेदाऽइतिविश्व । वेदाः ॥ स्वस्तिन: । नस्ताय । तार्योऽअरिष्टनेमिः । अरिष्टनेमिः स्वस्ति । अरिष्टनेमिरित्यरिष्टं । नेमिः । स्वस्तिन / नोबृहस्पति बृहस्पतिवातु । दधात्वितिदधातु ॥ १ ॥ इति । - - - HD - प्रथमः ऋग्वेदखण्डः। १३ - . अथ धनलक्षणम् - जटामुक्त्वा विपर्यस्य तत्पदानि पुनः पठेत् । अयं घन इति प्रोक्तः इत्यष्टौ विकृतीः पठेत् (१)॥ ९ ॥ अन्यच्च घनस्य द्वितीयलक्षणम्- अन्ताक्रमं पठेत्पूर्वमादिपर्यन्तमानयेत् । आदिक्रमं नयेदन्तं धनमाहुर्मनीषिणः ॥ १० ॥ इत्यष्टविकृतिलक्षणान्युक्तानि । अध्ययने संहितापारायणम् १, पदपारायणम् २, जटापारायणम् ३, क्रमदण्डपारायणश्च ४, एतत्पारायणचतुष्टयमित्यर्थः ॥ ६ ॥ एतेषां शाखाः पञ्च विधा भवन्ति ॥ ७ ॥ एतेषां वेदपारायणानां पञ्च शाखा भवन्तीत्यर्थः ॥ ७ ॥ ता: का? इत्यत आह- आश्वलायनी, शाङ्खायनी, शाकला, बाष्कला, मा. ण्डूकायनाश्चेति ॥ ८॥ (१) धनोदाहरणम्- ॐ समिधाग्निमग्निसमिधासमिधाग्निन्द॑वस्यतदुवस्यताग्निमि. चासमिधाग्निन्द्वस्यत। समितिसम् । इधा । अग्निन्दुवस्यतदुवस्य- ताग्निमग्निन्दुवस्यतघृतैघृतैर्दुवस्यताग्निमग्निन्द॑वस्यतघृतैः । दुवस्यत. धृतैघृतैर्दुवस्यतदुवस्यतघृतबोधयतबोधयतधृतैर्दुवस्यतदुवस्यतघृतैर्बोध- यत । घृतब्बोधयतबोधयतघृतघृतैब्धयतातिथिमतिथिम्बोधयतघृतेत. बोधयतातिथिम् । बोधयतिथिमतिथिम्बोधयतबोधयतातिथिम् । भति. थिमित्यतिथिम् ॥ आस्मिन्नस्मिन्नास्मिन्हव्याहव्यास्मिन्नास्मिन्हव्या । अस्मिन्हव्याहव्या. स्मिन्नस्मिन्हव्या होतनजुहोतनहव्यास्मिन्नस्मिन्हव्या होतन । हव्या हो- तनजुहोतनहव्याहव्या होतन । जुहोतनेतिजुहोतन ।।२।। इति । - - - - - - -- - - ४ .. सभाष्ये चरणब्यूहे- इति प्रसिद्धाः ॥८॥ तेषामध्ययनम् ॥ १ ॥ तेषां आश्वलायनीयादिशाखानां समानाध्ययनं सूचयति ॥९॥ अध्यायाश्च चतुःषष्टिमण्डलानि दशैवतु ॥१०॥ अध्यायाश्चतुःषष्टिः । 'अग्निमीडे' 'अयं देवाय' इत्यादि चतु:- पष्टिरध्याया इत्यर्थः । मण्डलानि दशैव तु । 'अग्निमीडे' 'कुषुम्भक' इत्याशुपाकर्मपसिद्धानीयर्थः ॥ १० ॥ वर्गाणां परिसङ्ख्यातं वे सहने षडत्तरे । सहस्रमेकं सूक्तानां निर्विशङ्क विकल्पितम् ।। दशसतलु पच्यन्ते सङ्ख्यातं वै पदक्रमम् । एकशतसहस्रं वा द्वित्रिपञ्चाशत्सहस्रार्द्धमेतानि चतुर्दशवासिष्ठानामितरेषां पश्चाशीतिः क्रमकाले तु वेष्टव्यं चतुस्त्रिंशत्सहस्राणि तु द्विखण्डानां सहस्राणां द्वात्रिंशत् षोडशोत्तरा। चत्वारिंशत्सहस्राणि द्वात्रिंश- तश्चाक्षरसहस्राणि । ऋचान्दशा सहस्राणि ऋचां पञ्च शतानि च । ऋचामशीतिपादश्चैतत्पारायणमुच्यते ॥ एकर्च एकवर्गश्च एकश्व नवकस्तथा । द्वौवर्गों तु वृचौ ज्ञेयो ऋक्त्रयश्च शतं स्मृतम् ।। चतुर्क चां पश्च सप्तमधिकं च शतं तथा । पञ्चर्चश्च द्विशाक्तं सहस्रं रुद्रसंयुतम् ॥ पञ्चचत्वार्यधिकं तु षडचां च शतत्रयम् । सप्तस्य शतं ज्ञेयं विंशतिश्चाधिका स्मृता ॥ अष्टऋचां तु पञ्चाशत्पश्चाधिकं तथैव च । दशाधिकद्विसहस्र पञ्चशाखासु निश्चिता ॥ वर्गाः संज्ञानसूक्तस्य चत्वारश्चात्र मीलिताः।
प्रथमः ऋग्वेदखण्डः । एवं पारायणे प्रोक्ता ऋचा सङ्ख्येन न्यूनतः॥११॥ वर्गादि आऋचान्ताः सङ्ख्या वालखिल्पविना ज्ञेया । षडुत्त- रसहस्रद्वयवर्गा इत्यर्थः। सहस्रमेकं सूतानां निर्विशङ्क विकल्पि- तम्। दशसप्तसु पठ्यन्ते सप्तदशाधिकसहस्त्रमूक्तानीत्यर्थः । सङ्ख्यातं वै पदक्रमं एक शतसहस्रं वा द्विपञ्चाशत्सहस्रार्धमेतानि चतुर्दश- पदानि वासिष्ठानामितरेषां पञ्चाशीतिः। एकलक्षद्विपञ्चाशत्सह- स्रपञ्चशत चतुर्दश१५२५१४वासिष्ठानाम् । वासिष्टगोत्रीयाणां 'इन्द्रोतिभिः'( अष्ट० ३३० ३ वर्ग२३ ) एकसप्ततिपदात्मको वर्गो नास्ति । इतरगोत्रीयाणां पञ्चाशीत्यधिक ८५ पदानीत्यर्थः । अथ वालखिल्यसहिता पदसङ्खयोच्यते- लकं तु त्रिपञ्चाशत्सहस्रं शतसप्तकम् । पदानि च द्विनवतिः प्रमाण शाकलस्य च ॥१॥ एकलक्षत्रिपश्चाशत्सहस्त्र सप्तशतद्विनवति १५३७९२श्चाधिकानि पदानीत्यर्थः। पदानि वालखिल्यस्य ह्यर्कसङ्ख्याशतानि च । अधिकानि तु सप्तव वर्गा अष्टादश स्मृताः ॥१॥ सप्ताधिकद्वादशशतानि१२०७पदानीत्यर्थः । इत्याश्वलायना- नाम् । शाङ्खायनानां तु बालखिल्यसहितपदसङ्खयोच्यते- शाकल्यदृष्टे पदलक्षमेकं सार्द्धन्तु वेदे त्रिसहस्रयुक्तम् । शतानि सप्तव तथाऽधिकानि चत्वारि त्रिंशञ्च पदानि चर्चा ॥१॥ शाफल्यो माण्डूकगणस्थः । संहिता पदानि-एकलक्षत्रिप. श्वाशत्सहस्रसप्तशतचतुस्त्रिंशदधिकानि १५३७३४ पदानीत्यर्थः । पदानि वालखिल्पस्य रुद्रसङ्ख्याशतानि च । षट्पञ्चाशदधिकानि वर्गाः सप्तदशास्तथा ॥ १ ॥ एकादशशतषट्पञ्चाशदधिकबालखिल्ये ११५६ पदानीत्यर्थः। अष्टपश्चाशत्पादात्मकऋत्रयस्य 'यमृत्विजो' ( अष्ट० ६ अ.४ - सभाष्ये चरणव्यूहे- वर्ग २९) वर्गो नास्ति । न तु हविष्पान्तीयमुक्ते द्वे समीची' ( अष्ट० ८ अ० ४ वर्ग १३ ) वर्गे त्रिऋचानन्तरमेक एवाग्निक । 'यमृत्विजो' ऋक् खिलरूपेण पठन्ति । 'ज्योतिष्मतम्' ( अष्ट० ६ अ० ४ वर्ग २९ ) ऋचाभावः । ऋक्त्रयस्य तेषामन्ते पदाभा- वत्वात् । अन्ते वर्गसमाप्तौ यावन्मात्रमृवं पठन्ति । एवं 'द्वे समीची' इति षऋचो वर्गः । आश्वलायनानां चतुर्कचात्मको वर्गः । इत्या. श्वलायनशाङ्घायनशाखयोभैदरध्ययन इत्यर्थः । यस्य मन्त्रस्य पदाभावस्तस्य खैलिकत्वं सिद्धम् । तर्हि 'यम्बकं यजामह' (अष्ट० ५ अ० ४ वर्ग ३०) इति मन्त्रस्य पदाभावात्तस्य खैलिकत्वं सिद्धम् । न हि उमागानात् उपलेखायाम् । 'यम्बकं ( अष्ट० ५ अ० ४ वर्ग ३० ), प्रथमम् ‘भद्रन:' (अष्ट० ७ अ० ७वर्ग २), 'प्रजापते' ( अष्ट० ८ अ ७ वर्ग ४), 'ऋनंच' ( अष्ट० ८ अ० ८ वर्ग ४० ) इति पदक्रममिममुमयाभिगीध्वम् । अर्द्धन्तेिपद- गीतम् । तस्मात्पदकाले क्रमकाळे च पठन्ति । "क्रमो द्वे पदश" इति वचनात् । अत्र द्वितीयपदं नास्ति अर्द्धान्तसमापनात् । क्रमा- भावः । तस्मात्पदकाले, क्रमकाले पठनं सएव पदक्रम इत्यर्थः । क्रमकाले तु वेष्टव्यं चतुस्त्रिंशत्सहस्राणि- षत्वे, णत्वे च दीर्घस्खे आकार सानुनासिके । त्रिचतुष्पश्चक्रमे अर्द्धचर्चान्ते च वेष्टयेत् ॥ १ ॥ क्रमेणोदाहरणानि ज्ञातव्यानि-'सुषुमायातम्' (अष्ट. २ अ० २ वर्ग १), 'मो पुण:' (अष्ट० १ अ० ३ वर्ग १६), 'वाजेषु सा सहिर्भव' (अष्ट० ३ अ० २ वर्ग २२), 'आँ उपानस' (अष्ट. ८ अ० ५ वर्ग २६), 'न्याविध्यदिलीविशस्य' ( अष्ट० १ अ० ३ वर्ग ३), 'अगादारैगुकृष्णा' ( अष्ट. १ अ.८ वर्ग १), 'निरु- स्वसारमस्कृतोषसम्' ( अष्ट० ८ अ० ७ वर्ग १४), 'अग्निमीडे' 'ऋस्विजमित्य॒त्विजम्' इति । चतुस्त्रिंशत्सहस्राणि ३४००० क्रमकाले - प्रथमः ऋग्वेदखण्डः। १७ . वेष्टनानीत्यथः। द्विखण्डानां सहस्राणां द्वात्रिंशत्षोडशोत्तरा। षोडशोत्तरद्वात्रिंशत्सहस्राणि ३२०१६ द्विखण्डानीत्यर्थः । च. स्वारिंशत्सहस्राणि द्वात्रिशतं चाक्षरसहस्राणि । चतुर्लक्षद्वात्रिंश- सहस्राक्षराणि ४३२००० इत्यर्थः । द्वात्रिंशतं चाक्षरसहस्राणीत्यर्थ. समाप्तः पुनर्वचनमुक्तम् । अथ पारायणे ऋक्परिमाणा उच्यन्ते- ऋचा दशसहस्राणि ऋचां पञ्चशतानि च । ऋचामशीतिपादश्चैतत्पारायणमुच्यते ॥१॥ एतत्पारायणं वालखिल्यैर्विना सङ्ख्यातम् । वालखिल्यानि पारायणे न सन्ति । तदुच्यते-ऋग्वेदान्तर्गत पालखिल्यमे कादश११सूक्तम् । सूक्तसहस्र:००० सप्तदशाधिक १७मित्यत्र ऋचां दशसहस्राणीत्येतत्सङ्ख्याव्यतिरिक्तानि पालखिल्यानीति प्रसिद्धिः । तत्र यज्ञानुष्ठाने ब्राह्मणे सूत्रे च श्रूयते -"वालखिल्या: शंसन्ति प्राणा वै वालखिल्या" (ऐ०ब्रा०६पजि० २८खं०)इति । "अभि प्र वः मुराधसम् (अष्ट०६ अ०४ वर्ग १४) इति षड् बाल- खिल्यानां मुक्तानि" (ऐ०आर०५ खं० १०) इति ब्राह्मणे आ. रण्यके । 'अथ बालखिल्या विहरेद तटुक्तं षोडशिना'इति सूत्रका. रः । श्रौतस्मासर्वकर्मानुष्ठाने वालखिल्यप्रसिद्धिः । वेदपारायणे वर्जमित्यर्थः। शौनकाचार्यवचनात् । थथा-भैषाध्याय, कुन्तपा. ध्याय, निविदाध्याय, सुपर्णाध्यायश्चेति । तद्वद्वालखिल्याध्याय इत्यर्थः। वालखिल्यसहितासानुक्रमणीयमन्त्ररूपीऋक्सङ्ख्यो- च्यते-द्विपञ्चाशदधिकपञ्चशतदशसहस्राणीति १०५५९ । बालखि- ल्यव्यतिरिक्तसङ्ख्या तु-द्विसप्तत्यधिकचतुशतदशसहस्रऋक १०४७२ । एतत्सङ्ख्या नित्या द्विपदा नैमित्तिकद्विपदा सहिता उक्ता। हवनाध्ययनाभ्यां समाना सा नित्या द्विपदा । आसां .
१८ सभाष्ये चरणव्यूहे- सङ्ख्या उपलेखायाम् । तच्च-'साधुः' (अष्ट०१ अ०५ वर्ग १४), 'असिक्न्या' (अष्ट०३ अ०५ वर्ग २३), 'सिषक्तु न' (अष्ट०४ अ०२ वर्ग १६), 'उरौ देवा' (अष्ट०४ अ०२ वर्ग ११), 'उरौदेवा' (अष्ट०४ अ०२ वर्ग १३), "विद्वेषांसी' (अष्ट०४ अ०५ वर्ग १२), 'अया वाज' (अष्ट ४ अ०६ वर्ग ३), 'महिराध!' (अष्ट०४ अ ७ वर्ग३४), 'आवां सुम्ने (अष्ट०५ अ.१ वर्ग४), 'ते ते देवाय' (अष्ट०५ अ०२ वर्ग२३), 'रायस्काम:' (अष्ट०५ अ०३ वर्ग१७), 'प्रति न स्तोम (अष्ट०५ अ० ३ वर्ग२७), 'स्वायु. धासः' (अष्ट०५ अ०४ वर्ग२४), 'पितुर्न पुत्रः' (अष्ट०६ अ०१ वर्ग३४), 'स नो बाजेषु' (अष्ट०६ अ०४ वर्ग३), 'गावो न यूयं' (अष्ट०६ अ०४ वर्ग६), 'पवस्व सोममन्दयन्' (अष्ट ७ अ०२ वर्ग १६) इति तिस्रः, परिसुवानो' (अष्ट०६ अ०८ वर्ग८), 'नृमिये मा न' (अष्ट०७ अ०५ वर्ग १५), 'प्रत्यञ्चमपनयच्छचीभिः' (अष्ट०८ अ०८ वर्ग १५) इति द्विपदैकपदा द्वाविंशतिः । तासां सप्तदशं १७ द्विपदा एकपदाः पञ्च ५ इति । हबनाध्ययने विप- रीता, सा नैमित्तिकद्विपदा | ता आह वर्गरूपेण-'पश्वानतायु (अष्ट०१ अ०५ वर्ग९) दश, 'रयिन' (अष्ट०१ अ०५ वर्ग१०) दश, 'वनेषु' (अष्ट०१ अ०५ वर्ग११) दश, 'श्रीणं' (अष्ट०१ अ०५ वर्ग१२) दश, 'शुक्रः शुशुक्काँ' (अष्ट०१ अ०५ वर्ग१३) दश, 'वनेम पूर्वीः' (अष्ट०१ अ०५ वर्ग१४) दश, 'अग्ने त्वन्न:'(अ. ४०४.अ.१ वर्ग१६) चत्वारि, 'अग्ने भव' (अ०५ अ०२ वर्ग २३) षट्, 'प्रशुक्रतु' ( अष्ट०५ अ०३ वर्ग २५) दश, 'राजा राष्ट्राणां' (अष्ट०५ अ०३ वर्ग२६) दश, 'क ई व्यक्ता' (अष्ट०५ अ०४ वर्ग२३) दश, 'बभ्रुरेको' (अष्ट०६ अ०२ वर्ग३६) दश, 'परिमधन्व' (अष्ट०७ अ०५ वर्ग२०) दश, 'तन्ते सोतारो'(अष्ट०७ अ०५ वर्ग२१) द्वादश, 'इमा नुकं' (अष्ट०८ अ०८ वर्ग१५) प्रथम: ऋग्वेदखण्ड। १९ यस्य चत्वारि, 'आयाहि वनसा' (अष्ट०८ अ०८ वर्ग ३०) चत्वारीति नैमित्तिकद्विपदा चत्वारिंशोत्तरशतम् १४० इति । हवने एकैका । अध्ययने द्वे द्वे । आसामन्त्या एका उर्वरिता सा नित्या द्विपदा । उक्तं च परिभाषायाम्-'विशिका द्विपदा विराजस्तदर्द्धमेकपदा द्विर्द्विपदास्तृचः समामनन्ति । आयुश्चन्त्या द्विपदैव' (परिभा० १२ख) इति । द्विद्विपदास्तृचः समामनन्ति । सूक्तस्य द्विपिदाः समामनन्ति तास्तुचः अध्ययने चतुष्पदाः कृत्वेत्यर्थः । आयुश्वान्त्या द्विपदैव । मुक्तस्यर्चा युजो या न भवति तास्त्वन्त्या नित्या द्विपदैव । एवमध्ययने द्वावर्द्धर्च ऋगेव प्राधान्यम् । त्रीण्यदायाः कथम् ? तत्रापि द्वावर्द्ध वेका ऋचा । अर्द्धचर्चा एका कर्तव्या। अध्ययनसम्प्रदायबलात् । 'अ- नादेशेऽष्टाक्षराः पादाश्चतुष्पदाश्चर्च' (परिभा० ख०) इति परि- भाषायाम् । अध्ययने त्रीण्यर्द्धचऋगेव सम्प्रदायो नास्ति । आसा परिमाणमाह-'अग्निं होतारम्' (अष्ट०२ अ०१ वर्ग१२) पञ्च, 'सहिशोन' (अष्ट०२ अ०१ वर्ग१३) षड्, 'अयं जायत'(अष्ट०२ अ०१ वर्ग१४) पञ्च, 'विश्वो विहायाः' (अष्ट०२ अ०१ वर्ग१५) तिस्रः, 'यं त्वं रथम्' ( अष्ट०२ अ०१ वर्ग१६) पश्च, 'प्रतद्वोचे यं' (अष्ट०१ अ०१ वर्ग१७) षद्, 'एन्द्रयायुप नः' (अष्ट०२ अ०१ वर्ग१८) पञ्च, 'इमा ते वाचं' (अष्ट०२ अ०१ वर्ग१९) चत्वारि, 'स नो नव्येभि' (अष्ट०२ अ.१ वर्ग१९) वर्जम् । 'इन्द्राय हि द्यौः' (अष्ट०२ अ०१ वर्ग२०) सप्त, 'स्वया वयं' (अष्ट०२ अ०१ वर्ग२१) षड्, 'अवर्म ह' (अष्ट०२ अ०१ वर्ग२२) एका, 'वनोति हि' (अष्ट०२ अ०१ वर्ग२२) एका, 'आत्वा जुवो' (अष्ट०२ अ.१ वर्ग२३) षट्, 'स्तीर्णम्' (अष्ट०२ अ०१ वर्ग२४) पञ्च, 'इमे वा सोमा' (अष्ट०२ अ०१ वर्ग२५) एका, 'इमे ये ते सुवायो वा' (अष्ट०२ अ०१ वर्ग२५) एका, 'प्रमुज्येष्ठम्' (अष्ट०२ अ०१ .
, सभाष्ये चरणव्यूहे- वर्ग २६) षट, 'ऊती देवानाम्' (अष्ट०२ अ०१ वर्ग ६६) वर्जम् । 'सुषुमायातम्' (अष्ट० अ०२ वर्ग१ ) त्रीणि, 'प्रप्रपूर ण' (अष्ट०२ अ०२ वर्ग) चतुष्कम् , 'अस्तु श्रीषद' (अष्ट०२ अ०२ वर्ग३) चत्वारि, 'शचीभिन:' (अष्ट०२ अ०२ वर्ग३) वर्जम् । 'वृषनिन्द्र' (अष्ट०२ अ०१ वर्ग४) पञ्च, 'ये देवासो' (अष्ट०२ अ०२ वर्ग४) वर्जस् । 'तवत्यन्नम्' (अष्ट०२ अ०६ धर्ग२८) एका, 'सखे सखायम्' (अष्ट०३ अ०४ वर्ग१२) एका, 'अयारुचा' (अष्ट०७ अ०५वर्ग२३) त्रीणि, एतास्त्रीणि त्री. ण्यदर्चा ऋचा हवनीयाश्चतुर्नवतिसङ्ख्या । इति त्रीण्यर्द्धर्च ऋग्य बने । अध्ययने अर्द्धचंद्वयेन ऋगेका । अर्द्धनै कैव ऋग्वये कर्तव्य इत्यर्थः । एकर्चस्य ऋद्वयं विराट्छन्दो विना कथं भवति ? इत्याशङ्कय तत्रोच्यते-विराट्छन्दः सर्वच्छन्दसि व्याप्तं वर्तते । उक्तं चारण्यके-"चत्वारः पुरुषा इति वाध्वः' शरीरपुरुषश्छन्दः पुरुषो वेदपुरुषो महापुरुष इति" (शा० आर० अ०८ खं०३)। "तस्योष्णिग्लोमानि त्वग्गायत्री त्रिष्टुप्मांसमनुष्टुप स्नावान्यस्थि जगती पतिर्मज्जा प्राणो बृहती" (ऐ० आर० २ खण्ड ६) इति । "यान्येतानि विराट्चतुर्थान्येवमु हेवैवं विदुष एतदहः सर्वै- श्छन्दोभिः प्रतिपन्नं भवति" (ऐ० आर० १ खण्ड १२) इति प्राप्तो भवतीत्यर्थः । “गायत्रीश्च पतीश्च व्यतिषजति गायत्रो वै पुरुषः पालाः पशव" इति ब्राह्मणम् । अत्रोदाहरणम्- "पवस्व सोम मन्दयन् (अष्ट०७ अ०२ वर्ग १६) तिस्रो नित्यद्विपदा गायव्यः" इति सर्वानुक्रमण्याम् । "द्विपादै पुरुषो वीर्य त्रिष्टुब्बिराइभ्यामनयोविंश्योर्द्विपदयोरयं पुरुषः । अत्रो. दाहरणानि-"आवां सुम्ने वरिमन्" (अष्ट०५ अ०१ वर्ग४), "प्रत्यञ्चमर्फमनयन" (अष्ट०८ १०८ वर्ग१५), "परिसुवानो गिरिष्ठा" (अष्ट०६ अ०८ वर्ग८) जगती पाद इति । एवं सर्व- प्रथमः ऋग्वेदखण्डः। व्याप्तो भवतीत्यर्थः । "छन्दासि जज्ञिर" इति श्रुतिः । तथा शतपथब्राह्मणे-"किन्छन्दः कादेवता प्रतिष्ठलेऽइति द्विपदा छन्दो, विष्णुर्देवता प्रतिष्ठे” इति । यथा विष्णुः सर्वव्या. सस्तथा विराट्छन्द इत्यर्थः । विराट् छन्दस्तु चतुष्पदा । त्रीण्य. ईर्चायां पञ्चपदा ऋक्कर्तव्येति । किं प्रमाणम् ? तत्रोच्यते - एकपाद्भूयो द्विपदो विचक्रमे द्विपात्रिपादमभ्येति पश्चाद । चतुष्पादेति द्विपदामभिस्वरे सम्पश्यन्पशीरुपतिष्ठमानः ।। ( अष्ट०८ अ०६ वर्ग २३)। एकपदा द्विपदा नित्या द्विपात्रिमादमभ्येति । एकीभूता भव. न्तीत्यर्थः । अस्योदाहरणम् “अग्निं होतारं मन्ये० दसम् । यs. ऊर्द्धया. कृपा" (अष्ट०३ अ०१ वर्ग१२)। अग्रे अर्द्धचर्चा-"घृत. स्य विभ्राष्टिमनुवष्टि० सर्पिषः” (अष्ट०२ अ०१ वर्ग१२) इति द्विपदा । चतुष्पदातु-"पश्चानतायुम्” (अष्ट०१ अ०५ वर्ग९)। एकाद! त्रिपदा, एकार्द्धर्चा द्विपदा, एका ऋक् पञ्चपदा अध्ययने । 'द्विपिदास्तृचः समामनन्ति' इत्यत्र समपादग्रह. णात् । असमानपादा विरुद्धा, तर्हि पत्रिच्छन्दो पश्चपदा भवति । तस्य द्वितीयभेदो विराट, तस्मात्पञ्चपादत्वं प्राप्तम् । समपादा वा असमपादो विराट्छन्द इत्यर्थः । अत्र श्रुतिः- "समौ चिद्धातो न समं विविष्टः सम्मातरा चिनासमं दुहाते" (अष्ट०८ अ०६ वर्ग२३) इत्यनया ऋचा परिहारः । दक्षिणवाम. हस्तौ सपो कर्तृत्वे असमावित्यर्थः। अथाध्ययने ऋक्सङ्खयोच्यते. षण्णवत्यधिकचतुःशतदशसहस्त्राणीति १०४१६ । ताः सहित- नैमित्तिकद्विपदाश्चत्वारिंशोत्तरशतसहितदशसहस्त्राणीति । १०५. ६६ । 'सज्ञानमुशनावदत्' सूक्तस्य पञ्चदशकीकृस १०५८० एवं पारायणे ऋक्सङ्ख्या। 'ऋचां दशसहस्राणि' इति वचनस्य सङ्ख्या पूर्णा भवतीत्यर्थः । एका उर्वरिता सा "भद्रन्नो अपि
.
-
सभाष्ये चरणव्यूहे-
वातयमनः" (अष्ट०७ अ०७ वर्ग२) इति पादाधिक्यमनुक्रमणि-
कावृत्तावप्युक्त। 'भद्रं पुच्छम् (ऐ० आर० ५ खं० ८) इत्या.
रण्यके।
अथ सज्ञानसूक्तम्--
सज्ञानमुशनाऽवदत्मज्ञानं वरुणोऽवदत् ।
सज्ञानमिन्द्रश्चाग्निश्च सज्ञानं सविता वदत् ॥ १ ॥
सज्ञानं नश्वेभ्यः सज्ञानमरणेभ्यः ।
सज्ञानमश्विना युवमिहास्मासु नियच्छताम् ॥ २ ॥
यकक्षीवांसं वननं पुत्रोऽअङ्गिरसाभवेत् ।
तेन नोऽध विश्वदेवाः सम्प्रियां समजीजनन् ॥ ३ ॥
संवो मनांसि जानतां समाकूतिर्मनामसि ।
असौ यो विमना मनः संसमावर्तयामसि ॥४॥
नैहस्त्यं सेनादरणं परिवत्र्मे तु यद्धविः ।
तेनाऽमित्राणां बाहून्हविषा शोषयामसि ॥ ५ ॥
परिवन्येिषामिन्द्रः पूषा च सनतुः ।
तेषां वोऽअग्निदग्ध नामाग्निमूढानीमन्द्रो हन्तु वरं वरम् ॥६॥
ऐषु नाषाजिनं हरिणस्य धियं यथा ।
पराँऽअमित्राँऽऐष त्वर्वाची गौरुपाजतु ॥ ७ ॥
प्राध्वराणां पते वसो होतर्वरेण्य क्रतो ।
तुभ्यं गायत्रमुच्यते ॥ ८॥
गोकामोऽअन्नकाम: प्रजाकामउत कश्यपः॥ ९ ॥
भूतं भविष्यत्तस्तौति सहब्रह्मैकमक्षरं बहु ब्रह्मैकमक्षरम् ॥१०॥
यदक्षरं भूतं कृतं विश्वेदेवाऽउपासते ।
महऽऋषिमस्यगोप्तारं जमदग्निरकुर्वतम् ॥ ११ ॥
जमदग्निराप्यायते छन्दोभिश्चतुरुत्तरैः ।
राजा सोमस्य भक्षेण ब्रह्मणा वीर्यावताम् ॥ १२ ॥
प्रथमः ऋग्वेदखण्डः। २३ शिवा नः प्रदिशो दिश: सत्या न: प्रदिशो दिशः। अजो यत्तेजो ददृशे शुक्रं ज्योतिः परो गुहा ॥ १३ ॥ यदृषिः कश्यपः स्तौति सत्यं ब्रह्म चराचरम् ध्रुवं ब्रह्मचरा- चरम् । व्यायुषं जमदग्नेः कश्यपस्य व्यायुषमगस्त्यस्य व्यायुषम् ॥१४॥ यदेवानां व्यायुषं तनोऽअस्तु न्यायुषं सर्वमस्तुशतायुषं बलायुषम् ॥ १५ ॥ (तच्छंयोराणी महे गातुं यज्ञाय गातुं यज्ञपतये । देवी स्वस्तिरस्तुनः स्वस्तिर्मानुषेभ्यः । ऊर्च जिगातु भेषजं शन्नो अस्तु द्विपदे शं चतुष्पदे ॥१॥ (अष्ट०८ अ०८ परिशिष्ट) इति सज्ञानमुक्तं पञ्चदशात्मकम् । अस्य ग्रहणे प्रमाण- माश्वलाय नसूत्रम् । तच्च-"समानीव" इत्येका, “तच्छंरयोराणी- मह" इत्येकेति । तथा च शङ्खायनत्य कौषीतकिसूत्रम्-"अथो. पाकरणमोषधीनां प्रादुर्भावे हस्तेन श्रवणेन वाऽक्षतसक्तूनां धानानां च दधिघृतमिश्राणां प्रत्यूचं वेदेन जुहुयादिति हैक आहुः सूक्तानु- वाकाद्याभिरिति वाऽध्यायायायाभिरिति माण्डूकेयोऽथ द स्माह कौषीतकिरग्निपीडे पुरोहितमित्येका कुषुम्भकस्तदनबीदावदस्त्वं शकुने भद्रमावद गृणाना जमदमिना धामन्ते विशं भुवनमधि. श्रितं गन्ता नो यज्ञं यज्ञियाः सुशमि यो न स्वोऽअरणः प्रति. चक्ष्वविचक्ष्वाग्रे याहि मरुत्सखा यत्ते राज घृतं हविरितिद्वचा त- छंय्योरावृणीमहइत्येका हुतशेषाद्धविः प्राश्नन्ति"(को०गृमू. ४ अ० ५खं०) इति । पञ्चशाखानां पारायणे 'तच्छम्योरावृणीमह' इत्यत्र समाप्तिरेकवेदत्वात् । उक्तञ्च- ऋचां समूह ऋग्वेदस्तमभ्यस्य प्रयत्नतः । पठितः शाकलेनादौ चतुर्भिस्तदनन्तरम् ।।
सभाष्ये चरणव्यूहे- साङ्ख्याश्वलायनौ चैव माण्डूका बाष्कलास्तथा । बढचा ऋषयः सर्वे पञ्चैते ह्येकवेदिनः ॥ इति । साङ्ख्थानाम शाङ्खायन इति । अथ पारायणे वर्गसङ्खयोच्यते-'एक एकवर्गश्च एकर्च न- वकस्तथा । एक एकवर्गों 'जातवेदसे' (अष्ट०१ अ०७ वर्ग) इयर्थः । नवचं एकवर्गः 'आपो हि ष्ठा (अष्ट०७ अ०५ वर्ग५) इति । द्वौवर्गों तु दृचौ ज्ञेयो, द्वौ वर्गों व्यूचावित्यर्थः । 'अग्ने त्व नोऽअन्तमः' (अष्ट०४ अ०१ वर्ग१६), 'आयाहि वनसा सह' (अष्ट०८ अ०८ वर्ग३०) इति । ऋक्रयस्थ शतं स्मृतम् । तृचो वर्गाः शतमित्यर्थः १०० । 'उतत्यं चमसं नवम्' (अष्ट०१ अ०२ वर्ग२) इत्यादि। चतुवां पञ्चसप्तत्यधिकं च शतं तथा । चतुर्थीचवर्गाः पञ्चसप्तत्यधिकशत १७५मित्यर्थः । दाशुषे त्वम्' (अष्ट १ अ०१ वर्ग२) इत्यादि । पञ्चच तु द्विशतकं सहस्रं रुद्रसंयुतम् । पञ्चर्चवर्गा एकादशाधिकद्वादशशतानीत्यर्थः १२११ । 'अ. ग्निमीडे' इत्यादि, पश्चचत्वार्यधिकं तु षड्ज्ञां तु शतत्रयम् । षड्ऋचवर्गाः पञ्चचत्वारिंशदधिकशतत्रय ३४५ इत्यर्थः । 'अश्विना यज्वरीरिष' (अष्ट०१०१वर्ग५) इत्यादि, सप्त ऋचा शतं ज्ञेयं विशतिश्चाधिकाः स्मृताः । सप्तर्चवर्गा विंशत्यधिकशत १२० इत्यर्थः ॥ 'यचिद्धि सत्यसोमपा' (अष्ट० १०२वर्ग२७) इत्यादि, अष्टऋचां तु पञ्चाशत्पश्चाधिकास्तथैव च । अष्टर्चवर्गाः पञ्चाधिकपञ्चशत ५०५ इत्यर्थः । 'इन्द्रं विश्वा- ऽअवीवृधन् (अष्ट०१ अ०१ वर्ग२१) इत्यादि। एवं दशा. 'यदङ्ग प्रथमः ऋग्वेदखण्डः। २५ धिक सहस्रदयवर्गा २०१० इत्यर्थः । पञ्चशाखामु निश्चिताः। पञ्चशाखानां पारायणे निश्चयेन इत्यर्थः । वर्गाः सज्ञानमुक्तस्य चत्वारश्चात्र मीलिताः । सज्ञानमुक्तस्य चत्वारोवर्गाश्चात्र मिलित्व दशाधिकसहस्त्र. द्वयमित्यर्थः । एवं पारायणे प्रोक्ता ऋचां सङ्खयेन न्यूनतः । एवं पूर्वोक्तमकारेण वर्गस्य ऋकन्यूनसङ्खयेन दशचस्प पञ्चऋक् त्रीण्यर्द्धर्चस्य ऋकर्तव्येत्यर्थः । एवं चतुर्विधपारायणेऽपि ज्ञेयम् । 'समानीव' (अष्ट०८ अ०८ वर्ग४५) इति शाकलानां, 'तच्छय्योरिति' वाष्कलानामित्यत्र बाष्कलशाखाध्ययनमनुक्र. मणिकावृत्तायुक्तम् । तच्च- गौतमादौशिजः कुत्सः पारुच्छेपाषेः परः । कुत्सादीर्घतमेत्येवं बाष्कलाध्ययने क्रमः ॥ अस्थार्थ:-गौतमादौशिजः कुत्सः । 'उपप्रयन्तो' (अष्ट०११० ५वर्ग२१), 'नासत्याभ्याम्' (अष्ट०१ अ०८ वर्ग८), 'अग्नि होता. रम्' (अष्ट०२ अ०१ वर्ग१२), 'इमं स्तोमम्' (अष्ट०२ अ०७ वर्ग६); 'वेदिषदे' (अष्ट-२ अ०२ वर्ग५) एष बाष्कलक्रम इत्यर्थः। अत्रैव- मुक्ते उत्तममण्डले नवके अनुक्रमविपर्यासः। तच्च- स्वादोरभक्षि' (अष्ट० अ० ४ वर्ग११) मूक्तान्ते 'अभिप्रवः सुराधसम्' (अष्ट०६. अ०४ वर्ग १४), 'प्र सुश्रुतम्' (अष्ट०६ अ०४ वर्ग १६) इति सूक्त. द्वयं पठित्वा, 'अग्नऽआयाह्यग्निभि:' (अष्ट०६ अ०४ वर्ग३२) इति पठेत् । ततः 'आप द्रव' (अष्ट०६ अ०६ वर्ग१) अध्याये 'गौर्धयति' (अष्ट०६ अ०६ वर्ग २८) अनुवाको दशसूक्तात्मकः शाकलस्य । पञ्चदशसूक्तात्मको बाष्कलस्य । तत्रोच्यते-'गौर्धयति' सूक्तान- न्तरं 'यथा मनौ सांवरणौ' (अष्ट०६ अ०४ वर्ग १८), 'यथा मनी विवस्वति' (अष्ट०६ अ०४ वर्ग२०), 'उपमन्त्वा' (अष्ट०६. अ०४ वर्ग२२), 'एततऽइन्द्र' (अष्ट०६ अ०४ वर्ग २४), "भूरिदिन्द्रस्य' च०४ सभाष्ये चरणव्यूहे- (अष्ट०६ अ०४ वर्ग२६) इत्यन्तानि पञ्चमुक्तानि पठित्वा, 'आस्वा. गिरो स्थीरिव' (अष्ट०६ अ०६ वर्ग३०) इति पठेयुः । अन्ते-'सं. समित्' (अष्ट०८ अ०८ वर्ग४२) मुक्तानन्तरं पञ्चदशऋचात्मकं 'सज्ञानमुशनावदत्' इत्यादि 'तय्योरावृणीमह' इत्यन्तं वेदस. माप्तिरिति बाष्कळशाखाध्ययनम् । एवमध्ययनाभावाच्छाखाऽभाव इत्यर्थः । सूक्तसहस्रसप्तदशाधिकात् अष्टौ सूक्तानि बाष्कलस्या- धिकानीत्यर्थः । 'प्रति ते' (अष्ट०६अ०४ वर्ग२७), 'युवं देवा' (अष्ट०६०४ वर्ग२८), 'यमृविजो' (अष्ट०६१०४ वर्ग२९), 'इमानिवाम्' (अष्ट०६१०४ वर्ग३०) इति चत्वारि बालखिल्य. सूक्तानां लोप इत्यर्थः। यस्तानृग्वेद.वाप्यधीते स नाकपृष्ठं भजते ह शाश्वत् । अस्याः यः तान् ऋगर्थवित् वेद विदितः हवने पारायणे च अधीते सः वेदिताऽध्येता च नाकपृष्ठं शश्वत्सदा भजते । छ प्रसिद्धौ । इतोऽमुं लोकमेत्युत तस्मान्न प्रच्यवते हीत्यर्थः । अथ पारायणफलं तदुक्तमारण्यके-"यद्धि सन्धि विवयति तं निर्भुजस्य रूपमथ यच्छुद्धे अक्षरे अभिव्याहरति तत्मतृण्णस्य रूपमग्रऽउडएवोभयमन्तरेणोभयव्याप्तं भवत्यनायकामो निर्भुज यात्स्वर्गकामः प्रवृण्णमुभयकाम उभयमन्तरेणेति" । अस्यार्थ:-द्वयोः पदयोरक्षरयोऽपि सन्धिस्तस्य अविच्छे. दाध्ययनं तनिर्भुज संहितापारायणमुच्यते । शुद्ध द्वे पदे अक्षरे वा सन्धिमकुर्वतोच्चारणं वत्मतृष्णं तत्पदपारायणम् । संहितापदाभ्या- मुभाभ्यां व्याप्तमुभयमन्तरेण क्रमपारायणमित्यर्थः। तथा च सति, त्रिभिः कृत्वा स्वरास्वरं विजानाति मात्रामात्रां विभजन्ते सा संहि- तेति । एवमेतां संहितां यो वेद सन्धीयते प्रजया पशुभियंशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेतीति । तस्मात्क्रमाते द्वे पदे संहिता द्वै पदस्वरश्च न सिध्यति । दै पदसिद्ध उत्तरारम्भः कर्तुं प्रथमः ऋग्वेदखण्डः। न शक्यते । अतश्च पादार्द्धचऋक्, सूक्तसिध्यर्थं भगवता पाश्चा- लेन स्थापितानां पारायणक कर्मणां क्रमपारायणमुत्तमं भवतीति च । अत्र श्लोकः-पागाथेन पुरा दानं दृष्ट्वा क्रुद्धो महामुनिः । अर्थवन्तं क्रमं ब्रूयादेवतायाश्च शास्त्रतः ॥ अतो ऋग्यजुषां बृंहणं पदैः स्वरैश्वाध्ययन तथा त्रिभिः । अतोऽपि अस्मादपि हेतोः क्रमः अर्थवान्भवति। क्रमेण कृ. स्वा ऋग्वेदपारायणे ऋचा बृंहणं साधारणं भवति । इदमित्यमेव पाठ इति स्वरमात्रादिरूपेण निश्चयो भवति । तथा यजुर्वेदपारा. यणे यजुषां बृंहणं नाम साधारणं स्वरमात्रादिरूपेण इदमित्थमेव पाठ इति निश्चयो भवति, इसतिदेशः । इत्यलं प्रपञ्चेन । अथ पारायणविधिः । अत्रादौ कलशस्थापनायुक्तं महार्णवे- तीर्थे देवालये गेहे प्रशस्ते सुपरिष्कृते । कलशं सुदृढं तत्र सुनिर्णिक्तं मुभूषितम् ॥१॥ पुष्पपल्लवमालाभिश्चन्दनैः कुङ्कुमादिभिः । मृत्तिकायव सम्मिश्रं वेदमध्ये न्यसेत्ततः ॥२॥ पञ्चाशद्भिः कुशैः कार्यों ब्रह्मा पश्चान्मुखस्थितः । नापितः स्थापितः कुम्भे चतुर्बाहुश्चतुर्मुखः ॥ ३ ॥ वत्सजान्वाकृतिं वेदमुत्तराः कुशैः कृतम् । ब्रह्मोपधाने दत्वा तं ततः स्वस्त्ययनं पठेत् ॥ ४॥ प्रतिष्ठां कारयेत्पश्चात्पूजाद्रव्यमयोच्यते । यज्ञोपवीतं नैवेद्यं वस्त्रचन्दनकुङ्कुमैः ॥ ५ ॥ स्रग्धूपदीपताम्बूलै(१)रेतैश्चापि पितामहम् । ब्रह्मयज्ञानमिति वा गायध्या वा प्रपूजयेत् ॥ ६ ॥ उपाध्यायं च सम्पूज्य यथापाठं पठेततः ॥ ततो होमादि वक्ष्यमाणं कृत्वापठेदित्यर्थः। तत्रैव बौधायन:- 'स्थण्डिळ कल्पयित्वाग्निमुपसमाधाय तं परिस्तीर्याज्येन- (१) 'रक्षतैश्च पितामहम्' १० पा० ।
सभाष्ये चरणव्यूहे- ताभ्यो देवताभ्यो जुहोत्यग्नये सोमाय विश्वेभ्योदेवेभ्यो ब्रह्मणे ऋषिभ्यो ऋग्भ्यो यजुर्व्यः सामभ्यः श्रद्धायै मेधायै प्रज्ञायै धारणायै श्रियै हिय सावित्र्य सवित्रे प्रजापतये काण्डऽऋषयेऽ. नये काण्डऋषये विश्वभ्योदेवेभ्यः काण्डऽऋषिभ्यः संहिताभ्यो देवताभ्यऽउपनिषद्भ्यो याज्ञिकीभ्यो देवताभ्य उपनिषद्भ्यो वारुणी- देवताभ्य उपनिषग्यो हव्यवाहाय विश्वेभ्योदेवेभ्यो वरुणेभ्यो. ऽनुमसै स्विष्टकृते च पृथक् स्वाहाकारेण हुत्वा व्याहृतिभिश्च हुत्वा पुनः परिषिञ्चति समाप्ते चैता यजुषा तर्पयति' । अन्ते एता अग्निसोमाद्या' यजुषा पदेन सह तर्पयेत् । यता- "भूर्देवांस्तर्पयामि" इत्यादि यजुपा तर्पयित्वाऽन्यादीस्तर्पयेदित्यर्थः । महार्णवे- (२) एवमृग्वेदस्य काण्डऽऋष्यादिवर्जमास्विष्टकृतस्तेषां स्थाने शतचिभ्यो माध्यमेभ्यो गृत्समदाय विश्वामित्राय वामदेवायाऽत्रये भरद्वाजाय जमदग्नये गौतमाय वसिष्ठाय प्रागाथेभ्यः पावमानीभ्यः क्षुद्रसूक्तेभ्यो महानाम्नीभ्य इति' । 'ततो वेदादिमारभ्य सन्ततम- धीयीत' इत्याह भगवान्बोधायनः । पुनर्महार्णवे- 'अथातः पारायणविधि व्याख्यास्याम आसमान श्नीयाद्यथा. शक्ति वाऽऽपः पयः फलान्योदनं वा हविष्यमात्रमन्नमल्पं भुल्का तदा ऽशेषमधीयीत, ग्रामात्याच्यामुदीच्यां वा दिश्युपनिष्क्रम्याग्निमुपस- माधाय परिस्तीर्यध्मं प्रज्वाल्याज्येनैताभ्यो देवताभ्यो जुहोत्यमये सोमायेन्द्राय प्रजापतये बृहस्पतये विश्वेभ्योदेवेभ्यो ब्रह्मणे ऋषिभ्य Sऋग्यजुर्व्यः सामभ्यः श्रद्धायै मेधार्य प्रज्ञायै धारणाय सदसस्प- तयेऽनुमतये श्रियै हिये सावित्र्य सवित्रे प्रजापतये काण्डऽऋषये सोमाय काण्डऽऋषयेऽनये काण्डऋषये विश्वेभ्योदेवेभ्यः काण्ड . ऽऋषिभ्यः साहितीभ्यो देवताभ्य उपनिषद्भ्यो याशिकीभ्यो देव- (१) स च ऋग्वेदस्य'३०पा।
प्रथमः ऋग्वेदखण्डः। ૨૬ ताभ्य ऽउपनिषद्भ्यो वारुणीभ्यो देवताभ्य उपनिषद्भ्यो हव्यवाहाय विश्वेभ्यो वरुणेभ्योऽनुमत्यै स्विष्टकृते च पृथक् स्वाहाकारेण हु- स्वा व्याहृतिभिश्च पुनः परिषिञ्चति समाप्ते चैता यजुषा तर्पयतीति । अन्ते एता अग्निसोमाद्या' यजुषा पदेन सह तर्पयेत् । यद्वा-'भूदेवांस्तर्पयामिइयादियजुषा तर्पयित्वाऽन्यादीस्त- येदित्यर्थः । महार्णव:- 'एवमृग्वेदिनां काण्ड ऽऋष्यादिवर्जमास्विष्टकृतस्तेषां स्थाने 'शतर्चिभ्य' इत्यादि 'महानाम्नीभ्य' इत्यन्तं प्राग्वत् । 'ततो वेदा- दिमारभ्य सन्ततमधीयीत नास्यान्तराऽनध्यायो नास्यान्तरा जन. नमरणे अशुचिः' । आशौचं नेत्यर्थः । 'नान्तरा ब्याहरेन विरमे. द्यावन्तमधीयीत' । यावत्पर्यन्तं पठेतावत्पर्यन्तं न विरमन्नान्यञ्च वदेदित्यर्थः । 'यदन्तरा विरमेत् त्रीन्प्राणानायम्य प्रणवं वा प्रवि. धाय यावत्कालमधीयीत । ततः सर्वनिशान्तरं सङ्ग्रामारण्यसलिलं लोप्य परिदध्यात्' । निशान्तरं सन्ध्यानिशादीलोप्य विहाय समापयेदित्यर्थः । 'आदावन्ते च ब्राह्मणभोजनं दक्षिणां च दद्यात्' इति महार्णवोक्तं विधानम् ॥ 'य एतेन विधिना वेदमधीयीत सन्ततः पृतो वेदो भवति मनः शुद्धिश्च भवति' वेदरूपो भवतीत्यर्थः। 'द्वाभ्यां पारायणाभ्यां ऋग्भिश्चाऽभोजन इहाधीतेऽनृतेभ्यः प्रमुच्यते । त्रिभिर्बहुभ्यः पत- नायपातकेभ्यः, शूद्रायां रेत: सिवा गङ्गाऽसु वनिमज्यश्च भवति । चतुभ्यः शूद्रानभोजनात्स्त्रीसेवनाच, पञ्चभिरयाज्ययाजनादग्राह्य- ग्रहणात्, पद्भिाह्मणस्य लोहितकरणास्त्रीलोहित करणात्पशुहन. नात्सुवर्णस्तेयात्पतितसंयोगाच्च, सप्तभिः प्राजापत्यस्य हीनचरणा घज्ञोपबन्धनाचाष्टभिश्चान्द्रायणस्यान्तराऽऽचरणाद्गुरुतल्पगमनाद्र जस्वलागमनाच्च, नवभिः सुरापानादशभिपूर्वजन्मेहजन्मकृतः सर्वैः पापैः प्रमुच्यते स्वर्गल्लोकं गच्छति इति । अनिष्टोमादिक- अथ कमलाकर:- D सभाष्ये धरणव्यूहे- तुभिरिष्टं भवति, पितृन्त्स्वर्गलोकं गमयति । वेदाध्यायी सदैव स्यादपामा सत्यवाक् शुचिः । यं यं कामं कामयते तं तं वेदेन साधयेत् ॥ असाध्यं नास्ति यत्किञ्चिद्ब्रह्मणो हि फलं महत्' । ऋविधाने- आदावेव तु सावित्र्या कर्म कुर्वीत शान्तये । पुष्टये पशुलाभाय धनलाभाय भूतये ॥ एषा हि संहिता देवैः सर्वब्रह्ममयी निवृत् । उग्रेण तपसा दृष्टा विश्वामित्रेण धीमता ।। होमांश्च जपयज्ञांश्च नित्यं कुर्वीत वै तथा । सर्वकामप्रसिध्यर्थं परं ब्रह्मेदमुच्यते । एषा वै प्रतिलोमोक्ता शत्रुपक्षविनाशिनी । अक्षरपतिलोमेयमभिचारेषु शस्यते ॥ सर्वसंहितया प्रत्यूचं होम आज्येन तिलेन वा । "आज्यं द्रव्यमनादेशे जुहोतिषु विधीयते" इति ब्राह्मोक्तेः । सर्वपापहरो होमस्तिकैः सर्वत्र शस्यते । इति विष्णुधर्मोचराच । शातातपः- कृच्छो देव्ययुतं चैव वेदपारायणं तथा । तिलहोमसहस्रं च सममेतच्चतुष्टयम् ॥ इदं केवलम् । अन्त्ये चान्द्रमसम् । इति कमलाकरभट्टकृतो वेदपारायणविधिः समाप्तः॥ ११ ॥ व्याख्या चरणव्यूहस्य आधखण्डस्य तेन वै । यथामति विरचिता महादेवप्रसादतः ॥ इति चरणव्यूहे प्रथमखण्डव्याख्यासमाप्ता । इति प्रथमः ऋग्वेदखण्डः समाप्तः ।
द्वितीयः यजुर्वेदखण्डः।
३२
प्राच्यकठा:
अथ यजुर्वेदखएडः।
यजुर्वेदस्य षडशीतिर्भेदा भवन्ति । तत्र चरका
नाम द्वादश भेदा भवन्ति, चरका आह्वरका: कठा:
कपिष्ठलकठाचारायणीया वारायणीया
वार्तान्तवेया श्वेताश्वतरा औपमन्यवः पाताण्डनीया
मैत्रायणीपाश्चेति । तत्र मैत्रायणीया नाम षड्भेदा भव.
न्ति, मानवा वाराहा दुन्दुभाश्छागलेया हारिद्रया
श्यामायनीयाश्चेति । तेषामध्ययनं ।
दे सहस्रे शते न्यूने मन्त्रे वाजसनेयके ।
ऋग्गणः परिसङ्ख्यातं ततोऽन्यानि यजूंषिच ।
अष्टौ शतानि सहस्राणि चाष्टाविंशतिरन्यान्यधि-
कश्च पादमेतत्प्रमाणं यजुषां हि केवलं सवालखिल्पं
सशुक्रियं ब्राह्मणं च चतुर्गुणं । तत्र तैत्तिरीयका नाम
द्विभेदा भवन्त्यौखेयाः खाण्डिकेयाश्चेति । तत्र खाण्डि-
केया नाम पश्चभेदा भवन्ति, कालेता शाट्यायनी हैरण्य.
केशी भारद्वाज्यापस्तम्बीचति । तेषामध्ययनमष्टादशय.
जुःसहस्राण्यधीत्पशाखापारो भवति, तान्येव द्विगुणा-
न्यधीत्यपदपारो भवति, तान्येव त्रिगुणान्यधीत्य क्रम.
पारो भवति, षडङ्गान्यधीत्य षडङ्गविद्भवति ।
त्रिगुणं पठ्यते यत्र मन्त्रब्राह्मणयोः सह ।
यजुर्वेदः स विज्ञेयः शेषाः शाखान्तराः स्मृताः ॥
शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिष
मिति षडङ्गानि ।
छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽध पठ्यते ।
ज्योतिषामयनं चक्षुनिरुक्तं श्रोत्रमुच्यते ॥
सभाष्ये चरणव्यूहे- . शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् । तस्मात्साङ्गमधीत्यैव ब्रह्मलोके महीयते ॥ तथा प्रतिपदमनुपदं छन्दो भाषाधर्मों मीमांसा. न्यायस्तर्क इत्युपाङ्गानि । तत्र परिशिष्टानि भवन्ति, यू. पलक्षणं छागलक्षणं प्रतिज्ञाऽनुवाकसङ्ख्याचरणव्यूह श्राद्धकल्पशुल्यकानि पार्षदमृग्यजूंषीष्टकापूरणं प्रवरा- ध्यायोक्थशास्त्रक्रतुसङ्ख्या निगमा यज्ञपाच हौत्रकं प्रसवोत्थानं कूर्मलक्षणमित्यष्टादश परिशिष्टानि भव न्ति । तत्र कठानां योगा येन विशेषस्तत्र प्राच्योदी- च्यनत्यवाजसनेया नाम पञ्चदश भेदा भवन्ति, जा- वाला बौद्धायनाः काण्वा माध्यन्दिनेयाशाफेयास्ताप नीयाः कपोलाः पौण्डरवत्सा आवटिकाः परमावटिका: पाराशरा वैणेया वैधेया वैणेया वैधेया अद्धा बौधेयाश्चेति । तेषामध्य- यनं सौक्तिकं प्रवचनीयाश्चेति । मन्त्रब्राह्मणकल्पानामङ्गानां यजुषामृचाम् । षण्णां यः प्रविभागज्ञः सोऽध्वर्युः कृत्लमुच्यते॥१॥ अथ द्वितीयखण्डं व्याख्यायते-- यजुर्वेदस्य षडशीतिभैदा भवन्ति । अत्र शाखाभेदो ग्राह्यः । षट् अशीतिर्मंदा इत्यर्थः । तत्र चरकानां द्वादश भेदा भवन्तीति स्पष्टार्थः । ते के भेदाः १ चरकाः, आहरकाः, कठाः, प्राच्य- कठाः, कपिष्ठलकठाः, आरायणीया, वारायणीया, वार्तान्त. वेया, श्वेताश्वतरा, औपमन्यवः, पाताण्डनीया, मैत्रायणीयाश्चेति । मैत्रायणीयानां षट् भेदा भवन्ति । मानवा, दुन्दुभा, वाराहका, (१) छागळेया, हारिद्रवेया, श्यामायनीयाश्चेति । इति षट् मैत्रा. यणीयशाखागणा इत्ययः । मैत्रायणीयानां केचित्सप्त भेदा भव- (१) एकेया' इ० पा०।
द्वितीयः यजुर्वेदखण्डः ।। न्ति इति वदन्ति 'श्यामा' इत्यधिकं तदधिकमेव । मैत्रायणीयस्तु वाजसनेयवेदाध्यायी । मानवं कल्पसूत्रम् । तेषामध्ययनमष्टोत्तर शतं यजुः सहस्राण्यधीत्य शाखापारो भवति । तेषामध्ययने द्विच. त्वारिंशदध्यायाः। अष्टशताधिकसहसमन्त्रा इत्यर्थः। तान्येव द्विगुणान्यधीत्य पदपारो भवति, द्विवारपठनात्पदपारायणफलं भवतीत्यर्थः । तान्येव त्रिगुणान्यधीत्य क्रमपारो भवति, त्रिवारप- ठनात्क्रमपारायणफलं भवतीत्यर्थः । पदक्रमाध्ययनं भवतीत्यर्थः । 'षडङ्गान्यधीत्य षडङ्गविद्भवति' तानि कानि षडङ्गानि ? उच्यन्ते- शिक्षादीनि षडङ्गानि भवन्ति । षडुपाङ्गान्यपि प्रतिपदादितको न्तानि भवन्ति । तस्मिन्यजुर्वेदे यूपलक्षणादि-कूर्मलक्षणान्तान्यष्टा- दश परिशिष्टसूत्राणि भवन्ति । एतेषां व्याख्यानान्यग्रे बक्ष्यामः । तत्र प्राच्योदीच्यां नैऋत्यां नित्यस्तत्र वाजसनेयानां पञ्चदश. भेदा भवन्ति । प्राच्य उदीच्य नैर्ऋत्येषु तिमृषु दिक्षु वाजसनेय. वेदोत्पत्तिरग्रे वक्ष्यामः । इतरदेशेषु वेदशाखयोविभाग उच्यते । तच्च महार्णवे- पृथिव्या मध्यरेखा च नर्मदा परिकीर्तिता । दक्षिणोत्तरयोर्भागे शाखा वेदाश्च उच्यते ॥ १॥ नर्मदादक्षिणे भागे आपस्तम्ब्याश्वलायनी । राणायनी पिप्पला च यज्ञकन्याविभागिनः ॥ २॥ माध्यन्दिनी शाङ्घायनी कौथुमी शौनकी तथा । नर्मदोत्तरभागे च यज्ञकन्याविभागिनः ॥ ३ ॥ तुङ्गा कृष्णा तथा गोदा सह्यादिशिखरावधि । आ आन्ध्रदेशपर्यन्तं बढचश्चाश्वलायनी ॥ ४ ॥ उत्तरे गुर्जरे देशे वेदो बच ईरितः । कौषीतकीब्राह्मणं च शाखा शाङ्घायनी स्थिता ॥५॥ आन्ध्रादि दक्षिणामयी गोदा सागरआवधि ।
सभाष्ये चरणव्यूहे- - यजुर्वेदस्तु तैत्तिर्य आपस्तम्बी प्रतिष्ठिता ॥ ६ ॥ सह्याद्रिपर्वतारम्भादिशां नैऋत्यसागरात् । हिरण्यकेशी शाखा च पशुरामस्य सन्निधौ ॥ ७ ॥ मयूरपर्वताच्चैव यावद्गुर्जरदेशतः । व्याप्ता वायव्यदेशात्तु मैत्रायणी प्रतिष्ठिता ॥ ८ ॥ अङ्गवङ्गकलिङ्गश्च कानीनो गुर्जरस्तथा । वाजसनेयी शाखाच माध्यन्दिनी प्रतिष्ठिता ॥ ९ ॥ ऋषिणा याज्ञवल्क्येन सर्वदेशेषु विस्तृता। वाजसनेयवेदस्य प्रथमा काण्व सज्ञका ॥ १० ॥ इति । व्यासशिष्यो वैशम्पायनो निगदाख्यं यजुर्वेदं पठित्वा शि- ज्याञ्चकार । तच्च भागवते- वैशम्पायनशिष्या वै चरकाध्वर्यवोऽभवन् । यच्चेरुर्ब्रह्महत्यांहः क्षपणं स्वगुरोव्रतम् ॥ १॥ याज्ञवल्क्यश्च तच्छिष्य आहांहो भगवन्कियत् । चरितेनाल्पसाराणां चरिष्येऽहं सुदुश्चरम् ॥ २ ॥ इत्युक्तो गुरुरप्याह कुपितो याह्यलं त्वया । विप्रावमन्त्रा शिष्येण मदधीतं त्यजाश्विति ॥३॥ देवरातसुतः सोऽपि च्छर्दित्वा यजुषां गणम् । ततो गतोऽथ मुनयो ददृशुस्तान्यजुर्गणान् ॥ ४ ॥ यजूंषि तित्तिरा भूत्वा तल्लोलुपतयाऽऽददुः । तैत्तिरीया इति यजुःशाखा आसन्मुपेशलाः ॥ ५॥ याज्ञवल्क्यस्ततो ब्रह्मन् छन्दांस्यधिगवेषयन् । गुरोरविद्यमानानि सूपतस्थेऽर्कमीश्वरम् ॥ ६ ॥ याज्ञवल्क्य उवाच-'ओं नमो भगवते आदित्याय' इत्यार- भ्य(१) यातयामयजुः काम उपसरामि' इत्यन्तं तुष्टाव । सूत उवाच- (१) जीर्णभुक्ते, उच्छिष्टे, वान्ते यातयामशब्द इति निघण्टुः ।
द्वितीयः यजुर्वेदखण्डः। एवं स्तुतः स भगवान्बाजिरूपधरो हरिः। यजूंष्ययातयामानि मुनयेऽदात्प्रसादितः ॥ ७ ॥ यजुभिरकरोच्छाखा दश पञ्चशतैविभुः । जगृहुर्वाजसन्यस्ता कारमाध्यन्दि नादयः ॥ ८॥ इत्यादि ग्रन्थपोलोचनया यजुर्वेदत्यागानन्तरं देवरातसुतेन अब्राह्मणत्वभिया सविता सूर्यो वाजि रूपेण बाजेभ्यः केसरेभ्यः बाजेन वेगेन वा सन्यस्तारत्यक्ताः शाखा वाजसनेयी सज्ञा। शाखारण्डत्वपरिहारार्थ चातुर्वेधस्वसङ्घचासंरक्षणार्थं च वाजिरूपे- ण सूर्येणायातयामानि यजूंषि मुनये वृत्तानि तैर्यजुर्मिरूपरतैः स मुनिस्ताः वाजसन्यः पञ्चदशशाखा अकरोत् । तस्माच्च मुनेः सकाशात्काण्या माध्यन्दिनादय अध्ययनं चक्रुः । ते पञ्चदश भवन्ति । अथ प्रसङ्गाद्यजुर्वेदस्य शाखाप्रणयनविचार: किश्चि. दुच्यते । तत्र यजुर्वेद एव प्रथमः । तथा च विष्णुपुराणे- एक एव यजुर्वेदस्तं चतुर्दा व्यकल्पयत् । इति । यजुर्वेदो यज्ञोपयोगित्वरूपयोगात्सोऽपि वेदो यजुर्वेद इत्यु- च्यते । यजुर्वेदस्य शाखाभेदं सविस्तरमाह- यजुर्वेदतरोः शाखाः सप्तविंशन्महामुने । वैशम्पायननामासौ व्यासशिष्यवकार वै ॥ १ ॥ शिष्येभ्यः प्रददौ ताश्च जगृहुस्तेऽप्यनुक्रमात् । याज्ञवल्क्यस्तु तस्याभूब्रह्मरातसुतो द्विज ॥ २ ॥ शिष्यः परमधर्मज्ञो गुरुवृत्तिरतः सदा । ऋषिर्योऽध महामेरोः समाजे नागमिष्यति ॥३॥ सप्तरात्रातु ब्रह्महत्या भविष्यति । पूर्वमेवं मुनिगणैः समयो या कृतो द्विज ॥ ४ ॥ वैशम्पायन एकस्तु तं व्यतिक्रान्तवास्तदा । - तस्य वै ३६ सभाष्ये चरणव्यूहे- - वस्त्रीय बालकं सोऽथ पदधृष्टमघातयत् ॥ ५ ॥ शिष्यानाह स भोः शिष्या ब्रह्महत्यापहं व्रतम् । चरध्वं मत्कृते सर्वे न विचार्यमिदं तथा ॥ ६ ॥ अथाह याज्ञवल्क्यस्तु किमेतैर्बहुभिर्द्विजैः । क्लेशितैरल्पतेजोभिश्चरिष्येऽहमिदं व्रतम् ॥ ७ ॥ ततः कुद्धो गुरुः प्राह याज्ञवल्क्यं महामुनिम् । मुच्यतां यत्त्वयाधीतं मत्तो विप्रावमानक ।। ८ ॥ निस्तेजसो वदस्येनान्यत्वं ब्राह्मणपुङ्गवान् । तेन शिष्येण नार्थोऽस्ति ममाज्ञाभङ्गकारिणा ॥ ९ ॥ याज्ञवल्क्यस्ततः प्राह भत्त्यैतत्ते भयोदितम् । ममाप्यलं स्वयाऽधीतं यन्मया तदिदं द्विज ॥ १० ॥ श्रीपराशर उचाच- इत्युक्तो रुधिराक्तानि सरूपाणि यजूंषि सः । छईयित्वा ददौ तस्मै ययौ च स्वेच्छया मुनिः ॥ ११ ॥ यज्रष्यथ विसृष्टानि याज्ञवल्क्येन वै द्विज । जगृहुस्तित्तिरा भूत्वा तैत्तिर्यास्तु ततः स्मृताः ॥ १२ ॥ ब्रह्महयावतं चीणं गुरुणा चोदितैस्तु तैः । (१)चक्रुराध्वर्यवं ते तु चरणान्मुनिसत्सम ॥ १३ ॥ याज्ञवल्क्योऽपि मैत्रेय प्राणायामपरायणः । तुष्टाव प्रयतः सूर्य यज्रष्यभिलषस्ततः ॥ १४ ॥ अस्थाय:- यजुर्वेदतरोः' इत्यादिना सप्तर्विशतिः। इयं च प्रधानशाखानां सङ्ख्या । ब्रह्माण्डपुराणोक्तषडशीतिशाखाभेदस्तु प्रतिशाखाविवक्षया ताश्च शुक्लयजुः पञ्चदशकं सहेत्येकशाखा आप. स्तम्बोक्ता इति द्रष्टव्यम् । याज्ञवल्क्येन छर्दितैर्यजुभिस्तैत्तिरीय. शाखा बभूव । ते याज्ञवल्क्यव्यतिरिक्ता वैशम्पायनशिष्या याज्ञव. (१) 'चरकाध्वर्यवा', 'वरकाध्वर्यवः' इ. पा० च ।
द्वितीयः यजुवेंदखण्डः। - ल्क्येन छर्दितं विषरूपेण ग्रहीतुमनुचितमिति तित्तिरपक्षिणो भूत्वा याज्ञवल्क्यविमृष्टानि यजृषि जगृहुः । ततस्ताः शाखास्तैत्तिरीया बभूवुरित्यर्थः । याज्ञवल्क्यव्यतिरिक्तानां चरकाध्वर्युसज्ञां निर्वक्ति- चरकाध्वर्यबत्ते वै चरणान्मुनिसत्तम । 'वरकाध्वर्य' इति पाठे वरणाद्यजुषां ग्रहणात् । आध्वर्यवं चक्रुरित्यर्थः । यजृषि वैशम्पायनेनाधीतानि । याज्ञवल्क्यस्ततो ब्रह्मन्छन्दांस्यधिगवेषयन् । गुरोरविद्यमानानि सूपतस्थेऽकमीश्वरम् ॥ इति भागवतोक्तः। याज्ञवल्क्य उवाच- नमः सवित्रे द्वाराय मुक्तेरमिततेजसे । ऋग्यजुःसामरूपाय त्रयीधामात्मने नमः ॥ १५ ॥ इत्यादि 'पराशर उवाच' इत्यन्तां स्तुतिं कृत्वा- इत्येवमादिभिस्तेन स्तूयमानः स वै रविः । वाजीरूपधरः प्राह त्रियतामभिवाञ्छितम् ॥ १६ ॥ याज्ञवल्क्यस्तदा प्राह प्रणिपत्य दिवाकरम् । यजूंषि तानि मे देहि यानि सन्ति न मे गुरौ ॥ १७ ॥ पराशर उवाच- एवमुक्तो ददौ तस्मै यजूंषि भगवान् रविः । अयातयामसज्ञानि यानि वेत्ति न तद्गुरुः ॥ १८ ॥ यजृषि यरधीतानि तानि विर्द्विजोत्तम । वाजिनस्ते समाख्याताः सूर्याऽश्वः सोऽभवद्यतः ॥ १९ ॥ शाखाभेदास्तु तेषां वै दश पञ्च च वाजिनाम् । काण्वाधास्तु महाभागा याज्ञवल्क्यप्रवर्तिताः ॥२०॥ इति । तद्गुरूवैशम्पायनो यानि न वत्ति तेषां व्यासेनानुपदिष्टत्वा- दिति भावः। वाजिनः समाख्याता वाजिरूपसूर्यप्रोक्तसंहिता- ध्यायित्वात् ।
३८ सभाष्ये चरण व्यूहे- अग्निपुराणेऽपि- काण्यामाध्यन्दिनीसज्ञा कठी माध्यकठीतथा । मैत्रायणीयसज्ञा च तैत्तिरीयाभिधानका ॥ १॥ वैशम्पायनिकेत्याद्याः शाखा याजुसज्ञिता । इति । आदिशब्देन एतदन्यशाखाग्रहणम् । तदुक्तं नृसिंहपराशरे- प्रथमो याज्ञवल्क्यश्च आपस्तम्वो द्वितीयकः । तृतीयो मूलघटकश्चतुर्थों वाणसः स्मृतः ॥१॥ पञ्चम: सहवासश्च षष्ठः स्याद्गोत्रपण्डितः । रामानुजः सप्तमोक्त अष्टमश्च गयावलः ॥ २ ॥ त्रिदण्डो नवमः प्रोक्तो नवशाखा: प्रकीर्तिताः । तन्मध्ये सहवासस्तु कर्मनिष्ठो द्विजाग्रणीः ।। ३ ॥ एवं शाखादेशभेदावहवस्तु द्विजातयः । तत्रापि कर्मनिष्ठाश्च ग्राह्या यज्ञादिकर्मसु ॥ ४ ॥ हीन। द्विजातयः सर्वे त्याज्याः सर्वत्र कर्मसु । हीना द्विजातयः-अभीरादयः । परदेशे त्रिदण्डवेषधारिण: सन्यासिनः स्वग्रामे परिग्रहयुक्तास्ते त्रिदण्डिनः । गोत्रपण्डितो. वैश्ययाजकः । मूलघटको-नागवल्लीरोपकः । निगूला इति प्रसिद्धाः। अन्ये वाणसादि प्रसिद्धाः । केचिद्धर्मशास्त्रानभिज्ञा वानप्रस्थाज्जाता 'वाणसा' इति वदन्ति । तद्वाक्यमारूढपतित- परम् । तदुक्तं कूर्मपुराणे वानप्रस्थाश्रमधमें- यस्तु पन्या वनं गत्वा मैथुनं कामतश्चरेत् । ततं तस्य लुप्येत पायाश्चत्तीयते द्विजः । तत्र यो जायते गर्भो न संस्पृश्यो द्विजातिभिः । न हि वेदेऽधिकारोऽस्य तद्वशेऽप्येवमेव हि ॥ आरूढपतितः प्रोक्तो मुनिभिस्तत्वदार्शभिः । इति । वाजसनीयवेदोत्पत्चिरित्यर्थः । जाबाला, बौधायनाः, .
द्वितीयः यजुर्वेदखण्डः। काण्वाः, माध्यन्दिनेयाः, शाफेयाः, तापनीयाः, कपोलाः, पौण्ड- रवत्साः, आवटिकाः, परमावटिकाः, पाराशराः, वैणेयाः, वैधेया, अद्धाः, बौधेयाः इति पञ्चदशशाखा इत्यर्थः । 'प्रतिपदमनुपदम्' प्रतिपदे अनुपदं अल्पपदं कर्तव्यमित्यर्थः । 'छन्दः' छन्दोरत्नाक- रादि । 'भाषा' शब्द परिभाषा । 'धर्म:' धर्मशास्त्रं मिताक्षरादि । 'मीमांसा' प्रसिद्धा। (जौमिनिमहर्षिकृतमध्यायद्वादशकम्।) 'न्यायस्त. कोन्यायशब्देन काणादसूत्रम् । तर्कशब्देन गौतमसूत्रम् । इति षडुपाङ्गानि । उपज्योतिष-ज्योतिःशास्रम् । साङ्गलक्षणं सामुद्रि कादि । यूपलक्षणं, छागलक्षणं च यज्ञे प्रसिद्धम्। प्रतिज्ञासूत्रं खण्ड त्रयात्मकम् । अनुवाकाध्यायः। वेदशाखापरिज्ञानार्थ चरणव्यू. हसूत्रम् । श्राद्धसूत्रं नवखण्डात्मकम् । श्रौतयज्ञार्थमण्डपर- चनात्मकं शुल्बसूत्रम् । पार्षदपरिशिष्टसूत्रम् । ऋग्यजुनिर्णयात्मक ऋग्यजुःपरिशिष्टसूत्रम् । इष्टकापूरणपरिशिष्टसूत्रम् । गोत्रप्रवर- निर्णयार्थः प्रवराध्यायः । उक्थयशास्त्रपरिशिष्टम् । क्रतुसङ्ख्या । निगम, यज्ञपार्थ, हौत्रक, प्रसवोत्थान, कूर्मलक्षणपरिशिष्टपञ्चकं यज्ञेषु प्रयोजनं प्रसिद्धम् । एतानि परिशिष्टान्यष्टादशसङ्ख्यकानि कात्यायनमहर्षिप्रणीतानि । द्वे सहस्त्रे शते न्यूने मन्त्रे वाजसनेयके । ऋग्गणः परिसङ्ख्यातमेतत्सर्वं सशुक्रियम् ॥ वाजसनेयके वेदे नवशताधिकसहस्रमन्त्रा इत्यर्थः । एतत्स. कलं सशुक्रियमन्त्रं 'ऋचं व्वाचम्' इति षट्त्रिंशदध्यायोक्तचतु विशचात्मकसहितं, मध्यान्हे शुक्लवर्णेन सूर्येण दत्तः सशुक्रयज्ञः परिसङ्ख्यात इत्यर्थः। वेदोपक्रमणे चतुर्दशीयुक्तपौर्णिमाग्रहणा- च्छुक्लयजुः । प्रतिपदायुक्तपौर्णिमाग्रहणात्कृष्णयजुरिति वा । ऋ. क्सङ्ख्या पञ्चविंशत्युत्तरैकोनविंशतिः १९२५ । खिलमन्त्राः 'अमिश्च' इति षड्विंशत्यध्यायोकाः। यजुः सङ्ख्या अष्टाविंश- - १ सभाष्ये चरणव्यूहे- त्युचराष्टशतान्यष्टौ सहस्राणि । 'ब्राह्मणं च चतुर्गुणम्' वेदचतुर्गुणं शतपथब्राह्मणमित्यर्थः । यजुर्वेदतरोरासन शाखा एकोत्तरं शतम् । तत्रापि च शिवाः शाखाः दश पञ्च च वाजिनाम् ॥ तत्राषि मुख्या विज्ञेया शाखा या कण्वसञ्जका | इति ग्रन्थान्तरे । तैत्तिरीयकानां द्विभेदा भवन्ति, औखेया, खाण्डिके. याश्चेति । खाण्डिकेयानां पञ्चभेदा भवन्ति । कालेता, शाट्या. यनी, हिरण्यकेशी, भारद्वाजी, आपस्तम्बीति । तेषामध्ययनप. रिमाणम् - काण्डास्तु सप्त विज्ञेयाः प्रश्नाश्चाधिक्यकाश्चतुः । चत्वारिंशत्तु विज्ञेया अनुवाकाः शतानि षट् ॥ १ ॥ एकपञ्चाशदधिकाः सङ्ख्याः पञ्चाशदुच्यते । द्विसहस्रश्चैकशतमष्टानवति चाधिका ॥ २ ॥ लौकं तु द्विनवति सहस्राणि प्रकीर्तितम् । पदानि नवतिश्चैव तथैवाक्षरमुच्यते ।। ३ ।। लक्षद्वयं त्रिपञ्चाशत्सहस्राणि शताष्टकम् । अष्टषष्ट्याधिकं चैव यजुर्वेदप्रमाणकम् ॥ ४ ॥ काण्डाः ७ । प्रश्नाः ४४ । अनुवाका: ६५१ । पन्नाशी. २१९८ । पदानि १९२०९० । अक्षराणि २५३८६८ । शाखावाक्यान्ययुतानि सहस्राणि नवानि च । चतुः शतान्यशीतिश्च अष्टौ वाक्यानि गण्यते ॥ १॥ इति ब्राह्मणे अष्टौ वाक्यसङ्ख्या १९४८० । इति तैत्तिरी- यनिगदवेदाख्यसङ्ख्योक्ता इत्यर्थः । तत्र कठानां तूपगायतुचतु. श्चत्वारिंशदुपग्रन्थाः। मन्त्रब्राह्मणयोर्वेदस्त्रिगुणं यत्र पठ्यते । यजुर्वेदः सविज्ञेय अन्ये शाखान्तराः स्मृताः ।।
द्वितीयः यजुर्वेदखण्डः । चतुश्चत्वारिंशदुपग्रन्थाः। अध्यायाः समीपे उक्ताश्चत्वारिंशत् । मन्त्रश्च ब्राह्मणं च मन्त्रब्राह्मणे तयोर्मन्त्रब्राह्मणयोःतयोश्च वेद इति सञ्ज्ञा । तदुक्तं-'मन्त्रब्राह्मणयोर्वेद इनि नामधेयम्' इन्यूक्शाखीयप्रा. तिशाख्यभाष्यकारेणोब्बटेन आपस्तम्बसामान्यसूत्रभाष्यकारेण क- पर्दिना धूर्तस्वामिना छ । तथा च सति मन्त्रो नाम संहितामन्त्रस्ताह. अन्त्ररूपसंहितायास्तन्मध्ये एव तदग्रेब्राह्मणत्वेन पठनमित्युभयथा. ऽपि संहितात्वेन पदत्वेन क्रमत्वेन च पठनं त्रिगुणं पठनमिति स मन्त्र- ब्राह्मणयोर्वेदस्त्रिगुणं यत्र पठ्यते' इत्यर्थः । एतादृशपठनं शाखाया अध्ययनं स यजुर्वेदस्तच्च तैत्तिरीयशाखायामेवास्ति । तथा हि सम्पश्यामि-"प्रजाऽअहमिह प्रजासो मानवी:" इति संहिताम- न्त्रः । एतस्यैव ब्राह्मणं संहितायामेव तदने एव सम्पश्यामि-"प्र. जाऽअहमित्याह यावन्त एवेति" ब्राह्मणमित्युभयोरपि संहितावेन पदत्वेन क्रमत्वेन पठनं त्रिगुणितं पठनं भवति । एतादृशमुदाहर. णान्तरमाह-"इमामगृभणन्त्रशनामृतस्य पूर्वऽआयुषिविदथेषु"इति संहितामन्त्रः । एतस्यैव ब्राह्मणं संहितायामेव तदने एव संहिता- रूपेण वर्तते । तत्कथम् ? इत्यपेक्षायामाह-"इमामगृभ्णन्द्रशनाम: तस्येत्यश्वाभिधानीमादत्त" इति ब्राह्मणम् । अनयोरपि त्रिगुणत्वेन पठनम् । "उदात्तश्चानुदात्तश्च स्वरितश्च वरात्रय" इति त्रिगुणत्वेन पठनं भवति । एते त्रिगुणाः कस्यापि शाखायां न भवन्ति किन्तु गाथा सङ्ग्रन्थत्वात् । एवमन्यान्यपि बहूनि वाक्यानि सन्ति तानि विस्तरभयानोक्तानि । अतः कारणात् “अन्ये शाखान्तराः स्मृताः। तेषामध्ययनं प्रवचनीयाश्चेति' एतेषां शुक्लकृष्णयजुषां पठनं पबचनीयाः प्रतिवचनत्वेन आर्षीय पाठत्वेन च समाप्तमित्यर्थः। अन्यान्यपि पुरागवाक्यानि सङ्ग्रहीतानि- अग्निमीडनमस्तुभ्यमिषे वोर्जे लसत्तनुः । अमआयाहिवीतये शन्नो देवी स्वरूपवान ॥ १ ॥ च०६ १२ समाये चरणव्युहे- इषे स्वोर्जे यजुर्वेदशब्दः पुरुष एव च । लपक्ष पूर्णिमासूर्य उदयव्यापिनी तथा ॥ २॥ सगृहमाणश्च यो वेदं प्रतिवर्षे बत्तं चरेत् । यातयामनिवृत्यर्थ छन्दस्व र विशेषतः ॥ ३ ॥ तस्वोष्णिक्छन्दलोपेषु गायत्री च स्वचा स्मृता । मासेषु त्रिष्टुभं विद्यादनुष्टुत्रुधिरः मुतः ॥ ४ ॥ अस्थीषु जगती चैव मज्जासु पतिरेव च । प्राणेषु बृहती छन्दो यजुर्वेदस्य लक्षणम् ॥ ५ ॥ एतदर्थे ऐतरेयश्रुति:--"शुक्ललकाकनीनिकेति स यदि हवा ऽअपि मुषा बदति य एबमेतं छन्दमा छन्दस्त्वं वेद" इत्यन्तम् । पुण्याहवाचने मन्त्रान् प्रोक्षणे कङ्कणस्य च । सभायां ब्रह्मयज्ञे च इथे स्वोर्जे यजुः पठेत् ॥ १ ॥ शाङ्ख्यायनं ब्रह्मयज्ञे इषे वोर्जे यजुः स्मरेत् । श्रौते स्मात्तै च पूर्ते च सर्वकर्मसु योजितः ॥ २॥ ऋग्यजुः सामाथाश्च सभायां कुण्डमण्डपे । ब्रह्मयज्ञे प्रतिसरे पठद्वै स्वस्तिवाचने ॥ ३ ॥ अन्यत्र समुदायश्च प्रायश्चिचे सभासु ते । एजुर्वेदोपनिषदे मन्त्राः शाकल सज्ञकाः ॥ ४ ॥ उपदिष्टाः शौनकेन आत्मशिष्याय शाकले । तेषां शाकलमन्त्राणां यजुःसज्ञा समीरिता ॥५॥ यस्य वेदे शाकलमन्त्राः तस्य यजुःसञ्ज्ञा इत्यर्थः ॥२॥ व्याख्या चरणव्यूहस्य यजुःखण्डस्य तेन वै ॥ विस्तारिता यथा बुद्धि महादेवप्रसादतः ॥ इति चरणव्यूहे द्वितीय खण्डव्याख्या समाप्ता । इति द्वितीयः यजुवेंदखण्डः समाप्तः ।
हत्तीयः सामरखड श्रय सामवेदएडः है सामवेदस्य किल जहशा जालीदमध्यावधी. यानास्ते शत्तऋतुबजेगानिहा नष्टाः । धान प्रव. क्ष्यामि-असुररायणी या दाउरायणीमा शान्तिरेया प्राजलकर नविधा प्राचीनयोग्याः राणाचनीयाचति । राणाधनीया नाम नत्र भेदा भनि-जायनीयाः शाट्यायनीया सामानाला खल्ला लहाखल्ला लाङ्गलाः कौथुमा गौतमा जैमिनीयाचेति। तेषामध्य- यनमशातिशतमाग्नेयं पावमानं चतुः शतमैन्द्र तु पर्षि शतिर्यानि गायन्ति सामगास्तान्यधीत्य चण्डात्प्रचण्डतरी अति मिष्टान्यधीत्य शिष्टाss. विंशतिको भवति । तत्र केचित्पुनतन्त्रं सामतन्न सञ्जाधातुलक्षणमितिविधीयन्ते । अष्टौ सामसहस्राणि सामानि च चतुर्दश । अष्टौ शतानि नवतिदशतिलिखिल्धकम् । सरहस्यं ससुपर्ण प्रेक्ष्यस्तन वालखिल्याः । सारण्यकानि सौर्याणि ह्यतत्सामगणं स्मृतम् ॥१॥ अथ तृतीयखण्डो व्याख्यायते सामवेदस्येति । किलेति प्रसिद्धौ सहस्रभेदा आसीत् । सहरू स्रभेदमध्ये शक्रेण वज्रेणाभिहताः प्रणष्टाः । अनध्यायेष्वधीयाना ब्रीयन्ते विद्युताः खलु । इति । शेषान् शाखापाठकान्व्याख्यास्यामः । अनुरायणीया, वासुरायणीया, चार्चान्तरेया, प्रान्जलऋग्वैन विधाः, प्राचीन योग्याः, राणायनीयाश्चेति । तत्र राणायनीयानां नव भेदा भव. न्ति । राणायनीया:, शाट्यायनीयाः, सात्यमुद्गलाः, खल्बलाः, - सभाष्ये चरणव्यूहे- महाखल्बलाः, लाङ्गलाः, कौथुमा, गौतमा, जैमिनीयाश्चेति । तेषामध्ययनम् । अष्टौ सामसहस्राणि सामानि च चतुईशान्यष्टौ शतानि दशाभिईशसप्तम वालखिल्या सुपर्णः मध्यमेतत्सामगणं स्मृतम् । अथ प्रकारान्तरेणाह-तत्र राणायनीयानां सप्त भेदा. भवन्ति । राणायनीयाः, सात्यमुग्राः, काळेयाः, महाकाळेयाः, लाङ्गलायना, शार्दूलाः, कौथुमाश्चेति । तत्र काथुमानां षड्भेदा भवन्ति । कौथुमाः, आसुरायणाः, वातायनाः, प्राञ्चलिद्वैन मृतः, प्राचीनयोग्याः, नैगमीया इति । तेषां कौथुमादीनामध्ययनम् । अशीतिशतमामेयं पावमानं चतुः शतम् । ऐन्द्र तु षड्विंशतिर्यानि गायन्ति सामगास्तानि सूक्तान्य- धीत्य चण्डादुत्कृष्टात्ते चण्डतरा अत्युत्कृष्टा भवन्ति । शिष्टानि व्यतिरिक्तानि अधीत्य पठित्वा शिष्टाऽऽविंशतिको भवति । शिष्टान् प्रामाणिकान् आविंशतिशिष्टेषु वा शिष्टभागाः प्रवेशयोग्याः शिष्टा अष्टाविंशतिगणानां पूरकाः सर्वश्रेष्ठो भवतीत्यर्थः । तत्र मुक्तेषु केचित् मन्त्रतन्त्रा इति मन्त्राचतुर्दा विधीयन्ते । तदाहाचार्य:- ऋक्तन्त्रम् , सामतन्त्रम् , सज्ञालक्षणम् , धातुलक्षणमिति । इदा- नी सामसङ्ख्यामा अष्टौ सामसहस्राणि सामानि च चतुर्दश । अष्टौ शतानि नवतिदशतिर्वालखिल्यकम् ॥ सरहस्य समुपर्णप्रेक्ष्यं तत्सामदर्पणम् । सारण्यकानि सौर्याप्येतत्सामगणं स्मृतम् ।। अशीतिशतमानेयम् २८० । पावमानम् १०४ । ऐन्द्रन्तु २६ । शिष्टाः २८ गणानां पूरकाः । 'अष्टौ सामसहस्राणि' इत्यस्याओं ऽङ्कतो ज्ञातव्यः ८८१४ । अन्यशाखासङ्ख्यामाह-'नवतीति' । मुपर्णप्रेक्षः कश्चिच्छाखाभेदः तेन सह वर्चमानः समपर्णप्रेक्षः मुप- प्रेक्षण सहितो वालखिल्या शाखाभेदः । नवतिः नवतिसङ्ख्या- - तृतीयः सामखण्डः। ४५ काः दशतयो यस्मिन् स नवतिदशतिः। दशतिरिति । दशसङ्ख्या सञ्ज्ञा दशगुणा नवतिरित्यर्थः । अङ्कतोऽपि ९०० । 'सारण्यका. नि' आरण्यकेनोपनिषद्भागेन सह बर्तमानानि सौणि सूर्यदेव. त्यानि मूक्तानि । तत्र वालखिल्यशाखायामेव-आरण्यक सूर्यसूक्तं सुपर्णमेक्षवालखिल्यानि मिलित्वा नवशतानीत्यर्थः । निगमय. न्ति-एतत् पूर्वो क सामसमूहः स्मृतं कथितम् । गणवाब्दस्य वलीय. छान्दसम् । आतां षोडश शाखानां मध्ये तिस्रः शाखा विद्यन्ते । ताश्च गुर्जरदेशे कौथुमी प्रसिद्धा । कार्णाटके जैमिनी प्रसिद्धा। महाराष्ट्रदेशे राणायनी प्रसिद्धति । आसां शाखाना. मध्यापकाचार्यास्त्रयोदशसङ्ख्याकाः। ते यथा- राणायनी सात्पमुग्री दुर्वासा अथ भागसि । भारुण्डो गोगुंजवीभगवानोपमन्यवः ॥ १ ॥ दारालो गार्यसावर्णी वार्षगण्यश्च ते दश । कुथुमिः शालिहोत्रश्च जैमिनिश्च त्रयोदश ॥२॥ इत्येते सामगाचार्याः स्वस्ति कुर्वन्ति तर्पिताः ॥ इति । अन्येऽपि भागवतद्वादशस्कन्धीय सप्ताध्यायपञ्चसप्ततितपद्यारभ्य अध्यायसमाप्तिपर्यन्तोक्ताः सामवेदप्रवर्तकास्ते यथा- जैमिने सामगस्यासीत्मुमन्तुस्तनयो मुनेः । मुमन्वा तत्सुतस्ताभ्यामेकैकां प्राह संहिताम् ॥ ३४ ॥ सुकर्माऽपि च तच्छिष्यः सामवेदतरोमहान् । सहस्रं संहिताभेदं चक्रे सान्नां ततो द्विजः ॥ ३५ ॥ हिरण्यनाभः कौसल्यः पौष्पञ्जिच मुकर्मणः । शिष्यो जगृहतुश्चान्य आवन्त्यो ब्रह्मवित्तमः ॥ ३६ ।। उदीच्याः सामगाः शिष्या आसन्पश्चशतानि वै । पौष्यञ्जयावन्त्ययोश्चापि तांश्चोदीच्यान्प्रचक्षते ॥ ३७ ॥ लौगाक्षिाङ्गलिः कुल्यः कुशीदः कुक्षिरेव च ।
50 सभाध्ये चरणब्यूहे- पौष्यजिशिष्या जगृहुः संहिताले शतं शतम् ।। ३८ । कृतो हिरण्य नाभस्य चतुर्विंशतिसंहिताः । शिष्य ऊचे स्वशिष्येभ्यः शेषा आपस आत्मवान् ।। ३२. .. अस्यार्थ:-सामगस्य जैमिनेः पुनः लुमन्तु म तस्य सुमन्ताः सुतः सुमन्वान्नाम ताभ्यां सुमन्तुसुमन्वभ्यां पुत्रपौत्राभ्यां क्रमेण. कैकां प्राह । मुकर्मापि तस्य जैमिनेः शिष्यो महानति प्रज्ञावान. सामवेदाख्यतरो सान्नां सहस्रसहितारूयं भेदं चक्रे । कोसलपुत्री हिरण्यनाभश्च पौष्पमिश्च सुकर्मणः शिष्यो सामशाखां जगृहतुः । अन्ये आवन्त्य उदीच्यश्च सामशाल जहतुः, पोप्यञ्जयारन्त्य योश्चापि सामगाः पञ्चशतानि शिष्या आसन् । तेषां समुदिताना मतानां नामानीति पौष्याजिशिष्या लौगाक्ष्यादयो नाम्ना शतं शतं संहितां जगृहुः, हिरण्यनाभस्य शिष्यो नाम्ना कृतश्चतुर्विंश- तिसंहिताः स्वशिष्येभ्य ऊचे शेषा अन्या संहिता आत्मज्ञानवाना- वन्त्यः स्वशिष्येभ्य ऊच इत्यर्थः ॥ १ :: व्याख्याचरणव्यूहस्य सामखण्डस्य तेन वै । विस्तारिता यथाबुद्धि महादेवप्रसादतः । इति चरणव्यूहे तृतीयखण्डव्याख्या समाप्ता । इति तृतीयः सामखण्डः समाप्तः ॥ अथ अथर्ववेदखएडः। अथर्ववेदस्य नच भेदा भवन्ति । पैप्पला शौनका दान्ता प्रदान्ता औता जावाला ब्रह्मपलाशा कुनखीवे- ददर्शी चारणविद्याश्चेति । द्वादशैव सहस्राणि पञ्चक रूपानि भवन्ति । कल्पे कल्पे पञ्चशतानि भवन्ति, नक्षत्रकल्पो विधानकल्पो विधिविधानकल्पः संहिता.
चतुर्थः अथर्वखण्डः। कल्प। शान्तिकल्पश्चति । स वेदानामुपवेदाश्चत्वारो भवन्त्यग्वेदस्यायुर्वेद उपवेदो यजुर्वेदस्य धनुर्वेद उपवेदः सामवेदस्य गान्धवेदोऽधर्ववेदस्यार्थशास्त्रं चेत्याह भगवान्या स्कन्दो वा। घ इमे बेदाश्चत्वारस्तेषामे. कैकल्य की रूपं वर्णविधोच्यते पुरवेदः पद्मपत्राक्षः सुशिभक्तपीय इश्चित के शवशुः इवेतवर्णों वर्णेन कीर्तितं प्रमाणं तात्तिष्ठन्धितस्तीः पञ्च, यजुर्वेदः पि- ङ्गाक्षः कृशमध्यस्थूलगलक पोरखएताम्रपर्णः कृष्णवों वा प्रादेशमात्र षड्दीर्घत्वेन, सामवेदो नित्यं स्त्रग्वी सुप्र. यतः शुचिवासाः हामी दान्तो बृहच्छरीरः शमीदण्डी कातरत्नयन आदित्यवों वर्णेन नवारत्निमात्रोऽथर्व- वेदस्तीक्ष्णः प्रचण्डः कामरूपी विश्वकर्ता क्षुद्रकर्मा स्व. शाखाध्याथी प्राज्ञश्च महानीलोत्पल वर्णों वर्णन दशा- रत्निमात्र ऋग्वेदस्थात्रेय सगोत्रं सोमदैवत्यं गायत्री- छन्दो, यजुर्वेदस्थ काश्यपसगोत्रमिन्द्रदेवत्यं त्रिष्टुप. छन्दः, सामवेदस्थ भारद्वाजसगोत्रं रुद्रदेवत्यं जगतीछ- न्दोऽथर्ववेदस्य वैतानसगोत्रं ब्रह्मदैवत्यमनुष्टुप्छन्दः।।१॥ अथ चतुर्थखण्डो व्याख्यायते- अथर्ववेदस्योति । अथर्ववेदस्य नव भेदा भवन्ति नव शाखा भवन्तीत्यर्थः । तानाह-पैप्पला, दान्ता, प्रदान्ता, औता, जावाला, शौनका, ब्रह्मपलाशा, कुनखीवेददी, चारणवि. द्याश्चेति । तेषामध्ययनं द्वादौत्र सहस्राणि मन्त्राणाम् । कोह- शानि पञ्चकल्पानि भवन्ति । अत्र बहुवचनाते बहवः। यत्र एकवचनं स एकः। तेषामध्ययनं शाखया उच्यते । द्वादशसह- स्राणि मन्त्राणां कीदृशानि ? एकास्मिन्कल्पे कल्पे पञ्चशतानि मन्त्रा. णाम् । कल्पान्याह-नक्षत्रकल्पः, विधानकल्पा, विधिविधान कल्पः, , - सभाष्ये चरणव्यूहे- संहिताकल्प:, शान्तिकल्पः इति पञ्चकल्पाः । तत्र वेदानां चत्वार उपवदा भवन्ति । यथा-ऋग्वेदस्योपवेद आयुर्वेदः चिकि- त्साशास्त्रम् । यजुर्वेदस्योपवेदो धनुर्वेदो युद्धशास्त्रम् । सामवेदस्यो. पवेदो गान्धर्ववेदस्सङ्गीतशास्त्रम् । अथर्ववेदस्यार्थशास्त्रं नीतिशास्त्रम् शस्त्रशास्त्रं विश्वकर्मादिप्रणीतशिल्पशास्त्रम् । इति भगवान्वेदव्यासः स्कन्दः कुमारो वाऽऽह । य इमे चत्वारो वेदा उक्तास्तेषां मध्ये एकैकस्य कीदृशं रूपं आकारः तत्तद्वर्ण सितासितादि विध: प्रकारश्चोच्यते । तत्रादौ ऋग्वेदस्व रूपमाह- ऋग्वेदः पद्मपत्राक्ष:-पद्मपत्रं कमलदलं तद्वदक्षिणी ने यस्य सः। सुविभक्तग्रीवः-सुविभक्ता रेखात्रयाङ्किता ग्रीवा यस्य सः । कु. श्चितकेशश्मश्रु:-कुञ्चितावलीमन्तः केशाः शिरसिजाः श्मश्रूणि मुख- रोमाणि यस्य सः । श्वेतवर्णों । वर्णेन तु ककुब्वों न, श्वेतवर्णः तो वर्णो यस्य सः। कीर्तितं प्रमाणं तावत्तिष्ठन्वितस्तीः पञ्च, तावत्साकल्येन, पञ्च वितस्तीभवन्ति । हो तत्प्रमाणमृग्वेदस्य कीर्ति- तमुक्तम् । वितस्तिशब्दो द्वादशाङ्गुलात्मकः । सार्द्धहस्तद्वयप्रमाण- मित्यर्थः । यजुर्वेदस्वरूपमाह- 'यजुर्वेदः पिङ्गाक्षः' पिङ्गे पीते अक्षिणीयस्य सः। 'कशामध्य- स्थूलगलकपोल' कृशं मध्ये कटिप्रदेशे यस्य सः। स्थूलो गलक- पोळी यस्य सः । 'ताम्रवर्णः' ताम्रपदाचरितो रक्तो वर्णो यस्य सः। यद्वा कृष्णः वर्णो यस्य सः दीर्घत्वेनोच्चत्वेन षट्पादेशमात्रा माणं यस्य सः । 'प्रादेशस्तु प्रदोशन्या' इत्यभिधानोक्तेः । अङ्गुष्ठ- प्रदेशिन्योविहितत्वात्प्रमाणप्रादेशो दशाङ्गुलः। तादृशाः पद्मादेशाः प्रमाणं षष्टयङ्गुलं सार्द्धद्वयहस्तमित्यर्थः । सामवेदस्वरूपमाह- सामवेदो नित्यं स्रग्वी स्रजो माला यस्य सन्तीति स्रग्बी। "अस्मायामेधास्रजो विनिः" (अष्टा० ५अ० २ पा० १२१सू० ) इति सूत्राद्रिनि प्रत्ययः । नित्यं पुष्पमालाधारी । सुप्रयतः यमनियमवान् । 'शुचिवामा' शुचिः शुद्धं वासो वस्त्रं यस्य - - ४१ पञ्चमः फलश्रुतिखाः स शुद्धवस्त्रधारी । शमः शान्तिरस्यास्तीति शमी शान्तम नाः । दान्तो नियतबाहोन्द्रियः । बृहन्महच्छरीरं यस्य सः । शमी. तरोर्दण्डो यस्य सः शमीदण्डी : कातरेऽल्पेऽक्षिणी द्वे नेत्रे यस्य सः । काञ्चननयनो वा । आदित्यस्य भानोर्वर्ण इद बो यस्य सः। श्वेतवर्णो वा नवारानिप्रमाणं सत्य स: । लार्द्धचतुष्टयहस्तदीर्घ इत्यर्थः । अथर्ववेदस्वरूपमाह- तक्षिण-उग्र ! प्रचण्ड:-क्रोधी। कामरूपी-कामेन रूपा- णि यस्य सः, स्वेच्छारूपधारी । विश्वक्ष्य आत्मा जीवनम् । विश्वस्य का स्रष्टा च उपनिषद्बाहुल्यात् । 'क्षुद्रकर्मा' क्षुद्राणि कर्माणि यस्य सः, अभिचारकृत्याप्रयोजकमन्त्रबाहुल्यात् । स्वशाखाध्यायी अथर्वणि विशेष: प्राज्ञश्व ! महानीलोत्पलवर्णों वर्णन श्यामकमल इत्र वर्णो यस्य सः श्यामसुन्दरः । दश अरत्नयः अकनिष्ठिकहस्तः प्रमाणं यस्य पञ्चहस्तममाण इत्यर्थः । अथर्ववेद- स्य रूपान्तरे पाठान्तरश्च-"श्वेवसाध्यवशी च सजलमूर्द्धनि. गालवः स्वदारजुष्टः परस्त्रियाः स्तन्यपश्चेति” । अथ वेदानां गोत्रदेवताछन्दांस्याह-ऋग्वेदस्यात्रेयसगोत्रम् । आत्रेयाः सगोत्राः समानगोत्रा यस्य तत् । अत्रिगोत्रऋग्वेद इत्य. थः । सोमदैवत्यं यस्य तत । गायत्री छन्दो यस्य तत् । एवमग्रेऽ. पि व्याख्यातव्यम् । अथ यजुर्वेदस्य काश्यपगोत्रम् इन्द्रदैवत्यं त्रि. धुप्छन्दः । अथ सामवेदस्य भारद्वाजगोत्रं रुद्रदेवत्यं जगतीछन्दः । अथर्ववेदस्य वैतानसगोत्रं ब्रह्मदेवत्यं अनुष्टुप्छन्दः ॥ १॥ इति चरणव्यूहे चतुर्थखण्डव्याख्या समाप्ता। इति चतुर्थः अथर्ववेदखण्डः समाप्तः । अथ फलस्तुतिखण्डः। य इदं वेदानां नामरूपगोत्रं प्रमाणं छन्दोदैवतं च०७ १० सभाष्ये चरणव्यूहे वर्ण वर्णयति, अविद्यो लभते विद्या जातिस्मरोऽथ जायते, जन्मजन्म वेदपारगो भवत्यव्रती व्रती भवत्यत्र चारी ब्रह्मचारी भवति नमः शौनकाय नमः शौनकाय ! य इदं चरणव्यूहं गर्भिणी श्रावयेत्स्त्रियम् । पुमांसं जायते पुत्रमृषिभिर्वेदपारगम् । य इदं चरणव्यूहं श्राद्धकाले पठेविजः। अक्षय्यं तद्भवेच्छ्राद्धं पितॄश्चैवोपतिष्ठते । य इदं चरणव्यूहं पठेत्स पङ्गिपावनः । तारयेत्प्रभृतीपुत्रान्पुरुषान्सप्तमसच । य इदं चरणव्यूहंपठेत्पर्वसु पर्वसु । विधूतपाप्मा स स्वर्गी ब्रह्मभूयाय गच्छति । रतिकृतिश्शिवाश्यामाश्चत्वारो वेदपनिकाः । ज्ञातव्या यज्ञकालेषु ईशानादि व्यवस्थिताः । लक्षं तु चतुरो वेदा लक्षं भारतमेव च । लक्षं व्याकरणं प्रोक्तं चतुर्लक्षंतु ज्यौतिष चतुर्लक्षंतु ज्योतिषम् ॥१॥ अथ पञ्चमखण्डो व्याख्यायते- अथ चतुर्वेदस्य फलस्तुतिमाह-य इदमिति । यः पुमानिदं वेदानां नाम रूपं गोत्रं प्रमाणं छन्दो दैवत्यं वर्ण वर्णयति । नामादीनां द्वन्द्वकवद्भावः । नाम ऋग्वेदादि १, रूपं पद्मपत्राक्षादि २, गोत्रमात्रेयादि३, प्रमाणं पञ्चवितस्त्यादि ४, छन्दो गायत्र्यादि ५, दैवत्यं सोमादि ६, वर्ण श्वेतादि च ७, इत्यादि यो जानाति स अविद्यो विद्याहीनः सन्विद्यां लभते प्राप्नोति जातिस्परोऽथ जायते । अथ जन्मान्तरे उत्तमजातिर्जायते पूर्वजाति स्मरति । जन्मजन्म प्रतिजन्म वेदपारगः-वेदपाठी भवति । अव्रती व्रती भवति-व्रतहीनोऽपि व्रतवान्भवति। ब्रह्मचर्यहीनो ब्रह्मचर्यफलं प्राप्नोति । 'शौनकाचार्याय नमः' इति पदादृचिन्थसमाप्त्यर्थः ।
पञ्चमः फलश्रुतिखण्ड: श्रवणपठनफलमाह-राइदमिति । यः पुमान् इदं चरणव्यूह गर्भिणी स्त्रियं श्रावयति सा स्त्री पुमांसं पुरुषलक्षणोपेतं पुत्रं जनयेत् । यः श्राद्धकाले द्विजः इदं चरणव्यूहं पठेत् तच्छ्राद्धं पितृ न्तर्पयतीत्यर्थः । य इदं प्रत्यहं पठेत्स पति पावनो भवति । यस्यां पडौ द्विज आस्ते तां सर्वां पक्तिं पावयतीत्यर्थः । स च पुरुषः पुत्रान्प्रभृतीन्पुत्रादिकान्सप्तसप्त च युनः सप्तवा रानाद्यादीन्मित्रार्दी. श्च आत्मानं चैव पञ्चदशपुरुषान्तारयति । यइदं पठेत्पर्वमु अष्टमीभूतदर्शपौर्णमासीसङ्क्रान्तिषु च पठति स धूतपाप्मा दूरी कुतः पापं येन सः। स स्वर्गवासी पवित्रः सन् बह्मभावाय गच्छति । कर्माण चेति चतुर्थी । ब्रह्मभावं प्राप्नोतीत्यर्थः । यो नामानि पुरा वेदा अमृतत्वं च गच्छति । लोकातीतं महाशान्तममृतत्वं च गच्छति । नमः इत्याह भगवान्पाराशयः। ॐ नमः परमार्षिभ्यो नमः तं वेदशास्त्रपरिनिश्चितशुद्धबुद्धि, चर्माम्बरं मुरमुनीन्द्रतनुं कवीन्द्रम् । कृष्णद्विपं कनकपिङ्गजटाकलापं, व्यासं नमामि शिरसा तिलकं मुनीनाम् ॥ १ ॥ इति चरणव्यूहपञ्चमखण्डव्याख्या समाप्ता । इति पञ्चमः फलश्रुतिखण्डः समाप्तः । त्रिदशाङ्गधरा १६१३ मिते गतेऽब्दे मधुमासे दशमीतियौ सुधांशौ । महिदासबुधः परोपकृत्यै चरणव्यूहमिदं व्यकारि काश्याम् ॥१॥ विद्वद्भिः प्रार्थितेनेयम्माहिदासद्विजन्मना । चरणव्यूहविकृतिविधिना तु मया कृता ॥२॥ समाप्तोऽयं ग्रन्थः शुभमस्तु ।
--- - - ---- सभाष्ये चरणव्यूहे- अष्टानां विकृतीनामुदाहरणप्रदानसमे मुद्रणत्वरया मया कति- पयविकृतानामुदाहरणानि न प्रदर्शितानि अत इदानी प्रदयन्ते । ब्रूयात्क्रमविपर्यासा वर्द्धर्चस्यादितोन्ततः। अन्तं वादिनयेदेवं क्रमभालेति गीयते ॥१॥ उदाहरणं यथा-- हरि: ॐ । समिधामिम् । अतिथिमित्यतिथिम् । समिधेतिसम् । इधा। अतिथिबोधयत । अग्निन्दुवस्यत । बोधयत घृतैरें। दुवस्यत- घृतैः। धृतैर्दुवस्थत । धृतेब्बोधयत । दुवस्यताग्निम् । बोधयतातिथिम् | अग्निहसमिधा । अतिथिमित्यतिथिम् । अनि समिधा ।। आस्मिन् । जुहोतनेतिजुहोतन । अस्मिन्हव्या । जुहोतनहव्या । हव्या होतन । हव्यास्मिन् । जुहोतनतिजुहोतन । अस्मिन्ना ॥ १ ॥ एषा क्रममालाऽप्रचलिता--गुप्तेतिशेषः । तथा गुप्तश्चायङ्घनमितिस- म्प्रतिलोके-- अन्ताक्रमं पठेत्पुर्वमादिपर्यन्तमानयेत् । मादिक्रमं नयेदन्तं धनमाहुर्मनीषिणः ॥ १॥ हरि: ॐ । अतिथिमित्यतिथिम् । बोधयतातिथिम् । घृतैबोधयत । दुवस्यतघृतै)। अमिन्द॑वस्यत । समिघामिम् । समितिसम् । इयो । अमिन्दुवस्यत । दुवस्यतधृतः । घृतैबाधयत । बोधयतातिथिम् । अति- थिमित्यतिथिम् ॥ जुहोतनेतिजुहोतन । हव्या होतन । अस्मिन्हव्या । आस्मिन् । अस्मिन्हव्या । हव्या होतन । जुहोतनेतिजुहोतन ॥ १ ॥ इति । अनुक्रमश्वोत्क्रमश्च व्युत्क्रमोऽभिक्रमस्तथा । सङ्क्रमश्चेति पञ्चैते जटायां कथिताः क्रमाः ॥ अथ पञ्चसन्धियुक्ताधनमालायाः क्रमो लिख्यते- जगतीह पञ्चसन्धियुक्तापनमाला तु वैदिकपरम्परावर्तते । पुरा खलु वैदिकाः कृतपरिश्रमा आसन् । एवञ्च तस्मिन्काले 'ब्राह्मणाः वेदपारगाः' -- -- - - - पञ्चमः फलश्रुतिखण्डः । इति निश्चयेनैव तद्विषये कुशलाः कृतकृत्याश्चासन् । अतोहि तेषां कृतिरियं युक्तियुक्ता प्रासङ्गिका च वर्तत एव । यस्मात्तस्माद्धि स्तुत्या साह्यापि विवुधैरिति निश्चितम् । तथैव हि स्मरणमत्र प्रासङ्गादित्याशयो लेखकस्यापि । यथा-हरि ॐ । पावकान: । नोनहें। नल्पावका । पावकापावका । पावकान। पावकानोनल्पावकापावकानसरस्वतीसरस्वतीनपावका- पावकानसरस्वती । पावकान: । नल्पावका । पावकान। नल्सर- स्वती । सरस्वतीसरस्वती । सरस्वतीन । नोन । नसरस्वती। नई- सरस्वतीसरस्वतीनोनसरस्वतीव्वाजेमिवाजेभिल्सरस्वतीनोनल्सरस्वतीव्वा- जैभिलं । नसरस्वती । सरस्वतीनौं । नसरस्वती । सरस्वतीव्वाजेभिर् । वाजेभिर्वामिल । व्याजेभिल्सरस्वती । सरस्वतीसरस्वती । सरस्वती- व्वाजेभिल। सरस्वती वाजेभिर्वाजेभिल्सरस्वतीसरस्वतीबाजेभिर्वाजिनीध. तीव्वाजिनीवतीव्वाजेभिल्सरस्वतीसरस्वती वाजेभिर्वाजिनीवती । सरस्व- तीव्वाजेभिलं । व्वाजेभिल्सरस्वती । सरस्वतीबाजेभिरें। व्वाजेभिर्वाजि- नौवती। वाजिनीवतीव्वाजिनीवती । व्वाजिनीवतीव्वाजेभि । बाजेभि- [जेमिल। व्वाजेभिर्वाजिनीवती । व्वाजेभिर्वाजिनीवतीव्वाजिनीवती. वाजेभिवाजेभिर्वाजिनीवती । वाजेभिर्वाजिनीवती। व्वाजिनीवतीव्वा- जेभिएं । व्वाजेभिर्वाजिनीवती । व्वाजिनीवतीतिवाजिनी । व्वती ॥ यज्ञव्वष्टु । व्वष्टुव्वष्टु । व्वष्टुय॒ज्ञम् । यय॒ज्ञम् । यज्ञवष्ट । यज्ञबष्टुव्वष्टुय॒ज्ञंय॒ज्ञंब्वष्टुधियावसुर्धियावसुर्वष्टुयज्ञयज्ञब्वष्टुधियावसुएं । यज्ञब्बष्टु । व्वष्टुयज्ञम् । यज्ञब्वष्टु । व्वष्टुधियावसुर । घियावसुर्षिया- वसुरू । घियावसुर्वष्टु । व्वष्टुव्वष्टु । व्वष्टुधियावसुदं । व्वण्टुधियावं. सुधियावसुद्धष्टुव्वण्टुधियावसु । त्वष्टुधियावसुदं । घियावसुर्वष्टु । व्वष्टुधियावसुएं । घियावसुरितिषिया । वसुदं ॥१॥ इतिशम् ।। - -- - - - - - -
-
mLLEmen
प्राप्तिस्थानम्
चौखम्बा-संस्कृत-पुस्तकालय,
बनारस सिटी।
No text on this page.
८ 19 संक्षिप्त-सूचीपत्रम् । १ पुरुषसूक्तम् । सायणभाष्य-महीधरभाष्य-मङ्गलभाष्य-निम्बार्क मतभाध्य चतुष्टयसहितम् । २ श्रीमूक्तम् । विद्यारण्य-पृथ्वीधर-श्रीकण्ठाचार्यकृतभाष्यत्रयेण टिप्पण्या च समलकृतम् । ३ आश्वलायनगृह्यसूत्रप्रयोगदीपिका । श्रीमञ्चनाचार्यभट्टविरचिता ३ ४ शांख्यायनगृह्यसंग्रहः। श्रीपण्डितवासुदेवकृतः तथा कौषीतकि- गृहासूत्राणि । ५ ऋग्वेदप्रातिशाख्यम् । महर्षिशौनकप्रणीतम् , उव्वरभाष्यसहितम् ६ चतुर्वेदभाष्यभूमिकासंग्रहः। ( सायणाचार्यविरचिताना स्ववेद- भाष्य भूमिकानो संग्रहः ) नीतिमञ्जरी । सभाया । श्रीधाद्विवेदविरचिता । भूमिका टिप्पणी- परिशिष्टादिभिः सम्भूध्य सम्पादिता । ८ शुक्लयजुर्वेदसंहिता। वाजसनेयिमाध्यन्दिन शाखीया । श्रीमदु- बटाचार्यविरचितमन्त्रभाष्येण श्रीमन्महीधरावार्यविरचितवेददीपेन च सहिता । स्थूलाक्षर । ९ शुक्लयजुर्वेदकाण्वसंहिता । श्रीसायणाचार्यविरचितभाष्य- सहिता । १ अध्यायादारभ्य २० अध्यायपर्यन्ता । १० शतपथब्राह्मणम् । मूलमात्रम् । निर्णयसागरीयसीस काक्षरमुद्रि. तम् । प्राचीन ताडपत्रीयाद्यनेक प्रन्थावलोकन पूर्वक शोधनेनात्यन्त- शुद्धतमम् । सस्वरम् । काण्वशाखीय शतपथब्राह्मण, तैत्तिरीय- ब्राह्मण, तैत्तिरीयसंहिताधनेक प्रन्थसमन्वय भूषितम् । वेदविशारद पण्डित श्रीविनस्वामिशास्त्रिणा संशोधितम् । काण्डचतुष्टयात्मकः । प्रथमो भागः । ११ शुल्बसूत्रम् । कायायनी पम् । कर्कभाष्यमहीधरवृत्ति सहितम् । १२ मन्त्रार्थदीपिका । म० भ० श्रीशत्रुघ्नमिश्रविरचिता । सटीका । १३ भापस्तम्बगृह्यसूत्रम् । अनाकुला-तात्पर्यदर्शनाभ्यां सहितम् । १४ आपस्तम्बधर्मसूत्रम् । श्रीहरदत्ताचार्यकृतोज्वलाटोकासहितम् । १५ बौधायनधर्मसूत्रम् । गोविन्दस्वामिप्रणीतविवरणसमेतम् । १६ ताण्ड्यमहाब्राह्मणम् । सायणभाष्यसहितम् । १७ लाट्यायनश्रोतसूत्रम् । अग्निष्टोमान्तम् । सटीकम् । १८ गोभिलगृह्यसूत्रम्। म.म. मुकुन्दशर्मकृतमृदुलाख्यव्याख्ययासमेतम् ३-. १९ पुष्पसूत्रम् । सामप्रातिशाख्यं पुष्पषिप्रणीतम् । श्रीमदजातशत्रु. कृतभाष्यसहितं सम्पूर्णम् । प्राप्तिस्थानम्-चोखम्बा संस्कृत पुस्तकालय, बनारस सिटी। २. ४-० -0
No text on this page.
No text on this page.
No text on this page.