Svi-vmpl-machilipatnam

Shrungarasarvasvasvabhaand-an'

Shriinallaa

PDF Proofread

Front matter

No text on this page.

KÁVYAMÂLÂ. 78.
THE
SRINGARA-SARVASVA-BHÂNA
OF
NALLÂ-DIKSHITA.
EDITED BY
MAHÂMAHOPÄDYÂYA PANDIT SIVADATTA
Head Pandit and Superintendent, Sanskrit Department,
Oriental College, Lahore,
AND
KÂSHÎNÂTH PANDURANG PARAB.
PRINTED AND PUBLISHED
BY
TUKÂRÂM JÁVAJÍ,
PeoprieTOR OF JAVAJI DADAJI'S ‘NIRNAYA-SAGAR' PRESS.
BOMBAY
1902.
Price 5 Annas.

(Registered according to Act IIV of 1867.) ( All rights reserved by the Publisher.)

काव्यमाला.७८. श्रीनल्लाकविविरचितः शृङ्गारसर्वखभाणः। जयपुरमहाराजाश्रितमहामहोपाध्यायपण्डितदुर्गाप्रसादारक- केदारनाथकृपाङ्गीकृतशोधनकर्मणा महामहोपाध्याय- पण्डितशिवदत्तशर्मणा, मुम्बापुरवासिपरबोपाह- पाण्डुरङ्गात्मजकाशीनाथशर्मणा च संशोधितः । मुम्बय्यां निर्णयसागराख्ययन्त्रालये तदधिपतिंना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीतः। (अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा निर्णयसागरमुद्रायन्त्रालयाधिपते. रेवाधिकारः।) मूल्यं ५ आणकाः ।

No text on this page.

श्रीनल्लाकविः। श्रीमानसौ बालचन्द्रदीक्षिततनूजो नल्लाकविः कौशिकगोत्रोत्पन्नश्छन्दोगश्चोलेषु कुम्भघोणनगरपरिसरकण्डरमाणिक्याख्याग्रहारे जनिमापद्य रामनाथमखीन्द्रेण परमशिवेन्द्राचार्य-तच्छिष्यसदाशिवब्रह्मेन्द्राभ्यां च संशिक्षितः शास्त्रेषूनविश- वया एव खसख्युर्वैद्यनाथदीक्षितस्य वचनगौरवेण भाणमिमं सुभद्रापरिणयना- टकं च रचयामास । क्रमशोऽन्याश्च काश्चन सुकृतीः। तासु च, अद्वैतमञ्जरी, तद्वया- ख्या परिमला चेति द्वावेव ग्रन्थावद्य समुपलभ्यते । अस्य गुरू रामनाथमखीन्द्रः, तञ्जनगराधीशस्य शहजिमहाराजस्य सदस्यः श्रीमतो रामभद्रदीक्षितस्य समकालिक इति षड्दर्शनीसिद्धान्तसंग्रहस्यामुखश्लोकेभ्यः प्रतीयते । परमशिवेन्द्राचार्यः प्रख्यातकुशलविजयनाटकादिप्रन्थानां प्रणेतुस्तञ्जपुराधिनाथेन श्रीशहजिमहाराजेन १. अद्वैतमञ्जर्या अवसाने, 'नल्लासुधीनिबद्धेयमद्वैतरसमञ्जरी। कर्णावतंसपदवीं विबुधैरधिरोप्यताम् ॥' इति,तव्याख्यायाम् इति श्रीकौशिककुलजलधिचन्द्रश्रीबालचन्द्रदीक्षिततनूभवस्य श्रीमत्परम- इसपरिव्राजकाचार्यश्रीपरमशिवेन्द्रपादश्रीसदाशिवब्रह्मपूज्यपादानुग्रहभाजनस्य श्रीनल्लाकवेः कृतिषु स्वकृताया अद्वैतरसमञ्जर्या व्याख्या परिमलाख्या संपूर्णा।' इति च संदृश्यते. २. षड्दर्शनीसिद्धान्तसंग्रहे, 'रामभद्राध्वरिवरो रामनाथमखीश्वरः। नरहर्यध्वरिमणिः पेरियप्पबुधाग्रणीः ॥ श्रीवेङ्कटेशविबुधः श्रीमान्यज्ञेश्वराध्वरी। मखी च श्रीनिवासार्यो महतामपि संमतः ॥ शासनाक्षरमाकर्ण्य शाहराजस्य (A. D. 1684-1711)धीमतः। सप्तैते शास्त्रसिद्धान्तान्संगृह्णन्ति यथामति ॥' इति रामनाथमखिनो रामभद्रदीक्षितसमकालिकलं शहजिमहाराजसदस्यवं च स्पष्ट- मुक्तं भवति. ३. कुशलविजयनाटके, 'श्रीरङ्गपट्टणपतित्रिशिरःपुरेशचेञ्जीपुराधिपतितञ्जपुराधिनाथैः । उच्चैर्यथोत्तरमुदश्चितगौरवश्रीरास्ते सुखं शहजिराजपुरेऽधुनासौ ॥ स किल पलकचेरिग्रामवास्तव्यविद्वज्जनमकुटवतसाद्वासुदेवाध्वरीन्द्रात् । अधिगतपदवाक्यन्यायतन्त्रस्त्रिलोकीगुरुपरमशिवेन्द्राध्यापितब्रह्मविद्यः ॥' इति वेङ्कटकृष्णदीक्षितस्य परमशिवेन्दाचार्यशिष्यलं स्पष्टम.

२
समुदञ्चितश्रियो वेङ्कटकृष्णदीक्षितस्य ब्रह्मविद्यागुरुः, शिवगीतातात्पर्यप्रकाशित
कायाः प्रणेता च । सदाशिवब्रह्मेन्द्रः परमशिवेन्द्राचार्यशिष्यः, ब्रह्मसूत्रवृत्ते-
ब्रह्मतत्त्वप्रकाशिकाया आत्मविद्याविलासस्य च कुर्ता । अतोऽस्य नल्लाकवेः
कालो बहुशः ख्रिस्ताब्दीयसप्तदशकावसानभागस्तदुपरितनशतकपूर्वभागश्च, नातः पराचीन
इति विनिश्चेतुं पार्यते ॥
इति
टि. एस्. कुप्पुखामिशास्त्री.
१. आत्मविद्याविलासे,
'निरवधिसंसृतिनीरधिनिपतितजनतारणस्फुरन्नौकाम् ।
परमतभेदनधुटिकां परमशिवेन्द्रार्यपादुकां नौमि ॥
देशिकपरमशिवेन्द्रादेशवचोद्बुद्धदिव्यमहिमाहम् ।
खात्मनि विश्रान्तिकृति सरसं प्रस्तोमि किंचिदिदम् ॥'
इति.

काव्यमाला। श्रीनल्लाकविविरचितः शृङ्गारसर्वस्वभाणः। विष्णुब्रह्मपुरंदरादिविबुधैः सान्द्रे विवाहाङ्गणे प्रेमावेशवशात्परस्परहठाश्लेषे धृतोत्कण्ठयोः । गौरीशंकरयोः ससंभ्रममणीपीठाधिरोहे मिथः संघर्षेण समुद्गतः पुलकसंभारः शिवायास्तु नः ॥ १ ॥ अपि च । नरगजमयं मायाशक्त्या वहन्वपुरुज्वलं जयति महसामेकस्तोमस्तरङ्गितमङ्गलः । अभिनवसुधानिष्यन्दानां गिरामुपगुम्फनं परिणमयति स्फारं यद्ध्यानपद्धतिसंभवः ॥ २ ॥ अपि च । करकिसलयराजत्कीरशावाभिरामां सरसिजभवदारान्वाचमाराधयामः । श्रुतिमधुरमधूलिस्यन्दिसूक्तिक्रमेभ्यः श्चिरसरसकविभ्योऽप्यञ्जलिं कल्पयामः ॥ ३ ॥ (नान्द्यन्ते) सूत्रधार:-(सप्रश्रयमञ्जलिं बद्धा ।) वितन्वन्यत्कोणं विशिखमचिरादेव भगवा- ननङ्गः केनापि त्रिभुवनमजय्यं विजयते ।

or काव्यमाला। यदालोको यूनामपहरति चेतांसि मसृणः स वस्तन्यादन्यादृशसुखमपाङ्गो मृगदृशाम् ॥ ४ ॥ (इति पुष्पाञ्जलिं विकीर्य • नेपथ्याभिमुखमवलोक्य ।) मारिष, इतस्तावत् । (प्रविश्य) पारिपार्श्वकः-भाव, अयमस्मि । सूत्रधारः-इह खलु सकलपुरललामभूते विविधाद्भुतनिवासभुवि पुरुहूतपुरातिशायिनि मध्यार्जुननाम्नि नगरे वन्दारुमुकुन्दपुरंदरारविन्दभ- वमुखवृन्दारकवृन्दमुकुटमणिगणकिरणपुञ्जमञ्जरितचरणपल्लवस्य लीलायि- तसमस्तभुवनस्थितिसंस्थितेर्मन्दस्मितभस्मितपुरत्रयस्य निटिलहुतभुगाहुती- कृतरतिप्रणयिनो वामाङ्गीकृतवामदृशः शेखरीकृतकुमुदवान्धवस्य कव- लीकृतकालकूटस्य महालिङ्गनामो भगवतः शितिकण्ठस्य वसन्तोत्स- वदर्शनोत्सुकतया संगतानामनङ्गतन्त्रकलापदेशिकानां वैदेशिकानां विदु- षामेषा परिषदुपस्थिता । तस्मादस्माभिरियं केन रूपकेण समाराधयितव्या । पारिपार्श्वकः-(सहर्षम् ।) अद्य खलु साफल्यं प्रयोगतन्त्रपरिश्रमस्य । अवेक्ष्य विद्यावैशद्यमहो सर्वे सभासदः । कन्दलीभवदानन्दाः कम्पयेयुः शिरांसि यत् ॥ ५ ॥ भाव, तर्हि कस्य कवेः कृतिः प्रयोक्ष्यते । , सूत्रधार:-(स्मरणमभिनीय ।) जयति किल चोलमण्डलमण्डनमुद्दण्डपण्डिताध्युषितम् । कण्डरमाणिक्कमिति ख्यातं महदग्रहारमाणिक्यम् ॥ ६ ॥ असौ तत्र श्रीमानमृतरसधारासहचरी गिरां देवीं बिभ्रद्गजमुखकृपातः परिणताम् सपर्यासंतुष्यद्गुरुपरिवृढानुग्रहपरि- स्फुरत्प्रत्यग्ज्योतिर्जयति किल नल्ला बुधमणिः ॥ ७ ॥ अयं नाम कवनं नाम कियङ्करमुभयोः । कथंचन परिणतकवनप्रण. यनीयमधुरप्रबन्धसंदर्भनिर्वाहमहासाहसमिति बहुविधशङ्काकलङ्कसंकुलितं कविकुलमालक्ष्य कविनामुनैवोक्तम्- --

शृङ्गारसर्वस्वभाणः ।
३
-
निवन्ध्नन्ति स्वैरं कृतिमिह कियन्तो न भुवने
रसं किंतु व्यक्तुं प्रभवति कविष्वेषु कतमः ।
मम श्रीमल्लम्बोदरदरकृपापाङ्गितगिरः
प्रबन्धेऽस्मिंश्चेतः कुतुकमनुबध्नाति तदपि ॥ ८ ॥
इति ।
पारिपार्श्वकः-को न वेद विश्रुतः खल्वयम्, यस्य विद्यागुरुः
सर्वतोमुखप्रमुखमखसंतर्पितकंदर्पशासनः षड्दर्शनीप्रवचनप्रौढशिष्यप्रशि-
ध्यपरम्परासंपादितयशःकन्दलः श्रीमात्रामनाथमखी।
मूत्रधार:-
बालचन्द्रमखीन्द्रस्य तनयो विनयोज्ज्वलः ।
स भाणं प्राणयबाल्ये सख्युर्वचनगौरवात् ॥९॥
पारिपार्श्वक:-कः पुनरस्य सखा ।
मूत्रधार:-
कामारातिपदारविन्दयुगलध्यानैकबद्धादर-
सन्माहात्म्यवशेन शैशवदशासंप्राप्तविद्यायशाः ।
दान्तो रत्नगिरीश्वराध्वरिसुतः स्वाधीनपातञ्जल-
व्याहारोऽयमलंकरोति जगतीं श्रीवैद्यनाथः सुधीः ॥ १० ॥
तदमुनैव कविना संदर्भितं शृङ्गारसर्वस्खं नाम भाणरूपकमभिनेतव्यम् ।
कवरेता वाचः परिविकचमल्लीमधुमुचः
सभास्ताराः सर्वे सरससरसा नः परिणताः।
वयं च प्रख्याता दिशि दिशि तथा नाट्यकलया
गुणस्तोमो दैवादयमुदयमासादयति नः ॥ ११ ॥
(समन्तादवलोक्य ।)
माकन्दपल्लवसमुल्लसितैर्वनान्तै-
सद्यपिकीगलगलत्कलकूजितैश्च ।
मन्दानिलेन मधुसौरभनिर्भरेण
मासो वसन्त इति संप्रति तर्कयामि ॥ १२ ॥

40 काव्यमाला। अपि च । समुल्लसितमल्लिकाकुसुमगन्धसंभावितः स्फुरदूकुलकुड्मलान्तरमिलन्मधूलीधरः। हरन्हरणलोचनारतिपरिश्रमं विभ्रमैः शनैरिह चलत्यसौ मलयशैलबालार्निलः ॥ १३ ॥ मारिष पारिपार्श्वक, तत्प्रयोजय पात्रमचिरेण । पारिपार्श्वक:-~-यदाज्ञापयति भावः । (इति निष्क्रान्तः ।) सूत्रधारः-(निरूप्य ।) भ्रमरोऽयं प्रतिवनं भ्रमन्नुद्भूतकूजितः । विडम्बयति संभ्रान्तं विलपन्तं वियोगिनम् ॥ १४ ॥ (नेपथ्ये।) खर्णाङ्गरागितनिसर्गशरीरकान्त्या कर्णावतंसितगुत्पलपत्रसीमा । हारीकृतस्मितपरम्परया तरुण्या हा किं करोम्यपहृतं हृदयं मदीयम् ॥ १५ ॥ सूत्रधारः-(निरूप्य ।) कौसुम्भवस्त्रपरिमण्डितमध्यभागः कलारकोरकविराजितकर्णपूरः । श्मश्रुप्ररोहदलसंदलिताननेन्दुः कन्दर्पदर्पदमनस्तरुणः क एषः ॥ १६ ॥ (विमृश्य ।) अयं किल मम श्यालः कनकलतावियुक्तस्यानन्दशेखरस्य भूमिकामादाय इत एवाभिवर्तते । तदहमप्यनन्तरकरणीयाय सज्जी- भवामि । (इति निष्कान्तः।) इति प्रस्तावना। (ततः प्रविशत्यनङ्गशेखरः।। अनङ्गशेखरः-'स्वर्णाङ्गरागित-' (१५) इति पुनःपुनः पठति ।) उत्तुङ्गस्तनतटमुत्पलायताक्षं कस्तूरीतिलकविलासि फालदेशम् ।

शृङ्गारसर्वस्वभाणः ।
उत्तालालकभरमूहनीयमध्यं
तत्तादृग्वरतनुरत्नमभ्यपश्यम् ॥ १७ ॥
अहो, परदारावलोकन परमदुःखकारणमिति सत्यमेव सतां वचनम् ।
यतः।
शकलयति मनो मे शम्बरारिः शरौधैः
शिथिलयति शरीरं शीतलो गन्धवाहः ।
प्रबलयति पिकानां पञ्चमः कामरोगं
द्विगुणयति च तापं दारुणश्चन्द्रपादः ॥ १८ ॥
अये दग्धमकरध्वज, किं कारणं मह्यं द्रुह्यसि । अथवा किं करोतु
भवान् । स्वभावः खलु ते विरहिजनद्रोहः ।
चेतोहरा सा मम पूर्वपुण्यैदृष्टिप्रिया दृष्टिपथं प्रयाता ।
तामग्रतः स्थापयितुं क्षणार्ध वृथाभ्यसूयो विधिरक्षमोऽभूत् ॥१९॥
हा चपलाक्षि, साकूतया . दृष्टया मां निहत्य तत्क्षणमेव निर्दाक्षिण्यं
कथं निर्गतासि ।
सरभसमुपसृत्य संनिधाने चरणरणन्मणिनूपुराभिरामम् ।
स्मरशरपरिपीडिताङ्गकं मामयि दयिते सुदृढ़ परिष्वजस्व ॥२०॥
(स्मरणमभिनीय ) आः, कथं विस्मरामि । यत्किल पूर्वमिन्वासरे विर-
हवेदनया मूछितं मामुपेत्य मनोरथानुकूलवचनेन समाश्वसितवती चन्द्र-
मुखी । तदलमधुना मुधा परिदेवितेन । (परितो विलोक्य ।) कथं परिणत-
प्रायैव प्रभातवेला।
गच्छत्यस्तनितम्बमम्बरमपाकुर्वन्करैश्चन्द्रमाः
संगच्छन्त इव प्रियैस्तत इतो निष्क्रम्य चक्राङ्गनाः ।
प्रच्छन्नाः कुलटा विटान्विजहति प्रायस्त्रियामात्यया-
नक्तं जागरणेन वारवनिता निद्रातुमुद्युञ्जते ॥ २१॥

६ काव्यमाला। अपि च । परिमलभरानुषङ्गप्रकटीकृतपद्मिनीपरिष्वङ्गः । अलसो मधुरसपानादहरारम्भे परिभ्रमत्यनिलः ॥ २२ ॥ (पुरोऽवलोक्य ।) पूर्वक्षमाधरशिखाशिखराधिरूढो लाक्षारसारुणवपुर्भगवान्दिनेशः । प्राचीमुखस्य परिकर्मविशेषलिप्सोः काश्मीरपङ्कतिलकश्रियमातनोति ॥ २३ ॥ अथ महोमहोन्नतस्य जगदेकदीपस्य भगवतो भानुमतोऽपि कितवा- चारचातुरी । तथा हि । प्राचीकुचमुदयादि परिरममाणैः करैस्तपनः । कंचन विकासयोगं कुरुते सरसीमुखाजेषु ॥ २४ ॥ (पुरो विलोक्य । सहर्षम् ।) एषा खलु मञ्जुलमणिमञ्जीरकाञ्चीरत्नकञ्चुली- चारुहारचीनाम्बरकनकवलयकटकताटङ्कमुखविभूषणक्रयणपरायणरमणीकु. लविलासरमणीया प्रत्यापणप्रसार्यमाणकर्पूरकस्तूरीहरिचन्दनपटवासवास- नासनाथचारुसमीरकिशोरसंचारघुमघुमायितपरिसरहरिदन्तराला सकलवि- लासिलोकसंकेतसाधिका पण्यवीथिका । अपूर्वोऽयं पन्थाः । तदमुनैव साधयामि । (इति विपणिप्रवेशमभिनीय । सहर्षम् ।) इह खलु संचरन्ति चञ्च- लतरमञ्जीरझलझलसिञ्जितरञ्जितनिखिलदिङ्मुखं पथि पदविक्षेपैरवनी- मम्बुजवनीमापादयत्यः, मन्दहासमरीचिकाभिर्मल्लीमतल्लीसुभगस्तबकनिकु- रम्बकदम्बमम्बरमारचयन्त्यः, क्वचित्वचित्कटाक्षविक्षेपेण कुवलयवलय. निलयं कलयन्त्यः, करकमलार्पितकर्पूरवीटिकाः, कपोलगर्मितताम्बूलवि- लोभनीयाः, पुरंदरपुरपुरंधिका इव भूतलमवतीर्णाः, पुष्पशरवरवर्णिन्य इव बहुधा विभिन्नाः, सुन्दरयुवजनसंदर्शनकृतादराः, बदरामलकलिकुच- बिल्वतालनालिकेरकुम्भगिरिसदृशदशावहस्तनभारशालिन्यो विलासिन्यः । (निरूप्य ।)

शृङ्गारसर्वस्वभाणः। आस्तीर्णकालकम्बलविन्यस्तानेकवलयदामानः । कतिचन धूर्तयुवानः कलयन्त्यबलाकरेषु वलयानि ॥ २५ ॥ (निरूप्य) विद्युल्लते नवविद्रुमवल्लिकेव ज्योत्स्लेव रत्नमयकृत्रिमपुत्रिकेव । मायेव पुष्पधनुषो मम पुण्यभूम्ना कैषा परिस्फुरति कैतकपत्रगौरी ॥ २६ ॥ हन्त, सौन्दर्यमस्या निर्वर्णयितुं सहस्रमपि लोचनानि न पर्याप्नुवन्ति । निन्दायामपि चन्द्रमा न विषयो वक्त्रस्य वामभ्रुवो न्यकारोऽपि वृथा भवत्यसदृशे लीलारविन्दे दृशोः । विम्बश्रीरधरस्य नार्हति परीहासेऽपि लक्षीकृति हैमन्यङ्गरुचो विडम्बनमपि हीणे कुतो जायताम् ॥ २७ ॥ पश्यति चेदियमबला फलितं नः पूर्वसंचितैः पुण्यैः । संलपति सादरं यदि स स्वर्गः स परमपवर्गः ॥ २८ ॥ (सविमर्शम् ।) कथमेषा विद्युल्लता । या किल यहच्छासंप्राप्तं वचन विजने मामुपवने विहारैर्व्याहारैरपि परवशीकृत्य चतुरम् । रसोद्रेकबुट्यत्त्वमहमभिमानं परवधू-- रमर्यादारम्भ किमपि किमपि क्रीडितवती ॥ २९ ॥ तावदेनां संलापयिष्यामि । (इत्युपसृत्य ।) विजयख पञ्चबाणपाणिकृपा- णिके । (सहर्षम् ।) किं ब्रवीषि–'प्राणवल्लभ, दुर्लभदर्शनस्य भवतः सुप्रातमेतदहः संजातम् ।' इति । ममाप्येष वादस्तुल्य एव । विद्युल्लते, चलति किमप्रतिरथस्ते मनोरथः । किं ब्रवीषि-'चिरप्ररूढाद्विशङ्कटा- त्पातिव्रत्यसंकटान्मोचयित्वा कथंचिदात्मानं संप्रति कामचारव्रताचारेण भगवन्तं कामदेवमुपासीना स्वच्छन्द विहरामि ।' इति । (सविस्मयम् ।) कथमिदमप्येवं नाम । (सश्लाघम् ।) उदारः कल्पः । कष्टं नाम कामिनीनां पतिगृहवासपातकम् । विद्युल्लते, महत्येव.प्रत्यूषे किंनिमित्तं प्रस्थितासि । , काव्यमाला । कथमेषा विरलवलयं प्रकोष्ठं दर्शयति । अतो मन्ये वलयमोचनं सनिमि- तमिति । ब्रूहि । कुतस्ते वलयभङ्गः । कथमेषा सलज्जस्मितं वदनमवन- मयति । अनेन च रतिकलहो वलयभङ्गमूलमिति व्यज्यते । स परमभिवन्दनीयः सुन्दरि संभोगसंभ्रमे येन । परिमृदितासि निकामं भ्रमरेण शिरीषकलिकेव ॥ ३० ॥ किं ब्रवीषि-'तस्यामपि संकटावस्थायामगणिततादृगातको मामुद्दिश्य महत्साहसं कृतवानसि ।' इति । कः संदेहः । प्राकारमुल्लङ्घय महानिशीथे प्रविश्य कृत्स्नाद्भवनं त्वदीयम् । निद्राति नाथे तदुपान्त एंव त्वयान्वभूवं किल संगतानि ॥ ३१ ॥ किं ब्रवीषि-'तादृशोऽपि त्वमद्य स्वाधीनामपि मां किं न संभाव- यसि ।' इति । महानयमपराधः । किंतु खच्छन्दचारिणीति न जानामि । अहरहरितः परं त्वामहमुपभोक्ष्ये निरातङ्कः । अनुमन्यसे तथा चेदनुग्रहः खल्वयं दयिते ॥ ३२ ॥ अयि वलयविक्रयिन् , एनां प्रति किं ब्रवीषि- 'हैमानि रत्नखचितानि मनोहराणि योग्यान्यमूनि वलयानि तवैव नाम । मूल्यं विनैव मुदितो वितरामि ताव- देोहि सुन्दरि फलं किमतिक्रमण' ॥ ३३ ॥ इति । चतुरतरमुपक्रान्तमनेन । यतः । अस्या वध्वाः कनकवलयामोचने वीतशङ्क प्राप्तुं शक्यः करकिसलयस्पर्शकल्याणयोगः । किं चोदञ्चन्नयनवलनं क्लृप्तसीत्कारधारं व्यक्ताव्यक्ताक्षरमपि वचो लभ्यमभ्यस्यमानम् ॥ ३४ ॥ विद्युल्लते, किं ब्रवीषि—'मानद, सादरमाह्वयतोऽस्यैव तावद्वलयानि क्रीणिष्यामि ।' इति । (रहः।) F शृङ्गारसर्वखभाणः। आस्तां समस्तयुवमोहकरं तवेद- मापादचूडमभिरामतरं शरीरम् । हृद्यं त्वदीयक्चनामृतमेतदेव क्रीणाति मामपि जगन्त्यपि कीरवाणि ॥ ३५ ॥ (इति पदान्तरे स्थिला । विलोक्य च ।) इदं वलयमुल्लसन्मणिमरीचिकारञ्जितं करोमि करपल्लवे तव समीहितं चेदिति । प्रदर्शनमिवाचरन्परदुरापसंल्लापया कयापि कुलसुभ्रुवा सरसमेष संभाषते ॥ ३६ ॥ (पुनर्निरूप्यं ।) कुचाभ्यामाधत्ते कुलशिखरिकूटस्य विभवं मुखेनोद्गृह्णाति श्रियमपि शरत्पर्वशशिनः । अपाङ्गैरजानामपहरति सर्वखमवला बलाधूनामन्तःकरणमियमास्कन्दयति च ॥ ३७ ॥ (विमृश्य ।) कथमेषा कलभाषिणी । या किल कदाचित्कावेरीपरिसरगते नीपविपिने लताकुञ्जे सद्यस्तनकिसलयस्तोमशयने । समारभ्य क्रीडां रसपरवशे मय्युपरते विलोलभूरेषा स्वयमकृत वीरायितविधिम् ॥ ३८ ॥ वलयविक्रयिन्, अनया वलयमूल्यं पृष्टः । किं ब्रवीषि-'दशदी- नाराः ।' इति । हन्त, मूर्खप्रलपितमेतत् । दीनजनकाङ्क्षणीयैर्दीनारैः किं प्रयोजनं यूनाम् । मुखकमलपानमस्या मूल्यमिति ब्रूहि मुग्धवलयानाम् ॥ ३९ ॥ अपि कुशलं कलभाषिण्याः । किं ब्रवीषि सनिर्वेदम् --'किं नाम कुशलं कुलवधूनाम्।' इति । हन्त, कुतः सततं श्वश्रूर्ननान्देति शृङ्खलया निरन्त- रनिरुद्धसंचारा पञ्जरबद्धशुकीव शोकमनुभवसि । पश्य । भवादृश्यः पृष्ठी-

ܘ | ܂
काव्यमाला।
कृतशिष्टमर्यादा निर्याता विहरन्ति स्वैरचारिण्यस्तरुण्यः । अद्य प्रभृति
त्वमपि विशृङ्खलीभूय सफलीकुरुष्व तारुण्यम् । अरण्यचन्द्रिकां मा कुरु
करभोरु, सुकुमारतरं शरीरम् । सभ्रूभङ्गं किं ब्रवीषि–'विरम विरम ।
श्रोष्यन्ति संनिहिताः पतिबन्धवः।' इति । तर्हि साधयामि । (इति कतिचन
पदानि गत्वा । निरूप्य च।)
नाहं शक्तिमती विना गुरुजनानुज्ञानमाज्ञाकरी
प्रातः पाथसि शीतले निपतितुं प्रायो न शक्नोमि च ।
मा मा मां स्पृश साहसेन सहसेत्युद्धोषयन्ती बली-
द्वामाक्षीं वलयप्रसञ्जनमिषाद्गृह्णाति हस्ते युवा ॥ ४० ॥
इयं च ।
पर्याप्तमण्डनवती पाणिधृताम्भोरुहा वरारोहा ।
वीरस्य मकरकेतोर्विक्रमलक्ष्मीरिवाभाति ॥ ४१॥
अस्याश्चा
अद्य व्यक्तं किल कुवलयैश्वर्यमक्ष्णोरुपान्ते
दृष्टं दृष्टं करपरिसरे गौरवं पङ्कजस्य ।
किंच स्पष्टा कनकसुषुमा संनिधावङ्गकानां
हन्तेदानीमधरसविधे वीक्षिता विद्रुमश्रीः ॥ ४२ ॥
(निरूप्य ।) कथमेनां कम्बले निषाद्य हस्ते वलयान्यारोपयत्येषः ।
हस्ताग्रे वलयानि यूनि विदधत्यस्मिन्वणिक्कुंजरे
सीत्कारक्षणमीलितक्षणचलद्भूवल्लरी सुन्दरी ।
मन्दं मन्दमये तुदत्यलमलं मा मेय॑धीराक्षरैः
संभोगं चरितार्थमस्य कुरुते तादात्मिकैविभ्रमैः ॥ ४३ ॥
अपि च ।
समाप्ते वामाक्ष्याः कनकवलयामोचनविधौ
ग्रहीत्वा पाणिभ्यां करकमलयुग्मं च युगपत् ।
वदंश्चाशीर्वाचः शिरसि रचयन्पल्लवमिव
वयं धन्यंमन्यो जयति तरुणः स्वर्णवलयी ॥४४॥

शृङ्गारसर्वस्वभाणः। ११. (पुरोऽवलोक्य । सखेदम् । वलयनिकर भग्नं बालेन्दुसंहतिसुन्दरं करतलगते पात्रे कृत्वा वदन्परुषं वचः। कपिरिव नवां मालां बालां सबाष्पविलोचना. मयमभिपतन्क्रुद्धो बुद्धो बलादनुकर्षति ॥ ४५ ॥ कूलंकषकुचभारा कुङ्कुमकर्दमितमुग्धमणिहारा । कुन्तलविनिहितमाला कुरुते केयं कुतूहलं बाला ॥ ४६ ॥ (सविमर्शम् ।) एषा खल काञ्चनमालायाः कनीयसी कान्तिमती । तावदेनां विमोचयिष्यामि । (इत्युपसृत्य । सरोषम् ।) रे रे नैगमापशद दुरात्मन् , कथमिमा ब्राह्मणी निःशङ्कमेव स्पृशसि । किं ब्रवीषि-'स्वामिन् , अ- नया बहुमूल्यानि बहूनि वलयानि विदलितानि ।' इति । कान्तिमति, किं ब्रवीषि–'प्रागेव मोचनाद्भङ्गुराणि वलयानि ।' इति । नैगम, किं ब्रवीषि-'मा मैवम् । वलयानि यानि यावद्वामदृशोऽस्याः प्रसारितानि करे । दलितानि तानि तावदर्शनमात्रेण कस्यचिद्यूनः' ॥ ४७ ॥ (अपवार्य ।) कान्तिमति, किमेतत् । कथमेषा मौनेनोत्तरमाह । अतः सत्यमेवैतत् । नैगम, किमतः कर्तुमध्यवस्यसि । किं ब्रवीषि- 'अमुमुदन्तमशेषमनुक्रमं कथयितुं दयिताय कुलाङ्गना । निजमियं निलयं प्रतिनीयते वलयमूल्यपरिग्रहणेच्छया' ॥४८॥ हन्त, कियतीयं विभीषिका वृद्धवार्धकिनेयस्य । कान्तिमति, अपवार्य सा- श्रुगद्दं किं ब्रवीषि-'यदि मम प्राणनाथस्य श्रवणपथमवतरेदियं वार्ता, अशोभनं नहि महदापतेत् । अतः किं करिष्यामि ।' इति । अयि कातरे, मा भैषीः । अहमासे तव मानसी व्यथामपसारयितुम् । नैगम, मुञ्चेमां चञ्चलदृशम् । मूल्यादप्यधिकं धनं ते वितरामि । (इति स्वप्रकोष्ठादवमुच्य महाय मणिकटकं प्रयच्छति ।) कथमेष कङ्कणदानेन संतुष्टः पादयोर्निपत्य निष्क्रान्तः। कान्तिमति, सुखेन याहि पतिमन्दिरम् । किं ब्रवीषि-~~-'परतत्रोऽयं जनः कामत्र प्रत्युपक्रियां करिष्यति ।' इति ।

१२
काव्यमाला ।
।
समर मां स्मरतन्त्रेषु स्वतन्त्रेषु विलासिनि ।
धन्यः स्यामियतैवाहमाकल्पं कुलसुन्दरि ॥ ४९ ॥
(परिक्रम्यावलोक्य थे । सकौतुकोल्लासम् ।) एषा खलु समुत्तुङ्गमणिशृङ्गसंहति-
प्रतिहतसंचारविशदशारदनीरदविभङ्गानुषङ्गशङ्कावहायुधालेपधौतैरहरहरुप-
चीयमाननटपटुवाद्यमानातोद्यघोषपोषितान्तरालतया साटोपनिष्यन्दत्स्फार-
नभःसरिदासारभ्रमदायिभिः समुत्तम्भितस्मरजयस्फीतरजतस्तम्भसंभावनीयैः
सौधैरभिमण्डिता रम्भाप्रतिरूपवाररम्भोरूपरिषत्कुचकुम्भपरिरम्भघनजघ-
नाभोगोपभोगलब्धनिरतिशयानन्दैविटपीठमर्दमुखविदग्धलोकैरवतंसिता
शृङ्गाररसप्रथमसमागमवीथिका शृङ्गारवीथिका ।
अधरोत्तरभावमीयुषोरधिमुञ्च सुदृढोपगूढयोः ।
इतरेतरमीहमानयोरिह यूनोश्चरितं महीयते ॥ ५० ॥
तत्सर्वथा नातिक्रमणीया वेशवीथिका । (इति वेशवीथिकाप्रवेशं नाटितकेन।
ऊर्ध्वमवलोक्य ।) लब्धं नयनसाफल्यम् ।
ताम्बूलोद्गरणोद्यता परिगलद्धमिल्लमल्लीसरा
नीवीसंयमने निकाममलसं व्यापारयन्ती करम् ।
वक्षोजच्युतमुत्तरीयसिचयं स्थाने पुनस्तन्वती
प्रासादे पवमानसेवनपरा बाला समालक्ष्यते ॥ ११ ॥
अस्याश्च ।
प्रत्यग्रदन्तपददन्तुरिताधरोष्ठं
धर्माम्बुलेशपरिकम्मतफालदेशम् (१) ।
निःसीमनिःश्वसितनुन्नकुचं नताशयाः
संभोगमाधुनिकमङ्गमभिव्यनक्ति ॥ १२ ॥
कथमेषा मत्प्रणयिनी पद्मावती । अनया संभाषितुमिच्छामि । (इति
प्रासादमिवाधिरुह्य । उपसृत्य च।)
अभ्यग्रनखपदाङ्कितमचिरसमुन्मृष्टपत्रमकरीकम् ।
अद्यतनसुरतविह्वलमङ्गं भवदीयमङ्गगे जयतु ॥ १३ ॥

शृङ्गारसर्वस्वभाणः । १३ कथमेषा मद्वचनमनादृत्य मन्दपवनमेवाभिनन्दति । हन्त, मन्दोऽपि कश्चित्वचिन्मान्य एव । उत्पुलकगण्डभरैया समुदितसीत्कारधारया सुदृशा । संप्राग्घतो युवत्या सादरमालङ्गचते पवनः ॥ १४ ॥ कथमेषा मदधिरोषादिव परावृत्तमुखी तिष्ठति । भवत्वेवम् । (इत्यभिमुखी- भूय ।) अपि प्रिये, सुखमास्यते । किं ब्रवीषि-'अलं गोत्रस्खलितेन । सा खल वक्रमुखी तव प्रिया । कस्त्वं का वाहम् ।' इति । स्मर तरलमृगाक्षि प्राक्तनीमस्य मैत्री- मभिनवमिव किं मामन्यदन्यद्वीषि । दरविकसदुरोजश्लाघनीया ममाङ्के त्वमनिशमधिरूढा शिक्षिता बन्धभेदे ॥ ५५ ॥ किं ब्रवीषि---'किं नाम वस्तु किंचिदभिमर्शमात्रेण स्वीयं भवति दृश्यते । इति । सस्नेहमङ्कमधिरोग्य निसर्गरम्यां त्वामीषदुन्मिषदुरोजभराभिरामाम् । आलिङ्गय गाढमधरं मधुरं त्वदीय- मास्वादयन्नहमनैपमहानि तानि ॥ ५६ ॥ किं ब्रवीषि–'अधरास्वादः कंचिदधिकः परिजयहेतुरुपन्यस्तः किमे- तावता।' इति । प्रस्मरसि किं सुगात्रि प्रथमऋतुस्नानमङ्गला भवती । प्रेम्णा मयोपभुक्ता प्रथमरसावेशदुर्ललिता ॥ १७ ॥ किं ब्रवीषि—'कादाचित्केन केनचित्कर्मणा किं नाम भवतः कलत्र- मस्ति ।' इति । परां कोटिमापन्नः कोपः । भवतु । एवमपनेष्यामि । (इति पादयोर्निपत्य ।) असावस्मि प्रेयान्परिचरितुमने चरणयो- रपाङ्गव्यापारावसरमभिकासन्नवहितः। .

काव्यमाला। किमप्यन्तः कृत्वा किमिति दयिते कुप्यसि मुधा वद स्तोकं दासे मयि विदितमागः कियदपि ॥ १८ ॥ सप्रसादं किं ब्रनीषि-'आ यौवनारम्भादवियोरन्योन्यमनन्यसाधा- रणः प्रणयः । इति । प्रसिद्धमेतत् । मध्ये च किंचित्कालं केनापि दैवदुर्वि- पाकेन तथा नाम समापतितम् । भवतु । किं गतसंकथया । अद्यप्रभृत्यात्मनो भृत्यजनेष्वसावपि गणनीया भवता ।' इति । किमेतदपि प्रार्थनीयम् । सुरतान्तदुर्बलाङ्गी सुमुखि त्वामुरसि सरसमाधाय । कुचकलशपीड्यमानः करोमि किं ब्रह्मधः शयनम् ॥ ५९ ॥ कान्ते, नितान्तं परिश्रान्ता भवती क्षणं विश्राम्यतु ।' (इति परिक्रम्या- वलोक्य च । सहर्षम् ।) असौ पटीयानधिपो विटानामारब्धकिंचित्कलहः कुतश्चित् । समुन्नतोरोजभरोपनीतं सव्यानमाकर्षति सारसाक्ष्याः ॥ ६० ॥ प्रक्ष्यामि तावदेनम् । (इत्युपसृत्य ।) अये विटशेखर, किंनिमित्तस्ते कलहः सारसाक्ष्याः । किं ब्रवीषि–'मणिगुप्तकाख्यविहारे पराजिता खल्वेषा।' इति । कीदृशोऽयं विहारः । कीदृशश्च तत्र जयः पराजयो बा। किं ब्रवीषि—'मत्तकाशिनीपयोधराकारशालितया परिकल्पितेषु पतिभूतेषु सैकतराशिषु कुत्रचित्तद्विहारप्रवृत्तेन नरेण क्वचिद्गोपितो मणिनिमीलिता- क्षेण तदन्येन येन समुद्घीयते तस्य जयो न चेत्पराजय इत्येवं संप्रदायो मणिगुप्तकविहारस्य । हन्त, अपूर्वोऽयं विहारः । किं ब्रवीषि-'ईदृशस्य विहारस्य प्रक्रमावसर एवं तावदावयोरस्ति पणक्लुप्तिः ।' इति । सा की- शी। किं ब्रवीषि-'अहं चेत्पराजितो मासमेकं प्रत्यहं तव शतनिष्क वितीर्य परिचरेयम् । भवती चेत्पराजिता मासमात्रं मम कलत्रभावमा- लम्बताम् ।' इति । इयं च पराजिता मया च त्रिचतुराणि दिनानि कलत्र- निर्विशेषमुपभुक्ता । संप्रति पुनरन्यथा प्रतिपद्यते । तस्मादयमारम्भः । तदेतद्विचार्यमत्रभवता ।' इति । सारसाक्षि, किं ब्रवीषि--'आवयोरस्ति कश्चिदन्यः समयबन्धः पणबन्धे । तस्मिन्मासे यदि प्रमादात्प्रमदान्तरेण प्रसज्येत संगमस्तदारभ्य लुप्येत कलत्रभाव इति । अयं च ह्यो निशीथे शृङ्गारसर्वस्वभाणः । १५. मम कनीयस्या मुक्तावल्या संगतः । इति । किमत्र नियामकम् । कथं चेदमुपपद्यते । किं ब्रवीषि–'केनापि निमित्तेन विलम्बितगतिरहमेवास्य शयनागारगतस्य कर्पूरवौटिकां वितरेति मुक्तावली विसृष्टवती । सा त्वनेन बलात्कृत्योपभुक्ता कृच्छ्रादागत्य मां प्रत्याह यथावृत्तमस्य वृत्तान्तम्।' इति। विट, किं ब्रवीषि-'सप्रणिपातं भूयो भूयः प्रार्थितवत्यपि सा तरुणी प्राज्ञेन मया समयबन्धमनुस्मृत्य परित्यक्ता किल । अतः स्वाभिमताला- भपरितप्तास्याः पुरः किमपि प्रलपितवती ।' इति । सारसाक्षि, किं ब्रवी- षि-'अस्तु नामैवं प्रलापः । निदर्शनं तु कथमन्यथयितव्यम् । तस्याः प्रत्यागमनसमयग्लानिरङ्गेषु हृष्टा दृष्टान्येवं दशनवसने किंच दन्तक्षतानि । आस्तामेतन्निखिलमधुना पश्यतेन्दीवराक्ष्याः प्रत्यक्षं वः कुचकलशयोर्भान्ति रेखा नखानाम् ॥ ६१॥ विट, किं ब्रवीषि- 'क्रीडासद्मनि हंसतूलशयने निद्रालसोऽहं स्थितः सा तत्रावसरे समेत्य रभसादुत्सङ्गमध्यास्त वीटी तद्वदने मया वितरता किंचिन्निपीड्याधरं वक्षोजे निहितः करः किमियता कामः समाराधितः ॥ १२ ॥ सारसाक्षि, किं ब्रवीषि—'अनङ्गशेखर, श्रूयते किमस्य वचनवैखरी । किमिदानीमधरोत्तरभावापन्न एव हस्तग्राहं न गृहीत इत्यस्याभिमानः ।' इति । विट, प्रायस्त्वय्येव परिणमत्यपराधः । किं ब्रवीषि-'किमुच्यते त्वय्यपराध इति । मयि का तावदपराधलवस्यापि प्रसक्तिः । मुक्तावली परमपराध्यति या किल मम ज्यायसी स्वयं पुष्पिणीति स्वस्या आदेशतया मामिह प्राहिणोदित्यभिधाय छद्मना केवलमाक्रीडितवती ।' इति । साधु रचितः सारसाक्ष्याः शिरसि कुञ्चितपञ्चाङ्गुलिप्रयोगो वयस्येन । सारसाक्षि, भवत्यैव प्रथममनुचितमाचरितमस्य निकटे वधूटी प्रेषयन्त्या । तावदेनं यथापूर्व कलत्रभावेनानुवर्तख ।' इति । (कतिचित्पदानि गत्वा विभाव्य च ।) मे काव्यमाला। K कस्याश्चिदायताक्ष्याः काचित्पिदधाति कामिनी नयने । अन्यास्ततः समन्तादालयकोणेपु लिप्यन्ते ॥ १३ ॥ अयं किल चक्षुरक्षिधानं नाम विहारः । (विमृश्य ।) साक्षिण्या सुमध्य- यानया पिहिताक्षी काञ्चनमाला । (पुनर्निरूप्य सविस्मयम् ।) नयने पिधातुमस्या नालं विस्तीर्णपाणियुगलीति । कुचसिचयप्रान्तेन स्थगयति वदनारविन्दमेणाक्ष्याः ॥ ६४ ॥ कथमेषा काञ्चनमाला मुक्तचक्षुरपिधाना इतस्ततो विलीनाः सखीर- न्वेषयन्ती करलग्नां कलभगमनामानयति । (उपसृत्य ।) काञ्चनमाले, तव हस्ते कथं लग्ना कलभगमना । किं ब्रवीषि-'किमत्र चित्रं नाम । यत्रासीदियमङ्गना सतिमिरे गेहे निलीना सती तत्रापि स्मितचन्द्रिका पिशुनयत्यङ्गप्रभाप्याहताम् । भूयानेष पदे पदे कुचपरीणाहो निरुन्धे गति तस्याः संप्रति कस्य वा करतले गात्रं न लग्नं भवेत् ॥ १५ ॥ इति । (सश्लाघम् ।) युज्यते युज्यते । अस्या विशृङ्खलपयोधरजृम्भणेन मध्यं प्रतिक्षणविशतितभङ्गमास्ते । लावण्यनिर्झरतरङ्गनिमग्नमङ्गं हासप्ररोहभरिता हरितां विभागाः ॥ ६६ ॥ कलभगमने, न खल्वीदृशे विहारे भवादृशीनामधिकारः । तस्मादितो. मुखं मुखं मनागपाङ्गय । तावदहमेव प्रतिनिधीभूय त्वदीयं कृत्यं निर्वर्त- यिष्यामि । काञ्चनमाले, लग्नः स्यां यदि योषितामधिगमे तस्मिन्विधेये मया सुप्रापः कुचकुम्भयोईढपरीरम्भो हि संभाव्यते । लीनः स्यां यदि वा तदापि सुदृशा कार्ये ममालम्भने लभ्येतैव घनस्तनस्तबकयोरव्याजमालिङ्गनम् ॥ ६७ ॥ किं ब्रवीषि-'किमद्य कलहंस इव चेष्टितुमध्यवसितोऽसि ।' इति । किं चेष्टितं कलहंसेन । किं ब्रवीषि- शृङ्गारसर्वखभाणः । १७ 'हस्ते शश्वल्लगति सुदृशामङ्गसंस्पर्शलामा- ल्लम्मो लग्नः स्मरपरवशास्ताश्च गृह्णाति भूयः । सोऽयं धूर्तो विजनभवने लीयमानां मृगाक्षी लब्ध्वा सद्यः सुरतरभसव्याकुलाङ्गीमकार्षीत् ॥ ६८ ॥ इति ! हन्त, कथमनङ्गशेखरेऽप्यनाश्वासो वेश्याजनस्य । मुग्धे काञ्च- नमाले, किं न जानासि । अहरहरूमहारमादधाना रहसि ममावसरं प्रतीक्षमाणाः । अहमहमिकया समीहमाना हरिणदृशः कति नाम नोपभुक्ताः ॥ १९ ॥ किं ब्रवीषि—'आपणमापणमध्यास्ते लोकः । गच्छ गच्छ ।' इति । (सरोष परिक्रम्यावलोक्य च । सकौतुकोल्लासम् ।) कथमम्बरकरण्डकाख्यविभ्रमप्र- वृत्तानां मत्तकाशिनीनामिह समवायः समुल्लसति । अत्र काचित् एकं करण्डकमुदस्यति दक्षिणेन वामेन किंचिदितरत्करपल्लवेन । व्यत्यासतो निपतिते करयोरुभे ते पर्यायतः पुनरुदस्यति पक्ष्मलाक्षी ॥ ७० ॥ (पुनर्निरूप्य।) एषा रत्नकरण्डयुग्ममुपरि प्रक्षिप्य दोर्लाघवा- देकेनैव करेण तन्निपतितं गृह्णात्युदस्यत्यपि । अन्येनापि करेण तावदनया रीत्यैव शातोदरी संगृह्णाति समुत्क्षिपत्यपि मणिप्रायं करण्डद्वयम् ॥ ७१ ॥ (सविमर्शम् ।) इयं सा कलकण्ठी। उपसरामि तावदेनाम् । (इत्युपसृत्य ।) अये पतितसंग्रहप्रवृत्ते, स्वस्ति भवत्यै । किं ब्रवीषि-'न खल्वद्यतनी बस्तनी वा मे पतितसंग्रहप्रवृत्तिः । किं तु यदा त्वयि निरङ्कुशो निहितः स्नेहानुबन्धस्तदानींतन्येव ' इति । आलोलकतणझणझणनादभव्य- सव्यापसव्यकरकारितताण्डवानि ।

काव्यमाला ।
चत्वार्यमूनि मणिखण्डकरण्डकानि
कुर्वन्ति हन्त हृदि मे कमपि प्रहर्षम् ॥ ७२ ॥
तदप्यस्थाने कुतो महान्तमायासमात्मनः संपादयसीत्यमर्षेण तथा
भणामि । किं ब्रवीषि-'प्रकृत्या मयि पक्षपाती नाम भवान् ।' इति ।
कलकण्ठि, अस्ति किंचिदस्य जनस्य विज्ञापनीयम् । अर्धक्षणमवसरः
प्रदातव्यः । सबहुमानं विहारमुपसंहृत्यावहिता किं ब्रवीषि-कीदृशी
विज्ञप्तिरत्रभवतः।' इति ।
उत्सङ्गे भवतीं निधाय सरसं संलापमभ्यस्य च
प्रेम्णा ते मुखवीटिकाविनिमयव्याजाद्गृहीत्वाधरम् ।
पाणिभ्यामपि ते पयोधरभरामर्श विधाय स्वयं
कामप्यद्य कृति कयापि विधया कर्तुं मनः काङ्घति ॥७३॥
किं ब्रवीषि-'किमेतदपि दुर्लभं नाम । आत्मीयं खलु कलत्रमंत्र-
भवतः कलकण्ठी।' इति । हन्त । अन्यदनेन प्रष्टव्यमुपस्थापितमुत्तरेण ।
कलकण्ठि, कस्य त्वमद्य कलत्रमसि । (विचिन्त्य ।) आः, स्मृतम् । मम पुरः
पुरा वितीण खलु वसन्तकेन वत्सरस्य कलत्रपत्रम् । सनिर्वेदं किं ब्रवीषि-
'किं वक्ष्ये तन्महाभारतम् ।' इति । किं पत्रलिखितप्रकारानुसारेण न चा-
लितो विधिर्जाल्मेन । किं ब्रवीषि-'किं सर्वोऽप्यनङ्गशेखरः।
मासे मासे वसनयुगलं मादृशां श्लाघनीयं
पक्षे पक्षे परमभिनवा कञ्चली रत्नगर्भा ।
प्रातः प्रातः परिमलमुचो वीटिका गन्धमाल्ये
नक्तं नक्तं नवमपि पयो देयमित्यस्ति पत्रे ॥ ७४ ॥
अयं तु पारदारिकः
दत्ते किंचिद्वसनमसमं मादृशीनां वधूनां
दत्ते कांचित्प्रशिथिलमणी कञ्चुली मे पुराणीम् ।
पक्षस्य द्विदिशति विरसा वीटिका नेतरे द्वे
प्रायो नक्तं वितरति पयः पण्डितो वञ्चनायाम् ॥ ७९ ॥

शृङ्गारसन्नेस्वभाणः ।
१९.
न केवलं दातव्यं न दत्तम्, प्रत्युत सर्वमप्यपहर्तुमारब्धम् ।' इति । कथय
मे कथमेतत् । किं ब्रवीषि-'स तावदतिस्नेहाभिनयेन त्रिचतुराणि वास-
राणि प्रत्यहमन्यमन्यमुपहारमुपाहरत् । मया तु स्त्रीस्वभावसुलभेनाविवेकेन
तदीयं प्रेम परमार्थमेव मत्त्वा विहितो महान्वित्रम्भः । ततश्च कचिद्र-
जन्यां चिरं तेन समं विहृत्य नितान्तं परिश्रान्तिवशेन गाढमुन्निद्रया
परवत्यां मयि सर्वाण्यपि भूषणान्यवमुच्य मुक्ताहारमेकमादातुमुरसि कर.
न्यासमारंचयत् । तेन प्रतिलब्धबोधया मया तत्क्षणमेव हस्तग्राहं गृहीतः।'
इति । हा धिक् । अयं वराकः क ते संगतो भुजङ्ग इव चन्दनलतायाः ।
किं ब्रवीषि-'एतदुपश्रुत्य दुर्मर्षणया जनन्या जीर्णशूर्पण संताड्य निर्वा-
सितः। तदा प्रभृति प्रत्यहमभ्यागतान्भवादृशो यूनः सभाजयन्ती सुखेन
प्रतिवसामि ।' इति । मदीयाभिराभिराशीभिः शरदः शतमित्थमम्लानयौवना
सुख्मास्त्र । (इति कतिचित्पदानि गत्वा निरूप्य च सहर्षम् ।) अत्र खल्वारचन्ति
कन्दुकविहारं तरुण्यः । असाविह वसन्तकलिका
वसनमुरसि स्रस्तं सस्तं निजे दधती पदे
'विषमितमपि स्थाने स्थाने विभूषणमन्ततः ।
किमपि किमपि प्रोद्गायन्ती करेण पुनः पुनः
प्रवहति जवाभामं भ्रामं वधूर्मणिकन्दुकम् ॥ ७६ ॥
(उपसृत्य)
मणिकन्दुकताडनोत्सुके मदनप्राणनमन्त्रफक्किके ।
कुचकन्दुकमर्दनस्य ते प्रतिजानीष्व पणः कियान्मतः ॥ ७७ ॥
किं ब्रवीषि-'अहो, कियद्वैदग्ध्यम् । साधु साधु । यत्र क्रीतं तत्रैव
विक्रीयते ५ इति । वसन्तकलिके, कथमेष पादमूलपतितोऽपि निर्दयम-
भिहन्यते। अथवा प्रकृत्यैव यं कंचिदपि हस्तलग्नमधरीकुर्वन्ति वाराङ्गनाः।
वाचालकङ्कणगणेन भुजेन कण्ठे
मामन्तिकस्थमभिगृह्य निपात्य मञ्चे ।
आक्रम्य वक्षसि निपीड्य पयोधराभ्या-
माक्रीडितं खलु तलोदरि, यद्भवत्या ॥ ७८ ॥

२० काव्यमाला। (पुनर्निरूप्य।) परिभ्रश्यद्वक्षोवसनसुखलक्ष्यस्तनतटं समुद्राम्यत्पादाम्बरललितदृश्योरुयुगलम् । उदस्तव्यत्यस्ताभरणसुविभाव्याङ्गकरुचि भ्रमन्त्येषा यूनां भ्रमयति मनांसि प्रतिपदम् ॥ ७९ ॥ मानिनि, मा कुरु साहसमीदृशम् । अपायो भविष्यति वलग्नस्य । कथमेषा विरम्य निमीलिताक्षी निःश्वसिति । कुवलयनयनायाः क्लान्तिनिष्पीडिताङ्गया. श्चलति कुच्दुकूलं चारु निःश्वासवाते । श्रमजलकणिकानां श्रेणिरस्यारविन्दे वहति च मकरन्दस्यन्दसंदोहलक्ष्मीम् ॥ ८ ॥ अयमवसरः सम्यगनया संलपितुम् । श्रान्तासि नाम सुमुखि श्रमविश्रमाय किं वीजयामि सहसा वसनाञ्चलेन । अन्तनिवेशमथवा सपदि प्रविश्य पानीयमेव मधुरं किमुपाहरामि ॥ ८१ ॥ किं ब्रवीषि-'अलमायासेन । मधुरतरेण वचनामृतेनैव भवतो निः- शेषमपनीतो मदीयश्रमः।' इति । स्मरसि किमसिताक्षि प्रक्षिपन्ती करण प्रसवसरनिबद्ध कन्दुकं प्राङ्ममाङ्गे । पुनरपि मम हस्तप्रेरितेनैव तेन त्वमपि सरसमङ्गे हन्त संताडितासि ॥ ८२ ॥ सनीडस्मितं किं ब्रवीषि-'जानामि तदुत्तरप्रवृत्तचरित्रविशेषानुसंधा- नार्थमित्थमात्थ ।' इति । हन्त, कथमद्यापि न विस्मरसि वीरायितम् । किं ब्रवीषि-'अहं तु न विस्मरामि । भवता पुनरद्य मदीयभाग्यविपर्ययेण प्रागिव भूयानिह परिचयो न विधीयते ।' इति ।

श्रृङ्गारसर्वस्वभाणः । २१ दासे मयि प्रेयसि दारुणानि वृथा प्रयुझे वचनाक्षराणि । करोमि वासं तव संनिधाने कटाक्षमात्रावसरप्रतीक्षः॥ ८३ ॥ आस्व । साधयामि । (इति पदान्तरे स्थित्वा निरूप्य च सानन्दम् ।) अन्योन्यबद्धपरिहासपरम्पराभि- राभिर्वधूभिरभितः परिवार्यमाणा । मञ्जुक्वणत्कनककङ्कणमङ्गणेऽस्मि- लक्षान्विनिक्षिपति संप्रति पक्ष्मलाक्षी ।। ८४ ॥ (उपसृत्य ।) अयि पक्ष्मलाक्षि, करेण पक्केरुहसोदरेण प्रक्षेप्तुमक्षान्प्रतिगृती त्वम् । मदीयमप्यक्षपदाविशेषागृह्णासि किं लोचनमानताङ्गि ॥ ८५ ।। किं ब्रवीषि–'अनङ्गशेखर, एोहि । किमागतासि । मया पुनरक्ष - क्रीडाक्षिप्तचित्तवृत्त्या न ज्ञातं भवदागमनम् । अयं महानपराधः।' इति । कथमेषा हस्ते गृहीत्वा मामर्धासने निवेशयति । (परस्परसंस्पर्शमभिनयन् ।). स्पर्शेन ते परमसुन्दरि दुर्निरूपं निर्वाणमुन्मिषति मे दुरवापमन्यैः । पश्य प्रिये भजति संप्रति मे शरीर- मुन्मस्तकस्तबकनिर्भरनीपरीतिम् ।। ८६ ॥ (क्षणमिव स्थित्वा विभाव्य च ।) कथमेषा कुम्भस्तनी मन्दारकेण सह कि- मपि व्यवहरन्ती मदन्तिकमुपसर्पति । कुम्भस्तनि, किं ब्रवीषि-'व्यवहारः कश्चिदापतितो भवता परिच्छेत्तव्यः ।' इति । भवत्वेवम् । किं ब्रवीषि- 'अद्य षण्मासानस्याहमस्मि प्रणयिनी ।' इति । जानामि तावत् । येन के- नापि पराजितेन जनेन जितवतोऽधः शेतव्यम्, अधरश्च तस्मै दातव्यः, इति तामरसाक्षीसाक्षिणीकं संकल्पितपणबन्धयोरावयोरासीदक्षक्रीडायांप्रवृत्तिः । तत्र तवैषा संप्रेष्या दिष्टया जितवती । पराजितः स्वयं संकल्पितमर्थ न संमन्यते । तदिदं न्यायतो निर्णेतव्यं भवता।' इति । मन्दारक, किमेषैव परिपाटी । किं ब्रवीषि-'अहं तावदेतावदेव जानामि । - २२ काव्यमाला। - - अस्या मनुक्कणितवलयं शश्वदक्षान्क्षिपन्त्याः स्तोकाल्लक्ष्यस्तनकलशयोः सर्वदा दत्तदृष्टिः । चाटुपायैः सहजमधुरैः प्रेर्यमाणो वचोभिः प्रीत्यै भूयः करनिपतितान्प्राक्षिपं तावदक्षान् ॥ ८७ ॥ अनन्तरं चानया जितं मया जितं वा को वेद।' इति । कः संदेहः । इत्थं व्यवहारमादधानेन त्वयैव जितं नाम । कुम्भस्तनि, किं ब्रवीषि- 'किमद्य साक्षिण्यप्यस्तंगता ।' इति । मन्दारक, किं ब्रवीषि-सामरसा- क्ष्युत्कोचदानेन किंकरीकृता साक्षिणीभावमात्मनि समारोपितवती । कथ- मस्या वचसि विश्वासो भविम्यति ।' इति । (अपवार्य ।) मन्दारक, कस्त- वाध्यवसायः । किं ब्रवीषि- 'आरोग्य मञ्चमपनीय च नीविबन्ध- मारुह्य पीवरपयोधरभारमस्याः । आस्वाध चाधरसुघारसमायताक्ष्या रन्तुं यथेच्छमभिवाञ्छति मानसं मे ॥ ८ ॥ तन्मदीयमनोरथानुरोधेन विधातव्यम् ।' इति । कुम्भस्तनि, इत्थं ब्रूते किल मन्दारकः। तदुपरि किमभिप्रेयते भवत्या। किं ब्रवीषि-'भवदुक्ति- राकर्ण्यते ।' इति । (कुम्भस्तनी हस्ते गृहीत्वा ।) शेष्वाधस्तादथ वितर वा तस्य बिम्बाधरं त्वं शेतेऽधस्तादधरमथवा सोऽपि द्वत्ते भवत्यै । अस्मिन्नर्थे समरसतया नास्ति कश्चिद्विशेषो भूयो भूयः कलहविधया ब्रूहि किं वा फलं वा ॥ १९ ॥ (उत्थानमभिनयन्नूर्ध्वमवलोक्य ।) हन्त, मण्डयति भगवान्मध्यमम्बरस्य महसां पतिः। अद्य हि अन्तस्तोयममी विशन्ति शफराः शीतं सरःशैवलं भृङ्गाः पङ्करुहान्धयन्ति च मधून्यावीक्ष्य पक्षानिलैः ।

....... शृङ्गारसर्वस्वभाणः। सालानां रभसालवालवलयानध्यासते बहिणः क्रीडन्ति क्लमविक्लवाः कटुरवा गोपानसीपालिषु ॥९० ॥ (परिक्रम्यावलोक्य च।) अग्रे कयापि मुखनीतमणीकलाची पश्चात्कयापि सुदृशा करदत्तवीटी। पार्श्वद्वये व्यजनमण्डलवीज्यमाना डोलाविहारमरविन्दमुखी करोति ॥ ९१ ॥ इमामुग्रातपवेलामनया संलपन्नपनेष्यामि तावत् । (इत्युपसृत्य ।) कथ- मेषा मामालक्ष्य प्रत्यवरोहति । अरविन्दमुखि, तूष्णीमास्त्र तूष्णीमास्स्व । किमुत्थानप्रयासेन । तव सुवदने गुञ्जन्मञ्जीर' "पदद्वयं कलकलमिलत्काञ्चीदामाञ्चिता जघनस्थली । हिमरुचिरुचिस्निग्धं मुग्धस्मितं मधुरं वचः खयमुपचरत्यस्थाने तत्तलोदरि सांप्रतम् ॥ १२ ॥ किं ब्रवीषि-'प्रियदर्शन, सत्वरमधिरुह्य सनाथीकुरु डोलाम् ।' इति। (तथा कृत्वा ।) अये अरविन्दमुखि, मध्याह्ने गृहानागता मद्विधा मनीषिणो यथाभिमतमातिथ्येनोपस्थानमर्हन्ति । एष प्रियातिथिरुपाहर मेऽङ्कपीठं पाणौ निवेशय पयोधरनालिकेरम् । वीटी प्रदेहि वदने यदनेन कान्ते मुञ्चामि येन मदैनातपतापखेदम् ॥ ९३ ॥ किं ब्रवीषि-'मध्यरात्रः किल कालो मकरध्वजविधिचोदितस्य भव- द्विधातिथ्युपराधनस्य ।' इति । मा मैवम् । रन्तुं प्रतीक्षणीया रजनी किल वेद किंकरैरेव । खच्छन्दचारिणां पुनरहरहराहुः स्मृतं सुरतम् ॥ ९४ ॥ किं ब्रवीषि-'कामपि गीतिक्रियामत्रभवतः कर्णपथमवतारयन्ती कृ- तकृत्यमात्मानं कर्तुमभिलषामि ।' इति । (सहर्षम् ।)

२४ काव्यमाला। मे कुन्तक्षतेन्दुमण्डलरन्ध्रनवदमृतधारया गीत्या । चिरतरमुपोषितं स श्रवणद्वयमद्य पारणां लभताम् ॥ ९ ॥ कथमेषा भ्रूसंज्ञाविज्ञातनियोगया परिचारिकर्या सरभसमुपनीतां वीणां गृह्णाति । कुवलयविलोचने त्वं कुरुषे किल पाणिपल्लवे वीणाम् । अहमपि करे करोमि किमधुना कुचतालमादरेण तव ॥ ९ ॥ कथमेषा वीणां वादयन्ती सारिगमपधनीति सप्तस्वरैरुचावचारोहावरो- हमनोहरं गायति । (मुहूर्तमाकर्ण्य ।सबहुमानम् ।) अलमरविन्दमुखि, निवृतं हृदयम् । समाप्यतां नाम संगीतकम् । मा भूदस्थाने भूषणरत्नानां द्रवीभावेन तिरोभावः । तव तन्वनि संगीते द्रवन्ति हि शिला अपि । निःसारो माक्षिकासारो नीरसश्च सुधारसः ॥ ९७ ॥ हन्त, अमृतवर्षणाभिषेकेणैव शिशिरीकृतं मम शरीरम् । अनेन प्रसन्नो भवत्याः प्रसवायुधो युधि निजायां विजयं विधास्यति । (अवतीर्य कतिचित्पृ- दानि गला । निरूप्य । सानन्दम् ।) सव्येन दर्शितैकस्तनभारमुरस्तिरोदधती । व्यावृत्य मां कटाक्षैर्व्यथयति भुवनैकसुन्दरी केयम् ॥ ९८ ॥ एषा खलु कम्बुकण्ठी रत्नचूडेन सह विवदमाना कटाक्षेण मामाह्व- यति । (उपसृत्य ) कम्बुकण्ठि, किं ब्रवीषि-'ज्ञायते युग्मायुग्मदर्शनं नाम विहारः । ज्ञात एव । मुक्ताभिः परिपूरितां मुष्टिं प्रदर्यात्र मुष्टौ युग्ममयुग्मं वा मौक्तिकमिति केनचिदनुयुक्तः प्रतिद्वन्द्वी युग्ममिति वायु- ग्ममिति वा किंचित्पतिजानीते । अनन्तरं मौक्तिकानां विभन्नने परि- शिष्यमाणं प्रतिज्ञानुसारेण संपद्यते चेत्प्रतिज्ञाकृतो जयो न चेदपजय इति खलु युग्मायुग्मदर्शनाख्यविभ्रमलक्षणम् । अत्र विभ्रमे प्रसक्तो विवादः।' इति । किमस्ति पणव्यत्यासः। रत्नचूड, किं ब्रवीषि—'मम परा- जये तत्कैंकर्यम्। जये च तत्वामिभावः।' इति पणः। नात्र कश्चियत्यासः।

शृङ्गारसर्वस्वभाणः ।
२५
-
-
रत्नचूड,
किं ब्रवीषि-'मुक्ताफलगणनायां येन जनेनापहवः क्रियते स
निर्जितः । इति संकेतः । अनया चापह्नवः कृतः । तथाहि-
मुक्ताफलपरिपूणौ मुष्टिमियं नः प्रदर्य मुग्धाक्षी ।
युग्ममयुग्मं वा मे मुष्टिगतं मौक्तिकं वदेत्याह ॥ ९९ ॥
अहं तु युग्ममिति प्रतिज्ञाय,
मुक्ताफलानि करनिष्पतितानि युग्म
युग्मं क्रमेण पुरतो विभजामि यावत् ।
अत्रान्तरे मितकिशोरमरीचिकाभि-
रेकीकृतानि सकलान्यपि सानसाक्ष्या ॥ १०० ॥
इति । कम्बुकण्ठि, किं ब्रवीषि-'मदीयेऽपि मन्दहासे मूलमस्यैव
जल्पितम् ।' इति । एष किमाह । किं ब्रवीषि-
जेष्यामि त्वामिह विहरणे पश्य मे चातुरीं त्वं
जित्वा च त्वत्कुचमपि नखैः पीडयिष्यामि तावत् ।
काले किंचिन्मदभिलषितं कृत्यमारभ्य कुर्व-
बुद्धो रुद्धस्त्वदधरमधु स्वादु पास्यामि तावत् ॥ १०१॥
इति । रत्नचूड, किं ब्रवीषि-'इदमप्युत्तरमेतस्या वचसः । एषा
खल्वेवमाह-
जित्वा भवन्तमधुना विधिनामुनैव
वक्षोजभारवहने विनियोजयिष्ये ।
क्रीडासु काखपि समुन्मिषति श्रमे वा
संवाहने चरणयोः सहसा नियोक्ष्ये ॥ १०२॥'
इति । कम्बुकण्ठि, किं ब्रवीषि—'अस्य निष्कारणं कुचभरे कर-
विन्यासेन परवशतया मम तथा निर्गतं वचनम् ।' इति । रत्नचूड,
किमेतत्सत्यमेव । किं ब्रवीषि-
'मुक्ताफलं किरन्त्या मुग्धदृशः स्तनभरेण मदपाङ्गः ।
प्रस्तस्तामुपदातुं न्यस्तो हस्तो मया तत्र ॥ १०३ ॥

२६ काव्यमाला । इति । अयं दुरुच्छेदो विवादः । (अन्यतो विलोक्य ।) द्वैधीभूय स्थितमुभयतो यौवतं तत्र काश्चि- प्रत्यस्यन्ति प्रसवरचितं कन्दुकं खं युवानः । आयान्तं तं वियति समुपादीयता एव नम्रा- स्तानारुह्य स्तनभरनताः सुभ्रुवो विभ्रमन्ति ॥ १०४ ॥ कथमेषा कृशोदरी पलायमानं मकरन्दकं हस्ते गृहीत्वा निर्भर्त्सयति । (उपसृत्य ।) अये कृशोदरि, किमेतत् । किं ब्रवीषि-'अयं खलु गजपति- कुसुमकन्दुको नाम विहारः । अत्र च यूनां युवतीनां च समाजे परस्पर- प्रतिस्पर्धितया व्यवस्थिते यत्समाजानुप्रविष्टस्य कस्यचिज्जनस्य हस्ते क- न्दुको लगति तदनुप्रविष्टा एव त्रिचतुरः प्रतिस्पर्धिसमाजान्तर्गतांत्रिचतु- रानश्वानिवाधिरुह्य प्रतिवसन्तीति मर्यादा । संप्रति मदीययानया गृहीतः कन्दुकः । अयं तु मम प्रतिद्वन्द्वी मामधिरूढां वहन्नन्तराले पातयित्वा पलायितुमुपक्रमते।' इति । मकरन्दकसंज्ञस्य भवतो विप्रतिषिद्धा प्रवृत्तिरेषा । यस्या दर्शनमेव कामपि मुदं दुग्धे विदग्धे जने संलापः सकृदेव यत्र विहितः स्वर्ग प्रसूते भुवि । कैवल्यं विलसीकरोति किल यत्संस्पर्शजा निर्वृति- स्तां वोढुं सुदतीं तवाद्य न कियत्तप्तव्यमुग्रं तपः ॥ १०५ ॥ किं ब्रवीषि-'मार्गे गच्छतो मन्दिरनिर्माणं सुकरम् । बिभ्रतः खलु भारः।' इति । कथमेषा तन्वी कृशोदरी भारायते भवतः। किं ब्रवीषि- 'बाढं तन्वी भवति सुदती बाढमेषाणुमध्या बाढं लघ्वी पदनलिनयो ढमन्यत्र मृदी। किं त्वेतस्याः शिखरिपुलिनैश्चर्यपर्याप्तिसीनोः स्फारो भारः स्तनजघनयोः सर्वथा दुर्वहो मे ॥ १०६ ॥' इति । तर्हि एवंभूतोऽपि सन्नत्र विहारे कथमनुप्रविष्टः । किं ब्रवी- षि-'अस्या नाहं प्रतिद्वन्द्वी किं तु चारुहासिन्याः । सा किल तालाकारस्तनभरवती ताम्यमानावलग्ना बाला किंचिद्विपुलजघना बालरोमावली च ।

शृङ्गारसर्वस्वभाणः। २७. तामुद्रोढुं तरलनयनामुत्सहे मां च सापि वैषा योषा घनकुचभरा क्वाहमाद्यो मृदूनाम् ॥ १०७ ।' इति । तद्येनामित्थं ब्रेयाम् । कृशोदरि कृपा न किं तव बत प्रमुग्धासि किं युवानमतिकोमलं किमधिरोहसि प्रेयसि । तवोन्नतघनस्तनं गुरुनितम्वबिम्वं वपु. न वोढुमयमर्हति स्वयममुं त्यज प्रार्थये ॥ १०८ ॥ किं ब्रवीषि-आलयघण्टामणिनाशेऽप्यर्चकस्य का हानिः ।' इति । ननु तवापि न हानिः । अस्य स्थाने मल्वीवर्धनमाकल्पयिष्यामि । किं ब्रवीषि-किमिदानीमापणनालिकेरमध्वविनायकस्य प्रहरसि । तवानुग्रह- श्चेदसिंस्त्वमुबह । तावदमुं त्यजामि ।' इति । उद्वाहः खलु नारीणामुदारो वेदचोदितः । अनुतिष्ठामि चेदेनमभिवन्द्योऽस्मि सर्वतः ।। १०९ ॥ अये मकरन्दक, चारुहासिन्याः प्रतिद्वन्द्वी किमर्थमेनां वहसि । किं ब्रवीषि-'संप्रति परिवर्तनेन मम प्रतिद्वन्द्वितयेयमापतिता।' इति । (अप- वार्य ।) एषा न मुञ्चति । पलायख तावत् । (परिक्रम्यावलोक्य ।) आलोचनोज्झितपरस्परजल्पिताना- मश्वादिपद्धतिषु दत्तविलोचनानाम् । प्रकान्तचक्रहयकुक्षरसगराणा सङ्घश्वकास्ति चतुरङ्गविहारभाजाम् ॥ ११० ॥ कथमेषा मारवल्लरी विदग्धभूषणेन साधैं विगृह्णती कूकूरुतं करोति (उपसृत्य ।) मारवल्लरि, किमत्याहितम् । किं ब्रवीषि- 'श्लथयति कबराणां भारमभ्यग्रबन्धं नवमपि कुचभागे पत्ररेखं प्रमाष्टिं । अधरमपि गृहीत्वा स्वादयन्नेष रागी सरशनमपनेतुं चेलमालम्बते च ॥ १११ ॥ - .२८ काव्यमाला। इति । विदग्धभूषग, कथमविनयः क्रियते । किं ब्रवीषि–'को नामा- विनयः । चतुरङ्गविभ्रमे निर्जितैषा । ततः संकेतितपणानुसारिणी मम प्रवृत्तिः । इति । (अभवार्य ।) मारवल्लरि, अनङ्गसंगरे तैस्तैरद्वितीयासि विभ्रमैः ।, सा त्वमद्य कथं बाले चतुरङ्गरणे जिता ॥ ११२ ॥ किं ब्रवीषि—'अन्यव्यासक्तचित्तया मया बलप्रचारे न दृष्टिरर्पिता।' इति । जानामि ते मनःप्रणिधानशैथिल्यकारणम् । कदा मामाक्रम्य स्तनशिखरसीनि प्रियतमः शयानः स्वच्छन्दं रहसि रमयिष्यत्यनलसः । कदा वा संभोगश्रममनुभविष्याम्यहमिति व्यवस्यन्ती चित्तं मयि किल विलीनं व्यरचयः ॥ ११३॥ कथमेषा ब्रीडानम्रेण मुखेन प्रतिब्रूते । मारवल्लरि, कस्ते मनोरथः । किं ब्रवीषि-'जयासिध्या भवितव्यम् ।' इति । विदग्धभूषण, भवतो विजये प्रमाणं किंचिदाख्याहि । किं ब्रवीषि—'अम्या मन एव साक्षि ।' इति । मूर्ख, तर्हि किमिति गर्वायसे । किं नामासाक्षिको व्यवहारः साधीयान् । तदयमकृतप्रायो विभ्रमः । पुनरन्यः प्रारभ्यताम् । विदग्धभूषण, किं ब्र- वीषि-'यदादिशति प्रियवयस्यः ।' इति । मारवल्लरि, स्वप्मेऽपि ते कुचभरे करमर्पयित्वा सीत्कारमुग्धमधुरं सरसं निपीय । विस्त्रस्य नीविनहनं भवतीं प्रसह्य संनद्य कर्म किमपि स्वयमाचरामि ॥ ११४ ॥ (इति पदान्तरे स्थित्वा विभाव्य च ।) श्मश्रुस्तोकपरिष्कृतवत्रः संपन्नयौवनः कोऽयम् मारसुकुमारमूर्तिमस्तकविन्यस्तपुस्तकः स्फुरति ॥ ११६ ॥ (विमृश्य ।) कथमेष कामन्तकः कामाक्षीमहोत्सवसफलीकृतलोचनः काञ्चीपुरीतः प्रतिनिवृत्तः । (उपसृत्य ।) सखे कामन्तः, अपि कुशल्यसि ।

शृङ्गारसर्वखभाणः । २९ (परिष्वज्य ) किं ब्रवीषि-'दिष्ट्या संतीर्णविरहार्णवो भवन्तं पश्यामि ।' इति । हन्त । कया ते विरहः संगमो वा । किं ब्रवीषि-तत्र कदापि दिवसावसानावसरे पुरसौन्दर्यसंदर्शनाय समन्ततः संचरन्नचञ्चलमल्लिका- क्षपक्षसंधुक्षितमारुतोत्सारितकमलावलीविलीनमदकलालिकलभकाहलीकम- नीयायाः कमलिन्याः कस्याश्चन कच्छमगच्छम् । तस्मिन्नेव समसमयसमु- दितसौदामिनीसमुदायसंपदिव संपादितसत्त्वसंबन्धा पञ्चशरराज्यसौभाग्य- देवतेव परिणताकारा कातराक्षी काचिदेवातरदपाङ्गयोः पदवीमदवीयसीम्। साकूतस्मितवलिताननाभिरामं पश्यन्ती प्रणयविकस्वरैरपाङ्गैः। उत्फुल्लोत्पलविपुलायतेक्षणा मे सा चेतश्चतुरतरं वधूरमुष्णात् ॥ ११६ ॥ प्रतिनिवृत्तायां ततस्तस्यां प्रमुषितचैतन्यो मुहूर्तमितिकर्तव्यतामूढतया स्तब्ध एव स्थितवानस्मि । अथ परिसर एव सरसः परिदृश्यमानभृङ्गस- 'वसंघट्टननिष्पतत्पुष्पकल्पितास्तरणं शरणं प्रपद्य हृद्यमुद्यानं युगमिव निग- मय्य कतिचिदतिचिरायमाणानि वासराणि यावदेवं प्रलपितुं प्रवृत्तोऽस्मि तीव्रो दाहो वपुषि जडता चक्षुषोरश्रुभूम्मा निद्राभङ्गादपचिततया नालमन्यत्र गन्तुम् । हा हा कष्टं प्रबलविरहव्याधिना दूषितोऽहं किं वा कुर्वे किमु समुचितं वेदमावेदयामि ॥ ११७ ॥ इति, तावदेव संजीवनौषधिरिव संजातजीविका कल्पलतेव कल्पितसंचारा काचन आपलाक्षी मामुपेत्य सादरमप्राक्षीत्-'कस्त्वं परिक्षीणश्चन्द्रमा इव समालक्ष्यसे। कुतश्च तिरश्वामपि दयनीयां दशामापद्यसे । सर्वथा मामव- धार्य विस्रम्भस्य भाजनं निवेदय वेदनीयम्' इति । समनन्तरम् 'अयि निष्का- रणप्रेमशालिनि, यदा पुनरसिन्कमलिनीकच्छे कांचन काञ्चनलतामिव तलो- दरीमद्राक्षम् , तदारभ्य ममेयमवस्था । अद्य समस्तोऽपि भारस्त्वयि विन्यस्तः। तदुपरि यथा रोचते कुरु तथा' इत्युक्त्वा विरमति मयि सा पुनरेवमब्रवीत्- १ काव्यमाला। 'तरुणराज, तस्या मन्दभाग्याया निदेशेन सर्वतो विचिन्वन्ती किमप्यति- करुणं वचनमुपश्रुत्य भाग्योदयादिह भवन्तं पश्यामि । सापि त्वदर्शनेन सद्यः स्मरशरापातपरिक्षुभितचेतना प्रस्खलितचलितचरणार्पणं प्रसृतमार्ग- संसर्ग कृच्छ्रादगारमगात् । आगत्य च निन्दन्ती निजमण्डनानि सुदती निःश्वस्य निःश्वस्य सा विन्दन्ती तनुतापमप्रतिकृतिं भूयो वियोगाकुला । म्लायन्ती नवमल्लिकास्रगिव च न्यस्ता महत्यातपे ध्यायन्ती हृदये भवन्तमनिशं कान्ता परं ताम्यति ॥ ११८ ॥ तस्मादद्य नक्तं निष्कुटवनमाक्रम्य संजीवय मे प्रियसखीम्' इत्यभिधाय निरगच्छत् । अहमपि निशीथे प्रसृमरतिमिरपूरपरिप्लाविते जगति चम्पक- बकुलमल्लीमुखप्रसवपरिमलभरभङ्गुरमरुदङ्कुरमेदुरं मुद्रितमधुकरीझंकारं मुकुलितकलकण्ठकाहलीसंचारं विविधसालजालाभिरामं प्रविश्य गृहाराम परिपालयति मयि सापि सखीजनस्वरविशेषविदितमदागमनवृत्तान्ता नि- द्रोणे प्राणनाथे निर्वाप्य दीपं निःशब्दमुद्धाट्य कवाटं पुरेव तिरोधाय द्वारं पुरोधाय धैर्यम् विश्रान्तनूपुररवं पथि मन्दमन्दं विक्षिप्य पादमपदे भयकम्पितोरु । आलोक्य शश्वदभितो निजबन्धुभीत्या संकेतमागतवती सहसा मृगाक्षी ॥ ११९ ॥ आगत्य च ॥ वक्षोजभारदृढपीडितवक्षसं मा- माभाष्य पुण्यदमृतस्रुतिभिर्वचोभिः । अस्तंगतात्मपरिभेदविवेकमेक- मप्राकृतं रतमकारि तया तरुण्या ॥ १२० ॥ इति । साधु सखे, साधु । निपुणः खलु भवान्निधुवनविद्यायाम् । किं ब्रवीषि-'कथमन्यथा भाजनं भवामि भवदीयप्रेमसंभारस्य ।' इति । किमे.

शृङ्गारसर्वस्वभाणः।
तच्छिरसि धार्यते पुस्तकमिव । किं ब्रवीषि-भवति ज्योतिःसिद्धान्त-
सारावली नाम ।' इति । तर्हि ब्रूहि मे मनोरथम् । गणित्वा किं ब्रवीषि-
'कालालकालिभरया कमलायताक्ष्या
कूलंकषोन्नतकुचावनताङ्गयट्या।
तारुण्यदुर्ललितया तपनीयकान्त्या
तन्व्या समागमनमेव मनोरथस्ते ॥ १२१॥
इति । (सशिरःकम्पम् । करेण करमास्फील्य ।) सखे, प्रवीणोऽसि कामतन्त्र
इव ज्योतिस्तन्ने । कदा पुनर्मनोरथस्य संपत्तिः । किं ब्रवीषि-'अद्य
रजन्याम् । इति। भवतु । मनोरथसिद्ध्यनन्तरं पारितोषिकं ते वितरिष्यामि।
किं ब्रवीषि-'सामान्यतो जानामि केवलं कुत्रापि कामिनीरने विहितो
भावानुबन्धो भवतेति। तद्विशिष्य ज्ञातुमभिलषामि।' इति । सखे, किमस्ति
तवापि गोपनीयं नाम ।
अव्याजसुन्दराङ्गकमप्राकृतरूपयौवनोन्मेषम् ।
कल्याणवेषमास्ते कनकलता नाम कन्यकारत्नम् ॥ १२२ ॥
किं ब्रवीषि—'कथमदृष्टचरे तस्मिञ्जने भवतः स्नेहानुबन्धः ।' इति ।
पश्यन्ती मां प्रणयपिशुनैर्दीर्घदी(रपाझै-
ाजात्कस्मादपि नवनवं तन्वती मन्दहासम् ।
मध्येमार्ग परिजनवृता मन्दमन्दं प्रयान्ती
संदृष्टा मे सरसिजमुखी संमुखीना कदाचित् ॥ १२३ ॥
किं ब्रवीषि-
'किं ते लब्धः कुवलयदृशा संगमः प्रेमभाजा
संरम्भो वा किमु विरचितः संगमे संनताङ्गया ।
किं वाकार्षीः कुचभरपरीरम्भमस्याः कदाचि-
संलापं वा सकृदपि तया सानुरागं व्यधाः किम् ॥ १२४ ॥
इति । न किंचिदेतेषु । किंतु दर्शनमेव केवलमासादितम् ।
कटाक्षवागुराबद्धं विद्धं कामशरैरपि ।
कर्षन्ती निर्दयं चेतो गतैव मम कामिनी ॥ १२५ ॥

काव्यमाला। - किं ब्रवीषि- 'स्थित्वा क्षणं त्वमिह सुन्दरि साधयेति यान्तीं वधू परवशेन किमब्रवीस्त्वम् । मार्ग तदीयमवरुध्य पुरःस्थितः किं पश्चाद्तो नु पदवीमनुसृत्य तस्याः ॥ १२६ ॥ इति । तत्क्षणमेव तदीक्षणपातमात्रेण मोहितमतिरतिदुरासदमदनानल- दह्यमानमानसः शनैर्निजं निवेशं प्राविशम् । तदारभ्य निन्दन्निन्दु निखिलनयनानन्दकन्दायमानं मन्दस्पन्दं मळ्यमरुतं मल्लिकातूलिकां च । चिन्तामन्तश्चिरमुपचितं तापमापद्य चाहं क्षन्ता हन्त क्षणमपि सखे नामि घोरसरातः ॥ १२७ ॥ किं ब्रवीषि-'अचिरेण भविष्यत्येव युवत्या संगमः।' इति । अङ्गीकरोतु जनमेनमनङ्गलीला- भङ्गीषु योषिदनुरागवशेन मा वा । तन्वी पुरेव पुरतः स्थितिमेकवारं तन्वीत चेन्मम तदेव विनोदहेतुः ॥ १२८ ॥ कथमत्र संनयन्ति स्तम्भननटाः । एते नाट्यप्रवीणाः कटिदृढघटितक्षौमकक्ष्याभिरामा धावन्तो दूरमूरुप्रचुरपरिचलन्निक्कणत्किङ्किणीकम् । अध्वन्यधैं धृतज्यं धनुरिव तनुमावर्य सज्जीकृतानां वारं वारं वधूनामुदरमभिमृशन्तोऽविणा लङ्घयन्ते ॥ १२९ ॥ हन्त स्तम्भनटाङ्गनाः कतिचन प्रेयांसमंसस्थले पादाभ्यामभिहत्य मूर्धनि चिरं तिष्ठन्ति निश्चेष्टितम् । उत्प्लुत्याम्बरसीमि चक्रमिव च भ्रान्त्वा निपातक्षणे पद्भ्यामेव पुरेव भूतलमलंकुर्वन्ति नार्योऽपराः ॥ १३० ॥ सखे, पश्येदं योषित्साहसम् ।

शृङ्गारसर्वस्वभाणः । ३.३ पाशावलम्बकलया सहसाधिरुह्य स्तम्भारमुन्नतमुरोजभरेण खिन्ना । तिर्यग्विवर्तिततनुस्तरुणी चिराय चक्रे परिभ्रमति चम्पकमालिकेव ॥ १३१ ॥ (अन्यतो विलोक्य ।) 'उद्यानोद्धतगन्धसिन्धुरनिभावाबद्धयुद्धादरौ कक्ष्याबद्धकटीतटौ सविकैटभ्रूभङ्गभीमाननौ । रुष्टौ गाढगृहीतमुष्टियुगलौ मुक्ताट्टहासौ मिथः पर्यायं चरतोऽत्र मण्डलतया मल्लौ समुल्लासिनौ ॥ १३२ ॥ किं च। आस्फोटस्फुटितखमस्तकतटीसंघट्टितस्तम्भिता. वन्योन्यं लघुलङ्घनेन झटिति व्यस्तौ पुनस्ताविमौ । भ्राम्यन्तौ भुवि चक्रवच्च सुदृढं संश्लिष्य सद्यःस्थितौ मुष्टिभ्यामितरेतरं प्रहरतो मल्लौ मुहुर्मासलौ ॥ १३३ ॥ (पदान्त स्थित्वा ।) कथमिह प्रवृत्तमेव चरणायुधयोरायोधनन् । तथा हि। किंचिच्छिद्रोपलम्भादभिपतति जवादुन्नमत्कण्ठनालो भूयो वैरिप्रहारान्परिहरति परिभ्राम्यति प्रान्तमेति । उड्डीयोड्डीय चञ्चद्गरुदुरुमरुदुद्भूतपर्यन्तधूली- पालीकं कुक्कुटेन्द्रः पदनखशिखरैरन्यमङ्गे निहन्ति ॥ १३४ ॥ अन्यच्च । अनतिविवृतपक्षः साधु संनह्य युद्धे निजमिह न जहाति स्थानमानम्रचूडः । अनिमिषनिहिताक्षस्तूर्णमभ्युद्रवन्तं प्रहरति परमुच्चैरुच्चलंस्ताम्रचूडः ॥ १३५ ॥ (स्तोकमन्तरं गत्वा निरूप्य च ।) बकादिगरुदावलीवलितमौलिरुद्धोषय- स्वकीयबिरुदावली भसितलेपभीमाकृतिः ।

काव्यमाला । भुजार्पितभुजङ्गपुंगवभयंकरोऽनुद्रुत- प्लवङ्गमयुगान्वितः स्फुरति दारुणः कौशिकः ।। १३६ ॥ अयं च गुञ्जामणीखचितमास्यबिले निवेश्य तुम्बीफलं क्रमचलाङ्गुलिना करेण । उच्छूनगण्डमुपद्धनिरस्तरन्ध्र- मुच्चैमनोज्ञमुपगायलि कौशिकोऽन्यः ॥ १३७ ॥ (श्रुतिमभिनीय।) भ्राम्यन्मन्दरकन्दरप्रसृमरव्याकीर्णदुग्धार्णव- स्रोतस्तुङ्गवलत्तरङ्गपटलीनिध्वानविध्वंसनः । कल्पान्तोद्यमहाधनाधनघटासंघर्षघोषोद्भटो रुन्धन्व्योम दिशश्च दुन्दुभिरवः स्फारं समुज्जृम्भते ॥१३८॥ किमद्य दुन्दुभिनि?षे कारणं भवेत् । (विचिन्त्य ।) असंशयमद्य क्स- न्तोत्सवे कावेरीतीरतिलकायमानं विमानाकारं मणिमण्डपमलंकर्तुकामस्य भगवतः पार्वतीवल्लभस्य प्रस्थानमङ्गलारम्भः संभावितः । तथा हि । आसिक्ता घनसारवारिभिरितोऽप्यासिच्यमानाः पुन- लक्ष्यन्ते विशिखा विकीर्णसुमनःसंभारमाध्वीरसैः । बध्यन्ते परितः पुरं मणिमयप्रासादपतिद्वय- स्यूतानेकवितानतोरणगणैः साकं पताका अपि ॥ १३९ ॥ किं ब्रवीषि-'सत्यमेवैतत् । नीरन्ध्र वियदन्तरं ध्वजपटच्छत्रच्छटाकोटिभिः पुष्पैरद्य निरन्तरा वसुमती कुन्दारविन्दादिभिः प्रत्याशं पुरमेतदायतदृशामोधैरमोधीकृतं संपूर्णे पटवासपांसुनिकरैरत्रोत्सवे रोदसी ॥ १४० ॥ अत्र कतिचिदतिचिरं पतिगृहकारानिरुद्धतया कदाप्यविज्ञातबहिरङ्गणाः कुलाङ्गनाः कथमपि लब्धगुरुजनाभ्यनुज्ञानतया शनैःशनैनिःसरन्त्यः, ख- च्छन्दं चरिष्यन्त्यः, खानुरूपतरुणावलोकनकुतूहलेन शतगुणीकृतोत्साहाः, नैसर्मिकशरीरसौन्दर्यातिरेकेण नयनसहस्रसंदर्शनीयाः, पश्यति चेदियमद्य ।

शृङ्गारसर्वखभाणः।
३५
परिणतं पुण्यैरिति बोधमादधाना रसिकानाम् , विकिरन्त्यः कटाक्षाङ्कुरा-
नभिरूपेषु, सानुरागं विचिन्वन्त्यः खाभिमतान्विलासिनः, यदृच्छया सं-
निहितेषु सहृदयेषु परस्परकटाक्षसंश्लेषणस्तिमिताः,, सखीभिः साकं संल-
पन्त्य इव हन्त चिरस्य पश्यामि न स्मृतं तत्ताहगावयोराक्रीडितमिति
जारैः संलपन्त्यः, अविगलितमपि धम्मिल्लमल्लीसरमभिमृशन्त्यः, कराग्रे-
णाप्रच्युतैमप्युत्तरीयमुरसि मुहुः संविदधानाः, अस्थाने मन्दहासमारचयन्त्यः,
अपदे किमप्युत्तरमुदीरयन्त्यः, वासत्रैषिता इव खरिवनिताः, वारिदप्र-
च्युता इव विद्युल्लताः, जेष्यन्त्य इव जगन्ति, चेष्यन्त्य इव यशो मकरध्व-
जस्य, धनसारनिर्भरवीटिकापूरितकपोलमण्डला मण्डलायमाना मण्डयन्ति
महावीथिकाम् ।' इति । तदावामपि साधयावः । (इति कतिचित्पदानि गत्वा
पुरो विलोक्य च ।)
प्रसवमयविमानमध्यराजद्रजतमनोहरपुंगवाधिरूढः ।
प्रभुरिह पुरतः पुरामरातिः प्रचलति संप्रति पार्वतीसनाथः ॥१४१॥
('हर हर' इति शिरस्यञ्जलि बद्धा ।)
सोढुं नालमहं मनोभवकृतां बाधामसाधारणी
त्वामार्तः शरणं व्रजामि मदनद्वेषिन्दयावारिधे ।
मां संयोजय कान्तया विरहिणं किं जीवितेनान्यथा
किं न ज्ञातमिदं त्वया वितरता वामं प्रियायै वपुः ॥१४२॥
(पुरो विलोक्य सभयकम्पम् ।
अयमिह महाशुण्डादण्डप्रकाण्डपरिभ्रम-
प्रकटितदुराधर्षोत्कर्षप्रभावसमन्वितः ।
मदपरवशः कृत्ताकृष्टार्धपीवरशृङ्खला-
कृतझणझणात्कारोदारः करी परिदृश्यते ॥ १४३ ॥
हन्त हन्त,
करिणि मदालसे स्फुरति शैल इव प्रचले
धुरि परितो विशीर्णहृदयोऽखिलपौरजनः ।
पतति पुनः समुत्पतति धावति रोदिति च
प्रचलति च वेपते भ्रमति पश्यति वित्रसति ॥ १४४ ॥

काव्यमाला ।
.
कथमत्र संभ्रमे पलायमानैः सह पलायितो वयस्यः कामन्तकः ।
(विचिन्त्य ।) नायं मदान्धो गन्धद्विपः किंतु प्रथमसमाराधनाकरणपरिकुपितस्य
भगवतः करिवदनस्य प्रदुर्भाव एव । तदेनं स्तुत्या सान्त्वयिष्यामि तावत् ।
अञ्जलिरयं जनानामातङ्कच्छेदविरुदाय ।
वरदाय दिव्यगन्धद्विरदाय ध्वस्तसर्वदुरिताय ॥ १४५ ॥
जय जय जगतां मूल जय जय भो जन्मकल्मषद्वेषिन् ।
गजवक्र विघ्नशत्रो सुत्रामस्तुतचरित्र शिवपुत्र ॥ १४६ ।।
कथमेष स्तुतमात्र एव प्रसन्न इव परावर्तते । (परिक्रम्य निरूप्य च ।)
विविक्तरमणीयोऽयमुद्देशः ।
आचम्य सह्यतनयासलिलस्य लेश-
मालिप्य पङ्कजपरागमयीं विभूतिम् ।
वातो गृहीतमकरन्दरसोपहारो
देवं सभाजयितुकाम इवायमेति ॥ १४७ ॥
तदत्र स्थित्वात्मानं विनोदयिष्यामि । (इत्युपविश्य ।) कः पुनरभ्युपाय,
स्तामधिगन्तुम् । अथवा सर्व संविधास्यति चन्द्रमुखी । निरूप्य ।)
कथमुपस्थितैव चन्द्रमुखी । सखि, किम्वमोघा भवदीयप्रवृत्तिः। किं
ब्रवीषि-'का पुनरत्र कोट्यन्तरवार्तासि' इति । अद्य किमवस्था
कनकलता । किं ब्रवीषि-'किं वक्ष्यामि । त्वदर्शनमारभ्य
न वहति वधूराहारेऽपि स्पृहां न च मण्डने
न भजति निशानाथे मोदं न चन्दनवारिषु ।
बत न कुरुते शश्वत्प्रीतिं प्रियेऽपि संखीजने
श्रयति नितराम वायासमेव निरन्तरम् ॥ १४८ ॥
अपि च ।
आस्रासारो हरति कुचयोरद्य हारस्य लक्ष्मी
गण्डाश्लिष्यत्करनखरुचिः कर्णपूरस्य शोभाम् ।
कान्तायास्ते विरहदहनग्लानगाव्याः किमन्य-
प्राणाः पञ्चाप्यहरहरलंकुर्वते कण्ठमेव ॥ १४९ ॥

शृङ्गारसर्वस्वभाणः। एवं दुर्दशापन्नां तामवेक्ष्य वत्सला तज्जननी मामाहूय 'केनापि प्रकारेण वत्सामनोरथं पूरय' इति करमालम्ब्य प्रार्थितवती । तदद्य चन्द्र- शालायां कनकलतया भवन्तं योजयिष्यामि ।' इति । कथं मे चम्पकमा- लिकां कण्ठे संधारयति । कण्ठे धृता विकचचम्पकमालिकेय- मानन्दमावहति कंचिदभूतपूर्वम् । कन्दर्पकेलिकलहेषु तया सलील- मेणीदृशा भुजलता विनिवेशितेव ॥ १५० ॥ परितुष्टोऽहम् । परिणतश्च वासरः । रक्तश्चुम्बति वारुणीमुखमसावम्भोजिनीवल्लभः कान्ताभिः कमलोदरेषु मधुपाः संवेशमातन्वते । आपन्नप्रियविप्रयोगविधुरास्तिष्ठन्ति चक्राङ्गनाः संकेतस्थलमुद्दिशन्ति कुलटाः साकं विटानां वरैः ॥ १५१ ॥ मज्जति पश्चिमसिन्धौ पङ्कजबन्धौ समं करैरखिलैः । सद्यस्तमःप्रबन्धैः सान्द्रीभूतं समन्ततो भुवनम् ॥ १५२ ॥ एतस्मिन्समये मनोभवशरव्यापारसंजीवने ब्रह्माणः परदारसंगममहासत्रेषु ये दीक्षिताः। ते वात्स्यायनसंमतव्रत""तानुष्ठानबद्धस्पृहा मोदन्ते परसुन्दरीकुचपरीरम्भक्रियारम्भिणः ॥१५३ ।। चन्द्रमुखि, एहि । गच्छावो यत्र सा मम प्राणनाडी । (परिक्रम्य । सोपा- नाधिरोहणं नाटयित्ला । निरूप्य च.1). मृदुलास्तरणोपधानशय्यासविधारोपितदीप्रदीपरम्यम् । अभिरामवितानमायताक्ष्याः शयनागारमुदारमेतदास्ते ॥ १५४ ॥ कर्पूराञ्जनधुटिकाघनीकृता बहलकार्तिकज्योत्स्ना । मूर्ता कुसुम... राज्ञा मुग्धाक्षी भाति कनकलता ॥ १५५ ।। चन्द्रमुखि, त्वं प्रथमं याहि प्रियसखीसमीपम् । अहमप्यनुपदमाग- [त एव ।] कनकलते, सखी प्रति किं ब्रवीषि-'कथमेषा प्रियसमीपं गता।

काव्यमाला। मर्मच्छिदा मलयपर्वतमारुतेन मामेष हन्ति सहितो मदनः शरारुः । चेतोहरो यदि चिरायति जीवदायी हा किं करोमि सखि संप्रति मन्दभाग्या ॥ १५६ ॥ इति । (उपसर्पन् ।) कान्ते, मैवं वादीः । अहमेव मन्दभाग्यः समागमने कृतविलम्बः । प्रतिपालयत्यपि त्वं दूषयसि धन्यमात्मानम् ॥ १५७ चन्द्रमुखि, कनकलतां किं ब्रवीषि- 'उत्कण्ठिता त्वं यदलाभदोषादुपस्थितोऽयं तव चित्तचोरः . बैद्धा भुजाभ्यां कुचशैलभारं निवेशयास्योरसि निर्विशङ्कम् ॥ १५८ ॥ कथमेषा सहसाध्वसोत्कम्पं नतमुखी तिष्ठति । चन्द्रमुखि, माँ प्रति किं ब्रवीषि- 'प्रसर कादाचित्कं प्रौढातपतापखेदमनुभूतम् । मोदव कुमुदवत्त्वं चन्द्रिकया गाढमुपगूढः ॥ १५९ ॥ इति। शीर्णा त्वया चन्द्रमुखि प्रतिज्ञा मया च तीणों विरहार्णवोऽद्य । मनोरथोऽयं परिपूरितो मे कल्याणमाशास्यति नः किमन्यत् ॥ १६०॥ तथापीदमस्तु । (भरतवाक्यम् ।) श्रीवाचौ कुरुतां महत्सु विहृतिं त्यक्त्वा विरोधं समं भूयः किंच मिलन्तु मङ्गलचया गोब्राह्मणेभ्योऽनिशम् । भूपैनौतिपथानुसाररसिकैर्भूरस्तु राजन्वती भूयादस्य कवेश्च शंकरपदध्यानानुरक्तं मनः ॥ १६१ ॥ (इति निष्क्रान्तः।) प्रागेव विशद्वयसः प्रबन्ध्रा नल्लाकवीन्द्रेण सुधीश्वरेण । शृङ्गारसर्वस्वमिति प्रतीतः संदर्भितोऽयं सरसः प्रबन्धः ॥ १६२ ॥ इति श्रीकौशिककुलजलधिराकासुधाकरश्रीबालचन्द्रमखिवरतनूभवश्रीनल्लाबुधकविशेखर- विरचितः शृङ्गारसर्वखं नाम भाणः संपूर्णः । :

No text on this page.

Shrungarasarvasvasvabhaand-an'

Author
Shriinallaa
Title
Shrungarasarvasvasvabhaand-an'
File name
Shrungarasarvasvasvabhaand-an'
Text
OCR done
Citation
1902
Publisher
Tukaram Javaji,bombay
Language
Sanskrit
Pages
46
Library
Svi-vmpl-machilipatnam
Classification
Literature
DLI number
368856
Barcode
5010010032869.00
Scanning centre
RMSC, IIIT-H
Rights
OUT_OF_COPYRIGHT
VMLT id
MYchTmyx1vU
Download PDF

Shrungarasarvasvasvabhaand-an'