S.P College, Srinagar
A Esop's Fables Part Ii
Front matter
No text on this page.
S.B.VIA
18
ईसब्नीतिकथाः।
द्वितीयो भागः।
नारायण बाळकृष्ण गोडबोले
मूल्यं ६ आनाः ।
COLLEG
R
PRATAR
SRI
to LIBRARY.-
t.
Subject
Blut
No.
TE
Il ft: 10
ईसब्नीतिकथाः।
ÆSOP'S FABLES.
PART II.
CONTAINING SEVENTY-FOUR (61-135) FABLES OF ÆSOP.
TRANSLATED INTO SANSKRIT
From the Marathi Text of
SADÂSIVE KÂS'INÂTHA CHHATRE,
BY
NÂRÂYANA BALAKRISHNA GODABOLE, B. A.
VICE PRINCIPAL, TRAINING COLLEGE, Poona.
FOURTH EDITION.
(Registered according to Act XXV of 1867.)
PRINTED AND PUBLISHED
BY
TUKÂRÂM JÁVAJÍ,
Proprietor of Javaji Dadaji's “Nirnaya-sagar" Press
Bombay:
1906.
Price 6 Annas.
090260
4taas
A 35 G
4297
( All rights reserved by the publisher.)
अथ - ईसब्नीतिकथाः। कथैकषष्टी (६१)। श्येनपिकयोः । कश्चिद्गातुरेकदोत्सेधवन्तं तमालशाखिनमधिष्ठाय सुखरं जगौ। तद्गानेन साटवी निबद्धप्रतिशब्दा बभूव । ततस्तत्व- नाकृष्टो नातिदूरे परिभ्रमन्बुभुक्षापीडितः कश्चिच्छशादनः सरभसं तमाक्रम्य खरनखरैश्चकर्ष । यावच्च तं जिघत्सति तावत्स तमभिधत्ते- "भोः, मयि दयस्व । नेदमुचितं ते नि- प्ठुरं कर्म । पश्य नाहमागस्कृत् । भक्षितेन मया ते ग्रासोऽपि न भविता । कमप्यन्यं तार्ह विहंगमं जहि । एवं कृते यश आप्नोषि, उदरपूर्तिश्च ते भविष्यति। मुञ्च मां तावदनाथम् ।” पत्री तं प्रति ब्रवीति-"ऑ, ज्ञायते। अवितथमाह भवान् । कण्ठशोष भाषख त्वम् । परमहं प्रभातमारभ्य निरशनेन म्रिये । त्वं च दिष्टया मम हस्ते पतितः । स त्वमात्थ 'उत्सृज माम्, अन्यं स्थूलविग्रहम- ण्डजं तृण्डि' इति । ब्रूहि त्वमेव, एवमनुष्ठिते मूढशब्द- भाको भवेत् । तात्पर्यम्। व्यवसायिनो नरो लाभस्याल्पत्वमहत्त्वे न गणयन्ति । अपि तु प्राप्तंप्राप्तमङ्गीकुर्वन्ति । गहनस्तावत्कालम- १. कोकिल:. महाकायं - ४ ) पुच्छे हिमा । सहस्रधा च विघ्ना अभिभवन्ति । बुद्धिरपि न- श्चञ्चला, भङ्गुरं चेदं जीवितम् । ईदृशानन्तरायानालोच्य तात्कालिकं लाभं विहायायतिकं लाभमालम्बमानो मन्द- धीरन्तेऽनुशेते । कथा द्वाषष्टी (६२)। छिन्नलाङ्गूलस्य सृगालस्य । काचिच्छिवोन्म माथे धृता सती तच्छित्वोच्चलिता । एतावता हृप्यति चिन्तयति च सा-'यत्र जीवितसंशयो- ऽभूत्तत्र लाङ्गूलच्छेदेन मुक्तिरभवत्" इति । स च भूरि- माय आत्मीयान्प्रति जिगमिषति यदा, तदा पुच्छराहि- त्यविषये महान्तं विषादमनुबुभूपुरुपांशु मन्त्रयते-“अहो' वरं प्राणैर्वियोगो न पुनरीदृशी मानहानिः । आस्तां ता- वत् । गतं न शोचामि । कथमस्य स्वानुकूल्येन पर्यवस्था- पनं विधेयम्" इति । एवं बहुविधं चिन्तयता तेनैको मृ दुरुपायश्चिन्तितः । स ब्रवीति-"अहं गोमायुसमजस्याग्रे चक्षे-भोः, पश्यत बालहस्तं छित्वापूर्वोऽयं भूषाप्रकारो मयोपन्यस्तः। यतश्चायमादरणीयः, तस्मात्स्वीकारमर्हति ।" एवं संप्रधार्य स मृगधूर्तकानां यूथमाहूय तस्मिन्समुदये तस्यापूर्वभूषाप्रकारस्य चर्चामनेकधाकार्षीत् । सोऽभिदधे- "निप्प्रयोजनान्यस्माकं लूमानि । तत्रापीमे शृगालबाल- धयस्तु केवलं भारात्मकाः । एकतस्तावद्भसितपुच्छत्वं भू घणम्, द्वितीयतस्तावत्पलायनप्रसङ्गे द्रुततरगमनशक्तिमत्त्व मनेन संभवतीति पूर्व मनसि कृत्वा पश्चात्तदनुष्ठितं मया । तावता सत्यप्रतीतिरूपस्यानुभवस्य भाजनमभूवम् । बाल- ( ५ ) धिच्छेदनात्प्रभृति च सुख्यहमभवम् ।” एतावदुक्त्वा विरम्य कियन्तो मामनुव्रजन्तीति सर्वेषां मुखेषु बद्धदृष्टिरभूत् । अत्रान्तरे तन्मध्यात्कश्चित्प्रवयाश्चौरकर्मशौण्डो वञ्चक उ- त्थाय तस्य वचसां छलं बोधित्वा सग्रीवाभङ्गमुवाद-"भो लब्धवर्ण, कृतं तवोक्तिपाटवेन लाङ्गूलच्छेदेनासंशयं भ- वन्तः कृतिनोऽभूवन् । परं यदा जीवितसंदेहदोलां वयम- धिरोक्ष्यामस्तदा वयमपि तत्त्यक्ष्यामः ।" तात्पर्यम् । यदि सर्वेऽप्रमत्ता अभविष्यंस्तर्हि व्यर्थमन्यप्रयोजि- तानभिनवान्भूषाप्रकारान्कोऽपि नाग्रहीप्यत् । पुंसु प्रायः सर्वे भूषाप्रकाराः खखमानितां प्रकटयितुं किमपि छिद्रं गोपयितुं वा प्रयुज्यन्ते । पदानि कथा त्रिषष्टी (६३) जीनान्तकयोः। कश्चिन्निष्कलो विश्लथसर्वगात्रः स्थविर इन्धनान्यानेतुं वनं गत आसीत् । तत्र दारुखण्डानि संचित्यैकत्र बढेक- पिण्डीकृतं तं काष्ठभारं शिरसि कृत्वायासेन मन्दं मन्दं निक्षिपन्गृहं प्रतिनिवर्तमानोऽध्वनो विप्रकृष्ट- त्वादिध्मानामतिगुरुत्वाच्च स शश्राम । अतः काष्ठभारं मूनोऽवतार्य स भूमौ निषसाद । तस्मिन्नवसरे स शमनमाह- "रे चेतनमात्रस्य विश्रामक, एहि । मामेभ्योऽखिलेभ्यो दुःखेभ्यो मोचय” इति । एतच्छ्रुतवान्वैवस्वतस्तस्य जी- र्णस्य पुर आविरासीत्तमपृच्छच्च-"तात, किमित्यहं स्मृत- स्त्वया ।" स जरन्नावैद्यत्परेतराडवे नेदीयानस्तीति । स वृद्धur ६ ) स्तस्योग्रं रूपं विलोक्यैव नष्टसंज्ञोऽजनि । ततः कतिपयैः पलैर्लब्धसंज्ञो वेपमानगात्रयष्टिः प्रतिवचनं ददाति-"भो धर्मराज, अशक्तोऽहम् । मम शीर्षस्थितोऽयं दारुखण्डभारः सहसा भूमिमापेदे । तमुद्धृत्य पुनरुत्तमाङ्गस्थितं करिप्य- सीति स्मृतो मया भवान् । नन्वियदेव कार्यम् । अनेन खलु यद्यवज्ञातोऽस्मीति जातामर्षोऽत्रभवान्प्रणिपतामि ते पादयोः । क्षमस्व माम् । कृपालुर्भूत्वा यथागतः प्रतिनि- वर्तख ।" तात्पर्यम् । लोकसरणिरेवेदृशी संजाता यत्ते पितृपतेः परिहासं कु- र्वन्ति । क्षुद्रेप्वपि व्यसनेषु ते व्याहरन्ति वरं निधनमस्मा- दिति । परंतु यावद्रतो मृत्युस्तावदेवैषा वल्गना । अभ्यु- पपन्ने तस्मिंस्तमेव संसारभारं पुनर्ग्रहीतुं त एव सिद्धा भ- वन्ति । कियतोऽपि दिनाञ्जीवेमेत्याशासते । कङ्कालतां नीते शरीरे सहस्रविपदभिभूतेप्वपि जरत्सु जीविताशा पदं करोति किं चित्रं तर्हि यदि वयःस्था जीवितुमुशन्ति । समासतः जातस्य हि ध्रुवो मृत्युः " इति विज्ञायागते तस्मिन्यस्तस्मान्न बिभेति तं चानुसरति स एव विचक्षण इत्यवगन्तव्यम् । कथा चतुःषष्टी (६४)। कामिनो हर्यक्षस्य । कस्यचिदरण्यौकसः पुत्र्यतीव रूपवती बभूव । कदा- चिद्दर्शनपथं गतायां तस्यां कश्चित्पञ्चास्यस्तां चकमे । स एवं मन्मथेनोदमथ्यत यत् " प्राप्तायां तस्यामहमसून्धार- ( ७ ) 'भो यामि, नो चेदनङ्गो नामसान्वयं मां करिप्यति" इति तस्मै प्रतिबभौ । ततोऽविलम्बितं नष्टाशङ्कः स तस्याः पित्रे निवेदयामास, समुदाजहार च-"मां ते जामातरं कुरु" इति । तत्तस्यासंगतं वचः श्रुत्वा तत्पिता मनसीत्थम- करोत्-"यद्यहं प्रत्याचक्षे,अयमधुनैव मां विदार्य पारणा- मविहतां कुर्यात् । तर्हि तथेति प्रतिपाद्य उपधिनासौ वि- प्रलोभ्यः ।" ततः स हरिमख्यत् मृगराज, बाढ- महं तुभ्यं दुहितरं ददे, परंतु किमपि ते मन्त्रयितव्य- मस्ति । मे दुहितातीव पेशलावयवा, तव रदना नखा- श्चातीव खराः । तेभ्यस्तस्या बाधा जायेत । कात्र प्रतिप- त्तिरिति । भवान्वदिप्यति तद्विषयेऽहमवहितो भविप्या- मीति तत्रापि शृणु । अप्रमत्तेऽपि भवति सा विगतभी व भवेत् । ससाध्वसायां तस्यां तव केलय उभयोरपि न सु- खमावक्ष्यन्ति । निरूपयत्वेतदार्यः । तर्खेतावती मेऽभ्यर्थना तव रदपातने नखरकर्तने चानुज्ञातुमर्हसि । एवं कृते दु. हितरं तेऽर्पयामि ।" पुण्डरीकः कामान्धः प्रत्युवाच-"को दोषः, एवं क्रियताम्" इति । वनौकाः सद्यस्तस्य दशना- निपात्य नखानि कर्तितवान् । अनन्तरमेकं स्थूलं मुद्गरमा- दाय तस्य मृगदृष्टेगोधिदेशे प्रजहार । तेन प्रहारण स तस्मिन्नेव क्षणे गतासुरभवत् । तात्पर्यम्। ये कामाधीनमानसास्ते शूरा अपि विक्रान्ता अपि बल- वन्तोऽपि नश्यन्ति । तथा ये सपत्नानां पीयूषतुल्यैर्वचो- भिर्मोहित्वा महाधनं प्रियं च खवस्तु तेषां हस्ते प्रापयन्ति ते लुप्तसर्वस्खा भवन्ति ।
( ८ ) कथा पञ्चषष्टी (६५)। सिंहीक्रोष्ट्रयोः । कदाचित्सिंही सृगाली च संजग्माते । तदा कथाप्रस- ङ्गेन तिर्यक्षु का जातिर्बहुप्रसवेति वस्तूपन्यस्तमभूत् । त- स्मिन्नवसरे जम्बुकी सिंहीमश्रावयत्-"प्रसवविषये कान्या जातिः शक्नोति शृगाल्याः षोडशीमपि कलां स्प्रष्टुम् ।" साह-प्रतिसंवत्सरं यद्यपि नोऽधिकवारं तथाप्येकवारं वयं सूमहे । प्रतिप्रसवकाले च नैकान्पृथुकान्सूयामहे । परंच काश्चन जातय ईदृश्यः सन्ति, यत्ताः प्रसव एकमेव शिशुं सुवते तदपि जातु जन्मनि सकृदेव । एवं सत्यपि को नाम तेषामवलेपः । एतेनापि घोणामुन्नमय्यान्यान्विगण- यन्ति । फेरवी मामधिकृत्य सोपालम्भं ब्रवीतीति चित्रका- यात्मनि भावयामास । ततः सा तामाह-"अये, अपि श- णोषि । यूयं परेष्ठुका इति वस्तुगत्यावितथम् । परं किं- नामकास्ते शावकाः । फेरव एव, वयं तु सकृत्सवामः, पर- मवेहि तं शिशुं सर्वतिरश्चां राजानं वदन्ति ।" तात्पर्यम्। यस्यात्मनः प्रभवो जायते तस्य मूल्यं न संख्यानुरोधेन करणीयम् , अपि तु जातिमनुरुध्यैव । यद्यपि वयमल्पा- परिश्रमान्कुर्मस्तथापि त एव प्रशस्याः, यदि त आधुनि- कानां तेषां पुत्रपौत्रादिसंततेश्चातीवोपयुक्ताः । नो चेदेवं शृगालशुनां प्रभूतसंख्यप्रसूतिरिव ते जनपदोपप्लवकारिणो भवन्ति । अन्यदपि कथाया अस्या बीजं संभवति । कि- यन्तः सूरयोऽनेकग्रन्थप्रणयनेन गौरवं मन्यन्ते तदसत् । शतं विगुणान्ग्रन्थान्प्रणीय किं पठनेन लोका आयासयि- (९) , तव्याः । अस्मादद्वितीयस्य सर्वसंमतस्य ग्रन्थस्यैकस्यापि संविधानेऽस्ति गुणोत्कर्षः । कथा षषष्टी (६६)। शम्बरतद्वत्सयोः । कस्मिंश्चिच्छम्बरे कैशोरं प्रपन्ने सोऽन्यशम्बरान्दुदाव । स भूमिं पादप्रहारैरतीतडत् , विषाणे असकृदधावीत् , ता- रखरेण तथारावीद्यथा तच्छब्देन सर्वे बद्धभियश्चकम्पिरे । अन्येद्युस्तस्य शावस्तमभ्येत्य पृच्छति-"अये, यस्त्वं ब लिष्ठोऽहं दुर्जेयोऽहमिति महान्तमाटोपं दर्शयसि, स त्वं विश्वकद्रवे श्रुतमात्रे भीत्या प्राणपरीप्सया प्रपलायसे । अपि ब्रूषेऽम्य हेतुम् ।" शम्बरोऽब्रवीत्- "जात, ऋतम- ब्रवीस्त्वम्, पर कथं तद्भवतीत्यहमपि न बोधामि । अहं खलु खजात्यां तेजस्वी ऊर्जखलश्चास्मि । मुहुरहमात्मनि निश्चयमापादयामि । नाहमितःपरं कस्मादपि भियमुपेत्यो द्विजिप्य इति । पर किं कुर्वे शुनकभपण आकणितेऽहं लुप्तप्रतिपत्तिर्भूत्वा यथाशक्ति सत्वरं धावाम्येव ।' तात्पर्यम् । दम्भिनः कलहप्रियाश्च पुरुषा अवसाने क्षीणबला भ- वन्ति । तेषां डम्बरः सहचरेप्वेव द्रष्टव्यः । शूराणामने स्थातुं प्रभवन्ति यस्यास्यं नक्तंदिवं शौर्यस्य च वि- क्रमस्य च कथा उद्गिरति तस्मिन्कश्चिद्वीरोऽक्षिणी वि- स्फार्य सभ्रूभङ्गं दृष्टिं पातयतु । एतावतैव स निस्तेजस्को भवतीति प्रतीतिः। ईदृशस्य मृषाप्रगल्भस्यापमाने सा- क्षित्वमपूर्वम् । यतस्तस्मिन्काले स भयत्रपासाधारणे रोषे- न ते (१०) ऽवस्थितः संभ्रान्त इव लक्ष्यते । यदि स धृतिमालम्ब्य म- नाग्विक्रामेत्ताह चारित्रगुप्ति विधास्यति । परमगतिकः स किं कुर्यात् । सति प्रसङ्गे धृतिस्तं जहाति । अतो मिथ्या- टोपं कोऽपि दर्शयतु नाम, सहजस्वभावः प्रकटो भवितैव । कश्चिद्युवा कथा सप्तषष्टी (६७)। युवग्रीष्मपक्षिणोः। अस्ति भूरि व्ययशीलः । तस्य पिता तस्मै बहुरायं रिक्थत्वेन दत्त्वा यमनगरातिथिर्बभूव । आत्त- ऋक्थः स उन्मादकद्रव्यसेवनै तेन वेशवाटे च तद्विधानां तुन्दपरिमृजानां दुर्वृत्तानां समाजे कात्स्न्येन तद्वययित्वा प्रक्षीणद्रव्योऽभवत् । एकदा स नदीरोधसि दीन इव बभ्राम । तदा सहस्यमासोऽभूत्, परं पूष्णश्चण्डोनेप्मिागम आब- भासे । तत्रोद्धान्तमेकं यदृच्छयागतं ग्रीष्मविप्किरं पाथसि तरन्तमैक्षिष्ट । ततो व्यसनप्रतिपादितोन्मादाय तस्मा अ- भात्" तपः सम्यक्प्रादुर्बभूवेति न मे संप्रति वाससा प्रयो- जनम्" इति विचिन्त्योद्गमनीयमादधौ । आधित्वेन परि- हितप्रावारस्य न्यासं कृत्वा तद्विनिमयेनार्थ गृहीत्वा भू- योऽपि द्यूतकृद्भिः स्वसखिभिर्देवितुमबाजीत् । जितश्चा- सावक्षवत्याम् । ततो विगतवाससं तं हिममर्दयामास । विलक्षो नाम भूत्वा कूलंकषायास्तटे वव्राज यावच्च पश्यति तावच्छीतातिरेकाच्छीनं जलमपश्यत्, तं चोप्मक- विहायसमवश्यायसंहतगात्रं परेतं तीरदेशेऽधिजगाम । सर्वमतेदवगम्य स संज्ञां प्राप्य तं नगौकसं निनिन्द, उवाद पतत्रे, मूोऽहं त्वां व्यश्वसिषम् । त्वमात्मानं प्रतार्य मामपि विप्रलेभिषे ।" तत्र च-"रे ( ११ ) तात्पर्यम् । ये मादकद्रव्याणि सेवन्ते, द्यूतसभां वाश्रियन्ते, दुश्व- रित्रसजुषो वा भवन्ति, परदाराभिमर्शिभिर्वा संगच्छन्ते, न तैर्विस्तव्यं कथमञ्जसा नो विभवः संक्षयमुपागात्कथं च वयमेवमहाय शिथिलवसवः समजायामहि । ईदृशव्यस- नपरायणा ये जायन्ते तेषां व्यसनातिप्रसत्तयाखिलविषये प्वान्ध्यमुत्पद्यते । ये रात्रंदिवं व्ययासक्ताः संचितं व्य- यीकुर्वन्ति, तस्मिन्व्ययिते व्ययार्थमधिकं संगृह्णन्ति, अन्ते ऋणं कृत्वापि व्ययितव्यमिति येषां दृढा मतिस्तेषां नि- र्धनत्वमल्पो दण्डः । अन्य इव ते न पालोचयन्ति । व्यसनग्रहाधिष्ठितास्तेऽखिलभावान्याथातथ्येन न पश्यन्ति । यथा कामलारुजा ग्रस्तः कश्चिद्यत्र यत्र दृष्टिं पातयति तत्र तत्र सर्व हरिद्राभं पश्यति । उपरितनप्रस्तावे निरू पितो युवेगनीदृग्विचारमीपदपि यद्यकरिप्यत्तर्हि निदाघः प्राप्त इति कृतधीरवशिष्टवसनानि नात्यक्ष्यत् । व्यसनास- क्तस्त्वशुचावप्युप्णमपश्यद्धेमन्तोऽग्रे नागन्तेति निर्णीय प रिधनांशुके अपि व्यत्रीणात् । विक्रयोऽपि किंहेतुकः? देव- नेन तल्लब्धद्रव्यव्ययकारणायैवासौ । ततो द्रविणं नष्टमा- च्छादने अपि हारिते इत्युदीक्ष्य तस्याक्षिणी उन्मिषिते । परं किंफलोऽयमनुबोधः ? कथाष्टषष्टी (६८)। कैवानिमिषयोः । कश्चिद्धीवरो नद्यम्भसि पृथुरोमग्रहणार्थ बडिशमक्ष प्सीत् । तद्गृहीतमेकं झपमुद्धृत्य तस्मिन्खमत्स्याधान्याम- ( १२ ) । कैवर्तस्तमपृच्छत्- " स्यति सति स वैसारिणस्तं प्रार्थयते स्म-“भोः पुण्यश्लोक, दयालुभूत्वा पुनर्मा धुन्यां क्षिप “कस्य हेतोस्त्वामित्थमुपकरोमि ? ब्रूप्व तावत् ।” विसा- रस्तं प्रतिब्रवीति-"अर्भकोऽहम् , अतस्ते वृद्धस्य मम यावानुपयोगो भवेन्न तावानद्य । दाशः प्रतिवदति " ऋतमात्थ त्वम् । परं प्राप्तं विहायाप्राप्तबद्धाशो नाहम- समञ्जसः ।" तात्पर्यम् । भाविलाभावलम्बी यो हस्तगतं वस्तु विजहाति स उभे अपि हारयति । अप्राप्तवस्तुबद्धस्पृहत्वं न दोषः, परं त- ल्लाभमवलम्ब्य करगतस्य त्यागो निर्वेदाय प्रायेण भवति । व्यधत्त- कथा नवषष्टी (६९)। मृगेन्द्रबालेयकृतपापद्धेः । कस्मिंश्चित्काले कोऽपि कण्ठीरवो मति " खरं सहायं कृत्वाखेटे व्याप्रियेय” इति । स चक्री- वन्तं निर्दिदेश-" भो रासभ, त्वं विटपिगुल्मान्तरितगात्र स्तिष्ठ, अमुकस्मिन्काले च भीत्युत्पादकं चीत्कारं कुरु । तस्मादारम्भाच्च मा विरंसीः । एवं त्वयानुष्ठिते सर्वे प- शवो भियाक्रान्ताः पलायितुं प्रवर्तेरन् । अहं तु निर्गम- पथं रोत्स्यामि । तेन मार्गेण गच्छतः सर्वान्रेषितासि ।" ततः खरेण यथानिर्देशं कृते द्रुतगतीन्धावतः पशून्निर्गम- मार्गस्थितः सिंहोऽश्रमेणैकैकमतृणेट् । यदेमानि पशुशवानि ममोदरपूर्तये पर्याप्तानीति सिंहो मेने तदा स गर्दभमा- कार्याभ्यधात्-" भो चक्रीवन् , साधु साधु । साधु कृतं (१३) सखे, अलमधुना ते चीत्कारेण । विरम तावत् । इत एहि" इति । तमाह्वानमनु खरश्चित्रकायं प्रतिनिवृत्य "स्वनि- योगः सुष्ठशून्यः कृतः” इति मत्वा तं सलीलं पृच्छति- “भो मृगाधिप, यदहं कृतवांस्तत्तुभ्यमरोचत न वा ।" हर्यक्ष आह- "मतं तव कृत्यमिति किं कथयामि । अतीवाभिनन्दामि तत् । त्वमेवं व्यधा यत्त्वत्वरूपं नाह- मज्ञास्यं यदि, तर्हि ते चीत्कारं श्रुत्वाहमप्यभेप्यम् ।" तात्पर्यम् । केचिदयं गर्दभ इवानल्पं जल्पन्ति, प्रगल्भं विकत्थन्ते, अज्ञांश्च भाययन्ति । परंतु ये तत्स्वरूपं विजानन्ति तेषां त उच्चावचप्रलापाः केवलं कौतुकमावहन्ति । ईदृशः पुमांसो यत्र लभ्यन्ते तत्र तद्विषये स्निग्धं चर्चा कार्या । चर्चायां कृतायां न ते भयस्थानानीति व्यक्तिर्भवेदेव । कथा सप्तती (७०)। निपुणमतेश्चक्रीवतः । कस्मिश्चित्स्थविरे खरासभं चारयति तस्य परिपन्थी तमभिययौ । अतः स गर्दभं त्वरयामास । तस्मिन्काले चक्रीवास्तं पप्रच्छ-"स्वामिन् , स तेऽरातिमें पृष्ठे भारं क- रिप्यति न वा?" प्रवया अवादीत्-"भारं त्वया वाहयिप्य- त्येव, नात्र विसंवादः ।" खरः पुनरभिदधौ-"प्रभो, त्वं मया भारवाहनं कारयिष्यसि वा न वा ?" वृद्धोऽवदत्-"किमहं न कारयिष्यामि? भारोद्वहनं ते कमैव ।" बालेय आह-"य- येवं तहमङ्गुलमात्रमपि न प्रचलिप्यामि । यदि भारोद हनकर्मणोऽहं न मुञ्चे, कोऽपि में स्वामी भवतु । कि मे हर्षपदं शोकस्थानं वा?" २ (१४) निर्धनतराः तात्पर्यम् । रंका राज्यपरिवर्तनाभ्युपायेषु मतिं न कुर्युः । यदि ते व्याप्रियन्ते महद्वयसनं तानुपैति । राजपरिवर्तनाद्राजना- मभेदान्नान्यो लाभस्तेषाम् । न तेऽनेन संप- द्यन्ते, न वाधिकं कर्माणि कार्यन्ते । एवं विद्यमाने के चित्स्वार्थसंपादकाः पुरुषास्तेषु मानमुत्पाद्य तान्कपटप्रयोगैः प्रजाक्षोभं निर्माय राजयुद्धेऽनुबध्नन्ति । तस्मिन्कलहे सिद्धे न ते किंचिदपि लभन्ते, परमसिद्धे वध्या भवन्ति । कथैकसप्तती (७१) । कत्थनशीलस्याध्वन्यस्य । कश्चित्पुरुषश्चिरभ्रान्तभूवलयः स्वं पुरं न्यवर्तत । स देशान्तरेषु यानि कौतुकानि ददर्श तानि तानि संस्तुतज- नेभ्योऽयथातथं वर्णयामास । कथाप्रसङ्गेनानर्थभाषी सः "अलकापुरीं गतोऽस्मि । तत्रत्याः पञ्चदशहस्तानुत्पतन्ति, परंतु यदा मया सह ते पणं चक्रुस्तदाहमिव न कोऽप्यु- दपप्तत्" इति जजल्प । संनिधस्था जनास्तु नेदं परमा- थेन जगृहुः । तदृष्ट्वा स तान्प्रत्याययितुं वहूशपथानक- रोत् , सत्यवाक्यानि च दृढीकरणार्थ युयोज । अत्रान्तरे ते- पामेको वदति-"आर्य, किमिति कृच्छ्र आत्मानं पातयसि प्रकोष्ठे धृतस्य पारिहार्यस्य ज्ञाने किमादर्शस्य प्रयोजनम् ? किमित्यस्मभ्यमधुना प्रत्यक्षं न निदर्शयसि ? अलकापूःस्थि- तमात्मानं भावय । यथा तत्रोदपप्तस्तथा भूयोऽप्यत्र किं नोत्पतसि ?" विकत्थनपराय तन्नारुचत् । ततः स विलक्षो भूत्वा तूप्णीं बभूव । च (१५) तात्पर्यम् । ये देशान्तरप्रवासिनो ये वादृष्टदेशान्तरास्ते सर्वे खीयो गुणो यस्मिन्प्रख्याप्यते तां वार्ता स्वमुखेन न वदेयुः' स्वयं प्रख्यापितमात्मनः स्तुत्यहमपि गुणं लोका न श्रद्द- धति । उक्तं च-"इन्द्रोऽपि लघुतां याति खयंप्रख्या- पितैर्गुणैः ।" ततो यथा यथा वयं शपथान्सत्यंकारान्वा प्रयुङमः, तथा तथा तेऽधिकं संशेरते । तत्त्वकथनेऽप्येवं भ- वति, किं पुनः खगुणप्रख्यापनायायथार्थकथने भवतीति वक्तव्यम्? ये समाजेषु देशान्तरसंबन्धिनीरयथार्थाः कथाः कुर्वन्ति, तेऽनृतवादिन इति सपदि ज्ञायते लोकैः । कदा- चित्तस्यां संसदि तद्देशद्रष्टा कोऽपि भवेद्यः सद्योऽवितथ भाषणदोपं भावयेत् । कथा द्वासप्तती (७२)। भ्रात्रोः । कस्यापि पुंसो द्वावल्पवयस्को माणवकावास्ताम् । तयोरेकः पुत्रोऽन्या च कन्या । सूनुराकारसंपदा कन्यामतिशिश्ये, या नातिसुभगासीत् । कस्मिंश्चिदहनि मुकुरं निकषा क्रीडतोस्तयोः पुत्रः खसारमाह-"अये, प- श्यावास्मिन्दर्पणे करत आवयोः सुन्दरतरो दृश्यते” इति । अनेन सा कन्या दुर्मनायिता । सा "मामधिक्षेप्तुमयमि- दमब्रूत" इत्यज्ञासीत् । अथ सा पितरं गत्वा भ्रातृकृतामाक्षा- रणां तस्मायवेदयत् । साब्रवीत्-"पितः, आदर्श खं रूपं दृष्ट्वा मनःसमाधानं स्त्रीणां कर्म । अस्मिन्कर्मणि पुमान्मति विधातुं नार्हति" । पितोभावप्यश्लिक्षत्तौ समादधौ । आह - ( १६ ) १ हितमेव च-"बालौ, मा कलहं कृषाथाम् । अद्यप्रभृत्युभावप्यजस्रं मुकुरे पश्यतम् । पुत्रक, ईदृशमभिरामं ते लपनं दुर्गुणैर्मली- मसं भवति चेत्त्वं ज्ञास्यसि । वासु, तव रूपे या न्यूनता सा गुणैः पूर्णा न वेति च त्वं ज्ञास्यसि” इति । तात्पर्यम् । नास्त्येतादृग्वस्त्वस्मिञ्जगति यस्मिन्निपुणं विचार्यापि न किमपि वैगुण्यं दृश्यम् । अत एव बुद्धिमादर्शतां नीत्वा तत्रा- नवरतं गुणावगुणांश्च परीक्षमाणस्य भवति । इदं न केवलं बालवृद्धैरपि कर्तव्यम् । यो दम्भी सोऽवयवसौ- प्ठवमादर्श पश्यतु, परंतु स निध्यायेत्, यथाहं बाह्यतो निर्दोषस्तथापि नामाहमन्तरङ्गे ? माराभिरामोऽपि पुरुषो- ऽन्तरङ्गगुणहीनो यदि, जनानामप्रियो भवति, स एव यदि मधुरभाषी सुशीलोऽन्यैश्च गुणैरन्वितो भवेल्लोकप्रियो भ- वति । यः सुरूपः स गुणैर्विहीनः सन्निप्प्रयोजनः । किंतु यो गुणी स रूपेण कथमपि भवतु, तस्य रूपे जना अ- नादराः । दीप्तिमानपि प्रस्तरो रत्नस्य षोडशीमपि कलां किमर्हति । यद्यपि बाह्यतो दुर्दर्शनस्तथाप्याभ्यन्तरमूल्यवा- न्मणिरेवासौ । तथैव योऽन्तः साधुः, यस्य शेमुषी प्रसन्ना, क्रियायां यस्य वैशद्यम् , मनस आर्जवम्, धियाः प्रभावश्च स रूपं नापेक्षते। कथा त्रिसप्तती (७३)। निर्णेजकाङ्गारविक्रेत्रोः । कश्चिदङ्गारविक्रेता कस्यांचित्पुरि व्यवहारनिमित्तेना- १. बाले.
( १७ ) वात्सीत् । तत्र तामवासिना केनचिद्रजकेन समापेदे । ता- वन्योन्यं कुशलं पृष्ट्वा वसतिस्थाने पप्रच्छतुः । अथाङ्गार- विक्रयिको निणेजकमाह-"न यथोचिता ते निवासभूमिः, अतो वासमङ्गीकृत्य सनाथीक्रियतां ममावासः । " रजक- स्तमाह-"सखे, कथमस्य संभवः ? त्वत्संनिधाने वासे र- चिते मया, यद्वासः प्रातरहं निर्णेनेज्मि तदजातस्पष्टायां संध्यायामेव तवाङ्गाररजोऽसितवर्ण कुर्यात् ।" तात्पर्यम्। स्निग्धं निध्यायता क- र्तव्यम् । गुणिनामपि नो गुणान्गुणहीनसंगतिर्मजयति । अतो यो विवेकी यश्चात्मनः श्रेय इच्छेत्स दुर्जनान्परि- हरेत् । तस्य सङ्गो हि समूलं नाशयति । तेन संगता वयं तस्य दोषैरलिप्ता अपि यदि भवेम, न जना एवं ज्ञास्य- न्ति । तस्य सङ्गेन तस्य मन्तव आत्मनो गुणाश्चैवं संकी येरन् , यथा को दोषभाकोऽनवद्य इति परिच्छेत्तुं जना न श्राम्येयुः । समज्ञाच्छनिझरोपमास्ति । यथा प्रसन्नमपि जलं ग्रामोपान्तवर्तिभिः पङ्किलस्रोतोभिः संगतं चेदाविलं भवति, तथा दुर्जनसहवासेन यशः कालुप्यमुपयाति । इह कस्यापि साहचर्ये कर्तव्ये कथा चतुःसप्तती ( ७४ ) क्रोष्ट्रपमुखयोः । कस्यांचिच्छवर्या कोऽपि कोष्टा कस्यचित्कृत्रिममुख- विक्रेतुः पण्यशालामविक्षत् । छद्ममुखप्रचुरायां तस्यामे- कतमे छद्मास्ये पदं निधायैकतानतया निरूपयन्निदमूचे-- "सुन्दरमिदं शिरः, परं मस्तिप्करहितम् , अतो विनोदमात्रो- पयोगि ।"
( १८ ) तात्पर्यम् । नास्ति यस्य प्रज्ञा तस्य चारुता निरर्था कथा पञ्चसप्तती (७५) वर्षाभ्वोः । कस्मिंश्चिदत्युष्णे ग्रीष्मसमये पङ्कशेषाणि सरांसि स- मजायन्त, तथा च निर्निप्यन्दाः प्रहयोऽन्ये जलाशयाश्च शुष्कतोयाः संजज्ञिरे । तस्मिन्काले कौचिद्वर्षाभ्वावपो- ऽन्विप्यन्तौ कांचिदगाधां वापीमासेदतुः । तटदेशभाजौ तौ मिथो मन्त्रयांचक्राते-"किमावामवप्लवावहै न वा ।" एको वदति-"अवतरावास्याम् , यतोऽगाधेऽस्मिन्कूपे बहु- भिरुत्सैर्भाव्यम्, न किमपि परिहास्यतेऽत्र ।” अपरस्तं व- दति-"रे, यत्त्वं वक्षि तहतं स्यात्तथापि साहसमिदम्, अ- तस्त्वद्वचो नानुमन्वे। कुत इति चेत्, यद्यस्य कूपस्य मध्यग- ता आपः शुप्येयुस्तहि कथय कथं निर्गच्छावास्मात् ।" तात्पर्यम् । संशयारोहणात्प्रागसिद्धे तत्कार्येऽमुकेनोपायेन स्वरक्षा भवेदिति विमृशेत् । , कथा षट्सप्तती (७६)। कदर्यस्य । कश्चिन्मितंपचो बहुधनं संचित्य वप्रे निचखान । स तमुद्देशमेकवारं द्विवारं वा दिनेऽश्रान्तमियाय निखातद्रव्यां तां गर्ता दृष्ट्वा जलादे । तत्तस्य कृत्यं तस्य दासेरो वि लोक्य शशङ्के यदयं मत्स्वामीमं देशमागत्याविरतं पश्यति, (१९) । " तस्मात्कोऽपि विशेषोऽत्र विद्यतेति । अथ स क्षण- दायां तत्र गत्वा खनित्वापश्यत् । तदानीं निधिमधिगम्य तं गृहीत्वापाक्रमीत् । उत्तरेयुः स किंपचानो नित्यक्रमे- णागम्य पश्यन्निधेरदर्शनमुपलव्धवान् । उपलब्धे निधि- नाशे रजोरूषितमूर्धजः स सोरस्ताडम् “कष्टम् , हा हन्त" इति मुक्तकण्ठमाचक्रन्द । गृहान्न निववृते । अन्ते तस्य प्रातिवेश्यस्तमुपेत्य तं शोकहेतुं पप्रच्छ शोकहेतुं पप्रच्छ । क्षुद्रस्तम्मै प्रवृ- त्तिमाचख्यौ । तच्छ्रुत्वा प्रतिवेशी तं व्याहार्षीत्-"भद्र, न ते किमपि नष्टमित्यवगच्छामि । मे द्रव्यनाशः समुत्पन्न इति चित्ते मा कुरु । यथापूर्व चैनमवटमनिशं प्रेक्षम्व एवमनुष्ठिते सिद्धं ते समीहितम् । तात्पर्यम् । ये कृपणास्ते सत्यपि रायि दरिद्रा एव । ते संचितद्र- व्यमनुपभुज्य वर्धनेच्छयागरणादाभीलान्यनुभूय धानि पापान्याचरन्ति । अन्ततस्तेषां विभवमैकागारिका- दयो हरन्ति । ते जीवन्तो दुःखशोकयोर्भाजनम् । मरणो- त्तरं चाक्षय्यो निरयवासस्तेषाम् । कथा सप्तसप्तती (७७)। गरुडीवराह्याखुभुजाम् । काचिद्गरुडी कस्यांचिदुच्छ्रायिनि पलाशिनि शिखर- शाखायां नीडं निरमास्त । तस्यैव विटपिनो मध्यवर्तिनि कोटरे काचिद्रूपदंशकोवास । कापि वनसूकरी च तस्यैव शाखिनो बुध्नगते कुहरे डिम्भैः सहावसत् । यदि ते उभे पिशुनायास्तस्या बिडाल्याः परिवादं नाश्रोप्यतां नानावि- । तर्हि ते 2" (२०) सुखं चिररात्रायान्योन्यस्य सामन्तेऽवत्स्यताम् । एकदा सौतुः प्रथमं गुरुत्मतीमुदगच्छत्, तां प्रति चोवाच-"प्र- तिवासिनि, किं कथये ? महाननर्थो नः समापतितः । एषा पापाशया वराही नक्तंदिनं महीरुहमूलस्याधस्तादविरतं खनति । सैवं मन्यते यद्ययं कुटः पतिष्यति, अमुयोः शिशव आयासानकृत्वात्मसाद्भविष्यन्तीति । अहं यत्प्राप्तकालं त- स्कुर्वे । त्वमपि यत्ते पथ्यं तत्कुरुष्व।” एवं गरुड्या हृदि भयं जनयित्वा तस्या अगोचरेण निभृतं सा मार्जारी कोलीमपा- गच्छत् । विवर्णास्या च तां प्रति ब्रूते-“कच्चिद्भवती ब- हिर्यास्यत्यद्य ? " पोत्रिण्याह-"किमितीयं पृच्छा आखुभुग्जगाद-"नहि किमपि । अबुद्धिपूर्वोऽयमनुयोगः । यथाकामं कुरु तावत्परमहं गरुडी खपृथुकांश्चक्षाणामशृ णवं घोणिन्यां बहिर्गतायां तस्याश्च मार्जार्याश्च यथावसरं पोताभ्यवहारेण युप्मास्तर्पयेयमिति सहसाहमेतदाकर्ण- यम् । साधयामि तर्हि । मे पाका एकाकिनः शेरते निष्कु- तेषां त्राणमवश्यं कार्य मया ।" एतावदुक्त्वा सोद- पप्तत्स्वार्भकानुपयाय तानत्रायत । एवं साचिरेणाकरो- दोषा बहिणूढं यात्वा खाद्यमानयत् । दिवा च शावकत्रा णपरा नाम भूत्वा उपर्यधश्च साशकं मुहुरवालुलोकत्। इदं तस्याश्चरितं दृष्ट्वा गरुडीक्रोड्योर्मनसी निविष्टान्योन्य- द्वेषे अभूताम् । ततस्ते इतरेतरस्य भीत्या स्वस्वस्थलान्न निर्जग्मतुः । अस्यायमुदर्कः समपादि यत्ते शिशुभिः सत्रा जग्ध्यभावेन कालधर्ममापेदाते । तत्कुणपैस्तस्या आखु भुजोऽन्नसमृद्धिरभूत् । है ( २१ ) तात्पर्यम्। पिशुनैरिह महान्तोऽनर्था अकृषत ते कतिषु साधु कुलेप्वा निधनमसंजातसंधानां वैरबुद्धिं जनयामासुः । क- तिपयानां मनःसु चिरादप्यनुमृष्टान्विकल्पानुत्पादया- मासुः । अनेकांस्तथा परिक्षीणसंपदोऽकार्युर्यथा न पुनस्तै रासादितं धनम् । यः पूरुषः प्रतिवेशिकधर्मेण वर्तितुमि- च्छति स कस्यापि वचनमात्रं प्रत्येत्य न सामन्ताय द्रुह्येत् । जनश्रुतिमनुरुध्य वितर्केभ्योऽवसरं दत्त्वा खमतं नैव प्रका शयेत् । यतो यत्पुरतो मतप्रकाशं कुर्मः स खलश्चेद्वाक्प्र- पञ्चेनाल्पायामप्यस्मदुत्तयां बहुभापित्वमध्यारोपयति । यः सज्जनस्तस्मै कोऽपि कस्यापि किमपि कथयतु, सो- ऽखिलं हृदये करोति, एकस्यान्यस्मै नाचष्टे । तस्य सांद- ष्टिकमिदमेव स उभयोरपि प्रियो भवति । जात्वमित्राण्यपि तद्वारा मित्राणि भवन्ति । तद्विधस्य पुंसश्चेतोऽनेन किमुत हृप्येत् । कथाप्टसप्तती (७८)। अजसिंहयोः । कश्चित्केसरी कंचन शुभमद्रेनितम्बदेशे चरन्तमपश्य त् । तत्र नास्ति मे गतिरिति ज्ञात्वा हरिस्तं ललाप रे, त्वमीदृशि विषमे स्थाने सर्वाङ्गं चरित्वा किं सुखं लभसे । उत्प्लुत्योत्प्लुत्य कदाचिद्यदि पतिप्यसि प्राणांस्त्यक्ष्यसि । वरं तर्हि ते नीचैरागमनम् । शाहलगतानिमान्कोमलशा- दान्मधुराणि चेमानि गुल्मिनीच्छदनान्यद्धि ।” छागो- ऽवदत्-"तवोक्तिः सर्वथानवद्या । परं त्वं मे बुभुक्षित इव - ( २२ ) भासि, अतस्त्वयाधिष्ठितस्थलमागत्य नास्मि जीवितं संश- यितं करोमि ।" तात्पर्यम् । ये स्वार्थपरा जिह्माश्च तैः कथितं सत्यत्वेनाप्यवभास- मानं हितं न विश्वस्यात् । तत्र दम्भमवश्यं जानीयात् । रटनं बिभाय । कथा नवसप्तती (७९)। भेकहोः । कश्चित्पञ्चास्यः किमपि सर उदन्यापोहनाय प्राप्नोत् । तत्र वर्तमानस्य कस्यचिद्वर्षाभ्वो श्रुत्वा परितो विलोक्य खगतं गदति-"किमिदम् । न को- ऽप्यत्र दृग्गोचरः, रावश्चाभीक्ष्णं श्रूयते ।” ततो भयेन विवेपे । परं धैर्यमवलम्ब्यानपद्रुत्य स्थित एव ध्यायति तस्मिन्सरसो निष्क्रम्य स एव वर्षाभूरुच्चै रटन्नुत्पपात । दृष्टे च तस्मिन्वर्षाभ्वि कण्ठीरवश्चक्रोध-"ईदृशोऽल्प- कायो जन्युर्भूत्वा मद्विधमुदवेजयत्' इति । ततः साक्तं वर्षाभ्वमुपगम्य पादप्रहारेणामृद्गात् । तात्पर्यम् । प्रायोऽस्थाने भीरस्मानुपेति । येऽविवेकिनो मूढाश्च तानेव भयानि दुन्वन्ति । यश्च विवेकी धीरश्च स तेषां कारणमन्विष्यति स जानाति भिया मूलं मन एवेति । कथाशीती ( ८० )। शालकण्टकगुल्मयोः । कस्मिंश्चिद्वनमध्ये समरेखः कश्चिच्छालो महोच्छु- । ततः ( २३ ) । न महत्त्ववि यमवर्धत । सोऽनारतमात्मोत्सेधावलिप्तो नीचै रोहतो वृ- क्षकान्धिक्चकार । तद्वृक्षकमध्यगतः कश्चित्कण्टकस्तम्ब- स्तन्न मर्षित्वेतरेधुस्तं सालं पृष्टवान्–“किं भोः, महान्तं गर्व वहसि ? ब्रहि तावत् ।" स उत्तरयति-'सर्वपा- दपेषु श्रेष्ठोऽहम् , ललितश्च मे शिखरो नभो विलक्यति । मे स्कन्धशाखाः सततं हरितायन्ते । यूयं त्वतीव नीचाः । यो य आगच्छति स स वश्चरणैरवताइयति । मम पलाशस्थितार्ण :पृषतामासारैरेव यूयं मज्जथ ।” गो- क्षुर आह-"अस्त्वेतत्, परं परमार्थेन गृह्यतां मे वचः । यदा कश्चिदाटविकस्तेऽङ्ग्रौ प्रहर्तुमायास्यति तदास्माकं म- ध्याद्योऽपकृष्टो द्रु स्त साकं महता तोषेण निमयं कर्तुमेषितासि ।" तात्पर्यम। महान्तो नैकैरुपाधिभिः परित्रियन्ते । न तावन्तः क्षुद्रान्परिवृण्वन्ति । अतः पृथग्जनानां महतां च सुख- दुःखयोस्तुलनायां कृतायां महत्त्वमेव वरमिति वक्तुं दु- प्करम् । एवंस्थिते उपपदैर्जनुषा वा ये महान्तो भृतास्तै रवलेपेन परामृष्टैः सद्भिर्विवर्णानां न्यकरणं कियान्मोहः ? कथैकाशीती ( ८१ )। बस्तोक्ष्णोः । सिंहानुयातः कश्चिदुक्षा प्राणपरीप्सया धावन्का- चिद्गुहां विविक्षुस्तद्गतेनैकेन च्छगलकेन न्यवार्यत । स प्राह स्म-"मामकमिदं निशान्तमन्तः प्रवेक्ष्यसि यदि त- हिं प्रहरिष्यामि त्वा ।" गौर्बद्धाञ्जलिरनुनिनाय-"भो W ( २४ ) अज, सिंहः पश्चान्मे वर्तते । शरणगतस्य समाश्रय एव ते गृहमेधिन उचितो धर्मः ।" छागस्तन्नावदधे । विषाणे संमुखीकृत्य प्रार्थयते स्म तम् । तदासौ सौरभेयस्तं वदति "नाहं त्वत्तस्त्वच्छृङ्गाभ्यां वा बिभेमि । परं किं करवाणि ? यदि सिंहो मम पश्चान्नावय॑त्, तर्हि भद्रशुभयोः कियद- न्तरमिति मङ्क तेऽदर्शयिष्यम् ।” तात्पर्यम् । व्यसनस्थस्यासाहाय्यं न मानुषयोग्यम् । तत्साहाय्य- मकृत्वा तस्य न्यक्कारस्तस्य पीडनं वा तस्य दुःखस्य नवीकरणं वा क्रियते । किमन्यदनार्याचरितम् ? कथा व्यशीती (८२)। विकिरशाकुनिकयोः । पक्षिबन्धनार्थ वीतंसं निर्मित्सुं शाकुनिकं निकटस्था- नोकहगतः कश्चिद्विरपृच्छत्-"आर्य, किमिदं निर्मिमीषे ?' शाकुनिक आह-"नभसङ्गमानां वः कृते पत्तनं निर्मिमे । ये पतत्रयोऽत्रागत्य वत्स्यन्ति, त आहारविहारेषु न किंचिदपि क्लिश्यन्ति । अत्र तृणमस्ति, आपः सन्ति, वस्तुं नानाविधाः शालाः सन्ति, संवेशार्थ मृदून्युष्णानि च शयनीयान्यत्र विद्यन्ते, वरस्त्रियश्चापि वर्तन्तेऽत्र ।" स विष्किरः सर्वमेतत्सत्यत्वेनाग्रहीत् । ततो वीतसं निर्माय गते तस्मिञ्जीवान्तके स तद्विवेश । संयतः सन्नक्लिश्नात् । ततः स तत्रायातान्वाजिनोऽचकथत्-"भोः, मा प्रमाद्यत । पाशो ऽयम् । कैतवेनास्मि धृतः। स दग्धजीवन्तिको वो भ्रमयेत् । तं मा विश्वसित । अखिलांश्च गरुत्मत इममुदन्तमुद्धो ( २५) षयत ।" त्रिभिश्चतुर्भिर्वा मुहूर्तेलब्धकस्तत्राजगाम । तं स नीडोद्भव आह. 'रे शठ, मां तु त्वं वञ्चयामासिथ परंतु दृढमवेहि । अस्मिंस्ते रम्यस्थले न कोऽपि पक्षीतः पर- मायाता। तात्पर्यम् । ये धूर्तास्ते यावत्तेषां स्वरूपमज्ञातं तावल्लोकान्विप्र- लभन्ते । सकृत्तेषां स्वरूपे साकल्येन ज्ञाते जनास्तान्दू- रतः परिहरन्ति । तत्र कथा ज्यशीती (८३)। राजपण्डितयोः । कश्चिद्राजा नवमाक्रीडं निर्ममे । स कस्मिंश्चिदुत्सव- दिने तत्र विहर्तुमिष्टाप्तसुहृद्भिरनुजीविभिश्चान्वितो जगाम । भक्ष्यभोज्यलेह्यचोप्यपेयानि परमान्नान्यावाद्यास्वाद्य तौर्यत्रिकादिरागपूरितमानसश्चिरमतिष्ठत् । एवमानन्दपूर निमग्नेषु सर्वेषु स दिवसोऽविदितगतयामो व्यरंसीत् । ततो राजा प्रीतः सन्रसेन सर्वानूचे-“भो इष्टाप्तसुहृज्जनाः, यस्तरु- यस्मै रोचते स तेन मदीयोऽयं भवत्विति निःशकं वाच्य- म् ।" तद्राज्ञो वचोऽभिनन्द्य कश्चिदाह-"कुमारी मदीया- स्तु।" अपरः कश्चिदाह-"अतिमुक्तो मम भवतु।" अन्यः क- श्चिदाह-"नवमालिका मे रोचते ।" कश्चनापरः “पाटलाप्रि- योऽहम्" इत्युवाच । कश्चिदन्यः “चाम्पेयो मे प्रियः” इति एवमवकेशिनः कुटाः सर्वेभ्योऽरोचिषतेति दृष्ट्वा राज्ञो- उभ्यासे वर्तमानः पण्डितो विस्मितमात्मानं दर्शयञ्जगाद- "यथारुचि भवन्तो वदन्तु, नारीकेलो ममास्तु यः फलै- mr ( २६ ) देवताः प्रीणाति यश्च सर्वोपयोगी।" निशम्यादो राजा सशिरःकम्पं ब्रूते-“साधु विद्वन्, साधु । अत एव जना आर्य- मिश्रान्विपश्चितः सभारत्नानीति वदन्ति । सत्यमेवतद्यदुप- योगं विना व्यर्थ दम्भार्थ कस्यचिदङ्गीकारोऽप्रज्ञत्वम् ।" तात्पर्यम् । यत्कार्य तत्केवलं दम्भाथै न कुर्वीत । यं वयमाश्रितं कुर्मः कस्तस्योपयोगो भवेदिति चिन्तनीयम् । केवलमा- कारपक्षपातिभिर्न भाव्यम् । शिश्र- कथा चतुरशीती (८४ )। श्वभीरुकण्टकतोः। कश्चित्क्रश्वा मृगदंशकेभ्यः संतत्रसे, द्रुतगत्या विच- चाल च । कांचिद्वृतिमुल्लङ्घयंस्तद्गतमेकं कण्टकिनं तरुं ज- ग्राह । संमुखीनपादयोः पूर्वकाये च तद्गतैः कण्टकैः क्षतो रुद्धगतिरासीत् । तदा कण्टकिनि शाखिनि वाक्पारुष्यं विधास्यन्नाह-"रे पामर, असांप्रतमिदं यत्त्वां यिणौ त्वत्सकाशमुपगते मयि शाठ्यमाचरसि ।” कण्टकी द्रुमस्तं प्रतिवदति-"किं भोः, अहमेनं प्रमश्नामि नानेन किमपि भाषितव्यम् । यदहं करोमि तत्सर्वमनेन विषयमिति ते मनसि किम् ? निबोध तर्हि, अद्यप्रभृति प्रसभग्रहोऽस्माक- मधिकारः । अतोऽतःपरं कण्टकिनः पादपान्सर्वथा वर्जयेः, मा तान्स्पाक्षीः ।" तात्पर्यम् । दुर्जना अन्यान्दोतुं प्रक्रमन्ते । परं ते तेभ्यो बलव- त्तरा भवेयुर्यदि तर्हि तानेव विपदि पातयन्ति । ततस्ते ( २७ ) खलास्तानुपालभन्ते, ब्रुवन्ति च-"किमेभिरस्माखनया वृत्त्या वर्तितव्यम् ? युक्तं किमेषाम् ?" परं ते चित्ते न कु वन्ति । अनागसो बाधमानानस्मान्न जनस्तृणेढीति तेषां महानुपकार एवेति । कथा पञ्चाशीती (८५)। ओत्वाख्वोः । किमपि निकेतनमदभ्राधोगन्तृभिरुपसृष्टं बभूव । तत्र कश्चिन्मार्जारोऽभ्यागात् । स बहूनुन्दुरानवधीत् । अन्ये- युर्विरलीकृतसंख्यैर्हतशिष्टैर्वृकैः समेत्य निरचायि, न को- ऽप्यवतरेदिति । ततः प्रभृति बिडालो. मूषकान्नालब्ध । ततोऽलब्धजन्धिः स मार्जारो मुमूर्षुः प्रायोपवेशनकृतमतिः कस्यामपि विहङ्गिकायां पूर्वपश्चिमपादानासज्य मृतवदा- त्मानं संदर्शयामास । तद्वीक्ष्य कश्चिज्जरठः पुंध्वजस्तं ब्रवीति-“सौम्य, भारयष्टिमालम्ब्य सुखं तिष्ठ । किम- नेन ? विदारितं त उदरं तृणैः पूरितमिति दृष्टेऽपि वयं त्वां न विश्वसिमः ।" तात्पर्यम्। घातुकानां च धूर्तानां च चाटानां च चाटूतीरजिह्मव- दवभासमानानि कर्माणि वा जना याथार्थेन गृह्णन्ति, अत एव वन्यन्ते । यदा तेषां वरूपमेकवारं ज्ञायते, ते व- ञ्चका इति च दृढनिश्चयो यैः क्रियते, तेषां वञ्चने कियती मात्रा तेषाम् ?
( २८ ) कथा षडशीती (८६)। किखिग्राम्ययोः। कश्चित्क्रोष्टा व्याधैरनुसृतो द्रुतं धावशश्राम । अ- त्रान्तरे पथि स्थितं कंचिद्रामीणं दृष्ट्वा तं प्रार्थयामास- "तव कुटीरे वासं देहि" इति । ग्राम्योऽब्रवीत्-“पर- मम्" इति। ततः स क्रोष्टा तत्कुटीरैककोणे जुगूहात्मानम् । व्याधास्तस्यानुपदमेवाजग्मुः । तैम्यिोप्रच्छि-"कच्चिदि- तो यान्तं क्रोष्टारं ददर्शिथ ।" ग्राम्य उवाच-"न हि दृष्टो मया । एवं वाङ्मात्रेण नेति भावयामास, परं तस्य निव- स्थानं वारंवारमङ्गुल्या निरदिक्षत् । अपरिज्ञातहस्तसंज्ञा मृगयवो निर्जग्मुः । अथ सा शिवा निभृतं गन्तुं प्रचक्रमे । एतस्मिन्नन्तरे ग्राम्यस्तां पृच्छति-"अये, किमेषा रीतिः ? येन तेऽभयं दत्तं किम् ?” क्रोष्ट्रा सर्वास्तस्य चेष्टाः सूक्ष्मच्छेदतोऽदर्शिषत । ता मनसि निधाय स ब्रवीति-"रे, वचनानुकारि यदि ते कर्माभ- विष्यत्तर्हि तवोपकृतेरानृण्यं नूनमगमिष्यम् । तात्पर्यम्। केचिदेवंविधा अधमाः सन्ति, यत्ते प्रत्यक्षे वचनैराप्त- त्वमुपन्यस्यन्ति । परोक्षे कार्य विहन्तुं यतन्ते । प्रकाश सपनो वरम् । परं मित्रापदेशेन यो द्विषः कर्माचरति स हितशत्रुरसत्यसंधोऽतीव नीचः। तस्य मुखं नावलोकनीयम् । तमनापृच्छयैव गम्यते कथा सप्ताशीती (८७)। शुना दष्टस्य पुंसः। कंचन पुमांसं कोऽपि श्वादातीत् । काचिन्महत्तरी ( २९ ) तस्मा उपचारमकथयत्-"अपूपखण्डं गृहीत्वा स्पृष्टक्षतं तं श्वानमाशय" इति । एवं कृते विषबाधा नंष्टा । यथो- क्तमनुतिष्ठन्तं तं कश्चिद्दुधोऽयनेन तेन गच्छन्दृष्ट्वा पप्र- च्छ-"रे, किमिदमारब्धं त्वया ?" क्षतो यथावदाचख्यौ । श्रुत्वा तत्स विद्वास्तं वदति-"रे, यद्येवं तर्हि प्रार्थयेऽहं रह एतत्कुरु । इमां प्रवृत्तिं यदि पत्तननिवासिनः श्वानः श्रोप्यन्ति, तमुस्यां पुर्या कमप्यक्षतं नावशेक्ष्यन्ति ।" तात्पर्यम् । एनखिनो दण्डमेवाहन्ति । तदकृत्वा ये तेभ्यो बि- भ्यति तांश्च मधुरवचोभिः सान्त्वयन्ति तैस्तत्सभाजनं रह- स्येव कर्तव्यम् । नोचेत्साधूनां मानहानिर्दुरात्मनामुत्कर्षश्च भवेत् । कथाष्टाशीती (८८)। शिशुनियत्योः । कश्चिद्वालः कस्याश्चिद्दीर्घिकायास्तटे संविवेश । निद्रा- निमीलितचक्षुषं तं विलोक्य विधिस्तं प्राबोधयत, अवो- चच्च-"रे, यदि पतिप्यसि तर्हि तवापराध इति जना न वदिप्यन्ति । मामेव निन्दिष्यन्ति ।" तात्पर्यम् । जनानां रीतिरेवेशी । यदि काचित्क्रिया शुभोदर्का भवेत्तर्हि वदन्ति मया कृतेति । व्यत्यये तु दैवमुपालभन्ते, न च खकर्म दूषयन्ति ।
( ३० ) कथा नवाशीती ( ८९)। अश्वतरस्य । कश्चिदश्वतरः वाशितो नातिपरिश्रमश्चासीत् । अतः सोऽल्पीयसानेहसा हृष्टपुष्टाङ्गोऽभवत्, खैरमुदपतच्च । क- श्चित्तं चख्ये-“रे, अश्वसंततिस्त्वम् । सोऽपि कीदृशो वाहः, न सामान्यः, अपि त्वाजानेयोऽश्वचर्यासु जिष्णुश्च ।"तद्धृदि निधाय स वेशरो निरचैषीत्-"प्रसङ्गवशान्महान्तमध्वानं लङ्घयेयम्” इति । व्यतीतेषु केषुचिद्दिनेषु तस्य स्वामी तमारुयैकदा कुत्रचिद्गुरुकार्यसंपादनाय गच्छंस्तेन जवेन धावितव्यमिति तं कशया बलवदभिजघान । तदा सोऽश्व- तरो विितक्रमणपरोऽश्रमत् । तत आत्मन्यवज्ञां चकार- "रे, केदानीं तेऽश्ववीर्यम् ? व्यक्तमस्मान्न ते जनयिता वाजी, अपि तु रासभ एव ।" तात्पर्यम्। ये पित्रोरात्मनि महत्त्वमापादयन्ति तेषां खराणां च नो विशेषः । यः किल श्रेष्ठः स स्वार्जितयशःसंपदैव विश्रुतो भवति । यश्च स्वयमविक्रान्तः स एव पितृयशसा श्रेष्ठो भवितुमीहते । तत्करणे वितथप्रयत्नो भूत्वा लघुतां याति । कथा नवती (९०)। कीशजम्बूकयोः। पुरा सर्वे पशवः शाखामृगं श्वापदराज्येऽभिषिषिचुः । प्राप्ते तु पश्वाधिराज्ये स कार्यविचक्षणोऽहं नीतिकुशलो ऽहमिति मुधा दर्शयांबभूव । तत्पशूनामसमञ्जसं कृत- ( ३१ ) प्रतार्य पशून् कूटयन्त्रं रते कूटयन्त्रे मवलोक्य कोष्टुर्मनो विव्यथे । स कृतसंकल्पोऽभूत्-"क- दापीमं वलीमुखं पयामि" इति । गतेषु केषु चिद्वासरेषु कस्मिंश्चिदवटे केनापि निहितं सामिषं दृष्ट्वा क्रोष्ट्रा प्लवङ्गोऽभिहितः-"प्रभो, कस्मिंश्चित्स्थलेऽहं निधिमासदम् । न कोऽपि तस्य खामी लभ्यते । अतो देवपादानामेव तत्र खाम्यमिति तर्कये । परस्तान्महाराजः प्रमाणम्” इति । अविज्ञातव्याजः स कपिर्निधिं ग्रहीतुं त्व- स्म । स्पष्टमात्रे पललपिण्डे धृतः । तदा स मर्कटो जिहाय, क्रोष्ट्रे चातिमात्रं चुकोप । सोऽवदत्तम्- "नृशंसः पापी राजद्रोही चासि । न किमप्यत्याहितम् । निर्भरं त्वां दण्डयिप्यामि” इति । श्रुत्वैतत्क्रोष्टोच्चैरहसीत् । प्रस्थिते च तस्मिन्स परावृत्य विलोक्य सग्रीवाभङ्गं वनौ- कसमाह-"किं रे राजाहमिति न किं प्रकटयसि ? कथ- मुन्माथं नाज्ञासीः ?" तात्पर्यम् । नाल्पबुद्धी राज्यधुरं वहेत् । राज्यधुरि तेनोढायां स खार्थ जनहितमपि विहन्ति । ईदृगुच्चपदारोहणे स एव ना योग्यो यो नीतिचञ्चुर्दक्षिणः सत्यसंधश्च । योऽमायो दुर्ध- पश्च भुजच्छायाश्रितप्रजासमयज्ञश्च । यो व्यवसायशीलः, शूरोऽप्यक्रोधनः, साधुरपि मार्दवरहितः, प्रियस्तुतिरपि वास्तवगुणानामेव यः स्तुतिमभिनन्दति, य आत्मश्लाघा- द्वेषी, कृत्याकृत्यपरिच्छेदकोऽदम्भी च । एवमादिभिर्गुणै- हींना अपि ये भूमे(रमाससञ्जुस्तेषां कीदृशः परिणामो- ऽभूदिति पुराणेतिहासेषु सुव्यक्तं भवति । तेभ्यः प्रकृति- पीडाः समजनिषत । ये धूर्तास्तैस्तत्वभावं ज्ञातवद्भिश्छ- ( ३२ ) न्दानुवृत्त्या ते वश्यतामनेषत । लोकोपकारिकृत्येभ्यश्च ता- निवर्त्य विषयोपभोगेषु यथा ते मनो दृढं भन्स्यन्ति तथा- कार्घस्ते । स्वार्थ च साधयामासुः । कथैकनवती (९१)। शृगालवन्यवराहयोः । कश्चिद्वन्यघृष्टिः कस्यापि महीरुहस्य प्रकाण्डाचौ दंष्ट्रां निश्यन्नास्ते । तत्र यदृच्छयागतः कोऽपि फेरुस्तं पृच्छति- "रे, परितो दृष्ट कश्चिदमित्रस्त्वामभियातीति न दृश्यते । किमिति व्यर्थ दंष्ट्रां निश्यसि ? कोऽत्र हेतुः ?” किरिस्तं प्रोवाच-"भद्र, सत्यमब्रवीस्त्वम् । परमप्यवैषि क्षण आयुधानि मृज्यात् । यतो व्यसनकालेऽवश्यमवसरो लभ्य इति को निर्णयः ?" तात्पर्यम् । संदीप्ते भवने कूपखननं प्रत्युद्यमकारी जडमतिः । या- वहाल्ये स्मः, यावच्च वयं पितृभ्यां चिन्त्यामहे, यावच्चासं- क्रान्तसंसारभाराः, तावद्विद्याभ्यसनं कर्तव्यं सर्वैरस्माभिः, येन यौवने सुखं वसेम । तथा हि । कैशोरे प्राप्तविद्याफल- मुपभुज्याम, अक्षगणं दमयेम, दुश्चरितेभ्य आत्मानं त्रा- येमहि, रायं च संचिनुयाम, येन वृद्धाः सुखं वसेम । य आदित एवं संविधानं करोति स एवाप्रमत्तः, स एव प- ण्डितः, स एव पुमान् , स एव बुद्धेः प्रकामप्रागल्भ्यफल- माप्तवानिति ज्ञातव्यम् ।
( ३३ ) कथा द्वानवती (९२)। लुब्धककलविङ्कयोः । कश्चिल्लुब्धकः पक्षिग्रहणार्थ जालं प्रसारितवान् । त- स्मिन्काचिच्चटका संयता । सा बहुविधं विलप्याह-"कि- मिदं महत्संकटं म उपस्थितम् ? किं मयापराद्धम् ? नाह कस्यापि स्वर्णममुष्णाम्, नापि दुर्वर्णम् । तण्डुलकणिकार्थ किं मे वधदण्डः ?" तात्पर्यम्। अस्मिञ्जगति न्यायप्रवृत्तिरेवेदृशी । यदि कश्चिद्व- राकः किमपि लघुपातकमाचरति, स महता दण्डेन यो- ज्यते । ये चेभ्याः प्रतिष्ठिताश्च वयमिति दम्भं दर्शयन्ति' त इतरेषां कोटिसंख्यं धनं साहसपूर्वमपहृत्यापि माध्यस्थे- नोत्कोचेन चादण्डिताः सन्तो महादोषेभ्योऽप्यश्रमेण मु- च्यन्ते । कथा योनवती ( ९३ )। शलभोलूकयोः। कश्चिज्जरया परितः पेचकः कस्याप्यागमस्य निष्कुहे खपिति । तस्यैव सालस्याङ्कौ कश्चित्पतंगोऽगायत् । घूकस्त- स्मिन्क्षणे तं द्विस्त्रिा प्रार्थयांबभूव-" भद्र, अपेहीतः । मायासय माम् । तव कर्णकटुखरै निद्राया भङ्गो भवति।" एतावता स शलभस्तं भर्त्सयित्वान्ते चाचुक्रोश । स आह- "गर्वचरितश्चौरोऽसि त्वम्, दुःषमं वर्तसे । निशाटनस्त्वं चौरिकयोदरं बिभर्षि, दिवा च वृक्षकोटरे प्रच्छन्नः शेषे ।" कौशिकस्तमवदत्-“रे वाचाट, नियन्त्रय खजिह्वाम् । नो ( ३४ ) चेत्पश्चात्खिद्यसे ।" तथापि स शलभ आक्रोशान्न व्यर- मत् । स परिवादानन्तरं भूयोऽपि गातुमारेभे । ततो वा- यसारातिश्छद्मना तमस्तोत् । स आह-"आर्यचरित, क्षमख सापराधं माम् । अहमेतर्हि दृढं जाने धन्योऽसौ यस्ते गानं शृण्वञ्जागर्ति । ते मधुरखरैरधरीकृता वितन्त्री- खराः । श्रुत्वा ते गानं परभृतोऽपि जिहीयात् । सुष्ठ वि- रूढस्मृतिरस्मि । मन्निकटे सुधापूर्णमेकं काचभाजनमस्ति । तस्मादेकं कंसं तेऽपेक्षास्ति चेद्दास्यामि । गायतस्ते कण्ठः शुष्क इति तर्कयामि ।" शलभ उदन्याव्याकुलीकृतो दि- वाभीतसकाशात्तत्पीयूषं पिबेयमिति महत्याशया कलित- स्तमभिससार । आगत एव तस्मिन्नुलूकेनोत्क्षिप्य स न्य- गीर्यत । तात्पर्यम्। भिन्नरुचिर्हि लोकः । यदेकस्मै रोचते तदन्यस्य ने- ष्टम् । अतोऽनिच्छता केनचित्सकृविवारं प्रार्थनायां कृता- यामपि तस्यादनमसांप्रतम् । तमुपद्रुत्य तेन सह कलहस्तु केवलं दुर्वृत्तत्वम् । एवं स्थिते य एवमाचरन्ति तेषु पीडि- तैर्दण्डितेषु न विस्मेतव्यम् । कथा चतुर्नवती (९४)। एकाक्षिविकलस्यैणस्य । कश्चिदेकाक्षिविकलो मृगो नित्यमब्धितटे चरन्नास्ते । स मेने चरतो मम काणमक्षि जलाभिमुखं दत्तं चेदविकल- मक्षि च स्थलमाभितो दत्तं चेद्धातयिता संनिहितः सञ्ज्ञा- स्यते । एवमरिष्टनिवारणोपायं संविधायात्मानमकुतोभय- ( ३५ ) तु यत्र नो मजीगणत् । कश्चिन्मृगवधाजीवश्चिरं तबद्धलक्ष्यस्तं नासा- दयत् । ततः स नावमारुह्य सुगुप्तं जलतोऽभ्युपेत्य तं गुलि- काप्रक्षेपणे जघान । प्राणोत्क्रमणवेलायां स मृग आह-"भो विधे, अनधिगम्यं ते विलसितम् । यत्राहमितो मे भयमित्य जानां तस्मान्नाहं विद्धः, अपि भयमित्यहमबोधं तयैव दिशा मे निधनं जातम् ।" तात्पर्यम् । मध्यमलोकेऽस्मिन्स्थिति नाविधभयाकीर्णा । न तै- रुपस्थातव्यमित्यरिष्टनिवारणोपायेषु कृतेप्वपि निर्भीकैर- स्माभिर्नो भाव्यम् । प्रपञ्चेऽस्मिन्नागमनस्य मार्ग एक एव । निर्गममार्गास्त्वसंख्याः । तत्रास्माकं विमृश्यकारित्वं किय- दुपकरणीभवेत् । यान्विघ्नान्वयं बोधामः, ये वा गोचराः भवन्ति, तेभ्यस्त्राणं विदध्याम । परं येऽगोचरा यांश्च वयं नावबुध्यामहे, ते शतशोऽस्मान्संवृण्वन्ति । तेभ्यः कथं मुञ्चामहे ? अनया दिशैवं बोद्धव्यम् । विशङ्का वय मिति न मन्तव्यम् । सभया इति मत्वा वा निर्भयत्वसंपा- दने नात्यर्थ व्यवस्येत् । यन्निर्भयत्वं नास्मावधीनं तदह- दिवं भयस्य चिन्ता मौर्व्यम् । नेदमुचितं विवेकशीलस्य नृजातेः । कथा पञ्चनवती (९५)। नदीमत्स्यसागरमत्स्ययोः । कश्चिन्नदीमत्स्यः पूरस्य प्रबलरंहसा पारमविशत् । नूनप्रदेशमवतीर्णः स तत्स्थलनिवासिनः शकु- लिनस्तृणायामस्त । स तानाह-"मम देशो मम वंशो- नदीमुखेनाकून (३६) स्याव, तर्हि ज्ञास्यसि ? श्रीमन्तो बहुमूल्यदा ऽभिजनश्च युष्मभ्यं प्रशस्यतरोऽस्ति । अतः सर्वे यूयमु- चपदं ग्राहयित्वा मां संमानयितुमर्हथ । ततो नातिदूरे 'ह- लवा' इति ख्यातो मत्स्यविशेषस्तमुवाच-"रे मा मैवं वद । कदाचिदेकस्मिन्नानाये त्वमहं च यदि बद्धौ कः श्रेष्ठपदाधिकारीति नेनापि मां भक्षणार्थ केप्यन्ति । त्वं त्वल्पपण्येन दरि- द्रेभ्यो विक्रेप्यसे । अर्घव्यतिरेकेणापि वा दास्यसे ।" तात्पर्यम्। विदेशं गत्वा यस्तत्स्थलं निन्दति खनीवृतं वा प्रशंसति सोविमृश्यकारी सर्वस्य स्वस्वदेशे सहजः प्रेमा, यदि वयं परदेशं धिक्कुर्मः, खदेशं च स्तुमः, तर्हि यद्देशीया अस्मान्निषिध्य खदेशं प्रशंसिष्यन्ति । वस्तुतो देश) ष्ठत्वं नास्मानुच्चत्वमावहत्यन्तरङ्गगुणा एवावश्यकाः । य- स्मिन्कस्मिन्नपि देशे पुमान्निवसतु, यो विद्वान्गुणी च स सर्वत्र पूज्यते । कथा षण्णवती ( ९६ )। विदुषोः। अर्हन्तीचणं कमपि विद्वांसं क्रीडन्तं विलोक्यान्यः कश्चिद्धीमांस्तं परिजहास । तस्य स्मयं दूरीकर्तु प्रथमो धनुरेकमानाययत् । अपनीतज्यं समरेखं च तत्कृत्वा भूमौ निचिक्षेप । ततः सोऽन्यं कृष्टिमाह-"यदि त्वमिमं कू- टप्रश्नं विवृणोषि यथार्थनामा विचक्षणस्त्वम् ।" स दूर दर्यपि व्याख्यातुं नाशकत् । ततः स प्रथमं प्राह-"नाहं जानामि, व्याख्याहि त्वमेव ।" प्रथमोऽदवत्-" न त्वं ( ३७ ) जानासि ? कथयेऽ हम् । शृणु । यदीदं धनुर्नित्यं नमि- तमाशु भङ्ख्यति, यदि पुनः सति प्रयोजने नामितं चिरं स्थास्यति, अधिकं च कर्म कारयिष्यते ।" तात्पर्यम्। पुंसो मनो धनुःसदृक्षम् । अदः सदा कर्मणि व्यापृतं चेन्निःसारं भूत्वानुपयुक्तं स्यात् । अतः क्रीडनविहाराश्चि- त्तमपगतक्लमं कुर्वन्ति । शेमुप्यै तैक्ष्ण्यं च ददति । यद्यमी दोषरहिताः, तर्हि प्रसङ्गवशान्महद्भिरपि सुखमाचरितव्याः । कथा सप्तनवती (९७)। काकोलकलरवाणाम् । कस्यांचित्कपोलपालिकायां पारावता व्यवसन् । तेषां वृन्दं कश्चिद्रोणकाको बर्हाणि श्वेतीकृत्य विवश । मौ- नमास्थितं तं पारावता न लक्षयामासुः । अनेन क्रमेण बहवो घस्रा व्यतीयुः । ततः कस्मिंश्चिद्दिने स काकोल: किं रूपमङ्गीकृतं मयेति विस्मृत्य रवितुमारभत । ततस्ते कपोताः संजातजातिप्रत्यभिज्ञास्तं प्रहृत्य विवासयामासुः । स पुनर्जातिवृन्दं निववृते किरािणि पिच्छानि दृष्ट्वा नायमस्मदीय इति तज्ज्ञातयोऽपि तं निःसारया- मासुः । एवमविद्यमानां योग्यतामात्मन्यारोपयितुं य- तिष्णुः स काकोलो विद्यमानामपि हारयित्वाऽकाकोलो- ऽकपोतश्चाजायत । तात्पर्यम् । ये छद्मवेषं धारयन्ति ते लोकान्न चिरं वञ्चयितुं प्र- भवन्तीति हर्षस्थानम् । तेषां छद्मवेषधारिणां वचस्याचारे तस्य ४ (३८) तद्वेषस्याननुगुणं किमपि न्यूनाधिक्यं दृग्गोचरं भवति, येन तेषां कैतवं दोषज्ञाः सद्यो जानन्ति । कथाष्टनवती (९८)। वराहीसरमयोः। यदृच्छासंगते वराहीशुन्यौ काशुप्रसवेति व्यवदेताम् । ततः शुन्याह-"प्रतिप्रसवमहमुरूनर्भकान्सुवे । सूतिका- लश्च न दीर्घः ।" सूकर्याह-"हला, सत्यमेतत् । परं प्रसवे प्रसवे प्रसूतिं प्रत्यत्युत्का भवसि । अतस्तेऽर्भका जननकाले दृष्टिहीनाः । नाहं तथा ।" तात्पर्यम् । संभ्रमकृतकर्म णो वैकल्यमस्त्येव । कथा नवनवती । (९९)। चटकाशशकयोः । कश्चिद्गरुडः शशमेकं कृकाटिकाग्रहणेन रुरोध । तत्र तदभ्यासवर्तिनि कस्मिंचिदनोकहे समासीना काचिच्च- टका तमाह-"रे, त्वमतीव विचारमूढः । धिक्ते जीवितम् रे, त्वं निष्क्रियः सन्किमात्मानं व्यर्थ घातयसि ? उत्तिष्ठ धाव च । यदि यतसे, तर्हि चपलजातिस्त्वमरेर्हस्तान्मोक्ष्यस इति मे भाति ।" इत्थं सनिकारं तस्यां वदन्त्यामेव कश्चि- च्छशादनोऽवपत्य तां नखैरुदनयत् । तस्मिन्क्षणे साति- मात्रं विललाप । परं तस्मिन्नदत्तावधानः श्येनस्तां गृहीत्वा- चालीत् । दृष्ट्वा तच्छशो मृतिकाले समाहितचित्तस्ताम- वदत्-“अये, आत्मानं सुस्थां मन्यमाना भवती मामधि- ( ३९ ) पश्यानि चिक्षेप । सा त्वं तेनैव भयहेतुनाक्रान्ता कथ- मेतर्हि वर्तसे ?" तात्पर्यम्। ये परोपदेशे पण्डिताः, येषां च समापतिते व्यसने बु द्धिर्भश्यति, त उपहस्यन्ते । तदु कथा शती ( १०० )। नृपदासेरयोः । ग्रीप्मर्तावेकदा कश्चिद्राजोपशल्येऽटित्वा निवर्तमानः पथि स्थितं खोद्यानं विवेश । नानाविधवृक्षशबले द्याने तत्तद्रुमाणां रुचं विलोकयतीतस्ततो भ्रमति तस्मि- नभ्यर्ण वर्तमानः कश्चिद्दासः परिहितसुचैलो हस्ते मालि- कस्य सेचनघटं गृहीत्वा यत्र राजास्थात्तस्मिन्नुद्देशे सेकम- करोत् । स मनुते स्म-"विक्रीतो दासोऽस्याहम् । जातु राजा म आस्थायुक्तां शुश्रूषामवलोक्य प्रसीदेत्, प्रेप्यभावाच्च मां विमोचयेत् ।" ततो यत्र यत्र राजागच्छत्तत्र तत्रापथि- भिर्गत्वा सेचनं व्यधात् । तदनधिकारचर्चा राजा ज्ञात्वा तमाजुहाव । आह्वानसमकालमेव द्रुतमागत्य स आशा- बद्धो राज्ञः पुरतस्तस्थौ । तदा राजा तं वदति-"रे, उ चितं कर्म विहायैतावन्तं कालं किमात्मा व्यर्थमायासित- स्त्वया ? नासीत्किमपि प्रयोजनमस्य व्यापारस्य । अस्य कालस्य क्षेपः साधीयसि कर्मणि युक्ततर व्यपोहामि तर्हि ते शङ्काम्, मत्तो न त्वं सफलाशो भविष्यसि ।" तात्पर्यम् । किमपि कार्यमनुरुध्यमाना अत्युपचारवन्तोऽन्येषां उ ( ४० ) चित्तं य आराधयन्ति ते यथा यथान्यं प्रसादयितुं यतन्ते तथा तथा सुज्ञास्तान्द्विषंति । न ते खार्थ साध्रुवन्ति । प्रतीपं तेषामुद्यमश्च निष्फलो भवति । कथैकोत्तरशती ( १०१)। मेषादस्य कृतघ्नस्य शुनः। कश्चिदजाजीवः खश्वानमतीवं विश्वसिति । यदा स बहिर्गच्छति तदौरभ्रकं तदधीनं कृत्वा गच्छति । तं वि श्वासैकभूमिं कृत्वा विगतचिन्तस्तिष्ठति च । तेन शुना सो त्साहं सेवितव्यमिति तेन नवनीतमसृणां पौलिकामादयत्, तेन सार्धं चाटूक्तिभिश्च कथा अकार्षीत् । एवंस्थितेऽपि खा- मिनः परोक्षे स मेदं हत्वा खादति दिनेषु गच्छत्सु वेदि- तमेतत्स्वामिना । ततो वध्यस्य तस्य वधे प्रायुत । तदा श्वा तं भणति–“भोः स्वामिन् , मां घातयितुं नार्हसि । पश्याहं ते दीनश्चिरंतनो भुजिप्यः । अजानता मयैकं द्वे वागसी कृते । तेन निस्त्रिंशो भूत्वा मे वधे तब प्रवर्तनमनुचितम् । वृकः सदा बद्धवैरस्त्वया । तस्मिन्कि न वैरं निर्यातयसि ?" तं जाबालः प्रत्युवाच-"रे शठ, वृकाच्छतगुणं दण्डं त्वम हसि । यतोऽहं दृढमवैमि वृको मामपकरिष्यतीति । अतस्तद्विषयेऽहं सावधानो भवामि । परं त्वं मम विश्वास्यो गोप्यकः । त्वद्विश्रम्भादहं प्रमत्तोऽस्मि । त्वां परमान्नैः पुप्णामि । स त्वमपकरोषि चेत्सुदुःसहमदः । तव कृतघ्नत्वं क्षन्तुमनहम् ।” तात्पर्यम् । यं वयमुपकुर्मः, यं च वयं विश्वसिमः, येन सह मित्र (४१) त्वेन प्रवर्तामहे, तेन दत्तं विकारं न सहामहे, तं च न क्षमामहे । तस्य शाट्याद्यदुःखं भवति तस्य शतांशेनापि दुर्हदकृतादपकारान्न । अत अत ईदृशस्यापराधिनो दण्डसमये न्याय्योऽयमन्याय्यो वेति न वयं विचारयामः । परं चा- त्मनो व्यथानुरूपं दण्डं विदध्मः । कथा द्वयुत्तरशती ( १०२)। चौरशुनोः । संधिं छेत्तुं कस्यचिदिभ्यस्य निशान्तं कश्चित्कुम्भीलक आजगाम । तमागतं वीक्ष्य द्वाःस्थः श्वा बुबुक्क । ततः स पाटच्चरोऽभ्यूषशकलं तमुद्दिश्यास्यत् । तमगृहीत्वा स तमुवाद-"रे, प्रथममहं समशयि यद्विगाढायां रजन्यां त्वमत्रागतः, तत्वं कोऽपि दुर्जनो भवसीति । त्वं चापक्वमुप- प्रददिथ । तेन ते खलत्वमिदानी निश्चितम् । अहं मम खा- मिनो द्वारि स्थित्वा तस्य पस्त्यं रक्षामि । अतो यावत्त्वमस्य संनिधौ स्थास्यसि तावदहं भषिप्यामि । मात्र संदिग्धि । यथागतो गच्छ तावत् ।” तात्पर्यम् । ये कार्यसाधकास्ते मूर्खान्स्वार्थप्रणवान्वोपप्रदानैर्वशी- कर्तुं प्रभवन्ति । परंतु ये धीराः स्वामिभक्ताः सच्चरिताश्च त उपदाभिन वशीक्रियन्ते । कथा त्युत्तरशती (१०३ )। परिवादिनीवादकस्य । कश्चित्परिवादिनीवादको गङ्गायां गानवादनाभ्यां मद्यपा- (४२) रञ्जयामास । तेषां प्रशंसावादाश्रुत्वा सोऽचिन्तयत्-"ए- कदा संगीतगृहं गत्वात्मनो गुणं प्रदर्श्य धनकीर्ती सममेवानु- याम्” इति । तस्यौत्सुक्यं दृष्ट्वा रङ्गाजीवाः संगीतशालां तं निन्युः । तत्र स्थलगौरवाज्जनसंमर्दाच तस्य कण्ठोत्थितः खरस्तन्त्रीखरश्च लुप्तो नाश्रूयत । येऽभ्यासवर्तिनस्ते शु. श्रुवः । परं श्रुतगायकवादकाचार्यगीतवादनानां तेषां तस्य गानवादने विखरे ग्राम्ये च बभतुः । ततस्तैररुच्यां दर्शि- तायां सर्वे धिग्इमिति वदन्तस्तमवाधीरयन्त, शालाया निरवासयंश्च । तात्पर्यम् । ये प्रशंसकानामज्ञानां वा प्रशंसावचनैरात्मनि गौरव- मापादयन्ति ते लोक उपहास्यतां यान्ति । कश्चिन्नमस- चिवोऽज्ञानल्पसमाजे रञ्जयितुं प्रभवति । स किमभिरूपभू- यिष्ठां परिषदं वचनैराह्लादयेत् ? अतो रञ्जनविधावना दरः सन्नात्मनो योग्यतां श्रोतृणां च योग्यतां येन गुणेन रञ्जयितुमिच्छामस्तस्मिन्वस्य चाञ्चवं सर्वमेतन्निपुणं परीक्ष- णीयम् । नो चेत्कृतं सर्व निष्फलं भवति । अन्यच्च लोका उपहसन्ति । कथा चतुरुत्तरशती ( १०४ )। कुलीरयोः । कर्कटाः स्वभावतस्तिर्यग्यानाः । एकदा काचित्कर्कटी खदुहितरं संतोवाच-"कुत इयं लोकविद्विष्टा गतिरा- हता त्वया? मुञ्चेमाम्" इति । दुहिता वदति-"मातर्. बुद्धि- सामर्थ्यमनतिक्रम्य यत्साध्विति मे भाति तदहमनुतिष्ठामि ।
( ४३ ) यद्येतत्ते न रोचते तर्हि कथं मया गन्तव्यमिति त्वं मे दर्शय । तदन्वहमपि तथा गच्छामि ।" तात्पर्यम् । यस्मिन्कस्मिन्नपि विषये परं दूषयामस्तदेव च स्वयमा- चरामः । किं चित्रमस्मात् ? परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम् । परं यस्योपदेशानुरूप स्वीयमनुष्ठानं स एव पण्डितः । न तु स यः केवलमुपदेशचतुरः । कथा पञ्चोत्तरशती ( १०५)। बालदस्टव्योः । कश्चिद्वालस्तस्करमेकं निशाम्य वापीतटे परिदिदेव । मोषकस्तं पप्रच्छ-"बाल, किं रोदिषि ?" ततो बालः सफू- कारं दीर्घमुणं च निश्वस्याब्रवीत्-"मम रूप्यामत्रं रज्जु- त्रोटनेन वाप्यां पपात । किमहं करोमि ? पितरौ मां दण्डयि- प्यतः ।" श्रुते तद्वचसि तस्मिन्नेव क्षणे स पाटच्चरः खलो- प्नं परिहितवाससी चावतार्य वापीतटे न्यौप्सीत् । वापीम- न्तरवतीर्यानल्पं कालं पात्रमन्वियेष । ततोऽलब्धभाजनो निराशीभूतो निष्क्रम्य यावत्पश्यति तावत्स सभाण्डकपरि- हितवासा बालकोऽदर्शनतामयासीत् । सर्व तदादाय बाल: पलायांचक्रे । तात्पर्यम् । येऽन्यान्वञ्चयित्वा खार्थ साधयन्ति, तेऽपि कदापि प्र- तार्यन्ते, विद्यमानं हायन्ते च ।
( ४४ ) कथा षडुत्तरशती (१०६)। आरण्यकप्रचेतसोः। कस्यचिद्वनवंर्तिनो नदीरोधोवर्तिनमनोकहं लुनतो ह- स्तात्सहसा निःसृतः कुठारो जलमभजत् । ततः स शु- शोच । मुक्तकण्ठं चारोदीत् । तस्य विलापं श्रुत्वा वरुण आविरासीत् । तं वनस्थः शोककारणमचकथत्। तदा पाशी जलान्तः प्रविश्य शातकौम्भं स्खधितिं हस्तेनादायोदमज्जत् । तं वनवासिने दर्शयित्वा पृच्छति-"रे, किमयं ते परशुः?" स उवाच-"नायं मदीयः" इति । ततो भूयोऽपि निमज्ज्य राजतंत्रश्चनमुदधरत् । तं दृष्ट्वा "नायमपि मम" इत्यरण्यस- दुवाच । तृतीयोन्मजने विपिनचारिणो नष्टां वृक्षादनीं गृही- त्वोदगच्छत् । तां स मुदा खीचकाराप्पतिमुपकारिणममंस्त । तदा वनचरस्याजिह्मव्यवहारदर्शनेन संतुष्टो यादसांपति- स्तपनीयराजते द्वे अपि कुठारे तस्मै पारितोषिकत्वेन ददौ । उदन्तमेनं तस्य सजूः श्रुत्वा सरितं गत्वा हस्तस्थितं कुठारं बु- द्धिपूर्व कबन्धेऽपातयत् । कुठारनाशं सत्यीकृत्य च परिदे- वितुं प्राक्रमिष्ट । तच्छ्रुत्वा यथापूर्वप्रचेता अधितष्ठौ । स नि- मज्ज्योन्मज्ज्य सौवर्ण परश्वधमानयत्तं वनौकसमन्वयुत च- "किमयमेव ते कुठारः ?” अष्टापदनिर्मितं तं दृष्ट्वा तस्य वु- द्विभ्रंशो जातः । स प्रचेतसमाह-“बाढमयमेव मम कु- ठारः ।” एवमुक्त्वा लोभेन पाशिनो हस्तात्तमादातुं प्र- वृत्तः । अत्रान्तरे स तं संतय॑ सौवर्णकुठारमदत्त्वा तस्य कुठारमपि तस्मै न ददौ । तात्पर्यम् । प्रायोऽनीत्याचरणप्रवणानि मनांसि जनानाम् । जगत्य- य (४५) स्मिन्धौर्येन वर्तितव्यमिति बहून्हेतूनेके कथयन्ति । ब्रु वन्तु ते किमपि । परं वस्तुत आर्जवतुल्यो नास्ति प्रधानो गुणः । पश्येह दक्षिणे जन एव सर्वकार्याणि निक्षिपामः । तभेव महाजनं मन्यामहे । परलोकप्राप्तिहेतुत्वेन केषामपि शास्त्रेषु सत्यशीलता न प्रशस्यति इति न । अत एव मा याहीन इहामुत्र च पूज्यो भवति । स्यन्दनस्यैक कथा सप्तोत्तरशती ( १०७ )। विरुवतो रथाङ्गस्य । कस्मिंश्चिद्यन्तरि रथं वाहयति तस्य चक्रं व्यरौत् । आकर्ण्य तच्छब्दं स व्यस्मेष्ट । तच्चक्रं पृ. च्छति च-"रे, अन्यानि चक्राणि न विरुवन्ति त्वमेव कि मिति विरौषि ?" तदुवाच-“अतीवाहं क्लिश्ये । अविषा तद्दःखमतो रोदिमि । तात्पर्यम् । दुःखावेग निगृह्य यो लोकेभ्यो दैन्यं न विवृणोति तं धीरं मत्वा लोकास्तस्मिन्निह्यन्ति । यः पुनः "हा कष्टम् , धिक् कष्टम्" इत्युदीर्य दैन्यं प्रकाशयति, स लोकेभ्यः साहाय्यमप्राप्य स्खलघुतामेव प्रकटयति । कथाष्टोत्तरशती (१०८)। कोकवर्करयोः । कश्चिद्वर्करस्तृणौकःपटलमारूढोऽधस्तात्तिष्ठन्तं वृक- मैक्षिष्ट । अथ तं समाचुक्रोश च । ईहामृगस्तमभिदधे- "रे नीच, इमानि वचांसि मे मनो दुन्वन्तीति मा मन्यस्व ।
(४६) अहं जानामि न त्वममूनि दुष्टवचांस्युदीरयसि । परं तवा श्रयभूतमिदं कुटीरमिदं वक्ति ।" तात्पर्यम् । अभिशापयुक्तं निःषमं यो वदति स आत्मनो लघिमा- नमेव प्रकटयति । आश्रयवशात्कर्हिचिदभद्रभाषी कोऽपि न साक्षाद्दण्ड्यते । अनेन दण्डाभावेनाहं महानिति न स गणयेत् । यद्यपि शारीरो दण्डस्तेन नानुभूतस्त तथापि मा- नहानिर्जातेति न किं दण्डः ? अतो य ईदृशात्पामरादव- मानं प्राप्तः, स न संज्वरेत् । सचिन्तयेत्-"नेदमवमन्तुः सा मर्थ्यम् , अपि त्वाश्रयस्य । तथा यः कोपि परोक्षेऽस्मान्नि- न्दति तस्य कुत्सां श्रुत्वा न संतापः कार्यः । मन्तव्यं स विवर्णः प्रत्यक्षे वक्तुं बिभेति ततः परोक्षवादी" इति । कथा नवोत्तरशती ( १०९)। सदसदर्शिनः केसरिणः । कश्चन सिंहःश्वापदमेकमतहीत् । तस्मिञ्जिघत्सति च ते- नैवाध्वना गच्छन्नेकः प्रतिरोधिः पुर आगत्य तं जगाद-"हरे. तवार्ध मम चैतस्य ।" केसाह-"रे केसाह-"रे धृष्ट, असति संबन्धे निर्लज्जो नामांशं याचितुमागतोऽसि । तूष्णीं तर्हि वर्त्मना गच्छ, नो चेद्धन्यसे।" ततः स परिस्कन्दिस्वपावनतमुखोऽपि । अत्रान्तरे तयैव पद्यया गच्छन्कश्चित्साधुः सिंहं दृष्ट्वा भीतस्तं पन्थानं वर्जयित्वा परतोऽन्यया व- मन्या गन्तुं प्रववृते । तदा सिंहस्तं सादरमाहूय भणति- "रे, मा बिभीहि । त्वं साधुसमाचारोऽस्यांशमहसि।आयाहि तहिं । एनं सत्त्वं विभज्य खादाव।" एवमुक्त्वा सिंहस्तत्सत्त्वं ससार ( ४७ ) द्विधा विभज्यकं भागं तस्मै साधवे समवशेषयत्, अन्यं च भक्षयित्वा वनमगाहत । तात्पर्यम् । उचितमेव विपश्चितां यत्ते साधून्विनयशालिनो गु- णिनश्चाद्रियन्ते । ये धृष्टाः प्रियवादिनः पिशुना वाचाला दुर्विनीताश्च तेषां वासो देयः । यश्चाधिकारे स्थितः स तु गुणिनां संग्रहे यतेत । न द्वारमभिज कथा दशाधिकशती ( ११० )। वृकच्छगलकपोतयोः । काचिच्छागी तर्णितुं बहिर्जिगमिषन्ती पोतं व्याहा- पत्-ि"रे, द्वारमर्गलेन पिधेहि । यावदहं दिनान्ते प्रत्या- गच्छामि, तावन्मापावृणु कस्यापि कृते ।" ततोऽदूरवर्ती कश्चिद्वृकः श्रुतसंदेशोऽजायां यातायां मुहूर्तेन नान । तस्याः स्वरसंवादं विडम्बयन् "जात, उद्घाटय द्वार- म्" इत्यलपत्। अजाशिशुात्राज्ञानुरोधेन वातायनगतो यदा ददर्श, तदा कपटमलक्षयत् । ततः स वृकं व्याहरत्- "रे, अपेहि । अजेव शब्दायसे खलु, परमाकारस्ते वृकत्वं संभावयति । नाहमतो द्वारमुद्धाटयामि ते ।" पर्यम्। ये बाला मातापित्रोर्निदेशान्हृदि संस्थाप्य ताननुरु- ध्यन्ते ते व्यसनैर्नाभिभूयन्ते । ज्यायसो विश्वस्यादित्य स्यायमेव हेतुर्यत्ते खापत्यानामशुभचिन्तका न भवन्ति । किमिति । यद्दालानामशुभं तत्तेषामप्यशुभम् । अन्यच्च व- योधिकास्ते कृत्याकृत्यं हिताहितमधिजानन्ति । एवंभूतौ तात्प (४८) मातरपितरौ ये नानुरुध्यन्ते, ते शर्मभाजो नैव भवि- प्यन्ति । कथैकादशाधिकशती ( १११)। वृकशृगालवलीमुखानाम् । कमपि शाखामृगं मध्यस्थं कृत्वा तस्याग्रतो वृकः शृ- गालं स्तेयेनाभियुयोज । कुतूहलिनोऽन्ये पशवोऽपि न्या यसभां समीयुः । ततो वृकस्य प्रतिज्ञाक्रियानन्तरं शृ गाल एकेनैवोत्तरेण प्रतिसमादधौ । स आह-"नाहं वृकस्य वस्त्वमोषिषम् ।" अथ प्रतिज्ञोत्तरक्रियाः सम्यग्विविच्य कीशः संक्षेपेणाख्यत् । स वृकमुद्दिश्याह-रे, त्वत्स्वामिकं वस्तु किमपि न नष्टम् । शृगालमधिकृत्याहास्यनिक्षेपमपज- हर्थ त्वम् । नात्राहं संशये ।" एवमुभावपि कूटकृताविति निश्चित्य सभा विसृष्टा । तात्पर्यम् । य एकदा कुहक इति विश्रूयते तं न कोऽपि प्रत्येति । कोकः : परद्रव्यापहारकः शृगालश्चात्यन्तप्रतारक इति सुप्र- सिद्धम् , अत एव व्यवहारनिर्णयस्तथाक्रियत । कथा द्वादशाधिकशती (११२)। देवरासभयोः। कस्यचिन्मालाकारस्य चक्रीवानतिभारं वाहवाहं श्रान्तः । स नारायणं गत्वा विज्ञापयामास-"भोः का- रुण्यनिधे, दत्स्वान्यं स्वामिनम्” इति । भगवांस्तं कुम्भका- राधीनमकुरुत । स तेनेष्टकाभारानवीवहत् । खरोऽनेनाप्य- (४९) " निर्भरमन्व- संतुष्टहृदयो भूयोऽपि गत्वा भगवन्तं व्यजिज्ञपत्-"दी- नबन्धो, कुलालात्साधुतरं प्रभुं देहि" इति । ततो- ऽच्युतस्तं पादूकृते ददौ । तन्निलये वसन्स शयिष्ट, आत्मन्यचिन्तयच्च-“पश्यत मे मौर्व्यम् । अयं चर्मकारो द्वाभ्यामपि क्षोदीयान् । यतोऽसौ जीवन्तं मां कर्म कारयित्वा संस्थिते मयि मम चापि ग्रहीप्यति ।" तात्पर्यम् । विद्यमानावस्थायां खिन्नो नाम भूत्वा नव्यायां स्थित्यां सुखतरं वत्स्याम इति मन्यमाना देवानां प्रियाः । सर्वा- खवस्थासु सुखदुःखमस्त्येव । तस्मात्पुंसा वर्तमानावस्थायां संतुष्टेन भवितव्यम् । यतः प्रत्यग्रायां सुखमेव लप्स्यामह इति को निश्चिनुयात् ? कदाचिदधिकं दुःखमपि सं- पत्स्यते । कथा त्रयोदशोत्तरशती ( ११३ )। मातापुत्रयोः । कश्चित्कुमारोऽध्ययननिमित्तेन कामपि पाठशालां ज- गाम । स एकदा सहाध्येतुः किमपि वस्तु मुमोष । तच्च खमात्रे गृहमानीय ददौ । सा बालं दण्डयेत्, परं तदकृत्वा तत्कृत्यं प्रशशंस । तस्मै बहुबीजं फलं भक्षणार्थ ददे । अनेन स यथा यथा ववृधे, तथा तथा महार्हद्रव्यस्तेये व्यापृतो- ऽभूत् । स एकस्मिन्काले चोरयन्रूपाभिग्राहितोऽबध्यत । उद्वन्धनेन घातयितुं राज्ञो रक्षापुरुषैर्वधस्तम्भं निन्ये । त- कौतुकदर्शनाकृष्टो महानासीजनसंमर्द । तत्र तस्य मा- ताप्यागत्य दीर्घायतं च निश्वस्य शुशोचैनम् । दृष्टायां ५ ( ५० ) तस्यां स राजपुरुषानभ्यर्थयत-"भो दयालवः पुरुषाः, अ- स्मिन्काल एकवारं मातरं द्रष्टुं मामनुजानीत ।" निशम्य तत्ते दयार्दीकृतास्तां तदुपकण्ठमाजुहुवुः । तदा स महतावे- शेन सामर्ष तस्याः कर्ण ददंश । ततो जनानामुच्चावचाः प्रलापा अभवन्-"अहो कथमयं जाल्मः । पश्यत पश्यत, वधकाल आसन्नेऽपि महत्पातकमिदमाचरितममुना ।" स प्रत्याह-"सज्जनाः, शृणुत मेऽभ्यर्थनाम् । यदीमां मे मातरम- हनिप्यं संप्रति, नाहं दोषेणालेप्स्ये । कुत इति पृच्छन्ति चे- द्भवन्तः शृणुत । पूर्वे वयसि विद्यमाने मयि पाठशालातः स- हाध्यायिनः कस्यापि वस्तु मोषित्वागतं मां तदैव यदीयमद- ण्डयिप्यबहुबीजं च नादस्यात् , किमाप्स्यमीदृशीं दशाम् ?" तात्पर्यम् । माणवका जडा दुश्चेष्टिताश्च भवन्ति। तस्य हेतुः प्रायशः प्रसूजनयित्रोालनमस्ति । आर्द्रमृद्धटस्य कर्णो यथा नाम्यते तथा नमति । तथा पूर्वे वयसि बालस्य मतिर्यस्मि- पथि प्रवर्त्यते तं पन्थानं न सा मुञ्चति । अतएव जनयित्री वा पिता वा ये वा गुरुजनास्ते तस्य शिष्टानुदर्शिते पथि प्रवर्तनेऽनलसा भवेयुः । इदमप्रौढवयस्येव कर्तव्यम् । यतः प्रौढवयस्के तस्मिन्दुर्गुणो लक्षव्ययेनापि न नाश्यते । ततो यद्यत्पापं स आचरिप्यति, तस्य दोषोऽमुत्र गु- फजनेप्वेवारोपयिप्यते । कथा चतुर्दशाधिकशती ( ११४ )। वृकरुग्णगर्दभ्योः । काचिद्रासभ्यवस्थशरीराभवत् । साविलम्बितं म- ( ५१ ) श्रुत्वा ते रिष्यतीति प्रसृतां वार्ता द्विचतुराः कोकास्तां कु. शलं प्रष्टुमायन् निकाय्यप्रतीहारभूमौ स्थित्वा प्र. च्छन्नाः सूक्ष्म निरीक्षमाणा मज्ज्वपृच्छन्-"किमस्ति तत्रभ- वत्या विशेषः ?" तच्छ्रुत्वा तस्याः पुत्रो बहिरागत्यावो- चत्-"यादृशीमवस्थामाया भवन्त इच्छन्ति तादृशी नाद्यापि जाता।" तात्पर्यम् । रोगात प्रति दिदृक्षवो ये समायान्ति तेषु प्रीतियुक्त- चेतसागच्छन्तो विरलाः । खार्थापेक्षापरा बहवः । कथा पञ्चदशोत्तरशती (११५)। शलभपिपीलिकयोः। एकदा निदाघे वामलूरस्य हिरुग्धान्यं समाहरन्तीषु तदातपे तापयन्तीषु पिपीलिकासु क्षुधितः क्षामक्षामः क- श्चिच्छलभस्तमुद्देशमवाप । स दैन्यपरीतमुखोऽयाचत- "आर्याः, एकमपि तण्डुलकणं दत्त्वा मे प्राणान्संधारयत । महत्पुण्यं संचिनुयात ।" तदा काचित्पुत्तिका तमवदत्- "अयि दुर्मते, धान्यसमुच्चययोग्ये काले यथा वयं धान्यं समचिनुम, तथा किमिति न त्वं समचिनोः?" सो- ऽब्रूत-"भक्षणपाननृत्यविनोदेषु कालो मे व्यत्यैत् । उत्त- रकालचिन्ता नैव मे हृदि लेभेऽवकाशम् ।” तच्छ्रुत्वा सा प्राह-"तात, यद्येवं तर्हि कात्र गतिः ? ये न दूरदर्शिनः खादनपीतिविनोदैः कालं नयन्ति, तेऽन्तेऽशनाभावेन म्रियन्ते ।
( ५२ ) तात्पर्यम् । यौवनेऽप्रमत्तो भूत्वा यो वित्तं संगृह्णाति स वार्द्धक्ये विषादेन नाक्रम्यत इति समक्षं पश्यन्तोऽपि केचिद्यौ. वनोपार्जितानि वित्तानि व्ययीकुर्वन्ति । किं तेषां मनसि ! अपि ते चिन्तयन्ति, विकलेषु गात्रेप्विष्टवस्तूनि व्योम्नः पति- प्यन्तीति ? यद्यपि पुत्रा बन्धव आप्ता वा पश्चिमे वयस्यस्मा- न्पुप्णन्ति, प्रसादेन वयं जीवामः । अपि च, पुत्रादय आत्मान- मविभज्य वत्स्यन्ति, गुरव इति भक्तिप्रवाः सन्तोऽस्मान्से- विप्यन्त इति को निर्णयः ? अतो द्रव्यं संगृहीतं चेजर- स्युपकरिप्यति । तस्माद्वितीये वयस्येव तत्संगृह्णीयात् । कथा षोडशोत्तरशती ( ११६)। खरसिंहकुकुटानाम् । एकत्र चरतोः खरताम्रचूडयोः कश्चित्सिंहः समापेदे । संमुखायान्तं तं दृष्ट्वा कुकुट उच्चै रुराव । सिंहः कृकवा- कुरावाहिभेति, अतः कर्णपथं प्राप्ते तद्रवे सत्वरं हरिः परा- वर्तत । दृष्ट्वैतद्गर्दभश्चिन्तयामास-“मत्तो भीतिमुपेत्य सो- ऽपाद्रवत्" इति । ततः सरभसं स केसरिणमन्वियाय । कुक्कु- टरुतान्तरमतिक्रम्य गते तस्मिन्मृगेन्द्रः परावृत्य रासभं कण्ठे चकर्ष । तत्क्षणे खर आत्मन्यचिन्तयत्-"हा हा, धिङ्मां मन्दधियम् । खदौर्बल्यं जानन्नप्यहं मिथ्याप्रताप- मात्मन्यापाद्य मृत्युमुखेऽपतम् । नो चेदेतावता कालेन कु- टुम्बे मुखमवत्स्यम् ।” तात्पर्यम् । वास्तवसारेण विना मिथ्याधीरत्वं यो दर्शयितुं यतते, स ( ५३ ) - कष्टां दशामनुभवति । आश्रयस्य सहायस्य वा बलेन यदि कर्हिचिदात्मनो बिभेति कश्चित् , स आत्मनस्त्रसत इति नि- श्चित्य नैकाकी तमभिपतेत् , तस्यात्मनश्च बलाबलं निरूप्य वर्तेत । कथा सप्तदशाधिकशती ( ११७)। कपिशृगालयोः । कश्चन मर्कटः शृगालं संप्रार्थ्याह-"यदि दीर्घस्य लोम- शस्य ते लाङ्गूलस्याल्पं भित्तं मे वितरिप्यसि, पायुदेशमूर्णी- मि । अनेन हिमवातौ न मां बाधिप्येते । ते लममाका- कितप्रयोजनानि संपाद्याप्यधिक विद्यते, तच्च त्वं पांसौ मलिनयसि । अतस्तस्माद्दलमेकं दत्त्वापि त उपरोधमन्त- रेण मेऽर्थः सिध्यति ।” शृगालोऽवोचत् "लाशूलं मेऽतिदी- घमिति वक्षि । भवतु नाम तत् । किमपि नाहमवगच्छामि । तत्परं ब्रवीमि ते, यावज्जीवं लाङ्गुलमेवं धूल्यां मलिनयेयम्, न पुनस्तुभ्यं तद्गतमेकं लोमापि दास्यामि ।" तात्पर्यम् । केषांचित्पुंसां वृत्त्युचिताद्धनाद्भूयानर्थो भवति । एवं स्थितेऽपि ते मन्यन्तेऽधिकं लभ्यते चेदरमिति । एवं चि- न्ताकुले मनसि काणवराटकस्यापीष्टापूर्तादिषु भव- त्विति कुतस्तेषां मतिः प्रवर्तेत ? कथाष्टादशोत्तरशती (११८)। रासभशुनकयोः । कश्चिद्गर्दभ एकदाचिचिन्तत्-"मे स्वामी लघुशुनि नि- व्ययो ( ५४) प्रेम्णा खाम्यु- ह्यतितराम् । स इव यद्यहं नृत्यामि, प्रक्रीडामि, लाशूलं चालयामि, अङ्कमारुह्य च निषीदामि, प्रियो भविष्यामि" इति । एवं ध्यायति तस्मिन्वप्रं जग्मिवांस्तत्स्वामी निलय- मागात् , अजिरदेशे वेदिकायां निषसाद च । तावता खरः प्रत्युद्गच्छन्नादौ ननर्त । इतस्ततस्ततो दीर्घस्वरेण चीचकार । तदृष्ट्वा कुतुकी खाम्युच्चैहास । त्रिचतुरैः पलैस्तदेव कुतुकं तस्य जीवितसंशयस्य कारणमभूत् । यतः स गर्दभः पश्चिमचरणावस्थितः पूर्वाश्री महता रसि न्यधात् । ततोऽङ्क उपविविक्षति तस्मिन्खाम्युच्चुक्रोश । तदाक्रोशमाकर्ण्य कश्चित्परिचारको गृहाभ्यन्तराल्लगुड- हस्त एवागत्य लघुगुरुप्रहारैस्तं चक्रीवन्तं जर्जरीकृत्य तं ज्ञापयामास, प्रभुसंमताः सर्वे भवितुं नाहन्तीति । तात्पर्यम् । केऽपि पुमांसोऽल्पश्चेव चेष्टाभिः खामिनं रञ्जयन्ति । ये तद्विधास्त एव तत्कर्तुमलम् । यद्यन्यस्तकर्तुं यतते स भग्नाशो भवति । यतः प्रकृतिवैचित्र्यं जनेषु दृश्यते । तदनुसारेण रञ्जनविषयाणामपि नैकविधत्वम् । अतः ख- खभावमनुरुध्य वर्तनमेव भूषणम् । कथा नवदशोत्तरशती (११९)। पशुपक्षिवातप्रम्याम् । कस्मिंश्चित्समये पशुपक्षिणां तुमुले जन्ये प्रवर्तमाने वातप्रमीरध्यायत् । मम वर्मणो व्यूहनादहं पक्षी पशुर्वे- ति जना यत्संशेरते तदद्य मे पथ्यम् । अवसरेऽस्मिंस्तर्हि ( ५५ ) माध्यस्थ्यमवलम्ब्य स्वन्तो दुरन्तो वायं कलह इति प्रतीक्षेय । तत एकतरः पक्षो यथाभिलषितमङ्गीकरिप्यते ततः समरभूमावविज्ञातेतरेतरभटयोरुभयोरपि पृतने अन्योन्यं विहतविध्वस्तमकुरुताम् । परस्परविशसनं विलोक्य पक्षि- णो जेप्यन्तीति वातमृगो मत्वा तानुपययौ । दूरादवेक्षांचक्रे-- "न्यूनाधिकदर्शने तदनुगुणं वर्तिप्ये” इति । ततोऽल्पेन का- लेन पशवो जयिन इति तस्य प्रत्यभात् । तदा स तान्गत्वा- श्वासयत्-“मन्मुखोन्दुरमुखयोः सादृश्यं वर्तते, अतो नाहं पक्षी । पशुरहमिति युप्माकं सङ्के गृह्णीत माम् । वो हितमनव रतमिच्छेयम् । युप्मन्नोपजपामि ।" पशवस्तदन्वमंसत । अन्ते वैनतेयः पशून्विक्रम्य व्यद्रावयजिगाय च । तदा वातप्र- मीरसुरक्षणार्थ ज्ञातिहस्ताद्भाविनमपमानं च निवारयितुं ततः पलायांचक्रे । तदाप्रभृति वृक्षकोटरेषु गिरिकन्दरासु च लीनः । सोऽद्यापि स्पष्टायां शर्वर्या सर्वपक्षिप्वावासवृक्ष- स्थितेषु सुप्तेषु च सत्सु निजावासं जहाति । तात्पर्यम् । पक्षद्वयादेकतरस्यादृढाङ्गीकार उभयपक्षसाधारणदर्शनं पक्षावलम्बत्यागौ च नीचकर्म । केवलं स्वार्थमपेक्ष्य य उभयालम्बं कुर्वते ते नश्यन्ति । य उभावपि वञ्चयन्ति ते तेषां धौर्ये प्रकटिते हन्यन्त एव । यदि जीवन्ति तर्हि विस्तीर्णायामपीलायां कुत्रचिदपि न ते मुखं दर्शयितुं प्रभ- वन्ति, यत्र यत्र ते पापा यान्ति तत्र तत्र लोकास्तान्द्विषन्ति । कथा विंशत्यधिकशती ( १२०) । भल्लूकमधुकोशयोः । कश्चिदच्छभल्लो वृतिमुल्लच्यान्तरगच्छत् । तत्रावलम्ब- ( ५६ ) मानान्मधुकोशान्भङ्क्त्वा क्षौद्रमास्वादितुं प्रचक्रमे । ततो युगपदेव प्रत्यपकारबुद्धयः सर्वाः सरघास्तमभिदुद्रुवुः । परं तस्य त्वचः स्थूलत्वात्तनूरुहाणां निरन्तरत्वाच स नि- र्बाध एवासीत् । ततस्तास्तस्य नासाकर्ण ददंशुः । तद्वेदनया संरब्धः स खैरेव कररुहैः श्रुतिनासिकयोश्चर्मादृणोत् । एवं खापराधं स्वयमेवादण्डयत् । तात्पर्यम्। परपीडको येन केन प्रकारेण दण्ड्यत एव । कथैकविंशत्यधिकशती ( १२१)। क्रोष्टकृकवाकोः । कश्चित्ताम्रजूडः कस्यचिदुच्छ्रिततरोः स्कन्धशाखामा- रुह्य तारस्वरेण तथा रुराव यथा तत्प्रतिखनेनापूर्यताखिलं तद्गहनम् । कश्चन जम्बुको भक्ष्यमन्विप्यन्ननतिदूरे बभ्राम । तं रावं च श्रुत्वा तमुद्देशमुपययौ । यावद्विलोकयति ताव- दुच्चप्रदेशभाजं तं ददर्श । दुर्ग्रहोऽयमिति मत्वा छलेन तमधोदेशमाक्रष्टुमनास्तं प्रलोभयितुमुपतरु गत्वा भणति- "भ्रातर् , आसेचनकं त्वां विलोक्य समाहितोऽहम् । परं त्वद- धिष्ठितस्थानमुपेत्य नाहं गाढं त्वामुपगृहितुं प्रभुः । तहिं जानामि, त्वमञ्जसाधस्तदागमिप्यसि, मां संश्लेक्ष्यसि च, न किम्?" कुक्कुटोऽभाषत-"मातुल, भूतार्थ कथयामि ते । अधः- पातो न मे हितः । रे, त्वं तु मे मित्रम् । त्वदहं न शके । पर- मन्यकरगतोऽहं कष्टां दशां प्राप्स्यामि । "शृगालस्तं व- भाषे–“प्रियसुहृत्, श्वापदगरुत्मतामक्सिमयो जज्ञे । तत्रैवं निर्णीतम्, 'न कोऽपि कस्मा इतःपरं द्रुह्येत्, न कमपि बाधेत;
( ५७ ) सर्वेश्च स्नेहेन वर्तनीयम् । य एनं समयमुल्लङ्घयिप्यति स दण्ड्यो भवेत्' इत्युद्धोषितम् । कथमयमुदन्तो न ते श्रवपथं गतोऽद्यापि । विस्मयेऽहम् ।" एवं वदतस्तस्योक्तिमवहि- तान्तःकरणेन शृण्वन्नपि स चरणायुधः शिरोधरामुन्नमय्य सुदूरमीक्षांचक्रे । स क्रोष्टुनाप्रच्छि- "भाव, किं सादरं वीक्षसे ? अपि निवेदयसि ?" कुक्कट आह–“सखे, विप्रकृष्टान्तरे पञ्चषान्मृगदंशकानागच्छतस्तर्कये ।" गोमा- युराह-"यद्येवं तर्हि नमस्ते । तात, साधयामि ।” कृकवा- कुरुवाच-"भ्रातः, हंहो मागमः। नीचैरागतमेव मामवगच्छ। प्रतिपालय मां तावत् । सर्वत्र समायधर्मेण वर्तनमद्येति श्वभ्यो न भेतव्यम् ।" शृगालः प्रत्यूचे-"नहि नहि । यद्यपि समय उद्घोषितः, तथापि श्वानो विदितसमया न वेति न जाने ।” तात्पर्यम् । वञ्चका धूर्तेधूर्तिताश्चेन्मनोहादते । धूर्तस्य गदितं चन्दन इव शीतलमस्ति । परं तस्य हृदि कर्तरीमेव वि- जानीयात् । अतोऽकारणं यत्रातिममत्वयुक्तं भाषितं श्रूयते तत्र विशेषतोऽप्रमत्तो भवेत् यः कोऽपि खबुद्धिप्रभावेणे दृक्षाणां शठानां मायाप्रपञ्चं सद्यो ज्ञात्वा तेभ्य आत्मानं मोचयित्वा तानेव व्यसने तापयति तमेव दक्षं विद्यात् । कथा द्वाविंशत्युत्तरशती ( १२२)। बिडालकुक्कुटयोः । एकदा 'कुक्कुटं व्यापाद्य पारणां कुर्याम्' इति बिडाल इयेष । ततः सावधानो भूत्वैकस्मिन्नहनि प्रगेऽक- - ( ५८ ) स्मादवस्कन्द्यैकं जीवग्राहमग्रहीत् । तदा कुक्कुटस्तमुवाद- "रे रे, मावधीर्माम् ।" मार्जारोऽपृच्छत्-"किमिति ?” स आह-"अतीवोपयुक्तोऽहं जनानाम् । अहमहर्मुखे रौमि । अनेन सर्वे जाग्रत्युचितकरणीयेषु च व्याप्रियन्ते ।” ओतु- राह-"अत एव त्वां तृणेमि । यस्त्वं कर्कशं रौषि, नित्यं नृणां निद्रां भनक्षि, स त्वं वध्यः । अपरं च मातृभगिनीरभिरमयन्नपि न जिहेषि।" कुक्कुटो वदति-“भोः, अस्माकं खभाव एवायम् । अन्यच्च मत्तो मत्स्वामी शाव- कान्यण्डानि चापेक्षते । अतोऽहमदो दुष्कर्म कुर्वे ।" तदा वृषदंशकः सामर्षमाह-"रे दुष्ट, अलं वाचां वैचित्र्यं दर्श यित्वा । निगृहाण जिह्वाम् । त्वत्समो दुष्कर्मप्रवृत्तः प्रा- णितुं नाहति ।" एवमुक्त्वा स तं तपखिनं प्राणैर्वियुयोज । तात्पर्यम् । दुष्टोऽधिकारस्थितश्चेत्समीहितमवश्यं सात्स्यति । त- स्याग्रतो गुणवत्त्वमनागस्त्वं वास्मान्रक्षितुं नालम् । ईदृशः पुमान्पापभीतिदर्शनेऽपि न व्यथते । अतस्तदर्शनं मुधा । यतस्तस्य मनोऽजस्रपापाचरणैः कठिनं भवति । स पापान्न बिभेति । अतो यदि शक्यं तर्हि तस्मात्पदात्तं च्यावयितुं यतेत । कथा त्रयोविंशत्यधिकशती ( १२३ )। शुष्कतृणचयस्थितस्य सारमेयस्य । कश्चित्सारमेयस्तृणराशिमधितष्ठौ । तत्र क्षुधापरिगतः कोऽपि गौस्तृणमाखादितुमाययौ । सेय॒ तमुद्दिश्याभषत् । सौरभेयस्तं धिक्कृत्याह-"रे मत्सरिन्, ततः स सारमेयः ( ५९ ) ये इदं तृणं त्वं न खादसि, अन्यमपि खादितुं न ददासि । ई- दृशस्य खलस्य विपदः सन्तु ते शश्वत् ।" तात्पर्यम् । नास्ति मत्सरसमो दुष्टोऽन्यो विकारः । ये कामक्रो- धादय इतरे विकारास्ते कियता कालेन शमं यान्ति । पर- मयमशान्तो नित्यं वर्धते । यथा यथा च वर्धते तथा तथा- धिकं दुनोति । यतो मत्सरी परस्य विद्याधनप्रतिष्ठाभ्यः स्पृहयति, एतैः स हीनो भवेदिति कावति । कथमिमा वा- सनाः फलिप्यन्ति? कथं च पराभ्यसूयकः कृती भवि- प्यति? अतो यो मत्सरी स सदानिवृतः । कथा चतुर्विशत्यधिकशती ( १२४ )। इवोरभ्रयोः । कश्चिच्छोरभ्रमृणविषयेऽभियुयोज । व्यवहारं निर्णेतुं वृकगृध्रौ मध्यस्थावभूताम् । साक्षिलेख्यादिप्रमाणमगृहीत्वा तौ शुना क्रिययाभावितोऽपि वृष्णिहीनवादीति निरचै- ठाम् । ततो जयपत्रे लब्धे श्वोरणं जघान । तस्य पललं ततो दुष्टमध्यस्थाभ्यां समं विभज्यादत् । तात्पर्यम् । चाटतस्करवञ्चकेभ्यः पीडां प्राप्य लोका नृपाधिकृता- न्व्यवहारद्रष्ट्रन्प्राडिवाकादीनुपयन्ति । । आदौ तेऽप्यु- कोचलिप्सया वादिनो रागाद्वा तं विघ्नन्ति । नास्मात्पा- पीयः किमपि कर्म । नो दुष्टो न्यायासनमास्थितः सन्पी- डिताभिशापपात्रं भवति, स समृद्धिं न गच्छति । य उप- दामादायान्यं विहन्ति स न धनं गृह्णाति, अपि तु गर- ( ६० ) - लमादत्ते । तत्कुलं क्षपयिष्यति । यस्मिन्राज्ये एतादृशा न दण्ड्यन्ते तन्निकण्टकमप्याशु लयमेष्यति । नीतौ ज- गत्प्रतिष्ठितम् । यस्तां विहन्तुमिच्छति स मूढ आत्मा- नमेव प्रहरतीति बोध्यम् । कथा पञ्चविंशत्यधिकशती (१२५) आतापिकृषीवलयोः। कश्चिदातापी पारावतमेकमभिधावस्तित्तिरग्रहणार्थ केनचित्क्षेत्रिणा प्रसारिते जालेऽवरुद्धः । गरुतौ सवेग स्फालयति, मोक्षणाय यतमाने तस्मिन् , अदूरे किमपि कर्म कुर्वाणः कर्षकोऽभ्येत्य तं धृत्वा हन्तुमुद्यतः । तदा सक- रुणं स तं प्रार्थयांचक्रे-"भोः, असुदानं कुरु मे । पश्य । नाहमपराध्यम् । अहं कपोतमन्वायम् ।" कृषक आह- "भद्र; कपोतः कथमपरराध?" इति वदन्नेव स तस्य शिरः कबन्धाच्चिच्छेद। तात्पर्यम् । दोषाय परपीडनम् । सा पीडाधिकं बाधतामूनं वा । आ- तङ्क उभयोः समान एव । ऊनं यद्यपि बाधेमहि मन्तु- भाजो भवेमैव । कथा षड्विंशत्यधिकशती ( १२६ ) । कपोतपिपीलिकयोः । तर्षिता काचित्पिपीलिकोदन्याशान्तये कमपि प्रस्रवणं गता जलमाददानाप्सु मना स्रोतसानीयत । कश्चित्पारा- दयाचित्तः खत्रोट्या कस्यचिच्छाखिन- वतस्तदवलोक्य ( ६१ ) श्छदं चकर्त, पयसि चाक्षप्सीत् । तदालम्भात्पिपीलिकापि तीरभूमिं प्रपेदे । एकदा तस्मिन्नेव पारावते कुत्रचिन्निषी- दति तदगोचरेण कश्चिलुब्धको जालं तत्रैव प्रसारयितुमा- रब्ध । ज्ञानवृत्ता सा पिपीलिका ततो व्याधं गत्वा तस्य चरणमदशत् । दंशवेदनया स सहसा पाणिपादं प्रचाल- यामास । तेन स कलरवो गृहीतार्थ उड्डिड्ये । तात्पर्यम् । प्रत्युपकारो नरस्य धर्मः । तस्मिन्नाचरिते प्रशस्योऽह- मिति केऽपि मन्येत चेत्पितरं स नाहन्प्रातिवेश्यनिकाय्यं वा न वह्निसात्कृतवानित्यपि प्रशंसितुं योग्यो भवेत् । प्र. त्युपकारे कृते नो विशेषः । यः पुनः प्रत्युपकारं न कृ- त्वान्यस्योपकृतिमपि न स्मरति, व्यवस्यति, तस्य नीचत्वं किं वर्ण्यते ? अस्यां कथायां विशेषेणेयं नीतिः सूचिता । का सा का सा ? प्रत्युपकारमनपेक्ष्यैव पारावत इवोपकर्तव्यं नरेण । एवंविधोपकारा यस्याभिमताः स एव धर्मशील इति वाच्यम् । उक्तं च, अन्यस्माद्रहणं मानु- षप्रकृतेर्लक्षणम् । फलमनपेक्ष्यान्यस्मै वितरणं दैवी प्रकृति सूचयति । तं चापकर्तु कथा सप्तविंशत्यधिकशती ( १२७ )। ध्वाङ्गगरुडयोः। कस्यचिन्महीध्रस्योपत्यकासु किमपि वृष्णियूथं चरति स्म । तस्यैव शिखरिणः सानुनि निपेदिवान्कश्चि- द्रुडस्तदाक्रम्य कस्याप्यवेः पृष्ठे पादमर्पयित्वा तं वक्री- कृतनखरैधृत्वोदपत, अन्तरिक्षं च भेजे । तत्तस्य चेष्टितं ६ ( ६२ ) विलोक्य कदम्बवृक्षस्थितः कश्चिद्वायसोऽपि तथा कर्तु येते । तदैडकस्योर्णायामुद्रथितपादः स व्यरौत् । तस्य खनं श्रुत्वा संनिहितो वृष्णिपालो धावित्वा जग्राह तम् , तस्य पदयो रज्जें बद्धवा क्रीडनार्थ बालेभ्योऽदित । तात्पयम्। अन्यविडम्बने कर्तव्ये प्राक्वशक्तिस्थिती परीक्ष्ये । नो चेत्तदेव दुःखाय भवति । " कथाष्टाविंशत्यधिकशती ( १२८)। गृनुमत्सरिणोः। एकदा युगपच्छिवमन्दिरे तपस्यतो.भिमत्सरिणोर्भग- वानन्धकरिपुः प्रससाद, आह च-"भोः, वरं वृणीतम् । यद्या- चियेथे तद्दास्यामि । परं य आदौ यावद्याचिप्यते स ताव- लभेतैव । अन्यस्तु तदेव द्विगुणं लप्स्येत । तच्छ्रुत्वा लोभी चिन्तयति- 'नाहमादौ प्रार्थयिष्ये । यतो यथाहं लोभाविष्टस्तथायमपि । तस्मादसौ पुष्कलं धनं याचेत ततोऽवश्यं मया द्विगुणमनायासेन लभ्यम् ।” एवं निश्चित्य स तूष्णीमास्त । तज्ज्ञात्वा मत्सरी शिवं प्रार्थयांचक्रे "भोः पुराराते, यदि प्रसन्नो भवान् , एकं मे नयनमुत्पाटय ।" "तथास्तु” इति शूलिनोक्ते मत्सर्येकाक्षोऽभवत् । लोभिनस्तु द्वे अप्यक्षिणी स्फुटिते । तात्पर्यम् । दुर्गुणेषु लोभमत्सरयोरतिनीचत्वं व्यक्त भवत्यस्याः कथायाः । अधिकद्रव्यलोभेन लोभी समीहितं देवताया (६३) अवाप्य न सुखी बभूव । मत्सरी च नापरः सुखी भवेदि- त्यात्मनो नयनं स्फोटयित्वा विग्रहवैकल्यमजीजनत् । कथा नवविंशत्यधिकशती ( १२९ )। सिंहशृगालयोः । कश्चिच्छृगालः प्रथममेव सिंहं ददर्श । तदा भीतः सन्प्रण्यपतद्दीन इव बभाषे । द्वितीयदर्शने धैर्यमास्थाय तस्य मुखे निहितदृष्टिरभाषत । तृतीये तु तस्य पार्थे गत्वा चिरसंस्तुत इवादरशून्यमवदत् । तात्पयम् । यथा शृगालस्य वर्तने रीतिभेदोऽदृश्यत तथा गरी- यःसु वर्तनस्य भिन्नरीती न स्याताम् । प्रथमा हि भीतिप्र- दर्शनं दैन्यप्रकटनं च । द्वितीया तु मर्यादां हित्वा सम- त्वेन व्यवहारः । तर्हि भीतिपारिप्लवत्वे विहाय वैयात्येन यत्समत्वदर्शनं तदपि वर्जयित्वा मानरक्षां कुर्यात् , वरीयो- भिश्च शालीनतया वर्तेत । . कथा त्रिंशदधिकशती ( १३० )। हंसबकयोः । कमपि क्षेत्रं हंसबका नित्यं बबाधिरे । एकदा क्षेत्र- खामी सावधानो भूत्वा भृत्यैः सह सहसा तानभ्यद्रवत् । तदा पीनसंहननाः स्थूलाश्च बहवो हंसाः समगृह्यन्त । लघूत्थानाः कह्वास्त्वाशूदडयन्त । तात्पर्यम् । पृष्ठतो लग्नेऽभिघातिनि निर्धनभ्यो धनिनोऽधिकं दु:- ६४ ) खमनुभवन्ति । यथा सेनासंभारो निवेशस्थान एव सुख- दायकोऽन्यत्र पुनः पीडाकरस्तथा धनं स्वास्थ्य एव तो- पकरम् । विषमे काले तु तद्रक्षणमतिकठिनम् । कथैकत्रिंदशधिकशती (१३१)। वाजिगर्दभयोः । कस्यचिदश्वारोहस्य वाहः पृष्ठे सुवर्णरूप्यतन्तुस्यूत- पटनिर्मितं पर्याणं कृत्वा कविका परिदशन्हेषमाणो मा- र्गेण गच्छन्नास्ते । तस्मिन्नेव वर्त्मनि सोऽतिभाराकान्तं शनैः शनैः पादान्न्यस्यन्तं गर्दभं ददर्श । ततस्तं रासभं तर्जयन्नाह-"रे, अपेहि । नापैप्यसि यदि तर्हि चरणैरवता- डयिप्यामि ।" वराकः स दुर्बलः खरः कलहो निष्प्रयोजन इत्यवधार्य ससंभ्रममपासरत् । कतिपयैर्दिवसैः स एव हयः सङ्ग्रामे गुलिकाविद्धः सन्ननुपयुक्तो बभूव । तदा स सादी तं कस्मैचिद्भाण्डवाहकाय व्यकीणात् । ततः स भारानुवाह । एकदा पृष्ठसमारोपितप्रसेवः स मार्गे तेनैव चक्रीवता दृष्टः । स तमाहूयावदत्-"आर्य, नमस्ते । यो मां तदा पादाघातैरवमर्दितुमुद्यतः, स त्वमेव न किम् ? अहं तदैवोदपश्यं कदापि भग्नदो भविष्यसि" इति । तात्पर्यम् । यो मिथ्याभिमानी श्रेष्ठत्वमापादयितुं यतते स यावर- लिनो महतो वाश्रयति, तावल्लोकास्तं मृषा प्रणमन्ति । परं क्षुब्धान्तरास्तं वस्तुतो द्विषन्ति । यदि नाम दैवगत्या स एव निर्बलो भवति, तर्हि तस्मिन्दयां न कुर्वन्ति, अपि च तमवधीरयन्ति । अतो नायं पन्था महत्त्वार्जनस्य । - ( ६५ ) अयं सः । स्वयमुत्कर्ष द्विष्यात् । ये कामं महत्त्वं नापे- क्षन्ते तानेवोत्कर्षो वृणुते । ये च तदपेक्षास्तान्परिहरति सः । यो मानं याचते स तं न लभते । यो नुतिमाकाङ्क्षति स जुगुप्स्यते । यो नम्रः स्मयरहितश्च स एव महत्पद- मारोप्यते । च यूयमेव कथा द्वात्रिंशदधिकशती ( १३२)। कृषीवलतत्पुत्राणाम् । कश्चित्कृषीवल आसन्नमृतिसमयोऽचिन्तयत् , यथा- द्ययावन्मया व्यवहृतं तथा दिवं याते मयि मत्सूनवोऽपि सदा व्यवहरेयुरिति । स इममभ्युपायं प्रयुयोज । स सर्वा- न्खतोपान्त आहूयाचष्ट-"पुत्राः, अयुष्मदीयं हि नैव किंचि- न्मत्संबद्धम् । अस्य कैदार्यस्यासां वाटिकानां सर्वे प्रभवः । एतन्मुक्त्वा यन्मम संचितं धनं तत्कुत्रचित्क्षे- त्रेषु हस्तादधो निखातं विद्यते । अत इदं कैदारिकं न कस्यापि हस्ते प्रापयितव्यम् । ” तच्छ्रुत्वा सर्वे निश्चिक्यु:- "वृद्धेन किमपि द्रव्यं क्षेत्रेषु न्यखन्यत" इति । तत उपरते तस्मिंस्ते कर्षणमिषेण तत्क्षेत्रं हस्तदघ्नमुच्चख्नुः । तत्र निधिं तु न प्राप्नुवन् , परं सुकृष्टा भूमिरुप्तबीजं दशगुणमुत्स सर्ज । पुष्कलं धनमापुस्ते । तेषु पुत्रेषु कश्चिद्धीमान्बभूव । स सर्वानाचचक्षे-"भो भ्रातरः, अयमेव स निधिर्यः क्षेत्रे निखात इति पित्रा निगदितम् ।" तात्पर्यम् । सहजकौशलोद्यमयोलक्ष्मीः फलमानुषङ्गिकम् । उद्य- मेषु कृषिरद्वितीया । ये स्वयं कृषिकर्माचरन्ति ते व्या- ( ६६ ) यामं लभन्ते । अस्मान्निरामयत्वमेको लाभः । अन्यच्च संसृतौ यानि वस्तून्यवश्यानि तेषां न्यूनताभावोऽनेन ल- भ्यते । अतः सुज्ञाः क्षेत्रवाटिकादिकर्षणं रसेन कुर्युः । तत्र कृतः श्रमो न मोघत्वं याति । असंशयितलाभोऽय- मेक एव व्यवसायो दृश्यते । आचरितकृषनरस्य सर्वखं लुण्ठितुं स्तेना न शक्नुवन्ति । कथा त्रयस्त्रिंशदधिकशती ( १३३ )। सिंहघोटकयोः । कमपि सुललितगात्रं तुरगं दृष्ट्वा कश्चित्सिंहो ब- द्धाशोऽभूत् । स आह-"धन्योऽहम् , यद्यमुष्य गन्धर्वस्य मांसखण्डमेकं लभेय ।” तत्प्राप्तयेऽनन्तरं सिंहो भिषजो वेशमग्रहीत्, सर्वपशू नुरोष्याज्ञापयच्च-"भ्रान्तार्णवनेमिः सु- परीक्षितौषधिवनस्पतिधर्मोऽहम् । न कश्चित्पशूनां व्या- धिः, यस्य चिकित्सने नास्मि शक्तः” इति । हयस्तस्य छद्मप्रयोगमाकलय्य मनसि चकार-"कपटप्रबन्धेनैवायं वञ्च यितव्यः” इति। ततः स सैन्धवो ऋजुतां संदर्य विकल- गतिः सिंहमुपेयिवान्। आह च–“भो अगदंकार,मे पश्चिमच- रणः शङ्कुना क्षतः, रुजापरीतस्य मे कृपया रुक्प्रतिकारं कुरु।' सिंह आह-"पुत्रक, एहि पार्थे । पादं ते पश्यानि ।” एव- मुक्तः सप्तिः सिंहमुपेत्य पाददर्शनच्छलेन पश्चिमपादत- लेन तं प्रजहार । तेन प्रहारेण भिन्नास्यः स आर्तनादं मुमोच । पीतिस्तु प्लुतगत्याचलत् । “यो मां वञ्चयितुमि- येष तमहमवञ्चयम्” इति जहादे च ।
( ६७ ) तात्पर्यम् । कपटिनं प्रतार्य मनो ह्लादते । प्रतारणं कुहकं वा यद्यपि सर्वथैव नीचं महतोऽनुचितं च, तथापि यो विप्रल- ब्धुमायाति तस्यान्तरायकरणं मनोरथभङ्गश्च नीतिरेव । धावन्तौ प्रापतुः कथा चतुस्त्रिंशदधिकशती ( १३४ ) सिंहव्याघ्रकोष्ठूनाम् । कस्यांचित्काननावनौ कश्चित्सिहो द्वीपी चोभयतो युगपन्मृगशवं । तदा विवदमानौ तौ चि- रमयुध्येताम् , उभावपि विद्धकायौ श्रान्तौ भूमावशयाताम् । अत्रान्तरेऽकस्मात्कोऽपि जम्बुकस्तेन वर्त्मना यस्तो तद वस्थौ दृष्ट्वा धीरं तयोरन्तरागच्छन्मृगकुपणं चकर्ष । द्वा- वपि योद्धारौ परं तटस्थौ सन्तौ ददृशतुः । शक्तिक्षयान्न प्रत्यबध्नीताम् । ततो द्वावपि विवेकं प्राप्य वदतः स्म- "अहो, पश्यतमावयोः कलहस्य फलम् । अयं चौर आव- योर्भक्ष्यमस्मत्समक्षं कर्षति । आवां च परस्परमेवमहतां यथा तस्य हस्तात्तदाक्रष्टमपि शुष्मावयोर्न शिष्टम् ।" तात्पर्यम्। यदुक्तम् , द्वयोः कलहे समुपस्थिते तृतीयस्य लाभो भ- वति । कस्यचिद्वस्तुनः कृते द्वौ कलिमुत्पादयतः । इदं मदी- यमहमेवेदं ग्रहीष्यामीत्यतिनिर्बन्धं कुरुतः । लब्धावसरः कश्चिदितरो द्वावपि निहत्य समृद्धो भवति । अतो विच- क्षणाः पुरुषाः कलहे न मनो बध्नीयुः । अपि तु संदध्युः । एतदेव श्रेयः । एवं कृत इष्टलाभे किंचिदूनं भवेत् । भवतु । परं तन्महान्तं नाशं व्यावर्तयति । यत उच्यते, 'सर्वनाशे समुत्पन्ने अर्धं त्यजति पण्डितः ।
( ६८ ) कथा पञ्चत्रिंशदधिकशती (१३५)। शृगालरोगार्तसिंहयोः। एकदा सिंहो मिथ्यापप्रथत्-"अहमामयवान् , अस्मिन्स- मये ये पशवो मां द्रष्टमेप्यन्ति, तान्मे सुहृदो गणयिप्या- मि” इति । तदनुरोधेन जम्बुकवर्ज सर्वे सिंहस्य गुहां समासेदुः । तद्धृदि निधाय सिंहो वृकं तद्गवेषणाय निभृतं प्रा- हिणोत् । स गत्वा शृगालमाह-"भ्रातः, कथं त्वं निष्ठुरः? रे, सर्वे देवपादान्द्रष्टुं जग्मुः । कथमिति त्वं नागतोऽसि?" शृगाल आह-"माम, तत्रभवन्तं मृगाधिराजं गत्वाचक्ष्व–'देव, साष्टाङ्गं प्रणिपत्य शृगालो मन्मुखेन विज्ञापयति, यथापूर्व मम देवं प्रति प्रेम, नात्र लेशमपि संदिग्धि, सांप्रतमप्यहं साक्षात्प्र- णामेनात्मानं पवितुमायास्यम् , परं किं करोमि ? देवगुहायां दृष्टायां वेपते मे हृदयम् , यतोऽत्र निवेशनप्रविष्टानां प- शूनां पदपतिदृश्यते, न पुनः प्रत्यागतानाम् । तात्पर्यम् । यद्यत्कार्य समुपतिष्ठति तत्तदपरीक्ष्याङ्गीकृतं चेद्धानि- भवति । भूयाञ्जनो येन गतः स पन्था इति मत्वा कस्मि- न्नपि कार्ये यदि व्याप्रियेमहि तर्हि प्रायशो जनाः परप्र- त्ययनेयबुद्धयो भवन्ति । तेषु स्वार्थसाधक एको द्वौ वा भवतः । स यथा तान्नयति तथा ते व्रजन्ति । अतो बहवः किंचित्कुर्वन्तीति तथैव कार्यमिति चेन्न । वयमपि सारासारं बलाबलं परीक्षेमहि । -
No text on this page.
निर्णयसागरयन्त्रालये विक्रेयानि संस्कृतपुस्तकानि । ५ ० ० १० १ १ ३ ४ ३ १२ २ ८ -b १ १ किं. रु. आ. डां.रु. आ. नैषधीयचरित-श्रीहर्षविरचित, नैषधीयप्रका- शाख्य (नारायणी) टीकासहित. पतञ्जलिचरित-श्रीरामभद्रदीक्षितप्रणीत.. पुष्पबाणविलास-श्रीकालिदासकृत, पण्डितव रश्रीवेङ्कटसार्वभौमविरचित व्याख्यासहित.... बालभारत काव्य-श्रीमदमरेन्द्रसूरिविरचित. ३ बृहत्कथामञ्जरी-श्रीक्षेमेन्द्रविरचित. भट्टिकाव्य-भट्टिकविकृत, जयमङ्गलकविप्रणीत जयमङ्गलाटीकासहित. भामिनीविलासकाव्य-पंडितराज जगन्नाथवि- रचित, अच्युतराव मोडककृत प्रणयप्रकाश- टीकासहित... भारतमञ्जरीकाव्य-महाकविश्रीक्षेमेन्द्रविरचित५ मेघदूतकाव्य-कालिदासकृत, मल्लिनाथकृत सं- जीविनीटीकासहित.... ६ युधिष्ठिरविजयकाव्य-वासुदेवविरचित-रा जानकरत्नकंठकृतटीकासहित. १ ८ रघुवंशकाव्य-कालिदासकृत, मल्लिनाथकृत संजीविनीटीकासहित (स्थूलाक्षर ) १ ८ । रघुवंशकाव्य उपरिलिखित टीकासहित (सू. क्ष्माक्षर ) रसिकाष्टककाव्य-नारायणभट्ट पर्वणीकरकृत. राघवनैषधीयकाव्य-हरदत्तसूरिकृत, स्वकृत टीकासहित. ही पुस्तकें मुंबईत ‘निर्णयसागर' छापखान्यांत विकत मिळतील. ० १ २ ३॥ १० २ %3D १
No text on this page.