Donar
Kaavyaanushaasanamuu
Front matter
No text on this page.
काव्यमाला ४३.
श्रीमहाग्भटविरचितं ।
काव्यानुशासनम् ।
तेनैव कविना विनिर्मितया व्याख्यया समलंकृतम् ।
मूल्यं ७ आणकाः।
No text on this page.
No text on this page.
No text on this page.
KAVYAMÂLÂ. 43.
GRO
THE
KÂVYÂNUS'ÂSANA
OF
VÂGBHATTA
WITH HIS OWN GLOSS.
EDITED BY
PANDIT S'IVADATTA
Head Professor and Superintendent, Sanskrit Department,
Oriental College, Lahore,
AND
KÂSÎNÂTH PANDURANG PARAB.
PUBLISHED BY
TUKÁRÂM JÁVAJÍ,
PROPRIETOR OF THE “NIRNAYA-SÂGAR" PREBs.
Bombay:
1915.
Price Annas.
A
출
LP
- halable
AL
काव्यमाला.४३. श्रीमहाग्भटविरचितं काव्यानुशासनम्। तेनैव कविना विनिर्मितया व्याख्यया समलंकृतम् । जयपुरमहाराजाश्रितमहामहोपाध्यायपण्डितदुर्गाप्रसाददारक- केदारनाथकृपाङ्गीकृतशोधनकर्मणा शिवदत्तशर्मणा, मुम्बापुरवासिपणशीकरोपाह्वलक्ष्मणशर्मजनुषा वासुदेवशर्मणा च संशोधितम् । (द्वितीयावृत्तिः) तच्च मुम्बय्यां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीतम् । १९१५ ( अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा निर्णयसागरयन्त्रालयाधिपते. रेवाधिकारः।) मूल्यं ७ आणकाः।
No text on this page.
काव्यमाला। श्रीमद्वाग्भटविरचितं काव्यानुशासनम् । तेनैव कविना विनिर्मितयालंकारतिलकवृत्तिरित्याख्यया व्याख्यया समलंकृतम् । प्रथमोऽध्यायः। प्रणिपत्य प्रभु नाभिसंभवं भक्तिनिर्भरः । विवृणोमि स्वयमहं निजं काव्यानुशासनम् ग्रन्थारम्भे शिष्टसमयपरिपालनायाभिधेयसंबन्धप्रयोजनप्रतिपादनाय च कौन्तेयकुलक- मलविकासनकभास्करस्य दुस्तरतरसमस्तशास्त्रापारपारावारगहनमध्यावगाहनामन्दमन्द- रस्य विलसत्कलिकालकेलिकमलिनीकुलमूलोन्मूलनमत्तमतङ्गजस्य सकललिपिभाषाविशे- षसंमुखीनशेमुषीतिमुखरमुखी(मूकी)कृताशेषविशेषज्ञस्य निखिलकविकुलामानसन्मान- दानसमुपार्जितोज्झितविततकीर्तिलताव्याप्ताखण्डब्रह्माण्डमण्डपस्य दुष्टकर्माष्टकगाढकरहा- टविटपिप्रोत्पाटनपटिष्टपरमेष्टिपृष्ठश्रीमदरिष्टनेमिचरणकमलमधुकरस्य दुर्धरतरधर्मधुराधर- जैकबन्धुरधुरंधुरवरस्यागण्यपुण्यलावण्यपण्यापणिकनिपुणगणिकागणेक्षणप्रतिक्षणनिपीय- मानसर्वाङ्गसौभाग्याप्रतिमरूपसंपत्पराजितरतिपतिप्रतिपन्नसेवासर्बस्वस्वयंसिद्धकार्मणक- मातिपरवशरमणीयरमणीगणस्य सकलजनचेतश्चमत्कारितमेदपाटविषयप्रतिष्ठितश्रीम- त्पार्श्वजिनयात्रामहोत्सवसमुद्भूताद्भुतयशःप्रसरपूरिताशेषभुवनाभोगस्य कारितामरपुरपरि- स्पर्धिश्रीराहडपुरप्रतिष्ठापितसुप्रतिष्टहिमगिरिशिखरानुकारिरमणीयशुभ्राम॑लिहश्रीमन्ने- मिजिनवरागारोत्तुङ्गशृङ्गोत्सङ्गसंगतसौवर्णध्वजाग्रलम्बमानकिङ्किणीझणत्कारवित्रासितरवि. रथतुरंगमस्यामन्दमन्दरायमानयानपात्रशतसहस्रमथ्यमानमहाब्धिमध्यसमुलसलक्ष्मील- क्षितवक्षःस्थलस्य निजभुजयुगलोपार्जितार्जितवित्तजातजनितनलोटकपुरप्रतिष्ठितत्रिभु- वनाद्भुतश्रीनाभिसंभवजिनसदनप्राग्भागनिर्मापितद्वाविंशतिदेक्ट्रहिकामण्डलस्य निजामज- वरश्रीराहडपादपङ्कजाविचलभक्तिगुणावगणितलक्ष्मणस्य सकलसीमन्तिनीसीमन्तरत्ना- यमानसुगृहीतनामधेयश्रीमन्महादेवीकुक्षिशुक्तिशौक्तिकेयस्य श्रीमकलपाभिधानप्रधा- नदुग्धोदधिसमुद्भूताद्भुतनित्योदितनिस्तन्द्रचन्द्रस्य वसुंधरावधूहृदयहारस्य श्रीमन्नेमिकु- मारस्य नन्दनो विनिर्मितानेकनव्यभव्यनाटकच्छन्दोऽलंकारमहाकाव्यप्रमुखमहाप्रबन्ध- काव्यमाला .. बन्धुरोऽपारतरशास्त्रसागरसमुत्तरणतीर्थायमानशेमुषीसमभ्यस्तसमस्तानवद्यविद्याविनोद- कन्दलितसकलकलाकलापसंपदुद्भटो महाकविः श्रीवाग्भटोऽभीष्टदेवतानमस्कारपूर्वमुप- क्रमते । यथा- सर्वार्धमागधीं सर्वभाषासु परिणामिनीम् । सर्वपां सर्वतो वाचं सार्वज्ञी प्रणिदध्महे ॥ १॥ विलोक्यानेकशास्त्राणि निजबुद्धिप्रकर्षतः । विदुषां हर्षपोषाय वच्मि काव्यानुशासनम् ॥ २ ॥ तद्यथा-काव्यम् । प्रमोदायानर्थपरिहाराय व्यवहारज्ञानाय त्रिवर्ग- फललाभाय कान्तातुल्यतयोपदेशाय कीर्तये च । चतुरचेतश्चमत्कारकारि कवेः कर्म काव्यम् । तच्च कवेः श्रोतुश्च सुधानिस्पन्दसु. न्दरं प्रमोदमुत्पादयति, बाणमयूरादीनामिव रोगाद्यनर्थ निहन्ति, हेयोपादेयविवेचनाद्यव. हारकौशल्यं जनयति, तत्त्वाववोधद्वारेण नृपादिपरितोषणेन शृङ्गाररसप्राधान्येन च पुरुषार्थ- त्रयफलमाकलयति, कान्तेव सरमतापादनेन संमुखीकृत्य 'रामादिवर्तितव्यं न रावणा- दिवत्' इत्युपदिशति । अयं खलु समयो महाकवीनाम् ॥ वयं तु कीर्तिमेवैकां काव्यहेतु- तया मन्यामहे । यतः-तावत्प्रमोदः सुलभो लाभादिनापि, अनर्थपरिहारः प्रकारान्तरे- णापि, व्यवहारज्ञानं चाणिक्यादिनीतिशास्त्रेभ्योऽपि, देवगुरुचरणपरिचरणतपश्चरणक- रणादिना विविधव्यवसायकर्मभिः प्रियासंलापादिभिश्च त्रिवर्गफलसिद्धिः, कान्तातुल्यतयो- पदेशश्च कादाचित्कः स्यात् । अतः कीर्तिरेवैका काव्यहेतुः । अन्यथा कथमने ककाला. तिक्रान्ताः क्षितिपतयः प्रत्यक्षा इव शास्त्रेषु प्रपश्यमानाः प्रतिभान्ति, कालिदासप्रभृतयो महाकवयश्चाद्ययावत् सहृदयहृदयहारतामनुहरन्ति किं तैः किमप्यमरसदनादिकं कृतं न स्यात् । यदाह-'अमरसदनादिभ्यो भूता न कीतिरनश्वरी भवति यदसौ संपुष्टापि प्रण- श्यति तत्क्षये । तदलममलं काव्यं कतु यतेत समाहितो जगति सकले व्यासादीनां विलो- क्य परं यशः ॥ व्युत्पत्त्यभ्याससंस्कृता प्रतिभास्य हेतुः । प्रतिभा नवनवोल्लेखशालिनी प्रज्ञा । सा च ज्ञानावरणीयादिकर्मक्षयोपहेतुका गणध- रादीनामिव सहजा, देवतापरितोषौषधादिहेतुका कालिदासादीनामिवौपाधिकी । एता- मपि वयं कर्मक्षयहेतुकामेव मन्यामहे । प्रतिभैव च कवीनां काव्यकरणकारणम् । व्युत्प- त्त्यभ्यासौ तस्या एव संस्कारकारको न तु काव्यहेतू । दृश्येते हि प्रतिभाहीनस्य वि. फलौ व्युत्पत्त्यभ्यासौ। व्युत्पतिं व्याचष्टे- लोके स्थावरजङ्गमरूपे तत्स्वरूपे च लक्षणप्रमाणसाहित्यच्छन्दोऽलं. .
१ अध्यायः ] काव्यानुशासनम् । ३ .. .. कारश्रुतिस्मृतिपुराणेतिहासागमनाट्याभिधानकोषकामार्थयोगादिशास्त्रेषु च निपुणता व्युत्पत्तिः । लोकश्चतुर्दशरज्ज्वात्मकं जगत् । तच्चैकद्वित्रिचतुःसप्तचतुर्दशैकविंशतिसंख्यामतैरने- कधा भवति । तत्र चैकं यथा-'यदाज्ञया स्खलितमिदं न लवते निजं निजं जगदवधि क- दाचन। तयोः समप्रकटितदण्डचण्डयोः किमन्तरं नरपतिधर्मराजयोः ॥' द्वे यथा-'रुणद्धि रोदसी चास्य यावत्कीर्तिरनश्वरी । तावत्किलायमध्यास्त सुन्तती वैबुधं पदम् ॥' त्रीणि यथा -'स वः पातु जिनः कृत्स्नमीक्षते यः प्रतिक्षणम् । रूपेरनन्तरेकैकजन्तोाप्तं जगत्रयम् ॥' सप्त यथा-'संस्तम्भिनी पृथुनितम्बतटैधरित्र्याः संवाहिनी जलमुचां चलकेतुहस्तैः । हर्षस्य सप्तभुवनप्रथितोरुकीर्तेः प्रासादपङ्किरियमुच्छिखरा विभाति॥' चतुर्दश यधा-'न्याय्यस्त्र- भावसमुपार्जितवित्तजाता निर्मापितादिजिनमन्दिरकन्दजन्मा-श्रीराहडस्य भुवनानि च- तुर्दशापि संरोहति स्म वितता खलु कीर्तिवल्लिः ॥' एकविंशतिरित्यपरे–'हरहासहरावा- सहरहारनिभप्रभाः। कीर्तयस्तव लिम्पन्तु भुवनान्येकविंशतिम् ॥' तत्र लोकत्रितयापेक्षया भूरियं मध्यमो लोकः । तत्र योषिद्वलयाकृतयः क्रमशो द्विगुणद्विगुणविस्तारा असंख्याता द्वीपसमुद्राः । कविसमयश्वायम्-'जम्बूद्वीपः सर्वमध्ये ततश्च प्लक्षो नाम्ना शाल्मलोऽन्तः क्र. मोऽन्तः । क्रौञ्चः शाकः पुष्करश्चेत्यथैषां वाह्यावाह्या संस्थितिमण्डलीभिः॥'लावणो रसमयः सुरोदकः सार्पियो दधिजल: पयःपयाः । स्वादुवारिरुदधिश्च सप्तमस्तान्परीत्य त इमे व्य- वस्थिताः ॥' तत्र चैक एव समुद्र इति केचित्-'द्वीपान्यष्टादशानि क्षितिरपि नवभिर्वि. स्तृता स्वाङ्गखण्डैरेकाम्भोधिदिगन्तप्रसमरसलिलः प्राज्यमेतत्सुराज्यम् । कस्मिन्नव्याजके- लिव्यतिकरविजयोपार्जिते वीरचर्ये पर्याप्तं मे न दातुस्तदिदमिति धिया वेधसे यचकोपा' त्रय इत्यन्ये-'कान्तिश्रीह्रीधृतिमतिमुखा योषितोऽनेन तावत्पार्थ न्यस्ताः किमु तदधुना दुर्भगाहं करोमि । कौन्तेयेन्दोस्तदिति सुचिरं चिन्तयित्वेव सेा प्रोल्लङ्घयाब्धित्रित- यमगमत्कीर्तिकान्ता परस्तात् ॥' चत्वार इत्यपरे-'भ्रान्तं चतुर्जलधिसीम्नि मया पृथिव्या- मीदृग्न देवभवनं न च मण्डपश्रीः । अस्तीत्यमुत्र फलके प्रभुराहडस्य कीर्तिमहाभ्युदयिनी लिखति प्रशस्तिम् ॥' सप्तेत्यपरे–'सावष्टम्भनिशुम्भनिर्भरनमद्भगोलनिःपीडनन्यञ्चत्क- परकूर्मकम्पविलसद्ब्रह्माण्डमाण्डस्थिति । पातालप्रतिमल्लगल्लविवरप्रक्षिप्तसप्तार्णवं वन्दे व- न्दितनीलकण्ठपरिषद्व्यक्तर्द्धि वः क्रीडितम् ॥' 'त्रिमेखलः स्वर्णमयो विशालस्थालवतुलः । जम्बूद्वीपस्य मध्येऽस्ति मेरुरायो महीभृताम् ॥' तदपेक्षया दक्षिणतो भारतं वर्षमिदम् । अस्य नव खण्डानीत्येके-'मृदित्वा दोःकण्डूं समरभुवि वैरिक्षितिभुजां भुजादण्डे दधुः कति न नवखण्डां वसुमतीम् । यदेवं साम्राज्ये विजयिनि वितृष्णेन मनसा यशो योगी- शानां पिबसि नृप तत्कस्य सदृशम् । षट् खण्डानीत्यपरे—'षट्खण्डखण्डा जगतीमण्डला- खण्डलोऽभवत् । भूभा भरतो नाम नाभिनन्दननन्दनः ॥' तस्मिंश्च भरतक्षेत्रे-'वि- न्ध्यश्च पारियात्रश्च शक्तिमानृक्षपर्वतः । माहेन्द्रसह्यमलयाः सप्तते कुलपर्वताः ॥ तत्र विन्ध्यादयः प्रसिद्धवृत्तान्ता एव । मलयास्तु चत्वारः । तत्र प्रथमो यथा-'एलालवङ्ग- ४ काव्यमाला। : लवलीकक्कोलं जातिमरिचजन्मपदम् । नयनानन्दनचन्दनपादपसदनं स तत्र नगः ॥' द्वितीयो यथा-'तस्मिन्विद्रुमभूरुहः प्रतिपदं वेशेषु मुक्ताफलं रत्नानां खनयः पुनाति च मुनिः शृङ्गाणि कुम्भोद्भवः । कापूरास्तरवः स्फुटन्ति विकटः कण्ठीरवाणां रवैर्यस्या- भाति तटेषु मौक्तिकनिधिः साताम्रपर्णी सरित् ॥' तृतीयो यथा-विलासभूमिर्देवानां नृणां रोगास्पदं मुनेः । सदा पुष्पफलारामरम्यसानुः स पर्वतः ॥' चतुर्थो यथा-सा तत्र चा- मीकररत्नचित्रैः प्रासादमालावलभी विटङ्कः। द्वारार्गलाबद्धसुरेश्वरावा लङ्केति या रावण- राजधानी ॥ प्रवर्तते कोकिलनादहेतुः पुष्पप्रसूः पञ्चमजन्मदायी। तेभ्यश्चतुभ्योऽपि वसन्त- मित्रमुदङ्मुखो दक्षिणमातरिश्वा ॥' पूर्वापरयोः समुद्रयोहिमवद्विन्ध्ययोश्चान्तरमार्यावर्तः। तस्मिंश्चातुर्वर्ण्य चातुराश्रम्यं च तन्मूलश्च सदाचारः । तत्रत्यो व्यवहारः प्रायेण कवीनाम् । तत्र वाराणस्याः पुरतः पूर्वदेशः । यत्राङ्गकलिङ्गकोसलतोसलोत्कलमगधमुद्गरकविदेहने. पालपौंटप्राग्ज्योतिषिकताम्रलिप्तकमलदलमर्तकसुब्रह्मब्रह्मोत्तरप्रभृतयो जनपदाः । बृ- हद्गृहलोहितागिरिचकोरद१रनेपालकामरूपादयः पर्वताः शोणलोहितौ नदौ । गङ्गाकर- तोयाकपिशाद्याश्च नद्यः । लवलीग्रन्थिपर्णागुरुद्राक्षाकस्तूरिकादीनामुत्पादः । माहिष्म- त्याः पुरतो दक्षिणापथ: । यत्र महाराष्ट्रमाहिष्मकाश्मकवैदर्भकुन्तलकथकैशिकसूर्पा- रककाञ्चिकेरलकावेरमुरलवानवासकसिंहलचोडदण्डपाण्ड्यपल्लवगाजनासिक्यकोकणकोल्ल- गिरिवेलरप्रभृतयो जनपदाः। विन्ध्यदक्षिणपादमाहेन्द्रमलयमेकलपालामञ्जरश्रीसह्यपर्व- तादयः पर्वताः। नर्मदातापीपयोष्णीगोदावरीकावेरीभीमरथीवेणीजम्वुरातुङ्गभद्राताम्रपण्यु- पलावतीरावणगङ्गाद्या नद्यः तदुत्पत्तिर्मलयोत्पत्त्या व्याख्याता। देवसभायाः परतः पश्चाद्दे- शः। तत्र देवसभसुराष्ट्रदासेरकत्रवणभृगुकच्छककच्छीयानर्तावुदब्राह्मणवाहययवनप्रभृ- तयो जनपदाः । गोवर्धनगिरिनगरदेवसभमाल्यशिखराबुदोजयन्तशत्रुजयादयः पर्वताः। सरस्वतीश्वभ्रवतीवार्तघ्नीमहीहिण्डवाद्या नद्यः । करीरपीलगुग्गुलुखर्जूरकरभादीनामुत्पादः । पृथूदकात्परत उत्तरापथः । यत्र शककेकयवाणहूणवनायुजकम्बोजबाहीकवल्हवलम्पाककु. लूतकीरतंगणतुवारतुरुष्कबर्वरहरहरकुहकसहुडहंसमार्गरमठकरकण्डप्रभृतयो जनपदाः।हि- मालयजालंधरकलिन्देन्द्रकीलचन्द्राचलादयः पर्वताः । गङ्गासिन्धुसरखतीशतद्रुचन्द्रभागा- यमुनैरावतीवितस्ताविपाशाकुहृदेविकाद्या नद्यः । सरलदेवदारुद्राक्षाकुङ्कुमचमराजिनसा- वीरस्रोतोऽअनसैन्धववैडूर्यतुरङ्गमाणामुत्पादः । तेषां मध्ये मध्यदेश इति व्यवहारः । य- दाह-'हिमवद्विन्ध्ययोर्मध्यं यत्प्राग्विनशनादपि । प्रत्यगेव प्रयागाच्च प्रध्यदेशः स की- तितः ॥ तत्र ये देशाः पर्वताः सरितो द्रव्याणामुत्पादश्च । तत्प्रसिद्धिसिद्धमिति न नि. दिष्टम् । 'द्वीपान्तराणां ये देशाः पर्वताः सरितस्तथा । नातिप्रयोज्याः कविभिरिति गाढं न चिन्तिताः । विशसनप्रयाम्योगङ्गायमुनयोश्चान्तरमन्तवैदिः । तदपेक्षया दिशो विभजे. तेति केचित् । वयं तु ब्रूमस्तत्रापि महोदयं मूलमवधीकृत्य दिशो विभजेत । ताश्च च- तस्र इत्येके । यथा-'पुत्रो रखुस्तस्य पदं प्रशास्ति महाक्रतोर्विश्वजितः प्रयोक्ता । चतु- दिगावर्जनसंभृतां यो मृत्पात्रशेषामकरोद्विभुतिम् ॥' अष्टावित्यन्ये । यथा-'एकं ज्योति.
१ अध्यायः] काव्यानुशासनम् । ५ .. .. - दृशौ द्वे त्रिजगति गदितान्यजजास्यैश्चतुर्भिभूतानां पञ्चमं यान्यलमृतुषु तथा षट्सु ना- नाविधानि । युष्माकं तानि सप्तत्रिदशमुनिनुतान्यष्टदिग्भाजि भानोर्यान्ति प्राढे नवत्वं दश ददतु शिवं-दीधितीनां शतानि ॥' दशेत्यपरे–'दशरश्मिशतोपमद्युति यशसा दिक्षु दशव- पि श्रुतम् । दशपूर्वरथं समाख्यया दशकण्ठारिगुरुं विदुर्बुधाः ॥' अत्र हि देशपर्वतसरिदिशा यः क्रमस्तं तथैव बध्नीयात् । नान्यथा। तत्र प्राच्यानां श्यामो वर्णः प्रायेण । यथा-'गण्ड- भित्तिषु गौडीनां तमालदलकान्तिषु । विभ्राजन्ते स्म कार्यः पत्रवल्लयो विशेषतः ॥' दाक्षिणात्यानां कृष्णः । यथा-'इदं भासांभतुद्रुतकनकगोलः प्रतिकृतिक्रमान्मन्दज्योर्ति- गलति नभसो बिम्बवलयम् । अथैष प्राचीनः सरति मुरलीगल्लमलिनस्तरुच्छायाचक्रः स्तबकित इव ध्वान्तविसरः॥' पाश्चात्यानां पाण्डुवर्णः । यथा-'शाखास्मेरं मधुकवलनाके- लिलोलेक्षणानां भृङ्गस्त्रीणां बकुलमुकुलं कुन्तलीभावमेति । किं चेदानीं यवनतरुणीपाण्डु- गण्डस्थलीभ्यः कान्तिः स्तोकं रचयति पदं नागवल्लीदलघु ॥' उदीच्यां गौरः । यथा-'कृत्वा नूपुरमूकतां चरणयोः संयम्य नीवीमणीनुद्दामध्वनिपण्डितान्परिजने किंचिच्च निद्रायति।गौरी क्रुध्यतु यावदस्ति चलिता तावद्विधिप्रेरितः काश्मीरीकुचकुम्भविभ्रमधरः शीतांशुरभ्यु- द्गतः ॥' मध्यदेशानां कृष्णः श्यामो गोरो वेति लोकस्वरूपमुक्तम् । अथातः शास्त्रनैपुण्य- मुदाहियते। तत्र लक्षणे नैपुणं यथा-'कण्ठलग्नाः सदा स्त्रीणां खेलन्ति इह खनिकाः । विरामे न प्रवर्तन्ते कदाचित्संधयो यथा ॥' तर्कः षट्प्रकारः-'जिनं सांख्यं शिवं भाई बौद्धं लौकायतं तथा । षडेता दृष्टयः प्रोक्ताः शेषाः पाषण्डवृत्तयः ।' जैनं यथा-'न या- स्तव स्यात्पदलाञ्छना इमे रसोपविद्धा इव लोहधातवः। भवन्त्यभिप्रेतफला यतस्ततो भवन्तमार्याः प्रणता हितैषिणः ॥' सांख्यीयो यथा-'उदासितारं निगृहीतमानसंगृहीत- मध्यात्मदृशा कथंचन । वहिर्विकारं प्रकृतेः पृथग्विदुः पुरातनं त्वां पुरुषं पुराविदः ॥' शैवो यथा-'किमीहः किं कायः स खलु किमुपायस्त्रिभुवनं किमाधारो धाता सृजति कि- मुपादान इति च । अतक्यैश्वर्ये त्वय्यनवसरदुःस्थो हतधियः कुतर्कोऽयं कांश्चिन्मुख- रयति मोहाय जगतः ॥' भट्टानां यथा-वस्वर्गकामः क्रमतः तूनां तदमिहोत्रं जुहुया- द्विजन्मा। इत्यादि वेदान्तविदो यदाहुस्त्वयि प्रसन्ने खलु तत्तु सत्यम् ॥' बौद्धीयो यथा- 'नात्मा कश्चिदिहास्तीह प्रत्यक्षानुपलब्धितः । विज्ञानमात्रमेवेतजगत्क्षणविनश्वरम् ॥' लौकायतीयो यथा-'पिष्टोदकगुडादिभ्यो मदशक्तिरिव स्वयम् । वयुर्वीवायुवारिभ्यो भू- तानां तनुचेतना ॥' साहित्यनैपुणं महाकाव्यकथाख्यायिकाख्यानकादिपरामर्शः । छन्दो- नैपुणं यथा--'सद्यतिसे वितपादं वरगणधरमूर्जितप्रवरवृत्तम् । श्रीवर्धमानमादौ जयदेवं भ- क्तितो वन्दे ॥' अलंकारनैपुणं यथा-'प्रसन्नाः कान्तिहारिण्यो नानाश्लेषविचक्षणाः। भ- वन्ति कस्यचित्पुण्यैर्मुखे वाचो गृहे स्त्रियः ॥' अपौरुषेयं वचः श्रुतिः । तन्नैपुणं यथा- 'निवेशयामासिथ हेलयोद्धृतं फणाभृतां छादनमेकमोकसः । जगत्रयै कस्थपतिस्त्वमुच्चकैर- हीश्वरस्तम्भशिरःसु भूतलम् ॥' श्रुत्यर्थस्मरणात्स्मृतिः-'भव्याभव्य विलोकिलोचनयुगं चेतः स्मृतेः पारगं धम्मिल्ले शिरसि स्थिते वरतनोमुख्या द्विजाः साक्षिणः । स्तेयं नो का.२ .. - ६ काव्यमाला। . •. , मम कालिकेति कुचयोर्द्वन्द्वं प्रतिज्ञापरं हारान्तःस्थितपद्मरागमिषतः फालं दधो शुद्धथे॥' यथा च-'एतस्या गगनश्रियः प्रियतरा नक्षत्रमालामला रात्री कण्ठमधिष्ठिताप्यपहृता प्राच्या प्रतीच्यान्विति । सौवर्ण रजतस्य गोलकममुं धत्तः खाभाग्योदयात्सूर्याचन्द्रमसो- मिषेण युगपत्प्रातः खयं शुद्धये ॥' वेदाख्यानोपनिबन्धनं पुराणम्-'किं किं सिंहस्ततः कि नरसदृशवपुर्देव चित्रं धृतः किं नैवं कस्कोत्र जीवो द्रुतमुपनय रे देवसंप्राप्त एव । चापं चापं न खनः किमिति हहहहा कर्कशत्वं नखानामित्थं दैत्याधिनाथं खरनखकु. लिशैर्जनिवान्यः स वोऽव्यात् ॥' पुराणप्रतिभेद एव इतिहासः। तन्नैपुणं यथा--'मदं नवैश्वर्यपदेन लम्भितं विमुच्य पूर्वः समयो विमृश्यताम् । जगज्जियत्सातुरकण्डपद्धतिर्न वालिनैवाहिततृप्तिरन्तकः ॥' आगम आप्तवचनं यथा-'प्रजापतियः प्रतिमं जिजीविषुः शशास कृष्यादिषु कर्मसु प्रजाः।प्रबुद्धतत्त्वः पुनरद्भुतोदयो ममत्वतो निर्विविदे विदांवरः ॥' नाट्यने पुणं यथा-'कार्योपक्षेपमादी तनुरपि रचयंस्तस्य विस्तारमिच्छन्बीजानां गर्भितानां फलमतिगहनं मूढमुद्भेदयश्च । कुर्वन्वुद्ध्या विमर्श प्रसृतमपि पुनः संहरन्कार्यजातं कर्ता वा नाटकानामिममनुभवति क्लेशमस्मद्विधो वा ॥' अभिधानकोशो नाममाला । ततो हि शब्दनिश्चयः ॥ ननु प्रयुक्तमेव प्रयुज्यते, अन्यथाप्रयुक्तत्वदोषावकाशः तत्कि नाममालया । मैवम् । सामान्येन प्रयुक्तादर्थावगतिर्भवति । यथा-नीवीशब्देन जघनव- स्त्रग्रन्थिरुच्यते इति कस्यचिनिश्चयः, 'स्त्रियः पुरुषस्य वा' इति संशये 'नीविराग्रन्थन नार्या जघनस्थस्य वाससः' इति नाममालापदावलोकनादेव निर्णयो भवति । कामशास्त्र नैपुणं यथा-'सीत्कृतानि मणितं करुणोक्तिः स्निग्धमुग्धमलमर्थवचांसि । हारभूषणर- वाश्च रमण्याः कामसूत्रपदतामुपजग्मुः ॥' अर्थशास्त्रनपुणं यथा---'मत्कृत्यैः किल नाम पर्वतसुतो व्याप्तः प्रकृष्टान्तरेरुद्युक्ताः स्वनियोगसाधनविघौ सिद्धार्थकाद्याश्चराः । कृत्वा संप्रति केतवेन कलहं मौर्येन्दुना राक्षसाद्भत्स्यामि स्ववनेन भेदकुशलेनैप प्रतीपं द्विपः ।।' योगशास्त्रनेपुणं यथा-'मेव्यादिचित्तपरिकर्मविदो विधाय क्लशप्रणाशमिह लव्धसबीज- योगाः । ख्याति च सत्त्वपुरुषान्यतयाधिगम्य वाञ्छन्ति तामपि समाधिविदो निरोद्धुम्॥ आदिशब्दाज्ज्योतिःशास्त्रनैपुणं यथा-'कृरग्रहः स केतुश्चन्द्रमसं पूर्णमण्डलमिदानीम् । अ. भिभवितुमिच्छति बलाद्रक्षत्येनं तु बुधयोगः॥ गजलक्षणनैपुणं यथा-'भद्रात्मनोर्दुरधिरो- हतनोविशालवशोन्नतेः कृतशिलीमुखसंग्रहस्य । यस्यानुपप्ठतगतेः परवारणस्य दानांवुसे- कसुभगः सततं करोऽभूत् ॥' अश्वलक्षण पुणं यथा-'निर्मासं मुखमण्डले परिमितं मध्ये लघु कर्णयोः स्कन्धे बन्धुरमप्रमाणसुरभि स्निग्धं च रोमोद्गमे । पीनं पश्चिमपार्श्वयोः पृथुतरं पृष्ठे प्रधानं जवे राजा वाजिनमारुहोह सकलयुक्तं प्रशस्तैर्गुणैः ॥ रत्नपरीक्षानैपुणं यथा- 'जयति विजितान्यतेजाः सुरासुराधीशसेवितः श्रीमान् । विमलस्त्रासविरहितस्त्रिलोकचि- न्तामणिर्नेमिः॥' द्यूतशास्त्रनैपुणं यथा-'यत्रानेके क्वचिदपि गृहे तत्र तिष्ठत्यथैको यत्राप्ये- कस्तदनु बहवस्तत्र नैकोऽपि चान्ते । इत्थं नेयौ रजनिदिवसौ तोलयन्द्वाविवाक्षी कालः काल्या सह बहुकलः क्रीडति प्राणिशारैः॥' धनुर्वेदनैपुणं यथा-'स दक्षिणापाङ्गनिविष्टमुष्टिं - १ अध्यायः ] काव्यामुशासनम् । - तद्यथा- नतांसमाकुञ्चितसव्यपादम् । ददर्श वक्रीकृतचारुचापं प्रहर्तुमभ्युद्यतमात्मयोनिम् ॥' एव- मन्यदपि । काल्यज्ञशिक्षया परिशीलनमभ्यासः । काव्यं कर्तु विचारयितुं च ये जानन्ति तेषां शिक्षया प्रवृत्तिरभ्यासः । शिक्षामाचक्षते- तत्र कविसमये सतामपि भावानां केषांचिदनिबन्धः । -मालत्या वसन्ते। यथा-'मालतीविमुखश्चैत्रो विकासी पुष्पसंपदाम् । आ- श्चर्य जातिहीनस्य कथं सुमनसः प्रियाः ॥' पुप्पफलयोश्चन्दनद्रुमे । अनिवन्ध इति वर्तते । यथा--'सा छाया स च सुन्दरः परिमलस्ते कोमलाः पल्लवा भ्रातश्चन्दनपादपस्य बहवः सन्त्येव किं तैर्गुणैः । दृप्यढुष्टभुजङ्गसंगतिवशादापादमूलागते. रानीतं फलमन्यतोऽपि पथिकैः साशङ्कमाखाद्यते ॥' फलस्याशोकेषु । अनिवन्ध इति वर्तते । एवमन्यत्रापि । 'किं ते नम्रतया किमुन्नततयां किं वा धन- छायया किं वा पल्लवलीलया किमनया चाशोक पुष्पश्रिया। यत्त्वन्मूलनिषण्णखिन्नपथि- कस्तोमः I: स्तुवन्नन्वहं न स्वादूनि मृदूनि खादति फलान्याकण्ठमुत्कण्टितः॥' कृष्णपक्षे ज्योत्स्नायाः । शुक्लपक्षे त्वन्धकारस्य । यथा-परतो न तत्त्वचिन्ता तद्वन्तः स्युर्मुखस्थगुणदोषैः । एको हि सितः पक्षः को- मुद्या तुल्ययापि कृष्णोऽन्यः ॥' कुन्दकुमलानां कामिदन्तानां रक्तत्वस्य । यथा--'व्याकोशकुन्दकुमलविमलदती यो विहाय राजिमतीम् । मुक्त्यङ्गनानुरक्तो बभूव नेमिः स वः पायात् ॥' कमलमुकुलानां हरितत्वस्य । यथा---'उद्दण्डोदरपुण्डरीकमुकुलभ्रान्तिस्पृशा दंष्ट्रया मना लावणसैन्धवेऽम्भसि मही- मुद्यच्छतो हेलया । तत्कालाकुलदैत्यदानवकुलस्त्तालकोलाहलं शौरेरादिवराहलीलमवता- दभ्रंलिहाग्रं वपुः ॥ प्रियङ्गुपुप्पाणां पीतत्वस्य । यथा--'प्रियङ्गुश्यामलाङ्गाभो मुमुक्षुध्यानगोचरः । जपार्तिहरणायास्तु स संज्ञानो जिनः सताम् ॥ दिवा नीलोत्पलादीनां विकासस्य । ..
८ काव्यमाला । .. यथा-'कुमुदवनमपनि श्रीमदम्भोजषण्डं त्यजति मदमुलूकः प्रीतिमाँश्चक्रवाकः । उ. दयमहिमरश्मिर्याति शीतांशुरस्तं हतविधिललितानां वै विचित्रो विपाकः ॥' दिवा शेफालिकाकुसुमानां विस्रंसस्य । यथा-'त्वद्विप्रयोगे किरणैस्तथोग्रैर्दग्धास्मि कृत्स्नं दिवसं सवित्रा । इतीव दुःखं शशिने गदन्ती शेफालिका रोदिति पुष्पबाष्पैः ॥' कचिदसतामपि भावानां निबन्धः । तद्यथा-नदीषु नीलोत्पलादीनाम् । यथा-'शस्तं पयः पपुरनेनिजुरम्बराणि चक्षुर्विसंहृतविकाशिबिसप्रसूनाः । सैन्याः श्रियामनुपभोगनिरर्थकत्वमिथ्याप्रवादमसृजत्त्वननिम्नगानाम् ॥' जलाशयमात्रे हंसानाम् । यथा-'अस्मिन्नेव लतागृहे त्वमभवस्तून्मार्गदत्तेक्षणः सा हंसैः कृतकौतुका चिरमभू- गोदावरीरोधसि । आयान्त्या परिदुर्मनायितमिव त्वां वीक्ष्य बद्धस्तया कातर्यादरविन्दकु- हमलनिभो मुग्धः प्रणामाञ्जलिः ॥' पर्वतमात्रे स्वर्णरत्नगजानां निबन्धः । यथा-'क्रान्तं रुचा काञ्चनवप्रभाचा नवप्रभाजालभृतां मणीनाम् । श्रितं शिलाश्याम - लताभिरामं लताभिरामन्त्रितषट्पदाभिः॥' यथा च–'नीलाइमरश्मिपटलानि महेभमुक्त- सूत्कारसीकर विसृद्धि तटान्तरेषु । आलोकयन्ति सरलीकृतकण्ठनालाः सानन्दमम्बुदधि- यात्र मयूरनार्यः॥' तमसो मुष्टिग्राह्यत्वस्य । यथा-'गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं रुद्धालोके नरपतिपथे सूचिभेद्यै- स्तमोभिः । सौदामिन्या कनकनिकषस्निग्धया दर्शयोर्वी तोयोत्सर्गस्तनितमुखरो मा स्म भूर्विक्लवास्ताः ॥' ज्योत्स्नायाः कुम्भोपवाह्यत्वादेः । यथा-'शङ्खद्रावितकेतकोदरदलस्रोतःश्रियं बिभ्रती येयं मौक्तिकदामगुम्फन विधेर्योग्य- च्छविः प्रागभूत् । उत्सेक्या कलशीभिरजलिपुटेग्राह्या मृणालाचलै: पातव्या च शशिन्य. मुग्धविभवे सा वर्तते चन्द्रिका ॥' शिवचन्द्रमसो बालत्वस्य । यथा-'कपालनेत्रान्तरलब्धमार्गेोतिःप्ररोहैरुदितैः शिरस्तः। दिवापि निष्ठ्यूतमरी- चिभारां बालस्य लक्ष्मी ग्लफ्यन्तमिन्दोः ॥' यशोहास्ययोः शौक्लयस्य । यथा-'कर्पूरद्रुमगर्भधूलिधवलं यत्केतकानां त्विषः श्वेतिना परिभूय चन्द्रमहसा'सार्ध प्रतिस्पर्धते । तत्पाकोज्ज्वलनालिकेरसलिलच्छायावदातं यशःप्रालेयाचलचूलिकासु भव- .. ..
१ अध्यायः ] काव्यानुशासनम् । तो गायन्ति सिद्धाङ्गनाः ॥' यथा च---'गत्वा चोर्ध्व दशमुखभुजोच्छासितप्रस्थसंधेः कैलासस्य त्रिदशवनितादपर्णस्यातिथिः स्याः । शृङ्गोच्छायैः कुमुदविशदयों वितत्य स्थितः खं राशीभूतः प्रतिदिशमिव त्र्यम्बकस्याहासः ॥' अयशःपाययोः काय॑स्य । यथा-'प्रसरन्ति कीर्तयस्ते तव च रिपूणामकीर्तयो युगपत् । कुवलयदलसंवलिताः प्रतिदिशमिव मालतीमालाः ॥' यथा च–'तमश्चये महति निमज्जतः सतो जनस्य सत्पथ- गतिदर्शनं दिशत् । दिगन्तरप्रथितरथाश्वसंचरः प्रभाकरो भवति नरेश्वरः स्फुटम् ॥' क्रोधानुरागयो रक्तत्वस्य । यथा-'शितितारकानुमितिताम्रनयनमरुणीकृतं क्रुधा । बाणवदनमुददीपि भिये जगतः सकील मिव सूर्यमण्डलम् ॥' यथा-'गायन्निवालिविरुतैर्नृत्यन्निव चलदलः । त्वद्गुणैरिव रक्तोऽमी मोदतेऽशोकपादपः ॥' चक्रवाकानां निशि भिन्नतटाश्रयणस्य । यथा-'इह हि कुमुदकोशे पीतमम्भः मुशीतं कवलितमिह नालं कन्दलं चेह दृष्टम्। इति रटति निशायां पर्यटन्ती तटान्ते सहचरपरिमुक्ता चक्रवाकी वराकी ॥' केषांचिन्नैयत्यम् । यथा—समुद्रेप्वेव मकराः । यथा- 'रत्नानां निधिरित्यपां निलय इत्यत्युष्णतृष्णाज्वररम्माभिः श्रित एष केलिस- दनं लक्ष्मीप्रियस्येति च । को जानाति यदस्य यास्यति करकोडान्तरस्थं पयस्ताम्यन्मीन- मधीरलोलमकरं वातापितापी मुनिः ॥' ताम्रपामेव मौक्तिकानि । यथा-'यस्योत्तमा मौक्तिककामधेनुरुपत्यकामञ्चति ताम्रपर्णी । रत्नेश्वरो रत्नमहा- निधानं कुम्भोद्भवस्तं मलयं पुनाति ॥' मलयगिरावेव चन्दनोत्पत्तिः । यथा-'ये देशा मलयोपकण्ठनिलयास्तेष्विन्धनं चन्दनं तीरोपान्तनिवासिनां जल- निधे रत्नाने नोद्यमः । काश्मीरप्रतिवासिनां भुवि नृणां नात्यादरः कुङ्कमे दूरस्थस्य महार्घता परिभवः संवासतो जायते ॥' हिमगिरावेव भूर्जजन्म । यथा-'तत्सैनिकाः समासाद्य भूर्जश्रस्तरितां भुवम् । तुषारादिविटक्केषु मुमुचुर्दि- 'ग्जयश्रमम् ॥ वसन्त एव कोकिलरुतम् ।
१० काव्यमाला। यथा-'माणं मुञ्चध देह वलहजणे दिहिं तरङ्गुत्तरं तारुणं दिअहाणि पञ्च दह वा पीणत्थणत्थम्भणम् । इत्थं कोइलमनुसिञ्जणमिसा देवस्स पञ्चसुणो दिण्णा चित्तमहसवेण सहसा ( भुवणे ) आण्णव्व सव्वंकसा ॥' वर्षाखेव मयूरस्य नृत्यं रुतं च । यथा-'ज्योतिलीलावलयि गलितं यस्य बह भवानी पुत्रप्रेम्णा कुवलयदलत्रापि कर्णे करोति । धौतापाङ्गं हरशशिरुचा पावकेस्तं मयूरं पश्चादद्रिग्रहणगुरुभिर्गजिते- नर्तयेथाः ॥ अविशेषोक्तौ माणिक्यानां शोणतैव । यथा-'विभोः सभायां भान्त्येते रत्नदीपाः प्रभाभरैः । कृतालक्तकपोतश्रीविभ्रमा- सन्नवारिदाः ॥' पुप्पाणां शुक्लतैव । यथा-'फलेषु सुस्वादुतरेषु सन्म कव्यार्थिनं मां मृगपृष्ठलग्नम् । जाने तदानीं म्मि- तपुष्पगुच्छच्छलादहासीद्वनवृक्षवीथी ॥' मेघानां कृष्णतैव । यथा-'लक्ष्मीभृतोऽम्भोधितटाधिवासान्द्रुमानगो नीरदनीलभामः । लतावधूसंप्र. युजोऽधिवेलं बहकृतान्स्वानिव पश्यति म्म ॥ कृष्णनीलहरितश्यामानाम् । ऐक्यमिति ( वक्ष्यमाणेन ) संबन्धः । एवमग्रेऽपि । यथा-'सजलजलदनीला भाति यम्मिन्वनाली मरकतमणिकृष्णो यत्र ने मिर्जिनेन्द्रः । विकचकुवलयालिश्यामलं यत्सरोम्भः प्रमदयति न काँस्कांस्तत्पुरं राहडस्य ॥' पीतरक्तयोः । यथा-'नवकनकपिशङ्गं वासराणां विधातुः ककुभि कुलिशपाणे ति भासां विता- नम् । जनितभुवनदाहारम्भमम्भांसि दग्ध्वा चलितमिव महाब्धेरू_मौवानलार्चिः॥' शुक्लगौरयोः । यथा-'कलासगौरं वृषमारुरुक्षोः पादार्पणानुग्रहपृतपृष्ठम् । अवेहि मां किंकरमष्टमूर्तेः कुम्भोदरं नाम निकुम्भमित्रम् ॥' रक्तगौरयोः। १. कर्पूरमन्जयाँ प्रथमजवनिकान्तरे श्लोकोऽयम्. 'मानं मुञ्चत ददत वल्लभजने दृष्टिं तुरङ्गोत्तरां तारुण्यं दिवसानि पञ्च दश वा पीनस्तनस्तम्भनम् । इत्थं कोकिलमज- शिअनवशाद्देवस्य पञ्चेषोदत्ता चित्तमहोत्सवेन सहसा (भुवने) आजैव सर्वकषा ॥' इति छाया. ..
१ अध्यायः ] काव्यानुशासनम् । ११ यथा-'पयसि सलिलराशेनक्तमन्तर्निमग्नं स्फुटमनिशमतापि ज्वालया वाडवाग्नेः । यदयमिदमिदानीमङ्गमुद्यद्दधाति ज्वलितखदिरकाष्ठाझारगौरं विवखान् ॥' चन्द्रे शशमृगयोः। यथा-'लक्ष्मीकीडातडागं रतिधवलगृहं दर्पणो दिग्वधूनां पुष्पश्यामालतायात्रिभु- वनजयिनो मन्मथस्यातपत्रम् । पिण्डीभूतं हरस्य स्मितममृतसरित्पुण्डरीक शशाको ज्यो- स्नापीयूषवापी जयति सितवृषस्तारकागोकुलस्य ॥' यथा वा---'किं कारणं तु कविराज मृगा यदते व्योमोत्पतन्ति विलिखन्ति भुवं वराहाः । एके मृगाङ्कमृगमादिवराहमन्ये देव त्वदनचकिताः श्रयितुं स्वजातिम् ॥' कामकेतने मकरमत्स्ययोः । यथा-'बाणावव्याहतशंभुशक्तरासत्तिमासाद्य जनार्दनम्य । शरीरिणा जैत्रशरेण यत्र निःशमूपे मकरध्वजेन ॥' यथा वा-'स्त्रीमुद्रां झपकतनस्य महतीं सर्वार्थसंप- करी ये मूढाः प्रविहाय यान्ति कुधियो मिथ्या फलान्वेपिणः । ते तेनैव निहत्य निर्दय- तरं मुण्डीकृता लुञ्चिताः केचित्पञ्चशिखीकृताश्च जटिनः कापालिकाश्चापरे ॥' समुद्रात्रिनेत्रसमुत्पन्नयोश्चन्द्रयोः । यथा-'उत्पत्तिर्जलधी तुपारशिशिरा कान्तिः क्लमच्छेदिनी वासो जहुमुताजसजशु- चिनि स्थाणोजटाजूटके । एतस्मॅिस्त्रितये तथापि न गतः संपूर्णतां चन्द्रमाः पुंसां सत्य- मिदं न जन्म न गुणा नोपाश्रयः संपदे ॥ यथा च–'अत्रिजातम्य या मूर्तिः शशिनः सज्जनस्य च । क साँवरात्रिजातस्य तमसो दुर्जनम्य च ॥' द्वादशानामप्यादित्यानाम् । यथा-~-'साद्रिनिदीशा दिशति दश दिशो दर्शयन्याग्दृशोयः सादृश्यं दृश्यते नोस दशशतदृशि त्रेदशेयस्य देशो (?) । दीप्तांशुवः स दियादशिवयुगदशादर्शितद्वादशात्मा संशास्त्यश्वांश्च यस्याशयविदतिशयाइंदशूकाशनाद्याः ॥' क्षीरक्षारसमुद्रयोः । यथा-'ग्रावाणो मणयो हरिजलचरो लक्ष्मीः पयोमानुषी मुक्तीघाः सिकताः प्रवाल- लतिकाः शवालमम्भः सुधा। तीरे तल्पमहीरहः किमपरं नानव रत्नाकरो दूरे कर्णरसा- यनं निकटतस्तृष्णापि नो शाम्यति ॥' देत्यदानवासुराणाम् । तत्र हिरण्याक्ष हिरण्यकशिपुप्रह्लादविरोचनवलिबाणादयो दत्याः । विप्रचितिसंवरनमु. चिपुलोमप्रभृतयो दानवाः । बलवृत्रचिक्षुर(स्त)वृषपर्वादयोऽसुराः । तेपामैक्यम् ! यथा-'करोति कंसादिमहीभृतां वधाजनो मृगाणामिव यत्तव स्तवम् । हरे हिरण्याक्षपुरः- सरासुरद्विपद्विपः प्रत्युत सा तिरस्किया ॥' यथा च-तं संबरासुरशरासनशल्यसार के- ..
१२ काव्यमाला । . । यूररत्नकिरणारुणबाहुदण्डम् । पीनांसलग्नदयिताकुचपत्रभङ्गं मीनध्वजं जितजगत्रितयं ज- येत्कः ॥ कामस्य मूर्तत्वामूर्तत्वयोः। तत्र मूर्तत्वस्य यथा-'स एष भुवनत्रयप्रथितसंयमः शंकरो बिभर्ति वपुषाधुना वि. रहकातरः कामिनीम् । अनेन किल निर्जिता वय मिति प्रियायाः करं करेण परिताडय- अयति जातहासः स्मरः ॥' अमूर्तत्वस्य यथा--'तव सौरूप्यमालोक्य जगज्जनविलक्ष- णम् । लज्जयेव जगस्वामिन्ननङ्गोऽनङ्गतां गतः ॥' चक्षुरादेरेकानेकवर्णत्वस्य चैक्यम् । तत्र शुक्लता यथा 'जं मुक्त्वा सवणंतरेण तरला तिक्खा कडक्खच्छडा शिक्षाथिद्विअ. केअअग्गिमदलद्दोणीयरिच्छच्छई। तं कप्पूररसेण णं धवलिदो जोण्हाअ णं हाविदो मुत्ताणं घणरेणुण व्व छुरिदो जादो मि एत्थंतरे॥' श्यामलता यथा-'तत्प्रार्थितं जवनवाजिगतेन राज्ञा तूणीमुखोद्धृतशरेण विशीर्णपसि । श्यामीचकार वनमाकुलदृष्टिपातैर्वातरितोत्पलद- लप्रकररिवाम्भः ॥' कृष्णता यथा-'पादन्यासक्वणितरसनास्तत्र लीलावधूत रत्नच्छाया- खचितवलिभिश्चामरेः कान्तहस्ता । वश्यास्त्वत्तो नखपदसुखान्प्राप्य वर्षाग्रबिन्दूनामो- क्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान्कटाक्षान् ॥' रक्तता यथा-'वक्र चन्द्रो नयनयुगली- पाटलाम्भोजयुग्मं न सानालं दशनवसनं फुल्लवन्धूकपुष्पम् । कण्ठः कम्बुः कुचयुगमथो हेमकुम्भी नितम्बा गङ्गारोधश्चरणयुगलं वारिजद्वन्द्वमस्याः ॥' अनेकवर्णता यथा—'ता- मुत्तीर्य व्रजपरिचितभ्रलताविभ्रमाणां पक्ष्मोत्क्षपादुपरिविलसत्कृष्णसारप्रभाणाम् । कुन्द- क्षेपानुगमधुकर श्रीमुखामात्मविम्बं पात्रीकुर्वन्दशपुरवधूनेत्र कौतूहलानाम् ॥' क्वचित्प्रतिबिम्बतया वचिदालेख्यप्रख्यतया क्वचित्तुल्यदेहितुल्यतया क्वचित्परपुरप्रवेशप्रतिमतया उत्तरोत्तरोत्कर्षेण महाकविकाव्यानां छायो- पजीवनं पादद्वयत्रयोपजीवनम् उक्त्युपजीवनं समस्यापूरणपदपरिवृत्तिरर्थ- शून्याभासादयश्च शिक्षा । तत्र यथा(त्रा)र्थः स एव, वाक्यान्तरविरचना त्वन्या । तत्प्रति- बिम्बतुल्यम् । १. 'पोप्प्याः पञ्च शराः शरासनमपि ज्याशून्यमिक्षोलता जेतव्यं जगतां त्रयं स च पुनर्जेताप्यनङ्गः किल । इत्याश्चर्यपरम्पराघटनया चेतश्चमत्कारयन्व्यापारः सुतरां वि- चारपदवीवन्ध्यो विधिर्वन्द्यताम् ॥' इत्यपि प्रत्यन्तरे. २. कर्पूरमञ्जो प्रथमजवनिकायां श्लोकोऽयं वर्तते. 'यन्मुक्त्वा श्रवणान्तरेण तरला तीक्ष्णा कटाक्षन्छटा शृङ्गाधि- टितकेतकाग्रिमदलद्रोणीसदृक्षच्छविः । तत्कर्पूररसेन ननु धवलितो ज्योत्स्नया ननु नापितो मुक्तानां घनरेणुनेव छुरितो जातोऽस्म्यत्रान्तरे ॥' इति च्छाया.
१ अध्यायः] काव्यानुशासनम् । यथा-'तेजः पुष्णातु पार्थो दुरितविजयिनः शाश्वतानन्दबीजं संक्रान्तः सप्तरत्न्यां भुजगपतिफणाचक्रपर्यभाजि । कर्माण्यष्टौ समन्तात्रिभुवनभवनोत्सगितानां जनानां य- श्छेत्तुं तुल्यकालं वहति निजतनुं क्लुप्तसप्तान्यरूपाम् ॥' अत्रार्थ-पाचप्रभुः फणिफणा- मणिसप्तकान्तः संक्रान्तकान्तवपुरस्तु स वः शिवाय । कर्माष्टकं सपदि हन्तुमिवानतानां यः क्लृप्तसप्तविततान्यवपुर्विभर्ति ॥' कियतापि भेदेनैतस्माद्यद्भिन्नमिव प्रतिभासते । तदालेख्यप्रख्यम् । यथा-'जयति फणीन्द्रफणामणिसंक्रान्तवपुजिनः पार्थः । सर्वमनेकान्तमिदं वस्त्वि- ह कथयन्निवेति भव्यानाम् ॥' यत्र विषयभेदेऽपि नितान्तसादृश्यादभेदप्रतीतिस्तत्तुल्यदेहितुल्यम् । यथा-'प्रतिदिश मिह दोलान्दोलनव्यापूतानां कुवलयनयनानामानन रुल्लसद्भिः । वि- मललवणिमाम्भश्चन्द्रिका द्राक्किरद्भिर्नवशशधरमालामालिनीवाभवढ्यौः ॥' अत्रार्थ- 'जिनभवनशिखाग्रन्यस्तपर्यस्तदोपस्फुरितरुचिरकुम्भोद्दामदीप्तिप्रतानैः । प्रतिसमयमिह- श्रीराहडेनाधिकं द्यौस्तरुणतराणमालामालिनीव व्यधायि ॥' यत्र काव्यस्य जीवितव्यैक्यं परिकरबन्धस्तु दूरादेवान्यस्तत्परपुरप्रवेश- तुल्यम्। यथा-'अलंकारः शङ्काकरनरकपालं परिजनो विशीर्णाझो भृङ्गी वसु च वृष एको व- हुवयाः। अवस्थयं स्थाणोरपि भवति सामरगुरोविधी वक्र मूर्ध्नि स्थितवति वयं के पु. नरमी॥' यथा च–'प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता । अवलम्ब- नाय दिनभनुरभून्न पतिप्यतः करसहस्रमपि ॥' पदोपजीवनं यथा-'दूराकृष्टशिलीमुख- व्यतिकरानो कि किरातानिमानारायावृतपीतलोहितमुखान्कि वा पलाशानपि । पान्थाः कसरिणं न पश्यत पुरोऽप्येनं वसन्तं वने मूढा रक्षत जीवितानि शरणं यात प्रियां देव- ताम् ॥ यथा च-'मा गाः पान्थ प्रियां मुक्त्वा दूराकृष्टशिलीमुखम् । स्थितं पन्थानमावृत्य किं किरातं न पश्यसि ॥'पादोपजीवनं यथा--'जातो मार्गे सुरभिकुसुमः सत्फलो नम्र- शाखः स्फीताभोगो बहुलविटपः खादुनोयोपगूढः । नैवात्मार्थ वहति महती पादपन्द्रः श्रियं तामापन्नातिप्रशमनफलाः संपदो ह्युत्तमानाम् ॥' यथा च–'तं चेद्वायौ वति सर- लस्कन्धसंघटजन्मा बाधतोल्काक्षपितचमरीबालभारो दवाग्निः । अहस्येनं शमयितुमलं ता- रिधारासहरापन्नार्तिप्रशमनफलाः संपदो घुत्तमानाम् ॥' आदिशब्दात्पादत्रयोपजीवनम- पि युज्यते परं तत्प्रकटचार्यमिति नोपदिष्टम् । उक्त्युपजीवनं यथा-'कैवर्तकर्कशकरग्रहण- च्युतोऽपि काले पुनर्निपतितः शफरो वराकः । जालात्पुनर्निगलितो गलितो बकेन वाम विधी बत कुतो व्यसनानिवृत्तिः ॥' यथा च–'छित्त्वा पाशमपास्य कूटरचनां भक्त्वा बलाद्वाँगुरां प्रान्तेषु ज्वलदग्निजालजटिलान्निर्गत्य दूरं वनान् । व्याधानां शरगोचरांतिजवे. नोत्पत्य धावन्मृगः कूपान्तः पतितः करोतु विगुणे किंवा विधौ पौरुषम् ॥' समस्यापूरणं का.३ . ..
१४ काव्यमाला । - .. त्वनेकधा भवति । पादसमस्या यथा-'समुद्राझलिरुत्थिता' इति चतुश्रः पादः । अत्र क्र. मशस्त्रयः पादाः। यथा-'अगस्तिहस्तविन्यस्तनिपीतसकलाम्भसः । अधःफणीन्द्रफूत्कारः समुद्रालिरुत्थिता ॥' पादद्वयसमस्या यथा-'स्तनावालोक्य तन्वयाः शिरः कम्पयते युवा।' इति पूर्वार्धम । 'तयोरन्तर्विनिर्मनां दृष्टिमुत्पाटयन्निव ॥' इत्युत्तरार्धम् । पादत्र- यसमस्या यथा---'गत्वा चोय दशमुखभुजोच्छ्वासितप्रस्थसंधेः सद्यःकृत्तद्विरददशनच्छद- गौरस्य तस्य । कैलासस्यादिमजिनपतिं प्रार्थयेऽत्रं विमुक्त्यै याचना मोपा वरमधिगुणे नाधमे लब्धकामा॥' इति मेघदूतकाव्यस्य पादत्रयं तृतीयपादेन संकलितम् । यथा च- 'छन्नोपान्तः परिणतफलद्योतिभिः काननानैः प्रत्यूपपु स्फुटितकमलामोदमैत्रीकपायः । योऽयं नमेः सदनमचलः प्रीतये यत्र ते म्याच्छीतो वायुः परिणमयिता काननोदुम्बरा- णाम् ॥' पदपरिवृत्तियथा-'वागर्थाविव संपृक्तों वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्वतीपरमेश्वरी ॥' तथा-'वाण्याविव संपृक्ती वाण्यर्थप्रतिपत्तये । जगतो मातरौ (2) वन्दे शर्वाणीशशिशेखरी ॥' अर्थशून्यपदाभ्यासो यथा-'आनन्दसंदोहपदारविन्दकुन्दे. न्दुकुन्दोदितविन्दुवृन्दम् । इन्दिन्दिरान्दोलितमन्दमन्दनिप्यन्दनिन्द्यन्मकरन्दवन्यम् ॥' बवयोर्डलयोरैक्यम् । यथा-'पृथुकार्तस्वरपात्रं भूपितनिःशेषपरिजनं देवम । विलसत्करेणुगहनं संप्रति सम- मावयोः सदनम् ॥' प्रथा च--'नालम्यप्रसरो जडप्वपि कृतावासम्य कोश रुचिदण्डे क. फशता मुखे च मृदुता मित्रे महान्प्रश्रयः । आमूलं किल संग्रहव्यसनिता द्वेपश्च दो. पाकरे यस्यैपा स्थितिरम्बुजस्य वसतियुक्त.व तत्र श्रियः ॥' नानुस्खारविसर्गो चित्रभङ्गाय । यथा-चन्द्रडितं चलितम्बरधीशमाररत्नासनं रभसकल्पिनशोकजातम् । पश्यामि पापतिमिरक्षयकारकायमल्पेतरामलतपःकचलोपलोचम् ॥' पापतिमिरक्षयकार कार्य प- श्यामि । इति हारबन्धचित्रम् ॥ कथंभूतम् । चन्द्रडितं चन्द्रस्तुतम् । पुनः कथंभूत- म् । चटुलितस्वरधीशसाररत्नासनं कम्पितशकोत्कृष्ट सहासनम । रभसकल्पितशोकजातं निराकृतशोकसमूहम् । पुनः कथंभूतम् । अल्पेतरामलतपःकचलोपलोचं कशापनोद- दर्शकम् ॥ विसों यथा-'नित्यं कुन्थ्वा(म्भ्या?)दिमत्त्वेष्वहिस्रः कुश्वितिसंज्ञकः । करि- राजकराकारकरो मामवताजिनः ॥' त्रिशलवन्धचित्रं सुवोधम् । शब्दार्थो निर्दोषौ सगुणौ प्रायः सालंकारौ काव्यम् । दोषगुणालंकाराणामग्रे प्रपश्यमानत्वान्नात्र विरतरः । प्रायः सालंकाराविति निरलंका- रयोरपि शब्दार्थयोः क्वचिकाव्यत्वख्यापनार्थम् । यथा-शुन्यं वासगृहं विलोक्य शयनादु- स्थाय किंचिच्छनेनिंद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युमुखम् । विरब्धं परिचुम्ब्य नातपुलकामालोक्य गण्डस्थली लज्जानम्रमुखी प्रियेण हयता बाला चिरं 'बुम्विता ॥' १. परसवर्णाभावमपेक्ष्येदम. ..
१ अध्यायः] काव्यानुशासनम् । १५ तच्च पद्यगद्यमिश्रभेदैस्त्रिधा। तत्र पद्यं छन्दोबन्धः । स च महाकाव्यादिः । तत्र प्रायः संस्कृतप्राकृतापभ्रंशग्राम्यभापानिबद्धभिन्नान्त्यवृत्तसर्गाश्वा- सकसंध्यवम्कन्धकबन्धम् , मुखप्रतिमुखगर्भविमर्पनिर्वहणरूपसंधिपञ्चकोपे- तम् , असंक्षिप्तग्रन्थम् , अविपमबन्धम् , अनतिविस्तीर्णपरस्परसंबद्धसर्गम् , आशीर्नमस्क्रियावस्तुनिर्देशोपक्रमयुतम् ,वक्तव्यवस्तुप्रतिज्ञातत्प्रयोजनोपन्या- सकविप्रशंसासज्जनदुर्जनचिन्तादिवाक्योपेतम् , दुष्करचित्राद्यकसर्गाङ्कितम् , खाभिप्रेतवस्त्वङ्कितसर्गान्तम् , चतुर्वर्गफलोपेतम् . चतुरोदात्तनायकम् , प्र- सिद्धनायकचरितम्, नगनागरसागरर्तुचन्द्रार्कोदयास्तसमग्रोद्यानजलकेलिम- धुपानसुरतमन्त्रदृतसैन्यावासप्रयाणाजिनायकाभ्युदयविवाहविप्रलम्भाश्रमन- द्यादिवणनोपेतं महाकाव्यम् । तत्र संस्कृतभाषा निवद्धसगंवन्धं रघुवंशादि । प्राकृतभाषानिबद्धाश्वासकबन्धं सेतु- बन्धादि । अपभ्रंशभापानिबद्धसंधिवन्धब्धिमथनादि । ग्राम्य भाषानिबद्धावस्कन्ध- बन्धं भीमकाव्यादि प्रायाग्रहणासंस्कृतभापायामपि क्वचिदावासकवन्धो न दुप्यति, तथा आदितः समाप्तिपर्यन्तं कुत्राप्येकमेव छन्दो न दुप्यति । मुखसं- धिर्यथा-'यत्र वीजगमुत्पत्तिानार्थरमसंभवा । काव्यशरीरानुगतं तन्मुख परिचक्षते॥' प्रतिमुखं यथा- 'वीजस्योद्घाटनं यत्र दृष्ट नष्टमिव चिन् । मुखुन्यस्तम्य सर्वत्र तद्वै प्र- तिमुखं स्मृतम् ॥' गर्भो यथा---'उद्भदनस्य वीजम्य प्राप्तिरप्राप्तिरेव वा । पुनश्चान्वेषणं यत्र स गर्भ इति संज्ञितः ॥' विमपा यथा--'गंभनिर्मिन्नबीजार्थी विलोभनकृतोऽपि वा। कोधव्यसनजो वापि स विभपः प्रकीर्तितः ॥' निर्वहणं यथा-'समानयनमर्थानां मुखा- द्यानां सर्वाजिनाम् । नानाभावोत्तराणां यद्भवनिर्वहणं तु तन ॥' आशीनमस्क्रियावस्तु- निर्देशोपक्रमयुतमिति । तत्राशीयथा चन्द्रग्रभकाव्ये---श्रियं क्रियाद्यम्य मुराग नट- सुरेन्द्रनंत्रप्रतिविम्बलाञ्छिता। सभा बभी रत्नमयी महोत्पलैः कृतोपहारेवस वोऽग्रजो जिनः ॥' नमस्कारो यथा रघुवंशे-'वागर्थाविव संपृक्तो वागर्थप्रतिपत्तये । जगतः पि- तरी वन्दे पार्वतीपरमेश्वरौ ।। वस्तुनिर्देशो यथा-'श्रियः पतिः श्रीमति शासितुं जगज- गनिवासो वसुदेवसद्मनि । वसन्ददवितरन्तमम्बराधिरण्यगर्भागभुवं मुनि हरिः ॥' वस्तुप्रतिज्ञातत्प्रयोजनोपक्षेप(न्यास) इति । यथा म्वोपन ऋषभदेवचरितमहाकाव्ये- 'यत्पुप्पदन्तमुनिसेनमुनीन्द्रमुख्यैः पूर्वः कृतं मुकविभिस्तदहं विधित्मः । हास्याय कस्य १. 'काव्य शरीरानुगता' इति नाट्यशास्त्रस्थपाटः. २. 'गभांनिभिन्न' इति नाट्य- शास्त्र. ३. 'श इति स्मृतः' नाट्य ०.
१६ काव्यमाला। ननु नास्ति तथापि सन्तः शृण्वन्तु कंचन ममापि मयुक्तिसूक्तम् ॥' कविप्रशंसा वात्रैव । यथा-'नव्यनव्यक्रमासाद्यानुक्षणं यस्य सूक्तयः। प्रभवन्ति प्रमोदाय कालिदासः स स. स्कविः ॥' सुजनदुर्जनचिन्ता यथा नेमिनिर्वाणे-- 'गुणप्रतीतिः सुजनाज्जनस्य दोषेववज्ञा खलजल्पितेषु । अतः सतो नाप्यसतो निवृत्तिविशेषशाली भवति प्रयत्नः ॥' दुष्करस- गा(चित्रा द्यक्तिकसर्गत्वमिति । यथा-शिशुपालवधे एकोनविंशतितमः सर्गः । स्वाभि- प्रेतवस्त्वङ्कितसर्गान्तमिति । यथा-शिशुपालवधः श्यकः, विष्णुजयो विष्ण्वतः, किरा. तार्जुनीयं लक्ष्म्यम् । चतुर्वर्गफलोपेतमिति । चत्वारो वर्गा धर्मार्थकामलक्षणव्यस्ताः स. मस्ता वा तत्फलसंयुक्तम् । चतुरोदात्तनायकमिति । यथा शिशुपालवधे विष्णुः । नेमि- निर्वाण नेमिः। प्रसिद्धनायकचरितमिति। अनेन प्रकरणादिवत्स्वकल्पितकथावस्तुनिषेधः । नगनगरेत्यादि । तत्र नगवर्णनं किरातार्जुनीयकुमारसंभवादौ । नगरवर्णनं शिशु- पालवधनेमिनिर्वाणादौ । अर्णववर्णनं सेतुबन्धनेमिनिर्वाणादौ । ऋतुवर्णनं रघुवंशहरिवंश- शिशुपालवधादी । चन्द्रोदयास्तसमयवर्णनं शिशुपालवधचन्द्रप्रभचरितादौ । उद्यानजल- केलिमधुपानवर्णनं नंमिनिर्वाणराजीमत परित्यागादौ । मन्त्रदूतसैन्यावासप्रयाणाजिवर्णनं शिशुपालवधविष्णुविजयादी। नायकाभ्युदयवर्णनं विष्णुविजयनेमिनिर्वाणादौ । विवाहव- र्णनं कुमारसंभवादी । विप्रलम्भवर्णनं राजीमतीपरित्यागादी । आश्रमवर्णनं रघुवंशादी। नदीवर्णनं मेघदृतादौ । तत्रैकेन छन्दसा मुक्तकम् । द्वाभ्यां युग्मं संदानितकं च । त्रिभि- विशेषकम् । चतुर्भिः कलापकम् । द्वादशान्तैः कुलकम् । मुबोधम् । गद्यमपादः पदसंतानच्छन्दोरहितो वाक्यसंदर्भः। तत्र नायिकाच्यातस्ववृत्तान्ताभाव्यर्थशंसिनी सोच्छासा कन्यकापहा- रसमागमाभ्युदयभूषिता मित्रादिमुखाख्यातवृत्तान्ता अन्तरान्तराप्रविरलप- घबन्धा आग्व्यायिका। तत्रेति । गये। आख्यायिका हर्षचरितादिः । शेषं सुबोधम् । गद्यपद्यमयं मिश्रम् । तत्र नाटकप्रकरणभाणप्रहसनडिमसमवकारेहामृगोत्सृष्टिकाङ्कव्यायोग- वीथीरूपाण्यभिनेयानि । तत्रेति। मिश्रे। नाटकादीनि दशम्पकाणि । अभिनेयानि। तेषां च भरतमुनिनोपदर्शि- तलक्षणमुपदिश्यते। यथा-'प्रख्यातवस्तुविषयं प्रख्यातोदात्तनायकं चैव । राजर्षितंश्यच. १. नाट्यशास्त्रेऽष्टादशाध्याये.
१ अध्यायः ] काव्यानुशासनम् । रितं तथा च दिव्याश्रयोपेतम् ॥ नानाविभूतिभिर्युतमृद्धिविलासादिभिर्गुणेश्चापि । अङ्कप्रवेशकाट्यं भवति च तन्नाटकं नाम ॥' (प्रकरणं तु-) 'यत्र कविरात्मशक्त्या वस्तु शरीर च नायकं चैव । औत्पत्तिकं प्रकुरुते प्रकरणमिति तद्बुधयम् ॥ यंदनार्षमनाहार्य काव्यं प्रकरोत्यभूत गुणयुक्तम् । उत्पन्नबीजवस्तु प्रकरणमिति तदपि विज्ञेयम् ॥ यन्नाटके मयोक्तं वस्तु शरीरं च वृत्तिभेदाश्च । तत्प्रकरणेऽपि योज्यं सलक्षणं सर्वसंधिपु तु ॥ विप्रवणिक्सचिवानां पुरोहितामात्यसार्थवाहानाम् । चरितं यनककृतं यत्प्रनयं प्रकरणं नाम ॥ नोदात्तनायककृतं न दिव्यचरितं न राजसंभो. गः । वाह्यजनसंयुतं तत्प्रज्ञेयं प्रकरण नाम ॥ दामविटष्टियुतं वेशम्युपचारकारणोपेतम्। मन्दस्त्रीकुलचरितं काव्यं कार्य प्रकरणे तु ॥' (भाणम्तु-) 'आत्मानुभूतशंसी परशंसन- वर्णनायुक्तश्च । विविधाश्रयो हि भाणो विज्ञेयस्त्वेकहायश्च ॥ परवचनमान्मसंस्थैः प्रतिव- चनम्त्तरोत्तरग्रथिनः ॥आकाशपुरुपकर्थितरङ्गविकाररभिनयेच ॥धर्तविटसंप्रयोज्यो नाना- वस्थान्तरात्मकश्चैव । एकाङ्को बहुचेष्टः सततं कार्यों बुधर्माणः ॥' (प्रहसनं तु----) प्रहस- नमपि विज्ञयं द्विविधं शुद्धं तथा च संकीर्णम् ।। वक्ष्यामि तयोर्युक्त्या पृथक्पृथग्लक्षण. विशेषम् ॥ भगवत्तापसविप्रैरन्यैरपि हामवादसंबद्धम् । कापुरुषसंप्रयुक्तं परिहासाभाषण- प्रायम् ॥ अविकृतभाषाचारं विशेषभावोपपन्नचरितमिदम् ॥ नियतगतिवस्तुविषयं शुद्धं ज्ञेयं प्रहसनं तु ॥ वेश्याचेटनपुंसकविटा बन्धकी च यत्र स्युः । अनिभृतवेषपरिच्छदचेष्टि- तकरणं च मंकीर्णम् ॥' (डिमस्तु-) 'प्रख्यातवम्तुविषयः प्रख्यातोदात्तनायकश्चैव । पंड्सलक्षणयुक्तश्चतुरको वै डिमः कार्यः ॥ शृङ्गारहास्यवयं शेषैरन्यै रसैः समायुक्तः । दी- सरमकाव्ययोनिनानाभावोपसंपन्नः ॥ निर्घातोल्कापतिरुपरागणेन्दुसूर्ययोयुक्तः । युद्धनियु- द्धाधर्षणसंस्फोटकृतश्च विज्ञयः ॥ मायेन्द्रजालबहुलो बहुँसुप्तोत्थानयोगयुक्तश्च । देवभुज- गेन्द्रराक्षमयक्षपिशाचावकीणश्च । षोडशनायकबहुल: सात्वत्यारभटिवृत्तिसंपूर्णः ॥ कार्यो डिमःप्रयत्नानानाश्रयभावसंयुक्तः॥'समवकारस्तु-'देवामुरवीजकृतः प्रख्यातोदात्तना. यकश्चैव । व्यङ्कस्तथा त्रिकपटस्त्रिविद्रवः स्यात्रिशृङ्गारः॥ द्वादशनायकबहुलो ह्यष्टादशनायि- काप्रमाणश्च ॥' इति । (ईहामृगस्तु-) 'दिव्यपुरुषाश्रयकृतो दिव्यस्त्रीकारणोपगतयुद्धः । सुविहितवस्तुनिबद्धो विप्रत्ययकारणश्चैव ॥ उद्धतपुरुषप्रायः स्त्रीरोषग्रथितकाव्यबन्धश्च । संक्षोभविद्वकृतः संस्फोटकृतस्तथा चैव ॥स्त्रीभेदनोपहरणावमदनप्राप्तवस्तुशृङ्गारः। ईहा- मृगस्तु कार्यः मुसमाहितकाव्यवन्धश्च ॥ यथायोगे कार्य ये पुरुषा वृत्तयो रसाश्चैव । ईहा- मृगेऽपि यत्स्यात्केवलमत्र स्त्रियो योगः ॥' (उत्सृष्टिकाङ्कस्तु-) 'वक्ष्याम्यतःपरमहं लक्षणमुत्सृष्टिकाङ्कस्य । प्रख्यातवस्तुविषयस्त्वप्रख्यातः कदाचिदेव स्यात् ॥ दिव्यपुरुषर्वि- .. १ .. १. 'यदनर्थमपाहाय' 'यदनायकहायकार्यम्' इति वा नाट्यशास्त्रे. २. 'कुरुते प्रभूत' नाट्य०. ३. 'प्रयोगे' नाट्य ०. ४. विशेषेषु' नाट्य ०. ५. द्विविधा' नाट्य ०. ६. 'संस्थं' नाट्य०. ७. 'पदम्'नाट्य ०.८. षड्विंशल्लक्षणयुक्त'नाट्य ०.९.'कर्तव्यः'नाट्य०.१०. 'बहु- पुरुषोत्थानयुक्तश्च' नाट्य ०. ११. 'संपन्नः' नाट्य०. १२. 'श्चतुरङ्कविभूषितश्चैव' नाट्य०.
काव्यमाला। युक्तः शेपैरन्यैर्भवेत्पुभिः । करुणरसप्रायकृतो निवृत्तयुद्धोद्धतप्रहारश्च ॥ स्त्रीपरिदेवितबहुलो निर्देवितभाषितश्चैव । नानाव्याकुलचेष्टः सात्वत्यारभटिंकशिकीहीनः ॥ कार्यः काव्यवि- विज्ञः सततं ह्यत्सृष्टिकास्तु ॥' (व्यायोगस्तु-) 'व्यायोगस्तु विधिज्ञैः कार्यः प्रख्यातना- यकशरीरः । अल्पत्रीजनयुक्तस्त्वेकाहकृतस्तथा चैव ॥ बहवश्च तत्र पुरुष्पा व्यायच्छन्ते यथा समवकारे । न तु तत्प्रमाणयुक्तः कायस्वेकाङ्क एवायम् ॥ न च दिव्यनायककृतः कार्यो राजर्षिनायकनिबद्धः । युद्धनियुद्धाधर्पणसंघर्पकृतश्च कर्तव्यः ॥ एवंविधस्तु कार्यो व्यायोगो दीप्तकाव्यरसयोनिः॥ (वीथीतु-) सर्वस्मलक्षणाच्या युक्ता ह्यस्त्रियोदशभिः। वाथी स्यादेकाका तर्थकहाया द्विहार्या वा ॥' नाटकमंदानाटिका । यदाह---'प्रकरणनाट- कभेदादुत्पाद्यं वस्तु नायक नृपतिम् । अन्तःपुरसंगीतककन्यामधिकृत्य कर्तव्या । स्त्री- प्राया चतुरझा ललिताभिनयात्मका सुविहिताही । वहुनृत्यगीतवाद्या रतिसंभोगात्मिका चैव॥राजोपचारयुक्ता प्रसादनक्रोधदम्भसंयुक्ता । नायकदेवीदृतीयपरिजना नाटिका झंगा।' एवं प्रकरणभेदात्प्रकरणिकापि विज्ञया । सट्टकोऽपि कथिदुक्तः। तद्यथा-'विष्कम्भकस्त्वं. करहितो न्यस्त्वेकभाषया भवति । अप्राकृत संस्कृतया स सट्टको नाटिकाप्रतिमः ॥' गेयं विभजते-- डोम्बिकाभाणप्रस्थानमाणिकाप्रेरणशिङ्गकरामाक्रीडहल्लीसकश्रीगदित- रासकगोष्ठीप्रभृतीनि गेयानि । पदार्थाभिनयस्वभावानि डोम्बिकादोनि गेयानि रूपकाणि चिरंतनरुक्तानि । तद्यथा-- 'छन्नानुरागगर्भाभिरुक्तिभिर्यत्र भूपतः । आवर्यते मनः सा तु मम्णा डोम्बिकामता ।। नृमिहशूकरादीनां वर्णनं जल्पयद्यतः। नर्तकी तेन भाणः म्यादुद्धता प्रवर्तितः॥ गजादीनां गति तुल्यां कृत्वा प्रसवनं तथा । अल्पविद्धं सुमसृणं तत्प्रस्थानं प्रचक्षते ॥ वालकी- डानियुद्धादि तथा शुकरसिहजा। धवलादिकृता क्रीडा यत्र सा भाणिका मता ॥ हा. स्यप्राय प्रेरणं तु स्यात्प्रहेलिकयान्वितम् । सख्याः समक्षं पत्युर्यदुद्धृतं नृत्तमुच्यते ॥ ममणं च क्वचितचरितं शिङ्गकस्तु सः । ऋतुवर्णनसंयुक्तं रामाक्रीडं तु भाष्यते ॥ मण्डलेन तु यन्नतं हल्लीसकमिति स्मृतम् । एकसूत्रं तु नंता स्याद्गोपस्त्रीणां यथा हरिः ॥ यस्मिन्कुलाशना पत्युः सव्यग्रे वर्णयद्गुणान् । उपालम्भं च कुरुते गये श्रीग- दितं तु तत् ॥ अनेकनर्तकीयोज्यं चित्रताललयान्वितम् । आचतुःषष्टियुगलाद्रासकं ममृणोद्धते ॥ गोष्ट यत्र विहरतश्चेष्टितमिह फैटभद्विषः किंचित् । रिष्टामुरप्रमथनप्रभृति त- दिच्छन्ति गोष्टीति ॥' धीरप्रशान्तनायकोपेता गद्यन पद्येन वा सर्वभाषानुविद्धा कथा । आख्यायिकावन्न स्वचरितव्यावर्णकोऽपि तु धीरशान्तो नायकः। तस्य तु वृनमन्येन क- विना यत्र वर्ण्य सा काचिद्गद्यमयी कादम्बरीवत् । काचित्पद्यमयी लीलावतीवत् । स- भाषानुविद्धा संस्कृतप्राकृतेन मागध्या सारसैन्या शच्या अपभ्रंशेन वा रचिता कथा ॥ - २ अध्यायः ] काव्यानुशासनम् । १ गद्यपद्यमयी साका सोच्छासा चम्पः । यान्यनानि खनाम्ना परनाम्ना वा करोति कविः तैर्युक्ता उच्छासनिबद्धा चम्पूः । यथा वासवदत्ता दमयन्ती वा ॥ इति महाकविश्रीवाग्भटविरचितायामलंकारतिलकाभिधानखोपज्ञ- काव्यानुशासनवृत्तौ प्रथमोऽध्यायः। द्वितीयोऽध्यायः । 'निर्दोषौ शब्दार्थों काव्यम्' इत्युक्तम् । तत्र शब्ददोषानाह- निरर्थकनिर्लक्षणाश्लीलाप्रयुक्तासमर्थानुचितार्थश्रुतिकटुक्लिष्टाविमृष्टविधे- यांशविरुद्धबुद्धिकृन्नेयार्थनिहतार्थाप्रतीतग्राम्यसंदिग्धावाचकत्वानि शब्द- दोषाः पदे वाक्ये च भवन्ति । तत्र- प्रकृतानुपयोगि निरर्थकम् । पदे यथा-'उत्फुल्लकमलकेसरपरागगौराते मम हि गौरि । अभिवाञ्छितं प्रसि- ध्यतु भगवति युप्मत्प्रसादेन ॥' अत्र हिशब्दो निरर्थकः । पादकदेशोऽपि पदमेव । तनिरर्थकत्वमुदाहियते । यथा-'आदावन्चनपुग्नलिप्तवपुपां श्वासानिलोल्लासितप्रोत्सर्प- द्विरहानलेन च ततः संतापितानां दृशाम् । संप्रत्येव निषकमश्रुपयसा देवस्य चेतोभुवो भल्लीनामिव पानकर्म कुरुते कामं कुरजक्षणा ॥' अत्र कुरशक्षणेत्येकवचनात् दृशामिति बहुवचनं निरर्थकम् । वाक्ये यथा--'वल्यरिक्रत्वरी पातां साम्वुव्यम्बुधनोपमा । सदृशो काकबकाभ्यां च वै हि तु च वै हि तु ॥' तच्च मत्तोन्मत्तबालाद्युक्तौ विशेषतो रम्यम् । तत्र पैश्वर्यबलरूपतपोवयःश्रुतादिभेदैर्मदोऽनेकधा भवति । तत्रैश्वर्यमदो यथा---'एहि गच्छ बतोत्तिष्ठ वद मौनं समाचर । एवमाशाग्रग्रस्तः क्रीडन्ति धनिनोऽभिः ॥' एवमन्यदप्युदाहायम् ॥ शब्दानुशासनच्छन्दोऽनुशासनादिलक्षणरहितं निर्लक्षणम् । शब्दानुशासनरहितं पदे यथा माघस्य 'संमूर्च्छदुच्छृङ्खलशङ्खनिःस्वनःस्वनुप्रयाते पट- हस्य शाझिणि । सत्वानि निन्ये नितरां महान्त्यपि व्यथां द्वयेषामपि मेदिनीभृताम् ॥' अत्र 'द्वयेपाम्' इति न प्राप्नोति । द्वयानामिति भवति । कालिदासस्य यथा-'दिशि मन्दायते तेजो दक्षिणस्यां रवेरपि । तस्यामेव रघोः पाण्ड्याः प्रतापं न विपहिरे ॥' अत्र पाण्ड्या इति बहुवचने तद्धितप्रत्ययलोप पाण्डव इति प्राप्नोति । तथा—'तेनाभिघातरभयस्य विकृप्य पत्री,वन्द्यस्य नेत्रविवरे महिषस्य मुक्तः । निभिन्नविग्रहमशोणितलिप्तगात्रस्तं पातयां प्रथममास पपात पश्चात् ॥' अत्र पातयामासेति अव्यवधानेन प्रयोगः प्राप्नोति । भारवेर्यथा-'उन्मज्यच्छफर इवामरापगाया वेगेन प्रतिमुखमेत्य बाणनद्याः । गाण्डीवी २० काव्यमाला। - " , कनकशिलानिभं भुजाभ्यामाजघ्नं विषम विलोचनस्य वक्षः ॥' अत्र आजन्ने इति आत्मने- पदं न प्राप्नोति । हन्तेः स्वाङ्गकर्मकत्वाभावात् । त्रिविक्रमस्य यथा-'सरित इव गावः पीवरोधसः' अत्र पीवरोध्न्य इति प्राप्नोति । शीताया यथा-'मा भैः शशाङ्क: मम सीधुनि नास्ति राहुः खे रोहिणी वसति कातर किं बभाषे । प्रायो विदग्ध- वनिता नवसंगमेषु पुंसा मनः प्रचलतीति किमत्र चित्रम् ॥' अत्र मा भषीरिति प्राप्नोति । वाक्ये यथा-'प्रदत्तं नैव यः वायविभवस्फीतमानतः । तपो न तपितं किचित्तपां जन्मस्य किं फलम् ॥' अत्र प्रदत्तस्थाने प्रत्तमिति, स्वीयस्थाने स्वकीयमिति, स्फीतस्थाने स्फातिरिति, तपितस्थाने तप्तमिति, जन्मस्येति स्थाने जन्मन इति प्राप्नोति । छन्दो- ऽनुशासनलक्षणरहितं पदे यथा-'कुरझाक्षीणां गण्डतलफलके स्वदविगरः' इति शिखरिणीछन्दसि पंछ यति नियता सा नास्ति । वाक्ये यथा... 'अपि पक्ष्यांस मांधमा- श्रितामविरलममनोमालभारिणीम् । अत्र तालीयसमपाद पडलघवो निरन्तरा न म्युः। अयं च सर्वः प्रपञ्चः धावाग्भटाभिधानखोपच्छन्दोनुशासने प्रश्चित इति नात्रांच्यते ।। अनुकरणे न दोपः । 'नृपाभिपके मदांवबलाया हस्तास्युतो हेमघटोऽवलायाः । सोपानप या पतितः करोति ट ट ठ ठंटंट टटटटटः ॥' त्रीडाव्यञ्जकममङ्गलव्यञ्जकं जुगुप्साव्यञ्जकं चेति त्रिधाश्लीलम् । तत्र त्रीण्यनुक्रमेण पदे यथा-'मनापिताः सन्ति गृहेऽपि देवतास्तपः क्व वत्से व च तावकं वपुः । पदं सहेत भ्रमरम्य पलवं शिरायपुप्पं न पुनः पतत्रिणः ॥' 'दग्धोत्तीर्णसुवर्ण- वर्णरुचिरच्छायं वसानोऽम्बरं भाम्वत्कौस्तुभकान्तिकबुरतरत्राजिष्णु वक्षःस्थलम् । शङ्ख चक्रमसिं गदामविरतं बिभ्रचतुर्भिः कर रारूटो गरुडं नवीनजलदश्यामो हरिः पातु वः ॥' 'प्रासादानामुपरि वलभीजालबानायनेपु धान्यावृत्तः परिणतमुरागन्धसंभारगर्मः । माल्यामोदी मुहुरुपचितः स्फारकपुरवासा वायुयूनामिमतवधूसंनिधानं व्यक्ति ॥' अत्र पलवदग्धवायुशब्दाःक्रमेण ब्रीडामलजुगुप्साव्य जका: । त्रीण्यप्यनुक्रमण वाक्ये यथा- 'भूपतेरुपसपंन्ती कम्पना वामलोचना । तत्तत्प्रणनोत्साहवती मोहनमादधौ ॥' 'पितृ- वसतिमहं व्रजामि तां सह परिवारजनेन यत्र मे । भवति सपदि पावकान्वयं हृदयमशेषि- तशोकशल्यकम् ॥' 'य विमुच्यापि वाञ्छन्ति भोगाअनव्रतस्थिताः । छदित तं सम- श्वन्ति विष्टामपि कुबुद्धयः ॥' अत्रोपसर्पणप्रह्णनमोहनशब्दास्तथा पितृवसतिपावकाशे- षितशल्यशब्दाश्छदितावष्ठादिशब्दाश्च ब्रीडामहलजुगुप्साव्य अकाः ॥ शान्तविदूषकायुक्तौ न दोषः। शान्तोक्तो यथा-'उत्तानोच्छ्नमण्डकपाटितोदरसंनिभे । क्लेदिनि स्त्रीबणे सक्ति. रकृमेः कस्य जायते ॥' एवमन्यदपि ॥ कविभिरनादृतत्वादप्रयुक्तम् । यथा-'शीत चोष्णपटी न चाग्निशकटी नापि द्वितीयापटी जीणा पर्णकुटी न तन्दु- .. 2 २ अध्यायः ] काव्यानुशासनम् । २१ लपुटी भूमौ च धृष्टा कटी । वृत्तिनारभटी प्रिया न गुमुटी सौख्यं न चैका घटी भूयाद्भूप तव प्रसादकरटी भङ्गं ममापत्तटी ॥' अत्र गुमुटीति देश्यत्वादप्रयुक्तम् । यदाह-'प्र- कृतिप्रत्ययमूला व्युत्पत्तिर्यस्य नास्ति देश्यस्य । तन्मडहादिकथंचिन्न रूढिरिति संस्कृते रचयेत् ॥' वाक्ये यथा-'धत्ते तेजोभिराधिक्यं दैवतोऽयं सहस्रगुः' । अत्र दैवतशब्दः पुंलिङ्गे कथितोऽप्यप्रयुक्तः । सहस्रगुरिल्यादित्य इत्यपि अप्रयुक्तम् ॥ देश्यानां प्राकृताद्युक्तौ मुग्धोक्तौ च न दोषः । तत्र प्राकृते यथा-'जुन्हा ऊरियको सकंति धवले सव्वंगगंधुकडे णिव्विग्धं घरदीहि- यासु सरम बंबंत ओमासलम् । आसाए इमुमंजुगुंजियरवो तिगिछिपाणासवं उम्मिलन्तद- लावलीपरिगऊ चंदुजए छप्पड ॥' अत्र तिगिछि मकरन्द इति देश्यः । मुग्धोक्ती यथा-'देव स्वस्ति वयं द्विजास्तत इतः स्नानेन निष्कल्मपाः कालिन्दीसुरसिन्धुमङ्गपयसि स्नातुं समर्माहामहे । तद्याचेमहि सप्तविष्टपगुचीभावकतानव्रतं संयच्छम्व यशः सितासि. तपयोभेदाद्विवेकोऽस्तु नः ॥' अत्र स्वस्तीनि मुग्धस्यैव ब्राह्मणस्योक्तौ न दोषः ॥ श्लेषे चाप्रयुक्तमपि प्रयोक्तव्यं न दोषः । यथा—'येन ध्वस्तमनोभवेन वलिजित्कायः पुरास्त्रीकृतो यश्चोवृत्तभुजंगहारवलयो- गङ्गां च योऽधारयत् । यस्याहुः शशिमच्छिरो हर इति स्तुत्यं च नामामराः सोऽव्यादि- टभुजंगहारवलयस्त्वां सर्वदो माधवः ॥' तदर्थप्रतिपादनाक्षममसमर्थम् । तत्पदे यथा-'राजेन्द्र भवतः कीर्तिश्चतुरो हन्ति वारिधीन्' । अत्र हन्तीति पदं ग- मनार्थे पठितमपि प्रतिपादनायासमर्थम् । वाक्ये यथा-'नद्यां हत्वा वस्त्रं धावतीति । अत्र हन्तिशब्दो व्याख्यातः । धावतीति शुद्ध्यर्थे पठितमपि तत्प्रतिपादनायासमर्थम् ॥ अनौचित्येन प्रयुक्तमनुचितार्थम् । पदे यथा-'यः प्राप निवृति क्लेशाननुभूय भवाणवे । तस्मै विश्वकमित्राय त्रिधा ना- भिभुवे नमः ॥' अत्र क्लेशाननुभूयेति जिनपतिं प्रत्यनुचितम् । वाक्ये यथा-सा जयइ कूडवरडो सिद्धनरिंदो धराइसयला । इच्छित्तणरायवंसे एकच्छत्तं कयं जेण ॥' तच्च निन्दायां प्रोत्साहने च न दुष्टम् । यथा-'चतुरसखीजनवचनैरतिवाहितवासरा विनोदेन । निशि चण्डाल इवायं मार- यति वियोगिनीश्चन्द्रः ॥' प्रोत्साहने यथा-'विशन्तु वृष्णयः सर्वे रुद्रा इव महौजसः॥' पुरुषवर्ण ( यथा) श्रुतिकटु । पदे यथा-'नियतिकृतनियमरहितां हादैकमयीमनन्यपरतन्त्राम् । नवरसरुचिरां नि- वृतिमादधती भारती कवेर्जयति ॥' अत्र ह्रादेति श्रुतिकटु । वाक्ये यथा-'व्यप्रै- रम्यग्रहेन्दुप्रसनगुरुभरनों समग्ररुदप्रैः प्रत्यप्रेरीषदुमेरुदयगिरिगतो गोगणेगौरयन्गाम् । का.४ २२ काव्यमाला। गुणः । उद्गाढार्चिविलीनामरनगरनगं प्रावगर्भामिवाहामग्रऽग्रे यो विधत्ते ग्लपयतु गहनं स ग्रहग्रामणीवः ॥ वीररौद्रबीभत्सेषु सिंहादिवर्णनेषु च विशेपतो गुणः । तत्र वीररौद्रबीभत्सानामुदाहरणं रसाध्याये । सिंहादिवर्णने यथा--'मातङ्गाः किमु वल्गितैः किमफलराडम्बरेजम्बुकाः सारंगा महिषा मदं त्यजत रे शून्येषु शूरा न के। कोपाटोपसमुद्भटोत्कटसटाकोटेरिभारेः शनः सिंहध्वानिनि हुंकृते स्फुरति यत्तद्गार्जितं गर्जितम् ॥ व्यवहितार्थप्रत्ययजनकं क्लिष्टम् । पदे यथा---'मध्येसमुद्रं ककुभः पिशङ्गीया कुर्वती काञ्चनवप्रभासा । तुरङ्गकान्तामु- खहव्यवाहज्वालेव भित्त्वा जलमुल्ललास ॥' वाक्ये यथा-'मानसीक:पतद्यानदेवासन- विलोचनः । तमोरिपुविपक्षारिः प्रियं दिशतु वो जिनः ॥' झगित्यर्थापकत्वे [ यथा-] 'एतावता नन्वनुमेयशोभि काचीगुणस्थानमनिन्दितायाः । आरोपितं य- द्विरिशेन पश्चादनन्यनारीकमनीयमहम् ॥' अत्र काचीगुणस्थानं जघनमिति प्रसिद्धम् ॥ यत्र विधातुमर्होऽशो न प्राधान्येन परामृष्टस्तदविमृष्टविधयांशम् । तत्पदे यथा-'वस्तां नितम्बादवलम्बमानां पुनः पुनः केसरपुष्पकाञ्चीम् । न्यासी- कृतां स्थान विदा स्मरेण द्वितीयमौर्वी मिव कार्मुकम्य ॥' अत्र मौवीं द्वितीयामिवेति यु- क्तम् । वाक्ये यथा- शय्या शार्लमानसं शुचि शिला सञ द्रुमाणामधः शातं निझर- वारि पानमशन कन्दा: सहाया मृगाः । इलप्रार्थितसर्वलभ्यविभव दोषोऽयमको वने दुष्प्रापार्थिनि यत्परार्थघटनावद्ध्यवृथा स्थीयते ॥' अत्र शाद्वलं शय्येति विध्य नुवादी । विधेयो यथा--'विक तारवी निवसनं मृगचर्म शय्या गेहं गुहा विपुलपत्रपुटा घटाश्च । मूलं दलं च कुसुमं च फलं च भोज्यं पुत्रस्य जातमटवीगृहविनस्ते ॥' विपरीतार्थप्रतिभासकं विरुद्धबुद्धिकृत् । यथा-'चतुर्मुखमुखाम्भोजवनहंसवधूर्मम । मानसे रमतां नित्यं सर्वशुक्ला सरस्वती ॥, अत्र मम वधूरिति विरुद्धां बुद्धि जनयति । वाक्यं यथा-'अनुत्तमानुभावस्य परैरपि- हितोजसः । अकार्यमुहृदोऽम्माकमपूर्वाश्चित्तवृत्तयः ॥' अत्रापकृष्ट च्छादितमकार्येषु मित्र- पूर्वी यासां ता अकीर्तय इति विरुद्धां बुद्धिमुत्पादयति ।। लक्षितोऽर्थो यत्र ज्ञायते तन्नेयार्थम् । पदे यथा-'नवकुमुदवनश्रीहासकेलिप्रसङ्गादधिकरुचिरशेषामप्युषां जागरित्वा । अ- यमपरदिशोऽके मुञ्चति स्रस्त हस्तः शिशयिपुरिव पाण्डुम्लानमात्मानमिन्दुः ॥' अत्र ह- स्तशब्देन केरा लक्ष्यन्ते । तेन चः किरणा इति नेयार्थत्वम् । वाक्ये यथा-'सपदि पति- विहंगमनामभृत्तनयसंवलितं बलशालिना। विपुलपर्वतवपिशितैः शरैः प्लवगसैन्यमुलूकजि- २ अध्यायः ] काव्यानुशासनम् । २३ ताजितम् ॥' अत्र पट्टिविहंगमनामभृद्दशरथः । उलूकः कौशिकस्तेन चेन्द्रशब्दो ल- क्ष्यते । इन्द्रजितेत्यर्थः ॥ उभयार्थवाचकमप्यप्रसिद्धेऽर्थे प्रयुक्तं निहतार्थम् । पदे यथा-'यावकरसाद्रपादप्रहारशोणितकचेन दयितेन । मुग्धा साध्वसतरला वि- लोक्य परिरभ्य चुम्बिता सहसा ॥' अत्र शोणितशब्दो रुधिरे प्रसिद्धः । वाक्ये यथा- सायकसहायवाहोर्मकरध्वजनियमितक्षमाधिपतेः । अब्जरुचिभास्वरस्ते भातितरामव- निप श्लोकः ॥' सायकशब्दः खड्गपर्यायः शरे प्रसिद्धः । मकरध्वजशब्दो जलधिपर्यायः कन्दर्प प्रसिद्धः । क्षमाशब्दो भूपर्यायः क्षान्तो प्रसिद्धः । अब्जशब्दश्चन्द्रपर्यायः पझे प्रसिद्धः । श्लोकशब्दः कीर्तिपायोऽनुष्टुभि प्रसिद्धः ॥ अप्रतीतमागमादेव प्रसिद्धम् । पदे यथा-'भान्ति धर्मगजालानस्तम्भविभ्रमकारिणः । चतमृप्वपि काटासु मान- स्तम्भा महोच्छ्याः ॥' अत्र मानस्तम्भशब्दो जनागमे प्रसिद्धः । वाक्ये यथा-'पञ्चा- णुव्रतानि गुणास्त्रयः शिक्षाव्रतानि च । चत्वारि म्युर्गृहस्थानां शुद्धसंपत्कयोगतः ॥' अ- त्राणुव्रतादीनि जैनागमे प्रनिदानि । असा तु स्वदर्शनोक्ता विशेषतो गुणः ।। ग्राम्यमविदग्धजनोक्तिः । पदे यथा-'राका विभावरीकान्तसंक्रान्तद्युति ते मुखम् । तपनीयशिलाशोभा कटिश्च हरते मनः ॥' अत्र कटिरिति ग्राम्यम् । वाक्ये यथा---'ताम्बूलभृतगल्लोऽयं भलं ज- त्पति मानवः । करोति खादनं पानं संदेव तु यथा तथा ॥' तञ्च विदूपकमुग्धादिजल्पिते विशेषतो रम्यम् । -'फुलकर कलमकूरसमं वहति जे सिदुवारविडवा मह वल्हा दे । ये गालिदस्स महिसीदहिणो सरिच्छा ते किं च मुद्धवियइल्लपसूणपुंजा ॥' अन्यार्थप्रतिभासनेन [ यत् ] संशयकृत्तत्संदिग्धम् । पदे यथा-'न संयतम्तस्य बभूव रक्षितुर्विसर्जयेद्यं सुतजन्महर्षितः । ऋणाभिधाना- त्वयमेव केवलं तदा पितॄणां मुमुचे स बन्धनात् ॥' अत्र ‘संयतशब्दो बद्धपर्यायः, उत संयमितपर्यायः' इति संदिग्धम् । वाक्ये यथा-'सुरालयोल्लासपरः प्राप्तपर्याप्तकम्पनः । मार्गणप्रवणो भावद्भतिरेष विलोक्यताम् ॥' अत्र सुरालयकम्पनमार्गणभूतिशब्दाः संदि- ग्धाः । वक्रोक्तौ गुणः । यथा-'अभिधाय तथा तदप्रियं शिशुपालोऽनुशये परं गतः। भवतोऽभिमनाः समीहते सरुषः कर्तुमुपेत्य माननाम् ॥' अत्रानुशयः कोपः, पश्चात्तापश्च । १. कर्पूरमजयामेकोनविंशस्यास्य च्छाया यथा--'पुष्पोत्करं कलमकूरसमं वहन्ति ये सिन्दुवारविटपा मम वल्लभास्ते । ये गालितस्य महिपीदनः सदृक्षास्ते किं च मुग्धविच- किलप्रसूनपुजाः ॥ यथा- .
२४ काव्यमाला। . अभिमना निर्भीकमनाः, उत्कण्ठितश्च सरुषः सरोषस्य स शिशुपालो रुषो मानना- मिति च ॥ इष्टार्थप्रतिपादनाक्षममवाचकम् । पदे यथा--'जङ्घाकाण्डोरुनालो नख किरणलसत्केसरालीकरालः प्रत्यग्रालतकाभाप्र. सरकिसलयो मञ्जुमञ्जीरहंसः । भर्तुनृत्यानुकारे जयति निजतनुस्वच्छलावण्यवापीसं- भूताम्भोजशोभां विदधदभिनवो दण्डपादो भवान्याः ॥' अत्र दधदित्यर्थे विदधदित्यवाच- कम् । विपूर्वो हि दधातिः करोत्यर्थे वर्तते । यदाह-'उपसर्गेण धात्वर्थो बलादन्यत्र नीयते' । यथा च-'उद्गजज्जलकुजरेन्द्ररभसास्फालानुबन्धोद्धतः सर्वाः पर्वतकन्दरोदर- भुवः कुर्वन्प्रतिध्वानिनीः । उच्चैरुच्चरतिध्वनिः श्रुतिपथोन्माथी यथायं तथा प्रायः प्रेक- दसंख्यशङ्खधवला वेलेयमागच्छति ॥' अत्र ध्वनिशब्दो गीतादौ प्रसिद्धः । समुद्रे तु ग- र्जितमेव । यदाह-'ध्वनितं मृदङ्गादिषु, गर्जितं मेघसमुद्रादिषु, रणितं वलयादिषु, क्वणितं वीणादिषु, शिजितं नूपुरादिपु, मणितं मुरतादिषु, कृजितं विहंगादिपु, बृंहितं वारणेषु, हेषितं हयेषु, आरवः पटहेषु. देकृतं वृषभेषु, वो मण्ड केषु, नादः सिंहेषु, फूत्कारः स- पेंषु, बूत्कारः कपिपु, धूकारो घूकेषु, चटत्कारोऽग्निस्फुलिङ्गपु. कटत्कारो भङ्गेपु, सू. कारः सायकेषु, गुजाकारो भृङ्गेषु, घमघमारवो धघरेषु, भाङ्कारो भेरीषु, केकारवः क. लापिषु, सीत्कार: कामिनीषु, झङ्कारः किङ्किणीपु, टड्कारो मौवापु, भात्कारो झलरीपु, घोषो नदीवीचिघु, प्रसिद्धो नान्यत्र । तद्यथा प्रसिद्धं तत्तथैव वनीयात् । अन्यथा त्ववाच- कत्वदोषः । वाक्ये यथा-'विभजन्ते न ये भूपमालभन्ते न ते श्रियम् । आवहन्ते न ते दुःखं प्रस्मरन्ति न य प्रियाम् ॥' अत्र विपूर्वी भजिविभागे, न सेवने । आइपूर्वो लभिविनाशे, न प्रापणे । आपा वहिः करोत्यर्थ, न धारणे । प्रपूर्वः स्मरतिर्विस्मर- णेऽर्थे, न तु स्मरणे इति ॥ न्यूनपदाधिकपदोक्तपदास्थानस्थपदपतत्प्रकर्षसमाप्तपुनरात्ताविसर्गसंकी- गर्भितभग्नप्रक्रमानन्वितार्थान्तरैकवाचकाभवन्मतयो योगादयो वाक्यदोषाः। . . . तत्र- विश्लेषेऽश्लीलत्वे कष्टत्वे च संधिवैरूप्यं विसंधिः । विश्लेषे यथा-'राजन् विभान्ति भवतश्चरितानि तानि इन्दोद्युतिं दधति यानि रसा. तलान्तः। धीदोर्बले अतितते रचितार्थवृत्ती आतन्वती विजयसंपदमत्र भातः ॥' अश्ली- लत्वे यथा-'विरेचकमिदं नृत्तमाचार्याभासयोजितम् । चकाशे पनसप्रायः पुरी षण्डम- हाद्रुमैः ॥' अत्र विरेचकशेपपुरीषशब्दा अश्लीलाः । कष्टत्वे यथा-'उर्व्यसावत्र ता- लीगर्वन्ते चार्ववस्थितिः । नात्रर्जु युज्यते गन्तुं शिरो नमय तन्मनाक् ॥' १. 'विसंधि' इति पाट आदौ त्रुटितो भवेत्.
२ अध्यायः ] काव्यानुशासनम् । २५ - अवश्यवाच्यस्यानभिधाने न्यूनपदम् । यथा-'अन्येषु जन्तुषु रजस्तमसावृतेषु विश्वस्य धातरि समः परमेश्वरेऽपि । सोऽयं प्रसिद्धविभवः खलु चित्तजन्मा मा लज्जया तव कथंचिदपह्नुतिर्भूत् ॥' विश्वस्य धात- रीत्यत्र चशब्दो युज्यते । स नास्तीति न्यूनपदत्वम् । 'परमेश्वरे च' इति तु पाठे युक्तम् । तथात्रैव 'मा लज्जया तव कथंचिदपह्रतिभूत्' इत्यत्र खाभिप्रायस्येति न्यूनम् ॥ विक्लवाद्युक्तौ न दोषः। यथा-'गाढालिङ्गनवामनीकृतकुचप्रोद्भूतरोमोद्गमा सान्द्रस्नेहरसातिरेकविगलच्छ्रीम. नितम्बाम्बरा । मा मा मानद माति मामलमिति क्षामाक्षरोल्लापिनी सुप्ता किं नु मृतानु किं मनसि मे लीना विलीनाथवा ॥' तद्विनाप्यर्थावगमेऽधिकपदम् । 'दलत्कन्दलभाग्भूमिः सनवाम्बुदमम्बरम् । वाप्यः फुल्लाम्बुजयुजो जाता दृष्टिविषं मम ॥' अत्र भजिः सशब्दो युजिश्चाधिकः । एतद्विनाप्यर्थावगतेः । यथा च-'बिस- किसलयच्छेदपाथेयवन्तः' । अत्र ‘मत्व याद्वरं बहुव्रीहिः' इति मत्वर्थीयोऽधिकः । पाथेया इति तु युक्तम् ॥ एकस्य पदस्य द्विस्त्रिरभिधानमुक्तपदम् । 'नैकं पदं द्विः प्रयुजीत' इति कविसमयः । 'सामोपायनयप्रपञ्चपटवः प्रायेण ये भीरवः शूराणां व्यवसाय एव हि परं संसिद्धये कारणम् । उद्गर्जद्विकटाटवीगजघटापीठै. कसंचूर्णनव्यापारकरसम्य सन्ति विजये सिंहस्य के मन्त्रिणः ॥' अत्रैकशब्दः ॥ लाटानुप्रासे गृहीतमुक्तके विहितानुवादे च गुणः । तत्र लाटानुप्रासे यथा-'चोलः क्रोधं पयोधेर्विशति निविशते रन्ध्रमान्ध्रो गिरीणां कर्णाटः पट्टवन्धं भजति न भजते गुर्जरो निर्भराणि । चेदिलीलायतेऽसौ क्षितिपतितिलक: कान्यकुब्जः सकुब्जो भोज त्वत्तत्रमात्रप्रसररसभयव्याकुलो राजलोकः ॥' गृहीतमुक्तके यथा-'जयति क्षुण्णतिमिरस्तिमिरान्धकवल्लभः । वल्लवी(भी)कृतपूर्वाशः पूर्वाशातिलको रविः ॥' विहितानुवादे यथा-'निद्रव्यो ह्रियमेति ह्रीपरिगतः प्रभ्रश्यते तेजसा निस्तेजाः परिभूयते परिभवानिर्वेदमागच्छति । निर्विण्णः शुचमेति शोकविकलो बुद्ध्या परिभ्रश्यते निर्बुद्धिः क्षयमेत्यहो विधनता सर्वापदामास्पदम् ॥' असंबद्धपदन्यासोऽस्थानपदम् । यथा-'मा भाजीविभ्रमं भ्रूरधरविधुरता केयमस्यास्य रागं प्राणे प्राण्येव नायं कल- यसि कलहं श्रृद्धया किं त्रिशूलम् । इत्युद्यत्कोपकेतून्प्रकृतिमवयवान्प्रापयन्त्येव देव्या न्यस्तो बो मूर्ध्नि मुख्यान्मरुदसुहृदसून्संहरननिरंहः ॥' अत्र 'वः' इति पदं 'मूर्ध्नि इतिपदसा- १. तिमिरेऽन्धका अन्धास्तेषां वल्लभः. ।
२६ काव्यमाला। निध्यादस्थाने पतितम् । यथा च-'सरभसपरिरम्भारम्भसंरम्भभाजा यदधिनिशमपास्तं वल्लभेनाङ्गनायाः । वसनमपि निशान्ते नेष्यते तत्प्रदातुं रथचरणविशालश्रोणिलोलेक्ष- णेन ॥' अत्र 'वसनम्' इति पदं पूर्वार्धमतिक्रम्यास्थाने पतितम् । 'नार्धे किंचिदसमा- प्तम्' इति कविसमयः । तथा 'अपि निशान्ते' इत्यत्रापि 'निशान्तेऽपिं' इति युक्तम् ॥ आनुपूर्व्या हीयमानप्रकर्ष पतत्प्रकर्षम् । यथा-'अविरलविगलन्मदजलकपोलपालीनिलीनमधुपकुलः । उद्भिन्ननवश्मश्रुश्रेणि. रिव गणाधिपो जयति ॥' समाप्य पुनर्गृहीतं समाप्तपुनरात्तम् । यथा-'गाहाण रसा महिलाण बिभमा कइप (व)राण वयणाई। कस्म न हरन्ति हिअअंबालाण य मम्मणुल्लावा ॥' अत्र 'वालाण य मम्मणुलावा' इति पदं संधितपु- छप्रायं न वदते ।। विसर्गस्याभावोऽविसर्गत्वम् । यथा-धीरो विनीतो निपुणो वराकारो नृपोऽत्र सः । यस्य भृत्या बलोत्सित्ता भक्ता बुद्धिप्रदायिनः॥' अत्रीत्वेन लोपन च विसगाभावः ॥ वाक्यान्तरपदैरनुविद्धं संकीर्णम् । यथा-'काय खायइ छुहिउ कृर व्वलाइ निदरं कट्रो । मुणयं गिण्हइ कण्टे हक्केइ अनत्ति यंथेरो ॥' अत्र 'काकं क्षिपति, कुरं खादति, थानं भषयति, नमारं कण्टे गृह्णाति' इति वक्तुमुचितम् ॥ उक्तिप्रत्युक्तौ गुणः । यथा---'कोऽयं नाथ जिनो भवेत्तव वशी उंहुं प्रतापी प्रिये हुंडं तर्हि विमुञ्च कातर- मते शीयावलेपक्रियाम् । मोहोऽनेन विनिर्जितः प्रभुरसौ तकिकराः के वयं(?) इत्येवं रतिकामजल्पविषयः सोऽयं जिनः पातु वः ॥' वाक्यान्तरानुप्रवेशो गर्भितम् । यथा---'मार्गे कर्दमदुस्तरे जलभृते गती(?)शतराकुले खिन्ने शाकटिके भरेऽतिनिभृते दूरोडुरे रोधसि । शब्देनैतदहं ब्रवीमि महता कृत्वोच्छितां तर्जनीमीदृक्षे विषमे विहाय धवलं बोढुं क्षमः को भरम् ॥' अत्र तृतीयः पादोऽन्य इव प्रविष्टो लक्ष्यते ॥ प्रक्रमभङ्गो भग्नप्रक्रमत्वम् । १. 'गाथानां रसा महिलानां विभ्रमाः कविवराणां वचनानि । कस्य न हरन्ति हृदयं 'बालानां च मन्मनोल्लापाः ॥' इति च्छाया. २. 'बुद्धिप्रभान्विताः' इति काव्यप्रदीपे ३. झाकं खादति क्षिपति कूरै भाषयति निष्ठुरे रुष्टः । शुनकं गृह्णाति कण्ठे आकारयति ॥ इतिच्छाया. . ........ ......
- २ अध्यायः] काव्यानुशासनम् । २७ यथा-'वभूव भस्मैव कृताङ्गरागः कपालमेवामलशेखरधीः । उपान्तभागेषु च रोच- नाङ्कः सिंहाजिनस्यैव दुकूलभावः ॥' अत्र ‘मृगेन्द्रचर्मैव दुकूलमस्य' इति युक्तम् । यथा- 'ते हिमालयमामव्य पुनः प्राप्य च शूलिनम् । सिद्धं चास्मै निवेद्यार्थं तद्विसृष्टाः खमु- द्ययुः ॥' अत्र 'अनेन विसृष्टाः' इति युक्तम् । यथा च— 'पाश्चात्यभागमिह सानुपु सं- निषण्णाः पश्यन्ति शान्तमलसान्द्रतरांशुजालम् । संपूर्णलब्धललनाललनोपमानमुत्सङ्गस- निहरिणस्य मृगाङ्कमूर्तेः ॥' अत्र 'उत्सङ्गसंगतमृगस्य मृगाङ्कमूर्तेः' इति युक्तम् ॥ अघटमानसंबन्धोऽनन्वितम् । यथा-'प्रज्ञापुञ्जमयाज्ञानं राधा बंधस्य कारणम् । धाराया विपरीतस्य नूनं न क्षमते प्रभुः ॥' अत्र वपरीत्यं शब्दकृतम्, उतार्थकृतमित्यनन्वयः ॥ द्वयोरपि वाक्ययोः संबद्धमर्थान्तरैकवाचकम् । यथा-'उदयमहिमरश्मिर्याति शीतांशुरस्तम्। अत्र याति'इतिपदमुभयत्रापि संबध्यते॥ यत्र नेष्टसंबन्धप्रतिपत्तिस्तदभवन्मतयोगम् । यथा-'चापाचार्यस्त्रिपुरविजयी कार्तिकेयो विजेयः शस्त्रव्यस्तः सदनमुदधिभूरियं हन्तकारः । अस्त्येवैतत्किमु कृतवता रेणुकाकण्ठवाधां बद्धस्पर्धस्तव परशुना लजते चन्द्रहासः ॥' अत्र भार्गवस्य निन्दा तात्पर्यम् । कृतवतेति परशा प्रतीयते । कृतवत इति तु युक्तम् ॥ कष्टापुष्टव्याहतग्राम्याश्लीलसाकाङ्क्षसंदिग्धाक्रमपुनरुक्तभिन्नसहचरविरु- द्धव्यङ्गयप्रसिद्धिविरुद्धविद्याविरुद्धनिर्हेतवोऽर्थदोषाः । दुरवबोधः कष्टः। रवति न हि त्वाष्ट्रशत्रोद्युराष्ट्रम् । पाकाकेशोऽब्जनालान्यनल न लभसे भातुमित्यात्तदो जल्पन्देवान्दिवौको रिपुरवधि यया सास्तु शान्यै शिवा वः ॥' प्रकृतानुपयोग्यपुष्टः । यथा--'अनणुरणन्मणिमेखलमविरतशिञ्जानम मञ्जीरम् । परिसरणमरुणचरणे रण- रणकमकारणं कुरुते ॥' अत्र वर्णसावर्ण्यमेव, न वाच्यवैचित्र्यकणिकापि काचिदस्तीत्य- पुष्टार्थम् ॥ पूर्वापरप्रतिबन्धोव्याहतत्वम् । यथा-'जगति जयिनस्त ते भावा नवेन्दुकलादयः प्रकृतिमुभगाः सन्त्येवान्ये मनो १."अत्र ‘अस्मै' इतीदमा प्रक्रमात् 'तद्विसृष्टाः' इत्यत्रापि 'अनेन विसृष्टाः' इत्येव वाच्यम्" इति काव्यप्रदीपे.
२८ काव्यमाला। .. मदयन्ति ये । मम तु यदियं जाता लोके विलोचनचन्द्रिका नयनविषयं जन्मन्येकः स एव महोत्सवः ॥' अत्र नवेन्दुकलादयो भावा यं प्रति न किंचिदिव, स एवोत्कर्षार्थ चन्द्रिकात्वमारोपयतीति व्याहतत्वम् ॥ अविदग्धजनोचितं ग्राम्यम् । यथा-'छादयित्वा सुरान्पुष्पैः पुरो धान्यं क्षिपाम्यहम् ।' व्रीडाव्यजकोऽश्लीलः। यथा-'तस्याः प्रविष्टा नतनाभिरन्ध्र रराज तन्वी नवरोमराजिः । नीवीमतिकम्य सितेतरस्य तन्मेखलामध्यमणेरिवार्चिः ॥' अत्र मध्यमणिशब्देनाश्लील व्यज्यते ॥ अवश्यवाच्यार्थहीनः साकाङ्कः । यथा-'अर्थित्वे प्रकटीकृतेऽपि न फलप्राप्तिः प्रभोः प्रत्युत द्रुधन्दाशरथिविरुद्धच. रितो युद्धस्तया कन्यया। उत्कर्षे च परस्य मानयशसोवियंसनं चात्मनः स्त्रीरत्नं च जग- त्पतिर्दशमुखो देवः कथं मृष्यते ॥' अत्र स्त्रीरत्नं परस्येत्याकायते ॥ उभयार्थप्रतिपत्तिकृत्संदिग्धम् । यथा-'मात्सर्यमुत्सार्य विचार्य कार्यमार्याः समर्यादमिदं वदन्तु । सेव्या नितम्बाः किल भूधराणामुत स्मरस्मरविलासिनीनाम् ॥' अत्र कारणाद्यभावे संदेहः ॥ क्रमपरिहाराद्यक्रमः । तुरङ्गं मातङ्गं वा मे प्रयच्छ । रूपकं विंशोपकं वा गृहाण । भुक्त्वा स्नात्वा च देवान- ञ्चति । साहित्यं लक्षणं चाधीते । शतेनाधिका विशतिः । सचापं बाणमादत्ते । वैश्या- दयो वर्णाः ॥ कारणव्यतिरेकेण पुनरभिधानं पुनरुक्तम् । यथा-'तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः। दिलीप इति राजेन्दुरिन्दुः क्षीरनि- धाविव ॥' अनेन्दुरिति पुनरुक्तम् ॥ - कारणोक्तौ तु गुणः। . यथा-'तव प्रसादात्कुसुमायुधोऽपि सहायमेकं मधुमेव लब्ध्वा । कुर्यो हरस्यापि पिनाकपाणेधैर्यच्युति के मम धन्विनोऽन्ये ॥' अत्र- 'अहं कुसुमायुधः, हरस्तु पिनाक- पाणिः, तथापि धैर्यच्युति करिप्यामि' इति विशेषोक्ता गुणः ॥ १. "अत्र 'नीरत्नम्' इत्यर्थः 'उपेक्षितुम्' इत्यस्यार्थमाकासति । अन्यथा 'कथं मृ- ष्यते' इत्यनेनामर्षार्थ केनान्बयाप्रसङ्गः । नहि स्त्रीरत्नमेवामपः, किंतु तदुपेक्षायाम् । न च 'परस्य' इत्येतदन्तर्भाव्य तदन्वयोऽस्विति वाच्यम् । तस्य जनितान्वयतोधत्वन निरा- काङ्कत्वात्" इत्यादि काव्यप्रदीपे. २. 'सुरालयोल्लासपरः प्राप्तपर्याप्तकम्पनः । मार्ग- णप्रवणो भावभूतिरेष विलोक्यताम् ॥' इति काव्यप्रदीपोदाहरणमेव युक्तं प्रतिभाति.
२ अध्यायः] काव्यानुशासनम् । २९ : उचितसहचारिभेदो भिन्नसहचरत्वम् । यथा-'श्रुतेन बुद्धिर्व्यसनेन मूर्खता प्रियेणं नारी सलिलेन निम्नगा । निशा शशा- केन धृतिः समाधिना नयेन चालंक्रियते नरेन्द्रता ॥' अत्र श्रुतबुद्ध्यादिभिरुत्कृष्टैः सह व्यसनमूर्खत्वयोनिकृष्टयोरुक्तिः ॥ विरुद्धार्थप्रतिभासकं विरुद्धव्यङ्गयम् । यथा-'स्तुमः कं वामाक्षि क्षणमपि विना यं न रमसे विलेभे कः प्राणानणमख- मुखे यं मृगयसे । सुलग्ने को जातः शशिमुखि यमालिङ्गसि बलात्तपःश्रीः कस्यैषा मद- ननगरि ध्यायसि तु यम् ॥' अत्र तस्या अनेककामोऽभिलाषो ध्वन्यते ॥ अन्यथा वर्णनात्प्रसिद्धिविरुद्धम् । यथा-'येनामोदिनि केसरस्य मुकुले पीतं मधु स्वेच्छया नीता येन निशा शशाङ्क- धवला पद्मोदरे शारदी । भ्रान्तं येन मदप्रवाहमलिने गण्डस्थले दन्तिनां सोऽयं भृङ्गयुवा करीरविटपे बध्नाति तुष्टिं कुतः ॥' अत्र शशाङ्कोदये पद्मविकाशोऽप्रसिद्धः ॥ शास्त्रोक्तविपर्यासे विद्याविरुद्धः । यथा-'मृगीदृशः पालवरागकोमलो विभाति दन्तवणमुत्तराधरे।' अत्र व्रणमधरा- धर एव कामशास्त्रे विहितं नोत्तराधरे ॥ अहेतूक्तौ निर्हेतुः । यथा-'चक्री चक्रारपति हरिरपि च हरीन्धूर्जटिधूर्वजान्तानक्षं नक्षत्रनाथोऽरुण- मपि वरुणः कूबराग्रं कुबेरः । रेहः संघः सुराणां जगदुपकृतये नित्ययुक्तस्य यस्य स्तौति प्रीतिप्रसन्नोऽन्वहमहिमरुचेः सोऽवतात्स्यन्दनो वः ॥' अत्र किमर्थ चक्री चक्रारपतिमेव स्तवीतीति हेतुर्नोक्तः ॥ लोकप्रसिद्धौ तु न दोषः। यथा-'चन्द्रं गता पद्मगुणान्न भुते पद्माश्रिता चान्द्रमसीमभिख्याम् । उमामुख तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमवाप लक्ष्मीः ॥' अत्र रात्रौ पद्मस्य संकोचः । दिवा चन्द्रमसो निष्प्रभत्वं च लोके प्रसिद्धम् इति हेतुं नापेक्षते । परिवृत्तनियमानियमसामान्य- विशेषविध्यनुवादादयः काव्यप्रकाशादावुक्ता अपि पूर्वोक्तेष्वेवान्तर्भवन्तीत्यस्माभिर्नोक्ताः॥ दोषानभिधाय गुणानाह- कान्तिसौकुमार्यश्लेषार्थव्यक्तिसमाधिसमतौदार्यमाधुर्योजःप्रसादा दश - गुणाः। तत्र- लौकिकार्थानतिक्रमेणौज्वल्यं कान्तिः । १. 'मदेन' इति काव्यप्रदीपे. का.५ ३० काव्यमाला। .. यथा-'सजलनिबिडवस्त्रव्यक्तनिनोन्नताभिः परिगततटभूमिमानमात्रोच्छ्रिताभिः । रुचिरकनककुम्भश्रीमदाभोगतुङ्गस्तनविनिहितहस्तखस्तिकाभिर्वधूभिः ॥' अकाठिन्यं सौकुमार्यम् । यथा-'जिनवरगृहे कौन्तेयस्य प्रतिक्षणदाक्षणं चतुरतरुणीगीतैीतैः समाहृतमा- नसा । इह हि हरिणी मन्दं मन्दं प्रयाति नभःपथे समजनि मृगीनेत्रा रात्रिस्ततोऽति- गरीयसी॥ यत्र पदानि परस्परस्फूर्तानीव, स श्लेषः । यथा-'जयन्ति बाणासुरमौलिलालिता दशास्यचूडामणिचक्रचुम्बिनः । सुरासुराधी- शशिखान्तशायिनो भवच्छिदस्यम्बकपादपांसवः ॥' यत्र सुखेनार्थप्रतीतिः सार्थव्यक्तिः । यथा-'बाले तिलकलेखेयं भाले भल्लीव राजते । भ्रूलताचापमाकृष्य न विद्मः के हनिष्यति ॥' अन्यस्य धर्मो यत्रान्यत्रारोप्यते स समाधिः । यथा--'रिपुषु सहजतेजःपुजलीलायितैस्तैरजनि जनितकम्पस्तत्सुतो भूमिभर्ता । प्रतिनृपतिवधूनां पल्लविन्यश्रुपूरैरधिवियदधिरूढा कीर्तिवलियदीया ॥' अविषमबन्धत्वं समता। यथा-'मसृणचरणपातं गम्यतां भूः सदर्भा विरचयति च यान्तं मूर्ध्नि धर्मः कठोरः। तदिति जनकपुत्री लोचनैरश्रुपूर्णैः पथि पथिकवधूभिः शिक्षिता वीक्षिता च ॥' विकटबन्धत्वमौदार्यम् । यथा-'वाचाला कनकमयध्वजाग्रसङ्गिव्यालोलस्फुरदुरुकिङ्किणी निनादैः । चैत्याली जगति न कस्य राहडस्य प्रेहन्ती भवति मनःप्रहर्षणीयम् ॥' यत्रानन्दममन्दं मनो द्रवति, तन्माधुर्यम् । शृङ्गारशान्तकरुणेषु क्रमे- णाधिक्य(क)म् । शृङ्गारे यथा-'प्रियतमावदनेन्दुविलोकितैरमुहितः कलकण्ठयुवा नवः । प्रतिमुहुः प्रतिगत्य नभस्तलाद्वलति याति चलत्यथ यात्यथ ॥' शान्ते यथा-'यः शान्तरागरु- चिभिः परमाणुभिस्त्वं निर्मापितस्त्रिभुवनैकललामभूतः। तावन्त एव खलु तेऽप्यणवः पृथिव्यां यत्ते समानमपरं न हि रूपमस्ति ॥' करुणे यथा-'गृहिणीसचिवः सखा मिथः प्रियशिक्षाललिते कलाविधौ । करुणाविमुखेन मृत्युना हरता त्वं वद किं न मे हृतम् ॥' दीप्तिहेतुरोजः । वीरबीभत्सरौद्रेषु क्रमेण विशेषतो रम्यम् । तत्र वीरे यथा-'शैलोत्तुङ्गतरङ्गवेगगमनप्रोत्कम्पमानावनिस्तम्बक्षोभितभैरवाणवभ- वत्कल्पान्तकालभ्रमम् । क्रोधान्धाः खरदूषणत्रिशिरसः प्राप्तास्त एव द्रुतं ब्रूत ब्रूत भटाः २ अध्यायः] काव्यानुशासनम् । ३१ व स क स नरः शम्बूकजीवाहरः॥' बीभत्से यथा-'उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूच्छोफभूयांसि मांसान्यंसस्फिक्पृष्ठपिण्डाद्यवयवसुलभान्युग्रपूतीनि जग्ध्वा । आत्तना. प्वत्रनेत्रात्प्रकटितदशनः प्रेतरङ्गः करकादकस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्र- मत्ति ॥' रौद्रे यथा-'चञ्चद्भुजभ्रमितचण्डगदाभिघातसंचूर्णितोरुयुगलस्य सुयोधनस्य । स्त्यानावबद्धघनशोणितशोणशोचिरुत्तंसयिष्यसि कचांस्तव देवि भीमः॥' झगित्यर्थार्पणेन चेतोविकासजनकः सर्वरसरचनात्मकः प्रसादः । यथा--'पर्याप्तपुष्पस्तबकस्तनीभ्यः स्फुरत्प्रवालोष्ठमनोहराभ्यः । लतावधूभ्यस्तर- वोऽप्यवापुर्विनम्रशाखाभुजबन्धनानि ॥' इति । इति दण्डिवामनवाग्भटादिप्रणीता दश काव्यगुणाः । वयं तु माधुयौंजःप्रसादलक्षणास्त्रीनेव गुणान्मन्यामहे । शेषास्तेष्वेवान्तर्भ- वन्ति । तद्यथा-माधुर्ये कान्तिः सौकुमार्य च, ओजसि श्लेषः समाधिरुदारता च, प्र. सादेऽर्थव्यक्तिः समता चान्तर्भवति । यदाह-'माधुर्योजःप्रसादाख्यास्त्रयस्ते न पुनर्दश। केचिदन्तर्भवन्त्येषु दोषत्यागात्परे श्रिताः ॥ अन्ये भजन्ति दोषत्वं कुत्रचिन्न ततो दश ॥' माधुर्यगुणोपयुक्ता वैदर्भी रीतिः । अस्यां च प्रायेण कोमलो बन्धोऽस- मासः, टवर्गरहिता निजपञ्चमाक्रान्ता वर्गाः, रणौ हस्वान्तरितौ च प्रयोज्यौ । तत्र कोमलबन्धो यथा-'अमुं पुरः पश्यसि देवदारुं पुत्रीकृतोऽसौ वृषभध्वजेन । यो हेमकुम्भस्तननिःसृतानां स्कन्दस्य मातुः पयसां रसज्ञः ॥' असमासो यथा-'अमीभिः संसक्तैस्तव किमु फलं वारिद घटेघदेतेऽपेक्षन्ते सलिलमवटेभ्योऽपि तरवः । अयं युक्तो व्यक्तं न तु सुखयितुं चातकपर्य एष ग्रीष्मेऽपि स्पृहयति न पाथस्त्वदपरान् ॥' निज- पश्चमाकान्ता वर्गा यथा-'शिञानमञ्जमजीराश्चारुकाञ्चनकाञ्चयः । कङ्कणाङ्कभुजा भा- न्ति जितानङ्ग तवाङ्गनाः ॥' हखान्तरितौ रणौ यथा-'दारुणरणे रणन्तं करिदारणका- रणं कृपाणं ते । रमणकृते रणरणकी पश्यति रमणीजनो दिव्यः ॥' 'टवर्गरहिताः' इति वचनादृवर्गो न कार्यः । यथा-'अकुण्ठोत्कण्ठया पूर्णमाकण्ठं कलकण्ठिनाम् । कम्बुकण्ठ्याः क्षणं कण्ठे कुरु कण्ठार्तिमुद्धर ॥' ओजोगुणयुक्ता गौडीया रीतिः । अस्यां च बन्धौद्धत्यं समासदैर्घ्य संयुक्तवर्णत्वं प्रथमतृतीयाक्रान्तौ द्वितीयचतुर्थी युक्तौ रेफश्च कार्यः । यथा---'दंष्ट्रालः स्फुटकुन्दकुमलशतैर्जिह्वाल उल्लासिभिः किं किल्लिद्रुमपल्लवैः शित- मुखैः प्रेहनखः किंशुकैः । वल्लीजालविशालबालधिरसावत्रोजयन्ताचलो बन्धूकोद्धतलो- चनः प्रकुरुते शार्दूलविक्रीडितम् ॥ यथा च--'मूर्धामुद्दत्तकृत्ताविरलगलगलद्रक्तसंसक्त- धाराधौतेशानिप्रसादोपनतजयजगजातमिथ्यामहिम्नाम् । कैलासोल्लासनेच्छाव्यतिकरपि- शुनोत्सर्पिदोडुराणां दोष्णां चैषामिदं तत्फलमिह नगरीरक्षणे यत्प्रयासः ॥' प्रसादगुणयुक्ता पाञ्चाली । अत्र सुश्लिष्टो बन्धःप्रसिद्धानि च पदानि । .
३२ काव्यमाला । 'निजकरनिकरसमृध्या धवलय भुवनानि पार्वणशशाङ्क । सुचिरं हन्त न सहते हतवि. धिरिह सुस्थिरं किमपि ॥ एताश्चोपनागरिका परुषा कोमलेति केचिदाहुः । यदाह- 'माधुर्यव्यजकैः शब्दैरुपनागरिकेष्यते । ओजःप्रकाशकैस्तैस्तु परुषा कोमला पौः ॥ केषां- चिदेता वैदर्भीप्रमुखा रीतयो मताः॥' इति महाकविश्रीवाग्भटविरचितायामलंकारतिलकाभिधानखोपज्ञकाव्यानुशासनवृत्ती दोषगुण दिवेचनो नाम द्वितीयोऽध्यायः । तृतीयोऽध्यायः। अलंकाराः खलु द्विविधाः । शब्दालंकारा अर्थालंकाराश्च । तत्र तावदर्थमधिकृत्य शब्दः प्रवर्ततेऽतः प्रथममर्थालंकारा एवोदाहि- यन्ते । तद्यथा-जात्युपमोत्प्रेक्षारूपकदीपकान्योक्तिसमासोक्त्यप्रस्तुतप्रशं- सापर्यायोक्त्यतिशयोक्तिसहोक्त्याक्षेपविरोधार्थान्तरन्यासव्याजस्तुतिव्यतिरे- कससंदेहापडुतिपरिवृत्त्यनुमानस्मृतिभ्रान्तिविषमसमसमुच्चयान्यापरपरिसं- ख्याकारणमालानिदर्शनैकावलीयथासंख्यपरिकरोदात्तसमाहितविभावनान्यो न्यमीलितविशेषपूर्वदेतुसारसूक्ष्मलेशप्रतीपपिहितव्याघातासंगतिहेतुश्लेषम- तोत्तरोभयन्यासभावपर्यायव्याजोक्त्यधिकप्रत्यनीकानन्वयतद्गुणातद्गुणसंकरा आशी:प्रभृतयोऽर्थालंकाराः। तद्यथा(तत्र)- यथास्थितवस्तुस्वरूपवर्णनमग्राम्यं जातिः । सा च त्रस्ताकदीनतिर्य- ग्युवतिप्रभृतिषु विशेषतो रम्या । तत्र त्रस्तखरूपं यथा-'ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने दत्तदृष्टिः पश्चार्धन प्रविष्टः : शरपतनभयाद्भूयसा पूर्वकायम् । दभैरर्धावलीढेः श्रमविततमुखभ्रंशिभिः कीर्ण- वा पश्योदग्रनुतत्वाद्वियति बहुतरं स्तोकमुा प्रयाति ॥' अर्भकस्वरूपं यथा-'उदय- शिखरिशृङ्गप्राङ्गणेष्वेव रिबन्सकमलमुखहासं वीक्षितः पद्मिनीभिः । प्रसृतमृदुकरायः शब्दयन्त्या वयोभिः परिपतति दिवोऽङ्के हेलया बालसूर्यः ॥ दीनस्वरूपं यथा-'बविली. बहलकान्तिरुचो विचित्रभूर्जत्वचा रचितचारुदुकूललीलाः। गुजाफलग्रथितहारलताः सहेलं खेलन्ति खेलगतयोऽत्र वने शबर्यः॥' तिर्यक्स्वरूपं यथा-'मेदखिनः सरभसापगता- नभीकान्भक्त्वा पराननडुहो मुहुराहवेण। ऊर्जस्वलेन सुरभीमनुनिःसपत्नं जग्मे जयो- दुरविशालविषाणमुक्ष्णा ॥' योषित्वरूपं यथा-'उत्तालतालविचललयावलीकं सद्यः सखीजनविनिर्मितमण्डलीकम् । गायन्ति रासकविधाविह मेदपाटनायोऽधुनापि तव नेमिकुमार कीर्तिम् ॥
३ अध्यायः]] काव्यानुशासनम् । LW चमत्कारि साम्यमुपमा । सा प्रत्ययाव्ययतुल्यार्थसमाप्तैश्चतुर्धा । चमत्कारि सहृदयहृदयहारि उपमानोपमेययोः साम्यमुपमा । यथा-'गत्या विभ्रम- मन्दया प्रतिपदं या राजहंसीयते यस्याः पूर्णमृगाङ्कमण्डलमिव श्रीमत्सदैवाननम् । यस्या- थानुकरोति नेत्रयुगलं नीलोत्पलानि श्रिया तां कुन्दाग्रदतीं त्यजञ्जिनपती राजीमती पातु वः ॥ चमत्कारीति वचनात् 'कुकुम्भ इव मुखम्' इत्यादी सादृश्येपूपमा न कार्या। सा प्रत्ययाव्ययतुल्यार्थसमासभेदैश्चतुर्धा भवति ॥ तत्रापि वत्कल्पदेश्यदेशीयप्रभृतयः प्रत्ययाः । अव्ययानि इव वायथाप्रभृतीनि । 'तुल्यार्थास्तुल्यसंकाशाः(श)प्रकाशप्रतिरूपकाः । नीकाशसक्सदृशसदृक्षनिभसंनिभाः ॥ प्रतिपक्षप्रतिद्वन्द्विप्रत्यनीकविरोधिनः । हार्यनुकारीसंवादिसजातीयानुवादिनः ॥प्रति- बिम्बप्रतिच्छन्दस्वरूपसमसप्रभाः । सलक्षणसमानसाभाः सपक्षोपमितोपमाः ॥ स- वर्णतुलितौ शब्दो प्रख्या प्रतिनिधी अपि । स्पर्धते जयति द्वेष्टि दृप्यति प्रति- गर्जति ॥ आक्रोशत्यवजानाति कदर्थयति निन्दति । विडम्बयति संधत्ते हसतीयत्य- सूयति ॥ तस्य पुष्णाति सौभाग्यं तस्य कान्ति विलुम्पति । तेन सार्धं विगृह्णाति तस्य कक्षां विगाहते ॥ तत्पदव्यां पदं धत्ते तुलां तेनाधिरोहति । तमन्वेत्यनुबध्नाति तच्छीलं तनिषेधति । तस्य चानुकरोतीति शब्दाः सादृश्यवस्तुनि ॥' समासो बहुव्रीहिप्रभृतिः । यथा-चन्द्रवदने यादि।सा च धर्मवस्तु विपर्यासान्योन्यनियमानियमसरचयातिशयोत्प्रेक्षाद्भु- तमोहसंशयनिर्णयश्लेषसमानप्रशंसाचिख्यासाविरोधप्रतिषधचटुतत्वाख्यानसाधारणभूता. संभावितवहुविक्रियामालावाक्यार्थप्रतिवस्तुतुल्ययोगहेतुरसनोपमादिभेदैरनेकधा भवति । तत्प्रबन्धस्तु देण्डिनो द्रष्टव्यः । इह तु ग्रन्थगौरवभयात्प्रकृतानुपयोगाच्च नोच्यते ॥ १. 'अम्भोरुहमिवातानं मुग्धे करतलं तव । इति धर्मोपमा साक्षात्तुल्यधर्मप्रदर्श- नात् ॥ राजीवमिव ते वक्र नेत्रे नीलोत्पले इव । इति प्रतीपमानकधर्मा वस्तूपमैव सा ॥ तवाननमिवोनिद्रमरविन्दमभूदिति । सा प्रसिद्धिविपर्यासाद्विपर्यासोपमेष्यते ॥ त्वदाननमिवाम्भोजमम्भोजमिव ते मुखम् । इत्यन्योन्योपमा सेयमन्योन्योत्कर्षशंसिनी॥ त्वन्मुखं कमलेनैव तुल्यं नान्येव केनचित् । इत्यन्यसाम्यव्यावृत्तेरियं सा नियमोपमा। पद्मं तावत्तवान्वेति मुखमन्यच्च तादृशम् । अस्ति चेदस्तु तत्कारीत्यसावनियमोपमा॥ समुच्चयोपमाप्यस्ति न कान्त्यैव मुखं तव । ह्रादनाख्येन चान्वेति कर्मणेन्दुमितीदृशी ॥ त्वय्येव त्वन्मुखं दृष्टं दृश्यते दिवि चन्द्रमाः । इयत्येव भिदा नान्येत्यसावतिशयोपमा॥ मय्येवास्या मुखश्रीरित्यलमिन्दोर्विकथनैः । पद्मेऽपि सा यदस्त्येवेत्यसावुत्प्रेक्षितोपमा॥ यदि किंचिद्भवेत्पद्मं सुश्रु विभ्रान्तलोचनम् । तत्ते मुखश्रियं धत्तामित्यसावद्धतोपमा ॥ शशीत्युत्प्रेक्ष्य तन्वनि त्वन्मुखं त्वन्मुखाशया । इन्दुमप्यनुधावामीत्येषा मोहोपमा मता ॥ किं पद्ममन्तर्धान्तेति किं ते नीलेक्षणं मुखम् । मम दोलायते चित्तमित्तीयं सं. शयोपमा। न पद्मस्येन्दुनिग्राह्यस्यन्दुलजाकरी द्युतिः । अतस्त्वन्मुखमेवेन्दुमित्यसौ ३४ काव्यमाला। लिङ्गवचनवैषम्यं हीनाधिक्यं चोपमादोषः । तत्र लिङ्गवचनवैषम्यं यथा-'परमातेव निःस्नेहाः परकार्याणीव शीतलाः । सक्तवो भक्षिता राजन् शुद्धाः कुलवधूरिव ॥' हीनाधिक्यं यथा-'शुनीयं गृहदेवीव प्रत्यक्षाप्र. तिभासते । खद्योत इव सर्वत्र प्रतापश्च विराजते ॥' अत्यन्तसादृश्यादसतोऽपि धर्मस्य कल्पनमुत्प्रेक्षा । तां चेवमन्येशकेध्रु- पमित्यादिभिर्योतयेत । इव यथा-'दिशतु विरतिलाभानन्तरं पार्श्वसर्पन(?)मिविन मिकृपाणोत्सङ्गदृश्याङ्ग- लक्ष्मीः । त्रिजगदपगता यत्कर्तुमातान्यरूप(१)द्वय इव भगवान् वः संपदं नाभिसूनुः ॥' मन्ये यथा-'नाभेयचैत्यसदने दिशि दक्षिणस्यां द्वाविंशतिं विदधता जिनमन्दिराणि । मन्ये निजाग्रजवरप्रभुराहडस्य पूर्णीकृतो जगति येन यशःशशाङ्कः ॥' शङ्के यथा-'विर. निर्णयोपमा ॥ शिशिरांशुप्रतिद्वन्द्वि श्रीमत्सुरभिगन्धि च । अम्भोजमिव ते वक्रमिति श्लेषोपमा मता ॥ सरूपशब्दवाच्यत्वात्सा समानोपमा यथा । बालेवोयानमालेयं सालकाननशोभिनी ॥ पद्मं बहुरजश्चन्द्रः क्षयी ताभ्यां तवाननम् । समानमपि सोत्सेक- मिति निन्दोपमा मता ॥ ब्रह्मणोऽप्युद्भवः पद्मश्चन्द्रः शंभुशिरोधृत । तौ तुल्यौ त्वन्मु- खेनेति सा प्रशंसोपमेष्यते ॥ चन्द्रेण त्वन्मुखं तुल्यमित्याचिख्यासु मे मनः । स गुणो वास्तु दोषो वेत्यारिख्यासोपमा विदुः ॥ शतपत्रं शरच्चन्द्रस्त्वदाननमिति त्रयम् । परस्परविरोधीति सा विरोधोपमा मता ॥ न जातु शक्तिरिन्दोस्ते मुखेन प्रतिग. जिंतुम् । कलङ्किनो जडस्येति प्रतिषेधोपमैव सा ॥ मृगेक्षणावं ते वक्र मृगेणैवाङ्कितः शशी। तथापि सम एवास। नोत्कर्षीति चट्टपमा॥ न पद्मं मुखमेवेदं भृङ्गौ तु चक्षुषी इमे। इति विस्पष्टसादृश्यात्तत्त्वाख्यानोपमैव सा ॥ चन्दारविन्दयोः कान्तिमतिक्रम्य मुखं तव । आत्मनेवाभवत्तुल्यमित्यसाधारणोपमा॥सर्वपद्मप्रभासारः समाहृत इव क्वचित् । त्वदाननं विना भाति तामभूतोपमा विदुः ॥ चन्द्रबिम्बादिव विषं चन्दनादिव पावकः। परुषा वागितो वक्रादित्यसंभावितोपमा ॥ चन्दनोदकचन्द्रांशुचन्द्रकान्तादि- शीतलः । स्पर्शस्तवेत्यतिशयं प्रथयन्ती बहूपमा ॥ चन्द्रबिम्बादिवोत्कीर्ण पद्मगर्भादि- वोद्धृतम् । तव तन्वनि वदनमित्यसौ विक्रियोपमा ॥ पूष्ण्यातप इवाह्रीव पूषा व्यो- नीव वासरः । विक्रमस्त्वय्यधालक्ष्मीमिति मालोपमाक्रमा ॥ वाक्यार्थेनैव वाक्यार्थः कोऽपि यद्युपमीयते । एकानेकेवशब्दत्वात्सा वाक्यार्थोपमा द्विधा । वस्तु किंचिदुप- न्यस्य व्यसनात्तत्सधर्मणः । साम्यप्रतीतिरस्तीति प्रतिवस्तूपमा यथा ॥अधिकेन समा- हृत्य हीनमेकक्रियाविधौ । यद्वदन्ति स्मृता सेयं तुल्ययोगोपमा यथा ॥ कान्त्या च- न्द्रमसं धाम्ना सूर्य धैर्येण• चार्णवम् । राजन्ननुकरोषीति सैषा हेतूपमा स्मृता ॥' इत्यादिरीत्या दण्डिप्रन्थे विस्तरः. १. 'न लिङ्गवचने भिन्ने न न्यूनाधिकतापि वा । उपमा दूषणायालं यत्रौद्वेगो न धीमताम् ॥ इति दण्डी. .
३ अध्यायः ]] काव्यानुशासनम् । ३५ ३ - .. तसंध्यापुरुषं पुरस्ताद्यथा रजः पार्थिवमुज्जिहीते । शङ्के हनूमत्कथितप्रवृत्तिः प्रत्युद्गतो मां भरतः ससैन्यः ॥' धुवं यथा-'क्लमं ययौ कन्दुकलीलयापि या तया मुनीनां चरितं वि. गाह्यते । धुवं वपुः काञ्चनपद्मनिर्मितं मृदुप्रकृत्या च सुरार(?)मेव च ॥' नूनं यथा- 'यदङ्गनारूपसरूपतायाः कंचिद्गुणं भेदकमिच्छतीभिः । आराधितोद्धामनुरप्सरोभिश्चके प्रजाः खाः सनिमेषचिह्नाः॥' सादृश्याद्भेदेनारोपो रूपकम् । सादृश्याद्धेतो देन विषयविषयिणोनिर्देशेनारोपोऽतथाभूतेऽपि वस्तुनि तथात्वेनाध्यव- सायो रूपकम् । सादृश्यादिति वचनादायुघृतमित्यादौ कार्यकारणभावादारोपे न रूपकम् । भेदग्रहणादभेदेनारोपेऽतिशयोक्तिरेव, न रूपकम् । तच्चैकानेकमालासमस्तव्यस्तख- ण्डाखण्डयुक्तायुक्तविषमविशेषहेतुश्लेषोपमाव्यतिरेकाक्षेपसमाधानरूपकत्वापह्नवरसनापर- म्परितादिभेदैरनेकधा।तत्रैक विषयं यथा--विश्वेभ्यो भूर्भुवः स्वः शतमखमुकुटश्लिष्टमुक्ता- मयूखस्नाताः श्रीनाभिसूनोः क्रमनखमणयो मङ्गलानि क्रियासुः । येषामुत्सङ्गविद्यां शुचि- रुचिलहरीताण्डवाडम्बरायां संक्रामन्दुग्धसिन्धोः इमरसि मुहुरसौ यामिनीकामिनीशः॥' अनेकविषयम्- 'कामं संघटितेष्टकान्तविभवे राजत्तुलाकोटिके प्रोत्तुङ्गस्तनयुग्महेमक- लशे तत्कायदेवालये । तं देवं विहितावतारमचिरादागत्य सेन्द्राः सुराः सर्वे नेमुरनर्ति- पुर्जगुरगुर्वैतालिकत्वं पुरः॥' एवमन्यदपि दण्ड्यादिशास्त्रेभ्योऽभ्यूह्यम् ॥ आदिमध्यवर्तिनैकेन जातिक्रियागुणद्रव्यरूपिणा पदार्थेन यत्रार्थसंगति- स्तद्दीपकम् । जात्या यथा-'उत्साहसंपन्नमदीर्घसूत्रिणं क्रियाविधिज्ञ व्यसनेष्वसक्तम् । शूरं कृतज्ञ दृढसौहृदं च लक्ष्मीः स्वयं मार्गति वासहेतोः ॥' क्रियया यथा-'शाठ्येन मित्रं कपटेन धर्म परोपतापेन समृद्धिभावम् । सुखेन विद्यां परुषेण नारी वाञ्छन्ति ये व्यक्तमपण्डि- तास्ते ॥' गुणेन यथा-'जवो हि सप्तेः प्रथमं विभूषणं त्रपाङ्गनायाः कृशता तपस्विनः । विप्रस्य विद्यैव मुनेरपि क्षमा पराक्रमः शस्त्रबलोपजीविनाम् ॥' द्रव्येण यथा-'विष्णुना विक्रमस्थेन दानवानां विभूतयः। क्वापि नीताः कुतोऽप्यासन्नानीता देवतर्द्धयः ॥' अस्य च कारणमालेकार्थार्थावृत्तिपदावृत्त्युभयावृत्त्यादयो भेदा भवन्ति । तत्र कारकदीपकं यथा-'एते मेलककन्यकाप्रणयिनः पातालमूलस्पृशः संत्रासं जनयन्ति विन्ध्यभिदुरा बारां प्रवाहाः पुरः । हेलोन्मूलितनर्तितप्रचलितव्यावर्तितप्रेरितत्यक्तस्वीकृतनिहतप्रक- टितप्रोद्भूततीरद्रुमाः ॥' इत्युत्तरार्धे कारकदीपकं यथा । एवमन्यदपि ॥ उपमेयस्यैवोक्तावन्यप्रतीतिरन्योक्तिः । यथा-'न्यग्रोधे फलशालिनि स्फुटरसं किंचित्फलं पच्यते बीजान्यकुरगोचराणि क. तिचित्सिद्ध्यन्ति तस्मिन्नपि । एकस्तेष्वपि कश्चिदकुरवरो बनाति तामुन्नतिं यामध्वन्य- जनः स्वमातरमिव क्लान्तिच्छिदे धावति ॥ सा क्वचिनिन्दारूपा यथा-'यत्तद्गर्जितमू- ..
काव्यमाला। र्जितं यदपि च प्रोद्दामसौदामनीदामाडम्बरमम्बरे विरचितं यच्चोन्नतं दूरतः । तेषां पर्य- वसानमीदृशमिदं जातं यदम्भोधर द्वित्राः कृत्रिमरोदनाश्रुतनवो मुक्ताः पयोबिन्दवः॥' क्व- चित्स्तुतिरूपा यथा-'क्षुत्क्षामोऽपि जराकृशोऽपि शिथिलप्राणोऽपि कष्टां दशामापन्नो- ऽपि विपन्नदीधितिरपि प्राणेषु गच्छत्स्वपि । मत्तेभेन्द्र विशालकुम्भदलनव्यापारबद्धस्पृहः किं जीर्ण तृणमत्ति मानमहतामग्रेसरः केसरी ॥' उभयरूपा यथा-निष्कन्दामरवि- न्दिनी स्थपुटितोद्देशां कशेरुस्थलीम् । जम्बालाविलमम्बु कर्तुमितरा सूते वराही सुतान् । दंष्ट्रायां चतुरर्णवोमिपटलैराप्लावितायामियं यस्या एव शिशोः स्थिता वसुमती सा पुत्रिणी पोत्रिणी॥' उपमेयश्लेषोक्तौ उपमानप्रतीतिः समासोक्तिः । यथा-'उपोढरागेण विलोलतारकं तथागृहीतं शशिना निशामुखम् । यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद्गलितं न लक्षितम् ॥' उपमेयस्य किंचिदुक्तावप्रस्तुतप्रशंसा । यथा-'लावण्यसिन्धुरपरैव हि केयमत्र यत्रापरे कदलिकाण्डमृणालदण्डाः। यत्रोत्प. लानि शशिना सह संप्लवन्ते उन्मज्जति द्विरदकुम्भतटी च यत्र ॥' ध्वनिताभिधानं पर्यायोक्तिः । वाच्यादिव्यतिरिक्तस्यार्थस्य प्रतीतिवनितम् । तस्याभिधानं पयायेण समीहितार्थोक्तिः पर्यायोक्तिः । सा च वाच्ये विधिरूपे कचिनिषेधरूपा यथा-भिम धम्मिअ वीसत्थो सो सुणही अन्न मारिओ देण। गोलाणइकच्छ कुडङ्गवासिणा दरिअसीहेण ॥' अत्र विश्रब्धो भ्रमेति विधिवाक्ये सांप्रतं तत्र संकेतस्थाननिकुञ्ज सिहः ममायातोऽस्तीति त्वया तत्र न गन्तव्यमिति निषेधः प्रतीयते ॥ क्वचिन्निपेधे विधियथा---'एकाकिनी यदबला तरुणी तथाहमस्मिन्गृहे गृहपतिश्च गतो विदेशम् । किं याचसे तदिह वासमियं वराकी श्वश्रू- ममान्धबधिरा ननु मूढ पान्थ ॥' अत्र वासं कि याचसे समीहितक्रीडादिकमपि कुरुष्वेति विधिः प्रतीयते ॥ क्वचिद्विधा विध्यन्तरं यथा-'मध्याह्नऽतिखरे निदाघसमये तापं रवा मुञ्चति शीते कुटजवटे सुपत्रनिचये हे पान्थ विश्राम्यताम् । एकाकी च भवानहं च त- रुणी शून्या प्रपा वर्तते लज्जा मे भणितुं त्वमेव चतुरो जानासि कालोचितम् ॥' अत्र विश्राम्यतामिति विधौ मामुपभुक्ष्वेति विध्यन्तरं प्रतीयते ॥ क्वचिनिषेधे निषेधान्तरं यथा- 'वयं बाल्ये डिम्भांस्तरुणिमनि यूनः परिणतावपीप्सामो वृद्धान्परिणयविधिस्तु स्थिति- रियम् । त्वयारब्धं जन्म क्षपयितुमयुक्तेन विधिना न नो गोत्रे पुत्रि क्वचिदपि सतीलाञ्छ- नमभूत् ॥' अत्र नाम्मत्कुल सतीकलकोऽभूदिति निषेधे नकभर्तृतत्परतया त्वयापि स्था- तव्यमिति निषेधः प्रतीयते ॥ क्वचिदविधिनिषेधे विधिर्यथा—'शुभे वृद्धः कोऽयं गृहपरि- १. 'त्रम धार्मिक विश्रब्धः स शुनकोऽद्य मारितस्तेन । गोदानदीकच्छनिकुञ्जवासिना दृप्तसिंहेन ॥' इति च्छाया.
. ३ अध्यायः ] काव्यानुशासनम् । ३७ , बृढः कि तव पिता न मे भर्ता रात्रावपगतगन्यच्च बधिरः । हुहुहुं श्रान्तोऽहं शिशयि- पुरिहवापवरके क्व यामिन्यां यामि स्वपिमि ननु निदशमशके ॥' अत्राहं खदर्थी अत्रैव स्थास्यामीति विधिः प्रतीयते ॥ क्वचिदप्यविधिनिपंध निषेधो यथा---'चंकभणियाइं कत्तो कत्तो अद्धछिपि छियव्वाइं । उससि यंपि मुणिज्जइ छइलपुरे हयग्गामे ॥' अत्राम्मिन्वि- दग्धजनमये ग्रामे प्रच्छन्नकामुकं प्रति त्वया रतिनं कर्तव्यति कयाचित्कां प्रति निषेधः क्रियते ॥ क्वचिद्विधिनिषधेयोर्विध्यन्तरं यथा-आसन्नकुडंगेजनादेउलेबहुन्नदेउलेज- याणसं किण्णे । थेरुत्तिपइ मा रुअमु पुत्ति दिण्णासि मुग्गामे ॥' अत्र मा रोदीः, सुग्रामे दत्तासीति विधिनिधियोस्त्वया वरं वर्तितव्यमिति विध्यन्तरं प्रतीयते ॥ क्वचिद्विधिनि- पंधयोनिषेधान्तरम् । यथा-'उचिणसु पडिअ कुसुमं मा धुन मेहालिअं हलिअसुन्हे । एस अवसाणविरसो ससुरेण सुओ वलयसद्दो ॥' अत्र पतितं कुसुममुचिनु मा शेफालिकां उनीहीति विधिनिषेधयोरभिवाने सखि, चौर्यरते प्रसक्तया त्वया वलयशब्दो न कर्तव्य इति निषेधान्तरं प्रतीयते ॥ क्वचिद्विधावनुभयं यथा-'द्वारोपान्तनिरन्तरे मयि तया सौन्दर्यसारश्रिया प्रोदाम्योल्युगं परस्परसमायक्तं समाराादितम् । आनीतं पुरतः शिरोऽशु- कमधःकृप्ने चले लोचने वाचां तच्च(त्र) निवारितं विव(प्रस)रणं संकोचिते दोलते ॥' अत्र नयतत्कृतमिति विधी सानुरागिणीवेति न प्रतीयते ॥ क्वचिनिषेधेऽनुभयं यथा- 'निःशेपच्युतचन्दनं स्तनतटं प्रोन्मुक्तरागोऽधरो नेत्र दृरमनबने पुलकिता तन्वी तथेयं तनुः । मिथ्यावादिनि दृति बान्धव जनस्याज्ञानपीडागमा वापी स्वातुमितो गतासि न पुन- स्तम्याधमस्यान्तिकम् ॥' अत्र त्व तस्यान्तिकं न गतासीति निपंधे प्रतीयमानेऽपि स न्वया मन्प्रियः कामित इति व्यज्यते ॥ क्वचिद्विधिनिषेधयोरनुभयं यथा-'चन्द नुमं न गणिज्ज सि जाव इमो बहलपत्तलछाओ । गामम्म तिलअभूओ महइ वडो किण्हपरकुव्व ॥' चन्द्र त्वं न गण्यसे यावदेप वटः शोभते इति विधिनिषधयोरुक्तवनेनापि वटेन चौर्यरता- दिगोपनं भवतीति व्यज्यते ॥ क्वचिदविधिनिषेधे तूभयं यथा ----- 'अत्युच्चाः परितः स्फु- रन्ति गिरयः स्फारास्तथाम्भोधयस्तानेतानपि विभ्रती किमपि न क्लान्तासि तुभ्यं नमः । आश्चर्यण मुहुर्मुहुः स्तुतिमिति प्रस्तामि यावद्धवस्तावद्विभ्रदिमां स्मृतस्तव भुजो वाचस्ततो मुदिताः ॥' एवमादिभेदैर्ध्वनितोक्तिभवति । परं ग्रन्थगौरवभयादस्माभिर्नोदायिते । स प्रपन्चस्त्वानन्दवर्धनादवगन्तव्यः ॥ अत्युक्तिरतिशयोक्तिः । यथा-'त्वदारितारितरुणीश्च सितानलेन संमूच्छितोमिपु महोदधिषु क्षितीशाः । अन्त- १,२. अनयोश्छाया न स्फुटा. ३. 'उच्चिनुप्व पतितानि कुसुमानि मा धुनु शेफालिका हलिकस्नुषे । एषोऽवसानविरसः श्वशुरेण श्रुतो वलयशब्दः ॥' इति च्छाया. ४. 'चन्द्र त्वं न गण्यसे यावदेष बलपत्रच्छायः । ग्रामस्य तिलकभूतः शोभते वटः इति च्छाया. का.६ .
३४ काव्यमाला। .. लुलगिरिपरस्परशृङ्गसङ्गघोरारवैर्मुररिपोरपयाति निद्रा॥' यथा च-'उभौ यदि व्योम्नि पृथ- प्रवाहावाकाशगङ्गापयसः पतेताम् । तेनोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः॥' सहभावकथनं सहोक्तिः। यथा-'संह दिअसनिसाइँ दीहरा सासदण्डा सह मणिवलएहिं बाहधारा गलन्ति । तुह सुहअ विओए तीइ उव्विग्गरीए सह अ तणुलदाए दुव्वला जीविदासा ॥' प्रतिषेधपुरःसरोक्तिराक्षेपः। यत्रोक्तो कस्यचिदुपमानादेर्वस्तुनः प्रतिषेधः प्रतीयते स आक्षेपः । यथा-'तद्वकं य- दि मुद्रिता शशिकला तच्चेस्मितं का सुधा सा दृष्टियदि हारितं कुवलयैस्ताश्चेदिरो धि- मधु । सा चेत्कान्तिरतन्त्रमेव कनकं किं वा बहु ब्रूमहे यत्सत्यं पुनरुक्तवस्तुविरसः सृष्टि- क्रमो वेधसः ॥' यथा च-ऐ एहि किं पि कीएवि कए णिकिव भणामि अलमहवा । अविआरिभकज्जारम्भआरिणी मरउ ण भणिस्सम् ॥' अयं च भूतभविष्यद्वर्तमानधर्मका- रणकार्यानुज्ञाप्रभुत्वानादराशीर्वचनपरुषसाचिव्यपरवशोपायरोषानुशयार्थान्तरप्रतिषेधादि- भेदेरनेकधा भवति । तस्य च नात्र विस्तरः ॥ अविरोधेऽपि विरोधप्रतीतिर्विरोधः । साक्षाद्विरोधे तु काव्यत्वासं- भवात् । यथा-'दिशामलीकालकभइतां गतस्त्रयीवधूकर्णतमालपल्लवः । चकार यस्याध्वरधू- मसंचयो मलीमसः शुक्लतरं निजं यशः ॥' यथा च-'ब्रह्मण्योऽपि ब्रह्मवित्तापहारी स्त्रीयु. तोऽपि प्रायशो विप्रयुक्तः । सद्वषोऽपि द्वेषनिर्मुक्तचित्तः को वा तादृग्दृश्यते श्रृ. यते वा ॥ विशेषस्य सामान्येन समर्थनमर्थान्तरन्यासः । साधर्येण वैधर्येण च । तत्र साधम्र्येण यथा--'अधिकुचतट पौष्पं दाम श्रुती किसलार्चिते बिसवलयितों पाणी श्रोणीलता रसनाञ्चिता । तदपि च तनोलक्ष्मीरस्याः स्फुरत्यपदं गिरां प्रकृतिसुभगे पात्रे वेषो य एव स एव वा ॥' वैधर्येण यथा-'अहो हि मे बह्वपराद्धमायुषा यदप्रियं वाच्यमिदं मयेदृशम् । त एव धन्याः सुहृदां पराभवं जगत्यदृष्ट्वैव हि ये क्षयं गताः ॥' अयं च श्लेषाविद्धविश्वव्यापिविशेषस्थ विरोधवदयुक्तकारियुक्तायुक्तादिभेदैरनेकधा भवति । तत्र श्लेषाविद्धो यथा-'दिवाकराद्रक्षति यो गुहासु लीनं दिवाभीतमिवान्धकारम् । क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चैःशिरसां सतीव ॥' १. 'सह दिवसनिशादीर्घाः श्वासदण्डाः सह मणिवलयेर्बाष्पधारा गलन्ति । तव सुभग वियोगे तस्या उद्वेगशीलायाः सह च तनुलताया दुर्बला जीविताशा ॥' इति च्छाया. २. 'अये एहि किमपि कस्या अपि कृते निष्कृप भणाम्यलमथवा । अविचारितकार्या- रम्भकारिणी म्रियतां न भणिध्ये ॥' इति च्छाया.
३ अध्यायः] काव्यानुशासनम् । ३९ :: कृतः॥ स्तुतौ निन्दा निन्दायां स्तुतिर्यत्र पर्यवसीयते सा व्याजस्तुतिः। स्तुतौ निन्दा यथा-'हे हेलाजितबोधिसत्त्व वचसां किं विस्तरैस्तोयधे नास्ति त्व- सदशः परः परहिताधाने गृहीतव्रतः। तृष्यत्पान्थजनोपकारघटनावमुख्यलब्धायशोभा- रनोद्वहने करोषि कृपया साहायकं यन्मरोः॥' निन्दायां स्तुतिर्यथा-'कीर्तिस्तव काल- पात्मजेन्दो भ्रमतितरां मुवनं समग्रमेतत् । अपरजनविलक्षणं तवेदं नौपच्छन्दसका वयं भवामः ॥ यथा च–'अस्माकं परमन्दिरस्य चरितं वक्तुं न युक्तं भवेत्स्वामी त्वं कथ. यामि तेन भवतः किंचित्प्रियादूषणम् । खामिन् राम कृतस्त्वया रणगृहे पाणिग्रहः सादर यस्याः सासिलता परस्य हृदये दृष्टा लुटन्ती मया ॥" साम्यस्य भेदकारणस्य चोक्तौ यद्वयोर्भेदकारणं स व्यतिरेकः । यत्र साम्यस्य सादृश्यस्योक्तावनुक्तौ वा भेदकारणस्य च धर्मस्योक्तावनुक्तौ वा यद्वयोरुपमानोपमेययोर्भेदकारणं स व्यतिरेकः । तत्र सादृश्यभेदयोरुतौ यथा-'रक्तस्त्वं नवपल्लवैरहमपि श्लाध्यः प्रियाया गुणैस्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्ताः सखे मा- मपि । कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः सर्वे तुल्यमशोक केवलमहं धात्रा सशोकः स च सदृशखजाति एकानेक श्लेषाक्षेपहेतुभेदैरनेकधा भवति । तत्र सदृशव्यतिरेको यथा--"त्वन्मुखं पुण्डरीकं च फुल्ले सुरभिगन्धिनी । भ्रमद्भमर- मम्भोजं लोलदृष्टिमुखं तु ते ॥' 'विद्युत्त्वन्तं ललितवनिताः सेन्द्रचापं सचित्रा संगी- ताय प्रहतमुरजा निग्धगम्भीरघोषम् । अन्तस्तोयं मणिमयभुवस्तुङ्गमभ्रंलिहायाः प्रासादा. स्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैः॥'खजातिव्यतिरेको यथा-'असंभृतं मण्डनमङ्गयष्टे- रनासवाख्यं करणं मदस्य । कामस्य पुष्पव्यतिरिक्तमत्रं बाल्यात्परं साथ वयः प्रपेदे ॥' सादृश्यात्प्रतिपत्तुः संशयः ससंदेहः । स च केवलो निर्णयान्तश्च । तत्र केवलो यथा--'अस्याः सर्गविधौ प्रजापतिरभूचन्द्रो नु कान्तिप्रदः शृङ्गारक- रसः स्वयं तु मदनो मासो नु पुष्पाकरः । वेदाभ्यासजडः कथं नु विषयव्यावृत्तकोतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥' निर्णयगर्भो यथा-'अयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः कृशानुः किं सर्वाः प्रसरति दिशो नेष नियतम् । कृतान्तः कि साक्षान्महिषवहनोऽसाविति चिरं समालोक्याजौ त्वां विदधति विकल्पान्प्रति- भटाः ॥' निर्णयान्तो द्विधा हेतोरुक्तावनुक्तौ च । तत्र हेतोरुक्तौ यथा-'किं नन्दी किं मुरारिः किमु रतिरमणः किं हरः किं कुबेरः किं वा विद्यश्वरोऽसौ किमुत सुरपतिः किं नलः किं कुमारः । नायं नायं न चायं न खलु न हि न वा नापि नासौ न चैष क्रीडां कर्तुं प्रवृत्तस्त्वयमिह हि हले भूपतिर्भोजदेवः ॥' प्रकृतस्य सदृशेनापलापोऽपद्दतिः । • यथा-'बाले नैते पयोदाः सुरपतिकरिणो नावकाः (१) कर्णपूराः, सौदामन्योऽपि : .
काव्यमाला । नेताः कनकमयमिदं भूषणं वारणानाम् । नेतत्तोयं नभस्तः पतति मदजलं वारिधाराव- धूतं तत्किं मुग्धे वृथा त्वं मलिनयसि मुखं प्रावृडित्यश्रुपातैः ॥' समेनासमेन वा व्यत्ययः परिवृत्तिः । निकृष्टेनोत्कृष्टेन वस्तुना व्यत्ययो व्यतिहारः परिवृतिः । यथा---'लतानामेतामामु- दितकुसुमानां मरुदयं निजं लास्यं दत्त्वा श्रयति बहुशो गन्धमसमम् । लतास्त्वध्वन्याना- महह दृशमादाय सहसा ददत्याधिव्याधिभ्रमिरुदितमोहव्यतिकरम् ॥' हेतोरर्थप्रतिपत्तिरनुमानम् । यथा-'सानुज्ञमागमिष्यन्ननं पतितोऽसि पादयोम्नस्याः । कथमन्यथा ललाटे यावक- रसतिलकपटिरियम् ॥' सदृशदर्शनात्पूर्वार्थस्मरणं म्मृतिः। यथा-'तम्यातीरे रचितशिन्वरः पशुलरिन्द्रनील कीडाशैल: कनककदलीवेष्टनप्रेक्ष- णीयः । मद्देहिन्याः प्रिय इति मुखे चेतमा कातरेण प्रेक्ष्योपान्तस्फुरिताडतं त्वां तमेव म्मरामि ॥' यथा च–'अपि तुरगसमीपादुत्पतन्तं मयूर न म रुचिरकलापं बाणलक्ष्या- चकार । सपदि गतमनस्कश्चित्रमाल्यानुकीण रतिविगलितवन्ध केशपारी प्रियायाः ॥' मिथ्याज्ञानं भ्रान्तिः। यथा-'वृक्षश्रेणीछन्नममस्तान्तरमार्ग रम्योद्याने कालपफ्नो भवदीये । मेघभ्रान्त्या- भानुकरौघादर्शिनो(१)मी केकायन्ते मनमयूगम्नत बहाः । यथा वा---'पन्थानमाशु वि- जहीहि पुरा स्तनी ते पश्यन्प्रतिद्विरदकुम्भविशक्षिताः। म्नम्बरमः परिणिनं मरमा- वुपैति शृङ्गरगद्यत ससंभ्रममेवमेका ॥' असंभावितसंबन्धः कार्याभावेऽनर्थश्च विषमम् । यत्रासंभावितस्याघटमानम्यार्थम्य संबन्धः क्रियते, नद्विपमम । यथा-व चायं भूभागः क च गगनमतद्यवहितं तथाप्यम्भोराशिविकमति मिनांशोः समुदये । वृथा प्रत्यासत्तिः किमु किमपि मृष्यं तदपरं यदलन्तं भावान्घटयति विदृरानपि मिथः ॥' यत्र न केवलं कार्यस्यासिद्धिः किं तु प्रत्युतानर्थश्च तदपि विषमम् । यथा-'प्रणयकुपितां दृष्ट्वा देवी गसंभ्रमविम्मितत्रिभुवनगुरुभीत्या सद्यः प्रणाम- परो भवान् । नमितशिरसो गङ्गालोके तया चरणाहताववतु भवतध्यक्षस्यैतद्विलक्षम- वस्थितम् ॥ औचित्येनोत्कृष्टापकृष्टयोर्योगः समम् । उत्कृष्भ्योर्यथा-'शशिनमुपगतयं कौमुदी मेघमुक्तं जलनिधिमनुरूपं जगुकन्यावतोणा। इति समगुणयोगप्रीतयस्तत्र पौराः श्रवणकटु नृपाणामेकवाक्यं विववः ॥' निकृष्टयोरी.
३ अध्यायः ] काव्यानुशासनम् । ४१ था-'न खलु वयममुष्य दानयोग्याः पिबति च पाति च यासको रहस्त्वाम् । व्रजवि- टपममुं ददस्व तस्यै भवतु यतः सदृशोश्चिराय योगः ॥' हेतोत्वन्तरस्य कार्ये कार्यान्तरस्याभिधानं समुच्चयः । यथा-'पउरजुवाणो गामो महुमासो जोव्वणं पइटेरो। साहीणा जुण्णसुरा असही मा होउ किं मरउ ॥' यथा च--'स्फुरदद्भुतरूपमुत्प्रतापज्वलनं त्वां सृजतानवद्यविद्यम् । विधिना समजे नवा मनोभूर्भुवि सत्यं नविता वृहस्पतिश्च ॥' अनेकेपामेकत्र निबन्धस्त्वन्यः । यथा-'माहिपं दधि मशकरं पयः कालिदासकविता नवं वयः। शारदेन्दुरबला च कोमला स्वर्गशेषमुपभुनते जनाः ॥ गुणक्रियायां युगपदभिधानमपरः । यथा--'अलसलुलितमुग्धस्निग्धनिस्पन्दमन्दैरधिकविकसदन्तर्विम्मयस्मेरतारैः। हृदय- मशरणं में पक्ष्मलाक्ष्याः कटाक्षरपहृतमपविद्धं पीतमुन्मूलितं च ॥' पृष्टमपृष्टं वा यदन्यव्यवच्छेदपरतयोच्यते सा परिसंख्या । यथा-'कौटिल्यं कचनिचये करचरणाधरदलेषु रागस्ते । काठिन्यं कुचयुगले तर- लत्वं नयनयोवगति ॥ पूर्वस्योत्तरमुत्तरं प्रति हेतुत्वे कारणमाला । यथा-'जितेन्द्रियत्वं विनयम्य कारणं गुणप्रकर्षों विनयादवाप्यते । गुणप्रकर्षण जनो ऽनुरज्यते जनानुरागप्रभवा हि संपदः ॥' प्रस्तुतार्थप्रसिद्ध्यै निदर्शनं दृष्टान्तः । साधर्येण वैधयेण च । यथा—'महाभूतः पुत्रवतोऽपि दृष्टिस्तस्मिन्नपत्ये न जगाम तृप्तिम् । अनन्तपुष्पस्य मधोर्हि चूतं द्विरेफमालाः मविशेषसङ्गाः ॥ यथा च'नवाहवे साहसकर्मनर्मणः पाणि कृपाणान्तिकमानिनीपतः । भटाः परेषां विशरारुतामगुर्दधत्यवाते स्थिरतां हि पांसवः॥' पूर्वपूर्वार्थनिष्ठानामर्थानामुत्तरोत्तरं विधिनिषेधाभ्यां विरचनैकावली । यथा-'पुगणि यस्यां सवराङ्गनानि वराङ्गना रूपतिरस्कृताङ्ग्यः । रूपं समुन्मीलित- सद्विलासमस्त्रं विलासाः कुसुमायुधस्य॥ यथा च–'न तज्जलं यन्न सुचारुपङ्कजं न पङ्कजं तद्यदलीनषट्पदम् । न षटपदोऽसौ कलगुञ्जितो न यो न गुञ्जितं तन्न जहार यन्मनः ॥' उद्देशक्रमेणार्थानां प्रतिनिर्देशो यथासंख्यम् । यथा---'मृगमीनसज्जनानां तृणजलसंतोषविहितवृत्तीनाम् । लुब्धकधीवरपिशुना नि:- कारणवैरिणो जगति ॥ १. 'प्रचुरयुवा ग्रामो मधुमासो यौवनं पतिः स्थविरः । स्वाधीना जीर्णसुरा अस्ती मा भवमु किं म्रियताम् ॥' इति च्छाया.
४२ काव्यमाला। साभिप्रायविशेषणैर्भक्तिः परिकरः। यथा-वल्मीकः किमुतोद्धतो गिरिरियत्कस्य स्पृशेदाशयं त्रैलोक्यं तपसा जितं यदि मदो दोष्णां किमेतावता । सर्व साध्वथ [सं] रुणद्धि विरहक्षामस्य रामस्य चेत्त्वद्दन्ताति- तवालिकक्षरुधिरक्लिन्नाग्रपुखं शरम् ॥' वस्तुसंपत्त्या महदुपलक्षणेन च वर्णनमुदात्तम् । यथा-'उच्चीयन्तेऽस्य वेश्मन्यवि...रहिते यत्नतः श्रोत्रियाणां यत्र श्यामाकबीजान्यपि चटकवधूचञ्चकोटिच्युतानि । यस्मिन्दातयकस्माञ्चटुलबहुकराकृष्टहारावचूलभ्रष्टास्तत्रैव दृष्टा युवतिभिरलसं चूर्णिता मौक्तिकौघाः ॥' यथा च-'मुक्ताः केलि विसूत्रहारगलिताः संमार्जनीभिर्हताः प्रातः प्राङ्गणसीन्नि मन्थरचलद्वालाशिलाक्षारुणाः । दूरादाडिमबीजश- वितधियः कर्षन्ति केलीशुका यद्विद्वद्भवनेषु भोजनृपतेस्त्वत्त्यागलीलायितम् ॥' महदुप- लक्षणं यथा-'तदिदमरण्यं यस्मिन्दशरथवचनानुपालनव्यसनी । निवसन्बाहुसहायश्च- कार रक्षःक्षयं रामः' कार्यमारभमाणस्य दैवादुपायसंपत्तिः समीहितम् । यथा-'मनस्विनी वल्लभवेश्म गन्तुमुत्कण्ठिता यावदभून्निशायाम् । तावनवाम्भोधर- धीरनादप्रबोधितः सौशिखी चुकूज ॥' कारणाभावेऽपि कार्योपक्षेपो विभावना । यथा-'अनाहूतसहायस्त्वं त्वमकारणवत्सलः । अनभ्यर्थितसाधुस्त्वं त्वमसंबन्धबा- न्धवः ॥' यथा च-'वनेचराणां वनितासखानां दरीगृहोत्सङ्गनिषतभासः। भवन्ति यत्रौषधयो रजन्यामतैलपूराः सुरतप्रदीपाः ॥' यत्र क्रियया परस्परं कार्यकारित्वं तदन्योन्यम् । यथा-'कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तुलस्य । अन्योन्यशो. भाजननाद्बभूव साधारणो भूषणभूष्यभावः ॥' नित्येनागन्तुना वापरेण हर्षकोपादि यत्र तिरस्क्रियते तन्मीलितम् । नित्येन यथा-'तिर्यक्प्रेक्षिततरले सुस्निग्धे च स्वभावतस्तस्याः। अनुरागो नयनयुगे सन्नपि केनोपलक्ष्येत ॥' आगन्तुकेन यथा-'मदिरामदभरपाटलकपोलतललोचनेषु वद- नेषु । कोपो मनखिनीनां न लक्ष्यते कामिभिः प्रभवन् ॥' प्रसिद्धाधारं विनाप्याथ्यावस्थान विशेषः । यथा-'दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम् । रमयन्ति नगन्ति गिरः कथमिव कवयो न ते वन्याः ॥' १. 'रुतिः' इति काव्यप्रदीपे. .
३ अध्यायः] काव्यानुशासनम् । ४३ .. अर्वाचीनस्यार्थस्य पृथगभिधानं पूर्वम् । यथा---'हृदयमधिष्ठितमादौ मालत्याः कुसुमचापबाणेन । चरमं रमणीवल्लभ लोच. नविषयं त्वया भजता ॥' कार्यकारणयोरभेदो हेतुः । यथा-'अविरलकमलविकासः सकलालिमदश्च कोकिलानन्दः । रम्योऽयमति संप्रति लोकोत्कण्ठाकरः कालः ॥' समुदायादुत्कृष्टोत्कृष्टनिर्धारणं सारम् ॥ यथा-'संसारे मानुष्यं सारं मानुष्यके च कौलीन्यम् । कोलीन्ये धर्मित्वं धर्मित्वे चापि सदयत्वम् ॥ इनिताकारलक्ष्येऽर्थे सूक्ष्मम् । यथा-'अद्यापि तन्मनसि संप्रति वर्तते मे रात्रौ मयि क्षुतवति क्षितिपालपुश्या। जीवेति मङ्गलवचः परिहत्य कोपात्कणे कृतं कनकपत्रमनालपन्त्या ॥' कार्यतो गुणदोषविपर्ययो लेशः । तत्र गुणस्य दोषीभावो यथा-'द्वित्रैः पाणिसरोरुहं त्रिचतुरैर्धम्मिल्लमाल्यस्रजः कण्ठान्मौक्तिकमालिकास्तदनु च क्षिप्ताः पदैः पञ्चषैः । हित्वा भरपरम्परामिति जवा- त्वदर्शनोत्कण्ठिता तन्वङ्गी निरुपायमध्वनि मुहुः श्रोणीभरं निन्दति ॥' दोषस्य गुणीभावो यथा-'सन्तः सच्चरितोदयव्यसनिनः प्रादुर्भवद्यन्त्रणाः सर्वत्रैव परापवादचकितास्तिष्ठ- त्यहो दुष्करम् । अव्युत्पन्नमतिः कृतेन न सता नैवासता व्याकुलो युक्तायुक्तविवेक- शून्यहृदयो धन्यो जनः प्राकृतः ॥' निन्दासमता वोपमानेनोपमेयस्य भङ्गया स्तुतिर्वा प्रतीपम् । निन्दा यथा-'वदनमिदं सममिन्दोः सुन्दरमपि ते कथं चिरं न भवेत् । मलिन- यति यत्कपोलौ लोचनसलिलं हि कज्जलवत् ॥' समता यथा-'गर्वमसंवाह्यमिमं लो- चनयुगलेन वहसि किं भद्रे । सन्तीदृशानि दिशि दिशि सरःसु ननु नीलनलिनानि ॥' एकत्राधारे यत्राधेयद्वयस्यैकेनैकं पिधीयते तत्पिहितम् । यथा-'अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्य विलोपि जातम् । एकोऽपि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ॥' १. काव्यप्रदीपेतु कार्यकारणयोः पौर्वापर्यविवर्ययरूपातिशयोक्त्युदाहरणत्वमङ्गीकृतम्. २."नन्वेवमत्र कार्यकारणभावालंकृतिप्रपञ्चनप्रसङ्गेन हेत्वलंकारोऽपि लक्षणार्हः । उक्तश्चायं भट्टोद्भटेन-हेतुमता सह हेतोरभिधानमभेदतो हेतुः' इति । तत्किं न लक्षितः इति चेत् 'आयुघृतम्' इत्यादिरूपस्यास्य वैचित्र्याभावेनालंकारत्वस्यैवाभावात् ।" इत्यादि कारणमालालंकारप्रकरणे काव्यप्रदीपे द्रष्टव्यम्. .. ..
४४ काव्यमाला। -- •. एकेन कृतकार्यमपरेण तथैवान्यथा विधीयते स व्याघातः । यथा-'दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः। विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः ॥' यत्र कार्यकारणयोर्युगपद्भिन्नदेशतयोपलम्भः सा असंगतिः । यथा-'अनया जघनापायभयमन्थरया तया । अन्यतोऽपि वजन्या मे हृदये निहितं पदम् ॥ विकारहेतावप्यविकृतिरहेतुः । यथा-'निद्रानिवृत्तावुदिते धुरत्ने सखीजने द्वारपदं पराप्ते । श्लथीकृतालपरसे भुजंगे चचाल नालिङ्गनतो नताशी ॥' विशेषोक्तिरिति काव्यप्रकाशः । एकस्मिन्वाक्येऽनेकार्थता श्लेषः । यथा-'उदयमयते दिट्यालिन्यं निराकुरुततरां नयति निधनं निद्रा मुद्रा प्रवर्तयति श्रियम् । रचयतितरां खैराचारप्रवर्तनकर्तनं बत यत लसत्तेजःपुञ्जा विभाति विभाकरः ॥'. अत्रैकस्मिन्पक्षे विभाकरो नाम राजा । प्रकृतमुक्षिप्य वक्ता यदन्यथा मन्यते तन्मतम् । यथा-'यदेतत्कन्यानामुरसि तरुणीसङ्गसमये कृतोद्भदं किंचित्पुलकमिदमाहुः किल जनाः। मतिस्त्वेषास्माकं कुचयुगतटीचुम्बकाशलासमावेशाकृष्टस्मरशरशलाकोत्कर इव ॥' उत्तरवचनश्रवणात्प्रश्नोन्नयनमुत्तरोत्तरम् । यथा--'गतं तिरश्चीनमनूरुसारथेः प्रसिद्धमूर्ध्व ज्वलनं हविभुजः । पतत्यधौ धाम विसारि सर्वतः किमेतदित्याकुल मीक्षितं जनैः ॥' सामान्यं सामान्येन यत्समर्थ्यते स उभयन्यासः । यथा-'आपत्समुद्धरणधीरधियः परेपां जाता महत्यपि कुले न भवन्ति सवै । विन्ध्याटवीषु विरलाः खलु पादपास्ते ये दन्तिदन्तमुशलोल्लिखितं सहन्त ॥' यत्र प्रतीयमानोऽर्थों वाच्योपयोगी स भावः । यथा-'ग्रामतरुणं तरुण्या नववञ्जलमञ्जरीसनाथकरम् । पश्यन्या भवति मुहुनितरा मलिना मुखच्छाया ॥' एकमनेकस्मिन्क्रमेण भवति स पर्यायः । यथा--'तेनामरवधूहस्तसदयालूनपल्लवाः । अभिज्ञाछेदयातानां क्रियन्ते नन्दनद्रुमाः॥' उद्भूतवस्तुनश्छमना निगृहनं व्याजोक्तिः । यथा-'शैलेन्द्रप्रतिपाद्यमानगिरिजाहस्तोपगृढोलसद्रोमाञ्चादिविसंस्थुलाखिलविधिव्या- यामभङ्गाकुलः । हा शैत्यं तुहिनाचलस्य करयोरित्यूचिवान्सस्मितं शलान्तःपुरगतृमण्ड'- लगणदृष्टोऽवताद्वः शिवः ॥'
३ अध्यायः ] काव्यानुशासनम् । ४५ आधारादाधेयस्या(धेयादाधारस्य वा)धिक्येऽधिकम् । तत्राधारादाधेयस्याधिक्यं यथा-'युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां सवि- काशमासत । तनी ममुस्तत्र न कैटभद्विषस्तपोधनाभ्यागमसंभवा मुदः ॥' आधेयादाधा- रस्याधिक्यं यथा-'नवन्दुना तन्नभसोपमेयं शावकसिंहेन च काननेन । रघोः कुलं कु- ड्मलपुष्करेण तोयेन चाप्रौढनरेन्द्रमासीत् ॥' प्रतिपक्षबाधाशक्तौ तदीयतिरस्कारे प्रत्यनीकम् । यथा-'चक्रेण विष्णोः कृतशीर्षशेषः प्रहर्तुमिच्छन्नपि नास्य शक्तः। राहुः समानाख्य- तयैव वध्यान् तमोमिषः सन् भजति स्म चक्रान् ॥' एकस्यैवोपमानोपमेयत्वेऽनन्वयः । यथा-'गगनं गगनाकारं सागरः सागरोपमः । रामरावणयोयुद्ध रामरावणयोरिव ॥' यत्र वस्तु खगुणमुत्सृज्यान्यगुणयोगात्तद्गुणतामेति स तद्गुणः । यथा-'विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या । रत्नैः पुनयंत्र रुचा रुचं स्वामानिन्यिरे वंशकरीरनीलैः ॥' तत्संश्लिष्टमपि वस्तु यद्गुणं नाश्रयति सोऽतद्गुणः । यथा-'सजणसङ्गेण विदुजणस्स कमुसिमानओसरई । सांसमण्डलमब्भपरिहि उहि किस णुव्विय कुरंगो ॥ खात येणाङ्गत्वेन संशयेनैकपद्येन वा अलंकाराणामेकत्रावस्थानं संकरः । तत्र परस्परनिरापेक्ष्यं खातन्त्र्यं यथा-'मधुरया मधुबोधितमाधवी मधुसमृद्धिसमेधि- तमेधया । मधुकराङ्गनया मुहुरुद्धतध्वनिभृता निभृताक्षरमुजगे ॥' अत्र यमकानुप्रा. सयोः शब्दालंकारयोः संकरः। 'लिम्पतीव तमोऽशानि वर्षतीवाअनं नभः । असत्पुरुषसे- वेव दृष्टिर्निष्फलतां गता ॥'अत्रोत्प्रेक्षोपमयोः ॥ यथा---'हुतहुताशनमर्मरचूर्णतां दधुरि- वाम्रवणस्य रजःकणाः । निपतिताः परितः पथिकवजानुपरि ते परिते पुरतो भृशम् ॥' अत्र यमकोत्प्रेक्षयोः शब्दार्था)लंकारयोः । उपकारकत्वमङ्गत्वम् । यथा-'हरिरिव बलिबन्ध- करस्त्रिशक्तियुक्तः पिनाकपाणिरिव । कमलाश्रयश्च विधिरिव जयति श्रीमूलराजनृपः॥' अत्र श्लेष उपमाया अङ्गम् संशय एकतरस्यानिर्णयः । यथा-'नयनानन्ददायीन्शबिम्बमेतत्प. सीदति । अधुनापि निरुद्धाशमविशीर्णमिदं तमः ॥' अत्र मुखेन सहाभेदारोपाकिमति- शयोक्तिः । किमेतदिति मुखं निर्दिश्य इन्दुसमारोपणात् रूपकम् । किं मुखनैर्मल्या- स्तावेऽन्योक्तिः । अर्थतयोः समुच्चय विवक्षायां दीपकम् । किं प्रदोषवर्णने विशेषणसाम्या: समासोनिः । किं मदनोद्दीपककालो वर्तत इति पर्यायोक्तिरित्यनेकालंकारसंशयः । एक- स्मिन्पदेऽर्थशब्दालंकारयोरनुप्रवेश एकपद्यम् । यथा-'प्रथममरुणच्छायस्तावत्ततः कुन- का.७ ४६ काव्यमाला। .. कप्रभस्तदनु विरहोत्ताम्यत्तन्वीकपोलतलद्युतिः । उदयति ततो ध्वान्तध्वंसक्षमः क्षणदा. मुखे सरसबिसिनीकन्दच्छेदच्छविम॑गलाञ्छनः ॥' अत्र जात्यनुप्रासयोः॥ इष्टार्थस्याशंसनमाशीः । यथा-'अजस्रं यस्योच्चैः स्फुरदुरुभुजस्तम्भशिखरः स्थितो मुग्धस्निग्धां जननिच- यरोचिः ः कचचयः। प्रशस्तिप्रागल्भ्यं वहति मदमोहारि विजये श्रियं वः स श्रीमान् प्रथम. जिननाथः : प्रथयतु ॥' इति महाकविश्रीवाग्भटविरचितायामलंकारतिलकाभिधानखोपज्ञकाव्यानुशासन- वृत्ती अर्थालङ्कारनिरूपणो नाम तृतीयोऽध्यायः । चतुर्थोऽध्यायः । अर्थालंकारानुक्त्वा शब्दालंकारानाह- चित्रश्लेषानुप्रासवक्रोक्तियुक्तियमकपुनरुक्तवदाभासाः षट् शब्दालं- काराः । क्रमेण लक्षयति- आकारगतिवरव्यञ्जनस्थाननियमच्युतगुप्तादिभेदैरनेकधा चित्रम् । ब- न्धस्य खड्गधनुर्बाणमुसलशूलशक्तिहलच्छत्रपद्ममुरजचक्रवस्तिकाद्याकार- सादृश्यादाकारचित्रम् । तत्र खड्गबन्धो यथा--'भव्यानां परमानन्दकन्दोद्भेदघनाघनः । नतामरशिरोरत्न वि. वर्धितनखप्रभा ॥' 'भवाब्धिपरपारान्तप्रापणा पोतसंनिभा । भर्ता विमलतीर्थश कुरु में निर्मलं मनः॥ धनुबन्धो यथा-'अनन्तज्ञानसंताननिध्यातभुवनत्रयः। यतीन्द्रसेव्य चरणः श्रियेऽनन्तजिनोऽस्तु वः ॥' वाणबन्धो यथा-'मुखेन्दुचन्द्रिकापूररतामरचकोरकः । करोतु धर्मो निर्मारः मुरलोकनतः श्रियम् ॥' मुसलबन्धो यथा-'सदाशान्तिर्जगन्नाथः श्रियं शान्ति तनोतु नः । नतशान्तशचीनाथः कृतशान्त्यचनो हि सः॥ शूलबन्धो यथा- 'नित्यं कुन्थ्वादिसत्त्वेष्वहिंस्रः कुन्वितिसंज्ञकः । करिराज कराकारकरो मामवताजिनः ॥' शक्तिबन्धो यथा-'पदं श्रियामराभिख्यो भित्कारेजिनः परः । रदनच्छेदधामोमो मो- दायास्तु शिवप्रदः ॥' अम्य व्याख्या-अराभिख्योऽराभिधानो जिनो मोदायास्तु । क. थंभूतः । भित्कारेभिनत्तीति भित् भेदकः । कस्य । कारेः कर्मरूपशत्रोः। पुनः कथंभूतः । रदनच्छेदधामोमः रदनच्छेदधामा करिकलभदन्तच्छेदधवला उमा कीर्तिर्यस्य स तादृशः। शेषं संबोधनम् । हलबन्धो यथा-'श्रियं वितनुतां मल्लिसखा जिनमतल्लिका । कामं कु- न्दविभोदाररदांशुहततामसः ॥' जिनमतल्लिका जिनप्रधानं तमसां समूहस्तामसम् ॥ छ- त्रबन्धो यथा-'श्रिये श्रीमुव्रतो देवः श्रितो मुनिभिरस्तु वः । नरामरनमन्मौलिलिह्यमा- नक्रमो जिनः ॥' पद्मबन्धो यथा-'एनश्छिनत्तु न इनः सुनयेन पुनः पुनः । ध्यानज्ञान- - ..
४ अध्यायः ] काव्यानुशासनम् । ४७ .. धनस्थानः स्वनमिर्ध्वनदनः स्वनः॥' तिष्ठन्त्यस्मिन्निति स्थानः। अधिकरणेऽत्रानप्रत्ययः। ध्यानज्ञानधनस्थानः शब्दायमानशकटस्वनः । अत्र कविनात्मशक्त्यतिशयात् गोमूत्रिका- चित्रमा यन्तीवितम् ॥ मुरजबन्धो यथा-'नेमिनाथ जिनाविघ्नं शमिनां तनु नाविभ । भविना नुत नागश्रीस्त्वां विनाथ धनागसाम् ॥' व्याख्या-हे नेमिनाथ जिन शमिना- मविघ्नं विन्नाभावं तनु । कथंभूत । नाविभ न निःप्रभ अपि तु सप्रभ । तथा भविना संसारिणा नुत । भविनेति जातावेकवचनम् । तथा त्वां विना धनागसां घनपापानां पु- रुषाणां न अगश्रीभवति । न गच्छतीति अगा अविनश्वरेत्यर्थः । अयमभिप्राय:-स. पापा अपि पुरुषास्त्वां सेवमानाः पापमुक्तेरगश्रियं लभन्ते । कविनामाङ्कितो य उरचकबन्धो यथा-'सर्वं कृन्ततु कल्मषं स भवतो वाग्भत्सितासौहृदः सदीतिश्रितवि- श्वपार्श्वभवहृत्कूटस्थिरोऽमर्महा । निर्मारः परवारिदप्रभतनुर्यस्य स्फुटा हारभाभात्कीर्तिः सकले सदावनितले दत्तेशहासप्रभा ॥' व्याख्या -भवं हरन्तीति भवहृजिनः। पावाभि- धानो । भवहन पार्शजिन इत्यर्थः । सांत शोभना रीतिर्यस्य स सद्रीतिः। श्रितं विश्वं जग- यस्य स श्रितविश्वः । सद्रीतिश्चसौं श्रितविश्वश्च सद्रीतिश्रितविश्वः । स चासौ पार्श्वभवहच्च सद्रीतिश्रितपावभवहत् भवतः सर्व कल्मपं कृन्ततु छिनत्तु । कथंभूतः । कूटस्थिरः । कूटं गिरिशृङ्गं तत्स्थिरो निश्चलः । पुनः कथंभूतः । अमर्महा । न मर्माणि हन्तीति अमर्महा । निमारो निष्कंदपः । परवारिदप्रभा श्यामवर्णा तनुर्यस्य । पुनः कथंभूतः । वाग्भसितासौहृदः । वाचा वचनेनापि भत्सितं निराकृतमसौहृदनवात्सल्यं येन । यस्य पार्श्वजिनम्य स्फुटा प्रकटा हारप्रभा कीर्तिरभात् । कथंभूता सकलेऽवनितले दत्तेशहा- सप्रभा ईशस्य हासप्रभा धवलितेत्यर्थः । सा दत्ता यया सा तथोक्ता । खस्तिकबन्धो यथा-'प्रसीद स सदा वीर प्रभो धीर रजोम्बुद । प्रति मां ददख श्रेयः प्रधानायय स- द्यशः ॥ हे वीर स प्रसिद्ध । सेति वीरस्य विशेषणम् । प्रसीद । कथंभूत । रजोम्बुद । तथा मां प्रति श्रेयो ददस्व । प्रधान उत्तम । तथा सद्यश आयय प्रापय । 'अय गतौ'। अयमानं प्रयुक्ते आययति । आदिशब्दादष्टारद्वादशारचक्रसप्तचक्रिकगोमूत्रिकानन्द्यावर्त. भृङ्गारचामरघण्टाप्रभृतीनि तत्सदृशनामान्यूह्यानि ।। गतिचित्रं सर्वतोभद्रगतप्रत्यागतगोमूत्रिकाईभ्रमरथपदतुरगपदगजपदा- दिभेदैरनेकधा भवति । तत्र सर्वतोभदं यथा-'देवाकानिनि कावादे वाहिकाखखकाहि वा। काकारेभभरे काका निस्वभव्यव्यभवनि ॥, 'वारणागगभीरा सा साराभीगगणारवा । कारितारिवधा सेना नासेधा वरितारिका ॥' एवमन्यदपि ॥ हखादिवरनियमो खरचित्रम् । १: किरातार्जुनीये पञ्चदशसर्गे पञ्चविंशोऽयं श्लोकः. २. शिशुपालवधैकोनविंशसर्ग- चतुश्चत्वारिंशोऽयं श्लोकः.
४८ काव्यमाला। यथा-'जय मदनगजनमन वरकमलभगतमन । गतजनन मदमरण भव भयग- नरशरण ॥' अत्र सर्वत्र हस्खोऽकारः । एवं ह्रखनेकारादिना दीर्घणाकारादिना द्विव्या- दिखरैश्चोदाहार्यम् ॥ एकद्विव्यादिव्यञ्जननियमो व्यञ्जनचित्रम् । एकव्यञ्जनं यथा-'किकांकुकुं ककेकाङ्क केकिकोकैककः ककः । ककुकी कः कका काकः कक्काकुकुक का ककुः ॥ द्विव्यञ्जनचित्रं यथा-'दूरादारदरोदार दूरोदरदुरादुरः । दरदी दद्गुरदरा दारं दारं दरैरदान् ॥' एवं न्यादिव्यञ्जनचित्रं उदाहार्यम् ॥ कण्ठतालमूर्धदन्तौष्ठादिस्थाननियमः स्थानचित्रम् । यथा-'सूनुसूनूदितिसूनुं निन्युर्युद्भूमिमुब्भितुम् । स्थितिमूवुः श्रुतिनीतिस्मृती इषु रुजीदृशी ॥' अकण्ठ्योऽयम् । 'आसाद्य सात्वतो बाणं प्राणति कृष्णसर्पवत् । तत्पृष्टो तारथोपस्थं मोहापन्नोपतत्परः ॥' अतालव्योऽयम् । 'भौमसूनुं समायान्तं समायान्तं महाभुजः । अभ्यगच्छद्वासुदेवो वासुदेवो मधुं यथा ॥' अमूर्धन्यः । 'उभयोः शरैरा- जीभिरराजीभिश्चमूकयोः । अर्काशुश्रीः पराभाजि पराभाजि च खाजिरे ॥' अदन्त्यः । 'नाचालीत्सात्यकिः शौर्यात्स तेन निहतस्तथा । गिरिः कररदाघातः करिणा कीर्तयेऽत्र किम् ॥' निरौष्टयः ॥ मात्राबिन्दुर्वर्णादिभेदैच्युतमनेकधा । तत्र मात्राच्युतकं यथा-'भूतियोजितभर्तव्यः कृपणाक्रान्तमण्डलः । महापद- शुभावास त्वत्समः कुपतिः कुतः ॥' अत्र कृपणेति आकारम्य च्युतिः । बिन्दुच्युतकं यथा-'सहसा नलिनी ताराशारिता गगनावनिः । शोभते भूमिपालानां सभा च विवुधाश्रिता ॥' मह हंसेन वर्तते सहमा । वर्णच्युतकं यथा-'परहिततत्परो दुरित- वारहरी भगवान्भयनाशको जगति वीर इति मुरवन्दितः प्रथितशान्तिरलं मदनापहः शिवसुखं शिवोद्भवो भवक्षयनाशको जगति वीर इति प्रभवः श्रियां नरसुरवन्दितः प्र. थितशान्तिरलं वृषभो जयी जिनो मदमदनापहः शिवसुखं तनुतां भवतां मुहुर्मुहुः ॥'अत्र सिद्धिछन्दसि नेमिनाथस्तुतिः । अत्र चान्तरवृत्तम्-‘परहिततत्परो दुरितवारहरो भ- गवान्भवभयनाशको जगति वीर इति । सुरवन्दितः प्रथितशान्तिरलं मदनापहः शिव- मुखं तनुताम् ॥' अत्र प्रमिताक्षरे छन्दसि श्रीवीरनाथस्तुतिः । 'दुरितवारहरो भगवा शिवो जगति वीर इति प्रभवः श्रियाः । प्रथितशान्तिरलं वृषभो जयी शिवमुखं तनुतां भवतां मुहुः ॥' अत्र द्रुतविलम्बितछन्दसि वृषभनाथस्तुतिः ॥ गुप्तकं क्रियाकारकसंबन्धविषयत्वेन चतुर्धा । तत्र क्रियागुप्तकम्-'प्रत्यक्षेपि परोक्षेपि येन वीर्य महीभृताम् । तस्य देवतुरुष्कस्य के गुणग्रहणे वयम् ॥' अत्र प्रत्यक्षेपीति क्रिया। कारकगुप्तकं यथा--'केनेमौ दुर्विदग्धेन १-५.श्लोका अनवगतार्थाः. ६. एतदुदाहरणपद्यानि दुर्बोध्यानि.
४ अध्यायः] काव्यानुशासनम् । ४९ - हृदये विनिवेशिता । पिबतस्ते शरावेण वारि कहारशीतलम् ॥' अत्र शराविति कर्मणो गुप्तत्वम् । संवन्धगुप्तकं यथा-'न मया गोरसाभिज्ञ चेतः कम्मात्प्रकुप्यसि । अस्थान. रुदितैरेभीरत्नमालोहितेक्षणे ॥' अत्र न मे अगोरसाभिज्ञमिति संबन्धगुप्तकम् । पादगु- प्तकं यथा-'यु वियद्गामिनी तारसंराव विहतश्रुतिः । हेमेषु माला शुशुभे ।' अत्र 'वि- धुतामिव संहतिः' इति चतुर्थपादस्य गुप्तत्वम । आदिशब्दात्प्रश्नोत्तरप्रहेलिकादुर्वचका- दयोऽपि भवन्ति । परं कष्टकाव्यत्वात्क्रीडामात्रफलत्वान्नात्र प्रपचिताः ॥ परोक्तस्य श्लेषेण काका वान्यथोक्तिर्वक्रोक्तिः । तत्र श्लेषवक्रोक्तिर्द्विधा भङ्गश्लेषेणाभङ्गश्लषेण च। तत्र भङ्गश्लेषेण यथा-'सद्वाः प्रेयसि दीयतां प्रियतम द्वारं किम(मु)च्छाद्यते सत्कं मुन्दरि याचितं कथय मे कि कस्य सत्कं प्रिय । श्रीनाभेयजिनम्य मैजनजलं कम्त्वं जनः किं जलं दम्पत्यै रिति जल्पितं जिनपतेः नानोत्सवे पातु वः ॥' अभश्लेषे यथा-'कोऽयं द्वारि, हरिः, प्रयाापवनं शाखामृगस्यात्र किं, कृष्णोऽहं दयिते, विभेमि नितरां कृष्णादहं वानरात् । कान्तेऽहं मधु- सूदनो, व्रज लतां तामेव मध्वन्वितामित्थं निर्विषयीकृतो दयितया हीतो हरिः पातु वः ॥ यथा च-'भर्तुः पार्वति नाम कार्नय न चत्वां ताडयिष्याम्यहं क्रीडाब्जेन शि- वति सत्यमनघे किं ते शृगालः पतिः । नो स्थाणुः किमु कीलको नहि पशुस्वामी तु गोप्ता गवां दोलाखेलनकर्मणीति विजयागौर्योगिरः पान्तु वः ॥' भिवकण्टो ध्वनिः काकुः । तदक्रोक्तियथा-'लाक्षागृहानलविषानसभाप्रवेशः प्राणेषु वित्तनिचयेषु च नः प्रहृत्य । आकृप्य पाण्डववधूपरिधान केशान्वस्था भवन्ति मयि जीवति धार्तराष्ट्राः ॥' यथा च 'अपि चण्डानिलोद्भुततरङ्गस्य महोदधेः । शक्येत प्रसरो रोर्बु नानुरक्तस्य चेतसः ॥' अदूरान्तरितावृत्तिरनुप्रासश्छेकवृत्तिलाटभेदेन त्रिधा । आवृतिः पुनः पुनर्निवन्धः । अर्थाद्वर्णानां पदानां वा । सररमाद्यनुगतः प्रकृष्टो न्यागोऽनुप्रासः ॥ स च त्रिधा भवतीत्याह- सकृद्वर्णावृत्तिश्छेकानुप्रासः । वर्णावृत्तिरिति समस्तं पदम् । यत्रैकम्य यथा-'ततोऽरुणपरिस्यन्दमन्दीकृतवपुः शशी । दधे कामपरिक्षामकामिनीगल्लपाण्डुताम् ॥' अनेकवर्णानां यथा-'निरानन्दः कौन्दे मधुनि विधुरो बालबकुले न साले सालम्बो लवमपि लवङ्गे न रमते । प्रियङ्गोनों सङ्गं रचयति न चूते विचरति स्मरॅलक्ष्मीलीलाकमलमधुपानं मधुकरः ॥' १. व्यञ्जनपरस्यकस्यानेकस्य वा समानव्यञ्जनस्योचारणे श्रवणयोर्विशेषाभावस्य 'दीडो युडचि-' इति सूत्रभाष्यसंमतत्वेन जलद्वारार्थकता. २. 'सुखशीर्षजलेषु कम्' इति मंदिनीतो जलार्थकशब्दस्य सुखार्थत्वमपि. ३. नानजलमित्यभिप्रायवतो मजन- जलशब्दस्य 'मम जनस्य जलम्' इत्यभिप्रायेण प्रश्नः, - काव्यमाला। असकृद्वृत्त्यनुप्रासः । वर्णावृत्तिरित्यनुवर्तते । यथा वर्णस्य 'वाचाटाकटपूतनाचटुपटुः कापट्यकोटी पुटी विस्पष्टा नृतनाटिकानटभटी लाम्पट्यसाटाटवी । व्याचटे प्रकटं जनाश्रुतिपुटी तट्टोकते वो मुचा साटोप भुवि नाभिभावकभटे मट्यत्र वर्तिन्यपि ॥' अनेकस्य यथा-'स्वच्छ . न्दोच्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटामूर्छन्मोहमहर्पिहर्ष विहितस्नानाह्निकालाय वः । भिद्यादुद्यदुदारदर्दुरदरी दीर्घादरिद्रुमद्रोहोरेकमयोमिमेदुरमदा मन्दाकिनी मन्दताम् ॥' सकृदसकृद्वा पदावृत्तिाटानाम् । अत्रापि पदावृत्तिरिति समस्तं पदम् । तेन पदस्य पदानां वा सकृत् असकृद्वा आय- त्तिलाटानां प्रियत्वाहाटानुप्रासः। पदस्य यथा-'निशाकरकरम्मरैगुणगुणवतां मतैः। जने जनयति प्रीतिं प्रीत्यानतनृपो नृपः॥' असकृद्यथा-'मम्यड़ निषेध्य चतुरश्चतुरोऽप्युपाया. नित्वोपभुज्य च भुवं चतुरधिकाञ्चीम् । विद्याचतुष्टय विनीतमतिर्जितात्मा काप्टामवाप पुरुषार्थचतुष्टये यः ॥' अनेकम्यासकृद्यथा---'वस्त्रायन्ते नदीनां सितकुमुमधराः शक्रसं- काश काशा: काशाभा भान्ति तासां नवपुलिनतटे स्त्रीनदीहंमहंसाः । हंसाभाम्भोद मुक्तः स्फुरदमलवपुर्मेदिनीचन्द्र चन्द्रश्चन्द्राङ्क: शारदस्त जयकृदुपनता विद्विषां काल- कालः ॥' पदात्मकत्वादाक्यस्य तस्याव्या(प्या)वृत्तियथा-'त्वमेकश्चतसि न चेत्तपो- भिस्त दलं नृणाम् ॥' एकेनानेकस्यार्थस्य युगपदुक्तिः श्लेषो भङ्गाभङ्गाभ्यां द्विधा । एकन पदेन वाक्येन वा अनेकम्य द्वयोख्यादीनां वा अर्थानामभिधानं ट्रिष्यन्ति शब्दा अत्रेति लषः । हरिप्रभृतयः शब्दा अनेकार्थाभिधायिनः सन्तीत्याह-युगपदे- कस्मिन्प्रयोगे । स च भङ्गाभङ्गाभ्यां द्विधा । भङ्गश्लेपोऽभङ्गश्लेषश्च । तत्र खण्डनाद्भङ्गश्लेपः । स वर्णलिङ्गवचनविभक्तिप्रत्ययपदभाषाभदैरनेकधा भवति । तत्र वर्णश्लेपो यथा---'प्रति. कूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता । अवलम्बनाय दिनभर्तुरभून्न पतिष्यतः करसहस्रमपि ॥' अत्र विधिविधुश्चेति इकारोकारयोर्वर्णयोः श्लेषः। लिङ्गश्लेषो यथा- 'भक्तिप्रहविलोकनप्रणयिनी नीलोत्पलस्पर्धिनी ध्यानालम्बनतां समाधिनिरतै ते हितप्रा- प्तये । लावण्यस्य महानिधी रसिकतां लक्ष्मीदृशोस्तन्वती युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरेः ॥' वचनश्लेपो यथा-'प्राज्यप्रभावः प्रभवो धर्मस्यास्तरजस्तमाः। ददतां निवृतात्मान आद्योऽन्येऽपि मुदं जिनाः'। अत्रैकपक्षे एकवचनम् । द्वितीयपक्षे बहुवचनम् । स्यादीनां त्यादीनां च भङ्गाद्विभक्तिश्लेषो यथा-'विषं निजगले येन चक्रे च भुजगप्रभुः। देहे येनाङ्गजो दग्धो(?) जाया च स जयत्यजः ॥' प्रकृतिश्लषो यथा-'विहितापर(चि)ति- १. 'लिङ्गवचनयोः श्लेषो यथा-' इति काव्यप्रदीपे. २. 'प्राज्यप्रभाः, वन, निवृतात्मा नः' इत्यपि पदच्छेदः. ३. 'चक्रे' इति कृञ्धातोलिटि, चक्रशब्दात्सप्तम्यां च समानम्. ४. 'देहे' इति दहधातोलिटि, देहशब्दस्य सप्तम्यां च. । .. . , ४ अध्यायः J पागुरासार। महीयसां द्विषतामाहितसाध्वसो बलैः । भव सानुचरस्त्वमुच्चकैर्महतामप्युपरि क्षमा- ताम् ॥' अत्रापचितिरिति चायेश्चिनोतेश्च रूपम् । प्रत्ययश्लेषो यथा-'येन ध्वस्तमनो. भवेन बलिजित्कायः पुरास्त्रीकृतः' । अत्र अस्वीकृतः स्त्रीकृतश्चेति चिडीप्रत्यये श्लेषः । पदश्लेषो यथा-'जननीतिमुदितमनसा नित्यं सुखामिना कृतानन्दा । सा नमरी नग- तनया गौरीव मनोहरा भाति ॥' संस्कृतप्राकृतमागधपिशाचसूरसेनापभ्रंशभाषाणां संकरे भाषाश्लेषः । तत्र संस्कृतप्राकृतयोयथा-'सरले साहसरागं परिहर रम्भोरु मुञ्च संरम्भम् । विरहं विरहायासं सोढुं तव चित्तमसहं मे ॥' संस्कृतमागधयोयथा--'शुलं शलन्तुशं वा विशन्तु शबला वशं विशङ्का वा । अशमदशं दुःशीला दिशन्ति काले खला अशिवम् ॥' संस्कृतपैशाचिकयोर्यथा-'चम्पककलिकाकोमलकान्तिकपोलाथ दी- पिकानगी । इच्छति गजपतिगमना चपलायतलोचना लपितुम् ॥' संस्कृतसूरसेन्योयथा --'अधरदलं ते तरुणा मदिरामदमधुरवाणि सामोदम । साधु पिवन्तु सुपीचरपरिणा- हिपयोधरारम्भे ॥' संस्कृतापभ्रंशयोर्यथा-'क्रीडन्ति प्रसरन्ति मधु कमलप्रणयि लिह- न्ति । भ्रमरा मित्र सुविभ्रमा मत्ता भूरि रसन्ति ॥' षण्णामपि भापाणां योगो यथा- 'आलोलकमले चित्ते ललाम कमलालये। पाहि चण्डि माहामोहभङ्गभीमबलामले ॥' अखण्डितभेदैरभङ्ग श्लेषः । यथा-'किं तत्रास्ति निरन्तरं न भवतः सङ्गः कुरङ्गीदृशां किं वा तत्र तथा पयोध- रपरिप्वङ्गोऽपि नाहादकः । यन्मामत्र विहाय निवृतिमना नाथोज्जयन्तं गतः पायाद्वो- ऽभिहितः स भोजमुतया देवः शिवानन्दनः ॥' तुल्यं श्रुतिक्रमा क्षरावृत्तिर्यमकम् । तच्च श्लोकश्लोकार्धपादभागभेदैरनेकधा। तत्र श्लोकयमकं महायमकं यथा--'सत्त्वारम्भरतोऽवश्यमवलम्बिततारवम् । सर्व- दारणमानेषी दावानलसमस्थितः ॥' असावेव पृथगर्थतया द्विःपरावर्तनीयः । अर्धा- त्या अर्धयमकं समुद्कं यथा---'ननाम लोको विदमानवेन मही न चारित्रमुदारधीरम्'। इदमध पृथगर्थतया द्विः परावर्तनीयम् ॥ पादयमकं मुखं संदंश आवृत्तिगर्भसंदष्टकपुच्छपतिपरिवृत्तियुग्मकभे- दैनवधा । तत्र प्रथमद्वितीययोः पादयोरावृत्त्या मुखयमकं यथा--'चक्रं दहतारं चक्रन्द ह तारम् । स्रझेन तवाजी राजन्नरिनारी ॥' प्रथमतृतीययोरावृत्त्या संदंशः । १. दमयन्तीकथास्थोऽयं श्लोकः. २. 'स त्वारं भरतोऽवश्यमबलं विततारवम् । स- वंदा रणमानषीदावानलसमस्थितः ॥' इति काव्यप्रदीप रुद्रटालंकारे च स्फुटः. ३. नामलोऽकोविदमानवेनमहीनचारित्रमुदारधीरम्'इति रुद्रटालंकारे.
५२ काव्यमाला। .. यथा-'सारंगवयसांनिध्यराजत्काननमग्रतः। सारङ्गवयसांनिध्यदारुणं शिखरे गिरेः॥' प्रथमचतुर्थयोरावृत्त्या संदंशः । यथा आवृत्तिः-'आसन्नदेवा नरराजराजिरुचैस्तटानामियमत्र नादौ । क्रीडाकृतो यत्र दिगन्तनागा आसन्नदे वानरराजराजिः ॥' द्वितीयतृतीययोरावृत्त्या गर्भः । यथा---'यो राज्यमासाद्य भवत्यचिन्तः समुद्रतारम्भरतः सदैव । समुद्रतारं भरतः स देवप्रमाणमारभ्य पयस्युदास्ते ॥' द्वितीयचतुर्थयोरावृत्त्या संदष्टकम् । यथा-'अमरनगरस्मेराक्षीणां प्रपञ्चयति स्फुरन्सुरतरुचये कुर्वाणानां बलक्षमर्रहसाम् । इह सह मुरैगयान्तीनां नरेश नगेऽन्वहं मुरतरुचये कुर्वाणानां बलक्षमरहसाम् ॥' तृतीयचतुर्थयोरावृत्त्या पुच्छम् । यथा-'उत्तुङ्गमातङ्गकुलाकुलो यो व्यजेट शत्रून्समरे सदैव । स सारमानीय महारि- चक्र ससार मानी यमहारिचक्रम् ॥' चतुर्णामपि परम्परावृत्त्या पतिः । यथा-'रैम्भारामा कुरु बककमलारम्भारामाकुरुबककमला । रम्भारामाकुरुबकक. मला रम्भारामाकुरुवककमला ॥' प्रथमचतुर्थयोर्द्वितीयतृतीययोरावृत्त्या परिवृत्तिः । यथा-'मुंदा रतासौ रमणी यता यां स्मरम्यदोऽलं कुरुतेन वोढा । स्मरस्यदोऽलं. कुरुतेऽनवोढामुदारतासौ रमणीयतायाम् ॥' प्रथमद्वितीययोस्तृतीयचतुर्थयोरावृत्तिर्युग्मकम् । यथा-'विभाति रामापरमारणस्य विभाऽतिरामा परमा रणस्य । सदैवतेजोर्जित. राजमाना सदैव तेजोऽजितराजमाना ॥' पादभागयमकानि अनयव रीत्यानेकधा भव- न्ति । तानि च काव्यहृदयशङ्कत्वानोक्तानि ॥ भिन्नरूपाणां शब्दानामेकार्थतेव पुनरुक्तवदाभासः । यथा-'स लं सम्यक् समुन्माल्य हृदि भासि विराजसे । द्विषामरीणां त्वं सेनां वाहिनीमुदकम्पयः ॥ इति श्रीवाग्भट विरचितायामलंकारतिलकाभिधानखोपज्ञकाव्यानुशासनवृत्ती शब्दालंकारविवंचनश्चतुर्थोऽध्यायः । १. 'स्मेराक्षीणां' इति शोभनम्. २-३. 'मासीय' इति पाठ आसीत्. तथापि रुद्र- टालंकारस्थोऽयं पाठः साधीयान्धृतः, ४. अस्य श्लोकस्यार्थोऽनवगतः. ५. रुद्रटालंकार- स्थोऽयं श्लोकः. ६. सप्तम्यन्तत्वेन दोषाभावः, ७. अरीणामिति सेनाविशेषणम्. .
५ अध्यायः] काव्यानुशासनम् । ५३ पञ्चमोऽध्यायः। दोषमुक्तं गुणयुक्तमलंकारभूपितं शब्दार्थरूपमुक्तं काव्यशरीरम् । परं तत्त्वप्राणिशरीर- मिव निरात्मकं न प्रतिभासते । अतः काव्यस्य प्राणभूतान्रसानाह । यदाह----'यामिनी. वेन्दुना मुक्ता नारीव रमणं विना । लक्ष्मीरिव ऋते त्यागान्न वाणी भाति मीरसा ॥' यथा च-'साधुपाकेऽप्यनास्वाद्यं भोज्यं निलवणं यथा । तथैव नीरसं काव्यमिति बमो रसान् (खलु) क्रमात् ॥' तत्र विभावानुभावैर्व्यभिचारिभिश्चाभिव्यक्ता रतिहासशोकक्रोधोत्माह- भयजुगुप्साविस्मयशमाः स्थायिनो भावाः, क्रमेण शृङ्गारहास्यकरुणरौद्र वीरभयानकबीभत्साद्भुतशान्ता नव रसा भवन्ति । परस्परमास्थाबन्धात्मिका रतिः । हासश्चतोविकाशः । वैधुर्य शोकः । तीक्ष्णवं क्रोधः । संरम्भो वैक्लव्यम् । भयं संकोचः । जुगुप्सा चित्तविस्तारः। [आश्चर्य] विस्मयः । तृष्णा- क्षयः शमः॥ अथ क्रमेण रसांल्लक्षयति- स्त्रीपुंसयोः परस्परावलोकनमाल्यर्तुहर्म्यपुरशैलनदीचन्द्रोपवनोद्यानदी- र्घिकाजलक्रीडाविलेपनादिविभावा जुगुप्सालस्यौग्र्यवर्जसर्वव्यभिचारिभावा रतिः । स्थायीभावश्चर्वणीयतां गतः शृङ्गारः । 'स्त्रीपुंसयोः' इति वचनात् समविषयग्रामसमययोः स्थिरानुरागयोः संप्रयोगसुखैपिणो- यूनोः स्त्रीपुरुपयोर्या परस्परं रतिः स एव शृङ्गारः । देवगुरुमुनिपुत्रादिविषया तु रतिरनु. भाव एव, न पुनः शृङ्गारः । तत्र देव विषया यथा--'नो मुक्तये स्पृह्यामि नाथ विभवः कार्य न सांसारिकैः किं त्वायोज्य करा पुनः पुनरिदं त्वामीशमभ्यर्थये । खने जाग. रणे स्थिती विचलने दुःखे मुखे मन्दिरे कान्तारे निशि वासरे च सततं भक्तिर्ममास्तु त्वयि ॥' एवमन्यदपि । ये चास्यानुगताः कटाक्षभुजक्षेपप्रभृतयोऽनुभावास्तेषामग्रे प्रप- च्यमानत्वान्नात्र विस्तरः ॥ स च संभोगविप्रलम्भाभ्यां द्विधा । तत्र संभोगमाह- एकान्तसुखमयो धृत्यादिव्यभिचारी रोमाञ्चखेदकम्पाश्रुमोचनमेखलास्ख- लनध्वसितसाध्वसकेशबन्धवस्त्रसंयमनाभरणादिमाल्यादिसम्यमिवेशनविचि- वेक्षणचाटुप्रभृतिवाचिककायिकव्यापाराभावः परस्परालिङ्गनचुम्बनावलोक- नाद्यनन्तभेदः संयुक्तयोः संभोगः । यथा-'वकेन्दुः स्मितमातनोदधिगते दृष्टी विलासश्रियं बाहू कण्टककोरकाण्यविभृता • का.८ ५४ काव्यमाला । प्राप्तं गिरो गौरवम् । किं नाङ्गानि तवातिथेयमसृजन्खखापतो याचितं संप्राप्ते मयि नै- तदुज्झति कुचद्वन्द्वं पुनः स्पर्धताम् ॥' अथ विप्रलम्भमाह- औत्सुक्यमदग्लानिनिद्रासुप्तप्रबोधचिन्तायासाश्रमनिर्वेदमरणोन्मादजड- ताव्याधिखप्नापस्मारादिव्यभिचारी संतापजागरकार्यप्रलापक्षामनेत्रवचोव. क्रतादीनसंचरणानुकारलेखलेखनवाचनखभावनिह्नववार्ताप्रश्नस्नेहनिवेदन- सात्विकानुभवनशीतप्रयोगसेवनमरणोद्यमसंदेशदानाद्यनुभावो वियुक्तयोवि. प्रलम्भः । स चाभिलाषमानप्रवासभेदाविधा । दैवात्(पितृमातृस्वामि)पारवश्यादभिलाषविप्रलम्भो द्विधा । तत्र दैवाद्यथा-'नगरपरिघदीघी बाहुदण्डी ममता विजितकनककुम्भा सा च तस्याः कुचश्रीः । तव शिशिरसमीरश्चष नीहारसार स्त्रितयमपि समेतं दुर्लभं रावणेन ॥' पितृ- मातृपारवश्याद्यथा---'ज्वलतु गगने रात्री रात्रावखण्डकल: शशी दहतु मदनः किं वा मृत्योः परेण विधास्यति । मम तु दयितः श्लाघ्यस्तातो जनन्यमलान्वया कुलममलिनं न त्वेवायं जनो न च जीवितम् ॥' स्वामिपारवश्याद्यथा---'स्मरनवनदी पूरेणोढा मुहु- गुरुसेतुभिर्यदपि विधृता दुःखं तिष्ठत्यपूर्णमनोरथा । तदपि लिखितप्रख्यरगर्मुहुमुहुरुन्मुखा नयननलिनीनालानीतं पिबन्ति रस प्रियाः ॥' मानः प्रणयभङ्गेाभ्यां द्विधा । तत्र प्रणयभङ्गाद्यथा-'गतप्राया रात्रिः कृशतनुशशी शीर्यत इव प्रदीपोऽयं निद्रा- वशमुपगतो घूर्णित इव । प्रणामान्तः कोपस्तदपि न जहासि ऋधमहो स्तन प्रत्यासत्त्या हृदयमपि ते चण्डि कठिनम् ॥' ईयया यथा---'संध्यां यत्प्रणिपत्य लोकपुरतो बद्धाज- लियाचसे धत्ते यच्च नदी विलज्जशिरसा तच्चापि सोढं मया । श्रीयाताम्बुधिमन्थने यदि हरिं कस्माद्विषं भक्षितं मा स्त्रीलम्पट मां स्पृशेत्यभिहतो गार्या हरः पातु वः ॥' कार्याच्छापादैवात्पारवश्याच्च प्रवासः । कार्याद्यथा-'याते द्वारवतीं तदा मधुरिपा तद्दत्तस(झ)म्पानतां कालिन्दीतटरूढवञ्जल. लतामालिङ्गय सोत्कण्ठया । तद्गीतं गुरुवाष्पगद्गदगलतारस्वरं राधया यनान्तर्जलचारि- भिर्जलचरैरप्युक्तमुत्कूजितम् ॥' शापाद्यथा- 'शापान्तो में भुजगशयनादुत्थिते शाङ्गपाण। शेषान्मासान्गम्य चतुरो लोचने मीलयित्वा । पश्चादावां विरहगणितं तं तमात्मा- भिलाषं निर्वेक्ष्यावः परिणतारच्चन्द्रिकासु क्षपासु ॥' दैवाद्यथा-'आपृष्टासि व्यथयति मनो दुर्बला वासरश्रीरेशालिङ्ग क्षपयरजनीमेकिका चक्रवाकि । नान्यासक्तो न खलु कु- पितो नानुरागच्युतो वा दैवासक्तस्तदिह भवतीमखतन्त्रस्त्यजामि ॥' पारवश्याद्यथा- १. 'नागानि' इति पाठः. २. 'त्रिधा' इति तूचितम्.
५ अध्यायः ] काव्यानुशासनम् । 'उद्यत्प्रेम्णि प्रथमवयसि प्रावृषि प्राप्तवत्यां स्कन्धावारं जिगमिषुरयं मप्रियो मां विहाय । सेयं जाता जगति सकले सुप्रसिद्धा जनोक्तिरग्रग्रासग्रसनसमये मक्षिकासंनिपातः ॥' अथ हास्यरसमाह- विकृतवेषादिविभावो नासौष्ठकपोलस्यन्दनदृष्टिव्याकोशनापकुञ्चनस्वेदा- स्यरागपार्श्वग्रहणाद्यनुभावो निद्रावहित्थतन्द्रात्रपालस्यादिव्यभिचारी हासा- भिधानस्थायीभावश्चर्वणीयतां गतो हास्यरसतां याति । स चोत्तमानां स्मि- तरूपः, मध्यमानां विहसितरूपः, अधमानामपहसितरूपो भवति । तत्र स्मितमीपद्विहसितकपोलं सौष्ठवोपेतदृष्टिभावमप्रेक्ष्यमाणदशनं भवति । विहसितं पुनराकुञ्चिताक्षिकपोलमीपदुद्भूतमुखरागं भवति । अपहसितं स्वस्थानहसितं साश्रुकणाक्रान्तनेत्रमुत्कम्पितांसशिरोविभागं भवति । तत्र मामान्यहासोदाहरणम्---'त्रस्तः समन्तजनहासकरं करेणोस्तावत्स्वरः प्रखरमुल्ल- मयांचकार (?) । यावञ्चलांसनविलोलानतम्बबिम्बाविसस्तवत्रमवरोधवधूः पपात ॥' अथ करुणमाह- इष्टवियोगानिष्टसं[प्रयोगविभावो दैवोपालम्भनिश्वासतानवमुखश्लेष- खरभेदाश्रुतपातवैवर्ण्यप्रलयस्तम्भ[वै]कम्पभूलुटनविलापगात्रांशाद्यश्रुभाव- निर्वेदग्लानिचिन्तौत्सुक्यमोहश्रमत्रासविषाददैन्यव्याधिजडतोन्मादापस्मारा- लस्यमरणप्रभृतिदुःखमयव्यभिचारी चित्तवैधुर्यलक्षणः शोकाभिधानः स्थायि- भावश्चर्वणीयतां गतः करुणरसतां याति । यथा-'हा मातस्त्वरितासि कुत्र किमिदं हा देव ताः क्वाशिषो धिक् प्राणान् पति- तोऽशनिहुँनवहस्त्वङ्गेपु दग्धे दृशौ । इत्थं घर्घरमध्यरुद्धकरुणाः पौराङ्गनानां गिरश्चित्र- स्थानपि रोदयन्ति शतधा कुर्वन्ति भित्तीरपि ॥' अथ रौद्रमाह- हारापहारदेशजात्यभिजनविद्याकर्मनिन्दासत्यवचनस्वभृत्याविक्षेपोपहास- वाक्याभाप्यद्रोहमात्सर्यादिविभावो नयनरागभृकूटीकरुण(ण)दन्तौष्टपीडन- गण्डस्फुरणहस्ताग्रनिःशेषताडनपाटनपीडनप्रहरणाहरणशस्त्रसंपातरुधिराक- पणच्छेदनाद्यनुभाव औग्र्यावेगोत्साहविबोधानर्थचापलादिव्यभिचारी कोंधा- भिधालः स्थायीभावश्चर्वणीयतां गतो रौद्ररसतामाप्नोति । १. काव्यप्रकाशे तु 'स्तेङ्गेषु' इत्युपलभ्यते.
काव्यमाला। यथा-'उत्कृस्योत्कृत्य गर्भानपि शकलयतः क्षत्रसंतानरोषात्कामं त्रिःसप्तकृत्वो जगति विशसतः सर्वतो राजवशान् । पिङ्गय (2) तद्रक्तपूर्णह्रदसवनमहानन्दमन्दायमा- नक्रोधाग्नेः सर्वतो मे न खलु न विदितः सर्वभूतैः स्वभावः ॥' अथ वीरमाह- प्रतिनायकवर्तिनम विनयसंमोहाध्यवसायबलशक्तिप्रतापप्रभावविक्रमाधि- क्षेपादिविभावः स्थैर्योदायधैर्यगाम्भीर्यशौर्यविशारदाद्यनुभावो धृतिस्मृत्यौग्र्य- गर्वामीमांवेगहर्षादिव्यभिचारी उत्साहाभिधानः स्थायिभावश्चर्वणीयतां गतो वीररसतां याति । स च त्रिधा । दानवीरो धर्मवीरो युद्धवीरश्च । तत्र दानवीरा बलिजीमूतवाहनादयः । तद्यथा-'स्वस्ति स्वागतमर्थ्यहं वद विभो किं दीयतां मेदिनी का (किं) मात्रा मम वि- क्रमत्रय मिदं दत्तं गृहीतं मया । मा देहीत्युशनाह कि हरिरयं पात्रं किमम्मात्परमि- त्येवं बलिनाचितो मखमुखे पाय त्स वो वामनः ॥' यथा च---'शिरामुखः स्यन्दत एव रक्तमद्यापि देहे मम मांसमस्ति । तृप्तिं न पश्यामि तवैव तावता किं भक्षणात्त्वं विरतो गरुन्मन् ॥' धर्मवीराः श्रीपाचमहावीरप्रभृतयः । ‘दन्तक्षतानि करजैश्च विपाटितानि प्रोद्भिन्नमान्द्रपुलके भवतः शरीरे । दत्तानि रक्तमनसा मृगराजवध्वा जातस्पृहमुनिभिर- प्यवलोकितानि ॥' यथा च-'शटकमटविमुक्ताग्रावसंघातघातव्यथितमपि मनो न ध्यानतो यस्य नेतुः । अचलदचलतुल्यं विश्वविश्वकधीरः स दिशतु शिवमीशः पार्श्वनाथो जिनो वः ॥' युद्धवीरा रामादयो मन्तव्याः ॥ अथ भयानकमाह- पिशाचादिविकृतस्वरश्रवणतदवलोकनखजनवधबन्धादिदर्शनशून्यगृहा- रण्यतमआदिविभावः करकम्पचलदृष्टिनिरीक्षणकरस्पन्दशुष्कौष्ठकण्ठमुखवै- वर्ण्यम्वरभेदाद्यनुभावः शङ्कापस्मारमरणत्रासचापलावेगदैन्यमोहादिव्यभिचारी स्त्रीनीचानां स्वाभाविकभयाभिधानः स्थायिभावश्चर्वणीयतां प्राप्तो भयानको - यथा-'जाताकस्मिक विस्मयैः किमिदमित्याकर्ण्यमानः सुरैः सद्यःस्तम्भितकर्णतालच- लनाद्दिग्दन्तिनः कम्पयन् । जन्तूनां जनितज्वरः स मृगयाकोलाहलः कोऽप्यभूयेनेदं स्फुटतीव निर्भरभृतं ब्रह्माण्ल्भाण्डोदरम् ॥' अथ वीभत्समाह- अहृद्यानामुद्धान्तत्रणपूतिकृमिकीटादीनां दर्शनश्रवणादिविभावोऽङ्गरांको- चहृल्लासनासामुखविकूणनाच्छादननिष्ठीवनाद्यनुभावोऽपस्माररौद्यमोहगदा- - ५ अध्यायः] काव्यानुशासनम् । ५७ दिव्यभिचारी जुगुप्साभिधानः स्थायिभावश्चर्वणीयतां गतो बीभत्सतामामोति । यथा-'अन्त्रप्रोतवृहत्कपालनलककृरवणकङ्कणप्रायप्रेजितभूरिभूषणरवैराघोषयत्यम्ब- रम् । पीतच्छंदितरक्तकर्दमघनप्राग्भारघोरोल्लसद्वयालोलस्तनभारभैरववपुर्दोद्धतं धावति॥' तथाद्भुतमाह- दिव्यदर्शनेप्सितमनोरथावाप्त्युपधूनदेवकुलादिगमनसभाविमानमायेन्द्र- जालातिशायिशल्यकर्मादिविभावो नयनविस्तागनिमेषप्रेक्षणरोमाञ्चाश्रुग्वेद- साधुवाददानाहोकारचेलाङ्गुलिभ्रमणाद्यनुभावो हर्षवेगजडतादिव्यभिचारी विस्मयाभिधानः स्थायिभावश्चर्वणीयतां गतोऽद्भुतरसतामामोति । यथा-'पादाङ्गुष्ठनिपीडितामरगिरित्रुट्यत्तटी विभ्रमद्भुगोलातिभरामहाहिनिवहादयामा- स्यनिहत् । निःश्वासोच्छलिताब्धिवारिलहरी विभ्रष्टतारावलिः पायाद्वो जिनवीरशैशवव- योव्यापारलीलारसः ॥' यथा च–'यत्राभ्रलिहरिभूधरशिरोऽग्रे हि स्खलत्स्यन्दनो देवो- ऽपि द्युमणिः प्रयाति महता कटेन ताराध्वना । वाटं शैशवमक्षिमीलनकलामात्रेण संलय- तां यात्रा कालपनन्दनन विदधे श्रीपार्श्वनाथप्रभोः ॥' अथ शान्तः वैराग्यसंसारभीरुतातत्त्वज्ञानवीतरागचरणपरिचरणपरमेश्वरानुग्रहादिवि- भावो यमनियमाध्यात्मशास्त्रचिन्तनाद्यनुभावो धृतिम्मृति (निश्चेष्ट)मत्यादि- व्यभिचारी शमाभिधानः स्थायिभावश्चर्वणीयतां गतः शान्तरसतां याति । यथा-'अहो वा हारे वा कुमुमशयन वा हपदि वा मणी वा लोष्ठ वा बलवति रिपौ वा सुहृदि वा । नृणे वा बेणे वा मम समदृशो यान्ति दिवसाः कदा पुण्यऽरण्ये जिन जिन जिनेति प्रलपतः ॥' विभावैरनुभावैर्व्यभिचारिभिश्चाभिव्यक्ता इत्युक्तम् । तत्र व्यभिचारिणो बृते- धृतिस्मृतिमतिव्रीडाजाड्यविषादमदव्याधिनिद्रासुप्तोत्सुक्यावहित्थाशङ्का- चापलालस्यहर्षग:ग्र्यप्रबोधग्लानिदैन्यश्रमोन्मादमोह चिन्तामपत्रासापस्मार- निर्वेदावेगवितर्कासूयामृतयः शान्तिस्थित्युदयप्रशमशबलत्वधर्माणस्त्रयस्त्रिंश. व्यभिचारिणः । तत्र वृतिः संतोषः स्मृतिः म्मरणम् । मतिरर्थ निश्चयः । ब्रीडा चित्तसंकोचः । जा- ज्यमांप्रतीतिः । विपादो मनःपीडा । मद आनन्दसंमोहसंभेदः । व्याधिर्मनस्तापः । निद्रा मुनःसंमीलनम् । मुप्तं निद्राया गाढावस्था । औत्सुक्यं कालाक्षमत्वम् । अवहित्था- १. चेष्टाहानेरनुभावत्वेन रसगङ्गाधरे निर्णीतत्वादत्राम्य पाठः प्रक्षिप्तः प्रतीयते.
काव्यमाला। कारगुप्तिः । शङ्कानिष्टोत्प्रेक्षा । चापलं चेतोऽनवस्थानम् । आलस्यं पुरुषार्थेष्वनादरः । हर्षश्चतःप्रसादः । गर्वः परावज्ञा । अत्युग्रता चण्डता । प्रबोधो विनिद्रत्वम् । ग्लानिर्बला- पचयः । दन्यमनौज स्यम् । श्रमः खेदः । उन्मादश्चित्तस्य विष्ठवः । मोहो मूढत्वम् । चिन्ता ध्यानम् । अमर्पः प्रतिचिकीर्षा । त्रासश्चित्तचमत्कारः । अपस्मार आवेशः । नि- वेदः स्वावमाननम् । आवेगः संभ्रमः । वितर्कः संभावना । असूया अक्षमा । मृतिम्रिय- माणता । एते च शान्निमित्युदय प्रशमशवलत्वधर्माणः । तत्र निद्रायाः स्थिति(शान्ति)यथा-'प्रत्यग्रोन्मेपजिह्वाक्षणमनभिमुखी रत्नदीपप्रभा- णामात्मव्यापारगुर्वीजनित जललवाक्षम्भण: स्वाङ्गभङ्गैः : । नागाकं(ई) मोक्तुमिच्छोः शयनगु- रुफणाचकवालोपधान निद्राच्छेदाभिताम्रा चिरमवतु हरेदृष्टिराककरा वः ॥' स्थिति- यथा-लीनेव प्रतिविम्बितेव लिखितेवोत्कीर्णरूपव च प्रत्युव च वज्रलेपघटितेवान्त- निखातव च । मा नश्चतमि कीलितेव विशिश्चतोभुवः पञ्चभिश्चिन्तासंततितन्तु जालनि. विडस्यूतेव लग्ना प्रिया ॥' अत्र वितकम्य स्थितिः । उदयो यथा-'कृतगुरुतरहारच्छे. दमालिङ्गय पत्या परिशिथिलितगात्रं गन्तुमापृच्छयमाने । विगलितनवमुक्तास्थलवाष्पाम्बु- विन्दुस्तनयुगमवलायातक्षणादोदितीव ॥' अत्र विपादम्योदयः संधिर्यथा—'एकना- क्ष्णा प्रविततरुपा पाटलेनास्त संस्थं पश्यत्यक्ष्णा स्वजललितेनापरेण स्वकान्तम् । अत- इछेदे दयितविरहाशङ्किनी चक्रवाकी द्वौ संकीणों रचयति रसौ नर्तकीव प्रगल्भा ॥' अत्र रोपदन्ययोः संधिः । सबलता यथा-काकार्य शशलक्ष्मणः क्व च कुलं भूयोऽपि दृ. श्यत ना दोपाणां प्रशमाय नः श्रुतमहो कोपेऽपि कान्तं मुखम् । किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्नऽपि मा दुलभा चेतः स्वास्थ्यमुपैहि कः बलु जनो धन्यो धुरं धास्यति ॥' अत्र वितकोत्सुक्यमतिमरणशङ्कादैन्यधृतिचिन्तानां शबलत्वम् । एवमन्येष्वपि व्यभि- चारिपूदाहार्यम् ॥ अथ सात्विकानाह-- स्तम्भखेदोऽथ रोमाञ्चः स्वरभङ्गश्च वेपथुः । वैवाश्रुप्रलापाश्च इत्यष्टौ सात्त्विकाः स्मृताः ।। यथा- 'वारंवारं तिरयति सुधाबुद्गतो वाष्पपूरस्तत्संकल्पोपहितजडिमस्तम्भमभ्येति गात्रम् । सद्यः खिद्यन्नयनविरतोत्कम्पलोलाङ्गुलीकः पाणिर्लेखाविधिषु नितरां वर्तते किं करोमि ॥' अत्राश्रुस्तम्भम्वेदवेपथुरूपाश्चत्वारः सात्त्विकभावाः । 'सर्वाङ्गीणविसारिभूरिपु- लकोद्भेदत्रुटत्कझुकाः वाकूतं गुरुबाप्पगद्गदगिरा सख्य गिरन्त्यो मुहुः । प्राप्तव्यः क- थप वल्लभ इति म्लायन्मुखास्त्वाममूः श्रीमद्वाग्भट वीक्ष्य चित्रलिखितप्रख्या मृगाक्ष्यो- 1. अत्र 'क्वाकार्यम्' इति वितर्कः, 'भूयोऽपि' इत्यौत्सुक्यम्, 'दोपाणाम्' इति मतिः, 'कोपेऽपि' इति स्मृतिः, किं वक्ष्यति' इति शङ्का, 'स्वप्नेऽपि' इति देन्यम् , 'चेतः स्वास्थ्यम्' इति धृतिः, 'कः खलु' इति चिन्ता,स्फुटं पूर्वपूर्वोपमर्दन प्रतीयमाना शवलता चम- त्कारभूमिः' इति काव्यप्रदीपे स्पष्टमुक्तम्, .. , .
५ अध्यायः] काव्यानुशासनम् । ऽभवन् ॥' अत्र रोमाञ्चस्वरभेदवैवयंप्रलापाश्चत्वारः सात्त्विकभावाः । एवं च नव स्था- यिनस्त्रयस्त्रिंशद्यभिचारिणोऽष्टौ सात्त्विका इति पञ्चाशद्भावा बभूवुः ॥ अथैतानभिधाय तदाभासानाह- तत्र वृक्षादिप्वनौचित्येनारोप्यमाणौ रसभावौ रसभावाभासतां भेजतः । यथा--'मधुद्धिरेफः कुसुमैकपात्रे पपो ग्रियां स्वामनुवर्तमानः । शृङ्गण संस्पर्शनिमी- लिताक्षी मृगीमकण्डूयत कृष्णसारः ॥ अनौचित्येन यथा 'तद्वकं यदि मुद्रिता शशिकथा तचेस्मितं का सुधा सा दृष्टियदि हारितं कुवलयस्तावद्गिरो घिट्यधु । सा चेत्कान्तिरत- त्रमेव कनकं किं वा बहु महे यत्सत्यं पुनरुक्तवस्तुविमुखः मर्गक्रमो वेधसः॥' अत्रानु- रागविमुखायां सीतायां रावणस्योक्तिः । आदिशब्दाच्चन्द्रादीनां यथा-'अङ्गुलीभिरिव केशसंचयं संनिरुध्य तिमिरं मरीचिभिः । कुड्मलीकृतसरोजलोचनं चुम्वतीव रजनीमुखं शशी ॥' अस्मिन्नुदाहरणद्वये संभोगशृङ्गाररसाभासः । एवमन्यऽपि रसाभासा भावाभासा- चोदाहर्तव्याः ॥ अथ रसानभिधाय दोषानाह- खशब्दोक्तिविभावादिप्रातिकृल्यप्रकृतिव्यत्ययविभावानुभावक्लेशव्यक्तिपु- नःपुनीयकाण्डप्रथनाकाण्डाच्छेदाङ्गातिविस्तराङ्गयननुसंधानानङ्गाभिधाना दश रसदोषाः । रसस्थायिव्यभिचारिणां स्वशब्देन वाच्यत्वं स्वश- ब्दोक्तिः । तत्र रसानां स्वशब्दोपादानं यथा- 'शृङ्गारी गिरिजानने मकरुणो रल्यां प्रवीरः स्मरे बीभत्सोऽस्थिभिरुत्फणी च भयकृन्मूाद्भुतस्तुझ्या । रौद्रो दक्षविमदने च हसकृन्नग्नः प्रशान्तश्विरादित्थं सर्वरसात्मकः पशुपतिभूयात्सतां भूतये ॥' स्थायिनां यथा-'रू.पनि- जितकन्दपै नयनानन्ददायिनि । अभूत्तस्या रतिः कापि प्रिये चाटुविधायिनि ॥' अत्र रतिशब्दाः । व्यभिचारिणां यथा-'सबीडा दयितानने सकरुणा मातङ्गचाम्बरे सत्रासा भुजगे सविस्मयरसा चन्द्रऽमृतस्यन्दिनि । सेप्यी जह्वसुतावलोकन विधौ दीना कपालोदरे पावत्या नवसंगमप्रणयिनी दृष्टिः शिवायास्तु वः ॥' अत्र ब्रीडादयः । क्वचित्संचारिणां न दोषः । यथा-'औत्सुक्येन कृतत्वरा सहभुवा व्यावर्तमाना ह्रिया तस्तैर्वन्धुवधूजनस्य वचन- नीताभिमुख्यं पुनः । दृष्ट्वाग्रे वरमात्तसाध्वसरसा गौरी नवे संगमे संरोहरपुलका हरेण हसता श्लिष्टा शिवायास्तु वः ॥' अत्र औत्सुक्यशब्द इव तदनुभावो न तथा प्रती- तिकृत् ॥ यन्त्र विभावानुभावादयः प्रतिकृला(स्त?)द्विभावादिप्रातिकृल्यम् । यथा-'त्यजत मानवलंबत विग्रहन पुनरेति गतं चतुरं वयः । परभृताभिरितीवमु- ६० काव्यमाला। .. दीरिते स्मरमते रमते स्म वधुजनः ॥' अत्र 'न पुनरेति चतुरं वयः' इति पदमनित्यतां प्रकाशयन् शान्तस्य विभावतां याति झारस्य नोपयोगि । यथा-'प्रच्छन्नकामुकं दृष्ट्वा गुरूणां मध्यतो वधूः । विमुच्य सर्वव्यासझं वनाय कुरुते स्पृहाम् ॥' अत्र सकलव्यासन- विमोचनवनस्पृहे शान्तस्यानुभावी ॥ परस्परबाध्यबाधकभावे पृथक्पृथगाश्रये अन्यरसैरन्तरितत्वेऽङ्गत्वे च न दोपः। तत्र परस्परवाध्यत्वं यथा---'स्निग्धश्यामलकान्तिलिप्तवियतो वह द्वलाका धना वाताः सीकरिणः पयोदसुहृदामानन्दकेकाः कलाः । कामं सन्तु दृढं कटोरहृदयो रामोऽस्मि सर्व सहे वैदेही नु कथं भविष्यति हहा हा देवि धीरा भव ॥' अत्र धर्यापम्मारी परस्पर- बाध्यबाधकभावेनोपनियद्धा विप्रलम्भरसोपकाराय । 'स्नायुव्यासनिबद्धकीकसतनु नृत्य- न्तमालोक्य मां चामुण्डा करतालकुट्टितलयं वृत्ते विवाहोत्सवे । हीमुद्रामपनुद्य यद्विसितं चित्रं समं शंभुना तेनाद्यापि मयि प्रभुः स जगतामास्ते प्रसादोन्मुखः ॥' अत्र वीभत्सहा- स्यरसयोभिन्नाश्रयत्वेन निबद्धयोन दोपः अन्यरसर(न )न्तरितत्व यथा-'भुरेणुदिग्वान्न- वपारिजातमालारजावासितवाहुमध्याः । गाढं शिवाभिः परिरभ्यमाणान्सुराङ्गनालिष्टभुजा- न्तरालाः ॥ सशोणितैः ऋष्यभुजा स्फुरद्भिः पक्षः खगानामुपवीज्यमानान् । संवीजिता- श्चन्दनवारिसेकमुगन्धिभिः कल्पलतादुकूल ॥विमानपर्यनले निपण्णाः कुतूहलाविष्टतया तदानाम् । निर्दिश्यमाना ललनामुलाभिवाराः स्वंदहान्पतितानपश्यन् ॥' अत्र वीभ- त्सझारयोरन्तरे वारा इति पदेन वीररसनिवेशान दोपः । अङ्गत्वे च यथा-'कोपा. त्किचिदुपागतोऽपि रभसादाकृप्य केशवलं नीत्वा मोहनमन्द्रिं दयितया हारेण बद्धा दृढम् । भूयो याम्यमि तद्गृहानिति मुहुः कण्ठार्धरुद्वाक्षरं जल्पन्त्यश्रुवणोद्धरवेन(?)मुकृती कश्चिद्रम्ताच्यते ॥' अत्र केशाकर्षणवन्धनताडनादयो रादानुभावा अपि रूपकवलादारो- पिताः शृङ्गारम्यानत्वं भजन्ति ॥ प्रकृतीनामन्यथात्वेन कलाद्यौचित्यपरिहारेण च निवन्धनं प्रकृतिव्य- त्ययः । तत्र प्रकृतयोऽनेकधा भवन्ति–तद्यथा । तत्र दिव्या माः पाता- लीयाः । तथा दिव्यमा दिव्यपातालीया मर्त्यपातालीया दिव्यमर्त्यपाता. लीया च । दिव्या यशा-'स्मृत्वायं निजवारवासगतया वाणासमं तुम्बरोरुगीतं नलकूबरस्य विरहादुत्क-जुलं रम्भया । तेनैरावणकर्णचापलमुषा शकोऽपि निद्रां जहद्भूयः कारित एव हासिनि शचीवके दृशां विभ्रमम् ॥' मत्या यथा-'निक्षिप्योत्क्षिप्य यत्नाद्रविणमिह मुहुर्मा स्म संक्लेशयस्त्वं पृथ्वी स्खं च प्रकामं शृणुन हितमिदं सावधानं धनेशाः । नवेयं शाश्वती श्रीः प्रभवति भुवने कस्यचित्तेन सद्यः शिक्षध्वं राहडस्य प्रसभमभिनवा त्याग- धादिलालाम् ॥' पातालीया यथा-'कर्कोट कोटिकृत्वः प्रणमति पुरतस्तक्षक देहि ५ अध्यायः] काव्यानुशासनम् । -- चक्षुः सजः सेवाअलिस्ते कपिलकुलकयोः स्तौति च खस्तिकस्त्वाम् । पद्मः सबैष भक्ते- रखलगति पुनः कम्बलोऽयं वलोऽयं सोत्सर्पः सर्पराजो व्रजतु निजगृहं प्रेष्यतां शङ्खपालः॥' दिव्यमा यथा-'वर्हि जेऽपि सति सत्यपि दन्तवके प्रेमोपधानमवधूय पिनाक- पाणिः । हस्तेन.नित्यधृतवासुकिकंकणेन प्राज्ञः प्रियः स्पृशति भार्गवमेव पृष्ठे । दिव्य- लीया यथा-'भम्माङ्गरागधवलीकृतसर्वगात्रौ यः कण्ठदेशे वरपन्नगावृतः (१) । च- न्द्रेण भासुरजटामुकुटस्थितेन शंभुददातु नियतं तव सुप्रभातम् ॥' मर्त्यपातालीया यथा- 'आस्तां स्वस्तिकलक्ष्म वक्षसि तनौ नो लक्षितः कञ्चको जिह्वे जल्पत एव मे न गणिते द्वेधा प्रवृत्ते मुखात् । तिस्रस्तीविषाग्निधूमपटलव्याजिह्मरत्नद्विषो नैता दुःसहशोकसूत्कृ- तमरुत्स्फीताः फणाः पश्यसि ॥' दिव्यमर्त्यपातालीया यथा-'आस्तीकोऽस्ति मुनिः सविम्मयकृतः पारिक्षितीयान्मुखान्त्रावा(?)लक्षकलक्ष्मणः फणभृतां वंशस्य शक्रस्य च । उद्वेलन्मलयाद्रिचन्दनलताखान्दोलनप्रक्रमेयस्याद्यापि सविभ्रमं फणिवधूवृन्दैर्यशो गीयते॥' तथा धीरोदात्तधीरोद्धतधीरललितधीरप्रशान्ता वीररौद्रशृङ्गाररसप्र- धानाश्चत्वारो नायकाः । तत्र धीरोदात्ता रामादयः । धीरोद्धता भीमसे- नादयः । धीरललिता नलादयः । धीरप्रशान्ता जीमूतवाहनादयः। तत्र धीरललितश्चतुर्धा भवति । अनुकूलः शठो धृष्टो दक्षिणश्च । तत्र स्थिरप्रेमा एकस्यां रतोऽनुकूलः । यथा-'अस्माकं सखि वाससी न रुचिरे ग्रैवेयकं नोज्ज्वलं नो वका गतिरुद्धतं न हसितं नवास्ति कश्चिन्मदः । किं त्वन्येऽपि जना वदन्ति मुभगोऽप्यस्याः प्रियो नान्यतो दृष्टिं निक्षिपतीति विश्वमियता मन्यामहे दुःस्थितम् ॥' प्रियमाचक्षाणोऽपि विप्रियं यः कुरुते स शठः। यथा-'दृष्टकासनसंगते प्रियतमे पश्चादुपेत्यादरादेकस्या नयने निमील्य विहितक्रीडा- नुबन्धच्छल: । ईषद्वक्रितकन्धरः सपुलकप्रेमोल्लसन्मानसामन्तहसिलसत्कपोलफलकां धूर्तोऽपरां चुम्वति ॥ कृतदोषोऽपि निःशङ्को धृष्टः । यथा-'लाक्षालक्ष्म ललाटपट्टमभितः केयूरमुद्रागतं वक्रे कजलकालिमा नयनयोस्ता- म्बूलरागोऽपरः । दृष्ट्वा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसे लीलातामरसोटरे मृगदृशः श्वासः समाप्तिं गतः ॥' अन्यचित्तोऽपि यः पूर्वस्यां सौख्यभयप्रेमादि न त्यजति स दक्षिणः । यथा--'सैवास्य प्रणतिस्तदेव वचनं ता एव केलिक्रिया भीतिः सैव तदेव नर्ममधुरं पूर्वानुरागोचितम् । कान्तस्य प्रियकारिणी तु भवती तं वक्ति दोषाविलं किं स्यादिन्थमट. निशं सखि मनो दोलायते चिन्तया ॥' का: ९ ६२ काव्यमाला। बुद्ध्युत्साहस्मृतिप्रज्ञाशौर्यौदार्यगाम्भीर्यधैर्यस्थैर्यमाधुर्यकलाकुशलत्वविनी- तत्वकुलीनत्वनीरोगित्वशुचित्वाभिमानित्वयोषिदभिमतत्वप्रियंवदत्वजनानु- रागित्ववाग्ग्मित्वमहावंशजत्वतेजखित्वदृढत्वतत्त्वशास्त्रज्ञत्वाग्राम्यन्वशृङ्गारि- त्वसुभगत्वादयो नायकगुणाः । व्यसनी पापकृदन्यायी लुब्धः स्तब्धः क्रोधी धीरोद्धतश्च प्रतिनायकः । यथा रामस्य रावणः । युधिष्ठिरस्य दुर्योधनः । त्रिपृष्टस्य हयग्रीवः । विष्णोजरासंधः । नायकस्य च नर्मसचिवपीठमर्दविटविदूषका अनुचराः । तत्र कुपित- स्त्रीप्रसादको नर्मसचिवः । नायकगुणयुक्तस्तदनुचरः पीठमर्दः । एकविद्यो विटः । क्रीडनकप्रायो विदूषकः । नायिका त्रिधा--स्वकीया परकीया सामान्या च । तत्र देवगुरुसमक्षमूढा आर्जवमार्दवसत्यशौचाद्युपेतौत्सुक्या मुग्धा-मध्या- प्रौढाभेदेन त्रिधा स्वकीया । तत्र मुग्धा यथा-'अपहरति यदास्यं चुम्बने श्लिष्यमाणा वलति च शयनीये कम्पतेच प्रकामम् । वदति च यदलक्ष्यं किंचिदुक्तापि भयो रमयति सुतरां सा चित्तमन्तनवोढा ॥' उद्भिद्यमाननवयौवना मध्या । यथा-'तरन्तीवाङ्गानि स्खलदमललावण्यजलधौ प्रथिनः प्रागल्भ्यं स्तनजघनमुन्मुद्र- यति च । दृशोर्लीलारम्भाः स्फुटमपवदन्ते सरलतामहो सारङ्गाक्ष्यास्तरुणिमनि गाढं परिचयः॥ वयःकलाकौशल्यपरिपूर्णा प्रौढा । यथा-'नितम्बो मन्दत्वं जनयति गुरुत्वाद्रुतगती महत्त्वादुद्वृत्तः स्तनकलशभारः श्रमयति । विकाशिन्या कान्त्या प्रकटयति रूपं मुखशशी ममाङ्गानीमानि प्रसभमभिसारे हि रिपवः ॥' एताश्च धीराधीरादिभेदेनानेकधा भवन्ति । परमत्र ग्रन्धगौरवभयानो- च्यन्ते (यथा)॥ परकीया परस्त्री कन्या च । परस्त्री यथा-'दृष्टिं हे प्रतिवेशिनि क्षणमिहाप्यस्मद्गृहे दास्यसि प्रायेणास्य शिशोः पिता न विरसाः कापीरपः पास्यति । एकाकिन्यपि यामि तद्वरमितः स्रोतस्तमालाकुलं नारन्ध्राः पुनरालिखन्तु जरठच्छेदा नलग्रन्थयः ॥' कन्या यथा-'दृष्टिः शैशवमण्डना प्रतिकलं प्रागल्भ्यमभ्यस्यति पूर्वाकारमुरस्तथापि कुचयोः शोभा नवामीहते । नो धत्ते गुरुतां तथा युपचिता नितम्बस्थलं तन्व्याः खीकृतमन्मथं विजयते नेत्रैकपेयं यः॥' १. 'सत्वर' इति. २. 'तनुमा' इति साहित्यदर्पणे. :
५ अध्यायः] काव्यानुशासनम् । ६३ कलाकलापकुशला वैशिकाचारचतुरा धूर्ता चिकबद्धचित्ता सगुण- निर्गुणयोः साधारणी गणिका सामान्या । यथा-'गाढालिङ्गनपीडितस्तनतटं विद्यत्कपोलस्थलं संदष्टाधरमुत्कलीकृतलसद्भा- न्तोरुगल्लस्थलम् । चाटुप्रायवचो विचित्रमणितं घातै रुतैश्चाङ्कितं वेश्यानां धृतिधाम पुष्पधनुषः प्राप्नोति धन्यो रतम् ॥' एतस्याश्च लिङ्गिनः प्रच्छन्नकामुकाः पण्डकाः सुखप्राप्तवित्ता मूर्खाः पितृवित्तगर्विताश्चाभिगम्याः । सर्वासामपि योषितां प्रव्रजिता धात्रेयिका हीनस्त्री दासी च दूत्यो भवन्ति । स्वाधीनपतिका प्रोषितभर्तृका कलहान्तरिता वासकसज्जा विरहोत्क- ण्ठिता विप्रलब्धा अभिसारिका खण्डिता चेति स्त्रीणामष्टाववस्थाः । यस्याः सौभाग्यबद्धः पतिः पार्श्व न मुञ्चति सा स्वाधीनपतिका । यथा-लिखति कुचयोः पत्रं कण्ठे नियोजयति स तिलकमलके कुर्वन्गण्डादुद- स्यति कुन्तलान् । इति चटुशतैर्वारंवार वपुः परितः स्पृशन्विरहविधुरो नास्याः पार्श्व विमुञ्चति वल्लभः ॥' केनापि कारणवशेन यस्याः पतिर्देशान्तरं गतः सा घोषितभर्तृका । यथा-श्वासा बाष्पजलं गिरः सकरुणा मार्गे च नेत्रापणं केनेदं न कृतं प्रियस्य वि. रहे कस्यासबो निर्गताः । सख्येवं यदि तेन नास्मि कलिता पान्थः कथं प्रोषितः प्राणाः संप्रति मे कलङ्कमलिनास्तिष्ठन्तु वा यान्तु वा ॥' मानकलहेन निर्गते भर्तरि तत्संगमसुखेनान्तरिता कलहान्तरिता । यथा---'उच्छासा वदनं दहन्ति हृदयं निर्मूलमुन्मथ्यते निद्रा नैव न दृश्यते प्रियमुख नक्तंदिनं रुद्यते । अङ्गं शोषमुपैति पादपतितः प्रेयांस्तथा(थो)पेक्षितः सख्यः कं गुणमा- कलय्य दयिते मानं वयं कारिताः ॥' उचिते वासके प्रगुणीकृतसर्वोपकरणा वासकसज्जा । यथा-'कस्तूरी परिमर्दय प्रियसखि श्रीखण्डमत्रानय मालां गुम्फ विधेहि केलिशयनं सज्ज प्रदीपं कुरु । संप्रत्येष्यति वल्लभो मम गृहे स्नेहैकपात्रं यतः प्राचीनाचलकाननानि भजते देवस्तमीवल्लभः ॥' चिरयति प्रेयसि विरहेणाकुलिता विरहोत्कण्ठिता । यथा-'किं रुद्धः प्रियया कयाचिदथवा सख्या ममोद्वेजितः किं वा कारणगौरवं कि. मपि यन्नाद्यागतो वल्लभः । इत्यालोच्य मृगीदृशा करतले संस्थाप्य वाम्बुजं दीर्घ निःश्व- .सितं चिर च रुदितं क्षिप्ताश्च पुष्पस्रजः ॥' १. 'विन्यस्य' इति साहित्यदर्पणे. .
६४ काव्यमाला। केनापि कारणेन संकेतमनागतेन प्रियेण वञ्चिता विप्रलब्धा । यथा-'यत्संकेतगृहं प्रियेण कथितं संप्रेक्ष्य दूती खयं तच्छ्न्यं सुचिरं निषेव्य सुदृशा पश्चाच्च भन्नाशया । स्थानोपासनसूचनाय विगलत्सान्द्राजनैरश्रुभिर्भूमावक्षरमालिकेव रचिता दीर्घ रुदन्त्या शनैः ॥' या स्मरार्ता कान्तं वयमभिसरति तमभिसारयति वा साभिसारिका । यथा-'निशा वा वृष्टिा तिमिरमथ वा गर्जिरथ वा तडिद्वा पङ्को वाभिन- वसरितां श्रेणिरथ वा । यथेष्टं चेष्टन्तां यदि न दयितः प्रेमविमुखः प्रदीपः स्नेहान्यो न खलु शलभौधेविरमति ॥' अन्यत्र भर्तरि त्रिरात्रमुषिते खण्डित। । यदाह--'निद्राकषायमुकुली- कृतताम्रनेत्रो नारीनखव्रणविशेषविचित्रिताङ्गः । यस्याः कुतोऽपि गृह- मेति पतिः प्रभाते सा खण्डितेति कथिता कविभिः पुराणैः ॥' यथा-'नवनखपदमङ्गं गोपयस्यंशुकेन स्थगयसि मुहुरोष्ठं पाणिना दन्तदष्टम् । प्रति- दिशमपरस्त्रीसङ्गशंसी विसर्पन्नवपरिमलगन्धः केन शक्यो वरीतुम् ॥' ईर्ष्यायाः प्रति कारणं सपत्नी नायिका । यथा रुक्मिण्या सखभामा, वासवदत्तायाः सागरिका, गौर्या गवा च । योषिद्गुणानां च लीलादीनां ग्रन्थगौरवभयानात्र विस्तरः ॥ अथ दशकामावस्था आह- अभिलाषचिन्तास्मृतिगुणकीर्तनोद्वेगप्रलापोन्मादव्याधिजडतामरणाख्या दशावस्थाः । स्त्रीपुंसयोः परस्परमालोकनालापादिना अनुक्रमेण भवन्ति । अथ कालाद्यौचित्यमाह- तत्रानाद्यन्तः सुषमदुःषमादिद्वादशारचक्रपरिवर्तनेन कालो मन्तव्यः । स च काष्ठादिभेदभिन्नः । तद्यथा-पञ्चदश निमेषाः काष्ठा । त्रिंश- काष्ठाः कला । पञ्चदश कलाः घटिका । द्विघटिको मुहूर्तः । त्रिंशन्मु- हूर्तोऽहोरात्रः । तत्र चैत्राश्वयुजोर्मेषतुलासंक्रान्तौ समरात्रिंदिवम् । चैत्रा- त्परं मौहूर्तिकी दिनवृद्धिर्निशाहानिश्च । मासः परावधिः । ततः परं मौहर्तिकीदिवसहानिर्निशावृद्धिः । अश्वयुजः परतः पुनस्तदेव विपरीतम् । १. तथा चोक्तं हेमाचार्येणाभिधानचिन्तामणी-'अवसर्पिण्यां षडरा उत्सर्पिण्यांत एव विपरीताः । एवं द्वादशभिरविवर्तते कालचक्रमिदम् ॥' इति. २. बहुवचनान्तमिदम्. तेन मासंत्रयमित्यर्थः. : ।
५ अध्यायः] काव्यानुशासनम् । ६५ . पञ्चदशाहोरात्रः पक्षः । कृष्णशुक्लपक्षद्वयरूपो मासः। द्वाभ्यां द्वाभ्यां मासाभ्यामृतुः । षड्भिर्मासैरयनम् । तच्च वर्षादि दक्षिणायनम् । शिशि- रायं तूत्तरायणम् । ययनः संवत्सरः। स च चैत्रादिरिति दैवज्ञाः । श्रावणादिरितिं लोकयात्राविदः । तत्र श्रावणो भाद्रपदश्च वर्षाः । अत्र च शल्लकीशालशिलिन्ध्रयूथीलागलीकुटजदम्ब सर्जार्जुनकेतकीप्रभृतीनां पुष्पोद्गमः । इन्द्रगोपचकोरचातककुरगददुरोरगशिखण्डिमद्गु- कङ्कप्रभृतीनां मदः । तथा वलाकामु गर्भाधानम् । वंशाङ्कुराणामवृद्धिः । रजःप्रशमः । नृपयात्रानिवृत्तिः । नीलीदलश्यामला वनभूमिः । वारासारक्षालनतो गिरीणां रम्यत्वम् । नदीनां जलपूर रोधोभदः । यतिचारनिवृत्तिः । कामिनीजनावलोकितकान्तमार्गलं स्व- स्थानं प्रति चलितपान्थसार्थत्वम् । जलदनिकुरुंबान्धकारितनभस्तलत्वम् । विद्युदुद्यो- ताद्योतमानदिङ्मुखत्वम् । घनगर्जिताद्वैडूर्यमूभिपु रत्नकन्दलोद्भदः। कामिनीभिः सहोद्यान- यात्रा हर्म्यशिखराग्रशय्या । मृगनाभिगर्भचतुःसमविलेपनम् । कृषीवल कुटुम्बिनीनिकुरम्ब- रासकाडम्बरो दृष्टिमा पोत्सवश्च वर्णनीयः । तथा दग्धोर्वरागन्धवन्धुर्घनतुषारकणवाही कदम्बकुसुमामोदमांसल: पाश्चालपौरस्त्य उत्तरो वायुः । आश्विनश्च कार्तिकश्च शरत् । अत्र च कुररद्विरेफकारण्डवकादम्बकखञ्जरीटचक- वाकसारसक्रौञ्चषभकुम्भिकमटवकोटशफरप्रभृतीनां मदोद्भेदः । पद्मकुमुदोत्पलकहार- बन्धूकवाणासनकुङ्कुमशेकालिकासप्तच्छदकाशभाण्डीरसौगन्धिकमालतीनां कुसुमोढ़ेदः । तथा मयूराणां मदापनोदः हंसयूथागमनम् । अगस्त्योदयात्ययः । प्रसादः । मुक्ताशुक्ति- गर्भाधानम् । तरुङ्गलागो नभःप्रमत्तिः । मुरवीथीदर्शनम् । शुभ्राभ्रखण्डमण्डितमस्व- (नभश्च)रमण्डलं धवलतमचन्द्रि कावभासमाननिशामुखत्वम् । महानवम्यां निखिलास्त्रपू- जोत्सवः । वाजिभटद्विपानां नीराजन विधिः । नृपाणां यात्रोद्यमः। मागेपु पशोषः । भास्करकराणां दुःसहत्वम् । माधवप्रबोधः । केदारेषु शालिपाको गोपीगीतयश्च । परि- पाकापन्नारुकगन्धोद्गमः । जरत्रपुसीफलसौन्दर्य कृषीवलगहाजिरेषु चललयावलीवा- चालभुजलतोल्लासितमुशलोच्छलित कलमशालिणि(नि)ण(१)कगन्धबन्धुरत्वं नदीपूरप्राचु- पिगमश्च वर्णनीयः । वायुश्चात्रानियतदिकः । मार्गशीर्षः पौषश्च हेमन्तः । अत्र च कुन्दमचकुन्दलवलीफलिनीरोध्रपुनागानां पुष्पो- द्मः । भ्रमरसर्पमयूरादिजीवानां मदापनोदः । कामिनीनां कुङ्कुमसित्थुकगन्धलाद्युप. चारः । सर्पपकन्दलवराहवन्ध्रप्रभृतिशाकनाचुर्यम् । दनां संनद्धरसता । कामिनीकुचानां कवोष्णता । कोष्णाम्भसा स्नानविधिः । दुर्भगाणामपि गाढतराङ्गपरिष्वङ्गः । व्याद्रीणां प्रसूतिः । नदीपुलिनेषु गोधूमयवादिधान्योद्गमः । सरःकूपपयसां कवोष्णता। धान्यप- रिपाक्पेशला वहिभूमयः । लवणानां पाकः । पत्रीप्रभृतिजन्तुयात्रोद्यमहानिपैश्वानरप्रिय- त्वम् । कर्कन्धूनागरङ्गफलानां पाकोद्रेकः । पुण्ड्रेक्षुखण्डानां रसपरिपूति(?)मन्दिरगर्भ- काव्यमाला। शय्या । उत्तुङ्गतरपीवरपयोधरबन्धुरमधुरसुन्दरीभुजपञ्जरान्तरसेवनं च वर्णनीयम् । वायुश्चात्रोदीच्यः पाश्चात्यो वा वर्णनीयः । माघः फाल्गुनश्च शिशिरः । अत्र सर्व हेमन्तववर्णनीयम् । विशेषतश्च मातहरिण- वराहमहिषाणामुत्कर्षः कुङ्कुमगन्धतैलादिसाध्यः प्रचण्डो मरुत् । विचित्रसुरतोपभोगयो- ग्याश्च यामिन्यः । दन्दह्यमानकालागरुधूपधूमस्तोमेषु स्पृहा । सुरतसंमर्दनिपीतशीतानां पादप्रान्तपुजीकृततलपटानां यूनां शयनावस्थानम् । चन्दनेष्वरुचिः पयसामतिशायि शै- त्यम् । तुहिनानलयोहात्मकत्वेनाभेदः । दुर्भगासुभगयोरालिङ्गनेन विशेषः । शशिभा- स्करयोः शैत्येन समता । मरुबककुन्देष्वेव पुष्पस्थितिः सिद्धार्थयष्टिसूचीनां परिपाकपे- शलत्वम् । औदीच्यपवमानस्त्यानीभूतपानीयपटलान्तरनिलीनदीनमीनासु नालावशेषन- लिनीवनो दीनमधुरकरझङ्करासंकारमुखरितदिङमण्डलासु वापीष्वनादरः । करीषाग्निसमीप- शयितदयितकुटुम्बकत्वं च वर्णनीयम् । चैत्रवैशाखा वसन्तः। अत्र च शुकसारिकाहारीतमधुव्रतदात्यूहपुंस्कोकिलादीनां मदः। सहकारकर्णिकारकाञ्चनारकोविदारसिन्दुवाररोहीतककेतककिरातमधूकमोचामाधवीदमन- काञ्जनकुरबकतिलकाशोकबकुलगुवाकविच किलनालिकेरहिन्तालपाटलीकिंशुकखजूरताड- ताडीप्रभृतिद्रुमाणामुद्भेदः । तत्र प्रत्युद्यानमान्दोलकक्रीडा पुष्पावचयो मधुपानं स्मरपू- जाप्रक्रमो गौरीचरितगानं चम्पकपुष्पाभरणानि प्रत्यमरमन्दिरं यात्रोत्सवो (व्यात्यु)चारु. चम्दनाङ्गरागो धौतधवलवसनसेवनं जगज्जनजिगीषुमकरध्वजमहाराजविजययात्राडिण्डि- मायमानकोकिलकुलकलकलकलोद्यानरामणीयकं वर्णनीयम् । वायुश्चात्र करिकलभदश- नोद्भिद्यमानचन्दन द्रुमामोदमेदुरस्तरलितकेरलीधम्मिलबन्धो नागवल्लीवेल्लनपटुर्मानिनी. मानतुङ्गमतङ्गजः पञ्चमप्रपञ्चविपञ्चनाचतुरो दाक्षिणात्यः । ज्येष्ठापाढी प्रीष्मः । अत्र हि नवमालिकाकाशिकाशिरीषकाञ्चनकेतकीधातकीख- जूरजम्बुपनसप्रियालपूगीफलनारिकेलप्रभृतीनां पुष्पफलोद्भेदः । करभसरभरासभप्रभृ- तीनां मदोद्रेदः । नदीसरःकूपादिषु निरम्भस्त्वम् । सक्तुधानारुषु पानकेषु रतिः। पान्थपूर्णाः प्रपाः । प्रातः सायं च वहमानमार्गत्वम् । कायमानेषु माध्याह्निकी निद्रा । दिवसावसाने स्नान विधिः । रात्रिशेष सुरतक्रीडा । चन्दनादिशीतलद्रव्यसेवा । निशासु चन्द्रकरनिषेवणम् । उत्तुङ्गसौधशृङ्गाग्रविनिर्मिते विशालवायनविवरविहरमाणजगत्प्रा- णनिर्वाप्यमाणधर्मत्वम् । सहकारभङ्गास्वादः । तालवृन्द जनितोदबिन्दुवृष्टिसरःस्थलस्थायि- स्थूलमुक्ताफलहारप्रायाभरणत्वम् । जलाद्रोपवनजलक्रीडापाटलापरिमलवहलितशीतलज- लोपभोगो विधिविचकिलस्रज एकदेशोपविष्टवैणिकविपच्यमानवसन्तध्वनिश्रवणं सश- कराधतदुग्धपानं मलयजरसंदिग्धोद्धरपयोधरमधुरवधूविविधविधायमाननिधुवनविधिवि. धीयमानधूतघनधर्मत्वं वर्णनीयम् । तथा पच्यन्त इव भूतानि, कम्पन्त इव तोयानि तप्यन्त इव पासवः, माध्मायन्त इव पर्वताः, सेवन्तो मृगदृष्टि काकीर्णा वनभूमिः, सर्वतीवहघट्ट- घटीयन्त्रचीत्कारमुखरीक्रियमाणमध्यान्युद्यानानि, करवीरकरपुष्पिणी स्थलभूमिः । चीरी- ५ अध्यायः ] काव्यानुशासनम् । ६७ नादवन्तो वनान्ताः । दाधिकाभ्यवहारः । पङ्कान्त ठनाव्यग्रं कोलकुलम् । रोमन्थम- न्थरमुखमहिषीमण्डलमथ्यमानपानीयस्थानम् । लोलजिह्वाः समग्रश्वापदसंदोहाः । पक्षि- गामंसदेशप्रकर्षों वर्णनीयः । वायुश्चात्र तरुणतरतरणिकिरणसंपर्ककर्कशः शर्कराकणवाही अङ्गारप्रकरं किरन्निव कुतूहलकणान् वर्षन्ति वातिसारितजगजन्तुजातदाहहडम्बरो नैक्र, तोऽनियतादिक्षिपो वा(?) वर्णनीयः । वसुरवस्थश्च ॥ ऋतोः संधिः । शैशवं प्रौढिरनुवृत्तिश्च । तत्र शिशिरवसन्तयोः संधिर्यथा-'बिंबुढ़े मयणं नदिति वहलो नो गन्धतिल्लायरा वेणीयो विरयं तिलिंति न तहा अंगंमि कुप्पासयं । जंबाला मुहु कुंकुम मिवयणे विद्वंति डिल्लायरा संमत्ते शिशिरं विणिज्जिय बला पत्तो वसंतस्य उ ॥' वसन्तस्य शैशवं तथा—'ग- भग्रन्थिषु वीरुधां सुमनसो मध्येङ्करं पल्लवाश्छायामात्रपरिग्रहः पिकवधूकण्ठोदरे पञ्चमः । किं च त्रीणि जगन्ति जिष्णुदिवसैर्द्धित्रैमनोजन्मनो देवस्यापि चिरेप्सितं यदि भवेदभ्यास- वश्यं धनुः ॥' प्रौढियथा-'संपिण्डीकृतजीर्णजीरककणाश्रेणिश्रियः केशरान्संनद्धं परितो निरन्तरदलद्रोणीनिवेशैस्त्रिभिः । प्रीतम्रान्तमधुव्रती चलपितस्तं च स्तिभीसंकटे गन्ध- ग्राह्यमबाह्यवृत्ति वलति क्रीडावने केतकम् ॥' वर्षासु ग्रीष्मलिङ्गानुवृत्तियथा-'खं वस्ते कलविङ्ककण्ठमलिनं कादम्बिनीकम्बलं चर्चा पारयतीव ददुरकुलं कोलाहलैरुन्मदम् । गन्धं मुञ्चति सिक्तलाजसदृशं वर्षेण दग्धा स्थली दुर्लक्ष्योऽपि निभाव्यते कमलिनीहा- सेन भासां पतिः ॥' इदमन्यच यद्यथोक्तं कविसमयप्रसिद्धं तत्तथैव निबध्नीयात् । अ- न्यथा तु प्रकृतिव्यत्ययो नाम दोषः ॥ विभावानुभावयोः क्लेशेन यत्र व्यक्तिर्भवति सा विभादानुभावक्लेशव्यक्तिः। यथा--'परिहरति रति मतिं लुनीते स्खलतितरां परिवर्तते च भूयः । इति बत विषमा दशास्य देहं परिभवति प्रसभं किमत्र कुर्मः ॥' अत्र रतिपरिहारादीनामनुभावा- दीनां करुणादावपि संभवात्कामिनीरूपो विभावो यत्नप्रतिपाद्यः । यथा च -'कर्पूरधूलि. धवलद्युतिदूरधौतदिङमण्डले शिशिररोचिषि तस्य यूनः । लीलाशिरोंशुकनिवेशविशेषक्ल. प्तिय॑क्तस्तनोन्नतिरभून्नयनावनौ सा ॥' अत्रोद्दीपनालम्बनरूपाः शृङ्गारयोग्याभिभवा अनुभावा पर्यवसायिनः स्थिता इति कष्टकल्पना ॥ अतिप्रसङ्गेन व्यावर्णनं पुनः पुनर्दीप्तिः । यथा बालरामायणे उन्मत्तदशाननेऽङ्के(?) पुनः पुनश्चर्यमाणो विप्रलम्भो रस उपभु- कमाल्यवच वैरस्यमाकलयति ॥ अकाण्डे विस्तरोऽकाण्डप्रथनम् । यथा कर्पूरमञ्जो द्रुमदोहददानादिव्यावर्णनम् ॥ असमयत्यागोऽकाण्डच्छेदः ।
६८ काव्यमाला। यथा वीरचरिते द्वितीयाके राघवभार्गवयोः परमकाष्टाधिरूढे वीररसे कङ्कणमोचनाय गच्छामीति रसान्तरेण रसच्छेदः ॥ अङ्गस्याप्रधानस्यातिविस्तरेण वर्णनमङ्गातिविस्तरः । . यथा कादम्बयो रूपविलासेत्यादिना महाविप्रलम्भबीजेऽप्युपक्षिप्ते तदनुपयोगिनीषु अ. ग्वीशबरेशाश्रममुनिनगरीनृपादिवर्णनाखेतिम(?)प्रसङ्गाभिनिवेशाः । यथा च शिशुपाल- वधे उत्क्षिप्तप्रतिद्वन्द्विविजयवीजेन वीररसानुबन्धेऽपि प्रवर्तमाने,तदन्य शृङ्गाराङ्गभूततुवन- विहारपुष्पावचयजलकेलिमधुपानसुरतचन्द्रोदयादिप्रभातादिवर्णनायासत्यासक्तिः ॥ प्रधानस्याङ्गिनोऽनुबन्धेऽङ्गयननुसंधानम् । यथा रत्नावल्यां चतुर्थऽके बाभ्रव्यागमनेन सागरिकाया विस्मृतिः ॥ अनङ्गस्य रसानुपकारकस्य वर्णनमनङ्गाभिधानम् । यथा कर्पूरमञ्जयाँ नायिकया स्वामिना च वसन्तवर्णनमादृत्य वन्दिवर्णने तस्य राज्ञः प्रशंसनम् ॥ इति महाकविश्रीवाग्भटविरचितायामलंकारतिलकाभिधानो(?)लंकारः ॥ नवीनेकमहाप्रवन्धरचनाचार्यविस्फूर्जित- स्फारोदारयशःप्रचारसततव्याकीण विश्वत्रयः । श्रीमन्नेमिकुमारसृनुर खिलप्रज्ञालचूडामणिः काव्यानामनुशासनं वरमिदं चक्रे कविर्वाग्भटः ॥
No text on this page.
No text on this page.
No text on this page.
संस्कृतनूतनपुस्तकानि न्यायलीलावती। श्रीमद्वल्लभाचार्यविरचिता। वैशेषिकसिद्धान्तसारभूतोऽयमपूर्वो न्यायलीलावनोग्रन्थः । अत्र वैशेषिकसिद्धान्ताना. मण्डनं क्वचिन्मतान्तरखण्डनं च संक्षिप्ताभिर्युक्तिभिः मस्ति । अस्य निबन्धस्य गभीरार्थत्वेन दुज्ञेयत्वादेतदुपरि महानैयायिकैः पृथग्व्याख्यात्रयं कृतं श्रुतप्रायं नैतदव- ध्यस्माभिरुपलब्धम् । यदि तत्संग्राहका महाशया लोकोपकारप्रवणा वितरेयुर्मुद्रयामोहि पुनर्मुद्रणावसरे। मूल्यं १२ आ., मार्ग. २ आ. काव्यालंकारसंग्रहः। महामहोपाध्यायश्रीमदुद्भुटप्रणीतः । श्रीमत्प्रतीहारेन्दुराजविरचिनया काव्यालंकारसारलघुवृत्त्या समेतः । अयं प्रन्थोऽतीतसहस्रंसंवत्सरोऽतिप्राचीनः वर्ग( प्रकरण षटुयुत आलंकारिकाणा- नतीव मनोविनोदास्पदो वरीवति । अत्र प्रतिपादिताः सर्वे विषयाः सप्रमाणा ललित- गश्च सन्तीत्यस्माभिः संमुद्य प्रकाशितः ।। मूल्यं 6 आ., मार्ग. २ आ. तत्त्वप्रदीपिका-चित्सुखी। श्रीमच्चित्सुखाचार्यमुनिविरचिता । परमहंसप्रत्यग्रूपभगवत्प्रणातया नयनप्रसादिनीसमाख्यया व्याख्यया सहिता । श्रीमद्भगवत्पादैरद्वैतवेदान्तसिद्धान्तपूर्ण शारीरकमीमांसाभाष्यमभाषि । । दिराचीनैरुत्थापितकुतर्कान्धकारनिरसनक्षम खण्डनं श्रीहर्षमित्रैरकारि । तदप्यपर्याप्त प्रतिवादिखण्डनायेत्यखिलवादिविप्रतिपत्तिं परिजिहीर्षता चित्सुखमुनिना सर्वांशपूर्णोऽर तस्वप्रकाशिकानामा संदर्भोऽग्रन्थि । अत्र चतुर्भिः परिच्छेदैः सर्वे विषयाः सुवि शदं निलपिताः। मूल्यं ३ रु., मार्ग. ६ आ निर्णयसागरयन्त्रालयाधिपतिः तुकाराम जावजी, काळबादेवीरों
No text on this page.