Prakrit Bharati Academy, Jaipur

Shri Ratnapalnripkathanakam

Gani, Sommandan · 2010/02

PDF Proofread

Front matter

No text on this page.

ARNIAR M श्रीआत्मानन्द-ग्रन्थरत्नमाला-द्वाविंशं रत्नम् (२२) वाचनाचार्यसोममण्डनविरचितं श्रीरत्नपालनृपकथानकम् । ANANARNAA पूज्यपादप्रवर्तकश्रीमत्कान्तिविजयान्तिषचतुरविजयोपदिष्ट- गरि खेडावास्तव्य-प्राग्वाटर पोरवाड)-केवलचन्द्रतनूजसाकरचन्द्रस्य द्रव्यसाहाय्येन - प्रकाशयित्री-श्रीआत्मानन्दसभा-भावनगर इदं पुस्तकं मुबय्यां वल्लभदास-त्रिभुवनदास गांधी सेक्रेटरी आत्मानंदसभा भावनगर इत्यनेन निर्णयसागरमुद्रालये कोलभाटवीथ्यां २३, तमे गृहे रा. ये. शेडगे. द्वारा मुद्रयित्वा प्रकाशितम् वीरसंवत् २४३९, आत्मसंवत् १७. विक्रमसंवत् १९६९. SASUSCISSIOS Published by Vallabhadīs Tubhuvandās Gandhi, Secretary, Slırı Jain Ātmanand Sabhi, Bhāvanagar and Printed by R. Y, Shedge at the Nirnaya-sagar Press, 23, Kolbhat Lane, Bombay. تمرین -Rattan- म अहम् ॥ प्रस्तावना॥ अस्य दानमाहात्म्यप्रतिवद्धस्य श्रीरत्नपालनृपकथानकस्य कारोवाचनाचार्यश्रीसोममण्डनाभिधानाः श्रीवृहत्तपा- गच्छशृङ्गारहारोपमयुगोत्तमाचार्यपुरन्दरश्रीमन्मुनिसुन्दररसूरीणां विनेया अभूवन् , इति कथानकस्यास्य प्रशस्तौ स्फुट- मेव । यद्यपि ग्रन्थकर्तृभिरत्र स्वसत्तासमयः क्वापि नोपनिषद्धस्तथापि ग्रन्थस्यास्य प्रशस्तिमध्यवर्तिना- "मुनिसुन्दरसूरीश-पट्टे विजयिनोऽधुना। श्रीरत्नशेखरगणाधीशा वः शिवसम्पदे ॥" इत्येतेन पद्येन श्रीरलशेखरसूरीणां सत्तासमये आत्मनोऽपि सत्तासमयः प्रकटीकृतस्तैः; किञ्च श्रीमन्मुनिसुन्दरसूरि- रत्नशेखरसूर्योविद्यमानत्वं त्वेताभ्यामेव स्वकृतेष्वनेकग्रन्थेषु महोपाध्यायश्रीमद्धर्मसागरगणिविरचितायां पट्टावल्यां च विक्रमाीयपञ्चदशशताब्दयां प्रकटितमेव, अतः श्रीमन्मुनिसुन्दरशिष्यत्वेनामीषामपि समयोऽनन्तरोक्त एवेति प्रतिपा- दने नात्रासमीचीनम् । एतद्न्थप्रणेतृभिरन्येऽपि ग्रन्थाः कृता भवेयुः परं कति किंविषयाः ? । इति नाद्यापि निर्णयपथमवतीर्णम् । अस्मिन् कथानके दानमाहात्म्यं विवृण्वद्भिः कविभिरादौ परस्परसंजातविवादानां दानशीलतपोभावानां वादनि- राकरणयुक्त्युद्धटनम् , तदनन्तरं कथानायकस्यास्य रत्नपालनृपतेर्जन्मतः समारभ्य सुरसझप्राप्तिपर्यन्तं सुपात्रप्रासुकपा- प्रस्तावना. नीयदानफलोपभोगाविर्भूतानेकाचार्यावहस्य चारुचरित्रस्याविष्करणम् , अस्य पट्टराझ्याः शृङ्गारसुन्दर्याः समुत्पन्नेऽपि महत्युपसर्ग शीलरक्षाढत्वोभावनम्, प्रासङ्गिकोदाहरणनिरूपणम्, पूर्वभवस्वरूपशंसनम्, इत्यादि समग्रमपि चरित्र व्यावर्णितमस्ति; तत्तु स्वयमेवावभोत्सते बुद्धिमद्भिरिति नास्माकमत्रातिकथनीयम् । एतत्कथानकपुस्तकगवेपणापरायणेन मया भूयो भूयः प्रायतिपि परं केवलं श्रीमन्मोहनलालमुनीनां सूर्यपुर (सुरतवन्दर ) स्थज्ञानमन्दिरात्मायो नातिशुद्धाशुद्धं पुस्तकद्वितयमेव संप्राप्तम्, एतन्मात्रशोधनसाधनावलम्बनेनैव सूक्ष्मदृष्या संशोधितेऽप्यत्र निबन्धे मदीयदृष्टिदोषेणाक्षरयोजकदोपेण वा यत्र कचनाशुद्धिः कृता जाता वा भवेत्तत्र संशोधनीयं शुद्धशेमुषीसंशोधितकल्मषैः कृपालुभिरिति प्रार्थयते- प्रवर्तकश्रीमत्कान्तिविजयपादपाथोजपरागः ता. १-२-१३) प्रकल्पिताञ्जलिः (खेडा) । चतुरविजयो मुनिः ॥ अहम् ॥ ॥ परमगुरुश्रीमद्विजयकमलसूरिपादपद्मेभ्यो नमः ॥ श्रीमद्वाचनाचार्यसोममण्डनविरचितं ॥ श्रीरत्नपालनृपकथानकम् ॥ श्रेयाश्रीसझने तस्मै, नमः श्रीनाभिजन्मने । यन्नामापि नृणां दत्ते, कल्पशाखीव कामितम् ॥१॥ दानं शीलं तपो भावश्चेति धर्मश्चतुर्विधः । नियां हेतुर्भवाम्भोधिसेतुः केतुर्महापदाम् ॥ २॥ तत्र जानीत चोत्कृष्टं, दानं यत्प्राग्जिनैरपि दानाद्यन्योन्यवादोक्तियुक्त्या तद्गदितं गुरु ॥३॥ तथाहि- दानशीलतपोभावा, मुक्तिमार्गस्ततोऽन्यदा। मिथस्ते विवन्दते स्म, स्वस्वमाहात्म्यगर्विताः॥४॥ दानमूचेऽहमेवाऽस्मि, मुक्तेर्मुख्य निबन्धनम् । सहकारि तु तत्राऽन्यत्सर्वं शीलादि वुध्यताम् ॥ ५॥ मयैवाऽऽरोपितं प्रौढिमियतीमेकजन्मना शिवं गमी शालिभद्रो, जानात्येतज्जगत्रयम् ॥ ६॥ यद्दत्तमाज्यं साधुभ्यो, धनसार्थेशजन्मनि । तेनाऽभूच्छ्रीयुगादीशः, स त्रैलोक्यपितामहः ॥७॥ पाणेरिक्षुरेसं दातुः, प्रपौत्रस्यापि यत्प्रभुः। अधः पाणिमधान्नूनं, तन्माहात्म्यं मम स्फुटम् ॥८॥ १ अत्र केतुशब्देनापदां नाशकत्वं सूचितम् । २ 'दातुः' इति तृना योगे षष्ठयभावः । स १ ។

रत्नपाल-
कथानकम्
ये न कस्यापि साहाय्यमीहन्ते कर्मणि क्वचित् । दातारं तेऽप्यपेक्षन्ते, प्रवृत्ता मुक्तिवर्त्मनि ॥९॥ किं बहुना । निधयो
नव यत्पुंसः, सिद्धयोऽष्टौ च सद्मनि । यच्चाऽन्यदपि सोगारोग्याचं तत्फलं हि मे ॥ १० ॥
शीलं तदाख्यत्सोत्कर्प, मोक्षाङ्गेष्वत्र मुख्यता । ममैव युक्त्या घटते, न त्वन्येषां कथञ्चन ॥ ११ ॥ इहोद्भूताद्भुतप्राति-
हार्यो यत्प्राप निवृतिम् । श्रेष्ठी सुदर्शनस्तत्र, हेतुः कोऽपि न मत्परः ॥ १२॥ सत्यः सीतासुभद्रायाः, साधयन्ति म य-
पुरा । तत्तदुःसाधकृत्यानि, तन्माहात्म्यं हि मेऽनघम् ॥ १३ ॥ स्वेच्छाचार्यपि सावधनिरतः कलिकौतुकी । मामाराध्य
मनःशुद्ध्या, नारदो मोक्षमामुयात् ॥ १४ ॥ अन्यैरप्युक्तम्-
" कैलिकारओऽवि जणमारओऽवि सावज्जजोगनिरओऽवि । नारओऽवि सिज्झइ, तं खलु सीलस्स माहप्पं ॥१॥
नानुज्ञातं निषिद्धं वा, किञ्चिदन्यजिनैः क्वचित् । संसारवीजं त्वब्रह्म, सर्वत्रापि न्यषिध्यत ॥ १५॥ यदुक्तम्-
"नवि किञ्चि अणुन्नायं, पडिसिद्धं वावि जिणवरिंदेहि । मुत्तुं मेहुणभावं, न तं विणा रागदोसेहिं" ॥१॥
जितेन्द्रियत्वं यत्तस्माद्विनयश्चेत्यतः क्रमात् । सा स्युः सम्पदोऽपीत्थं, सम्पन्मूलमहं ध्रुवम् ॥ १६॥ यदुक्तम्-
"जितेन्द्रियत्वं विनयस्य कारणं, गुणप्रकर्षों विनयादवाप्यते।गुणप्रकर्षेण जनोऽनुरज्यते, जनानुरागप्रभवा हि सम्पदः"।
तन्ममेत्याद्यसम्भाव्याऽवदातविदितात्मनः । शतांशमपि नाऽर्हन्ति, धर्मा दानादयो ध्रुवम् ॥ १७ ॥
१ 'आप्तवान्' इति भवेत् । २ "कलिकारकोऽपि जनमारकोऽपि सावद्ययोगनिरतोऽपि । यन्नारदोऽपि सिद्धयति तत् खलु शीलस्य
माहात्म्यम्" ।। इतिच्छाया। ३ "नापि किञ्चिदनुज्ञातं प्रतिपिद्धं वाऽपि जिनवरेन्द्रैः। मुक्त्वा मैथुनभावं न तद्विना रागद्वेषाभ्याम्" ॥ इतिच्छाया।
॥१॥

तपस्तदाख्यदानादेर्गुरुता तावदिष्यते । जगत्युजागरं यावन्मन्माहात्म्यं न वीक्ष्यते ॥ १८ ॥ दुःसाधकार्ये हरयश्च- क्रिणश्च महौजसः । इष्टसिद्धिप्रतिभुवं मामेवोपासते सदा ॥ १९॥ यदुक्तम्- "अथिरंपि थिरं वंपि उज्जु दुलहपि तह सुलहम् । दुस्सज्झपि सुसझं, तवेण सम्पजए कजम्" ॥१॥ भवैरनन्तैराचीर्ण, दुष्कर्मानन्तमप्यहम् । क्षणेन भस्मसात्कुर्वे, वही राशिमिवैधसाम् ॥ २० ॥ अन्यैरप्युक्तम्- "दीप्यमाने तपोवती, वाह्ये चाऽभ्यन्तरेऽपि च । यमी जरति कर्माणि, दुर्जराण्यपि तत्क्षणात्" ॥१॥ निकाचितेभ्यः कर्मभ्यो, द्विधैवात्मा हि मुच्यते । अनुभूय स्वयं तानि, कृत्वा वा भस्मसान्मया ॥२१॥ यदुक्तं श्रीसी- मन्धरस्वामिनापि- "पांवाणं च खलु भो कडाणं कम्माणं पुब्बि दुच्चिण्णाणं दुप्पडिकन्ताणं वेइत्ता मुक्खो, नत्थि अवेइत्ता तवसा वा झोसइत्ता" इत्यादि ॥ निषिद्धाचरणाद्युत्थैः, पापैरात्मा मलीमसः । सम्यग्गुरूपदिष्टेन, मयैवाऽशु विशुध्यति ॥२२॥ ब्रह्मास्त्रीभ्रूणगोघातपातकै- नेरकातिथिः। दृढपहारी शरणं, प्राप्तो नीतः शिवं मया ॥२३॥ प्रक्षीणसप्तकः साक्षाजिनमाराधयन्नपि । श्रेणिकः प्राप नरकं, विमुक्तः करतो मया ॥२४॥ अन्वयव्यतिरेकाभ्यां, दृष्टप्रत्ययमायहम् । दानशीलादिमाहात्म्यैः, कथं पश्चानिये वुधैः ॥२५॥ १ "अस्थिरमपि स्थिरं वक्रमपि ऋजुकं दुर्लभमपि तथा सुलभम् । दुःसाधमपि सुसाधं तपसा संपयते कार्यम्" ॥ इति च्छाया। २ “पापानां च खलु भोः कृतानां कर्मणां पूर्व दुश्चीर्णानां दुष्पतिकान्तानां वेदयित्वा मोक्षो, नास्ति अवेदयित्वा तपसा वा क्षपयित्वा" ।। इति च्छाया ।

रलपाल- कथानकम् ॥२॥ दानादीन्यवदद्भावस्तदा गर्वेणः मत्पुरः । किं न गर्जन्ति लज्जध्ये, मदाप्य महिमश्रियम् ॥ २६ ॥ यदुक्तम्- “भरिऊण जलं जलया, जस्स पभावेण उन्नई पत्ता । तस्सेव पुणो उवार, गजन्ता किं न लजन्ति" ॥१॥ यथात्मानं विना कायो, यथा पुष्पं फलं विना। विनाम्भश्च सरो यूयं, तथा सर्वाणि मां विना ॥२७॥ यदन्यत्राप्युक्तम्- "घनं दत्तं वित्तं जिनवचनमभ्यस्तमखिलं, क्रियाकाण्डं चण्डं रचितमवनौ सुप्तमसकृत् । तपस्तप्तं तीनं चरणमपि चीर्ण चिरतरं, न चेच्चित्ते भावस्तुपवपनवत्सर्वमफलम्" ॥१॥ निवध्य निविडैः पाशैमोहेन भवचारके । क्षिप्तोऽपि भरतश्चक्री, मयैवामोच्यत क्षणात्॥२८॥ मुख्यं मोक्षाङ्गमासाद्य, मामाद्यभगवत्प्रसूः । पूर्वमप्राप्तधर्मापि, क्षणान्मोक्षमुपेयुपी ॥ २९ ॥ आपाढभूतिः कपटी, भ्रष्टोऽपि ब्रह्मवर्त्मनः । प्रापितः परमब्रह्म, निरुध्यान्यगतीमया ॥ ३० ॥ कर्मभिः कपिवद् वंशे, नय॑मानः स रागहृत् । प्रापेलातीसुतः सद्यो, मच्छुद्ध्या ज्ञानमुज्ज्वलम् ॥ ३१ ॥ मदीयाशुद्धिशुद्धिभ्यां, वन्धमुक्ती नृणां क्षणात् । अत्र प्रसन्नचन्द्रर्पिः, स्पष्टमिष्टो निदर्शनम् ॥ ३२ ॥ विरताऽविरतभ्रातृद्वयवृत्तनिदर्शनात् । प्रामाण्यं मम सर्वत्र, क्रियायास्तु नहि क्वचित् ॥ ३३ ॥ इत्थं दानादयो धर्माः, स्वस्वमाहात्म्यगर्विताः। विवदन्तो मिथः प्रापुः, पार्थे तीर्थकृतः प्रभोः ॥ ३४ ॥ समानदृष्टिः सर्वत्र, वीतरागः स सर्ववित् । विवाद भुषमिति तान् , स्वोपज्ञं न्यगदत्तदा ॥ ३५ ॥ १ मत्तः ( आप्य लब्ध्वा ) । २ "भृत्वा जलं जलदा यस्य प्रभावेण उन्नतिं प्राप्ताः । तस्यैव पुनरुपरि गर्जन्तः किं न लज्जन्ते" ॥ इति च्छाया । ॥२॥ wamme सकृदेकैकपर्यायग्राहिणी वाग् नयः स्मृतः । प्रमा तु युगपन्नैकवस्तुधर्मावलम्बिनी ॥ ३६॥ नया ह्यन्योन्यसापेक्षाः, सर्वज्ञैः सुनया मताः । अन्योन्यमत्सरक्षीणविषया दुर्नयाः पुनः ॥ ३७ ॥ जोगे जोगे जिणसासणम्मि दुक्खक्खया पउज्जन्ते । इक्किकम्मि अणन्ता, वट्टन्ता केवली जाया ॥ ३८॥ इति प्रत्येकमप्यत्र, प्राप्य मोक्षाङ्गतां समे। मिथो मत्सर- मालम्ब्याऽधुना मा भूत दुर्नयाः॥ ३९ ॥ प्रायः सत्पात्रसश्रद्धदानाच्छीलाच निर्मलात् । नैकेऽपि तपसस्तीवात्सद्भावाच्च शिवं गताः॥४०॥ न्यूनाधिकत्वं चान्योन्यमथ चेज्ज्ञातुमिष्यते । शृणुताऽवहितीभूय, तदपि ज्ञापयामि वः ।। ४१ ॥ शील ! चन्द्रकरोन्मीलदतिनैमल्यलील ! हे ! । निर्निदान ! तपस्तीनभावने! चाघनाशिनि ! ॥४२॥ एकस्यैव भवेन्मुक्ति- युष्मदाराधनाद् ध्रुवम् । दानाप्रदातुश्चादातुईयोः स्पष्टमिहेश्यते ॥ ४३ ॥ युग्मम् ॥ शास्त्रान्तरेऽप्युक्तम्- "हे ! शीलचन्द्रकरलील ! भवाम्बुराशिनिस्तारणोडुप ! तपः ! शृणु भावने ! त्वम् । एकस्य सिद्धिरभवद्भवतां प्रसादाद्, दानात्तु दातुरपरस्य च मुक्तिमार्गः" ॥१॥ अरक्तद्विष्टमनसः, सर्वज्ञस्य मुखाम्बुजात् । निशम्य सम्यगाधिक्यमिति दानस्य यौक्तिकम् ॥ ४४ ॥ हीणामात्सर्य- मुत्सृज्य, धर्माः शीलादयत्नयः। ततः स्म वहु मन्यन्ते, दानं न्यस्यात्मनो धुरि ॥ ४५ ॥ युग्मम् ॥ संयोगारोग्यसोगभा- ग्यसौभाग्यसम्पदाम् । दानं निदानं सर्वज्ञैरत्रामुत्र च वयते ॥ ४६॥ इयर्ति स्फूर्तिमतुलां, कीर्तिर्दानेन सर्वतः। आस्ये प्रशस्या दीप्तिश्च, दानेनोदयिनी नृणाम् ॥ ४७ ॥ आसतां स्वजना दूरे, प्राच्यप्रेमवशीकृताः । दानेनावर्जिता मूना, " योगे योगे जिनशासने दुःखक्षयाय प्रयुज्यमाने । एकैकस्मिन् अनन्ता वर्तमानाः केवलिनो जाताः " । इति च्छाया ॥ or

रखपाल-
कथानकम
॥३॥
विद्विपोऽपि वहन्त्यपः ॥४८॥ भूतानि प्रतिकूलानि, निखिलान्यपि तत्क्षणात् । वशीभवन्ति दानेन, दूरितोत्सर्पिपाप्मना
॥४९॥ दुारा दुरितत्राताः, प्रोद्भूताः प्राच्यकर्मभिः । प्रायः पुंसां प्रणश्यन्ति, दानप्रतिहतौजसः ॥ ५० ॥ गुणानपेक्षं
सर्वत्र, मुग्धैस्तद्देयमन्वहम् । क्वापि सत्पात्रमप्येवं, यन्मेलिष्यति कहिंचित् ॥५१॥ यदुक्तम्-
"सर्वत्र ददतो दातुः, पात्रयोगोऽपि सम्भवेत् । वर्षन् क्षारार्णवेऽप्यन्दो, मुक्तात्मा क्वापि जायते" ॥१॥
शुद्धं सकृदपि प्रत्त, सत्पाने श्रद्धया ध्रुवम् । कल्पतेऽनल्पलाभाय, स्वल्पमप्यचिरान्नृणाम् ॥ ५२ ॥ यदुक्तम्-
"व्याजे स्याद् द्विगुणं वित्तं, व्यवसाये चतुर्गुणम् । कृपौ शतगुणं प्रोक्तं, पात्रेऽनन्तगुणं पुनः" ॥१॥
इतिहासेऽप्युक्तम्-
"वह्वप्यश्रद्धया दत्तं, नष्टमाहुर्मनीषिणः। वार्यपि श्रद्धया दत्तमानन्त्यायोपकल्पते" ॥१॥
तत्त्वार्थिभिः पुनः सम्यक्, पात्रापात्रविवेचकैः । निश्चित्यैव गुणैः पात्रं, श्रद्धादानं विधीयते ॥ ५३ ॥ दत्ते पुनः कुपा-
बेभ्यः, श्रद्धादाने विवेकिभिः । तदीयदुश्चरित्राणां, कृतं स्यादुपबृंहणम् ॥५४॥ देयं सर्वत्र दीनादौ, दयादानं तु तैरपि ।
सानिपिद्धं यत्सर्वजनीनैस्तन्नहि क्वचित् ॥ ५५ ॥ रुच्यैः कृपियेथोत्कृष्टा, क्षेत्रवीजाम्बुदाऽनिलैः । विफला मध्यमा वा
स्याव्यपायेऽन्यतरस्य तु ॥ ५६ ॥ दानं तथोत्तमं पात्रवित्तभावानुमोदनैः । विफलं मध्यम वा स्याब्यपायेऽन्यतरस्य तु
॥ ५७ ॥ श्रद्धया निहितं दानं, सत्पाने समये नृभिः । शुक्ती स्वाताविवाऽब्देन, वारि स्यान्मौक्तिकश्रिये ॥ ५८॥ महघ्यों-
१ प्रदत्तम् ।
॥३॥

ण्यासतां खाद्याऽशनस्वाद्यानि सर्वथा। सत्पात्रे समये दत्तमम्भोऽपीप्टार्थसिद्धये ॥ ५९ ॥ तृपार्तेषु यथा भीष्मग्रीष्मत्तौं शुद्धसाधुषु । दत्तं नीरमभूद्रनपालस्याऽद्भुतसम्पदे ॥ ६० ॥ तथाहि- अस्तीह भरतक्षेत्रे, पुरं पाडलिपुत्रकम् । पुरुहूतपुरस्पार्द्ध, समृद्धिसुषमास्पदम् ॥ ६१॥ हित्वा सहानवस्थानविरोधं प्रथितं मिथः । यत्र लक्ष्मीसरस्वत्यौ, प्रीत्या पौरेषु खेलतः ॥ ६२ ॥ पश्यन् स्निग्धशा सर्वा, निजापत्यमिव प्रजाः। षण्णवत्या नृपगुणैरजितोर्जितसद्यशाः ॥ ६३ ॥ प्रतापतपनस्तत्र, त्रासिताऽखिलशात्रवः । भूपालो विनयात्पालः, सम- भूभूरिविक्रमः॥६४॥ युग्मम् ॥ माररूपः कुमारोऽस्य, कुमारातुलविक्रमः। रत्नपालः कुलव्योमोद्योतप्रद्योतनोऽभवत् ॥ ६५ ॥ द्वासप्ततिकलाशाली, कामकेलीवनं कमात् । यौवनं युवतीप्रीतिजननं भजति स्म सः॥६६॥ वीरसेनस्य भूभर्तुः, पुरे हंसपुरेऽन्यदा । पुत्र्याः शृङ्गारसुन्दर्याः, स्वयंवरणमण्डपे॥६७ ॥ रूपसौभाग्यभाग्याधैर्गुणैः सर्वत्र विश्रुतः। ससैन्यः पितुरादेशाताहूतो जगाम सः॥ ६८ ॥ युग्मम् ॥ अन्येऽपि भूभुजस्तत्र, महोत्साहा महौजसः । स्वस्वसैन्यैः सहाऽजग्मु- दूताऽऽहूताः सहस्रशः ॥ ६९ ॥ शुभेऽहि सदलङ्काराः, सर्वा सपरिच्छदाः । निपेदिवांसस्तत्रैत्य, मञ्चोन्मञ्चेषु ते पुनः ॥ ७० ॥ चतुःपष्टिकलादक्षा, शुभसर्वाङ्गलक्षणा । स्वयंवरस्रजं पाणी, विनती स्वसखीवृता ॥ ७१ ॥ सा तत्राऽद्भुतशू- गारं, कृत्वा शृङ्गारसुन्दरी । आगमत् त्रिजगजैत्री, शक्तिर्मूर्तेव मान्मथी ॥ ७२ ॥ युग्मम् ॥ अथ तस्याः पुरोभूय, प्रती- हारः पटिष्ठवाग् । प्रत्येकं तान् नृपानूचे, नामवंशादिकीर्तनैः ॥ ७३ ॥ तथाहि- १ कुमारः कार्तिकेयः ।

रलपाल- कथानकम् अयं काशीश्वरः सुच!, सूरसेनः पराक्रमी । त्रिस्रोतःस्रोतसि स्वैरं, यः खेलति मरालवत् ॥ ७४ ॥ श्रूयन्ते काशिवा- स्तव्या, वञ्चनाचञ्चयो नराः । इत्युक्तिमात्रात्काशीशे, सा विरागमसूचयत् ।। ७५ ॥ बलिष्ठोऽयं मधूपन्नपतिर्मधुरवाग्मधुः। एतं वृणीष्वेत्यवदत्प्रतीहारोऽथ तां पुनः॥७६ ॥ कालियाहेरिव विपौर्वनील यामुनं जलम् । वृन्दावनं च यत्क्रीडास्थान तस्योच्यतेऽथ किम् ॥७७॥ उपहासगिरेत्यस्मिन् , ज्ञातेऽथाऽरुचिते पुनः । प्रतीहारः कुकुणानामित्यधीशमवर्णयत् ॥७८॥ बलोऽयं बलवत्सीमा, यद्भिया किल जम्भजित् । छिनत्त्यद्यापि नाऽम्भोधि-निलीनाऽचलपक्षतीः ॥ ७९॥ साऽप्याऽऽख्य- दिति तत्रत्या, नरा निष्कारणक्रुधः। शक्नोमि तदमुं रुष्टं, नानुनेतुं पदे पदे ॥ ८०॥ यदुक्तम्- "अकाण्डकोपिनो भर्तुरन्यासक्तेश्च योपितः । प्रसत्तिश्चेतसः कर्तु, शक्रेणाऽपि न शक्यते" ॥१॥ प्रतीहारोऽथ दोःस्थामधामधैर्यादिभिर्गुणैः । गौडमालवकाद्यप्रदेशाधीशानवर्णयत् ॥ ८१॥ गौडाः कार्यविचक्षणा बहुभुजो दुष्टा नरा मालवाष्टकस्वार्थपराः खसा जडधियो धूर्ती महाराष्ट्रजाः ॥ लाटाः केवलवाक्प्रपञ्चचतुराः क्रूराश्च कर्णाटजा, अन्तYढनिबद्धवैरहृदयाः प्रायो नरा गौर्जराः ॥ ८२ ॥ तानपीत्यखिलान् सर्वगुणोपेतवरार्थिनी । देशसामान्यदोषोत्या, प्रत्युत्तरयति स्म सा ॥८३॥ एवं यं यं व्यतीयाय, मापालं सा पतिंवरा । राहुग्रस्तेन्दुवच्छयाम, तस्य तस्याऽभवन्मुखम् ॥ ८४ ॥ यदुक्तम्- "संञ्चारिणी दीपशिखेव रात्रौ, यं यं व्यतीयाय पतिंवरा सा । नरेन्द्रमार्गादृ इव प्रपेदे, विवर्णभावं स स भूमिपाल" ॥१॥ १ गङ्गापूरे । २ रघुवंशस्थषष्ठसर्गगतोऽयं श्लोकः; एतद्रचनावैचि त्र्येणैव दीपशिखाकालिदास इति कालिदासस्य प्रसिद्धिः ।

अथेत्याख्यत्प्रतीहारः, पश्यन्नेत्राऽमृताञ्जनम् । रत्नपालः कुमारोऽयं, कुमार इव विक्रमी ॥८५॥ सूनुर्विनयपालाहक्ष्मा- पालस्य परन्तपः । वृत्वा तदेनं सुभगं, जनुःसाफल्यमामुहि ॥८६॥ तं कुमारं तदा वीक्ष्य, सा स्मेराक्षी स्मरोपमम् । मयूरीवोन्नतं मेघमतीव मुमुदे हृदि ॥ ८७ ॥ नृपान्तरेषु भ्रमणादृशं श्रान्तिमुपेयुपी । तस्मिन्सर्वगुणावासे, तस्या विश्रा- म्यति स्म दृग् ॥ ८८ ॥ सर्वराजेषु पश्यत्सु, वरमालामथाऽक्षिपत् । सा कण्ठे रत्नपालस्य, स्नेहन प्राच्यजन्मनः॥ ८९ ॥ पश्यतामियतां नोऽद्य, कुलशीलादिशालिनाम् । वालस्तन्या विलासोऽयं, चेत्कनी परिणेष्यते ॥ ९०॥ भावी नस्तज्जलो- त्तारो, ध्यात्वेत्यन्ये नृपास्तदा । एकीवभूवुः, सख्यं हि, समाने व्यसने भवेत् ॥ ९१ ॥ अथ तान् विकृतान्वीक्ष्य, वीर- सेनः समं वलैः। एत्य जामातृरक्षायै, सर्वतोऽवहितः स्थितः ॥ ९२ ॥ तदेवोत्सर्पिमात्सर्या, निर्विचारहृदश्च ते । वीर- सेनं विचारज्ञमित्याख्यन्नेकतः स्थिताः ॥ ९३ ॥ दद्या यदृच्छया राजन्नस्मादाच्छिद्य कस्यचित् । अस्मास्वन्यतरस्यैतां, गुणरत्नावनी कनीम् ॥ ९४ ॥ मणिमालामिवानहीं, वालां शृङ्गारसुन्दरीम् । रासभस्य न वालस्यामुष्य मृष्यामहे परम् ॥ ९५ ॥ वीरसेनस्तदेत्याख्यात्, प्रौढेरेव मनोरथैः । आयान्ति भूरिशो भूपाः, स्वयंवरणमण्डपे ॥ ९६ ॥ एक एवोद्ध- हेत्तेषु, प्राच्यपुण्येरितः कनीम् । अरुप्टाऽतुष्टमनसो, यान्त्यन्ये च यथागतम् ॥ ९७॥ व्यवहारममुं सर्वसिद्धं ज्ञातवतां हि वः। रोपतोषौ न युज्यते भाग्याधीनेऽत्र कर्मणि ॥ ९८ ॥ यदुक्तम्- "अर्वाग्दृष्टितया लोको, यथेच्छं वाञ्छते प्रियम् । भाग्यापेक्षी विधिदेत्ते, तेन चिन्तितमन्यथा" ॥१॥ इत्याख्यद्रत्नपालश्च, मयि कन्यावृतेऽद्य वः । मन्युर्न युज्यते किन्तु, दैवे दौर्भाग्यदायिनि ॥ ९९ ॥ विशिष्य

कथानकम्
रत्नपाल.
॥५॥
विस्फुरत्कोपाटोपाः सर्वे नृपास्तदा । सद्यः सज्जीवभूवुस्ते, तं निहन्तुं कनीवरम् ॥ १०० ॥ अथैवं व्यमृशञ्चित्ते,
वीरसेनो विषादभार । शान्तिकं कुर्वतां जाने, हा! वेतालोऽयमुत्थितः ॥ १०१॥ हर्षस्थाने विपादो वा, श्रुतं वा
भोजनक्षणे । मङ्गल्यपर्वण्येतस्मिन् , यद्रौद्रोऽयं रणागमः ॥ १०२ ॥ युग्मम् ॥ इयं कनी कुनक्षत्रा, कालरात्रि-
रिवाऽधुना । संहर्तुं सुभटश्श्रेणीरवतीर्णा भुवि ध्रुवम् ॥ १०३ ॥ तदेत्य कालप्रलयं, तत्र वीक्ष्य स्वहेतुकम् । प्राच्यं
स्वकर्म निन्दन्ती, सा प्रत्युत्पन्नधीः कनी ॥ १०४ ॥ किञ्चिद्विमृश्य स्वगतं, कथयित्वा च तद्रहः । चतुर्बुद्धिनिधानाय,
सचिवाय सुबुद्धये ॥ १०५ ॥ निवर्तयन्ती तुमुलं, हस्तमुक्षिप्य दूरतः। अवोचस्पष्टवाचैवं, संरब्धान् सर्वभूभुजः ॥१०॥
त्रिभिर्विशेषकम् ॥ खननीयो गिरिभूपाः, कर्पणीयश्च भूपकः । तद्वदीग् रणारम्भो, मदर्थं युज्यते न वः ॥ १०७ ॥
कुर्वते हा ! हठारूढाः, परतेजोऽसहिष्णवः। बचोमात्रकृते शूरा, राष्ट्रकोशवलक्षयम् ॥ १०८ ॥ तथापि कलहं हित्वा,
सत्त्वाव्यः स मया समम् । काष्ठानि भक्षयत्वेत्य, यो मां परिणिनीपति ॥ १०९ ॥ तस्या वाचमिति श्रुत्वा, निवृत्ताः सम-
रोद्यमात् । अन्योऽन्यं व्यमृशन्नेवं, विस्मिस्तास्तेमहीभुजः ॥ ११० ॥ कोऽप्युपैति मृतो जातु, न महत्यपि पर्वणि । जीव-
निह पुमान् शस्तशतान्यानोति च क्रमात् ॥ १११॥ सुखानि सर्वाङ्गीणानि, पुण्यैरद्यात्र सन्ति नः । स्त्रीमात्रार्थे मृतौ
चात्महानिहाँस्यं जनेषु च ॥ ११२ ॥ तन्नात्र मृत्या नः कार्य, द्रक्ष्यतेऽद्यात्मभिः परम् । कन्या) नियमाणोऽयं, वालः
कालकटाक्षितः॥ ११३ ॥ ज्ञापयित्वाऽथ सङ्केतं, रत्नपालाय सा धिया । कृतोपवस्ता त्रिदिनी, न्यवसत्सरितस्तटे ॥११४॥
१कृतोपवासा।
॥५॥

तावत्स्थूलतः काष्ठविरचय्य महाचिताम् । तत्राऽधोऽचीखनन्मन्त्री, सुरङ्गां स्वनर रहः ॥ ११५ ॥ स्नात्वा दत्वाऽथ दीनेभ्यस्तेषु पश्यत्सु राजसु । सा कनी रत्नपालश्च, चितामविशतामुभौ॥११६॥ हाहाकारं च कुर्वत्सु, पौरलोकेषु सर्वतः । ज्वालितो ज्वलनस्तत्र, पार्श्वस्थै राजपूरुषैः ॥ ११७ ॥ तेन नष्टाऽध्वना तावञ्चितातस्तौ कनीवरौ । निर्गत्य द्वारमावृत्य, रहः प्राप्तौ नृपौकसि ॥ ११८ ॥ प्रज्वलय्य चितां प्राप, वीरसेनोऽथ सद्मनि । विपादविस्मयापन्नाः, पौराश्चागुः स्ववेश्मसु ॥ ११९ ॥ अस्मद्धठादियं बाला, वालश्चायं मृतावुभौ । इति सानुशयाश्चाऽन्ये, नृपाः स्वस्वपुरं ययुः ॥ १२० ॥ अथ प्रेष्य द्वितीयेऽह्नि, रहस्तत्र नदीतटे । साराऽलङ्कारनेपथ्यौ, कुमारश्च कनी च तौ ॥ १२१ ॥ रोदसी बधिरीकुर्वन् , विवि- धातोद्यनिःस्वनैः । सम्मुखं सपरीवारस्तत्र गत्वा स भूपतिः ॥ १२२ ॥ पट्टहस्तिनमारोप्य, हर्पोत्कर्षोल्लसन्मनाः । धृत- च्छत्रावुभयतो, वीज्यमानौ च चामरैः॥ १२३ ॥ यथेच्छदानैरनृणीकुर्वाणः सर्वतोऽवनीम् । प्रावेशयत्पुरस्याऽन्तमहै- विश्वातिशायिभिः ॥ १२४ ॥ चतुर्भिः कलापकम् ॥सदस्याश्रावयन् सोऽथ, सदस्याप्तः ससंभ्रमम् । तमप्राक्षीन्निजोत्सङ्गे, निवेश्य नृपनन्दनम् ॥ १२५ ॥ कथं वत्स ! युवां वह्निप्रविष्टावपि जीवितौ । दिव्यालङ्कारनेपथ्यावाप्तिरेपा कुतश्च वाम् ॥ १२६ ॥ तदा सोऽपीत्यवग् राजन् !, शीलसत्त्वादिशालिनः । दाहात्माऽपि दहेदग्निर्देहिनो नहि कहिचित् ॥ १२७ ॥ निःसमं सत्त्वमालोक्य, शीलं चाऽतीव निर्मलम् । आवयोस्तोपमभजत्सप्रियश्च दिवस्पतिः ॥ १२८ ॥ ज्वालाकरालाज्व- लनात्ततस्तेनाऽपहृत्य नौ । आनाययत्सुरैः सद्यः, स्वर्ग स गुणिवत्सलः ॥ १२९ ॥ इच्छोपनतसवाङ्गसुखसम्पत्तयः सुराः। १ पश्चात्तापतप्ताः । २ अकथयत् ।।

कथानकम् रत्तपाल- ॥६॥ यत्राल्पपुण्यैर्दुष्प्रापैः, प्राच्य सत्कर्म भुञ्जते ॥ १३०॥ सर्वाङ्गीणसुखाभोगभाजो येऽत्र नृपादयः । यत्र सर्वजघन्यद्धेः, शतांशं प्राप्नुयुनं ते ॥ १३१ ॥ आचां हि सर्वद्रष्टव्याऽवाधिं तं वीक्ष्य ताविषम् । मन्वहे सफलं स्रष्टुष्टिसृष्टिश्रमं तदा ॥ १३२ ॥ ईदृग्महर्द्धिमुदिता, अपि ते त्रिदशाः परम् । राजन् ! मर्त्यत्वमीहन्ते, नव्यपुण्यार्जनार्थिनः ॥ १३३ ॥ यदुक्तं श्रीमति स्थानाङ्गे- "तओ ठाणाई देवेहिंपीहिजा तं जहा माणुस्सगं भवं आरियखित्ते जम्मं सुकुलपच्चइअं जाई" ॥ अथाऽसपत्नं सर्वोर्वीराज्यं वत्साऽमुहि ह्यमुम् । वरं प्रादाद्धरिस्तुष्टः, सर्वाङ्गालङ्कृतीश्च मे ॥ १३४ ॥ त्वमखण्डमवै- धव्यं, शुद्धशीले सदाऽऽमुहि । आनन्येत्याऽशिपा चास्यै, शची स्वालमृतीर्ददौ ॥ १३५॥ प्राग् निजापत्यविर- होऽद्भुतदुःखाऽनभिज्ञयोः । पित्रोदुःखमपीदानी, मा भूयुष्मद्वियोगजम् ॥ १३६ ॥ स वास्तोष्पतिरित्यऽन्यदुःखदु.- खितहत्पुनः। आवां हि प्रैपयत्क्षिप्रं, मर्त्यलोकेऽत्र सम्प्रति ॥ १३७ ॥ प्रवृत्तिमेतां परितः, पारम्पत्प्रिसारिणीम् । अत्याश्चर्यमयीं श्रुत्वा, नृपास्तेऽपि विरोधिनः ॥ १३८ ॥ स्वं निःसत्त्वतया तैस्तैः, सत्फलैर्वञ्चितं तदा । मन्यमानाः स्वदु- देवमेवाऽनिन्दन् विपादिनः ॥ १३९॥ युग्मम् ॥ इत्थं पाणिग्रहमहप्रत्यूहे प्रलयं गते । वीरसेननृपो हृष्टः, सुलग्ने सुमहो- त्सवम् ॥ १४० ॥ रूपसौभाग्यलावण्यैः, स्मरेणेव वपुष्मता । रत्नपालकुमारेण, तां कन्यामुदवाहयत् ॥ १४१॥ युग्मम् ॥ ॥६॥ १ स्वर्गम् । २"त्रिभ्यः स्थानेभ्यः देवा अपि स्पृहयेयुः तद्यथा मानुष्यकं भवं आर्यक्षेत्रे जन्म सुकुलप्रत्ययिकी जातिम्" इति च्छाया । ३इन्द्रः।

सत्याप्यमानः स्वजनैस्तथ्यैरातिथ्यकर्मभिः । रत्नपालः कियत्कालं, तत्राऽस्थाच्छशुरौकसि ॥ १४२ ॥ महातीर्थ इव स्थातुं, सुचिरं श्वशुरौकसि । न युज्यते हि महतां, यन्महत्त्वाक्षितिस्ततः ॥ १४३ ॥ यदुक्तम्- "चिरं पितृगृहे स्त्रीणां, नराणां श्वशुरौकसि । वासश्चैकत्र यमिनां, नूनं हास्यास्पदं जने" ॥१॥ महानुभावः स सुधीरिति सम्यग् विदन् हृदि । चलनोन्मुख एवास्थात्परं स्वनगरं प्रति ॥ १४४ ॥ अर्थतो विशेषकम् ॥ गजाश्वमणिमुक्ताद्यैः, क्ष्माभुजा सत्कृतोऽथ सः। समं शृङ्गारसुन्दर्या, ससैन्यः स्वपुरेऽगमत् ॥ १४५ ॥ परिणीयागतस्या- ऽस्य, पुरान्तः प्रवरोत्सवैः। प्रवेशं कारयामास, पिता प्रमुदिताशयः ॥ १४६ ॥ महौजसं महोत्साहमाकलय्य तमगजम् । राज्ये व्यवीविशत्सोऽथ, मन्त्रिसामन्तसाक्षिकम् ॥१४७॥ शिक्षामदादिति लेहात्परिणामहितां पुनः । दण्डनीया दुरात्मानः, पालनीयाश्च साधवः॥१४८ ॥ यदुक्तम्- "दुष्टस्य दण्डः सुजनस्य पूजा,न्यायेन कोशस्य च सम्प्रवृद्धिः। अपक्षपातो रिपुराष्ट्ररक्षा,पञ्चैव यज्ञाः कथिता नृपाणाम् ॥१॥ अविश्वास्याः श्रियं दृत्वा, कर्षणीयाः स्वनीवृतः । विश्वासार्हाः पुनर्वत्स!, प्रापणीयाः परां श्रियम् ॥ १४९ ॥ पुत्रा मित्राणि पितरौ, लोभेन भ्रातरोऽपि वा । राज्येऽन्योन्यं निहन्यन्ते, तेनैतत्सुमलीमसम् ॥१५० ॥ न विश्वसेदमित्रस्य, मित्रस्यापि न विश्वसेत् । इदं पद्यं विदन् वत्स !, मा कस्याप्यत्र विश्वसीः॥ १५१॥ सोऽथ संविग्नहत्कृत्वा, चैत्येष्वष्टा- ह्निकामहम् । दत्त्वा दानं च दीनादौ, जैनी दीक्षामुपाददे ॥ १५२॥ सुदुस्तपं तपस्तत्वा, स्वाध्यायाध्ययनोद्यतः। शुभ- ध्यानाऽधिरूढात्मा, कालेऽभूत्स्वर्गसौख्यभाक् ॥ १५३ ॥ रलपालोऽथ भूपालः, प्रतापी पालयन्मजाः । नैकाः स्वयं- R-SG २ रतपाल- कथानकम् ॥७॥ वरायाताः, परिणिन्ये नृपाङ्गजाः ॥ १५४॥ शृङ्गारसुन्दरीमुख्याः, पत्यस्तस्याऽभवन्क्रमात् । सहस्रं रूपसौभाग्यलावण्यल- लितश्रियः ॥ १५५ ॥ जयनाम्नि महामात्ये, राजनीतिविदप्यसौ । राज्यभारं निवेश्याऽथ, कृत्वा दुग्धमिवौतुसात् ॥१५६॥ निश्चिन्तः पञ्चधा कामभोगान्भुङ्गेऽतिशायिनः । नित्यमन्तःपुरगतः, खेलन्सुखसुधाम्बुधौ ॥१५७॥ युग्मम् ॥ हस्तायात- मिदं राज्यमात्मसात्कृत्य साम्प्रतम् । मानाथममुमुच्छेद्य, स्यामेवाहं महीपतिः॥ १५८ ॥ विमृश्यैवं हृदि तदा, जया- मात्यो दुराशयः । दानमानादिना सैन्यं, सर्वमात्मीयमातनोत् ॥ १५९॥ कुतश्चित्सिद्धपुरुपादाप्तया सिद्धविद्यया । निद्रामवस्वापिनीं च, सोऽदात्तस्मै महीभुजे ॥ १६० ॥ तया प्रनष्टचैतन्यं, तं पल्यवस्थमेव सः । आप्तैभृत्यैरथोत्पाव्य, दूराटव्याममूमुचत्॥१६१॥यन्नृशंसः सतं मापं, नूनं नामारयत्तदा। पवित्रमं तत्र तत्प्राच्यपुण्यमेवान्तराऽभवत् ॥१६२॥ इतश्चाऽनन्यसामान्यां, प्राप्य तां राज्यसम्पदम् । तेन पापीयसोन्मत्तचित्तेन जयभूभुजा ॥ १६३ ॥ चके महासतीमेकां, हित्वा शृङ्गारसुन्दरीम् । रत्नपालनृपाऽशेपान्तःपुरीशीलविप्लवः ॥ १६४ ॥ युग्मम् ॥ तेन कर्मश्वपाकेन, सापि शृङ्गारसु. न्दरी । प्रार्थ्यते स्म प्रतिदिनं, विविधैश्चाटुभापितैः ॥ १६५ ॥ परं शुद्धान्वयोद्भूता, दृढसत्त्वाशया सती । तस्य नैह्यदध- चाटुवचांसि श्रवणेऽपि सा ॥ १६६ ॥ रागान्धस्त्यक्तमर्यादः, स ततोऽनुदिनं क्रुधा । पञ्चशत्या कशाघातैस्ताडयामास तां सतीम् ॥ १६७ ॥ शिरीषसुकुमाराङ्गी, निकृष्टहृदयः स ताम् । दृद्वैज्वलन्दिः सन्दशैस्त्रोदयामास चासकृत् ॥ १६८ ॥ तस्याश्चैवं हठारूढः, स शठः स्वेप्टसिद्धये । नैकप्रकारा विदधे, मासमेकं कदर्थनाः ॥ १६९ ॥ प्राणेभ्योऽप्यधिकं शीलं, १ बिडालाधीनम् । २ ‘मत्यैः' इत्यपि । ३ अपिबत् । प्रियवचनानि नाऽशृणोदित्यर्थः । ४ 'भूरिशः' इत्यपि । ॥ ७॥ 65 LIL मन्यमाना परं न सा । मनसाप्यस्खलच्छुद्धसदाचाराध्वनो मनाक् ॥ १७० ॥ इतश्च कुशलः कश्चिद्वयस्यस्तस्य भूभुजः। अनुशास्तिमिति प्रादात्,परिणामहितां रहः ॥ १७१ ॥ शुद्धशीलानुभावेन, महासत्यो महीपते ! । स्थलयन्त्याशु जलाध, स्थलं जलधयन्ति च ॥ १७२ ॥ ज्वलनं जलयन्त्येता, जलं ज्वलनयन्ति च । शैलं वल्मीकयन्त्याशु, वल्मीकं शैलयन्ति च ॥ १७३ ॥ रक्षोयक्षोरगव्याघ्रान्, दमयन्ति दुरात्मनः । स्वचक्र परचक्र च, स्तभ्नन्त्यागच्छदेव वा ॥१७४॥ कुपिताः कर्हिचिच्चैताः, शापदानेन सत्वरम् । सपुत्रभ्रातृकं भूपमपि कुर्वन्ति भस्मसात् ॥ १७५ ॥ स्वामिनिहार्थे दृष्टान्तं, शृणु रत्नपुरे पुरे । सार्थेशधनसारस्य, धनश्रीः समभूत्प्रिया ॥१७६॥ तामन्यदा गवाक्षस्थां, रूपसौभाग्यशालिनीम् । विद्याभृ- नृपतिः पापप्रकृतिः कश्चिदैवत ॥१७७॥ रागान्धः प्रार्थयामास, स तां चाटुशतैस्तदा । वचस्तस्य सती सा तु, नान्वमस्त मनागपि ॥ १७८ ॥ स्मरापस्मारतो मूढमना विद्यावलेन सः। अथ तस्याः सदाचारध्वंसाय यतते यदा ॥ १७९ ॥रे पाप्मन्! पुत्र सप्ताङ्गराज्यश्रीक्षयमामुहि । इति शापमदात्तस्मै, तदा सा कुपिता सती ॥ १८० ॥ स विद्याभृदथ प्रोचे, सम्प्रत्यस्ति दिनं परम् । रात्रावेत्य हरिप्ये त्वां, यद्भाव्यं तद्भवत्विति ॥ १८१ ॥ साऽपीत्याख्यन्मदुक्तोऽद्य, रविरस्तं प्रया- स्यति । दुष्टाकूतोऽथ विद्याभृत, स यावत्स्वपुरं ययौ ॥१८२॥ तावदुत्पन्नहुच्छूलस्तस्याकस्मान्मृतः सुतः। अश्वेभं च मृतं तावत्किञ्चित्किञ्चिद्गतं क्वचित्॥१८३॥ धनधान्यमणिस्वर्णरूप्यकुप्यादिवस्तुभिः।पूर्ण वनाग्निना तावत् , तद्वेश्म ज्वलितं द्रुतम् ॥ १८४ ॥ अकस्मात्केचिदज्ञाताश्चतुरङ्गबलान्विताः । तावत्सपलास्तत्रेयुर्निःसपलपराक्रमाः ॥ १८५ ॥ देशदुर्गादि तैस्तस्य, प्रसह्यागृह्यताऽखिलम् । एवं दिनत्रयेणाऽभूजनमानं नृपोऽपि सः ॥ १८६ ॥ दुःखादुपरि हा! दुःखं, किमेतन्मे नवं K कथानक रलपाल- ॥८॥ नवम् । विषादाद्विस्मयाचेत्थं, स यावद्ध्यायति क्षणम् ॥ १८७ ॥ तावत्खेटस्तमाहैक:, स्वामिन्नाश्चर्यमद्भुतम् । दृष्टं नन्दी- श्वरद्वीपादद्याऽत्रागच्छता मया ॥ १८८ ॥ पुरे रत्नपुरे नाऽस्त, रविर्यात्यादिनत्रयात् । राज्ञा तदर्थ कार्यन्ते, शान्ति- कादीनि सर्वतः ॥ १८९ ॥ तच्छ्रुत्वा चकितश्चित्ते, सोऽध्यासीदिति खेटराट् । वचसैपा ह्यभूत्तस्याः, सर्वाऽप्याश्चर्यस- न्ततिः ॥ १९० ॥ हा! हा! विरूपमाचीर्ण, दुवृत्तेन मया तदा । महानुभावा यदर्षात्कोपिता सा महासती ॥ १९१॥ तत्तां तत्र पुरे गत्वा, क्षमयामि महासतीम् । भावी वज्राग्निवच्छापो, दुःसहोऽद्यापि सोऽन्यथा ॥ १९२ ॥ अथ तत्र पुरे गत्वा, पतित्वा पादयोश्च सः। प्रादुष्कुर्वन् स्वदुवृत्तं, पश्चात्तापावतप्तहत् ॥ १९३ ॥ नृपपौरजनाध्यक्ष, क्षमयामास तां सतीम् । ततस्तदुक्तस्तरणिः, समयेऽस्तं समासदत् ॥१९४ ॥ युग्मम् ॥ तयाऽनुनीतया शापान्मुक्तः सोऽथ नभश्चरः । तानरातीन् क्रमाजित्वा, भेजे राज्यश्रियं पुनः ॥ १९५ ॥ इति सत्योऽनुभावान्याः, कुशलैः कुशलार्थिभिः । आराध्यन्ते सदा स्वामिन् !, विराध्यन्ते तु न क्वचित् ।। १९६ ॥ हिताऽनुशास्तिं सुहृदस्तां श्रुत्वा जयभूपतिः । अभूच्छृङ्गारसुदर्या, प्रशान्तहृदयो मनाक् ॥ १९७ ॥ तारविडम्बनातोऽथ, विमुक्ता जयभूभुजा । आचामाम्लतपस्तेनेऽनुदिनं सा पति- व्रता ॥ १९८ ॥ पक्षमासोपवासाद्यं, सा सदाऽप्यन्तरान्तरा । तप्यते स्म तपस्तीत्रं, निरपेक्षा वपुष्यपि ॥ १९९ ॥ स्ना- नाऽङ्गरागसंस्कारसद्वस्त्राऽलङ्कृतीः सदा । वर्जयन्ती जिनेन्द्रा_निरता भुवि साऽस्वपीत् ॥२००॥ भर्तुर्वियोगं राज्यश्रीनशं चाऽतीव दुःखदम् । स्मरन्ती हृदि सा मर्तृमीहते स्म महासती ॥ २०१॥ मेलिष्यति तव प्रेयान, राज्य- माप्स्यति चाऽचिरात् । इति नैमित्तिकोत्या तु, साकाङ्क्षा प्राणिति म सा ॥ २०२॥ इतश्च यस्यां वेलायां, रलपाल:

स सुप्तवान् । तस्यां प्रबुद्धः परितो, महारण्यमलोकयत् ॥ २०३ ॥ मर्त्यप्रचाररहित, गहनं विविधद्रुमैः। अथ श्वापद-
सङ्कीर्ण, तीक्ष्यैवमचिन्तयत् ॥ २०४ ॥ पश्याम्येतं किमु स्वामिन्द्रजालमिदं नु वा? । कश्चिद्वा सम्प्रति मतिव्यामो-
होऽयं ममाऽपतत् ॥ २०५ ॥ यन्नानामङ्गलातोद्यबन्दिस्वनमनोहरः । स्वःस व ममावासः, सर्वेन्द्रियसुखः क्व सः?
॥ २०६ ॥ कैतत्स्थानं यमस्थानमिवाऽत्यन्तभयावहम् ? । काकोलोलूकमलूकास्तोककोलाहलाऽऽकुलम् ॥ २०७ ॥ राज्य-
लोभेन वा जाने, सचिवेन दुरात्मना । ईदृग्दुःखमहाम्भोधौ, विश्वस्तः पातितोऽस्म्यहम् ॥ २०८ ॥ सुप्तस्योत्सङ्गमारुह्य,
ममाद्यामोदितं गलम् । तेन कृत्ता वरना वा, हा! क्षिप्वा मां महाऽवटे ॥ २०९ ॥ भक्ता मम क्रमायाता, दानसम्मानस-
स्कृताः। राज्यप्रधानपुरुषाः, कथं तेनात्मसात्कृताः ॥ २१० ॥ सदा सन्तोष्यमाणा वा, द्रविणैमुखमार्गितैः । अगर-
क्षानियुक्तास्ते, कथं विघटिता मयि ? ॥ २११॥ सर्वो वाऽनुगतो लोकः, पुंसः सम्पदमीयुषः । तस्यैव त्वापदापत्तौ,
सम्बन्थ्यपि भवेत्परः ॥ २१२॥ यदुक्तम्-
" सम्पदि परोऽपि निजतां, निजोऽपि परतामुपैति विपदि जनः।
ताराभिर्बियते निशि, रश्मिभिरपि मुच्यतेऽहि शशी" ॥१॥
भाग्यभ्रष्टस्य वा पुंसो, भक्तिमन्तोऽनुजीविनः । किं विदध्युरिवाऽन्धस्य, ज्योतिष्मन्तोऽयमादयः ॥ २१३॥ प्राच्य-
कर्माऽनुभावेन, सम्पदो विपदोऽपि वा । सम्पद्यन्ते स्वयं पुंसां, न त्वन्यस्माद्यदुच्यते ॥ २१४ ॥

कथानकम्
रत्नपाल-
'सुखस्य दुःखस्य न कोऽपि दाता, परो ददातीति कुवुद्धिरेपा ।
पुरा कृतं कर्म तदेव भुज्यते, त्वं जीव! हे निस्तर यत्त्वया कृतम् ॥ १॥
॥९॥
तथा
"सुखदुःखानां कर्ता, हर्ता न च कोऽपि कस्यचिजन्तोः । इति चिन्तय सङ्घद्ध्या, पुराकृतं भुज्यते कर्म' ॥१॥
सम्प्रत्यभाग्योपनतां, तद्भुञ्जे दुर्दशामिमाम् । पश्चात्कर्मानुकूल्ये तु, सर्व साध्येव भावि मे ॥ २१५ ॥ यतः-
"छिन्नोऽपि रोहति तरुः, क्षीणोप्युपचीयते पुनश्चन्द्रः । इति विमृशन्तः सन्तः, परितप्यन्ते न विधुरेऽपि"॥१॥
प्राच्यताहक्सुखाभोगे, दुःखापाते च तादृशे । आसीत्सत्त्वभृतस्तस्य, समानैव मुखच्छविः ॥ २१६ ॥ यदुक्तम्-
“ उत्सवव्यसनयोः प्रभुर्विधिविक्रियासु महतामनीश्वरः । पश्यतामुदयमेति यादृशस्तादृशस्तरणिरस्तमीयते" ॥१॥
अथोत्थाय स पल्यङ्काद्वीक्षमाणोऽभितो वनम् । आलोक्यैकं महाशैलं, तत्रारोहच्छनैः शनैः ॥ २१७ ॥ स तत्र
कौतुकाक्षिप्तः, पश्यन्नथ वनश्रियम् । नरं निबद्धमैक्षिष्ट, दुमूले सुन्दराकृतिम् ।। २१८ ॥ तद्वन्धान् कृपया च्छित्वा,
सोऽथापाक्षीत्तमानतम् । कोऽसीत्थं केन बद्धश्च, कस्मादिति वद स्फुटम् ॥ २१९ ॥ सोऽप्येवमाख्यद्वैताव्ये, पुरे गगनव-
लभे । वल्लभो नाम राजास्ते, विद्याभृद्वलभिद्वलः ॥ २२० ॥ अहं तदङ्गजन्माऽस्मि, नाम्ना हेमाङ्गदः सखे!। नन्दी-
श्वरे जिनान्नन्तुं यानभूवं प्रियायुतः ॥ २२१ ॥ खेटोऽत्र राक्षसीविद्यावलोन्मत्तोऽमिलत्पथि । प्रियामहापात्प्रसभं, मां
१ यान् गच्छन् , अभूवं आसम् ।
॥ ९॥

निवध्याऽधुनैव सः॥ २२२ ॥ प्राणप्रद ! जगवीर!, तत्साहाय्यं सृजाऽधुना । जित्वाऽराति तमामोमि, यथा प्राणेश्व- रीमहम् ॥ २२३ ॥ इत्थमर्थयते यावद्रतपालं स खेचरः । तावदागाद्यमाकृष्ट, इव तत्र स राक्षसः ॥ २२४ ॥ परस्त्री- लुब्ध! पापिष्ठ!, स्मर स्वाऽभीष्टदैवतम् । शास्ता दुरात्मनामद्य, रलपालस्तवाऽमिलत् ॥ २२५ ॥ इत्युक्त्वा योधितः खड्गाखगि स क्ष्माभुजा चिरम् । पराजितश्च भीतात्मा, जीवग्राहं स नष्टवान् ॥ २२६ ॥ इत्थं हेमानन्दस्यार्थ, गिराऽनु- क्त्वैव सोऽकरोत् । ब्रुवते हि फले नैव, साधवः सोपयोगिताम् ॥ २२७ ॥ हृष्टो हेमाङ्गदोऽथाप्य, पलीमित्यव्रवीन्नृ- पम् । किं कुर्वेऽद्य तवाभीष्टं, निनिमित्तोपकारिणः ॥ २२८ ॥ तदाख्यद्रलपालोऽपि, न मे किञ्चिद्विलोक्यते । सप्रियः स्वपुरे गत्या, चिरं भुन सुखं सखे ! ॥ २२९ ॥ यदुक्तम्- "उपकृत्योपकार्येषु, ये भवन्त्यर्थिनः पुनः । तेषु मन्ये मनुष्यत्वं, विधेर्वार्द्धकविक्रिया" ॥१॥ नृपायाऽनिच्छतेऽप्येवं, कृतज्ञः स खगो बलात् । औषधीवलयं सर्वविपावेगाऽपहं ददौ ॥२३०॥ अथानुज्ञाप्य स नृपं, सप्रियः स्वपुरेऽगमत् । मापालः पुनरुत्तीर्णः, शैलशृशाच्छनैः शनैः॥२३॥ मूलस्थानपुरेऽथाप्तो, दीनानाथकुटीस्थितम् । नृपो वैदेशिकनाद्धं, भृशं ग्लानं व्यलोकत ॥२३२॥ दिनत्रयं नृपेणैष, करुणाहुदा तदा । शुश्रूपितो धर्मवुद्धया, नानाप- थ्यौषधादिभिः ॥२३३॥ स कारिताऽखिलप्रान्तपुण्यकृत्योऽथ भूभुजा। समाहितमना मृत्वा, दिवि देवो महानभूत्॥२३४॥ रत्नपालोऽथ नृपतिः, प्रभाते प्रविशन्पुरे । पटहोद्घोषणामेवं, श्रुतवान् राजवमनि ॥ २३५ ॥ भो मन्त्रतन्त्रादिविदो ! १ ' अवाप्य ' इत्यपि।

कथानकम्
रतपाल-
॥ १०॥
बलवाहनभूभुजः । अद्य रत्नवती पुत्री, दया दुष्टाहिना निशि ॥ २३६ ॥ कृतैर्नानामतीकारैरप्यजातगुणा च सा।
निश्चेष्टा मरणावस्था, साम्प्रतं समुपेयुषी ॥ २३७ ॥ यः कश्चिजीवयत्येतां, मन्त्रतत्रौषधीचलैः। तस्मै राज्या संयुक्ता-
मेतां दत्ते स भूपतिः ॥२३८॥ तदैवागण्यकारुण्यनैपुण्यानिस्पृहोऽपि सः। जगाम पटहस्पर्शद्वारेण क्ष्मापसंसदि ॥२३९॥
घटते कश्चिदाम्नायः, शुद्धोऽस्मिन्निःसमाकृतौ । इति ध्यायन्नृपस्तस्मै, सादरं तामदीदृशत् ॥ २४० ॥ आडम्बराणि
पूज्यन्ते, स्त्रीषु राजकुलेषु च । विमृश्यैवं च तत्र प्राक् , स नानाडम्बरं व्यधात् ॥ २४१॥ तदौषधीरसेनाथ, विषावेगं
निरस्य सः। तां सद्यो जीवयामास, हृदि हृष्टश्च तत्पिता ॥ २४२॥ न ज्ञायते कुलाद्यस्येतीपद् हृदि विपादभाग् ।
वाग्वद्धोऽथ ददौ तस्मै, स राज्यार्द्धयुतां कनीम् ॥ २४३ ॥ पुत्रो विनयपालस्य, रलपालः पराक्रमी । नूनं राजाधिरा-
जोऽयं, केनचिद्धेतुनैककः ॥ २४४ ॥ भट्टैरित्युपलक्ष्योक्ते, वलवाहनभूमिभुग । स्थाने पुत्री प्रदत्तेति, सुतरां मुमुदे हृदि
॥२४५॥ रत्नवत्या समं पल्या, विलसन्पश्चधा सुखम् । अण्यासातुलराज्यनी, रत्नपालोऽथ भूपतिः ॥२४६॥ विश्वासद्रोह-
माचीर्ण, सचिवेन दुरात्मना । तमुत्कीर्णमिव स्वान्ते, व्यस्मापन्निहि कर्हिचित् ॥ २४७ ॥ युग्मम् ॥ यदुक्तम्-
"मृगेण दत्तां किं लत्तां, विस्मरेज्जातु केसरी । यत्तां स नूनं समये, सव्याजां वालयिष्यति" ॥१॥
इतश्चान्यूनसैन्येन, सहितः समये नृपः । तममात्यत्रुवं जेतुं, चचाल स्वपुरं प्रति ॥ २४८ ॥ अन्यदाऽध्वनि कान्तारे,
सैन्यमावास्य स स्थितः । निशीथे दूरतोऽश्रीपीदिव्यगीतध्वनि क्वचित् ॥ २४९ ॥ कृपाणपाणिरेकाकी, तत्रागात्कौतुकेन
सः। प्रासादमेकं चाद्राक्षीतुङ्गशृङ्ग सुधोज्वलम् ॥ २५० ॥ तत्र प्रविशति क्षमापः, स यावत्सत्त्वसेवधिः । तावत्सखीभिः
॥१०॥

सहिता, काचिद्विद्याभृतः कनी ॥२५१॥ जिनाने गीतनृत्यादीन, विधाय विविधोत्सवान् । रम्यं विमानं चारुह्य, स्वस्थानमगमद् द्रुतम् ॥ २५२ ॥ युग्मम् ॥ अथ प्रविष्टः प्रासादे, प्रतिमां प्रथमार्हतः । प्रणम्य परितो भ्राम्यन्, दिदृक्ष रमणीयताम् ॥ २५३ ॥ सौभाग्यमञ्जरीनामाङ्कितं निपतितं पुरः। तत्र दिव्यं स वलयं, वीक्ष्य क्षमापतिरग्रहीत् ॥२५४॥ युग्मम् ॥ प्रातरागत्य कटकं, पुरतश्चलितोऽथ सः। क्रमेणाप्तः स्वराज्याप्तिसोत्कण्ठः स्वपुरान्तिकम् ॥ २५५ ॥ अथ तं राज्यमादातुमागच्छन्तं महौजसम् । श्रुत्वा विषादमापन्नो, जयराजो व्यचिन्तयत् ॥ २५६ ॥ प्रौढिमाप्तस्य मे कर्त्ता, किं वराकोऽयमेककः । मयेति बुद्ध्या यज्जीवन, मोचितोऽयं तदा वने ॥ २५७ ॥ मन्ये दुर्दैवनुन्नेन, तम्मया कुनिया हहा।। विपुच्छीकृत्य कृष्णाहिर्मुच्यते स स्वमृत्यवे ॥ २५८ ॥ यदुक्तं राजनीती- "विराध्यते न नीतिज्ञैर्महानात्महिताऽर्थिभिः। कहिचित्स विराद्धश्च, तर्हि जीवन् न मुच्यते” ॥१॥ अन्यत्राप्युक्तम्- " उत्तिष्ठन्तो निवार्यन्ते, सुखेन व्याधिशत्रवः। भवन्त्युपायासाध्यास्ते, वद्धमूलास्तु मृत्यवे" ॥१॥ मुग्धोचितेन वातीतशोचनेनाऽमुना कृतम् । किन्त्वद्य सम्मुखीभूय, त्रिये वा मारयाम्यमुम् ॥ २५९ ॥ स्वर्गाप्तिः स्वमृतौ शौर्याद्राज्याप्तिश्चारिमारणे । शूराणां युधि तन्नूनं, मोदको हस्तयोर्द्वयोः॥२६० ॥ अथेत्थं धैर्यमालम्व्य, स चित्ते सचिवाऽधमः । राज्ञः सम्मुखमागत्य, ससैन्यः समरेऽमिलत् ॥ २६१ ॥ खङ्गैः कुन्तैः शरवातैः, गदाभिर्मुद्गरै- स्तथा । तत्र क्रूराशयाः शूरा, मिथो युयुधिरे चिरम् ॥ २६२ ॥ रत्नपालनृपालस्य, सैन्येनातिबलीयसा । जयामात्याधम-

रत्नपाल-
कथानकम्
॥११॥
स्याथ, सर्व सैन्यमभज्यत ॥ २६३ ॥ पलायमानं तद्वीक्ष्य, तदा क्रुद्धेन मन्त्रिणा । मुक्तावस्वापिनी निद्रा, नृपसैन्ये
प्रसृत्वरी ॥ २६४ ॥ तया प्रनष्टचैतन्यं, नृपतेनिखिलं बलम् । नाज्ञासीदथ शस्त्राणि, हन्त हस्तागलन्त्यपि ॥२६५ ॥
सर्वकृत्यालसं वीक्ष्य, ज्येष्ठमासीव तत्तदा । पतितः सुमहाकप्टे, व्यपीदत्स नृपो हदि ॥ २६६ ॥ अथ वैदेशिकग्लानश्राद्धो
योऽभूत्सुरः पुरा । प्रत्युक्ताऽवधिरैक्षिष्ट, स तं पतितमापदि ॥ २६७ ॥ तदा प्रत्युपकाराय, स तत्रागत्य कृत्यवित् ।
हृत्वावस्वापिनी राज्ञः, स्वस्थीचक्रेऽखिलं बलम् ॥ २६८ ॥ अथ तत्सुरसांनिध्योद्भुताऽद्भुतवलं वलम् । प्रावर्त्तत पुनर्योछु,
सोत्साहं सह शत्रुभिः ॥ २६९ ॥ स्वस्थीभूते तदा सैन्ये, रत्नपालस्य भूभुजः । क्षीणविद्यावलो मन्त्री, निराशोऽभूजयनि-
याम् ॥ २७० ॥ दुष्कर्मोष्मविलीनात्मशक्तिर्भक्तिमदर्शयन् । प्राप्तस्तत्र विपद्याऽथ, स पापः सप्तमावनौ ॥ २७१ ॥
पुष्पवृष्टिं विदधतां, नृपमूर्ध्नि दिवौकसाम् । धर्मे जयः क्षयः पाप, इत्यभूवन् गिरश्च खे ॥ २७२ ॥ प्रादुर्भूयाऽथ देवोऽ-
वक्, त्वया शुश्रूपितस्तदा । ग्लानो वैदेशिकश्राद्धः, समाहितमना मृतः ॥ २७३ ॥ देवभूयं गतः सोऽहं, तवायातेऽद्य
सङ्कटे । आगां जयश्चियं दातुं, हृत्वावस्वापिनी सखे! ॥ २७४ ॥ इत्युक्त्वा स सुरः स्वर्णरलकोटीः परःशताः । रलपा-
लनृपस्याग्रे, वृष्ट्वा च दिवि जग्मिवान् ॥ २७५ ॥ विजित्याऽथ जयाऽमात्यं, पौरकृतैर्महामहैः । स्वराज्यपुर्यामविशत्स
प्रियामिलनोत्सुकः ॥ २७६ ॥ हृद्यैर्भोज्यैविधायाऽथ, पारणं पत्युराज्ञया । चक्रे सर्वाङ्गशृङ्गारं, हृष्टा शृङ्गारसुन्दरी
॥ २७७ ॥ तास्ताः स्वशीलरक्षार्थ, श्रुत्वा सोढाः कदर्थनाः । नृपश्रेष्ठश्च मुदितः, पट्टराज्ञीमिमां व्यधात् ॥ २७८ ॥ अथ
पालयतो राज्यं, तस्य भूभत्र्तरन्यदा । इति व्यजिज्ञपन्प्रातः, केचिदेत्य वनेचराः ॥ २७९ ॥ गिरिप्रायवपुर्वन्यः, कुतश्चि-
॥ ११ ॥

जात्यकुञ्जरः । प्राप्तः प्रणुन्नस्ते पुण्यरुद्याने राजकुञ्जर ! ॥ २८० ॥ कौतुकेन वशीकर्तुमथ तं वन्यहस्तिनम् । कुशलो गजशिक्षायां , तत्र प्राप्तो नृपः स्वयम् ॥ २८१ ॥ पुञ्जीकृत्योत्तरीयं प्राय , गजस्याग्रेऽथ सोऽक्षिपत् । क्रोधोद्वोधान्मदो- न्मत्तः, सोऽव्यात्सीत्तद्दैमुहुः ॥ २८२ ॥ पृष्ठभागेऽथ स गजं, प्राहरदृढ मुष्टिना । बलमानं भ्रमंश्चक्रभ्रमेणाऽखेदयच्च तम् ॥ २८३ ॥ सुचिरं खेदयित्वैवं, वशीकृत्य च भृत्यवत् । उत्प्लुत्य द्रुतमारूढो, यावदेतं स भूपतिः ॥२८४ ॥ स तावद्व- न्यकरटी, प्रकृटीकृतकैतवः । अकस्मादुत्पपातोचैः, पक्षिराज इवाम्बरे ॥ २८५ ॥ चक्ररेखा इव नदीमहाऽद्रीन्मूढकानि व । कीटिकानगराणीव, महान्ति नगराणि च ॥ २८६ ॥ अथ राजा व्रजन व्योम्नि, सुदूरत्वादधो भुवि । सकौतुकं वीक्षनाणस्त्यक्तभीति यंभावयत् ॥ २८७ ॥ युग्मम् ॥ मिनेणाऽनेन विविधाश्ची दर्शयितुं भुवम् । हुतोऽद्याऽहं शत्रुणा वा, कचित्क्षेप्तुं महापदि ॥ २८८ ॥ इति संशीतिमापन्नस्तटाके महति क्वचित् । हस्तिस्कन्धाददाज्झम्पां, स ती| चाग- मत्तटम् ॥ २८९ ॥ तत्राऽथ दिव्यप्रासादे, प्रविष्टः पृथिवीपतिः । तृतीयभूमावैक्षिष्ट, भस्मपुञ्जौ महत्तरौ ॥ २९० ॥ तयो- रदूरतो नागदन्तके चाऽवलम्बितम् । रसेन पूर्ण प्रैक्षिप्ट, तुम्बकं सुमहन्नृपः ॥ २९१॥ गृहानेऽथ नृपे तत्र, तुम्बकं तत्स- सम्भ्रमम् । रसविन्दोनिपतनाजाते दिव्यस्त्रियौ च ते ॥ २९२ ॥ विस्मितोऽथ नृपोऽप्राक्षीदिव्यरूपे नु के युवाम् ? । अस्मादकस्मादुद्भूते, भस्मपुञ्जदयादुभे ॥ २९३ ॥ नृपं सप्रेम पश्यन्त्यौ, ते अप्येवमवोचताम् । उभे महावलस्यावां, सुते विद्याभृदीशितुः॥२९४ ॥ पत्रवल्लीमोहवल्लीनाम्यौ प्राप्ते च यौवनम् । खेटेनोद्वोढुकामेन, मातङ्गेन महौजसा ॥२९५ ॥ आवां परेछुर्हत्वाऽत्र, मुक्त विद्याकृते गृहे । ईर्ष्यालुचित्तश्च यदा, कुत्रचित्स यियासति ॥ २९६ ॥ तदावां विद्यया भस्मरा-

कथानकम्
रतपाल-
॥१२॥
शीकृत्य प्रयाति सः । अनेनोजीवयत्याशु, सरसेनागतः पुनः ॥२९७ ॥ प्राप्तोऽस्यद्याऽत्र नौ पुण्यैर्वरं तस्मिनाते
क्वचित् । दुरात्मा स तु मा ज्ञासीत्सुन्दर! त्वामिहागतम् ॥ २९८ ॥ इति ब्रुवाणयोरेव तयोविंद्यावलोद्धतः। तत्रागमत्स
मातङ्गस्तत्पाणिग्रहणोत्सुकः ॥ २९९ ॥ अद्याऽस्मदर्थं पुरलमीदृग् हन्त हनिष्यति । अयं दुरात्मेति भृशं, विषीदन्मनसो-
स्तयोः ॥ ३०॥ मामजानन्तमेवैतमायान्तं हन्मि साम्प्रतम् । क्षत्राणां वा नैप धर्मस्तत्पूर्व वादयाम्यमुम् ॥३०१॥ नृपे
च चिन्तयत्येवं, तत्राकस्मादुपेत्य सः। करेणोच्छाल्य दशनैधृत्वा तमवधीद्गजः॥३०२ ॥ त्रिभिर्विशेषकम् ॥ नभोगामी
गजः कोऽयं, किमर्थ चामुनाऽधुना । हतोऽयमिति साश्चर्यहर्षोऽभूत्स नृपस्तदा ॥ ३०३ ॥ इतश्च सुविषण्णात्मा, महा-
वाहुमहावलः । भ्रमन्वपुत्रीशुद्ध्यर्थ, तत्र सौधे समीयिवान् ॥ ३०४ ॥ नृपं च सकनीद्वन्द्वं, तत्रालोक्य मुदेत्यवम् ।
प्रोक्तं महानुभाव ! प्रागासीन्नैमित्तिकेन नः ॥ ३०५॥ यन्मातङ्गनभोगेन, विद्यया भस्मसात्कृतम् । कन्याद्वन्द्वमिदं
दिव्यं, जीवयिष्यति यः पुमान् ॥ ३०६ ॥ यत्सांनिध्याय मातङ्गं, गजश्चैत्य हनिष्यति । स भावी ते सुताभर्ता, सत्यं
सञ्जातमद्य तत् ॥ ३०७ ॥ अत्रान्तरे महोराशिरिवाविर्भूय सत्वरम् । कश्चित्सुपर्वा श्रीरत्नपालं सस्नेहमित्यवम् ॥३०८॥
तदा कृतं त्वया राजन्नुपकारं स्मरन्नहम् । जयामात्ययुधि प्राप्तस्तत्र दातुं जयश्रियम् ॥ ३०९ ॥ कन्याद्वयाप्त्यै त्वाम-
द्याऽपाहरं द्विपरूपभाक् । दुरात्मानं च मातङ्गनभोगं हेलयाऽहनम्॥३१०॥ एतदिव्यरसापूर्ण,सुप्रापं सुकृतात्मभिः। तुम्बक
चाधुना भ्रातर्गृहाणानुगृहाण माम् ॥ ३११॥ चतुर्विंशतिवर्षाणि, कन्दमूलफलादिभुक् । प्रत्यहं प्रहरद्वन्द्वं, जपन्मन्त्र-
मधोमुखः॥३१२ ॥ होमं च तन्वन्मातङ्गविद्याभृदुष्करक्रियः । नागाधिनेतुः सन्तुष्टात् , प्राप दिव्यममुं रसम् ॥३१३॥
॥१२॥

युग्मम् ॥ अस्यैकविन्दुना स्पृष्टा, लोहस्य पलकोटयः । स्वीभवन्ति शाम्यन्ति, दुःसाध्या व्याधयस्तथा ॥३१४ ॥ अस्य स्पर्शाद्विलीयन्ते, भूतप्रेतायुपद्रवाः । व्यापार्यमाणोऽप्यनिशं, न च न्यूनीभवत्ययम् ॥ ३१५ ॥ अनेन च जगजैत्रमहिम्ना तिलके कृते । अजय्यः स्यान्नरोऽवश्यं, युधि देवासुरैरपि ॥ ३१६ ॥ अथान्यदपि दुःसाधं, सर्वमेतेन सिद्ध्यति । अतिशेते ततश्चिन्तारत्नादीन्यप्ययं ध्रुवम् ॥ ३१७ ॥ कार्ये त्वयाहमुत्पन्ने, स्मरणीयः पुनः सखे! । इत्युक्त्वा स तिरोभूतः, सुरो विद्युत्प्रकाशवत् ॥ ३१८ ॥ सांनिध्येन सुरस्यास्य, विस्मितोऽथ महाबलः । विमाने नृपमारोप्य, वैताब्ये स्वपुरेऽनयत् ॥ ३१९ ॥ तत्र स्वपुण्योपनते, ते कन्ये सुन्दराकृती । परिणिन्ये स भूजानिमहावल कृतैर्महैः ॥ ३२० ॥ महाबलाद्यैर्वि- द्याभृद्धीविनयवामनैः । तत्र सक्रियमाणश्च, दिनान्यस्थात्स कत्यपि ॥ ३२१ ॥ इतश्च तत्रैव गिरौ, पुरे गगनवल्लभे। आस्ते वल्लभभूभर्तुर्वली हेमाङ्गदः सुतः ॥ ३२२ ।। अन्वर्थसंज्ञा दुहिता, पुनः सौभाग्यमञ्जरी । कलाकलापकुशला, क्रमा- द्यौवनमीयुषी ॥ ३२३ ॥ पुण्यैः प्रसन्नमनसा, कुलदेव्याऽन्यदा ददे । दिव्यं रत्नमयं तस्यै, वलयं सर्वकामदम् ॥३२४ ॥ समं सखीभिः सानन्दं, तस्याश्च जिनसमनि । नृत्यन्त्या निशि तदेवात्प्रकोष्ठाद्गलितं क्वचित् ॥ ३२५ ॥ अवालप्रकृति- वाला, ततः प्रभृति खेदभाग् । हित्वा सा सरसाहारं, फलाहारा तपस्यति ॥ ३२६ ॥ पृष्टः सौर्वसुतादुःखदुःखितेनाऽथ भूभुजा । इत्यष्टाङ्गनिमित्तज्ञः, स्पष्टमाचष्ट कश्चन ॥ ३२७ ॥ राजन् ! सौभाग्यमञ्जर्याः, स्वयंवरणमण्डपे । नूनं वलया- पहर्ता, स्वयमेष्यति सत्पुमान् ॥ ३२८ ॥ रूपेणातिस्मरश्चैतां, स तत्र परिणेष्यति । हृष्टोऽथाऽमण्डयत्तस्याः, स्वयंवृति- १ 'दुःसाधा' इत्यपि । २ स्वकीय । 'पृष्टोऽसौ च' इत्यपि । 16 3

रलपाल-
कथानकम्
॥ १३ ॥
महं पिता ॥ ३२९ ॥ दूताहूताश्च बहवस्तत्रेयुः खेचरेश्वराः । महाबलाद्यानुगतो, रत्नपालोऽपि कौतुकात् ॥ ३३०॥
सुरूपान्सदलङ्कारांस्तत्रासीनान्नभश्चरान् । विलोकयन्ती प्रत्येकमेत्य सौभाग्यमञ्जरी ॥ ३३१ ॥ वत्रे वीक्ष्य स्ववलयाङ्कित-
हस्तं नृपं तदा । जहषुश्चोपलक्ष्यैनं, खेटा हेमाङ्गदादयः ॥ ३३२ ॥ युग्मम् ॥ अथान्ये खेचराः सर्वे, भूचरेण वृतामि-
माम् । वीक्ष्य विध्यातवदना, अन्योन्यं व्यमृशन्निदम् ॥ ३३३ ॥ दोष्मतामियतां विद्याभृतां चेदद्य पश्यताम् । परिणे-
प्यत्ययं कन्या, तज्जीवन्तोऽपि ते मृताः ।। ३३४ ॥ ततस्ते स्वपराभूतिप्रोद्भूतप्रवलकुधः । ससैन्या योद्धमुत्तस्थुः, सर्वे
सन्नह्य सत्वरम् ॥ ३३५ ॥ महावलैवल्लभायैः, खेटवीरैर्वृतस्तदा । तदिव्यरसजातौजा, युध्यजव्यः सुरैरपि ॥ ३३६ ॥
शस्त्राशस्त्रि चिरं युद्धा, रत्नपालः क्षमापतिः । हेलया तान् द्विपोऽजैषीत्कन्यामादातुमुद्यतान् ॥ ३३७ ॥ नराणां निर्ज-
राणां च, तदेत्यासन गिरोऽभितः । सर्वानाश्चर्यमेकोऽपि, खेचरान्भूचरोऽभ्यभूत् ॥ ३३८ ! ताभिः पराभिभूताश्च,
तेऽभूवन्दुःखिता भृशम् । उच्छास्यमानाः शस्त्रीभिर्युधीव पतिता भटाः ।। ३३९ ॥ रत्नपालोऽपि विद्वेषिजयनियमिवा-
गिनीम् । सौभाग्यमञ्जरी कन्यां, पाणौ चक्रे महामहैः ।। ३४० ॥ दत्ता हेमाङ्गदेनात्मप्राच्यप्रीत्या च भूरिशः । विद्याः
प्रज्ञप्तिगौर्याद्याः, साधयामासिवान् नृपः ॥ ३४१ ॥ वैताब्यस्योभयोः श्रेण्योर्जित्वा सर्वनभश्चरान् । प्रावर्त्तयत्पुनः
स्वाज्ञां, सिद्धविद्यः स भूमिभुग ॥ ३४२ ॥ विविधप्राभृतश्रेणीसम्भृतश्रीस्ततोऽथ सः । ताभिः प्रियाभिस्तिसृभिः,
सहितः सुहिताशयः ॥ ३४३ ॥ निषेव्यमाणो विद्याभृद्वीरहेमाङ्गदादिभिः । दिव्यं विमानमारूढः, प्राप्तः स्वनगरं सुखम्
॥ ३४४ ॥ गजापहारादारभ्य, दुःखदाहार्दिताः प्रजाः । स्वदर्शनसुधावृष्ट्या, सद्योऽशीतलयच्च सः॥ ३४५ ॥ प्रतापतपनः
॥ १३॥

1. प्राप्त, प्राच्य पुण्यैः पचेलिमैः । निःसपत्नमथ प्राज्य, राज्यं पालयतीति सः ॥ ३४६ ॥ अथ च । कथामपूर्वामाश्चर्यभूतां यः कथयेत्पुमान् । तस्मै दत्ते सुवर्णानां, दश लक्षाः स निश्चितम् ॥ ३४७ ॥ दीनार्त्तदुःस्थानाथादीन्स्थूललक्षः स लक्षशः। साधारयत्यनुदिनं, स्वर्णलक्षा ददश ॥ ३४८ ॥ सम्यक् काव्यरसाऽभिज्ञः, स कूर्चालसरस्वती । दत्ते सत्काव्यकर्तृभ्यो, लक्षाश्चानुदिनं दश ॥ ३४९ ॥ सर्वत्र प्रसरत्कीर्तिः, कीर्तिदानोल्लसन्मतिः । द्वे स्वर्णलक्षे अर्थिभ्यो, विश्राणयति चान्व- हम् ॥ ३५० ॥ धर्मप्राप्तातुलैश्वर्यो, धर्मश्रद्धालुहृत्पुनः । सप्तक्षेत्र्यां व्यययति, त्रिंशल्लक्षी स सर्वदा ॥ ३५१ ॥ स्वान्तःपुर- स्वागभोगपत्तिभृत्यनियोगिषु । गजाश्वादौ च तस्याष्टत्रिंशल्लक्षव्ययो ध्रुवम् ॥ ३५२ ॥ अमुष्य प्रत्यहं स्वर्णकोटी ह्येवं विलोक्यते । तेन दिव्यरसेनाशु, सापि सम्पद्यते सुखम् ॥ ३५३ ॥ इतश्च द्यूतकारोऽस्ति, तत्रैकः प्रत्यहं च सः । लक्षं जयति द्रम्माणां, पुनर्हारयति ध्रुवम् ॥ ३५४ ॥ द्रम्मन्यंशस्तु सन्ध्यायां, ध्रुवस्तस्यावशिष्यते । तन्मूल्येनाऽथ गोधूम- पूपान्पचति स क्वचित् ॥ ३५५ ॥ गत्वा चण्डीगृहे चण्डीस्कन्धे न्यस्य पदौ च सः । प्रदीपतैलेनाऽभ्यज्य, तान्निःशूको- ऽत्ति सर्वदा ॥ ३५६ ॥ इदानीमन यद्येति, जनः कश्चन कर्हिचित् । सर्वत्र विश्रुतं नूनं, मन्माहात्म्यमुपैति तत् ॥ ३५७ ॥ चिन्तयन्तीति सुचिरं, भृशं खेदमुपेयुषी । सा चण्डी कथमप्येनं, निवारयितुमिच्छति ॥ ३५८ ॥ तथा भक्षयति स्वैरं, तस्मिन्पूपानथाऽन्यदा । सा तं भापयितुमना, रसनां निरसीसरत् ॥ ३५९ ॥ चण्डि ! खाद त्वमप्येतत्पूपखण्डमिति ब्रुवन् । जिह्वायां सोऽमुचत्साऽपि, मायया तदभक्षयत् ॥ ३६० ॥ जिह्वायां सुप्रलम्बायां, कर्पितायां पुनस्त्वया । १ 'दानशौण्डः' । २ "व्ययति त्रिंशतं लक्षाः, सप्तक्षेच्या स सर्वदा।" इत्यपि । ३ 'स्वाइखान्तःपुरीभोग' इत्यपि । %3D

रतपाल-
कथानकम
॥ १४॥
रे चण्डि ! रण्डे ! लुब्धासीत्युक्त्या तेनाऽथ धूत्कृतम् ॥ ३६१ ॥ रसनां थूत्कृतोच्छिष्टां, प्रक्षिपामि कथं मुखे ? । इति
ध्यात्वा तथैवास्थात् , सा विषण्णमनाः सुरी ॥ ३६२ ।। तथा भीममुखीं वीक्ष्य, चण्डी प्रातरथो जनाः । अयमुत्पात
उत्पन्नोऽनयेत्यवदन्मिथः ॥ ३६३ ॥ शान्तिकादीन्यकार्यन्त, तैश्च तस्योपशान्तये । तथापि देवी रसनां, नोच्छिष्टेत्य-
क्षिपन्मुखे ॥ ३६४ ॥ शमयत्येनमुत्पातं, योऽथ स्वर्णशतं हि सः । लभतेऽद्य जनरेवं, पटहोऽवाद्यताऽभितः ॥ ३६५ ॥
आत्मप्रत्यक्षमुत्पन्नं, तमुत्पातं विदस्तदा । स धूर्तः पटहं स्पृष्ट्वा, सुवर्णशतमग्रहीत् ॥ ३६६ ॥ विजनं कारयित्वाऽथ,
प्रविश्यान्तर्गृहं च सः। प्रौढं पापाणमुद्यम्य, चण्डी निष्ठुरमित्यवग् ॥ ३६७ ॥ रे चण्डि ! रण्डे ! रसनां, पश्चारिक्षप
मुखेऽधुना । नो चेदनेन भक्ष्यामि, भवत्या नूनमाननम् ॥ ३६८॥ दुरात्मनोऽस्य नोद्धारः, कश्चित्पापेऽत्र कर्मणि ।
आत्महानिर्जने हास्य, चेत्थं चेति भयेन सा ॥ ३६९ ॥ किमप्यनर्थमेतस्मिन्निःशूके कर्तुमक्षमा । अनन्यगतिकत्वेन, तदा
जिहां मुखेऽक्षिपत् ॥ ३७० ॥ युग्मम् ।। शान्तेऽथ तस्मिन्नुत्पाते, पौराः प्रमुदिताः समे । धूर्त्तश्च तद्धनं सर्व, तस्मिन्ने-
वाऽन्यहारयत् ॥ ३७१ ॥ यदुक्तम्-
"द्विघट ग्रहिलामूर्ति, द्यूतकारकरे धनम् । हारश्च मर्कटीकण्ठे, कियद्वैलं हि तिष्ठति” ॥१॥
तदनन्तरमप्येत्य, नक्तं चण्डीगृहे सदा । पूपानत्ति गताशङ्को, द्यूतकारस्तथैव सः ॥ ३७२ ॥ अथान्यदा किमप्यन्य-
निःशूके कर्तुमक्षमा । दूना दुनियाच्चास्माद्भूर्ते तत्रागते निशि ॥ ३७३ ॥ चण्डी निष्काशयामास, दीपमेव स्ववेश्मतः।
१र्थ तस्मिंश्च' इत्यपि । २ व दिनेऽव्ययत्' इत्यपि । ३ 'वेश्मनः' इत्यपि ।
॥ १४ ॥

तिष्ठ दीप! क यासीति, वदन्पृष्ठेऽचलच्च सः ॥ ३७४ ॥ युग्मम् ॥ तदा देवीनियोगेन, दीपोऽवक् तमिति स्फुटम् । रूक्षानेवाद्धि रे! पूपांस्तैलं दास्ये न ते मनाम् ॥ ३७५ ॥ यास्याम्यब्धेः परतट, पश्चाच वलसे न किम् ? । सोऽथाह तैलं लास्यामि, तत्राप्येत्य क यास्यसि ? ॥ ३७६ ॥ दीपोऽग्रे पृष्ठतो धूर्त, इति यान्तौ दुतं द्रुतम् । भास्करेऽभ्युदिते प्राप्तौ, दूराटव्यामुभावपि ॥ ३७७ ॥ तं तदा विप्रतायचं, तत्र दीपस्तिरोहितः । क्षिप्तोऽहिवद् रिपुर्दूरमिति हटा च सा सुरी ॥ ३७८ ॥ हा ! देव्या वञ्चितोऽसीति, विषण्णोऽथ बने भ्रमन् । स धूर्तः प्रज्वलदहिकुण्डस्य सविधे स्थितम् ॥ ३८९॥ अप्सरोजैनसौभाग्यं, प्रत्यग्रोल्लासि यौवनम् । कन्याद्वयं नरं चैकं, दृष्टवान् विकलाङ्गकम् ॥ ३८० ॥ युग्मम् ॥ किमर्थ के युवामोत्यादि पृष्ठे च तेन ते । नोचतुस्ते परं किञ्चिव्यावृत्त्याऽगात्पुरेऽथ सः ॥ ३८१॥ रत्नपालोऽत्र नृपतिस्तथ्यापूर्वा- द्भुतां कथाम् । कथयिने सुवर्णानां, लक्षा दत्ते दश ध्रुवम् ॥ ३८२॥ इति ज्ञात्वा स राज्ञोऽथ, तद्वृत्तं सर्वमप्यत्रम् । कौतुकेन नृपः सद्यस्तत्र तेन सहागमत् ॥ ३८३ ॥ कृशानुकुण्डं किमिदं, दीनोऽयं कश्च के युवाम् । विश्वस्ते वदतं सम्यग, रत्नपालोऽस्म्यहं नृपः ॥ ३८४ ॥ पृच्छतीत्थं नृपे तासंस्तयोरेकाऽवदतनी। राजन् ! गन्धर्वराजस्य, नाम्ना विश्वावसोः सुते ॥ ३८५ ॥ देवसेना च गन्धर्वसेनेत्यावां हि विश्नुते । तारुण्यमाते लावण्यकन्दो दाम्बुदं क्रमात् ॥ ३८६ ॥युग्मम्।। तत्तन्मन्त्रघृताहुत्यादिभिदीप्तातुलाऽर्चिपि । स्तब्धुं शक्ये न केनापि, मन्नतन्त्रौपधीवलैः॥ ३८७ ॥ यमास्यभीष्मे दिव्याग्नौ, यः स्वास्यति नरोत्तमः । भावी भर्ता भवत्पुयोः, स नूनं सत्त्वसेवधिः ॥ ३८८ ॥ युग्मम् ॥ परैरजेयो भविता, भरता- ऽिधिपश्च सः । इति दैवज्ञवाग्नुन्नः, पिता नौ मुक्तवानिह ॥ ३८९ ॥ सत्त्वाधिकं च तमभिज्ञातुं तेन स्वविद्यया । SCRETURES रलपाल- कथानकम् ॥ १५॥ हीनसत्त्वैः सुदुष्प्रेक्ष्यमग्निकुण्डमिदं कृतम् ॥ ३९० ॥ झम्पामिहाऽस्मल्लोभाच्च, ददत्कोऽप्येष खेचरः । संशयालुरभूद्देव्या, विकलाङ्गीकृतश्च तत् ॥ ३९१ ॥ निराशोऽयं निरुत्साहः, स्वस्थानं वाऽथ यास्यति । सत्त्वाहतेन सिद्धिर्यत्सर्व सत्त्वे प्रतिष्ठितम् ॥ ३९२ ॥ कन्यावादिति श्रुत्वा, सत्त्वाव्यः सहसा नृपः । कुण्डे झम्पामदात्तच्च, सत्त्वेनाऽभूत्सुधामयम् ॥ ३९३ ॥ तत्र सानेन समभूद्राजा वज्रवपुः पुनः। अथागाज्ज्ञाततद्वृत्तस्तत्र विश्वावसुः खगः ॥३९४ ॥रलपालनृपालेन, समं स्वसुतयोस्तयोः। हृष्टोऽथाचीकरत्पाणिग्रहणं स महामहैः ॥ ३९५ ॥ प्राप्तः प्रमुदितः पत्नीद्वयाप्या स्वपुरं नृपः। विंशति स्वर्णलक्षाश्च, तस्मै द्यूतकृते ददौ ॥ ३९६ ॥ आगच्छद्भिश्च गच्छद्रिरथान्यायाजितैधनैः । कितवः प्रत्यहं योऽभू- त्पूर्णो रिक्तः पुनः पुरा ॥ ३९७ ॥ नृपादासादितप्राज्यसुवर्णो न्यायवर्त्मना । सोऽप्यभूद्वर्द्धमानार्द्धः, स्पष्टं न्यायफलं ह्यदः ॥ ३९८ ॥ तस्योत्तमचरित्रस्य, सोऽक्षधूर्तश्च भूभुजः। परिचित्योपदेशैश्च, निवृत्तो व्यसनाध्वनः ॥ ३९९ ॥ निदाघेऽथा- न्यदा सिद्धसरित्स्रोतसि शीतले । विधित्सुः सलिलक्रीडां, नावमारूढवान्नृपः॥४००॥ प्रणुन्नाऽऽकस्मिकेनाऽथ, पृष्ठप्रवल- वायुना । चचाल पूर्वाभिमुखं, वायुवेगेन मैङ्गिनी ॥ ४०१॥ ग्रामारामादि निखिलं, चक्रारूढमिव भ्रमत् । तयोरुभयोः पश्यत्यवनीशे सकौतुकम् ॥ ४०२ ॥घटीद्वयेन पूर्वाब्धेस्तदं प्राप्याऽथ मङ्गिनी। सा स्वयं रखलितेवास्थादुत्तीर्णश्च नृपस्तटम् ॥ ४०३ ॥ युग्मम् ॥ तत्रागत्य नरः कश्चिद्विनयेनावदच तम् । क प्राप्तः परदेशेऽहं, विषादमिति मा कृथाः॥ ४०४ ॥ महानुभावस्य तवागमनेनात्र निश्चितम् । सर्वेपामपि यद्भावि, सर्व सुन्दरमायतौ ॥ ४०५॥ नृपस्तदा तमित्याख्यत्सुदु- १ 'सुदुष्प्रेक्ष,' इत्यपि । २ नौका ॥ १५॥ SA लक्षामिहायतिम् । शकुनैः कैर्निमित्तैर्वा, सौम्य ! जानासि साम्प्रतम् ॥ ४०६ ॥ सत्यवादी सोऽप्यवादीद्वेझि कालं यथो- त्तरम् । यथास्थितं हि तद्वृत्तं, शृणु सत्त्वनिधेऽधुना ॥ ४०७ ॥ पूर्वदेशं दशग्रामकोटियुक्तममुं नृपः। रलसेनो भुनत्त्यत्रा- सन्ने रलपुरे वसन् ॥ ४०८ ॥ एकादश महेभानामस्य लक्षा महौजसाम् । रथानां विंशतिर्लक्षा, लक्षाश्च दश वाजिनाम् ॥ ४०९ ॥ कोट्यश्च दश पतीनामित्याधस्त्यखिलं परम् । कर्मानुभावाद्' हुनेत्रानन्दनो नास्ति नन्दनः ॥ ४१० ॥ अथाऽस्य चाऽभूत्कनकावलीराश्यां सुताद्वयम् । तत्राद्या कनकमजयन्या च गुणमञ्जरी ॥ ४११॥ तयोरकस्मात्तारुण्ये, प्राच्यजन्मार्जितैरथैः । अथोदभूगलत्कुष्टमन्धता च यथाक्रमम् ॥ ४१२॥ नानाशासविदो वैद्या, नृपादेशात्सहस्रशः । तयोरनेकैभैषज्यैश्चिकित्सां चकिरे चिरम् ॥ ४१३ ॥ मात्रिकाश्च तयोर्मन्वैस्तन्त्रैर्यन्नैश्च भूरिभिः । स प्रत्ययैः शुभोत्साह, चकुनैकाः प्रतिक्रियाः॥ ४१४ ॥ यथाम्नायं यतन्ते स्म, तत्रान्येऽपि सुभूरयः । तयोः कर्मानुभावेन, परं नाभून्मनाग्गुणः ॥४१५॥मन्यमाने मुधैवात्ममर्त्यजन्मामयादिते । ते दुःखान्मरणोन्मुख्यावथ जाते उभे अपि ॥४१६॥ तयोश्च निविडस्नेह- पाशवद्धहदौ तदा । राजा राज्ञी च नियतं, पृष्टतो मर्तुमिच्छतः॥ ४१७ ॥ किंकर्त्तव्यतया मूढैयूँढाऽथैरथ मन्निभिः । आराद्धा विविधाऽर्चाभी, राज्याधिष्ठायिनी सुरी ॥ ४१८ ॥ सर्वसाक्षिकमाकाशे, स्थित्वा सा स्पष्टमित्यवग । रलपालः क्षितिपतिः, पुरात्पाटलिपुत्रकात् ॥ ४१९ ॥ नावारूढो मत्प्रयोगात्सद्योऽप्यन समेष्यति । महात्मा स च ते कन्ये, विधा- स्यति निरामये ॥ ४२० ॥ युग्मम् ॥ इति श्रुत्वा प्रमुदिता, हृदि सर्वे नृपादयः । विद्युद्विस्फूर्जितमिवाश्याजनि च सा १ 'अस्थाय' इत्यपि । SUCCESS

कथानकम्
रलपाल-
॥ १६॥
सुरी ।। ४२१॥ देव्या तदत्रानीतोऽसि, कन्याव्याध्युपशान्तये । योजनानां पञ्चशती, त्वत्पुरं स्यादितः पुरात् ॥ ४२२ ॥
महद्ध्यां मुदिता देव्या, गिरा ज्ञातत्वदागमाः । तव सम्मुखमायान्तो, नृपाद्याः सन्ति सम्प्रति ॥ ४२३ ॥ इति ब्रुवाण
एवाऽस्मिंस्ते तत्रैत्यानमन्नृपम् । नगरं च नयन्ति स्म, विनयाद्विविधोत्सवैः ॥ ४२४ ॥ परोपकृतिनिष्णातो, नृपाद्यैरथ
सोऽर्थितः। रोगाभिभूतं तत्कन्यायुग्मं कर्तुं निरामयम् ॥ ४२५ ॥ सर्वाऽवसरोपयोगी, स्याद्वपुःपार्श्वववि॑यम् । इत्यङ्ग-
दस्थे न्यस्तोऽभूत्, प्राकियाँल्लघुकुम्पके ॥ ४२६ ।। भाले तेन रसेनाऽथ, स्पृष्टा तेन कृपालुना । आसेचनकरूपनीस्तत्राद्या
समभूत्कनी ॥ ४२७ ॥ अञ्जिताऽक्षी च तेनैव, कनी सद्यः कनीयसी । दिवापि तारकालोकक्षमदृष्टिरजायत ॥ ४२८ ॥
गुणैः क्रीते ततः पुत्र्यौ, रत्नपालनृपाय ते । प्रदत्ते रत्नसेनेन, परिणीते च तेन ते ॥ ४२९ ॥ रत्नसेनोऽथ जामात्रे, तस्मै
राज्यमदान्निजम् । स्वयं जग्राह प्रव्रज्यां, भवोद्विग्नमनाः पुनः ॥ ४३० ।। दिनानि कतिचित्तत्र, रत्नपालोऽपि सप्रियः।
स्थित्वा तद्राज्यचिन्तायां, मूलामात्यान्नियुज्य च ॥ ४३१ ॥ पथि प्रौढोपदापाणिमिलन्नैकनृपार्चितः । वलैराकम्पयन्नुर्वी,
क्रमादेति निजं पुरम् ॥ ४३२ ॥ इतश्चाऽपहृते नावा, नृपे सामन्तमन्त्रिणः । व्यमृशन्निति सोद्वेगं, किंकर्तव्यजडा
मिथः ॥ ४३३ ॥ सम्यक् स्वरूपं हा ! राज्ञो, ज्ञायते न शुभाशुभम् । तदद्यास्वामिक राज्यं, रक्षणीयमिदं
कथम् ? ॥ ४३४ ॥ प्रायो निःस्वामिकं राज्यं, सम्यग्रक्षाविधिं विना । दुष्टा द्विषोऽधितिष्ठेयुर्निर्जीवाङ्गमिवाऽमराः
॥ ४३५ ॥ महाभाग्यबलस्यास्य, राज्यं तावदिहास्तु वा । इदानी पदयोरेवमस्माकं हि कृतज्ञता ॥ ४३६ ॥
सामन्तामात्यसांमत्यादिति सिंहासने चिरम् । निवेश्य नेमुर्निखिला, राजवाः प्रभोः पदा ॥ ४३७ ॥ तस्मिन्सुराज्ञि
॥१६॥

राजन्या, दानसन्मानतोषिताः । न केचिदपि शून्येऽपि, राज्ये विघटितास्तदा ॥ ४३८ ॥ अथ दर्शनसोत्कण्ठा, अकुण्ठ- स्नेहसम्भ्रमाः। राज्यागच्छति ते सर्वे, सद्यः सम्मुखमाययुः ॥४३९॥ तान्सम्भाष्य यथौचित्यं, प्राविशत्स्वपुरेऽथ सः। दीनदुस्थार्थिनो दानैः, प्रीणयन्परितः पथि ॥ ४४० ॥ निजास्थानसभां प्राप्य, सर्वाश्चानन्दयत्प्रजाः। उदयक्ष्माभृतश्चूडां, चक्रवाकीरिवार्यमा ॥ ४४१॥ स्नेहाच्च स्ववियोगाग्निप्रज्वलन्मनसश्चिरात् । सर्वा यथोचितालापैः, प्रेयसीरप्यपिप्रिणत् ॥ ४४२ ॥ शृङ्गारसुन्दरी शुद्धशीला १ रत्नवती २ तथा। पत्रवल्ली ३ मोहवल्ली४, तथा सौभाग्यमञ्जरी ५॥४४३॥ देवसेना च ६ गन्धर्वसेना ७ कनकमञ्जरी ८गुणाञ्च मञ्जरी ९तस्य, पट्टराइयो नवाऽभवत्॥४४४॥ ग्रामाणां स्वःसमृद्धीनां, विंशति- स्तस्य कोटयः। सहला रत्नयोनीनां, पत्तनानां च विंशतिः ॥ ४४५ ॥ वेलाकूलसहस्राणि, द्वादशैतस्य भूभुजः । दश द्वीपसहस्राणि, तावन्तश्च किरीटिनः ॥४४६ ॥ चत्वारिंशत्पत्तिकोट्यस्त्रिंशल्लक्षाश्च दन्तिनाम् । लक्षा रथानां चाऽश्वानां, चत्वारिंशच निश्चिताः॥ ४४७॥ सहस्रा जलदुर्गाणां, पञ्चाऽन्येषां च ते दश । खेटाः सहस्र सेवन्ते, तं च हेमाङ्गदादयः ॥४४८ ॥ दीनदुस्थोद्धृतौ धर्मे, स्वाचितानां च पोपणे । तस्य राज्ञः प्रतिदिनं, स्वर्णकोटिव्ययो गृहे ॥ ४४९॥ यः प्राप्तः प्राक्तनैः पुण्यैस्तुम्बकस्थो महारसः । तेन तावदपि स्वर्ण, तस्य सम्पद्यते सदा॥ ४५० ॥ आधयो व्याधयः सप्तापीतयश्च प्रसृत्वराः । रसानुभावात्तद्राज्ये, प्रासरन्नहि कर्हिचित् ॥ ४५१॥ रत्नपालस्य नृपतेरथ मेघरथादयः । क्रमेणासञ्शतं पुत्राः, सप॑त्राकृतशत्रवः ॥ ४५२ ॥ खेलतोऽस्य सुखाम्भोधावीदृगैश्वर्यशालिनः । सुखं दशशरलक्षा, व्यतीयुर्वासरा इव १ 'सभामाप्य' इत्यपि । २ 'त्यस्य' इत्यपि । ३ 'तस्य विशतिकोटयः' इत्यपि । ४ उन्मूलितशत्रवः ।

रत्नपाल-
कथानकम्
॥ १७॥
स
॥४५३॥ अथान्यदा पुरे तत्र, महासेनमहामुनिः। मूर्तों धर्म इव प्रापत्, पौरानुग्रहकाम्यया ॥४५४॥ तं मिथ्यात्वविपावे-
गविध्वंसि वचनामृतम् । श्रद्धालुमनसः पौरा, नैके वन्दितुमाययुः॥ ४५५ ॥ रत्नपालोऽपि नृपतिः, सान्तःपुरपरिच्छदः ।
तं जङ्गममहातीर्थमुपासितुमुपागमत् ॥४५६ ॥ संसारापारकान्तारोत्तारणप्रतिभूणाम् । तदादिशन्मुनिश्रेष्ठो, धर्ममार्ग-
मिति स्फुटम् ॥ ४५७॥ दुःखान्नित्यापतजन्मजरामृत्यामयादिनः । विभ्यद्योऽत्यन्तसातोयं, यियासत्यचिरात्पदम् ॥४५८॥
संसारसागरोत्तारतरणिप्रभमादरात् । स सम्यगाराधयतादन्वहं धर्ममार्हतम् ॥ ४५९ ॥ स चारार्द्ध सुसाधः स्याज्जये सर्वा-
न्तरद्विपाम् । आत्मैवाद्यो हि तेष्वेतज्जये यत्ते जिताः समे ॥ ४६० ॥ यदुक्तम्-
"एंगे जिए जिआ पंच, पंच जिए जिआ दस । दसहा उ जिणित्ताणं, सबसत्तू जिणामहम् ॥ १॥
ऐगप्पा अजिए सत्तू, कसाया इन्दियाणि अ । ते जिणित्तु जहानायं, विहरामि अहं मुणी" ॥२॥
शतं सहस्रं लक्षं वा, ये जयन्ति युधि द्विपः । तेऽपि क्रूराशयाः शूरा, नात्मानं जेतुमीशते ॥ ६६१॥ गुर्वी कोटिशिला
दोभ्यो, हेलयैवोत्क्षिपन्ति ये । युद्धैकवीरास्तेऽप्यत्र, नात्मानं जेतुमीश्वराः ॥ ४६२ ॥ कुलीना वाग्मिनः सम्यक्, सर्व-
विद्याविदो हि ये । नियम्य स्वहिते योक्तुं, तैरप्यात्मा न शक्यते ॥ ४६३ ॥ यो धर्म बोधयत्यात्मगिरा मान् दशान्व-
हम् । स्वयं हि विषयान्भुङ्क्ते, नन्दिपेणमुनिस्तु सः॥ ४६४ ॥ यदुक्तम्-
१ मोक्षरूपम् । २ "एकस्मिन् जिते जिताः पञ्च, पञ्चसु जितेपु जिता दश। दशधातु जित्वा, सर्वशत्रून् जयाम्यहम् ॥ इति च्छाया ।
३ "एकस्मिन् आत्मनि अजिते, कपाया इन्द्रियाणि च । ते जित्वा यथाज्ञातं, विहरामि अहं मुनिः" || इति च्छाया ।
॥ १७॥

"दस दस दिवसे दिवसे, धम्मे वोहेइ अहव अहिअयरे । इय नं दिसेणसत्ती, तहवि अ से संजमविवत्ती" ॥१॥ तथा- "पेइदिवसं दसजणवोहगोऽवि सिरिवीरनाहसीसोऽवि । सेणिअसुओऽवि सत्तो, वेसाए नन्दिसेणमुणी" ॥१॥ कश्चिदुष्टान् रिपॅल्लक्षं, युद्धे जयति दोर्वलात् । जयेदात्मानमेकं वा, तस्यायं परमो जयः ॥ ६५ ॥ यदुक्तम्- "जो सहस्सं सहस्साणं, संगामे दुज्जए जिणे । एगं जिणिज्ज अप्पागं, एस से परमो जओ" ॥ १ ॥ दम्यन्ते हि सुखं नैकैरप्युन्मत्ता गजादयः । न तु शक्यो दमयितुं, कैरप्यात्मा निरङ्कुशः ॥ ६६ ॥ यदुक्तम्- "खरकरहतुरयवसहा, मत्तगइंदावि नाम दम्मन्ति । इको नवरि न दम्मइ, निरंकुसो अप्पणो अप्पा" ॥१॥ संविग्नैर्यैश्च संसारोद्विग्नैरात्मा हि दम्यते । अत्रामुत्राऽपि सुखिनस्ते भवेयुर्यदुच्यते ॥ ४६७ ॥ "अप्पा चेव दमेअबो, अप्पा हु खलु दुद्दमो । अप्पादन्तो सुही होइ, अस्सिं लोए परत्थ य" ॥१॥ १ "दश दश दिवसे दिवसे, धर्मे बोधयति अथवा अधिकतरान् । इति नन्दिपेणशक्तिः, तथापि च तस्य सयमविपत्ति." ।। इति च्छाया । २ "प्रतिदिवसं दशजनबोधकोऽपि श्रीवीरनाथशिष्योऽपि । श्रेणिकसुतोऽपि सक्तो, वेश्यायां नन्दिपेणमुनिः" ।। इति च्छाया । ३ “यः सहस्त्रं सहस्राणां, संग्रामे दुर्जयान् जयेत् । एकं जयेत् आत्मानं, एष तस्य परमो जय." ॥ इति च्छाया । ४ "खरकरभतुरगवृषभा, मत्तगजेन्द्रा अपि नाम दम्यन्ते" एको नवरं न दम्यते, निरङ्कुश आत्मन आत्मा" ॥ इति च्छाया । ५ "आत्मा एव दमितव्य, आत्मैव खलु दुर्दमः । आत्म- दान्तः सुखी भवति, अस्मिन् लोके परत्र च" ॥ इति च्छाया । पर

रत्नपाल-
कथानकम्
॥१८॥
जितात्मता पुनर्लिङ्गैर्जायते न तु भाषितैः। सूर्योदयो हि प्रभया, लक्ष्यो न शपथवजैः ।। ४६८ ॥ समसंवेगनिर्वेदास्ति-
क्यमैत्रीदयादमैः । समत्वाममताद्यैश्च, ज्ञायते हि जितात्मता ॥४६९॥ अप्यनादिभवाभ्यस्ता, सांसारिकसुखस्पृहा । प्रायो
नोत्पद्यते पुंसां, हृदि जातु जितात्मनाम् ॥ ४७०॥ यतन्ते च जितात्मानः, सर्वस्थाम्ना शुभाशयाः। सर्वज्ञोल्पज्ञसद्धर्मानुष्ठानेषु
निरन्तरम् ॥ ४७१ ॥ तस्माच्च सदनुष्ठानोद्योगात्तीर्णभवार्णवाः । जितात्मानोऽचिरादेव, परमं पदमाप्नुयुः ॥ ४७२॥ दृष्टा-
न्तश्चाऽत्र वो मुग्धभट्टपत्नी सुलक्षणा । विजित्यात्मानमचिरात्परं पदमुपेयुपी ॥ ४७३ ॥ तथाहि-
रम्यप्रदेशः कोशाम्बीपुर्यासन्नः समृद्धिमान् । शालिग्रामाभिधो ग्रामः, प्रसिद्धः समभूत्पुरा ॥ ४७४ ॥ आसीत्तत्र
गुणोद्दामधामा दामोदरो द्विजः । शम्भोरिवोमा सोमाऽस्य, सती प्राणप्रिया पुनः ॥ ४७५ ॥ मुग्धस्वभावः समभून्मु-
ग्धभट्टः सुतस्तयोः । स्तुपा च सत्कुलोत्पन्नान्वर्थसंज्ञा सुलक्षणा ॥ ४७६ ॥ मुग्धभट्टोऽन्यदा पित्रोः, परलोकमुपेयुषोः
। देशान्तरेऽगाद्दारिद्रयनुन्नो मुक्त्वा गृहे प्रियाम् ॥ ४७७ ॥ लघोवृद्धस्य चाऽभावात्सद्मन्येकाकिनी सती । विभ्यत्यय-
सदाचारकुलमालिन्यतो हि सा ॥ ४७८ ॥ लोलप्रकृतितारुण्योच्छृङ्खलं विषयान् स्मरन् । निरोर्बु कथमप्यात्ममानसं ना-
शकत्तदा ॥ ४७९ ॥ युग्मम् ॥ महेभ्यपल्या कमलनियाऽथामलशीलया। समं मनोनिरोधार्थ, सा सख्यमतनोत्सती
॥४८० ॥ तत्सझैत्य सदा स्नेहगोष्ठ्या व्याक्षिप्य सा पुनः । मनो निषिद्धाचरणाध्वनः किञ्चिन्निपिध्यति ॥ ४८१॥
अन्येद्युस्तत्र विमला, गणिनी विमलाशया । एत्यास्थात्सपरीवारोपाश्रये कमलश्रियः ॥ ४८२ ॥ अदृष्टपूर्विणी साध्वी-
१ यस्मात्' इत्यपि । २ 'बिभ्यत्यपि सदा' इत्यपि ।
S
॥१८॥

स्तत्राप्ताथ सुलक्षणा । ताः प्रेक्ष्य मौग्ध्यात्स्वसखीमित्यप्राक्षीत्सविस्मयम् ॥ ४८३ ॥ निःस्वामिका भ्रमन्त्येताः, किं सर्वत्र सखि ! क्षितौ ?। कुत्रासां पत्यपत्यादि, विद्यते च कुटुम्बकम् ॥ ४८४ ॥ मङ्गल्यभूषाभोगाइँरशेरैरपि वर्जिताः। असंस्कृ- ताङ्गनेपथ्याः, किञ्चैता मूर्ध्नि मुण्डिताः ॥ ४८५ ॥ कमलश्रीरिति प्रोचे, तां मुग्धप्रकृति तदा । एताः सखि ! महासत्यः, सत्यसंयमजीविताः ॥ ४८६ ॥ मङ्गल्यभूषाविमुखास्त्यक्तनिःशेषकल्मपाः । निष्कषायामलहृदस्तत्त्वार्थोपनिषद्विदः॥४८७॥ अजिब्रह्मनिरता, विरता लौकिकाध्वनः। सार्वोपदिष्टानुष्ठानाऽवहिताः पिहिताश्रवाः ॥४८८ ॥ सर्वां स्वजातिमुद्धा, भवकूपे निपेतुषीम् । कृतार्थो अपि कृपया, विहरन्त्यभितः क्षितौ ॥ ४८९॥ चतुर्भिः कलापकम् ॥ मात्राद्यशेषसंसारस- म्बन्धप्रतिवन्धमुक् । सर्वसावधविरतौ, लीनमासां मनश्चिरात् ॥ ४९० ॥ राज्ञां दुहितरः काश्चित्काश्चिच्च व्यवहारि- णाम् । एता विरक्ता भोगेभ्यो, निःसङ्गं धर्ममाश्रिताः॥ ४९१ ॥ गोत्रदेवीमिव श्रद्धावन्तश्च जननीमिव । सर्वेऽपि बहु मन्यन्ते, नृपेभ्याद्याः सदाप्यमूः ॥ ४९२ ॥ सखि ! सङ्गतिरप्यासां, परमार्थदृशां ध्रुवम् । जनैरपुण्यैर्दुष्प्रापा, शम- साम्यरसप्रपा ॥ ४९३ ॥ वन्दनाराधनाद्यासामास्तां निःशेषदुःखहृत् । एतत्पदरजोऽप्याशु, ललाटस्पृष्टमिष्टकृत् ॥ ४९४ ।। इति सख्या गिरा ज्ञातसम्यक्साध्वीगुणाऽथ सा । सरलप्रकृतिश्चित्ते, दध्याविति सविस्मयम् ॥ ४९५ ॥ देशान्तरमिते पत्यौ, स्वल्पकालमपीह मे । सन्मार्गे न चलं चेतः, कथंचिदपि तिष्ठति ॥ ४९६ ॥ शीलं सर्वोपधाशुद्धं, पालयन्त्यः सदाप्यभूः । कथं नाम निरुन्धन्ति, तारुण्यतरलं मनः ? ॥ ४९७ ॥ मन्त्रः किमासां साम्नायः, कश्चिद्वा काचिदौषधी । सम्यग्गुरूपदिष्टोऽस्ति, कश्चिदन्योऽथवा विधिः ॥ ४९८ ॥ तत्पृच्छामि सकृत्साध्वीं, मनोरोधनिबन्धनम् । कुल- SAR रलपाल- कथानकम ॥१९॥ स्त्रीणां हि सर्वत्र, सोपयोगं तदीक्ष्यते ॥४९९ ॥ गणिनीमथ साऽपाक्षीदम्ब ! सम्यग् निवेद्यताम् । साध्व्यस्तरुण्यस्त- रलं, रुन्धन्ति स्वमनः कथम् ? ॥ ५०० ॥ साप्यूचे नव्यनव्योद्यत्सत्कृत्यव्यापृतात्मनाम् । असदध्वनि साध्वीनां, मनो जातु न गच्छति ॥ ५०१॥ हस्तिनो मर्मनिहिते, सदा लीनं यथाऽङ्कुशे । मनो हि विन्ध्यानुध्यानं, विधते नहि कहि- चित् ॥ ५०२ ॥ लीनं सदा सुसिद्धान्ताध्ययनाध्यापनादिषु । तथा मनोऽपि साध्वीनां, न जातु विषयान् स्मरेत् ॥५०३॥ यथा शृङ्खलितः कण्ठे, कपिरन्वेति योगिनम् । तथा चपलमप्यात्मव्यापार नियतं मनः॥ ५०४ ॥ अप्रशस्ते प्रशस्ते वा, व्यापारे नूनमात्मनः । प्रवर्तते मनो वाताध्वनि तूलमिवाम्बरे ॥ ५०५ ॥ आत्मा संयमयोगेषु, व्यापार्यः सनिरन्व- हम् । तेषु प्रवृत्तं यद्याति, जातु नाऽसत्पथे मनः ॥ ५०६ ॥ यदुक्तं प्रशमरतो- " पैशाचिकमाख्यानं, श्रुत्वा गोपायनं च कुलवध्वाः । संयमयोगैरात्मा, निरन्तरं व्यापूतः कार्यः" ॥१॥ सर्वतो देशतश्चापि, विशुद्धः संयमो भवेत् । सम्यक्त्वदायें नियतं, तत्स्वरूपमिदं पुनः ॥ ५०७ ॥ जीवादीन्नवत- त्त्वान्निसर्गाद्वोपदेशतः । सम्यग् यदङ्गी श्रद्धत्ते, तत्सम्यक्त्वमिहेण्यते ॥ ५०८ ॥ तत्र यः स्थिरधीः सर्वा, नित्यमाव- श्यकक्रियाः। सत्यापयेद्यथाकालं, सोऽचिरान्मुक्तिमाप्नुयात् ॥ ५०९ ॥ साध्व्याः सदुक्तिसंदर्भादित्यादेपदेशतः । प्रपेदे लघुकर्मत्वात्सा सद्यो धर्ममार्हतम् ॥ ५१० ॥ सम्यक् श्राद्धक्रियाः सर्वाः, साध्वीभिरथ शिक्षिताः । यथोक्तवलं सश्रद्धा, सत्यापयति सा सदा ॥ ५११॥ क्षयोपशमतो ज्ञानावरणीयस्य कर्मणः । साध्वी पार्वे प्रवचनप्रावीण्यं साऽभजकमात् ॥ ५१२ ॥ मनस्ततः प्रभृत्यस्या, नव्यनव्याहकर्मसु । लीनं मीन इवाम्भस्सु, नाऽस्माषीद्विषयान्तरम् ॥५१३॥ अथ प्राप्त- श्चिराद्नेहं, मुग्धभट्टोऽन्यदा प्रियाम् । अप्राक्षीत्सुश्रु ! सुचिरं, मद्वियोगे कथं स्थिता ? ॥ ५१४ ॥ साप्यूचे नाथ ! सद्धर्मसततव्यापृतात्मना । मया मनसि नाज्ञायि, त्वद्वियोगव्यथा मनाक् ॥ ५१५ ॥ प्रिये ! स को हि सद्धर्मस्तेनेत्युक्ता- ऽवदच सा । ज्ञानश्रद्धानचारित्ररूपोऽसौ धर्म आर्हतः॥ ५१६ ॥ यथावस्थिततत्त्वानां, सङ्केपाद्विस्तरेण वा । योऽववो- धस्तमत्राहुः, सम्यग्ज्ञानं मनीषिणः ॥ ५१७ ॥ रुचिजिनोत्ततत्त्वेषु, सम्यश्रद्धानमुच्यते । जायते तन्निसर्गेण, गुरोर- धिगमेन वा ॥ ५१८ ॥ सर्वसावद्ययोगाना, त्यागश्चारित्रमिष्यते । सर्वतो देशतश्चैतत्साधोः श्राद्धस्य च क्रमात् ॥ ५१९ ॥ इत्याधुक्तस्तया सार्वोपज्ञधर्मः सविस्तरम् । सरलप्रकृतेश्चास्य, स भृशं रुरुचे हृदि ॥ ५२० ॥ यदुक्तम्- "अज्ञः सुखमाराध्यः, सुखतरमाराध्यते विशेषज्ञः । ज्ञानलवदुर्विदग्धं, ब्रह्मापि नरं न रञ्जयति" ॥१॥ सर्वज्ञोपज्ञसद्धर्मे, सम्यक्परिणते हृदि । निश्चयश्रावकः सोऽभून्मुग्धभट्टः शनैः शनैः ॥ ५२१ ॥ अथ भुञ्जानयो - गान्मिथः स्निग्धहृदोस्तयोः । समयेऽजनि गार्हस्थ्याश्रमद्रुमफलं सुतः॥ ५२२ ॥ सुतमारोप्य तं कट्या, मुग्धभट्टोऽन्यदा प्रगे । शीता” विप्रसङ्कीर्णी, धर्मार्थाग्निष्ठिकां ययौ ॥ ५२३ ॥ आत्मधर्म विमुच्याऽयं, श्राद्धोऽभूदित्यसूयया । सर्वतो मण्डलीभूय, तिष्ठन्तस्तत्र वाडवाः ॥ ५२४ ॥ श्राद्धोऽसि हेन्त ! ते पापं, धर्मार्थाग्निष्ठिका ह्यसौ । अत्राऽऽगा मा महाभाग!, तव धर्मो नु दूष्यते ॥ ५२५ ॥ तदेत्याधुपहासोक्तीर्जल्पन्तः कथमप्यमुम् । विदूषकप्रकृतयो, नहि तापयितुं ददुः॥५२६॥ त्रिभिर्विशेषकम् ॥सोऽर्हद्धर्मोपहासेन, तेन खिन्नो भृशं तदा । समीचीनो यदि जिनोपज्ञधर्मः सनातनः ॥ ५२७ ॥ तदग्नि- १ अङ्गारशकटी( अंगीठी)। २ 'श्राद्धोऽसि ते महापापं' इत्यपि ।

रतपाल- कथानकम् ॥२०॥ . पतितस्तिष्ठत्वक्षिताङ्गो ह्यसौ शिशुः । असूनृतश्चाधुनिकश्चेत्तदस्त्वेप भस्मसात् ॥ ५२८ ॥ इति ध्रुवाणः सहसा, तत्र ज्वलति पावके । तमझेप्सीच्छिशुं हा ! हा!, विदधत्सु द्विजन्मसु ॥ ५२९ ॥ त्रिभिर्विशेषकम् ॥ अथाऽकस्मात्सदम्भो- जसम्पुटे विधृतः शिशुः । सुर्या कयाचित्सर्वज्ञमतोदूद्योतोद्यतात्मना ॥ ५३० ॥ विराध्य गुरुकर्मत्वात्सा हि पाश्चा- त्यजन्मनि । श्रामण्यधर्म समभूत्सामान्या व्यन्तरी सुरी ॥ ५३१ ॥ तयाऽन्यदा च पृष्टोऽभूत्केवली भगवन्नहम् । सुप्रापबोधिनहि वेतीति सोऽप्यवदत्तदा ॥ ५३२ ॥ सुप्रापबोधिर्भवती, नूनमास्ते परं त्वया । यतनीयं विशेषेण, सम्य- क्त्वोद्भावनाविधौ ॥ ५३३ ॥ ततः प्रभृत्यवधिना, वीक्षमाणा निरन्तरम् । ईदृक्कृत्येषु सर्वत्रावहिता तिष्ठति स्म सा ॥ ५३४ ॥ तया चालोक्य तं वालं, तयाम्भोजपुटे धृतम् । नैके द्विजादयोऽभूवन्मुक्ताऽसूया मतेऽर्हतः ॥ ५३५ ॥ मुग्धभट्टोऽपि हि प्राप्तः, सुतमादाय सद्मनि । सुलक्षणाया मुदितस्तद्वृत्तं सर्वमप्यवग् ॥ ५३६ ॥ साऽप्यवादीत्त्वया देवा- विचारितमिदं कृतम् । सम्यक्त्वं किल तत्त्वार्थश्रद्धानं द्युदितं जिनैः॥ ५३७॥ येषां विशुद्धं तच्चास्ते, मिथःसाधर्मि- कत्वतः । ते पक्षपातिनः प्रेत्य, स्युश्च सुप्रापबोधिकाः ॥ ५३८ ॥ साधर्मिकेभ्यो ह्यधिकः, स्नेहो येषां सुतादिषु । सिद्धा- न्तनीत्या नियतं, तेषां सम्यक्त्वसंशयः॥ ५३९ ॥ उपयुक्ता ततो वालं, काचिच्छासनदेवता । भवितव्यतयाऽरक्षत्स- म्यक्त्वोद्भावनाकृते ॥ ५४० ॥ जात्वज्वलिष्यच्चेदेव्यनवधाने परं शिशुः । तद्यतथ्यश्चाधुनिकोऽभविष्यत्किं वृषोऽहंतः ? ॥ ५४१॥ यत्साधर्मिकसांनिध्यं, विनापीह निरन्तरम् । सम्यगेव निविष्टोऽर्हद्धर्मस्तत्त्वदृशां हृदि ॥ ५४२॥ श्रद्धानमेव १ 'प्रेक्ष्याः ' इत्यपि । २ धर्मः । ॥ २० ॥ - सम्यक्त्वं, तत्त्वार्थानां हि वस्तुतः । चलाचलत्वे च हृदस्तदेव घटते कथम् ? ॥ ५४३ ॥ नूनं निश्चलधर्माणामीदृक् तद्वा- लचेष्टितम् । विमष्टुंमपि नो युक्तमास्तां तत्करणं पुनः ॥ ५४४ ॥ सुरासुरेन्द्रानुगतं, श्रीमन्तमजितप्रभुम् । कौशाम्व्यां समवसृतं, निशम्यात्रान्तरे पुनः ॥ ५४५ ॥ मुग्धस्वभावं स्वपति, समयज्ञा सुलक्षणा । सम्यक्त्वधर्मे सुतरां, निश्चलीक- तुमित्यवग् ॥ ५४६ ॥ युग्मम् ॥ आर्यपुत्र ! मदुक्तेऽत्र, प्रत्ययो हृदि ते न चेत् । तद्गत्वा पृच्छ कौशाम्ब्यां, सर्वज्ञमजि- तप्रभुम् ॥ ५४७ ॥ सम्यक् प्रत्येतुमथ तत्कौशाम्ब्यामेत्य सप्रियः । सोऽमाक्षीत्तं पदैलैर्मन्वानः सर्ववेदिनम् ॥ ५४८ ॥ तत्किं स्वामिंस्तथेत्यत्र, भणत्येवमिति प्रभुः। द्विजेन कथमित्युक्तः, पुनराह जगद्गुरुः ॥ ५४९ ॥ श्रद्धानमेव सम्यक्त्वं, तत्त्वार्थानां यदुच्यते । मुग्धभट्टोऽथ सञ्जातप्रत्ययो मौनमाश्रितः ॥ ५५० ॥ परोपकृतिधीराद्यगणभृत्रिजगद्गुरुम् । परिषत्प्रतिबोधार्थ, वन्दित्वाऽथेति पृष्टवान् ॥ ५५१॥ पृष्टं किमेतत् ? किं चोक्तं ?, स्वामिनाऽयं च को द्विजः ? । सर्व तदाऽवदत्सर्ववेदी वृत्तान्तमादितः॥ ५५२ ॥ तं च वृत्तान्तमाकर्ण्य, प्रबुद्धा वहयोऽङ्गिनः । मुग्धभट्टश्च सम्यक्त्वे, स्थि- रतामासदत्तमाम् ॥ ५५३ ॥ सप्रियः सोऽथ वैराग्यात्, प्रानजत्परमार्थंग् । महानन्दपदं प्राप्तः, क्रमेणोत्पन्नकेवलः ॥ ५५४ ॥ भत्तुर्वियोगे ह्यात्मानं, विषयस्मरणोन्मुखम् । सम्यग् धर्मोपनिषदं, विदित्वा विमला मुखात् ॥ ५५५॥ वशीकृत्याऽर्हकृत्येषु, व्यापार्यै च सर्वदा । सुलक्षणापि परमब्रह्मसम्पदमीयुषी ॥५५६॥ युग्मम् ॥ ततो भवभ्रमोद्विग्नैर्दुःखकर्मक्षयेच्छुभिः। यत्नः कार्योऽत्र भो भव्या !, जये सर्वात्मनात्मनः ॥ ५५७ ॥ धर्मतत्त्वं वद- १ 'नित्यशः' इत्यपि । २ विचारयितुम् । 5 रखपाल- NRN कथानकम् ॥ २१॥ त्येवं, सदस्याः सर्ववेदिनि । प्रवोधमापुर्वहवः, पद्मानीवारुणोदये ।। ५५८ ॥ अत्रान्तरे नृपश्रेष्ठो, ललाटघटिताऽञ्जलिः। इति ज्ञानिनमप्राक्षीद्विपाकं प्राच्यकर्मणाम् ॥ ५५९ ॥ प्राज्यं राज्यं क्रमायातं, स्वामिन् ! मम महौजसः। जग्राह कर्मणा केन, जयामात्याऽधमस्तदा ? ॥ ५६० ॥ कर्मणा केन च तदा, सती शृङ्गारसुन्दरी। विडम्बनाः कृतास्तेन, सहते स्म सुदुः- सहाः ॥ ५६१ ॥ प्राच्यसत्कर्मणः कस्य, प्रसादेन मया पुनः । चटत्प्रकर्षाच्चैश्वर्यलक्ष्मीरियमवाप्यत ॥ ५६२ ॥ कुष्ठं कनक- मञ्जयाः, केनासीत् कर्मणा पुनः ? । अन्धता गुणमञ्जयाः, केन चाऽभूद्गुणस्तयोः ? ॥ ५६३ ॥ देवानामपि दुष्प्रापः, सम्प्रा- प्तोऽयं महारसः । कर्मणा केन च मया ?, स्वामिन् ! सर्वमिदं वद ॥ ५६४॥ अथ सत्केवलालोकाऽऽलोकिताखिलविष्टपः। नृपप्रष्ठं मुनिश्रेष्ठः, स्पष्टमाचष्ट पर्षदि ॥ ५६५ ॥ तथाहि- इहैव भरतक्षेत्रे, पुरा रत्नपुरे पुरे । सङ्ग्रामवीरः समभूद्रनवीरः क्षमापतिः ।। ५६६ ॥ श्रीदेवीप्रमुखाः पापविमुखाः कुशलोन्मुखाः । वल्लभा विनयौचित्यविदस्तस्याऽभवन्नव ॥ ५६७ ॥ तत्र चाजन्मदारिद्यदुःखदग्धाशयावुभौ । अभूतां सिद्धदत्तश्च, धनदत्तश्च वाणिजौ ॥ ५६८ ॥ वहूपक्रान्तमेताभ्यामर्जनाय श्रियः परम् । न सम्पन्नाः कचित्सा यलक्ष्मीः कर्मानुसारिणी ॥ ५६९ ॥ अथान्यदा तयोस्तुल्यदुःखयोर्भविता कथम् ? । निर्वाहो नौ सनिश्वासमिति वार्त्तयतोमिथः ॥ ५७० ॥ सत्पुमान् कश्चिदित्याख्यदाशासिद्ध्यभिधा सुरी । लङ्घनैनूनमाराद्धा, दारियं वां दलिष्यति ॥ ५७१ ॥ तद्वचः- प्रत्ययात्ताभ्यामथ स्वेष्टार्थसिद्धये । एकाग्रभावेनाराडा, विंशत्या लङ्घनैर्हि सा ॥ ५७२ ॥ प्रत्यक्षीभूय साऽप्यूचे, देयं लभ्यं च किन्तु नः । एवं यदेत्य मरेहे, लवथः साम्प्रतं युवाम् ॥ ५७३ ॥ तदाहतुस्तौ विनयादेयं लभ्यं च नाऽत्र नौ ॥ २१ ॥ स दारियदूनौ त्वद्यावां, त्वामम्ब ! शरणं श्रितौ ॥ ५७४ ॥ मातुरड्डुकमामण्ड्य, यथेष्टं याचते शिशुः । सा तस्मै च मुदा दद्याद्देयं लभ्यं च तत्र किम् ? ॥ ५७५ ॥ स्वेष्टं त्वत्तोऽम्ब ! लच्चित्वा, मार्गयावस्तथाऽधुना । नूनं स्वापत्ययोस्तच्च, वत्सल- त्वेन दास्यसि ॥ ५७६ ॥ इत्युक्तिहृष्टा साऽप्याख्यद्वत्सौ ! लक्ष्मीविवेकयोः । याच्यमन्यतरदस्तु, न दास्ये युवयोर्द्वयम् ॥ ५७७ ॥ सिद्धदत्तस्तदा लुब्धमनाः कर्मानुसारिधीः । अयाचिष्टेहलोकार्थमात्रार्थी परमां रमाम् ॥ ५७८ ॥ कर्मानुभा- वात्सुमतिः, स्वल्पलोभः शुभायतिः। विवेकं धनदत्तश्च, प्रार्थयामास तां सुरीम् ॥ ५७९ ॥ यादृशं यस्य सत्तायां, वेद्यं कर्म शुभाऽशुभम् । उत्पद्यते मतिस्तस्य, तादृशी हि शुभाशुभा ॥ ५८० ॥ यदुक्तम्- “यथायथा पूर्वकृतस्य कर्मणः, फलं निधानस्थमिवोपतिष्ठते। तथा तथा तत्प्रतिपादनोद्यता, प्रदीपहस्तेव मतिःप्रवर्तते" ॥१॥ अथार्थितं तयोर्देवी, प्रतिपद्य तिरोहिता । स्वस्वसझैत्य मुदितौ, चक्रतुस्तौ च पारणम् ॥ ५८१॥ देवीवरप्रणुन्नोऽथ, कश्चिन्मध्यन्दिनेऽन्यदा । योगी समागात्साम्नायः, सिद्धदत्तस्य सद्मनि ॥ ५८२ ॥ वाढमावर्जितस्तेन, तथ्यैरातिथ्यक- मभिः । तस्मै स त्रपुपीवीजान्यार्पिपत्स च योगिराट् ॥ ५८३ ॥ भावितानि मयैतानि, सिद्धमन्त्रेण सादरम् । तद्वत्स ! विधिनोप्तानि, रोहन्त्येतानि तत्क्षणम् ॥ ५८४ ॥ वल्लीवितानः स्तृणुते, घटीयुग्मेन मण्डपम् । जायन्ते परितस्तत्र, तत्कालं च फलान्यपि ॥ ५८५ ॥ व्यधुश्चैतान्यनाहार्यमाधुर्येण सुधामधः । एतैरास्वाद्यमानश्च, क्षुत्तूट्पीडा प्रशाम्यति ॥ ५८६ ॥ सन्निपाताः समे वाताः, सर्वे रोगाश्च चक्षुपः । कुष्ठान्यष्टादशाप्याशु, शाम्यन्त्यास्वादितैश्च तैः ॥ ५८७ ॥ १ 'मातस्त्वादिष्टं लड्चित्वा' इत्यपि । २ 'भूरिशः' इत्यपि ।

रतपाल-
कथानकम्
4
॥२२॥
इत्युक्त्वा च गतो योगी, सिद्धदत्तोऽथ सद्मनि । तानि बीजानि कतिचिद्वाटके विधिनोप्तवान् ॥ ५८८ ॥ तत्कालमुद्गता
वल्यो, विस्तृताश्चाशु मण्डपे । फलिताश्च फलैराप्तवाणी नहि मृपा क्वचित् ॥ ५८९ ॥ शतं सहस्रं लक्षं वा, समास्माद-
थादरात् । तानि गृह्णन्ति धनिनो, दुष्टव्याधिभिरर्दिताः ॥ ५९० ॥ रोगार्दितेभ्यो लोभेन, धनैस्तैः स्वैरमाहृतैः । सिद्ध-
दत्तोऽथ समभूद्धनवानचिरादपि ॥ ५९१॥ अथ तस्य गृहे वित्तमवर्धिष्ट यथा यथा । हृदीव स्पर्द्धया लोभो, वर्धते स्म
तथा तथा ॥ ५९२ ॥ यथा लाभस्तथा लोभो, वर्धते ह्यधिकाधिकः । न रैकोव्याऽपि यत्तृप्तो, द्विमाषाऽर्थी पुरा द्विजः
॥ ५९३ ॥ तथा चोक्तं सिद्धान्ते-
"जहा लाहो तहा लोहो, लाहा लोहो पवहुई । दोमासकणयकजं, कोडीएऽवि न निडिअम्"॥१॥
अन्यत्राप्युक्तम्-
"तृष्णाखानिरगाधेयं, दुष्पूरा केन पूर्यते । या महभिरपि क्षिप्तः, पूरणैरेव खन्यते ॥१॥"
ततो लोभाभिभूतात्मा, सिद्धदत्तोऽन्यदा निशि । यामे प्रबुद्धः पाश्चात्ये, चिन्तयामास चेतसि ॥ ५९४ ॥ मच्चित्तेष्टं
कथं वित्तं, लाभैर्मेलिष्यतीदृशैः । घटा नूनमवश्यायधिंयन्ते नहि कुत्रचित् ॥ ५९५ ॥ तदनर्गलवित्ताप्त्यै, पोते गच्छामि
साम्प्रतम् । अश्वैः पोतैरश्मभिर्वा, यल्लक्ष्मीरतिशायिनी ॥ ५९६ ॥ इति चित्ते स निश्चित्य, वित्तार्थी प्रातरुत्थितः । परद्वी-
पोचितैः पण्यैर्वहनं भृतवान् द्रुतम् ॥ ५९७ ॥ अथाऽस्य विमलो वाल्यवयस्यः शस्यवाग्मनाः । पारिणामिकधीरास्ते, स
१ " यथा लाभस्तथा लोभो, लाभाल्लोमः प्रवर्धते । द्विमाषकनककार्य, कोट्याऽपि न निष्ठितम् " ॥ इति च्छाया ।
॥ २२॥

तदा हि तमित्यवम् ॥ ५९८ ॥ आस्तां दूरे धनं वन्धो !, त्यागभोगप्रवर्तकम् । पुरा भोजनमप्पेकदिनस्यासीन ते गृहे ॥ ५९९ ॥ साम्प्रतं तव सम्पन्नं, यदि पुण्यैरियद्धनम् । प्राणान्तकप्टे तत्पोते, किं लोभाद्जसि स्वयम् ?॥ ६०० ॥ पोते प्राणान्तकप्टेऽपि, यान्ति युक्त हि दुर्गताः । यतस्ते हृदि मन्यन्ते, दारिद्यान्मरणं सुखम् ॥ ६०१॥ यदुक्तम्- "उत्तिष्ठ क्षणमेकमुद्रह सखे ! दारियभारं मम, श्रान्तस्तावदहं चिराच शरणं सेवे त्वदीयं सुखम् । इत्युक्तो धनवर्जितेन सहसा गत्वा श्मशानं शवो, दारिद्यान्मरणं परं सुखमिति ज्ञात्वा स तूष्णीं स्थितः" ॥१॥ चिकीर्षवः स्वनिर्वाहं, सुखैर्दुःखैर्यथा तथा । आदायाऽपरवित्तानि, यान्तु पोते बुभुक्षिताः ॥ ६०२ ॥ व्याप्रियन्ते तु धनिनो, येऽत्र सक्लेशकर्मसु । भोगत्यागवियुक्तास्ते, दैवकर्मकृतो ध्रुवम् ॥ ६०३ ॥ शास्त्रे सुधीभिरुदरं, नूनं दुष्पूरमुच्यते । तुष्येदिष्टान्नभुक्तौ तु, तदपि प्रहरद्वयम् ॥ ६०४ ॥ असंख्यैः स्वर्णरत्नाद्यैराहारैश्चातिपेशलैः । मनस्तु लुब्धप्रकृति, क्षणं जातु न तुष्यति ॥ ६०५ ॥ समन्यसंख्याः स्युः प्रौढाश्चेन्मणिस्वर्णराशयः । तथापि तुष्टिः पुष्टिा, पुंसामवाशनादिभिः ॥ ६०६ ॥ तन्निर्वाहोचिते वित्ते, क्लिश्यन्ते किं मुधा जडाः ? । अप्यद्भुतधनावाप्तौ, लोभस्यान्तो हि न क्वचित् ॥६०७॥ यदुक्तम्- "धनहीनः शतमेकं, सहनं शतवानपि । सहस्राधिपतिर्लक्षं, कोटि लक्षेश्वरोऽपि च ॥१॥ कोटीश्वरो नरेन्द्रत्वं, नरेन्द्रश्चक्रवर्त्तिताम् । चक्रवत्ती च देवत्वं, देवोऽपीन्द्रत्वमिच्छति ॥२॥ १ 'मूर्खाः क्लिश्यन्ति किं मुधा' इत्यपि ।

रत्नपाल-
कथानकम्
॥२३॥
इन्द्रत्वेऽपि हि सम्प्राप्ते, यदीच्छा न निवर्त्तते । मूले लघीयांस्तल्लोभः, शराव इव वर्द्धते" ॥ ३ ॥
महीयसाऽपि लाभेन, लोभो न परिभूयते । जीयेत मात्राहीनेन, मात्रा समधिकः कथम् ? ॥ ६०८ ॥ अतिलोभो नृणां
नूनं, महानाय जायते । अकाण्डे श्रेष्ठिनः शृङ्गादत्तस्याऽभूद्यथा पुरा ॥ ६०९ ॥ स शृङ्गदत्तो गदितः, कोऽतिलोभनि-
दर्शनम् । सिद्धदत्तेनेति पृष्टस्तद्वृत्तं सोऽखिलं जगौ ॥ ६१० ॥ तथाहि-
नगरे रोहणे नानापुरत्नोत्पत्तिरोहणे । समभूच्छृङ्गदत्ताख्यो, व्यवहारी महाधनः ॥ ६११॥ उत्तमाखिललोकेऽत्र,
नीलीवन्मलिनात्मकम् । हर्नु दृग्दोपममुकं, मन्ये विधिरवासयत् ॥ ६१२ ॥ द्वात्रिंशत्स्वर्णकोटीशोऽप्यन्वहं स गतत्रपः।
लोभाभिभूतः सामान्यकृत्यानि सृजति स्वयम् ॥ ६१३ ॥ वयस्थाः सन्तिः चत्वारस्तनया विनयान्विताः। चतस्रस्तस्य
तारुण्यभरमाप्ताः स्नुषाः पुनः॥ ६१४ ॥ स व्यवहारिकाचारद्रविणव्ययभीरुहृत् । गृहे दत्ते तु न स्थातुं, किञ्चित्कार्य-
मिपात्सुतान् ॥ ६१५ ॥ चैत्ये पौषधशालायां, विवाहे च चतुष्पथे । नैति वित्तव्ययाद्विभ्यत्समुदाये च स कचित्
॥ ६१६ ॥ मा विक्षत्कोऽपि भिक्षार्थी, मत्सझेति भयेन सः। द्वारे कपाटद्वितयं, दत्ते तत्रार्गलां पुनः ॥ ६१७ ॥ मार्ग-
णानां मार्गयतां, दत्ते गालीः स निष्ठुराः । प्रसह्याऽन्तः प्रविशता, तेषां च गलहस्तकम् ॥ ६१८ ॥ सदापि हृदि वित्तार्थ-
चिन्तात्तॊ विलिखन् भुवम् । कपोलहस्तकं दत्ते, स श्लथीभूतकन्धरः ॥ ६१९ ॥ इति प्रायः प्रतिदिनं, पड् दानानि
ददात्ययम् । तथाप्यदाता प्रथितो, यशः पुण्यैरवाप्यते ॥ ६२० ॥ द्वारे प्रवेष्टुं काप्पण्यान्नित्यं द्वास्थ इवार्थिनाम् ।
॥ २३॥

स्नुपाश्चाऽसूयया जातु, निःसर्तुं न ददाति सः ॥ ६२१ । नृपचौरनिधीशानां, कोशाध्यक्षोऽत्र निर्ममे । वेधसा कृपणो दातृगुणाभिव्यक्तये ध्रुवम् ॥ ६२२ ॥ यदुक्तम्- "विना कदर्य दातापि, नाऽभविष्यत्प्रसिद्धिमान् । निशां विना कथं नाम, वासरोऽयमितीष्यते ?" ॥१॥ म्लेच्छगेहमिवाऽस्पृश्यं, त्याज्यं चण्डालकूपवत् । रथ्यानीरवदश्लाध्यं, तत्सझाभूच्छनैः शनैः ॥ ६२३ ॥ यत उक्तम्- "किंशुके किं शुकः कुर्यात् , फलितेऽपि बुभुक्षितः । अदातरि समृद्धेऽपि, विदधत्यर्थिनः किमु ? ” ॥१॥ यौवनोच्छृङ्खलास्तत्र, काराक्षिप्ता इवाथ ताः। कालं नयन्ति कप्टेन, मिथः सख्यजुषः स्तुपाः ॥ ६२४॥ तं वीक्ष्य श्रेष्ठि- नं द्वारे, मूर्त पापमिवान्यदा । व्योमाध्वनागात्प्रच्छन्नं, सझान्तः कापि योगिनी ॥६२५॥ अकस्मादागतां तत्र, तामालोक्य स सम्भ्रमम् । उत्तस्थुः सम्मुखं सर्वास्ताः स्तुपाः प्रोचिरे च ताम् ॥ ६२६ ॥ किं पाश्चात्यभवाऽरातिः, श्वशुरः स मृतो- ऽद्य नः ? । यदस्मत्सुकृताकृष्टा, मातरन्तरिहागमः ॥ ६२७ ॥ सगर्व साप्यवग् वत्सा !, नानामन्त्रौपधीविदाम् । न नः किमपि दुस्साधं, दुर्गमं च जगत्यपि ॥ ६२८ ॥ कलाकौटिल्यकुशलामथ तामाकलय्य ताः । प्रीणयित्वा बहुविधातिथ्यै- रिति वभापिरे ॥ ६२९ ॥ मातराशैशवादत्र, क्षिप्ताः कारागृहे वयम् । साम्प्रतं शरणं प्राप्ता, भवतीमादियोगिनीम् ॥ ६३० ॥ विचित्राऽऽश्चर्यविपुलां, विपुलां कथमप्यमूम् । प्रसीद दर्शयास्माकं, तत्कलाकुशलेऽधुना ॥६३१॥ एभिः सभ- क्तिवचनै शमानन्दिताऽथ सा । दत्ते स्म तासां साधारां, विद्यां गगनगामिनीम् ॥ ६३२ ॥ ततश्चित्ते प्रमुदिताश्छु- १ 'स्नुपाणा चेय॑या' इत्यपि ।

रलपाल-
कथानकम्
॥ २४॥
टिता इव वन्धनात् । चतस्रोऽपि हि ता वध्वः, सर्वाभरणभूषिताः ॥ ६३३ ॥ वाटकस्थं महत्काष्ठमारुह्य शुपिरं शनैः ।
सद्मसर्वजने सुप्ते, स्वर्णद्वीपे चयुर्निशि ॥ ६३४ ॥ युग्मम् ॥ विविक्तेऽथ कचित्स्थाने, तत्र काष्ठं विमुच्य ताः। सुरक्रीडापु-
रस्थान्तर्विविशुः कौतुकोत्सुकाः ॥ ६३५ ॥ तत्र च स्फारशृङ्गारानिन्द्रादीन् क्रीडतः सुरान् । नृत्यं चाप्सरसां रम्यं,
स्वेच्छया ता व्यलोकयन् ॥ ६३६ ॥ काष्ठं तदेव चारुह्य, निशान्त्यग्रहरे रहः । स्वसत्य यथास्थानं, सुषुपुस्ताः सकैतवाः
॥ ६३७ ॥ यौवनेनोद्धताः खेच्छाविहाराभिरताश्च ताः। एवं केनाऽपि विदिताः, गच्छन्त्यायान्ति चानिशम् ॥ ६३८ ॥
यैः स्वबुद्ध्याम्बुधेरभ्बु, प्रमातुं पार्यते पलैः । स्त्रीचरित्रं हि गहनं, न सम्यग् बुध्यतेऽपि तैः ॥ ६३९ ॥ यदुक्तम्-
"अश्वग्लुतं माधवगर्जितं च, स्त्रीणां चरित्रं भवितव्यतां च ।
अवर्षणं चापि च वर्षणं च, देवा न जानन्ति कुतो मनुष्याः?" ॥१॥
प्राप्तुं पारमपारस्य, पारावारस्य पार्यते । स्त्रीणां प्रकृतिवक्राणां, दुश्चरित्रस्य नो पुनः ॥ ६४० ॥ ( यदुक्तम् )
"विहिविलसिआण खलभासिआण तह कूडमहिलचरिआण । मणवंछिआण पारं, जाणइ जइ होइ सधन्नू" ॥१॥
अथान्यदा श्रेष्ठिनोऽस्य, भुजिष्यः कुशलाभिधः। सुमहत्काष्ठमन्योन्यस्थाने नित्यमवेक्ष्य तत् ॥ ६४१॥ को वियच्चा-
लयत्येतद्वीक्षेऽद्येति विचिन्त्य सः । निशीक्षमाणो निभृतं, वधूवृत्तमबुद्ध तत् ॥ ६४२ ॥ युग्मम् ॥ सदैवैताः के यान्ती-
ति ?, जिज्ञासुः स च कौतुकी। प्रच्छन्नः प्राक् प्रविश्याऽस्थाद्रात्रौ तत्काष्ठकोटरे ॥ ६४३ ॥ प्राग्वत्तत्काष्ठमारुह्य, तन्नि-
१ "विधिविलसितानां खलभापितानां तथा कूटमहिलाचरितानाम्। मनोवाञ्छितानां पारं, जानाति यदि भवति सर्वज्ञः" ॥ इति च्छाया।
॥ २४॥

श्यपि नभोऽध्वना । विहृत्य स्वेच्छया स्वर्णद्वीपतो गृहमाययुः॥६४४ ॥ प्रच्छन्नः सोऽपि तद्वृत्तं, सर्व ज्ञात्वा यथास्थितम् । लात्वा स्वर्णेष्टकायुग्मं, तथैवागत्य सुप्तवान् ॥ ६४५॥ तासां तेनाऽत्यसंभाव्यचरित्रेण चमत्कृतः। एवं च चिन्तयामास, स चित्ते चतुरश्चिरम् ॥ ६४६ ॥ नारी यदवला मुग्धा, मधुरं चोच्यते विषम् । तन्मन्ये वैपरीत्योत्थलक्षणाया निदर्श- नम् ॥ ६४७ ॥ मुग्धाभिरपि नारीभिर्वश्चयन्ते हि विचक्षणाः । अवलाभिरपि क्षिप्रं, जीयन्ते च महौजसः॥ ६४८॥ रक्षती- तीर्ण्यया श्रेष्ठी, द्वारस्थः सर्वदाप्यमूः । स्वैरं विद्दत्य सर्वत्राऽऽयान्ति त्वेताः स्वविद्यया ॥ ६४९ ॥ उच्छृङ्खलत्वे मनसः, स्त्रीणां दुष्टात्मनां ततः। व्यर्थो रक्षाविधिर्वाह्यो, लोकेऽपीति यदुच्यते ॥ ६५० ॥ "मनो निवद्धं न स्त्रीणां, किं बद्धो मूढ ! कम्बलः । तासां स्वेच्छाप्रवृत्तौ हि, किं कुर्यात्कम्बलो बलम् ? " ॥१॥ महाकविभिरित्युक्तम्- "कल्लोलैः सह पांशुखेलनतया लोलेयमित्याशयादेकस्तम्भसरोजसौधकुहरे सिन्धोः सुता शौरिणा॥ यन्यस्ताऽपि पितामहप्रहरके हा ! नित्यमिन्दोः करैर्निर्यात्यर्ककरैरुपैति च नमो नारीचरित्राय तत्" ॥१॥ तन्नारीरसदाचाराऽध्वनो नूनं निवर्तयेत् । कुलमेवार्गलीभूयाऽथवा दुर्गतिदुःखभीः ॥ ६५१ ॥ जागरित्वेति स चिरं, सुप्तः स्वर्णाप्तिगर्वितः । शन्दितः श्रेष्ठिनाप्येत्य, प्रातर्नोत्तरमण्यदात् ॥ ६५२ ॥ प्राक् स्वयं बुध्यते काले, वादितो पति च द्रुतम् । कि जागर्ति न वाऽद्यायं ?, जाग्रदू वा किं न जल्पति?॥६५३॥ गर्वितस्तत्किमद्यायं ?, किञ्चिन्नव्यधनाप्तितः। उच्चावचवचोभिवी, किं केनाप्येष रोषितः ? ॥ ६५४ ॥ रोगातः किमु वेत्यादि, निर्णिनीषुः स दाम्भिकः । स्वहस्तेन तमु- ब

रतपाल-
कथानकम
॥ २५॥
स्थाप्य, साश्रुदृष्टिस्तदेत्यवम् ।। ६५५ ॥ त्वं मे चतुर्णी पुत्राणा, स्नेहपानं हि पञ्चमः । तदद्यानीवश इवालोक्य से बरस ! किं
बद ? ॥ ६५६ ॥ तैः स्नेहवचनैराभूतहृच्छेष्ठिनेऽथ सः । निखिलं तद्वधूवृत्तं, यथादृष्टमवोचत ॥ ६५७ ॥ निशम्य
तदसंभाव्यं, स्वयमीक्षितुमुत्सुकः । तं वासरं शरत्प्रायं, तदा श्रेष्ठी ह्यमन्यत ॥ ६५८ ॥ आसन्नमरणः सोऽथ, कपटी त -
जिष्यवत् । निशि प्रविश्य प्रच्छन्नं, तस्थौ तत्काष्ठकोटरे ॥ ६५९ ॥ तन्निश्यपि स्नुषाः प्राग्वसदारुह्य नभोऽध्वना । स्वर्ण-
द्वीपे ययुः काष्ठं, मुक्त्वा च विविशुः पुरे ॥ ६६०॥श्रेष्ठी लोभाभिभूतश्च, तदानिर्गत्य कोटरात् । स्वर्णेष्टकाभिकाभिर-
भाषीत् कोटरं हि तत् ॥ ६६१ ॥ लब्धद्रव्यागमोपायहृष्टस्तरकोणके क्वचित् । वध्वागमनवेलायां, निलीयास्थाच पूर्ववत्
॥ ६६२ ।। कृतार्थास्तावदागत्य, तदारुह्य च सत्वराः । अन्धेरुपरि ता व्योनि, चेलुः स्वनगरं प्रति ॥ ६६३ ॥ तत्काष्ठं
पथ्यभूत्तासां, भूरिभारासुदुहम् । ततो भानूदयाऽऽसरया, विषण्णास्ता मिथोऽवदन् ॥ ६६४ ॥ मुच्यतेऽद्य स्वसः!
काष्ठमेतदुर्वहमम्बुधौ । आदास्यते श्वः सुवह, काष्ठमन्यत् पुनर्लघु ॥ ६६५ ॥ कोटरस्थस्तदा श्रेष्ठी, तन्निशम्य वचा स्नुषाः
। मामज्ञात्वाऽत्र मध्यस्थमेतन्मा क्षेप्सुरम्बुधौ ।। ६६६ ॥ इति विभ्यन्मनाः प्रोचे, मध्येऽहं श्वशुरोऽमि वः। तत्काष्ठमे-
तजलधौ, स्नुषा मा मुचताऽधुना ॥ ६६७ ॥ युग्मम् ॥ तं ज्ञात्वा काष्ठमध्यस्थं, मनसि क्षुभिता भृशम्।बुद्ध्यैवं पारिणा-
मिक्या, व्यमृशन्नथता मिथः॥६६८॥सम्यग्ज्ञातात्मवृत्तो, जीवन्नध गतो गृहम् । नूनं शुभाय भविता, दुरात्मा नायमात्म-
नाम् ॥ ६६९ ॥ स सर्पघटवरिक्षम, तदयं क्षिप्यतेऽम्बुधौ । ईदृग् विलोक्यमानो हि, न प्राप्योऽवसरः परः ॥ ६७० ॥
१ 'मचीकथत्' इत्यपि।
॥ २५ ॥

ततः प्रक्षिप्य तं तत्र, स्वं दुष्कर्मेव मूर्तिमत् । आसंस्ताः सुखिताः स्वेच्छत्यागभोगैश्चिरं गृहे ॥६७१॥ संगृह्य भूयसीः स्वर्णे- ष्टका लोभेन भूयसा । द्वात्रिंशत्स्वर्णकोटीशो, यथा चष्टः स्वजन्मनः॥ ६७२॥ प्राणान्तकष्टे तत्पोते, भूरिलोभाच्चटस्तथा । अप्यपत्यधनायुर्व्यः, कर्हिचिन्मित्र! मा भ्रशः॥६७३॥ तवासप्तमसन्तानभोग्यमास्ते धनं गृहे। हा! कष्टं कष्टमीदृक्ष, तत्कि- माद्रियसेऽधुना ?॥६७४॥ सुखं निषण्णः स्वगृहे, वित्तैर्वित्तमुपार्जयन् । त्यागभोगैनिजं जन्म, कृतार्थय महाशय ! ॥ ६७५ ॥ मित्रेणैवं वहूक्तोऽयं, नानादृष्टान्तयुक्तिभिः । परं विवेकवैकल्याकिञ्चिन्नाऽमस्त तद्धितम् ॥ ६७६ ॥ अथातितृष्णातरला, कृतकौतुकमङ्गलः।पोतमारुह्य जलधौ, स ययौ मन्दिरे कचित्॥६७७॥ व्यवहृत्य चिरं तत्र, प्राप्तातुलधनश्च सः। ववले सपरी- वारस्तथैव स्वपुरं प्रति॥६७८ ॥ तस्मिन्नीप्सितलाभाप्त्या,हृष्टेऽथायाति वर्मनि। दुर्दैवनुन्नैर्दुर्वातैरकस्मादन्धिरक्षुभत् ।। ६७९॥ लोला अकस्मात्कल्लोलाः, करालाकृतयस्तदा । श्मशान इव वेतालास्तत्रोत्तस्थुः पदे पदे ॥ ६८० ॥ पोतस्तैरुत्पतन्नुच्चैः, सद्यः स्वर्ग व्रजन्निवा मत्रतर्कि निपतन्, पातालं प्रविशन् पुनः॥६८१॥ सिद्धदत्तादिभिरत्यक्तजीविताशैस्तदा द्रुतम्। क्षिप्तं पोतं लघूकर्ते, पण्यं निःशेषमम्बुधौ ॥ ६८२॥लघूभूतोऽथ तत्पोतो, वायुनोत्पाट्य तूलवत् । भवितव्यतया शून्यद्वीपे क्वचिदनीयत ॥ ६८३ तत्तटं प्राप्य सजातजीविताशाः प्रमोदिनः। सिद्धदत्तादयः सर्वे, तदा तत्रोदतारिषुः॥ ६८४ ॥ भोज्ये क्षीणे स्वलोकानां, निर्वाहार्थमथोप्तवान् । तानि त्रपुष्या बीजानि, सिद्धदत्तस्तदक्षितौ ॥ ६८५॥ तत्कालमुद्गता वल्लयः, प्रवृद्धाः फलिताश्च ताः । स्वादयन्तः फलान्यासां, सुखिनश्चाऽभवञ्जनाः ॥ ६८६॥ निर्गत्याथान्यदाऽम्भोधेस्तत्रैका जलमानुपी । आगमद्विभ्यती तानि, फलान्यत्तुं शनैः शनैः ॥ ६८७ ॥ पाणावादाय पोतस्थं, रत्नमेकं प्रदर्शयन् । तां फलान्यदती रतपाल- कथानक ॥ २६॥ धूर्तः, सिद्धदत्तो निषिद्धवान् ॥ ६८८ ॥ तद्देवीवरमाहात्म्यात्सायजानादिति स्फुटम् । मर्योऽयमीग्रत्नानि, फलमूल्यं हि याचते ॥ ६८९ ॥ ततः प्रविश्य चाम्भोधौ, गृहीत्वा विविधान् मणीन् । तत्रैत्य फललोभेन, सिद्धदत्ताय सार्पिपत् ॥ ६९० ॥ तस्यै फलानि तावन्ति, तदा तानि स दत्तवान् । फलान्यस्यै ददात्येवं, रत्नान्यादाय सोऽन्वहम् ॥ ६९१ ॥ एवं क्रमेण विश्वासादन्योन्यैर्जलमानुषैः। तस्मै तत्फलमूल्येन, मणयः कोटिशोऽर्पिताः ॥ ६९२ ॥ मेलितैर्मणिभिर्भूत्वा, तं पोतमथ भूरिभिः ।मुदितः स्वपुरं प्राप, सिद्धदत्तः शुभेन सः॥६९३॥ कोटिशो वीक्ष्य रत्नानि, रत्नवीरेण भूभुजा। अथा- ऽऽज्ञा लुब्धचित्तेन, तत्पोते त्वरितं ददे ॥ ६९४ ॥ मया मत्वा तृणं प्राणानवगाह्य महार्णवम् । हा ! कप्टेनार्जिता लक्ष्मीरियमद्यागमद्वृथा ॥ ६९५ ॥ चेन्माता तु विष दत्ते, विक्रीणाति पिता सुतम् । राजा हरति सर्वस्वं, का नु तत्र प्रतिक्रिया ? ॥ ६९६ ॥ त्रुटिताशं मनस्येवं, सिद्धदत्ते विपीदति । दिने त्रयोदशेऽथाज्ञा, स्वयमेवाऽमुचनृपः॥ ६९७ ॥ सिद्धदत्तस्ततो हृष्टः, पोतादुत्तार्य तान्मणीन् । विक्रीय चासीत् षट्पप्टिस्वर्णकोटीश्वरः पुरे ॥ ६९८ ॥ निर्विवेकस्तु मिलति, क्वचिन्नैष महाजने । स्वलक्ष्मीगर्वितश्चैतं, तृणायापि न मन्यते ॥ ६९९ ॥ नोपि व्यययति वापि, धर्मे काण- कपर्दिकाम् । तनुते स्वजनादीनामपि नोपकृति मनाक् ॥ ७००॥ न महत्यर्हतो जातु, गुरूंश्चापि न वन्दते । वित्तै- कचित्तः पशुवत् , स्वजनुर्गमयत्यसौ ॥७०१॥ स क्रमान्निविवेकत्वाद्विमुक्तो विनयादिभिः। द्वेष्यो महाजनस्याऽभूद- क्षिपट्ट इवान्वहम् ॥ ७०२ ॥ देवीवरानुभावनोत्पन्नाऽमलविवेकधीः। त्रिसन्ध्यं धनदत्तस्तु, पूजयत्यर्हतः सदा ॥ ७०३ ॥ १ 'विक्रीणीते' इति स्यात् । २ 'कचिययति धर्मादौ, नापि' इत्यपि । ॥ २ 15 म स धर्म सद्गुरोः सम्यक्, श्रद्धालुः शृणुतेऽन्वहम् । महाकार्येऽपि न सम, केनचित्कलहायते ॥ ७०४ ॥ प्राणातिपाता- द्विरतो, न मृषा जातु भाषते। वित्तं नाऽदत्तमादत्ते, स परस्त्रीपरामुखः ॥ ७०५ ॥ दूरं त्यजति सप्तापि, व्यसनानि विशुद्धहृत् । महाजनान्तः स मिलंस्तदुक्तं तनुतेऽखिलम् ॥७०६॥ दयालुर्दीनदुस्थादौ, परोपकृतिकर्मठः । सोऽल्पवित्तोऽ- प्युदात्तात्मा, पाने दत्ते यथोचितम् ॥ ७०७ ॥ परकार्यैककुशलः, परऋद्धिष्वमत्सरी । स्वजनुः सदनुष्ठानैस्तनुते स फले- ग्रहि ॥ ७०८ ॥ सम्यग्विवेकाविर्भावोल्लसितैर्विनयादिभिः। अन्यैरपि गुणैश्चासीदिष्टः शिष्टजनेषु सः ॥ ७०९॥ अथा- न्यदा पुरे तत्र, कश्चिद्वैदेशिको वणिग् । असाध्यव्याधिना ग्रस्तो, निशि शून्यमठे मृतः॥ ७१०॥ तत्संस्काराय मिलितः, सर्वस्तत्र महाजनः । धनदत्तोऽपि तत्रागाद्विवेकोद्दिष्टसत्पथः ॥ ७११॥ निर्विवेकधनोन्मादविस्मृतात्मा तु तत्र सः । सिद्धदत्तो हि न प्राप्तस्तेनात्याकारितो बहु ॥ ७१२ ॥ श्मशानेऽथ तमादाय, प्राप्तः सर्वो महाजनः । न त्वज्ञातकुलस्यास्य, कश्चिद्दत्ते हुताशनम् ॥ ७१३ ॥ विमृश्याऽथ मिथोऽवादीद्, धनदत्तं महाजनः । सौम्य ! त्वमस्मदादेशादस्य संस्का- रमातनु ॥ ७१४ ॥ महाजनं विदन् क्षमापमिवाऽनुल्लध्यशासनम् । धनदत्तोऽनुमेने तत् , तदा तद्वचनं सुधीः ॥७१५॥ निश्चिन्तो धनदत्तेन, तत्कार्यप्रतिपत्तितः। महाजनस्तु सकलो, दूरे गत्वा निषेदिवान् ॥ ७१६ ॥ शवं चितायां प्रक्षिप्य, सोऽपाकुर्वन्नथांऽशुकम् । ग्रन्थौ निवद्धमैक्षिष्ट, तत्कट्यां रत्नपञ्चकम् ॥ ७१७ ॥ आत्मसाक्ष्यपि तद्वीक्ष्य, नादत्तं ग्राह्य- मुत्तमैः । इति हाईविवेकेन, नाग्रहीष्ट स निःस्पृहः ॥ ७१८ ॥ पञ्चाप्यऽदर्शयत्तानि, स त्वाकार्य महाजनम् । तदा तमा- १ 'वृद्धि' इत्यपि । २ 'ऽनुमेनानः' इत्यपि ।

रतपाल-
कथानकम्
॥२७॥
ख्यत्सोऽप्येवं, तन्निर्लोभत्वविस्मितः॥ ७१९ ॥ त्वमेवैतान्यनाणि, गृहाण वचनेन नः । नाऽदत्तादानदोषस्ते, नून-
मित्थं लगिष्यति ॥ ७२० ॥ युग्मम् ॥ अनाथमी भूभर्तृसम्बधि निखिलं धनम् । इत्याविर्भूतसद्बुद्धिर्नाऽग्रहीष्ट तथापि
सः ॥ ७२१॥ उक्त्वाऽथ वृत्तं तद्राक्षे, ददौ तानि महाजनः । तन्निर्लोभत्वहृष्टश्च, धनदत्ताय सोऽप्यदात् ॥ ७२२ ॥
ततः मापार्पितान्येष, सुधीस्तान्यग्रहीन्मुदा । विक्रीणीते स्म पञ्चापि, स्वर्णलक्षैश्च पञ्चभिः ॥ ७२३ ॥ यच्छुभं सुदिनं
कुर्यात् , प्राच्यपुण्योपढौकितम् । नहि माता पिता भ्राता, सुहृत्स्वामी च तन्नृणाम् ॥ ७२४ ॥ दुष्कर्मोपस्थितं घोरं,
यत्कुर्याच्चादिनं नृणाम् । विरूपं व्यालवैतालादयो रुष्टा न जातु तत् ॥ ७२५ ॥ प्रसरेत्काश्चिदाप्यान्धिः, काश्चिच्चाऽपसरे-
त्तिथीः । दिनादिनकृतस्तत्र, विशेषो वीक्ष्यते स्फुटः ॥ ७२६ ॥ चीयते विधुरेकत्र, पक्षेऽन्यत्र च हीयते । दिनादिनफलं
देवेष्वपीदं का कथा नृणाम् ? ॥ ७२७ ॥ व्यापारव्यवसायादि, किश्चित्कार्यं ततो महत् । सुधीश्चिकीर्षुः स्वदिनादिने पूर्व
परीक्षते ॥ ७२८ ॥ विमृश्यैवमथ प्रौढव्यवसायचिकीरसौ । स्वदिनादिनवीक्षार्थमजां प्रथमतोऽग्रहीत् ॥ ७२९ ॥ अल्प-
वृष्टौ यथा ह्यल्पमात्रः पङ्कोऽपि जायते । अल्पाहाराऽशने नूनमल्पैवाऽपि विसूचिका ॥ ७३० ॥ अल्पैव हि वपुष्पीडा-
प्यल्पौच्चात्पतने पुनः। अल्पव्यवहृतौ चाल्पा, हानिरप्यदिने तथा ॥७३१॥ चरणाय बहिर्मुक्ता, सा तेनाऽथ गलस्तनी ।
तस्मिन्नेव दिने जग्धा, वराकी च वृकेण सा॥७३२॥ क्रीत्वा क्रीत्वा बहिर्मुक्ता, तेनेत्थं त्रिदिनीमजा । परं नैकापि सन्ध्या-
यां, पश्चादागात्तदोकसि॥७३३॥ ततो दिनं न मे सम्प्रत्येवं निश्चित्य चेतसि। तदा किमपि नारेभे, व्यवसायं स धीनिधिः
॥ ७३४ ॥ कियत्यथ गते काले, पुनस्तेन गलस्तनी।क्रीत्वा प्राग्वदहिमुक्ता, सुषुवे युगलं च सा ॥ ७३५ ॥ एवं दिनपरीक्षार्थी,
॥ २७॥

या यां गृहात्यजामयम्।सा सा प्रसूयतेऽस्यैवमजावृन्दमजायत॥७३६॥ ततोऽधुना मे दिवसो,नूनमस्तीति निर्णयात् । प्राप्त- श्चतुष्पथे प्रातः, स प्रौढव्यवसायधीः॥७३७॥ तदैवं पञ्चभिः स्वर्णलक्षैः क्रीतं क्रयाणकम् । दूरदेशान्तरायातसार्थात्तेन मन- स्विना ॥ ७३८ ॥सर्व तच्चार्पितं पोतवणिजां दिवसैस्त्रिभिः। सुवर्णलक्षाः पञ्चासंस्तत्र लाभेऽस्य निर्मलाः॥ ७३९ ॥ लाभजा- तोद्यमश्चैवं, सुधीय॑वहरन्नयम् । क्रमावादशकोटीशो, लाभकर्मोदयादभूत् ॥ ७४०॥ परं यथा यथा वित्तं, वर्द्धते स्म तथा तथा। हृदि सम्यग् विवेकोऽस्य, स्पर्द्धयेवाधिकाऽधिकः॥७४१॥ महेभ्यौ तौ सिद्धदत्तधनदत्तावथान्यदा । भोजनाय गृहे यान्तौ, व्यवहृत्य चतुष्पथात् ।। ७४२ ॥ राजाद्यसुतमन्येन, राजपुत्रेण केनचित् । भृशं विवादं कुर्वाण, क्वचिद्ददृशतुः पथि ॥ ७४३ ॥ विज्ञैर्न पार्चे गन्तव्यं, द्वयोर्विवदमानयोः। विवेकदृष्ट्या वीक्ष्यैवं, धनदत्तोऽन्यतो ययौ ॥ ७४४ ॥ विवेकवि- कलः सिद्धदत्तस्तु कलिकौतुकी। तत्राप्तः सुमनुष्यत्वात्ताभ्यां साक्षीकृतः कलौ ॥ ७४५ ॥ तदैव कलिभङ्गाय, साहंकारौ समत्सरौ । तं साक्षिणं सहादाय, तौ प्राप्तौ नृपपर्षदि ॥ ७४६ ॥ न्यायाऽन्यायं तयोः पृष्टस्तदा साक्षी स भूभुजा । सोऽन्यायं निर्विवेकत्वाच्चाऽख्यद्राजाऽङ्गजन्मनः ॥ ७४७ ॥ हृदि खिन्नो व्यवस्थायां, तदा संस्थाप्य तौ नृपः। दिनैः कतिपयैरन्यत्किञ्चिदुद्भाव्य दूषणम् ॥ ७४८ ॥ विंशतिं सिद्धदत्तेभ्यं, स्वर्णकोटीरदण्डयत् । महाजनोऽपि चोपेक्षा, द्वेष्य- वात्तस्य निर्ममे ॥ ७४९ ॥ युग्मम् ॥ लावण्यलीलाललितौ, रूपसौभाग्यशालिनौ । सदलङ्कृतिनेपथ्यौ, ताविभ्यावथ चान्यदा ॥ ७५० ॥ राजवर्मनि गच्छन्तौ, मन्त्रिपल्या रतिप्रिया । स्मरापस्मारवशतः, साऽनुरागं विलोकितौ ॥ ७५१ ॥ रूपसौ- भाग्यसौन्दर्यैः, शिल्पसीमेव वेधसः । ताभ्यामपि गवाक्षस्था, युवती ददृशे च सा ॥ ७५२ ॥ जानानस्तन्महापापं, धन- रत्नपाल- कथानकम् ॥ २८॥ दत्तस्ततस्तदा । इवाकविम्बात्त्वरितं, दृशं संहृत्य जग्मिवान् ॥ ७५३ ॥ सिद्धदत्तस्त्वदान्तात्मा, निर्विवेकमनाः पुनः । सामेव व लितग्रीवं, पश्यंस्तत्र स्थितश्चिरम् ॥ ७५४ ॥ अकस्मात्तावदाप्लेन, पुरारक्षेण तत्र सः । इङ्गिताकारकुशलेनाऽऽ- वध्य क्ष्माभुजार्पितः ॥ ७५५ ॥ कियन्त्यहान्यथ क्षिप्वा, कारागारे नृपोऽपि तम् । समृद्धत्वादश स्वर्णकोटीरादाय मुक्त- वान् ॥ ७५६ ॥ नात्तं दत्तं तयो केनापि नूनं तथाऽप्यभूत् । हा ! विवेकाऽविवेकाभ्यामिति भेदः पुनर्द्वयोः ॥ ७५७ ॥ धनदत्तं रहश्चौरः, कश्चिदेत्याऽथ चान्यदा । सपादकोटीमूल्यानि, दश रत्नान्यदीदृशत् ॥ ७५८ ॥ दशाप्येतानि गृह्णीष्व, देहि मह्यं पुनर्दुतम् । दश द्रम्मसहस्राणि, श्रेष्ठिन्नित्यवदच सः ॥७५९ ॥ नूनं स्तैन्याहृतान्येताम्यन्यथा कथमर्पयेत् । इत्थमत्यल्पमूल्येनाऽनल्पमूल्यान्यमूल्ययम् ॥ ७६० ॥ नूनं स्तैन्यापवादाय, क्रीतं स्तैन्याहृतं सताम् । सप्तप्रकारः कुशलै- श्चौरः शास्त्रे यदुच्यते ॥ ७६१॥ तदुक्तम्- "चौर १ चौरापको २ मन्त्री, ३ भेदज्ञः ४ काणकक्रयी ५। अन्नदः ६ स्थानदश्चैव, ७ चौरः सप्तविधः स्मृतः" ॥१॥ धनदत्तो विमृश्यैवं, विवेकविकसन्मतिः । निरुध्य लोभप्रसरं, तानि रस्तानि नाऽग्रहीत् ॥ ७६२ ॥ सिद्धदत्तं ततश्चौर- स्तानि सोऽदीदृशद्रहः । स च लोभाभिभूतात्मा, हृष्टस्तान्यग्रहीद् ध्रुवम् ॥ ७६३ ॥ पूर्णपापघटश्चौरः, सोऽथ लोप्रकरोड- न्यदा । चटितो नगरारक्षहस्ते नश्यन्नितस्ततः ॥ ७६४ ॥ कशाभिर्नियं निघ्नस्तं चौरमथ सोऽब्रवीत् । प्राच्य लोप्न हि निःशेष, कास्तीति वद रे ! स्फुटम् ।। ७६५ ॥ ताड्यमानः कशाघातैस्तदा तेन स तस्करः । यदभूद्यत्र तन्नामस्थानाभ्यां सर्वमब्रवीत् ॥ ७६६ ॥ प्राच्यचौर्यगतानेकवस्तुप्राप्तिप्रमोदभाम् । अधिकाधिकवित्तार्थी, पुरारक्षोऽवदत्पुनः ॥ ७६७ ॥ ॥२८॥ A रत्नानि क्ष्माभुजः कोशाद्यान्यात्तानि त्वया पुरा । तानि रे ! केति स तदा, कम्पमानः पुनर्जागौ ॥ ७६८॥ तानि प्राग् धनदत्ताय, दर्शितानि मया रहः । नाऽगृह्णात्स त्वहं सिद्धदत्तायाप्र्पितवांस्ततः ॥ ७६९ ॥ पुरारक्षोऽथ तद्वृत्तं, सर्व राज्ञे ग्यवेदयत् । सोऽतीव कुपितः स्तन्याहृतरत्नक्रयात्तदा ॥ ७७० ॥ सिद्धदत्तेभ्यमाकार्य, सद्यो गुप्तिगृहेऽक्षिपत् । सर्वथा चाऽन्नपानीयनिषेधं तस्य निर्ममे ॥ ७७१ ॥ युग्मम् ॥ धनाढ्यतायामप्यागात्कार्येऽन्येपां नहि क्वचित् । कष्टे तस्येत्यनि- ष्टस्योपेक्षां पौरा व्यधुः पुनः॥ ७७२ ॥ दिनैः कतिपयैः सोऽथ, वाध्यमानः क्षुधादिभिः । क्ष्माभुजे सझसर्वस्वं, समर्प्य स्वममूमुचत् ॥ ७७३ ॥ समाप्तः सोऽथ तद्रिक्तं, धनधान्यादिवस्तुभिः। इष्टाङ्गमिव निर्जीवं, वीक्ष्याऽभूद्गुरुदुःखभार ॥ ७७४ ॥ दध्यौ पुनर्मनस्येवमियरकालं ममौकसि । देवीप्रसादात्कमला, समागात्सर्वतोमुखी ॥ ७७५ ॥ त्यागभोगवि- युक्तस्य, मुक्तस्य स्वजनादिभिः । निर्विवेकस्य मे सम्प्रत्येवमेवागमच्च सा ॥ ७७६ ॥ ऐहिकामुष्मिकौचित्यकृत्येषु श्रीर्म- मौकसि । सोपयोगा क्वचिन्नाभूदटव्यामिव मालती ॥ ७७७ ॥ ततः स्वभावाच्चपलां, विपुलां कमलामिमाम् । एकान्ते- नैतदासक्तं, मूर्खराजं हि मां च धिम् ॥ ७७८ ॥ उभाभ्यां लब्धमावाभ्यां, देवीपाद्यिथार्थितम् । फले तत्तत्तु वैचि- व्यं, हहाऽभूत्याच्यकर्मणा ॥ ७७९ ॥ इति मानसिकाऽनेकदुःखदाहार्दिताशयः । भवाविरक्तः समभूत्सिद्धदत्तश्च तापसः ॥ ७८० ॥ धनदत्तमथाहूयेत्यवग् राजा सविस्मयम् । बहुलाभेऽपि रत्नानि, श्रेष्ठिन्नात्तानि किं त्वया ? ॥ ७८१ ॥ आशक्र- कीटं सर्वत्राऽस्खलितप्रसरः पुनः । लोभः स्वचित्ते प्रविशन् , कथं नाम न्यरुध्यत ? ॥ ७८२ ॥ स्वनिर्दोषत्वनिशङ्कः, १ 'क्षुदाधिभिः' इत्यपि ।

रत्नपाल-
कथानक
॥२९॥
सोऽप्यवादीत्तदानृपम् । लोभभूलानि पापानि, लोभश्चेदगुणेन किम् ? ॥ ७८३ ॥ इत्याधनेकशास्त्राथान, मत्रवत्स्मर-
तोऽन्वहम् । ममासन्नीभवेहोभपिशाचो नहि कहिंचित् ॥ ७८४ ॥ युग्मम् ॥ अन्यच्च बहुलाभेऽपि, स्तैन्यं स्तन्याहृतं च
यत् । त्याज्यं विशुद्धन्यायाध्वाऽध्वनीनैः सर्वथोत्तमैः ॥ ७८५ ॥ स्वामिन् ! सन्तोषमाहत्य, तानि नाऽत्तानि तन्मया ।
ततो निर्लोभताहृष्टः, सच्चके तं भृशं नृपः ॥ ७८६ ॥ अनासक्ततया सप्तव्यसनेष्वथ सर्वदा । शुद्धव्यवहृतौ निष्ठतया
सद्धर्मवत्तया ॥ ७८७ ॥ तथ्यपथ्यप्रियोक्तित्वात्सर्वत्रौदार्यतस्तथा । वर्द्धमानमहत्त्वर्द्धिः, सोऽभूत्सर्वजनप्रियः ॥ ७८८ ॥
॥ युग्मम् ॥ अथान्यदा नृपसदो, धूर्तः कोऽप्यागमत्करे । प्रत्येक कोटिमूल्यानि, पश्चरत्नानि दर्शयन् ॥ ७८९ ॥ साव-
ष्टम्भमवक् चैवं, समुद्रेऽस्ति कियज्जलम् । कद्दमश्च कियानेवं, संशयो हृदि मे चिरात् ॥ ७९० ॥ न्यूनाधिकत्वं यः
सम्यम्, विद्वान् वेत्त्यनयोध्रुवम् । मां च प्रत्याययेत्तस्मै, पश्चाप्येतान्यहं ददे ॥ ७९१ ॥ दुर्बोधः संशयस्तस्य, न भन्न-
स्तत्र केनचित् । किंवदन्ती त्वियं नव्या, सर्वत्र प्रासरत्पुरे ॥ ७९२ ॥ धनदत्तः पुरक्ष्मापमहत्त्वं रक्षितुं तदा । तत्रा-
पात्तत्सुरीदत्तविवेकोत्पन्नसन्मतिः ॥ ७९३ ॥ ऊचे चान्धौ जलं स्तोकं, भद्र ! भूयांश्च कईमः । तव चित्ते न चेदत्र, मदुक्ते
प्रत्ययो ध्रुवम् ॥ ७९४ ॥ सर्वाः सवन्तीगङ्गाद्या, निपतन्तीनिवार्य तत् । सिन्धुस्सर्वाम्भसा संख्यां, सावधानमनाः
सूज ॥ ७९५ ॥ पश्चात्तदम्बु निःशेष, पृथक् कृत्वा च वारिधेः। पङ्कसंख्यां कुरुष्वान, स भूयान् भविता ध्रुवम् ॥७९६ ॥
इत्यसाध्यविदग्धोक्तियुक्तिप्रतिहतश्च सः । स्वस्य ब्रीडाविलक्षास्यो, मन्यमानः पराजयम् ॥७९७॥ समर्योक्तानि रत्नानि,
धनदत्ताय सत्वरम् । यातो निर्गत्य नगराद्धस्यमानो जनैः क्वचित् ॥ ७९८ ॥ युग्मम् ॥ प्रशस्यमानसद्बुद्धिस्तुष्टेन क्ष्माभुजा
॥ २९॥

भृशम् । सत्कृतो धनदत्तश्च, सोत्सवं स्वगृहे ययौ ॥ ७९९ ॥ कश्चिन्महेभ्यसार्थेशवेषभाक् तत्र चाऽन्यदा । धूर्तोऽथ स्फारशृङ्गारः, सुरूपो नवयौवनः ॥८००॥ स्वर्णद्वादशकोटीशाऽनङ्गलेखापणस्त्रियाः। रूपसौभाग्यवसतेरागात्सझनि गूढ- हृत् ॥ ८०१॥ युग्मम् ॥ तदा नूनं महेभ्योऽयं, कोऽपीत्यावर्जनाय सा । स्वानुरागंदर्शयन्ती, जजल्प कपटे पटुः॥८०२॥ स्वप्ने मयाद्य त्वत्प्राप्ता, द्वादशं स्वर्णकोटयः। कल्पद्रुकल्पे समाप्ते, सत्यं ह्येतदभूत्त्वयि॥८०३॥धूर्तोऽप्यूचे शुभे ! सत्यमे- तत्स्वप्नेऽद्य यन्मया। द्वादशस्वर्णकोट्यो हि, न्यासे मुक्तास्तवौकसि ॥ ८०४ ॥ सद्भोगसुखलुब्धात्मा, वर्षाणि द्वादशान्वहम् । तव वेश्मनि वत्स्यामि, निगद्येति स्फुटाक्षरम् ॥ ८०५॥ परं देशान्तरे सार्थश्चलनस्त्यधुनोत्सुकः । व्यवसाये महॉल्लाभस्तत्र चाप्तवतोऽद्य मे ॥ ८०६॥ तत्तत्र गत्वा त्वरितं, बहूपाय॑ धनं पुनः । त्वत्सौभाग्यगुणाकृष्टः, समेष्यामि त्वदौकसि ॥ ८०७॥ तेनाधार्पय ताः स्वर्णकोटीादश सत्वरम् । धूर्तेनेति ब्रुवाणेन, गृहीता तेन सा करे ॥ ८०८ ॥ किमेतदिति जल्पन्ती, नीता चाशु चतुष्पथम् । विवादः स तयोर्भग्नः, सुधियापि न केनचित् ॥ ८०९ ॥ सर्वत्र पूर्व पण्यस्त्री, हास्यास्पदमियं पुनः । वराकी तद्विवादेन, विशिष्याऽजनि निष्कला ॥८१०॥ तत्कथंचित्ततो धूर्तविषादान्मुक्तिमिच्छती । भृत्यैः पुरान्तः पटह, सा सर्वोत्यवीवदत् ॥ ८११॥ विवादान्मोचयत्यस्माद्यो मां सम्प्रति सत्पुमान् । स मे बन्धुः परस्तस्मै, स्वर्णकोटिं ददे पुनः ॥ ८१२॥ तत्राऽगाज्ज्ञाततद्वृत्तो, विवेकविकसन्मतिः । तयोर्विवादभङ्गार्थ, धनदत्तस्तदा द्रुतम् ॥ ८१३ ॥ पाणिस्थद्वादशस्वर्णकोटिमूल्यमहामणिः । दर्शयन्वामपाणिस्थादशैं तान्प्रतिबिम्बितान् ॥ ८१४ ॥ युग्मम् ॥ १ 'वर्णद्वादशकोटयः' इत्यपि । २ 'स्वर्णद्वादशकोट्यो हि' इत्यपि ।

कथानकम् रतपाल- ॥३०॥ धूर्समूचे च लाह्येतान्, विमुञ्चैतां पणस्त्रियम् । सोऽप्याख्यदेतैरादर्शविम्वितैः करवाणि किम् ? ॥ ८१५ ॥ धनदत्तोऽप्यु- वाचैवं, यादृशी भद्र! भावना । सिद्धिर्हि तादृशी यादृग, देवः पात्री च तादृशी ॥ ८१६ ॥ त्वया स्वमेऽर्पितं यादृगस्या अप्यनया धनम् । प्रत्यर्यमाणं चाद्यास्ते, तादृक् ते प्रतिविम्बितम् ॥ ८१७ ॥ न दोषः कश्चिदत्रेति, स धूर्तोऽथ निरु- तरः। यथागतमगाद्रीडाविलक्षस्त्वरितं क्वचित् ॥८१८॥ निर्मुक्ताऽथें ततो मिथ्याविवादान्मुदिताशया । धनदत्ताय सा स्वर्णकोटिं समधिकां ददौ ॥ ८१९ ॥ एवं प्रवर्धमानर्द्धिर्धनदत्तः स धीनिधिः। पट्पञ्चाशत्स्वर्णकोटीस्वामी समजनि क्रमात् ॥ ८२० ॥ अथान्येयुः पुरे तत्र, ऋव्यात्कोऽप्यागमद्बली । गृहीतश्च नृपस्तेन, प्राप्तः प्रान्तदशां द्रुतम् ॥ ८२१ ॥ नभःस्थो न्यगदत्सोऽथ, क्रव्यादो यदि कोऽपि मे । ददाति बलिमात्मानं, तन्मुञ्चे नृपतिं ध्रुवम् ॥ ८२२ ॥ अमात्यप्र- मुखाः सर्वे, तदुक्तं कर्तुमक्षमाः । सत्त्वहीनतया हीणाः, पौरा नीचैर्व्यलोकयन् ॥ ८२३ ॥ परोपकृतिनिष्णातो, धनदत्त- स्तदा ददे। रक्षसे बलिमात्मानं, क्षमापरक्षाचिकीः स्वयम् ॥ ८२४ ॥ तत्सत्त्वतुष्टः क्रव्यादो, विमुच्याऽथ नृपं द्रुतम् । तस्मै च द्वादश स्वर्णकोटीदत्त्वा तिरोदधे ॥ ८२५ ॥ कश्चियन्तरजातीयो, मांसाशी नहि कर्हिचित् । किन्त्वीय याचते नूनं, सत्त्वमेवेक्षितुं नृणाम् ॥ ८२६ ॥ कृतज्ञोऽथ स भूजानिरतीवात्मोपकारिणम् । धनदत्तं व्यधान्मुख्यं, सर्वत्र व्यवहारिषु ॥ ८२७ ॥ भद्रकप्रकृतिः प्रायः, पापभीरुमनाः सना । सौम्यदृष्टिः स भूजानिरिति पालयति प्रजाः ॥ ८२८ ॥ अथाऽन्यदा वसन्तत्तौं, सान्तःपुरपरिच्छदः । जग्मिवान्बहिरुद्याने, स नृपः केलिकौतुकी ॥ ८२९ ॥ तत्र यावच्च मध्याहे, सूपकारैर्नृपाज्ञया । नानारसवतीपाकः, क्रियमाणोऽस्ति सोद्यमम् ॥ ८३०॥ तावत्क्षुइभृशग्लाना, ॥ ३० सार्थभ्रष्टा महर्षयः । केचिदीयुनिभिर्घौस्तत्रोप्लाय महाटवीम् ॥ ८३१ ॥ साऽनुकम्पहृदा राज्ञा, वल्लभाभिश्च तस्य ते । तदा तन्दुलनीरेण, प्रासुकेन निमन्त्रिताः॥ ८३२ ॥ समयोपनतं शुद्धं, तद्विज्ञायाददेऽद्य तैः । विलोक्यमानं तत्रैकना- न्दीभाजनपूरकम् ॥ ८३३ ॥ तत्रैवासन्नवृक्षस्य, च्छायायामेत्य सत्वरम् । पीयूषमिव तत्पीत्वा, स्वास्थ्यमापुर्महर्षयः ॥ ८३४ ॥ उपदेशमथ श्रुत्वा, तत्रैत्य स नृपः क्षणम् । लघुकर्मा प्रपेदानः, श्राद्धधर्म प्रियायुतः ॥ ८३५ ॥ सश्रद्धा- राद्धसुश्राद्धधर्मः काले मृतोऽथ सः । रत्नपाल ! प्रजापाल !, भवान् भाग्यैकभूरभूत् ॥ ८३६ ॥ दुःखदाहोत्थवैराग्य- सिद्धदत्तः स तापसः । अज्ञानकष्टः क्रियया, जयामात्योऽभवत्पुनः ॥ ८३७ ॥ तदा लोभेन तत्पोतं, द्वादशाऽहानति- ष्ठिपः । तद्वैरात्सोऽत्र ते राज्यं, वर्षाणि द्वादशाऽग्रहीत् ॥ ८३८ ॥ ऋणं वैर द्वयं चैतन्नुभिर्मीादुपेक्षितम् । जन्मको- टिसहागामि, नहि जीर्यति कहिंचित् ।। ८३९ ॥ तेषामध्यवसायस्य, विशेषादन्यजन्मनि । भूत्वा शतसहस्रादिगुणं त- चोपतिष्ठते ॥ ८४० ॥ जीवस्तु धनदत्तस्य, श्राद्धो वैदेशिकोऽभवत् । प्राच्योपकाराद् ग्लानत्वे, यं तदा प्रत्यजागरी: ॥ ८४१ ॥ यश्च त्वत्कारितप्रान्ताराधनानशनक्रियः। सुरीभूतः कृतज्ञत्वादुपचक्रे तदा तदा ॥ ८४२ ॥ प्राच्यपत्यो नवा- प्यत्र, स्नेहादेत्य तवाऽमिलन् । नीरदानोल्लसद्भोगसत्कर्मसहभुक्तये ॥ ८४३ ॥ श्रीदेवी चाऽभवत्तासु, राज्ञी शृङ्गारसु- न्दरी । यच्च जन्मसहस्रात्माक्, तारुण्योन्मत्तया तया ॥ ८४४ ॥ हास्येनाच्छोटितो धूल्या, कायोत्सर्गस्थितो मुनिः नानाविडम्वनाश्चास्या, जातास्तेनाऽत्र जन्मनि ॥ ८४५ ॥युग्मम् ॥रे कुष्ठिन् ! न करोष्येतन्मदुक्तं किमु सत्वरम् । भृत्यः कनकमञ्जर्येत्याक्रुष्टः प्राच्यजन्मनि ॥ ८४६ ॥ इत्थं च गुणमञ्जर्या, किमन्ध ! न पश्यसि ? । तत्तन्याधिरभूदन, रतपाल कथानक ॥३१॥ तत्तत्कर्म फलं तयोः॥ ८४७ ॥ आक्रोश्यैवं च यत्ताभ्यां, विदधेऽनुशयो मनाक् । तेनापीदग्विधो व्याधिरुपशान्तः पुनस्तयोः॥ ८४८ ॥ यदेकतुम्बकमितं, निर्दोषं तन्दुलोदकम् । समये श्रद्धया दत्तं, सुसाधुभ्यस्तदा त्वया ॥ ८४९ ॥ सर्वार्थसाधकमिदं, तत्तेऽभूद्रसतुम्बकम् । निःसपलं च साम्राज्यं, सदोदित्वरसन्महः ॥ ८५०॥ वृत्तं प्राच्यभवस्येदृक्, सम्यक् सर्वविदो मुखात् । निशन्य सप्रियो राजा, जातिस्मरणमाप सः ॥ ८५१ ॥ यथोक्तं तेन तद्वृत्तं, वीक्ष्य साक्षादिवाऽखिलम् । प्राप्तश्चाऽभगवैराग्यं, चेतस्येवमचिन्तयत् ॥ ८५२ ॥ दुःखैकसारे संसारे, संसरभिः शरीरिभिः । भुक्ता ह्यनन्तशस्तृष्णातरलैर्विषयाः पुरा ॥ ८५३ ॥ तथापीह भृशासक्तिभृतस्तेष्वेव ही! जडाः । आचर- न्त्याहतं धम्मै, न प्रेत्य हितमात्मनः ॥ ८५४ ॥ शरत्कालाऽधपटलं, विलीयेताऽनिलाद्यथा । मन्ये तथान संसारे, सर्व क्षणविनश्वरम् ॥ ८५५ ॥ कल्लोललोला कमला, पुनरत्रेष्टसङ्गमाः । मार्गस्थतरुविश्रान्तसार्थसंयोगसन्निभाः ॥ ८५६ ॥ आपातमधुराः सर्वे, विषयाः प्रान्तदारुणाः । रम्भान्तरिव संसारे, सारं किञ्चिन्न वीक्ष्यते ॥ ८५७ ॥ क्षणदृष्टविनष्ट- त्वात्स्वानः सर्वमिदं भुवि । एको भवति सुतानां, द्वितीयो जाग्रतां पुनः॥ ८५८ ॥ प्रतिक्षणमयं कायः, क्षीयमाणो न लक्ष्यते । वारिमुक्तामघटवद्विशीर्णः स विभाव्यते ॥ ८५९ ॥ आयुर्नासाग्रसञ्चारिनिःश्वासोच्छ्वासकैतवात् । अत्यन्त- गमनायेव, सदाऽभ्यासे कृतोद्यमम् ॥ ८६० ॥ येभ्यो जाताश्चिरात्तावत्ते गताः स्वसमानपि । पश्यन् प्रयातो मरणं, हन्तात्मायमनाकुलः ॥ ८६१॥ यदुक्तम्- "वयं येभ्यो जाताश्चिरतरगता एव खलु ते, समं यैः संवृद्धाः स्मृतिविषयतां तेऽपि गमिताः। AS ॥ ३१॥ .

इदानीमेते स्मः प्रतिदिनसमासन्नपतना, गतास्तुल्यावस्थां सिकतिलनदीतीरतरुभिः" ॥१॥ चिरं स्थित्वाऽपि विषयाः, प्रयास्यन्ति न संशयः । तस्मादेते स्वयं त्यक्ता, वरं सुखकृतो हि ते ॥ ८६२॥ यदुक्तम्- "अवश्यं यातारश्चिरतरमुपित्वाऽपि विपया, वियोगे को भेदस्त्यजति न जनो यत्स्वयममून् । प्रजन्तः स्वातळ्यादतुलपरितापाय मनसः । स्वयं त्यक्ता ह्येते शमसुखमनन्तं विदधति" ॥१॥ तदसारेऽत्र संसारे, विहाय विषयान्तरम् । संगृहीत सुधीर्द्धर्म, सारं सर्वज्ञभापितम् ॥ ८६३ ॥ इत्याशुविषयाशंसा- विरक्तो विमलाशयः । रत्नपालनृपः सोऽभूत्प्रवज्याग्रहसाग्रहः ॥ ८६४ ॥ आपिताः परमां प्रौडिं, तेन सस्कृत्य सद्गुणैः । प्रधानामात्यसामन्ताः, सखेदं तं तदोचिरे ॥ ८६५ ॥ त्वदेकजीविताः स्वामिस्त्वत्तः कल्पद्रुमाच्युताः । वयं सुमनसो नूनं, भविष्यामः कथं हहा ! ? ॥ ८६६ ॥ इयानन्तःपुरजनो, नानाभोगोचितः कथम् ? । भावीत्युक्तस्त्वया मूर्द्धभ्रष्टके- शकलापवत् ॥ ८६७ ॥ न्यायनिष्ठ ! गुणश्रेष्ठ !, त्वया पालितपोषिताः । लप्स्यन्तेऽमूः प्रजा मातापितृसौख्यं कुतोऽ- न्यतः ? ॥ ८६८ ॥ सम्मोहोद्दीपनैरित्यादिभिवाक्यैस्तदीरितैः । वैराग्ये सुस्थिरं राज्ञो, नाऽकम्पत मनो मनाक् ॥८६९॥ सोऽथ मेघरथं पुत्रं, प्रतिरूपमिवात्मनः । निवेश्य राज्ये राजन्यसमक्षमनुशिष्य च ॥८७०॥श्रीमजिनमतोद्योतं, चिकीर्षः सर्वतो जने । कृत्वा प्रियाभिः सहितश्चैत्येष्वष्टाह्निकामहम् ॥ ८७१ ॥ दीनादिभ्यो ददद्दानं, पुत्रकृप्तमहामहैः । महासे- नमुनेः पार्थे, प्रव्रज्यां प्रतिपन्नवान् ॥ ८७२ ॥ त्रिभिर्विशेषकम् ॥ चारित्रं निरतीचारं, शुचिचित्तः समाचरत् । तपोऽथ १ 'पुरीवर्गो' इत्यपि । २ 'समाचरन् ' इत्यपि ।

कथानकम् रखपाल- दुस्तपं तत्वा, कालेऽभूत्स सुरोमहान् ॥ ८७३॥ देवर्द्धिमद्भुतां भुक्त्वा, सचिरं दिवि सप्रियः।महाविदेहे मानुष्यं,प्राप्य सेत्स्य- ति चाऽचिरात् ॥८७४॥ निस्समानसमृद्धीनां, निदानं दानमुज्वलम् । इति मत्वा मनःशुद्ध्या, यतध्वं तत्र सत्तमाः॥८७५॥ (अथ प्रशस्तिः) आसंस्तपागणेशाः श्रीसोमसुन्दरसूरयः । युगप्रधानास्तत्पट्टे, सूरिश्रीमुनिसुन्दराः ॥ ८७६ ॥ तेनिवांस्तत्पदाम्भो- जभ्रमरः सोममण्डनः। एतां स्वाऽन्योपकाराय, दानमाहात्म्यसत्कथाम् ॥ ८७७ ॥ एपा प्रसद्य धीमद्भिः, शोधनीया शुभाशयैः । वाचनीया च सुचिरं, श्रेयःशर्मकृतस्पृहैः ॥ ८७८ ॥ मुनिसुन्द्रसूरीशपट्टे विजयिनोऽधुना । श्रीरत्नशेखर गणाधीशा वः शिवसम्पदे ॥ ८७९ ॥ ॥३२॥ इति श्रीतपागच्छाधिराजश्रीसोमसुन्दरसूरिपप्रभाकरगच्छनायकत्रीमुनिसुन्दरसूरिविनेयवाचना- चार्यसोममण्डनगणिकृता सत्पात्रपानीयदाने श्रीरत्नपालनृपकथा समाप्ता ॥ S

अद्यावधि श्रीवात्मानन्द-ग्रन्थरत्नमालायां प्रकाशिताना ग्रन्थानां
सूचिका
१
कादिनामानि
श्रीधर्मघोषसूरिः
श्रीधर्मशेखरगणिः
श्रीधर्मघोषसूरिः
पत्राङ्काः
१२
५
७
संख्या
ग्रन्थनामानि
समवसरणस्तवः सावचूरिकः ।
२ क्षुल्लकभवावलिप्रकरणं सावचूरिकम् ।
३ लोकनालिकाद्वात्रिंशिका सावचूरिका ।
४ योनिस्तवः सावचूरिकः।
कालसप्ततिका सावचूरिका ।
देहस्थितिस्तव-लघ्वल्पबहुत्वे च सावचूरिके ।
७ सिद्धदण्डिकास्तवः सावचूरिकः।
८ कायस्थितिस्तोत्रं सावचूरिकम् ।
भावप्रकरणं स्वोपज्ञावचूरिकम् ।
८
"
श्रीदेवेन्द्रसूरिः
श्रीकुलमण्डनसूरिः
श्रीविजयविमलगणिः
१०
१०

रक्षपाल- कथा सूची ॥३३॥ ૭૨ १० नवतत्त्वप्रकरणम् । भाष्यम् विवरणम् ११ जम्बूचरित्रम् । १२ रत्नपालनृपकथानकम् । श्रीदेवगुप्ताचार्यः श्रीअभयदेवाचार्यः श्रीयशोदेवोपाध्यायः श्रीजयशेखरसूरिः वाचनाचार्यसोममण्डनगणि: २९ ३२ उपरिलिखिता एते ग्रन्थाः प्रवर्तकश्रीमन्मुनिकान्तिविजयचरणानचञ्चरीकायमाणैः श्रीमच्चतुरविजयमुनिभिर्महता प्रयासेन संशोधिता; अस्माभिश्च तत्तच्छ्रेष्ठिमहोदयानां द्रव्यसाहाय्येन मुम्बईस्थनिर्णयसागरयन्त्रालये सुप्रबन्धेन प्रका- शिताः। एते च मुनिवरेभ्यः संघसंवन्धिजैनपुस्तकभाण्डागारेभ्यश्च डाकव्ययमात्रप्रेषणेनाऽमूल्यं समयेरन् । तदि- तरेभ्यः. समुचिताल्पमूल्येन प्रेषयिष्याम इति निवेदयति सविनयम्- श्रीजैन-आत्मानन्द-सना. ॥३३॥ भावनगर HER

No text on this page.

@agrogro@regional
EPALETTERPRETTER TERMOONAME
91
MPA
•
MANTRA
RenmommanSAR
समाप्तमिदं वाचनाचार्यश्रीसोममण्डनगणिविरचितं
रत्नपालनृपकथानकम् ।
FR-52-53-52
MINSENAME.
NE

No text on this page.

Shri Ratnapalnripkathanakam

Author
Gani, Sommandan
Title
Shri Ratnapalnripkathanakam
File name
Shri Ratnapalnripkathanakam
Text
OCR done
Published
2010/02
Publisher
Shri Aatmanand Jaingrantharatnamala
Language
Sanskrit
Pages
74
Library
Prakrit Bharati Academy, Jaipur
DLI number
322207
Barcode
99999990245045.00
Scanning centre
Banasthali University
Digital publisher
Digital Library of India
VMLT id
MdBQxzt14ly
Download PDF

Shri Ratnapalnripkathanakam