Sringeri Sharada Peetham
Vaikharna Siddhanta Karika
Front matter
आनन्दाश्रमसंस्कृतग्रन्थावलि ग्रन्थाङ्कः ४३ कौण्डभट्टविरचितवैयाकरभूषणसाराख्यव्याख्यासमेताः भट्टोजिदीक्षितप्रणीत- वैयाकरणसिद्धान्तकारिकाः । (कारिकाधचरणप्रतीकाकारादिवर्णानुक्रमादिभिः सनाथीकृताश्च ।) एतत्पुस्तकम् आनन्दाश्रमस्थपण्डितैः संशोधितम् । तच्च हरि नारायण आपटे इत्यनेन पुण्याख्यपत्तने आनन्दाश्रममुद्रणालये आयसाक्षरैमुद्रयित्वा प्रकाशितम् । . शालिवाहनशकाब्दाः १८२२ ख्रिस्ताब्दाः १९०१ (अस्य सर्वेऽधिकारा राजशासनानुसारेण स्वायत्तीकृताः ) मूल्यं पादौनरूपकः (०१२)।
आदर्शपुस्तकोल्लेखपत्रिका। अथास्य कौण्डभट्टविरचितवैयाकरणभूषणसाराख्यव्याख्यासमेतभट्टोजि- दीक्षितविरचितवैयाकरणसिद्धान्तकारिकाग्रन्थस्य पुस्तकानि यैः परहितैकप- रतया संस्करणार्थ प्रदत्तानि तेषां नामादीनि पुस्तकानां संज्ञाश्च कृतज्ञतया प्रकाश्यन्ते- (क.) इति संज्ञितम्-सटीकं किंचित्रुटितम्, एतत्पुस्तकं पुण्यपत्तननिवासिनां वे० शा० रा०रा०"राघवाचार्यरामानुज" इत्येतेषाम् । (स.) इति संज्ञितम्--सटीकं प्रायः पूर्णम्, एतत्पुस्तकं पुण्यपत्तननिवासिनां रा० रा० नारायण बाबाजी जोशी" इत्येतेषाम् । (ग.) इति संज्ञितम्-सटीकं त्रुटितम्, एतत्पुस्तकमानन्दाश्रमसंस्कृतग्रन्थसं- ग्रहालयस्थम् । (घ.) इति संज्ञितम्-सटीकं प्रायः पूर्णम्, एतत्पुस्तकमानन्दाश्रमसंस्कृतग्रन्थ- संग्रहालयस्थम् । (ङ.) इति संज्ञितम्-सटीकमन्ते किंचित्रुटितम्, एतत्पुस्तकमानन्दाश्रमसंस्कृ- तग्रन्थसंग्रहालयस्थम् । (च.) इति संज्ञितम्-सटीकं पूर्णम्, + (छ.) इति संज्ञितम्-सटीकं पूर्ण कलिकातायां मुद्रितम्, एतत्पुस्तकं माहुली- क्षेत्रनिवासिनां वे० शा० रा० रा० " कृष्णशास्त्री गोडबोले" इत्येतेषाम् । (ज.) इति संज्ञितम् -सटीकं पूर्णम्, एतत्पुस्तकं सातारा(सप्तर्षि) ग्रामनिवा- सिनां वे० शा० रा. रा. “वासुदेव शास्त्री अभ्यंकर" इत्येतेषाम् । समाप्तेयमादर्शपुस्तकोल्लेखपत्रिका । + एतत्स्वामिनो नाम न ज्ञायते ।
अथ भट्टोजिदीक्षितप्रणीतवैयाकरणसिद्धान्तकारिका- विषयानुक्रमः । १ मङ्गलाचरणं ग्रन्थादौ प्रतिज्ञा च । निपातधोतकत्वनिर्णयः। पृ० पृ० ४४-४८ धात्वर्थाख्यातसामान्यार्थनिर्णयः । भावप्रत्ययार्थनिर्णयः । पृ० २-१७ पृ० ४८-५० लकारविशेषार्थनिरूपणम् । देवताप्रत्ययार्थनिर्णयः । पृ० १८-२० पृ० ५०-५२ सुबर्थनिर्णयः । अभेदैकत्वसंख्याया वृत्तौ भाननिर्णयः । पृ० २१-२६ पृ० ५२-५३ नामार्थनिर्णयः । उद्देश्यविधेययोः संख्याविवक्षानिर्णयः । पृ० २७-३० पृ० ५३-५४ समासशक्तिनिर्णयः । क्त्वाद्यर्थनिर्णयः । पृ० ३०-३८ पृ० ५४-५५ शक्तिनिर्णयः । स्फोटवादः । पृ० ३८-४२ पृ० ५६-६४ ननर्थनिर्णयः । पृ० ४२-४४ इति भट्टोजिदीक्षितविरचितवैयाकरणसिद्धान्तकारिका- विषयानुक्रमः समाप्तः।
ॐ तत्सब्रह्मण नमः। भट्टोजिदीक्षितविरचितवैयाकरणसिद्धान्तकारिकाः। कौण्डभदृविरचितवैयाकरणभूषणसाराख्य- व्याख्यासमेताः। ७ (टीकाकारोपोद्घातः।) श्रीलक्ष्मीरमणं नौमि गौरीरमणरूपिणम् । स्फोटरूपं यतः सर्वं जगदेतद्विवर्तते ॥ १ ॥ अशेषफलदातारं भवाब्धितरणे तरिम् । शेषाशेषार्थलाभार्थं प्रार्थये शेषभूषणम् ॥ २ ॥ *वाग्देवी यस्य जिह्वाग्रे नरीनति सदा मुदा । भट्टोजिदीक्षितमहं पितृव्यं नौमि सिद्धये ॥ ३ ॥ नत्वा गणेशपादाब्जं गुरूनथ सरस्वतीम् ॥ श्रीकौण्डभट्टः कुर्वेऽहं वैयाकरणभूषणम् ॥ ४ ॥ पाणिन्यादिमुनीन्प्रणम्य पितरं रंगोजिभट्टाभिधं द्वैतध्वान्तनिवारणादिफलिकां पुंभाववाग्देवताम् ॥ ढुण्डिं गौतमजैमिनीयवचनव्याख्यातृभिर्दूषिता- सिद्धान्तानुपपत्तिभिः प्रकटये तेषां वचो दूषये ॥ ५ ॥ ( इति टीकाकारोपोद्घातः ।) प्रारिप्सितप्रतिबन्धकोपशमनाय कृतं श्रीफणिस्मरणरूपं मङ्गलं शिष्यशिक्षार्थ नेवघ्नंश्चिकीर्षितं प्रतिजानीते- (ग्रन्थादौ प्रतिज्ञा ।) फणिभाषितभाष्याब्धेः शब्दकौस्तुभ उद्धृतः । तत्र निर्णीत एवार्थः संक्षेपेणेह कथ्यते ॥१॥ उद्धृत इत्यत्रास्माभिरिति शेषः । भाष्याब्धेः शब्दकौस्तुभ उद्धृत इत्युक्तिस्तु शब्दकौस्तुभोक्तार्थानामाधुनिकोत्प्रेक्षितत्वनिरासाय । अन्यथा तन्मूलकस्यास्य ग्रन्थ- * ग. पुस्तक एवैतौ श्लोकौ वर्तेते।
- २ कौण्डभद्दविरचितवैयाकरणभूषणसाराख्यव्याख्यासमेताः- (धात्वर्थाख्यातसामान्यार्थनिर्णयः) स्याप्याधुनिकोत्प्रेक्षितसारत्वापत्तौ पाणिनीयानामनुपादेयतापत्तेः । तत्र निर्णीत इत्यु- क्तिरितोऽप्यधिकजिज्ञासुभिः शब्दकौस्तुभे द्रष्टव्यमिति ध्वनयितुम् ॥ १ ॥ प्रतिज्ञातमाह- ( धात्वर्थाख्यातसामान्यार्थयोनिर्णयः।) फलव्यापारयोर्धातुराश्रये तु तिङः स्मृताः । फले प्रधानं व्यापारस्तिर्थस्तु विशेषणम् ॥ २ ॥ धातुरित्यत्र स्मृत इति वचनविपरिणामेनान्वयः । फलं विक्लित्त्यादि । व्यापारस्तु भावनाभिधा साध्यत्वेनाभिधीयमाना क्रिया । उक्तं च वाक्यपदीये- " यावसिद्धमसिद्धं वा साध्यत्वेनाभिधीयते । आश्रितक्रमरूपत्वात्सा क्रियेत्यभिधीयते " इति ॥ न च साध्यत्वेनाभिधाने मानाभावः, पचति पाकः करोति कृतिरित्यादौ धात्वर्था- वगमाविशेषेऽपि क्रियान्तराकाङ्क्षानाकाङ्क्षयोदर्शनस्यैव मानत्वात् । तथा च क्रिया- न्तराकाङ्क्षानुत्थापकतावच्छेदकरूपं * साध्यत्वम् । तद्रूपवत्त्वमसत्त्वभूतत्वम् । एतदे- वाऽऽदाय " असत्त्वभूतो भावश्च तिड्पदैरभिधीयते” इति वाक्यपदीयमिति द्रष्ट- व्यम् । अयं च व्यापारः फूत्कारत्वाधःसंतापनत्वयत्नत्वादितत्तद्रूपेण वाच्यः । पच- तीत्यादौ तत्तत्प्रकारकबोधस्यानुभवसिद्धत्वात् । न च नानार्थकतापत्तिः, 'तदादिन्यायेन बुद्धिविशेषादेः शक्यतावच्छेदकानामनुगमकस्य सत्त्वात् । आख्याते क्रियैकत्वव्यवं- स्थाऽप्यवच्छेदकं xबुद्धिविशेषैक्यमादायैव । उक्तं च वाक्यपदीये- गुणभूतैरवयवैः समूहः +क्रमजन्मनाम् । बुद्ध्या प्रकल्पिताभेदः क्रियेति व्यपदिश्यते " इति ॥ धात्वर्थ निरूप्य तिङर्थमाह-आश्रये विति । फलाश्रये व्यापाराश्रये चेत्यर्थः । फलाश्रयः कर्म, व्यापाराश्रयः कः । तत्र फलव्यापारयोर्धातुलभ्यत्वान्न तिङस्तदंशे शक्तिरन्यलम्यत्वात् । शक्यतावच्छेदकं चाऽऽश्रयत्वं तत्तच्छक्तिविशेषरूपमिति सुब- र्थनिर्णये वक्ष्यते । नन्वनयोराख्यातार्थत्वे किं मानम् । प्रतीतेलक्षणयाऽऽक्षेपात्प्र- थमान्तपदाद्वा संभवादिति चेत् । अत्रोच्यते--" लः कर्मणि च भावे चाकर्मकेभ्यः " * कार कान्तराकाङ्क्षोत्थापकतावच्छेदकरूपधर्मवत्त्वमपि साध्यत्वम् । । यथा चैत्रत्वादीननु- गमय्य तत्तदवच्छिन्नचैत्रादिषु तदादीनां शक्तिर्निर्धारिता तथाऽत्रापि कृत्यधिश्रयणत्वादीन्यनुगमय्य तत्तदवच्छिन्नेषु पचत्यादीनां निर्धार्यते। ४ समूहाळम्बनात्मकबुद्धिगतैकत्वं तत्तत्क्रियास्वारोप्येत्यर्थः । + फूत्कारत्वादीनाम् । - १च. 'वच्छे।
Pr । कर्तरि कृत् भट्टोजिदीक्षितविरचितवैयाकरणसिद्धान्तकारिकाः। (धात्वर्थाख्यातसामान्यार्थनिर्णयः) [ पा० सू० ३-४.६९ ] इति सूत्रमेव मानम् । अत्र हि चकारात्- [ पा० सू० ३-४-६७ ] इतिसूत्रोक्तं कर्त- रीत्यनुकृष्यते । बोधकतारूपां तिबादिशक्तिं तत्स्थानित्वेन कल्पिते लकारे प्रकल्प्य लकाराः कणि कर्तरि चानेन विधीयन्ते । नकारविसर्गादिनिष्ठां कर्मकरणादिबोधक- शक्तिमादाय शसादिविधानवत् । न च सूत्रे कर्तृकर्मपदे कर्तृत्वकर्मत्वपरे, तथा च कर्तृत्वं कृतिः कर्मत्वं च फलमेवार्थोऽस्त्विति शङ्कयम् । फलव्यापारयोर्धातुलभ्यत्वेन लकारस्य पुनस्तत्र शक्तिकल्पनायोगात् । अथ *दर्शनान्तरीयरीत्या व्यापारस्य धात्वर्थत्वाभावात्तत्र लकारविधिः स्यादिति चेत्तर्हि कृतामपि कर्तृकर्मादिवाचित्वं न सिध्येत् । “ कर्तरि कृत् " [पा० सू० ३-४-६७ ] इति च लः कर्मणी- त्यनेन तुल्ययोगक्षेमम् । अपि च मीमांसकानां कृतामिवाऽऽख्यातानामपि कर्तृवाचि. त्वमस्तु भावनाया एवाऽऽक्षेपेण कृदादिवत्प्रतीतिसंभवे वाच्यत्वं माऽस्तु । तथा सति प्राधान्यं तस्या न स्यादिति चेन्न । घटमानयेत्यादावाक्षिप्तव्यक्तेरपि प्राधान्यव- दुपपत्तेः । पचतीत्यादौ भावनाया विवरणदर्शनाद्वाच्यत्वमिति चेत् । पाकानु- कूलव्यापारवतः कर्तुरपि विवरणविषयत्वाविशेषात् । न च कर्तुविवरणं तात्पर्याथ- विवरणं पाकं करोतीत्यशब्दार्थकर्मत्वविवरणवदितरेतरद्वंद्वे हि समुच्चयांशविवरण- वद्वा न तदर्थनिर्णायकमिति वाच्यम् । भावनायामपि तुल्यत्वात् । किं च पचति देवदत्त इत्यत्राभेदान्वयदर्शनात्तदनुरोधेन कर्तुर्वाच्यत्वमावश्यकं पक्ता देवदत्त इति- वत् । न चाभेदवोधे समानविभक्तिकत्वं नियामकं तच्चात्र नास्तीति वाच्यम् । +सोमेन यजेत स्तोकं पचति राजपुरुष इत्यादावप्यभेदबोधानापत्तेः । न च लक्षणया कर्तुरुक्तत्वात्सामानाधिकरण्यं पिङ्गाक्ष्यादियौगिकानामपि द्रव्यवाचित्वापत्तेः । एवं वैश्वदेवीत्यादितद्धितानामपि । “ अनेकमन्यपदार्थे " [पा० सू० २.२.२४] " साऽस्य देवता " [ पा० सू० ४.२-२४ ] इत्यनुशासनेनापि पिङ्गे अक्षिणी यस्या विश्वे देवा देवता अस्या इति विग्रहदर्शनात् , प्रधानषष्ठ्यर्थ एवानुशासनलाभात् । तथा च- अरुणया पिङ्गाक्ष्यैकहायन्या सोमं क्रीणाति" [तै० सं० का०१ प्र०अ० १०] इति वाक्ये द्रव्यानुक्तेरारुण्यस्य स्ववाक्योपात्तद्रव्य एवान्वयप्रतिपादकारुणाधिकरणो- च्छेदापत्तिः । द्रव्यवाचकत्वसाधकमूलयुक्तेः सामानाधिकरण्यस्योक्तरीत्योपपत्तेरिति १ * मीमांसकरीत्येत्यर्थः । पचतीत्यस्य पाकं करोतीति विवरणदर्शनात् । फलं पचेरर्थः । तिठः करोतिरिति हि तद्रीतिः । ४ नीलो घट इत्यादौ । + इह मत्वर्थलक्षणायां सोमवता यागेन स्तोका- भिनं पचनमिति । नन्वत्र नास्ति पदद्वयमत आह-राजेति ।। अभेदान्वययोग्यत्वम् । पिङ्गा. क्ष्यादिवत् । १ के. ख. च. "द्वे साहित्यसंश। .
४ कौण्डभट्टविरचितवैयाकरणभूषणसाराख्यव्याख्यासमेताः- (धात्वाख्यातसामान्यार्थनिर्णयः ) प्रपञ्चितं विस्तरेण वैयाकरणभूषणे । तिङ इति । बोधकतारूपा शक्तिस्तिक्ष्वेवेत्यभि- प्रेत्येदम् । पदार्थ निरूप्य वाक्याथ निरूपयति-फल इत्यादि। विक्लित्त्यादिफलं प्रति तिर्थः कर्तृकर्मसंख्याकालाः । तत्र कर्तृकर्मणी व्यापारफलयोविशेषणे । संख्या कर्तृप्र- त्यये कर्तरि । कर्मप्रत्यये कर्मणि । समानप्रत्ययोपात्तत्वात् । तथाचाऽऽख्यातार्थसं- ख्याप्रकारकबोधं प्रत्याख्यातजन्यकर्तृकर्मोपस्थितिर्हेतुरिति कार्यकारणभावः फलितः ! नैयायिकादीनामाख्यातार्थसंख्यायाः प्रथमान्तार्थ एवान्वयादाख्यातार्थसंख्याप्रकारक बोधे प्रथमान्तपदजन्योपस्थितिहेतुरिति कार्यकारणभावो वाच्यः, सोऽपि चन्द्र इव मुखं दृश्यते देवदत्तो भुक्त्वा व्रतीत्यादौ चन्द्रक्त्वार्थयोराख्यातानिन्वयादितराविशेषणत्व- घटित इत्यतिगौरवम् । इदमपि कर्तृकर्मणोराख्यातार्थत्वे मानमिति स्पष्टं भूषणे । कालस्तु व्यापारे विशेषणम् । तथा हि-" वर्तमाने लट् ” [पासू०३-२-१२३] इत्यत्राधि- काराद्धातोरिति लब्धम् । तच्च धात्वर्थं वदत्प्राधान्यान्यापारमेव ग्राहयतीति तत्रैव तद- न्वयः । न च संख्यावत्कर्तृकर्मणोरेवान्वयः शङ्कयः । अतीतभावनाके कर्तरि पचती- त्यापत्तेः । अपाक्षीदित्यनापत्तेश्च । पाकानारम्भदशायां कर्तृसत्त्वे पक्ष्यतीत्यनापत्तेश्च । नापि फले तदन्वयः, फलानुत्पत्तिदशायां व्यापारसत्त्वे पचतीत्यनापत्तेः । पक्ष्यतीत्याप- तेश्चेत्यवधेयम् । न चाऽऽमवातजीकृतकलेवरस्योत्थानानुकूलयत्नसत्त्वादुत्तिष्ठतीति- प्रयोगापत्तिः । परयत्नस्याज्ञानादप्रयोगात् । किंचिच्चेष्टादिनाऽवगतौ चायमुत्तिष्ठति शक्त्यभावात्फलं तु न जायत इति लोकप्रतीतेरिष्टत्वात् । एवं च *तिर्थो विशेषण- मेव । +भावनैव प्रधानम् । यद्यपि प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थस्यैव प्राधान्यमन्यत्र भावप्रधानमाख्यातं सत्त्वप्रधानानि नामानि ” इतिनिरुक्तभूवा- दिसूत्रस्थक्रियाप्राधान्यबोधकभाष्याभ्यां धात्वर्थभावनाप्राधान्यमध्यवतीयते । अपि चाऽऽख्यातार्थप्राधान्ये तस्य देवदत्तादिभिः सममभेदान्वयात्प्रथमान्तस्य प्राधान्या- पत्तिः । तथा च पश्य मृगो धावतीत्यत्र भाष्यसिद्धैकवाक्यता न स्यात् । प्रथमान्तमृ- गस्य धावनक्रियाविशेष्यस्य दृशिक्रियायां कर्मत्वापत्तौ द्वितीयापत्तेः । न चैवमप्रथ- मासामानाधिकरण्याच्छतृप्रसङ्गः । *एवमपि 'द्वितीयाया दुरित्वेन पश्य मृग इति वाक्यस्यैवासंभवापत्तेः । न च पश्येत्यत्र तमिति कर्माध्याहार्य वाक्यभेदप्रसङ्गात् । उत्कटधावनक्रियाविशेषस्यैव दर्शनकर्मतयाऽन्वयस्य प्रतिपिपादयिषितत्वात् अध्याहारेऽनन्वयापत्तेश्च । एवं च भावनाप्रकारकबोधे प्रथमान्तपदजन्योपस्थितिः कारणमिति नैयायिकोद्घोषो नाऽऽदरणीयः । किं तु आख्यातार्थकर्तृप्रकारकबोधे दृष्टम्, तथाऽपि ॥ .. * कालकारकसंख्यारूप: ।+ किं तर्हि प्रधानमत आह-भावनेति । । पचतिक्रिया भवति- क्रियायाः कर्यो भवन्तीति हि तत्रोक्तम् । * मृगपदोत्तरं द्वितीयापादने । = इदमेव भाष्यानुगुणम् । १ क. °नुत्पादद।
भट्टोजिदीक्षितविरचितवैयाकरणसिद्धान्तकारिकाः। (धात्वर्थाख्यातसामान्यार्थनिर्णयः ) धातुजन्योपस्थिति वनात्वावच्छिन्नविषयतया कारणमिति कार्यकारणभावो द्रष्टव्यः । भावनाप्रकारकबोधं प्रति तु कृज्जन्योपस्थितिवद्धात्वर्थभावनोपस्थितिरपि हेतुः । पश्य मृगो धावति पचति भवतीत्याद्यनुरोधादिति दिक् । इत्थं च पचतीत्यत्रैकायिका पाका- नुकूला भावना, पच्यत इत्यत्रैकायिका या विक्लित्तिस्तदनुकूला भावनेति बोधः । देवदत्तादिपदप्रयोगे त्वाख्यातार्थकादिभिस्तदर्थस्थाभेदान्वयः । घटो नश्यतीत्यत्रापि घटाभिन्नाश्रयको नाशानुकूलो व्यापार इति बोधः । स च व्यापारः प्रतियोगित्वविशि- ष्टनाशसामग्रीसमवधानम् । अत एव तस्यां सत्यां नश्यति तदत्यये नष्टस्तद्भावित्वे नक्ष्यतीति प्रयोगः । देवदत्तो जानातीच्छतीत्यादौ च देवदत्ताभिन्नाश्रयको ज्ञानेच्छा- द्यनुकूलो वर्तमानो व्यापार इति बोधः । स चान्तत आश्रयतैवेति रीत्योह्यम् ॥ २ ॥ नन्वाख्यातस्य कर्तृकर्मशक्तत्वे पचतीत्यत्रोभयबोधापत्तिः कर्तृमात्रबोधवत्कर्ममा- त्रस्यापि बोधापत्तिरित्यतस्तात्पर्यग्राहकमाह- फलव्यापारयोस्तत्र फले तङ्यक्चिणादयः । व्यापारे शश्नमाद्यास्तु द्योतयन्त्याश्रयान्वयम् ॥ ३ ॥ तङादयः फल आश्रयान्वयं द्योतयन्ति । फलान्वयाश्रयस्थ कर्मत्वात्तद्योतकाः कर्मद्योतकाः, व्यापाराश्रयस्य कर्तृत्वात्तद्योतकाः कर्तृद्योतका इति समुदायार्थः । द्योतयन्ति तात्पर्य ग्राहयन्ति ॥ ३ ॥ नन्वेवम् --" क्रमादमुं नारद इत्यबोधि सः " [शि० व० स० १ ] इत्यादौ पच्यत ओदनः स्वयमेवेत्यादौ च व्यभिचारः । कर्मणः कर्तृत्वविवक्षायां कर्तरि लकारे सति “ कर्मवत्कर्मणा तुल्यक्रियः " [ पा० सू० ३-१-८७ ] इत्यतिदेशेन यगात्म- नेपदचिचिण्वदिटामतिदेशाद्यगादिसत्त्वेऽपि कर्तुरेव बोधाच्यापार एवाऽऽश्रयान्वयाच्च । अबोधीत्यत्रापि बुध्यतेः कर्तरि लुङ्, च्लिः, तस्य “ दीपजन" [ पा० सू० ३-१- ६१ ] इति चिण् । “ चिणो लुक् " [ पा० सू० ६-४-१०४ ] इति तस्य लुगिति साधनादित्याशङ्कायामाह- उत्सर्गोऽयं कर्मकर्तृविषयादौ विपर्ययात् ॥ तस्माद्यथोचितं ज्ञेयं द्योतकत्वं यथागमम् ॥ ४ ॥ कर्मकर्तृविषयादौ पच्यत ओदनः स्वयमेवेत्यादौ । अत्र ह्येकौदनाभिन्नाश्रयकः पाकानुकूलो व्यापार इति बोधः । क्रमादित्यादिपदग्राह्यम् । अत्र सामान्यविशेषज्ञान- पूर्वक एकनारदविषयकज्ञानानुकूलः कृष्णाभिन्नाश्रयकोऽतीतो व्यापार इति बोधः । * एतद्रूप एव व्यापारः। + व्यापार आत्ममनःसंयोगरूपः । १.घ, ङ, च, लाथ।
tor * कौण्डभट्टविरचितवैयाकरणभूषणसाराख्यव्याख्यासमेताः- ( धात्वाख्यातसामान्यार्थनिर्णयः) यथोचितमिति । सकर्मकधातुसमभिव्याढतभावसाधारणविधिविधेयचिण्यगादिकर्मद्यो- तकमिति भावः ॥ ४ ॥ एवं सूचीकटाहन्यायेन सोपपत्तिकं वाक्यार्थं निरूप्य फलव्यापारयोरिति 'प्रतिज्ञातं धातोर्व्यापारवाचित्वं लडायन्ते भावनाया अवाच्यत्वं वदतः प्राभाकरादी- न्प्रति व्यवस्थापयति-- व्यापारो भावना सैवोत्पादना सैव च क्रिया ॥ कृषोऽकर्मकतापत्तेन हि यत्नोऽर्थ इष्यते ॥५॥ पचति पाकमुत्पादयति पाकानुकूला भावना तादृश्युत्पादनेति विवरणाद्वित्रियमाण- स्यापि तद्वाचकतेति भावः । व्यापारपदं फूत्कारादीनामयत्नानामपि फूल्कारत्वादि- रूपेण वाच्यतां ध्वनयितुमुक्तम् । अत एव पचतीत्यत्राधःसंतापनत्वफूत्कारत्वचुल्यु. परिधारणत्वयत्नत्वादिभिर्बोधः सर्वसिद्धः । न चैवमेषां शक्यतावच्छेदकत्वे -गौरवा- पत्त्या कृतित्वमेव +तदवच्छेदकं वाच्यम् । रथो गच्छति जानातीत्यादौ च व्यापार- त्वादिप्रकारकबोधो लक्षणयेति नैयायिकरीतिः साध्वी । शक्यतावच्छेदकत्वस्यापि लक्ष्यतावच्छेदकत्ववद्गुरुणि संभवात् । तयोर्वैषम्ये बीजाभावात् । न च पचति पार्क करोतीति प्रयत्नार्थकरोतिना विवरणाद्यत्न एवाऽऽख्यातार्थ इति वाच्यम् । रथो गमनं करोति बीजादिनाऽङ्कुरः कृत इति दर्शनात्कृमो यत्नार्थकताया असिद्धेरिति । किं च भावनाया +अवाच्यत्वे घटं भावयतीत्यत्रेव घटो भवतीत्यत्रापि द्वितीयाँ * स्यात् । न चात्र घटस्य - कर्तृत्वेन तत्संज्ञया कर्मसंज्ञाया बाधान्न द्वितीयेति वाच्यम् । अनुगतकर्तृत्वस्य त्वन्मते दुर्वचत्वेन घटस्याकर्तृत्वात् । कृत्याश्रयत्वस्य कारकचक्रप्रयोक्तृत्वस्य घटादावभावात् । धात्वर्थानुकूल- • व्यापाराश्रयत्वस्य च कारकमात्रातिव्यापकत्वात् । अपि च भावनाया अवा- च्यत्वे धातूनां सकर्मकत्वाकर्मकत्वैविभाग उच्छिन्नः स्यात् । स्वार्थफलव्यधिकरण- व्यापारवाचित्वं स्वार्थव्यापारव्यधिकरणफलवाचकत्वं वा सकर्मकत्वं वाच्यत्वमन्तरेणासंभवि । अन्यतमत्वं तत्त्वमिति चेन्न । एकस्यैवार्थभेदेनाकर्मकत्व- सकर्मकत्वदर्शनात् । तदेतदभिसंधायाऽऽह-कब इति । अयं भावः--व्यापारा- वाच्यत्वपक्षे फलमात्रमर्थ इति फलितम् । तथा च करोतीत्यादौ यत्नप्रतीतेस्तन्मात्रं वा भावनाया * भावपदसमभिव्याहृतकर्मपदघटित इत्यर्थः । = धातुवाच्यतावच्छेदकत्वेन गौरवात् । + धात्वर्थतावच्छेदकं लाघवादिति भावः । एवं विवरणेन कृतित्वं तदवच्छेदकमस्त्विति भावः । x पूर्वविवरणस्य भावनायामेव तात्पर्यम् । + उत्पत्त्यादिरूपफलस्य वाच्यत्व इति शेषः । * उत्प-. त्तिरूपफलाश्रयस्य सत्त्वात् । .. अचेतने कृतिराहित्येन गौणेनेत्यर्थः । १च. यापत्तिः । न । २ च. व्यवहार उ।
भट्टोजिदीक्षितविरचितवैयाकरणसिद्धान्तकारिकाः। (धात्वर्थाख्यातसामान्यार्थनिर्णयः ) वाच्यमभ्युपेयं, तथा च "यती प्रयत्ने” इतिवत्फलस्थानीययत्नवाचकत्वाविशेषाद- कर्मकतापत्तिरुक्तरीत्या दुर्वारेति । तथा च न हि यत्न इत्यत्र फलस्थानीयत्वेनेति शेषः । कृत्र इति धातुमात्रोपलक्षणं, सर्वेषामप्यकर्मकता सकर्मकता वा स्यादिति भावः । अथ वा व्यापारो भावनेत्यर्धेन व्यापारस्य वाच्यत्वं प्रसाध्य फलांशस्यापि तत्साधयन्नैयायिकाभ्युपगतं जानातिकृनादेः केवलज्ञानयत्नादिक्रियामात्रवाचित्वं दूषयति-कृत्र इति । अयं भावः-~-फलांशस्यावाच्यत्वे व्यापार एव धात्वर्थः स्यात् , तथा च स्वार्थफलव्यधिकरणव्यापारवाचित्वादिरूपसकर्मकत्वोच्छेदापत्तिः। न च कृजादौ सकर्मकत्वव्यवहारो भाक्त इति नैयायिकोक्तं युक्तम् । व्यवहारस्य भाक्त. त्वेऽपि कर्मणि लकारासंभवात् । न हि तीरे गङ्गापदस्य माक्तत्वेऽपि तेन स्नानादि कार्य शक्यं कर्तुम् । एवं च न हि यत्न इत्यत्र यत्नमात्रमित्यर्थः ॥ ५ ॥ •अत एवाऽऽह- किं तूत्पादनमेवातः कर्मवत्स्याद्यगाद्यपि । कर्मकर्तर्यन्यथा तु न भवेत्तदृशेरिव ॥ ६ ॥ उत्पादनमुत्पत्तिरूपफलसहितं यत्नादि कृअर्थ इत्यर्थः । फलस्य वाच्यत्वे युक्त्य- न्तरमाह-अत इत्यादि । यतः कृतो यत्नमात्रमर्थो नेष्यतेऽतः कर्मवत्स्यादिति पदेन “ कर्मवत्कर्मणा तुल्यक्रियः" [पा० सू० ३-१-८७ ] इति सूत्र लक्ष्यते । अयमर्थः-यत एतस्योत्पादनार्थकताऽतः पच्यत ओदनः स्वयमेवेतिवत्क्रियते घटः स्वयमेवेति यगादयोऽप्युपपद्यन्ते । अन्यथा यत्नस्य कर्मनिष्ठत्वाभावात्तन्न स्यात् , दृशिवत् । यथा दृश्यते घटः स्वयमेवेति न, दर्शनस्य +घटावृत्तित्वात्तथा यत्नस्या- पीति तथाप्रयोगानापत्तेरिति ॥ ६ ॥ नन्वेवं कृजादेरिव जानात्यादेरपि विषयावच्छिन्नावरणभङ्गादिफलवाचित्वमाव- श्यकम् । अन्यथा सकर्मकतानापत्तेः । तथा च ज्ञायते घटः स्वयमेवेति किं न स्यात् । एवं ग्रामो गम्यते स्वयमेवेत्याद्यपीत्याशङ्कां मनसि कृत्वाऽऽह- निर्वयै च विकार्ये च कर्मवद्भाव इष्यते । न तु प्राप्ये कर्मणीति सिद्धान्तो हि व्यवस्थितः ॥ ७॥ ईप्सितं कर्म त्रिविधम् --निवर्त्य विकार्य प्राप्यं च । तत्राऽऽद्ययोः कर्मवद्भावो नान्त्ये । प्राप्यत्वं च क्रियाकृतविशेषानुपलभ्यमानत्वमिति सुबर्थनिर्णये वक्ष्यते । न ह्ययं घटः केनचिदृष्टो ग्रामोऽयं केनचिद्गत इति शक्यं कर्मदर्शनेनावगन्तुम् । घटं करोतीति निर्वत्र्ये सोमं सुनोतीति विकार्ये च तज्ज्ञातुं शक्यमिति न तत्प्राप्यम् । तथा च घटादेश्यादौ प्राप्यकर्मत्वानोक्तातिप्रसङ्ग इति भावः । धातूनां फलावाच- * सकर्मकभिन्नमकर्मकत्वम् । + घटमात्रवृत्तित्वाभावात्कर्मस्थक्रियत्वाभावात् । .
- कौण्डभट्टविरचितवैयाकरणभूषणसाराख्यव्याख्यासमेताः- (धात्वर्थाख्यातसामान्यार्थनिर्णयः) कत्वे त्यजिगम्योः पर्यायतापत्तिः, *क्रियावाचकत्वाविशेषात् । फलस्योपलक्षणत्वेऽ- प्येकक्रियाया एव पूर्वदेशविभागोत्तरदेशसंयोगजनकत्वादुक्तदोषतादवस्थ्यमित्यपि वदन्ति । तस्मादावश्यकं सकर्मकाणां फलवाचकत्वम् । अकर्मणां तु *तन्निर्विवादमेव । "भू सत्तायाम् " [भ्वा० ग०] इत्यनुशासनाच्च । अत एव +अर्थः पचिरिति भाष्य- प्रयोगः संगच्छत इति दिक् ॥ ७ ॥ एवं सिध्यतु फलव्यापारयोर्वाच्यत्वम् । किं त्वाख्यातवाच्यैव सा भावना । न धातोः प्राधान्येन प्रतीयमानव्यापारस्य धात्वर्थतायाः "प्रकृतिप्रत्यययोः प्रत्ययार्थः प्रधानम्" इति न्यायविरुद्धत्वात्। तदागमे हि दृश्यत इति न्यायविरुद्धत्वाच्च । एवं च स्वयुक्ताख्यातार्थव्यापारव्यधिकरणफलवाचकत्वं सकर्मकत्वमाख्यातार्थव्यापाराश्रयत्वं च कर्तृत्वं वाच्यमित्यादि वदन्तं मीमांसकंमन्यं प्रत्याह--- तस्मात्करोतिर्धातोः स्याब्याख्यानं न त्वसौ तिडाम् । पकवान्कृतवान्पाकं किं कृतं पकमित्यपि ॥ ८॥ तस्मादभिप्रायस्थहेतोः । स चेत्थं फलमात्रस्य धात्वर्थत्वे ग्रामो गमनवानिति प्रती. त्यापत्तिः । संयोगाश्रयत्वात् । फलानुत्पाददशायां व्यापारसत्त्वे पाको भैवतीत्यनापत्तिः। व्यापारविगमे फलसत्त्वे पाको विद्यत इत्यापत्तिश्च । यत्तु भावप्रत्ययस्य घनादेरनुकूल- व्यापारवाचकत्वान्नानुपपत्तिरिति, तन्न काख्यातवत् ( " कर्तरि कृत् " [पा. सू० ३-४-६७ ] इत्यत एव =तद्विधानलाभे भावे विधायकानुशासनवैयर्थ्यांपत्तेस्त- द्विरोधापत्तेश्च । अथ व्यापारोऽपि धात्वर्थ इत्यभ्युपेयमिति चेत्तहि धातुत एव सकल- व्यापारलामसंभवेनाऽऽख्यातस्य पृथक्शक्तिकल्पने गौरवमिति । पचतीत्यस्य पाक करोतीति विवरणात्मा करोतिर्धातोरेव व्याख्यानं विवरणम् । अतस्तदपि नाऽऽख्या- तार्थत्वे साधकमिति भावः । मीमांसकोक्तं बाधकमुद्धरंस्तन्मतं दूषयति-न वित्या- दिना । नासौ ति व्याख्यानं पकवानित्यादावनन्वयापत्तरित्यर्थः । अयं भावः-- "प्रकृतिप्रत्ययौ सहार्थं ब्रूतस्तयोः प्रत्ययार्थप्राधान्यम् ” इत्यस्य हि विशेष्यतया प्रकृत्यर्थप्रकारकबोधं प्रति तदुत्तरप्रत्ययजन्योपस्थितिहेतुरिति कार्यकारणभावः फलि. तस्तथा च पकवानित्यत्र पाकः कर्मकारकं क्तवतुप्रत्ययार्थः कर्तृकारकम् । तयोश्चारुणा- * एकव्यापार एव न विभागसंयोगौ फलम् । X अशक्यत्वे सति शक्यव्यावर्तकमुपलक्षणम् । * स्वार्थसमानाधिकरणफलवाचकत्वात् । + फलद्वयार्थक इत्यर्थः। भावनायास्तिङर्थत्वे ।। फलस्य तत्र सत्त्वात् । सिद्धान्ते व्यापारस्यापि वाचकत्वेनैवं प्रयोगो न जायते । * इदमिष्ट न स्यादिति भावः। ( अत्र यथा व्यापारार्थत्वं तथा घनः कर्तरि विधानेन भावः सिद्धः । तदीयसि- द्धान्ते । १ क. ङ, ज. 'यार्थस्य प्राधान्यम् । % 3D प्रधानप्र. भहोजिदीक्षितविरचितवैयाकरणसिद्धान्तकारिकाः। (घात्वर्थाख्यातसामान्यार्थनिर्णयः ) धिकरणरीत्या वक्ष्यमाणास्म*द्रीत्या चान्वयासंभव इति प्रकृतिप्रत्ययार्थयोरन्वयनि- यमस्यैवाभावे व प्राधान्यबोधक उक्त कार्यकारणभावः । न च- संबन्धमात्रमुक्तं च श्रुत्या धात्वर्थभावयोः । तदेकांशनिवेशे तु व्यापारोऽस्या न विद्यते " ॥ इति भट्टपादोक्तरीत्या संबन्धसामान्येन कारकाणामन्वयः शङ्कयः, योग्यताविरहात् । अन्वयप्रयोजकरूपवत्त्वस्य तत्त्वात् । क्रियात्वमेव हि कारकान्वयितावच्छेदकमिति वक्ष्यते, तदेतदाविष्कर्तुं विवरणेन धात्वर्थक्तवत्वर्थयोः कर्मत्वकर्तृत्वे दर्शयति-कृत- वान्पाकमिति । वस्तुतः “प्रत्ययार्थः प्रधानम्" इत्यस्य यः प्रधानं स प्रत्ययार्थ एवेति वा, यः प्रत्ययार्थः स प्रधानमेवेति वा नार्थः । अजाऽश्वा छागीत्यादौ स्त्रीप्रत्ययार्थस्त्री- त्वस्यैव प्राधान्यापत्ते छाग्यादेरनापत्तेश्च+ । किं तूत्सर्गोऽयम् । विशेष्यत्वादिना बोधस्तु तभाव्युत्पत्त्यनुरोधात् । अत एव= नैयायिकानां प्रथमान्तविशेष्यक एव बोधः । लक्ष- णायामालंकारिकाणां शक्यतावच्छेदकप्रकारक एव बोधो न नैयायिकादीनाम् । घटः कर्मत्वमानयनं कृतिरित्यादौ विपर्ययेणापि व्युत्पन्नानां नैयायिकनव्यादीनां बोधो न तद्व्युत्पत्तिविरहितानामन्येषां तन्निराकाङ्क्षमेवेति संगच्छते । अत एव त्ययार्थवचनमर्थस्यान्यप्रमाणत्वात् " [ पा० सू० १-२-५६ ] इत्याह भगवान्पा- णिनिः । प्रधान प्रत्ययार्थ इति वचनं न कार्यमर्थस्य तथाबोधस्यान्यप्रमाणत्वाव्यु. त्पत्त्यनुसारित्वादिति हि तदर्थः । एवं सत्याप नियामकापेक्षणे च भावप्रधानमाख्या- तम्" इति वचनमेव गृह्यतामिति सुधीभिरूह्यम् । “तदागमे हि" इति न्यायो विव- रणं चातिव्याप्तमित्याह-किं कृतं पक्कमिति । कृना विवरणं प्रतीतिश्च पक्वमित्य- त्रापीति तत्रापि भावना वाच्या स्यादिति भावः । नन्वस्तु तिङ इव कृतामापि भावना वाच्येत्यत आह-अपीति । तथा चोभयताधारण्येन तत्प्रतीतेरुभयसाधारणो ( धातु. रेव वाचक इति भावः । भवद्रीत्या प्रत्ययार्थत्वात्प्राधान्यापत्तिश्चेतिद्रष्टव्यम् ॥ ८ ॥ (व्यापारस्य धात्वर्थत्वे ) साधकान्तरमाह- किं कार्य पचनीयं चेत्यादि दृष्टं हि कृत्स्वपि । किं च क्रियावाचकां विना धातुत्वमेव न ॥ ९ ॥ कार्यमित्यत्र " ऋहलोर्ण्यत् " [ पा० सू० ३-१-१२ ४ ] इति कर्मणि ण्यत् । पचनीयमित्यादौ चानीयर् । आदिना ज्योतिष्टोमयाजीत्यादौ णिनिः करण उपपदे * सुबर्थनिर्णय इत्यादिः । + तस्याः प्राधान्यस्यानुभूयमानस्यानुपपत्तेः । + न्यायः । -तथा- व्युत्पत्त्यनुरोधादेव । ( तथा च धातुत्वमेवैकं शक्ततावच्छेदकामात लाघवम् । कृत्स्वस्मन्मतेनेति भावः । ४ धनुश्चिह्नान्तर्गतं छ. पुस्तक एव । छ. °नं नेत्यनुवर्त्य न। - १० कौण्डभट्टविरचितवैयाकरणभूषणसारख्यव्याख्यासमेता:- (धात्वर्थाख्यातसामान्यार्थनिर्णयः ) कतरि। एते च क्रियायोगमन्तरेणासन्तस्तद्वाच्यतां बोधयन्ति । विना क्रियां कारकत्वा- संभवेन तद्वाचकप्रत्ययस्याप्यसंभवात् । न च गम्यमानक्रियामादाय कारकयोग इति भाट्टरीतियुक्ता । आख्यातेऽपि तथात्वापत्तौ तत्रापि भावनाया वाच्यत्वासिध्यापत्तेः । अथ लिङ्गसंख्यान्वयानुरोधात्कर्तुर्वाच्यत्वमावश्यकमिति तेनाऽऽक्षेपाद्भावनाप्रत्ययोऽपि स्यादिति मतं तर्हि संख्यान्वयोपपत्तेराख्यातेऽपि कर्ता वाच्यः स्यात् । पक्ववानित्या- दिकालकारकान्वयानुरोधाद्भावनाया अपि वाच्यत्वस्याऽऽवश्यकत्वाच्चेति भावः । आप- ना हेत्वन्तरसमुच्चयः । तथाहि-नखैभिन्नो नखभिन्नः, हरिणा त्रातो हरित्रात इत्यादौ कर्तृकरणे कृता बहुलम् ” [ पा० सू० २-१-३२ ] इति समासो न स्यात् । पुरुषो राज्ञो भार्या देवदत्तस्येत्यादिवदसामर्थ्यात् । न चाध्याहृतक्रियाद्वारा सामर्थ्य वाच्यम् , दध्योदनो गुडधाना इत्यादिवत् । अन्यथाऽत्रापि “अन्नेन व्यञ्जनम्” [पा. सू० २-१.३४ ] “ भक्ष्येण मिश्रीकरणम्" [ पासू० २-१-३५ ] इति समासो न स्यादिति वाच्यम् । तत्र विध्यानर्थक्यादगत्या तथास्वीकारेऽपि हरिकृतमित्यादौ साक्षाद्धात्वर्थान्वयेनोपपद्यमानस्य कर्तृकरणे इत्यस्याऽऽक्षेपेण परम्परासंबन्धे प्रवृत्त्ययो. गात् । न चैकस्यां क्रियायामन्वयित्वमेव सामर्थ्यमिति शङ्कयम् । असूर्यपश्या इत्या- देरसमर्थसमासत्वानापत्तेः । इष्टापत्तौ कृतः सर्वो मृत्तिकयेत्यत्र कृतसर्वमृत्तिक इत्या- पत्तेः :। न चात्र समासविधायकाभावः । “सह सुपा" [पा०सू ० २-१-४] इत्यारम्भात् । अन्यथाऽसमर्थसमासोऽपि विधायकाभावान्न स्यादिति । किं च भावनायास्तिर्थत्वे भावयति घटमितिवद्भवति घटमित्यपि स्यात् । धात्वर्थफलाश्रयत्वरूपकर्मत्वसत्त्वात् । न चाऽऽख्यातार्थव्यापाराश्रयत्वेन कर्तृत्वात्तत्संज्ञया कर्मसंज्ञाया बाधान्न द्वितीयेति वाच्यम् । आरव्यातार्थव्यापाराश्रयत्वस्य कर्तृत्वे पाचयति देवदत्तो विष्णुमित्रेणेत्यत्र विष्णुमित्रस्याकर्तृतापत्तौ तृतीयानापत्तेः । ग्रामं गमयति देवदत्तो विष्णुमित्रमित्यत्र विष्णुमित्रस्याकर्तृतापत्तौ ग्रामस्य गमिकर्मतानापत्तेश्च । तथा च ग्रामाय गमयति देवदत्तो विष्णुमित्रमित्यपि न स्यात् । गत्यर्थकर्मणि द्वितीयाचतुझे चेष्टायामन- ध्वनि ” [पा० सू० २.३-१२ ] इति गत्यर्थकर्मण्येव चतुर्थीविधानात् । एतेन णिजन्त आख्यातार्थ उभयं तदाश्रयत्वादेवदत्तयज्ञदत्तयोः कर्तृतेत्यपास्तम् । किं च तस्मिन्प्रयोगे य आख्यातार्थ इत्यस्याऽऽवश्यकत्वेनाऽऽख्यातशून्ये देवदत्तः पक्ते- त्यादौ देवदत्तस्याकर्तृतापत्तेरिति दिक् । सूत्रानुपपत्तिमपि मानत्वेन प्रदर्शयनुक्ता- र्थस्य स्वोत्प्रेक्षितत्वं निरस्यति--किं चेति । धातुसंज्ञाविधायकं “भूवादयो धातवः" [पा० सू० १-३-१ ] इति सूत्रं, तत्र भूश्च वाश्चेति द्वंद्वः । आदिशब्दयोर्व्यवस्था- प्रकारवाचिनोरेकशेषः । ततो भूवावादी येषामिति बहुव्रीहिः । तथा च भूप्रभृतयो १ च. कर्तृवाच्यता स्या" । २ क. ख. °पि तस्याऽऽ ।
भट्टोजिदीक्षितविरचितवैयाकरणसिद्धान्तकारिकाः। ११ ( धात्वर्थाख्यातसामान्यार्थनिर्णयः ) वासदृशा धातव इत्यर्थः । तच्च क्रियावाचकत्वेन । तथा च क्रियावाचकत्वे सति गण- पठितत्वं धातुत्वं पर्यवसन्नम् । अत्र हि क्रियावाचित्वमात्रोक्तौ वर्जनादिरूपक्रिया- वाचके हिरुङ्नानेत्यादावतिव्याप्तिरिति भ्वादिगणपठितत्वमुक्तम् ॥ ९ ॥ तावन्मात्रोक्तौ चाऽऽह- सर्वनामाव्ययादीनां यावादीनां प्रसङ्गतः। न हि तत्पाठमात्रेण युक्तमित्याकरे स्फुटम् ।। १० ॥ गणपठितत्वमात्रोक्तौ सर्वनामा यो वा तस्यापि धातुत्वं स्यात् । तथा च याः पश्यसीत्यादौ " आतो धातोः" [पा० सू० ६.४.१४० ] इत्यालोपापत्तिः । ननु लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणान्न सर्वनाम्नो ग्रहणं तस्य लाक्षणिकत्वात् , इत्यत आह-वेत्यादि । अव्यये वेत्यादावतिप्रसङ्गस्तादृशस्यैव गणेऽपि पाठेन निर्णयासंभवात् । तथा च विकल्पार्थको वातीति प्रयोगः स्यादिति भावः । न च गतिगन्धनाद्यर्थनिर्देशो नियामकः । तस्यार्थानादेशनादितिभाष्यपर्यालोचनयाऽऽधु- निकत्वलाभात् ॥ १० ॥ नन्वस्तु क्रियावाचकत्वे सति गणपठितत्वं धातुत्वं क्रिया च धात्वर्थ एव न व्यापार इति शङ्कां समाधत्ते- धात्वर्थत्वं क्रियात्वं चेद्धातुत्वं च क्रियार्थता । अन्योन्यसंश्रयः स्पष्टस्तस्मादस्तु यथाकरम् ॥ ११ ॥ यदि क्रियात्वं धात्वर्थत्वमेव तर्हि धातुत्वग्रहे तदर्थत्वरूपक्रियात्वग्रहः, क्रिया- त्वग्रहे तदवच्छिन्नवाचकत्वघटितधातुत्वग्रह इत्यन्योन्याश्रय इति ग्रहपदं पूरयित्वा व्याख्येयम् । यथाश्रुते चान्योन्याश्रयस्योत्पत्तौ ग्रहे वाऽप्रतिबन्धकत्वाभ्युपगमेना- संगत्यापत्तेः । न चान्यतमत्वं धातुत्वम् । “भूवादयः" इत्यस्य वैयर्थ्यापत्तरित्यभिप्रे. त्याऽऽह-अस्त्विति । व्यापारसंतानः क्रिया, तद्वाचकत्वे सति गणपठितत्वमित्यर्थः । ननु सत्तादीन्फलांशानन्यतमत्वेनाऽऽदाय तद्वाचकत्वे सति गणपठितत्वं लक्षणमुच्य- ताम् । धात्वर्थत्वात्तेषां क्रियाशब्देन व्यवहारो भाष्यादौ कृतोऽप्युपपत्स्यत इति चेन्न । अन्यतममध्ये विकल्पस्यापि विकल्पयतीतिप्रयोगानुसारात्प्रवेशावश्यकत्वेन तदर्थके वेत्यव्यय उक्तरीत्या गणपठितत्वसत्त्वेनातिव्याप्तरिति ॥ ११ ॥ नन्वस्यैव धातुत्वेऽस्तीत्यादौ क्रियाप्रतीत्यभावादस्त्यादीनां तदवाचकानामधातुत्व- प्रसङ्ग इत्यत आह- अस्त्यादावपि धयंशे भाव्येऽस्त्येव हि भावना । अन्यत्राशेषभावात्तु सा तथा न प्रकाशते ॥ १२ ॥ Home " क्रियामे- १२ कौण्डभट्टविरचितवैयाकरणभूषणसाराख्यव्याख्यासमेताः- (धात्वर्थाख्यातसामान्यार्थनिर्णयः) अस्त्यादौ "अस् भुवि" इत्यादौ धयंशे +धर्मिभागे भाव्ये भाव्यत्वेन विवक्षितेऽ. स्त्येव प्रतीयत एवायमर्थः । स ततो गतो न वेति प्रश्ने महता यत्नेन तिष्ठतीति प्रयोगे सत्तारूपफलानुकूला भावना प्रतीयत एव । उत्पत्यादिबोधने तु सुतरां "रोहितो लोहितादासीद्धन्धुस्तस्य सुतोऽभवत् " इत्यादिदर्शनात् । किं चात्र भावनाविरहे लडा- दिव्यवस्था न स्यात् । तस्या एव वर्तमानत्वादिविवक्षायां तद्विधानात् । दाय कालस्तु संख्या सर्वस्य भेदिका " इति वाक्यपदीयादिति । नन्वेवमस्तीत्यत्र स्पष्टं कुतो न बुध्यत इत्याह-अन्यत्रेति । अशेषभावात् , भावनायाः फलसमाना- धिकरणत्वात् । तथा च भावनायाः फलसामानाधिकरण्यं तत्स्पष्टत्वे दोष इति भावः । नन्वेवं किं करोतीति प्रश्ने पचतीत्युत्तरस्येवास्तीत्युत्तरमपि स्यादिति चेदिष्टापत्तिः । आसन्नविनाशं कंचिदुद्दिश्य किं करोतीति प्रश्नेऽस्तीत्युत्तरस्य सर्वसंमतत्वात् । इतरत्र तु सुस्थतया निश्चिते किं करोतीति प्रश्नः पच्यादिविशेषगोचर एवेत्यवधारणादस्तीति नोत्तरमिति ॥ १२ ॥ ननु भावनायाः फलनियतत्वात्फलाश्रयस्य कर्मत्वात्सर्वेषां क्रियावाचकत्वे सकर्मक- तापत्तिरित्यत आह- फलव्यापारयोरेकनिष्ठतायामकर्मकः । धातुस्तयोधर्मिभेदे सकर्मक उदाहृतः॥ १३ ॥ एकनिष्ठतायामेकमात्रनिष्ठतायां भिन्नाधिकरणावृत्तितायामिति यावत् । तेन गम्यादौ फलस्य कर्तृनिष्ठत्वेऽपि नातिव्याप्तिः । अकर्मको यथा भ्वादिः । तयोः फलव्यापारयोराश्रयभेदे सकर्मक इत्यर्थः । उक्तं च वाक्यपदीये- " आत्मानमात्मना बिभ्रदस्तीति व्यपदिश्यते । अन्तर्भावाच तेनासौ कर्मणा न सकर्मकः" इति ॥ बिभ्रदिति । स्वधारणानुकूलो व्यापारोऽत्रापि गम्यत इति भावः । तेन कर्मणा सकर्मकत्वं तु नान्तर्भावात् । फलांशेन सामानाधिकरण्यसत्त्वादित्यर्थः । आत्मानं नातीच्छतीत्यादौ च द्वावात्मानौ शरीरात्माऽन्तरात्मा च । तत्रान्तरात्मा तत्कर्म रोति येन शरीरात्मा सुखदुःखे अनुभवतीति " कर्मवत्कर्मणा" [ पा० सू० ३-१. ७ ] इतिसूत्रीयभाष्योत्तरीत्या भिन्नाधिकरणनिष्ठतामादाय सकर्मकत्वमित्यवधे- यम् ॥ १३ ॥ -- - + कर्तृगते फले। १ ख. छ. ज. "श्नः। पाकादि। २ क. च. "णता'।
भट्टोजिदीक्षितविरचितवैयाकरणसिद्धान्तकारिकाः। (धात्वर्थाख्यातसामान्यार्थनिर्णयः) नन्वसत्त्वभूतक्रियाया धात्वर्थत्वे पाक इत्यत्रापि तत्प्रत्ययापत्तिः । न चेष्टापत्तिः, "कृदभिहितो भावो द्रव्यवत्प्रकाशते" इतिभाष्यविरोधादित्यत आह- आख्यातशब्दे भागाभ्यां साध्यसाधनवतिता। प्रकल्पिता यथा शास्त्रे स घबादिष्वपि क्रमः ॥ १४ ॥ आख्यातशब्दे । पश्य मृगो धावतीत्यादौ । भागाभ्यां तिङन्ताभ्याम् । प्रकृति- प्रत्ययभागाभ्यामिति विवरणकारोक्तमपव्याख्यानं पचतीत्यत्रापि भागद्वयसत्त्वात् । साध्यसाधनरूपता । यथाक्रमं ग्राह्या । साध्यत्वं क्रियान्तराकाङ्क्षानुत्थापकैतावच्छे. दकरूपवत्त्वम् । साधनत्वं कारकत्वेनान्वयित्वम् । स घनादिष्वपीति । प्रकृत्या साध्यावस्था प्रत्ययेन साधनावस्था । इयान्विशेषः । घनाद्युपस्थाप्या लिङ्गसं- ख्यान्वयिनी कारकान्वयिनी च । आख्यातान्तोपात्ता तु नैवम् । तथाऽपि कारकत्वे. नान्वयित्वमात्रेण दृष्टान्तदान्तिकतेत्यवधेयम् । न च घन्ते धातुना *तथाभि- धाने मानाभावः । भोदनस्य पाक इति कर्मणि षष्ठ्या मानत्वात् । न च भवती+त्य- ध्याहृतक्रियान्वयात्षष्ठी ६ कर्तृकर्मणोः कृति " [ पा० सू० २-३-६५ ] इति कृदन्तेन योग एव तद्विधानात् । न लोकाव्ययनिष्ठाखलर्थतनाम् " [ पा० सू० २-३.६९ ] इति लादेशयोगे षष्ठया निषेधाच्च । एवं रीत्या काठैः0 पाक इत्याद्य- पीष्टमेव । एवं फलांशोऽपि धातुनाऽसत्त्वावस्थापन्न एवोच्यते । अत एव स्तोकं पच- तीतिवत्स्तोकं पाक इत्युपपद्यत इति ॥ १४ ॥ एतदेव स्पष्टयति- साध्यत्वेन क्रिया तत्र धातुरूपनिबन्धना। सिद्धभावस्तु यस्तस्याः स घनादिनिवन्धनः ॥ १५ ॥ न च घनादिभिः सिद्धत्वेनाभिधाने मानामावः । पाक इत्युक्ते भवति जायते नष्ट इत्याकाङ्क्षोत्थानस्यैव मानत्वात् । धातूपस्थाप्यायां तदसंभवस्योक्तत्वात् । स्तोकः पाक इत्यनापत्तेश्च । तस्माद्धात्वर्थान्वये स्तोकादिशब्दभ्यो द्वितीया । घअर्थान्वये प्रथमा पुंलिङ्गता चेति $तत्सिद्धये घनादेः शक्तिरुपेया। एतेन घञादीनां प्रयोगसा- धुतामात्रमिति नैयायिकनव्योक्तमपास्तम् । न च घजन्तशक्त्योपस्थाप्यान्वये स्तोकः पाक इति भवतीति वाच्यम् । घिअन्तानुपूर्व्याः शक्ततावच्छेदकत्वे गौरवादनुशास- * उक्तसाध्यत्वेन रूपेण क्रियाया वाच्यत्व इत्यर्थः । पासाध्यस्वभावाध्याहृतभवत्यर्थस्य परम्परान्वयादित्यर्थः । + तण्डुलस्येत्यर्थः । 0 तन्निरूपितकरणत्वात् । नपुंसकत्वाद्युपपत्तये । सार्थकत्वप्रतिपादनेन । । पचादिधातूत्तरघञ्त्वरूपायाः । - •१ छ. 'नरूपता। २ ख. ङ. च. छ. ज. करू । ३ क. च. अन्तधा ।
- T कौण्डमविरचितवैयाकरणभूषणसाराख्यव्याख्यासमेताः- ( धात्वर्थाख्यातसामान्यार्थनिर्णयः) नाच्च *घनादेरेव तथाशक्तिकल्पनादिति दिक् । एवं च घशक्त्यभिप्रायेण कृद- भिहित इति भाष्यमतो न तद्विरोध इति भावः ।। १५ ।। ननु कारकाणां भावनान्वयनियम एव पाक इत्यत्रापि कर्मषष्ठयनुसारेण भावनाया वाच्यत्वं सिध्येत्तदेव कुत इत्याशङ्कां समाधत्ते- संबोधनान्तं कृत्वोर्थाः कारकं प्रथमो बतिः। धातुसंबन्धाधिकारनिष्पन्नमसमस्तनञ् ॥ १६ ॥ संबोधनान्तस्य क्रियायामन्वयः । त्वं ब्रूहि देवदत्तेत्यादौ निघातानुरोधात् । " समानवाक्ये निघातयुष्मदस्मदादेशाः" इत्यनेन समानवाक्य एव तन्नियमात् । उक्तं हि वाक्यपदीये- " संबोधनपदं यच्च तक्रियाया विशेषणम् । वजानि देवदत्तेति निघातोऽत्र तथा सति" इति ।। पचति भवंति देवदत्तेत्यादौ तु सूत्रभाष्यादिरीत्यैकवाक्यतासत्त्वात्स्यादेव निघातः । तिङतिङः ” [ पा० सू० ८-१-२८ ] इति सूत्रयता तिङन्तानामप्येकवाक्यता- स्वीकारात् । एकतिवाक्यमिति वदतां वार्तिककाराणां मते परं न । वस्तुत एकति- विशेष्यकं वाक्यमिति तदभिप्रायस्य हेलाराजीयादौ वैयाकरणभूषणेऽस्माभिश्च प्रति- पादितत्वात्तन्मतेऽपि भवत्येवेत्यवधेयम् । कृत्वोर्थाः, " क्रियाभ्यावृत्तिगणने कृत्व- सुच् ” [ पा० सू० ६-४-१७ ] इति क्रियायोगे तत्साधुत्वोक्तेः । क्रियाया अभ्या- वृत्तिः पुनः पुनर्जन्म, +तस्मिन्द्योत्य इति तदर्थात् । कारकम् । कारक इत्यधिकृत्य तेषां व्युत्पादनात् । कारकशब्दो हि क्रियापरः करोति कर्तृकर्मादि व्यपदेशानिति . व्युत्पत्तेः । तथा चाग्रिमेष्वपादानादिसंज्ञाविधिषु क्रियार्थककारकशब्दानुवृत्त्या क्रिया- न्वयिनामेव संज्ञेति भाष्ये स्पष्टम् । प्रथमो वतिः। " तेन तुल्यं क्रिया चेद्वतिः " [ पा० सू० ६-१-११५ ] इति विहितः । तत्र यत्तुल्यं सा क्रिया चेदित्युक्तत्वात् । धातुसंबन्धाधिकारे । “धातुसंबन्धे प्रत्ययाः" [पा० सू० ३-४-१] इत्यधिकृत्य तेषां विधानात् । असमस्तनञ् । समासायोग्यः प्रसज्यप्रतिषेधीयो नजित्यर्थः । उत्तरपदा- र्थान्वयेऽपि समासविकल्पेन पक्षेऽसमस्तत्वात् । यथाश्रुतग्रहणायोगात् । न चासमस्त- ननः क्रियान्वये मानाभावः । न त्वं पचसि न युवां पचथः चैत्रो न पचति घटो न जायत इत्यादौ क्रियाया एव निषेधप्रतीतेः । =अत एव विद्यमानेऽपि घटे तथाप्रयोग- * तदपेक्षया घऋत्वस्य शक्ततावच्छेदकत्वे लाघवम् । । सिद्धभावे शक्तिसिद्धौ । + पश्चकृत्वो भुत इत्यत्र भोजनस्य पञ्चवारं प्रतीतेः । = घटस्यानिषेधादेव । १ छ. सूत्रेऽपि ति ।
" भट्टोजिदीक्षितविरचितवैयाकरणसिद्धान्तकारिकाः। १५ (धात्वर्थाख्यातसामान्यार्थनिर्णयः ) स्तथा च घटो नास्तीत्यत्राप्यस्तित्वाभाव एव बोध्यते । न हि घटो न जायते नास्तीत्य- नयोर्धात्वर्थभेदमन्तरेणास्ति विशेषः । तथा च भूतले न घट इत्यत्राप्यस्तीत्यध्या- हार्यम् । प्रकारतासंबन्धेन नअर्थविशेष्यकबोधे धातुजन्यभावनोपस्थितेर्हेतुत्वस्य क्लप्त- त्वात् । शेषं नअर्थनिर्णये वक्ष्यते ॥ १६ ॥ तथा यस्य च भावेन षष्ठी चेत्युदितं द्वयम् । साधुत्वमष्टकस्यास्य क्रिययैवावधार्यताम् ॥ १७ ॥ यस्य च भावेन भावलक्षणम्" [पा० सू० २-३-३७ ] इत्यत्र भावनार्थक- भावशब्देन तद्योगे साधुत्वाख्यानलाभात् । " *षष्ठी चानादरे" [ पा० सू० २-३. ३८ ] इति तदग्रिमसूत्रेऽपि चकाराद्यस्य च भावेनेत्यायातीत्यर्थः । साधुत्वमिति । तत्स्वरूपं तु वक्ष्यते । क्रिययैवेति । अयं भाव: --भूवादिसूत्रादिषु प्रायः+ क्रियाश- देन भावनाव्यपदेशात्तत्र तस्य सांकेतिकी शक्तिः फलांशे क्वाचित्कः क्रियत इति यौगिकः प्रयोगः । तथा च संज्ञाशब्दस्यानपेक्षप्रवृत्तत्वेन बलवत्त्वाद्भावनान्वय एव साधुता लभ्यते । अत एव संज्ञाशब्दप्राबल्याद्रथंतरमुत्तराग्रन्थपठितऋक्ष्वेव गेयं न तु वेदे तदुत्तरपठ्यमानऋक्ष्विति नवमे निर्णीतम् । किं च फलांशोऽपि भावनायां विशेषणं कारकाण्यपि कचित्तथाभूतानीति “ गुणानां च परार्थत्वादसंबन्धः समत्वा- तस्यात् " इति न्यायेन सर्वे सेवका राजानमिव भावनायामेव परस्परनिरपेक्षाण्यन्वि. यन्ति । न हि भिक्षुको भिक्षुकान्तरं याचितुमर्हति सत्यन्यस्मिन्नभिक्षुक इति न्यायेनापि फलं त्यक्त्वा भावनाया मेवान्वियन्तीति मीमांसका अपि मन्वते, एवं च विशेष्यतया कारकादिप्रकारकबोधं प्रति धातुजन्यभावनोपस्थितिहेतुरिति कार्यकारणभावस्य क्लृप्त- त्वायत्रापि पक्ता पाचक इत्यादौ भावना गुणभूता तत्रापि क्लृप्तकार्यकारणभावानुरो- धात्तस्यामेवान्वय इत्यवसीयत इत्यादि भूषणे प्रपञ्चितम् । केचित्तु भूतले घटो देवदत्तो घटमित्यादावन्वयबोधाकाङ्क्षानिवृत्त्योरदर्शनान्न तद्व्यतिरेकेण साधुत्वलाम इत्याहुः ॥ १७ ॥ स्वयमुपपत्तिमाह-~- यदि पक्षेऽपि वत्यर्थः कारकं च नबादिषु । अन्वेति त्यज्यतां तहि चतुर्थ्याः स्पृहिकल्पना ॥ १८ ॥ पर्वतो वह्निमान्धूमान्महानसवत् । भूतले न घटः । भूतले घट इत्यादिपदात् । एवमा- - * रुदति रुदतो वा प्राव्राजीत् । + क्रियाशब्देन फलस्यापि भाष्ये ग्रहणात् । . १ ख. ग. ङ. च. 'राद्भावें । २ छ. नेत्यप्यन्वेती' । ३ ङ. चतुर्थ्यां।
- १६ कौण्डभट्टविरचितवैयाकरणभूषणसाराख्यव्याख्यासमेता:- ( धात्वर्थाख्यातसामान्यार्थनिर्णयः ) दिष्वनुशासनविरोधेऽपि यदि साधुत्वमन्वयश्चाभ्युपेयते तर्हि चतुर्थ्याः स्पृहिकल्पनाऽपि त्यज्यतामित्यर्थः । अनुशासनानुरोधतौल्येऽर्धजरतीयमयुक्तमिति भावः ॥ १८ ॥ एवं कर्नादौ विहितानामिन्यादीनां क्रिवयैवान्वय इत्याह- अविग्रहा गतादिस्था यथा प्रामादिकर्मभिः । क्रिया संबध्यते तद्वत्कृतपूर्व्यादिषु स्थिता ॥ १९ ॥ न विविच्य ग्रहो ग्रहणं यस्याः साऽविग्रहा गुणीभूतेति यावत् । तथा च ग्राम गत इत्यत्र यथा क्तप्रकृत्यर्था गुणीभूताऽपि क्रिया प्रामादिकर्मभिः संबध्यते तथा कृतपूर्वी कटमित्यत्रापि गुणभूता, इन्यादिभिरित्यर्थः । न च वृत्तिमात्रे समुदायशक्ते- वक्ष्यमाणत्वात्तत्रान्तर्गता भावना पदार्थैकदेश इति कथं तत्रान्वय इति वाच्यम् । नित्यसापेक्षेप्वेकदेशेऽपि देवदत्तस्य गुरुकुल चैत्रस्य नप्त्यादाविवान्वयाभ्युपग- मात् । एवं भोक्तुं पाको भुक्त्वा पाक इत्यत्रापि द्रष्टव्यम् ॥ १९ ॥ अतिप्रसङ्गमाशङ्कय समाधत्ते- कृत्वोर्थाः क्त्वातुमुन्वत्स्युरिति चेत्सन्ति हि कचित् । अतिप्रसङ्गो नोद्भाव्योऽभिधानस्य समाश्रयात् ॥ २० ॥ भोक्तुं पाको भुक्त्वा पाक इत्यादौ " तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् " [पा. सू० ३.३.१० ] " समानकर्तृकयोः पूर्वकाले ” [ पा० सू० ३-४-२१ ] इति क्रियावाचकोपपदे क्रिययोः पूर्वोत्तरकाले विधीयमाना अपि तुमुनादयो गुणभूतां तामादाय यथा जायन्ते तथा कृत्वोर्था अपि स्युरेकः पाक इत्यत्र एकस्य सकृच्च [पा० सू० ५-४-१९ ] द्वौ पाकौ त्रयश्चत्वार इत्यत्र द्वित्रिचतुर्म्यः सुच् [पा० सू० ६.४-१८ ] पश्चेत्यत्र कृत्वसुच् स्यात् । तथा च सकृत्पाकः, द्विस्त्रिश्चतुः पाका इत्याद्यापत्तिरिति चेदिष्टापत्तिः । द्विवचनमित्यादिदर्शनात् । अतिप्रसङ्गस्त्वन- भिधानान्नेत्याह-अतीति । न हि वचिरन्तिपरः प्रयुज्यते " इत्याद्यभियुक्तरीत्या समाधेयमिति भावः । केचित्तु " क्रियाभ्यावृत्तिगणने " इत्यत्र क्रियाग्रहणं व्यर्थ तस्या एवाभ्यावृत्तिसंभवेन सामर्थ्यात्तल्लामात् । तथा च साध्यमात्रस्वभावक्रियालामाय, तदिति वाच्यम् । न च पाक इत्यादौ तादृशीति नातिप्रसङ्गः । द्विवचनमिति च द्विः प्रयोगो द्विवचन मिति व्युत्पत्त्या " द्विवचनेऽचि" [ पा० सू० १-१-५९ ] इति ज्ञापकं वाऽऽश्रित्योपपादनीयमित्याहुः ॥ २० ॥ ननु सिद्धान्ते बोधकतारूपा शक्तिराख्यातशक्तिग्रहवतां बोधादावश्यकीति धातोरेव भावना वाच्या नाऽऽख्यातस्येति कथं निर्णय इत्याशङ्का समाधत्ते- - . - १ क. ख. ग. च. 'प्रत्ययार्थगु । २ च. ता कटादि ।
भट्टोंजिदीक्षितविरचितवैयाकरणसिद्धान्तकारिकाः । ( धात्वर्थाख्यातसामान्यार्थनिर्णयः) भेद्यभेदकसंबन्धोपाधिभेदनिबन्धनम् । साधुत्वं तदभावेऽपि बोधो नेह निवार्यते ॥ २१ ॥ ( इति भटोजिदीक्षितविरचितकारिकासु धात्वर्थाख्यातसामान्यार्थनिर्णयः ।) भेद्यं विशेष्यं भेदकं विशेषणं तयोर्यः संबन्धस्तस्य यो भेदस्तन्निबन्धनं साधुत्वम् । अयमर्थः-व्याकरणस्मृतिः शब्दसाधुत्वपरा, तत्रैवावच्छेदकतया करप्यमानधर्मस्य शक्तित्वं वदतां मीमांसकानां पुनः शक्तत्वं साधुत्वमित्येकमेवेति तद्रीत्या विचारे साधु- त्वनिर्णय एव शक्तिनिर्णय उच्यते । अतिरिक्तशक्तिवादेऽपि * आख्यातानामसाधुता भावनायां स्यादेव । तथा च चतुर्थ्यर्थे तृतीयाप्रयोगवद्धास्वर्थभावनायामाख्यातप्रयोगे याज्ञे कर्मण्यसाधुशब्दप्रयोगात् “ नानृतं वदेत् " इति निषेधोलधनप्रयुक्तं प्राय: श्चित्तं दर्शनान्तरीयव्युत्पत्तिमतां स्यादिति । + ननु स्वन्मते नानृतमिति निषेधः क्रत्वर्थ एव न सिध्येत् । आख्यातेन कर्तुरुक्तत्वाच्छ्रुत्या पुरुषार्थतैव स्यात् । प्रकरणाद्धि क्रत्वर्थता, तच्च श्रुतिविरोधेन बाध्यत इति चेन्न । “तिर्थस्तु विशेषणम्" इत्यनेन परि- हृतत्वात् । न हि गुणभूतः कर्ता निषेधं साङ्गत्वेन ग्रहीतुमलम् । मावना तु प्रधानं तं ग्रहीतुं समर्थेति प्रकरणात्ऋत्वर्थतैव । अस्तु वा क्रतुयुक्तपुरुषधर्मः । अनुष्ठाने विशेषा- " जञ्जभ्यमानोऽनुब्रूयान्मयि दक्षऋतू " इतिवाक्योक्तमन्त्रविविवदित्यादि भूषणे प्रपश्चितम् । नन्वाख्यातस्य भावनायामसाधुत्वे ततस्तद्वोधो न स्यात्साधुत्वज्ञा- नस्य शाब्दबोधहेतुत्वादित्यत आह-बोध इति । असाधुत्वेऽपि साधुत्वभ्रमाद्बोधोऽ- स्तु नाम, अपभ्रंशवत् । असाधुत्वं तु स्यादेवेति भावः । वस्तुतः साधुत्वज्ञानं न हेतु- स्तयतिरेकनिर्णयोऽपि न प्रतिबन्धक इत्य साधुरनुमानेनेत्यत्र वक्ष्यामः ॥ २१ ॥ -रङ्गोनिभट्टपुत्रेण कौण्डभट्टेन निर्मिते । पूर्णो भूषणसारेऽस्मिन्धात्वाख्यातार्थनिर्णयः ॥ १ ॥ भावात् । इति कौण्डभविरचिते वैयाकरणभूषणसारे धात्वर्थाख्यातसामान्या- र्थनिर्णयः समाप्तः ॥ * शास्त्रेण हि यस्मिन्नर्थे यः शब्दः साधुत्वेन बोधितस्तत्रैव तस्य साधुत्वमिति भावः । + मीमांसकशङ्गेयम् । = अयं श्लोको नास्ति ग. च. पुस्तकयोः । •१ ख. ग. घ. च. ल्प्यव' । ३ क. ख. ग. छ. 'धे वा । ३ छ. ‘नो न ब्रू' । .
- कौण्डभट्टविरचितवैयाकरणभूषणसारख्यव्याख्यासमेता:- ( लकारविशेषार्थनिर्णयः) ( अथ लकारविशेषार्थनिरूपणम् ।) प्रत्येकं दशलकाराणामथं निरूपयति- वर्तमाने परोक्षे श्वोभाविन्यर्थे भविष्यति । विध्यादौ प्रार्थनादौ च क्रमाज्ज्ञेया लडादयः॥१॥ (२२) लडादयष्टितः षट् क्रमेणार्थेषु द्रष्टव्याः । तथा हि-वर्तमानेऽर्थे लट् । “ वर्तमाने लट" [ पा० सू० ३-२-१२३ ] इति सूत्रात् । प्रारब्धापरिसमाप्तत्वं भूतभविष्य- द्भिन्नत्वं वा वर्तमानत्वम् । पचतीत्यादावधिश्रयणाद्यधःश्रयणान्ते मध्ये तदस्तीति भवति लट्प्रयोगः । आत्माऽस्ति पर्वताः सन्तीत्यादौ तत्तत्कालिकानां राज्ञां क्रियाया *अनित्यत्वात्तद्विशिष्टस्योत्पत्त्यादिकोदाय वर्तमानत्वमूह्यम् । उक्तं च भाष्ये-- "इह भूतभविष्यद्वर्तमानानां राज्ञां क्रियास्ति=ष्ठतेरधिकरणम् " इति । " परतो मिद्यते सर्वमात्मा तु न विकम्पते । पर्वतादिस्थितिस्तस्मात्पररूपेण भिद्यते ॥" इति वाक्यपदीये च । एवं “तम आसीत् " तुच्छयेनाम्वपिहितं यदासीत् " अह- मेकः प्रथममासं वामि च भविष्यामि च " इत्यादिश्रुतयोऽपि योज्याः । तच्च वर्तमानत्वादि लडादिभि?त्यते । क्रियासामान्यवाचकस्य तद्विशिष्ट लक्षणायां लडादे- स्तात्पर्यग्राहकत्वेनोपयोगात् । अन्वयव्यतिरेकाम्यां तद्रूपं लडादि वाच्यमेव । अन्यथा प्रत्ययानां वाचकत्वविलोपापत्तिरित्यपि पक्षान्तरम् । लिडर्थमाह-परोक्ष इति । “ परोक्षे लिट् " [ पा० सू० ३-२-११५ ] इति सूत्रात् । कालस्तावदद्यतनानद्यतनभेदेन द्विविधः । द्विविधोऽपि भूतभविष्यद्रूपः । तत्रा- नद्यतने भूते परोक्षे लिडित्यर्थः । तेनाद्यतने भूतेऽनद्यतने भविष्यति भूतेऽप्यपरोक्षे च न लिट्प्रयोगः । परोक्षत्वं च साक्षात्करोमीत्येतादृशविषयताशालिज्ञानाविषयत्वम् । " क्रिया नामेयमत्यन्तापरिदृष्टा पूर्वापरीभूतावयवा न शक्या पिण्डीभूता निद- शयितुम् ” इति भाष्यात्तस्या अतीन्द्रियत्वेन परोक्ष इत्यव्यावर्तकमिति शङ्कयम् । पिण्डीभूताया निदर्शयितुमशक्यत्वेऽप्यवयवशः साक्षात्करोमीति प्रतीतिविषयत्वसंम- वात् । अन्यथा पश्य मृगो धावतीत्यत्र तस्या दर्शनकर्मता न स्यादिति प्रतिभाति । व्यापाराविष्टानां क्रियानुकूलसाधनानामेवात्र पारोक्ष्यं विवक्षितमतो नोक्तदोषः । अयं न च * अनित्यत्वविशिष्टस्य । - आरोप्य । = स्थित्यादितड्यापारस्य । + कालिकसंबन्धेनति शेषः ।
" अनद्यतने लुट् . भट्टोजिदीक्षितविरचितवैयाकरणसिद्धान्तकारिकाः। (लकारविशेषार्थनिर्णयः) पपाचेत्याद्यनुरोधा*व्यापाराविष्टानामितीत्यपि वदन्ति । कथं तार्ह "व्यातेने किरणा- वलीमुदयनः " इति, स्वक्रियायाः स्वप्रत्यक्षत्वादिति चेत् । असंगतमेव । व्यासङ्गा- दिना स्वव्यापारस्य परोक्षत्वोपपादनेऽप्यनद्यतनातीतत्वयोरमावेन तदर्थकलिडसंभवात् । लुडर्थमाह-श्वोभाविनीति । अनद्यतने भाविनीत्यर्थः । [पा० सू० ३-३-१५ ] इति सूत्रात् । यथा श्वो भवितेत्यादौ । लूडर्थमाह-भविष्यतीति । भविष्यत्सामान्य इत्यर्थः । शेषे च" [ पा० सू० ३-३-१३ ] इति सूत्रात् । यथा घटो भविष्यतीत्यादौ । तत्त्वं च वर्त- मानप्रागभावप्रतियोगिसमयोत्पत्तिमत्त्वम् । लेटोऽर्थमाह-विध्यादाविति । " लिङर्थे लेट् ” [ पा० सू० ३-४-७ ] इति सूत्रात् । लिङर्थश्च विध्यादिरिति वक्ष्यते । लोडर्थमाह-प्रार्थनादाविति । आदिना विध्याद्याशिषो गृह्यन्ते । आशिषि लिङ्लोटौ.' [ पा० सू० ३-३-१७३ ] "लोट् च" [पा० सू० ३-३-१६२ ] इति सूत्राभ्यां तथावगमात् । यथा भवतु ते शिवप्रसाद इत्यादावेतयोरर्थो लिङर्थ एव त्रयाणां समानार्थत्वादिति +तन्निर्णयेनैव निर्णयः ॥ १ ॥ (२२) लङादिक्रमेण ङितामर्थमाह- ह्योभूते प्रेरणादौ च भूतमात्रे लङादयः । सत्यां क्रियातिपत्तौ च भूते भाविनि लुङ्स्मृतः ॥२॥ (२३) ( इति भट्टोजिदीक्षितविरचितकारिकासु लकारविशेषार्थनिर्णयः ।) लङर्थमाह-ह्योभूत इति । अनद्यतने भूत इत्यर्थः । [ पा० सू० ३.२-१११ ] इति सूत्रात् । यथाऽस्य पुत्रोऽमवदित्यादि । लिङर्थमाह-प्रेरणादाविति । “विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्" [पा० सू० ३-३-१६१ ] इति सूत्रात् । विधिः प्रेरणं भृत्यादेनिकृष्टस्य प्रवर्त- नम् । निमन्त्रणं नियोगकरणम् । आवश्यके प्रेरणेत्यर्थः । आमन्त्रणं कामचारा- नुज्ञा । अधीष्टः सत्कारपूर्वको व्यापारः । एतच्चतुष्टयानुगतप्रवर्तनात्वेन वाच्यता लाघवात् । उक्तं च- " अस्ति प्रवर्तनारूपमनुस्यूतं चतुर्वपि । तत्रैव लिङ् विधातव्यः किं भेदस्य विवक्षया ॥ * एवं चातीतानद्यतनव्यापाराविष्टपरोक्षकर्तृकक्रियावृत्ताद्धातोलिडिति सूत्रार्थः । 1 मनोसं- निधानादिति शेषः। + लिडर्थनिर्णयेन । - " अनद्यतने लङ् - १ छ. 'नुरूपं च ।
- - २० कौण्डभविरचितवैयाकरणभूषणसाराख्यव्याख्यासमेताः- ( लकारविशेषानिर्णयः) न्यायव्युत्पादनार्थं वा प्रपञ्चार्थमथापि वा । विध्यादीनामुपादानं चतुर्णामादितः कृतम् ” इति ॥ प्रवर्तनात्वं च प्रवृत्तिजनकज्ञानविषयतावच्छेदकत्वम् । तच्चेष्टसाधनत्वस्या- स्तीति तदेव विध्यर्थः । यद्यप्येतस्कृतिसाध्यत्वस्यापि तज्ज्ञानस्यापि प्रवर्तकत्वात्त- थाऽपि यागादौ सर्वत्र तल्लोकत एवावगम्यत इत्यन्यलभ्यत्वान्न तच्छक्यम् । बलवद- निष्टाननुबन्धित्वज्ञानं च न हेतुः । द्वेषाभावेनान्यथासिद्धत्वात् । आस्तिककामुकस्य नरकसाधनताज्ञानदशायामप्युत्कटेच्छया द्वेषाभावदशायां प्रवृत्तेर्व्यभिचाराच्च । तस्मा- दिष्टसाधनत्वमेव प्रवर्तना। उक्तं च मण्डनमिश्रः- पुंसां नेष्टाभ्युपायत्वात्क्रियास्वन्यः प्रवर्तकः । प्रवृत्तिहेतुं धर्म च प्रवदन्ति प्रवर्तनाम् ” इति ॥ प्रपञ्चितं चैतद्वैयाकरणभूषणे । आदिना “ हेतुहेतुमतोर्लिङ् " [ पा० सू० ३-३- १५६ ] " आशिषि लिलोटौ" [ पा० सू. ३-३-१७३ ) इतिसूत्रोक्ता हेतुहेतु- मद्भावादयो गृह्यन्ते । “ यो ब्राह्मणायावगुरेत्तं शतेने यातयात् ।" इति यथा । लुर्थमाह-भूतमात्र इति । भूतसामान्य इत्यर्थः । भूत इत्यधिकृत्य “ लुङ् [ पा० सू० ३.२.११० ] इति सूत्रात् । अत्र विद्यमानध्वंसप्रतियोगित्वं भूतत्वम् । तञ्च क्रियायां निर्वाधमिति विद्यमानेऽपि वटे घटोऽभूदिति प्रयोगः । विद्यमानध्वंसप्र. तियोगी घटाभिन्नाश्रयक उत्पत्त्याद्यनुकूलो व्यापार इति बोधः । अयमत्र संग्रहः- कालो द्विविधः । अद्यतनोऽनद्यतनश्च । आद्यस्त्रिविधः । भूतभविष्यद्वर्तमानभेदात् । अन्त्यो द्विविधः । भूतो भविष्यश्च । तत्र वर्तमानत्वे लट् । भूतत्वमात्रे लुङ् । भविष्य न्मात्रे तृट् । हेतुहेतुमद्भावाद्यधिकार्थविवक्षायामनयोर्लङ् । अनद्यतने भूते तत्त्वेन विव- क्षिते लब् । तत्रैव परोक्षत्वविवक्षायां लिट् । तादृशे भविष्यति लुट् , इति द्रष्टव्यम् । लर्थमाह-सत्यामिति । क्रियाया अतिपत्तिरनिष्पत्तिस्तस्यां गम्यमानायाम् । भूते भाविनि हेतुहेतुमद्भावे सति लङित्यर्थः । लिनिमित्ते लङ् क्रियाति- पत्तौ ” [पा० सू० ३-३-१३९ ] इति सूत्रात् । लिङो निमित्तं हेतुहेतुमद्भावादि । यथा सुवृष्टिश्चेदभविष्यत्सुभिक्षमभविष्यत् । वह्निश्चेत्प्राज्वलिष्यदोदनमपक्ष्यदि- त्यादौ । अत्र वयभिन्नाश्रयकप्रज्वलनानुकूलव्यापाराभावप्रयुक्त ओदनाभिन्नाश्रयक- - * ज्ञाननिष्ठप्रवृत्तिजनकतायां प्रकारितयाऽवच्छेदकत्वम् । : निरुतावच्छेदकत्वं चेत्यर्थः । + एवकारेण पराभिमतकृतिसाध्यत्वादिव्यवच्छेदः । १ छ. तद्भान । २ च. न पाययेत् ।
२१ भट्टोजिदीक्षितविरचितवैयाकरणसिद्धान्तकारिकाः । ( सुवर्थनिर्णयः ) विक्लित्त्यनुकूलव्यापाराभाव इति शाब्दबोध इतिरीत्या द्रष्टव्यम् । अयं चार्थनिर्देश उपलक्षणम् । अर्थान्तरेऽपि बहुशो विधानदर्शनात् । प्रसिद्धत्वादेष्वेवार्थेषु शक्तिर- न्यत्र लक्षणेति मतान्तररीत्या वोक्तम् । एतेषां क्रमनियामकश्चानुबन्धक्रम एव । अत एव पञ्चमो लकार इत्यनेन मीमांसकैलेंड् व्यवहियत इति दिक् ॥ २ ॥ (२३) इति श्रीकौण्डभट्टविरचिते वैयाकरणभूषणसारे लकारविशेषार्थ- निरूपणं समाप्तम् ( अथ सुबर्थनिर्णयः ।) सुबर्थमाह- आश्रयोऽवधिरुद्देश्यः संबन्धः शक्तिरेव वा ॥ यथायथं विभक्त्यर्थः सुपां कर्मेति भाष्यतः ॥ १॥ (२४) द्वितीयातृतीयासप्तमीनामाश्रयोऽर्थः । तथा हि-"कर्मणि द्वितीया " [ पा० सू० २-३:२] । तच्च कर्तुरीप्सिततमं [ पा० सू० १-४-४९ ] क्रियाजन्य- फलाश्रय इत्यर्थः । क्रियाजन्यफलवत्त्वेन कर्मण एव कर्तुरीप्सिततमत्वात् । तथा युक्तं चानीप्सितम् ” [ पा० सू० १-४-५० ] इत्यादिसंग्रहाच्चैव. मेव युक्तम् । ईप्सितानीप्सितत्वयोः शाब्दबोधे भानाभावेन संज्ञायामेव तदुपयोगो न तु वाच्यकोटौ तत्प्रवेशः । तथा च क्रियायाः फलस्य धातुनैव लामादनन्यलभ्य आश्रय एवार्थः । तत्त्वं चाखण्डशक्तिरूपमवच्छेदकम् । ओदनं पचतीत्यत्र विक्लित्त्याश्रयत्वा- कर्मता । घटं करोतीत्यत्रोत्पत्त्याश्रयत्वात् । उत्पत्तेर्धात्वर्थत्वात् । जानातीत्यत्राऽऽवरण-- भङ्गरूपज्ञाधात्वर्थफलाश्रयत्वात् । अतीतानागतादिपरोक्षस्थलेऽपि ज्ञानजन्यस्य तस्याऽऽ. वश्यकत्वात् । *अन्यथा यथापूर्व न जानामीत्यापत्तेः । अतीतादेराश्रयता च विषय- तया ज्ञानाश्रयताया नैयायिकानामिव सत्कार्यवादसिद्धान्ताद्वोपपद्यत इति । उक्तं च- तिरोभावाभ्युपगमे भावानां सैव नास्तिता । लब्धक्रमे तिरोभावे नश्यतीति प्रतीयते" इति ॥ ननु चैत्रो ग्रामं गच्छतीत्यत्र ग्रामस्येव चैत्रस्यापि क्रियाजन्यग्रामसंयोगरूपफला- श्रयत्वात्कर्मतापत्तौ चैत्रश्चैत्रं गच्छतीत्यापत्तिः । प्रयागतः काशी गच्छति चैत्रे * तादृशंघट आवरणभङ्गास्वीकारे।
। .. २२ कौण्डभट्टविरचितवैयाकरणभूषणसाराख्यव्याख्यासमेताः (सुबर्थनिर्णयः) प्रयागं गच्छतीत्यापत्तिश्च । क्रियाजन्यसंयोगस्य काश्यामिव *विभागस्य प्रयागेऽपि सत्त्वादिति चेन्न । ग्रामस्येव चैत्रस्यापि फलाश्रयत्वेऽपि तदीयकर्तृसंज्ञया कर्मसंज्ञाया बाधेन चैत्रश्चैत्रमिति प्रयोगासंभवात् । द्वितीयोत्पत्तौ संज्ञाया एव नियामकत्वात् । अन्यथा गमयति कृष्णं गोकुलमित्यत्रेव पाचयति कृष्णेनेत्यत्रापि कृष्णपदावितीया. पत्तेः । शाब्दबोधश्चैत्रश्चैत्रमित्यत्र स्यादिति चेन्न । तथा व्युत्पन्नानामिष्टापत्तेः । उच्यतां वा प्रकारतासंबन्धेन धात्वर्थफलविशेष्यकबोधं प्रति धात्वर्थव्यापारानधिकर- णाश्रयोपस्थितिर्हेतुरिति कार्यकारणभावान्तरम् । प्रकृते चैत्रस्य व्यापारानधिकरणत्वा- भावान्न दोषः । प्रयागस्य कर्मत्वं तु संभावितमपि न । समभिव्याहृतधात्वर्थफलशालि- त्वस्यैव क्रियाजन्येत्यनेन विवक्षणस्योक्तप्रायत्वात् । नैयायिकास्त्वाद्यदोषवारणाय पर- समवेतत्वं द्वितीयदोषवारणाय धात्वर्थतावच्छेदकत्वं फले विशेषणं द्वितीयावाच्यमित्यु. पाददते । परसमवेतत्वं धात्वर्थक्रियायामन्वेति । तथैव कार्यकारणभावान्तरकल्पनात् । परत्वमपि द्वितीयया स्वप्रकृत्यर्थापेक्षया बोध्यते । तथा च चैत्रस्तण्डुलं पचतीत्यादौ तण्डुलान्यसमवेतव्यापारजन्यधात्वर्थतावच्छेदकविक्लित्तिशालित्वात्तण्डुलानां कर्मता । शाब्दबोधस्तु तण्डुलप्तमवेतधात्वर्थतावच्छेदकविक्लित्त्यनुकूलतण्डुलान्यसमवेतक्रियाजन- ककृतिमांश्चैत्र इत्याहुः । तन्न रोचयामहे । परसमवेतत्वादेर्गोरवेणावाच्यत्वात् । अति- प्रसङ्गः किं द्वितीयायाः, शाब्दबोधस्य वा । नाऽऽद्यस्तावत् । वाच्यकथनेऽपि तत्ता- दवस्थ्यात् । गमयति कृष्णं गोकुलमितिवत्पाचयति कृष्णं गोप इत्यापत्तेः । तण्डुलं पचति चैत्र इतिवत्तण्डुलं पच्यते स्वयमेवेत्यापत्तेश्च । विक्लित्त्यनुकूलतण्डुला- न्यसमवेताग्निसंयोगरूपधात्वर्थाश्रयत्वात् । शाब्दबोधातिप्रसङ्गोऽप्युक्तरीत्यैव निरस्तः । परसमवेतत्वस्य शक्यत्वेऽपि परत्वस्य परसमवेतत्वस्य चेष्टान्वयला- भायानेकशः कार्यकारणभावाभ्युपगमे गौरवतरत्वादिति स्पष्टं भूषणे । एतच्च सप्तविधम्- निर्वयं च विकार्यं च प्राप्यं चेति त्रिधा मतम् । +तच्चेप्सिततमं कर्म चतुर्धाऽन्यत्तु कल्पितम् ॥ औदासीन्येन यत्प्राप्यं यच्च कर्तुरनीप्सितम् । संज्ञान्तरैरनाख्यातं यद्यच्चाप्यन्यपूर्वकम् " इति वाक्यपदीयात् ॥ * क्रियाजन्येत्यादि । । द्वितीयव्यापारजन्यफलाश्रयेऽपि संज्ञां.. विना स्यादिति भावः । | हेतुतृतीया । = प्रामाणिकं गौरवं न दोषायात आह । ४ तथा व्युत्पन्नानानामित्युक्तरीत्या । + निरुक्तं कर्म । १ क. ङ. छ. °धश्चैत्रमि । २ ङ. ज. पारव्यधिकरणफलस्य धातुजन्यतयोप । ३ ङ. ज. 'ननिष्ठसंयोगस्य तदीयव्यापारव्याधि ।
भट्टोजिदीक्षितविरचितवैयाकरणसिद्धान्तकारिकाः। ( सुवर्थनिर्णयः ) यदसजायते सद्वा जन्मना यत्प्रकाशते । तन्नित्यं विकार्य तु द्वेधा कर्म व्यवस्थितम् ।। प्रकृत्युच्छेदसंभूतं किंचित्काष्ठादि मस्मवत् । किंचिद्गुणान्तरोत्पत्त्या सुवर्णादि विकारवत् ॥ क्रियाकृतविशेषाणां सिद्धिर्यत्र न गम्यते । दर्शनादनुमानाद्वा तत्प्राप्यमिति कथ्यते " || इति च तत्रैवोक्तम् । घटं करोतीत्याद्यम् । काष्ठं भस्म करोतीति सुवर्ण कुण्डलं करो- तीति च द्वितीयम् । घटं पश्यतीति तृतीयम् । तृणं स्पृशतीत्युदासीनम् । विषं भुत इति द्वेष्यम् । गां दोग्धीति संज्ञातरै+रनाख्यातम् । क्रूरमभिक्रुध्यतीत्यन्यपूर्वकम् । कर्तृतृतीयाया आश्रयोऽर्थः । तथा हि-"स्वतन्त्रः कर्ता" [पा० सू० १-४-१४] । स्वातन्त्र्यं च धात्वर्थव्यापाराश्रयत्वं “ धातुनोक्तक्रिये नित्यं कारके कर्तृतेष्यते " इति वाक्यपदीयात् । अत एव यदा यदीयो व्यापारो धातुनाऽभिधीयते तदा स कर्तेति स्थाली पचति, अग्निः पचति, एधांसि पचन्ति, तण्डुलः पच्यते स्वयमेवेत्यादि संगच्छते । नन्वेवं “कर्मकर्तृव्यपदेशाच्च" [ब्र० सू०१-२- ४] इति सूत्रे मनोमयः प्राण. शरीर इतिवाक्यस्थमनोमयस्य जीवत्वे वाक्यशेषे तस्य "एतमितः प्रेत्याभिसंभविताs- स्मि” इति प्राप्तिकर्मत्वकर्तृत्वव्यपदेशो विरुद्ध इति भगवता व्यासेन निर्णीतं कथं संग- च्छताम् । उच्यते--जीवस्यैव ज्ञेयत्वे प्राप्तिकर्मत्वमपि वाच्यम् । कर्तृत्वं च तस्याऽs. ख्यातेनोक्तम् । न चैकस्यैकदा संज्ञाद्वयं युक्तम् । कर्तृसंज्ञया कर्मसंज्ञाया बाधात् । तथा चैतमिति द्वितीया न स्यात् । कर्मकर्तृतायां च यगाद्यापत्तिरिति शब्दविरोध- द्वारा भवति स भेदहेतुः । एवं च व्यापारांशस्य धातुलभ्यत्वादाश्रयमात्रं तृतीयार्थः । कारकचक्रप्रयोक्तृत्वं कृत्याश्रयत्वं वा दण्डः करोतीत्यत्राव्याप्तम् । अयं च त्रिविधः । शुद्धः प्रयोजको हेतुः कर्मकर्ता च । मया हरिः सेव्यते । कार्यते हरिणा । गमयति कृष्णं गोकुलम् । मदभिन्नाश्रयको हरिकर्मकसेवनाकूलो व्यापारः । हर्यभिन्नाश्रयक उत्पादनानुकूलो व्यापारः । गोकुलकर्मकगमनानुकूलकृष्णाश्रयक- व्यापारानुकूलो व्यापार इति शाब्दबोधः । करणतृतीयायास्त्वाश्रयव्यापारौ वाच्यौ । तथा हि-“साधकतमं करणम् ” [ पा० सू० १-४-४२ ] । तमवर्थः प्रकर्षः । स चाव्यवधानेन फलजनकव्यापारवत्ता । तादृशव्यापारवत्कारणं च करणम् । उक्तं च वाक्यपदीये- "क्रियायाः परिनिप्पत्तिर्ययापारादनन्तरम् । विवक्ष्यते यदा यत्र करणं तत्तदा स्मृतम् ॥ •+ अविवक्षितम् ।
करणे . च तच्च कौण्डभविरचितवैयाकरणभूषणसाराख्यव्याख्यासमेताः- (सुबर्थनिर्णयः) वस्तुतस्तदनिर्देश्यं न हि वस्तु व्यवस्थितम् । स्थाल्या पच्यत इत्येषा विवक्षा दृश्यते यतः” इति ॥ विवक्ष्यत इत्यनेन सकृदनेकेषां तदभावाद्वितीयासप्तम्यादेरवकाशं सूचयति । न चैवं " कर्ता शास्त्रार्थवत्त्वात् " [ब्र० सू० २-३-३३ ] इत्युत्तरमीमांसाधि- शक्तिविपर्ययात् " [० सू० २-३-३८ ] इति सूत्रेणान्तःकरणस्य कर्तृत्वे करणशक्तिविपर्ययापत्तिरुक्ता न युज्यतेति वाच्यम् । " तदेवैतेषां 'प्राणानां विज्ञानेन = विज्ञानमादाय ” इति श्रुत्यन्तरे करणतया कृप्तस्य कर्तृतां प्रकल्प्य शक्तिविपर्ययापत्तिनिष्प्रमाणा कल्प्येतेत्यभिप्रायात् । वस्तुतस्त्वम्युच्च- यमात्रमेतदिति “ यथा च तक्षोभयथा " [ ब्र० सू० २-३-४ ० ] इत्यधिकरणे भाष्य एव स्पष्टमित्यादि प्रपञ्चितं भूषणे । सप्तम्या अप्याश्रयोऽर्थः । " सप्तम्यधिकरणे [ पा० सू० २-३-३६ ] इत्यधिकरणे सप्तमी । " आधा- रोऽधिकरणम् " [ पा० सू० १-४-४५ ] इति सूत्रादाधारः । तच्चाऽऽ. श्रयत्वम् । तत्राऽऽश्रयांशः शक्यः । तत्त्वमवच्छेदकम् । न चाऽऽश्रयत्वमात्रेण कर्तृ- कर्मकरणानामाधारसंज्ञा स्यात् । स्यादेव यदि ताभिरस्या न बाधः स्यात् । “कारके" [पा० सू० १-४-२३ ] इत्यधिकृत्य विहितसप्तम्याः क्रियाश्रय इत्येव यद्यपि तात्पर्य तथाऽप्यत्र कर्तृकर्मद्वारा तदाश्रयत्वमस्त्येव स्थाल्यादेर्भूतलकटादेश्चेति स्थाल्यां पचति भूतले वसति कटे शेत इत्याद्युपपद्यते । उक्तं च वाक्यपदीये- "कर्तृकर्मव्यवहितामसाक्षाद्धारयत्क्रियाम् । उपकुर्वत्क्रियासिद्धौ शास्त्रेऽधिकरणं स्मृतम् ” [इति ॥] एतच्च त्रिविधम् । औपश्लेषिकं वैषयिकमभिव्यापकं च । कटे शेते गुरौ वसति मोक्ष इच्छाऽस्ति तिलेषु तैलमिति । एतच्च “संहितायाम्" [ पा० सू० ६-१-७२ ] इति सूत्रे भाष्ये स्पष्टम् । अवधिः पञ्चम्यर्थः । " अपादाने पञ्चमी " [पा० सू० २-३.२८ ] । तच्च " ध्रुवमपायेऽपादानम् ” [ पा० सू० १-४-२४ ] इति सूत्रादपायो विश्लेषस्तज्ज- नकक्रिया तत्रावधिभूतमपादानमित्यर्थकादवधिभूतमिति मावः । - + अभावेत्यर्थः । + इन्द्रियाणाम् । ४ मनसा बुद्धद्या वा । = ग्रहणशक्तिम् । १ क. ख. रेण की।
- भट्टोजिदीक्षितविरचितवैयाकरणसिद्धान्तकारिकाः । (सुबर्थनिर्णयः) उक्तं च वाक्यपदीये. " अपाये यदुदासीनं चलं वा यदि वाऽचलम् । ध्रुवमेवातदावेशात्तदपादानमुच्यते ।। पत्ततो ध्रुव एवाश्वो यस्मादश्वात्पतत्यसौ । तस्याप्यश्वस्य पतने कुड्यादि ध्रुवमुच्यते ।। उभावप्यधृवौ मेषौ यद्यप्युभयकर्मके । विभागे प्रविभक्ते तु क्रिये तत्र व्यवस्थिते ।। मेषान्तरक्रियापेक्षमवधित्वं पृथक्पृथक् । मेषयोः स्वक्रियापेक्षं कर्तृत्त्वं च पृथक्पृथक् ” इति ।। अस्यार्थः--अपाये विश्लेषहेतुक्रियायाम् । उदासीनमनाश्रयः । अतदावे. शात्तत्क्रियानाश्रयत्वात् । एवं च विश्लेषहेतुक्रियानाश्रयत्वे सति विश्लेषाश्रयत्वं फलितम् । वृक्षात्पर्ण पततीत्यत्र पर्णस्य तद्वारणाय सत्यन्तम् । धावतोऽश्वात्पततीत्य- त्राश्वस्य क्रियाश्रयत्वाद्विश्लेषहेत्विति । कुड्यात्पततोऽश्वात्पततीत्यत्राश्वस्य विश्लेषनन- कक्रियाश्रयत्वेऽपि तन्न विरुद्धमित्याह-यस्मादश्वादिति । [ * तथा च पुरुषपतन- हेतुक्रियानाश्रयत्वं न विरुद्धमिति भावः । तद्विश्लेषहेतुक्रियानाश्रयत्वे सतीति विशेष- णीयमिति भावः । एवमश्वनिष्ठक्रियानाश्रयत्वात्कुड्यादेरपि ध्रुवत्वमित्याह-तस्या- पीति । उभयकर्मनविभागस्थले विभागस्यैक्यात्तद्विश्लेषजनकक्रियानाश्रयत्वाभावात्प- रस्परस्मान्मेषावपसरत इति न स्यादित्याशङ्कय समाधत्ते-उभावपीति । मेषान्त- रेति । यथा निश्चलमेषादपसरद्वितीयमेषस्थले निश्चलमेषस्यापसरन्मेषक्रियामादाय ध्रुव- त्वं तथाऽत्रापि विभागैक्येऽपि क्रियामेदादेकक्रियामादाय परस्य ध्रुवत्वमिति । तथा च विश्लेषाश्रयत्वे सति तज्जनकतक्रियानाश्रयत्वं तक्रियायामपादानत्वं वाच्यम् । क्रिया चात्र धात्वर्थो न तु स्पन्दः । तेन वृक्षकर्मजविभागवति वस्त्रे वृक्षाद्वस्त्रं पततीति संगच्छते । वस्तुतो नैतावत्पञ्चम्या वाच्यम् । किं त्ववधेर्लक्षणमात्रं, द्वितीयार्थोक्तरीत्या प्रयोगातिप्रसङ्गस्यासंभवेन वाच्यकोटौ प्रवेशस्य गौरवेणासंभवादिति तु प्रतिभाति । न 'चैवमाप वृक्षात्स्पन्दत इति स्यादिति शङ्कयम् । आसनाचलितः, राज्याचलित इति- वदिष्टत्वात् । एतेन पञ्चमीजन्यापादानत्वबोधे सकर्मकधातुजन्योपस्थितेहेतुत्वमिति समाधानाभासोऽप्यपास्तः । न चैवमपि वृक्षात्त्यजतीति दुरिम् । कर्मसंज्ञयाऽपादान. संज्ञाया बाधेन पञ्चम्यसंभवात् । भ्रमात्कृते तथा प्रयोगे यदि बोधाभावोऽनुभवसिद्ध- * धनुचिहान्तर्गतग्रन्थः क. पुस्तक एव वर्तते । १ क. छ. 'मजे । वि। २ ख. च. छ. स्परान्मे' । ३ क. ख च. छ. 'पमा ।
- * २६ कौण्डभट्टविरचितवैयाकरणभूषणसारख्यव्याख्यासमेताः- (सुबर्थनिर्णयः) स्तहि पञ्चमीजन्यापादानत्वबोधे त्यजादिभिन्नधातुजन्यबुद्धेहेतुत्वं वाच्यम् । बलाहका. द्विद्योतते विद्युदित्यादौ निःसृत्येत्यध्याहार्यम् । रूपं रसात्पृथगित्यत्र तु बुद्धिपरि- कल्पितमपादानत्वं द्रष्टव्यम् । पृथग्विनेति पञ्चमी वा । इदं च- " निर्दिष्टविषयं किंचिदुपात्तविषयं तथा । अपेक्षितक्रियं चेति त्रिधाऽपादानमुच्यते" || इति वाक्यपदीयात्रिविधम् । यत्र साक्षाद्धातुना गतिनिर्दिश्यते तन्निर्दिष्टविषयम् यथाऽश्वात्पतति । यत्र धात्वन्तरार्थीङ्गं स्वार्थं धातुराह तदुपात्तविषयम् । यथा बला- हकाद्विद्योतते । निःसरणाङ्गे विद्योतने द्युतिर्वर्तते । अपेक्षिता क्रिया यत्र तदन्त्यम् । यथा कुतो भवान्पाटलिपुत्रात् । अत्राऽऽगमनमर्थमध्याहृत्यान्वयः कार्यः ।। उद्देश्यश्चतुर्थ्यर्थः । तथा हि-संप्रदाने चतुर्थी । तच्च “ कर्मणा यमभिप्रेति स संप्रदानम् " [ पा० सू० १-४-३२ ] इतिसूत्रात्कर्मणा करणभूतेन यमभिप्रेती- प्सति तत्कारकं संप्रदानमित्यर्थकादुद्देश्यः । इदमेव शेषित्वम् । तदुद्देश्यकेच्छावि- षयत्वं च शेषत्वमित्येव पूर्वतन्त्रे निरूपितम् । अत एव “ प्रासनवन्मैत्रावरुणाय दण्ड- प्रदानम् " *इत्यधिकरणे क्रीते सोमे मैत्रावरुणाय दण्डं प्रयच्छतीति विहितं दण्ड- दानं [ 0न प्रतिपत्तिः किं तु ] चतुर्थीश्रुत्याऽर्थकर्मेति तत्र निर्णीतम् । रजकाय वस्त्रं ददातीत्यपि खण्डिकोपाध्यायः शिष्याय चपेटां ददातीतिभाष्योदाहरणादिष्टमेव । वृत्तिकारास्तु सम्यक्प्रदीयते यस्मै तत्संप्रदानमित्यन्वर्थसंज्ञया स्वस्त्रत्वनिवृत्तिपर्यन्तमर्थ वर्णयन्तो रजकस्य वस्त्रमित्येवाऽऽहुः । इदं च-- " अनिराकरणात्कर्तुस्त्यागाङ्गं कर्मणेप्सितम् । प्रेरणानुमतिभ्यां च लभते संप्रदानताम् " || इति वाक्यपदीयात्रिविधम् । सूर्यायायं ददातीत्याधम् । नात्र सूर्यः प्रार्थयते । नानुमन्यते । न निराकरोति । प्रेरकं विप्राय गां ददाति । अनुमन्तु, उपाध्यायाय गां ददाति । अत्र सर्वत्र प्रकृतिप्रत्ययार्थयोरभेदः संसर्गः, विभक्तीनां धर्मिवाचकत्वात् । धर्ममात्रवाचकत्वे " कर्मणि द्वितीया " [ पा० सू० २-३-२ ] इतिसूत्रस्वरसम- ङ्गापत्तः । + कर्थिककृत्तद्धितादौ तथादर्शनाच्च । द्वितीयाद्यर्थकबहुव्रीहौ प्राप्तोदक इत्यादौ धर्मिवाचकतालाभाच्च । सुपा कर्मादयोऽप्यर्थाः संख्या चैव तथा तिङाम् " . इति भाष्याचेति दिक् । आश्रयस्यापि प्रकृत्यैव लाभान्न विभक्तिवाच्यता किं त्वाश्र. यत्वमानं वाच्यं तदेव च तादात्म्येनावच्छेदकम् । करणतृतीयायाश्च व्यापारोऽपि चतुर्थाध्याये द्वितीयपादे षष्ठाधिकरणे । 0 धनुश्चिह्नान्तर्गतमधिकं छ. ज. पुस्तकयोः । + पक्वस्तण्डुल इत्यत्र। * 7 भट्टोजिदीक्षितविरचितवैयाकरणसिद्धान्तकारिकाः। (नामार्थनिर्णयः) पञ्चम्या विभागमात्रं चतुर्थ्या उद्देश्यत्वमात्रमत एवाऽऽकृत्यधिकरणमपि न विरुध्यत इत्यभिप्रेत्याऽऽह-शक्तिरेव वेति । षण्णामपीति शेषः । “षष्ठी शेषे" [ पा० सू० २-३.५० ] इति सूत्रात्तस्याः संबन्धमात्रं वाच्यम् । कारकषष्ठयास्तु शक्तिरेवेन्यू- ह्यम्। सप्तमीपञ्चम्यौ कारकमध्ये " [ पा० सू० २-३-७ ] इति सूत्रे शक्तिः कारकमिति पक्षस्य भाष्ये दर्शनात् । एवं च देवदत्तस्य गौाह्मणाय गेहाद्गङ्गायां हस्तेन मया दीयत इत्यत्र देवदत्तसंबन्धिनी या गौस्तदभिन्नाश्रयकत्यागानुकूलो ब्राह्मणो- द्देश्यको गेहनिष्ठविभागजनको गङ्गाधिकरणको हस्तकरणको मन्निष्ठो व्यापार इति बोधः । यथायथम् । उक्तप्रकारेण । अत्र* मानमुपदर्शयन्घटं जानातीत्यादौ द्विती- याया विषयतायां लक्षणेति बह्वाकुलं वदतो नैयायिकादीन्प्रत्याह-सुपां कर्मेति । अयं भावः - " सुपा कर्मादयोऽप्यर्थाः संख्या चैव तथा तिङाम् । प्रसिद्धो नियमस्तत्र+ नियमः प्रकृतेषु वा इति वार्तिकतद्भाष्याभ्यां कर्मादेवाच्यतायास्तन्नियमस्य च लाभः । तथा हि- "खौनसमौट्" [ पा० सू० ४-१-२ ] " कर्मणि द्वितीया " [पा० सू० २-३-२ ] " येकयोर्द्विवचनैकवचने " [ पा० सू० १-४-२२ ] इत्यादेः “ लस्य " [ पा० सू० ३-४-७७ ] “तिप्तस्झि" [ पा० सू० ३.४-७८ ] " तान्येकवचन द्विव- चन-" [१-४-१०२] इत्यादेरेकवाक्यतया कर्मादेस्तत्संख्यायाश्च वाच्यता लभ्यते । तथा तन्नियमश्च द्विविधो लभ्यते। द्वितीया कर्मण्येव तृतीया करण एवेत्येवमादिरर्थनि- यमः । कर्मणि द्वितीयैव करणे तृतीयैवेत्येवं शब्दनियमश्च । उभयथाऽपि सिद्धनियम- विरुद्धं लक्षणादिकमसाधुत्वप्रयोजकमिति याज्ञे कर्मणि "नानृतं वदेत् " इतिनिषेधवि- षयो भवत्येवेति स्वेच्छया लक्षणाऽपि विभक्तावप्रयोजिकैव । अत एव “ विभक्तौन लक्षणा" इत्यादिनैयायिकवृद्धानां व्यवहार इति दिक् ॥ १ ॥ (२४) इति रङ्गोजिभट्टात्मजकौण्डभट्टविरचिते वैयाकरणभूषणसारे सुबर्थनिर्णयः समाप्तः ॥ (अथ नामानिर्णयः ।) . नामार्थानाह- एकं द्विकं त्रिकं चाथ चतुष्कं पञ्चकं तथा । नामार्थ इति सर्वेऽमी पक्षाः शास्त्रे निरूपिताः ॥ १॥ (२५) सुपा कर्मादिवाचकत्वे । + सुप्तिक्षु । = अर्थेषु ।
- २८ कौण्डभट्टविरचितवैयाकरणभूषणसाराख्यव्याख्यासमेताः- (नामार्थनिर्णयः ) एक जातिः, लाघवेन तस्या एव वाच्यत्वौचित्यात् । अनेकव्यक्तीनां वाच्यत्वे गौरवात् । न च व्यक्तीनामपि प्रत्येकमेकत्वाद्विनिगमनाविरहः,*एवं ह्येकस्यामेव व्यक्ती शक्त्यभ्युपगमे व्यक्त्यन्तरे लक्षणायां स्वसमवेताश्रयत्वं संसर्ग इति गौरवम् । जात्या तु सहाऽऽश्रयत्वमेव संसर्ग इति लाघवम् । किं च विशिष्टवा च्यत्वमपेक्ष्य नागृहीत. विशेषणन्यायेन जातिरेव वाच्येति युक्तं, व्यक्तिबोधस्तु लक्षणया। एवं च तत्र विभक्त्यर्थान्वयोऽप्युपपद्यत इति दिक् । यद्वा केवलव्यक्तिरेवैकशब्दार्थः । केवलव्य- क्तिपक्ष एवाण्ग्रहणस्यैकशेषस्य चाऽऽरम्भेण तस्यापि शास्त्रसिद्धत्वात् । युक्तं चैतत् । +व्यवहारेण व्यक्तावेव तद्ग्रहणात् । संबन्धितावच्छेदिकाया जातेरैक्याच्छक्तिरप्येकै. वेति न गौरवमपि । न चैवं घटत्वमपि वाच्यं स्याच्छक्यतावच्छेदकत्वात् । तथा च नागृहीतविशेषणन्यायात्तदेव वाच्यमस्त्विति शङ्कयम् । अकारणत्वेऽपि कारणतावच्छे. दकत्ववदलक्ष्यत्वेऽपि लक्ष्यतावच्छेदकत्ववत्तथाऽत्रापि संभवात् । उक्तं च- " आनन्त्येऽपि हि भावानामकं कृत्वोपलक्षणम् । शब्दः सुकरसंबन्धो न च व्यभिचरिष्यति " इति ।। वस्तुतस्तु न ह्याकृतिपदार्थकस्य द्रव्यं न पदार्थः" इति भाष्याद्विशिष्टं वाच्यम्। एकमित्यस्य चायमभिप्रायः-शक्तिज्ञाने विषयतयाऽवच्छेदिका जातिरेकैव । तथा च घटत्वविशिष्टबोधे घटत्वांशेऽन्याप्रकारकघटत्वशक्तिज्ञानत्वेन हेतुतेति कार्यकारणभाव इत्यादि प्रपञ्चितं भूषणे । तदेतदभिप्रेत्याऽऽह-द्विकमिति । जातिव्यक्ती इत्यर्थः । [ 1. पूर्वपक्षविरोधपरीहारः पूर्ववत् । त्रिकमिति। जातिव्यक्तिलिङ्गानीत्यर्थः । सत्त्वर- जस्तमोगुणानां साम्यावस्था नपुंसकत्वम् । आधिक्यं पुंस्त्वम् । अपचयः स्त्रीत्वम् । तत्तच्छन्दनिष्ठं तत्तद्वाच्यं च । तमेव विरुद्धधर्ममादाय तटादिशब्दा भिद्यन्ते । केषां- चिदनेकलिङ्गत्वव्यवहारस्तु समानानुपूर्वीकत्वेन शब्दानामभेदारोपात् । एवं च पदा- थपदे पुंस्त्वमेव व्यक्तिपदे स्त्रीत्वमेव वस्तुपदे नपुंसकत्वमेवेति सर्वत्रैवायं पदार्थः, इयं व्यक्तिः, इदं वस्त्विति व्यवहारस्तटस्तटी तटमिति चोपपद्यते । तच्च लिङ्गमर्थपरि- च्छेदकत्वेनान्वेतीति पश्वादिशब्दोक्तं [ पशुस्त्रियां नास्तीति ] पशुनेत्या- दिविधिर्न च्छाम्यादीनङ्गत्वेन प्रयोजयतीति विभावनीयम् । न च व्यक्त्यादि- * तत्पक्षेऽपि गौरवमेव बाधकमत आह-एवमिति । + गवानयनव्यवहारेण । = शक्ति- अहे धर्मितावच्छेदकतया भासमानस्य । ४ व्यक्तिशक्तिवादपक्षेऽपीत्यर्थः । ... धनुश्चिद्वान्तर्गतं छ. ज. पुस्तकयोरेव । - न्यूनता । धनुश्चिह्नान्तर्गतग्रन्थस्थाने छ. पुस्तके इति वर्तते । पशुना स्तौति " १ क. ख. ग. च्छेदकस्य जा।
भट्टोजिदीक्षितविरचितवैयाकरणसिद्धान्तकारिकाः। २९ (नामार्थनिर्णयः) शब्दोक्तलिङ्गस्येव पश्वादिशब्दोक्तस्यापि *साधारण्यं शङ्कयम् । व्यक्तिशब्दस्य नित्यस्त्रीलिङ्गत्वेन तथा संभवेऽपि पशुशब्दस्य नित्यपुंलिङ्गत्वे प्रमाणाभावात् । पश्वा न तायुं गुहा चरन्तम् " " पश्वे नृभ्यो यथा गवे " इत्यादि वेदे दर्शनाच्छ । मीमांसायां चतुर्थे पशुना यजेतेत्यत्रैकत्वपुंस्त्वयोर्विवक्षितत्वान्नानेकपशुभिः पशुस्त्रिया वा याग इति प्रतिपादितत्वाच्च । वस्तुतस्तु विशेषविध्यभाव उप्रत्ययान्तानां पुंस्त्वस्य व्याकरणे निर्णीतत्वाद्वेदभाष्येऽपि " जसादिषु च्छन्दसि वावचनम् ” इति नामावा- भाव इत्युक्तेः पशुशब्दस्य नित्यपुंस्त्वनिर्णयात् । प्रकृते " छागो वा मन्त्रवर्णात् " इति न्यायेनैव निर्णयः । मन्त्रवर्णे हि च्छागस्य वपाया मेदस इति श्रूयते । तत्र च्छाग- स्येति च्छाग्यामसंभावितमिति भवति ततः पुंस्त्वनिर्णय इति विस्तरेण प्रपञ्चितं भूषणे । चतुष्कं संख्यासहितं त्रिकमित्यर्थः । पञ्चकं कारकसहितं चतुष्कमित्यर्थः । नन्वन्वयव्यतिरेकाम्यां प्रत्ययस्यैव तद्वाच्यम् । तत एव लिङ्गादीनामुपस्थितौ प्रकृति- वाच्यत्वे मानाभावाच्चेति चेत्सत्यम् । प्रत्ययवर्जिते दधि पश्येत्यादौ प्रत्ययमजानतोऽपि बोधात्प्रकृतेरेव वाचकत्वं कल्प्यते । लिङ्गानुशासनस्य प्रकृतेरेव दर्शनाच्चेति । अत एवैषु पक्षेषु न निर्बन्धः । प्रत्ययस्यैव वाचकताया युक्तत्वात् । “योतिका वाचिका वा स्युद्वित्वादीनां विभक्तयः" इति वाक्यपदीयेऽपि पक्षद्वयस्य व्युत्पादनात् । शास्त्र इति । बहुषु स्थलेषु व्युत्पादनं व्यञ्जयितुं प्राधान्येन सरूपसूत्रादौ व्यक्तम् ॥ १॥ (२९) शब्दस्तावच्छाब्दबोधे भासते । न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्व शब्देन भासते " इत्याद्यानुभविकोक्तेः । “ विष्णुमुच्चारय " इत्यादावर्थोच्चारणासंभवेन विना शब्द- विषयं शाब्दबोधासंगतिश्चेति सोऽपि प्रातिपदिकार्थः । ('अयं भावः-) न च लक्ष- णया निर्वाहः । निरूढलक्षणायाः शक्त्यनतिरेकात् । जबगडदशमुच्चारय इत्यादौ शक्याग्रहेण शक्यसंबन्धरूपलक्षणाया अग्रहाच्च । अज्ञातायाश्च वृत्तेरनुपयो- गाङ्गमुच्चारय " इत्यादिभाषाशब्दानामनुकरणे साधुतासंप्रतिपत्तेस्तेषांx शक्त्यभावेन परनये लक्षणाया असंभवाच्चेत्यभिप्रेत्य घोटाप क्वचित्प्रातिपदिकार्थ इत्याह- शब्दोऽपि यदि भेदेन विवक्षा स्यात्तदा तथा । नो चेच्छोत्रादिभिः सिद्धोऽप्यसार्थोऽवभासते ॥ २६ ॥ स्वाश्रयपदवाच्यत्वसंबन्धेन स्त्रीपुंसवृत्तित्वम् । + वागादिशब्देऽपि । । धनुचिहान्तर्गतं क्वचिन्न दृश्यते । = स्ववाचकत्वरूपया। x अनुकरणानाम् । ङ. च. छ. 'वर्थेऽव। गात् ।
- कौण्डभट्टविरचितवैयाकरणभूषणसाराख्यव्याख्यासमेता:- (समासशक्तिनिर्णयः) यद्यनुकार्यानुकरणयोर्भेदविवक्षा तदा शब्दोऽपि प्रातिपदिकार्थः । यदि न भेदवि- वक्षा तदा श्रोत्रादिभिरुपस्थितोऽप्यर्थवद्भासते । अपितौ । उपस्थितत्वाद्भासत इत्यर्थः । अयं भावः-अनुकार्यानुकरणयोर्भेदेऽनुकार्यस्य पदानुपस्थितत्वात्तत्सिद्धये शक्तिरुपेया। शब्दार्थयोरभेदे प्रत्यक्षे विषयस्य हेतुत्वात्स्वप्रत्यक्षरूपां पदजन्योपस्थिति- मादाय शाब्दबोधविषयतोपपत्तिरिति । यद्यतिप्रसङ्गवारणाय वृत्तिजन्यपदोपस्थितिरेव हेतुस्तथाऽप्यत्राऽऽश्रयतया वृत्तिमत्त्वस्य सत्त्वान्नानुपपत्तिः । निरूपकताश्रयतान्य- तरसंबन्धेन वृत्तिमत एव शाब्दबोधविषयत्वं कल्प्यत इत्यनवद्यम् । संबन्धस्योभयनि- रूप्यत्वात्पदादर्थस्येव +तबोधकत्वेन स्वस्यापि ज्ञानसंभवाच्चति । उक्तं च वाक्यपदीये- "ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा । तथैव सर्वशब्दानामेते पृथगवस्थिते " इति ॥ " विषयत्वमनादृत्य शब्दार्थः प्रकाश्यते " इति चेति ॥ २ ॥ (२६) प्रसङ्गादनुकार्यानुकरणयोरभेदपक्षे साधकमाह- अत एव गवित्याह भू सत्तायामितीदृशम् । न प्रातिपदिकं नापि पदं साधु तु तत्स्मृतम् ॥ ३ ॥ (२७) ( इति भट्टोजिदीक्षितविरचितकारिकासु नामार्थनिर्णयः ।) " गवित्ययमाह "" भू सत्तायाम् " इत्येवमादयो यतोऽनुकरणशब्दा अनुकार्यान्न भिद्यन्तेऽतस्तेषामर्थवत्त्वाद्यभावात् " अर्थवदधातुः " [ पा० सू. १-२-४५ ] इत्याद्यप्रवृत्तौ न पदत्वं न वा प्रातिपदिकत्वम् । अथ च साधुत्वमित्युपपद्यते । [ पा० सू० ३-१-१ ] " परश्च " | [ पा० सू० ३-१-२] “ अपदं न प्रयुञ्जीत " इति निषेधादिलङ्घनादसाधुतापत्तिरित्यर्थः ॥ ३ ॥ (२७) इति रङ्गोजिभट्टात्मजकौण्डमविरचिते वैयाकरणभूषणसारे नामार्थनिर्णयः समाप्तः ॥ अन्यथा प्रत्ययः (अथ समासशक्तिनिर्णयः ।) समासान्विभजते- सुपा सुपा तिङा नाम्ना धातुनाऽथ तिङ तिङा ।। सुबन्तेनेति च ज्ञेयः समासः षड्विधो बुधैः ॥ १ ॥ (२८) + प्रत्यक्षात्मकशाब्दबोधजनकत्वेन । १ क. छ. 'दार्थस्ये।
. " गति- भट्टोजिदीक्षितविरचितवैयाकरणसिद्धान्तकारिकाः। ( समासशक्तिनिर्णयः ) सुपां सुपा, पदद्वयमपि सुबन्तम् । राजपुरुष इत्यादिः । सुपां तिङा । पूर्व पदं सुबन्तमुत्तरपदं तिङन्तम् । पर्यभूषत् । अनुव्यचलत् । मतोदात्तवता तिङाऽपि समासः ” इति वातिकात्समासः । सुपां नाम्ना। कुम्भ- कार इत्यादि । “ उपपदमतिङ्" [ पा० सू० २-२-१९ ] इति समासः । स च " गतिकारकोपपदानां कृद्भिः समासवचनं प्राक्सुबुत्पत्तेः " इति परिभाषया भवति सुबुत्पत्तेः प्राक् । अत्रोत्तरपदे सुबुत्पत्तेः प्रागित्यर्थात् । अन्यथा चर्मक्रीतीत्यादौ नलोपानापत्तेः । सुपां धातुना । उत्तरपदं धातुमानं न सुप्तिङन्तम् । कटपूः । आय- तस्तूः । “ क्विब्वचिप्रच्छयायतस्तुकटजश्रीणां दीर्घश्च" इति वार्तिकात् । तिङ तिङा । पिबतखादता पचतभृज्जतेत्यादिः । आख्यातमाख्यातेन क्रियासातत्ये" इति मयूरव्यंसकाद्यन्तर्गणसूत्रात् । तिङ सुवन्तेन । पूर्वपदं तिङन्तमुत्तरं सुबन्तम् । जहिस्तम्बः । “ जहि कर्मणा बहुलमाभीक्ष्ण्ये कर्तारं चाभिदधाति " इति मयूरव्यं. सकाद्यन्तर्गणसूत्रात् । अयं षड्विधोऽपि समासः सह सुपा " [पा० सू० २ १-४]. इत्यत्र योगविभागेन भाष्ये व्युत्पादितः स्पष्टः शब्दकौस्तुभादौ ॥ १ ॥ ( २८ ) स्वयं भाष्यादिसिद्धं तद्भेदं व्युत्पाद्य प्राचीनवैयाकरणोक्तविभागस्याव्याप्त्यतिव्या- प्त्यादिभिस्तल्लक्षणस्य प्रायिकत्वं च दर्शयति- समासस्तु चतुर्धेति प्रायोवादस्तथा परः ॥ योऽयं पूर्वपदार्थादिप्राधान्यविषयः स च ॥ भौतपूर्ध्यात्सोऽपि रेखागवयादिवदास्थितः ॥ २ ॥ (२९) चतुर्धा, अव्ययीभावतत्पुरुषद्वंद्वबहुव्रीहिभेदात् । अयं प्रायोवादः । भूतपूर्वः, हन्भूः । काराभूः, आयस्तूः, वागर्थाविवेत्याद्यसंग्रहात् । तथा पूर्वपदार्थप्रधानोऽव्ययी- भावः, उत्तरपदार्थप्रधानस्तत्पुरुषः, उभयपदार्थप्रधानो द्वंद्वः, अन्यपदार्थप्रधानो बहुव्रीहिः, इत्यादिलक्षणमाप प्रायिकम् । उन्मत्तगङ्गम् , सूपप्रति, अर्धपिप्पली, द्वित्राः, शशकुशपलाशमित्यादौ परस्परव्यभिचारात् । तथा हि-उन्मत्तगङ्गमित्यव्य- यीभावे पूर्वपदार्थप्राधान्याभावादव्याप्तिः । अन्यपदार्थप्राधान्याहुव्रीहिलक्षणातिव्या- अन्यपदार्थे च संज्ञायाम् ” [ पा० सू० २-१.२१ ] इति समासात् । सूपप्रतीत्यव्ययीभाव उत्तरपदार्थप्राधान्यात्तत्पुरुषलक्षणातिव्याप्तिरव्ययीभावाव्याप्तिश्च । सुप्प्रतिना मात्रार्थे " [ पा० सू० २.१-९ ] इति समासः । अर्धपिप्पलीतितत्पुरुषे पूर्वपदार्थप्राधान्यसत्त्वादव्ययीभावातिव्याप्तिस्तत्पुरुषाव्याप्तिश्च । " अर्ध नपुंसकम् " [ पा० मू० २-२-२ ] इति समासात् । एवं पूर्वकाय इत्यादौ द्रष्टव्यम् । द्वित्रा इति बहुव्रीहावुभयपदार्थप्राधान्याद्वंद्वातिव्याप्तिबहुव्रीह्यव्याप्तिश्च । शशकुशपलाशमि- त्यादिद्वंद्वे समाहारान्यपदार्थप्राधान्याहुब्राह्यतिव्याप्तिद्वंद्वाव्याप्तिश्च स्यादिति भावः । प्तिश्च ।
- - कौण्डभट्टविरचितवैयाकरणभूषणसाराख्यव्याख्यासमेताः- (समासशक्तिनिर्णयः ) सिद्धान्ते त्वव्ययीभावाधिकारपठितत्वमव्ययीभावत्वमित्यादि द्रष्टव्यम् । असंभवश्चैषा- मित्याह-भौतपूर्व्यादित्यादि । रेखागवयादिनिष्ठलाङ्ग्लादेवस्तिवपश्वलक्षणत्ववदेते. षामपि न समासलक्षणत्त्वम् । बोधकता तु तद्वदेव स्यादिति भावः ॥ २ ॥ (२९) ननु पूर्वपदार्थप्राधान्यादि समासे सुवचनम् । तथा हि - समर्थः पदविधिः" [पा० सू० २-१-१] इति सूत्रे भाष्यकारैरनेकधोक्तेष्वाप पक्षेषु जहत्स्वार्थाजहत्स्वार्थप- क्षयोरेवैकार्थीभावव्यपेक्षारूपयोः पर्यवसानं लभ्यते । तत्राजहत्स्वार्थपक्ष उक्तव्यवस्था नासंभविनीत्याशङ्कां मनसिकृत्याऽऽह- जहत्स्वार्थाजहत्स्वार्थे वे वृत्ती ते पुनस्विधा । भेदः संसर्ग उभयं वेति वाच्यव्यवस्थिते ॥ ३ ॥ (३०) जहति पदानि स्वार्थ यस्यां सा जहत्स्वार्था । पदे वर्णववृत्तौ पदानामानर्थक्यमि- त्यर्थः । अयं भावः-समासशक्त्यैव राजविशिष्टपुरुषभानसंभवे न राजपुरुषपदयोरपि पुनस्तद्बोधकत्वं कल्प्यम् , वृषभयावकादिपदेषु वृषादिपदानामिव । *अन्यथा राजप- देन विग्रहवाक्य इव राज्ञः स्वातन्त्र्येणोपस्थितिसत्त्वादृद्धस्य राज्ञः पुरुष इत्यत्रेव ऋद्धस्य राजपुरुष इत्यस्याप्यापत्तेरिति । अजहदिति । न जहति पदानि स्वार्थ यस्यां साऽजहत्स्वार्था । अयमभिप्रायः-राजपुरुषादिसमासादौ नातिरिक्ता शक्तिः कल्पकाभावात् । क्लप्तराजादिपदादेवार्थोपस्थितिसंभवे तत्कल्पनस्य गौरवपराहतत्वाच्च । क्लप्तशक्तित्यागोऽप्यप्रामाणिकः कल्प्येत । तथा चाऽऽकाङ्क्षादिवशात्क्लप्तशक्त्यैव विशिष्टार्थबोधः । अयमेव व्यपेक्षापक्षो मतान्तरत्वेन भाष्यकारैरुक्तः । न चात्र मते समास ऋद्धस्येतिविशेषणान्वयापत्तिः । " सविशेषणानां वृत्तिन वृत्तस्य वा विशेषण- योगो न ” इति वातिकात् । तथा चैतन्मतवादिनां पूर्वोत्तरपदार्थसत्त्वात्पूर्वपदार्थ- प्रधान इत्यादिव्यवस्था सूपपादेति भावः । प्रसङ्गावृत्तिभेदमाप निरूपयति-ते पुनरिति । द्वे अपि वृत्ती त्रिविधे वाच्यत्रैविध्यात् । वाच्यमेवाऽऽह-भेद इत्यादि। भेदोऽन्योन्याभावः । तथा च राजपुरुष इत्यादावराजकीयभिन्न इति बोधः । अस्या- वाच्यत्वे च राजपुरुषः सुन्दर इतिवद्राजपुरुषो देवदत्तस्य चेत्याप स्यात् । वाच्यत्वे तद्विरोधान्नैवं प्रयोग इति भावः । राजसंबन्धवानित्येव शाब्दमानं भेदस्तूत्तरकालमुप- तिष्ठत इत्याशयेनाऽऽह-संसर्ग इति । विनिगमनाविरहमस्वामिकेऽपि राजपुरुष इत्या- दिप्रयोगापत्तिं च मनसि कृत्वोभयं वाच्यमित्याह-उभयं वेति । तथा चाराजकीय- भिन्नो राजसंबन्धवांश्चायमिति बोधः ॥ ३ ॥ (३०) * वृत्तौ व्यपेक्षारूपसामर्थ्यावगमे । १ छ. 'स्थितम् । ज भट्टोजिदीक्षितविरचितवैयाकरणसिद्धान्तकारिकाः । (समासशक्तिनिर्णयः ) व्यपेक्षावादस्यैव युक्तिभाष्यविरुद्धत्वात्तन्मूलकः पूर्वपदार्थप्रधान इत्याद्युत्सर्गोऽप्य- युक्तः । किं तु रेखागवयन्यायेनोत्सर्गोऽपि परम्परयैव बोधक इत्याशयेन समाधत्ते- समासे खलु भिन्नैव शक्तिः पङ्कजशब्दवत् । बहूनां वृत्तिधर्माणां वचनैरेव साधने । स्यान्महगौरवं तस्मादेकार्थीभाव आश्रितः ॥ ४॥ (३१) समास इति वृत्तिमात्रोपलक्षणम् | “ समर्थः पदविधिः " [पा० सू० २.१-१] इत्यत्र पदमुद्दिश्य यो विधीयते समासादिः स समर्थः, विग्रहवाक्यामिधाने शक्तः सन्साधुरिति सूत्रार्थस्य भाष्याल्लाभात् । पदोद्देश्यकविधित्वं च कृत्तद्धितसमासैकशेष- सनाद्यन्तधातुरूपासु पञ्चखपि वृत्तिष्वस्त्येव । शक्त्यखीकर्तृणां व्यपेक्षावादिनां मते दूषणं शक्तिसाधकमेवेत्याशयेनाऽऽह-पङ्कजशब्दवदिति । पङ्कजनिकर्तुरपि योगा- देवोपस्थितौ *तत्रापि समुदायशक्तिर्न सिध्येत् । न च पद्मत्वरूपेणोपस्थितये तत्क- रुप्यत इति वाच्यम् । चित्रग्वादिपदेऽपि स्वामित्वेनोपस्थितये +तत्कल्पनावश्यकत्वात् । लक्षणयैव xतथोपस्थितिरिति चेत्पङ्कजपदेऽपि =सा सुवचा । एवं रथकारपदेऽपि । तथा च " वर्षासु रथकारोऽग्निमादधीत " इत्यत्रापि विना लक्षणां कृप्तयोगेन ब्राह्म- णादिविषयतयैवोपपत्तौ तत्कल्पनां कृत्वा जातिविशेषस्याधिकारित्वं प्रकल्प्यापूर्व- विद्याकल्पनमप्ययुक्तं स्यादिति भावः । साधकान्तरमाह-बहूनामिति । वृत्तेधर्मा विशेषणलिङ्गसंख्याद्ययोगादयस्तेषां वचनैः साधने गौरवमित्यर्थः । अयं भावः- विशिष्टशक्त्यस्वीकारे राज्ञः पुरुष इत्यत्रेव राजपुरुष इत्यत्रापि स्याद्विशेषणाद्यन्वयः, राजपदेन स्वतन्त्रोपस्थितिसत्त्वात् , विभाषावचनं च समासनियमवारणाय' कार्यम् । ननु " सविशेषणानाम् ” इति वचनान्न विशेषणाद्यन्वयः । विभाषावचनं च कृतमेवेत्याश. कां समाधत्ते-वचनैरेवेति । न्यायसिद्धमेव सूत्रम् । व्यपेक्षाविवक्षायां वाक्यस्यै- कार्थीभावे समासस्येति स्वभावत एव प्रयोगनियमसंभवात् । सविशेषणेत्यपि विशिष्ट- शक्तौ राज्ञः पदार्थैकदेशतयाऽन्वयासंभवान्यायसिद्धमिति भावः । अत एव व्यपेक्षा- पक्षमुत्पाद्य " अथैतस्मिन्व्यपेक्षायां सामर्थे योऽसावेकार्थीभावकृतो विशेषः स वक्त- व्यः" इति भाष्यकारेण दूषणमप्युक्तम् ॥ ४ ॥ (३१) तथा धवखदिरौ निष्कौशाम्बिोरथो घृतघटो गुडधानाः केशचूडः सुवर्णालंकारो * पङ्कजपदेऽपि । + तच्छब्देन रूढिः । ४ विशिष्टशक्त्युपस्थितिः । = लक्षणा । : विशि- टशक्त्यनभ्युपगमे । तत्र रूढिमुपगम्य । 0 प्रतिलोमजातीयस्य । न तु शक्तिविकल्पार्थम् । *व्यपेक्षावादस्याऽऽपातरमणीयत्वात् । १ क..ज. क्यााभि । २ छ.व । विशिष्टश । ५ - ३४ कौण्डभट्टविरचितवैयाकरणभूषणसाराख्यव्याख्यासमेताः- ( समासशक्तिनिर्णयः ) द्विदशाः सप्तपर्ण इत्यादावितरेतरयोगांतिकान्तयुक्तपूर्णमिश्रसंघातविकारसुच्प्रत्ययलोपो वीप्साद्यर्थो वाचनिको वाच्य इत्यतिगौरवं स्यादिति दूषणान्तरमाह- चकारादिनिषेधोऽथ बहुव्युत्पत्तिभञ्जनम् ॥ कर्तव्यं ते न्यायसिद्धं त्वस्माकं तदिति स्थितिः ॥ ५॥ (३२) आदिना घनश्यामः, हंसगमनः, इत्यादाविवादीनां पूर्वोक्तानां च संग्रहः । दूष- णान्तरमाह-बहुव्युत्पत्तिभञ्जनमिति । अयमाशयः-चित्रगुरित्यत्र स्वाम्यादि- प्रतीतिरनुभवसिद्धा । न च *तत्र लक्षणा । प्राप्तोदको ग्राम इत्यादौ +तदसंभवात् । $प्राप्तिकभिन्नमुदकमित्यादिबोधोत्तरं तत्संबन्धिग्रामलक्षणायामप्युदककर्तृकप्राप्तिकर्म ग्राम इत्यर्थालाभात् । प्राप्तेतिक्तप्रत्ययस्यैव कर्थकस्य कर्मणि लक्षणेति चेत्तहि समा. नाधिकरणप्रातिपदिकार्थयोरभेदान्वयव्युत्पत्तेरुदकाभिन्नप्राप्तिकर्मेति स्यात् । 'अन्यथा समानाधिकरणप्रातिपदिकार्थयोरभेदान्वयव्युत्पत्तिभङ्गापत्तेः । प्राप्तेर्धात्वर्थतया कर्तृतासं- बन्धेन भेदेनोदकस्य तत्रान्वयासंभवाच्च । अन्यथा देवदत्तः पच्यत इत्यत्र -कर्तृतासंब- न्धेन देवदत्तस्यान्वयसंभवेनानन्वयानापत्तेः । अथोदकाभिन्नकर्तृका प्राप्तिरिति बोधो- त्तरं तत्संबन्धिग्रामो लक्ष्यत इति चेन्न । प्राप्तेर्धात्वर्थतया क्तार्थकर्तरि विशेष्यताया असंभवात् । प्रकृतिप्रत्यययोः प्रत्ययार्थप्राधान्यमिति व्युत्पत्तेः । प्राप्तपदे प्राप्तेविशे- प्यत्वे तस्या एव नामार्थत्वेनोदकेन सममभेदान्वयापत्तेश्च । एवमूढरथः, उपहृतपशुः, उद्धृतोदना, बहुपाचिकेत्यादावपि द्रष्टव्यम् । अत्र हि रथकर्मकवहनकर्ता, पशुकर्मको. पहरणोद्देश्यः, ओदनकर्मकोद्धरणावधि,: बहुपाककत्रधिकरणम्, इति बोधाभ्यु- पगमात् । अतिरिक्तवृत्तिपक्षे च घटत्वविशिष्टे घटपदस्येवोदककर्तृकप्राप्तिकर्मत्वविशिष्टे प्राप्तोदक इत्यादिसमुदायशक्त्यैव निर्वाह इति भावः ॥ ५ ॥ ( ३२ ) , साधकान्तरमाह- - अषष्ठयर्थबहुव्रीहौ व्युत्पत्त्यन्तरकल्पना ॥ क्लृप्तत्यागश्वास्ति तव तत्कि शक्तिं न कल्पयेः ॥ ६॥ (३३) अयं भावः-चित्रगुरित्यादिषु चित्रगोः स्वाम्यादिप्रतीतिर्न विना शक्तिमुपपद्यते । न च xतत्र लक्षणा । सा हि न चित्रपदे । चित्रस्वामी गौरितिबोधापत्तेः । नापि गोपदे । गोः स्वामी चित्र इत्यन्वयबोधापत्तेः । चित्रादिमात्रस्य लक्ष्यैकदेशत्वेन तत्र * स्वामिनि वाक्यस्यति शेषः । + वाक्यलक्षणयाऽप्यभीप्सितार्थबोधानिर्वाहादिति भावः । तदेव विशदयति-प्राप्तीति । गा तत्त्वं समानविभाक्तिकत्वम् । भेदाङ्गीकारे । x समुदायघ- टकपूर्वोत्तरपदयोरित्यर्थः । १. ख. ग. घ. अ. गादिका। च. 'गानिष्का । २ छ. ज. तशक्तिप। ३ क. ज. 'स्य लक्षणायां ल भट्टोजिदीक्षितविरचितवैयाकरणसिद्धान्तकारिकाः। ३५ (समासशक्तिनिर्णयः) गवादेरन्वयायोगात् । न च चित्राभिन्ना गौरिति शक्त्युपस्थाप्ययोरन्वयबोधोत्तरं ताह- शगोस्वामी गोपदेन लक्ष्यत इति वाच्यम् । गोपदस्य चित्रपदस्य वा विनिगमनाविर- हेण लक्षकत्वासंभवात् । न च गोपदे साक्षात्संबन्ध एव विनिगमक इति वाच्यम् । एवमपि प्राप्तोदकः कृतविश्व इत्याद्यषष्ठ्यर्थबहुव्रीहौ विनिगमकाप्राप्तेः । यौगिकानां कत्रर्थकतया साक्षात्संबन्धाविशेषात् । न च पदद्वये लक्षणेति नैयायिकोक्तं युक्तम् । बोधावृत्तिप्रसङ्गात् । न च परस्परं तात्पर्यग्राहकत्वादेकस्यैवैकदा लक्षणा न द्वयोरिति न बोधावृत्तिरिति वाच्यम् । एवमपि विनिगमनाविरहतादवस्थ्येन लक्षणाया असंभ. वात् । न च चरमपद एव सा प्रत्ययार्थान्वयानुरोधात्, प्रत्ययानां संनिहितपदार्थगत- स्वार्थबोधकत्वव्युत्पत्तेरिति वाच्यम् । *एवं हि बहुव्रीह्यसंभवापत्तेः । अनेकमन्यप- दार्थे ' [ पा० सू० २-२-४ ] इत्यनेनानेकसुबन्तानामन्यपदार्थप्रतिपादकत्वे तद्वि- धानात् । किं चैवं सति घटादिपदेष्वाप चरमवर्ण एव वाचकताकल्पना स्यात् । पूर्व- पूर्ववर्णानां तात्पर्यग्राहकत्वेनोपयोगसंभवात् । एवं सति चरमवर्णमात्रश्रवणेऽर्थबोधाप. त्तिरिति चेदत्राप्युदकपदमात्रश्रवणादर्थप्रत्ययापत्तिस्तुल्येत्यन्यत्र+ विस्तरः । एवं चाषष्ठ्यर्थबहुव्रीहौ व्युत्पत्त्यन्तरकल्पना, उक्तयुक्तेः, अगत्या शक्त्यन्तरकल्पना । कृप्तत्यागः, क्लप्तशक्त्योपपत्तिरिति = व्युत्पत्तित्यागश्च तवास्ति तत्कि सर्वत्र समासे शक्तिं न कल्पयेरिति वाक्यार्थः । यत्तु व्यपेक्षावादिनो नैयायिकमीमांसकादयः न समासे शक्तिः । राजपुरुष इत्यादौ राजपदादेः संबन्धिलक्षणयैव राजसंबन्ध्य- भिन्नः पुरुष इति बोधोपपत्तेः । अत एव राज्ञः पदार्थैकदेशतया न तत्र शोभनस्यत्यादि- विशेषणान्वयः । न वा घनश्यामो निष्कौशाम्बिोरथ इत्यादाविवादिप्रयोगापत्तिः । उक्तार्थतयेवक्रान्तादिपदप्रयोगासंभवात् । न वा “ विभाषा " [पा० सू० २-१-११] इतिसूत्रावश्यकत्वम् । लक्षणया राजसंबन्ध्यभिन्न इति बुबोधयिषायां समासस्य राजसंबन्धवानिति बुबोधयिषायां विग्रहस्येत्यादिप्रयोगनियमसंभवात् । नापि पङ्क- जपदप्रतिबन्दी शक्तिसाधिका । तत्रावयवशक्तिमजानतोऽपि बोधात् । न च शक्त्य- ग्रहे लक्षणया तेभ्यो विशिष्टार्थप्रत्ययः संभवति । अत एव राजादि- पदशक्त्यग्रहे राजपुरुषश्चित्रगुरित्यादौ न बोधः । नापि चित्रगुरित्यादौ लक्षणासंभवेऽ- प्यषष्ठ्यर्थबहुव्रीही लक्षणाया असंभवः । बहुव्युत्पत्तिभञ्जनापत्तेरिति वाच्यम् । प्राप्तो- दक इत्यादावुदकपद एव लक्षणास्वीकारात् । पूर्वपदस्य यौगिकत्वेन तल्लक्षणया धातु- प्रत्ययतदर्थज्ञानसाध्यतया विलम्बितत्वात् । प्रत्ययानां संनिहितपदार्थगतस्वार्थवोधकत्व- व्युत्पत्त्यनुरोधाच्च । घटादिपदे चातिरिक्ता शक्तिः कल्प्यमाना विशिष्टे कल्प्यते विशि- * उत्तरपदस्य लक्षकत्वे । + भूषणे । = प्रकृतिप्रत्यययोरितिव्युत्पत्तित्यागः । १ . छ. ज. काद्यर्थ ।
- . कौण्डभट्टविरचितवैयाकरणभूषणसाराख्यव्याख्यासमेताः- (समासशक्तिनिर्णयः) ष्टस्यैव सङ्कीततत्वात् । बोधकत्वस्यापि प्रत्येकं वर्णेष्वसत्त्वात्। प्रकृते चात्यन्तसंनिधानेन प्रत्ययार्थान्वयसौलभ्यायोत्तरपद एव सा कल्प्यत इति विशेषः । स्वीकृतं च घटादि- पदेष्वपि चरमवर्णस्यैव वाचकत्वं मीमांसकंमन्यैरित्याहुः । अत्रोच्यते--समासे शक्त्य. स्वीकारे तस्य प्रातिपदिकसंज्ञादिकं न स्यात् । अर्थवत्त्वालाभेन " अर्थवदधातुरप्रत्ययः प्रातिपदिकम् ” .[ पा० सू० १.२.४५ ] इत्यस्याप्रवृत्तेः । न च कृत्तद्धित. समासाश्व" [ पा० सू० १.२.४६ ] इत्यत्र समासग्रहणात्सा । तस्य नियमार्थ- ताया भाष्यसिद्धाया वैयाकरणभूषणे स्पष्टं प्रतिपादितत्वात् । समासवाक्ये शक्त्यभा- वेन शक्यसंबन्धरूपलक्षणाया अप्यसंभवेन लाक्षणिकार्थवत्त्वस्याप्यसंभवात् । अथ " तितस् " इत्यारभ्य ङ्योस्सुप् ” इति तिप्प्रत्याहारो भाष्यसिद्धः । तमादायाति- प्प्रातिपदिकमित्येव सूज्यताम् , कृतमर्थवदादिसूत्रद्वयेन, समासग्रहणं च नियमार्थमस्तु, तथी चातिप्तिवन्तभिन्न प्रातिपदिकमित्यर्थात्समासस्यापि सा स्यादिति चेत्तथाऽपि प्रत्येकं वर्णेषु संज्ञावारणायार्थवत्त्वावश्यकत्वेन *समासाव्याप्तितादवस्थ्यमेव । तथा च प्रातिपदिकसंज्ञारूपं कार्यमेवार्थवत्त्वमनुमापयति धूम इव वह्निम् । किं चैवं चित्रगुमान- येत्यादौ कर्मत्वाद्यनन्वयापत्तिः । प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वव्युत्पत्तेः । विशिष्टोत्तरमेव प्रत्ययोत्पत्तर्विशिष्टस्यैव प्रकृतित्वात् । यत्तु संनिहितपदार्थगतस्वार्थ. बोधकत्वव्युत्पत्तिरेव कल्प्यत इति तन्न । उपकुम्भमर्धपिप्पलीत्यादौ पूर्वपदार्थे विभ- क्त्यर्थान्वयेन व्यभिचारात् । न च तत्रापि संनिधानमेव । आनुशासनिकसंनिधेर्विव- क्षितत्वात् । तथा च यत्पदोत्तरं याऽनुशिष्टा सा तदर्थगतं स्वार्थ बोधयति । समासे च समस्यमानपदोत्तरमेवानुशासनमिति वाच्यम् । अर्थवत्सूत्रेण विशिष्टस्यैव प्रातिपदि- कत्वेन विशिष्टोत्तरमेव विभक्त्यनुशासनात् । अथ प्रकृतित्वाश्रये विभक्त्यर्थान्वय इत्येव कल्प्यत इति चेत्तर्हि पङ्कजमानय दण्डिनं पश्य शूलिनं पूजयेत्यादौ पङ्कदण्ड- शूलेष्वानयनदर्शनपूजनादेरन्वयप्रसङ्गः । अघटानानयेत्यत्र घटेऽप्यानयनान्वयापत्तेश्च । न च दण्डादीनां विशेषणतया न तत्राऽऽनयनाद्यन्वयः । पाकान्नीलः, धर्मात्सुखीत्यादौ पाकधर्मादिजन्यताया रूपसुखादावनन्वयप्रसङ्गात् । यच्च प्रकृत्यर्थत्वं तज्जन्यज्ञानविषय- त्वमानं तच्चात्राविरुद्धमिति, तन्न । घटं पश्यत्यत्र घटपदात्समवायेनोपस्थिताकाशवार- णाय वृत्त्या प्रकृत्यर्थत्वस्याऽऽवश्यकत्वात् । अथ प्रत्ययप्रावर्तिपदजन्योपस्थितिविशे- ष्यत्वं प्रकृत्यर्थत्वमिति चेन्न । गामानयति कृष्णो दण्डेनेत्यत्र कृष्णे तृतीयार्थान्वय. प्रसङ्गात् । अथ समस्यमानपदार्थगतस्वार्थबोधकत्वं समासोत्तरविभक्तेः कल्प्यत इति चेत्तन्न । अकृप्तकल्पनां कृप्तव्युत्पत्तित्यागं चापेक्ष्य समुदायशक्तिकल्पनस्यैव युक्त. * अर्थवत्त्वाभावादिति भावः । + अथ प्रत्ययानां प्रकृत्यर्थगतस्यार्थबोधकत्वम् । १ च. °था च सुप्तिङन्त । २ ङ. छ. ज. संङ्गात् । अ ।
. . भट्टोजिदीक्षितविरचितवैयाकरणसिद्धान्तकारिकाः। ३७ (समासशक्तिनिर्णयः) त्वादिति दिक् । अपि च समासे विशिष्टशक्त्यस्वीकारे राजपुरुषश्चित्रगुनीलोत्पलमि- त्यादौ सर्वत्रानन्वयप्रसङ्गः । राजपदादेः संबन्धिनि लक्षणायामपि तण्डुलः पचतीत्यादौ कर्मत्वादिसंसर्गेण तण्डुलादेः पाकादावन्वयवारणाय प्रातिपदिकार्थप्रकारकबोधं प्रति विभक्तिजन्योपस्थितेहेतुताया आवश्यकत्वात्पुरुषादेस्तथात्वाभावात् । *तण्डुलः शुभ्र इत्यादौ च प्रातिपदिकार्थकप्रथमार्थे तण्डुलादेस्तस्य च शुक्लेऽभेदेनैवान्वयः । +शुभ्रेण तण्डुलेनेत्यादौ च विशेषणविभक्तिरभेदार्था पाठिणको वाऽन्वय इति नातिप्रसङ्गः । तथा च समासे परस्परमन्वयासंभवादावश्यिकैव समुदायस्य तादृशे विशिष्टार्थे शक्तिः। किं च राजपुरुष इत्यादेः संबन्धिनि संबन्धे वा लक्षणा । नाऽऽद्यः । राज्ञः पुरुष इतिविवरणविरोधात्समाससमानार्थकवाक्यस्यैव विग्रहत्वात् । अन्यथा --तस्माच्छक्ति- निर्णयो न स्यात् । नान्त्यः । राजसंबन्धरूपः पुरुष इतिबोधप्रसङ्गात् । विरुद्ध- विभक्तिरहितप्रातिपदिकार्थयोरभेदान्वयव्युत्पत्तेरित्यादि प्रपञ्चितं वैयाकरणभूषणे । अत एव " वषष्टकर्तुः प्रथमभक्षः इत्यत्र न भक्षमुद्दिश्य प्राथम्यविधानं युक्तमेकप्रसरत्व- भङ्गापत्तेरिति ) तृतीये । ">यङ्गैः स्विष्टकृतं यनति' इत्यत्राङ्गानुवादेन त्रित्वविधानं न युक्तम् । एकप्रसरतामझापत्तेरिति दशमे च निरूपितं संगच्छते । संगच्छते चारु- णाधिकरणारम्भः । अन्यथा अरुणयैकहायन्या पिङ्गाक्ष्या सोमं क्रीणाति" इत्यत्रा. रुणपदवदितरयोरप्येकाब्दत्वादिगुणमात्रवाचकतयाऽमूर्तत्वात्क्रीणातौ करणत्वासंभवस्य तुल्यत्वादारुण्यस्यैव वाक्या दशङ्काया असंभवादिति प्रपञ्चितं भूषणे । तस्मात्समासश- क्तिपक्षो जैमिनीयैरवश्याभ्युपेय इत्यास्तां विस्तरः ॥ ६ ॥ (३३) राजपुरुष इत्यादौ राजा चाप्तौ पुरुषश्चेत्येव विग्रहः । चित्रगुरित्यादौ च चित्राणां गवामयमित्येव, समानार्थत्वानुरोधात् । यद्यपि प्रथमान्तानामेव बहुव्रीहिरिति “ शेषो बहुव्रीहिः " [ पा० सू० २-२-२३ ] इति सूत्राल्लभ्यत इति प्रथमान्तं पक्षे वाक्यं चित्रा गावो यस्येत्येवं संभवत्येव, “ षष्ठी" [पा० सू० २-२-९] इति समास- विधानाद्राज्ञः पुरुष इति पक्षे वाक्यं तथाऽपि तस्य न विग्रहत्वं भिन्नार्थत्वात् । किं तूक्तस्यैवेति मीमांसकाः । तान्प्रसङ्गान्निरस्यति- आख्यातं तद्धितकृतोयत्किचिदुपदर्शकम् ।। गुणप्रधानभावादौ तत्र दृष्टो विपर्ययः ॥ ७॥ (३४) . पूर्वोक्तस्यात्र व्यभिचारोऽतस्तण्डुल इति ।+ तद्वदत्रापि व्यभिचारोऽत आह-शुभ्रति । 1. विग्रहवाक्यात् । ) पञ्चमपादे दशमाधिकरणे । । अत्रापि समाससत्त्वादिति भावः। - सप्तम. पादे तृतीयाधिकरणे। १ च. प्रसङ्गत्व' । २ ङ. रताभ ।
- कौण्डभट्टविरचितवैयाकरणभूषणसाराख्यव्याख्यासमेताः ( शक्तिनिर्णयः) तद्धितकृतोर्यत्किचिदर्थबोधकं विवरणमाख्यातं तत्र विपर्ययो दृष्टः । तथा हि- आक्षिकः कुम्भकार इत्यत्राक्षकरणकव्यापाराश्रयः, कुम्भानुकूलव्यापाराश्रय इति बोधः । अक्षैर्दीव्यति कुम्भं करोतीत्यत्राक्षकरणिका देवनानुकूला भावना, कुम्भोत्पत्त्य- नुकूला भावनेति बोधः । कृत्प्रत्यये कारकाणामाख्याते भावनायाः प्राधान्यं वदतो मीमांसकस्यापीति गुणप्रधानभावांशव्यत्यासो न विवरणत्वबाधक इति नात्र पाक्षिकस्य चित्रा गावो यस्येत्यादेविग्रहत्वे बाधकमस्तीति भावः ॥ ७ ॥ (३४ ॥ नन्वस्तूक्तरीत्या सर्वत्र समाते शक्तिरस्तु च तथा विग्रहस्तथाऽपि षष्ठीतत्पुरुषकर्म- धारययोः शक्तिमत्त्वाविशेषान्निषादस्थपत्यधिकरणसिद्धान्तसिद्धिर्न स्यादित्यत आह- पर्यवस्यच्छाब्दबोधाददूरपाक्क्षणस्थितेः ॥ शक्तिग्रहेऽन्तरङ्गत्वबहिरङ्गत्वचिन्तनम् ॥ ८॥ (३५) ( इति भट्टोजिदीक्षितविरचितकारिकासु समासशक्तिनिरूपणम् ।) पर्यवस्यंश्चासौ शाब्दबोधश्च तस्माददूरश्चासौ प्राक्क्षणश्च तदानींतनलार्धवमादाया- धिकरणाविरोध इत्यर्थः । अयं भावः-*निषादस्थपतिपदं समासशक्तिपक्षे निषाद- रूपे निषादानां च स्थपतौ निषादखामिके पुरुषान्तरे चेत्येवं सर्वत्र शक्तत्वान्नानार्थ- कम् । तथा च “ नानार्थे तात्पर्याद्विशेषावगतिः ” इति न्यायेन तत्कल्पनायां पदद्वये पूर्वोपस्थितार्थ एवोपस्थित्यादिलाघवात्तत्कल्प्यत इति । परेषामपि सति तात्पर्थे यष्टीः प्रवेशयेतिवल्लक्षणाया दुर्वारत्वात्तात्पर्यमेव कल्प्यकोटाववशिष्यत इति दिक्॥८॥(३५) इति कौण्डभट्टविरचिते वैयाकरणभूषणसारे समासशक्ति- निरूपणं समाप्तम् । ( अथ शक्तिनिर्णयः।) -- शक्तिप्रसङ्गात्तस्याः स्वरूपमाह- इन्द्रियाणां स्वविषयेष्वनादिर्योग्यता यथा । अनादिरथैः शब्दानां संबन्धो योग्यता तथा ॥१॥ (३६) इन्द्रियाणां चक्षुरादीनां स्वविषयेषु चाक्षुषेषु घटादिषु यथाऽनादिर्योग्यता तदी- यचाक्षुषादिकारणता तथा शब्दानामप्यर्थैः सह तद्बोधकारणतैव योग्यता सैव शक्ति- रित्यर्थः । ननु न बोधकारणत्वमनादिभूतं शक्तिः, आधुनिकदेवदत्तादिपदे तदभावात् । * स्थपतिशब्दः स्वामिपर्यायः । १ छ. कुम्भोत्पत्त्यनु भट्टोजिदीक्षितविरचितवैयाकरणसिद्धान्तकारिकाः। ३९ (शक्तिनिर्णयः) अन्यथा पित्रादिसंङ्केताज्ञानेऽप्यन्वयबोधप्रसङ्गः । लाक्षणिकातिव्याप्तेश्चेति सङ्केतज्ञान- मपि हेतुर्वाच्यम् । तथा चाऽऽवश्यकत्वात्स *एव शक्तिरस्तु, स चाऽऽधुनिके पित्रादे- र्गवादौ चेश्वरस्येति चेदत्रोच्यते । सङ्केतो न स्वरूपेण हेतुः, =अगृहीतशक्तिकादर्थ- बोधप्रसङ्गात् । नापि सामान्यतो ज्ञातः, प्रमेयत्वादिना तज्ज्ञानेऽपि बोधप्रसङ्गात् । नापि सङ्केतत्वेन तज्ज्ञानं हेतुः, गवादिपदेष्वीश्वरादेः सङ्केतत्वेन तज्ज्ञानशून्यानां +लौकि- कमीमांसकादीनां तत्तदर्थबोधजनकत्वग्रहवतामेव बोधेन व्यभिचारात् । न चार्थ- धीजनकतावच्छेदकत्वेन तज्ज्ञानं हेतुस्ततोऽपि लाघवेनार्थधीजनकत्वेनैव हेतुतायाम- स्मित्पक्षसिद्धेः । न चाऽऽधुनिकदेवदत्तादौ सङ्केतज्ञानादेव बोधेनास्य व्यभिचारः । तत्रापीदं पदमेनमर्थ बोधयत्वितीच्छाग्रहे पदे तदर्थबोधकत्वस्यावगाहनेन व्यभिचारा- भावात् । न च स्वातन्त्र्येणार्थबोधकताज्ञानं कारणं वाच्यमन्यथा नेदं तद्धीजनकमिति जाअतोऽस्माच्छब्दादयमर्थो बुद्धोऽनेनेति जानतस्तद्ग्रहापत्तरिति वाच्यम् । नेदं तद्धीजनकमिति ग्रहवतो बाधेन पदे परग्रहं जानतोऽपि तद्ग्रहासंभवात् । अन्यथा भ्रान्तिज्ञस्यापि भ्रान्तत्वापत्तरिति । इदं चार्थधीजनकत्वं पित्रादिसङ्केतज्ञानाद्गृह्यतेऽ. तस्तज्ज्ञानात्पूर्वं न बोधः । नापि लाक्षणिकोच्छेदापत्तिरिष्टत्वाच्छक्तिग्राहकव्यवहारस्य मुख्यलक्ष्यसाधारण्यात्। किं च प्रत्यक्षादिजन्योपस्थितेः शाब्दबोधानङ्गत्वात् । शाब्दबोधं प्रति शक्तिजन्योपस्थितेलक्षणाजन्योषस्थितेश्च कारणत्वं वाच्यम् । तथा च कार्यकारण- भावद्वयकल्पने गौरवं स्यात् । अस्माकं पुनः शक्तिजन्योपस्थितित्वेनैव हेतुतेति लाघवम् । अपि च लक्षणावृत्तिस्वीकारे कार्यकारणभावस्य प्रत्येकं व्यभिचारः। शक्तिजन्योपस्थिति विनाऽपि लक्षणाजन्योऽपि स्थितितः शाब्दबोधात् । न चाव्यवहितोत्तरत्वसंबन्धेन तत्तदुपस्थितिमत्त्वं कार्यतावच्छेदकं तत्तदुपस्थितित्वं च कारणतावच्छेदकम्, अनन्तका- र्यकारणभावप्रसङ्गात् । किं च पदार्थोपस्थिति प्रत्यापि शक्तिज्ञानत्वेन लक्षणा ज्ञानत्वेन च हेतुतेति व्यभिचारो गौरवं च प्राग्वदेव द्रष्टव्यम् । न चेदं पदमेतदर्थबोधकमिति शक्तिज्ञानकार्यकारणभावकल्पनेऽपि तत्तदर्थभेदेनानेककार्यकारणभावकल्पनेऽपि गौरवं तवापि समानम् , परस्परव्यभिचारवारणायाव्यवहितोत्तरत्वघटितत्वे च सुतरामिति • वाच्यम् । शक्तिभ्रमानुरोधेन तत्तत्पदतत्तदर्थभेदेन कार्यकारणभावानन्त्यस्य तवापि साम्यात् । लक्षणाकार्यकारणभावकल्पनागौरवं परं तवातिरिच्यते । अथ वृत्तिजन्यो- पस्थितित्वेनैव शाब्दबोधहेतुना वृत्तिज्ञानत्वेन च पदार्थोपस्थितिकारणतेत्येवं मया * सङ्केत एव । - सङ्केतत्वेनेत्यर्थः । = अज्ञातसङ्केतात् । + वैदिकानां कथंचिदीश्वरबोधसं. भवाल्लौकिकेति ।। वैयाकरणपक्षसिद्धेः । १ ज. बोधनेन । २ ङ, च. छ. त्र्येण बो। ३ ज. ति ज्ञानवतोऽप्यस्मा। ४ ज. लक्ष- णासा । ५ ज. तिवतः ।
कौण्डभट्टविरचितवैयाकरणभूषणसाराख्यव्याख्यासमेता:- (शक्तिनिर्णयः) वाच्यमिति चेन्न । शक्तिलक्षणान्यतरत्वस्य शाब्दबोधहेतुपदार्थोपस्थित्यनुकूलपदप- दार्थसंबन्धत्वस्य वा वृत्तित्वस्य कारणतावच्छेदकत्वात् । शक्तित्वमपेक्ष्य गौरवाच्छा- ब्दबोधहेतुतावच्छेदकस्य पदार्थोपस्थितिवृत्तेरज्ञाने तद्घटितकार्यकारणभावग्रहस्यासं. भवात् । अथ ममापि शक्तिज्ञानत्वेनैव हेतुता शक्यसंबन्धरूपलक्षणायां शक्तेराप प्रवेशादिति चेन्न । शक्तिज्ञानपदार्थोपस्थित्योः कार्यकारणभावे समानविषयत्वस्याऽऽ. वश्यकत्वात् । अन्यथा गङ्गातीरयोः संबन्धाग्रहवतो गङ्गापदशक्तिं जानतोऽपि गङ्गायां घोष इति वाक्यात्तीरबोधप्रसङ्गः । शक्तिज्ञानस्य हेतोः सत्त्वात् । अपि च घटमानयेति वाक्यं हस्तिनं च स्मरतो घटपदादिभ्यो घटादेर्गनाद्धस्तिपकस्य च समू- हालम्बनस्मरणवतो घटानयनवद्धस्तिपकस्यापि शाब्दबोधापत्तिः । समूहालम्बनरूपायां पदार्थोपस्थितौ वृत्तिजन्य[त्व?] सत्त्वात् । तथा च विषयतया शाब्दबोधं प्रति तदंशविषय- कवृत्तिजन्योपस्थितिहेतुरिति वाच्यम् । एवं च लक्षणाया अपि शक्तिज्ञानत्वेन हेतुत्वम- संभवदुक्तिकमिति । एतेन शक्तिप्रयोज्यैवोपस्थितिहेतुरिति न लक्षणा ज्ञानकार्यकारण- भावान्तरं ममापीति परास्तम् । प्रयोज्यत्वस्यानतिप्रसक्तस्य दुर्वचत्वाच्चेत्यादिकं विस्तरेण प्रपञ्चितं भूषणे ॥ १ ॥ (३६) नन्वेवं भाषादितो बोधदर्शनाद्बोधकतारूपा शक्तिस्तत्रापि स्यात् । तथा च साधु- ताऽपि स्यात् । शक्तत्वस्थैव साधुताया व्याकरणाधिकरणे प्रतिपादनादित्याशङ्कां द्विधा समाधत्ते- असाधुरनुमानेन वाचकः कैश्विदिष्यते ।। वाचकत्वाविशेषे च नियमः पुण्यपापयोः॥२॥ (३७) असाधुर्गाव्यादिः । अनुमानेन साधुशब्दमनुमाय वाचको बोधकः कैश्चिदि- प्यते । तथा च लिपिवत्तेषां साधुस्मरण एवोपयोगो न तु साक्षात्तद्वाचकत्वमतो न साधुत्वमिति भावः । उक्तं हि वाक्यपदीये- ते साधुष्वनुमानेन प्रत्ययोत्पत्तिहेतवः । तादात्म्यमुपगम्येव शब्दार्थस्य प्रकाशकाः । न शिष्टैरनुगम्यन्ते पर्याया इव साधवः । न यतः स्मृतिमात्रेण तस्मात्साक्षादवाचकाः । अम्बाम्बेति यदा बालः शिक्ष्यमाणः प्रभाषते । अव्यक्तं तद्विदां तेन व्यक्ते भवति निर्णयः । - १ छ. तौ पदजन्यत्वस । २ ङ, छ. ज्ञाने का । ३ च षण नि' ।। च. छ. तिशास्त्रेण ।
भट्टोजिदीक्षितविरचितवैयाकरणसिद्धान्तकारिकाः। ४१ ( शक्तिनिर्णयः) " एवं साधौ प्रयोक्तव्ये योऽपभ्रंशः प्रयुज्यते । तेन साधुव्यवहितः कश्चिदर्थोऽभिधीयते " इति ॥ नन्वपभ्रंशानां साक्षादवाचकत्वे किं मानं शक्तिकल्पकव्यवहारादेस्तुल्यत्वादिति चेत् । सत्यम् । तत्तद्देशभेदमिन्नेषु तेषु शक्तिकल्पने गौरवात् । न च पर्यायतुल्यता शङ्कया तेषां सर्वदेशेष्वेकत्वाद्विनिगमनाविरहेण सर्वत्र शक्तिकल्पना । न ह्यपभ्रंशे तथा । अन्यथा भाषाणां पर्यायतया गणनापत्तेश्च । एवं शक्तत्वमेवास्तु साधुत्वमिति नैयायिकमीमांसकादीनां मतेनैव द्रष्टव्यम् । इदानी स्वमतमाह-वाचकत्वाविशेषे चेति । अयं भावः---अपभ्रंशानामशक्तत्वे ततो बोध एव न स्यात् । न च साधुस्मर- णात्ततो बोधस्तानविदुषां पामराणामपि बोधात्तेषां साधोरबोधाच्च । न च शक्तिभ्रमा- त्तेभ्यो बोधो बोधकत्वस्याबाधेन तद्ग्रहस्याभ्रमत्वात् । ईश्वरेच्छा शक्तिरिति मतेऽपि सन्मात्रविषयिण्यास्तस्या बाधाभावात् । शक्तेः पदार्थपदविशेषघटिताया भ्रमासंभवाचेति । उक्तंच वाक्यपदीये- " पारम्पर्यादपभ्रंशा विगुणेष्वभिधातृषु । प्रसिद्धिमागता येन तेषां साधुरवाचकः ॥ दैवी वाग्व्यवकर्णेयमशक्तैरभिधातृभिः । *अनित्यदर्शिनां त्वस्मिन्वादेन बुद्धिविपर्ययः " इति ॥ अवाचकोऽबोधकः, बुद्धिविपर्यय एत एव वाचका नान्य इति विपर्यय इत्यर्थः । किं च विनिगमनाविरहाद्भाषायामाप शक्तिः । न च तासां नानात्वं दोषः । संस्कृतवन्महाराष्ट्रभाषायाः सर्वत्रैकत्वेन प्रत्येकं विनिगमनाविरहतादवस्थ्यात् । किं चा. नुपूर्वी पदेऽवच्छेदिका सा च पर्यायेष्विव भाषायामप्यन्याऽन्यैवेति कस्तयोविशेष इति विमाव्यं सूरिभिः । तथा च संस्कृतवद्भाषाशब्दाः शक्ता एव । न च पर्यायतया भाषाणां गणनापत्तिः साधूनामेव कोशादौ विभागाभिधानात् । नन्वेवं साधुता तेषां स्यादित्यत आह-नियम इति । पुण्यजननबोधनाय साधूनां साधुभिर्भाषितव्यमिति विधिः, पापजननबोधनाय नासाधुभिरिति निषेधः । तथा च पुण्यजननयोग्यत्वं साधु- त्वम् । पापजननयोग्यत्वमसाधुत्वम् । तत्र जनकतावच्छेदिका च जातिस्तज्ज्ञापकं च कोशादि व्याकरणादि च । एवमेव राजसूयादेब्राह्मणे फलाजनकत्ववद्वादिशब्दानां नाश्चादौ साधुत्वमिति संगच्छते । आधुनिकदेवदत्तादिनाम्नामाप व्यक्षरमित्यादिमा- प्येण व्युत्पादितत्वात्साधुत्वमेवं च यः शब्दो यत्रार्थे व्याकरणे व्युत्पादितः स तत्रैव . * शब्दानित्यत्ववादिनाम् । । शक्तिविचारे । १ जणात्तेषां बो। ६ ४२ - कौण्डभट्टविरचितवैयाकरणभूषणसाराख्यव्याख्यासमेताः- ( नअर्थनिर्णयः) साधुरिति पर्यवसितम् । गौणानां गणे व्युत्पादनात्तत्पुरस्कारेण प्रवृत्तौ साधुत्वमेवाऽs- धुनिकलाक्षणिकानां त्वसाधुत्वमिष्टमेव । अत एव ब्राह्मणाय देहीत्यर्थे ब्राह्मणं देहीत्या- दिकं लक्षणयाऽप्यसाध्वित्यादि विस्तरेण प्रपञ्चितं भूषणे ॥ २॥ (३७) अतिरिक्तशक्तिग्रहोपायमाह- संबन्धशब्द संबन्धो योग्यता प्रति योग्यता । समयाद्योग्यता संविन्मातापित्रादियोग्यवत् ।। ३ ॥ (३८) (इति भट्टोजिदीक्षितविरचितकारकासु शक्तिनिर्णयः ।) संबन्धो विषयः । योग्यता प्रति योग्यता। संबन्धिशब्दं प्रति योग्यता विषय इति समयाब्यवहारात् । योग्यता संविच्छक्तिग्रहः, घटपदमत्र योग्यमेतत्संबन्धीति व्यवहारात्सा ग्राह्येत्यर्थः ॥ ३॥ (३८) इति रङ्गोनिमहात्मजकौण्डभविरचिते वैयाकरणभूषणसारे शक्तिनिर्णयः समाप्तः ॥ ( अथ नअर्थनिर्णयः ।) नर्थमाह- नसमासे चापरस्य प्राधान्यात्सर्वनामता । आरोपितत्वं नन्द्योत्सं न ह्यसोऽप्य(सर्वोऽतिसर्ववत् ॥१॥(३९) नसमासेऽपरस्योत्तरपदार्थस्य प्राधान्यात्सर्वनामता सिध्यतीति शेषः । अत एवाऽऽरोपितत्वमेव नञ्योत्यमित्यभ्युपेयमिति शेषः । अयं भावः-असर्व इत्यादावा- रोपितः सर्व इत्यर्थात्सर्वशब्दस्य प्राधान्याबाधात्सर्वनामता सिध्यति । अन्यथाऽ. तिसर्व इत्यत्रेव सा न स्यात् । घटो नास्तीत्यादावभावविषयकबोधे तस्य विशेष्यताया एव दर्शनात् । अस्मद्रीत्या च स आर्थो बोधो मानसः । तथा चासर्वस्मा इत्याद्यसिद्धि- प्रसङ्ग इति । अत्र चाऽऽरोपितत्वमारोपविषयत्वम् , आरोपमात्रमर्थो विषयत्वं तु संसर्ग इति निष्कर्षः । द्योत्यत्वोक्तिनिपातानां द्योतकत्वमभिप्रेत्य ॥ ३९ ॥ घटो नास्ति अब्राह्मण इत्यादावारोपबोधस्य सर्वानुभवविरुद्धत्वात्पक्षान्तरमाह- अभावो वा तदर्थोऽस्तु भाष्यस्य हि तदाशयात् । विशेषणं विशेष्यो वा न्यायतस्त्ववधार्यताम् ॥ २॥(४०) तदर्थो नञर्थः । अर्थपदं द्योत्यत्ववाच्यत्वपक्षयोः साधारण्येन कीर्तनाय । भाष्य. १ छ. 'बन्धिश। २ ज. र्थनिर्णयस्य । ।
४ भट्टोजिदीक्षितविरचितवैयाकरणसिद्धान्तकारिकाः। (नअर्थनिर्णयः) स्यति । तथा च नसूत्रे महाभाष्यम्-निवृत्तपदार्थक इति । निवृत्तं पदार्थो यस्य नपुंसके भावे क्त इति क्तोऽभावार्थक इत्यर्थः । यत्तु निवृत्तः पदार्थो यस्मिन्नित्यर्थः । सादृश्यादिनाऽध्यारोपितब्राह्मण्याः क्षत्रियादयोऽर्था यस्येत्यर्थ इति कैयटः । तन्न, आरोपितब्राह्मण्यस्य क्षत्रियादेर्नवाच्यत्वात् । अन्यथा सादृश्यादेरपि वाच्यतापत्तेः । - यत्तु- तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्च नअर्थाः षट् प्रकीर्तिताः" ॥ इति पठित्वाऽब्राह्मणोऽपापमनश्वोऽनुदरा कन्याऽपशवो वा अन्ये गोअश्वे. भ्योऽधर्म इत्युदाहरन्ति, तत्तु आर्थिकार्थमभिप्रेत्येति स्पष्टमन्यत्र । विशेषण- मिति । प्रतियोगिनीति शेषः । तथा चासर्वपदे सर्वनामसंज्ञा । “ अनेकमन्यपदार्थे " [ पा० सू० २-२-२४ ] “ सेव्यतेऽनेकया संनतापाङ्गया " सेव्यतेऽनेकया संनतापाङ्गया " इत्यादावेकशब्दार्थ. प्राधान्यादेकवचननियमः अब्राह्मण इत्यादावुत्तरपदार्थप्राधान्यात्तत्पुरुषत्वम् । अत्वं भवसि अनहं भवामीत्यादौ पुरुषवचनादिव्यवस्था चोपपद्यते । अन्यथा त्वद- भावो मदभाव इतिवदभावांशे युष्मदस्मदोरन्वयेन युष्मत्सामानाधिकरण्यस्य तिक्ष्व. सत्त्वात्पुरुषव्यवस्था न स्यात् । अस्मन्मते च भेदप्रतियोगित्वदभिन्नायिका भवन- क्रियेत्यन्वयात्सामानाधिकरण्यं नानुपपन्नमिति भावः । विशेष्यो वेति । प्रतियोगिनीति शेषः । अयं भावः-गौणत्वेऽपि नसमासे "एतत्तदोः सुलोपोऽकोरनसमासे हलि" [ पा० सू० ६-१-१३२ ] इति ज्ञापकात्सर्वनामसंज्ञा नानुपपन्ना । असः शिव इत्यत्र सुलोपवारणायानञ्समास इति हि विशेषणम् । न च तत्र तच्छब्दस्य सर्व- नामताऽस्ति गौणत्वात् । अकोरित्यकसहितव्यावृत्त्या सर्वनाम्नोरेव तत्र ग्रहणलाभात् । तथा चानसमास इति ज्ञापकं सुवचमनेकमन्यपदार्थ इत्यादावेकवचनं विशेष्यानुरो- धात् । “ सुबामन्त्रिते पराङ्गवत्स्वरे" [ पा० सू० २-१-२ ] इत्यतोऽनुवर्तमानं सुब्ग्रहणं विशेष्यमेकवचनान्तमेव । किं चानेकशब्दाद्विवचनोपादाने बहूनां बहुवचनो- पादाने द्वयोर्बहुव्रीहिर्न सिध्येदित्युभयसंग्रहायैकवचनं जात्यभिप्रायमौत्सर्गिक वा, सेव्यतेऽनेकयेत्यत्रापि योषयेतिविशेष्यानुरोधात्प्रत्येकं सेवनान्वयबोधनाय चैकवचनं न तूत्तरपदार्थप्राधान्यप्रयुक्तम् । अत एव पतन्त्यनेके जलधेरिवोर्मय इत्यादिकमपि सूपपादम् । अत्वं भवसीत्यादौ युष्मदस्मदोस्तद्भिन्ने लक्षणा। नञ् द्योतकः । तथा च मिन्नेन युष्मदर्थेन तिङः सामानाधिकरण्यात्पुरुषव्यवस्था । त्वद्भिन्नाभिन्नायिका भवनक्रि- येति शाब्दबोधः । एवं न त्वं पचसीत्यत्र त्वदभिन्नाश्रयकपाकानुकूलभावनाभावः । घटो नास्तीत्यत्र घटाभिन्नाश्रयकस्तित्वाभाव इति रीत्या बोधः । असमस्तनञः क्रिया- - -- कौण्डभट्टविरचितवैयाकरणभूषणसाराख्यव्याख्यासमेता:- (निपातद्योतकत्वनिर्णयः) यामेवान्वयबोधात् । स चाभावोऽत्यन्ताभावत्वान्योन्याभावत्वादिरूपेण शक्यस्तत्तद्रूपेण बोधादित्यन्यत्र विस्तरः ॥ २ ॥ (४०) इति रङ्गोजिभट्टात्मजकौण्डभट्टविरचिते वैयाकरणभूषणसारे नअर्थनिर्णयः समाप्तः ॥ ( अथ निपातद्योतकत्वनिर्णयः ।) प्रादयो द्योतकाश्चादयो वाचका इति नैयायिकमतमयुक्तं वैषम्ये बीजाभावादिति ध्वनयन्निपातानां द्योतकत्वं समर्थयते- द्योतकाः पादयो येन निपाताश्चादयस्तथा । उपास्येते हरिहरौ लकारो दृश्यते यथा ॥१॥ (४१) येन हेतुना प्रादयो द्योतकास्तेनैव हेतुना चादयो निपातास्तथा द्योतका इत्यर्थः । अयं भावः-ईश्वरमनुभवतीत्यादावनुभवादिः प्रतीयमानो न धात्वर्थः । भवतीत्यत्राप्या- पत्तेः । नोपसर्गार्थः । तथा सत्यप्रकृत्यर्थतया तत्राऽऽख्यातार्थानन्वयापत्तेः । प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वव्युत्पत्तेः । अनुगच्छतीत्यादावनुभवादिप्रत्ययापत्तश्च । न विशिष्टार्थो गौरवात् । तथा च धातोरेव विद्यमानत्वादिवाचकस्यास्तु लक्षणा । उपसर्गस्तात्पर्यग्राहक इत्यस्तु । तथा तात्पर्यग्राहकत्वमेव द्योतकत्वमिति । एतच्चा- दिष्वपि तुल्यम् । चैत्रमिव पश्यतीत्यादौ सादृश्यविशिष्टं चैत्रपदलक्ष्यम्, इवशब्द- स्तात्पर्यग्राहक इत्यस्य सुवचत्वात् , इति स्वयं युक्त्यन्तरमाह-उपास्येते इति । अत्र ह्युपासना किमुपसर्गीर्थो विशिष्टस्य धातुमात्रस्य वा । नाऽऽद्यः । तथा सति स्वार्थफलव्यधिकरणव्यापारवाचकत्वरूपसकर्मकत्वस्याऽऽसधातोरुपासनारूपफलवाचक- त्वाभावादनापत्तेस्ततः कर्मणि लकारो न स्यात् । न द्वितीयो गौरवात् । तृतीये त्वागतं द्योतकत्वं तात्पर्यग्राहकत्वलाभादिति भावः । दृश्यत इत्यत्र कर्मणीति शेषः॥१॥(४१) तच्चादिष्वपि तुल्यमित्याह- तथाऽन्यत्र निपातेऽपि लकारः कर्मवाचकः। विशेषणाद्ययोगोऽपि प्रादिवञ्चादिके समः॥२॥(४२) अन्यत्र साक्षास्क्रियतेऽलं क्रियत उरी क्रियते शिव इत्यादौ । अत्रापि धातोस्त- दर्थे कर्मणि लकारसिद्ध्यर्थं तत्तदर्थवाचकत्वं वाच्यमित्युपसर्गवदेव द्योतकत्वममीषा- मपीत्यर्थः । यद्यपि कृधातोः सकर्मकत्वमस्त्येव तथाऽप्येष्वर्थेषु सकर्मकता न स्यात् । अन्यथा वायुर्वि+कुरुते सैन्धवा विकुर्वत इत्यत्रापि स्यादिति भावः । अथोपासना- + अकर्मकाच्चेतिविहितात्मनेपदानुपपर्तिरिति भश्वः ।
भट्टोजिदीक्षितविरचितवैयाकरणसिद्धान्तकारिकाः। ४५ ( निपातद्योतकत्वनिर्णयः) साक्षात्कारादिनिपातार्थोऽस्तु " साक्षात्प्रत्यक्षतुल्ययोः " इति कोशस्वरसात् । तद- नुकूलो व्यापार एव धात्वर्थोऽस्तु स्वस्वयुक्तनिपातान्यतरार्थफलव्यधिकरणव्यापारवा- चित्वं सकर्मकत्वमाप सुवचमिति दृष्टान्तदान्तिकावयुक्ताविति नेदं साधकमिति चेन्न । नामार्थधात्वर्थयोर्भेदेन साक्षादन्वयासंभवान्निपातार्थधात्वर्थयोरन्वयस्यैवासंभवा- दन्यथा तण्डुलः* पचतीत्यत्रापि कर्मतया तण्डुलानां धात्वर्थेऽन्वयापत्तेरिति । किं च प्रादीनां वाचकत्वे भूयान्प्रकर्षः कीदृशो निश्चय इतिवद्भूयान्प्र कीदृशो निरित्यपि स्यात् । अस्मन्मते प्रादेरनर्थकत्वान्न तदन्वय इत्यत एव द्योतकता तेषां स्यादिति साधकान्तरमभिप्रेत्याऽऽह-विशेषणेति । शोमनः समुच्चयो द्रष्टव्य इतिवच्छोम- नश्च द्रष्टव्य इत्यस्याऽऽपत्तेस्तुल्यसमाधेयत्वादिति भावः । अपि च निपातानां वाच- कत्वे प्रातिपदिकार्थयोविना षष्ठयादिकं भेदेनान्वयासंभवः । अन्यथा राजा पुरुष इत्यत्राप्यापत्तेरित्यभिप्रेत्याऽऽह-प्रादीति । धवखदिरयोः समुच्चय इतिवद्धवस्य च खदिरस्य चेत्येव स्यादिति भावः ॥ २॥ (४२) ननु प्रातिपदिकार्थयोर्भेदेनान्वयबोधे विरुद्धविभक्तिजन्योपस्थितिहेतुरिति कार्यकार- णभावो निपातातिरिक्तविषय एवेति नोक्तदोष इत्याशङ्कयाऽऽह- पदार्थः सदृशाऽन्वेति विभागेन कदापि न । निपातेतरसंकोचे प्रमाणं किं विभावय ॥ ३ ॥ (४३) सदृशा सदृशेन समानाधिकरणेनेति यावत् । अन्वेति, अभेदेनेति शेषः । विभागेन, असदृशेन, असमानाधिकरणेनेति यावत् । अयमर्थः-समानाधिकर- णप्रातिपदिकार्थयोरभेदान्वयव्युत्पत्तिनिपातातिरिक्तविषयेति कल्पने मानाभावो गौरवं च । अस्माकं निपातानां द्योतकत्वादन्वय एव नास्तीति नायं दोषः । अत एव घटो नास्तीत्यादौ घटपदं तत्प्रतियोगिके लाक्षणिकमिति नैयायिकाः ॥ ३ ॥ (४३) अपि च निपातानां वाचकत्वे काव्यादावन्वयो न स्यादिति साधकान्तरमाह- शरैरुरिवोदीच्यानुद्धरिष्यवसानिव । इत्यादावन्वयो न स्यात्सुपां च श्रवणं ततः॥४॥(४४) अत्रोस्रसदृशैः शरै रससदृशानुदीच्यानुद्धरिष्यन्नित्यर्थः । =अयं चोस्रादिशब्दानां तत्सदृशपरत्व इवशब्दस्य च द्योतकत्वे संगच्छते । अन्यथा प्रत्ययानां प्रकृत्यान्वित- स्वार्थबोधकत्वव्युत्पत्तिविरोधः । तथाहि-उरिति करणे तृतीया । न चोस्रोऽत्र कर- णमिवार्थसदृशस्य करणत्वेऽपि तस्य करणत्वं नानेन बोधयितुं शक्यमप्रकृत्यर्थत्वात् । * अत्र नामार्थः कमैव । - उक्तार्थान्वयबोधः । १.छ. त्यस्य राजसंबन्धी पुरुष इत्यप्या ।
- -- ४६ कोण्डभट्टविरचितवैयाकरणभूषणसाराख्यव्याख्यासमेताः- ( निपातद्योतकत्वनिर्णयः) इवशब्दस्य वाऽसत्त्वार्थकतया तदुत्तरं तृतीयाया असंभवात् । संभवे वा श्रवणप्रस- ङ्गात् । उस्रपदोत्तरतृतीयानन्वयप्रसङ्गाचेत्याह-सुपां चेति । सुपा श्रवणं चेत्यर्थः । चकारादुस्रपदोत्तरतृतीयानन्वयः समुच्चीयते । इत्यादावित्यादिपदात् “ वागर्थाविव संपृक्तौ पार्वतीपरमेश्वरौ वन्दे " इत्यत्र वागर्थयोर्वदिकर्मत्वाभावात्तदुत्तरद्वितीयाया अनन्वय इव वागर्थस्य कर्मत्वबोधकासंभवश्च संगृह्यते । यदि च विशेषणविभक्तिरभे- दार्थिका साधुत्वमात्रार्था वा तदाऽपीवशब्दस्य वाचकत्वेऽनन्वय एव । उस्रसदृशां शराणां समानाधिकरणपदोपस्थाप्यतया भेदेनान्वयायोगात् । बाधादभेदेनापि न सः । न ह्युस्राभिन्नसदृशाभिन्नः शर इत्यर्थो द्रष्टव्यः ॥ ४ ॥ (४४) ननु त्वन्मतेऽब्राह्मण इत्यादौ तत्पुरुषलक्षणाव्याप्त्यापत्तिः पूर्वपदस्यानर्थकत्वेनो- त्तरपदार्थप्राधान्याभावात् । उपसर्गस्यार्थवत्त्वाभावेन प्रातिपदिकत्वाभावाद्विभक्तिश्च ततो न स्यादित्यत आह- नसमासे चापरस्य द्योत्यं प्रत्येव मुख्यता । धोत्यमेवार्थमादाय जायन्ते नामतः सुपः॥५॥ (४५) नसमासादौ योत्तरपदप्रधानता सा द्योत्यमर्थमादायैव । तमेवार्थमादायार्थवत्त्वा- प्रातिपदिकत्वमित्यर्थः । वस्तुतस्तु “ अव्ययादाप्सुपः " [ पा० सू० २-४.८२ ] इति ज्ञापकात्सुवृत्पत्तिः । “ निपातस्यानर्थकस्य " इति वार्तिकाद्वा प्रातिपदिकत्वम् । कृत्तद्धितसमासाश्चेत्यनुक्तसमुच्चयार्थकचकारेण निपातानां संग्रह इति बोध्यम् । तस्मा- युक्तं निपातानां द्योतकत्वम् । *उक्तं चाऽऽकृत्यधिकरणवार्तिके- " +चतुर्विधे पदे चात्र द्विविधस्यार्थनिर्णयः । क्रियते =संशयोत्पत्तेनॊपसर्गनिपातयोः॥ तयोराभिधाने हि व्यापारो नैव विद्यते । यदर्थद्योतकौ तौ तु वाचकः स विचार्यते " इति ॥ " उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । प्रहाराहारसंहारविहारपरिहारवत् ॥ इति वृद्धोक्तावुपसर्गपदं निपातोपलक्षणम् । धातुपदं पदान्तरस्येति बोध्यम् ॥५॥ (४५) नन्वन्वयव्यतिरेकाम्यां निपातानां तदर्थवाचकत्वमेव युक्तं बोधकतारूपशक्तेरबा- * मीमांसकसंमतिमाह ।+ नामाख्यातोपसर्गनिपाते । = जातिर्वा व्यक्तिर्वा व्यापार उत वा - . फलम्। १ छ. दन्यः प्रतीय ।
- ४७ भट्टोजिदीक्षितविरचितवैयाकरणसिद्धान्तकारिकाः। (निपातद्योतकत्वनिर्णयः) धाच्च । किं चोक्तरीत्या पचतीत्यादौ धातोरेव कर्तृविशिष्टभावनायां लक्षणाऽस्तु तात्पर्य- ग्राहकत्वमात्रं तिङादेः स्यादित्यरुचेः पक्षान्तरमाह- निपातानां वाचकत्वमन्वयव्यतिरेकयोः । युक्तं वा न तु तद्युक्तं परेषां मतमेव नः ॥६॥(४६) एवं च धात्वर्थप्रातिपदिकार्थयोर्भेदेनान्वयबोधो न व्युत्पन्न इति निपातातिरिक्तवि- षयं, समानाधिकरणप्रातिपदिकार्थयोरभेदेनान्वय इत्यपि तथेत्यगत्या कल्पनीयमिति भावः । न त्विति । नैयायिकोक्तं प्रादिचादिवैषम्यमित्यर्थः । यत्तु सर्वेषां निपातानां वाचकत्वेऽर्थवत्सूत्रेणैव तेषां प्रातिपदिकत्वसंभवात् “ निपातस्यानर्थकस्य " इति विधिवैयर्थ्य, सर्वेषां द्योतकत्वे चानर्थकस्येति व्यर्थम्, तथा च केचिद्योतकाः केचिद्वा- चका इत्यभ्युपेयमिति । तन्न । एवं हि चादयो चोदकाः प्रादयो वाचका इति वैपरी- त्यावारणात् । सर्वथाऽनर्थकानां पादपूरणमात्रार्थमुपात्तानां संग्रहाय वार्तिकारम्मस्य कैयटादौ स्पष्टत्वाच्च । तस्य प्रत्याख्यातत्वाच्च । परेषामिति बहुवचनं मीमांसकसंग्रहाय । केवलवृक्षशब्दात्समुच्चयाबोधाच्चकारश्रवणे तबोधाच्चकार एव तद्वाचको न द्योत- कः । किं च द्योतकत्वे पदान्तराणां तत्र शक्तिः करप्या चकारादेोतकत्वशक्तिश्च कल्प्येति गौरवं स्यादिति हि समुच्चयाधिकरणे स्थितं तदपि न युक्तमिति भावः । तथा हि-अन्वयव्यतिरेको तात्पर्यग्राहकत्वेनाप्युपयुक्तौ घटादिपदानामेव समुच्चिते लक्षणा तात्पर्यग्राहकः प्रकरणादिवच्चादिरिति स्वीकारान्न शक्तिद्वयकल्पनाऽपि । अस्माकं लक्षणग्रहणदशायांबोधीत्तत्कार्यकारणभाव आवश्यकः। एवं शक्तिग्रहस्यापीति पक्षद्वयेऽपि कल्प्यान्तराभावेन गौरवाभावादुमयमपि युक्तमित्यभिमतम् । अत एव स वाचको विशेषाणां संमवाद्योतकोऽपि च " इतिवाक्यपदीयं संगच्छते । दर्श नान्तररीत्या वाचकत्वमेव, द्योतकत्वमेवेति नियमस्तु न युक्त इति ध्वनयन्नाह-मत- मेवेति ॥ ६ ॥ (४६) पर्यवसितमुपसंहरन्नाह- निपातत्वं परेषां यत्तदस्माकमिति स्थितिः। व्यापकत्वाच्छक्ततायास्त्ववच्छेदकमिष्यते ॥ ७ ॥ (४७) (इति भट्टोजिदीक्षितविरचितकारिकासु निपातद्योतकत्वनिर्णयः ।) परेषां यनिपातत्वमसत्त्वार्थकत्वे सति चादिगणपठितत्वं शक्तिसंबन्धेन निपातपद- वत्त्वं चोपाधिर्जातियं तदेवास्माकमपि परं तु सामान्यधर्मे प्रमाणानां पक्षपाताच्छक्तता योतकता वा तदवच्छेदेनैव कल्प्येति नैयायिकोक्तं प्रादिचाद्योषम्यमयुक्तमित्यर्थः । १'ज, क्षणाय । २ ज.धाभावात्त ।
- ४८ कौण्डभट्टविरचितवैयाकरणभूषणसाराख्यव्याख्यासमेताः- (भावप्रत्ययार्थनिर्णयः) व्यापकत्वात् , सामान्यत्वात् । शक्तताया इत्युपलक्षणं द्योतकताया वेत्यपि द्रष्ट- व्यम् ॥ ७ ॥ (४७) इति रङ्गोजिभट्टात्मजकौण्डभट्टविरचिते वैयाकरणभूषणसारे निपातानां द्योतकत्वादिनिर्णयः समाप्तः । (अथ भावप्रत्ययार्थनिर्णयः।) - भावप्रत्ययार्थमाह- कृत्तद्धितसमासेभ्यो मतभेदनिबन्धनम् । त्वतलोरर्थकथनं टीकायां हरिणा कृतम् ॥ १ ॥ (४८). “ कृत्तद्धितसमासेभ्यः संबन्धाभिधानं भावप्रत्ययेनान्यत्र रूढयभिन्नरूपाव्यभिच. रितसंबन्धेभ्यः" इति वार्तिकवचनमिति मीमांसकादीनां भ्रममपाकुर्वन्नाह-टीकाया- मिति । भर्तृहरिणा महाभाष्यटीकायामित्यर्थः । त्वतलोरिति । भावप्रत्ययमात्रोपलक्षणम् । अयमर्थः-समासादौ शक्तिः कल्प्यमाना राजादिसंबन्धविशिष्टे कल्प्यत इत्युक्तम् । तथा च तदुत्तरभावप्रत्ययः संबन्धं वदतीत्यर्थः । एतदपि भेदः संसर्ग उभयं वेत्युक्तेषु पक्षेषु भेदपक्षे न संभवतीत्यत आह-मतभेदेति । पक्षभेदेनेत्यर्थः । एवं चराजपुरुष- त्वमौपगवत्वं पक्तृत्वमित्यादौ स्वस्वामिभावः । अपत्यापत्यवत्संबन्धः क्रियाकारकमावसं- बन्ध इत्यन्वयबोधः । औपगवादावव्यभिचारिसंबन्धे त्वर्थान्तरवृत्तिस्तद्धित उदाहार्यः । दामोदरत्वं कृष्णसर्पत्वमित्यादौ जातिविशेषबोधादाह-अन्यत्रेति । रूढेरभिन्नरूपा- दव्यभिचरितसंबन्धेभ्यश्चान्यत्रेत्यर्थः । रूढिरुक्ता । द्वितीयं यथा शुक्लत्वम् । अत्र " तदस्यास्त्यस्मिन्” इति मतुपो “ गुणवचनेभ्यो मतुपो लुगिष्टः” इति लुप्तत्वात्तद्धि- तान्तत्वेऽपि घटः शुक्ल इत्यभेदप्रत्ययागुणस्यैव प्रकारत्वेन भानं जायते, तृतीये सतो भावः सत्तेति, अत्र जातावेव प्रत्यय इति दिक् ॥ १ ॥ (४८) दण्डीत्यादौ प्रकृत्यर्थविशिष्टद्रव्यमात्रवाचकता तद्धितस्येति वदन्तं मीमांसकंमन्यं प्रत्याह अत्रार्घजरतीयं स्याद्दर्शनान्तरगामिना(णा)म् । सिद्धान्ते तु स्थितं पक्षद्वयं त्वादिषु तच्छृणु ॥२॥ (४९) अत्र, भावप्रत्ययविषये । तथा हि-दामोदरत्वं घटत्वमित्यादौ भावप्रत्ययस्य संब- न्धानभिधायकत्वेन मीमांसकानां दण्डित्वमित्यादिष्वपि तदभिधानं न स्यात् । प्रकृति- M १ज. तथा।
४९ - भट्टोजिदीक्षितविरचितवैयाकरणसिद्धान्तकारिकाः। (भावप्रत्ययार्थनिर्णयः) जन्यबोधे प्रकारः प्रकृत्यर्थसमवेतो हि तदुत्तरमावप्रत्ययेनाभिधीयते । अन्यथा घटत्व- मित्यत्र द्रव्यत्वादेर्दण्डित्वमित्यादौ दण्डादेश्च तदुत्तरभावप्रत्ययवाच्यतापत्तेः । न च तन्मते दण्डीत्यादिबोधे संबन्धः प्रकारः । यत्तु- यदा स्वसमवेतोऽत्र वाच्यो नास्ति गुणोऽपरः । तदा गत्यन्तराभावात्संबन्धो वाच्य आश्रितः" इति, तन्न । इनादेः संवन्धवाचकत्वेनोपपत्तावग*त्यभावात् । प्रपश्चितं चैतदादावेव वैयाकरणभूषणे । ननु तवापीदं वैषम्यं कथमित्यत आह-सिद्धान्ते विति । (+जायन्त इति वक्ष्यमाणशेषेणान्वितं, सिद्धान्ते प्रकृतिजन्यबोधप्रकारे त्वादयो जायन्त इत्यर्थः । स प्रकृतिजन्यबोधप्रकारः क इत्यत्र पक्षद्वयं स्थितमिति योजना) ॥ २ ॥ ( ४९) "तौ पक्षावाह- - प्रयोगोपाधिमाश्रित्य प्रकृत्यर्थप्रकारताम् । धर्ममात्रं वाच्यमिति यद्वा शब्दपराँदमी ।। जायन्ते तज्जन्यबोधप्रकारे भावसंज्ञिते ॥ ३ ॥ (५० ) ( इति भट्टोजिदीक्षितविरचितकारिकासु भावप्रत्ययार्थनिर्णयः । ) प्रयोग उपाधिनिमित्तं प्रकृत्यर्थप्रकारतया भासमानं धर्म वाच्यतयाऽऽश्रित्य त्वादयो जायन्ते । प्रकृतिजन्यबोधप्रकारस्त्वाद्यर्थ इति यावत् । ननु घटत्वमित्यत्रं प्रकारत्वात्तदुत्तरत्वप्रत्यये घटत्वत्वस्यापि वाच्यता स्यादित्यत्रेष्टापत्तिमाह-धर्म- मात्रमिति । न त्वत्र लघुगुरुविचार इत्यभिप्रायः । तत्तद्व्यक्तिविशिष्टब्रह्मसत्ताया एव घटत्वत्वादिरूपत्वात्। संबन्धिभेदात्सत्तैव विद्यमाना गवादिषु । जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः ।। तां प्रातिपदिकार्थं च धात्वर्थं च प्रचक्षते । सा नित्या सा महानात्मा तामाहुस्त्वतलादयः इति वाक्यपदीयात् । उक्तं च तस्य भावस्त्वतलौ " [पा० सू० ६-१-११९] इति सूत्रे वार्तिककारैः :-" यस्य गुणस्य भावाद्रव्ये शब्दनिवेशस्तदभिधाने त्वतलौ" इति । यस्य गुणस्य विशेषणतया भासमानस्य भावादाश्रयत्वात् , द्रव्ये विशेष्ये । शब्दनिवेशः शब्दप्रवृत्तिस्तस्मिन्वाच्ये त्वतलावित्यर्थः । तथा च रूपादि- ॥ * संबन्धस्यैव भावत्वात् ।+ धनुश्चिह्नान्तर्गतग्रन्थश्छ. पुस्तके नास्ति । १ ङ. च. 'दण्डीत्या' । २ ज. त्यर्थे प्र। ३ छ. "रा अमी । ज. त्यर्थे प्र । ५ ङ, च. न घटत्वनिमित्तप्र। .
, कौण्डभद्दविरचितवैयाकरणभूषणसाराख्यव्याख्यासमेताः- ( देवताप्रत्ययार्थनिर्णयः) शब्देभ्यो जातौ, शुक्लाणुदीर्घमहदादिभ्यो गुणे, पाचकादिशब्देभ्यः क्रियायाम् , घटादिशब्देभ्यो जातौ प्रत्ययः, रूपादिशब्दानां जातिप्रकारकबोधजनकत्वात् । पाचकादिशब्दानां क्रियाप्रकारकबोधजनकत्वे तस्यां प्रत्ययः। संसर्गप्रकारकबोधनका त्वमिति मते च संसर्ग इति व्यवस्था सूपपादेति भावः। तत्र जातिवाचकानां +व्यक्तय एव शक्यतावच्छेदिकास्तथा च घटत्वमित्यत्र घटवृत्तिरसाधारणो धर्म इति बोध इत्या- दि द्रष्टव्यम् । पक्षान्तरमाह-यद्वति । “ यद्वा सर्वे भावाः स्वेनार्थेन भवन्ति स तेषां भावः " इति वार्तिकोक्तो यद्वाशब्दस्तत्सूचनप्रयोजनकोऽपि । भवन्ति वाचकत्वेन प्रवर्तन्त इति भावाः शब्दाः स्वेन स्वरूपेणार्थेन भवन्ति प्रवर्तन्तेऽतः स तेषां भावः प्रवृत्तिनिमित्तमित्यर्थः । अयं भावः-अर्थवच्छब्दोऽपि द्रव्ये प्रकारः, हरिहरनले. क्ष्वाकुयुधिष्ठिरवसिष्ठादिशब्देभ्यस्तत्तद्वाच्यः कश्चिदासीदिति शब्दप्रकारबोधस्य सर्वति- द्धत्वात् । अन्यथा वनौषधिवर्गादेर्नागरिकान्प्रत्यबोधकत्वापत्तेश्च । एवमेवाप्रसिद्धा. र्थकपदेष्वनुभवः सर्वसिद्धः, न तु घटादिपदेष्विव तत्तज्जात्यादिरूपेण । तथा चोभयमव- च्छेदकम् । (एवमेव प्रसिद्धपदार्थेषु.) यस्य यथा शक्तिग्रहस्तस्य जात्यादिरूपेणैवो- पस्थितिः । पदप्रकारकः शक्तिग्रहस्तु विशिष्य नापेक्षितः किं तु इदं पदं क्वचिच्छक्तं साधुपदत्वादित्यादिरूप एवापेक्ष्यत इति विशिष्यागृहीतशक्तिकेभ्यस्तथैव बोधस्तथा च शब्दोऽपि त्वप्रत्ययार्थ इति प्रपञ्चितं भूषणे ॥ ३ ॥(५०) इति रङ्गोजिभट्टात्मजकौण्डभट्टविरचिते वैयाकरणभूषणसारे भावप्रत्ययार्थनिर्णयः । ( अथ देवताप्रत्ययार्थनिर्णयः ।) - साऽस्य देवतेत्यत्र देवताविशिष्टं देयं प्रत्ययार्थः । ऐन्द्रं वैश्वदेवीत्यादाविन्द्रादेर्दै- वतात्वोपस्थापकान्तराभावात्तेन रूपेणोपस्थितये शक्तिकल्पनावश्यकत्वात् । x अत एव- " आमिक्षां देवतायुक्तां वदत्येवैष तद्धितः । आमिक्षापदसांनिध्यात्तस्यैव विषयार्पणम् ” इति, " केवलाद्देवतावाची वद्धितोऽग्नेः समुच्चरन् । नान्ययुक्ताग्निदेवत्यं प्रतिपादयितुं क्षमः " * जात्याीदवाचकभावप्रत्ययेषु मध्ये । + भावप्रत्ययप्रकृत्यर्थरूपाः। 0 शब्दानां प्रकारत- याऽभाने । धनश्चिह्नान्तर्गतं नास्ति . छ. पुस्तकयोः । ४ देवतासंबन्धिनः प्रत्ययार्थत्वादेव । १च. णे पक्त्वादि । २ ङ. च. तोऽग्रेस, - N भट्टोजिदीक्षितविरचितवयाकरणसिद्धान्तकारिकाः। ( देवताप्रत्ययार्थनिर्णयः) । इति च मीमांसकैरप्युक्तमित्याशयेनाऽऽह- प्रत्ययार्थस्यैकदेशे प्रकृत्यर्थो विशेषणम् । अभेदश्चात्र संसर्ग आग्नेयादावियं स्थितिः ॥ देवतायां प्रदेये च खण्डशः शक्तिरस्तु वा ॥१॥ (५१) एकदेशे देवतारूपे । तच्च विशेषणमभेदेनेत्याह-अभेदश्चेति । ननु देवतायाः प्रत्ययार्थैकदेशत्वान्न प्रकृत्यर्थस्य तत्राभेदेनाप्यन्वय इत्याशयेनाऽऽह-देवताया- मिति । तथा च पदार्थैकदेशतैव नास्तीति भावः ॥ १ ॥ (५१) नन्वन्यादिदेवस्य प्रकृत्यैव लाभान्न तत्र शक्तिः करप्या । न च देवतात्वेन रूपे. णोपस्थितये सा कल्प्यते प्रकृतेर्लक्षणयैव तथोपस्थितिसंभवात् । उपसर्गाणां द्योतकत्व- नये प्रजयतीत्यत्र प्रकृष्टजयप्रत्ययवदित्यभिप्रेत्याऽऽह- प्रदेय एव वा शक्तिः प्रकृतेर्वाऽस्तु लक्षणा । देवतायां निरूढेति सर्वे पक्षा अमी स्थिताः॥२॥ (५२) न चैन्द्रं दधीत्यादौ द्रव्यस्य पदान्तराल्लामात्कुतः पुनः प्रत्ययस्य तत्र शक्तिः कल्प्यत इति वाच्यम् । पदान्तराश्रवणेऽपि तत्प्रतीतेरैन्द्रं दधीति सामानाधिकरण्याच्च । *अन्यथाऽऽख्यातस्यापि कर्तृकर्मवाचित्वं न स्यात् । +मीमांसकानां पुनः प्रत्ययस्य देवतात्वमेवार्थोऽस्तु । द्रव्यं पदान्तराल्लभ्यत एवेति आख्यातस्य कर्तृवद्वाच्यत्वं माऽ. स्त्विति कुतो न शक्यते वक्तुमिति दिक् । देवतायां देवतात्वरूपेण निरूढेत्यनुप. पत्तिज्ञानापूर्वकत्वमनादिप्रयोगावच्छिन्नत्वं वा तत्त्वमिति भावः ॥ २ ॥ (५२) अनयैव रीत्याऽन्यत्राप्यवधेयमित्याह- क्रीडायां णस्तदस्यास्तीत्यादावषैव दिक् स्मृता । वस्तुतो वृत्तिरेवेति नात्रातीव प्रयत्यते ॥ ३ ॥ (५) (इति भट्टोजिदीक्षितविरचितकारिकासु देवताप्रत्ययार्थनिर्णयः ।) " तदस्यां प्रहरणमिति क्रीडायां णः” [पा० सू० ४-२-५७ ] इत्यत्र प्रह- रणविशिष्टा क्रीडा प्रहरणक्रीडे क्रीडामात्रं चेत्यर्थः । आदिना “ सोऽस्य निवासः " [पा० सू० ४-३-८९ ] " साऽस्मिन्पौर्णमासीति संज्ञायाम् " . [ पा० सू० ४-२-२१] तदस्यास्त्यस्मिन्निति मतुप् " [ पा० सू० ५-२-९४ ] इत्यादिकं संगृह्यते । वृत्तिमात्रेऽतिरिक्तशक्तेः “ समर्थः पदविधिः" [पा० सू० २-१.१] इति सूत्राल्लाभादुक्तो विचारः शास्त्रान्तरीयैः सह तद्रीत्यैवोक्तः । आरोपितप्रकृतिप्रत्य- , * असमभिन्याहारे । + पूर्व वैयाकरणान्प्रति दूषणम् ।
कोण्डभट्टविरचितवैयाकरणभूषणसाराख्यव्याख्यासमेताः- ( अभेदैकत्वसंख्याया वृत्तौ भाननिर्णयः) यार्थमादाय वा । वस्तुतो विशिष्टशक्त्यैवार्थोपस्थितेरित्याह-वस्तुत इति ॥ ३ ॥ (५३) इति रोजिभट्टात्मजकौण्डमविरचिते वैयाकरणभूषणसारे देवताप्रत्ययार्थनिर्णयः :॥ (अथाभेदैकत्वसंख्याया वृत्तौ भाननिर्णयः ) - वृत्तिप्रसङ्गात्तत्राभेदैकत्वसंख्या प्रतीयत इति सिद्धान्तं दृष्टान्तेन प्रतिपादयति- अभेदैकत्वसंख्याया वृत्तौ भानमिति स्थितिः। कपिञ्जलालम्भवाक्ये त्रित्वं न्यायाधथोच्यते ॥ १॥ (५४) (इति भट्टोजिदीक्षितविरचितकारिकास्वभेदैकत्वसंख्याया वृत्तौ भाननिर्णयः ।) संख्याविशेषाणामविभागेन सत्त्वमभेदैकत्वसंख्या । उक्तं च वाक्यपदीये- " यथौषधिरसाः सर्वे मधुन्याहितशक्तयः । अविभागेन वर्तन्ते तां संख्या तादृशी विदुः" इति ॥ परित्यक्तविशेष वा संख्यासामान्यं तत् । उक्तं च- " भेदानां वा परित्यागात्संख्यात्मा स तथाविधः । व्यापाराज्जातिभागस्य भेदापोहेन वर्तते ॥ अगृहीतविशेषेण यथा रूपेण रूपवान् । प्रख्यायते न शुक्लादिभेदापोहस्तु गम्यते " इति ॥ अस्या वृत्तौ समासादौ मानं न्यायसिद्धमिति शेषः । इति मतस्थितिर्वैयाकरणा- नाम् । अयं भावः-राजपुरुष इत्यादौ राज्ञे राज्ञो राज्ञां वाऽयं पुरुष इति जिज्ञासा जायते । विशेषजिज्ञासाँ च सामान्यज्ञानपूर्विकेति सामान्यरूपेण तत्प्रतीतिः शब्दादाव- श्यकी । अतस्तस्यां शक्तिरिति । तस्या एकत्वेन प्रतीतौ न्यायमाह-कपिञ्ज- लेति । बहुत्वगणनायां त्रित्वस्यैव प्रथमोपस्थितत्वात्तद्रूपेणैव भानवदेकत्वस्य सर्वतः प्रथमोपस्थितत्वमस्तीति भावः । वस्तुतस्तु जिज्ञासैव नानुभवसिद्धा । तथात्वे वा ज्ञाने- च्छयोः समानप्रकारकत्वेन हेतुहेतुमद्भावात्तत्तद्रूपेणैव वाच्यता स्यादिति ध्येयम् ॥ ॥ १॥ (५४) इति रङ्गोजिभट्टात्मजकौण्डभट्टविरचिते वैयाकरणभूषणसारेऽ. भेदैकत्वसंख्याया वृत्तौ भाननिर्णयः समाप्तः ॥ १ च, ज. अरे यौगिकार्थ । २ च.ख्या स च त । ३ छ. 'सायां सामान्यरू' । ४ च. हेतुता।
. भट्टोजिदीक्षितविरचितवैयाकरणसिद्धान्तकारिकाः। (उद्देश्यविधेययोः संख्याविवक्षानिर्णयः ) (अथोद्देश्यविधेययोः संख्याविवक्षानिर्णयः ।) संख्याप्रसङ्गादुद्देश्यविधेययोः संख्याविवक्षाविवक्षे निरूपयति- लक्ष्यानुरोधात्संख्यायास्तत्रातत्रे मते यतः। पश्वेकत्वादिहेतूनामाश्रयणमनाकरम् ॥ १ ॥ (५५) *ग्रहं संमार्टीत्यत्रोद्देश्यग्रहगतमेकत्वमविवक्षितमितिवन्नास्माकमुद्देश्यविशेषणाविव- क्षानियमः । धातोरित्येकत्वस्य विवक्षितत्वात् । " उत्पद्येत समस्तेभ्यो धातुभ्यः प्रत्ययो यदि । तदा सर्वैर्विशिष्येत द्वंद्वोत्पन्नसुबर्थवत् " ॥ इति शब्दान्तराधिकरणे भट्टपादैरभिधानाच्च । “+आर्धधातुकस्येवलादेः " [पा. सू. ७-२-३५ ] इत्यत्रानुवाद्यार्धधातुकविशेषणस्य वलादित्वस्य विवक्षितत्वाच्च । एवं पशुना' यजेतेतिवद्विधेयविशेषणं विवक्षितमित्यपि न । “रदाम्यां निष्ठातो नः पूर्वस्य च दः " [ पा० सू०. ८-२.४२ ] इत्यत्र नकारद्वयविधानानापत्तेः । तथा च भिन्न इत्यत्र नकारद्वयलाभो न स्यात् । आद्गुणः " [ पा० सू० ६-१-८७ ] इत्यादावेकत्वविवक्षयैवोपपत्तौ " एकः पूर्वपरयोः" [ पा० एकः पूर्वपरयोः" [ पा० सू० ६-१-८४ ] इत्य- त्रैकग्रहणवैयर्थ्यापत्तेश्चेति भावः। शब्दार्थस्तु-संख्याया लक्ष्यानुरोधात्तन्त्रातन्त्रे यतो मते अतः पश्वेकत्वाधिकरणोक्तहेतूनामाश्रयणं नास्मसिद्धान्तसिद्धमिति । आदिना ग्रहैकत्वसंग्रहः ॥ १ ॥ (५५) ननु विधेयविशेषणविवक्षाऽऽवश्यकी अन्याऽनन्तनकाराद्यापत्तेभिन्नमित्यत्र नका- रद्वयवदन्येषामप्यापत्तेः । एकः पूर्वपरयोरित्यत्रैकग्रहणं च स्थानिभेदादादेशभेदवारणा- येत्यभिप्रेत्याऽऽह-- विधेये भेदकं तन्त्रमन्यतो नियमो न हि । ग्रहैकत्वादिहेतूनामाश्रयणमनाकरम् ॥ २॥ (५६) भेदकं विशेषणं तत्रं विवक्षितं विधेयविशेषणं विवक्षितमित्यस्तु । तथाऽप्यन्यतः, अनुवाद्यस्य नियमो न हि । क्वचित्तन्त्रं क्वचिन्नेत्यर्थः । ग्रहैकत्वादौ यो हेतुर्वाक्य- भेदादिस्तस्यात्राऽऽश्रयणमनाकरम् । एकत्वविशिष्टं धातुं वलादित्वविशिष्टमार्धधातुकं 'चोद्दिश्य प्रत्ययेडागमादेविधिसंभवादिति भावः ॥ २ ॥ ( ५६ ) . E * यज्ञपात्रम् । एकत्वविवक्षायां सर्वपात्राणां भावे वैगुण्यं स्यात् ।+ सर्वधातूपस्थित्याऽनिष्टं स्यादत आर्धधातुकस्येति । १ ज. था सुध्युपास्य इत्यत्रानन्तयकारापत्तेः । भिन्न' ।
५४ कौण्डभविरचितवैयाकरणभूषणसाराख्यव्याख्यासमेताः- (क्त्वाद्यर्थनिर्णयः) नन्वेवं भिन्न इत्यत्र नकारद्वयलामो न स्यादित्यत आह रदाभ्यां वाक्यभेदेन नकारद्वयलामतः । क्षति वास्ति तन्त्रत्वे विधेये भेदकस्य तु ॥ ३ ॥ (५७) ( इति भटोजिदीक्षितविरचितकारिकासूद्देश्यविधेययोः संख्याविवक्षानिर्णयः ।) चकारसूचितं निष्ठातस्य नः पूर्वस्य दस्य च न इति वाक्यभेदमादाय नकारद्वय- लाभ इत्यर्थः ॥ ३ ॥ (१७) इति रङ्गोजिमहात्मजकौण्डमट्टविरचिते वैयाकरणभूषणसार उद्देश्यविधे- ययोः संख्याविवक्षानिर्णयः समाप्तः ॥ (अथ क्त्वाद्यर्थनिर्णयः ।) क्त्वाप्रत्ययादेरथं निरूपयति- अव्ययकृत इत्युक्तेः प्रकृत्यर्थे तुमादयः । समानकर्तृकत्वादि द्योत्यमेषामिति स्थितिः ॥ १ ॥ (५८) (इति भट्ठोजिदीक्षितविरचितकारिकासु क्त्वाद्यर्थनिर्णयः ।) तुमादयस्तुमुनादयः । प्रकृत्यर्थे भावे । आदिना क्त्वादेः संग्रहः । भाव इत्यत्र मानमाह-अव्यय कृत इति । “ अव्ययकृतो भावे " इति वार्तिकादित्यर्थः । ननु " समानकर्तृकयोः पूर्वकाले " [ पा० मू० ३-४-२१ ] इत्यादिसूत्राणां का *गति- स्तत्राऽऽह-समानकर्तृकत्वादीति । अयं भावः--भोक्तुं पचति भुक्त्वा व्रजती- त्यादावेकवाक्यता सर्वसिद्धा भोजनपाकक्रिययोर्विशेषणविशेष्यभावमन्तरेणानुपपन्ना। =अन्यथा भुङ्क्ते व्रतीत्यादावप्येकवाक्यतापत्तेः । तथा च +तयोविशेषणविशेष्यभावनि- रूपकः संसर्गो जन्यत्वं सामानाधिकरण्यं x पूर्वोत्तरभावो व्याप्यत्वं चेत्यादिरनेका- विधः। तथा च भोक्तुं पचति भुक्त्वा तृप्त इत्यादौ भोजनजनिका पाकक्रिया भोजनजन्या तृप्तिरिति बोधः । अत एव जलपानानन्तर्यस्य तृप्तौ सत्त्वेऽपि पीत्वा तृप्त इति न प्रयोगः । सामानाधिकरण्यस्यापि संसर्गत्वेनार्थात्समानकर्तृकत्वमपि लब्धम् । भुक्त्वा व्रजतीत्यादौ पूर्वोत्तरभावः सामानाधिकरण्यं च संसर्ग इति भोजनसमानाधिकरणा तदु- तरकालिकी वजनक्रियेति बोधः । अधीत्य तिष्ठति मुखं व्यादाय स्वपितीत्यादौ * भावस्यैव प्रतीतौ पूर्वकालस्य कथं प्रतीतिरिति विचारः। = विशेष्यविशेषणभावमन्त- रेणाप्येकवाक्यत्वोपगमे । + क्रिययोः । ४ विशेषणक्रियोत्तरसमयवृत्तित्वम् । * अविनाभावित्वम् । + संसर्ग इत्यर्थः । .. जन्यत्वस्यापि संसर्गत्वाभ्युपगमादेव। A व्याप्यत्वस्य संसर्गतायां युक्ति प्रदर्शयति-अधीयोति । १ च. तृप्यते।
५ भट्टोजिदीक्षितविरचितवैयाकरणसिद्धान्तकारिकाः। (क्वायर्थनिर्णयः) चाध्ययनव्यादानयोरभावकालेऽप्रयोगाद्यदा यदाऽस्य स्थितिः स्वापश्च तदा तदाऽध्य- यनं मुखव्यादानं चेति कालविशेषावच्छिन्नव्याप्यत्वबोधायाप्यत्वं सामानाधिकरण्यं च संसर्गः । एवं चान्यलम्यत्वान्न सूत्रात्तेषां वाच्यतालाभ इति युक्तमव्ययकृतो भाव इति । एवं च प्रकृत्यर्थक्रिययोः संसर्गे तात्पर्यग्राहकत्वरूपं द्योतकत्वं क्त्वादीनाम् । अत एव “ समानकर्तृकयोः " [ पा० सू० ३-४-२१ ] इति सूत्रे स्वशब्देनोपा- तत्वान्नेति +भाष्यप्रतीकमादाय पौर्वापर्यकाले द्योत्ये क्त्वादिविधीयते न तु विषय इति भाव इति कैयटः । यत्तु समानकर्तृकयोरिति सूत्रात्समानकर्तृकत्वं क्त्वावाच्य- मन्यथौदनं पक्त्वाऽहं भोक्ष्य इत्यत्र मयेति तृतीयाप्रसङ्गाच्च । न चाऽऽख्यातेन कर्तुर- मिधानान्न सेति वाच्यम् । भोजनक्रियाकर्तुरभिधानेऽपि पाकक्रियाकर्तुस्तदभावात् । अनभिहिते भवतीति पर्युदासाश्रयणात् । अत एव प्रासाद आस्त इत्यत्र प्रसादनक्रि- याधिकरणस्याभिधानेऽप्यस्तिक्रियाधिकरणस्यानभिधानात्सप्तमीति भाष्ये स्पष्टम् । तस्मात्क्त्वाप्रत्ययस्य कर्तृवाचित्वमावश्यकमिति, तन्न, सूत्रात्तस्य वाच्यत्वालामात् । समा- नकर्तृकयोः क्रिययोः पूर्वकाले क्त्वेत्येव तदर्थात् । अन्यथा समानकर्तरीत्येव सूत्र- न्यासः स्यात् । तृतीयापादनं त्वाख्यातार्थक्रियायाः प्रधानभूतायाः कर्तुरभिधानात्प्र- धानानुरोधेन गुणे कार्यप्रवृत्तेर्न संभवति । उक्तं च वाक्यपदीये- " प्रधानेतरयोर्यत्र द्रव्यस्य क्रिययोः पृथक् । शक्तिर्गुणाश्रया तत्र प्रधानमनुरुध्यते ।। प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते । यंदा गुणे तदा तद्वदनुक्ताऽपि प्रतीयते' इति ॥ किं चान्यथा कर्मणोऽपि क्त्वार्थतापत्तिः पक्त्वौदनो मया भुज्यत इत्यत्र द्विती- यायाः प्रकारान्तरेणावारणात् , इत्यास्तां विस्तरः ॥ १॥ (५८) इति रङ्गोजिभट्टात्मजकौण्डभट्टविरचिते वैयाकरणभूषणसारे क्त्वाद्यर्थनिर्णयः समाप्तः । --- + इह कस्मान्न भवति पूर्व भुङ्क्ते पश्चाबजतीत्यत्र स्वशब्देनोपात्तत्वान्नेति भाष्य- मित्यर्थः । १ ज. भव्यापारत्वबो'। २ छ. यथा । ३ छ. तथा।
कोण्डभट्टविरचितवैयाकरणभूषणसाराख्यव्याख्यासमेताः- (स्फोटवादः) (अथ स्फोटवादः ।) - सिद्धान्तनिष्कर्षमाह- वाक्यस्फोटोऽतिनिष्कर्षे तिष्ठतीति मतस्थितिः । साधुशब्देऽन्तर्गता हि बोधका न तु तत्स्मृताः ॥ १ ॥(५९) यद्यपि वर्णस्फोटः पदस्फोटो वाक्यस्फोटोऽखण्डपदवाक्यस्फोटौ वर्णपदवाक्यमेदेन त्रयो जातिस्फोटा इत्यष्टौ पक्षाः सिद्धान्तसिद्धा इति *वाक्यग्रहणमनर्थकं +दुरर्थकं च तथाऽपि वाक्यस्फोटातिरिक्तानामन्येषामप्यवास्तवत्वबोधनाय तदुपादानम् । एतदेव ध्वनयन्नाह-अतिनिष्कर्ष इति । मतस्थितिर्वैयाकरणानां महाभाष्यकारादीनाम् । तत्र क्रमेण सर्वांस्तान्निरूपयन्वर्णस्फोटं प्रथममाह-साधुशब्द इति । =साधुशब्दान्तर्गता वाचका न वेति विप्रतिपत्तिः । विधिकोटिरन्येषां नेति वैयाकरणानां साधुशब्दे पचति राम इति प्रयुज्यमानेऽन्तर्गतास्तिब्विसर्गादय एव बोधका वाचकास्तेषामेव शक्तत्वस्य प्राग्व्यवस्थापितत्वान्न तु तैः स्मृता लादयः स्वादयश्चेत्यर्थः ॥ १ ॥ (५९) यत्तु प्रयोगान्तर्गतास्तिवादयो न वाचकास्तेषां बहुत्वेन शक्त्यानन्त्यापत्तेः । एघां- चक्रे ब्रह्मेत्यादावादेशभूतलुगादेरभावरूपस्य बोधकत्वासंभवाच्च । किंतु तैः स्मृता लकाराः स्वादयश्च वाचका लत्वस्य जातिरूपतया शक्ततावच्छेदकत्वौचित्यात् । अव्यभिचाराच्च । आदेशानां भिन्नतया परस्परव्यभिचारित्वात्।। [ पा० सू० ३-४-६९ ] इत्याद्यनुशासनानुगुण्याच । न ह्यादेशेष्वर्थबोधकमनुशा- सनमुपलमामह इत्याहुस्तान्स्वसाधकयुक्तिभिर्निराचष्टे- व्यवस्थितेर्व्यवहृतेस्तद्धेतुन्यायतस्तथा । किं चाऽऽख्यातेन शत्राद्यैर्लडेव स्मार्यते यदि ॥ कथं कर्तुरवाच्यत्ववाच्यत्वे तद्विभावय ॥ २ ॥ (६०) व्यवस्थानुरोधात्प्रयोगान्तर्गता एव वाचका न तु तत्स्मृता इत्यर्थः । तथा हि-पत्र- तीत्यादौ लकारमविदुषो बोधान्न तस्य वाचकत्वम् । न च तेषां तिक्षु शक्तिभ्रमा- द्वोधः । तस्य भ्रमत्वे मानाभावात् । (+प्रयोगांशानाम् ) आदेशिनामपि तत्तद्वै या- करणैः स्वेच्छया भिन्नभिन्नानामभ्युपगमात्कः शक्तः को नेति व्यवस्थानापत्तेश्च । लः कर्मणि" * व्यावालाभात् । + तदतिरिक्तानामसंग्रहश्चेत्याह । = साध्वन्तर्गतवर्णस्मारिता इत्यर्थः । + तत्रापि न तेषामनुगमः । * तदपेक्षयाऽस्मिन्पक्षे बहु लाघवम् । + धनुश्चिहान्तर्गतं ङ, छ, ज. पुस्तकेषु नास्ति । x शाकटायनादिभिः । एवं च तेषामपि बहुत्वम् । १ च. ति व्यवस्थि । २ छ. र्थः । ये तु प्र । ३ च. शक्यः ।
-- भट्टोजिदीक्षितविरचितवैयाकरणसिद्धान्तकारिकाः । ( स्फोटवादः) सर्वेषां शक्तत्वे गौरवं व्यभिचारश्चास्त्येवाऽऽदेशानां *प्रयोगान्तर्गततया नियतत्वा- धुक्तं तेषां शक्तत्वम् । तथा चाऽऽदेशिस्मरणकल्पना नेति लाघवम् । साधकान्तर- माह-व्यवहृतेरिति । व्यवहारस्तावच्छक्तिग्राहकेषु +मुख्यः । स च श्रूयमाणति- डादिष्वेवेति त एव वाचका इत्यर्थः । किं च -तद्धेतुन्यायत इति । लकारस्य बोध. कत्वे भूल इत्यतोऽपि बोधः स्यात् । तादृशे बोधे पचतीति सममिव्याहारोऽपि कारणमिति चेत्तावश्यकत्वादस्तु तादृशसमभिव्याहारस्यैव वाचकत्वशक्तिः। अन्यथा लकारस्य वाचकत्वं समभिव्याहारस्य कारणत्वं चेत्युभयं कल्प्यमिति गौरवं स्यात् । तथा च तादृशसमभिव्याहारः समभिव्याहृता वर्णा वेत्यत्र विनिगमकाभावात्प्रयो- गान्तर्गता वर्णा वाचका इति सिध्यतीति भावः । अपि च लकारस्यैव वाचकत्वे कृत्ति- डोः कर्तृभावनावाचकव्यवस्था त्वत्सिद्धान्तसिद्धा न स्यादित्याशयेनाऽऽह-किंचेति। आदेशानां वाचकत्वे तित्वेन भावनाया मानत्वादिना कर्तरि शक्तिरित्युपपद्यते विभाग इति भावः । न च शानजादौ कृतिलकारार्थ आश्रयः शाननर्थ इत्यस्तु "कर्तरि कृत्" [पा० सू० ३.४-६७ ] इत्यनुशासनादिति शङ्कयम् । स्थान्यर्थेन निराकाङ्क्षतया शानजादौ कर्तरीत्यस्याप्रवृत्तेरन्यथा घनादावपि प्रवर्तेत ॥ २ ॥ (६०) देवदत्तः पचमान इत्यादिसामानाधिकरण्यानुरोधाच्छानचः कर्ता वाच्यः स्यादि- त्याशङ्कयाऽऽह- तरबाद्यन्ततिक्ष्वस्ति नामता कृत्स्विव स्फुटा। नामार्थयोरभेदोऽपि तस्मात्तुल्योऽवधार्यताम् ॥ ३ ॥ (६१) पचतितरां मैत्रः पचतिकल्प मैत्र इत्यादिषु नामार्थत्वाभेदान्वययोः संभव एवेति कर्तृवाचकता स्यादिति भावः । न च पचतिकल्पमित्यत्र सामानाधिकरण्यानुरोधात्क- तरि लक्षणा पचमान इत्यत्राप्यापत्तेरिति लः कर्मणीत्यत्रानुशासनं च लाघवाय कल्पिते लकारे कळदिवाचित्वं कल्पितमादायेत्युक्तम् ॥ ३ ॥ (६१) इति रङ्गोजिभट्टात्मजकौण्डभट्टविरचिते वैयाकरणभूषणसारे स्फोटवादे वर्णस्फोटनिरूपणं समाप्तम् । - (अथ पदादिस्फोटनिरूपणम् ।) अथाऽऽदेशा वाचकाश्चेत्पदस्फोटस्तत स्फुटः ॥ ४॥ (६२) * तदपेक्षयाऽस्मिन्पक्षे बहुलाघवम् । + तत्त्वं च शक्तिग्राहकान्तरनिरपेक्षत्वम् । + समुदा- यस्य शक्तत्वानङ्गीकारे। छ. सति । २ छ. "नायां शानजादि ।
५८ कौण्डभट्टविरचितवैयाकरणभूषणसारख्यव्याख्यासमेताः (स्फोटवादः) एवमादेशानां वाचकत्वे सिद्धे पदस्फोटोऽपि सिद्ध एवेत्याह-अथेत्यादि । आदेशास्तिविसर्गादयः । अयं भावः-समभिव्याहृतवर्णानां वाचकत्वे सिद्धे ताह. शवर्णसमभिव्याहाररूपपदस्य वाचकता सिध्यति । प्रतिवर्णमर्थस्मरणस्यानुभवविरुद्ध- त्वात्प्रत्येकं वर्णानामर्थवत्त्वेन प्रातिपदिकत्वापत्तौ " नलोपः प्रातिपदिकान्तस्य " [ पा० सू० ८.२.७ ] इत्यादिमिर्धनं वनमित्यादौ नलोपाद्यापत्तेश्च । एतच्च चर- +मवर्ण एव वाचकत्वशक्तिः शक्तेनासज्यवृत्तित्वे मानाभावा-त्पूर्वपूर्ववर्णानुभवज- न्यसंस्काराश्चरमेणार्थधीजनने सहकारिण इति न तन्मात्रोच्चारणादर्थधीरिति वर्णस्फो. टवादिनां मतान्तरदूषणायोक्तं रामोऽस्तीति वक्तव्ये रामित्यनन्तरं घटिकोत्तरमकारो- च्चारणेऽर्थबोधापत्त्या तादृशानुपूर्व्या एव शक्ततावच्छेदकत्वौचित्यादिति दिक्॥४॥(६२) सुप्तिङन्तं पदमिति परिभाषितपदस्य वाचकत्वस्वीकर्तृणां मतमाह घटेनेत्यादिषु न हि प्रकृत्यादिभिदा स्थिता ॥ वस्त्रसादाविवेहापि संप्रमोहो हि दृश्यते ॥५॥ (६३) घटेनेत्यादौ "घटे" इति प्रकृतिर्नेति प्रत्ययः। घट(ट्) इति प्रकृतिरेनेति प्रत्यय इति विभागस्य " सर्वे सर्वपदादेशाः ” इति स्वीकारे विशिष्य प्रकृतिप्रत्यययोर्ज्ञानासंभ- वान्न वाचकत्वमित्यर्थः । वैयाकरणैर्विभागः सुज्ञेय इत्यतो दृष्टान्तव्याजेनाऽऽह- वस्नसाविति । [पा० सू० ८-१.२१ ] इति समुदाय- स्याऽऽदेशविधानान्नात्र तद्विभागः संभवतीत्यर्थः ॥ ५ ॥ (६३) सुप्तिङन्तचयरूपवाक्यस्यापि तदाह- हरेऽवेत्यादि दृष्ट्वा च वाक्यस्फोट विनिश्चिनु । अर्थे विशिष्य संबन्धाग्रहणं चेत्समं पदे । लक्षणादधुना चेत्तत्पदेऽर्थेऽप्यस्तु तत्तथा ॥६॥ (६४) हरेऽव विष्णोऽवेत्यादौ पदयोः “ एङः पदान्तादति " [पा० सू० ६-१-१०९] इत्येकादेशे सति न तद्विभागः सुज्ञानस्तथा च प्रत्येकपदाज्ञानेऽपि समुदायशक्ति- ज्ञानाच्छाब्दबोधात्समुदायेऽप्यावश्यिका शक्तिः । एवं प्रकृतिप्रत्ययेषु विशिष्याज्ञान यमानेष्वपि समुदायव्युत्पन्नत्वबोधात्तत्राप्यावश्यिकैव शक्तिरिति भावः । वस्तुतः पदैः पदार्थबोधवद्वाक्येन पदार्थबोध इति पदार्थशक्तिः पदेष्विव वाक्यार्थशक्तिर्वाक्येऽ. भ्युपेयेति पदस्फोटवाक्यस्फोटौ व्यवस्थितौ । अन्यथा घटः कर्मत्वमानयनं कृति- * तद्वाचकपुरःसरं समभिव्याहारहेतुत्वं चेत्यर्थः । + तदृच्चारणे तत्पूर्ववर्णानामसत्त्वादिति भावः । • समुदायवृत्तित्वे । = ननु तर्हि तन्मात्रश्रवणादर्थप्रतीतिः कुतो नेत्यत आह-पूर्वेति । $ पाणिन्यादिभिः । वाक्यशक्तेरनभ्युपगमे । १ . छ. ज. 'त्पत्त्या बों। बहुवचनस्य वस्नसौ - ५९ भट्टोजिदीक्षितविरचितवैयाकरणसिद्धान्तकारिकाः। ( स्फोटवादः) रित्यादौ *तादृशव्युत्पत्तिरहितस्यापि बोधप्रसङ्गः। +घटमानयेत्यत्रेव पदार्थानामुप- स्थितौ सत्यपि तात्पर्यज्ञाने बोधाभावाच्च । तत्रैव घटकर्मकमानयनमिति बोधे घटार्थकप्रातिपदिकोत्तरं कर्मत्ववाचकविभक्तेस्ततो धातास्तत आख्यातस्य समभिव्या- हारः कारणमिति कार्यकारणभावज्ञानवतो बोधात्तज्ज्ञानमापि हेतुरिति चेत्तहिं सिद्धो वाक्यस्फोटः । घटादिपदार्थबोधे बोधकतारूपपदशक्तिज्ञानकार्यकारणभावस्येव विशि- ष्टवाक्यार्थबोधे पदसमभिव्याहाररूपवाक्यनिष्ठबोधकतारूपवाक्यशक्तिज्ञानस्यापि हेतु- त्वकल्पनात् । अर्थोपस्थापकज्ञानविषयशब्दवृत्तिज्ञान कारणत्वस्यैव शक्तित्वात् । युक्तं चैतद्विषयतासंबन्धेन शाब्दबोधमात्रे वृत्तिज्ञानस्य लाघवेन हेतुत्वसिद्धेः । विवेचितं चैतद्भूषणे । ननु वाक्यार्थस्यापूर्वत्वात्कथं तत्र शक्तिग्रह इत्याशङ्कयाऽऽह-अर्थ इति । वाक्यस्येति शेषः । वाक्यस्य वाक्यार्थे विशिष्य शक्त्यग्रहणं चेत्तर्हि पदेऽपि समम् । पद एवान्वयांशे शक्तिरिति पक्षेऽपि तद्ग्रहासंभवस्तुल्य इत्यर्थः । यदि च पदशक्तिः पदार्थांशे ज्ञाताऽन्वयांशे चाज्ञातोपयुज्यत इति कुलशक्तिवादस्तदा ममापि वाक्यशक्तिरज्ञातैवोपयुज्यत इति वादाभ्युपगमस्तुल्य इति मावः । ननु वृद्धव्यवहारं पश्यतो मनसा पदार्थवद्वाक्यार्थेऽपि तद्ग्रह इति चेत्तुल्यमित्याह-लक्षणादिति । लक्ष्यते तय॑तेऽनेनेति लक्षणं मनस्तस्मात् । अपिः पदपदोत्तरं बोध्यः, पदेऽपि लक्ष- णात्तद्ग्रहश्चेत्तर्वस्तु वाक्येऽपीति शेषः । वस्तुतस्तु समुदितार्थे विशिष्टवाक्यस्यैव प्रथम तद्ग्रहः । आवापोद्वापाभ्यां परं प्रत्येकं तद्ग्रह इति बोध्यम् ॥ ६ ॥ (६४) इयमेव मीमांसकानां वेदान्तैकदेशिनां च गतिरित्याह- सर्वत्रैव हि वाक्यार्थो लक्ष्य एवेति ये विदुः । भाहास्तेऽपीत्थमेवाऽऽहुर्लक्षणाया ग्रहे गतिम् ॥ ७ ॥(६५) भाहा इति तदनुयायिनां वाचस्पतिकल्पतरुप्रभृतीनामुपलक्षणम् । स्पष्टमेतत् । ननूक्तपक्षद्वयमनुपपन्नमुत्पत्तेरभिव्यक्ते(कदाऽसंभवेन वर्णसमूहरूपपदज्ञानासंभवात् । तथा च सुतरां तत्समूहरूपवाक्यार्थज्ञानासंभव इति चेन्न । उत्तरवर्णप्रत्यक्षस- मयेऽव्यवहितोत्तरत्वसंबन्धेनोपस्थितपूर्ववर्णवत्त्वं तथा तदुत्तरप्रत्यक्षकाल उपस्थित- विशिष्टतद्वर्णवत्त्वं तस्मिन्सुग्रहमिति तादृशानुपूर्वीघटितपदत्वस्येव वाक्यत्वस्यापि सुग्र- हत्वात् ॥ ७ ॥ (६५) इदानीमखण्डपक्षमाह पदे न वर्णा विद्यन्ते वर्णेष्ववयवा न च । वाक्यात्पदानामत्यन्तं प्रविवेको न कश्चन ॥ ८ ॥ (६६) * पदार्थसंसर्गबोधकत्वरूपवाक्यशक्तिज्ञानरहितस्य । + अत्र तादृशव्युत्पत्तिरहितस्येत्यनुष- ज्यते। किं पुनर्घटः कर्मत्वमित्यत्र वक्तव्यमिति शेषः । । समभिव्याहारनिष्ठबोधजनकज्ञानमपि । १ ङ. 'माप्यन्वयांशे वा' । २ ङ. छ. ज. 'वाक्यज्ञा'।
६० कौण्डभट्टविरचितवैयाकरणभूषणसाराख्यव्याख्यासमेताः- (स्फोटवादः) पदे पचतीत्यादौ न वर्णाः, नातो वर्णसमूहः पदमिति शेषः । दृष्टान्तव्याजे- नाऽऽह-वर्णेष्विति । एकारौकारलकारऋकारादिवर्णेष्ववयवाः प्रतीयमाना अपि यथा नेत्यर्थः । क्वचिदित्येव पाठः । एवं वाक्येऽप्याह-वाक्यादिति । पदानामपि वाक्याद्विवेको भेदो नास्तीत्यर्थः । अयं भावः-वाक्यं पदं वाऽखण्डमेव न तु वर्णस- मूहः । अनन्तवर्णकल्पने मानाभावात् । तत्तद्वर्णोत्पादकत्वेनाभिमतवायुसंयोगनिष्ठं तत्तद्वर्णजनकताया व्यञ्जकताया वाऽवच्छेदकं वैजात्यमादायैव ककारो गकार इत्या- दिप्रतीतिवैलक्षण्यसंभवात् । स्पष्टं हि भामत्याम् -" तारत्वादि वायुनिष्ठं वर्णेष्वारो. प्यते " इत्युक्तं देवताधिकरणे । न चैवं वायुसंयोग एव वाचकोऽपि किं न स्यादिति वाच्यम् । प्रत्यक्षोपलभ्यमानककारादेरेव वाचकत्वस्यानुभवसिद्धत्वात् । तथा च वाच- कत्वान्यथानुपपत्त्या तदेवेदं पदं तदेवेदं वाक्यं सोऽयं गकार इति प्रतीत्या च स्फोटोऽ. खण्डः सिध्यति । एतेन गौरित्यादौ गकारौकारविसर्गादिव्यतिरेकेण स्फोटाननुभका- च्छ्रयमाणवर्णानामेव वाचकत्वमस्त्वित्यपास्तम् । तेषां स्फोटातिरिक्तत्वाभावात् । यत्तु वर्णानां प्रत्येक वाचकत्वे प्रत्येकादर्थबोधापत्तिः । समुदायस्य तु क्रमवतामाशुतरो- त्पन्नानां तथैवाभिव्यक्तानां वा ज्ञानमसंभाव्यमेव । पूर्वपूर्ववर्णानुभवसंस्कारसहकारेणै- कदा समूहालम्बनरूपसकलज्ञानसंभवस्तु सरो रसो जरारीजनदीदीनादिसाधारण इत्यतिप्रसङ्ग इति स्फोट एवाखण्डो नादाभिव्यङ्ग्यो वाचक इति कैयटः । तत्तुच्छम् । पदज्ञानसंभवस्योपपादितत्वाद्वर्णानां प्रत्येकं व्यञ्जकत्वं समुदितानां वेत्यादिविकल्पग्रा- साच्च । ननु त्वन्मतेऽप्येष दोषः । तत्तद्वर्णोत्पादकत्वेनाभिमतवायुसंयोगानां प्रत्येक व्यञ्जकत्वं समुदितानां वेति विकल्पंगणसंभवादिति चेत् । उच्यते । प्रत्येकमेव संयो. गाभिव्यञ्जकाः परं तु केचिद्गत्वेन केचिदौत्वेन केचिद्विसर्गत्वेनेत्यनेकैः प्रकारैरत एव वर्णानां तदतिरेकास्वीकारोऽप्युपपद्यते । एवं चाव्यवहितोत्तरत्वसंबन्धेन घटत्वं टकारे xगृह्यते । एतादृशपदज्ञानकारणताया अविवादात् । परं त्वव्यवहितोत्तरत्वं स्वज्ञाना- धिकरणक्षणोत्पत्तिकज्ञानविषयत्वं वाच्यमत एव घज्ञानानन्तरटज्ञानविषयत्वरूपानु- पूर्वीत्यादिनैयायिकवृद्धानां व्यवहारः । एवं च न कश्चिद्दोषः । पाएतेन पर्यायस्थलेष्वेक. एव स्फोटः, नाना वा । नाऽऽद्यः । घटपदे गृहीतशक्तिकस्य कलशपदाद्बोधप्रसङ्गात् । न च तत्पर्यायाभिव्यक्ते शक्तिग्रहस्तत्पर्यायश्रवणेऽर्थधीहेतुरिति वाच्यम् । एवं सति * पदादिस्फोट आरोप्य । । गत्वादीनाम् । + वर्णाद्यघटित इत्यर्थः । स्फिोटातिरेकत्वस्या- सत्त्वात् । ४ अतो न रसात्सरभानम् । १ वर्णानुपूर्व्यवच्छिन्नस्फोटस्य वाचकत्वव्यवस्थापने- नेत्यर्थः । १ ङ, छ. भावः । २ ङ. छ. 'दिवेत्ये । ३ च. ज. राजान' । ४ छ. 'ल्पस्य सं' । ज. ल्पग्रहण।
भट्टोजिदीक्षितविरचितवैयाकरणसिद्धान्तकारिकाः। (स्फेटवादः) प्रतिपर्यायं शक्तिग्रहावश्यंभावेन तत्तत्पर्यायगतशक्तिग्रहहेतुताया उचितत्वात् । तथा सति शक्तिमहत्वेनैव हेतुत्वे लाघवाच्च । अन्यथा तत्पर्यायाभिव्यक्तगतशक्तिग्रहत्वेन तत्त्वे गौरवात् । न द्वितीयः । अनन्तपदार्थानां तेषां शक्तिं चापेक्ष्य क्लप्तवर्णेष्वेव शक्तिक- ल्पनस्य लघुत्वादिति परिमलोक्तमपास्तम् । *पर्यायेष्वनेकशक्तिस्वीकारस्य सर्वसिद्ध- ( त्वात्तदवच्छेदकानुपूर्व्याः प्रागुपपादनादिति दिक् । शब्दकौस्तुभे तु +वर्णमालायां पदमिति प्रतीतेर्वर्णातिरिक्त एव स्फोटः, अन्यथा 'कपालातिरिक्तघटासिद्धिप्रसङ्गश्चेति प्रतिपादितम् ।। ८ ॥ (६६) नन्वेवं xशास्त्राप्रामाण्यप्रसङ्गः पदस्याखण्डत्वात् । शास्त्रस्य च प्रकृतिप्रत्यया- भ्यां पदव्युत्पादनमात्रार्थत्वादित्याशङ्कां समाधत्ते- पञ्चकोशादिवत्तस्मात्कल्पनैषा समाश्रिता । उपेयमतिपत्त्यर्था उपाया अव्यवस्थिताः ॥ ९॥ (६७) उपेयप्रतिपत्त्यर्था इत्यन्तेनान्वयः । अयं भावः-( =यथा भृगुवल्यां "भृगुर्वै वारु- णिवरुणं ब्रह्म पृष्टवान् । स उवाचान्नम्" इति तस्योत्पत्त्यादिकं बुद्ध्वा पृष्टे प्राणमनो: विज्ञानानन्दात्मकपञ्चकोशोपदेशोत्तरं "ब्रह्म पुच्छं प्रतिष्ठा" इति ज्ञेयं ब्रह्म प्रतिपादितम्। तच कोशपञ्चकव्युत्पादनं शुद्धब्रह्मबोधनाय, [०यथा वाऽऽनन्दवल्लीस्थपञ्चकोशव्यु- त्पादनं वास्तवशुद्धब्रह्मबोधनाय ) यथाऽऽनन्दवल्यामन्नप्राणमनोविज्ञानानन्दमयात्मक- कोशपञ्चकव्युत्पादनं वास्तवपुच्छब्रह्मबोधनाय], एवं प्रकृतिप्रत्ययादिव्युत्पादनं वास्तवस्फोटव्युत्पादनायैवेति । ननु प्रत्यक्षस्य स्फोटस्य श्रवणादितोऽपि बोधसंभवान्न शास्त्रं तदुपाय इत्यत आह-उपाया इति । उपायस्योपायान्तरादूषकत्वात् । च व्याकरणाभ्यासजन्यज्ञाने वैजात्यं कल्प्यते मन्त्रजन्यमिवार्थस्मरणे. दान्तजन्यमिव ब्रह्मज्ञाने, तस्य च ज्ञानस्य यज्ञादीनामन्तःकरणशुद्धाविव शरी- रादिशुद्धावुपयोगः साक्षात्परम्परया वा वर्गमोक्षादिहेतुत्वं च । तदुक्तं वाक्यपदीये- तद्वारमपवर्गस्य वाङ्मलानां चिकित्सितम् । पवित्रं सर्वविद्यानामधिविद्यं प्रकाशते ॥ इदमाद्यं पदस्थानं सिद्धिसोपानपर्वणाम् । था A *तत्तत्पर्यायरूपधर्मिभेदभिन्नाऽत्र शक्तिः। ( शक्ततावच्छेदकानुपूर्व्याः। +आनुपूर्वीयुक्तायाम्। प्रतीतेः पदार्थासाधकत्व इत्यर्थः । । कपाले घट इति प्रतीत्या भेदावगाहिन्या तसिद्धिः । x एवमुक्तस्फोटस्य वाचकत्व इत्यर्थः । = धनुश्चिद्वान्तर्गतग्रन्थो ङ. च. पुस्तकयोनास्ति। ० एत- चिहान्तर्गतो ग्रन्थोऽधिकोऽसंगतश्च क्वचित् । ११च. चिकीर्षितम् ।
- कौण्डमविरचितवैयाकरणभूषणसाराख्यव्याख्यासमेताः- (स्फोटवादः) इयं सा मोक्षमार्गाणामजिह्मा राजपद्धतिः ॥ अत्रातीतविपर्यासः केवलामनुपश्यति ” इति ॥ न चालीकया प्रकृतिप्रत्ययकल्पनया कथं वास्तवस्फोटबोधः । तस्यालीकत्वासिद्धर्व- क्ष्यमाणत्वात् । एवं रेखागवयन्याय आदिना गृह्यते ॥ ९ ॥ (६७) ननु स्फोटस्य वर्णजातीयानां च नित्यतया ककार उत्पन्न इति न स्यात् । वायुसं- योगनिष्ठजातेः स्फोटे भाने कादिप्रतीतीनां भ्रमत्वापत्तिश्चेत्यत आह- कल्पितानामुपाधित्वं स्वीकृतं हि परैरपि । स्वरदैाद्यपि ह्यन्ये वर्णेभ्योऽन्यस्य मन्वते ॥ १० ॥ (६८) स्वीकारस्थलमाह-स्वरदैाद्यपीति । आदिनोत्पत्तिविनाशादिसंग्रहः । उदा- तत्वादि न वर्णनिष्ठं तस्यैकत्वान्नित्यत्वाच्च । तच्च स एवायमिति प्रत्यभिज्ञानात् । न च गत्वावच्छिन्नप्रतियोगिताकभेदाभावस्तद्विषयो व्यक्त्यंशाभेदस्यापि भासमानस्य विना बाधकं त्यागायोगात् । न चोत्पत्तिप्रतीतिर्वाधिका । प्रागसत्त्वे सति सत्त्वरूपाया उत्पत्तेर्वर्णेष्वनुभवविरुद्धत्वात् । अत एव वर्णमुच्चारयतीति प्रत्ययो न तूत्पादयतीति प्रत्ययो व्यवहारश्च । उच्चरितत्वं च ताल्वोष्ठसंयोगादिजन्याभिव्यक्तिविशिष्टत्वम् । किंच- व्यञ्जकध्वनिनिष्ठोत्पत्त्यादेः परम्परया वर्णनिष्ठत्वविषयत्वेनाप्युपपत्तेर्न साऽतिरिक्तवर्ण- साधिका । परम्परया वर्णनिष्ठत्वाभ्युपगमाञ्च न भ्रमत्वम् । साक्षात्संबन्धांशे भ्रम इत्यवशिष्यते । तदपि सोऽयमित्यत्र व्यक्त्यभेदांशे तव भ्रमत्ववत्तुल्यम् । परं तू ममातिरिक्तवर्णतत्प्रागभावध्वंसकल्पना नेति लाघवमतिरिच्यते । न च वर्णस्थले ध्वनि- सत्त्वे मानाभावः । तदुत्पादकशङ्खाद्यभावेन तदसंभवश्चेति वाच्यम् । ककारायुच्चारणस्थले तत्तत्स्थानस्य जिह्वाया ईषदन्तरपाते वर्णानुत्पत्तव॑न्युत्पत्तेश्च दर्शनाजिह्वाभिघातजवा- युकण्ठसंयोगादेर्ध्वनिजनकत्वकल्पनात् । तस्य च वर्णोत्पत्तिस्थलेऽपि सत्त्वात्तवैव प्रति- बन्ध्यप्रतिबन्धकमावकल्पना निष्प्रमाणिकी(का) स्यादिति विपरीतं गौरवमेवं परस्परवि- रोधादुदात्तत्वानुदात्तत्वह्रस्वत्वदीर्घत्वादिकमपि न वर्णनिष्ठं युक्तमिति तेषामभिप्रायः। एवं चोत्पत्त्यादिप्रतीतीनां तत्प्रमात्वस्य च निर्वाहः परेषामपि समान इति प्रतिबन्येवोत्तरः मिति भावः ॥ १० ॥ (६८) इत्यं पञ्च व्यक्तिस्फोटाः । जातिस्फोटमाह- शक्यत्व इव शक्तत्वे जातेाघवमीक्ष्यताम् । औपाधिको वा भेदोऽस्तु वर्णानां तारमन्दवत् ॥ ११ ॥ (६९) अयं भावः-वर्णास्तावदावश्यका उक्तरीत्या च सोऽयं गकार इतिवद्योऽयं गकार इति श्रुतः सोऽयं हकार इत्यपि स्यात् । स्फोटम्यैकत्वात् । गकारोऽयं न - १ ज. सि के । २ ज. त्वायव । ३ ज. वर्णोत्पत्तिस्थ । ४ ज. शङ्काद्य ।
भट्टोजिदीक्षितविरचितवैयाकरणसिद्धान्तकारिकाः। (स्फोटवादः) हकार इत्यनापत्तेश्च। किं च स्फोटे गत्वाद्यभ्युपेयं न वा । आये स एव गकारोऽस्तु वर्ण. नित्यतावादिभिरतिरिक्तगत्वानङ्गीकारात् । तथा चातिरिक्तस्फोटकल्पन एव गौरव. म् , अन्त्ये गकारादिप्रतीतिविरोधः । वायुसंयोगवृत्तिध्वनिवृत्ति वा वैनात्यमारोप्य तथा प्रत्यय इति चेत् । न प्रतीतेविना बाधकं भ्रमत्वासंभवात् । अस्तु वा वायुसंयोग एवं गकारोऽपि तस्यातीन्द्रियत्वं दोष इति चेद्धर्मवदुपपत्तेरिति कृतं स्फोटेन । तस्मात्स. न्त्येव वर्णाः परं तु न वाचका गौरवात् । आकृत्यधिकरणन्यायेन जातेरेव वाच्यत्व. वद्वाचकत्वस्यापि युक्तत्वाच्च । इदं हरिपदमित्यनुगतप्रतीत्या हयुपस्थितित्वावच्छेदेन हरिपदज्ञानत्वेन हेतुत्वात्तदवच्छेदकतया च जातिविशेषस्यावश्यकल्प्यत्वात् । न च वर्णानुपूष्यव प्रतीत्यवच्छेदकत्वयोर्निर्वाहः, घटघटत्वादेरपि संयोगविशेषविशिष्टमृदा- कारादिभिश्वान्यथासिद्ध्यापत्तेः । तस्मात्सा जातिरेव वाचिका तादात्म्येन तदवच्छे- दिका चेति । ननु सरो रस इत्यादौ तयोर्जात्योः सत्त्वादर्थभेदबोधो न स्यादित्यत आह-औपाधिको वेति । वा त्वर्थे । उपाधिरानुपूर्वी सैव जातिविशेषाभिव्यञ्जिकेति भेदः कारणीभूतज्ञानस्येति नातिप्रसङ्ग इति भावः । उपाधिप्रयुक्तज्ञानवैलक्षण्ये दृष्टा- न्तमाह-वर्णानामिति ॥ ११ ।। (६९) ननु जातेः प्रत्येकं वर्णेष्वपि सत्त्वात्प्रत्येकादर्थबोधः स्यादित्यत आह- अनेकव्यक्त्यभिव्यङ्गया जातिः स्फोट इति स्मृती । कैश्चियक्तय एवास्या ध्वनित्वेन प्रकल्पिताः ॥ १२॥ (७०) अनेकाभिर्वर्णव्यक्तिभिरभिव्यक्तैव जातिः स्फोट इति स्मृता । योगार्थतया बोधि. केति यावत् । एतेन स्फोटस्य नित्यत्वात्सर्वदाऽर्थबोधापत्तिरित्यपास्तम् । अयं भावः- यद्यपि वर्णस्फोटपक्षे कथितदोषोऽस्ति तथाऽपि पदवाक्यपक्षयोन, तत्र तस्या व्यासज्य. वृत्तित्वस्य धर्मिग्राहकमानसिद्धत्वादिति कैश्चियक्तयो ध्वनय एव ध्वनिवर्णयों - दाभावादीत्यभ्युपेयन्त इति शेषार्थः । उक्तं हि काव्यप्रकाशे-"बुधैवैयाकरणैः प्रधा- जीभूतस्फोव्यञ्जकस्य शब्दस्य ध्वनिरिति व्यवहारः कृतः" इति ॥ १२ ॥ (७०) ननु का सा जातिस्तत्राऽऽह- सत्यासत्यौ तु यौ भागौ प्रतिभावं व्यवस्थितौ । सत्यं यत्तत्र सा जातिरसत्या व्यक्तयो मताः ॥ १३ ॥ (७१) प्रतिभावं प्रतिपदार्थ सत्यांशो जातिरसत्या व्यक्तयः । तत्तव्यक्तिविशिष्टब्रह्मैव जाति. रिति भावः । उक्तं च कैयटेन-" असत्योपाध्यवच्छिन्नं ब्रह्मतत्त्वं द्रव्यशब्दवाच्य- मित्यर्थः " इति । "ब्रह्मतत्त्वमेव शब्दखरूपतया भाति" इति च । कथं तर्हि ब्रह्मद. 7 १ ङ. च. तदेव । २ प. स्मृतः । ३ छ. 'टरूपव्यङ्गयव्य । ज. टव्यङ्ग्यव्य ।
- ६४ कोण्डभट्टविरचितवैयाकरणभूषणसाराख्यव्याख्यासमेताः- ( स्फोटवादः) र्शने च गोत्वादिनातेरप्यसत्त्वादनित्यत्वम् , आत्मैवेदं सर्वमिति श्रुतिवचनादिति कैयटः संगच्छताम् । अविद्याऽऽविद्यको धर्मविशेषो वेति पक्षान्तरमादायेति द्रष्ट- व्यम् ॥ १३ ॥ ( ७१ ) तमेव सत्यांशं स्पष्टयति-- इत्थं निष्कृष्यमाणं यच्छब्दतत्त्वं निरञ्जनम् । ब्रह्मैवेत्यक्षरं पाहुस्तस्मै पूर्णात्मने नमः ॥ १४ ॥ (७२) (इति भट्टोजिदीक्षितविरचितकारिकासु पदादिस्फोटनिरूपणम् ।) समाप्तः स्फोटवादः। इति भट्टोजिदीक्षितविरचितवैयाकरणसिद्धान्तकारिकाः समाप्ताः। अयं भावः-" नामरूपे व्याकरवाणि " इतिश्रुतिसिद्धा द्वयी सृष्टिस्तत्र रूप- स्येव नाम्नोऽपि तदेव तत्त्वम् । प्रक्रियांशस्त्वविद्याविजृम्भणमात्रम् । उक्तं च वाक्यपदीये- "शास्त्रेषु प्रक्रियाभेदैरविद्यैवोपवर्ण्यते । समारम्भस्तु मावानामनादि ब्रह्म शाश्वतम्" इति ॥ ब्रह्मैवेत्यनेन “ अत्रायं पुरुषः स्वयंज्योतिः " " तमेव भान्तमनु भाति सर्वम् तस्य भासा सर्वमिदं विमाति " इतिश्रुतिसिद्धं खपरप्रकाशत्वं सूचयन्स्फुटत्यर्थोऽ- स्मादिति स्फोट इति यौगिकं स्फोटशब्दाभिधेयत्वं सूचयति । निर्विघ्नप्रचयान्ते मङ्गलं स्तुतिनुतिरूपमाह-पूर्णात्मन इत्यादिना ॥ अशेषफलदातारमपि सर्वेश्वरं गुरुम् । श्रीमद्भूषणसारेण भूषये शेषभूषणम् ॥ १४ ॥ (७२) इति रङ्गोजिभट्टात्मजकौण्डभट्टविरचिते वैयाकरणभूषणसारे स्फोटवादे पदादिस्फोटनिरूपणं समाप्तम् ॥ समाप्तश्च स्फोटवादः । इति श्रीमत्पदवाक्यप्रमाणपारावारीणधुरीणरङ्गोजिभट्टात्मजकौण्ड भट्टविरचितो वैयाकरणभूषणसारः समाप्तः ॥ M १ ज. म्भमाण । २. ज. स्वप्र। ३ छ. सवयति ।
अथ भट्टोजिदीक्षितविरचितवैयाकरणसिद्धान्तकारिकाद्य- चरणप्रतीकानामकारादिवर्णानुक्रमसूची । प्रतीकानि। पृ० का० प्रतीकानि । पृ० का. .... .... .... .... .... - अ. अत एव गवित्याह अथाऽऽदेशा वाचकाचे- अत्रार्धजरतीयं स्यात् अनेकव्यक्त्यभिव्यङ्गया अभावो वा तदर्थोऽस्तु अभेदैकत्वसंख्याया अविग्रहा गतादिस्था अव्ययकृत इत्युक्तेः अषष्ठयर्थबहुव्रीही असाधुरनुमानेन.... अस्त्यादावपि धर्म्यशे आ. आख्यातशब्दे भागाभ्यां आख्यातं तद्धितकृतो- आश्रयोऽवधिरुद्देश्यः इ. इत्थं निष्कृष्यमाणं य- -इन्द्रियाणां स्वविषये .... .... किं तूत्पादनमेवातः ३०२७ कृ. ५७६२ कृत्तद्धितसमासेभ्यो ४८४८ ४८४९ कृत्वोर्थाः क्त्वातुमुन्वत्स्यु- १६२० क्री. ४२४० क्रीडायां णस्तदस्यास्ती- ५२/५४ घ. घटेनेत्यादिषु न हि २४/५८ च. ४०३७ चकारादिनिषेधोऽथ ३४३२ ज. जहत्स्वार्थाजहत्स्वार्थे त. ३७३४ तथाऽन्यत्र निपातेऽपि ४४४२ २१२४ तथा यस्य च भावेन तरबाद्यन्ततिक्ष्वस्ति ६४/७२ | तस्मात्करोतिर्धातोः स्यात् द्यो. घोतकाः पादयो येन घा. धात्वर्थत्वं क्रियात्वं चे- २७२५ न. नसमासे चापरस्य ६२६८ नसमासे चापरस्य नि. ९ निपातत्वं परेषां यत् .... .... .... .... .... उ. ४ उत्सर्गोऽयं कर्मकर्तृ- ए. एकं द्विकं त्रिकं चाथ क. कल्पितानामुपाधित्वं कि. किं कार्य पचनीयं चे- .... ....
[ २ ] प्रतीकानि। पृ.का. प्रतीकानि। पृ० का. - . - .... 4.. .... ४९५० ११ .... .... .... .... ...॥ निपातानां वाचकत्व- वि. निर्वत्यै च विकार्ये च ७ ७ विधेये भेदकं तत्र- प. व्य. पञ्चकोशादिवत्तस्मा- ६१६७ व्यवस्थितेर्व्यवहते- पदार्थः सदृशाऽन्वेति व्या. पदे न वर्णा विद्यन्ते ५९६६ व्यापारों भावना सैवो- पर्यवस्यच्छाद्धबोधा- श. प्र. प्रत्ययार्थस्यैकदेशे शक्यत्व इव शक्तत्वे ५१५१ शब्दोऽपि यदि भेदेन २९२६ प्रदेय एव वा शक्तिः ५१५२ शरैरुपैरिवोदीच्या- प्रयोगोपाधिमाश्रित्य स. फ. सत्यासत्यौ तु यो भागौ ६३७१ फणिभाषितभाष्याब्धेः समासस्तु चतुर्धेति ३१२९ फलव्यापारयोरेक १२१३ समासे खलु भिन्नैव फलव्यापारयोर्धातु. सर्वत्रैव हि वाक्यार्थों फलव्यापारयोस्तत्र ५ ३ सर्वनामाव्ययादीनां मे. सा. भेद्यभेदकसंबन्धो .. १७२१ साध्यत्वेन क्रिया तत्र य. यदि पक्षेऽपि वत्यर्थः १५/१८ सुपां सुपा तिङा नाना सं. रदाभ्यां वाक्यभेदेन ५४५७ ल. संबन्धशब्दे संबन्धो ४२/३८ लक्ष्यानुरोधात्संख्याया- ५३५५ संवोधनान्तं कृत्वोर्थाः व. वर्तमाने परोक्षे श्वो- १८२२ हरेऽवेत्यादि दृष्ट्वा च ..५८६४ था. ह्यो. वाक्यस्फोटोऽतिनिष्कर्षे ५६८९ ह्योभूते प्रेरणादौ च १९२३ इति भट्टोजिदीक्षितविरचितवैयाकरणसिद्धान्तकारिकाद्य- चरणप्रतीकानामकारादिवर्णानुक्रममूची समाप्ता । .... .... ३०२८ र. .... . .... ?