Scl

Kavya Prakash

Pt.girdhar_sharma

PDF Proofread

Front matter

No text on this page.

KAVYA PRAKASH
OF
MAMMATĀCHARYA
Edited by
Pt. Girdhar Lal Vyas
Sahitya Shastri, Sahityadhyapal
Shri Mahārānā Fateh Bhoopa?
Sanskrit College, Udaipur.
Published by
Pt. Dhanlal Sharma,
Durga Shanker Nagar
Sanskrit Granthagar. Chandpol, Udaipur, Mewar.
Printer:-- K. B. Pawagi,
Hitchintak Press, Ramghat, Benares City.
First Edition
1000
1934
{ Price R$.3.1-
All Rights Reserved.

No text on this page.

श्री मम्मटाचार्य विरचितः
काव्य-प्रकाशः।
अत्रत्य
श्रीमहाराणा फतहभूपाल संस्कृत महाविद्यालयस्य
साहित्याध्यापकेन
व्यासोपाहू पण्डित गोवर्धनशर्मतनुजनुषा
गिरिधरलालेन
साहित्यशास्त्रिणा
'पद्यमयीं मूर्तिमायादितः टिप्पणीभिश्च संयोजितः
उदयपुरस्थ संस्कृतग्रन्थागाराध्यक्षण
द्विवेदी नाथूरामात्मज पं० धनलालशर्मणा
पं० सवाईलाल तनूजेन दुर्गाशंकर नागरेण च
काशीस्थ रामघट्टे हितचिन्तक यन्त्रालये
कृ० ब० पावगी इत्येतैः प्रबन्धेन मुद्रापयित्वा प्रकाशितः ।
G20oen
'प्रथम संस्करणम्
} विक्रमाब्दाः १९९०
{ मुल्या

No text on this page.

विषयानुक्रमणिका। ... .. ... ४७-५८ ... १ भूमिका २ वक्तव्य ३ मंगलाचरणंग्रन्थकर्तृकप्रस्तावना च ४प्रथम उल्लासः ५ द्वितीय उल्लासः ६ तृतीय उल्लासः ७ चतुर्थ उल्लासः ८पंचम उल्लासः षष्ठउल्लासः १० वंशप्रशस्तिः ११ परिशिष्टम् २ १२ परिशिष्टम् २ १३ परिशिष्टम् ३ १४ उदाहृतपद्यानां सूची १५ सम्मतिपत्राणि ..4 ... ५१-१२६ १२२-१५६. २६०-१६ १६२-१६ १६४-१६८ १६८-१७० २७१-१७ १७३-१७८ २७६-१८४ ...

No text on this page.

अथ भूमिका श्रीमान् राजानकोपाधिको मम्मटभट्टसुधीः साहित्यशास्त्र- निबन्धनिर्मातृषु मूर्धन्य इति न तिरोहितं सुरभारतीसाहिती. रसिकानां विपश्चिदपश्चिमानाम् । तेन प्रणीतः स्वप्रज्ञाप्रतिबि- म्बायमानः काव्यप्रकाशाख्य आकरग्रन्थ आकाशे तारकानिकरं प्रभाकर इवालङ्कारनयप्रतिपादकग्रन्थान्तरनिवहं स्वीयप्रतिभा. प्रकर्षण नितान्तमधरीकरोति । नेदमस्माकं कपोलकल्पितमेव निराधारं विधानम् । अपि तु ग्रन्थराजमिममधिकृत्य विराज- मानाः सप्ततिसङ्ख्याधिकाष्टीकाग्रन्था एवात्रेदं प्रमाणीकर्तु. मलम् । येषु टीकाकृत्सु जयरामन्यायपश्चानन-जगदीशतर्का- लङ्कार-गदाधर भट्टाचार्य प्रभृति नैयायिकप्रकाण्डाः नागेश- भट्टप्रभृति वैयाकरणधुरन्धराः कमलाकरप्रभृति मीमांसक- धुरीणाः बलदेवविद्याभूषणप्रभृति वैष्णवागण्यः गोकुलनाथ- प्रभृति-दार्शनिक-तान्त्रिकरत्नानि वाचस्पति-वैद्यनाथसदृश- धर्माचार्याः राजानकरुय्यक विश्वनाथकविराजप्रभृतिसाहित्य- केसरिणः प्रामुख्येन परिगण्यन्ते । ईद्वगयमखिलशास्त्रपारङ्ग- मानां विदुषां मनीषानिकषायमाणो ग्रन्थराजोऽधुना मेदपाट. मण्डलान्तर्गतोदयपुरराजधान्यां महाराणाविद्यालये संस्कृता- ध्यापकपदमलकुर्वतां श्रीमतां पण्डितवर्यगिरिधरलालशर्मणां कविकुलललामभूतानां चेतश्चिरं रयितुं तेषां स्वान्ते कौतु- कञ्च जनयितु प्राभवदित्यत्र किं चित्रम् । धीमताऽनेन गाम्भीर्ये समुद्रायमाणस्य ग्रन्थस्यास्य मन्थनं विधाय वृत्तराजमनुष्टुभमवलम्व्य प्रकाशग्रन्थस्थवृत्तिगतगद्य- भागं पये विपरिणमय्य पूर्वमेव पद्यभूतमूलग्रन्थस्थितकारि- कोदाहरणभागं यथापूर्व संरक्ष्य श्रवणसुखदं सुपठनक्षमं पद्य- अथ भूमिका श्रीमान् राजानकोपाधिको मम्मटभट्टसुधीः साहित्यशास्त्र- निबन्धनिर्मातृषु मूर्धन्य इति न तिरोहितं सुरभारतीसाहिती. रसिकानां विपश्चिदपश्चिमानाम् । तेन प्रणीतः स्वप्रज्ञाप्रतिबि- स्वायमानः काव्यप्रकाशाख्य आकरग्रन्थ आकाशे तारकानिकरं प्रभाकर इवालङ्कारनयप्रतिपादकग्रन्थान्तरनिवहं स्वीयप्रतिभा- प्रकर्षण नितान्तमधरीकरोति । नेदमस्माकं कपोलकल्पितमेव निराधारं विधानम् । अपि तु ग्रन्थराजमिममधिकृत्य विराज- मानाः सप्ततिसङ्ख्याधिकाष्टीकाग्रन्था एवात्रेदं प्रमाणीकर्तु- मलम् । येषु टीकाकृत्सु जयरामन्यायपञ्चानन-जगदीशतर्का- लङ्कार-गदाधर भट्टाचार्य प्रभृति नैयायिकप्रकाण्डाः नागेश- भट्टप्रभृति वैयाकरणधुरन्धराः कमलाकरप्रभृति मीमांसक- धुरीणाः बलदेवविद्याभूषणप्रभृति वैष्णवाग्रण्यः गोकुलनाथ- प्रभृति-दार्शनिक-तान्त्रिकरत्नानि वाचस्पति-वैद्यनाथसदृश- धर्माचार्याः राजानकरुय्यक विश्वनाथकविराजप्रभृतिसाहित्य- केसरिणः प्रामुख्येन परिगण्यन्ते । ईगयमखिलशास्त्रपारङ्ग- मानां विदुषां मनीषानिकषायमाणो ग्रन्थराजोऽधुना मेदपाट. मण्डलान्तर्गतोदयपुरराजधान्यां महाराणाविद्यालये संस्कृता- ध्यापकपदमलङ्कुर्वतां श्रीमतां पण्डितवर्यगिरिधरलालशर्मणां कविकुलललामभूतानां चेतश्चिरं रयितुं तेषां स्वान्ते कौतु. कञ्च जनयितु प्राभवदित्यत्र किं चित्रम् । धीमताऽनेन गाम्भीर्य समुद्रायमाणस्य ग्रन्थस्यास्य मन्थनं विधाय वृत्तराजमनुष्टुभमवलम्व्य प्रकाशग्रन्थस्थवृत्तिगतगद्य- भागं पद्ये विपरिणमय्य पूर्वमेव पद्यभूतमूलग्रन्थस्थितकारि. कोदाहरणभागं यथापूर्व संरक्ष्य श्रवणसुखदं सुपठनक्षम पद्य- ( ३ ) आनन्दपुरवास्तव्यवज्रटाख्यस्य सूनुना। मन्त्रभाष्यमिदं क्लुप्तं भोजे पृथ्वी प्रशासति ॥ इति ॥ अनेनोवटपिता वज्रटनामा बभूव न तु जैयटः। सर्वशास्त्रविशारदोऽपि मम्मटाचार्योयं प्रधानतयाद्य वैया. करणाग्रणोरेव बभूव यदृढीकरणं काव्यप्रकाशस्थितनैकविध- प्रमाणपरम्परया सुशकम् । न केवलं भीमसेनेनैव किन्तु तत्पूर्वैरपि टीकाकृद्भिर्देवनाथतर्कपञ्चाननप्रभृतिभिरयं मम्म- टभट्टो वाग्देव्या अवतारत्वेन वर्णितः । श्लोकेनानेन मम्मटस्य भोजराजसमकालिकत्वमपि शापित भवति । अयं धारेश्वरो भोजराजः स्रष्टाब्दीय १०१८-१०५५ वर्षपर्यन्तं महीं शशासेति शिलालेखस्थितानेकप्रमाणोपन्यास- द्वाराधुनिकैरैतिहासिकैनिश्चितप्रचम् । काव्यप्रकाशेऽपि मम्म- टभटेनैवोदात्तालङ्कारोदाहरणावसरे 'यद्विद्वद्भवनेषु भोजनृपते. स्तत्यागलीलायितम्' इति । भोजनृपतेर्वर्णनं कृत्वा तत्सम- कालिकत्वं प्रकटीकृतम् ॥ यदि भोजनृपतेः समकालिकत्वमस्य मम्मटभट्टस्य न स्वीक्रियते तर्हि तस्य ततोऽर्वाचीनत्वन्त्ववश्यमेवाङ्गीकरणी- यम् । एवमयं काव्यप्रकाशस्य निर्माता खुष्टाब्दीयैकादशशत- कस्योत्तरार्द्धात् (ई० १०५०) प्राचीनो न । एकादशशतक- स्यारम्भे विद्यमानश्रीमदभिनवगुप्तपादानां ( ई० ६६०-१०१५) नामतो निर्देशं रसनिरूपणावसरे विधाय तस्यैव शतकस्य पूर्वार्धे जनिमुपेयुषो व्यक्तिविवेककारस्य राजानकश्रीमहिम- भट्टस्य व्यञ्जनाव्यापारमनुभावेऽन्तर्विभावयिषुः सोपपत्तिक खण्डनं कृतवतो मम्मटवर्यस्य समयः सुतरां तच्छतकस्य पूर्वार्धे नेति स्पष्टतरमेव प्रतिभाति । पृष्टाब्दीयद्वादशशतकस्य पूर्वार्धे ( ई० ११४० ) वर्तमानराजानकरुय्यकवर्येण काव्यप्रका- शस्य टीका सङ्केतनामिका विरचितेति तत्कृतग्रन्थसूचीतो ( ४ ) ज्ञायते । तथा च द्वादशशतकस्योत्तरारिम्भे (ई० ११६० गुर्जर देशस्थमाणिक्यचन्द्रसरिविरचिता सङ्कताख्या टीकाऽ. धुना संमुद्य प्रकाशितोपलभ्यतेऽत एतत्कालादर्द्धशतकपूर्वमेव काव्यप्रकाशस्य पठनपाठनप्रणाली भारतवर्षस्यार्यावर्तभागं प्रचलिताऽऽसोदित्यनुमेयम् । एवं मम्मटभट्टनायं काव्यप्रकाश ग्रन्थः एकादशशतकस्योत्तरार्द्धभागे ( ई० १०५०-११०० ) कदाचिद्विनिर्मित इति जिज्ञासुभिः समभ्युपेयम् । अलङ्कारनये काव्यप्रकाशस्य तदेव स्थानं यद् व्याकरणे महाभाष्यस्य वेदान्ते वा शारीरकशाङ्करभाष्यस्य दृश्यते । अतोऽस्य नाम आकर इति सूपपन्नम् अस्यापि ग्रन्थस्यालङ्का. रग्रन्थान्ताराणामिव त्रय एवांशाः कारिकावृत्तिरुदाहरणं चेति । तत्र द्वाचत्वारिंशदधिकैकशतसङ्ख्यकाः कारिकाः सूत्रवद्गाढसन्दर्भाः ताः ग्रन्थे यथानुपूर्वीक निबद्धाः। वृत्तिरपि गद्यात्मिका मिताक्षरा सारगर्भा दुरूहा अत एव परिणाययितुं दुःशकाऽपि विदुषास्याभिनवग्रन्थस्य प्रणेत्रा सा मूलग्रन्थस्य वृत्तिः सकौशलमनुष्टुवृत्तौ सङ्क्रामितान विद्वद्भिरेव निरीक्षणीया । उदाहरणान्यपि द्विसहनोत्तरषट्शत- सङ्ख्यकश्लोकात्मकानि पूर्ववर्तिनां महाकवीनां कृतिभ्य उद्धृत्य इत्तानि ग्रन्थेऽस्मिस्तथैवोल्लिखितानि द्रष्टव्यानि । अन्थोऽयं मम्मटभट्टवर्येण कथमपि समाप्तिं न नीतः परिकरालङ्काराव- धिरेव विरचितः । शेषस्तु तच्छिष्यभूतेनालकसूरिणाऽलटा- चार्येण वा समातिं नीत इति ग्रन्थस्यास्यान्तिमलोकसन्दर्भेण मायते । तत्र माणिक्यचन्द्रसूरिः 'ग्रन्थोऽयमन्येनारब्धोऽपरेण समर्थित इति विखण्डोऽपि...' इत्यादि कथयनिममेवाथ स्पष्टतया प्रकटीकरोति । अपरेणापि कथितम्- कृतः श्रीमम्मटाचार्यवर्यैः परिकरावधिः । प्रबन्धः पूरितः शेषो विधायाल्लटरिणा ॥ इति । सर्वा अत्र - । ( ५ ) इत्थमेव सोमेश्वर-जयन्तभट्ट-कमलाकर-सरस्वतीतीर्थ- प्रभृतिभिरप्युच्यते । कुत्रचित् 'कृती राजानकमम्मटालकयोः' इति द्विवचननामनिर्देशोऽपि सुलभः । ग्रन्थस्यास्यांशत्रितये तृतीयांश उदाहरणात्मको मम्मट- कतिर्नेत्युक्तपूर्वम् । शेषांशद्वयविषयेऽपि तदेककर्तृकं द्विकर्तृकं बेत्यत्र टीकाकृतां वैमत्यं दृश्यते । प्रायेण वङ्गीयाः कारिका- कर्तृत्वं भरतमुनौ समारोपयन्ति । तदितरे न क्षमन्ते । भिन्न- कर्तृकत्वस्य प्रतिपादयितारस्तु कथयन्ति 'कतिपयकारिकाः प्रकाशग्रन्थगता भरतप्रणीतनाट्यशास्त्रेऽधुनोपलभ्यन्ते । तथा च ग्रन्थस्यास्य प्रथमकारिकावृत्युपक्रमावसरे 'ग्रन्थकृत् परा- पृशति' इति प्रथमपुरुषपूर्वकनिर्देशः कारिकाकर्तुवृत्तिकृद्भि. नत्वमुपपादयति । दशमोल्लासे च रूपकलक्षणे 'समस्तवस्तु- विषयं श्रौता आरोपिता यदा' इति कारिकायां बहुवचनग्रहणं तथा चास्य वृत्तौ 'बहुवचनमविवक्षितम्' इति पृथगुपपादन कर्तृपृथक्त्वबोधकमेवेति । इतरेऽत्रेत्थं समादधते-सार्द्धशतकारिकासु द्वे तिस्रो वा कारिका भरतमुनिप्रणीता नाट्यशास्त्रे संदृश्यन्ते । तान तत एव बुद्धिपूर्व मम्मटाचार्यैरुद्धृता इत्यवसेयाः । कुतः। तैरेव वामनानन्दवर्धनाचार्यग्रन्थेभ्योऽपीद्गेव कतिपयश्लोका उद्धृत्य लिखिता अपरत्र सुधीभिर्द्रष्टव्याः इति । प्रथमपुरुषनिर्देशस्तु महापुरुषाणामात्मश्लाघादोषदूरीकरणार्थमेव । उक्तं मेधा- तिथिना स्वीयमनुस्मृतिभाष्ये 'प्रायेण ग्रन्थकाराः स्वमतं परापदेशेन ब्रुवते' इति । विश्वरूपेणापि याज्ञवल्क्यस्मृतिटीका- यामुक्तम्-'किन्तु भगवतैव परोक्षीकृत्यात्मा निदिश्यते स्वप्रशं- सानिषेधात्' इति । समस्तवस्तुविषयरूपके तबारोप्यमाणानां बाहुल्याबहुवचनमुक्तम् । वृत्तावपि प्रथमं तद् बहुत्वमवल- व्यैव स्पष्टीक्रियते । यत्र तु बहुवचनमविवक्षितमित्युक्तिस्तत्रा- ( ६ ) रोप्यमाणानां द्वित्वग्रहणाद् द्वित्वेऽपि लमस्तवस्तुविषयरूप कस्य प्राप्तिप्रतिबोधनार्थम् । प्रत्युत कारिकावृत्त्युभयात्म- कस्य मम्मटभट्टैककर्तृकत्वे प्रमाणानि स्वतन्त्रान्युपन्यस्यन्ते । तदित्स्थम्- ( क ) यदि वृत्तेभिन्नकर्तृकत्वमपेक्ष्यते तर्हि तत्र पृथङ्ग मङ्गलाचरणेन भाव्यं यन्न दृश्यते । (ख) यदि कारिकाकर्तृकत्वं भरतमुनेरिष्टं तर्हि 'तदुत्तं भरतेन' इति वृत्तिकारोक्तिर्न सङ्गच्छेत । । (ग) दशमोल्लासे मालारूपकाकारिका त्वेवम् ' सार- मेतन्निरगन्तु शुद्ध माला तु पूर्ववत् ' इत्यत्र 'पूर्ववत्' पवेन यन्मालारूपकं निर्दिष्टं तदृत्तिगतमालोपमालक्षणं द्योतयति स्वयं कारिकागत सत् । यदेकमेव प्रमाणमुभयोः कारिका- वृत्योरेकककत्वप्रतिपादनेऽलम् । इत्यलं बहुना । इत्थं परिकरविधिः कारिकावृत्तिग्रन्थो मम्मटभट्टकर्तृक एवेति सिध्यति । अन्ते च पं० गिरिधरलालशास्त्रिभिः सुसम्पादितोऽयं ग्रन्थः स्वान्तं सतां सन्तोषयितुं सुतरां प्रभवेदित्याशास्य तदीयेष्टसिद्धिदोऽयं ग्रन्थो सर्वविद्विद्वन्दहदरविन्दमकरन्दमि लिन्दायमानः सर्वान्तर्यामिणं भगवन्तं वासुदेवं श्रीकृष्णं प्रीणात इत्येवाशासानोविरमाम्यस्माद्भूमिकाविरचनसाहसाविति शम्। विद्वद्विधेयः जोश्युपान्ह श्री जयरामतनूजः काशी सीताराम शर्मा मिति चैत्र शु.८ एम् . ए. साहित्यशाचार्य: माशीविश्वविद्यालयीयप्राच्यविद्याविमाम साहित्यदर्शनेतिहासाध्यापकः । सं०१६६० वक्तव्यम् । कथमत्र विषये मया साहसिक्यमाचरितमित्यधिकृत्य किञ्चिदुच्यते । यथा-भ्रमन् विपण्यामेकदा गोर्जररूपिणं प्रकाशन्तमेनमवलोक्य ' कथमयमिदानीन्तनभारतीयभारत्यां (हिन्दीभाषायां ) जायेत' इति भूयो भूयो व्यचारयम् । ततश्च कतिचनमासाभ्यन्तरमैवेनं समुदपातयम् । बृहत्कायः समाप्त. प्रायपञ्चमोल्लासवर्ष एष बाल इवोपनीतः सद्यः काशी जगाम । मासषट्कञ्च नागरीसङ्गतस्तत्र कालं निनाय । पुनश्चार्धचन्द्रा. लकृतोऽयं वराकः परं कार्यमुपगतः। शोचनीयामेतामवस्था- मापन्नश्चासकृच्छब्दायितः श्यामसुन्दरः सुगभीरनादमवोचत् समये यावदस्य चिकित्सां विदधीम तावत्सुखं स्वपितु पौल- स्त्यपुत्रः कुम्भकर्ण इब । किन्तु कृशः कायेन मनसोत्रतोऽयमनु. पमेन साहसेन पुरातनभारतीयभारतीवपुराश्रित्या (संस्कृत पद्यरूपेण ) दिकविप्रक्षर्शितपथादुपतन शोभालाल भीमशङ्कर- दुर्गाशङ्कर प्रभृतिभिः सब्रह्मचारिभिः सह भूयोऽपि काशी प्रस्थितः । अधुना च सहचरसहायेन विश्वनिवासं कृष्णपाद. पङ्कजतलं शान्तिमयमाशिश्रियत् । बालैः पुनः पुनः प्रशस्यमानः सोऽयंसम्प्रति लोकलोचन गोचरीभूतः । भीमशङ्करदुर्गाशङ्करयोः सहायमन्तरा न कथमप्यात्मानं सहस्रधासमदर्शयिष्यत् । कोऽनुम्मतः खलु स्वकीयं जनं परैरालुच्यमानकेशकला स्वलोचनेनालोकयेदिति तत्र भवतां करुणाईचेतसां विदुषा- ( २ ) माश्रये समर्पयामि । तदेतस्य रक्षणे त एव प्रभवः शरणागतर- क्षणग्रहीतवता: सुधियः। प्रथामभागस्तु प्रस्तुत एव । द्वितीयोऽपि शिष्टोऽविलम्ब प्रकाशमेष्यति । द्वितीयावृत्तौ चैतस्य संस्कृत-हिन्दीभाषामय- माङ्गलभाषामयश्च प्रकाशनं सम्भाव्यते । भूमिज्योतिः सलिलमरुदाकाशमात्राभिरेषः, संसारश्चेद्रचनपटुता ब्रह्मणा निर्मितोऽस्ति । नैवाश्चयं विबुधरचनान्यंशतोऽप्याददानो, नूनं भूमेलमिव सुखं वर्षतीह प्रकाशः ॥ सूचना-(१) ५४ पृष्ठे ७ पंक्तौ उपात्तेनोत्तमपदेन हिन्दा- रसगङ्गाधरलेखकाः सुहृवर्याः साहित्याचार्याः पुरुषोत्तमशर्मा. णश्चतुर्वेदाः स्मर्यन्ते । भावज्ञानं विनानत्र न रसानुभवः स्फुटम् । स्वलकामयमानेन स्वीकृता हनुमतिः ॥ - महाशिवरात्रिः विक्रमाब्दाः१६६० उदयपुरम् विद्वजनचरणसेवकः- गिरिधरलालव्यासः (साहित्यशास्त्री) काव्य-प्रकाशः सटिप्पणः ।

No text on this page.

॥ श्रीहरिः॥
गोवर्द्धनधरं धीरं गोवर्द्धनपरायणम् ।
गोवर्द्धनाय संस्तौति गोवर्द्धनसुतः सुधीः॥
सशोभौ रामचरणौ नत्वा भक्त्याईचेतसा ।
समुज्वलं प्रकाशं हि मलिनीकर्तुमुद्यतः ॥
मम्मटार्कप्रकाशः क काहं कौशिकसत्तमः ।
करप्रसारं गृह्णामि पदार्थान्विबुधार्पितान् ॥
गये विशृङ्खला वृत्तिः पद्यबन्धे नियोजिता ।
तच्छब्दानेव संगृह्य पादपूर्ती विशेषिता।।
किश्चान्येषां मतमपि यत्रतत्र समुद्धृतम्
नूनं टिप्पणरूपेण शब्दतो भावतोऽपि वा ।
तत्रैव तेषां सङ्केतो नामतो ग्रन्थतः कृतः ।
पूर्णसन्तोषहेतुस्तु मूलग्रन्थावलोकनम् ॥
गद्यस्यापेक्षया नूनं पद्यबन्धो विशिष्यते ।
मुस्मर मुस्थिरो नित्यं बालानां मुकरोयतः॥
इत्याकलयता चित्ते धाष्टर्यमेतन्मया कृतम् ।
क्षमिष्यति स सर्वज्ञःकृष्णाख्यःपुरुषःपरः ॥
नामूलं लिख्यते किञ्चित्प्रमाणरहितं वचः ।
पाण्डित्यं ख्यातुकामेन नानपेक्षितमुच्यते ॥

No text on this page.

काव्य-प्रकाशः
huania
प्रथम उल्लासः।
ग्रन्थारम्भे हि विघ्नानां विघातायैव सर्वदा ।
इष्टदेवं ग्रन्थकारः परामृशति पूर्वतः ॥
का-नियतिकृतनियमरहितां,
ह्लादैकमयीमनन्यपरतन्त्राम् ।
नवरसरुचिरां निर्मिति,-
मारती भारती कवेर्जयति ॥
वृ०-नियता नियते शक्तथा मुखदुःखमयीं तथा ।
परमाण्वाद्युपादानकर्मादिसहकारिणोः ॥
द्वयोः कारणयोरस्ति परतन्त्रा सदैव च ।
षड्रसापि न हृद्यैव ब्रह्मणो निर्मितिर्मता ॥
विलक्षणैव विज्ञेया कविवाङ् निर्मितिस्ततः ।
जयत्यतो भगवती सदैव .. कविभारती ॥
आक्षिप्यते नमस्कारो जयत्यर्थेन कोविदैः।
अनेन लभ्यते चतत्प्रणतो ऽस्मीति ताम्प्रति ॥
काव्यमित्यभिधेयं यत्सप्रयोजनमेव तत् ।

२
काव्य-प्रकाशः।
का-काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये
सद्यः परनिर्वतये कान्तासम्मिततयोपदेशयुजे ॥
१०- यशसे कालिदासादेर्धावकादेर्धनाय च ।
ज्ञानाय व्यवहारस्य तथा लोकनृपादिषु ॥
क्षम काव्यं मयूरादेरनर्थानां च वारणे
प्रयोजनानां सर्वेषां मौलिभूतमनुत्तमम् ॥
अत्र, काव्यश्रुतेनूनं समनन्तरमेव च ।
रसास्वादसमुद्भूतं ब्रह्मानन्दसहोदरम् ॥
वेद्यान्तरस्पर्शशून्यमानन्दं वितरत्यदः ।
रसाङ्गभूतव्यापारवणत्वेन हेतुना ॥
द्वयोः शब्दार्थयोश्चैव गुणभावाद्विलक्षणम् ।
लोकोत्तरचमत्कारिवर्णनानिपुणं च यत ।
कविकर्म भवेत्काव्यमालङ्कारिकसम्मतम् ।
उपदेशः प्रभुमुहृत्कान्तासम्मितरीतितः॥
वेदेतिहासकाच्यानां कथितस्त्रिविधस्ततः ।
प्रभुसम्मित आधः स्याद्वैदिको विधिलक्षणः ।
शब्दप्रधान एवासौ फल एवातिसौख्वादः ।
सुहृत्सम्मित एव स्वादितिहासादिनः पुनः ।।
मुहदुत्तौ भवेत्सौख्यं फलं नोचेद्यं न हि ।
कान्वारीयोपदेशश्च मत काव्यादिसम्भव ।

प्रथम उल्लास:
टि०-सुन्दरी स्वेशहृदयं वशीकृत्य यथा गुणैः ।
लौकिकं वैदिकं लाभं कूजतीव ससाधनम् ।।
श्रोतुर्मनो वशीकृत्य हितं वक्ति सहेतुकम् ।
१०- रामादिवद्वर्तितव्यं न कचिद्रावणादिवत् ।।
इत्याद्याकारकं सर्वमुपदेशं यथातथम् ।
कवेः सहृदयस्यापि काव्यमेव करोति यत् ।।
अतः प्रयतितव्यं हि काव्यशिक्षाप्तये बुधैः ।
टि०- दृष्टमाग्निपुराणेऽपिं व्यासस्य वचनं यथा ॥
"धर्मार्थकाममोक्षेषु वैलक्षण्यं कलासु च ।
करोति कीर्ति प्रीतिश्च साधुकाव्यनिषेवणम् ॥
कीर्तिमेकां स्वीकरोति यथा भामहभारती ।
"उपेयुषामपि दिवं सन्निबन्धविधायिनाम् ।।
आस्त एव निरातङ्क कान्तं काव्यमयं वपुः ।
रुणद्धि रोदसी चास्य यावत्कीर्तिरनश्वरी ॥
तावत्किलायमध्यास्ते सुकृती वैबुधं पदम् ।
अतोऽभिवाञ्छता कीर्ति स्थेयसीमाभुवः स्थितेः ॥
यत्नोविदितवेद्येन विधेयः काव्यलक्षणः ।"
"काव्यं कल्पान्तरस्थायि कीर्तिद" वेद दण्ड्यपि ॥
विवेद रुद्रटार्योऽपि काव्यं कीर्तिफलं यथा ।
"तत्कारितसुरसदनप्रभृतिनि नष्टे तथा हि कालेन ॥
न भवेन्नामापि ततो यदि न स्युः सुकवयो राज्ञाम् ।

काव्य-प्रकाशः।
ज्वलदुज्ज्वलवाक्प्रसरः सरसं कुर्वन्महाकविः काव्यम् ।
स्फुटमाकल्पमनल्पं प्रतनोति यशः परस्यापि ॥
अर्थमनर्थोपशमं शमसममथवा यदेवास्य ।
विरचितरुचिरसुरस्तुतिरखिलं लभते तदेव कविः ।।
नुत्वा तथाहि दुर्गा केचित्तीर्णा दुरुत्तरां विपदम् ।
अपरे रोगविमुक्तिवरमन्ये लेभिरेऽभिमतम् ।।
आसाद्यते स्म सद्यः स्तुतिभिर्येभ्योऽभिवाञ्छितं कविभिः ।
अद्यापि त एव सुरा यदि नाम नराधिपा अन्ये ।।
स्फारस्फुरदुरुमाहमा हिमधवलं सकललोककमनीयम् ।
कल्पान्तस्थायि यशः प्राप्नोति महाकविः काव्यात् ॥
अमरसदनादिभ्यो भूता कीर्तिरनश्वरी ।
भवति यदसौ संवृद्धापि प्रणश्यति तत्क्षये ।
तदलमलकर्तु काव्यं यतेत समाहितः ।
जगति सकले व्यासादीनां विलोक्य परं यशः ॥"
उक्तं तत्रैव टीकायां स्फुटं हि नमिसाधुना ।
"यतः क्षणचंसिनि सम्भवेऽस्मिन्,
काव्याहतेऽन्यत्क्षयमेति सर्वम् ।
अतो महद्भिर्यशसे स्थिराय,
प्रवर्तितः काव्यकथाप्रसङ्गः ॥"
श्रीरुद्रभट्टरचिते तिलकेऽस्ति नूनं,
"सद्बागलङ्कनतगुणं सरसं सुवृत्तम् ।
--

प्रथम उल्लासः।
५
आसेदुषामपि दिवं कविपुङ्गवानां,
तिष्ठत्यखण्डमिह काव्यमयं शरीरम् ॥"
काव्यालङ्कारसूत्रे च वामनो वा मनो दधे ।
"प्रतिष्ठां काव्यबन्धस्य यशसः सराणिं विदुः
अकीर्तिवर्तनीं त्वेवं कुकवित्वविडम्बनाम् ॥
कीर्ति स्वर्गफलामाहुरासंसारं विपश्चितः । :
अकीर्तिन्तु निरालोकनरकोद्देशदूतिकाम् ।।
तस्मात्कीर्तिमुपादातुमकीर्तिश्च निबर्हितुम् ।
काव्यालङ्कारशास्त्रार्थः प्रसाद्यः कविपुङ्गवैः ॥"
अत्र धारापतिर्भोजः “कीर्ति प्रीतिञ्च विन्दति ।"
कुन्तलस्यात्र विषये विशेषः प्रतिभासते ॥
"धर्मादिसाधनोपायः सुकुमारक्रमोदितः ।
काव्यबन्धोऽभिजानानां हृदयाह्लादकारकः ॥
व्यवहारपरिस्पन्दसौन्दर्य व्यवहारिभिः ।
सत्काव्याभिगमादेव नूतनौचित्यमाप्यते ॥
चतुर्वर्गफलास्वादमप्यतिक्रम्य तद्विदाम् ।
काव्यामृतरसेनान्तश्चमत्कारो वितन्यते ॥"
वाग्भट: "केवलां कीर्ति" वक्ति काव्यप्रयोजनम् ।
प्रयोजनं मम्मटवद्धेमचन्द्रोऽपि मन्यते ।।
फलमुक्तञ्च टीकायां परमानन्दनिर्वृतिः ।
"उपशमफलाद्विद्याबीजात्फलं धनमिच्छतो,
भवति. विफलो यद्यायासस्तदत्र किमद्भुतम् ।

६
काव्य-प्रकाशः।
.....
न नियतफलाः कर्तुर्भावाः फलान्तरमीशते ॥
जनयति खलु व्रीहे/जं न जातुं यवाङ्कुरम् ।"
"चतुर्वर्गफलप्राप्तिः सुखादल्पधियामपि ।
काव्यादेव" विश्वनाथः कविराजश्च मन्यते ॥
तथा केशवमिश्रोऽपि "श्रुतं सुखविशेषकृत् ।
हिताय सुकविः कुर्या" दित्येचे प्रतिपादयन् ।
उद्धृत्य वृद्धवचनं प्रमाणत्वे न्यवेशयत् ॥
"लाभः पूजाख्यातिधर्मः कामश्च मोक्षश्च ।
इष्टानिष्टप्राप्तित्यागौ ज्ञानं फलानि काव्यस्य ।।
श्रोतॄणां द्राङ् महानन्दः स स्वस्मिन्नाभिमानिकः ।
तत्कालफलमेताक्क्रमात्कीर्तिधनादिकम् ॥ "
जगन्नाथो मम्मटवद्वक्ति काव्यप्रयोजनम् ।।
१०-निरूप्यतेऽधुना काव्यकारणं कविवर्णितम् ।
का-शक्तिनिपुणता लोककाव्यशास्त्रायवेक्षणात् ।
काव्यज्ञशिक्षयाभ्यास इति हेतुस्तदुद्भवे ॥
वृ०- कवित्वबीजरूपोऽसौ संस्कारः शक्तिरुच्यते ।
यां विना प्रसरेचैव काव्यमित्येव निश्चयः ॥
कदाचित्मसृतं वापि समासु हास्यतां व्रजेत् ।
चराचरस्य लोकस्य वृत्तज्ञानाच पूर्णतः ॥
छन्दोव्याकरणग्रन्थाः कोषग्रन्याः कलाकराः ।
धर्मार्थकाममोक्षाणां ये ग्रन्थाः प्रतिपादकाः ॥

प्रथम उल्लासः।
-~
खगादिलक्षणग्रन्थाः काव्यग्रन्थास्तथैव च ।
शालिहोत्रादयो ग्रन्थास्तेषामध्ययनात्तथा ॥
इतिहासपुराणानां विपर्शाच्च पुनः पुनः ।
व्युत्पत्तिरिति विज्ञेया सालङ्कारिकसम्मता ।।
कर्तुं जानन्ति ये काव्यं विचारयितुमेव वा ।
तेषामेवोपदेशेन करणे योजने तथा ॥
पौनःपुन्येन प्रवृत्तिरभ्यासः परिकीर्तितः ।
शक्तियुत्पत्तिरभ्यासश्चैते समुदितास्त्रयः ॥
न तु व्यस्ताः कदाचिदै तत्काव्यस्योद्भवे मतः ।
निर्माणे च समुल्लासे हेतु, न तु हेतवः ।।
टि-अभाणि भामहेनापि काव्यस्य कारणं प्रति ।
"गुरूपदेशादध्यतुं शास्त्रं जडधियोऽप्यलम् ।
काव्यन्तु जायते जातु कस्यचित्प्रतिभावतः ।।"
उक्तञ्च दण्डिनाप्यत्र विषये स्फुटमेव तत् ।
"नैसर्गिकी च प्रतिभा श्रुतञ्च बहुनिर्मलम् ॥
अमन्दश्चाभियोगोऽस्याः कारणं काव्यसम्पदः ।
अत्र कारणमतेन त्रितयं काव्यकारणम् ॥"
मम्मटस्यात्र विषये वामनो मार्गदर्शकः ।
रुद्रटो हृदयान्तःस्थां गूढां वाचमुपाददे ॥
"मनसि सुसमाधिनि, विस्फुरणमनेकधाभिधेयस्य ।
आक्लिष्टानि पदानि च विभान्ति यस्यामसौ शक्तिः ॥

काव्य-प्रकाशः।
-----
प्रतिभेत्यपरैरुदिता सहजोत्पाद्या च द्विधा भवति ।
पुंसा सहजातत्वादनयोस्तु ज्यायसी सहजा ॥
स्वस्यासौ संस्कारे परमपरं मृगयते यतो हेतुम् ।
उत्पाद्या तु कथञ्चिदव्युत्पत्त्या जन्यते परया ॥
छन्दोव्याकरणकलालोकस्थितिपदपदार्थविज्ञानात् ।
युक्तायुक्तविवेको व्युत्पत्तिरियं समासेन ॥
अधिगतसकलज्ञेयः सुकवेः सुजनस्य सन्निधौ नियतम् ।
नक्तं दिनमभ्यस्येदभियुक्तः शक्तिमान्काव्यम् ।।
तस्यासारनिरासात्सारग्रहणाच्च चारुणः करणे ।
त्रितयमिदं व्याप्रियते शक्तिर्युत्पत्तिरभ्यासः ॥"
त्रितयमित्येतन्मिलितानां निदर्शनम् ।
हेमचन्द्रं वाग्भटोऽपि तथैवानुकरोति हि ।।
"व्युत्पत्त्यभ्याससंस्कृता प्रतिभैवास्य कारणम् ॥"
प्रतिभा संस्कृतवेति त्रितयं हेतुरापतेत् ॥
अत्र पीयूषवर्षोऽपि ववर्ष प्रतिभामृतम् ।
"प्रतिभैव श्रुताभ्याससहिता कविताम्प्रति ।
हेतुर्पदम्बुसम्बद्धबीजव्यक्तिलतामिव ॥"
शोधिते सहितवति कारणं त्रितयं मतम् ।
उक्तं केशवमिश्रेण "तद्धेतुः प्रतिभादिकम् ।"
हेतुरित्यकवचनमादिग्रहणमेव च ॥
उल्लिख्य मम्मटमतं पूर्णतः स्वीकृतं ततः ।
अत्र

प्रथम उल्लासः।
वृद्धसम्मतिमप्यत्र प्रमाणे संन्यवेशयत् ।।
"मनः प्रसत्तिः प्रतिभा प्रातःकालोऽभियोगिता ।
अनेकशास्त्रदर्शित्वमित्यर्था लोकहेतवः ॥
द्वित्रकोशपरिज्ञानं द्वित्रव्याकरणज्ञता ।
छन्दोविद्याप्रवीणत्वं काव्येऽवश्यमपेक्ष्यते ॥"
मते -पण्डितराजस्य जगन्नाथस्य धीमतः ।
काव्यस्य कारणन्त्वस्य " केवला प्रतिभा" मता ॥
सरस्वतीस्वरूपोऽपि किन्तु नो विश्वसेद्यदा ।
तदा कैव कथान्येषां शक्ततौ तु केवलम् ।
"प्रसरेत्प्रसृतं वापि यां विना नैव तत्पुनः ।"
अत्र वेति पदं दत्त्वा तेनैव प्रकटीकृतः ।
पण्डितप्रतिमूर्तीनां पर्याप्ता प्रतिभा खलु ।
साधारणजनानान्तु शक्तयादिमिलिता मता ॥
१०- अथात्र वर्ण्यते काव्यं स्वरूपं कविदर्शितम् ।
का-तददोषौ शब्दार्थों सगुणावनलङ्कती पुनः कापि।
वृ०- दोषा गुणा बलङ्कारा वक्ष्यन्ते सप्तमादिषु ।
कापीत्यनेनैतदाह सालङ्कारौ तु सर्वतः ॥
स्फुटालङ्काररहितौ कचित्तावपि सम्मतौ ।
यथोदाहरणं चापि ज्ञेयमित्यनलङ्कतेः ॥
यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा-
स्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः।

काव्य-प्रकाशः।
.
सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविधी
रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते ।।
अत्र स्फुटो नालङ्कारः कश्चिदित्यस्ति निर्णयः।
विप्रलम्भरसस्यापि प्राधान्यमिह विद्यते ।
तेन नैवात्र रसवदलङ्कारोऽपि सम्भवेत् ।।
टि०-न चापि वाचकाभावे विशेषोक्तिविभानने ।
विश्वनाथमते तर्हि कथं सङ्करतानयोः ।।
हंहो "अदोषावित्यत्र नसमासः किमर्थकः ?
अभावार्थो यदि ततः कारिकार्थो भविष्यति ।।
निर्दोषावेवशब्दार्थो काव्यमित्यभिधीयते । .
तदा दोषस्य सत्तायां काव्यमेव न सम्भवेत् ।।
"न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः ।
सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः ।
धिक् धिक् शक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा,
स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजः ॥"
वृथाशब्दस्य प्राधान्ये समासत्वेन गौणता ।
तद्विधेयाविमर्शत्वदोषः पादे चतुर्थके ।।
अत एतत्कदाचिन्न काव्यम्भवितुमर्हति ।
तथाप्युत्तमकाव्यत्वं धनित्वेनोररीकृतम् ।।
"(स्वर्गग्रामटिकाविलुण्ठनसमुच्छूमैर्वृथा कि भुजैः
इत्थं पाठविधिप्रकल्पनपरे काव्ये न दोषो भवेत् ॥)

प्रथम उल्लासः।
तदकाव्यं यत्र दोषो दोषाभावश्च यत्र तत् ।
इति संशोधने काव्यमकाव्यं वा भवेन्नु किम् ॥
अल्पार्थश्चेद्यदि ततः कारिकार्थों भवेदयम् ।
कथञ्चिद्दोषसत्तायामेव काव्यं भवेदिति ॥
इत्थञ्चेद्दोषरहितौ तौ न काव्यं कथञ्चन ।
"स्थिताः क्षणं पक्ष्मसु ताडिताधराः,
पयोधरोत्सेधनिपातचूर्णिताः ।
वलीषु तस्याः स्खलिताः प्रपेदिरे,
क्रमेण नाभिं प्रथमोदबिन्दवः ।।
दोषाभावेऽपि विबुधैः सुकाव्यमिति गीयते ।
कादाचित्को भवेद्दोष ईषदेवाथवा ततः ॥
न वाच्यमीदृम्भो धीमन् काव्यस्य लक्षणं यतः ।
"कीटानुबिद्धरत्नादिसाधारण्येन काव्यता ।
दुष्टेष्वपि मता यत्र रसाधनुगमः स्फुटः ॥"
कविराजमतञ्चैतत्संक्षेपेण समुद्धृतम् ।
क्वचित्काव्ये भवेद्दोषो रसहानिकरस्तु यः॥
त्याज्यः स एव विज्ञेय एतावान्मम्मटाशयः ।।
" पठ्यते काव्यमुच्चैर्हि काव्यादर्थोऽवगम्यते ।
लौकिकव्यवहारस्य प्रमाणत्वेन मन्मते ॥
काव्यं शब्दविशेषोऽयं न शब्दार्थों कदाचन ।
इति पण्डितराजस्तु नागेशेन विरुध्यते ।।
बुद्धं काव्यं श्रुतं काव्यं पठितं काव्यमेव च ।"
.

१२
काव्य-प्रकाशः।
------
सरसा
लौकिकव्यवहारस्य दर्शनादपि वै पुनः ।
शब्दार्थावेव सामान्यं काव्यमित्यभिधीयते ॥
"तदधीते तद्वेदेति" सूत्रे पाणिनिनिर्मिते ।
'शब्दमधीते वेदार्थ मिति भाष्ये पतञ्जलिः ।।
अष्टमे श्रीमतैवोक्तं "रसधर्माः गुणाः स्मृताः ।
अधुना "सगुणो" दत्तं विशेषणमित: कथम् ॥
" वित्युपादाने काव्ये सरसता भवेत् ।
"गुणवृत्त्या पुनस्तेषां वृत्तिः शब्दार्थयोर्मता:॥"
इत्येतद्विश्वनाथेन कथं नैव व्यलोकि भोः ?
" सगुणौ" कथनेनात्र ह्येतदेव प्रतीयते ॥
रीतिलक्षणवृत्तीनामपि स्याद्रग्रहणं यथा ।
इत्थमच्युतरायेण सुस्पष्टं प्रतिपादितम् ॥
"अङ्गीकरोति यः काव्यं शब्दार्थावनलङ्कृती ।
असौ न मन्यते कस्मादनुष्णमनलं कृती ॥"
पीयूषवर्षवार्तेषा चन्द्रालोके विलोक्यते ।
"कापीत्यनेनैतदाह. सालङ्कारौ तु सर्वतः ।
स्फुटालङ्काररहितौ कचित्तावपि सम्मतौ॥."
विदुषा मम्मटेनैव प्रकाशे वै प्रकाशितः ।
विस्मृतं तेन कविना कथं तन्नैव वेश्यहम् ।।
काव्यलक्षणमेतावत्प्रकाशस्य परीक्षितम् ।
अधुना कविशब्दस्य व्युत्पत्ति दर्शयाम ताम् ।।
वार्थकात्कबृधातोरभेदाटूबवयोस्तथा ।

प्रथम उल्लासः। -~-~- कबत्यर्थाद्वर्णयति नूनमर्थान्नवान्नवान् ।। उत्पत्ति कविशब्दस्य मनुते राजशेखरः । कविकर्म भवेत्काव्यं शब्दार्थनिर्विशेषकम् ॥ 'कूशब्दे' इत्यतो धातोः केचिदुत्पादयन्ति च । शब्दः काव्यं भवेत्तेन जगन्नाथादिसम्मतम् ।। वस्तुतस्तु “नामरूपे" इति श्रुत्यनुसारतः । शब्दार्थाचवः तत्काव्यं शब्दः केवलमेव न ॥ अत्र प्रथमतो ब्रूते व्यासदेवोऽग्निसाक्षिकम् । "संक्षेपाद्वाक्यमिष्टार्थव्यवच्छिन्ना पदावली । काव्यं स्फुरदलङ्कारगुणवदोषवर्जितम् ।। : वाग्वदग्ध्यप्रधानेऽपि रस एवात्र जीवितम् ॥" शब्दार्थो सहितौ काव्यमिति भामहवागभूत् । काव्यादर्श दण्डिनापि तथैवोक्तं सुलक्षणम् ॥ "शरीरं तावदिष्टार्थव्यवच्छिन्ना पदावली ।।" “वर्तते काव्यशब्दोऽत्र गुणालङ्कारयुक्तयोः । शब्दार्थयोरिति” पुनर्वामनोऽपि जगौ ततः ॥ रुद्रटो "ननुशब्दार्थों काव्य" मख्यापयत्पुनः । "काव्यस्यात्मा धनिरिति बुधैर्यः समाम्नातपूर्व- स्तस्याभावं जगदुरपरे भाक्तमाहुस्तमन्ये ।। केचिद्वाचां स्थितमविषये तत्वमूचुस्तदीयं. ध्वन्यालोके प्रकटितमहो तत्तु शब्दार्थरूपम् ॥ तथाभिनवगुप्तोऽपि स्वीचकार मतं शुभम् । .

काव्य-प्रकाशः।
कुन्तलोऽप्यवद "सन्तौ सुहृदाविव सम्मतौ ।
शब्दार्थों सहितौ वक्रकविव्यापारशालिनि ।
बन्धे व्यवस्थितौ काव्यं तद्विदाह्लादकारिणि."
उक्तं महिमभट्टेन व्यासाद्वाक्यं प्रगृह्य च ।
"काव्यं ध्वन्यात्मकं वाक्य". मित्यत्र शृणु वाचिकम् ।।
ध्वनिः शब्दार्थयुगलं मम्मदेन निरूपितम् ।
शब्दार्थों सहितौ काव्य "मित्येव निर्णयस्ततः ।।
रुद्रभट्टेन "कर्तव्यं काव्यं रसनिरन्तरम् ।"
"निर्दोषं गुणवत्काव्यमलङ्कारैरलङ्कतम् ।
रसान्वितं कविः कुर्वन्" भोजराजो विराजते॥
तथौचित्यविचारेऽपि क्षेमेन्द्रः पुनराददे ।
"औचित्यं रससिद्धस्य स्थिरं काव्यस्य जीवितम् ॥"
"काव्यं रसादिमद्वाक्य" मिति शौद्धोदनिर्जगौ।
वाक्यं शब्दविशेषोऽयं रसश्चार्थ विना कथम् ।।
आदिशब्दादगुणादीनां ग्रहणं चापि सम्भवेत् ।
तथा च वाग्भटस्येव फलितार्थोऽभवत्ततः ॥
"साधुशब्दार्थसम्भेदं गुणालङ्कारभूषितम् ।
स्फुटरीतिरसोंपेतं काव्य" मित्यभिधीयते ॥
काव्यम् "अदोषो सगुणौ सालङ्कारौ च शब्दार्थो ।"
स्पष्टं हि हेमचन्द्रो निजकाव्यानुशासनेऽवोचत् ।।
तथैव जयदेवोऽपि चन्द्रालोके जगाद च ।..
"निर्दोषा लक्षणवती सरीतर्गुणभूषिता ।

प्रथम उल्लासः।
१५
सालङ्काररसानेकवृत्तिर्वाक्काव्यनामभाक् ॥"
विद्याधरविनोदोऽयमेकावल्यां विलोक्यते ।
" शब्दार्थों मूर्तिराख्यातौ जीवितं व्यङ्ग्यवैभवम् ।।"
काव्यलक्षणमालक्ष्य वक्तयलङ्कारचन्द्रिका ।
"सगुणा सालङ्कारा रसभारा दोषपारहारा ।
जगदनुरञ्जनशीला कविकृतलीला सरस्वती जयात ॥"
अपनीयवादिपदमात्मकं सन्निवेश्य च ।
कविराजो विश्वनाथस्तथा शौद्धोदनेर्मते ।
" वाक्यं रसात्मकं काव्य " मित्यवोचत्ततः परम् ।
यदि चेद्रस एवात्र कविराजाय रोचते ।।
वस्त्वलङ्कारप्राधान्ये नारसं किम्भविष्यति ?
परम्पराप्राप्तरसमिष्टमेतन्मनीषिणः ॥
तन्मृगो धावतीत्या दावपि काव्यत्वमापतेत् ।
इत्थं पण्डितराजेन कविराजो विरोधितः ॥
विद्यानाथो वेदयति प्रतापरुद्रतः खलु ।
" गुणालङ्कारसहितौ शब्दार्थों दोषवर्जितौ ।
गद्यपद्योभयमयं काव्यं काव्यविदो विदुः ।।
श्रीमान् केशवमिश्रस्तु शोद्धोदनिपथानुगः ।
तथैव "रमणीयार्थप्रतिपादक" इत्यसौ ॥
"शब्दः काव्य" मिति प्राह जगन्नाथस्ततः परम् ।
आसीद्यदत्र वक्तव्यं तत्पूर्व प्रतिपादितम् ।।
अन्ते चाच्युतरायेण निर्ममे काव्यलक्षणम् ।
૨

१६
काव्य-प्रकाशः।
MPA
तत्र निर्दोषशब्दार्थगुणवत्वे सति स्फुटम् ।
गद्यादिबन्धरूपत्वं काव्यसामान्यलक्षणम् ॥"
प्रकाशमतमागृह्य प्राह गोविन्दठक्कुरः ।
रसस्य वालङ्कारस्य सत्तावश्यं भवेदिति ॥"
अथोच्यते काव्यभेदा ह्युत्तमाधममध्यमाः ।
दमुत्तममतिशयिनि व्यङ्गये,
बाच्याद्ध्वनिर्बुधैः कथित
वृ०- मुख्यतः स्फोटरूपस्य व्यङ्गयस्य व्यअनक्षमः ।
शब्दोध्वनिरिति प्रोक्तो वैयाकरणकोविदः ।
ततस्तन्मतविद्वद्भिरन्यैः कविभिरेव च ।
अधरीकृतवाच्यार्थो व्यङ्गयव्यञ्जनशक्तिमान् ॥
शब्दार्थयुगलं यच्च स मञ्चूरीकृतो अनिः ।
ध्वन्यालोके तथाचार्यः श्रीमदानन्दवर्धनः ॥
"यत्रार्थः शब्दो वा तमर्थमुपसर्जनीकृतस्वार्थौ ।
व्यक्तः काव्यविशेषः स ध्वनिरिति सूरिभिः कथितः ॥
जगौ महिमभट्टश्च निजव्यक्तिविवेचने ।
"वाच्यस्तदनुमितो वा यत्रार्थोर्थान्तरं प्रकाशयति ।
सम्बन्धतः कुतश्चित्सा काव्यानुमितिरित्युक्ता ॥"
-
x
x
x
आत्मा विवक्षमाणो हि मनः प्रेरयते, मनः ।
देहस्थं वह्निमाहन्ति स प्रेरयति मारुतम् ।।
.

प्रथम उल्लास:।
७
परावाग्रूपमासाद्य स्थितो यो, नाभिमाश्रयेत् ।
पश्यन्तीनामभागत्र योगिनामेव गोचरः ।।
हृद्देशेऽथ समागत्य मध्यमासंज्ञितोऽभवत् ।
स्फोटः स एव कथितः शब्दशास्त्रविशारदः ॥
वैखरीमभिधां प्राप्य यदा कण्ठं समाश्रयेत् ।
शब्दो ध्वनिरिति प्रोक्तः सर्वसामान्यगोचरः ॥
व्यङ्गयोऽथ स्फोट शब्दोऽत्र व्यञ्जकचश्च वनिर्मतः ।
शब्दशास्त्रप्रवीणानां मतमेतत्समुद्धृतम् ॥
शब्दार्थयुगलं व्यङ्गयो ध्वनिर्व्यञ्जक उच्यते ।
अलङ्कार प्रियाणाञ्च मतमेतद्विलोक्यते ॥
श्रूयतामुत्तमं काव्यं सुन्दरं रसगर्भितम् ।
निःशेषच्युतचन्दनं स्तनतटं निर्मुष्टरागोऽधरो,
नेत्रे दूरमनने पुलकिता तन्वी तवेयं तनुः
मिथ्यावाहिनि दूति बान्धवजनस्याज्ञातपाडागमे,
वापी स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥
प्राधान्येनाधमपदेनैवमत्र प्रतीयते ।
तत्सन्निधावेव रन्तुं गतासि न परत्र तु॥
टि-मुख्यार्थबाधसत्वेन विपरीतात्र लक्षणा ।
तथा च लक्ष्यते 'नूनं त्वं गतासि तदन्तिकम् ॥
व्यङ्गयो 'रमण' मित्येवं विश्वनाथादयो जगुः ।
न काचिद्धानिरतेन कामं भवतु लक्षणा ॥
व्यङ्गयोऽधमपदेनैवेत्याह गोविन्दठक्कुरः ।

१८ काव्य-प्रकाशः। Pawrrrrrrr- का०- का-अतादृशि गुणीभूतव्यङ्गय व्यङ्गये तु मध्यमम् । १०- ग्रामतरुणं तरुण्या नववजुलमञ्जरीसनाथकरम् । पश्यन्त्या भवति मुहुनितरां मालना मुखच्छाया ।। नागता दत्तसङ्केता त्वं वञ्जुललतागृहे । इति व्यङ्गयं गुणीभूतं गौणरूपेण यत्स्थितम् ।। चमत्कारित्वमस्त्येव वाच्यस्य तदपेक्षया । -शब्दचित्रं वाच्यचित्रमव्यङ्गयन्त्ववरं स्मृतम् । वृ०- गुणालङ्कारयुक्तं हि चित्रमित्यभिधीयते । स्फुटप्रतीयमानार्थरहितं यत्तु विद्यते ।। तदव्यङ्गयं भवेन्ननमवरन्त्वधर्म पुनः । स्वच्छन्दोच्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटा, मूर्छन्मोहमहर्षिहर्षविहितस्नानाह्निकालाय वः । भिद्यादुद्यदुदारदर्दुरदरीदीर्घादरिद्रद्रुम- द्रोहोद्रेकमहोर्मिमेदुरमदामन्दाकिनी मन्दताम् ॥ अत्रानुप्रासबाहुल्याच्छब्दचित्रमितीरितम् । टि-रति गङ्गाविषयिणी धनयेयुश्च केचन ॥ कवेर्विवक्षाविरहे किन्तु नात्र ध्वनिर्मता । सम्मति धामकारस्य पश्यन्त्वत्र समुद्धृताम् ॥ . "रसभावादिविषयविवक्षाविरहे सति । अलङ्कारनिबन्धो यः स चित्र विषयो मतः ।।"

प्रथम उल्लास:।
२
३०- विनिर्गतं मानदमात्ममन्दिरा-
द्भवत्युपश्रुत्य यदृच्छयापि यद ।
ससम्भ्रमेन्द्रद्रुतपातितार्गला
निमीलिताक्षीव भियामरावती ॥
अत्रोपमायाः प्राधान्याद्वाच्यचित्रं विनिश्चितम् ।
टि० - हयग्रीवप्रभावस्य वर्णनेनात्र वै स्फुटम् ।
वीरोऽभिव्यज्यते किन्तु न विवक्षा कवेरिह ।।
काव्यस्य भेदविषये वदत्यानन्दवर्धनः ।
" अर्थः सहृदयश्लाघ्यः काव्यात्मा यो व्यवस्थितः ॥
वाच्यप्रतीयमानाख्यौ तस्य भेदावुभौ स्मृतौ ।
तत्र वाच्यः प्रसिद्धो यः प्रकारैरुपमादिभिः ।।
बहुधा व्याकृतः सोऽन्यैः काव्यलक्ष्मविधायिभिः ।
प्रतीयमानं पुनरन्यदेव वस्त्वस्ति वाणीषु महाकवीनाम् ।
यत्तत्प्रसिद्धावयत्रातिरिक्तं विभाति लावण्यमिवाङ्गनासु ।।
प्रधानगुणभावाभ्यां व्यङ्गयस्यैव व्यवस्थितेः ॥
काव्ये उभे ततोऽन्यद्यत्तच्चित्रमभिधीयते ।
चित्रं शब्दार्थभेदेन द्विविधं च व्यवस्थितम् ॥
तत्र किञ्चिच्छब्दचित्रं वाच्यचित्रमतः परम् ।"
तथैव कविराजोऽपि प्रकाशयति वै मतम् ॥
" काव्यं ध्वनिर्गुणीभूतव्यङ्ग्यं चेति द्विधा मतम् ।"
अव्यङ्ग्यामिति यत्प्रोक्तं मम्मटेन विजानता ॥
.

२०
काव्य-प्रकाशः।
तत्र स्यादव्यङ्गयराहित्यमिति चेन्नैव काव्यता ।
ईषद्रव्यङ्गयमिति स्याच्चेदास्वाद्यत्वे ध्रुवं मता ॥'
अथ पण्डितराजस्तु वक्ति काव्यं चतुर्विधम् ।
सर्वप्रथमतो नूनमुत्तमोत्तमसंज्ञितम् ॥
उत्तमं मध्यमञ्चवमधमाख्यं ततः परम् ।
एवञ्च फलितार्थोऽभूधनिस्तत्रोत्तमोत्तमम् ॥
उत्तमञ्च गुणीभूतव्यङ्गयं भवति तन्मते ।
अर्थचित्रं मध्यमं वै शब्दचित्रमथोऽधमम् ॥
सारे चाच्युतरायोऽपि सामञ्जस्य व्यधात्पुनः ।
" रसालङ्कारमुख्यत्वभेदेनेदम्भवेदाद्वधा ।।
सरसाख्यञ्च चित्राख्यं स्वरम्भोरुशरीरवत् ।
तत्राद्यन्तु द्विधा व्यङ्ग्यप्रधानगुणभावतः ॥
प्रथमं ध्वनिसंज्ञं स्या न्नानाभेद्युत्तमोत्तमम् ।
द्वितीयन्तृत्तमं ज्ञेयमष्टधा परिकीर्तितम् ॥
द्विधान्यदपि भूर्येव मध्यमञ्चाधम क्रमात् ।
गुणप्रधानभावेन मिथः शब्दार्थयोः स्थितेः ॥

काव्य-प्रकाशः।
द्वितीय उल्लासः।
वृ०- शब्दार्थयोः स्वरूपञ्च कथ्यते क्रमतोऽधुना।
का०-स्यावाचकोलाक्षणिकःशब्दोऽत्र व्यअकस्त्रिधा।
वाच्यादयस्तदर्थाः स्युस्तात्पर्यार्थोऽपि केषुचित्॥
१०- वाचकस्यात्र वाच्यार्थो लक्ष्यो लाक्षणिकस्य च ।
व्याकस्यापि शब्दस्य व्यङ्गयोऽर्थः परिकीर्तितः ।।
X
X
X
टि-अन्वयो न भवेद्यत्र यत्पदस्य क्रियां विना ।
आकाङ्क्षा सैव गौरश्वः पुरुषश्च गजो यथा ॥
पदार्थे तत्र तद्वत्ता योग्यता परिकीर्तिता ।
'वाहिना सिञ्चतीत्यादौ ' शक्त्यभावान्न योग्यता ॥
अन्वयोऽपेक्ष्यते यत्र येनासौ सन्निधिमता
'अग्निमान्देवदत्तेन पर्वतो भक्षितं न सा ॥
१०- आकाङ्क्षायोग्यतासक्तिवशादत्र परस्परम् ।
तेषां जात्यादिरूपाणां पदार्थानां समन्वये ।।
अपदार्थोऽपि वाक्यार्थो विशेषाकारवांश्च यः ।
तात्पर्यनामको भाट्टेऽभिहितोऽभिहितान्वये ।।

२२
काव्य-प्रकाशः ।
~
.
"
टि०-'गामानये ' त्यत्र बालो व्यक्तिं सास्नावती तदा।
विलोक्य विज्ञो भवति 'गौरयं कथ्यते जनः ।।
अश्वमानय ' संश्रुत्य दृष्ट्वा चानयनक्रियाम् ।
'अयमानयनस्याथो' व्युत्पत्तेरस्त्ययं क्रमः ॥
" स्वार्थबोधे समाधानामङ्गाङ्गित्वव्यपेक्षया ।
शब्दानामेकवाक्यत्वं पुनः संहत्य जायते
तत्तु तात्पर्यवृत्येति कथितोऽभिहितान्वये ।
अथान्विताभिधानेतु वाक्यार्थो वाच्य एव सः ॥
टि०- "वृद्धा युवानः शिशवः कपोताः रवले यथामी युगपत्पतन्ति ।
तथैव सर्वे युगपत्पदार्थाः परस्परेणान्वयिनो भवन्ति
एवं चान्वित एवार्थो वाक्ये वाक्यार्थसङ्गती ।
क्षमस्तात्पर्यवृत्तेस्तन्नैवावश्यकता पुनः ॥
का०-सर्वेषां प्रायशोऽर्थानां व्यञ्जकत्वमपीष्यते ।
टि.- केवलं नतु शब्दस्य तथा नेकतरस्य वा ॥
माए घरोवअरणं अज क्खुण स्थिति साईअं तुमए ।
ताभण किं कराणिज्जं एमेअ ण वासरो ठाई ।।
१०- सम्पाद्य गृहकार्यस्यावश्यकर्तत्वमत्र वै
'इयं स्वैरविहाराय गन्तुकामाभवन्ननु ।
उक्तरूपेण वाच्येन ह्यर्थेनैवाभिव्यज्यते ।
वृ०- साहेती सहि मुहवं खणे खणे दुम्मिासि मज्झकए।
सम्भावपोह करणिजसरिसं दाव विरइथं तुमए ।।

द्वितीय उल्लासः।
टि- अत्रोपभोगचिह्नानि विलोक्यापि च नायिका ।
उपकारं स्वीकरोति दूतिकायाः प्रहर्षिता ॥
इति मुख्यार्थबात्रेन लक्षणा समुपासिता ।
वृ०- मत्प्रियं रमयन्त्या वै त्वयात्र शत्रुता कृता ॥
लक्ष्यार्थ एष विज्ञेयो व्यङ्गयार्थोऽयं पुनः स्मृतः ।
तथा कामुकविषयमपराधप्रकाशनम् ।।
वृ०- उअ निञ्चल निप्फंदा भिसिणीपत्तम्हि रेहइ बलाआ।
णिम्मलपरगभा अण परिहिदा संखमुत्तिव्य ।।
निष्पन्दत्वेन वाच्येन ह्याश्चस्तत्वं तु व्यज्यते ।
एतेन जनराहित्यमिति व्यङ्गयं ततः परम् ।।
सङ्केतस्थानमेतद्वै फलितार्थोऽभवत्ततः ।
आश्वस्तत्वेन व्यक्तेन जनागमनशून्यता ।।
नत्वमत्रागतो नूनं मिथ्यैव परिजल्पसे ।
टि०- आगतः स्या यदि ततः कथमेषा सुनिश्चला ||
वृ०- अथवेदमभूयङ्गय क्रमेण परिदर्शितम् ।
स्वरूपं वाचकादीनां क्रमप्राप्तं प्रकाश्यते ।।
साक्षात्सङ्केतितंयोऽर्थमभिधत्ते स वाचकः
टि. साक्षादिति पदाभावे शब्दे लाक्षणिकेऽपि च ॥
वाचकत्वं समागच्छेलक्ष्ये सङ्केततः सदा ।
१०- इहाग्रहीतसङ्केतः शब्दो नार्थ प्रकाशयेत् ।।
तद्यत्राव्यवधानेन सङ्केतो यस्य गृह्यते ।
स एव वाचकः शब्दो विबुधैः परिगीयते ॥

२४
काव्य-प्रकाशः।
का-सङ्केतितश्चतुर्भेदो जात्यादिर्जातिरेव वा ॥
वृ०-प्रवृत्तौ च निवृत्तौ च योग्या व्यतिर्हि गण्यते ।
अर्थक्रिया कारितया यद्यप्येष विनिर्णयः॥
व्यक्तेस्त थाप्यनन्तत्वाद्दोषआनन्त्यमापतेत् ।
भविष्यन्त्यां तथा वृक्तौ भवेच्च व्यभिचारिता ।।
अतः कदापि सङ्केतस्तस्यां व्यक्तौ न युज्यते ।
किञ्च "गौरथ शुक्लोऽथ चलो डित्थस्तथैव च ।।
इत्यादीनां हि शब्दानां विभागो न भवेदिति ।
उपाधावेव सङ्केतः क्रियते च बुधैस्ततः ॥
उपाधिविविधो ज्ञेयो वस्तुधर्मः स चादिमः ।
यदृच्छात्मकनामापि द्वितीयः स निगद्यते ।।
द्विविधो वस्तुधर्मोऽपि सिद्धः साध्यस्तथैव च ।
सिद्धोऽपि द्विविधो ज्ञेयः पदार्थप्राणदः पुनः ।।
विशेषाधानहेतुश्च तत्राद्यो जातिरुच्यते ।
उक्तं वाक्यपदीयेऽपि ग्रन्थे वै हरिनिर्मिते ।।
"अत्र नैव स्वरूपेण गौरथो नाप्यगौर्भवेत् ।
गौर्हि गोत्वाभिसम्बन्धादोत्वं जातिर्न संशयः॥
भिन्नक्रियागुणेष्वपि बहुषु द्रव्येषु चित्रगानेषु ।
एकाकारा बुद्धिर्भवति यतः सा भवेज्जातिः ।।
टि-आलम्ब्य जाति विषयं केचिदेवं वदन्ति च ।
न याति न च तत्रासीनचोत्पन्नं न चांशवत् ॥

द्वितीय उल्लासः।
२५
.
जहाति पूर्व नाधारंमदो व्यसनसन्ततिः ॥
अत्रापि. हरिणा दत्तमुत्तरं स्पष्टमेव तत् ।
" सम्बन्धभेदात्सत्त्व भिद्यमाना गवादिषु ॥
जातिरित्युच्यते तस्यां सर्वे शब्दाः व्यवस्थिताः ।
ताम्प्रातिपदिकार्थश्च धात्वर्थञ्च प्रचक्षते ॥
सा नित्या सा महानात्मा तामाहुस्त्वतलादयः ।
अनयोर्मतयोः सार एष एव प्रतीयते ।
"सत्यासत्यौ तु यौ भावी प्रतिभावं प्रतिष्ठितौ ।
सत्या तु सैव जातिः स्यादसत्या व्यक्तयो मताः ॥"
वृ०-द्वितीयो वस्तुधर्मोऽथ सिद्धो यो वस्तुजन्मनः ।
विशेषाधानहेतुः स गुण एवं निगद्यते ॥
टि.-"द्रव्यादपृथग्भूतो भवति गुणः सततमिन्द्रियग्राह्यः ।
सहजाहार्यावस्थिक भावविशेषादयं त्रेधा ॥"
सहजः क्षत्रिये शौर्य काके का मतो बुधैः ।
आहार्यों नरि पाण्डित्यं पटे रागः प्रवर्तते ॥
आवस्थिकश्च लौहित्यं फले केशे च शुक्लता ।
१०- माद्यः पूर्वापदीभूतावयवो यत्र दृश्यते ।
क्रियारूपः स विज्ञेयो धर्मोऽलङ्कारवित्तमैः ॥
टि-कार्यारम्भ समारभ्य समाप्त्यन्तं तथैव यः ।
हस्तपादादिसञ्चारो वदितव्या क्रियैव सा ॥
१०- अथ डित्थादिशब्दानां स्वरूपं संहृतक्रमम् ।
अन्त्यबुद्ध्या च निर्गाचं वक्का यत्र निजच्छया।

काव्य-प्रकाशः ।
कपित्थडित्थाद्यर्थेषूपावित्वेन निवेश्यते ।
संज्ञारूपः स सङ्केतो यहच्छात्मक उच्यते ।
'गौः शुक्लोऽथ चलो डित्थ' इत्यादौ च चतुष्टयी ।
प्रवृत्तिरस्ति शब्दानां महाभाष्यानुसारतः ।।
टि०-जातिं गुणं क्रियां द्रव्यमुवाचात्र पतञ्जलिः ।
x
x
x
x
परिमाणं भवेन्मानव्यवहारस्य कारणम् ।
अणुदीर्घ महद्भस्वं चतुर्भेदं तदीरितम् ।।
पृथ्व्यप्तेजोवायुवृत्तिनित्यञ्चानित्यमेव च ।
तत्रानित्यं कार्यरूपं परमाणोस्तु नित्यता ।।
एवञ्च तत्र संयुक्तैरनेकैः परमाणुभिः ।
सत्यं भवति लोकानां पदार्थो दृष्टिगोचरः ।।
प्राणदत्वात्पदार्थस्य जातित्वं युज्यते ततः ।
परमाणोर्गुणत्वं हि वैशेषिकनये कथम् ।।
वृ०- परमाण्वादिशब्दानां गुणेषु गणनादपि ।
वास्तवं जातिशब्दत्वं गुणत्वं पारिभाषिकम् ॥
गुणक्रिया यदृच्छानां वस्तुतस्त्वेकरूपता ।
तथाप्याश्रयभेदेन भेदतैव प्रतीयते ॥
एकस्यैव मुखस्यात्र यथाह्याश्रयभेदतः।
खड्ने च मुकुरे चैव तैले भिन्नत्वदर्शनम् ।।
शुक्लादिष्ठ हिमपयाखवाद्यालम्बनेषु च ।
वस्तुतस्तु विभिन्नेषु यदशेनैव जायते ॥

द्वितीय उल्लासः।
२७
अयं शुक्लो ह्ययं शुक्लः सर्वदेवेशी पुनः ।
तदाभिन्नाभिधानेन प्रत्ययोत्पत्तिरत्र या॥
शुक्लत्वरूपा सा जातिरिति मीमांसका जगुः ।
पाकेषु तण्डुलादीनां गुडादीनां तथैव च ।।
पाकत्वजातिरेवात्र निश्चिता विबुधोत्तमैः।
बालवृद्धशुकादीनां कथितेष्वपि सर्वदा ।
भिद्यमानेषु डित्थादिशब्देषु च प्रतिक्षणम् ॥
अवश्य भिद्यमानेषु डित्थाद्यर्थेषु वा पुनः ।
डित्थत्वं विद्यते तत्र जातिः सा परिकीर्तिता।
सर्वेषामेव शब्दानां जातिरेव च सर्वदा ।।
इत्थं निमित्तीभवति प्रवृत्ताविति निर्णयः ।
टि०-स्वमर्थमभिधायैव यदा स्याद्विरताभिधा ।।
व्यक्तिबोधे न सा शक्ता शाब्दबोधः कथं तदा ।
जात्या व्यक्त्यविनाभावाद्वयक्तराक्षेप उच्यते ।
जातौ व्यक्तेरसङ्केतस्तेन किन्तु न तद्गहः ।।
आनन्त्याव्यभिचाराच व्यक्तावपि न सम्भवेत् ।
१०- व्यक्तिर्जातिविशिष्टैव नैयायिकमते पुनः ॥
'तद्वा' निति पदेनात्र तदेव प्रतिपाद्यते ।
टि०-सा विचारासहाजातिरदृष्टत्वात्सदा पुनः ॥
व्यक्तेश्च क्षणिकत्वान्न सङ्केतो युज्यते तयोः ।
१०- तव्यक्तिभिन्न व्यावृत्तिरित्यपोहपदार्थगः ॥
शब्दार्थस्तत्र सङ्केतो मतं क्षणिकवादिनाम् ।

काव्य-प्रकाशः।
अलंकार युता भाति भामहस्यात्रभारती
अन्यापोहेन शब्दार्थ माहेत्यन्ये प्रचक्षते ।
अन्यापोहश्च नामान्य पदार्थायाकृतिः किळ ॥
यदि गोरित्ययं शब्द कृतार्थोऽन्यनिराकृतौ ।
जनको गवि गोबुद्धेर्पग्यतामपरो ध्वनिः ॥
अर्थज्ञानफलाः शब्दाः न चैकस्य फल द्वयम् ।
अपवाद विधिज्ञाने फले चैकस्य वः कथम् ।।
पुरा गौरिति विज्ञानं गोशब्द श्रवणाद्भवेत् ।
येना गो प्रतिषेधाय प्रवृत्तो गौरिति ध्वनिः॥
प्रकृतानुपयोगाच्च ग्रन्थगौरवभीतितः ॥
मया विस्तरतो नैतद्वर्णितंहि विजानता ।
टि०-जात्यादिषु च सङ्केतो मम्मटायापि रोचते ॥
का-समुख्योऽर्थस्तवमुख्यो व्यापारोऽस्याभिधोच्यते।
टि०-अधूना लक्षणा चात्र प्राप्तकालं निरूप्यते ।
का-मुख्याथेबाधे तद्योगे रूढितोऽथ प्रयोजनात् ।
अन्योऽर्थो लक्ष्यतेयत्सालक्षणारोपिताक्रिया॥
टि०-"लक्षणा शक्यसम्बन्धो" मुक्तावाल्या निरूपितम् ।
ब्रवीत्यच्युतरायोऽत्र विषये तन्निवेद्यते ॥
“यदुक्तं शक्यसम्बन्धो लक्षणेति वदन्त्विह ।
शक्यस्य स्रोतसस्तीरे सम्बन्धः स कथं नु सा ।।
यो हि लक्षकधर्मोऽसौ लक्ष्यधर्मः कथम्भवेत् ।
नहि राधाकटाक्षस्य तेक्ष्ण्यं कुंजेऽपि दृश्यते ॥

द्वितीय उल्लासः।
इतीव कश्चिद्यदिचेद्ब्रूयात्तत्र तदुत्तरम् ।
"तत्सोऽर्थगोऽपि शब्दैकान्वयादेर्लक्ष्यबोधतः ।।
आह्वादकत्ववच्छब्देऽप्यस्तीत्येव तदाशयः ।
तथा च वृद्धसिद्धान्तसुगन्धे द्वधिया मया ॥
साध्वेवोक्तं पिकेनेव तद्विकासेच्छुनाधुना ।
अथारोपेण या शाब्दी शक्यसम्बद्धबोधिका ॥
तात्पर्यानुपपत्त्यैव वृत्तिः सा लक्षणोच्यते ।"
वृ०- 'कुशलः कर्मणी' त्यादौ 'कुशं लाती' ति विग्रहे ।
दर्भस्य ग्रहणायोगात्सति मुख्यार्थबाधने ।
विवेचकत्वादियोगे लोके रूढप्रसिद्धितः॥
मुख्यार्थेन ह्यमुख्योऽर्थो लक्ष्यते येन हेतुना ।
साक्षायद्यप्यर्थनिष्ठः शब्दनिष्ठोऽपि मन्यते ।।
एष शब्दस्य व्यापारो नूनमारोपितः स तु ।
लक्षणा इति शब्देन विद्वद्भिः परिचीयते ।
टि०-उदाहरणमेतन्नो कविराजाय रोचते ।
एवञ्चेच्चलनार्थाद्वै गमे? प्रत्यये कृते ॥
'गच्छतीति' च गौरत्र स्थिते हि लक्षणा ध्रुवम् ।
वृ०- 'गङ्गायां घोष' इत्यादावपि ज्ञेयं तथैव च ।।
गंगादीनां हि घोषाद्याधारवासम्भवात्ततः ।
टि०- गङ्गाप्रबाहे घोषस्यासम्भवादिति सर्वथा ॥
वृ०- मुख्यार्थबाधे सामीप्यसिम्बन्धेन पुनस्तथा ।
'गङ्गातदे घोष' इति प्रयोगात्तु न तादृशी ॥

३०
काव्य-प्रकाशः।
पावनत्वादिधर्माणां प्रतिपत्तिर्हि यादृशी।
लक्षणा क्रियते तस्मादलङ्कारविचक्षणैः ।।
अथ प्रयोजनवती लक्षणा प्रतिपाद्यते ।
टि०- लक्षणा द्विविधा तावत् शुद्धा गौणीति च क्रमात् ।
शुद्धा चतुर्विधा ज्ञेया पूर्वोपादानलक्षणा ।
द्वितीया च भवेदत्र तथा लक्षणलक्षणा ।।
सारोपा च तथा साध्यवसाना चेति कीर्तिता ।
गौणभेदापि सारोपा तथा साध्यवसानिका ।।
षड्विधत्वं लक्षणाया वक्ष्यते कारिकात्रये ।
का-स्वसिद्धये पराक्षेपः परार्थ स्वसमर्पणम् ॥
उपादानं लक्षणञ्चेत्युक्ता शुद्धैव सा द्विधा ।
१०- प्रविशन्ति यथा कुन्ता यष्टयः प्रविशन्ति च ॥
इत्यादौ स्वप्रवेशस्य सिद्ध्यर्थ कुन्तयष्टिभिः ।
आक्षिप्यन्ते हि पुरुषा स्वसंयोगिन एव ते॥
उपादानप्रकारेण स्यादुपादानलक्षणा ।
अथ गौरनुबन्ध्योऽत्र वाक्ये च श्रुतिचोदितः॥
जाते। गोपदार्थस्य स्यात्कथं मेऽनुबन्धनम् ।
इति मुख्यार्थबाधेन लक्षणा शक्तितोऽधुना ॥
मीमांसकमते जात्या व्यक्तिराक्षिष्यते पुनः ।
न तु शब्देनोच्यतेऽत्र केनापि परमार्थतः ।।
"विशेष्य नाभिधा गच्छेसीणशक्तिविशेषणे ।
इति न्यायमनुस्मृत्य स्यादुमादानलक्षणा ।

द्वितीय उल्लासः।
m
एषा तु नोदाहर्तव्या न प्रयोजनमत्र वै ।
न वा रूढिरियं काचिदिति ज्ञेयं विचक्षणैः ।।
टि०-प्रयोजनं तथा रूढिं विना नेयार्थता भवेत् ।
कथं तल्लक्षणाभावे व्यक्तर्बोधो भविष्यति ॥
यत्र जातिस्तत्र व्यक्तिरिति व्याप्तिग्रहात्ततः ।
१०- जात्या व्यक्त्यविनाभावाव्यक्तिराक्षिप्यते ध्रुवम् ॥
क्रियतामत्र कर्ता च कुर्वित्यत्र च कर्म वा ।
प्रविशत्यत्र च गृह पिण्डीमत्र च भक्षयेत् ॥
किञ्च पीनो देवदत्तो दिवा भुक्ते न कहिंचित ।
रात्रिभोजनमत्रापि नोपादानेन लक्ष्यते ॥
तस्य श्रुतार्थापत्तेर्वार्थापत्तेर्वा तथैव च ।
विषयत्वादिति मता न चोपादानलक्षणा ।।
अनयार्थान्तरे संक्रमितवाच्योऽत्र सूच्यते ।
अजहल्लक्षणां नाम्ना केचिदेनां वदन्ति च ।।
'गंगायां घोष' इत्यत्र गङ्गाशब्दस्तटस्य च ॥
घोषाधिकरणत्वस्य सिद्धये लक्षणेन वै ॥
स्वार्थमर्पयतीत्यादौ भवेल्लक्षणलक्षणा ।
टि०-एतस्या उपयोगाश्चात्यन्तं वाच्ये तिरस्कृते ॥
१०- उपचारामिश्रितत्वाच्छुदैवेत्यभिधीयते ।
टि०- गोण्यास्तु नोपयोगः स्यादलङ्कारे ध्वनौ यतः ॥
सारोपा गौणभेदे तु लक्षलक्षकयोईयोः ।
.
३

३२
काव्य-प्रकाशः।
,
तदभेदप्रतीतिर्हि भेदेऽपि जायते ध्रुवम् ॥
भेदप्रतीतिः स्पष्टैव शुद्धभेदे तयोस्तथा ।
भेदाभेदप्रतीतिः सा गौणं शुद्धं भिनत्ति हि ॥
एवं मुकुलभट्टे च मम्मटो नानुकूलवाक् ।
वृ०- भेदयोरनयोनं लक्ष्यस्य लक्षकस्य च ।
न भेदरूपं ताटस्थ्यमिति काव्यविदां नयः ।।
टि०-यदि सत्यं भवेदेतद्भवतामपि चेत्तदा ।।
१०- गङ्गासम्बन्धमात्रस्य प्रतीतौ तु विचार्यताम् ।
'गङ्गातटे घोष' इति मुख्यशब्दाभिधानतः ॥
को भेदो लक्षणाया वै न वा विद्मो वयं पुनः।
का-सारोपान्या तु यत्रोक्तौ विषयी विषयस्तथा ॥
वृ०- यदेवारोप्यमाणश्च ह्यारोपविषयस्तथा ।
अनपद्भुतभेदौ तौ यत्र यत्र कविकृतौ ॥
सामानाधिकरण्येन निर्दिश्यते यथातथम् ।
लक्षणा सा तु सारोपा 'गौर्वाहीको' यथा भवेत् ॥
टि०- सारोपा लक्षणा ज्ञेया रूपकालङ्कृतौ हिता ।
का-विषय्यन्त कृतेऽन्यस्मिन्सास्यात्साध्यवसानिका।
१०- अत्र चारोप्यमाणेन नूनं विषयिणा तथा ।
निगीर्णेऽन्तः कृतेऽन्यस्मिन्नारोपाविषये सति ॥
सा तु साध्यवसानास्याद्यथा 'गौरय मित्यपि ।
टि०-प्रथमातिशयोक्तौ. च घुपयोगः कृतो बुधैः ।।

द्वितीय उल्लासः। ३३ Pr- का-भेदाविमौ च सादृश्यात्सम्बन्धान्तरतस्तथा । गौणौ शुद्धौ च विज्ञेयौलक्षणा तेन षविधा ।। वृ०- आरोपाध्यवसानौ द्वावेतौ सादृश्यहेतुकौ । भेदौ यथा गौर्वाहीकस्तथा गौरयमत्र च ।। अथ 'गौर्वाहीक' इत्यादौ स्वार्थस्य सहचारिणः ॥ लक्ष्यमाणा अपि सदा जाडयमान्द्यादयो गुणाः । गोशब्दस्य पदार्थाभिधाने चैव कथञ्चन । प्रवृत्तौ तु निमित्तत्वमुपयान्तीति केचन । टि-वाहीकेनैव सङ्केतो गोशब्दस्यात्र विद्यते । कथं स्यात्तर्हि गोशब्दः शक्तो वाहीकसूचने ॥ अन्ये पुनर्वदन्तीत्थं स्वार्थस्य सहचारिणाम् । गुणानां जायमान्द्यानामभेदेन पदार्थगाः। गुणा एव हि लक्ष्यन्ते न परार्थोऽभिधीयते । टि०-वाहीकश्च तथा गौश्च भिन्नौ तौ च निरन्तरम् ॥ गुणावपि तयोभिन्नाविति वाहीकगोगतौ । गुणो न साम्यं लभतः कथं तात्र लक्षणा ॥ १०- साधारणानां गुणानामाश्रयेण च केवलम् । परार्थो लक्ष्यते नूनमित्येतदपरे जगुः ।। टि- इदमेव मतं श्रीमन्मम्मटायापि रोचते । तथा चोक्तं प्रमाणञ्च यथा स्वमतपोषणे ॥ 1.

काव्य-प्रकाशः।
वृ०- "मानान्तरविरुद्ध तु मुख्यार्थस्य परिग्रहे ।
अभिधेयाविनाभूतप्रतीतिर्लक्षणोच्यते ।
लक्ष्यमाणगुणैर्योगाद्वृत्तेरिष्टा तु गौणता ॥"
नूनमत्राविनाभावो नान्तरीयकता तु न ।
सम्बन्धमात्रं विज्ञेयः इत्यलङ्कारविन्नयः ॥
तथात्वे लक्षणा न स्यान्मञ्चाश्चुक्रुशुरत्र वै ।
आक्षेपेणाविनाभावे सिद्ध कार्ये कथञ्चन ॥
लक्षणाया नोपयोग इत्युक्तं पूर्वमेव हि ।
आयुघृतमायुरिदमत्र सादृश्यतोऽपरम् ॥
कार्यकारणभावादि सम्बन्धान्तरमिष्यते ।
एवमादौ च सादृश्यादन्यः सम्बन्ध एव सः॥
कार्यकारणभावादिरिह सम्बन्धपूर्वके ।
आरोपाध्यवसाने ते पते कव्यविचक्षणैः ।।
तद्रूपताप्रतीतिर्हि भेदेऽपि गौणभेदयोः ।
अभेदावगमश्चैव सर्वथात्र प्रयोजनम् ॥
अन्ये वा व्यभिचारेण वैलक्षण्येन वा पुनः ।
शुद्धाया भेदयोः कार्यकारित्वादि प्रयोजनम् ॥
स्थूणेन्द्रार्थेन्द्र इत्यादौ तादादौपचारिकी ।
स्वस्वामिभावसम्बन्धाद्राजकीयः पुमान्नृपः ॥
हस्ताग्रमात्रेऽग्रहस्तोऽवयवावयवित्वतः।

द्वितीय उल्लासः।
३५
.
अतक्षापि तथा तक्षा तात्कादभिधीयते ॥
इत्थं सम्बन्धान्तराण्याहुरनेकानि बुधोचमैः ।
टि०- चतुर्थातिशयोक्तौ तु शुद्धसारोपलक्षणा ॥
योग्या साध्यवसाना च काव्यलिङ्गनिरूपणे ।
इत्थश्च लक्षणाभेदाः षडेव प्रतिपादिताः ॥
श्रीमान्मुकुलभट्टोऽत्र मीमांसकाशिरोमणिः ।
इमां च शुद्धां सारोपां शुद्धां साध्यवसानिकाम् ॥
मत्वोपचारमिश्रांच षड्विधां प्रत्यपादयत् ।
अग्रहन्निव नामापि परं रूढेः कथञ्चन ॥
मन्ये मम्मटभटेन मतमेतन्मतं ध्रुवम् ।
अन्यथा षड्विधास्थाने सप्तधा परिकीर्तयेत् ।।
विश्वनाथमते तूनः लक्षणाशीतिधा मता ।
रूढः प्रयोजनाद्वापि प्रथम द्विविधा भवेत् ।।
उपादानं लक्षणञ्चेत्युक्ता सापि द्विधा पुनः ।
आरोपाध्यवसानाभ्यां प्रत्येकं ता अपि द्विधा ॥
सादृश्येतरसम्बन्धाः शुद्धास्ताः सकला अपि ।
सादृश्यात्तु मत्ता गौण्यस्तेन षोडशभेदिता ॥
व्यङ्गयस्य गूढागूढत्वात्प्रयोजनवती द्विधा ।
धर्मिधर्मगतत्वेन फलस्यैता अपि द्विधा ।
रूढावष्ट प्रकारा च द्वात्रिंशद्धा प्रयोजने ।
योजने लक्षणाभेदाश्चत्वारिंशन्मता बुधैः ॥.

३६
काव्य-प्रकाशः।
-...
पदवाक्यगत्वत्वेन प्रत्येकं ता अपि द्विधा ।
तदशीतिविधा दृष्टा लक्षणा दर्पणे मया ।।
प्रसारितेऽपि वाग्जाले कविराजेन धीमता ।
ध्वनौ तथैवालङ्कारे नोपयोगः प्रदर्शितः ॥
शुद्धा गौणीति भेदेन निरूढां द्विविधां तथा ।
स्वीकृत्य चैकामधिकां भागत्यागाभिधामपि ।
नामान्तरेणैव चान्या ऊरीकृत्य षडेव ताः ।
प्रोक्तैवं नवधापय्यदीक्षितेनापि लक्षणा ॥
प्राच्यानां मतमुद्धृत्य स्वकञ्च प्रकटीकृतम् ।
सारोपाध्यवसाना चं शुद्धात्वन्तर्भवेध्रुवम् ॥
जहत्स्वार्थालक्षणायां विरुद्धापि तथैव च ।
तथा पण्डितराजस्तु लक्षणाविषये पुनः ॥
अनुकूलोऽभवत्तत्र श्रमिदप्पयदाक्षिते ।
जहत्स्वार्थाजहत्स्वार्थे जहदजहती तथा ।
एवं द्विरेफ इत्यादावपि लक्षितलक्षणा ।
इति गौणी विभज्यात्र नागेशोऽने जगौ पुनः ।।
शुद्धा चैवाभिधाया वै द्वितीयं नाम उच्यते ।
नैयायिकमतं चैतन्मह्यन्तु नैव रोचते ॥
यतश्च "सति तात्पर्ये सर्वे सर्वार्थवाचकाः ।"
तथाच लक्षणाशक्तरनयैव गतार्थता ॥
'शब्देऽथ वैयाकरणद्देशक्ती संमुदीरिते।

द्वितीय उल्लासः।
३७
प्रसिद्धा चाप्रसिद्धा च प्रसिद्धा सर्वगोचरा ।।
अप्रसिद्धा च विज्ञेया सदा सजनगोचरा ।
अतएवाभिधाशक्त्या लक्षणाया गतार्थता ॥
एवञ्चेत्कासिद्धिः स्याद्भवेच्च लाघवन्तथा ।
गौणी सुद्धा विरुद्धा च तथा लक्षितलक्षणा ॥
चतुर्धासौ निरूढति प्रयोजनवतीति च ।
प्रत्येकं द्विविधा प्रोक्ता ततश्चैवाष्टधाभवत् ।।
प्रयोजनवती गौणी शुद्धा चापि पुनर्द्विधा ।
आरोपाध्यवसानाभ्यां चतुर्धा साभवत्ततः
शुद्धा प्रयोजनवती जहत्यजहती मता ।
जहदजहती चासौ भागत्यागापि कथ्यते ॥
अथ प्रयोजनवती विरुद्धा धन्य एव सः ।
प्रयोजनवती तद्वदेषा लक्षितलक्षणा ।
वैदेहीमवलोक्यैव स्तब्धोऽभूद्रघुनन्दनः ।
एवञ्च गौणी त्रिविधा शुद्धा पञ्चविधा मता ।।
द्विधा विरुद्धा विज्ञेया द्विधा. लाक्षतलक्षणा ।
संयोजिते द्वादशधा ह्यच्युतस्य
मते
मतान्येतावदुद्धृत्य साम्प्रतं हि विचार्यते ।
निरूढां तत्प्रभेदांश्च प्रदृश्यापि न केनचित् ।।
उपयोगो ध्वनेर्भेदे ह्यलङ्कारे ऽथवा कृतः ।
एतेन ज्ञायते नूनं नैषा कार्यकरी क्वचित् ।।
पुनः॥

काव्य-प्रकाशः।
यथा 'प्रयोजनाभावे शक्यसम्बन्ध' एव सा ।
निरूढालक्षणेत्युक्तवा नागेशो ऽप्रथयन्मतम् ।।
'शक्तेरपरपर्यायो निख्ढेयमिति स्फुटम् ।
गूढागूढव्यङ्ग्यभेदान् धर्मिधर्मगतांस्तथा ॥
पदवाक्यवतांश्चैव सर्वान् भेदानपास्य तान् ।
मुख्यतः कविराजस्य शिष्टा षोडशलक्षणा ॥
तत्रापि रूढिभेदास्तु गता नागेशवाक्यतः ।
मम्मट क्रममाश्रित्य भेदनीतिप्रसारणे ॥
षोद्वैव लक्षणा ज्ञेया नात्र कापि विचारणा ।
उपादानं लक्षणञ्चेत्युक्ता शुद्धव सा द्विधा ।
आरोपाध्यवसाना च शुद्धा गौणी चतुर्विधा ।
निरूढाच्युतरायस्य गतव कविराजवत् ।।
भागत्यागा विरुद्धा च तथा लक्षितलक्षणा ।
जहत्स्वार्थालक्षणाया मन्तर्भवितुमर्हति ॥
शुद्धा गौणी निरूढापि जहदजहती तथा ।
नष्ठावान्तर्गता वापि तास्तु दीक्षितदीक्षिताः ।।
का-व्यङ्गन्येन रहिता रूढौ सहिता तु प्रयोजने।
१०- प्रयोजनन्तु ध्वननव्यापारगम्यमेव च ।
का-तच्च गूढमगूढं वा-
टि.-
यथा गूढ मुदाहृतम् ॥

द्वितीय उल्लासः।
१०- मुखं विकसितस्मितं वशितवक्रिमप्रक्षितम्,
समुच्चलितविभ्रमा गतिरपास्तसंस्थामतिः।
उरो मुकुलितस्तनं जघनमंसबधोद्धरम,
बतेन्दुवदनातनौ तरुणिमोद्गमो मोदते ॥
टि०- विकासः पुष्पधर्मोऽत्र मन्दहासे हि बाधितः ।
प्रसन्नत्वं लक्षयन्स व्यनक्ति रामणीयकम् ॥
तच्च सहृदयस्यैव नान्यस्य बुद्धिगोचरम् ।
इत्यायूचं प्रयत्नेन वशितादिपदेष्वपि ॥
अगूढस्यापि व्यङ्गयस्य व्यक्तोदाहरणं यथा ।
१०- श्रीपरिचयाज्जडा अपि भवन्त्यभिज्ञा विदग्धचारतानाम् ।
उपदिशति कामिनीनां यौवनमद एवं ललितानि ।।
अनोपदिशतीत्यादावनायासेन वै पुनः ।
अभिधेयस्येव मुस्पष्टं शिक्षादानं प्रतीयते ।।
टि-किन्तु गूढागूढवद्वै काव्यमत्र प्रशस्यते ।
कुचद्वन्द्वं किरेत्कान्तिम?द्घाटितमेव तत् ।।
भेदसंख्यायोजनेन
का०-
तदेषा कथिता त्रिधा।
वृ०- अव्यङ्गयागूढव्यङ्ग्या च गूढव्यङ्गयेति नामतः॥
टि०- अव्यङ्गया लक्षणा ज्ञेया रूढिः पूर्व प्रदर्शिता ।
षोढा प्रयोजनवती गूढागूढप्रभेदतः ॥

काव्य-प्रकाशः।
.....4.---
..........
जाता द्वादशधा तत्र धर्मिधर्मगतास्तथा ।
पदवाक्यगताश्चैव भेदाः स्युः स्वीकृता यदि ॥
चत्वारिंशत्तथाष्टौ च भेदा दर्पणवत्तदा ।
किन्त्वेतेषां नोपयोगः कुत्रापि च विलोक्यते ॥
का-ताक्षणिकः-
वृ०-
शब्दो लक्षणाया य आश्रयः ।
टि०-अधुना च क्रमप्राप्ता व्यञ्जना वै निरूप्यते ॥
शब्दनिष्ठार्थनिष्ठा च सा द्वेधा परिकीर्तिता ।
विवेचनीयार्थनिष्ठा तृतीयोल्लासके पुनः ॥
द्विविधा शब्दनिष्ठापि मतात्र विबुधोत्तमैः ।
विज्ञेयाद्याभिधामूला लक्षणामूलका परा ॥
यद्यप्यत्राभिधामूला लक्षणीया प्रधानतः ।
प्राथम्यादुपजीव्यत्वादिति काव्यविदो विदुः ।।
प्रसिद्धत्वात्प्रकृतत्वालक्षणायास्तथापि च ।
प्रथमं लक्षणामूला व्यञ्जनैव निरूप्यते ।।
शब्दो लाक्षणिके-
का०-
तत्र व्यापारो व्यञ्जनात्मकः।
यच्चोपपादि 'गङ्गायां घोष' इत्यत्र तीरगे ।
पावनत्वेऽपि तज्ज्ञप्त्यै लक्षणैवति लाघवात् ।
का०-यस्य प्रतीतिमाधातुं लक्षणा समुपास्यते ।
फले शब्दैकगम्येऽत्र व्यञ्जनानापरा किया।

द्वितीय उल्लासः।
ac
Ans.
-
-
१०- यस्याथ पावनत्वादिधर्मस्यात्र प्रतीतये ।
लाक्षणिकस्य शब्दस्य प्रयोगः क्रियते बुधैः ।।
शब्दात्तस्मादेव भवेत्तत्प्रतीतिर्न चान्यतः।
तथा च नान्यो व्यापारः केवलं व्यञ्जनाहते ॥
का० नाभिधा समयाभावात्-
टि०.
व्यङ्गयज्ञानं तया कथम् ।
वृ०- 'गङ्गायां घोष' इत्यादौ धर्माः पावनतादयः ।।
ये तटादौ प्रतीयन्ते तत्र गङ्गादयः पुनः।
शब्दाः सङ्केतिता नैव तत्प्रतीतिः कथं भवेत् ।
टि०- विचारयन्तु मनसि-
का०-
हेत्वभावान्न लक्षणा ॥
टि-मुखार्थबाधस्तद्योगो रूढिर्वाथ प्रयोजनम् ।
इत्येतत्रितयं हेतुलक्षणाया निरूपितः ॥
तदभावोऽत्र विज्ञेय एतदेवोपपाद्यते ।
का-लक्ष्यं न मुख्यं नाप्यत्र बाधो योगः फलेन नो।
न प्रयोजनमेतस्मिन्न च शब्दः खलद्गतिः॥
वृ०- यथैव गङ्गाशब्दोऽत्र सवाधः स्रोतसि स्मृतः ।
ततस्तट लक्षयति तथैवात्र तटेऽपि सः॥
सबाधः स्यात्तदा सोऽपि लक्षयोधि प्रयोजनम् ।
तटमत्र न मुख्योऽर्थों नापि बाघोऽवलोक्यते ॥

काव्य-प्रकाशः।
PAAAAA.
गङ्गाशब्दार्थभूतस्य तटस्यापि न कहिंचित् ।
पूतत्वाधैर्लक्षणीयैः : सम्बन्धश्चापि विद्यते ।
नापि प्रयोजने लक्ष्ये किश्चिदस्ति प्रयोजनम् ।।
गङ्गाशब्दस्तटमिव न तथात्र प्रयोजनम् ॥
प्रतिपादयितुञ्चापि ह्यसमर्थः कदाचन ।
का-एवमप्यनवस्था स्याद्या मुलक्षयकारिणी ।
१०-प्रयोजनं लक्ष्यते चेदेवमेव कथञ्चन ॥
प्रयोजनान्तरेणव तदा तदपि लक्ष्यते ।
प्रयोजनान्तरेणैवं लक्ष्यते तदपि क्रमात् ।।
अनवस्था भवेदेवं प्रकृते त्वप्रतीतिकृत।
टि०- "मूलक्षयकरीञ्चाहुरनवस्थां हि दूषणम् ॥
१०- पावनत्वादिधर्मेण युक्तं हि लक्ष्यते तटम् ।
त 'गङ्गायास्तटे घोष' इत्यस्मादधिकस्य च ॥
अर्थस्य प्रतिपत्तिर्हि प्रयोजनमिदं स्मृतम् ।
अतश्च पावनत्वादि विशिष्ट एव लक्षणा ॥
ताकि व्यञ्जनये त्याह कश्चिदत्र तदुत्तरम् ।
का०-प्रयोजनेन सहितं लक्षणीयं न युज्यते ।
ज्ञानस्य विषयो ह्यन्यः फलमन्यदुदाहृतम् ॥
१०-प्रत्यक्षादिप्रमाणस्य नीलादिविषयो मतः ।
फलं प्रकटता वापि संविचिर्वेति निर्णयः ।।

द्वितीय उल्लासः।
टि-भट्टमीमांसकमते प्रत्यक्षे सति वस्तुनः ।
जायते ज्ञाततोत्पत्तिः प्रत्यक्षस्य फलं हि या ॥
नैयायिकमतेऽप्येवं प्रत्यक्षस्य ह्यनन्तरम् ।
संवित्तिर्जायते चेयं प्रत्यक्षस्य फलं स्मृता ।
यमनुव्यवसायं च कथयन्ति विपाश्चतः ।
अनन्तरमिमे नूनं भवेतां नैव संशयः ।।
( संवित्तिररात्मधर्मोसौ वस्तुधर्मश्च ज्ञातता । )
विषयश्च फलञ्चैव भिन्नावेव परस्परम् ॥
गङ्गातटोऽत्र विषयः फलं पावनता तथा ।
भिन्नौ द्वावपि विज्ञेयौ मिलितो नैव काचित् ॥
का०-विशिष्ट
लक्षणा
नैवं विशेषांक
१०- लक्षिते हि तटादौ ये पावनत्वादयो मताः ।
विशेषास्ते बुद्धिगम्या व्यापारान्तरतो ध्रुवम् ॥
अभिधालक्षणादिभ्यो न प्रतीतिपथं व्रजेत् ।
ध्वननं व्यञ्जनं चैव द्योतनञ्चाभिधीयते ।
टि०- उक्तमेवं व्यञ्जनकत्वे लक्षणामूलमेव तत् ।
इदानीमाभधामूल व्यञ्जकत्वं निरूप्यते ।
का-अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते ।
संयोगाद्यैरवाच्यार्थधीकृदयापृतिरञ्जनम् ॥
वृ०-संयोगो विप्रयोगश्च साहचर्य विरोधिता।
अर्थः प्रकरणं लिङ्ग शब्दस्यान्यस्य सन्निधिः ।।
स्युस्तु लक्षिते।
.

काव्य-प्रकाशः।
सामर्थ्यमौचिती देशकालो व्यक्तिः स्वरादयः।
शब्दार्थस्यान्वयच्छेदे विशेषस्मृतिहेतवः ।
हरिः सशंखचक्रोऽत्र संयोगाद्विष्णुरुच्यते ॥
अशंखचक्रोऽथ हरिरित्येन्द्रः स्याद्वियोगतः।
श्रीरामलक्ष्मणौ साहचर्याद्दाशरथौ स्मृतौ ।
रामार्जुनगतिस्तत्र विरोधाद्भार्गवो भवेत् ।।
टि०- एतदन्योन्याश्रयत्वाद्दीक्षिताय न रोचते ।
तदुदाहरणं देयं रामरावणयोरिव ॥
१०- शम्भुः प्रयोजनादत्र स्थाणुं भज भवाच्छदे ।
सर्व जानाति देवोऽत्र त्वं वै प्रकरणात्स्मृतः ।।
कामोऽत्र लिङ्गतो ज्ञेयः कुपितो मकरध्वजः।
देवस्य त्रिपुरारातेः शिवोऽन्यशब्दसनिधेः ।।
मधुना कोकिलो मत्तः सामर्थ्याद्धि वसन्तकः ।
साम्मुख्यमत्र विज्ञेयः पातु वो दयितामुखम् ॥
देशाद्राजति वक्तव्यो भात्यत्र परमेश्वरः ।।
चित्रभानुर्विमात्यत्र दिवाओं निशि पावकः॥
मित्रं भातीत्यत्र मुंहृदयक्त्या मित्रः प्रभाकरः
यथेन्द्रशत्रुरित्यादौ वेदे एव विशेषतः ।
किन्तु काव्ये स्वरो नैव मुविशेषप्रतीतिकृत् ।
ट०- बहुव्रीहिस्तत्पुरुषः समासौ द्वावुदीरिती ।
'इन्द्रः शत्रुर्वस्य' चेति बहुव्रीहौ पुनर्भवेत् ।।

द्वितीय उल्लासः।
-
"बहुव्रीहौ प्रकृत्ये" ति सूत्रेणेन्द्र उदात्तता ।
प्राधान्यन्तेन चेन्द्रस्य शत्रुरित्यस्य गौणता ॥
'इन्द्रस्य शत्रु' रित्येवं तावत्तत्पुरुषे कृते ।
"समासस्ये" ति सूत्रेण शत्रुशब्द उदात्तता ॥
तेन शत्रोस्तु प्राधान्यं तथेन्द्रस्य च गौणता ।
इत्यादि विषयो वेदे काव्ये नैव कदाचन ॥
यदुक्तं नाट्यशास्त्रे च मुनिना भरतेन तु ।
हास्यशृङ्गारयोः कार्यों स्वरी मध्यमपञ्चमौ ॥
षड्जर्षभौ तथा चैव वीररौद्राद्भुतेषु च ।
गान्धारश्च निषादश्च कर्तव्यौ करुणे रसे ॥
धैवतश्चैव कर्तव्यो बीभत्से सभयानके ।
अतः स्वरोदाहरणं देयमेव न संशयः ।।
काकूदात्तादयः किन्तु स्वराः केवलमेव ते
विशेषयन्ति व्यङ्ग्यार्थ नानेकार्थनियामकाः ।।
तथा सात तु श्लेषस्य स्थानमेव न सम्भयेत ।
एतत्तु कविराजेन ह्युक्तं साहित्यदर्पणे ॥
१०- अत्रादिग्रहणाच्चैव गृह्यन्तेऽभिनयादयः ।
एदहमेत्तत्थणिआ एदहमेत्तेहि अच्छिवत्ते हि ।
एदहमेत्तावत्था एग्रहमत्ते हि दिअएहि ।।
अर्थान्तराभिधायित्वे संयोगादिभिरेव वै ।
इत्थं निवारितेऽपि स्यात्क्वचिद्यकाव्यवर्णने ।

काव्य-प्रकाशः। अनेकार्थस्य शब्दस्यार्थान्तर प्रतिपादनम् । अभिधा नैव तत्रस्यात्तस्या नियमनात्पुनः॥ मुख्यार्थबाधाद्यभावात्तथैव नापि लक्षणा । किन्त्वत्र सर्वदा ज्ञेयो व्यापारो व्यञ्जनात्मकः ।। अत्र शाब्द्यभिधामूला व्यजनोदाहृता यथा । भद्रात्मनो दुरधिरोहतनोविशाल- वंशोन्नतः कृतशिलीमुखसंग्रहस्य । यस्यानुपप्लवगतेः परवारणस्य, दानाम्बुसेकमुभगः सततं कराऽभूत् ॥ टि-अत्र प्रतीयमानस्तु करी वाच्यो नृपः स्मृतः । श्लेषं वदन्ति कचिच्च नोचितं तत्तु विद्यते ।। तुल्यावेव यदा वाच्यौ श्लेषस्य सम्भवः । का-तद्युक्तोव्यञ्जकः शब्दोयत्सोऽर्थान्तरयुक्तथा। अर्थोऽपि व्यञ्जकस्तत्र सहकारितया मतः॥ तदा काव्य-प्रकाशः। का०- - तृतीय उल्लासः। अर्थाः प्रोक्ता पुरा तेषा- टि०-मुल्लासे वै द्वितीयके । वृ०-वाचकस्याथ वाच्यार्थों लक्ष्यो लाक्षणिकस्य च ॥ व्यङ्गयोऽर्थों व्याकस्यापि ह्यर्था एते प्रकीर्तिताः। टि०- तृतीयकेऽधुना नून- का-मर्थव्यञ्जकतोच्यते ॥ वक्तृबोद्धव्यकाकूनां वाक्यवाच्यान्यसान्निधेः । प्रस्तावदेशकालादेवैशिष्टयात्प्रतिभाजुषाम् ॥ योऽर्थस्यान्यार्थधीहेतुर्व्यापारी व्यक्तिरेव सा ॥ १०- अइपिडुलं जलकुंभ घेत्तूण समागदम्हि सहि तुरिअम् । समसेअसलिलणीसासणीसहा.विसमामि खणम् ॥ व्यज्यते वक्तृवैशिष्ठयात्तच्चौर्यरतगोपनम् । औष्णिदं दौबल्लं चिंता अलसत्तणं सणीससिअम् । महमंदभाइणीकर सहि तुहपि अहह परिहबई ।। अत्र बोद्धव्यवैशिष्टयात्सह तत्कामुकेन वै । प्रेषिताया तिकाया उपभोगो हि व्यज्यते ॥ ४

काव्य-प्रकाशः।
तथाभूतां दृष्ट्वा नृपसदसि पाञ्चालतनयां,
वने व्याधैः सार्धं सुचिरमुषितं वल्कलधरैः ।
विराटस्यावासे स्थितमनुचितारम्भनिभृतं,
गुरुः खेदं खिन्ने माय भजति नाद्यापि कुरुषु ।
योग्यं मयि न मात्सर्य योग्यं कुरुषु केवलम् ।
व्यज्यते काकुवैशिष्टयात्र्ये पादे प्रतिष्ठितात् ।।
टि०-यावन्न व्यङ्गयनिष्पत्तिर्वाच्योऽर्थो न प्रतीतिकृत् ।
१०- तथा च काकुव्यङ्गयेन वाच्यासिद्धिहि शोभना ।
: अतस्तद्वाच्यासिध्यङ्गं गुणीभूतमिदं पुनः।
न शङ्कयं प्रश्नमात्रेण काकोर्विश्रान्तितो यतः ।।
टि०-यत्र काकुं विना नैव व्यङ्गयार्थो व्यज्यते क्वचित् ।
तत्र व्यङ्गयं गुणीभूतं न तथात्र विलोक्यते ॥
१०- तहामह गंडस्थल णिमिअं दिहि ण णेसि अण्णत्तो।
एण्हि सच्चेअ अहं ते अ कवोला ण सा.दिहि ॥
पश्यतस्ते मम सखि कपोलप्रतिबिम्बिताम् ।
अभूदन्यादृशी दृष्टिरधुना च प्रियंवद ।।
तस्यां हि चलितायान्तु जातान्यैवेत्यही इति ।
प्रच्छन्नकामुकत्वन्ते व्यज्यते कार्यतः स्फुटम् ॥
नायिकावाच्यवैशिष्टयाव्यज्यते व्यङ्ग्यमद्भुतम् ।
उद्देशोऽयं सरसकदलीश्रेणिशोभातिशायी,
कुनोत्कर्षाकरितरमणीविभ्रमो नर्मदायाः ।

तृतीय उल्लासः।
४
wwww
.
किञ्चतस्मिन्सुरतमुहृदस्तन्वि ते वान्ति वाताः,
येषामग्रे सरति कलिकाकाण्डकोपो मनोभूः ॥
व्यक्तोऽत्र वाच्यवैशिष्टयाद्रतार्थ प्रविशेति च ।
णोल्लेइ अणदमणा अत्ता म्हं घरभरम्हि सअलम्हि ।
खणमेत्तं जइ संझाइ होइ ण व होइ विसामो ॥
सन्ध्यासङ्केतकालोऽयं तटस्थम्पति दुःस्थया ।
कयाचिदन्यसानिध्यवैशिष्टयायोत्यते ध्रुवम् ।।
मुबइ समागमिस्सदि तुज्म पिओ अज्ज पहरमेत्तेण ।
एमे कित्ति चिट्ठसि ता सहि सज्जेसु करणिजम् ॥
अभिसर्तुञ्चोपपतिं प्रस्तुतापि निवार्यते ।
कयाचियङ्गयमेतत्तु स्यात्प्रस्तावविशेषतः ॥
अन्यत्र यूयं कुसुमावचायं,
कुरुध्वमत्रास्मि करोमि सख्यः ।
नाहं हि दुरं भ्रमितुं समर्था,
प्रसीदतायं रचितोऽअलिवः ।।
विविक्तोऽयं देश इति त्वया प्रच्छन्नकामुकः।
इहाभिसार्यतामित्य माश्वस्ताम्प्रति चोच्यते ।।
व्यज्यते व्यङ्गयमित्यैतद्देशवैशिष्टयतः स्फुटम् ।
गुरु अण परवस पिअकि भणामि तुह मंदभाइणी अहकम् ।
अज्ज पवासं वज्जसिवच्च स जेंव्व मुणसि करणिज्जम् ॥
'अत्राद्य मधुमासे चेजसि त्वं कदाचन ।
तदाहं न भविष्यामि तवावस्थान्तु वेभि नो।।
..

काव्य-प्रकाशः।
चेष्टादेरादिशब्दस्य ग्रहणादेव तद्यथा ।
द्वारोपान्तनिरन्तरें मयि तया सौन्दर्यसारश्रिया,
प्रोल्लास्योरुयुगं परस्परसमासक्तं समासादितम् ।
: आनीतम्पुरतः शिरोंऽशुकमधः क्षिप्ते चले लोचने,
वाचस्तत्र निवारितं प्रसरणं सङ्कोचिते दोलते ।।
सथात्र चेष्टयाकृतविशेषो ध्वन्यते खलु ।
प्रच्छन्नकान्तविषये प्रोल्लास्येत्यादिना क्रमात् ॥
उदाहृतेषु पद्येषु तथोदाहरणान्तरम् ।
यथायथं सम्भवति तथाप्यत्र विशेषितम् ॥
व्यञ्जनाविषये नूनं निराकाङ्क्षत्वमाप्तये ।
तत्माप्तावसरत्वेन तथोदाहियते पुनः ॥
मिथो वादिसंयोगे द्विकादीनां क्रमेण च ।
व्यञ्जकत्वमुदाहाय तथैव लक्ष्यव्यङ्गययोः ।।
वक्रबोद्धव्ययोोंगे द्विकभेद उदाहृतम् ।
अत्ता एत्थ णिमज्जइ एत्थ अहं दिअहए.पलोएहि ॥
मा पहिअ रत्ति अधिअ सेज्जाइ मह णिमज्जाहसि ।।
वक्तृबोद्धव्यवैशिष्टयाच्छय्यायामात्मनः पतेः ।
यिका नायकं वक्ति ह्येतदेवात्र व्यज्यते ॥
का०-शब्दप्रमाणवेद्योऽर्थो व्यनक्तयर्थान्तरं यतः।
अर्थस्य व्यञ्जकत्वे तच्छब्दस्य. सहकारिता ।
१०- प्रमाणान्तरवेद्योऽयों व्यञ्जको न कदाचन ।

काव्य-प्रकाशः।
चतुर्थ उल्लासः।
१०- शब्दार्थयोः प्रथमतः कृते यद्यपि निर्णयें ।
दोषाणाच, गुणानाञ्चालङ्काराणान्तथैव च ।।
स्वरूपमभिधानीयं प्राप्तावसरमप्यदः ।
तथापि काव्ये प्रथम धर्मिण्यत्र प्रदर्शिते ।
ज्ञायेत चैत्र धर्माणां हेयोपादेयता पुनः ।
टि० - यथा श्रुतिकटुत्वस्य शृङ्गारादौ तु हेयता ॥
रौद्रादौ चित्रभेदे वा तथोपादेयता मता।
शृङ्गारादावुपादेयो माधुर्यादिर्गुणः स्मृतः ।।
रौद्रादौ चानुपादेय इति काव्यविदां नयः ।
अलङ्कारोऽनुपादेयो यमकादी रसध्वनौ ।।
उपादेयश्चित्रभेदे व्यवस्थैषा कृता बुधैः । .
इत्यस्मात्कारणादेव काव्यभेदान् ब्रुवेऽधुना ॥
काव्यं ध्वनिर्गुणीभूतव्यङ्ग्यं चित्रमिति त्रिधा ।
नवमे दशमे चित्रं गुणीभूतञ्च पञ्चमे ।।
प्रदर्शयिष्यते नूनं. ध्वनिरत्रं निरूप्यते ।। :
वाच्यातिशायिनि व्यङ्गये ध्वनिः सकाव्यजीवितम् ।

पू२
काव्य-प्रकाशः।
भेदावुदीरितौ तस्य द्वावेव काव्यसूरिभिः ।
अविवाक्षितवाच्यो यो लक्षणामूलक सदा ॥
विवक्षितान्यवाच्योऽपि ह्यभिधामूलको भवेत् ।
का-अविवक्षितवाच्यो यस्तत्र वाच्यं भवेड्वनौ ।।
अर्थान्तरे सङ्क्रमितमत्यन्तं वा तिरस्कृतम् ।
टि०-गूढागूढव्यङ्ग्यभेदी लक्षणायामुदीरितौ ।।
१०- गूढव्यङ्गयस्य प्राधान्ये लक्षणामूलके तथा ।
अर्थों वाच्यः कचित्तत्र नोपयोगी भवन्पुनः॥
अर्थान्तरे परिणमेत्सुविशेषप्रकारके ।
त्वामस्मि वच्मि विदुषां समवायोऽत्र तिष्ठति ॥
आत्मीयां मतिमास्थाय स्थितिमत्र विधेहि तत् ।
अत्र चानुपयोगीनि वच्मीत्यादिपदानि तु ।।
उपदेशमदानादावर्थे परिणमन्ति हि ।
कचिच्चानुपयोगित्वादत्यन्तं वा तिरस्कृतम् ॥
उपकृतं बहु तत्र किमुच्यते,
मुजनता प्रथितां भवता परम् ।
विदधदीदृशमेव सदा सखे,
मुखितमास्स्व ततः शरदां शतम् ॥
टि०-अत्रापकारनिरते पदैरुपकृतादिभिः ।
प्रयुक्त लक्षणया विपरीताख्यया पुनः ॥
आधिक्यमपराधस्य प्रकटीक्रियते खलु ।
नैजमर्थमिति त्यक्तं तदुदाहरणे पदैः ।।

चतुर्थ उल्लासः।
५३.'
का-विवक्षितञ्चान्यपरं वाच्यं यत्रापरस्तु सः।
कोऽप्यलक्ष्यक्रमव्यङ्गयो लक्ष्यव्यङ्ग्यक्रमः परः॥
टि०-तत्राद्यो रसभावादिरेक एवात्र गण्यते ।
एकोऽपि भेदोऽनन्तत्वात्संख्येयस्तस्य नैव यत् ।।
केचिद्विभावादीनेव रसत्वेनामनन्ति हि ।
वृ०-विभावाश्चानुभावाश्च तथैव व्यभिचारिणः ॥
न कदापि रसः किन्तु रसस्तरिति वै क्रमः ।
स च लघुक्रियासत्वाकेनचिन्नैव लक्ष्यते ।
टि.- इत्यलक्ष्यक्रमव्यङ्ग्यो नाक्रमः स कदाचन ।
का० -रसभावतदाभासभावशान्त्यादिरक्रमः ॥
वृ०- भावोदयो भावसन्धिर्भावशावल्यमेव च ।
अत्रादिग्रहणाज्ज्ञेया आलङ्कारिकसम्मताः॥
प्राधान्येन स्थितो यत्र रसादिस्तत्र सर्वदा ।
अलङ्कार्य इति ज्ञेय आत्मा काव्यस्य स स्मृतः ।।
प्रधाने खलु वाक्याथें यत्राङ्गञ्च रसादयः ।
काव्ये तस्मिन्बलङ्कारो रसादिरिति कथ्यते ।।
रसवत्मेय ऊर्जस्वित्समाहित इति क्रमाव ।
अलङ्कारा गुणीभूतव्यङ्गयभेद उदाहृताः॥
टि.- को रसो हीत्यपेक्षायां तस्वरूपः प्रकाश्यते ।
का०-कारणान्यथ कार्याणि सहकारीणि यानि च ॥
रत्यादेःस्थायिनोलोकतानि चेन्नाटयकाव्ययोः।

५४
काव्य-प्रकाशः।
-~~-~~~
विभावाअनुभावाश्च कथ्यन्तेव्यभिचारिणः॥
व्यक्तःस तैर्विभावायैः स्थायीभावोरसःस्मृतः।
टि०-न्यस्यति निजमतपुष्टौ श्रीभरताचार्यनिर्मितं सूत्रम् ।
१०- “विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः ॥"
टि o-एतस्य व्याख्यारूपेण येन यन्मतमामतम् ।
रसगङ्गाधरात्तत्तंदुधृत्यात्र विलिख्यते ॥
उत्तमक्रममाश्रित्य सौकर्य च यथा भवेत् ।
सर्वप्रथमतो नून नाटकाभिनयेन वै ॥
आनन्दमनुभूयैव निश्चिकाय च दर्शकः ।
'रसो विभाव एव स्याद्भाव्यमानो निरन्तरम् ॥'
नाटकानन्तरं किन्तु चेष्टाविरहितं नरम् ।
विलोक्यापि रसस्यात्र नानुभूतिर्भवोदति ॥
इतरे तु वदन्तीत्थ ' मनुभावस्तथा तथा ।'
काले किन्त्वतिरिक्ते हि विभावमनुभावकम् ॥
विलोक्य नैवानुभवो रसस्यातो न लक्षणंम् ।
कोचिच 'व्यभिचार्येव तथा परिणमे' दिति ॥
एषु सूत्रविरोधाद्वै न व्याख्या सम्भवोदिति ।
न कृता केनचित्पूर्वमित्यतो नोद्धृतात्र च ॥
विलोक्यापि विभावादीन्न रसानुभवः काचेत् ।
तदित्यं हि प्रकर्तव्या व्याख्या सूत्रस्य सम्मता ।।
विभावस्यानुभावस्य तथैव व्याभिचारिणः ।
संयोगात्सुचमत्काराद्रसनिष्पत्तिरुच्यते ॥

चतुर्थ उल्लासः।
५५.
इति सूत्रं समाख्याय वंदन्ति बहवः पुनः ।
"त्रिषु यो वे चमत्कारी स रसः" परिगीयते ।।
"अन्यथा न त्रयोऽपि स्यु' रित्येव सुन्दरं मतम् ।
व्याघ्रादयो विभावाहि यथा सन्ति भयानके ॥..
रौद्रे वारेऽद्भुतें चापि सम्भवन्ति तथैव ते ।
शृङ्गारस्यानुभावा वै ह्यश्रुपातांदयो यथा ।।
भयानकरसस्यापि करुणस्यापि सम्भवेत् ।
शृङ्गार इव मन्तव्या करुणे च भयानके ॥
वीरे रसे च विद्वद्भिश्चिन्ताद्या व्यभिचारिणः ।
'त्रिषु यो वै चमत्कारी स एव रसनामभाक् ।।
इति चेत्करुणस्थाने शृङ्गारास्वादनं ध्रुवम् ।
तस्माद्व्याख्यायतामित्थं सूत्रमित्यपरे जगुः !!.
'विभावादेहि संयोगात्समुदायात्तथैव च । '.
मेलनाद्वापि विज्ञेयो रसनामाह्यलौकिकः ॥'
'विभावादय एव स्यू रस' इत्येव लक्षणम् ।
नैते रसः किन्तु रसस्तैरिति प्रतिपादितम् ।
अनन्तरं सूत्रमेतद्वंयाचख्यौ भट्टलोल्लुटः ।
'विभावादेहि संयोगात्सम्बन्धादेव जायते ॥
रसस्य स्थायिभावादेनिष्पत्तिरिह मुख्यतः ।
आरोपः क्रियते विनटे' इत्येव सुन्दरम् ।
एतद्विवृण्वते सम्यक् प्रकारेण यथा शृणु ।

५६
काव्य-प्रकाशः।
वृ०- आलम्बनविभावस्तु ललनादिभिरेव च ।
स्थायी रत्यादिको भावो जनितः प्रथमं ततः॥
उद्दीपनविभावैश्च चन्द्रोद्यानसमीरणैः ॥
उद्दीपितोऽथानुभावैर्भूभुजाक्षपणादिभिः ।
कृतः प्रतीतियोग्यश्च पोषितो व्यभिचारिभिः ।।
निर्वेदादिभिर प्यत्र कारणैः सहकारिभिः ।
रामादावनुकार्ये तु वृत्त्यैव मुख्यया पुनः ।।
तद्रूपतानुसन्धानानतके ऽपि तथैव च ।
रसः प्रतीयमानोऽसौ सामाजिक महोदयः।।
टिक-नटे त्वारोप्यमाणा सा रतिरेव रसः स्मृतः ।
श्रीशङ्ककमतेनैतत्कदाचिदपि सम्भवेत् ॥
नटे हि नायकस्यापि तद्गतस्य रसस्य वा ।
आरोपे तदसम्बन्धान रसानुभवः कचित् ॥
एवं व्याख्या यदि भवेत्सौकर्य जायते ततः ।
'अकृत्रिमेण रूपेण गृहीतः कृत्रिमैरपि ॥
विभावाद्यैश्च संयोगादनुमानाद्रसस्य वै ।
रत्यादेः स्थायिभावादेर्जायतेऽनुमितिनटे ।।
रसो नायक एव स्यानटे चैवानुमानतः ।
विशदीक्रियते चैतदुदाहरणतोऽधुना ।
१०- 'राम एवायमिति च तथा रामोऽयमेव च।।
एतादृशी या प्रतीतिः सा सम्यक् परिगीयते ।।

५७
चतुर्थ उल्लासः।
अयं न राम इत्यत्र बाधे चोत्तरकालिके ।
रामोऽय मिति या बुद्धिः सा मिथ्या परिकीर्तिता ॥
रामः स्याद्वा नवायं स्यादिति संशयिणी मतिः ।
रामस्य सदृशोऽयं सा बुद्धिः सादृश्यगाहिनी ॥
एताभ्यः सुप्रसिद्धाभ्यः मुविलक्षणया पिया ।
चित्रे यथायं तुरगस्तथा रामोऽयमेतया ॥
प्रतिपत्त्या नटे ग्राह्ये पक्षभूते तथा नटे ॥
सेयं ममाङ्गेषु मुधारसच्छटा,सुपूरकर्पूरशलाकिका दृशोः।
मनोरथ श्रीर्मनसःशरीरिणी,प्राणेश्वरीलोचनगोचरंगता।।
दैवादहमत्र तया चपलायतनेत्रया वियुक्तश्च ।
अविरलविलोलजलदः कालः समुपागतश्चायम् ॥
इति काव्यानुसन्धानबलाच्छिक्षादिसाधनैः ।
निवर्तितस्वकार्यप्रकटनेन नटेन वै॥
प्रकाशितैः कृत्रिमैस्तैरपि किन्तु सभास्थितैः ।
अकृत्रिमेण रूपेण मन्यमाननिरन्तरम् ॥
लोके च कारणैः कार्येस्तथैव सहकारिभिः ।
विभावादिपदज्ञेयः कारणैः काव्यवर्णितः ॥
संयोगाद्गम्यगमकभावरूपात्सहात्र वै ।
सदानुमीयमानोऽपि सामाजिकमहोदयः ।।
सद्वस्तुसौन्दर्यबलाद्रसनीयतया पुनः ।
अन्यानुमीयमानेन पदार्थेन विलक्षणः ॥
.

६०
काव्य-प्रकाशः।
यो हि रत्यादिको भावः स्थायिभावाभिधानवान ।
तथा स्थितोऽपि नियतः प्रमातृगतभावतः ।।
साधारणोपायबला (द्विभावाचभिधावताम् )।
तत्काललुप्तनियतप्रमातृत्ववशेन च ॥
जातो, वेद्यान्तरस्पर्श-शून्योऽपरिमितस्तथा ।
भावो यस्यैतादृशेन प्रमात्रा ( कर्तृभूततः )॥
सर्वेषां हृदयानाश्च समानानुभवेन वै ।
साधारण्यन स्वाकार इवाभिन्नो ऽपि सर्वदा ।।
गोचरीकृत, एको ऽस्य प्राणश्चर्वणता पुनः ।
एवं विभावादीनां च स्थितो यो जीवितावधिः॥
प्रपानकरसन्यायाचर्यमाणो निरन्तरम् ।
परिस्फुरंन्निव पुरो हृदयं प्रविशन्निव ।।
सर्वाङ्गीणमिवालिङ्गन्नन्यत्सर्वं तिरोदधत् ।
तथा ब्रह्मास्वादमिव सर्वदैवानुभावयन् ॥
अलौकिकचमत्कारकारी स रस नामभाक् ।
टि-आवृतं मम्मटैरत्र चिद्विशिष्टा रती रसः ।।
अस्ति प्रचलिताचात्रार्वाचीनानां मतद्वयी।
मते हि प्रथमे तत्र व्यञ्जनारूपतः स्थितः ।
रत्यादिः स्थायिभावः स सम्भवेन्न रसः कचित् ।।
संयोगाद्धि विभावादेर्भावनारूपदोषतः ।
भवेद्रसस्य निष्पत्तिः किन्तु नैतन्मतं मतम् .

Ru- चतुर्थ उल्लासः। द्वितीये चैव संयोगाद्भमान्निष्पत्तिरुच्यते | परंः पण्डितराजस्य मतमेतद्विलोक्यते ॥ 'चिदेव स्थाय्यवच्छिन्ना चेद्भग्नावरणा रसः ।' अतः सङ्गच्छते नूनं "रसो वै स" इति श्रुतिः ।। तथैव "रसमेवायं लब्ध्वानन्दी भवेदिति ॥" 'चिदेव रत्यवच्छिन्ना चिद्विशिष्टा रतीरसः ।' अत्र साहित्यसंसारे मतानैक्यं न विद्यते ।। वृ०-विभावादिविनाशेऽपि सम्भवस्य प्रसङ्गतः । न स कार्यों, नवा ज्ञाप्यः सिद्धस्यासम्भवात्पुनः विभावाद्यैर्व्यजितो यश्चर्वणीयोऽपि तु स्मृतः । कारकज्ञापकाभ्याञ्चेत्कुत्रान्यत्रावलोकतम् ।। इति प्रश्ने समुत्पन्ने न कचिदृष्टमित्य हो । अलौकिकत्वमेतस्य भूषणं न तु दूषणम् ॥ तस्य चर्वणनिष्पच्या निष्पत्तिरुपचारतः । इति कार्योऽप्युच्यतां स विभावादेः कथञ्चन ।। तथात्र लौकिकं ज्ञानं प्रत्यक्षादिकमेव च । यच्च प्रमाणताटस्थ्यावबोधशालिनां स्मृतम् । युआनपदवाच्यानां ज्ञानं हि मितयोगिनाम् ॥ तथा वेद्यान्तरस्पर्शशून्यं स्वात्मनि केवलम् ॥ सदैव पर्यवसितं यन्मितेतरयोगिनाम् । ज्ञानञ्च, त्रिभ्य एतेभ्यो ज्ञानेभ्यस्तु विलक्षणम्

काव्य-प्रकाशः।
.
अतो लोकोत्तरं, तस्य स्वसंवेदनगोचरः।
इत्यनेन प्रकारेण स ज्ञाप्योऽप्यभिधीयताम् ॥
विभावादिपरामर्शप्रधानत्वान्नवा पुनः ।
तद्ग्राहकं प्रमाणञ्च सम्भवोनिर्विकल्पकम् ॥
अलौकिको ऽयमानन्दस्तन्मयस्य रसस्य वै
प्रपानकरसस्येव चय॑माणस्य सर्वदा ॥
स्वसंवेदनसिद्धत्वान्न पुनः सविकल्पकम् ।
उभयाभावरूपस्य चोभयात्मकता पुनः ।।
'सदैव लोकोत्तरतां गमयत्येव पूर्ववत् ।।
टि०- रसो मतश्च नो नित्यः पूर्वसंवेदनोज्झितः ।
असंवेदनकाले च भावोऽप्यस्य न विद्यते ॥
न चानादिरनन्तोऽयमनित्यः सम्भवेदसः ।
अस्य भानमभानञ्च चर्वणावशतः परम् ॥
नापि भविष्यत्साक्षादानन्दमयप्रकाशरूपत्वात् ।
कार्यज्ञाप्यविलक्षणभावान्नो वर्तमानोऽपि ॥
मन्यते विबुधैर्नैव साक्षात्कारतया पुनः ।
परोक्षस्तत्प्रकाशो नापरोक्षः शब्दसंश्रयात् ।।
तस्मादलौकिकः सत्यं वेद्यः सहृदयैरयम् ।
रसानुभूतेरेतावान् क्रमोऽयं परिदर्शितः ॥
किं न प्रतिविभावादि रसव्यञ्जकताः मता ।

चतुर्थ उल्लासः।
वृ०- व्याघ्रादयो विभावा हि यथा सन्ति भयानके ॥
वीरे रौद्रेऽद्भुते वापि सम्भवन्ति तथैव ते ।
शृङ्गारस्यानुभावा वै ह्यश्रुपातादयो यथा ।।
भयानकरसस्यापि करुणस्यापि सम्भवेत् ।
शृङ्गार इव मन्तव्या करुणे च भयानके ।
वीरे रसे च विद्वद्भिश्चिन्ताद्याव्यभिचारिणः ।।
प्रत्येकस्य व्याकवे स्याध्रुवं व्याभिचारिता ।
सूत्रेऽतो मिलिता एव निर्दिष्टा न पृथग् यथा ॥
वियदलिमलिनाम्बुगर्भमेघ,
मधुकरकोकिलकूजितैर्दिशां श्रीः।
धरणिरभिनवाङराङ्कटङ्का,
प्रणतिपरे दयिते प्रसीद मुग्धे ।
टि०-मुग्धामेघादिरूपाणां विभावानां हि केवलम् ।
परिमृदितमृणालीमानमङ्ग प्रवत्तिः, .
कथमपि परिवारप्रार्थनाभिः क्रियासु ।
कलयति च हिमांशोर्निष्कलङ्कस्य लक्ष्मी-
मभिनवकरिदन्तच्छेदकान्तः कपोलः ॥
टि०- केवलं ह्यनुभावानामग्लान्यात्मनां तथा ।
१०- दुरादुत्सुकमागते विवलितं सम्भाषिणि स्फारितं,
संश्लिष्यत्यरुणं गृहीतवसने किञ्चाञ्चितभूलतम् ।
५

६४
काव्य-प्रकाशः।
x
x
x
मानिन्याश्चरणानतिव्यतिकरे वाष्पाम्बुपूर्णेक्षणं,
चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि ।।
टि०-वीडोत्सुक्यादिरूपाणां केवलं व्यभिचारिणाम् । :
वृ०- यद्यप्यत्र स्थिति या साधारण्यात्तथापि च ।।
सद्भावश्चेद्विभावादेर्द्वयोरेकस्य वा भवेत् ।
झटित्यन्यसमाक्षेपे स्यान्नैकान्तिकता तदा ॥
टि०- चत्वारोऽष्टौ नव तथा दश द्वादश वा पुनः ।
मता विबुधवय्यस्तु रसभेदाः पृथक् पृथक् ।।
पुरा चाग्निपुराणेऽपि व्यासदेव उवाच ह ।
"अक्षरं ब्रह्म परमं सनातनमजं विभुम् ।
वेदान्तेषु वदन्त्येकं चैतन्यं ज्योतिरीश्वरम् ।।
आनन्दः सहजस्तस्य व्यज्यते स कदाचन ।
व्यक्तिः सा तस्य चैतन्यचमत्काररसादया ॥
आद्यस्तस्य विकारो यः सोऽहंकार इति स्मृतः
ततोऽभिमानस्तत्रेदं समाप्तं भुवनत्रयम् ॥
अभिमानातिः सा च परिपोषमुपेयुषी ।
व्यभिचार्योदिसामान्याच्छृङ्गार इति गीयते ॥
तद्भेदाः काममितरे हास्यांद्या अप्यनेकशः ।
स्वस्वस्थायिविशेषोत्थपरिपोषस्वलक्षणाः ।।
सत्त्वाहिगुणसन्तानाजायन्ते परमात्मनः ।
रागाद्भवति शृङ्गारो रौद्रस्तक्ष्ण्यात्प्रजायते ॥

चतुर्थ उल्लासः।
६५.
वीरोऽवष्टम्भजः सङ्कोचभूभित्स इष्यते ।
शृङ्गाराज्जायते हासो रौद्राच्च करुणो रसः ॥
वीराबाद तनिष्पत्तिः स्याद्वीभत्साद्भयानकः ।
शृङ्गारहास्यकरुणरौद्रवीरभयानकाः ॥
बीभत्साद्भुतशान्ताख्याः स्वभावाच्चतुरो (१) रसाः" ।
'तद्भेदाः काममितर' इत्यनेन प्रतीयते ॥
शृङ्गार एव रसराड् व्यासदेवेन पुष्यते ।
"ये सत्त्वजाः स्थायिन एव चाष्टौ,
त्रिंशत्रयो.वै व्यभिचारिणश्च ।
एकोनपञ्चाशदमी हि भावाः,
युक्त्या निबद्धाः परिपोषयन्ति |
आलस्यमोग्यं मरणं जुगुप्सा,
तस्याश्रयाद्वैतविरुद्धमिष्टम् (१)।"
'वीराद्भुतादिषु च येह रसप्रसिद्धि,
सिद्धा कुतोऽपि वटयक्ष इवाविभाति ॥
लोके गतानुगतिकत्ववशादुपेता,
मेतां निवर्तयितुमेष परिश्रमो नः ।
शृङ्गारवीरकरुणाभुतहास्यरौद्र,
बीभत्सवत्सलंभयानकशान्तनम्राः ॥
'आम्नासिषुर्दश रसान् सुधियो वयन्तु
शृङ्गारमेव रसनाद्रसमामनामः ।"
दृष्टौ विद्याधरस्येतावकावल्यां समदधती ।।
।

काव्य-प्रकाशः।
उत्तरे रामचरिते भवभूतिविशिष्यते ।
"एको रसः करुण एव निमित्तभेदा-
द्भिन्नः पृथक् पृथागवाश्रयते विवर्तान् ॥
आवर्तबुबुदतरङ्गमयान्धिकारा-
नम्भो यथा सलिलमेव तु तत्समग्रम् ।"
यमामनन्ति करुणविप्रलम्भं रसं बुधाः ।
करुणे हेमचन्द्रस्तु ह्यन्तर्भावयति स्फुटम् ।।
"रसे सारश्चमत्कारः सर्वत्राप्यनुभूयते ।
तच्चमत्कारसारत्वे सर्वत्राप्य तो रसः ।।
तस्मादद्भुतमेवाह कृती नारायणो रसम् ।"
उद्धृत्य वृद्धवचनं धृतं साहित्यदर्पणे ॥
'यः संस्कार श्चमत्कारी स एव रसनामभाक्' ।
तच्चमत्कारसारत्वे सर्वेषामदभुतः कथम् ॥
"स्वं स्वं निमित्तमासाद्य शान्तादुत्पद्यते रसः ॥
पुनर्निमित्तापाये तु शान्त एव प्रलीयते ।"
आलोकलोचने चैतल्लोचनाभ्यां विलोकितम् ।
'शान्तोऽपी' त्यफिशब्देन कथञ्चित्स्वीकृतस्तु यः ॥
तथोज्ज्वले नीलमणी जीवगोस्वामिनो मतम् ।
"मुख्यरसेषु पुरा यः संक्षेपेणोदितो रहस्यत्वात् ।
प्रथमवेव भक्तिरसराट् स विस्तरेणोच्यते मधुरः ॥"
रति देवादिविषयां भावं यां विबुधा जगुः ।

चतुर्थ उल्लासः।
Wwwm
"एक एव भवेदङ्गी शृङ्गारो वीर एव वा ।
अङ्गमम्ये रसाः सर्वे" नाव्ये द्वौ मुख्यतो रसौ ॥
तत्करुणप्रधानेऽपि युत्तरे चरिते पुनः ।
शृङ्गारभेदः करुणविनलम्भरसो मतः ॥
नागानन्दं शान्तरसप्रधानं नाटकं तथा ।
वीरभेदं दयावीरप्रधानमा मनन्ति च ॥
धनञ्जयमतश्चापि लिखितं दशरूपके ।
"स्वादः काव्यार्थसम्भेदादात्मानन्दसमुद्भवः ।
विकासविस्तरक्षोभविक्षेपः स चतुर्विधः ।।
शृङ्गारवारबीभत्सरौद्रेषु मनसः क्रमात् ।
हास्याद्भुतभयोत्कर्षकरुणानां त एव हि ॥
अतस्तजन्यता तेषामत एवावधारणम् ।"
तथा श्रीमाभट्टः शृङ्गारतिलके पुनः ॥
मङ्गलाचरणव्याजात्संख्याति च रसान्नव ॥
"शङ्गारी गिरिजानने सकरुणो रत्यां प्रवीरः स्मरे,
बीभत्सोऽस्थिभिरुत्फणी च भयकृन्माद्भतस्तुङ्गया ।
रोद्रो दक्षविमर्दने च इसकृन्नग्नः प्रशान्तश्विरा-
दित्थं सर्वरसाश्रयः पशुपतिर्भूयात्स वो भूतये ॥"
साहित्यदर्पणे नूनं रसा दश सवत्सलाः ।
श्रीकृष्णवर्णनमिषाच्छीमद्भागवते पुनः ।।
तोषिण्याञ्च रसाः प्रोक्ता दश वा यधिका दर्श।

काव्य-प्रकाशः।
"मल्लानामशनिर्गुणां नरवरः स्त्रीणां स्मरो मूर्तिमान्,
गोपानां स्वजनोऽसतां क्षितिभुजां शास्ता स्वपित्रोः शिशुः ।
मृत्यु जपतेर्विराडविदुषां तत्वं परं योगनां,
वृष्णीनां परदेवतेति विदितो रङ्गं गतः साग्रजः ॥"
मल्लानामशनिश्चात्र रौद्रः क्रोधोदयाद्रसः ।
नृणां नरवरश्चात्र विलासोदयतोऽभुतः ।।
मूर्तिमान्स्मर इत्यत्र शृङ्गार इति गीयते ।
संख्योऽपि स्वजने होस्यो मदबिन्दुविलोकने ।
शास्तेति वीरः कथितो वत्सलोऽपि शिशोः स्मृतः ।
आशङ्कयात्र मल्लानां मतो वा कसैंणो रसः॥
भयानको मृत्युरत्र बीभत्सश्च विराडिति ।
गजस्य रुधिराक्तत्वा, च्छान्तस्तत्वं परं गतः ॥
देवतेति च भक्तिश्च दास्यश्चेति रसा दश ।
प्रमाणे श्लोकमुद्धृत्य केचिद्दशजगुर्यथा ॥
"रौद्रादभुतशृङ्गारो हास्यो वीरश्च करुणश्च ।
सभयानकबीभत्सः शान्तो नवमोऽन्तिमो भावः ॥"
केचित्पुनर्बदन्तीत्थं रसा'द्वादश एव
"रौद्राभुतः शुचिरथो धृतंसख्यहास्यो,
वीरोऽथ वत्सलयुतः करुणो भयाङ्कः ।
बीभत्ससंज्ञ उदितोऽथ तथैव,शान्तः--
सप्रेमभक्तिरिति ते द्वयधिकाः दश स्युः ॥
ते ।

चतुर्थ उल्लासः।
भोजराजमतेऽप्येवं सुकण्ठाभरणे पुनः ।
रसा द्वादश :विज्ञेयाः प्रेयोदान्तोद्धतैः सह ..
मम्मटानां मते किन्तु नाट्ये त्वष्टौ रसा यथा ।
का०-शृङ्गारहास्यकरुणरौद्रवीरभयानका.
बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाटये रसाः स्मृताः
टि०- नानाभिनयसम्बन्धीद्भावयन्ति रसानमून् ।
तस्माद्भावा अमी प्रोक्ताः स्थायिसंञ्चारिसात्विकाः ॥
"विरुद्धा आविरुद्धा वा. यं तिरोधातुमक्षमाः ।
आनन्दाङ्कुरकन्दोऽसौ भावः स्थायिपदास्पदम् ॥"
१०- रतिर्हासश्च शोकश्च क्रोधोत्साही भयं तथा ।
जुगुप्सा विस्मयश्चेति स्थायिभावाः प्रकीर्तिताः ।।
टि०- रत्याधुबोधका लोके विभावा काव्यनाटययोः ।
आलम्बनोद्दीपनाख्यौ तस्य भेदावुभौ स्मृतौ ॥
आलम्बन नायकादिर्यमालम्ब्य रसोद्गमः ।
"त्यागी कुलीनः कुशलो रतेषु,
:: कल्पः कलावित्तरुणो धनाढ्यः ।
भव्यः क्षमावान्सुभगोऽभिमानी, .
स्त्रीणामभीष्टस्त्विह नायकः स्यात् ॥”
"धीरोदात्तो धीरोद्धतस्तथा धीरललितश्च ।
धीरप्रशान्त इत्ययमुक्तः प्रथमश्चतुर्भेदः ॥
एमिर्दक्षिणधृष्टानुकूलशठरूपिभिश्च षोडशधा ।
एषाञ्च त्रैविध्यादुत्तममध्याधमत्वेन ॥

काव्य-प्रकाशः ।
उक्ता नायकभेदाश्चत्वारिंशत्तथाष्टौ च ।"
शृङ्गारेऽस्य सहाया विटचेटविदूषकाद्याः स्युः ।
भक्ता नर्मसु निपुणाः कुपितवधूमानभञ्जनाः शुद्धाः ।।
स्वकीया परकीया च सामान्यवनिता तथा ।
कलाकलापकुशलास्तिस्रस्तस्यह नायिकाः ।।
मुग्धा मध्या प्रगल्भा च स्वकीया त्रिविधा मता ।
अधीरा च तथा धीरा धीराधीरोत षड्विधे ।
मध्याप्रगल्भे भवतः मुग्धा नैव कदाचन ।।
मध्या पुनः प्रगल्भा च द्विधा सा परिभिद्यते ।
एका ज्येष्ठा कनिष्ठान्या नायकप्रणयम्प्रति ।
मध्या प्रगल्भयोर्भेदास्तस्माद्वादश कीर्तिताः ।
मुग्धा त्वकैव तेन स्युः स्वीयाभेदास्त्रयोदश ।।
परकीया द्विधा प्रोक्ता परोढा कन्यका तथा ।
एका कलाप्रगल्भा स्याद्वेश्या सामान्यनायिका ।।
अवस्थाभिर्भवन्त्यष्टावताः षोडशभेदिताः ।
स्वाधीनपतिका तद्वत् खाण्डिताथाभिसारिका ।
कलहान्तारता विप्रलब्धा प्रोषितभर्तृका ।
एवं वासकसज्जा स्याद्विरहोत्कण्ठिता लथा ।।
पुनश्च तास्त्रिधा सर्वा उत्तमा मध्यमाधमा ।
इत्थं शतत्रयं तासामशीतिश्चतुरुत्तरा ॥
नहि कविना परदारा एटल्या नापि चोपदेष्टव्याः ।
कर्तव्यतयान्येषां न तदुपायो ऽभिधातव्यः ।।

७१
चतुर्थ उल्लासः।
किन्तु तदीयं वृत्तं काव्याङ्गतया स केवलं वक्ति ।
आराधार्यतुं विदुषस्तेन न दोषः कवेरत्र ।
उद्दीपनविभावास्ते रसमुद्दीपयन्ति ये ।
आलम्बनगुणश्चैव तच्चेष्टा तदलकृतिः ॥
तटस्थश्चेति विज्ञयश्चतुर्थोद्दीपनक्रमः ।
आलम्बनगुणो रूपयौवनादिरुदाहृतः ।।
तचेष्टा यौवनोदभूतहावभावादिका मताः ।
नपुराङ्गदहारादि तदलङ्करणं विदुः ॥
मलयानिलचन्द्राद्यास्तटस्थाः परिकीर्तिताः ।
उद्बुद्धं कारणैः स्वैः स्वैबहिर्भाव प्रकाशयन् ॥
लोके यः कार्यरूपः सोऽनुभावः काव्यनाव्ययोः ।
कायिको वाचकश्चैव ह्याहार्यः सात्विकस्तथा ॥
अनुभावश्चतुर्थोक्तः काव्यशास्त्रविशारदैः ।
कायिकोऽभिनयादिः स्याद्वाचिको वचनादयः ।।
आहार्यश्च भवेन्नूनमलङ्कारादिसम्भवः ।
१०- स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गोऽय वेपथुः ।
वैवर्ण्यमश्रुः प्रलय इत्यष्टौ सात्विकाः स्मृताः ।।
टि०- विशेषादाभिमुख्येन चरन्तो व्यभिचारिणः ।
स्थायिन्युन्मग्ननिर्मग्नास्त्रयस्त्रिंशच्च तद्भिदाः ॥
वृ०- निर्वेदग्लानिशङ्काख्यास्तथासूयामदश्रमाः ।
आलस्यञ्चैव दैन्यंञ्च चिन्ता मोहः स्मृति तिः ॥

७२
काव्य-प्रकाशः।
.
व्रीडा चपलता हर्ष आवेगो जडता तथा ।
गर्वो विषाद औत्सुक्यं निद्राऽपस्मार एवं च ।।
स्वप्नः प्रबोधोऽमर्षश्चाप्यवहित्थमथोग्रता ।
मतिाधिस्तथोन्मादस्तथा मरणमेव च ॥
त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः ।
त्रयस्त्रिंशदमी भावाः समाख्यातास्तु नामतः ।।
टि०-भानू रसतरङ्गिण्यां वेद तर्क चतुर्विधम् ।
विचारात्मक इत्येको द्वितीयः संशयात्मकः ।।
तथानध्यवसायात्मा तृतीयस्तर्क उच्यते ।
तुर्यो विप्रतिपत्त्यात्मा मन्यते विबुधोत्तमैः ॥
मात्सर्यञ्च तथाद्वेगो दम्भ ईर्ष्या विवेककः ।
निर्णयश्च तथा क्लैब्यं क्षमा च कुतुकस्तथा ॥
उत्कण्ठा विनयश्चैव संशयो धृष्टता तथा ।
छलमेतेऽधिका भावा गण्यन्ते व्यभिचारिषु ।।
न मन्तव्या कदाचित्ते जगन्नाथो जगाद ह ।
असूयायाञ्च मात्सर्थ त्रासे हयुद्योगं एव च ॥
मतविव विलीयते विवेकनिर्णयों तथा ।
दैन्ये क्लैब्यं. क्षमा धृत्यां लजायां विनयस्तथा ।
औत्सुक्ये कुतुकोत्कण्ठे तर्के संशय एव च ।
चापल्ये च तथा धांष्टयमन्तर्भवितुमर्हति ॥
रत्यादयोऽप्यनियते रसे स्वुभिचारिणः ।
शृगौरवीरयोहासो वारे क्रोधस्तथा मतः ।।

चतुर्थ उल्लासः।
७३
शान्ते जुगुप्सा कथिता व्यभिचारितया पुनः ।
१०- सम्भोगो विप्रलम्भश्च शृङ्गारों द्विविधो मतः ।
अयोगोऽपि तृतीयोऽत्र धनञ्जयमते मतः ।।
टि०- विलीयतेऽभिलाषे हि पूर्वरागात्मके स तु ॥
अन्योन्यस्य सचित्तावनुभवतो नायकौ यदिद्धमुदौ ।
आलोकनवचनादिः सर्वः सम्भोगशृङ्गारः ॥
उक्तोऽयमेक एव हि चुम्बनपरिरम्भणादिबहुभेदात् ।
स पुनर्नाथिकारब्धो. नायकारब्ध एव च ।।
वृ०-शून्यं वासगृह विलोक्य शयनादुत्थाय किञ्चिच्छनैः,
निद्राव्योजमुपागतस्य मुचिरं निर्वर्ण्य पत्युमुखम् ॥
विस्रब्धं परिरभ्य जातपुलकामालोक्य गण्डस्थली,
लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥
टि-आलम्बनं नायकोऽत्र शून्यमुद्दीपनं गृहम् ।
अनुभावश्चुम्बनादिर्लजाद्या व्यभिचारिणः ॥
एतैर्व्यक्ता रति: स्थायिभावोऽत्र रस ईर्यते ।
तथैव नायकारब्धो रक्ता चेन्नायिका यथा ॥
वृ०-त्वं मुग्धाक्षि, विनैव कञ्चुलिकया धत्से मनोहारिणी,
लक्ष्मीमित्यभिधायिनि प्रियतमे तद्वीटिकासंस्पृशि ।
शय्योपान्तनिविष्टसस्मितसखीनेत्रोत्सवानन्दितो,
निर्यातः शनकैरलीकवचनोपन्यासमालीजनः ।।

काव्य-प्रकाशः।
टि०-नायिकालम्बनं नेत्रकान्तिरुद्दीपनं मतम् ।
प्रन्थिमोचनमप्यत्र ह्यनुभावः प्रकीर्तितः ॥
उत्कण्ठादिश्च विज्ञेयो व्यभिचारी निरन्तरम् ।
भावो यदा रति म प्रकर्षमाधिगच्छति ।
नाधिगच्छति चाभीष्टं विप्रलम्भः स उच्यते ॥
न विना विप्रलम्भेन सम्भोगः पुष्टिमश्नुते ।
कषायिते हि वस्त्रादौ भूयाब्रागो विवर्धते ।।
एकस्मिन् शयने पराङ्मुखतया वीतोत्तरं ताम्यतो,
रन्योन्यस्य हृदि स्थितोऽप्यनुनये संरक्षतोगौरवम् ।
दम्पत्योः शनकैरपाङ्गचलनानिमश्रीभवचक्षुषोः,
यः प्रेमातिशयः स पण्डितमते स्याद्विप्रलम्भो रसः ।।
१०- स चाभिलाषहेतुश्च तथा विरहहेतुकः ।
तथेहेतुकश्चापि प्रवासहेतुकः पुनः ।।
शापहेतुक इत्येवमुक्तः पञ्चविधो बुधैः ।
टि०-धनञ्जयमते नूनं विप्रलम्भो ऽभिधीयते ॥
"मानप्रवासभेदेन द्विधाऽऽद्यः प्रणयेय॒योः ।
कार्यतः सम्भ्रमाच्छापात्प्रवासोऽपि भवेत्रिधा ॥"
वाग्मट्टस्त्वभिलाषं च तृतीयं मनुतेऽधिकम् ।
"पूर्वानुराममानाख्यप्रवासकरुणात्मना ।
विप्रलम्भाभिधानोऽयं
शृङ्गारः स्वाचनुर्विधः ।
याटस्य पम्यान कविरामः पुनर्वगी।
'अमिलाकः पूर्वरोग ई माने विलीयते ।

चतुर्थ उल्लासा।
शापः प्रवासे विरहः करुणे विप्रलम्भके ।'
विवर्तिते क्रमे किन्तु भट्टपादो विशिष्यते ॥
"आदावभिलाषः स्याच्चिन्ता तदनन्तरं ततः स्मरणम् ।
तदनु च गुणसङ्केतिनमुद्रेगोऽथ प्रलापश्च ॥
उन्मादस्तदनु ततो व्याधिर्जडता ततस्ततो मरणम् ।
इत्थमसंयुक्तानां रक्तानां दश दशा ज्ञेयाः ।।
आभिलाषः स्पृहा तत्र कान्ते सर्वाङ्गसुन्दरे ।
यथोदाद्वियते चैव पूर्वरागापराभिधः ।।
१०- प्रेमाः प्रणयस्पृशः परिचयादुद्गादरागोदया-
स्तास्ता मुग्धदृशो निसर्गमधुराश्चेष्टा भवेयुर्मयि ।
यास्वन्तःकरणस्य बाह्यकरणव्यापाररोधिक्षणा-
दाशंसापरिकल्पितास्वपि भवत्यानन्दसान्द्रोदयः ॥
टि०-आलम्बनं मालतीह स्मृतिरुद्दीपनं मतम् ।
आशंसात्रानुभावश्च ह्युत्कण्ठा व्यभिचार्यपि ॥
एभिर्व्यक्तः स्थायिभावो रतिरेव भवेद्रसः ।
विरहो यश्च करुणविप्रलम्भात्मना स्थितः ॥
१०- अन्यत्र बजतीति का खलु कथा नाप्यस्य ताहा मुहृद,
यो मां नेच्छति नागतश्च हहहा कोऽयं विधेः प्रक्रमः ।
इत्यल्पेतरकल्पनाकवलितस्वान्ता निशान्तान्तरे,
बाला वृत्तविवर्तनव्यतिकरा नाप्नोति निद्रां निशि ॥
टि-अनागतपतिस्त्वत्र ह्यालम्बनविभावकः ।
उद्दीपनविभावश्च तस्यानागमनात्मकः ।।

७६
काव्य-प्रकाशः।
अनुभावश्च विज्ञेयस्तथा पार्श्वविवर्तनम् ।
हाहेति सूचितं दैन्यं व्यभिचारी मतः पुनः ॥
विरहस्तु प्रवासे वै नान्तर्भवितुमर्हति ।
प्रवासे परदेशस्थो विरहे स समीपगः ।।
आगन्तुं कृतचित्तोऽपि देवान्नायाति चेत्प्रियः ।
तदनागमदुःखार्ता विरहोत्कण्ठिता मता ॥
एवमीया॑हेतुकः स्यात्स च मानात्मको यथा ।
वृक्ष- सा पत्युः प्रथमापराधसमये सख्योपदशं विना,
नो जानाति सविभ्रमाङ्गवलनावक्रोक्ति संसूचनम् ।
स्वच्छैरच्छकपोलमूलगलितः पर्यस्ननेत्रोत्पला,
बाला केवलमेव रोदिति लुठल्लोलालकैरश्रुभिः ।।
टि०-पतिरालम्बनं तत्रोद्दीपनं चापराधकः ।
अनुभावो रोदनादिरसूया व्याभिचारिणी ॥
प्रवासहेतुकस्तद्वच्छापाद्यात्मा भवेद्यथा ।
१०- प्रस्थानं वलयैः कृतं प्रियसखैरौरजस्रं गतं,
धृत्या न क्षणमासितं व्यवसितं चित्तेन गन्तुं पुरः ।
यातुं निश्चितचेतसि प्रियतमे सर्वे समं मस्थिताः,
गन्तव्ये सति जीवितं प्रियमुहत्सार्थः किमु त्यज्यते ॥
टिप्रिय आलम्बनं यानोद्योग उद्दीपनं मतम् ।
कृशतादिश्चानुभावश्चिन्ताद्या व्यभिचारिणः ।।
'प्रवासे प्रविलीनोऽसौ यथा च शापहेतुकः ।

चतुर्थ उल्लासः।
१०- त्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया,
मात्मानन्ते चरणपतितं यावदिच्छामि कर्तुम् ।
अप्रैस्तावन्मुहुरुपचितैष्टिरालुप्यते मे,
क्रूरस्तस्मिन्नपि न सहते सङ्गमं नौ कृतान्तः ॥
टि०- नायिकालम्बनं प्रेमकोप उद्दीपनं भवेत् ।
इच्छा चरणपातस्यानुभावः परिकीर्तितः ।।
कृतान्ते च तथासूया मतात्र व्यभिचारिणी ।
प्रसङ्गक्रमप्राप्ताश्च रसा हास्यादयो यथा ॥
१०- आकुञ्च्य. पाणिमशुचिं मम मूनि वेश्या,
मन्त्राम्भसा प्रतिपदं प्रशतैः पवित्रे ।
तारस्वरं प्रथितथूकंमदात्प्रहारं,
हाहा हतोऽहमिति रोदिति विष्णुशर्मा ।।
टि-आलम्बनं विष्णुशर्मोद्दीपनं रोदनं पुनः ।
स्मितादिरनुभावश्चावेगाद्या व्यभिचारिणः ॥
एतैर्व्यक्तः स्थायिभावो हासो हास्यरसो भवेत् ।
"आत्मस्थः परसंस्थश्चेत्यस्य भेदद्वयं मतम् ।
आत्मस्थो दृष्टुरुत्पन्नो विभावेक्षणमात्रतः ॥
हसन्तमपरं दृष्ट्वा विभावश्चोपजायते ।
योऽसौ हास्यरसस्तज्ज्ञैः परस्थः परिकीर्तितः ।।
उत्तमानां मध्यमानां नीचानामप्वसौ भवेतुः ।
व्यवस्थः कथितस्तस्य षड भेदाः सन्ति चापरे ।।

काव्य-प्रकाशः।
प
स्मितञ्च हसितं प्रोक्तमुत्तमे पुरुषे बुधैः ।
भवेद्विहसितञ्चोपहसितं मध्यमे नरे ।
नीचेऽपहसितं चातिहसितं परिकीर्तितम् ।
ईषत्फुल्लकपोलान्यां कटाक्षरप्यनुल्बणैः ॥
अदृश्यदशनो हासो मधुरः स्मितमुच्यते ।
वक्रनेत्रकपोलैश्चेदुत्फुलैरुपलाक्षतः ॥
किञ्चिल्लक्षितदन्तश्च तदा हसितमिष्यते ।
सशब्दं मधुरं कायगतं वदनरागवत् ॥
आकुञ्चिताक्षि मन्द्रं च विदुर्विहसितं बुधाः ।
निकुञ्चितांसशीर्षश्च जिह्मदृष्टिविलोकनः ।।
उत्फुल्लनासिको हासो नाम्नोपहासतं मतम् ।
अस्थानजः साश्रुदृष्टिराकम्पस्कन्धमूर्धनः ।।
शार्ङ्गदेवेन गदितो हासोऽपहसिताद्वयः ।
स्थूलकर्णकटुवानो बाप्पपूरप्लुतेक्षणः ।।
करोपगूढपार्श्वश्च हासोऽतिहसितं मतम् "
१०- हा मातस्त्वरितासि कुत्र किमिदं हा देक्ताः काशिषः,
धिक् पाणान पतितोऽशनि तवहस्तेऽङ्गेषु दग्धे दृशौ ।
इत्यं घर्घरमध्यरुद्धकरुणः पौराङ्गनानां गिरः
चित्रस्थानपि रोदयन्ति शतधा कुर्वन्ति मिचीरपि ॥
टि०-मृतमालम्बनं चात्रोद्दीपनं दाहिकाः क्रियाः।
अनुभाको सेदनाद्याः दैन्याद्या व्यभिचारिणः ।।

चतुथ उल्लासः । ७६ wwwmawrana- एतैर्व्यक्तः स्थायिभावः शोकः स करुणो रसः । शोकस्थायितया भिन्नो विप्रलम्भादयं रसः ॥ विप्रलम्भे रतिः स्थायी पुनः सम्भोगहेतुकः । व्यभिचारितया नूनं शोकस्तत्र मतो बुधैः ।। १० - कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकं, मनुजपशुभिर्निमर्यादैर्भवद्भिदायुधैः । नरकरिपुणा सार्धं तेषां सभीमकिरीटिना- मयमहममृङ्मेदोमांसैः करोमि दिशां बलिम् ॥ टि- कृष्णार्जुनाद्या योद्धार आलम्बनमिहामतम् । उद्दीपनं द्रोणवधो विभावः कथ्यते बुधैः ॥ अन्यान्येषु तथोपेक्षा रणे पौरुषदर्शनम् । इत्यादयोऽनुभावाश्च गर्वोऽत्र व्यभिचार्यपि ॥ एतैर्व्यक्तः पुनः क्रोधः स्थायी रौद्ररसो भवेत् । रक्तास्यनेत्रता चास्य भेदिनी युद्धवीरतः ॥ वृ०-क्षुद्राः संत्रासमेते विजहत हरयः क्षुण्णशक्रेभकुम्भा, युष्मदेहेषु लज्जां दधति परममी सायका निष्पतन्तः । सौमित्रे तिष्ठ पात्रं त्वमसि नहि रुषां नन्वहं मेघनादः, किञ्चिद्भूभङ्गलीलानियमितजलाधि राममन्वेषयामि ।। टि-आलम्बनविभावस्तु रामोऽत्र विबुधैर्मतः । उद्दीपनविभावश्च समुद्रबन्धनादयः ॥ उपेक्षा शत्रुषु तथा रामे पौरुषदर्शनम् । अनुभावो हि विज्ञेयस्तथा च व्यभिचारिणः ।। ६

८०
काव्य-प्रकाशः।
--
न
गजेन्द्रकुम्भदलनस्मृतिलज्जादयो मताः ।
एभिर्व्यक्तः स्थायिभाव उत्साहो वीर एव सः ॥
रोद्रे क्रोधः स्थायिभावः सञ्चारी युद्धवीरके ।
शृङ्गारतिलके नाट्यशास्त्रे च दशरूपके ॥
दानयुद्धदयावीरभेदेन त्रिविधो मतः ।
कविराजश्च मनुते धर्मवीरस्ततोधिकः ।।
मते चाच्युतरायस्य वीरो द्वादशधा तु सः ।
युद्धदानदयाधर्मसत्यविद्यातपोबलैः ॥
त्यागयोगक्षमाज्ञानस्तदुपाधर्विभेदतः ।
एवमन्येऽपि तद्भेदा बुधैरूह्याः प्रयत्नतः ॥
मते पण्डितराजस्य शृङ्गाररसवत्पुनः ।
भिद्यतेऽसावप्यनेन तस्यानन्त्यत्वमापतेत् ॥
वीरो धारेरेक एव प्रोक्तो गङ्गाधरे पुनः ।।
वृक्ष-ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बद्धदृष्टिः,
पश्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम् ।
दभैरर्धावलीद्वैः श्रमविकृतमुखभ्रंशिभिः कीर्णवा,
पश्योदग्रप्लुतत्त्वाद्वियति बहुतरं स्तोकमुल् प्रयाति ॥
टि-आलम्बनं हि दुष्यन्तो दीपनं शरपातभीः ।
अनुभावस्तथैवात्र प्रीवाभङ्गः पलायनम् ॥
शङ्का त्रासः श्रमश्चैव व्यभिचार्यत्र गण्यते ।
व्यक्त एतैः स्थायिभावो भयः स च भयानकः ॥

चतुर्थ उल्लासः।
-
उत्कृत्योत्कृत्य कृत्तिं प्रथममथप्रथूत्सेधभूयांसि मांसा-
न्यंसस्फिक्प्रष्ठपिण्डाद्यवयवमुलभान्युग्रपूतीनि जग्ध्वा ।
आर्तः पर्यस्तनेत्रः प्रकटितदशनः प्रेतरङ्कः करङ्का-
दङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रय्यमव्यग्रमत्ति ।।
टि-शव आलम्बनं मांसादनञ्चोद्दीपनं मतम् ।
भ्रूनासिकादिसङ्कोचोऽजुभावोऽत्र विचार्यते ।
उद्वेगादिस्वरूपाश्च सन्त्यत्र व्यभिचारिणः ॥
व्यक्तो जुगुप्सा स्थायी ते रसो बीभत्सनामभाक् ॥
६०-चित्रं महानेष बतावतारः,
क्व कान्तिरेषाभिनवैव भङ्गिः।
लोकोत्तरं धैर्यमहो प्रभावः,
काप्याकृतिनूतन एष सर्गः ॥
टि०-विष्णुर्वामनरूपोऽसावत्रालम्बनमिष्यते ।
उद्दीपनञ्च कान्त्यादिविभावो वै भविष्यति ॥
स्तुत्यादिरनुभावश्च धैर्याद्या व्यभिचारिणः ।
एतैर्हि विस्मयो व्यक्तः स्थायी स च रसोऽद्भुतः ।।
एवं प्रदष्टि रसान् नवमः स्थाप्यतेऽधुना ।
१०- निर्वेदोऽमङ्गलमायः प्रथमं नोपयुज्यते ।।
तथापि व्यभिचारित्वे स्थायित्वापादनाय वै ।
देहलीदीपकन्यायान दोषाय प्रकल्पते ।।
का-निर्वेदस्थायि भावोऽस्ति शान्तोऽपिनवमोरसः।

२
काव्य-प्रकाशः।
PM-A-00PARAM
वृ०- अहो वा हारे वा कुसुमशयने वा दृषदि वा,
मणौ वा लोष्ठे वा बलवति रिपौ वा मुहृदि वा ।
तृणे वा स्त्रैणे वा मम समदृशो यान्तु दिवसाः,
क्वचित्पुण्यारण्ये शिव शिव शिवेति प्रलपतः ।।
टि०-आलम्बनं हि तज्ज्ञेयं यन्मिथ्याकल्पितं जगत् ।
उद्दीपनविभावश्च तपोवनमितीर्यते ॥
अनुभावोऽहि हाराद्यस्तथैव समदर्शनम् ।
मातधृतिस्तथा हर्षों मतोऽत्र व्यभिचार्यपि ॥
एतैर्व्यक्तस्तु निर्वेदः स्थायी शान्तरसो मतः ।
शम एव स्थायिभावो निर्वेदो व्यभिचार्यसौ ॥
ब्रवीति कविराजोऽपि तथा गोविन्दठक्कुरः ।
निर्वेदो विषये द्वेषस्तत्वज्ञानसमुद्भवः ।।
शमो निरीहावस्थायामात्मानन्दसमाश्रितः ।
स्याद्यावन्नहि निर्वेदावस्था तावन्न वै शमः ॥
निर्वेदे विषयज्ञानं शमेऽभावो निरूपितः ।
च स्थायी निर्वेदः शमो नैव कदाचन ॥
किश्चात्र मोक्षावस्थायां सञ्चार्यादिर्न सम्भवेत् ।
इत्थञ्च न मतस्तादृक् शमो यादृक् हि गृह्यते ॥
" क्वचिच्छम" इति यथा मुनिना प्रतिपादितम् ।
तन्निर्वेदपरं ज्ञेयमिति विज्ञविपश्चितः ।।
शमस्य लक्षणञ्चापि कविराजेन निर्ममे ।

चतुर्थ उल्लासः ।
८३
युक्तायुक्तदशायामवस्थितो यः शमः स एव यतः ।
रसतामेति तदस्मिन् सञ्चार्यादेः स्थितिश्च न विरुद्धा ।।
निर्वेद एव हि शमः प्रकारान्तरतोऽभवत् ।
शमस्य भोजराजस्तु धृति नामान्तरं जगौ ॥
यदि चेच्छम एव स्यात्स्थायिभावः कथञ्चन ।
अष्टौ हि स्थायिनो.भावास्तावन्तः सात्विकामता ॥
त्रयस्त्रिंशच्च गणिता मुनिना व्यभिचारिणः ।
आतिक्राम्येद्धि सा संख्या शास्त्रे या प्रतिपादिता ॥
भरतस्य विभावादेर्लक्षणाकरणं पुनः ।
स नास्त्येव रसः शान्त इत्येव प्रतिपादनम् ॥
अन्ये
तु वस्तुतस्तस्याभावञ्च वर्णयन्त्यपि ।
यतश्चानादिकालेनायातयोद्धेषरागयोः ॥
उच्छेत्तुमत्राशक्यत्वादिति साहित्यमार्गगाः ।
अन्ये पुनर्दयावारे बीभत्से वा तथैव च ॥
शान्तमन्तर्भावयन्ति ह्येवं चेच्छम एव न ।
निर्वेदादिरताद्रप्यादस्थायी स्वदते कथम् ।।
वैरस्यायैव तत्पोषस्तेनाष्टौ स्थायिनो मताः ।
रसनाद्रसत्वमेतेषां मधुरादीनामिवोक्तमाचार्यैः ॥
निर्वेदादिष्वपि तत्प्रकाममस्तीति तेऽपि रसाः।
प्रतिपादितवानित्थं धनिको दशरूपके।
कविराजो विश्वनाथः प्राह साहित्यदर्पणे ॥

काव्य-प्रकाश:-
"निरहङ्काररूपत्वाद्दयानीरादिरेष नो।
सर्वाकारमहङ्काररहितत्वं व्रजन्ति चेत् ॥
अत्रान्तर्भावमर्हन्ति दयावीरादयस्तथा ।"
तथा पण्डितराजस्तु रसंगङ्गाधरे पुनः ॥
"शान्तस्य शमासाध्यत्वान्नटे च तदसम्भवात् ।
अष्टावेव रसा नाटये न शान्तस्तत्र युज्यते ॥
तत्रैव खण्डनपरं पद्यमेतद्विलोक्यते ।
अष्टावेव रसा-नाटयेष्विति केचिदचूचुदन् ।
तदचारु यतः किञ्चिन्न रसं स्वदते. नटः ॥"
'शान्तो नाम रसस्तावदुरपह्नव एव सः ।।
सर्वानुभवसिद्धत्वात्प्रदीपे दीपितः खलु ॥'
नाटये काममभावः स्यात्काव्येऽवश्यमपेक्ष्यते ।
"रसं भक्तयाख्यमप्याहुभक्तः' इत्यच्युतो जगौ ।
"खण्डयन्त्यपि तच्चान्य आलङ्कारिकमानिनः ॥
वस्तुतस्तूभयं श्लाघ्यं यो मद्भक्त इति श्रुतेः ।
मुख्यामुख्यत्वभेदेन सा च भक्तिर्भवेद्विधा ।।
मुख्या भक्तिः पुनर्जीवन्मुक्तिरेवोच्यतां बुधैः ।
एवञ्च शान्त एवान्तर्भावात्तत्खण्डनं भवेत् ॥
अमुख्या चात्मनिष्टत्वाद्रसंनाघटतेतराम् ।
एषवाव्यभिचारित्वाद्भक्तिर्भावोंऽस्तु का क्षतिः ।।
अन्ये पुनर्वदन्तीत्थं विचारचतुरा नराः ।
शृङ्गारशान्तयोर्नूनं रतिनिर्वेदयोरप्ति

चतुर्थ उल्लासः।
स्थायिनोर्हि विरोधित्वान्न शान्तेऽन्तर्भवेदिति ।" :
का-रतिर्देवादि विषया व्याभिचारी तथाजितः।
भावःप्रोक्तो-
टि०- ऽथ आचार्य: प्राचीनैरितितद्वरम् ॥
१०-रतिर्भावो हि देवादौ मुनौ पुत्र नृपे गुरौ ।
शृङ्गारश्च भवेत्सैव स्वकान्ताविषया यदा ॥
सञ्चारिणत्रयस्त्रिंशदेते. प्राधान्ययोगतः ।
भावध्वनित्वमायान्ति नात्र सन्दिह्यते जनः ।।
टि०-भक्तिश्च देवविषया रतिर्भावो भवेद्यथा ।
कण्ठकोणविनिविष्टमीशते,
कालकूटमपि मे महामृतम् ।
अप्युपात्तममृतं भवद्वपु-
आंदवृत्ति यदि मे न रोचते ॥
टि-आलम्बनं महादेवस्तथोद्दीपनमीशिता ।
स्तवोऽनुभावः सञ्चारी भवेदत्र धृतिः स्मृतिः ।
एभिर्व्यक्तः स्थायिभावो रतिर्भावो न वा रसः ।
मुनेविषयगामिन्या रतेरस्ति विधिर्यथा ।
"हरत्यघं सम्प्रति हेतुरेष्यतः
शुभस्य पूर्वाचरितैः कृतं शुभैः ।
शरीरभाजां भवदीयदर्शनं,
व्यनक्ति कालत्रितयेऽपि योग्यताम् ।।'.

काव्य-प्रकाशः।
me---
टि०- आलम्बनं नारदोऽत्रोद्दीपनं मुनिदर्शनम् ।
अनुभावः कृष्णवाक्यं हर्षाद्या व्यभिचारिणः ॥
एतैर्व्यक्ता रतिर्भावः रसो नैव कदाचन ।
रतिः पुत्रस्य विषया यथा भवति वै शृणु ॥
"यदाह धात्र्या प्रथमोदितं वचो,
ययौ तदीयामवलम्ब्य चाङ्गुलिम् ।
अभूच नम्रः प्रणिपाताशक्षया,
पितुर्मुदं तेन ततान सोऽर्भकः ॥"
पुत्र आलम्बनं चेष्टोद्दीपनश्चात्र कथ्यते ।
अनुभावश्चुम्बनं स्यादौत्सुक्यं व्यभिचार्यपि ॥
अथात्र कविराजास्तु निजसाहित्यदर्पणे ।
"स्फुटं चमत्कारितया वत्सलं च रसं विदुः ।।"
किन्त्वन्धर्विबुधैरेष भाव एवोररीकृतः ।
विरोधिरससंख्याने नामाप्यस्य न दृश्यते ॥
एवञ्चासौ भाव एव न कदाचिद्रसो मतः ।
तथैव राजाविषया रतिरत्र ह्युदाहृता ॥
"वद्वाजिराजिनिर्धूतधूलीपटलपङ्किलाम् ।
न धत्ते शिरसा गङ्गां भूरिभारभिया हरः ॥"
उदाहृता रतिः सैव या गुरौ स्यात्पुनर्यथा ।
"भवसागरबन्धनादुपेन्द्र-..
प्रपदक्षालनवारितो विशिष्टम् ।

चतुर्थ उल्लासः। भवसागरवैरिवन्दनीयं, गुरुपादोदकमेव केवलं नः ॥" पितृपक्षे रतिर्याच सापि ज्ञेया बुधैर्यथा । "जीवत्सु तातपादेषु नवे दारपरिग्रहे । भ्रातृभिश्चिन्त्यमानानां ते हि नो दिवसा गताः ॥" एवं मित्ररतिश्चापि मित्रः प्रकटिता यथा । "अद्य राज्यं मया प्राप्तमद्य वाली हतो मया । हरीणामद्य पूज्योऽस्मि यद्भवान्मित्रतां गतः ॥" १०- जाने कोपपराङ्मुखी प्रियतमा स्वप्नेऽय दृष्टा मया, मा मां संस्पृश पाणिनेति रुदती गन्तुं प्रवृत्ता पुरः । नो यावत्परिरभ्य चाटुशतकैराश्वासयामि प्रियां, भ्रातस्तावदहं शठेन विधिना निद्रादारिद्रीकृतः ।। अत्र विधि प्रत्यसूया प्राधान्येन प्रतीयते । ग्रन्थस्य गौरवभयात्सर्वे भावा न चेरिताः ॥ टि.- भवन्ति च- का तदाभासा अनौचित्यप्रवर्तिताः । टि०- उपनायकसंस्थायां मुनिगुरुपत्नीगतायां च । बहुनायकविषयायां रतौ तथानुभयनिष्ठायाम् ।। प्रतिनायकनिष्ठायां तद्वदधमपात्रतिर्थगादिगती। शृङ्गारेऽनौचित्यं रौद्रे गुर्वादिगतकोपे ॥ शान्ते च हीननिष्ठे गुर्वाद्यालम्बने हास्ये । ब्रह्मवधाधुत्साहेऽधमपात्रगते तथा वीरे ॥ -- १० काव्य-प्रकाशः। वृ०- तस्याः सान्द्रविलेपनस्तनयुगप्रश्लेषमुद्राङ्कितं, किं वक्षश्चरणानतिव्यतिकरव्याजेन गोपाय्यसे । इत्युक्ते व तदित्युदीर्य सहसा तत्सम्प्रमाष्टुं मया, संश्लिष्टा रभसेन तत्सुखवशात्तन्व्या च तद्विस्मृतम् ।। नायिकायाः कोपशान्तिरत्र वै व्यज्यते स्फुटम् ।। एकस्मिञ्छयने विपक्षरमणीनामग्रहे मुग्धया, सद्यो मानपरिग्रहग्लपितया चाटूनि कुर्वन्नपि । आवेगादवीरितः प्रियतमस्तूष्णी स्थितस्तत्क्षणं, मा भूत्सुप्त इवेत्यमन्दवलितग्रीवं मुनर्वीक्षितः ॥ औत्सुक्यस्यात्र विज्ञेय उदयो नायिकागतः ।। उत्सित्तस्य तपः पराक्रमनिधेरप्यागमादेकतः, सत्सङ्गप्रियता च वीररभसोत्फालश्च मां कर्षतः । वैदेहीपरिरम्भ एष च मुहुश्चैतन्यमामीलय- नानन्दी हरिचन्दनेन्दुशिशिरः स्निग्धो रुणयन्यतः ।। आवेगहर्षयोः सन्धिर्भार्गवागमने ऽभवत् ।। क्वाकार्य शशलक्ष्मणः क्व च कुलं, भूयोऽपि दृश्येत सा, दोषाणां प्रशमाय नः श्रुतमहो कोपेऽपि कान्तं मुखम् । किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्नेऽपि सा दुर्लभा, चेतः स्वास्थ्यमुपैहि, कः खलु युवा धन्योऽधरंधास्यति।। क्रमेणात्र वितर्कस्योन्मुक्यस्य च स्मृतेस्तथा । स्मतेरपि च शमाया दैन्यस्यापि धृतेः पुनः ।।

चतुर्थ उन्लासः।
६१
चिन्तायाश्चैव शाबल्यं स्फुटमेवं प्रतीयते ।
भावस्थितिस्तूक्तपूर्वा :जाने कोपपराङ्मुखी ॥"
का०-मुख्ये रसेऽपि तेऽङ्गित्वं प्राप्नुवन्ति कदाचन ।
- यथा भृत्यविवाहादौ राजामुख्योऽप्यमुख्यवत् ।।
तथैव भावाभिव्यक्तौ रसो मुख्योऽप्यमुख्यवत् ॥
टि०- रसभावौ तदाभासौ भावस्य प्रशमोदयौ ।
सन्धिः शबलता चति सर्वेपि रसनादसाः ।।
न भावहीनोऽस्ति रसो न भावो रसवर्जितः ।
परस्परकृता सिद्धिरनयो रसभावयोः ।
व्यञ्जनौषधिसंयोगो यथान्नं स्वादुतां नयेत् ॥
एवं भावा रसाश्चैव भावयन्ति परस्परम् ।
विरोधिरससंख्यानं कृत्वैवाथ विरम्यते॥
आद्यः करुणबीभत्सरोद्रवरिभयानकैः ।
भयानकेन करुणेनापि हास्यो विरोधभाक् ।।
करुणोहास्यशृङ्गाररसाभ्यामपि तादृशः ।
रौद्रस्तु हास्यशृङ्गारभयानकरसैरपि ॥
भयानकेन शान्तेन तथा वीररसः स्मृतः ।
शृङ्गारवाररौद्राख्यहास्पशान्तैर्भयानकः ॥
शान्तस्तु वीरशृङ्गाररौद्रहास्यभयानकैः ।
शृङ्गारेण च बीभत्स इत्याख्याता विरोधिता ॥
प्रबन्धे मुक्तके वापि रसादीन्बद्धमिच्छता ।
यत्नः कार्यः सुमतिना परिहारे विरोधिनाम् ॥

१२
काव्य-प्रकाशः।
शृङ्गारहास्यौ करुणरोद्री वीराद्भुतावपि ।
परस्परं मित्रभूतौ सुबीभत्सभयानको ।।
इति मया कथितेन पथामुना,
रसविशेषमशेषमुपेयुषा ।
ललितपादपदा सदलङ्कतिः,
कृतधियामिह वाग्वनितायते ॥
x
x
x
x
टि०-असंलक्ष्यक्रमव्यङ्गयमुक्त्वा लक्ष्यक्रमं ब्रुवे ।
यो विवक्षितवाच्यस्य द्वितीयो भेद उच्यते ॥
का०-अनुस्वानाभसंलक्ष्यक्रमव्यङ्ग यस्थितिस्तु यः ।
शब्दार्थोभयशक्त्युत्थस्त्रिधा स कथितो ध्वनिः
टि०-व्यङ्गयो वै शब्दमाहात्म्यादेवावगम्यते बुधैः ।
हेमचन्द्रमते नूनं भेदो नास्ति तृतीयकः ।।
किन्तु चन्द्रमतं चैतन्नूनं गङ्गाधरोऽरुणन् ।
का-अलङ्कारोऽथ वस्त्वेव शब्दावत्रावभासते।
प्रधानत्वेन स ज्ञेयः शब्दशक्त्युद्भवो विधा ।
वृ०-'वस्त्वेवे' त्येव शब्देन ह्यलङ्कारं विना तु यत् ।
व्यङ्गयं तद्वस्तुमात्रं स्यादित्येव प्रतिपादितम् ॥
उल्लास्य कालकरवालमहाम्बुवाई,
देवेन येन जरठोर्जितगर्जितेन ।
निर्वापितः सकल एवं रणे रिपूणां
धाराजलैस्त्रिजगति प्रथितः प्रतापः ।।

६३
चतुर्थ उल्लासः।
मा भूदेवात्र वाक्यस्यासम्बद्धार्थकता नु सा ।
इत्यम्बुवाहदेवायैर्नूनमप्रस्तुतैः सह ॥
करवालनृपादीनां कवेस्तात्पर्यतोऽधुना ।
कल्पनीयस्तथा भाव उपमानोपमेययोः॥
एवमत्रोपमा व्यङ्गया शब्दशक्त्यैव सा पुनः।
तिग्मरुचिरप्रतापो,
विधुरनिशाद्विभो मधुरलीलः ।
मतिमानतत्ववृत्तिः,
प्रतिपदपक्षाग्रणीर्विभाति भवान् ।
एकैकस्य पदस्यात्र द्विपदत्वे विरोधिता ।
अमितः समितः प्राप्तैरुत्कर्डर्षद प्रभो ।
अहितः सहितः साधुयशोभिरसतामपि ॥
विरोधामास एवात्र शब्दशक्त्यावभासते ।
निरुपादानसम्भारमभित्तावेव तन्वते ।
जगचित्रं नमस्तस्मै कलाश्लाघाय शूलिने ।
व्यतिरेकोऽत्र विज्ञेयोऽलङ्कारः काव्यवित्तमैः ।
प्राधान्यादुपमादीनां व्यङ्गयोऽलङ्कार्य एव सः ।।
बाह्मणश्रमणन्यायात्तस्यालङ्कारता पुनः ।
एवं विद्वद्भिउन्नयो ह्यलङ्कारान्तरध्वनिः॥
पन्थिअण एत्थ सत्थरमस्थि मणं पत्थरत्थले गामे ।
उण्णअ-पोहरं पेक्षिा उण जइ वससि ता वसम्॥
उपभोगक्षम श्वेत्त्वमास्स्वेति वस्तु व्यज्यते ॥

काव्य-प्रकाशः।
गजेन्द्रकुम्भदलनस्मृतिलज्जादयो मताः ।
एभिर्व्यक्तः स्थायिभाव उत्साहो वीर एव सः ।।
रौद्रे क्रोधः स्थायिभावः सञ्चारी युद्धवीरके ।
शृङ्गारतिलके नाट्यशास्त्रे च दशरूपके ॥
दानयुद्धदयावीरभेदेन त्रिविधो मतः ।
कविराजश्च मनुते धर्मवीरस्ततोधिकः ।।
मते चाच्युतरायस्य वीरो द्वादशधा तु सः ।
युद्धदानदयाधर्मसत्यविद्यातपोबलैः ॥
त्यागयोगक्षमाज्ञानस्तदुपाधर्विभेदतः ।
एवमन्येऽपि तद्भेदा बुधैल्ह्याः प्रयत्नतः ॥
मते पण्डितराजस्य शृङ्गाररसवत्पुनः ।
भिद्यतेऽसावप्यनेन तस्यानन्त्यत्वमापतेत् ॥
धीरो धारेरेक एव प्रोक्तो गङ्गाधरे पुनः ।।
वृ०-ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने वद्धदृष्टिः,
पश्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम् ।
दभैरर्धावलीढैः श्रमविकृतमुखभ्रशिभिः कीर्णवा,
पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुा प्रयाति
टि०-आलम्बनं हि दुष्यन्तो दीपनं शरपातभीः ।
अनुभावस्तथैवात्र प्रीवाभङ्गः पलायनम् ॥
शङ्का त्रासः श्रमश्चैव व्यभिचार्यत्र गण्यते ।
व्यक्त एतैः स्थायिभावो भयः स च भयानकः ॥

का
चतुर्थ उल्लासः।
मा भूदेवात्र वाक्यस्यासम्बद्धार्थकता नु सा ।
इत्यम्बुवाहदेवा_नमप्रस्तुतैः सह ॥
करवालनृपादीनां कवेस्तापर्यतोऽधुना ।
कल्पनीयस्तथा भाव उपमानोपमेययोः॥
एवमत्रोपमा व्यङ्गया शब्दशक्त्यैव सा पुनः।
तिग्मरुचिरप्रतापो,
विधुरनिशाकूद्विभो मधुरलीलः ।
मतिमानतत्वत्तिः,
प्रतिपदपक्षाग्रणीर्विभाति भवान् ।
एकैकस्य पदस्यात्र द्विपदत्वे विरोधिता ।
अमितः समितः प्राप्तैरुत्कईर्षद प्रभो ।
अहितः सहितः साधुयशोभिरसतामपि ॥
विरोधामास एवात्र शब्दशक्त्यावभासते ।
निरुपादानसम्भारमभित्तावेव तन्वते ।
जगचित्रं नमस्तस्मै कलाश्लाघाय शूलिने ॥
व्यतिरेकोऽत्र विज्ञेयोऽलङ्कारः काव्यवित्तमैः ।
प्राधान्यादुपमादीनां व्यङ्गयोऽलङ्कार्य एव सः ॥
ब्राह्मणश्रमणन्यायात्तस्यालङ्कारता पुनः ।
एवं विद्वद्भिउन्नेयो ह्यलङ्कारान्तरध्वनिः ।।
पन्थिअण एत्थ सत्थरमत्थि मणं पत्थरत्थले गामे ।
उण्णअ-पोहरं पेक्षि उण जइ वससि ता वसम् ॥
उपभोगक्षमश्वत्त्वमास्स्वेति वस्तु व्यज्यते ।।

६४
काव्य-प्रकाशः।
शनिरशनिश्च तमुच्चै-
निहन्ति कुप्यसि नरेन्द्र यस्मै त्वम् ।
यत्र प्रसीदसि पुनः,
स भात्युदारो ऽनुदारश्च॥
शनिश्च वाशनिश्चैव विरुद्धावपि तौ पुनः ।
तवानुवर्तनार्थाय कुते कार्यमेककम् ॥
एवञ्चात्र कार्यरूपं वस्त्वेवाभिप्रकाश्यते ।
टि०-नूनं विरोधाभासस्य ध्वनिः पूर्वापरार्धयोः ।
पण्डितो ध्वनिशाबल्यं वस्त्वलङ्कारयोरिति ।।
अपि शब्दसमानार्थ "श्च" शब्दोऽत्र प्रतिष्ठितः ।
वाच्यो विरोधाभासोऽसौ व्यङ्गयो नैव कदाचन ।
तद्वस्तुध्वनिरेवेति प्रदीपे वै विलोक्यते ॥
का०-अर्थशक्तयुद्भवोऽप्यर्थो व्यञ्जकः सम्भवी स्वतः
प्रौढोक्तिमात्रासिद्धो वा कवेस्तेनोम्भितेन वा॥
वस्तु वालङ्कतिर्वापि षड्भेदोऽसौव्यनक्ति तत्
वस्त्वलङ्कारमथवा तेनायं द्वादशात्मकः॥
टि०-वक्तृप्रौढोक्तिसिद्धस्तु पण्डिताय न रोचते ।
आविशेषात्कवेर्वक्तुरिति गङ्गाधरे पुनः॥
हेमचन्द्राचार्यवर्यः प्राह काव्यानुशासने ।
'कविप्रौढोक्तिसिद्धेन ह्यर्थेनैव गतार्थता ।।

चतुर्थ उल्लासः। ६५ कामं स्वतः सम्भवी वा कवेर्वक्तुश्च वा भवेत् । कविकार्य सर्वमेत त्तेन चैकविधः स तु ॥ वृद्धस्यापेक्षया किन्तु बालस्य वाक्यवत्स्फुटम् । कवेरपेक्षया नूनं वक्तुर्मुखविनिर्गतम् ।। मुचमत्कारातिशयं भजतेऽतस्त्रिधैव सः। एतन्नागेशभट्टस्य प्रकाशोधतके धृतम् ॥ १०-बहिः सम्भाव्यते तत्र यौचित्येनैव सन्नपि । स स्वतःसम्भवी ज्ञेयः कवेमित्रतो न हि ॥ कवेश्च प्रतिभामात्रानिर्मितोऽसाविसन्नपि । तथा कविनिबद्धन वक्रेति त्रिविधः स्मृतः ॥ वस्तुध्वनिरलङ्कारध्वनिश्चेति पुनर्द्विधाः । एवं षोढा व्यञ्जकः स द्विधा पुनरुदीर्यते । वस्तुध्वनिरलङ्कारध्वनिश्चेति विधानतः। ध्वनिदशभेदोऽसावर्थशक्त्युद्भवो यथा ॥ उदाहृतं प्रकाशेऽत्र प्रथम सम्भवी स्वतः । अलसशिरोमणिधुत्ताण- मग्गिमो धणसमद्धिमओ। इअ भणिएण णअङ्गी, पप्फुल्लविलोअणा जाआ॥ प्रफुल्ललोचनत्वेन वस्तुना नायिकागतम् । 'अयं ममैवोपभोग्यो वस्त्वेतव्यज्यते खलु ॥

काव्य-प्रकाशः। धन्यासि या कथयसि प्रियसङ्गमेऽपि, विस्रब्धचाटुशतकानि रतान्तरेषु । नीवीं प्रति प्रणिहिते तु करं प्रियेण, सख्यः शपामि यदि किञ्चिदपि स्मरामि ।। वाच्येन वस्तुनैवात्र व्यतिरेकश्च व्यज्यते । 'त्वमधन्याहन्तु धन्ये' त्येवं वैनायिकोक्तितः ।। दन्धिगन्धगजकुम्भकपाटकूट- सन्क्रान्तनिघ्नघनशोणितशोणशोचिः। वीरैर्व्यलोकि युधि कोपकषायकान्तिः, कालीकटाक्ष इव यस्य करे कृपाणः ॥ 'करिष्यते क्षणादेव सर्वशत्रुवलक्षयः । इति वस्तूपमाख्येन ह्यलङ्कारेण व्यज्यते ।। टि-अत्र सम्भावनाभावाद्वयक्तिरुत्प्रेक्षया तु न । १०- गाढकान्तदशनक्षतव्यथा- सङ्कटादारवधूजनस्य यः ओष्ठविटुमदलान्यमाचय- निर्दशन्युधि रुषा निजाधरम् ॥ निजोष्ठदशनेनैव परोष्ठमोचनात्मना नूनं विरोधाभासेन व्यज्यते तुल्ययोगिता ।। 'तत्कालमेव रिपवस्तेन व्यापादिता इति ।' तथैव स्वोष्ठदशनरूपस्य कारणस्य च ।।

चतुर्थ उल्लासः।
कार्यस्य वैरिवध्वोष्ठव्यथा या मोचनात्मनः ।
पौर्वापर्याभावरूपातिशयोक्तयैव व्यज्यते ॥
असौ समुच्चयस्तुल्ययोगितापरनामकः ।
मम क्षत्यापि चान्यस्य क्षतिरत्र निवर्तताम् ।।
उत्प्रेक्ष्यते बुद्धिरेवमित्युत्प्रेक्षापि सम्भवेत् ।
उदाहृतेषु च स्वतः सम्भवी व्यञ्जको मतः॥
कविप्रौढोक्तिसिद्धोऽसौ यथोदाह्वियतेऽधुना ।
कैलासस्य प्रथमशिखरे वेणुसम्मूर्च्छनाभिः,
श्रुत्वा कीति विबुधरमणीगीयमानां यदीयाम् ।
स्रस्तापाङ्गा सरसबिसिनीकाण्डसजातशङ्का,
दिङ्मातङ्गा श्रवणपुलिने हस्तमावर्जयन्ति ॥
'बिसिनीकाण्डसातशङ्का' भ्रान्तिमता पुनः ।
सन्देहेनाथवा व्यक्तं मन्यते वस्तु यद्यपि ॥
तथापि किञ्चिच्छुक्लं हि कर्णे प्रविशति स्फुटम् ।
हस्तावर्जनरूपण वस्तुमात्रेण केवलम् ।।
नास्त्याधिगमो येषां तेषामपि विशेषतः ।
चैत्यमूर्त्तत्वादिबुद्धिजननेनैव त्वद्यशः ॥
चमत्कारं करोतीति व्यज्यते वस्तुमात्रकम् ।।
केसेसु बलामोडिअ,
तेण अ समरम्मि जअसिरी गहिआ ।
जह कन्दराहि बिहुरा,
तस्सः कण्ठ अम्हि संठविश्रा ॥

८
काव्य-प्रकाशः।
-~
कन्दराभिहि ते कण्ठे स्थापिताइति वस्तुना ।
केशग्रहावलोकेन ताश्च सन्दीपितस्मराः॥
कन्दरा विधुरांस्तासां कण्ठे गृह्णन्ति तत्पराः।
व्यज्यते नूनमुत्प्रेक्षा कविप्रौढोक्तितः स्फुटम् ॥
अथवैकत्र सङ्ग्रामे विजयस्य च दर्शनात् ।
पलाय्य तत्र रिपवस्तिष्ठन्ति कन्दरास्विति ।
जयदर्शनरूपेण हेतुना काव्यलिङ्गकम् ।।
न पलाय्य गतास्ते च रिपवोऽपि तु तन्नृपात् ।
पराभवं हि सम्भाव्य कन्दरा न त्यजन्ति तान् ।
इत्यपङतिरप्यत्र विज्ञेया विबुधोत्तमैः ।।
टि.-' तदैव सम्भवेदत्र ह्युत्प्रेक्षालङ्कृतेर्ध्वनिः
कन्दरासु यदारोपो नायिकानां भवेदिति ।
अन्यथा सम्भवेन्नैव केशानां ग्रहणेन वै॥
मदनोद्दीपनं चैतत्प्रदीपे ठक्कुरो जगौ ।
तथा सत्यपि सुश्लिष्टविशेषणविधानतः ॥
समासोक्तिर्नचोत्प्रेक्षा व्यज्यतेऽनेन वस्तुना ।
कण्ठे स्थापनरूपेण स्त्रीत्वेन कन्दरास्विति ।।
स्यादेव नायिकारोपो कन्दरासु सुनिश्चितम् ।
कवेर्विवक्षाविरहात्समासोक्तिर्न सम्भवेत् ॥
वृक्ष- गाढालिङ्गणरहसु-
ज्जुअम्मि दइए लहुं समोसरड् ॥

चतुर्थ उल्लासः । 88 माणसिणीणं माणो-, पीलण भीरु व हिअआहि ॥ भयोत्प्रेक्षास्वरूपेण ह्यलङ्कारेण वै पुनः। प्रत्यालिङ्गनदानादि वस्त्वत्राप्यभिव्यज्यते । जा ठेरं व हसन्ती, कइवअणम्बुरुहबद्धविणिवेसा। दावेइभुअणमण्डल- मण्णं विष जअइ सा वाणी ।। हसन्तीवोत्प्रेक्षयात्र चमत्कारैककारणम् । नवं नवं जगच्चैतन्निमिमीतेऽजडासना ॥ इत्यनेन प्रकारेण व्यतिरेको हि व्यज्यते । चतुषूक्तेषु पद्येषु लोकेऽसन्नपि केवलम् ॥ कविकल्पितमेवेति कविप्रौढोक्तिरुच्यते ।। अथो कविनिबद्धस्य बक्तुः प्रौढिः प्रदर्श्यते । जे लंकागिरिमेहलासु खलिआ सम्भोअखिन्नोरई, फारुप्फुल्लफणावलीकवलणे पत्ता दरिदत्तणम् । ते एण्हि मल आनिला विरहिणीणीसाससम्पक्किणो, जादा झत्ति सिमुत्तणे वि बहला तारुण्णपुण्णाविअ॥ उक्तवाच्यार्थरूपेण वस्तुना वस्तु व्यज्यते । निःश्वासैः प्राप्तविभवाः वायवः किं न कुर्वते ॥ सहि विरइउणमाणस्स मज्झ धीरत्तणेण आसासम् ।

१०० काव्य-प्रकाशः। ~~~-~~-~- पिअदंसण विहलंखल- खलम्मि सहमत्तिः तेण ओसरिअम् ।। धैर्यणापमृतञ्चेतिवाच्यार्थेनैव वस्तुना । प्रार्थनाया अभावेऽपि प्रसन्नति विभावना ॥ प्रियदर्शनसौभाग्यवलं धैर्येण सर्वथा । सोढुं न शक्यते नूनमित्युसेक्षापि व्यज्यते ।। ओल्लोलकरअरअण- ख्खएहिं तुहलोअनेमु महदिण्णम् । रत्तंमुअं पसाओ, कोबेण पुणो इमे ण अक्कामिआ । कथं वहसि भद्रे त्वं कुपिते लोचने इति । प्रश्नस्योन्नयनादत्रालङ्कारेणोत्तरेण वै ।। नखक्षतानि चाणि गोपायसि न केवलम् । प्रसादपात्रं जाताहं. तेषां किन्विति वस्तु तत् ॥ गतिलासहस्सभरिए, तुह हे अए मुहव सा अमाअन्ती। अणुदिणमणण्णकम्मा, अङ्गं तणुअं वि तणुएइ ॥ अत्रामान्तीतिरूपेण काव्यलिंगेन व्यज्यते । तनुकस्यापि चाङ्गस्य सतनूकरणे तथा ॥ न वर्वते ते हृदयेऽतिशयोक्तिरियं पुनः । चतुर्येतेषु पयेषु वक्तृप्रौढोक्तिसिद्धकः ॥

अत्र
चतुर्थ उल्लासः।
सदैव व्यञ्जको ज्ञेयस्तथायं कविकल्पितः॥
का०-
शब्दार्थोभयभूरेकः
टि०-
सदैव विबुधैर्मतः ॥
वृ०- अतन्द्रचन्द्राभरणा समुद्दीपितमन्मथा ।
तारकातरला श्यामा सानन्दं न करोति कम् ॥
चैवोपमा
व्यङ्गया ज्योत्स्नीरात्रिरिवारला।
टि०-तारकातरलाद्या वै परिवृत्त्यसहिष्णवः ॥
अतन्द्रेत्यादयः शब्दाः परिवृत्ति सहिष्णवः ।
अर्थस्य शब्दस्य तथा मता व्यजकता बुधैः ।।
टि०-ध्वनेरुक्ताः प्रसङ्गेन,
भेदा अष्टादशास्य तत् ।
रसादीनामनन्तत्वाद्भेद एको हि गण्यते ॥
१०-पूर्व नव रसास्तत्र शृङ्गारो द्विविधः स्मृतः ।
सम्भोगो विप्रलम्भश्च पुनराधस्त्वनेकधा ।।
आलिङ्गन चुम्बनञ्च परस्परविलोकनम् ।
कुसुमावचयश्चैव जलकेलिरथापि च ॥
सूर्यास्तसमयश्चन्द्रोदयः षड् ऋतवस्तथा ।
अभिलाषादिभेदश्च विप्रलम्भोऽपि पञ्चधा ।
तयोरपि. विभावे च ह्यनुभावे तथैव च
व्यभिचारिणि भावे च स्याद्वैचित्र्यमनेकधा ।
का०-

१०२ काव्य-प्रकाशः। M तत्रापि नायिकादेर्हि मध्यमोत्तमनीचता । देशकालाधवस्थानां भेदास्तत्रापि संस्थिताः॥ इत्येकस्य रसस्यैव ह्यानन्त्यं च भवेदध्रुवम् । कान्येषां गणना स्यादै रसानामिति वित्तमाः ।। असंलक्ष्यक्रमत्वन्तु रसादिध्वनिभेदतः। सदा सामान्यमाश्रित्य गण्यते ोक एव सः॥ का०-वाक्ये व्युत्थो- टि- भवेत्तत्र शब्दार्थोभयशक्तितः । भवन्ति च- का. पदेऽप्यन्ये- वृ०- वाक्येऽपि च तथैव च ॥ एकावयवसंस्थेन भूषणेनेव कामिनी । पदव्यङ्गयेन मुकवेर्ध्वनिना भाति भारती ॥ तत्राविवक्षिते वाच्ये पदप्रकाश्यता ध्वनः । यस्य मित्राणि मित्राणि शत्रवः शत्रवस्तथा ॥ अनुकम्प्योऽनुकम्प्यश्च स जातः स च जीवति ।। अत्र द्वितीयमित्रादिशब्दाः स्वार्थे हि बाधिताः । प्रकृतेऽनुपयुक्तत्त्वादत्यजन्तः स्वमर्थकम् ॥ अर्थान्तर संक्रमिता अविवक्षितवाच्यके । आश्वस्तत्वं लक्षयति मित्राणीति पदं पुनः॥ ततो नियन्त्रणीय शत्रशब्दोविलक्षयेत ।

--
चतुर्थ उल्लासः।
अनुकम्प्यपदञ्चापि लक्षयेत्स्नेहपात्रताम् ॥
प्रकृतौ स्थिरतानेन नायकस्येति व्यज्यते ।
खल व्यवहारा दीसन्ति,
दारुणा जहावि तहवि धीराणाम् ।
हिअवअस्स बहुमा,
ण हु ववसाआ विमुज्झन्ति ॥
मोहश्चेतनधर्मोऽयं बाधितोऽचेतने ततः।
अत्यन्तं च त्यजन्नर्थ विमुज्झन्ति पदं पुनः ।
विरामरूपमेवार्थ ततो लक्षयति स्फुटम् ।।
तेनेष्टकार्यकारित्वं व्यज्यते सुमनोहरम् ।
विवक्षितान्यवाच्येऽपि पदप्रकाश्यमुच्यते ।
लावण्यं तदसौ कान्तिस्तद्रूपं तत्पराक्रमः ।
तदा सुधास्पदमभूदधुना तु ज्वरो महान् ।।
तदसौ स तदेत्यादिपदैराः प्रकाशिताः।
तथानुभवमात्रैकगोचरा अक्रमाः पुनः ।।
मुग्धे मुग्धतयैव नेतुमखिलः कालः किमारभ्यते,
मानं धत्स्व धृतिं बधान ऋजुतां दूरे कुरु प्रेयसि ।।
सख्यैवं प्रतिबोधिता प्रतिवचस्तामाह भीतानना,
नीचैः शंस हृदि स्थितो हि ननु मे प्राणेश्वरः श्रोष्यति ।।
भीताननेत्यत्र पदं नीचैः शंसनयोग्यताम् ।
प्रकाशयन्मुख्यतया रागाधिक्यं व्यनक्तयपि ॥

१०४ काव्य-प्रकाशः। ---- असंलक्ष्यक्रमव्यङ्गयः सम्भोगध्वनिरत्र तत् । पदप्रकाश्यतायान्तु भावादेन विचित्रता ॥ उदाहृता इमे नात्र तस्मादेव विरम्यते । अथ लक्ष्यक्रमव्यङ्गयधनिभेदेषु दर्शितः।। शब्दशक्तिसमुत्थोऽत्र पूर्वमुक्तो ध्वनिर्यथा ।। रुधिरविसरप्रसाधित- करवालकरालरुचिरपरिघः। झटिति भ्रकुटिविटङ्कित- ललाटपट्टो विभाति नृपभीमः ॥ भीमो भयङ्करो वाच्यः पाण्डवो व्यङ्गय इष्यते । अत्रोपमा हलङ्कारो व्यज्यते मुस्फुटं च तत् ।। भुक्तिमुक्तिकृदेकान्तसमादेशनतत्परः । कस्य नानन्दनिष्यन्दं विदधाति सदागमः ॥ सदागमपदश्चात्र स्वकीयोपपतिम्प्रति । सच्छास्त्रं मुख्यया वृत्त्या बोधयित्वैव तत्पुनः ॥ सज्जनागमरूपं हि व्यनक्ति वस्तु तत्क्षणम् । तथा संदागम इव नूनमेष सदागमः ।। इत्यनेन प्रकारेण सम्भवेदुपमाध्वनिः । विवक्षाविरहात्किन्तु व्यज्यते वस्तु नोपमा ॥. अधुना चार्यशक्त्युत्थध्वनिभेदेषु पूर्ववत् । पदप्रकाश्यताप्यत्र प्राप्तकालं यथोदृता ।।

चतुर्थ उल्लासः।
सायं स्नानमुपासितं मलयजेनाङ्गं समालेपितं,
यातो ऽस्ताचलमौलिमम्बरमणिर्विश्रब्धमत्रागतिः ।
आश्चर्य तब सौकुमार्यमभितः क्लान्तासि येनाधुना,
नेत्रद्वन्द्वममीलनव्यतिकरं शक्नोति ते नासितुम् ।।
आश्चर्य सौकुमार्यन्त इति वाच्येन वस्तुना ।
कृतोपपतिसङ्गा वं क्लान्तति वस्तु व्यज्यते ।।
तच्चाधुना पदेनैव स्वतः सम्भविना तथा ।
तदप्राप्तिमहादुःखविलीनाशेषपातका ।
तचिन्ताविपुलाह्लादक्षीणपुण्यचया तथा ।।
चिन्तयन्ती जगत्सूति परब्रह्मस्वरूपिणम् ।
निरुच्चासतया मुक्तिं गतान्या गोपकन्यका ।।
"नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ।"
इति श्रुतेः मुभोग्यानि जन्मनां च सहस्रकैः ।।
भुक्तानि तान्यशेषाणि दुरितानां फलानि वै ।
वियोगतापदुःखस्य चिन्तनेनेति वस्तुना ।।
तादात्म्याध्यवसायेन नितान्तं फलदुःखयोः।
तदशेषपदेनात्रातिशयोक्तिः मुव्यज्यते ।।
तथैव स्मृत्यालादेन भुक्ताः पुण्यचया अपि ।
अनेन वस्तुनात्रापि सुपुण्यफलसौख्ययोः ।
अभेदाध्यवसायाच्चातिशयोक्तिध्रुवं मता।
सा च चयपदद्योत्या स्वतः सम्भविव्यञ्जके ॥

१०६
काव्य-प्रकाशः।
क्षणदासावक्षणदा,
वनमवनं व्यसनमव्यसनम् ।
बत वीर तव द्विषतां,
पराङ्मुखे त्वयि पराङ्मुखं सर्वम् ।।
शब्दस्य शक्तिमूलेन विरोधाङ्गेन सर्वदा ।
पराङ्मुखे त्वयीत्यादौ तेनार्थान्तरन्यासतः ॥
वस्तु सर्वपदद्योत्यं विधिरप्यनुवर्तते ।
तुह वल्लहस्स गोसम्मि
आसि अहरो मिलाणकमलदलो ।
इअ णववहुआ सोऊण,
कुणह वअणं महीसम्मुहम् ॥
अधरो म्लानकमलदलं रूपकतः खलु ।
तथा कृतं त्वया चास्य चुम्बनं हि मुहुर्मुहुः ॥
यथा म्लानत्वमित्येवं हेतुना व्यज्यते ततः।
काव्यलिङ्गमलङ्कारो मिलाणपदशक्तितः ॥
राइम चन्दधवलास,
ललिश्रमप्फालिऊण जो चावम् ।
एकछत्तं विअ कुणड,
भुअणरजं विजम्भन्तो॥
अत्र चापास्फालनेन किच्छत्रमिव स्फुटम् ।
करोति राज्यमिति च वस्तुना व्यज्यते ततः ॥

चतुर्थ उल्लासः।
१०७
येषां हि कामिनां राजा कामस्तेषु तु कश्चन ।
कदाचिन मवेदेव तदादेशपराङ्मुखः ॥
उपभोगपरैः किन्तु तैरात्रिरातिवाह्यते ।
एतद्वस्तु च भुअणरज्जद्योत्यं विनिश्चितम् ।।
निशितशरभियार्पयत्यनको,
दृशि सुदृशः स्वबलं वयस्यराले ।
दिशि निपतति यत्र सा च तत्र,
व्यतिकरमेत्य समुन्मिषन्त्यवस्थाः ।।
समुन्मिषन्त्यवस्थात्र वस्तुनानेन सर्वदा ।
परस्परं विरुद्धा हि तथावस्था भवन्त्यपि ॥
असौ विरोधालङ्कारो व्यक्तो व्यतिकरेण वै ।
वारिज्जन्तो वि पुणो,
सन्दावकस्थिएण हिअएण।
थणहरवअस्सएण,
विमुद्धजाइ ण चलइ हारो॥
स्तनभारवयस्येन शुद्धजातित्वहेतुना ।
काव्यलिङ्गेन हारो हि कम्पमानो निरन्तरम् ॥
आस्ते हीति 'ण चलइ' पदद्योत्यं च वस्तुकम् ।
सो मुद्धसामलङ्गो,
धमिल्लो कलिअ-ललिअ-णिअ-देहो ।
तीए कन्धाहि बलं,
गहिअ सरो सुरअसङ्गरे जअइ ॥

काव्य-प्रकाशः।
~
धम्मिल्लस्मर एतेन, तथा सुरतसङ्गरे ।
एतेन, रूपकेणात्र मुहुराकर्षणेन वै ॥
केशपाशस्तथा प्राप्तोाधुना स्कन्धयोर्यथा ।
मुरतस्य निवृत्तावप्यनिवृत्ताभिलाषुकः ॥
कामुकोऽभूदिति पुनर्व्यज्यते ऽत्र विभावना ।
सा च स्कन्धपदेनैव कविप्रौढोक्तिमात्रगा ।।
णवपुणिमामिअङ्कस्स,
मुहअ को तं सि भणमु मह संचम् ।
का सोहग्गसमग्गा,
पओस-रअणिव्य तुह अज्ज ॥
उक्तेन वस्तुनान्यस्यां मयीव प्रथमं प्रिय ।
अनुरक्तोऽभवत्सत्यं न कदापि ततः परम् ॥
णवपुण्णिमेतिपदप्राधान्येनात्र व्यज्यते ।
वस्तु तत्कविबद्धन मार्गेणैव च केवलम् ॥
सहि णवणिहुवणसमरम्मि,
अंकवालीसहिए णिबिडाए ।
हारो णिवारिओ व्विअ
उच्छेदन्तो तदो कई रमिअम् ॥
वाच्येन वस्तुमात्रेण हारच्छेदादनन्तरम् ।
इंहो तव नवोढायाःप्रौढातो हि विलक्षणम् ॥
अभूद्रतमवश्यं च कीदृशं तद्वदाधुना।
एवं कहं पदेनात्र व्यतिरेको हि व्यज्यते ॥

चतुर्थ उल्लासः।
'१०६
प्रविशन्ती घरबारं,
विवलिअवअणा विलोइऊण पहम् ।
खधे घेत्तूण घडं,
हा हा णटोत्ति रूआस सहि किं ति ॥
नष्टोऽतो रोदिषीत्येवं काव्यलिंगेन वै पुनः ।
गच्छन्तं कामुकं दृष्ट्वा स्वसङ्केतनिकेतनम् ॥
गन्तुमिच्छसि चेत्तत्र गृहीत्वैवापरं घटम् ।
गच्छति वस्तु किं तीति पदेनात्रापि व्यज्यते ।
कविप्रौढोक्तिसिद्धत्वाभावादत्र न तत्तथा ।
यथावेति पदं दत्वा द्वितीयं समुदाहृतम् ।।
विहलंखलं तुमं सहि,
दळूण कुडेण तरलतरदृष्टिम् ।
वारप्फसमिसेण अ,
अप्पा गुरुओत्ति पाडिअ विहिण्णो ॥
अप्राप्तं कृतसङ्केतं नदीकूले लतागृहे ।
गृहप्रवेशावसरे प्राप्तं पश्चाद्विलोक्य च ।।
नदीयानेच्छया भूयः स्फोटितो बुद्धिपूर्वकम् ।
द्वारोपघातव्याजेन घटो व्याकुलया त्वया ॥
मयैवं चिन्तितं तत्कि नाश्वसिपि हि नायिके ।
निर्भयं हि व्रज त्वन्तु तत्समीहितसिद्धये ॥
ते श्वश्रूनिकटेऽहं च सर्वमेतत्समर्थये ।
वारप्फंसमिसेणेति
घपहृत्यात्र
व्यज्यते ॥

काव्य-प्रकाशः।
AN
वस्तु तत्कविबद्धन मार्गेणैवेति निश्चयः।
जोहाइ महुरसेण अ,
विइण्णतारुण्ण उत्सुअमणा सा ।
वुढा वि णवोढायिअ,
परवहुआ अहह हरइ तुह हिअअम् ॥
सा वै परवधूत्वेन चित्तन्ते हरति ध्रुवम् ।
काव्यलिङ्गेनेत्यनेन समुज्झ्यास्मांस्त्वमिच्छसि ।।
वृद्धां परवधूं तत्र वक्तुं न शक्यते खलु ।
त्वदीयाचरितञ्चैतदाक्षेपोऽयं प्रकाश्यते ।।
प्राधान्यतः परवहूपदेनेति न संशयः ।
शब्दार्थशक्तिमुले तु पदव्यंजकता नहि ॥
वाक्यस्यैव च प्राधान्याद्वाक्यं पूर्वमुदाहृतम् ।
टि०- अर्थान्तरे संक्रमितमत्यन्तं वा तिरस्कृतम् ।
तथाऽलक्ष्यक्रमश्चैव त्रयस्त्वेते समीरिताः ॥
लक्ष्यक्रमेष्वपि
पुनः
वस्त्वलंकारभेदतः ॥
स्याच्छब्दशक्तिमूलोऽसौ द्विविधः काव्यनिर्णये ।
तथार्थशक्तिमूलोऽपि भवेद्वादशधा पुनः ।।
भेदाः सप्तदशैते हि पदवाक्यगता अपि ।
द्विविधास्ते मिलित्वा च चतुस्त्रिंशद्विधा स्मृताः ॥
एकश्चोभयशक्तयुत्थः पंचत्रिंशदुदीरिताः
भवेच्च द्वादशविधः
का-
प्रबन्धेऽप्यर्थशक्तिभूः।

चतुर्थ उल्लासः।
१०-उदाहृतः पदे वाक्ये प्रबन्धेऽथ निदर्श्यते ।
गृध्रगोमायुसंवादे यथा भारतमध्यगे ॥
अलं स्थित्वा श्मशानेऽस्मिन् गृध्रगोमायुसङ्कुले
कङ्कालबहले घोरे सर्वप्राणिभयङ्करे ॥
न चेह जीवितः कश्चित्कालधर्ममुपागतः ।
प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीहशी ॥
दिवाशक्तस्य गृध्रस्य वाक्यं जननिवारकम् ।
आदित्योऽयं स्थितो मूढाः स्नेहं कुरुत साम्प्रतम् ॥
बहुविघ्नो मुहूर्तोऽयं जीवेदपि कदाचन ॥
अमुं कनकवर्णाभं बालमप्राप्तयौवनम् ।
गृध्रवाक्यात्कथं मूढास्तजनमविशङ्किताः ।।
निशि विजृम्भमाणस्य गोमायोर्वचनन्त्विदम् ।
जनव्यावर्तने निष्ठं प्रबन्धेन प्रकाश्यते ॥
अत्र स्वतः सम्भविना वस्तुना वस्तु व्यज्यते ।
एकादशान्ये भेदास्तु ग्रन्थविस्तरभीतितः ।।
नोदाहृतास्ते च पुनर्विज्ञेया विबुधोत्तमैः ।
का-पदैकदेशरचनावर्णेष्वपि रसादयः॥
टिक-पदं वाक्यं पदार्थश्च वाक्यार्थों धातुरप्यथ ।
सुप् तिङ् च प्रातिपदिकं कालो वचनमेव च ॥
अपिपूर्वनिपातौच विभक्तिः कापि तद्धितः ।
निपाताश्चादयः प्राद्या उपसर्गास्तथैव च ॥

काव्य-प्रकाशः। ८ - 1. सर्वनामाव्ययीभाव इमनिज् प्रत्ययस्तथा । आधारः कर्मभूताख्यो. वर्णाश्च रचनादयः ।। प्रबन्धाश्च कविप्रौढोक्तिः रसश्च वस्त्वलङ्कातिः ।। एतेषां व्यञ्जकत्वं हि भवेल्लक्ष्यक्रमे पुनः ।। ३० रइकेलि-हिअ-णिअसण- कर-किसल अ-रुद्ध-णअण-जुअलस्स । रुदस्स तइअ-णअणं पवई-परिचुंबिधे जअइ ॥ जयतीति रतिव्यक्तावुक्तवान्न तु शोभते । जिधातुरूपपकृतेः प्राधान्यमिह विद्यते ॥ यतः स्थगन-व्यापारसाम्येऽप्यस्य पिधानकम् । लोकोत्तरेणैव पुनर्व्यापारेणेति सर्वथा ॥ उत्कृष्टमेतदेव स्याद्यदेवं धन्यजीवितम् । प्रेयान् सोऽयमपाकृतः सशपथं पादानतः कान्तया, द्वित्राण्येव पदानि वासभवनाद्यावन्न यात्युन्मनाः । तावत्प्रत्युत पाणिसम्पुटगलन्नीवीनिबन्धं धृतो, धावित्वैव कृतप्रणामकमहो प्रेम्णो विचित्रा गतिः । द्वाराणीति परित्यज्य पदानीति प्रयुक्तवान् । ततश्च द्वारपर्यन्तगमनेऽप्यसहिष्णुताः। उत्कण्ठातिशयस्तेन व्यज्यते. नापतः खलु । पथि पथि शुकचञ्चूचारुराभाङ्कुरापा, 7

चतुर्थ उल्लासः।
११३
१
'
दिशि दिशि पवमानो वीरुधा लासकश्च ।
नरि नरि किरति द्राक् सायकान्पुष्पधन्वा,
पुरि पुरि विनिवृत्ता मानिनीमानचर्चा ||
तिङा करोतीत्यनेन किरणस्यात्र साध्यता।
सुपा निवृत्तेत्यनेन निवृत्तेश्चापि सिद्धता ।।
तीत्येतद्वर्तमानत्वं क्तोऽतीतत्वं व्यनक्तिं वै ।
कारणं किरणञ्चात्र निवृत्तिः कार्यमुच्यते ॥
टि०-तयोहि पौर्वापर्यस्य विपर्ययस्वरूपतः ।
तद्रूपातिशयोक्तिश्च व्यक्ता भवति सुस्फुटम् ॥
१०-लिखन्नास्ते भूमि बहिरवनतः प्राणदयितः,
निहाराः सख्यः सततरुदितोच्छूननयनाः ।
परित्यक्तं सर्व हसितपठितं पारशुकैः,
तवावस्था चेयं विसन कठिने मानमधुना ॥
अथात्र भूमिमित्युक्तं न तु भूमौ सुंपा खलु ।
तथा न लिखतीत्युक्तं शत्रा चव लिखन्निति ॥
अबुद्धिपूर्वकं किञ्चिल्लिखतीति च व्यज्यते ।
आस्ते प्रयुक्तमित्यत्र न तथासित इत्यपि ।।
स्थितिः प्रसादपर्यन्ता तेन व्यक्ता भवेत्तिङा ।
अंत्र तिङ् सुब् विभक्तीनां व्यनकत्वं विनिश्चितम् ॥
'गामरुंहम्मि गामे,
वसामि गंअर डिई १ जाणा।

काव्य-प्रकाशः। ------ णाअरिआणां पइणो, हरोम जा होमि सा होमि ॥ टि०- अत्र नागरिकाणां हि नूनं षष्ठीविभक्तितः । तादृक्कलाभिज्ञतादिरूपं पत्यो प्रकाश्यते ॥ वृ०- "रमणीयः क्षत्रियस्य ह्यासीदेष कुपारकः ।" भग्नमाद्देशकोदण्डे रामे क्रोधोऽत्र व्यज्यते ॥ टि०-भार्गवस्य यथा वीर-चरिते नाटके पुनः । आसीदिति च लङ्पभूतकालप्रयोगतः ॥ वृ० ताणं गुणग्गहणाणं, ताणुक्कण्ठाणं तस्य पेमस्स । ताणं भणिआणं, मुन्दर एरिसिअंजाअमवसाणम् ।। तद्गणग्रहणदीनां कारणानामनेकता । प्रेम्णस्तस्यति कार्यस्य अस्त्येव स्फुटमेकता ।।. अत्रैकत्वबहुत्वस्य व्यंजकत्वं विनिश्चितम् । रे रे चञ्चललोचनाञ्चितरुचे चेतः प्रमुच्य स्थिर- प्रेमाणं महिमानमेणनयनामालोक्य किं नृत्यास । किं मन्ये विहरिष्यसे बत इतो मुञ्चान्तराशामिमां, एषा कण्ठतटे कृता खलु शिला संसारवारांनिधौ ॥ टि०-'प्रहासे चे' ति मन्यस्य ह्येकतोत्तमता मता । त्वं मन्ये तेन चैवात्र हासोक्तिय॑ज्यते खलु ॥

......-.--
-~-..
चतुर्थ उल्लासः।
११५
वृ०- येषां दोर्चलमेव दुर्बलतया ते सम्मतास्तैरपि,
प्रायः केवलनीतिरीतिशरणः कार्य किमुर्वी धरैः ॥
ये माशक पुनः पराक्रमनयस्वीकारकान्तक्रमा,
स्ते स्युनॆव भवादशास्त्रिजगति द्विवाः पवित्राः परम् ।।
टि०-पराक्रमनयेत्यत्र समासो द्वंद्व इष्यते |
नयस्याल्पाच्तरत्वेऽप्यकृतं पूर्वनिपातनम् ।।
पराक्रमस्य प्राधान्यमत्र तेनावगम्यते ।
४०-
प्रधानाध्वनि धीर धनु-
यनिभृति विधुरैरयोधि तव दिवसम् ।
दिवसेन तु नरप भवा.
नयुद्ध विधिसिद्धसाधुवादपदम् ॥
टि०-" कालावनोरि ” त्यनेन द्वितीया दिवसं ततः ।
उदयास्तमयं यावदयोधि शत्रुणा तव ॥
" अपवर्गे तृतीये" ति तृतीया दिवसेन वै ।
फलप्राप्तिस्तवैवेति द्योत्यते हि तृतीयया ॥
१०- भूयो भूयः सविधनगरीरथ्यया पर्यटन्तं,
दृष्ट्वा दृष्ट्वा भवनवलभीतुङ्गवातायनस्था ।
साक्षात्कामं नवमिव रतिमालती माधवं यत,
गाढोत्कण्ठालुलितलुलितैरङ्गकैस्ताम्यतीति ।
टि०- अङ्गादत्रा " नुकम्पाया " मिति कप्रत्यये कृते ।
दयनीयोऽयामिति च व्यज्यते तद्धितेन वै॥
।

१
काव्य-प्रकाशः।
-..-----
7
-
१०- परिच्छेदातीतः सकल कचनानामविषयः
पुनर्जन्मन्यस्मिन्ननुभवपथं योन गतवान् ।
विवेकमध्वंसादुपचितमहामोहगहनो-
विकारः कोऽप्यन्तर्जड़यनि च तापं च कुरुते ॥
टि०-ध्वंसशब्दप्रयोगेऽपि भवेदेव ग़तार्थता । .
प्रोपसर्गस्य योगेन प्रकर्षत्वं हि व्यज्यते ।।
कृतञ्च गर्वामिमुख मनस्त्वया,
किमन्यदेवं निहत्ताश्च नो द्विषः ।
लमांसि तिष्ठन्ति हि तावदंशुमान,
न यावदायात्युदयाद्रिमौलिताम् ॥
टि-निपातेन " च " शब्देन व्यज्यते तुल्ययोगिता ।
उक्तोनागेशभट्टेन ह्यसावेव समुच्चयः ॥
१०- रामोऽसौ भुवनेषु विक्रमगुणैः प्राप्तः प्रसिद्धिं परा-
मस्मद्भाग्यविपर्ययाद्यदि परं देवो न जानाति तम् ।
बन्दीवैष यशांसि गायति मरुयस्यैकबाणाहति-
श्रेणीभूतविशालतालविवरोद्गीर्णैः स्वरैः सप्तभिः ।।
व्यज्यते सुप्रसिद्धिश्व सर्वनाम्ना ह्यसाविति ।
न चैकभुवने किन्तु समस्तभुवनेष्वपि ॥
गुणेनैकेन दोषैर्वा न किन्तु मुगुणरिति ।
बहुत्वस्य प्रयोगेण व्यज्यते नैव संशयः॥
न त्वन्न मत्तथैवात्र यस्मदित्यस्य निश्चितम् ।

१.१७ -~-- . चतुर्थ उल्लासः सर्वस्याक्षेपिणो नूनं सर्वनाम्नस्तथैव च । न चाभाग्यवशेनात्र न दुर्भाग्यवशेन वा । किन्त्वेतत्फलितं सर्वं मम भाग्यविपर्ययात् । एवमाद्याभधानस्य व्यंजकत्वमितीरितम् । तरुणिमनि कलयति कला- मनुमदनधनुर्भुवोः पठत्यग्रे । अधिवसति सकलललना- मौलिमियं चकितहरिणचलनयना ।। 'स्व' समानार्थकेनात्र नूनं तरुणशब्दतः । इमनिरत्ययेनापि प्रौढित्वं वयसि ध्रुवम् ।। व्यज्यते सौकुमार्य च तद्विद्वद्भिनिगद्यते । धनुः समीप एतेन भवेदेव गतार्थता ।। अत्राप्यनुधनुर्धृत्वा वैशिष्टयं प्रकटीकृतम् । मौलाविति प्रयोक्तव्य उक्तं मौलिमितीह वै ।। सौन्दर्यातिशयो व्यक्तस्तेन नूनं भवेदिति । वर्णानां रचनानाञ्च व्यक्तिर्गुणनिरूपणे ॥ अपि शब्दात्मबन्धेषु नाटकादिष्वपि स्मृतम् । वाक्ये पदे तदंशे च रचनायां तथैव च ।। वर्णे तथा प्रबन्ध च व्यञ्जकत्वं हि षड्विधम् । का-भेदास्तदेकपञ्चाश- टि- दुक्ता पूर्वप्रसङ्गतः ॥ अविवक्षितवाच्यस्य प्रथमं भेदयोदयोः

काव्य-प्रकाशः।
~~~~
का०-
पदवाक्यगतत्त्वेन चातुर्विध्यं प्रशस्यते ।
विवक्षितान्यवाच्ये च ह्यसंलक्ष्यक्रमः पुनः ।
पदादिगतभेदेन षड्विधो गण्यते बुधैः ॥
लक्ष्यक्रमे शब्दशक्तिििवधोऽपि चतुर्विधः ।
स द्वादशविधोऽप्यत्र ह्यर्थशक्तिः पदादिगः ॥
षत्रिंशद्विध एव स्यादेकस्तूभयशक्तिनः ।
एकपञ्चाशदेवं स्युः सर्वसङ्कलनेन वै ॥
भूवियद्रसनेत्राणि-(२६०१)
तेषां चान्योन्ययोजने ।
टि०-अङ्गाङ्गित्वेऽलङ्कतीनां तद्वदेकाश्रयास्थितौ ॥
सन्दिग्धत्वे च भवति संकरस्त्रिविधस्ततः ।
का०-सङ्करेण त्रिरूपेण संसृष्टया चैकरूपया ।।
वेदखाब्धिवियचन्द्रा-(१०४०४)
टि-
भवन्ति व्यञ्जनाभिदः ।
शुद्धभेदैः समं भूयः-
का० (१०४५५) शरेषुयुगखेन्दवः॥
टि०-परं मतेऽर्वाचीनानामयुक्ता गणना यतः ।
अग्रिमाग्रिमभेदस्य योजनं हासकृद्भवेत् ।।
अर्थान्तरे संक्रमितवाच्यस्यान्येन योजने ।
यो भेदः सम्भवेन्नूनं सोऽत्यन्तस्यापि सम्भवेत् ।।
-

चतुर्थ उल्लासः।
गुणजातिक्रियाद्रव्यैर्गुणादिगुणेन पुनः ।
विषमावसरे स्युर्वं भेदाः षोडशयोजने ॥
परं दशैव दशमे भवतैव निदर्शिताः ।
रसदपक्षाग्निमेदिन्यस्तस्माद्भेदा भवन्त्यमी ( १३२६)।
संसृष्टया सङ्करैश्चापि वेदाभ्रदहनेषवः (५३०४) ।
संयोजने शुद्धभेदैः बाणेष्वग्निशराः स्मृताः (५३५५)
कविराजोऽपि मनुते निजसाहित्यदर्पणे ।
वेदखाग्निशराः शुद्धैरिशुबाणाग्निसायकाः ॥
विरुणद्धि मतञ्चैतत्किन्तु गोविन्दठक्कुरः ।
ध्वनिष्वपि भवेन्नूनं पुंडूकादिरसेष्विव ॥
हृद्यत्वेऽतिशयस्तद्वदेवानतिशयः पुनः ।
अर्थान्तरगतश्चापि तथात्यन्ततिरस्कृतः ॥
अनयोर्मेलने भूयश्चमत्कृतिरिति ध्रुवम् ।
अन्यथा तत्रभवता विषमालङ्कतेर्भिदाः ॥
गणिताः षोडशस्थाने दशैव न कथं पुनः ।
किञ्च चेदग्रिमस्यात्र गुणनं हासकृत्तदा ।
तद्वस्तुनालङ्कारस्य ह्यलङ्कारेण वस्तुनः ।
व्यक्तावपि न वैचित्र्यं कथं द्वादशता पुनः ॥
एवञ्च भट्टपक्षस्य साधीयस्त्वं विनिश्चितम् ।
१०- खणपाहुणिमा देअर,
जाआए मुहम किंपि दे भणिया।

काव्य-प्रकाशः पञ्चम उल्लासः। १०- सह भेदमभेदैस्तैनिीते हि ध्वनौ पुनः । गुणीभूतव्यङ्गयभेदान् क्रमप्राप्तानथ ब्रुवे ।। का०-अगूढमपरस्याङ्गं वाच्यसिद्धयङ्गमस्फुटम् । सन्दिग्धतुल्यप्राधान्ये काकाक्षिप्तमसुन्दरम् । व्यङ्गयमेवं गुणीभूतव्यङ्गयस्याष्टौ भिदाः स्मृताः टि-असत्सन्दिग्धप्राधान्यतुल्यप्राधान्यभेदतः । त्रिविधं मध्वमं काव्यं हेमचन्द्रमते पुनः ॥ असुन्दरं पराङ्गश्च ह्यस्फुटं सुस्फुटं तथा । असत्येव विलीयन्ते तेन नैवाष्टभेदता ॥ वृ०-कामिनीकुचवद्हं तस्करोति चमत्कृतिम् । प्रतीयते चागूढन्तु सदैव वाच्यवत्स्फुटम् ।। गुणीभूतत्वमेव स्याद्वयङ्गयस्येति बुधा जगुः । यस्यासुहृन्कृततिरस्कृतिमेत्य तप्त- सूचीव्यधव्यतिकरेण युनक्ति करें। काञ्चीगुणग्रथनभाजनमेष सोऽस्मि, जीवन सम्पति भवामि किमावहामि पंचम उल्लासः। ----Ame. -AAAAAAAA जीवन म्रियते कश्चिदिति मुख्यार्थबाधने । कार्येऽशक्तिं लक्षयति निजस्याभिमते पुनः॥ अर्थान्तरे हि संक्रम्य श्रेयो मे मरणं ध्रुवम् । इति व्यङ्गयमगूढं तद् वाच्यवद्वै प्रतीयते ।। उभिद्रकोकनदरेणुपिशङ्गिताङ्गाः, गायन्ति मञ्ज मधुपा गृहदीर्घिकासु । एतच्चकास्ति च रवेर्नवबन्धुजीव- पुष्पच्छदाभमुदयाचलचुम्बिविम्बम् ।। चुम्बनं चैतनं धर्म तत्सूर्येऽचेतने कथम् । इति मुख्यार्थबाधेन संयोगो लक्ष्यते ततः ॥ अत्यन्तं हि तिरस्कुर्वन्नुषःकालश्च व्यज्यते । वाच्यायमानमेवैतदगूहं गौणरूपतः ।। अत्रासीत्फणिपाशबन्धनविधिः शक्त्याभवद्देवरे, गाढं वक्षसि ताडिते हनुमता द्रोणाद्रिरत्राहृतः । दिव्यैरिन्द्रजिदत्र लक्ष्मणशरैर्लोकान्तरं प्रापितः, केनाप्यत्र मृगाक्षि राक्षसपतेः कुत्ता च कण्ठाटवी ॥ अत्रानुनायके प्रोक्ते सुमित्रानन्दने पुनः। मेघनादे चेन्द्रजिसि वर्णिले प्रतिनायके । अनुनायके हनुमति धीरोदात्तो हि नायकः । . व्यक्तीभवेद्राम एव ह्यर्थशक्तथैव केवलम् ।। केनाप्योति शब्देन तद्वयङ्गयं प्रस्फुटीकृतम् । तस्याप्योति पाठे तु ख्यातस्य रावणस्य वै ।।

१२४.. काव्य-प्रकाशः। परामर्शन रामस्य व्यङ्ग्यमक्षुण्णमेव तत् ।। अनुस्वानामसंलक्ष्यक्रमोऽलक्ष्यक्रमस्तथा । अपरस्य रसादेर्वा वाच्यस्याङ्गं भवेधदा । अपराङ्गगुणीभूतव्यङ्गयं निश्चयमेव तत् ॥' अयं स रशनोत्कर्षी पीनस्तनविमर्दनः । नाभ्यूरुजघनस्पर्शी नीवीविषेसनः करः॥ परिदेवनरूपस्य करुणस्याङ्गमत्र वै । शृङ्गारो ह्यभवानूनमसंलक्ष्यक्रमस्ततः ।। ठि०- एको रसो रसस्याथ भावस्याङ्गं यदा भवेत् । काव्यविद्भिरलङ्कारः कथ्यते रसवत्तदा ।। शृङ्गारकरुणौ चात्र ह्यङ्गाङ्गित्वमुपाश्रितो । -कैलासालयभाललोचनरुचा निर्वर्तितालतक- व्यक्तिः पादनखद्युतिगिरिभुवः सा वः सदा त्रायताम् । स्पर्धाबन्धसमृद्धयेव सुदृढं रूढा यया नेत्रयोः, कान्तिः कोकनदानुकारसरसा सद्यः समुत्सार्यते ॥ पार्वतीविषयस्यात्र रतिभावस्य निश्चयम् । शृङ्गारोऽङ्गमभूत्तेन गौणत्वं रसवच तत्।। ... अत्युच्चाः परितः स्फुरन्ति गिरयः स्फारास्तथाम्भोधय- स्तानेतानपि बिभ्रती किमपि न क्लान्तासि तुभ्यं नमः। आश्चर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमि यावद्भुव- स्तविद्धिम॑दिमा स्मृतस्तव भुजो बाँचस्ततो मुंद्रिताः ॥ -

पंचम उल्लासः।
१२५
तथात्र रतिभावोऽयं पृथिवीविषयः पुनः ।
नृपतिस्तुतिरूपस्य रतिभावस्य चाङ्गकम् ॥
टि०- तदा प्रेयो यदा नूनं भावो मावाङ्गतां भजेत् ।
अभूद्भावस्य भावोऽङ्ग प्रेयोऽलङ्कार एव तत् !!
वृ०-बन्दीकृत्य नृप द्विषां मृगदृशस्ताः पश्यतां प्रेयसां,
श्लिष्यन्ति प्रणमन्ति लान्ति परितश्चुम्गन्ति ते सैनिकाः।
अस्माकं सुकृतैर्देशोर्निपतितोऽस्यौचित्यवागं निधे,
विध्वस्ता विपदोऽखिलास्तदिति तैःप्रत्यर्थिभिः स्तूयसे ।।
पूर्वार्धे सैन्यनिष्ठा या रतिः सा परदारगा।
अनौचित्यप्रवृत्तत्वाच्छृङ्गाराभास एव सः॥
उत्तरार्धे पुनरिनिष्ठो भावश्च शत्रुगः ।
भावाभासावुभौ तौ हि रतिभावाङ्गतां गतौ ।।
टि०- अनौचित्यप्रवृत्तानां कामक्रोधादिकारणात् ।
भवानाञ्च रसानाञ्च बन्धऊजस्विदिष्यते ।
तेनोर्जस्विदलङ्कारो गण्यते विबुधैरयम् ।
अविरलकरवालकम्पनै-
(कुटीतर्ननगर्जनैर्मुहुः।
ददृशे तव वैरिणां मदः,
स गतः कापि तवेक्षणे क्षणात् ॥
पार्थिवस्तुतिरूपस्य रतिभावस्य चाकम् ।
वैरिणो मदरूपस्य भावंशान्तेर्न संशयः ।।

१२६
काव्य-प्रकाशः।
दि०- रसभावतदाभासवृत्तैः प्रशमबन्धनम् ।
समाहितमिति प्रोक्तमत्रतल्लक्षणाङ्कितम् ॥
साकं कुरङ्गकदृशा मधुपानलीलां,
कर्तुं सुहृद्भिरपि वैरिणि ते प्रवृत्ते ।
अन्याभिधायि तव नाम विभा गृहीतं,
केनापि तत्र विषमामकरोदवस्थाम् ।।
बासस्य वदयश्चात्र भावस्याङ्गमभूत्ततः ।
टि०-भावोदयाख्यालङ्कारो भवतीति सुनिश्चितम् ॥
४०- असोढा तत्कालोल्लसदसहभावस्य तपमः,
कथानां विश्रम्भेष्वथ च रसिकः शैलदुहितुः ।
प्रमोदं वो दिश्यात्कपटबटुवेषापनयने,
त्वराशैथिल्याभ्यां युगपदाभियुक्तः स्मरहरः॥
अत्र स्मरहरे सन्धिरावेगधैर्ययोरभूत् ।
साचाङ्ग रतिभावस्य महेशविषयस्य वै ।।
टि०-भावसन्धिरलङ्कारः कथ्यते विबुधैः सदा ।
१०-पश्येत्कश्चिञ्चलचपल रे का त्वराहं कुमारी,
हस्तालम्ब वितर हहहा व्युत्क्रमः कामि यासि ।
इत्थं पृथ्वीपरिह भवद्विद्विषोऽरण्यवृत्तेः,
कन्या कश्चित्फलाकिसलयान्याददानाभिधत्ते ॥
क्रमेण शङ्कासूया च धृतिश्चैव स्मृतिः श्रमः ।
दैन्यश्च मतिरौत्सुक्यमेषां शबलताभवत् ।।

पंचम उल्लासः।
नृपतिस्तुतिरूपस्य रतिभावस्य चाङ्गकम् ।
ट०- अलङ्कारश्च विज्ञेयो भावशाबल्यमेव तत् ।।
१०- भावोदयोः भावसन्धिर्भावशावल्यमेव च ।
नालङ्कारतयोक्तानि प्राचीनैरिति निश्चयः ॥
काव्यशोभाधायकत्वात्कश्चिद्व्यातथापि च ।
अतः प्रसङ्गोपात्तानि मयाप्युक्तानि तान्यपि ॥
ट-शब्दार्थमुपकुर्वन्तो ये रसस्योपकारकाः ।
अलङ्कारास्त एव स्युरिति काव्यविदा नयः ॥
रसादयस्तूपकायर्या शब्दार्थाभ्यामिति स्थितम् ।
ततश्च सम्भवेन्नैव तेष्वलङ्कारता पुनः ।
अलङ्कारत्वमतेषां खण्डयन्तीति केचन ॥
अन्ये पुना रसादीनामुपकारेण केवलम् ।
चिरन्तनानां भक्तयैवालङ्कारत्वं भजन्ति ते ।
रसोपकारकत्वेनालङ्कारत्वं रसादिषु ॥
अपरे मुख्यया वृत्त्या काव्ये व्यवहरन्त्यपि ।
गौणवृत्त्या रूपकादावजागलस्तनोपमम् ॥
एवं चेदुपकारित्वाच्छब्दार्थावप्यलङ्कती ।
तथा प्रामाणिकास्त्वत्र प्रथयन्ति निजं मतम् ।।
नूनं रसाभिव्यक्तिर्हि शब्दार्थद्वारतो भवेत् ।
आभिव्यक्तः सोऽपि रसो ह्यपरस्य रसस्य च ॥
अभिव्यक्तौ कारणतां भजते नैव संशयः ।
उपकारितया गौणो यश्चाभिव्यञ्जको रसः ।।
8

काव्य-प्रकाशः।
रसस्तथोपकार्यत्वान्मुख्योऽभिव्यक्त एव सः।
उपकारमुखेनालङ्कारा रसवदादयः ।।
तदुक्तं ध्वनिकारेण ध्वन्यालोके स्वकं मतम् ।
"प्रधाने चैव वाक्यार्थे यत्राङ्गन्तु रसादयः ।
काव्ये तस्मिन्नलङ्कारो रसादिरिति मे मतिः ॥"
समासोक्तयै नायिकादिव्यवहारो हलङ्कतिः ।
न स्यात्कदाचिदास्वादो लक्षणस्यासमन्वयात् ।।
अलङ्कारा रसाङ्गित्वे ध्रुवं रसवदादयः ।
उदात्ताद्याह्यलंडारा गुणीभूतरसादिषु ॥
उक्तं कैश्चित्पुनश्चेत्थं समीचीनं न तद्भवेत् ।
प्राधान्ये हि रसस्यात्र रसादिध्वनिरीरिता ।।
अन्यथालङ्कृतित्वं ते प्राप्नुवन्ति रसादयः ।
कविराजरेतदुक्तं निजसाहित्यदर्पणे
१०- नास्ति यद्यपि कश्चिदै विषयो यत्र नो भवत् ।
ध्वनेश्च गौणव्यङ्गयस्य स्वप्रभेदादिभिः सह ।।
संसृष्टिः सङ्करो वापि तथापि नियमस्त्वयम् । ..
"भवन्ति व्यपदेशा हि प्राधान्यैनैव केवलम् ॥
चमत्कारोऽतिशयितों यस्य यत्र भवेन्ननु ।
व्यवहार्यस्तत्र तेन सत्यं काव्यजगत्यपि ॥:
जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधिया,
वचो वैदेहीति प्रतिपदमुदश्रु प्रलपितम् ।

१
--
पंचम उल्लासा
૨૨
कृतालङ्काभर्तुदनपरिपाटीघुघटना,
मयाप्तं रामस्वं कुशलवसुता न त्वधिगता. ।।
रामत्वमाप्तमित्यादेरप्रयोगेऽपि केवलम् ।
शब्दशक्तिमहिम्नैव ध्वनिमार्गानुसारतः ।।
नूनं पादत्रयद्योत्या सह रामेण सोपमा ।
अत्र वाच्यङ्गतां नीता रामशब्दप्रयोगतः ।।
आगत्य सम्पति वियोगविसंष्ठुलाङ्गी-
मम्भोजिनी कचिदपि क्षपितत्रियामः ।
एता प्रसादयति पश्य शनैः प्रभाते,
तन्वङ्गि पादपतनेन सहस्ररश्मिः ॥ ।
अप्रकृतो वस्तुरूपो ह्यर्थशक्तिसमुद्भवः ।
नायकस्य च वृत्तान्तो नायिकायास्तथैव च ।।
स पादपतनेनेति प्रसादनस्वरूपधृक् ।
रवेश्च कमलिन्याश्च रश्मिनां पतनेन वै ।।
विकासनात्मके वाच्ये वृत्तान्ते निरपेक्षके।
सुस्थितः सोऽध्यारोपेण पुनस्तस्यङ्गितां गतः ।।
वृ०- भ्रमिमरतिमलसहृदयता,
प्रलयं मूछी तमः शरीरसादम् ।
मरणं जलदभुजगजं,
प्रसह्य कुरुते विष.वियोगिनीनाम् ॥
यावन्न विषशब्दस्य, व्यङ्गयं हलाहलं भवेत् ।
.
.

काव्य-प्रकाशः। तावद्भुजगरूपो हि वाच्यार्थोऽपि न सिध्यति ।। एवं चात्र विषव्यङ्गयं वाच्यासिद्धिकरं परम् । गच्छाम्यच्युतदर्शनेन भवतः किं तृप्तिरुत्पद्यते, किन्त्वेवं विजनस्थयोर्हतजनः सम्भावयत्यन्यथा । इत्यामन्त्रणभङ्गिसूचितवृथावस्थानखेदालसा- माश्लिष्यन पुलकोत्कराञ्चिततनुर्गोपी हरिः पातु वः ।। यावयच्युतशब्दस्य न स्याव्यङ्गयमचञ्चलम् । तदामन्त्रणभङ्गयादिवाच्यार्थों नैव सिध्यति ॥ एवञ्च व्यङ्गयंत्राच्यस्य तथैव सिद्धिकृन्मतम् । अदृष्टे दर्शनोत्कण्ठा दृष्टे विच्छेदभीरुता। नादृष्टेन न दृष्टेन भवता लभ्यते मुखम् ॥ त्वमदृष्टो यथा न स्यां भयं न स्याद्वियोगजम् । तथा कुर्या इति व्यङ्गयं स्फुटमेव प्रतीयते ॥ हरस्तु किञ्चित्परिवृत्तधैर्य- श्चन्दोदयारम्भ इवाम्बुराशिः। उमामुखे बिम्बफलाधरोष्ठे, व्यापारयामास विलोचनानि ।। प्रतीयमानपत्रैच्छदधरं परिचुम्बितुम् । व्यापारणं लोचनानामिति वाच्यमथो. मतम् ।। प्रधानमिति सन्देहो मॉनाभावे विदामपि । ब्रामणातिक्रमत्यागो भवतामेव भूतये ।

पंचम उल्लासः।
Marwar
जामदग्न्यस्तथा मित्रमन्यथा दुर्मनायते ।।
जामदग्न्यो हि सर्वेषां क्षत्रियाणामिव क्षयम् ।
रक्षसामापि नूनं स क्षणादेव करिष्यति ॥
इति व्यङ्गयस्य वाच्यस्य तुल्यमेव प्रधानता ।
मथ्नामि कौरवशतं समरे न कोपात,
दुःशासनस्य रुधिरं न पिबाम्युरस्तः।
सञ्चूर्णयामि गदया न सुयोधनोरू,
सन्धिं करोतु भवतां नृपतिः पणेन ॥
निषेधरूपवाच्येन सहैव यत्प्रतिष्ठिनम् ।
मथनाम्यवेत्यादि व्यङ्गय काकैवाक्षिप्यते हि तत् ॥
वाणीरकुडंगुड्डीणसउणिकोलाहलं मुणंतीए ।
घरकम्मवावडाए वहुए सीति अंगाई ॥
कश्चन दत्तसङ्केतः प्रविष्टो हि लतागृहम् ।
व्यायादस्माद्वाच्यमेव मुचमत्कारकं खलु ॥
सीदन्त्यङ्गानीति मतं विबुधैस्तदसुन्दरम् ।
टि - एत एव गुणीभूतव्यङ्गयभेदा न केवलम् ॥ .
का-एषां भेदा यथायोगं वेदितव्याश्च पूर्ववत् ।
१०- व्यज्यन्ते वस्तुमात्रेण यदालङ्कृतयस्तदा।
ध्रुवं ध्वन्यङ्गता तासां काव्यत्तेस्तदाश्रयात् ।
टि०-अलङ्कारान्तरस्यापि प्रतीतो. यत्रः भासते ।
तत्परत्वं न काव्यस्य नासौ मार्गों ध्वनेर्मतः ।।

काव्य-प्रकाशः।
-PAPArr...
अलतिरलङ्कृत्या यत्र यत्र प्रतीयते ।
ध्वनित्वं तत्र नैव स्याद्वाच्यालकृतिसौष्ठवात् ॥
अलङ्कारेणापि वस्तुव्यञ्जने ध्वनिता पुनः ।
चमत्कारी यथा व्यङ्गयो न तथा वाच्यता गतः ।।
अतोऽपकर्षहेतुः सा वाच्यता नियता मता।
व्यङ्गयतोत्कर्षहेतु श्च ध्वनिमार्गानुगामिनः ।।
यत्र व्यङ्गय वस्तुमात्रमल नरेण व्यज्यते ।
तद्वाच्यत्वेनापकर्षादलङ्कारस्य किञ्चन |
व्यङ्ग्यत्वेनतथोत्कर्षाद्वस्तुनो ध्वनिता ध्रुवम् ।
का-सालङ्कारैर्वनेस्तैश्च योगः संसृष्टिसंङ्करैः ।
वृ० -- अलङ्कारात्मतां प्राप्तैर्व्यङ्गय रसवदादिभिः ।
वाच्यालङ्कारयुक्तैश्च गुणीभूतप्रभेदकैः ।।
चत्वारिंशद्विधैनं द्वयधिकैर्ध्वनियोगतः ।
संसृष्टिसङ्करैः सा भेदाः स्युर्बहवः पुनः ॥
तथोक्तं ध्वनिकारेण ध्वन्यालोके निजे यथा ।
" सगुणीभूतव्यङ्गयैः सालङ्कारैः सह प्रभेदैः स्वैः ।
सङ्करसंसृष्टिभ्यां पुनरप्युद्योतते बहुधा ।।"
का-अन्योन्ययोगादेवं स्याद्भेदसंख्यातिभूयसी।
ठि०-व्यञ्जको ह्यर्थशक्त्युत्थस्त्रिमूर्तिः समुपासितः ।
पदे वाक्ये प्रबन्धे च सत्त्वात्स नवधा भवेत् ।।

पंचम उल्लासः.।
१३३
वस्तु व्यङ्गयानलङ्कारान्ध्वानित्वव्यपदेशतः ।
नवानपास्य शिष्टान् द्विचत्वारिंशावधान् पुनः ।।
गुणीभूतव्यङ्गयभेदैरष्टाभिर्गुणितां स्तथा ।
रसकालाग्निसंख्याकान्वदन्ति विबुधासदा ॥
( ३३६)
अन्योन्ययोजने तेषां निर्दिष्टानां पुनः पुनः ।
रसाङ्कवसुपक्षो/मेदिन्यश्च भवन्ति ते ॥
( ११२८९६)
युगवस्त्रिषुभूबाणवेदाः सङ्करतां गताः ।
( ४५१५८४ )
वियन्नेत्राङ्कभूबाणवेदाः शुद्धैः समं मताः ॥
( ४६१९२०)
सङ्कीर्णा हि ध्वनेर्भेदैः शरेषुयुगखेन्दुभिः ।
(१०४५५)
खाकाशरसरामाब्धिवाद्वीपशरेषवः ।।
(१९७३४३६००)
मुधासागरंकारेणाप्युक्तोऽसौ गणनाक्रमः ।
शुद्धैः सहकपञ्चाशद्भदैर्भेदा यथा ध्वनेः ।।
नङ्कीर्णाहि समाख्याता शरेषुयुगखेन्दवः ।
(१०४५५)
द्वैः शरयुगव्यक्तैः सहात्रापि तथा बुधैः ।।
(४५)

काव्य-प्रकाशः।
-----------
गुणीभूतव्यङ्गयभेदा बाणाब्धान्दुगजाः स्मृताः ।
( ७१४५)
मध्यमोत्तमयोरेवं भेदयोर्गुणने पुनः ॥
भूताश्वाङ्केषुशरभूबाणस्तम्बेरमाः मताः ।
(८५११९९७५ )
चतुर्भिर्गुणने प्राग्वद्विज्ञेया गणकोत्तमः ॥
खाकाशाङ्काग्निपक्षर्तुव्योमवारिधिवतयः ।
(३४०६२३९००)
दिक्प्रदर्शनमेशचालकारोळूतसङ्करैः ।
परार्धाधिकतां याति गणनेति न दर्शिता ।
कुतः शरयुगत्वं हि प्राप्त भीममहोदयः ।
पूर्व सङ्करतां प्राप्ता भेदाः सङ्करताम्पुनः ॥
कथं सम्प्राप्नुवन्तीति मनसोऽयमगोचरः ।
१०-शृङ्गारस्य यथा भेदप्रभेदगणने पुनः ॥
आनन्त्यं सम्भवेत्कानु सर्वेषां गणनां कथा ।
दृष्टपूर्वा अपि ह्या काव्ये रसपरिग्रहात ।
सर्वे नवा इवाभान्ति मधुमास इव द्रुमाः ॥
अतो ह्यन्यतमेनापि प्रकारेण विभूषिता।
वाणी नवत्व पायाति पूर्वार्थान्वयवत्यपि ॥
वाचस्पतिसहस्राणां सहस्रैरपि यत्नतः ।
निबद्धापि क्षयं नैति प्रकृतिजगतामिव ।।

पंचम उल्लासः ।
संवादास्तु भवन्त्येव बाहुल्येन मुमेधसाम् ।
नैकरूपतया सर्वे ते मन्तव्या विपश्चिता ।।
संवादो ह्यन्यसादृश्यं त्रिधा तत्पतिबिम्बवत् ।
आलेख्याकारवत्तुल्यदेहिवच शरीरिणाम् ॥
त्याज्यं पूर्वमनन्यात्म तुच्छात्म च द्वितीयकम् ।
तृतीयं च प्रसिद्धात्म नान्यवद्वै त्यजेत्कविः ।।
अक्षरादिरचनेन योज्यते,
यत्र वस्तुरचना पुरातनी ।
नूतन स्फुरति काव्यवस्तुनि,
व्यक्तमेव खलु सा न दुष्यन्ति ॥
यदपि तदपि रम्य यत्र लोकस्य किञ्चित्-
स्फुरितमिदमितीयं बुद्धिरभ्युजिहति ।
अनुगतमपि पूर्वच्छायया वस्तु ताहा
सुकविरुपनिबध्ननिन्द्यतां नोपयाति ॥
प्रतायन्तां वाचो निमितविविधार्थामृतरसा,
न वादः कर्तव्यः कविभिरनवये स्वविषये ।
परस्वादानेच्छाविरतबनतो वस्तु मुकवेः,
सरस्वत्येवैषा घटयति यथेष्ट भगवती ।
वनौ तथा गुणीभूतव्यङ्गयात्मनि निदर्शितम् ।
नमामोऽनन्त्यतां यन्तं कवीनां प्रतिभागुणम् ॥
x
x
X
x

काव्य-प्रकाशः ।
-------- ----------
१०- वनेः सङ्कलनेनास्य त्रयो भेदाः प्रकीर्तिताः ।
व्यङ्गयस्य वस्त्वलङ्काररसरूपाच मुख्यतः॥
तथाहि किञ्चिद्व्यङ्गयन्तु वाच्यतां सहते ध्रुवम् ।
किञ्चिच नैव सहते वाच्यतां वै कदाचन ।।
वाच्यतासहमप्यत्र द्विधाभूतं विलोक्यते ।
अविचित्रं वस्तुमात्रम लङ्कारं विनैव यत् ।।
तथालङ्कारमात्रञ्च विचित्रमिति कथ्यते ॥
मतं यद्यप्यलङ्कार्य प्राधान्येन विचित्रकम् ।।
तथापि ब्राह्मणः कश्चिद्यथा श्रमणतां गतः।
ब्राह्मणः कथ्यते लोकैः पूर्वप्रत्ययकारणात ॥
तथैवेदमलङ्कार्यमलङ्कार इतीर्यते ।
रसादिरूपो व्यङ्गयोऽर्थो वाच्यः स्वप्नेऽपि नो भवेत् ।।
यदि चेद्वाच्यतां गच्छेद्वयङ्गयोऽर्थोऽपि कथञ्चन ।
तदा रसादिशब्देन शृङ्गारादिपदेन वा ॥
उच्येत कुत्रचिन्नूनं किन्तु नैवाभिधीयते ।
विभावाद्यप्रयोगेऽपि रसादीनां प्रयोगतः ॥
व्यङ्गयस्यार्थस्य जायेत प्रतीतिर्न तु जायते ।
शृङ्गाराधप्रयोगेऽपि विभावादिप्रयोगतः ।।
रसस्य प्रतिपत्तिः स्यादन्वयव्यतिरेकतः ।
विभावादिमुखेनैव रसव्यक्तिः सुनिश्चिता ॥
तेनासौं व्यङ्गय एव स्यान्न वाच्यः सम्भवेदिति ।
नूनं विभावादीनान्तैस्तैर्वाचकपदादिभिः ।।

पंचम उल्लासः।
१३७
रसादिलक्ष्य एवास्तु लक्षणा न कथं तदा ।
लक्षणासमये नूनं हेतुत्रयमपेक्ष्यते ।।
मुख्यार्थवाधस्तद्योगो रूढिर्वाथ प्रयोजनम् ।
कुशलेत्यादि पदव नैव रूढिविलोक्यते ।।
यष्टीः प्रवेशयेत्यादाविव नात्र प्रयोजनम् ।
मुख्यार्थबाधाभावे नु सम्बन्धादेस्तु का कथा ।।
येन स्याल्लक्षणा, सापि विना व्यङ्गं न सम्भवेत् ॥
अविवक्षितवाच्ये हि लक्षणामूलके भिदि ॥
अर्थान्तरं सङ्क्रमिते वाच्ये त्वामस्मि पद्यके ।
वस्तुमात्रात्मकं व्यङ्गयं विना न लक्षणा भवेत् ॥
तथोपकृतमित्यादावत्यन्तं हि तिरस्कृतं ।
वाच्ये व्यङ्गयं विना नैव लक्षणा सम्भवेदिति ।।
नाभिधा समयाभावादित्यारभ्य द्वितीयके ।
महता वै प्रबन्धन प्रागेव प्रतिपादितम् ।।
विवक्षितान्यवाच्येऽपि शब्दस्य शक्तिमूलके ।
संयोगाद्यैरुपायैश्च ह्यभिधाया नियन्त्रणे ॥
तथैवानभिधेयस्य नूनमर्थान्तरस्य च ।
सहैव तेनोपमादेरलङ्कारस्य वा पुनः ॥
व्यङ्ग्यत्वं निर्विवादं तदुक्तमेव तृतीयके ।
तथार्यशक्तिमूलेऽपि ह्यानन्त्यव्यभिचारतः।
नूनं व्यक्तिविशेषे तु सङ्केतः सम्भवेन्नहि ॥
अतः सः जातिरूपाणां पदार्थानां विधीयते ।

काव्य-प्रकाशः।
।
वाक्यस्थितपदानाञ्च स्वमर्थमभिधाय वै ।।
क्षीणायामाभिधाशक्तौ व्यापाराभावतः पुनः ।
आकाङ्गाया योग्यतायाः सन्निधर्वशतस्तथा ॥
परस्परस्य सम्बन्धो वाक्यार्थो योऽभिधीयते ।
तात्पर्यवृत्तिविज्ञेयः सोऽपि यत्रापदार्थकः ।
विशेषरूप एव स्यात्तत्रैवाभिहितान्वये ।
व्यङ्गयस्यात्राभिधेयत्वे का वाती तत्सुरक्षिता ॥
टि०-- यतः पदेभ्यः प्रथमं पदार्थानां स्मृतिर्भवेत् ।
सा तु तत्राभिधाशक्तया, ततस्तात्पर्यवृत्तितः ॥
वाक्यार्थावगमः सोऽपि, नाभिधेयो यदा त्रुधा:
कथङ्कारं तदा व्यङ्गयो ह्यभिधेयो भवेदिति ॥
तथान्विताभिधानेऽपि न भवत्तस्य वाच्यता ।
'येऽप्याहु' रित्यननात्र तदेव प्रतिपाद्यते ॥
१०- शब्दद्धाभिधेयांश्च प्रत्यक्षेणात्र पश्यति ।
श्रोतुश्च प्रतिपन्नत्वमनुमानन चेष्टया ।।
अन्यथानुपपत्त्या तु बोधेच्छक्ति द्वयात्मिकाम ।
अर्थापत्त्यावबोधेत सम्बन्धं त्रिप्रमाणकम् ॥
टि ०-- मीमांसामतमुद्धृत्य सुखं विकृणुतेऽधुना ।
प्रयोजकः:प्रयोज्यश्च वृद्धावतावुदीरिती ॥
प्रयोजकस्तत्रं वक्ता धुत्तमोऽप्यभिधीयते ।
श्रोता प्रयोज्यो विज्ञेयः स एव मध्यमः स्मृतः ॥

पंचम उल्लासः।
WW
- बदत्युत्तमबद्धो हि श्रोतारं मध्यमं पुनः ।
'गामानय, देवदत्त' शृणोति बालकोऽपि तत् ॥
विलोक्य मध्यमं वृद्धं द्वार्बहिर्गमनोद्यतम् ।
तदा बालोऽनुमात्येष उत्तमोक्तमबोधि तत् ॥
सास्नादिमन्तमर्थश्च देशाद्देशान्तरं ततः ।.
आनीयमानमालोक्य वृद्ध मध्यमकं पुनः ॥
अस्माद्वाक्यादसावर्थः प्रतिपन्नोऽस्त्यनेन वै ।
इति तच्चेष्टया बालो वाक्यार्थमुपपद्यते ॥
तयोरखण्डवाक्यार्थवाक्ययोश्चापि तत्परम् ।
वाच्यवाचकसम्बन्धमर्थापत्त्या विनिर्णयेत् ॥
ततश्च 'नय गां चैत्र, देवदत्ताश्वमानय ।'
इति वाक्यप्रयोगेऽपि क्रियां तां तां विलोक्य वै ॥
एष चानयनस्याओं नयनस्याप्यसौ स्मृतः ।
तस्य तस्य च शब्दस्य तं तमर्थ हि बालकः ।।
अन्वयव्यतिरेकाभ्यामवधारयति ध्रुवम् ।
प्रवृत्तौ च निवृत्तौ च कारणं वाक्यमेव तत् ।
प्रयोगयोग्यमेवं स्याच्छास्त्रादाविति निश्चितम् ।।
वाक्यस्थितानां पदानामन्वितानां हि केवलम् ।
पदार्थैरन्वितैरेव सङ्केतो गृह्यते सदा ॥
परस्परं सुसम्बन्धविशिष्टा एव सर्वथा ।
पदार्थाः स्याद्धि वाक्याओं विद्वद्भिरिति गीयते ॥

१४०
काव्य-प्रकाशः।
वैशिष्टयं नाम सम्बन्ध पदार्थानां न केवलम् ।
वाक्यार्थः सम्भवेन्नूनमिति मीमांसका जगुः ।
टि०-तात्पर्यवृत्त्यभावेन पदार्थानां परस्परम् ।
एवं कृतेऽपि सम्बन्धविशेषोऽशक्य एव चेत् ॥
वृ०-वाक्यान्तरे प्रयुक्तानि नयनादिपदानि तु ।
प्रत्यभिज्ञाप्रत्ययेन तान्येतानीति निश्चयः ।।
पदार्थान्तरमात्रेण ह्यन्वितोऽसौ पदार्थकः ।
सङ्केतगोचरो नूनं यद्यप्यत्र मते भवेत् ।।
सामान्यावच्छादितोऽसौ तथापि प्रतिपद्यते ।
नयनादेश्च सम्बन्धी सविशेषस्वरूपकः ।।
सम्बद्धानां पदार्थानां तथाभूततया खल ।
पदार्थों ननु सामान्यविशेषरूपको
यदा ॥
तेषामपि मते नूनं सङ्केतविषयो मतः ।
इत्यञ्चातिविशेषोऽयंसंकेतविरहात् पुनः ।।
वाक्यार्थान्तर्गतो यत्र पदार्थोऽवाच्य एव सः।
तत्रार्थान्तरभूतस्य नूनं विध्यादिकस्य च ।
निःशेषेत्यादिके स्थाने दुरे वाच्यत्वसकंथा ॥
पूर्व पदार्थविज्ञानं ततस्तात्पर्यवृत्तितः ।
भवेद्वाक्यार्थविज्ञान प्रक्रमोऽमिहितान्वये ।।
तथान्विताभिघाने चावाच्योऽन्वितविशेषका।
पूर्व वाक्यार्थविज्ञानं. मिया सम्बन्धकारणाद ।।

पंचम उल्लासः।
ततः पदार्थविज्ञान भवतीत्येव निश्चितम् ।
एवमत्रोभयनये वाक्यार्थस्त्वपदार्थकः ॥
यदुच्यतेऽत्र विषये भट्टपादोपजीविभिः ।
ननु शब्दश्रुतेः पश्चाद्यावानर्थः प्रतीयते ॥
विज्ञेयस्तत्र सर्वत्र निमित्तं शब्द एव सः ।
टि०-व्यङ्ग्यस्यापि प्रतीतो तच्छब्द एव निमित्तकम् ।।
१०-" नैमित्तिकानुसारेण निमित्तमपि कल्प्यते ।"
अयुक्तं तदिति प्रोक्तं साहित्यशास्त्रपारगैः ।।
भो भोः शब्दस्य तत्रार्थे निमित्तत्वं भवेन्नु किम् ?
कारकत्वं ज्ञापकत्वमथवेति निगद्यताम् ।।
प्रकाशकत्वाच्छब्दस्यानुत्पादकतया तथा ।
कारकत्वं निमित्तवं सम्भवेन्न कदाचन ॥
ज्ञापकत्वं द्वितीयन्तु लोकैरत्रानुमन्यते ।
किन्तु तज्ज्ञातमात्रस्य सदा सङ्केतवत्तया ॥
तदाऽऽज्ञातस्य शब्दस्य ज्ञापकत्वं भवेत्कथम् ?
सङ्कतेनैव ज्ञातत्वं स चाप्यान्वितमात्रके ।
न त्वन्वितविशेषे वा न विध्यादावपि स्मृतः।
तथा चैव निमित्तस्य शब्दस्य परमार्थतः ।।
भवेद्यावन्न नियतनिमित्तत्वं विनिश्चितम् ।
तावनैमित्तिकस्यापि प्रतीतिः स्यात्कथं पुनः।
सङ्केतवशतः शब्दात्पदार्थोपस्थितिमवेत ।

काव्य-प्रकाशः।
पदार्थोपस्थितौ चात्र सङ्केतग्रह इष्यते ॥
स्यादन्योन्याश्रयो दोषस्तदुक्तमविचारितम् ॥
ट०-वाच्यार्थस्याभिधावृत्तिर्लक्ष्यार्थस्यापि लक्षणा ॥
काचिद्वृत्तिस्तु व्यङ्गयार्थे स्वीकार्यैव भविष्यति ॥
निमित्तत्वानिश्चयेन नो चेच्छब्दस्य कस्यचित् ।
नैमित्तिकोऽयं व्यङ्ग्यार्थो न सिध्यति भवन्मते ।।
निमित्तत्वं हि शब्दस्य व्यापारण विनापि चेत् ।
अभिधालक्षणेऽप्यत्र स्यातां दत्तजलाञ्जली ।।
एवञ्च वृत्तिस्वीकारे व्यञ्जनवोपयोगिनी ।
तद्भट्टलोल्टादीनां मतमाशङ्कतेऽधुना ॥
व-धानुष्केनोत्तमेनात्र नूनं बलवता यथा ।
इषुर्व प्रेरितः शत्रोर्वमच्छेदं विधाय सः ॥
मर्मभेदं विधत्ते च प्राणापहरणं पुनः ।
एकेन वेगाभिख्येन व्यापारणैव केवलम् ॥
तथा कविप्रयुक्तो हि शब्दश्चापि कवेः कृतौ ।
एकेन चाभिधाख्येन व्यापारेणैव केवलम् ॥
पदार्थोपस्थितिं कुर्याद्वाक्यार्थमनुभावयेत् ।
व्यङ्गयप्रतीतिमीप च जनयत्येव सर्वदा ॥
एवञ्च नियता तत्र व्यङ्गयार्थस्यापि वाच्यता ।
टि०-कदाचिदुच्यते कैश्चि 'च्चेच्छब्दबुद्धिकर्मणाम् ॥
भवेद्विरम्य व्यापाराभाव' एव ततः स्फुटम् ।
वाच्यार्थमभिधायैव विरता ह्यभिधा पुनः ।।

पंचम उन्लासः।
न सा बोधयितुं शक्ता व्यङ्गयार्थस्यापि व्यञ्जने ।
तत्रापि श्रूयताञ्चैतदस्मदुक्तं तदुत्तरम् ।।
- 'प्रयुक्तो यत्परः शब्दः स शब्दार्थ' इति स्मृतः।
टि०-व्यङ्गयतात्पर्यवच्छब्दस्तत्रार्थे विरतो भवेत् ॥
अनुपादेयतानांचढ्थैवोन्मत्तवाक्यवत् ।
"तात्पर्य व्यतिरेकाच व्यञ्जकत्वस्य न ध्वनिः ।
यावत्कार्यप्रसारित्वात्तात्पर्य न तुलाधृतम् ॥"
एवं निःशेषप्रभृतौ विधेरेवात्र वाच्यता ।
तात्पर्यवाचोयुक्तस्तद्देवानामेव ते प्रियाः ।।
तात्पर्यभूतमर्थं च वयं विज्ञापयाम वै ।
वृ०- भूतं सिद्धं तथा भव्यं साध्यमित्यभिधीयते।
तद्धि कारकरूपञ्च क्रियारूपमपीष्यते
तत्समुच्चारणे भूतं भव्यायैवोपदिश्यते ।
अमुं नियमपाश्रित्य ते कारकपदार्थकाः ॥
नूनं क्रियापदार्थेनान्वीयमाना निरन्तरम् ।
मुख्यक्रियाया या चात्र क्रिया निवर्तिका स्विका ।।
तया सहाभिसम्बन्धाद्याति साध्यायमानताम् ।
टि०-यथा गामानयेत्यादौ गामित्यादय एव ते ॥
कारकाख्यपदार्थी वै सम्बद्धा हि निरन्तरम् ।
सत्यं क्रियापदार्थनानयनाद्यात्मना पुनः ॥
मुख्यक्रियाया नयनरूपाया या निवर्तिका ।

काव्य-प्रकाशः।
AAAAA
निजस्य धेनोश्चलनरूपा सम्बन्धतस्तया ॥
साध्या इव भवन्तीति मीमांसामतमांसलाः ।
१०- अदग्धदहनन्यायाद्यावदप्राप्तमेव च ॥
तावद्विधीयते शास्त्रे ऋत्विक् प्रचरणे यथा ।
सति मानान्तरात्सिद्धे भो भो तात्पर्यतत्पराः ।।
यज्ञेऽत्र 'लोहितोष्णीषा ऋत्विजः प्रचरन्ति' वै।
इत्यत्र लोहितोष्णीषमात्रत्वं हि विधेयकम् ।।
हवनस्यान्यतः सिद्धेस्तस्यामाप्तेश्च केवलम् ।
'दधना जुहोति' चेत्यादौ दध्यादेः करणत्वकम् ।।
केवलं हि विधेयं स्यान्न जुहोतेः कदाचन ।
कचिदेकविधिश्चैव तथोभयविधिः कचित् ॥
कचिञ्च त्रिविधिः प्रोक्तो यथा 'रक्तं पटं वय ।'
इत्यादौ रक्तपटयोः प्राप्तावेकविधिर्मतः॥
पटस्य प्राप्तौ रक्तस्य वयनस्य तथा विधिः ।
त्रयाणां वा प्रकरणे त्रिविधि समुदीरितः ॥
एवञ्च यद्विधेयं स्यात्तात्पर्यमपि तत्र वै॥
उपात्तस्यैव शब्दस्य ह्यर्थे तात्पर्य मिष्यते ।।
न तु प्रतीतमात्रेऽपि तात्पर्य सम्भवेत्खलु ।
यदा प्रतीतमात्रेऽपि तात्पर्यमुररीकृतम् ।।
तत् 'पूर्वो धावती'. त्यादावपरार्थेऽपि तत् पुनः।
अपेक्षावशतो नूनं तात्पर्य स्यात्कदाचन ॥

पंचम उल्लासः ।
१४५
"विषं भक्षय मा चास्य गृहे भुंक्थाः" ह्यनेन वै ।
एतद्गृहे न भोक्तव्यं तात्पर्यमिति निश्चितम् ॥
स्यात्स एव च वाक्यार्थ इति तात्पर्यवर्मगाः ।
चकारो विषमत्रैकवाक्यतासूचकः स्मृतः ॥
कल्प्यतेऽङ्गाङ्गिभावश्चेत्तदा स्यादेकवाक्यता।
प्रधानवाक्ययोननं मिथश्च निरपेक्षयोः ।।
अङ्गाङ्गिभावो नैवेह कल्प्यते विबुधोत्तमैः ।
कल्प्योऽवश्य मित्रवाक्यादुभयोर्वाक्ययोर्यतः॥
नैवानुमनुते मित्रं सुहृदां विषभक्षणम् ।
इति मुख्यार्थबाधेन लक्ष्यतेऽर्थान्तरं ततः ॥
दुष्टमेतद्गृहस्यान्नं विषभक्षणतोऽधिकम् ।
स्यादेष एव लक्ष्यार्थों वाक्यार्थस्यात्र कारणम् ॥
एतद्गृहे न भोक्तव्यमित्यस्यैवेति मार्मिकाः।
'सर्वथैतदगृहे मित्र न भोक्तव्यं कदाचन ।'
तात्पर्यमस्यवाक्यस्य गणयन्ति बुधोत्तमाः।
भवत्तात्पर्यशब्दार्थोऽप्ययमेव विदन्तु भोः॥
यदि 'शब्दश्रुतेः पश्चाधावानर्थः प्रतीयते ।
तावत्यर्थेऽपि व्यापारः स शब्दस्याभिधैव चेत् ॥
तदा 'ब्राह्मण पुत्रस्ते जातः कन्याथ गर्भिणी।'
इत्यादावपि हर्षस्य शोकस्यापि च वाच्यता ।।
सम्भवेन्न कथं तत्राप्यभिधैवास्ति कारणम् ।
ततश्च लक्षणाप्यत्र नोपास्या वै. कदाचन ॥

काव्य-प्रकाशः।
दीर्घदीर्घतरेणैवाभिधाव्यापारतः खलु ।
प्रतीतिसिद्धस्तत्रति काव्यममविचक्षणाः ॥
श्रुतेलिङ्गस्य वाक्यस्य तथा प्रकरणस्य च ।
स्थानस्यं च समाख्याः भगवाजैमिनिः पुनः ।।
पूर्वपूर्वबलीयस्त्वमिति किं प्रत्यपादयत् ।
ट०-- संक्षेपादस्य सूत्रस्य ह्यर्थो निर्गलितोऽभवत् ।।
“एकद्वित्रिचतुष्पञ्चवस्त्वन्तरपकारितम् ।
श्रुत्यर्थे प्रति वैषम्यं लिङ्गादीनां प्रतीयते ॥
बाधिकैवश्रुतिर्नित्यं समाख्या बाध्यते सदा ।
मध्यमानां तु बाध्यत्वं बाध्यकत्वमपेक्षया ॥"
तदान्विताभिधानेऽपि वापी स्नातुमितो गता ।
नाधमान्तिकमित्यादौ सिद्धैव व्यङ्गयता विधेः ।।
वस्तुगत्या किञ्च यदा तत्पदार्थान्तरेण यः ।
अन्वितः सोऽभिधाशक्त्या तथोपस्थाप्यते खलु ॥
रुचि कुरु ' सुशीलेऽत्र दुष्टं 'चिंकु' पदं मतम् ।
गुह्याङ्गवाचकत्वेन स्त्रीणामिति मुनिश्चितम् ।।
भवन्मते भवेतद्दष्टत्वं हि कदाचन ।
अनन्वितं तच्च पुनः पदार्थान्तरतो यतः ॥
ततः स्यादपरित्याज्यमिति काव्यविदां नयः ।
नन्वानुभाषिकी शाक्तिरन्वितेऽनन्विते पुनः ।।
स्मारिकाशक्तिरप्यत्र नूनं कार्यकरी मता।

पंचम उल्लासः। अश्लीलतास्मारकत्वाद्दष्टं 'चिंकु' पदं ततः ॥ चेद्वाच्यवाचकत्वाव्यतिरेकेण वा पुनः । व्यङ्गयव्यञ्जकभावो कदाचिनाभ्युपेयते ॥ तदात्वसाधुतादीनां या मता नित्यदोषता ।। कष्टत्वप्रभृतीनाञ्च तथैवानित्यदोषता ॥ विभागकरणञ्चात्रानुपपन्नं भवेत्किल । सर्वस्य दोषजातस्य स्पष्टतः प्रतिभासनात् ॥ नचास्त्यनुपपन्नं हि मुविभक्ततया तथा । वाच्यवाचकभावस्य व्यतिरेकेण सर्वथा । व्यङ्गयव्यञ्जकताभावाश्रयणे तु विचक्षणाः ।। नूनं कष्टत्वदोषस्य व्यङ्गयस्यानेकतावशात् । रौद्रादौ गुणता प्रोक्ता शृङ्गारादौ च दुष्टता ।। विभागस्य व्यवस्थैवमौचित्येनोपपद्यते । इयं गतं सम्प्रति शोचनीयतां, समागमप्रार्थनया कपालिनः । कला च सा कान्तिमती कलावत- स्त्वमस्य लोकस्य च नेत्र कौमुदी । कपाल्यादिपदानाञ्च काव्यानुगुणता मता। पिनाक्यादिपदाश्चात्र प्रातिकूल्यं गताः कथम् ॥ ०- वीरत्वव्यञ्जकत्वेन नानुकूलं पदं च तत् । महादेवस्य निन्दायां जुगुप्साव्यञ्जनात्मनः ।

काव्य-प्रकाशः।
।
कपालीति पदस्यैव ह्यानुकूल्यं प्रतीयते ।
एवं काव्येऽथवा शास्त्रे भेदोऽस्ति व्यङ्ग्यवाच्ययोः ।
वृ०-वाच्योऽर्थस्तु तथा सर्वान् प्रतिपतॄन् प्रति स्मृतः ।
एकरूपः सदैवातो नियतोऽसौ न संशयः ॥
पदार्थज्ञाननिपुणैर्वैयाकरणकोविदैः ।
'गतोऽस्तमर्क' इत्यादौ वाच्यो यः प्रतिपद्यते ।।
तदन्यथा भवेनैव कदाचित्काचिदप्यहो।
टि०-किन्तु केनापि कविना सूष्ट्रक्तं विषयेऽत्र वै
"कवितास्वादसमये पदव्युत्पत्तिमात्रधीः ।
नीवीमोक्षणावेलायां यथा क्षीमचिन्तनम् ॥".
आनन्दवर्धनाचार्या ध्वन्यालोके पुनर्जगुः ।
'शब्दार्थ शासतज्ञानमात्रेणैव न वेद्यते ।
वेद्यते स हि काव्यार्थतत्वज्ञैरेव केवलम् ॥"
प्रतीयमानस्तुसदा तत्तत्प्रकरणेन वै ।
३०-बोद्धः स्वरूपस्य तथा समयस्याश्रयस्य च ॥
निमित्तस्य व कार्यस्य संख्याया विषयस्य च ।
भेदागत नानात्वं नैवायं नियतस्ततः ॥
यथा 'गतोऽस्तमर्को' यामित्यत प्रतिपद्यते ।
'सपत्नं प्रत्यवसरोऽवस्कन्दस्याय' मित्यपि ।।
'क्रियाताञ्चाभिसरण तथाभिसारिकाम्प्रति ।
'प्राप्तप्रायः प्रियस्तेऽद्य' कथमुद्विजसे सखि ।।

पंचम उल्लासः। Pr +AMPA 'कर्मणः करणान्नूनं तन्निवर्तामहे वयम् ।' 'उपक्रम्योविधिः सान्ध्यो' भृत्यस्य धार्मिकम्प्रति ॥ कार्यादहिर्जिगामिषु 'मा गाः दूरमितोऽधुना।' 'गोपालक, प्रवेश्यन्तां शीघ्रं सुरु भयो गृहम् ।।' 'नाधुना बाधते सत्यं सन्ताप:' मुहृदं प्रति । 'वस्तूनि संह्रियन्ताञ्च' वणिजः सेवकान प्रति ।। 'नागतोऽद्यापि प्रेयान्म' इति प्रोषितभर्तृका। इत्थं बोद्धृविशेषेण व्यङ्ग्यस्त्वनवधिः सदा ॥ निःशेषे' त्यादिपद्ये तु पूर्वत्रोदाहृते पुनः। गता स्नातुमितो वापी नाधमस्यान्तिकं गता ॥ एवमत्र निषेधस्य विधिरुपेण वर्तनात् । असंशयं भवेदः सदैव वाच्यङ्ग्ययोः । मात्सर्यमुत्सार्य विचार्य कार्य- मार्याः समर्यादमुदाहरन्तु । सेव्या नितम्बाः खलु भूवराणा- मुत स्मरस्मेरानेतम्बिनीनाम् ॥ अत्र चापाततो नूनं वाच्येन संशयात्मना । भूधराणां नितम्बास्तु सेव्याः शान्त मनीषिभिः ।। सेव्या विलासिनीनां च नितम्बा रसलोलुपैः । इति निश्चयरूपेण वाच्याव्यङ्गयो विभिद्यते । कथमवनिप दो यन्निशातासिधारा- दलनगलितमूनी विद्विषां स्वीकृता श्रीः । -

काव्य-प्रकाशः।
---------
AAN---------
ननु तव निहतारेरप्यसौ किं न नीता,
त्रिदिवमपगताङ्गैवल्लभा कीतिरोभिः ।।
त्वयि जीवति सत्येव सदारक्षणतत्परे ।
हीनाङ्गैः शत्रुभिश्चैषा ह्रियते कीर्तिवल्लभा ।
विमूनी विद्विषामत्र दर्पः श्रीहरणे कथम् ।
निन्दारूपेण वाच्येन शत्रुसंहारतः खलु ॥
त्रैलोक्यविश्रुताकीर्तिः स्तुतिरुपेण वर्णनात् ।
प्रतिभाति भवन भेदो द्वयोर्हि वाच्यव्यङ्ग्ययोः ॥
पूर्व प्रतीतिवीच्यस्य व्यङ्ग्यस्य च ततः परम् ।
इति कालप्रभेदोऽपि स्पष्टतः प्रतिपद्यते ॥
शब्दाश्रयत्वं वाच्यस्य भवतीति सुनिश्चितम् ।
पदे तदंशे वाक्येऽर्थे वर्णे च रचने तथा ।।
आश्रयत्वाद्धि व्यङ्ग्यस्य भेद एवाश्रयस्य वै
शब्दानुशासवज्ञानमात्रेणैव स वेद्यते ॥
वाच्यो, व्यङ्ग्यस्तु प्रतिभानमल्यसहितेन च ।
अतो निमित्तभेदोऽपि सिद्ध एव तयोः पुनः ।।
बोदृमात्रप्रतीते हि वाच्यस्य शब्दमस्य च ।
कार्यस्य भेदो व्यङ्ग्यस्य चमत्कृतिकृतस्तथा ॥
संख्याभेदो गतोऽर्कोऽस्तं प्रदर्शितनयेन च ।
कस्स व ण होइ रोसो दठूण पिआइ सव्वणं अहरम् ।
सभमरपडमग्घाहिणि वारिअवामे सहमु एणूहिम् ।।

पंचम उल्लासः।
-
सखीकान्तगतत्वेन भेदोऽत्र विषयस्य च ।
नाभिधेयस्ततो व्यङ्गयो वाच्याद्भिन्नो विनिश्चितः॥
यदि प्रभूतभेदेऽपि ोकता वाच्यव्यङ्गययोः ।
तदा तु नीलपीतादावपि भेदो न सम्भवेत् ॥
"अयमेव हि भेदो वा भेदहेतुश्च वा भवेत् ।
विरुद्धधर्माध्यासो यतेंदः कारणगश्च वै ॥"
अनित्यवस्तुनोभेंदे मता कारणभेदता।
विरुद्धधर्मवशतो भेदः स्यान्नित्यवस्तुनोः ॥
- अर्थ गृहीतसंकेत वाचका बोधयन्ति हि ।
अर्थापेक्षा वाचकानामत एव निगद्यते ॥
वाणीरकुडंगुड्डीण सउणिकोलाहलं मुणंतीए ।
घरकम्मवावडाए बहुए सीअन्ति अंगाई ।।
किञ्च वानीरकुञ्जति गतः प्रेयांल्लतागृहम् ।
प्रतीयमानमित्यर्थमभिव्यज्य ततः परम् ।।
वाच्योऽर्थोऽङ्गावसादात्मा स्वस्मिन् विश्राम्यति ध्रुवम् ।
असुन्दरे गुणीभूतव्यङ्ग्ये काव्येऽत्र मध्यमे ॥
अर्थोऽतात्पर्यभूतोऽपि व्यङ्ग्यः सङ्केतरूपधृक् ।
स्वशब्दानाभिधेयोऽसौ प्रतीति जनयन्पुनः ।।
विना व्यञ्जकत्तिं च कस्य वा विषयो भवेत् ।
सिग्धश्यामलकान्तिलिप्तवियतो वेल्टद्वलाका घनाः,
वाताः शीकरिणः पयोदमुहृदामानन्दकेकाः कलाः।

काव्य-प्रकाशः।
कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्व सहे,
वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव ।।
सम्पूर्णदुःखपात्रत्वं रामस्यापि च लक्ष्यते ।
प्रत्याख्यानरुचेः कृतं समुचितं क्रूरेण ते रक्षसा,
सोढं तच्च तथा त्वया कुलजनो धत्ते यथोच्चैः शिरः।
व्यर्थं सम्पति विभ्रता धनुरिदं त्वव्यापदां साक्षिणा.
रामेण प्रियजीवितेन तु कृतं प्रेम्णः प्रिये नोचितम् ।।
रामेणेति पदेनात्र कातर्य लक्ष्यते परम् ।
रामोऽसौ भुवनेषु विक्रमगुणैः प्राप्तः प्रसिद्धिं परा-
मस्मद्भाग्यविपर्ययाद्यदि परं देवो न जानाति तम् ।
बन्दीवैष यशासि गायति मरुद्यस्यैकबाणाहति-
श्रेणीभूतविशालतालविवरोद्गीर्णैः स्वरैः सप्तभिः ।।
खरदक्षणहंतृत्वं रामोऽसाविति लक्ष्यते ।
अर्थोऽतो लक्षणीयोऽपि नानात्वं भजते पुनः ।।
अर्थान्तरे संक्रमितमत्यन्तं वा तिरस्कृतम् ।
इत्यादि लक्षणामूले विशेषनामहेतुकः ।।
तदर्थागमश्चापि शब्दार्थायत्त एव सः।
तथा प्रकरणादेहि सव्यपेक्षश्च विद्यते ॥
व्यङ्गयार्थस्येव लक्ष्यस्यानियतत्वाद्विपश्चितः ।
कोऽयं प्रतीयमानो हि व्यापारो नूतनोऽस्ति भोः ?
अर्थस्य लक्षणीयस्य नानात्वेऽपि च सर्वदा ।
-

पंचम उल्लासः।
१५॥
नियतत्वमनेकार्थशब्दस्येहाभिधेयवत् ॥
न चानियतसम्बन्धो मुख्येनार्थेन कर्हिचित् ।
शक्यो लक्षयितुं 'चास्तं गतोऽर्क' इति वत् पुनः ।।
नूनं प्रतीयमानस्तु सदा प्रकरणादिना ।
कचिन्नियतसम्बन्धोऽनियतोऽपि कदाचन ।।
तथा सम्बद्धसम्बन्धः साहित्ये द्योत्यते यथा ।
अत्ता एत्थ णिमज्जइ एत्थ अहं दिअसे एव पलोएहि ।
मा पहिअ रत्तिअंधि सेजाए मह णिमज्जहिसि ॥
शय्याप्रवेशरूपेऽत्र व्यङ्गये वाच्यस्य सर्वदा ।
तदप्रवेशरूपस्य काव्यकोविदसत्तमैः ।
मतो नियतसम्बन्धः प्रसिद्धिवशतः खलु ॥
कस्स व ण होइ रोसो दळूण पिआइ सव्वणं अहरं ।
सभमरपडमग्धाहिणि वारिअवामे सहमु एहिं ।।
'भ्रमरेणाधरो दष्टः न तूपपतिना पुनः ।
इति व्यङ्गयेऽविनीतत्वरूपवाच्यस्य कश्चन ।।
नास्ति प्रसिद्धसम्बन्धः कल्पनीयो यतः स्मृतः ।
ततोऽनियत सम्बन्धो वर्ण्यते विबुधोत्तमैः ॥
विपरीअरए लच्छी बम्हं दळूण णाहिकमलट्ठम् ।
हरिणो दाहिणणअणं रसाउला झत्ति ढक्केइ ॥
अत्र सम्बद्धसम्बन्धो व्यङ्गयोऽर्थों वै प्रतीयते ।
हरेदक्षिणनेत्रं यत्सूर्यात्मकतया स्थितम् ।।

काव्य-प्रकाशः।
-----
वामनेत्रश्चन्दुरूपं पुराणादिषु गीयते ।
नूनं हरिपदेनात्र व्यज्यते दक्षिणाक्षिणः॥
मूर्यात्मकत्वं तस्यैव निमीलनवशात्पुनः ।
सूर्यास्तसमयस्तेन सङ्कोचः कमलस्य
ब्रह्मणः स्थगनं तत्र सायं पद्मे निमालिते ।
गोप्याङ्गस्यादर्शनेनानिधिं रमणं ततः ।।
इत्थं सम्बद्धसम्बन्धः प्रतीतिपथगो भवेत् ।
विवक्षितान्यवाच्येऽत्र ध्वनावत्तेति पद्यके ।
नहि मुख्यार्थबाधोऽस्ति लक्षणा कथमत्र तत् ।
सत्याञ्च लक्षणायां वै तव्यञ्जनमपि पृथक् ॥
अवश्यमङ्गीकर्तव्यं द्वितीये प्रतिपादितम् ।
१०- कदाचिद्धाननञ्चापि लक्षणात्मकमेव न ।
लक्षणानुगमेनैव व्यङ्गयस्य तस्य दर्शनात् ।।
न चानुगतमेव स्याल्लक्षणायाः कथञ्चन ।
अभिधालम्बनेनापि तस्य सद्भावतः खलु ॥
न द्वयोरनुसार्येव लक्षणाभिधयोः पुनः ।
अवाचकस्य वर्णस्यानुसारेणापि दर्शनात् ।।
न च शब्दानुसार्येव ध्वननं हि प्रतीयते ।
विकसन्नर्तकीनेत्रत्रिभागालोकनादिषु ।।
तस्य प्रसिद्धव्यङ्गयस्य चेष्टास्वपि च दर्शनाव ।
अभिधात्तितस्तद्वत्तात्पर्यवृत्तितस्तथा ।
लक्षणात्तितश्चापि व्यञ्जनं व्यतिरिच्यते ॥

पंचम उल्लासः।
-
टि-क्रियाकारकभावं हि स्वीकृत्य व्यवहारधीः ।
सचापि सर्वदा धर्मधर्मिभावमपेक्षते ॥
जगतः सम्भवेन्नासौ मिथ्यात्वेन प्रकल्पनात् ।
ब्रह्मणो निर्गुणत्त्वाच्च तत्र सम्भावना कथम् ॥
अविशिष्टमपर्यायानेकशब्दप्रकाशितम् ।
एक वेदान्तनिष्णातास्तमखण्डं प्रपेदिरे ॥
सर्व ञ्च खल्विदं ब्रह्म नेह नानास्ति किञ्चन ।
एकमेवाद्वितीयं तदि-
३०-
त्यखण्डघिया पुनः॥
मुनियः परब्रह्मस्वरूपो यो निगद्यते ।
वाक्यार्थ एव वाच्यार्थोऽखण्डं वाक्यं च वाचकम् ॥
टि०-व्यङ्गयेऽपि वाच्य एव स्यादिति वेदान्तिनां मतम् ।
१०- व्यवहारदशायान्तु कल्प्या पदपदार्थता ॥
टि०-अन्यथा स्यान्न व्युत्पन्नाव्युत्पन्नव्यवहारधीः ।
तद्विशेषपदार्थोपस्थितिश्च न हि सम्भवेत् ।
१०- एवमुक्तोदाहरणे विध्यादि र्व्यङ्गय एव सः ।।
प्रकाशस्य प्रभावन्तु विरुद्धमवलोक्यते ।
वेदान्तभ्रान्तवादोऽयं नतु सिद्धान्तवादिनाम् ॥
गतार्थत्वाल्लक्षणया तदेतत्सुगमं मतम् ।
स्फोटेष्वष्टविधेष्वेव वाक्यस्फोटो विशिष्यते ।।
-

काव्य-प्रकाशः।
ब्राह्मणार्थो यथा नास्ति कश्चिदब्राह्मणकम्बले ।
देवदत्तादयो वाक्ये तथैव स्युरनर्थकाः ।।
परन्तु वैयाकरणै विद्वद्भिरपि कल्प्यते ।
प्रक्रियायां दशायान्तु नूनं पदपदार्थता !!
उपायाः शिक्ष्यमाणानां बालानामुपलालना ।
असत्ये वर्मनि स्थित्वा ततः सत्यं समाहते ।।
ननु वाच्यादसम्बद्धो ह्यर्थो नैव प्रतीयते ।
कुतश्चिद्यस्य कस्यापि प्रतीते हि प्रसङ्गतः ॥
एवं च नैवानियतात्सम्बन्धाद्धि कदाचन ।
व्यङ्गयव्यञ्जकभावोऽत्र भवतीति सुनिश्चितम् ॥
व्याप्तत्वेन तथैवात्र नियतत्वेन सर्वदा
एवमेव पुनर्धर्मिनिष्टत्वेन तथैव च ।।
लिङ्गात्सपक्षसत्वादित्रिरूपाल्लिङ्गिनस्ततः ।
ज्ञानं तदनुमानेन जायते माहिमन्मते ।।
भम धम्मिअ धीसद्धो सो सुणओ अब मारी तेण ।
गोलाणई कच्छकुडङ्गवासिणा दरिअसिंहण ॥
श्वनिवृत्त्या गृहे भीरुभ्रमणं विहितं हि तन ।
गोदावरी नदीतारे सिंहोपलब्धितस्ततः ।।
सर्वथाऽभ्रमणं तत्र ह्यनुमापयति स्फुटम् ।
यद्भीरुभ्रमणं तत्तु भयहेतोनिवृत्तितः ॥
सिंहोपलब्धिरिति च नूनं गोदावरीतटे ।

पंचम उल्लासः।
१५७
....
पक्षभूते पर्वते
वै
तद्वयापक विरुद्धोपलब्धिरप्यत्र विद्यते ।
टि.- अनुमाने पुनर्हेतोः पक्षसत्वमपीष्यते ।
सपक्षसत्वमपि च व्यावृत्तत्वं विपक्षतः ।।
'पर्वतो वन्हिमान् धूमादत्र धूमोऽस्ति कारणम् ।
सत्ता तस्यैव विद्यते ॥
महानसे सपक्षेऽपि धूमसत्ता ध्रवं मता।
महाह्रदाद्विपक्षा च व्यावृत्तत्वभावतः ।।
लिङ्गादेवं विधान्नूनं लिङ्गिज्ञानं विनिश्चितम् ।
ततो वाच्यादसम्बद्धोऽर्थस्तावन्न प्रतीयते ॥
अन्यथातिप्रसङ्गः स्यादिति कारणतः खलु ।
अस्त्येव कश्चित्सम्बन्धोऽर्थयोः बोधकबोध्ययोः ॥
बोध्यो लिङ्गी बोधकश्च लिङ्गमित्यभिधीयते ।
अत्र पद्येऽस्ति सम्बन्धो वैपरीत्यं विदां मते ॥
अर्थस्य बोधकस्यात्र वाच्यरूपस्य सर्वदा ।
पक्षे धर्मिणि सत्ता वै धार्मिके तु विनिश्चिता ॥
सामर्थ्यादवसेये द्वे शिष्टेऽपि क्रमतः पुनः ।
वाच्यार्थ्याल्लिङ्गरूपात्तत् व्यङ्गयस्यार्थस्य लिङ्गिनः ।
यज्ज्ञानमनुमाने तत् पर्यवस्यति सर्वथा ।।
टि०-व्यभिचारी स हेतुस्तु विरुद्धोऽसिद्ध एव च |
'अत्रोच्यते' हीत्यनेन तदेव प्रतिपाद्यते ।।

काव्य-प्रकाशः।
१०- गुरोः प्रभोर्वा वाक्येन प्रियानुरागतोऽपि वा।
अन्येनैवं विधेनैव निधिलाभादिहेतुना ॥
गोदावरीतटे भीरुहेतौ सत्यपि सम्भ्रमेत् ।
व्यभिचारी ततो हेतुरनैकान्तिकनामभाक् ।।
भीरुः शुनो बिभ्यदपि वीरतावशतः पुनः ।
बिभेति सिंहान्नैवात्र विरुद्धो हेतुरित्यपि ॥
न च गोदावरीतीरे प्रत्यक्षाद्वानुमानतः ।
निश्चितः सिंहसद्भावः कुत्र तद्यकारणम् ।।
पुंश्चलीवचनादेव किन्तु सत्तावधारिता ।
तस्या न चास्ति प्रामाण्यं वचनस्य कथञ्चन ॥
सम्बन्धानियमादेव सममर्थेन सर्वदा ।
इत्यनेन प्रकारेण ह्यसिद्धो हेतुरुच्यते ।
कथमेवं विधाद्धेतोः साध्ये सिद्धिर्भवेत्सताम् ।।
टि-व्यक्तिः कथं तत्र पुनश्चेत्येवं श्रूयतामिदम् ।
३०- तभिःशेषच्युतेत्यादौ प्रमाणत्वेन यान्यपि ॥
चन्दनच्यवनादीनि छुपात्तानीति तानि तु ।
कारणान्तरतोऽप्यत्र सम्भवन्ति कथञ्चन ।।
स्नानकार्यतयोक्तानि ह्युपभोगेन केवलम् ।
प्रतिबद्धान्यतस्तानि व्यभिचाराणि तान्यपि ।।
व्यक्तिरत्राधमपदसहायानां समीरिता ।

पंचम उल्लासः।
१५६
विशेषणानां निःशेषेत्यादीनां किन्तु नो मता।
प्रमाणप्रतिपन्नं नो ह्यधमत्वं कचित्युनः ।।
कोपाक्रान्तमनस्कायाः कामिन्याः स्वप्रियं प्रति ।
तथा चैवंविधादर्था दर्थ एवंविधः पुनः ।।
व्याप्त्यादेरनपेक्षवेऽत्र नूनं प्रकाशते ।
वाक्येष्वनिश्चयादेतोरनैकान्तिकता ध्रुवम् ॥

काव्य-प्रकाशः
षष्ठ उल्लासः।
का०-शब्दार्थचित्रं यत्पूर्व काव्यद्वयमुदाहृतम् ।
गुणप्राधान्यतस्तत्र स्थितिश्चित्रार्थशब्दयोः।
१०- अचित्रत्वं न चार्थस्य शब्दचित्र कथञ्चन ।
न चाचित्रे शब्दस्याचित्रत्वं विनिवेद्यते ॥
टि०-गौणमुख्यप्रभावेण न च सङ्करतानयोः ।
भवन्ति व्यपदेशा हि प्राधान्येनैव सर्वदा ॥
भामहोदितमप्यत्र स्त्रपुष्टावुद्धृतं यथा ।
वृ०- "रूपकादिरलङ्कारस्तस्यान्यैर्वदुधोदितः ।
न कान्तमपि निर्भूषं विभाति वनिताननम् ॥
रूपकाद्याालङ्कारा विद्भिर्बाह्याः समीरिताः।
मुपां तिङां च व्युत्पत्ति वाचा वाञ्छन्त्यलङ्कृतिम् ।।
तदेदाहुः सौशब्धं नार्थव्युत्पत्तिरीदृशी ।
शब्दाभिधेयालङ्कारभेदादिष्टं द्वयं तु नः ॥
प्रथममरुणच्छायस्तावेचत: कनकप्रभः,
तदनु विरहोचाम्यत्तन्वीकपोलतलद्युतिः ।

षष्ट उल्लासः।
A.....AA..
उदयति ततो ध्वान्तध्वंसक्षमः क्षणदामुखे,
सरसबिसिनीकन्दच्छेदछबिमंगलाञ्छनः ।।
टि०-उपमादौ प्रतीतायामपि शब्दविचित्रता ।
अनुप्रासस्य बाहुल्यादासमाप्ति कवेः कृतौ ।।
१०-ते दृष्टिमात्रपतिता अपि कस्य नात्र,
क्षोभाय पक्षमलदशामलकाः खलाश्च ।
नीचाः सदैव सविलासमलीकलग्नाः,
ये कालतां कुटिलतामिव न त्यजन्ति ॥
टि०-गौणोऽत्र शब्दालङ्कारोऽनुप्रासो विबुधैर्मतः ।
समुच्चयालङ्कारस्य प्राधान्यादर्थचित्रता ॥
४०- एवमेवान्ततो गत्वा कार्ये सर्वत्र यद्यपि ।
स विभावादिरूपेण रसो हि पर्यवस्यति ।।
तथाप्यनुपळम्भाद्धि स्फुटमत्र रसस्य वै ।
अव्यङ्गयमेतद्विद्वद्भिः काव्यद्वयमुदीरितम् ॥
अत्र शब्दार्थवैचित्र्यात्स्युर्भेदाः बहवः पुनः
निर्णेष्यन्ते तथास्माभिस्ते चालङ्कारनिर्णये ।
व्योमाङ्कनिधिभूवर्षे माघे मासि सिते दले ।
तिथौ वसन्तपञ्चम्यामुदये पूर्णतामगाव ।।

(१६२)
वंशप्रशस्ति।
सौभाग्यस्य निधिः श्रुतस्य वसतिर्विद्यावधूनां बरों,'
लक्ष्म्याः केलिगृहं प्रतिभवनं शीलस्य कीर्तः पदम् ।
शास्त्राचारगुरुः सदावनितले साहित्यचूडामणि-
निःसामान्यविकासया प्रतिभया जागर्ति वत्सान्वयः॥
कुलक्रमेणाथ सुखोदयेऽस्मिन्,
श्रीमेदपाटावनिमावगर्भ ।
लक्ष्मीनिवासैकमनाः स लक्ष्मी-
दासोभिधानाऽजनि वंशमूलम् ।।
विद्धः सुहद्वान्धववाम्भिरेषश” सुतीपौरिव सम्प्रयातः ।
श्रीविश्वनाथं विवुधैकवन्यं वाराणसीवासिनमाजगाम ।
अधीतविद्यस्तत आशुतोषप्रभावतो. भागवतो महात्मा ।
चचाल मन्त्रार्णवपारश्वा स्वमातृभूमेर्वदनं दिद्वक्षुः ॥
काशी परित्यज्य समापतन्तंमार्गेऽनुगच्छन् किल सप्तसप्तिः।
तं भूसुरेषं गहने विहाय स्वमन्दिरं पूर्वमगाहेशः ॥
लक्ष्मीदासो निशीथे लगुडसहचरः स्वाश्रयं काडमाणो ।
लक्ष्मीनारायणस्तोन्नततरशिखरं मन्दिरं प्राप्य भव्यं ।।
लक्ष्मीदासैरशान्तः कटुकथनपरैः सेवकैस्ताड्यमानो ।
द्वास्थस्तम्बरमस्योदरतलपतितस्तां तमिस्रां निनाय ॥
सम्प्राप्य वै.राजसमुद्रबन्धमहोत्सवे मन्त्रवलेन सद्यः ।
धूमं वियव्यापिनमुनिरन्तं प्रज्वालयामास तमिद्धमग्निम् ॥
चमत्कृतः शमभृतां वरेण्यो राजाधिराजः खलु राजसिंहः ।
सत्कृत्य तं वेदविदा वरेण्यं सम्भूष्य वै व्यासपदेन भूयः॥
पुराणपारायणकृत्यनन्तरं , सचामर मत्तग्रजाधिरोहणम् ।
यात्रोत्सवे राजपथप्रवृत्ते समय बागोरपुर न्यवर्तयत् ॥
वेदत्रयी वाथ सुतंत्रयों सा जाता जगद्वयापियशप्रसारा।
ज्येष्ठस्ततोवल्लभरामवर्यस्तस्थात्मजः केशवदास आसीत्।।

जातः सुतो ज्येष्ठतरो हि रूपरामाभिधानो रमणीयरूपः ।
विद्याविलासव्यसनी सुधग्मीततोऽजनिश्रीनरसिंहदासः॥
कालप्रभावेण सुपुष्पितासौ त्रिवेदिपूताङ्गणकल्पवल्ली ।
मनोरमं केशवरमिक प्रासूत सत्पुत्रफलं गुणाढ्यम् ॥
नवाणियाग्राममधिष्ठितः सन्निनाय नूनं कतिचिहिनानि ।
द्वितीयभावे समुपागते द्वितीयमाशिश्रियदाश्रमं सः ॥
भोक्ष्ये सदाहं स्वयमर्जयित्वा निश्चित्य चैतन्नरसिंहसूनुः।
जगाम पत्नीसहितः सहर्ष मेणारमालक्ष्य महान्तमर्थम् ॥
तस्यात्मजः पञ्चमवेदवेत्ता गङ्गाधरः पञ्चम एष पुत्रः।
प्रापत्समृद्धोदयपत्तनेशश्रोसज्जनेन्द्रस्य पितुः पदाजम् ॥
प्रवीरबागोरपुराधिनाथं श्रीशक्तिसिंह सुखदं शरण्यम् ।
संसेवमानो विधिवद्विधिज्ञः प्रसादपात्रत्वमवाप तस्य ।
गोवर्द्धनं विज्ञजनाप्रगण्यं सौभ्रात्रहीनं सुगुणरहीनम् ।
शृङ्गारदेव्याकरजं सुरत्नं प्राप्यैव पुत्रं मुमुद्दे निकामम् ॥
व्यासान्ववायवसुधावजमण्डनेन,
गोत्रेण वत्सपदपूतकलेवरेण ।
गोवर्द्धनेन सुहृदा विवुधागृतेन,
रत्नाकरे गिरिधरोपल एष लब्धः ॥
मेदपाटनरदेवसुमेघात्प्राप्य जीवनमसौ.क्षितिदेवः ।।
वर्धयन्नविरतं शिशुसस्थानाजते समुदलं हृदयेऽत्र ।।
यमुनावल्लभ इत्युदायचत्तोऽवरजोऽप्यस्य गुणैर्गुरुत्वमाप्तः।
प्रचनालेह गुरून्विहाय सर्वान् यमुनापित्रतिथिःससम्बुभूषुः॥
लोंके पितृत्व स्वमनाप्यनूनं लोकान्तरे तत्प्रत्तिपत्तुमैच्छत् ।
सेावपत्ये पितरावीतौ पदप्रतिष्ठापरिरक्षणाय
ज्येष्ठे तापत्येव सुदीर्घकाले जाता कथं नातपदस्य पतिः ।
प्रसितायामपिं चित्रमस्यामस्तंगतोऽयं तरुणः सुधांशुः ॥
नियुध्य कालेन नितान्तमेको वीरोऽपिसुश्रान्तिमुपागतोऽस्मि।
नारायण शङ्करमाशु विहां विधाय सर्व विभो दयस्व ॥

१६४ काव्य-प्रकाश:। -- -- परिशिष्टम् ? लक्षणाभेदाः । १.मम्मटमतेन । कुन्ताः प्रविशन्ति गङ्गायां घोषः ३ शुद्धा सारोपा ४ शुद्धा १ शुद्धा पादानलक्षणा २.शुद्धा लक्षणलक्षणा. आयुर्घतम् साध्यवसाना आयुरिदम् ६ गौणी सारोपा. गौर्वाहीकः ६ गौणी साध्यवसाना गौरयम् । २ मुकुलभट्टमतेन । ( ३५ पृष्ठे ) १ शुद्धो पादानलक्षणा गौरनुबन्ध्यः २ शुद्धा लक्षणलक्षणा आयुर्घतम् । ४ शुद्धा साध्यवसाना, पांचालः (पञ्चालापत्यानिवासाधिकरण- त्वाजनपदे प्रयोग;) ५ गौणी सारोपा गौर्वाहीक: ६ गोणी साध्यवसामा राजा : क्षत्रियमुख्यया वृत्त्या प्रयुक्तः सन् शूद्रादौ क्षत्रिय गतजनपदपरिपालनयोगलक्ष- प्रापूर्वकया सौणवृत्त्या बुज्यते अभिधरवृत्तिमातृका गङ्गायां घोषः ३ शुद्धा सारोपा --- २ " साध्यवसाना परिशिष्टम् । ३ विश्वनाथमतेन मुख्यभेदाः । ( ३५ पृष्ठे) रूढी- १ शुद्धो पादानसारोपा श्वेतोऽश्वो घावति। साध्यवसाना श्वेतो धावति ३ गौण्युपादानसारोपा एतानि तैलानि हेमन्ते सुखानि तैलानि हेमन्ते सुखानि ५ शुद्धा लक्षणलक्षणासारोपा कलिङ्गः पुरुषो युध्यते साध्यवसाना कलिङ्गो युध्यते ७ गोणी सारोपा राजा गौडेन्द्रं कण्टकं शोधयति। राजा कण्टकं शोधयति प्रयोजने- ९ शुद्धो पादानसारोपा. एते कुन्ताः प्रविशन्ति १० साध्यवसाना कुन्तन्ताः प्रविशन्ति ।। ११ गौण्युपादान सारोपा. एते राजकुमाराः गच्छन्ति ६ ८ साध्यवसाना '. १२ साध्यवसाना राजकुमाराः गच्छन्ति । १५ गौणी १३ शुद्धा लक्षणलक्षणा सारोपा आयुघृतम् , साध्यवसाना गङ्गायां घोषः सारोपा गौर्वाहीकः 3. साध्यवसाना गौर्जल्पति । .. एंषु प्रयोजने गूढा गूढ व्यङ्गयभेदेन षोडशे, धर्मिधर्मगतत्वेन द्वात्रिंशत् पदवाक्यगतत्वेन च चतुःषष्टिभेदाः । एवमेव रूढी काव्य-प्रकाश:1 -- - " गुद्धा ९ पदवाक्यगतत्वेन षोडश भेदाः: भवन्ति । सङ्कलनेन तुः अशीति भेदाः । साहित्यदर्पणः । ४.अप्पयदीक्षितमतेन । ( ३६ पृष्ठे.), १ निरूढा गौणी लावण्यम् । २ द्विरेफ:भ्रमर । फललक्षणा (प्रयोजनवती) ३ शुद्धा जहल्लक्षणा (लक्षणलक्षणा) गङ्गायां घोषः , अजहल्लक्षणा (उपादान०) कुन्ताः प्रविशन्ति । जहदजहल्लक्षणा ( अर्धेऽपि ज्वलिते) ग्रामोदग्धः ६ सारोपा भगवानानन्दः साध्यवसाना अयमानन्दः। गौर्वाहीकः २ एतदन्तरिक्षम् . वृत्तिवार्तिकम् । जगन्नाथमतेन । ( ३६ पृष्ठे) निरूढा- प्रयोजनवती १ गौणी सारापा २.;,.. साध्यवसाना. ३ शुद्धा जाहत्स्वार्थी ८ गोणी सारोपा साध्यवसाना - परिशिष्टम् । -----....-.- ....... M ४ शुद्धा अजहत्स्वार्था सारोपा साध्यवसाना रसगङ्गाधरः ३ ६ नागेशभट्टमतेन । ( ३६ पृष्टे). १ शुद्धा ( अभिधायाः नामान्तरम् ।) २ गौणी जहत्स्वार्था गौर्वाहीकः अजहत्स्वार्था कुन्ताः प्रविशन्ति ( मम्मटमते शुद्धोपादानलक्षणाया उदाहरणम्।) जहदजहस्त्रार्थी ग्रामोदग्धः लक्षितलक्षणा द्विरेफः ( एषएवाप्पयदीक्षितेन निरूढायाः शुद्धाया उदाहरणत्वेनोपन्यस्तः ) परमलघुमञ्जूषां । ४ ५ ७ अच्युतरायमतेन । ( ३७ पृष्ठे.) गोणी- १ तिरूढा २ प्रयोजनवतीसारोपा कुशल गौर्वाहीकः गौरयम् । ३ साध्यवसाना शुद्धा निरूद्धा ४ नील काव्य-प्रकाशः। -- " ", अजहत्स्वार्था , जहदजहत्स्वार्था. . १२ निरूढां ५ शुद्धा प्रयोजनवती सारोपा :: .': आयुघृतम् साध्यवसाना .. आयुरिदम् जहत्स्वार्था गङ्गायां घोषः श्वेतो धावति वं सः ( अंशेऽपि ) विरुद्धा १०, निरूढा (अदृष्टेऽपि चन्द्रमासि अमायाम्)दर्शः ११ ,, प्रयोजनवती ( अधन्येऽपि ) वंधन्यः । लक्षितलक्षणा द्विरेफः प्रयोजनक्ती वैदेही साहित्यसारः । परिशिष्टम् २ ध्वनिभेदाः १ पदगतोऽर्थान्तरसङ्कमितो विवक्षितवाच्यध्वनिः । २. वाक्यगतो, ३ पादगतोऽत्यन्ततिरस्कृती ४ वाक्यगतो. ५ पदंगलः शब्दशक्तिमूल संलक्ष्यक्रमो वस्तु ध्वनिः । अलङ्कार ध्वनिः । वस्तुध्वनिः । ध्वनिः। ध्वनिः । ध्वनिः । - ६ ७ वाक्यगतः , परिशिष्टम् २॥ १०" ११" ." . १४ १६ १८" " ( वाक्यगतः शब्दशक्तिमूल संलक्ष्यक्रमः अलङ्कारध्वनि । ९ पदगतः स्वतसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः। अलङ्कारध्वनिः । अलङ्कारेण वस्तुध्वनिः ।। १२ , अलङ्कारध्वनिः । १३ वाक्यगतः वस्तुना वस्तुध्वनिः। अलङ्कारध्वनिः। अलङ्कारेण वस्तुध्वनिः । १६., अलङ्कारध्वनिः । १७ प्रबन्धगतः वस्तुना वस्तुध्वनिः ।... अलङ्कारध्वनिः । १९ प्रबन्धगतः स्वतः सिद्धार्थशक्तिमूल: अलङ्कारेण वस्तुध्वनिः । २० अलङ्कारध्वनिः । २१ पद्गतः कविप्रौढोक्तिसिद्धार्थशक्तिमूलः वस्तुना वस्तुध्वनिः । अलङ्कारध्वानः। २३ अलङ्कारेण वस्तुध्वनिः । अलंकारेणध्वंनिः।। २५ वाक्यगतः वस्तुना वस्तुध्वनिः । अलंकारध्वनिः। अलंकारेपा वस्तुभ्यानिः । २८ अलंकारध्वनिः। २९ प्रबन्धगताः वस्तुना वस्तुध्वनि २२ " " ". २६ " -- " १७० काव्य-प्रकाशः। Paru " ३४ .. ३० प्रबन्धगतः कविप्रौढोक्तिसिद्धार्थशक्तिमूल:वस्तुना अलंकारवानिः । अलंकारेण वस्तुधानः । ३२ अलंकारध्वनिः । ३३ पदगतः कविनिबद्ध प्रौढोक्ति सिद्धार्थशक्तिमूल: वस्तुना वस्तुभ्वनिः। अलंकारध्वनिः । ३५ अलंकारेण वस्तुध्वनिः । अलंकार ध्वनिः । ३७ वाक्यगतःकविनिबद्ध प्रौढोक्तिसिद्धार्थ शक्तिमूल: वस्तुना वस्तुध्वनिः। अलंकार ध्वनिः । ३९ अलंकारेण वस्तुध्वनिः । अलंकार..ध्वनिः । ४१ प्रवन्धगतः । वस्तुना वस्तुध्वनिः। ४२ अलंकार ध्वनिः। अलंकारेण वस्तुध्वनिः । अलंकार ध्वनिः । ४९ वर्णगतोऽसंलक्ष्यक्रम व्यङ्गयो रसादि ध्वनिः । ४६ पदैकदेशगतो. ४७ पदगतो ४८ वाक्यगतो ४९ रचनागतो ५० प्रबन्धगतो ५१ वाक्यगतः शब्दार्थोभयशक्तिमूलो बनिः । " . " .

परिशिष्टम् ३।
परिशिष्टम् ३
ध्वनिभेदा:-
गुणीभूतव्यङ्गयभेदाः
५१ स्वभेदैः सह गुणनम् । ४२
८
५१
३३६ स्वभेदैः सह गुणनम्।
२५५
३३६
२६.०१ संकलनम्
२०१६
४ संकरसंसृष्टिभ्यां गुणनम् १००८
१०४०४
१००८
५१ शुद्धभेदैः सह संयोजनम् ११२८९६ संकरसंसृष्टिभ्यांगुणनम
१९४५५.
४५१५८४ शुद्धभेदैः सह संयोजनम्
३३६
४५.१९२०

२७२ काव्य-प्रकाशः। मुधासागरकाराणां मते- घनिभेदैः सह गुणीभतव्यङ्गय- .. भेदानां गुणनम् । ४५ ४५१९२० गु.भू.व्य.भेदाः १०४६५ ध्वनिभेदाः २२५ १८० २२५९६०० २२५९६०० १८०७६८० ४५१९२० २०२५ ४ संकरण संस- ६५७५४३६०० (१००ष्टया च गुणनम् ४५ ८१४९ गुणीभूतव्य- १०४५५ झ्यभेदाः ५२२७६ बनिभेदैः सह १०४५५ ८३६४० ८५१५५९७५ पुनः संकरण ४ संसृष्ट्याच ३४०६२३९०० गुणनम् ।

उदाहृतपद्यानां सूची १२३ अह पिहुलं जलकुंभ ( गाथासप्तशती १) अतन्द्रचन्द्राभरणा अत्ता एत्य णिमजा (गा० स० श.) आयुच्चाः पठितः स्फुरन्ति (पंचाक्षरो) अत्रासी स्फणिपाश (बालरामायण) अदृष्टे दर्शनोत्कण्ठा अन्यत्र यूयं कुसुमावचायं० अन्यत्रबजतीति- अमितः समितः प्राप्तः अमु कनकवर्णाभ अयं स रशनोत्कर्षी १३० ७५ ९३ १११ अलस शिरोमणि . १२५ १२९ . अलं स्थित्वाश्मशाने अविरलकरवाल. असोढातत्कालोल्लसद. अहो वा हारे वा आकुम्च्यपाणिमशुचिं आगत्यसम्प्रति वियोग आदित्योऽयं स्थितो. इतः स दैत्यः प्राप्तश्रीः उअ णिच्चलणिफंदा उत्कृत्योस्कृत्यकृति- उत्सित्तस्यं तिपः पराक्रमः उद्देशोऽयं सरसकदली. उन्निद्रकोकनदरेणु० १२१ - १२३ ( १७४) १४१ ७९ ९७ उपकृतं बहु तन्त्र उल्लास्य कालकरवाल. एकस्मिन् शयने एइहमेत्तत्थणिमा ओण्णिई दौबल्लं ओल्लोलकर० कण्ठ कोणविनिविष्टः कथमवनिपदो कस्स व ण होई. कृतमनुमतं दृष्टं वा कृतं च गर्वाभिमुख केसेसु बलामोडिअ कैलासस्य प्रथशिखरे कैलासालयभालमोचन काकार्य शशलक्ष्मणः क्षणदासावक्षणदा क्षुदाः संत्रासमेते ( हनुमन्नाटक) खण पाहुणि आदे अर ( ध्वन्यालोक ) खलव्ववहारा दीसन्ति गच्छाम्यच्युतदर्शनेन गादकान्तदशनक्षत गादालिंगणरहसुजु० गामरुहम्मि गामे गुरुअणपरवसपिअ प्रमतरुणं तरुण्याः (रुट) ग्रीवाभंगाभिरामं (शाकुन्तल) चित्रं महानेष बतावतारः . १२४ १३० ९६ ८१ (१७५) १२८ १९ . ४८ चिन्तयन्ती जगत्सति (विष्णुपुराण) जनस्थाने भ्रान्तं (भट्टवाचस्पति) जा ठे व हसन्ती जाने कोपपराङ्मुखी (सुभाषितः शाङ्गधर) जे लंकागिरिमेहलासु (कर्पूरमंजरी) जोण्हाह महुरसेण णवपुण्णिमामिअंकस्स णोटलेह अणहमणा तहआ मह गंडस्थल तथाभूतां दृष्ट्वा ( वेणीसंहार) तदप्राप्तिमहादुःख० (विष्णुपुराण) तरुणिमनि कलयति तस्या सान्द्रविलेपन० (अमरुक) ताणं गुणग्गहणाणं तिग्मरुचिरप्रतापः तुह वल्लहस्स गोसम्भि ते दृष्टिमानपतिताः वं मुग्धाक्षि विनैव (अमरुक ) त्वामस्मि वच्मिविदुषां त्वामालिख्य प्रणयकुपितां (मेघदूत) दर्पान्धगन्धगज दूरादुस्सुकमागते (भमरुक) देवादहमन्त्र तया (रुद्रट) द्वयं गतं सम्प्रति द्वारोपान्त निरन्तरे धन्यासि या कथयसि (विजिका-शा) न चेहजीवित कश्चित् (म. भा. शां. प.) ९३ ५२ ( १७६) निरुपादानसम्मार (नारायणभह) निशितशरधिया० निःशेषच्युतचन्दन पथि पथि शुकचन्चू ११२ पंथिभ ण एल्थ १०९ परिच्छेदातीतः (मालतीमाधव) परिमृदितमृणाली (मा० मा०) पविसंती घरवादे पश्यत्कश्चिञ्चल प्रथममरुणच्छायः 'प्रधनास्वनि धीरधनु० प्रस्थान वलयैः कृतं १२६ ७६ प्रेमार्दाः प्रणयस्पृशः ११२ १२५ १३७ . प्रेयान् सोऽयमपाकृत (वामनः) वन्दीकृस्य नृप द्विषां ब्राह्मणाति क्रमत्यागो भद्रात्मनो दुरधिरोह भम धम्मिा वीसद्धो भुक्तिमुक्तिकृदेकान्त भूयोभूयः सविध भ्रमिमरतिमलस मध्नामि कौरवशतं महिलासहस्सभरिए साए घशेवभरणं मात्सर्यमुस्साय विचार्य मुखं विकसितस्मित मुग्धे मुग्धतथैव ० १२९ १३३ २२ ३९ १०३ ( १७७ १२२ ११२ १०३ ११३ १३१ यः कौमारहरः स एव यस्य मित्राणि मित्राणि यस्यासुहृत्कृततिरस्कृति येषां दोबलमेव दुर्वल रहकेलिहिअणिअसण राहसु चंदधवलासु राकासुधाकरमुखी रामोऽसौ भुवनेषु रुधिरविसर प्रसाधित लावण्यं तदसौ कान्ति लिखनास्ते भूमि वाणीर कुडंगुड्डीण वारिजन्तो विपुणो विनिर्गतं मानदमात्म. विपरीअरए लच्छी वियदलिमलिनाम्बु विहलं खलं तुम सहि शनिरशनिश्च तमुच्चैः० शन्यं वासगृहं विलोक्य श्रीपरिचयाजडा अपि सहि णवणि हुवण० सहि विरइऊणमाणस्स साकं कुरङ्गकदृशा सा पत्युः प्रथमापराध सायकसहायबाहो सायं स्नानमुपासित साहती सहि सुहवं १५३ ९४ ७३ ३९ १२६ २२

(१७८)
सुब्वह समागमिस्सन्दि
सेयं ममाजेषु सुधारस
सो मुद्धसामलंगो
स्तुमः के वामाक्षि
स्निग्धश्यामलकान्ति
स्वच्छन्दोच्छलदच्छ
हरत्यचं सम्प्रति
हरस्तु किञ्चित्परिवृत्त
हा मातस्त्वरितासि

सम्मतयः । ॥ श्रीः॥ काव्यप्रकाशविवृति सरलां मनोज्ञाम् , छन्दोमयीं विबुधबोध्यगभीरभावाम् । विद्वद्वरो गिरिधरो विरचय्य मन्येs- लङ्कारशास्त्रसरणिं सुगमा वितेने ॥ श्रीप्रमथनाथतर्कभूषणशर्मा (महामहोपाध्यायः) प्रिन्सिपल संस्कृतकालेज हिन्दूविश्वविद्यालय काशी । उदयपुरवासिना कोविदवरेण श्रीगिरिधरलालशर्मणा विनिर्मितं काव्य-प्रकाशस्य पद्यमयं व्याख्यानमवलोक्य प्रमोदमनुभवामि । अत्र हि कोमलानि स्फुटार्थानि च वीक्ष्यन्ते पद्यानि । एतदभ्यासेनान्तेवासिनां मनांसि नूनमधिष्ठातुमर्हन्ति काव्यप्रकाशप्रतिपादिता विषयाः । गद्यम- पेक्ष्य पद्यस्याभ्यासोऽपि सौकर्येण भवतीत्ययं प्रबन्ध उपादेय एवेति- २६-७-३३ वालकृष्णमिश्रः विश्वविद्यालयः, काशी (सर्वतन्त्रस्वतंत्रः) - श्रीराम शरणम् । (आशीः, प्रशस्तिपत्रम् ) दुरूहग्रन्थविवृतिः प्रायः पद्यैर्न दृश्यते । छन्दोऽनुबन्धिसम्बन्धबन्धनिर्बन्धबन्धुरैः ॥ काव्यप्रकाशविवृतिः सरला बालेव पद्यरूपाय । गिरिधरलालव्यासं व्यासप्रीत्याकरोस्पितरम् ॥

( १८०) दृष्टाल्पांशोऽपि शंसामि प्रकाशकृतितां कवेः । भबालस्योदयस्थस्य सौम्यसद्भावशालिनः ॥ शर्वरीगर्वनिर्वापि कराकरनिरीक्षकः । रवेरवैति बालोऽपि प्रकाशबहुलोदयम् ॥ बिन्दुमानं जलं पीत्वा ज्ञायते सरसो रसः। अथ न ज्ञायते कृत्स्नपानेऽप्येपैत्र मन्दता ॥ यथा गभगतो बालो मणिर्वा खनिमध्यगः । तथा गृढ़प्रकाशेयं संस्कृतव्यक्तिमृच्छतु ॥ उदयपुरनरेशलब्धवृत्तेगिरिधरलालकचेनवेऽत्र कृत्ये । मतिमतिरुचिरामवेत्य तं, तत्प्रभुमपि भूपतिमाशिपायुनज्मि । नानादर्शनपरमाचार्यः सर्वतन्त्र स्वतन्त्रः श्रीपश्चानन तर्करत्नः ॥ श्रीः ॥ श्रीशास्त्रिणा गिरिधरेण सुनिर्मितेयम् पद्यात्मिका सुविशदा स्फुटग्रन्थसारा ॥ साहित्यदर्शनविवेशिकृतोपकारा काव्यप्रकाशविवृतिर्विदुषां मुदे स्तात् ॥ गङ्गाधरशास्त्री अध्यापक: राजकीय संस्कृत काटेज, बनारस । महाराणासंस्कृतकलाशालासाहित्याध्यापकः श्रीमान् पं० गिरिधरलाल- शर्मव्यासः काव्यप्रकाशं प्रौढ: प्रसन्नैगंभीरैश्च वाक्यैरवयवश आख्यात. वानस्ति । विशेषविदुषोऽस्याभिनवेयं लेखनशैली विस्मयमादधाति । मन्त्र हि पद्यमय्यां वाचि प्रकाशकारगूदाशयं प्रदीपप्रभामुद्योतातिञ्च निपुणं निचाय्य पण्डितराजपरिष्कृतयो विश्वनाथसमालोचनाश्चापि स्फुट निवेशिताः सन्ति।

( १८१ ) - अल्पीयसीभिरतिस्फुटाभिः कारिकाभिरेतावतां वस्तुजातानां प्रकाशन मिति लेखकस्यास्य सहृदयतां क्रान्तदर्शनताञ्च ग्रन्थस्यास्योपादेयतया सह दृढं प्रमाणयति कालीप्रसादशर्ममिश्रः व्याकरणप्रधानाध्यापक: संस्कृतका लेज, हिन्दूविश्वविद्यालय, काशी । - ॥ श्रीः॥ उदयपुरपत्तनस्थ पं० श्रीगिरिधरशर्मनिर्मितां पद्यमयीमपेक्षितविविध. विषयालंकृतां ग्रन्थाशयं सरलेन स्फुट प्रकाशयन्ती काव्यतत्वजिज्ञासूना- मन्तेवासिनां कृते काव्यलतामिवेमांकाव्यप्रकाशटीको दर्शदर्शमतीव हृष्यति मे चेतः । इयं च न केवलं विद्यार्थिनामेवापि तु विदुषामप्युपकुर्वती लोकप्रथिता भवेदिति मे दृढो विश्वासः । वामदेव मिश्रः सा० प्र० ध्या. हि० वि०वि० का। ॥ श्रीः॥ श्रीमद्विरिधराख्येन विदुषातिमनोहरा । काव्यप्रकाशव्याख्येयं पद्यरूपेण निर्मिता ॥१॥ 'छात्राणामुपकाराय विज्ञानां प्रीतिवृद्धये । लोके प्रचलिता सेयं भवितेति विनिश्चयः ॥२॥ अम्बिकाप्रसाद शर्मा ७-९-३३ हिन्दूविश्वविद्यालय काशी व्याकरणाचार्य:

(१२) विद्वद्वरश्रीमद्विरिधरलालशर्मसाहित्यशास्त्रिमहोदयनिर्मितायाः पद्य- मय्या अपि झटिति बोधमुपजनयन्त्याः साहित्यीयाचुरविचाराञ्चितायाः साहित्यतत्वमधिजिगांस्यमानानां नितान्तमुपकारिण्याः समधिगतसाहित्य- तत्वानामपि सम्मदसन्ततिमातानयन्त्याः सुलभबोधदर्पणायमानायाः काव्यप्रकाशव्याख्यायाः कियदुपादेयत्वमिति दर्शनसमनन्तरमेव विज्ञा विज्ञास्यन्तीति नानाधिकमलं वक्तव्यं 'न हि कस्तूरिकामोदः शपथेन विभाव्यत ' इति । प्रत्यक्षगोचरवस्तुसत्वशब्दवर्णननिष्फलस्वस्य स्फुट प्रतीयमानत्वादिति विज्ञापयति मार्कण्डेयांमश्रः प्रधानाध्यापक: नाथद्वारीयगोवर्द्धनसंस्कृतपाठशालायाः। - महाराणासंस्कृतकालेजसाहित्याध्यापकेन पण्डितगिरिधरलालव्यासेन शास्त्रिणा काव्य प्रकाशे " प्रतिपादिताः समत-मतान्तराः सोद्धरणाश्च कृतान्ताः पद्यमयीमि ( कारिकाभि ) रेवापञ्चमसमुल्लासं संक्षिप्ताः परीक्षाः समुत्तितीर्घभ्योऽन्तेवासिभ्यो भवेयुरतितरामुपादेया इत्याशासे । यतो हृदयङ्गमोऽन्न रसनिरूपणप्रकारः, सुविशदो ध्वनिस्फोटविवेचन- विधिः, पेलवो हि व्यञ्जनाव्यञ्जनमार्गः, भावग्राही लक्षणालक्ष्यलक्षण- समुद्देशः, अल्पबुद्धिसाध्यश्च भावानुप्रवेशः । क्लिष्टशब्दगुम्फिताभिः दुरधिगम्यभावाभिः गद्यपद्यमयीभिः भाषाभिः निरूपितान्, ऋजुमतिदुरूहान् , राधान्तान् , सरलामिकाभिः कारिकाभिः संकलयतानेन बालबुद्धिभ्यो विद्यार्थिभ्यो महदुपकृतमिति मन्ये । रामसुन्दरशास्त्री संस्कृताध्यापक महाराणा कॉलेज, उदयपुर ।

(१३) ॥ श्री विश्वनाथः शरणम् ॥ अयं स्वाधीतग्रन्थेषु महान्तं श्रममाचरन् । पद्यबद्धं सुसरलं बुधामामोदहेतवे ॥ व्यासोपाह्वो गिरिधरछात्रोपकृतिगर्मितम् । अहो काव्यप्रकाशस्य टिप्पणं यं व्यरीरचत् ॥ दर्श दर्शममुं ग्रन्थं काव्यतत्वभरा नराः । जायन्ते नात्र सन्देह इत्ययं मनुतेतराम् ॥ मिश्रोपाल रामचन्द्रशर्मा प्रधानाध्यापक श्रीफतहभूपाल ब्रह्मविद्यालय, उदयपुर । ॥ श्रीः ॥ अयं प्रकाशविवृत्यलङ्गकृतः प्रकाशो नितरां प्रमोदयति मे स्वान्तम् दुरूहस्याऽस्य प्रन्थस्य मर्मावबोधो बुधानामपि झटित्यसम्भवः प्रदीपादि. तयाख्याऽपि सुतरां दुरूहातोऽस्य सर्वजनमनोरञ्जनी व्याख्यापेक्षितैनया विद्वद्वरनिर्मितया प्रकाशितः प्रकाशो मन्दानप्युपकरिष्यतीति मन्यते- काशीस्थमारवाड़ीसंस्कृतकालेजाध्यापको नारायणदत्तशर्मत्रिपाठी। अतिसंक्षिप्तदुरूहत्वेऽपि सारगर्मितस्यास्य काव्यप्रकाशस्य विवरणा- स्मकसरलतरसुरसपचारमकनिबन्धदर्शनादस्माकं प्रमोदाकुलितमिव सम्पन्न मान्तरं करणमिति सुतरां संख्यावतां संख्यावतामप्रतिमप्रमोदमनतिप्रौढ- मतीनां कान्यगोचरव्युत्पत्त्यतिशयमाधास्यतीत्यध्यवस्यति- पद्मप्रसादोन्यायाचार्यः, मा० सं० का० काशी का० ० ७.१९९० - (१८४) दुरवबोधस्यास्य ग्रन्थस्यातिप्रगल्भासु प्रदीपादिव्याख्यासु सतीषु निष्प्रयोजनयातिसुकुमारमतीनामध्यधिकतरव्युत्पत्त्या धायकत्वेन समा- पेक्षितयैनया प्रकाशविवृत्या मण्डितोऽयम्प्रकाशो नितराम्प्रकाश (हाद)- यति मे मानसमिति । शिवमङ्गलद्विवेदो न्यायाचार्यः मा० सं० कॉलेज मीरघाट, काशी। हृद्यपद्यावबद्धतया विद्वन्मुदप्रवर्धिनीयमस्य ग्रन्थस्य व्याख्याप्रकाश- विवृतिः सत्स्वपि व्याख्यान्तरेषु प्रायः पद्यात्मकन्याख्यानामनुपलाभेना- द्वितीयतां गताऽतीव मे मानसं प्रमोदयति काव्यव्युत्पत्तिवृद्धिजनकतया चान्तवासिनामपि समुपकारिणी स्यादिति । भास्करानन्दपर्वतीयो व्याकरणाचार्यः काशीस्थ-मारवाड़ी सं० कालिजाध्यापकः ।

Kavya Prakash

Author
Pt.girdhar_sharma
Other authors
Ccl
Title
Kavya Prakash
File name
Kavya Prakash
Text
OCR done
Citation
1934
Publisher
Pt.dhanlal_sharma
Language
Sanskrit
Pages
199
Library
Scl
DLI number
326264
Barcode
2020010005798.00
Scanning centre
City Central Library, Hyderabad
Digital publisher
par informatics, hyderabad
VMLT id
Mr6ESoK2Wlf
Download PDF

Kavya Prakash