Bharatiya Vidya Bhavan Library, Mumbai
Shri Rastu Laghu Vasudevm
Front matter
श्रीरस्तु। लघु वासुदेवमननम् । नाम श्रीमत्परमहंसपरिव्राजकाचार्यवासुदेव- यतीन्द्रविरचितः, अद्वैतसिद्धान्तग्रन्थः। . मङ्गेशरामकृष्णतेलङ्ग" इत्यनेन परिशोधितः। क्षेमराज श्रीकृष्णदास इत्यनेन मुम्बय्यां स्वकीये "श्रीवेङ्कटेश्वर" मुद्रणालये मुद्रयित्वा मकाशितः। संवत् १९५७, शके १८२२. इस ग्रन्थका सर्वाधिकार "श्रीवेङ्कटेश्वर" यन्याधिकारने यापीन रपणा.
श्री। वासुदेवमननाख्य (वेदान्त ) ग्रन्थस्य- विषयानुक्रमणिका। AUTARIA वर्णकम् । ... om .... ... .... .... २ २ .... ... .... ९ ... ....२५ शरीरपरिग्रहणादुःखम् ।... १४ मङ्गलम् । विवषयविवकिविवेकः 1.... १५ मोक्षोपायः । १ । चतुर्विधमुक्तिः ।.... अध्यार। मुक्तिविचारः। १८ मायाविद्यानीवेश्वरादिः । शरीरकारणानि । कारणमपश्वस्थूलमपञ्चसृष्टिः। २ वर्णकम् ५। सक्ष्ममपञ्चसृष्टिः। ३ कर्मविचारः। स्मृष्टिमकारः। कर्मफलतारतम्यम् । टिसमटी। कर्तृत्वविचारः। २२ विक्षपशक्तिकार्यम्। त्रिविधकरणकर्माणि। ... २३ आवरणशक्तिकार्यम्। ब्रह्मविदादिविचारः। प्रवणादिफलानि । कारयितृत्वविचारः। २६ 'अपवादः । ६ अन्तयामिविचारः। २८ प्रतिबन्धत्रयनाशकारणम् । २८ वेदान्तानुबन्धचतुष्टयम् । पड्डिधलिड्नतात्पर्यनिर्णयः। २९ जिज्ञासुप्रश्नः। ब्रह्मणोनीवरूपेणानुमवेशः। ३० वर्णकम् ३३ जीवेश्वरक्यम् भानात्मविवेकः । वर्णकम् । भेदव्यवहारः। रागद्वेषादिवृत्तिभेदाः। पारमार्थिकापरोक्षम् चित्तशोधनम् । वर्णकम् । रागादेःफर्महेतुत्वम् । १२ जीवस्यदुःखादिविचारः। अविवेकादभिमानः। आत्मनित्यत्वविचारः। भगानादविवेकः। .... .... .... वर्णकम् २॥ ८ .... .... ९ .... .... .... ... ."
.in ... .... ... 4... ७८ .... ... विषयानुक्रमणिका। अनादिभाषाज्ञानम् । वर्णकम १०॥ अज्ञानमनिर्वचनीयम् । पञ्चकोशव्यतिरिक्त आत्मा । ७० निवर्यनिवर्तकभावः। अध्याससंबन्धविचारः। ....७१ स्वरूपज्ञानवृत्तिज्ञानादिः । १० जगन्मिथ्यात्वम् [... ज्ञातनाज्ञानस्यनाशः। भधिष्ठानसत्यत्वम् । वर्णकम् ॥ वर्णकम् ११॥ मात्मविचार। उपाधिविचारः। सच्चिदानन्दस्वरूपत्वम्। जीवश्वाभिमानादिः। सत्त्वसिदिः। जीवत्वसिदिविचारः। शुक्तिविचार। तत्त्वंपदाखण्डार्थविचारः । १६ आत्मनश्चिद्रूपत्वसिद्धिः ।...... वाच्याथलक्ष्याविचारः । ५० मनसैवानुद्रष्टव्य इत्यस्य- वर्णकम् ८॥ तात्पर्यन् । .... मात्मनःशरोरत्रयविलक्ष- धात्मनानन्दरूपत्वसिदिः। ८६ णत्वम्। सुषुप्तिसुखादिविचारः। सूक्ष्मशरीरविचारः। वर्णकम् १२ ॥ उद्देशलक्षणपरीक्षादिका निर्विशेषचिन्मात्रावस्थितिः। ८७ इन्द्रियादिविचारः । सच्चिदानन्दभेदनिरासः ।.... ८५ माणादिविचारः । अपरिच्छिन्नात्मत्वम् ! .... ८७ कारणशरीरविचारः। सचिदानन्दविचारः। विविधभेदरहित्यम् । श्रुतितात्पर्यनिर्णयः। चिन्नडवैरक्षण्यम् । वेदान्तानामसण्डाता- भानन्दवःसंवेटक्षण्मम् ।६३ वर्णकम् ९॥ पर्यम् । मात्मनोऽनस्थानयसाक्षित्वम्।६५ बदेतसिद्धिः। निर्विकारकूटस्यात्मविचारः।६५ देतनिषेधः। त्रिपुटीपिचारः đạt minist.. प्रमाणधिवेकः । प्रत्यसमामिः । .... .... .... 10 ..." MARATTA ९८ .... A ...
श्राः। ॐनमः सच्चिदानन्दात्मने। लघुवासुदेवमननम् । प्रथमवर्णकम् । अद्वैतानन्दपूर्णाय व्यासशंकररूपिणे । नमोऽस्तु बासुदेवाय गुरवे सर्वसाक्षिणे ॥ १ ॥ मननाख्यं प्रकरणं वासुदेवयतीरितम् । विस्तृतं तद्धि संगृह्य बालबोधाय कथ्यते ॥ २ ॥ इह खलु धर्मार्थकाममोक्षाणां चतुर्णा पुरुपार्थानां मध्ये मोक्ष एव परमपुरुपार्थः । नित्यत्वात् । "नस पुनरावर्तते न स पुनरावर्तते” इति श्रुतेः । इतरे- पां त्रयाणां न तथात्वम् । अनित्यत्वात् । “तद्यथेह कर्मचितोलोकः क्षीयते एवमेवामुत्र पुण्यचितो लोकः क्षीयते” इत्यादिश्रुतेःस मोक्षोब्रह्मज्ञानादेव सिध्यति। "तमेवं विदित्वाऽतिमृत्युमेति" "नान्यः पन्था विद्यते ऽयनाय" "ब्रह्मविदामोति परम्" इत्यादि श्रुतिभ्यः। तद्ब्रह्म चाध्यारोपापवादाभ्यां ज्ञातव्यम्। अध्यारो- पापवादाभ्यां ज्ञातव्यस्तत्त्वनिर्णयः॥"न कर्मणा न प्रजया धनेन त्यागेनैकेऽमृतत्वमानशुः इति वचनात। तस्मान्मुमुक्षुणाध्यारोपापवादाववश्य ज्ञातव्यो।
(२) लघुवासुदेवमनने। अध्यारोपो नाम शुक्तिकायां रजतवत् रज्जौ सर्पवत, स्थाणौ पुरुषवत्, निष्प्रपञ्चात्मवस्तुनि प्रपञ्चारोपः। अयमध्यारोपो वस्त्वज्ञानादागतः । तदज्ञानमेवावि- द्या तमो मूलप्रकृतिः प्रधानं गुणसाम्यमव्यक्तं मायेति चोच्यते ।मूलप्रकृति म शुक्रक्तकृष्णतन्तुसमुदाय- रूपरज्जुवत् सत्त्वरजस्तमोगुणसमुदायरूपा । अस्याः प्रलयो महासुषुप्तिरिति च नाम । अस्यां मूलप्रकृती अनेककोटिजीवाःस्वस्वकर्मवासनाभिः सह जतुपिण्डे सुवर्णरेणव इव सृऐः पूर्व लीना वर्तन्ते । अयमनुभवः सकलजनानां सुषुप्तावस्ति। सा मूलप्रकृतिः सृष्टिकाले परिपक्वजीवकर्मवशान्माया अविद्या तामसीति विधा जाता। तत्र माया विशुद्धसत्त्वप्रधानातित्र प्रतिविम्वितं सत्सृष्टेः पूर्व विद्यमानं ब्रह्मचैतन्यमीश्वर इत्युच्यते । तस्याव्याकृत अन्तर्यामीति च नाम। स एव जगत्स्रथा स एव परिपूर्णब्रह्मचैतन्यरूपेण तमस्यवच्छिन्नं सज्जगदु पादानमपि भवति । तन्तोरूर्णनाभिवत् स्वोपाधिमा- धान्येनोपादानकारणम् । स्वप्राधान्येन निमित्तम् । अयमीश्वरः केन प्रकारेण जगत्सृष्टवानिति चेत् । उच्यते। पूर्वोक्ताऽविद्या बहुप्रकारा अनन्ता।तदविद्या- प्रतिविम्बितरूपा जीवा अप्यनन्ताः । अनयोर्जीवेश्वर- योयष्टिरूपा अविद्या समष्टिरूपा मूलंप्रकृतिश्चक्रमेण प्रथमं वर्णकम् । कारणशरीरे । तयोः कारणशरीरयोर्जीवस्येश्वरस्य च सुंपुप्त्यवस्था। तयोः स्वकारणशरीरमेवानन्दमयको- शः। एवं कारणप्रपञ्चसृष्टिः । अथ सूक्ष्मप्रपञ्चसृष्टिरुच्यते । ईश्वरस्येक्षणवशात्तमोगुणरूपा प्रकृतिरावरणश- क्तिविक्षेपशक्तिरिति द्विविधा जाता। तत्र विक्षेपशक्ति- व सूक्ष्म आकाशोऽभवत् । आकाशाद्वायुः । वायो रग्निः । अनेरापः । अद्भयः पृथिवी । एतेषां पञ्चभूता- नां सूक्ष्मभूतान्यपञ्चीकृतानि तन्मात्राणि चेति नाम । एतेषामेव सत्त्वरजस्तमोगुणाः कारणादज्ञानादागताः सन्त एतेपामाकाशादीनां पृथक् पृथक् सत्त्वगुणांशात् श्रोत्रत्वक्चक्षुर्जिह्वाप्राणमिति पञ्चज्ञानेन्द्रियाणि क- मेण जातानि । आकाशादिसत्त्वसमस्या अन्तःकरणं जातम् ।मनोवुद्धयहंकारचित्तभेदेन तच्चतुर्विधमातत्र बुद्धायहंकारस्य मनसि चित्तस्य चान्तर्भावः । एवमा- काशादिरजोगुणाद्वाक्पाणिपादपायूपस्था इति पञ्च कर्मेन्द्रियाणि जातानि । आकाशादिरजोगुणसमश्या प्राणो जातः। प्राणापानव्यानोदानसमानभेदेन स पञ्च- विधज्ञानेन्द्रियपञ्चकं प्राणपञ्चकं मनो बुद्धिश्च सप्तद- शात्मकमेकीभूय सूक्ष्मशरीरं लिङ्गाख्यमुच्यते। इदमे व भोगसाधनम् । आस्मिन्सूक्ष्मशरीरे जीवेश्वरयोरव- (१) लघुवासुदेवमनने । स्थितिः स्वप्नावस्था । अस्मिन्विज्ञानमयकोशो मनो- मयकोशः प्राणमयकोशश्च सन्ति । एवं सूक्ष्मसृष्टि- प्रकारः। अथ स्थूलसृष्टिप्रकार उच्यते । अथ तमोगुणप्रधानानि पञ्चभूतान्यपञ्चीकृतान्या- काशादीनि पञ्चापि भूतानि प्रत्येकं द्वेधा विभज्य, तत्र प्रत्येकमध चतुर्धा विभज्य, स्वाधभागं विहाय, इतर- भागाभागेपु संयोजनं पञ्चीकरणम्। एवं कृते पञ्चापि पञ्चीकृतानि भवन्ति । एतेभ्यः पञ्चभूतेभ्यो ब्रह्माण्ड सदन्तश्चतुर्दशभुवनानि जातानि । अस्मिन्स्थूल- शरीरे जीवेश्वरयोरवस्थानं जायदवस्था। इदं स्थूल- मेवान्नमयकोशः। एवं स्थूलसृष्टिप्रकारः । इदं कारणशरीरमिदं सूक्ष्मशरीरमिदं स्थूलशरीरं च प्रत्येक व्यष्टिसमष्टिभेदेन द्विविधम्।वनं ग्राम इत्या- दिसमष्टिः । वृक्षो गृहं व्यष्टिः। एवं सर्वशरीरं समष्टिः। एकशरीरं व्यष्टिः। तत्र समष्टयुपाधिक ईश्वरः। व्यष्टयु- पाधिको जीवः तत्रापि कारणसमश्या ईश्वरः।कारण- व्यष्टया प्राज्ञः सूक्ष्मसमष्टया हिरण्यगर्भः। सूक्ष्मव्य- प्रयातैजसास्थूलसमश्या वैश्वानरः स्थूलव्यष्टया वि- श्वः। इति जीवेश्वरयोरवान्तरभेदः। अयमेवेश्वरः सत्त्व- रजस्तमोगुणेरुपाधिभिब्रह्मविष्णुरुद्ररूपेण सृष्टिस्थि- प्रथमं वर्णकम् । (५) तिसंहारान्करोति। ब्रह्मणो विराडूपेऽन्तर्भावः । विष्णो- हिरण्यगर्भेऽन्तर्भावः ।रुद्रस्येश्वरे चान्तर्भावः । एवं प्रपञ्चोत्पत्तिः । अयमेवाध्यारोपः । इदं विक्षेपशक्ति- कार्यम्। अथावरणशक्तिकार्यमुच्यते। ईश्वरमात्मशानिनं च विहायान्येषां सर्वेषां जीवा- नां पञ्चकोशानामात्मनश्च भेदमावरणशक्तिरन्धकार इवावृणोति । आवरणं च द्विविधम् । असत्त्वावरणम भानावरणं चेति। वस्तु नास्तीतिव्यवहारकारणमस- त्वावरणम्।वस्तु न भातीति व्यवहारकारणमभानाव- रणम्। आवरणशक्तिकार्यमेव संसारवृक्षस्य मूलम् । न विक्षेपशक्तिकार्यम्।एतन्मोक्षसिद्धेरापि हेतुः। द्विविधम- प्यावरणं तत्त्वज्ञानेन विनाश्यम्। तत्त्वज्ञानं च परोक्ष- ज्ञानमपरोक्षज्ञानमिति द्विविधम् । तत्र गुरुमुखावेदा- न्तजन्यं ज्ञानं परोक्षज्ञानम् । इदमेव श्रवणम् । अने- न वस्तु नास्तीत्येवंरूपमसत्त्वावरणं विनश्यति। तदा वस्त्वस्तीति व्यवाहियते। श्रवणेन संशयं मननेनासंभा- वनां निदिध्यासनेन विपरीतभावनांच निवर्तयित्वा दे हात्मज्ञानवत् ब्रह्मात्मज्ञानं जायमानमपरोक्षज्ञानम् । अनेन वस्तु न भातीति व्यवहारहेतुरभानावरणं विन- श्यति। एवं परोक्षज्ञानेनापरोक्षज्ञानेन चवस्तु नास्त्रि (६) लघुवासुदेवमनने। न भातीति व्यवहारहेतुरावरणद्वयमपि विनश्यति । तदाऽनर्थनिवृत्तिरानन्दावाप्तिश्च भवति । इति सप्ताव- स्थाः सिध्यन्ति। सप्तावस्था नाम "अज्ञानमावृत्तिस्त- इद्विक्षेपश्च परोक्षधीः ।। अपरोक्षमतिः शोकहतिस्तृप्ति निराशा" इति । एवमाकाशवनिर्मले चैतन्यवस्तु- नि मिथ्याभूतप्रपञ्चकल्पनमध्यारोपः । अथापवाद उच्यते। कारणव्यतिरेकेण कार्य नास्तीति बोधेन शुक्तिका- यां रजतवत्, रजौ सर्पवत, ब्रह्मणि प्रपञ्चो नास्तीति निषेधोऽपवादः। या मा सा माया । या न विद्यते सा अविद्या इति व्युत्पत्त्या मायायाः कल्पितत्वं सिद्धम् । एवं यो ब्रह्म व्यतिरेकेण किमपि नास्ति। तद्ब्रह्माहमे- वेति विचार्य जानाति स एव जीवन्मुक्त इति वेदान्त सिद्धान्तः । इति मनने प्रथमवर्णकं समाप्तम् । अथ द्वितीयवर्णकम् । अथ द्वितीयवर्णकेऽनुवन्धचतुष्टयमुच्यते । विपय- प्रयोजनसंवन्धाधिकारिण इत्यनुवन्धचतुष्टयम् । अस्य वेदान्तशास्त्रस्य ब्रह्मैव विषयः । मोक्ष एव प्रयो- द्वितीयं वर्णकम् । (७) जनम् । प्रतिपाद्यप्रतिपादकभावो बोध्यबोधकभा- वो वा संबन्धः। साधनचतुष्टयसंपन्नोऽधिकारी । साधनचतु- एयं नाम नित्यानित्यवस्तुविवेक इहामुत्रार्थफल- भोगविरागः शमादिपर्ट मुमुक्षुत्वं चेति । ब्रह्मैव सत्यं जगदनित्यमिति श्रुतिस्मृतिपुराणादिना स्वय- मेव जायमानं ज्ञानं नित्यानित्यवस्तुविवेकः । इह स्रक्चन्दनादिविषयभोगः, अमुत्राप्सर-स्त्रीविपयभो- गश्च, उभयमप्यनित्यमिति श्ववान्ताशनमूत्रपुरीपा- दिवत्तत्र वैरस्यमिहामुत्रार्थफलभोगविरागः शमदमो- ' परतितितिक्षासमाधानश्रद्धा इति शमादिपङ्कम् । शंमो नाम श्रवणादिव्यतिरेकेभ्यो निवृत्तात्मन्येव श्रवणादिविपये मनसः स्थापनम् । दमो नाम ज्ञानक- मेन्द्रियनिग्रहः । उपरतिः संन्यासो निष्कामकर्मानु- प्टानं व्यवहारलोपो वा । तितिक्षा प्रारब्धागतशीतो- ष्णादिसहनम् । समाधानं श्रवणायनुकूलविपये मनः- समाधिः । श्रद्धा गुरुवेदान्तवाक्यविश्वासः । गृहे दह्य- माने तत्र दह्यमानः पुरुपः कलवपुत्रादिकं परित्यज्य स्वतापोपशमनार्थमेव वहिनिर्गत्य तापोपशमनं कर्तु- मिच्छति एवं सांसारिकतापशमनं संपादयितुं त्यक्त- सर्वेपणस्य तीवेच्छा मुमुक्षा । लोके केपाञ्चिन्नित्या- (८) लघुवासुदेवमनने। नित्यवस्तुविवेके सत्यपि वैराग्यस्यादर्शनादिहामुत्रा- र्थफलभोगविरागेणापि भवितव्यमित्युक्तम् । एतवि- तये सत्यपि केपाञ्चिद्भक्त्या ईश्वरोपासकानां ज्ञाना- धिकारादर्शनान्मुमुक्षुतया भवितव्यम् । एवंरूपाधिकारी उपहारसमित्पाणिः सन्सद्गुरुमुप- गम्य नमस्कृत्य विश्वासविनयाभ्यां सह हे स्वामिन, हे भगवन्, गुरो, इति संबोध्य जीवः कः, ईश्वरः कः, जगत्कीदृशम्, एतत्रितयं कस्मादागतम्, कस्माद्गमि- ष्यतीति प्रश्नं कुर्यात् । “ परीक्ष्य लोकान्कचिता- ब्राह्मणो निर्वेदमायानास्त्यकृतः कृतेन । तद्विज्ञानार्थ सगुरुमेवाभिगच्छेत्समित्पाणिःश्रोतियं ब्रह्मनिष्ठम्" ॥ इत्यादिश्रुतेः। "तद्विद्धिप्रणिपातेन परिप्रभेनं सेवया" इति गीतावचनाच। एवं शिष्येण प्रार्थितः सद्गुरुर्दयया सत्त्वरजस्तमो- गुणैर्जीवेश्वरजगदागमनप्रकारं बोधयित्वा आत्मस्वरू पमपि करतलामलकवरोधयति । अस्याधिकारिणः साधनचतुष्टयं च बहुजन्मार्जितपुण्यपरिपाकवशादी- श्वरानुग्रहेण च लब्धमिति वेदितव्यम् । एतत्तत्त्वज्ञा- नप्रदायकं गुरुमीश्वरं विन्यात् । एवं यो गुरुमुखाजी. वात्मपरमात्मभेदं विचार्य जानाति स एव मुक्ति गमिष्यतीति सिद्धम् । इति मनने द्वितीयवर्णकं समातम् ।
अथ तृतीयवर्णकम् । अयं प्रपञ्चः कतिविध इति चेत् । आत्मा अनात्मा इति द्विप्रकारः। प्रपञ्चातीतस्यात्मनः कथं प्रपञ्चान्त- भूतत्वमिति न शङ्कितव्यम् । कथमिति चेत् । अस्य प्रपञ्चस्य चेतनाचेतनात्मकत्वात् । आत्मनश्चेतनरू- पत्वात् । आत्मानं विना प्रपञ्चस्याभावादात्मनः प्रपञ्चान्तर्भावो वक्तव्य एव । तर्हि चेतनं किम्, अचेतनं किमिति चेत् । जंगमं सर्व चेतनम् । स्थावरं सर्वमचेतनम् । तहि चेतनाना- मचेतनानां च प्रत्येक बहुप्रकारत्वात् कथं द्विप्रकार एव प्रपञ्च इति चेत् । शृणु । कथमिति चेत् । अना- स्मैक एव । स कार्यरूपेणानेकोऽभूत् । आत्मा च एक एव । सोऽप्यनात्मकार्योपाधिभिरनेकजीवा इति अनेकेश्वरा इति च भाति । एकस्येश्वरस्य जीववत्क- थमनेकत्वमिति चेत्। पुण्यक्षेत्रेषु ग्रामेषु शिवविष्ण्वा- दिमूर्तिभेदेन स्थितत्वादिति बमः। मृच्छिलादिरूपा- णां तासां मूर्तीनां कथमश्विरत्वमिति चेत् । ईश्वरत्व- मस्ति । सर्वैरपि तासु मूर्तिषु बहुद्रव्यव्ययं कृत्वा अभिषेकनिवेदनादेः क्रियमाणत्वात् । येषां शास्त्र- विश्वासो नास्ति ते म्लेच्छादयो मूर्तीनां पूजने नो दाहरणीयाः । सर्वत्र श्रद्धापतामेवोदाहरणीयत्वात् ।
(१०) लघुवासुदेवमनने। किञ्च हेये मलमूत्रात्मकेऽस्मिन्छरीरे आत्मबुद्धिं कुर्वतां जीवानामत्यन्तशुद्धासु मूर्तिषु ईश्वरबुद्धि- करणे को दोषः । एवमेकस्य अनात्मनः कार्यरूपेणानेकत्वे, एक- स्यात्मनोऽनन्तकार्योपाधिभिरनेकत्वे च दृष्टान्तः क इति चेत् । शृणु । यथैकैव पृथिवी कार्यरूपेण परिणता सती पर्वतो वृक्षो गोपुरं कुड्यं गृहं कुसूलं मठः शराव इत्यादिभेदं गच्छति, यथाकाश एक एव पृथिवी- कार्योपाधिषु इह प्रतीयमानोऽयं घटाकाशः अयं मठाकाशः इत्यादिरूपेणानेकधा भाति, तथा मूल- प्रकृतिरनात्मा एक एव कार्यरूपेणानेको जातः। आत्मा स्वयमेकोऽपि तत्तच्छरीरोपाधिभिस्तत्र प्रविष्ट इव सन्, देवो मनुष्यो रामः कृष्णो ब्राह्मणः क्षत्रियो वैश्यः शूद्रः पशुः पक्षी कृमिः कीटः इति बहुधा भाति । अयमवच्छिन्नपक्षे दृष्टान्तः । प्रतिबि- म्बपक्षे तु समुद्रो नदी तटाकः कूपः घटजलमिति एकमेव जलं बहुधा जातम् । तथा अनात्मापि बहुधा जातः। तेषु समुद्रादिपु आदित्य एक एवं प्रतिबि- म्बितः सन् बहुधा जातः । तथा एक एवात्मा अन्तःकरणसहितेषु सर्वेष्वपि शरीरेषु प्रतिविम्बितः सन् अनेको जातः । इत्युभयत्रापि दृष्टान्तो ज्ञात- तृतीयं वर्णकम् । (११) व्यः । यथा जलधर्माः शीतकिरणादयो बिम्बमा- दित्यं न स्पृशन्ति, तथाऽन्तःकरणधर्माः कर्तृत्वभो- क्तृत्वविकारा अपि तदन्तःकरणनिष्टचिदाभास एव भान्ति । विम्बभूतमात्मानं न स्पृशन्ति । तस्माजी- वात्मैव परमात्मा परमात्मैव जीवात्मा । कथमिति चेत् । यथा घटाकाश एव मठाकाशः, मठाकाश एवं घटाकाशः, एवमिति जानीहि । ननु जीवात्मनः कल्पितत्वात, कल्पितस्यासत्य- त्वात् कथं सत्यपरमात्माभेद इति चेत् । पारमा- थिको व्यावहारिकः प्रातिभासिक इति जीवस्त्रिविधः। एते जीवाः क्रमेण सुषुप्तिजायत्स्वमाभिमानिनः । यथा जले तरङ्गः कल्पितः, तरङ्गे फेनः कल्पितः, तथा पारमार्थिके व्यावहारिका कल्पितः, व्याव- हारिके प्रातिभासिकः कल्पितः । माधुर्यद्रवशै- त्यादीनि पारमार्थिकजलनिष्ठान्येव सन्ति तरङ्गे भान्ति तद्दारा फेने भान्ति । तद्वत्कूटस्थसच्चिदान- न्दाः कूटस्थपारमार्थिकनिष्टाः सन्तो व्यावहारिके भा. न्ति । तद्वारा प्रातिभासिके भान्ति । यथा फेनस्तरङ्ग विना नास्ति, तरङ्गोऽपि जलं विना नास्ति, जलं तु परमार्थभूतम् । एवं प्रातिभासिकोऽपि व्यावहारिक विना नास्ति। व्यावहारिकोऽपि पारमार्थिक विना ना- (१२) लघुवासुदेवमनने। स्ति। तस्मिन्यथा परमार्थत्वेन घटाकाशो मठकाश एव। एवं पारमार्थिकः कूटस्थपरमात्मैवेति सिद्धान्तः। एवं "नेति नेति" वाक्येन देहादिपञ्चकोशेभ्यः पार- मार्थिककूटस्थं पृथक्कृत्य तं पारमार्थिकं कूटस्थमह- मितिजानन्सन्,तदहं ब्रह्माहमस्मीति श्रुतिस्मृतिविचा रेण युक्तिभिर्दृढनिश्चयेन च साक्षात्कृत्य तिष्ठति । स- एप परिपूर्णब्रह्मस्वरूपातमेव पुण्यपापकर्माणि न स्पृ- शन्तीति सर्वा अप्युपनिपद एकतात्पर्येण घुष्यन्ति । इति मनने तृतीयवर्णकं समाप्तम् । अथ चतुर्थवर्णकम्। अबैदानी जीवस्य दुःखं जन्म च कर्मच रागद्वेपादि चाभिमानश्चाविवेकश्चाज्ञानं चेत्येतेषु पूर्वपूर्व प्रति उत्तरोत्तरं हेतुः । तत्र दुःखादिचतुष्टयं च चतुर्थवर्णके विचार्यते। जीवात्मनो दुःखं स्वाभाविकं वा आगन्तुकं वा इति चेत् । आगन्तुकमिति ज्ञेयम् । स्वाभाविकमिति चेद- नेकदोषाः सन्ति । तत्कथमिति चेत् । अस्य जीवात्म- नो दुःखं स्वाभाविकं चेदुःखनिवृत्तिः कदाचिदपि न स्यात् । सुखमपि कस्यापि न स्यात् । दुःखनिवृत्त्यै सुखप्राप्त्य कर्म कस्यापि मास्तु । सत्कर्मयोगध्यानोपा- चतुर्थ वर्णकम् । (१३) सनेषु कस्यापि प्रयत्नो मास्तु। वेदशास्त्रपुराणानि च व्यर्थानि स्युः । इति जानीहि । तर्हि दुःखं स्वाभाविकमस्तु । तन्निवृत्त्यै प्रयत्न करोत्विति चेत् । न कदाचिदपि तन्नाशः संभवति । स्वाभाविकस्य स्वस्वरूपत्वात् । स्वस्वरूपनाशा- थे को वा प्रयत्नं कुर्यात् । स्वरूपनाशे सति पुरु- पार्थभाक् च न स्यात् । स्वाभाविकमेव स्वस्वरूपम्। कथमिति चेत्, गुडस्यमधुररसः स्वभावतस्य मधु- रगुणस्य नाशे भवितव्ये गुडस्यैव नाशो भवेत् । तथा जीवात्मनो दुःखं स्वाभाविक चेत्, दुःखनाशे आत्मस्वरूपनाश एवं स्यात् । आत्मनो नाशो नास्ति । अविनाशी नित्य इति च । “अविनाशी वारेऽयमात्मा" । “आकाशवत्सर्वगतश्च नित्यः न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित्” । “अजो नित्यः शाश्वतोऽयं पुरा- णो न हन्यते हन्यमाने शरीरे" ।। इत्यादि श्रुतयो वदन्ति । तस्मादात्मनो दुःखं स्वाभाविकं न भवति आगन्तुकमेवेति जानीहि । स्वाभाविकं नश्यतु, स्व- रूपं तिष्ठतु इति चेत् । तन्न संभवति। , ननु अग्नेः स्वाभाविकमुष्णत्वं मणिमन्त्रादिभिर्ग- च्छति । स्वरूपनाशोऽपि नास्ति । अन्यच्छेत्यमप्या- (१४) लघुवासुदेवमनने। गच्छति । तथात्मनोऽपि दुःखं स्वाभाविकं भवतु । तदुत्कृष्टकोपासनयोगवलेन गच्छतु, सुखं वागच्छतु इति वदसि चेत्।सानिवृत्तिस्तात्कालिक्ये व नात्यन्ति की। कथमिति चेत् । कर्मजन्यं सकलमपि कर्मनाशे न नश्यति। त्वदुक्तदृष्टान्तदान्तिकयोरग्न्यात्मनोरु- ष्णत्वं दुःखत्वं चमणिमन्त्रादिभिरुत्कृष्टकर्मोपासनयो- गैश्वागतमपि तत्कर्मक्षये तु शैत्यं च सुखं च गच्छेत्। पुनःस्वाभाविकमुष्णत्वं दुःखत्वं चागच्छेत् । एवं च सतिसर्वजीवानां तात्कालिकमुक्तिं विना पुनर्जन्मरहि- ता मुक्तिर्न स्यात् । किंच मोक्षस्य जन्यत्वेऽनित्यत्व- माप स्यात् । “न स पुनरावर्त्तते"इति मुक्तेनित्यत्वप्र- तिपादकश्रुतेः “अखण्डमानन्दमरूपमद्भुतम्" इति श्रु- तेश्चविरोधः स्यात्। आत्मनो दुःखस्वभावत्वे सुपुत्य- वस्थायां तूष्णीभावे योगिनां समाधौ च दुःखमेव प्रतीयात् । तथा न दृश्यते। किंतु त्रयाणामपि उत्था- नानन्तरं एतावत्पर्यन्तं सुखमेवाहमासमिति सुखमेव स्मर्यते । तस्मादात्मनः सुखमेव स्वाभाविकम् । दुःख- मागन्तुकमिति जानीहि। सुखस्वरूपस्याप्यात्मनो दुःखं शरीरपरिग्रहेणाग- तम्।यत्र यत्र शरीरपरिग्रहस्तत्र तत्र दुःखमिति व्याप्तेः। लोके राजादीनामपिशरीरपरिग्रहेण दुःखमस्ति वेतिचे चतुर्थ वर्णकम्। त् । अस्त्येव। तेपामापि शत्रुपीडया राज्यभारेण धन- धान्यक्षयेन स्त्रीपुत्रादिमरणेन च जरादिना स्वमरणेन दुःखदर्शनात्। लोके केचन सुखेन वर्तन्त इति व्यवहा- रो वृथा मोह एव । मोहेनापि दुःखस्य सुखत्वव्यवहा- रः कथमिति चेत् । भारवाहको बहुयोजनदूरं कार्याथै त्वरया धावन्, सन्ततमपि कृष्यादिकर्मकरणशीलश्च, एवमादयः सर्वेऽपि स्वस्वकर्मणो दुःखरूपत्वेऽपि मोहे- न तत्तत्कर्म सुखं मत्वा संतुष्टा गानं कुर्वन्ति, उत्सा- हवन्तश्च वर्तन्ते । तस्मान्मोहेन दुःखमेव सुखं भाती- ति ज्ञातव्यम् । ताह विवेकिनामपि शरीरपरिग्रहादुःसमस्ति वेति चेतातेपामपिक्षुत्पिपासादिना शीतोष्णादिना व्याधि- ना सर्पवृश्चिकव्याघ्रादिना च दुःखमस्त्येव । तर्हि वि वेक्यविवेकिनोः को विशेप इति चेतातयोर्वाह्यव्यापा- रेण विशेपाभावेऽपिआन्तरव्यापारेण विशेपोऽस्तिायो विवेकी स महात्मा दुःखमन्तःकरणस्यैव नात्मनः सचि दानन्दस्य आत्मनोऽनृतजडदुःखस्वरूपान्तःकरणधर्में रणुमात्रसंबन्धो नास्तीति श्रुतियुक्त्यनुभवैर्विचार्यज्ञा त्वा तिष्ठति । तथाहि "असङ्गो ह्ययं पुरुपः" इति श्रुतेः । निरवयत्वात्सत्यत्वादिकाः युक्तयः । सुषुप्तिषु तूष्णींभावसमाधिष्ठ अनुभवो वेदितव्यः ।
(१६) लघुवासुदेवमनने। योऽविवेकी स दुरात्मा आत्मस्वरूपमविचार्यदेहा- दिकमेवात्मानं मत्वा,अनात्मधर्माश्चात्मन्यारोप्य,आ- त्मनः सच्चिदानन्दान्धर्माश्च अनात्मन्यारोप्य,एवमन्यो- न्याध्यासं कुर्वन् अहं देवः,अहं मनुष्यः,अहमान्धः अहं द्राविडः,अहं ब्राह्मणः,अहं क्षत्रियः अहं वैश्यः, अहंशूद्रः अहं ब्रह्मचारी,अहं गृहस्थः,अहं वानप्रस्थः,अहं संन्या सीत्यादिप्रकारेणजातिवर्णाश्रमाभिमानी तिष्ठति । एवं विवेक्यविवेकिनोबहुभेदोऽस्ति । विचार्यमाणे तयो - ह्यव्यापारेणापि न साम्यम् । कथमिति चेत् । विवेकी प्रपंञ्च सर्वमपि मिथ्येति निश्चित्य प्रारब्धभोगमपि स्वर्गभोगतुल्यमेवेति पश्यति । अविवेकी तु प्रपञ्चः सत्यसुखदुःखानुभवोऽपि सत्य एवेति पश्यति । एवं विवेकिनामपिशरीरपरिग्रहादुःखमस्त्येवादेवा. नामपि 'वज्रहस्तःपुरंदर' इत्यादिनाशरीरपारिग्रहस्य दर्शनादुःखमस्त्येव। कथमिति चेत् । अन्योन्यं युध्य- तोः को"शापाभ्यामसुरराक्षसयोरुपद्रवदर्शनात् । पु- ण्यकर्मफलनाशे सति भाव्यधःपतनभयादपि दुःख- मस्ति । कथं दुःखिनामपि तेषामितरैरुपास्यत्वं, कथं वा सुखदातृत्वमिति चेत् । अस्मिल्लोके राजप्रभृतीना- मपि स्वाश्रितपरिपालनादिकं यथा तथेति ज्ञेयम् । "देवलोके देवा आनन्दरूपास्तिष्ठन्ति" इतिश्रुतेः। देवा चतुर्थ वर्णकम् । (१७) दुःखं सर्वमप्यन्तःकरणधर्म मत्वा-आत्मानमानन्दस्व- रूपं सदानुभवन्त एव तिष्ठन्तीति तात्पर्यम् । तेपा- मपि दुःखमान्तीति वदन्त्याः “ता एता देवताः सृष्टा अस्मिन्महत्यर्णवे प्रापतन्" इतिश्रुतेः देवानामपि शरीरपरिग्रहादुःखमस्त्येवेति तात्पर्यम्। तस्माद्विदेह- मुक्त्यर्थमेव प्रयत्नः कर्तव्यः । अशरीरमुक्तरेव मुक्तित्वं चेत्, सशरीरा आकाशे नक्षत्ररूपेण परिदृश्यमानाः केचन देवा मुक्ता इति मनुष्यैः कथ्यन्त इति चेत् । शृणु।सालोक्यं सामीप्यं सारूप्यं सायुज्यामिति चतुर्विधा मुक्तिः । चर्या क्रिया योगो ज्ञानमिति चतुणी क्रमेण साधनानि । भगवत्क- यरूपदासभावश्चर्या । शिवविष्ण्वादिपूजाविधिः कि- या।यमनियमाद्यष्टाङ्गयोगो योगः। जीवपरयोरैक्य सा क्षात्कारो ज्ञानमातत्र तिस्रो मुक्तयो मुख्यान भवन्ति। पुनरावृत्तेः सद्भावात् । सायुज्यमेव मुख्या मुक्तिः। पुनरावृत्तिवर्जनात् । योगेन सायुज्यमिति निर्गुणब्रह्म- योगविपयः । सशरीरमुक्तानामिव अशरीरमुक्तानां कदापि कुत्रचिदपि कथंचिदपि दर्शनाभावाच्छून्य- मेवाशरीरमुक्तिरिति न मन्तव्यम् । अशरीरमुक्तानां शरीरस्यैव शून्यत्वम् । न स्वरूपसुखस्य । स्वरू- ।
(१८) लघुवासुदेवमनने । पसुखं तु सुपुप्तिमुखवत् अशरीरत्वात् स्वसंवेद्यमे नान्यत्संवेद्यम् । सुपुप्तिर्मुक्तिसमाना चेत्, सापि मुक्तिः स्यात् इति न वाच्यम् । सुखानुभवमात्रेण साम्येऽपि सुषुप्तावज्ञानं पुनरुत्थानं चास्ति । मुक्तौ तदुभयमपि नास्ति । अतःसुषुप्तेर्मुक्तित्वं न संभवति।अत एव प्रलयस्यापि न मुक्तित्वम्।एवं सुषुप्तिसुखवत् मुक्तिसुखम् । सुखस्य स्वानुभवगम्यत्वात् प्रत्यक्षत्वमेव न शून्यत्वम् । तर्हि सशरीरमुक्तानामिह अशरीरमुक्तेरपि प्रत्यक्षत्वे को भेद इति चेत् । अज्ञाननिवृत्तिः पुनरुत्थानाभावश्च भेद इत्युक्तम् । एवं श्रुतियुक्तिभ्यामशरीरमुक्तः परम- सुखत्वं शरीरपरिग्रहेण दुःखं चोक्तम् । इदानीमनुभवे- नापि तदुभयं वदामः । नित्यं सुषुप्तौ शरीरपरिग्रहा- भावाहुःखाभावश्च । जाग्रत्स्वानयोः शरीरपरिग्रहेण दुःखं च सर्वैरनुभूयते । तस्माद्यत्र यत्र शरीरपरिग्रह स्तत्र दुःखमितिव्याप्तेः । आनन्दरूपस्यात्मनः शरी- रपरिग्रहादेव दुःखमागच्छति । न तु स्वतः । तस्य शरीरस्य को वा हेतुरिति चेत् । पूर्वकर्मसहितपञ्ची- कृतभूतान्येव । न केवलभूतानि । तेषां सर्वत्र वर्तमान त्वात्तेतेभ्यः शरीरं स्यादिति न वक्तव्यम् । ननु शुक्लशोणितसंवन्धेन रूपेण परिणतानामेव- चतुर्थ वर्णकम् । (१९) भूतानां शरीरकारणत्वेन विवक्षितत्वात् तादृशान्येव शरीरस्य कारणमिति वक्तव्यम् । शुकशोणितेषु शरी- रोत्पत्त्यदर्शनात् । तस्मात्कर्मसहितान्येव शरीरस्य कारणानि । पञ्चभूतादीनां देशकालादीनां च सर्वसा- धारणत्वात्तत्तत्कर्मवैचिव्ये हेतुः । यथा मृदादीनां साधारणत्वेऽपि कुलालव्यापारवैचित्र्यमेव घटादिका- यवैचित्र्ये हेतुः । यथा दृष्टान्ते घटादे दुपादानं, कुलालव्यापारो निमित्तं, एवं दार्शन्तिकेऽपिशरीर- स्य पुत्रीभूतपञ्चीकृतभूतान्युपादानम्, तत्तत्कर्म निमित्तम् । तस्माद्भोगप्रदकर्माणि सन्ति यथा जाग्र- स्वप्नयोः । कर्माभावे शरीराभावः यथा सुषुप्तौ । किंच मृदि सत्यामपि कुलालव्यापाराभावे घटोत्प- त्यभावः । तथा ईश्वरसृष्टपञ्चभूतेषु सत्स्वपि आत्म- ज्ञानेन कर्मसु नष्टेषु सत्यज्ञानिनः शरीरं नोत्पद्यते । ननु कर्मशास्त्रे "अवश्यमनुभोक्तव्यम्" इति, "नामुक्त क्षीयते कर्म" इत्यादि च, ज्ञानशास्त्रे "ज्ञाना- ग्निः सर्वकर्माणि भस्मसात्कुरुते तथा" इति च वच- नयोः परस्परविरोधे कथं निर्णयः कर्त्तव्य इति चेत् । शृणुशास्त्रे प्रबलवचनं दुर्बलवचनं चास्ति।प्रबलं सिद्धा न्तवचनम्।दुर्वलं पूर्वपक्षवचनम्। प्रबलं दुर्वलं निरस्य- तितद्यथा-'अहिंसा परमो धर्मः' इति वचनं प्रबलमपि (२.) लधुवासुदेवमनने । तत् “यागे पशुवधः कर्तव्यः” इति वचनमतिप्रवलं निरस्यति । एवं 'अवश्यमनुभोक्तव्यम्' इति वचनं 'तपसा कल्मपं हन्ति इति प्रबलवचनेन दुर्बलं सत् निरस्यते । तस्मात्संचितेषु कर्मसु बहुषु सत्स्वाप आत्मज्ञानेन तानि नश्यन्त्येव । कर्माभावे जन्मा- भावः। जन्माभावे दुःखाभावः । दुःखाभावे आनन्दा- वाप्तिः। इत्ययमेव सिद्धान्तः। इति मनने चतुर्थ वर्णकं समाप्तम् । अथ पञ्चमवर्णकम् । अस्यात्मनो दुःखं शरीरपरिग्रहात्, शरीरं कर्मणे- 'त्युक्तम् । तत्कर्म किं कतिविधर्मिति चेत् । शृणु । कर्म त्रिविधम्। पुण्यं पापं मित्रं चोत । देवादिशरीरं पुण्य- कर्मफलम् । तिर्यगादिशरीरं सर्व पापकर्मफलम् । मनुष्यादिशरीरं पुण्यपापमिश्रितफलम् । एवमुक्तं त्रिविधमपि कर्म उत्कृष्टं मध्यमं सामान्यमिति प्रत्येकं त्रिविधम् । एवमुक्तकर्मभेदेन जन्मभेदश्च ना- नाप्रकारःतथाहि हिरण्यगर्भादिशरीरं पुण्योत्कृष्टम् । इन्द्रादिशरीरं पुण्यमध्यमम् । यक्षराक्षसपिशाचादिश- रीरं पुण्यसामान्यम्।परसंतापककण्टकवृक्षविपवृक्षव्या प्रवृश्चिकोलूकादिशरीरं सर्व पापोत्कृष्टम् । पनसाम्रना- पञ्चमं वर्णकम् । (२१) रिकलादिफलपरपुष्पविनियोगवक्षलतादि च ग्राम- सूकरमहिपगर्दभोट्रादिकं च सर्व शरीरं पापमध्यमम् । अश्वत्थतुलसीगवाश्वादिशरीरं पापसामान्यम्।इह मनु ष्यलोके निष्कामकर्मानुष्ठानसाधनचतुष्टय सद्गुरुलाभ- श्रवणमनानात्मज्ञानक्रमेणजीवन्मुक्तेः विदेहमुक्तेश्च यो ग्यमनुष्यशरीरंमिश्रकर्मोत्कृष्टम्।स्वाश्रमोचितकर्मणां काम्यकर्मणां चानुष्ठानयोग्यं शरीरंमिश्रकर्ममध्यमम्। चण्डालपुल्कसकिरातयवनादिशरीरं मिश्रकर्म सामा- न्यम् । तस्माद्विवेकिना पुरुपेण एतत्कर्मफलतारत- म्यविचारभूमौ मनुष्यजन्मनि मिश्रकर्मोत्कृष्टं यथा सिद्धयेत्तथा स्ववर्णाश्रमकर्माणि कृत्वा फलेच्छां विहाय ईश्वरार्पणं कृत्वा, आत्मविचारद्वारा मोक्ष- प्राप्तावेव प्रयत्नः कर्तव्य इति सिद्धान्तः । एतत्रिवि- धमपि कर्म केन क्रियत इति चेत् त्रिविधकरणेरेव क- तव्यमिति जानीहिनिनु अस्मॅिल्लोके अहं करोम्यहं क- रोमीति वदतां सर्वेषामनुभवेनास्मिन्देहे देहाभिमानी सन् अहंशब्दतया य आत्मा वर्तते तस्यात्मनः कर्तृत्वे वक्तव्येतं विहाय विविधकरणानां भवद्भिः कथं कर्तृत्व मुच्यत इति चेत्। आत्मा अविकारी निष्क्रिय स्वगत- भेदशून्यः। तदात्मनः कर्तृत्वं वक्तुं न शक्यते । ननु कर्तृत्वं तु आत्मनिष्ठतया भाति, कर्ताऽन्यो न दृश्यते।
(२२) लघुवासुदेवमनने। तत्कथमिति चेत्। आत्मनि प्रतीयमानं कर्तृत्वमध्या- सात् । न तु स्वभावत इति जानीहि स्वाभाविकमिति चेत। न केनापि वेदान्तविचारं कृत्वा ममेदं कर्तृत्वं परिहरणीयम् । अस्यानपाये संसारबन्धोऽपि नापया- स्यतीति व्यर्थः प्रयत्नःकरणीयः । आत्मनः कर्तृत्वं स्वाभाविकं भवतु । प्रयत्नविशेषेण नश्यत्विति चेत् । स्वरूपनाशार्थको वा प्रयत्नं कुर्यात्। स्वरूपनाशे सति को वा पुरुपार्थमनुभवेत् । किंच अकर्ता जीवन्मुक्तो न चेत् वेदान्तसंप्रदायो गुरुशिष्यो च न स्युः । किंच आत्मा अकर्ता साक्षी निष्क्रिय इति प्रतिपाद- कस्य "निष्फलं निष्क्रिय शान्तं निरवयं निरञ्जनम्" "साक्षी चेता केवलो निर्गुणश्च” इत्यादिश्रुतिवाक्य. स्यापि हानिः स्यात् । सुषुप्तौ आत्मनि विद्यमानेऽपि कर्तृत्वं न दृश्यते। यदि कर्तृत्व स्वाभाविकं अग्रुष्ण- त्वमिवोपलभ्येत । तथा नोपलभ्यते । तस्मादात्मनः कर्तृत्वं न स्वाभाविकम् । ननु सुपुप्तौ कर्तृत्वानुपलम्भः करणवियोगात् । यथा तक्षादेः कर्तृत्वे विद्यमानेऽपि स्नानभोजनादिसमये तदनुपलम्भः। तद्वद्भवितव्यमिति चेत् । न । तूष्णी- भूतावस्थायामन्तःकरणसंयोगे विद्यमानेऽपि कर्तृत्वा- पञ्चमं वर्णकम्। (२३) नुपलम्भात् । आत्मनः कर्तृत्वं न स्वाभाविकम् । किंतु आध्यासिकमेव । अध्यासो नाम अन्यानिष्ठधर्माणामन्यात्रावभासः । यथा नौनिष्ठगमनस्यतीरस्थवृक्षे तीरस्थवृक्षनिष्टाचल- त्वस्य नावि चाध्यासवशाद्भानम्। एवं त्रिविधकरणनि- टकर्तृत्वस्यात्मनि, आत्मनिष्ठाकर्तृत्वस्य विविधक- रणे च भानमज्ञानवशादेव । तस्मादात्मनः कर्तृत्व- मारोपादिति जानीहि । जडस्य त्रिविधकरणस्य अचे- तनत्वात् अचेतनस्य कथं कर्तृत्वम्, करणत्रयस्यैव कर्तृत्वे तस्य करणान्तरेणापि भवितव्यमिति चेत् । शृणु । यथा लोकेऽचेतनस्यं वायोवृक्षादीनामुन्मूलने तेपां दूरनिरसने च करणं विना कर्तृत्त्वम्, यथा जल- प्रवाहस्याप्यचेतनस्य वृक्षादीनामुन्मूलने तेपां दूर- निरसने च करणं विना कर्तृत्वं दृश्यते, तथा त्रिविध- करणस्यापि करणान्तरं विना कर्तृत्वमुपपद्यते । सविशेपचिन्ता निर्विशेषचिन्ता परलोकचिन्ता भक्तिज्ञानवैराग्यचिन्ता इत्यादिविकाराः सर्वेऽपि मन- सा क्रियमाणानि कर्माणि मानसपुण्यकर्माणि। विपय- चिन्ता परेपामपकारचिन्ता वेदशास्त्रयोरप्रामाण्यचि. न्ता धर्माद्यभावचिन्ता इत्यादिबुद्धिविकाराः सर्वेऽपि मानसपापकर्माणि । सविशेपचिन्ताया निविशेपचि.
(२४) लघुवासुदेवमनने। न्ताया अपि विषयचिन्तादिपापचिन्तया मिश्रीकृत्या नुष्ठानं मानसं मिश्रकर्म । वेदशास्त्रपठनं, गीतापठनं, सहस्रनामपठनं, पञ्चाक्षरादिमन्त्रजपः, भगवन्नामकी- तन, परोपकारवार्ता, सत्यवाक्यं, मृदुभाषणं च वाचा क्रियमाणं पुण्यकर्म । वेदशास्त्रदूपणं, असत्यपिशुन पारुष्यवार्ता, अपहास्यवार्ता च इत्यादिवचनं सर्व नाचिकं पापकर्म । वेदाध्ययने पूजाकाले एवमा- दिपुण्यवार्तासु च परनिन्दाया असत्यस्य परिहास- स्य च लौकिकवार्तायाः एवमादिपापानां मिश्रीकृत्या- नुष्ठान वाचिकं मिश्रकर्म। पुण्यतीर्थस्नानं गुरुवेदान्त- नमस्कारः, देवपूजाप्रदक्षिणं, सज्जनदर्शनं, त्यागः, लोकानुग्रहसंचारः, एवमादिकर्माणि कायेन क्रियमा- णानि कायिक पुण्यकर्मीपरहिंसा,परस्त्रीसङ्गः चौर्य दु- एसंगः इत्यादि क्रियमाणानि कायेन कर्माणि कायिक पापकर्म । ब्राह्मणभोजनार्थ ब्राह्मणोपद्रवः, देवालयनि- मर्माणार्थ परद्रव्यापहारः प्रपां स्थापयित्वा भृतकस्या- प्रदान, एवमादिकर्माणि पुण्यानि पापानि च मिश्री- कृत्य कायेनानुष्ठीयमानानि कायिक मिश्रकर्म । एतानि विविधान्यपि कर्माणि सम्यग्विचार्याणि । विचारस्य किं फलमिति चेत् । मुख्यफलमवान्तरफ- लमिति फलद्वयमस्तिाकथमिति चेत्।इमानि विविध- पञ्चमं वर्णकम् । (२५) कर्माणि त्रिविधेरेव करणः क्रियन्ते । आत्मा त्वहमा- काशवदसंगो निरंशः परिपूर्णचैतन्यरूपः । अतो न कस्यापि कर्मणः कर्ता । अत एव "यच्चानोति यदा- दत्ते यच्चात्ति विपयानिह । यश्चास्य संततो भावस्ते- न चात्मेति गीयते” ॥ इत्युक्त आत्मशब्दस्यार्थः । तस्मान्नैकमपि कर्म चिदाकाशस्वरूप मा स्पृशतीति ज्ञात्वा संशयं विहाय दृटानुभवेनावस्थानं मुख्यफल- म् । ब्रह्मज्ञाने सत्यपि विविधकरणमपि पुण्यकर्मण्येव स्थापनीयम् । तदसंभवे मिश्रकर्मणि वा स्थापयित- व्यम् । न कदाचिदपि पापकर्मणीति ज्ञात्वा तथैवाव- स्थानमवान्तरफलम् । यथा कदलीपोषकस्य कदली- फलं मुख्यफलं तत्पत्रपुप्पादिकमवान्तरफलं तथै- व विविधकरणकृतकर्मज्ञानस्यापि पूर्वोक्तफलद्वय- मिति ज्ञेयम् । ननु अम्भसा पद्मपत्रमिव कर्मणा ज्ञानी न लिप्य- ते तस्य न कोऽपि विधिः। न निषेधो वा। सत्वकर्ता कर्मसाक्षी कृतकृत्य इति सिद्धान्तितत्वात्तस्य ज्ञा- निनोऽज्ञानिन इव पुण्यकमवानुष्ठेयमिति न नियमः । कथमिति चेत् । सत्य ज्ञानी कृतकृत्य एव । कर्तापि न भवति । न तत्र संदेहः । तथापि ब्रह्मवित् । ब्रह्म- विद्धरः। ब्रह्मविद्वरीयान् । ब्रह्मविद्वरिष्टः । स एव विदे- २ -- (२६) लघुवासुदेवमनने। हमुक्तः । असौ वरिष्ठ एव वृत्तिशून्यः । तस्यैव न विधिर्न निषेधश्च । अन्येषामपि त्रयाणां ज्ञानमहिना विधिनिषेधाभावेऽपि वृत्तिशून्यत्वाभावात् व्यवहारव- त्वाच लोकानुग्रहार्थ सदाचार एव स्थातव्यामित्युच्य- ते । न तु नियम्यते । तस्मात्तत्त्वज्ञानिना कर्मिणां मध्ये कर्मिवत्कर्मानुप्ठेयम् । जिज्ञासूनां मध्ये तु कर्म त्यत्वा, ब्रह्मैव सत्यमन्यत्सर्वमनित्यमिति ज्ञानमेवोप- देष्टव्यम् । अत्र प्रकृतं किमिति चेत् । विविधकरण- स्यैव कर्तृत्वं नात्मन इति निश्चितम् । अथ त्रिविधमपि करणं किं स्वयमेव कर्तृ, अन्येन प्रेरितं वा । इति विचार्यमाणे रागद्वेपादिना प्रेरितमेव कर्तृ । न स्वयं कर्तृ । रागद्वेपादौ सति करणत्रय प्रवर्तते । असति न प्रवर्तते । इत्यन्वयव्यतिरेकाभ्यां रागद्वेषादेः करणप्रवर्तकस्यानुभवसिद्धत्वात् । ननु अहं देवालयं कारयामि, अहं तटाकं कारया- मीत्यादिव्यवहारात् आत्मा कारयिता भवत्विति चेत् । न । आत्मनो निर्विकारत्वान्न तत्रापि कारयि- तृत्वमुपपद्यते । आत्मानि कारयितृत्वं भातीति चेत् । जपाकुसुमनिष्टलौहित्यं स्फटिक इव रागद्वेपादिनिष्ठ- कारयितृत्वमात्मनि भ्रान्त्या आरोप्यत इति ज्ञेयम् । स्वाभाविक चेत्,न कोऽपि यत्नं कुर्यात् । स्वभावस्य पञ्चम वर्णकम् । (२७) स्वस्वरूपत्वात् । कथंचित् तस्य नाशे स्वरूपस्यै- व नाशः स्यात् । आत्मज्ञानिनोऽ पि कारयितृत्व यदि स्यात, आत्मा असङ्गो निष्क्रिय इति प्रतिपादि- का "अदृश्यमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्य- पदेश्यं प्रपञ्चोपशम शान्तं शिवमद्वैतं चतुर्थ मन्यन्ते। स आत्मा । स विज्ञेयः" इति श्रुतिर्विभज्येत । कार- यितृत्वस्य जन्यत्वे तत्प्रयुक्तमुक्तेरपि जन्यत्वं स्यात्। सुप्तावपि कारयितृत्वं दृश्येत । तस्मादात्मनः कारयितृत्वं न स्वाभाविकम् । किन्त्वागन्तुकमेव । ननु सुषुप्तौ कारयितृत्वादर्शनमात्रेण आत्मनः कार- यितृत्वं नास्तीति वक्तुं न शक्यते । यथा उपाध्याय- स्याध्यापकत्वं विद्यमानमपि शिष्यवर्गासनिधानेन दृश्यते,तद्वत्सुषुप्तीकरणसंयोगाभावाद्विद्यमानमापिका रयितृत्वं न दृश्यते । जाग्रत्स्वप्रयोःकरणसंयोगे सति वक्तुं शक्यत्वादिति चेत् । तहि जाग्रदुदासीनतूष्णी- भावावस्थायां करणसंयोगस्य विद्यमानत्वात्काराय- तृत्वं दृश्येत । तन्न दृश्यते।तस्मादागंतुकमेवेति वक्त- व्यम् । अन्योन्याध्यासात् अयोनिष्ठदीर्घत्वह्रस्वत्वाद- यः अग्नौ अग्निनिष्ठोष्णप्रकाशादयोऽयसि च भान्तिात- द्वदेव रागद्वेपादिनिष्टकारयितृत्वमात्मनि,आत्मनिष्टा- कारयितृत्वं रागद्वेषादौभाति ।
(२८) लघुवासुदेवमनने । ननु अचेतनस्य रागद्वेषादेः कथं कारयितृत्वम्।न हि घटो घटान्तरं प्रेरयतीति चेत् । सत्यम् । तथापि कुत्रचिद्योग्यतावशाजडप्रेरयति। योग्यताभावात्कु- त्रचिन्न प्रेरयति । यथा जडोऽप्यग्निर्गन्धकादिसंयुक्ते- गालचूर्णविशेषैः सहितः सन् जडमेव बृहन्नलिकान्तः- स्थितस्थूलपाषाणं प्रेरयित्वा तेन चतुरङ्गसेनां हन्ति । किंच प्रेतशरीरं जडमपि स्वज्ञातिक्रियमाणापरक्रियां प्रति स्वयं कारायित भवति। एवमचेतनमपि रागद्वेषा- दि कारयित भवति । तर्हि "आत्मा हपीकेशः सर्वा- न्तर्यामी" इति वदन्त्याः श्रुतेः किं तात्पर्यमिति चेत्। आदित्यवत्संनिधानमात्रेण सर्वजनपुण्यपापानुकूलः स्यात्। तत्पुण्यं च तत्पापंचतत्फलं च यथा न स्या- तथा आत्मनोऽपि मन्तव्यम्।अयश्चेष्टापि संनिधानमा- त्रेण स्वानुकूलकान्तशिलां यथा न स्पृशति, तथा प्राणिकर्मापि आत्मानमिति ज्ञेयम् । तस्मादात्मनो निरञ्जनत्वनिर्विकारत्वाभङ्गः । एवमात्मस्वरूपे प्रसिद्धगुरुणोपदिश्यमानेऽपि प्रतिवन्धत्रयेण निश्चयो न भवति । प्रतिवन्धत्रयं च संशयभावना असंभावना विपरीतभावना चेति । ऋगादिशाखासूपदिश्यमानमुपनयनादिकर्म अनेक- विधं यथा तथा ऋगादिशाखासुपदिश्यमानमात्मत- पञ्चमं वर्णकम्। (२९) त्त्वमनेकप्रकार वा न वेति संशयः संशयभावना । सा सकलवेदान्ततात्पर्यावधारणरूपश्रवणेन नश्यति । एवं सर्वेषां वेदान्तानामद्वैते ब्रह्मण्येव तात्पर्यमिति श्रवणेन प्रमाविषये असंशयेन इदमद्वैतं संभाव्यते।सत्य त्वेन प्रतीयमानेषु जीवेश्वरजगत्सु परस्परभित्रेषु सत्सु भिन्न इति बुद्धिसंभावना। इयं स्वमदृष्टान्तादिरूपयु- तयात्मकमननेन नश्यति । एवं श्रवणे मनने कृते- ऽप्यनायविद्यावासनया सर्वस्यापि जगतो यथापूर्व स- त्यत्वप्रतीतिविपरीतभावना. । सा ब्रह्मैकाकारप्रत्य- यप्रवाहरूपनिदिध्यासनेन नश्यति । एवं प्रतिबन्ध- त्रयस्य नाशकारणम्। यथा सर्वस्य दाहकोऽप्यनिर्मणि- मन्त्रादिप्रतिवन्धकैरेकं तृणमपि दग्धुं न शक्नोति, एवं ज्ञानानिरपि प्रतिबन्धेः प्रतिबद्धः सन् अज्ञानतत्कार्येषु किंचिदपि दग्धुं न शक्रोति । पूर्वोक्तप्रकारेणास्मिन्प्र- तिबन्धत्रयेऽप्यपनीते सति सद्य एवाग्निस्तृणमिव अविद्यातत्कार्य सर्वमपि दाधुं शक्नोति । किंच "उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् । अर्थ वादोपपत्ती च लिङ्गतात्पर्यनिर्णये” इति वचनेन पविधलिङ्गेन तात्पर्यनिर्णयः कर्त्तव्यः । अत्र छान्दो- ग्यषष्ठाध्याये "सदेव सौम्येदमग्र आसीत् । एकमेवा. द्वितीयम्" इत्युपक्रम्य "एतदात्म्यमिदं सर्वम् । तत्स- लघुवासुदेवमनने । त्यम्” इत्यखण्डेकरस एवोपसंहृतः इत्युपक्रमोपसंहा- रैक्यरूपं लिङ्गम् । “तत्त्वमसि' इति नवकृत्वस्तस्यै- वाभ्यासो द्वितीयम् । अखण्डैकरसस्य प्रत्यक्षादिप्रमा णान्तराविपयत्वमपूर्वता तृतीयम् । “तस्य तावदेव चिरं यावत्र विमोक्ष्येऽथ संपत्स्य" इति अखण्डैकरस- ज्ञानस्य प्रारब्धभोगानन्तरं विदेहकैवल्यरूपफलव- चनं चतुर्थम्। यथा "सौम्येकेन मृत्पिण्डेन" इत्यादि- ना दृष्टान्तकथनमुपपत्त्याख्यं पष्ठम् । अर्थवादस्तु पञ्चमम् । सृष्टिस्थितिप्रलयप्रवेशसंशयमननतत्त्वंपदार्थपरि- -शोधनफलप्रतिपादका इति सप्तार्थवादा तत्र "तस्मा- द्वा एतस्मादात्मन आकाशःसंभूतः" इत्याद्याः सृष्टय- र्थवादरूपाः श्रुतयः आकाशादेः सर्वस्य ब्रह्मण एवो- त्पत्तेः तस्मिन्नेवावस्थानात्, पुनस्तत्रैव लयात् मृदु- त्पत्तिस्थितिलयात्मकस्य घटादे दभेदवत् कारण- ब्रह्ममात्रतासुपगमयन्त्यो महावाक्योक्तं ब्रह्मद्वितीय- त्वं संभावयामासुः। यथा “एतमेव सीमानं विदायेतया प्रापयेत""तत्सृष्ट्वा तदेवानुप्राविशत्"। "अनेन जीवे- नात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि"। इत्याद्याः श्रुतयो ब्रह्मण एव जीवरूपेण प्रवेशं ब्रुवन्त्यो बहिः स्थित्वान्तर्गृहप्रविष्टदेवदत्तवत् जीवब्रह्मणोरभेदंमहा- पञ्चमं वर्णकम् । (३१) वाक्याथ संभाषयामासुः । तथा “यः पृथिव्यां तिष्ठन् पृथिव्यामन्तरोऽयं पृथिवी न वेदोयस्य पृथिवी शरी- रम् । यं पृथिवीमन्तरोऽयमयत्येप कः । आत्मान्तर्या- म्यमृत"इत्यादिनियमनश्रुतयश्चात्यन्ताभेदे नियाम्य- नियामकभावानुपपत्तेस्तयोरभावमेव संभावयन्ति । तथा सवा एप पुरुपोऽनरसमयः। “यदग्नेलोहितं रू- पम्"इत्याद्यास्तत्त्वंपदार्थपरिशोधनरूपाः श्रुतयोजी- वेश्वरोभयगतविरुद्धधर्मनिरसनद्वारा तयोरैक्यमेव सं; भावयन्ति । तथा "ब्रह्मविदामोति परम्" । "अमृतः समभवत्। इत्याद्याश्च अभेदज्ञानस्य निरतिशयफल- प्रदर्शनेन अभेदस्य विवक्षितत्वं ज्ञापयन्त्यस्तमेव संभावयन्ति । इत्थं सृपिस्थितिलयप्रवेशसंयमनतत्त्वं पदार्थपरिशोधनफलप्रतिपादकैः सप्तविधार्थवादैर- नुगृहीतं सत् जीवब्रह्मैक्यरूपमखण्डैकरसमेव अवा- न्तरवाक्यैः सहितं सत् प्रतिपादयति । अतोऽखण्डै- करसत्वेनैव महावाक्यार्थों वक्तव्यः । इति पड्विधलि- है श्रुतितात्पर्यावधारणं श्रवणमित्युक्तम् । इदानीं किं प्रकृतमिति चेतामयोक्तप्रकारेण विचा- र्य रागद्वेपादिना प्रेरितं सत् विविधकरणं त्रिविधकर्म करोति । प्रधानप्रेरितसेनया संपादितं जयं राजा अहं विजितवानित्यात्मन्यारोपयति । एवमात्मा च (३२) लघुवासुदेवमनने। रागद्वेषादिनिष्ठप्रेरकत्वमज्ञानादात्मन्यभिमन्यते। एक- मात्मनोऽस्वभावत्वात्कर्तृत्वं कारयितृत्वं च नास्ति इति यो दृढं निश्चिनोति स एव जीवन्मुक्तः । इति मनने पञ्चमवर्णकम् । अथ षष्ठवर्णकम्। पूर्व प्रतिज्ञातदुःखादिसप्तके दुःखं शरीरं कर्म राग- द्वेषादि च उत्तरोत्तरहेतुत्वेनोक्तानि । इदानीं षष्ठवर्णके रागद्वेपादिवृत्तिभेदाः अभिमानः अविवेकः अज्ञानं च कथ्यते । रागो द्वेपः कामः क्रोधो लोभो मोहो मदो मात्सर्य ईर्ष्या असूया दम्भो दर्पः अहंकारः इच्छा भक्तिः श्रद्धा इति रागद्वेपादिवृत्तयः पोडश । स्त्रीवि- पयकचित्तवृत्ती रागः । अपकारकर्तुः प्रत्यपकारेच्छा द्वेषः। गृहक्षेत्रादिसंपादनेच्छा कामः । तस्य विघ्नक- तरि वैरस्यं क्रोधः । स्वसंपादितेषु किंचिदपि सत्पा- त्रे न देयमिति बुद्धिर्लोभः। ऐश्वर्यमिति मदेन कृत्या- कृत्ये अविचार्य तूष्णीमवस्थानं मोहः। स्वस्य संपद- स्ति किंवा किंवा कर्तुमशक्यमिति बुद्धिर्मदः । स्वस- मानसंपन्नजनदर्शनासहनं मात्सर्यम्।इदं दुःखं तं विहा- यमम किमित्यागतमिति चित्तवृत्तिरीया । इदं दुःखं पष्टं वर्णकम् । (३३) ममैव तस्यापि न किमित्यागतमिति बुद्धिरसूया । अनेन धर्मेण मम प्रसिद्धिर्भूयादिति चित्तवृत्तिर्दम्भः । मम न कोऽपि समान इति बुद्धिर्दर्पः । सर्वत्राग्रहो ऽइंकारः । अवर्जनीयप्राशनमोचनादिकर्मचिकीर्पा इ- च्छा । गुरौ सजनेषु देवतासु चातिप्रीतिभक्तिः । यागादिकर्मसु वेदान्तवाक्ये गुरूपदेशे च विश्वासः श्रद्धा। इति पोडशविध रागद्धेपादि। 'आत्मविचारप्रकरणे चित्तवृत्तिविचारस्य किं प्रयोजनमिति चेत् । शृणु । सकलजीवानां बन्धमोक्षो मनसैव नान्येन । कथमिति चेत् । स्वभावनिर्मलस्य मनसोऽशुद्धेन योगो बन्धः । शुद्धरूपेणावस्थानं मोक्षः । रागादिचतुर्दश वृत्तयोऽप्यशुद्धाः । भक्तिश्र- हे वे तु शुद्धे । रागादित्रयोदश वृत्तयः सर्वेषां प्रयत्न विनैव पुनः पुनरागच्छन्ति । पापेष्वेव मनुष्यान प्रव- तयन्तिातदृत्तिशोलानामधोगतिरेव नोर्ध्वगतिः। रागा- दिवृत्तोनिरुध्य भक्तिश्रद्धाभ्यामेव । कर्म कुर्वतः क्रमे- ण संसारनिवृत्तिभविष्यति । तस्मात्पुरुपः स्वचित्तं सम्यक्शोधयित्वा - अशुद्धहेतुरागादिवृत्तीर्वजयित्वा शुद्धिहेतुभक्तिश्रद्धयोरेव चित्तं स्थापयेत् । इच्छया क्रियमाणक्षुत्पिपासादिवृत्तीमूत्रपुरीपविसर्जनादिकर्म- च त्यक्तमशक्यम् । तत्त्यागे सत्यापि दुःखमाग- लघुवासुदेवमनने। च्छति । तेन कर्मणा स्वर्गोऽपि नास्ति । स्मादैच्छिक प्राशनमोचनादिकं कर्म कर्त्तव्यमेव । एवं जाग्रत्स्वमयोः रागादौ सति कर्मास्ति । सुषु- प्तिमू समाधितूष्णीभूतावस्थासु रागादिकं नास्ति- कर्मापि नास्ति । अन्वयव्यतिरेकाभ्यां रागादेः कर्महेतुत्वं सिद्धम् । इतःपरं तद्रागादि केनागच्छती- ति चेत्, एवं व्याप्तिरस्ति वेति चेत् । अस्ति । स्त्रीज- नस्य अहं स्त्रीजन इति यावदभिमानोऽस्ति तावद्रागा- दिपूर्वकं भर्तृशुश्रूपणगृहरक्षापाकक्रियादिकर्मसु प्रवृ- त्तिरागच्छति । पुरुपजनस्यापि यावदभिमान आग- च्छति तावद्रागादिपूर्वकं दारादिपरिग्रहकृषिवाणिज्या दिकर्मसु च प्रवृत्तिरागच्छति । एवं सर्वेषां जीवानाम- पि वर्णाश्रमाद्यभिमानेन रागादिपूर्वकं स्वस्वव्यापारे प्रवृत्तिरागच्छति।तस्मादागादेरभिमान एव कारणम्। अस्य विचारस्य किं फलमिति चेत् । मुमुक्षुः पुरुपो जातिवर्णाश्रमवयोवस्थाधभिमानं त्यजेत् । तस्मिस्त्यक्ते बन्धस्त्यको भवतीति जानीहि । अभि- माने सति रागादिः, अभिमानाभावे रागायभावः। इत्यन्वयव्यतिरेकयुक्त्या जानीहितत्कथमिति चेत्। जायदाद्यवस्थासुवर्णाश्रमाद्यभिमानस्य विद्यमानत्वा- द्रागद्वेपादिनिमित्तका प्रवृत्तिरागच्छति। सुपुप्तौ उदा- षष्ठं वर्णकम् । (३५) सीनावस्थायां च वर्णाश्रमाद्यभिमानाभावाद्रागद्वेपा- दिनिमित्तका प्रवृत्तिनास्ति । इत्येतज्जानीहि । तहि अयमभिमानः केनागच्छतीति चेत् । अवि- केनागच्छति । तत्कथमिति चेत् । सर्वेषां जीवानां देहव्यतिरिक्तत्वे सत्यपि विवेकाभावात्-अहं ब्राह्मणः, अहं क्षत्रियः, अहं वैश्यः, अहं शूद्रः, अहं ब्रह्मचारी, अहं गृहस्थः, अहं वानप्रस्थः, अहं संन्यासी, अहं पुरुषः-इत्यद्याभिमानो जायते।तं विना नान्यो हेतुः। अस्याभिमानस्य अविवेकं विनाअन्यच्छरीरमवलंब- नमिति चेत् । क्षत्रियस्य अहं ब्राह्मण इति, स्त्रियाः पुरुष इति, ब्रह्मचारिणोऽहं गृहस्थ इत्यभिमानोऽस्तु । स न दृश्यते । तस्माच्छरीरमवलम्ब्य अभिमानो नागच्छति । शिखां यज्ञोपवीतमवलम्ब्य अहं ब्राह्मण इति, कापायकमण्डल्वादिकमवलम्ब्य अहं संन्यासी ति च अभिमान आगच्छत्तीति चेत् । शिखायज्ञोपवी- तादि वैश्यकुलालयोरप्यस्ति । कापायकमण्डल्वादि केपांचिच्छूद्राणां तपस्विनामप्यस्ति । तेषामेतेषां च अहं ब्राह्मणः अहं संन्यासीत्यभिमानः स्यात् । तन्न दृश्यते । स्त्रीपुरुषायभिमानवत् । अवयवविशेषमव- लम्ब्य अहं ब्राह्मण इत्यभिमान इति चेत् । सर्वेपाम- प्यवयव विशेषाभावात् एकरूपत्वात् अवयवविशे- (३६) लघुवासुदेवानने। पेऽप्यवलम्बनं न भवति।तर्हि विशिष्टमातृपितृजन्याव- यवविशेषमवलम्ब्य अभिमानविशेष इति चेत् । तज- न्यलोमनखदन्तमूत्रपुरीपाद्यवयवानामपि ब्राह्मणत्वा- दिव्यवहारः स्यातास न दृश्यते। तस्मादविवेकं विना अन्यत्किमप्यवलब्य अभिमान आगच्छतीति ब्रह्मणा पि वक्तुं न शक्यते। तर्हि ब्राह्मणत्वायभिमानः केनागच्छतोति सम्यग्वि- चार्यमाणे,लोके उत्सवमिति कल्याणामितिसभेति से- नेतिअनेन वस्तुसमूहस्य तत्तनाना व्यवहारः प्रवर्तते। तथामायामयस्यापि अनिर्वचनीयस्यपि देहेन्द्रिया- दिसंघातस्यैव लोकव्यवहारेण केवलं ब्राह्मणः क्षत्रियो वैश्यः शूद्रः स्त्री पुरुपो नपुंसको गुर्जरो महाराष्ट्रकः आन्ध्र कर्णाटको द्राविडः शास्त्री दीक्षितः अवधानी पौराणिको गङ्गास्नायी शैवो भागवतः सेवकः प्रधानी राजा मन्त्री गुरु शिष्य इत्यादिसकलनामव्यवहारः। कालत्रयेऽप्यात्मनो नामव्यवहारो नास्ति । इत्येवरू- पविचाराकरणमेवावेविकः।अनेनैवाविवेकेन सर्वेषामा- त्मनि वर्णाश्रमाद्यभिमान आगच्छति । अयमविवेकः केनागच्छत्तीति चेत् । स्वस्य निज- स्य चिदात्मस्वरूपस्य अनादिकालमारभ्य आवर- कमात्मज्ञानकापनोयं यदनाद्यज्ञानं तदेव कारणम् । .
पष्ठ वर्णकम् । (३७) इदमेवाज्ञानं मामिह न जानामीति व्यवद्रियते । ननु लोके भ्रान्तमेकं विना को वा आत्मानं न जानाती ति चेत् । सर्वे भ्रान्ता एव । तत्कथमिति चेत् । अहं ब्राह्मणः, अहं क्षत्रियः, अहं वैश्यः, अहं ब्रह्मचारी, अहं गृहस्थ इत्यादिरूपेण मिथ्याभूताममं देहमेव सर्वे जान न्ति । शरीरव्यतिरिक्तमात्मानं न कोऽपि जानाति । अतः सबै भ्रान्ता एवं। ननु लोके केचिच्छास्त्रज्ञाः पौराणिकाश्च देहमनात्म- त्वेन मन्यमानाः वटकुड्यसंनिभं देहं विहायान्यमेवा- त्मानं जानन्ति । हे स्वामिन् भवद्भिःआत्मानं कोऽपि न जानातीति कथमुच्यत इति चेत् । हे पुत्र, तेऽपि परमार्थमात्मानं न जानन्ति । किन्तु कर्तारं भोक्तार परिच्छिन्नं लोकान्तरगामिनं चिदाभासरूपं व्यावहा- रिक जीवात्मानमेव आत्मत्वेन जानन्ति । तं विना अकारें, अभोक्तरं, अपरिच्छिन्नं, अचलं चिद्रूपं पार मार्थिक आत्मानं न जानन्ति । इदमज्ञानं केनागच्छतीति चेत् । अनादित्वेन वेदेषु शास्त्रेषु च प्रसिद्धत्वादस्य कारणं वक्तुं न शक्य ते। तहि तस्याज्ञानस्य आदिनास्ति चेदन्तोऽपि नास्तीति निश्चयः । तथा चेजीवस्य मुक्तिरपि न स्यादिति चेत् । शृणु । अज्ञानस्यादेरभावेऽपि (३८) लघुवासुदेवमनने। अन्तोऽस्त्येव । लोके केपांचित्पदार्थानामादेरभावे ऽप्यन्तोऽस्ति । केपांचिदन्ताभावेऽप्यादिरस्ति । तत्कथमिति चेत् । प्रागभावस्यादिर्नास्ति । अन्तो स्ति । प्रध्वंसाभावस्यान्तो नास्ति । आदिरस्ति । किंच वातपित्तश्लेष्मजन्यव्याधेर्मूलाज्ञानेऽपि वैद्यशा- स्त्रोक्तरोपधैर्यथा निवृत्तिईश्यते,तथा अज्ञानस्य मूला- ज्ञानेऽपि वेदान्तशास्त्रोक्तवाक्यजन्यज्ञानेनाऽज्ञानं विन श्यति इति सिद्धान्तः । तथा हि तदज्ञानं न सत् । नासत् । नापि सदसत् । न सावयवम् । न निरवयव- म् । नोभयात्मकम् । न भित्रम् । नाभिन्नम्।नापिभिः नाभिन्नम् । किंत्वनिर्वचनीयम् । तत्कथमिति चेत् । तत्त्वज्ञानेन बाधितत्वान्न सत्। शशविपाणनरविषाण- गगनारविन्दवत् असदपिन । अहमज्ञ इति सर्वैरनु- भूयमानत्वात् । नापि सदसत् । परस्परविरोधात । स्थूलाकाशः सूक्ष्मः । तस्मादपि सूक्ष्मः अपञ्चीकृतः आकाशः । तस्मादपि सूक्ष्मा गुणाः । तेभ्योऽपि सूक्ष्ममज्ञानम् । तस्मादपि सूक्ष्मस्यापि मूलकारण- त्वादज्ञानं न सावयवम् । स्थूलपदार्थजगदाकारण परिणामान्न निरवयवम् । अन्योन्यविरोधान्नोभयात्म- कम् । आत्मनो भिन्नमिति चेत् । अद्वैतविरोधात, आत्मसत्तातिरिक्तसत्ताभावाच न भिन्नम् । अभिन्न- पष्टं वर्णकम् । (३९) मिति चेत् । आत्मशक्तित्वाभावप्रसङ्गात्, “परास्य शक्तिविविधैव श्रूयते” इति श्रुतिविरोधाभावाच तदपि न संभवति।किंच आत्मनो जडत्वं वा मायाया वाचेत- नत्वं स्यात् । आत्मनोऽविद्यादिनाम्ना च भवितव्यम्। आत्मनः सच्चिदानन्दस्वरूपस्य अनृतजडदुः खमपि स्यात्। तस्मान्नाभिन्नभिन्नयोर्विरोधात् नोभयात्मकम्। तस्मादज्ञानमनिर्वचनीयमेव । एवंभूतादनादेरज्ञानादविवेकः। तस्मादभिमानः । तस्माद्रागद्वेषादिः । तेन कर्म । कर्मणा शरीरम् । तस्मादुःखं सांसारिकमात्मनोऽज्ञानात्परम्परयाभवतो ति ज्ञातव्यम् । तर्हि एतदुःखं कदा गमिष्यतीति चेत् । शरीरे गते सति दुःखं गमिष्यति । शरीरं च कर्मणि नष्टे सति नश्यति । कर्मच रागद्वेपादौ नश्य- ति सति नश्यति । रागद्वेपादिश्च अभिमाने नष्टे सति नश्यति । अभिमानश्च अविवेके नश्यति सति नश्य- ति । अविवेकश्चाऽज्ञाने नश्यति सति नश्यति। अज्ञा- नं चाऽद्वैतब्रह्मस्वरूपस्यात्मनः स्वस्य दृढनिश्चयरूपे- ण ब्रह्मैवाहमहं ब्रह्मास्मीति महावाक्यजन्यज्ञानेन विनश्यति । नान्येनेति ज्ञातव्यम् । ननु ब्रह्महत्यादिमहापातकान्यपि प्रायश्चित्तरूप- सत्कर्मभिनिःशेष नश्यन्ति । तादृशकर्मशत्त्या अल्प (४०) लघुवासुदेवमनने। मिथ्याभूतमिदमज्ञानं किमिति न गच्छेदिति चेत् । कर्मणोऽज्ञानस्य च विरोधो नास्ति । कर्म अज्ञानं वर्धयति । यथामावास्यान्धकार मेघावरणं वर्धयति तथा कर्म अज्ञानं वर्धयति । न निवर्तयति । तमन्ध कारं सूर्यों यथा निवर्तयति तथा अज्ञानं ज्ञानमेव निवर्तयेत् न कर्म । ननु त्रिविधकरणजन्यं कर्म । विज्ञानस्याप्यन्त:- करणजन्यवृत्तित्वेन कर्मत्वात् तत्कथमज्ञानं नाश- येदिति चेत् । शृणु । सत्यं वृत्तिानसं कर्मैव । सा वृत्तिानस्याज्ञाननिवर्तने रूपग्रहणे नेत्रवदु- पाधिभूतैव । न स्वयं निवर्तिका । ज्ञानं तु नित्यम् । तज्ज्ञानं स्वरूपज्ञानं वृत्तिज्ञानमिति द्विविधम् । सुषु- पावज्ञानप्रकाशकं ज्ञानं स्वरूपज्ञानम् । जाग्रत्स्व- प्रयोविपयप्रकाशकं वृत्तिज्ञानम् । यथा आदित्येन प्रकाश्यमाने कुड्ये अनेकदर्पणादित्यदीप्तयश्च ता- सां मध्ये मध्यगतादित्यदीप्तिश्च तथा जाग्रत्स्वानयो वृत्तिज्ञानप्रकाशः सुषुप्तौ स्वरूपज्ञानप्रकाशश्चेति ज्ञेयम्। तहि जाग्रत्स्वप्नयोःस्वरूपज्ञानं नास्तीति चेत् । स्वरूपज्ञानं सर्वास्वप्यवस्थास्वस्ति । वृत्तयःसुषुप्ता न सन्ति । वृत्तयः सर्वा अप्यन्तःकरणधर्माः। ज्ञान- पष्ठं वर्णकम् । (४१) मात्मस्वरूपम्। तत्स्वरूपभूतं ज्ञानं वृत्तिषु प्रविश्या- ऽज्ञानं नाशयति । केवलं बुद्धिवृत्तिरज्ञानं नाशयितुं नष्टा । तस्मादात्मनोऽज्ञानमपि आत्माकारवृत्तिप्रवि- ऐन स्वरूपज्ञानेनैव विनाश्यम् । न बुद्धिवृत्त्या कर्म- कोटिसहस्रेणापि विनाश्यम् । यथा सत्कर्मव पापकर्म नाशयति। एवं वृत्तिज्ञानमेव अज्ञानं नाशयति । यथा माणिक्यं शिलारूपमपि प्रकाशयुक्तत्वेन रत्नदी- पमितिव्यवह्रियते, एवं वृत्तिज्ञानस्यापि मनोवृत्तिरू- पत्वेऽपि स्वप्रविष्टस्वरूपज्ञानयुक्तत्वात् ज्ञानमिति व्यवहारो गौणः न कम ति व्यवहारः। ननु सुषुप्तौ स्वरूपज्ञानस्य अज्ञानप्रकाशकत्वे विरोधाभावात् कथं ज्ञानमज्ञानं नाशयेदिति चेत् । स्वरूपज्ञानस्य अज्ञानेन विरोधाभावेऽपि वृत्तिज्ञान- स्याज्ञानेन विरोधोऽस्ति । वृत्ती प्रविष्टस्यापि ज्ञान- स्य स्वरूपज्ञानत्वात् कथमज्ञानेन विरोध इति चेत् । तृणादेः प्रकाशकत्वेनादित्यकिरणस्य तेन विरोधा भावेऽपि सूर्यकान्तप्रविष्टस्य तस्यैव यथा तृणादिदा- हकत्वेन तेन विरोधः, तथा स्वरूपज्ञानस्य केवलस्य ज्ञानेन विरोधाभावेऽपि वृत्तिप्रविष्टस्य तस्य अज्ञानेन विरोधोऽस्ति। ननु वृत्तिज्ञानेन अज्ञानतत्कार्यनाशेऽपि वृत्ते- (१२) लघुवासुदेवमनने । स्तत्र प्रविष्टज्ञानस्यापि विद्यमानत्वात्कथमद्वैतं सि- ध्येत् । कतकरजोन्यायेन वृत्तिज्ञानास्याप्यज्ञानं तत्काय च निवर्तयित्वा स्वमाप स्वयमेव निवर्तयेत्। वृत्तिनाशे सति वृत्तौ प्रतिविम्बितं ज्ञानमपि बिम्ब- भूतं स्वरूपज्ञानमेव गच्छति । ततोऽद्वैतमात्मस्वरू- पमेवावतिष्ठते । एवं ज्ञानेनैवाज्ञानस्य विनाशः । एवं भूतमज्ञानमात्मविचारेणैव गच्छति । न तु कर्मभिः । न योगोपासनया वा। ज्ञानं वस्तुतन्त्रम् । अत एव कर्तुमकर्तुमन्यथाकर्तुमशक्यम् । उपासन- योगौ च पुरुपतन्त्रत्वात्कर्तुमकर्तुमन्यथाकर्तु शक्यौ। ताभ्यां चित्तेकाग्यमणिमाद्यष्टैश्वर्यं च साध्यते । न तु ज्ञानम् । उपासनयोगयोर्मनोव्यापाररूपत्वात्क्रियात्म- कौ । न वस्तुतन्त्रौ । तस्मावस्तुतन्त्र ज्ञानं कर्मणा नायाति । किं तु विचारेणेव साध्यम् । शालिग्रामः रत्नं स्वर्णमित्यादिवस्तुनिर्णयो लक्षणपरीक्षाभ्यां निघर्ष- णेन च कर्तव्यः। न तु स्नानसन्ध्यावन्दनप्राणायामा- दिना कस्यापि साध्यमिति निश्चयः । एवमात्मज्ञान- मपि आत्मानात्मविचारं विना उपासनादिभिः साधि तुं न शक्यते । तस्मान्मुमुक्षुरितरव्यापार विहाय श्रवणमनना- भ्यां सदा आत्मानात्मविचारमेव कुर्यात् । य एवं सप्तमं वर्णकम् । तदेकपरः सः अस्मिन्नेव जन्मनि संसारबन्धाद्विमुक्तः सन्, विदेहमुक्ति जीवन्मुक्तिं च प्राप्नोति इति सकलवेदान्ता घुप्यन्ति । एवं मयोक्तं हे पुत्र, तत्त्वं विश्वासेन गृहीत्वा चिन्मात्रेण तिष्ठ। न तु कदाचिदपि कर्तृत्वादिरूपेण तिष्ठ । इति मनने पष्ठवर्णकं समाप्तम् । अथ सप्तमं वर्णकम् । इतः परमस्मिन्सप्तमवर्णके आत्मानात्मविवेकः तत्साध्यमात्मज्ञानं ब्रह्मकैवल्यं च कथ्यते । आत्मा- नात्मविवेकेन आत्मज्ञानं जायत इति खलूक्तम् । स आत्मा क इति चेत् । शृणु । आत्मा शरीरत्रयविल- क्षणः अवस्थात्रयसाक्षी पञ्चकोशव्यतिरिक्तः सच्चिदा- नन्दलक्षणः । अनात्मा तु शरीरवयम् । तस्य किं लक्षणमित्युक्ते अनृतजडरूपत्वम् । तच व्यष्टिसम- ध्यात्मकम् । समष्टिव्याष्टिलक्षणं प्रथमवर्णके उक्तम् । अत्राप्युच्यते । वनमिव समष्टिः । वृक्ष इव व्यष्टिः। समस्तं समष्टिः। व्यस्तं व्यष्टिः। एवं शरीरत्रयमपि व्यष्टिसमथ्यात्मकम् । तत्कथमिति चेत् । समष्टिस्थू- लशरीरं समष्टिसूक्ष्मशरीरं समटिकारणशरीरमि- तिव्यष्टिस्थूलशरीरं व्यष्टिसूक्ष्मशरीरंव्यटिकारणश- (४४) लघुवासुदेवमनने। रीरमिति च शरीरत्रयमपि समष्टिव्यष्टिरूपेण षट्प्र- कारम् । आत्मनः समष्टयुपाधिना ईश्वरत्वम्। व्यष्टयु- पाधिना जीवत्वम् । न तु वास्तवम् । आत्मन एक- त्वात् । आत्मनो मायोपाधिना ईश्वरत्वम् । अविद्यो पाधिना जीवत्वम् । न तु वास्तवमिति यावन्न जाना ति तावद्धन्धविमुक्तिर्दुःखनिवृत्तिश्च नायाति । 'जीवे- शावभासेन करोति।माया चाविद्याच स्वयमेव भवति' इति सकलजीवमाता श्रुतिश्च एवमेवोपदिशति । ईश्वरस्य समाटिकारणशरीरे अभिमानो नास्ति । कुत इति चेत् । तदा महासुषुप्तावहंकारस्य लीनत्वेन अभिमानकारणाभावात् । अयं समष्टिकारणोपाधिक ईश्वर अव्याकृतः अन्तर्यामीति चोच्यते । अयमुक्तो भक्तीवरुपास्यते। अस्योपासनायामशक्तानां श्रुतिः समष्टिसूक्ष्मशरीरोपाधिकमीश्वरमुपासीत इत्युपदिश ति । तस्य हिरण्यगर्भः, सूत्रात्मा, महाप्राणः, इति नामानि सन्ति । अस्यापि हिरण्यगर्भस्य सूक्ष्मशरीरे अभिमानोऽस्ति वा न वेति चेत् । तदा स्वप्नावस्था- नादभिमानाश्रयस्थूलशरीरप्रवेशाभावात् सूक्ष्मशरीरे ऽप्यभिमान ईश्वरस्य नास्ति । अस्य सूक्ष्मोपाधेरीश्वरस्य उपासनायामशक्तानी- पान् प्रति समटिस्थूलोपाधिकस्येश्वरस्य उपासना सप्तमं वर्णकम् । श्रुतिर्विधत्ते। तस्येश्वरस्य विराट्, वैराजः, वैश्वानरः-- इति नामानि सन्ति।अस्याप्यस्मिन् स्थूलसमष्टिशरीरे ऽभिमानोऽस्ति वा न वेति विचार्यमाणे नास्ति। कथ- मिति चेत् । सकलजीवशरीराणामप्येकीभूयास्य शरी रत्वेनावस्थानात् । अहमिति व्यावर्तनीयप्रतियो- ग्यभावात्। एतच्छरीरोपहितसमष्टया ईश्वरमुपासितुमशक्ता- नामपि श्रुतिः राजससात्त्विकतामसमूर्तिसहितस्य सृरिस्थितिसंहारकर्तुः ब्रह्माविष्णुरुद्रनामधेयस्य दुष्ट- निग्रहशिष्टपरिपालनाय मत्स्यकूर्मादिव्यवहारकर्तुरी- श्वरस्य उपासनां विधत्ते। एवं ब्रह्मादिमूर्तिधरस्य ईश्वरस्य तत्तन्मूर्तावभि- मानोऽस्ति वा न वेति चेत् । अभिमानोऽस्ति । अभिमानाभावे तत्तन्मूर्त्या सृष्टयादिकं कार्य कर्तु न शक्यते । अतोऽभिमानोऽस्त्येव । ईश्वरस्यापि जीवपदसिमाने सति जीवादीश्वरस्य को विशेष इति चेत् । विशेपोऽस्ति । कथमिति चेत् । जीवानां स्वस्वदेहेषु अहंता च ममता च संततमस्ति । ईश्वर- स्यतु स्वमूर्त्यभिमानः कृपया लोकरक्षणार्थ तत्कार्य- समय एव ईश्वरेण केवलं कल्प्यते। नटेन स्वभूमिका- (१६) लघुवासुदेवमनने। यामिवेति जीवाभिमानस्य ईश्वराभिमानस्य चास्ति महान भेदः। मूर्तिस्वरूपमीश्वरमुपासितुमशक्कानां शास्त्रं मूर्ति- रूपेण कल्पितताम्रादिप्रतिमोपासनां विधत्ते । अत एव प्रतिमा केचिदीश्वरखुद्धया उपासते । सर्वत्र ब्रह्मा- दिमूर्तिष्वपि तत्तत्प्रतिमास्वपि अन्तयांमी परमेश्वर एक एव तत्र स्थित्वा तेषामुपासकानां फलं ददा- ति। मूढाः ईश्वरस्य सर्वात्मकत्वमविचार्य तत्रतत्रेश्वराः बहवो भिन्नभिन्नतया वर्तन्त इति मत्वा अन्योन्यं कलहायन्ते । तस्मादन्तर्यामी ईश्वरः एक एवेति जानीहि । तार्ह सर्वत्रेश्वरस्यैकत्वे शास्त्रमापि तत्त- न्मूर्तिभेदमङ्गीकृत्य तदुपासनाभेदं कथं विधत्ते इति चेत् । बहिर्मुखानपि शनैःशनैरन्तर्मुखान्कृत्वा पर मात्मैव जीवात्मा नान्य इति बोधयित्वा तेषां मुक्ति दातुमेव अनादिकालमारभ्य प्रवृत्तं भेदमङ्गीकृत्य तेपो बुद्धिमनुसृत्य भेदेन शास्त्रमुपासनां विधत्ते । न तु तात्पर्येण । एवमीश्वरस्य परमात्मनः समात्रिय- शरीरोपाधिना ईश्वरत्वसिद्धिप्रकार उक्तः। अथेदानीमेकस्येव परमात्मनः व्यष्टिशरीरत्रयोपा- धिना जीवत्वसिद्धिप्रकार उच्यते । व्यष्टिकारणश- रोरोपहितस्य परमात्मन एव प्राज्ञः, पारमार्थिकः, " सप्तमं वर्णकम् । (१७) अविद्यावच्छिन्नः, इति नामानि सन्ति । व्यष्टिसूक्ष्म- शरीरोपहितस्य परमात्मनस्तैजसः, स्वनकल्पितः, प्रातिभासिकः, इति नामानि सन्तिाव्यष्टिस्थूलशरीरो- पहितस्य परमात्मनो विश्वः,व्यावहारिकः,चिदाभासः, इति नामानि सन्तीति जानीहि । अस्य जीवस्य शरीरत्रयमपि किमर्थमिति चेत् । प्रयोजनमस्ति । अन्तःकरणप्रतिविम्बो जीवः । अतो जीवस्य सूक्ष्मशरीरं प्रथममावश्यकम् । पश्चात्स्थूल- शरीरं विना कर्मकर्तृत्वाभावात् स्थूलशरीरमप्याव- श्यकम् । इदं कार्यशरीरद्वयमपि कारणशरीरं विना अवस्थातुमशक्यम्।अतःकारणशरीरमप्यावश्यकम् । एवं जीवस्य व्यएिशरीरत्रयमप्यावश्यकम् । अस्य जीवस्य अस्मिन्व्याटिशरीरबयेऽभिमानो ऽस्ति वा न वेति विचार्यमाणेऽभिमानोऽस्ति । कथ- मिति चेत् । जीवस्य कर्मकर्तृत्वेन शरीराभिमाना- भावे जीवस्य तत्कर्मकर्तृत्वं नोपपद्यते । तदभावे शरीरमेन नोत्पद्यते । शरीराभावे जीवत्वमेव न संभवति । तस्माजीवस्याभिमानोऽस्ति । एवं परमा- त्माएक एव व्यष्टिसमष्टयुपाधिभ्यां जीवेश्वरभावंगतः। अस्य दृष्टान्तोऽस्ति वेति चेव ॥ यथा एकस्यैव देव- दत्तस्य पुत्रपौत्रोपाधिभ्यां पितेति पितामह इति (४८) लघुवासुदेवमनने। नामद्रयमस्ति, तथा अविद्यामायोपाधिभ्यां आत्मन एकस्यैव जीवेश्वरत्वमागतम् । ननु पूर्वोक्तदृष्टान्ते नामद्वयं युज्यते । किंचिज्ज्ञ- त्वसर्वज्ञत्वादिविशिष्टभेदस्य को वा दृष्टान्त इति चेत् । दृष्टान्तोऽस्ति । एकमेव जलं बृहत्तटाकस्थं सत् एकग्रामसंरक्षणमहाशक्तिमत् घटस्थं सत्. एकगृहसंरक्षणाल्पशक्तिमद्यथा जातम्, अग्निरेक एव स्थूलमहावर्तिस्थः सन् बहुदूरप्रकाशकमहाश- क्तिमान् अल्पवर्तिस्थः सन् ग्रहमात्रप्रकाशकाल्पश- क्तिमांश्च यथा जातः, तथा आत्मनोऽपि बृहत्कारण- भूतमायोपाधिना सर्वज्ञत्वम्, अल्पेन कार्यरूपावियो- पाधिना किंचिज्ज्ञत्वं चागतम् । न तु सर्वज्ञात्मा किं- चिज्ज्ञात्मेत्यात्मद्वयमस्ति । अत एव वेदान्तशा: स्त्रं च तत्पदस्य त्वंपदस्य च संबन्धनयेणाप्यखण्डतां वोधयति । संबन्धत्रय किमिति चेत् । पदयोः सामानाधिकर- ण्यसंबन्धः । पदार्थयोविशेपणविशेष्यभावः संवन्धः । पदाभ्यां सह वा पदार्थाभ्यां सह वा प्रत्यगात्मनो लक्ष्यलक्षणभावः' संबन्धः । एवं संबन्धवयम् । अस्य हटान्तः। सोऽयं देवदत्त इत्यत्र इदं संबन्धनयमस्ति। स इति शब्दस्य अयमिति शब्दस्य च एको देवदत्त- सप्तमं वर्णकम् । (४९) पिण्ड एव समानाधिकरण इति तयोः शब्दयोः सामा- नाधिकरण्यसंबन्धोऽस्तिीतथा तत्पदस्य त्वम्पदस्य च एकमेव चैतन्यं समानाधिकरणम्। तस्मात्पदद्वयस्या- पिसामानाधिकरण्यसंवन्धोऽस्तिोतत्कालतदेशविशि- एवाचक स इति शब्दार्थस्य एतत्कालैतद्देशविशि. प्रदेवदत्तवाचकायंशब्दार्थस्यापि अन्योन्यभेदव्यावर्त- कत्वेन अन्योन्यं विशेपणविशेष्यभावसंबन्धोऽस्ति । तथा सर्वज्ञत्वपरोक्षत्वादिविशिष्टचैतन्यवाचकतत्प- दार्थस्य किंचिज्ज्ञवापरोक्षत्वादिविशिष्टचैतन्यवांच- कत्वपदार्थस्य च अन्योन्यभेदव्यावर्तकत्वेन अन्योन्यं विशेषणविशेप्यभावःसंबंधोऽस्ति । सोऽयंपदयोः पदा- र्थयो; अखण्डार्थदेवदत्तपिण्डमात्रग्रहणे विरुद्धांशं विहाय अविरुद्धांशदेवदत्तमात्रलक्षकत्वेन लक्ष्यलक्ष- णभावसंबन्धोऽस्ति। तथा तत्त्वम्पदयोः तत्त्वम्पदार्थ- योर्वा अखण्डसच्चिदानन्दमात्रग्रहणे विरुद्धाशं विहाय अविरुद्धांशभूतचैतन्यमानलक्षकत्वेन लक्ष्यलक्षणभा- घसंबन्धोऽस्ति । इममेव लक्ष्यलक्षणभावसंवन्धं भागत्यागलक्षणेति जहदजहल्लक्षणेति च जानीहि । तत्कथमिति चेत् । शास्त्रेप वाक्यार्थग्रहणे मुख्यवृत्तिःगुणवृतिः लक्षणा- त्तिरिति वृत्तित्रयमस्ति । राजा गच्छतीति वाक्यार्थे ३ " (५०) लघुवासुदेवमनने। मुख्यवृत्तिः । नीलमुत्पलमिति वाक्यार्थे, अग्निर्माण- वक इत्यादौ च, गुणवृत्तिः। लक्षणावृत्तिश्च त्रिविधा। जहल्लक्षणा अजहल्लक्षणा जहदजहल्लक्षणा चेति । गङ्गायां घोपः प्रतिवसति, शोणो धावति, सोऽयं देव- दत्तः, इति च क्रमेण लक्षणावृत्तित्रयस्य उदाहरणवा- क्यानि । एतेषु मुख्यार्थग्रहणे विरोधात् लक्षणावृत्ति- ीयत इति ज्ञेयम्। तत्त्वंपदयोर्वाक्यार्थः लक्ष्यार्थश्च क इति चेत् । उच्यते । माया मायाप्रतिविम्बः मायाधिष्ठानं ब्रह्मच त्रयमप्येकीभूय तत्पदवाच्यार्थः । ब्रह्ममा तत्पदल- क्ष्यार्थः । अविद्या अविद्याप्रतिबिम्बः अविद्याधिष्ठान- साक्षिचैतन्यं एतत्रितयमप्येकीभूय त्वंपदवाच्यार्थः । साक्षिकूटस्थचैतन्यमानं त्वंपदलक्ष्यार्थः । तस्मात्त- त्वंपदवाक्यार्थग्रहणे वाच्यार्थजीवेश्वरयोविरोधात तयोविरुद्धांशं विहाय, अविरुद्धांशब्रह्मचैतन्यस्य कूट- स्थचैतन्यस्य च एकत्वात् ब्रह्मकूटस्था लक्षयित्वा, अखण्डाथै तयोरेक्यमेव महावाक्येन बोभ्यते । यथा पुत्रपौत्रोपाधिद्वयपरित्यागे पितृपितामहत्वाभावेन एकदेवदत्त एवावशिष्यते, महातटाकघटोपाधिपरि- त्यागे शैत्यद्रवमधुर एवावशिष्यते,महावर्त्यल्पवर्तिप- रित्यागे लोहितोष्णप्रकाशस्वभाव एक एवावशिप्यते (५१) अपमं वर्णकम् । तथा मायाविद्योपाधित्यागे सच्चिदानन्दस्वभावमेक- मात्मवस्त्वेवावशिष्यते। एवं विचार्य परिपूर्णस्वभावप्रत्यगात्मैव मम स्वरू- पम्, अहं ब्रह्मास्मि, ब्रह्मैवाहमस्मि, इत्यनुभवो यस्य- महानुभावस्य चागच्छति, स एव मुक्तः स एव कृत- कृत्यः स एव ब्रह्माण इति सर्वे वेदान्ताः भेरीवधि- वपुष्यन्ति ॥ इति मनने सप्तमवर्णकं समानम् । अथ अष्टमवर्णकम् । इतः परमात्मनः पूर्वोक्तशरीरत्रयविलक्षणत्वम्,अव- स्थात्रयसाक्षित्वं, पञ्चकोशव्यतिरिक्तत्वं सच्चिदानन्द- स्वरूपत्वं च चत्वारि लक्षणानि चतुभिर्वर्णकैरुच्यन्ते। एतेषु शरीरत्रयविलक्षणत्वं पञ्चकोशव्यतिरिक्तत्वं च तघ्यावृत्तिलक्षणम् । अवस्थात्रयसाक्षित्वं तटस्थलक्ष- णम्। सच्चिदानन्दस्वरूपत्वं स्वरूपलक्षणम् । तथा आकाशादिशरीरान्तं दृश्यजातं नेति नेतीतिवाक्येन विहायावशिष्टं वस्तु आत्मेत्येतब्यावृत्तिलक्षणम् अस्य प्रपञ्चस्य यदधिष्ठानं तदात्मवस्त्विति तटस्थलक्षणम्। सचिदानन्दपूर्ण नित्यमात्मवस्त्विति स्वरूपलक्षणम् । अस्मित्रप्टमवर्णके शरीरत्रयविलक्षणत्वमुच्यते ।
(५२) लघुवासुदेवमनने। शरीरत्रयस्याज्ञाने , तद्विलक्षणत्वमपि दुज्ञेयमिति प्रथमतः शरीरत्रयमुच्यते । स्थूलं सूक्ष्म कारणमिति शरीरं विविधम् । तत्र सर्वेषां प्रत्यक्ष करचरणायवय- वोपेतं स्तम्भवदर्तमानं तत्स्थूलशरीरम् । सप्तदशाव- यवात्मकं सूक्ष्मशरीरम् । अज्ञानमेव कारणशरीरम् । एतेपां शीर्यते क्षीयते इति व्युत्पत्त्या शरीरमिति नाम। इत्थं स्थूलशरीरमन्नाभावे शीर्यते, अन्ने विद्यमाने व्याधिना शीर्यते । तदभावेऽपि वयःपरिणामे शीर्यते । पल्लवमिव सूक्ष्मशरीरमपि कदाचिद्वर्धते कदाचित्क्षी- यते । रागद्वेपाघन्तःकरणवृत्तिजृम्भणमेव सूक्ष्मशरी- रस्य वृद्धिः। तेपां संकोच एव जीर्णता । कारणशरीर- स्याप्यहं जीव इति वृद्धिः । अहं ब्रह्मास्मीति संकोचः।, अनयोः सूक्ष्मकारणशरीरयोरुक्तरूपा वृद्धिरज्ञानिपु, दृश्यते । संकोचश्च ज्ञानिषु दृश्यते । एवं शरीरत्रय- स्यापि जराया दर्शनेन शरीरमिति नाम । एतेषां देह इति च नाम दह्यत इति व्युत्पत्त्यागतम् । लोके सर्वोऽपिस्थूलदेहोऽमिना दह्यते । सूक्ष्मश- रीरं कारणशरीरं च न कदाचिदप्यनिना दह्यते । तत्कथमेतेपां देहत्त्वमिति चेत् । अनेरप्यधिकेन ताप- त्रयेण सर्वमपि दह्यते । अतः शरीरत्रयस्यापि देह इति नाम युज्यते । स्थूलशरीरस्य स्तम्भवत् स्थूलभूत- अष्टमं वर्णकम् । (५३) कार्यत्वेन स्थूलत्वम् । सूक्ष्मस्य स्थूलशरीरवत् स्थूलत्वाभावात् सूक्ष्मभूतजन्यत्वाच्च सूक्ष्मत्वम् । लीनं शब्दार्थ गमयतीति लिङ्गमिति नाम अस्याग- तमिति ज्ञेयम् । स्थूलसूक्ष्मशरीरद्वयकारणस्य कारण- शरीरमिति नाम । हे स्वामिन, पूर्व स्थूलसूक्ष्मशरीरद्वयमपि पञ्च- भूतेभ्य उस्थितमित्युक्तम् । तथैवात्मनः शरीरत्वे अज्ञानं कारणमिति, युगपत्सृष्टौ सर्वस्यापीति। इदानीं कारणशरीरादुत्थितमिति कथमुच्यते इति चेत् । शृणु । अध्यारोपसृष्टौतथा पञ्चभूतोत्थितमित्युक्तम्। तथैवात्मनः शरीरत्वे अज्ञानं कारणमिति युगपत्स- हौ सर्वस्यापि जगतोऽज्ञानमेव कारणमिति कृत्वा शरीरद्वयस्यापि अज्ञानमेव कारणमित्युक्तम् । कथं क्रमसृष्टिः, कथं वा युगपत्सृष्टिरिति चेत् । उच्यते । मूलप्रकृतिः अविद्या माया आवरणं विक्षेपः आकाशः वायुः अग्निः आपः पृथिवीति क्रमेणोत्प- तिकथनं क्रमसृष्टिः । स्थूलस्य प्रत्यक्षेणानुभूयमान- वात्तत्र न संदेहः । मूक्ष्मशरीरस्य बहिरप्रतीतेः तद- स्तीति ज्ञानं कथं जायते इति चेत् । शृणु। सप्तदश- करणकायैस्तत्सूक्ष्मशरीरं ज्ञातुं शक्यम् । तत्सप्तदश- करणकार्यमपि स्थूलशरीरे कर्तुं न शक्यते इति चेद लघुवासुदेवमनने। सुषुप्तिमूर्छामरणषु स्थूलशरीरे विद्यमानेऽपि सप्तद्- शकरणकार्याणामदर्शनात् जाग्रत्स्वानयोः तत्कार्य- दर्शनात स्थूलशरीरव्यतिरेकेण सप्तदशावयवात्मकं लिङ्गशरीरमस्त्येवेति अवगन्तव्यम् । इदं स्थूलशरीरं सूक्ष्मशरीरं विना न कदाचिदपि कार्य करोति। अत उभयमपि दर्शनादिकार्य करोत्वि- ति चेत् । विवेकेन विचार्यमाणे दर्शनादिकार्य सकल- मपि सूक्ष्मशरीरसाध्यमेव । न तु स्थूलशरीरसाध्यम् । कथमिति चेताकाष्ठमाश्रित्याग्निहपाकादिकर्म करो- ति, काष्ठाभावे न करोति । तथाप्यग्निकार्यमेव दाहपा- कादि, न तु काप्टकार्य यथा तथा स्थूलशरीरमाश्रितेन सूक्ष्मशरीरेण क्रियमाणमपि दर्शनादिकं सूक्ष्मकार्य- मेव, न तु स्थूलकार्यम् । अतो दर्शनादिकार्येणानु- मेयं सप्तदशावयवं सूक्ष्मशरीरमित्युक्तम् । ज्ञाने- न्द्रियपञ्चकं कर्मेन्द्रियपञ्चकं प्राणपञ्चकं मनो बुद्धिश्चे- तिसप्तदशावयवाः । एतत्सप्तदशाङ्गं सूक्ष्मशरीरम् । श्रोत्रत्वक्चक्षुर्जिह्वाप्राणानि ज्ञानेन्द्रिययाणि । शब्दस्पर्शरूपरसगन्धाः एतेषां विपयाः । ज्ञानसा- धनत्वात् । ज्ञानेन्द्रियाणि । सुखप्रकाशाभिव्य- अकसत्त्वगुणकार्यत्वात् एतेषां ज्ञानसाधनत्वम् । वाक्पाणिपादपायूपस्थाः कर्मेन्द्रियाणि । वचना- अष्टमं वर्णकम् । (५५) दानगमनविसर्गानन्दरूपक्रियासाधनत्वेन तेषां कमें- न्द्रियत्वम् । चञ्चलमलिनरजोगुणकार्यत्वेन तेपा क्रियासाधनत्वम् । प्राणापानव्यानोदानसमानाः प्राणाः । उच्छासनिःश्वासादिव्यापारैः शरीरधारक- त्वात् वलप्रदत्वाच्च प्राणसंज्ञाः । ताशसामर्थ्य- च तेषां रजोगुणजन्यत्वादिति ज्ञेयम् । विमर्शान्तः- करणवृत्तिर्मनः । निश्चयात्मकान्तःकरणवृत्तिर्बुद्धिः । एवं सूक्ष्मशरीरस्य सप्तदशावयवाः । लोके एकस्मिन्वस्तुनि ज्ञातव्ये उद्देशो लक्षणं परीक्षा चेत्युपायत्रयमस्ति । तत्र वस्तुनामग्रहणमा- अमुद्देशः । वस्तुस्वरूपग्रहणं लक्षणम् । वस्तुस्वरूप- विचारः परीक्षा । सप्तदशावयवनामग्रहणमुद्देशो जातः । इतः परं लक्षणं परीक्षां च वदामः । लक्षणं नामाव्यात्यतिव्यात्यसंभवाख्यदोपत्रयरहितधर्मः । यथा कपिला गौरिति । लक्ष्यैकदेशे लक्षणस्यावर्त- नमव्याप्तिः । अलक्ष्ये लक्षणस्य वर्तनमतिव्याप्तिः । यथा चतुष्पाद्गौरिति । लक्ष्यमात्र लक्षणस्यावर्तनम- संभवः । यथा एकशफा गोरिति । दोपत्रयरहितो ऽसाधारणधर्मः । गोः सानादिमत्त्वं लक्षणम् । ज्ञानेन्द्रियाणां किं लक्षणमिति चेत् शृणु । क्रमेण कथायण्यामः।
(५६) लघुवासुदेवमनने । दिगधिष्ठानदेवतया प्रेरितं सत् कर्णशष्कुल्यव- च्छिन्ननभोदेशे स्थित्वा अष्टादशभापाणां वेदशास्त्रा- णां च इदमित्थमिति ज्ञातृ यदिन्द्रियं तच्छ्रोत्रेन्द्रियम्। परीक्षा कीदृशीति चेत् । कर्णशप्कुल्यवच्छिन्ननभ एव जानात्विति चेत् । सुषुप्तिमूच्छादिसमयेऽपि कर्ण- शकुल्यवच्छिन्नं नभो विद्यमानमपि शब्दं न गृहा- ति । तस्मात्तदन्यदिति परीक्षा । त्वगिन्द्रियं किमिति चेत् । वायुरूपाधिष्ठानदेवत- या प्रेरितं सत् त्वचं सर्वत्र व्याप्य शीतमुष्णं मृदु कठिनं कर्कशमित्यनेकविध स्पर्श यजानाति तत्त्व- गिन्द्रियम् । त्वमेव जानात्वित्युक्ते सुपुत्त्यादिपु त्वचि विद्यमानायामपि स्पर्श न जानाति।तस्मान्न तत्त्वगि- न्द्रियम्।चक्षुरिन्द्रियं किमिति चेत्। सूर्यरूपाधिष्ठानदे- वतयाप्रेरितं सत् कृष्णताराग्रमाश्रित्य नीलं पीतं श्वेतं रक्तं हरितं धवलं स्थूलं सूक्ष्म ह्रस्वं दीर्घ इत्युक्तबहु- रूपं यजानाति तचक्षुरिन्द्रियम् । कृष्णताराग्रमेव जानात्विति चेत् । सुपुप्त्यादिषु तद्विद्यमानमपि तद्रू- पं न जानाति । तस्मात्तन्न चक्षुरिन्द्रियम् । रसेन्द्रियं किमिति चेत् । वरुणरूपाधिष्ठानदेवत- या प्रेरितं सत् जिह्वाग्रमाश्रित्य मधुरतिक्ताम्लादिप- सान् यजानाति तइसनेन्द्रियम् । रसनमेव जानात्वि- अष्टमं वर्णकम् । (६७) ति चेत् । सुषुत्यादेषु रसनाभात्रं विधमानमपि रसं न जानाति । अतः न तदूसनेन्द्रियम् । माणेन्द्रियं किमिति चेत् । अश्विनीदेवतया प्रेरित सत् नासाग्रमाश्रित्य सुगंध दुर्गध च यजानातितघ्राणे न्द्रियम् । नासाग्रमेव जानात्विति चेत्।सुपुतौ विद्यमा- नमपि गन्धं नैव जानाति । तस्मान तज्राणेन्द्रियम् । एवं ज्ञानेन्द्रियलक्षणानि । इतः परं कर्मेन्द्रियलक्षणमुच्यते । अग्निरूपाधिष्टा. नदेवतया प्रेरितं सत् तालुमूलमुत्तराधरोष्ठं कण्ठं हृदयं नाभिमेवमादिस्थानान्यधिष्ठानदेवतयाश्रित्य पूर्वोक्त- शब्दभेदान्यदुच्चरति तहागिन्द्रियम् । सुपुप्तौ ताल्ला- दिकं विद्यमानमपि अक्षराणिनोचरति।तस्मान्न तद्वा- गिन्द्रियम्।इन्द्ररूपाधिष्टानदेवतया प्रेरितं सत करत- लमाश्रित्य आदानादिक्रियां यत्करोति तत्पाणीन्द्रि- यमासुषुप्त्यादौ विद्यमानमपि न करतलं करोति।अतो न तत्पाणीन्द्रियम् । उपेन्द्ररूपाधिष्ठानदेवतया प्रेरित सत् पादतलमाश्रित्य गमनं यत्करोति तत्पादे- न्द्रियम् । सुपुत्यादौ विद्यमानमपि पादतलं गमनक्रियां न करोति । अतो न तत्पादेन्द्रियम् । मृत्युरूपाधिष्ठानदेवतया प्रेरितं सत् गुदमाश्रित्य यत्पुरीपविसर्जनादिकं करोति तत्पारिवन्द्रियम् ।
(५८) लघुवासुदेवमनने। सुषुप्त्यादौ विद्यमानमपि गुदं न करोति । अतो न तत्पाय्विन्द्रियम् । प्रजापतिरूपाधि- ष्ठानदेवतया प्रेरितं सत् योनिलिङ्गमाश्रित्य शुक्र- शोणितमूत्रविसर्जनं यत्करोति तदुपस्थेन्द्रियम् । सुषु- प्त्यादौ योनिर्लिङ्गंच विसर्जनं न करोति । अतो न- तदुभयमुपस्थेन्द्रियम्। एवं कर्मेन्द्रियलक्षणान्युक्तानि। अथ प्राणपञ्चकस्य लक्षणमुच्यते । विशिष्टनामकाधिष्ठानदेवतया प्रेरितःसन् योहदि- स्थित्वा उच्छासं करोति स प्राणः । विश्वसृटनाम- काधिष्ठानदेवतया प्रेरितःसन् गुदे स्थित्वा यो निश्वा- सं करोति सोऽपानः । विश्वयोनिनामकाधिष्ठानदेवत- या प्रेरितः सन्नन्तर्बहिश्च शरीरे स्थित्वा इन्द्रियाणां बलमिच्छन्यो वर्तते स व्यानः । योऽजनामकाधिष्ठा- नदेवतया प्रेरितः सन् कण्ठे स्थित्वा सुषुप्ताविन्द्रिया- णां गोलकेषु लयं कारयित्वा, जाग्रति पुनरिन्द्रिया- णि गोलकेषु प्रापयित्वा, उक्रमणकाले इन्द्रियाणि गृहीत्वा लोकान्तरं गच्छति स वायुरुदानः। यो जय- नामकाधिष्ठानदेवतया प्रेरितसर नाभिदेशे स्थित्वा भक्ष्यभोज्यलेह्यचोष्यरूपचतुर्विधानं जठराग्नौ पाच- यित्वा शरीरपुष्टिं करोति स समानवायुः । एवं पञ्च प्राणाः श्रूयन्ते।
अष्टमं वर्णकम् । (६९) नागकूर्मकृकरदेवदत्तधनञ्जया उपवायवः । तेपा- मपि पूर्वोक्तपञ्चप्राणेष्वेवान्तर्भावः। तत्र नागो वाक्तति करोति । कूर्म उन्मीलनं करोति निमीलनं च अधरो- प्रयोः संयोग विभागं च । कृकरः क्षुधं करोति। देवद- तो विजृम्भणं करोति । धनञ्जयः शरीरस्योच्छूनतां करोति । इतः परमन्तःकरणचतुष्टयमुच्यते। मनः बुद्धिः चित्तमहंकारः इति जानीहि । अत्र मनश्चन्द्रेणाधिष्ठितं सत् कण्ठमाश्रित्य स्थित्वा संकल्पविकल्पौ करोति । बुद्धिश्चतुर्मुखेनाधिष्ठिता सती मुखमाश्रित्य स्थित्वा निश्चयं करोति।अहंकारो रुद्रेणाधिष्ठितः सन् हृदयमा- श्रित्याभिमानं करोति।चित्तं क्षेत्रज्ञरूपविष्णुनाधिष्ठितं सत् नाभौ स्थित्वा अवधारणं करोति । एतल्लिङ्गश- रीरम् । तत्र काचिच्छुतिः पोडशात्मकं वदति। तत्प- क्षेऽन्तःकरणमेकमिति जानीहि । पुनरन्या श्रुतिः सप्त- दशात्मकं वदति । तस्मिन् पक्षे मनो बुद्धिरिति द्वि- विधं जानीहिःपुनरन्या श्रुतिरेकोनविंशात्मकं वदति। तत्पक्षे मनः बुद्धिः अहंकारश्चित्तमिति जानीहि । एवं चतुर्विधमन्तःकरणं लिङ्गशरीरमिति निर्णयः । इदानी कारण शरीरमुच्यते । अज्ञानमेव कारण- शरीरम् । स्थूलशरीरकारणत्वात् । अस्य जीवेश्वरयोः (६०) लघुवासुदेवमनने । प्रथमशरीरत्वात् । पश्चाद्भाविशरीरकारणत्वम् । त- स्मिन्नर्थे प्रमाण किमिति चेत् । अज्ञानं कारणशरीर- मिति श्रुतिर्वदति । कार्येण कारणमूह्यत इति युक्तिः। अहमज्ञ इत्यनुभवः। हे स्वामिन्, आत्मा क इत्युक्ते शरीरत्रयविलक्षण इति बोधयितुं प्रथमतः शरीरत्रयं लक्षणैर्बोधयितव्यं किल,एवमेवात्मापिलक्षणैर्बोधयितव्य इति चेत्।शृणु। सर्वत्र परिपूर्ण ब्रह्म। तदेव प्रत्यगात्मस्वरूपमिति सक- लोपनिपदो वदन्ति । तस्मादात्मा सच्चिदानन्दस्वरू- प एवेति जानीहि । सत् किं, चित् कि, आनन्दं कि- मिति चेत् । वाधरहितं सत् । स्वप्रकाशं चित् । स्वानुभूतिरेवानन्द इति जानीहि । एवमात्मा सच्चि- दानन्दस्वरूपः। अनात्मा तु अनृतजडदुःखस्वरूपः। आत्मानात्मनोरन्योन्यवैलक्षण्यं कथं ज्ञातव्यामिति चेत् । यथा पुरुपलक्षणं स्त्रियां नास्ति, स्त्रीलक्षणं पुरुपे नास्ति, एवमेव सल्लक्षणमनृते नास्ति । अनृत- लक्षणं सति नास्ति । यथा प्रकाशलक्षणमन्धकारे नास्ति, अन्धकारलक्षणं प्रकाशे नास्ति, एवं चिल्ल- क्षणं जडे नास्ति, जडलक्षणं चिति नास्ति । यथा चन्द्रिकालक्षणमातपे नास्ति, आतपलक्षणं च.
अष्टमं वर्णकम् । (६१) न्द्रिकायां नास्ति, एवमानन्दलक्षणं दुःखे नास्ति, दुःखलक्षणमानन्दे नास्ति। सच्चिदानन्दानां अनृतजडदुःखानां च विस्तारण लक्षणानि ज्ञातव्यानीति चेत् । शृणु । वदामः । कालमयेऽपि केनाप्यवाध्यमानमेकरूपं सत् । काल- त्रयेऽपि मिथ्याभूतमपि सत्यमिव भासमानं विचार्य- माणे बाध्यमानमसत् । अस्य दृष्टान्तः। अमन्दान्ध- कारे वर्तमानारज्जुःस्वारोपितसर्पमाल्यनीरन्ध्रजलध- रादिवदवाध्यमाना भ्रान्तेः पूर्वकाले पश्चात्काले भ्रान्तिकाले च एकरूपा वर्तते । अध्यस्तप्तादि तु कालत्रयेऽपि स्वयंमिथ्याभूतमविद्यमानमपि विद्यमा- नमिव प्रतीयते । प्रमातुः परमार्थविचारेण बाध्यते । एवंभूतरज्जुलक्षणं सादौ नास्ति । अतः अन्योन्यं शन्दनाथन लक्षणेन प्रतीत्या व्यवहारेण पञ्चभिः प्रकारवलक्षण्यं यथानयोरस्ति तथा सल्लक्षणमसल्ल- क्षणे देहादिप्रपञ्चे नास्ति, असल्लक्षणं च प्रत्यगात्म- नि नास्ति । तस्मादन्योन्य शब्देनार्थेन प्रतीत्या लक्षणेन व्यवहारेण च पञ्चभिः प्रकारलक्षण्यमस्ति। तस्मादेवं विचार्य सतः अनृतस्य च वैलक्षण्यं जानीहि । चितोजडस्य पैलक्षण्यमुच्यते।सूर्यादिप्रकाशमन- (६२) लघुवासुदेवमनने। पेक्ष्यस्वप्रकाशेनेवप्रकाशमानं स्वारोपितस्यजडस्या- पिप्रकाशकं,अत एव सूर्यादिप्रकाशपदार्थ मृच्छिला- घप्रकाशपदार्थ च प्रकाशयति यद्वस्तु तचित्।जडल- क्षणं कीदृशमिति चेत् । स्वयमप्रकाशमानमन्यपदा- र्थस्य प्रकाशनेऽसमर्थ यत्तजडम् । अत्रोभयदृष्टान्तः। यथा आदित्यः प्रकाशान्तरानपेक्षं स्वयमेव प्रकाश- मानः सन् स्वप्रकाशसंबन्धिघटपटादिपदार्थमपि- प्रकाशयति । तथा चित्प्रकाशः। यथा घटादिप- दार्थः स्वयमप्रकाशमानःअन्यपदार्थमपि प्रकाशयितु- मसमर्थः तथा जडवस्त्वपीति जानीहियथा आदित्य- स्य घटादेश्च शन्दादिपञ्चप्रकारैर्वैलक्षण्यं, एवं चितो जडस्य च वैलक्षण्यम् । एवं ज्ञानस्य किं फलमिति चेत् । लोके प्रकाश्य- पदार्थनिष्ठविकाराप्रकाशकवस्तु कालत्रयेऽपिन स्पृ- शन्ति इति ज्ञानं फलम् । तदपि कथामिति चेत् । आदित्येन प्रकाश्यमानघटादिनिष्ठच्छिद्रेण हानिः अ- च्छिद्रेण लाभः,स्पर्शेन त्याज्यत्वं,अस्पर्शेन ग्राहकत्वं, लक्षणेन हर्षः, अलक्षणेन विपादः, समीचीनतया अतिशयः, असमीचीनतया अनतिशयः, इत्यादिवि- कारगुणा प्रकाशकमादित्यं न स्पृशन्ति । एवमा- स्मप्रकाश्यमानदेहेन्द्रियादिनिष्टनामरूपजातिवर्णाश्र- अएमं वर्णकम् । (६३) मप्रवृत्तिनिवृत्तिविधिनिषेधपड़ावविकारपट्टमिशकोशा- व्यपैत्यादिसकलगुणविकाराश्च प्रकाशकमात्मानं कालत्रयेऽपि किञ्चिदपि स्प्रष्टुं न शक्नुवन्ति इति ज्ञानं सुकरमिति जानीहि । एवं चिजडयो_लक्षण्यम्। इतः परमानन्दस्य दुःखस्य च वैलक्षण्यमुच्यते । आनन्दलक्षणं किमिति चेत्। निरुपाधिकं निरति- शयं नित्यं यत्सुखं तदानन्दः। दुःखलक्षणं किमिति चेत् । प्रतिकूलतया वेदनी- यत्वम् । इतरेच्छानधीनेच्छाविषयभिन्नत्वे सति द्वेष- विषयत्वं वा । तत्तु त्रिविधम् । आध्यात्मिकं आधिभौ तिकं आधिदेविकं चेति। तन्द्रियैदेह एवं वातपित्त- श्रेष्मवैपरीत्येन जायमानं व्याध्यादिदुःखमाध्यात्मि- कम् । भूतभौतिकैश्च सर्पव्याघ्रादिभिर्जायमानं दुःख- माधिभौतिकम् । देवैर्जायमानमतिवृष्टयनावृधिवि- द्युत्पातादिदुःसमाधिदैविकमिति । आनन्दस्य दुःखस्य च को दृष्टान्त इति चेत। उच्यते । यथामृतं सुखरूपं सत् स्वमनुभवतो जीवा- नपि सुखयति, कालकूटविपं स्वयं तापकं सत् स्व- मनुभवतो जीवानपि पीडयति । एवंभूतयोरमृत- विषयोरन्योन्यं शब्दादिपञ्चप्रकारैर्यथा वैलक्षण्यम् । एवमानन्दलक्षणं यथा तापत्रयात्मकदुःखे नास्ति, । (६४) लघुवासुदेवमनने। दुःखलक्षणमपि आत्मस्वरूपे आनन्दे नास्ति। तस्मा- च्छन्दादिपञ्चप्रकारैरनयो(लक्षण्यं जानीहि । अत्र निष्कृष्टार्थः सिद्धार्थः क इति चेत् । रज्जुवत्सद्रूपः आदित्यवञ्चिद्रूपः अमृतवदानन्दरूपः अहंशब्दार्थ आत्मासर्पवदनृतात्, घटवज्जडात, विपवदुःखात् देहेन्द्रियादिप्रपञ्चाद्विलक्षण इति यो गुरुमुखादात्मानं जानाति स एवासङ्गः, स एवकृतकृत्यः, स एव मुक्त इति सकलवेदान्तनिश्चय इति जानीहि ॥ इति वासुदेवमननेऽष्टमवर्णकं समाप्तम् । अथ नवमवर्णकम् । आत्मा शरीरत्रयविलक्षणःअवस्थात्रयसाक्षी।पञ्च- कोशव्यतिरिक्तः सच्चिदानन्दलक्षणः इत्यात्मन उक्तेपु चतुर्विधलक्षणेपुशरीरत्रयविलक्षणत्वमटमवर्णके उक्तम् इतःपरमवस्थात्रयसाक्षित्वमस्मिन्नवमवर्णके उच्यते । मनः सत्त्वरजस्तमोगुणात्मकम् । तथापि सत्त्वगुण- प्रधानमेव मनः। सात्त्विकेनैव मनसाआत्मा ज्ञातव्यः। न च राजसेन नापि तामसेन । तत्र सत्त्वगुणः सूक्ष्मः। रजोगुणश्चञ्चलः। तमोगुणः स्थूलः। तस्मालूमप्रवे- शयोग्ये बृहत्स्तम्भ। यथा न प्रविशति । वायुना चलितदीपप्रकाशे सूक्ष्मवर्णो निर्णतुं यथा न शक्यते, -- नवमं वर्णकम् । (६५) तथैवात्मनि ज्ञातव्ये सति सूक्ष्ममनसैव सात्त्वि- केन ज्ञातव्यः । अन्यथा स्थूलमनसा चञ्चलमनसा च सूक्ष्मस्यात्मनःस्वरूपं किञ्चिदपि न ज्ञायते । तस्या- सावधानेन शृणु। आत्मनोऽवस्थात्रयसाक्षित्वं कथमिति चेत्। शृणु। अवस्थात्रयं च जाग्रदवस्था, स्वप्नावस्था सुपुत्य- वस्था चेति । तेषु सकलेन्द्रियैर्वाह्यार्थीपलम्भो जाग्रद. वस्था। जायद्वासनया अन्तःकरणस्य भोक्तृत्वभोग्य- त्वादिपरिणामःस्वप्नावस्था । स्थूलसूक्ष्मजगदन्तःसर्व- स्यापिकारणेऽज्ञाने लयानन्तरं अज्ञानमात्रस्य केवल- साक्षिवेद्यस्वावस्थानं सुपुप्तिः । एवमवस्थात्रयसाक्षित्वमात्मनः कथमिति चेत् । आत्मनि साक्षिलक्षणस्य विद्यमानत्वादिति ब्रूमः । साक्षिलक्षणं कथमिति चेत् । लोके एकस्य पुरुपस्य अन्यदीयावस्थाया अवस्थाव्यापाराणां अन्यस्य तस्य च अवस्थावतः विनाशराहित्येन साक्षाद्रष्टत्वं साक्षित्वम् । यथा तूष्णीमवस्थितस्य संन्यासिनः तत्रागतपुरुपतदवस्थातव्यापाराणां निर्विकारेण साक्षा- द्रष्टत्वं साक्षित्वम् । आत्मापिजीवानामवस्थात्रय- मवस्थाव्यापारांश्च अवस्थावतो जीवांश्च साक्षात्पश्य- नपि निर्विकारेणावतिष्ठते।
(६६) लघुवासुदेवमनने। इदमेव साक्षित्वं दृष्टान्तपूर्वकं पुनरपि कथ्यते- शृणु । एकमहानगरवज्जायदवस्था। तत्र प्राकार- वत्स्वनावस्था । तदन्तःप्रासादवत्सुपुत्यवस्था । तत्र तदभिमानिप्रभुवत् अवस्थात्रयाभिमानी जीवः । यथा स प्रभुः प्राकारादहिर्वर्तमानप्रियाप्रिये अनुभूय हर्प विपादं च प्राप्य ततः प्रासादे आगत्य सर्वान्व्यापारान्विहाय तूप्णी स्त्रिया सह सुखमनुभव- नास्ते, एवं जीवात्मापि स्थूलशरीराभिमानी जायद वस्थायां त्रिविधकरणव्यापारयुक्तःसन् विश्वो भूत्वा, सूक्ष्मशरीराभिमानीस्वप्नावस्थायां मनोमयत्रिविधक- रणैर्गुणदोपव्यापारादियुक्तःसन् तैजसो भूत्वा, पश्चा- कारणशरीराभिमानी सन् सुपुत्त्यवस्थायां त्रिविधक- रणगुणमुपसंहृत्य प्राज्ञो भूत्वा नित्यानन्दमनुभवन्ना- स्ते । एवमात्मा कूटस्थः आकाशवदसङ्ग एव सन् अवस्थात्रयेऽपि प्रत्यकचैतन्यसाक्षिरूपेण वर्तत इति श्रुतियुक्त्यनुभवैज्ञातव्यम् । “साक्षी चेता केवलो निर्गुणश्च" इति श्रुतिः । आकाशदृष्टान्तो युक्तिः। अनुभवःक इति चेत् । पूर्वपूर्वदिनमवस्थात्रयमस्मा- भिः प्रतिदिनं स्मर्यते । स्मरणस्यानुभवपूर्वकत्वनि- यमात् । अस्माभिरवस्थात्रयसाशिवरूपमात्मलक्ष- णसुपात्तम् । तेन प्रतिदिनमवस्थात्रयमस्माभिरनुभू- नवमं वर्णकम् । (६७) यते । एवमात्मना गतानामवस्थानामागामिनां च क्रमेणानुभूयमानत्वात् अनुभवितरूपस्यात्मनो नि- त्यत्वमपि सिद्धम् । एवमवस्थात्रयसाक्षित्वम् । ननु लोके अवस्थावत एव पुरुपस्य साशित्वं दृश्यते। भवद्भिः कथमन्यस्यावस्थासाक्षित्वमुच्यत इति चेत् । शृणु । अयमवस्थावानन्तःकरणे प्रति- फलितचैतन्याभासः मिथ्याभूतः । स एव जीव इत्युच्यते । तस्य सुपुप्तावन्तःकरणलयेन विनष्टत्वा- त । स कथं सुषुप्तिसाक्षी स्यात् । तिमृणामप्यवस्था- नामेकसाक्षित्वनियमात । विम्बभूतस्यात्मन एव सुपुप्तेः साक्षित्वं वक्तव्यम् । स एव लापवेन जाग्र- स्वप्नयोरपि साक्षीति वक्तुं योग्यः । जीवस्य विकारि- त्वादपि साक्षित्वं न युज्यते । आत्मनस्तु निर्विकारि- त्वात्साक्षित्वं युज्यते। जीवः कथं विकारीति चेत् । तस्याहं सुखी, अहं दुःखीत्यादिरूपेण अन्तःकरण- त्तितादात्म्येन विकारित्वदर्शनात विकायेव । तहि जीवव्यातिरेकेणान्यः को वाआत्मा यःसाक्षी- त्युच्यते । तस्य किं लक्षणं, तस्यास्तित्वे किंप्रमाणं, तस्य ज्ञाने के उपाय इति चेत् । शृणु । निर्विकारः कूटस्थ एव साक्षी। स एवात्मा । स आकाशवत्सर्वव्या- पकः सचिदानन्दरूपः । स एवान्तःकरणेषु जीवरू- (६८) लघुवासुदेवमनने। पेण प्रविष्टः सन् संसरति । एवंरूपपारमार्थिकात्मनि वेदान्ताः सर्वेऽपि प्रमाणम् । अवस्थावानयं जीवः चिदाभासः इदानी जागति, इदानी स्वप्नं पश्यति इदानीमज्ञानमोहितः सन् सुपुप्तौ वर्तते । इदानीं सुखी, इदानी दुःखी, इदानीमुदासीन आस्ते। इत्यस्य जीवस्य अवस्थाभेदं सर्वमपि चिद्रूप इति यो जाना- ति स एवात्मा अवस्थात्रयसाक्षीति जानीहि । तस्या त्मनः स्वस्य निर्विकारत्वं कथं ज्ञायत इति चेत् । स्वमुखसौन्दर्य स्वेन ज्ञातुमशक्यमपि दर्पणप्रतिवि- म्बमुखेन यथा ज्ञातुं शक्यते तथा आत्मनो निर्विका- रत्वमपि अन्तःकरणप्रतिविम्बेन ज्ञातुं शक्यते । दर्पणं प्रतिविम्बितमुखं च बिम्बभूतमुखं यथा न जानाति, तथा अन्तःकरणं अन्तःकरणप्रतिविम्बित- जीवश्च विम्बभूतमात्मानं न जानाति । तर्हि अयमा- त्मा केन ज्ञायते । न केनापि ज्ञायते । ज्ञायमानस्य सर्वस्य दृश्यत्वात् । आत्मनो दृग्रूपत्वात्स्वयंप्रकाश एव.। आत्मा न त्वन्येन केनापि ज्ञायते । तत्कथमि- ति चेत् । दृश्यघटो द्रटारं न जानाति । स द्रष्टा च स्वात्मानं स्वयमेव जानाति । स्वयंप्रकाशत्वात् । यथा मृत एव प्रतीयमानो दशमः पुरुपः पश्चात्स्वा- त्मानं स्वयमेव जानाति । ननु वस्तु अनृतमेव ज्ञाय- नवमं वर्णकम् । (६९) ते । तथा चात्मा अनुभवस्वरूप एव नत्वन्येनानु- भाव्य इति मदुक्तार्थ स्वयमेव पुरःसरन् जानीहि । तहि प्रमाणं किमिति चेत्। प्रत्यक्षमनुमानमुपमा- नं शब्द इति चत्वारि प्रमाणानि । पुनश्चार्थापत्तिः, संभवः ऐतिचं, अनुपलब्धिरिति चत्वारि प्रमाणानि सन्ति । पश्चादुक्तानां चतुर्णा पूर्वोक्तचतुष्पैवान्तर्भाव इति सिद्धान्तः। वेदान्तिनश्चकेचित् पट्प्रमाणान्युदाह- रन्ति । तेषां लक्षणान्यतिविस्तृतानि । अस्माकं यावदावश्यकं तावन्मात्रमुच्यते । इन्द्रियेण जन्यं प्रमाणं प्रत्यक्षप्रमाणम् । धूमादिलिङ्गेन ज्ञायमा- नमनुमानम् । सादृश्येन ज्ञायमानमुपमानम् । आ- तवाक्यं शब्दः । आत्मन इन्द्रियागोचरत्वाद न तत्र प्रत्यक्षं प्रमाणम् । निरंशत्वात्तत्रात्मनि नानुमान प्रवर्तते । अद्वितीयत्वानोपमानम् । तस्मादा- त्मनि शब्दप्रमाणम् । शन्दस्याप्तोक्तत्वात् । आप्तश्च यथार्थवक्ता । ईश्वरस्य यथार्थवक्तृत्वात् । तदुक्ता श्रुतिरेव शब्दः तस्माच्छ्रतिरेवात्मनि प्रमाणम् । पूर्वोक्तसाक्षिरूपसन्यासिनं तेन दृष्टपुरुपतदवस्था- तयापारगुणदोपा यथा न स्पृशन्ति, एवमात्मानं दृश्यमानाहंकारतदवस्थातव्यापारगुणदोपा न स्पृश- न्ति । एवं यो भाग्यशाली पुरुषः साक्षिमात्रमात्मानं लघुवासुदेवमनने। अहंकारादिभिरस्पृष्टं चेतन्यमानं श्रुतिभिर्जानाति स एव जीवन्मुक्तः । तथैव श्रुतिरपि वदति । हे पुत्र तत्त्वमपि वेदान्तशास्त्रमात्मनि प्रमाणमिति विश्वस्य तदुक्तप्रकारेणावस्थात्रयसाक्षिणमात्मानं जानीहि । इति मनने नवमवर्णकं समातम् । अथ दशमवर्णकम् । इदानी दशमवर्णके पञ्चकोशव्यतिरिक्तत्वमुच्यते। अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमया इति पञ्च कोशाः। अन्नविकारशुकशोणितजन्यपडभाववि- कारसहितं अन्नेनैव वर्धमानमिदं स्थूलशरीरमन्नमय- कोशः। कर्मेन्द्रियः सह प्राणमयकोशः । ज्ञानेन्द्रियः सह मनोमयकोशः । तेरेव सह बुद्धिर्विज्ञानमयकोशः। प्रियमोदप्रमोदवृत्तिभिः सह ज्ञानमानन्दमयकोशः। इष्टवस्तुदर्शनसंतोष प्रियम् । तद्वस्तुलाभसंतोपो मोदः । तदनुभवसंतोपः प्रमोदः । एवं पञ्चकोशाः। यथा खड्ग तत्कोशः, शिवलिङ्गं संपुटः, आम्रफलं त्या, पुरुष कन्चुकः, एतान्येते यथाच्छादयन्ति एवं पञ्चकोशा अप्यात्मानमाच्छादयन्ति । अतः कोश इति संज्ञा।
दशमं वर्णकम् । (७१) ननु खगादीनां तत्कोशादीनां च सत्ता भिन्ना। पञ्चकोशानामात्मभिन्नसत्ताकत्वाभावात् कोशादि- भ्यो वैषम्यात्कथमाच्छादकत्वमिति चेत् उच्यते। आदित्यकिरणपरिणामविशेषत्वान्मेवस्यादित्यसत्तेव सत्ता । तथापि मेघः आदित्यं यथाच्छादयति । अग्निमुपजीव्यवर्तमानस्य धूमस्याप्यनेः सत्तैव सत्ता। तथापि स धूमोऽग्निमाच्छादयति । एवमात्मसत्तया सत्तावन्तोऽपि कोशा आत्मानमाच्छादयन्ति इति परमात्मनः पञ्चकोशव्यतिरिक्तत्वमुच्यते। खगादिकं तत्कोशादिकं च एकत्वेन खड्गादिरूपेण व्यवह्रिय- माणमपि तत्खगादिकं कोशादिभिन्नम् । तद्वत् पञ्च- कोशाभिन्नत्वेन व्यवह्रियमाणोऽप्यात्मा नेभ्यो व्यति- रिक्त एव । ननु आत्मनः कोशानांच एकत्वेन व्यवद्वियमाण- त्वात्परसंबन्धोऽस्तीति वक्तव्यम् । आत्मनो न केनापि संवन्धः,स निरञ्जनः इति कथमुच्यत इति चेत्। शृणु। संवन्धोऽनेकप्रकारः। तर्कसिद्धान्ते समवायः संयोग इति द्विप्रकारः । अवयवावयविनोः गुणगुणिनोः क्रियाक्रियावतोर्जातिव्ययक्तोविशेपनित्यद्रव्ययोश्च- संबंधः समवायः । आत्मनः पञ्चकोशादीनां च अवयवापयव्यादिपु अपरिगणनात् न समवायः ।
(७२) लघुवासुदेवमनने। तहि भेरीदण्डवत्संयोगोऽस्त्विति चेत् । आत्मनो द्रव्यत्वानङ्गीकारात् सोऽपिन संभवति । तहि आत्मनः कोशादीनां च का संबन्धः इति चेत् । रज्जुसर्पयोः शक्तिकारजतयोः स्थाणुपुरुपयोःआका- शवर्णयोरिव अध्याससंबन्ध एव । अयमध्यासः एक- तराध्यासः अन्योन्याध्यास इति पा चेत् । अहंकार- स्पात्मनश्च मिलित्वा एकप्रत्ययविषयत्वात् अन्यो- न्याध्यास एवं आत्मनश्चान्नमयकोशस्य च अन्योन्याभ्यासः कथमिति चेत् । उच्यते । अहं मनुष्यः, अहं देवः, अहं स्त्री. अहं पुरुषः, अहं जातः, अहं वर्ते, अहं वृद्धि गतः अहं परिणतः, अहं जीर्णः इतः परं मरिष्यामीति च, अहं बालः, अहं कुमारः, अहं युवा, अहं वृद्धः, अहं ब्राह्मणः, अहं क्षत्रियः, अहं वेश्यः, अहं शूद्रः, अहं ब्रह्मचारी, अहं गृहस्थः, अहं वानप्रस्थः, अहं संन्यासी,अहं रामः, अहं कृष्णः अहं शंकरः, अहंदीक्षितः अहं शास्त्री,अहं योद्धा अहंभोजीति च अन्नमयकोशविकारधर्मानात्म- न्यध्यस्यति । आत्मनिष्ठसच्चिदानन्दानअन्नमयकोश शरोरे मम शरीरमास्ति भाति प्रियमित्यभ्यस्यति एवमन्त्रमयकोशस्यात्मनश्च अन्योन्याध्यासः ।
दशमं वर्णकम् । (७३) अथ प्राणमयकोशस्यात्मनश्च अन्योन्याच्यासः कथमिति चेत् । अहं क्षुधायुक्तः, अहं पिपासावान, अहं बलवान्, अहं वीर्यवान्, अहं क्रियावान, अहं वक्ता, अहं गन्ता, दाता, विसर्जयिता, आनन्दयिता, मूकः, पङ्गः, विहस्तः, पण्डः इत्यादिप्राणमयकोशवि कारानेव आत्मन्यध्यस्यति । आत्मनःसच्चिदानन्दा- न्मम प्राणः अस्ति भाति प्रियमिति प्राणमयकोशे चाध्यस्यति । एवं प्राणमयकोशस्य आत्मनश्चा- न्योन्याध्यासः। अथ मनोमयकोशस्यात्मनश्च अन्योन्याध्यास 'उच्यते । अहं संकल्पवान्, अहं विकल्पवान्, शोक- वान्, मोहवान्, कामी, लोभी, स्पष्टा, द्रष्टा, रसयिता प्राता, बधिरः, अन्धःइत्यादि मनोमय कोशविकारान् आत्मन्यध्यस्यति । आत्मधर्मान सच्चिदानन्दाश्च मम मनः सम्यगस्ति भाति प्रियमिति मनोमयको- शोऽन्यस्यति । एवं मनोमयकोशस्यात्मनश्चान्यो- न्याभ्यासः। अथ विज्ञानमयकोशस्यात्मनश्च अन्योन्याभ्यास उच्यते । अहं कर्ता बुद्धिमान, ऊहापोहचतुरः, एक- सन्धिग्राही, योगान्तरगामी, रागद्वेपी, श्रोत्रियः, पण्डितः, विरक्तो, भक्तिमान, उपासकः, ज्ञानीत्यादि (७४) लघुवासुदेवमनने। विज्ञानमयकोशविकारान् आत्मन्यध्यस्यति। आत्म- लक्षणसचिदानन्दान् मम बुद्धिरस्ति भाति प्रियमिति विज्ञानमयकोशे चाध्यस्यति । एवं विज्ञानमयको- शस्यात्मनश्चान्योन्याच्यासः। अथानन्दमयकोशस्यात्मनश्चान्योन्याध्यास उच्य- ते । अहं भोक्ता सुखी, संतुष्टः, सात्विकः, राजसः, तामसः, मूढः, दुष्टः, शून्यः, मोहितः,अविवेकी, भ्रान्तः, इत्यामानन्दमयकोशविकारानात्मन्यध्यस्यति । आ- स्मनःसञ्चिदानन्दांश्च मम ज्ञानमस्ति भाति प्रियमि- ति आनन्दमयकोशेऽध्यस्यति । एवमानन्दमयकोश- स्यात्मनश्च अन्योन्याध्यासः संवन्धः ।। अयमध्यासः केनागच्छत्तीति चेत् । अयमात्मा एते पञ्चकोशाः इति सम्यग्विवेकज्ञानाभावात अविवेकेनागच्छति । तहि कोशानामात्मनन्ध विवेकः कथामिति चेदुच्यते । लोके पुत्रमित्रकलचगृहधनधा- न्यादिवत् इदं मम शरीर, अयं मम प्राणा, इदं मम मनः, इयं मम बुद्धिः इदं ममाज्ञानं इति इदं ममेति बुद्धिविषयत्वात शरीरादिरूपपञ्चकोशा आत्मान भवन्ति । किन्तु पश्चादिवत् अनात्मैवेति, पञ्चको- शाश्वात्मनःपृथक्पृथगिति युक्ति। शरीररहित आत्मे- ति प्रतिपादिकाः “अशरीरम्" इत्यादि श्रुतयश्च दशमं वर्णकम् । सन्ति। पश्चादीनां क्षयवृद्धिविकाराः तत्स्वामिनं द्रष्टार यथा न स्पृशन्ति, एवं शरीरादिपञ्चकोशविकाराः द्रष्टारमात्मानं मां कदापि न स्पृशन्तीत्यनुभवः । हे स्वामिन्, भवद्भिक्तपश्वादिदृष्टान्तस्य वाहा- त्वात् ज्ञातुं योग्यस्य दार्शन्तिकस्यान्तरत्वात् मम बुद्धिं नारोहति । किंच पञ्चकोशाः पश्चादिवत्पृथना- वभासन्ते । किंतु तप्तायःपिण्डवद् आत्मन्येकतयाव- भासन्ते । एवं दृष्टान्तदान्तिकयोबहु वैपम्यमस्ति। कथं तेपामात्मनःसकाशात्पृथक्त्वेन ज्ञातव्यमिति चेत् । शृणु । बाह्यदृष्टिनेंत्रम् । अन्तटिवुद्धिः । वाह्यदृष्टया ज्ञातुमशक्या अपि पदार्थाः अन्तर्दृष्टया ज्ञातुं शक्यन्ते । बाह्यवीणातन्त्र्याः तत्स्वराणां, तप्त- जलादनेः, पुष्पाद्गन्धस्य च पृथक्वेन स्थूलदृष्टया ज्ञातुमशक्यत्वे ऽपि सूक्ष्मश्रोत्रादिज्ञानेन्द्रियै बुद्धि- मता पुरुपेण पृथक्त्वेन इमा वीणातन्त्र्यः इमे स्वराः, इदं जलमयमग्निः, इदं पुष्पमयं गन्धः इति वीणादि- भ्यः पृथकेन स्वरादीनां ज्ञानं सुकरम् । एवमेव क्षी- रजलयोःविभजनमन्येषां दुष्करमाप हंसानां सुक- रम् । एतदुभयं यथा तथा आत्मनः सकाशात्पञ्च- कोशानां पृथकरणं स्थूलबुद्धीनां दुप्करमपि सूक्ष्म- बुद्धीनां सुकरम् ।
(७६) लघुवासुदेवमनने। हे पुत्र, सिद्धान्तवचनं शृणु । एतावत्पर्यन्तं काल- वासनायुक्तानां यः प्रपञ्चव्यवहारः तमङ्गीकृत्य पञ्च- कोशा इति तद्विवेक इत्येवमायुक्तम् । परमार्थे विचा- यंमाणे आत्मनि पञ्चकोशान सन्ति। कथमिति चेत्। यथा रज्जो सर्पः शुक्तिकायां रजतं, स्थाणो पुरुपः आकाशे नीलिमा, इत्येतेषां भ्रान्त्या प्रतीतिमात्रमेव । न स्वरूपेणावस्थानम् । कालवयेऽप्यारोपितानां तेषा सादीनां न वास्तवता । अथात्मनि पञ्चकोशा अपि आरोपिताएव न वास्तवाः । लोके यदारोपितं तदस- देव । यथा द्विचन्द्रादिकम् । तथा पञ्चकोशा अपि आत्मन्यारोपितत्वान्मिथ्याभूता एव । ननु आरोपितसादयः अधिष्ठानज्ञाने सति तत्क्ष- णमेव न प्रतीयन्ते। पञ्चकोशास्तु आत्मज्ञाने सत्यपि प्रतियन्त एव न नश्यन्ति । तेषां कथमारोपितत्वमि- तिचेत् । शृणु। लोकेप्रातिभासिकसत, व्यावहारिक- सत्, पारमार्थिकसदितिच त्रिविधं सत् । ईश्वरष्टिः जीवसृष्टिरिति द्विविधा सृष्टिः । एवं सति अध्यासरूपं शुक्तिकारजतादि सर्व जीवसृष्टिः।इदं प्रातिभासिकसत् अस्या जीवसृष्टेः अधिष्ठानभूतमाकाशादिकं सबै व्या वहारिकं सत् । तत्सर्वमीश्वरसृष्टिः। तस्या ईश्वरमृष्टे- रपि अधिष्टानभूतं यत् ब्रह्म तत्पारमार्थिकं सत् ।
दशमं वर्णकम् । तदेव नित्यम् । व्यावहारिकं सत् । व्यवहारक्षयपर्य- न्तं तिष्ठति । प्रातिभासिकं व्यावहारिकं च अध्यस्त- त्वेन समानेऽपि सत्तया न समाने । किंच व्यावहारि कमपि प्रातिभासिकवत् अधिष्ठानन्यायेन सद्यो न- श्येद्याद आत्मज्ञानिनो जीवन्मुक्ता अपि न स्युः । ज्ञानोपदेशगुरुशिष्यपरम्परा चापि न स्यात् । ज्ञानिनां व्यवहाराभावात्, अज्ञानिनां चोपदेष्टुमश- क्यत्वात् । तस्माद्यथा मृद्यध्यस्तः पृथुवुघ्नोदराका- रो घटो यावत्कुलालव्यापारक्षयं तिष्ठति । एवमात्म- न्यध्यस्ताः पञ्चकोशाः मिथ्येति ज्ञाता अपि यावत्प्रा- रब्धक्षयं दग्धपटवत् प्रतीयन्त इति जानीहि । किं बहुना, सिद्धान्तस्तु एवं मृद्यारोपिते घटनाम- रूपे बाधिते सति मृन्माचं यथा सत्यतयावशिष्यते, एवमात्मन्यारोपितेषु पञ्चकोशेषु आत्मज्ञानेन बाधि- तेपु सत्सु सच्चिदानन्दस्वरूप आत्मा एक एव सत्य- तया अवशिष्यते । एवमात्मन्यारोपितेषु पञ्चकोशेषु आत्मज्ञानेन बाधितेषु सत्सु एक एव परमात्मावशि- प्यते इति एवं यो जानाति स एवात्मा ज्ञानी, स एवं ब्रह्मज्ञानी, तस्यैव विदेहमुक्ति फलिप्यतीति सर्वा उपनिपदो धुष्यन्ति ॥ इति मनने दशमवर्णकं समाधम् ।
(७८) लघुवासुदेवमनने। अथ एकादशवर्णकम् । अथेदानीमस्मिन्नेकादशवर्णके आत्मनःसच्चिदान- न्दरूपत्वं चतुथै लक्षणमुच्यते । आत्मनः सद्रूपंकि, चिदूपं किं, आनन्दरूपंकिमिति चेत् । शृणु । कालत्र- येऽप्यवाध्यमानत्वे सति एकरूपत्वं सतो लक्षणम् । इदं लक्षणमात्मन्यस्ति । अस्य प्रमाणं किमिति चेत् । अस्य प्रपञ्चस्य सृष्टेः पूर्व "सदेवासीत्" इति, "आ- स्पन आकाशः संभूतः" इत्यादिवेदान्तशास्त्रं प्रमाण म् । तेपांमनुभवः कीदृशः इति चेत् । आढयोदरिद्रः कर्मी भक्तो मुमुक्षुरिति सर्वे जनाः एतेपामनुभव कध- मिति चेत् । अहं पूर्वजन्मनि सत्पात्रपुयत्किञ्चिदत्त- वान् तेनास्मिअन्मनि ऐश्वर्यमनुभवामि। अस्मिअन्म- न्यपि यत्किञ्चिदत्तं चेत् भाविजन्मन्यपि ऐश्वर्यमनुभ- विष्यामीत्याव्यस्यानुभवः। अहं पूर्वजन्मनि सत्पात्रे- पुकिमपि न दत्तवान, तेनास्मिञ्जन्मनि दारिद्यमनु- भवामि। अस्मिञ्जन्मनि मंया न दत्तं चेत् भाविजन्म- न्यपिदारिद्यमनुभविष्यामीति दरिद्रस्यानुभवः । पूर्व- जन्पनि सत्कर्माण्यनुष्टितानि, तद्वासनया अस्मिन्न- मनिमयासत्कर्माण्यनुष्ठोयन्ततिन भाविजन्मान स्व- में देवत्वमायास्यति इति कर्मिणोऽनुभवः। पूर्वस्मिन- न्मनि अहं भगवन्तमुपासितवान् । तद्वासनया अस्मि एकादशं वर्णकम्। (७९) नपि जन्मनि ममभगवद्भक्तिरासीत् । अनेन भाविज- न्मनि सालोक्यादिमुक्तिं वैकुण्ठादिलोकेऽनुभविष्या- मीति भक्तस्यानुभवः। पूर्वजन्मसु ईश्वरार्पणरूपेण म- या कर्माणि कृतानि । तेनास्मिञ्जन्मान साधनचतुष्टयं सदरुलाभश्रवणादिकं आत्मज्ञानं च लब्धम्। इतः परं मम जन्म नास्ति, अहं कृतकृत्य इतिमुमुक्षोरनुभवः। एवं सर्वेपां जनानां कालत्रयेऽप्यहमस्मीत्यनुभवस्य दर्शनात्, आत्मन्यध्यस्तस्य देहस्यैव नाशः,आत्मन- स्तु न कदाचिदपिनाशः इति जानीहि । तस्मादात्मनः कालत्रयेऽप्यबाध्यमानत्वे सत्येकरूपस्य विद्यमान- त्वात् आत्मनः सद्रूपत्वमस्ति। हे स्वामिन्, अनुभवेनात्मनः सद्रूपत्वमेवोक्तम्, न युक्त्येति चेत्। युक्त्या विचार्यमाणे आत्मनः सद्रूपत्वं स्यात् । तत्कथमिति चेत् । शृणु । वयमस्मिल्लोके विद्यमाना वा न वा इति विचार्यमाणे विद्यमाना एवे- ति जानीहि । तहि सर्वेषामहमिहास्मीत्यनुभवात् एवं विद्यमाना वयं शरीरिणोवा अशरीरिणो वा । शरीरि- ण एवनाशरीरिणःशरीरस्य दर्शनात् । इदं शरीरं केनागतमिति विचार्यमाणे कर्मणेति निश्चयः तत्कस्मिदीयं वान्यदीयं वेति चेताअस्मदी- यमेवेति वक्तव्यम् । अन्यकर्मणा अन्यस्य स्वर्गफलान (८०) लघुवासुदेवमनने। नुभवात्। अन्यथा अन्यकर्मणान्यः स्वर्गादिफलं प्राप्नु- यात् । ब्राम्हणेनयागे कृते शुद्रः स्वर्ग प्राप्नुयात् । पूर्व शुकत्रम्हर्पिकृतसमाधिना अस्माकं सर्वेपां विदेहमुक्तिः स्यात् । तस्मादस्मदीयकर्मणैवास्माकं शरीरमिति वक्तव्यम् । तदेतच्छरीरारंभकं कर्म अस्मिञ्जन्मनि कृतं वा पूर्व- जन्मनि कृतं वेति विचार्यमाणे पूर्वजन्मनिकृतमित्येग वक्तव्यम् । एतजन्मकृतस्य एतच्छरीरं प्रति पूर्वभा- वित्वाभावेन अकारणत्वात् । पूर्वजन्मनिकरणकाले वयं विद्यमाना वानवेति विचार्यमाणे विद्यमाना एव । अविद्यमानः कर्म कर्तुमशक्यत्वात् । तदानीमंस्माकं शरीरमस्तीति वा न वेति चेत् । अस्त्येव । शरीराभावे कर्मकर्तुमशक्यत्वात् । तच्छरीरमपि तत्पूर्वजन्मकृत्त- कर्मणा वा न वा। तत्पूर्वजन्मकृतकर्मणेवेति वक्तव्य- म् । एवं पुनःपुनर्विचार्यमाणे कर्मणश्च शरीरस्य च प्रवाहरूपेणानादित्वं सिद्धम् । तदुभयत आत्मन आ- काशस्येव साक्षादेव मुख्यमेव स्वरूपेणैवानादित्वं सिद्धम् । एवं भूतकाले वर्तमानकाले सत्त्वं सिद्धमि- ति युत्या साधितम् । इतःपरं भविष्यकालेऽपि आत्मनः सत्त्वं युक्त्या साध्यते । अस्माभिर्जन्मान्तरेषु श्रवणमनना एकादशं वर्णकम् । (८) कृत्वा कर्मण एव मुख्यबुद्धयानुष्ठितत्वादेतजन्म श- रीरं चागतम् । अस्मिन्नन्मनि क्रियमाणं कर्मापि इतः परं जन्म ददाति।तस्मिन्नपिक्रियमाणं कर्मापि ततः परं कर्म ददाति । एवं पुनः पुनर्विचार्यमाणे कर्मप्रवाहस्य शरीरप्रवाहस्य च भविष्यत्कालेऽन्तो नास्ति।तत्त्वज्ञा- नेन कर्मणि क्षीणे सति शरीरमपि नायाति।तदुभयसंव- न्ध्यात्मा तु यावद्ब्रह्मज्ञानं शरीरस्य सृष्टिप्रलयावनु- भवन्, शरीरस्य सृष्टिस्थितिसुखदुःखेच्छा अनुभवन सन्, अधः स्थावरपर्यन्तं, ऊर्ध्व ब्रह्मलोकपर्यन्तं परि- भ्रमंस्तिष्टत्येव न नश्यति । तत्त्वज्ञाने सति अविद्या- कामकादीनामपि नाशात, दुःखहेतोरभावात् स्व. स्वरूपानन्दमनुभवन्, विदेहमुक्तो सुख मेव तिष्ठति । एवं भविष्यत्कालेऽप्यात्मनः न कदाप्यसत्त्वम् । किंतु सर्वदा सत्त्वमेव युक्त्या सिद्धयति । एवं कालत्रयेऽप्यात्मनो विद्यमानत्वात् अबाधितत्वे- न परमार्थत एक एकरूपत्वात्सत्त्वं सिद्धम्।एवं श्रुतियु- त्यनुभवैरनेकप्रलयेष्वनेकप्रपञ्चेषु विनष्टेष्वपि स्व- यमनटः सन्नेव वर्तते । अतः सृष्टिस्थितिसंहाराःप्रप- चस्यैव न त्वात्मनः । एवं कालत्रयेऽप्यवाधितत्वादे- करूपत्वाच्च आत्मा सद्रूप इति जानीहि । आत्मनश्चिद्रूपत्वे प्रमाणं किमिति चेत् । शृणु।
१८२) लघुवासुदेवमनने। सूर्यादिसाधनान्तरानपेक्षं स्वयं प्रकाशमानं सत् स्वस्मिन्नारोपितसकलजडपदार्थाद्यवभासकं चिद्रूपम्। एतचिद्रपलक्षणमात्मन्यस्ति । कथमिति चेत् । आत्मा गाढान्धकारेऽपि इतरानपेक्षमेव स्वयं प्रका. शते । स्वस्मिन्नारोपित्तशरीवाल्ययौवनवार्धकावस्था अवस्थाव्यापारांश्च इतरानपेक्षं सम्यग्जानाति । अत्त आत्मानश्चिद्रूपत्वं सिद्धम् । ननु अस्माकं सर्वज्ञत्वाभावात् सर्वपदार्थावभास- कत्व कथमिति चेत् ।प्रपञ्चः आन्तरो वाह्य इति द्विविधः । एतत्प्रपञ्चद्वयमपि अस्माभिः प्रकाश्यते । न वयं तेन कदापि प्रकाश्याः । तत्कथमिति चेत् । उच्यते । बाह्यप्रपञ्चो नाम पृथिव्यप्तेजोवाय्वाकाशा इत्ति, शब्दस्पर्शरूपरसगन्धा इति, पञ्चीकृतभूतानि ब्रह्माण्ड इति, चतुर्दशभुवनानीति, चतुर्विधस्थूल शरीराणीति च विविधनामगुणकर्मविकारशक्त्या- श्रयः । एतद्राह्यप्रपञ्चं महत्तरभेदेन बहुधा विभज्य प्रमाणेवयमेव जानीमः । न त्वस्मानयं जानातीति अन्तर्मुसतया विचार्यमाणेऽस्माकं बाह्यप्रपंचावभास- कत्वं सिद्धम्। अथान्तरप्रपञ्चावभासकत्वमस्माकं कथमिति चेत। शृणु । आन्तरप्रपञ्चः अन्नमयादिजीवन्मुक्तिपर्यन्तः - एकादशं वर्णकम् । (८३) प्रकारहुधा भिन्नः। स आन्तरप्रपन्चः, अयमन्नमयः अयं प्राणमयः, अयं मनोमयः, अयं विज्ञानमयः, अय- मानन्दमयः इत्येवमेव पञ्चकोशा इति, इदं स्थूलश- रोरं, इदं सूक्ष्मशरीर, इदं कारणशरीरं एतच्छरीरत्रय मिति च, इमे पदावविकाराः, इमे पोशाः, इमे पडू- मयः, इदमान्ध्यं, इदं पटुत्वं, अयं रागः, अयं द्वेपः, इदं विविधकरणमिदमन्तःकरणम्, इयं जाग्रत, अयं स्वप्नः, इयं सुपुप्तिः, एवमवस्थात्रयमिति च, इदं ज्ञानेन्द्रियपञ्चकं, इदं कर्मेन्द्रियपञ्चक, इमे पञ्च- प्राणाः, इयं मनः, इदं बुद्धिः, इदं चित्तं,अयमहंकारः, अयं संकल्पः,अयं निश्चयः,इदमवधारणं,अयमभिमानः अयं विश्वः, अयं तैजसः, अयं प्राज्ञः, इत्येवमवस्था- वन्तः, अयं प्रातिभासिकः, अयं व्यावहारिकः, अयं पारमार्थिकः, इदं सात्त्विकं, इदं राजसं, इदं तामसं इदं सुखं, इदं दुःखं, इदं ज्ञानं, इदमज्ञानं, इदं प्रियं, इदमप्रियं, इयमुपेक्षा, इदं साधनचतुष्टयं, इदं मैन्यादि- चतुष्टयं, अयमष्टाङ्गयोगः, इदं श्रवणं, इदं मननं, इदं निदिध्यासनं, इयं समाधिरिति च, इदं प्रमाणं, इदं प्रमेयं, अयं प्रमाता, इदं तापत्रयं, अयमाधिः, अयं व्याधिः. इदमारोग्यं, इयं भक्तिः, इदं मन्द, इदं तीनं. इदं सगुणोपासनं, इदं निर्गुणोपासनं, अयं मनो- " लघुवासुदेवमनने। नाशः, अयं वासनाक्षयः, इयं विदेहमुक्तिः, इयं जी- वन्मुक्तिरित्येवमादिविविधनामरूपगुणतिकारशत्या- अयभूतान्तरमपञ्चः सवोंऽपि एवमेव पृथग्विभज्य अस्माभिर्जायते । स अन्तरप्रपञ्चस्तु अस्मान जाना- तीति सम्यग्विचार्थमाणे यत आन्तरप्रपञ्चोऽस्माभि- ज्ञायते अत आत्मनश्चिल्लक्षणसद्भावात आत्माचिद्रूपः। हे स्वामिन, आत्मा चिद्रूपः केनापि न ज्ञायत इति भवद्भिक्तं खलु । मनसा सकलं ज्ञायते । आत्मा तेनैव ज्ञायतामिति चेत् । शृणु । मन उत्प- त्तिविनाशवत् संकल्परूप परिच्छन्नं घटवद्धतकार्य कामादिविकारकलुपीकृतं स्मृतिविस्मृतिमत, एवंभूतं पुनर्जडमिति ज्ञातव्यम् । तस्य मनसः प्रकाश एवं नास्ति । तदपि मनश्चितैव ज्ञायते । तादृशं जडं मनः स्वप्रकाशकचिदात्मानं कथं जानीयात, न जानीया- दित्यहि। तहि"मनसैवानुदृष्टव्यः" इति शास्त्रस्य किं तात्पर्य- मिति चेत् । शृणु । अग्निना तप्तस्य स्वर्णस्य प्रका- शो जायत इति व्यवहारे, अग्निना स्वर्णेऽविद्यमानः प्रकाशः स्वयं न प्रकाझ्यते । किं तु अग्नितापेन मले निरस्ते सति पूर्वसिद्धस्वर्णप्रकाशः स्वयं प्रकाशते, न तु नूतनप्रकाश संपाद्यते । नूतनतया संपाद्यत एकादशं वर्णकम् । (८५) इति चेत्। पाके क्षिप्ते घटेऽपिअग्निःप्रकाशं संपादयेत्। तथा न दृश्यते । अयमों यथा तथा मनश्च आत्मा- कारेण परिणममानंआत्मप्रतिबिम्बसहितं सत् आत्मा- वरकं मिथ्याभूतमनाद्यज्ञानं बाधते । निरस्तेऽज्ञाने स्वात्मा स्वयमेव भासत इति "मनसैवानुद्रष्टव्यः" इतिशास्त्रस्य तात्पर्यम् । मनश्चात्मनैव ज्ञायते । न त्वात्मा मनसा ज्ञायते । एतद्वा कथमिति चेच्छृणु। दीपेनान्धकारविनाशस्थ- ले स्थाली च तैलं च पर्तिश्च एतत्रितयमप्यन्धकार विनाशयितुं न शक्नोति।तथापि तद्वतिसंवन्ध्यग्निर्दीप- नामधेयः सन्नग्नि बाधते । एवमेव प्रकृते स्थालीरूप- शरीरे कर्मरूपतैलेन उत्थापितवर्तिरूपमनसि अग्नि- रूपात्मारुह्यतदभेदेनावस्थितः । जोवानामपि तत्त- द्विषयावरकाज्ञानरूपान्धकारं निरस्य दीपो घटपटा- दिपदार्थानिय बाह्यान्तरपदार्थान्प्रकाशयति। तस्मात् हे पुत्र दीपप्रकाशो यथा स्वभासा यथा स्वयमेव प्रकाशः सन् स्वसंबन्धिपदार्थानपि प्रकाशयति । एवमेवान्तः करणमारुह्य स्वचैतन्येनैव प्रकाशमान आत्मापि स्वसंवन्धिपदार्थान् बाह्याभ्यन्तरांश्च प्रकाशयति । अत आत्मनाचिद्रूपत्वं सिद्धम् ।
(८६) लघुवासुदेवमनने। अथानन्दरूपत्वमुच्यते । नित्यं निरुपाधिकं निर- तिशयं यत्सुख स आनन्दः। स एवात्मनः स्वरूपम् । अत एव सकचन्दनवनितादिविपयेभ्यो जातमनित्य सोपाधिकमतिशययुक्तं यत्सुखं तदात्मस्वरूपानन्दो न भवति । तस्मात्पूर्वोक्तानन्द एवात्मनः स्वरूपम् । तत्कथमिति चेत् । सुपुप्त्यानन्दे तत्सुखलक्षणस्य विद्यमानत्वात्तमानन्दमहमेवेति जानीहि । ननु सुपुप्तौ दुःखनिवृत्तिरेव दृश्यते । भवदुक्तान- न्दो नानुभूयते । तस्मात्कथं तन सुपुप्तावानन्दलक्षण- विचार इति चेत् । शृणु । लोके सुपुप्त्योत्थितः पुरु- पा अइमेतावन्तं कालं सुखमस्वाप्समिति सुपुप्तावा- स्मनः सुखसद्भावमेव वदति । अतः सुषुप्तौ सर्वेषामपि स्वानुभवेनानन्दोऽस्ति। तहि भवदुक्तं नित्यत्वं निरुपाधिकत्व निरतिश- यत्वमिति लक्षणत्रयं सुयुत्यानन्देऽस्ति चेद्वक्तव्यमिति चेत् । शृणु । प्रथमतो निरुपाधिकतमुच्यते । स्रक्- चन्दनादिविषया उपाधयः । तैर्जायमानं सुखमौपा- धिकम् । तेपूपाधिषु सुषुप्तौ न कोऽपि दृश्यते । सुख तु सबैरप्यनुभूयते । अतः सुशुप्तौ निरुपाधिक आ- नन्दोऽस्तीत्यवगम्यताम् । तस्य निरातिशयत्वं कथ- मिति चेत् । शृणु । मनुष्यानन्दमारभ्य हिरण्यगर्भा- एकादशं वर्णकम् । (८७) नन्दपर्यन्ता एकादशानन्दाः । ते शतगुणोत्तराः । अतस्तेपामानन्दानां सातिशयत्वम् । ब्रह्मानन्दस्य सर्वोत्तरस्य निरवधिकत्वात् स्वाधिकानन्दाभावात् निरतिशयत्वम् । स ब्रह्मानन्द एव सुपुप्त्यानन्दः । अतस्तस्य निरतिशयत्वं सिद्धम् । सर्वेऽपि पुरुषाः सुपुप्तिसुखमेव सुखं, विषयजन्यं सुखं न सुखमिति स्त्रीपुत्रादिसुखं विहाय मृदुशय्यादिसाधनानि प्रयत्नेन संपाद्य सुपुप्तिसुखमेवानुभवन्ति । अनुभवसमये मोहि- नी सौन्दर्यवर्ती स्त्रियमपि प्रबोधयन्तीं प्रहरन्ति । तदानी न किमपीच्छन्ति । पुनरुत्थापिता अपि तमे- वानन्दं स्मृत्वानुभवितुं पुनः शयनं कुर्वन्ति । अत- स्तस्यसुपुप्त्यानन्दस्य निरांतशयत्वमस्तीत्यहि । नित्यत्वं कथमिति चेत् । जाग्रत्स्वप्नयोःसुखस्या- नेकरूपेणानेकैर्षिपयैः पृथगननुभूयमानत्वात् तस्यप- रिच्छिन्नत्वेनानित्यत्वमस्ति । सुपुप्तिसुखं तु एकरूपं पूर्ण, जन्यं च न भवति । अतो नित्यं चेत्, जाग्रत्त्व- प्रयोरनुभवितव्यम्, तथा नानुभूयत इति चेत् । जामत्स्वप्नयोरपि तत्सुखमस्त्येव । किं तु वृत्तिविशे- पैरावृतं सत् नानुभूयते। कारणभूतमानन्दं कार्यरूपान्तःकरणवृत्तयः कथ- मावृण्वन्तीति चेत् । आदित्यं मेघवत्, अनि धूमवत, (८८) लघुवासुदेवमनने। रज्जु सर्पवत, ब्रह्मानन्दमप्यन्तःकरणवृत्तयःकार्यभूता अध्यावृण्वन्ति । यथा अग्न्यादित्यौ भस्महिमाभ्यां बालमूटदृष्ट्यावृतत्वेन प्रतीयमाना अपि विवेकह- प्रयानावृती तथा ब्रह्मानन्दरूपसुपुत्यानन्दश्च जाय- स्वप्नयोरावृत इव बहिर्मुसानामेव भाति न विवेकि- नामन्तर्मुखानाम् । तेपां तु ब्रह्मानन्दः स्वरूपभूत- त्वात्कालत्रयेऽपि एकरूपः सन्प्रतीयते । अतो ब्रह्मान- न्दाभिन्नसुपुत्यानन्दस्यापि नित्यत्वं सिद्धम् । एवं निरुपाधिकनिरतिशयनित्यब्रह्मानन्द त्रिविध- लक्षणानामस्मास्वप्यनुभूयमानत्वादस्माकमानन्दरू- पत्वमस्तिाएवंसच्चिदानन्दलक्षणस्य अस्मासु श्रुतियु- त्यनुभवसिद्धत्वात अस्माकमात्मनः सच्चिदानंदब्रह्म त्वं सिद्धमित्यवेहि । वयं सच्चिदानन्दरूपा इत्यनुभवः कथमायातीतिचेत् । पहिधलिङ्वेदान्तशास्त्रतात्प- यविधारणरूपश्रवणं गुरुमुखात्कृत्वा श्रवणानुसारेण मननं मननानुसारेण निदिध्यासनं कृत्वा पश्चादहु- कालं स्थितवतः सचिदानन्दब्रह्मैवाहमिति ज्ञानं जायते । इदं परोक्षज्ञानम् । इदमेव परोक्षज्ञानमप्यकृत्वा अहं कर्ता, ममेदं कर्म, अहमेतज्ज्ञातिः, एतद्वर्णः एतदाश्रमः इत्यभिमानं सर्व विहाय ब्रह्मैवाहमस्मीत्यनुभवं च तत्र प्रयत्नं च तत्र एकादशं वर्णकम् । (८९) कर्तृत्वं च विहाय तूष्णीं सुषुप्ताविव जले लवणवत ब्रह्मणि विलीनान्तःकरणस्य निर्विशेपं स्थितवतोऽ स्य महात्मनो निर्विशेष यज्ज्ञानं स्वयमेव स्फुरति, स एवापरोक्षानुभवः। अयमेतादृशानुभवो यदा जायते तदा अयं पुरुषः स्वानुभवरूपः, तदानन्दरूपः । तस्यानन्दवैभवंस एव जानाति नान्यः । तथा आनन्दप्रतिपादकवेदा- न्तोऽपि न जानाति । नवक्तुमपि शक्नोति । तदानन्द- मनुभवन् स पुरुपोऽपि तमानन्दं केवलमनुभवति । सुषुप्त्यानन्दमिव नान्यस्मै वक्तुं शक्नोति । मनसापि स्मर्तुं न शक्नोति । हे पुत्र, तस्मात्तव स्वानुभूति त्वमेवानुभवितुं शक्तः। य ईश्वरस्कृपया गुरुरूपेणागत्य त्वां बोधितवान् स गुरुरूप ईश्वरोऽपि इदमित्थमिति वक्तुं न शक्नोति । हे पुत्र, त्वमेवं स्वानुभवं जाननपि अजाननिव आनन्दरूपेण तिष्ठ । इति मनन एकादशवर्णकं समाप्तम् । अथ द्वादशवर्णकम्। अस्मिन्द्वादशवर्णके आत्मनोऽखण्डाईरहस्यमपि कृपया गुरुरुपदिशति। शिष्यः हे स्वामिन्, भवद्भिरेकादशवर्णकेपूपदिष्टैरथे-
लघुवासुदेवमनने।
देहादिपञ्चकोशेषु ममाहमित्यात्मवदिलिता ।
बुद्धिप्रकाशकं सच्चिदानन्दस्वरूपं यद्ब्रह्म तदे-
याहमित्यात्मज्ञानमागतम् । सर्वे संशया नष्टा तथा-
पि पुनरेकः संशयो वर्तते । स क इति चेत् । शृणु ।
अयमात्मा सद्रूप इति, चिढूप इति, आनन्दरूप इति
चोक्तं किल । एवं विविधरूपप्रतिपादकानि वीण्यपि
पदानि त्रिविधभेदभिन्नार्थ प्रतिपादयन्ति । तथा
भिन्नार्थकानीव मम प्रतिपादयन्ति । तस्मादे-
तस्य सचिदानन्दपदनयस्य भिन्नार्थवत्मतीयमानस्य
अखण्डार्थत्वं कथं सिद्धयेत् । इति शिष्यवचः-
श्रुत्वा गुरुरुपदिशति । हे पुत्र अखण्डार्थः क
इति चेत् । देशपरिच्छेदः, कालपरिच्छेदः वस्तु
परिच्छेदः इत्तित्रिविधपरिच्छेदरहितत्तया अपरिच्छि-
नोऽर्थोऽखण्ड इति जानीहि तहि अखण्डार्थस्य एता-
नि त्रिणिलक्षणानि किमानीति चेत् । शृणु। आका-
शस्थापि व्यापकत्वेन देशपरिच्छेदरहितत्वात्तवाति-
व्याप्तिवारणाय कालपरिच्छेदः उपात्त आकाशस्यो-
त्पत्तिविनाशवत्त्वेनकालपरिच्छेदोऽस्तीति न तनाव्या
प्तिः । देशकालपरिच्छेदमात्रोपादाने काले तिव्याते:
कालस्य देशपरिच्छेदो नास्ति । कालपरिच्छेदोऽपि
नास्ति । स्वस्य स्वीयैश्च परिच्छेत्तुमशक्यत्वात् ।
द्वादशं वर्णकम् । (९१) अत उक्तं वस्तुपरिच्छेदरहित इति । कालस्यस्वभि- नवस्तुसद्भावात् वस्तुपरिच्छेदोऽस्ति आत्मान एतत्रि- विधपरिच्छेदाहित्यमस्ति । अतस्त्रीणि लक्षणान्यु- तानि । तैज्ञेयः। ननु भवद्भिक्तमखण्डार्थलक्षणमात्मनि प्रदर्श यितव्यम् । आत्मन एवाखण्डार्थत्वात् तत्रात्मनि न दृश्यते । कथमिति चेत् । उच्यते । सर्वेपामस्मिन्देशे तिष्ठामि,अस्मिन्देशेन तिष्ठामीत्यनुभवेनदेशपारच्छे- दराहित्यं नास्ति। अहमस्मिन्वजातः,इतः परं दशमे वर्षे मरिष्यामीत्यनुभवेन आत्मनःकालपरिच्छेदराहि त्यंनास्ति । नाहं ब्राम्हणः, नाहं क्षत्रियः इत्यनुभवा दात्मनो वस्तुपरिच्छेदराहित्यमपिनास्ति । भवद्भिस्त्रिविधपरिच्छेदशून्य आत्मेति कथमुक्त- मिति चेत् । शृणु। मया तव पूर्वमेकादशवर्णके आत्मानात्मलक्षणकथनावसर आत्मापरिपूर्णः, अना- स्मा परिछिन्नः दृश्यं सर्वमध्यस्तमित्युपदिष्टं खलु । तथापीदानीमात्मलक्षणं प्रति शपथं करोपि । तस्मा- त्वं शिष्यो वा प्रतिवादी वा इति संदेहः । शिष्यश्चे- स्कृपया पुनरप्यनुग्रहं कुर्मः । प्रतिवादी चेत् । क्षमया तूष्णीभविष्यामः अथ वा कोपेन शपिष्यामः। भवतः कोपो वादिनि फलिष्यति वा इति चेत् । शि- (१२) लघुवासुदेवमनने। प्ये उपदेशार्थ क्रियमाणोऽनुग्रहःफलिष्यति चेत्, वादि निग्रहोऽपि फलिष्यति।लोके निगाहानुग्रहसामर्थ्यरहि- तस्य ब्रह्मज्ञानिनश्च तत्त्वतो भेदो नास्तीति जानीहि। तहि हे स्वामिन् । सदरोः कृपापात्रभूतशिष्य एवाहम् । मम एकः संदेहो जातः। तस्मादेवं पृष्टवान् न तु तर्केणेति वदसि चेत् । शृणु । इदं । देशकालवस्तुपरिच्छेदत्रयं स्वभावतो देहस्येव । न तु पूर्णप्रत्यगात्मनः परिच्छेदत्रयमपि प्रत्यगात्मस्व- रूपपरिपूर्णब्रह्मणः देशपरिच्छेदो नास्तीति चेत्, तत्कथं ज्ञातव्यमिति चेत् । शृणु। घटः सन्, पटः सन्, कुड्यः सन्, कुसूलं सदिति च, पृथिवी सती, आपः सत्यः, तेजः सत्, वायुः सन्, आकाशं सत् इति च एवंभूतभौतिकप्रपञ्चे सद्भू- पेणानुभूयमानत्वात् आत्मनो विभुत्वम् । एवं सर्व- व्यापकस्यात्मनो देशपरिच्छेदो नास्ति । आत्मनः पूर्वोक्तप्रकारयुक्त्या अनादित्वेन नित्यत्वात् भविष्य- कालपरिच्छेदो नास्ति । एवं भूतकालभविष्य- त्कालसंबन्धस्यात्मनः एकत्वादात्मनः वर्तमानकाल- परिच्छेदो नास्ति । वस्तुपरिच्छेदराहित्यमात्मनः कथमिति चेत् । शृणु । आत्मनः सर्वात्मकत्वाद्वस्तु- परिच्छेदो नास्ति।
द्वादशं वर्णकम् । वस्तूनि कानीति चेत् । सजातीयभेदभिन्न- विजातीयभेदभिन्नस्वगतभेदभिन्नानीति वस्तूनि । तानि वा कथमिति चेत् । वृक्षस्य वृक्षान्तरात्स- जातीयभेदः।वृक्षस्य शिलादेविजातीयभेदः । वृक्षस्य पत्रपुष्पफलादेः स्वगतभेदः । अस्य त्रिविधस्यापि भेदस्य आत्मन अभावात् आत्मा भेदशून्यः। अत एव आत्मनो वस्तुपरिच्छेदो नास्तीति जानीहि । ननु आत्मनः सजातीयविजातीयस्वगतभेदा न सन्तीति वक्तुं न शक्यते । कथमिति चेत् । एकमेव चैतन्यं ब्रह्मचैतन्यं ईश्वरचैतन्यं, कूटस्थचैतन्यं, जीव- चैतन्यमिति वर्तते । अतः सजातीयभेदोऽस्ति । आत्मस्वरूपं ब्रह्मति, अनात्मस्वरूपं प्रपञ्चमिति उभयोर्वर्तमानत्वाद्विजातीयभेदोऽस्ति । ब्रह्मणः सच्चि- दानन्द इति वर्तमानत्वात्स्वगतभेदोऽस्ति । एवं भेदत्रये स्थिते आत्मनो भेदत्रयं नास्तीति कथमिति चेत् । शृणु । आकाश एक एव उपाधिभेदेन महा- काश इति, मठाकाश इति घटाकाश इति घटजल- प्रतिविम्विताकाश इति च भेदेन यथा प्रतीयते, तथा मायोपाधिना एकमेव चैतन्यं ब्रह्मेति ईश्वर इति च, अविद्योपाधिना कूटस्थ इति, जीव इति च केवलं प्रतीयते । विचार्यमाणे सजातीयभेदो नास्ति।
. (९४) लघुवासुदेवमनने। विजातीयभेदो नास्ति । कथमिति चेत् । शृणु। रज्जु विना सर्पो यथा नास्ति, आकाशं विना यथा मालिन्यं नास्ति, तथा आत्मानं विना अनात्मापि नास्ति । अधिष्ठानं विना आरोपितं सर्व मिथ्येव । मिथ्या नाम बन्ध्यापुत्रशशविपाणादिवत् कालत्रये- ऽप्यविद्यमानम् । अनात्मनः परमार्थतः अविद्यमान- त्वात् आत्मनो विजातीयभेदो नास्ति । स्वगतभेदः कथं नास्तीति चेत् । शृणु । आत्मा, साक्षी, कूटस्थः, पारमार्थिक, प्राज्ञ ब्रह्म, सत, चित् आनन्दः, नित्यः,एकः, पूर्णः इत्यादिविधिवाक्यनामा- नि च एकस्मिन्निविशेपात्मस्वरूपप्रकाशने तात्पर्य वन्ति, न तु स्वरूपभेदे । आत्मनो निर्विशेपत्त्वानिरं- शत्वाच । तस्मात्स्वगतभेदो नास्तीत्येवं जानीहि । ननु सच्चिदानन्दपदानां भिन्नार्थत्वात् हस्तकरपा- णिवत्पर्यायवाभावात् तेहि प्रतिपाद्यमानस्यात्मनः स्वगतभेदेन भवितव्यमिति चेत् । लोहितोष्णप्रका- शो दीप इत्यत्र यथा दीपस्य स्वगतभेदो नास्ति, एवं सच्चिदानन्द आत्मेत्यत्रापि स्वगतभेदो नास्ति । तार्ह पत्रपुष्पफलरूपो वृक्ष इत्यत्रापि स्वगतभेदो न स्यादिति चेत् । न । तत्र वृक्षस्य सर्वव्यापिपत्रादि- रूपत्वं नोच्यते । एकस्मिन्प्रदेशे पत्ररूपः एकस्मि- द्वादशं वर्णकम् । (९५) प्रदेशे फलरूपः इत्युच्यते । अतस्तत्र स्वगतभेदो- ऽस्तिासच्चिदानन्द रूप आत्मेत्यत्रसर्वाशेनाप्यात्मनः सच्चिदानन्दरूपत्वस्य प्रतिपाद्यमानत्वात, लोहितो- प्णप्रकाशो दीप इति सर्वांशेनापि लोहितोप्णप्रकाश- त्वेन प्रतिपाद्यमानस्य दीपस्येव स्वगतभेदो नास्ति। एवं चेत् श्रुतिः “आत्मा सद्रूपःचिद्रूपः आनन्द- रूप" इति पुनः पुनः किमर्थमुपदिशति । एकेनैवोपदे- शेन आत्मानं ज्ञातुं शक्यत्वादिति चेत्। शृणु । श्रुते- स्तात्पर्य ब्रवीमि । कथमिति चेत् । आत्मनिष्ठं सत्त्वं जगति, चित्त्वं जडेषु बुद्धयादिपु च आनन्दत्वं पुत्र- भायर्यादिषु च, जगन्निष्ठजडत्वं पुत्रभार्यादिनिष्ठदुः- खित्वं च सच्चिदानन्दे आत्मनि च परस्परं वैपरीत्येन अविद्यया आरोपितम् । अतः सर्वे जगत्सत्यं बुद्ध्या दयःचेतनाः पुत्रभार्यादयः आनन्दरूपाः, अहं नश्वरः, अहं जडः, अहं दुःखीतिच परिभ्रमन्ति । एतद्धान्ति- निवृत्तये मातृभूता श्रुतिः जीवान प्रत्युपदिशतिकथ- मिति चेत्। हे जीवाः, यूयं सच्चिदानन्दस्वरूपाः एवेति बोधनार्थं आत्मा सद्रूपो नानृतरूपाचिद्रूपो न जडसू- पः,आनन्दरूपो न दुःखरूप इति तत्तद्धान्तिनिवृत्यर्थ वोधयतीति जानीहि । श्रुतिः आत्मनः सच्चिदानन्द- रूपेण भेदं न बोधयति।
लघुवासुदेवमनने। लोके केचन वादिनः आत्मनः सत्त्वं धर्मः, चित्त्वं सुख च गुणः, अत आत्मा सच्चिदानन्दस्वरूपो न भवती- तिकथयन्ति । तनिवारणार्थमपि श्रुतिः आत्मा सच्चि- दानन्दस्वरूप इति वदतीत्यवगन्तव्यं भवद्भिः । श्रुतेस्ताप्तर्यमेवमिति कथंज्ञातव्यमिति चेत् । सर्वासा- मपि श्रुतीनां उपक्रमोपसंहारादिपविधलिङ्गैरखण्डा) तात्पर्यस्यावधारणादिति मन्तव्यम् । हे स्वामिन, एवं श्रुत्यैवाखण्डार्थः साधितः। युक्त्यापि कृपया साधनीयः। न तु स्वयमेव प्रकाशते अन्येन वा । आये सदेव चित्स्यात् । अन्येन चेत। सतःप्रकाशकं तदन्यवस्तु सद्विलक्षणं वा सदन्तरं वा। सविलक्षणते सति शशविषाणादिवदसत्त्वेन तस्य सत्प्रकाशकत्त्वं न संभवति । सदन्तरमिति पक्षे तत्स- दन्तरं स्वयं प्रकाशते वान्येन प्रकाशते वा इति विक- ल्पे, आद्यपक्षे सत एव स्वयंप्रकाशकत्वे चित्त्वं स्या- त् । अन्येन प्रकाशत इतिपक्षे पुनरपि विकल्पः पूर्व- वदायाति । एवं विकल्पे क्रियमाणे आत्माश्रयदोप अन्योन्याश्रयदोपः चक्रकाश्रयदोपः अनवस्थादोपः इति बहवो दोपा आपतेरन् । तस्मात्सत् स्वत एवं प्रकाशते । सतः स्वयंप्रकाशत्वे सदेव चित् । चिदेव सत् । उभयमप्येकमेवा सदन्तरमस्तीतिवेदेषु कुत्रापि द्वादशं वर्णकम् । (९७) न दृश्यते । अतः सत् स्वयमेव प्रकाशते इति निश्चयः । अतः सदेव चिदिति सिद्धम् । तस्य स्वयंप्रकाशमानस्य सतः आनन्दत्वं कथमिति चेदुच्यते । सत अद्वैतत्त्वादानन्दत्वम् । आनन्दः पूर्ण एवं तिष्ठति । नाल्पे पूर्णत्वम् । अतोऽद्वैतस्यैव न दैतस्य । कथं सत् अद्वैतमिति चेत् । हे पुत्र सतः सद्वितीयत्वं सदन्तरेण वा सद्विलक्षणेन वा वद । नायः। सदन्तरस्य शास्त्रेण युक्त्यनुभवेन च असि- छत्वात् । न द्वितीयः । सद्विलक्षणस्य शशविपाणव- स्वरूपाभावेन तेन सद्वितीयस्य वक्तुमशक्यत्वात् । तस्माद्रिकल्पद्वयादन्योन्यविकल्पो नास्ति । अत एकस्य सतो द्वितीयाभावादद्वैतत्वं सिद्धम् । तेन पूर्ण- त्वं सिद्धम् । तेन स्वप्रकाशः सदेव आनन्दः। एवं युक्त्यापि सच्चिदानन्दपदानामखण्डार्थत्वं साध्यते । अखण्डार्थत्वमेकादशवर्णकेऽप्युक्तम् । तथापि पुनरुच्यते दाार्थम् । शृणु । सर्वेषां सुपु- सावेव सुखं भातिातत्सुखं जायत्स्वानयोरिवन नाना। किंतु एकरूपं निषिम् । तस्मात्तत्सुखमद्वैतमेव । तत्यामवस्थायां सूर्याद्यालोकानपेक्ष सुयुत्यानन्दस्य प्रकाशमानत्वाच तस्य चित्त्वम्। तस्य सुषुप्त्यानन्दस्य स्वयंप्रकाशकत्वे किं प्रमाणमिति चेत् । सुपुप्तौ स्थि- ५ (९८) लघुवासुदेवमनने। तस्य एतावन्तं कालं सुखमस्वाप्समिति स्मरणमाया- ति,स्मरणस्यानुभवपूर्वकत्वनियमातासुषुप्तिसुखस्या- नुभवो वक्तव्यः । तदानीमनुभवकारणस्य इन्द्रियादे- रभावात् स्वानुभवः सुषुप्त्यानन्दस्य स्वयंप्रकाशक- त्वादेवेति जानीहि। ननु सुपुप्तावनुभवेन मुखं च प्रकाशते । अज्ञानं च प्रकाशते । तयोर्मध्ये सुखं वा अज्ञानं वा स्वप्रकाशव- स्त्विति विचार्यमाणे सुखमेव स्वयंप्रकाशमिति वक्तव्यमानाज्ञान,तस्यावरणरूपत्वेन प्रकाशाभावात्। अतः सुषुतावात्मरूपं सुखमेव स्वप्रकाशं सत् स्व- स्मिन्नारोपितमज्ञानमपि प्रकाशयति । अतस्तत्सुखं स्वप्रकाशमेव अनुभवेनापि सच्चिदानन्दपदानामख- ण्डार्थत्वं सिद्धम् । एवं श्रुतियुक्त्यनुभवैः आत्मनः स्वगतभेदो नास्तिाएवंसजातीयविजातीयस्वगतभेदानामभावाद- स्तुपरिच्छेदो नास्ति । एवं देशकालवस्तुपरिच्छेदा- भावेन आत्मा परिपूर्ण इति सिद्धम् । अनेनाखण्डैक- रसत्वं सिद्धम् । हे पुत्र, एवं परिपूर्णानन्दात्मनो दुःखमागन्तुकम् । तदुःखं शरीरेण, शरीरं कर्मणा, कर्म रागादिना, रागा- दिरभिमानेन, अभिमानोऽविवेकेन, अविवेकोऽज्ञा- .
द्वादशं वर्णकम्। (९९) नेन च आगत इति ज्ञात्वातद ज्ञान ज्ञानेन वाषितव्य- मिति,ज्ञानं च विचारेणागच्छतीति च,आत्मा सत्यज्ञा- नानन्दस्वरूप इति च, देहादिप्रपञ्चःअनृतजडदुःखरू- प इति च, सः प्रपञ्च अध्यारोप इति च एवं विचार्य- तत्त्वंपदवाक्यजन्यज्ञानेन स्वात्मनः अहं ब्रह्मास्मीति यत्परोक्षज्ञानं तदनुभवेनसाक्षात्काररूपं यदपरोक्षज्ञा नं, एतच्च यःप्राप्नोति स एव चण्डालोऽस्तु स तु द्रिजो- ऽस्तु गुरुरित्येपामनीपा मम" इति भगवत्पादाचार्य- वचनात्, कुटीचकबहूदकहंससंन्यासिभ्योऽधिकतया पूजनीयः स एव परमहंस इति निश्चित्य, त्वमपि मदुक्त- प्रकारेण आत्मानं सम्यक् श्रुत्वा मत्वा ध्यात्वा साक्षा- त्कृत्य नित्यशुद्धबुद्धमुक्तसत्यपरमानन्दाद्वयब्रह्मरूपेण तिष्ठाएवं तावदाचार्यैर्वक्तव्यम् । शिष्येण श्रोतव्यम् । इतः परं वक्तव्यं श्रोतव्यं च नास्तीति सिद्धम् ।। इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीवासुदेव- यतिविरचिते मननाख्यप्रकरणे द्वादशवर्णकं समाप्तम् ॥
ॐ श्रीगणेशाय नमः। अथ विज्ञाननौका। तपोयज्ञदानादिभिः शुद्धबुद्धि-- विरक्तो नृपादौ पदे तुच्छबुद्धया। परित्यज्य सर्व यदानोति तत्त्वं परं ब्रह्म नित्यं तदेवाहमस्मि ॥१॥ दयालु गुरुं ब्रह्मनिष्टं प्रशान्तं समाराध्य भक्त्या विचार्य स्वरूपम् । यदाप्नोति तत्त्वं निदिध्यास्य विद्वान् परं ब्रह्म नित्यं तदेवाहमस्मि ॥२॥ यदानन्दरूपं प्रकाशस्वरूपं निरस्तप्रपञ्च परिच्छेदशून्यम् । अहंब्रह्मवृत्त्येकगम्यं तुरीयं परं ब्रह्म नित्यं तदेवाहमस्मि ।।३॥ यदज्ञानतो भाति विश्वं समस्तं विनटं च सद्यो यदात्मप्रबोधे । मनोवागतीतं विशुद्धं विमुक्तं परं ब्रह्म नित्यं तदेवाहमस्मि ॥४॥ निपेधे कृते नेति नेतीति वाक्यैः विज्ञाननौका। (१०१) समाधिस्थितानां यदाभाति पूर्णम् । अवस्थात्रयातीतमद्वैतमेकं परं ब्रह्म नित्यं तदेवाहमस्मि ॥५॥ यदानन्दलेशैः समानन्दि विश्व यदाभाति सत्त्वे तदा भाति सर्वम् । यदालोचने हेयमन्यत्समस्तं परं ब्रह्म नित्यं तदेवाहमस्मि ॥६॥ अनंतं विभुं सर्वयोनि निरीहं शिवं संगहीनं यदोंकारगम्यम् । निराकारमत्युज्वलं मृत्युहीनं परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ७॥ यदानन्दसिन्धौ निमग्नःपुमान्स्या- दविद्याविलासः समस्तप्रपञ्चः। तदा न स्फुरत्यद्भुतं यनिमित्तं परं ब्रह्म नित्यं तदेवाहमस्मि ॥८॥ स्वरूपानुसंधानरूपां स्तुति यः पठेदादराद्भक्तिभावो मनुष्यः । शृणोतीह वा नित्यमुधुक्तचित्तो भवद्विष्णुरत्रैव वेदप्रमाणात् ॥९॥ इति श्रीमच्छङ्कराचार्य विरचिता विज्ञाननौका समाप्ता।
॥ श्रीः॥
वासुदेवमननस्य
शुद्धिपत्रम्।
"
पृष्ठे. पती. अशुद्धम्
शुद्धम्
६ ब्रह्मचारी ब्रह्मचारी
प्रपंञ्च
সংধনু
१७ ३ दुःखमान्तीति दुःखमस्तीति
१८ २० बानेतेभ्यः त्वानेभ्यः
२१
१ वक्षद्दलतादि वद्धृक्षलतादि
मनानात्म
मननात्म
२३
३ मन्यात्राव मन्यत्राव
४ गमनस्यतीरस्थ
गमनस्य तीरस्थ
यथा “सौम्यकेन "यथासौम्यैकेन
३३ १८ वृत्तीर्वजयित्वा वृत्तीर्वजयित्वा
२ स्मादैच्छिक तस्मादैच्छिक
८ इत्यद्यानिमानो इत्याद्यमिमानो
"
m
पृष्ठे. पतौ. अशुद्धन
"
:
शुद्धिपत्रम् ।
शुद्धम्
मायामयस्या पि मायामयस्यापि
" अनिर्वचनीयस्यपि अनिर्वचनीयस्यापि
१७ मेवावविकः मेवाविवेकः
४२ २ ज्ञानास्याप्य ज्ञानस्याप्य
५४ १७ ज्ञानेन्द्रिययाणि ज्ञानेन्द्रियाणि
७३ १६ शोऽन्यस्याति शोऽध्यस्यति
८१ १२ सुख मेव सुखमेव
७ आत्मानश्चिदू आत्मनश्चिदू
८३ १० इयं मनः, इदं बुद्धिः, इदं मनः, इयं बुद्धिः,
॥श्रीः॥
वासुदेवमननस्य
शुद्धिपत्रम् ।
पृष्टे. पती. अशुद्धम्
शुद्धम्
१६ ६ ब्रह्मचारी
ब्रह्मचारी
प्रपंच
प्रपञ्चम्
१७ ३ दुःखमान्तीति दुःखमस्तीति
१८ २० पानेतन्यः त्वाचायः
१ वक्षद्दलतादि वक्षलतादि
मनानात्म
मननात्म
२३
३ मन्यात्राव मन्यत्राव
४ गमनस्पतीरस्थ
गमनस्य तीरस्थ
यथा “सौम्यकेन "यथासौम्यकेन
३३ १८ वृत्तीर्वजयित्वा वृत्तीवर्जयित्वा
२ स्मादैच्छिक तस्मादैच्छिक
८ इत्यवाभिमानो इत्याद्यभिमानो
1
०
४
३
३१
विकय्य पुस्तकोंकी संक्षिप्त सूची।
9-1
...
२-०
...
...
नाम.
कि रु.
शारीरक (शांकरभाष्य )रत्नप्रभाटीका
व्यासाधिकरणमाला और भक्तिसूत्र
सभाप्य बड़ा अक्षर
१०-
ब्रह्मसूत्र (शारीरक) भाषाटीका
वेदांतसार संस्कृतमूल और संस्कृतटीका
तथा भापाटीकासहित
पंचदशीसटीक
पंचदशी पं० मिहिरचंद्रकृत अत्युत्तम भाषाटीका
सहित
पंचदशी भापा-आत्मस्वरूपजीकृत
गीता चिदनानंदस्वामिकृत गूढार्थदीपिका
मूल अन्वय पदच्छेदके सहित भापाटीका ७-०
गीता आनंदगिरिकृतभापाटीका
श्रीमद्भगवद्गीता सान्वयत्रजभाषा दोहासहित १-४
पुस्तकोंके मिलनेका ठिकाना-
खेमराज श्रीकृष्णदास,
पोवेङ्कटेश्वर" यन्त्रालयाध्यक्ष-(मुम्बई. )
...
...