Sri Raama Srinivasa
Archaavaatara Vaibhavam
Front matter
No text on this page.
ARCHÂVATARA VAIBHAVAM
Prize Essay at the Ninth Conference of the
Sri Vaishnava Siddhanta Sabha
BY
PANDIT, R. V. KRISHNAMACHARYA,
*Abhinava Bhaita Bana Sabda Tarkalankara Vidya Bhushana'
Government Gollege, Kumbakonam
PUBLISHED BY
Rao Bahadur, T. NAMBERUMAL CHETTY, M L. C.
MADRAS,
Printed at the
SRI KRISHNA VILASA PRESS,
KUMBA KONAM.
1921.
Annas 8.
No text on this page.
१ श्र.
* अवतार वैभवम् ।। *
करल नहपाल श्रीनानविक्रमकविराज श्री सामूनिरि-
महाराजाम्थान महृदयसमागम सभा संमानिन
• अभिनय नाम रावतलंशार विद्याभूषण"
बिरुदभाजा
कुरणस्थ राजकीयाङ्गलकलासाला संस्कृताध्यापकन
वात्स्यचक्रवलिना गयंपे? कृष्णमाचायग
विरचितं
इभिगभारत श्रीवैष्णवसिद्धान्तसभा नवमसंमेलन सामाजिक
पण्डिन. परीक्ष्य सपारितोपिकम् उत्तमन्बेन संभावितं
मदनगरस्थेन
ता. नम्पेरुमाळ श्रेष्टिना
कुम्भघोणस्थ
श्रीकृष्णविलास मुद्रालये
मुद्र पयित्वा प्रकाशितम् ।
मूल्टाम् ]
१९२१.
No text on this page.
।। श्रीः ।। RANE - इदं बल्ब खिलानामप्यनुभवपुनरुक्तम् यदुन एकतः क- लिना अन्यतश्च कौतस्कुतैः कलुपिते जगनि , आस्तिकानां श्रद्धापू- नमपि मागनं हेनुवादेन किमपि किमपि विषयम्यतीनि । सति चैवं स्वयमेव हैतुकानाननात्मज्ञानां सर्वतोऽपि युक्तिवादाः समुन्मिष- नीति नैतद्विस्मयाय लोकतन्त्रज्ञानाम ।। नाहयानां च हेतुवादानां निरासः प्रतिवादाश्च आस्तिकैरा- बीवनीया इत्यतिमहानयं भारल्लष्वायतते । आन्तिक्यगन्धस्या- पविषये च हेतुरादरतानां सदाम श्रद्धाधनानां समाज इव केवलं प्रमाण वचनमात्रोपन्यास न कनप्यथ फलति . प्रत्युन परीहासाय च भवति । ते खलु पुनः प्रभृति निखिलानामपि ग्रन्थानामवतार- कालं हेतुभिरभ्यूह्य , नव नत्र प्रामाण्यमनथाभावं च निर्गीय प्रायेण अप्रत्ययबहुला एव भवन्ति ।। तन्त्र च प्रत्यवस्थातुक्षामैरास्तिकैरपि तत्प्रहतयैव पदव्या मंचरमाणैर्भाव्यमिति , तदान मेव नेषां शिमि अवामुखानि भविष्यन्तीत्यत्र च न स्तोकोऽपि संशयो विवकिनाम !! , . एवमाशयानैरेव सुदूरमस्माभिस्तदीयायां पद्धती प्रास्थीयत उपाक्रम्यत च बलवदेव संरब्धुम् ।।
परिमितायुषा हि प्रायेण वयं संग्रहकरुचयो भवामः
शाये समासव्यासवारणमिच्छन्तोऽपि स्युरिति विश्वसन्तः , कनः
दिदलसानां मन्दमतीनामुपकरिष्यतीनि माशंसा एव वयं द्वितीय
परिच्छेदे किंचिदिव विस्तरमकार्म ।
अनेन च कैकर्येण साराधनविश्रान्तिभूमिभगवान् श्रिय
पतिः प्रसीदतु ।।
परमैकान्तिपदपङ्कजणुः
रायं पेट्टै. कृष्णदासः .
No text on this page.
No text on this page.
भूमि का - तुम किल अलपूर्वमहनराः आः लोकानाम ऐहिकामु- :मक यात्रिन्दकानि बहूनि शास्त्राणि आकलय्य अस्माकं चक्षुः उन्नमा । बतियन कालेन त्वानुभव प्रमाणीकुर्वन्तः । त्रिक नुनिक मध्ये झणनगु दुःख संमिश्रम गहिकन अपेक्ष्य अश्वतम् अदुःख मिश्रम आमुमिकमेव श्रेयः सर्वोत्कृष्टम इति उद्धोपनामासुः- 'आरोग्यमिन्द्रियोबण्यमैश्वर्य शत्रुशालिता। वियोगी बान्धवैरायुः कि नयेनात्र तुष्यति ।। इति । कतिं च मन्वना पारायण- आलोड्य नवशायामि विचार्य च पुनः पुनः । इदमक मुनिप्पन्नं ध्येयो नारायणः सदा ॥ इनि । ताशं च श्रेयः पर्वेश्वरस्य भगवतः समागधनं विना न शक्यते प्राप्नुमिनि मर्वर में शारीरकशास्त्रतत्त्वम् । स च परमपुरुषः परव्यूहविभवहार्दाचा. नि पञ्चात्मना अवतिष्टत इनि या पत्रात्मः इगादिश्रुतय" नदुपबृंहणरूपाः स्मृतयश्च वसंवादरहितं प्रतिपादयन्ति । तेषु पञ्चे रूपेषु मध्ये पञ्चसम अचारूपमव पण्डितपानरसाधारण्येन सर्वेषां हृदयंगम , . .
..
आहिर्बुध्न्यशौनकादयः महर्पयः तदेव अचारूपम् बहुधा प्रहांमार
एवंविधा इयम् अर्चा न केवलं आमुष्मिकं किं तु पहिकमपि -
आराधकजनाभीप्सितं प्रयच्छति इति श्रीपाञ्चरात्राद्यागमपु प्रति
द्यते । दृश्यन्ते च इदानीमपि तक तल देवालयेषु राजराष्ट्रसम्,
मुद्दिश्यैव क्रियमाणाः उत्मवाः पूजाविधयश्च । किं च मुरा भर
खण्डमिदम् अलंकृतवन्तः पुण्यशीलाः गजानः राष्ट्रममृतम् ।।
इयैव बहून देवालयान् प्रतिष्ठापयामासुः इति शृणुमः ।।
एवं सर्वविधातिशययुक्तं लव-भलभं सर्वाभीप्सितमाधान
अर्चागधनम् इदानीन्तनाः केचन रण्टिनभन्याः आक्षिपन्ति :
नितरां दूयते मे हृदयम । अस्मिन विषये प्रतिपक्षिभिः उद्भावित
गाशेपार समाधादुग अबसरं प्रतीक्षमाणे मयि , देवाट दक्षिण
शीयश्रीवैष्णवसिद्धान्तसभायाः नवमं संमेलनं पूर्वस्मिन वक
संनिहितम् आसीत् । तदानीं सभाकार्यदर्शिनः अस्मिन् -
विदुषां गैर्वाणीलेखचातुरी परीक्षितुं काचन मं
लभावना परिक
नीयेति माम् अवबोधयामासुः । तदा ' हाराधनप्रामाण्यप्रतिप
नपुरस्सरम् अचीवतारवैभवम् अप
त्य लिखितेषु लेखेपुर
उत्कृष्टत्वेन निर्णीतस्य संभावना
दातुम् अभ्युपागमम् ।।
अथ समागतेषु
( लेखेप वाक्यरचनया विषयां
शीलनया च उत्कृष्टत्वे
सभया निर्णीतम् इमं लेखं आन
साहवानपि अहं किञ्चिहरमेव अनुवाचायनु
सक
No text on this page.
No text on this page.
अवसरम अवयम् । प्रन्यन्य अन्य गेलीपाकविषयविवेकादयः परिमिनहाननपि माम आझादयन्ति । अख च फयिनः उन्मवोणम्य गजकीचकन्दामाला तस्कृताध्यापकः विहान श्री- कुमनाच'यः ग्रन्थस्य थनननये सुबहन ग्रन्थान परिगीलिन- वानिति विज्ञायते । तत्रापि प्रतिवादिभिः उद्भावितान आक्षेपान ममाधातुं चतु:बपि वेडेपु मम जमानि प्रमाणानि उपलभ्य प्रदर्श- बामानेति इदं नितरां हर्पन्धानम् । किञ्च विग्रहाराधनस्थ अा- चीनचं खण्डयितुं प्रवृत्ताऽय ग्रन्थका श्रुतिस्मृतीतिहासपुराणादि प्रन्याना पौर्वापर्यनिर्णयविपये सुबहु परिश्रान्तवानिति अमायम् आशयं प्रकाशयामि। ग्रन्थोऽयम् आस्तिकानां सुबहु उपकरिष्यतीति . संमुद्राप्यास्य प्रकाशनम् अत्यावश्यकमिति बहुभिः आस्तिकमहाशयः अवबोधितो- ऽहं ग्रन्थस्यास्य मुद्रापणे प्रवृत्तोऽभवम् ।। ग्रन्थमिमा अनुवाच्य ग्रन्थकर्तुः श्रीवैष्णवसिद्धान्तसभायाः . मम च प्रवृत्तिः चरितार्थोंकर्तव्यति सर्वान सहृदयान साञ्जलि- बन्धं समभ्यधये ।। इति विदुषामनुचरः ता. नम्पेरुमाळ श्रेष्टी.
No text on this page.
FOREWORD. The Great Rishis, for the benefit of mankind, Cure and hereaftar ha a tra-cubed several Sastras whereby they have opened our eyes to the wealth - f literature there is concerning their welfare. From. ages of recorded esperience, they hase come to the conclusion toat of the twohere and hereafter, the lite hereafter is a blessed one and far superior to the lire here, which is full of pain and misery. This trata they have promulgated in unmistakable terns. The great Vyasa demonstrated the utter unstable nature of the life here, in the following couplet : आरोग्यमिद्रियौल्बण्यं ऐश्वर्य शत्रशालिता। बिपोगो बान्धतैरायुः किन्तयेनात्र तुप्यति ॥ इति । He came to the conclusion that the simplest way of attaining beatitude is meditation of Narayanawhich he has conveyd to us in the following stanza: ओलोड्य सर्वशात्रालि विचार्य च पुनः पुनः । इदमेकं सुनिष्पन्नं ध्येयो नारायणस्सदा ॥ इति । To attain this eternal happiness, Vedanta Sutras enjoin that the worship of Sree Bhagavan is essential and that by such worship alone the object is attainable.
2 the great It is stated that there are five forms of worshipping Him, viz: Para, Vyuha, Vibhava, Harda and Archa. The authority for this is found in Taittiriya in which Bhagavan is stated to exist as 4991 TIHT" and also in various Srutis, Smritis Itihasas and Puranas in uncontroversial terms Further, great Rishis of whom Ahir buthnya and Sounaka stand fore-most, declare that amongst the five forms of worship mentioned above, Archa form the last is the simplest, easiesta and the most certain way of securing the goal. Being so simple, it is within the reach of Pandits and Pamaras, the high and the low, the rich and the poor. The Rishis also aver that Archa worship, besides giving them happiness eternal, also gives the Archa worshippers the realisation of their earthly desires. To verify this statement one may refer to Agamas like Pancharathra. These works are full of instances illustrating that for the benefit of mankind, and for the well-being of the king, temples have been established, daily worship prescribed, and feasts provided for on special.occasions. Sthala Puranas relate stories of ancient rulers establishing temples and constructing tanks for the well-being of themselves and their subjects. It is very regrettable that modern thinkers, in confidence of their wisdom, denounce Archa worship.
When so much has been said of its greatness, its simplicity, and its efficacy, in the various ancient works above mentioned, I began to think how such objections could be met and the erroneous impressions corrected. When the ninth Conference of Pandits orgainsed by Sree Vaishnava Siddhanta Sabha took place last year, I learnt from the Secretaries of the Conference that Pandits attending the Conference and submitting essays in Sanskrit would be awarded prizes I took advantage of this and offered one prize to the best essay on Archavathara Vaibhava. And the essay now before you has been selected as the best. Though I have been anxious to study it carefully, I have for want of time, been able to go through only some portions of it: and with the limited knowledge I possess, I am able to say that the style and diction adopted by the writer are simple and charming The author Sreeman Krishnamachariar is the Head Sanskrit Pandit of the Government College, Kumbakonam. It is evident from the essay that he has consulted numerous ancient works. Anticipating all possible objections, he meets them with authorities from the four Vedas, He then takes up the question whether Archa worship is modern or ancient and quotes authorities from Sruthis, Smrithis, Ithihasas and ranas to establish it, as decidedly very ancient.
I have therefore no hesitation in saying that
the author has, in the production of this essay,
employed vast study and severe scrutiny and
displayed marked ability.
At the suggestion and encouragement of
some of my friends who sincerely believe that the
publishing of such a work will benefit the public, 1
have undertaken the publication of the essay. With
folded hands, in humble posture and in all sincerity
I offer my prayers to all Sree Vaislınavas and beg
them to read this essay That would be a suffi.
cient recompense to the author, the Sabha, and
my humble self.
It will be ungrateful on my part if I do not
acknowledge in writing the services rendered in this
matter by Sreeman Pandit Anantha Chariar
The
idea was his, and all credit is due to him foi
having successfully carried it He has
written the preface in Sanskrit for me. I have
attempted its translation in English and, if the
result is poor, I crave the indulgence of the
readers for all the faults in my attempt.
T. Namberumal Chetty.
॥ श्रीः ।। ॥ अर्चा व ता र वैभव म् ।। . मौलभ्यमधिकं यस्यां पश्यन्ति कृतबुद्धयः । सैषा पञ्चात्मनो जीयादर्चा भगवतो हरेः ।। शिष्टाचारचिरानुवृत्तिमहितं चित्तानुरक्तिप्रद श्रौतस्मार्तबहुप्रमाणघटितप्रामाण्यबन्धोज्ज्वलम् । अाराधनमाक्षिपन्ति निजधीदोषेण ये पापिन- स्तानेतांस्तृणवल्लघून्विधुनुमो दूरे कलेः किंकरान ।। इह खलु अनादिकर्मवासनानुगुणबुद्धिप्रवृत्तिभेदविचित्र - स्मिन्संसार न किल तन्नाम न संभाव्यते-यदश्रुतचरमास्तिकैः अदृष्टपूर्वमार्यचरितैः , वस्तुतोऽतत्त्वमपि तत्त्वमिव प्रतिभासमानं नवं नव किमपि किमपि सर्वतः समुन्मीलतीति । इदमपि तावदी- दृशमेव-यदुत श्रुतिस्मृतिसदाचारादिप्रमाणप्रसिद्धमपि भगवद्- ाराधनम् आस्तिकामासैः श्रद्धाकञ्चुकिभिर्नास्तिकैरर्धमुग्धैरन्य- प्रत्ययनेयमतिभिराधुनिकैरनेकैरपयते । इमाः पुनस्तेषां वाचोयुक्तयः-"प्रतिमापूजनं तावदवैदि- कम् , वेदकालादर्वाचीनं च । न खलु वेदेषु विग्रहाराधनमुपलभ्य- .. ।
२ ते; नापि ताहशानि वचनानि पश्यामः, यानि प्रतिमापूजनं व्यञ्ज- नयापि बोधयिष्यन्ति; न वा क्वचिद्देवालयः प्रस्तुतः, येन अन्यथा- नुपपत्त्या विम्बार्चनं कल्पयेम । वैदिकश्च काल इतो वर्षसहस्र- त्रयात्प्राचीनः । वेदशब्दन च वयं मन्त्रभागानेव व्यपदिशामः, न पुनर्ब्राह्मणानि । प्रमाणं चास्माकं मन्त्रात्मको वेद एव । तत्रापि ऋक्संहिता तावदविवादं प्रमाणम् । बुद्धनिर्वाणादनन्तरं च तदन्ते- वासिभिः संभूय समालोचयद्भिरिदंप्रथमतया का चन बुद्धस्य प्रतिमा पूजार्थं परिकल्पिता, समर्चिता च । तमेतमाचारमनुरुन्धा- नैरेव ब्राह्मणैरपि तद्वत्प्रतिमापूजनमुपचक्रमे । ततः पुरस्तात्तु आ- र्याणां वैदिकानां प्रतिमानिर्माणं देवायतनविरचनं च न विदित- मासीत् । बुद्धनिर्वाणसमयश्च क्रैस्तववर्षारम्भात्प्राक् सप्ताशीतिम- मधिका चतुःशती वत्सराणामिति चरित्रग्रन्थकर्तृणां विमर्शः । अतस्तदनन्तरोत्पन्ना इतिहासाः पुराणानि पराणि च निबन्धनानि नांशतोऽप्यत्र प्रमाणपदवीमधिगन्तुमर्हन्ति । अपरिच्छिन्नस्य भग- वतः प्रतिकृतिपरिच्छेदेन भावनं च न केवलं निःश्रेयसाय न भवति , अपि तर्हि चक्रवर्तिनो ग्रासकाधिपत्यकल्पनमिव नितरामु पहासास्पदमश्रेयसेऽपि भविष्यति । अरूपतया अचक्षुःश्रोत्रभावेन अपाणिपादत्वेन च श्रयमाणस्य भगवत आत्मानुमानेन नराकार- कल्पनम् , तदुपजीवनेन प्रतिमापूजनं च न धीमतां हृदयाय रो- चिष्यते । अत एवेदमप्रतिबुद्धानामेव विषयः । तथा च 'प्रतिमा- ।
३ अत्र ब्रूमः- स्वल्पबुद्धीनाम् ' इति वचनमग्निपुराणे पठ्यते । वाजसनेयसंहि- तायाम 'न तस्य प्रतिमा अस्ति' इति साक्षादेव श्रृयमाणो भग- चतः प्रतिमानिषेधोऽप्येतदखिलमपि विषयजातमासूत्रयति । इत्थं च सांप्रतमाचर्यमाणमर्चाराधनमर्वाचीनमवैदिकमप्रबुद्धाधिकारिक गड्डरिकाप्रवाहागतमिति विवेचनीयम्” इति ।। यदुच्यते- वेदेषु नास्ति प्रतिमापूजनम्य गन्ध इति कृत्वा तदिदमवैदिकमर्वाचीनं चेति , अत्र नावदिदं पृष्टो भवानाचष्टाम- अङ्ग कति वेदा भवता अधीताः ? यपु भवान्नोपलभते प्रतिमापूजाम । अनन्ता वै वेदाः" इति हि वेदानामानन्त्यमाम्नायते । अत एव खलु खिला नाम श्रुतयः प्रा- माणिकैरद्य यावदभ्युपेयन्ते । सति चैवं परिमितायुषामल्पमतीनां भवादृशामुपलम्भसरणिं नायमवतीणों विषय इत्यतावता विग्रहा- राधनस्यावैदिकत्वोपालम्भः केवलं साहसमात्रमेव । यदि नोपल- भ्यते , तर्हि उपलब्धौ यत्नः क्रियताम् । महान हि वेदानां शाखा- भेदः । 'चत्वारो वेदाः साङ्गाः सरहस्या बहुधा विभिन्नाः । एक- शतमध्वर्युशाखाः । सहस्रवा सामवेदः । एकविंशनिधा बाढ- च्यम् । नवधाथर्वणो वेदः” इति पस्पशायां पतञ्जलिः । अथ सप्रति समुपलभ्यमानेषु ऋक्संहितादिषु विग्रहाराधनविषयमनु- पलभमाना एव वयं तस्यावैदिकत्वमाचक्ष्मह इति चेत्, हन्त निखिलमप्यात्मानुमानेन निध्यायद्भिः स्वयं नष्टैरेव परानपि ना- ४ , 'प्रवः , , शयितुं प्रवृत्तैः पण्डितमानिभिः कतिपयैः प्रच्छन्न स्तवैः सर्वा- त्मना विप्रलब्धोऽसि । आस्ति वा वैदिकं प्रमाणं तत्र ? इति जि. ज्ञासया सुहृद्भावेन पृच्छाम इति चेत् , अवहितमनाः शृणु- न्वयैव निर्विवादप्रमाणत्वेन निश्चितायाम ऋक्संहितायाम् पान्तमन्धसो धिया यते महे शूराय विष्णवे चार्चत । या सानुनि पर्वतानामदाभ्या महस्तस्थतुरर्वतेव साधुना” इति ऋक् पठ्यते । अस्याश्चायमर्थः- हे उपासकाः वः- युष्माकम् , अन्धसः = अन्नम् , पान्तम् = रक्षन्तम् , निवेदितान्नकटाक्षणमेवात्र रक्ष- णम , (अर्चावतारम् ) धिया = स्वसंकल्पेन , आयते = आगत्य प्राप्नुवते , “ बिम्बाकृत्यात्मना बिम्बे समागत्यावतिष्ठते” इत्युक्त- गत्या तत्र अवतिष्ठमानायेत्यर्थः । महे = महते , शूराय = नि- रतिशयशौर्ययुक्ताय , विष्णवे = सर्वव्यापकाय नारायणाय , नारा- यणं प्रसादयितुमित्यर्थः, प्रार्चत च = तुलसीपुष्पादिकं तस्य पा- दारविन्दयुगले सभक्ति न्यस्यत च । चकारेण स्तुतिवन्दनादीनि गृह्यन्ते । पान्तम् = रक्षते, अन्धसः = अन्ननिमित्तमिति कश्चित् । धियायते = 'ये यथा मां प्रपद्यन्ते-' इत्युक्तरीत्या ध्यातुरभि- मतं रूपं परिगृह्य उपतिष्ठमानायेत्यर्थ इति केचित् । धियायते - ध्यायमानायेत्यर्थ इति कश्चित् । श्रीसुन्दरराजभट्टाचार्यस्तु- 'अ- न्धसः = अज्ञानात् , वः = युष्मान , प्रपान्तम् = प्रकर्षेण रक्ष- 1. ऋक्साहता-1-155-1 .. . . , न्तम , धियायते = धीवदाचरन्तमित्यर्थः । विभक्तिव्यत्ययश्छा- न्दसः । महेशूराय = महाशूरम् , विष्णवे = विष्णुम् , अर्चत च, चकारात् ध्यानस्तुतिवन्दनादीनि समुच्चीयन्ते ।" इति व्याख्यत् । अत्र चार्चनशब्देन तुलसीदलाद्युपहार एव विवक्षितः , न पुनः कक्ला स्तुतिः । अर्चनं हि स्तुतेविभिद्यते । एतेन ' अर्चत प्रार्च- न–' इति श्रुतौ अर्चतिः स्तुतिवाचीति नेयं विग्रहाराधनं गम- यितुं शक्नोतीति वदन्तोऽपि प्रत्युक्ताः । अदाभ्या = परैरनभिभा- व्या, महः = महती, या = विष्णुरूपा देवता, साधुना = समी- चीनेन , वेगवतेत्यर्थः , अर्वता इव = अश्वेनेव , पर्वतानां मानुनि = पर्वतानां समुच्छ्रितप्रदेशे , तस्थतुः = तस्थौ । अभिमतप्रदेश- प्रापणसमर्थेन अश्वेन यथा अत्युच्छ्रितं प्रदेशमारोहति , तद्वत् उच्चं पदमारूढेति भावः । अत्र वचनादिव्यत्ययश्छान्दसः । यद्यपी- यम् ऋक् सायणाचार्येणान्यथैव व्याख्यायते, तथापि शौनकेन मह- र्षिणा अस्य मन्त्रस्य विष्ण्वाराधने विनियोगकथनात् एवमेव व्याख्या साधीयसी , अथवा एतदनुसारीणि व्याख्यान्तराणि । तथा च शौनकः- " शौनकोऽहं प्रवक्ष्यामि नित्यं विष्ण्वचनं परम् । प्र वः पान्तमन्धसोधि इत्यर्धर्चविधानतः" इति । मन्त्र- तात्पर्य हि मन्त्रद्रष्टार ऋषय एव जानन्ति । अवेव सूक्ते- प्रविष्णवे शूषमेतु मन्म गिरिक्षिते उरुगायाय वृष्णे” इति , 1. ऋक्संहिता-1-155-2.
w - ५४ 'प्र तद्विष्णुः स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः" इति च ऋचौ बिम्बाराधनमेव कटाक्षयतः । ." "अरायि काणे विकट गिरिं गच्छ सदान्वे । शिरिविठस्य सत्त्वभिस्तेभिष्ट्वा चा- तयामास” इति श्रूयमाणो मन्त्रः श्रीमन्त श्रीवेङ्कटाद्रोश्वर स्तोतीति महतां विमर्शः । इदमत्र तत्त्वम अस्मत्पूर्वमहत्तराः किल भगवन्तमादितस्तावत् महत्सु शैलप्रदेशष्वेव प्रतिष्ठापयामासुः । अत एव सांप्रतमपि प्रसिद्धानि देवायतनानि दक्षिणत उत्तरतश्च शलाग्रष्वेव समुपलभ्यन्ते । आतश्च बिम्बाराधनगोचरेषु मन्त्रेषु बहुषु प्रायेण पवतगिर्यादीनि पदानि सलक्ष्यन्ते । “गिरिपृष्टे तु सा तस्मिन् स्थिता स्वसितलोचना । विभ्राजमाना शुशुभे प्रतिमेव हिरण्मयो” इति भारतपद्यमपि एनमर्थमासूत्रयति । इत्थं च देवालयप्रस्तावो वदेषु नास्तोत्युक्तिरपि प्रत्युक्ता । वस्तुतस्तु सवों प्यय विचारो यक्षानुरूपबालन्यायेन पूर्वपक्ष्यभिमतं वेदपौरुषेयत्व- मङ्गीकृत्य प्रवर्तत इात न मात्रयाप्यत्र विमनायितव्यमास्तिकैरायः ।। किंच पाश्चात्त्यविद्यासंस्कृतेष्वपि बहवो विग्रहाराधनं वैदि- कमिति निश्चिन्वन्ति; कतिपये तु संशेरते; न खलु माक्समुल्लर. मेन्डानलादिवत्सर्वेऽप्यैककण्ठ्येन प्रतिमापूजनं प्रतिषेधन्ति । तथा 1, मंहितः-1-155-4 ---10-155-1 1-787-27 Kumbakonam Edition २. 3 , - , हि-बालन्सनो नाम कश्चन विमर्शकः, देवतानाम 'दिवो नराः इति व्यपदेश इति विलिख्य , सप्त होत्राणि मनसा वृणाना इन्वन्तो विश्वं प्रतियन्नृतेन । नृपेशसो विदथेषु प्रजाता अभीम यज्ञं विचरन्त पूर्वीः” इति ऋक्संहितामन्त्रमपि प्रमाणतया प्रद- श्य , मूर्तिपूजां वैदिकी मनुते । "नृपेशमः = नररूपाः , विग्रह- वत्यो यज्ञद्वाराभिमानिदेवताः" इति भाप्यकारः । 'ता यज्ञयु प्र शंसतेन्द्राग्नी शुम्भता नरः । ता गायत्रेपु गायन" इति ऋचम , शुम्भता = नानाविधैरलङ्कारैः शोभितौ कुरुत" इति तद्भावं च विमृशन्विमर्शनिपुणो वेङ्कटेश्वरार्यो विग्रहाराधनं वैदिकमिति विलिखति । मानियर विल्यंस महाशयः स्वकीये 'भारतमतवि- चारनाम्नि ग्रन्थे : 'बिभ्रदापि हिरण्ययं वरुणो वस्त निर्णिजम परिस्पशो निषेदिरे” इति मन्त्रं विग्रहाराधनपरं संशेते। "हिर- ण्ययम् = सुवर्णमयम् , द्रापिम् = कवचम् , विभ्रत् = धारयन . वरुणः , निर्णिजम् = पुष्टं स्वशरीरम् , वस्त = आच्छादयति " , 1. ऋक्संहिता -3 - 4 - 5 * Journal of the Germ - orient Soc. XXII 597 F.f. 2. ऋक्संहिता-1-11-2, 3 Journal of Rayal Asiatic Society 1917 Religeous Thought and Life in India P. 1 5. ऋक्संहिता--!- 25 - 13 बभ्रुः शुक्रेमिः . इति तत्र सायणः। 'स्थिरेभिरङ्गैः पुरुरूप उग्रो पिापेशे हिरण्यैः” इति मन्त्रस्य भाष्यकृता कृतम् ।' स्थिरेभिः - स्थिरैः ढैः , अङ्गैः = अवयवैः , (युक्तः) पुरुरूपः = अष्टमूर्त्या- त्मकैबहुभी रूपैरुपेतः ,.. शुक्रेभिः = दीप्तैः, हिरण्यैः = हिर- ण्मयः हितरमणीयैर्वा अलङ्कारः , पिपिशे = दीप्यते" इति विव- रणमनुमोदमान इव स एव महाशयः स्वकीये तस्मिन्नेव ग्रन्थ मूर्तिपूजनस्य वैदिकत्वं संदिहान इव विलिखति । अन्योऽपि कश्चि- द्विमर्शकः इदा रुद्राय तवसे कपर्दिने- " इति, " 'दिवा वराहमरुषं कपर्दिनम् -" इति , “ “त्रियम्बकं यजामहे --'. इति च मन्त्रान विग्रहाराधनसूचकान पश्यति । अपरोऽपि कश्चन विमर्शकः : 'अर्हन् बिभर्षि सायकानि धन्वाहन्निष्कं यजतं विश्व- रूपम् । अर्हन्निदं दयसे विश्वमा वं न वा ओजीयो रुद्र त्वदस्ति" इति ऋचं विग्रहपूजासाधिकामालोचयति । " हे रुद्र , त्वम् , अ- ईन् = योग्य एव सन , सायकानि = शरान , धन्व= धनुश्च , विभर्पि = धारयसि । तथा, अर्हन्नेव , यजतम् = यजनीयं पूजनी- यम् , विश्वरूपम् = बहुविधरूपयुक्तम् , निष्कम् = हारम् , बि- 1. ऋक्संहिता--2-88-9. . , 2. -1-114 -1 3 -- -1-114-5. --7-59-12 ---2-38-10. " on? " ९ . नवा " भर्षि , तथा , अर्हन्नेव , इदम् , विश्वम् = सर्वम् , अभ्वम् = म- हन्नामैतत् अतिविस्तृतं जगत् , दयसे = रक्षसि । हे रुद्र, त्वत् = त्वत्तोऽन्यत् किंचित् , ओजीयः = ओजस्वितरं बलवत्तरम् , अस्ति = न खलु विद्यते" इति तत्र भाष्यकारः ।। अपि च ' 'अदो यद्दारु प्लवते सिन्धोः पारे अपौरुषम् । तदारभस्व दुर्हणो तेन गच्छ परस्तरम् । इति काचन श्रूयते ऋक् । ." अदः = विप्रकृष्टदेशे वर्तमानम् , अपौरुषम् = निर्मात्रा पुरुषेण रहितम् , यत् दारु = दारुमयं पुरुषोत्तमाख्यं देवताशरी- सिन्धोः पारे = समुद्रतीरे, प्लवते = जलस्योपरि वर्तते" इति सायणस्य प्राथमिकं व्याख्यानम् । इदं च विग्रहाराधने देवा- यतने च सुदृढं प्रमाणं भवतीति , मन्ये , नूनमपरिणतप्रज्ञोऽपि ज्ञास्यति ॥ अथात्र स्यात्- पुरुषोत्तमक्षेत्रं हि बहोश्चिरादर्वाचीनेन केनापि नरपतिना विरचितमिति शिलाशासनेन विज्ञायते । तत्क- थमयं विषयः संहिताधिरूढिमहतीति । न स्यात्-- यावता शिलाशासनं तदुल्लिखित इत्यूह्यमानः समयश्च बहुत्र विसंवदति । सन्ति चात्र सुबहूनि निदर्शनानि । विस्तरभयेन च प्रकृतानुपयोगिनि तत्र विरम्यतेऽस्माभिः । स चात्र ऋक्संहिता-10-155-8. २ १० . नैसर्गिकः प्रसरन्केन वारितः प्रमादः , येन वयमत्र प्रत्ययमाबनी- मः । अति हि नाम पुरातनमेव तद्देवायतनं शिलाशासनप्रकाशि- तेन राज्ञा जीर्णमुद्धृतं स्यात् , अथ वा नवनवभागयोजनेन विस्तृत भवेदिति संभावनायां न वयं बलवन्तमुपरोधमुत्पश्यामः ।। ऋक्संहितायां च अष्टमे मण्डले--: 'सुदेवो असि वरुण यस्य ते सप्त सिन्धवः । अनुक्षरन्ति काकुदं सूर्म्य सुषिरामिव ॥" इति मन्त्र आम्नायते । इदं च वचनं व्याकरणानुकूल्येन व्याचक्षा- णो भगवान् पतञ्जलिः “तद्यथा - शोभनामूर्मि सुषिरामग्निरन्तः प्रविश्य दहति" इति व्याख्यत् । “ यथा सच्छिद्रां लोहमयी प्र- तिमां प्रविश्याग्निः प्रकाशते तथेति दृष्टान्तः । अग्निर्हि तत्रत्यं मलं भस्मीकृत्य प्रतिमां शुद्धां करोति तथा विभक्तयोऽपि शारीरं पाप- मपाकुर्वन्तीति भावः । सूर्मी स्थूणायःप्रतिमेत्यमरः । स्मर्यते च सूर्मी ज्वलन्तीमालिङ्गेन्मृत्यवे गुरुतल्पगः' इति ” इति भाष्यमुक्त- पूर्व व्याचक्षते । इयं च ऋक् प्रतिमायाः सत्तां वैदिकेऽपि काले प्रदर्शयन्ती बिम्वाराधनेऽपि प्रमाणीभवितुं पर्याप्नोतीति विमर्शकाः केचिद्विश्वसन्ति । एवम् कासीत्प्रमा प्रतिमा किं निदानमाज्यं किमासीत्परिधिः क आसीत् । छन्दः किमासीत्प्रउगं किमुक्थं यदेवा देवमयजन्त विश्वे” इति दशममण्डलान्तर्गता ऋगप्यत्र प्रमाणामिति केचित् ॥ . 1. ऋक्संहिता--8-69-12. 2 ऋक्संहिता 10-11-3.
११ : , - यजुषि च-- " 'प्र तद्विष्णुः स्तवते वीर्याय मृगो न भीमः कुचरो गिरिष्ठाः'' इति श्रुतिरत्र प्रमाणं भवितुमर्हति । यजुर्वेदे- "यतो वीरः । कर्मण्यः सुदो युक्तग्रावा जा- यते देवकामः' इति , 'पिशङ्गरूपः सुभरो वयोधाः श्रुष्टी वीरो जायते देवकामः' इति , पारमार्थिकोपनिषदि रायां पतवे रयिमादधाले रायो बृहन्तं रयिमत्सु पुष्टाम् । राराजिमन्तं रतये यजन्तु तं बिम्बवन्तं ककुदाय भद्रे' इत्यादिश्रुत्या भगवतः शिला- दिविग्रहरूपत्वम् , तस्यैवाराधनयोग्यत्वं च प्रतिपाद्यते” इति ल- क्ष्मीविशिष्टाद्वैतभाष्यकारः । " यतो वीर इति । यतः= जगद्रक्ष- णार्थम् , वीरः = विष्णुः 'विष्णोर्नु के वीर्याणि प्रवोचम्' इति श्रुत्या विष्णोर्वीर्यवत्ताप्रतिपादनात् , कर्मण्यः = पाद्याद्युपचारैराराध- नाहः, :, सुदक्षः = सुतरां भक्ताभीष्टदानसमर्थः , देवकामः = क्रीडाकामः , युक्तग्रावा = शैलप्रतिमारूपी , जायते । ग्रावग्रहणं स्वर्णादीनामप्युपलक्षणम् । पिशङ्गरूपः = स्वर्णवर्णः , सुभरः = सुखेन भर्तुं शक्यः, वयसा गरुडेन धीयत इति वयोधाः, श्रुष्टी 'श्रुष्टी च बलवान् बली' इति वैजयन्ती। रायां धनानां पतने त्रायत इति पतत्रे , रयिम् = धनम् , रयिमत्सु = धनवत्सु , पु- ष्टाम् = वर्धिताम् , आदधात्रे = करें , ककुदाय = श्रेष्टाय , भद्रे . 1. शाखा -2-4-24 2. तैत्तिरीयसंहिता-- 3 - 1 -- 36.
१२ धनात, - = भद्राय, छान्दसं रूपम् । इदं हविरिति शेषः । रायः = बृहन्तम् = जगत्सु पूर्णम् , राराजिमन्तम् = धनसमूहवन्तम् , रतये = जगद्विनोदाय पूजाग्रहणरतये , बिम्बवन्तम = प्रतिमा- स्वरूपिणम् , तं देवम् , यजन्तु = पूजयन्तु" इति तद्वयाख्याता॥ किंच, "भवा मित्रो न शेव्यो घृतासुतिः विभूतद्युम्न एवया उ स प्रथः । अधा ते विष्णो विदुषा चिदृध्यः स्तोमो यज्ञस्य राध्यो हविष्मतः ।। यः पूर्व्याय वेधसे नवीयसे सुमजानये विष्णवे ददाशति । यो जातमस्य महतो महि ब्रवान् सेदुः श्रवोभियुज्यं चिदभ्यसत् ।। तमु स्तोतारः पूयं यथा विद ऋतस्य गर्भ हविषा पिपर्तन । आस्य जानन्तो नाम चिद्विवक्तन बृहत्ते विष्णो सुमतिं भजामहे ॥ इति तैत्तिरीयब्राह्मणस्थास्तिस्रोऽपि ऋचः प्रतिमापूजने प्र- माणमिति स्मृतिरत्नाकरकारः । अत्र सायणभाष्यं प्रदर्शनीयमपि विस्तरभयान्न प्रदर्श्यते ॥
१३ - , सामवेदीये चाद्भुतब्राह्मणे- “स परं दिवमन्वावर्तते । अथ यदास्यायुक्तानि प्रवर्तन्ते देवतायतनानि कम्पन्ते देवतप्रतिमा रुदन्ति नृत्यन्ति स्फुटन्ति स्विद्यन्ति उन्मीलन्ति निमीलन्ति इत्येवं देवायतनानि दैवतप्रतिमाः, तासां चेष्टाश्च वर्ण्यन्ते । एवं स्फुटमेव ब्राह्मणे कण्ठोक्तौ सत्यां को ह्यनुन्मत्तः सचेतनः प्रतिमा- पूजनस्य अवैदिकत्वमाचक्षीत ? ।। अवाह-ननु चोक्तं ब्राह्मणभागस्य वेदत्वं न वयं मृष्याम इति । सत्यम् आह भवान् । इदं तु पृच्छामः-किमियमिष्टिर्भ- वतः , उत प्रमाणानुरोधः ? आये तु कल्पे नास्माकं प्रतिवचन- भारः । परस्मिंश्च पक्षे “मन्वब्राह्मणयोर्वेदनामधेयम्” इति सूत्र- यन् आपस्तम्बः , मन्त्रमात्रेष्टप्रवृत्तिकेषु " मन्त्रे सोमाश्वेन्द्रियवि- श्वदेव्यस्य मतौ” इत्यादिषु सूत्रेषु मन्त्रपदं ब्राह्मणमात्रेष्टप्रवृत्ति- केषु " द्वितीया ब्राह्मणे" इत्यादिकेषु सूत्रेषु ब्राह्मणपदम् उभयेष्ट- प्रवृत्तिकेषु " तृतीया च होश्छन्दसि” इत्यादिकेषु सूत्रेषु वेदपर्याय छन्दःपदं च प्रयुञ्जानो भगवान्पाणिनिश्च नूनं प्रत्यवस्थास्येते एतेन ब्राह्मणभागस्य प्रामाण्यमपलपन्तोऽपि परास्ताः । "वेदोऽ खिलो धर्ममूलम् -" इति , "धर्मज्ञसमयः प्रमाणम् , वेदाश्च" इति च मनुरापस्तम्बश्च धर्मप्रमाणं परिगणयतः ॥ अथर्वणि च तृतीयकाण्डे द्वितीयानुवाके पञ्चमसूक्ते " सं- वत्सरस्य प्रतिमां यां त्वा रात्र्युपास्महे । सा न आयुष्मती प्रजा :
१४ , - - रायस्पोषेण संसृज" इति तृतीया ऋक् पठ्यते । “राज्ञो रात्री आरात्रिकविधाने ' यां देवाः प्रतिनन्दन्ति' इत्येषा रात्रिदेवतावाहने विनियुक्ता । 'संवत्सरस्य प्रतिमाम् ' इत्येषा च पिष्टमय्या रात्रे- रुपवेशने विनियुक्ता । तदुक्तं परिशिष्टे अथातः पिष्टराच्याः कल्पं व्याख्यास्यामः इति प्रक्रम्य 'यां देवाः प्रतिनन्दन्ति' इति रात्रिमावाहयेत् । 'संवत्सरस्य प्रतिमान्' इति पिष्टमयीं प्र- तिकृति कृत्वा उद्ङ्मुखीमुपवेशयेत्” इति तत्र भाष्यकारः साय- णः । इमे च ऋचौ यजुष्यपि किंचिद्भेदेन श्रूयते ।। * इदमत्र बोध्यम् - " वेदेष्वयमथर्वा पश्चात्तनोऽपि इतो वत्सरसहस्रत्रयात्प्राचीन एव । अयं च वेदस्तादात्विकस्य लोकस्य विशिष्य प्राकृतजनस्य स्वरूपस्वभावाचारादिकं सुविशदं प्रदर्शयति। विषयविचारणायां गृह्यसूत्रावतारस्यायमेव वेदो मार्गप्रदर्शक इत्यु- क्तिर्न खल्वसांप्रतम्” इति वीबरमाक्समुल्लरमेग्डानलप्रभृतयो वि- मर्शकाः पाश्चात्त्यपण्डिता एव विलिखन्ति । तादृशे चास्मिन् अ- थर्ववेदे देवताप्रतिमाया आवाहनोपवेशनादिकं कण्ठत एवाभिहित- मिति जितं विग्रहाराधनस्य वैदिकत्वमभिधानैरास्तिकैः । प्रतिमा- द्रव्यं च पिष्टं वा भवतु मृच्छिलादिकं वत्यन्यदेतदिति । इतोऽपि श्रुत्यन्तराणि अर्चावतारवैभवनिरूपणावसरे प्रदर्शयिष्यामः ॥ “ यां जनाः प्रतिनन्दन्ति-" इति मन्त्रप्रश्ने । “संवत्सरस्य... रात्र्युपासते--” इति संहितायाम्--5-7-1.
१५ "यज्ञेन वाचः यदपि-वेदस्य काल इतः संवत्सरसहस्रत्रयात्प्राचीन इति वेदानां पौरुषेयत्वमादिमत्त्वं च कल्पयन्ति ; तदपि कर्षकप्रा- यप्रकृतिभजनासक्तपुरातनार्यगीतत्वम् ऋचामभ्युपगम्य तदुपरि कि- मपि किमपि कल्पयतां स्वैरं सुदूरमूहमानानां केषां चन विमर्श- कंमन्यानां स्वगोष्ठीमात्रसंकेतः । वयं तु-"यो ब्रह्माणं विदधा- ति पूर्व यो वै वेदांश्च प्रहिणोति तस्मै” इति , पदवीयमायन् । तामन्वविन्दन्नृषिपु प्रविष्टाम्" इति , " अनादि- निधना ह्येषा वागुत्सृष्टा स्वयंभुवा । आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः” इति , “ युगान्तेऽन्तहितान्वेदान्सतिहासान्मह- षयः । लेभिरे तपसा पूर्वमनुज्ञाताः स्वयंभुवा” इति , “अग्निवायु- रविभ्यस्तु त्रयं ब्रह्म सनातनम् । दुदोह यज्ञसिद्ध्यर्थमृग्यजुःसा- मलक्षणम्” इति च वह्वीः श्रुतिस्मृतीः पराणि च प्रमाणान्यनेका- नि जैमिनिसूत्राणि च परिशीलयन्तः, अनादिनिधनाविच्छिन्नसंप्र- दायागतस्य वेदस्य अपौरुषेयत्वम् अकालकाल्यत्वं च प्रतिपा- द्यामहे ॥ यदप्यभिहितमायुष्मता- 'बुद्धनिर्वाणादनन्तरं बौद्धैः प- रिकल्पितां प्रतिमापूजामवलोकमानैरायरप्यत्र पादः प्रसारित इति : अत्र सुदूरं पराक्रमितुमस्माभिर्दृढमयमावद्धः परिकरः । इदं ता- वद्भवानादितश्चोदनीयः-- बुद्धनिर्वाणादनन्तरं समवेतानां वुद्ध- शिष्याणां बुद्धप्रतिमानिर्माणतत्पूजनादिमतिः कथं नाम समुत्पन्ने- . ति ; किमिदं प्रतिमापूजनमाचार्य एव तान्स्वयमुपदिदेश ? आहो- स्वित् तैरेव शिल्पशास्त्रात्प्रतिमानिर्माणादिकमधिजग्मे ? न खलु बुद्धमतानुसारिषु ग्रन्थेषु बुद्धः स्वप्रतिमापूजामुपादिशदिति समुट्ट- ङ्कितं पश्यामः । शिल्पशास्त्रं तु सुदूरमर्वाचीनमिति भवत्सयूथ्या उद्देष्यन्तीति न द्वितीयः पक्षोऽपि भवतस्त्राणाय कल्पिष्यते यदि तपोबलं शरणीक्रियते , तर्हि सर्वात्मना भग्नो भवतो मनो- रथः ; यतस्तत्र वैदिका एव बौद्धानतिशेरते । यहच्छापदान्तरितां नियतिं प्रमाणयाम इति चेत्समुत्तिष्ठसे , तर्हि का नाम सा नि- यतिः ; या वैदिकानार्यानेकान्ततः परिहाय बौद्धानां परं पक्षे प- तिष्यति , येन प्रतिमाराधनस्य बौद्धोपज्ञता वैदिकानां तदनुसारि- ना च संपत्स्यते । “ब्रह्मचर्यमहिंसां चापरिग्रहं च सत्यं च यत्नेन रक्षेत्" इति श्रुत एव अहिंसादिको धर्मः शाक्यस्मृत्युक्तत्वपुरस्का- रेण समाचर्यमाणः स्वयमधर्म एव भविष्यतीति शिष्टाकोपाधिक- रणे निर्णीय " शाक्योक्ताहिंसनं धमों न वा धर्मः श्रुतत्वतः । न धर्मों नहि पूतं स्याद्गोक्षीरं श्वदृतौ धृतम्” इति शाक्यधर्माज्जुगु- प्समानानार्यानेव बौद्धोपज्ञप्रतिमापूजनात्मकनव्याचारानुसारिणः संगिरमाणो भवाननपत्रपमाणोऽपि , समाकर्णयतो यत्सत्यमस्मान वेपयति ॥ ननु चार्यानप्याक्रामन्ती प्रतिबन्दी कथंकारं समाधास्यते ? इदमत्र समाधानम्-आर्याः किल सततपरिकलितश्रुतिपरिचया- स्तत्र तत्र प्रतिपादितानि देवतानां रूपाणि भावयन्तस्तथैव प्रतिमाः प्रतिपेदिरे , प्रतिपद्य च पूजयामासुरिति ।। स्यादेतदेवम् , यदि देवतानां परमार्थतो विग्रहः स्यात् । न खलु तत्र प्रमाणमुपलभामहे । 'वज्रहस्तः पुरन्दरः' इत्यादि- का मन्त्रार्थवादास्तु अनुष्ठेयार्थस्मृतिस्तुत्यर्थतामात्रेण विश्राम्यन्तो न पुनरतात्पर्यविषयं देवतानां विग्रहवत्त्वं कल्पयितुं प्रभविष्यन्ति । अयं चार्थों वेदार्थमीमांसाप्रवृत्तेन जैमिनिनैव समर्थित इति कथं नाम भवदुक्तिरुक्तपूर्वा संगच्छताम् ? आः केनापि कबन्धमीमांस- केन वञ्चितो भवान् । वैयासिकं तावत्प्रतिपद्यतां देवताधिकरणम् , येन वेदतात्पर्य स्फुटावभासं भविष्यति । ततश्च , मन्ये , न खलु भवान् देवतानां विग्रहवत्त्वं संशयिष्यते । जैमिनिस्तु भगवान्न मात्रयाप्यत्रापराध्नोति । सूत्रं व्याकुर्वाणाः कवन्धमीमांसकाः पर- मन्धे तमसि निपेतुः । “न खलु घटस्यायमपराधः , यदन्ध एनं न पश्चति" इति हि न्यायविदः । तथा च आर्याणामतिचिरप्रवृ- त्तमाचारमवलोक्य बौद्धा अप्यात्मना परिजगृहुरिमं संप्रदायमित्य- कामेनाप्यगत्या स्वीकर्तव्यं भवति भवता । बहवः खल्वार्यवैदिक- धर्मा बुद्धमतेनाप्यनुमृता इति ननु भवद्गोष्ठीमहिष्ठा एव विलिख- न्ति । दृश्यतां * दत्तमहाशयस्य प्राचीनभारताभिधनिबन्धन तृती- यो भागः॥ R. C. Dutt's Ancient India Part 3. , ३ इतः परं बुद्धनिर्वाणसमयात्प्रागेव विग्रहाराधनस्यास्तिता चरित्रप्रणालिकया साधयितुं संरभामहे । यद्यपि विग्रहाराधनस्य वैदिकत्वसमर्थनेनैव बौद्धोपक्रमत्ववादो गर्भस्रावेणैव गलितः , अ- थापि द्विद्धन्यायेन मन्दमतीनां प्ररोचनायै अस्माकमयमारम्भः । तत्र पतञ्जलिं पाणिनिं च प्रथमतः परामृशामः । “इवे प्रतिकू- तौ" इत्यधिकारे " जीविकार्थे चापण्ये” इति सूत्रयामास भगवा- पाणिनिः। अस्य चार्थ एवं वृत्तिकृताभिहितः -"जीविकार्थ यदपण्यं तस्मिन्नभिधेये कनो लुव् भवति । विक्रीयते यत् तत् प- ण्यम् । वासुदेवः शिवः स्कन्दः विष्णुः आदित्यः । देवलकादीनां जीविकार्था देवप्रतिकृतय उच्यन्ते” इति । " याः प्रतिमाः परि- गृह्य गृहाद्गृहं भिक्षमाणा अटन्ति , ता एवमुच्यन्ते । ता हि जी- विकार्थी भवन्ति । देवलका अपि त एव भिक्षवोऽभिप्रेताः । या- स्त्वायतनेष्वभ्युदयनिःश्रेयसार्थ प्रतिष्ठाप्यन्ते पूज्यन्ते च, तासु 'अ- र्चासु पूजनार्थासु-' इति वक्ष्यमाणेन लुब्भवति" इति वृत्ति- व्याख्याता हरदत्तः । “ अपण्य इत्युच्यते । तत्रेदं न सिध्यति- शिवः स्कन्दो विशाख इति । किं कारणम् ? मौर्यैः (?) हिरण्यार्थि- भिरर्चाः प्रकल्पिताः । भवेत्तासु न स्यात् । यास्त्वेताः संप्रति पू- जार्थास्तासु भविष्यति" इत्यत्रैव सूत्रे पतञ्जलिः । अनेन हि ज्ञा- यते-पाणिनेः पतञ्जलेश्च काले प्रतिमाराधनं संप्रतिपन्नमासी- दिति । एतौ च भगवन्तौ बुद्धनिर्वाणसमयात्सुदूरं प्राचीनाविति ऐतिहासिकानां विमर्शः ॥
१९ , अत्र प्रत्यवतिष्ठन्ते-व्याकरणभाष्यकारश्च पतञ्जलिश्चन्द्र- गुममौर्यपुष्यमित्रयवनान स्मरति । ततश्चायं क्रैस्तववर्षारम्भात्प्राक् द्वितीये वर्षशतक एव स्यादिति हि पाश्चात्त्यानां वहूनां विमर्शका- नां निष्कर्षः । अत एव ते तृतीये ताशे वत्सरशतक पाणिनेः सत्ता संभावयन्ति । सति चैवं पाणिनिः पतञ्जलिश्च बुद्धनिर्वाण- नमयात्प्राक् स्थितावित्युक्तिः कथं नामोपपद्यते ? नैतदेवम् । एते किल पतञ्जलेः कालनिर्णये न हेतवः , परं हेत्वाभासा इति वि- मर्शकाग्रेसरो भाष्याचार्यों नाम पण्डितवर्यः स्वकीये * पतञ्जलि- कालनिर्णयाभिधे ग्रन्थे सुष्टु निरूपयामास, खण्डयामास च प्रमाणे- रुपपत्तिाभिश्च पाश्चात्त्यपण्डितप्रकटितानि कारणानि । स च पण्डि- त:, पतञ्जलेवैदिकयाज्ञिकसंप्रदायपक्षपातितां प्रतिमुहुः पराम- "निर्वाणोऽवाते” इति सूत्रे बौद्धाहतं निर्वाणपदं प्रकृत्य कर्तव्येऽपि बहुशः कोलाहले तत्र भाष्यकृतो मूकीभावमालोचयन् , " अजेय॑घनपोः” इति सूत्रभाष्यस्थेन वैयाकरणसूतसंवादेन प- तञ्जलिसमये संस्कृतभाषाया व्यावहारिकतामनुमिन्वन् , ' सकल- श्रोतृजनज्ञापनानुरोधेन शिष्यप्रार्थनया च बुद्धः स्वोपदेशावसरे पा- लीभाषां परिजग्राह' इति बौद्धग्रन्थपरामर्शेन बुद्धसमये संस्कृतेत- रस्याः पालीभाषाया एव लोके व्यावहारिकतामुत्पश्यन , अस्याश्च भाषापरिवृत्तेः सुदूरविप्रकृष्टमन्तरमपेक्षणीयं स्यादिति च भावयन् , शन्, Age of Patanjali %B भगवतः पतञ्जले: क्रिस्तुजननात्पूर्व दशमे नवमे वा वर्षशतके स्थिति परिच्छिनत्ति । पाणिनिकालविषये च भवज्जातीयकानामेव नाद्यावधि वादकोलाहलो विश्रान्तः । इत एकान्तरिते वर्षे 'इण्डि- यन् आण्टिक्केरि' इति प्रसिद्धायां पत्रिकायां कोऽपि विमर्शकः पाणिनेः क्रैस्तववर्षारम्भात्प्राक् अष्टमे सप्तमे वा शरच्छतके सत्ता विलिलेखेति तत एवावधार्यतामायुष्मता । अथोच्येत --- बहुभिर- न्यथा निर्णीते विषये कथमेकस्य द्वयोर्वा वचनं स्थास्यतीति ; अहो महान् पक्षपातः । " एकोऽन्धो दर्शने असमर्थः , तत्समुदायश्च शतमप्यसमर्थम् । एकश्चक्षुष्मान् दर्शने समर्थः , तत्समुदायश्च शतमपि समर्थम्” इति पतञ्जलेः सुभाषितं विमृशतु भवान् , यं हि भवान् पदग्रहणेन वलात्पश्चादाकर्षति । इत्थं च विग्रहाराधन- संप्रदायस्य चिरंतनात् पाणिनेरपि प्राचीनतां प्रतिपद्यमाना वयं क- थमिव तस्य बौद्धोपज्ञतां क्षणमपि सहेमहि ॥ किंच, शाकटायनो नाम कश्चन प्राचीनो वैयाकरण आ- सीत् , यं किल " नाम च धातुजमाह निरुक्ते व्याकरणे शकटस्य च तोकम्” इति पतञ्जलिः, “लङः शाकटायनस्यैव" इति पाणिनिः, “तत्र नामान्याख्यातजानीति शाकटायनो नैरुक्तसम- यश्च" इति यास्कश्च स्मरति । यास्कस्य पाणिनश्च दूरविप्र- कृष्टमन्तरमिति , ततश्च यास्कः क्रैस्तववर्षतः प्राक् पञ्चमादब्दश- तकान्नार्वाचीनः इति च पाश्चात्त्यविद्वद्रोष्ठीप्रवादः । तेन च .
यास्कादपि पुराततेन शाकटायनेन "तुल्ये कः मंज्ञाप्रतिकृत्योः इति स्वकीये शब्दानुशासने सूत्रितम । "प्रतिकृतिः काष्टादिमयं प्रतिच्छन्दकम् । अश्वस्य तुल्यः अश्वकः । कस्यचित्लंजेयम् । अश्व- स्य तुल्यम् अश्वकं रूपम् । अश्विका प्रतिमा । एवं हस्तिकं देवक- मित्यादि” इति तत्र वृत्तिकारः । ततश्च प्राचीनतमान् शाकटायना- त्पूर्वमेव भारते विग्रहाराधनमासीदिति सिध्यति । अयं च शाक- टायनो जैन इति महाश्रमणसंघाधिपतिरिति च चिन्तामणिटीकायां यक्षवर्माचार्यों विलिखति । वैदिकानामिव आहतानामपि बहोश्चि- रात्पूर्वमुपक्रान्तो बिम्बार्चनसंप्रदायोऽद्यावधि समाचर्यमाणः संल- क्ष्यते । बुद्धमतस्य शाखाभेदोऽयं जैनसंप्रदाय इति प्राचीनः प्र- वादस्त्वतीतकाल इति , मूलशिथिल इति , तनमिति, जैनमतस्थापको महावीरश्चिराय प्राचीन इति च चरित्र- निपुणो 'दत्तमहाशयः सहेतुकं सिद्धान्तयति ॥ अपि च, यांस्कनिरुक्तं तावत् क्रिस्तुजननात्प्राचीने पञ्चमे वर्षशतके कृतं स्यादिति पाश्चात्त्यपण्डिता विलिखन्ति । तथा च यास्कस्य समयो बुद्धनिर्वाणसमयस्य प्रत्यासन्नतरः पूर्व इत्युक्तं भ- वति । निरुक्ते च सप्तमे अध्याये षष्ठे खण्ड 'अथाकारचिन्तनं देवतानाम्" इत्यादिमानि सूत्राणि यास्कसमयेऽपि विग्रहाराधनस्थ जैनमतं बुद्धमतात्पुरा- 1. R. C. Dutt's Ancient India Part 3.
. मत्तामनुमापयितुं प्रभवन्ति । अयं चार्थो विमर्शकेन गोपीनाथम- हाशयेन स्वकीये निवन्धे निरूपितः ।। * अन्यच्च , ब्राह्मणग्रन्थानां कालः क्रिस्तुवर्षात्पूर्वम् अष्टमम- ब्दशतकमारभ्य पञ्चमवर्षशतकावधिरिति , सूत्रप्रस्थानस्य च स- मयः पञ्चमं शतकमारभ्य द्वितीयशतकावसान इति, महाकाव्यानां कालश्च पञ्चमशतकात्प्रभृति प्रथमशतकार्धान्त इति च पाश्चात्त्या- नां विमर्शकानां सिद्धान्तः । षड्विंशब्राह्मणे च विद्यमानो दैवत- प्रतिमारोदनादिवृत्तान्तः पूर्वमेव प्रदर्शितः । आश्वलायनगृह्यपरि- शिष्टेऽपि " स सर्वा दिशोऽन्वावर्तते । अथ यदास्यायुक्तानि या- नानि प्रवर्तन्ते । देवतायतनानि कम्पन्ति देवताप्रतिमा हसन्ति गायन्ति इत्यारभ्य किंचिदेव भेदेन षड्विंशब्राह्मणवाक्यान्ये व दृश्यन्ते । तत्रैव ग्रन्थे प्रतिमाद्रव्यप्रतिष्ठादिकमपि निरूप्यते । तथा च ब्राह्मणग्रन्थावतारात्पुरस्तादेव समनुष्ठीयमानस्य विग्रहारा- धनस्य बौद्धोपक्रमता न लेशेनाप्युपपद्यते ।। अपरं च , भगवान् पाणिनिः "पाराशर्यशिलालिभ्यां भि- क्षुनटसूत्रयोः” इति सूत्रयन् , स्वसमयात्पूर्व किमपि नटसूत्रमा- सीदिति ज्ञापयति । तच्च नटसूत्रं संप्रति समुपलभ्यमानं भरतना- ट्यशास्त्रमेवेति बहूनामाशयः । यतः, अलंकारप्रस्थाने बहुभिर्बहु- Elements of Hindu Icnegraphy of T. A, Gopinatha Rao, M. A Vol. 1 P. 5 - * था व्याख्यायमानं भरतसूवमिति व्यपदिश्यमानं च “ विभावानु- भावव्यभिचारिसंयोगाद्रसनिष्पत्तिः" इति सूत्रमत्रैव दृश्यते । भ- रतं प्रमाणयद्भिश्च व्याख्यातृप्रभृतिभिरेतदन्तर्गतान्येव वचनानि तत्र तत्रोद्धियमाणानि पश्यामः । “ मुनिना भरतेन यः प्रयोगो भवतीष्वष्टरसाश्रयो नियुक्तः” इति कालिदामोक्तरीत्या रसानाम- एविधत्वमेवात निरूप्यते । एवं च पाणिनेः प्राचीनस्य भरतस्य नाट्यशास्त्रे तृतीयाध्याये रङ्गनिर्माणदेवताप्रतिष्ठावलिकर्मादिविधिः पठ्यमानः प्रतिमापूजनस्य चिरस्य प्राचीनतामवगमयिष्यति । म- हामहोपाध्यायः श्रीमान् हरप्रसादशास्त्रिमहाशयन्तु , संप्रति समु- पलभ्यमानं नाट्यशास्त्रं न प्राचीनभरतमुनेः कृतिर्भवितुमर्हति । परमिदं भरतसूत्रतः संगृहीतं विस्तारितं वा स्यादिति मन्यमानः सांप्रतिकस्य नाट्यशास्त्रस्य क्रैस्तप्राचीनद्वितीयशताब्दीसमुद्भूतत्वं विलिखति ' । एवमपि प्राचीनभरतसूत्रेष्वपि प्रतिमास्थापनपूजना- दिविवीनां सत्त्वावश्यंभावभनुमिन्वतां सिद्धं नः समीहितम् ।। किंच, चाणक्यविरचिने अर्थशास्त्रे धर्मस्थीये - देववृषा वा अनिर्दशाहा वा धेनुरुक्षाणो गोवृषाश्चादण्डाः” इत्यन्त्ये- कं सूत्रम् । तत्र देववृपा नाम देवोदेशेन देवालयविसृष्टा वृषा इति ज्ञायते । “अनिर्दशाहां गां सूतां वृपान्देवपशूस्तथा । सपालान्वा . ग्राम- 1. The Journal and Proceedings of the Asiatic Society Bengal Vol No. 9 1909, P. 651-361.
. . " विपालान्वा नदण्ड्यान्मनुरत्रवीत्" इति मनुस्मृतिं व्याकुर्वन् कु- लूकभट्टः " हरिहरादिप्रतिमासंबन्धिपशून्” इति देवपशुशब्दार्थ विलिखति । चन्द्रगुप्तसचिवश्च चाणक्यः ऊरतप्राचीनचतुर्थवर्ष- शतके स्थित इति पाश्चात्त्यानामाशयः । ततोऽपि पूर्वमासीदिति तु पण्डितभाष्याचार्यस्याभिप्रायः । यदि विग्रहाराधनस्य तदुपजी- वकस्य देवतायतनस्य च बौद्धोपक्रमता वास्तविकी स्यान् , तर्हि वु- द्धनिर्वाणसमयान्नातिविप्रकृष्टान्तरस्य चाणक्यस्य काले देवाघुद्देशेन देवतायतनेषु वृपोत्सर्गानुष्टानं न खलु संभाव्येत । तथा च देवताय- तनप्रतिमापूजनादिकं बुद्धसमयादपि प्राचीनतरमिति सिध्यति ।। किच , कल्हणो राजतरङ्गिण्याम् , अशोकनाम्ना केनचिद्रा- ज्ञा कश्मीरेषु विजयेशक्षेत्रस्य पाषाणमयः प्रकारः कारित इति लि खति' । स च राजा इतो वर्षसहस्रत्रयात्प्राचीन इति तस्मादेव ग्रन्थाज्ञायते अपि च , यदा योगशास्त्रं समुत्पन्नम् , ततः पूर्वमेव नियतं विग्रहपूजानुष्ठानेन भाव्यम् । अन्यथा हि संप्रज्ञातसमाधिरेव नोप- पद्येत । स्थूलं खलु तस्य भवत्यालम्बनम् । तथा च "वितर्कबि- चारानन्दास्मितारूपानुगमात्संप्रज्ञातः” इति सूत्रे " वितर्कः चित्त- 1. “जीर्ण श्रीविजयेशस्य विनिवार्य सुधामयम् । निष्कल्मषेणाश्म- मयः प्राकारो येन कारितः ॥” (1-105) 2. तृतीयगोनन्दादतिप्राचीनोऽयम् अशोकः । तृतीयगोनन्दश्च 1919 इतिसंख्याके कलिवत्सरे आसीत् । ॥
+ स्यालम्बने स्थूल आभोगः" इति भाष्यमुपादाय , "स्वरूपसाक्षा- कारवती प्रज्ञा आभोगः । स च स्थूलविषयत्वात्स्थूलः । यथा हि प्राथमिको धानुष्कः स्थूलमेव लक्ष्यं विध्यति , अथ सूक्ष्मम् ; एवं प्राथमिको योगी स्थूलमेव पाञ्चभौतिकं चतुर्भुजादि ध्येयं साक्षा- करोति , अथ सूक्ष्मम्” इति वाचस्पतिनिश्री व्याचष्टे । योगशा- स्त्रस्य च प्रचारः पतञ्जलेरपि प्रागासीदिति , अत एव सूत्रे अनु- पदमुपात्तमिति च वाचस्पतिमिश्रः । “हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः" इति योगयाज्ञवल्क्यः। ततश्च पतञ्जलेश्चिर- पुरातनं प्रतिमापूजनामिति साधयन्ति तर्कवादनिष्णाताः । अयं च पतञ्जलिर्व्याकरणपतञ्जलेविभिन्न इति , ततः सुदूरं प्राचीन इति च पाश्चात्यविमर्शकाः । "योगेन चित्तस्य पदेन वाचां मलं श- रीरस्य तु वैद्यकेन । योऽपाकरोत्तं प्रवरं मुनीनां पतञ्जलिं प्राञ्ज- लिरानतोऽस्मि" इत्यद्य यावत्सर्वैरपि विद्यार्थिभिर्भाष्यारम्भसमये पठ्यमानं पचं प्रमाणयन्तो वयम् , पण्डितभाष्याचार्यनिर्णीतं सम- यमेव पतञ्जले: साधुं मन्यमानाः पतञ्जलिद्वैधवैशसादात्मानम- भिरक्षामः ॥ अन्यच्च , श्रीमान् गङ्गोलीमहाशयः स्वविलिखिते 'दक्षिण- भारतलोहप्रतिमानामके ग्रन्थे एवं वदति "अगस्त्यमहर्पिकृतः सकलाधिकारो नाम शिल्पशास्त्रग्रन्थः तञ्जापुरराजकीयसरस्वती- 1. Gangooli's South Indian Bronzes.
भाण्डागारे विद्यते । तत्र च पञ्चमोऽध्यायः प्रतिमानिर्माणतत्परि- प्कारादिकं सुष्टु विशदयति । उत्तरतः प्रस्थाय दक्षिणां दिशमागतेन अगस्त्येन आर्यसहवासजनितपरिष्कारसहकारेणैव इदं शास्त्रं निर्मित स्यादिति तद्न्थपरिशीलनया संभाव्यते । अगस्त्यस्य दक्षिणदेशाग- मनं क्रैस्तववर्षात्पूर्व दशमावर्षशतकान्नार्वाचीनमिति चरितपरिशी- लिनां निर्णयः । इदं च ग्रन्थरत्नमर्वाचां काश्यपादीनां मार्गप्रदर्श- कमासीत्" इति । अस्मिंश्च वस्तुतत्त्वे विमृश्यमाने , बौद्धैरेव शि- क्षिता वैदिकाः प्रतिमानिर्माणतत्पूजनादिकमिति केषांचित्प्रवादो नू- नमसंगीतकमस्थाने नर्तनम् । काश्यपेनापि प्रथमतः “ द्वादशाङ्गु लकं वक्त्रं ललाटं चतुरड्गुलम्" इत्यारभ्य " स्वरूपा लक्षणोपेता प्रतिमा वृद्धिदा भवेत्" इत्यन्तेन सामान्यतः प्रतिमापरिमाणादि- कमभिधाय , पश्चात् " एकदंष्ट्रो गजमुखश्चतुर्बाहुर्विनायकः” इति सुरूपा सुप्रभागैव सर्वाभरणभूषिता । स्वायुधैश्च समा- युक्ता कर्तव्या प्रतिमा शुभा" इत्यन्तेन तत्तदेवताभेदस्य स्वरूपा- दिकं विस्तरेण प्रतिपादितम् । अयं च काश्यपः " तृषिमृषिकृषेः काश्यपस्य" इति पाणिनिना स्मर्यमाणो वा , परो वेति नास्माकं निर्णयः। नन्वेतौ शिल्पशास्त्रकर्तारौ अगस्त्यकाश्यपौ प्राचीनौ महर्षी इत्यत्र किं प्रमाणमित्यस्माकमनुयोगः पुरस्तिष्ठतीति चेत् , वैपरीये वा भवतः किं प्रमाणमित्यस्माकमनुयोगस्ततोऽपि पुरस्तात्स्थास्यति। वस्तुतस्तत्र तत्कृतत्वोक्तिरेव प्रमाणमस्माकमिति वदामः । तन्नाम्ना . प्रक्रम्य आ[निमात्मनैव व्यपदिशन्तो कावपि नवीनावताविति संदिहाना वय क्तपूर्वमभिप्रायं निराचक्ष्मह इति चेत् , किं क्रियताम् : स्व- सत्त नेब संशयानो भवानात्माननव कदाचित्प्रत्याख्यास्यति । संश याल नः फलं च भगवतैव गीयते ॥ इदं चान्यत् - ओस्तववर्षात्प्राचीने द्वितीयस्मिन्नव वर्षशतक समु फर्णाि देवताप्रतिमा शिवलिङ्गं गरुडस्तम्भश्च समुपलभ्यन्ते । तत्रो कीर्णानि रूपाणि च शिल्पविद्यायास्तदा महतीमभिवृद्धिमावे- दयां त । यदि च प्राचीनमभूत्वा प्रतिमानिर्माणादि शिल्पं बुद्धनि- वीण् इर्वाचीनमभविष्यत् , न कदाचिदपि तहि ईदृगं सौष्ठवं सम- लदि यत । अतः प्रतिमानिर्माणादिकस्य अर्वाचीनत्ववादो न खलु युत्ति पह इति श्रीमान 'आनन्दकुमारस्वामी , 'गोपीनाथगयः. स्टे कोनामहाशयश्च अभिप्रयन्ति ।। किंच , विमर्शनिपुणः पण्डितमणिमहामहोपाध्यायः श्रीमान गण तशास्त्रिमहाशयः , प्रतिमानाटकोपोद्धाते विचारसहैः प्रमाणे: झोन उमाभिरुपपत्तिभिश्च भासमहाकवेः ऊस्तप्राचीनायां पञ्चम्यां षष्ठः वा शताब्द्यां स्थिति सिद्धान्तयामास । तत्र च प्रतिमाना- , ܢܚܐ 2 Ananda Coomarasamy's 'Arts and Crafts of India T. A.Gopinatha Rao's 'Elements of Hindu Iconography." Step Konow's article in the t Indian Antiquary' 1909. (p. 146--149.) 2 २८ टके तृतीयाङ्के प्रतिमागृहं नाम कोऽपि विषयः समुपनिवद्धः । तत्र च अतिक्रान्तानां दिलीपादीनां राज्ञां प्रतिमाः प्रतिष्ठापिता देवकु- लिकैः पूज्यन्त इत्यस्ति संदर्भः । तत्रैवाङ्के " कस्य नु खलु दैवत- स्य स्थानं भविष्यति ? नेह किंचित्प्रहरणं ध्वजो वा बहिश्चिद्रं दृ- श्यते । भवतु प्रविश्य ज्ञास्ये । (प्रविश्यावलोक्य) अहो क्रिया- माधुर्य पाषाणानाम् । अहो भावगतिराकृतीनाम् । दैवतोद्दिष्टाना- मपि मानुषविश्वासतासां प्रतिमानाम् ” इति भरतस्य वाक्यं दृश्यते। तथा च भासकाले न केवलं देवतानाम् , परं सुगृहीतनाम्नां पूर्व- पुरुषाणामपि प्रतिमाः पूजार्हाः स्थापिता अभूवन्निति सुस्पष्टं ज्ञायते।। अपि च , श्रीभागवते रुक्मिणीसंदेशावसरे “पूर्वेचुरस्ति महती कुलदेवयात्रा यत्यां वहिर्नववधूगिरिजामुपेयाम् (यात्) " इति , उत्तरत्र “आसाद्य देवसदनं धौतपादकराम्बुजा । उपस्पृश्य शुचिः शान्ता प्रविवेशाम्बिकान्तिकम्" इति च पठ्यते । भगवतः कृष्णस्य चावतारसमयो द्वापरयुगचरमभाग इत्यास्तिकानां निर्णयः केचित्तु -"ऋक्षादृक्षं शतेनाव्दैर्यात्सु चित्रशिखण्डिषु । तच्चारे संहिताकारैरेवं दत्तोऽत्र निर्णयः ॥ आसन्मघासु मुनयः शासति पृथ्वी युधिष्टिरे नृपतौ । द्विकपञ्चद्वियुतः शककालस्तस्य राज्य- स्य ॥” इति वदन्तः, भारतं द्वापरान्तेऽभूद्वार्तयेति विमोहिताः" इति, "शतेषु षट्सु सार्धेषु त्र्यधिकेषु च भूतले । कलेगतेषु वर्षा- णामभूवन्कुरुपाण्डवाः ॥” इति च विलिखन्तः, भगवतोऽपि स - , एव समय इत्यातिष्ठन्ते । यद्वा तद्वा वस्तुतत्त्वमास्ताम् । श्रीकृष्ण- विवाहकालेऽपि देवतायतनप्रतिमापूजादिकमासीदित्यव न कोऽपि संशयः । स्यादेतत् , यदि भागवतं पुरातनम् । तदेव न । कैस्तव- वर्षाणां त्रयोदशे शतके किल इदं पुराणं निर्मितमित्यस्माभिर्विश्व- स्यत इति चेत् , कामं भवान्स्वेच्छया यत्किमपि विश्वसितु । परी- क्षितं प्रति शुकमहर्षिणा कथितमितिवृत्तमिति तु विश्वसिमो वयम् । यदपि वोपदेवेन कृतमिदमिति प्रत्यवस्थानम् , तदपि भागवतव्या- ख्यातृभिरेव निपुणं निराकृतम् । तथा च भागवतपर्यालोचनया विग्रहाराधनं चिरन्तनामिति निर्वाध सिध्यतीति ब्रूमः ।। किंच, श्रीमहाभारतेऽपि वनपर्वादिषु बहूनि देवायतनान्यु- ल्लिखितानि सन्ति । अर्जुनश्च तीर्थयात्रावसरे गोकर्णक्षेत्रं जगामति पठ्यते । भीष्मपर्वणि च दुर्निमित्तनिरूपणावसरे "देवताप्रतिमा- श्चैव कम्पन्ति च हसन्ति च । वमन्ति रुधिरं चास्यैः स्विद्यन्ति प्र पतन्ति च” इति पद्यं पठ्यते । इदं च प्रदर्शितपूर्वस्य पड्विंशब्रा- ह्मणम्योपबृंहणमिति अर्थत छान्दतः संदर्भतश्च मुवेदं मेधाविनाम् । अतोऽस्य पद्यस्य प्रक्षिप्तत्वादिशङ्काया अपि नावसरः । भारतं च भारतयुद्धादतिसंनिकृष्ट एव समये विलिखितमिति दत्तमहाशयप्र- भृतयश्चरित्रग्रन्थकर्तारो विलिखन्ति । भारतयुद्धं च इतो वर्पसह- स्रत्रितयान्नार्वाचीनमथवा संनिकृष्टमिति विमर्शका गोपालार्यवैद्यप्र- भृतयो निर्णयन्ति । “भारतं तावत् क्रैस्तप्राचीनायास्तृतीयस्याः शताब्धाः परस्तादेव विरचितं स्यात्" इत्युत्प्रेक्षमाणो मेग्डानलस्तु ४* ३० " " आश्वलायन - आश्वलायनसूत्रे भारतं स्मृतम्” इति कथयता च सूतेषु प्राचीनम्” इति संगिरमाणेन , सूत्रकालारम्भश्च के स्तप्राचीनायां पञ्चम्यां शताव्द्यामेव" इत्यातिष्ठमानेन च आत्मनैव विघानिष्यते । अत्रेयमाशङ्का केपांचित् सांप्रतिकं हि भारतं ग्र- न्थबहूकरणपरिवृत्तौ तृतीयस्यां निष्पन्नमिति हेतुभिर्जानीम इति ; किमत्र बन्दनीयानां विपये वयं वदिष्यामः , ये ह्येवंदर्शिना तपो- महिन्ना विजयन्ते । नन्वत्र हेतवोऽपि प्रकटीकृता इति चेत् , कि ततः ? न खलु तर्कः क्वचन प्रतिष्ठितिं यास्यति ; अन्येऽपि हेतु- भिरेव खण्डयिष्यन्ति । तथा च भट्टः - " यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः । ततोऽपि कुशलैरन्यैरन्यथैवोपपाद्यते ॥” इति । तथा च प्राचीनतमेन पञ्चलेन वेढ़ेनानुगृहीतस्य विग्रहाराधनादिसं- प्रदायस्य बौद्धोपज्ञत्ववादः केवलं वैदिकविद्वेषमूलक इति व्यक्तम् ॥ अन्ततश्चेदम् - श्रीमति रामायणे उत्तरकाण्डे अवतारस- माप्तिसमये विभीषणं प्रति । आराधय जगन्नाथमिक्ष्वाकुकुलदैव- तम् । आराधनीयमनिशं सर्वैर्देवैः सवात्तथैः” इति श्रीरामभद्रस्य वचनं दृश्यते । तत्र च इक्ष्वाकुकुलदैवतं नाम इक्ष्वाकुभिश्चिरात्पू- ज्यमाना श्रीरङ्गनाथार्चा , पाद्मादिवचनैरैककण्ठ्यात् । तथा च श्री- रामभद्रकालेऽपि विग्रहाराधनमासीदिति सिध्यति । रामभद्रश्च त्रे- तायुगे अवततारेति विदितमिदमास्तिकानाम् । अवरतः श्रीरामाय- णकाले आसीदिति वापि शक्यं निश्चेतुम् । श्रीरामायणं च स्त- प्राचीनायाः पञ्चम्याः शताव्दीतः प्रागेव विरचितमिति मेग्डानल ..
- एव विलिखति । ततञ्च विप्रहाराधनस्य बुद्धनिर्वाणादर्वाचीनता स र्वात्मना न घटते ॥ अत्र प्रत्यवतिष्ठन्ते श्रीरामायणं तावत् बुद्धोपदिष्टजात- कमालास्थं दशरथजातकमवलम्व्य केनाप्यायेण वैदिकेन विरचि- तम् । तस्य प्रसिद्धिबहुलीभावादिकं मनसि कलयतव रचयित्रा वा ल्मीके म कस्यचन मुनेः शिरसि कर्तृत्वमार नारोपितः । कि च बालकाण्डमुत्तरकाण्डं च विहाय परिशिष्टा पञ्चकाण्ड्येव प्रथमत आसीत् । पश्चात्तु केनापि कैश्चिद्वा प्रथमं चरमं च काण्डं माहा- म्योद्भावनाय तत्र संयोजितम् । एतदभित्रयन्नेव नेग्डानलोऽपि रा- मायणवहूकारपरिवृत्तिरन्तिमा क्रैस्तप्राचीनायां द्वितीयत्यां शताब्द्यां स्यादिति संभावयति । ततश्च उत्तरकाण्डर वचनं न प्रमाणनर- णिमवगाहते । युद्धकाण्डस्थे " लब्ध्वा कुलधनं राजा लङ्कां प्राया- द्विभीषणः" इति श्लोके कुलधनशब्दः कुलक्रमागतं लङ्काराज्यमेव निर्दिशतीति न तत्र प्रत्याशावकाशः । कुलधनम् इक्ष्वाकुकुलधनं श्रीरङ्गविमानमिति संप्रदायः” इति व्याख्योक्तिस्तु न साध्वीति ।। अत्र वदामः- एवंजातीयकानां युक्तिरूहश्च परस्परं प्रति क्षिपत इति नास्माकमत्र प्रत्युत्तरावकाशः । ते हि खयूथ्यविनंवा- देनैव पराहण्यन्ते । मध्यस्थशङ्कावारणाय तु प्रयतामहे । बुद्धो हि स्वोपदेशस्य शिष्यबुद्धिसंक्रमाय प्राचीनानि नामानि इतिवृत्तानि च परिगृह्य कल्पिता एव कथा उपादिक्षदिति नेई तिरोहितं जातक- मालापरिशीलिनाम् । तस्मात् दशरथजातकस्य मूलत्वकल्पनं गग- ३२ तस्य ? नकुसुमसौरभानुभव एव । प्रथमं चरमं च काण्डं पश्चादायोजि- तमिति तप्तरहसे भवतः क एवमाह ? मेग्डानल इति चेत् , अत्र को गुरुः वीबर इति चेत् , तस्य कोऽयमुपदेशकः ? अहो. एकस्यान्धस्य अपरेणान्धेन यष्टिः प्रदीयते । भासमहाकविना इति वृत्ततः सर्वात्मना समाहतं रामायणं न कदाप्यर्वाचीनतामहति । अथ वा तुष्यन्तु भवन्तः । प्राचीनतया भवदभिमतादेव अयोध्या- काण्डात् पद्यान्युदाहरामः । तत्र हि " वाग्यतां देवतागारे दर्शा- याचीं श्रियम्” इति चतुर्थसर्गे , “ध्यायन्नारायणं देवं स्वास्तीणे कुशसंस्तरे । वाग्यतः सह वैदेह्या भूत्वा नियतमानसः । श्रीमत्या- यतने विष्णोः शिश्ये नरवरात्मजः” इति षष्ठसर्गे च पठ्यते । इत्थं कण्ठोक्तौ सुलभायां कुलधनशब्दव्याख्याकोलाहले न वयं प्रवर्तामहे । एवं बहुभिः प्रमाणैरुपपत्तिभिश्च बह्वीभिविमृश्यमाने , विग्रहारा- धनस्य देवतायतनस्य च वैदिकता सूपपादेति तत्र बौद्धानां मार्ग- दर्शित्वप्रयादो विमर्शकंमन्यानामविमर्शकानां समाजेनैव श्रद्धेयः, न पुनर्वन्तुवत्वं पक्षपातेन पिना परीक्षमाणानामास्तिकानामिति सि- द्धम् । अपरांस्तु परेषामाक्षेपान् द्वितीये परिच्छेदे प्रतिक्षेप्स्यामः ॥ विग्रहाराधनं बौद्धोपज्ञमित्यज्ञभापितम् । निरस्य बहुधा तस्य श्रौतभावः समर्थितः ।। इति वात्स्यचक्रवर्ति कृष्णसूरि विरचिते अर्चावतारवैभवे विग्रहाराधनवैदिकत्वस्थापनं नाम प्रथमः परिच्छेदः ॥ 0*10.
॥ श्रीः॥ . ॥ अथ द्वितीयः परिच्छेदः । , , परो व्यूहश्च विभवो हादश्वाचेति पञ्चधा । विग्रहानिच्छया गृहन्विभाति परमः पुमान् ।। अथेदानीमर्चावतारवैभवमधिक्रियते । अत्रेदमादितः किंचित्प्र- तोतव्यं भवति , यत् उपर्युपकरिष्यति प्रकृतस्य । अस्माकं खल्व- तुकानामास्तिकानां न केवला श्रुतिः , न च तत्रापि केवलो मन्त्र- नागः , नापि केवलं बाढच्यं धर्मे प्रमाणम । एष किल समुद्घोषः प्रतः कुतोऽप्यवगत्तकत्तिपयवेदपदानामनाकलितवेदोपबृंहणन्यायक- लापानामस्थाने निजविमर्शकौशलमुपदर्शयतां कुतर्ककल्ककलुषित- मतीनां समजायैव स्वदिष्यते । धर्मो हि नाम वेदेषु वेदान्तेषु स्मृ- तिषु इतिहासेषु पुराणेषु शिष्टाचारेषु च सर्वात्मना समायत्तते। एवं हि भगवान्मनुरनुशास्ति वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् । आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ॥ धर्ममूलं धर्मे प्रमाणम् । शीलं रागद्वेषादि विना शुचि चरित्रम् । आचारः कङ्कणबन्धनादिः । आत्मतुष्टिः वैकल्पिकेषु पदार्थेषु य- स्मिन् गृह्यमाणे आत्मनः प्रीतिः सापि प्रमाणम्” इति सार्वभौमः । व्यासोऽपि - "धर्ममूलं श्रुतिं प्राहुर्धर्मराशिमकृत्रिमम् । तद्विदां " " इति ।
" इति । स्मृतिशीले च साध्वाचारो मनःप्रियम् ।। पुराणन्या- यमीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥” इति , " श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रि- यमात्मनः । सम्यक्संकल्पजः कामो धर्ममूलमिदं स्मृतम् ।।" इति च याज्ञवल्क्यः । “ इतिहासपुराणाभ्यां वेदं समुपद्व्हयेत् । विभे- त्यल्पश्रुताद्वेदो मामयं प्रतरिम्पति" इति बृहस्पतिः। अत्र अधिक- मधिजिगमिषद्भिजैमिनीयानि वेदप्रामाण्याधिकरणादीनि द्रष्टव्यानि ॥ एवं पञ्चरात्रमपि कान्येन श्रुतिरिव निर्वाधं प्रमाणम् । इदं च शास्त्रं भगवान्वेदैकवेद्यः परब्रह्माभिधानो वासुदेवः सत्यसं- कल्पोऽपारकारुण्यसोशील्यवात्सल्यौदार्यमहोदधिः, धर्मार्थकाममो- क्षाख्यपुरुषार्थाभिमुखान् भक्तानवलोक्य, स्वस्वरूपस्वविभूतिस्वारा- धनतत्फलयाथात्म्यावबोधिनो वेदानपरिमितशाखान्स्वेतरसकलसुर- नरदुरवगाहांश्चावधार्य , तदर्थयाथात्म्यावबोधि स्वयमेव निरमि- मीत । एतदपि , वेद ऋग्यजुःसामाथर्वभिरिव आगमसिद्धान्त- मन्त्रसिद्धान्त तन्त्रसिद्धान्त तन्त्रान्त्ररसिद्धान्तैश्चतुर्धा विभिद्यते । एतेषामेव , वेदसिद्धान्तः दिव्यसिद्धान्तः तन्त्रसिद्धान्तः पुराण- सिद्धान्त इति , स्वयंव्यक्तः दिव्यः सैद्धः आर्ष इति च क्रमेण सं- ज्ञान्तराणि । यथा च ऋगादिरवान्तरैः शाखाभेदैर्बहुधा विभिद्यते, तथा इदमपि सिद्धान्तचतुष्टयमवान्नरैस्तन्त्रान्तरैरनेकधा भवति एतेषां सिद्धान्तानां तदवान्तरभेदानां च लक्षणानि फलानि पौष्क- .
३५ " - रश्रीकरादिसंहितासु निरूपितानि संगृह्य , श्रीपाञ्चरात्ररक्षायां नि- गमान्तगुरुर्निरूपयामासेति तत एव तानि द्रष्टव्यानि । एतच्छास्त्र- प्रबन्धाश्च संहिताशब्देन व्यपदिश्यन्ते । संहिताश्च अष्टोत्तरशतमि- ति बदन्ति । एतासु च साक्षाद्भगवन्मुखोद्गततया जयाख्यसात्वत- पौष्करसहिताः "रत्नत्रयम्” इति प्रसिध्यन्ति । एवमनेकधा- विततमिदं शास्त्रं सर्वांशेनापि प्रमाणमिति सैद्धान्तिकी पद्धतिः ।। अत्र तावदेवं दुरभिनिविशन्ते पाशुपतादितन्त्रान्तरव- दिदमपि पञ्चरात्रं वैदिकानां प्रतिक्षेपमेव अर्हति ; यत इदमपि तन्त्रम् , वेदविरुद्धं च | सन्ति हि श्रुतिविप्रतिपन्ना जीवोत्पत्त्याद- यो वहवोंऽशाः पञ्चरात्रे । अत एव भगवता वादरायणेन उ- त्पत्त्यसंभवादिसूत्रैरिदं तन्त्रं प्रतिक्षिप्यते । किं च भवदभिमतायां पारमेश्वरसंहितायामेव , प्रथमत इदं तन्त्रं दिव्यमुनिमापितभेदन विभज्य , पश्चात् मुनिभापितमेव सात्त्विकराजसतामसभेदेन विवि- धं निरूप्य , अन्ते संहिताविशेषपुरस्कारेण ।' सात्वतपौष्करजया- ख्यादीनि शाखाणि दिव्यानि , ईश्वरभरद्वाजसौमन्तवपारमेश्वरवै- हायसचित्रशिखण्डिसंहिताजयोत्तरादीनि सात्त्विकानि , सनत्कुमा- रपाद्मोद्भवशातातपतेजोद्रविणमायावैभविकादीनि राजसानि , पञ्च प्रश्नशुकप्रश्नतत्त्वसारादीनि तामसानि" इति विभागः प्रदर्शितः । तत्कथमस्य शास्त्रस्य सर्वाशप्रामाण्यं सेत्स्यति ? न खलु कश्चिदास्ति- काभासोऽपि तामसानां प्रामाण्यं कदाचिदभ्युपैष्यति" इति ॥ , . , आः! सर्वमपि पदार्थजातं सामान्यदर्शनादैकराश्येन व्यव- हरन्कथमिव भवान्निवर्तयिष्यति शरीरयात्राम् । एवं हि भवान् सो. मपानपि सुरापानिव पातृत्वेन समं पश्यन् दूरतः परिहरिष्यति । यञ्च पञ्चरात्रे वेदविरुद्धानंशान्पश्यति भवान् ; सोऽयम् , पित्तोप- हतेन चक्षुषा गृह्यमाणस्य शङ्खस्य पीतिमा । यथा चैतन् , तथा सुविशदं निरूपितमागमप्रामाण्ये भगवद्यामुनमुनिभिः , भाषितं च तदनुसारिभिर्भगवद्रामानुजमुनिभिः । यदपि बादरायणेन तन्त्रमिदं प्रतिक्षिप्यत इति , तदिदम् आशामोदकेन कुक्षिपूरणम् ; तत्र हि भगवान सूत्रकार आदिमाभ्यां सूत्राभ्यां पूर्वपक्षमुत्थाप्य , अनि- माभ्यां समादधानः पञ्चरात्रस्य प्रामाण्यमेव स्थापयति । अन्यथा हि महाभारते पञ्चरात्रं वेदतुल्यं प्रशंसन् , अत्र च प्रत्याचक्षाणः कथमिव बादरायणः श्रद्धेयवचनो भविष्यति ? अथ स्यान्मतम्- श्रुतिसंप्रतिपन्नांशे प्रामाण्याभ्युपगमपरं भारतम् , सूत्रं तु वेदविरु- द्धांशे अप्रामाण्यनिरूपणपरमिति न विरोधगन्धोऽप्युभयोरिति ; अहो नेयबुद्धेः श्रद्धाजाड्यम् । श्रुतिविरुद्धांशोऽस्तीति , नूनं तत्र भ- वतः श्रुतमेवं विप्रतिपन्नम् । यदपि सात्त्विकादिविभागपुरस्कारेण प्रत्यवस्थानम् , तत्रापि सुहृद्भावेन मया प्रदर्यमानम् “ अतः सा- विकराजसतामससंज्ञानिवेशोऽत्र सत्त्वरजस्तमःप्रचुरतत्तत्फलसि- द्धिविशेषतारतम्याभिप्रायेणेति मन्तव्यम्” इति श्रीकवितार्किकसिं- हस्य धीरध्वनिमुपनिशम्य सुतरामुपशाम्यतु भवान् ; आलोकयतु च वेदोत्तमभट्टारकप्रणीतं तन्त्रशुद्धम् , येन संशयं विस्रक्ष्यति ॥ ?
३७ तन्म तथा योगिवर्यस्य भगवतः कुरुकेश्वरस्य द्राविडभाषाविरचि- ना गाथा अपि वैष्णवानामसाधारणं प्रमाणम ; याः किल सामवे- दसारभूता इत्यभिज्ञाः कथयन्ति , यश्च 'आम्नायानां प्रकृतिमपरां मंहितां दृष्टवान्' इति स्तूयते । द्राविडभाषायाः प्राशस्त्यम्, यीनामेतासां गाथानामाम्नायत्वं प्रामाण्यमखिलोपजीव्यत्वं च महता संरम्भेण आक्षेपसमाधानपुरःसरं श्रीकृष्णपादप्रभृतिभिः पूर्वैः सुष्टु समर्थितम् । एवमेव परेषामपि दिव्यसूरीणां गाथाः पूर्वोक्तवेदाङ्ग- तां भजन्त्यः प्रमाणम् ।। ततश्च - धर्मस्थानमजीगणन्मुनिगणो यद्यत्पुराणादिकं तत्तद्राविडदिव्यवेदसुरभि श्रीपञ्चरात्रस्थिरम् । अस्माकं कमलासहायपदयोरैकान्त्यमातस्थुषां मानं नूनमतस्तदेव बहुशो मानं प्रदर्शिष्यते ।। देवतानां परासामप्यर्चाः सन्ति सहस्रशः । अथापि श्रीपतेरा प्रकृतामधिकुर्महे ।। इह खलु श्रियः पतिनिखिलहेयप्रत्यनीककल्याणकतानो ज- गजन्मादिकारणं समस्तवस्तुविलक्षणः सर्वज्ञः सत्यसंकल्प आश्रि- तवात्सल्यैकजलधिः परमकारुणिको निरस्तसमाभ्याधिकसंभावनः परब्रह्माभिधानः परमपुरुषो नारायणः तत्त्वम् , भक्तिः प्रपत्तिश्च हितम् , भगवच्चरणपरिचरणं पुरुषार्थ इत्यौपनिपदो घण्टापथः ।।
सच भगवान श्रयन्तमस्य तमसः पराके” “यो अ- स्याध्यक्षः परमे व्योमन् " " सहस्रस्थूणे विमिते दृढ उने यव देवा- नामधिदेव आस्ते" • आत्मा केवलता प्राप्नो यत्र गत्वा न शोचति । ईदृशं परमं स्थानं निरयास्ते च तादृशाः॥' 'तेपां तत्परमं स्थानं गद्वै पश्यन्ति सूरयः' 'दिव्यं स्थानलजरं चाप्रसेयम्' इत्यादिश्रुतिस्मृ- तिशतप्रतिपादिते जानन्दमयपाड्गुण्यरायपश्योपनियन्मयपञ्चशक्ति- मयनित्यविभूतिपरमपदादिव्यपदिष्ठ शुद्धसत्वमये अकालकाल्ये प्रकृ- त्यतीते श्रीमति बैकुण्ठे , दिव्यास्थानमण्डपे श्रीभूमिदीलासगेतो सहा- न्तमनन्तभोगिनं दिव्ययोगपर्यकमध्यासीनो नित्यनिरवद्यनिरतिश- यदिव्यमङ्गलविग्रहदिव्यभूपणदिव्यायुधः स्वाभाविकानवधिकातिश- यज्ञानवलाद्यसंख्येयकल्याणगुणगणमहार्णवः सदा पश्यन्ति सू- रयः" इत्युक्तप्रकारेण नित्यमुक्तैश्च सततमनुभूयमानः संकल्पनेव सकलमपि जगद्व्यापार निर्वहन , अनितरसाधारणेन सांराज्येन वि- जयत इति सात्वतां प्रक्रिया ॥ अत्र च भगवतो विग्रहः शुद्धसत्त्वमयो ज्ञानानन्दात्मको वास्तविकश्च । तथा च " हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रु- हिरण्यकेश आ प्रणखात्सर्व एव सुवर्णः । तस्य यथा कायासं पु- ण्डरीकमेवमक्षिणी” इति , ' यदा पश्यः पश्यते रुक्मवर्णम् –' इति , 'आदित्यवर्ण तपसः परस्तात्” इति , " यत्ते रूपं कल्या- णतमं तत्ते पश्यामि" इति , ' त्रीणि पदा विचक्रमे' इति, 'तस्य . . m हवा एतस्य पुरुषस्य रूपं यथा सहारजनं वामः' इति च पर:- शताः श्रुतयः, “जित्यं नित्यान्विरम" . सक्नाभं स्वप्नधीग- म्यम् ” — सदैकरूपल्पाय · · नद्विश्वम्पवरूप्यं रूपमन्यद्वरमहन् इत्यादीनि स्मृतिसहाणि च सरावाः कल्याणविग्रहयोग प्रतिपाद- वन्ति । तथा 'नित्यसिद्धे तदाकार-' इति पाकरे , · नित्या- लिङ्गा स्वभावसंसिद्धिरिन्द्रियाकार अप्रत्यङ्गव्यसनवती इनि- स्यानायब्राह्मणे च पठ्यते । ' अशब्दमस्पनरूपम न तस्य कार्य करणं च विद्यते' अचक्षुःश्रोत्रं तदपाणिपादम' । पश्यत्यचक्षुः स शृणोत्यकर्ण: ' इत्यादयः शरीरेन्द्रियनिषेधपराः श्रुतयस्तु , भग- वतः कर्मायत्तं शरीरं करणायक्तं ज्ञानं च प्रतिपधन्ति । अयं च वि पविभागः 'इच्छागृहीताभिमतोदेहः न नम्य प्राकृता मूर्ति- मासमेदोऽस्थिसंभवा' 'न भूतसंवसंस्थानो देहोऽस्य परमात्मनः इत्यादिभिरवसीयते । इत्थमेव सगुणनिर्गुणसविकारनिर्विकारमक्रि- याक्रियभेदाभेदश्रुतीनां परस्परं विरोधः परिहरणीयः । तथा च त- स्वसारे श्रीवरदगुरवः 'यद्ब्रह्मणो गुणविकारशरीरभेदकर्मादि- गोचरविधिप्रतिषेधवाचः। अन्योन्यभिन्नविपया न विरोधगन्धमई- न्ति तन्न विधयः प्रतिषेधबाध्याः' इति। एतेन निषेधश्रुतिभिया शरी- रादिविधिश्रुतीनां शुभाश्रयदिव्यविग्रहादितात्पर्य परिहाय केवलं प्राति- भासिकशरीरादिपरतां व्याचक्षाणा वृश्चिकाद्भीताः सर्पमुखे पतन्ति | न खलु 'प्रक्षालनाद्धि' न्यायं जानानः प्राकृतोऽपि पुरस्तादात्मना कथितं परस्तादात्मनैव तात्पर्यभेदेन निराकरिष्यति ।
. । अयं च भगवान अप्राकृतेन पञ्चोपनिषत्प्रतिपाद्येन शुद्धस- त्वमयेन अस्त्रभूषणरूपविचित्रतत्त्वाश्रग्रोण दिव्यमङ्गलविग्रहविशेषेण विशिष्टः सन , परो व्यूहो विभवो हार्दोऽर्चा चेति पञ्चधा भवति। अयं च प्रकारभेदो विग्रहस्यैव फलति , न पुनरात्मस्वरूपस्य ; तत्तु मर्वत्राप्येकरूपमेव । एतदेवाशयानः ‘अयं विग्रहः परव्यूहविभव- हार्दा रूपेण पञ्चप्रकारः' इति निगमान्तगुरुरर्थपञ्चकाधिकार निरूपयति । अधिकं त्वव वक्तव्यमुपरिष्टावक्ष्यामः । 'मम प्रकाराः पञ्चेति प्राहुर्वेदान्तपारगाः । परो व्यूहश्च विभवो नियन्ता सर्व- देहिनाम् ।।अर्चावतारश्च तथा दयालुः पुरुषाकृतिः। इत्येवं पञ्च- धा प्राहुर्मा रहस्यविदो जनाः ॥' इति विष्वक्सेनसंहितायां भग वतो वचनम् । एतानि च पञ्च रूपाणि ' अथ यदतः परो दिवो ज्योतिर्दीप्यते ''त्रीणि पदा विचक्रमे 'नीलतोयदमध्यस्था इत्यादिभिः श्रुतिभिस्तत्र तत्र प्रतिपाद्यन्त इति प्राहुः । विष्णुतत्त्व- दीपिकाकारस्तु - अम्भस्यपारे-' इत्यत्र पञ्चापीमानि रू- पाण्युक्तानात्याह । एतस्य चानुवाकस्य पुरुषसूक्तशेषत्वादस्या ऋच एवं तात्पर्यकल्पने न कोऽपि दोष इति वदन्ति । अत्र 'अम्भस्य- पारे' इति पद्मनाभो नाम व्यूहः, 'भुवनस्य मध्ये' इति सूर्य- मण्डलान्तर्वर्ती विभवः, 'नाकस्य पृष्ठे' इति परः, 'शुक्रेण ज्यो. तींषि समनुप्रविष्टः' इति अर्चा, 'प्रजापतिश्चरति गर्भे अन्तः इति अन्तर्यामी चाभ्यधायिषतेति केचन व्याचक्षते। ' अम्भस्यपारे . । .
४१ - इन्यनेन एकार्णवशयो नाम विभवः , “भुवनस्य मध्ये' इत्यनेन अचीवतारश्च उक्त इति कश्चित् । 'भुवनस्य मध्ये' इत्यनेन प्राकृ- ततत्तद्वस्तुस जातीयतामाभिनयन् विभव एबोनयन इत्यन्ये । यथा तथा वा भवतु , अत्र पञ्चापि रूपाण्युक्तानीति तु बहूनामस्मितम। 'सवा एप पुरुषः पञ्चधा पञ्चात्मा ' इति वाक्यम • पञ्च धा = परव्यूहविभवान्तर्याम्यचीवतारलक्षणभगवच्छास्त्रोक्तप्रकारेण विभक्तः' इत्येवं व्याचक्षाणेन उपनिषदायकारेण सूचितमेवंजा- तोयकं व्याख्यानम्। तैत्तिरीयारण्यके । प्रपचे भुवः प्रपद्य सुवः प्रपद्ये भूर्भुवःसुवः प्रपद्ये वायुं प्रपद्येऽनाता देवतां प्रपद्ये अश्मान- माखणं प्रपद्ये प्रजापतेब्रह्म कोशं ब्रह्म प्रपद्य ओ प्रपद्ये' इत्यत्र 'अ- इनानभावणं प्रपद्ये' इत्यनेन शिलामयी अचा सममिहिनेनि ब- हुज्ञाः कथयन्ति । 'इदं पूर्णमदः पूर्ण पूर्णत्पूर्णमुद्रिच्यते ! पूर्णस्य पूणमादाय पूर्णमेवावशिष्यत ॥ सर्व पूर्ण सहाम्' इति कठश्रुति प्रकारणञ्चकविपये प्रमाणयति श्रीलोकाचार्यः श्रीवचनभूषणे । एपा च श्रुतिरर्चावतारप्रकरणे व्याख्यास्यते । द्राविडाम्नायेऽपि "" அப்பால் முதலாய் நின்றவளப் பரியவாரமுது பாலார் கிட நகும பண்பை யாங் கேட்டேயும் '' " மண்மீதுழல்வாய ®©r alGNT Gण की ” इति तत्र तत्र विप्रकीर्णतया, "zar திருப்பாய மலைமேல் நிற்பாய கடல சோப்பாய், மண்மீ துழல்வாய் arpan. GeT EIG LDEN PIB gree pairi" इत्यत्र सामस्त्येन च पञ्चापि रूपाणि निर्दिष्टानीति तद्रहस्यविदः ॥ 4-2 - 10. बा " "" " ८S ४२ 'सदा : .. .. तत्र परा नाम- अनादिनिधने अनवधिकानन्दसुन्दरे स्व- यंप्रकाश परमव्योमशब्दिते श्रीवैकुण्ठे श्रीभूमिनीलासमेतः , 'यत्र पूर्वे साध्याः सन्ति देवाः' । यत्रपेयः प्रथमजा ये पुराणाः'। पश्यन्ति सूरयः' इत्युक्तरीत्या नित्यमुक्तैश्चाविशेषेण सेव्यमानः पाइगुण्यपरिपूर्णो वासुदेवः । 'वैकुण्ठे तु परे लोके श्रिया सार्ध जगत्पतिः । आस्ते विष्णुरचिन्त्यात्मा भक्तभागवतैः सह ।' 'वैकुण्ठे तु परे लोके श्रीसहायो जनार्दनः । उभाभ्यां भूमिनी- लाभ्यां सेवितः परमेश्वरः ॥' 'देवो बैकुण्ठनाथस्तु अनन्तासन- मंस्थितः । सेव्यः श्रीभूमिनीलाभिः प्रादुर्भावैस्तथाखिलैः ॥' 'किमात्मिकेपा भगवतो व्यक्ति. ? यदात्मको भगवान् तदात्मि- का व्यक्तिः । किमात्मको भगवान T? ज्ञानात्मको भगवान् ज्ञाना- त्मिका व्यक्तिः' इत्यादिकमिह भाव्यम । ते च षट् गुणाः ज्ञान- बलैश्वर्यवीयशक्तितेजांसि । एतेषां च पण्णां गुणानामुपयोगः ‘स्वतः सर्व सर्वथा सर्वदा साक्षात्करोति , तथा साक्षात्कृतं च सर्व धार- यति , धारयन्नेव नियच्छति , धारयन्नियच्छंश्च अशिथिलो भवति , अघटितं च घटयति , तत्र च सहकारिनिरपेक्षो न केनचिदभिभू- यते कितु सर्वाभिभूर्भवति' इत्येवं तात्पर्यचन्द्रिकायां प्रदर्शितः । एतेषामेव विततयः सोशील्यादयः कल्याणा असंख्येया गुणाः । द्वये हि गुणा भगवतः परत्वोपयोगिनः सौलभ्योपयोगिनश्चेति। परत्वं सौलभ्यं च समाश्रयणीयतायां प्रयोजकम् । ' तवानन्तगुणn .
४३ , . - स्यापि षड़व प्रथमे गुणाः । मेस्त्वयेव जगत् कुक्षावन्येऽप्यन्तनिवे- शिताः तथा गुणा ह्यनन्तस्य असंख्येया महात्मनः प्रकृष्टं वि- ज्ञानं बलसतुलमैश्वर्यमखिल विमर्याद वीर्य वरद परमा शक्तिरपि ते । परं तेजश्चेति प्रवरगुणपटकं प्रथमजं गुणानां निः नीत्रां गण- नविधुराणां प्रसवभूः' इत्यादीन्यत्रानुनबेयानि । एते च प्रथमे गुणा यद्यपि भगवत्स्वरूपमाश्यन्तः सर्वेष्वप्यवतारेषु भगवन्तं न जहत्येव ; अथापि कार्यानुरोधेन कदाचित्प्रकागः कदाचिदप्रकाशश्च एपा गणानामवतारान्तरेपु संभवति , पररूप तु सर्वदा प्रकाश इत्येव भावनीयम् । तथा चोच्यते संपूर्णपड्गणस्तेषु वासुदेवो जगत्पतिः' ' पूर्णस्तिमितषागुण्यो निम्तरङ्गार्णवोपमः । षण्णां यु- गपदुन्मेपाद्गुणानां स्वप्रचोदितान् । अनन्त एव भगवान्वासुदेवः न- नातनः' इति । विग्रहश्च भगवतः स्वरूपदिन्न इनि सर्वार्थसिद्धौ नायकसरे निरूपितम् । स्तोत्ररत्नभाये ऽपि न्पुटमिदम् । एतेन परकालयोगिनां भगवद्विग्रहे स्वरूपतादात्म्यवादो जडत्वादिभ्रान्ति- मात्रनिराकरणार्थः । न त्वभेदे तात्पर्यमिति सूचितम् । अतो भग- वद्विग्रहः सर्वोऽपि ज्ञानानन्दैकलक्षणः स्वरूपाद्भिन्नश्च' इति · वि- * "निर्दिष्टं पोपकारादौ-'" इति श्लोकरारन्यायाम् “यनु कश्चिद्ध- च्यते नित्यं निष्कलं निर्विकारं च परं अदा शरीरमा स्वरूपत , एव वि- चित्रविग्रहाकारम् , तत एव विग्रहानित्यत्वम् । न चात्र स्वरूपविग्रहयो- भेंदो नापि भेदाभेदप्रसङ्ग इति , न तद्भाबनीयम् । अन्यथा विश्वातस्यापि संग्राह्यत्वप्रसङ्गादिति" इति प्रतिपादितम् । - , .. श्वातिशायिसुखरूप इति वरदराजपञ्चाशत्पद्यव्याख्यायां श्री. शैलश्रीनिवामाचार्याः ॥ व्यहो नाम- पररूपादुत्पन्नं रूपान्तरम् , तद्विशिष्टा भग- वान्वा । स च वासुदेव.. संकर्षणः , प्रधुनः , , प्रधुम्नः , अनिराद्ध इति चतुर्धा भवनि । एनेपामेव वैखानसशास्त्रेषु पुरुष सत्य अच्युत अ- निरुद्धपदेव्यपदेशः । सर्वेषु चावतारेषु प्रभोरिच्छेव नियामिका । साधुपरित्राणादिकमेव फलम् । अत्र च प्रथमो व्यूहो गुणादिभिर्न पररूपान्मावयापि भिद्यते । अत एव परवासुदेव इति व्यूहवासु- देव इति च व्यहरन्ति । प्रथमस्य नित्योदित इति , द्वितीयस्य गान्तोदित इति च मांप्रदायिको व्यपदेशः । उभयोश्च संकल्पः क्रमेण नित्यविभूतेर्लीलाविभूतेश्च निर्वाहक इत्याहुः । 'नित्योदिता- न्मेवभूव तथा शान्तोदितो हरिः' इति भगवच्छास्त्रे । परव्यूहया- वासुदेवयोरविशेषाभिप्रायेण च तत्र तत्र वैव्यूह्यपक्षोऽपि प्रथते । अत्र वासुदेवे परवन् पइपि गुणाः प्रकाशन्ते । वासुदेवादुत्पन्ने सं- कर्षणे ज्ञानं बलमिति द्वौ गुणो प्रकाशेते । गुणान्तराणि तु चत्वारि अनभिव्यक्तानि सन्ति । एवं प्रकाशनमप्रकाशनं च तत्तद्रूपमुपासी- नाननुगृहाति । अयं च जीवतत्त्वमभिमन्यते , शास्त्र प्रवर्तयति , संहरति च जगन् । प्रद्युम्नश्च संकर्षणात्समुपद्यते । अस्य चाभिव्य- क्तो गुणौ- ऐश्वर्य वीर्यं च । अयं च मनस्तत्त्वाभिमानी । अस्य च कर्म , धर्मप्रवतनं सृष्टिश्च । संकर्षणादुत्पद्यमानेन च अनिरु- .. ' , , . द्धन शक्तितेजसी परं प्रकाश्यते । अयं चाहंकारतत्त्वमभिमन्यमानः पालयति जगन् , तत्त्वं च बोधयति । तदेतत्सर्वम , 'गुणैः ष- भिस्त्वेतैः प्रथमतरमूर्तिस्तव वभौ ततम्तिन्त्रस्तेपां त्रियुग युगलैहिं त्रिभिरभुः।' इति , ' पाइगुण्याद्वासुदेवः पर इति स भवान्मुक्तभो- ग्यो बलाक धात्संकर्षणस्त्वं हरसि वितनो शास्त्रमैश्वर्यवीर्यात् । प्रद्युम्नः सर्गधर्मी नयसि च भगवन शक्तिनेजोऽनिरुद्धो विभ्राणः पासि तत्त्वं गमयसि च तथा व्यूह्य रङ्गाधिगज ॥' इति च श्री- मिश्रभट्टाभ्यां संजगृहे । अस्य च चातुयूँहास्य जाग्रत्स्वप्नादिस्थान- भेदः , युगभेदेन वर्णपरिवृत्तिरित्यादिकं सप्रमाणं श्रासारास्वादिन्या- दिपु द्रष्टव्यम् । एभ्य एव समुत्पन्नाः केशवादयो मार्गशीर्षादीनां मासानां द्वादशानामादित्यानां च निर्वाहकाःण व्यूहान्तराणि ।। विभवो नाम- इषद्भेदेन' भगवच्छास्त्रे तत्र तत्र निर्दि- श्यमानः पद्मनाभादिकः । तत्तत्सजातीयसंस्थानतया सौलभ्याति- शयसमाश्रयणीयतामौकर्याद्यनुरोधेन मत्स्यकूर्मादिदशकं विभव इति कचिद्विशिष्य निर्देशः । रामकृष्णाद्यवतारयु च तत्तत्कार्यानुसारेण गुणप्रकाशनतिरोधानादिकमुपपद्यत इति न तत्र प्राकृतत्वशङ्का कर्तु- मुचिता । ' समस्तशक्तिरूपाणि तत्करोति जनेश्वर । देवतियङ्मनु- व्याख्याचेष्टावन्ति स्वमायया' इति हि पराशरो बोधयति । विभ- 1 1. क्वचित् षट्त्रिंशदिति , क्वचित् अष्टात्रिंशदिति , क्वचित् एकोनच- त्वारिंशदिति संख्याभेदः समुपलभ्यते ।
. - वान्तराणि तदवान्तरभेदाश्चानन्तानि । अत एव 'कृष्णरूपाण्यसं- रव्यानि' इत्युच्यते । अवाधिक त्वन्यतोऽवमेयम्॥ हार्दो नाम --- सर्वेषामपि हृत्पद्मकर्णिकामध्यगतः सूक्ष्मो रूपविशेषः । अयमेव · अन्गुष्ठमात्रः पुरुयो मध्य आत्मान तिष्ठति' * य एपोऽन्तहृदय आकाशः सवन्य चाहं हृदि संनिविष्टः' इ- त्यादिभिरुच्यते । अन्य च • अन्तयामी' इति नामान्तरम् । औप- निपदात्तवान्तर्यामिणो दिव्यात्मम्वरूपादपर एवायमन्तर्यामी । दि- व्यात्मस्वरूपं हि सर्वगतत्वात् हमनकर्णिकामध्यगतमपि भवति । दि- व्यात्मस्वरूपस्यान्तः प्रविश्य नियन्तृतवान्तामिव्यपदेशाहत्वेऽप्यव- तारविशेष एवान्तर्यामिलमाख्या निवेश्यते । पररूपपरिणामोऽयं हादः 'अष्टाङ्गयोगसिद्धानां हृद्यागनिरनान्मनाम् । योगिनामधिकारः स्यादे- कम्मिन हृदयेशये' इत्युक्तरोत्या सर्वान्तयामि दिव्यस्वरूपमनुमधि- सूनां द्वारमिति अयमन्तामिशब्देन व्यपदिश्यते । अयं च 'अ- न्तयामिस्वरूपं च सर्वेषां वन्धुवत्थितम' इत्यारभ्य , ' स्वर्गनरक- प्रवेशेऽपि बन्धुरात्मा हि कंगवः इत्यन्तेन स्तूयत इति वदन्ति । अर्चा नाम - उपानकमनुजिघृक्षता तत्प्रार्थनामनुरुन्धा- नेन परेण व्यूहेन विभवेन वा बिम्बानुरूपमात्मशरीरं कलयता स्वयं प्रविश्य अविभागेन एकोकृत उपासकाभिमतसुवर्णादिनिर्मितो विन- हविशेषः । प्रतिमाद्रव्याणि च स्कान्दे ----- रत्नजा हेमजा चैव रा- जती ताम्रजा तथा । तिकी वा तथा लौही शैलजा द्रुमजा तथा।
, .. , अधमाधमा विज्ञेया मृन्मयी प्रतिमा च या' इति कधितानि । 'यार्चा मृहारमभूता सायुःश्रीवलदा मता । मौवर्णी पुष्टिदा ज्ञेया ताम्रजा जनवर्धिनी । महत्करोति भूलाभ यार्चा पाषाणनिर्मिता इति काश्यपः । प्रतिमाद्रव्यतन्निर्माणप्रतिष्टापूजाफलादिकं मात्स्य पाअ भविष्य ब्राह्म नारसिंह आदित्य अग्नि पुगणेपु संग्रहविम्तरा- भ्यानेकरीतिकमुपलभ्यते । विम्वाकृत्यात्मना विश्व समागत्याव- तिष्ठते' इति सात्वतसंहिता । अस्यार्थः . 'विम्वः = आराधकर्य- थारुचि सुवर्णरजतादिनिर्मिता प्रतिमा , तस्य आकृतिरिव आकृ- तिर्यस्य सः विम्वाकृतिः स चासौ आत्मा चेति कर्मधारयः । अत्र आत्मशब्दो विग्रहपरः । विम्बसहशविग्रहगेल्यर्थः । बिम्ब = प्रति- मायाम् । समागत्य = समित्येकाकारे नीरक्षीरबदविभागेन संनष प्राप्येत्यर्थः' इति साक्षात्स्वामिभिरभिहितः । अयं प्राकृतभागः , अयमप्राकृतभाग इति विभज्य ज्ञातुं यथा न शक्येत , तथा पर- व्यूहविभवा विस्वानुरूपेण शरीरेण तत्र विम्बे एकीभूय संनिध- तीत्युक्तं भवति । 'स्वयंव्यक्तदेवार्षादयस्त्वावतारभेदाः । देवा- दिष्वपि विशिष्टप्रतिष्ठानन्तरं प्रसादोन्मुखेश्वरसंकल्पाधीनमप्राकृत- त्वमनुसंधेयम्' इति न्यायसिद्धाजने श्रीमदाचार्याः । 'अर्चकस्य (स्थापकस्य ) तपोयोगात्पूजायाश्चातिशायनान । आभिरून्याञ्च वि- म्बस्य नित्यं संनिहितो हरिः' इति भगवच्छास्त्रे । प्राकृताप्राकृत- संसर्गोऽपि नानुपपन्नः । अन्यथा प्राकृतलोकेषु भगवदवतारानुपप- , , त्तिप्रसङ्ग इति श्रीनिगमान्तगुरुः । “ नानारूपेबपि महविभवा- चर्चावतारेषु अप्राकृतशुभाश्रयत्वादिकम् ‘समस्ताः शक्तयश्चैताः 'समस्त शक्तिरूपाणि 'विम्याकृत्यात्मना बिम्बे समागल्याव- तिष्ठते । अर्चापि लौकिकी या सा भगवद्भावितात्मनाम् । मन्त्र मन्त्रेश्वरन्यासात्सापि पाड्रगुण्यविग्रहा' इत्यादिभिरुच्यते परव्यू हादिविग्रहवत् तत्तद्विग्रहानुप्रवेशान् अर्चापि पाडूगुण्यप्रकाशकशुद्ध- सत्त्वमयीत्यर्थः” इति गचभाष्ये । 'स्वमेव रूपं तत्तत्सजातीयसं- स्थानं स्वस्वभावमजहदेव कुर्वन् तेषु तेपु लोकेष्ववतीर्यावतीर्य' इति गीताभाष्यम् । स्वमेव रूपमित्युक्या अवतारविग्रहस्याप्यताकृ- तपरमपदनिलयविग्रहांशविशेषत्वं दर्शितमिति , नेष गर्भत्वमापेदे न योन्यामवसत्प्रभुरित्यादिकमप्येतदुत्तम्भकमिति , इति वक्ष्यमाणानुसंधानेन स्वस्वभावमजहदेवेत्युक्तमिति च तत्र ता- त्पर्यचन्द्रिका । एतदुभयमत्रापि भावनीयम् । परवत् व्यूहविभवावपि हि विम्बं संलिप्यतः । श्रीवत्साङ्कमिश्रा अपि 'परो वा व्यहो वा विभव उत वार्चावतरणो भवन्वान्तर्यामी वर वरद यो यो भवसि । स स त्वं सन्नैशान्वरगुणगणान् विभ्रदखिलान् भजझ्यो भा- स्येवं सततमितरेभ्यस्त्वितरथा' इत्याहुः । एतेन अवतारेषु प्राकृत- स्पर्शन भगवतः सावद्यत्वं वदन्तः परास्ताः ; अकर्मकृतस्वेच्छामा- त्रमूलकाप्राकृतज्ञानानन्दैकलक्षणनिरवद्यदिव्यविग्रहशालिनः श्रियः श्रियः स्वरूपत एव हेयप्रत्यनीकत्वात् । कर्मकृतविग्रहपरिग्रहो हि अजोऽपि सन वै , कस्यचिदुत्कर्पमपकर्ष वा संपादयिष्यति । भगवान् किल अजाय- मान एव बहुधा विजायते । एतदभिप्रायणैव न कर्मणा वर्धत नो कनीयान् स न साधुना कर्मणा भूयान् नो एवासाधुना कनी- यान्' इत्याद्याः श्रुतयः प्रवृत्ताः । 'युवा सुवामाः परिवीत आ- गात्स उ श्रेयान् भवति जायमानः-' इति श्रुतिश्च अजायमान- स्य जायमानत्वमुत्कर्षमभिदधातत्यिलं दिष्टहतोपरि मुद्राभिघातेन । अयं चावतारः सर्वोत्तर इति सारविदां निष्कर्षः । 'म्वरू पाद्विग्रहस्य सुखानुसंधेयतया सौलभ्यमधिकम् ; तस्मादप्यर्चावता- रस्य भक्ताभिमतसर्वदेशकालसंनिधायितया परव्यूहादिभ्योऽधिक- तमम् । तदा काष्ठाप्राप्तं परत्वमपि तत्र भक्तोपलभ्यं शास्त्रादवसे- यम्' इति गद्यभाष्ये आचार्यचरणाः । 'अर्चावतारः चेतना- नामभिमतेषु द्रव्येषु विभवविशेषवैलक्षण्येन देशकालाधिकारिनियम विना अपराधानपश्यतोऽर्चकपराधीनसमस्तव्यापारवत आलयेषु गृ- हेषु च स्थितिः । रुचिजनकत्वं शुभाश्रयत्वम् अशेषलोकशरण्यत्वम् अनुभाव्यत्वं चेति सर्वमिदमर्चावतारे परिपूर्णम् । स्वस्वामिभावं व्यत्यासयन् अज्ञ इवाशक्त इव अस्वतन्त्र इव च स्थित एव अपा- रकारुण्यपरवशः सर्वमपोक्षतं ददाति' इति तत्त्वत्रये , "गुणपूर्ण एव विषय इति विषयनियमः । गुणपूर्तिश्च अर्चावतारे । दिव्यसू- रयश्च स्वगाथासु बहुत्र अर्चावतारमेव प्रपद्यमाना दृश्यन्ते।। पूर्णम् इत्युक्त्या अर्चावतारे सर्वे गुणाः पुष्कलाः । प्रपत्त्युपयोगिनश्च सौ- लभ्यादयो गुणा अन्धतमसावृते अपवरके दीप इव अर्चावतार एवं प्रकाशन्ते । स्वकीयां परिपूर्णतां स्वातन्त्र्यं च परिहाय , आत्मान- मनाद्रियमाणानपि जनान् स्वयमाद्रियते अर्चावतारः” इति श्रीवचन- भूषणे च लोकाचार्याः । एतदुक्तं भवति- समाश्रयणीयतायाश्च प्रयोजकं परत्वं सोलभ्यं चेत्यविवादम् । परत्वं च 'सर्वातिशायि पाड्गुण्यं संस्थितं मन्त्रविम्वयोः । मन्त्रे वाच्यात्मना नित्यं बिम्वे तु कृपया स्थितम्' इति संहितावचनेन अध्यवस्यामः । 'यथोपयोगं शक्वत्वात्कर्तु पुष्पादिपूजनम् । चक्षुपः प्रीतिकरणान्मनसो हृदय- स्य च । प्रीत्या संजायते भक्तिभक्तस्य सुलभो हरिः । तस्मात्त्रया- णामतेषां वेरपूजा विशिष्यते' इति वैखानसक्रियाधिकारवचनेन च सोलभ्यमधिकमवगच्छामः । अतश्च पूर्णत्वकाष्ठारूढसौलभ्याभ्यां स- र्वेषामपि प्रबुद्धाप्रबुद्धसाधारण्येन समाश्रयणीयोऽयमर्चावतार इति । एतत्सर्वमभिप्रेत्यैव ‘एवं पञ्चप्रकारोऽहमात्मनां पततामधः । पूर्व- स्मादपि पूर्वस्माज्ज्यायांश्चैवोत्तरोत्तरः । सौलभ्यतो जगत्स्वामी सुल- भाह्यत्तरोत्तरः' इति विष्वक्सेनसहितावचनं प्रववृते । परव्यूहादिषु सत्याप सोलभ्ये, तस्य विश्रान्तिभूमिरर्चावतार एवेति वचनस्य वतुलार्थः । अचीवतारस्य च सर्वातिशायि सौलभ्यमित्यभिप्रायेण '' தமருகா ததெவவுருவமவவுருவம தானே தமருகாத தெப்போ மற்றப் போ தமருகசது எவவண்ணம சிரதித்திமையா திருப்பரே அவவண்ண THY LIFeDib " इत्येवं कासारयोगी गायति । आश्रितवत्सलो भगवान् LOT । आश्रितानामभिमतं सुवर्णरजतादिनिर्मितं विग्रहं नामधेयं गुणान् चेष्टितानि च स्वीकरोतीति गाथायाः पिण्डितार्थः । श्रीशठकोपयोगि- नापि “अजी FCIENEForeirat m 2. shan@car aor Gra'air கெஞ்சினால் நினைப்பான் யவனவனாகும் நீள்கடல்வண்ணனே इति श्रीसूक्तावयमभिप्रायः प्रकटितः । अयं चाशयस्तव व्याख्यात- भिः स्फुटीकृतः । भगवतः शठकोपसूरियं गाथा 'हृदा मनीषा मनसाभिक्लप्तो य एनं विदुरमृतास्ते भवन्ति' इति तैत्तिरीयश्रुते- विवरणं भवति । 'हृदेति । हृदिति भक्तिरुच्यते , हृत्संवन्धिज्ञान- विशेषत्वात् भक्तेः । मनीषा मनस ईषा । लाङ्गलदण्डो यथा ला- ङ्गलसंबन्धाल्लाङ्गलीषा , तथा बुद्धिर्मनःसंबन्धात् मनीषा ईप्सितार्थे निश्चलावस्थानम् । सुपां सुलुगिति तृतीयाया आकारः । तया इत्थं भूतेन मनसा अभिक्लप्तः अभिनिष्पाद्यो भवेत् । यत्स्वरूपो यदृपो यद्गुणो यद्विभूतिको यत्प्रमाणको यद्व्योऽयं सर्वेश्वरः कल्प्यते , स तथा भवेदिति भावः । तथा च गीतोपनिषत् -ये यथा मां प्रप- धन्ते-' इति कूरनारायणमुनयो व्याचख्युः । भगवतापि स्वसौ- लभ्यमभिव्यञ्जयता एवं गीयते -'ये यथा मां प्रपद्यन्ते तांस्त- थैव भजाम्यहम् । मम वानुवर्तन्ते मनुष्याः पार्थ सर्वशः' इति । 'एवं साधुपरित्राणाद्यर्थदेवमनुष्यादिसजातीयस्वेच्छावतारवर्णन- मुखेन उपासनोपयुक्तं स्वस्य सौलभ्यमुक्तम् । अथ तस्यैव काष्टा- प्राप्तां दशां दर्शयति -ये यथा इति श्लोकेन । अत्र कृष्णावतार- । , वृत्तान्तेन सह अर्चावतारवृत्तान्तोऽपि संगृहीतः' इति तात्पर्यच- न्द्रिका । याशरूपादिविशिष्टतया मामुपासितुं भक्ता वाञ्छन्ति , ताशरूपादिकं तदभिमतं त्वयं परिगृह्य तेपामभिमतं साधयामि । आश्रिताभिप्रायानुवर्तिनो मम तेषां च ऐकमत्यात् द्वैधाभावेन तेऽपि मन्मार्गानुसारिणः संपद्यन्त इति श्लोकस्याखण्डार्थः । इदमत्रानुसं- धेयम् ---अ रूपी खलु भगवान स्वयमवाप्तसमस्तकामोऽपि अत- थाभूत इव सन् आश्रितैर्भक्त्या दीयमानं पत्रपुष्पफलतोयादिकं स्वी- कृत्य तृप्यति , स्वाधीनस्वव्यतिरिक्तसमस्तवस्तुस्वरूपस्थित्यादिकोऽ- पि अर्चकैः क्रियमाणमात्मनः स्वरूपस्थित्यादिकमङ्गीकरोति , स्वयं निरुपाधिकस्वाम्यपि स्वमिव भवन् , मदीयः कृष्णः मदीयो राम इति अर्चकैरभिमन्यमानो गृहक्षेत्रादिवदायविभागार्हो भवति । उप- चारापदेशेन अस्माभिः क्रियमाणम्पचारं सर्वमपि सहमान: केवल लमव्याजेन कारुण्येन आश्रितमनोरथानुसारेण कुटीकुञ्जादिध्वपि वसन् तेषामखिलमपि भद्रं संपादयतीति दूरे गिरामचर्चावतारस्य सौलभ्यातिशय इति । तथा च संहिता तदिच्छया महातेजा भुङ्क्ते वै भक्तवत्सलः । स्नानं पानं तथा यात्रां कुरुते वै जगत्पतिः । स्वतन्त्रः स जगन्नाथोऽप्यस्वतन्त्रो यथा तथा । सर्वशक्तिर्जगद्धाता- प्यशक्त इव चेष्टते । सर्वान्कामान् ददत्स्वाम्यप्यशक्त इव लक्ष्यते । अपराधानभिज्ञः सन् सदैव कुरुते दयाम् । ममायं वामनो नाम नारसिंहाकृतिः प्रभुः। वराहवेषो भगवान् नरो नारायणस्तथा । -- ।
- । ममाय राम इत्येव देवः परशुलाञ्छनः । मद्रामवासी भगवान्ममै- वेति च धीभवेत् । तथा कृष्णश्च रामश्च ममायमिति निर्दिशेत् । चिन्तयेच जगन्नाथं स्वामिनं परमार्थतः । अशक्तमस्वतन्त्रं च रक्ष्यं चापि जनाईनम्' इति । अयं चार्चावतारस्यापरो विशेषः -यदुत परःशतैरपि शास्त्रोपदेशैरनिवर्तनीय विषयान्तराभिनिविष्टानां चेत- नानां परमात्मनि वैमुख्यम् 'रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहा- रिणम्' इत्युक्तदिशा स्वसौन्दर्यादिभिर्दूरतः परिहत्य , सद्य एवं स्वस्मिन् रुचिजननं नाम । इदं चाप्रवुद्धानामप्यनुभवसाझिकम् । एतेन अनुभाव्यत्वमपि व्याख्यातम् । तथा च विष्णुपुराणे कंसप्रेरि- तस्य अङ्करस्य 'चिन्तयामास चाकूरो नास्ति धन्यतरो मम । यो- ऽहमंशावतोर्णस्य मुखं द्रक्ष्यामि चक्रिणः । अद्य मे सफलं जन्म सुप्रभाता च मे निशा । यदुन्निद्रान्जपत्राक्षं विष्णोद्रक्ष्याम्यहं मु- खम् । पापं हरति यत्पुंसां स्मृतं संकल्पनामयम् । तत्पुण्डरीकनयनं विष्णोक्ष्याम्यहं मुखम्' इत्युत्कण्ठोक्तिः। संकल्पनामयम् अदिति- देवक्याद्याराधनसंकल्पानुरूपं हि भगवतो देवमनुष्यादिसजातीय- मिदं रूपम् । इदं विभवार्चावतारसाधारणम् । यथाह-ये यथा मां प्रपद्यन्ते- इति । हृदयोपासनेऽपि उपासकसंकल्पाधीनाङ्गप्रत्य- ङ्गरूपादिमत्त्वमुक्तम् - हृदि संकल्प्य यदूपमित्यादिना' इति श्री- विष्णुचित्तार्याः। “ ensan or OPERATEST B Sohori son sair to ja rai pics or Sal " इति मुनिवाहनोक्तिरप्यत्र भाव्या । परस्य परमपदे असा- ५४ %3 । धारणेन विग्रहेण अवस्थितिः ; व्यूहेऽपि तथा, विभवे पि तत्तत्संस्था- नमजातीयसंस्थानादरणम् ; अर्चायां तु अर्चकाभिमत एव स्वाभि- मतो विग्रह इत्यन्योऽप्ययमर्चावतारस्य सौलभ्यप्रकषः । किंच अचा- वतारदर्शनेन चेतनानां पापादीनि नश्यन्तीत्यपरो गुणः । तथा च स्मयते - आ पाठान्मौलिपर्यन्तं पश्यतः पुरुषोत्तमम् । पातकान्याशु नश्यन्ति किं पुनस्तूपपातकम्' इति । श्रीपौष्करे चाचीवतारप्रक- रणे- 'संदर्शनादकस्माच्च पुंसां संमूढचेतसाम् । कुवासना कुबु- द्धिश्च कुतर्कनिचयश्च यः (कुतर्कञ्च कुनिश्चयः) । कुहेतुश्च कुभा- वश्च नास्तिकत्वं लयं व्रजेत्' इति । एवमनन्ता विशेषा अर्चावता- रल्य तत्र तत्रोक्ताः स्वयमप्यूह्याः । सर्वज्ञो भगवानेव 'अचावता- रविषये मयाप्युद्देशतस्तथा । उक्ता गुणा न शक्यन्ते वक्तुं वर्षश- तैरपि' इति स्वयमाह । एवम वतारस्य निरायासं विना च वि- लम्ब मोक्षप्रदत्वम् 'सुरूपां प्रतिमां विष्णोः प्रसन्नवदनेक्षणाम् । कृत्वात्मनः प्रीतिकरी सुवर्णरजतादिभिः ॥ तामचंयेत्तां प्रणमेत्तां यजेत्तां विचिन्तयेत् । विशत्यपास्तदोषस्तु तामेव ब्रह्मरूपिणाम्' शौनक आह । अयं भाव: शुभाश्रयचिन्तनं हि मोक्षाय कल्पत इति , शुद्धसत्त्वमय एव विग्रहो हेयप्रतिभटः सन् मुमुक्षूणामुपास्यो भवतीति च सर्वसंप्रतिपन्नम् । अर्चाविग्रहश्च न केवलं परिदृश्यमानः प्राकृत एव ; किं तु 'बिम्बाकृत्यात्मना-- 'पञ्चोपनिषदात्मानं दिव्यमङ्गलविग्रहम् । स्वामिन् लक्ष्मीश भग- - इति भगवान् , , वन संनिधत्स्व स्वविग्रहम्' इत्युक्तरीत्या अप्राकृतविग्रहविशिष्टवेषेण भगवता अधिष्ठाय नीरक्षीरवद्विभागवर्जमात्मना सहकीकृतस्तत्सं- श्लेषविशेषेण स्वयमपि अप्राकृतः शुभाश्रयो विग्रह एव । तस्य च मुमुक्षूपास्यत्वमा जस्येनोपपद्यते । एवं चायमर्चावतारविग्रहः, चा- मणयोरपि चक्षुपोर्विषयीभवन , प्रदक्षिणप्रणामार्चनादिसौकयातिश- येन परव्यूहादीनतिवर्तमानस्तत एव तेभ्यः सुदूरमुत्कृष्यमाणः , स्वोपासकानामप्रयासमपवर्गमप्यापादयतीति । 'विगत्यपास्तदोष- तामेव ब्रह्मरूपिणीम् ' इत्यर्धमेवं सारास्वादिन्यां व्याख्यातम् - " तामेव विशति अर्चनप्रणामादिविषयभूतां तामाप्नोत्येव , न तु तां जहाति , तत्क्रतुन्यायादिति भावः । कथमस्या लौकिकार्चायाः प्रा- प्यत्वमित्यत्राह-- ब्रह्मरूपिणीमिति । ब्रह्मशब्दोऽत्र 'मूर्त ब्रह्म' इत्याद्युक्तपरविग्रहपरः, तद्रूपिणी तत्स्वरूपां तदभिन्नामिति यावत् । तदुक्तं तात्पर्यचन्द्रिकायां चतुर्थाध्याये-- 'अर्चावताररूपेऽपि पर- त्वानुसंधानं दर्शितम् । यथा स्मरन्ति- तामेव ब्रह्मरूपिणीमिति इति । अत्र नारक्षीरवदेकीभावाभिप्रायण ब्रह्मरूपिणीमित्यभेदोप- चारः । तथा च पररूपेण संश्लेषविशेषादर्चाया अपि प्राप्यत्वं यु- ज्यत इति भावः । व्यूहविभवयोरपि परस्पपरिणामत्वेन तदभिन्न- त्वात् सर्वस्याप्यर्चावतारस्य ब्रह्मरूपिणीमिति पररूपाभेदोक्तियुज्यत इति ध्येयम्" इति । अत्र ‘अतिसुन्दरनित्यविग्रहेण भगवतः पर- त्वानुसंधानं तत्सांनिध्यकारणमिति च तत्रोक्तम् --नित्यसिद्धे- , - १ , इति' इति गद्यभाप्यम् , 'व्यूहविभवाद्यवस्थास्वपि हेयप्रत्सनीकत्वा- नन्दावहत्वमुमुक्षूपास्यत्वप्राप्यत्वादिस्वभावापरित्यागोऽभिहितः' इ- ति तात्पर्यचन्द्रिका , ' एषु सर्वेषु भगवतो विग्रहेषु सांसारिकफल- प्रदान एव मात्रया तारतम्यम् । निःश्रेयसं तु व्यापकानुसंधायिनां सर्वव हस्तापचेयम् । यच्च-विभवार्चनात् व्यूहं प्राप्येत्यादि , तत् व्यापकानुसंधानविधुराधिकारिविशेषापेक्षयेति मन्तव्यम्' इति न्या- यसिद्धाञ्जनं चानुसंधेयानि । इत्थं च , अपरिच्छिन्नस्य भगवतः प्रतिमापरिच्छेदेन भावनम् अशरीरितया श्रयमाणस्य शरीरकल्पनं चासंगतमिति प्रत्यवस्थानं संप्रदायज्ञानगन्धविधुराणामज्ञानां गो- ष्ठीमात्रयमिति बोध्यम् । एवमतिशयितं सौल यमर्चावतारे वि- द्यमानमेव अर्चावतारः सर्वेषां वान्धवो भक्तवत्सलः' इति लं- हितावचनमासूत्रयति । इत्थं चाचीवतारस्य पररूपाभिन्नतया विभवे- विव अत्रापि सर्वज्ञत्व सर्वशक्तित्व परमकारुणिकत्वादीनां कल्या- णगुणानामनुवृत्तिरस्त्येव । परंतु 'भजझ्यो भास्यवम् –' इत्यु- क्तरीत्या भगवति निरतिशयप्रेमशालिनां महापुरुषाणामेव ते सा- क्षात्कारगोचरा भवन्ति । अतश्च श्रीदेवाधिराजस्य काञ्चीपूर्णस्य च संवादाश्चराय प्रसिद्धो न नाम नोपपद्यते । गद्यपरामर्शे च लक्ष्मी- पतियतिपत्योः संवादः समजनीति हि ज्ञायते । तथा च ' लक्ष्मी- पतेर्यतिपतेश्च दयैकधाम्नोर्योऽसौ पुरा समजनिष्ट जगद्धितार्थम् । प्राप्यं प्रकाशयतु नः (वः) परमं रहस्यं संवाद एष शरणागतिम- . - . " न्त्रसारः' इति , ' इति शरणागतिगद्यं यतीशरङ्गशसंलपनरूपम्' इति च पृथुगद्यभाष्ये श्रीवेङ्कटनाथमूरिः । स्तोत्ररत्नमपि भगवतोः रङ्गराजयामुनेययोः प्रायेण संवाद एवेति महतां विमर्शः । 'सौ- शील्यभावितधिया भवता कथंचित्संछादितानपि गुणान् वरद त्वदी- यान् । प्रत्यक्षयन्त्यविकलं तव संनिकृष्टाः पत्युस्त्वियामिव पयोदवृ- तान्मयूखान्' इति वरदराजपञ्चाशत्पद्येनापि अयमेवाशयः क्रोडी- कृतः । “C FOTBU 560 -" इति गाथाव्याख्याने 'प्रतिमास्व- TAFIT என்னும ரிஷிகளைப்போலே தம்வாயால் சொல்லமாட் L_GOLDLITA on easoflaid cross' इति कृष्णपादसूरिः । னிவனென்று அர்சசாவதாரததை சேதானாகச் சொனனது.-- அரச் சாவதாரத்திற்கு மூச்சுண்டென றிருக்குமவராகையாலே என்கிறார்- प्रतिमास्वप्रबुद्धानामित्यादि' इति तत्र व्याख्यातारः । इत्थं च अ- प्रबुद्धाधिकारिकं प्रतिमापूजनमिति दुराक्षेपोऽपि निरस्तः । 'सर्वत्र समदर्शिनाम् (विदितात्मनां)' इत्युत्तरवाक्यानुरोधेन प्रतिमास्वे- वेत्यवधारणगर्भतया व्याख्यातव्यत्वेन शङ्काया एवानवकाशान् । यथा च प्रबुद्धा अप्यत्र अधिकारिणः , तथा उपरिष्टात्प्रपञ्चयिष्यते । ये पुनरीदृशमावतारं केवलां प्रतिमां मन्यन्ते , ते नूनं प्रत्यवय- न्त्येव । तथा च स्मयते--- 'यो विष्णोः प्रतिमाकारे लोहबुद्धिं करोति च। यो गुरौ मानुषं भावमुभौ नरकपातिनौ' इति । 'भग- वतीयेषु वस्तुषु स्वीयत्वबुद्धिः, अर्चावतारपर्यन्तेषु अवतारेषु प्रा- ८ . कृतत्वयुद्धिरित्यादयोऽपि भगवदपचाराः' इति गद्यभाष्ये आचार्याः। यदप्युच्यते- 'न तम्य प्रतिमा अस्ति' इति श्रुत्या भगवतः प्र- तिमा निषिध्यत इति , तदपि सर्वात्मना अव्युत्पन्नस्य बालिशस्य भाषितम् । ' यस्य नाम महद्यशः' इत्युत्तरत्र निःसमत्वे हेतुप्रद- र्शनेन अनत्यः प्रतिमाशब्दः सदृशपर्यायो ह्यवगम्यते । एवमेव खलु तत्र उव्वटो महीधरश्च वभापाते । श्वेताश्वतरेऽपि श्रूयमाणा इयम् ऋक् एवमेव रङ्गरामानुजमुनिभिरपि व्याचक्रे । अतश्चाय- माक्षेपः प्रज्ञाहीनस्येत्यलमन्यतोगमनेन । प्रकृतमनुसरामः । एव- मवतारान्तरापेक्षया अर्चावतार एव सर्वगुणपरिपूर्तिरित्यमुमर्थम् 'इदं पूर्णम् –' इति कठशाखाश्रुतिः प्रतिपादयतीति तत्रभवान् लोकाचार्यः । अत्र व्याख्यातारः- इयम् ऋक् कठश्रुतौ द्वयवा- क्यखण्डद्वयमध्ये पठ्यते , द्वयोक्तोपायत्वोपेयत्वापेक्षितसौलभ्यादि- गुणपूर्तिरनया प्रतिपाद्यते , 'उक्ता गुणा न शक्यन्ते' इत्युक्तरीत्या पूर्णशब्दस्यासंकोचा प्रवृत्तिरत्र सिध्यति , 'पञ्चप्रकारोऽहम्' इत्यु- क्ता पञ्चत्वसंख्या अत्र प्रत्यभिज्ञायते , 'पूर्वस्मादपि पूर्वस्मात्' इति रीत्या उत्तरोत्तराधिक्यमत्र प्रतिपाद्यत इति लिङ्गसंनिधिभ्याम् ऋगियम् अर्चावतारे विश्राम्यति । “ यदेवेह तदमुत्र" इत्यादाविव इदमदःशब्दौ अन्तर्यामिपररूपवाचिनौ। इदम् = एतदन्तर्यामि- रूपम् , पूर्णम् = कल्याणगुणपुष्कलम् । अदः = परवासुदेवरूपम् , पूर्णम् = गुणैः पुष्कलम् । पूर्णात् = षाडूगुण्य- , नित्यविभूतिस्थ- , - । पूर्णात्परवासुदेवात् अभिव्यक्तम् , पूर्णम् = व्यूहरूपम् , उद्रिच्यते = द्वाभ्यां द्वाभ्यां गुणाभ्यां बहुविधत्वं प्राप्नोति । पूर्णस्य = अन- त्तावतारकन्दक्षीरपयोधिशायिव्यूहविशेषप्रादुर्भूतत्वान् व्यूहात्मक- पूर्णसंबन्धि , पूर्णम् = कल्याणगुणपूर्णविभवरूपम् , आदाय = स्वहेतुत्वेन स्वीकृत्य , पूर्णमेव = सकलकल्याणगुणपरिपूर्णोऽर्चाव- तार एव , अवशिष्यते = नित्याश्रयणीयतया नित्यसनिहितः सौल- भ्यविश्रान्तिभूमिः सन् परत्वादिषु चरमतया अवतिष्ठते । ओम् = रक्षकत्वप्राप्यत्वविशिष्टे अर्चावतारे, सर्वम् = आश्रयणसौकर्या- पादक आश्रितकार्यापादकसकलकल्याणगुणजातम् , सह पूर्णम् - मिलितं सत् पुष्कलमवलोक्यते । अनेन च परव्यूहयोः संभवन् का- लसंनिकर्षः , विभवे देशकरणसंनिकपः, अन्तर्यामित्वे देशकालसं- निकर्ष इत्येतद्रूपं यत्सौलभ्यम् , तत्प्रभृतयः आश्रयणोपयुक्ता गुणाः ज्ञानशक्त्यादयश्च कार्योपयुक्तगुणा इत्येवं पूर्वपठितपूर्ववाक्यस्थ ना- रायणपदोक्ताः सर्वेऽपि गुणा अर्चावतारे पुष्कला इत्युक्तं भवति ॥ इदमेव च पूर्वपूर्वादुत्तरोत्तरे अवतारे उत्कृष्यमाणं सौलभ्यं सचमत्कारं निदर्शयति श्रीवचनभूषणकारः । तद्यथा -'भूग- तजलमिव अन्तर्यामित्वम् , आवरणजलवत् परत्वम् , क्षीराब्धिना तुल्यो व्यूहः, वशिकतटिन्य इव विभवाः , तत्परीवाहजा हृदा इव अर्चावतारः' इति । इदं च वाक्यमेवं व्याचचक्षे श्रीरम्यजामातृ- मुनिः- " तृष्णार्तस्य जलार्थिनो जनस्य भूगतं सलिलं यद्यपि प्र- , , - . त्यासन्नमेव , न च नदर्थ तेन देशान्तरं गन्तव्यम् ; अथापि खन- नादिकं विना न तत्प्राप्तुं शक्यते । एवमेव दिदृक्षोर्हृदयस्थितः सं- निहितोऽपि न खलु दृष्टिपथमवतरति अन्तर्यामीति अन्तर्यामित्वं भूगतजलतुल्यं भवति । अण्डाद्वाहभूतं जलं यथा तृष्णार्तस्य नोप- योगाय भवति , तथैव संसारिणो जनस्य लीलाविभूतेः परस्ताद्वि- द्यमानं परत्वं नानुभवाय कल्पते । यथा वा नातिविप्रकृष्टोऽपि अ. ण्डान्तर्गतोऽपि क्षीराब्धिर्दुष्प्रापः , एवमेव केवलं श्रूयमाणो दर्श- नस्य अविषयो व्यूहः । यथा च वशिकतटिन्यः प्रत्यासन्ना अपि प्रवाहकाले विद्यमानानामेव उपजीव्याः, न पश्चात्तनानाम् ; तथैव भूमाववतीर्य संचरन्तोऽपि समकालिकानामेघ आश्रयणार्हाः पश्चा- द्भवानां दुर्लभा विभवाः । पूर्वोक्तावलक्षणाः तटिनोप्रवाहजा हृदा यथा पिवतां तादात्विकानां श्रममपनयन्तः पश्चाद्भाविनामप्युपयो- गाय भवन्ति , तद्वत् आलयेषु गृहेषु च स्थितः देशकालकरणवि- प्रकर्षवर्ज तदातनैः साक्षान् सेव्यमानः भाविनामपि चेतनानामु- पजीव्यः अर्चावतारः। 'भौमनिकेतनेष्वपि कुटोकुजेषु' इत्युक्त- दिशा अर्चावताराणां बहुत्वात् तदभिप्रायेण 'हदा' इति बहुवच- नम् । अवतारगुणानां सर्वेषामपि अर्चास्थलेषु परिपूर्णताम् , अव- तारविग्रहाणामर्चात्मना बहुत्र परिग्रहं चाभिसंधाय 'तत्प्रवाहजा हृदा इव' इत्युक्तिः" इति ॥ ।
६१ .. 'आस्तां ते गुणराशिवगुणपरीवाहात्मनां जन्मनां संख्या भौमनिकेतनेष्वपि कुटीकुजेपु रङ्गेश्वर । अWः सर्वसहिष्णुरर्चकपराधीनाखिलात्मस्थितिः प्रीणीषे हृदयालुभिस्तव ततः शीलाजडीभूयते ॥' इत्येकेन पद्येन अर्चावतारवैभवं संजग्राह भट्टारकः ।। कवितार्किकसिंहश्च 'एषु परव्यूहप्रभृतिषु चित्तालम्बनेषु प्रपत्त्येकनिष्टा नाथमुनिप्रभृतयः सुलभतमत्वेन परिपूर्णत्वाविशेषाच्च समाहितचित्तानामपि अनुसंधेयमर्चावतारमेव चेतसः शुभाश्रयमा- लम्बन्त' इति श्रीपाञ्चरात्ररक्षायामनुगृह्णातीति दिक् ।। एतादृशस्य चार्चारूपिणो भगवतः समाराधनं नियम . 'नित्यम्' इति कण्ठोक्तेः अकरणे प्रत्यवायश्रवणाच्च । तथा हि- कूर्मे तावत् 'न विष्ण्वाराधनात्पुण्यं विद्यते कर्व वैदिकम् । तस्मा- दनादिमध्यान्तं नित्यमाराधयेद्धरिम् ॥' इति पठ्यते । भगवता शौनकेनापि - 'शौनकोऽहं प्रवक्ष्यामि नित्यं विष्णवर्चनं परम्' इति नित्यत्वमुच्यते । 'स्नात्वा नित्यं शुचिः कुर्याद्देवर्षिपितृतर्प- णम् । देवताभ्यर्चनं चैव समिदाधानमेव च' इति सामान्यतो ब्रुव- न्मनुरपि अस्य नित्यत्वमभिप्रैति । 'स्नात्वा देवान् पितॄश्चैव तर्प- येदर्चयेत्तथा' इति याज्ञवल्क्यवचनम् ' मध्याह्ने तर्पणानन्तरं गन्ध- कुसुमाक्षतैर्हरिहरहिरण्यगर्भप्रभृतीनामन्यतमं यथावासनम् ऋग्यजुः साममन्त्रैस्तत्प्रकाशकैः स्वनामभिर्वा चतुर्थ्यन्तैनमस्कारयुक्तैराराध- - - . येन्' इति व्याचख्यौ विज्ञानेश्वरः । 'ब्रह्मचारी गृहस्थो वा वानप्र- स्थोऽथ भिक्षुकः । केशवाराधनं हित्वा नैव याति परां गतिम्' इति भारते पठ्यते । अकरणे प्रत्यवायश्च स्मयते तथा च कूर्मे 'यो मोहादधवालस्यादकृत्वा माधवार्चनम् । भुङ्क्ते स याति नरकं सूकरेष्विह जायते ॥ अनर्चयित्वा गोविन्दं यैर्मुक्तं धर्मवर्जितैः । सुनो विष्ठासमं चान्नं नीरं च सुरया समम्' इति । 'यो मोहाद- थवालस्यादकृत्वा देवतार्चनम् । भुङ्क्ते स याति नरकान् सूकरेष्वपि जायते' इति योगयाज्ञवल्क्यः। आश्वमेधिके च-'विष्णुं ब्रह्म- ण्यदेवेशं भजध्वं पुरुषोत्तमम् । लोकनाथमनाद्यन्तं जगतः कारणं परम् । नार्चयन्ति हि ये मूढाः परमात्मानमव्ययम् । ते यान्ति नरकान् घोरानक्षय्यान् पुरुषर्षभ ।' इति । भागवते च- गृहं इमशानं तव बिम्बवर्जितं कथाविहीनाश्च गिरः शिवारुतम् । श्व- सन् शवो दास्यविनाकृतं वपुर्वदन्ति हि त्वय्यनिवेदितं विषम् ॥' इति । 'केशवार्चा गृह यस्य न तिष्ठति महीपते । तस्यान्नं नैव भोक्तव्यमभक्ष्येण समं हि तत् ॥' इति स्कान्दे भगवदर्चावतार- रहितगृहस्य पुरुषस्य अभोज्यान्नत्वमुच्यते । एतेन अधिकारिविशे- षचिन्ताया अवकाश एव नेति सिध्यति । 'ब्राह्मणैः क्षत्रियैर्वैश्यः शूद्रश्च कृतलक्षणैः । अर्चनीयश्च सेव्यश्च नित्ययुक्तैः स्वकर्मसु ।' इत्यविशेषेण हि अधिकारिण उच्यन्ते । तत्र च वर्णादिभेदेन आरा- धनं भिद्यत इति त्वन्यन् । एवं च इदं प्रबुद्धाधिकारिकं वा न
No text on this page.
No text on this page.
- यषा चिन्ता केवलं कृत्वाचिन्तैव , नित्यकर्मसु सर्वेषामधिकारात् । इयांस्तु विशेष:- यदप्रतिबुद्धाः फलार्थिनः प्रवर्तन्ते , प्रबुद्धास्तु प्रपन्नाः स्वानुरूपकैंकर्यबुद्ध्येति । एतच्च निक्षेपरक्षायाम् ‘ननु प्रप- त्यैव चेत्सकृत्कृतया अपवर्गो लप्स्यते , किं बहुवित्तव्ययायासमन:- समाधानादिसाध्येन प्रपत्त्यङ्गकेन प्रतिदिवसम् आ प्रयाणादनुवर्त- नीयेन भगवदाराधनप्रयोगनिर्बन्धेनेति चेत् , हन्त प्रपन्नाः किमप- वर्गार्थ भगवन्तमाराधयन्ति ? अपि तु अनन्तगरुडविष्वक्सेनादय इव भगवच्छेषतैकरसाः शास्त्राविरुद्धेन स्वरूपानुरूपेण भगवदारा- धनेन कालं क्षिपन्ति' इति श्रीमद्भिराचार्यैः प्रत्यपादि । किं चात्र 'एतच्च नित्यत्वात्स्वरूपानुरूपानन्दफलत्वेन स्वयं प्रयोजनत्वाच्च स्व- तन्त्रप्रपत्तिनिष्टैरपि दुस्त्यजम्' इति , 'अतो यत्र क्वचिद्भगवद्रूपे निरन्तरानुसंधानं नाथमुनिप्रभृतिवत्सिद्धोपायैरपि निवेशनीयम् ' इति च श्रीपाश्चरावरक्षासूक्तिरपि भावनीया । श्रीनिवासदीक्षितोड पि ‘क्रियावानेष ब्रह्मविदां वरिष्ठः' इति श्रुतौ क्रियापदेन भगव- दर्चनरूपविशेषक्रियैव गृह्यत इति सप्रमाणमास्थाय , भगवदाराध- नवन्त एव ब्रह्मविद्वरिष्ठा इति स्वकृते भाष्ये निगमयति । सकल- मिदमभिसंधाय कवितार्किकचक्रवर्ती निगमान्तमहादेशिकः परस्मिन्व्यूहाख्ये विभवनिवहेऽर्चावतरणे तथैवान्तर्यन्तर्यजहदधिकारादिनियमाः। निरुध्य स्वं चित्तं निरवधिमहानन्दजलधौ निरस्तान्यापेक्षा नयत सफलं कालमखिलम् ॥ " .. "
इति सकरुणमस्मानुपदिशतीति सकलमकलङ्कम् ।।
अवतारान्तरेभ्योऽपि हरेरतिशयान्वितः ।
अर्चायां सुलभीभावः सप्रमाणं निरूपितः ।।
सन्निबन्धमवलोक्य जाग्रता
सादरेण समलेखि या कृतिः ।
मन्ददृष्टिरशुभात्र मा स्म भू-
द्भद्रमस्तु गुरुवीक्षणं परम् ॥
इति वात्स्यचक्रवर्ति कृष्णसूरि विरचिते अर्चावतारवैभवे
अर्चासौलभ्यनिरूपणं नाम द्वितीयः परिच्छेदः ।।
-0(*)0-
No text on this page.
No text on this page.
श्री विजासहस्त्रनामले
अचाप्रकरण
अ या प्रक्रिया - शलीश' -कृतम
अजि सिवनी मारीत्या रम्य
-
विभवार्ययो । शन्दिा :
(जिनामा- बरेमामा -राशेलकर यह
सत्ती निशिनसंशय - देवराजरस्तावित
उदीस्सिर्वतार - श्रीवकटेशविहार
अमीशश्यानतरिधरः - सरीरीराविहार
७ भूशास्त्रामर कान्त इतिपर्यन्त
तत्र इशयालाइ पनि श्रीरंगनाथस्थ
अन्योलते अपराशरभाष्यगत स्पर
इति श्रीरानी
11--2-2000
@ पोबारे अस्मिानातिवाणितात
तत्र निराफर सुनिशिदिन प्रशिक्षा
तिलगुयो 18सास्सिाजात मानि
(6)
मोतरेऽपि
प्राई करानी
बाईपोशाले ०४
प्रधान राम
5)
"
इति च श्रीरामशर्मा