Svclrc
Vivahapatlam Sarasamuchaya
Front matter
HAMROINNAR
66
श्रीः।
विवाहपटलम् ॥
सारसमुच्चयः
ग्रंथोऽयं
सूर्यपुर(सुरत)स्थ ज्योतिर्विदू
कृष्णशंकर केशवराम रैक इत्येतैः संपादितः.
मुंबय्यां
पाण्डुरङ्ग जावजी इत्येतैः
स्वीये निर्णयसागरमुद्रणालये मुद्रयित्वा प्रकाशितः।
प्रतयः १०००.
शकाब्दाः १८५६, सन १९३५.
मूल्ये ४ाणे
Soc
20
GG
[ All rights reserved by the publisher.] Publisher :-Pandurang Jawaji, *Nirnaya-sagar' Press, Printer :-Ramchandra Yesu Shedge, 26-28, Kolbhat Lane, Bombay, ॐ विवाहपटलम् । सारसमुच्चयः। राशिकूटाध्यायः॥ १॥ मंगलाचरणम्- सुरासुरैर्वदितपादपद्मं शिवात्मजं भक्तजनस्य सिद्धिदम् । तं विघ्नराजं प्रणतोऽस्मि नित्यं वागीश्वरी देवगुरुं हरिं तम्॥१॥ विश्वरूपेण यः साक्षात् श्रीविष्णुं ब्रह्मविद्गुरुम् । हृश्चिंतकस्य सुखदं तं मुकुंदं नमाम्यहम् ॥ २ ॥ नानाशास्त्रोद्धृतं सारं वैद्यनाथेन यत्कृतम् । अन्यैश्च यद् गृहीतं तं वक्ष्ये सारसमुच्चयम् ॥ ३ ॥ वर्णविचारः- मीनाबाह्मणपूर्वा वर्णाः कन्योत्तमो वरः श्रेष्ठः । मध्यस्थः समवणे नीचो हीनोद्भवः पुरुषः ॥४॥ राशिवरूपाणि । वराहमिहिरः- मत्स्यौ घटी नृयुगलं सगदं सवीणं चापी नरोऽश्वजधनो मकरो मृगास्यः। तौली ससस्यदहना प्लवगा च कन्या शेषाः स्वनामसदृशाः खचराश्च सर्वे ॥५॥ राशिस्वभावः- मेषो दैन्यमुपैति गर्वति वृषो नानामतिर्मन्मथः शूरः कर्कटको धृतिर्वनपतेः कन्यात्र मायान्विता। : - २ विवाहपटले [राशिकूटंम् । सत्त्वं रजुतुला अलिमलिनता चापश्च पापाशयो मौखर्य मकरे घटे चतुरता मीने च धीरा मतिः ॥६॥ वश्यविचार:- वश्या मनुष्यजातेः सिंहं हित्वा जलोद्भवा भक्ष्याः। विसरीसृपाश्च सिंहस्यान्यं लोकात्परिज्ञेयम् ॥ ७॥ ताराविचार:- जन्मतारा शुभा प्रोक्ता द्वाभ्यामेकक्षसंस्थिता । त्यक्त्वा त्रिपंचसप्ताख्या शेषोद्वाहे मिथः शुभा ॥ ८॥ वराद्गणयेद्यावत्कन्यक्षं वरभं पुनः । कन्यन्निवहच्छेषं त्रीष्वद्रिभमसत्स्मृतम् ॥ ९॥ योनिविचारः- अश्वेभाजफणिद्वयं श्ववृषभुङ्लेषोतवो मूषक- श्चाखुर्गौः क्रमशस्ततोऽपि महिषी व्याघ्रः पुनः सैरिभी। व्याघेणौ मृगमंडलौ कपिरथो बभ्रुद्वयं वानरः सिंहोऽश्वो मृगराट् पशुश्च करटी योनिस्तु भानामियम् १० माधवः- गोव्याघ्रमश्वमहिष नकुलं द्विजिह्व- मोतून्दुरं हरिगजं मृगसारमेयम् । मेषप्लवंगमिदमन्यदपीह वैरं त्याज्यं वधूपुरुषयोपभृत्ययोश्च ॥ ११ ॥ भोजदेवः- अनुक्तेषु पुनः कल्प्यमृक्षेषु व्यवहारतः । बलाबलं विचारज्ञैरभीष्टार्थस्य सिद्धये ॥ १२ ॥ - अध्यायः १] सारसमुच्चयः। - हारीतः- वश्ये योनौ वश्यवैरं च भक्ष्यं प्रोक्तं त्रेधा गर्गमुख्यमुनींद्रः। एवं ज्ञात्वा लोकतश्चिंतनीय तज्ञैर्यस्मात्सौख्यवृयै नृनार्योः राशिस्वामिनः- मेषवृश्चिकयोभौमः कन्यामिथुनयोर्बुधः । शनिर्मकरकुंभेशो जीवो मीनधनुर्भूतोः ॥ १४ ॥ आस्फुजित्तौलिवृषयोश्चंद्रः कर्कटराशिपः। सिंहस्याधिपतिः सूर्यो नवांशानामधीश्वराः॥ १५ ॥ जातके- द्विादशं त्रिकोणं च ग्रहमैत्रीयुतं शुभम् । योनिदोषो न चात्रास्ति इत्याहुः शौनकादयः॥१६॥ ग्रहमैत्रीविचारः। वराहमिहिरः- शत्रू मंदसितौ समश्च शशिजो मित्राणि शेषा रवे- स्तीक्ष्णांशुर्हिमरश्मिजश्च सुहृदः शेषाः समाः शीतगोः। जीवेंदूष्णकराः कुजस्य सुहृदो ज्ञोऽरिः सितार्की समौ मित्रे सूर्यसितौ बुधस्य हिमगुः शत्रुः समाश्चापरे ॥१७॥ जीवे सौम्यसितावरी रविसुतो मध्योऽपरे त्वन्यथा सौम्यार्की सुहृदौ समौ कुजगुरू शुक्रस्य शेषावरी । शुक्रज्ञौ सुहृदौ समः सुरगुरुः सौरस्य चान्येऽरय- स्तत्काले च दशायेवं सहजस्वांत्येषु मित्रं स्थिताः॥१८॥ १ वराहमिहिरः- मित्रमुदासीनोऽरिर्व्याख्याता ये निसर्गभावेन । तेऽधिसुहृन्मित्रसमास्तत्कालमुपस्थिताश्चिंत्याः॥ मूलत्रिकोणषष्ठंत्रिकोणनिधनैकराशिसप्तमगाः। एकैकस्य यथोक्तं भवंति तात्कालिका रिपवः ॥ १२ विवाहपटले [राशिकूटम् ग्रहमैत्रीगुणाः पंच द्वे शुभे द्विशुभप्रदे । सममेकं बुधैज्ञेयं बलाबलविचारणे ॥ १९॥ आयुष्यं प्रथमे प्रीतिर्द्वितीयेऽन्यत्समे समम् । चतुर्थे मानसं वैरमायुहीयेत पंचमे ॥ २० ॥ गणविचार:- पूषानिलाश्विनो मित्रविष्णुचंद्रार्कदैवतम् । पुनर्वसुद्वयं प्रोक्तं मुनिभिर्देवतागणे ॥ २१ ॥ पूर्वात्रीण्युत्तरात्रीणि रोहिणी भरणी तथा । आतानि मनुष्याणां गणः प्रोक्तो मनीषिभिः॥२२॥ चित्रा ज्येष्ठा धनिष्ठा च विशाखामूलकृत्तिकाः। शततारामघाश्लेषा आसुरो गण उच्यते ॥ २३ ॥ ब्रह्मगुप्तः प्रीतिः स्ववर्गे नरदेवयोश्च मैत्री कलिः स्यात्सुररक्षसोश्च । मृत्युभवेद्राक्षसमर्त्ययोश्च कलत्रमित्रस्वगृहेषु चिंत्यम् ॥२४॥ गर्ग:- प्रीतिरायुगणे चैके प्रीतिः स्यान्नरदेवयोः । अमरासुरयोयुद्धं मृत्युः स्यान्नरदैत्ययोः ॥ २५ ॥ श्रीपतिः- प्रीतिः स्मृतैकगणयोरुभयोनार्योः सा मध्यमा नरमरुद्गणयोः सदैव । रक्षोगणेन सह देवगणस्य वैरं मृत्युर्निशाचरगणो नृगणस्य नूनम् ॥ २६ ॥ रक्षोगणो यदा पुंसः कन्या भवति मानवी । केडपीच्छंति तदोद्वाहं व्यस्तं कोऽपीह नेच्छति ॥२७॥ - - अध्यायः१] सारसमुच्चयः। विशेषविचारः। भृगुः- यदा तीव्रगणा नारी नरो नरगणो भवेत् । तदोराहो न कर्तव्यो यस्माद्वैधव्यदो ध्रुवम् ॥ २८ ॥ रक्षोमनुष्यक्षजयोनार्योः सदाशिकूटे च भयोनिशुद्धौ। उद्धाहमिच्छंति हि धर्मसिया भेशारिभावेऽपि पुनर्मुनींद्राः ॥ २९ ॥ हरिदेवः- रक्षोगणो यदि वरो नृगणा कुमारी सदाशिकूटखगमैत्रभयोनिशुद्धौ । यद्यस्ति तत्र शुभदं करपीडनं स्या- द्वामभ्रुवां न हि यदा खलु नाडियोगः ॥ ३० गर्ग:- रक्षोगणो यदा पुंसः कुमारी नृगणा भवेत् । सद्भकूटः खगप्रीतियोनिशुद्धिः शुभं तदा ॥ ३१॥ वराहः- तीव्रपुंसमनुजा च कन्यका सद्भकूटखगयोश्च मित्रता । नाडियोनिषु विशुद्धिता यदा धर्मकामधनवृद्धये तदा ॥३२॥ सप्तर्षयः- एकग्रहोद्भवानां भवति विवाहः सुखार्थसंपत्त्यै । यधुभयोरेकक्षं न भवति यदि वांशको नैकः ॥ ३३ ॥ भोजदेवः- एकराशौ धनापत्यसौभाग्यजननः स्मृतः । एकः यदि चैकांशे विवाहो न प्रशस्यते ॥ ३४ ॥ % - विवाहपटले [राशिकूटम् । श्रीपतिः- कुर्यात्सौभाग्यवित्ताप्तिमेकराशौ करग्रहः । शस्यते नैकमे कैश्चिदेकांशे नेष्यते परैः॥ ३५ ॥ हरिदेवः- एकराशिषु करग्रहः पृथग्भे सुतार्थसुखभर्तृमानदः । एकभे न शुभदो मृतिप्रदो नैकभांश उदितः पुरातनैः ॥३६॥ ब्रह्मगुप्तः एकराशौ पृथग्भे भवेदुत्तमं तद्वदेवान्यभागे भवेन्मध्यमम् । एकभागे त्वनिष्टं हि पाणिग्रहं वर्णयंत्यत्र योषित्सु पुंसःसदा॥ विशेषश्च- दंपत्योरेकराशौ चेद्भिन्नपादक यदि । विवाहं शुभदं प्राहुर्वसिष्ठासितदेवलाः ॥ ३८ ॥ सप्तर्षयः-- अभिन्नराशौ यदि भिन्नमृक्षं विवाहमिच्छति हि शौनकाद्याः। प्रीतिस्तयोरोहिणिकृत्तिका चेन्न नाडिदोषो न गणोत्थदोषः॥ वह्निप्रजापश्च मृदादितिश्च अर्यम्णहस्तोऽप्यनिलाग्निसर्पाः। विशेषविष्णूवरुणाजपं च एकाधिराशौ न च नाडिदोषः ४० प्रीतिवित्तसुखदः करग्रहस्त्वेकराशिरिह भिन्नभं भवेत् । वारुणाजचरणं यदा तदा नाडिदोषगणजौ न दोषदौ ॥४॥ वामदेवः- स्त्रीपुंसोरेकराशिश्चेत्पृथगृक्षं यदा भवेत् । वसिष्ठोक्तेविवाहः स्याद्गणनाडी न दोषदौ ॥ ४२ ॥ अष्टधामैत्री । लघुगर्गः- एकराशौ पृथग्धिष्ण्ये विवाहः शुभदो भवेत् । नाडीदोषो न चात्रास्ति दंपत्योश्च चिरायुपम् ॥४३॥ - ७ अध्यायः १] सारसमुच्चयः। शुभाशुभे भकूटे स्यान्नाडीयोगस्तु मृत्युदः । एकराशिं विना प्राहुर्वसिष्ठासितदेवलाः ॥ ४४ ॥ सदाशिकूटं ग्रहमित्रता च वर्णोऽथ वश्यं च विचिंत्य राशेः। ऋक्षस्य नाडीगणयोनितारामैत्री विचार्याऽष्टविधा विवाहे ४५ लक्ष्मीधरस्तु विशेषमाह- योनिनाडीगणादिवश्यमैत्रीस्वभावजाः । तारावर्णविशुद्धिश्च प्रीतिरष्टविधा स्मृता ॥ ४६ ॥ राशिकूटखगमैत्रितारकायोनिनाडिगणवर्णशुद्धया। राशिवश्यवरदूरतादिभिः प्रीतिभिर्दशगुणाः प्रकीर्तिताः ४७ ग्रंथांतरेऽपि- मैत्री ग्रहाणामथ राशिकूटं नाडीप्रभेदौ गणवर्गताराः। भयोनिशुद्धिर्वधुदूरता च वर्णों वशित्वं दशधा प्रदिष्टम् ४८ एकराशौ पृथग्धिष्ण्ये लभेयुर्दशधा गुणाः । एकनाड्यादिभिर्दोषैर्नारिष्टं प्राह भागुरिः ॥ ४९ ॥ राशिकूटभवनाधिपमैत्रीतारकागणविशुद्धिविनाड्यः । वर्णशुद्धिरुडुयोनिभवश्ये पाणिपीडनविधौ खलु चिंत्यम् ५० राशिकूटं गणो मैत्री वर्गोऽथ वश्यतारके। नाडी योनिर्वधूदूरं वर्णाश्चेति गुणा दश ॥ ५१ ।। वश्यं वर्णो भकूटं च मैत्री च वरदूरकम् । नाडियोनिगणास्तारा वल्लभत्वं गुणा दश ॥ ५२ ॥ वल्लभत्वकथनं श्रीपतिः- षट् पौष्णतो द्वादश शांकराच्च पौरंदराद्भानि नव क्रमेण । पूर्वार्धमध्यापरभागयुजि चिरंतनज्यौतिषिकैः स्मृतानि॥५३॥ -
८
-
विवाहपटले
[राशिकूटम् ।
पूर्वभागयुजि मे पतिः प्रियो योषितामपरभागयोगिनि ।
स्त्री नृणां भवति मध्ययोगिनि प्रेम नूनमुभयोः परस्परम् ५४
पराशरस्तु विशेषमाह-
स्त्रीग्रहर्वल्लभा नारी पुंग्रहवल्लभो नरः ।
सबलैरुभयोः प्रीतिः सर्वथा स्यात्करग्रहे ॥ ५५ ॥
महादेवः-
भकूटमैत्री खलु वश्यवर्णी राशेर्गुणाः पंचमकं च दूरम् ।
नाडी गणो योनियुता च तारा सवल्लभा चेति वदंति सन्तः५६
BAD
नाडीमैत्री द्विजस्योक्ता गणवर्णी च बाहुजे ।
वैश्यस्य राशिदूरं च योनिवर्गों च शूद्रजे ॥ ५७ ॥
यस्य वर्णाधिका नारी तस्या भर्ता न जीवति ।
यदि जीवति भर्ताऽस्याः पुत्रस्तस्या न जीवति ॥५८॥
भोजराजः-
उत्तमा वर्जयेत्कन्यां विवाहसुहृदंबुभम् ।
धनायुः क्षीयते तेजो योऽधिकां वरयेस्त्रियम् ॥५९॥
पूर्वपंचकमेकानां शेषद्वययुतं शुभम् ।
भाव्यं षडष्टके नाडी योगो वा गुणसप्तकम् ॥६०॥
तृतीयलाभं कुलवृद्धयेऽपि वंधुर्दशाख्यं धनपुत्रकारि ।
पुंस्त्री मिथः सप्तमकः सुखायुस्तथैकराशेरपि नान्यदोषः ६१
१ पुरुषा रविगुरुभौमा नपुंसकाख्यौ बुधार्कपुत्रौ च ।
नायौँ भृगुचंद्रमसौ ग्रहस्वभावास्त्रिधा प्रोक्ताः ॥ १ ॥
5 5 सेरसमुच्चयः। अध्यायः १] राशिकूटाख्यसन्नाडी गणयोनिः समित्रता । तारा स्त्रीदूरवश्यानि दंपत्योः सद्गुणाष्टकम् ।। ६२ ।। शुभौ द्विादशी- मेषझषौ वृषमिथुनौ कर्कहरी घटमृगौ तुलाकन्ये । हरिषष्ठौ धन्वलिको श्रेष्ठौ द्विादशौ राशी ।। ६३ ।। षडष्टकविषये वृत्तशतेऽपि- सिंहो मीनयुतस्तुलायुतवृषो धन्वी कुलीरान्वितः कुंभः कन्यकया युतोऽथ मकरो इंद्वान्वितोऽजोऽलिना। योगेष्वेषु षडष्टकेष्वपि शुभः पाणिग्रहः स्याद्यदा प्रागुक्तं च गणत्रयं वशगृहं तारानुकूल्यं भवेत् ॥६४॥ अन्यत्रापि- मीनालिभ्यां युते कीटे कुंभे मिथुनसंयुते । मकरे कन्यकायुक्त कुर्याद्वै नवपंचमम् ॥ ६५ ॥ द्विषष्ठाभ्यां समो राशिर्विषमोऽष्टव्ययान्वितः । शुभो विलोमतो नेष्टः सिंहोऽपीष्टो बलान्वितः॥६६॥ विप्राणां दशकूटं स्यात्क्षत्रियाणां तथाष्टकम् । वैश्यानां कूटषटुं च शेषाणां तु चतुष्टयम् ॥ ६७ ।। दुष्टं भकूटं ग्रहमैत्रियुक्तं शुभं भवेद्यद्यपि योनिवैरम् । योनौ विहीनं गणमैत्रयुक्तं सुतायुरारोग्यकरं नृनार्योः॥६॥ पुंराशिः स्त्रीराशेदशनवमाष्टमो यदा भवति । मध्यमयोस्तूभययोः समसुहृदोमित्रयोःसुखावात्यै ॥ ६९॥ गर्गमुकुंदौ- कन्याद्वरभं दूरं कन्यादूरमुदीरितम् । सुखप्रदं विवाहे स्याद् व्यस्तं दुःखप्रदायकम् ॥७॥ -
८
-
विवाहपटले
[राशिकूटम् ।
पूर्वभागयुजि मे पतिः प्रियो योषितामपरभागयोगिनि ।
स्त्री नृणां भवति मध्ययोगिनि प्रेम नूनमुभयोः परस्परम् ५४
पराशरस्तु विशेषमाह-
स्त्रीग्रहर्वल्लभा नारी पुंग्रहवल्लभो नरः ।
सबलैरुभयोः प्रीतिः सर्वथा स्यात्करग्रहे ॥ ५५ ॥
महादेवः-
भकूटमैत्री खलु वश्यवर्णी राशेर्गुणाः पंचमकं च दूरम् ।
नाडी गणो योनियुता च तारा सवल्लभा चेति वदंति सन्तः५६
BAD
नाडीमैत्री द्विजस्योक्ता गणवर्णी च बाहुजे ।
वैश्यस्य राशिदूरं च योनिवर्गों च शूद्रजे ॥ ५७ ॥
यस्य वर्णाधिका नारी तस्या भर्ता न जीवति ।
यदि जीवति भर्ताऽस्याः पुत्रस्तस्या न जीवति ॥५८॥
भोजराजः-
उत्तमा वर्जयेत्कन्यां विवाहसुहृदंबुभम् ।
धनायुः क्षीयते तेजो योऽधिकां वरयेस्त्रियम् ॥५९॥
पूर्वपंचकमेकानां शेषद्वययुतं शुभम् ।
भाव्यं षडष्टके नाडी योगो वा गुणसप्तकम् ॥६०॥
तृतीयलाभं कुलवृद्धयेऽपि वंधुर्दशाख्यं धनपुत्रकारि ।
पुंस्त्री मिथः सप्तमकः सुखायुस्तथैकराशेरपि नान्यदोषः ६१
१ पुरुषा रविगुरुभौमा नपुंसकाख्यौ बुधार्कपुत्रौ च ।
नायौँ भृगुचंद्रमसौ ग्रहस्वभावास्त्रिधा प्रोक्ताः ॥ १ ॥
अध्यायः १] सारसमुच्चयः। शेषेष्वर्थसुखात्मजाः सुपशवः स्यादेकनाडी न चेद् दंपत्योभगणौ निषिद्धफलदौं वरं भयोन्योस्तथा।।८।। - गदाधरः- राशिकूटे शुभे लब्धे ग्रहमैत्रीं न चिंतयेत् । अलाभे राशिकूटस्य ग्रहमैत्री विचिंतयेत् ॥ ८२ ॥ कन्यकाभवनतो वरराशि‘दशाष्टनवमो गुणयुक्तः । पाणिपीडनविधौ यदि कुर्यादन्यथा निधनमेति वियोगम् ८३ कन्यक्षतो रिप्फनवाष्टमं में स्याच्चेद्वरस्यार्थसुतायुरायै । तद्धेशयोश्चेत्सममित्रवृत्त्योर्मध्यस्थमैत्री च यदाह सत्यः॥८४॥ षट्राष्टकेऽनपत्यत्वं नवपंचमयोस्तथा । नैःस्वं द्विादशे प्रोक्तं कन्यादूरं सुशोभनम् ॥८५॥ भोजदेवः- भवनैकाधिपत्यादौ केऽपीच्छंति करग्रहम् । द्विादशे त्रिकोणे च न कदाचित्पडष्टके ।। ८६ ।। चिंतामणौ- एकाधिपत्यं घुभयोः सुहृत्त्वं नाडी मिथस्तारकशुद्धियुक्तम् ! विहाय षदाष्टकमन्ययोः स्यात्पाणिग्रहः सौख्यकरो नृनार्योः।। महेश्वरः- मित्रत्वं ग्रहयोश्च पंचनवमे द्विादशे चेद्भवे- देको वाधिपतिः परस्परशुभा तारा शुभं स्यात्तदा ॥८८॥ वश्यायैः पंचभिर्युक्तं गुणैः षट्राष्टकं शुभम् । यदि नाडीविशुद्धिः स्यादुद्वाहः सौख्यदस्तदा ॥८९१ः लक्ष्मीधरः- वश्यं राश्योोनिनाडीगणानां शुद्धा तारा मैत्र्यमेवं मिथः स्यात् । AN- विवाहपटले [राशिकटम्। एकेशत्वं खेटयोर्वानुकूल्यं यस्मिन्नार्याः प्राहुरिष्टं षडष्टे॥ ९० ॥ पट्टाष्टकेऽपि कर्तव्यं नृनार्योः पाणिपीडनम् । अश्लेषामूलयोः सौम्यस्वात्योःश्रवणसौम्ययोः॥९॥ चित्राश्रवणयोश्चेति कैश्चित्प्रोक्तं चतुष्टयम् । गुर्वर्केशं कुजैकेशं प्रकर्तव्यं तदा बुधैः ॥ ९२ ॥ मित्रत्वे वश्यत्वे चैकेशत्वे च तारकामैच्याम् । षट्राष्टकेऽपि कार्यो विवाह इति शौनकेनोक्तम् ॥१३॥ श्रीपतिः- भवनपतिसुहत्त्वं स्यात्तथैकाधिपत्यं यदि भवति न वशित्वं चैकषट्राष्टकेऽपि । शुभकृदिह विवाहोऽन्योन्यताराविशुद्धी यदि खलु फणिचक्रे स्यान्न नाडीसमाजः॥ ९४ ॥ व्यवहारसारे- मित्रता यदि भनाथयोईयोरेक एव यदि नायको द्वयोः। वश्यराशिरपि शुद्धतारका प्राहुरिष्टमषडष्टके शुभम् ॥९५॥ नाडिवश्यगणयोनितारकाशुद्धिमैत्रखगयोस्तथैकपम् । जायते यदि षडष्टके तथा पुस्त्रियोः खलु चिरायुषे भवेत् ९६ वृषकर्किमीनकन्यावृश्चिकमकराः स्वषष्ठसंयुक्ताः। दंपत्योः प्रीतिकराः स्वाष्टमयुक्तास्तु मृतिकरास्तेऽपि ॥९॥ मुकुन्दः- मकरसकेसरिमेषयुवत्या तुलसहमीनकुलीरघटी च । वृषधनवृश्चिकमन्मथयोगे मृत्युषडष्टकमरणवियोगः॥९८ ॥ - Woman अध्यायः १] सारसमुच्चयः। लक्ष्मीधरः- ग्रहमैत्री मिथस्ताराशुद्धिर्नाडी च वश्यता। विरुद्धभे वरे दूरे प्रकर्तव्यः करग्रहः ॥ ९९ ॥ वराहमिहिर:- वर्णो वश्यं तारा योनिग्रहगणभकूटनाडीभिः । पाणिग्रहणे प्रोक्तं यथोत्तरं तत्तु बलयुक्तम् ॥१०॥ न वर्णशुद्धिर्न गणो न योनिर्द्विादशे चैव षडष्टकेऽपि । वरेऽपि दूरे यदि वा त्रिकोणे मैत्री यदि स्याच्छुभदो विवाहः१ द्विादशे वा नवपंचमे वा षडष्टके वापि वरेऽपि दूरे । गणोन वर्णो नच योनिशुद्धिः स्यात्खेटमैत्र्यां शुभदो विवाहार नाडीविचारः- दानात्फणिचक्रे त्रिनाडिके नाडिकायोगः । दंपत्योक्षाभ्यां नाडीयोगे विनिर्दिशेन्मरणम् ॥३॥ हारीत:- व्यंघ्रिभे व्यंघिभे कन्या जाताया गणयेत्क्रमात् । वह्निभादिंदुभान्नाडी चतुःपंचसु पर्वसु ॥ १०४॥ हीनं षोडशभिर्भेदैर्मध्यमं तु गजेंदुभिः । विंशत्यास्तु भवेदूर्व राशिकूटं शुभं भवेत् ॥१०॥ वृद्धगर्ग:- जांगले तु चतुर्माला पांचाले पंचमालिका । त्रिमाला सर्वदेशेषु विवाहेषु निजं मतम् ॥ १०६ ॥ मुकुंदः- नाडीयोगे मरणं तद्वत्तु षडष्टके नूनम् । जन्मः वैधव्यं ग्रहवेधे चोभयं भवति ॥ १०७ ॥ Mms- विवाहपटले [राशिकटम्। एकेशत्वं खेटयोर्वानुकूल्यं यस्मिन्नार्याः प्राहुरिष्टं षडष्टे॥ ९० ॥ पट्टाष्टकेऽपि कर्तव्यं नृनार्योः पाणिपीडनम् । अश्लेषामूलयोः सौम्यस्वात्योःश्रवणसौम्ययोः॥९॥ चित्राश्रवणयोश्चेति कैश्चित्प्रोक्तं चतुष्टयम् । गुर्वर्केशं कुजैकेशं प्रकर्तव्यं तदा बुधैः ॥ ९२ ॥ मित्रत्वे वश्यत्वे चैकेशत्वे च तारकामैच्याम् । षट्राष्टकेऽपि कार्यो विवाह इति शौनकेनोक्तम् ॥१३॥ श्रीपतिः- भवनपतिसुहत्त्वं स्यात्तथैकाधिपत्यं यदि भवति न वशित्वं चैकषट्राष्टकेऽपि । शुभकृदिह विवाहोऽन्योन्यताराविशुद्धी यदि खलु फणिचक्रे स्यान्न नाडीसमाजः॥ ९४ ॥ व्यवहारसारे- मित्रता यदि भनाथयोईयोरेक एव यदि नायको द्वयोः। वश्यराशिरपि शुद्धतारका प्राहुरिष्टमषडष्टके शुभम् ॥९५॥ नाडिवश्यगणयोनितारकाशुद्धिमैत्रखगयोस्तथैकपम् । जायते यदि षडष्टके तथा पुस्त्रियोः खलु चिरायुषे भवेत् ९६ वृषकर्किमीनकन्यावृश्चिकमकराः स्वषष्ठसंयुक्ताः। दंपत्योः प्रीतिकराः स्वाष्टमयुक्तास्तु मृतिकरास्तेऽपि ॥९॥ मुकुन्दः- मकरसकेसरिमेषयुवत्या तुलसहमीनकुलीरघटी च । वृषधनवृश्चिकमन्मथयोगे मृत्युषडष्टकमरणवियोगः॥९८ ॥ - अध्यायः २] सारसमुच्चयः। १५ संपूज्य ज्योतिषिकं पृच्छेदथ तेन शास्त्रतो दृष्टम् । प्रष्टा निमित्तलग्नादिभिः शुभाशुभफलं वाच्यम् ॥ ३ ॥ जातकनिमित्तशुद्धां शुभलक्षणलक्षितां कुलोद्भूताम् । वरयेत्सुतसौख्याथीं यवीयसी कन्यकामिष्टाम् ॥४॥ सुरभिकुसुमगंधैः पूजयित्वा द्विजेंद्रान् शुभतिथिकरणः दैववित्संप्रदिष्टे । उभयकुलविशुद्धे ज्ञातिशीलस्वरूपे प्रथमवयसि दद्यात्कन्यकां यौवनस्थे ॥५॥ कुलं च शीलं च वपुर्वयश्च वित्तं च विद्या च सनाथता च । एते वरे सप्त गुणाः परीक्ष्य देया सुता शेषमचिंतनीयम् ॥६॥ ज्ञातिर्विद्या वयः शीलमारोग्यं बहुपुत्रता । अर्थित्वं वित्तसामर्थ्यमष्टावेते वरे गुणाः ॥७॥ दूरस्थानामविद्यानां मोक्षधर्मानुवर्तिनाम् । शूराणां निर्धनानां च न देया कन्यका बुधैः ॥८॥ नातिदूरे समीपे च नात्याव्ये नातिदुर्बले । वृत्तिहीने च मूर्खे च षट्सु कन्या न दीयते ॥९। पूर्वाश्रवणधनिष्ठामित्रानिलवह्निवैश्वदेवेषु । कुर्यात्कन्यावरणं वदंति केचिद्विवाहः ॥१०॥ वपुः शीलं कुलं वित्तं वयो विद्या सनाथता । एतानि यस्य विद्यते तस्मै देया निजा सुता ॥ ११ । मूर्खनिर्धनदूरस्थशूरमोक्षाभिलाषिणाम् । त्रिगुणाधिकवर्षाणां नापि देया च कन्यका ॥ १२ ।
ARTICS
:
विवाहपटले
[वरणम् ।
विवेकविलासग्रंथे-
धीधर्मचतुष्टयगैः सौम्यैः क्रूरैस्त्रिषष्ठलाभगतैः।
उपचयसंस्थे च गुरौ कन्यावरणं प्रशंसंति ॥ १३ ॥
धीधर्मकेंद्रेषु शुभैरशुभैख्यायारिगैर्गुरावुचे ।
शस्तं कन्यादानं शोभनलग्नाइते विवाहसमम्॥१४॥
श्रीपतिः-
कन्याप्रदानमाचार्यविवाहसदृशं मतम् ।
विना लग्नगुणैर्नाह वसिष्ठो नारदो मुनिः ॥ १५ ॥
सर्वसंमते-
अव्यंगेऽपतितेऽङ्करे स्नाते स्नातामरोगिणीम् ।
तत्कालोपस्थिते कन्यां पिता तुभ्यं प्रदास्यति ॥१५॥
कन्योत्पंचमे जीवे नवमे सप्तमेऽर्थगे।
वामे च सुतसौख्याप्तिरायुरारोग्यसंपदः॥ १७ ॥
गर्ग:-
द्वादशदशमचतुर्थे जन्मनि षष्ठाष्टमे तृतीयेऽपि ।
प्राप्ता पाणिग्रहणं जीवे वैधव्यमाप्नोति ॥ १८ ॥
रवौ गुरौ वा विषमास्पदस्थे स्त्रियो विपर्यस्तफलं लभते ।
वरायलाभे च तथातिकाले पूजाभिषेकैः शुभदो विवाहः १९
मांडव्यः
जन्मत्रिषष्ठदशमस्थगुरोः सुराणां
कन्यक्षतः श्रुतिपुराणविधेस्तु कार्या ।
पूजांत्यरंध्रसुखभे १२।८।४ द्विगुणा विवाहे
कालः स्मृतौ हि कथितो न हि लंघनीयः ॥२०॥
अध्यायः ३] सारसमुच्चयः। कालात्ययान्मंडलभंगभीतेर्वरप्रलोभाब्ययवेश्मगो गुरुः । शुभप्रदः स्याद्विगुणार्चितोऽसौ न चाष्टमो लक्षगुणैः प्रपूजितः देवेज्यो यदि शुभदो वर्षे त्वेकादशे च कन्यायाः। कथयति यदि वाऽशुद्धिं स भवति वै ब्रह्महा गणकः ॥२२॥ वृद्धगर्गः- यदा गुरु धनगो विवाहे सुखार्थलाभाय भवेद्वधूनाम् । पूजा यदि स्यात्रिगुणा प्रदिष्टा प्रदानतौल्ये च विलग्नगेऽहि२३ सर्वसंमते- व्ययत्रिदिग्बंधुमृतिस्थितोऽपि स्त्रियो धनास्तांकसुतायगैश्चेत्। विद्धो ग्रहैर्देवपुरोहितश्च शुभप्रदश्चेति वसिष्ठ आह ॥२४॥ विवाहं व्रतबंधं च कुर्यादब्दे सदाष्टमे । अत ऊर्ध्वं न शस्तौ तौ तस्माच्छुद्धिरकारणम् ॥२५॥ इति श्रीशाीयसारसमुच्चये विवाहपटले वरणाध्यायो द्वितीयः समाप्तः॥२॥ - ॥ नानादोषदेशाचारनिर्णयाध्यायः॥३॥ राशिकरणम्- प्रत्यअखः सन्विविधैः फलैस्तामभ्यर्च्य तत्र श्रुतिमंत्रपाठः। प्राचीदिगास्यां वरयेत्सुभूषां मंद्राद्यघोषैर्मनुवर्त्मनि स्थः॥१॥ आरुह्य राशिं शिवतंदुलानामन्योन्यवक्राभिविलोकनेन । कृत्वांजलिं पूर्णफलाक्षतैश्च पश्चाद्वरं पूर्वत एव कन्याम् ॥२॥ अतिचारविचार:- वामदेवः- सर्वे ग्रहा विकृतिनो दधुः सांसृष्टिकं फलम् । अतिचारे च वक्रे च दद्यात्पूर्ण फलं गुरुः ॥३॥ विवा०२ -
ARTICS
:
विवाहपटले
[वरणम् ।
विवेकविलासग्रंथे-
धीधर्मचतुष्टयगैः सौम्यैः क्रूरैस्त्रिषष्ठलाभगतैः।
उपचयसंस्थे च गुरौ कन्यावरणं प्रशंसंति ॥ १३ ॥
धीधर्मकेंद्रेषु शुभैरशुभैख्यायारिगैर्गुरावुचे ।
शस्तं कन्यादानं शोभनलग्नाइते विवाहसमम्॥१४॥
श्रीपतिः-
कन्याप्रदानमाचार्यविवाहसदृशं मतम् ।
विना लग्नगुणैर्नाह वसिष्ठो नारदो मुनिः ॥ १५ ॥
सर्वसंमते-
अव्यंगेऽपतितेऽङ्करे स्नाते स्नातामरोगिणीम् ।
तत्कालोपस्थिते कन्यां पिता तुभ्यं प्रदास्यति ॥१५॥
कन्योत्पंचमे जीवे नवमे सप्तमेऽर्थगे।
वामे च सुतसौख्याप्तिरायुरारोग्यसंपदः॥ १७ ॥
गर्ग:-
द्वादशदशमचतुर्थे जन्मनि षष्ठाष्टमे तृतीयेऽपि ।
प्राप्ता पाणिग्रहणं जीवे वैधव्यमाप्नोति ॥ १८ ॥
रवौ गुरौ वा विषमास्पदस्थे स्त्रियो विपर्यस्तफलं लभते ।
वरायलाभे च तथातिकाले पूजाभिषेकैः शुभदो विवाहः १९
मांडव्यः
जन्मत्रिषष्ठदशमस्थगुरोः सुराणां
कन्यक्षतः श्रुतिपुराणविधेस्तु कार्या ।
पूजांत्यरंध्रसुखभे १२।८।४ द्विगुणा विवाहे
कालः स्मृतौ हि कथितो न हि लंघनीयः ॥२०॥
अध्यायः ३]
सारसमुच्चयः।
लत्ता सुराष्ट्रविषये परिवर्जनीया
हूणे खशे च परिवर्ण्य उपग्रहः स्यात् ॥१२॥
वराह:-
MADIREDIO
ताराबलं माधवमाथुरीया वदंति तारेंदुफलं सुमद्राः ।
सौराष्ट्रिकाः पश्चिमदिस्थिताश्च सोमार्कताराप्रभवं वदंति १३
श्रीपतिः-
विरुद्धयोगास्तिथिवारजाता नक्षत्रवारप्रभवाश्च ये स्युः।
हूणेषु वंगेषु खशेषु वाः शेषेषु देशेषु न ते निषिद्धाः॥१४॥
नक्षत्रवारजा योगास्तिथिवारोद्भवाश्च ये।
हूणवंगखशेष्वेव वर्जनीयाः सदा वुधैः ॥ १५ ॥
पाराशर:-
वारक्षतिथियोगेषु यात्रामेव च वर्जयेत् ।
विवाहादीनि वै कुर्यात् गर्गादीनामिदं मतम् ॥१६॥
वसिष्ठः-
ग्रहक्षयोगास्तिथिवारयोगाः शुभाशुभा ये कथिताः प्रभूताः।
वंगेषु ते प्रोक्तफला भवंति नान्येषु देशेषु विचिंतनीयाः १७
वराह:-
तिथ्युडुदिनपतिजाता दोषास्त्याज्यास्तु,हूणखशवंगे।
तेऽपि शुभाशुभफलदा न भवंत्यन्येषु विषयेषु ॥ १८ ॥
त्यजत्येकार्गलं योगमाद्यं पादमथापरे ।
पादवेधं त्यजंत्यन्ये काश्मीरादिषु चापरे ॥ १९ ॥
सर्वदेशे भवेषं तु लत्तां मालबके त्यजेत् ।
एकार्गलं तु सौराष्ट्र पातं कौसलके त्यजेत् ॥ २० ॥
२० - विवाहपटले [निर्णयः। लत्तां मागधके देशे पातं कौसलके तथा । एकार्गलं तु काश्मीरे वेधं सर्वत्र वर्जयेत् ॥ २१ ॥ वामदेवः- त्यजत्येकार्गलं दोषं काश्मीरेषु कचिजनाः। हूणे वंगे कलिंगाख्ये ब्रह्मदंडादिकांस्त्यजेत् ॥२२॥ सत्यसूरिः- उपग्रहेषु ये योगाः कथिताः सूर्यभाद्रुधैः । सर्वांस्तान्वर्जयेन्नित्यं खशे वंगे च नान्यतः ॥ २३ ॥ सौराष्ट्रसाल्वेषु च लत्तिकं भं कलिंगवंगेषु च पातितं भम् । उपग्रहाख्यं कुरुबाह्निकेषु त्यजेच्च सर्वत्र सवेधमृक्षम् ॥२४॥ वसिष्ठः- लत्ता जालंधरे प्रोक्ता पातश्चैव तु कौसले । एकार्गलं तु काश्मीरे वेधं सर्वत्र वर्जयेत् ॥ २५ ॥ लक्ष्मीधरः- लत्तापाताविमौ योगौ विवज्यौँ मागधे जने । नान्यदेशे मुनिः प्राह वसिष्ठो भगवान्स्वयम् ॥२६॥ शक्तिः कंटकं कालवेलां च त्यजेदबरमालवे । उपग्रहं त्यजेद्वंगे बाह्निके पंचपंचकम् ॥ २७ ॥ वेधभंगः- लग्ने गुरुः सौम्ययुतेक्षितो वा लग्नाधिनाथो भवगस्तथा वा। कालाख्यहोरा च यदा शुभस्य भवेधदोषस्य तदा हि भंगः २८ ये लग्नदोषाः कुनवांशदोषाः पापैर्युता दृष्टिनिपातदोषाः । लग्ने गुरुस्तान विमलीकरोति फलं यथांभः कतकद्रुमस्य २९ -
२१
अध्यायः ४]
सारसमुच्चयः।
कुलधर्मदेशाचारविचारः।
वामदेवः-
कुले देशे च ये धर्मा न ते शास्त्रदृशा विदा ।
समुल्लंध्या विवाहादौ स्त्रीवाक्यं न तु लंघयेत् ॥३०॥
श्रीपतिः
न शास्त्रदृष्ट्या विदुषा कदाचिदुल्लंघनीयाः कुलदेशधर्माः ।
तेषां हि मूलं च्युतवेदशाखा भूयो न धर्मस्थितिभंगदोषात्३१
शास्त्रस्वरूपं बहवोऽप्यबुध्वा वदंति यच्चानुमतं हितं नः।
देशं गतो टेकविलोचनानां निमील्य नेत्रं निवसेन्मनीषी ३२
-
वराह:-
देशाचारस्तावदादौ विचिंत्यो देशे देशे या स्थितिः सैव कार्या।
लोके दुष्टं पंडिता वर्जयंति दैवज्ञोऽसौ लोकमार्गेण यायात् ३३
देशे देशे य आचारः स्थाने स्थाने च या स्थितिः।
तथैव व्यवहर्तव्यं पारंपत्कुिले कुले ॥ ३४ ॥
इति श्रीशाीयसारसमुच्चये विवाहपटले नानादोष-
देशाचारनिर्णयाख्यस्तृतीयोऽध्यायः ॥३॥
चंद्रताराबलाध्यायः॥४॥
पाणिग्रहं न शंसंति दंपत्योरष्टमे विधौ ।
द्वादशे वा यतस्तत्र मृत्युरर्थक्षयस्तयोः ॥१॥
यत्र गोचरफलप्रमाणता तत्र वेधफलमिष्यते न वा।
प्रायशो न बहुसंमतं त्विदं स्थूलमार्गफलदो हि गोचरः॥२॥
पक्षादिंदुबलं प्रोक्तं यात्रायुद्धादिकर्मणि ।
मुख्यं चन्द्रबलं प्रोक्तं विवाहे शुभकर्मणि ॥३॥
२० - विवाहपटले [निर्णयः। लत्तां मागधके देशे पातं कौसलके तथा । एकार्गलं तु काश्मीरे वेधं सर्वत्र वर्जयेत् ॥ २१ ॥ वामदेवः- त्यजत्येकार्गलं दोषं काश्मीरेषु कचिजनाः। हूणे वंगे कलिंगाख्ये ब्रह्मदंडादिकांस्त्यजेत् ॥२२॥ सत्यसूरिः- उपग्रहेषु ये योगाः कथिताः सूर्यभाद्रुधैः । सर्वांस्तान्वर्जयेन्नित्यं खशे वंगे च नान्यतः ॥ २३ ॥ सौराष्ट्रसाल्वेषु च लत्तिकं भं कलिंगवंगेषु च पातितं भम् । उपग्रहाख्यं कुरुबाह्निकेषु त्यजेच्च सर्वत्र सवेधमृक्षम् ॥२४॥ वसिष्ठः- लत्ता जालंधरे प्रोक्ता पातश्चैव तु कौसले । एकार्गलं तु काश्मीरे वेधं सर्वत्र वर्जयेत् ॥ २५ ॥ लक्ष्मीधरः- लत्तापाताविमौ योगौ विवज्यौँ मागधे जने । नान्यदेशे मुनिः प्राह वसिष्ठो भगवान्स्वयम् ॥२६॥ शक्तिः कंटकं कालवेलां च त्यजेदबरमालवे । उपग्रहं त्यजेद्वंगे बाह्निके पंचपंचकम् ॥ २७ ॥ वेधभंगः- लग्ने गुरुः सौम्ययुतेक्षितो वा लग्नाधिनाथो भवगस्तथा वा । कालाख्यहोरा च यदा शुभस्य भवेधदोषस्य तदा हि भंगः २८ ये लग्नदोषाः कुनवांशदोषाः पापैर्युता दृष्टिनिपातदोषाः । लग्ने गुरुस्तान विमलीकरोति फलं यथांभः कतकद्रुमस्य २९ -
mon-
अध्यायः ५]
सारसमुच्चयः।
स्त्रीणां चंद्रवलं योज्यं तारावलसमन्वितम् ।
नाधिकारो नराणां च विवाहे गर्भशोधने ॥ १३
मांडव्य:-
जन्मलग्ने तथांत्ये च मृत्युः सुहृदमानवैः।
विवाहो नैव कर्तव्यो दंपत्योहितमिच्छुभिः ॥ १४ ॥
जन्मलग्ने भवेन्मृत्युरंत्यादिषु यथक्रमम् ।
हानिसृत्युस्तथा शोक इति मांडव्यशासनम् ॥ १५ ॥
पाणिपीडनविधेरनंतरं भर्तुरेव बलमैदवादिकम् ।
पाणिपीडनविधौ निरीक्षयेत्कन्यकासु वलमैंदवं ध्रुवम् ॥१६॥
आधाने संप्रदाने च विवाहे गर्भशोधने ।
स्त्रीणां चंद्रबलं योज्यं न तत्पुंसां कदाचन ॥१७॥
अर्वाग्विवाहकालाच्च पितुश्चंद्रबलं स्मृतम् ।
स्त्रीणां विवाहे सीमंते ग्राह्यमन्यत्र तत्पतेः ॥ १८ ॥
पुंसो न भवनदोषो न चंद्रतारावलं च परियोज्यम् ।
आपरिणयनाद्यस्मात्प्राधान्यं नास्ति पुरुषस्य ॥ १९ ॥
इति श्रीशाीयसारसमुच्चये विवाहपटले चंद्रतारा-
बलाध्यायश्चतुर्थः ॥ ४॥
चंद्रयोगाध्यायः ॥५॥
रविणा दारिद्रवती कुजेन विधवा बुधे च सुतहीना ।
दौर्भाग्यवतीज्ययुते चंद्रे शुक्रेण सह संपन्ना ॥१॥
शनिना प्रव्रजिता स्यात्तमसा परनररता च शिखियुक्ते ।
कापालिनीति केचिद्वदंति शुभमिंदुजेज्ययुते ॥ २ ॥
विवाहपटले [चंद्रयोगः। वामदेवः- क्रूरखेचरसमन्विते विधौ पीडितं सकलमृक्षमुच्यते । तप्तलोहमुदके निवेशितं तापयेन खलु किंतु वार्यपि ॥३॥ याद्यैः क्रूरैर्मृत्युः प्रबजिता स्याच्छुभग्रहैः कन्या। यस्मात्तस्माच्चंद्रो लग्ने ग्रहवर्जितः श्रेयान् ॥ ४॥ हरिदेवः- द्विखेटसंयुते मृतिः कुलक्षयस्त्रिपूर्वके । निपीडितो भवेद्युतौ ग्रहप्रयोगतः शशी ॥ ५ ॥ श्रीपतिः- न कुर्वीतास्तगे चंद्रे दुःस्थिते जन्मराशितः। ऋरग्रहयुते तद्वन्मंगलान्यखिलान्यपि ॥ ६ ॥ एकक्षफलांशगतो यथोक्तफलदः शशी ग्रहवशेन । अन्यसंगतः स्वप्ने मनसापि न भावनां कुरुते ॥७॥ सत्यसूरिः- अन्यःऽन्यगृहे वा कुजबुधगुरुशुक्रसौरिभिः सार्धम् । न भवति दोषाय शशी प्रदक्षिणं याति यदि चैषाम् ॥ ८॥ भोजदेवः- भवंति कालार्धविभागभाजां योगा यथा प्रोक्तफला ग्रहाणाम् । अप्राप्त्यतिक्रांतमतः पुनस्ते पाणिग्रहे तेऽप्यफला भवंति ॥९॥ शौनकः- योगा यथोक्तफलदाः सकलार्धभागैकसंयुतानां तु । अप्राप्तातीतानामिच्छामात्रं फलं धत्ते ॥१०॥ यथोक्तफलदा योगाः समयाविभागिनाम् । ग्रहाणां तेऽल्पफलदा गतैष्यसमयस्थिताम् ॥११॥(2) 4 ma २५ अध्यायः६] सारसमुच्चयः। ग्रहाहवे सूर्यविधूपमर्दे शृंगाटके धूमशिखोद्गमे च । उपप्लवः पाणिभचक्रसंधिः प्राप्ते च पापांतरगे च चंद्रे॥१२॥ इति श्रीशाीयसारसमुच्चये विवाहपटले चंद्रयोगा- ध्यायः पंचमः संपूर्णः ॥५॥ जामित्रविचाराध्यायः॥६॥ सप्तर्षयः- प्राग्लग्नाचंद्राद्वा सर्वे जामित्रगा न शुभदाः स्युः। तत्रापि केचिदूचुः शुभग्रहा नातिकष्टफलाः॥१॥ लग्नात्कलत्रगेऽर्के विधवा, चंद्रे सपत्निसंयुक्ता । वंध्योपघातसहिता, भौमे सौम्ये प्रजाहीना ॥२॥ जीवे दौर्भाग्यवती, सुभगाऽन्यमते, भृगौ भवेद्वेश्या । मंदे त्वनेकगर्भच्युतिर्भवति (2) दुःखान्विता नारी ॥ ३ ॥ श्रीपतिः- सूर्ये जामित्रगे चंद्रात्प्रमदा भर्तृवर्जिता। भवेदुश्चारिणी भौमे सोमपुत्रे पतिव्रता ॥ ४ ॥ मानार्थापत्यसौभाग्यसतीत्वैः संयुता गुरौ । सापत्यकवती शुक्रे दुर्भगा विसुताऽर्कजे ॥५॥ द्वौ ग्रहो यदि जामित्रे क्रूरौ सौम्यौ च संस्थितौ । अब्दत्रयेण दारियं कन्या प्राप्नोति दारुणम् ॥ ६ ॥ लग्नेदुसंयुतादंशात्पंचपंचाशदंशके। ग्रहोऽन्यो यद्यसौ दोषो न गुणैरपि हन्यते ॥७॥ लग्नाच्छशांकाच्च तदैष्यमंशाधूनस्थखेटा गतवांशकाद्याः (2) शरॊब्धियुक्तायुगवाणसंख्या जामित्रगं तत्परमं विवय॑म् ।
-
विवाहपटले [जामित्रविचारः।
हरिदेवः-
जामित्रगाद्दगनगारिज विधु वा
शोध्यं कलीकृतमथांवरखाश्चि २०० भक्तम् ।
लब्धाश्च ते नवलवा यदि वेदवाणा
भागे ग्रहो गुणशतं हरिजं विवय॑म् ॥९॥
यस्मिन्नवांशोपगतः शशांकस्तस्माच्छरप्राणनवांशकेऽन्यः।
ग्रहः स्थितस्तजनितस्तु दोषो हर्तुं न शक्यो हि गुणैरनेकैः॥
हरिजदिवसचंद्रात्सप्तमः क्रूरदोष-
क्षयकृदमरपूज्यः सोमपुत्रः सितो वा ।
उदयहिबुकधर्मव्योमपुत्रालयस्थो
यदि च सकलदृष्ट्या लोकयन् शीतरश्मिम् ॥११॥
श्रीपतिः-
चंद्रजामित्रगः क्रूरदोषघ्नो ज्ञोऽगिराः सितः।
धीधर्मखांबुलग्नस्थः पश्यन् पुष्टदृशा विधुम् ॥ १२ ॥
सप्तर्षयः-
शशिजो जामित्रस्थः क्रूरग्रहजनितदोषमपहंति ।
जीवः सौम्योऽपि भृगुस्त्रिकोणकेंद्राश्रितः पश्यन् ॥ १३ ॥
वामदेवः-
सुखत्रिकोणांबरपूर्वलग्नेष्वनीचगाश्चास्तभमत्र पश्यन् ।
जीवः सितो वा शशिजस्तदानीं जामित्रराशिं प्रवदंत्यनिष्टम्
वर्गोत्तमस्थः स्वगृहोच्चसंस्थ-
स्तदंशके वेज्यसितेंदुजानाम् ।
एकोऽप्यमीषां शुभभागगो वा
दृष्ट्वास्तभं तदुरितानि हन्यात् ॥ १५ ॥
अध्यायः ७]
सारसमुच्चयः।
OS
बृहस्पतिः-
जामित्रं न प्रशंसंति गर्गकाश्यपदेवलाः।
आयशत्रुतृतीये च धनधान्यप्रदो रविः॥१६॥
वृद्धपाराशरो मुक्तावल्यां वृद्धगर्गश्च-
यन्महाक्रूरजामित्रदोषोद्भवं.
--
क्रूरजामित्रदोष, नाशयेत्सौम्यजीवास्फुजिल्लग्नपातालगा...
क्रूरजामित्रगं क्रूरलत्ताहतं....
दोषान्सहस्राविनिहंति शुक्रः......... ॥ १७ ॥
मुक्तावल्याम्-
बुधोऽशीतिशतं जीवः सविंशतिशतं सितः ।
दोषानेते विनिघ्नंति स्वोच्चस्था बलिनो यदि ॥१८॥
सप्तर्षयः-
एकार्गलोपग्रहपातलत्ताजामित्रकर्तर्युदयादिदोषाः।
लग्नेऽर्कचंद्रेज्यवले विनश्यंत्योदये यद्वदहो तमांसि ॥१९॥
इति श्रीशाीयसारसमुच्चये विवाहपटले जामित्रवि-
चाराध्यायः समाप्तः ॥६॥
कर्तरी विचाराध्यायः॥७॥
वराह:-
द्वयोश्च पापयोर्मध्ये यदा लग्नं भविष्यति ।
तदा मृत्यु विजानीयात्पंचमेऽब्दे न संशयः॥१॥
यवन:-
यापद्वयमध्यगतं चंद्रं लग्नं च वर्जयेद्यत्नात् ।
परिणयने वनितानां शतगुणमपि मृत्यवे पुंसाम् ॥२॥
विवाहपटले [कर्तरी विचारः। लक्ष्मीधरः- क्रूरांतस्थो यदा चंद्रो लग्नं वा यदि युज्यते । शुभेनांतस्थितो न स्याद्यदि साम्यं न सेवते ॥ ३ ॥ क्रूरमध्यगतलग्नचंद्रयोः सौम्यता यदि न कर्तरी भवेत् । केचिदूचुरशुभां न कर्तरी सौम्यखेटयुगमध्यगौ यदि ॥४॥ यवन:- विधोधनोपगे शुभग्रहेऽथवांत्यगे गुरौ । न कर्तरी भवत्यहो जगाद बादरायणः॥५॥ बन्नु:- क्रूरदयस्यांतरगं भवेत्तनु मृतिप्रदं चंद्रमसं च रोगदम् । शुभैधनस्थैरथवांत्यगे गुरौ न कर्तरी स्यादिह भार्गवा विदुः ६ मुकुंदः- लग्नाद्विादशे क्रूरौ तुल्यभागत्रयस्थितौ । तदा कर्तरि दोषमन्यथा भावजं फलम् ॥९॥ श्रीपतिः- सौम्यग्रहः शशांकात्केंद्रगतैः सुखवती योषित् । पाणिग्रहणमवाप्ता क्रूरैरपि कामदुःखार्ता ॥१०॥ गर्गः- पापैकयुक्ते ग्रहपापविद्धे मध्ये च पापग्रहयोः शशांके । अब्दैकमध्ये मरणं वरस्य शुभं च जीवज्ञसितेक्षिते च ॥१॥ इति श्रीशाीयसारसमुच्चये विवाहपटले कर्तरी. विचाराध्यायः ॥७॥ - अध्यायः ८] सारसमुच्चयः। aanosted - अथ पंचांगशुद्याध्यायः॥ ८॥ अस्तादिनिषेधः- क्षयमासे दिनपाते धनुषि रवी भानुलषिते मासि । चक्रिणि सुप्ते कुर्यान्मांगल्यं नो कवीज्यशशिलोपे ॥१॥ असंक्रांतिमासोऽधिमासः स्फुटः स्या- विसंक्रांतिमासः क्षयाख्यः कदाचित् । क्षयः कार्तिकादित्रये नान्यथा स्या- त्तदा वर्षमध्येऽधिमासद्वयं स्यात् ॥२॥ व्रतचौलसुरस्थापनपरिणयनानलगृहालयनिवेशाः। भूपाभिषेकयात्रात्रतादि याम्यायनेऽशस्तम् ॥ ३॥ गुरुशुक्रास्तविचार:- विवाहो व्रतबंधो वा यात्रा वा गृहकर्म च । गुरावस्तमिते शुक्र ध्रुवं मृत्यु विनिर्दिशेत् ॥ ४॥ नष्टे सुरेज्ये पुरुषस्य नाशः कन्याविनाशो भृगुनंदने त्यात् । चंद्रे प्रणष्टे ह्युभयोविनाशो भौमेऽष्टमस्थानगते चलनात्॥५॥ बाल्यवार्धक्यविचार:- अस्तमिती गुरुशुक्रो बाली वृद्धौ च वर्जयेद्यत्नात् । बालत्वं वृद्धत्वं सप्तदिनान्तं मुनिभिरुक्तम् ॥ ६॥ ज्येष्ठे माघे फाल्गुने मार्गशीर्षे वैशाखे वा मंगलायै विवाहः। त्यक्त्वा मासौ हीनसंज्ञाधिकाख्यौ ज्येष्ठं मासं ज्येष्ठयोः पुंस्त्रियोश्च ॥ -
विवाहपटले [पंचांगशुद्धिः।
त्रिज्येष्ठविचार:-
न ज्येष्ठे ज्येष्ठयोः कार्य नृनार्योः पाणिपीडनम् ।
तयोरन्यतरे ज्येष्ठे ज्येष्ठमासेऽपि कारयेत् ॥ ८॥
शुक्लादितिथिद्वितयं त्याज्यं कृष्णे च पंचतिथयोऽन्त्याः।
अष्टांशो निंद्याह्वो योगाद्यो भतिथिसंधिश्च ॥ ९॥
कन्यावरौ यदि ज्येष्ठौ तयोरेकस्य ज्येष्ठभम् ।
ज्येष्ठाख्यं चेत्तदा ज्येष्ठे मास्युद्धाहस्तयोः शुभः ॥१०॥
वाल्यं वाय जीवशुक्रोडुपानामस्तं चान्यत्संगमं च ग्रहाणाम् ।
हित्वा तारां सप्तपंचत्रिसंस्थामादेष्टव्यं लग्नमेवं विधिज्ञैः॥११॥
वार्धक्यमार्यास्त्यहमामनंति बालत्वमिंदोश्च तथा निशैकम् ।
सुरासुरेज्यौ हि शुभे विवज्यौ सप्ताहमेवं शिशुवृद्धयोश्च १२
वाले च वार्धके तहतुदर्शनजातके।
द्वादशान्नप्राशने च न मौढ्यं गुरुशुक्रयोः ॥ १३ ॥
नित्ययाने गृहे जीर्णे परिधानेऽन्नप्राशने ।
वधूप्रवेशमांगल्ये न मौढ्यं गुरुशुक्रयोः ॥ १४ ॥
शुक्रेज्यावस्तगौ त्याज्यौ विवाहे मरणप्रदौ ।
बालवृद्धौ तु सप्ताहं निशैकं त्रिदिनं शशी ॥ १५ ॥
मीनस्थेऽर्के जीवे सिंहस्थे वर्जयेत्करग्रहणम् ।
चंद्रार्कग्रहणोत्पातदर्शने सप्तदिवसं च ॥ १६ ॥
सिंहस्थापवादः-
नीचक्षस्थे वाक्पतौ शत्रुभे वा
जन्माधीशे नीचगे सूर्यगे वा।
स्यादुद्वाहो दुःखशोकाय नूनं
पित्र्यक्षस्थे वापतौ स्थायसुत्वम् ॥ १७ ॥
अध्यायः८]
सारसमुच्चयः।
सप्तर्षयः-
गोदावर्युत्तरतो यावद्भागीरथीतटं याम्यम् ।
तत्र विवाहो नेष्टः सिंहस्थे देवपतिपूज्ये ॥ १८ ॥
पितृभे यदि सुरपूज्यो नीचः वाथवाऽरिराशिस्थे ।
कन्योढा वैधव्यं प्रयाति संवत्सरैः षद्भिः ॥ १९ ॥
म
गौतमीजाह्नवीमध्ये नोराहो जायते तदा ।
अन्यत्रेष्टप्रदः प्रोक्तो जीवे सिंहस्थिते सदा ॥ २० ॥
पराशर:-
सिंहस्थो देवपूज्यो न भवति शुभदः सर्वमांगल्यकार्य
यावत्पित्र्ये समग्रे विचरति हि तथा चाद्यभागेच भाग्ये।
शेषाः सिंहस्य पादाः सुतसुखशुभदा गौतमीजाह्नवीये
तीरे याम्ये च सौम्ये भवति विधनता गंगयोर्मध्यदेशे २१
भागीरथ्युत्तरे तीरे गोदावर्याश्च दक्षिणे ।
विवाहो व्रतबंधो वा सिंहस्थेज्ये न दुष्यति ॥ २२॥
सप्तर्षयः-
मीनस्थे पझिनीमित्रे सिंहस्थे सुरमंत्रिणि ।
विवाहोपनयौ शस्तौ विध्यस्योत्तरवासिनाम् ॥२३॥
सिंहस्थितेनापि सुरेंद्रमंत्रिणा विवाहयज्ञोत्सवमंगलादीन् ।
कुर्वीत सिंहांशमतीत्य याम्यदेशेष्वशेषेष्वपि नर्मदायाः २४
सिंहस्थिते देवगुरौ न कुर्याद्विवाहचौलव्रतदीक्षणादीन् ।
यात्राप्रतिष्ठाक्रतुवास्तुपूजा धनुःस्थितेऽर्के झपगे च तद्वत् २५
वैधव्यं तु विवाहेषु जडत्वं व्रतबंधने ।
चूडायां च शिशोर्मृत्युः प्रवेशे च ध्रुवं क्षयः ॥२६॥
विवाहपटले [पंचांगशुद्धिः।
त्रिज्येष्ठविचार:-
न ज्येष्ठे ज्येष्ठयोः कार्य नृनार्योः पाणिपीडनम् ।
तयोरन्यतरे ज्येष्ठे ज्येष्ठमासेऽपि कारयेत् ॥ ८॥
शुक्लादितिथिद्वितयं त्याज्यं कृष्णे च पंचतिथयोऽन्त्याः।
अष्टांशो निंद्याह्वो योगाद्यो भतिथिसंधिश्च ॥ ९॥
कन्यावरौ यदि ज्येष्ठौ तयोरेकस्य ज्येष्ठभम् ।
ज्येष्ठाख्यं चेत्तदा ज्येष्ठे मास्युद्धाहस्तयोः शुभः ॥१०॥
वाल्यं वाय जीवशुक्रोडुपानामस्तं चान्यत्संगमं च ग्रहाणाम् ।
हित्वा तारां सप्तपंचत्रिसंस्थामादेष्टव्यं लग्नमेवं विधिज्ञैः॥११॥
वार्धक्यमार्यास्त्यहमामनंति बालत्वमिंदोश्च तथा निशैकम् ।
सुरासुरेज्यौ हि शुभे विवज्यौ सप्ताहमेवं शिशुवृद्धयोश्च १२
वाले च वार्धके तहतुदर्शनजातके।
द्वादशान्नप्राशने च न मौढ्यं गुरुशुक्रयोः ॥ १३ ॥
नित्ययाने गृहे जीर्णे परिधानेऽन्नप्राशने ।
वधूप्रवेशमांगल्ये न मौढ्यं गुरुशुक्रयोः ॥ १४ ॥
शुक्रेज्यावस्तगौ त्याज्यौ विवाहे मरणप्रदौ ।
बालवृद्धौ तु सप्ताहं निशैकं त्रिदिनं शशी ॥ १५ ॥
मीनस्थेऽर्के जीवे सिंहस्थे वर्जयेत्करग्रहणम् ।
चंद्रार्कग्रहणोत्पातदर्शने सप्तदिवसं च ॥ १६ ॥
सिंहस्थापवादः-
नीचक्षस्थे वाक्पतौ शत्रुभे वा
जन्माधीशे नीचगे सूर्यगे वा।
स्यादुद्वाहो दुःखशोकाय नूनं
पित्र्यक्षस्थे वापतौ स्थायसुत्वम् ॥ १७ ॥
- १४ १२ E ४ ४ ८ ३६ अध्यायः८] सारसमुच्चयः। संक्रांतिनिषेधः- स्यात्संधिकालश्च समादिभोगा. स्थित्यतस्त्रिंशतिमो विभागः । संक्रांतिकालोभयतस्तु तज्जै- स्त्याज्याः सदा षोडश एव नाड्यः ।। ३८ ॥ अर्वाक् षोडशनाड्यः संक्रांतेः पुण्यदा हि परतश्च । दानादौ तयात्रापरिणयनादौ विवास्ताः ॥ ३९ ॥ कुलिकादि- तिथ्यंशैर्मन्वदिशाष्टांगाब्धियमैरवेः कुलिकाः। व्यर्निशियुगनगयमशराष्टरामतवोऽर्धयामाः स्युः॥४०॥ दिवा द्वितीये कुलिकोऽर्कजस्य रात्रौ प्रदिष्टः प्रथमः स एव । रात्रेः स्थितः पंचदशे विभागे एवं विवयं कुलिकत्रयं च ४१ रविवारादि ये प्रोक्ता मुनिभिः कुलिकाः क्षणे । तेऽपीह शुक्रवारादि तत्रोपकुलिकाः स्मृताः ॥ ४२ ॥ धुवारतो जीवशनैश्चरांतं संख्या भवेत्सा द्विगुणा तु कार्या । तत्संख्यके रूपलवेऽह्नि रात्रौ व्येके च केचित्कुलिकं वदंति ॥ “यद्द्युचरास्तेषां येऽपि दिवा यथोक्तास्तथैव ते रात्रौ । कालः कुलिको ज्ञेयः सरोजशंखोक्तवेलायाम् ॥४४॥ शंखोत्तरार्धाभ्युदये तु वारं त्यजेत्सदा तं कुलिकस्य कालम् । न चांद्रपमं परिहार्यमार्या जगुरु.. ॥४५॥ अर्धयामादि त्रिविक्रमः- अर्धयामो द्वितीयादि दिवा त्याज्यः सदा बुधैः । अर्वाक् त्रिंशत्पलान्येव ह्यधयामे त्यजेत्सदा ॥४६॥ विवा०३ ४ - विवाहपटले [पंचांगशुद्धिः। विष्टिस्तु सर्वदा त्याज्या क्रमेणैवागता तु या। अक्रमेणागता विष्टिः सर्वकार्येषु शोभना ॥ ४७ ॥ रात्रिभद्रा यदाह्नि स्यादहर्भद्रा यदा निशि । तदा सर्वेषु कार्येषु ऋषिभिः शुभदा मता ॥ ४८ ॥ पक्षः समस्तोऽपि शुभः सितोऽत्यं हित्वा त्रिभागं बहुलोऽपि शस्तः । षष्ठ्यष्टमीरिक्ततिथीश्च जह्यान् , मार्तडसंक्रांत्ययनर्तुसंधीन् ॥ ४९ ॥ चंद्रबिंबांतरमध्यमार्गाद्यावत्परिकामति सोऽस्य कालः । यातो यथा स्यादथवा भविष्यस्तावत्फलं.. ॥५०॥ व्यतीपातादि- व्यतिपातहतं दिनत्रयं व्यतिपातेन समं च वैधृतम् । तदपि स्फुटपातदर्शने द्विगुणं तं यदि वा न निश्चितम् ॥५१॥ एष्यो धनं क्षपयति व्यतिपातयोगो मृत्युं करोति न चिरादपि वर्तमानः॥ संतापशोकवधबंधभयान्यतीत- स्तस्मादिनत्रयमपि प्रजहीत मर्त्यः ॥ ५२ ॥ विषप्रदग्धेन हतस्य पत्रिणा मृगस्य मांसं च शुभं क्षताहते । यथा तथैव व्यतिपातयोगे क्षणोऽत्र दुष्टो न तिथिर्न वारः ।। व्याघाते हर्पणे वजे विष्कम्भे वैधृते तथा । ऐंद्रे सूर्यद्वपक्रांतिसाम्ये पातस्य संभवः ॥ ५४॥ सूर्योदये यथा तारा विनश्यति समंततः। सलिलेन यथा वह्निर्लग्नं वृद्धिक्षये तिथौ ॥ ५५ ।।
-
अध्यायः ८]
सारसमुच्चयः।
व्यहस्पृशं नाम यदेतदुक्तमत्र प्रयत्नात्कृतिभिस्तु तज्ज्ञैः ।
विवाहयात्राशुभपुष्टिकर्म सर्व न कार्य त्रिदिनस्पृशे तु ॥५६॥
मंगलमध्ये मातूरजसि-
विवाहोत्सवकार्येषु माता चैव रजस्वला ।
वैधव्यं जायते तत्र नृनार्योः पाणिपीडने ॥ ५७ ॥
वधूवरे त्वन्यतरं जननी चेद्रजस्वला ।
तस्याः शुद्धेः परं कार्य मांगल्यं गुरुरब्रवीत् ॥५८ ॥
ज्वरादिव्याधौ पराशरः-
न देयं ज्वरिणे लग्नं तेन तत्रैव कारयेत् ।
संपूर्णे तु बले प्राप्ते स्वस्थो धर्म समाचरेत् ॥ ५९ ॥
वृद्धमांडव्यः-
ज्वरस्योत्पादनं यस्य लग्नं तस्य न कारयेत् ।
दोषापगमनात्पश्चात्स्वस्थो धर्म समाचरेत् ॥ ६ ॥
भद्रार्धयामकुलिकण्यतिपातो वैधृतं च परिघार्धम् ।
क्रांतिसमत्वं जह्यात्संक्रांतिं क्षयदिनं पित्रोः॥ ६१॥
विवाहनक्षत्राणि नक्षत्रविचारश्च.
हस्तोत्तरास्वातिमघानुराधाजेशमूलेंदुभरेवतीषु ।
ऊढा तु सौभाग्यसुखानि कन्या प्राप्नोति शेषेष्वपि भर्तृशोकम्
नक्षत्रशुद्धिपूर्व लग्नं शंसंति सर्वकार्येषु ।
अविशुद्धक्षं लग्नं ग्रहबलयुतमप्यनादेश्यम् ॥ ६३ ।।
वसिष्ठः-
क्रूरविमुक्तं दग्धं क्रूरयुतं ज्वलितधूमितं पुरतः ।
एकशलाकाधुचरं सवेधमृक्षं विजानीयात् ॥ ६४ ॥
३६
विवाहपटले [पंचांगशुद्धिः।
दग्धे सधूमवेधे ज्वलमाने चापि चंद्रनक्षत्रे ।
यात्राप्रवेशमंगलविवाहकार्याणि नेष्यते ॥ ६५ ॥
क्रूरग्रहविद्धे भे ययूढा कन्यका भवति ।
भर्तुनिधनं कुरुते सापत्यं सौम्यविद्धे न ॥ ६६ ॥
निर्घातोल्कामहीकंपग्रहभेदादिदर्शने ।
आपंचवासरादूढा नाशमाप्नोति कन्यका ॥ ६७ ॥
यस्मिन् भे दृश्यते राहुस्तन्नक्षत्रं विवर्जयेत् ।
पण्मासं पाणिसंयोगे यतो वैधव्यता भवेत् ॥ ६८ ॥
क्रूरभुक्तं युतं गम्यं क्रूरलत्तानिपीडितम् ।
दिव्यभौमांतरिक्षोत्थैरुत्पातैर्दूषितं च यत् ॥ ६९ ॥
संध्यागतं ग्रहणगं शिखिना यच्च मर्दितम् ।
राहोर्युद्धहतं चापि नक्षत्रं तद्विवर्जयेत् ॥ ७० ॥
एकार्गल:-
विरुद्धनामयोगेषु साभिजिद्विषमक्षगः ।
अर्कादिंदुस्तदा योगो वर्ण्य एकार्गलाभिधः ॥७१ ।।
चंद्रभादा समे न स्यान्न शुभः पाणिपीडने ।
संभवोऽर्केदुदृक्पातागणयेदभिजित्समम् ॥ ७२ ॥?
गंडांतम्-
नक्षत्रस्तिथिमिलग्नगंडांतं त्रिविधं मतम् ।
उद्धाहे वर्जयेत्तत्तु कुलांतं तत्र पश्यति ॥ ७३ ।।
गंडांतसंज्ञा त्रिविधा प्रदिष्टा भानां तिथौ राश्युदयांतसंधिम् ।
नवांतपंचांतचतुष्टयांतरेिकनाड्यर्धघटीक्रमेण ॥ ७४ ॥
पौष्णाश्श्योरंतरे प्रोक्तमाश्लेषामघयोः पुनः ।
शाक्रनितयोर्मध्ये गंडांतं वेदनाडिकम् ॥ ७५ ॥
अध्यायः ८] सारसमुच्चयः। रव्यंगारकभास्करिहोरायां करतलग्रहणे । दारियं धनहानिः कन्यामरणं विजानीयात् ॥७६ क्रूरैर्भुक्तं युक्तं भोग्यं च तथैव राहुखेटयुद्धगतम् । ग्रहभिन्नं केतुहतं त्यजेन्महोत्पातदुष्टं च ॥ ७७॥ यद्राहुसंदर्शनदुष्टमृक्षं शीतांशुयुक्तेऽथ विलग्नगे वा। आमासषटुं विदधीत तस्मिन्नोद्वाहयात्रादि शुभं शुभार्थी । सप्तर्षयः (सर्वर्षिः)- पक्षांतरेण ग्रहणद्वयं स्याचदा तदाद्य ग्रहणोपगं भम् । पक्षाद्विशुद्धं भवति द्वितीयग्रहोपगं शुध्यति भोगपटात् ७२ क्रूराश्रितक्रूरविमुक्तदुष्टग्रहात्यधिष्ण्येषु कुमारिकाणाम् । वदंति पाणिग्रहणे मुनींद्रा वैधव्यमब्दैस्त्रिभिरत्रिमुख्याः ८० (वेधविचारः) श्रीपतिः- तिर्यक् पंचोध्वर्गाः पंच द्वे द्वे रेखेच कोणगे । ईशद्वितीयरेखातः कृत्तिकादीनि विन्यसेत् ॥ ८१॥ भानि प्रदक्षिणं यत्र या रेखा ग्रहसंयुता। तस्यां यच्चंद्रसंयुक्तमृक्षं तद्विद्धमुच्यते ॥ ८२ ॥ वैश्वांत्यचतुर्थेऽशे श्रवणादौ नाडिकाचतुष्के च । अभिजित्तत्स्थे खेटे विज्ञेया रोहिणी विद्धा ।। ३ ।। चंद्रे वैधव्यमर्केण विद्धेऽपत्यक्षयोऽसुजा । बुधेनार्थच्युतिः स्त्रीणां दास्यमंगिरसा भवेत् ॥ ८४ ॥ प्रवज्या भृगुपुत्रेण पतित्यागोऽजन्मना । राहुणा केतुना चैव गणिकात्वं न संशयः॥ ८५ ॥ - विवाहपटले [पंचांगशुद्धिः। शौनकः- विद्धं लग्नगतं धिष्ण्यं जन्मक्षं लग्नगं तथा । सप्तर्षयो जगुर्नेप्टं क्रूरांतस्थश्च शीतगुः ॥ ८६ ।। भोजदेवः- विद्धे बिलग्ने हिमदीधितौ च किंवर्कजोवीसुतसैहिकेयैः । परस्परं विग्रहमामनंति क्षपाकरः क्रूरनवांशवी ॥ ८७ ।। श्रीपतिः- क्रूरग्रहानुपगतो भगतः स्वकर्म- सिद्धिं प्रयच्छति हिमद्युतिना समेतः। क्रूरग्रहैरुपहतस्तु स योजनीयः क्रूरेषु कर्मसु शुभेषु विवर्जनीयः॥ ८८ ॥ वधूप्रवेशे दाने च वरणे पाणिपीडने । वेधः पंचशलाकाख्योऽन्यत्र सप्तशलाकजः ॥ ८९॥ ऋक्षं सौम्यग्रहैर्विद्धं पादमानं परित्यजेत् । क्रूरैस्तु सकलं त्याज्यमिति वेधविनिश्चयः ॥ ९ ॥ वेधमाद्यंतयोरंम्योरन्योन्यं द्वितृतीययोः । क्रूरैरैपि त्यजेत्पादं केचिदूचुर्मनीषिणः ॥ ९१ ॥ नक्षत्राणां चंद्रभोगाच्छुद्धिः- कृतं भं कर्मसंसिध्यै दोषैरेतैर्यदक्षमम् । भुक्त्वा मुक्तं क्षमं तत्स्याद्भानुनाऽमृतरोचिषा ॥१२॥ ब्रह्मगुप्तः उत्पातदोषदुष्टं शुभकर्मसु योजयेन्न तावद्भम् । यावन्नामृतधाम्ना भुक्त्वा विमलीकृतं भूयः ॥ ९३ ।।
DIPANA
वराह:-
AND
अध्यायः ८]
सारसमुच्चयः।
सप्तर्षयः-
दोषैरपरित्यक्तं धिष्ण्यमनिष्टं रवींदुभुक्तमपि ।
दोषविमुक्तं पश्चाद्रवींदुभुक्तं भवेच्छुद्धम् ॥ ९४ ॥
दोषैस्त्यक्तं यदा धिष्ण्यं पश्चाच्चंद्रेण संयुतम् ।
ततः पश्चाद्विशुद्धं भं नान्यथा शुभदं भवेत् ॥९५॥
द्वाभ्यां धरित्रीतनयेन दुष्टं त्रिभिश्च राहुग्रहणोपयातम् ।
पनिश्चतुर्भिः शनिभोगदुष्टं शुद्धं भवेद्भ तुहिनांशुभोगात् ९६
ब्रह्मगुप्तः-
यावन्न भुक्तं रविणाऽत्र धिष्ण्यं शीतांशुना चोत्तरगेण शुक्ले ।
तावत्त्वशुद्धिं समुपैति सम्यगात्मेव दुष्टाश्रयसंप्रयोगात् ९७
भावांशशुद्धोदयमप्यशुद्धं भशुद्धिहीनं प्रवदंति संतः।
तस्माद्विशेषेण भशुद्धिमादौ विचार्य कार्य शुभमाहुरार्याः ९८
चंडायुधः-
साध्यहर्षणशूलानां वैधृतिव्यतिपातयोः।
यद्धं गंडस्य चांते स्यात्तत्पातेन निपातितम् ॥ ९९ ॥
अथ ग्रहणविचारः-
त्रयोदश्यादितो वयं दिनानां दशकं ध्रुवम् ।
मांगल्येषु समस्तेषु ग्रहणे चंद्रसूर्ययोः ॥ १० ॥
भोजदेवः-
राही दृष्टे शुभं कर्म वर्जयेदिवसाष्टकम् ।
त्यत्वा वैतालसंसिद्धिं पापदं भमयं तथा ॥१॥
वृद्धवसिष्ठः-
ग्रहणात्प्राक् परे वास्त्रीणि सप्तदिनानि च ।
विवाहोत्सवमांगल्ये वर्जयेत्तेषु सर्वदा ॥२॥
- विवाहपटले [पंचांगशुद्धिः। शौनकः- विद्धं लग्नगतं धिष्ण्यं जन्मक्षं लग्नगं तथा । सप्तर्षयो जगुर्नेप्टं क्रूरांतस्थश्च शीतगुः ॥ ८६ ॥ भोजदेवः- विद्धे बिलग्ने हिमदीधितौ च किंवर्कजोवीसुतसैहिकेयैः । परस्परं विग्रहमामनंति क्षपाकरः क्रूरनवांशवती ॥ ८७ ॥ श्रीपतिः- क्रूरग्रहानुपगतो भगतः स्वकर्म- सिद्धिं प्रयच्छति हिमद्युतिना समेतः । क्रूरग्रहैरुपहतस्तु स योजनीयः क्रूरेषु कर्मसु शुभेषु विवर्जनीयः॥ ८८ ॥ वधूप्रवेशे दाने च वरणे पाणिपीडने । वेधः पंचशलाकाख्योऽन्यत्र सप्तशलाकजः ॥ ८९ ।। ऋक्षं सौम्यग्रहैर्विद्धं पादमात्रं परित्यजेत् । क्रूरैस्तु सकलं त्याज्यमिति वेधविनिश्चयः ॥ ९० ॥ वेधमाचंतयोरंध्योरन्योन्यं द्वितृतीययोः । क्रूरैरपि त्यजेत्पादं केचिदूचुर्मनीषिणः ॥ ९१ ॥ नक्षत्राणां चंद्रभोगाच्छुद्धिः कृतं भं कर्मसंसिध्यै दोषैरेतैर्यदक्षमम् । भुक्त्वा मुक्तं क्षमं तत्स्याद्भानुनाऽमृतरोचिषा ॥१२॥ ब्रह्मगुप्तः- उत्पातदोषदुष्टं शुभकर्मसु योजयेन्न तावदम् । यावन्नामृतधाम्ना भुक्त्वा विमलीकृतं भूयः ॥ ९३ ।। -
अध्यायः ९]
सारसमुच्चयः॥
अथ लग्नशुध्यध्यायः॥९॥
पंचांगशुद्धिः कथितोडुशुद्धिविलग्नशुद्धिग्रहभावशुद्धिः ।
समुद्गमास्तांशविशुद्धिराभिः स्यात्पंचभिःशुद्धिभिरिष्टलग्नम् १
लग्नादिभावोपगतैः शुभैः स्यात्पत्युः प्रिया द्रव्यवती गुणाढ्या।
साध्वी सुपुत्रा हतशत्रुवर्गा सुखोज्झिता नायुरनंतधर्मा ॥२॥
साध्वी धनाढ्या व्ययिनी च शुक्रे तृतीयगे देवररक्तचित्ता ।
षष्ठे महावैरयुता च पत्युः केऽप्याहुरंते शुभदौ सितेज्यौ ॥३॥
वराह:-
कोणगे स्त्रीजननी शशांके याये धनाड्या सुभगा तृतीये।
षडष्टलग्नेषु मृतिः कलत्रे सपत्नियुक्तांत्यगृहेषु निःस्वा ॥४॥
सप्तर्षयः-
बंधुस्थाने चंद्रः स्वजनेष्टां बंधुभोगिनीं कुरुते ।
गर्गमते मध्योऽसौ श्रेयान्स्यात्सौम्यदृग्योगात् ॥५॥
वराह:-
ned
त्रिकोणसप्तमांबरव्ययोपगो विलग्नतः।
हिमद्युतिः शुभसंगः शुभेक्षितश्च शोभनः ॥ ६ ॥
ब्रह्मगुप्तः-
न यत्र वित्तगः शशी त्रिलाभगोऽथवा भवेत् ।
न लग्नमत्र दापयेदुवाच शौनको मुनिः ॥ ७ ॥
सर्वेषां मते क्रूराणां फलानि-
नष्टासुं विधनां तथा धनवतीं बंध्वग्रवैरान्वितां
निःपुत्रां ससुतां तथा च विधवां रोगोज्झितां पांसुलाम् ।
दुःशीलां सधनां वृथा व्ययवती लग्नाच्च पापाः क्रमात्
विक्षीरां हिबुके शनिर्निधनगोऽसृक्स्रावयुक्तां कुजः॥८॥
विवाहपटले [ लग्नशुद्धि वैधव्यकृद्धवति लग्नगतोऽगनानां चंद्रान्वितो मरणदोऽस्तगतश्च राहुः । केतुश्च मंदवदसौ परतो निरुक्तः केंद्रस्थितो न शुभ इत्यपरे वदंति ॥९॥ वराहः- नष्टे सुरेज्ये पुरुषस्य नाशः कन्याविनाशो भृगुनंदने स्यात् । चंद्रे प्रणष्टे बुभयोर्विनाशो भौमेऽष्टमस्थानगते च लग्नात् १० गर्ग:- लग्नाझौमेऽष्टमगे पंचत्वं याति दंपती वह्नीं। जन्मनि यो वाष्टमगस्तल्लग्नगते तथैव फलम् ॥ ११॥ भृगुः षष्ठोऽष्टमो भौमो लग्नस्थोऽपि बृहस्पतिः। लग्नाषष्ठो विलग्नेशो वर्जनीयः सदैव हि ॥ १२ ॥ श्रीपतिः- आषष्ठतः खनवमायगताश्च सौम्याः शस्ताः षडायसहजाष्टमभेषु पापाः। पाणिग्रहे त्रिसुखलाभधनेषु चंद्रः षष्ठत्रिगो न शुभ आस्फुजिदष्टमोऽसृक् ॥१॥ सप्तर्षयः- जन्मसमये यदुक्तं शुभाशुभं दिव्यदृग्भिराचार्यैः । पृच्छापरिणयनाभ्यां तदेव युक्त्या प्रयोक्तव्यम् ॥१४॥ योगजातके- विनिहंति द्वादशभिर्मासलग्नाधिपः स्थितः पष्ठे । मासैश्चर्तुभिरेवं त्वष्टमवर्ती दिनैकेन ॥ १५ ॥ - -
-
अध्यायः९]
सारसमुच्चयः।
राशिप्रमितर्वारयति विलग्नपो रिपुस्थाने ।
मासैद्रेष्काणपतिर्दिवसैरंशाधिपो हंति ॥ १६ ॥
लक्ष्मीधरः-
विलग्नाधिपतौ षष्ठे विधवा स्यात्तथांशपे ।
द्रेष्काणाधिपतौ मृत्युर्विलग्ने बलवत्यपि ॥ १७ ॥
सप्तर्षयः-
लग्नाधिपे तु षष्ठस्थे वैधव्यं निश्चितं भवेत् ।
तथाप्यस्तंगते क्षीणे त्रिभिर्वस्तु मृत्युदः॥ १८ ॥
वृद्धसप्तर्षयः-
लग्नाधिनाथोऽथ नवांशनाथः षष्ठाष्टमो वा यदि लग्नकाले ।
स्वमेऽपि नो पश्यति चात्मनो मुखं विचर्चितं कज्जलकंकुमेन ।।
लघु:-
यत्र लग्नाधिपः षष्ठो रविभौमोऽथवा परः।
तल्लग्नं यत्नतस्त्याज्यं शुभैः सर्वग्रहैरपि ॥ २० ॥
चंद्रे षष्ठाष्टगमे लग्नपतौ वा भवेत्स संवर्तः।
सर्वशुभयोगनाशं करोति दावाग्निवदरण्यम् ॥ २१॥
लग्नस्य येऽशा उदिता ग्रहो यस्तेषु स्थितः स्थानफलं स धत्ते ।
यत्स्थानयातः स भवेद्वितीयः स्थानेषु शेषेष्वपि चिंत्यमेतत्र२२
भावप्रवृत्ती हि फलप्रवृत्तिः पूर्ण फलं भावसमांशकेषु ।
ह्रासःक्रमाद्भावविरामकाले फलस्य नाशः कथितो मुनींद्रैः२३
ग्राह्या न भावोत्थगुणा विलग्ने
त्याज्याश्च दोषा जगदुस्त्विहैके ।
लग्नांशकेभ्योऽभ्यधिकोऽपि धीस्थः
शुक्रोऽरिगः स्यान्न हि सूर्यजस्तु ॥ २४ ॥
विवाहपटले [ लग्नशुद्धि वैधव्यकृद्धवति लग्नगतोऽगनानां चंद्रान्वितो मरणदोऽस्तगतश्च राहुः । केतुश्च मंदवदसौ परतो निरुक्तः केंद्रस्थितो न शुभ इत्यपरे वदंति ॥९॥ वराहः- नष्टे सुरेज्ये पुरुषस्य नाशः कन्याविनाशो भृगुनंदने स्यात् । चंद्रे प्रणष्टे बुभयोर्विनाशो भौमेऽष्टमस्थानगते च लग्नात् १० गर्ग:- लग्नाझौमेऽष्टमगे पंचत्वं याति दंपती वह्नीं। जन्मनि यो वाष्टमगस्तल्लग्नगते तथैव फलम् ॥ ११॥ भृगुः षष्ठोऽष्टमो भौमो लग्नस्थोऽपि बृहस्पतिः। लग्नाषष्ठो विलग्नेशो वर्जनीयः सदैव हि ॥ १२ ॥ श्रीपतिः- आषष्ठतः खनवमायगताश्च सौम्याः शस्ताः षडायसहजाष्टमभेषु पापाः। पाणिग्रहे त्रिसुखलाभधनेषु चंद्रः षष्ठत्रिगो न शुभ आस्फुजिदष्टमोऽसृक् ॥१॥ सप्तर्षयः- जन्मसमये यदुक्तं शुभाशुभं दिव्यदृग्भिराचार्यैः । पृच्छापरिणयनाभ्यां तदेव युक्त्या प्रयोक्तव्यम् ॥१४॥ योगजातके- विनिहंति द्वादशभिर्मासलग्नाधिपः स्थितः पष्ठे । मासैश्चर्तुभिरेवं त्वष्टमवर्ती दिनैकेन ॥ १५ ॥ - -
अध्यायः ९J
सारसमुच्चयः।
स्वगृहत्रिकोणतुंगाभिसंस्थितो मित्रभवनभावगतः ।
चेष्टादिबलयुतो वा यत्नाद्योज्यः शुभस्थाने ॥ ३४ ॥
नेष्टः शुभो विलग्ने नीचारिगृहोपगस्तु शत्रुदिने ।
क्रूरोऽपि सुहृदिवसे स्वोच्चगतः शुभफलोऽन्येषाम् ।। ३५ ।।
पापोऽप्यनिष्टदो न स्यादनिष्ट स्थानगो यदि ।
शुक्रज्ञगुरुभिदृष्टः स्वोच्चधीधर्मकेंद्रगैः ॥ ३६॥
भोजदेवः-
उदेति यो दक्षिणमार्गवर्ती सरोजिनीभर्तुरुपैति चास्तम् ।
शुभो विलग्नोपगतः स धत्ते ग्रहो न पाणिग्रहणे शुभानि ३७
अनिष्टफलधामगः शुभकरो ग्रहो वीक्षितो
बृहस्पतिसितेंदुजैर्बलयुतैरपापैर्यदा।
तनुर्भवति पंचभिर्गगनगैः शुभैः शोभनं
हिमांशुगुरुभास्करविरहितं हितं नो भवेत् ॥३८॥
पंचभिरिष्टैरिष्टं पुष्टमनिष्टैरनिष्टमादेश्यम् ।
स्थानादिबलसमृद्धश्चतुर्भिरपि पठ्यते यवनैः॥ ३९॥
पंच पाणिग्रहे दोषा वर्जनीयाः प्रयत्नतः।
दारियमृत्युपुंश्चल्यवैधव्यमनपत्यता ॥ ४० ॥
पाणिग्रहे गुणाः पंच यत्नात्तज्ज्ञो विचिंतयेत् ।
उभयोः प्रीतिमायुष्यं धनं पुत्रानरोगताम् ॥ ४१ ।।
जातकेऽपि-
लग्नाधिपोऽतिबलवान भैरदृष्टः
केंद्रस्थितैः शुभखगैरवलोक्यमानः ।
मृत्युं विधूय विदधाति सुदीर्घमायुः
साध गुणैर्बहुभिरूर्जितया च लक्ष्म्या ॥४२॥
-- विवाहपटले [लग्नशुद्धिः सौम्यग्रहरतिबलविंबलैश्च पाप- लग्ने च सौम्यभवने शुभदृष्टयुक्ते ॥ सर्वापदाविरहिता भवतीह कन्या दोषोज्झितं जगदिवार्कसमुद्गमे स्यात् ॥ ४३ लग्नाधिपो यदा केंद्रे लग्नादुपचये तथा । क्रमाच्छुभोऽशुभो ज्ञेयो दोषसंघांश्च घातयेत् ॥४४॥ प्रस्फुरितकिरणजाले स्निग्धामलमंडले बलोपेते। सुरमंत्रिणि केंद्रगते सर्वे दोषाः क्षयं यांति ॥ ४५ ॥ नारद:- लग्नं लग्नांशनाथो वा आयगः केंद्रगोऽपि वा। राशीन्निहंति दोषाणामिंधनानीव पावकः ॥ ४६॥ अब्दायनर्तुमासोत्था ये दोषाः पक्षसंभवाः । ते दोषा विलयं यांति केंद्रस्थे च बृहस्पतौ ॥ ४७ ॥ लग्नस्थो गुरुरेकोऽपि लग्नदोषस्य संचयम् । हति पापान्हरिदिने चोपवासनतं यथा ॥ ४८ ॥ उक्तानुक्ताश्च ये दोषास्तानिहंति बली गुरुः। केंद्रसंस्थः सितो वापि पन्नगान् गरुडो यथा ॥ ४९ ॥ दुःस्थानस्थग्रहकृताः पापभंगसमुद्भवाः । ते सर्वे विलयं यांति केंद्रस्थाने बृहस्पतौ ॥ ५० ॥ गर्ग:- सर्वविरुद्धे लग्ने तिष्ठति केंद्रे यदा सुराचार्यः। हिमकरदिनकरकिरणैः सर्वे दोषाः प्रलीयंते ॥ ५१ । धर्मकर्माबुधौ लग्ने स्थिते जीवे सिते बुधे । अशुभं तच्छुभं याति शुभं वृद्धिमुपैति च ॥ ५२ । - अध्यायः९] सारसमुच्चयः। वराह:- ये लग्नदोषाः कुनवांशदोषाः पापैः कृता दृष्टिनिपातदोपाः। लग्ने गुरुस्तान्विमलीकरोति फलं यथांभः कतकद्रुमस्य ॥५३॥ यस्मिन्विवाहे गुरुशुक्रसौम्याः केंद्रस्थिता धर्मसुतस्थिता वा। सर्वांश्च दोषान्विनिहंति लग्ने कुर्वति सिद्धिं सुखसंपदायुः ५४ राहुस्त्रिषष्ठलाभे लग्नात्सौम्यैर्निरीक्षितः सम्यक् । नाशयति सर्वदुरितं मारुत इव तूलसंघातम् ॥ ५५ ॥ ॥ नवमांशादिविचारः प्राग लग्ने द्विपदगृहे कुर्यादन्यांशकोदयोनांशे । द्विपदेष्वपि कन्यातौलिमिथुनधन्वंशकाः शस्ताः ॥५६॥ क्षेत्रेषु मेषमृगतुलाकांद्याः स्युनवांशकाः क्रमशः । इष्टांशात्पूवंशात् (?) द्विशतगुणा लग्नकालिकास्ते स्युः ५७ ओजेऽर्कचंद्रयोहोरे युग्मे स्तश्चंद्रभावतोः। आद्यपंचनवेशानां द्रेष्काणाः स्वाविषलवाः॥५८ यवन:- ५५1८७.५ आद्यां तु होरां भवनस्य पत्युरेकादशक्षेत्रपतेद्वितीयाम् । स्वद्वादशैकादशराशिपानांद्रेष्काणसंज्ञा यवना वदंति ॥५९॥ कुजयमजीवज्ञसिताः पंचेंद्रियवसुमुनींद्रियांशानाम् । विषमेषु समक्षैषूत्क्रमेण त्रिंशांशकाः कल्प्याः ॥ ६० ॥ खेटभागास्त्रिभिर्निन्ना दशभक्ता नवांशकाः । द्विघ्नाः पंचविभक्ताः स्युः स्वस्थानावादशांशकाः॥६॥ सप्तर्षयः- गृहं च होराद्रेष्काणौ नवांशो द्वादशांशकः । त्रिंशांशो यः शुभो वर्गः सौम्यानामशुभोऽसताम् ॥ ६२ ।।
विवाहपटले [लग्नशुद्धिः। हरिदेवः- आदौ समस्तफलदं हरिज फला मध्ये च तुच्छफलमंत्यनवांशकेऽपि । अंत्यांशकेऽपि सकलं विफलं विलग्नं वर्गोत्तमं चरगृहे न चरो नवांशः ॥ ६३ ॥ वर्गोत्तमं विलग्नं वर्गोत्तमजो नवांशको यस्मिन् । वर्गोत्तमा नवांशाश्वरादिषु प्रथममध्यांत्याः॥ ६४॥ लघु:- वर्गोत्तमादृते दद्याचरमं न नवांशकम् । चरलग्ने तुलांशे तु तुलामकरगे विधौ ॥ ६५ ॥ अस्यापवादो होराप्रकाशे- चरराशिगते चंद्रे चरलग्ने चरांशके। द्वौ पती भजते कन्या शुक्रदृष्टे निशाकरे ॥ ६६ ॥ वराह:- चरलग्ने चरांशे च चरराशिगतः शशी। इत्थं शतगुणं वापि भावशुद्धं तनुं त्यजेत् ॥ ६७ ॥ गर्गः- कर्कलग्नेऽथवा मेषे तुलांशो यदि दीयते । तुले वा मकरे चंद्रो वैधव्यं जायते तदा ॥ ६८ ॥ सप्तर्षयः- लग्नेंदू चरभवने वलिनो योषिहाः स्थिताः केंद्रे । योषिद्धहसंदृष्टे भर्तृबहुत्वं प्रकुर्वति ॥ ६९ ॥ रविशशीज्ययमाः कुलखेचरा उपकुलाः कुजभार्गवराहवः । शशिसुतस्तु कुलोपकुलाभिधोनिगदितोनृपसंधिविधायकः७० ४९ बादरायणः - अध्यायः ९] सारसमुच्चयः। षडर्गतः स्याच्छ्रुतसंपदाप्तिलग्ने सुताब्या खलु पंचवगैः। वगैरपि स्याच्छुभदं चतुर्भिस्त्रिंशांशको यस्य शुभग्रहस्य ७१ न लग्नं सच्चतुर्वर्ग दृष्यते कालहोरया । अपि षड़र्गसंशुद्धं कुलिकेन विहन्यते ॥ ७२ ।। ब्रह्मगुप्तः- न सच्चतुर्वर्गसहो विलग्नं प्रदृष्यते कालजहोरया वा। न जन्ममासःदिनक्षयोर्वा न चापि पाद्मः कुलिकोदयैर्वा ७३ हरिदेवः- यस्मिन् राशौ भवेच्चंद्रस्तदंशं परिवर्जयेत् । यस्माद्भवेच्च वैधव्यमावर्षान्मुनयो जगुः ॥ ७४ ॥ राशिवद्वर्जयेत्रोऽप्यंशस्थो मरणप्रदः। चंद्रक्रूरयुतो राशिर्लग्नांशं नैव कारयेत् ॥ ७५ ॥ लघुः-यस्मिन् राशौ भवेत्तूरो यस्मिन् राशौ तु चंद्रमाः । द्वावप्यंशौ न दातव्यौ लग्ने तो मरणप्रदौ ॥ ७६ ॥ यस्मिन् राशौ भवेत्क्रूरस्तदंशो दीयते यदि । लग्ने मृत्यु विजानीयात्पंचमेऽब्दे न संशयः ॥७७॥ गर्गः-सरग्रहराश्यंशं लग्ने दद्यान्न बुद्धिमान् । यतः सक्रूरराश्यशादायुहीनं प्रजायते ॥ ७८ ॥ जातके-दशमतृतीये नवपंचमे चतुर्थाष्टमेकलत्रे च । पश्यंति पादवृद्ध्या फलानि चैवं प्रयच्छति ॥ ७९ ॥ युतः स्वनाथेन निरीक्षितो वा नवांशको लग्नगतो नराणाम् । निहंति रिष्टानि तथापमृत्युः कलत्रसंस्थश्च नितंबिनीनाम् ८० विवा०४ ।
000 - विवाहपटले [लग्नशुद्धिः। वामदेवः- पश्येद्यदांशाधिपतिर्विलग्नं लग्नेऽथवा स्यादुदयांशशुद्धिः । अस्तांशनाथः स्मरभं विलग्नात्पश्येत्तदास्तांशविशुद्धिरुका८१ अस्यापवादः । वृद्धगर्गात्रेयादयः- शुद्धस्त्विह स्यान्न यदोदयांशो लग्ने न चास्तांशमुपैति सिद्धिः। तयोः सुहृत्सौम्यनिरीक्षितो यः शुभाय स स्यात्प्रवदंति संतः ॥ वृद्धवसिष्ठः- उदयास्तांशयोः शुद्धिर्यदि लग्नेन जायते । तदा तन्मित्रसौम्याव्यवीक्षितोंऽशःशुभो भवेत् ८३ सप्तर्षयः- उदयास्तविशुद्धं चेदंपत्योलग्नमायुषे वृद्ध्यै । उदयास्तविशुद्ध्यनं मरणकरं निश्चितं वय॑म् ॥ ८४ ॥ श्रीपतिः- पाणिग्रहे लग्नगतो नवांशः स्वस्वामिना चेन्न युतो न दृष्टः । करोति पुंसामचिरेण मृत्युं तद्वत्कलत्रोपगतोऽगनानाम् ८५ सप्तर्षयः कृत्वायनांशयुक्तौ लग्नाकौं निशि च भार्थमितम् । रविभोग्यांशैर्गुणितं निजोदयाल्लग्नभुक्तांशः॥८६ ॥ खगुणहृतात्पलयोगो मध्योदयसंयुतो भवेत्कालः। एकसंगार्कतन्वोर्विवरांशैः साध्यते कालः ॥ ८७ ॥ उत्तरदक्षिणचरलवहीनयुतानाडिका रवेरुदयात् । प्राक्पश्चाद्देशांतरयोजनखाष्टांशकेनापि ॥ ८८॥ द्विगुणाः पंचविभक्ता रविसितबुधचंद्रमंदगुरुभौमाः। दिनपाद्या-होरेशा विवर्जयेत्पापखगहोराम् ॥ ८९ ॥ -
अध्यायः ९]
सारसमुच्चयः।
लग्नफलं नवभागे वारफलं व्योमगः स्वहोरायाम् ।
यच्छेत्फलं नवांशे नवांशके खेचरः पश्येत् ॥ ९ ॥
लघुः-वारफलं होरायां लग्नफलं चांशके विनिर्दिष्टम् ।
अंशस्थोऽप्यंशपतियस्माञ्चित्यं प्रयत्नेन ॥ ९१॥
भानोः कुजस्य च दिने विगुणा दरिद्रा
सौख्यान्विता भवति चंद्रदिने कुमारी।
सौभाग्यशीलसहिता हि शशांकसूनो-
वारे गुरोः सुखवती सुभगा सुपुत्रा॥ ९२ ॥
प्रीत्यर्थभोगसुखभाग्भृगुजाहि नीच-
स्थैर्यान्वितार्कजदिने पतिवल्लभा च ।
केऽप्याहुरिंदुदिवसे सहिता सपुत्रा
स्यादुर्भगा शनिदिने पतिवर्जिता च ॥९३ ॥
तिथिरेकगुणा प्रोक्ता बलेन द्विगुणः क्षयः ।
चतुर्गुणं तु नक्षत्रं वासरः षड्गुणः स्मृतः ॥ ९४ ॥
चंद्रः शतगुणो लग्ने सहस्रगुणमुच्यते ।
लग्नाद्धोरादयो भेदा बलिनः स्युर्यथोत्तरम् ॥ ९५ ॥
"योगा"
ये जातके नृपतिनाभसशीतरश्मे-
योगा वसिष्ठयवनप्रमुखैनिरुक्ताः।
सर्वेऽपि ते करतलग्रहणे कुमार्या
योज्या यतः शुभफलाः प्रसवे विवाहे ॥९॥
नंदो भद्राभिधो जीवो जीमूतः स्थावरो जयः।
विजयो व्यालपातालसुखक्षयतमोऽतकाः॥ ९७ ॥
१२ , , विवाहपटले [लग्नशुद्धिः बुधे नंदः, सिते भद्रो, जीवे जीवो, विलग्नगे। ज्ञजीवयोस्तु जीमूतः, स्थावरो जीवशुक्रयोः ॥९॥ जयो सिदयो, झेंग्यशुक्रेषु विजयो, भवेत् । सहस्रकिरणे व्यालो, रसातलसुखः कुजे ॥ ९९ ।। क्षयो मंदे, तमो राहौ, केतावंतकसंज्ञकः । द्वादशैते स्मृता योगाः शुभाशुभफलप्रदाः॥ १०० ।। त्रिष्वाद्येषु भवेद्राज्ञी ततो देवी चतुर्वपि । दरिद्रा विधवा सौख्या व्यालाद्येष्वथ पंचसु ॥१॥ अन्ये ये यवनायुक्ताः करग्रहे ये शुभाशुभा योगाः। जातकविहिताभूपाकृतिपूर्वाश्चात्र संचिंत्याः॥२॥ एवं गुणदोषाणां बलाबलं समधिकल्पयित्वादौ । लग्नं विवाहसमयोदयं च होराविदा स्पष्टम् ॥ ३॥ नहि सकलगुणसमेतं कालेनाल्पेन लभ्यते लग्नम् । यस्मात्तस्माद्देयं तनुदोषं बहुगुणं तज्ज्ञैः ॥४॥ शौनकस्तु विशेषमाह- बहुतरगुणसंयुक्तं तनुना दोषेण दूषितं लग्नम् । दैवज्ञद्विजवचनात्तदेव संवर्धयत्यायुः ॥५॥ जातके गर्ग:- स्वल्पोऽप्यनर्थकृद्दोषो लग्ने बहुगुणो भवेत् । तोयबिंदुरिवासंघः समृद्धः कृष्णवर्मनि ॥ ६ ॥ अथ दैवज्ञलक्षणम् । वृद्धगर्गः- उभयकुलविशुद्धः प्रसन्नमूर्तिः क्रियागमे शुद्धः। सद्भाववान्प्रगल्भो दैवज्ञस्तादृशो भवति ॥७॥ - mmsmum अध्यायः९] सारसमुच्चयः। अविदित्वैव यः शास्त्रं दैवज्ञत्वं प्रपद्यते । स पंक्तिदूषकः पापो ज्ञेयो नक्षत्रपाठकः ॥ ८॥ वेदशास्त्रविहीनाश्च हेतुतर्कविवर्जिताः। तेभ्यो लग्नं न गृह्णीयाद्विषसंयुक्तदुग्धवत् ॥९॥ न वेत्ति यो जातककर्मपद्धतिं न ब्रह्मसिद्धांतभवानपि ग्रहान् । विवाहयात्रादिककालसूचको ज्ञेयोऽपि मृत्युः खलु तत्स्वरूपधृक् ॥ १० ॥ संशोध्य लग्नं सुपरीक्षितं च ददाति लोके स च वल्लभः स्यात् । विस्तारमायाति च तस्य कीर्तिर्यथा जले तैलमिव प्रकीर्ण ११ वसिष्ठोऽपि- लग्नदातरि संतुष्टे दुर्लग्नेऽपि सुलग्नता । असंतुष्टे त्वसंतुष्टा निर्दहंत्यपमानिताः ॥ १२॥ यात्राधिकारदशकं गणितं च वेत्ति होरांगतंत्रकुशलो व्यवहारदीं। सम्यग्विवाहपटलार्थविदप्रमादी दातुं द्विजोऽर्हति स एव सतां विलग्नम् ॥१३॥ अन्यत्रापि-दशाधिकारं यो वेत्ति जातकं वेत्ति तत्त्वतः । व्यवहारे सुकुशलो लग्नं दातुं क्षमो भवेत्॥१४॥ अथ गोरजलग्नविचारः तत्र वसिष्ठः- न गोरजो यावदुपैति शांतिं न तारकाज्योतिरिनांशुसंघात् । विवाहकालो गदितस्तु तावट्विजातिवर्णत्रयबाह्यकेन(कस्य)।
१२ , , विवाहपटले [लग्नशुद्धिः बुधे नंदः, सिते भद्रो, जीवे जीवो, विलग्नगे। ज्ञजीवयोस्तु जीमूतः, स्थावरो जीवशुक्रयोः ॥९॥ जयो सिदयो, झेंग्यशुक्रेषु विजयो, भवेत् । सहस्रकिरणे व्यालो, रसातलसुखः कुजे ॥ ९९ ।। क्षयो मंदे, तमो राहौ, केतावंतकसंज्ञकः । द्वादशैते स्मृता योगाः शुभाशुभफलप्रदाः॥ १०० ।। त्रिष्वाद्येषु भवेद्राज्ञी ततो देवी चतुर्वपि । दरिद्रा विधवा सौख्या व्यालाद्येष्वथ पंचसु ॥१॥ अन्ये ये यवनायुक्ताः करग्रहे ये शुभाशुभा योगाः। जातकविहिताभूपाकृतिपूर्वाश्चात्र संचिंत्याः॥२॥ एवं गुणदोषाणां बलाबलं समधिकल्पयित्वादौ । लग्नं विवाहसमयोदयं च होराविदा स्पष्टम् ॥ ३॥ नहि सकलगुणसमेतं कालेनाल्पेन लभ्यते लग्नम् । यस्मात्तस्माद्देयं तनुदोषं बहुगुणं तज्ज्ञैः ॥४॥ शौनकस्तु विशेषमाह- बहुतरगुणसंयुक्तं तनुना दोषेण दूषितं लग्नम् । दैवज्ञद्विजवचनात्तदेव संवर्धयत्यायुः ॥५॥ जातके गर्ग:- स्वल्पोऽप्यनर्थकृद्दोषो लग्ने बहुगुणो भवेत् । तोयबिंदुरिवासंघः समृद्धः कृष्णवर्मनि ॥ ६ ॥ अथ दैवज्ञलक्षणम् । वृद्धगर्गः- उभयकुलविशुद्धः प्रसन्नमूर्तिः क्रियागमे शुद्धः। सद्भाववान्प्रगल्भो दैवज्ञस्तादृशो भवति ॥७॥ - mmsmum अध्यायः ९] सारसमुच्चयः। - वसिष्ठः- कुलिक क्रांतिसाम्यं च मूतौँ षष्ठाष्टमे शशी। पंच गोधूलिके त्याज्यास्त्वन्ये दोषाः शुभावहाः॥२४॥ अन्यत्रापि- धिष्ण्यं क्रूरयुतं पापं लग्ने षष्ठाष्टमे शशी। गोरजं तत्प्रशंसंति संतः शनिदिनं विना ॥ २५ ॥ वृद्धगर्गः- क्रूरभुक्तं च भोग्यं च विद्धं भं क्रूरवासरम् । लग्नं क्रूरयुतं चांशं संध्यालग्ने न चिंतयेत् ॥ २६ ॥ यदृक्षं शनिभौमाभ्यां युक्तं वा धूमितं भवेत् । गोधूलिकेऽपि तद् ग्राह्यं हित्वा वेधं मनीषिभिः॥२७॥ लग्नशुद्धिर्यदा न स्याद्यौवनं च प्रदृश्यते । तदा च सर्ववर्णानां लग्नं गोधूलिकं शुभम् ॥ २८ ॥ यावत्कुंकुमरक्तचंदननिभः संदृश्यते भास्करो यावन्नैव निशा न चापि दिवसः संध्या भवेत्पश्चिमा। यावन्नोडुगणो न खे विसृमरो नोन्मीलिता रश्मय- स्तावत्सर्वजनस्य मंगलविधौ गोधूलिकं शस्यते ॥२९॥ गोपैर्यश्या हतानां खुरपुटदलिता या च रेणुर्दिनांते सोद्वाहे सुंदरीणां विपुलधनसुता चायुरारोग्यदा स्यात् । तस्मिन्काले न ऋक्षं न च तिथिकरणं नैव लग्नं न योगः ख्यातः पुंसां सुखार्थ शमयति दुरितं गोरजं यदिनांते ३० यावद्दिनांते निशि पश्चिमायां पश्चात्तृतीये रविबिंबभागे। तस्मात्परं नाडिकया च युग्मे गोधूलिकालं मुनयो वदंति ३१ पराशर:--
विवाहपटले
[प्रकीर्णः।
-
रत्नमालायाम्-
समस्तगुणसंपदा न खलु लब्धिरल्पैदिन-
गुणप्रचुरता ततो बहुमता च दोषाल्पता ।
न भूरि गुणसंचये प्रभवतीह दोषोऽल्पको
बुदर्चिषि हुताशने सलिलबिंदुरेको यथा ॥३२॥
अन्यत्रापि-
घटिकालग्नाभावेऽगीकार्य गोरज विप्रैः।
॥ १३३॥
इति शायिसारसमुच्चये विवाहपटले लग्नशुद्धिप्रकर-
णाध्यायः समाप्तः॥९॥
अथ प्रकीर्णाध्यायः॥१०॥
मंडपवेदिकामाह-
हस्तोन्नतां हस्तकपंचसप्तकर्मोन्नतां मंदिरवामभागे।
संभैश्चतुर्भिः कलशैर्विचित्रैर्वेदी विवाहे प्रवदंति तज्ज्ञाः॥१॥
दलनकंडनमण्डपवेदिकागृहसुमार्जनवारकमंडयाः ।
करतलग्रहमध्यगतागतं तदखिलं विदधीत विवाहभे ॥२॥
आशाधर:-
विवाहकृत्यं सकलं विवाहभे विलोकयेन्नात्र बलं हिमद्युतेः।
नवत्रिषष्ठोऽत्र न वारकः शुभो न वर्णको नैव विवाहमंडपः३
“एकादि नव तैलादि षष्ठं नेष्टं तृतीयकम् ।
अष्टसप्तचतुःपंच विवाहे मंडपाः शुभाः॥४॥
निष्किंचने व्यहैकं च तैलं वा मृन्मयः शुभः।
कार्यस्थे राज्यविस्तारे मंडपो माससंज्ञितः॥५॥
अध्यायः १०] सारसमुच्चयः। चतुःपंच तथा सप्त अष्टमैकादशस्तथा। विवाहे मंडपाः प्रोक्ता द्विरेकः स्यान्न किंचन ॥६॥" गर्गोऽपि- चतुर्थों मंडपः श्रेष्ठः पंचमः सप्तमस्तथा । अष्टमैकादशः श्रेष्ठो नेष्टः षष्ठस्तृतीयकः ॥७॥ उक्त काले विवाहानां कुर्यान्नान्दीमुखं पिता। देशांतरे विवाहश्चेत्तत्र गत्वा भवेदिदम् ॥ ८॥ व्यवधाने महानद्या गिरेर्वा व्यवधानतः। वाचो यत्र विभिद्यते तद्देशांतरमुच्यते ॥९॥ पंचमे नवमयुग्मचतुर्थे सप्तमेऽह्नि च शचीप्रपूजनम् । पाणिपीडनदिनादिपूर्वकं यत्प्रसिद्धमिह संज्ञया भवेत् ॥१०॥ तैलप्रवाहो नोल्लंघ्यो न दिनादौ नृयोषितो। वैधव्यं मुनिभिः प्रोक्तं तथैवांगिरसः स्मृतिः ॥११॥ तैलं देवप्रतिष्ठार्थ कुमार्याश्च महोत्सवे । विप्रस्योपनये चैव तैलमादौ प्रधार्यते ॥ १२ ॥ प्रतिष्ठाचौलोपनये विवाहे नरयोषितोः। तैलं प्रयत्नतो धार्य सर्वदेशेष्वयं विधिः॥१३॥ तैलादेवत्वमायाति प्रेतत्वं याति तैलतः। तस्मात्तैलं विधार्य स्याद्विवाहे च प्रतिष्ठितम् ॥१४॥ सुतैलेन विना लग्नं यः करोति स मूढधीः । प्रेतात्प्रेतः समुत्पन्नो वरत्वं च प्रमुंचति ॥ १५॥ रत्नकोशे-रजनिजनितरागा मालिनी पूर्ववत्रा प्रथमरजनियामेऽलंकृताभ्यो रमाभ्यः।
विवाहपटले
[प्रकीर्णः।
शिरसि विमलतैलं धारयेद्वै कुमारी
धवललुलितरागैर्नागवल्लीदलैश्च ॥ १६ ॥
अंत्यजश्वानचांडालोदक्यापतितसूतिकाः।
दर्शनं स्पर्शनं वयं धृते तैले तु कन्यया ॥ १७ ।।
सर्वसंमते-
विस्तारतो हस्तचतुष्टयेन हस्तोच्छ्रितां मंदिरवामभागे।
स्तंभैश्चतुर्भिः कृतनिश्चलांगां वेदी विवाहे प्रवदंति तज्ज्ञाः१८
विवाहवेदी गृहमंडपस्य ईशानपूर्वोत्तरदिग्विभागे।
सौभाग्यकन्याधनपुत्रयुक्ता शेषैविभागैर्विधवा भवंति ॥१९॥
दक्षिणे पूर्वदिग्द्वारे तत्पूर्वोत्तरमादिशेत् ।
गृहनिर्गमवामांगे वसोरं च वेदिकाम् ॥ २० ॥
ऊपरे दुर्भगा नारी शल्ये चैव मृतप्रजा ।
द्वारवेधेऽनपत्या च सूत्रच्छेदे कुलक्षयः ॥ २१ ॥
गृहस्य दक्षिणे भागे कुर्याद्वेदी ततः शुभाम् ।
अन्यथा नैव कर्तव्या सेत्येवं मनुरब्रवीत् ॥२२॥
अविघ्नकारिणं देवं विघ्नराजं प्रपूजयेत् ।
समोदकाक्षतैः पूर्ण दंपत्योः सन्निधौ न्यसेत् ॥२३॥
षोडशारनिकं कुर्याच्चतुारोपशोभितम् ।
मंडपं तोरणैर्युक्तं तत्र देवी प्रकल्पयेत् ॥ २४ ॥
अष्टहस्तं च रचयेन्मंडपं वा द्विषटूरम् ।
चतुःकरां वा हस्तोच्चामिष्टकाभिर्मदाऽथवा ॥ २५ ॥
विप्रे षोडशहस्तैश्च राजन्ये द्वादशैस्तु तैः ।
वसुहस्तमितो वैश्ये शूद्रजातौ चतुःकरः ॥ २६ ॥
अध्यायः १०]
सारसमुच्चयः।
-
गृहे तु पश्चिमे द्वारे तथैवोत्तर एव च ।
विवाहे वेदिका कार्या गृहानिर्गमदक्षिणे ॥ २७ ॥
“अथ श्वशुरादीनां सुखं भविष्यति नवेति ज्ञानोपायः"
श्रीपतिः-श्वशुरोऽर्कः सितः श्वश्रूः स्त्रीणामस्तपतिः पतिः।
एभिरुच्चोपगैरेषां शुभं नीचादिगैरसत् ॥ २८ ॥
ब्रह्मगुप्तस्तु विशेषमाह-
सूर्यात्पतिः स्त्री च विधोस्तथाराद्वित्तं सुतो ज्ञाच्च सुखं गुरोश्च ।
धनं सितादर्कसुताच वेश्म ब्रूयात्समुद्वाहविधौ स्वयुक्त्या २९
एतैनींचस्थितैरस्तंगतैः शत्रुगतैर्न सत् ।
स्वगृहोच्चत्रिकोणस्थैः शुभं तेषां तथोदितैः॥३०॥
अथ घटिकास्थापनं तत्फलं चाह-
यंत्राणां मुख्यरूपासि ब्रह्मणा निर्मिता घटी।
दंपत्योः शुभकालाप्तिं कुरु त्वं सृष्टिकारिके ॥ ३१ ॥
प्रस्तुत्यैवं घटीं नीरे क्षिपेत्कुंडे जले शुभे।
अर्कोदितार्धास्तमिते सूर्यबिंबेऽद्रिसंगते ॥ ३२ ॥
शौनकः-
यद्रूपं प्रथमं करोति घटिका पूर्वादिदिक्षु क्रमा-
सौभाग्यं निधनं च गोविरहिता रोगोद्गमः सर्वदा ।
धन्या वल्लभतामुपैति नियतं पत्युश्चला सर्वदा
स्यात्साध्वी सुतवित्तबंधुसहिता नंदत्यलं भूतले ॥३॥
दिनापरार्धे च कपाटसंधौ न वैधृते न व्यतिपातयोगे।
क्रांत्योश्च साम्ये कुलिकाधयामे करग्रहः स्याद्विषभक्षतुल्यः३४
न दिवा पराह्नसमये नाधिकमासे करग्रहो न तिथिपाते ।
ग्रहणद्वयमध्यगते ग्रहणादौ सप्तवासरैः परतः ॥ ३५ ॥
विवाहपटले
[प्रकीर्णः।
शिरसि विमलतैलं धारयेद्वै कुमारी
धवललुलितरागैर्नागवल्लीदलैश्च ॥ १६ ॥
अंत्यजश्वानचांडालोदक्यापतितसूतिकाः।
दर्शनं स्पर्शनं वयं धृते तैले तु कन्यया ॥ १७ ।।
सर्वसंमते-
विस्तारतो हस्तचतुष्टयेन हस्तोच्छ्रितां मंदिरवामभागे।
स्तंभैश्चतुर्भिः कृतनिश्चलांगां वेदी विवाहे प्रवदंति तज्ज्ञाः१८
विवाहवेदी गृहमंडपस्य ईशानपूर्वोत्तरदिग्विभागे।
सौभाग्यकन्याधनपुत्रयुक्ता शेषविभागैर्विधवा भवंति ॥१९॥
दक्षिणे पूर्वदिग्द्वारे तत्पूर्वोत्तरमादिशेत् ।
गृहनिर्गमवामांगे वसोरं च वेदिकाम् ॥ २० ॥
ऊपरे दुर्भगा नारी शल्ये चैव मृतप्रजा ।
द्वारवेधेऽनपत्या च सूत्रच्छेदे कुलक्षयः ॥ २१ ॥
गृहस्य दक्षिणे भागे कुर्याद्वेदी ततः शुभाम् ।
अन्यथा नैव कर्तव्या सेत्येवं मनुरब्रवीत् ॥२२॥
अविघ्नकारिणं देवं विघ्नराजं प्रपूजयेत् ।
समोदकाक्षतैः पूर्ण दंपत्योः सन्निधौ न्यसेत् ॥२३॥
षोडशारनिकं कुर्याच्चतुारोपशोभितम् ।
मंडपं तोरणैर्युक्तं तत्र देवी प्रकल्पयेत् ॥ २४ ॥
अष्टहस्तं च रचयेन्मंडपं वा द्विषटूरम् ।
चतुःकरां वा हस्तोच्चामिष्टकाभिर्मदाऽथवा ॥ २५ ॥
विप्रे षोडशहस्तैश्च राजन्ये द्वादशैस्तु तैः ।
वसुहस्तमितो वैश्ये शूद्रजातौ चतुःकरः ॥ २६ ॥
अध्यायः १०]
सारसमुच्चयः।
न मुंडनोपनायनं न मेखलाविमोक्षणम् ।
वदंति शौनकादयः सचौलकर्म मुंडनम् ॥ ४७॥
न मुंडनं स्याद्रशनादिबंधो न चापि मोक्षो व्रतबंधनस्य ।
वदति गर्गप्रमुखा मुनींद्राः शूद्राकृति (?)मुंडनमेव नान्यत्४८
स्वमृद्वये भ्रातृयुगे स्वसृभ्रातृयुगे तथा ।
न जातु मंगलं कुर्यादेकस्मिन्मंडपेऽहनि ॥ ४९ ॥
मातृयज्ञक्रियापूर्व ज्येष्ठं कृत्वा तु मंगलम् ।
ऋतुत्रयं पुनर्यावन्न कुर्याल्लघु मंगलम् ॥ ५० ॥
विवाहकृत्यं दुहितुश्च कृत्वा पश्चाद्विवाहो न सुतस्य कार्यः
प्रकीर्तयंत्येवमृषिप्रवर्या न मुंडनं चापि हि मंडनादनु ५१
दर्शश्राद्धं क्षयश्राद्धं शीताद्भिः स्नानमेव च ।
प्राचीनावीतिकरणं नदीसीमानुपातनम् ॥ ५२ ॥
नांदीश्राद्धे कृते नैव यावन्मातृविसर्जनम् ।
नदीप्रवाहो नोल्लंध्यो न दिनादौ न योषिताम् ॥५३॥
वैधव्यं मुनिभिः प्रोक्तं तथैवांगिरसः स्मृतिः ।
पाणिपीडनविधेरनंतरं चूलिकोपनयने विवर्जयेत् ।
मासपमुपरागर्भ त्यजेन्यूनमृक्षमपि पादभेदतः ५४
ज्येष्ठात्कृत्याच षण्मासं न कुर्याल्लघुमंगलम् ।
कुर्वति मुनयः केचिदन्यस्मिन्नपि वत्सरे ॥ ५५ ॥
स्त्रीविवाहः कुले निर्गमः कथ्यते
पुंविवाहः प्रवेशो बुधैः कीर्तितः।
निर्गमादादितो न प्रवेशः शुभ-
स्तत्र संवत्सरांतो विधिः कीर्तितः॥५६॥
विवाहपटले [कार्तिकीविवाहः।
ऊर्ध्व विवाहाच्छुभदो नरस्य
नारी विवाहोऽपि ऋतुत्रये स्यात् ।।
नारी विवाहादपि हि प्रशस्तं
नरस्य पाणिग्रहमाहुरायः॥ ५७ ॥
अष्टवर्षा भवेगौरी नववर्षा च रोहिणी ।
दशवर्षा भवेत्कन्या अत ऊर्ध्वं रजस्वला ॥ ५८ ॥
प्राप्ते तु द्वादशे वर्षे यः कन्यां न प्रयच्छति ।
मासि मासि रजस्तस्याः पिता पिबति शोणितम् ॥५९॥
अकीर्ति भुवि संप्राप्य वसंति निरये यतः।
प्राप्नुवंति नराः पापं परदाराभिदर्शनात् ॥ ६०॥
मातापिताग्रजो भ्राता बांधवाः सहवासिनः।
सर्वे ते नरकं यांति दृष्ट्वा कन्यां रजस्वलाम् ॥६॥
पितृगेहे च या कन्या रजः पश्यत्यसंस्कृता ।
ब्रह्महत्या पितुस्तस्याः सा कन्या वृषली भवेत्॥१२॥
इति शाीयसारसमुच्चये विवाहपटले प्रकीर्णाध्यायः
समाप्तः॥१०॥
कार्तिकीविवाहपटलम्।
शौनकादिमुनयस्तु पुष्करे कार्तिकीकरतलग्रहं शुभम् ।
कीर्तयंति धनपुत्रकीर्तिदं दीर्घमायुरमरेज्यताखिलम् ॥ १॥
पायोनिरपि कार्तिकी सदा माघमासकृतदारसंग्रहः।
सृष्टिकर्तुरपि वांछिताखिलं नात्र विष्टिकुलिकादि चिंतयेत् २
ब्रह्मविष्णुशिववासवादिभिर्दत्तशोभनवरा हि कार्तिकी ।
तन पाणितलपीडने कृते पुत्रवित्तसुखभाग्भवेजनः ॥ ३ ॥
मौंजीपटलम्]
सारसमुच्चयः।
हैं।
नैव गोचरविधिर्न चाष्टकः शोधयेन बलमर्कजीवयोः।
तारकाशशभृतोर्बलं शुभं नैव लग्नविधिमत्र चिंतयेत् ॥४॥
भार्गवामरगुरोरदर्शने दुष्टदोषपरिदूषिते दिने ।
कार्तिके सकलदोषनाशनं कारयेत्करतलग्रहं बुधः ॥५॥
पूर्वतः पृष्ठतो वापि कार्तिक्यां दिनपंचकम् ।
विवाहं तत्र कुर्वीत नात्र कार्या विचारणा ॥ ६ ॥
कुर्यागोधूलिकं लग्नं कार्तिक्यां शुभमिच्छता।
सर्वदोषापहं प्रोक्तं दैवज्ञैः पूर्वसूरिभिः ॥ ७ ॥
कार्तिक्यां घटिकालग्नं कुर्यादज्ञानतोऽपि यः।
कर्ता कारयिता चोभौ निहतौ सकलैः सुरैः॥८॥
नष्टे शुक्रे तथा जीवे ग्रहणे चंद्रसूर्ययोः ।
केशवस्थितिनंदायां विवाहः शोभनः स्मृतः ॥९॥
इक्षुसान्निध्य आरामे प्रसिद्ध देवकीर्तने ।
नदीह्रदतडागे वा विवाहः पुष्करे स्मृतः॥ १० ॥
॥ इति श्रीमांडव्यसंहितायां कार्तिकीविवाहपटलं समाप्तम् ॥
॥ मौंजीपटलम् ॥
जनुर्गर्भतो वाष्टमेऽन्देवटोःस्थागत माघतः पंचमासेषु शुक्ले ।
गुरौजन्मभाच्छोभनेभेऽष्टमाब्दाद्वरंमध्यमंनिन्दितं वर्षमुक्तम्
दिने नापराहे प्रदोषे कुजाकी-
विना प्रोक्तधिष्ण्येऽप्यनध्यायहीने ।
दिने पूर्व के पश्चिमे वा शुभं स्या-
दवेधे निधोत्पातके सप्तरेखात् ॥२॥
विवाहपटले [मौजीपटलम्। तथा ऋयुक्तंच्ययातविये बटोमृत्युदे नो शुभं मंगलं स्यात् । ऋगीशः सुरेन्यो यजुर्वेदसानोः पती भार्गवारी बुधोऽथर्वनाशः॥३॥ बलाढ्येऽधिपे वास्य होरादिवर्ग शुभं मेखलाबंधनं नाधिके तत् । करत्रिश्रवासापरौद्रर्थपूर्वा- त्रये मूलभे बढचानां शुभं स्यात् ॥ ४ ॥ गुरुबायसूर्यादितीद्वक्षपौष्णा- नुराधोत्तराख्यो यजुःसौख्यकारी । करे वासवे विष्णुभे पुष्यरौद्रो- त्तरादरमे वै श्रियः सामगानाम् ॥ ५॥ श्रवःपुष्यमैत्राश्विहस्तेंदुभेषु व्रतं सप्तमे भे शुभेऽथर्ववेदे । गुरु गर्वश्चंद्रजः सूर्यनामा तथेंदुः शुभो वासरो मौजिबंधे ॥६॥ नवांशोऽर्कतः क्रौर्यजाड्ये भवेतां तथा पापिता पाटवं यज्वता च । तथा यज्वता मूर्खताऽथ प्रसंगाद् ब्रुवे केंद्रगानां फलं स्पष्टमत्र ॥७॥ सुरेज्ये धनी पुण्यकृत्सौख्यविद्या- गुणाढ्यो भृगौ तद्वदेवाथ सौम्ये ।
मौजीपटलम्] सारसमुच्चयः। सदाध्यापकः सूर्यजेऽत्यादिसेवी रवौ राजसेवी कुजे शास्त्रवृत्तिः॥ ८॥ वणिग्वृत्तिरिंदो रविः पत्रिलाभे रिपुच्यायगा राहुभौमार्कपुत्राः। तपस्यायधीलोचनेऽब्जोऽर्थधर्म- शरायत्रिषु ज्ञेज्यशुक्राः शुभाः स्युः॥९॥ भवार्यग्निकऽऽनुः शुभं तून शुक्रो न पैष्ठः शुभो मृत्युरिफस्थितोऽपि । तथा लग्नपेंदू षडष्टस्थितौ नो शुभौ देवपूज्योऽपि पूज्यो न मृत्यौ ॥ १० ॥ न लग्ने कुजार्कार्कयो राहुकेतू बटोजीवनं दीर्घकालं सहते। न मंदापराहाधिमासेषु कंठ- ग्रहो देववंद्ये स्थिते सिंहराशौ ॥ ११ ॥ न संध्याभवे गर्जिते नष्टसंस्थे गुरौ नीचगे चारिराशिस्थिते वा। दिनयंशशस्तं तृतीयं त्वशस्तं द्विजानामिदं मौजिबंधे विधेयम् ॥ १२॥ इति श्रीकेशवाविरचितं मौंजीपटलं समाप्तम् ।। विवा०५ विवाहपटले [मौजीपटलम्। तथा ऋयुक्तंच्ययातविये बटोमृत्युदे नो शुभं मंगलं स्यात् । ऋगीशः सुरेन्यो यजुर्वेदसानोः पती भार्गवारी बुधोऽथर्वनाशः॥३॥ बलाढ्येऽधिपे वास्य होरादिवर्ग शुभं मेखलाबंधनं नाधिके तत् । करत्रिश्रवासापरौद्रर्थपूर्वा- त्रये मूलभे बढचानां शुभं स्यात् ॥ ४ ॥ गुरुबायसूर्यादितीद्वक्षपौष्णा- नुराधोत्तराख्यो यजुःसौख्यकारी । करे वासवे विष्णुभे पुष्यरौद्रो- त्तरादरमे वै श्रियः सामगानाम् ॥ ५॥ श्रवःपुष्यमैत्राश्विहस्तेंदुभेषु व्रतं सप्तमे भे शुभेऽथर्ववेदे । गुरु गर्वश्चंद्रजः सूर्यनामा तथेंदुः शुभो वासरो मौजिबंधे ॥६॥ नवांशोऽर्कतः क्रौर्यजाड्ये भवेतां तथा पापिता पाटवं यज्वता च । तथा यज्वता मूर्खताऽथ प्रसंगाद् ब्रुवे केंद्रगानां फलं स्पष्टमत्र ॥७॥ सुरेज्ये धनी पुण्यकृत्सौख्यविद्या- गुणाढ्यो भृगौ तद्वदेवाथ सौम्ये ।
cons विवाहपटलम् ] सारसमुच्चयः। नेष्टं नाडीवेधे चान्ये प्राहुः पादानां वेधे हीनेऽनासन्ने वेधे सर्वाभिमैत्रीभिः सौख्यम् ॥३॥ गणमैत्री- सौख्यं दंपत्योः श्रस्वारेहाश्वादित्येज्यान्वजं । देवे, चित्रावस्वंद्रमशाग्नींद्राग्नीमव्यालम् ॥ दैत्ये, अन्यन्मये, पुंदैत्यानां मृत्युः स्या,दैत्यानां वैरं देवैः, स्त्रीभं ना भर्तुर्भ रक्षस्तत्रेष्टम् ॥ ४ ॥ नक्षत्रयोनिः तत्रेष्टं चेन्नाड्यां योनौ शुद्धिः खेटप्रीतिः स्या- चाश्वेभाजाहिव्यालश्वानौत्वव्योतुझ्याख्यन्याः॥ काली द्वीपी काली व्याघ्रद्व्येणश्वानः कीशो द्वौ। बधू कीशः सिंहाश्चौ सिंहो गौहस्तीयं योनिः ॥५॥ योनिमैत्री, वर्गमैत्री- योनिः श्रेष्ठा स्याच्चान्योन्यं वैरं त्यक्त्वा वर्गः स्यात् कुश्चौतुश्चः सिंहष्टुः श्वानस्तुालः पुश्चाखुः ॥ यादेरेणः शोऽविश्वावर्गस्ताय,स्तायव्यालं,। पंचास्यैणं,श्वानाव्योत्वाखु त्याज्यं नित्यं वैरम् ॥६॥ ग्रहमैत्री, वर्धामैत्री- वैरं त्याज्यं खेटानां दंपत्योर्जन्मन्यन्योन्यं । मीनादेराशेर्विप्राद्याश्चत्वारो वर्णा ज्ञेयाः ।। वा विप्रादेः शुक्रेज्यावीशौ भौमार्काबलो ज्ञ- चैनिः संकीर्णस्येयं मैत्री भत्रैष्ट्ये सौम्या॥७॥ - विवाहपटले [नाडीमान- कन्यादूर, तारामैत्री- सौम्यं कन्याद्वा नुभं दूरं व्यस्तं न श्रेष्ठं । भीरोभीत्ताराः शस्ता हित्वा पंचर्षीदुण्याख्याः॥ श्रेष्ठा जन्माख्या दंपत्योस्त्यक्त्वैका चैकांशे । चेत्कन्योत्पत्तौ रव्याद्याश्चाशस्ता न स्युः सर्वे ॥८॥ वश्यमैत्री, गुरुशुद्धिः- सर्वे नृणां वश्याः सिंहं हित्वा तेषां भक्ष्याः स्यु- स्तोयोत्पन्नाः कू ित्यक्त्वा सर्वे वश्यास्त्वेणारेः॥ एवं दिग्भिमैत्री चिंत्या कन्योक्ते काले जीवे। बुद्ध्यां द्रव्ये लाभे धर्मे मार्गे चोराहो रम्यः ॥ ९ ॥ प्रश्नद्वारा शुभाशुभफलं, पुंस्त्रियोर्लक्षणम्- रम्यस्थाने दैवज्ञं संपूज्य प्रष्टार्थ विप्रं । पृच्छेत्तेन प्रश्नाचैः श्रेष्ठैः श्रेष्ठं संवक्तव्यम् ।। भर्ता धर्मस्वायुर्विद्याढ्यो व्याधित्यक्तः श्रेष्ठः । कन्या जन्माधैःशुद्धा सचिह्ना लध्वी वैवाह्या ॥१०॥ कन्यादानकाल: वैवाह्ये मे कन्यादानं केचित्पूर्वास्वाग्नेये। विष्णोर्भे राधायां वैश्वस्य त्रिष्वंशेषु प्राहुः । स्वातौ वस्वः लग्नं त्यक्त्वाचान्ये दोषा वाः सौम्यैधींगोकेंद्रस्थैः क्रूरैख्यर्यायस्थैः श्रेष्ठम् ॥ ११॥ वर्षशुद्धिः- श्रेष्ठा आद्याः षट्पक्षा युग्मेऽब्दे कन्या जन्माहा- चौजेऽन्दे ते नो शस्ता व्यस्ता नृणां वर्षे ज्ञेयाः॥ S विवाहपटलम्] सारसमुच्चयः। खेटाब्दष्ट्ये सौख्यं हैन्ये कष्ट खेटे वान्दे ह्येकस्मिन् शुद्धे मध्यं खेटे शुद्धे वर्ष शस्तम् ॥१२॥ गुरुशुद्धौ विशेषः- शस्तो देवेज्यः पूर्ण सौभाग्यं कुर्यात्कन्यानां । जन्मत्यर्याकाशस्थः पूजाद्यैः शस्तोऽब्दे शुद्धे ।। रिप्फांबुस्थः खेटैर्विद्धो रेखाशुद्धो वा मध्यः । स्वोच्चादिस्थो वा कालेऽतीते तच्छुद्धिर्नो चिंत्या॥१३॥ तारावलं चंद्रबलम्- नो चिंत्यं तारावीर्य शुक्ल पक्षे कृष्णे चांद्रं । दंपत्योः शश्वद् ग्राह्यं चांद्रं चांद्राभावे स्त्रीणाम् ।। शुद्धे लग्ने राश्युत्थं चांद्रं वीक्ष्यं भर्तुः सौरं । चोद्वाहाद्भर्तुश्चांद्रं हित्वा सीमंतं वा यात्राम् ॥१४॥ विवाहांगकार्यम- यात्रामुद्वाहापौर्णे जीवेच्छु! कुर्वीतार्वाक् । व्यर्यकाहस्स्वाद्याचार्यैर्वर्णाचं कार्य वय॑म् ।। वैवाह्यं कृत्यं वैवाह्यः वा कन्यादानः । कर्तव्यं कर्तुश्चंद्रे शुद्धे नो विष्ट्यादौ दोषे ॥ १५ ॥ लग्नशुद्ध्यै त्याज्यदोषाः- दोषास्त्याच्या लग्ने पंचांगाशुद्धिः क्रांत्योः साम्यं । क्रूरैर्विद्धं युक्तं भुक्तं गम्यं भं यद्राहस्थम् ॥ भानो दिंद्राख्यं गंडांतं यामा शन्यधं । लत्ताशास्त्रं खारं संक्रांतिः क्रूरा होरा ॥ १६ ॥ - - विवाहपटले [नाडीमान- गुरोनींचादिविचार:- क्रूरा होरा दुष्टा क्रूरे वारेऽहि स्यादुल्काद्यैः। दुष्टं भं तावत्याज्यं यावच्चंद्रेणाभुक्तं स्यात् ॥ नीचस्थो नीचांशे जीवो वय॑ः सिंहे वा वक्री । चातीचार्यह्नामष्टाविंशत्यां वा गोतौलिस्थः॥ १७ ॥ वृषतुलागतगुरोर्व्यवस्था, ग्रहयुक्तचंद्रफलं, कर्तरी,- गोतौलिस्थो वो निधे देशे नान्यस्मिन् जीवः । चंद्रः खेटयुक्तो नेष्टः सौम्येज्याभ्यां श्रेष्ठः स्यात् ।। लग्नाभावे चैकक्षांशं हित्वा श्रेष्ठो वा स्याचेत् । खेटानां प्रादक्षिण्यं प्राप्तश्च क्रूरांतर्नेष्टः॥ १८ ॥ चंद्र-लग्न कर्तरी विचारः- क्रूरांतर्नेष्टं लग्नं वित्ते मार्गी रिप्फे वक्री । क्रूरः सेष्टस्तन्मध्यं विच्छुक्रेज्यैदृष्टं वा स्यात् ।। लग्नेदुभ्यां षड्भाड्याभ्यां तुल्यः सत्खेटो नेष्टो। द्यने क्रूरः शश्वचाजांशाद्वाणेष्वंशे त्यक्तः ॥ १९ ॥ गुरुशुक्रचंद्राणामस्तादि, बाल्यत्व, वृद्धत्व, जन्ममास, नक्ष तिथीनां वय॑त्वं प्रथमगर्भस्य ज्येष्ठमासवय॑त्वम्- त्यताः सर्वैः शुक्रेज्याजा अस्तं यातास्ते बाला। वृद्धाश्च स्युर्वाल्यं वृद्धत्वं सप्ताहं चाशाहम् ॥ चंद्रस्यैकं त्रिद्युः स्याजन्मलं मासोऽहर्नेष्टम् । चाद्योत्पत्त्योः स्त्रीत्रज्येष्ठो नेष्टः स्याच्चांद्रो मासः २० NA . - विवाहहपटलम्] सारसमुच्चयः। सौरादिमासज्ञानं, प्रकारांतरेण जन्ममासादीनां वय॑त्वम्- मासः सौरो जन्माख्यो यद्राशौ सूर्ये जन्मासौ । चांद्रे पक्षी व्यस्तौ श्रेष्ठौ वान्येवं वा जन्मः ।। केचित्प्राहुश्चान्यैर्जन्मयूज़ मासो नेष्टः स्या- दुक्तश्चैवं यजन्मक्षं वा जन्माहो लग्नं वा ॥२१॥ मासानां फलम् , एकादिज्येष्ठविचार:- वा मासो नेष्टः पौषश्चैत्रः स्याच्चैत्रः पौषो वा। जीवक्षेत्राकं चाद्यं पक्षं हित्वोद्वाहे चारुः॥ माघावौ वैशाखाद्वावाषाढस्य त्र्यंशः स्त्रीत्रो-। श्कज्येष्ठं स्याद् द्विज्येष्ठं मध्यं त्रिज्येष्ठं त्याज्यम्२२ क्षयमासाधिकमास, दक्षिणायननिषेध, कार्तिकीलग्नविचार:- त्याज्यं हीनाधिक्यं मासो याम्ये चार्कस्तत्रोर्जे । कार्तिक्याः प्राग वा पश्चात्पंचाहानि श्रेष्ठानि स्युः॥ संध्यालग्नेऽत्राद्यैर्ये दोषास्ते वा देवाये। रम्ये स्थाने कालेऽतीते कार्य वा वैवाह्यः ॥ २३ ॥ विवाहनक्षत्राणि- वैवाह्याण्याहुर्मूलो मैत्रं पैञ्यं ब्राह्माद् द्वे । स्वात्याहिर्बुध्न्याद् द्वे वैश्वं पादोनं चार्यम्णो द्वे ॥ वैश्वांत्यो भागस्तिथ्यंशो विष्णोर्भस्य द्वाविंशं । नक्षत्रं तत्रस्थैः खेटैः स्यात्प्राजापत्यं विद्धम् ॥ २४ ॥ नक्षत्रवेधः- विद्धं सौम्यस्थैविश्वं पौष्णस्थैश्चोफा यामस्थैः । मैत्रं श्रस्थैः पित्र्यं हस्तस्यैश्चोभा शस्थैः स्वाती ।।
૭૨ - विवाहपटले [ नाडीमान- मूलस्थैरादित्य में क्रूरैः कृत्स्नं त्याज्यं सौम्यैः । पादः स्याद्वेधश्चाद्यान्ध्योरंध्योद्ध्यंग्योरन्योन्यम् २५ पादवेधः, ग्रहणनक्षत्रत्याज्यत्वम्- अन्योन्यं वेधस्त्याज्यो नाडीलत्तायेषु स्याद्वा । यस्मिन् भे ग्रासः स्यात्तत्त्याज्यं चाषण्मासं नेष्टाः ।। घनाः स्वासे पूर्णे पादोने खंडेंऽघ्रावल्पे । ग्रासे चान्वष्टौ सप्तेष्वन्ध्यग्यजाः प्राक् तत्खंडम् २६ त्याज्ययोगाः, क्षयाह, विष्टि, निशीथ, मध्याह्ननिषेधः- खंडं वाद्यस्यंशो ह्येकोने विशे योगे वयो। गंशूवव्यान्त्यायेष्वाद्या नाड्यः षट्पंचांकांकाः॥ षट् तिस्रो वर्ष्याः स्युर्वैव्यौ कृत्स्नो पित्रोर्नाशाहो । विष्टिर्मध्याह्ने घव्यास्त्रयंशो वा रात्र्यर्धे निंद्यः ॥२७॥ देशपरत्वे निंद्ययोगानां परिहारः, वृद्धिक्षयतिथिदग्धतिथि, मीनार्क-त्याज्यत्वम्- निंद्या योगा वाराह्नां योगे ये चार्यैरुक्ता । यस्मिन् यस्मिन् देशे तस्मिन् तस्मिन् देशे ते वयाः॥ मृत्याख्या योगा यात्रादौ वाः स्युनोंद्वाहादौ । वृद्ध्याख्यं हीनाख्यं दग्धाहश्चार्को मीने वय॑ः॥२८॥ क्रांतिसाम्य, (व्यतीपात-वैधृति)गंडांत-विचारः- वज्यौँ द्वौ पातौ वैव्यौ चंद्रार्यम्णोः क्रांत्योः साम्ये । चक्रे भाद्धे भाहर्लग्नैगंडांतं त्रैधं नेष्टम् ॥ पौष्णाश्चिन्योरश्लेषापित्रोश्च ज्येष्ठानिर्जत्यो। मध्यं नाडीवेदाख्यं वेदाध पूर्णाद्योस्तिथ्योः ॥२९॥ - विवाहपटलम्] सारसमुच्चयः। ७३ लग्नगंडांतं, वर्षादेः संधिकालनिषेधः- तिथ्यते भांते योगांते वादौ घव्येका नेष्टा । मीनाव्योनाडी गंडांतं तन्मेषात्तुर्ये तुर्ये ॥ शेषेषु स्यान्नाड्याः षष्ठांशो वर्षादेः षष्ट्यंशः। संधेः कालो वा हीनः संधेः संधिः सर्वैर्नेष्टः ॥३०॥ प्रहरार्ध-कुलिकादिज्ञानम्- नेष्टास्तिग्मांशोर्वेदाग्यश्वीष्वष्टाग्यंगाख्यास्त । यामार्धाश्चाहि स्युस्तिथ्यंशैः शन्यधं वयं स्यात् ।। मन्वाशेभांगाधिव्याख्यव्येकै रात्रौ लत्ता । राहर्कारार्किभ्यो विशार्काग्नीभेष्वृक्षेषु स्यात् ॥ ३१ ॥ हरायुधपातकार्गलसंक्रांतिकालवर्जनम्- ऋक्षं यत्सागंशूवैव्येंद्राणां योगानामंते । तत्रस्थे चंद्रे पातोऽसौ वोऽथो निंद्ये योगे ॥ सूर्यात्सद्वाविंशर्थोऽजस्थोऽब्जो नेष्टो भानोः। संक्रांतेश्चाहस्त्वन्यैः प्राक्पश्चाद्भूपाख्या नाड्यः ३२ कालहोरा-वारप्रवृत्तिः- नाड्यो वारप्राप्तेर्दिना वाणाप्ता होराधीशाः। वाराधीशाद्या भास्वच्छुक्रज्ञाब्जैनीज्याराः स्युः।। साहर्यामिन्यधे साधंद्राभिर्नाडीभिर्युक्ते । नाडीतिथ्यंशः संयुक्ताभिवाराप्तिः शश्वत्स्यात् ॥३३॥ देशाचारविचार:- शश्वचिंत्या देशाचारा यस्मिन् देशे ये धर्माः। ते नो वा भाद्रस्याद्यायां दितिथ्यां कौंडिन्यः ॥ : - विवाहपटले [ नाडीमान- तज्जानामुद्वाहं श्रेष्ठं स्माहैवं कश्चिन्मागें। मासे कस्मिंश्चिद्देशे तौ संस्मयते नो अन्यैः ॥३४॥ षड्दर्गानयनम्- अन्ये ये दोषा नोक्तास्ते लोकाद्रष्टव्याश्चाथो । मंशुश्चिंसूर्यो ज्ञः शुर्मजीशौ सौरिजीवः ॥ मेषादीशास्ते चांशेशाचौजे सूर्यबोहोरे । युग्मे चंद्रार्यम्णोईष्काणाश्चाद्येष्वंकेशानाम् ॥ ३५ ॥ अंकांशानां मेषश्चैणास्यस्तौली कर्कश्चाद्याः। अकांशाः स्वात् ज्ञेयाः शुक्रज्ञेज्यैन्यारांशा युग्मे । पंचायष्टेष्विष्वाख्याश्चौजे ते व्यस्तस्थाः क्षेत्रं । होरा त्र्यंशो नंदाशोऽकाशस्त्रिंशोऽयं पड़र्गः॥३३॥ वर्गो ज्ञेयः खेटस्य स्यात् यो यस्योक्तः स श्रेष्ठः । सन्मित्रस्वस्थः प्राग् लग्ने द्वयंघोभेऽन्यांशः कुर्यात् । नाशं चादचंधौ कन्या तौली चापी पुंयुग्मांशः। शस्तस्ते नंदांशा नो साजक्रूराः सौख्यं दद्युः ॥३७॥ दृष्टिविचारः । जन्मनि सङ्करराश्यंशस्य निषेधः- दद्यादायुर्भर्तुश्चांशेशोंऽशं लग्नं पश्यन् वा । प्राप्तस्तद्वच्चांशास्तेशोंऽशास्तं लग्नास्तं वध्वाः ॥ लग्नेशो लग्नं चैवं पुंसः श्रेष्ठं कुर्यानार्याः । अस्ताधीशश्चास्तं चेदंशादेर्मुख्या स्याद् दृष्टिः ॥३८॥ दृष्टिन स्यालग्ने खेटानां द्वित्यष्टांत्यस्थाना- मंशास्ताभ्यां शुद्धं लग्नं पुनार्योरायुर्वृद्ध्यै ।।
विवाहपटलम्]
सारसमुच्चयः॥
तद्धीनं रिष्टायोत्पत्तौ योऽशः स क्रूरोऽस्मिन् स्यात् ।
चंद्रस्थे नेष्टं लग्नस्थेऽप्योजस्वी चेन्नाऽसौ स्यात्॥३९॥
भर्तृयुग्मयोगविचार:-
स्याच्छीघ्रं लग्नं सांशं वयं नके जूके चंद्रे ।
लग्ने तूर्णे चैवं चंद्रे योषित्खेटैईष्टे स्यात् ॥
कामिन्याः पुंयुग्मं चेत्केंद्रे यायी चौजस्वी वा।
युग्मेऽजे क्रूरैईष्टे चेत्सौम्यैदृष्टोऽजो न स्यात् ॥४०॥
लग्नद्रेष्काणनवांशपतानां षडष्टमवर्जनं, ग्रहस्पष्टीकरणम्-
न स्यादायुर्लग्नेशेऽष्टस्थे षष्ठे या दंपत्यो-
श्चैवं द्रेष्काणेशे चांशाधीशेऽथो याता नाड्यः॥
मध्यांशैनिघ्नाः सर्वाभिर्लब्धं चांशाद्यं हीने ।
याते खेटे स्वं हीनं चांशाधिक्ये खेटः स्पष्टः॥४॥
अयनांशलग्नेष्टकालानयनम्-
स्पष्टः शाको वेदच्छंदोब्ध्यूनः षट्यातेंऽशाः स्युः ।
तैर्युक्तौ लग्नाौं कृत्वा रात्रौ भार्धाब्यं सूर्यम् ॥
भानो ग्यांशैनिघ्नं स्वं भ लग्नस्यांशैर्भुक्तः।
खान्याप्त्योर्योगश्चांतर्लग्नाढ्यः कालः स्याच्छुद्धः ४२
नवमांशोपरिलग्नस्पष्टीकरणम् वर्गोत्तमफलं च-
शुद्धं लग्नं स्यादेवं दिग्भिनिना रामैर्भक्ताः।
नंदांशा भुक्ता लग्नस्य त्रिंशांशाः स्पष्टा ज्ञेयाः॥
काले साध्येऽशस्यादौ त्र्यंशं चापस्य व्यंशाधं ।
दद्याद्वा वर्गश्रेष्ठादन्यं चांत्यांशं नो लग्ने ॥ ४३ ॥
विवाहपटले [ नाडीमान- - अस्तंगतलग्नेशादेनिषेधः- लग्नेशेऽस्तं याते पुंसो नेष्टं चूने वध्वाः। सौम्ये वा कन्यापुंयुग्मांशौ नेष्टौ चान्यैर्मध्यौ ॥ यस्मात् ज्ञो भास्वद्रश्मौ वर्ती शश्वञ्चोपार्कत्वं गच्छत्यस्माद्वा लग्नेशश्चांशाधीशः स्यान्मध्यः॥४४॥ मध्यमफलग्रहस्य सौम्यटकालादिवलवशाच्छ्रेष्ठत्वं, क्रूरदृक्- नीचादिवशादनिष्टत्वं, चोत्तमाधमभेदेन रेखाप्रदाग्रहः- मध्यः खेटः कालाद्यैश्चौजोभियुक्तः श्रेष्ठश्चेत् । सौम्यैदृष्टः स्यात् क्रूरैदृष्टो नीचादिस्थो नेष्टः ।। एवं श्रेष्ठोऽपि स्यान्मध्यस्यायाष्टारिस्थौ श्रेष्ठौ । सूर्याकी शेषस्थौ मध्यौ वयौं लग्नघूनस्थौ ॥ ४५ ॥ लग्नघूनाष्टस्थो भौमो वज्यः कर्मस्थोऽप्यन्यैः । शत्रुन्यायस्थः श्रेष्ठोऽन्यस्थो मध्योऽथो जीवज्ञौ । रिप्फधूनाष्टस्थौ वावन्यस्थौ श्रेष्ठावन्यैः । रिप्फे मध्यौ शुक्रस्त्याज्योऽष्टारियूनार्काग्निस्थः ॥४६॥ अर्काग्योर्मध्योऽन्यैः शेषेषु श्रेष्ठो द्वित्र्यायस्थः। चंद्रः श्रेष्ठोऽन्यैश्चांदुस्थो मूर्त्यष्टारिस्थो वयः ॥ शेषस्थो मध्यो राहुः केतुश्चांबुचूनाद्यस्थौ । नेष्टौ सौरेणान्यैस्तुल्यौ जीवो मध्यो वा चूने ॥४७॥ चंद्रान्वितराहुकेतुवर्जन, दोषाणां चादोषत्वम्- द्यूने चंद्रो नेष्टः केतोश्चागोर्लग्नाईधुस्थः। केतुर्मध्यः स्यादोषाणां लक्षं हंतीज्यः केंद्रे ॥ - ..
विवाहपटलम्] सारसमुच्चयः। द्यूनं हित्वा शुक्रो भूम्नश्चैवं ज्ञो यैः सद्योगैः । ये दोषा बाध्यते तत् ज्ञैः सम्यक् चिंत्यास्त योगाः॥४८॥ कियङ्गहरेखायां लग्नं कार्य, नंदादियोगानां फलम्- योगैस्तैः पंचांगादीन् संशोध्यायलग्नं देयम् । बाणैः खेटैः श्रेष्ठैः शस्तं वेदैर्मध्यं तल्लग्ने । ज्ञे नंदः शुक्रे भद्रो जीवे जीवो जीवज्ञाभ्यां । जीमूतः काव्येज्याभ्यां स्थाणुर्जेयो विच्छुकाभ्याम्४९ शुक्रज्ञेज्यैः संजेयो नंदे' कन्योढा पृथ्वीशं । पुत्रं सूते भद्रे सा देवीशब्दं प्राप्नोति द्राक् ॥ जीवेऽपि श्रीयुक्ता धर्माढ्या सा जीमूते नप्तुः । पुत्रान् दृष्ट्वा भर्ना सार्धं प्राप्नोत्यंते देवत्वम् ॥५०॥ देवाजातश्चेदुद्वाहः स्थाणौ सा सत्पुत्राख्या । वर्गस्यौन्नत्यं कुर्याजेये हीनज्ञातेर्जाता ॥ सैश्वर्य सौभाग्यं चेत्यूढा संजेये सद्भोगान् । भुक्त्वा मापालं पुत्रं दृष्ट्वान्ते याति स्वर्लोकम् ॥५१॥ शुभाशुभयोगानां निर्देशः। व्यालादियोगफलम्- लोकात् ज्ञेया अन्ये ये शस्ता योगाश्चाथो निद्याः। लग्नेऽर्के व्यालो भौमे पातालोख्यः कोणे क्षीणः ॥ राहो ध्वांतः केतौ कोलस्तेषूढा सा वैधव्यं । चायच्छत्याचार्यैस्ते योगा वा भावेऽपि स्युः ॥५२॥ भावसंधिसाधनं, लग्नजन्मराशितोऽनिष्टलग्नानि- भावाश्चिंत्याश्चार्काद्यद्वद्राव्यधं तद्वल्लग्नाद् । वा कृत्वा भूयस्तस्मात्तन्नाडीभिर्लग्नं साध्यम् ॥ RANDU विवाहपटले [ नाडीमान- - अस्तंगतलग्नेशादेनिषेधः- लग्नेशेऽस्तं याते पुंसो नेष्टं चूने वध्वाः। सौम्ये वा कन्यापुंयुग्मांशौ नेष्टौ चान्यैर्मध्यौ ॥ यस्मात् ज्ञो भास्वद्रश्मौ वर्ती शश्वञ्चोपार्कत्वं गच्छत्यस्माद्वा लग्नेशश्चांशाधीशः स्यान्मध्यः॥४४॥ मध्यमफलग्रहस्य सौम्यटकालादिवलवशाच्छ्रेष्ठत्वं, क्रूरदृक्- नीचादिवशादनिष्टत्वं, चोत्तमाधमभेदेन रेखाप्रदाग्रहः- मध्यः खेटः कालाद्यैश्चौजोभियुक्तः श्रेष्ठश्चेत् । सौम्यैदृष्टः स्यात् क्रूरैदृष्टो नीचादिस्थो नेष्टः ।। एवं श्रेष्ठोऽपि स्यान्मध्यस्यायाष्टारिस्थौ श्रेष्ठौ । सूर्याकी शेषस्थौ मध्यौ वयौं लग्नघूनस्थौ ॥ ४५ ॥ लग्नघूनाष्टस्थो भौमो वज्यः कर्मस्थोऽप्यन्यैः । शत्रुन्यायस्थः श्रेष्ठोऽन्यस्थो मध्योऽथो जीवज्ञौ । रिप्फधूनाष्टस्थौ वावन्यस्थौ श्रेष्ठावन्यैः । रिप्फे मध्यौ शुक्रस्त्याज्योऽष्टारियूनार्काग्निस्थः ॥४६॥ अर्काग्योर्मध्योऽन्यैः शेषेषु श्रेष्ठो द्वित्र्यायस्थः। चंद्रः श्रेष्ठोऽन्यैश्चांदुस्थो मूर्त्यष्टारिस्थो वयः ॥ शेषस्थो मध्यो राहुः केतुश्चांबुचूनाद्यस्थौ । नेष्टौ सौरेणान्यैस्तुल्यौ जीवो मध्यो वा चूने ॥४७॥ चंद्रान्वितराहुकेतुवर्जन, दोषाणां चादोषत्वम्- द्यूने चंद्रो नेष्टः केतोश्चागोर्लग्नाईधुस्थः। केतुर्मध्यः स्यादोषाणां लक्षं हंतीज्यः केंद्रे ॥ - ..
विवाहपटलम्] सारसमुच्चयः। पंचांगाद्यैः शुद्धं मूर्त्यष्टारिस्थं चंद्रं हित्वा । कैश्चिद्भौमोऽष्टाद्यास्तस्थो वयः शुक्रोऽष्टारिस्थः ५८ अष्टारिस्थो लग्नेशो वय॑श्चास्तं प्राप्तो नान्यः । ते वा यस्माद् छूने सूर्ये श्रीपेणास्मिन् लक्ष्म्याः॥ उद्वाहश्चाकारि ग्राह्यं सार्क सौरे तद्वारे। चान्यैस्त्यक्तं शन्य द्यामार्दाद् व्यक देवेज्ये ॥१९॥ ग्रंथसमाप्तिः, प्रणामपूर्व गणेशस्मरणम्- देवेज्ये पूर्णाने भे, पूर्णव्योमेंद्रीब्ये साब्धी पूर्णान्धौ शाके प्राप्ते, पूर्णैकेऽर्के, जीवे वारे ।। पौषे पूर्णायां पूर्ण चंद्रे पुष्ये पूर्ण प्रोक्तम् । वैवाह्य कर्मेदं नाडीमाने नत्वा हेरंबम् ॥ ६ ॥ ववंशपरिचयः- श्रीगौडज्ञातिजातो द्विजवरतिलकः श्रीजगन्नाथशर्मा। तत्सूनुः श्रीमहीनादधियुतितटस्तंभतीर्थाधिवासी ॥ रामः पीतांबरेण द्विजचरणनतेनार्थसारं सुबोधम् । तज्जेनोद्वाहसंज्ञं लघुपटलमकारीशरामप्रसादात् ॥६॥ ॥ इति श्रीमद्गौडज्ञातीयपंडितरामात्मजेन पीतांबरेण विरचितं नाडीमानविवाहपटलं संपूर्णम् ॥ 55