Asr,melkote
Siddhitrayama~
Front matter
No text on this page.
ग्रन्थमालाङ्क: १२
॥ श्रीरस्तु॥
श्रीविशिष्टाद्वैतसिद्धान्तनिर्धारणधुरन्धरैः
भगवद्यामुनमुनिभिरनुगृहीतं
॥ सिद्धित्रयम् ॥
श्रीकाञ्ची प्रतिवादिभयङ्कर अण्णाराचा:
पर्यवेक्षितम् ।
अकारकनि - सम्पत्कुमाराचार्य, M.A.,
अ. मु. श्रीनिवासाचार्याभ्यां संशोधितम्
श्रीजगदीशपुरीय श्रीजीयरस्वामिमठाधीश
फलाहारि वासुदेवाचार्यमहन्त महोदय
द्रव्यसाहाय्येन संमुद्रितम्
मूल्यम् अर्धरूप्यमात्रम्
1944.
PRINTED THE LIBERTY PRESS, G.T., MADRAS.
श्रीजगदीशपुरी श्रीजीयरस्वामीमठ वर्तमानाधिपतिः महान्त फलाहारी श्रीवासुदेवाचार्यखामीजी महाराज.
lituRIMIRIRAURAHARIHARATARIHARImmumtilittltimultitutthittill
। तनियन् ॥
श्रीवानशैलयतिराजपदाब्जभृङ्गं
श्रीलक्ष्मणार्यजगदीशसदानुरक्तम् ।
श्रीविष्णुचित्तमुनिवर्यपदाश्रितं तं
श्रीवासुदेवगुरुवर्यमहं भजामि ॥
MARRIANASALURAMAILITHILIHIRAILIUIIIIIIIIIIIMHARIHARIRAMILAM
छायाचित्रप्रदानोपकारकः
श्रीमान् पण्डित भक्तिसार
रामानुजदासमहात्मा
श्रीजीयरखामिमठ, पुरी.
॥ श्रीः॥
श्रीहस्तिशैलशिखरोज्ज्वलपारिजाताय नमः
श्रीभगवद्यामुनमुनये नमः
श्रीमते रामानुजाय नमः
श्रीभगवद्यामुनमुनिभिरनुगृहीते
सिद्धित्रये
॥ आत्मसिद्धिः॥
यत्पदाम्भोरुहध्या वध्वस्ताशेषकल्मषः।
वस्तुतामुपयातोऽहं यामुनेयं नमामि तम् ॥
प्रकृतिपुरुषकालव्यक्तमुक्ता यदिच्छाम्
अनुविदधति नित्यं नित्यसिद्धैरनेकैः ।
स्वपरिचरणभोगैः श्रीमति प्रीयमाणे
भवतु मम परस्मिन् पूरुषे भक्तिभूमा ॥
विरुद्धमतयोऽनेकास्सन्त्यात्मपरमात्मनोः ।
अतस्तत्परिशुद्धयर्थमात्मसिद्धिविधीयते ।।
संमतं हि सर्वसमयेषु, आत्मज्ञानं निःश्रेयसहेतुरिति । श्रूयते च
*पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेनामृतत्वमेति, *आत्मानं चेद्वि-
जानीयात् , *तरति शोकमात्मवित् , * ब्रह्मविदाप्नोति परम् * इत्यादिः
परावरात्मतत्त्वज्ञानस्यापवर्गसाधनत्वं प्रतिपादयन् वेदान्तवाक्यगणः ।
तत्रास्सिन्नात्मनि परस्मिंश्चानेकविधाः विप्रतिपत्तयस्तीर्थकराणाम् ।
तद्यथा-आत्मविषये तावत् , देहमेव केचिदात्मानमाचक्षते ; इन्द्रिया-
R सिद्धित्रये ण्यन्ये ; मन (इतरे)इत्यन्ये ; प्राणमपरे ; अध्यस्तज्ञातृभावम् अनहङ्कारं बोधमात्रमितरे ; देहेन्द्रियमनःप्राणबोधविलक्षणम् आकाशादिवदचित्स्व- भावम् आगन्तुकबोधसुखदुःखाद्यसाधारणगुणाधारम् अहङ्कारगोचरमपरे। अपरे तु बोधैकस्वभावमेव, स्वभावधवलमिव स्फटिकमणिम् उपधानविशे- पापादितारुणिमगुणादिनि सम् अन्तःकरणोपधानापादितरागद्वेषसुख- दुःखाद्यशिवगुणनि सम् , अनुदितानस्तमितस्वरूपप्रकाशं स्वयंज्योतिष- मिममभिदधति ; अन्ये तु ज्ञानानन्दस्वभावम् ; आश्रयानुकूल्यप्रतिलब्धा- नन्दसुखादिव्यपदेशबोधविशेष एवास्य स्वाभाविक इत्यन्ये । तथा अनुमानसमधिगम्यः, आगमैकवेद्यः, मानसप्रत्यक्षवेद्यः, ग्राहकतयैव सकलविषयवित्तिषु प्रत्यक्षः, ज्ञानस्वभावतयाऽनुदितानस्तमित- स्वरूपप्रकाशः स्वयंज्योतिः, ईदृशोऽप्यागमानुमानयोगजप्रत्यक्षैः स्वेतर- सकलविलक्षणस्वाभाव्येन विशद-विशदतर-विशदतमतया अन्ततो यथाव- दपरोक्ष्यते इति । तथा परममहान् , अणुपरिमाणः, शरीरपरिमाणः, स्वतः परिमाणरहितोऽपि व्याप्यवस्तुपरिमितिकृतपरिच्छेद इति । व्याप्ति- रपि चैतन्यमात्रेण, स्वरूपेणेति । तथा क्षणिकः, यावच्छरोरोष्मस्थायी, आप्राकृतप्रलयावस्थायी, आमोक्षस्थायी, कूटस्थो नित्य इति । सर्वशरीरेषु एकः, प्रतिक्षेत्रं नानाभूत इति च तथातथा प्रतिपद्यन्ते । तथा परमात्मविषयेऽपि-केचित् समस्तवस्तुसाक्षात्कारिणं सर्व- शक्तिमीश्वरमेव नाभ्युपगच्छन्ति । अभ्युपगच्छन्तोऽप्येके प्रत्यस्तमित- मितिमानमातृमेयेश्वरेशितव्यादिभेदविकल्पकूटस्थविज्ञानकरसम् अनाद्य- विद्योपदर्शितवियदादिभेदावच्छिन्नज्ञानेश्वर्यादिमहिमविकल्पतया काल्पनि- कमाचक्षते । अपरे तु यथोक्तस्वरूपमेवाविद्योपधानेन तद्गुणसारतया प्रक- ल्पितब्रह्मादिस्थावरपर्यन्तविविधजीवभेदं स्वाधीनविचित्रविवर्तस्वभावमायो- पहिततया समासादितसार्वश्यादिसंपदमुपहितमिममभिदधति । तथाऽन्ये प्रकृष्टसत्त्वोपादाननिमित्तस्वतन्त्रप्रधानपरिणामविशेषमात्रनियमनिर्वाहित आत्मसिद्धिः ३ सर्वैश्वर्यमर्यादमाद्रियन्ते । अनुपहितमपि परिणामिनमपरे प्रतिपेदिरे । अपरिणामिनमपि स्वमायांशभूतविचित्रान्तःकरणदर्पणतलप्रतिबिम्बिततया प्रतिपन्नविश्वतैजसप्राज्ञभावं तमेकमेव चेतनमितरे रोचयन्ते । अन्ये तु स्वाधीनत्रिविधचेतनाचेतनस्वरूपस्थितिप्रवृत्तिभेदं स्वाभाविकनिरवधिकाति- सयज्ञानबलैश्वर्यवीर्यशक्तितेजःप्रभृतिसकलकल्याणगुणगणमहार्णवं पुरुष- विशेषमीश्वरमातिष्ठन्ते। तथा तद्विशेषेऽपि हरिहरविरिञ्चभास्करात्मना अनभिमततत्तन्मूर्ति- परित्यागेन च चतुस्त्रियेकमूर्तितया विवदन्ते । मूर्तिविशेषविषयाश्च नित्यत्वानित्यत्वभौतिकत्वाभौतिकत्वस्वार्थपरार्थत्वादिवितर्काः प्रादुर्भवन्ति ; परिजनस्थानादिगोचराश्च । तथा प्रमाणतोऽपि-आनुश्रविक एवेत्येके आनुमानिकश्चेत्यन्ये ; विशिष्टप्रत्यक्षसमधिगम्यश्चेत्यपरे । तथा आत्मपरमात्मनोस्संबन्धेऽपि-अनाद्यविद्योपादानभेदास्पदो- ऽयम् ईश्वरेशितव्यतादिरूपसंबन्धः, परमार्थतस्त्वेकं तत्त्वमिति केचित् । व्यतिरेकाभावेऽप्यतिरिक्तो जीव इत्यन्ये । स्वतस्तु ऐक्यम् , उपाधितो भेद इति विशिष्टस्वरूपभावेन भिन्नाभिन्नत्वमितरे। नानात्वे सत्येवाभेदो नामान्वयः अंशांशिभावलक्षणः, समवायः परतन्त्रतालक्षणः शेषशेषित्व- रूपः, स्वस्वामिभावः भृत्यस्वामिलक्षण इति च नानाविधा वादाः । तथा परमपुरुषार्थभूते ब्रह्मप्राप्तिलक्षणमोक्षेऽपि-स्वरूपोच्छित्ति- लक्षणः, अविद्यास्तमयलक्षणः, निश्शेषवैशेषिकात्मगुणोच्छेदलक्षणः, कैवल्यरूपः, तद्भावसाधर्म्यलक्षणः, तद्गुणसंक्रान्तिलक्षणः, तच्छायापत्ति- सांसिद्धिकानन्दादिस्वरूपाविर्भावलक्षणः, तद्गुणानुभवजनित- निरतिशयसुखसमुन्मेषोपनीतात्यन्तिकतत्किंकरत्वलक्षण इति तथा तथा विवदन्ते । तत्साधनतोऽपि-कर्मयोगलभ्यः, ज्ञानयोगलभ्यः, अन्यतरानु- लक्षणः, ४ सिद्धित्रये . गृहीतान्यतरलभ्यः, उभयलभ्यः, उभयपरिकर्मितस्वान्तस्य ऐकान्तिका- त्यन्तिकभक्तियोगलभ्य इति ।। तदेवम् अनवसितविशेषविमर्शकजनविमतिदर्शनात् तत्तत्पक्षसाध- नबलाबलानवगमाच्च ततस्ततस्संदिहानाः प्रेक्षावन्तः न तावत् परमपुरुषा- र्थाय घटेरन् , यावत् अयमात्मा परमात्मा च स्वरूपतः प्रमाणतः संबन्धतः प्राप्तितः तत्साधनतश्च न निर्णीयेतेति तत्प्रतिबोधायेदमारभ्यते ॥ यद्यपि भगक्ता बादरायणेन इदमर्थान्येव सूत्राणि प्रणीतानि विवृतानि च तानि परिमितगम्भीरभाषिणा द्रमिडभाष्यकृता; विस्तृतानि च तानि गम्भीरन्यायसा(ग)रभाषिणा भगवता श्रीवत्साङ्कमिश्रेणापि । तथाऽपि आचार्यटङ्क-भर्तृप्रपञ्च-भर्तृमित्र -भर्तृहरि-ब्रह्मदत्त-शङ्कर-श्रीवत्साक-भास्क- रादिविरचितसितासितविविधनिवन्धनश्रद्धाविप्रलब्धबुद्धयः न यथावत् , अन्यथा च प्रतिपद्यन्त इति तत्प्रतिपत्तये च युक्तः प्रकरणप्रक्रमः । देहेन्द्रियमनःप्राणधोभ्योऽन्योऽनन्यसाधनः । नित्यो व्यापी प्रतिक्षेत्रमात्मा भिन्नस्स्वतस्सुखी ॥ ननु देहमेवात्मानं प्रत्यक्षतः प्रतिपद्यामहे । अहं जानामीति ज्ञाता ह्यात्मा अहमिति चकास्ति । देहश्चाहङ्कारगोचरः, स्थूलोऽहं, कृशोऽ- हमिति दर्शनात् । देहस्य हि स्थौल्यादियोगः । अतस्तत्समानाधि- करणतयाऽयमहङ्कारः शरीरालम्बन इत्यवश्याश्रयणीयम् । इतरथा सकललौकिकपरीक्षकव्यवहारोपरोधश्च । नचायं लाक्षणिको व्यवहारः मुख्यवृत्तिभूमेः पृथगसिद्धत्वात् । नचानेकावयवयोगिशरीरालम्बनत्वे ज्ञात्र- वमासस्य तदीयरूपावयवाद्यवभासेनान्वयिना भवितव्यम्, येन तद- न्वयाभावात् जानामीति प्रत्ययः शरीरातिरिक्तमवगमयेत् ; बाह्येन्द्रिय- प्रत्यक्ष एव तथा नियमदर्शनात् , स्वान्तस्यान्तरगुणाधारतावभास एव सामर्थ्यनियमात् ; अनवधृतावयवविशेषस्याप्यनेकावयवयोगिनो महिम- तत्र- ।
आत्मसिद्धिः - गुणशालिनस्यणुकस्य प्रथमप्रत्यक्षाभ्युपगमात् ; वायोश्च त्वगिन्द्रियेण स्पर्शाधिष्ठानमात्रतयोपलम्भदर्शनाच । देहव्यतिरिक्तात्मगोचरत्वेऽपि यथा तदीयगुणान्तराग्रहणं तथेहापि ; यथा तत्र बाह्यप्रत्यक्षगोचर एव संख्या परिमाणादिग्रहणनियमः । एवं च 'प्रत्येकं परमाणुषु चैतन्यानुपलब्धेः, तदभ्युपगमे च एक- शरीर एवानेकसहस्रचेतनापातात् , अकारणगुणपूर्वकस्य कार्यद्रव्यवर्तिनो विशेषगुणस्यासंभवान्न शरीरविशेषगुणश्चैतन्यम् ; अयावच्छरीरभावित्वाच्च' इत्यादयोऽनुमानभेदाः प्रत्यक्षवाधितविषयतया न पराक्रमितुं क्षमन्ते । विशेषणत्वे च प्रतिषिध्यमाने देहगुणत्वाभ्युपगमप्रसङ्गश्च। अपि चेच्छानु- विधायिक्रियत्वेन्द्रियवत्त्वादयः शरीरे दृश्यमानाः संप्रतिपन्नाचैतन्याटादे- रत्यन्तव्यावर्तमानाशशरीरमेव चेतनमवगमयन्ति । क्रमुकफलताम्बूलदला- वयवादिषु प्रत्येकमविद्यमानस्यापि रागस्येवावयविनि संयोगविशेषात् , देहारम्भकपरमाणुसंश्लेषविशेषादेव देहे चैतन्यस्याप्याविर्भावो नानुपपन्नः । चर्वणजनितहुतवहसंयोगसंपादितपाटलिमभिः परमाणुभिर्छणुकादिक्रमेण कारणगुणपूर्व एव तत्र रागोदय इति चेन्न ; प्रमाणाभावात् । अपि च सितासितादितन्तुषु प्रत्येकमविद्यमानमपि चित्ररूपं विशेषगुणं तदारब्धे पटे स्फुटमुपलभमानाः कथं कारणगुणपूर्वकत्वमुक्तगुणस्याध्यवस्येम । नचा- वयवरूपातिरेकेणावयविनि चित्रं नाम रूपान्तरं नास्त्येव ; अवयविनो- ऽचाक्षुषत्वप्रसङ्गात् । अवयवरूपैरेव तदुपपादने सर्वमेव कार्यद्रव्यं नीरूपमापयेत । अनुभवविरोधः ; सर्वव्यवहारविरोधश्च । विशेषगुणश्च काठिन्यं करकद्रव्यवर्ति अकारणगुणपूर्वकं दृश्यत इत्यनेकान्तश्च । न च संयोगविशेषः काठिन्यम् । तस्य द्विष्ठत्वात् , अस्य तु करकद्रव्यैकवर्ति- त्वात् स्पर्शविशेषतया पदार्थविद्भिरभ्युपगमाच्च । दृश्यस्य देहस्य कथं द्रष्टुत्वमिति चेत् , को विरोधः ? अयमेव- यदेकस्यां क्रियायामेकस्य कर्मत्वं कर्तृत्वं च न घटत इति । यद्येवं, ..
सिद्धित्रये ur व्यतिरेकवादे वा कथमात्मनि अहमितिप्रत्ययः ? रूपभेदादिति चेत्, समानमिदं देहात्मवादेऽपि । अपि च परसमवायिक्रियाफलभागि कर्म, स्वसमवेतज्ञानफलभागिनश्शरीरस्य कर्मत्वमेव नास्तीति न पर्यनुयोगाव- काशः । अतो देह एवात्मेति बार्हस्पत्याः। तथा च, * पृथिव्यापस्तेजो वायुरिति तत्त्वानि तेभ्यश्चैतन्य किण्वादिभ्यो मदशक्तिवत् * इति सूत्रम् । अत्र प्रतिविधिदेहो नात्मा प्रत्यक्षबाधतः । न खल्वहमिदङ्कारावेकस्यैकत्र वस्तुनि ।। अहं जानामीति प्रत्यग्वृत्तिरहमिति मतिः इदकारगोचराच्छरीरा- निष्कृष्टमेव स्वविषयमुपस्थापयति घट देरिव ; पराग्वृत्तिरिदमिति शरीर- विषयिणीच शेमुषी स्वविषयमहङ्कारगोचराद्विवेचयति, यथा अयं घट इति । इतरथा स्वपरविभागानुपपत्तेः । नचैकस्मिन्नेव रूपभेदादेवं प्रतीतिः, न हि देवदत्तो दण्डिनमात्मानं दण्ड्ययमिति प्रत्येति । अन्यच्च, नियमितबहिरिन्द्रियवृत्तेरवहितमनसः अहमिति स्वा- मानमवयतः करचरणोदराद्यवयवा न भासन्ते । स्थवीयसि चावयविनि शरीरे अहमितिमतिगोचरेऽभ्युपगम्यमानेऽवश्यमवयवप्रतिभासेनाप्यन्व- यिना भाव्यम् । नास्ति संभवः–अवयवी स्थवीयान्पचकास्ति, अवयवास्तु न केचन प्रथन्त इति । यत्तु त्र्यणुके व्यभिचार इति, तन्न ; वातायन- क्विरदृश्यनिर्मागत्रसरेणुव्यतिरेकेण परमाणुस्वीकारे कारणाभावात् । प्र- त्यक्षयोग्यावयवस्य तथाप्रतिभासनियमाद्वा न व्यभिचारः। नचावयविनि बहिरिन्द्रियग्राह्य एवायं नियम इत्युत्प्रेक्ष्यम् , प्रमाणाभावात् ; अन्तः- करणस्य च केवलस्यावयविनि वृत्त्यसंभवाच । वायोस्तु रूपाद्यभावात्केवल- स्पर्शाधारतयोपलम्मः, तत्रापि तादृशानेकावयवप्रतिभासोऽस्त्येव स्पृश्य- मान इव घटादाविति न तेन व्यभिचारः । यत्तु स्थूलोऽहं, कृशोऽहमिति शरीरेऽहंप्रत्ययो दृश्यत इति, तदपि पर्यालोचनीयम् । तत्राप्यन्तःशरीरमहमाकारमेव किमपि वस्त्वहङ्कारो आत्मसिद्धिः गोचरयति, न पुनश्चाक्षुष इव देहप्रत्ययः स्थौल्यवाल्यादियोगिदेहमात्रम् । अत एव ममेदं गृहमितिवत् ममेदं शरीरमिति भेदप्रतिभासो व्यवहारश्च । नह्यसौ साक्षात्प्रतीतभेदनिमित्तः प्रतायमानः शिलापुत्रकशरीरव्यपदेशव- दौपचारिको युक्त आश्रयितुं नमात्मेतिवत् । तत्रात्मशब्दस्यात्मनि वृत्तेरै- कार्थ्यादविवादाच्च युक्तं तथाऽऽश्रयणम् । नचैवमत्र । अतो देहव्यतिरेकिण- श्चेतनस्य प्रत्यक्षसिद्धत्वात्तत्संबन्धिनि लाक्षणिको देहेऽहंशब्दप्रयोगः । बाह्यविषयेषु परस्परविरुद्धरूपपरिमाणसंख्यासंनिवेशग्रहणेन व्य- तिरेकस्य स्फुटत्वात् आत्मनि तादृशरूपान्तराग्रहणेन देहाभेदप्रतिभा- सभ्रमोऽविवेकिनाम् । इतश्च-इच्छानुविधायिस्वव्यापारोऽयमात्मा । इच्छयैव हि सङ्कल्पयति स्मरत्यभ्यूहति च । शरीरमपि तदिच्छानुविधा- यिशयनासनोत्थानादिचेष्टमिति भवत्यभेदभ्रमः, शुक्तिरजतादाविव । प्रणि- हितमनसस्तु ज्ञातृतया सिद्धयन्तमहमाकारमर्थमनवयवम् , इदमिति परि- स्फुरतस्स्थूलादवयविनश्शरीरात्पृथगपरोक्षयन्त्येव । भवन्ति च-जानामीति प्रत्ययश्शरीरविषयो न भवति ; अर्थान्तर- विषयो वाऽयम् ; अप्रकाशमानतदवयवप्रतिभासत्वात् ; य एवंप्रकारः स तथा, यथा अयमिति प्रतिभासः ; यत् शरीरविषयम्, न तत्तथा, यथा उभयसंमतं शरीरज्ञानम् । तथा शरीरमहंप्रत्ययगोचरो न भवति, इद- मिति गृह्यमाणत्वात् , बह्येन्द्रियग्राह्यत्वाद्वा, घटादिवदिति । किंच, अपरार्थं स्वमात्मानमात्मार्थेऽन्यच्च जानतः । सङ्घातत्वात्परार्थेऽस्मिन् देहे कथमिवात्मधीः ॥ सर्वस्य बाह्याभ्यन्तरभोग्यवर्गस्य शब्दसुखादेरात्मार्थतां, भोक्तु- श्वात्मनोऽनन्यार्थतां, सर्वस्य शेषितां प्रत्यक्षतः प्रतिपद्यामहे । न च शरीर- मनन्यार्थम् , संघातत्वात् । संघाता हि सर्वे परार्था दृष्टाश्शयनासनरथा- दयः । न च संघातास्संहतशरीराद्यर्था दृश्यन्त इत्यात्मनोऽपि संहतत्व- ८ सिद्धित्रये मापद्यत इति वाच्यम् , तथासति तस्यापि परार्थत्वप्रसङ्गात् । अपराथे- श्वायमात्मा प्रत्यक्षतः प्रकाशत इत्युक्तम् । योग्यानुपलम्भबाधितं चात्मनि संघातत्वम् । संघातान्तरार्थत्वे च, तस्यापि तथा, ततोऽन्यस्यापि तथेति न व्यवतिष्ठेत । न च व्यवस्थायां सत्यामव्यवस्था युक्ता । न च संघातस्य परार्थत्वे परस्य संहतत्वमपि प्रयोजकम् ; भोक्तृतयैवात्मनस्स्वार्थसंघातं प्रति परत्वोपपत्तेः। व्याप्त्यनुपयोगिनोऽपि दृष्टान्तदृष्टधर्ममात्रस्यानुरोधेनानुमान- मिच्छतस्सर्वानुमानोच्छेदप्रसङ्गः । अस्फुटत्वेऽपि भेदस्य शरीरे तदसंभवात् । तद्गुणान्तरवैधादपि ज्ञानं न तद्गुणः ॥ सर्व एव कार्यद्रव्यगतविशेषगुणः कारणगुणपूर्वक इति कथमतत्पूर्वक- शरीरे चैतन्यगुणस्संभवेत् ? यत्तु बार्हस्पत्यं वचनं--*पृथिव्यापस्तेजो वायुरिति तत्त्वानि ते- भ्यश्चैतन्य किण्वादिभ्यो मदशक्तिवदिति, तदनुपपन्नम् , शक्तेरविशेष- गुणत्वेन तथोपपत्तेः । सर्वद्रव्येषु तत्तत्कार्यसमधिगम्यस्तत्प्रतियोगी शक्त्या- ख्यो गुणस्साधारणः; नैवं चैतन्यम् , देहैकगुणत्वाभ्युपगमात् । कार्यत्वे सत्येकविधप्रत्यक्षसिद्धतया च विशेषगुणत्वात् । द्रव्यान्तरसंयोगसमासा- दितमदशक्तिभिरकार्यभूतैः परमाणुभिर्निजगुणपुरस्कारेण स्वकार्यद्रव्येषु मदशक्तयुत्पादोऽपि नानुपपन्नः । ताम्बूलरागस्तु पूर्वव्यावयवविभागानन्तरं द्रव्यान्तरसंयोगजनितरक्तिमगुणैः कारणैः क्रियते । दृश्यते हि तत्राव- यवेष्वपि प्रत्येकं रक्तिमगुणः। न च शरीरावयवेषु प्रत्येकं चैतन्यगुणः प्रज्ञायते प्रतिज्ञायते वा ; तदुपगमे च एकशरीर एवानेकचेतनापाता- दङ्गाङ्गित्वाभावः, प्रतिसन्धानव्यवहारलोपश्च, देवदत्तदृष्ट इव यज्ञदत्तादेः। यत्तु-अकारणगुणपूर्वकं चित्ररूपं पटे इति, तन्न, नानारूपता हि चित्रता-; सा च नानारूपैस्तन्तुभिः क्रियत इति किमनुपपन्नमिति । प्रत्येकमविद्यमानमपि तच्चित्ररूपं तन्तुषु संहतेषु दृश्यत एव, चित्रा इमे .
आत्मसिद्धिः तन्तव इति । संभूय च तेषां पटारम्भकत्वम् । एवं तत्कारणेष्वपि तदिति न कचिद्व्यभिचारः । नचैकरूपनियमाभावेनावयविनोऽचाक्षुषत्वम् , मह- त्वैकार्थसमवायिना रूपवत्त्वेनैव चाक्षुषत्वसिद्धेः। अस्तु वा चित्रं नाम एको रूपविशेषः । स तु रूपैरेव कारणगतैर्नानाविधैरारभ्यत इति दृष्टम् । न चैवमवयववर्तिभिरेव चैतन्यैरवयविनि शरोरे चैतन्यविशेषारम्भः, चिति- तन्मात्रस्यैव तेप्वसंभवात् । अतो न देहगुणश्चैतन्यम् । एतेन सुखाद- योऽपि शरीरगुणाः प्रत्युक्ताः । अपिच दृढ एव शरीरे विरोधिगुणापातमन्तरेण कुसुमविलेपन गन्ध इव निवर्तमानश्चैतन्यसुखादिर्न तद्गुणो भवितुमर्हति, न खलु तद्वि- शेषगुणा रूपादयस्तथा निवर्तन्ते । आत्मनः परेषां च शरीरगुणाः प्रत्य- क्षयोग्याः, वाह्येन्द्रियग्राह्याश्च ; न च तथा ज्ञानादिरिति नासौ तद्गुणः किंच-उत्पत्तिमत्त्वात्पारार्थ्यात्सन्निवेशविशेषतः । रूपादिमत्त्वा तत्वादेहो नाल्मा घटादिवत् ॥ सच्छिद्रत्वाददेहित्वादेहत्वान्मृतदेहवत् । इत्यादिसाधनाय्यनिषेध्या वर्मणश्चितिः॥ एवं प्रत्यक्षविरोधात् , अन्वयमुखेन साध्यमुपस्थापयद्भिरुदीरितसाधनैरपहृत- विषयतयेन्द्रियाश्रयत्वादिव्यतिरेकिहेतवो न साध्यमुपस्थापयितुमीशते ॥ सन्तु तहीन्द्रियाण्येवात्मा । न च तानीदन्तया प्रथन्ते, येन देह- चदहङ्कारगोचराहहिष्क्रियेरन् । नापि तथोद्भूतरूपादिगुणानि स्थूलानि; येन तत्प्रतिभास इवेन्द्रियगोचरत्वेऽहंप्रत्ययस्य रूपावयवादिप्रतीतिः प्रस- ज्येत । तद्व्यापारफलं च ज्ञानं तद्गामि युक्तं स्नानाध्ययनादिफलवत् । अत एव सत्यतपाः-* द्रष्टुश्चक्षुषः इति । तन्न, विकल्पासहत्वात् । तथाहि—किं प्रत्येकमिन्द्रियाणि चेतनानि, संभूय वा ? यदि प्रत्येकम् , इन्द्रियान्तरदृष्टस्येन्द्रियान्तरेण , सिद्धित्रये प्रतिसन्धानं न स्यात् । अस्ति च तत्-यमहमद्राक्षं, तमहं स्पृशामीति । अत एव न संभूयापि चेतनत्वम् । न हि पञ्चभिरिन्द्रियैस्संभूयैक वस्त्वनु- भूयतेऽनुसन्धीयते वा । एकेन्द्रियविगमे च प्रायणप्रसङ्गश्च । इन्द्रियचैत- न्ये च तत्तदिन्द्रियापाये तत्तदिन्द्रियार्थस्मरणमपि न भवेत् । न च तद्व्यापारफलतया तत्समवायित्वं ज्ञानस्य, शस्त्रादिव्यापारजन्मनोऽपि पापादेः परसमवायित्वात् । अन्यथा च प्रष्टुः मृत्युपपत्तिं शरणागतपरित्या- गस्य नृशंसतां चालोच्य सत्यतपसस्तथावचनम् ॥ अस्तु तर्हि मन एव चेतनम् । तथासति हि पूर्वोक्ता दोषाः परि- हृता भवन्ति । तद्धि सर्वेन्द्रियाध्यक्ष प्रज्ञायते प्रतिज्ञायते च । उपपद्यते चेन्द्रियान्तरेण प्रतिसन्धानम् , दर्शनानुसन्धानाधारस्य मनस एकत्वात्। तत्तदिन्द्रियापायेऽपि स्मरणमप्युपपद्यत एव, मनसो नित्यत्वात् । तदपि न, करणत्वात् चक्षुरादिवत् । बाह्यान्तरसकलविषयसंवे- दनकरणतया हि मनः प्रकल्प्यते । बाह्येन्द्रियेषु यथायथं निजविषय- सन्निकर्षभागिप्वपि यतो न युगपदेव सर्वे विषयाः प्रतीयन्ते, अतोऽव- गच्छामः अस्ति किञ्चिदपरमपि साधनम् , यत्साहायकविरहान्न सवै प्रकाशन्ते, कश्चिदेवैकः प्रतीयते-इति। तथा सुखादिसंवेदनान्यपि करणवन्ति क्रियात्वात् संवेदनत्वाद्वा रूपादिज्ञानवदिति । तदेवं ज्ञान- करणतयाऽवगतस्य मनसः कथमिव ज्ञाने कर्तृत्वम् ? स्वातन्त्र्यलक्षणं हि तत् । तच्च स्वच्छन्दानुरोधेन साध्यसिद्ध्यनुगुणोपकरणसंपादनसामर्थ्यम् , स्वसमवेतमेव वा गुणान्तरं तन्त्रीकृत्य प्रवृत्तिः, करणत्वं तु पराधिष्ठा- नाधीनव्यापारतारूपपारतव्यनियतं साधकतमत्वमिति कथमिवैकत्र मनसि परस्परविरुद्धतदुभयधर्मसंबन्ध प्रतिपद्येमहि ? अथ तदपि मनः करणान्त- रेण स्मरणादिषु कर्तृभावमनुभवति, तथासति संज्ञामात्रे विवादः। य एव ह चक्षुरादिभी रूपादीन् , आन्तरकरणेन च सुखादींश्चेतयते, स एवा- आत्मसिद्धिः ११ त्मा। तस्मिन्नेव चेन्मनस्संज्ञा निवेश्यते, कामं निवेश्यताम् ; न नः किंचिद्धीनम् । किंतु तदा सर्वलौकिकव्यवहारो बाध्येतेत्यलमनेन । आह-किमिदं मनो नाम । ननूक्तमान्तरं ज्ञानकरणं द्रव्य- मिति । किंपुनरस्य साधनम् ? ननूक्तं युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्ग- मिति । उक्त नाम ; तथाऽपि कथं तत्त्वान्तरसिद्धिः? कल्पयित्वाऽपि हि तत् युगपत्स्मरणानुत्पत्त्युपपत्तयेऽवश्याश्रयणीयमेव निमित्तान्तरम् । सन्ति हि युगपदस्य स्मर्तुर्नानार्थानुभवभावितास्संस्काराः; अथ च न सर्वे स्मर्यन्ते; किञ्चिदेव कदाचित्मयते। स्कारोन्मेषहेतूपनिपातक्रमात्त- 'थात्वमिति चेत् , एवमपि प्रणिधानमात्रोद्बोधनीयसंस्कारस्य स्मृतियोग- पद्यमापद्येत । यावदनुभूतसकलविषयसुस्मूर्षया सर्वतः प्रत्याहृतचेतसस्सा- धारण्येन प्रणिधतोऽपि न सर्व एवार्थास्स्मृतिमधिरोहन्ति । यदि तु शुभाशुभरूपतया स्मरणानामदृष्टवशाब्यवस्था, क्रमज्ञानस्वाभाव्याद्वा आत्मनः, तथासति बहिरिन्द्रियेषु च यथायथं स्वविषयसंयुक्तेषु तथैव युगपज्ज्ञानानुत्पत्तिरुपपद्यत इति कृतमिन्द्रियान्तरेण । स्यान्मतम्-कादाचित्कस्य सुखादेरात्मसमवायिनो बाह्यविषया- दृष्टादिनिमित्तकारणस्यासमवायिकारणेन भाव्यम् ; तच्चात्ममनस्सन्निकष इति मनोद्रव्यसिद्धिरिति । तदसत् ; सुखदुःखादिपूर्वकालजन्मनोऽभि- मतानभिमतविषयसंपर्कजज्ञानस्यात्मसमवायिन एवासमवायिकारणत्वात् । तस्य च विषयसंप्रयुक्तेन्द्रियसंप्रयोग एवात्मसमवेतोऽसमवायिकारणम् । तद्धेतुरपीन्द्रियव्यापारः प्रयत्नमदृष्टं चात्मसमवेतमपेक्षमाणादात्मेन्द्रियसन्नि- कर्षादसमवायिकारणात् । प्रयत्नस्य तु स्वपूर्वक्षणवर्ति कर्तव्यताज्ञानम् । प्रयत्न एव त्वदृष्टस्यापीति नात्मविशेषगुणानां बुद्धिसुखदुःखेच्छादीना- मसमवायिकारणसापेक्षतयाऽपि द्रव्यान्तरपरिकल्पनं न्याय्यम् । यत्तु-नित्यद्रव्यविशेषगुणस्य द्रव्यान्तरसंयोग एवासमवायिकार- णम् , पार्थिवपरमाणुप्वग्निसंयोगादसमवायिकारणापोत्पत्तेरिति, तदपि.
१२ सिद्धित्रये , स्थवीयः, पार्थिवपरमाणुषु रूपादयो दहनसंयोगादिति कुतोऽवगतम् ? कार्यव्ये तथा दर्शनादिति चेत् ; इह वा तर्हि किं न दृश्यते, इष्टा- निष्टप्राप्त्यवगमानन्तरं सुखादिर्जायत इति ? दृष्टकारणव्यभिचारे हि कार- णान्तरानुमानावसरः । नचेहास्ति व्यभिचारः । अतः प्रसिद्धकारणभावे- प्वेव यत्र कार्यसमवायः तत् समवायिकारणम् , यत्तु तत्प्रत्यासन्नम् तदसमवायि, यदन्यत् तन्निमित्तमिति व्यवस्थाश्रयणमुचितम् ; नत्वन- पेक्षिताप्रसिद्धद्रव्यान्तरसंयोगाभ्युपगमेन तस्यासमवायिकारणत्वाश्रयणम् , कारणान्तरानुपलव्धेः । दृष्टानुसाराच्चाणुगतरूपादौ तथाऽभ्युपगमः । इह तु तद्विपर्ययः प्रदर्शित एव । एवमपि व्याप्तिबलेन यदि द्रव्यान्तर- संयोगोऽनुमातव्यः, स तहिं स्पर्शवव्यसमवेतो भौतिक एव चोपलब्ध इति प्रसिद्धदेहादिसंयोग एवानुमानपर्यवसानान्न नवमद्रव्यसिद्धिः । अथोच्येत-भौतिकत्वे हि मनसः पृथिव्याद्यन्यतमत्वेन भवि- तव्यम् ; तच्चानुमानान्तरैर्व्यतिरेकमापादयद्भिः प्रत्यासिद्धम् । तथा हि- न पार्थिवं मनः, रसावगमनिमित्तेन्द्रियत्वात् रसनावत् । न पाथसीयं गन्ध- ग्रहणनिमित्तेन्द्रियत्वात् घ्राणवत् । एवमतैजसत्वाद्यपि तत्तदिन्द्रियागोचर- ग्रहणनिमित्ततया शक्याध्यवसानमित्यभौतिकत्वं मनस इति । तदनुप- पन्नम् , धर्मिविशेषविपरीतसाधनात् । रसावगमनिमित्तेन्द्रियत्वमपार्थिवत्व- मिव पाथसीयत्वमपि समर्थयति । एवं साधनान्तराण्यपि भूतान्तरव्यति- रेकमिवात्मीयभूतभावमापादयन्ति । अथ शब्दस्पर्शरूपरसगन्धेषु यद्गुणग्राहि यदिन्द्रियम् , तदेव तद्गुणकभूतारब्धम् ; हन्त तर्हि तदेव तदितरभूतव्यतिरेकितयाऽप्यवगत- मिति न तदवगमकतामात्रेणाभिमतव्यतिरेकसिद्धिः । अपिच शब्दादि- गुणावगमसाधारणसाधनतया शरीरमिव पाञ्चभौतिकम् , एकद्विवादिमयं वेतरभूतसंसृष्टमस्तु मनः; यथाऽऽम्नायते *अन्नमयं हि सोम्य मन इति । तन्न तत्प्रकृतित्वप्रतिपादनपरम् , अपितु तदधीनवृत्तितामात्रप्रदर्शनार्थम् आत्मसिद्धिः १३ १ , *आपोमयः प्राण इत्यादिवत् । अत एवापवर्गदशामपि मनोऽनुवृत्तिः । दर्शितं हि तत्रैवाष्टमे *मनसैतान्कामान्पश्यन् रमते* मनोऽस्य दैवं चक्षुः इति । तथा परस्याश्च देवतायाः, *सोऽन्यं कामं मनसा ध्यायीतेति महोपनिषदि । *मनसैव जगत्सृष्टमिति च पुराणे । उच्यते-सत्यमेवम् । द्रव्यान्तरपरिकल्पनातो वरमेवं वाऽऽश्रयणमित्युक्तम् । परमार्थतस्तु न भौतिकं नापि नवमं द्रव्यम् । क तीदानीं मनश्शब्दः ? बुद्धावेव । अत एव हि वुद्धिमान् मनस्वीति व्यपदिश्यते । मनसोऽवस्थाभेदाश्च दागेवा- परोक्ष्यन्ते, क्षुभितं मे मनः, प्रसन्नं मे मन इति । एवंच मनसः करण- तया व्यपदेशो बुद्ध्यहंकारयोरिव वृत्तिभेदप्रदर्शनपरः पूर्वेषामिति । उच्यते-यदि बुद्धिरेव मनः, यदि वा द्रव्यान्तरम् , उभय- धाऽपि तस्य न चेतनत्वमिति किमनेनाप्रतिज्ञातस्वरूपविमर्शन । अस्तु तर्हि प्राण एवात्मा, तथासति तदन्वयिनि शरीरे सात्म- कत्वप्रतीतिः, तद्विरहिणि निरात्मकत्वप्रतीतिश्चोपपद्येयाताम् । देहा- दुत्क्रान्तिलोकान्तरगमनं देहान्तरसंचारश्वोपपद्यन्तेतराम् , गत्वरस्वाभा- व्यात्प्राणस्य । इतरथा परममहतो महतश्च स्पर्शविरहिणः परिस्पन्दानुप- पत्तेरुत्क्रान्तिगत्यागतिश्रुतयो भाक्तास्स्युः । इदमप्यसत् , वायुत्वादेव बाह्यवायुवत्प्राणस्य चैतन्यानुपपत्तेः । वृत्तिहीनेऽप्यात्मनि सुषुप्तौ प्राणस्य वृत्तिमत्त्वाच्च । तद्वत्त्या हि सुप्त- स्यापि सप्तधातुभावनाशितपीतद्रव्यपरिणामः, श्वासप्रश्वासौ च । तनुतर- तेजोबन्नानुविद्धः कौप्ठ्यमारुतो हि प्राणः । स च कण्ठमुखनासाभ्यन्तरे बहिश्च रेचितः त्वचा स्पृश्यमानो घटादिरिव स्फुटमनात्मतया चकास्ति । किंच-निरस्तो देहचैतन्यप्रतिषेधप्रकारतः । प्राणात्मवादो न पृथक् प्रयोजयति दूषणम् ॥ अविभुत्वेनास्यात्मनः स्पर्शविरहिणोऽपि प्रयत्नादृष्टप्रेरणानुगुण्येन सिद्धिनये मनस इवोत्क्रान्तिगत्यादयो युज्यन्त इति न तन्निर्देशानाममुख्यार्थता । परिमाणनिरूपणेऽप्येतद्भविष्यतीत्यलमधुना । भवतु तर्हि संविदेवात्मा अजडत्वात् । जडत्वप्रतिबद्धं ह्यनात्म्यं घटादिषु दृष्टम् । जडत्वं च संविदो निवर्तमानं तदपि निवर्तयति । अजड- त्वं च संविदः सत्त्यैव प्रकाशमानत्वात् । न हि सती संवित् घटादिरिवा- प्रकाशमानाऽवतिष्ठते, येन परायत्तसिद्धिरास्थीयेत । स्यान्मतम्-जातायामपि संविदि विषयमानं प्रथते । न खलु नीलमिदमिति प्रतियन्तस्तदैवानीलमनिदरूपमपि संवेदनं प्रतीमः । अत- स्स्वरूपसत्यैव संविदा इन्द्रियसन्निकणेव विषयः प्रकाश्यते । ततश्च तद्गतागन्तुकप्रकाशातिशयदर्शनेन पश्चात्संविदनुमास्यत इति । तन्न, ज्ञान- व्यतिरेकिणोऽर्थधर्मस्य प्रकाशस्य निपुणमपि निरीक्षमाणानां रूपादिवदनुप- लब्धेः। उभयाभ्युपेतसंविदैव सकलव्यवहारोपपत्तौ च तत्कल्पनानुपपत्तेः । वित्तिवेदितृप्रतिभासशून्यायां च विषयवित्तावभ्युपगम्यमानायां, घटस्ताव- दयम् , अहं तु जानामि नवेति न ज्ञायते, इति च कदाचित्प्रतिभास- स्स्यात् । नचैवमस्ति । अतीतानागतविषयग्रहणस्मरणेषु व्याहारव्यवहारयो- रभावे, भावेऽपि, ततः प्रागेव विदितत्वप्रतीतेः नानुमानिकी तत्र विषय- प्रकाशसिद्धिः, नतरां तत्पूर्विका तत्र बुद्धिसिद्धिः । तथा हि-केनचि- प्रेरितः प्रणिधाय स्मृत्वा अनन्तरमेव प्रतिवदति स्मृतमद्य मयेति । नचायमेव व्याहारस्तत्र लिङ्गम् , तत्पूर्वकत्वात् , अन्योन्याश्रयणापत्तेश्च । स्वव्याहारेण स्वज्ञानानुमानं क इव निरपत्रपः प्रतिजानीत ? अन्यच्च, यत्संबन्धादर्थान्तरे यो व्यवहारः, धर्मभेदो वा, स तस्मिन्नुपलभ्यमानस्तत्स्वरूपप्रयुक्तः, न तु तत्संबन्धनिबन्धनः । यथा सत्तासंबन्धात्पृथिव्यादिषु सद्व्यवहारः रूपसंबन्धाच्च चाक्षुषत्वं सत्तायां रूपे च । एवं संवित्संबन्धात्प्रवर्तमानो घटादिषु प्रकाशत इति व्यवहारः आत्मसिद्धिः १५ प्रकाशमानलं वा धर्मः संविदि तु परिदृश्यमानो न संवित्संबन्धापेक्षः, अपितु तत्स्वरूपप्रयुक्त इति स्वयंप्रकाशत्व त्सवात्मेति । किंच योऽपि संविदोऽन्य संवेदितारमभ्युपगच्छति, अभ्युपगच्छ- त्येवासौ संविदन् । नासत्यामेव संविदि संवेत्तीत्युपपद्यते । एवं चेत् , उभयवादिसंप्रतिपन्नतया सैव वरं वेदित्री भवतु । किमन्येन कल्पितेन । नन्वहं जानामीति ज्ञानातिरिक्तस्तदाश्रयभूतोऽयमात्मा प्रतीयते । सत्यम् ; स तु विकल्परूपतया साक्षात्प्रत्यक्ष इति न शक्यस्संश्रयितुम् । भेदज्ञान- सिद्धवत्कारेण पृथग्वस्तुतया गृहीताव्यभिचारेण सहोपलम्भनियमेन, अप्रकाशात्मनश्च स्वभावविरोधादेव प्रकाशायोगात् प्रकाशस्वाभाव्ये च संवेदनत्वमित्यादिना वा प्रकाशात्मनोऽहमित्यंशस्य तत्त्वमेव दुरुपगमम् । ग्राह्यविकल्पप्रत्युद्वारेऽप्येष एव प्रकारः। अतो वासनाभिधान- समनन्तरप्रत्ययसामर्थ्यादनाद्यविद्यावशाच्च समारोपितावास्तवग्राह्यग्राहक- विकल्पोल्लेखिनी स्वयंप्रकाशा संविदेव परमार्थसती; सैवात्मेति सौगताः प्रकटाः प्रच्छन्नाश्च । यथाऽऽहुः प्रकटाः- *अविभागोऽपि वुद्ध्यात्मा विपर्यासितदर्शनैः । ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥ इति । यथा वा प्रच्छन्नाः-*शुद्धं तत्त्वं प्रपञ्चस्य न हेतुरनिवृत्तितः । ज्ञातृज्ञेयविभागस्य मायैव जननी ततः ॥ इति ॥ अत्राह-क्षणभङ्गिनी प्रतिविषयमन्याऽन्या च संविच्चकास्ति । सैव चेदात्मा, पूर्वयुद्देष्टमपरेयुः अहमिदमदर्शमिति कथमिव प्रत्यभि- जानीयात् ? न च निरालम्बनप्रतिभाभेदमात्रतया इह समाधेयम्, निरालम्बनत्वप्रतिज्ञायाः प्रत्यक्षादिसकलप्रतीतिबाधितविषयत्वात् । साधनस्य च सालम्बनत्वे, तदविशेषादशेषशेमुषीणां तथात्वापत्तेः ; निरालम्बनत्वे च साधनाभावादेव साध्यासिद्धेः । प्रपञ्चितश्च पूर्वोत्तरमीमांसाभागयो- निरालम्बनत्वप्रतिषेधः; यथार्थख्यातिसमर्थनेन च शास्त्र इति न व्यावर्ण्यते ।
१६ सिद्धित्रये अतएव न सन्तानाश्रयणेनापि प्रत्यभिज्ञोपपादनं साधीयः । विज्ञानक्षणव्यतिरिक्तस्य स्थायिनोऽनुसन्धायिनस्सन्तानस्याभ्युपगमे स्वसि- द्धान्तत्यागः, परसिद्धान्ताभ्युपगमश्च । अनभ्युपगमे प्रत्यभिज्ञानुपपत्तिः । न ह्यन्येनानुभूतेऽन्यस्य प्रतिसन्धानसंभवः । न च सुसदृशतया भेदा- ग्रहणेन प्रदीपादाविव प्रमातरि प्रत्यभिज्ञाभ्रान्तिः; युज्यते हि तत्रैकस्यैव पूर्वापरव्यक्तिदर्शिनस्तुल्यसंस्थानतया व्यक्तीनां भेदमविदुषस्तथा भ्रमः, इह तु संविद्वयक्तयः परस्परवार्तानभिज्ञा निरन्वयविनाशिन्यश्च सुगतमत इति न तास्वेकत्वभ्रमस्याश्रयता विषयता वा संभविनी ; न च सदृश- त्वेऽपि, अन्येन कृतमात्मकृततयाऽन्योऽनुसन्धातुमलमित्यागमापायिसंवि- सन्तानाश्रयः प्रत्यभिज्ञानक्षणस्थायी चेतनोऽभ्युपगन्तव्यः । कश्चिदाहन संविदनित्या, प्रागभावाद्यसिद्धेः । तदसिद्धिश्च तस्याः स्वतस्सिद्धत्वात् । न हि स्वतस्सिद्धस्य प्रागभावादयस्स्वतोऽन्यतो वा सिद्धयन्ति । स्वयं हि स्वाभावमवगमयत् , सद्वाऽसद्वा साधयेत् ? सत्त्वे, अभाव एव नास्तीति कथं साधयेत् ? असत्त्वादेव साधकस्य पक्षान्तरे नतरां साधकत्वमिति, न स्वतस्तावत्तत्सिद्धिः । नाप्यन्यतः; अनन्यगोचर- त्वादनुभूतेः; अनुभाव्यत्वे च घटादिवदननुभूतित्वप्रसङ्गात् । अतस्सा न जायते। जन्माभावादेवेतरेऽपि भावविकारा निराकार्याः; तत्प्रति- बद्धत्वात्तेषाम् । अत एव नानात्वमपि संविदि प्रत्युक्तम् ; उत्पत्तिमत्त्व- व्यापकनिवृत्त्या तव्याप्यभूतनानात्वस्यापि निवृत्तिसिद्धेः । नयजं विभाग्य- स्ति । चेत्यत्वाच्च भेदेतरेतराभावादयो न तद्धर्माः, रूपादिवत् । अतोऽ- स्या न मेयः कश्चिदपि धर्मोऽस्ति । अतो निघूतनिखिलभेदविकल्प- निर्धर्मप्रकाशमात्रैकरसा कूटस्थनित्या संविदेवात्मा परमात्मा च । यथाऽऽह याऽनुभूतिरजाऽमेयाऽनन्तात्मेति । सैव च वेदान्तवाक्यतात्पर्यभूमि- रिति तेषां भाषा । यथाऽऽह तद्वार्तिककारः- श्परागर्थप्रमेयेषु या फलत्वेन संमता । - आत्मसिद्धिः संवित्सैवेह मेयोऽथों वेदान्तोक्तिप्रमाणतः ॥ अप्रामाण्यप्रसक्तिश्च स्यादितोऽन्यार्थकल्पने । वेदान्तानामतस्तस्मान्नान्यमर्थ प्रकल्पयेत् ॥ इति ॥ तदिदमलौकिकमवैदिकं च दर्शनमित्यात्मविदः । तथा हि-संविदिति स्वाश्रयं प्रति सत्तयैव कस्यचित्प्रकाशनशीलो ज्ञानावगत्यनुभूत्यादिपद- पर्यायनामा सकर्मकः संवेदितुरात्मनो धर्मः प्रसिद्धः । तथैव हि सर्व- प्राणभृत्प्रत्यात्मसिद्धोऽयमनुभवः-अहमिदं संवेमीति । तस्यास्योत्पत्ति- स्थितिनिरोधाश्च सुखदुःखादेरिव प्रत्यक्षाः प्रकाशन्ते । स्वापमदमूर्छा- दशालु च योग्यानुपलम्भनिराकृतस्तत्सद्भावो नाभ्युपगममर्हति । यदि हि तास्वपि दशासु संवेदनमवर्तिप्यत, ततः प्रबोधसमयेऽनुसमधास्यत । नचानुसन्धीयते । अत एव हि, इयन्तं कालं न किञ्चिदहमज्ञासिषमिति प्रबुद्धः प्रत्यवमृशति । यावदनुभूतपदार्थस्मरणनियमाभावेऽपि, संस्कार- विच्छेदनिमित्तप्रायणादिप्रवलहेतुबिरहेऽपि नित्यवदस्मरणमनुभवाभावमेव साधयति । न च सत्यपि संवित्प्रकाशे विषयावच्छेदविरहादहङ्कारगोचरा- पायाद्वा तत्स्मृत्यनुदयः ; अर्थान्तराभावस्य तदग्रहणस्य चार्थान्तरप्रकाश- प्रयुक्तकार्यप्रतिबन्धकत्वायोगात् । त्रितयावभासेऽपि यथास्वमवभासानां स्वगोचरस्मरणहेतुत्वात् । न च प्रत्यभिज्ञाबललब्धस्थेमाऽहमर्थः स्वापादि- दशासु निधनमुपगत इति शक्योऽभिधातुम् । अत एव हि, इयन्तं कालमहनस्वाप्समिति प्रबोधे परामर्शः । न च निर्विषया निराश्रया वा संक्निाम काचित्संभवति, अत्यन्तानुपलब्धेः । संबन्धिशब्दाश्च संविदनु- भूतिज्ञानप्रकाशादिशब्दा इति शब्दार्थविदः । न ह्यकर्मकस्य जानात्यादे- रकर्तृकस्य वा प्रयोगो लोके वेदे वा । यत्तु-स्वतस्सिद्धस्य सत्त्वे तद्विरोधादेव प्रागभावादेस्तदानीमव- स्थानासंभावान्न ततस्सिद्धिरिति, तदतिस्थवीयः ; न हि संविदा स्वकाल- वर्तिन एवार्थास्सिद्धयन्तीत्यस्ति नियमः,अतीतानागतयोरसंवेद्यत्वप्रसङ्गात् । . 2 सिद्धित्रये अथ संवित्प्रागभावादेस्सिद्धयतस्तत्समकालतया भवितव्यमिति ; किमेवं क्वचिदृष्टम् ? हन्तैवं सति तत्सिद्धेर्न प्रागभावाद्यसिद्धिः । तत्प्रागभावः तत्समकाल इत्युन्मत्तवचः । ऐन्द्रियिकप्रत्यक्षस्वभावो ह्ययं स्वसमकाल- पदार्थप्रकाशकत्वं नाम ; न ज्ञानमात्रस्य, प्रमाणमात्रस्य वा । एतेन तदपि पराकृतम्-*मानं स्वयंप्रकाशत्वात्स्वतस्सच्चेत्सदाऽस्त्यतः । तन्मयं च सदाऽस्त्येव मानं मेययुगेव हि ॥ इति । न हि मानस्य स्वसत्ताकालेऽर्थाविनाभावो मेययोगः, किंतु यद्देशकालादि- मत्तया मेयमवभासते तादृशतद्रूपमिथ्यात्वविरोधित्वम् । अत एव *स्मृतिर्न बाह्यविषया नष्टेऽप्यथै स्मृतिदर्शनादित्यपि प्रलापः । अथ संवित्प्रागभावादेरवर्तमानतया न प्रत्यक्षत्वम् , लिङ्गाद्यभा- वाच्च न प्रमाणान्तरतस्सिद्धिरिति ; यद्येवम् , अकारणं तर्हि स्वतस्सिद्धत्वं प्रागभावाद्यसिद्धेः । प्रमाणाभाव एव हीदानी वाच्यः ; न च तदभाव- श्शक्योऽभिधातुमित्युक्तमेव, योग्यानुपलब्ध्यैवाभावस्य समर्थितत्वात् ।। अपिच प्रत्यक्षसंवित् स्वसत्ताकाले स्वविषयस्य सद्भावं साध- यन्ती यत्तस्य न सर्वदा सत्तां साधयति, तदवसीयते, अहमिदानीमेवा- स्मि नान्यदेति कालविशेषावच्छिन्नैव सा चकास्तीति ; इतरथा घटादेरपि नित्यत्वप्रसङ्गात् । एवमनुमानादिसंविदोऽपि । न च प्रत्यक्षानुमानादि- भेदशून्या निर्विषया निराश्रया धीस्संभवतीत्युक्तमेव । नचान्याविषयत्वात्संविदः अन्यतस्तत्प्रागभावाद्यसिद्धिः ; अज्ञा- सिषमिति प्राक्तनसंविदोऽद्यतनधिया विषयीक्रियमाणत्वात् । प्रतिकूलानु- कूलविषयनियतहानोपादानादिलिङ्गावगम्यत्वाच्च परसंविदः । तदनभ्युप- गमे च शब्दार्थग्रहणासंभवेन वैदिकलौकिकसमस्तव्यवहाराभावप्रसङ्गः । गुरूपसर्पणाद्यनुपपत्तिश्च ; ज्ञानवत्त्वेन तस्याप्रतीतेः । नचान्यविषयत्वेऽननुभूतित्वम् । स्वाश्रयस्य स्वसत्त्यैव प्रकाश- , आत्मसिद्धिः १ ९ मानत्वं, स्वविषयसाधनत्वं वा धनुभूतित्वम् । ते च संविदन्तरविषय- भावेऽपि स्वानुभवसिद्धे न भ्रश्यत इति कथमननुभूतित्वप्रसङ्गः ? घटादेस्तु तथास्वाभाव्याभावादेवाननुभूतित्वम् , नानुभाव्यत्वात् । अपिचाननुभाव्य- त्वेऽपि समानस्तत्प्रसङ्गः गगनकुसुमवत् । नचात्मनोऽनुभूतित्वम्, अनु- भवितृत्वात् । नाप्यसावननुभाव्यः, अनुभवस्येव स्वतस्सिद्धयतोऽप्यस्य स्व- परसंवेद्यत्वाभ्युपगमात् । वेद्यत्वेऽनात्मत्वापादनमवेद्यत्वेऽपि समानं पूर्व- वत् । यदि तु गगनकुसुमस्यासत्त्वमेवानात्मत्वाननुभूतित्वप्रयोजकमास्थीयेत, आस्थीयतां तर्हि घटादेरप्यसंविदाश्रयत्वाज्ञानाविरोधित्वयोरेव तत्प्रयोजक- त्वम् । अथ ते अपि विषयत्वे स्यातामिति चेत्, अविषयत्वेऽपि तथै- वेत्यलमप्रतिष्ठितकुतर्कापहसनेन । यदपि जननविरहादनुभूतेर्विकारान्तरनिरसनम् , व्यभिचरति त- दपि प्रागभावे । जन्माभावेऽपि तस्य विनाशदर्शनात् । भावविशेषणोपा- दानेऽपि भवदभिमताविद्ययाऽनैकान्त्यम् । सा ह्यनादिरपि विविधविकारवती विनाशवती च तत्त्वज्ञानोदयात् । अपरमर्थास्तद्विकारास्सन्तीति चेत् ; परमार्थाश्च ते किं विकारास्सन्ति, जन्मवन्तो वा परमार्थाः, येन पार- मायेन विशेषणं साध्यस्य साधनस्य वाऽर्थवत्तामश्नुवीत ? तथा च सति साधु समर्थितं तर्ककुशलेनेत्यलमनेन । यदपि न ह्यजं विभाग्यस्तीति ; तदपि न, अजस्यैवात्मनो देहे- न्द्रियादिभ्यो विभागस्य समर्थितत्वात् । अनादित्वेनाभ्युपगतस्याज्ञानस्य आत्मनो व्यतिरिक्ततयाऽवश्याश्रयणीयत्वात् । अपरमार्थस्स विभाग इति चेत् , परमार्थभेदः किं जन्मप्रतिबद्धः कचिदृष्टः ? निर्बाधप्रतीतिसिद्धश्च हग्दृश्यभेदः परमार्थ एवेत्यनन्तरमेवोपपादयिष्यामः । यदपि नास्या मेयो धर्मोऽप्यस्ति चेत्यानां न चिद्धर्मत्वमिति च, —तदपि शास्त्रानुमानादिप्रमाणसिद्धैस्स्वयंप्रकाशत्वनित्यत्वादिधर्मः स्वय- मभ्युमगतैरनैकान्तिकम् । न च ते चितिमात्रमिति वाच्यम् । तत्सिद्धा- २० सिद्धित्रये वपि तेषु विमतिदर्शनात् । अभ्युपगम्यैव हि संविदं तदनुमेयत्वक्षणिक- त्वादि प्रतिजानते वादिनः। स्वरूपभेदाच-स्वाश्रयं प्रति सत्तयैव कस्य- चित्प्रकाशनं हि संवेदनम् । स्वयंप्रकाशता तु सत्तयैवात्मने प्रकाशमानता। प्रकाशश्च चिदचिदशेषपदार्थसाधारणो धर्म इति संवित्सिद्धावेव साधितम् । तदनभ्युपगमे तु व्यवहारानुगुण्यवचनः प्रकाशशब्दः । नित्यता तु सर्वकालवर्तमानता । एकसंख्यावच्छेदः एकत्वमिति । न च जडत्वकालदेशनानात्वाद्यवच्छेदशून्यतारूपत्वात्तेषां न यथोक्तदोष इति युक्तम् ; तथारूपैरपि तैश्चितिधर्मभूतैरनैकान्त्यस्यापरिहार्यत्वात् । संविदि च निषेध्यत्वाभिमतजडत्वानित्यत्वनानात्वादिविरुद्धविविधधर्माभावे निषेधोक्ति- रुक्तिमात्रमेव। चेत्यं चाज्ञानमात्मनि दृष्टमिष्टं च भवताम् । अपिच अस्या इति षष्ठ्या अनुभूतेस्संबन्धमभिधाय निर्धर्मत्वं प्रतिज्ञायमानं, वन्ध्यात्वमिव जनन्याः, विरुद्धार्थमापद्येत । सिद्धिश्चेदभ्युपेयेत संविदः स्यात्सधर्मता । नचेत्तुच्छत्वमेवोक्तं भवेच्छशविषाणवत् ॥ ननु सिद्धिरेव सा । कस्य भोः ? यदि न कस्य चित् , न तर्हि सिद्धिरेव । सा हि पुत्रत्वमिव कस्यचित्किंचित्प्रति । आत्मन इति चेत् , कप्पष्ठ्यर्थः? तदेवं व्योमारविन्दसदृशवपुषि यथोदितहशि वेदान्ततापर्य- वर्णनं वेदान्तायैव स्यात् । अपि च नित्यत्वेऽप्यनुभूतेः प्रत्यभिज्ञानुपपत्तिस्तदवस्थैव । सा हनुभवितारं पूर्वापरकालावस्थोयिनमुपस्थापयति, अहमिदमन्वभूवमिति । अनुभूतिस्त्वनुभूतिरेव भवताम् , न तां प्रति सा की कर्म वा । यद्युच्येत—परमार्थतस्तथाभूताऽपि प्रान्त्या अनुभवितृतया परि- स्फुरति, रजततयेव शुक्तिः । न हि तथ्यमनवलम्व्य मिथ्यावभासस्यो- स्थानमिति ; तन्न, तथासत्यनुभवसमानाधिकरणतया अनुभविताऽहमर्थः प्रकाशेत-अनुभूतिरहमिति, पुरःस्थितभास्वरद्रव्यशङ्खमुखचन्द्रादेराकारत- आत्मसिद्धिः २१ येव रजतपीतमुकुरस्थताद्वित्वादि । पृथगवभासमान एव त्वयमनुभवः दण्ड इव देवदत्तम् अर्थान्तरमहमर्थ विशिषन्नालक्ष्यते, अनुभवाम्यहमिति । तदेवमनुभवविशिष्टमस्मदर्थमवभासयन्नयमहंप्रत्ययः कथमिव विशेषण- भूतानुभूतिमात्रावलम्बनः प्रतिज्ञायेत, दण्डमात्र इव दण्डी देवदत्त इति प्रत्ययः कुतश्चैष निश्चयः, अध्यस्तं ज्ञातृत्वमिति ? स्थूलोऽहमितिवत् देहात्माभिमानवतः प्रतिभासनादिति चेत्, नन्वात्मतयाऽभिमताऽनुभूतिरपि तद्वत एवावभातीति साऽपि तथा स्यात् । तत्त्वज्ञानोदयात्परतोऽपि तदनु- वृत्तेर्न तथा सेति चेत् , किं भोः ! तत्त्वज्ञानात्परम् अबोद्धैवायमात्मा ? हन्तैवं वरमितोऽतत्त्ववेदित्वम् ; प्रान्त्याऽपि हि तत्र बहु भद्रं पश्यतीति । ननु ज्ञातृत्वं ज्ञानक्रियाकर्तृवं विक्रियात्मकं जडमहङ्कारग्रन्थि- स्थम् । तत्फलभुक् अकर्ता अविक्रियः साक्षी प्रकाशमात्र आत्मा । कर्तृ- त्वादिर्हि दृश्यत्वात् रूपादिवनात्मधर्मः। कर्तृत्वे ह्यात्मनः अहंप्रत्यय- गोचरत्वेऽपि, देहस्येवानात्मत्वपरार्थत्वजडत्वादिप्रसङ्गो दुर्निवारः । दृष्टं च लौकिकवैदिककर्मसु कर्तृतया प्रसिद्धादेहात्तक्रियाफलभुजः प्रमातुरहंप्रत्य- यिनः पृथक्त्वम् । तथेहापि प्रमातुरहमाद्विलक्षणस्साक्षी प्रत्यगात्मेति युक्तम् । नैवं युक्तम् ; अहं जानामोति ज्ञातृतया सिध्यतः प्रत्यगात्मनो व्यतिरेकेण साक्षिणो नाम प्रकाशमात्रस्यात्मनोऽनुपलब्धः। देहेन्द्रियमनः- प्राणविज्ञानेभ्यो ज्ञानाश्रयतया विविच्यमाने प्रतीपमञ्चतीव निर्भासमानो- ऽहंभाव एव हि प्रत्यक्त्वं नाम । साक्षित्वमपि तस्य साक्षाज्ज्ञातृत्वम् । न हजानन् साक्षीत्यपदिश्यते । सर्वं च प्रकाशमानं ज्ञात्रेऽहमिति चकासते प्रकाशत इति प्रत्यात्मसिद्धोऽयमनुभवः, अहं जानामि, मह्यं प्रकाशत इति । नचाव्याकृतपरिणामभेदस्याहंकारनाम्नो बुद्धिनामधेयस्य वा ज्ञातृ- त्वम् , देहस्येवाचेतनत्वपरिणामित्वजडत्वपरार्थत्वादिहेतुभिस्तदनुपपत्तेः । न च चितिच्छायापत्त्या तयोस्तत्संभवः, अचाक्षुषस्य छायाऽदर्शनात् । ।
२२ सिद्धित्रये न च ज्ञातृत्वं चितावपि ते वास्तवमस्ति, येन, अग्निसंपर्कात् अयःपिण्ड इवौष्ण्यम् , तत्संपर्कादर्थान्तरे ज्ञातृत्वं जायेत, ज्ञायेत वा । यद्युच्येत-ज्ञप्तिमात्रमेवात्मानमभिव्यञ्जन्नचेतनोऽप्यहंकारः स्वाश्र- यतया तमभिव्यनक्ति । स्वभावो ह्ययं व्यञ्जकानाम् , यदात्मस्थतयाऽभि- व्यङ्ग्यमभिव्यञ्जन्ति, दर्पण जल खण्डमुण्डादय इव मुख मिहिरबिम्ब गोत्वादीन् । तत्कृतश्चायम् , अहं जानामीति भ्रमः । अत एव खल्वह- मुल्लेखविगमे सुषुप्तिमुक्त्योः स्वाभाविकविशदानुभवमात्ररूपेणात्मनः प्रकाशः, तत एवचानात्मत्वमहमर्थस्य । तथाच सौरेशं वचः- *आत्मनश्चेदहं धमों यायान्मुक्तिसुषुप्तयोः । यतो नान्वेति तेनायमन्यदीयो भवेदहम् ॥ इति । तदिदमसंबद्धम् । यतः, शान्ताङ्गार इवादित्यमहङ्कारो जडात्मकः । स्वयंज्योतिषमात्मानं व्यनक्तीति न युक्तिमत् ॥ आत्मत्वाभिमताजडानुभवाधीना हि सर्वपदार्थाभिव्यक्तयोऽभिप्रेयन्ते । तादृशमशेषार्थसाधकमुदयास्तमयविपरिवृत्तिशून्यप्रकाशस्वभावं तमनुभवं तदधीनसिद्धिरचिदहंकारोऽभिव्यनक्तीत्युपहास्यमिदमात्मविदाम् । किंच-व्यक्तृव्यङ्ग्यत्वमन्योन्यं न च स्यात्प्रातिकूल्यतः । व्यङ्ग्यत्वेऽननुभूतित्वमात्मनि स्याद्यथा घटे ॥ दिनकरकरव्यङ्ग्यकरतलं तदभिव्यञ्जकं दृष्टमिति मा वोचः, करतलस्य तद्वाहुल्यमानहेतुत्वात् । तथाभूताश्च दिनकरमरीचयः स्फुटमुपलभ्यन्त इति न करतलव्यङ्ग्यत्वम् । अपिच केयमभिव्यक्तिः, याऽनुभूतिरूपस्यात्मनोऽहङ्कारेण क्रियत भ्युच्यते ? न तावत्तत्सिद्धिः ; तस्य स्वतस्सिद्धत्वेनानन्याधीनसिद्धित्वा- इयुपगमात् । नापि तद्विषयज्ञानम् , ज्ञानान्तराननुभाव्यत्वात् । अनु- आत्मसिद्धिः २३ भाव्यत्वे हि घटादिवदननुभूतित्वप्रसङ्गः । अत एव न ज्ञानकरणानुग्रहः । स हि वेद्यगतज्ञानोदयप्रतिबन्धकापनयनेन वा, दीपेनेव सन्तमसनिरसनेन चक्षुषः ; वेद्यसन्निकर्षोपाधित्वेन वा, व्यक्तिदर्पणादेखि जातिनिज- मुखादिबोधकस्य नयनादेः ; वेत्तृगतकलङ्कक्षालनेन वा, शमदमादिनेव परावरात्मतत्त्वज्ञानोपायस्यागमादेः ? न तावदनुभवगतमहङ्कारापनेयमस्ति किंचित् ज्ञानोदयपरिपन्थि । अज्ञानं तु ज्ञानसमानाश्रयविषयतया न तदुभयभावविरहिणि भवदभिमतसाक्षिणि निक्षेपमर्हति । न खलु ज्ञान- प्रसक्तिशून्यो घटादिरज्ञानीत्युच्यते । तथैव न जातुचित् ज्ञातृत्वं ज्ञान- मात्रस्येति न तस्याप्यज्ञानं भवेत् ; भवदपि तत् अहङ्कारापनेयं नेष्यते, ज्ञानैकनिवर्त्यत्वादज्ञानस्य ; तथाऽभ्युपगमाच्च । ज्ञानं च स्वविषय एवाज्ञानं निवर्तयति ; न च तद्विषयत्वमात्मतयाऽभिमतस्यानुभवस्येष्यत इति तत्रत्यमज्ञानं न केनचित्कदाचिदुच्छिद्येत । ज्ञानप्रागभावरूपं चाज्ञानं न ज्ञानोत्पत्तिप्रतिबन्धकमिति शक्यं व्यपदेष्टुम् । भावरूपमज्ञानमनिर्वचनीयं नगदुपादानमित्यादि प्रलापमात्रमिति संबन्धनिरूपणे प्रतिपादयिष्यते । अतो न वेद्यदोषापनयनरूपा अहकारेणानुभवाभिव्यक्तिः । करणानामभूमित्वान्न तत्संबन्धहेतुता । अहमर्थस्य बोद्धृत्वान्न स तेनैव शोध्यते ॥ न च स्वाश्रयतयाऽभिव्यङ्ग्यप्रकाशनमभिव्यञ्जयितुः स्वभावः; प्रदोपादावदर्शनात् । यथावस्थितवस्तुप्रकाशानुकूलस्वभावत्वाच ज्ञान- तत्साधनतदनुग्राहकाणाम् । तच्च स्वतःप्रामाण्यन्यायात् , तदनभ्युपगमे च सर्वत्रानाश्वासप्रसङ्गात् । व्यक्तेस्तु जातिराकार एवेति तथा प्रत्यायनम् ; न व्यञ्जकत्वप्रयुक्तम् , उक्तादेव व्यभिचारात् । दर्पणादिस्तु नायनमहः- प्रतिफलनलक्षणदोषहेतुर्नाभिव्यञ्जको वदनादेः ; व्यञ्जकस्त्वालोकादिरेव । व्यञ्जकत्वेऽपि प्रतीपगमनदोषप्रयुक्तस्तत्रान्यथाऽवभासः । नचेह तथाऽह- मर्थस्य तादृशदोषापादकत्वं स्वभावः; तथासति सर्वस्यापि प्रत्यक्षादे- २४ सिद्धित्रये रप्रामाण्यप्रसङ्गान किंचित्तथ्यं स्यात् । तस्माज्ज्ञातृतया सिद्धयन्नहमर्थ एव प्रत्यगात्मा, न ज्ञप्तिमात्रम् । यत्तु - सुषुप्तिमुक्त्योद्भप्तिमात्रतया स्फुरणम् , अहमिति तु न प्रतिभातीति, तत्र सुषुप्तौ तथाऽवस्थितिः पुरस्तादेव निरस्ता। अहमित्येक- रूपेण आप्रबोधात्तत्राप्यात्मनस्स्फुरणात् । यदि परं परागननुभवात्तमो- गुणाभिभवाच्च न विविच्य स्फुटं चकास्ति, भवदभिमताऽनुभूतिरपि तदानीं तथैव हि प्रथत इति वाच्यम् । नाहमहं, नाप्यर्थान्तरम् , अपितु अनु- भूतिमात्रमज्ञानसाक्षितयाऽवतिष्ठत इत्येवंविधं स्वापसमयभवमनुभवं न हि मुप्तोत्थितः कश्चित्परामृशन्नुपलब्धचरः । एतावन्तं कालं न किंचिदह- मवेदिषमिति परामर्शनादेव तथात्वं लभ्यत इति चेत्, कथमिव ? न किंचिदिति निर्देशादिति चेत्, नन्वेवमनुभूतिप्रतिभासोऽपि प्रत्याख्यात- स्स्यात् । अपि च सुषुप्तिसमयसिद्धमात्मानमहमिति परामृश्य, न किंचि- दवेदिषमिति तस्य वेदने प्रतिषिध्यमाने तात्कालिकी वित्तिसिद्धिम् अह- मर्थस्य चासिद्धिमभिदंधानोऽनुभवविरोधमपि न जानाति देवानांप्रियः । निर्विषया निराश्रया च वित्तिर्नास्तीत्युक्तमेव । ननु मामप्यहं न ज्ञातवान् प्रसुप्त इत्यस्ति हि प्रबोधे प्रत्ययः । सत्यम् , स तु वर्णाश्रमादिविशिष्टतया प्रबोघसमयसंवेद्यमानं देहिनं मा- मित्यादाय स्वाप्ययावस्थाप्रसिद्धाविशदस्वानुभवैकतानाहमर्थस्य तेन रूपेणाज्ञातत्वं प्रज्ञापयति , न पुन स्वभावस्याहमर्थस्यापि । एवमिव खल्वयमनुभवः, अत्र सुप्तोऽहमीदृशश्चेत्येवं मामपि न ज्ञातवानह- मिति । अपि च, आत्मा सुषुप्तावज्ञानसाक्षित्वेनास्त इति हि यौष्माकी स्थितिः । साक्षित्वं च साक्षाज्ञातृत्वमित्युक्तम् । स चायं जानामीति प्रतिभासमानोऽस्मदर्थ एवेति कथमिव तदानीमहमर्थो न प्रथेत, स्वस्मै स्वयंप्रकाशमानोऽहमित्येव हि प्रकाशत इति । तत्सिद्धं स्वापादिदशास्वपि आत्मा प्रकाशमानोऽहमित्येव प्रकाशत इति ।
आत्मसिद्धिः २५ यत्तु मुक्तावहमों नोपावर्तत इति, तद्वार्तम् , यतस्तथा सति वैनाशिकदर्शन इवात्मनाश एवापवर्गः प्रकारान्तरेण प्रतिज्ञातस्स्यात् । नो खल्वहमिति धर्ममात्रम् , येन तदपगमेऽप्यविद्यानिवृत्त्यामिवात्मनः स्वरू- पेणावतिष्ठत इत्युच्यते। अहमित्येव हि तस्य स्वरूपम् । ज्ञानमपि हि तद्धर्म- त्वेन तस्यैव प्रकाशते, ज्ञानं मे जातमिति । का कथा पुनरर्थान्तरस्यात्मत्वे ? अन्यच्च, यस्सांसारिकदुःखर्दुःखित्वेनात्मानं तत्त्वतो भ्रान्त्या वा प्रत्येति दुःख्यहमिति, सः, सर्वमिदमनिष्टजातं कथमहमपुनरुदयमपनु- द्याव्याकुलः स्वस्थो भूयासमिति संजातमुमुक्षस्तत्साधने प्रवर्तते। स यदि सावनानुष्ठानादहमेव न भविष्यामीत्यवगच्छति, अपगच्छेदसौ मोक्षकथा- प्रसङ्गादपि । ततश्चासंभवदधिकारितया सर्व एव वेदान्तविधयस्सर्वाणि च नोक्षशास्त्राणि प्रामाण्यादेव प्रच्यवेरन् । अहमुपलक्षितः प्रकाशोऽपवगै अवस्थास्यत इति चेत् किमतः ? न हि मयि नष्टेऽपि कोऽपि प्रकाशः स्थास्यतीति कश्चित्प्रेक्षावान् प्रयस्यति । एतेन तदपि परास्तम् , अस्मत्प्रत्यये योऽनिदमंशश्चिदेकरसः प्रकाशः, स आत्मा, तस्मिंस्तबलनि सिततया लक्षणतो युष्मदर्थ एवाह जानामीति सिध्द्यन्नर्थ इति । प्रत्यक्षविरोधात् । अहं जानामीति सिध्यश्चे- तनो युष्मदर्थ इति माता वन्ध्येतिवद्याहतार्थ वचः । नचासावन्याधीनाव- भासः, चैतन्यस्वभावतया स्वयंज्योतिष्ठात् । प्रकाशश्च प्रकाशत्वादेव कस्य- चिद्भवेत् दीपादिप्रकाशवदिति नात्मा भवितुमर्हति । अतो ज्ञातृतयाऽह- मिति सिध्द्यन्नर्थ एवात्मा । सच मुक्तावप्यात्मनेऽहमित्येव प्रकाशते, स्वस्मै प्रकाशमानत्वात् । यो यः स्वस्मै प्रकाशते, स सर्वोऽहमित्येव प्रकाशमानो दृष्टः; यथातथा- ऽवभासमानत्वेनोभयवादिसंमतस्संसार्यात्मा । यः पुनरहमिति न चकास्ति, नासौ स्वस्मै प्रकाशते; यथा घटादिः । स्वस्मै प्रकाशते चायं मुक्तात्मा । तस्मात्सः अहमित्येव प्रकाशते । नचैवं प्रकाशमानत्वे मुक्तस्याज्ञानित्व- २६ सिद्धित्रये संसारित्वादिप्रसङ्ग आपादनीयः, मुक्तत्वविरोधात् ; अतदुपाधित्वाच्च तत्प्र- त्ययस्य । नयज्ञानोपाधिरहंप्रत्ययः, ब्रह्मात्मापरोक्षज्ञानक्षपितनिरवशेषा- विद्यानामपि वामदेवादीनामतत्प्रत्ययदर्शनात् । श्रूयते हि, *तद्वैतत्पश्यन् ऋषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सूर्यश्च, *अहमेव च वामि भविष्यामीत्यादि। तथा कथंचिदप्यविद्यादिक्केशैलेशतोऽपि जातुचि- दपरामृष्टस्य परमपुरुषस्याप्यहमित्यात्मपरामर्शः प्रज्ञायते, *हन्ताहमिमा- स्त्रिस्रो देवताः, *बहु स्यां प्रजायेय, *स ईक्षत लोकान्नु सृजा इति* तथा *यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ *तेषामहं समुद्धर्ता, *अहं बीजप्रदः पिता, *वेदाहं समतीतानि* इत्येवमादिभिः । एवंच साक्षादहमर्थादात्मनो विलक्षणेऽपि देहे येन आव्य- क्तिकपरिणामभेदेनाहमिति भ्रमः, तदभिप्रायोऽहंकारस्य क्षेत्रान्तर्भावोप- देशो भगवतः, *महाभूतान्यहङ्कारः* इति । बहुमन्तव्यजनावधीरणहेतु- श्वासौ गर्वापरपर्यायस्तत्रतत्र शास्त्रेषु प्रायशो हेयतयोपदिश्यते । तस्मादहमिति मतिर्बाधकापेता साक्षादात्मगोचरैव ; अनात्मनि तु शरीरे भवन्ती अविद्येति युक्तम् । उक्तंच-*श्रूयतां चाप्यविद्यायाः स्वरूपं कुलनन्दन । अनात्मन्यामबुद्धिर्या* इति महर्षिणा वासिष्ठनन्द- नेन । न च ज्ञप्तिमात्रप्रतिभासः कस्यचिच्छरीरेऽस्ति, येन तन्मात्रात्म- वादिनोऽप्यनात्मबुद्धिरुपपद्येत ॥ अतः प्रत्यक्षसिद्धत्वादुक्तन्यायागमान्वयात् । अविद्यायोगतश्चात्मा ज्ञाताऽहमिति भासते ॥ यदुक्तमजडत्वाद्वित्तिरेवात्मेति, तत्रेदं वाच्यं किमिदमजडत्वं नामेति । यद्युच्येत-सदपि यन्न प्रकाशते तज्जडम् ; तद्विपरीतमव्यभि- चरितप्रकाशसत्ताकमजडमिति ; तथासति सुखादिभिर्व्यभिचारी हेतुः । न खलु सुखदुःखेच्छादयो विद्यमाना अपि कदाचिदनवभासमाना भवन्ति ।
आत्मसिद्धिः २७ स्वसत्ताप्रयुक्तप्रकाशत्वमपि दीपादिमिरनैकान्तिकम् ; ज्ञानव्यतिरिक्त- प्रकाशानङ्गीकाराच्चासिद्धता, विरुद्धता च । यदि मतम्-अव्यभिचरित- प्रकाशोऽपि सुखादिरन्यस्मै प्रकाशत इति घट इव जडतां नातिवर्तते, तेनानात्मेति; ज्ञानं वा किं स्वस्मै प्रकाशते ? अन्यस्यैव हि तदपि जान- तोऽहमर्थस्य प्रथते अहं जानामीति, अहं सुखीतिवत् । तेन स्वस्मै प्रकाशमानत्वमभिप्रेत्य प्रयुज्यमानोऽजडत्वहेतुरसिद्धस्संविदि । अतस्सत्त- यैव स्वमात्मानं प्रति सिद्धयन्नजडोऽहमर्थ एवात्मा । तत्संबन्धायत्ता तु ज्ञानस्यापि प्रकाशता। अत एव हि स्वाश्रयचेतनं प्रति प्रकटता, इतरं प्रत्यप्रकटता च ज्ञानस्य, सुखदुःखादेरिख । नचैवमात्मान्तरसंबन्धमर्था- न्तरं वाऽपेक्ष्यायमात्नाऽऽत्मने प्रकाशते । एतच्चानन्तरमेवोपपादयिष्यते । न च ज्ञानेन सहोपलम्भनियमोऽहमर्थस्यार्थान्तरतां वारयति, ज्ञान- स्यापि तथात्वप्रसङ्गात् । तदपि हि तेन नियतेन सहोपलम्भमित्यहमर्था- दनन्तरं मिथ्यारूपमेवापद्येत । असिद्धश्च संविद्विशेषैस्सहोपलम्भनियमः, प्रत्येक व्यभिचारदर्शनात्। न च विशेषमात्रं निर्धूतनिखिलविषय- विशेषोपश्लेषं वा वित्तिमात्रमस्ति, येन सहोपलम्भनियमस्संवेदितुरभिधीयेत । सामान्य तु सदपि सौगतैन वस्तुतयाऽऽस्थीयते । समस्तवृत्तिप्रत्यस्तमये- ऽपि स्वयंज्योतिरयमात्माऽवतिष्ठत इति च वक्ष्यामः । स्ववाग्विघातश्च- एकं द्वाविति निर्देशात् । द्वयोबैकक्रियानुप्रवेशे सहशब्दः ; शिष्येण सह गच्छत्याचार्य इति यथा। अपिच नीलतद्धियोरिति द्वे उपादाय, अभेद इत्येकत्वविधिः सवित्रीवन्ध्यात्वविधिरिव । अनेकान्तश्च संविदि प्रतिषिध्यमानैर्जडत्वादिभिः, सर्वज्ञज्ञानेन सहोपलम्भनियमभागिभिस्संसारि- ज्ञानैश्च । तेषामभेदाभ्युपगमे ज्ञानस्य जडत्वमूर्तत्वादि, बुद्धस्य बद्धत्व- मित्यापद्येत । नियमेनकज्ञानसिद्धत्वमप्युक्तप्रकारेण प्रत्युक्तम् । विपक्षव्यतिरेकश्चासिद्धः। भवतु नियमेनैकज्ञानसिद्धत्वं ज्ञान- ज्ञेयज्ञातृणाम्, मा च भूदभेदः; को विरोधः?.
२८ सिद्धित्रये किमप्रकाशरूपत्वात्प्रकाशमनुरुध्यते । व्यवहाराय नीलादिराहोस्वित्तदभेदतः ॥ इति सन्दिह्यमानत्वान्नाभेदश्शक्यनिर्णयः । बोध्यस्थश्चैष नियमो न पुनर्बुद्धिवोद्धृगः ॥ स्पष्टश्च प्रत्यक्षबाधः, सर्वज्ञानेषु वेद्यादिव वित्तरपि वेदितुर्भेद- स्यापरोक्षत्वात् । न च प्रतियोगिनः प्रत्यक्षत्वं दृश्यत्वं वा भेदस्यापरोक्ष्ये त्वपेक्षितव्यम्, सिद्धिमात्रेण तदुपपत्तावप्रयोजकत्वेन तद्विशेषस्यानाक्षेपात् । अनवभासमानेऽपि प्रतियोगिनि भावाः स्वरूपत एव विलक्षणाः प्रत्यक्ष्यन्त इति सर्वलोकन्वताक्षिकनेतत् । ननु जोवतो भेदप्रत्यक्षस्य शिरसि पदनिधानेन सहोपलम्भनियम- स्याभेदेन प्रतिबन्धग्रहणमिति कथमिव ततस्तद्वाधसंभवः? तथासति हि ज्वालाभेदानुनानमपि तदेकत्वप्रत्यभिज्ञयाऽपोद्येत । अविशेषज्ञो देवानां- प्रियः । तत्र हि क्लप्तकारणदोषानुवृत्तौ सत्यां जाबनानोऽपरोक्षावभासः न निरवद्यप्रत्यक्षपूर्वकमनुमानं बाधितुमर्हति । तथा हि-अचिरनिर्वापिता- रोपितेप्वेकवर्तिभागवर्तिषु बहुषु दीपेषु तद्भेदादर्शिनः सुसदृशतया स एवायमिति स्मृतिरुपजायत इति दृष्टम् । अतोऽन्यत्राप्यतिबन्धपुष्कल- कारणक्रमोपनिपातादवयवविश्लेषाच्च सुसदृशनिरन्तरप्रवृत्तप्रदीपप्रवाहा- लम्बनैव तथामतिरिति निश्चीयते । तथैकनानात्वप्रत्ययः स्वतःप्राप्तेन्द्रिय- वृत्तिविपर्ययप्रयुक्तः समसमयोपजायमानानेकानवद्यप्रत्यक्षप्रतिक्षिप्तविषयश्च द्विचन्द्रादौ दृष्ट इति नासौ तत्रैकत्वानुमानमभिभक्तुिं प्रभवति । नचैवमिह ज्ञातृज्ञानज्ञेयविवेकसाक्षात्कारी प्रत्यय इति प्रतिरुणद्धयेवायमिहाभेदानु- मानोदयप्रसक्तिम् । नचोपलब्धिसाहित्यनियमादेव तथात्वमंत्रानुमेयमिति युक्तम् , विपक्षे बाधकानुपलब्धः। संविदधीनसिद्धितयाऽपि तथा निय- मोपपत्तेः । अनैन्द्रियकत्वेन च तद्वत्तिविपर्ययस्याकिंचित्करत्वात् । योग्या- नुपलम्भपराकृतत्वाच्च बाधकप्रत्ययस्य । अपिच विषयसिद्धिर्हि संवित् ।
आत्मसिद्धिः २९ सा च स्वयंप्रकाशेत्यविवादः । तेनावर्जनीयस्तथा नियमः । न च भेदो- ऽपि सिद्धिमन्तरेण सिध्येदित्यनुन्मत्तेन युक्तमापादयितुमित्यलमनेनानु- भवपराहतमतातिव्याकुलीकरणेन । अप्रकाशात्मनश्च नीलादेः प्रकाश इति अनुभवसिद्धत्वान्न सम- र्थनान्तरं प्रार्थयते । आत्मा तु प्रकाशस्वभाव एव । न च तावता ज्ञान- त्वम्, स्वतन्त्रत्वात् । परतन्त्रमागन्तुयावदथेन्द्रियसन्निकर्षादिकारणसन्नि- धानमवतिष्ठमानमर्थावच्छिन्नरूपं ज्ञानमिति प्रागेवावोचाम । आत्मा तु स्वतन्त्रो ज्ञाता अहमिति प्रत्यात्म प्रथते । यदि पुनरीदृशोऽप्ययमनन्या- धीनसिद्धितया ज्ञानमभिलप्यते, अभिलप्यतां कामम् । तथाऽपि ज्ञानवदे- वेदं ज्ञानम्, न ज्ञप्तिमात्रतया । अत एव हि च्छन्दोगाः, *अथ यो वेदेदं जिघ्राणीति स आ- मा* इत्याद्यामनन्ति । तथा, *कतम आत्मेति प्रश्नपूर्वकमिदमेव लक्षण- मामनन्ति वाजसनेयिनः, *योऽयं विज्ञानमयः प्राणेषु हृद्यन्तोतिः पुरुषः* इति । अत्र हि, योऽयं सर्वलोकानुभवसिद्धो विविधविषयवेदन- प्रचुरः प्राणेषु प्रेरकतया स्थितो हृदयायतने अन्तर्कोतिरहमिति प्रत्य- क्त्वेन प्रकाशते, स पुरुष इति यथोदितमेवात्मस्वरूपमुपदिश्यते । *एष हि द्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः* इत्याथर्वणाः । तथा, *विज्ञातारमरे केन विजानीयात् इति *न पश्यो मृत्यु पश्यति न रोग नोत दुःखताम्* स उत्तमः पुरुषः........नोपजनं स्मरन्निदं शरीरम्, *एवमेवास्य परिद्रष्टुरिमाप्योडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति,* तस्माद्वा एतस्मान्मनोमयादन्योऽन्तर आत्मा विज्ञानमयः* इत्याद्याः। *सत्यं ज्ञानमित्यत्रापि ब्रह्मलक्षणनिर्देशे ज्ञानशब्दो न ज्ञान- मात्रवचनः, अपितु तद्वद्वचनः । तद्वचनत्वे *लिति* इति आधुदात्त- ३० सिद्धित्रये त्वप्रसक्तेः। अन्तोदात्तश्चायं ज्ञानशब्दः । मत्वर्थीयाचप्रत्ययान्तत्वे तथात्वं घटते, नान्यथेत्येतत् परमात्मनिरूपणे अतिनिपुणमुपपादयिष्यामः । ऐतरेयोपनिषदपि *प्रज्ञानं ब्रह्मेत्युक्त्वा, *स एतेन प्राज्ञेनात्मना* इति प्रकृष्टज्ञानवन्तमेवेश्वरं दर्शयति । तत्सिद्धं ज्ञातैवायमात्मेति । किं पुनरस्मिन् देहादिव्यतिरेकिणि चेतने प्रत्यगात्मनि प्रमाणम् ? अनुमानमिति नयविचक्षणोऽक्षपादः ; यदाह-*इच्छाद्वेषप्रयत्नसुखदुःख- ज्ञानान्यात्मनो लिङ्गमिति । किममीषामात्मना अविनाभावो दृष्टः, धूमध्वजविशेषेणेव धूम- विशेषस्य ? हन्तैवं तत एव तत्प्रमितेः किमनुमानेन? माभूद्विशेषतोदर्श- नम्, समान्यतस्तु भविष्यति । तथा हि इच्छादयः कार्यत्वानित्यत्वगुणत्वा- दिभिः शब्दादय इवाश्रिततयाऽनुमीयन्ते । यश्चैषामाश्रयः स आत्मा । गुणत्वं च परिशेषात्-न सामान्यविशेषसमवायाभावाः, अनित्यत्वात् ; न द्रव्यं कर्म वा, व्यापकद्रव्यसमवायादिति । विशेषगुणत्वं चानित्यत्वे सत्यस्मदायेकेन्द्रियग्राह्यत्वनियमात् , रूपादिवत् । एवमाश्रयमात्रमुपस्थापयन्तोऽन्वयव्यतिरेकिणो हेतवः द्रव्यान्तर- गुणत्वं च प्रत्याचक्षाणैः केवलव्यतिरेकिसाधनैरात्मगोचरतया नियम्यन्ते । तथा हि भवति-इच्छादयो न महाभूतगुणाः स्वात्मन एव प्रत्यक्षत्वात् । अबाह्यन्द्रियग्राह्यत्वाद्वा । ये भूतगुणास्ते स्वात्मपरात्मप्रत्यक्षाः बाह्यकरण- प्रत्यक्षाश्च ; यथा रूपादयः । न तथेच्छादय इति न तद्गुणाः । दिक्काल- मनांसि पुनः न विशेषगुणवन्ति; नापि तद्गुणानां प्रत्यक्षत्वमिति न तेषामपि गुणाः । अकारणगुणपूर्वत्वात् अयावच्छरीरभावित्वादित्यादयः शरीरविशेषगुणत्वप्रतिषेधहेतवः प्राचीनाश्चात्रानुक्रष्टव्याः । तेनेच्छादयो न शरीरगुणास्तद्गुणभावापवादकप्रमाणवत्त्वे सति गुणत्वात् । ये यथोक्त- साध्या न भवन्ति, ते यथोक्तसाधना अपि न भवन्ति, यथा रूपादयः ।
आत्मसिद्धिः ३१ यथोक्तसाधनाः पुनरिच्छादय इति यथोक्तसाध्या एवेति । विमतिपदास्प- देभ्यश्शरीरादिभ्योऽर्थान्तरगुणा इच्छादय इति वा प्रतिज्ञा । यथोक्त एव हेतुः, उदाहरणं च प्रयोक्तव्यम् । सामान्येन वाऽन्वयः प्रदर्शनीयः--यो यद्गुणभावापवादकप्रमाणवत्त्वे सति गुणः, स ततोऽर्थान्तरस्य गुणः, यथा पृथिव्यादिभ्यः शब्द इति आकाशसिद्धिवदात्मसिद्धिरिति । इदमपि न समीचीनमित्येके । तथाहि-अन्वयव्यतिरेकिहेतुमि- देहादिसाधारणमाश्रयमात्रमवगमितम् । न च तावताऽऽत्मसिद्धिः। केवल- व्यतिरेको तु साधनदशामेव नासादयति, सपक्षान्वयविरहात्, असाधा- रणवत् । नचैवं केवलान्वयिनो विपक्षव्यतिरेकदर्शनविकलतया साधारण- वदसाधनत्वम्, देशकालादिशङ्कितोपाधिविगमेऽप्यन्वयदर्शनेन साध्यान्वि- तस्वभावतया परिनिश्चितत्वात् । न च साधनाभावे साध्याभावदर्शनमात्रेण साध्यान्वितस्वभावत्वं शक्यं निश्चेतुम् । अमावस्यानन्तदेशव्यापितयाऽनव- यवेन ग्रहणस्यैव दुष्करत्वात् । कल्याऽप्यन्यत्र वृत्तौ संबन्धे नियमासंभ- वात् । सन्देहप्रस्तत्वाच्च-किं साधनाभावप्रयुक्तस्साध्याभावः, किं वा निमित्तान्तरप्रयुक्त इति । पृथिव्यादिभ्योऽर्थान्तरगुणत्वप्रतिज्ञाऽपि द्रव्या- न्तराप्रसिद्धरप्रसिद्धविशेषणा। एतेन साङ्खयोदीरितसाधनभेदा अप्यपोदिता वेदितव्यास्संघातपरार्थ- त्वादयः । तथाच तानेव तावदादितो व्याकुर्महे- *संघातपरार्थत्वात् त्रिगुणादिविपर्ययादधिष्ठानात् । पुरुषोऽस्ति भोक्तभावात्कैवल्यार्थ प्रवृत्तेश्च ॥ * अयमर्थः-देहेन्द्रियादयः परार्थाः संघातत्वाच्छयनासनशरणा- दिवत् । प्रत्यक्षं च शरीरस्य संघातत्वम् , भूतानां च । अव्यक्तमहदहं- कारेन्द्रियाणां च सुखदुःखमोहात्मतया तथात्वमनुमेयं तद्वदेव । नचेन्द्रि- णामाहङ्कारिकत्वस्याभ्युपेतस्य, साध्यत्वाभिमतपारार्थ्यधर्मस्य चासंहतपरार्थ- ३२ सिद्धित्रये . वस्यान्यथात्वापादनादुभयविशेषविरुद्धत्वं हेतोः; अहकारान्वयव्यतिरेका- नुविधानेन, *देवा वैकारिकास्मृताः* इत्याद्यागमबलेन, प्रकाशलाघव- गुणान्वयेन च वैकारिकाभिधानसात्त्विकाहङ्कारभेदयोनित्वस्येन्द्रियाणां प्रमाणसिद्धस्यापवादानुपपत्तेः । आत्मनस्तु संघातत्वे तस्यापि संघातान्त- रार्थतयाऽनवस्थापत्त्या निष्प्रमाणकानेककल्पनाप्रसङ्गात् , अप्रयोजकत्वाच संघातत्वस्य शेषित्वे, दृष्टान्तदृष्टाशेषधोपस्थापनेऽनुमानप्रामाण्यस्यैवासं- भवापत्तेस्तदसंघातत्वस्य चाप्रचाल्यत्वात् । नच प्रमाणान्तरबलेनाहं- कारिकत्वसंघातान्तरार्थत्वयोर्बाधेऽबाधितेन संघातपरार्थत्वेनापि न भवित- व्यम् । एवंच संहतत्वव्यापकावरुद्धत्रैगुण्यादिरहितोऽसंहत आत्मा सिद्धः । तथा देहादयस्सुखदुःखमोहात्मकतया परेणाधिष्ठीयन्ते, यन्त्रा- दिभिखि स्थादयः । अपिचानुकूलपतिकूलवेदनीये सुखदुःखे भृत्यम्रा- तृव्यवदनुकूलनीयप्रतिकूलनीयवती । दृश्यत्वादेहादयो घटादय इव विल- क्षणद्रष्टका इति । अधिष्ठातुरनुकूलपतिकूलवेदकस्य द्रष्टुरैगुण्यादिविपर्ययः पूर्ववदेव निर्णतव्यः । तथा देहादेव्यक्तान्तस्य कृत्वस्य त्रिगुणात्मकत- याऽत्यन्तदुःखोपशमनलक्षणमोक्षदशानुपपत्तेस्तदर्थच शास्त्राणां महाधियांच प्रवृत्तरस्ति देहादिन्यतिरिक्तोऽसंहतस्वैगुण्याद्यसंस्पृष्टः पुरुष इति । अत्रापि संघातपारार्थ्यादिभिर्यद्यपि परः कोऽप्यधिष्ठाता द्रष्टा सिद्धः, तथाऽपि न तस्यासंहतत्वात्रिगुणत्वादिरभिमतविशेषश्शक्यनिश्चयः। तथाहि- संघातस्य संघातान्तरार्थत्वनियमदर्शनबलादापतन्ती परापरा संघातकल्पना न दोषाय, कार्यतयेवानादिकारणपरम्परापरिकल्पना । नचाप्रयोजकत्वमपि, असंघातस्यासङ्गस्याशेषविक्रियाशून्यस्यानाधेयातिशयकूटस्थचितिमात्रवपुषः पुरुषस्य संघातं प्रति परत्वानुपपत्तेः । तद्धि तस्य शेषि भवति, तच्च तद- थम् ; यद्येनोपक्रियते क्रियते वा, यच्चोपकरोति करोति वा । न च तथा सांख्यपुरुष इति कथं तस्य संघातं प्रति परत्वम् ? कथंतरांच संघातस्य तादर्थ्यम् ? अनुपकार्योऽप्युपकार्यतयाऽऽत्मानं मन्यत इति चेत्-काम G आत्मसिद्धिः ३३ मन्यताम् ; किमायातमुपकार्यत्वस्य ? न खलु बालास्तलमलिनतादिमत्तया गगनमभिमन्यन्त इति तस्य तथात्वं भवति । अपिच तथाविधनमोऽपि कस्य कथमुदयत इति विवेचनीयम् । न तावञ्चितिशक्तेः, सर्वविक्रियाशून्यतयाऽतिविशुद्धायामशुभशतनिदानभूत- भ्रमपरिणामासंभवात् । अन्तःकरणं तु बुद्धयपरपरिभाषाभिधानमचेतनतया तनुरिव न भ्राम्यति। अचिदपि स्वच्छतया चितिच्छायामापन्नं चेतनायत इति चेत् ; न, नीरूपायाश्चितेर्बुद्धेश्च छायातद्हणानुपपत्तेः । छायेव छायेति चेत् ; कः खल्विवार्थः ? चितिसरूपत्वमिति चेत् ; हन्तैवमशेष- विकाररहितचितिसरूपतापत्तावन्तःकरणमपि प्रत्यस्तमितसमस्तवृत्तिकमाप- छत इति दुरुपपादतरोऽयं भ्रमसुखदुःखादिविकारयोगः प्रत्यात्मसिद्धः । चेतनत्वेन सरूपत्वमिति चेन्न ; चितिरेव हि ते पुरुषः, न चेतयिता । यथाऽऽह तत्रभवान् पतञ्जलि:-*यदा चितिरेव पुरुषः किमत्र केन व्यप- दिश्यत इति । अजडायमानत्वमिवार्थ इति चेत् ; अजडत्वमपि न ज्ञातृ- त्वातिरिक्तं किंचिदित्युक्तमेव । तेनैव तद्विवरणमिति च न किंचिदेतत् । अपिच चितिसंनिधानाधीनां बुद्धिसिद्धिमभिदधानः कथमिव तदजडिमानं प्रतिजानीयात् ? न च चितिस्वान्तयोर्बिम्बप्रतिबिम्बाधाराभिमतयोरन्यतर- स्मिन्नप्यविद्यमानस्य विषयविशेषोपरक्तज्ञातृत्वलक्षणधर्मभेदस्य प्रतिबिम्बे संभवः । प्रत्युक्तश्चायं प्रतिबिम्बवादः प्रच्छन्नबाह्यमतप्रत्यादेशे । यदुच्यते-निर्विकारायापि पुंसे तत्संनिधिमहिमसमुत्थापितप्रमाण- विपर्ययादिविचित्रवृत्तिभेदं स्वान्तमेव स्ववृत्तिं विषयविशेषांश्चोपदर्शयति, सामन्तचक्रमिव पराक्रमीयः प्रतिबलविलोलनादिवृत्तीस्वामिने। ततस्साक्षी भोक्ता चापदिश्यते, राजेति विक्रमी विजयी चेति ; तदनुपपन्नम् । द्रष्टे हि दर्शनीयं दृश्यते । न च दृशिमात्रात्मवादिनां सांख्यानां तदुपजीविनां च प्रच्छन्नानां द्रष्टुत्वं वास्तवमस्ति । न च काल्पनिकेन शेषित्वसंभवः । कल्पनाऽपि न संभवतीत्युक्तमेव । राजा तु सामान्यतो विशेषतो वा तेषु 3 ३४ सिद्धित्रये कर्मस्वमात्यान्नियुञ्जानस्तत्फलमैश्वर्यादि चाश्नुवानः स्वस्वामिभावहेतुक्रय- प्रतिग्रहजननादिव्यापारयोगी न निष्क्रियस्यानाधेयातिशयस्य पुंसो निदर्शन- मिति यत्किंचिदेतत् । स्थूलोऽहं, गच्छाम्यहमित्यादिप्रत्यक्षमृदितविषयतया प्रसिद्धैवातीतकालता व्यतिरेकानुमानभेदानामित्यानुमानिकीमप्यात्मसिद्धि- मश्रद्दधानाः श्रौतीमेव तां श्रोत्रियास्संगिरन्ते । श्रुतयो हि साक्षादेवात्मनश्शरीरादिव्यतिरेकमादर्शयन्ति-*स एष नेति नेति, * अकायमव्रणमस्त्राविरं शुद्धमपापविद्धम्, * योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्ये, * न जायते म्रियते वा कदा- चित् , * जीवापेतं वाव किलेदं म्रियते, * न ह वै सशरीरस्य सतः प्रिया- प्रिययोरपहतिरस्ति । अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः * इत्याद्याः। कालान्तरमाविस्वर्गादिसाधनविधयश्चाक्षिपन्ति देहादिव्यतिरिक्तं नित्यं चेत- नमिति श्रुतितदनुपपत्तिप्रमाणकोऽयं प्रत्यगात्मेति । ननु हिताहितप्राप्तिपरिहारमात्रपरस्याम्नायस्य शिरसि किमिति महा- नयं भारः प्रक्षिप्यते ? अनुमानागमाद्यशेषप्रमाणमूलभूतेन प्रत्यक्षेणैव ह्येनं प्रतिपद्यामहे । ममेदं शरीरम् , इदमहं जानामीति घटादिदृश्येभ्य इवाय द्रष्टा देहादपि पृथग्भूतः प्रत्यक्षं परिस्फुरति । मैवं वोचः । इन्द्रियार्थसन्नि- कर्षजं हि विज्ञानं प्रत्यक्षम् । नचेन्द्रियाणि रूपादिव्यतिरेकिणि निरति- शयसूक्ष्मे प्रतीचि, परागर्थ इव सन्निकर्षेण ज्ञानं जनयितुमर्हन्ति । यथा आम्नायते * पराञ्चि खानि व्यतृणत्स्वयंभूः * इति । अचित्त्वप्रतिबद्धश्च सर्वोऽपीन्द्रियगोचरः। तेन नैन्द्रियकं ज्ञानमात्मानं स्पष्टुमर्हति ॥ स्यान्मतम् भौतिकवादहिरिन्द्रियाणि मा नामात्मनि प्रवर्तिषत । मनस्तु प्रवर्तिष्यते अभौतिकत्वादिति ; तन्न, तस्यापीन्द्रियत्वे भौतिकत्व- स्यापरिहार्यत्वात् । यथाऽऽनायते, *अन्नमयं हि सोम्य मनः* इति । प्रपञ्चितं चैतन्निरूपणे।
आत्मसिद्धिः ३५ अथोच्येत–अस्ति तावदहमित्यपरोक्षावभासः प्रत्ययः । नचैन्द्रि- यकत्वमन्तरेणासौ संभवति । क्लप्तं च बहिरिन्द्रियागोचरेऽपि सुखादौ स्वान्तस्वातन्त्र्यमिति तन्निमित्त एवायमहंप्रत्ययो युक्तः । प्रयोगश्च भव- ति-आत्मा मानसप्रत्यक्षग्राह्यः बहिरिन्द्रियायोग्यत्वे सति प्रत्यक्षत्वात् सुखादिवदिति । तन्न, संवेदनेन व्यभिचारात् । न च तदप्रत्यक्षम् । जानामी- त्यनन्योपाधिकतया प्रतिभानात् । अप्रत्यक्षत्वे च संवेदनस्यासिद्धिरेव स्या- दित्युक्तमेव ।न च तदपि मानसप्रत्यक्षतया सपक्षे निक्षेपमर्हति, विमर्दासह- त्वात् । यदा खलु कुतश्चिदात्ममनस्संयोगाद्विषयसंवित् उदयमासादयति, तदैव किं तत एव तद्गोचरमपि वेदनं जन्यते, उतान्यदाऽन्येनेति वाच्यम् । न च युगपदुभयजननं संभाव्यते । तथा हि सति परापरतत्तद्गोचरनिरवधिक- धोनिकुरुम्बजन्म तत्कालमेवापद्येत । न च तदस्ति । युगपदुत्पत्तौ विषय- विषयित्वनियमश्च निर्निबन्धनः । असमसमयजन्मना ज्ञानेन वेद्यत्वे न प्रत्यक्षत्वम् , क्षणिकत्वेनाग्रिमज्ञानस्य आग्राहकज्ञानोदयमवस्थानाभावात् । भावे च सर्वज्ञानानां सर्वदाऽवस्थानप्रसंगात् । कार्यविरोधित्वे चानन्तरमेव संस्कारोदयान्न कालान्तरे स्थितिरिति संविदो न मानसप्रत्यक्षवेद्यत्वम् । न चाप्रत्यक्षा संविदिति स्फुटो व्यभिचारः। ऐन्द्रियकत्वस्यानात्मत्वप्रतिबद्धत्वाद्विरुद्धता च । साध्यविकलश्च दृष्टान्तः, सुखदुःखयोः प्रत्यक्षत्वानभ्युपगमात् । अनभ्युपगमश्चेन्द्रिय- पौष्कल्यनाशयोरेव सुखदुःखत्वात् । न हि तस्मिन्नप्रत्यक्षे तत्पौष्कल्यं वैकल्यं वा प्रत्यक्षं भवति । इन्द्रियस्वरूप इवाभ्यासपाटवात्तयोरपरोक्ष- त्वाभिमानः, मनोवस्थामेदेष्विव चानुमेयमनोवादिनाम् । यस्तु सुगतमतावलम्बी विज्ञानाभिन्नहेतुजतया तयोरपि तदन्त- र्भावमभिमन्यते; कणभक्षपक्षाश्रयणेन वा तयोरात्मविशेषगुणत्वम्; ताभ्यां सुखदुःखाधिकरणं व्याचक्षीत ; स्वतस्सुखीत्येतद्विमर्श वाऽत्रत्यम् । राग- सिद्धित्रये द्वेषादयस्तु चैतन्यस्यैवावस्थाविशेषास्तद्वदेव प्रत्यक्षीभवन्तीति न तन्निदर्श- नेनानुमानोदयः । सुखप्रयुक्तविषयीकारचैतन्यं रागः; तद्विरोधप्रयुक्तविष- यीकारं तदेव द्वेषः, भूतदुःखज्ञानेन तच्चलनं शोकः, आगामितज्ज्ञानेन चेतश्चलनं भयमित्यादि लक्षणग्रन्थादेवावगन्तव्यमित्यलं प्रविन्तरेण । एकस्य चात्मनो निरंशस्य न स्वापेक्षया ग्राह्यग्राहकभावः, विरो- धादित्यप्युक्तमेव । अंशभेदाश्रयणे तत्सिद्धये चांशान्तरमाश्रयितव्यम्, तथा तत्रतत्रेत्यनवस्था; संघातत्वं चात्मनः । ननु च ग्राहकावभासश्रुत्या स्वसिद्धान्तश्रद्धाविपलब्धबुद्धिभि- रभिहितः, इन्द्रियादिप्रत्यासन्नतत्तत्पदार्थमात्रस्फुरणात् । तादृशोऽपि कचि- दस्तु नाम प्रत्ययः। स त्वागन्तुकात्मप्रतियोगिकप्राकट्यप्रकाशादिपदाभि- घेयार्थधर्मानुमितज्ञानविशिष्टमानसप्रत्यक्षसिद्धात्मनिवन्धनः । उच्यते । अहो खलु स्वानुभव एव विभ्रमः परीक्षकाणाम्, यत् विषयानुभवसमये पूर्वावस्थातो न कंचिद्विशेषमयमात्मनोऽवबुध्यत इति । उक्तं ह्येतत्-ईदृश एवायमों ज्ञायते नवेति न विद्मः, मम वा प्रतिभासते परस्य वेत्यपि न विद्मः इति न जातुचिदेवं प्रतीतिरस्ति; ज्ञानज्ञात्रोरनव- भासे तादृश्यपि प्रतीतिरापयेत-इति । सोऽयं परसंचेतितात्स्वसंचेतितस्या- तिशयस्सर्वत्र परिस्फुरन्नसति ग्राहकावभासे नोपपद्येत । अनुमितज्ञाना- लम्बनत्वे च अज्ञासिषमित्येव प्रतिभासस्स्यात् , न जानामीति ; ज्ञान- जन्यार्थातिशयदर्शनतद्व्याप्त्यनुसन्धानानुमानोदयसमयेऽनुमित्सितज्ञानस्या - तिवृत्तत्वात् । ज्ञानानुमानासंभवः पूर्वमेवोक्तः। मानसप्रत्यक्षत्वं चात्मग्राह्य- धीनिरस्तम् । तथासति हि स्वपरवेद्ययोरनतिशयस्स्यात् ॥ ननु कथमिव ग्राहकानवभासे स्वपरवेद्ययोरनतिशयप्रसङ्गः न हि ग्राहकसिद्धिनिबन्धनः स्वपरवेद्यविशेषः; स्वसमवेतविषयबोधजन्मना पर- समवेतबोधजन्मना च तद्विशेषोपपत्तेः। स्वपरसंबन्धिबोधविशेषोदयव्य- आत्मसिद्धिः ३७ वस्थाऽपि स्वीयपरकीयेन्द्रियार्थसन्निकर्षादिज्ञानहेतुसामग्रीभेदनिबन्धना। नचात्मसिद्धिरपि तत्सानग्र्यनुप्रवेशमर्हति, इन्द्रियादेरिवानवमासमानस्यैव हेतुत्वसंभवात् । न च विषयबोध एवात्मबोध इति सांप्रतम् । नार्थान्त- रसिद्धिरर्थान्तरस्य सिद्धिर्भवति, अतिप्रसङ्गात् । अपिच यदधीना भावानां रूपभेदव्यवस्था, तदपि हि संवेदनं तदानीं निलीनरूपमेवेन्द्रियादिवत् । कुतस्तु पुनस्तदाश्रयस्यात्मनः प्रतिभासप्रसक्तिः?! यदाहुः इदमहं जाना- मीति त्रितयावभासस्सार्वत्रिक:-इति, तदप्यनुभवानारूढमेवानन्तरमेव प्रतिक्षिप्तमिति । अस्तु तर्हि ग्राहकतयैव सर्वार्थग्रहणसमयेष्वात्मसिद्धिः। अभ्यु- पगन्तव्या हि संविदस्स्वतस्सिद्धिः, सर्वप्रकारसाधनान्तरनिराकरणात्, सत्याश्च तस्याः कदाचिदनवभासादर्शनाच्च । यथा च संविदः प्रकाशा- व्यभिचारः, तथा प्रपञ्चितं प्रथमाधिकरण इति नात्रोपक्षिप्य प्रतिक्षेप्तव्यम् । सतोऽपि प्रमेयजातस्य स्वापादिसमयेऽनुपलब्धेरभ्युपगतं तावत्संविदस्त- साधकत्वम् । अतः क्लप्तार्थान्तरसाधनभावया तयैवात्मनोऽपि सिद्धिरभ्यु- पगन्तुं न्याय्या। यत्तु विषयवित्त्युपरमेऽपि स्वापसमये अयमात्मा प्रकाशत इति, तत् उपपत्तिभिरुपपद्यमानमपि यथाप्रतीति व्यवहरतां न चित्तमनुरञ्जयति । अपवृक्तस्य तु ज्ञानं हेत्वभावान्न संभवि । नित्यत्वे नित्यमुक्तिस्स्यादर्थवादास्तथोक्तयः॥ निधूतनिखिलकरणकलेबरज्ञानकर्मवासनानुबन्धस्यापवृक्तस्य नखलु स्वपरसंवेदनोदयनिबन्धनं किंचित्संभाव्यते । न च मनसो नित्येन्द्रियत्वेन तत्संयोगादेव तदा ज्ञानं जन्यत इति युक्तम्, स्वरूपतो गगनवन्नित्यस्यापि सतस्तस्य इन्द्रियभावेन ज्ञानोत्पादकत्वस्य धर्माधर्मावरोधनिबन्धनत्वात् । धर्माधर्मावरुद्धं सन्मनो ज्ञानस्य साधनम् । सति नित्येन्द्रियत्वेऽपि श्रोत्रवत् करणत्वतः ॥
३८ सिद्धित्रये न च योगजधर्मानुगृहीततत्संयोगस्य साधनत्वम्, *क्षीयन्ते चास्य कर्माणि,* तदा विद्वान् पुण्यपापे विधूय निरञ्जनः * इत्यादिशुक्लेतरस- कलकर्मप्रक्षयश्रुतिविरोधात् । धर्मफलत्वे चापवर्गस्य पुनरावृत्तिप्रसङ्गः । *नास्त्यकृतः कृतेन,* तद्यथेह कर्मचितो लोकः क्षीयते एवमेवामुत्र पुण्य- चितो लोकः क्षीयते * इत्यादिश्रवणाच्च । नचात्मसत्तयैव तदानीं तज्ज्ञान- निमित्तमिति वाच्यम् , क्लप्तत्यागाक्लप्तकल्पनप्रसक्तेः । तन्मात्रनिमि- तत्वे च सर्वदा आत्मस्वरूपवत् तदपि विद्यत इति संसारानवतारप्रसंगात्, बन्धमोक्षावस्थयोरविशेषापत्तेश्च । न च देहेन्द्रियादिप्रतिबद्धतयेदानीं तद- भाव इति वाच्यम् । तत्खलु प्रतिबन्धकम्, यत्सति पुष्कलकारणे कार्योदयं निरुणद्धि । नचाद्याप्यात्मनस्तत्पुष्कलकारणत्वं सिद्धम्, शरीरेन्द्रियवतामेव ज्ञानदर्शनात् । क्लप्तज्ञानकारणभावस्य तस्यैव तद्वन्धकत्ववचनमुन्मत्तवचः। अतो नास्त्यपवर्गदशायां ज्ञानम् । तात्कालिकज्ञानसुखादिवादास्त्वात्मज्ञान- विधिशेषतया गुणवादेन नेतव्याः। अतो विषयवित्तिसमय एवात्मसिद्धि- नियमाद्यथोक्तनीत्या अर्थवित्तिषु वेदितृतयैवात्मसिद्धिरिति । इदमप्यात्मतत्त्वापरिज्ञानोल्लसितपरिमितमतिविकल्पजल्पितमिति न रोचयन्ते त्रय्यन्तविदः। विषयवित्तिर्हि विषयवित्तिरेव । न हि तया आत्म- वित्तिः स्वरूपं वा से मर्हति, अतद्विषयत्वात् । यो हि यत्सविद्विषयो न भवति, नासौ तया सिद्धयति, रूपसंविदेव रसः । अविषयौ च विषय- वित्तेर्बुद्धिबोद्धाराविति तावपि न तया सिद्ध्यतः । ननु वेद्यस्वभावोऽयं यत् स्वविषयसंविदा सिद्धयतीति । वित्तिस्तु वित्तिरेव, वेदिता च वेदितै- वेति कुतस्तयोवेद्यस्वभावानुप्रवेशः? उक्तं हि तयोर्मानसप्रत्यक्षागोचरत्व- मनुमेयत्वासंभवश्च । कुतस्तर्हि वित्तिसिद्धिः? स्वत एव । स्वयंप्रकाशा हि संवित् । मैवम्-साऽपि हि विषयवदेवान्यस्यैव प्रकाशमानतया न स्वतस्सिद्ध्यति । स्वतस्सिद्धयन्ती च सा किमिति कंचिदेव प्रति चकास्ति, न सर्वान् आत्मसिद्धिः प्रति ? तत्समवायादिति चेत् ; यत्समवायिनी हि या संवित् तस्यैव सा चकास्ति, नेतरस्य, तदसमवायादिति-यद्येवम्, आश्रितस्तर्हि आत्म- संबन्धनिबन्धन एव संविदः प्रकाशः, तद्भावाभावानुविधानात् । यद्युच्येत- प्रकाशस्वभावाया एव सत्याः प्रतियोगिविशेषावच्छेदायैव तदपेक्षा, न स्वरूपसिद्धय इति; कुतः खल्वयं निश्चयः? यदि हि प्रतियोगिनिरपेक्षैव कदाचिदात्मस्वरूपमिव संवित्प्रकाशेत, तत एवमध्यवस्येमापि । न च तथा- ऽस्ति । आश्रयप्रतियोगिसापेक्षैव संयोगपुत्रत्वादेरिव तस्यास्स्वरूपसत्तेति न पृथक्सिद्धयुत्प्रेक्षावकाशः। सत्यास्संविदः प्रकाशव्यभिचाराभावात्स्वरूप- प्रयुक्तः प्रकाश इति चेत् , सत्याः किं तस्याः आत्मसंबन्धव्यभिचारोऽस्ति ? अपिचैवं सुखदुःखादयोऽपि त्वन्मते स्वंतसिद्धास्स्युः । न हि तेऽपि सन्तो न प्रकाशन्ते । अथार्थान्तरसाधकतया सर्ववादिसमतायास्संविद एव परं स्वयं- प्रकाशत्वमाश्रितम् ; तयैव तथाभूतया तदितरबाह्याभ्यन्तरसकलपदार्थ- सिद्धयुपपत्तेः किमनेकस्वयंप्रकाशभावाभ्युपगमेनेति भावः; तथा सति- सर्वस्यार्थस्य तद्वित्तेस्साक्षी सर्वत्र संमतः । आत्मैवास्तु स्वतस्सिद्धः किमनेकैस्तथाविधैः ।। किंच-यो यस्य साक्षी तेनैव तस्य सिद्धिर्न लौकिकी । अर्थस्येवार्थवित्तेरप्यात्मा साक्षी हि लक्ष्यते ॥ सन्तु नामार्थवित्तयस्स्वतस्सिद्धाः; तथाऽपि न तामिरयमात्मा प्रत्यक्षीभवति, तत्साक्षित्वात् । यत्साक्षी खल्वयं पुरुषः, न तेनासौ प्रत्यक्षः, घटसाक्षात्कारीव घटेन । अर्थसंविदां च साक्षात्कारी चेतन इति सोऽपि न ताभिरपरोक्षीभवति ॥ सजातीयस्वसाध्यार्थनिरपेक्षात्मसिद्धयः । सर्वे पदार्थास्तेनात्मा निरपेक्षस्वसिद्धिकः ॥
सिद्धित्रये न हि कश्चित्पदार्थः स्वप्रकाशायासाधारणसजातीयार्थान्तरापेक्षो दृष्टः । न खलु घटः स्वसिद्धये घटान्तरमपेक्षते; अपेक्षते तु विजातीय- मालोकादि । एवमालोकोऽपि प्रकाशमानो नालोकान्तरमपेक्षते; नापि स्वापेक्षप्रकाशं घटादिकमपेक्षते; अपेक्षते तु विजातीयमिन्द्रियम् । एव- मिन्द्रियमपि नेन्द्रियान्तरं स्वापेक्षप्रकाशमालोकादि घटं वाऽपेक्षते; अपे- क्षते तु विजातीयं संवेदनम् । एवं संवेदनमपि संविदन्तरं स्वाधीनसिद्धि- कमिन्द्रियादिकं वा नापेक्षते स्वसिद्धौ ; अपेक्षते तु विजातीय स्वाश्रय- भूतं स्वतन्त्रमात्मानम् । एवमात्माऽप्यात्मान्तरं, स्वाधीनसिद्धिसंविदिन्द्रि- यादिकमपि स्वापरोक्षे नापेक्षत इत्यनन्यापेक्षा ह्यात्मस्वरूपसिद्धिः । तदेवं चित्स्वभावस्य पुंसस्स्वाभाविकी चितिः । नानापदार्थसंसर्गात्तत्तद्वित्तित्वमश्नुते ॥ यथैव खलु सूर्यालोकस्तेनतेनार्थभेदेन संसर्गात्तत्तत्प्रकाशो भवति घटप्रकाशः पटप्रकाश इति, एवमात्मनः प्रकारभूतं चैतन्यमर्थविशेषसं- सर्गात् घटसंवित् पटसंविदित्यादिप्रख्योपाख्ये प्रतिपद्यते। ते च चैतन्यस्य दशाविशेषाश्चेतयितुरात्मनो धर्मविशेषत्वादेव तस्यापरोक्षा भवन्ति, कादा- चित्कबोधवादिनामिव बोधस्य विषयभेदावच्छेदादयः । ननु आत्मनश्चैतन्यमागन्तुकमिति न्यायवैशेषिकविदः, तन्मतो- पजीविनश्चाभिनवमीमांसकाः; अर्थेन्द्रियसन्निकर्षाद्यन्वयव्यतिरेकानुविधा- नात् ; गच्छामि आगच्छामि इत्यादिवत् जानामि अज्ञासिषमित्यादि- कालावच्छेदप्रतीतेः । स्वापतुरीयादिदशासु च बोधाधारत्वे सुप्तप्रबुद्धबद्ध- मुक्तादिव्यवस्थाभावप्रसंगाच्च । नित्यस्य च ज्ञानस्यात्मसमवायिनः प्रति- कर्मव्यवस्थाऽपि दुरुपपादेव । तदा हि प्रकाशनशीलतया तस्याः, एकस्यां संविदि सर्वमेव प्रकाशेत; नवा किंचित् , अविशेषात्। अन्यदा तु यदर्थ- सन्निकर्षजुषेन्द्रियलिङ्गादिना या धीर्जन्यते,तदीयैव सेति व्यवस्था युक्तिमती।
आत्मसिद्धिः ४१ स्यान्मतम्-इन्द्रियादिप्रणाडिकया चैतन्यमेव तेनतेनार्थेनानु- रज्यमानं तत्प्रकाशतया तदीयत्वेन व्यवतिष्ठते, अनुरागस्य चागन्तुकतया इन्द्रियाद्यनुविधानं कालावच्छेदस्स्वापादिव्यवस्था चोपपद्यत इति । तदसत्, अर्थान्तरसन्निकर्षेऽर्थान्तरस्यानुरागासंभवात् । चैतन्यमपि तथा निष्क्रम्य सन्निकृष्यत इति चेन्न; अमूर्तस्याकाशस्येव निष्क्रमणप्रवेशाद्यनुपपत्तेः । गुणश्च चैतन्यं गुणिनमपहाय कथमन्यतो यास्यति ? नचार्थोऽन्तः प्रविशति । स हि बहिदेशसंवद्धस्सर्वलोकप्रत्यक्षः । जात्यादिषु चानुपपत्तिस्तुल्यैव । अथोच्येत-द्वेधा खल्वयं प्रत्यगर्थोऽवतिष्ठते बहुलो विरलश्च । तत्र बहुल: प्रत्यक्चेतनक्षेत्रज्ञादिपदपर्याय आत्मा। विरलस्तु चैतन्यज्ञाना- दिपदाभिधेयः प्रत्यगर्थतन्त्रतया गुण इत्युपचर्यते तेजोवत् , यथा बहुलं तेजः प्रदीपः अमिरिति; विरलं तु प्रभा ज्योतिरिति । अतो विरलात्म- प्रदेशतया चैतन्यस्यालोकस्येव गमनं संयोगादिकमुपपद्यत इति । इद- मनुपपन्नम् , निरवयवस्यामूर्तस्यासङ्गस्यात्मनो बहुलविरलतादिधर्मानुपपत्तेः। यदि हि सावयवत्वमूर्तत्वानित्यत्वसंसर्गित्वादिकमपि धर्मजातमात्मन्यनु- मन्वीमहि, तत एवमङ्गीकुर्वीमहि । न च तदनुमन्तुमुचितम्, अचेतनत्वा- पातादित्यलमनेनार्हतमतानुकारदूषितेनात्मवादेन । अथ मतम्-आत्माऽयमनवयवेन सर्वतस्सर्वार्थावभासनसमर्थ- चैतन्यानुबन्धस्सर्वव्यापी । अथ च न सर्वमस्य परिस्फुरति, तमोगुणप्रति- बन्धात् । सत्त्वोत्कटैस्तु करणैस्स्वकस्वकपाटवानुसारेण पाटिते तु तमसि तेतेऽर्थाः प्रतिभासन्ते । अतोऽन्तरेणापि ज्ञानार्थयोनिष्क्रमणप्रवेशौ उप- पद्यत एवार्थविशेषोपरागस्संविद इति । एवमप्यातिशयमानहेतुत्वादिन्द्रिय- लिङ्गादेः ज्ञानस्येव ज्ञापकत्वं न स्यात् , ज्ञानहेतुत्वाभावात् । नचार्थप्रका- प्रकाशमानतयाऽर्थस्यापि ज्ञातृत्वप्रसंगात् । यदाहुरात्म- धर्मस्य चैतन्यस्य विषयेण संयोगो ज्ञानमित्युच्यत इति, तत्रापि संयोगस्यो- भयनिष्ठतया स एव प्रसन्नः । अनुभवविरोधश्च-अहमिदमिदानीं जानामि, शस्य ज्ञानत्वम्, ४२ सिद्धित्रये नेदानोमित्यात्मसमवायिनोरेव ज्ञानभावाभावयोरनुभवात् । अविकृत- प्रकाशहेतुकिरणसंहतावप्यहिममहसि प्रकाशकत्वप्रख्योपाख्यानवदुपपद्यत इति मा वोचः, तत्र हि गभस्तीनां द्रव्यतयाऽऽकुञ्चनप्रसारणद्रव्यान्तर- संयोगविभागादेस्संभवादुपपद्यते व्यवस्थोपलब्धिः । चैतन्यं तु गुण इति न तथा व्यवस्थामर्हति । अथोच्येत—द्विधा हि ज्ञानमात्मनः, स्वस्मिन्नन्यत्र च । तत्राद्य- मुदयास्तमयरहितमात्मस्वरूपप्रयुक्तमनवरतमनुवर्तते । इतरतु तत्तदर्थसं- बन्धीन्द्रियाद्यागन्तुकहेतुभेदायत्तात्मलामं तत्तद्भावाभावानुविधायि तत्तदर्थ- प्रकाशतयोदीयते, लीयते च । तदपेक्षयैव स्वापजागराद्यवस्थाव्यवस्थाऽपि सङ्गस्यत इति ; उच्यते। अभ्युपगच्छेमाप्येवं, यदि नित्यमात्मनि ज्ञान- मस्तीत्यत्र किमपि साधनमुपलभेमहि । नन्वङ्गीकृतस्तावज्जाग्रदवस्थायां सर्वदाऽऽत्मानुभवः; स्वापादिषु चानुमीयते, तात्कालिकस्य विषयज्ञानाभावस्योत्तरोत्तरकालं परामृश्यमान- त्वात् । यत्कालीनोऽभावः परामृश्यते, तत्कालीनेन तदाश्रयस्वरूपज्ञाने- नापि हि भाव्यम् , मध्याह्नकालपरामृश्यमान इव प्रातस्समयपरिदृष्टतटाक- तीरादिवर्तिनि कुञ्जराद्यभावे । यत्कालीनाभावाश्रयतया यः परामृश्यते, स तत्कालीनस्वरूपानुभववान् , यथा प्रातरनुभूततटाकतीरादिः । स्वापादि- कालिकार्थानुभवाभावाश्रयतया चायमात्मा परामृश्यते । अतस्तात्कालिक- स्वरूपानुभववानिति । मैवम् , अनैकान्त्यात् प्रातस्तत्र नाहमासमिति स्वा- भावभूमितया प्रतीतेन प्रातरनवगतगिरितटाकादिना । अभावप्रतिपत्ति- समये प्रतिपिपत्सिताभावसमकालवर्तिनस्तदाश्रयस्वरूपस्यावगत्या, विद्य- मानत्वे तत्कालतयाऽवगमप्राप्तस्य प्रतियोगिनोऽनवगत्या च भवितव्यम- भावज्ञानस्येत्येतावत् । अन्तरेणापि स्वापकालीनमात्मानुभवमिह तदुभय- मुपपद्यते, प्रत्यभिज्ञयैव प्रबोधे स्वरूपसिद्धेः; जाग्रदनुभवस्येव पटीयसः स्वापेऽपि सतोऽनुभवस्य स्मर्तव्यस्य सतस्तदानीमस्मरणाच्च ।
आत्मसिद्धिः ४३ सुखमहमस्वाप्समित्यादिवृत्तयश्च तात्कालिकदेहेन्द्रियलाघवपाट- वादिपर्यालोचनपूर्विका न स्मृतयः, जातिवेषसंस्थानादिष्विव । तेऽपि हि परामृश्यन्ते, एवंजातीयोऽहमीदृशेन वेषेणानेन संस्थानेनात्रेयन्तं काल- मस्वाप्समिति । अपिच स्मृतित्वेऽपि जाग्रदवस्थायामिव निद्रालक्षणया प्रमाणविपर्ययादिवृत्त्यभावकारणतमोगुणालम्बनया प्रतीत्या तत्कालप्रसिद्ध- स्यात्मनस्स्मरणम्, न तु सहजसंवेदनसिद्धस्य स्वप्रकाशस्य वा ; प्रमाणा- भावात् । निद्राऽपि प्रमाणविपर्ययादिवत् वृत्तिविशेष इति तत्रभवान् पतञ्जलिः । यदाह-*अभावप्रत्ययालम्बना वृत्तिर्निद्रा* इति । प्रयोगश्च-विमत्याक्रान्तात्मस्वरूपसिद्धिः विषयानुभवनिबन्धना आत्मस्वरूपसिद्धित्वात् जाग्रतस्तत्सिद्धिवदिति । तथा आगन्तुकं ज्ञानम् आत्मविशेषगुणत्वात्सुखादिवत् । न च सुखदुःखादयो नात्मगुणाः; अप्र- सिद्धाश्रयान्तरत्वे सत्यहप्रत्ययसामानाधिकरण्येन प्रकाशमानत्वात् ज्ञान- वदिति । अत्राहुरात्मतत्त्वज्ञाः स्वतश्चैतन्यमात्मनः । स्वरूपोपाधिधर्मत्वात्प्रकाश इव तेजसः ॥ चैतन्याश्रयतां मुक्ता स्वरूपं नान्यदात्मनः । यद्धि चैतन्यरहितं न तदात्मा घटादिवत् ॥ चितिशक्त्या नचात्मत्वं मुक्तौ नाशप्रसङ्गतः ।........ बुद्धिसुखदुःखादिनिःशेषवैशेषिकात्मगुणात्यन्तिकोपरमलक्षणो हि मोक्षः कणभक्षाक्षचरणमते । नचात्यन्तलुप्तकार्य वस्तु तत्कार्यजनन- शक्तमित्यत्र किंचित्पमाणं क्रमते; देहादिविशिष्टसंबन्धितया दृश्यमान- सुखदुःखज्ञानादिकार्य विशिष्टवर्तिनीमेवात्मोत्पादशक्तिं कल्पयति, धूमः इवान्धनसंबन्धिनि धूमध्वजे स्वोत्पादनसामर्थ्यम्, व्रीह्यकुर इव च सतुष- तण्डुले । अपिच बोधे सत्येवात्मनोऽनात्मव्यवच्छेदे संभवति कृतं तच्छक्त्याश्रयणेन ।
४४ सिद्धित्रये नचैवं सति बोध एव परमात्मेति युक्तम्, तस्याश्रयप्रतियोगि- सापेक्षस्वरूपत्वात् ; आत्मनश्च तद्विपरीतस्वभावत्वात् ; साक्षाच चेतयितु- रहमर्थस्य स्फुरणात् ; अनुभवतांगमवलेन चितिमत आत्मभावस्थानन्तर- मेव प्रपञ्चितत्वाच्च । न च चितिमात्रात्मवादेऽपि तस्यागन्तुकविषयसंबन्धे बोघत्वमध्यारोप्य बोद्धृत्वसमर्थनं साधीयः, संवन्धस्योभयनिष्ठतयाऽर्थस्यापि बोद्धृत्वप्रसङ्गात् । न च कार्यकारणभाववव्यवस्थितत्वम् , तत्र जनिमतो जनयितुश्च परस्परापेक्षानियमलक्षणसंवन्धः । इहापि स एवेति चेन्न अपेक्षाहेत्वभावात् । किमर्थमर्थश्चैतन्यमपेक्षते, चैतन्यं वाऽर्थम् ? सिद्धयर्थमिति चेत् ; कस्सिद्धयर्थः ? न तावदुत्पत्तिः, तस्याः निति- निमित्तान्तरत्वात् । घटादयो हि प्रसिद्धमृद्दण्डचक्रभ्रमणादिपर्याप्तनिमि- त्तान्तरशालिनो न चितिमपि निजजननेऽपेक्षन्ते । निरस्तश्च विज्ञानमात्र- वादः । नित्यस्यात्मन उत्पत्त्यर्थमर्थापेक्षेति सुव्याहृतम् ! सिद्धिः प्रकाश इति चेत् ; किं भोः आत्मा स्वयंज्योतिरप्यर्थाधीनप्रकाशः, यदसौ तदर्थ- मर्थमपेक्षते ? महनीयमिदमात्मवेदित्वम् ! प्रकाशश्च न संविदतिरेकी कश्चिदर्थधर्मस्संभवतीत्यावेदितम् । संभवन्नप्यसौ न चितिस्वरूपमात्र- निमित्तः, सर्वदा सर्वार्थप्रकाशप्रसङ्गात् । न हि सदाऽसन्निहितसमग्र- कारणं कार्य कदाचिद्भवति । आगन्तुकातिशयाश्रयणे वा नामान्तरेण ज्ञानमेवाङ्गीकृतमिति तद्वानेवात्माऽऽयातः । नन्वेवमर्थसिद्धिव्यवस्थापकतयाऽभ्युपगतं ज्ञानमागन्तुकं क्रिया- रूपमिति कथं तत् आत्मस्वभावः? तथाहि अर्थान्तरगतत्वे सति जनक- द्रव्यान्तरं प्रति कार्यत्वादिकेन रूपेणासाधारणो गन्तव्यदेशप्राप्त्यादिः, यं प्रत्यसाधारणस्तत्समवेतागन्तुकासाधारणगमनादिक्रियाजन्यो दृष्टः । तादृशी चार्थसिद्धिर्य पुरुष प्रत्यसाधारणी तत्समवेततादृशक्रियाजन्येति शक्यमनुमातुम् । मैवम् । अक्रियाजन्येनाभावप्राप्तक्षेत्रादिस्वत्वेन, क्षेत्रिणं प्रत्यसाधारणेन क्षेत्रजव्रीह्यादिस्वत्वेन चानैकान्त्यात् । न च निर्व्यापारतया आत्मसिद्धिः ४५. ? क्षेत्रिणस्तत्राजनकत्वम् ; व्यापारकालादिना व्यभिचारात् । तद्भावमावित्वस्य चाविशेषात् । तज्जीवनमेव तत्र जनकव्यापार इति चेत्, ननु तत् सस्य- पालनादिसाधारणमिति कथमसाधारणक्रियाजन्यत्वम् ? अपि चैवं सति तदेवार्थप्रकारोऽपि जनकव्यापारोऽस्तु ; किमकृप्तकल्पनया ? सत्यपि तस्मिन्नर्थो न प्रकाशत इति चेत् ; स्वत्वं वा किं यथोदितं सति जीवने जायत एव ? ब्रोह्यादिसत्ताऽप्यपेक्ष्यत इति चेत् ; इहापीन्द्रियादिप्रत्या- सत्तिरिति समानश्चर्चः । अतो यं प्रत्यसाधारणो यथोदितधर्मस्तदीया- साधारणधर्मनिमित्त इत्येतावत् । स चेष्यत एवात्मनश्चैतन्यं रवेखि तेजस्वित्वम् । न च हेतुभेदानुविधायितया, जानामि अज्ञासिषमित्यादि- कालावच्छेदप्रतीतेर्गमनादेरिव ज्ञानस्यागन्तुकत्वमनुमेयम् ; आदित्य- प्रकाशेनानैकान्त्यात् । अस्ति हि तत्रापि, इमं देशमादित्यः प्रकाशयति प्राचीकशत्प्रकाशयिष्यतीति प्रतीतिः । स्वारसिकत्वेऽप्यादित्यप्रकाशस्य प्रकाश्यदेशसंवन्धकादाचित्कतया अवच्छेदप्रतीतिरुपपद्यत इति चेत् ; इहापि तहीन्द्रियादिप्रत्यासत्तिसमासादितयोग्यभावोऽनुभाव्यभेदः स्वाभा- विकमात्मनश्चैतन्यगुणमवच्छिनीति तदपेक्षयैवेन्द्रियाद्यनुविधानमतीता- नागतप्रत्युत्पन्नत्वप्रत्ययप्रयोगौ चोपपद्यन्ते । कथं पुनरत्र निर्णयः, मणिधुमणिप्रकाशादेरिवौपाधिकोऽयं भेदः, न तु गमनपचनादेरिव स्वाभाविक इति? तादूप्येणैव प्रत्यक्षवाद । न हि जातुचिदचिद्रूपोऽयमात्मा लोष्टादिवद् दृष्टचरः, यश्च यद्गुणतयैव साक्षाद्भवति, स तत्स्वभावः, मरुदिव स्पर्शगुणतयेवाध्यक्ष्यमाणः । यो यत्स्वभावो न भवति, स तद्विरहेणापि स्वरूपत उपलभ्यते, गमनादि- रहिततयेव देवदत्तादिः। शरीरवदिति चेन्न, असिद्धत्वात् । स्यादेतत्-यथैव खल्वस्वभाव- भूतेनापि शरीरेण सधीचीन एवायं चेतनश्चकास्ति, तथा चैतन्येनापीति .
४६ सिद्धित्रये - तन्नैवम् , असिद्धत्वात् । न हि तनुविशिष्टतयैवायं चेतनः परिस्फुरति । योगिनां प्रणिहितमनसामुपरतवहिरिन्द्रियाणां च देहानुसंधानविरहेणाप्य- हमिति स्फुटमनुभवात् । जानामोति प्रत्ययश्शरीरवर्णसन्निवेशनिर्भास- शून्यतया तत्त्वान्तरगोचर इति च प्रागेवावोचम् । कर्मानुगुण्येन सुरमनु- जादिजातीयतया भिद्यमानासु आगमापायिनीषु तनुषु मनस इवैकस्य वर्मणस्स्वभावानुवन्धित्वेनाश्रयितुमशक्यत्वात् । लिङ्गस्य पुनरनुवृत्तावप्य- प्रत्यक्षत्वान्न व्यभिचारित्वम् । बोधस्वाभाव्ये पुंसस्स्वापमूर्छयोः प्रकाशप्रसङ्ग इति चेन्न ; विकल्पा- सहत्वात् । तथाहि-प्रकाश इति पदार्थमात्रसाधारण बोधजन्यं प्रकटतादि- पदपर्यायं धर्ममभिप्रेत्य वाऽयं प्रसङ्गः, अथ बोधमेव, तदविप्रकर्ष वा ? आये, तदभावादेव न प्रसंगः । अभावश्च प्रकटित एव संवित्स्वतस्सिद्धि- समर्थनसमये । भावेऽपि, तमःप्रतिबन्धादप्यनुदयस्संभवी। इतरयोरभि- मतमेवापादितमित्यदोषोद्धावनम् । बोधस्वाभाव्ये हि पुरुषस्य स्वापादि- दशासु च तथाभावोऽभिमत एवेति न हि तदापादनं दोषाय । अथ मतम् स्वापादावपि स्वानुभवसद्भावे जागर इव व्यवहार- प्रसङ्ग इति; मैवम् , व्यवहारागोचरत्वात् । कः खल्वात्मनि व्यवहारः ? नासावादातुं हातुमुपेक्षितुं वा शक्यः । व्याहारः प्रसज्यत इति चेत् , किमङ्ग ! निर्विकल्पकवालमूकादिवेदनविषयो व्याहियत एव ? करणपाट- वव्यवजिहीर्षादिसहकारिविरहात्तत्र व्याहारानुदय इति चेत् ; समानोऽयं विधिरितरत्रापीति निरनुयोज्यानुयोगः । स्मृतिप्रसङ्ग इति चेन्न, अवृत्तित्वात् । यद्युच्येत-मूर्छादावा- स्मानुभवाभ्युपगमे अर्थान्तरानुभव इव एवमहमन्वभूवमिति परस्ता- स्मृतिः प्रसज्यत इति, तन्न, अवृत्तित्वात् । न हि मूर्छा प्रस्वापो वा बुद्धिवृत्तिविशेषो दर्शनस्पर्शनादिवत् , येन स्मृतिबीजं संस्कारमादधीया- ताम् । किंतूभृतेन तमसोपरतव्यापारेषु करणेषु निर्वृत्तिकसांसिद्धिकबोध- , आत्मसिद्धिः ४७ स्वरूपेणावस्थानमात्रमात्मनः । न च बोधस्वभावत्वादेवास्य संस्कारा- धायकत्वम् ; अनवरतोपचीयमानसंस्कारतयाऽनिर्मोक्षप्रसङ्गात् । अनुभवे च स्वानुरूपसंस्काराधाननिरुद्ध सदृशसंबन्धिदर्शनादिसमुद्बोधितनिनबीजा- नुसारेण स्मरणमुपजायते । नचेहात्मस्वरूपबोधस्य जातुचिन्निरोधो जन्म वा; नित्यात्मसत्ताप्रयुक्तत्वात् । निमित्तान्तराभावश्चानन्तरमेव व्याकरिष्यते। तदेवमनुवर्तमान एवानुभवे कथं स्मृतिरुदयमासादयेत् ? य एवाहं पूर्वे- धुरासम्, स एवाहमद्यापीति स्मृतिसंभिन्नप्रत्ययोऽपि कालावच्छिन्नस्वरूप- गोचरः, न स्वरूपमात्रे। अविशदश्च स्वापादौ स्वानुभवः, निर्विकल्पश्च 3 पटीयसा सविकल्पकेनावगमेन स्मृतिबीजमाधीयत इति च कुतस्तत्प्रसङ्गः? साम्याच्चाननुभवाभिमानः शरीरतद्धारणप्रयत्नाननुसंधानवत् । नचाविकृतस्वाभाविकबोधमात्रेणावस्थाने स्वापमोक्षयोरविशेषा- पत्तिः, क्लेशवासनानां गुणाभिभवस्य चैकत्र भावात् ; इतरत्र तदत्यन्त- निवृत्तेः । असंप्रज्ञातसमाधावपि परमवैराग्यशालिना पटुतरनिरोधसंस्कारेण चरिताधिकारिणा अपवर्गिणा विशेषः । कथं पुनर्निद्राया अवृत्तित्वे प्रबुद्धस्य प्रत्यवमर्शाः, सुखमहमस्वाप्स मित्याद्याः? .नाननुभूतगोचरास्स्मृतयस्संभवन्ति । सत्त्वसचिवसमुल्लसित- तमोगुणानुभवभाक्तिभावनायोनिः खलु सुखमहमस्वाप्सम्, प्रसन्नं मे मनः, लघूनि मे गात्राणीति प्रत्यवमर्शः । रजस्तमस्समुद्रेके तु, दुःखमहम- स्वाप्सम् , भ्रमत्यनवस्थितं मे चित्तमिति । सत्त्वरजसी त्वभिभूय नितान्त- मुद्भते तमसि, गाढनूढं सुप्तोऽस्मि, गुरूणि मे गात्राणि, मुषितमिव मनः, मीलितमिवेति । सत्यमेवम् । दत्तोत्तरं ह्येतत्-नैवामी वासनायोनयः प्रत्ययाः; अपितु तात्कालिकशरीरेन्द्रियमनोवस्थाविशेषपर्यालोचननिमित्ता आनुमानिका इति । एवंरूपा हीमे-यतः प्रसन्नं मे मनः, सम्यगाहारपरि- गामवशालघूनि चाङ्गानि, अतस्सुखमहमस्वाप्समिति । स्वापावस्थायां ४८ सिद्धित्रये वेन्द्रियोपरमतारतम्यवशादविशदतात्कालिकतत्तदनुकूलप्रतिकूलविषयानुस - धाननिबन्धनतयाऽपि स्मरणमुपपद्यत इति न वृत्त्यन्तरत्वं निद्रायाः । कथं तर्हि पारमर्षे सूत्रम्-*अभावप्रत्ययालम्बना वृत्तिर्निद्रा * इति ? निरोधपरत्वात्प्रकरणस्य न वृत्तिस्वरूपे तात्पर्य विपर्ययवत् । न एतद्रूपप्रतिष्ठं मिथ्याज्ञानं किञ्चिदस्ति, सर्वसंविदामर्थाव्यभिचारात् । स चाधिकरणसिद्धः ; साधयिष्यते चोपरिष्टात् । कैवल्यभागि यच्चित् , तत्प्रत्यनीकतया निद्रादेनिरोध्यत्वेनोपदेशः । अस्तु वा पूर्वोक्तप्रमाणादिवृत्त्यभावकारणभूतप्रचिततमतमोगुणा- वलम्बना वृत्तिरेव निद्रा । सन्तु च प्रबुद्धप्रत्यवमर्शाश्च स्मरणानि । तथा सत्य[प्य]नवरतानुवृत्तवोधतया स्थितमेव पुंसो बोधस्वभावत्वम् । आह-बोधकारणानुवृत्त्याऽपि बोधानुवृत्तिरुपपद्यत इति कथं तथा (तया)स्वाभाव्यनिश्चयः ? इत्थम्- यतः स्वतस्सतो बोधाहते पुंसो यथोदितम् । तमः स्वापादिकालीनं न सिध्ये त्वसिद्धितः ॥ उपरतानि हि प्रस्वापकाले सर्वाण्येवेन्द्रियाणि सह मनसा । संस्का- रस्य च न स्मृतेरन्यत्र सामर्थ्यम् । न च स्वप्रकाशं तमः, अर्थान्तरव- तिनोऽप्यनिशं प्रकाशप्रसङ्गात् । क्लप्तश्च सर्वार्थसाधनतया बोध इति तेनैव (का)करणविरहिणा सता स्वभावभूते नोद्भूतेनोद्भूतवृत्तेस्तमसो- ऽन्यस्य वाऽऽत्मवर्तिनो गुणस्य स्फुरणमिति बलादभ्युपगमनीयम् । नित्यप्रकाशश्चात्मा प्रमातृत्वात् । अप्रमातृत्वव्यापकबद्ध ह्यनित्य- प्रकाशत्वं व्यापकविरुद्धप्रमातृत्वभागिन्यात्मनि नात्मानं लभते । स्वतस्सिद्धप्रकाशत्वमप्यस्य ज्ञातृभावतः । अज्ञातृत्वेन हि व्याप्ता परायत्तप्रकाशता ॥ कः पुनरयं प्रकाशः, योऽस्य नित्योऽभ्युपेयेत, स्वाभाविकच ? कश्वास्यात्मना संबन्धः? यदि ज्ञानमेव, संबन्धश्चाश्रयाश्रयित्वम् ; ततो आत्मसिद्धिः ४९ हेत्वभावेन साध्याभावस्य व्याप्तिमुपदर्शयितुं निदर्शनतया घटाधुपादा- तव्यम्-यदनित्यप्रकाशमन्याधीनप्रकाशं वा तदप्रमातृ, यथा घटादीति । तत्र च विशेषनिषेधस्य सामान्याभ्यनुज्ञाक्षेपकत्वादागन्तुकं ज्ञानं घटादाव- नुमतमापद्येत । अथ तन्मा भूदिति विषयविषयिभाव एव संबन्धसंगीयेत ततो नित्यक्ज्ज्ञानविषयत्वमात्मनः प्रसज्येत । ज्ञानविषयीकारश्च साधनविशे- षायत्तत्वेन नियत इति न स्वाभाविकत्वसंभवः । अचेतनगोचर एव तथा नियम इति चेन्न चेतनान्तरविषयीकारेऽपि तथाभावदर्शनात् । नचानात्म- गोचर एव साधनसापेक्षत्वनियम इति वाच्यम् ; आत्मनोऽप्यानुमानिका- गमिकयोगज्ञानविषयीकारे तत्सापेक्षत्वदर्शनात्। विरुद्धे चैकस्यैकक्रियायां कर्मकर्तृत्वे, सूच्यग्रस्येवात्मनि वेध्यवेधकत्वे । नित्यत्वनिरतिशयसूक्ष्म- त्वव्यापित्वचित्स्वाभाव्यादिरूपेण प्रत्यगर्थस्यौपदेशिकत्वमानुमानिकत्वं वा, न स्वरूपतः । स्वरूपापेक्षयैव स्वतस्सिद्धिरभ्युपेयत इत्यसमाधेयो विरोधः। रूपभेदेन गम्यगमकत्वाङ्गीकारपक्षेऽपक्षस्येवं शब्दादेन स्वतस्सिद्धत्वम् । अथोच्येत-न प्रकाशो ज्ञानम् ; अपितु तन्निमित्तश्चेतनेतरसर्व- पदार्थसाधारणो धर्मः, यद्वशात् प्रकाशत इति प्रख्योपाख्ये प्रतायेते सर्व- पदार्थेष्वविशेषेण आश्रयायित्वलक्षणश्च संबन्धस्तेन सह सर्वभावा- नाम् । स च यथोदितसाधनबलादेव सांसिद्धिको नित्यश्चात्मन इति । पराकृतोऽयं पक्षः-न ज्ञानातिरेकी प्रकाशो नाम । यद्यवहारोप- जननानुगुणं ज्ञानं तत् प्रकाशत इत्युच्यते । ज्ञेयस्य ज्ञातुः स्वात्मनश्च व्यवहारानुगुणं ज्ञानमुदयत इति युक्तस्त्रिष्वप्येकप्रकारः प्रकाशतेव्यव- हारः । तत्त्वान्तरप्रकाशाभ्युपगमे तात्स्वाभाव्ये न] च पुनः किं चैतन्या- श्रयणेन? न च प्रकाश एव तदिति वाच्यम् ; घटादेरपि प्रकाशवत्तया चेतनत्वप्रसङ्गात् । यधुच्येत–सति चेतनावत्त्वे पुंसः प्रकाशमानत्वमिति ; संविदीदानी का वार्ता ? चेतनैव हि सा; न चेतयते । अथ संविदस्त- 4 ५० सिद्धित्रये संबन्धाधीनस्स धर्म इति चेत् ; कस्खया सबन्धः, यस्तन्निबन्धनम् ? नाश्र- याश्रयित्वम्, घटादेस्तदभावप्रसङ्गात् । न विषयविषयिभावः, तस्यैवानि- रूपणात् । अनिरूपणंच प्रान्त्यधिकरणसिद्धान्तारम्भे संवित्सिद्धौ चानु- सन्धातव्यम् । आत्मनस्तस्य चाप्रकाशप्रसङ्गश्च । ज्ञानाधीनप्रकाशाश्रयतैव सिद्धिः तया चानुमेयं ज्ञानमिति पक्षः प्रागेव प्रतिक्षिप्तः । स्वप्रकाशसंविद्वादिनोऽपि व्यवहारानुकूल्ये वैरूप्यमशक्यपरि- हारम् । आत्मनि समवेतं ज्ञानमसंबन्धिन्यथै प्रकाशं व्यवहारं वा कथं प्रसुवीतेत्यपि चिन्त्यम् । इन्द्रियलिङ्गादिस्वकारणप्रत्यासत्तिवशादिति मा वोचः । न खलु लब्धात्मकं कार्य स्वनिमित्तकारणमनुरुध्य कार्यमारभते। मा भूदुदकाहरणादि घटादेः कुलालादिसमानाधिष्ठानम् । न च निमित्त- कारणनाशे कार्यनाशः । नश्यति चेन्द्रियसंप्रयोगादिनाशे रूपादिज्ञानम् । अत इन्द्रियेण सह चैतन्यमपि निस्सृत्य तेनतेनार्थेन सन्निकृष्यते, हस्तादिनेव त्वगिन्द्रियम् । तथासति हि तदुपाधिकत्वात्तज्ज्ञानस्य युक्तं तद्भावानुविधायित्वम् । अन्यथा उत्पन्न ज्ञानमिन्द्रियार्थसन्निकर्षनिवृत्ती किमिति निवर्तते। ज्ञानजन्या धर्म प्रकाशवादिनोऽपि समानोऽयं दोषः । निमित्त- कारण हि ज्ञानम् । कुतस्तन्निवृत्तावर्थप्रकाशो निवर्तते ? कुतो वा याक्- तद्भावमवतिष्ठते? न च संख्यादिनिदर्शनेनात्र प्रत्यवस्थानं युक्तम् । असिद्धत्वेन नाशस्य संख्याया बुद्धिनाशतः । एकसंख्येव संख्यात्वादन्याऽप्याद्रव्यभाविनी ॥ सर्वा होकाश्रया संख्या नित्यानित्यार्थवर्तिनी । यावदाश्रयसत्येव संमता सर्ववादिनाम् ॥ द्वित्वादिका परार्धान्ता संख्या याऽनेकवर्तिनी। साऽपि संख्यात्वसामान्ये सति करमान तादृशो ॥
आत्मसिद्धिः ५१ -- ननु नैकत्वं संख्या, स्वरूपानतिरेकात् ; अतस्साधनविकलमुदा- हरणम् । मैवम् ; संख्यैव सा; द्रव्यान्तरेऽप्यनुवृत्तेः । यदि हि घटा- देस्स्वरूपमेवैकत्वम् , ततो घट एकः, पट एक इति सर्वद्रव्यसाधारण्य- मेकत्वस्य न स्यात् । न हि घटस्वरूपस्य पटस्वरूपेण संभवति सामाना- धिकरण्य, घटः पट इति । अस्ति तु तत् एकत्वस्य । किंच, संख्यकता विरुद्धत्वात् द्विसंख्येवान्यसंख्यया। एकं द्वाविति न अस्ति सामानाधिकरण्यधीः ।। यत्तु अनेकद्रव्यवृत्चित्वे सति गुणत्वात् संयोगवत् अयावद्दव्य- भाविनी द्वित्वादिसंख्येति, तत् नानात्वेऽनैकान्तिकम् । न हि सतोरेव घटपटयोस्तन्नानात्वं नश्यति । न च तद् द्वित्व] संख्यैव ; त्रयाणां तदभाव- प्रसङ्गात् । न च तत् एकत्वाभावमात्रम् ; तुच्छस्यापि नानात्वापत्तेः । आपेक्षिकत्वाद् द्वित्वादेः प्रतियोग्यनवग्रहात् । बुभुत्सोपरमाच्चापि सत्या एवानवग्रहः ।। अतश्चैतन्यस्यैवेन्द्रियद्वाराऽर्थसन्निकर्ष एव तद्भावानुविधानोप- पत्तिः। अन्यच्च-अर्थस्य प्रकाशकं हि ज्ञानं भवताम् । सर्व च प्रकाशकं प्रकाश्यवस्तुसन्निकटमेव प्रकाशकं दृष्टं दीपप्रभादि । अत- स्तदपि तथेति युक्तमाश्रयितुम् । व्योमवदमूर्तस्य न क्रियाक्त्त्वमिति चेत्, केयं मूर्ति म य- द्विरहिणः क्रियाऽयोगः? यदि पारिभाषिकी द्रव्यत्वे सति काचिकतेति, इप्यत एव सा चैतन्ये ; न हि तत्सर्वगतं द्रव्यम् ; तथा सति युगपत्सर्वार्थ- सिद्धिप्रसङ्गात् । काचित्कवे तु, तद्धि यदैकदैकेन्द्रियेण संप्रयुक्तं तदर्थाभि- मुखं, न तदेन्द्रियान्तरमधितिष्ठति । अत एव हि युगपज्ज्ञानानुत्पत्तिः । निरतिशयवेगंच तत्, युगपदिवातिशीघ्रमनेकेन्द्रियाधिष्ठानदर्शनात् । अतो ५२ सिद्धित्रये यथोदितममूर्तत्वमसिद्धम् । स्पर्शवत्ता मूर्तिः तद्विरहानिष्क्रियत्नमिति चेत्, शब्देनानेकान्तः । स खलु शङ्खमुखादेर्दवीयसोऽपि देशान्नोदनविशेषेण लोष्टादेरिव यावद्वेग प्रतिष्ठते स्पर्शविहीनोऽपि । स्पर्शरहितस्यापि मन- इन्द्रियस्य क्रियावत्त्वं पदार्थवाक्यार्थविदामुभयेषामपि संमतमेव । कथमतीतानागतयोरसतोश्चैतन्येन संप्रयोग इति चेत् ; कथं वा विषयभावः, प्रकाशमानत्वं, संख्यादियोगो वा ? [तयोः]र्यस्तत्र निर्वाहः, स एवात्रास्तु । अपिचातीततयाऽनागततया च तावप्यद्यापि विद्यते इति तेन रूपेण बोधसन्निकर्षे काऽनुपपत्तिः। किंच यथा दवीयसि देशे सता ध्रुवशिंशुमारादिना दृक् तु सन्निकृष्यते, तथा दवीयसि काले सता कल्पाद्यन्तवर्तिना स्वयंभुवादिनेति नालोकं किंचित् । किंच, नातीतानागते बुद्धेपूरे भवितुमर्हतः । बुद्ध्या प्रकाशमानत्वाद्बुद्धिबोद्धृस्वरूपवत् ॥ एवंच चैतन्यस्य निरतिशयवेगितया अन्तरालदेशकालाग्रहणाभि- मानोऽलातचक्रगतक्रमवद्देश भेद]संयोगविभागाग्रहणाभिमानवत् । अपि चेन्द्रियलिङ्गसंस्कारादेर्यदर्थप्रतिनियतं रूपं, तेनैवोपश्लिष्य निस्सरचैतन्यमपि तद्गोचरेणैव सन्निकृष्यते; यथा गवादिपदशक्तिरेकबुद्धिसिद्धेऽपि सामा- न्यविशेषात्मके वस्तुनि सामान्यांशेनैव संबध्यते; यथा वा विधिः प्राप्तांशपरिहारेणाप्राप्तांशमेव भावनायास्पृशति । अत इन्द्रियादिद्वारेण चैतन्यमपि तदर्थाभिमुखं निर्गच्छतीति न्याय्यम् । यथाऽऽह भगवान् *तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि* इति । मनुश्च- *इन्द्रियाणां हि सर्वेषां यद्येकं क्षरतीन्द्रियम् । तेनास्य क्षरति प्रज्ञा दृतेः पादादिवोदकम् ॥ इति । यत्तु गुणश्चैतन्यं गुणिनमपहाय कथमन्यतो यातीति ; तदयुक्तम्, प्रहाणानभ्युपगमात् । अप्रहायैवात्मानमितस्ततश्चेतना इन्द्रियादिद्वारान्नि- आत्मसिद्धिः श्चरति । विच्छिन्नायाश्च-तस्यास्संधानासंभवश्शास्त्र एवोक्तः । दृश्यन्ते च गुणा अपि शब्दगन्धसूर्यालोकरत्नप्रभादयो गतिमन्तो धर्म्यतिवर्तिनश्च । अतिसूक्ष्मो दूरगमनधर्मा भौतिको हि शब्दः । ननु नभ इव विभुश्शब्दो व्यञ्जकध्वनिवशेन प्रादेशिक इव गत्वर इव चोपलभ्यते । तथाहि-शब्दस्सर्वव्यापी एकद्रव्यवर्तित्वे सति आकाश- गुणत्वात्तत्परिमाणवत् ; मैवम् , अतद्गुणत्वात् । वायवीयश्शब्दः तेन नियतसहोत्पत्तिकत्वात्तदीयस्पर्शवत् । यश्च येन द्रव्येण नियतसहोत्पत्ति- गुणः, स तद्गुण एव, यथा तथाविधा रूपादयः । नियत्तसहोत्पत्तिश्च वायुना शब्दः, उभयोरपि मेरीदण्डवंशदलनादिसंयोगविभागजत्वनिय- मात् । उत्पद्यते च शब्दः, इन्द्रियग्राह्यत्वे सति गुणत्वात् गन्धादिवत् । कृतकश्च क्रियोत्तरमेवोपलभ्यत्वासंयोगादिवत् । नचामिव्यञ्जकत्वं प्रय- बादेः कल्प्यम्, गौरवात् , तत्प्रतीतिकारणत्वकल्पनादपि तत्कारणत्व- कल्पनैव हि लध्वी । अभिव्यञ्जकाश्चैकदेशावस्थितान् एकेन्द्रियग्राह्यान् युगपदभिव्यञ्जन्ति ; यथा प्रदीपो रूपसंख्यापरिमाणानि करकादींश्चैक- प्रदेशवर्तिनः । नचैवं ताल्वादिसंयोगविभागजनितपवन इति नासौ व्यञ्जकः । नित्यत्ववादिनशब्दा निर्भागव्योमवर्तिनः । श्रावणाश्चेत्यभिव्यक्तिनियमे नास्ति कारणम् ॥ देशैक्ये ग्राहकैक्ये च व्यञ्जकैक्यं हि दर्शितम् । तदभावात्प्रयत्नोत्थमारुतः कारणं ध्वनेः॥ अत एव च नानात्वं प्रत्युच्चारणमिष्यताम् । कृतस्य करणायोगाद्धेतुपौष्कल्यभेदतः ।। किंचोदात्तानुदात्तत्वदीर्घत्वहस्वतादयः । गादिस्था युगपद्धान्तो न भिन्द्युस्स्वाश्रयान् कथम् ।। स्थानक्यायातसादृश्यात्प्रत्यभिज्ञाऽपि नैक्यतः। प्रदीपप्रत्यभिज्ञेव ज्ञापिता मेदहेतवः ॥
सिद्धित्रये ५४ नन्वेवं चैतन्यसंयोगः संयोगजो वा कश्चित्प्रकाशः प्राप्तः। उभय- मपि तन्न चैतन्ये संभवति, भेदापेक्षत्वात्संबन्धस्य । आत्मनोऽपि न चैतन्येन संयोगः तद्धर्मित्वात् । न हि धर्मधर्मिणोस्संबन्धस्संयोगः । सम- वायो हि सः, अयुतसिद्धसंबन्धत्वात् । संयोगस्तु पृथक्सिद्धयोर्द्रव्ययोः क्रियानिमित्ता प्राप्तिः, अकार्यकारणयोर्वा तयोनिरन्तरस्थितिः । चैतन्य- संयोगसमवाययोरन्यतरस्य, संबन्धमात्रस्य वा प्रकाशत्वे ज्ञातृज्ञानज्ञेय- शरीरेन्द्रियेष्वव्याप्त्यतिव्याप्ती यथायोगमादर्शयितव्ये । तत्त्वान्तरप्रकाशा- भ्युपगमस्त्वनुपलब्धिबाधितो न दूषणान्तरं प्रयोजयति । अतो यव्यवहा- रोदयानुगुणं ज्ञानम्, तत् प्रकाशत इत्येवाभ्युपगमो युक्तः । त्रितयव्यव- हारानुगुण्यं संविदस्तु स्वभाव इत्यपर्यनुयोज्यं निमित्तवैरूप्यम् । न हि स्वभावाः पर्यनुयोगमर्हन्ति । एवंचेत्संयोगसमवायविरहिणोऽपि पदार्थस्य निमित्तमेदानुसारेण व्यवहारहेतुस्संविदिति युक्तमाश्रयितुम् । उच्यते । उक्तमत्र न निमित्तकारणमनुरुध्य कार्य स्वकार्यमारभत इति । व्यवहारानुगुणसंवेदनत्वेऽपि प्रकाशपदार्थे प्रवृत्तिनिवृत्तिभेदो दुष्परिहर एव । बहुव्रीहिसमासाश्रयणे संविदन्तराभावेन तस्यां तदभाव- प्रसङ्गात् । कर्मधारयाश्रयणे ज्ञातृज्ञेययोरसंवेदनत्वेनाप्रकाशप्रसङ्गः । व्यवहारोदयानुगुण्यं च व्यवहारतोऽवगन्तव्यम् । ततः प्रागेव च भवति विदितत्वप्रतीतिळहारश्च । यद्येवं, कस्तर्हि प्रकाशतेपदार्थः । न हि निरवद्यमेकरूपं ज्ञात- ज्ञेयज्ञानानुगतं तमुपलभामहे । उच्यते-नूनं भवानश्रुतपूर्वी प्रथमाधिकर- णस्य न्यायतत्त्वे । अभिहितं हि तत्रेदमनुभवे स्मृतिमुपपादयद्भिः, अनु- भवादूरत्वं स्मृतिनिमित्तमिति । एतदुक्तं भवति-संविददूरत्वं प्रकाश इति । आह-किमिदमदूर इति ? दूरादन्यस्तद्विरुद्धस्तदभावो वा ? तथा विशेषणमुपलक्षणं वा अदूर इति ! विशेषणत्वे पक्षत्रयेऽपि निय- आत्मसिद्धिः जलप्यते ॥ मेन संवेदनदूरत्वानुसंधानपूर्विकया प्रकाश इति प्रतीत्या भवितव्यम् । न च तथाऽस्ति । उपलक्षणत्वे स्वरूपान्तरं वाच्यम् । न च तदवगम्यत इत्युक्तम् । उच्यते ; अलमस्थाने संभ्रमेण । भवत्वनुभवादूर दूरादन्यद्विरोधि वा । तद्भावश्च प्रकाशत्वं किमत्र बहु प्रकाशत इति प्रतिभासोऽपि बुद्धिविप्रकर्षप्रत्यनीकबोधतत्संसृष्ट- पदार्थस्वरूपविमर्श एव, बाह्यप्रकाशवत् । तत्रापि ह्यालोके तद्व्याप्त- भूभागादौ च प्रकटादिप्रख्योपाख्ये आलोकादूरत्वनिमित्ते। यथा च तत्र तन्निमत्ता सन्तमसनिवृत्तिः, एवमिहापि ज्ञानादूरत्वनिमित्ता अज्ञाननिवृत्तिः। अत एव चानुभूते अनुभवे चोत्तरकालतुल्यवत्स्मरणम् । एवंच चैतन्यसंबन्धविशेषविषयविकल्पोऽप्यलब्धावकाश इति निरनुयोज्यानुयोग एव । नैरन्तर्यपदपर्यायमत्यन्तसामीप्यमात्रंच संयोगः । स एव परतन्त्राश्रितस्समवायपदपरिभाषाभूमिवैशेषिकाणामिति नार्थान्तरत्व- मूरीकृत्य विकल्पस्संभवति । यथा च संयोगान्तर्भाक्स्समवायस्य, तथा संबन्धविमर्श दर्शयिष्यामः । ज्ञानादूरत्वप्रयुक्तो व्यवहारक्षमतालक्षणो वा परः प्रकाशः। स च सत्यपि स्वनिमित्तपौष्कल्ये प्रतिबन्धात् योग्यता- विरहाद्वा व्यापित्वासङ्गित्वाद्यात्मधर्मान्तरेषु देहेन्द्रियादौ च न संजायते, चक्षुस्सन्निकृष्ट इव कालिन्दीपयसि रूपरसादयः । अतो यथोक्तनीत्याऽऽत्मा स्वतश्चैतन्यक्ग्रिहः । हानस्वभाव एवान्यत्करणैः प्रतिपद्यते॥ यत्तु सुखादिनिदर्शनेनात्मविशेषगुणतया चितेरागन्तुकत्वमापादि- तम्, तदपि गुणवृत्तापरिज्ञानेन; यतः स्वरूपोपाधयो धर्मा यावदाश्रयभाविनः। नैवं सुखादि बोधस्तु स्वरूपोपाधिरात्मनः ।। यथा च बोधोपाधिरात्मभावः, तथोपपादितम् । सुखदुःखे च सिद्धित्रये * नात्मधर्मों, इन्द्रियसौष्ठवनाशयोरेव तद्भावोपपादनात् ; व्याकरिष्यते चैतत् अन्तिमपदार्थसमर्थनावसर इति साधनविकलता च निदर्शनस्य । रागद्वेषा- दयोऽपि मनोवस्थाविशेषाः न साक्षादात्मगुणाः । विज्ञायते हि, *काम- स्संकल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिहींधी रित्येतत्सर्व मन एवेति । गीयते च, *इच्छा द्वेषस्सुखं दुःखमिति । *चेतनाधृतिरिति क्षेत्रलक्षण- मैकपद्येन । चेतनया ध्रियमाणसंघातो हि देहः । स्ववृत्त्यनुगुणचैतन्य- मात्रादेव प्रवर्तमान क्षेत्रमिति यावत् । अत एव घन्तर्यामिब्राह्मणे, *यस्य पृथिवी शरीरम् , यस्यापश्शरीरम् , यस्यात्मा शरीरमित्यादिनिर्देशः । *तानि सर्वाणि तद्वपुरिति च पुराणे । किमिदं धीरिति ? उत्प्रेक्षाभिप्रायं तत् ; न ज्ञप्तिविषयम् ; तस्याः स्वाभाविकत्वस्य तस्यामेव श्रुतौ श्रूयमाणत्वात् । श्रूयते हि, *न विज्ञातु- विज्ञातेर्विपरिलोपो विद्यते इति, * न हि द्रष्टुद्दष्टेर्विपरिलोपो विद्यते अविनाशित्वादिति च । ज्ञातुरविनाशित्वादेव ज्ञानस्याविनाशमुपपादयन्तीयं श्रुतिर्जातुस्स्वरूपप्रयुक्तं ज्ञानमिति दर्शयति । न च दृष्टिविशेषणतया द्रष्टु- रुपादानमिति सांप्रतम् , पुंल्लिङ्गनिर्देशविरोधात् ; हेतोश्च साध्यसमत्वा- पत्तेः । द्रष्टुः स्वरूपनिर्देशपरत्वेऽपि दृष्टिपदस्य, असमाधेयमहेतुत्वम् ; स्वपक्षहानिश्च । आत्मनस्तु नित्यत्वमप्रचाल्यमनेकन्यायागमसिद्धं युक्तं हेतुतया व्यपदेष्टुम् । न हि सति पदाथै तत्स्वरूपोपाधयो न भवितु- मर्हन्ति, सति कनक इव पैनल्यम्, प्रभेव च प्रदीपे । तेनायमर्थः-आत्मस्वभावभूतायाश्चितेर्बाह्याभ्यन्तरविषयविशेषसं- बन्धप्रकारप्राप्तदृष्टिघ्रातिरसयतिवक्तिश्रुतिमतिस्पृष्टिविज्ञातिव्यपदेशभेदायाः स्वात्मावभासिन्यास्संसारापवर्गावस्थयोर्न जातुचिद्विपरिलोपो विद्यत इति । *स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एव, एवं वा अरे अयमात्मा अनन्तरोऽबाह्यः कृतः प्रज्ञानधनः* तथा, * स्वेन भासा स्वेन ज्योतिषा, *आत्मज्योतिस्सम्राडिति होवाचेति । तथाऽपवर्गदशा- आत्मसिद्धिः यामेव च्छन्दोगाः, * न पश्यो मृत्यु पश्यति न रोग नोत दुःखताम् , सर्व ह पश्यः पश्यति,* नोपजन स्मरन् इति । स वा एष एतेन देवेन चक्षुषा मनसैतान् कामान् पश्यन् रमते* इति च । अन्याश्च, *जाना- स्येवायं पुरुषः ज्ञातव्यं तु न वेद* इत्याद्यास्सकलकरणोपरमदशाया- मप्यात्मनः प्रबोधमभिदधानाः श्रुतयो बोधस्वभावतामस्य द्रढयन्ति । * निर्वाणमय एवायमात्मा ज्ञानमयोऽमल: * इत्यादि च पुराणे । *ज्योतिषामपि तज्ज्योतिरित्यादि इतिहासे । भगवान् शौनकश्च- *यथा न क्रियते ज्योत्स्ना मलप्रक्षालनान्मणेः । दोषप्रहाणान्न ज्ञानमात्मनः क्रियते तथा ।। यथोदपानकरणात् क्रियते न जलाम्बरम् । सदेव नीयते व्यक्तिमसतस्संभवः कुतः ॥ तथा हेयगुणध्वंसादवबोधादयो गुणाः। प्रकाश्यन्ते न जन्यन्ते नित्या एवात्मनो हि ते ॥ इति । अत एव हि सूत्रकारश्च* ज्ञोऽत एवेति । तदेवमात्मस्वभावभूतस्य चैतन्यस्य विषयसंश्लेषविशेषेषु निश्चय- संशयादिव्यवहारभेदः, तत्तद्विशेषभाजि चैतन्ये श । चैतन्यस्य विषयेण दृढसंयोगो हि निश्चयः; तस्यैव बहुभिर्युगपददृढसंयोगस्संशयः; ज्ञान- वासनानुसारेण संश्लेषस्मरणमित्यादिः। उक्तं च आत्मधर्मस्य चैतन्यस्य विषयेण संयोगो ज्ञानमित्युच्यते इति । नचैवं संयोगस्योभयाश्रितत्वेन विषयस्यापि ज्ञातृत्वप्रसङ्गः, विषयेण संयोगाभावात् । चैतन्येन हि तस्य संयोगः; बाह्यप्रकाशवत् । यथा खल्वालोकसंबन्धेऽपि प्रकाशे सूर्या- देरेव प्रकाशकत्वम्, न घटादेः । अथ सूर्यादितन्त्रत्वादालोकस्य स एवं तद्धर्मों तत्संबन्धेनार्थान्तरस्य प्रकाश इत्युच्यते, इहापि तर्हि चैतन्यस्यात्म- धर्मस्वात्तेनार्थान्तरं स्पृशन् स एव जानातीत्युपपद्यते ॥
सिद्धित्रये तत्सिद्धं चैतन्यस्वभाव एवायमात्मा आत्मानं विदन्नेवास्ते ; अन्यत्तु निमित्तमेदानुसारेण जानाति, न जानाति चेति । तदेवं चैतन्यस्वभावः परिस्फुरन्नप्ययमात्मा गम्भीरजलाशयचर- मीनवत् जलसंसृष्टक्षीरवच्च न विविच्य स्फुटं चकास्तीति तदुपपादनन्या- यानुगताः पूर्वानुमानभेदाः वचनानि चाद्रियन्ते । तैरप्यपरितुष्यन्तो यमनियमादियोगाङ्गानुष्ठानक्षपिताशुद्धयावरणमलाः निरोधाभ्यासपुटपाक- निर्धतरजस्तमःकलङ्कसत्त्वोद्रेकसमुत्थस्वेतरसकलविषयवैलक्षण्यापरोक्षज्ञानाय. प्रयतन्ते । भावनाप्रकर्षपर्यन्ते चापरोक्षज्ञानमुदयत इति सर्ववादिनिर्विवाद- मिति न तदुपपादनायाद्य प्रयत्यते । एवमात्मा स्वतस्सिद्धयन्नागमेनानुमानतः । योगाभ्यासभुवा स्पष्टं प्रत्यक्षेण प्रकाश्यते ॥ अथास्य कालावच्छेदपरीक्षा। तत्र सुगतमतानुसारिणः सन्मात्रानुबन्धिनी क्षणिकतामाचक्षाणा नित्या- त्मदर्शनमेवसर्वानर्थमूलं मन्यमानाः क्षणभङ्गिनमेनं संगिरन्ते, यत्सत् तत् क्षणिकम् ; संश्चायमात्मेति । कथं पुनस्सन्मात्रानुबन्धिनी क्षणिकता ? अक्ष- णिकस्य सत्तानुपपत्तेः। यन्न कस्मैचित्कार्याय, अन्ततस्साश्यविज्ञानगोचर- वायापि न प्रभवति न तस्य सद्भावम्संभाव्यत इत्यर्थक्रियाकारितैव सत्ता भावानाम् । न च सा स्वव्यापकभूतक्रमयोगपद्यविरहिण्यक्षणिके संभवि- नीत्यन्यत्र निरवकाशतया क्षणिकतयैवानुबध्यते। कथं पुनः क्रमयोग- पद्ययोरर्थक्रियाव्यापकत्वम् ? कथं वा तयोरक्षणिकान्निवृत्तिः ? श्रृयताम् । अर्थक्रियासु भावानां कर्तृत्वत्य द्वयी गतिः । क्रमेण युगपद्धति न विधान्तरसंभवः ॥ भावाभाववदनयोरन्यतरनिवृत्तावन्यतरव्यवस्थानादर्थक्रियाजनने भा- वानां न तृतीयपकारसंभव इति क्रमाक्रमप्रतिबद्धैवार्थक्रिया। न चाक्षणिके क्रमयोगपद्ये संभवतः ॥ [पतावदेवोपलभ्यते ] ?
॥श्रीः॥ श्रीभगवद्यामुनमुनये नमः ॥ ईश्वरसिद्धिः॥ . तत्र कस्यचिदेकस्य वशे विश्वं प्रवर्तते । इति साधयितुं पूर्व पूर्वपक्षं प्रचक्ष्महे ॥ तत्र मीमांसकाः प्राहुः--नायं सर्वार्थदर्शनशक्तिसंपन्नः पुरुषो- ऽभ्युपगममर्हति ; अतिपतितसकलसाधकप्रमाणसंभावनाभूमित्वात्, स्फुट- विविधबाधकत्वाच्च । तथाहि-अस्य प्रत्यक्षमन्यद्वा साधकं भवेत् ! प्रत्यक्ष- मपि लौकिकं यौगिक वा ? व्यवस्थितमितस्वार्थ न तावदिह लौकिकम् । साधनं तेन सर्वार्थतज्ज्ञानादेरसिद्धितः । सर्वार्थदर्शनशक्ति:शालिनमवगमयन्तो हि देशकालस्वभावविप्रकर्षव्यवधान- जुषस्सर्व एवार्थास्तद्दर्शनं शक्तिश्च गोचरयितव्यानि । न च विद्यमानेन्द्रिय- सन्निकर्षयोग्यकतिपयविषयनियतवृत्तेौकिकप्रत्यक्षस्य निरवधिरयं महिमा संभावनाभूमिरिति कथमिव तदिह साधनमिति मन्येमहि । नापि योगिप्रत्यक्षमस्य साधकम् ; यतः- प्रत्यक्षत्वे तदप्येवं विद्यमानैकगोचरम् । भूतादिगोचरं नैव प्रत्यक्षं प्रतिभादिवत् ॥ तत्खलु योगिविज्ञानमैन्द्रियकं न वा ? ऐन्द्रियकमपि बहिरिन्द्रिय- संभवमान्तरकरणजनितं वा ? बहिरिन्द्रियाणि तावत् समधिगतनिज. विषयसन्निकर्षसहकारीणि तद्द्वोचरज्ञानजननानीति जगति विदितम् । अतो नरसनादिमिरजातातिवृत्तव्यवहितादिसकलविषयवेदनप्रसङ्गः । न चाविद्य- .
६० सिद्धित्रये मानै रजतादिभिस्संभवति सन्निकर्षः। तस्य व्याश्रयत्वादाश्रयाभावे तदसं- भवात् । अतः अपेक्षितोऽर्थसन्निकर्षः । सहकारिविरहे कथमिन्द्रियाण्यती- तादिविषयसाक्षात्काराय कल्पेरन् ? भवति च यत् यत्सहकारि यत्कार्य- जननं, तत् तदभावे न तज्जनयति ; यथा क्षितिसलिलसहकारि अकुर- कार्यजननबीजं क्षित्याद्यभावेऽङ्कुरम् । अर्थसन्निकर्षसहकारीणि बहि- रिन्द्रियाणि ज्ञानजननानीति तान्यपि नातीतेऽनागते वाऽथै ज्ञानं जनय- न्तीति न तदुपजनितं प्रत्यक्ष यथोक्तविषयनियममतिकामति । नाप्यान्तर- करणसंभवम्, आन्तरगोचर एव सुखादौ स्वान्तस्वातन्त्र्यात् । बाह्यविषय- मितिषु च मनसो निरंकुशकरणताङ्गीकारे हि कृतं चक्षुरादिभिः । अतश्च न कश्चिदन्धो बधिरो वा भवेत् । भवति चात्र-विमतिपदं मनो बहि- रिन्द्रियनिरपेक्ष न बाह्यप्रत्यक्षगोचरे प्रवर्तते, तत्र तत्तन्त्रवृत्तित्वात् । यत् यत्र यत्तन्त्रवृत्ति, न तत् तन्निरपेक्षं तत्र प्रवर्तते, यथाऽऽलोकापेक्षप्रवृत्ति चक्षुः स्वगोचरे अन्धतमस इति । नच सिद्धौषधमन्त्रतपस्समाधिमहिमसमासादितातिशयानीन्द्रियाणि कदाचिदपजहति समधिगतविषयनियममिति संभवति ; सांसिद्धिकसामर्थ्या- विर्भावैकफलत्वात्तेषाम् ; सामर्थ्यस्य च प्रतिनियमात् । न खलु सुप्रयुक्त- भेषजशतविहितसंस्कारमपि श्रोत्रं रूपरसविभागावगमाय कल्पते। भवति च-विवादाध्यासितबाह्याभ्यन्तरकरणपाटवातिशयोऽनुल्लचितसोमा ऐन्द्रिय- कप्रकर्षत्वात् दृश्यमानतत्प्रकर्षवत् । इत्यैन्द्रियकं ज्ञानं नांतीतादि गोचरयति । भावनाप्रकर्षपर्यन्तजन्मनस्तु सत्यपि विशदनि सित्वे प्राच्यानु- भवगोचरादनधिकमधिकं वाऽध्यवस्यतः स्मृतिविभ्रमस्रोतसोरन्यतरावर्तपरि- वर्तिनः कुतः प्रामाण्यकूलपतिलम्भः ; कुतस्तरां च प्रत्यक्षतयोत्तम्भनम् ; प्रत्यक्षस्य वा सतः कथमिव विदितविषयनियमव्यतिक्रमः; अतिक्रामतो वा कुतः प्रत्यक्षत्वमिति न विश्वानुभवैश्वर्यशालिनि प्रत्यक्ष प्रमाणम् । नापि प्रमाणान्तरम् । तत्खल्वनुमानमागमो वा ? अनुमानमपि ईश्वरसिद्धिः ६१ विशेषतोदृष्टं सामान्यतोदृष्टं वा ? तत्र सकलपदवीदवीयसि भगवति न तावत् स्वलक्षणसाक्षात्कारपूर्वकाविनाभावावधारणाधीनोदयत्वादिदमनुमान- मुदतुमलम् । न बनवगतचरहुतभुजस्तदविनाभावितया धूममनुसंधातुमी- शते । न च सर्वार्थनिर्माणसाक्षात्कारपटीयसि लिङ्गं सामान्यतोदृष्टमपि किंचन लभ्यते ॥ नन्वेकचेतनाधीनं विवादाध्यासितं जगत् । अचेतनेनारब्धत्वादरोगस्वशरीखत् ॥ तथा सर्वार्थनिर्माणसाक्षात्करणकौशलम् । कार्यत्वादेव जगतस्तत्कर्तुरनुमीयताम् ॥ सर्व हि कार्यमुपादानोपकरणसंप्रदानप्रयोजनसंवेदिचेतनरचितमव- गतं घटमणिकगृहादि । कार्यच विमतिपदमवनिगिरिमहार्णवादीति तदपि तथाविधबुद्धिमद्धेतुकमध्यवसीयते । न च कार्यत्वमसिद्धमिति वाच्यम् ; अवयवसन्निवेशादिभिहेतुभिस्तत्सिद्धेः । इह चान्त्यावयविभ्यः प्रभृति आयणुकमखिलमवयविक्रमनिहीयमाननानावयवव्यतिषङ्गविशेषजनितमव- गतमिति अन्तत उपादानं चतुर्विधाः परमाणवः प्रपञ्चस्य । तेषामादिपरि- स्पन्दश्च तदनुगुणादृष्टविशिष्टतत्तत्क्षेत्रज्ञसंयोगासमवायिकारणक इति उप- करणमपि समस्तक्षेत्रज्ञवीनि धर्माधर्मलक्षणान्यदृष्टानि । प्रयोजनं पुनस्त- दभिनिर्वतितविचित्रार्थक्रियाकारश्चेतनोपकारप्रकारभेदोऽपर्यन्तः । तदुप- भुजस्त एव क्षेत्रज्ञास्संप्रदानम् । नचामी स्वसमवायिनावपि धर्माधर्मावल- मवलोकयितुमिति तदतिरेकी निखिलभुवननिर्माणनिपुणोऽधिकरणसिद्धान्त- समधिगतनिरतिशयसहजसकलविषयसंविदैश्वर्यशक्तयतिशयः पुरुषधौरेयकः किमिति न सामान्यतोदृष्टलिङ्गादनुमीयते ? तदिदमविदितानुमानवृत्तस्य स्वमतिरचिततरलतकोल्लसितमिति परिहसन्ति मीमांसकाः। तथा हि-किमिदमेकचेतनाधीनत्वं नामाभि- प्रेतं. तनुभुवनादेः? तदायत्तत्वमिति चेत् ;
सिद्धित्रये ६२ किमस्य तस्मिन्नायत्तं किंनु जन्माथ वा स्थितिः । प्रवृत्तिर्वाऽऽद्ययोस्तावत् साध्यहीनं निदर्शनम् ॥ न खलु शरीरमेकचेतनाधीनोत्पत्तिस्थिति । ये हि यद्देहाधीन- सुखदुःखोपभोगभागिनः, भवति हि तदुचितादृष्टशालिनां सर्वेषामेव तेषां तद्देहिन इव तदुत्पत्तिस्थितिनिमित्तत्वम् । अपिच शरीरावयविनः स्वावय- वसमवायलक्षणा स्थितिरवयवव्यतिषङ्गविशेषाहते न चेतयितारं परमपेक्षते। या पुनस्तदपेक्षिणी प्राणनलक्षणा स्थितिः, न सा पक्षीकृते क्षित्यादौ संभवतीति स्थितिमपि नैकरूपां पक्षसपक्षानुयायिनीमुदीक्षामहे । एकचेत- नाधीनप्रवृत्तित्वे तु प्रबलबहुजनसरभसप्रयत्नप्रचाल्यैरुपलतरुरथादिभिर्व्यभि- चारः । आरब्धत्वादेव चैतत्साध्यसिद्धावधिकमिदमुपादानविशेषवचनम् । चेतनाधीनतामात्रसाधने सिद्धसाध्यता । चेतनभोक्तृभिभोंग्यः कर्मभिर्जन्यते हि नः ॥ युक्तं चैतत्-यत् , उभयवादिसिद्धानामेव चेतनानां कर्तृत्वा. भ्युप्रगमः; लाघवात् । नचोपादानाद्यनभिज्ञतया तत्प्रतिक्षेपः । उपादानं पृथिव्यादि यागदानादि साधनम् । साक्षात्कतुं क्षमन्ते यत्सर्व एव च चेतनाः ॥ अद्यवदेव विश्वम्भरादयः क्रमप्राप्तागन्तुकोपचयापचयैकदेशशा- लिनो न युगपदेव निरवशेषविलयजननभागिन इत्यन्तिमपरमाणुसाक्षात्कारो न कर्तृभावोपयोगी। कर्मणश्शक्तिरूपं यदपूर्वादिपदास्पदम् । मा भूत्प्रत्यक्षता तस्य शक्तिमद्ध्यक्षगोचरः।। न खलु कुलालादयः कुम्भादिकार्यमारममाणास्तदुपादानोपकरणभूत- मृद्दण्डचक्रादिकार्योत्पादनशक्किं साक्षात्कृत्य तत्तदारभन्ते । यदि पर शक्तिमविदुषामभिलषितसाधने तदुपादानादिव्यवहारोऽनुपपन्नः ; इह तु ईश्वरसिद्धिः ६३ आगमादवगम्यन्ते विचित्राः कर्मशक्तयः । तेन कर्मभिरात्मानः सर्व निर्मिमतां पृथक् ।। अपिच तदेव चेतनकर्तृकं जगति परिदृश्यते, यदेव शक्यक्रिय शक्यज्ञानोपादानादि च । न च तथा महीमहीधरमहार्णवादीति कथमिव तत्तत्कार्यत्वम् कथन्तरां च तदुपादानोपकरणादेस्साक्षात्कारगोचरता ? यादृशं हि कार्यमुपादानाधभिज्ञपूर्वकमवगतं घटमणिकादि, तादृशमेव हि तथाविधबुद्धिमद्धेतुकत्वानुमानाय प्रभवतीति । अपि चानीश्वरेण परिमितशक्तिज्ञानेन विग्रहवताऽनवाप्तकामेन कृतमवगतं घटादिकार्यमिति तथाविधं बोद्धारमुपस्थापयन् हेतुरभिमतपुरुष- सार्वज्यसर्वैश्वर्यादिविपर्ययसाधनाद्विरुद्धस्स्यात् । नचैवं सति सर्वानुमान- व्यवहारोच्छेदप्रसङ्गश्शङ्कितव्यः । प्रमाणान्तरगोचरे हि लिङ्गिनि लिङ्ग- बलादापततो विपरीतविशेषांस्तत्प्रमाणमेव प्रतिरुणद्धि । इह पुनरतिपतित- सकलमानान्तरकर्मभावे सर्वनिर्माणनिपुणे सिषाधयिषिते यावन्तोऽन्वय- व्यतिरेकावधारिताविनाभावभाजो धर्मास्तानप्यविशेषेणोपस्थापयति । अपिच-स्वार्थकारुण्यभावेन व्याप्ताः प्रेक्षावतः क्रियाः। ईश्वरस्योभयाभावाज्जगत्सों न युज्यते ॥ अवाप्तकामत्वान्न तावदात्मार्थे सृजति ; प्रलयसमये प्रलीनसकल- करणकलेबरादिभोगोपकरणतया च चेतनानां दुःखाभावात् दुःखिदर्शन- जनितकृपाप्रयुक्तिरपि नास्तीति व्यापकभूतस्वार्थकारुण्यनिवृत्तेफ्प्यभूतया प्रेक्षावत्प्रवृत्त्याऽपि निवर्तितव्यम् । सुखैकतानं जनयेजगत् करुणया सृजन् । तत्कर्मानुविधायित्वे होयेतास्य स्वतन्त्रता ॥ न चोपादानादिसाक्षात्कारिण एवं कर्तृत्वमित्यपि नियमः; उपा- दानमुपकरणं चाविदुष एवात्मनो ज्ञानादिषु कर्तृत्वात् ।
सिद्धित्रये अत:-असिद्धत्वाद्विरुद्धत्वादनैकान्त्याच्च वर्णितात् । कार्यत्वहेतोर्जगतो न यथोदितकर्तृता ॥ प्रयोगश्च भवति-महीमहीधरादि कार्य न भवति, प्रसिद्धकार्य- विलक्षणत्वात् गगनवत् ; अशक्यदर्शनोपादानोपकरणत्वाद्वा, व्यतिरेकेण घटादिवत् । परमाणवो न प्रत्यक्षाः निरतिशयसूक्ष्मद्रव्यत्वात् , तथैव घटादिवत् । विमतिविषयः कालो न लोकशून्यः कालत्वात् इदानीन्तन- कालवत् । तनुभुवनादि ईश्वरकर्तृकं न भवति कार्यत्वात्तद्वदेव । ईश्वरः कर्ता न भवति प्रयोजनरहितत्वादशरीरत्वाद्वा मुक्तात्मवदिति । अत्र ब्रूमो न कार्यत्वं क्षित्यादौ शक्यनिहवम् । सभागत्वात् क्रियावत्त्वान्महत्त्वेन विशेषितात् ।। तादृशादेव मूर्तत्वात् बाह्यप्रत्यक्षताऽन्वितात् । ससामान्यविशेषत्वादित्यादिभ्यो घटादिवत् ।। नचेश एव सन्निवेशः कार्यः, नेतर इत्यवयवसन्निवेशविशेष- प्रतिनियतं रूपभेदमुदीक्षामहे । यत्तु-शक्यक्रियं शक्यज्ञानोपादानोपकरण च क्रियत इति तदस्तु नाम । किन्तु ते क्रियाज्ञानशक्ती क्रियाज्ञानाभ्यामेव समधिगमनीये; ते च क्षित्यादिषु यथोक्तसाधनबलसमुपस्थापिते इति न विशेषः प्रसिद्ध- प्राकारगोपुरादिकार्येभ्यस्तनुभुवनादेः। नचैतावानेव क्रियागोचर इति विषयनियमः कश्चित् क्रियाया दृष्टः, येनेदमशक्यक्रियमध्यवस्येम सिद्धे च कार्यत्वे तदुपादानादिसाक्षात्करणतदधिष्ठानतत्प्रेरणनिपुणः पुरुष- विशेषस्सिध्यत्येव । अधिष्ठानं च तत्प्रवृत्त्यनुगुणसंकल्पवदीश्वरसन्निकर्षः, क्षेत्रज्ञेने स्वशरीरादौ । स च द्रव्यैस्संयोगलक्षणः, तद्गुणैस्तु संयुक्तसमवायरूपः प्रवृत्तिश्च परमाणूनां परिस्पन्दलक्षणा । धर्माधर्मयोस्तु फलोदयानुकूलता- . ईश्वरसिद्धिः दृशदेशकालादिसहकारिसहितता, ताभ्यां धर्माधर्माभ्यामेव फलम् , चेतनानधिष्ठितानां सर्वेषामेतेषामचैतन्येनाकिंचित्करत्वात् । न हि चेतनेन वर्धकिनाऽनधिष्ठिता वासी देशकालादिसहकारिशतसमधिगमेऽपि यूपा- दीन्यापादयितुमलम् । बीजाङ्कुरादयस्तु पक्षान्तर्भूता इति तैर्व्यभिचार- वचनमनभिज्ञतयैव श्रोत्रियाणाम् । एतेन सुखादिभिर्व्यभिचारोऽपि प्रत्युक्तः। नचोभयवादिसिद्धतामात्रेण क्षेत्रज्ञानामेवेदृशाधिष्ठातृत्वकल्पन- मुचितम्, तेषां सूक्ष्मव्यवहितादिदर्शनाशक्तनिश्चितत्वात् । दृष्टानुसारिणी हि सर्वत्र कल्पना; न दृष्टविरोधिनी। नचैवमीश्वरस्याशक्तिनिश्चिता प्रमाणान्तरतस्तत्सिद्धेः । यथोदितप्रमाणबलेन सिध्यन् सांसिद्धिकसर्वार्थ- दर्शनतत्प्रेरणशक्तिसंपन्न एव सिध्यति; कार्यत्वस्य समर्थकर्तृपूर्वकत्वेन प्रतिबन्धात् । यत्तु परिमितशक्तिज्ञानानैश्वर्याद्यापादनाद्धर्मविशेषविपरीतसाधनत्व- मुद्भावितम् ; तदतिस्थवीयः, अप्रयोजकत्वात्तेषाम् । न हि किंचित् क्रिय- माणं कर्तुरन्तरविषयमसामर्थ्यमज्ञानं वा स्वोत्पत्तयेऽपेक्षते ; स्वसंपादन- समर्थकर्तृमात्राक्षेपात् केवलव्यतिरेकासिद्धेः । तावतैवोपपद्यमाने कार्योदये संबन्धिनोऽकिंचित्करस्यार्थान्तरविषयस्याभावस्य हेतुत्वकल्पनानुपपत्तेः । अपिच किं तदितरसमस्तवस्तुविषयज्ञानादि व्यापकमुत कतिपय- गोचरमिति विवेचनीयम् । न तावदशेषविषयम् ; अनुपलब्धः। न खलु कुम्भकारः कुम्भातिरेकि किमपि न विजानाति । अथ कतिपयविषयम् ? तदपि न, अनियतविषयतया तस्यतस्य व्यभिचारदर्शनात् । न चास्ति किंचियवस्थितम्, यदविद्यादिमानेव कर्तृतामनुभवति । न च शरीरिणैव का भाव्यम्, शरीरग्रहणेनैवानकान्त्यात् । न खलु शरीरविशिष्टस्सन्ने- वायमात्मा शरीरमुपादत्ते, अयोगिनो युगपदनेकशरीरग्रहणायोगात् । पूर्व- 5 ६६ सिद्धित्रये देहपरित्यागेन देहान्तरप्रापककर्मप्रेरितप्राणसहाय एव देहान्तर प्रविशती- त्युपपादितमात्मचिन्तायाम् । किंचात्मनश्शरीरमधितिष्ठतोऽधिष्ठानक्रियाकर्मभूतस्य देहस्याधिष्ठा- तृ देहा)दशानुप्रवेशोऽनुपपन्नः, युगपदेकक्रियायामेकस्य कर्मकर्तृत्वविरो- धात् । अधितिष्ठासितदेहसंयोगवत एव तत्प्रवृत्त्यनुगुणप्रयत्नयोगलक्षण- मधिष्ठानं दृष्टमिति चेत् ; अस्त्वेकतत्त्वसंबद्धस्याधिष्ठानानुपपत्तेः प्रेयवस्तु- संबन्धिना प्रेरकेण भवितव्यमिति ; न पुनर्देहसंबन्धेन भाव्यमिति । कुतो निर्णयः ? इत एव, यतोऽन्यदप्यधिष्ठीयमानं मानदण्डादि स्वसंवन्धि- नैवाधिष्ठीयते । तेनाधिष्ठानक्रियापेक्षिताधिष्ठेयपदार्थसंबन्धो नामापरो नाद- तव्यः । अस्ति चेश्वरस्यापि जगदुपादानोपकरणैस्संबन्ध इत्युक्तमेव । अथ स्वदेहव्यतिरिक्त वस्तुनि प्रवृत्तिविशेषकरत्वं देहद्वारेणैव । दृष्टं हि दण्डचक्रादिषु करसंयोगादिना कुलालादेः प्रवर्तयितृत्वमित्युच्येत; तदपि न, अभिध्यानमात्रेणैव परशरीरगतगरनिरसनविसारणदर्शनात् । कथमसति शरीरे परप्रेरणात्मकस्संकल्प इति चेत् ; किं शरीरं संकल्पयति, येन तदभावे न भवेत् ? करणमिति चेन्न ; मनसः करणत्वात् । किम- स्तीश्वरस्य मनः? बाढम् । नन्वेवं विग्रहधर्माधर्मानैश्वर्यादयः साधारण- धर्माः प्रादुःष्युः । मैवम् ; कार्यत्वाक्षिप्तसमर्थकर्तृमत्त्वाइढिम्नैवापास्तत्वात्। मनसो नित्येन्द्रियतया देहापगमेऽपि संबन्धाभ्युपगमादनकान्तिकश्च । यावद्धि दृष्टानुगुणं व्याप्त्युपयोगि, तावदनुज्ञायते । नचास्मदादेर्मनसा- ऽप्यचिन्त्यरचनस्यापर्यन्तविस्तारस्य महाभूतभौतिकप्रपञ्चस्य प्रादेशिकशरी- रकः किंचिज्ज्ञः पुण्यपापपरवशगतिरलं निर्माणायेत्यपरिमितज्ञानेश्वर्य- शक्तिश्शरीराधनपेक्षः संकल्पादेव सकलभुवननिर्माणक्षमः कर्ता सिद्धः । ईदृशेन कर्ता घटादिषु कार्यत्वस्य संबन्धो न दृष्ट इति चेत् ; अतिगहनगिरितटाधिष्ठानेनातिप्रकृष्टादृष्टचरेन्धननिवहसंबन्धिना हुतवह- ईश्वरसिद्धिः विशेषेण महानसादौ धूमस्य वा किं संबन्धो दृष्टः, संबन्धो दृष्टः, येन धूमविशेषदर्श- नाद् गिरिशिखरे तथाविधामिरनुमीयते ? यादृशो धूमो यत्रावगतस्तत्रैव तादृशस्तसंपादनसमों दृष्टान्तभूमावपरिदृष्टोऽपि सामान्यव्याप्तिबलेन पक्षधर्मतावशासिध्यतीति चेत् ; तदिदमस्माभिरभिधीयमानं किमिति न हृदयमधिरोहति भवताम् । इहापि कार्यत्वं समर्थकर्तृपूर्वकत्वेन घटादिषु विदितसंबन्धनियम क्षित्यादिषु दृश्यमानं स्वसंपादनसमर्थमदृष्टपूर्वमेव बुद्धिमत्कारमुपस्थापयति । यथैव हि देशकालेन्धनपरिमाणादिविशेषा- नादरेण धूमस्य स्वोदयानुगुणहुतवहमात्रेण संबन्धनियमः, तथैवानीश्वर- त्वाकिंचिज्ज्ञत्वशरीरित्वपुण्यपापपरवशत्वमनुष्यत्वादिविशेषप्रहाणेन कार्यस्य स्वनिर्माणसमर्थबुद्धिमत्कर्तृमात्रेण संबन्धनियमनिश्चय इति न कश्चिद्विशेषः। अपिच विभुद्रव्यसंयोगिनः परिस्पन्दवतश्च सर्वत्र स्पर्शवत्त्वा- न्यभिचारेऽपि ज्ञानसुखादिनित्यद्रव्यविशेषगुणानुमितात्मसंयोगिनो मनसः कथमिव स्पर्शरहितत्वम् ! कथंच वायवीयद्रव्यस्य महिमगुणशालिनो धष्ठानस्पार्शनत्वनियमदर्शनेऽपि त्वगिन्द्रिये तद्विपर्ययः, तैजसस्य स्पर्शयोः, अन्यतरस्य वा प्राकट्यनियमेऽपि रूपोपलम्भसाधनतानु- मिततैजसमावस्य चक्षुषो नियमेन तदुभयानुद्भवाभ्युपगमः ! अथ कार्य- दर्शनानुमितसद्धावानां तैजसादिभावेऽपि तत्तद्विशेषाणां योग्यानुपलब्धि- बाधितत्वात् तदभ्युपगमेऽनेकनियमभङ्गप्रसङ्गाच्च तथाऽभ्युपगमः, हन्त तहि प्रकृतविषयेऽपि प्रसञ्जितधर्मविशेषात् अनेकनियमदर्शनविघात- प्रसनाच्च तथाऽभ्युपगम इति सर्व समानमन्यत्राभिनिवेशात् । दृश्यन्ते हि नीतयः। यथा विवादास्पदं परमाण्वादि प्रेक्षावरे- रितं चेष्टते अचेतनत्वात् । यदचेतनं तत्तथा; यथा तथाविधं कन्दुकादि। तथा, विवादाध्यासिता बाह्याभ्यन्तरप्रवृत्तयः प्रकृत्युपकरणप्रत्यक्षपूर्विकाः कार्यत्वाचद्वदेव।
૮
सिद्धित्रये
प्रत्यक्षं तत् प्रमेयत्वात्पदार्थत्वाद्धटादिवत् ।
एकेच्छानुविधायीदमचैतन्यात्स्वदेहवत् ॥
एकेनाधिष्ठिताः कार्य कुर्वते सर्वचेतनाः ।
देहसंबन्धसापेक्षकार्यकृत्त्वात् त्वगादिवत् ।।
एकप्रधानपुरुषं विवादाध्यासितं जगत् ।
चेतनाचेतनात्मत्वादेकराजकदेशवत् ।।
[एतावदेवोपलभ्यते]
॥ श्रीः ॥
श्रीभगवद्यामुनये नमः
॥ संवित्सिद्धिः॥
एकमेवाद्वितीयं तद्ब्रह्मेत्युपनिषद्वचः ।
ब्रह्मणोऽन्यस्य सद्भाव ननु तत् प्रतिषेधति ॥
अत्र बमोऽद्वितीयोक्तौ समासः को विवक्षितः
किं स्वित्तत्पुरुषः किं वा बहुव्रीहिरथोच्यताम् ॥
पूर्वस्मिन्नुत्तरस्तावत्प्राधान्येन विवक्ष्यते ।
पदार्थस्तत्र तब्रह्म ततोऽन्यत् सदृशं तु वा॥
तद्विरुद्धमथो वा स्यात् त्रिष्वप्यन्यन्न बाधते ।
अन्यत्वे सदृशत्वे वा द्वितीयं सिध्यति ध्रुवम् ॥
विरुद्धत्वे द्वितीयेन तृतीयं प्रथमं तु वा ।
ब्रह्म प्राप्नोति यस्मात्चद् द्वितीयेन विरुध्यते ॥
भतस्सप्रथमास्सवें तृतीयाद्यार्थरांशयः ।
द्वितीयेन तथा स्पृष्ट्वा स्वस्थास्तिष्ठन्त्यबाधिताः ॥
ननु
नब्रह्मणोऽन्यस्य सर्वस्यैव निषेधकम् ।
द्वितीयग्रहणं यस्मात्सर्वस्यैवोपलक्षणम् ॥
नैवं, निषेधो न ह्यस्माद् द्वितीयस्यावगम्यते ।
ततोऽन्यत्तद्विरुद्ध वा सदृशं वाऽत्र वृक्ति सः ॥
द्वितीयं यस्य नैवास्ति तद्ब्रह्मेति विवक्षिते ।
सत्यादिलक्षणोक्तीनामपलक्षणतां भवेत् ॥
अद्वितीये द्वितीयार्थनास्तितामात्रगोचरे ।
स्वनिष्ठत्वान्नार्थस्य न स्यामपदान्वयः ॥
सिद्धित्रये
द्वितीयशून्यता तत्र ब्रह्मणो न विशेषणम् ।
विशेषणे वा तझ तृतीयं प्रथमं तु वा ॥
प्रसक्तं पूर्ववत्सर्व बहुव्रीहौ समस्यति ।
ब्रह्मणः प्रथमा ये च तृतीयाद्या जगत्तये ॥
ब्रह्म प्रत्यद्वितीयत्वात् स्वस्थास्तिष्ठन्त्यबाधिताः ।
किंच तत्र बहुव्रीहौ समासे संश्रिते सति ॥
वृत्त्यर्थस्य नञर्थस्य न पदार्थान्तरान्वयः ।
सत्यार्थान्तरसंबन्धे षष्ठी यस्येति युज्यते ॥
द्वितीयवस्तु नास्तित्वं न ब्रह्म न विशेषणम् ।
असत्त्वान्न बसद्ब्रह्म भवेन्नापि विशेषणम् ॥
तस्मात्प्रपञ्चसद्भावो नाद्वैतश्रुतिबाधितः ।
स्वप्रमाणबलासिद्धः श्रुत्या चाप्यनुमोदितः ॥
तेनाद्वितीयं ब्रह्मेति श्रुतेरर्थोऽयमुच्यते ।
द्वितीयगणनायोग्यो नासीदस्ति भविष्यति ॥
समो वाऽभ्यधिको वाऽस्य यो द्वितीयस्तु गण्यते ।
यतोऽस्य विभवव्यूहकलोमात्रमिदं जगत् ॥
द्वितीयवागास्पदतां प्रतिपद्येत तत् कथम् ।
यथा चोलनृपस्सम्राडद्वितीयोऽद्य भूतले ॥
इति तत्तुल्यनृपतिनिवारणपरं वचः ।
न तु तमृत्यतत्पुत्रकलत्रादिनिषेधकम् ॥
तथा सुरासुरनरब्रह्मब्रह्माण्डकोटयः ।
क्लेशकर्मविपाकारिस्पृष्टस्याखिलेशितुः ।।
ज्ञानादिषड्गुण्यनिघेरचिन्त्यविभवस्य ताः ।
विष्णोर्विभूतिमहिमसमुद्रप्सविषः ॥
कः खल्वङ्गुलिभङ्गेन समुद्रान् सप्त संख्यया ।
संवित्सिद्धिः
१
गणयन् गणयेमिफेनबुहृदविग्रुषः ॥
यथैक एव सविता न द्वितीयो नभःस्थले ।
इत्युक्त्या न हि सावित्रा निषिध्यन्तेऽत्र रश्मयः ॥
यथा प्रधानसंख्येयसंख्यायां नैव गण्यते ।
संख्या पृथक्सती तत्र संख्येयान्यपदार्थवत् ॥
तथा, पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ।
इति ब्रुवञ्जगत्सर्वमित्थभावे न्यवेशयत् ॥
तथा, एतावानस्य महिमा ततो ज्यायस्तरो हि सः ।
यत्रान्यन्न विजानाति स भूमा, उदरमन्तरम् ।।
कुरुतेऽस्य भयं व्यक्तमित्यादिश्रुतयः पराः ।
मेरोरिवाणुषस्येदं ब्रह्माण्डमखिलं जगत् ॥
इत्यादिकास्समस्तस्य तदित्थंभाक्तापराः ।
वाचारम्भणमात्रं तु जगत्स्थावरजङ्गमम् ।।
विकारजातं कूटस्थं मूलकारणमेव सत् ।
अनन्यत् कारणात्कार्य पावकाद्विस्फुलिंगवत् ॥
मृत्तिकालोहबीजादिनानादृष्टान्तविस्तरैः ।
नाशकद्दग्धुमनलस्तृणं मज्जयितुं जलम् ॥
न वायुश्चलितुं शक्तस्तच्छक्तयाप्यायनाहते।
एकप्रधानविज्ञानाद्विज्ञातमखिलं भवेत् ॥
इत्यादिवेदवचनतन्मूलाप्तागमैरपि ।
ब्रह्मात्मनाऽऽत्मलाभोऽयं प्रपञ्चश्चिदचिन्मयः ॥
इति प्रमीयते ब्राह्मी विभूतिर्न निषिध्यते ।
तन्निषेधे समस्तस्य मिथ्यात्वात् लोकवेदयोः ।।
व्यवहारास्तु लुप्येरन् तथा स्याब्रह्मधीरपि ।
व्यावहारिकसत्यत्वान्मृषात्वेऽप्यविरुद्धता ॥
७२
सिद्धित्रये
प्रत्यक्षादेरिति मतं प्रागेव समदूदुषम् ।
अतश्योपनिषज्जातब्रह्माद्वैतधिया जगत् ॥
न बाध्यते विभूतित्वाब्रह्मणश्चेत्यवस्थितम् ।
ननु सत्त्वे प्रपञ्चस्य नास्तीति प्रत्ययः कथम् ॥
असत्त्वे वा कथं तस्मिन्नस्तीति प्रत्ययो भवेत् ।
सदसत्त्वं तथैकस्य विरुद्धत्वादसंभवि ॥
सदसत्यत्ययप्राप्तविरुद्धद्वन्द्वसंगमे ।
तयोरन्यतरार्थस्य निश्चयाभावहेतुतः ।।
सदसत्त्वं प्रपञ्चस्य जैनास्तु प्रतिजानते ।
सत्त्वप्राप्ति पुरस्कृत्य नास्तीति प्रत्ययोदयात् ।।
सदा सत्त्वं प्रपञ्चस्य सांख्यास्तु प्रतिपेदिरे।
सदसत्प्रत्ययप्राप्तविरुद्धद्वन्द्वसंकटे ॥
विरोधपरिहारार्थ सत्त्वासत्त्वांशभङ्गतः ।
सदसद्भयामनिर्वाच्यं प्रपञ्चं केचिदूचिरे ॥
सत्त्वासत्त्वे विभागेन देशकालादिभेदतः ।
घटादेरिति मन्वाना व्यवस्थामपरे जगुः ।।
तदेवं वादिसंमर्दात् संशये समुपस्थिते ।
निर्णयः क्रियते तत्र मीमांसकमतेन तु ।।
घटस्वरूपे नास्तित्वमस्तित्वं यद्यबूबुधत् ।
स्यादेव युगपत्सत्त्वमसत्त्वं च घटादिषु ॥
इदानीमिदमत्रास्ति नास्तीत्येवंविधा यतः ।
देशकालदशाभेदादस्तिनास्तीति नो धियः ।।
अतो देशादिभेदेन सदसत्त्वं घटादिषु ।
व्यवस्थितं निरस्तत्वाद्वादस्येह न संभवः ।।
ननु देशादिसंबन्धः सत एवोपपद्यते ।
संवित्सिद्धिः
७३
न देशकालसंबन्धादसतस्सत्त्वमिष्यते ॥
संबन्धो याश्रयस्तस्मात्सतस्सत्त्वं सदा भवेत् ।
असतः कारकैस्सत्त्वं जन्मनेत्यतिदुर्घटम् ॥
आद्यन्तवान्प्रपञ्चोऽतस्सत्कक्ष्यान्तनिवेश्यते ।
उक्तंच-आदावन्ते च यन्नास्ति नास्ति मध्येऽपि तत्तथा ॥ इति
अतो निश्चितसद्भावस्सदा सन्नभ्युपेयताम् ।
असतस्सर्वदाऽसत्त्वं जन्ययोगात् खपुष्पवत् ।।
असत्त्वे न विशेषोऽस्ति प्रागत्यन्तासतोरिह ।
श्वेतकेतुमुपादाय तत् त्वमित्यपि
यच्छ्रुतम्
षष्ठप्रपाठके तस्य कुतो मुख्यार्थसंभवः ।।
कार्पण्यशोकदुःखार्तश्चेतनस्त्वंपदोदितः ।
सर्वज्ञस्सत्यसंकल्पो निःसीमसुखसागरः॥
तत्पदार्थस्तयोरैक्यं तेजस्तिमिरवत् कथम् ।
त्वमर्थस्थे तटस्थे वा........ ।
गुणे तत्त्वंपदश्रुत्यो रैकार्थ्य दूरवारितम् ॥
अज्ञत्वसर्ववेदित्वदुःखित्वसुखितादिके ।
विशेषणे वा चिद्धातोरथवाऽप्युपलक्षणे ॥
विरुद्धगुणसंक्रान्ते दस्स्यात् त्वंतदर्थयोः ।
वाच्यैकदेशभङ्गेन चिदेकव्यक्तिनिष्ठता ॥
सोऽयं गौरितिवत् तत्त्वं पदयोरित्यपेशलम् ।
देशकालदशाभेदादेकस्मिन्नपि धर्मिणि ॥
विरुद्धद्वन्द्वसंक्रान्तः सोऽयं गौरिति युज्यते ।
स्वप्रकाशस्य चिद्धातोविरुद्धद्वन्द्वसंगतौ ॥
न व्यवस्थापकं किंचिद्देशकालदशादिके ।
निर्वृतनिखिलद्वन्द्वस्वप्रकाशे चिदात्मनि ॥
सिद्धित्रये
द्वैतानभ्रमाभावाच्छास्त्रं निर्विषयं भवेत् ।
एतेन सत्यकामत्वजगत्कारणतादयः ।।
मा....परेऽध्यस्ताः शोकमोहादयः पुनः ।
अविद्योपाधिके जीवे विनाशेनेति यन्मतम् ॥
क्षुद्रब्रह्मविदामेतन्मतं प्रागेव दूषितम् ।
चित्स्वरूपे विशिष्टे वा मायाविद्याधुपाधयः ।।
पूर्वस्मिन् सर्वसांकय परजीवाविभागतः ।
उत्तरस्मिन्नपि तथा विशिष्टमपि चिद्यदि ॥
चित्स्वरूपं हि निर्भदं मायाविद्याधुपाधिभिः ।
विभिन्नमिव विभ्रान्तं विशिष्टं च....।
तटस्थावस्थिता धर्माः स्वरूपं न स्पृशन्ति किम् ।
न हि दण्डिशिरच्छेदाद्देवदत्तो न हिंसितः ।।
अचिदंशव्यपोहेन चिदेकपरिशेषता ।
अतस्तत्त्वमसोत्यादेरर्थ इत्यप्यसुन्दरम् ॥
अब्रह्मानात्मताभावे प्रत्यक्चित् परिशिष्यते ।
तत्त्वंपदद्वयं जीवपरतादात्म्यगोचरम् ॥
तन्मुख्यवृत्तितादात्म्यमपि वस्तुद्वयाश्रयम् ।
भेदाभेदविकल्पस्तु यस्त्वया परिचोदितः ।।
अभेदाभेदिनोऽसत्ये बन्धे सति निरर्थकः ।
अभेदो भेदमर्दी तु स्वाश्रयीभूतवस्तुनोः ॥
भेदः परस्परानाम्यं भावानामेवमेतयोः ।
स्वरूपमभ्युपेत्यैव भेदाभेदविकल्पयोः ॥
........तेन वाग्वाधाविरोधेन निगृह्यसे ।
भिन्नाभिन्नत्वसंबन्धसदसत्त्वविकल्पनम् ॥
प्रत्यक्षानुभवापास्तं केवलं कण्ठशोषणम् ।
संवित्सिद्धिः
नीले नीलमतिर्यागुत्पले नीलधीहि सा ।।
नीलमुत्पलमेवेदमिति साक्षाच्चकास्ति नः ।
यथा विदितसंयोगसंबन्धेऽप्यक्षगोचरे ॥
मेदाभेदादिदुस्तर्कविकल्पाधानविभ्रमः ।
तद्वत्तादात्म्यसंबन्धे श्रुतिप्रत्यक्षमूलके ।
श्रुतिदण्डेन दुस्तकविकल्पभ्रमवारणम् ।
निदोषाऽपौरुषेयी च श्रुतिरत्यर्थमादरात् ॥
असकृत् तत्त्वमित्याह तादात्म्यं ब्रह्मजीवयोः ।
ब्रह्मानन्दं हृदन्तःस्थो मुक्तात्मा सुखमेधते ॥
फले च फलिनोऽभावान्मोक्षस्यापुरुषार्थता ।
एकशेषे हि चिद्धातोः कस्य मोक्षः फलं भवेत् ।।
किंच प्रपञ्चरूपेण का नु संविद्विवर्तते ।
न तावद्धटघीः, तस्यामसत्यामपि दर्शनात् ॥
न हि तस्यामजातायां नष्टायां वाऽखिलं जगत् ।
नास्तीति शक्यते वक्तुमुक्तौ प्रत्यक्षबाधनात् ॥
नाप्यन्यसंवित् , तन्नाशेऽप्यन्येषामुपलम्भनात् ॥
ननु संविदभिन्नैका न तस्यामस्ति भेदधीः ।
घटादयो हि भिद्यन्ते न तु सा चित् प्रकाशनात् ।।
घटधीः पटसंवित्तिसमये नावभाति चेत् ।
नैवम्, घटो हि नाभाति सा स्फुरत्येव तु स्फुटम् ॥
घटव्यावृत्तसंवित्तिरथ न स्फुरतीति चेत् ।
तघ्यावृत्तिपदेनापि कि सैवोक्ताऽथवेतरत् ॥
सैव चेत् भासतेऽन्यच्चेत् न बमस्तस्य भासनम् ।
किंचास्याः स्वप्रकाशाया नीरूपाया न हि स्वतः ।।
ऋते विषयनानात्वान्नानात्वावग्रहभ्रमः ।
सिद्धित्रये
न वस्तु वस्तुधर्मो वा न प्रत्यक्षो न लैङ्गिकः ॥
घटादिवेद्यभेदोऽपि केवलं अमलक्षणः ।
यदा, तदा तदायत्तो धीभेदावग्रहोदयः ॥
कुतः, कुतस्तरां तस्य परमार्थत्वसंभवः ।
किंच स्वयंप्रकाशस्य स्वतो वा परतोऽपि वा ।
प्रागभावादिसिद्धिस्स्यात् ; स्वतस्तावन्न युज्यते ।
स्वस्मिन् सति विरुद्धत्वादभावस्यानवस्थितेः ।
स्वनिमित्तप्रकाशस्य स्वस्याभावेऽप्यसंभवात् ॥
अनन्यगोचरत्वेन चितो न परतोऽपि च ।
किंच वेद्यस्य मेदादेन चिद्धमत्वसंभवः ।
रूपादिवत् अतस्संविदद्वितीया स्वयंप्रभा ॥
अतस्तद्भेदमाश्रित्य यद्विकल्पादिजल्पितम् ।
तदविद्याविलासोऽयमिति ब्रह्मविदो विदुः ।।
हन्त ! ब्रह्मोपदेशोऽयं श्रद्धधानेषु शोभते ।
वयमश्रद्दधानास्मो ये युक्तिं प्रार्थयामहे ।।
प्रतिप्रमातृविषयं परस्परविलक्षणाः ।
अपरोक्षं प्रकाशन्ते सुखदुःखादिवद्धियः ।।
संबन्धिव्यङ्गयभेदस्य संयोगेच्छादिकस्य नः ।
न हि भेदः स्वतो नास्ति नाप्रत्यक्षश्च संमतः ॥
यदि सर्वगता नित्या संविदेवाभ्युपेयते ।
ततस्सर्व सदा भायात् , न वा किंचित्कदाचन ॥
तदानीं न हि वेद्यस्य सन्निधीतरकारिता ।
व्यवस्था घटते वित्तेः व्योमवैद्वभवाश्रयात् ॥
नापि कारणभेदेन, नित्यायास्तदभावतः ।
न च स्वरूपनानात्वात् , तदेकत्वपरिग्रहात् ॥
संविसिद्धिः
ततश्च बधिरान्धादेशशब्दादिग्रहणं भवेत् ।
गुरुशिष्यादिभेदश्च निर्निमित्तः प्रसज्यते ॥
ननु नस्संविदो भिन्नं सर्व नाम न किंचन ।
अतस्सर्व सदा भायादित्यकाण्डेऽनुयुज्यते ॥
इदमाख्याहि भोः किन्नु नीलादिर्न प्रकाशते ।
प्रकाशमानो नीलादिस्संविदो वा न भिद्यते ॥
आदौ प्रतोतिसुभगो निर्वाहो लोकवेदयोः ।
यतः पदपदार्थादि न किंचिदवभासते ॥
द्वितीये संविदोऽद्वैत व्याहन्येत समीहितम् ।
यद्ययं विविधाकरप्रपञ्चस्संविदात्मकः ।।
साऽपि संवित् तदात्मेति यतो नाना प्रसज्यते।
न चाविद्याविलासत्वाद् भेदाभेदानिरूपणा ।
सा हि न्यायानलस्पृष्टा जातुषाभरणायते ॥
तथा हि यद्यविद्येय विद्याऽभावात्मिकेष्यते ।
निरुपाख्यस्वभावत्वात्सा न किंचिन्नियच्छति ॥
अर्थान्तरमविद्या चेत् , साध्वी भेदानिरूपणा ।
अर्थानान्तरत्वादिविकल्पोऽस्या न युज्यते ।
विद्यातोऽर्थान्तरं चासाविति सुन्याहृतं वचः ।।
अथार्थान्तरभावोऽपि तस्यास्ते भ्रान्तिकल्पितः ॥
हन्तैवं सत्यविद्यैव विद्या स्यात्परमार्थतः ।
किंच शुद्धाऽजडा संवित्, अविद्येयं तु नेशी ।।
तत् केन हेतुना सेयमन्यैव न निरूप्यते ।
अपि चेयमविद्या ते यदभावादिरूपिणी ॥
सा विद्या किन्नु संवित्तिवेद्यं वा वेदिताऽथवा ।
वेद्यत्वे वेदितृत्वे च नास्यास्ताभ्यां निवर्तनम् ॥
सिद्धित्रये
न हि ज्ञानाहतेऽज्ञानमन्यतस्ते निवर्तते ।
संविदेवेति चेत् । तस्या ननु भावादसंभवः ॥
किंचेयं तद्विरुद्धा वा, न तस्याः कापि संभवः ।
यतोऽखिलं जगद्व्याप्तं विद्ययैवाद्वितीयया ॥
अभावोऽन्यो विरुद्धो वा संविदोऽपि यदीष्यते ।
तदानीं संविदद्वैतप्रतिज्ञां दूरतस्त्यज ॥
किंचासौ कस्य ? जीवस्य ; को जीवः ? यस्य सेति चेत् ।
नन्वेवमसमाधानमन्योन्याश्रयणं भवेत् ॥
न ते जीवादविद्या स्यात्, न च जीवस्तया विना ।
न बीजाङ्कुरतुल्यत्वं जीवोत्पत्तेरयोगतः ॥
ब्रह्मणश्चेत् , न सर्वज्ञं कथं तत् बंभ्रमीति ते ।
अविद्याकृतदेहात्मप्रत्ययाधीनता न ते॥
ब्रह्मसर्वज्ञभावस्य, तत्स्वाभाविकताश्रुतेः ।
मेदावभासगर्भवादथ सर्वज्ञता मृषा ॥
तत एवामृषा कस्मान्न स्याच्छब्दान्तरादिवत् ।
यथा शब्दान्तराभ्याससंख्याद्याः शास्त्रभेदकाः ॥
भेदावभासगर्भाश्च यथार्थाः, तादृशी न किम् ।
सर्वज्ञे नित्यमुक्तेऽपि यद्यज्ञानस्य संभवः ॥
तेजसीव तमस्तस्मान्न निवर्तेत केनचित् ।
सर्वज्ञत्वादिवचनप्रामाण्यं व्यावहारिकम् ॥
तात्त्विकं तु प्रमाणत्वमद्वैतवचसामिति ।
नियामकं न पश्यामो निबन्धात्तावकाहते ॥
आश्रयप्रतियोगित्वे परस्परविरोधिनी ।
कथं वैकरसं ब्रह्म सदिति प्रतिपद्यते ॥
प्रत्यक्त्वेनाश्रयो ब्रह्मरूपेण प्रतियोगि चेत् ।
संवित्सिद्धिः
७९
रूपभेदः कुतस्स्योऽयम् ; यद्यविद्याप्रसादजः ॥
ननु साऽपि तदायत्तेत्यन्योन्याश्रयणं पुनः ।
अवस्तुत्वादविद्यायाः........॥
वस्तुनो दूषणत्वेन त्वया केदं निरीक्षितम् ।
ससा....उत्कारादोषोऽन्योन्यसमाश्रयः ।।
न वस्तुत्वात् ; अवस्तुत्वादित्यतो नेदमुत्तरम् ॥
किंचाविद्या न चेत्........॥
.....पुष्पादि व्यवहारवदिष्यते ।
नाप्यवस्त्विति चो............॥
....समस्तेन ना वस्त्विति चेत्....।
समस्तेन नञा वस्तु प्रथमं यनिषिध्यते ॥
प्रतिप्रसूतव्यस्तेन पुनस्तदिति वस्तुता ।
अतो न वस्तुना..............||
....न कश्चकास्तीति विवक्षिर्या स्म जातु चित् ।
किंच प्रपञ्चनिर्वाहजननी येयमाश्रिता॥
अविद्या सा किमेकैव नैका वा तदिदं वद ।
तदाश्रयश्च संसारी तथैको नैक एव वा ॥
सा चेदेका, ततस्सैका शुकस्य ब्रह्मविद्यया ।
पूर्वमेव निरस्तेति व्यर्थस्ते मुक्तये श्रमः ॥
स्यान्मतम् नैव ते सन्ति वामदेवशुकादयः
यद्विद्यया निरस्तत्वान्नाद्याविद्येति चोद्यते ॥
मुक्तामुक्तादिभेदो हि कल्पितो मदविद्यया।
दृश्यत्वान्मामकस्वप्नदृश्यभेदप्रपञ्चवत् ॥
यत् पुर्नब्रह्मविद्यातस्तेषां मुक्तिरभूदिति ।
वाक्यं तत् स्वाममुक्त्युक्तियुक्ताप्रत्यूहतामिति ॥
सिद्धित्रये
.
नन्वीदृशानुमानेन स्वाविद्यापरिकल्पितम् ।
प्रपञ्चं साधयत्यन्यः कथं प्रत्युच्यते त्वया ॥
त्वदविद्यानिमित्तत्वे यो हेतुस्ते विवक्षितः ।
स एव हेतुस्तस्यापि भवेत् सर्वज्ञसिद्धिवत् ॥
इत्यन्योन्यविरुद्धोक्तिव्याहते भवतां मते ।
मुखमस्तीति यत्किंचित् प्रलपन्निव लक्ष्यसे ।
यथा च स्वाप्नमुक्त्युक्तिसदृशी तद्विमुक्तिगीः ।
तथैव भवतोऽपीति व्यों मोक्षाय ते श्रमः ।।
यथा तेषामभूतैव पुरस्तादात्मविद्यया ।
मुक्तिर्भूतोच्यते, तद्वत् परस्तादात्मविद्यया ॥
अभाविन्येव सा मिथ्या भाविनीत्यपदिश्यताम् ।
सन्ति च स्वप्नदृष्टानि दृष्टान्तवचनानि ते ॥
ननु नेदमनिष्टं मे यन्मुक्तिन भविष्यति ।
आत्मनो नित्यमुक्तत्वान्नित्यसिद्धैव सा यतः ॥
तदिदं शान्तिकर्मादौ वेतालावाहनं भवेत् ।
येनैवं सुतरां व्यथों ब्रह्मविद्यार्जनश्रमः ।।
अविद्याप्रतिबद्धत्त्वादथ सा नित्यसत्यपि ।
असतीवेति तव्यक्तिर्विद्याफलमुपेयते ॥
हस्तस्थमेव हेमादि विस्मृतं मृग्यते यथा ।
यथा तदेव हस्तस्थमवगम्योपशाम्यति ॥
तथैव नित्यमुक्तात्मस्वरूपानवबोधतः ।
संसारिणस्तथाभावो व्यज्यते ब्रह्मविद्यया ॥
हन्त केयमभिव्यक्तिर्या विद्याफलमिष्यते ।
स्वप्रकाशस्य चिद्धातोर्या स्वरूपपदे स्थिता ॥
संवित्, किं सैव, किं वाऽहं ब्रह्मास्मीतीति कीदृशी ।
संवित्सिद्धिः
यदि स्वरूपसंवित् सा, नित्यैवेति न तत्फलम् ।।
अथ ब्रह्माहमस्मीति संवित्तियक्तिरिष्यते ।
ननु ते ब्रह्मविद्या सा सैव तस्याः फलं कथम् ॥
किंच सा तत्त्वमस्यादिवाक्यजन्या भवन्मते ॥
उत्पत्तिमत्यनित्येति मुक्तस्यापि भयं भवेत् ।
अपिच व्यवहारज्ञाः सति पुष्कलकारणे ॥
कार्य न जायते येन तमाहुः प्रतिबन्धकम् ।
इह किं तत् , यत् उत्पत्तुमुपक्रान्तं स्वहेतुतः ॥
अविद्याप्रतिबद्धत्वादुत्पत्तिं न प्रपद्यते ।
न मुक्तिः नित्यसिद्धत्वात् ; न ब्रह्मासोति धीरपि ॥
न हि ब्रह्मायमस्मीति संवित्पुष्कलकारणम् ।
संसारिणस्तदाऽस्तीति कथं सा प्रतिबध्यते ॥
यतस्सा कारणाभावादिदानी नोपजायते ।
न पुनः प्रतिबद्धत्वात् ; अस्थाने तेन तद्वचः ।।
किंचैको जीव इत्येतत् वस्तुस्थित्या न युज्यते ।
अविद्यातत्समाश्लेषजीवत्वादि मृषा हि ते॥
प्रातिभासिकमेकत्वं प्रतिभासपराहतम् ।
यतो नः प्रतिभासन्ते संसरन्तस्सहस्रशः ।।
आसंसारसमुच्छेदं व्यवहाराश्च तत्कृताः ।
अबाधिताः प्रतीयन्ते स्वमवृत्तविलक्षणाः ॥
तेन यौक्तिकमेकत्वमपि युक्तिपराहतम् ।
प्रवृत्तिभेदानुमिता विरुद्धमितिवृत्तयः ।।
तत्तत्स्वात्मवदन्येऽपि देहिनोऽशक्यनिहवाः ।
यथाऽनुमेयाद्वयादेरनुमानाविलक्षणाः ॥
प्रत्यक्षं ते तथाऽन्येभ्यो जीवेभ्यो न पृथक् कथम् ।
6
८२
सिद्धित्रये
नचेचेष्टाविशेषेण परो बोद्धाऽनुमीयते ॥
व्यवहारोऽवलुप्येत सर्वो लौकिक्वैदिकः ।
नचौपाधिकभेदेन मेयमातृविभागधीः ॥
स्वशरीरेऽपि तत्प्राप्तः शिरःपाण्यादिभेदतः ।
तथा तत्र शिरःपाणिपादादौ वेदनोदये ॥
अनुसंधानमेकत्वे, तथा सर्वत्र ते भवेत् ।
प्रायणान्नरकक्लेशात् प्रसूतिव्यसनादपि ॥
चिरातिवृत्ताः प्राग्जन्मभोगा न स्मृतिगोचराः ।
युगपज्जायमानेषु..........॥
आश्रयासङ्करः, तत्र कथमैकार्थ्यविभ्रमः ।
न च प्रातिस्विकाविद्याकल्पितस्वस्वदृश्यकैः ॥
जीवैरनेकैरप्येषा लोकयात्रोपपद्यते ।
परवार्तानभिज्ञास्ते स्वस्वस्वप्नैकदर्शिनः ॥
कथं प्रवर्तयेयुस्तां सङ्गायेकनिबन्धनाम् ।
किंच स्वयंप्रकाशत्वविभुत्वैकत्वनित्यताः ॥
त्वदभ्युपेता बाधेरन् संविदस्तेऽद्वितीयताम् ।
संविदेव न ते धर्माः सिद्धायामपि संविदि ॥
विवाददर्शनातेषु तद्रूपाणां च मेदतः ।
न च ते प्रान्तिसिद्धास्ते येनाद्वैताविरोधिनः ॥
तत्त्वावेदकवेदान्तवाक्यसिद्धा हि ते गुणाः ।
आनन्दस्वप्रकाशत्वनित्यत्वमहिमाद्यथ ॥
ब्रह्मस्वरूपमेवेष्टम् , तत्रापीदं विविच्यताम् ।
ब्रह्मेति यावनिर्दिष्टं तन्मात्रं किं सुखादयः॥
अथवा तस्य ते, यद्वा त एव ब्रह्मसंज्ञिनः ।
आये तत्तत्पदानानवैयर्थ्य वेदलोकयोः ॥
संवित्सिद्धिः
८३
पूर्वोक्तनीत्या भेदश्च ; जगजन्मादिकारणम् ।
अभ्युपेत्यैव हि ब्रह्म विवादास्तेषु वादिनाम् ॥
द्वितीये सैव तैरेव ब्रह्मणस्सद्वितीयता ।
तृतीये ब्रह्म भिद्येत तन्मात्रत्वात् पदेपदे ॥
तत्समूहोऽथवा ब्रह्म तस्वृन्दविनाशवत् ।
प्रकर्षश्च प्रकाशश्च भिन्नावेवार्कवर्तिनौ ।
तेन न क्वापि वाक्यार्थो विभागोऽस्ति निदर्शनम् ।
जाड्यदुःखाद्यपोहेन यद्येकत्रैव वर्तिता ॥
ज्ञानानन्दादिशब्दानां न सतस्सद्वितीयता ॥
अपोहाः किं न सन्त्येव सेन्तो वा नोभयेऽपि वा ।
सत्त्वसत्सद्वितीयः स्याज्यडाद्यात्मकतेतरे ॥
सदसव्यतिरेकोक्तिः पूर्वमेव पराकृता ।
तथात्वे च घटादिभ्यो ब्रह्मापि न विशिष्यते ॥
किच्चापोह्य जडत्वादिविरुद्धार्थासमर्पणे ।
नैव तत्तदपोह्येत तदेकार्थेः पदैरिव ॥
प्रतियोगिनि दृश्ये तु या भावान्तरमात्रधीः ।
सेवाभाव इतीहापि सद्भिस्ते सद्वितीयता ॥
भूतभौतिकभेदानां सदसद्व्यतिरेकिता ।
कुतोऽवसीयते किन्नु प्रत्यक्षादेरुतागमात् ॥
प्रत्यक्षादीनि मानानि स्वस्वमर्थं यथायथम् ।
व्यवच्छिन्दन्ति जायन्त इति यावत् स्वसाक्षिकम् ॥
यथाऽग्रतः स्थिते नीले, नीलिमान्यकथा न, धीः ।
एकाकारा; न हि तथा स्फटिके धवले मतिः ॥
क्षीरे मधुरधीर्यादृक् नैव निम्बकषायधीः ।
व्यवहारोश्च नियतास्सर्व लौकिकवैदिकाः॥
८४
सिद्धित्रये
सत्यं प्रतीतिरस्त्यस्या मूलं नास्तीति चेन्न तत् ।
सा चेदस्ति तया मूळ कल्प्यतां कार्यभूतया
क्लप्तं चेन्द्रियलिङ्गादि तद्भावानुविधानतः ।
योगपद्यक्रमायोगाद्वयवच्छेदविधानयोः ॥
ऐक्यायोगाच्च भेदो न प्रत्यक्ष इति यो भ्रमः ।
भेदेतरेतराभावविवेकाग्रहणेन सः॥
स्वरूपमेव भावानां प्रत्यक्षेण परिस्फुरत् ।
भेदव्याहारहेतुस्स्यात् प्रतियोगिव्यपेक्षया ।
यथा तन्मात्रधी नानास्तिव्याहारसाधनी ।
इस्वदीर्घत्वभेदा वा यदैकत्र षडङ्गुले ॥
एवं व्यवस्थितानेकप्रकाराकारवत्तया ।
प्रत्यक्षस्य प्रपञ्चस्य तद्भावोऽशक्यनिहवः ॥
आगमः कार्यनिष्ठत्वादीदृशेऽर्थे न तु प्रमा।
प्रामाण्येऽप्यन्वयायोग्यपदार्थत्वान्न बोधकः ॥
नासत् प्रतीतेः, बाधाच न सदित्यपि यन्न तत् ।
प्रतीतेरेव सत् किं न, बाधान्नासत् कुतो जगत् ॥
तस्मादविद्ययैवेयमविद्या भवताऽऽश्रिता ।
किञ्च भेदप्रपञ्चस्य धमों मिथ्यात्वलक्षणः ॥
मिथ्या वा परमार्थो वा नाद्यः कल्पोऽयमञ्जसा ।
तन्मिथ्यात्वे प्रपञ्चस्य सत्यत्वं दुरपह्नवम् ॥
पारमायेऽपि तेनैव तवाद्वैतं विहन्यते ।
सर्वाण्येव प्रमाणानि स्वस्वमर्थं यथोदितम् ॥
असतोऽर्थान्तरेभ्यश्च व्यवच्छिन्दन्ति भान्ति नः ।
तथाहीह घटोऽस्तीति येयं धीरुपजायते ॥
सा तदा तस्य नामावं पटत्वं वाऽनुमन्यते ।
संवित्सिद्धिः
नन्वस्तीति यदुक्तं किं तन्मात्रं घट इत्यपि ॥
अर्थान्तरं वा तन्मात्रे सदद्वैतं प्रसज्यते ।
अर्थान्तरत्वे सिद्धं तत् सदसद्भ्यां विलक्षणम् ।।
यद्येवम् , अस्ति ब्रह्मेति ब्रह्मौपनिषदं मतम् ।
घटवत् सदसत्त्वाभ्यामनिर्वाच्यं तवापतेत् ॥
आनन्दसत्यज्ञानादिनिर्देशैरेव वदिकैः ।
ब्रह्मणोऽप्यतथाभावस्त्वयैवैवं समर्थितः ॥
सदसद्ध्यतिरेकोक्तिः प्रपञ्चस्य च हीयते ।
यद्यथा किञ्चिदुच्येत तत् सर्वस्य तथा भवेत् ।।
तस्मादस्तीति संवित्तिर्जायमाना घटादिषु ।
तत्तत्पदार्थसंस्थानपारमार्थ्यावबोधिनी ॥
सजातीयविजातीयव्यवच्छेदनिबन्धनैः ।
स्वैस्स्वैर्व्यवस्थित रूपैः पदार्थानां तु या स्थितिः ॥
सा सत्ता न स्वतन्त्राऽन्या तत्राद्वैतकथा कथम् ।
न च नानाविधाकारप्रतीतिश्शक्यनिहवा ॥
न वेद्यं वित्तिधर्मस्स्यादिति यत् प्रागुदीरितम् ।
तेनापि साधितं किंचित् संविदोऽस्ति न वा त्वया ॥
अस्ति चेत् पक्षपातः स्यात् न चेत्ते विफलः श्रमः ।
अतः स्वरसविस्पष्टदृष्टभेदास्तु संविदः ॥
यथास्थादिभिर्बा_नैक्यं याति घटादिभिः ।
सहोपलम्भनियमो न खल्वेकैकसंविदा ॥
न चेदस्ति ससामान्यं सर्व संवेदनास्पदम् ।
सहोपलम्भनियमान्नान्योऽर्थस्संविदो भवेत् ।।
यदेतदपराधीनस्वप्रकाशं तदेव हि ।
स्वयंप्रकाशताशब्दमिति वृद्धाः प्रचक्षते ॥
८६
सिद्धित्रये
यस्मिन्नभासमाने हि यो नामार्थो न भासते ।
नासावर्थान्तरस्तस्मान्मिथ्येन्दुरिव चन्द्रतः ॥
अभासमाने विज्ञाने न चात्मार्थावभासनम् ।
इति संविद्विवर्तत्वं प्रपञ्चः स्फुटमञ्चति ॥
.....मैवं परिभवः ; प्रत्यक्षेण बलीयसा ।
संरक्ष्यमाणभेदास्ते नानुमानानुवर्तिनः ॥
तथा हीदमहं वेमीत्यन्योन्यानात्मना स्फुटम् ।
त्रयं साक्षाच्चकास्तीति सर्वेषामात्मसाक्षिकम् ।।
प्रत्यक्षप्रतिपक्षं च नानुमान प्रवर्तते ।
न हि वढेरनुष्णत्वं द्रव्यत्वादनुमीयते ॥
किञ्च हेतुर्विरुद्धोऽयं सहभावो द्वयोर्यतः ।
तवाहि नत् हि संवित्तिस्स्वात्मना सह भासते॥
नीलाद्युपप्लवापेतस्वच्छचिन्मात्रसन्ततिः ।
स्वापादौ भासते, नैवमर्थस्संवेदनात्पृथक् ॥
तेन संवेदनं सत्यं संवेद्योऽर्थस्त्वसन्निति ।
तदेतदपरामृष्टस्ववाग्बाधस्य जल्पितम् ॥
सहोपलम्भनियमो येनैवं सति हीयते ।
यस्माहते यदाभाति भाति यस्मादृतेऽपि तत् ॥
घटाहतेऽपि निर्भातः पटादिव घटः स्वयम् ॥
[एतावदेवोपलभ्यते]
श्रीभगवद्यामुनमुनये नमः
No text on this page.