University Liberey Allahabad
Dyat Niradana
Front matter
द्वैतनिर्णयः।
महामहोपाध्याय वाचस्पतिमिश्र विरचितः।
तरुपनी ग्रामवासिना वैशकरण केसरिणा
श्रीपरमेश्वरशर्मणो संशोधितः ।
मिथिलाअस्थमालामम्पादकव्याकरणतीर्थ
श्रीविचारायणशर्मणामाज्ञया
दरभङ्गा राजधान्यां
श्रीरमेश्वस्यन्त्रालये मुद्रितः प्रकाशितश्च ।।
शाके १८३० संवत् १९६५
मूल्यं १)
Immersian
॥ द्वैतनिर्णयः॥
आभीरदारकमुदञ्चितकिङ्किणीकमा
ताम्रपाणिचरणं पुरुषं पुराणम् । मञ्जीर
मञ्जुमरुणाधरमम्बुजाक्षमद्वैतचिन्मयम.
नादिमनन्तमीडे ॥ १ ॥ सरस्तुलि
तसागरं व्यधित योनृपग्रामणी(जावि
जितकाञ्चनै रदित यस्तुलापूरुषान् ।
सएषनृपभैरवः समरसीम्नि पञ्चाननो
जयत्यरिविदारकोजगति राजवृन्दार
कः॥ २ ॥ अयं वाग्विलासैरतीतः क
वीनां गुणैर्दोः प्रतापानतीतोभटानाम् ।
त्रिलोकीपतिप्रेयसीवासभूमिः पुनीते ज.
गन्मण्डलं राजचन्द्रः ॥ ३॥ सत्यभामे.
व कृष्णस्य गौरीव मदनहिषः । सविशे,
षा जयत्येषा भूपभैरवभाविनी ॥ ४
विष्णोरन्तः पुरमिव शम्भोरिव देह मण
धनसं-
Andaar
२
॥तनिर्णयः ॥
ईम् । देवी सनामिरेषा जयति जयानो
महादेवी ॥ ५॥ एषा विदितविशेषा प्रस
द्य यं वीक्षते जगज्जननी । तदुपरि प-
रितःप्रपतति हाटकहीरकमयीवृष्टिः ॥६॥
श्री भैरवेन्द्र धरणीपतिधर्मपत्नी राजा
धिराजपुरुषोत्तमदेवमाता । वाचस्पति
निखिलतन्त्रविदं नियुज्य द्वैते विनिर्णय
विधि विधिवत्तनोति ॥७॥
सिचयैः काश्चननिचयैः परिपूज्य गुरुं ज.
गज्जननी। अभिदेलिममपचेलिममक्षर
मक्षरमयं वपुस्तन्ते ॥ ८॥ इष्टं स्तुवाना
दुरितं धुनाना जगत्पुनाना क्षणमीक्षितेन।
श्रीभैरवक्ष्मापतिधर्मपत्नी यशः शरीर
निजमातनोति ॥९॥ रत्नैर्जगन्मण्डल
मावृणोति करोतिखातैर्गगनैकशषम् ।
दानोदकैः सागरतामुपेतं विश्वम्भरामण्ड..
समव्यवस्थम् ॥१०॥
३ ॥ईतनिर्णयः॥ तत्रादौ नामनिर्णयः ॥ शर्मेति ब्राह्मणस्यो वर्मेति क्षत्रसंश्रयम् । गुप्तदासात्मकं नाम प्रशस्तं वैश्यशृद्रयोरित्यत्रेतिपदस्वरसेन यद्यपि शर्मादिप- दात्मकमेव नामावगम्यते तथापि तावन्मानं न नाम किन्तु तद्वन्नामेति निर्णीयते यक्षरं च. तुरक्षरमित्यादिगृह्यदर्शनाम् एवञ्च हरि शर्मा ना. रायणशर्मेत्यादि सिद्धयात शर्मादिपदमात्रात्म- कत्वे तु नाम्नश्चतुरक्षरता न स्यादेव तथा च ना- रायणाादेपदशादिपदाभ्यां निर्मितमेव नाम यक्षरादिकं तु शर्मपूर्वप्रतीकमात्रमेव अतएव दानादौ नामोच्चारणे चैत्रशर्मणइत्येव श्रूयते ।। गोभिलः । शर्मन्नर्घादिके कार्य शर्मा तर्पणकर्मणि । शर्मणोऽअय्यकाले स्यादेवं कुर्वत्र गुह्यतीति । इद- मप्पुत्तरप्रतीकमात्रपरमुक्तगृह्येन सहैकमूलकत्वात् एतेन शर्म सुखनीयमितिकर्कदर्शनाच्छमपद मर्थपरं तेन शुभंकरेत्यायेव नामेत्यपास्तम् गोभिलवि रोधात् कर्कस्तु पूर्वप्रतीकमात्रपरस्तेन शुभङ्कर शर्मा भीमवर्मेत्यादि सिद्धयति एवञ्च सर्वत्रेव ह. व्ये कव्ये चेदृशमेव नाम तेषां प्रयोज्यम् अपवा- दकाभावादिति ॥ अत्रैव मनुः । मङ्गल्यं ब्राह्मण- स्य स्यात्क्षत्रियस्य बलान्वितम् । वैश्यस्य धनसं- . । तनिर्णयः ।। युक्तं शूद्रस्य तु जुगुप्सितम् ॥ शर्मवद्राह्मणस्य स्याद्राज्ञो रक्षासमन्वितम् । वैश्यस्य पुष्टिसंयुक्तं शू- द्रस्य प्रेष्यसंयुतम् ।। स्त्रीणां सुखोद्यम विस्प- टार्थं मनोरमम् । मङ्गल्यं दीर्घवर्णान्तमाशीर्वादा- भिधानवत् ॥ शर्मवर्मप्रभृतीन्युत्तरपदानि कार्याणी- ति मनुटीकापि । स्त्रीनाम तु यशोदादेवीत्यपि, स्त्रीणां दान्तमित्यपि पूर्वप्रतीकमात्रपरम् । वैश्य- स्य गुप्तान्तमिति तु पराशरः । एवंच दानादौ चैत्रशर्मणे ब्राह्मणायेत्यादिस्वरूपं वाक्यम् ॥ ना- मकरण खेकादशे तदसंभवे द्वादशदिने कार्यम एकादशे द्वादशे वाऽहनि पिता नाम कुर्यादिति श्रुतेः । नत्वयमैच्छिकोविकल्पोऽष्टदोषणासात् ॥ ननु किमिदं दानम् । स्वस्वत्वानिवृत्ति-परस्वत्वो- त्पत्तिफलक इच्छाविशेष इत्यवेहि । अस्य चेच्छावि- शेषस्य इदं न ममेतिशरीरम् तच्च सम्प्रदानस्य स्वीकारं ददस्वेतिरूपमासाद्य जायते जातं च दा- तुः स्वत्वध्वसं ग्रहीतुश्च स्वत्वं जनयति यत्रच दा- नोद्देश्यो न प्राक् स्वीकरोति तत्र न दानं नवा- दातुः स्वत्वमपति तद्पसहकारिविरहात् अत ए- व सम्प्रदानस्यापि तत्र कारकत्वमनुमतिद्वारा तदनुमतिप्राप्त्यर्थमेव इदं ददानीति दाता सम्प्र- ।। द्वैतनिर्णय ।। दानहस्ते जलं ददाति अनन्तरं तु देयप्रोक्षणम् तस्मादद्भिवोक्ष्यदद्यादिति हारीतवचनाम् यत्र तु न तादृशं जलदानं तत्र भविष्यद्रव्यप्रतिप- तिभागिनस्तावत्सम्प्रदानता पिन कारत्वस्यैवाभा वात् सम्प्रदानस्य च कारकविशेषत्वात् ॥ नन्वेवं यत्राव्यवधानेनैवद्रव्यप्रतिपत्तिस्तत्रापि प्रतिपत्ति भागनस्तावत्सम्प्रदानता नास्ति स्वीकारणा विरहात् तथाच तत्र सम्प्रदानानुशिष्टा चतुर्थ्यपि न स्यादिति चेत् सत्यम् चतुर्थी हि तत्राकारकए- व वह्निमनुमिनोमीत्यत्र द्वितीयावत् ॥ दानस्या- दौ देयब्राह्मणौ पूज्यौ, योर्चितः प्रतिगृहाति यो- चयित्वा प्रयच्छति । उभौ तौ वसतः स्वर्गे विपरीते विपर्यय इति यमवचनात् । ननु ब्राह्मणोद्देशेन यत्र द्रव्यत्यागस्तत्रापि ददातिप्रयोगः क्रियते स- चकथं स्यात् नहित्यागमात्रे ददातेः शक्तिः। न- चोत्सर्गेऽपिददातिर्मुख्य एवेति वाच्यम् स्वस्वत्वनि- वृत्तिपूर्वक परस्वत्त्वोत्पत्त्पुपलक्षिते तद्विशेषिते वा- त्यागे ददातेः शक्ततया स्वस्वत्वध्वंसमात्रोप- लक्षिते तद्विशेषितेऽपि वा त्यागे ददातेः शक्तों तस्य नानार्थतापत्तेः । साचायुक्ता अन्याय, श्चानेकार्थत्वमिति जैमिनिवचनात् लक्षणादि- ६ ॥ द्वैतभिर्णयः ।। नापि प्रयोगोपपत्तेः यत्रत्वेकानुपपत्तिपतिसन्धान मन्तरेणैवापरार्थधी!शब्दादिवत् तत्र नानार्थता युक्तैव ददातौ तु न तथा दानानुपपत्तिप्रति सन्धानानन्तरमेव ददातिप्रयोगे उत्सर्गप्रतीतेः । नन्वेवमुत्सगर्गे ददातेरलौकिकी लक्षणा सा चायुक्ता, तदुक्तं अस्मदायत्ते हि शब्दप्रयोगे किमित्यवाचक प्रयोक्ष्यामह इति तथाच ब्राह्मणायाहमुत्सृज्य इत्ये व प्रयोक्तव्यं नतु दद इति चेन्मैवं उत्सर्गेऽपि ददा- तिर्मुख्य इति नयमाश्रित्य दद इति प्रयोगकरणात् ।। यत्तु दानमेवेदं सम्प्रदानस्य तु कारकतापरमिह नास्तीति तन्न ससम्प्रदानको हि त्यागोदानं, देव तोद्देश्यकस्तुत्यागोयागः, प्रक्षेपावच्छिन्नस्तु त्यागो होमः, एतत्रितयभिन्नस्तु त्यागउत्सर्गः तत्रापि स प्रतिपत्तिके ददातिर्मुख्यइति हि प्राभाकराः । दातु मुत्सुज्य इति सर्वथैवायुक्तं द्वयोरपि धात्वोरिच्छा र्थकत्वेनेच्छांकर्तुमिच्छामत्यिन्वयप्रसङ्गात्, फलार्थ- वे त्वस्वीकार्नुमस्वीकरोमीत्यन्वयापत्तेः । परस्त्री कर्तुमस्वीकरोमीति तस्यार्थ इतिचत्तर्हि ददात्यर्थेक- देशे तद्भिन्ने वा दातुमिति प्रयोगोऽयं तथाच लक्षणा स्यात् । अयातव्यदानमस्वयं यच्च दत्त्वा परि तप्पते, तीदानमफलं यचोपकारिणे ददाति, तन्मात्रं ॥द्वैतनिर्णयः॥ परिक्लिष्ट यच सोपधन्ददाति, अन्यत्रावितमल्पफलं यचापात्राय ददाति, अनिच्छादानं सवति यचदत्त्वा परिकीर्त्यते, स्मयदानमासुरं यच्चाश्रया ददाति, क्रोधाद्राक्षसं यच्चाक्रुश्य ददाति दत्त्वावाकोशति, असत्कृतं पैशाचं यच्चावज्ञातं ददाति दत्त्वावाऽवजा- नीते, मुमूर्षुस्तामसं यच्चाप्रकृतो ददाति, एतेदानो पसर्गायैरुपसृष्टं दानमसिद्धमस्वय॑मयशस्यमडव- फलं भवत्यल्पफलंवा ।। तीदानं तर्हि संकल्पकाले अदानं देयद्रव्यस्य सम्प्रादानेऽसमर्पणम् । तन्मात्रं यथोक्तोपकरणरहितम् । सोपधं सच्छद्म । स्मयोमा- नभेदः॥ इति हारीतवचनादविद्यमानस्यापि दान सिद्धौ कथमविद्यमानदाननिषेधं ब्रूष इतिचेदुच्यते त्यागकाले विद्यमानस्यापि वस्तुनोऽनर्पणसम्भव तीदानमफलमित्येतस्य तादृशदानाभासविषयत्व- म् । यदाज्नेन निन्दार्थवादेनाविद्यमानदानस्यैव निषेधनं तस्मादिद्यमानस्यैव वस्तुनो दानमुत्स- र्गश्च अविद्यमाने स्वत्वध्वंसाभावात् । तत्रापि प्रति ग्रहोमुख्यस्तत्र सम्प्रदानस्वीकारणायाः सम्भवेन संम्पदानस्य क्रियायां कारकत्वेन सम्प्रदानचतुर्थ्य- न्वयात् । उत्सर्गे तु न तथा भविष्यत्पतिपत्तिभागि- नोदानात्याकस्वीकारणाविरहेण कारकत्वासम्भवेन ८ ॥ इनिर्णयः ॥ सम्प्रदानत्वासम्भवात् । उभयस्मिन्नपि कल्पे देय द्रव्ये परस्वत्वोत्पत्त्यनन्तरमेव दक्षिणा तत्पर्यन्तेनैव दाननिर्वाहात् । तच्चाव्यवहितं तस्यैव फलस्य गम्यादिवद्ददातिधात्वर्थावच्छेदकत्वात् । एवमनृ त्विक्वे दक्षिणादानं नास्त्येव ऋविगानतिदारा तस्य क्रत्वङ्गत्वादिति गुरुमतं तच्च शब्दनिर्णये विस्तरेण खाण्डतमितिनेह तन्यते ॥ अथ तुलापुरु- पद्वैतं निरूप्यते ॥ तत्र, ततोऽवतीर्य गुरखे पूर्वमध निवेदयेत् । ऋत्विग्भ्योऽ परमर्धञ्च दद्यादुदकपूर्वक मितिश्रवणादर्धदानमुक्तफलकामनया गुरवे ततस्त दक्षिणा, ततोऽर्धदानमृत्विग्भ्यस्ततस्तदक्षिणेति हेमाद्रिस्तन्न एवमार्थवादिकफलमवयवद्वयस्य दान दये आवृत्त्या लगिष्यति तुलापुरुषावयविनश्चैक दानासम्भवात्तत्र न लगिष्यतीति यत्राम्नातं फलं तत्र नान्वितं स्यात् यत्र च नाम्नातं तत्रान्वितं स्या त् । दिगुणञ्च स्यादर्घदानयोश्च द्वयोईक्षिणादयं स्यादिति महद्देशसम् ॥ अथैकएव त्यागएकएव ददानीत्युपनयएकमेव च वाक्यं तद्यथा यथोक्त फलकामइदं स्वशरिसम्मितकाञ्चनाधगुरवे तुभ्य- मिदंस्वशरीरसम्मितकाञ्चनापरार्धमृत्विग्भ्योयुष्म- भ्यमहं सम्प्रददेइति । एवञ्चैकएव ददात्यर्थभूत- स्त्यागः, एकएव च प्रयोगः, अर्धयोस्तुदानमेव व समुदायस्तापिदानं नहि सनुदाय संख्यादिलक्षणो नदीयते किन्तु समुदायिनएव, एकैव च दानक्रि या तञ्च ताँचोद्दिश्य भागशोदातुः स्वत्व,संजन यति ग्रहीतॄणांच तथैव स्वीकारात्तथैव स्वत्वानि जन यतीति चेन्न एतादृशदानक्रियायां प्रमाणाभावात् गुरवे पूर्वमन्निवेदयेत् ऋत्विग्भ्योऽपरमर्धन्दद्यादि ति तुलापुरुषदानविधिरेवात्र प्रमाणमिति चेद्धा न्तोऽसि नायन्दानविधिः किन्तु दानोदीच्यप्रतिप त्तिरूपतदिति कर्तव्यताकथनमेतत् । अतएवानेन विधिनेत्यपिसंगच्छत नहि विधिना तुलापुरुषाचर णं किन्तु रीत्या तथाचानया रीत्या यस्तुलापुरुषमा चरेत्स यथोक्तफलभाग्भवतीति तदाक्यार्थः । न च माहादाने विध्यभावादयमेव विधिः । अर्थ वादादेव प्रवर्तकेष्टसाधनताज्ञानोदये विध्यभाव- स्याकिञ्चित्करत्वात् ततएव विधेः कल्पनाद्वा ।। नन्विदं रीतिकथनमितिसत्यं किन्तु ततएवार्धयोर्द. ममायातीति चेन्न नहिखण्डयोदानंतयो प्रागकरणा- त् नाप्यभिसन्धितः आविनिगमात् । कः खण्डोगुरोः कोवाऋत्विजाम । नाभिसन्धिरेखान्तरा शकलीकरो- ति तस्मादाशेरेव दानम्, अन्यथाऽसंभवादिति ॥अथ २ ।। द्वैतनिणयः॥ तुलित विभज्यावधार्य तन्त्रेणोत्सृज्यते, त्यागवाक्य मुक्तमेव, प्रमाणन्तु तत्र ततोऽवतीर्यगुरवइत्यादि । नचजलदानादिकरणभेदात्तन्त्रासम्भवः, तत्रापि तन्त्रात् । तेनपृष्ठस्थ द्वादशहस्तके गुरुहस्तएवाग्ने यतीर्थे जलदानं प्रतिग्रहदानञ्च तेन गुरवे ऋत्वि ग्भ्यश्चेति चतुर्थीद्वयं घटते।। हन्तै निवेदयेदद्यादि ति क्रियाद्रयश्रवणाददानदयमपिस्यात् तस्मादयम थः, अवीर्य दद्यात् महादानमितिप्रकरणात् । ततः पूर्वमधमदकपूर्वकं गुरवे निवेदयेदपरमर्धमृत्विग्भ्यो निवेदयदिति ॥ नन्वेवमेकस्यापि दानरय नाना सम्प्रदानकत्वे परिषदधिकरणविरोधः, तथाहि नाना सम्प्रदानके हि दाने मिलितानामुद्देश्यत्वमुत प्र- त्येकम् । अत्र नाद्यः मिलितानामचैतन्येनास्वीकर्तृ त्वात् । प्रत्येकञ्च स्वीकर्तृत्वसम्भवेऽपि दातुस्तथा- ऽनुद्देशात् दाता हि स्वत्वभागितया मिलितमाभिसं धत्ते न तु प्रत्येकामात ।। ननु यथा ग्रहं संमार्टी सत्र सर्वस्यामेव ग्रहव्यक्तौ ग्रहत्वेनैकेन रूपेणोप- स्थितायां संमार्गान्वयः तथाऽत्रापिऋत्विक्त्वेनैकेन. रूपेणोपस्थितानां त्रयोदशानां गुर्वादीनां दानान्व- योऽस्तु स्वत्वन्तु तेषां भ्रावृणामिव कृत्स्नएव धने। अतएवाग्रे श्रुत्यनुसारेणादिभागकल्पनाशप मैवं।
|| वैतनिणयः॥ धर्मिणानुद्देश्यत्वे विकल्पापत्तेः । अतएव यदम च प्रजापतये च सायममिहोत्रं जुहोतीति श्रुतावापि आमिप्रजापतिभ्यां स्वाहतिक्रमः। नचेतरेतरसमाहार विकल्पावकाशः, इतरेतरयोगस्यैवेह मयोपगमात् ऋ. विग्भ्यइतिश्रुतेः । अतएव क्षौमे वसानावगीनाद धीयातामित्यत्रापि यजमानदम्पत्योरेवाधानपदा- न्मिलितोयस्थितयोराधानान्वयोविधीयतइति ॥ अ- त्रोच्यो यथाऽऽधाने दम्पत्योरन्वयः साहित्येन तपतिक्वेनकेन रूपेगोपस्थितानां त्यज्यमानमहा दानान्वयोऽप्यस्तु । ननुबहूनां सम्प्रदानानामेक स्मिन् वस्तानि नावच्छेदभेदेन स्वत्वमसम्भवात् एक एव हिसुवर्णशशिरनवच्छेदेन दीयतइति ॥ नचार्ध गुरवेर्धमृत्विग्भ्योदीयत इत्यर्थयोखे स्वत्वं च स्वत्वा- निचतिवाच्यं नाहकाञ्चनं शकलीकृत्य दीयते किन्तु दत्वा शकलीक्रियते ॥ नन्वेकमेव दीयतहात सत्यं किन्तु भागशएव तत्र स्वत्वान्युदीयन्ते तथैव तेषां स्वीकारात् भागशएव तानुदादिश्य स्वत्वंव्यति तथैव दातुरभिसन्धानादितिचन्न नाहभागेषुभिन्नभिन्नेषु स्वत्वोदयव्ययौः भागानामेवाकरणात् किन्तु कस्न एव सुवर्णे दातुस्त्यागात्स्वलं व्याकृत्स्नएव च सुत्र ऐऋत्विज्ञामानर्भागेण धणुकादारभ्य चरमस्थल १२ 1 छैतामह ॥ पर्यन्तं स्वत्वानिजायन्ते स्वीकारात् पितृधनेषु प्रा. तृणामिव जन्मतः ॥ नन्वेवं सर्वेषामेव स्वत्वंसर्वस्मि नेव व्यणुकादि चरमस्थूलपर्यन्ते सुवर्णे स्यात्तथाच मोदीयानपितदवयवोनेकेन विनियोज्यः साधारण्या त् आवभक्तपितृधनयदितिवेदाढम्, अतएव बहु साधारणे धने एकलमेन कृतं दानविक्रयादि निव त्यमिति स्मृतिः ॥ अथ द्वादश द्वादशायेभ्यः षट्पद्वितीयेभ्यश्चतसूश्चतसूस्तृतीयेभ्यस्तिस्रस्तिसू इतरेभ्य इति श्रौतकात्यायनसूत्रेण ज्योतिष्ठोमी यदक्षिणागोशतस्यैकन्दानं भागशस्तु स्वत्वार्नाति सिद्धमितिचेत् तथापि भागशोऽपि स्वत्वोदयेऽनध्य वसायः मएव नहिविभागं विना कोऽपि भागपरिचा पकः। नचास्तु विभागएवनथा नहियरतत्र चैत्रस्य प्रतिग्रहण भागम्तत्रैव तदक्षपातइति विना देवव्यापा रं घटते तस्मादिभागःप्रसृतस्ववानां संकोचाय प्रादे शिकतत्तसुरुषीयप्रत्यास्वत्वाय वा नतु स्वस्वभा- गपरिचयाय । नहि विभागफलं भागपरिचयः, क- चिदप्यदर्शनात् ॥ नन्वनेकस्मै एकस्याव्यक्तेनमे. वन संभवतीति चेन्मेवं प्राकोशावय॑वे ददाति सूजमुद्गात्रे . रुक्म होने ऽश्वं प्रस्तोतृपतिहर्तृभ्यां R ३) गौमार वर्षगौ।
॥ वैतनिर्णयः॥
द्वादश पठोहीब्रह्मणे वशां मैत्रावरुणायर्षभं ब्राह्मणा
च्छंसिने वाससी नेष्टापोतृभ्या स्थूरियवाचितमच्छा
वाकायानड्वाहमग्नीधे इति यजुर्वेदीयवौधायन
शाखीयप्रथमाष्टकीयाष्टमप्रश्ने प्रस्तोतृ प्रतिहोरेक
स्यैवाश्वस्य दक्षिणाभूतस्य दानकथनात् । पठौही
प्रथमगागौः प्रथमगर्भाः पठायो दक्षिणा इतिश
तपथात् ॥ अथ यस्य वस्तुनो विषमांशस्य प्रतिपत्ति
स्तस्य बहुभ्यएकदानक्रिया न सम्भवतीति ब्रूमइ
ति चेन्न तृतीयाध्यायभवदेवाविरोधात् तथाच भवदेव
फक्किकादक्षिणादानसुपक्रम्य, तस्यद्वादशशतं दक्षि-
णेत्येकत्वश्रुतेर्दक्षिणादानमेकमेव । नचात्र अहवदेक
त्वाविवक्षा तत्रहि ग्रहै होतीतिवाक्यन दशग्रहा
गृह्यन्त इति तपान्दशानामपिसंस्काराकांक्षायांयुक्तैक
त्वस्याविवक्षा अत्रद्धादशाधिकगोशतरूपदक्षिणादान
स्यविभिन्नस्य वाक्यान्तरेणाप्राप्तत्वात् दक्षिणोपरामेणा
श्रुतस्यैकत्वस्य न परित्यागइति गवां शतं द्वादशाधि
कशतञ्च भिन्ने दक्षिणे तथाचात्रोपक्रमोपसंहारौ
भिन्नविषयाविति चेत् किमतः एकसमुदायदानकि
याशेपे विषमोविभागइत्यत्रैव तात्पर्यात् । नन्वेवं
.
(२) वृषयुक्तं शकटम् ॥
(३) पगपरितम, शाकटो भार आचितइत्यमरः ।।
॥ वैतनिर्णयः॥ परिषदि दत्तमदत्तमिति प्रलापइतिचन्न यत्र हि बहु संप्रदानके दाने भागवैषम्यमपि देशितं तत्रादावेव दाउस्तथैवाशयः प्रतिग्रहीतॄणामपि तथैव स्वीकार इति तादृशविभागपर्यन्ता दानक्रिया तेन विभागेन विना न पूर्यतइति परिषदधिकरणे तात्पर्य तादृश- स्य तु देशितस्य विभागस्य दात्रा करणाभावे परि पदि दत्तमदत्तमित्यादिका निन्दा अतएवात्र यज मानेन संकल्प्य त्रयोदशोदेशेनादौ सकलमेव सुवर्ण त्यक्त्वा पुनरई गुग्वेऽर्द्धमृत्विग्भ्यइतिरीत्या विभज्य प्रतिपादनीयमन्यथा परिषदधिकरणविरोधः स्यादि ति सर्वसमञ्जसम् । एवं तडागेऽपि पञ्चविंशतये सप्तदशभ्यः त्रयोदशभ्योवा ऋत्विग्भ्योगोशतादिक मेकमेव दक्षिणा दीयतेनतुविभज्य वाऽऽवृत्त्या वेति।। हिरण्यगर्भे तु सर्वएव ऋत्विजः स्वशाखोक्तमेव यजमानस्य संस्कारं कुर्युनं तु तच्छाखीयं विद्याप्रयु क्तिकल्पनापत्तेः संस्कारानुदयस्तु समएव ।। अथज लाशयोत्सर्गः । तत्रजलाशयश्चतुर्दा कूपवापीपुष्क रिणीतडागभेदात् । एते चत्वारः खननसाध्याः । पञ्चमः सेतुः। तत्र कूपोऽवटः, सचानारकः खात विशेषः, बदसोपानोऽयंवायी, "शतधन्वन्तरञ्चैव तावत्पुष्करिणीमता । एतत्पञ्चगुणः प्रोक्तस्तहाग"
11 ननिर्णयः ॥
१५
इतिवसिष्ठसंहिता। “एवमेव पुराणेषु तडागविधिरु
च्यते । कूपवापीषु सर्वासु तथा पुष्करिणीषु चइति
मत्स्यपुराणवचनेनाप्यमीषां चतुष्टं सिद्धम् ॥ इन्तेवं
पुष्करिण्यांतडागे निवसन्तु मे इतिमन्त्रः पुष्कर
णीपदेनोहतासमवेतार्थत्वादितिचेन्न युगपदिधौ
प्रकृतिविकृतभावाभावेनोहासम्भवात् तडागपदंतु
जहरस्वार्थलक्षणया खातपरम् ॥ आदित्यपुराणे ॥
सेतबन्धरताये तु तीर्थशौचरताश्चये । तडागकूपक
तारोमुच्यन्ते ते तृपोभयात् ।। सेतुरल जलधारणहेतु
भूतोबन्धः, तेन तत्कर्तुरुदकर्तृत्वात्तृडभयाभावः ।
तीर्थशौच घट्टपरिष्कारः॥ अथकरणफलम् ॥ तत्र
विष्णुः अथकूपकर्तुस्तत्प्रवृत्ते पानीये दुष्कृतार्द्ध
विनश्यति तत्प्रवृत्ते तस्मात्कूपानुत्थिते ॥ निर्जल
देशे तु नन्दिपुराणे ॥ योवापीमथवा कूपं देशे तो
यविवर्जिते खानयेत्सदिवं याति विन्दौ बिन्दौ
शतं समाः तोयवर्जिते तोयं विना संकृचितपाणिग
णे ॥ देवैरेकत्वमतुलं तृष्णाक्षुर्जितस्तथा । तडाग
कावसति स्वर्गे युगचतुष्टयम् ॥ यत्र विग्रोथ गौ
रेका पायिनी सलिलं कचित् । तडागंतादृशं कृत्वा
स्वर्गे दशयुगं वसेत् ॥ अथोत्सर्गफलानि ॥ योवापी
मग्निसाक्ष्येण विधियत्यतिपादयेत् । कोणेषूदककु'
। तनिय ॥ म्भस्थान समुद्रानच॑ श्रद्धया ॥ चतुरश्चतुरन्ता च तेन दत्ता मही भवेत् ।। स्कन्दपुराणे ॥ अव यो- नरः कुर्यादपांपूर्ण सुशोभनम् । दद्याचबामणेभ्यस्तं भोजयित्वा यथाविधि ।। अष्टाभिः सुविचित्राभिः पताकामिरलङ्कृतम् । पितॄस्तास्यते पश्चात्तन्दत्त्वा सनरोत्तमः ॥ यात्यप्सरःसुगीतेन वरुणस्य सलोक- ताम् ॥ अवटोचकूपः । अत्रचोत्सर्गः पुष्करिण्या- दीनां यद्यपि त्यागमात्ररूपः उद्देश्यानां सर्वसत्वा- नां हि नतत्र देवतात्वं अतोनास्य यागत्वं देवतोद्दे श्यहविस्त्यागत्वाभावात्तथापि प्राप्नोतितद्यागवलेन भूयइति मत्स्यपुराणदर्शनात् सत्यागोपि याग इति निर्देश्यः। सचाधिवामनरूपयागाङ्गकतयायज्ञात्मा भवति यागाङ्गकयागस्यैव यज्ञत्वात् अतएव तस्मि- न करिष्यमाणे यक्ष्येइतिप्रयोगः। तेनश्वोयियक्षुणाऽ धिवासनदिनेऽङ्गाधिकाराय तदीजभूतकाम्यप्रधा- नाधिकारसम्पादकः कुशतिलजलत्यागसहितः का- म्याभिलापपूर्वकः प्रधानसङ्कल्पः कार्यः । अत्रच एतान् महाराजविशेषधर्मान् करोति योामति शुद्धबुद्धिः । सयातिरुद्रालयमाशु पूतः कल्पानने कान्दिविमोदतेच ॥ अनेकलोकान्समहस्तपादीन भुक्त्वापरार्द्धढयमङ्गनाभिः। महैवविष्णोःपरमपद- ॥निर्णयः॥ न्तत् प्राप्नोतितद्यागबलेन भूय इत्यर्थवादोस्ति म- त्स्यपुराणोक्ततडागोत्सर्गे ॥ अत्रच पूत इतिकर्तृ विशेषणं तेन कर्तरि पूततान्वयानन्तरं गमनान्वयः पूतत्वञ्च क्षीणपापत्वं तेनपापक्षयः कर्तृविशेषणीभू तोस्यफलं तादृशे च कर्तरि रुद्रालयगमनान्वयः।नच तिकातस्य कर्तृत्वाभिधानाद्गमनकर्तृत्व फलं नतुग' 'मनवत्त्वमितिवाच्यं विवक्षितविवेकेन गमनस्यात्र फ- लत्वात् सुखी भवतीत्यत्र सुखित्वभवनवत्. भुक्त्वा परार्द्धद्वयमङ्गनाभिरित्यत्र प्राथम्याद्भोगक्रियायाम- इनानां साहित्येनान्वयः, विमलंजलंनद्याः कच्छे म हिष इत्यत्र नद्याजलान्वयवत् । ततस्तु सहैवेति श्र वणाद्विष्णुपदप्राप्तावपि साहित्ये प्रतीते तत्पति योग्याकांक्षायामुपस्थितत्वादनानामेव तत्पति योगित्वमिति सिद्धयति । तदेवं प्रयोगः । पापक्षयपूर्वकरुद्रालयगमनानेककल्पावच्छिन्नवर्ग- लोकहर्षपरार्द्धद्वयावच्छिन्नमहस्तपः प्रभृतिलोकाङ्ग नासहितभोगपूर्वकाङ्गनासहितपरमविष्णुपद प्राप्ति- कामः श्वः पुष्करिणीजलाशयोत्सर्गयज्ञेनाहं यक्ष्ये ॥ इदमेववाक्यमुत्तरदिने उत्सपि किन्तु तत्रादौ अयोति प्रक्षिप्य मध्ये श्व इति बहि-कृत्य काम - ३ ॥ वेतनिर्णय ।। इत्यनन्तरं अमुं पुष्करिणीजलाशयं वरुणदेवतं सर्व. भूतोपयोगित्वेन सर्वसत्वेभ्योऽहं समुत्सृज्ये इति प्र- क्षिप्य कार्य अयं जलाशयोमयोत्सृष्ट इति तु नवाक्यं निष्ठायाअतीतार्थत्वेनासमवेतार्थत्वापत्तेः । नचा यमादिकर्माणिक्तः, तथासति हि जलाशयोयं मया आरब्धत्यागइति स्यान्नतु क्रियमाणत्याग इति ।। अयंलडर्थ एवन तुत्वदुक्तनिष्ठार्थः । अतएव त्वम्मया निमन्त्रितइति प्रकृतावपि त्वामहमामन्त्रय इति श्रीदत्तोपाध्यायादयः॥ सर्वसत्वेभ्य इत्युद्देश्यतामा त्रे चतुर्थी । नचैवमसंकुचितसर्वपदस्वरसात् स्व- स्याप्युदेश्यवर्गेन्तर्भावात्स्वस्यापिस्वजलाशयजलोप भोगोनविरुद्धः औपादानिकस्वत्वाविशेषादितिवा- च्यंतिर्यगधिकरणविरोधात् तथा हि तिर्यकपत्र्याय देवतानामनधिकार इति तत्रोक्तं तत्र तिरश्चां विशि धान्तःसंज्ञाविरहात् पोः प्रचरणविरहात्। व्याणेया णामन्धवधिरमूकानामवेक्षणश्रवणोच्चारणविरहात् युक्तोऽनधिकारः, देवतानां त्वत्यन्तविदुषीणां कथम- नधिकारः अचैतन्ये तु कथं घटवच्छङ्कापि नहि घ- 'टोप्यधिकारितया शक्यते । अत्राहुःप्रौव्या देवता. नांचैतन्यमास्थाय तासामनधिकारोत्रप्रतिपाद्यतेत- ॥ द्वैतनिर्णयः॥ थाहि कर्मफलीभूतस्येन्द्रस्येव कर्मफलप्रदेन्द्रस्यापि भ- वतु चैतन्यं तथापि तस्यानधिकारः न हि स्वमेव हविस्त्यागभागित्वेनोविश्य स्वयमेव हविस्त्यजती ति सम्भवति न हि स्वकर्तृकहविस्त्यागोदेश्यत्वं स्वस्य नापि तत्यागोदेश्यताविशिष्टस्य सतस्त्याग कर्तृता । वनवाप्यादित्यागेप्येवं ॥ ननु वाप्यादावे- कस्त्यजति सचविश्वेच चोडेश्याइतिकविरोधः। हन्त तर्हि इन्द्रोपि स्वयं त्यजतु स्वञ्चान्याश्चदेवताउदिइये ति न तत्रापि विरोधः तस्माद्यस्त्यक्ता सन त्यागो- हेश्यः अतएव सत्रे न दाक्षणा यषणामेव ऋत्वि- क्वेनाभेदात् त्यागकर्तृत्वत्यागोश्यत्वयार्विरोधा- दिति ॥ अथ वाप्यादौ त्यक्तुस्त्यागानुद्देश्यस्याप्यो पादानिकं स्वत्वमास्त्विति चेन्न स्वत्यक्ते स्वोपादा- नस्य काचिदप्यदर्शनात् किञ्च सञपि तर्हि तथास्तु तथा च भङ्गया तत्रापि दक्षिणादाने सिद्धे सत्रेन दक्षिणेति प्रलापः॥ अत्र च मुख्यकल्पे पञ्चविंशति ऋत्विजोनव कुण्डान भवन्ति मध्यमकल्पे समदश ऋत्विजःसप्त कुण्डाने तथा त्रयोदश ऋत्विजः पञ्च कुण्डानि । अवरकल्पे एकमेव कुण्डम् । अत्र चाचा- र्यकुण्डपूर्वकुण्डदक्षिणकुण्डानां दक्षिणमेखलायां- ॥ द्वतनिर्णयः॥ योनिः पाश्चिमोत्तरकुण्डानां कुण्डयोर्वा पक्षिममेख- लायां । तदुक्तं त्रैलोक्यसारे दक्षस्था पूर्वयाम्ये तु जलस्था पश्चिमोत्तरे ।नवमस्यापि कुण्डस्य योनिर्द क्षदले स्थितेति ।। दक्षं दक्षिणम् । जलस्था पश्चिम- दिक्स्था तेनाचार्यकुण्ड पूर्वदक्षिणकुण्डेषु उदङ्मुखा- होतारः कलशस्थापनमप्युत्तरदिशि यथापश्चिमम् । पश्चिमोत्तर कुण्डानां कुण्डयोर्वा प्राङमुखाहोतारःप्रा. मुखौ होतारौ वा ऐशानीतो यथोत्तरं शान्तिकल- शाः शेष महादानानर्णयेऽध्यवसेयम॥दक्षयेत्तु समं सर्वानाचार्य द्विगुणं पुनरिति मत्स्यपुराणदर्शनात् । आधिवासनदाक्षिणागां गोपु एकम्य सात्विजोयावान् भागः तनाद्विगुण आचार्यस्य भागइति काचेत् तन्न हमालङ्कारणः कर्याः पञ्चविंशतिऋत्विजः । कुण्ड- लानि च हैमानि केयूरकटकानि च ॥ तथाकुरी पवित्राणि वासांसि विविधानि च । प्रदद्यात्तु समं मर्वमाचार्ये द्विगुणं पुनरित मत्स्यपुराणवाक्यस्य रूपनारायणे दर्शनेनास्य गवाविषयकत्वव्यवस्थितेः।। अथैवन्दक्षयदिति पदमाहितस्थास्यैव वाक्यस्य नि- बधान्तरे दर्शनादस्तु संशयइतिचेन्मैवं अस्यैव वा- क्य स्य व्याख्यानरूपाया चूर्णिकायां भूपालरूपनारा ॥ द्वतनिर्णयः॥ यण संवाददर्शनात् तथाहि ततः सौवर्ण. कटकैरहुरी- पवित्रादिभिहमालङ्कारिणं गुरुं ऋत्विजश्च कुर्यात् । वासांसि विविधानि च तेभ्यो दद्यात् एतचतुर्विंशत- येपि ऋत्विग्भ्यः समन्दातव्यं आचार्याय तु एकैक विग्देयाद्विगुणन्देयम् ॥ भूषणादिदानेद्वैगुण्य- दर्शनादक्षिणागवीष्वपिद्वैगुण्यमाचार्यस्यास्त्वितिचे- न्न वाचनिकी हि व्यवस्था यावद्धचनमेव प्रसर ति ॥ यत्तु सर्वेषामद्धिनोमुख्याद्वितीयास्तु तदर्द्धि- नः । तृतीयिनस्तृतीयास्तु चतुर्थाश्चैकपादिन इति तावज्ज्योतिष्टोमे दक्षिणारूपे गोशते मनुना विभागउक्तः महाप्यमित्वनि तन्न महि षोडशा नामृविजां संभवति अत्र तु पञ्चविंशति. सप्तदश त्रयोदश ऋलिजइति महासंभव बाधित एवेति तस्मादत्र पञ्चविंशतावृविक्षु गवां शतस्य दक्षिणायाः समांशतैव समस्यादश्रुतत्वादि- तिन्यायादवाधितत्वात् । एवमृत्विजां गवां वा दासे सम्भवी विभागोंद्रष्टव्यः॥ ॐ भूः स्वाहा इदं भूरि ति वा इदमग्नय इति वा इदं न ममेति वा त्यागे कृते सति ऋत्विजाऽग्नावाहुतिस्त्याज्या यागानन्त रं होमावसरात् पागश्चोक्तत्यागरूप एव अतएवेद २२ । सनिर्णयः॥ मग्नय इति त्याग इति पद्धतयो ऽपीतितन्न दे- वतोदेश्यकोहि हविस्त्यागोयागः सएव त्यक्तस्य हविपः प्रक्षेपणावच्छिन्नोहोमः अत्रच यजमान- स्त्यक्ता ऋत्विक प्रक्षेमा तथा च स्मार्तेत्र वाप्यादि कर्माण श्रोतकर्मवन्न यजमानः प्रत्याहुति हविस्त्य जति दुःशकत्वात् किंत्वधिवासनराबावेकदैव स- र्वाणि हवींषि । तेन याजमानिकस्य त्यागस्य प्रागे व जातत्वात् स्वाहाऽवसान एव होमउचितः अतएव मन्त्रेणोङ्कारपूतेन स्वाहान्तेन विचक्षणः । स्वाहाव- साने जुहुयाद्ध्यायन वै मन्त्रदेवतामिति स्मृतिः । अथ यदि यजमानः प्रागेवात्याक्षीदतएवास्वाम्या- च ऋत्विगपि न त्यजति तदा इदमग्नयइति किम- थम् यद्यस्ति तदा अदृष्टार्थम् । तत्रैव त्यागइति प्रयोगः किमर्थम् अदृष्टार्थोऽयं त्यागप्रतिरूपकः प्र- योगइति बोधयितुमिति दिक् ॥वस्तुतस्तु इदमग्नय इत्यादित्विकर्तृका प्रयोगोनिर्मूल एव हविस्त्याग स्य यजमानकर्तृकवनियमात् तस्यच पूर्वमेव वृत्त त्वात् इति ।। यत्तु वारुणैर्मन्त्रैरिति स्मरणेऽपि न मन्त्राणां मिलितानामाहुतौ करणत्वं किंतु प्रत्येकम् तथा चैकेन मन्त्रेणाज्यहोमानन्तरं समिद्धोमः एवं ॥ द्वैतनियः॥ मन्त्रान्तरेऽपि तथैव पाठिकक्रमेण मन्त्रकरणका- ज्यहोमसमिद्धोमयोः सिद्धेरिति तन्न एवं हि पशु ननक्तीत्यत्रापि सप्तदशसु पशुष्वेकाञ्जनक्रिया ना- न्वेति असम्भवात् किंतु प्रत्येकम् किंच येनक्रमेणाज नं तेनैव क्रमेणाभ्युक्षणालम्भावपीति प्रावृत्तिकक्रमो दाहरणं तदुक्तं तथाच तत्रापि पदार्थानुसमयो न स्यात् अन्यथा पशुष्वजनक्रियायाएकत्वे एकत्र च क्रमासंभवेन येन क्रमेणाञ्जनं तेन क्रमेणाभ्युक्ष णालम्भावपीति न्यायमीमांसे अपि व्याहन्येते त्वदुक्ताज्यसमिदाहुतिवदकस्यैवाञ्जनाभ्युक्षणाल म्भा एवमपरस्यापि तथाच दर्शनदयविरोधः स्यात् बहुत्वं तु एकस्यद्धयमिवि वदन्वीयते । किंच ऋग्वे देऽष्टौवारुणामन्त्राः तत्राद्यैश्चतुर्भिश्चतुर्दशधा आ- वृत्तैरन्तेश्चनुभिस्त्रयोदशधा आवृत्तराज्यहोमः एव मेव तदनु च समिद्धोमः एवमष्टोत्तरशतमाज्याहु- तयः, ततोऽष्टोत्तरशतं समिदाहुतयः संभवन्ति वदु- ते च क्रमे एकस्मिन्नेव मन्त्रे आज्यसमिधोराहु- तिषु क्रियमाणासु सप्तविशतावाहुतिषु समविभा- गासम्भवादाज्यसमिधोः संख्यावैषम्यं स्यात् । त्व- न्मतेऽप्यविरोधएव विभागइत्यपि तव भ्रमबीजम् ।।
ढतनिर्णयः॥ अथर्वदेवेऽपि चतुर्मन्त्रके एवम् ॥ तस्मात्पाठिकक- मानुरोधेन जुहुयादारुणैर्मन्त्रैराज्यानि समिधस्त- थेति पाठदर्शनात्सकलाज्यहोमानन्तरं सकलस- मिद्धोमोवारुणः । अतएव चतुर्पु वेदेषु रूपनाराय- णोप्येवमिति ॥ नन्वधिवासनयागः पूर्वाङ्गं चतु. र्थीयागस्तूत्तराऊं तयोस्तु दक्षिणावचनबलात् उ- त्सर्गस्तु प्रधानं तत्रैवार्थवादिकफलान्वयात् चतुर- हव्यापीत होमकलापोन प्रतिपत्तियागः तथा सति हि त्यक्तद्रव्यापचारे तल्लोपः स्यात् तस्मात्परिशेषाद- जयागएवासौ ॥ हन्त तथाऽपित्यक्तद्रव्यापचारेत- ल्लोपएव, नाङ्गमनुष्ठानप्रयोजकं न हि पिण्डद्र- व्यापचारे पिण्डाय पुनः पाकः किंतु पिण्डं विनैव तत्र श्राद्धपूर्तिरिति ॥ अत्राहुः प्रतिपत्तियाग एवा यम् । त्यक्तद्रव्यापचारेऽपि यत्पुनव्यान्तरानुष्ठानं तदत्यन्तसंयोगश्रुतिबलात् अङ्गत्वेऽप्यस्य समाधेः साम्येऽप्यधिवासनरात्रौ सर्वेषामेव हविषां सहैव तुल्यवत्त्यागे प्रतिपत्तियागत्वस्यैव सिद्धरिति ॥ अत्रच शाकुनं सूक्तमुग्वेदीयमतस्तदीयशिक्षयैव प ठनीयम् । अवतारिणी च गौः सचेलकण्ठा हेमशृ. श्री रूप्यखुरा कांस्योपदोहा वृषप्रजा विप्राय देया, ॥ द्वैतनिणयः॥ सचेलकण्ठां काञ्चनशृङ्गी वृषप्रजां रूप्यखुरां कांस्यो पदोहां विप्राय दद्यादितरां वा शक्त्या दक्षिणामिति कल्पतरुलिखितबहचपरिशिष्टात् । विप्रश्चायं सामगः, कनकालङ्कृतान्तत्र कृत्वा गामवतारयेत्।सामगाय च सा देया ब्राह्मणाय विशांपते इति मत्स्य पुरा- णात् । न चात्र कनकालङ्कृतामिति विशेषोपदे- शाद्विशेषणान्तरत्यागः । अस्य तदुक्तसकलोपलक्ष कत्वात् दयारेकमूलकल्पनालाघवात् । नचाघार माघारयतीतिवदशेषविशेषणस्थाने कनकालङ्कार- विधिः । अनयोः प्रकृतिविकृतिभावाभावेन तद. भावात् । वैकृतोहि विशेषोपदेशोऽतिदेशागतं प्राकृ- तं धर्म कचिदन्यथयति. यथा शरमयं बर्हिर्भवतीत्य- त्र । कचिल्लुम्पति, यथा पर्युक्ष्य जुहुयादित्यत्र । क्वचित्सर्वस्थाने तदेव विधते, यथाऽऽघारमाघारय- नीत्यत्रेति ॥ अत्र च गोरखतारणानुमन्त्रणयोर्यज मानकर्तृकोमन्त्रपाठस्तत्र चामन्त्रकतया स्त्रीशूद्र- योरनधिकारेण तदति यागेऽप्यनधिकारोविशेषोप- देशविरहादिति ॥ आथर्वणेन साम्नाच पुनामित्यु चेति च । आपोहिष्ठेति मन्त्रेण क्षिप्त्वागत्य च म- ण्डपमितिवाक्ये ॥ शन्नोदेवीरभिध्ये शन्नोभव- ॥ वैतनिर्णयः॥ । पीतये । शय्याँरभिस्रवन्तु नइत्यस्यामृचि गीत थर्वणं साम आरण्यनाम्नि गानेस्ति तथा च तेन म्ना पुनर्मामित्यूचा आपोहिष्ठेति तृचेन च स- दितेन यथोक्तद्रव्यप्रक्षेपः कार्यः॥ अत्र च स्वगत हलकामवत्पित्रादिगतफलकामोप्यधिकारीति न्याय रत्नहरिनाथमहामहोपाध्यायाः ॥ अथाचारे आदी स्नानादिदैतनिर्णयः। तत्र येन कल्पेन स्नानं कृतं त- कल्पाम्नातमेव तर्पणमपि कार्य तस्य तदेवारभ्याधी- तत्वात् । तथा च नरसिंहपुराणीये स्नानकल्पे तर्पणा- नभिधानादनारभ्याधीतविष्णुपुराणीयमेव तर्पणं । तत्रातिव्याध्यादिवशादुष्णोदकादिना स्नानकरणे स्नानाङ्गतर्पणस्याप्राप्तौ, तर्पणन्तु शुचिः कुर्यात्प्रत्य- हं स्नातकोद्विजः । देवेभ्यश्च ऋषिभ्यश्च पितृभ्यश्च यथाक्रममितिवचनात्प्राप्तस्य नित्यतर्पणस्यैव विष्णु- पुराणोक्तविधिनानुष्ठानं तस्यानारभ्याधीतत्वेन- स्वातन्त्र्येणैव प्रवृत्तेः । तच्च देवेभ्योऽञ्जलित्रयं आषभ्योऽञ्जलित्रयं ततः प्रजापतयएकोञ्ज- लिरित्येवं रूपं । त्रिरपः प्रीणनार्थाय देवानामपवर्ज येत् । ऋषीणाञ्च यथान्यायं सकृच्चैव प्रजापतेरिति विष्णुपुराणात् ॥नचेदं देवतपणेष्वन्यतः प्राप्तेष्वज ॥ द्वैतनिर्णयः ।। लित्रित्वरूपगुणविधायकमिति वाच्यं पृथग्विधा- वसन्निधानाद्गुणविधानासम्भवात् तच संध्या वन्दनस्याप्राप्तौ स्नाननैरन्तर्येणैव चन्द्रग्रहादौ कर्त व्यं । एवं सायं सूर्यग्रासेपि तत्सन्ध्यावन्दनस्य स्नान तर्पणयोर्मध्येऽनुपदेशात् । प्रातमध्याह्न च स्नानतर्प णयोः प्रधानाङ्गयोर्मध्ये एव संध्यावन्दनं तथैव का- त्यायनादिना तत्प्रयोगाभिधानात् । वाप्यादौ पर कीये स्नानतर्पणयौः करणपक्षे उभयप्राप्तस्य पिण्डो द्धारस्य स्नानात्प्राक् तन्त्रेणैवानुष्ठानम् । अङ्गानां तन्त्रोपदेशात् प्रयोगैक्यात् तीर्थविसर्जनपर्यन्तं स्नानत्वस्मरणात् । एवं तर्पणस्य स्नानाङ्गतया प्राप्नौ तथाहनि नित्यविधिना च प्राप्तौ अङ्गतर्पणे नोदयोत्तरकृतेन प्रसङ्गान्नित्यतर्पणस्यापि सिद्धिः कालभेदादेः प्रसङ्गविरोधिनोऽभावात् । तर्पणन्तु जीवपितृकाणां कातीयकल्पवतां यमतर्पणान्तमेव कार्य यमतर्पणान्तमभिधाय जीवत्पितृकोप्येता नन्याँश्वेतर इति कात्यायनवचनात् ॥ अन्यान 'स्वपित्रादीन इतरः प्रमीतपितृकइत्यर्थः ॥ यमतर्प- णन्तु, एकैकस्य तिलैर्मिशास्त्रींस्त्रीन्दद्याजलाज- लीन् । यावज्जीवकृतं पापं तत्क्षणादेव नश्यतीति ॥द्वतनिर्णयः॥ यमवचनाद्यद्यपि काम्यं तत एव च नित्यापेक्षया विलम्बिताधिकारिक तथापि कातीयप्रयोगविधि बलेन कव्यवालादिस्वपित्रादितर्पणयोर्नित्ययोर्म ध्ये विधेयम् । कव्यवालश्च लान्तोदेवता कव्यवालं नलं सोममिति कामधेनुदर्शनात् ।। यत्तु हव्यवाह- नोदेवतानां कव्यवाहनः पितृणामिति श्रुतिदर्श- नात्कव्यवालविशिष्टोऽनलः कव्यवाडनल एकैवदे वतेति तन्न कव्यवालादयोहिदिव्ययमाः । कव्य वाडनलश्चतावदग्निः तस्यैव पितृणां कव्यवाहन त्वात् तस्माच्छतिर्भिन्नविषयतया न दिव्ययमस्प- शिनी ॥ तर्पणन्तु पुरुषषकस्त्रीषट्दयोर्नित्यमिति प्रातः स्नाने तदेवाङ्गतया कर्त्तव्यमिति। यन्तु काम्य ञ्चातःशृणुष्व मे इत्युपक्रम्य मात्रे प्रमात्रे तन्मात्रे इत्याद्यभिधानान्मातृणान्तर्पणकाम्यमिति तन्न त्रीन पितृतः त्रीन् मातृतः पत्नीश्चेति गोभिलदर्शनान्नि- त्यत्वे तत्काम्यत्वाभिधानस्य फलार्थत्वात् । रत्नाक- रादयोऽप्येवम् ।। स्नानशाद्याश्च मृत्त्रयेण प्रक्षालनं वस्त्रनिष्पीडनोदकदानाव्यवहितप्रागेव अपूर्वरूपो पकारजनकले सत्यसाधारणाङ्गत्वात् ॥ तस्याः क्षालनमपसव्येनैव उत्मर्गतोङ्गानां प्रधानरीत्यन्वया- ॥ द्वतनिर्णयः॥ त् ॥ तर्पणे याज्ञवल्क्यः। आवाह्य पूर्ववन्मन्त्रैरा स्तीर्य च कुशाञ्छुचीन् । प्रागग्रेषु सुरान्सम्यग्दाक्षिणाग्रेषु वे पितॄन ॥ तल्लिङ्गैस्तर्पयेन्मत्रैः सर्वान्यितृगणाँ स्तथा ।। अस्यार्थः । मन्त्रैरावाह्य शुचीन कुशाना- स्तीर्य प्रागग्रेषु कुशेषु तल्लिङ्गैमन्त्रैः पितृन् तर्पयेत् पितृतर्पणेतु प्रयोगापेक्षायामाह पूर्ववद्देववदित्यर्थः तेनात्रापि पिता तृप्यतामिति सिध्यतीति प्रदीपः॥ जलत्यागस्तु माध्यन्दिनीयानां स्थलस्थानां कुशे- बेव लिखितवाक्यात् । अत्र देवावाहने विश्वेदेवा- सआगत, विश्वेदेवाः शृणुतेममिति मन्त्रौ ॥ पि. त्राद्यावाहनं तु उशन्तस्त्वा निधीमहीति, आयन्तुनः पितर इति च मन्त्रौ इति कातीय कल्पे ॥ कल्पान्तरे तु तदुक्तै व रीतिः । तर्पण जलन्तु देवतीर्थस्पार्श देवानां पितृतीर्थस्पार्श पितृ- णान्देयं । देवानां वामान्वारब्धो दक्षिणकरः, पितृ- णामञ्जलिः पात्रतर्पणपक्षेपि नैतयोरपवादः अ. जलिपात्रयोर्विकल्पाश्रवणात् । वाक्येतु अस्म- त्पदं प्रयोज्यमिति कल्पतरुः । नेतिपारिजातः । त- त्रपारिजाते पदिन्याय आश्रयः । कल्पतरौतुशब्दा ध्याहारनयस्तथा । ( अ ) एतपितर आयन्तुनः ॥ वेतनिर्णयः॥ पितर इति मन्त्रयोदर्शनादद्वयमपि प्रामाणिक न्यायमतानुसारीतुकल्पतरुरेवेति । मन्त्रेण तु तर्पणे क्रियमाणे देष्मेत्यन्त एव मातामहादितर्पणमन्त्रः तथैव सर्वानुकमण्यां व्यवच्छेदनात् । मातामहादि तर्पणेषु तु प्रतिपुरुषं मन्त्रपाठः । मन्त्रैस्तु देयमुदकं पितॄणां प्रीतिवर्द्धनैरित्यनेन तर्पणे मन्त्रस्य करण- खप्रतीतेः । वाक्येन च व्यवधानेऽनङ्गव्यवायात्म- न्त्रावृत्तेरावश्यकत्वात् । एवञ्च मातामहाय मन्त्र वाक्याभ्यामञ्जलित्रयं एवं प्रमातामहाय एवं वृद्ध प्रमातामहायापि ॥ प्रत्यञ्जलि तु न वाक्यं सकृत्प- ठितेनैव वाक्येनाजालित्रयदानसिद्धेः। नतु प्रथ- माञ्जलिदानसमये द्वितीयतृतीयाञ्जल्योर्भविष्यत्त- या नेदमानिर्देशो नवा स्वधाशब्देन त्यागः सम्भवति उद्धृतोदकेन तर्पणपक्षे अञ्जल्यसिद्धेः अनुद्धृतोदकपक्षे तु भविष्यदजल्योजले आश- यस्थे अनुपात्ततया औपादानिकस्वत्वस्याप्यसिद्धे- रिति मैवं द्रव्यवचया नाधिकारिता किन्तुद्रव्य- योग्यतया अतएव भविष्यन्तीनामपि समिधां प्रा- येव त्यागः व्यवहितस्यापि फलस्य धात्वर्थावच्छदे- कत्वम् ॥ चन्द्रोप्येवम् ॥ नतु दानेप्येवमस्तु तथाचा ॥ तनिर्णय ॥ विद्यमानमपि दीयतेति चेन्न तीदानमफलं यच्चद- त्वानुशोचतीत्यादिना विशेषवचनेन तादृशदान निषेधात् तर्हि त्यागकाले दानं सम्प्रदानस्वत्वानुत्प- त्तिः निरन्तरयोरेव स्वस्वत्वध्वंसपरस्वत्वोत्पत्योरुप- लक्षणीभूय ददात्यर्थावच्छेदकत्वाभ्युपगमात् इद- मस्तु बौद्धसन्निधिना मानसप्रत्यक्षीभावेनात्र प्र- योगः अतएव पूरकपिण्डे बहूनामपि तिलतोयाज- लीनां सकृदेवदानमिति । तर्पणन्तु न दानकिन्तुया गःश्राद्धवत्। देवतोदेश्यकहविस्त्यागत्वात्। पितृतर्प- णे तु दक्षिणहस्तानामिकायां कुशत्रयसुवर्णरजता. न्यपि धार्याणि ॥ जपे होमे तथा दाने स्वाध्याये पि. तृतर्पणे । अशून्यन्तु करंकुर्यात्सुवर्णरजतैः कुशैरिति- वचनात् । अत्र सुवर्णधारणं तावद्दक्षिणहस्ताना- मिकायां अनामिकायान्तद्धार्य दक्षिणस्य करस्य चे- ति हेमधारणप्रकरणस्थदेवीपुराणवचनात् । रज- तं कुशत्रय धारणमपि तत्रैव तत्संदंशात् । तर्जन्यां रजतं धार्यमिति तु प्रवादोनिर्मूलएव ॥ एकसुवर्ण धारणेपि बहुसुवर्णधारणंसुवर्णत्वजातेदेधित्ववव्य णुकादारभ्य प्रवृत्तेः ॥ रजतेप्येवम् ॥हन्तैवं सुवर्णेबहुः वचनं व्यर्थमेकसुवर्णधारणेप्यर्थादेवे बहुसुवर्णधा- ३२ ॥ द्वैतनिर्णयः॥ रणसिद्धेरितिचेत् तथापि बहुसुवर्णधारणस्य कर्माङ्ग- खमिति विवेचयितुं बहुवचनारम्भात् ॥ अथवं बहु. त्वस्य प्रत्येकमन्वये वाक्यभेदः स्यादतएवसाहित्य लक्षणांब्रूमइतिचेद् गुरुमतमिदं नतुभट्टमतमन्वय प्रयोजकरूपवत्त्वं योग्यतेति तैरनुपगमात् ॥ कुशै- रितिबहुवचनन्तु कपिजलन्यायात् त्रित्वपर्यव- सितम् ॥ सन्ध्यावन्दने चादावधमर्षणसूक्तं तच्च माध्यन्दिनीयानां नास्त्येव ऋग्वेदे तैत्तिरीय के चास्ति तत्र तैत्तिरीयकस्य याज्ञवल्क्योर्णि तया माध्यन्दिनीयैस्तदुक्तं न परिगृह्यते किन्तु क. ग्वेदोक्तमेवाघमर्षणसूक्तमादेयं तत्र रात्रीशब्दः समुद्रोअर्णव इत्यत्राकारोभिन्नःअकल्पयदित्यत्रछेदः तैत्तिरीयके तु इस्वोरात्रिशब्दः समुद्रोऽर्णव इत्यत्राका स्पश्लेषः अकल्पयद्दिवमित्यत्रसन्धिः ॥ उद्धयं उ- दुत्यं चित्रं तच्चक्षुरिति चतुर्णा सर्वानुक्रमण्यां - प्यादयः॥ तथाहि उद्धयं सौरी अनुषुप् प्रस्कण्वस्य, उदुत्यं प्रस्कण्वः सौरीगायत्री, चित्रं कुत्सआङ्गिरसः त्रैष्टुभंसौरी, तच्चक्षुः पुरउष्णिक सौरी । आद्याया- जलादुत्क्रमणे मध्ययोर्दाक्षिणहोमे चतुर्थ्यामहावी- रशान्तिकरणे विनियोगः । तेन उद्यमित्यस्य प्र- ॥ ननिर्णयः ॥ स्कण्वऋषिरनुप्छन्दः सूर्योदेवता जलादुत्क्रमणे वि नियोगः। उदुत्यमित्यस्य प्रस्कण्वऋषिर्गायत्रीछन्दः सूर्योदेवता दाक्षिणहोमे विनियोगः । चित्रमित्यस्य कुत्सआङ्गिरसऋषिस्त्रिष्टुप्छन्दः सूर्योदेवता दाक्षिण होमेविनियोगः। तचक्षुरित्यस्य (दध्याथर्वणऋषिः) पुरउष्णिक्छन्दः सूर्योदेवता महावीरशान्तिकरणे विनियोगः ॥ गायत्रयस्येकपदीत्यस्य परोरजसइत्य नन्तरं असावदोमा प्रापदितिशेषः । तदुक्तं शतप- थे, तस्याउपस्थानं गायत्रयस्येकपदी द्विपदी त्रिप. दी चतुष्पद्यपदसि नहि पद्यसे नमस्ते तुरीयाय द. र्शताय पदाय परोरजसे सावदोमा प्रापदिति ।। अत्र चेतिनाव्यवच्छेदाद् गायत्र्यसीत्युपक्रम्य प्राप. दन्तउपस्थाने मन्त्रइति शङ्कराचार्यभास्कराचार्य योाख्या ॥ यद्यपि बौधायनसूत्रे परोरजस इत्य न्त एवमन्त्रः श्रूयते तथापि तत्सूत्रस्य कल्पतरु कारादिभिरलिखनेन निर्मूलत्वात् समूलत्वे वा बौ धायनशाखीयपरत्वात् शङ्कराचर्यविरोधाच्च तन्मा- त्रस्य न माध्यन्दिनीयानां विनियोगः किन्तुशतप थोक्तस्यैव । यत्तु गायत्र्यस्येकपद्याद्यैरुपस्थाय ततो- जपेत् । उपस्थाय तुरीयेण तेनैव च विसर्जनम् । अष्टा क्षरं पदन्तत्तुपरोरजसेसावदोमिति मन्त्रप्रकाशदर्श- ३५ सातनिर्णय.॥ नात् असावदोमित्यन्तोमन्त्रइतितन्न शतपथश्रुति- बाधात् गायत्रीजपानन्तरन्तु विभाडित्यनुवाक रु- षसूक्तशिवसङ्कल्पमण्डलबाह्मणैश्चतुर्भिरुपस्थानं का त्यायनेनोक्तं तच्चकाम्यं विभ्राडादीच्छया जपेदितिव चनात् ।। देवपूजा तु नित्या ॥ शिवम्भास्करमग्नि- ञ्च केशवं कौशिकीमपि । मनसानयन्याति देव- लोकादधोगतिमिति वचनात् एतान् मनसाप्यनर्च यन्नित्यन्वयः। अत्रच शिवपूजा सर्वदोदङ्मुखेनैवश कराराधनं तदत्सदाकुर्यादुदङ्मुखइतिवचनात् देवा न्तरपूजा पूर्वाह्नप्राङ्मुखेन सायं पश्चिमाभिमुखेन का या रात्राबुतराभिमुखेन कार्या प्राक्पश्चिमोदगास्यश्च प्रातः सायं निशास्थितिवचनादिति ।।वैश्वदेवहोमे तु जले क्रियमाणे पर्युक्षणं न कार्यवैश्वदेवादन्नादुकृत्य पर्युक्ष्य स्वाहाकारैर्जुहुयादित्यनेन तावत्पर्युक्षणं वि- हित तम होमसामान्यधर्मतयैव प्राप्यते तथाच एष एव विधिर्यत्र कचिद्धोम इतिसामान्यतः प्राप्तेतिक तव्यताकलापस्य निरासार्थं वैश्वदेवहोमे पर्युक्षणमा. त्रमुपात्तं सचेतिकर्तव्यताकलापः परिसमुह्योपलि प्पोल्लिख्येत्यादिना कात्यायनवचनेन वहावेव प्राप्तइ तिचेत् सकलस्थानीयत्वेन पर्युक्षणमपिवहनावेव सि ध्यति ॥ इदं ब्रह्मणे इत्यादिरूपस्त्याग इहापि तस्यैव ॥ तनिर्णयः ।। यागत्वात् यागस्यैव प्रक्षेपफलकस्य होमत्वात् तथा च त्यागानन्तरं प्रक्षेपः तस्यैव हवीरेचनकालत्वेनो तेरित्येके तन्न स्वाहाकोरिति पुनविशेषोपेदशेन सागस्यापि वारणात् जुहुयादित्यनेन होमविधे. श्च ॥ देवामनुष्या इति पञ्चश्लोक्या पठितया एक एव बलिर्देयः परचश्लोकीम्पठित्वा इत्युच्चार्य नसे दद्यादिति विष्णुपुराणेऽभिधानात् इतिना चो. पस्थितायाः पञ्चश्लोक्याएव प्रत्यवमोचित्यात् एकैकश्लोकस्य एकैकान्वयस्य वा प्रत्यवमर्षे आवृ त्तिलक्षणोवाक्यभेदः स्यात् एतेन प्रतिश्लोक बलिदानं हरिहरोक्तमपास्तं श्रीदत्ताहिकवर्द्धमा नाहिके अप्येवम् । काकवलिश्लोके त याम्या इति पाठोयुक्तः पौर्णमास्यां मघायोगे वायसाः पञ्च ज- ज्ञिरे । इन्द्राच वरुणादायोर्यमादथ च नितेरिति. काकोत्पत्तौ श्रवणात् । सोमाल्तु काकोत्पत्तेः क्वचि दप्यश्रवणादिति ॥ यद्यपि यक्ष्मवल्यनन्तरमेवो. वृत्याग्रं ब्राह्मणायावनेज्यदद्याद्धन्तत इति पारस्करे श्रूयते तथापि तद्विभक्तजीवपितृकपरमिति मन्त. व्यं प्रमीतपितृकेण तु नित्यश्राद्धानन्तरं हन्तकारः करणीयः पितृभ्योथमनुष्येभ्यो दद्यादहरहार्दिज इति क्रमविधायकच्छन्दोगपरिशिष्टात् हन्तकारशातिथे ॥ द्वतनिर्णयः॥ रनावश्यकतया ब्राह्मणान्तरायापि देयः अहरहाह्म- णेभ्योदद्यादामूलफलशाकेभ्योथेनं मनुष्ययझं समा मोतीपि वोधायनवचनात् अहरहर्दद्यादोदपात्रात्त- थेतं मनुष्ययज्ञं समारोतीति शतपथाच ॥अथ पितृय ज्ञः॥ तत्र छन्दोगपरिशिष्टत् । पितृयज्ञस्तुतर्पणम्।तथा श्राद्धं वा पितृयज्ञः स्यात्पित्र्योबलिरथापिवा॥श्राद्धं नित्यश्राद्धम् तदाह । अप्येकमाशयेद्रिनं पितृयज्ञार्थ सिद्धये । अदेवं नास्तिदन्योभोक्ताभोज्यमथापि- वा ।। बहूनामन्नानां विधाणाचसम्भवे बहून् तदसंभवे एकमपि विप्रंभोजयेदित्यर्थः अस्याप्यसम्भवे आह अप्युट्टत्य यथाशक्ति किञ्चिदन्नंयथाविधि । पितृ- भ्योथमनुभ्यो दद्यादहरहडिजः॥ यथाविधीति व्या- चष्टे पितृभ्य इदमित्युक्त्वा स्वधाकारमुदीरयेत् । ह न्तकारम्मनुष्यभ्य स्तदन्ते निनयेदपः । एवञ्चेदम न्नेपितृभ्यः स्वधेतिलपनित्य श्राद्ध प्रयोग इतिकोचि त् हन्तकारप्रयोगस्तु व्यक्तएव मिलितदेवतावस्य नाद्धकल्पादिप्रामाणिकनिवन्धषु विस्तरेण खण्ड- नात् । अत्रापि प्रत्येकदेवतात्वमेव अमकामकगो त्रैतत्तुभ्यमन्नं स्वधानमइति चात्रबाधकं । अत एवामावास्यायां पितृभ्योदद्यादिति श्रवणेपि न मि- लितदेवतात्वम् न चात्र श्रुतवाक्यत्यागोऽनुचितः ॥ढतनिर्णयः॥ वं मयात्रनिमन्त्रित इति वाक्यस्य श्रुतस्यापि स- ववे निबन्धुभिस्त्यागलिखनादिति संप्रदायः । दक्षिणादानं त्वत्र सपात्रकपक्षेपि नास्ति । नित्यश्रा द्धमदैवं स्यादपिण्डविवर्जितम् । दक्षिणारहितं स्वेतदातृभोक्तव्रतोज्झितमिति काशीखण्डात् । यत्तु नित्यश्राद्धमदेवं स्याक्षिणापिण्डवर्जितमितिवचने दक्षिणा दातव्या पिण्डवर्जितं श्राद्धं कर्त्तव्यमिति- व्याख्यानं तदसत् अध्याहारापत्तेःसहियाक्यभेदप्रभे- दःसचनाश्रयणीयः सम्भवत्येकवाक्यत्वे वाक्यभेदो न युज्यत इति वचनान्न्यायाच्च गोग्रासस्तु नित्यः सौरभेय्य इत्युपक्रम्य दद्यादनेन मन्त्रेण गवां प्रासं सदैव हीति वाक्ये सदाशब्दश्रवणादिति प्राञ्चः॥ एतलु सर्वमन्तरीपे न कार्य गोशतावस्थित्यर्हेतु का यमितिवृद्धाः। विवादे तु कात्यायनः॥ ऊढया कन्य- या वापि पत्युः पितृगृहेपि वा। भातुः सकाशात्पित्रो- वा लब्धं सौदायिकं स्मृतम् ॥ सौदायिकं धनं प्रा- प्य स्त्रीणां स्वातन्त्र्यमिष्यते । यस्मात्तदानृशंस्या र्थ न्तैर्दतं तत्मजीवनम् ॥ सौदायिक सदा स्त्रीणां स्वातन्त्र्यं परिकीर्तितम् । विक्रये चैव दाने च यथेट स्थावरेष्वपि ॥ पत्यगृह इति संबन्धः । भ्रातः पि- त्रोर्वेत्युपलक्षणं तेनान्येभ्योगि स्वमातापितकुले- ॥ द्वैतनिर्णय ॥ भ्योयल्लब्धं धनं तत्सौदायिकं तत्र स्थावरेष्वपि स्त्रि- यादाने विक्रये च स्वातन्त्र्यं ॥ नारदः॥ भापी तेन यदत्तं स्त्रियै तस्मिन् मृतेपि तत् । यथा कामं स- मनीयाद्यादास्थावराहते। भर्तृदत्ते तु स्थावरे स्त्रीय नत्वे सौदायिकत्वे च सत्यपि तस्यादानादौन स्वात त्र्यं एतद्धचनबलादेव ॥ कात्यायनः॥ भर्तृदायमृतेप त्यो विन्यसेत्स्त्री यथेष्टतः विद्यमाने तु संरक्षेत्क्षपयेत्त स्कुलेन्यथा अपुत्रा शयनं भर्तुः पालयन्ती युरो स्थि ता।भुञ्जीतामरणात् शान्ता दायादाऊईमाप्नुयुः ॥ भयो भर्तृदायःसच देवा मते भर्तरि संक्रान्तोजी यति च भर्तरि तदनिषेधादिना स्त्रीस्त्रीभूतः। आद्यो- पि देधा जङ्गमःस्थावरश्च । तत्राचे प्रथमश्लोकप्रथ- मार्द्धन व्यवस्था । द्वितीये तु द्वितीयश्लोकद्वितीया दैन, तेन भर्नः स्थावरं स्वसंक्रान्तं स्त्री भुजीत न- तु दद्यात् विक्रीणीत वेत्यर्थः। जीवति त्वाह विद्यमाने विति।जीवति पत्यो तद्धनव्यये तदाज्ञां पालयन्ती तद्धनरक्षां कुर्यादिति प्रकाशः ॥ भर्तृदायो भर्तृदत्तं- स्थावरं जङ्गमञ्च तत्रैव चेयं व्यवस्था सौदायिकप्रक रणाम्नातत्वात् संक्रान्तस्यासौदायिकत्वादिति ह- लायुधपारिजातौ तन्न एवंहि स्त्रीसंक्रान्ते व्यवस्था- याअनभिधानात्तदाकांक्षाअनिवृत्तव स्यात् साचाव
॥तनिर्णयः ॥
श्यनिरस्येति प्रकाशव्याख्यैव श्रेयसीतिरत्नाकरः। ए
वञ्च गृहपतिपुत्रदारापि मातृसंक्रान्तेऽसौदायिक
तया आकांक्षातोल्यादाक्यमिदं जागर्ति भर्नुदाय
त्वञ्चतस्यपरम्परासंबन्धादिति । किञ्च पतिस्था-
वरस्य पुत्रदारापि स्त्रीसंक्रान्तस्य पतिस्थावरसमान
न्यायतयैवंन्यायमूलाश्चस्मृतयएताः अतएव युक्तिः
हीनविचारतु धर्महानिः प्रजायत इति कात्यायनो-
प्याह। पारिजातहलायुधमतेऽपि सौदायिकेपि स्थावरे
भर्तृदत्ते स्त्रियादानादौन स्वातन्त्र्यमित्येतद्वचनबला
दपि सिद्धे संक्रान्ते स्थावरे सुतरामस्वातन्त्र्यमसौदा
यिकवादित्यायाति ॥ अथ वृद्धिः॥ हारतः ।। पु
राणपञ्चविंशत्यां मासेनाष्टपणावृद्धिः, एवं सदि-
मासैश्चतुर्भिर्वदिपर्यागतं संतिष्ठते । एषाधावृ
द्धिर्नानयाधर्माच्च्यवते ॥ गोतमः ॥ चिरावस्थाने
दैगुण्यं प्रयोगस्य ॥ मनुः ॥ कुसीदवृद्धिर्दैगुण्यं ना
यतिसकृदाहता ॥ कात्यायनः। मणिमुक्ताप्रवाला-
नां सुवर्णरजतस्यच । तिष्ठति दिगुणा वृद्धिः फालकै-
यविकस्य च ॥ इत्यादिनानामुनिवचनस्वरसात्
ऋणे दिगुणैववृद्धिरिति तन्न कारितायां व्यवस्था-
नुरोधिन्यामेतदसम्भवात् यत्रहि यावतोऽब्दान
मूलं स्थास्यति तावतामन्दनां वृद्धिन्दास्यामीति ऋ
॥ ननिर्णयः॥ णिकन स्वरसतो व्यवस्थाक्रियते तत्र तावदव्दीया दि गुणाधिकापि वृद्धिर्दातव्या सा तु कारितेत्यादिव- चनवलेन देयत्वेन सिद्धा एवं शिखावृद्धरपि द्विगु- णाधिकायादेयत्वमेव,शिखेव वर्द्धते नित्यं शिरश्छेदा- निवर्त्ततइत्यादिस्वरसात् एवम् आधिभोगरूपापि वृद्धिर्दिगुणाधिका देयैव ऋणं लेख्यकृतं देयं पुरुपै- स्त्रिभिरेव तु । आधिस्तु भुज्यते तावद्यावत्तन्न प्रदी- यतइतिवचनात् । एवं कायिकापि द्विगुणाधिका देयैव शिखावृद्धि कायिकाञ्च भोगलामन्तथैव च । धनी तावत्समादद्याद्यावन्मूलं न शोधितमितिवच- नात् । इयञ्च कायिका शिखावृद्धिभोगवृद्धिभ्यां भिन्ना अत्रैव वाक्ये पृथगुपादानात् । न च काया- विरोधिनी शश्वत्पणार्डाद्या तु कायिकेतिवचनात् सा शिखावृद्धिरेवेति वाच्यम् शिखावृद्धितः पृथगुपा- दानानुपपत्तेः। ननु तीयं मासिकी वा स्यादार्षिकी वा स्यात् तत्कथं पणार्धादि रूपा भवेत् नहीयं वृद्धिः काकिनीद्रयरूपा भवितुर्महतीति चेन्न पणशब्दस्य मूलधनवाचित्वात् तेन, मूलार्द्ध मूलपादोवा या वृ- द्धिः सैवेयमुक्ता अत्रैव पणवाद्येति हलायुधे पाठः पणोमूलं तेनाब्दशतपर्यन्तमपि मूलस्थितौ सत्यां सा वृद्धिाह्येति तत्रैव व्याख्यातम् तथा च कायि ॥वैतनिर्णयः॥ कायां द्विगुणाधिकापि वृद्धिाोति सिद्धम् । ए- वञ्च कुत्र वृद्धेर्दिगुणाधिकत्वनिषेधः मणिमुक्ताप्र- वालादाविति गृहाण । तथा च मण्यादौ मण्यादि- वृद्धयैव प्रयुक्ते मण्यादिद्वयमेव ग्राह्यम् । तथा च यत्र मणिमुक्ता प्रबालः सुवर्ण रजतं वा मण्यादि वृद्धया प्रयुज्यते तत्र मण्यादिकमेव वृद्धिर्भवति त- त्रैव चाकृतविशेषव्यवस्थाद्वैगुण्यनियमः । एवंच रक्तिकाशतमिते मणिमुक्तादौ हिरण्ये रजते वा बा- ह्मणादौ वृद्धया प्रयुक्ते क्रमेण ब्राह्मणादो मासि मासि रक्तिकादयं त्रयं वेति । दिकं त्रिकं चतुष्कं च पञ्चकं च शतं समम् । मासस्य वृद्धिं गृहीया- द्वर्णानामनुपूर्वशइत्यादिमनुवचनेनोक्ता वृद्धिः । अत्र च द्वैगुण्यनियमएव । अतएव मनुराह कु. सीदवृद्धिगुण्यं नात्येति सकृदाहतेति । कायिका- शिखावृद्धयादिभोगव्यतिरिक्ता कुसीदवृद्धिः सक- गृह्यमाणा द्वैगुण्यं नातिकामतीत्यर्थः कारिता तु यथाव्यवस्थं भवतीति ॥ • अथ क्रियाद्वैतनिर्णयः। तत्र मनुः। नत्वेवाधौ सो- पकारे कौसीदीं वृद्धिमाप्नुयात् । नचाधेः कालसंरो- धान्निसर्गोऽस्ति न विक्रयः॥ कालसंरोधश्चिरकाला- वस्थानन्तेन हेतुना आधेनिसर्गोदानन्तदधिकधने- ॥ तनिर्णयः ॥ ध्वाधीकरणं वा तदुभयमुत्तमणेन कृतं निवर्त्तते त- स्यैव पूर्वार्द्ध कर्तृत्वेनोपस्थितेः। यन्तु अनिमुक्तस्य चैवाधेर्न दानं न च विक्रयइतिवचनादधमर्णकृतं दानादि न सिद्धयतीति तन्न वचनस्य निमूलत्वा. त् । कालसंरोधोऽवधिकालनियमनन्तेन तदभ्य- न्तरेऽधमर्णकृतं दानादि न सिद्धयतीत्यन्ये । एवञ्च यत्राधौ कालोन नियमितस्तत्र तन्मतेऽप्यधमर्णक- तोदानादिनिराबाधएव । यद्यमुककाले धनं न निस्तरसि तदाऽधिं विक्रीय मया स्वधनं गृह्यत- इति व्यवस्था यत्र नाभूत्तत्रोत्तमकृतआधिविक्र- योन सिद्धयतीति लक्ष्मीधराद्यनुमता मनुवचन- व्याख्येति । न्यासं कृत्वा परत्राधिं कृत्वा वाऽऽधि करोति यः। विक्रयं वा क्रिया तत्र पश्चिमा बलवत्त- रेति रत्नाकरस्मृतिसारादिलिखितवचनविरोधाच्च । अतएव गोचर्ममात्रामधिकां वा भुवमन्यस्याधी- कृतां तस्मादनिर्मोच्यान्यस्य यः प्रयच्छति स व- ध्यऊना चेत् षोड़श सुवर्णान् दण्ड्य इति विष्णुसू- त्रे प्रयच्छतीति सामान्यमुखमपि पदमुत्तराधिन सिद्धथतीत्याधिरूपविशेषपरतया पारिजातरत्नाकर' स्मृतिसारादौ व्याख्यातम् । अतएव सर्वेष्वेव विवा- देषु बलवत्युत्तरा क्रिया । आधौ प्रतिग्रहे क्रीते पू- अद्वेतनिर्णयः॥ वैव बलवत्तरेतिवाक्ये पूर्वसजातीयोत्तरक्रिया दुर्ब- ला तेनोत्तरोबन्धः पूर्वबन्धाइबलइति सिद्धयतीति । यन्तु ययोनिःक्षिप्तआधिस्तौ विवदेतां यदा नरौ । यस्य भुक्तिर्जयस्तस्य बलात्कारं विना भवेत् ॥ तु- ल्यकालोपभोगो चेद्भागोऽपि समको भवेत् । प्रदाने विक्रये चैव विधिरेषप्रकीर्तितइति विष्णुवचनन्त- त्राप्याध्योः पौर्वापर्यसन्देहे बलात्कारविनाकृतोय- स्य भोगस्तस्याधिः सिद्धयतीति प्रथमश्लोकार्थः । भोगस्याप्युभयीयस्य तुल्यत्वे सोऽपि न नियामक- इत्युत्तरखण्डार्थः । अमुमेवार्थं प्रदानविक्रययोः पी- पर्यसन्देहे यथोक्तभोगोनिर्णायकः तस्यापि तौ- ल्ये निर्णायकान्तरमनुसरणीयमित्यतिदिशति प्रदाने विक्रये चेति । तदयं संक्षेपः काचिक्रिया पूर्वस्वा- मिनः स्वत्वध्वंसिका काचिच्च तदीययथेष्टविनि- योगप्रतिरोधिका तत्राद्या दानविक्रयरूपा द्वितीया तु गोप्याधिरूपा । अत्र च स्वत्वध्वंसकक्रिययोस निपाते आद्यैव बलवती आध्योरपि सन्निपातएवम् । स्वत्वध्वंसिकायास्तु स्वत्वाध्वंसिकया सह सन्नि- पाते प्रथमा चरमा वा स्वत्वध्वंसिव बलवतीति वर्तुलार्थः॥ अथ व्यवहारद्वैतनिर्णयः । तत्र विचारस्ताव ॥ द्वैतनिर्णयः॥ द्वादकथाप्रतिरूपकः । छलं निरस्य भूतेन व्यवहार नयेन्नृपः । भूतं तत्त्वार्थसम्बद्धं प्रमादाभिहितं छ- लमित्यादिस्वरसात् । न तु विजिगीषुकथाप्रतिरू- पकः अधिकान् शातयेदानित्यादिस्वरसात् वि. जिगीषुकथायां ह्याधिकादिपाते भङ्गएव । एतेन द्वि- तीयस्थापनाहीनतया वितण्डैवेयं कथेति.परास्तम्। ममेयं भूः क्रमागतत्वादिति स्थापिते ममैवेयं भूः क्र- मागतत्वादिति समवलकारणोत्तरे तथा ममेयं भू- विशतिमन्दान भुज्यमानत्वादिति स्थापिते ममैवे. यं भूः पञ्चाङ्गभोगविषयत्वादित्यधिकबलकारणो- तरे तथाऽनयोरेव व्यत्ययेन हीनबलकारणोत्तरे प्र- तिस्थापनायाअपि दर्शनात् । यत्तु वं मां भूतस्य- सुवर्णानान्धारयेः मत्तऋगत्वेन गृहीततावत्सुवर्णक- वादिति स्थापिते यत्परिशोधनमुत्तरं तदाशयस्थ- स्योक्तस्य वाऽपरिशोधितत्वरूपहेतुविशेषणस्यासि- द्धिबोधकं कारणोत्तरं तत्र प्रतिस्थापना नास्ती ति सा वितण्डा स्यादिति तन्न एवन्तर्हि सत्प्रतिप- क्षेणोत्तरे सत्प्रतिपक्षस्य दोषमात्ररूपत्वे जल्पोऽपि वितण्डा स्यात् दूपणमकृत्वा तु साधनकरणे प्राप्त- कालञ्च स्यादिति । न च सत्प्रतिपक्षे जल्पोऽपि वितण्डैवेतिवाच्यम् । अपमिद्धान्तात् । तस्मात्सत्य- ॥द्वैतनिर्णयः॥ तिपक्षे द्वितीयानुमानम्पूर्वानुमाने हेत्वाभासोद्भाव- नरप्रतिस्थापना च तन्त्रैणैव निर्वहति । तथा परि शोधितत्वादित्युत्तरमपि स्थापनानुमाने सिद्धयुद्धा- वकम् । तथा नाहं त्वद्भाषिताभियोगवान परिशो- धितणकत्वादित्युभयरूपमस्तु वैयर्थ्यान्तु नैतावत्प- र्यन्तं तक्रियते नतूत्तरयितुराशयेऽपि नैतद्विपरिव- ततइति । किञ्च हृदिस्थस्याऽप्यपरिशोधितवरूप- हेतुविशेषणस्यासिद्ध शुद्भावकं परिशोधितत्वरूप- कारणोत्तरमिति भवदेवभट्टादिभिरुक्तम् । तच वि- चारस्य वितण्डावे न घटते । किञ्चानुक्तोपालम्भे निरनुयोज्यानुयोगः स्यात् । तन्त्वनिर्णयफलक- खे तु विचारस्य तदहति तेन विना तत्त्वनिर्ण- यानुदयात् । किञ्च मूलानुपस्थितौ केतृनास्तिक योर्विवादे नास्तिकेन तावत्प्रकृते वस्तुनि स्वक्रीत- त्वादिकं साक्षिद्धारा प्रसाध्य ततोऽदत्तत्यक्तविक्रीत- वानि स्वयमभिधाय तबस्तु लभ्यते।तदुक्तम् नास्ति कश्चैव कुरुते तद्धनं ज्ञातृभिः स्वकम् । अदत्तत्यक्तवि- कीतं कृत्वा स्वं लभते धनीति ॥ तत्र चादत्तत्वादिक तत्त्वनिर्णयार्थ साध्यते न तु भाषायामुत्तरे वा तदारू दमिति । नन्वेवं साक्षिणा न जानामीति निगदिते तन्निगादयितुर्भङ्ग इति प्रदीपलिखनम् । युक्तञ्चैतन् ।
॥ द्वननिर्णय.॥ यदाह याज्ञवल्क्यः। प्रत्यर्थिनोऽग्रतोलेख्यं यथाऽऽवे- दितमर्थिना । समामासतदर्भाहर्नामजात्यादिचि- ह्नितम् । श्रुतार्थस्योत्तरं लेख्यं पूर्वावेदकसन्निधौ । ततोऽर्थी लेखयेल्मद्यः प्रतिज्ञातार्थसाधनम् । तत्सिद्धा सिद्धिमाप्नोति विपरीतमतोऽन्यथा ॥ प्रत्यर्थिनइत्या दि भाषालिखनं श्रुतार्थस्यत्यायुत्तरलिखनम् । ततो ऽर्थीत्यादि साध्यवतः प्रमाणस्य लिखनम् । तस्य प्र- माणस्यासिद्धावुत्तरयितुर्जयः तत्सिद्धौ तु तस्य भ- इति मिताक्षरा तथा च तदुभयं विरुद्धयेत नहि- साक्षिणोऽस्मरणमात्रेण वस्त्वमाव:सिद्धश्यतीतिचेत् न योग्यास्मरणस्यैव तदर्थत्वात् अन्यथा न ह्यनुभवः संस्कारमाधत्तएव नापि संस्कारउध्यतएवेतिनिय- मः। तथा चास्मरणमात्रमपहाय साधकीभूतं योग्या स्मरणं ज्ञातुकामस्य प्रणिधानमुपयुज्यतइतिज्ञातानु पलब्धिस्थले स्ववचनेन सह तस्य विरोधआपद्येत ननु यत्र विधिबोधनार्थमुपस्थापितेन साक्षिणा निषे- धोनिगद्यते तत्रतावन्मात्रेणैव तत्साक्षिकस्य वादिनो भङ्ग अन्यथावादिनोयस्य ध्रुवस्तस्य पराजयइतिव- चनात् विपरीतमतोऽन्यथेत्यस्याऽप्येवमेवार्थः तथा च तत्र साक्षिशपथं साक्ष्युत्तीर्णतां चानपेक्ष्येक भङ्गोव्य- वहियतइति कथं तत्त्वनिर्णयफलकत्वमस्तु विचार- । ननिर्णयः॥ स्य न हि सतथ्यमेवाहेति चेत् मेवम् अत्र हि वादिनोः स्वाभ्युपगममात्रेणैव जयादिसिद्धिःन तु वस्त्वनुसा- रेण तदन्यथावादेन वा लोभमोहादिजत्वशङ्कायांत- च्छपथाद्यस्तु । ननु चायं न वादः शिष्यगुरुकथात्वा भावात् न जल्पः सर्वनिग्रहोद्भावनप्रसङ्गात् न वि. तण्डा ततएव प्रतिस्थापनासम्भवाच्च तत्केयं कथा- स्त्विति । वादइति गृहाण, न्यूनादयस्तु नात्रोद्भाव्य न्ते वचनबलात् । एवं सम्प्रतिपत्तावुत्तरे सिद्धिसा धनमपि नोद्धाव्यं वचनबलादेवेति अतएव मिथ्या सम्प्रतिपत्तिकारणरूपमुत्तरमवच्छेदभेदेन प्रत्यर्थि- ना प्रयुक्तं स्वरूपासिद्धिसिद्धसाधनविशेषणासिद्धी- वदत्सदुत्तरमेव न तु सङ्करादसदिति निवन्धारः ॥ स्थावरं द्विपदं चैव यद्यपि स्वयमर्जितम् । असम्भू- य सुतान् सर्वान् न दानं न च विक्रयइति यदि समूलं तदा पूर्वपुरुषार्जितनष्टस्वोतपरमन्यथाऽह ष्टार्थ स्यात् ॥ अथ शुद्धिद्वैतनिर्णयः॥ तत्र शङ्खः । सपिण्डता तु सर्वेषां गोत्रतः साप्तपौरुषी । पिण्डश्वोदकदानं च शौचाशोचं तदानुगम् । गोत्रं सन्ततिः तेन बीजि- नमारभ्य सप्तमं पुरुषमभिव्याप्य सर्वेषां सन्तानि- नां सन्तानानां च परस्परं सापिण्डयम् एकस्पापि ॥ द्वैतनिर्णयः॥ सप्ताधिकवे तेन समं सप्तान्तर्गतस्यापि सापिण्ड्यं निवर्त्तते सम्योगवत्तस्योभयनिरूप्यत्वात् । पिण्डश्चेह शरीरं तेन समान एकः पिण्डः शरीरं येषां ते स- पिण्डाः एकत्वं तु जनकशरीरानुबन्धात् तदुक्तं ग- भॊपनिषदि अस्थिस्नायुमज्जानः पितृतस्त्वङ्मांस रुधिराणि मातृतइति । पत्नीनां तु पत्यासममस्थि- भिरस्थीनीत्यादि श्रुतिबलात् तत्सपिण्डैस्तु तहारैव । एवञ्च साक्षात्परम्परासाधारणमिदं सापिण्ड्यमास- प्तमपुरुषम् । एवं सनि पितृष्वनीयादेः सापिण्ड्ये ऽप्यशौचलाघवं वचनवलात् । मिताक्षराऽप्येवम् ॥ ननु सपिण्डपदमिदमुक्तरीत्या यौगिकं योगश्चाति- प्रसक्तः अष्टमादेरपि परम्परयैकशरीरान्वयसम्भवा- दिति । उच्यते दादशाहेन यजेतेत्यत्र प्रायणीयो- दयनीयावाद्यन्ते अहनी गवामयने चेति भूयते तत्र प्रयान्त्यहान्यनेतेति प्रायणम् उदयन्त्यहान्यनेनेत्यु दयनम् तत्र च छप्रत्ययेन प्रायणीयोदयनीयपदे सिद्धे तथा च त्र्यहपञ्चाहषडहदशरात्रादिकर्मस्व- प्युपक्रमदिनोपसंहारदिने उभे अपि प्रायणीयोद- यनीये प्रसक्ते इतीममतिप्रसङ्गमपेक्ष्य द्वादशाहिक- गवामयनिकायन्ताहान्यतरत्वमुपाधिरतो ऽन्यदीये- वाद्यन्ताहेषु यथा नातिप्रसङ्ग स्तथा सप्तान्यतम ।। द्वैतनिर्णयः॥ त्वमत्राप्युपाधिस्तेन सपिण्डपदस्य सप्तान्यतमएव शक्योनाष्टमादिरिति । अतएव मत्स्यपुराणे । लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः । पि- ण्डदः सप्तमस्तेषां सापिण्ड्यं साप्तपौरुषम् ॥ अत्र तु पिण्डपदं न शरीरपरं किन्तु पितृयज्ञियपिण्ड- परमिति विशेषः ।।सुमन्तुः।। ब्राह्मणान मेकापिण्डस्व- धानामादशमाद्धर्मविच्छित्तिर्भवति ॥ धर्मोऽशौचा- दिः, आदशमात्, दशमात्परतः। तथा च दशमपुरु- पानन्तरं ब्राह्मणानामशौचविच्छित्तिः। दशपुरुषप- पन्तं तु दशरात्रत्रिरात्रादि । ननु दशपुरुषपर्यन्त मेकपिण्डान्वयः कथं स्यात्सप्तमपुरुषपर्यन्तनकाप ण्डान्वयपूर्सेरिति । अत्र रत्नाकरः। यस्य कर्तुस्त्रयः पुरुषाजीवन्ति तस्य तत्पूर्वेषां षण्णां कर्तुश्चैकपिण्ड- स्वधात्वम् तस्यान्यस्यापि दशममभिव्याप्याशौचं किन्त्वासप्तमंपूर्ण ततआदशमं त्र्यहमितिवाक्यान्त- रैकवाक्यतया सिद्धं नतु दशपुरुषपर्यन्तं सपिण्डते- त्येव वचनबलादायाति ॥पूर्वाशोचनिमित्तेजाते ज्ञाते चाशीचान्तरनिमित्तेन जातमात्रेण सरोज्ञातेन वा।। अत्र नाद्यः। जातमात्रस्याप्रायत्याजनकत्वात् ज्ञानं हि तत्तथा तथाच प्रथमेन द्वितीयेन च प्रायणादिना ज्ञातेन सता कर्मानधिकारप्रयोजकपापविशेषरूपम ५५७ ॥ तनिर्णयः॥ शौचमुत्पाद्यं तच न द्वयं तथासति हि वर्द्धिष्णाव- शोचे प्रथमेन पुंसा क्रियमाणे प्रेतश्राद्धादौ शय्या- दिदानं न स्यात् तदशौचान्तस्य प्रागेव जातत्वा दिति किन्तु द्वाभ्यामुत्पन्नाभ्यां ज्ञाताभ्यामेकमे व पापं जन्यते नब पापेन पूर्वमरणं व्यवधापितं स्वाङ्गस्याव्यवधायकत्वात् अतएव च तावन्तं कालं कर्मानधिकारः तदन्ते चोभयो प्रेतश्राद्धादि कं, यदा प्रथमोत्पन्ननिमित्तजनितपापाभिव्याप्य कालाभ्यन्तरे द्वितीयनिमित्तोत्पत्तौ प्रथमपापेन द्वितीयनिमित्तेन च एकमशौचं जन्यते तस्य जननमाद्यस्याभिरूपं आधपापद्वितीयनिमित्ताभ्या मघान्तरजननं वा उभयथा द्वयोरधिकारिणोस्त दत्ययकालएवाशौचान्तकालः॥ नचैवं पूर्वोपनिप- तितस्यापि मरणादेरशौचहेतोस्तदभिव्याप्यकालो सरं ज्ञाने निमित्तान्तरोपनिपाते च सङ्करः स्यादि. तिवाच्यं इष्टत्वात् । नन्विदं पापं न तावन्निमिसज- न्य अज्ञातादापिमरणात्पापोदयापत्तेः, नापि निमित्त ज्ञानजन्यं तत्सन्देहेपि पापादयापत्तेनापि निमित्त निश्चयजन्यं निमित्तनमेऽपि पापोत्पत्त्यापत्तेः नापि- निश्चीयमाननिमित्तजन्यं निमित्तस्य क्षणिकत्वेन तदानीमसत्त्वात् ॥ नापि निमित्तप्रमाजन्यं विदेश- । बैतनिर्णयः॥ स्थपित्रादेर्जीवतएव मृतश्रवणे तदशौचान्ते श्राद्धादे- रुपदेशादिति ॥ अत्राहुः ॥ निमित्तनिश्चयजन्य मेवाशौचं नैमित्तिकत्वात् भिन्ने जुहोति स्कन्ने जुहो तीत्यादौ तथैव नैमित्तिकहोमस्य सिद्धान्तितत्वात् सङ्करस्तु प्रथमोत्पत्ति दूष्यकालाभ्यन्तरे द्वितीयनिमि सोत्पत्तिः साचस्वदूष्यकालाभ्यन्तरे ज्ञाताध्यञ्जनयति यथा प्रथमस्य दशाहे पतितं द्वितीयं दशाहं दादशाहे ज्ञातमिति ॥ सद्यः शौचे तु तत्कालएव स्नानपिण्ड श्राद्धानि । नच सद्यः शौचमपिदिनव्यापकं, सद्यः शौचन्तथैकाह इत्यादिविभागभापत्तेः। अशौचान्त द्वितीयदिने शय्यादिपञ्चकमिति तु दिनव्यापकाशी चपरं अन्यथा समर्थस्य क्षेपायोगाच्छ्राद्धं तदानीं श. य्यादिकं तूत्तराहे स्यात्तथा च शय्यादिक्रमणादिभंग नच ततएव प्रतिपत्तिरूपाङ्गानुरोधात् श्राद्धमप्युत्तरा हे प्रतिपत्तिरूपस्याङ्गस्य प्रधानापेक्षत्वात् द्वितीये हीत्यस्याधिकारसम्पत्तिमात्रे तात्पर्याच्च अशौच व्यपगम इति विष्णु वचनात् ॥अथ कृत्यदैतनिर्णयः।। तत्रादौ व्रतद्वैतनिर्णयः॥ तत्र धरणीव्रते ॥ एकाद श्यां निराहारइत्यादिश्लोकस्य योदशम्यां भोजनोत्तरं पाठः सएव सङ्कल्पः पूर्ववत्सङ्कल्पं परिकल्पयेदित्य- प्रिमद्वादशीव्रतेपभिधानेनास्यैव सङ्कल्पत्वव्यवस्थि- ॥ द्वैतनिर्णयः॥ तेरिति मैवं । काम्ये काम्याभिलापसहितः कुशति- लजलत्यागरूपः सङ्कल्पः शास्त्रार्थ इतिप्रक्रमाधिकर णोक्तस्यानुरोधेनास्य काम्याभिलापरहितस्य सङ्क- ल्पत्वासम्भवात् । अत्र तु सङ्कल्पपदप्रयोगोगोणः। कि ञ्च ज्येष्ठद्वादशीव्रते ज्येष्ठे मास्येवमेव सङ्कल्प्येत्यभि धाय निष्कामएतव्रतमेव चीखेति शेषेऽभिहितं त- था च तत्रैतलोकपाठःसङ्कल्पाभावश्च कण्ठरवणेवोक्त स्तथा च एतदिन्नएव सङ्कल्पइति। नहि निष्कामस्य सङ्कल्पः सम्भवति । नन्वेतद्भिन्नएवास्तु सङ्कल्पः किन्तु सएप दशम्यां निशामुखे कार्यः, व्रतं निशामुखे ग्राह्यं बहिस्तारकदर्शनइति विष्णूक्ते रिति चेन्न अस्य प्राय- श्चित्तप्रकरणाम्नातत्वेन तन्मात्रपरत्वात् न चेदं वाक्यं प्रकरणापेक्षया बलीय इति न प्रकरणेन नियम्यइति वाच्यं एवं हि किमपि वाक्यं न प्रकरणेन नियम्येत वाक्यत्वेनैव बलीयस्त्वात् । तथा चामन्त्रस्य तु शु द्रस्य विप्रामन्त्रेण गृहतइत्याद्यश्राद्धप्रकरणाग्नात- मन्यत्रापि शूद्रकर्तृकश्राद्धेऽन्वीयेत । कथन्तर्हि ज्यो तिष्टोमप्रकरणाम्नातमप्युपांशुत्वमन्यत्राप्यन्वेति । परिभाषारूपत्वादित्यवेहि ॥ यथा कराग्रामपवित्रकमा- भ्युदयिकप्रकरणोक्तं पार्वणादावन्वेतीति ॥ अथ व राहपुराणीयेषु बहुषु प्रायश्चित्तव्रतेषु सायं सङ्कल्प- ॥ द्वैतनिर्णयः॥ स्योक्तत्वान्मूलकल्पनायां कर्त्तव्यायामस्ति सामान्य कल्पनायां लाघवं बीजमिति न्यायात् गुर्वनुगमाचा खत् व्रतमात्रस्यैव सायं ग्रहणवोधकवेदकल्पनमुचि- त मितिचेदभ्रान्तोसि राक्षसी नाम सा वेला गर्हिता सर्वकर्मस्थिति सामान्यनिषेधोवचनेनैव बाध्योन तु न्यायेन तथा च प्रायश्चित्ते सबाध्यतां विशेषोपदेशा न्न तु व्रतान्तरेपि तदभावात् सर्वास्वेव यात्रासु गु रावनुगम्यमाने न किञ्चिदनिष्टमिति गुरुरनुगन्त व्यइति विधावपि सर्वासु यात्रासु गुर्वनुगमोभवतु शास्त्रार्थः । इह तु भाएवानिष्टमिति । यत्तु वराहपुराणीयेषु बहुषु व्रतेष्वित्युक्तं तदप्यसत् ब्रतान्तरे तदनभिधानात् द्वादशीव्रतस्य विचा- यत्वात् ॥ ॥ अथैकादशी ॥ तत्र भविष्य पुराणे ॥ षष्ठीसमेता कर्तव्या सप्तमी नाष्टमीयुता। पतोपासनायेह षष्ठ्यामाहुरुपोषणम् ॥ एकादश्यां प्रकृर्वन्ति उपवासं मनीषिणः । आराधनाय दाद- श्यां विष्णोर्यददियन्तथा ॥ कर्त्तव्या उपोष्या, यतः पतङ्गोपासनाय षष्ठयां सप्तमीसमेतायामुपोषणमा- हुः एकादश्यामित्यादि दृष्टान्तार्थं तेन यथोभयवेधे एकादशी द्वादशीविद्धा ग्राह्या तथा सप्तमी षष्ठी- विद्धा ग्राह्येत्यर्थः एवञ्च पूर्वविद्धायाएकादश्या- ॥ वननिर्णयः ॥ निन्दावचनानि उभयवेधे द्रष्टव्यानि उभयवेधस्यैव दृष्टान्तनात् किञ्च उदयकाले सझल्पविधानात्तस्यै व प्रधानत्वात् तत्रैव कालादरोयुक्त इत्ययं न्यायो- वचनबलेन परं जीयते अतस्तिथ्यन्तरेष्वपि देधे स त्युदयकालीनतिथिरेव व्रते आदर्तुमर्हति किश्च वि हितकाले प्रारब्ध कर्म कालान्तरेपि समाप्यत इत्या- चार इत्यभ्युदितेष्टादुक्तं ततोप्युदयकालीनतिथ्या- दरः । पठन्ति च । सातिथिस्सकला ज्ञेया यस्यामुद यते रविः ॥ यथा सम्पूर्णा तिथिरुपवासादिकर्मा तथा उदयगामिनीत्यर्थः एवञ्च यत्र दशमाविद्धका- दशी दिनान्तरे न वर्द्धते तत्र दिनद्रयेपि प्रधानका ललाभाभावादङमात्रकालानुग्रहादशमीविद्धैकाद- शी प्राधा न तु द्धादश्युपवासः प्रमाणाभावात् । व राहपुराणादौ तु द्वादश्युपवासविधिर्दादशीव्रतत्व- ख्यागनाथः उपवासपरोवा नत्वेवं विधे दैधे एकादशी कार्ये दादशींविधत्ते तथाऽश्रवणात् ॥ नन्वेकादशी मुपवसेद् द्वादशीमथवापुनः । विमिश्रां वा प्रक- र्वीत न दशम्या युतां क्वचिदिति वचनादेकादश्या दशमीमात्रयोगपि शुद्धदादश्यामुपवासः कार्यइति प्रतीयते । तथा चात्रैकादशी कार्ये दादशीविधिःन पुनरिदं ब्रतान्तरं एकादशीस न्दंशात् । एवञ्चात्र- । तनिर्णयः॥ वाक्ये एकादश्युपवासाविधिदशमीयुतकादश्युपवा' सनिषेधरूपार्थद्वयवत्वे वाक्य भेदः स्यात् अप्राप्त- स्य दशमीयुतकादश्युपवासस्य निषेधश्चापधेत तथा च यजतिषु ये यजामहङ्करोति नानुयाजेवितिवत् दशमीयुतैकादश्यन्यैकादशीमुपवसेदिति विधि- शरीरं सिद्धयति तेनार्थादशमीयुतैकादशीनिषेधः अनुयाजव्यतिरिक्तयागेषु ये यजामहं करोतीति वा- क्यार्थसिद्धावादनुयाजेषु तन्मन्त्रनिषेधवत् तथा च दशमीयुतकादशी कथमुपवसनीया विध्यस्पृष्ट- बार विधिस्पृष्टएवानुष्ठानान्वयात् ।। सा च देधा, द- शमीमात्रयुक्ता पूवाहे, दशम्याउत्तराहे द्वादश्या च युक्ता। इयञ्चोभयी दशमीयुता निषिध्यते सोचका भावादितिस्मृतिसारमतं तन्न न दशम्या युतां स्व- चिदित्येतद्वाक्यस्य राजाद्यलिखितत्वेनामूलकत्वा- त् । समयमदीपादिस्वरसोप्येवं । समूलत्वे वा उभ- यवेधे सति पूर्वविद्धेव त्याज्या नतु दशमीमात्रवि- द्वापि षष्ठीसमेतेत्यादिवचनदयस्वरसात्, क्षये पूर्वा- न्तु कारयेदित्यादिविश्वरूपनिवन्धाश्च ।। तद्यथा शु- द्धा विद्धा तथा वेषा मित्रान्यूनसमाधिकैः । त्रिधैकै का पुनर्भिन्ना द्वादश्यूनसमाधिकैः॥ आद्यासु षट्सु पूर्वैव व्यवस्थाऽनन्तरद्धये । गृहमेधियतीनान्तु नव- ॥ द्वैतनिर्णयः॥ म्यां स्यात्परेहनि ॥ विद्धात्रये तु पूर्वा स्यादयवस्था- नन्तरद्धये ।अपरेहनि शेषाः स्युः सप्तमी तु व्यवस्थ. या॥ अस्यार्थः एकादशी शुद्धा विद्धाचेति द्विविधा एकेका च सान्यूनत्वसाम्याधिकैः पोढ़ा तत्र षण्णां प्र- काराणाम्मध्ये एकैकःप्रकारो द्वादश्यूनत्वसाम्याधि क्योगात् त्रिविधोभवति तथाहि एकादशी तावत् द्वादशीहानियुक्ता शुद्धहीना बादशीसाम्ययुक्ता शुद्धहीनाद्वादश्याधिक्ययुक्ताशुद्धहीनेति ॥ शुद्धा प्रकारत्रये प्रथमःप्रकारस्त्रिविधः तथा द्वादशीहानि युक्ता शुद्धसमा द्वादशीसाम्ययुक्ता शुद्धसमा दाद- श्याधिक्ययुक्ता शुद्धसमेति ॥ शुद्धा द्वितीयप्रकारो- पि त्रिविधः तथा । बादशीहानियुक्ता शुद्धाधिका दादशीसाम्ययुक्ता शुद्धाधिका बादश्याधिक्ययुक्ता शुद्धाधिकेति ॥ शुद्धातृतीयप्रकारोऽपि त्रिविभः एवं नवधा शुद्धैकादशी भिन्ना भवति॥ एवं विद्धाप्रकार त्रयेप्येकैकः प्रकारस्त्रिविधः तथाहि द्वादशीहानि- युक्ता विद्धन्यूना, द्वादशीसाम्ययुक्ता विद्धन्यूना दादश्याधिक्ययुक्ता विद्धन्यूनेति विद्धाप्रथमप्रका रस्त्रिविधः। एवं द्वादशीहानियुक्ता विद्धसमा दाद- शीसाम्ययुक्ता विद्धसमा द्वादश्याधिक्ययुक्ता विदस मेति विद्धाद्वितीयप्रकारोपित्रिविधः । एवं दाद-
॥निर्णयः ॥
।
शीहानियुक्ता विद्धाधिका द्वादशीसाम्ययुक्ता वि.
दाधिका द्वादश्याधिक्ययुक्ता विद्धाधिकेति विद्धातृ-
तीयप्रकारोपि त्रिविधः एवं विद्धा नवधा भिन्ना इत्य
शादशैकादशीप्रभेदाः ॥ तत्रव्यवस्थामाह । आद्या.
सु पदसु पूर्वैव व्यवस्थानन्तरद्धये । गृहमेधियतीनां
स्यान्नवम्यान्तुपरेऽहनि ॥ विद्धात्रयेपि पूर्वैव व्य
वस्थानन्तरद्वये । अपरेहनि शेषाः स्युः सप्तम्यान्तु
व्यवस्थितिः ॥ अस्यार्थः । आद्यप्रकारषट्टे पूर्वत्रोप
वासः सर्वेषामाश्रमाणाम् । द्वादशीहानियुक्ता शुद्धा
धिका द्वादशीसाम्ययुक्ता शुद्धाधिका इत्यनन्तरपक्ष
दये गृहस्थयतिनोर्विकल्पेनोपवासःएतत्परमेव स्कन्द
पुराणे वचनम्। संपूर्णेकादशी यत्र प्रभाते पुनरेव सा।
उत्तरान्तु यतिः कुर्यात्पूर्वामुपवसेद्गृही ॥ यद्य.
प्यत्रैकादश्यां शुद्धाधिक्यमेवोक्तं न दादशीहानियो
गो द्वादशीसाम्ययोगोवा नथापि तदुभययोगोऽर्था
दुक्तः द्वादश्याधिक्ययुक्तायां शुद्धायां नवमप्रकारे
सर्वेषामुत्तरत्रोपवासविधानात् । अयमेवार्थो नव.
म्यां तु परेऽहनीत्यनेनोक्तः। यच्च गरुडपुराणे संपूर्णे-
कादशी यत्र प्रभाते पुनरेव सा। त्रयोदशी उषः काले
उपोष्या तत्र का भवेत् ॥ उपोष्ये दे तिथी तत्र विष्णु
प्रीणनतत्परैः । इत्यनेन द्वादशीहानिसाम्ययोगे-
॥ इतनिर्णयः॥ शुदाधिकाइये एकादशीदादश्योरुभयत्र स- वेषामुपवासविधानं तत् सङ्ककश्रद्धाजाविष य एकनवोपवासेन फलसिद्धावितरवैयर्थ्यात् । एवं शुद्धानवप्रकारेषु व्यवस्था सिद्धा। बादशीहानियु का विद्धहीना दादशीसाम्ययुक्ता विद्धहीना दा दश्याधिक्ययुक्ता विद्धहीनेति विद्धाया आद्यप्रका स्त्रये पूर्वा दशमीविद्वैवोपोध्येति । तथा च स्मृतिः । एकादशी न लभ्येत सकला द्वादशी भवेत् । उपो- ध्या दशमीविद्धा ऋषिरुद्दालकोऽब्रवीत् ॥ एतद्धच- नवलादेव नेयं पर्युदसनीयेति गम्यते । यद्यप्यत्र वि शान्यूनत्वं विशेषो नगम्यते तथापि सकला दाद शी भवेदितिवचनात् विद्धाधिकविषयत्वाभावात् विद्धान्यूनविषयत्वं मन्तव्यं विद्धाचतुर्थपञ्चम प्रका योर्व्यवस्थायांस्मृतिः। दशमी मिश्रिता पूर्वा बाद- श्यां यदि लुप्यते । एकादश्यान्तदाब्रह्मन्नुपवासः कथम्भवेत् ॥ शुद्धैव द्धादशी राजन्नुपोष्या मोक्षकांक्षि भिः । संकामैाहिभिः पूर्वा विद्धापीति सुनिश्चयः ।। एवंञ्च'बादशीमथवा पुनरिति पूर्वलिखितं वचनं य- दि समूलं तदापि यतिविषयमितिमन्तव्यं बादश्याधि क्ययुक्ता विद्धसमेति विद्धायाः पष्टप्रकारे द्वादशी सा म्पयुक्ता विद्रोधिकत्यष्टमप्रकारे द्वादश्याधिक्ययुक्ता ॥ इनिर्णयः॥ विद्धाधिकेतिनवमप्रकार च सर्वेषामुत्तरोपवास दाद शीहानियुक्ता विद्धाधिकेति विद्धायाः सप्तमप्रकरे - हियतिनोर्व्यवस्था विष्णुरहस्य। निष्कामस्तु गृहीकुया दुत्तरकादशीन्तथा । सकामस्तु सदा कुयात् पूर्वांबो- धायनोमुनिः !! एवं विद्धाया नवसु प्रकारेषु व्यव- स्था सिद्धा । एकादश्याश्मी षष्ठी द्वितीया च चतु. दशी। अमावास्या तृतीया च उपोष्यास्युः परा. न्विताः ॥ इति विष्णुधर्मवचनं विद्धाधिकै कादशी विषयमतोन विरोधः । कलार्द्धनापि विद्धा स्वाद शम्यकादशी यदा ॥ तदा होकादशी त्यत्स्वा द्वाद शी समुपोषयेदिति वचनं विद्धासमहादश्याधि- क्यविषयं दशमीविद्धैकादश्युपवासनिन्दाप्रति पादकवचनानि च परत्रैकादशीसम्भवविषयाणी ति प्रतिपादितमधस्तात् । उपोष्या दादशी शुद्धा एकादश्यां दिनभये । मुमुक्षुभिर्दशाबिद्धा नोयोध्ये कादशी तिथिः । निःस्पृशैकादशी यत्र तत्र सनि हितोहरिः ॥ तामेवोपवसेकाममकामोविष्णुतत्प रः । एकादशी दशाविद्धा परतोयदि वर्द्धते । गृहि भिर्यतिभिश्चैव सैवोपोध्या महातिथिः॥ तथा । वृद्धौ परा तु कर्तव्या क्षये पूर्वान्तु कारयेत् ।। इत्यादि स्मृ. तिवचनानामनवकाशापत्तेः दिनत्रयवती जाता ६० ॥ हेतनिर्णय तिथिरेकादशी यदि । प्रथमा तत्र नोशेष्या उपोष्या चोत्तरा तिथिः ॥ उत्तरा एकादशीदादशीत्रयोद- शीरूपा इति च वाक्यं पूर्ववाक्यपर्यालोचनया मु मुक्षुविषयं इदञ्च मिताक्षराकारस्याप्यनुमतं अ स्मिन्नेवार्थे महाजनपरिगृहीतवाक्यानि । शुद्धा- धिकान्यूनसमोत्तरी चेत्पूर्वा गृहस्थैर्य तिभिः परैव । माचेत्पराधिक्यवती परैव शेषास्तु शुद्धाः प्रथमा उ पोष्याः ॥ विद्धा समा न्यूनसमोत्तरा चेदिद्धाधि- का न्यूनपराचतत्र । सैव व्यवस्था यदि विद्धहीना ग्राह्योपवासे प्रथमैव सर्वैः ॥ विद्धासमा यद्यधिको तरास्यादिद्धाधिका दिद्धसमोत्तरा स्यात् । तदा परे व प्रतिमुक्तशर्केरेकादशी सर्वजनैरुपोष्येति सिद्ध- म् ॥ एवं विष्णूक्तेषु चतुषु दादशीव्रतेषु दादश्यां वासुदेवपूजा प्रधानं तत्पूर्वदिने तूपवासोऽङ्गम् ॥ नाम द्वादशीव्रतेषु द्वादशस्वपि दैतमेवनास्तीति ॥8॥ अथ कृष्णाष्टमी निर्णयः । तत्रैकं द्वादशस्वपि कृ. ष्णाष्टमीषु रोहिणीयोगपुरस्कारेण जयन्तीव्रतम् । तत्रच पूर्वाण एव रोहिणीयोगःशास्त्रार्थ स्तत्र गो विन्दार्चनस्य विहितत्वात् काम्यपूजायाश्च, मैत्रं प्र साधनं स्नानं दन्तधावनमञ्जनं । पूर्वाह्णएव कुर्वी न देवतानाञ्च पूजनमित्यनेन पूर्वाह्णएव विधा - ॥ तनिणय ६१ नात् दन्तधावनञ्चेदं मङ्गल्यरूपं काम्यं तादृशाज नसाहचर्यात् अञ्जनञ्चेदं सौवीराजनरूपं देव- तार्चनन्तु यन्नित्यं तद्धितीयप्रहरपृत्तौ तदुत्तरंवा ।। तृतीये च तथा भागे स्नानार्थ मृदमाहरेत् । समित्पु- प्पकुशादीनि स्नानञ्चाकृत्रिमे जले । इत्यभिधाय च तुर्थेकाले स्नान मुपदिश्य तर्पणोत्तरं। आशयस्थञ्च सं- पूज्य प्रतिमास्वपि पूजयेदित्यभिधानेन । तथा । त- तो गृहार्चनं कुर्यादमीष्ट सुरपूजनं । तथा। ततो विष्णु गृहं ब्रजेदित्यादिभिर्वात्यैस्तस्य मध्याहोत्तरं विधा नात् । अप्रत्याख्येयकार्यानुरोधात्तु मध्याह्नस्ना नादीनामपकृष्य करणेपि न क्रमभङ्गः तदविरोधेनै व प्रातः सर्वेकृताह्निका इत्यपि नेयं अतएव मध्यान उदये वापि विभ्राडादीच्छया जपेत् ।। तत उदयोत्तर मध्याह्नस्नानकरणे इदमित्याचारपारिजातादौ व्यक्तं ॥ रोहिण्यष्टमीव्रतन्तु अर्धरात्रे भाद्रकृष्णाष्ट म्यां रोहिणीयोगे सति । तत्र च तदैव पूजादिकम् । विथिभान्ते च पारणं भवतीति गौडाः॥ तच काम्य मित्यपितएव ॥ कृष्णाष्टमीवतन्तु रोहिणीयोगम. नपेक्ष्यैव तत्र रोहिणीयोगाश्रुतेः। तथाहि अथ भाद्र पदे मामि कृष्णाष्टम्याङ्कलौ युगे। अष्टाविंशतिमे जातः कृष्णोमो देवकीसुतः॥ भारावतरणार्थाय क्ष ॥ द्वनिर्णय॥ त्रियाणां क्षयायच । तस्मात्स तत्र संपूज्यो यशो दा देवकी तथा ॥ गन्धर्माल्येस्तथा पुष्पर्यवगोधू- असम्भवः । सगोरसमध्यभोज्यैः फलेश्च विविधैः पृ. थक् ॥ रात्री प्रजागरः कार्योनृत्यगीतसमाकुलः । अरुणोदयवेलायां नवम्याञ्च ततस्त्रियः।। रक्तवस्त्रा वृतास्सारक्तमाल्यैरलङ्कृताः । नयन्ति प्रतिमा पां नानाविभवसम्भवाः। नदीतीरं शुभं रायं विवि तं वा महत्सरः। तत्र स्नानं प्रकुर्वन्ति स्नापयन्ति छ तास्ततः । ततः प्रविश्य च गृहं यवान्नं भुज्जते चताः ॥ युक्तमिक्षुविकारैश्च मध्वाज्यमरिचः सह ! तत्र अष्टम्यां, तस्याएवोपस्थितत्वात् एवञ्च पूजा दिवैव पूजाऽऽधारत्वेन रात्रेश्रुतात्वादौत्सर्गिकस्य पू वणिकृत्यत्वस्यानपवादात् रात्रौ प्रजागरः कार्य इति तत्रैव विशेषाभिधानाच ॥ यत्तु भुजतेचता इत्यादिश्रवणात् स्त्रीणां व्रतान्तर्गतोपवासे विहिते व्रतमेवेदं स्त्रीमात्राधिकारिक उपसंहारानुरोधात थैवाक्ताधिकरणे सिद्धान्तनादिति तन्न तेनापि स्त्रीणां पारणाद्रव्यविशेपमात्रस्यैव विधानात् तथा च स्त्रीणान्तत्र पारणाद्रव्यमायाति अत एव च प्रतिमानयनस्यापि तत्कर्तव्यत्वविधानसामर्थ्येन तद्रूपमङ्गं स्त्रीमात्रकर्त्तव्यं भवतु नतु तावतैव अ-
॥ द्वतनिर्णय ।।
डिनोव्रतस्य स्त्रीमात्राधिकारिकत्वमायाति अक्ता
धिकरणे तु धृतस्तुतिरन्यथा सिद्धा अत्रतुन तथेति
विशेषः । अस्त्वेवं तथापि पुरूपाधिकारे किं प्रमा-
णं अधिकारिविशेषायुतो सामान्यकल्पनायां लाथ
वानुग्रह इत्यवेहि अतएव समयप्रदीपादौ स्त्रीपुंस
सागान्याधिकारिकमेवेदं व्रतं सङ्कोचे प्रमाणाभा-
वादिति सिद्धवल्लिखिती नरोवा यदि वा नीरीति भ
विष्यपुराणवचनाञ्च ॥ व्रतवेदं नित्यं अकुर्वन्नि
पं याति यावदिन्द्राश्चतुर्दशेति तद्वचनात् । विश्व
जिन्न्यायेन फलकल्पने गौरवाच ॥ यत्तु हेमाद्रो-
जन्माष्टमीवतं तदपि रोहिण्यष्टमीव्रतवदिति तत्रैव
व्यक्तं ॥ व्रतोपवासनियमपूजादिना ब्राह्मणेविष्णु
वाराध्यः सर्वधर्वान्परित्यज्य मामेकं शरणंब्रजी अहं
खा सर्वपापेभ्योमाक्षायष्यामि माशुच इति गीतासु.
भगवचनान् तदाराधनमपि कामनया बन्धाय त्रै
विद्यामाभित्युपक्रम्य एवं त्रयीधर्ममनुप्रपन्नागता
गतं कामकामालभन्ते इनि गीतासुभगवद्रचनात्
काम्यमपि कर्म कामनामन्तरेव कृतंन बन्धाय किन्तु
परम्परयामुक्तये अतएव ददामि देवमित्येव यजे यष्ट
व्यमित्यमिति युधिष्ठिरोप्याह॥कामना तु मुमुक्षो
सर्वथाविरुद्धा जहिश महावाहों कामरूपं दुरामद
। दैननिर्णय
मिति गीतासु भगवदचनात् यद्यपि मुमुक्षापि का-
मनैव तथापि नासौरागःसतु निषिद्धः रागस्य बन्ध
नसमाज्ञानादिति गौतमसूत्रात् ॥ पुत्रास्तु द्वादश
औरसादयः प्रसिद्धा एव ।।तत्र तेषां येन क्रमेण पाठ
स्तेनैवक्रमेण ज्यैष्ठचंयत्रतुबहव औरसास्तत्रापि प्रेत
श्राद्धेषु ज्येष्ठ एवाधिकारी प्राथम्यात् नतु सर्वे विनि
गमनाविरहापत्तेः । अथ ज्येष्ठे अशौचान्तदिने क्ष
तादिना दूषिते तत्र कनिष्ठस्य पुत्रत्वेन स्वरूपयो-
ग्यस्य क्षतिज्येष्ठकत्वेन सहकारियोग्यतया कर्तृत्व
मस्त्विति चेत् न ज्येष्ठत्वेनाधिकारात अधिकृतस्यैव
च कर्तृत्वात् । नच पुत्रत्वेनैवाधिकारिता अविनिग
मनापत्तरित्युक्तत्वात ननु अशोचान्तदिने आद्य
श्राद्धस्य विहितत्वेन तहिने तस्यावश्यकतया तेने
व कनिष्ठस्याप्यधिकारआक्षिप्यत इति चेत् नहि
विधिरेव नियमविधिः तयोर्भेदात् । देये पितॄणां श्रा
द्ध वै अशोचं जायते यदि । अशोचे तु व्यतीते वै तेषां
श्राद्धं प्रदीयते ॥ इत्यादिना एकोद्दिष्टस्याशौचा
तिवद्धस्य स्वप्रतिबन्धकाशौचान्तकर्त्तव्यत्वाभिधा-
नाच्च । अयन्तु विशेषोयत्क्षतादिना एकादशाहो
त्पन्नाशौचान्तरेण वा यदाद्यश्राद्धप्रतिबन्धस्तदा
तदशौचान्ते आद्यश्राद्धकरणे ततः प्राक् शय्या
॥ हेतनिर्णयः॥ काञ्चनपुरुषकपिलगवीदानानि दम्पतिपूजावृषो स! च न भवन्ति तदिने प्रापकाभावात् प्रकृताशी च मुपक्रम्य अशौचान्ताद्वितीयेगीति श्रवणात् यत्रतु सङ्करेणाशौचकालवृद्धिस्तत्र द्वितीयसन्नि पातेन प्रकृताशौचस्यैवाभिवृद्धिरिति सिद्धान्तना- त् तत्र शय्यादिदानं भवति क्षतान्तादौ तु आद्यश्रा- द्धकरणे तत्प्रयोगाभ्यन्तरे छत्रोपानद्दानं तत्प्रयोग विध्यालिङ्गितत्वादितिवृद्धाः ॥ द्वादशविधपुत्रर- हितस्य पुत्रकरणेऽधिकारः । अपुत्रेण सुतः कार्यों यादृक् तादृक् प्रयत्नतः । पिण्डोदकक्रियाहेतो - मसङ्कीर्तनस्य चेतिवचनात् अपुत्रेण द्वादशविधपुत्र- रहितेनेति रत्नाकरव्याख्यानात् ॥ अथ क्षेत्रजादीन सुतानेतानेकादश यथोदितान् । पुत्रप्रतिनिधीनाहुः क्रियालोपान्मनीषिणः ॥ पुत्रप्रतिनिधीन औरस पुत्रिकापुत्रप्रतिनिधीन तेन तयोरभावे एते उपा दीयन्ते मुख्याभावे प्रतिनिध्युपादानस्य शास्त्रार्थ. वात् अतएव बृहस्पतिः॥ आज्यं विना यथा तैलं सद्भिः प्रतिनिधिः स्मृतः । तथैकादशपुत्राः स्युः पु. त्रिकौरसयोविना ॥ स्युरिति एतयोरसत्त्वे एते भव- न्तीत्यर्थः । एवञ्चैतदुभयाभाव एव पुत्रान्तरकरणं नतु द्वादशविधपुत्राभाव इति. उच्यते एतानेकाद ॥ तनिर्णयः ॥ शापि पुत्रान्मनीषिणः पुत्रप्रतिनिधीनाहुः औरस पुत्रिकापुत्रसदृशान् ताभ्यामीषन्यूनानित्यर्थः तथा च तयोरेवासत्वे पुत्रान्तरकरणमितिनार्थः किन्तु एतौ प्रधानभृतो सन्तानकारणत्वादेव । अन्येतु त- दपेक्षयाकिञ्चिदूनाः सन्तानाप्रवकत्वात् । तदुक्तं सन्तानकारणन्तेषामौरसः पुत्रिका तथेति । किञ्च अ पुत्रेण सुतः कार्य इति समान्याभावस्वरसादप्येवं अ- तएव क्रियालोपात् क्रियालोपप्रसादित्यपि घटते अपत्यमुत्पादनीयमिति विधिना तावदपत्योत्पाद- नक्रिया विहिता सच विधिनित्यः अप्रजास्सन्त्वत्ति णोनापुत्रस्य लोकोस्तीत्यादिनिन्दार्थवादबलात् तथा चैतदुभयाभावे एकादशान्यतमेनापि तद्विधि रक्षणं कार्यमित्यर्थः एवञ्चैषां सर्वेषामेकतमस्यापि सत्त्वे न पुत्रकरणं तद्विधायकाभावादिति । ननु भवत्वेवं भ्रातृजसत्त्वे त्वस्तु पुत्रकरणमिति उच्यते। भ्रातृणामेकजातानामेकश्चेत्पुत्रवान्भवेत् । सर्वे तेनैव पुत्रेण पुत्रिणोमनुरबवीत् ॥ सर्वासामेकप- लीनामेका चेत्पुत्रिणी भवेत् । सर्वास्तेनैव पुत्रेण प्रा ह पुत्रवतीर्मनुः ॥ यद्येकजाताबहवो भ्रातरश्चसहोद राः। एकस्यापि सुते जाते सर्वे ते पुत्रिणः स्मृताः॥ यह्वीनामेकपत्नीनामेषएव विधिः स्मृतः । एका
६७
॥ द्वतनिर्णयः ।।
चेत्पुत्रिणी तासां सर्वासां पिण्डदस्तु सः ॥ अयञ्च
पुत्रित्वातिदेशस्तथैवोपसंहारात् तत्प्रयोजनन्तु पुंसः
पुन्नामनरकाप्राप्तिः स्त्रियाः सपिण्डनाहत्वं उभयोः
कृत्रिमाद्यकरणमिति एवञ्च पुत्रित्वातिदेशात् पुं.
सासति सोदरजे स्त्रिया च सति सपत्नीपुत्रे कृत्रिमा-
दयो नोपादेया एवमेवासहायोदयकरकल्पतरूपारि-
जातरत्नाकरादयः। ननुचापुत्रेण सुतः कार्थोयाक्
ता दृक् प्रयत्नतः।पिण्डोदकाक्रियाहेतो मसङ्कीर्तन
स्य चेति वचने अपुत्रेण द्वादशविधपुत्ररहितने
तिव्याख्यानदर्शनात् सत्यपि भ्रातृपुत्रे कृत्रिमायु-
पादानमस्त्वितिचेत् न पुत्रित्वातिदेशेन हि पुत्रि-
तुल्यत्वे सिद्धे नापुत्रस्य लोकोस्तीति श्रुत्या अप
जाः सन्तत्रिण इति वसिष्ठवचनेन चास्वर्गित्वं अद
नशीलत्वं राक्षसत्वमितियावत् तच्च यत्प्रतिपादि-
तं अन्यच्च यदपुत्रत्वप्रयुक्तमनिष्टं तत्सर्वनिधेष
स्तावत्सिद्धएपेति न तदर्थं पुत्रोत्पादनं नापि पि-
ण्डादिक्रियार्थन्तत् अस्याअन्यतोपि सम्भवात् ना-
पि नामसङ्कीर्तनार्थं तन्मात्रस्यानुद्देश्यत्वात् एव.
च पिण्डोदकेत्यादिवचनमभ्युच्चयपरं फलन्तु
नित्यविधिपरिपालनमेव । ननु तर्हि तदर्थमेव पु-
त्रोत्पादनमस्तु पुत्रोत्पादन क्रियायादेशितत्वादि
॥ द्वतनिर्णयः॥ तिचेत् न पुत्रित्वातिदेशेन निन्दार्थवादे निरस्ते अनिष्टवारणाया अपत्योत्पादनक्रियायाअन- वतारात् एवञ्च दादशविधपुत्ररहितेन पुत्रित्वा तिदेशशून्येन च पुत्रः कार्य इति निर्गलितं अ- तएव द्वादशविधपुत्रासले भ्रातृजसत्वे पुत्राकरणं रत्नाकराद्यनुमतं सञ्छते ॥ तदयं संक्षेपः। नरकपा- तपरिहारार्थं तावत् क्षेत्रजाग्रुत्पादनं सच क्वचि- त् पुत्रित्वातिदेशादेव परिहतः क्वचित्तु भ्रातृजादेर प्यभावे क्षेत्रजादिकमुत्पाद्य परिहियते । औरसपु. त्रिकापुत्रयोस्तु सन्तानकरणत्वेनोपादानं नतु: क्रियालोपप्रसङ्गमयेन अतएव भ्रातृजसपत्नीपुत्र योरपि सत्वे तदुभयोपादानमिति द्वादशविधपु- वरहितस्य भार्यापौत्रवतः प्रमीतस्य षोडशी पौत्रे- णकार्या॥पितामहः पितुः पश्चात्पञ्चत्वं यदि गच्छ- ति । पौत्रणैकादशाहादि कर्तव्यं श्राद्धषोड़शमि- ति वचनादिति । पुत्रपौत्राभावे श्राद्धं भार्यया तद भावे भ्रातृजेन कार्य ॥ भ्रातुओता स्वयं चक्रे तद्भा- या चेन्न विद्यते । तस्य भ्रातृसुतश्चक्रे यस्य नास्ति सहोदर इतिवचनात् ॥ स्त्रियास्तु पत्या, भार्यापिण्डं पतिर्दद्यादिति साक्षाद्विधेः, तदभावे सपत्नीपुत्रण, पिण्डदस्तुसइति वचनात् ॥ ॥अथ कृत्य द्वैतनि- ६९ ॥ द्वैतनिर्णय णर्यः ॥ॐ॥ तत्र प्रथमं तन्मूलमालनिर्णयः ।। तत्र ज्योतिःशास्त्रम्। दर्शादर्शश्वान्द्रनिशदिवसैस्तु साव नोमासः । विसंक्रान्तिसुचिह्नः सौरोपिनिगद्यते सद्भिः॥ सचसावनोऽशोचे त्रिंशतावार, मासेन शु- व्यतीत्यस्याह्वोपक्रमणात मासिकादो त्रिंशता तिथि भिः एकातिथिरित्यादि श्रवणात् । विवाहादौ स्मृतः सौरोयज्ञादौ सावनो मतः शेषे कर्मणि चान्द्रः स्या- देषमासविधिः स्मृतः॥ शेषे श्राद्धादौ, तत्र चान्द्रो- द्विधा चन्द्रकलोपचयापचयाभ्यां। तत्राद्यःशुल्कादि; सचौत्सर्गिकः, द्वितीयः कृष्णादिः सतु ब्रह्मपुराणानु- सारातिथिकृत्येष्वेव तेन दर्शश्राद्धादो कृष्णादिरेव मास इतिसएव निर्देश्यः तस्य तत्तिथिपुरस्कारेणैव क- रणात् तदिनएव तु सावत्सरिकादौ शुक्लादिरेव निर्देश्यः तस्य प्रायणतिथिकर्तव्यत्वेन त्रिंशतिथि- साधारणतया तिथिनियतब्रह्मपुराणास्पर्शात् । न- न्वेवं सांवत्सरिके शुक्लादिक्रमेण निर्देशइत्युक्तं तच्च सकललोकप्रयोगविरुद्धमितिचेत् । किमतो नहि ते परीक्षकाः । ननु परीक्षकेणापि श्राद्धविवे ककारेण कृष्णादिप्रयोगं पुरस्कुर्वता निर्देशासङ्गते रिति लिखितमितिचेन्न तेऽपि हि तत्र विष्णुवचन विरुद्धाभिधायित्वादपरीक्षाकाएवेति । एतच्च च- ॥ वैतनिर्णयः॥ क्रवत्परिवर्तेत सूर्यः कालवशाद्यतः। अतःसाब त्सरं श्राद्धं कर्त्तव्यं मासचिह्नितम् । मासचिह्नतुक तव्यं पौषमाघाद्यमेवहि । यतस्तत्रविधानेन मासः सपरिकीर्तितः ॥ इत्यत्र व्यक्तं । विवाहादाविति अ- त्रापि विवाहे सौरपरिग्रहः । गर्भाधानपुंसवनसीम न्तोन्नयनजातकर्मनामकरणेषु न सौरपरिग्रहः । किन्तु गर्भाधाने निमित्तमात्रस्य, मध्ययाःसावनस्य, चतुर्थे तु जन्मनः पुरस्कारः, पञ्चमे तु एकादशदिना दिपुरस्कारः, अन्नप्राशनेतु सावनपुरस्कारः । चूड़ा- करणे तु सावनमासघटितत्वपुरस्कारे सति सौरपुर- स्कारः उपनयनेप्येवम् किन्तु गर्भसम्बन्धादब्दसं- ख्यागगनायोनियहि वादेति ॥ तदुक्तं मनुना,ग- 6ष्टमेऽष्टमे वाब्दे ब्राह्मणस्योपनायनम् । गर्भादेका- दशेराज्ञोग द्वादशे विशइति॥अत्र गर्भाधानं क्षे- त्रसंस्कारः तेन तत् सकृदेव एवं पुंसवनसीमन्तो नयनेअपि जातकर्म तु न तथेति तेन तत्प्रतिपुत्रमा- वर्त्तते । विप्रकृष्टेन तु पित्रा उत्तरदिनादावपि पुत्रज न्मज्ञाने जातकर्म कार्य तत्र तु नाभ्युदयिकं, न सोष्यन्तीजातकर्मप्रोषितागतकर्मस्वित्यादि नि पेधात् । तत्र संस्कारकर्मणि मातृकापूजाभ्युदयिके प्राक्, तत्रापि मातृपूजा आदौ आवश्यकी च । क- ॥ वैतनिर्णय ७१ म्ांदिषु च सर्वेषु मातरः सगणाधिपाः। पूजनीयाः प्रयत्नेन पूजिताः पूजपन्ति ताः । इतिकात्यायनव- चनात्॥ सर्वेषु श्राद्धवत्सु॥श्राद्धञ्च कचिदङ्गं क्वचित्त तदतिरिक्ते नैमित्तिकमिति प्रपञ्चितं श्राद्धचिन्तामणा विति ॥ अकृत्वा मातृयागन्तु पितृभ्यः परिवषये- त् । तस्य क्रोधसमाविष्टाहिंसामिच्छन्ति मातरः ॥ इतिवचनाच्च। इदञ्च मातृपूजनं नान्दीमुखश्राद्ध- वत् साक्षादिष्ट्यन्वयि कर्मादिषु मातरः पूनीयाइति वचनादेव तेन तद्वदत्रापि संकल्पउचितः। मातृपूजा नन्तरन्तु नान्दीमुखश्राद्धं । षड्भ्यः पितृभ्यस्तदनु श्राद्धदानमुपक्रमेदिति कात्यायनवचनात् अत्र प ड्भ्यइति मात्रादेरप्युपलक्षणं तासामपि श्राद्धस्य स्मृत्यन्तरसिद्धत्वात् । अत्र नान्दीमुखे विवाहे च प्रपितामहपूर्वकं । वाक्यमुच्चारयेद्विद्वानन्यत्र पि- तृपूर्वकमिति वचनाद्यथा कन्यादानवाक्ये प्रपि- तामहपूर्वकता तथा नान्दीमुखश्राद्धवाक्येपीति न देश्यं बहुतरवचनविरोधात् किन्तु नान्दीमुखपदं वि- चाहविशेषणं चकारस्तु पूर्वोक्तकर्मसमुच्चयपरः, तेन विवाहे यदानवाक्यमर्थात्कन्यायास्तत्प्रपितामह पूर्वकं कार्यं पतापौत्रीत्रिरभ्यसेदितिवचनात् इदञ्च नान्दीमुखश्राद्धं पुत्रोपनयनादिकं करिष्यता पित्रा- કર । द्वैतनिर्णयः॥ कार्य । स्वपितृभ्यः पिता दद्यात्सुतसंस्कारकर्मणि पिण्डानोबाहनातेवां तस्याभावेतुतत्क्रमादितिवन नात् संस्कारश्च पुत्र विवाहेष्वाद्यएव नतु सर्वेषु आ- धादेव संस्कारोदये द्वितीयादेर्व्यर्थत्वात् कि. ञ्च द्वितीयादयो न संस्कारजननक्षमाः संस्कारव ति सजातीयसंस्कारोदयासम्भवात् ॥ अथ बा- लादिसंस्कारे तपितृभिन्नेनापि क्रियमाणे पित्रा- नान्दीमुखश्राद्धं कार्य पुत्रासंस्कारमात्रस्यैवतन्निमि- त्तत्वादिति केचित् तन्न एवं हि संस्करणीयपितुरेव तत्राधिकारइति मन्यसे तथाच तस्याभावे तु तत्क्रमा- दिति व्याहन्येत नहि पित्रन्यस्यापि नान्दीमुखा- धिकारमात्थ तस्मात् पित्रापित्रा वा कन्यादानमाण- वकोपनयनादौ क्रियमाणे तन्निमित्तिकं तदङ्गभूतं वा श्राद्धं कार्य नैमित्तिके निमित्तवतोऽच प्रधानाधि- कारिणएवाधिकारादिति॥अत्रच पितरि सति तद्वत् तस्मिन्नसति माणवकवन्नान्दीमुखश्राद्धं कार्य नतुतस्मिन्नसत्यपि तददेव कार्यमितिकल्पः पूर्व- कल्पव्यवच्छेदकतुशब्दबाधितत्वात् वितिवचनात् तेन तस्य संस्कार्यपितुरभावेऽसत्त्वे तेषां पितॄणां कृते तत्क्रमात् संकार्यक्रमाददयाद- न्यथा व्यवच्छेदोन स्यात् अतएव वृद्धौ पितुः सपिण्ड तस्याभावे ॥ द्वैतनिर्णय.॥ नम-यथा पितामहस्यैवाभ्युदयिकाहस्य सत्वे पि. तुः सपिण्डनाय तदानीं निबन्धोनस्यात् न चैवमे वास्तु, तथा सति हि सपिण्डनकालो न स्यादेव अ- तएव मृतस्य कन्याविवाहे तदीयमाभ्युदयिक कन्यादानाधिकारिणा कार्यमिति श्राद्धकल्पश्राद्ध चिन्तामणिप्रभृतयोनिबन्धाः । नान्दीमुखे च, शर्म णोक्षव्यकालेस्थादित्यादिना प्रकृती पष्ठी प्रीयता मित्यक्षय्यस्थानइति वैकृतविशेषोपदेशेन वाध्यते तेनामुकदेवी दत्तैतदन्नपानादिभिः प्रीयतामित्यादि सागवाक्यं सिध्यति ॥ सामगानान्तु वैकृतविशे- पोपदेशाभावानैवम् ॥ श्राद्धकल्पादयोप्येवम् ।। मधु चात्र नदेयं, आमिपत्वात् वसिष्ठोक्ताविधिः कृत्स्नो द्रष्टव्योत्रनिरामिष इति कात्यायनवचनेनात्राभिष निषेधात् । नच पिण्डाँस्तु दधिमधक्तानित्यादिना पिण्डे मधुदानविधानात् पिण्डस्य च श्राद्धद्रव्यशेष कर्तव्यत्वाभिधानात् श्राद्धेपि तदेव द्रव्यमायाति फलचमसन्यायादितिवाच्यं वैषम्यात् दृष्टान्ते हि फलचमसमस्मै भक्षं प्रयच्छत त्यनेन ऋत्विग्भक्षत्वेन विधानात् ऋत्विग्भक्षस्य च होमद्रव्यशेषतया फल चमसस्य होमद्रव्यत्वमायाति अत्र तु तद्वत् पि. ण्डस्यापि श्राद्धशेषान्नकर्तव्यतया श्राद्धस्य पिण्ड ॥ इतनिर्णय.॥ द्रव्यसजातीयद्रव्यकत्वं सिद्ध्यतु नतु पिण्डविशे- पणीभूतमधुव्यकत्वमपि मधुना विनापि पिण्डस्य निष्पत्तेरिति ॥ अग्नौकरणशेषन्तु पिण्डार्थमवशे- षयेदिति यमवचनाच्च तस्याग्नौकरणशेषद्रव्य कत्वसिद्धेः । यज्ञादौ सावन इति । यथा षडह दा- दशाहो यागौ तथा मासद्धिमाससाध्याअपि यागाः, तत्र त्रिंशत्तिथ्यात्मकः सावनो मासः। तदु. क्तम् ॥ एका तिथिः कापि तदादिभूता तिथिस्तृतीये ति तिथिप्रवन्धः । मासः सचान्द्रस्तिथिनाम्नि य- स्माच्चादी कलामाप्य सदा प्रवृत्त इति ॥ अस्यार्थः। एका तिथिः कापि पूर्वावधिभूता तदादिभूता ति- थिस्तदव्यवहिता तु पूर्वतिथिरुत्तरावधिभूता तेन दशम्यां पूर्वावधिभूतायां तार्तीयिकनवम्यां सा- वनोमासोभवति शूद्राशौचावच्छिनानि तु त्रिंश दिनानि यद्यपि न त्रिंशत्तिथिनियतानि किन्तु त्रिंशदहोरात्ररूपाणि तथापि तान्यपि सावनमास प्रतिरूपकमासारम्भकाप्येवेति ॥ एवमाश्विनापरप क्षे चतुर्दा विभक्ते गोतमायुक्ते सकृत्करणं नान्त- निर्विशते किन्वपरपक्षान्तरे अस्य च पक्षचतुष्टया वरुद्धत्वेन निराकांक्षतया सामान्यविशेषन्याये नान्यत्रैव गोतमादिविश्रामसिद्धेः । अत्र च निब ॥ द्वेतनिर्णय . न्धृणामविवादएव। एतेन केवलामावास्याप्यपास्ता न्यायसाम्यात् अष्टकात्रयोदश्यौतु नैवं निखकाश- त्वादिति । अत्र यद्यपि प्रतिपदादिकल्पेन पक्षश्राद्धे क्रियमाणे अमावास्यान्तस्य नित्यस्य श्राद्धकलाप- स्यैककर्मीभूतस्यैकप्रयोगसाध्यतेनादौ सर्वसङ्कल्प आयाति वाक्यार्थीभूतनियोगस्यैक्यादर्शवत् । प्र- तिदिनन्तु नायाति तत्ताद्धानां प्रत्येकं कलिका पूर्वजनकत्वादैन्द्रदध्यादिहोमवत् तथापि प्रतिमासि कवत्प्रत्यहं सङ्कल्पमाचरन्ति आदौ तु षोडशश्राद्धव त् सर्वसङ्कल्पं नाचरन्ति वृद्धाः । अत्र चाचारमात्रं मूलमाये, अन्त्ये तु नित्यतेति ब्रूमः आश्विनापरप- क्षवत् शरदि शुक्लपक्षे पष्टिकाभिः पार्वणं नित्यं,ब्री- हियवपाको चेत्यन्तमभिधाय विष्णुना नित्यत्वाभि- धानात् शुक्लपक्षे नवं धान्यमित्यादिना शरत्कृत्य मुपक्रम्यकथनात् । इदञ्च व्रीहिभिः, गृहमेधी शरद्धस न्तयो/हियवाभ्यां यजेतेतिवचनात् तदभावपुराणे स्तदभावेऽन्नान्तरेणापीति परिशिष्टटीका । एवं हैम. न्तिकसंस्कारकमपिपार्वण मावश्यकं । अकृताग्रयण ञ्चैव धान्यजातं द्विजोत्तम । राजमापानDश्चैव मसू राँश्च विवर्जयेदिति वचनेनाकृतनवान्नश्राद्धानां सस्यानामकर्मण्यत्वप्रतिपादनात्, पारिजातोप्येवम् ।।
॥ द्वैतनिर्णयः॥ तच्च श्राद्धन्न हरिशयने न धनुस्थे नापि तुलास्थे खौ न च कृष्णपक्षे, नवान्नं नैव नन्दायां न प्रसुप्ते जनार्दने।न कृष्णपक्षे धनुषि तुलायान्नैव कारयेदि- ति ज्योतिर्वचनात् ॥इदञ्च श्राद्धं वृश्चिकत्रयोदशां शाभ्यतरएव तदुत्तरमेव धनुरयनात् एवं सर्वरा- शिष्विति । एवञ्च श्रावणपूर्णिमायांआग्रहायणपू- र्णिमायाञ्च पार्वणमावश्यक श्रावण्याग्रहायण्योर न्वष्टकासु च पितृभ्योदद्यादिति गोतमवचनात् । न चान्वष्टकासहपाठादिदं साग्निमात्रपरं अष्टकाया अपि तथात्वापत्तेः तिस्रोष्टकास्तिस्रोऽन्वष्टका इति स्मरणात् अष्टकाश्राद्धानामग्निव्याप्तेतिकर्तव्यतावि रहान्न तथेति यदि तुल्यमाग्रहायणी श्रावणीश्राद्धयो रपि।श्रावण्याग्रहायणीपदे च तत्पूर्णिमामात्रपरे तत्रै वसमुदायस्य साधुत्वात् समयप्रदीपादयोप्येवं ।। अथ मृगशिरसा युक्ता मार्गपूर्णिमा एवं श्रवणेन युक्ता श्रावणपूर्णिमा श्राद्धकाल इति तन्नक्षत्रयोगाभावे न श्राद्धमिति मैवं मार्गी श्रावणी पदादीनां तत्त- न्मामपूर्णिमामात्रएव साधुत्वात् ! नचैवं पुष्ययुक्ता पौर्णमासी पौपीत्याद्यनुशासनविरोधः, तस्य तद्योग योग्यतापरत्वात् तद निवन्धृभिलिखनात् अन्यथा माससंज्ञनक्षत्रेण पौर्णमास्याअयोगे तद्धर्षे तन्मास ॥ द्वतनिर्णयः॥ लोपःस्यात् अतएव पङ्कजपदवत् पौष्यादिपदान्यपि तत्तन्नक्षत्रवत्तत्तत्पूर्णिमासु योगरूढानीत्यपास्तं पकजनिकर्तृत्वयोगवदत्र तत्तन्नक्षत्रयोगस्याना वश्यकत्वात् तलन्नक्षत्रयोगयोग्यताश्रयणे तु न नःक्षतिः । एवं माघपूर्णिमायामपि नित्यं पार्वणं, माघीपोष्ठपद्याचं कृष्णत्रयोदशी चेति विष्णुवचना त् । ननु माघीति कृष्णत्रयोदशी विशेषणं तेनाश्वि नापरपक्षीया त्रयोदशी मघायुक्ता नित्यपार्वणका लइति सिद्धयति मैवं एवं हि त्रयोदशी विशिष न्माघीपदं यौगिकं स्यात् माघपूर्णिमां वदई भव ति तथा च योगरूज्योर्विरोधे रूढिरेव बलवती बृह- स्पतिर्विश्वदेवैरितिवच्च नात्र योगबलवत्त्वप्रयो जकं किञ्चिदस्ति अतएव श्राद्धपञ्ज्यां साग्निनि रग्निसाधारणनित्यपार्वणकालपरिगणनप्रकरणे मार्ग माघ श्रावण पूर्णिमा इति लिखितम् । पारिजा तोप्येवम् । यवपाकश्राद्धं वसन्ते, तदपिनित्यं वीहि यवपाको चेत्युपक्रम्य एतास्तु श्राद्धकालान्वै नित्या नाह प्रजापतिरिति विष्णुवचनात् । इदञ्च न चैत्रे, नापि कृष्णपक्षे कार्य ॥ पौषे चैत्रे कृष्णपक्षे नवान्नं नाचरेबुधः। भवेज्जन्मान्तरे रोगी पितॄणां नोपति छते इति ज्योतिर्वचनात् । सर्वाणि सावकाशानि श्रा- ७८ ॥ द्वैतनिर्णय ॥ द्धानि नन्दादौ न कार्याणि ॥ नन्दायां भार्गवदि ने त्रयोदश्यां त्रिजन्मनि । श्राद्धमेतेष्वकर्तव्यं पु त्रदारधनक्षयादिति वचनात् ॥ आश्विनापरपक्षेतु सर्वस्मिन्नहनि श्राद्धं शक्तस्य नित्यम् । कल्पास्तु तत्र चत्वारः,शक्तस्य प्रतिपदादिः,अशक्तस्यपञ्चम्यादिः, अशक्ततरस्याष्टम्यादिः, अशक्तमतस्य दशम्यादिः। अत्र चैककल्पाश्रयणे तहनिर्वाहे न कल्पान्त- राश्रयणं यवधीहिवत् उदितादिहोमवच्चेति ॥ पक्ष चतुष्टये चात्र चतुर्दशीपरित्यागः चतुर्दश्यान्तु कुम जा इत्यादिना तन्निषेधात् । ननु तन्निषेधः काम्य चतुर्दशीश्राद्ध परः त्रयोदशीश्राद्धवन्नित्यचतुर्द शीश्राद्धस्य तु दिनदिन इति सर्वदिनविधिना द्रागालिङ्गनात् । नहि नित्यविधिः काम्यविधिवत लमपेक्षते येन विलम्वितप्रतीतिकतया निषेधेन स्पृश्येत तस्मात् त्रयोदशीश्राद्धवच्चतुर्दशीश्रा द्धमपि नित्यत्वेन निषेधास्पृष्टत्वात् क्रियतां तत्स्प. शे तु नित्यं त्रयोदशीश्राद्धमपि हीयतां वा । सेयमु. भयतः पाशा रज्जुरिति । अत्र केचित् । आहवेषु विपन्नानां जलाग्निभृगुपातिनां । चतुर्दश्याम्भ वेत्पूजा अन्येषान्तु विहितेत्याश्विनापरपक्षप्रकर णस्थदेवीपुराणवचनेनान्येषां सत्र पूजा तदा नि ननिर्णय ॥ षिध्यते असङ्कोचादित्याहुः । अत्र वक्ष्यामः ॥ॐ28 अथ श्राद्धशरीरनिर्णयः ॥ अत्र तहिने प्रातः स्नान मावश्यकम् । प्रातः स्नातः सहाम्बर इति विशिष्या भिधानात् नतु ततएव तदिने स्नानान्तरस्थाने पि तदेव आघारमाघारयतीतिवदितिवाच्यं सहाम्बर इतिवत् प्रातः स्नात इतास्पाप्यनुवादत्वात् अनुवा दफलं त्वङ्गत्वमेव । श्राद्धनेलायामादौ पुण्डरीकाक्ष स्मरणं । शङ्खचक्रगदापाणिं द्विभुजं पीतवाससं । प्रारम्भ कर्मणां विप्र()पुण्डरीकं स्मरेद्धरिमितिवचना त् । पुण्डरीकमित्येकदेशकीर्तनं तेन पुण्डरीकाक्ष स्मरणमायाति तत्स्मरणफलन्तु । गरुडपुराणे । अपवित्रः पवित्रोवा सर्वावस्थाङ्गतापिवा । यः स्म रेत्पुण्डरीकाक्षं सवाह्याभ्यन्तरः शुचिरिति ॥ श्राद्धी यद्रव्यप्रोक्षणञ्च कुशोदकेन, नाप्रोक्षितं स्पृशेदिति वचनात् प्रोक्षणे सिद्धे अन्यत्र तथादर्शनात् एवञ्च पुण्डरीकाक्षस्मरणं श्राद्धीयद्रव्यप्रोक्षणञ्च श्राद्धार म्भसमयकृत्यामित्येकदैव दयम्भवति सौकात् न त्वपवित्रइत्यादिश्लोकस्यास्यां क्रियायामन्वयः अनभिधानात् अर्थवादान्तरतुल्यत्वाच्च । एतद- नन्तरन्तुकाम्ये श्राद्धे फलाभिलापर्वकः सङ्कल्पः काम्ये फलाभिलापपूर्वकः सङ्कल्पः शास्त्रार्थ इति
No text on this page.
॥ निर्णय. ॥ aner स्वधादिशब्देन देशनादेशितस्य त्यागस्यैवाभिधा- नादिति अतएव श्राद्धकल्यपितृभक्तिश्राद्धप्रदी- पादयोप्येवम् ॥ कराग्राग्रपवित्रकत्वमाभ्युदपिक एव छन्दोगपरिशिष्टे विशेषाभिधानस्वरसादिति न वाच्यं नैकैकस्यात्रदीयत इति तदुपसंहारात मिलितदानस्यैव विशेषस्य तत्राभिधानादिति । अर्घसंस्रवदानन्तु पितृपात्रे पितामहपात्रोपक्रमण प्रावृत्तिकक्रमानुरोधात् । शेषं श्राद्धचिन्तामणौ । होमस्तु पिण्डपितृयज्ञवत् कात्यायनेनोक्तः पिण्डपि तृयज्ञे होमः प्राचीनावीतिना कार्यः सजघनेन गार्हपत्यं प्राचीनावीतीभूत्वा दक्षिणासीनइत्युपक्रम्य सउदास्य द्वे आहुती जुहोति सजुहोत्यमये कव्यवा हनाय स्वाहा सोमाय पितृमते स्वाहेति शतपथदर्श- नात् इदन्तु माध्यान्दिनीयानाम् ॥ सामगानान्तु सव्येन, अतः परंप्राचीनावीतिना भाव्यमिति होमान न्तरं गोभिलात् अत्र होमे जलादौ क्रियमाणे पर्य क्षणन्नास्ति अनभिधानात् नच यज्ञोपवीती निवर्त्य ततः पर्युक्षणादिकमितिवचनात्तत्स्यात् स्वगृह्योक्तेन विधिनेति तत्र स्मरणात् गृह्ये चागावेव पर्युक्षणकथ- नात् । उपवीतिना सकार्यइति पितृभक्ती लिखितं तच्च शतपथविरुद्धं पितृभक्तिलिखनमप्रमाणमे ॥निर्णयः॥ वेति वस्तुगतिः । मैथिलास्तु शतपथादर्शिनः पितृ भक्तिप्रामाण्याभिमानिनोयजुर्विदोप्युपवीतिनोत्र - भवन्तीति ॥ एतद्भुतशेषप्रतिपादनन्तु सर्वथा ऽप सव्येनैव पित्र्यत्वात्। प्राचीनावीतिना सन्धगपसज्य मंतन्द्रिणा । पिध्यमानिधनात्कार्य विधिवदर्भपाणि नेतिवचनात् ॥ अपसव्यमिहवाक्ये वामावर्त्तम् । आनिधनात् समाप्तिपर्यन्तं । ततः परिवषणं, तत्रान पूर्णपात्रं हस्ताभ्यामुपनेयं, पाणिभ्यां तू संगृह्य स्वय- मन्नस्य वर्द्धितं । विप्रान्तिके पितॄन्ध्यायञ्छनकै रुपनिः क्षिपेदितिवचनात् ॥ उपनिः क्षिपेत्समीपे धारयेत् । परिवेषणन्तु दक्षिणपाणिमात्रेणैव, अडा नभिधानात् ॥ कर्मोपदिश्यते यत्र कर्तुरङ्गनचोच्य ते । दक्षिणस्तत्र विज्ञेयः कर्मणां पारगः कर इति वचनात् ॥ श्राद्धपञ्ज्यप्येवम् ॥ इदञ्च परिवेषणं नित्यश्राद्धेपि प्रकृतावभिहितत्वे सति नित्यश्राद्धे नपोदितत्वात् । अन्ने च मधुनि क्षिप्ते मधुमत्येव पठनीया नतु मधु मधु मध्वित्पपि प्रमाणाभावात् नच मधुवातेति मन्त्रितमित्यनेन मधुवाताशब्द, मात्रं गृह्यते किन्तु ऋत्रयं मधुप्रकाशकत्वात् तथाच मधु मधु मध्वित्यपि ततएव ग्राह्यमितिवाच्यं मधु मध्विति यस्तत्र विर्जपोशितुमिच्छताम् । गा ।। द्वैतनिर्णयः॥ यत्र्यनन्तरं सोत्र मधुमन्त्रविवर्जितइत्यनेन म. धुमतीनामेव मधुमन्त्रत्वेनाभिधानेन मधुवातेतिम- त्रिततमित्यत्रापि मधुमन्त्रत्वेन ता एवायान्ति किञ्च ऋतमित्यभिमन्त्रितमित्यादी इतिना स्वरू- पग्राहकेणापि समस्तस्यैव मन्त्रस्य ग्रहणदर्शनात मधुवातेतिमन्त्रितमित्यत्रापि सकलैव मधुमतीगृह्यते नतु ततोत्यन्तविप्रकृष्टाध्यायस्थं मधुमधुमश्वित्यपि मधुमतीभ्योऽन्यत्वादिति ॥ पिण्डनिर्वपणञ्च, वा- मान्वारब्धदक्षिणकरेण, पिण्डानिदध्यात्मव्येन पा- णिना दक्षिणमुपधायेनिशङ्का वचनात् ।उपधायअन्वा रभ्येति तदर्थात् ॥ श्राद्धकल्पोप्येवं ।। पाणिभ्यामिति (ख)तुल्यद्धारत्वेपि क्षौमे वसानावितिवत् । अथ तत्रा नया सहेत्यनुरोधात्तथा यदि तदा अत्रापिशवसूत्रा नुरोधात्तथेति तुल्यम् । यत्तु अर्घाक्षय्योदकपिण्डाव- नेजनस्वधावाचनवर्ज मिलिनानां पित्रादीनां त्रया णां देवतात्वमन्यत्र तु सर्वत्र प्रत्येकमेव देवतात्वम् तदुक्तम् । अऽक्षयोदके चैव पिण्डदानावनेजने । तन्त्रस्य विनिवृत्तिःस्यातपधावाचनएव चेति तन्न एतद्वचनस्य राजाद्यलिखितत्वेन निर्मूलनादिति ॥ अत्रच श्राद्धिषु भोक्ष्यमाणेषु भुजानेषु भुक्तवत्सु च स्थानत्रये गायत्री मधुमती मधुमधु मधु जपः कात्या ॥ द्वैतनिर्णयः॥ यनयाज्ञवल्क्योक्तः सच नानाशास्त्रोक्तोपि समुची- यते कर्मणएकत्वेन प्रत्यभिज्ञायमानतया नाना- शास्त्रोक्तेतिकर्तव्यतानां समुच्चयस्याकांक्षाबलेन शास्त्रार्थत्वात् न चैवं श्राद्धकल्पादिलिखनविरोधः तस्य कात्यायनकण्डिकामात्रानुवादत्वात् अन्यथाऽ पिण्डविभागयोरपि मन्त्रान्वयोनस्यात् तदलिखि तत्वात् । ओमितिचेत् न येसमाना इति द्वाभ्या माद्यन्तुविभजेदित्यादिनाऽन्येन तत्र मन्त्रान्वयस्य- दर्शितत्वात् कर्मणश्चैकस्य सर्वशाखाश्रयत्वेनैकत्र सर्वान्वयस्य शास्त्रार्थत्वात्। अतएव छन्दोगसोपाने वृषोत्सर्गप्रकरणे नानाशास्त्रोक्तानामितिकर्तव्यता- नां ससुच्चयः श्राद्धवदिति प्रतिहस्तकाअप्याहुः ।। ननु समवेतार्था मन्त्रास्तादृशपदवन्तः कृत्वा पठ्यन्ते अतएवामये त्वा जुष्टनिर्वपामीत्यत्र सूर्याय त्वा जुष्टं निर्वपामीति देवतोहइति नवमेऽध्याये सिद्धान्तितं तथाच एकवचनवन्मन्त्रानूहेतैकोबिष्ट इतिविष्णुव- चनेन समवेतार्थक मन्त्रे एकोदिष्टे प्रयुज्यमाने एक वचनोहस्तेन नमस्तेपितारसायेत्यादिसिद्धयति । ननु एतत्ते पितर्वासइति कथम्, एतद्धः पितरोवासइति तु प्रकृतावेवासमवेतार्थमेतद्धः पितरोवासइति ज- स्पन पृथक् पृथगितिस्मरणात् अतएव देवे पशावेक ॥ द्वननिर्णयः॥ पाशिकायां रजौ प्रकृती अदितिः (स्वधितिः) पाशं प्रमुमोक्तु अदितिः (स्वधितिः) पाशान् प्रमुमोक्किति मन्त्रदये दिपाशिकायां विकृतो प्रयुज्यमाने एकवचना न्तस्य मन्त्रस्य द्विवचनोहः प्रकृतौ समवेतार्थत्वात ब- हुवचनान्तस्य तु नोहः प्रकृनावेवासमवेतार्थत्वादि- तिसिद्धान्तः । तत्कथमत्रैकवचनोहोस्त्विति, अत्राहुः अस्य हि प्रकृतावसमवेतार्थत्वं एतद्धः पितरोवास इति जल्पन पृथक पृथगिति वाक्यान्तखशेन, तत्तु वाक्यं पृथक् पृथगिति वीप्साबलेन पार्वणमात्रविष सह तेन तन्मन्त्रस्थबहुवचनस्य पार्वणप्रयोगएव साधुता नत्वेकोदिष्टेपि, तत्र वीप्सासहितवाक्या. प्रवृत्तेः अतएव पितरः शुन्धन्तामित्यादि प्रकृती स्वभावतएव प्रयोगसाधौ बहुवचने एकोदिष्टेपि पि- तरः शुन्धन्तामित्येव प्रयोग इतिदिक् ॥ छिन्नमूल कुशास्तु वाजसनेयिनां त्रय एव कपिजलन्यायात् पितृभक्त्यादयोप्येवं छन्दोगानान्तु मुष्टिमितास्तेन वहवः मुष्ट्यां संख्यानभिधानात् । श्वासधारणन्तु . क्लान्तिपर्यन्तंकर्त्तव्यं तथाच पिण्ड पितृयज्ञ कात्याय- नः। अत्र पितर इत्युक्त्वोदङ्ङास्त आतमनादावृत्या मीमदन्तेति जपति ।। आतमनात् तमनपर्यन्तम् ॥ शतपथोऽपि । सवाआतमितोरासीतेति ॥ आत मि- ॥ईत निर्णयः॥ नोरितिछान्दसस्तोसुन्प्रत्ययः तेन तमिपर्यन्तं क्ला- न्तिपर्यन्तमित्यर्थः । दक्षिणावाक्यन्तु सपात्रके निर्विवादमेव, अपात्रके तु दक्षिणामहं ददइति कार्य नतुदातुमहंसमुत्सृज्य इति ददातेः समुत्सृज्यतेश्व इच्छैव शक्येतिन्यायमतं, फलमेव शक्यमिति भट्ट- मतं, व्यापार एवशक्य इति गुरुमतं, सर्वत्रचानन्वयः नहीच्छांकरो इच्छांकरोमीत्यादि घटते नच दातुं पर गामिकतु उत्सृज्ये त्यजामीत्यर्थः, दातुमित्यत्र लक्ष णापत्तेः स्वस्वत्वध्वंसपूर्वकपरस्वत्वोत्पत्तेनफलस्य- ददात्यर्थेच्छोपलक्षणलोपगमात् विशेषणत्वेऽपि ल- क्षणेव, विशिष्टशक्तस्य विशेषणमात्रपरत्वात् नच- स्वायत्ते शब्दप्रयोगे लक्षणोचितेति ॥छन्दोगानान्तु श्राद्धशेषे वामदेव्यस्य साम्नोगानं, वामदेव्यं गी- वा गृह प्रविशेदिति गोभिलवचनात्, नतु कयान इत्यादेचः पाठः तस्याः सामत्वामावात् , गीयमा- नानामेव ऋचां सस्तोभानां सामत्वादिति ॥ अथ पार्वणनिरूपणनन्तरं तद्विकृतिभूतैकोद्दिष्टनि- रूपणे आदावाद्यश्राद्धनिरूपणम् । तत्र चाद्य श्राद्धं मासिकानि चतुर्दश सपिण्डीकरणञ्चेत्येकः कल्पः मरणाचतुर्थदिने पञ्चमदिने नवमदिने चैकादशदिने चैकोद्दिष्टं तेनैतानि चत्वारि, मासि- ॥ हैननिर्णयः॥ कानि च द्वादशेत्यपरः कल्पः । एतौ तु विकल्पितौ एकस्मिन्नेव फले कल्पद्रयोःरपक्ष्येणाम्नातत्वात् यस्य तु सपिण्डीकरणनिषेधः तस्य पारशवस्य अवीरायाश्च द्वितीयएवकल्पः अत्र द्वितीयकल्प एकादशदिने यचतुर्थश्राद्धं तत्र तत्पूर्वसमये श- य्याकाञ्चनपुरुषकपिलगवीदानानि अशौचान्ता हितीयेऽहीत्यसङ्कचितश्रवणात् तथा आद्यकल्पे- न पुत्रादिना प्रयोगे क्रियमाणे तदैवैतानि त्रीण। वृषोत्सर्गकरणपक्षे तु ततः प्राग्दम्पतिपूजनमपि, सम्पूज्येत्यनेन दम्पतिपूजनवृषोत्सर्गयोरानन्तर्य प्रतीतेः तदपि द्वयोर्मिलनमेकादशाहीय वृपोत्सर्ग एव अशौचान्ताहितीयेहनीत्युपक्रम्य संपूज्य द्विज दाम्पत्यं वृषोत्सर्ग कुर्वीतेति कथनात् । बृहति (प्र) स्तूयमाने समुद्रं ध्यायेत् । स्थन्तरे पृथिवी मितिवत् विशिष्यवानानात् ॥ ननुक्त्त्वाबलादनयोरङ्गाडि भाव एवास्त्वितिचेत् न त्रिवृता यूपं परिवीयाग्नेयं सवनीयं पशुमुपाकरोतीत्यत्रापि यूयपरिव्याणस्य पशूपाकरणाङ्गतापत्तेः । तदुभयमप्यधिकृताधिका- रिकत्वादङ्गमिति चेत् हन्त तर्हि एतदुभयमपि (१) वृहति प्रस्तूयमाने समुद्र मनसाध्यायेत् , रथन्तरे प्रस्तूय माने समीलयेत् ॥ इतिपाठेमीमांसा अन्धेषु ९ अ-२ पा- दृश्यते ॥
।। जैननिर्णयः॥ अधिकृताधिकारितया अधिकारिसाकांक्षत्वेन स- मसमयाधिकारिकल्पनक्षमत्वेन प्रधानमस्तु क्त्वा चानन्तर्यमाने नत्वङ्गाङ्गिभावे फलवत्त्वेनोपस्थित- स्थ सन्निधौ श्रूयमाणं यदफलत्वेनोपस्थितं तदेवा- अमिति सिद्धान्तात् । इदन्तु शय्यादानार्दिकमशो चान्तश्राद्धात्प्राक्तदिनएव कार्य तेन सद्यः शौचे तदिनएव पूरकपिण्डशय्यादिदानाद्यःश्राद्धानि भ- वन्ति न चाशौचान्ताड्वितीयेहीति श्रवणात् द्वि- तीयादिने शय्यादानं नतु तदिन इति वाच्यं अशी चव्यपगभइति विष्णुवचनेन सद्यः शौचै तदहरे- वाद्यश्राद्धस्य कर्तव्यत्वे सिद्धे । अञ्जनं ककृतं गृह्य शय्यामाक्रम्य वै दिजः । मुहूर्त्तन्तत्र विश्र- म्य निवापस्थानमागतइत्यादिना वराहपुराणवच- नेन श्राद्ध पूर्वदत्तशय्यायाः श्राद्धोत्तरं विनियो गप्रदर्शकेन तदिन एव श्राद्धात्त्राक् शय्यादान- स्यापिसिद्धेः॥ ननु मलमासवदत्र शय्यादिदानबाध एवास्तु, द्वितीयदिनत्वस्य विवक्षितत्वादितिचेन्न अशौचाभावमात्रस्वैवाधिकारार्थमक्षितत्वेन त-. न्मात्रस्यैव बक्तव्यत्वात् द्वितीयत्वन्तु संपूर्णाशौच- परतयैवोक्तंम् अविवक्षितब्वाँ न च द्वितीयपदानुरो- धादाद्यमेकादशे ऽ हनीत्यादेश्च सद्यःशोचेऽप्युन्तर ल 11 तनिणयः॥ दिनएव शय्यादिदानं श्राद्धञ्चेति युज्यते समर्थस्य क्षेपायोगात् । एकादशाहपदन्त्वशौचाभावमात्रपरम् अन्यथाऽशौचस्य हासे वृद्धौ च तल्लोपः स्यात् । त- स्मादशौचव्यपगमइत्येव सारम् ।। नच सद्यःशौचेऽ पि दिनव्यापकमेवाशौचं, अस्यैकाहभिन्नत्वात् सद्यः शौचन्तथैकाहस्त्र्यहश्वतुरहस्तथेत्यादिपरिसं- ख्यानात् ॥ ॥ अथ वृषोत्सर्गः । तत्रादावधि कारिनिरूपणम् । तत्र शय्यादानाधिकार्येव वृषोत्सर्गे प्यधिकारी पञ्चानामपि युगपदुपस्थितावविशेषेणै- काधिकारिकत्वकल्पनात् । तथा चपल्याअपि पति वृषोत्सर्गेऽधिकारइति मैवं तकरणीभतायाचि- ददानीतिश्रवणात् तस्यायाजमानत्वासद्धावनृचि स्त्रियां तबाधेन यागवद्वषोत्सर्गस्यापि बाधात् शूद्रस्य तु कृष्णेनाप्यन्त्यजन्मनइति विशेषापदेश बलेन रथकावदधिकारसिद्धौ तदनुकूलविद्याप युक्तिरपि शूद्रस्य स्थकारवदेव कल्प्यते । नच तण्डुलपदवदह पदवच्चान्त्यजन्मपदमविवक्षितस्वा- थं तेनाविद्यमात्रवाचकमतः स्त्रीणामप्यधिका- इति वाच्यं तत्र हि यस्य निरुप्तं हविश्चन्द्रमा अ भ्युदियात् सत्रेधा तण्डुलानविभजोदति श्रुतावपि देवतातोहविर्विभजेदिति सामान्यश्रवणायुक्ता १२ ०० ॥ दत्तनिर्णयः॥ तण्डुलपदस्य हविःसामान्यपरता । एवं प्रजाका मागवामयनमुपेयुरितिश्रुतं तस्य चाहर्गणत्वाधा दशाहविकृतित्वेन तद्वदहर्गणपूरणे अहस्त्वविवक्षा यामभिमता ऽऽग्रयणाग्रता न स्यादिति तदविवक्षा। अत्र तु न तहकिमप्यनिष्टमापतति येनान्त्यजन्म पदमविवक्षितस्वार्थ स्यादिति । हन्त तर्हि शूद्रस्य प्रधानाधिकारसिद्धौ रुदजपादिकमपि कल्प्यताम- ङ्गत्वाविशषात् एतयैवोत्सृजेरनिति कात्यायनवच- नेनापि सर्वेषामेव वृषोत्सर्गकर्तृगामयमेव वृषो सर्गकरणीभूतोमन्त्रइति नियम्यते नतु मन्त्रान्तरं निरस्यत इति तस्माच्छूद्रेणापि त्रैवर्णिकवद डीभृतसकलमन्त्रसहितएव वृषोत्सर्गः करणीय इति । मैवं साम्ये हि करणीभूतस्य विषयत्वं तेन फल करणीभूतसकलाङ्गसम्पन्नमपूर्वन्तत्र विध्यर्थः तेन देशनाश्रुतौ स्थकारआदधीतेसादौ युक्ता सकलाङ्गा नुष्ठानकल्पना श्रूयमाणविधेस्तावति विश्रान्तःअत्र तु श्रूयमाणोविधिर्नास्त्येव वृषोत्सर्ग कुर्वीतेत्यस्य हि स्वर्गकामोयजेतेतिवदमन्त्रकतया शूद्रादौ सङ्कोचा: त् किन्तु वृषविशेषोपदेशान्यथानुपपत्त्या शूद्रस्या- विकारः कल्प्यते तथा चाधिकारबलात्तत्कर्मानुष्ठानं ननु सकलाङ्गानुष्ठानं करणविषयकापूर्वानभिधाना- ॥ द्वैतनिर्णयः॥ त्॥ हन्त का-पूर्वानुपस्थितौ न प्रवृत्तिः ममेदं का- यमितिकार्यताज्ञानस्यैव प्रवर्तकत्वात् ननु ममेदं का यमिति ज्ञानमेव प्रतकं तच्च वेदादेव तथा च शूद्रस्या- पि प्रवृत्तये विधिकल्लन मेवेतिचेत् गुरुमतमेतत् । फिञ्च कल्पितोहि विधिर्नानुभावयितुमलं सामग्री विरहात् तस्मात्वचिद्विधिजन्यं कचिदर्यवादजन्य क्वचिच्च न्यायजन्यं कृतिसाध्येष्टमाधनताज्ञानं प्रव तकमिति । उत्सर्गकरणीभूतायाश्च ऋचः पाठे शूद्र- स्थाप्यधिकारएव एसपैत्रोत्सृनेरनिति ववनबलात् ।। अत्र च प्रवरणमादौ, षोडशतिजो ब्रह्मोद्गातृ- होत्रध्वर्युब्राह्मणाच्छरसिप्रस्तोतृमैत्रावरुणप्रतिप्रस्थातृ पोतृप्रतिहत्रच्छावाकनेष्ट्रमीत्सुब्रह्मण्यग्रावस्तुदुन्नेतृ- न्वृणीतइति श्रौतकात्यायनप्लसमाध्यायसूत्रद र्शनादणोरपि विशेषस्याध्यवसाय करत्वात् ।। विष्णुः।। एकस्मिन्पार्थे चक्रेणापरस्मिन शूलेनाङ्कितमिति अत्र शूलन्तु दक्षिणेपार्श्वे वामे चक्रं विनिर्दिशेदितिव चनादङ्कनमेवमिति यत्तद्रवृचपरं तत्पद्धतावेव (तथा) लिखनात् किन्तु चक्रं दक्षि गे वामे शूलं दक्षिण भागस्यैव प्रथमप्रतीतत्वात् अतएव दक्षिणमा चके ण तत्सजातीयवामपार्श्वे त्रिशूलेनेतिप्राञ्चोपि तत्मजातीयवामपार्श्वयोरित्यवायोनतु पी.
॥ द्वैतनिर्णय.॥ समासोलक्षणापत्तेः व्यत्यस्तग्रहणे बीजाभावाच्च । अ तएव पुरोभागस्य प्रथमप्रतीततया पुरोवर्तिन्येव चर णदयेङ्कनम् । यत्तुस्फिचोरकनमितिबचपद्धती लिखनं तद्यदिसमूलं तदापि तत्परमेव, यजुर्वेदिभिः सवैखानादरणात् । स्वधा पितृभ्य इत्यादिमन्त्रस्तु शूद्रेणाप्येवमेव पठनीयः नमःपदोहे हेत्वभावात् ।। नचास्य स्वधाशब्दस्य त्यागार्थकतैव तत्र हेतुरिति वाच्यं तथा सति हि स्वधोदीरणानुपदमेवाञ्जलि सागः स्यात् सामगागौकरणवत् पश्चात्तु मन्त्र समापनं स्मात् । स्वधा पितृभ्यो मातृभ्य इत्यादिब्रह्मपुराणवचनात् आत्मानञ्च पितॄश्वा थ पत्नीर्मातामहान् सुतानित्यादिकार्णाजिनि वाक्याच पुगतत्ववत् स्त्रीगतत्वेनापिफलस्या वगमात् स्त्रियाआपिवृषोत्सर्गः । अतएव विगोत्रा- णांमपि वृषोत्सर्गः । अत्र पारस्करे चतस्रोवत्स- तर्यइत्युक्तम् विष्णुसूत्रे च । ब्रह्मपुराणे तु धेनुपदं तदपि त्रिहायणीपरमेव, अष्टाभिर्द्धनुभिर्युक्तश्चतु- भिरथ वा क्रमात् । त्रिहायणीभिर्द्धन्याभिः सुरूपा भिः सुशोभित इति तद्वचनात् । आदित्यपुराणे तु, त्रिवर्षास्त्वथगुर्विण्योदद्याद्दावोवृषस्य तु । अत्र गुर्विण्यइतियौवनपरमतोन विरोधः ॥ त्यागमन्त्रे निर्णयः तूपदेशएव शरणं तत्पाठस्य बहुप्रकारश्रुतेः । अत्रा- ज्यं संस्कृत्येति वचनादाज्यसाध्याश्चतुर्दशाप्या हुतयोभवन्तीति कर्कोपाध्यायाः । आज्यं संस्कृत त्येहरतिरितिषड़जुहोतीत्यनेनानन्तर्योपस्थितेराज्य संस्कारानुपदमेव रत्यादिषडाहुतयः । रुद्रहोमे प्वग्नये स्वाहेत्यादय एव मन्त्राइत्यपि तएव । पाय- सपोष्णयोरुत्तराद्धीवदानेन स्विष्टकृद् अमीषोमी- ये तथादर्शनादत्र च तद्धर्मातिदेशादित्यपि तए. वेति ॥ परिस्तरणन्तु ऐशान्यामुपक्रम्य उत्तरस्या मुपक्रमसमीपे समापनीयं ऐशानीतः सौम्यान्त मिति श्रोतकात्यायनसूत्रे परिस्तरणमात्रे निर्ग. लितत्वात् परिभाषाहरिहरपद्धत्यादयोऽप्येवम् ॥ रुदहोमे च रुद्रस्य पञ्चमी संज्ञा अशनिरिति शतपथे षष्ठकाण्डे तृतीयवाह्मणे नवमकण्डिकायां रुद्रजन्म प्रकरणे रुदता रुदेणाष्टकृत्वोनाम्नि प्रार्थिते रुद्रः सर्वः पशुपतिरुयोऽशनिर्भवोमहादेवईशानइति नामानि ब्रह्मणा रुद्रोऽसीत्यादिक्रमेण दत्तानीत्याम्नानात् । वियुदशनिरिति तत्रैव विवरणाच । न चैतभिन्नएव वृषोत्सर्गेऽशनोदेवता ।वृपोत्सगोगोयज्ञेन व्याख्यात झत कात्यायनेन वृषोत्सर्गे गोयज्ञियदेवताद्यतिदे- शात् गोयज्ञेच तेनैव स्थालीपाकमिश्राण्यवदानानि ॥ द्वननिर्णयः॥ जुहोत्यमये रुद्राय सर्वाय पशुपतयउपायाशनये भ- वाय महादेवायेशानायेति शूलगवेऽभिधाय एतेनैव- गोयज्ञोव्याख्यात इति सूत्रणादेवमेव हरिहरवासुदे- वगोसवादिलिखनाच्चेति । (सर्वश्चायं दन्त्यादि वता, तमब्रवीत्सर्वोऽसीति तद्यदस्य तन्नामाकरोदा पस्तद्रूपमभवन्नापोवै सर्वोह्ययोहीद सर्वञ्जायत इति रुदनामप्रकरणे शतपथात् ) शूलगवे चरै, प शुमालभतेतिवचनादग्नीपोमीयधर्मग्राहिता । त दयं संक्षेपः । शूलगवे मांससाध्याअग्न्याविरुदाहु- तयःगोयञपि ताएव पायससाध्याः। अतोवृषोत्सर्गे: पिताएव पायसेनेति ॥ अत्र तु सिद्धस्यैव पोष्णस्या सादनं, आज्यं संस्कृत्येत्याज्यसंस्कारमुपदिश्य पूषा गाइति पौष्णस्य जुहोतीति वृपोत्सर्गे कात्यायनेन तदानीं पोष्णस्य होममात्राभिवानात् ।। यत्त्वमिं प- रिस्तीर्य पौष्णञ्च श्रपयित्वेतिविष्णुनोक्तं तत्कठ शाखिपरं तस्य तत्सूत्रकारत्वादिति । फलन्तु एका दशाहीयवृपोत्सर्गे शय्यादितुल्यतया निष्फलत्वेनो पस्थिते सर्वीयकलाकाङ्क्षापूरणाक्षमतेन सतो.. पोत्सर्गार्थवादस्याकाङक्षाविरहादनुपस्थितौ विश्व जिन्न्यायात् शय्यादिपञ्चसाधारणः स्वर्गः। केव लोपस्थितस्य तु तस्य प्रेतलोकविमुक्ति स्वर्गलोका ॥ढतनिर्णयः॥ वाप्तीअपि। आश्वयुजी कार्तिकीचैत्रीरेवत्येकादशाहा दिसाधारणन्तु वृषोत्सर्गफलं बहुप्रकारकमप्सरः सह कीडनादि, तस्यैव प्राकरणिकत्वात् । मोक्षस्तु नील वृषोत्सर्गे तत्तल्लक्षणकवृषोत्सर्गे च फलम्, नतु वृषो मर्गमात्रे। एष्टव्याबहवः पुत्रायोकोपि गयां ब्रजेत् । यजेत वाश्वमेधेन नीलव्वा वृषमुत्सृजेदितिवचनेन नीलवृषोत्सर्गस्य गयाश्राद्धाश्वमेधसमफलत्वप्रति पादनात्। तथा|एवं वृष लक्षणसनियुक्तं गृहोद्भवं की तमथापि राजन् । मुक्त्वा नशोचेन्मरणं महात्मा मोक्षे गतिञ्चाहमतोभिधास्य इतिवचनाच । मोक्षग- विश्व पितुरेव अत एव तन्मरणं न शोचनीयम् । यत्तु मोक्षे मतिमिति पठित्वा साच मतिवृषोत्लष्टुः पुत्र स्येति कैश्चिदुक्तं तदयुक्तं तथासति पितृमरणस्या शोच्यतायां बीजस्यानभिधानादिति ॥ मलमासे तु श्राद्धे क्रियमाणे शय्या काञ्चनपुरुष कपिलगवी दानानि दम्पतिपूजावृषोत्स! च नभवन्ति । मलं वदन्ति कालस्य मासं कालविदोधिकम् । नेहेतात्र विशेषज्यामन्यत्रावश्यकाद्विधेरितिवचनात् आवश्यकञ्च नित्यममावास्याश्राद्धादि, नैमित्तिकं ग्रहोपरागश्राद्धादि, काम्यमप्यहरहः कर्तव्यत्वेन यत्सङ्कल्पितं, एतन्त्रितयमावश्यकमिति तदापि का- - ।। द्वननिर्णय ॥ यं एतत्तियभिन्नन्तु शय्यादानादीति तन्न कार्यम् । एवं छत्रोपानदानादिकमपि न कार्य काम्यत्वात् नचाद्यश्राद्धप्रयोगान्तर्गतत्वात्तकार्यमितिवाच्यं प्र- योगविधिना हि असम्बद्धव्यवायदोषोऽपनीयते यथा स्नानतर्पणयोर्मध्ये संध्यावन्दनप्रयोगवि- धिना तदसम्बद्धव्यवायदोषापनोदः नतु प्रयोग विधिवलादवश्यकर्त्तव्यता अन्यथा चन्द्रोपगग स्नानपि सन्ध्यावन्दनं स्यात् प्रयोगविध्यनुरोधा दिति ॥ मासिकं सपिण्डीकरणञ्च यद्यप्यवश्यकर्त्त- व्यमपि सम्भवत्कालान्तर मलमासेऽपि क्रियत एवेति न नियमःतथापि मलमासेऽपि तत्कार्य, तथैव मासिकं पूर्व सपिण्डीकरणन्तथेतिविष्णुवचनात् । एवं प्रथम वार्षिकमपि द्वादशमासस्य मलमासत्वे मलमा- सेपि कार्यम, असंक्रान्तेपि कर्तव्यमाब्दिकं प्रथम द्विजैः। तथैव मासिकं पूर्व सपिण्डीकरणं तथेतिवच- नात् एवं जातकर्माभ्युदायकमेकादशाहश्राद्धमशौ- चादिना पतितं सावत्सरिकश्राद्धञ्च मलमासेऽपि कार्य। जातकर्मणि यच्छ्राद्धं नवश्राद्धन्तथैवच । प्रति. सम्वत्सरश्राद्धं मलमासेऽपि तत्स्मृतमिति परिभाषायां ज्योतिर्वचनात् प्रतिसत्सरश्राद्धमशौचात्पतितञ्च यत्तन्मलमासेपिकार्य मितिपरिभाषादोव्याख्यानात्।
द्वितनिर्णयः॥ तीर्थस्नानस्य तु काम्येकरूपतयामलिम्ळुचे निषेधे सिद्धे ऽपि तीर्थस्नानं गजच्छायां प्रतश्राद्धं तथैव- चेति यः प्रतिप्रसवः सआवृत्ततीर्थस्नानस्य काम्य- त्वेन फलाजनकस्याप्यनिष्टाजकत्वमात्रपरः। मलि. म्ळुचेप्यनावृत्तं तीर्थस्नानमपित्यजेदिदन्तु वचन मनावृत्ततीर्थस्नानस्य फलाजनकत्वे सत्येवानिष्टज- नकत्वपरमिति ॥ कूष्माण्ड्यश्च यद्देवा देवहेडन मित्याद्या अग्निवायु सूर्यदेवताकास्तिस्र ऋचः । यद्देवास्तिस्रोमिवायुसूर्यदेवत्याः क्रमेणानुष्टुभः कूष्माण्ड्य इति सर्वानुक्रमणीदर्शनात् । यत्तु तैत्ति रीयप्रसिद्धं कूष्माण्डसूक्तं कूष्माण्डीप्रमेणह कैश्चि. ल्लिखितं तदयुक्तं नहि सा कूष्माण्डी क किन्तु कू- ष्माण्डं सूक्तं, तडागोत्सर्गे चातुश्चरऐन क्रियमाणे दक्षिणद्वारिजप्यत्वेन विहितं । नचैताएव तत्र जप्यन्तामितिवाच्यं एतासां सूक्तत्वानभिधानात् किञ्च तैत्तिरीयोक्तं याज्ञवल्क्येनोद्गीर्णं तच्च न माध्यान्दिनीय राश्रीयते अतएव दक्षिणद्वारे तैत्तिरी- यकाएवजापकाः । अतएवाघमर्षणसूक्तं तैतिरी योक्तमपहाय ऋग्वेदोक्तं वाजसनेयिभिराश्रीयते । कूष्माण्ड्यस्तु स्वशाखाम्नाता एवकथं परिहीयन्ता मिति ॥अत्र च ऋष्यादिकमाभिधाय, एतान्यविदि- १३ ॥ द्वैतनिर्णयः॥ वा योधीतेऽनुब्रूते जपति जुहोति यजते याजयति तम्य ब्रह्म निर्वीर्य यातयामं भवति, अथ विज्ञायैता- नि योधीते तस्य वीर्यवदथ योऽर्थवित्तस्य वीर्यवत्तरं भवति जप्त्वाहुत्वेष्ट्वा तत्फलेन युज्यत इति सर्वा- नुक्रमण्यां कात्यायनेनाभिधानात् ऋषिदेवता छन्दो विनियोगानां ज्ञानमावश्यकं अतएव गोमवपद्धतौ तचतुष्टयमपि लिखितं ॥ एतच्च कर्म कार्तिकीचत्री रेवत्याश्वयुजीषु चतसृचिति। एतचतुष्टयन्तु प्रथमा ब्दिकातिरिक्तमिहनावं, प्रथमाब्दे आभ्युदयिकाङ्ग ककाम्य कर्मनिषेधात् एकादशाहे तु तद्विधेर्निरख. काशतया अगत्यैवाभ्युदयिकाभावेपि वृपोत्सर्ग सिद्धिः ॥ आभ्युदयिकं चात्रेष्टित्वेनावश्यकम् ॥ कार्तिक्यां तु वृषोत्सर्गात् प्राक् अपूपत्रयदानमपि कार्तिक्यामपूपान्दत्वेति विशेषश्रवणात् । तदय मत्रानुष्ठानक्रमः। ओं अद्य कार्तिक्यां चैत्र्यां वा अमुकगोत्रस्य पितुरमुकशर्मणो मोक्षकामः सोपक- रणवत्सतर्यष्टतयसहितनीलवृषोत्सर्गमहंकरिष्ये ॥ यथोक्तलक्षणवृषान्तरोत्सर्गेनीलपदमपहाय, वत्स- तरीचतुष्टयपक्षे अष्टतयपदस्थाने चतुष्टयपदं प्रक्षिप्य इदमेव वाक्यम् । प्रेतलोकविमुक्तिस्वर्गलोकप्राप्ती तु नात्र फलं ।। अहन्येकादशे प्राप्ने यस्य चोत्सृज्यते देताना वृषः । अतलोकादिमुक्तः सस्वर्गलोकं समश्नुत इति विशिष्यवाम्नानात् ॥ विश्वजिन्न्यायसिद्धस्तुस्वर्ग: कार्तिक्यादावप्यविरुद्ध एव कर्मण ऐक्यात् कर्मण एव च फलान्वयात् विशेषबाधकामावाच्च ॥ न चावादसत्तैव बाधिकेतिवाच्यं विश्वजिन्न्याय प्रवृत्तिकाले केवलवृषोत्सर्गार्थवादस्याकांक्षाविरहे. णानुपस्थितेः तत्सत्तायाअपिव्यर्थत्वादिति ॥ का. तिक्यामपूपत्रयदानं तच्च प्रधानसङ्कल्पमातृ पूजाभ्युदयिकानन्तरं कार्यमसाधारणत्वात् महा- दाने ब्राह्मणवाचनवत् आनन्तर्यश्रुतेश्च अतए- व सपनीयपशूपाकरणात्यार प्राकृतमग्नीषोमीय पशूपाकरणमपास्य विकृतावाश्विनग्रहग्रहणमुक्तं तदनन्तरन्तु ब्रह्मवरणादितः प्रकृतमेवकर्म । अयं क्रमः स्ववृषोत्सर्गेऽप्यविकल एव, विशेषानभिधा- नात् ॥ यत्त्वपूपदाने वृषमुत्स्स्रक्ष्यमाणोऽहं ददइति प्रयोग इति तन्मन्दं नाले प्रधानं चिकीर्षमाणोह मितिप्रयोगः। नचाग्नावैष्णववादिदं प्रधानं, का- म्यतापत्तेः तस्मादङ्गमेव, स्वाप्येवं । एकादशाह श्राद्धस्य तु आद्य (श्राद्ध) पदेन निर्देशः। आद्य पाण्मासिकं तथेतिदर्शनात् आद्यमेकादशे ऽहनीय नेनैकादशाह श्राद्धस्याद्यश्राद्धत्वप्रसिद्वेः ॥ नचैत , ॥ द्वतनिर्णयः॥ द्वदेकादशाहश्राद्धपदेपि स्वयं प्रयुज्यमाने लक्ष- णास्तु अत्रापि विवक्षितविवेकेन एकादशाहपद लक्षणेतितद्वाक्यार्थः। साचनलौकिकवाक्ये सम्भ- वति तस्य स्वायत्तत्वादिति ॥ पितश्चैत्रशर्मप्रेते तिरूपएवात्रप्रयोगः ॥ अत्रतु महाव्याहृतिमन्त्रेण अन्दोगत्रयकर्तृकं ताम्रपात्रस्थतिलोदकाहरणम् , उपाहान्निमन्त्रेण सामवेदादिजातय इतिवचनात् ॥ मन्त्रस्य । सामान्यतः प्राप्तौ विशेषानभिधाने महाव्याहतिमन्त्रोप्रायः मन्त्रस्य देवतायाश्च प्रजा पतिरितिस्थिति रितिवचनात् । तेनोदकेन स्वकीय वस्तु प्रोक्षणं तेनैव मन्त्रेण, मन्त्रेणाभ्युक्षयेदिति वचनात् ।। ततस्तदिनएव श्राद्धकर्ता मधुपर्कसहित पञ्चाव्यप्राशनं कर्त्तव्यम्। यदितु द्वादशाहे सपिण्डनं तदा तन्न कर्त्तव्यं मधुनआमिषत्वात् श्राद्धपूर्वदिने चामिषभक्षणनिषेधात् ॥ मासिकानि तु द्वादशदि- नादारभ्य द्वादशभिर्दिनः करणीयानीत्येकः कल्पः मासवृद्धावपि नात्रदिनवृद्धिः मासिकार्थवदद्वाद शाहं कृत्वेति नित्यवद् द्वादशाहश्रवणात् किन्तु तन्मासस्थानपतितदिवसे मासिकद्धयं कर- णीयं नतु दिवसस्यापिवृद्धिरक्तहेतोः । षष्ठद्वादश दिनयोस्तूनपाण्मासिकद्धयं ! प्रतिमासन्तु मासिक ॥ द्वैतनिर्णयः॥ करणे मलमासस्य मासिकं त्रिंशतिथिघटितमाम क्रमेण यदा पतति तदैव कर्तव्यं ऊनषण्मासिकन्तु सर्वत्र षष्ठमासिकात् प्रागेव । द्वादशाहादिसपिण्डने खलब्धस्थानं तत्सर्वमासिकशेषे आगन्तुकत्वात् । वर्षसपिण्डनपक्षे एकाहोने षण्मासे ऊनपाण्मासिक त्र्यहोने वा, एवमेकाहोनेवर्षे ऊनवार्षिकं व्यहोने वा एकाहोनता च षष्ठमासिककरणपूर्वदिनपूर्वदिन- स्य नतु षष्ठमासिकाचरणपूर्वदिनस्यैव तस्य षष्ठमा- सपूर्तिदिनत्वात् । मासिकस्य द्वितीयमासप्रथम तिथौ वार्षिकस्य द्वितीयवर्षायतिथौ कर्त्तव्यत्वात् ॥ नहि तृतीयामपि मरणतिथिसजातीयान्तिथिमन्त र्भाव्य मासोऽयंभवति किन्तु तत्पूर्वी अन्यथा एक त्रिंशतातिथिभिर्मासः स्यात् अत एकादशतिथ्यधि- केन मासद्वादशकेनवर्षस्यादिति । प्रत्युतु वा मासि- कद्धयं, अत्र षष्ठमासिककरणदिने ततः प्राक् पञ्च- ममासिकं अपर्याप्तावृतुं प्रतीतिवचनात् अत्रोनष- ण्मासिकमेकाहोनेषण्मासे यदि कियेत तदा पञ्च ममासिकात्यागेव भवेदिति क्रमभङ्गःस्यात् यदितु तदाद्युत्कर्षेण पञ्चमषष्ठमासिकयोर्मध्ये तहिनएव क्रियेत तदा एकाहेनत्वित्यादि वाक्यविरोधः स्या. दिति । अत्राहुः प्रतिमासमासिककल्पविषयत्वेन .
॥ द्वैतनिर्णयः॥ एकाहेन वित्यादिवास्यस्य लब्धवृत्तितया अत्रतु तदाधुत्कर्षन्यायेन ऊनपाण्मासिकस्य पञ्चमषष्ठ मध्यकर्त्तव्यत्वे एकाहेन स्वित्यादिवाक्यस्य सङ्कोच मात्रं अन्यथा तु पञ्चमोनषाण्मासिकयोः क्रमस्य भड़एव स्यादिति ।मासिके तु तदन्तापकर्षस्यैव दृष्ट त्वादत्रापिकल्ये ऊनपाण्मासिकस्य वचनादेकाहोन घण्मासकृत्यले सिद्धे पञ्चममासिकस्यापि ततः प्राक्तहिनएव कर्त्तव्यत्वं तदन्तापकर्षन्यायादिति केचित् तन्न दृष्टत्वं हि न नियामकं किन्तु न्यायः तथाचैकानेहेनेति प्रतिमासमासिकपक्षे क्रममबाधि त्वा प्रत्युतु मासिकपक्षे क्रमं बाधित्वेति वैषम्यं स्या दिति वैषम्यान्नसपन्थाः ॥ छत्रोपानहदानं श्राद्धा- भिन्नमपि भिन्नफलकमपि क्षतान्तश्राद्धे प्याचरन्ति प्रयोगविधिवलात् । तदयुक्तमित्युक्तं प्राक् ॥ तेभ्य श्वार्घनिवेद्यैव पश्चाचस्वयमाचमेदिति सपिण्डनप्र- क्रमस्थब्रह्मपुराण वाक्यात् सपिण्डने अर्घदानान- न्तरमाचमनं । लघुहारीतः ॥ इन्द्राग्नी यत्र हूयेते मासादिः सप्रकीर्तितः। अग्नीषोमौ स्मृतौ मध्ये स मानौ पितृसोमकौ ।। इन्द्राग्नी इति इन्द्रामिहवनं शुक्लप्रतिपदि साच मासस्यादिः अतएव पञ्चशार- दीये नक्षत्रेण युक्तः कालः, सास्मिन् पौर्णमासीति १०३ ॥ द्वैतनिणयः॥ सूत्रदयात् मघादियोगयोग्यपौर्णमासीशालिनि शुक्लप्रतिपदाद्यमावास्यान्ते चान्द्रे मासि माघादि पदस्य मुख्यत्वमुक्तं तेन शुक्लादिरेवचान्द्रः सर्वत्रा दर्तव्यो विशेषवचनेन परमस्यापनाद इति समय प्रदीपः । तथाच सावत्सरिकश्राद्धादावयमेवोल्ले- ख्योविपरीतवचनामावादत्रैवार्थे सएव ॥ चक्रव- परिवर्तेत सूर्यः कालवशाधतः। अतः सावत्सरं श्राद्धं कर्त्तव्यं मासचिह्नितम् ॥ अयमर्थः ॥ आब्दि- कं श्राद्धं पौषादिमासीयमृताहव्यवस्थापितकर्त्तव्य- ताकं विहितं सूर्यसंक्रान्तेश्च मृताहव्यभिचारात्तस्य मृताहकर्त्तव्यता व्यवस्थिता न स्यादिति तत्र चान्द्र एव मासः ॥ अथ मासचिह्नमपि सूर्यस्य राशिविशे पावस्थानमेव मीनादिव्यवस्थितः सूर्यो यस्मिन् काले तस्यैव चैत्रत्वादित्याशङ्क्याह ॥ मासचि- गन्तु कर्त्तव्यं पौषमाघाद्यमेवहि । यतस्तत्रविधानेन मासः सपरिकीर्तितः॥ चित्रायोगयोग्या पौर्णमा- सी यस्मिन्मासे तत्रैव चैत्रपदस्यानुशासनात् सा- स्मिन् पौर्णमासीति संज्ञयातिति पाणिनीयसूत्रात् एवमन्येपि मासाद्रष्टव्याः मीनादिस्थित सूर्ययोगा तु चैत्रादिपदप्रवृत्तावनुशासनाभावात् । केचित्त इन्द्राग्निहवनस्य मासाद्यकृत्यस्य शुक्लप्रतिपदि ।। दैननिर्णयः॥ विधानेन शुक्लादिरेवात्रमासइत्याहुः । अत्रच फे- लतो न विशेषः । पितृसोमकावित्यनन्तरं ॥ तम- तिक्रम्य तु यदा रविर्गच्छेत्कदाचन । आद्योमलि- म्लुचोज्ञेयो द्वितीयः प्रकृतः स्मृतः ॥ तस्मिँस्तुप्रक ते मासिकुर्याच्छाद्धं यथाविधि । तथैवाभ्युदयं का- म्यं नित्यं नैमित्तिकन्तथा । प्रत्यब्दं द्वादशे मासि- कार्यापिण्डक्रिया(बुधैः)दिजैः। क्वपित्रयोदशेपिस्या- घमुक्त्वातु वत्सरं ॥ द्वादशे त्रयोदशे पूर्णइतिशेषः । अत्र द्वादश इति विधिःत्रयोदशइत्यपवादःआद्यमि- तिप्रतिप्रसवः इदमपि यदि प्रथमाव्दे द्वादशोमासो- मलमासस्तदा प्रथमसावत्सरिकं तत्रैव बोद्धव्यम् ।। असंक्रान्तपि कर्त्तव्य माब्दिकं प्रथमं दिजैः । तथै- वमासिकं पूर्व सपिण्डीकरणन्तथेत्येतद्वचनात् ॥ असंक्रान्तेपीति मलमासे तथाच मासिकं सपिण्डी. करणमाद्यवार्षिकब्वाँ मलमासेपि कार्यमित्यर्थः । नच सपिण्डीकरणादूर्वमित्यादिना मलमासे सकलसा बँत्सरिकनिषेधकेन सह विरोधः असंक्रान्तेपीत्य- स्य प्रथमसावत्सरिकपरतया तेनैव सपिण्डीकर- णादूर्द्धमित्यस्य सामान्यपरस्य सङ्कोचनात् सा. मान्यविशेषन्यायादिति ॥ समयप्रदीपोप्येवम् ॥ तथा च द्वादशोमासो यदि मलमा सस्तदा तत्रैव द्धा- ॥ द्वैतनिर्णयः॥ दर्श मासिकं सपिण्डीकरणञ्च । यदि त्वपकृष्य सपि ण्डीकरणं कृतं तदा तत्रैव प्रथमाब्दिकं कार्यमिति ।। श्राद्धपञ्जिकाप्येवम् ॥ विष्णुः । सवत्सराभ्यन्तरे यद्यधिमासपातोभवेत्तदामासिकार्थ दिनमेकं वर्द्ध- येत् ॥ अत्र सम्वत्सरशब्द एकादशमासपरः ऋष्य- शृङ्गवचनैकवाक्यताबलात् तेन मरणदिनावध्ये का- दशमासाभ्यन्तरे यद्यधिमासस्तदात्रयोदशमासि- कानि भवन्ति । तेन शेषमासिकं सपिण्डीकरणं प्रथमान्दिकं वा त्रयोदशे मासे संपूर्णे सति क्षयाहे कार्यम् ॥ ऋष्यशृङ्गः ॥ सव्वत्सरातिरेकोवै मासश्चैव त्रयोदशः । तस्मात्रयोदशं श्राद्धं न कुर्यान्नोपति- ठते । एतदपिवचनं प्रथमवर्षे मरणदिवसादारभ्य द्वादशोमासो यदिमलमासस्तदा॥प्रतिहस्तकादयो- प्येवस् । नन्वाश्विनशुक्लपतिपदि मृतस्याग्रिमभाद्र- स्याधिकवे भाद्रामावास्यायामेवैकादशमासाः पूर्यन्ते शुक्लादिस्तुभाद्रः सकलएव मासो द्वादशोमलमा. सो भवति तस्याञ्च शुक्ल प्रतिपदि मलमासभाद्र- शुक्लपक्षीयायां यदि शेषमासिकं सपिण्डनब्वाँका- यं तदा प्रथमवार्षिकमपि तत्रैव कार्य तत्र चोल्ले- खासङ्गतिः नहि स आश्विनशुक्लपक्षो भवतीति । अत्राहुः, एकादशमासाभ्यन्तर इत्यस्य व्याख्यान- ॥ तनिर्णयः॥ स्य एकादशमासिकदिनाभ्यन्तर इत्यर्थः । तेन योकादशमासिकपर्यन्तंकुत्रापि मलमासः प्रपत- ति तदा त्रयोदशमासिकानि अत्र तु तथैव तेना- त्र त्रयोदशमासपूर्तों आश्विनशुक्लप्रतिपद्येव शे. पमासिकसपिण्डीकरणे प्रथमाब्दिकव्वाँ भवन्ती- ति । नन्वाश्विनामावास्यामृतस्य प्रथमभाद्रामा- वास्यायामेकादशं मासिकं । तथा चैकादशमासि- कपर्यन्ते मलमासो न प्रविष्टः किन्तु तच्छुक्लप तिपदादिद्वितीयभाद्रामावास्यान्तश्चान्द्रो द्वादशो मासो मलमासोभूतस्तथाच तत्रान्त्यमासिकसपि- ण्डनेइव सांवत्सरिकमपि तत्रैव, असंक्रान्तेऽपि कर्त- व्यमाब्दिकं प्रथमं द्विजैः। तथैव मासिकं पूर्व सपि ण्डीकरणं तथा ॥ इति वचनात्तथाच तत्रोल्लेखासङ्ग- तिः नहि सा कयापि रीत्या आश्विनामावास्या भव. तीति । उच्यते आश्विनामावास्या हि शुक्लादिभाद्रा- मावास्यैव द्वितीयभाद्रामावास्यापि तथेति क्वोल्ले. खासङ्गति गन्धोपि । ननु विष्णुवचसा श्राद्धसप्तदश केन सिद्धेन नित्यस्य तत्षोडशत्वस्य बाधोदोषाय स्यात् नस्यान्नैमित्तिकेन नित्यवाधस्यादोषत्वात् अ- तएव च फलचमसे न सोमबाधः शास्त्रार्थः ॥ यत्त्वे- तद्भयादर्द्धयेत् छेदयेदितिव्याख्यानं तन्मन्दं ए- ॥ द्वैतनिर्णयः॥ कादशमासाभ्यन्तरे अधिमासपाले मासस्य छेदने कृते प्रथमान्दिके मासचिन्हितत्वस्य बाधापत्तेः नहि वैशाख्यां मृतस्य चैत्रीपर्यन्ते क्वाप्यधिमासपाते चैत्र्यामाब्दिके वैशाखचिह्ननं कथमपि भवति । स- मयप्रदीपादयोप्येवम् । यत्तु कृष्णादिक्रमेणैव वा- र्षिकमिति ध्रुवं तेन तत्पर्यन्तं यावन्ति मासिकस्था नानि लभ्यन्ते तावन्त्येव मासिकानि भवन्तीति तत्तुच्छं । एवं मलिम्लुचे शुक्लपक्षे मृतस्य त्रयोद- शकृष्णपक्षे मृतस्य द्वादशैव मासिकानिस्युस्तथाच समयप्रदीपरत्नाकरचिन्ताणिप्रदीपादिविरोधः स्या. त् । नचेष्टापत्तिः, शुक्लादौ तन्मासे मृतस्य कृ. ष्णादौ तस्मिन्नाब्दिककरणे अब्दापूर्तावेवाब्दिकं तन्मासपूणिमोत्तरकृष्णतस्तिथ्याहि तदब्दपूर्तिः स्यादिति महत्पाण्डित्यं ॥ किञ्च मलमासे शुक्ल- पक्षे पत्यौ कृष्णपक्षे भार्यायां मृतायामब्दान्तेद्धयो- विसर्जने प्राप्ते भार्याया आदौ विसर्जनं स्यात् तच्च नपत्युरविसर्जितत्वात् । अथाधिमासपात इत्यत्र असंक्रान्ते पीत्यत्र च मासउक्तः।मासश्च पक्षौ, मा- सस्तुतावुभाविति कोषात् तथायाद्याधिमासेऽन्त्या- धिमासे च मरणे श्राद्धे च शुक्लपक्षान्वय आवश्य- का पक्षमात्रेण मासासिद्धेः तदन्वयश्च शुक्लैकति-
No text on this page.
॥ द्वैतनिर्णयः॥ लिखितं किन्तु विश्वेदेवाइदमासनं वोनम इत्याद्येव लिखितं विश्वेदेवासइत्युत्क्वा विश्वदेवास्तु संयजे. दितिवाक्याच ॥ नच पार्वणे एकोदिष्टमत्र निमित्त विश्वदेवश्राद्धं त्वङ्गमिति तथैव निर्देशउचितइति वाच्यं मानामावात् भवतु वा निमित्तनैमित्तिकभावः श्राद्धयोस्तथापि येनरूपेण देवतात्वं तदेव निर्देश्य नतुश्राद्धयोः सम्बन्धसाहनं गौरवादप्रयोजकत्वा- देशनाविरहाच्च । अत एव पितरिदन्तेयं पितामहे दन्तेय प्रपितामहेदन्तेयमिति तथा पितरत्रा. वनेनिक्ष्व पितामहात्रावनेनिक्ष्व प्रपितामहात्रावने निश्चेतिसौत्रः प्रयोगोघटते अन्यथामुकश्राद्धइत्य- पि प्रयोगः सूत्र क्रियेत तस्मात्सपिण्डीकरणेपिविश्वे. देवा इदमासनं वोनमः अमुकप्रेत इदमासनं ते नमः अमुकशर्मन्निदमासनं ते स्वधा इत्येव प्रयोगः ॥ श्रीदत्तोपाध्यायवर्द्धमानोपाध्यायादयोप्येवम् । अर्घ. पिण्डविभागयोरप्यत्र मन्त्रान्वयः, येसमाना इति द्वाभ्यामाद्यन्तुविभजेत् विधेतिवचनात् । श्राद्ध कल्पेतु तदलिखनं कल्पतरुकारानुक्तत्वमात्रेण हरिहर पद्धती वृषोत्सर्गवत् । सर्वस्मिन्नेव श्राद्धे कृत्रिमपुत्रो मत्पुत्रत्वकरेतिप्रयुङ्क्ते अयन्तु प्रयोगो ऽनार्षो न वा निबद्धः किन्वाधुनिकमैथिलोत्पेक्षित , ।। द्वैतनिर्णयः ॥ एव समेवतार्थतया तु शिष्टैरपि परिगृह्यते, तच्च न म- नोरमं पितुरपि जनक(पदेनत्वन देवतावापत्तेज नकपदं न देशितमितिचेत् मत्पुत्रत्वकरेति पदमपि तथैव । किञ्च पितुः पुत्रेण कर्त्तव्या पिण्डदानोदक क्रियेत्यादिना द्वादृशान्यतमपुत्राधिकारिके श्राद्धे पितृपदेन रत्नाकरादौ देवतात्वप्रतिपादनाच्च ॥ अग्निहोत्रिणा तु पितुः सावत्सरिकं त्रिपिण्डकं स विश्वदेवकं प्रणीताग्नौ पक्त्वा तत्रैव हुत्वा कार्यमेव मष्टकान्वष्टके अपि ॥ दर्शश्राद्धन्तु दाक्षिणाग्नौ पक्ता हुवा कार्य उभयत्र प्रणीताभस्मनैव मण्डलं, श्राद्धदेशस्तु दक्षिणाग्नेरुदग्देशः॥ छन्दोगपरि. शिष्टंम् ॥ स्वपितृभ्यः पिता दद्यात्सुतसंस्कारकर्मणि। पिण्डानोराहनात्तेषां तस्याभावे तु तलमात् ।। अं भिविधावाङ तेन पिता आउदाहनात् विवाहपर्य. न्तं सुतसंस्कारजनके कर्मणि जातकर्मनामकरण चूडाकरणोपनयनविवाहरूपे स्वपितृभ्यः पिण्डान्द द्यादाभ्युदयिकश्राद्धं कुर्यादित्यर्थः । संस्कारग्रहणात् पुत्रस्य द्वितीयविवाहे पित्रा नाभ्युदयिक कार्य प्रथमविवाहेनैवपुत्रस्य संस्कारसिद्धी द्वितीयविवाह स्य संस्काराजनकत्वादिति । तेषांपितामहादीनां तस्यपितुः, तेनायमर्थः संस्करणीय पितुरभावे त- ११२ ॥ द्वैतनिर्णयः॥ क्रमात् तेषांकृतेपिण्डान्दद्यात् । अत्र तत्क्रमात् त- द्रीतेः पितृरीतेः, तेन यथा संस्करणीयपिता दद्या तथान्योपि दद्यादिति केचित् तन्न व्यवछेदार्थक तु शब्दविरोधात् किञ्च श्राद्धाहः संस्करणीयस्य पिता कथं त्यज्यताम् ॥ एतद्वचनबलादिति चेन्न अस्य विचार्यत्वात् । अपुत्रस्य स्वकीयकन्याविवा हे आभ्युदयिक कार्यमिति श्राद्धकल्पलिखनं पितृ हीनस्य योनामादिकती स संस्कार्यपितरमारभ्या भ्युदयिकं कुर्यादिति गौरिकृतश्राद्धचिन्तामणिलि खनं तथा श्राद्धपारिजातपल्लवपितृभक्तिस्मृति सारप्रदीपादिलिखनानि च व्याकुप्यरन्निति ॥ य- त्रतु पिता क्षती तिष्ठति आश्रमान्तरितो वा जीवति पातित्यादिना श्राद्धानों वा तत्र पितामहादित एवाभ्युदयिकं पितृश्राद्धप्रापकाभावात् पितर्येक- दण्डग्रहणेन पातित्येन गोब्राह्मणहतत्वेनासपिण्डि- तत्वेन वा श्राद्धानहें ब्राह्मणादिहतइत्यादिना पितामहोपक्रमकश्राद्धप्रतिपादनाच्च ॥ ननु पैतृकमस्त्वेवम्, मातृकन्तु संस्करणीयपितुरेव त.. था तेषामित्यनेन स्वपितृभ्यइति पितृपदस्मा- रिताः संस्करणीयपितामहादयः प्रत्यवमृष्यन्ते किन्तु संस्करणीयपितुरन्त ववलेन संस्करणी ॥ द्वैतनिर्णयः॥ य (स्य) वृद्धप्रपितामहस्त्यज्यते तथाच तेषामित्य- नेन पूर्वप्राप्तानां षण्णां मध्येऽवयुत्य पञ्चानूद्याप्राप्तः पिता तत्क्रमादितिपदेन विधीयते॥नचैवं तदत्कुर्या- दिति श्राद्धपल्लवविरोधइति वाच्यं तद्धदिति न वत्यन्तं येन पितृहीन इवेत्यर्थे सति विरोधः स्यात् किन्तु मतुबन्तमिदं तेन तद्वत् पितृमच्छ्राद्धं कुर्या- दित्यर्थोऽतोनेदं कर्तृविशेषणं किन्तु कर्मविशेषण- मिति मैवं, पितृहीनस्य योनामादिकर्तासतद्वत्कु. र्यादित्यत्र तच्छब्देनप्रधानतयापितृहीनस्यैव प्रत्य- वर्षे वतेरेव युक्तत्वात् ।। हन्तवमपिपूर्वपक्षस्ययुक्त- त्वे अस्तुपल्लवफक्किकैवायुक्ता ॥ किन्नश्छिन्नमि- तिचेत् किन्नः छिन्नं यतोवाक्यमेव नाकलि (तं) तथाहि तस्य संस्करणीयस्य पितुरभावे तेषां स्वपितुः पितॄणां कृते दाने प्राभे संस्कार्यपितृक्रमस्यार्थतएव लाभे तत्क्रमादित्यस्य वैयर्थ्यांपत्त्या तत्पदेन प्रस्तु- तस्य सुतस्य प्रत्यवमर्षे तत्क्रमादित्यनेन संस्कार्यक्र- मादिति लभ्यते तेन संस्करणीयोयथा करोति तथा पितुरभावे पित्रन्यः संस्कर्ता कुर्यादित्यर्थः। एतेन त- कमात् तदुपक्रमादितिव्याख्यानमपास्तमपदार्थ- त्वात् । तत्क्रमात् तेन पित्रा सह यः क्रनइत्यप्यपास्त मनुशासनविरोधात् ॥ नापि तमादाय क्रमस्तस्कमः १५ ৫ ফুপিঃ { कल्पनागौरवात् उभयत्रानुवादत्वापत्तेः ॥ अष्टौ सं- स्कारकर्मणि गर्भाधानमिव स्वयं । पिता कुर्यात्तदन्यो वा तस्याभावे तु तत्क्रमात् ॥ अस्पार्थः संस्करणीय पितुरभावे यथा (संस्करणीयः) सकरोति तथान्योपि करोति नहि कर्तृभेदादेवताभेदइतिभावः । तेन नानिष्टातुपितृन् श्राद्ध कर्म वैदिकमाचरेदित्यादि- शब्दस्वरसेन यद्यपि संस्कर्तुरेव प्रतीयन्ते तथापि तत्कूमादित्येकवाक्यतया श्राद्धे संकरणीयसम्बन्धि- न एव लभ्यन्ते ।। यत्तु पितरि जीवत्यन्येनोपनयने कियमाणे वचनाभावादुपनेता श्राद्धं न करोति कि- न्त्वसंस्कर्ता पितैव तदीजभूतस्य सुतसंस्कारस्य स. त्त्वादितिमतं तन्न अष्टावित्यादिवाक्ये वाकारणाना- स्थावाचिना पितृसत्वेऽन्यस्याधिकारे सिद्धे तत्क- मादित्यनेन च संस्करणीयपितृवदन्येनापिश्राद्धं कार्यमिति सिद्धम् ॥ तस्याभावे तस्य संस्कर्तृत्वा- भावे ॥ यत्तु तस्याभावे प्रायणे इतिकेचित् तन्न स- कलनिवन्धविरोधात् ॥ ननु कात्यायनवचनस्या- प्यष्टावित्यादिवाक्यवदेवार्थोस्तु मैवं, तत्र तस्याभा- वइत्यस्य संस्कर्तृत्वाभावार्थत्वे निर्बीजाध्याहाराप- तेः श्राद्धकल्पादिविरोधापत्तेः श्राद्धार्हस्यापिपितुः त्यागायः वृद्धौ सपिण्डनस्यवैयर्थ्यापत्तेश्च । पितु वनिर्णयः॥ राभ्युदयिकान्तर्भावाय हि तत्तदा क्रियते तदन्तर्भाव- स्त्वन्मते तत्र नास्त्येवेति तस्मात् पितुरभावे पुत्रस्य कन्यायावा संस्कारे कात्यायनवचनोक्ता व्यवस्था पितुस्तु सत्वएवान्येन संस्कारकरणेऽष्टावित्यादिव- चनादयवस्थेति ॥ पितुरभावे स्वविवाहस्याप्याभ्यु- दयिकनिमित्तत्वं, नान्दीमुखेभ्यः श्राद्धन्तु पितृभ्यः कार्यमृद्धये । ततोविवाहः कर्चव्यः शुद्धः शुभसुत्- प्रदः इति ब्रह्मपुराणवचनात् ।। ॐ ॥ अथ श्राद्धनिर्णयः । तत्र श्राद्धं दानमित्येके पितृ- भ्योदद्यादितिबहुशः श्रुतेरिति तन्न नहसंप्रदान- कंदानं संभवति ॥नच ब्राह्मणस्यात्र संप्रदानता बा- ह्मणस्त्वाहवनीयार्थ इत्यापस्तम्बसूत्रेण तेगवाहव- नीयवत् प्रतिपत्तिभागित्वपीले उद्देश्यताविरहा- च्च । एवञ्च ददातिरत्र गौणः किन्तु यागान्तर्गतं तत्र पितरोदेवता इति तत्सत्रैकदेशेन तस्य पितृ- देवताकत्वप्रमितेः । देवतात्वन्तु तत्र पितॄणां देश- नादेशितचतुर्थ्यन्तपदनिर्देश्यत्वमेव ॥ नच देव- ताया अचैतन्यनियमात् कथं पित्रादिर्देवतास्त्विति बाच्यं देवताले चैतन्यमनऊं नतु देवतायाश्चैतन्य नास्त्येवेति नियम इति मदुपगमात् ॥ यत् श्राद्धं यागदानोभयरूपमिति श्राद्धविवेकमतं तन्न पित्रा- .
११६ । दैननिर्णयः॥ दिना हि संप्रदानेन तदानं स्यात्, श्राद्विना वा, ना धः। तेपां देवतात्वस्यापस्तम्बादौनिर्णययात् ॥ न च तथापि तेषां संप्रदानतैव, देवताचतुर्थीविरोधा- त् स्वाभ्युपेतस्य यागदानोभयरूपत्वस्य भङ्गापत्तेः।। नच पितृभ्योदद्यात् पितॄन्यजेतेति ददाति यजत्योः श्रवणात् श्राद्धस्योभयरूपतेति वाच्यं दानयागयो- विरोधेन तत्रैकायोगस्यावश्यं गौणत्वात् ॥ नच सर्वेषां वस्तु नियतत्वात् विकल्पोपि वस्तु नियतएव तथाच यथा सिद्धन्तो ऽर्थाभ्युपगमोऽभ्युपगम्यमाऽ र्थश्चेति न्यायमतेद्विरूपः तद्वत् श्राद्धमपि यागदा- नोभयात्मकं द्विरूपमस्त्वितिवाच्यं नहि सिद्धान्तो प्येवं किन्तु तत्रापि नागृहीतविशेषणान्यायादभ्यु पगमएवसः ॥ नचैवमधिकरणसिद्धान्तादिसूत्र- विरोधः, अर्थप्राधान्यविवक्षया तथा सूत्रणात्, अ- तएव लिङ्गपरामर्षस्य करणतामभ्युपेत्यापि लिङ्गस्य करणवाक्षेपोरोधोघपातसादृश्येभ्योव्याभिचारादित्या दिसूत्रे सङ्गच्छत इतिदिक् ॥ तच्च श्राद्धं त्रिदै- वत मेकदैवतञ्च तत्रान्त्यस्यारम्भे रौहिणोत्तरसम- योनिषिद्धः श्राद्धपल्लवश्राद्धपजीप्रभृतयोप्येवम् ॥ त्रिदैवतमपिढेधा पार्वणमपार्वणञ्च । तत्र पार्वण ममावास्यादिनियतं, अपार्वणन्तु क्षयाहे साग्न्यौ- ॥ द्वैतनिर्णयः॥ रसकर्तृकं पितृश्राद्धं, नत्र पार्वणे मातामहानामप्य- न्वयः । पितरोयत्र पूज्यन्ते तत्र मातामहाधुवमिति वचनात् । क्षयाहत्रिपिण्डकेतु न तेषामन्वयः । त. थाहि । औरसक्षेत्रों पुत्रौ विधिना पार्वणेन तु । (प्रत्यब्दमितरेकुर्युरेकोदिष्टं सुतादशेति)। तथा.पा- वणेन विधानेन देयममिमता सदेत्याभ्यां तदा पा- र्वणकरणे प्राप्ते तत्स्वरूपजिज्ञासायां । सपिण्डीकर- णादूई यत्र यत्र प्रदीयते । तत्र तत्र त्रयं कुर्यादित्य नेन पार्वणस्य त्रिपिण्डकत्वं सिद्धं तच्च वर्जयित्वा मृताहनीत्यनेन निरग्निकर्तृके क्षयाहश्राद्धे निषि- द्धयते । साग्निकर्षके तु तस्मिन् लिखितविशेषवच- नद्वयबलान्न निषिद्धयत इति तस्य त्रिपिण्डकत्व- मायाति । पार्वणे तु तत्र मातामहाभुवमित्यादिनो त्सर्गवचनेन बाधकास्पृष्टे न पदपिण्डकत्वमेव तत्रा पि पितृणामेव श्राद्धस्यामिक्षावत्प्राधान्यं तस्यैवा- मावास्यादिकालसम्बन्धेनोत्पन्नत्वात् तत्र त्रयं कुर्यादिति स्मरणात् यएवं विद्धान पौर्णमा- सीं यजते य एवं विद्धानमावास्यां यजते इत्यादि श्रवणात् पौर्णमास्यमावास्याकालसम्बन्धोत्पन्नस्य दर्शपौर्णमासयागस्य फलान्वयवत् । अतएव साग्नि नौरसेन पितुः क्षयाहं पित्रादित्रिकस्य श्राद्धे कृते बैतनिर्णय.॥ तत्र मातामहानां श्राद्धाय न पार्वणारम्भः वाजिनव तस्यानुष्ठानाप्रयोजकत्वादिति । एतच्च पार्वणं श्रा- द्धान्तराणां प्रकृतिभूतं एतद्धर्मस्य कस्यचित्तेषति देशात् कस्य चिच्चनिषेधात् पिण्डदाने पिण्डपितृ यज्ञवत् तेन विकृतो विशेषानभिधाने प्राकृताः स. र्व एवधर्माअन्वीयन्ते प्रकृतिवद्विकृतिरिति न्या. यमूलकपरिभाषास्वरसात् । पिण्डदाने तत्परि- भाषाबलेन पिण्डपितृयज्ञवदेखायामेवावनेजनं नायाति विक्रतो दर्भेष्वेव तद्विधानात् । वैकृतवि- शेषोपदेशवलेन प्राकृतधर्मबाधात् शरमयं बहिर्भव- तीतिवत् ।। श्राद्धादौ चास्मत्पदमन्तरेणैव सम्बन्धि शब्दतया स्वपित्रादिधीः, अतएव शुद्धन्तां पितरः शुद्धन्तां पितामहा इत्यादि श्रुतौ पितरिदन्तेयं पि तामहेदंतध्य प्रपितामहेदंतेयमित्यादि स्मृतौ च. शब्दादेव स्वपित्रादिधी रुदेतीत्युपगमः। तस्यैव प्रा करणिकत्वेन पदिन्यायादन्वयसम्भवादिति पारि जातादयः तन्न नहि शाब्दाशाब्दयोरेन्वयः सम्भ- वति सम्भूयोच्चरितानां सम्मुयान्वयानुभावकत्व व्युत्पत्तेः। कथं तर्हि लक्षणास्थलेनीरस्मारिततीरस्य, कथञ्चद्वारमित्यत्राध्याहृतपिधानस्यान्वयधीः न कथञ्चित् ॥ हन्तवं पदपांशुना यूपमनक्तीत्यत्र ११९ ॥ द्वननिर्णयः॥ सोमक्रयार्थानीयमानै कहायन्या प्रकरणोपस्थितया प्यशाब्दया पदपदार्थस्यान्वयधीरिति भज्येत वादं मानसस्तत्रान्वयबोधः पितरः शुद्धन्तामित्यत्र तुल- क्षणा अतएव शब्दाध्याहारोपि सङ्गच्छते । कल्पत रुकारादयोप्येवम् ।। पार्वणे कात्यायनः। अपरपक्षे श्राद्धं कुर्वीतोई वा चतुर्थ्यायदहः सम्पद्यते तदह ह्मिणानामन्त्र्य पूर्वेयुर्वा, स्नातकानेके यतीन् गृ. हस्थान साधून् वा श्रोत्रियान् वृद्धाननवद्यान स्व कर्मस्थानभावेऽपि शिष्यान्स्वाचारान् दिर्नग्न शुक्लविक्लिधश्यावदन्तविद्धप्रजननव्याधितव्यङ्गि श्वित्रिकुष्ठिकुनखिवर्जमनिन्द्येनामन्त्रितोनापकामे • दामन्त्रितोवाऽन्यदन्नं न प्रतिगृह्णीयात् स्नाता- छुचनिाचान्तान् प्राधमुखानुपवेश्य देंवे युग्मान्य थाशक्ति पित्र्य एकैकस्योदङ्मुखान दो वा देवे त्री न पित्र्यएकैकमुभयत्र वा मातामहानाञ्चैवं तन्त्रं वा वैश्वदविकं । श्रद्धान्वितः श्राद्धं कुर्वीत शाकेना पि नापरपक्षमतिकामेन्मासि मासि वोशनमिति श्रुतेः । तदहः शुचिरक्रोधनोऽत्वरितोऽप्रमत्तः सत्य- वादी स्यादवमैथुनश्रमस्वाध्यायान वर्जयेदावाह- नादि वाग्यतओपस्पर्शनादामन्त्रिताश्चैवं ।। अत्र कर्कोपाध्यायाः॥ अपरपक्षे कृष्णपक्षे श्राद्धं श्राद्ध
१२०
। द्वतनिर्णयः ।
नामकं कर्म कुर्वीत तेन कृष्णपक्षाः सर्व एव श्राद्ध
कालत्वेन विवीयन्ते अतएव मासिमासि बोशन
मितिश्रुतेरप्पुपादानं घटते ॥ ऊई वा चतुर्थ्या इति
पञ्चम्यादिदिनेष्वेवश्राद्धं कुर्वीतेति द्वितीयः
कल्पः ॥ यदहः सम्पद्यते तदहरितितृतीयः कल्पः ।।
तेनाश्विनेतरमासस्यापि कृष्णपक्षे समग्रमेवपक्षं
पार्वणं पञ्चम्यादि वा पार्वणम् । एकस्मिन् वा दिने
पार्वणं ।। अत्रेव गोतमः। अथ श्राद्धममावस्यायां
पितृभ्योदद्यात् पञ्चमीप्रभृति वाऽपरपक्षस्य यथाश्रा
द्धं सर्वस्मिन् वा द्रव्यदेशब्राह्मणसम्पत्तौ कालनियमः
शक्तितः॥ अपरपक्षस्य कृष्णपक्षस्य, पक्षी पूर्वापरौ
शुक्लकृष्णो मासस्तुतावुभौ इत्यनुशासनात् मा.
सस्य तु शुक्लपक्षः प्रथमः, कृष्णपक्षो द्वितीयः पक्षः।
यस्मिँश्च मासे शुक्ला प्रतिपन्मीनस्थादित्याव्यभिचा-
रिणी सचैत्रः, एवं मासान्तरपि ।। सा च प्रतिपन्मा-
सस्यादिभृता, इन्द्राग्नी यत्र हूयेते मासादिः सप्रकी
र्तितः । अग्नीषोमौ स्मृतौ मध्ये समाप्तौ पितृसौम
कावितिवचनात् । तदहः पूर्वेयुर्वेति ब्राह्मणामन्त्रणे
कालविकल्पः।। स्वाचासनित्यन्तं पात्रविशेषणमुपा
दानाय । कुनखिवर्जमित्यन्तं तत्यागायाप्रतिगृह्णी
यादित्यन्तं पात्रस्यैवं करणे प्रत्यवाय इत्येवं परम् ।।
द्वैतनिर्णयः स्नातान् शुचीनाचान्तानितिमा श्राद्धिविशेषणं, प्राङ्मुखानुपवेश्य दैवे युग्मानिति विश्वदेवब्राह्मण मात्रपरं । अयुग्मान यथाशक्ति पित्र्य एकैकस्योद- ङ्मुखानिति पितृबाह्मणपरं बौ वा दैवे त्रीन्पित्र्य इति ॥ तेन सदेवे पितृपक्षे पञ्च ब्राह्मणाः ॥ एकैक मुभयत्र वा, तेन सविश्वदेवे पितृपक्षे दौ ब्राह्मणौ ॥ मातामहानाञ्चैवं ।। मातामहानामपि सविश्वदेवा. नांपञ्च दौ वा ब्राह्मणाः। तन्त्रं वेति ॥ विश्वदेवदये एकोवा ब्राह्मणः ॥ शाकेनापीत्यादिना सर्वापरपक्ष पार्वणानां नित्यता। अत्रैव हेतुः।मासि मासि वोश नमितिश्रुतेः । सर्वेषामेव कृष्णपक्षाणां नित्यत्वे मासिभासीति वीप्सासहितोपादानं तत्रैव घटते । आश्विनापरपक्षस्यतु नित्यत्वाय तदुपादानमधि- कं स्यात् । तदहरित्यादि वर्जयेदित्यन्तं नियमका थनं । आवाहनादि श्राद्धाचमनपर्यन्तं प्रकृतेतरश- ब्दानुदीरणं । एतच्चनियमदयं यजमानस्येव श्रा द्धिनोपि ।। यच्च गोतमकात्यायनादिना अपरप क्षे चतुर्थ्याऊर्द्धम्पक्षनिर्वाहकं सकृत्करणमप्युक्तं त. त्पक्षचतुष्टयावरुद्धाश्विनापरपक्षेतरापरपक्षविषयं सा- मान्यविशेषन्यायात् ॥ अश्वयुकृष्णपक्षे वित्य स्याश्त्रयुक्कृष्णपक्षत्वपुरस्कारेण प्रवृत्ततया लेना.
॥ द्वैतनिणयः॥ शिवनापरपक्षस्य पक्षचतुष्टयवत्वेन द्रागालिङ्गना. त् । गोतमादिस्मृतीनान्तु अपरपक्षत्वसामान्यपुर स्कारेण प्रवृत्तानामवरोधविरोधेनाविनापरपक्षं विहाय कृष्णपक्षान्तरेषु प्रवृत्तः॥ श्राद्धकल्पादयोप्ये वम् ॥ एवं चाष्टका त्रयोदशी वा केवलात्राप्यविरु. द्धा आश्विनापरपक्षएव तदिधानात् । ननु चाप- स्पक्षशब्दस्याश्विनापरपक्ष एव रूदिः । आषाढीम वधि कृत्वा यःस्पात्पक्षस्तु पञ्चमः । अएग्पक्षः सवि शेष इति जातकर्ण्यवचनादितिचेद् भ्रान्तोसि, अ- स्य हि शक्तिग्राहकले अस्यैव चतुर्थः पादः कन्या गच्छतु वानवेत्येवं रूयोव्यर्थ आपधेत नहि सवि. तुः कन्यागतत्वे सति तत्रापरपक्षस्य शक्तिरिति के नापि शङ्कितं यदुद्धाराय कन्यांगच्छतु वा नवेति त त्रानास्थाश्रीयेत किन्वश्वयुवकृष्णपक्षे तावत्पार्वणं विहितं तच्छुक्लादिरीत्या मा प्रसांक्षीत् कृष्णपक्षस्य सर्वमासेषु द्वितीयपक्षवनियमादिति तदारणाय जातकर्येनोक्तम् । अश्वयुक्कृष्णपक्षे वित्यत्र कृ. ष्णपक्षशब्दस्याषाढीतः पञ्चमः पक्षोऽर्थः तेन स. एवाश्विनापरपक्षः पार्वणे प्रायः तत्र च कन्यागतत्वं न पुरस्कूियते अपरपक्षः सविज्ञेयः आश्विनापरप क्षः सविज्ञेयः सग्राह्य इति यावत् । कोपाध्याया- १२३ ॥ द्वैतनिर्णयः ॥ दारभ्य वर्द्धमानोपाध्यायपर्यन्तमेषैव व्याख्या ।। श्राद्धचिन्तामणौ (श्राद्धकल्पे ) जातूकर्ण्यवाक्ये तत्र श्राद्धं प्रकुर्वीतेति तृतीयः पादः, तथाच त्वदुः क्तशङ्कापि नेति ॥ आश्विनापरपक्षस्तु कन्यारविं विनैव श्राद्धनिमित्तं अतएवाषाढीमित्युपक्रम्य, तत्र श्राद्धं प्रकुर्वीत कन्याङ्गच्छतु वा नवेति श्राद्ध- कल्पोपि ॥ दिने दिनइत्यत्र दिनपदन्तिथिपरम् । तथाहि । काम्यस्थले श्राद्धविधिनिषेधयोस्तिथिष्वेव श्रवणात्ताएव तावत्काभ्यश्राद्धकालाः तत्रचाहापदं श्रूयते सर्वेष्वेवापरपक्षाहः स्वित्यभिधानात् तथा च नित्यस्थलीयमपि दिनपदन्तिथिपरमेव साच दिन पदस्य तिथिपरता शक्त्यैव, दिनाहः पदयोः पर्याय- त्वात् ॥ अथैवं दिनपदमहः पदञ्च नानार्थं स्यात् वाढं गोपदादिवदेकानुपपत्तिमनपेक्ष्यैवापरबोधना- त् । अस्तुवा एकतरत्र लक्षणेत्यलमप्रस्तुतचिन्तये- ति॥अत्राहुः, दिनपदस्य नित्ये तिथिपरत्वं काम्य- दृष्टान्तबलेन कल्प्यत इति तावन्न सम्भवति नहि दृष्टान्तबलेन तत्परत्वं शक्तिर्वा कल्प्यते किन्तु प्रती- तिरूपफ़लबलेन तात्पर्य मनन्यलभ्यतया तु शक्ति रिति । नतु काम्यविधिवन्नित्यविधिरपि तिथ्या- लम्बन एव, अन्यथा काम्येन प्रसङ्गान्नित्यसिद्धिर्न ॥ द्वतनिर्णयः । स्यात् कालभदेप्रसङ्गाभावादितिचेत् अस्त्वेवम्, अ. स्तुचानुष्ठानावृत्तिः॥ नतु तिथिनैकेन दिवसश्चान्द्रे मासे(न)प्रकीर्तितः अहोरात्रेण चैकेन सावनोदिवसः स्मृतः इति वचनादिवसपदस्य तिथिवाचकत्वमि- तिचेत् प्रान्तोसि तिथिना दिवसउच्यत इति यदि वाक्यार्थस्तदा वैपरीत्यम् । अथ मासिकादौ सावन मासानुष्ठेये तिथिरेवदिवसस्तेनत्रिंशता तिथिभिस्त त्र मासइत्यर्थः तदा किंमते, नहि दिनपदस्य तिथि वाचकत्वं तिथितात्पर्यकत्वं वा ततः सिद्यतीति ।। ननु कृष्णपक्षे दशम्यादी वर्जयित्वा चतुर्दशीम् । श्राद्धे प्रशस्तास्तिथयोयथैता न तथेतराः ॥ इति मनुवचनेन द्वादशापरपक्षसाधारणेन नित्यपार्व- णाय तावत्तिथयस्तूयन्ते अतोविद्मः सर्वापरपक्षीय नित्यपार्वणानामपि तिथयएव काल इतिचेन्न अने- न गोतमोक्ते सकृत्करणेऽपरपक्षान्तरविषये दशम्यू- चितुर्दश्यन्या काचिदेकातिथिरुपादेयेत्यमिधीय- त इतिहि श्राद्धविवेकः, नत्वाश्विनापरपक्षोऽन्यो- वा स्तूयते अन्यविषयत्वात् ॥ वस्तुतस्तु श्राद्धविवे- कोक्तमप्यरात् गोतमोक्तस्यैकाहविषयत्वात् मनूक्त स्वदशम्यादिकालस्तावकत्वात् ।। हन्तवं, काम्येष्वे कादशापरपक्षपार्वणेषु तिथिवि विहिता एवं नित्ये ॥ द्वैतनिर्णयः॥ प्वप्यपरपक्षान्तरीयपविणेषु । तथाच नित्येष्वाश्विना परपक्षपार्वणेषु तिथीन्विहाय वासराविहिता इत्यत्र किं बीज मितिचेत् अश्वयुवकृष्णपक्षे तु श्राद्धन्देयं दिने दिनइत्यहि । तथाप्यनेनैव विधिना वीप्सा चलात्सर्वस्मिन्नेवापरपक्षदिने श्राद्धं विधीयते । न च वर्जयित्वा चतुर्दशीमिति निषेधवलेनास्य सङ्कोचः चीप्साग्रस्तविधिना विशेष मुखप्रवृत्ततया नित्यवि- धित्वेन फलनिरपेक्षत्वेन लघुप्रवृत्तिकतया च प्रागेवा श्विनापरपक्षावच्छिन्नाः कृत्स्नाएव दिवसाआदा- वालिङ्गिता इति तदालिङ्गितां चतुर्दशीमपहाय चतुर्दशीनिषेधश्चतुर्दश्यन्तस्मालिङ्गति सामान्यवि शेषन्यायात् । यथा सकृत्करणविधेः सामान्यमुख- प्रवृत्तस्य पक्षचतुष्टयावरुदाश्विनापरवक्षेतरापरपक्ष विषयत्वं सामान्यविशेपन्यायादेवेति तावत्प्रदीपम- तन्तन्न अन्येषान्तु विगर्हितेत्यनेनाश्विनापरपक्ष विषयकेणाशस्त्रहतानां चतुर्दश्यां सकलपूजानिषे- धात् ।। अथ प्रकृतमनुसरामः ॥ एवञ्च प्रदीपकृतो पि दिने दिन इत्यादिनापि सर्वतिथिविधिवदन्तो दिनपदस्य तिथिपरत्वमेवाहुः । एवमेवाश्विनापरपक्षे चतुर्दशीवर्ज सर्वतिथयइति नित्यपार्वणप्रकरणे सिद्धवल्लिखन्तिस्म प्रतिहस्तका अपीति । एवञ्चै.
१२६
॥ ईननिर्णयः ॥
कस्मिन्नपराहणे तिथिद्धयलाभे पार्वणदयं उत्तरदिना
पराहेतु पुनः तत्तिथैली भपि न तत्पार्वण सकृत्करणेने
व शास्त्रार्थसिद्धेरिति तिथिविधिपक्षे निर्गलित
मिति ॥ अत्रब्रूमः । एवमपि दिनपदात्तिथ्युपस्थि
तिलक्षणयैव इति गलेपादिकयापि वक्ष्यसि ॥ अथ
दिनपदस्य तिथावीपसन्दानिकी शक्तिरेख, उपस.
न्दानमश्वयुक्कृष्णपक्षइति वाक्यं, यथा प्रकृष्टज.
ये जेः शक्तौ प्रशब्द इति चेत् । भ्रान्तोसि अश्वयुक्
कृष्णपक्षे नद्यां दिने दिने पित॒स्तर्पयेदित्यत्रापि
दिनपदस्य तिथावौपसन्दानिकशक्त्यापत्तेः ।
किश्वजिधातोर्जयसामान्यशक्तस्य प्रोपसर्गे सति
प्रकृष्टजयप्रतिपत्तो प्रोत्तरजिलेन तत्र विशेषशक्तिः
कल्प्यते, अत्रतुन तथा दिनतिथ्योः सामान्यविशेष
भावाभावादिति। ननु विषशस्त्रश्वापदाहितिर्यद्राह्म
णघातिनां । चतुर्दश्यां भवेत्पूजा अन्येषान्तु विग.
हितेति मरीचिवचनादस्तु चतुर्दशीपार्वणनिषेध
इति मैवं, चतुर्दश्यां भूतिकामः स्वस्तिकामो वेति
हारीतेन काम्यपार्वणमपि विहितं तदेवात्र निषि
ध्यते काम्यत्रयोदशीश्राद्धवत् ।। वस्तुतस्तु विषश.
स्त्राहिहतानां यादृक् श्राद्धं विहितं ताडगेवान्येषां
निषिध्यते प्रक्रमानुरोधात् ॥ यत्तु ॥ आहवेषु विः
। द्वैतनिर्णयः॥ पन्नानां जलाग्निभृगुपातिनाम् । चर्तुदश्यां भवे. सूजा अमावास्यान्तु कामिकीति कन्यागता परपक्षप्रकरणस्थदेवीपुराणवचनेन विशेपविधिम हिम्नार्थादन्येषां तत्रपूजानिषेधइति तन्न इदं हि वाक्यममावास्यान्तु कामिकीत्युपसंहाराच्चतु. दश्यां शस्त्रहतानां श्राद्धस्यनित्यतां विधत्ते नत्व शस्त्रहतानां श्राद्धमपि निषेधति उभयपरत्वे वाक्यभेदापत्तेः । नचात्र गुणप्रधानभावोऽविनिग- मात् भवतु वा विषशस्त्रहतानां पार्वणनिषेधस्तथापि सत्रयोदश्यामिवचतुर्दश्यामपि काम्यं पार्वणं निषे. धेत चतुर्दशी भूतिकामः स्वस्तिकामोवेति वदन्हि हारीतः तन्त्र काम्यं पार्वणमाह ॥ तथा च त्रयोदशी वन्निषेधोनस्यात् तस्मान्नित्ये तिथिविधौ चतुर्द. शीपार्वणं वज्रलेपवदिति प्रदीपमतं । यथोत्नीतं तथैव तद्यस्त्वितिचेत् न तडॅकस्मिन्नपराहणेतिधिद्वय लाभ तस्य पार्वणदयं उत्तरदिनोपराहणे तत्तिथिला- भेप्यपार्वणमिति स्यात् । न चेष्टापत्तिः प्रदीपकृत- स्तथानुपगमात् । तस्मात्सर्वज्ञकल्पेन परममीमां- सकेन कल्पतरुकृता देवीपुराणवचनाचतुर्दशीनि षेध इति नोक्तं किन्तु सामान्यवचनादेव तनिषेध इत्युक्तं तत्र चास्ति तात्पर्य तद्यथा दिने दिन इति १२८ ॥ द्वतनिर्णयः॥ वीप्ता तिथीन्नालिङ्गाति दिनपदे निनिमित्तलक्षणा- पत्तेः, किन्तु दिवसानेव । तेनाश्विनापरपक्षे सर्व स्मिन्नेव वासरे श्राद्धं एवञ्च नित्यविध्यस्पृष्टा सर्वैव चतुर्दशी वर्जयित्वा चतुर्दशीमित्यादिना निषिध्य ते अतएवैतत्पक्षश्राद्धानां तिथिकृत्यत्वाभावात् कृ. ष्णादिमासपरिग्रहात्रासंभवीत्याशङ्कयआषाढीमवधि कृत्वेत्यादिवचनं जातूकय॑नाम्ना पठितं कृष्णा दिमासपरिग्रह प्रमाणयन्तिशिष्टाः । एवञ्चाश्वि नापरपक्षे दिने दिन इति श्रवणात सर्वस्मिन्नेव दि वसे नित्यं पार्वणं शक्तौ कार्य वर्जयित्वा चतुर्दशी मित्यादि निषेधस्वरसात् । यस्मिँस्तु दिने दशापि मुहूर्त्ताश्चतुर्दश्यवरुद्धाएव तस्मिन्नपार्वणं निषेध विरोधात् अतएव त्रयोदश्यां पञ्चदश्यां चोत्तरदिने श्राद्धयोग्यमुहूर्त्ताभिव्यापने तदापि पार्वणं वीप्साल- भ्यस्याभ्यासस्य बाधकाभावादितिसर्व सुस्थम् । पूर्व दिन रौहणीस्योत्तरदिने कुतपस्य लाभे एकोदिष्टं पूर्व दिन एव विहितकालजीवित्वेन तदैवाधिकारात् । कु. तपस्य प्रशंसामात्रं यदात्वेकस्मिन्नेवदिने गान्धर्वकुत- परौहिणानां लाभस्तदाकुतप एव प्रशस्तत्वात् न च गान्धर्वातिक्रमेण क्षेपशङ्का तथापि मध्याह्नस्याप्र- तिक्षेपादिति ॥ शतपथे । अथ पञ्चैव महायज्ञाः ॥ तनिर्णयः। तान्येव महासत्राणि । भूतयनोमनुष्ययज्ञः पि- तृयनोदेवयवो ब्रह्मयज्ञइति ॥छन्दोगपरिशिष्टे ॥ अ. ध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तुतर्पणम् । होमोदैवोब- लिभाँतो नृयज्ञोऽतिथिपूजनम् ॥ श्राद्धं वा पितृयज्ञः स्थापित्र्योबलिस्थापिवा ॥ वाकारौ मतभेदार्थों। श्राद्धमत्र नित्यश्राद्धं । अत्र यस्य यावति पितृयत्ने धिकारस्तेन तावान सकर्त्तव्यः । प्रमीतपितृकेण तु श्राद्धाधिकारिणा सतिलतर्पणपितृबलिनित्यश्राद्धानि त्रीयपि कार्याणि अधिकाराविशेषात् । नित्यश्राद्ध सएव । अप्येकमाशयेद्विप्रपितृयज्ञार्थसिद्धये । अ- दैवं नास्ति चदन्यो भोक्ताभोज्यमथापि वा ।। बहूनां श्राद्धिनां बहुनश्चानस्याभावे षट्स्वेकमपि ब्राह्मण तत्र भोजयेत् । अस्याप्यसम्भवे सएवाह ।। अप्यु बृत्ययथाशक्ति किञ्चिदन्नं यथाविधि । पितृभ्योथ मनुष्येभ्यो दद्यादहरहर्दिजः॥ पितृभ्यइदमित्युक्त्वा स्वधाकारमुदीरयेत् । हन्तकारम्मनुष्येभ्यस्तदन्ते निनयेदपः ॥ पितृभ्य इति । इदमन्नं पितृभ्यः स्वधे- ति त्यागवाक्यमेवं सिद्ध्यति एवञ्च मिलितानां पितॄणामत्रवाक्ये देवतात्वप्रतिपादनात् मिलित पड्दैवतमकानोत्सर्गात्मकमिदं श्राद्धं अयञ्च नि- त्यश्राद्धपकारो चलिदानसाहचर्येण कथित इति बलिव लनिर्णयः॥ द्रात्रावपिकार्यइति केचित् तन्न पञ्चमहायज्ञान्तर्ग: तोहि पितृयज्ञः, सच नित्य श्राद्धात्मकः तेन सर्ववि- धमपि नित्यश्राद्धं त्वन्मते रात्रावपि कार्य स्यात् । शतपथे बलिसाहचर्यात् । किञ्च वैश्वदेवबलिकर्मणी द्वितीयपाकपक्षे रात्रौ विशेषवचनात् प्राप्ते अतस्ते क्रियेतां श्राद्धन्तु कथं, सन्ध्या राज्योनकर्तव्य मि- त्यादिनाश्राद्धे तत्पर्युदासात्।।हन्त तथापि नित्यश्रा- द्धस्य मिलितषड्दैवतत्वे किम्बाधक, वाधकमपि व- क्ष्यामः, साधकमपि नास्ति॥पितृभ्य इदमन्नं स्वधेति परिशिष्टप्रयोगकथनमेव साधकमिति चेत् इदं हि सर्वश्राद्धसाधारणं अमुकामुकगोत्रैतत्तुभ्यमन्नं स्व- धानम इति प्रत्येकदेवतात्वपरवचनविरोधात्॥नापि सकलनित्यश्राद्धसाधारणं, षड्ब्राह्मणपक्षे एकत्राम- णपक्षे च षड्दैवतत्वस्य त्वयाभ्युपगमात् । अथ कि- ञ्चिदानपक्षे मिलितदैवतं नित्यश्राद्धमितिब्रूम इति चेन्न द्रव्यहासेन देवताहासस्यासम्भवात् । परिश- टोक्तत्यागवाक्यबलेन देवताहास इति चेन्न त- स्यात्र पितृभ्यइत्यस्य तन्त्रवृत्या स्वतन्त्रषडुपस्था पकत्वस्यापि सम्भवात् अन्यथा हन्तकारम्मनु ध्येभ्यः इत्यत्र मनुष्येभ्य इत्यपि विरुध्येत, नहि तत्र बहुभ्यएव दीयते, नापि मिलितेभ्यः, कि- ॥ द्वैतनिर्णयः॥ ܕܕ न्त्वेकैकस्मै (प्रत्येकं) दाभ्यां बहुभ्योवा ॥ अतएवेद मन्नं मनुष्यायहन्तते इतिवाक्येनैकस्मै दानं विहित म्। किञ्च परिशिष्ट एव, अमुष्मेनम इत्येव बलिदानं विधीयत इति त्यागवाक्यं लिखितमानचानेन वाक्ये न बलित्यागः किन्तु पर्जन्यायनम इत्यादिना। अ- मुष्मैनम इति तु सर्वसंग्राहकत्वेनोक्तं तथात्रापि पितृभ्य इत्युक्तं देवतात्वन्तु पितृत्वेन पितामहत्वे नेत्यादि, एवं हि सकलवाक्यैकवाक्यता सम्भवति । किञ्च मिलितदेवता श्राद्धकल्पादिषु प्रामाणिक- निबन्धेषु विस्तरेण खण्डितमिति तदपीह द्रष्टव्यम् ।। अथ निधिः ।। ममायमिति योव्यान्निधिं सत्येन मा- नवः। तस्याददीत षड्भागं राजा द्वादशमेव वा ।।अ नृतन्तु वदन्दण्ड्यः स्ववित्तस्यांशमष्टमम् । तस्यैव वा निधानस्य संख्ययाल्पीयसीकलाम् ।। निधिस्ता वत्पूर्वनिखातं चिरभ्रष्टंधनम् । तच्च स्वनिहितपरनि- हितभेदादेधा, तत्राद्ये भागदानमिदं, भागविकल्पो त्र तत्स्वामिनोनिर्गुणत्वसगुणत्वाभ्यां ममायं निधि रित्यनृतं वदनिर्गुणः स्वसर्वस्वस्याष्टममंशं । सगु णस्तु तन्निधेरेव तदनवसादकरीकलांदण्ड्यः, द- ण्डोयमनृताभिधानमात्रादिति । द्वितीयेत्वाह । विहाँस्तु ब्राह्मणोदृष्ट्वा पूर्वोपनिहितं निधिम् । अशे ॥ निर्णय पतोप्याददीत सर्वस्याधिपतिहिंसः ॥ सर्वस्येति । सर्वस्वं ब्राह्मणस्येदं यत्किञ्चिन्नगतीगतम् ।आनृशं स्याद्राह्मणानां भुञ्जते हीतरे जनाइति ।। निहितं परेणेति शेषः॥ तदाह नारदः । परेण निहितं लब्ध्वा राजन्युपहरेन्निधिम् । राजगामी निधिःसर्वः सर्वेषां ब्राह्मणाहते ॥ याज्ञवल्क्योंपि । राजा लब्ध्वा निधि दद्याड्विजेभ्योर्द्ध द्विजः पुनः । बिद्धानशेषमादद्यात् ससर्वस्य प्रभुर्यतः ।। इतरेण निधो लब्धे राजाषष्ठां शमाहरेत् । अनिवेदितविज्ञातो दाप्यस्तं दण्डमेव- च ॥ इतरेणाविदुषातन्निधिन्दण्डञ्च चत्वारोवर्णा दाप्यायदिनिधि स्वप्राप्त राज्ञेन कथयेयुः॥ विष्णुः । राजा निधि लब्ध्वाद्धं ब्राह्मणेभ्योदद्याड्वितीयमर्द्ध कोषेप्रवेशयेत् । ब्राह्मणस्तु निधि लब्ध्वा स्वयमाद- द्यात् । क्षत्रियश्चतुर्थमंशं राजे दद्यात् चतुर्थमंशं ब्राह्मणेभ्योदद्यादर्द्धमादद्यात् । वैश्यश्वतुर्थमंशं राझे दद्यात् ब्राह्मणेभ्योर्द्धमंशं स्वयमादद्यात् । शूद्रश्चावा प्तं द्वादशधाविभज्य पञ्चांशात्राझे पञ्चांशं ब्राह्मणे- भ्योंशद्धयमादद्यात् । अनिवेदितविज्ञातस्य सर्व स्वमाहरेत् ॥ परनिहितं निधि लब्ध्वा राजन्यकथ- यतोराज्ञा सर्वस्वनिधी प्रामो कथयतस्तु यथोक्तो वि- भागइत्वर्थः ॥ आकरविवाहावेकग्रन्थेनैव रक्षार्थमाह ॥ इनिर्णयः॥ वसिष्ठः । उदाहाकराँस्त्वागमयेत् ॥ कस्य केन विवाहो युज्यत इति विवाहव्यवस्थारक्षणार्थन्तथानिरूपयेत् आकरशुद्धिञ्च तदनुरूपकरग्रहणार्थ जानीयात् ॥ आकराधिकृताहि प्रायेण छामिकाभवन्ति ॥ अथ ग्रहणस्नानम् ॥ सुतेके मृतके चैव प्रस्तयो श्चन्द्रसूर्ययोः। अस्नायी मृत्युमाप्नोति स्नायी पापं न विन्दति ॥ इत्याचारचन्द्रलिखितवाक्यवलाद्यथा सुतके मृतके च ग्रहणस्नानादावधिकारस्तथा क्षति- नोभुक्तवतश्चास्तु प्रयत्नानपनेयत्वे नानयोरप्पशौच- योस्तदुभयप्रख्यत्वात् ॥ नच तत्र सूतकत्वं मृतकत्वं वा विवक्षितं वाक्यभेदापत्तरिति मैवं यावद्धचनं हि वाचनिकमित्येतदलेन वाचनिक- विधेायाननुशोधित्वात् । यदेकवाक्यतार्यन्तु सू. तकमृतकान्यतरत्वमेवावच्छेदकमस्तु द्वादशाहिक- गवामयनिकाद्यन्ताहान्यतरत्ववत् । वस्तुतस्तु वा. क्यमेवैतदनाकरमतोन किञ्चिदेतत् । शातातपः ॥ अहोरात्रन्तु नाश्नीयाच्चन्द्रसूर्यग्रहोयदा । मुक्तं दृष्ट्वातु भुजीत स्नानं कृत्वा विधानतः ॥ सूर्या चन्द्रमसोर्लोकानक्षयान याति मानवः । धौतपाप्मा विशुद्धात्मा मोदते तत्र देववत् ।। एतच्चाहोरात्रा- नशनं काम्यं फलोक्तः, कामनाविरहेतु रष्ट्वा ।। द्वैतनिर्णयः॥ श्नीयाच्च मुक्तयोरित्यभिधानादेव मुक्तयोश्चन्द्रसूर्य योरनुपदमस्तङ्गतयोरपि मुक्तिं प्रमाय भोक्तव्यं स्ना- वाश्नीयाच्च मुक्तयोरितिवचनात् ।। यत्तु स्नात्वा दृष्ट्वा परेन्यद्याअस्तास्तमितयोस्तयो रितिज्योतिर्व चनेन तथा चन्द्रार्कोपरागे नाश्नीया त्स्नात्वामुक्तयो रश्नीयाद मुक्तयोस्तयोरस्तङ्गतयोदृष्ट्वा स्नातापरे हनिचाश्नीयादिति विष्णुवचनेनच प्रस्तास्तयोर्मु क्तिदर्शनपर्यन्तमनशनमुक्तं तदावश्यकं निष्फलनि देशात् । अतएव ग्रस्तास्तयोश्चन्द्रसूर्ययोर्मुक्तिदर्शनप र्यन्तमभोजनं निष्कामकार्यमिति रत्नाकरोपीति ।। अथ वपनम् । प्रयागे वपनङ्कुर्यादित्युत्पत्तिवाक्य दर्शनेन लौकिकवाक्येऽपि करिष्य इत्येवयुक्तम् । न चास्मदायत्ते शब्दप्रयोगे किमित्यवाचकं प्रयोक्ष्याम ह इति वाच्यं आर्षपदप्रयोगे ऽस्मिन्नस्मदायत्तत्वस्यै वाभावात् तथाच गङ्गापतिष्यदित्यायुपक्रम्य वपन महङ्करिष्य इत्येव वाक्यं कार्यमितिकेचित् तन्न नहि प्रयागे वपनं कुर्यादित्युत्पत्तिविधिः, ऐन्द्रन्दधिभ- वत्यमावास्यायामितिवकर्मशरीरापरिचायकत्वात् । किन्तु सोमेन यजेतेतिवक्रियाविधिः। अस्त्वेवं तथा पि करिष्य इत्यत्र किमुत्तरं ॥ इदमुत्तरम् ।। केशानां यावती संख्याच्छिन्नानां जानवीजले । तावदर्ष द्वैतनिर्णयः । सहस्राणि स्वर्गलोके महीयत इत्यर्थवादः प्रयागे वपनं कुर्यादित्यत्र विधौ नान्वति । प्रयागगङ्गयोर्भे- दात् । नचैकवाक्यताबलाद्विध्यर्थवादाभ्यां प्रयागा वच्छिन्नमनायामेव वपनं प्रत्याय्यत इति वाच्यम् कियापिण्डदानेन काश्यां वा मरणेन किम् । किंकु रुक्षेत्रदानेन प्रयागे वपनं यदिइति प्रयागमुण्डनार्थवा दस्य पृग्थभूतस्यसत्वात्॥मुण्डनञ्च परिवापणं तथा च प्रयागे वपनं कुर्यादिति यदि विधिः तदापि वापने णिचोलोपेन वपने सिद्धे विध्यर्थवादैकवाक्यतया प- रिवापणे फलान्वयेन गयापिण्डदानजन्यफल समफल काशीमरणजन्यफलसमफलकुरुक्षेत्रदानजन्यफल स मफलप्राप्तिकामः प्रयागे वपनमहङ्कारयिष्य इति वाक्यं निर्वहति । प्रयागेच मुण्डनं गङ्गानरपेक्ष्येण, गङ्गायाम्भास्करक्षेत्रे मातापित्रोणुरोम॒तौ । आधाने सोमपाने च वपनं सप्तसु स्मृतमिति कालिकापुराण वाक्येन भास्करक्षत्रपदेन प्रयागक्षेत्रस्य गङ्गानिरपे- क्षस्यैव वपनाधारत्वप्रतिपादनात् । कुतस्ताहि गङ्गा- यांप्रयागे वपनं गङ्गायांभास्करक्षेत्र इति वचनादेव ।। हन्त तर्हि प्रयागानवाच्छिन्न गङ्गायामपि वपनस्यात्, न स्यात्, मुण्डनञ्चोपवासश्च सर्वतीर्थेषयं विधिः। वर्जयित्वा गयां गज विशाला विरजान्तथेत्यनेन १३६ ॥ढतनिर्णयः॥ गङ्गायां वपननिषेधात् ॥ यावन्ति नखलामानि वायुना प्रेरितानि वै । पतन्ति जाहवीतोये नराणाम्पु- ण्यकर्मणाम् ॥ तावद्धर्षसहस्राणि स्वर्गलोके महीय- ते । केशानां यावती संख्या छिन्नानां जाहवीजले। तावद्धर्पसहस्राणि स्वर्गलोके महीयते ॥ इत्याद्यर्थवा. देन गङ्गापरिवापणेपि फलप्रतीतेः एवञ्च प्रयागा- वच्छिन्नगढ़ायां परिवापणे आर्थवादिकंफलं तदन- वच्छिन्नगङ्गायान्तु परिवापणनिषेधात् ॥ अथाग- म्यदेशाः । तथाहि कारस्कराः कलिङ्गाश्च सिन्धो- रुत्तरमेवच । प्रनष्टाश्रमधर्माश्च देशावाःसदैवहि ॥ कृष्णसारो विचरति मृगो यत्र स्वभावतः । स यो यज्ञियोदेशोम्लेच्छदेशस्ततः परः ॥ विष्णुः ।। म्ले- च्छदेशं न गच्छन्न तत्र श्राद्धं कुर्वीत । कृष्णसार- चरोपि मगधादिरगम्यदेशः। तदुक्तं ब्रह्मचारिकाण्डे । आनर्सकाङ्गमगधाः सुराष्ट्रादक्षिणापथः । उपावृत् सिन्धुसौवीरा एते सङ्करयोनयः॥ तथा,आन्धान का: स्करान्वङ्गान्सौवीराङ्गकलिङ्गकान् । प्रासुराँश्च तथा गत्वा पुनस्तोयेन योजयेत् ॥ तेनैतेषां गमने पुनः संस्कारः ॥ तथा । अङ्गबङ्गकलिङ्गेषु सौराष्ट्रमगधेषु च । तीर्थयात्रां विनागच्छन् पुनः संस्कारमईति॥ (१) आवद्धान् कारस्करान् इति प्रथमचरणे पाठान्तरम् ।
॥ ईतनिर्णयः॥ तीर्थयात्राप्रसङ्गेनैषां गमनमदुष्टमित्यर्थः । तीर्थया- त्रां विनापि गङ्गाक्षेत्राद्यवच्छिन्नमगधादिसञ्चारे न दोषः । न श्मशानं न चादेशो गङ्गायां परिकीर्त्यत इतिगङ्गामाहात्म्यलिखनातकर्मनाशायास्तु सन्तरणं निषिद्धं धर्मनाशे कर्मनाशापारगमनवदित्याधेयश- क्तिस्थले शास्त्रलिखनात्।।मनुः। अज्ञानात्प्राश्यविण्मू त्रं सुरासंस्पृष्टमेव च । पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ।। पुनः संस्कारे विशेषमाह सएव, वपनं मेखला दण्डो भैक्षचर्याब्रतानि च । निवर्तन्ते दिजातीनां पुन:संस्कारकर्मणि ॥ होममात्र कार्य- मित्यर्थः ॥ अथ प्रशस्तकशाः॥ मासे नमस्यमा- वास्या तस्यां दर्भोच्चयोमतः । अयातयामास्ते दर्भा विनियोज्याः पुनः पुनः॥ एतद्वाक्यबलाड़ादामा- वास्याहृताः कुशाअयातयामाः,अन्यदातुन कुशोच योऽनभिधानात् । यत्तु । दर्भाः कृष्णाजिनं मन्त्रा ब्राह्मणाहविरग्नयः । अयातयामन्येतानि (वि)नियो ज्यानि पुनःपुनः ॥ इदमपि दर्भपदं भाद्रामावास्या हृतदर्भपरमेव, भिन्नवक्तृकयोः सामान्य विशेषवच. सोरेकमूलकल्पनानुरोधादिशेषविषयत्वमेव, एकव- स्त्तृ कयोस्तु तयोर्गोवलीवर्दन्यायेनान्वयः। तृतीये चतथा भागे स्नानार्थ मृदमाहरेत् । समित्पुष्पकु ॥तनिर्णयः॥ शादीनि स्नानञ्चाकृत्रिमे जले ॥ इत्यादिना प्र- यहं मध्याह्नस्नानालाकुशाहरणविधानात् । ए वञ्च ये कुशास्तहिनाहृता ये वा भाद्रामावास्या दृता उभयेषामपि तेषां कर्माहत्वं नत्वन्येषामन- भिधानात् एतेपि स्तरणासनपिण्डविनियुक्ताः कृत- पितृतर्पणाश्च त्याज्याः । स्तरणासनपिण्डेषु यैः कृतं पितृतर्पण मित्यभिधानात् ॥ द्वितीवस्वस्था- ने तृतीयमुपवीतं कुशरज्जु वेतिवचनात्तत्परमेव, नीवीचन्धे च ये दर्भा यज्ञसूत्रे च ये धृताः। पवि- त्रास्ताविजानीयाद्यथा कायस्तथा कुशाः इति ।। नहि रज्जुभूतवासः स्थानीयकुशातिरिक्त कुशधारणं यज्ञसूत्रे क्वापि श्रूयतइति ।। षट्पुरुषतर्पणे स्वधा नम इति वाक्यं । मात्रादितस्तु स्वधेत्येव, यदाह योगियाज्ञवल्क्यः ॥ यदि स्याज्जीवपितृक एता- न्दिव्यान्पित॒स्तथा । येभ्यो वापि पिता दद्यात्तेभ्यो वापि च दापयेत् । एताँश्च वक्ष्यमाणाँश्च प्रमीतपितृ- को दिजः।। बलूबुद्राँस्तथादित्यान्नमस्कारस्वधान्वि तान् । एते सर्वस्य पितर एवायत्ताश्च मानुषाः ॥ आचार्यान् स्वान्पिढ्श्चैव पितृप्रभृतिनामतः ॥ तथा माता मातृष्वसा चैव मातुलानी पितृष्वसा । दुहि- ता च स्वसा चैव शिष्यत्तिगज्ञातिबान्धवाः ॥ ना-.
॥ द्वैतनिर्णयः | मतस्तु स्वधाकारस्ताः स्युग्नुपूर्वशः। एतान दि व्यपितॄन वक्ष्यमाणान् स्वपितृन स्वधानम इति वाक्ये न तर्पयेत् । मातृतस्तु स्वधाकारेणैव सर्वा. स्तर्पयेदित्यर्थः । तेन कल्पतरुमते अमुकसगोत्रोऽ स्मपिताऽमुकशर्मा तृप्यतामिदं तिलोदकं तस्मै. स्व. धानम इति वाक्यम्, एवं वृद्धप्रमातामहान्तं, मात्रा दितस्तु स्वधाकारमात्र । रत्नाकरमते तु गोत्रस- गोत्रयोः पर्यायत्वेनामुकगोत्र इति पदिन्यायन स्व लाभारिपतति, तेनामुकगोत्रः पितामुकशर्मा तृप्य- तामिदं तिलोदकं तस्मै स्वधानमः इति वाक्यम्, एवं वृद्धप्रमातामहान्तं, तदनन्तरन्तु स्वधाकारमा- त्रम् । प्रदीपस्तु कल्पतरुवत् ॥ श्रीदत्ताहिकेतु सप- दास्मत्पदनमः पदानि न सन्ति तेनासुकगोत्रः पि तामुकशर्मा तृप्यतामिदं तिलोदकन्तस्मै स्वधा इति वाक्यम् ॥ एवं सर्वत्र ॥अत्र कल्पतरुमतमेव श्रेष्ठ मित्युक्तं प्राक् ॥ निर्दिष्टेष्वर्थजातेषु साक्षी चेत्साक्ष्य मागतः। न यादक्षरसमं न तन्निगदितम्भवेत् ॥ तथा ॥ न्यूनमभ्यधिकं वापि प्रब्युर्यस्य साक्षिणः । तदप्यनुक्तं विज्ञेयमेष साक्ष्यविधिः स्मृतः ॥ त्वं मह्यं हेम्नां शतस्य धारयः, मत्तः प्रतिदेयतया गृहीतता- वद्धेमकत्वात् इति भाषायां नेत्युत्तरे अ\पन्यस्ते:
॥ द्वैतनिर्णयः॥ : न साक्षिणा अनिगदे न्यूननिगदे अधिकनिगदे संख्यारहितद्रव्यनिगदे वा नैकतरस्यापि वादिनः प्रतिज्ञातार्थे सकले सत्यप्रतिज्ञत्वलक्षणो जयो भव- ति तेनैते सर्वेअनिगदाः । यस्तु निगदः कण्ठतोऽर्थ- तो वा एकतरस्य वादिनः सकलप्रतिज्ञातार्थविज- यपरः ससन्निगद उच्यते । अयन्तु विशेषा यन्न्यू- ननिगदे तावत्यंशेर्थिनोजयएव । प्रतिज्ञातानि- भिव्यापकतया तु सकल जयाप्रतिपादकत्वनानिग- दोक्तिः, तथाचान्यतखादिप्रतिज्ञातार्यसकलजयपर- त्वमिह सन्निगदत्वं तव्यतिरेके त्वसन्निगदत्वं न्यूनाभिधायीतु प्रामाण्यसम्भावनया परिगृह्यते अधिकाभिधायी तु स्फुटप्रमादत्वेन अज्ञानाभिधायी मूकश्चार्थास्पर्शात्परिगृह्यतेऽपि नेति प्रदीपपवित्री- कृतः पन्था ॥ ननु यस्याशेष प्रतिज्ञातं साक्षिभिः परिवर्णितम् । स जयी स्यादन्यथा तु साध्यार्थ न समापयेदिति वचनादनिगदाल्पनिगदौ भङ्गएवेति चेन्न न समापयेदित्यनेनासमापनाभिधानेन व्यति- रेकसमापनस्याभिधानात् नञश्च क्रियान्वयात् । तिस्रो हि कोटयो भवन्ति स्वपक्षावधारणं परपक्षा- वधारणमुभयानवधारणञ्चेति । अथ ततोर्थी लेख- येत्मद्यः प्रतिज्ञानार्थमाधनम् । तत्सिद्धौ सिद्धिमा-
॥ द्वैतनिर्णयः
प्नोति विपरीतमतोन्यथति याज्ञवल्क्यवाक्ये अर्थी
प्रतिवादी सतावत्कृतकारणोत्तरः तत्र प्रमाणमाह
तस्य तु सिद्धौ सिद्धिं विजयं प्राप्नोति अतोन्यथा
तस्य प्रमाणस्यासिद्धो विपरीतं भङ्गमाप्नोतीतिता
वदर्थस्तत्कथं तृतीया कोटिर्भवत्विति चेन्न इदं हि
वाक्यं नागमवत्स्वतः प्रमाणं किन्तु न्यायोपष्टम्भेन
तदुक्तं केवलं शास्त्रमाश्रित्य न कर्तव्यो विनिर्णयः।
युक्तिहीनविचारे तु धर्महानिः प्रजायत इति ॥ अ
ज्ञाननिगदादो तु न भांशे न्यायः । अज्ञातस्य
जयभङ्गयोायाविशेषात् अतएवान्यथावादिनो
विपरीतवादिनइति रत्नाकरेपि विवृतम् । अन्यथा
संख्याभेदस्य देशभेदस्य कालभेदस्य वा निगदाद
नेकविधोन्यथावादस्तत्र च सर्वत्र भङ्गइत्यभ्युपगमे
कथं रत्नाकरकृदन्यथावादं समकोचयत् तत्वनिर्णय
स्यावश्यकर्त्तव्यत्वाच्च ।। ननु तत्त्वनिर्णयो न शक्यः
तथाहि परम्परीणमेव स्वक्रीतत्वेनाक्षिप्य नेत्युत्तराववो
धेसत्यर्थी साक्षिणं निगादयति सचायमनेनन क्रीत
इति निगदति तत्र साक्षिणोऽन्यथावादेन भाषितुर्दा
सस्वामिन एव भङ्गो भवति तत्कथं तत्त्वनिर्णय इति
उच्यते वाद्युक्तसाधनप्रयुक्तस्तदुक्तसाध्यनिर्णयस्तथा
वादकथोक्तहेत्वाभासप्रयुक्तः साधाभावनिर्णयस्तत्व
॥ द्वंतनिर्णयः ॥ निर्णय इत्युच्यते ॥ यस्मिन्माण्डे आमिष शृतं तस्मिन्भाण्डे यत्साधितं तद्ब्रह्मचारिणा न खाद्यम् आमिषस्य तु योभाण्ड पश्चमश्नातिमवती । कुशमूलविपक्धेन यह क्षीरेण वर्तयेदिति हारीतवचनात् ननु स्त्रीणां न पार्वणं न यो. पियः पृथग्दद्यादवसानदिनादृते । स्वभर्तृपिण्डमा त्राभ्यस्तमिरातां यतः स्मृति निषेधस्मृतः गया- न्वष्टकादौ तु श्राद्धं विशेषवचनात् । घुसान्तु पा- वणं सकलपत्रकर्त्तव्यं कतिपयकर्तव्यमौरस यात्रकर्त्तव्यं वेति ॥ ननुचा पुत्रा ये मृताः केचिस्त्रियो वा पुरुषाश्च ये। तेषामपि च देयं स्यादे कोदिष्टं न पार्वणमित्यत्र पुत्रपदमौरसपरमत और सेनैव पार्वणं कर्तव्यं न पुत्रिकापुत्रादिना तेषाम- मुख्यपुत्रत्वेन पुत्रपदस्य तत्र लाक्षणिकतया युग- पदुभयाभिधाने युगपद्धृतिद्वयविरोधापतेरिति मैवं एवं हि सति पुत्रिकापुत्रे मातुः प्रथमतः पिण्डं नि वपेत्पत्रिकासुतः । इत्यादि पार्वणापदेशविरोधः स्यात् ।। ननु तर्हिस करोतु, क्षेत्रजादिर्माकार्षीदिति चेत् न त्रयः पिण्डाश्च पण्णां स्यरित्यादिना तस्यापि पार्वणोपदेशात् ।। अस्तु सोपिपार्वणाधिकागति चेत् दत्तकस्यापि पार्वणोपदेशात्, तथा च औरसपुत्रिका ॥ देतानमः ॥ पुत्रक्षेत्रजदशकानाचतुपर्णापि तदधिकार कथ न त्वन्मते युगपत्तिद्धयविरोधः स्यात् । किञ्च पितुः पुत्रेण कर्तव्यापिण्डदानोदकक्रियतिवाक्ये पुत्रेण द्वादशानिधनति रत्नाकरख्याख्या कथं घटतां युग- पदवृतिद्धयाविरोधात् किञ्च पुन्नामनरकवाणकर्तृ पुरुषत्वं पुत्रपदे प्रवृचिनिमित्तं तच्च द्वादशस्वप्य विकलमेघा हन्तै द्वादशापिपुत्राःपार्वणाधिकारिणः स्युः तेषामन्यतमसत्वेपि प्रमीतस्यापुत्रत्वाभावात् मैवम् अपुत्राणां न पार्वणमित्यनेनापुत्राणां पार्वणं निपिच्यते न तु सपुत्राणां पार्वणमनेन विधीयते उभयार्थपरत्वे वाक्यभेदापत्तेःमा विधायि न्यषेध्यापि न तेषामपुत्रत्वाभावात्, तथा च केषां पार्वणमिति मुहावन पृच्छामीति चेत् येषामयमधिकारी पुत्रः पौत्रः प्रपौत्रश्च तेषामयं पार्वणकृत् औरसक्षेत्रज पुत्रिकापुत्रदस्तिमास्त्वेवं, कृत्रिमादयस्तु नैवं सहि पुत्ररस्य पुत्रो भवति नतु तपितुः पौत्रःन दा सोऽस्य पितामहः अस्य हि वाचनिकं पुत्रत्वं तत्तु यावद्वचनमेव न ह्यौरसक्षेत्रजपुत्रिकापुत्रवदन श- रीरान्वयोस्ति । कथन्तर्हि दत्तककर्तृकं पार्वणं तस्यापिशरीरान्वयाभावात् । ऋक्थगोत्रे जनयितु- न हरेदत्रिमः सुत इत्यादिना तस्य गोत्रपरीवर्ताभि ॥ नानणय ॥ तु धानेन कुलपरीवर्त्तस्याप्यभिहितप्रायत्वात् उत्तरे णव पित्रा तस्य षट्पुरुषत्वसिद्धेः ॥ यत्तु एकपाकेन वसतां पितृदेवद्विजार्चनम् । रकम्भवेद्विभक्तानान्त देव स्याद्गृहे गृहइतिवचनादौरसनामेव पार्वणा- धिकार इति नन्न दत्तकादौ गृहीते पश्चादौरसे जाते एकपाकन तेषां वासे पश्चाद्रिभागे पृथक् पञ्चयज्ञा चरणे औरसानौरसानामपि प्रकृतवाक्यार्थसम्भ- वात् । औरसे जाते दत्मिादयोपि भागभाजः। सर्वेशनौरसस्येते पुत्रादायहराः स्मृताः। औरसे पुर्नजाते ज्यैष्ठ्यन्तेषां निवर्तते इत्यादिना औरसस- खे ज्येष्ठत्वं निषिद्धयते अंशस्तुतेषांलघुर्भवत्येव । अपुत्रेण सुतः कार्यों यादृक्तादृक् प्रयत्नतः । पिण्डो दकक्रियाहेतो मतङ्कीर्तनस्यचेत्यत्राप्यपुत्रेणेत्यस्य औरस पुत्रिकापुत्ररहितेनेत्यर्थः ॥ आज्यं विना यथा तैलं सद्भिः प्रतिनिधीकृतम् । तथैकादश पुत्राः स्युः पुत्रिकौरसयोर्विनेति बृहस्पतिना औरसपुत्रिका पुत्रयोईयोरेवाभावे पुत्रान्तरस्य प्रतिनिधिभृतस्यो. पादानविधानात् । एनञ्चैतयोईयोरेकवाक्यता- नुरोधादपुत्रेणेति पुत्रपदमौरस पुत्रिकापुत्रपरमेव ।। किन्तु क्षेत्रजादयो न पुत्राः किन्तु यवाभावे गोधू मवत्तत्प्रतिनिधयः, तदुक्तम् । क्षेत्रजादीन सुतानेता इसनिर्णयः नेकादश यथोदितान् । पुत्र प्रतिनिधीनाहुः क्रिया लोपान्मनीषिण इति ॥ एते हि प्रतिनिधयः क्रिया लोपपत्रादुवादीयन्ते । तथा हि अपत्यमुत्पाद नीयमित्ययं तावद्गृहस्मथविकृत्य विधिः प्रवर्तते। जायमानो हि वै ब्राह्मणस्त्रिभिष्टगणवाजाय- ते ॥ इति श्रुतेः । जायमानोगृहस्थः, सम्पद्यमान इति तदिवरणाच्च ।। साचापत्योत्पादनक्रिया गृह स्थस्यावश्यकी नरकपातहेतुपितृऋणस्यापाकरणी यत्वात् । नित्ये च विधौ मुख्यासम्भवे प्रतिनिधेरुपा. दानं युक्तमेव सोमालामे प्रति कोपादानवदिति ।। अत्रोच्यते, बहूनामे जातानामेकश्वेत् पुत्रवान्भवे त् । सर्वे ते तेन पुत्रेग पुत्रिगो मनुस्वधीत्।। बहीना मे ऊपत्नीनामेका चेत्पुत्रिगी भवेत् । सर्वास्तास्तेन पुत्रेग प्राह पुत्रवतीर्मनुः ॥ इत्यादिना तावत्सति भ्रा तृने पुंसः , सति च सपत्नीपुत्र स्त्रियाः पुत्रित्वमति दिश्यते, अनिदेशश्च न स्वयस्य सम्भवति तत्र हि स्वरूपसत्वे उपदेश एव स्यात् । तस्मात्पुत्ररहिते पुत्रिधर्मातिदशोऽयम् ॥ सच धर्मः पुंसामपुत्रत्वप्रयु क्तनरकपात ऋगत्रयग्रस्तत्वाद्यभावः, स्त्रिवाञ्च स. पिण्डीकरणाहत्वमिति । ननु फले भ्रातृजोत्पत्त्यादि ना सिद्धेशप- नित्यविधिविषयीभूतपित्योत्पादन , ॥ तनिर्णय भावनायास्तथाप्यसिद्धरपत्योत्पादना कार्यवति चे- न्मैवम् अपत्यमुत्पादनीयमित्ययविधिः, सन्ध्यामु. पासीतेति वन्न नित्योयेन तद्वदपत्योत्पादनं कर्तव्य मेव किन्तु फलस्यावश्यमुपादित्सितत्वेन तदुपा. थोऽप्यवश्यानुष्ठेय इति । तथा च फलं चेदन्यतएव जातं तदा तदिच्छानुदयादुपायेच्छाऽपि व्यरंसीदि ति कथमुपाये प्रवर्ततां प्रवृत्तिकारणीभूतेच्छाविरहा दिति ॥ अतएव सति भ्रातृजे सति च सपत्नीपुत्रे कृत्रिमादयो नोपादेया इत्यसहायोदयकरपारिजात रत्नाकरादयोऽप्याहुः ॥ ननु एष्टव्या बहवः पुत्राइत्यादि स्मरणादौरसवत्कृत्रिमादयोबहवउपादी येरन्निति चेन्न अत्र पुत्रपदस्यौरसपरत्वात् अश्वमे घसाहचर्यात् । तत्र हि यजमानस्य पितर्यपि स्वर्गः॥ हन्त तर्हि युधिष्ठिरः कथमश्वमेधमकरोत् नहि सक- स्याप्यौरसः, कुन्ती वा कथं त्रीन् क्षेत्रजानुपात्तव- तीति चेत् ते हि देवकल्पास्तेन तेषामाचारोन पुर- स्करणीयो न वा तिरस्करणीयः । तदुक्तम् । कृतानि यानि कर्माणि देवतैर्मुनिभिस्तथा । नाचरेत्तानिध मात्मा श्रुत्वा चापि न कुत्सयेदिति ॥ बहीनामेकप- लीनामिति वाक्येन सपत्नीपुत्रे पुत्रत्वमतिदिश्यते अत्र बहीनामेकपत्नीनामेषएवविधिः स्मृतः । एका ॥ द्वैतनिर्णयः॥ मोऽतिदिश्यते, तस्य च फलं भ्रातृजे मनि कृत्रिमाद्य करणम्, स्त्रियान्तु पुत्रिणीधर्मोऽतिदिश्यते तस्यतु फलं सपिण्डनाईत्वादीति ॥) विष्णुः ॥ सपिण्डी. करणं मासिकार्थववादशहं कृत्वा त्रयोदशेह्नि कुर्यात् मन्त्रार्ज शूद्राणां द्वादशेह्नि सम्बत्सराभ्य- न्तरे यद्यधिमासपातो भवत्तदामासिकार्थन्दि. नमेकं वर्द्धयेदिति । अस्यार्थः । द्वादशाहं प्रतस्या- प्यायनरूपप्रयोजनशालि कृत्वा त्रैवर्णिकस्त्रयोदशे- तिसपिण्डीकरणं कुर्यात्, शूद्रस्तु दादर्शति तदपि वैदिकमन्त्रार्ज । अत्र मरणदिनाद्वर्षपूर्तिपर्य- नां यद्यधिमासः पतति तदा मलमासीयमासि- कार्थन्दिनमेकमधिकं कर्त्तव्यं तेन त्रैवर्णिकेन च- तुर्दशदिने शूद्रण तु त्रयोदशदिने सपिण्डीकरणं का यमिति प्रतिहस्तकाः। वस्तुतस्तु मलमासपातपि त्राणि फेन त्रयोदशएव दिने शूद्रेण तु दादशएव दिन सपिण्डीकरणं काय मलमासस्थानपतितं तु दिने मासिकद्धयं, मासिकार्थवडादशाहं कृत्वा त्रयोदशे.. हि कर्यादिति नित्यवच्छ्रवणात् । नचंदं मलमासपा. तमात्रपरं, सङ्कोचायत्तेः । अथ बादशमासके वर्षे- मासिकानां द्वादशदिनानि गणनासिद्धान्येव तेन त्रयोदशमासके वर्षे मासिकानां त्रयोदशदिनानि ॥ देतानर्णय।। भान्विनिवेत् अस्लेव तथापि मामिकार्थन्दिन- में वर्द्ध दिति मामिविशिष्टदिनविधि : दिन- मात्रविवि मासिकमात्रविधिर्वा । नाद्योगौरवा त्। नचानन्यगतिकवान्नायन्दोषोऽन्यथोपपत्ताच्य- वात् । नापरः, तथासति ऋष्यशृङ्गवचनेन त्रयोद- शमामिकनिषेध केन सहास्य विकल्पशङ्कापिन विषमशिष्टत्वाभावात् । केवलदिनविधिविफल इति तस्माच्चरमः पक्षाज्यायानिति दिक् ।। तदयमत्रा नुष्ठानकमः। यदि बादशभिर्दिनासिकानि तदा मलमासस्थानदिने मासिकद्धयं, कल्पान्तरेषु तु स. र्वेषु शेषे त्रयोदशं मासिकमिति ॥ प्रेतोड शीच दादशप्रतिमास्यानीत्यादिना कात्यायनो- क्ता एका नृगान्तु त्यक्तदेहानामित्यादि ब्रह्मपुराणो क्ताऽपरा, अनयोस्तु विकल्पः प्रेतत्वविमुक्तिरूपे फले परस्परनिराकांक्षतया एकैकमन्वयात् ब्रीहियववत् । अयञ्च विकल्पोन तावदव्यवस्थितोऽष्टदोषग्रासात् । नापि शाखाभेदेनोदितानुदितहामवद्ध्यवस्थितः, तेनावीरापारशवयोंब्रिह्मपुराणीयएव कल्पःबाधकामा पात् । तयोश्च सपिण्डीकरणनिषधेन तद्घाटितस्य कातीयकल्पस्य तत्राप्रवृत्तेः, अन्येषान्तु कातीयए वेति ॥ अस्त्वं तथापि सपिण्डीकरणे तात्सावका T । दूतानिणय ॥ शतया निषेधशास्त्रं लगति तेन यस्य प्रेतस्य सर्वेषुस- पिण्डनदिनेषु निषिद्धनक्षत्रान्वयः तस्य तावत्सपिण्ड- नं नास्ति निषेधविरोधात् तेन तम्य ब्रह्मपुराणीयएव कल्पः॥ ननुतस्यापि वत्सरान्ते निषिद्धनक्षत्रेपि सपि- ण्डनमनन्यगतिकत्वादितिचेत् अस्त्वेवं तथापि येना- दावेव सपिण्डनकालानिषिद्धनक्षत्रवन्तोजगताःस- किङ्करोतु।न तावन्निषिद्धनक्षत्रेपि सपिण्डीकरणमेव, सपिण्डीकरणान्तानि प्रेतश्राद्धानि षोडश । यथा कालन्तु कार्याणि नान्यथा मुच्यते तु स इतिनिन्दा वचनात् तस्मादगत्या पितुरपि ब्रह्मपुराणीयकल्पा चरणमेव परिशेषादिति ॥अत्र कल्पे, चतुर्थे पञ्चमे चैव नवमै कादशे तथा । ततो द्वादशभिर्मासैः श्रा- द्धाद्वादशसंख्यया ॥ इति श्रवणात् ॥ अत्र चतुर्थत्वं मरणदिनापेक्षया, प्रेतकृत्ये तस्यैवावधिवेन द्राक्स तीतेः ॥ ननुचावीरामरणाशौचात्ययेऽधिकारिणा त- वणे श्राद्धलापः स्यात् तन्मरणावधिकचतुर्थदि- नाद्यप्राप्तरिति चेत् न मरणपदेनात्र प्रकृताशौचाद्य दिनस्य विवक्षितत्वात् । अत्र च कल्पे अशौचोत्पत्ति- दिनाचतुर्थे दिने सङ्कल्पः स यथा ओं अमुकगोत्र. स्य अनुकशर्मप्रेतस्य अमुकदेवीप्रेताया वा प्रेतत्ववि. मुक्तिकामोऽद्यादियथाकलं षोडशश्राद्धान्यहङ्करिष्ये ।
देशनिर्णय ततः ओं अद्यामुकगोत्रस्यामुकशर्मप्रेतस्य अमुक देवीप्रेताया वा प्रेतत्वविमुक्तिहेतुपोडशश्राद्धान्तर्ग- तवतुर्थदिन श्राद्धमहङ्करिष्ये । ब्रह्मपुराणोक्तरीत्येति तु न कर्त्तव्यं अन्यथा कातीयेपि कात्यायनोक्तपोड शश्राद्धानीति वाक्यशरीरं स्यात् ॥ एकादशाहे क. ल्पा न्तरस्याप्रसक्ततया वारणीयाभावान्न तथा कि- यत इति चेत् तुल्यमिहापि नहि चतुर्थदिवसे ब्रह्मपुरा- णोक्तकल्पादन्यस्यारम्भः प्रसज्यते॥ अत्र च यदेको दिष्टमशौचव्यपगमे प्रथमतआयाति ततः प्राक् श ग्याकाञ्चनपुरुपदाने दम्पतिपूजा वृपोत्सर्गों कपि- लगवीदानञ्चाविरुद्धानीनि प्रकृताशौचव्यपगमे तेषां पञ्चानां काम्यानां विधानात् । अत्र तु कल्पे मासिकानि नापकृष्य क्रियन्ते । ततो द्वादशभिर्मा. सैः श्राद्धादादशसङख्ययेत्यभिधानात् समयान्तर- स्य चानभिधानादिति।।एकादशमामाभ्यन्तरे त्वधि- मासपाते अत्रापि विष्णूता मासिकवृद्धिरिति । ए- केन पुत्रेणारब्धा षोडशी तस्यापचारेऽपरेणापि समापनीया अधिकारिकृतषोडश्याएव लाघवेन प्रेत खविमोचकत्वात् नवेकाधिकारिकृतषोडश्याः, गौर- वेगैकवस्यानादेयत्वात् । नच सपिण्डीकरणं मा- सिकार्यवहादशाहं कृत्वा त्रयोदशेति कुर्यादित्यत्र तमिर्णय क्वावलात्ममानकर्तृकताप्रतीतेरेककर्तृकत्वसिद्धी एकाधिकारिकृतत्वं प्रमाणालिङ्गितमतावपि न हेयमिति वाच्यं नद्यत्र कत्रभेदोपि विधयः समा- याकांक्षायामस्यप्रवृत्तेः तस्मादेककर्तृकत्वमविवक्षित मनाकाक्षितत्वात् पक्षप्राप्तानुवादोवा ।। अथ सप्त- दशावराः सत्रमुपासीरन् यएव यजमानास्तएव ऋ विजः इति तावत्सत्रे श्रूयते तथाच तत्रैकतमाप- चारे न ऋत्विगन्तरकरणं किन्तु साम्युत्थानं अधि कारिलोपात् तथाऽत्राप्यस्तु अन्यथैतद्धत्सोप्यधि- कारिलोऽधिकार्यन्तरकल्पने आसहस्रवर्ष सत्रमु- पासीन्नित्यत्र सहस्रपदं मुख्यार्थकमेव स्यात् त- थावापसिद्धान्त इति सत्राधिकरणविरोधान्नैवमि- तिवेत् न सत्रे हि स्वगतफलकामोधिकारी सएव नियोज्यः सएव च कर्ता तेन तेषामेकतमस्यापचारे युक्तं साम्मुत्थानं अत्र तु पितृगतफलकामनया- ज्येष्ठ पत्तदाचारे कनिष्ठोप्यधिकारी ततः स्वविशे- पगवत्ताप्रतिसन्धानजन्य कार्यताज्ञानाश्रयत्वात्सनि योज्योपि ततः काभवतीति न किञ्चिदनुपपन्न- म् ॥ ननु यद्यप्यस्याधिकारित्वक त्वनियोज्यत्वा- नि सम्भान्नि थापि फलकामनापूर्वधः कुशनिल जलत्यागोनाभत् सोपि च शास्त्रार्थ इति प्रक्रमाधि ॥ ईननिर्णयः॥ करणे उत्पादितं तथाच तद्रूपस्याङ्गस्य विरहादिदं कनिष्ठन शेषेऽनुष्ठितमपि निरर्थक स्यात् इतिचेन्म- वं काम्ये करणीभूतस्य विषयत्वं करणीभावश्च सर्वा सम्पन्नस्येति तिर्यगधिकरणे सिद्धान्तनादतस्त था, आवश्यके हि विषयीभूतस्य करणत्वं विषयीभा- वश्व प्रधानमात्रस्य सन्ध्यामुपासीतेत्यादौ सन्ध्या वन्दनक्रियायाएवविषयीभावप्रतीतेः तेन तत्राङ्ग हानावपि फलसिद्धिरितिसर्वशक्त्यधिकरणे सिद्धा न्तनात् अतएव नैमित्तिक्यां स्फ्याश्लिष्टेज्याया मावाहनवाधेपिफलंम् ॥ एषा शेषक्रिया शेषस्य पुत्र- स्यावश्यकीत्यत्रार्कि प्रमाणं, मृते पितरि पुत्रण क्रिया कार्या विधानतइत्येव पितृमरणरूपेण निमित्तेन क्रियां विदधत् ॥ अस्य च यथाधिकारित्वनियोज्य त्वकर्तृत्वानि तथोक्तमितिदिक् ॥ अहरहः क्रियमा णं नित्यमिति न, दर्शश्राद्धादेरपि नित्यत्वात् किन्तु यत्र शुचिविहितकालजीवित्वप्रयुक्तोऽधिका- रः तन्नित्यं यथा दर्शश्राद्धादि, यत्रतु तस्मिन् सति निमित्तत्वमनुष्ठाने तन्त्रं तन्नैमित्तिकं यथोपरा- गश्राद्धादि, इदञ्चदयमप्यावश्यक अनोभयस्मि- नपिसर्वाङ्गानुष्ठाननियमः, नित्यनैमित्तिके कुर्या. प्रयतः सन्मलिम्लुचे । तीर्थस्नानं गजच्छापां प्रे.
। द्वैतनिर्णयः॥
तश्राद्धन्तथैवव च। तीर्थस्नानादौ त्रिके कुर्यादित्य
नुषङ्गः, तीर्थस्नानं यदत्र कर्तव्यतयोक्तं तदावृत्तं,
अनावृत्तस्य, मलिम्लुचेप्यनावृत्तं तीर्थस्नानमपि
त्यजेदित्यनेन निषेधात् आवृत्ते तीर्थस्नान अशुभ
जनकत्वमात्रमनेन विधिना पर्युदस्यते तीर्थस्नान
विवाहदेवभवनं मन्त्रादिदेवेक्षणं दुरादेव जिजीवि
पुः परिहरेदित्यनेन ज्योतिर्वचनेनानावृत्ते अशुभ
जनकत्वावगतेः काम्यफलाजनकत्वं त्वनावृत्तावृत्त
स्नानादौ सर्वत्रैव, तस्य काम्यगोदानादिसाधार
ण्यात्, दानरत्नाकरमहादाननिर्णयादयोप्येवं ॥
पूर्वराशिं यदा त्यक्त्वा अपूर्ण वत्सरे गुरुः । अपरं
राशिमायाति लुप्तकालः स उच्यते ॥अतीचारं गतो
जीवस्तं राशिं नेति चेत्पुनः । लप्तः सवत्सरोज्ञयो
अनर्हः सर्वकर्मसु ॥ लुप्तोत्राशुद्धइत्यर्थः। तथा ।
अतीचारगतोजीवः पूर्वभं नैव गच्छति । नाचरेत्तत्र
कर्माणि तदातत्रैव संस्थिते । तथा, कृत्वातिचारं यदि-
पूर्वसर्शि नायाति मन्त्री विबुधाधिपानरम् । दानं
विवाहं ब्रतबन्धगेहं सर्वं तदा हन्ति मतं मुनीनाम् ।।
तथा । सिंहस्थं मकरस्थञ्च गुरुं यत्नेन वर्जयेत् ।
इत्यादीनि सामान्यवचनानि रत्नाकरादिमिःसर्वे व
संगृहीतानि । विशेषवचनानि तु, शुभं भवनमागत्य
। तनिर्णय ॥ यदातिकमते गुरुः। तत्र चोदाहिताकन्या सुखं भर्तुः प्रमोदते ॥ तथा । अतीचारगते जीवे वृषे वृश्चिक कुम्भयोः। तत्र चोदाहिताकन्या संप्रीणीयात्फुलद्ध- यम् ॥ कन्यावृश्चिकमेषेषु मन्मथेऽथ वृषे झरे । अती चारेऽपिकर्तव्यं विवाहादिबुधैः सदा ॥ तथा । वका तिवक्रावथवातिचारं करोति जीवोजमतोहिताय । यदा तदा प्राह शुभे विलग्ने हिताय पाणिग्रहणं वसि छः ॥ तथा, मकरस्थो यदा जीवो वर्जयेत्पञ्चमां शकम् । शेषेष्वपि च भागेषु विवाहः शोभनोमतः ॥ अत्राहुः एतानि यदि समूलकानि स्यु स्तभिः सामान्यवचनानां श्वेतं छागमालभेतेत्यनेन न हिं स्यात्सर्वाभूतानीत्यस्येन सङ्कोच कोनाम नाभ्युपे यात् किन्तु एतानि विशेषवचनानि निर्मूलान्येव अज्ञातमूलानि सन्दिग्धमूलानि वा रत्नाकरमहा दाननिर्णयकारादिभिः सबैरव प्रामाणिकैरनादर- णात् ॥ यत्तु ज्योतिनिबन्धेषमीषां विशेषवचना नामुपनिबन्धनं तत्प्रतीयमानत्वमात्रेण नहि ते मीमांसाभियुक्ताः येन तल्लिखनबलेनामीषां समूल स्वमवसीयेत, अन्यथा कन्यांगते सवितरि दिनानि दश पञ्च च। पार्वणेन विधानेन तेषु श्राद्धं प्रदीयत इत्यादिवाक्यदर्शनाचतुर्दश्यामपि पार्वणं स्यात् ।।
॥ द्वैतनिर्णयः॥ तथा, अर्धेऽक्षय्योदके चैव पिण्डदानेऽवभेजने । त. न्त्रस्य विनिवृत्तिःस्यात्स्वधावाचन एवचेत्यादि दर्श नादन्नोत्सर्गादौतन्त्रतास्यात् । तथा ॥ गङ्गां प्राप्य- मरिच्छेष्ठां मुण्डनं योन कारयेत् । क्रिया तस्याक्रिया सर्वा तीर्थद्रोही भवेन्नरः॥गङ्गां प्राप्यसरिच्छेष्ठां कम्पन्ते पापसञ्चयाः। केशानाश्रित्य तिष्ठन्ति तस्मात्तांस्त त्र वापयेत् ॥ इत्यादि वचनानायां क्वापि मुण्डन मावश्यकं स्यात् ॥ अथ मकरगुर्वादो यद्विवाहादि- विधायकं वचनं तदाचारविरहादनादेयमिति यदि तदातीचारेपि तद्विधायकवचनान्यनादेयान्येव प्रामाणिकाचारविरहादिति ॥ अतएव,मलिम्लुचगुरु शुक्रवाल्यवार्द्धकास्तमयसिंहमकरान्यतरगुरुस्थिति वैराश्यनागतातीचारिगुरुकवत्सरपूर्वराश्यागमिष्यद- तीचारिगुरुकपक्षत्रय वक्रिगुरुकाष्टाविंशतिवासरकत्वा द्यद्भुतोत्तरसप्ताह गुर्वादित्य सिंहादित्य पोषादिमास चतुष्टयान्यतमैकद्वित्र्यन्यतमदिनाधिकरण वृष्ट्युत्तरै- कत्रिसप्ताहान्यतमदिनादिरशुद्धःसमय तदन्यःशुद्ध इति दानरत्नाकरमहादाननिर्णयादौ सिद्धवल्लिखि तम् । देवज्ञवान्धवे तु यद्यप्यपवादकवचनशामाण्ये सति कन्यावृश्चिककुम्भमीनमेषवृषरि गुरोर्म हातीचारे विवाहादौन दोषइति गम्यते ताप बहु- । द्वैतनिर्णयः॥ तरनिषेधवाक्यदर्शनात् सिंहमकरगुरुवदत्रापि प्रवृत्तिनिवृत्ता न चाहतीति । यतः । अतीचारेण यो राशिर्लवितोदेवमन्त्रिाणा । तत्राद्योवत्सरोलु- प्तो अनहः सर्वकर्मस्वितिवचनेन तद्वत्सरस्य लुप्त- खमशुद्धत्वमितिसिद्धं । तच्च केनापि नापोदितं तथाच यदत्सरलोपे विवाहाद्यभ्यनुज्ञानं तदेतद्रा- शिव्यतिरिक्तराशायुवतीचारस्यात्यन्तनिषिद्ध परंतु वृषादिराशौतदतीचारस्य सत्वे विवाहादिविधि परमशुद्धसमये विवाहकरणस्य सदोपत्यनियमात् ।। यथा वरं विषं मुंव मा चाण्डालगृहे भुक्था इत्यस्य न विषभक्षणाभ्यनुज्ञानमर्थः किन्तु चाण्डालगृहभ- क्षणस्यात्यन्ताकरगीयत्वमर्थः ॥ श्रीपतिसंहिताया न्तु व्यवहारोपबृंहितमेव वचनं मया लेख्ये न तु व्य- वहारविरुद्धमिति प्रतीज्ञायातीचारे विवाहोपनय नादिनिषेधकान्येव वचनानि लिखितानि नतु त- दपवादकानि प्रतिप्रसवाचनानि, तथा च व्यवहारा स्पृष्टतया तानि वचनानि न प्रमाणमिति तस्याशयः।। अतएव रत्नातल्यां सुधाकरमहामहोपाध्याया अपि निषेधापवादकानि वचनानि व्यवहारविरुद्धानीत्य भिधाय निरास्थन्निति ।। वस्तुतस्तु स्मृतीनां प्रा. माण्यं महाजनपरिमहादवसीयते सचात्र प्रतिप्रसव ॥ द्वैतनिर्णय. स्मृतीनां नास्ति किन्तु ग्रन्थोपनिवन्धनमात्रमस्ति तच्च यूपद्विरदादिस्मृतिथप्यस्ति, नच तावन्मात्रेण प्रामाण्यं, तत्रैव व्यभिचारात् ।। अथ तदत्रका न्तिकोव्यवहाराभावोनास्ति किन्तु प्रादेशिकइति चेत् तर्हि संशयास्तु प्रामाण्यमूलयोः॥ ततः किमिति चेत् अननुष्ठानं नहि मूलसंशये प्रामाण्यसंशये वा अनुष्ठानं सम्भवति । अनेनैवाशयेन कल्पतरुकृता प्रचरदपि वाक्यमज्ञातमूलमुपेक्षितं, प्रतिज्ञातञ्च, न्यस्तं विज्ञातमूलं प्रचरदपि परित्यक्त मज्ञातमूलमि ति ॥ अथ मलमासे आवश्यककर्ममात्राचरणं क्षय- नामके तु नैवं, विकृतमासत्वन्तु द्वयोः समानमेव, तत्कथमीदृशं वैलक्षण्यमिति उच्यते, मलमासोह्य- संक्रातोऽयन्तु द्विसंक्रान्तः। तदुक्तं । असंक्रान्तमा सोधिमासः स्फुटं स्याहिसंक्रान्तमासः क्षयात्यः क- दाचित् । स च मेषादिषदके तुलादिषट्के वेत्यत्राह । क्षयः कार्तिकादाविति । तुलादिपदके धिमासपाते सति उपान्त्यपर्यन्तं विकृतमासःक्षयनामा अन्तिम- स्तत्रापि मलमासएव । तदुक्तं भीमपराक्रमे, त्रयो दशन्तु श्रुतिराह मासं चतुर्दशः क्वापि न दृष्ट। एकत्रमासद्वितयं यदि स्यादन्देऽधिकं तत्र परोधि- मास इति । अत्र हि प्रथमचरमौ ह्यसंक्रान्ती मध्य .
॥ तनिर्णयः॥ मास्त्वसंक्रान्ताः । तत्रापि नैकस्मिन्नन्दे दो मलमासौ सम्भवतः। दिवसस्य हरत्यर्कः पष्टिभाग मृतौ ततः । करोत्येकमहश्छेदं तथैवैकश्च चन्द्रमाः॥ एवमर्द्धतृतीयानामब्दानामधिमासममिति गण नानुवादरूपज्योतिर्वचनविरोधात् । तथाचात्रा द्यन्तयोर्मलमासत्वसम्भावनायामन्त्यस्य मल. मासत्वे भीमपराक्रमवचसा व्यवस्थापि । आद्यस्या संक्रान्तस्यापि न मलमासत्वं वचनबलात् ॥ मल. मासेच आवश्यकमेव कर्मकार्य, मलं वदन्ति काल. स्य मासं कालविदोऽधिकं । नेहेतात्र विशेषेज्याम. न्यत्रावश्यकाद्विधेरिति वचनात् ॥ आवश्यकं च नित्यं नैमित्तिकं पूर्वसंकल्पितकाम्यञ्च । यस्यैव- ह्यननुष्ठाने पापं तदेवावश्यकमिति, तच्चाहिनके स्नानं विभ्राडादिचतुष्कशून्यं सन्ध्यावन्दनं, ब्रह्म- यज्ञः, षण्णांपितॄणां षण्णां मातृणां च तर्पणं, श्रौतम- न्त्रेण पञ्चदेवतापूजा, वैश्वदेवहोमः, यक्ष्मवल्यन्तं बलिकर्म, नित्यश्राद्धं, हन्तकारश्चेति ॥ गोग्रासस्या प्यावश्यकत्वं, दद्यादनेन मन्त्रेण गवां प्रासं सदैव. हीति वचनबलात्। एकादश्युपवासः, अमावास्या पार्वणं, अत्र तु ग्रहोपरागे कामनां विनैव स्नानं, पार्वणञ्च ॥ ननु तीर्थस्नानं गजच्छायामि १६० ॥ तनिर्णयः॥ त्यादिना तीर्थस्नानस्य प्रतिप्रसूतत्वात् कथमेवं । इत्थं, यत्, मलिम्लुचेऽप्यनावृत्तं तीर्थस्नानमपित्य जेत् । इत्यनेन तीर्थस्नाने आवृत्तानावृत्तसाधा. रणे गोदानादिवत् पुण्याजनकत्वे वचनान्तरात्सि' द्धएव सति अनावृत्ते अनिष्टजनकत्वमपीत्यभिधी यते । तीर्थस्नानं गजच्छायामित्यादिना त्वावृत्तं य. तीर्थस्नानं तत्रानावृत्ततीर्थस्नानवत् दृष्टदोषोना स्तीत्यभिधीयते नतु काम्यफलजनकत्वमपि, नेहे तात्र विशेषेज्यामन्यत्रावश्यकादिधेरित्यादिना म- लमासे काम्यकर्मनिषेधात् ॥ ननु मलमासे काम्य कर्मनिषेधे प्रेतश्राद्धषोडशी कथं कियते सा हि नैमि त्तिकी काम्या चेति उच्यते, साह्यावश्यकी, यस्यैतानि न दीयन्ते प्रेतश्राद्धानि षोडश । पिशाचत्वं स्थिर तस्य दत्तैः श्राद्धशतेरपीत्यादिनाऽकरणे निन्दापति- पादनात् । किञ्च तहक्थग्राहिणः पुत्रस्यापि तच्छ्राद्धा नाचरणे निन्दा श्रूयते । तद्यथा । अकृत्वा प्रेतका. र्याणि प्रेतस्य धनहारकः । वर्णानां यदधे प्रोक्तं त. व्रतं नियतश्चरेदिति स्मृतिरिति ।। हन्तवं नैमि. तिकतया कियतां नतु काम्यतया, तथाच काम्याभि' लापपूर्वकः सङ्कल्पइह त्यज्यतां कामिन्येव नियोज्ये तस्यावतारादिति बाढं नैमित्तिकतयैव कियते । द्वैतनिर्णयः ।। नतु काम्यतया, अतएव पात्रब्राह्मणाचाहानावपि निर्विचिकत्सन्तदनुष्ठानं शिष्टानां, सुर्वशक्त्यधिकर- णे आवश्यके किञ्चिदङ्गहानावपि फलसिद्धिरिति सिद्धान्तनात् ।। हन्त कथन्तहि तत्र काम्यामिलाप पूर्वकः सङ्कल्पआदौ, शिष्टाचारादितिब्रूमः । कथम. न्यथा मासिकेष्वपि फलार्जकप्रधानापूर्वजनकक. लिकापूर्वमात्रजनकेषु सङ्कलः संगच्छतां, नहि क. लिकापूर्वेपि कामी अधिकारी किन्तु निष्कामः, अ कापूर्ववत् । प्रधानापूर्वएव हि वाक्यर्थीभृते सोधि. कारी तथैव तिर्यगधिकरणे सिद्धान्तनादिति ॥ त. दयं संक्षेपः। तीर्थस्नानं मलमासे फलजनक नभवत्ये व गोदानादिवत्, किन्त्वावृत्तं तदनिष्टजनकमपिन भवतीति, अनावृत्तन्तु कालदोपात् पुण्याजनकम- निष्टजनकञ्चेति ॥ गजच्छाया तु हस्तादिसे मघा चन्द्रे कृष्णपक्षे त्रयोदश्यां भवति । तथा च यद्या. श्विनोमलमासस्तदा तदुत्तरचतुर्दश्यां कन्यारधि संक्रान्तौ कथं ततः प्राक् गजच्छाया, यदि च भा- द्रोमलमासस्तदा द्वितीयभाद्रामावास्यामुल्लङ्घ्य क- न्यासंक्रान्तेः क मलमासे गजच्छाया तस्मात्कल्प तरुप्रभृतौ निबन्धे या गजच्छाया परिभापिता सेह न संभवतीति श्राद्धाध्याये हलायुधधर्माधिकरणिकै भमिर्णय.. रन्यैव गजच्छायोक्ता । तद्यथा, राहुबै हस्ती भूत्वा चन्यममं असतीति श्रुत्या राहुणा यश्चन्द्रमसोग्रासः सा गजच्छाचा, सूर्यग्रासेऽपि चन्द्रस्यैव अमनीयत्वेन प्रमावविपनं, तन गजच्छाया मूर्यचन्द्रोपराग- श्राद्धं तदपि मलमासे क्रियत इति सिद्धम् ॥ प्रेत श्राद्धानि नित्यनैमित्तिकत्वेन कार्याण्येव वाधवि रहादित्यन्ये ।। सम्प्रदायस्तु काम्यत्वेऽपि कार्यागि, गमें वापिकरणे च मृतानांपिण्डकर्मस्विति प्रति प्रसवात् । योप पिण्डकर्म मृतानामेव तथापि मृतानामिति विशेषगोपादानेन नावनीतघृतवदचि- रत्वलाभेन प्रेतश्राद्धप्रतीतः ॥ यत्तु नित्यनैमित्ति- के कुर्यात्तपतः सन्मलिम्लुवे । तीर्थस्नानं गजच्छा- यां प्रेतश्रा द्वन्तथैव चेत्यत्र नित्यमहाहः कर्तव्यं स्नानसन्ध्यापञ्चमहायज्ञादि । नैमित्तिकं पुत्रजन्म क्रियादिकम् एलेकविशेषणावच्छिन्नत्वात् । दर्श श्राद्धन्तु नित्यनैमित्तिकम्, तदुक्तं मार्कण्डेयपुराणे पञ्चयज्ञाश्रितं नित्यं यदेतत्कथितन्तक । नैमित्ति कन्तथैवान्गलुत्रजन्मक्रियादिकम् ॥ नित्यनैमित्ति- कं ज्ञेयं दर्शश्राद्धादि पण्डितैरिति ॥ किञ्च नित्य श्राद्धमदेव स्यादित्यादौ नित्यपदं प्रात्यहिकपञ्च महायज्ञान्तर्गतश्राद्धे प्रयुक्तम्, अतएव काम्यमाय- || तनिर्णयः॥ हरहः क्रियमाणं हिरण्यदानं मलमासे कर्तव्यमेव नित्यपदार्थत्वात् । यज्ञदानव्रतानीत्यत्र तु दानपरंन कुर्यान्मलमासे तु महादानव्रतानीत्येकवाक्यतानुरो धादिति श्राद्धविवेकमतन्तन्न नित्यं शुचिविहितका लजीवितमात्राधिकारिकम्,नैमित्तिकन्तु शत्रिविहित कालजीविनिमित्तवदधिकारिकम्, काम्यन्तु अधिवि- हितकालजीविकामनावदधिकारिक मिति कर्मनीमां. सकानां पन्थाः। तथा च नित्यनैमित्तिकै इत्यत्र एतेएव नित्यनैमित्तिके अन्वीयेते सर्वतन्त्रमदान्तसिद्धले नोपस्थितिलाघवात् न तु तदुक्तं वाक्पमिदममूल- ..कमेव ॥ यत्तु नित्यपदं प्रात्यहिक श्राद्ध प्रयुक्तमत- स्ताच्छब्यमिति तन्न साहि परिभाषा बृहस्पदवै- च्छिकी नतु मीमांसानुरुद्धा सफलनित्या ग्राहक- खात् किञ्च पञ्चमहायज्ञा नित्यपदार्थ इत्यभिधा- य नित्यश्राद्धमात्रंनित्यपदार्थवदनस्तव पूर्वापरवि- रोधः । यच काम्यं हिरण्यदानादि प्रात्यहिकतया नित्यत्वात्मलामसपिकार्यमिति तन्न प्रात्यहिकत्वे न कुतः प्राप्तम् ।। महरहः कृत्यत्वेन्द पूर्वसङ्कल्पना दितिचेत् बादं तद्धि नित्यसमं पूर्व अतं गृहीत्वाऽप रिपालने निन्दार्थवादात् अन्यथाचेचदातस्यप्राप्ति- रेव न सनकर्मसु तं त्यजेदित्यनेन विशेषविहित ॥ तनिर्णय. ॥ तरकर्मणान्निवात् मलं वदन्तिकालस्येत्यादिना आवश्यककर्मणामेव तत्र विधानात् अतएव नित्य नैमित्तिके इत्यत्र नित्यमावश्यक. नैमित्तिकमपरा- गादिनिमित्तक, गोपन्यायादिति निबन्धारः ए- तेत दानमात्रं निषिद्धं गजच्छायाप्रतिप्रसवेनामा. वास्यादिश्राद्धादि निपिस । प्रेतश्राद्धप्रतिप्रसवे- नकोविष्टान्तरनिषिद्धमिलपास्तं एतस्य प्रपञ्चा- थत्वात् । अतएव नलं वदन्ति कालस्य मासं कालवि. दोऽधिकं । नेहेतात्र विशेषज्यामन्यत्रावश्यकादि- धरिचार्यः संज्ञाः । आनन्याकुलधर्माणां घुमा चैवायुषः क्षयात् । अस्थितेश्च शरीरस्य द्वादशाहः प्रशम्यते इति व्यापूवचनं ब्राह्मणत्वजाति पुरस्कार प्रवृत्तं रादि स्यात् तदाक्षत्रादेरपीमं सपिण्डनकालं न विदधीत तथा च तेषां सपिण्डनकालाकाङ्क्षा पूर्णवस्यात् तथाचाद्यमकादशेऽहनीत्यत्र यथैकाद- शाहपदं सजा स्वजायुक्ताशौचान्तद्वितीयाहोपलक्षक तथदमपि दादशाहपदं स्वजात्युक्ताशौचान्ततृती- याहोपलक्षक नतु लघोरप्यशौचान्तद्वितीयाह- स्योपलक्षक जातिपुरस्कारप्रवृत्ताशौचोपस्थितिका- ले जात्यपरस्कारप्रवृत्तस्य त्र्यहाशोचादेरुपस्थि- ना हेन भावान द्वादशाहपटञ्च ब्राह्मण जातिपुर- ॥ द्वननिर्णय ॥ स्कारप्रवृत्ताशोचान्ततृतीयाहोपस्थापकमिति स्फ टमेव तेन जातिपुरस्कारप्रवृत्ताशौचान्ततृतीयाह- स्तदानीमुपस्थातुं युक्तः, न तु यत्किञ्चिदशौचान्त तृतीयाहः तस्य तदानीमुपस्थितौ हेत्वभावात् लाघ वस्थचानुपस्थापकत्वात् क्षतान्ततृतीयाहस्यापि निरामः ॥ नन्वेवमाद्यश्राद्धमपि त्वदुक्तरीत्या त्र्य हाशौचान्तद्वितीदिने न स्यात् आद्यमेकादशे हनीत्यनेन सजातिपुरस्कारप्रवृत्ताशोचान्तद्धि- तीयदिनस्योक्तत्वात् हाशोचस्य स्वजात्यनुक्तत्वा दितिचेत् न अशौचव्यपगम इति विष्णुवचनेन हि तदा आयश्राद्धं विधीयते नत्वन्यन ॥ अथोप- नयनकालनिर्णयः॥ तत्र दक्षिणायनमासपदकं नि पिद्धं, उत्तरायणेपि सर्वाः कृष्णास्तिथयोनिषिद्धाः, शुक्लास्वपि प्रतिपदष्टमीचतुर्दशीपौर्णमास्यः स. वो अनध्यायत्वेन निषिद्धाः, स्वाध्यायेष्वपि चतु- र्थी पठी सप्तमी नवी त्रयोदश्यः स्वतएवनिपिद्धाः, त्रयोदशीचतुर्दश्योर्दिवावेवे द्वादश्यपि गलग्रहत्वे- न निपिद्धा, आरम्भानन्तरं यत्र प्रत्यारम्भो न वि- यते । गर्गादिमुनयः सर्वे तमेवाहुर्गलग्रहमित्युपक्र- म्य, अष्टम्या मप्तमीनिद्धा चतुर्दश्यात्रयोदशी । द्वितीया प्रतिपद्रिद्धा गलग्रहउदाहृतइत्यपमहाग- ॥ छैननिर्णयः त् । चैत्रशुक्ला द्वितीया माघशुक्ला द्वितीया च स्वरूपेणैव निषिद्धा । चैत्रशुक्लतृतीया आषाढ शुक्लदशमी माघशुक्लसप्तमी एतास्थितयोमन्व न्तरादिवेन निपिद्धाः । वैशाखशुक्लतृतीया युगा दिवेन निपिद्धा । हरिशयनद्वादशी स्वरूपेणैव नि- षिद्धा, विहिततिथयोपि संक्रान्त्यवरुद्धा निषिद्धाः, तत्पूर्वतिथयस्तु तत्पूर्वतिथित्वेन निषिद्धाः। पौषमाघ फाल्गुनचैत्रास्तु वृष्टया दृष्यन्ते, वैशाखज्येष्ठापाढेष्व- तिवृष्ट्यातिवातेन चानध्यायः, ग्रहणकाले भूकम्पो ल्कापातकरकापातवज्रपातादिसमाहारे व्रतबन्धे त्रयोदशाहमशुद्धं किञ्चिदूनतत्समाहारे दशाह अ- हणायककोदये त्र्यहं । उपनयनपूर्वदिन सायं स- न्ध्यायां गर्ज उपनयनदिनमनध्यायं करोति । हस्त चित्रा स्वाती श्रवणा धनिष्ठा शतभिषा पुष्याश्वि- नी मृगशिरोरेवती पूर्वाषाढ पूर्व फल्गुनी एतानि नक्षत्राणि व्रतबन्धे सामान्यतः प्रशस्लानि । लमा नितु वृषसिंहतुलाधनुर्मानात्मकानि विहितानि । बुधगुरुशुक्राः केन्द्रस्थात्रिकोणस्थाश्चप्रशस्ताः। रवि चन्द्रगुरुतारासुत्रलवतीपु, गुरुशुक्ररविवारे व्रतं शस्तं, रविमङ्गलराहुकेतवोलग्नस्थानिषिद्धाः, चन्द्रः सप्ता धिकोनिषिद्धः, पत्र्येकादशगाः सूर्यशनिकुजाः 1॥ तनिय॥ :. , प्रशस्ताः, नवपञ्चमगाः पापानिषिद्धाः, लग्नस्था रविशनिकुजाश्च निषिद्धाः, धनस्थाः सहजस्थाश्च शस्ताः, बन्धस्थानिपिद्धाः, पुत्रस्थानिपिद्धाः. पष्ट- राशीशसाः, मप्तमराशौनिपि द्वाः, निधनस्थानिपि- द्धाः चन्द्रस्नु परेऽष्टोनिषिद्धः, गुरुर्जन्मनि पष्ठेऽष्टमे तृतीये चातिनिषिद्धः, दशमे चतुर्थे च निषिद्धः, गुरु र्दितीये पञ्चमे च शस्तः, द्वादशे अतिनिपिद्धः, शेषेषु मध्यमः । जन्मः जन्मोदये जन्ममासे जन्म चन्द्रे च व्रतबन्धः प्रशस्तः, गुरुवारे अतिप्रशस्तः। शाखाधिपे बलिनि व्रतं शस्तम् । ते च, ऋगथर्वसा- मयजुषामधिपागुरुसौम्यभौमसिता यथासंख्यम् ॥ मेखलाबन्धसमये सर्वथा पञ्चमं गृहम् । शुभयुक्तं प्रशंसन्ति तदालोकितमेव वा ।। इति महामहोपाध्या यसम्मिश्रवाचस्पतिविरचितोद्वैतनिर्णयः सम्पूर्णः ।।
भूमिका ७ महामहोपाध्याय मिश्रवाचस्पतिः॥ मिथिलादेशे वहावाचस्पतये भूवन् तेयु प्रधानतया द्वावर परिगण्येते वृद्धाऽभिनवश्च ॥ तत्र वृद्धोद्वादशदर्शनटीकाकारत्वेन प्रसिद्ध पजोप्रबन्धसमयात्प्रागेवाविरभवत् ॥ एउवननिर्णय कर्ताऽभिनवोमिश्रवाचस्पतिः मै थलानामुच्चतमेकुले “ पलिवा- ट समलि' इत्यभिधे सांसेस्तान्मिश्रगिरिपतेः समजनि । अपु- प्य पुत्रः स्वरोदय ट कासारामिश्रनरहीरः, पौत्रस्तु द्वैतपरिशिष्टा- दिनिबन्धकारकानिकशवः ॥ मिश्रवाचस्पतिस्तु याबमामा- सयो. स्मृतिषु च परां प्रतिष्ठामवाप्य ४९ एकोनपञ्चाशन्लियन्धा नकरोत् ॥ तेषु आचारांचन्तामणि , विवादचिन्तामणिः, व्यवहार चिन्तामणिः, शुद्धिचिन्तामणिः, श्राइचिन्तामणिः, कृत्यप्रदीपः, कृत्यमहार्णवः, ( महाराजाधिराज हरिनारायणया रचितः) पितृ भक्तितरङ्गिणी ( महागज रामभद्राशया सर्वान्ते रचिता) च मत्स ग्रह सन्ति ॥ द्वैतनिर्णयस्तु भैरवसिह धम्मपत्न्या जयानोमहादे- व्या आशया रचित इत्यस्मिन्नेव अन्धस्फुटमभिहितम् ॥ महाराज भैरवसिहराज्यारम्भस्तु पर्चा. शदधिकचतुर्दशशतीमित शाके १४३५ बभूव ॥ एतन्मुद्रणाधारगुस्तकान पद । तत्र ममैव पूर्वतरसप्तमपुरुषेण महामहोपाध्याय पशुंगमशर्मणा रघुदेवस रस्वतीनां समय यज्ञपल्लो ( जगली ) ग्राम ताडिपत्रे लि ितमाद्य. म् , म. म. नीमांसकशिरोमणि श्रीचित्रधरामिश्रमहाशयस्य ख. ण्डितमपरम् , अन्यानि ४ दरमङ्गाराजकीयपुस्तकालयस्थानि ॥ द्वैतनिर्णयस्यास्य तिस्रष्टीकाउपलभ्यन्ते, महामहोपाध्याय मधुसू- दनकृतो जार्णोद्धारः १ म म. गोकुलनाथकृतः कादम्वरीप्रदीप. २ कशमिश्र व्याख्यानुसारिणी वागीशकृताढीपिका रचेति ॥ संशोधकः श्रीपरमेश्वर शर्मा।