University Liberey Allahabad

Shree Bhashaya Vartakay

Shree Ramanujacharaya · 25.07.06

PDF Proofread

Front matter

BENARES SANSKRIT SERIES; COLLECTION OF SANSKRIT WORKS EDITED BY THE PANDITS OF THE BENARES SANSKRIT COLLEGE, UNDER THE SUPERINTENDENCE OF R. T. H.GRIFFITH, M. A., C.I. E. AND G. THIBAUT, PE. D. No.123. श्रीभाष्यवार्तिकम् । श्रीमद्रामानुजाचार्यविशिष्टाद्वैत- सिद्धान्तप्रतिपादनपरम् । श्रीमदाचार्यश्रीवल्लभाधीश्वरशुद्धाद्वैतसंप्रदायविदुषा रनगोपालभट्टेन संशोधितम् । ŜRI BHÂSHYA VÂRTIKA, A TREATISE ON VISISHTADVAITA PHILOSOPHY, EDITED BY RATNA GOPAL BHATTA. Fasciculus I. BENARES: Published by the Proprietors Messrs. Braj B. Das & Co., AND SOLD BY H. D. GUPTA, Secretary, Chowkhamba Sanskrit Book Depot. Printed at the Vidya Vilâs Press, BENARES. 1906.

सूचौपत्रम्। ० १ १ २ २ a ६ २ 4 . गणपाठः गोलप्रकाश गंगालहरी गुरसारणी नातकतरवम् तत्त्वदीप तर्कसंग्रहः दत्तकमीमांसा धर्मशास्त्रसंग्रह. धातुपाठः ( शिला .) धातुरूपावली परिभाषापाठः पाणिनीयशिक्षा भाष्यसहिता प्रथम परीक्षा प्रथमपुस्तक हिन्दी মমুম্ব (মগ্ন মিথ্যা স্কা বন্ধুর স্বপ্ন ) बीजगणितम् (म. म. पं. सुधाकरकृतटिप्पणीसहित) १ मनोरमा शब्दरत्नसहिता (टाइप) लघुकौमुदी टिप्पणीसहिता लघुकौमुदीभाषाटीका (पं० मथुराप्रसादमिश्र कृत) (टिप्पणीसहित) लक्षणावली लीलावती (म०म० पं० सुधाकरवटिप्पणीसहित) १ वसिष्ठसिद्धान्तः विष्णु सहस्रनाम शब्दरूपावली गृङ्गार सप्तशती समासचक्रम् समासचन्द्रिका सरखतीकण्ठाभरणम् सायचन्द्रिका टिप्पणीसहिता सिद्धान्तकौमुदी सिद्धान्तमुक्तावली दिनकरीटिप्पाणीसहिता उपसर्गवृत्ति क्षेत्रकौमुदी क्षत्रसंहिता . CC ૨ १ १ १ १ ३ ३ OM ६

श्रीगणपतये नमः।
श्रीभाष्यवार्तिकम् ।
श्रीहरिप्रणतिं कृत्वा रामानुजमते मया ॥
व्याससूत्रार्थबोधाय भाष्ये वार्तिकमुच्यते ॥ १ ॥
वृद्धव्यवहृतेरादौ शक्तेः कार्यान्विते ग्रहात ॥
निष्पन्नब्रह्मरूपार्थ प्रामाण्यं वै कथं श्रुतेः ॥ २॥
निखानन्तफलज्ञानजन्मब्रह्मविचारणम् ॥
नारम्भणीयं तेनादाविसाशक्य समुच्यते ॥ ३ ॥
ब्रह्मज्ञानफलानन्तस्थायित्वज्ञानहेतुकः ॥
व्यक्तो विचारारम्भोऽत्र सिद्ध व्युत्पत्तिदर्शनात् ॥ ४ ॥
अम्बतातादिशब्देषु बालानां पितृशिक्षया ॥
अम्बतातादिसङ्केतग्रहो लौकिकसंमतः ॥५॥
स्वाध्यायानन्तरं ज्ञात्वा ह्यनिसफलहेतुताम् ॥
कर्मणां ब्रह्मजिज्ञासा कर्त्तव्या ब्रह्मकर्मिका ॥ ६॥
स्वाभाविकास्तसकलहेयानन्तगुणाकरः ॥
ब्रह्मशब्दस्य मुख्यार्थो नृहरिः पुरुषोत्तमः ॥ ७ ॥
बृहत्त्वगुणयोगेन ब्रह्मशब्दो हरौ स्मृतः ॥
बृहत्त्वं च स्वरूपेण गुणैर्यत्र. हि दृश्यते ॥ ८॥
गुणलेशस्य संयोगादन्यत्राप्यौपचारिकः ।।
नानार्थकल्पनायोगाद्भगवच्छब्दवत् स्मृतः ॥९॥
तापत्रयातुरैः सोऽयममृतत्वाय वै हरिः॥
जिज्ञास्य एव सर्वेशो जिज्ञासाकर्म ब्रह्म तत् ॥ १० ॥

- श्रीभाष्यवार्तिके ज्ञातुमिच्छा हि जिज्ञासा सेष्यमाणपधानिका ॥ तस्मादिहेष्यमाणं तज्ज्ञानमेव विधीयते ॥ ११ ॥ पूर्वमीमांसया ज्ञानं कर्माऽल्पास्थिरसत्फलम् ॥ सस्या उत्तरया ज्ञानमनन्ताऽक्षयसत्फलम् ॥ १२॥ ततः कर्म प्रविज्ञाय ब्रह्म ज्ञातव्यमिष्यते ।। कर्ममीमांसया ब्रह्ममीमांसाऽभेदमश्नुते ॥ १३ ॥ तस्माच्छारीरशास्त्रेण षोडशैकस्वलक्षणम् ॥ जैमिनीयं भवेदेकविशेषार्थोपपादकम् ॥ १४ ॥ किं तद् ब्रह्म पुनर्यद् वै जिज्ञास्यं परिकीर्तितम् ॥ अचिन्सरचनस्यास्य दिक्कालनियतस्य च १५ ॥ फलभोगविशिष्टस्य क्षेत्रज्ञैः संयुतस्य हि ॥ उत्पत्तिस्थितिसंहारा जगतः सम्भवन्ति हि॥ १६॥ यस्मात् सर्वेश्वरात ससकल्याणगुणसागरात् ।। सर्वज्ञात् सर्वशक्तेस्तद् ब्रह्मैवेति विनिश्चिनु ॥ १७ ॥ लक्षणानामनेकत्वादू ब्रह्मानेकत्वमापतेत् ॥ व्यावर्तकं लक्षणं हि विशेषणतयोदितम् ॥ १८ ॥ प्रसक्षादिप्रमाणाधैर्यत्रैकं लक्ष्यामिष्यते ॥ तत्रैकं तद् भवति चेद् भवत्वत्र तथा न हि ॥ १९॥ जगज्जन्मस्थितिलया उपलक्षणरूपिणः ॥ उपलक्ष्यब्रह्मरूपं बृहद्ब्रहणयोगि च ॥ २० ॥ अक्षाद्यविषयं ब्रह्म यतोऽतीन्द्रियमिष्यते ॥ अनुमानेन नो सिद्धययनन्तगुणवान् विभुः ॥ २१ ॥ शास्त्रप्रामाणसम्बोध्यं ब्रह्म तस्माद् बृहद्गुणम् ॥ यतो वेत्यादिवाक्यानि प्रमाणं ब्रह्मनिर्णये ॥ २२॥ शास्त्रकविषयं ब्रह्म यद्यपि प्रतिपादितम् ॥

१ अध्याये १ पादः। प्रवृत्त्यादिपरं शास्त्रं न सबोधे तथाऽप्यलम् ॥ २३ ।। इसाशमाह तच्छास्त्रयोनित्वं ब्रह्मलक्षणम् ॥ युक्तं समन्वयाद्धेतोः पुरुषार्थे हि ब्रह्मणि ॥ २४ ॥ मुख्यवृत्त्या यतो वाक्यान्चयो यत्र समन्वयः ॥ यतो वेत्यादिवाक्येन सर्वज्ञं सर्वशक्तिमत् ॥ २५ ॥ समस्तहेयरहितं कल्याणगुणसागरम् ॥ जगतः कारणं ब्रह्म जिज्ञास्यामिह बोधितम् ॥ २६ ॥ जगज्जन्मादिकर्तृ स्यादानुमानिकमेव यत् ॥ प्रधानं तत एवेह युक्तकज्ञानहेतुका ॥ २७ ॥ सर्वज्ञानप्रतिज्ञाऽपि समस्तं प्राकृनं यतः ॥ इसाशक्य निराचष्टे सदेवेसादिवाक्यगम् ॥ २८॥ सत्पदं न प्रधानस्य बोधकं जडरूपिणः ॥ ईक्षतिश्रवणात् सा तु चेतने युज्यते यतः ।। २९ ॥ तदैवतेति वाक्यं वै चेतनेक्षणबोधकम् ।। सर्वज्ञः सर्वशक्तिर्यः सत्पदार्थः स एव हि ॥ ३० ॥ नच, ता आप ऐक्षन्तेसादि गौणेक्षणं यथा ॥ सदैक्षन्तेयत्र तथा गौणमीक्षणमुच्यताम् ॥ ३१ ॥ ऐतदात्म्यमिदं सर्वं तत्ससं परिकीर्तितम् ॥ स आत्मेसत्र सच्छब्दवाच्यस्यात्मोपदेशतः ॥ ३२ ॥ इतोऽपि नं प्रधानं तत्सच्छब्दप्रतिपादितम् ॥ सच्छब्दार्थकनिष्ठस्य मोक्षमाप्त्युपदेशतः ॥ ३३ ॥ न हि चेतनरूपस्याचित्सम्पत्तिः प्रयुज्यते ॥ सच्छब्दप्रतिपाद्यं स्यात् प्रधानं हि तदा पुनः ॥ ३४ ॥ श्वेतकेतोस्तदात्मत्वं हेयत्वं न वदेत् कथम् ॥ यत्रायं स्वपिति म सता सम्पन्नतां गतः ॥ ३५॥ .

श्रीभाष्यवार्तिके खमपीतस्तदा सोम्य स्वपितीत्युच्यतेऽज्जनम् ।। स्वकारणे लयो यस्मादेवं जीवस्य वर्ण्यते ॥ ३६ ॥ अचेतनं चेतनस्य कारणं न यतो भवेत् ॥ अतः सच्छन्दवाच्यं हि प्रधानं न कथञ्चन ॥ ३७॥ सर्वेषां सृष्टिवाक्यानां समानार्थत्वतोऽपि च ॥ सर्वेश्वरः कारणं हि सर्ववाक्येषु वर्ण्यते ॥ ३८॥ श्रुतमात्रोपनिषदि सच्छब्दार्थात्मनस्तथा । नामरूपादिजगतो व्याकर्तृत्वं न चान्यगम् ॥ ३९ ॥ तस्मात् प्रधानं तच्छन्दव्युत्पाद्यं न कथञ्चन ॥ भाष्यार्थस्य चतुःसूत्रीवार्तिकं पूर्णताङ्गतम् ॥ ४० ॥ आनन्दमयजीवो हि शारीरश्रवणाच्छ्रुतौ ॥ प्रियमोदप्रमोदादिशिरआद्यवयवी च सः ॥ ४१ ॥ ब्रह्मपुच्छं प्रतिष्ठेति स एव परिकीर्तितः ॥ देवादिभेदभिन्नोऽयमखण्डानन्दचिन्मयः ॥ ४२ ॥ इसाशय परात्मासावानन्दमय उच्यते ॥ प्रकृसतिशयाभ्यासाद् विस्पष्टं स तु दृश्यते ॥ ४३ ॥ सैषाऽऽनन्दस्य मीमांसेसारभ्योत्तरमुत्तरम् ॥ ब्रह्मावधि तदभ्यास उक्तः शतगुणो यतः॥४४॥ अभ्यस्यमान आनन्दः कल्याणगुणसागरम् ।। स्वाश्रयं परमात्मानमावेदयति सादरम् ॥ ४५ ॥ यद्विज्ञानमयादन्य आनन्दमय ईरितः॥ तद्विज्ञानमयो जीवो बुद्धिमानं स नो भवेत् ॥ ४६॥ मयटनसयसम्बन्धादुक्तत्वाद् बुद्धिभेदतः ॥ अगसाऽऽश्रीयते स्वार्थे स तु प्राणपदोत्तरम् ॥ ४७ ॥ विज्ञानं तनुते यज्ञ कथमत्र हि केवलम् ॥

१ अध्याये १ पादः ।
विज्ञानशब्दोपादानमत आत्मस्वरूपकम् ॥४८॥
स्वप्रकाशतयैवोक्तं विज्ञानमितिचेन्न हि ॥
ज्ञातुः स्वरूपं ज्ञानैकरूपणीयं यतस्ततः ॥ ४९ ॥
धर्मिणं धर्मशब्दो हि स्वमुखेन निरूपयेत् ॥
विज्ञानशब्दनिर्दिष्टो जीवः काण्वादिपाठतः ॥५०॥
तदन्तरस्तदन्योपमानन्दमय ईश्वरः ।
व्यासोऽपि भेदव्यपदेशादिसनन्तरमूचिवान् ॥ ५१ ॥
नानन्दमयब्रह्मात्र जीवादन्यः कथञ्चन ॥
विकारवाचिमयटः प्रत्ययादिति तन्न हि ॥ ५२ ॥
प्राचुर्यवाचको यस्मान्मयडत्र निरूप्यते ॥
शतसंख्योऽत्र गणितः क्रमेणवोत्तरोत्तरम् ॥ ५३ ॥
अभ्यस्यमान आनन्दो न तु जीवाश्रितो भवेत् ॥
अतो ब्रह्माश्रयोऽयं स्याद् विकारान्तो न युज्यते ॥ ५४ ॥
जीवानानन्दयसेवं हेतोश्चैवोपदेशतः ॥
अत्रानन्दमयो ह्यात्मा जीवादन्यः प्रकीर्तितः ॥ ५५ ॥
मन्त्रवर्णोदितं ब्रह्म ससं ज्ञानमनन्तकम् ॥
जीवप्राप्यं जीवभिन्नमानन्दमयमीरितम् ॥ ५६ ॥
ननु-भेदेनोपासकात् प्राप्यं भवेद् यद्यपि निश्चितम् ॥
तथाप्युपासकस्यैव निर्विशेषं निरूप्यते ॥ ५७ ॥
स्वरूपं मन्त्रवर्णेऽत्र यतो वाचो निवर्तिताः॥
इति चेन्नैव घटते विपश्चिद्ब्रह्मवर्णनात् ॥ ५८॥
विज्ञानमयजीवाद्वै.भिन्नानन्दमयो यतः ॥
· उपदिष्टस्ततो नैवं जीवात्मा युज्यतेऽपृथक् ॥ ५९॥
सोऽकामयतवाक्ये हि जडासंसर्गिणो हरेः॥
कामोत्या न प्रधानं तत् परानन्दमयं भवेत् ॥६० ॥

ur श्रीभाष्यवार्तिके परसङ्कल्पवशतश्चिदचिद्वस्तुतोऽखिलम् ॥ विश्वमुत्पद्यते तस्मान ह्यपेक्षानुमानिके ॥ ६१ ॥ जीवस्य योगं शास्तीह परानन्दमये यतः ॥ अत आनन्दमयतो जीवोऽन्य इति निर्णयः ॥ ६२ ॥ ब्रह्मपुच्छं प्रतिष्ठेति प्रणवस्याऽत्र वाचकः ॥ ब्रह्मशब्दः परेशस्य वाचकत्वात्स आश्रयः ॥ ६३ ॥ इति केचित् केचिदत्र पराकाशात्मिकां रमाम् ॥ आनन्दमयशब्दार्थां तदाधारं परात्परम् ॥ ६४ ॥ ब्रह्मपुच्छं प्रतिष्ठेति वाक्येन हरिमूचिरे ॥ पञ्चस्वात्मसमभ्यासात् पञ्च ब्रह्मति केचन ॥६५॥ छान्दोग्ये, अन्तरादिसे य एषो दृश्यते पुमान् ॥ हिरण्यकेशः सर्वो हि स्वर्णाङ्गः स्वर्णश्मश्रुलः॥६६॥ कप्यासकमलाक्षश्च पाप्मभ्यः सर्वतोदितः ॥ अक्षिमण्डलमध्यस्थपुरुषो यः प्रकीर्तितः ॥ ६७ ॥ यस्तं वेद स सर्वेभ्यः पाप्मभ्योऽप्युदितो भवेत् । अक्ष्यादियान्तरगतः पुण्योपचयहेतुकः ॥ ६८ ॥ प्राप्तैश्वर्यः सदादिसशब्दप्रभृतिबोधितः ॥ जीवस्तदतिरिक्तोऽत्र परमात्माऽथ वा भवेत् ॥ ६९ ॥ किं युक्तं, जीव एव स्याच्छरीरश्रवणात किल ।। जीवानां देहसम्बन्धः कर्मानुगुणतो यतः ॥ ७० ॥ पियापियादिसंयोगः स तु देहं विना न हि ॥ लोककामेप्सितत्वादि जीवस्यैव यतो घटेत् ॥ ७१ ।। विश्वष्टिप्रकर्तृत्वं विश्वस्यान्तःप्रवर्त्तनम् ॥ पुण्योपचितसर्वज्ञजीवमात्रे हि युज्यते ॥ ७२ ॥ अत्रोच्यते स्वसिद्धान्त आदिसाक्ष्यादि मण्डले ॥

१ अध्याये १ पादः।
परमात्माहरिः प्रोक्तस्तद्धर्मस्योपदेशतः ॥ ७३ ॥
एषोऽपहतपाप्मा स्यादिति जीवेष्वसम्भवन् ॥
धर्मोऽपहतपाप्मत्वमभृतिः परमात्मनि ॥७४ ।।
उपदिष्टस्ततो जीवात् पृथगक्ष्यादिमण्डले ॥
स्यादत्र परमात्मैव तत्रैवाकर्मवश्यता ॥ ७५ ॥
कर्मणा सुखदुःखादिभोगिनः परमाणवः ॥
अतोऽपहतपाप्मत्वं निरुपाधिकमीश्वरे ॥ ७६ ॥
यत्तु शरीरसम्बन्धान जीवेभ्यः पृथग् हरिः ॥
तदयुक्तं यतो देहः कर्मवश्यत्वमीश्वरे ॥ ७७ ॥
न साधयति तस्यैव सससङ्कल्पभावतः ॥
स्वेच्छया देहसम्बन्धः सम्भवसेव नान्यथा ॥ ७८ ॥
प्रकृतेर्विकृते रूपं भूतसङ्घातनामकम् ॥
शरीरं सससङ्कल्पपुरुषस्येच्छयाऽपि न ॥ ७९ ॥
सम्बन्धोऽपुरुषार्थत्वाज्जीवानां तु स्वकर्मणा ॥
सुखदुःखादिभोगार्थ बलाद् देहोऽपि युज्यते ॥ ८० ॥
इदं तदा यदि स्याद् वै त्रिगुणः प्राकृतो हरेः ॥
देहः स तु स्वाभिमतः स्वानुरूपः सदोज्ज्वलः॥ ८१ ॥
अप्राकृतो हरेस्तन न दोषः कोऽपि युज्यते ॥
जीवादिमृत्युपर्यन्तं शरीरं परमात्मनः ॥ ८२ ॥
उपदिष्टं यतः श्रुखा सदापहतपाप्मनः ॥
अतोऽक्ष्यादिसमध्यस्थो जीवादिभ्यः पृथक् प्रभुः॥८३ ॥
आकाशपदवाच्यो न प्रसिद्धाकाश उच्यते ॥
आसमन्तात् काशते यः सोऽयमात्मा परेश्वरः ॥ ८४ ॥
विश्वसर्जनलिङ्गादिर्न भूते किन्तु वै हरौ ॥
अत एव प्राणशब्दः प्रसिद्धात् प्राणतः पृथक् ॥ ८५॥

८ श्रीभाष्यवार्तिके यः प्राणयति सर्वाणि तमात्मानं वदत्ययम् ॥ छान्दोग्येऽतः परो ज्योतिर्यद् दिवो दीप्यते किल ॥ ८६ ॥ विश्वतः सर्वतः पृष्ठेघूत्तमेष्वप्यनुत्तमे ॥ यदन्तःपुरुषे ज्योतिः किमिदं लौकिकं ज्वलत् ॥ ८७ ॥ प्रसिद्धादियरूपं वा ब्रह्मरूपं श्रुतीरितम् ॥ तत्र युक्तं प्रसिद्धं न किन्तु स्याद् ब्रह्म सुन्दरम् ॥ ८८ ॥ ८॥. सर्वभूतानि पादोऽस्य त्रिपादस्याऽमृतं दिवि ॥ इसेव चरणानां हि श्रुतिवाक्योपदेशतः ॥ ७६ ॥ घुसम्बन्धि परं ज्योतिहरिरूपं निगद्यते॥ गायत्रीपदवाच्यं न छन्दः किन्तु हरिः स्वयम् ॥ ९॥ सर्वात्मकत्वं नो युक्तं छन्दसः किन्तु तद्धरेः॥ चेतोऽर्पणत्वसाम्येन गायत्रीपदमीरितम् ॥ ९१ ॥ भूतभूदेहहृदयां निर्दिश्यैवं चतुष्पदाम् ॥ व्यपदेश इति श्रुसा ब्रह्मण्येवोपपद्यते ॥ ९२ ।। उपदेशभेदान्न ब्रह्म प्रोच्यतेऽत्रेति चेन्न हि ॥ देवः परो दिवीत्येवमुभयत्राविरोधतः ॥ ९३॥ प्राणोऽस्म्यहं तं मामायुरमृतं हीत्युपास्त्र च ॥ किमत्रेन्द्रप्राणशब्दनिर्दिष्टो जीव एव वा ॥ ९४ ॥ तद्भिन्नः परमात्मेति तत्र जीवः प्रसिद्धितः ।। इति प्राप्ते प्राणशब्दनिर्दिष्टो हरिरेव हि ॥ ९५ ॥ माण एष हि प्रज्ञात्मा परानन्दोऽजरोऽमृतः ॥ इसेवं व्यपदेशो हि न जीवे युज्यते यतः ॥ ९६॥ मामायुरिति वक्ता हि त्वाष्ट्रहन्ता शचीपतिः ॥ विज्ञातजीवभावोऽसौ स्वोपास्यत्वमुपादिशत् ॥ ९७ ॥ प्रतर्दनाय जीवोस्त इति तत्परिहीयते ।।

१ अध्याये १ पादः। चेतनाऽचेतनं वस्तुप्रज्ञाभूतद्वयोक्तिभिः ॥ ९८ ॥ प्रतिपाद्य तदाधारो जीवान्यो हरिरेव हि ॥ समग्रवस्त्वाधारत्वं न जीवे युज्यते यतः॥ ९९ ॥ प्रज्ञातजीवभावेन मामेवैति यदुच्यते ॥ न तन्मानान्तरप्राप्तस्वात्मदृष्टया प्रयुज्यते ॥ १०॥ किन्तु शास्त्रात् स्वकीयात्मदृष्टया त्वाष्ट्रारिणोच्यते ॥ वामदेवः परस्यात्र सर्वात्मत्वस्य निश्चयात् ॥ १०१॥ शारीरवाचिशब्दानां सम्पत्तिं शरीरिणि ।। पश्यन् यथा मनुरहं मूर्योऽहमभवं परः ॥ १०२॥ स्वात्मदेहं परं ब्रह्म निर्दिश्येसवदत् तथा ॥ मामितीन्द्रोवदसेवं स्वात्मदेहं परात्परम् ॥ १०३ ॥ प्राणो वसति यावद्धि तावदायुः शरीरके ॥ पाण एव हि प्रज्ञात्मा शरीरं परिगृह्य वै ॥ १०४ ॥ इदमुत्थापयसेवं मुख्यप्राणादिलिङ्गतः ।। अध्यात्मयोगभूमेह नेतिचेन्नैव युज्यते ॥ १०५ ॥ स्वरूपेणानुसन्धानं जगत्कारणब्रह्मणः ॥ भोक्तृवर्गशरीरित्वाऽनुसन्धानं पुनस्तथा ॥ १०६॥ भोग्यभोगोपकरणशरीरित्वेन तद्धरेः ॥ एवं विधानुसन्धानात् प्राणादिपदजातयः ॥ १०७ ॥ परब्रह्मात्मपर्यन्ताः पर्यवस्यन्ति निश्चितम् ॥ अतः प्राणादिशब्दार्थः सर्वत्र नृहरीश्वरः ॥ १०८॥ इति श्रीभाष्यवार्तिके प्रथमाध्यायस्य प्रथमः पादः ॥ १ ॥१॥ ૨

१०
श्रीभाष्यवार्तिके
प्रथमे चरणे सर्वप्रमाणागम्यरूपकः ।।
सर्वज्ञः सससङ्कल्पामितोदारगुणाकरः ॥ १ ॥
वभिन्नाखिलवस्तुभ्यो भिन्नः सर्वोत्तमो हरिः ॥
सर्ववेदान्तसंवेद्यः सादरं विनिरूपितः ॥२॥
द्वितीयतृतीयतुर्यचरणेषु च यद्यपि ॥
वेदान्तवेद्यं ब्रह्मैव सुनिरूप्यं तथापि हि ॥ ३ ॥
प्रधानात्मपराणां तन्निराकरणपूर्वकम् ॥
अनन्तकल्याणगुणं ब्रह्मात्र प्रतिपाद्यते ॥४॥
तत्र द्वितीये ह्यस्पष्टजीवलिङ्गानि यानि च ॥
वाक्यानि मुविचार्यन्ते स्पष्टलिङ्गान्यथोत्तरम् ॥ ५॥
किन्तु मनोमयत्वादिगुणो जीवोऽथवा परः ॥
तत्र युक्तं जीव एव मनःप्राणादियोगतः ॥ ६ ॥
अप्राणो ह्यमना ईश इति तस्य निषेधतः ।।
इसाशङ्ख्य परेशस्य प्रसिद्धस्योपदेशतः ॥ ७ ॥
सर्वत्रातः परं ब्रह्म समुपास्यतयोच्यते ॥
मनोमयत्वादिगुणो यतोऽयं स्यान्मनोमयः ॥ ८॥
एषोऽन्तहृदयाकाशस्तस्मिन् संराजतेऽमृतः॥
अप्राणो ह्यमनावाक्यं प्राणायत्तां स्थिति तथा ॥
ज्ञानं च मनआयतं निषेधति परेश्वरे ॥९॥
अथवा खल्विदं ब्रह्म सर्व वै तज्जलानिति ॥
शान्तः सम्यगुपासीतेसेवोपासा विधीयते ॥ १०॥
अतः सर्वात्मकं ब्रह्म शान्तः सन्, सेव्यतां बुधाः॥
अत्राप्यं संशयो ब्रह्मशब्देनात्मा किमुच्यते ॥ ११ ॥
उत किं परमात्मेति तत्र जीवो हि युज्यते ॥
कुतस्तस्यैव सामानाधिकरण्यं यतोऽवदत् ॥ १२ ॥

१ अध्याये २ पादः। सर्वशब्दस्य तेनाऽयं ब्रह्मादि सकलं जगत् ॥ ब्रह्मादिभावोऽनायविद्यामूलकर्माद्युपाधितः ॥ १३ ॥ विद्यते न परेशस्य सर्वतो गतपाप्मनः॥ अविद्यादिदोषगन्धहीनस्याचिन्यमायिनः ॥ १४ ॥ जगज्जन्मस्थितिलया जीवकर्मनिमित्तकाः ॥ तज्जलानिाते हेतोवै जीवेऽतो योग्यता भवेत् ॥ १५ ॥ तस्माज्जीवात्मनिर्देशस्तत्र सिद्धान्त उच्यते ।। वेदान्तवाक्ये सर्वत्र प्रसिद्धस्य परात्मनः ॥ १६ ॥ उपदेशात् प्रसगान्मा वक्तुं नैवोपयुज्यते ॥ इदं सर्वं नु ब्रह्मति सर्वस्मिजगतीश्वरः ॥ १७ ॥ निर्दिष्टो ब्रह्मशब्देन सर्वस्थान्मतयैव हि ॥ प्रसिद्धेशोपदेशाद् वै तज्जलानिति हेतुतः ॥ १८ ॥ ब्रह्मणः सर्वमुत्पन्नं सर्वं ब्रह्माण लीयते ॥ ब्रह्माधीनं जीवनं च सर्वस्यति विनिश्चयात् ॥ १९ ॥ ब्रह्मात्मकं सर्वमिदमतो ब्रह्मात्र पठयते ॥ ईशात् सर्वस्य जातत्वाल्लीनत्वात् तेन जीवनात् ॥ २०॥ सर्वात्मकतया सर्वैस्तादात्म्यं परमेश्वरे ।। उपासोतेदृशं ब्रह्म शान्तो भूत्वेति निश्चयः ॥ २१ ॥ पूर्व सूक्ष्मचिदचियां विशिष्टं कारणात्मकम् ॥ स्थूलचिदचिद्विशिष्टं कार्यावस्थं तदुच्यते ॥ २२ ॥ कारणं कार्यरूपात्माऽवस्थान्तरतां गतम् ॥ एवं मर्वात्मतादात्म्यप्रतिपादनतो हरौ ॥ २३ ॥ सर्वहेयप्रतिद्वन्द्रिकल्याणगुणसङ्गतिः ॥ न विरुध्यते हि देहस्था दोषा देहप्रकारिणि ॥ २४ ॥ न प्रसान्ति किन्त्वेव गुणा वै परमेश्वरे ॥

१२
श्रीभाष्यवार्तिके
नच सर्वत्र तादात्म्यं जीवानामपि युज्यते ॥ २५ ॥
प्रतिदेहं प्रभिन्नानां तादात्म्यं न परस्परम् ॥
अनवच्छिन्नरूपस्य मुक्तस्यापि न युज्यते ॥ २६ ॥
यतो जीवेषु तादात्म्यं जगज्जन्मादिहेतुता ।।
जगद्व्यापारवर्जेति सूत्रकृद्भिनिषिद्धयते ॥ २७ ॥
विवक्षितगुणाश्चात्र सयसङ्कल्पतादयः ॥
मनोमयमाणदेहभारूपत्वादिसंयुताः ॥२८॥
परात्मन्येव युज्यन्ते न जीवेषु कथञ्चन ॥
पोऽप्रतिहतसङ्कल्पः सससङ्कल्प एव सः ॥ २९ ॥
प्राणानां धारकः प्राणशरीरी हरिरुच्यते ॥
देहशब्दप्रवृत्तौ हि चेतनाचेतनद्वये ॥ ३०॥
आधेयत्वविधेयत्वशेषत्वानि परं पति ॥
निमित्तानि यथायोग्यमग्रे सम्यग् वदिष्यीत ॥ ३१ ॥
यतोऽस्य दुःखसम्बन्धो देहसङ्गनिबन्धनः ॥
खद्योतकल्पस्येशानादुदारगुणसागरात् ॥ ३२ ॥
गुणलेशस्य सम्बन्धः शारीरस्य न युज्यते ॥
अतोऽत्र ग्रहणे शङ्का प्रकरणेऽस्य न जायते ॥ ३३ ।।
इतः प्रेयाभिगन्तैतमितिवाक्यात् परेश्वरः ॥
प्राप्यत्वेन विनिर्दिष्टो जीवोऽयं प्रापकस्तथा ॥ ३४ ॥
अतोऽपि जीवभिन्नोऽत्र परेशः परिगृह्यते ॥
एष मे इति वाक्येन षष्ठ्या जीवो छुपासकः ॥ ३५ ॥
ईशः प्रथमयोपास्यो निर्दिष्ट इतिशब्दतः ॥
विशेषाद्धरिरेवात्र प्रकरणे परिपठ्यते ॥ ३६ ॥
ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ॥
स्मृतिरित्थं परं भिन्नं जीवस्य हृदयेऽवदत् ॥ ३७ ॥

१ अध्याये २ पादः। १३ एष म इति वाक्येन हणीयसि हृदि स्थितः।। अतोऽणीयान् यवो ब्रीहिर्वेसणीयस्त्वतस्त्वयम् ॥ ३८॥ जीव एव भवेदत्रापरिच्छिन्नः परो न हि ॥ सिद्धान्तस्तु परोऽणीयानुपास्यत्वेन युज्यताम् ॥ ३९ ॥ अस्य रूपमणीयस्त्वं केवलं नैव युज्यते ॥ व्योमवद् व्यपदेशाद्यैर्महत्त्वस्य स्वभावतः अतोऽल्पत्वोपदेशोऽयमुपासार्थो भवेद् ध्रुवम् ॥ जीवस्येव परस्यापि देहान्तर्वतितास्ति चेत् ॥ ४१ ॥ मुखदुःखोपभोगस्तु तत्सङ्गात्तर्हि किन्न हि ॥ इतिचेन्नैव तत्सङ्गात् सुखदुःखादिभोक्तृता ॥ ४२ ॥ किन्तु कर्मपराधीनमयुक्तात्मनि भोक्तृता ॥ परात्मनि कथं सा स्यात् कर्माधीनत्वहानितः॥ ४३ ॥ यस्य वै ब्रह्म च क्षत्रं चोभे भवत ओदने । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ॥ ४४ ॥ अत्रौदनादिपदतः सूचितोऽत्ता भवेद्धि कः॥ जीवः किं वा परोवेति युक्तो जीवो हि भोक्तृतः ॥ ४५ ॥ तस्य कर्मनिमित्तत्वाज्जीवेष्वेव हि सम्भवात् ॥ अत्रोच्यतेऽत्ता परमः कृत्स्नभोक्ता यतो हरिः॥ ४६ ॥ नेदं तु कर्मणा शक्यं भोगवैजात्यतो हरेः॥ जगज्जन्मस्थितिलयहेतौ हन्तृत्वमेव यत् ॥ ४७ ॥ भोक्तृत्वं तत्परं विद्याद् विष्णुनिष्ठं नचात्मनि । सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥ ४८॥ इसादौ दर्शनादस्य सर्वात्ता हरिरेव सः ॥ मृत्युर्यस्येति वचनाच्चराचरमिदं जगत् ।। ४९ ।। अदनीयौदनत्वेन ब्रह्मक्षत्रोपलक्षितम् ।।

१४ श्रीभाष्यवार्तिके अद्यमानं सदन्यस्याऽदनहेतूपसेचनम् ।। ५० ॥ मृसोरप्यद्यमानत्वं ततस्तदुपसेचनम् ॥ हन्तृत्वरूपं भोक्तृत्वं तस्मात् सर्वस्य वै हरौ ॥ ५१ ॥ इदं प्रकरणं विष्णोस्तस्माज्जीवे न चाऽत्तृता ।। महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ ५२ ।। न मेधया प्रवचनाद भूयसाऽपि श्रुतेन च ।। लभ्योऽयमेषो वृणुते तेनैवेति प्रसादतः ॥ ५३ ॥ हरिमाप्तिः प्रस्तुताऽतो हरिरत्र न संशयः ।। क इत्थेसपि वाक्येन तत्प्रसादाहते हरेः ॥ ५४ ॥ दुर्योधत्वं प्रस्तुतं यत् प्रसभिज्ञायते तु तत् ।। ब्रह्मक्षत्रोदनपदात् सूचितः पुरुषोत्तमः ॥ ५५ ॥ परापहतपाप्माऽयं तदनन्तरमुच्यते ॥ ऋतं पिबन्ताविति तो बुद्धिप्राणौ शरीरिणः ॥ ५६ ॥ भोगोपकरणौ यस्मादेकप्रकरणत्वतः ॥ प्रस्तुतोत्रापि जीवात्मा स एवार्हो निरूपणे ॥९॥ अत्रोच्यते बुद्धिजीवी प्राणजीवौ न वा गुहा ॥ प्रविष्टावृतभोक्तारावुच्येते किन्तु ताविह ॥ ५८ ॥ जीवात्मपरमात्मानौ व्यपदेशस्य दर्शनात् ॥ गूढं गुहाहितं तत्रानुपविष्टं पुरातनम् ॥ ५९ ॥ इत्थं गुहाप्रवेशोऽत्र परेशे व्यपदिश्यते ॥ गुहां प्रविश्य तिष्ठन्ती प्राणेन सह सादितिः ॥६॥ अत्ति कर्मफलानीत्थमदितिर्जीव उच्यते ॥ एवं गुहारवेशोऽपि जीवात्मन्युपदिश्यते ॥६॥ अच्छत्रिच्छत्रिगमने यथा गच्छन्ति छत्रिणः॥ इत्येवं व्यवहारोऽस्ति लक्षणावृत्तितस्तथा ॥ ६२ ।।

१ अध्याये २ पादः। ऋतं पिबन्ताविति हि व्यपदेशः प्रपद्यताम् ।। यद्वा पाने हि कर्तृवं प्रयोज्यं जीववर्गगम् ॥ ६३ ॥ प्रयोजकं परेशे तद् द्वौ पिबन्तौ भवेदिति ।। उपास्योपासकभावात् प्राप्यप्रापकभावतः ॥ ६४ ॥ सर्वत्र प्रतिपाद्यते जीवात्मपरमेश्वरौ ॥ ब्रह्मजई देवमीड्यमियादिश्रुतिवाक्यतः ॥६५॥ छायातपाविवाप्यस्मिन्नज्ञज्ञौ तौ निरूपितौ ॥ उपक्रमाद्धि जीवस्य नेदं प्रकरणं भवेत् ॥ ६६ ॥ केचिच्चिन्मात्रजीवस्य स्वरूपोच्छित्तिलक्षणम् ॥ मोक्षमाचक्षते केचिद् ह्यविद्यास्तमयः परः ॥ ६७ ॥ जडपाषाणरूपस्य विशेषगुणरूपिणाम् ॥ ज्ञानादीनां समुच्छेदलक्षणं मोक्षमूचिरे ॥ ६८ ॥ यदुपाधिनिमित्तो हि जीवभावः परेश्वरे । तदुच्छेदं परं मोक्षं केचिदाचक्षते बुधाः ॥ ६९ ॥ विलक्षणस्य सर्वात्मभूतस्य परमात्मनः ॥ शरीरत्वात् प्रकारस्य जीवस्यानादिकर्मणा ॥ ७० ॥ अविद्यारूपिणा छिन्नरूपस्य भवभोगिनः॥ परात्मानुभवो यः स्यादविद्योच्छेदपूर्वकः ॥ ७१ ॥ मोक्षः प्रख्यायते धीरैः सिद्धान्तमतवेदिभिः ॥ मोक्षं ससाधनं विद्यामिति प्रश्नोत्तरे पुनः ॥ ७२ ॥ परात्मतत्त्वविज्ञानं परात्मोपासनं तथा ॥ परात्मपदसम्प्राप्तिलक्षणं मोक्षमूचिवान् ॥ ७३ ॥ तस्मादत्र परात्मैव प्राप्यो जीवेन वर्णितः ॥ एष आत्मेति होवाच य एषो दृश्यतेऽक्षिणि ॥ ७४ ।। एतद् ब्रह्माऽमृतमयमभयं तत्र संशयः ॥

श्रीभाष्यवार्तिके
अक्ष्याधारतया योऽयं निर्दिष्टः पुरुषः स किम् ॥ ७५ ॥
प्रतिबिम्बस्वरूपो वा चक्षुरध्यक्षदेवता ॥
जीवात्मा परमात्मा वा भवतीसत्र वर्ण्यते ॥ ७६ ॥
युक्तोऽत्र प्रतिबिम्बात्मा निर्देशः सिद्धवद् यतः ॥
अपरोक्षदृशिनोक्तत्वाज्जीवात्मा वाऽपि युज्यते ।। ७७ ॥
सन्निधानाद् विशेषेण प्रसिद्धिश्चक्षुरिन्द्रिये ॥
मीलितं चक्षुरुद्वीक्ष्य निश्चिन्वन्ति सुरश्मिभिः ॥ ७८ ॥
जीवात्मनः स्थितिगती शरीरेऽस्मिन् प्रतिष्ठितः ॥
अयमित्थं प्रसिद्धयाऽत्र चक्षुरध्यक्षदेवता ॥ ७९ ॥
विशेषो वेति सम्प्राप्ते परमात्मेति निश्चयः॥
एतद् ब्रह्माऽमृतमयं संयद्वामः प्रचक्ष्यते ॥ ८० ॥
अभिसंयति वामानि सर्वाण्येतं स वामनिः ॥
एष सर्वाणि वामानि नयति ह्येव भामनिः ॥ ८१ ॥
एष सर्वेषु लोकेषु भातीसेवं गुणाः किल ।
परमात्मनि युज्यन्ते न जीवे देवतासु च ॥ ८२ ॥
स्थितिनियमनं चापि परमात्मन एव हि ॥
तिष्ठन् यश्चक्षुषीयादिश्रुतिवाक्येन पठ्यते ॥ ८३ ॥
योगिभिः पश्यमानत्वाद् दृश्यर्थोऽपि न दुर्लभः ॥
कं खं ब्रह्मेति प्रकृतात् मुखिब्रह्मनिरूपणात् ॥ ८४ ॥
संयद्वामत्रप्रभृतिगुणाधानार्थमेव च ॥
उपासास्थानसिद्धयर्थमक्षिण्येषोऽभिनीयते ॥ ८५ ॥
नन्वग्नयः समग्नीनां कं खं ब्रह्मेति वाक्यतः॥
उपासनं वदन्तीति ब्रह्म नेहोपदिश्यते ॥ ८६ ॥
नचेह ब्रह्मविद्याङ्गमग्निविद्येति शक्यताम् ॥
द्वितीरोधफलप्राप्तिश्रवणादितिचेन्न तत् ॥ ८७ ॥

१ अध्याये २ पादः। १७ ब्रह्मसंशब्दनात् पापलेपाऽभावोक्तितोऽपि च ।। संयद्वामत्वप्रभृतिकल्याणगुणशालिनः ॥ ८८॥ अक्षिस्थानोपास्यताया अचिरादिगतेस्तथा ॥ उपदेशात् मुखि ब्रह्म परमत्राभिधीयते ॥ ८९ ।। नात्रोच्यते ब्रह्म किन्तु प्रसिद्ध खे च लौकिके ॥ मुखे कुर्याद् ब्रह्मदृष्टिरियाशय समुच्यते ॥ ९० ॥ अत एव च स ब्रह्म कं यदेव तदेव खम् ॥ इति वाक्याव सुखाकाशं परं ब्रह्माभिधीयते ॥ ९१ ॥ अक्ष्याधारोऽत्र पुरुषस्ततोऽपि प्रतिपाद्यते । तद्याथात्म्यविदो यस्मादचिरादिगतेर्वचः ॥ ९२ ॥ नियमेनाक्षिसंस्थाना न च्छायाजीवदेवताः ॥ नराऽन्तराऽसनिधानाच्छाया नैवाऽक्षिणि यतः॥ ९३ ॥ व्यापारानुगुणत्वाय मिलितेन्द्रियसंश्रिते ॥ स्थाने स्थितिर्हि जीवानां केवलं नैव चक्षुषि ॥ ९४॥ रश्मिद्वारा देवताया यतः संस्थितिरुच्यते ॥ अतो देशान्तरस्थाया अक्षिण्यप्याश्रयो भवेत् ॥ ९५ ॥ तस्माच्चक्षुष्यवस्थानममृतत्वाऽऽदयोऽपि च ॥ निरुपाधिकता ह्येषां परात्मन्येव सम्भवेत् ॥ ९६ ॥ अवस्थितिनियमनं वर्णितं यत् परात्मनि ।। समर्थयस्तदेवाह सूत्रेऽन्तर्यामिवर्णके ॥ ९७ ॥ समामनन्ति काण्वा वै तथा माध्यन्दिनाश्च ये ।। तिष्ठन् पृथिव्यामात्मा यः पृथिव्या अन्तरो ह्ययम् ॥ ९८॥ पृथिवी यं न वेदेति शरीरं यस्य सा भवेत् ॥ अन्तर्यस्तां यमयति सोऽन्तर्याम्येष ते हरिः ॥ ९९ ॥ एवं जलाग्न्यन्तरिक्षवाय्वादिसदिशासु च ॥ ३

१८
श्रीभाष्यवार्तिके
आकाशचन्द्रतारामु तमस्तेजःसुरेषु च ॥ १०० ॥
सर्वभूतेषु वाक्प्राणचक्षुःश्रोत्रमनःसु च ॥
विज्ञानत्वक्षु रेतःसु तिष्ठन्नात्मसु योऽन्तरः ॥ १०१ ॥
उपदिष्टः किमात्मा वा परात्मा वेति संशये ॥
प्रसगात्मा भवेदत्र वाक्यशेषबलादयम् ॥ १०२॥
तथाहि द्रष्टा श्रोतेति करणायत्तबुद्धिमान् ॥
श्रुताऽन्तर्यामिता तस्माद् द्रष्टुरेवोपदिश्यते ॥ १०३ ॥
अतोऽन्यो नास्ति द्रष्टेति द्रष्ट्रन्तरनिषेतः॥
इति प्राप्तेऽधिदैवादिलोकेष्वात्मा हरिः स्वयम् ॥ १०४ ॥
अन्तर्यामी न जीवात्मा तद्धर्मस्योपदेशतः ॥
तद्धर्मः सर्वलोकादिनियन्तृत्वं कुतोऽन्यगम् ॥ १०५ ॥
अन्तः प्रविश्य सर्वेषां सर्वदेहमकारभाक् ॥
सर्वैवेद्यः सर्वात्मा शास्ता सर्वजनेश्वरः॥ १०६ ॥
पर एव भवेन्नान्यो जीवादिर्वा न संशयः॥
करणायत्तबुद्धित्वं न च किन्तु स्वतो हरेः ॥ १०७ ।।
पश्यत्यचक्षुरियादिश्रुतिभिः प्रतिपाद्यते ॥
सर्वात्मत्वं नियन्तृत्वं सर्वदेहत्वमीश्वरे ॥ १०८ ॥
अमृतत्वं स्वभावेन जीवेषु परतन्त्रतः ॥
अन्तर्यामी ततो लोके परमात्मैव गीयते ॥ १०९ ॥
श्रोताऽश्रुतो तथाऽदृष्टो द्रष्टेत्युत्तरवाक्यतः ॥
निषिद्धयते नियन्तुस्तन्नियन्त्रन्तरमियतः ॥ ११० ॥
वाच्यः स्याद् युष्मदस्मद्भयां नृहरिः पुरुषोत्तमः ॥
जीवस्तथा प्रधानं वै नान्तर्यम्यत्र गीयते ॥ १११॥
सर्वद्रष्टुर्हि सर्वस्य नियन्तृत्वं तदात्मता ॥
स्वत एवाऽमृतत्वं च सम्भवत्येव नो तयोः ॥ ११२ ॥

१ अध्याये २ पादः। १९ अचेतनप्रधानस्य सर्वज्ञत्वादि नार्हति ॥ अल्पज्ञस्यपिजीवस्य तथा तन्नोपयुज्यते ॥ ११३ ॥ अतोऽमीषां गुणानां वै परात्मनि समन्वयः ॥ अन्तर्यामिनियम्यत्वं वागादिभिरचेतनैः ॥ ११४ ॥ सममस्मिन्नधीयाते काण्वमाध्यन्दिनावुभौ ॥ तिष्ठन्मात्मनि यस्यात्मा शरीरं यं न वेद सः॥ ११५॥ यमन्तरो यमयति विज्ञानेऽप्येवमेव सः॥ अतो विलक्षणो जीवादन्तर्यामी समीरितः॥ ११६ ॥ अथर्वणे हि द्वे विधे परापरतयेरिते ॥ अक्षराधिगमे हेतुः परविद्या प्रकीर्तिता ॥ ११७ ॥ यत तददृश्यमग्राह्यमगोत्रावर्णमीरितम् ॥ अपाणिपादमश्रोत्रं निसं सर्वगतं विभु ॥११८ ॥ यद् भूतयोनि सूक्ष्मं तत् परिपश्यन्ति साधवः ।। उत्तरत्राऽप्यदो वाक्यमक्षरात परतः परः ॥ ११९ ।। इमौ प्रधानपुरुषौ परमात्माऽथवान्त्र किम् ॥ युक्तं प्रधानपुरुषौ द्रष्तृत्वादेरवर्णनात् ॥ १२० ॥ विकारभूताव सर्वस्मात् परभूतात् तथाऽक्षरात् ॥ परः समष्टिपुरुषः क्षेत्रज्ञः प्रतिपाद्यते ॥ १२१ ।। स्थूलरूपादिमद्भूतनिष्ठत्वेन निवारितम् ॥ तदृश्यत्वमिदं सूक्ष्मे पर्यवस्यत्यचेतने ॥ १२२॥ तच्च प्रधानमेव स्यात् समष्टिपुरुषे तथा ॥ तत्परत्वमतस्तेनाधिष्ठितं यत् प्रधानकम् ॥ १२३ ॥ सुते विकारजातं तन्महदाद्यखिलं जगत् ॥ तस्मात् प्रधानपुरुषाविति प्राप्तेऽभिधीयते ॥ १२४ ॥ अदृश्यत्वादिगुणको वक्षरात परतः परः ॥

२० श्रीभाष्यवार्तिके पुरुषोत्तम एवोक्तस्तद्धर्मोक्तिमभावतः ॥ १२५ ॥ सर्वज्ञसर्वविद्वाक्यात सर्वज्ञत्वादिकास्तु ये ॥ उच्यन्ते ते परस्यैव धर्मास्तद्धर्मिणः सदा ॥ १२६ ॥ ययेतिश्रुतिवाक्याच्चादृश्यत्वगुणकाक्षरम् ॥ अभिधायाक्षराद् विश्वं भवतीति विधाय च ॥ १२७ ॥ सर्वज्ञः सर्वविद् यस्य तपो ज्ञानमयं ततः॥ तद् ब्रह्म नाम रूपं च जायते भूतयोनितः ॥ १२८॥ अक्षरादिति तस्यैव सर्वज्ञत्वादि वर्ण्यते ॥ परत्वस्याऽक्षरादुत्त्या भूतसूक्ष्ममचेतनम् ॥ १२९ ।। ब्रूतेऽत्राक्षरशब्दो हि न तु तद्गुणवत् परम् । प्रधानपुरुषाभ्यां च परत्वाख्यविशेषणात् ।। १३० ॥ तथैव भेदव्यपदेशाददृश्यत्वगुणः परः। अव्याकृताक्षराद्भिन्नः समष्टिपुरुषोऽस्ति यः ॥ १३ ॥ अदृश्यत्वादिगुणकस्तस्मादपि परो हरिः ॥ अग्निमूद्धैत्युपक्रम्य रूपोपन्यासहेतुतः ॥ १३२ ।। सर्वभूतान्तरात्मैव निर्णीतो नेतरौ च तौ ॥ तस्माद् वेदान्तवाक्यानां तात्पर्य सगुणे हरौ ॥ १३३ ॥ वैश्वानरं म आत्मानं ब्रूहीसेवमुपक्रमः ॥ यस्त्वतमेवं प्रादेशमात्रं वैश्वानरं हृदि ॥ १३४ ॥ उपास्त इति संहारस्तत्र संशय ईरितः ॥ वैश्वानरः किमात्मायं परमात्माऽथवाऽत्र किम् ॥ १३५॥ युक्तमात्मैव संग्राह्यो यतोऽशक्यविनिर्णयः ॥ वैश्वानरस्य शब्दस्य प्रयोगोऽर्थचतुष्टये ॥ १३६ ॥ तत्रादौ जाठराग्निर्वे वैश्वानरपदोदितः ॥ येनेदं पच्यतेऽन्न हि घोषोऽयं तस्य दृश्यते ॥ १३७ ।।

१ अध्याये २ पादः।
कर्णद्वयं पिधायापि यं शृणोति नरः सदा ॥
इसादिलिङ्गजातानि नेतुं नाऽऽत्मनि शक्यते ॥ १३८॥
इति प्राप्ते परात्मैव वैश्वानरपदोदितः ॥
यतः साधारणैर्द्धमः पर एव विशेष्यते ॥ १३९ ।।
यथेषिकातूलमग्नौ प्रोतं सर्वं प्रदूयते ।।
तथास्य सर्वे पाप्मानः प्रदूयन्ते हि सर्वशः ॥ १४० ॥
दिवः प्रभृति भूम्यन्तं रूपं वैश्वानरस्य यत् ॥
उपदिष्टं तद् घटते परमात्मनि नान्तरे ॥ १४१ ॥
अन्तःस्थजाठरस्याग्नेः प्रतीतिरितिचेन्न हि ॥
त्रैलोक्यमुशरीरस्य ब्रह्मणस्तच्छरीरिणः ॥ १४२॥
उपासनोपदेशाद् वै तद्विशिष्टस्य निश्चयात् ।।
अतो न देवता चात्र न भूतं नापि जाठरः ॥ १४३ ॥
जाठराग्निशरीरत्वात् तद्विशिष्टपरात्मनः ॥
अनिशब्दे वाचकत्वमुपास्यत्वं च वर्णितम् ॥ १४४ ॥
जैमिनिस्त्वग्निशब्दस्य वैश्वानरमुशब्दवत् ॥
परात्मनो वाचकत्वं साक्षादेवाभिमन्यते ॥ १४५ ॥
साधारणोऽप्ययं शब्दो जाठराग्न्यादिवाचकः॥
तथापि विश्वनारस्य नेतृत्वादिगुणात्मना ॥
असाधारणधर्मेण वाचकः परमात्मनः ॥ १४६॥
यस्त्वेतमेवं प्रादेशमात्रमिसादिनोदितः॥
अपरिच्छिन्नरूपस्य परिच्छेदः कथं भवेत् ॥ १४७ ॥
तत्राश्मरथ्यो वदति व्यत्त्यर्थं सेवकं प्रति ॥
उपासाथ परेशस्य प्रादेशत्वादि युज्यते ॥ १४८ ॥
कृत्स्नं व्याप्तवतो मानरहितस्याभिव्यक्तये ॥
वादिप्रदेशसम्बन्धपरिच्छिन्नत्वमात्मनः ॥ १४९ ॥

२२
श्रीभाष्यवार्तिके
मूख्यवयवधर्मः परस्य घटते न चेत् ।।
उपासनार्थमाहायमाचार्यो बादरिः स्वयम् ॥ १५०॥
वैश्वानरः परात्माऽयं तस्यैवोपासकैः सदा ॥
क्रियमाणोपासनस्य खमाणाहुतिरूपिणः ॥ १५१ ॥
अग्निहोत्रत्वभावाय घुमू धुपवर्ण्यते ।।
प्राणाहुसास्ततो हेतोः परात्मोपासनोचितम् ॥ १५२ ।।
फलं श्रुतिदर्शयति जैमिनिस्त्विति मन्यते ॥
धुमूर्द्धत्वादिसंयुक्तं वैश्वानरमिमं विह ॥ १५३ ॥
प्राणाहुसाधारताया उपासककलेवरे ॥
आमनन्तीति निर्णीतो वैश्वानरपरेखरः॥ १५४ ॥
इति श्रीभाष्यवार्तिके प्रथमाध्यायस्य द्वितीयः पादः॥१॥२॥

१ अध्याये ३ पादः। २३ यस्मिन् द्यौस्तथा भूमिरन्तरिक्षं मनः सह ॥ प्राणैरोतं तमेवैकं जानथात्मानमादरात् ॥ १॥ विमुञ्चथान्या वाचो वै सेतुरेषोऽमृतस्य तु ॥ संशयस्तत्र किमयं शुभ्वाचायतनश्रुतः ॥२॥ जीवात्मा परमात्मा वा किं युक्तं जीव एव हि ।। नाड्याधारत्वबहुधा जायमानत्वतस्तथा ॥३॥ प्राणपञ्चकसम्बन्धान्मनसश्चाश्रयत्वतः ॥ धुभ्वाचायतनत्वस्य कर्मणा चात्र सम्भवात् ॥ ४॥ इति प्राप्ते परात्मैव धुभ्वाद्यायतनो हरिः॥ सेतुरेषोऽमृतस्येति परधर्मोपदेशतः॥५॥ मुक्तिरूपामृतस्यायं पापकः सेतुरुच्यते ॥ मुक्तोपमृप्योपदेशाद धुभ्वाद्यायतनो हरिः॥६॥ यदा पश्येयादिवाक्यान्मुक्तपाप्यतयोदितः ॥ प्रधानं प्राणभृदपि नात्र प्रकरणे द्वयम् ॥ ७ ॥ तद्वाचकवचोभावादतोऽपि परमेश्वरः॥ भेदस्य व्यपदेशात्तु जीवात्मपरमात्मनोः ॥८॥ पराऽभिन्नोऽत्र जीवात्मा शुभ्वाधायतनो न हि ॥ प्रकरणादपि परं परात्मैव निरूप्यते ॥ ९॥ अदृश्यत्वे तु सूत्रे वै परप्रकरणोक्तितः ॥ सहस्थितेः कर्मफलानशनाशनबोधनात् ॥१०॥ जीवप्राप्यफलात्मैव धुभ्वाद्यायतनो भवेत् ॥ भूमा किं प्रसगात्मा स्यात् परमात्मेति संशये ॥ ११ ॥ किं युक्तं प्रसगात्मैव प्राणावध्युपदेशतः ॥ प्राणशब्देन निर्दिष्टः प्रसगात्मा, न मारुतः॥ १२॥ प्राणो माता पिता प्राण इसादिश्रुतिवाक्यतः ॥

२४
श्रीभाष्यवार्तिके
?
चेतनः प्रसगात्मा स्यान्न वायुरिति निर्णयात् ॥ १३॥
आत्मन्येवारनाभिदृष्टान्तस्योपपत्तितः ॥
अस्यैवानुगुणतया वाक्यशेषस्य सन्नयात् ॥ १४ ॥
इति प्राप्ते भूमगुणविशिष्टः परमेश्वरः॥
नात्मा, कुतः, ? सम्प्रसादादधिकस्योपदेशतः ॥ १५ ॥
नामादिमाणपर्यन्तं पूर्वाधिकतयोत्तरम् ॥
अभिधानात् ततः प्राणादधिकं ससशब्दतः ॥ १६ ॥
उपदिष्टं परं ब्रह्म भूमात्मगुणवत्तरम् ॥
आनन्दमयसूत्रे यत् सुखरूपत्वमीश्वरे ॥ १७ ॥
निरूपितमतः प्राणनिर्दिष्टात् प्रसगात्मनः ॥
मिन्नं ह्यन्सं मुखं ब्रह्म भूमेसेवोपदिश्यते ॥ १८ ॥
स्वाभाविकाऽमृतत्वं चानन्याधारत्वमिसपि ॥
सर्वात्मत्वं च ये धर्मा भून्नस्ते परमात्मनि ॥ १९ ॥
युज्यन्तेऽतः परं ब्रह्म भूमेसेव विनिर्णयः॥
अन्तर्यामिब्राह्मणोक्या प्रसगर्थः परात्परः ॥ २० ॥
अहमर्थोऽपि तत्रैव पर्यवस्येन्न संशयः॥
परात्मनः प्रसगात्मशरीरित्वधियो ह्यतः ॥ २१ ॥
र्थमहंग्रहोपासनस्य निरूपणात् ॥
परमात्मा भूमगुणविशिष्ट इति निर्णयः॥ २२॥
तदेतदक्षरं गार्गि ब्राह्मणा यद् वदन्ति हि ॥
तत्प्रधानं तु जीवो वा परमात्मेति संशये ॥ २३ ॥
युक्तं प्रधानं तत्रैवाक्षरशब्दप्रयोगतः ॥
अस्थूलत्वादिशब्दानां तत्रैवाथ समन्वयात् ॥ २४ ॥
यया तदक्षरमिति परस्मिन्नक्षरं वचः ॥
दृश्यते नाप्रसिद्धं हि प्रमाणान्तरतस्तु तत् ॥ २५ ॥

१ अध्याये ३ पादः। २५ प्रमाणान्तरं प्रथमं प्रवृत्तं श्रुतितः पुरा ॥ अतस्तयोयोर्मध्ये प्रथमं बलवद् भवेत् ॥ २६ ॥ तस्मात् प्रमाणान्तरतोऽक्षरशब्दप्रयोगतः॥ विकारकारणमिति प्रधानमिह चाक्षरम् ॥ २७॥ इति प्राप्तक्षरं पूर्णमम्बरान्तस्य धारणात् ॥ अव्याकृतं त्वम्बरान्तं तदाधारोपदेशतः ॥२८॥ त्रैलोक्यविकृताधारं परं ब्रह्माऽक्षरं भवेत् ॥ आकाशशब्दनिर्दिष्टं भूतसूक्ष्मं यदोच्यते ॥ २९ ॥ सदाधारं प्रधानं वै तदा भवितुमर्हति ॥ अक्षरार्थविवक्षायामक्षरं जीववाचकम् ॥ ३०॥ तद्भूतसूक्ष्मपर्यन्तकृत्स्नस्याचेतनस्य च ॥ आधारत्वेन जीवात्मन्यक्षरस्य प्रयोगतः ॥ ३१॥ इसाक्षेपे समाधानं हरिरात्माऽक्षरो वरः ।। सा चाम्बरान्तविधृतिरक्षरे पुरुषोत्तमे ॥ ३२ ॥ -एतस्य वाऽक्षरस्यति वाक्येन स्यात् प्रशासनात् ॥ प्रधानभावव्यावत्तेः पुरुषान्यत्ववारणात् ॥ ३३ ॥ अक्षरान्नास्ति द्रष्टाऽन्य इति स्यादक्षरो हरिः ।। य एतदक्षरं गार्यविदित्वा पैति लोकतः ॥ ३४ ॥ अस्मात् स कृपण इति यज्ज्ञानाद् घोरसंस्मृतिः ॥ निवर्तते परं ब्रह्म तस्मादक्षरमुच्यते ॥ ३५ ॥ अभिध्यायीत परमं पुरुषं पुरि संस्थितम् ॥ इसतेऽत्र विनिर्दिष्टः समष्टिपुरुषोऽथवा ॥ ३६ ॥ पुरुषोत्तमो वा किं युक्तमण्डाध्यक्षश्चतुर्मुखः॥ त्रिमावस्योपासकस्य ब्रह्मलोकफलोक्तितः॥ ३७ अमरत्वादिधर्माणां कथं चित् तत्र सम्भवात् ॥

२६
श्रीभाष्यवार्तिके
इति प्राप्तेऽत्र परमः पुरुषः पुरुषोत्तमः ॥ ३८ ॥
ईक्षति प्रति कर्मत्वं तस्यैव व्यपदिश्यते ॥
अजराऽमरशान्तेति स एव परिपठ्यते ॥ ३९ ॥
चतुर्मुखस्य लोकोऽपि क्षयिष्णुर्धाम तस्य न ॥
अजरेक्षितृलोको यनजरो नमरो भवेत् ॥ ४० ॥
इदं ब्रह्मपुरे तस्मिन् दहरं पुण्डरीककम् ॥
वेश्माऽस्मिन्नन्तराकाशो दहरस्तस्य चान्तरे ॥ ४१ ॥
यदस्ति तद्धि विज्ञेयमन्वेष्टव्यं तदेव च ॥
हृत्पद्ममध्यवर्ती ह दहराकाशनामकम् ॥ ४२ ॥
महाभूतमुत प्रत्यगात्मा किंवा परेश्वरः ॥
इत्थं हि संशये युक्तो भूताकाशः प्रसिद्धितः ॥ ४३ ।।
अन्वेष्टव्यान्तराधारतयैतस्य प्रतीतितः ॥
इति मासे हि दहरं गगनं पर ईश्वरः ॥४४॥
उत्तरेभ्यस्तु वाक्येभ्यस्तथाच परिपठ्यते ॥
आत्मा पहतपाप्माऽयं विजरो मृत्युवजितः ॥ ४५ ॥
अपिपासः ससकामः सत्यसङ्कल्पशोकहा ॥
इत्यं वै श्रूयमाणा ये तत्रात्मत्वादयो गुणाः ४६ ॥
खाश्रय दहराकाशं बोधयन्ति परेश्वरम् ॥
तदन्वेष्टव्यमित्र श्रुतिगं तत्पदं तु यत् ॥ ४७ ॥
तदुपस्थापकं पूर्वमाप्तस्य तद्वयस्य वै ॥
दहरस्य तदन्तःस्थगुणजातस्य चापि हि ॥४८॥
अतो गुणविशिष्टस्य जिज्ञासाबोधकं हरेः।।
संकल्पात कामसम्माप्तिर्दहराऽऽकाशवेदिनः ॥ ४९ ॥
साऽपि तं दहराकाशं ब्रह्मेशं बोधयत्यलम् ॥
भूताकाशेनोपमानं परस्मिन् घटते यतः ॥५०॥

१ अध्याये ३ पादः। उपासकशरीरं तु ब्रह्मणः पुरमीरितम् ।। तत्राल्पहत्पुण्डरीकं ब्रह्मणो वेश्म तत्र च ॥५॥ वात्सल्यैकसज्जलधिदहरः परमेश्वरः ॥ तत्रान्तवर्त्यसंख्येयकल्याणगुणमण्डलम् ॥ ५२ ॥ अन्वेष्टव्यमिति प्रोक्तं तद्गुणो दहरो हरिः ॥ हृत्पने समुपास्योऽयं वाक्येनेत्थं विधीयते ॥ ५३॥ दहराकाशनिर्दिष्टः सर्वाधारः परेश्वरः।। तस्याऽऽत्मत्वं चैष आत्मेयनेन प्रतिपादितम् ॥ ५४ ।। तत्रापहतपाप्मत्वाद्यन्वेष्टव्यं गुणाष्टकम् ॥ उपदिष्टमुपास्योतस्तदष्टगुण ईश्वरः ॥ ५५ ॥ गच्छन्ताः ब्रह्मलोकं प्रजाः सर्वा दिने दिते ॥ न तं विदन्यनेनात्र गमनब्रह्मलोकयोः॥५६॥ निर्देशाद दहराकाशः परमात्मेति निश्चयः॥ सति सम्पद्य न विदुरियन्यत्रापि दर्शनात् ॥ ५७ ॥ लयकाल इव स्थानं सुप्तौ ब्रह्मणि यन्नृणाम् ॥ श्रूयमाणं हि पर्याप्तं लिङ्गन्तद् ब्रह्माश्रये ॥ ५८ ॥ तथा जगद्विधरणं दहरे श्रूयते तु यत् ॥ गमयन्येव तदपि दहराश्रितब्रह्मताम् ॥ ५९॥ तथैवाकाशशब्दस्य ब्रह्मण्येव प्रसिद्धितः ॥ भवेद्धि दहराकाशः परात्मा नरकेसरी ॥ ६० ॥ वाक्यशेषेऽपि जीवस्य परामर्षान्न सो हरिः॥ इति नोक्तगुणा जीवे सम्भवन्तीति सो हरिः ॥ ६१ ॥ जीवोऽपहतपाप्मादिः प्रजेशवचसो न किम् ॥ ससं किन्तु यदा भूयाद् विमुक्तः कर्मबन्धनात् ॥ ६२ ।। आविर्भूतस्वरूपः सँस्तदाऽष्टगुणवान् भवेत् ॥

२८
श्रीभाष्यवार्तिके
प्राग् वै प्रजापतेर्वाक्ये तिरोहितगुणोऽवरः ॥ ६३ ॥
पश्चादुद्भूतरूपस्य गुणाविर्भाव उच्यते ॥
मुक्तजीवात्मरूपस्य याथात्म्यज्ञानमेव हि ॥ ६४ ॥
दहरोपासना विद्या प्रयोजकतयोच्यते ॥
ब्रह्ममेप्सोर्हि जीवस्य स्वरूपज्ञानमिष्यते ॥६५॥
कल्याणगुण एवैषोऽनुभविष्यति तादृशम् ॥
कल्याणगुणमात्मानं परमानन्दमीश्वरम् ।। ६६ ॥
तस्मात् स्वरूपविज्ञानं दहरोपासनाफलम् ॥
इत्थं प्रजापतेर्वाक्ये तदगुणो जीव उच्यते ॥६॥
अतिरोहितरूपः सन् प्रकाशगुणवान सदा ।।
वर्णितः परमात्मेत्थं वाक्ये दहरसंज्ञके ।। ६८॥
आविर्भूतखरूपस्य जीवस्याप्यशरीरिणः ॥
जगद्विधरणत्वादिगुणानैव भवन्ति हि ॥ ६९ ॥
ससकामत्वमभूतिगुणा एव हि केवलम् ॥
इत्यमग्रे फलाध्याये स्वयमेव वदिष्यति ॥ ७० ॥
अल्पत्वश्रवणं यत्तु निचाय्यत्वात्तु तद् भवेत् ॥
अत्रोक्तो दहराकाशो नृहरिर्गुणसागरः ॥ ७१ ॥
जीवस्तथा भवसेव रूपसम्पत्त्यनन्तरम् ॥
साम्यं तयोः श्रूयते च परात्मप्रसगात्मनोः ।। ७२ ॥
मुक्तौ संसारिणां तेषां तत्साम्यापत्तिलक्षणम् ।।
इदं ज्ञानमुपाश्रिलेखादिवाक्ये हि स्मर्यते ॥ ७ ॥
अङ्गुष्ठमात्रः पुरुषो जनानां हृदये सदा ॥
सन्निविष्टः कठश्रुखामित्येवं श्रूयतेन किम् ॥ ७४ ।।
अगुष्ठमात्र: प्रमितः प्रसगात्माऽथवा परः॥
युक्तं तु प्रत्यगात्मैव तत्त्वस्यान्यत्र संश्रुतेः ॥ ७५ ॥

१ अध्याये ३ पादः । माणा धियः सञ्चरन्ति सर्वे चैते स्वकर्मभिः ।। अङ्गुष्ठमात्र आत्माऽयं रवितुल्यः प्रकाशभाक् ॥ ७६ ॥ उपासार्थतयाऽप्येवं परेशे न श्रुतं कचित् ॥ नचाङ्गुष्ठमितस्याणोः कथमीशानता घटेत् ॥ ७७ ॥ शरीरेन्द्रियसम्भोग्यभोगोपकरणात्मनाम् ॥ अपेक्षयापि जीवस्य घदेतेशानता यतः ॥ ७८ ॥ इति प्राप्तेऽङ्गुष्ठमात्रो हृदये स्यात् परात्परः ॥ अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति ॥ ७९ ॥ ईशानो भूतभव्यस्य न ततो विजिगुप्तते ॥ इत्थं चैव श्रूयमाणाच्छब्दादेव नचात्मनि ॥ ८ ॥ सर्वेशितृत्वमस्मिन् स्यात् कर्माधीने शरीरिणि ।। सर्वेशानस्य महतः कथमङ्गुष्ठमात्रता ॥ ८१॥ इसाशङ्मय प्रवृत्तेस्तु मनुष्यमधिकृत्य यत् ।। शास्त्रस्येति मनुष्याणां हृदयापेक्षयाऽवदत् ।। ८२ ।। अङ्गुष्ठमात्रपुरुष इसगुष्ठमिते हृदि ।। ईशस्य विद्यमानत्वादुपासार्थ तदुच्यते ॥ ८३ ॥ ब्रह्मणोऽङ्गुष्ठमात्रत्वप्रमितत्वोपपत्तये ॥ उक्तोपासनशास्त्रे हि मनुष्यस्याधिकारिता ॥ ८४ ॥ तत्मसङ्गेन विद्यायां देवादीनां हि साम्प्रतम् ॥ अधिकारोऽस्ति नास्तीति विचारः सम्प्रवर्तते ॥ ८५॥ युक्तं न तावदस्सेव सामर्थ्याभावतः परम् ॥ न हि देहविहीनानां देवादीनां प्रवर्त्तते ॥ ८६ ॥ ब्रह्मोपासनसामर्थ्य साधनानामसम्भवात् ॥ न हि देहविहीनेन किञ्चित् कर्तुं हि पार्यते ॥ ८ ॥ देवादीनां शरीरित्वे प्रमाणं नोपलभ्यते ॥

श्रीभाष्यवार्तिके
-
ये तु कर्मविधौ शेषभूता मन्त्रार्थवादकाः ।। ८८ ॥
देवादिविग्रहं नैव प्रतिपादयितुं क्षमाः ॥
इति प्राप्ते हि देवादेधिकारोऽस्त्युपासने ॥ ८९ ॥
सामर्थ्यार्थिवयोः सत्त्वन्मन्यते बादरायणः ।।
आध्यात्मिकादिदुःखाभितापादर्थित्वमिष्यते ॥ ९ ॥
निरस्तहेयासंख्येयकल्याणगुणसागरे ।
भोग्यत्वादिपरिज्ञानात् सामर्थ्यस्यापि सम्भवः ॥ ९१ ॥
यद् देवतियङ्मानुष्यस्थावरादिचतुर्विधा ॥
सृष्टिराम्नायते तत्तत्कर्मानुगुणतस्तथा ॥ ९ ॥
लोकस्थिति गयोग्यशरीरेन्द्रियसम्भवः ।।
देवादीनामतो ब्रह्मोपासनाधिकृतिः किल ॥ १३ ॥
इन्द्रो वै सर्वदेवानाममुराणां विरोचनः ॥
मजापतेः सकाशं तावागच्छन्तौ कृताबली ॥ ९४॥
द्वात्रिंशद्वर्षपर्यन्तं ब्रह्मचर्य समूषतुः ॥
विस्पष्टमितिवाक्येन देवादीनां प्रतीयते ॥ १५॥
शरीरेन्द्रियवत्वं च विधिशेषार्थवादके।
अविरोधाच्छ्रूयते हि वज्रहस्तः पुरन्दरः ॥ ९६ ॥
एवं सविग्रहा देवा ब्रह्मविद्याधिकारिणः ॥
परिच्छिन्नशरीरित्वे देवादीनां तु कर्मसु ॥ ९७ ॥
योगपद्यागमाभावाद विरोधः कर्मणीति चेत् ॥
अनेकदेहसम्पत्तिसामान स दृश्यते ॥ ९८॥
सौभरिप्रभृतीनां हि दृश्यते शक्तिमत्तया ॥
अनेकदेहसम्पत्ति गार्थमिह कर्मणे ॥ ९९ ॥
शरीरेन्द्रियवत्त्वेन जन्मनाशप्रसङ्गतः॥
इन्द्रादीनामानिसत्वे वेदानित्यत्वमापतेत् ॥ १० ॥

१ अध्याये ३ पादः। किञ्चैवं जन्मनः पूर्वं नाशादृर्ध्वं च सम्भवेत् ॥ निरर्थकत्वं वेदस्य विरुद्धमितिचेन हि ॥ १० ॥ वैदिकेन्द्रादिशब्देभ्य इन्द्राद्यर्थस्य सम्भवात् ॥ इन्द्रादिशब्दाश्चैत्रादिशब्दवन्नैव वैदिकाः ॥ १०२ ।। खव्यक्तिमात्रसङ्केतपूर्वकाः प्रसरन्ति हि ॥ किन्त्वाकृतिविशेषाणां वाचकास्तु गवादेिवत् ॥ १०३ ॥ एकेन्द्रव्यक्तिसनाशे वैदिकान्मनसिस्थितात् ॥ इन्द्रशब्दाद् वाच्यभूतं विज्ञायेत्थं प्रजापतिः॥ १०४ ॥ सदाकारान्यमेवेन्द्रं सृजतीह कुलालवत् ॥ यथा कुलालो मनसि घटशब्दाद्धि संस्थितात् ॥ १०५ ॥ तदाकृतिविशेषान्यं घंटे सृजति तत्तथा ॥ व्याकरोन्नामरूपाणि वेदेनेतिश्रुतेर्बलात् ॥ १०६ ॥ वेदशब्देभ्य एवादाविति स्मृसा च निर्णयात् ॥ स्मृतिपूर्वा हि देवानां सृष्टिस्तत्स्मरणं पुनः ॥ १०७ ॥ वेदशब्देभ्य एवातो वेदे निसत्वमस्सलम् ॥ नैमित्तिकादिप्रलये कल्पनेत्थं तु युज्यते ॥ १०८ ॥ माग्भवेन्द्रादिसंस्मृत्या देवा धात्रा हि सृज्यताम् ॥ प्राकृतमलये स्रष्टुर्नाशाच्छब्दस्य नाशतः ॥ १०९ ॥ भूतादिपरिणामस्य नाशात् सृष्टिः कथं भवेत् ।। विनष्टस्य तु वेदस्य निसत्वमपि दुर्लभम् ॥ ११० ॥ अतो वेदादिनिसत्वं प्रवाहानादिताश्रयात् ॥ इति चेन विरोधोऽत्र कथञ्चिदपि सम्भवेत् ॥ ११ ॥ समाननामरूपं तज्जगत् सृजति वै हरिः॥ बहु स्यामिति सङ्कल्प्य पूर्वावस्थं जगत् स्मरन् ॥ ११२ ॥ शक्तिमात्रावशेषं यत्पलीनमभवत् पुरा ॥

३२
श्रीभाष्यवार्तिके
समाननामरूपं तदू वेदादिजगदसृजत् ॥ ११३ ॥
हिरण्यगर्भपर्यन्तब्रह्माण्डं महदादिकम् ॥
पूर्व सृष्ट्वा तथा वेदान् यथावस्थानुपूर्वकान् ॥ ११४ ॥
आविर्भाव्योपदिश्यैवं ब्रह्मणे पूर्ववत् तथा ॥
देवसर्गे तं नियुज्य तत्तदात्मतया स्वयम् ॥ ११५ ॥
अवतस्थे ह्यतः सर्वमुपपन्नं भविष्यति ॥
पूर्वानुपूर्वीसदृशं वेदस्योच्चारणं तु यत् ॥ ११६ ॥
तदेवापौरुषेयत्वं क्रमसंस्कारसंस्मृतेः ॥
वस्वादियोपासनायामधिकारोऽस्ति वा नवा ॥ ११७ ॥
वस्वादित्यादिदेवानां तत्र नास्तीति युज्यते ।।
उपासकातिरेकेण वस्वादीनामसम्भवात् ॥ ११८॥
असाविसादिवाक्येन वस्वादिसत्वामिष्यते ॥
प्राप्यं तस्मान्नाधिकारो देवानां देवसेवने ॥११६ ॥
सं देवा इति वाक्येन परब्रह्मात्मनीखरे ॥
देवमानवसेव्यत्वं श्रूयते नेतरत्र तत् ॥ १२० ॥
इति प्राधिकारं तु मनुते बादरायणः ॥
वस्वादित्योपासनायां वस्खादिसासुरद्विषाम् ॥ १२१ ॥
वस्वादित्यत्वसम्प्राप्तिपूर्वकं यत इष्यते ॥
ब्रह्मपेप्सा ततोऽस्त्येव तेषां तद्देवताश्रयः ॥ १२२ ॥
ब्रह्मणः माप्तिपर्यन्तं वस्वादिफलसंश्रुतेः ॥
वस्वादिभोग्यभूता ये आदिसांशाः प्रकीर्तिताः॥ १२३ ॥
तेषामुपासनं यत्तु तदवस्थपरात्मनः ॥
कार्यकारणसदस्थब्रह्मोपासनवान् सुरः ॥ १२४ ॥
सम्प्राप्य वस्वादिसत्वं तत्कल्पे ब्रह्म गच्छति ॥
ब्रह्माप्यवधिपर्यन्तं वस्वादिफलसंश्रुतेः ॥ १२५ ॥

१ अध्याये ३ पादः। ३३ शूद्रस्याप्यधिकारोस्ति न वेसत्र विचार्यते ॥ किं युक्तमधिकारोऽस्ति शूद्रस्य ब्रह्मसेवने ॥ १२६ ॥ अर्थित्ववत्त्वाच्छूद्रस्य तत्प्रयुक्ताधिकारिता ॥ अनग्निविषयत्वाच्च नाधिकारोऽस्ति कर्मसु ॥ १२७ ॥ अग्निसाध्येषु शूद्रस्य यद्यप्यत्रास्ति तथापि ॥ ब्रह्मोपासनमात्रे हि स्वस्ववर्णाश्रमोचिताः ॥ १२८॥ क्रिया एव त्वपेक्षन्ते शुश्रूषासन्तिताः क्रियाः॥ शूद्रेसामन्त्र्य रैक्वस्तु ब्रह्मविद्यां वदयमुम् ॥ १२९ ।। अतोऽस्य ब्रह्मविद्यायामधिकारः भवर्ण्यन्ते ॥ इति प्राप्ते नाधिकारः सामर्थ्याभावतो घलम् ॥ १३० ॥ असमर्थस्य चार्थित्वसम्भवेऽपि न युज्यते ॥ अधिकारस्तु शूद्रस्य वेदाध्ययनहानितः ॥ १३१ ॥ पुराणश्रवणानुज्ञापापनाशार्थमिष्यते ॥ शूद्रस्य ब्रह्मोपासार्थं न तु सेति विनिर्णयः ॥ १३२ ॥ यत्तु संवर्गविद्यायां शुश्रूषाद्याः क्रियाः पुनः॥ अधिकारं सूचयन्ति शूद्रस्येति भवेन हि ॥ १३३ ॥ ब्रह्मज्ञाने हि वैकल्ये हंसोक्सानादरश्रुतेः ॥ जानश्रुतेस्तु सआता शुगस्येति तया शुचा ॥ १३४ ॥ रैक्वब्रह्मविदः पार्श्व प्रसाद्रवणहेतुना ॥ तेन शूद्रेति सम्बोध्य ब्रह्मविद्योपदिश्यते ॥ १३५ ॥ रैक्वेनेसेव शूद्रत्वं न तु तद्वर्णतोऽत्र हि ॥ बहुग्रामप्रदानत्वात् तथा देशाधिपत्वतः॥ १३६ ॥ जानश्रुतेः क्षत्रियत्वाऽवगमान्नास्ति शूद्रता ॥ अस्यां संवर्गविद्यायामुत्तरत्रापि कीर्तनात् ॥ १३७ ॥ अभिप्रतारिनाम्नश्च क्षत्रियस्येससावपि ॥

३४
श्रीभाष्यवार्तिके
जानश्रुतिः क्षत्रियो हि साहचर्याख्यलिङ्गतः ॥ १३८ ।
शूद्राधिकारे नो लिङ्गमेवं न्यायविरोधिनि ॥
ब्रह्मविद्योपदेशेषु संस्कारः श्रूयते पुनः ॥ १३९ ॥
अतः शूद्रो नाधिकारी शूद्रे नोपनयो यतः॥
शूद्रस्य वेदश्रवणं वेदाध्ययनमेव च ॥ १४० ॥
पुनस्तदर्थानुष्ठानं प्रतिषिद्धमतोऽपि न ॥
अथ हाऽस्येति वाक्येन प्रतिषेधस्तु स्मर्यते ॥ १४१ ॥
निर्विशेषैकचिन्मात्रं ब्रह्मैव परमार्थतः॥
तद्भिन्नमखिलं मिथ्या बन्धश्वापारमार्थिकः ॥ १४२ ॥
स वाक्यजन्ययाथात्म्यज्ञानमात्रान्निवर्त्तते ॥
तन्नित्तिः परं मोक्ष इसङ्गीकर्तृणां मते ॥ १४३ ॥
शूद्रायनधिकारोऽत्र न वक्तुपपि शक्यते ॥
यस्मात् कस्मादपि तथा चिन्मात्रब्रह्मवेदनात् ॥ १४४ ॥
शूद्राणां वन्धहानिः स्यादुपनीताद्यभाविनाम् ॥
न ह्यत्र तत्त्वमरयादिवाक्याद्याथात्म्यवेदनम् ॥ १४५ ॥
सम्पाद्यं नेतरस्माद्धि नियन्तुमिति शक्यते ॥
अस्यापुरुषतन्त्रत्वात् सामग्रीमात्रतो जनेः ॥ १४६ ॥
अनिच्छतोपि लोकस्येत्येवं तद्भाष्यदर्शनात् ॥
वेदवाक्यजयाथात्म्यज्ञानेन विनिवर्तते ॥ १४७ ॥
बन्ध इसपि नो वक्तुं शक्यते त्वाशैरपि ।
वेदवाक्याद् भवेद्यादृग् याथात्म्यज्ञानमत्र ते ॥ १४८ ॥
पौरुषेयादपि तथा नोविशेषोऽस्ति कश्चन॥
शुक्तिकारजतभ्रान्तिर्यथा पौरुषवाक्यतः ॥ १४९ ॥
निवत्तते तथैवास्माच्छूद्रवन्धनिवर्त्तनम् ॥
निदिध्यासनतो द्वैतवासनागमनोत्तरम् ॥ १५० ॥

१ अध्याये ३ पादः। ३५ तत्त्वमस्यादिवाक्योत्थं ज्ञानं बन्धनिवर्तकम् ॥ इति चेत् पौरुषं वाक्यं तथैवाऽस्तु निवर्तकम् ॥ १५१ ॥ अपशूद्राधिकरणं नातः स्वरसतो लगेत् । तदेवं मध्यसम्पाप्तामधिकारकथामिमाम् ॥ १५२ ॥ समाप्याङ्गुष्ठमात्रस्य ब्रह्मेशत्वेऽधुनोच्यते ॥ हेत्वन्तरं यतः सर्वे कम्पन्तेऽङ्गुष्ठशत्रतः॥ १५३ ॥ अतोऽङ्गुष्ठमितं ब्रह्म परेशमिति निर्णयः । अङ्गुष्ठमितयोर्मध्ये वाक्ययोः सर्वकारणम् ॥ १५४ ॥ ब्रह्मासाधारणं सर्व तेजसां छादकं तथा ।। ज्योतिः संदृश्यते तस्मादगुष्ठमित एव सः ॥१५५॥ आकाशो वै निर्वहिता नामरूपयोरिह ॥ आकाशशब्दनिर्दिष्टो मुक्ताऽऽत्मा वा परेश्वरः ॥ १५६ ॥ किं युक्तं तत्र मुक्तात्मा ह्यश्व इसादिवाक्यतः ॥ प्रकृतत्वाद् विमुक्तस्य निःसङ्कोचप्रकाशतः ॥ १५७ ॥ मुक्तत्वे नामरूपादिमुक्तस्यापि शरीरिणः ॥ बद्धत्वे नामरूपादिनिर्वाहस्यापि सम्भवात् ॥ १५८ ॥ इति प्राप्ते परात्मा वा आकाशोऽर्थान्तरत्वतः ॥ न नामरूपे निर्वोढुं शक्नुयानामरूपवान् ॥ १५९ ॥ मुक्तोऽपि नो निर्वाहता नामरूपादिकस्य हि ॥ जगद्व्यापारराहिसात् तद्वानाकाश ईश्वरः ॥ १६० ।। न मुक्तः प्रकृतो ह्यत्र प्रकृतः परमेश्वरः ।। नामरूपादिनिर्वोढा गतपाप्मा ततो हरिः ॥ १६१ ॥ नचाकाशः प्रसगात्मा क्वचिद् दृष्टचरो वरैः ॥ अत आकाशपदतो वर्णितः परमेश्वरः ॥ १६२॥ अथ स्यात् प्रसगात्माऽत्र ब्रह्माभेदोपदेशतः ॥

श्रीभाष्यवार्तिके
नामरूपादिनिवाढाऽऽकाशः स्यादिसतो ब्रुवे ॥ २६३ ॥
प्रयगात्मनः परस्मात् मुषुप्त्युत्क्रान्तिकालयोः ।
व्यपदिष्टो यतो भेद अत आकाश ईश्वरः ॥ १६४ ॥
परात्मना परिष्वक्तो न बाह्यं नापि नान्तरम् ।।
जानाति मुप्तौ चोत्क्रान्तौ परात्मा प्राज्ञ उच्यते ॥ १६५ ॥
स एष सर्वाधिपतिर्वशी सर्वस्य सर्वराट् ॥
स एव भूताधिपतिर्भूतपाला स एव हि ॥ २६६ ॥
इति पसादिशब्देभ्य आकाशः परमेश्वरः ।।
ऐक्योक्तिस्तु परस्यैवं चेतनाचेतनात्मनः ॥ १६७ ॥
स्थूलस्य सूक्ष्मचिदचिद्विशिष्टब्रह्मकार्यतः ॥
सर्व सत् खल्विदं ब्रह्मेसादिवाक्ये निरूप्यते ॥ १६८।।
इति श्रीभाष्यवार्तिके प्रथमाध्यायस्य तृतीयः पादः ॥ १॥३॥

१ अध्याये ४ पादः। मोक्षहेतुततया ब्रह्म जिज्ञास्यं विश्वकारणम् ॥ अचिद्वस्तुमधानाच्च बद्धमुक्तोभयाह्वयात् ॥ १॥ विलक्षणं दोषहीनं सर्वशं सर्वशक्तिमत् ॥ समस्तकल्याणगुणं सससङ्कल्पमीश्वरम् ॥ २॥ निरूप्य प्रतिपाद्यन्ते प्रधानादिपराणि हि ॥ कापिलागमसिद्धान्तिवयरसाहतानि च ॥३॥ वाक्यानि तत्र यद् व्यक्तमव्यक्तपदमीरितम् ॥ तत् किं प्रधानं किमुत परब्रह्मोत संशयः॥४॥ तत्र प्रधानमिति हि यतस्तत्प्रक्रियासु च ॥ प्रसभिज्ञानतो भानात् तस्यैव पुरुषाव पृथक् ॥५॥ महतः परमव्यक्तमित्येवं कारणोक्तितः ॥ इति प्राप्तेऽव्यक्तशब्दो न प्रधानप्रबोधकः ॥ ६ ॥ आत्मदेहमनोबुद्धिरयादिलेन रूपणात् ॥ शरीररूपकन्यस्तमन्नमव्यक्तमीरितम् ॥ ७ ॥ आत्मानं रथिनं विद्धि शरीरं रथमेव च ॥ बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ ८॥ इन्द्रियाणि हयानाहुरविषयांस्तेषु गोचरान् । इसादि सोऽध्वनः परमाप्नोति परमं पदम् ॥९॥ इसन्तेन रथित्वेन शरीरादिनिरूपणम् ॥ तस्मादव्यक्तशब्देन शरीरमिह पठ्यते ॥ १०॥ स्थादिरूपिते देहे येषां येभ्यः प्रधानता ॥ इन्द्रियेभ्यः परा धर्था इति वाक्येन सोच्यते ॥११॥ कथमव्यक्तशब्देनाऽव्यक्तो देहो निरूप्यते ॥ तत्रोच्यते भूतसूक्ष्ममवस्थान्तरतां गतम् ॥ १२ ॥ अध्याकृतमिहाव्यक्तशब्देन प्रवितन्यते ॥

श्रीभाष्यवार्तिके
अव्याकृताचेतनस्य विकारिरथवत् पुनः ॥ १३ ॥
परार्थसाधनीभूतयत्नार्हत्वान्न संशयः ॥
यद्यप्येवं भूतसूक्ष्ममव्याकृतमिहोच्यते ॥ १४ ॥
सहि कापिलतन्त्रेण सिद्धं न किमिहोच्यते ॥
तबाह कारणीभूतपुरुषाधीनताप्तितः ॥ १५ ॥
प्रयोजनं प्रकृत्यादि खं खे संसाधयत्यलम् ॥
यतः सर्व प्रकृत्यादिशरीरं परमात्मनः ।। १६ ॥
अन्यथा स्युः प्रकृसादेः स्वरूपं न प्रवृत्तयः ।।
तत एव हि तत्सिद्धप्रकृसाखण्डनं कृतम् ॥ १७ ॥
अत एव श्रुतिस्मृसोर्जगज्जन्मलयोक्तिषु ॥
प्रकृतिविकृतिर्जीवाः सङ्कीर्सन्ते परात्मकाः ॥ १८ ॥
तन्त्रसिद्धामहाव्यक्तं भवेद् यदि विवक्षितम् ॥
प्रवदेत् तर्हि ज्ञेयत्वमतो नास्येह संग्रहः ॥ १६ ॥
अशब्दमिति वाक्येन ज्ञेयत्वं वदति श्रुतिः ॥
इति चेन्न यतः प्राज्ञो निचाय्यत्वेन पठ्यते ॥ २० ॥
विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः ॥
सोऽध्वनः पारमाप्नोति तद् विष्णोः परमं पदम् ॥ २१ ॥
एषु सर्वेषु भूतेषु गूढोत्मा न प्रकाशते ॥
दृश्यते त्वग्रयया बुद्धया सूक्ष्मया सूक्ष्मदर्शिभिः ॥ २२ ॥
इति प्राज्ञेश्वरस्यात्र प्रकृतत्वान्न संशयः ।।
अत एवात्र पुरुषात् पञ्चविंशकसंज्ञकात् ॥ २३ ॥
न परं किञ्चिदिति च भिन्नतत्त्वनिराकृतिः ॥
अशब्दत्वादयो धर्मास्तस्यैव परमात्मनः ॥ २४ ॥
यत्तदग्राह्यमियादिश्रुतिभिः परिकीर्तिताः ।।
महतः परमिसादि बुद्धरात्मा महान् परः ॥ २५ ॥

१ अध्याये ४ पादः। इति प्राक् प्रकृताज्जीवाद परत्वं परिपठ्यते ।। उपन्यासस्त्रयाणां वै ज्ञेयत्वेन यतः कृतः ॥ २६ ॥ उपायोपेयोपेतृणामतोऽव्यक्तं न कापिलम् ॥ यथाऽऽत्मशब्दसमभिव्याहृतान्महतो गिरा ॥२७॥ महत्तत्त्वं न च तथाऽव्यक्तमप्यात्मनः परम् ॥ कापिलं नात्मनो यस्मात् परत्वेनाभिधानतः ॥ २८ ॥ अजामियादिमन्त्रे या प्रकृतिः श्रूयते किल ॥ स्वतन्त्रा तन्त्रसिद्धा साऽथवा ब्रह्मात्मिका भवेत् ॥ २९ ॥ युक्तं तु केवला यस्मादजेसेकत्वसंश्रुतिः ॥ वसरूपानन्तविश्वस्रष्तृत्वश्रवणं तथा ॥ ३० ॥ इति प्राप्ते चमसवदविशेषादिहोच्यते ॥ न जायत इसजात्वमोक्तिमालान दृश्यते ॥ ३१॥ केवलायास्तथा ब्रह्मात्मिकाया ग्रहणेऽपि च ॥ विशेषः प्रकृतेर्यद्वच्चमसो भक्षसाधने ।। ३२ ॥ प्रसिद्धो न विशेषार्थो विशेषो वाक्यशेषतः ॥ यौगिकानां हि शब्दानामर्थप्रकरणादिभिः ॥ ३३ ॥ विना नार्थविशेषे हि निर्णयो भवति ध्रुवम् ॥ अजा तथाऽत्र निर्णेया ह्यर्थप्रकरणादिभिः ॥ ३४ ॥ नचात्र तन्त्रसिद्धाज्जाग्रहे प्रकरणादयः ॥ दृश्यन्तेऽस्यां न स्वातन्त्र्यात् स्रष्दृत्वं जडभावतः ॥ ३५ ॥ अजा ह्यनेन मन्त्रेण परब्रह्मात्मिकोच्यते ॥ ब्रह्मात्मिकाऽजाग्रहणे हेतुरस्तीत्युवाच ह ॥ ३६ ॥ ब्रह्मकारणिकाजेयं सैषांजा ज्योतिरिसतः॥ उपक्रमात् तथा ोके शाखिनोपि पठन्ति ताम् ॥ ३५ ॥ अणोरिसादिवाक्येनोपास्यत्वेन गुहाहितम् ॥

श्रीभाष्यवार्तिके
ब्रह्माभिधाय तस्माच्च सप्तमाणजनिस्तुताः ॥ ३८॥
ततस्तु सर्वलोकानां ब्रह्मादीनां प्रसम्भवम् ॥
अभिधाय विश्वजनिका साजोत्पन्नाऽभिधीयते ॥ ३९ ॥
ते ध्यानयोगादपश्यन्निसादिश्रुतिवाक्यतः ॥
ब्रह्मशक्तिखरूपाया अजायाः सम्प्रतीतितः ॥ ४०॥
न स्वतन्त्रप्रकृसादिप्रतिपत्तिः कथचन ॥
कथमस्या अजात्वं वा ज्योतिष्ट्वं समुपक्रमात् ॥ ४१ ॥
इतिचे विश्वसृष्टीनामुपदेशाद् द्वयं भवेत् ॥
तथाहि सूक्ष्माऽवस्थातः कारणादीश्वरो जगत् ॥ ४२ ॥
सृजतीति कल्पनातः कार्यकारणरूपतः ॥
अवस्थाद्वयस्यान्वयः प्रकृतेरवगम्यते ॥ ४ ॥
सा हि प्रलयवेलायां ब्रह्मतापन्नरूपिणी ॥
अविभक्तनामरूपा ह्यव्यक्तादिगिरेरिता ॥ ४४ ॥
सृष्टिकाले समुद्भूतसत्त्वादिगुणभागिनी ॥
विभक्तनामरूपा साऽव्यक्तादिपदबोधिता ॥ ४५ ॥
तेजोऽबन्नस्वरूपेण परां परिणतिं गता ॥
रक्तशुक्लशिताकारा प्रकृतिः परिपठ्यते ॥ ४६॥
अतोज्जा कारणावस्था कार्यावस्था च सा भवेत् ॥
ज्योतिरुपक्रमेसेवं मध्वादिवददुष्टता ॥ ४७ ॥
सूर्यस्य कारणावस्थावस्थितस्यैकरूपिणः॥
कार्यावस्थावस्थितस्य त्रयीनिष्पाद्यकर्मणा ॥ ४८ ॥
वस्वादिभोग्यसनातरसाश्रयतया यथा ॥
मधुत्वकल्पनमथोदयास्तमयकल्पनम् ॥ ४९ ॥
न विरुद्धं तथाऽनेन मन्त्रेणाजा परात्मिका ॥
अभिधीयते तन्त्रसिद्धा स्वतन्त्रा नाभिधीयते ॥ ५० ॥

चतुर्थोऽवतारः। प्रमाणनिरूपणानन्तरं प्रमेयं निरूप्यते । प्रकर्षण मेयं प्रमे बम् । तच्च विविधम् । द्रव्याद्रव्यभेदात् । द्रश्यम् उपादानम् । अवस्थाश्रयमुपादानम् । ननु द्रव्यगुणकर्ममामान्यविशेषसमवाया. भावाः सप्त पदार्था इति मतान्तरस्थैः पोढा परिगगनात् कथं द्रव्याद्रव्यभेदेन द्विधा समर्थन मिति चेदुच्यते । उत्क्षेपणापक्षेपणा- कुञ्चनप्रसारणगमनभेदात् कर्म पञ्चधाऽवस्थितमिति कल्पने गौ- स्वात् चलनात्मकं कर्मेत्येकधैवोपपत्तेस्तस्यापि संयोगमादायैवो- पपत्ते, संस्थानमेव जातिरिति संस्थानातिरेकि सामान्यानङ्गीकाराव समवाये समवायान्तराङ्गीकारे अनवस्थानात, तस्यापिसंयुक्तविशे- पणतयकोपपत्नीवेश्वरयोरणुत्वविभुत्वादिविभाजकधर्ममन्तरेण, वि- शेष-इति किश्चित्पदार्थान्तराङ्गीकारे गौरवाद् अनः कर्मसामान्य- विशेषसमवायानां पृथग द्रव्यत्वेन अनङ्गीकाराच द्रव्यमव्यमिति द्विधा विभाग उपपद्यते । एतेन अभावः सप्तमपदार्थ इत्यपि निरस्तम् । अभावस्य भा- वान्तररूपत्वात् प्रागभावो नाम पूर्वावस्थापरम्परा, प्रध्वंसाभावो नाम उत्तसवस्थापरम्परा, अत्यन्ताभावान्योन्याभावौ तु धर्मान्तर- स्वरूपानेच । एतस्य प्रत्यक्षेऽन्तर्भावः पूर्वमुक्तः । उपादानं गन्य- मित्युक्तम् । गुणाश्रयोका द्रव्यमिति सामान्यलक्षणं संभवति तानि च द्रव्याणि षट् प्रकृतिकालशुद्धतत्वधर्मभूतज्ञानजीवेश्वरभेदात् । वन जडाजरूपयोविभक्तयोर्मध्ये जडलक्षण मुच्यते । अमिश्र- सत्वरहितं जडमिति । तद् द्विविधं प्रकृतिकालभेदात् । तत्र सत्त्वरजस्तमोरूपगुणत्रयाश्रया प्रकृति सा नित्या अक्षरा अविद्या मायेति शब्दवाच्या च।त- सयां भगवत्संकल्पाधीनगुणवैषम्यात् कार्योन्मुखावस्था अव्यक्त- शब्देनोच्यते । तस्मान्महानुत्पद्यते । स महान मालिकराजल-

श्रीभाष्यवार्तिके
तस्मान्न तन्त्रसंसिद्धतत्त्वग्रामोऽत्र गृह्यते ॥६३ ॥
वेदान्तवाक्येष्वेकस्मात् सृष्टिराम्नायते न हि ॥
सदेवेति कचित् सा तु सत एव हि पठ्यते ॥ ६४ ॥
असदेसादिवाक्येन कचिद्वा असतो जनिः ॥
असतो जायत इति जगतः परिपठ्यते ॥६५॥
निश्चेतुं शक्यते नातो जगद् ब्रह्मैककारणम् ॥
सद्धेदमिति संश्रुत्याऽव्याकृतं विश्वकारणम् ॥ ६६ ॥
अव्याकृतं पुराऽव्यक्तनामरूपं मुसंस्थितम् ॥
व्याक्रियते प्रधानं तत् साम्प्रतं नामरूपतः॥ ६७ ॥
एवं प्रधानहेतुत्वे निश्चिते हि क्षणादयः॥
सृष्ट्युन्मुखाशयेनेह नेया अव्याकृतेऽक्षरे ॥ ६८ ॥
बृहत्त्वसर्वव्यापित्वे प्रधाने संस्थिते यतः ॥
ब्रह्मात्मशब्दावपि च ततस्तत्रैव नीयताम् ॥ ६९ ॥
अतः स्मृतिन्यायसिद्धं प्रधानं विश्वकारणम् ॥
समुच्यते वेदवाक्यैरिति प्राप्ते प्रचक्ष्महे ॥ ७० ॥
सससङ्कल्पसर्वेशानिरस्ताखिलदोषतः ॥
परब्रह्मण एव स्याज्जगतोऽखिलसअनिः ॥ ७१ ॥
आकाशादिषु हेतुत्वव्यपदेशायथायथम् ॥
तस्माद्रेसादिवाक्याच्च तत् तेज इति वाक्यतः ॥ ७२ ॥
ससं ज्ञानमनन्तं यद् विपश्चिद् ब्रह्मसंश्रुतम् ॥
तस्माद्वा एतस्मादिति तदेव परिगृह्यते ॥ ७३ ॥
सर्वत्र सृष्टिवाक्येषु द्रष्टव्यं निखिलं जगत् ॥
ब्रह्मैककारणं तत्रासद्वतिश्रुतिवाक्यतः ॥ ७४ ॥
असत्कारणमुद्दिष्टं सर्वशं तत् कथं भवेत् ॥
तत्रोच्यते समाकर्षादसद् वेति परश्रुतौ ॥ ७५ ॥

१ अध्याये ४ पादः। ४३. साक्षिणं तमुपक्रम्यासद् वेत्यायुत्तरत्र च ॥ भीषास्मादिति वाक्येन समाकृष्य परात् परम् ॥ ७६ ॥ प्रशासितृत्वप्रभृतिगुणानामुक्तितो ह्यसत् ॥ नामरूपविभागादिरहितेशमवाचकम् ॥ ७७ ।। असत्पदेनोच्यतेऽतो नामरूपाविभक्तकम् ॥ तद्धेदमिति वाक्ये वा अन्याकृतपदं पुनः ।। ७८ ॥ अव्याकृतशरीरं तद् ब्रह्मैव पठति ध्रुवम् ॥ प्रकृतिधर्माध्यासेन हेतुः परिणति प्रति ॥ ७९ ॥ पुरुषः पठ्यते नै किन्त्वत्र पुरुषोत्तमः ॥ यस्य चैतज्जगत् कर्म तत्कार्यजगदुक्तिभिः ॥८० ॥ जीवमुख्यमाणलिङ्गाज्जीवमाणौ परो न च ॥ इति चेन्न यथा तत्र लिङ्गानि परमेश्वरे ॥८॥ संयोज्यानि तथैवात्र यस्येसखिलकारणम् ॥ ब्रह्मेत्युक्तं यतो हेतोः स्वाराज्यफलसंश्रुतिः ॥ ८२ ।। जीवसङ्कीर्तन, जीवाद्भिन्नेशस्य प्रतीतये ।। प्रश्नोत्तराभ्यामिदेवं जैमिनिर्मन्यते परम् ॥ ८३ ॥ मुप्ताज्ज्ञानमयाद्भिन्नमेके वाजसनेयिनः ॥ नदाश्रयं परात्मानमामनन्ति न संशयः ॥ ८४.. यदि कापिलसंसिद्धपुरुषाद्भिन्न ईश्वरः ॥ इति नो तर्हि द्रष्टव्य आत्मा स्यादीवरो हारः ॥ ८ ॥ परमात्मा हि जीवेभ्यो यथाकर्म प्रपूजितः ।। तत्तत्कर्मानुरोधेन मियत्वं सम्प्रयच्छति ॥ ८६॥ एकविज्ञानभावेन सर्वविज्ञानजन्मनः . लिङ्गाज्जीवात्मसंशब्दैः परमात्माभिधीयते ।। ८७ ॥ परकार्यतया जीवः परमात्मैव नो भवेत् ।।

१८ पैतिपतिमतदीपिकायाम् । स्मिन्नानासलिलातपकुमाद्यत्रयवयोगाच्छीतोष्णतारमादिमतीतिः। अन एव तदवयवानां सूक्ष्माणां योगाच्छीतो वायुरुष्णो वायुः, मुरभिरिति व्यपदेशः । स च त्वगिन्द्रियाप्यायकत्वेन उपकरोति। तस्य शब्दस्पर्शी गुणौ। तत्र शरीरधारणादिहेतुर्वायुविशेषः प्राणा: दिसंज्ञकः पश्चमकारः। प्राणापानव्यानोदानसमानभेदात् । हृदि प्राणो, गुदेऽपानः, सर्वशरीरगो व्यानः, कण्ठे उदानो, नाभिदेशे समान इति । जङ्गमेष्विव स्थावरेषु च माणसंबन्धस्तुल्य एच । स च स्पार्शनप्रत्यक्षः । एतेन अनुमेयवादनिरासः । वायुतेज. सोमध्यमावस्थाविशिष्टं द्रव्यं रूपतन्मात्रम् । तस्मात् तेजः । उष्ण- स्पर्शवत्त्वभास्वररूपवत्त्वादिकं तु तेजप्तो लक्षणम् । तस्य बहिः पचनादिहेतुत्वम् अधिसूर्यात्मना । अन्तर्वैश्वानरसंज्ञकजाठराग्नि- रूपेण । दिवाभीतादिव्यतिरिक्तानां चाक्षुषज्ञाने आलोकादिरूपेण सहकारी भवति । तच्चतुर्दा भौमदिव्यौदाकरजभेदात् । तत्र पार्थिवमात्रेन्धनं तेजो भौमम् । तद् दीपादि । जलमा न्धन दिव्यं सूर्यादि । पार्थिवजलेन्धनम् औदर्यम् । तज्जाठरम् । निरिन्धनं तेज आकरजं स्वर्णादि । स्वर्णस्य द्रव्यान्तरसंसर्गादुष्ण- स्पर्शाभावः। पुनः सामान्येन, प्रभा प्रभावॉश्चेति विभक्त, आवरण- सदसद्भावाधीनसंकोचविकाशः । प्रसारितेजोविशेषः प्रभा । साच प्रभावद्भिः सहोत्पद्यते सह नश्यति । द्रव्यरूपा गुणभूता सावयवा च । अनेन प्रभायाः केवलगुणवमतनिरासः । प्रभाविशिष्टं तंज: प्रभावत्तञ्चतुर्विधमिति प्रतिपादितम् । तत्तेजः शब्दस्पर्शरूपगुणव- च । तेजः सलिलयोमध्यमावस्थाविशिष्टं द्रव्यं रसतन्मात्रम् । स्मादापः । शीतस्पर्शवत्वं, निर्गन्धवे सति विशिष्टरसवचम् ।। स्यादि अपां लक्षणम् । तासां शुक्लमधुरशीतकस्वभावानाम् - यादिसंसर्गभेदाद रूपरसस्पर्शवैचित्र्याशेषः । ताः समुद्रसारित १. अध्याये ४ पादः। अधिष्ठायैव प्रकृतिमुपादानस्वरूपिणीम् ।। विश्वं सृजति विश्वेशो निमिचं कुम्भकारवत् ॥ १०१ ॥ इति मासे छुपादानं निमित्तं परमेश्वरः ॥ एकविज्ञानतः सर्वविज्ञानस्य प्रतिज्ञया ॥ १०२॥ यथा सोम्येति दृष्टान्तानुपरोधेन हेतुना ॥ अनाधन्तवतीयं गौरिसादिप्रकृतिश्रुतौ ॥ १०३ ॥ अविभक्तनामरूपं कारणावस्थमीश्वरम् ।। ब्रह्मप्रकृतिशब्देन पठ्यतेऽन्यस्य हानितः ॥ १०४ ॥ सर्व वेदात्मनोऽन्यत्र तं परादादिति श्रुतिः।। ब्रह्मातिरिक्ताभावं सा प्रतिपादयति स्फुटम् ॥ १०५॥ सोऽकामयतवाक्येन बहु स्यामिति वाक्यतः ॥ उपादानं निमित्तं च ब्रह्मैव परिकीर्सते ॥ १०६ ॥ न केवलं प्रतिज्ञायैरयमर्थोऽभिधीयते॥ किन्तु साक्षादुपादानं निमित्तं ब्रह्म चोच्यते ॥ १०७ ॥ ब्रह्मवनं ब्रह्मवृक्षो यतं आसीदिदं जगत् ।। ब्रह्माध्यतिष्ठन् सर्वत्र धारयद् भुवनानि हि ॥ १०८ ॥ किमुपादानं कानि च साधनानीति लोकतः ॥ पृष्टे स्वेतरभिन्नस्य ब्रह्मणः सर्वयोग्यता ॥ १०९ ॥ न विरुद्धति ब्रह्म स्यादुपादानं निमित्तिकम् ॥ स्वयमकुरुतात्मानमिसेवं कर्तृकर्मणोः ॥ ११० ॥ अभेदस्योपदेशेन यदेकं ब्रह्म तद् द्वयम् ॥ अविभक्तनामरूप आत्मा कर्ताऽभिधीयते ॥ १११॥ विभक्तनामरूपः स कार्यमियपि पठ्यते ॥ तस्मात् कर्तृत्वकर्मत्वे न विरोधो मनागपि ॥ ११२ ॥ निरस्ताऽखिलदोषस्य चेतनाचेतनात्मनः ॥

४
श्रीभाष्यवार्तिके
परिणामविकारो हि कथमिसत्र संशृणु ॥ ११३ ॥
परिणामस्वभावो हि विशषणगतो भवेत् ॥
न विशेष्यस्य दोषित्वमावहेन्निष्फलस्य हि ॥ ११४ ॥
सूक्ष्मचिदचिद्रूपस्य स्थूलचिदचिद्रूपता ॥
सम्पद्यते यतो देवान्न भवेद स विकारभाक् ॥ ११५ ॥
योनिशब्दादुपादानं कर्तृशब्दानिमित्तकम् ॥
ब्रह्मैवाचिन्यशक्तित्वान्न विरोधो मनागपि ॥ ११६ ॥
एवं सर्वत्र वेदान्ते जगत्कारणवाचकाः॥
चेतनाचेतनवतो ब्रह्मणः प्रतिपादकाः ॥ ११७ ॥
सूक्ष्मस्य स्थूलतापत्ति स्थूलस्य सूक्ष्मतां तथा ॥
सम्पाद्य रमते विष्णुर्वेदवेदान्तगोचरः ॥ ११८ ॥
असक्षादिप्रमाणानां गोचरादविचेतनात् ॥
तत्संसृष्टाद्वियुक्ताच्च चेतनाद्भिननिष्कलम् ॥ ११९ ॥
आनन्दरूपममलमायेऽध्याये निरूपितम् ॥
इति श्रीभाग्यवार्तिके प्रथमाध्यायस्य चतुर्थः पादः॥१॥४॥

२ अध्याये १ पादः। विरुद्धवादिसम्भाव्यप्रकारविनिवृत्तये ॥ आरभ्यते गुरुं नत्वा द्वितीयाध्यायवार्तिकम् ॥१॥ श्रुतीनां तत्परत्वं न विरोधात कापिलस्मृतेः ॥ अतस्तत्स्मृतिसंसिद्ध एवार्थः श्रुतिबोधितः ॥२॥ अन्यथाऽनवकाशः स्यात् कापिलायाः स्मृतेरिह ॥ इतिचन्नान्यमन्वादिस्मृतीनां तत्प्रसङ्गतः ॥३॥ यदि कापिलस्मृत्युक्तसिद्धान्तस्यानुरोधतः ।। श्रुतिवाक्यव्यवस्था स्यात् तदान्यानवकाशता ॥ ४ ॥ भारतं भगवद्गीता मन्वाद्याः स्मृतयस्तथा ॥ विरुद्धानवकाशत्वदोषेणैषां तु पीडनम् ॥५॥ यद्याप्तकपिलोक्तीनामनुरोधाच्छ्रुतीरितम् ॥ व्यवस्थाप्यं तदासाप्तगुरुक्तीनां हि गौरवात् ॥ ६ ॥ तत्प्रणीतेन वेदार्थो व्यस्थाप्यः कुतो न हि ॥ यदै किञ्चिदिति श्रुसा सिद्धमन्वादितद्रिदाम् ॥ ७॥ तत्वोपलब्धि वास्ति कपिलोक्तिप्रकारतः॥ तदुक्तिद्घन्तिमूलेति श्रुसर्थो न तया ततः ॥ ८ ॥ शक्योऽस्ति प्रच्यावयितुं तद्विदुक्तिविरोधतः । कापिलोक्तिनिराकृसा निरस्ता यौगिकस्मृतिः ॥ ९॥ योगे ईशाभ्युमगमान्मोक्षसाधनतोक्तितः ॥ वक्तुर्हिरण्यगर्भस्य वेदान्ताधिकृतत्वतः ॥ १० ॥ श्रुसर्थनिर्णयोन्याय्यो योगोक्तेरनुरोधतः ॥ इतिचेन्न प्रधानस्य जगत्कारणतोक्तितः ॥११॥ ब्रह्मविश्वं प्रतीशस्यानुपादानत्वतोक्तितः ॥ निमित्तमात्रतोक्तेश्च न योगः श्रुतिसंमतः ॥ १२ ॥ अत्र वाशङ्कयते ब्रह्म जगतो नैव कारणम् ॥

श्रीभाष्यवार्तिके
विलक्षणत्वात् तदपि शब्दादप्युपदिश्यते ॥ १३ ॥
अचेतनत्वदुःखित्वादयो धर्मा अनीश्वरे ॥
विज्ञानमुखनिसत्वादय ईशे विलक्षणाः ॥ १४ ॥
कथ्यन्तेऽतः प्रधानं स्यात् कारणत्वविलक्षणम् ॥
अशुद्धदुःख्यनीशं यच्चेतनाचेतनात्मकम् ॥ १५॥
जगद् विलक्षणेशेन तत् कथं प्रवितन्यते ॥
ननु,-चेतनात् पुरुषाव केशा जायन्तेऽचेतनाः कथम् ॥१६॥
अचेतनाद गोमयाच्च वृश्चिकाश्चेतना यतः ॥
कार्यकारणभावोऽतो वैलक्षण्येऽपि दृश्यते ॥ १७ ॥
चेति वाच्यं चेतनात् स्यादचेतनजनिः कथम् ॥
अचेतनत्वाभिमतं चेतनत्वेन पठ्यते ॥ १८॥
आपोऽकामयतेत्यादौ मृदोऽपि वचनान्वयात् ॥
इतिचेन्न विजातीयं कारणं कार्यमात्रके ॥ १९ ॥
पुरुषेऽचेतनांशेन केशदन्तादिकं यतः॥
पृथिव्याघभिमानिन्यो देवता मृत्पदादितः ॥ २० ॥
विशेषणत्वादुच्यन्ते मृदादिदेवतोदिता ॥
विशेष्यत्वात् तथाचापि देवताऽनुप्रवेशतः ॥ २१ ॥
अतः कार्य कारणाद्वै जायते न विलक्षणम् ॥
ततो जगद् ब्रह्मकार्य नेति प्राप्तेऽभिधीयते ॥ २२ ॥
जगद्विलक्षणं ब्रह्म तदुपादानमिष्यते ॥
दृष्टा जनिर्माक्षिकादेः क्रम्यादभिन्नरूपिणः ॥ २३ ॥
ननूक्तं यच्चेतनाशं सजातीये हि कारणम् ॥
ससमुक्तं नचैतेन सर्वं सर्वसलक्षणम् ॥ २४ ॥
सर्वस्मात् सर्वमुत्पत्रमन्यथा स्यान्न संशयः॥
ततो विलक्षणं ब्रह्म विलक्षणजगत् प्रति ॥ २५ ॥

२ अध्याये १ पादः। उपादानं कारणं स्याद् यथा स्वर्ण कटादिषु ॥ वस्त्वन्तराद् वस्तुनोऽत्र व्यात्तिजनकस्य तु ॥ २६ ॥ अनुवृत्तिरेव सता सालक्षण्यमुरीकृतम् ॥ माक्षिकादिसमुत्पन्ने कृम्यादौ दृश्यते न तत् ॥ २७॥ तस्मानास्त्यनुपपत्तिब्रह्मकार्ये जगसपि ॥ न मृघटादाविव हि माक्षिककृमिकादिषु ॥ २८ ॥ व्यावर्तकानुगः कश्चिद् वस्त्वन्तरनिरूपितः ॥ कार्यस्वरूपाज्जगतः ? कारणं ब्रह्म चेत् पृथक् ॥ २९ ।। तयोर्द्रव्यान्तरात्वाप्सा कार्यं ब्रह्मण्यसद्भवेत् ॥ नैतदेवं तयोः साम्यनियमप्रतिषेधतः ॥ ३० ॥ न तु द्रव्यान्तरत्वं हि कार्यस्य प्रतिपाद्यते ॥ किन्तु ब्रह्म स्वतो भिन्नविश्वाकारेण केवलम् ॥ ३१॥ परिणामीति सिद्धान्तः श्रुतिवाक्यस्य गौरवात् ॥ वैलक्षण्येऽपि द्रव्यैक्यं कृमिमाक्षिकयोरिह ॥ ३२ ॥ कार्यकारणयोरस्ति कुण्डलस्वर्णयोरिख । द्रव्यैक्यमभ्युपेतं चेत् कार्यकारणयोस्तदा ॥ ३३ ॥ कार्यधर्मा ब्रह्मणि स्युः सुवर्ण इव कौण्डलाः ॥ विजरो विमृत्युरिसादिश्रुतीनां पीडनं ततः ॥ ३४ ॥ अत्रोच्यते शरीरस्थयुवत्वादि नचात्मनि ॥ तथा ब्रह्मशरीरस्थं सङ्कोचादि न ब्रह्मणि ॥ ३५॥ प्रतीयते यतः सर्व चेतनाचेतनात्मकम् ॥ विधेयाधेयशेषत्वैः शरीरं परमात्मनः ॥ ३६ ॥ यच्चेतनस्य यद् द्रव्यं स्वार्थ सर्वात्मना भवेत् ॥ धारयितुं नियन्तुं च शक्यं तच्छेषतात्मकम् ॥ ३७॥ तत्तस्य चेतनस्यात्र शरीरमिति लक्षणम् ॥

श्रीभाष्यवार्तिके
क्वचिच्च प्रतिबन्धेन नियन्तुं चेन्न शक्यते ॥ ३८ ॥
तथापि न शरीरस्य लक्षणाव्याप्तिरिष्यते ॥
अतः सर्वं परेशेन स्वार्थ सर्वात्मना भवेत् ॥ ३९ ॥
धार्य नियम्यं तच्छेषं शरीरमशरीरिणः ॥
कर्मजन्यशरीरस्याशरीरमिति वाक्यतः ॥४०॥
प्रतिषेधो नचानन्दशरीरं प्रतिषिध्यते ॥
चेतनेन वियोगाख्यविशीर्यत्वानिरूपणात् ॥ ४१ ॥
आनन्दविग्रहो गौणशरीरं तत उच्यते ॥
प्रधानहेतुवादस्य दुष्टत्वादपि नाश्रयः ॥ ४२ ॥
ब्रह्मकारणवादस्तु निर्दुष्टत्वात् समाश्रितः ॥
तथाहि निर्विकारस्य चिन्मात्रैकरसस्य हि ॥ ४३ ॥
प्रधानसन्निधानेन तद्धर्माच्यासतस्तथा ॥
जगत्पत्तिः किमुत चिन्मात्राध्यासतो बलात् ॥ ४४ ॥
जगत्पत्तिः प्रकृतेर्नोभयं स्यादसम्भवात् ॥
सन्निधानमसङ्गस्य प्रकृसध्यसनं तथा ॥ ४५ ॥
चिदध्यासश्च नो वक्तुं शक्यते योग्यताहतेः ॥
सद्भावः प्रकृतेः किं वा विकारस्तद्गतोऽथवा ॥ ४६ ॥
पुरुषस्थित एवात्र विकारः कश्चिदिष्यते ॥
न तावत् पुरुषीयं स्यादनभ्युपगमादिह ॥ ४७॥
प्रकृतेर्न विकारोऽपि तस्याध्याककार्यतः ॥
सद्भावः सन्निधानं चेन्मुक्तेऽस्याध्याससम्भवः ॥४८॥
जगत्पत्तिस्तत्पक्षे अत एव न सम्भवेत् ॥
ब्रह्मकारणवादस्तु श्रुतिमूलः समाश्रितः॥४९॥
प्रधानवादो निर्मूलो नाश्रितः शिष्टपण्डितैः ॥
शाक्यौलूक्याक्षपादीयतर्काणां कपिलादिभिः ॥ ५॥

२ अध्याये १ पादः। ५१ अन्योन्यं व्याहतिबलादप्रतिष्ठानसम्भवात् ॥ तैरनिर्णयो न स्याच्छतिवर्त्मसमुज्झितैः ॥५१॥ योगतर्कव्याहताऽतः कापिलोक्तिर्न गृह्यते ॥ अन्यतकोक्तिरपि चेद् गृह्यतेऽन्यस्य तर्कतः ॥ ५२ ।। दृष्येति तर्कासंस्थानादनिर्मोक्षप्रसङ्गतः ॥ अतीन्द्रियेऽर्थे शस्त्रं स्यात् प्रमाणमत एव हि ॥ ५३ ॥ आर्ष धर्मोपदेशं च वेदशास्त्राविरोधिना ॥ यस्तकेंणानुसन्धत्तं स धर्म वेद नेतरः॥५४॥ इति वेदाविरुद्धेन तर्केणार्थो निरूप्यते ॥ न तु स्वोत्मेक्षितेनैव तेनार्थस्य विरूपणम् ॥ ५५ ॥ वेदापरिगृहीतोक्तसांख्यपक्षप्रतिक्षयात् ॥ कणभक्षाक्षपात्पक्षमुख्या अन्ये परिक्षताः ॥५६॥ ज्ञानात्मार्थात्मकं चैतत् क्षणिकं चापि ये जगुः॥ वेदापरिगृहीतास्ते तेषां तर्काप्रतिष्ठितेः ॥ ५७ ॥ ननु, स्थूलसूक्ष्पशरीरस्य कार्यकारणरूपिणः ।। जीवस्य ब्रह्मणश्चापि विभागः सम्भवेत् कथम् ॥ ५८॥ ब्रह्मणः सशरीरत्वे भोक्तृत्वमविवर्जितम् ॥ जीवस्येव शरीरित्वप्रयुक्तसुखदुःखतः ॥ ५९॥॥ नच सम्भोगसूत्रे तत्परिहारः समर्थितः॥ तत्रोपास्यतयैतस्य हृदयायतने स्थितेः ।। ६० ।। तत्मात्रेण न भोगस्य प्रसङ्गो भवति स्फुटम् ।। जीवव ब्रह्मणस्त्वत्रं शरीरित्वेन भोजनम् ॥ ६१ ॥ प्रसक्तं परिहार्य न भवेदपि कथञ्चनः ।। इतिचेन विभागः स्यादीशजीवस्वभावयोः ॥ ६२ ।। न हि जीवे शरीरित्वकृतं भोक्तत्वमस्ति तु॥

श्रीभाष्यवार्तिके
पुण्यपापस्वरूपं यत् कर्म तत्कृतमेव तत् ॥ ६३ ॥
निष्पाप्मनः परेशस्य स्थूलसूक्ष्मशरीरिणः ॥
कर्मसम्बन्धगन्धोऽपि नास्यतः कर्मतो न तत् ॥ ६४ ॥
शरीरित्वाऽविशेषेऽपि राजसेवकयोरिव ॥
निग्रहानुग्रहकृतं सुखदुःखं जनेशयोः ॥ ६५ ॥
विभागाभावमाशङ्कय यत् तरङ्गसमुद्रयोः ॥
दृष्टान्तेन परो ब्रूते विभागं न स्वभावतः ॥ ६६ ॥
किन्त्वविद्योपाधिकं तन्न सङ्गतमिहोच्यते ॥
न जीवे ईशभावः स्यात् परिणामी न चापि सः॥ ६७ ॥
क्षेत्रज्ञतत्कर्मणां चानादित्वप्रतिपादनात् ॥
स्वरूपतोऽपरिणामाच्छङ्का कस्यचिदत्र हि ॥ ६८ ॥
भोक्तृभोग्यविभागस्य कदाचिन्नैव जायते ॥
मृदो घटादिः वर्णादेः परिणामः कटादयः ॥ ६९ ॥
तेषां विभागवत् प्रोक्तो विभागो भोक्तृभोग्ययोः ।
स्वरूपरिणामेऽपि ब्रह्मणो भोक्तृभोग्यता ॥ ७० ॥
स्यादेव पुनरप्यत्रासामञ्जस्यं समापतेत् ॥
असदिसत्र कार्यस्य जगतो ब्रह्मकारणात् ॥ ७१ ॥
अनन्यत्वमुरीकृस कारणत्वमुरीकृतम् ॥
तदिदानीमनन्यत्वमाक्षिप्यात विधीयते ॥ ७२ ।।
विभिन्नबुद्धिबोध्यत्वान्न कार्य कारणात्मकम् ॥
न तन्तुपटबुद्धिर्वा एकाऽऽकारा निरूप्यते ॥ ७३ ॥
कारणे कार्यसत्त्वस्य स्वीकृतौ कारकादिकम् ॥
व्यर्थ स्यादिति कार्ये स्यादसदेव स्वकारणे ॥ ७४ ॥
कृत्स्नः प्रपञ्चो मिथ्या स्यात् सन्मात्रं कारणं हि सत् ।।
बेद्धमाक्षव्यवस्थाऽत्र नोएपद्येतचेन्न तत् ॥ ७५ ॥

२ अध्याये १. पादः। कल्पिताया व्यवस्थाया अभावादेव वस्तुतः ॥ ब्रह्मणोऽपि परिच्छेदः कार्याभिन्नत्वतो भवेत् ॥ ७६ ॥ इतिचेन्न परिच्छेदः कल्पितोऽस्ति न तत्त्वतः ॥ चिदचिद्वस्तुशरीरस्य ब्रह्मणः सकलं हि तत् ॥ ७७ ॥ प्रकारत्वेन भिन्नं स्यादिति प्राप्त समुच्यते ॥ वाचारम्भणमिसादि सदेवेसादिवाक्यतः ॥ ७८ ॥ तदैवतेति वाक्येन बहु स्यामिति पाठतः ॥ ऐतदात्म्यमिदं सर्वमिसादिश्रुतितोऽपि च ॥ ७९ ॥ चेतनाचेतनं विश्वमनन्यं ब्रह्मतो भवेत् ॥ येनाश्रुतं श्रुतं च स्यादमतं मतमियतः ॥ ८० ॥ कृत्स्नस्य जगतो ब्रह्मकारणान्नान्यतोच्यते ॥ कार्य द्रव्यान्तरं भाति न तु भिन्नं स्वकारणात् ।। ८१ ॥ मृत्तिकेसेव ससं तद् विकारे नैव सखता ॥ मृद्रव्येण च तेनैव पृथुबुध्नोदरादिकः ॥ ८२ ॥ संस्थानात्मा विकारो यस्तत्प्रयुक्तघटेति च ॥ दृश्यते नामधेयं च जलाहरणसिद्धये ॥ ८३ ॥ संस्थानान्तरं मृद्रव्यं नामधेयान्तरं च तत् ॥ भजतेस्तो घटायेव मृत्तिकेसेव गृह्यताम् ॥ ८४ ॥ घटे विचार्यमाणे तु मृत्तिकेसेव न पृथक् ॥ तथा विचारितं कार्य न भिन्नं स्वस्य कारणात् ॥ ८५ ॥ मृदि नष्टो घट इति व्यवहाराद् घटः पृथक् । इति चेन्न विनाशाया अवस्थाः कारणस्य हि ॥ ८६ ॥ अवस्थाभेदमादाय व्यवहारः समर्थ्यते ॥ कारणावस्थमेवाचित्कार्यावस्थं हि वस्तु तत् ॥ ८७ ॥ स्थूलसूक्ष्मं ब्रह्मणः स्याच्छरीरं परमात्मनः ॥

५४ श्रीभाष्यवार्तिके अन्तर्यामिब्राह्मणं हि प्रमाणमुलभ्यते ॥ ८८ ॥ शरीरभूतचिदचिद्वस्तुगा अखिलाश्च ये ॥ विकारा न परेशे ते निरवद्यत्वतः श्रुतेः ॥ ८९ ।। ऐतदात्म्यमिदं सर्वमिति सर्वस्य सादरम् ॥ प्रवदयात्मतादात्म्यं तदेव परमार्थतः ॥ १०॥ तत्त्वमसीति वाक्येन निश्चितं गमयसलम् ॥ चिदचिद्वस्तुशरीरं तत्पकारतया हरिम् ॥ ९१ ॥ सर्वशब्दाभिधेयं स्यात् सूक्ष्मस्थूलप्रभेदतः ॥ सूक्ष्मकारणतावस्थः स्थूलकार्यस्ववस्थयां ॥ ९२ ॥ परिणामी परात्मायं लौकिकन्यवहारभाक् ॥ अवस्थान्तरयोगे ऽपि बुद्धिशब्दान्तरादयः ॥ ९३ ।। एकस्यैव प्रदृश्यन्ते बालोऽयं स्थविरो यथा ॥ मृदारुकनकादिभ्यो द्रव्यान्तरमुद्भवात् ॥ ९४ ॥ व्यवहारभेदसंदृष्टया नावस्थाभेदतो भवेत् ॥ मृदादिकारणे सद्धि बुद्धिशब्दान्तरादिकम् ॥६५॥ अत्रोत्तरं कुण्डलादिकार्यवर्गेषु दृश्यते ॥ कारणं हि सुवर्णादि सुवर्ण कुण्डलं तथा ॥ ९६ ॥ प्रसभिज्ञेतिभिन्नं न कारणाव कार्यकुण्डलम् ॥ न हि द्रव्यान्तरे भिन्नं द्रव्यं समुपलभ्यते ॥ ९७ ॥ अन्यथा स्यात् मुवर्णेषु मृद्रव्यस्योपलम्भनम् ।। कार्यस्य कारणे सत्त्वान्न कार्य कारणात् पृथक् ॥ ९८ ॥ लोके वेदे च कार्य हि कारणत्वेन पठ्यते ॥ लोके घटो मृत्तिकैव वेदे चेदं सदेव सत् ॥ ९९ ॥ असतो व्यपदेशाद्धि सर्वमग्रेऽसदेव तु ॥ इति चेन्नैव सर्वस्य कार्यस्यादावसत्तया ॥ १०० ।।

२ अध्याये १ पादः। ५५ व्यपदेशो न स्वरूपात किन्तु संस्थानभेदतः ॥ सत्त्चासत्त्वे द्रव्यधर्मों सत्त्वं सन्नामरूपता ॥ १०१॥ सूक्ष्मावस्था तद्विरोधी धर्मोऽसत्त्वं प्रकीर्तितम् ॥ वाक्यशेषाद् युक्तिसत्त्वात् तथा शब्दान्तरादपि ॥ १०२ ॥ वाक्यशेष इदं नाग्रे किञ्चनासीदिति श्रुतिः॥ युक्तिर्मुदः सत्त्वधर्मः पृथुबुध्नोदराकृतिः ॥ १० ॥ घटादिव्यवहारे वै हेतुः स्यात् तस्य वा परः ॥ असत्त्वधर्मस्तद्विरोधी सोऽवस्थान्तरनामकः ॥ १०४ ॥ कपालेति घटो नेति व्यवहारस्य साधनम् ॥ न कपालाद्यवस्थातो घटाभावोऽतिरिच्यते ॥ १०५ ॥ एकस्यैव हि द्रव्यस्य प्राक्पश्चात्कालभेदतः ॥ धर्मान्तरसमायोगः श्रुतिवाक्येऽवगम्यते ॥ १०६ ॥ यथा तन्तव एवैते अवस्थान्तरतां गताः ॥ पट इत्थं सदा नामरूपकार्यादिभागिनः ॥ १०७ ॥ तथा विशिष्टं ब्रह्मात्र नामरूपादिभार भवेत् ॥ यथा समीरणो ोकदेशत्तिविशेषतः ॥ १०८ ॥ प्राणापानसमानादिनामरूपविभागवान् ॥ तद्वद् ब्रह्माप्येकमेव चिदचिद्भिन्नसंस्थितेः ॥ १०९ ॥ नामरूपविभागि स्यात् तस्मादन्यज्जगन्न हि ॥ ब्रह्मणोऽनन्यविश्वं चेच्छ्तयो भेदबोधिकाः ॥११० ॥ त्वयैव सकलास्यक्ता भेदे ससेकता कथम् । अत औपाधिको भेदो भेदश्रुतिविबोधितः ॥ ११ ॥ अभेदश्रुतयो मुख्याः स्वभावाद्वैतवादिनः ।। इति चेन्न स्वतो भिन्नं जीवं विश्वस्य कारणम् ॥ ११२ ॥ उपाधिरहितं ब्रह्म जानाति किमुतो न हि ॥

५६
श्रीभाष्यवार्तिके
॥
न चेत् सर्वज्ञताहानिराधे दुःखादि जानतः ॥ ११३ ॥
हिताहितक्रियादोषप्रसक्तिब्रह्मणो भवेत् ॥
यद्यज्ञानकृतो भेदस्तं श्रुतिर्वदतीति चेत् ॥ ११४.
तन्न जीवाज्ञानपक्षे जीवाऽभिन्नपरात्मनः ॥
अल्पज्ञता तथा जीवे सर्वज्ञत्वं समापतेत् ॥ ११५ ॥
ब्रह्माज्ञानमते तु स्वप्रकाशे ज्ञानसाक्षिता ॥
जगत्सृष्टिश्च युक्ता न सर्वदा स्वप्रकाशतः ॥ ११६ ।।
अज्ञानेन तिरोधानं प्रकाशस्येति चेन्न तत् ॥
प्रकाशस्य स्वरूपत्वात् तन्नित्तिस्तिरोहितिः ॥ ११७ ॥
तथाचैवं स्वरूपस्य निवृत्तिरिति दृषणात् ।।
तस्माज्जगत्कारणत्वं ब्रह्मणो नेसतो ब्रुवे ॥ ११८ ॥
दुःखादियुक्तजीवात्तु ब्रह्मार्थान्तरमेव तत् ॥
निर्दिश्यते यतो जीवाद्भेदेन परमेश्वरम् ॥ ११९ ॥
अनश्ननिति वाक्याच्च ज्ञाऽज्ञाविसादिवाक्यतः ।।
अश्मकाष्ठाद्यचिद्वर्गाद् विकारास्पदतो यथा ॥ १२० ॥
अभिन्नं निरवधं न तथा दुःख्यात्मनोऽणुनः ॥
स्थूलसूक्ष्मकावस्थचेतनाचेतनस्य हि ॥ १२१ ॥
परब्रह्मशरीरत्वात् ततो भिन्नं परं स्थितम् ।।
इदानीं तस्य सङ्कल्पमात्रेण विविधं जगत् ॥ १२२ ॥
जायतेऽतः सृष्टियोगाविरोधस्तस्यवर्ण्यते ॥
सर्वसर्जनशक्तीनां कारणानां ह्यपेक्षणात् ॥ १२३ ॥
कथं तदनपेक्षस्य जगत्कारणतोच्यते ॥
न समर्थः कुलालादिर्घटादौ कारणं विना ॥ १२४ ॥
सर्व कत्तुं समर्थस्य कारणापेक्षणेन किम् ॥
कार्यजननशक्तीनां सर्वेषामुपसंहृतेः ॥ १२५ ॥

२ अध्याये १ पादः। सापेक्षत्वं यथा क्षीरनीरादेर्दधिशीतयोः ।। सर्वसर्जनशक्तस्य तथैव परमात्मनः ॥ १२६ ॥ सर्वस्य जनयितृत्वमुपपद्येत केवलम् ।। नच दध्यादिभावायाऽऽतञ्चनापेक्षणं वद ॥ १२७॥ क्षीरादौ किन्तु शैघ्याथै विशेषरसलब्धये ॥ यथा देवादयःस्वे स्वे लोके स्वापेक्षितानि हि ॥ १२८ ॥ सृजन्ति स्वस्य सङ्कल्पात तथाऽसौ पुरुषोत्तमः ॥ चिदचिद्विभागहीनं निर्गतावयवं पुरा ॥ १२६ ॥ आसीत् तदेवसङ्कल्पान्नाकादिविविधं भवत् । कृत्स्नं ब्रह्मांशतयाये नाकं वा पृथिवी भवेत् ॥ १३० ॥ अन्ये निरंशब्रह्मात्मबोधकश्रुतिकोपनम् ।। अतो जगत्कारणं न ब्रह्म स्यादिसतो ब्रुवे ॥ १३१ ॥ नायं दोषः श्रुतिर्ब्रह्मनिर्गतांशं यतोऽवदत् ॥ ततो विचित्रसृष्टिं च न समर्थस्य दूषणम् ॥ १३२ ॥ नच बाधितमर्थ सा कुतो वक्तुं प्रभुर्भवेत् ॥ वक्तव्यं हि यतः शब्दप्रमाणविषयो हरिः ॥ १३३ ॥ विचित्रशक्तियोगेन न विरोधोऽस्ति कश्चन ॥ वस्त्वन्तरधर्मस्य वस्त्वन्तररोपणे ॥ १३४॥ कृते घटादिधर्माः स्युरात्मनि चेतनेऽखिलाः॥ तस्मात् स्वभाववैचित्र्याल्लौकिकैर्न च सङ्करः ॥ १३५ ॥ यथाऽनिलजलादीनां भिन्नौष्ण्यादिस्वशक्तयः॥ दृश्यन्ते तद्वदेवात्र विजातीये परेवरे ॥ १३६ ॥ अचिन्साः शक्तयः सन्ति न किञ्चिदवहीयते ॥ प्रमाणं वैष्णवं चात्र पुराणं परिदृश्यते ॥ १३७ ॥ निर्गुणस्याप्रमेयस्य शुद्धस्याप्यमलात्मनः ॥

५८ श्रीभाष्यवार्तिके कथं सर्गादिकर्तृत्वं ब्रह्मणोऽभ्युपगम्यते ॥ १३८ ॥ तत्रोत्तरम- शक्तयः सर्वभावानामचिन्यज्ञानगोचराः॥ यतोऽतो ब्रह्मणस्तास्तु सर्गाद्या भावशक्तयः ॥ १३ ॥ भवन्ति तपतां श्रेष्ठ पावकस्य यथोष्णता ॥ प्रधानवादपक्षेऽपि स्युर्दोषा लौकिकास्तु ये ॥१४० ॥ यदि लोकविजातीयं प्रधानं कारणं तदा ॥ ब्रह्मेतरविजातीयं कारणं नोच्यते कथम् ॥ १४१॥ निरंशं ते प्रधानं हि जगदारम्भकं कथम् ॥ सत्त्वाधवयवास्तस्य चेत् तदेदं विचिच्यताम् ॥ १४२॥ सत्त्वादीनां समूहः किं प्रधानमुत तद्भवम् ।। अन्ये कथं कारणं स्यात् संख्याभङ्गश्च सम्भवेत् ॥ १४३ ॥ निरंशसत्त्वादिभ्योऽपि कार्यारम्भो हि ते कथम् ॥ समूहपक्षे तेषां च देशभेदानपेक्षया ॥ १४४ ॥ अन्योन्यं युज्यमानानामारभ्भस्थूलवस्तुनः ॥ तस्मात् सर्वविजातीयां सर्वशक्साश्रितां पराम् ॥ १४५ ।। देवतां सन्दर्शयति परा शक्तिरिति श्रुतिः॥ सर्वशक्ति यदा ब्रह्म कारणापेक्षणं कथम् ॥ १४६ ॥ न तस्य कार्यमिसादिकारणादिनिषेधतः॥ ससं ब्रह्म तथैवास्ति समर्थं विश्वसर्जने ॥ १४७॥ प्रयोजनं विना सर्वसर्जनं च कथं ततः॥ अत्रोत्तरं तस्य लीला केवलैकं प्रयोजनम् ॥ १४८ ॥ लोकवत् कारणापेक्ष्यं सर्वकार्यप्रसर्जनम् ॥ सृज्यमानम्प्राणिकर्मापेक्षया प्राणिसर्जनम् ॥ १४९ ॥ उच्चनीचविभागेन निघृणो विषमो न सः॥

२ अध्याये ? पादः।
सृष्टयादौ यदि जीवा न सदेवेसेव संश्रुतेः ॥ १५० ।।
तत्कर्म न च विद्येत तत्सापेक्षजनिः कथम् ॥
अत्रोत्तरमनादित्वात् कर्मणां तदपेक्षया ॥ १५१ ॥
सृष्टिप्रवाहोऽनादिर्हि धाततिश्रुतिवाक्यतः ॥
प्रधानपरमाण्यादौ कारणत्वे विकल्पिताः ॥ १५२ ॥
धर्मास्ते कारणत्वार्थ परब्रह्मणि सन्ति हि.॥
इति श्रीभाष्यवार्तिके द्वितीयाध्यायस्य प्रथमः पादः॥२॥१॥

श्रीभाष्यवार्तिके चिचिद्विशिष्टब्रह्मजगज्जन्मादिकारणम् ॥ परैरुद्भावितास्तत्र दोषास्ते दूरतः कृताः ॥१॥ स्वपक्षरक्षणार्थाय परपक्षा हि साम्प्रतम् ॥ निरस्यन्तेऽन्यथा वेदे श्रद्धावैकल्यमापतेत् ॥ २ ॥ परपक्षप्रतिक्षेपायायं पादः प्रवर्तते ।। कापिलं मतमत्रादौ सम्यगेव निरस्यते ॥३॥ तत्रेक्षते शब्दमियाद्यखिलसूत्रतः ॥ अतत्परत्वमात्रं हि पूर्वत्र प्रतिपादितम् ॥ ४ ॥ स्वरूपतोऽत्र तत्पक्षप्रतिक्षेपः प्रदर्श्यते ॥ विकृसा रहिता मूलप्रकृतिर्महदादयः॥५॥ प्रकृतयो विकृतयः सप्त षोडशको गणः ॥ विकारस्तथाऽत्र पुरुषः प्रकृतिविकृतिर्न च ॥ ६ ॥ तमःसत्त्वरजःसाम्यरूपा प्रकृतिरुच्यते ॥ अचेतना चेतनानां भोगमोक्षपचारिणी ॥७॥ अविवेकाद् भोगदात्री विवेकान्मोक्षदायिनी ॥ गुणत्रयसाम्यरूपा प्रकृतिस्त्रिगुणात्मकम् ॥ ८॥ विश्वं प्रति कारणं स्यादन प्रतिविधीयते ॥ न समर्थं प्रधानं स्याद् विचित्रजगतो जनौ ॥ ९ ॥ तस्य स्वभावाभिज्ञानामनधिष्ठितरूपतः ॥ अचेतलवादेवं यस्तदेवं भवति ध्रुवम् ॥ १० ॥ स्थमासादमांतकार्यसनिर्मिति प्रति ॥ अचेननं चेतनेनानधिष्ठितमिह स्वतः ॥ ११ ॥ दारुमुत्तमृति कापि कारणं नैव दृश्यते ॥ यदि तव्यतिरिक्तं च पक्षीकृस प्रयुज्यते ॥ १२ ॥ प्राज्ञानधिष्ठिताद्यापि विचित्रजगतो जनिः॥

२ अध्याये २ पादः ।
परिणामिनः पयसो दधिभावेन चेतनम् ॥ १३ ॥
अधिष्ठानतयापेक्ष्यं यथैव जलदोज्झितम् ॥
नियतैकरसं वारि नालिकेराम्रसंश्रयात् ॥ १४ ॥
विचित्ररसरूपेण परिणामि स्वतस्तथा ॥
विचित्रजगदाकारपरिणामिप्रधानकम् ॥ १५ ॥
इतिचेन्न यतो नीरमभृति कापि केवलम् ॥
दध्यादिभावे नो दृष्टं स्वत एव प्रवर्तते ॥६॥
भिन्नानधिष्ठितत्वेऽपि परेशाधिष्ठितं वरम् ॥
प्रधानं विश्वजनने घटे मृद्वद्धि कारणम् ॥ १७ ॥
समस्तप्राप्तकामस्य परिपूर्णस्य सर्वतः ॥
निरवद्यातिशयानन्दस्वरूपस्येश्वरस्य ह ॥ १८ ॥
विरुद्धविश्वजनने विषमत्वादिकं पतेत् ।।
नो दोषोऽस्ति हि लीलार्थे हरियस्मात् प्रवर्तते ॥ १९ ॥
क्षेत्रज्ञकर्मणामेव विषमत्वादनादितः ॥
सृष्टिवैषम्यसम्पत्त्या नैव दोषो हरेरयम् ॥ २० ॥
प्राज्ञानधिष्ठितायास्तु प्रकृतेः स्यन्दनामिका ।।
प्रतियद्यपि नास्ति तथापि स्वयमेव हि ॥२१॥
जगदाकृतिरूपेण परिणामवती भवेत् ॥
यथा धेन्वादिना भुक्ततृणाद्यन्नजलादिकम् ॥ २२ ॥
क्षीराधाकृतिभावेन परिणाम्यवलोक्यते ॥
नेदं युक्तं वषैर्भुक्तं न तृणादि पयस्तया ॥ २३ ॥
परिणामीयतः माज्ञगवा सम्पद्यते पयः॥
तथेशेनैव प्रकृति परिणम्याखिलं जगत् ॥ २४॥
प्रकाश्यते तत्र यदि प्रकृति डरूपिणी ॥
निष्क्रियः पुरुषस्तस्मात् प्रत्तिर्वाधिता भवेत् ॥ २५ ॥

श्रीभाष्यवार्तिके तथापि चेतनेशस्य सन्निधानादचेतनम् ॥ प्रवर्तते प्रधानं हि पवन्धवदिह स्फुटम् ॥ २६ ॥ सन्निधानादयाकान्तमणेलॊहप्रवर्तनम् ॥ तथेशसन्निधानेन प्रकृतिः परिणामिनी ॥ २७॥ प्रकृया पुरुषस्यैव योगात् सर्गः प्रवर्तते ॥ स्वतस्तु साम्यावस्थानां न्यूनाधिक्यादिहानितः ॥ २८ ॥ अङ्गाङ्गित्वाद्यनुत्पत्त्याजगत्सर्गो न युज्यते ॥ वैषम्यं निसतश्चेत् स्यान्निसं सर्गस्तदापतेत् ॥ २९॥ ईशानधिष्ठितं तस्मात् प्रधानं कारणं न हि ॥ पुरुषप्रकारभिन्नप्रकारेणानुमानतः ॥ ३० ॥ प्रधानसिद्धौ ज्ञातृत्ववियोगादोषसम्भवः ॥ तत्प्रधानं नानुमेयमत एव निगद्यते ॥ ३१ ॥ निष्प्रयोजनतोऽप्येवं प्रधानं नानुमीयते ॥ चैतन्यमात्रवपुषः पुरुषस्याक्रियस्य हि ॥ ३२ ॥ प्रकृतेर्दर्शनं भोगस्तद्वियोगोऽपवर्गकः ॥ प्रयोजनं प्रधानस्य न युक्तं नानुमेयता ॥ ३३ ॥ निसो विकारहीनो हि पुरुषो यदि केवलः ॥ कथं प्रकृतिसान्निध्यात कर्तृत्वाध्यासलक्षणः ॥ ३४ ॥ संसारः स्यात् परं तस्य स्वरूपावरणं विना ॥ आतनिर्विकारत्वहानिरेव न संशयः ॥ ३५ ॥ इसादिप्रतिषेधाच्च प्रत्युक्तं कापिलं मतम् ॥ जन्ममृत्युव्यवस्थार्थमिच्छन्ति पुरुष परम् ॥ ३६ ॥ सांख्यास्तु मायिनो नैव तदपीससमञ्जसम् ॥ प्रधानकारणत्वस्य युक्त्याभासतया पुरा ॥ ३७॥ असमञ्जसमाक्षिप्य मतं काणादमदति ॥

२ अध्याये २ पादः।
तन्त्वादयो खवयवाः स्वांशैः षभिः सुसंयुताः ॥ ३८ ॥
उत्पादयन्यशिनं स्वं तथैव परमाणवः ।।
भवेयुर्घणुकादीनां जनकास्तत्त्वसम्भवि ॥ ३९ ॥
प्रदेशभेदाभावेन सहस्रपरमाणवः ॥
संयुक्ता अपि नो तेभ्यो महद्रव्यादिसम्भवः ॥ ४० ॥
प्रदेशभेदाभावेन जायते प्रथिमा न हि ॥
नगसर्षपयोरस्मादसिद्धरसमञ्जसम् ॥ ४१ ॥
तथा परमाणुगतं स्वगतादृष्टकारितम् ॥
न वा हुभयथाऽप्येवं न सम्भवति तच्छृणु ॥ ४२ ॥
पुण्यादिजनितादृष्टं परमाणुगतं न हि ॥
यद्युरीक्रियते तर्हि सर्वदोत्पत्तिसम्भवः ॥ ४३ ॥
अदृष्टस्यात्मनिष्ठस्य परमाणुस्थकर्मणि ॥
हेतुत्वासम्भवस्तत्र यद्येवं परिकल्प्यते ॥ ४४ ॥
तस्याऽऽत्मद्वारसंयोगादणौ कर्मजनिस्तदा ॥
तत्मवाहस्य निसत्वात् सो निसं प्रसज्ज्यते ॥ ४५ ॥
शास्त्रयोनित्वमूत्रे हिं नानुमानेन सिध्यति ॥
ईश इत्थं प्रबन्धेन महता विनिरूपितम् ॥ ४६॥
जासादीनां तु व्यक्सादौ समवायस्य स्वीकृतौ ।।
साम्यात् तत्रापि तत्माप्तावनवस्थितिदूषणम् ॥ ४७ ॥
समवायः स्वरूपेण चेत् तथा व्यक्तिजातिधीः ॥
अतोऽसमअसं सर्व काणादं दर्शनं मतम् ॥ ४८ ॥
समवायस्य निसत्वात् तत्सम्बन्धिद्वयस्य च ॥
निसभावादनिसत्वं जगतस्तेऽसमञ्जसम् ॥ ४९ ॥
चतुर्णी परमाणूनां रूपाद्याश्रयतो भवेत् ॥
अनित्यभावः स्थूलत्वं सावयवत्वं घटादिवत् ॥ ५० ॥

श्रीभाष्यवार्तिके कार्यनिष्ठगुणास्ते च स्युः कारणगुणपूर्वकाः ॥ अतो रूपादिशून्या वै पृथिव्यादय एव ये ॥ ५१ ॥ रूपाधसत्त्वे तत्सत्त्वे दोषः स्यात् पक्षयोर्द्वयोः ॥. शिष्टापरिग्रहात तर्कमतं स्यादसमञ्जसम् ॥ ५२ ॥ अंशतः कापिलं वेदे गृहीतं वंशतोऽपि न ॥ काणादं गौतमं तस्मादसमञ्जसतां गतम् ॥ ५३ ॥ परमाणुकारणत्वं वदन्तो वादिनो गताः ॥ परमाणुं कारणं ये जगतः प्रवदन्ति हि ॥ ५४ ॥ सौगताश्च निरस्यन्ते तच्चतुर्दा मतानि तु ॥ तत्र कोचित पार्थिवादिवायवीयान्तमादरात् ॥ ५५॥ ऊरीकुर्वन्ति सङ्घातरूपान् वै भूतभौतिकान् ॥ बाह्यानाभ्यन्तरान् चित्तचैयरूपान् प्रतीतितः ॥ ५६ ॥ प्रसक्षलैङ्गिकाणून ये वाह्यान् सर्वान् वदन्ति हि ॥ विज्ञानेनानुमेयान् हि पृथिव्यादीन् परे पुनः ॥ ५७ ॥ अर्थजन्यं तु विज्ञानं परमार्थः परं मतम् ॥ खानार्थकल्पा बाह्यार्था असन्त इति सजगुः ॥ ५८ ।। प्रयोऽप्येते स्वीकृतं स्वक्षणिकं प्रवदन्ति हि ॥ भूतभौतिकतच्चित्तचैत्त्यभिन्नात्मखादिकम् ॥ ५९॥ न मन्यन्ते तथाऽन्ये तु सर्वशून्यत्ववादिनः ॥ निरस्यन्ते तत्र तावद् बाह्यार्थास्तित्ववादिनः ॥ १० ॥ रूपरसगन्धस्पर्शस्वभावाः पार्थिवास्तथा ॥ रूपरसस्पर्शभावा जलीयाः परमाणवः ॥ ६१ ॥ रूपस्पर्शस्वभावास्तु तैजसाः परमाणवः ।। स्पर्शवन्तो वायवीयाः सर्वसङ्घातमागताः ॥ २ ॥ देहेन्द्रियादिरूपास्ते विषयादिस्वरूपिणः॥

२ अध्याये २ पादः।
अहङ्काराख्यविज्ञानसन्तानो देहमध्यगः ॥ ६३ ॥
स एवात्मा हितत्वेन व्यहारविभागिनः ।।
पृथिव्यादय एवात्र संहतास्तत्र दृष्यते ॥ ६४ ॥
भूम्यादिभूतसङ्घातः परमाणुनिमित्तकः ॥
यश्च देहादिसङ्घातः पृथिव्यादिनिमित्तकम् ॥६५॥
तत्रोभयत्र सङ्घातसमुत्पतिर्न युज्यते ॥
क्षणं स्थितानां नष्टानां सङ्घातः क्षणिकः कथम् ॥ ६६ ॥
व्याप्रियन्ते कदा तेऽत्र सहन्यन्ते कदा पुनः ॥
क्षणिकत्वान्न सम्बन्धस्तयोः कारणकार्ययोः ॥ ६७ ॥
विज्ञानात्मा स्वविषयं क्षणिकं क्षणिकः कथम् ॥
ग्रहीतुं शक्नुयात् तस्मात् सौगतं न समञ्जसम् ॥ ६८ ॥
सन्तानानामभेदेऽपि सन्तानिभ्यो हि वस्तुतः ॥
वस्त्वन्तरत्वाभावेन व्यवहारो न तत्कृतः ॥ ६९ ॥
यद्यप्यखिलभावा वै क्षणिकास्ते तथापि हि ॥
अविद्ययैवोपपन्नं व्यवहारादि केवलम् ॥ ७० ॥
क्षणिकादौ स्थिरत्वादिगोचरज्ञानरूपिणी ॥
अविद्या तया तु जायन्ते रागद्वेषादयः पुनः ॥ ७१ ॥
चित्ताभिज्वलनरूपविज्ञानं नाम जायते ॥
चित्तचैत्त्यास्ततो भूमिषडायतनामिन्द्रियम् ॥ ७२ ॥
ततः स्पर्शादयो ये वै वेदनादय एव हि ॥
एवं सर्वोऽपि जायेत व्यवहारो ह्यविद्यया ॥ ७३ ॥
नेदं युक्तमविद्यादौ सङ्घातं प्रति नो यतः ॥
निमित्तत्वमतो नैव विपरीतास्तु बुद्धयः ॥ ७४ ।।
इनश्च क्षणिकत्वाख्यपक्षे न जगदुद्भवः ॥
पूर्वक्षणस्य नष्टत्वान्नष्टोत्तरक्षणं प्रति ॥ ७५ ॥

श्रीभाष्यवार्तिके हेतुत्वानुपपतेस्तु न भावोऽभावहेतुकः ॥ न पूर्वक्षणवर्येव हेतुरेवमथान्यथा ॥ ७६ ॥ घटक्षणः कश्चिदेव तदुत्तरक्षणे सताम् ॥ गवाश्चमहिषादीनां हेतुः स्यात्रैव संशयः ॥ ७७ ॥ हेतुं विना कार्यभूतिस्तर्हि सर्वत्र सर्वदा ।। सर्व स्यादिति हीयेत प्रतिज्ञा भवतां ननु ॥ ७८॥ कार्यकारणयोयुगपदुपलाधः प्रसज्ज्यते ।। क्षणिकत्वादन्यथा च क्षणिकत्वक्षतिस्तव ॥ ७९ ॥ इसेवमसदुत्पत्तिनिरस्ता साम्प्रतं पुनः॥ निरन्वयविनाशोऽपि न स्यादिसेवमुच्यते ॥ ८० ॥ अभिघातोचरं भावी प्रतिक्षणं भवन हि यः॥ स्थूलः सहशसन्तानः माक्तनान्तस्वरूपकः ॥८॥ उपलब्धियोग्यऽयोग्यहाँ विरहः सनिरन्वयः॥ प्रतिसंख्यापदेनायो निरोधोऽथ द्वितीयकः ॥ ४२ ॥ निरोधोऽप्रतिसंख्याख्यवचसा विनिरूपितः॥ योग्यौ न तावविच्छेदात तथा हि शृणु सादरम् ॥ ८३ ॥ उत्पत्तिनाशौ सद्रव्ये स्वस्थान्तररूपिणौ ॥ अवस्थायोगि सद्रव्यमेकमवस्थिरं ततः ॥ ८४ ॥ कारणाभिन्नकार्य स्यादिति प्राक् प्रतिपादितम् ॥ निरन्वयविनाशस्तु दृष्टो दीपे विनाशिते ॥ ८५ ॥ अन्यत्राप्यनुमीयेतेसेवं न घटते पुनः ॥ तस्यापि सूक्ष्मतारूपा ह्यवस्थान्तरकल्पनात् ॥ ८६ ॥ तुच्छादुत्पद्यते कार्य तुच्छमेव भविष्यति ॥ मृदः सुवर्णाच्चोत्पन्नं मांद सौवर्णमेव हि ॥ ८७ ॥ सतो निरन्वये नाशे तुच्छाप्तिर्जगतः क्षणात् ॥

२ अध्याये २ पादः।
दोषादुभयथाऽप्येवं कार्योत्पत्तिविनाशयोः ॥ ८८ ॥
भवदुक्तप्रकारेण न भवेत् सम्भवस्तयोः ॥
निरुपाख्यता न युक्तैवमाकाशे भवता यतः ॥ ८९ ॥
अङ्गीकृता पृथिव्यादिवदवाधितबुद्धितः ॥
अत्र श्येनः पूतसत्र गृध्र इसनुभूतितः ॥ १० ॥
सदेशं गगनं न स्याद् भूम्यादिविरहात्मकम् ॥
तदेवेदं सदेवायमिसेवं प्रसभिज्ञया ।। ९१ ॥
स्थिरं न क्षणिकं न स्यान्न च सादृश्यतो ह्ययम् ।
प्रत्यभिज्ञापस्योऽयं न वक्तुं परिशक्यते ॥ ९२ ।।
घटबुद्धौ घटाकारं समर्प्य ध्वस्त एव चेत् ।।
ज्ञाननिष्ठन नीलादिरूपाकारेण मीयते ॥ ९३ ॥
नीलज्ञानस्य सन्ताने पीतज्ञानोद्भवो न हि ॥
अतः पूर्वत्र विज्ञानाज्ञानाकारो न सिध्यति ॥ ९४ ।।
ततोऽर्थकृतवैचित्र्यं ज्ञानवैचित्र्यमिष्यते ॥
नीलपीताधाकृतिर्हि विज्ञाने दृश्यते न सा. ॥ १५ ॥
विनष्टार्थस्य युक्ता स्यादसतो दर्शनं यतः ॥
धर्मिनाशेन तद्धर्मो भिन्ने संक्रमितो भवेत् ॥ ६६ ॥
दृष्टं यत् प्रतिबिम्बादि स्थिरस्यैव भवेद्धि तत् ।।
तत्तत्क्षणिकभावानामसदुत्पत्त्यहेतुकः ॥ ९७ ॥
विनाशो मन्यते तस्मादुदासीनस्वभाविनाम् ।।
पुजाभाववतां चात्र विशेषविरहात् किल ॥ ९८ ।।
सर्वार्थसिद्धिः स्यादिष्टप्राप्सनिष्ठनित्तितः॥
तथैहिकामुष्मिकं च फलं. मोक्षश्च सिध्यतु ॥ १९९ ।।
विज्ञानमात्रमस्तीति योगाचारा वदन्ति हि ॥
यदुक्तर्मयवैचित्र्यकृतज्ञानविचित्रता ॥ १० ॥

६८ श्रीभाष्यवार्तिके इति न ज्ञानमखिलं करणैः सहितं स्वयम् ॥ विचित्र वासनायाश्च वैचित्र्यादेव जायते ॥ १०१॥ प्रवाहः प्रसयानां यो वासना सा विलक्षणा ॥ यद् घटाकारविज्ञानं कपालाकारसंविदः ॥ १०२॥ सत् पूर्वघटविज्ञानं स्वपूर्वस्य च तस्य हि ॥ आपादकं भवेदेवं खं पूर्वस्योत्तरोत्तरम् ॥ १०३ ॥ एवंरूपः प्रसयानां प्रवाहो वासना भवेत् ॥ अङ्गीकृद्भिर्वाह्यमर्थं घटज्ञाने घटाकृतौ ॥ १०४ ॥ विना घटीयसारूप्यं वक्तुं नैव प्रपार्यते ॥ तेनैव व्यवहारश्चेद् वृथा स्यादर्थकल्पना ॥ १०५॥ अत्रोच्यतेऽर्थविरहो नार्थानामुपलब्धितः ।। प्रतीयन्त एवमेव लौकिकाः सर्व एव हि ॥ १०६ ।। जानाम्यहं घटमिति क्रियाकर्मस्वभावतः ।। तद्धात्वर्थज्ञानरूपादर्थो भिन्नः स्वरूपतः ॥ १०७ ॥ सहोपलम्भनियमादभेदो नीलतद्धियोः॥ इसात्मख्यातिमतिभिः साहित्यस्य निरूपणात् ॥ १०८॥ अङ्गीकृतोऽर्थभेदो हि सहितं वस्तु तत्र हि ॥ यथा दीपगुणत्वेऽपि प्रभाद्रव्यं त्वयेष्यते ॥ १०९ ॥ तथैवात्मगुणज्ञाने द्रव्यत्वेन विरोधिता ।। आत्मसंयोगिनस्तस्माद् बाह्यार्थत्वघटादिवत् ॥ ११० ॥ ज्ञानस्यार्थस्य सम्बन्धात् प्रकाशोऽर्थस्य सम्भवन् । बाह्यार्थत्वं साधयति निराबाधं नयोत्तमम् ॥ १११ ॥ यत् परैः स्वप्नदृष्टान्ताज्जारज्ज्ञानं निराश्रयम् ॥ निरूप्यते तत्र वाच्यं वैधान्न हि स्वप्नवत् ॥ ११२ ॥ स्वप्मज्ञानविधर्मत्वादर्थशून्यं न जागरम् ॥

२ अध्याये २ पादः।
ज्ञानं सम्भवितुं योग्यं ज्ञानादर्थस्ततः पृथक् ॥ ११३ ॥
निद्रादिदोषसन्दुष्टकरणैः स्फुरितानि हि ॥
खमज्ञानान्यपानि तद्विरुद्धानि जागरे ॥११४ ।।
अर्थवत्त्वेन ज्ञानानि न तेषां खानसाम्यता ॥
सर्वेषामर्थशून्यत्वे ज्ञानानां च निरर्थता ॥ ११५ ॥
न सिध्ययनुमानं यद्विषयार्थस्य साधकम् ॥
निर्विषयानुमानेन विषयः माप्यते कथम् ॥ ११६ ॥
तदेवमर्थशून्यत्वं ज्ञानानां दुर्घटं मतम् ॥
निर्वक्तुं शक्यते नैवानिर्वाच्योऽर्थो हि यन्मते ॥ ११७ ॥
तन्मते जागरं ज्ञानं निरालम्बं कुतो न हि ॥
न केवलार्थशून्यस्य ज्ञानस्यानुपलम्भनात् ॥ ११८ ॥
भावोऽस्ति कर्मकर्तृभ्यां रहितं क्वापि नैव तत् ॥
स्वमज्ञानादिषु तथा नार्थशून्यत्वमिष्यते ॥ ११६॥
निरूपयिष्यते चेदमग्रे ख्यातिनिरूपणे ॥
पाराकाष्ठा सौगतानां शून्यवादः प्रकीर्तितः ॥ १२० ॥
बुद्धयारुढा यथैव स्युर्मन्दानां च तथात्र हि ॥
क्षणिकत्वादयो वादा दर्शिता दयया परम् ॥ १२१ ॥
शून्यमेव परं तत्त्वमभावापत्तिरेव हि ॥
मुक्तिरिसेव बुद्धस्य परमाशयशासनम् ॥ १२२ ॥
सर्वथानुपपत्तेश्च शून्यं तत्त्वं भवेन्न हि ॥
सिषाधयिषितं शून्यं प्रमाणादुपलभ्य चेत् ॥ १२३ ॥
प्रमाणसत्त्वं स्यादेव तच्छ्न्यं केवलं कथम् ॥
तदसत्त्वे च शून्यस्य सिद्धिस्ते कथमिष्यते ॥ १२४ ॥
सर्व जैनमते वस्तु सत्त्वांसत्त्वादिभङ्गिभिः॥
नियतं नैव वाञ्छन्ति तन्मतप्रतिपादकाः॥ १२५ ॥

श्रीभाष्यवार्तिके अस्ति स्यान्न च नास्ति स्यादस्ति नास्ति च स्यादपि ॥ वक्तव्यमस्ति स्यादस्ति न वक्तव्यं तथाऽस्ति हि ॥ १२६ ॥ नास्ति स्यादथ वक्तव्यमस्ति नास्ति च तत्पुनः ।।. एवं सर्वत्र द्रष्टव्या भङ्गयः सप्त सादरम् ॥ १२७ ॥ नैतद् युक्तं विरोधेन यतो नैकत्र सम्भवः ।। यन्निसं तदनिसं न यत् ससं तदसव कुतः ॥ १२८ ।। न सम्भवत्यतो जैनमतं मत्तोक्तिवत् किल॥ देहमानेन सदृशमान आत्मास्ति तन्मते ।। १२९ ॥ इस्तिदेहमितस्यापि पशके मातृता कथम् ॥ मशकोऽल्पमितोऽप्येवं व्याप्नुयात् सर्वतो गजे ॥ १३० ।। पापपुण्यादिवशतः सङ्कुच्य विकसयलम् ॥ इति चेदेह आत्मैव भवेच्चार्वाकवत् तव ॥ १३ ॥ यत्सङ्कोचविकासाभ्यां तदेवेदं कलेवरम् ॥ भिनं प्रतीयते नैव तथैवात्मा हि तन्मते ॥ ३३२ ॥ अवस्थान्तरतापसा विकारस्यापि सम्भवाद ॥ अनियता प्रसज्येत स्थाप्तो मतवर्णनम् ॥ १३३ ॥ परिमाणं मुक्तगतं देहस्याग्रेऽपरिग्रहात् ॥ स्थिरं तत्सर्वदाप्यस्तु तेन देहमितेन किम् ॥ १३४ ॥ नादर्तव्यं पशुपतेर्मतमन्योन्यव्याहतेः ॥ भगासनस्थात्मचिन्तामुद्राषट्कस्य धारणम् ॥ १३५॥ मुराकुम्भस्थापनं च तत्स्थदेवार्चनं रहः ।। श्मशानभस्मस्नानादि सर्व वेदविरोधतः ॥ १३६ ॥ परिकल्प्योपासनं यन्नाङ्गीकर्तव्यमास्तिकैः ॥ निमित्तकारणेशस्य कल्पनाया असम्भवात् ॥ १३७ ।। न प्रधानाधिष्ठानमीशो मृदि कुलालवत् ॥

२ अध्याये २ पादः।
७१
अशरीरात्मनो भोक्तुर्यथा देहेन्द्रिादिकम् ॥ १३८ ॥
मसधिष्ठानता योग्या तथेशस्याशरीरिणः ॥
प्रकृसधिष्ठानता चेन्नादृष्टादिप्रसङ्गतः ॥ १३९ ॥
अदृष्टादिकृतं जीवे योग्यं, न तु महेश्वरे ॥
धर्माधर्मादृष्टवत्त्वे सृष्टिसंहारभार भवेत् ॥ १४० ॥
अन्तवान् सर्वथाऽल्पज्ञो जीववत् परमेश्वरः॥
अप्रामाण्यं समाशङ्ग्य पञ्चरात्रागमस्य हि ॥ १४१ ॥
वैदिकार्थाविरोधेन प्रामाण्यमधुनोच्यते ॥
आशङ्ख वासुदेवाज्जीवसङ्कर्षणोऽभवत् ॥ १४२ ॥
सङ्कर्षणान्मनो जज्ञे प्रद्युम्नपरिसंज्ञकं ॥
ततोऽनिरुद्धोऽहङ्कारो जात इस्थं विकल्प्यते ॥ १४३ ॥
विरुद्धा प्रक्रिया यस्माज्जीवोत्पत्ति जगाद तत् ॥
न जायते म्रियते वेसादिवाक्यसमूहतः ॥ १४४ ॥
अनादिजीवजातीनामुत्पचिप्रतिषेधतः ।।
मनसः करणस्यापि कर्तृर्जीवाज्जनिन हि ॥ १४५ ॥
इसाशन समाधानं सिद्धान्ते वदति स्फुटम् ॥
अजानता भागवतप्रक्रियामिदमुच्यते ॥ १४६ ॥
विरुद्धाभिहिता येयं जीवोत्पत्तिरिति स्फुटम् ॥
चतुरात्मा वासुदेव उपास्योऽभिहितो यतः ॥ १४७॥
ततो विरोधलेशोऽपि पञ्चरात्रे न विद्यते ।।
वासुदेवः परं ब्रह्म पूर्णपाइगुण्यसद्वपुः ॥ १४८ ॥
सूक्ष्मसद्व्यूहविभवभेदभिन्नं हि सेवकैः ॥
यथाधिकारं ज्ञानेन कर्मणाऽभ्यर्च्य लभ्यते ॥ १४९ ॥
विभवार्चनात् सव्यूहं प्राप्य तस्यार्चनात् परम् ।।
सूक्ष्मं यद् वासुदेवाख्यं प्राप्यते इति तन्मतम् ॥ १५० ॥

श्रीभाष्यवार्तिके विभवो हि नाम रामकृष्णादिप्रकटो गणः॥ वासुदेवः सङ्कर्षणः प्रद्युम्नोऽथानिरुद्धकः ॥ १५१ ॥ चतुर्ग्रहो व्यूहसंज्ञः शास्त्रवद्भिनिरूपितः ।। मुक्ष्मं तु वासुदेवाख्यं परं षाड्गुण्यविग्रहम् ॥ १५२ ॥ अतः सङ्कर्षणादीनां परस्यैव समीक्षया ॥ खेच्छाविग्रहरूपत्वादजाना बहुधा जनिः ॥ १५३ ॥ कृपानिमित्तो यः प्रोक्तः खेच्छाविग्रहसङ्ग्रहः ॥ तदेव जन्म सम्मोक्तं शास्त्रेणेति न दृषणम् ॥ १५४ ॥ तदत्र जीवाधिष्ठाता सङ्कर्षणपरेश्वरः ॥ जीवशब्दाभिधो यः स्यात् तथा प्रद्युम्नसंज्ञकः ॥ १५५ ॥ अधिष्ठाता हि मनसो मनसा व्यवहियते ॥ अधिष्ठाताऽनिरुद्धः स्यादहङ्कारस्य वै तथा ॥ १५६ ॥ अतोऽभिधेयोऽहङ्कारशब्देन परमेश्वरः ॥ प्रतिषिद्धान्तो जीवस्य समुत्पत्तिरिहागमे ॥ १७ ॥ अप्रमाणं विरुद्धांशमुक्त्वा सूत्रचतुष्टयम् ॥ समाख्यातं परैर्यत् तत् सूत्रकारानभीप्सितम् ॥ १५८ ॥ व्यासो हि सूत्रकारोऽत्र गृहस्थेखादिवाक्यतः ॥ प्रतिपादितवान् पञ्चरात्रशास्त्रार्थसत्क्रियाम् ॥ १५९ ॥ सांख्यादिवायतन्त्राणां न्यायामासादिमूलता ॥ अतो विप्रतिषेधाच्चासामञ्जस्यमुदाहृतम् ॥ १६० ॥ इति श्रीभाष्यवार्तिके द्वितीयाऽध्यायस्य द्वितीयः पादः ॥२॥२॥ :

२ अध्याये ३ पादः। इदानीं स्वीयपक्षस्य निर्दुष्टत्वप्रसिद्धये ॥ ब्रह्मकार्यत्वसिद्धयर्थं चेतनाचेतनात्मके ॥ १ ॥ प्रपञ्चे कार्यतायास्तु प्रकारः परिशोध्यते ॥ तत्राकाशसमुत्पत्तिरुत नेति प्रसंशये ॥ २ ॥ युक्तं न वियदुत्पत्तिरिति कुत्राप्यसंश्रुतेः ॥ अन्यथाऽऽकाशकुसुमं समुत्पन्नं भवत्वलम् ॥ ३ ॥ न निरंशस्य सर्वत्र गतस्य गगनस्य तु ॥ सुनिरूपयितुं शक्या समुत्पत्तिर्न संशयः ॥ ४ ॥ उत्पत्त्यसम्भवादेव छान्दोग्ये सृष्टिरूपणे ॥ तेजोऽबन्नानि त्रीण्येव जन्मभाजीति रूपितम् ॥ ५॥ आकाश आत्मनो जात इसादिश्रुतिरूपिता ॥ वियदुत्पत्तिरर्थस्य विरोधात् बाध्यते खलु ॥ ६॥ अत्रोच्यते समुत्पत्तिराकाशस्यास्ति सर्वथा ॥ श्रुतिसिद्धे विरुद्धं यन्निरंशत्वादिहेतुकम् ॥७॥ नानुमानं समर्थ स्यादात्मन्येवं प्रसङ्गतः ॥ तस्माद्वेति श्रुतौ गौणी गगनोत्पत्तिरीरिता ॥ ८॥ इति नैवासम्भवाद्वै शब्दाच्चेति शृणुष्व तत् ॥ छान्दोग्ये यतः पूर्वं ब्रह्मणस्तेजसो जनिः ॥९॥ अतः प्रथमतो नैव गगनोत्पत्तिरिष्यते ॥ वायुश्चाथान्तरिक्षं च श्रुतावऽमृतमुच्यते ॥ १० ॥ सम्भूतैकस्य शब्दस्य गौणत्वं गगनेक्षया । अग्नीक्षया च मुख्यत्वं कथमिसत उच्यते ॥ ११ ॥ तस्माद् वेसादिवाक्ये तु गगने ब्रह्मशब्दवत् ॥ गौणत्वेन प्रयुक्तं तत् सम्भूतस्य पदस्य हि ॥ १२ ॥ मुख्यत्वासम्भवाद् वायोरनिरिसादिसङ्गतात् ॥

श्रीभाष्यवार्तिके यथा प्रधाने ब्रह्मगीर्गौणत्वेन प्रयुज्यते ॥ १३ ॥ तत्प्रकरणे ब्रह्मणि मुख्यत्वेनापि युज्यते ॥ तथा सम्भूतशब्दोऽपि मुख्योऽसौ गगने न च ॥.१४ ॥ परिहरति- छान्दोग्यश्रुतिवाक्येन गौणो नाकाशसम्भवः ॥ यतस्तत्रैकविज्ञानात् सर्वविज्ञानमीरितम् ॥ १५ ॥ अत आकाशशब्दोऽपि ब्रह्मकार्यं तदुद्भवात् ।। छान्दोग्ये वियदुत्पत्तिरत एव न संशयः ॥ १६ ॥ यतः, सदेव सौम्येदमग्र आसीदिति श्रुतौ ।। एकत्वोक्तेरैतदात्म्यमिदामियादितश्च ह ॥ १७ ॥ कार्यत्वाद् ब्रह्मणो नैव व्यतिरेकः प्रतीयते ॥ ऐतदात्म्यमिदं सर्वमियादिवचनादपि ।। १८ ॥ आकाशस्य विकारित्ववचनाद् ब्रह्मणो जनिः ॥ विभागाख्यापि युक्तोक्ता यथा लोकेऽपि दृश्यते ॥ १९ ॥ इमे सर्वे देवदत्तपुत्रा इसभिधाय वै ॥ तेषु केषां चिदुत्पत्तिवचनादितरेऽखिलाः ॥ २० ॥ उत्पत्तिमन्तो निर्णीतास्तथैव गगनादयः ॥ हेतुनाऽनेन वायोश्च व्याख्याता जनिरत्र हि ॥ २१ ॥ पृथग्योगस्य करणमाकाशानिलयोस्तु यत् ॥ तेजोऽत इति सूत्रे हि परामर्शार्थमस्य हि ॥ २२ ॥ ब्रह्मभिन्नाखिलस्याऽत्र नानुत्पत्तिरसम्भवात् ।। उपलक्षणमात्रेण वायोराकाशकस्य च ॥ २३ ॥ उत्पत्तिवचनं किन्तु सर्वमुत्पद्यते सतः ॥ एकस्य ब्रह्मणो ज्ञानात सर्वज्ञानप्रतिज्ञया ॥२४॥ अवाधयाऽन्यथा चेयं प्रतिज्ञाहानिरापतेत् ॥

२ अध्याये ३ पादः।
७५
एकमेवेति प्राक् सृष्टरकतत्त्वाऽवधारणात् ॥ २५॥
ऐतदात्म्यमिदं सर्वमिसादिशब्दतश्च हि ॥
ब्रह्मणोऽव्यतिरेकस्य प्रतीतेवियतो जनिः ॥ २६ ॥
ब्रह्मभिन्नस्य कृत्स्नस्य कार्यत्वमुपपादितम् ॥
अधुनाऽन्येन जन्यानां कार्यत्वं परिचिन्यते ॥ २७ ॥
केवलाद कारणाज्जन्यं तद्रूपादुत ब्रह्मणः ॥
जायते केवलाद्युक्तं वायोरग्निरितीरितात् ॥ २८ ॥
अनेरापस्तथैवाद्भयः पृथिवीजनिरुच्यते ॥
ब्रह्मणः कारणत्वस्य पारम्पर्येण सङ्गतिः ॥ २६ ॥
इति प्राप्ते सर्वकार्ये ब्रह्म कारणमिष्यते ॥
बहु स्यामिति सङ्कल्पात् तल्लिङ्गान्महदादिकम् ॥ ३० ॥
प्रतीशः कारणं किञ्च तत्तेज ऐक्षत स्वयम् ॥
बहु स्यां प्रजायेयेति ह्याप ऐक्षन्त ता अपि ॥ ३१ ॥
बह्वयः स्याम प्रजायेमहीतीक्षापूर्विकाऽखिलैः ।।
सृज्यतेऽतो जडेष्वीक्षावाधात् तत्तच्छरीरः ॥ ३२ ॥
ईशः कर्ता सृज्यमात्रेऽखिलं प्रति कलेवरी ॥
अन्तर्यामिब्राह्मगेऽपि पृथिव्याधखिलं प्रति ॥ ३३॥
शरीरिब्रह्मसंश्रुखा कारणं तज्जगत् प्रति ॥
ब्रह्मानन्तर्यरूपोऽयमुत्पत्तिक्रमवर्णकः ॥ ३४ ॥
तदा घटेद् यदा ब्रह्म सर्वकारणमिष्यते ॥
विज्ञानसाधनत्वाच्च विज्ञानमिन्द्रियाणि हि ॥ ३५ ॥
एतस्मादिति वाक्येन ब्रह्मणोऽनन्तरं जगत् ॥
कार्यामखेव कलनातू सर्वस्योत्पत्तिरीशतः ॥ ३६ ।।
अभिध्यानेन लिङ्गेन तदेतत्रोपपद्यते ॥
क्रमविशेषपरत्वादा वाक्यस्यास्येति हेतुतः ॥ ३७॥

७६ श्रीभाष्यवार्तिके अत्रापि सर्वकार्याणां क्रम एव प्रतीयते ॥ श्रुसन्तरेण सिद्धोऽत्र क्रमोऽपि गगनादिषु ॥ ३८ ॥ प्रतीयते पाठलिङ्गात्तैः सह प्राणभूतयोः॥ उत्पद्यते अन्तराले विज्ञानमनसी ह्यपि ॥ ३९ ॥ साक्षाद् ब्रह्मण एव स्यादतः सर्वस्य सम्भवः ॥ उत्पत्तेरविशिष्टत्वादेतस्मादिति वाक्यतः ॥ ४० ॥ न क्रमोऽन्यश्रुतेक्यिा सिद्धक्रमविरोधतः ।। पृथिव्यास्त्विति वाक्येन क्रमान्तरप्रतीतितः॥४१ ।। ततोऽव्यक्तादिसदेहात् परस्मात् परमात्मनः ॥ उत्पत्तिः सर्वकार्याणामियतः सकलाऽऽरवाः ॥ ४२ ।। तदात्मभूतं सद् ब्रह्म मुख्यवृत्त्या वदन्ति हि ॥ नन्वेमखिलैः शब्दब्रह्म चेत् प्रतिपाद्यते ॥ ४३ ॥ तदा समस्तशब्देभ्यो वस्तु व्यवहृतिः कथम् ॥ तत्राह ब्रह्मभिन्नेऽत्र स्थावरे जङ्गमे तथा ॥ ४४ ॥ व्यपदेशस्तत्पदानां भाक्त इसवगम्यताम् ॥ वाच्यप्रकार्येकदेशे भज्यते हीति भाक्तता ॥ ४५ ॥ सर्वप्रकारिब्रह्मणो हि प्रकाराखिलवस्तु यत् ।। तद्ग्राह्यऽक्षाद्यखिलप्रमाणाविषयत्वतः ॥ ४६ ॥ प्रकारिब्रह्ममात्रस्य प्रतीतिः श्रुतिसंश्रुतेः ॥ प्रकारोऽयं प्रकारीति प्रतीतिविरहात तथा ॥ ४७ ॥ प्रतीतिभावभावित्वात् पर्यवस्येत् प्रकीरिणि ॥ तत्तद्वस्तुमात्रेजस्ते ते शब्दाः समस्तकाः॥ ४८ ॥ वाच्यैकदेशे सम्भज्य व्युद्दिश्यन्ते न संशयः ॥ तेजःप्रभृतिभिः शब्दस्तेजःप्रभृतिवाचकैः ॥ ४९ ॥ ब्रह्मणो व्यपदेशः स्यादमुख्य इति चेन्न हि.॥

२ अध्याये ३ पादः ।
७७
चराचरवाचिशब्दो मुख्यो ब्रह्मणि तत् कुतः ॥ ५० ॥
नामरूपश्रुतिवाक्याद् वाचकत्वस्य निर्णयात् ॥
कृत्स्नस्य गगनादेव परस्माजनिरीरिता ॥ ५१ ॥
इदानीं जीववर्गस्य जन्माऽस्ति किमु तन्न हि ॥
अस्तीति युक्तमेकस्य विज्ञानाज्जायतेऽखिलम् ॥ ५२ ॥
प्रतिज्ञेयं हि युज्येत यदा स्यादखिलं ततः ॥
यतो वेसादिवाक्येन जीवाद्युत्पत्तिरुच्यते ॥ ५३ ॥
ब्रह्माभिन्नत्वतो जीवो नोत्पन्न इति चेन हि ॥
ब्रह्मत्वात् खादिरप्येवं नोत्पन्न इति निश्चयात् ॥५४॥
अत उत्पद्यते जीव इति प्राप्तेऽभिधीयते ॥
उत्पद्यते न जीवात्मा जनिमृत्युनिषेधतः ॥ ५५ ॥
न जायते मियते वा विपश्चिदिति वाक्यतः॥
द्वावजाविति वाक्याच्च जीवजन्म निषिध्यते ॥५६॥
नचैकज्ञानतः सर्वविज्ञानस्य प्रतिज्ञया ॥
कथं भाव्यं हीति वाच्यं यत इत्थं विनिर्णयः ॥ ५७ ॥
अवस्थान्तरसम्प्राप्तिर्जीवानां जन्मशब्दभाक् ॥
स्वरूपतान्यथाभावो वियदादेजर्डस्य च ॥५८ ॥
जीवस्य ज्ञानसङ्कोचविकासात्मक एव हि ॥
अन्यथाभाव उद्दिष्टः प्रतिषेधस्वरूपतः ॥ ५९॥
भोग्यभोक्तृनियन्तॄन वै संश्लिष्टान् प्रतिपाद्य च ॥
उत्पत्त्यादि भोग्यगतं भोक्तरि प्रतिषिध्य च ॥ ६ ॥
निसतां प्रतिपाद्याऽथ तथा भोग्यगतं पुनः॥
उत्पत्त्यादिभोक्तृगतमपुरुषार्थाश्रयत्वकम् ॥ ६१ ॥
नियन्तरि निषिध्यैवं निसं तां निरवद्यताम् ॥
सदा सर्वज्ञतां चापि सससङ्कल्पतां तथा ॥ ६२ ॥

श्रीभाष्यवार्तिके करणाधिपाधिपत्वं च विश्वेशत्वं तथैव च ॥ प्रतिपाद्य सर्वदेथं चेतनस्याचितस्तथा ॥ ६३ ।। शरीरत्वं नियन्तारं प्रसव प्रतिपाद्यते ॥ अतस्तच्चिदचिद्वस्तुशरीरं तत्प्रकारकम् ॥ ६४ ॥ अतस्तद् ब्रह्मणश्चिदचिद्विभक्ताव्यपदेशभाक् ॥ सूक्ष्मात्मचिदचिद्वस्तुशरीरं ब्रह्मकारणम् ॥६५॥ कारणावस्थमवेति तस्य संज्ञेति गम्यताम् ॥ कारणावस्थमेवेदं नामरूपविभागवत् ॥ ६६ ॥ चिदचिच्छरीरिस्थूलं कार्यावस्थं भवसलम् ॥ तत्राप्यचेतनागं यत् कारणावस्थयान्वितम् ॥ ६७ ।। शब्दादिहीनं भोग्यत्वायोग्यं सत्कार्यतां गतम् ॥ शब्दादिमत्तया योग्यं स्वरूपाद्विकृतिं गतम् ॥ ६८ ॥ चिदंशस्य तु भोक्तृत्वयोग्यतार्थं स्वरूपतः ॥ अन्यथाभावहीनत्वं किन्तु ज्ञानं स्वधर्मिणि ॥ ६९ ॥ विकासभावं सम्प्राप्य भोक्तृत्वं घटयसलम् ॥ यावत् संकुचितं ज्ञानं तावद्भोक्ता न चेतनः ॥ ७० ॥ सृष्टेः माग भोग्यविरहात् कुण्ठितज्ञानधर्मकम् ॥ अभोक्ता चेतनोऽस्येवं भोग्यभावे स एव तु ॥ ७१॥ विकासज्ञानधर्मत्वाद् भोक्ता सृष्टौ हि चेतनः ॥ एवं हिकारणावस्थात् कार्यावस्थाद् विवेकतः ॥ ७२ ॥ ज्ञेयो हरिः सदा ससः कल्याणगुणसागरः ।। तेन संमिश्रणं भोग्यभोक्तृभ्यां सर्वदाऽस्ति हि ॥ ७३ ॥ सर्वभेदश्रुतिर्मुख्या केवलाद् भेदसंश्रुतिः ॥ वियदादिरिव जीवो नोत्पद्यत इति रूपितम् ॥ ७४ ॥ तत्मसङ्गेन. जीवस्य स्वरूपं विनिरूप्यते ॥

२ अध्याये ३ पादः।
आत्मस्वरूपं चिन्मानं किं वागन्तुकचिद्गुणम् ॥ ७५ ॥
किं वा ज्ञातृत्वमेवास्य स्वरूपमिति संशये ॥
युक्तं चिन्मात्रमेवास्य स्वरूपमिति तच्छ्रुतेः ॥ ७६ ॥
विज्ञानात्मनि यस्तिष्ठन्निति काण्यास्तथाऽपरे ॥
अधीयते हि विज्ञानं यज्ञं सन्तनुतेऽपि च ॥ ७७ ।।
इति श्रुतिभ्यां विज्ञानस्वरूपात्मा प्रकीर्तितः ।।
अपर आह तु जीवस्य ज्ञानत्वं चापि ज्ञातृता ॥ ७८ ॥
स्वाभाविकतया चेत् स्यात् सर्वगस्य तदा सदा ॥
सर्वस्मिन्नुपलब्धिः स्यात् करणानां किमर्थता ॥ ७९ ॥
मुप्तिमूर्छादिषु सतश्चैतन्यानुपलम्भनात् ।।
जाग्रत्सामग्रीसम्पत्तौ चैतन्यस्योपलम्भनात् ॥ ८० ॥
अतो जीवस्य चैतन्यं न स्वाभाविकमिष्यते ।।
तथा सर्वगतत्वं च सर्वस्मिन् कार्यदर्शनात् ॥ ८१ ॥
सर्वत्र संविधानाच्च गमनागमनादिकम् ॥
शरीरगमनेनैव सति कार्यस्य सम्भवे ॥ ८२ ॥
तद्गतेः कल्पनायां वै प्रमाणं नोपलभ्यते ॥
श्रुतिः सुषुप्तिवेलायां स्वाज्ञानं दर्शयसलम् ॥ ८३ ॥
अयमस्मीति नो जाने सम्प्रसात्मानमेव मे ॥
न प्रेसे संज्ञाऽस्ती सेवं श्रुसा मुक्तावपि स्वयम् ॥ ८४ ॥
प्रदर्श्यते ज्ञानहानिर्ज्ञानरूपस्तु तद्गुणात् ॥
इति प्राप्ते ज्ञ एवायं ज्ञाताऽप्यात्माऽस्ति नो जडः ॥ ८५ ॥
एष इसादिवाक्येन श्रोतृत्वादिनिरूपणात् ॥
आत्मा ज्ञाता भवसेव न शङ्यं किञ्चिदस्ति हि ॥ ८६ ॥
नन्वात्मा सर्वगो ज्ञाता चेत्तु सर्वत्र सर्वदा ॥
उपलब्धिः कुतो न स्यादिसेवं न विशझ्यताम् ॥ ८७ ॥

श्रीभाष्यवार्तिके . सर्वगोऽप्यणुरेवायमुत्क्रान्सादिसमीरणात् ॥ प्रद्योतेनैष आत्माऽयं मूनों वा चक्षुषोऽथवा ॥ ८८ ॥ निष्कामति तथा लोकाल्लोकान्तरगतिश्रुतेः ॥ शरीरेण वियोगो हि स्थिरस्याऽप्यात्मनो भवेत् ॥ ८६ ॥ गसागती त्वणुत्वेन विना नैवात्मनो ह्यम् ॥ योऽयमिसादिवाक्येन जीवं प्रस्तुस चोत्तरम् ॥ ९० ॥ स वा एषेति वाक्येन महत्त्वं श्रूयते कथम् ।। तदणुजीवो नैवायमिति चेन्नेतरात्मनः ॥ ९१ ॥ प्राज्ञस्यात्राधिकाराद्वा अणुर्जीवो व्यवस्थितः ॥ यद्यप्युपक्रमे जीवः प्रस्तुतोऽथापि वाक्यतः ॥ ९२ ॥ यस्यानुवित्त आत्मेति मध्ये सम्बोध्यते परः ॥ अतो महत्त्वं तस्यैव न जीवस्येति निर्णयः ॥ ९३ ॥ एषोऽणुरात्मा संवेद्यो यस्मिन् प्राणास्तु पञ्चधा ।। संविशन्तीति वाक्यात्तु जीवोऽणुपरिमाणकः ॥ ९४ ॥ बालाग्रशतभागस्य शतधा कल्पितस्य च ॥ भागो जीवः स विज्ञेयः स चानन्याय कल्पते ॥ १५ ॥ आराग्र इति वाक्यादै जीवोऽणुपरिमाणकः ॥ अथ स्यादात्मनोऽणुत्वं वेदनाखिलदेहगा ॥६६॥ नोपपद्येत यदिति तन्नैवमविरोधतः॥ यथा चन्दनबिन्दु। देहकावयवे गतः ॥ १७ ॥ देहव्यापिनमालादं जनयसेवमेव हि ।। एकदेशस्थितोऽप्यात्मा देहव्याप्तां स्ववेदनाम् ॥ १८ ॥ मुखं चानुभवसेवं परिहारो मतान्तरे ॥ एकदेशस्थितो नात्मा मैवं ब्रूहि हृदि स्थितेः ॥ १९ ॥ अयमात्माहृदीत्येवं श्रवणाच्छरुतिमण्डले ॥

२ अध्याये ३ पादः। आत्मा वा स्वगुणेनाध्यं ज्ञानेनाऽखिलदेहमः॥ १०॥ आलोकवत् ततो दुःखं मुखं देहैकदेशगम् ॥ साक्षादनुभवसेष सर्वदाऽणुस्वरूपकः॥ १०१॥ अप्येकदेशस्थमणेः प्रभा स्यात् सर्वदेशगा ।। तथा हृत्स्थस्य जीवस्य ज्ञानं सकलदेहगम् ॥ १०२॥ मणिप्रभेव ज्ञानं हि स्वाश्रयव्यतिरेकतः॥ स्थितौ न बाधकं किञ्चिच्छतिन्यायविनिर्णयात् ॥ १०३॥ विज्ञानमात्रमेवात्मा चेत् कथं तद्गुणो भवेत् ॥ गुणो गुणिखरूपो न कदाप्यत्रोच्यते शृणु ॥ १०४ ॥ यथा पृथिव्यां गन्धो हि गुणत्वेनोलभ्यते ॥ व्यतिरेकात् तथा ज्ञानं ज्ञातुभिन्नो गुणो भवेत् ॥ १०५ ॥ श्रुतिरित्थं दर्शयति जानासेव हृदि ह्ययम् ॥ विज्ञानं तनुते यज्ञं विज्ञाने तिष्ठति स्वयम् ॥ १०६ ॥ विज्ञातुर्लुप्यते नैव विज्ञानामिति वाक्यतः ॥ गुणगुणिनोस्तु तादात्म्यं व्यवहारनियामकम् ॥ १०७ ॥ यथा तादात्म्यसम्बन्धाद् विषयो विषयी भवेत् ॥ तत्र ज्ञानं विपयतासम्बन्धाज्जायते तथा ॥ १०८॥ गुणो गुणी भवसेव विषये विषयस्ववत् ।। घदे तद्घटतादात्म्यं यदि न स्यात् तदा घटे ॥ १०९ ।। तघटस्य हि भेदः स्यादतो हि घटवान् घटः ।। ज्ञानादिगुणवानात्मा तथा तादात्म्यतो भवेत् ॥ ११० ॥ ननु- ह्यानस्वरूपमसन्तनिर्मलं परमार्थतः ॥ इखादिपु ज्ञानमेव ह्यास्मेति व्यपदिश्यते ॥ १११ ॥ अत्राह- ११ 1 श्रीभाष्यवार्तिके विज्ञानगुणसारत्वादात्मा विज्ञानमुच्यते ॥ अस्यात्मनो हि विज्ञानं सारभूतो गुणोत्तमः ॥ ११२॥ यथा विपश्चित्याज्ञो हि ज्ञानशब्देन पठ्यते ॥ सदात्मभाविधर्मत्वाद् विज्ञानस्योपदिश्यते ॥ ११३ ॥ तत्पदेन न दोषोऽस्ति गोत्वधर्मेण गोरिव ॥ ज्ञानवत्स्वप्रकाशवादात्मा ज्ञानपदेन च ॥ ११४ ॥ व्यपदिश्यतेऽबाधकादिति चेन्न समुच्चयः॥ ननु मुप्तौ ज्ञानहानेः कथमात्माऽनुबन्धिता ॥ ११५ ॥ ज्ञानधर्मस्येति मैवं सतोऽभिव्यक्तियोगतः ।। विद्यमानं यथा पुस्त्वं यौवनेन प्रकाश्यते ॥ ११६ ॥ सुषुप्तौ विद्यमानस्य तथा ज्ञानस्य जागरे । प्रकाशसम्भवादात्मधर्मता नैव हीयते ॥ ११७ ॥ सप्तधातुमयत्वं हि शरीरायतनं सदा ॥ अहमर्थप्रकाशस्तु सुषुप्यादौ समर्थितः ॥ ११८ ॥ ज्ञानस्य विद्यमानस्य विपयग्रहणं पुनः ॥ समर्थितं जागरादौ ज्ञातृत्वादय आत्मनि ॥ ११९ ॥ समर्थिता अतो ज्ञेय आत्मा ज्ञातैव निश्चितम् ॥ न प्रेस संज्ञाऽस्तीति यत् तन्न मुक्तस्य वक्ष्यति ॥ १२० । ज्ञानहानि किन्तु जन्मनाशादीनां हि दर्शनम् ॥ निषेधयथ तस्यैव सर्वगत्वे हि दृपणम् ॥ १२१ ॥ उच्यते ज्ञानमात्रत्वे नियमेवोपलभ्यताम् ॥ अथवा नोपलभ्यत्वं निसमात्मनि शङ्यताम् ॥ १२२ ॥ कारणायत्तप्रसक्षे सर्वेषामात्मनां पुनः ॥ सर्वगत्वेन करणैः सदा सम्बन्धवत्तया ॥ १२३ ॥ सर्वभोगस्य साङ्कय स्यादतोऽणव एव ते ।।

२ अध्याये ३ पादः।
आत्माऽणुपरिमाणोऽयं ज्ञातेति विनिरूपितम् ॥ १२४ ॥
स कर्ता किमकर्ता वेसेवं हि परिसंशये ॥
युक्तं गुणगकर्तृत्वं स्वात्मन्येवाध्यवस्य हि ॥ १२५ ॥
श्रुसा स्मृसा यतोऽकर्ता स्वत आत्मा निगद्यते ।।
कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते ॥ १२६ ॥
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥
इसादिवाक्यात् कर्तृत्वं प्रकृतेरेव युज्यते ॥ १२७ ॥
भोक्तृत्वमेव पुरुषे इति प्राप्ते प्रचक्ष्महे ।।
आत्मैव कर्ता, न गुणाः कुतः शास्त्रार्थवत्तया ॥ १२८ ॥
यजेत स्वर्गकामो हि मुमुक्षुर्ब्रह्मसेवनम् ॥
कुर्वीतेसादिशास्त्रं हि फलमात्मनि शंसति ॥ १२१ ॥
फलभोक्तारमात्मानं हिरुम् नान्योनियोज्यते ॥
कर्तृत्वे किञ्च नो युक्तं कर्बचेतनमत्र वै ॥ ३० ॥
हननं प्रसकर्तृत्वमात्मनः श्रूयते तु यत् ॥
तदात्मनो हि निसत्वाद्धन्तव्यत्वाद्यभावतः ॥ १३१ ॥
गुणानामेव कर्तृत्वं गीतादिस्मृतिनिश्चितम् ।।
तदस्य गुणसंसर्गकृतं सांसारिकस्य हि ॥ १३२ ॥
न स्वरूपप्रयुक्तं तत् केवलस्यात्मनो भवेत् ॥
अधिष्ठान तथा कर्ता करणं च पृथग्विधम् ॥ १३३ ।।
विविधा च पृथक्चेष्टा दैवं चैवात्र पञ्चम् ॥
इति पञ्चकसापेक्षकर्तृत्वं केवलात्मनः ॥ १३४ ॥
कर्तृत्वं मन्यते योऽयं न स पश्यति दुर्मतिः ॥
उपादाने तु प्राणानां विहारेऽप्यात्मनस्तथा ॥ १३५ ।।
एवमेवैष वा एतानिति श्रुखोपदिश्यते ॥
कर्तत्वमन्यथा बुद्धनिर्देशे स्याद् विपर्ययः ॥ १३६ ॥

श्रीभाष्यवार्तिके वै तद्विज्ञानपदेनात्मा प्रतिपाद्योऽन्यथा तु वै ॥ करणतृतीयापत्तिर्बुद्धयर्थकपदोत्तरम् ॥ ११७ ॥ भोक्तुरन्यस्य कर्तृत्वं न युक्तमुभयोस्तयोः॥ एकत्र सत्त्वसम्बन्धाद् भिन्नतिपखण्डनात् ॥ १३८॥ सर्वसाधारणत्वेन प्रकृतेश्चैव सकर्तृता ॥ सर्वकर्माणि सर्वेषां भोगाय स्युर्न संशयः ॥ १३६ ।। भोक्तुरन्यस्य कर्तृत्वं न युक्तमुभयोस्तयोः ॥ एकत्र सत्त्वसम्बन्धाद् भिन्नत्तिप्रखण्डनात् ॥ १४० ॥ उपाध्यभावापत्त्या न बुद्धः कर्तृतेष्यते ॥ न हि बुद्धिः समाधातुं समर्था कुत्र चिद् भवेत् ।। १४१ ॥ अत आत्मैव कर्ता स्यात् सपन्नः साधनैरपि ।। करोतीच्छानुगुण्येन तक्षा वास्यादिभिर्यथा ॥ १४२ ॥ आत्मबुद्धेस्तु कर्तृत्वे भोगवाञ्छादि कारणम् ॥ नियतं नेति कर्तृत्वं बुद्धिगं सर्वदा भवेत् ॥ १४३ ॥ यदि जीवात्मकर्तृत्वं स्वातन्त्र्येणेह चोच्यते ॥ अतो विधिनिषेधादिशास्त्रसार्थक्यमापतेत् ॥ १४४ ॥ यो हि स्वबुद्धया शक्तोऽत्र प्रसां वा निवर्तने ॥ स एव स्थानियोज्यो नाऽप्राप्ते ससेवमुच्यते ॥ १४५ ॥ जीवात्मनां हि कर्तृत्वं परमात्मैकहेतुतः ।। अन्तः प्रविष्टः शास्तेति श्रुसादिप्रतिपादनात् ॥ १४६ ॥ पुरुषेण कृतं यत्नमपेक्ष्य परमेश्वरः ॥ तस्यानुमतिदानेन प्रवर्त्तयति कर्मणि ॥ १४७ ।। अन्तरेण परेशस्यानुमतिर्न प्रवर्तनम् ॥ य ईश्वरानुकूल्ये हि वर्तते नितरां जनः ॥ १४८ ॥ अनुगृह्णन् स भगवान् कल्याणेष्वेव कर्मसु ॥

२ अध्याये ३ पादः।
तद्रुचि जनयसेव प्रतिकूलं विपर्ययात् ॥ १४९ ॥
जीवात्मनां हि कर्तृवं परेशायत्तमीरितम् ॥
इदानी किमयं जीवो भिन्नः स्यात् परमात्मनः ॥ १० ॥
आहोखित परमं ब्रह्म स्वोपाधिपरिकल्पितम् ॥
किं वा ब्रह्मांश एव स्यादिसेवं संशयः श्रुतेः ॥ १५१ ॥
तत्राद्यपक्षो युक्तोऽत्र ज्ञाज्ञाविसादिवाक्यतः ॥
उपचारादभेटोत्राभेदश्रुतिविवोषितः ॥ १५२ ॥
ब्रह्मैकदेशो ब्रह्मांशो जीवश्चेद ब्रह्म दोषवत् ॥
ब्रह्मैकदेशजीवस्थदोषाणां ब्रह्मसंश्रयात् ॥ १५३ ।।
भ्रान्तं ब्रह्मैव जीवो वा ब्रह्मभावोपदेशतः।।
अनाधुपाध्यवच्छिन्नं जीवो वाऽभेइसंश्रुतेः ॥ १५४ ॥
इति प्राप्त प्रतिक्षिप्य सिद्धान्तः प्रतिपाद्यते ॥
ब्रह्मांश एव जीवोऽयं नानात्वव्यपदेशतः ॥ १५५ ॥
तथैकत्वोपदेशाच्च नान्यथोमयथा भवेत् ।।
उपदेशस्तथा हि स्यात् ष्मृत्वादिप्रकारकः ॥ १५६ ॥
तत्त्वमस्यादिवाक्येन तथाऽभेदप्रकारकः॥
उभाभ्यामुपदेशाभ्यां ब्रह्मांशो जीवचेतनः ॥ १५७॥
जीवाभेदः सर्वजीवव्यापित्वेनोपदिश्यते ॥
पादोऽस्य विश्वा भूतानीसेवमत्र प्रभाषणात् ॥ १५८ ॥
ब्रह्मांशत्वं हि जीवानां स्पष्टमेव न संशयः ॥
ब्रह्मैकदेशजीवस्य ब्रह्मांशत्वनिरूपणे ॥ १५९ ।।
दोषा जीवगता ये वै ते स्युः सर्वे परात्मनः ॥
इसाशङ्कय समाधानं ज्वलदग्निप्रकाशवद ॥ १६० ॥
यथाऽग्न्यादेः प्रकाशोऽशो गोत्वादीनि गवादिके ॥
अंशः स्याद् देहिनो देहो ाश एवं प्रकीर्तितः ॥ १६१ ॥

श्रीभाष्यवार्तिके एकवस्त्वेकदेशत्वमंशलक्षणमीरितम् ॥ वैलक्षण्येऽपि चांशत्वविशेषणविशेष्ययोः॥ १६२ ।। भवेदतो विशेष्ये न दोषा अंशगताः पुनः ॥ वैलक्षण्याद द्वयोरत्र विशेषणविशेष्ययोः ॥ १६३ ॥ इदमाश्रिय श्रुखादौ भेदनिर्देश ईरितः ॥ स्वपृथसिद्धयनर्हत्वाद् विशेषणविशेष्ययोः ॥ १६४ ॥ अभेदो बोध्यते श्रुसा न विरोधो मनागपि ॥ प्रभामभावतोरिव शक्तिशक्तिमतोर्यथा ॥ १६५॥ तथा देहात्मभावेन जगब्रह्मात्मनोरिह। अंशांशिभावसम्बन्धं स्मरन्ति परमर्षयः ।। १६६ ॥ सर्वस्य ब्रह्मणोंऽशत्वे केचिद् वेदाधिकारिणः ॥ केचिन्नेयेव संस्पृश्याः केचिन्नेति कथं भवेत् ॥ १७ ॥ विशेष इसाशमाह देहभेदाद् भवेदयम् ॥ अग्नेर्यथैकरूपत्वेऽप्येवं सम्बन्धभेदतः ॥ १६८॥ श्रोत्रियाऽनिः श्मशानाग्निः स्पृश्यास्पृश्यौ यथैव तौ ॥ अनुज्ञापरिहारौ च देहसम्बन्धभेदतः ॥ १६९ ।। तथात्मनः परिज्ञयौ शुच्यशुच्यादिदेहिनः ॥ ब्रह्मांशत्वादिनैकत्वमण्वात्मनि हि यद्यपि ॥ १७० ॥ परस्परमणुत्वेन प्रतिदेहं विभिन्नता ॥ अत एव भवसेवं व्यवस्था भोगभाविका ॥ १७१ ॥ अविद्याकृतोपाधितो व्यवस्था चेदिहोच्यते ॥ अखण्डैकरसस्यास्य प्रकाशात्मन एव च ॥ १७२ ॥ स्वरूपं हि तिरोधायोपाधिभेदोपपादने ॥ उद्दिष्टो हेतुराभासः प्रकाशात्मविनाशतः ॥ १७३ ॥ आभासा इति पाठे तु कल्पितोपाधिभेदके ॥

२ अध्याये ३ पादः।
आभासा हेतवः सर्वे इसर्थः सूत्रसङ्गतः ॥ १७४ ॥
वास्तवात्मन एकत्वाद् भोगसाङ्कर्यमापतेत् ॥
अदृष्टनियतोपाधिकृतभेदोऽत्र मन्यते ॥ १७५ ।।
तस्यापि नियमाभावादव्यवस्थैव केवलम् ॥
एकमेव ब्रह्मरूपं विविधोपाधिसङ्गतम् ॥ १७६ ॥
तथाऽप्युपाधिब्रह्मदेशभेदाद भाव्यव्यवस्थया ॥
इति चेत् सङ्गतं नैतत् प्रदेशानां हि सर्वतः ॥ १७७ ।।
उपाध्यन्तर्गतत्वेन व्यवस्थाभावसम्भवात् ।।
पूर्वत्र वेदबाह्यानां सूत्राभ्यां दोष उद्धृतः ॥ १७८ ॥
वादावलंविनामत्र दोपः सम्यनिरूप्यते ॥
इति श्रीभाष्यवार्तिके द्वितीयाऽध्यायस्य तृतीयः पादः ॥२॥३॥

८८ श्रीभाष्यवार्तिके ब्रह्मात्माभिन्नाकाशादेः कृत्स्नस्योत्पत्तिरूपणे ॥ अपोदितोऽन्यथाभावस्तत्प्रसङ्गाद् विशोधितम् ॥ १॥ जीवस्वरूपमधुना हीन्द्रियमाणसङ्गतः ॥ उत्पत्त्यादिप्रकारोऽत्र शोध्यते बुद्धिपूर्वकम् ॥ २॥ तत्रेन्द्रियाणां कार्यत्वं जीववद्वियदादिवत् ।। युक्तं जीववदेवात्र वाद्येवं प्राह सादरम् ॥ ३ ॥ इन्द्रियाणि तथा प्राणा जीववन्नोद्भवन्ति हि ॥ नोत्पत्तिः श्रूयते जीवे तथाऽत्रापीति हेतुतः ॥ ४ ॥ असदेसादिवाक्येन प्रलयेऽवस्थितिश्रुतेः ॥ जीवोत्पत्तिर्यथैवोक्ता प्राणोत्पत्तिस्तथैव हि ॥ ५ ॥ तत्रोच्यते समाधानं वियदादिवदेव च ॥ प्राणोत्पत्तिः सदेवेदमा इसादिवाक्यतः ॥६॥ सृष्टेः प्रागात्मनो ह्येवमेकत्वस्यावधारणात् ॥ एतस्मादपि सद्वाक्यादुत्पत्तिश्रवणादपि ॥ ७॥ तथा पूर्वमवस्थानासम्भवाचेन्द्रियादिकम् ॥ उत्पद्यते न जीवस्य जन्मवच्छङ्कयतेऽन्यथा ॥ ८॥ आत्मनो जन्मनिसत्वश्रुतिवन्नेह तवयम् ॥ न श्रूयतेऽतः प्राणानामुत्पत्तिर्वियदादिवत् ॥ ९॥ प्राणमेवेति वाक्येऽस्मिन् प्राणशब्दः परात्मनि ॥ प्रसिद्ध इति तस्माद्वै प्राणादुत्पत्तिरीरिता ॥ १० ॥ बहुत्वश्रवणं गौणं प्राणा इसादिवाक्यगम् ॥ बह्वर्थाऽसम्भवात्तस्य सृष्टेः भागात्मनः श्रुतेः ॥ ११ ॥ परात्मवाचकप्राणशब्दोऽत्रेति विनिर्णयः॥ यतोऽभिन्नं ततः सर्वं वाचा यत् परिकीर्त्यते ॥ १२ ॥ तत्सर्वं जायते पश्चान्नाकाद्युत्पत्तिपूर्वकम् ।। ।

३ अध्याये ४ पादः। तानीन्द्रियाणि नो सप्त भवन्सेकादशैव हि ॥ १३ ॥ हस्तादीनां शरीरस्थभोगोपकरणत्वतः ॥ आदानादिकार्यभेदो दृश्यतेऽतोऽत्र सन्ति ते ॥ १४ ॥ सर्वेऽनन्ता इति श्रुसा विभुत्वमितिचेन्न हि ॥ उत्क्रान्तिश्रवणात् तेषां पारिमिसं निरूप्यते ॥ १५॥ आनन्यश्रवणं चैषामुपासार्थं न संशयः॥ प्राणाद्विशेषभूतादिकार्यबाहुल्यतस्तथा ॥ १६ ॥ एकत्वनिश्चयात् सृष्टेः प्रागित्थं परमात्मनः ॥ भिन्नमुत्पद्यते सर्व प्राणादिर्गगनादिवत् ॥ १७ ॥ प्राणादि वायुमात्रं न क्रियारूपं न चापि हि ॥ एतस्माज्जायते प्राण इति भिन्नोपदेशतः ॥ १८ ॥ नापि भूतविशेषोऽयं प्राणः किन्ववरात्मनः ॥ भोगोपकारणात्मैव चक्षुरादिर्यथाऽत्र हि ॥ १६ ॥ चक्षुरादिवदस्यापि करणत्वे शेषरूपया ॥ क्रियया भवितव्यं तदभावान्नेन्द्रियादिवत् ॥ २० ॥ इसाशय समाधानं क्रियात्वाभावतो भवेत् ॥ जीवं प्रत्युपकारात्यक्रियाया विरहत्वतः ॥ २१ ॥ दोष उद्भाव्यते योऽपि स नास्तीति कुतः शृणु ॥ देहेन्द्रियधारणादिक्रिया दर्शयति श्रुतिः ॥ २२ ॥ प्राणस्योत्क्रमणे जाते देहः पाप्मा भवेदिति ॥ वागाद्युत्क्रमणेऽप्येवं शरीरस्थितिदर्शनात् ॥ २३ ॥ प्राणाभावे शरीरस्य क्षणमप्यस्थितेश्च हि ॥ व्यानादयो वायुवर्गाः प्राण एव न संशयः ॥ २४ ॥ अणुश्चायं पूर्ववच्च समुत्क्रामणसंश्रुतेः ॥ परिच्छिन्नस्वरूपत्वमणुत्वमिति न त्वणुः ॥ २५ ॥ १२

९०
श्रीभाष्यवार्तिके
जीवात्मदेहसाणादिदेवानामभिमानिनाम् ।।
परेशमननायत्तं कार्य शब्दप्रमाणतः ॥ २६ ॥
परमात्याधिष्ठितवं निसं सर्वस्य वस्तुनः ।।
सत्स्वरूपानुबन्धित्वात सर्वाधिष्ठातृताऽऽत्मनि ।। २७ ।।
तत् सृष्ट्वखादिवाक्येन चिदचिदस्तुमात्रके ॥
अन्तनियमनत्वेन प्रवेशः परिपठ्यते ॥२८॥
स्वरूपानुबन्धी स स्यात् स्मर्यते जगति स्थितः ।।
यतः सर्वाणीन्द्रियाणि प्राणभिन्नानि सन्ति ॥ २६ ॥
तत. सर्वत उत्कृष्ट प्राणा इन्द्रियवर्गत. ॥
जीवनिष्ठं हि कर्तृलं परायत्तमितीरितम् ॥ ३० ॥
स्वेन्द्रियादिष्वधिष्टानं परायत्तमनन्तरम् ।।
प्रपञ्चव्यष्टिष्टिा सा किं जीवेन रच्यते ॥ ३१ ॥
उत नेजामभूतिकशरीरेण परेण हि ।।
युक्तं हिरण्यगर्भाख्यजीवेन सृज्यते जगत् ॥ ३२ ॥
अनेनेति श्रुतेर्जीवकर्तृकत्वस्य निर्णयात् ॥
न हि स्वेन स्वरूपेण परमात्मत्येवप्रेक्षत ॥ ३३ ॥
नामरूपे व्याकरोमीसेवं किन्वंशभागिना ।।
ननु-
चारेणानुप्रविश्यवं बलं सङ्कलयाम्यहम् ॥ ३४ ॥
करवाणीत्युत्तमः पुरुषः सम्भवेदिनिचेन हि ॥
राजचारस्वरूपस्य भिन्नत्वादिह तन्न हि ॥ ३५ ॥
जीवस्येशांशरूपत्वात् तेन रूपेण तव्यम् ।।
प्रवेशो व्याकृतिश्चैव लक्षणा न प्रसज्जते ॥ ३६ ॥
तस्माज्जीवस्वरूपेण नामरूपीयव्याकृतिः ।।
परात्मना भवसेवं माते समाभिधीयते ॥ ३७॥

२ अध्याये ४ पादः। नामरूपव्याकरणं त्रिहत्कुर्वत ईश्वरात् ।। जीवेनानेनात्मनेति समकर्तृत्वप्रसयात् ॥ ३८ ॥ जीवशाभेदबुद्धिस्तु तुल्याधिकरणत्वतः ॥ जीवः शरीरमस्येति जीवशब्दार्थ ईश्वरः ॥ तेज ऐक्षत हीत्यादौ तेजआदिशरीरकम् ॥ ३९ ॥ परमेवोच्यते ब्रह्म देहदेहिस्वभावतः ।। हिरण्यगर्भो जीवस्य समष्टिर्जीव उच्यते ॥ ४० ॥ स शरीरं परस्येति व्याकारोतीश्वरोऽखिलम् ।। नामरूपात्मकं विश्वं तत्र प्रविशति स्वयम् ॥ ४१ ।। चतुर्मुखे यत् कर्तृत्वं चतुर्मुखशरीरके ॥ परस्मिन् घटते मुख्यममुख्यमितरत्र तु ।। ४२ ।। परस्परमसंबद्धास्तेजोऽबन्नादयः पुनः ॥ विशेषसृष्टिकरणेऽसमर्था इति तेषु वै ॥ ४३ ॥ सामर्थ्याथै तदैकैकं त्रिवृतं त्रिवृतं कृतम् ॥ ननु- त्रित्करणस्य जीवेषु संभवाज्जीवकर्तृकम् ॥ ४४ ॥ नामरूपव्याकरणं नेशकर्तृकमुच्यताम् ।। यदग्ने रोहितं रूपं तद्रूपं तेजसस्तथा ॥ ४५ ॥ यच्छुक्लं तदपां प्रोक्तं कृष्णं तत्त्वन्नसम्भवम् ।। इसादिना ब्रह्मसृष्टाग्न्यादिसचन्द्रविद्युतः ॥ ४६ ॥ प्रदृश्यते त्रिवृत्कार्यमेषु व्याकरणोत्तरम् ॥ इते प्राप्ते नोक्तयुक्तगग्न्यादित्यादिदैवते ॥ ४७ ॥ वेधति नैव त्रिवृतः करणं ह्युपदिश्यते ॥ परिणामविधा किन्तु शब्दात् सम्यक् प्रतीयते ॥ ४८ ॥ अतः पुरीषमांसानि मनांसि च क्षितस्ततः ॥

९२ श्रीभाष्यवार्तिके विकारा मूत्ररुधिरप्राणा ये जलजास्तु ते ॥ ४९ ।। तथाऽस्थिमज्जावाचस्तु विकारास्तेजसोऽभवन् । मनो हि सोम्यान्नमयं प्राण आपोमयः स्मृतः ॥ ५० ॥ तेजोमयी वागिति च वाक्यशेषाविरोधतः ॥ त्रिवृत्कृतस्य भूम्यादेः पुरुषप्राप्यनन्तरम् ॥ ५१ ॥ अन्नं पाशितमिसादिवाक्येन त्रिविधो ह्ययम् ॥ परिणामः समुद्दिष्टो, नोद्दिष्टा त्रिवृतः कृतिः ॥ २ ॥ ततोऽण्डसृष्टेः प्रागेव तेजोऽबन्नानि माधवः ॥ वित्कृतानि संमेल्य महदादि सृजययम् ॥ ५३ ॥ अथान्नमशितं पीतं जलं तेजोऽशितं तथा । त्रिवत्कृतं त्रिरूपं तत् कथमेकैकरूपकम् ॥ ५४॥ उच्यते व्यपदेशोऽतोऽयोग्य इसत उच्यते ॥ यस्यांशस्य हि वैशेष्यव्यपदेशस्तु तेन वै ॥ ५५ ॥ अन्ने भूम्यंशवैशेष्यादल्पत्वादितरस्य हि ॥ तस्मादेकैकरूपस्य व्यपदेशो न दृष्यते ॥ ५६ ॥ अध्यायस्य समाप्तिश्च द्विरुक्त्या परिधोत्यते ॥ इति श्रीभाज्यवार्तिके द्वितीयाध्यायस्य चतुर्थः पादः ॥२॥४॥ समाप्तोऽयं द्वितीयोऽध्यायः ॥

३ अध्याये १ पादः। गताध्यायद्वयेनैव गुणसागरमुन्दरम् ॥ निरस्तनिखिलापायं विश्वससैककारणम् ॥१॥ विलक्षणामितोदारं ब्रह्मोपास्यं मुमुक्षिभिः ॥ वेदान्तवेद्यं स्मृसादिविरोधहृतिपूर्वकम् ॥ २॥ स्थापितं तस्य संपाप्या अधुनोपाय ईर्यते ॥ तनिमित्तं तृतीयस्य लक्षणस्य द्वयोत्तरम् ॥ ३॥ प्रारम्भावसरस्तत्र वैतृष्ण्यं प्राप्य वस्तुतः ॥ व्यतिरिक्त तत्सिद्ध्यर्थं दोषा जीवे परे न च ॥ ४॥ किन्तु कल्याणगुणतो प्रथमे च द्वितीयके ।। निरूप्यतेऽत्र जीवः किं गच्छन् देहान्तरादिषु ॥५॥ देहारम्भकसत्सूक्ष्मभूतैः संमिलितोऽथवा ॥ नेति तोति संप्राप्त मिलितस्तेन सर्पति ॥६॥ यत्र गच्छति तत्रापि भूतमूक्ष्माणि सन्यतः॥ इति प्राप्ते सम्मिलितो भूतसूक्ष्मर्हि गच्छति ॥ ७ ॥ यतः पञ्चाग्निविद्यायां प्रश्नोत्तरनिरूपणम् ॥ नराकारं परिणतमरूपं भूतमेव यत् ॥ ८॥ वक्तव्यस्तत्परिष्वङ्गो नाखिलैः सूक्ष्मभूतकैः ॥ इत्याशक्य त्रित्कृसा सर्वेषामविशषतः ॥९॥ आप इत्युपदेशस्तु भूयस्त्वाच्छ्रुतिसंमतः ॥ भूतसूक्ष्मपरिषङ्गः प्राणानुगतिवाक्यतः॥ १० ॥ गृहित्वैतानि संयाति वायुर्गन्धानिवाऽऽशयी॥ इति स्मृसा भूतसूक्ष्मैमिलितः परिसर्पति ॥ ११ ॥ अग्न्यादिषु लयश्रुसा प्राणादीनां मृतस्य तु ॥ न तैर्जीवे परिष्वङ्ग इति चेल्लयभाक् ततः ॥ १२ ॥ नापो होम्या इति न हि श्रद्धा एव च ताः स्मृताः॥

श्रीभाष्यवार्तिके पञ्चम्यामिति वाक्येन प्रश्नोत्तरविनिर्णयात् ॥ १३ ॥ कृत्स्नं कर्मफलं भुक्या जीवो गच्छति नेति वा ।। कृत्स्नभोगे नावशेषः कर्मणोऽस्तीति तत्कथम् ॥ १४ ॥ गच्छसनुशयी जीव इति प्राप्तेभिधीयते ॥ गछसनुशयी जीव: श्रुतिस्मृतिनिरूपणात् ॥ १५ ॥ कार्णाजिनिराचार्य अचारेणोपलक्षितम् ॥ पापपुण्यात्मकं कर्म मन्यतेऽतो न तत्क्षतिः ॥ १६ ॥ तदपेक्षो हि सर्वेषामाचार: पुण्यकर्मणाम् ॥ दृश्यते स तु नान्येषामधिकारविवर्जनात् ॥ १७ ॥ चरते: संप्रयोगादै पुण्ये पापे च कर्मणि ॥ तस्मादाचारशब्देन बादरिमन्यते हि तत् ॥ १८ ॥ याचनामनुभूयते ते वानिष्टादिकारिणः ॥ चन्द्रारोहावरोहौ च नान्यथेति विनिर्णयः ॥ १९ ॥ अत एव नारकान सप्त रौरवादीन् स्मरन्ति हि ॥ विद्याया विरहत्वाद्वै मार्गोऽनिष्टादिकारिणाम् ॥ २० ॥ देवयानेन गमनं तथेष्टादेरभावतः ।। पितृयानेन चन्द्रादौ गमनं नोपपद्यते ॥ २१ ॥ देहारम्भनिमित्तं हि पञ्चमाहुसपेक्षणम् ॥ न पापकर्मणि नरे भवतीत्युपलभ्यते ॥ २२ ॥ पञ्चमाहुसपेक्षा न केषाञ्चित् पुण्यकर्मणाम् ।। देहारम्भनिमिचं हि श्रूयेते द्रुपदात्मजौ ॥ २३ ॥ तथोद्भिजस्वेदजयोः पञ्चमाहुतिमन्तरा ।। उत्पत्तिरिह तस्माद्वै नाहुतिनियताऽस्ति हि ॥ २४ ॥ अतश्चन्द्रमसोऽप्राप्तिः केवलं पापकर्मणाम् ॥ अवरोहप्रकारे च यदाकाशादिभाववाक् ॥ २५ ॥.

३ अध्याये १ पादः।
सादृश्यभावः स प्रोक्तो मानवापत्तिवन्न हि ॥
भोगाभावान्न नाकादिभावो मानुषभाववत् ॥ २६ ॥
आकाशभावप्राप्ते यावद् व्रीह्यादिभावता ॥
तावत्तत्र च नाकादौ चिरंतष्ठति नेति वा ॥ २७ ॥
नियमे हेत्वभावाच्चानियम इति चेन्न हि ॥
यावद ब्रीह्यादिभावो वा तावन्नातिचिरस्थितिः ॥ २८ ॥
अचिरं निर्गतर्यस्माज्जीवानां श्रवणाच्छ्रुतेः ॥
जीवाद् व्रीह्यादिभावेन जायन्त इति यच्छरुतम् ॥ २९ ।।
व्रीह्यादिभावो जीवानामिहाकाशादिभाववत् ॥
भोक्तृत्वाभावतो नैव किञ्चित् कर्माभिलप्यते ॥ ३० ॥
ब्रीधादिभावो भोगार्थ जीवानां शब्दतो न च ॥
अतो ब्रीद्यादिजन्माऽपि गौणमेव न संशयः ॥ ३१ ॥
रेतोभाव इवायं स्याद् भावो व्रीह्यादि कस्य च ॥
शारीरित्वं तु जीवानां योनिप्राप्तेरनन्तरम् ॥ ३२ ॥
सुखदुःखोपभोगस्य सद्भावादत एव हि ।।
प्राणाकाशादिसम्माप्तिर्योगमात्रं न संशयः ॥ ३३ ॥
इति श्रीभाष्यवार्तिके तृतीयाध्यायस्य प्रथमः पादः ॥ ३ ॥ १ ॥

श्रीभाष्यवार्तिके जाग्रतो जीववर्गस्य दुःखित्वं स्थापितं ततः ॥ स्वप्नस्थानपरीक्षाऽपि साप्रतं प्रवितन्यते ॥ १ ॥ न रथास्तत्र न रथयोगा इत्यादिवाक्यतः ॥ रथादिसृष्टि किजीवः करोतीश्वर एवं वा ॥ २ ॥ युक्तं स्वप्ने जीव एव मृष्टेः कर्ता हि स्वप्नदृक् ।। एकेऽत्र शाखिनो जीवं निर्मातारं वदन्ति हि ॥ ३॥ एवं प्राप्ते समाधानं मायामात्रेति सूत्रतः ॥ जनकस्य कुले जाता देवमायेव निर्मिता ॥ ४ ॥ इसादिवचनान्मायाशब्द आश्चर्यवाचकः ।। अतो रथाद्यर्थजातं स्वप्नद्रष्ट्रैव दृश्यते ॥ ५॥ तत्कालमात्रसत्ताकं परमाश्चर्यरूपकम् ॥ करोति परमात्मैव ससकङ्कल्पतो हरिः ॥ ६ ॥ न तु जीवोऽनभिव्यक्तरूपत्वात् कृत्स्नतोऽपि हि ॥ सससङ्कल्पयुक्तो हि संसारे तु तिरोहितः ॥ ७ ।। तथाविधाश्चर्यरूपां सृष्टि स्रष्टुमलं न हि ॥ स हि कतैति च वचः कर्तारं वदतीश्वरम् ॥ ८॥ जीवेऽपहतपाप्मत्वमीशसङ्कल्पतोऽधुना ॥ तिरोहितं ततो दृष्टावस्य बन्धविपर्ययौ ॥ ९॥ तिरोभावोऽपि जीवेऽयं देहयोगप्रभावतः ॥ सृष्टिकाले स्थूलदेहात प्रलये सूक्ष्मदेहतः ॥ १० ॥ जीवसङ्कल्पतो नैव स्वामार्थाः प्रभवन्ति हि ॥ यतस्तेषां सूचकत्वं शुभाशुभनिरूपितम् ॥ ११ ॥ श्रुतिराहेति नो जीवकृतं जीवेऽशुभावहम् ॥ नाद्यः पुरीतद् ब्रह्म च सुप्तजीवाश्रयत्रयम् ॥ १२ ॥ किं विकल्पो हि सर्वस्य वा सर्वत्र समुच्चयः ॥

बनारससस्कृतसीरीज़नानी वाराणसेयसंस्कृतपुस्तकावली । रु० आ० १ ar इयं पुस्तकावली खण्डशो मुद्रिता भवति । अस्यां संस्कृतभाषा- निबद्धा बहवः प्राचीना दुर्लभा उत्तमोत्तमाः केचिदङ्गलभाषानुवा. दसहिताश्च अन्था मुद्रिता भवन्ति । तांश्च ग्रन्थान् काशिकराजकी- यसंस्कृतपाठशालीयपण्डिता अन्ये ऽपि विद्वांसः शोधयन्ति । यैर्मा- हकमहाशयैरियं पुस्तकावला नियमेनाविच्छेदेन संग्राह्या तैस्तदे- फैकस्य खण्डस्य ID मूल्य प्रापणव्ययश्च =) देयः । अन्यैर्म- हाशययः कानिचित् खण्डानि संग्राह्याणि तैश्च प्रत्येक स्त्रण्डानां १० मूल्यं प्रापणव्ययश्च =)देय इति ॥ तत्र मुद्रिता ग्रन्थाः। सिद्धान्ततत्त्वविवेकः खण्डानि ५ अर्थसङ्ग्रह अंग्रजीभाषानुवादसहितः तन्त्रवार्तिकम् खण्डानि १३ कात्यायनमहर्षिप्रणीतं शुक्लयजुःप्रातिशाख्यम् सभाध्यं ख० ६६ सांख्यकारिका चन्द्रिकाटीकागौडपादभाष्यसहिता वाक्यपदीयम् खण्डानि ५ (प्रथमभागः प्रथमद्वितीयकाण्डे पुण्यराजटीकासहित खण्ड ३ । द्वितीयभागः तृतीयाका- ण्डम् हेलाराजटीकासहित खण्ड २) रसगङ्गाधरः खण्डानि ९ परिभाषावृत्तिः खण्डे २ वैशेषिकदर्शनं किरणावलीटीकासंवलितप्रशस्तपादप्रणीत- भाष्यसहितम् खण्डे २ शिक्षासङ्ग्रहः खण्डानि ५ नैष्कर्म्यसिद्धिः खण्डानि ४ महर्षिकात्यायनप्रणीतं शुक्लयजुस्सर्वानुक्रमसूत्रम् सभाध्यम ३ ऋग्वेदीयशौनकप्रातिशाख्यं सभाष्यम् खण्डानि ४ (बृहत) वैयाकरणभूषणम् पदार्थदीपिकासहितम् खण्डानि ४ ४ विवरणोपन्यासः सटीकवाक्यसुधासहितः खण्डे २ तत्त्वदीपनम् (पञ्चपादिकाविवरणस्य व्याख्यानम् ) ख०८ वेदान्तदीपः (श्रीभगवद्रामानुजाचार्यविरचितः) खण्डानि ३ ३ टुप्टीका खण्डानि ४ ૨ ० . 6 २

Shree Bhashaya Vartakay

Author
Shree Ramanujacharaya
Title
Shree Bhashaya Vartakay
File name
Shree Bhashaya Vartakay
Text
OCR done
Citation
1906
Published
25.07.06
Publisher
Vidaya Vilas Press Varanasi
Language
Sanskrit
Pages
99
Library
University Liberey Allahabad
Classification
Sanskrit
DLI number
485794
Barcode
5990010098928.00
Scanning centre
IIIT, Allahabad
VMLT id
NZlfAcviU86
Download PDF

Shree Bhashaya Vartakay