Scl
The Sajjanendra Prayogakalpadruma
Front matter
* श्रीः आनन्दवनविद्योतिसुमनोभिः सुसंस्कृता । सुवर्णाऽङ्कितभव्याभशतपत्रपरिष्कृता ॥ १ ॥ चौखम्बा-संस्कृतग्रन्थमाला मञ्जुलदर्शना रसिकालिकुलं कुर्यादमन्दाऽऽमोदमोहितम् ॥ २ स्तबकः-४१०
THE
CHOWKHAMBA SANSKRIT SERIES
NO. 410.
THE
SAJJANENDRA
PRAYOGAKALPADRUMA
OF
KRISNA PANDIT DHARMA DHIKARI
Edited
With an Introduction etc.,
By
Pandit Anantarām Sāstri Vetar
SĀHITYOPADHYĀYA
Sanskrit Teacher, Udai Pratāp College
Benares.
JAI KRISHNADAS-HARIDAS CUPTA,
The Chowkhamba Sanskrit Series office,
Benares City.
1933.
( ALL RIGHTS RESERVED BY THE PUBLISD EF )
Printed-Published & sold by
JAI KRISHNADAS-HARIDAS GUPTA,
The Chowkhamba Sanskrit Series Office,
VIDYA VILAS PRESS,
North of Gopal Mandir,
BENARES CITY.
Printed by Jai Krishna Das Gupta
at the Vidya Vilas Press, Benares.
के श्रीः *
चौखम्बा-संस्कृत-ग्रन्थमाला
ग्रन्थ-संख्या ७०
नं०४१०.
सज्जनेन्द्रप्रयोगकल्पद्रुमः
धर्माधिकारिकृष्णपण्डितविरचितः
उदयप्रतापविद्यालयाध्यापकेन
साहित्योपाध्यायन
अनन्तरामशास्त्रिवेतालेन
भूमिकादिभिः सम्भूष्य संशोधितः ।
प्रकाशक:-
-
जयकृष्णादास-हरिदास गुप्त:-
चौखम्बा संस्कृत सीरिज़ आफिस,
विधाविलास प्रेस, बनारस सिटी ।
१९९०
राजकीपनियमानुसारेणास्य सवाधिकाराः प्रकाशकेन स्वायत्तीकृताः ।
इस कार्यालय द्वारा "चौखम्बासंस्कृतसीरिज" के अलावा और भी ३ सीरिज यथा "काशीसंस्कृतसोरिज" "बनारससंस्कृतसीरिज" "हरिदाससंस्कृतसीरिज" प्रन्ध. मालायें निकलती है तथा इन ४ सीरिजों के पश्चात् और भी विविध शास्त्र की पुस्तके प्रकाशित की गई है तथा अन्य सब स्थानों के छपे हुए संस्कृत तथा भाषा-भाष्य के प्रन्थ विक्रयार्थ प्रस्तुत रहते हैं, सूचीपत्र पृथक् मंगवाकर देखें । इसके अलावा हमारे यहा सर्व प्रकार की संस्कृत, हिन्दी, अङ्ग्रेजी की सुन्दर छपाई होती है, परीक्षा प्रार्थनीय है ॥ पत्रादि प्रेषणस्थानम्- जयकृष्णदास-हरिदास गुप्तः-- "चौखम्बा संस्कृतसीरिज” आफिस, विद्याविलास प्रेस, गोपालमन्दिर के उत्तर फाटक, बनारस सिटी। DOOGLOSCRIGIGRICPGOISO13 WORomaadi ।। श्रीः॥ समर्पणम् । MOZ श्रीमत्सूदयपत्तनोज्ज्वलमहीरत्नेषु हीरायितो- ऽस्मत्सम्बन्धनिबन्धमूलपुरुषः श्रीशम्भुसिंहाभिधः ॥ साक्षाच्छम्भुरिवापरः समुदभूद् राजा ततः सज्जनो मानी सज्जनवृन्दकैरववनीचन्द्रोऽवनीन्द्रोऽभवत् ॥ १॥ भास्वद्वंशसरोजवासरमणेभूभृन्मणेः सज्जना- ज्जज्ञे शारदशर्वरीशविशदश्लोकः श्रियामाश्रयः ।। धैर्यौदार्यदयालयः फतहभूपालः प्रतापोज्ज्वलो राजा तत्तनुजोऽधुना विजयते भूपालसिंहो भवान् ॥२॥ स्वस्ति स्तात् प्रसरत्प्रतापतपनप्रोद्यत्प्रभामण्डल ! क्षोणीमण्डनमेदपाटधरणीसाम्राज्यधूर्धारिणे ॥ भूस्वामिन् ! भवते प्रयच्छतु शिवं सत्पुत्रपौत्रप्रदं दीर्घायुर्जननं शिवः स भगवान् नाम्नैकलिङ्गेश्वरः ॥ ३ ॥ पूज्योऽस्मज्जनको विनायकसुधीर्वेतालवंशार्यमा काव्यव्याकृतिनीतिमन्त्रकुशलो दैवज्ञवाचस्पतिः ॥ भूपाल ! प्रपितामहेन भवतः श्रीशम्भुसिंहाहये- नाहूतो गुणशालिनोदयपुरं विद्याभिवृद्ध्यै गतः ॥ ४ ॥ MPCASE Aama !
समर्पणम् । तत्रासौ किल शम्भुसिंहनृपति श्रीसज्जनेशं ततो भूपेन्द्रं फतहं पुनर्गुणविदं सन्तोष्य तैस्तैर्गुणैः ।। सम्प्राप्योदयपत्तने क्षितिभुजां तेषामुदाराश्रयं निन्येऽष्टादश हायनानि मतिमान् मानी मनस्वी मुदा ॥५॥ निर्मायोदयवंशवर्णनममुं सम्बन्धमुज्जीवयन् राजेन्द्रं फतहं प्रसाद्य च गुणैः श्रीमत्कृपाभाजनम् ।। ज्योतिस्तन्त्रकलाकलापकुशलः श्रीनाथशास्त्री सुधी- रस्मज्ज्येष्ठसहोदरोऽपि कुरुते श्रीमच्छुभाशंसनम् ॥ ६ ॥ आश्रित्योन्नतकीर्तिसज्जननृपं तन्नाममुद्राङ्कितो. ऽस्मन्मातामहकृष्णपन्तविदुषोद्यत्प्रातिभज्योतिषा ॥ श्रीमत्सज्जनमान्यसज्जनयशोवल्लीविलासास्पदं तेने व्याकरणप्रयोगरुचिरस्तेनेह कल्पद्रुमः ॥ ७ ॥ सम्बन्धनयमाकलय्य तदिदं भूपाल भूपाल हे ! दिव्यं काव्यमयं तदन्वयजनुर्लक्ष्मीवते श्रीमते॥ रत्नं श्रीमदनन्तरामसुकृती वैनायकिः काशिकः सप्रेमार्पयते, तदेतदधुना स्वर्णेन सङ्गच्छताम् ॥ ८ ॥ GGC CON ar avowwws sacas ॥ श्रीः॥ प्रास्ताविकम् उपक्रमः अथेदानी मुद्रयित्वा प्राकाश्यं नीयते श्रीमत्पूज्यवरधर्माधि- कारिकृष्णपन्तपण्डितविरचितः सज्जनेन्द्रप्रयोगकल्पद्रुमो नाम ग्रन्थोऽयं 'चौखम्बा-संस्कृत-सीरीज' ग्रन्थमालायाम् । सर्वत्र मालायां कुछमानि प्रकाश्यन्ते लोके, अस्यां तु ग्रन्थमालायां प्रयोगकल्पद्रुमोऽयमधुना प्रका. शितो भवतीति किञ्चिद्विचित्रमिव प्रतीयते । किन्तु विचारानन्तरं नैतदाश्चर्यकर प्रतिभायात् प्रेक्षावतां चित्ते । मालायां किल कुममोपसङग्रहे समुद्भवति तत्र परं परस्परं कोऽपि शोभातिरेका, कुसमापगमे च भवति सौन्दर्यहानिरिति प्रयोगकल्प. द्रुमोऽयं ग्रन्थमालामिर्मा प्रसरत्प्रकटप्रसूनसौरभसम्भारसम्भृतामहलमा सम्भाव्य चिरतिथात्समयादिह प्रकाशीभवितुमीहमानः साम्प्रतं जात्यैकरूपतां प्राप्त पञ्चभिः कुसमैः समं प्रकाशरूपतामासाद्य लब्धमहिमा नूनं सफलजन्मा सातः ! अस्तु नाम, प्रकृतमनुसरामः । श्रीकाश्यां प्रतिग्रहं विनाल्पयापि वृत्या मुखें जीवनस्य निर्वाहः स्यादित्या. शयेन तदर्थपरिपूरकं श्रीमदार्यकुलकमलदिवाकर मेदपाटोर्वीसार्वभौम तात्का. लिकोदयपुरनरेशं श्रीमन्तं सज्जनसिंहनामानमन्वर्थनामानं गुणधामानं भूपतिवरं सादरं समुपसृत्य वर्णनीयत्वेन तमेव प्रस्तुत्य सज्जनेन्द्रप्रयोगकल्पद्रुम इति तन्नाममुद्राङ्कितं ग्रन्थमेनमुदयपुरे विरचयाञ्चकार श्रीमान् ग्रन्थकारमहोदयः(१) समर्पयाञ्चकार च प्रीतिपुरस्सरं तस्मा एव भूपतिरत्नाय । स चायं ग्रन्थो गृह एव विनायकसरस्वतीभवनपुस्तकालये विद्यमान एकस्मिन्दिवसे सहसा नयनगोचरतां गतः पर्यालोचितो निजगुणगौरवेण बलादिव प्रेरयन्मां मुद्रणोचितकर्मणि । अद्य किल श्रीकाशीविश्वेश्वरानुग्रहेण श्रीमदेकलिङ्ग- श्वरप्रेरणया समवसन्ने मुद्रणकार्य विदुषां पुरस्तादुपस्थितो भवतीति परमं प्रमोद. स्थानम् । अपूर्व सुन्दरतमे ग्रन्थरत्नेऽस्मिन् सति मुद्रित न केवलं हर्षावाप्तिः, किन्तु तन्मुद्रणमवश्यकर्तव्यमेवासीदस्माकम् । तथा हि- उदयपुरराजकुल- उदयपुरे किल सम्बन्धोऽस्माकं श्रीमन्महाराणानृपतिवर- सम्बन्धप्रदर्शनम् श्रीशम्भुसिंहसमयात् प्रचलितोऽद्यापि विद्यमान एवास्ते केनापि रूपेण । अयं हि श्रीमान् विद्वत्प्रियो विद्वान् श्रीशम्भुसिंहवर्मा धर्मात्मा (१) दृश्यतां ४६ पृष्ठे 'आविमुक्को मेदपाटे इति, ८६ पृष्ठे च 'प्रतिग्रहकृति विना' इति ।
२ प्रास्ताविकम् । नरपालोऽस्मत्तातपादान सद्गुणगणालङ्कारदीप्तश्रुतीन् पूज्यवरविरश्रीविनायक- शास्त्रिवेतालमहोदयान् ससत्कारमुदयपुरे समाहूय गुणग्राहितया प्रत्यतिष्ठिपत् सानन्दं प्रधानाध्यापकपदे महाराणास्कूलनामके विद्यालये। तत्र च काय पाउ. शालोयं यथोचितमाचरन्तः समये समये गोलविद्याचमत्कारं यथार्थ प्रत्यक्षतो दर्श. यित्वा लब्ध्वा च सर्वतः साधुवादपुरस्सरं बहुत सत्कारसम्भार तत्र ते सानन्द. मत्यवीवहन दिवसान । अयं च राजा त्रयोदश वत्सरान् यावद यथावदलमकार्षी. दाज्यपदमनुरञ्जयन जनानां मनः सर्वथा । तदनु सज्जनः सज्जनमान्यो राजा श्रीसज्जनसिंहो नाम राजति स्म तस्मिन् राज्यपदे । अयमेव तावद् भूपालचूडा. मणिवर्णनीयो ग्रन्थकारस्य । सद्गुणोपेतमेतमपि क्षितिपालं नयपालं मुतरां समतू. तुषन् स्वकीयविद्यागुणगौरवेण पूज्याः पितृवराः श्रीमन्तः । एतेन खलु गुणिना भूपालमणिना समुपभुज्यात्यल्पमेव दशवार्षिकं राज्यसुखमनल्पं यशः सर्वतो विस्ता- रित दिगन्तरेषु । तदनन्तरं नयविनयदयाविवेकधामा सगृहीतनामा महामहिम- सम्पन्नः प्रभावशाली विजयी सत्यसन्धो महोत्साहः श्रीमान फतहसिंहो नास राजा बुभोज पैतृकं राज्यम् । एतस्य भूपते राज्याभिषेकमहोत्सवसम्भारो हि सन्मुहूर्वोत्तमे दिने पूज्यवरश्रीमत्पितृचरणैरेव यथाविधि सम्पादितः सन् परमा प्रत्यपद्यत शोभाम् । राजानमेनमपि दर्शयित्वा यथासमयं ज्योतिर्विद्याचमत्कारान् सर्वतः सन्तोष्य सम्पाद्य च तत्र भूयसः शिष्यान् कुर्वन्तः पाठशालीयमपि कार्य समधिगम्य नेकविधान् राजकीयान्सम्मानान् श्रीमद्विश्वेश्वरचरणारविन्दद्वन्द्व. मिलिन्दायमानमानसाः सन्तः सन्त्यज्य ताम् उदयपुरराजधानी समागच्छन् । श्रीमती श्रीविश्वेश्वरराजधानी मोक्षनगरी गरीयसी वाराणसीम् । इत्थं च पूर्वोक्तां राजनयीमाश्रित्य सप्रमोदमयापयन्नष्टादश वत्सरान् श्रीविनायकशास्त्रिवेतालपूज्यपादा उदयपुरे । तदनन्तरमस्मत्सहोदराः पूज्यवराः श्रीनाथशास्त्रिणोऽपि सम्बन्धमेनमनु. चिन्त्य पैतृकं, तत्प्रकाशनं तेन सहैव जीवनदायिनां दिगन्तविश्रान्तयशसां उदय. पुरवसुन्धरापुरन्दराणां तेषां गुणानुवर्णनं च मत्वा कार्यमिव स्वकीयं, तद्वाजधानी. मूलपुरुषाच्छीमदुदयसिंहभूपतेरारभ्य श्रीमत्फतहसिंहवर्माणं यावत् सूर्यवंशीय. राजपरम्परावदातचरितानि सरसपद्यबन्धेन काव्येन वर्णयित्वा मुद्रयित्वा च तत् खण्डकाव्यम् उदयान्वयवर्णनं नाम सादरं समर्पयाम्बभूवुस्तस्मै राजरत्नाय श्रीफतहसिंहभूपतये । यथाकालं च तत्रोपस्थाय संवर्धयाम्बभूवुराशीर्वादश्लोकैरम महीपालरत्नावलीहीरायमाणम् । प्रकृतिप्रियाष पार्थिवो नीतिपूर्वक चक्रे राज्य. शासनं सम्यक् पञ्चचत्वारिंशद्वर्षावधि । ततो वत्सरे तुरङ्गवस्वङ्कशशाङ्क(१९८७). संज्ञे तत्साम्राज्यसिंहासने समासीनो मतिमान् सद्गणगणालङ्कृतो विद्याविनयशाली नीतिज्ञो बभूव भूपालः श्रीमान् श्रीभूपालसिंहवर्मा नाम सद्धर्मधुरन्धरः । पूज्यतमास्तातचरणाः प्रास्तावकम्। ३ उदयपुरमहीरत्नमिदं रखगर्भायां विराजमानमधुना लब्धमानं चिरं चकास्तु रुचिर रुचिमत् । गुणवतोऽमुष्य भूपालसिंहवर्मनाम्नो भूपालसिंहस्यापि समासाद्य दर्शन. सौभाग्यं यथासमयं समुचितैः शुभाशंसनैर्भूयसी कृपापात्रतां समपादयन् पूज्यवराः श्रीमद्भातृवरणाः । समुपस्थिते सति भूभृन्मणेरस्य महात्मनो राज्यसिंहासना. धिरोहणमहोत्सवे समुपस्थितमासीदस्माभिरपि तत्राशीचनपधैरभिनन्दितोऽसौ सोत्साहं महीपालसिंहः । प्रथसमेवेदमासीदस्माकमुदयपुरनरेन्द्रदर्शनम् । इत्थंविधम पूर्वपरम्परानुगतं सम्बन्धविशेषमनुबध्य मानसे समनुचिन्त्य च पूज्यवरमातामहश्रीमत्कृष्णपण्डितविरचितस्यैतद्ग्रन्यस्याप्युपादेयतामुपयोगिता तन्मुद्रणमवश्यं कर्तव्यमिति तत्र सोत्साहं प्रवृत्तमस्माभिः । मुद्रितश्चेदानी तत्कुल. जन्मानुपमेयापरिमेयश्रीमते श्रीमते श्रीमद्भूपालसिंहभूपालमहोदयाय सद्गुण. रत्नाकराय सम्प्रति समर्पितोऽयं प्रन्थोऽस्माभिरिति महत् सौभाग्यम् । ग्रन्थपरिचयः अत्र तावत् प्रतिपाद्यो विषयो व्याकरणम् । व्याकरण हि प्रथमतः पठितुं प्रवृत्तानां तदुपयोगितातिशयमजानानां प्रायो नीरसमिवे मन्यमानानामरुचिकरविषयमिव प्रतिपद्यमानानां विद्यार्थिनां कथं नाम चेतसे रोचेत चित्तमाकर्षन्तं तदन्तरुपलभ्यमानं कमपि काव्यरसास्वादं विनेति मत्वा कारकसमासतद्धिततिडन्तकृदन्तेतिप्रकरणपश्चकप्रतिपादितान्प्रसिद्धान् उप. भुक्तमांश्च कांविद्विषयान कौमुद्युक्तसूत्रार्थप्रतिपादनविधया यथोचितरचनाविशेष. कौशलेनानुष्टुप्छन्दोरूपेण सनथ्य सर्वनोदाहरणानि स्वनिर्मितान्येव प्रदर्शितानि ग्रन्थकारेण । श्रीमत्सज्जनसिंहभूपालवर्णनरूपाणां च तेषामुदाहरणानां सङ्घटन. मपि साधु सम्पादितम् । कचिवचिद्विषये किञ्चिदुदाहरणं प्रदर्य विषयान्तरोदा. हरणनिरूपणं ग्रन्थविस्तरभयादुपेक्षितम् । अमुष्मिन् समये शरच्चन्द्रसुन्दरतरेण नश्वरेतरेण यशारीरेण विराजमाना: सन्तो विबुधवराः श्रीमन्तः कृष्णपन्तमहोदयाः किल विचारमन्दरेण बुद्धिसागरं प्रमथ्य ग्रन्थरत्नमिदममूल्यमुद्राव्य लोके व्याकरणज्ञानदारिधू दूरीकृतवन्तः । एतच साधु परिशीलयतां विद्यानुरागवतामान्तरमहामोहान्धकारनिकरदूरीकारकोविदः स्फुरदूपता प्राप्नुयात् प्रगाढो व्युत्पत्तिप्रकाशः । सर्वथा कल्पद्रुमायमाण एवार्य सज्जनेन्द्रप्रयोगकल्पद्रुमो नूनं कृते विद्यार्थिनाम् । ग्रन्थेऽस्मिन् ग्रन्थनामानुरूपं ग्रन्थकारेण प्रकल्पितानि प्रकरणभेदप्रतिपादकानि पञ्च कुसमानि। कारककुसुमं समासकुसमं तद्धितकुठमं तिकुसुमं कृतकुसमं चेति यथाक्रम तेषां नामानि । प्रत्येकस्मिन् प्रकरणे निबद्धानां नाम्नावगन्तव्यानापि विषयाणां व्यासतो दर्शितः परिचयो विषयसूच्याम् । अत्रापि समासतो निरूप्यते किञ्चित् । अत्र किल प्रथमे कारककुसुमे षण्ण कारकाणां विभक्तीनां व सप्तानां वर्णनमुपलभ्यते । समासकुममे सवन्तानां सुबन्तेन समास एकः सामान्यो ।
.. .. विशेषश्च तत्पुरुषबहुव्रीहिदहाव्ययीभाव दैदिविध इति प्रथमतो भेदद्वये समासस्य कल्पिते पुनर्विभक्तानां नमश्च समास एक सामान्यो विशेषश्च कर्मधारयद्विगुभेदाभ्यां द्विविध हति तत्पुरुषस्य भेदद्वयं दर्शितम् । तद्धितकुसुमे तत्तदर्थविशेषे प्रतिपाद्य. मानास्तत्तदधिकारभेदप्रकल्पनविधया तद्धितप्रकरणान्तर्गताः प्रायः प्रत्ययाः सर्व एवं सुस्पष्टं विशकलितरूपेण सविस्तरं प्रपञ्चिताः । वस्तुतोऽत्र घटते प्रकरणे 'प्रियतद्धिता दाक्षिणात्या' इत्युक्तिः श्रीमन्महाभाष्यकारस्य । तिजकुसुमे भ्वादिषु गणेषु प्रतिपादितानां प्रत्येक प्रथमधातूनी रूपाणि केवलं वर्तमानकालि. कानि प्रदर्य लकारार्थप्रयोगविचारो विस्तराद्विहितः । चरमे च कृत् कुसुमे तेतेऽर्थ. कालभेदेन प्रसिद्धाः कृदन्तप्रत्ययाः प्रदर्शिताः । उणादिस्वरूपमपि किञ्चित्परिचा. यितम् । उपक्रमोपसंहारपद्यैश्च सम्पुटितान्येतानि पञ्च कुसमानि । इत्थमयमल्पीयान् अपि व्याकरणविषयो ग्रन्थोऽयं काव्यरूपतां प्राप्तो नूनं चेतसे रोचमानो जनानां कि नाम नोपकुर्यात् । ग्रन्थकारपरिचयः साम्प्रतमिदमित्थमवसाय्य ग्रन्थतन्मुद्रणविषयक वक्तव्यं ग्रन्थकर्तुर्विषये वक्ष्यमाणे वाचकानां ध्यानमाकृष्यते । एष हि प्रस्तुतग्रन्थनिर्माता पण्डितवरः श्रीमान कृष्णपन्तशर्मा दाक्षिणात्यः काशीस्थमहाराष्ट्रब्राह्मणजातीयो मुद्गलसगोत्रीय आश्वलायनशाखाध्यायी सर्वथा. ऽलञ्चकार जन्मना विख्याततमं सङ्ख्यावग्रन्थकारवरप्रादुर्भावसम्प्राप्तगौरवं विमल धर्माधिकारीति कुलम् । धर्माधिकारिवंशो हि तत्कुलजेन श्रीवेणीरामपण्डितेन स्वसमयावधि वर्णितः पद्यप्रबन्धैः । तदुत्तरं च तद्वंशशेषवर्णनमस्मपितृचरणनिर्मित वरीवति । तदेतत् सकलमचिरादेव ग्रन्थमालायाः अमुष्या द्वितीये खण्डे प्रकाशितं नयनगोचरतामेष्यति । प्रकृतोपयोगो तत्कुलपरम्परापरिचयस्तु सवितो वितीर्यतेऽधुना । पुरासीत् पत्तनं बेदरं नाम विद्वल्ललामनिकेतनं भूतलभूषणा. यमानं दक्षिणस्यां दिशि । तत्रैकः समजनि विख्यातिमान् पण्डितो लक्ष्मीधरो नाम । अयमेव श्रीमान् धर्माधिकारिवंशवृक्षस्य बीजं मूलपुरुषः । एतेन विपश्चिता स्वविद्याबलादू दिल्लीश्वराज्ञावशात् तत्र पुरे सभापतिना सता तन्नाममुद्राङ्कितं धर्माधिकारसम्पादनसूचक राजशासनमयं तानपट्ट प्राप्य बेदरवासिनो विप्रवरान् स्वधर्मस्थितौ स्थापयता धर्माधिकारीत्युपनाम लेभे निन्ये च तत्सार्थकतां तदु. चितकार्य विधानैः । तत आरभ्याद्यावधि तत्कुलजाः सकलास्तेनैवोपपदेनालछकृताः सन्तो विजयन्ते । एतस्मिन् महीयसि दिव्यतमे धर्माधिकारिवंशे समुदपद्यत श्रीमान् नन्द - पण्डितो नाम विनायकापरनामधेयः पवाक्यप्रमाणपारावारपारीणो नानाविध. ग्रन्थनिर्माणप्रणयी । तस्य पुत्रद्वये द्वितीयोऽप्यद्वितीयो गुणैर्वेणीदचनामा धर्म. शास्त्री प्रस्थकर्ता सुषुवे गोपीनाथं माम तनयम् । सोऽपि पण्डितो गोपीनाथः पुन. ।
६ प्रास्ताविकम् । प्रथमजोजनत्। तत्र किल द्वितीयः पुत्री गुणैः प्रधनः स्मृतित्रचनवाचस्पतिरनिहोत्री नाम्ना दुण्डिराज इति प्रसिद्धिं लेभे । पण्डितप्रवरादेतस्मादपि लेभिरे पञ्च पुत्रा जन्म । तेषु द्वितीयस्तनूजो विद्वान् अनन्तनामधेय आसीत् । तस्य हि प्रपदे पुत्रता लक्ष्मीधरपण्डितः । श्रीमन्नन्दपण्डितमहोदयादयं किल षष्ठः पुरुषोऽस्ति । अमुष्य लक्ष्मीधरविदुषोऽप्यासीत् पुत्राणां पञ्चकम् । तत्र द्वितीयस्तनयो विश्वनाथः सुधीर्जनयामास विद्वांसं वैद्यनाथं नाम । तनूजयोरदसीययोः प्रथमो विपश्चिदपश्चिमो धीमान् धीरवरः श्रीमान् कृष्णपण्डितो नाम सज्जनेन्द्रप्रयोगकल्पद्रुमग्रन्थ. निर्माता विद्योतते स्मैकोनविंशतितमायाः शताब्द्या अन्तिमे भागे । साहित्ये व्याकरणे च समं लीलायते स्म नृत्यन्ती यस्य जिह्वाग्रे सरस्वती, महामहिमशाली सोऽयं विचक्षणो धर्मशास्त्राटवीविहारकण्ठीरवः शब्दार्थराशौ विलक्षणतमां प्रौढां प्रतिभां प्राप्नोति स्म । 'न कोऽप्येताहगासीत्प्रायो लोकभाषायां शब्दो यदीयं नाम न ज्ञातवानयं प्रज्ञावान् देवभाषायाम्' इति हि प्रसिद्धिरेत. द्विषयेऽद्यापि वृद्धजनवदनाकर्णगोचरतामागच्छति । अत एव श्रीमत्पितृचरण- धर्माधिकारिवंशशेषवर्णन एतद्वर्णनप्रसङ्गे 'शब्दार्थचये विलक्षणधीः' इत्युक्तम् । लौकिकेषु शास्त्रीयेषु च विषयान्तरेष्वपि वैदुष्यमस्यासीदद्वितीयं पण्डितप्रकाण्डस्य । अस्मज्ज्येष्ठमातृवराणां द्वाचत्वारिंशदधिकोनविंशतिशततमे (१९४२) वैक्रमेऽन्दे जन्मलाभं कृतवर्ता श्रीश्रीनाथशास्त्रिणां जन्मन एकस्माद्वर्षात्पूर्वमयं महात्मा समाप्ति नीतवान् जन्मनो लीलाम् । तदानी वयश्चास्य पञ्चाशद्वर्षदेशीय. मासीत् । कण्ठावरोधानुभवस्तु न कृतोऽनेन पुण्यात्मना श्रीकाशीविश्वेश्वरप्रसादा. दन्तिम क्षणं यावदपि । इति बैतिह्यमेतद्विषयकं श्रूयत एतज्ज्येष्ठम्तायाः पूजा नीयाऽस्मन्मातृभगिन्या वदनारविन्दात् । एतेन १८९० मिताद्वैक्रमादब्दात् '१८९२५मितमब्दं यावज्जन्मसमयोऽस्यावधार्यते। '१९४१ मिते वैक्रमे वर्षे किल खेलनासीत् कालः सदगुणगणलोभनीयैतद्विलक्षणविचक्षणवरकवलीकारकामनये. स्यपि शक्यते वक्तुम् । उदयपुरनरेशितः श्रीमत्फतहसिंहवर्ममहोदयस्य राज्य- सिंहासनाधिरोहणसमये '१९४१ मि संवत्सरमासीद्वैक्रमम् । तेन श्रीमत्सज्जन- सिंहभूपतेरप्यन्सिमे समये तदेवासीद्वर्षमित्यतिरोहितम् । द्वे अपीमे विद्वद्राजरत्ने किमित्कालमात्मानं प्रकाश्य परस्परवियोगसम्भावनाकातरे इव सहैव रत्नग गर्भ विलीनतां प्रापतः । सममेव रत्नद्वयमिदं कवलीकृतवतो बलीयान् खलु खलस्य कालस्य महिमा। पुनसन्तानसौभाग्यं तु नैवासीदस्यादृष्टविषये । कन्याद्वयसमुत्पत्या कन्या वंशस्तावत् प्रचलितोऽस्य विदुषः । तत्र प्रथमा कन्या दुर्गानाम्नी वर्तते । इयं हि पूज्यतमा वृद्धतमास्माकं मातृष्वसा भूतलभूषणायमानधन्वन्तरिकल्पवैद्यराजेन्द्र विवरश्रीमतत्र्यम्बकशास्त्रिमहोदयाग्रजभ्रातृजाया सती पतिसौभाग्यावसाहा.
६ प्रास्ताविकम् । । मन्तरं केनापि कारणेन ततः किञ्चित्कल्पितवृत्तिकाऽस्मद्गृहमागस्य वसन्ती चिर. तिथात्समयतो महत्कष्टमनुभवन्ती साम्प्रतमध्यास्ते रोगशय्याम् । द्वितीया च गङ्गानाम्नी कन्या श्रीमत्पूजनीयचरणाऽस्माकमासीन्माता । एतया किल सौभाग्य. सहितयैव परमं पदं प्रतस्थे । द्वितीयश्चार्य कन्यावंशोऽस्य साम्प्रतं द्वितीयपुरुषपर्द प्राप्तोऽस्मद्रूपेणावतिष्ठते । इत्थमियं धर्माधिकारिवंशवृक्षे साता कन्यामयी द्वितीया शाखा वेतालवंशवृक्षण सम्बन्धं प्राप्तवती प्रासूत शाखान्तरं तत्र । धर्मा- धिकारितालकुलयोनंदोत्तमयोरिव सम्बन्धश्चायमस्मत्पूज्यवरश्रीमत्पितृचरण. समयेऽभूत् । पूर्व सूचिताच्छीमन्नन्दविदुषः षष्ठात्पुरुषादुत्पन्नो लक्ष्मीधरपण्डितो नाम यत्पुत्रपञ्चकं सषुवे, तत्र चतुर्थस्य शम्भुनाम्नो विदुषः पञ्चमः पुरुषो व्याकरणमहा. रण्यसञ्चारपञ्चाननधर्मशास्त्रमर्मज्ञश्रीमन्नागेश्वरपण्डितवरतनूजन्मा श्रीलक्ष्मी- धरपण्डितो नामास्मन्मित्रं धर्मशास्त्रीयव्यवस्थाप्रदानरूपादिकं साधु सम्पादयन् पूर्वपरम्परानुगत कार्य विद्याविनयविवेकाधनेकसद्गुणगणमुषमासम्पन्नः सपुत्रः समं परिवारैविराजते काश्याम् । श्रीमत्काशीविश्वनाथप्रसादादधिकाशि विद्योतमानौ श्रीधर्माधिकारिवेतालवंशावमू समन्तादारोहतां परं समुन्नतेः पन्थानमित्यलं विस्तरेण । एतत्कृतेषु ग्रन्थेष्वयमन्तिमो ग्रन्थ इति 'संवग्रहगुणनन्दाचला(१९३९). मिते' इत्येतद्ग्रन्थावसानपद्ये ग्रन्थनिर्माणसमयनिर्देशादनुमीयते । रत्नावली. समाख्या कथा काशीखण्डीया गाढबन्धगद्यरूपेणैका द्वितीया च कालिकामन्दा. क्रान्ताशतकनाम्नी स्तुतिः पद्यरूपेण जागरूकेति कृतिद्वयमेतदीयमस्या एव ग्रन्थमालाया द्वितीये खण्डे प्रकाशयिष्यते । वासिष्ठस्मृतिव्याख्याऽप्येतत्कृता भूयमाणा नाय यावदस्मत्करतलगताऽजायत । उपसंहारः एतावता परिसमाष्य ग्रन्थकारविषयकं वक्तव्यं पुनः पुनरूपसजि. हीय॑माणमिदमेतहि प्रास्ताविक लेखनं केवलमादर्शपुस्तकपरिच धन्यवादप्रदानं चावश्यकं प्रस्तुत्योपसहियते । ग्रन्थरत्नमिदमद्वितीयं मुद्रयितुं प्रवृस. रस्माभिर्यपत्कष्टजातमनुभूतं तत्र किल स्वात्मैव साक्षी । शुदल्य पुस्तकान्तरस्या. नुपलब्धिलेखकमहाशयप्रसादसम्पाद्यमानाशुद्धिबहुलत्वं चादर्शपुस्तकस्येत्येवं हि वर्तते तत्कारणद्वयम् । उदाहरणपथानां द्वितीयमेकं पुस्तकं सहवरश्रीधर्माधिकारिलक्ष्मी. धरपडितः प्रदत्तं कामप्युपयोगितां व्यातेन इति तदिदमौदाय तेषां न कथं धन्य- वादाईम् । मन्त्र च पैहानुभावैर्यचकिमपि प्रदाय विचारसाहायकमुपकार. विशेष प्रदर्शनानुग्रहो विहितस्तेषां तथाविधोदारता कथङ्कारमेकेन मुखेन वर्णयितुं शक्या। ते किल महान्तो.महानुभावा: परोपकारैकधियो विशेषतः स्नेहभाजनजन. पक्षमाशिमोऽकिसनेन भनेमामा दीयमानान् केवलं शुष्कानेव धन्यवादान् सस्ने प्रास्ताविकम् । स्वोकृत्य प्रसीदन्तराम् । स्मृतिगोचरीकृतास्ते सङ्केतितमात्मानं जानोयुरेवेति तमामनिर्देशे मौनमालम्बितम् । केवलमेकं नाम तत्रोल्लेखनीयमवश्यं प्रतिभाति । पूजनीयचरणाः प्रगाप्रतिभाविशेषभूषिताः प्रेक्षावन्तो नानाविधनिबन्धनिबन्धन. धुरन्धराः प्रायः सकलशासमर्मशा वाचस्पतिकल्पा अालोपमामकाः श्रीमन्त उमानाथशर्ममहोदया वृद्धतमाः कासरोगेण भृशं पीयमाना अपि शाखीयविषय. विचारानपहाय नान्यत्कार्यमाचरन्तो विलसन्ति वाराणस्याम् । एषां किल महानु. भावानां कृपया प्रकृतग्रन्थे व्याकरणविषयकाः सन्देहविशेषाः केचित्पलायाजकिर इति सदुपकारस्मरणमात्रेण पूर्णतां नीयते स्वकर्तव्यम् । अन्ते चैतत्पुस्तकप्रकाशकं श्रेष्ठिवरश्रीजयकृष्णदासमहोदयमाशीर्वादरभि. नन्ध, चिरादनुसृतं प्रकृतग्रन्थमुव्रणकायं पूज्यवरश्रीमद्गुरुवरचरणानां करुणया श्रीमद्. विश्वेश्वरस्यानुग्रहेण च कथमपि नीत्वा समाप्तेः सरणिं, सीसकाक्षरयोजकादीनामनव. धानेन संशोधने हष्टिदोषेण च सम्भाविता अशुद्धीः संशोध्य प्रन्येऽस्मिन् विद्वांसो नयनार्पणप्रयासमवश्यमयीकरिष्यन्तीति सम्भाव्य सम्प्रति प्रास्ताविका. दमुमाद्विरम्यते लेखादिति शम् । गङ्गादशहरा, सं० १९९०, विदुषां विधेयः अनन्तरामशास्त्री वेताला काशी । - सर्वविधपुस्तक प्राप्तिस्थानम्-- जयकृष्णदास हरिदास गुप्तः- चौखम्बा संस्कृत सीरिज आफिस, बनारस सिटी।
No text on this page.
* श्री: * सज्जनेन्द्रप्रयोगकल्पद्रुमकारिकाः । कारककुसुभम् । अथ प्रयोग जिज्ञासुर्जानीयात् कारक पुरा । संज्ञाभिः षड्विधं प्रोक्तं ता उच्यन्ते पृथक् पृथक् ॥ १ ॥ कर्ता स्वतन्त्र इत्युक्तः स चतुर्विध ईरितः । उक्तोऽनुक्तस्तथा हेतुः कर्मकर्ता चतुर्थकः ॥ २ ॥ तत्र कर्तर्यभिहिते प्रथमैव विधीयते । तृतीया चाथवा षष्ठी स्मृताऽनभिहिते तथा ॥३॥ क्रियाफलाश्रय कर्म तञ्चतुर्विधमीरितम् । उक्तानुक्त कर्तृकर्माकथितं चेति, ते पुनः ॥ ४ ॥ उक्तानुके द्विधा प्रोक्त ईप्सितानीप्सिते इति । प्रथमाऽभिहिते कर्मण्यनुक्के तु द्वितीयिका ॥ ६॥ तृतीया च चतुर्थी च षष्ठी चैव भवन्ति हि। योगेऽकर्मकधातूनां देशकालक्रियाऽयनम् ॥ ६ ॥ क्रियोपकारकं यत्तत् करणं त्वेकमेव हि । तृतीया पञ्चमी चैव षष्टी च करणे भवेत् ॥ ७॥ क्रियया यमभिप्रैति सम्प्रदानं स उच्यते । चतुर्थी च तृतीया च भवतः सम्प्रदानके ॥ ८ ॥ रुच्यनां प्रीयमाणः, श्लाघढुङ्स्थाशपां तु वै । ज्ञीप्समानो, धारयतेरुत्तमर्णस्तथेप्सितः ॥९॥ स्पृहे, राधीक्षयोर्यस्य विप्रश्नः सम्प्रदानकम् । क्रुधदुहेाऽसूयार्थयोगे यं प्रति कोपनम् ॥ १० ॥ विश्लेषेऽवधिभृतं यत् तदपादानमीरितम् । पञ्चम्येव त्वपादाने वर्ततेऽन्यथा ॥ ११ ॥ जुगुप्सार्थविरामाथै प्रमादार्थक्रियायुजि । भयत्राणार्थधातूनां भयहेतावपीरितम् ॥ १२ ॥ परापूर्वस्य जयतेरसोऽर्थेऽपि तद्भवेत् । ईप्सिते वारणार्थानामपादानत्वमिष्यते ॥ १३ ॥ मां न पश्येदयमिति व्यवधाने यमिच्छति । तदपादानसंज्ञं स्यादाख्याता चोपयोगके ॥१४॥ जायमानस्य हेतुश्च भृकर्तुः प्रभवस्तथा । आधारश्चाधिकरणं तच्च त्रेधा प्रकीर्तितम् ॥ १५ ॥ अभिव्यापकमौपश्लेषिकं वैषयिकं तथा । सप्तम्येवाधिकरणे सामान्यमिति कीतितम् ॥ १६ ॥ योगे धातुविशेषाणां कारके कारकान्तरम् ।
२ सज्जनेन्द्रप्रयोगकल्पद्रुमकारिकाः। तथैवार्थविशेषेण जायन्ते हि विभक्तयः ॥ १७ ॥ कर्तुश्च सम्प्रदानत्वं करणत्वं च कर्मणः । कर्मत्वं करणस्यापि सम्प्रदानत्वमित्यपि ॥ १८ ॥ सम्प्रदानस्य कर्मत्वमपादाने न किञ्चन । आधारे कर्मता चैवमित्येतत् कारकान्तरम् ॥ १९ ॥ अभावेऽर्थविशेषस्योत्सर्गतः प्रथमा भवेत् । एवमेवैकवचनं क्रियास्तिभवतीति च ॥ २० ॥ सा प्रातिपदिकार्थेऽपि संख्यामाने तथैव च । लिङ्गमात्रे मानमात्रे तथा सम्बोधनेऽपि च ॥ २१ ॥ उपर्युपर्यध्यधि चाधोऽधो धिक् परितोऽभितः । समयोभयतो हा च निकषा सर्वतः प्रति ॥ २२ ॥ अन्तरेणान्तरा चैषां योगे स्यात्तु द्वित्तीयिका । लक्षणार्थतृतीयार्थहीनार्थद्योतकस्त्वनुः ॥ २३ ॥ उपो हीनाधिकार्थश्न, प्रतिपर्यनवस्त्वथ । भागवीप्सातत्त्वकथालक्षणार्था, अभिस्तथा ॥ २४ ॥ भागवज तदर्थश्च, पूजातिक्रमणेऽप्यतिः । अनर्थकावधिपरी पूजार्थद्योतकश्च सुः ॥ २५ ॥ गहौंसम्भावनाकामचारानुज्ञासमुच्चये । अपिरेते च संप्रोक्ताः कर्मप्रवचनीयकाः ॥ २६ ॥ एषां योगे द्वितीया स्यात् कालमार्गार्थयोरपि । आत्यन्तिके च संयोगे द्वितीया परिकीर्तिता ॥ २७ ॥ धोत्यायां तु फलप्राप्तौ कालमार्गार्थयोः खलु । आत्यन्तिके च संयोगे तृतीया भवति स्फुटम् ॥ २८ ॥ विकृताङ्गेन येनैव लक्ष्यतेऽङ्गी विकारवान् । ततस्तृतीया भवति सहाथन तथा युजि ॥२१॥ कञ्चित्प्रकार प्राप्तस्य लक्षणे च तृतीयिका । हेत्वर्थं च सथैव स्यात् प्रकृत्यादिभ्य एव च ॥३०॥ तादयं च चतुर्थी स्यात् क्लूपि सम्पद्यमानके । उत्पातेन ज्ञापिते च हितयोगेऽपि सा भवेत् ॥ ३१॥ क्रियार्थोपपदस्यैवमप्रयुक्तस्य कर्मणि । क्रियार्थायां क्रियायां ये प्रत्ययाश्च तदन्ततः ।। ३२ ॥ नमःस्वस्तिस्वधास्वाहाऽलंवषड्योगतो भवेत् । मनधातोः प्राणिवर्जकर्मण्यपि तिरस्कृतौ ।। ३३ ॥ ल्यबलोपे चाधिकरणे कर्मण्यपि च पञ्चमी । यतः कालावनिर्माणं पञ्चमी तत्र, तद्युजि ॥ ३४ ॥ काले तु सप्तमी मागें प्रथमा सप्तमी तथा । आराहतेऽन्यदिक्शब्दरचूत्तरपदैर्युजि ॥ ३५ ॥ आजाहियुक्त च तथा बहिःप्रभृतियोगतः । वर्जनेऽपपरी चैव मर्यादावचने तथाऽ ।। ३६ ॥
३ सज्जनेन्द्रप्रयोगकल्पदुमकारिकाः । कर्मप्रवचनीयाख्यस्तहोगे पञ्चमी भवेत् । प्रतिदाने प्रतिनिधौ प्रतिस्तत्संज्ञको भवेत् ॥३७ ।। गुणोऽकतैर्यणे हेतौ पृथङ्नानाविनायुजि । तथा दूरान्तिकार्थेभ्यः पञ्चमी प्रविधीयते । ३८ ॥ षष्ठी स्वस्वामिभावादिसम्बन्धे खलु जायते। तथा हेतुप्रयोगे च हेतौ द्योत्ये च वा भवेत् ।। ३९ ॥ हेतोश्च सर्वनाम्नश्च प्रयोगेऽपि भवेदियम् । अतसर्थप्रत्ययेन युजि स्यादेनबन्ततः ॥ ४० ॥ अधीगर्थदयेशां च योगे दूरान्तिकार्थयोः । गुणाधाने कृतः कर्मण्यपि षष्ठी विधीयते ॥ ४१ ।। रोगकर्तृकपीडाया अज्वरायाश्च कर्मणि । नाथधातोराशिषि च कर्मण्यपि तथा भवेत् ॥ ४२ ॥ हिंसायां निप्रहणननाटक्राथपिषां तथा । जासेश्च कर्मण्यपि हि समर्थव्यवहृञ्पणोः ॥ ४३ ॥ तथा तदर्थस्य दिवः सोपसर्गस्य वा भवेत् । देवतासम्प्रदानार्थधातोः प्रेष्यब्रुवोरपि ॥ ४४ ॥ कृत्वोऽर्थानां प्रयोगे च कालाधिकरणे भवेत् । कृधोगे कर्तरि तथा कर्मणि प्रागुदाहृता ॥ ४५ ॥ कर्तृकर्मोभयप्राप्तौ कर्मण्येव विधीयते । लोकाव्ययानां निष्ठायाः खलानां तृनोऽपिच प्रयोगे नैव षष्ठी स्यादुके कामुकतो भवेत् । द्विषेः शतुर्वा भवति शेषे सर्वेभ्य एव च ॥ ४७ ॥ वर्तमानार्थकक्तस्य तथाऽऽधारार्थकस्य च । योगे षष्ठी भवत्येव तथा तुल्यार्थकैः सह ॥४८॥ आयुष्यकुशलैश्चैव हितभद्रसुखार्थकैः । योगे षष्ठी भवेदाशीर्वादवाक्ये विकल्पतः ॥ ४९ ॥ साध्वसाधुप्रयोगे चेन्विषयक्तस्य कर्मणि। निमित्तात् कर्मयोगे च सप्तमी प्रविधीयते ॥ ५० ॥ क्रियान्तरं यत्क्रियया लक्ष्यते तत्र सप्तमी । स्वामीश्चराधिपतिभिस्तथा दायादसाक्षिभिः ॥५१॥ प्रसूतप्रतिभूभिश्च योगे भवति सप्तमी । आयुक्तकुशलाभ्यां चाऽऽसेवायां सप्तमी भवेत् ॥ १२ ॥ जातिक्रियागुणैर्नाम्ना समुदायात्पृथक्कृतिः । यतस्ततः सप्तमी स्यात् षष्ठी चापि भवेदिति ॥ १३ ॥ अर्चायां साधुनिपुणाभ्यां योगे सप्तमी भवेत् । प्रसितोत्सुकशब्दाभ्यां लुप्तप्रत्ययभादपि ॥ १४ ॥ शक्तिद्वयस्य मध्ये यौ कालमार्गों ततस्तु सा । ऐश्वर्येऽधौ कृजि तु वा कर्मप्रवचनीयता ॥ १५ ॥ यतोऽधिक उपे चैव योगे चैवाधिकेन च ।
सज्जनेन्द्रप्रयोगकल्पदुमकारिकाः ।
सप्तमी तु प्रवक्तव्या कारकस्यैष सङ्गहः ॥ १६ ॥
समासकुसुमम् ।
समासो द्विविधः प्रोक्तः सामान्यश्च विशेषकः ।
सामान्यः केवलं ज्ञेयः सुबन्तेन सुबन्ततः ॥ १७ ॥
विशेषस्तु चतुर्धा स्यादेकस्तत्पुरुषः स्मृतः ।
द्वितीयश्च बहुव्रीहिर्द्वन्द्वश्चापि तृतीयकः ॥ १८ ॥
चतुर्थश्चान्ययीभाव इति भेदचतुष्टयम् ।
द्विधा तत्पुरुषो बोध्यः सामान्योऽथ विशेषकः ॥ ५९॥
सामान्यस्त्वष्टधा प्रोक्तो विभक्तीनां, तथा नजः ।
विशेषो द्विविधः, कर्मधारयोऽथ द्विगुस्तथा ॥६०॥
यः समानाधिकरणः ल प्रोक्तः कर्मधारयः ।
संख्यावाचकपूर्वो यः स द्विगुः परिकीर्तितः ॥ ६१ ।।
प्रथमस्त्वष्टधा प्रोको विशेषणपुरस्पदः ।
विशेषणोत्तरपदो विशेषणपदद्वयः ॥ ६२ ।।
उपमानाद्यपदक उपमानोत्तर तथा ।
वधारणापूर्वपदः कुगतिप्रादिकस्तथा ।। ६३ ।।
तथोपपदसंज्ञश्च कर्मधारय ईरितः।
बहुव्रीहिद्विधा प्रोक्तः सामान्योऽथ विशेषकः ॥ ६४ ॥
सामान्यः षट्प्रकारः स्याद् द्वितीयादिविभक्तिभिः ।
विशेषः पञ्चधा प्रोक्तः संख्योत्तरपदस्तथा ॥ ६५ ।।
संख्योभयपदश्चैव व्यतिहारस्वरूपकः ।
दिगन्तरालरूपश्च सहपूर्वपदोऽपि च ॥ ६६ ॥
द्वन्द्वविधा समाल्यात इतरेतरयोगकः ।
द्वितीयस्तु समाहार एकशेषस्तृतीयकः ॥ ६७ ॥
द्विविधश्चाव्ययीभावः सामान्यश्च विशेषकः ।
सामान्यस्तु समर्थन समासादन्ययस्य च ॥ ६८॥
विशेषस्तु विभक्त्यर्थं समीपार्थ समृद्धिके ।
व्युद्ध्यर्थे चाप्यभावार्थे चात्ययार्थे च साम्प्रते ॥ ६९ ॥
प्रादुर्भावे च शब्दस्य, पश्चादर्थे यथार्थक ।
आनुपूल्य योगपद्ये सादृश्यार्थे तथैव च ॥ ७ ॥
सम्पत्त्यर्थं च साकल्येऽन्तार्थे चाव्ययमात्रकम् ।
यथाऽव्ययमसादृश्ये, यावच्चैवावधारणे ॥ ७१ ॥
मात्रार्थं प्रतिना सुप् , चाऽक्षसंख्ये परिणा तथा ।
शलाका, चाथ पञ्चम्याऽपपरी बहिरञ्चु च ॥ २ ॥
आङ् मर्यादाभिविध्योश्चाभिप्रती लक्षणेन च ।
आभिमुख्य, लक्षणेन त्वनुर्यत्समया तथा ॥ ७३ ॥
यस्यायामेऽपि तच्चैव, तिष्ठद्गुप्रभृतीनि च ।
पारे मध्ये च षष्ठया वा, संख्या वंशयन चैव हि ॥ ४ ॥
सज्जनेन्द्रप्रयोगकल्पद्रुमकाारकाः । नदीभिश्च तथा संख्याऽन्यपदाथै सुबन्तकम् । एषां समासतो ज्ञेयोऽव्ययीभावो विशेषकः ॥ ७९ ॥ एषु केचित्समासास्तु विभक्तीनामलोपनात् । अलुक्समासाः संप्रोक्ताः सत्युत्तरपदे परे ॥ ७६ ॥ तृतीया नाम्नि मनस, आज्ञायिनि परे तथा । ओजःसहोऽम्भस्तमस, आत्मनः पूरणे परे ॥ ७७ ॥ परात्मभ्यां चतुर्थी तु पदशब्दे परे सति । स्तोकादिभ्यः पञ्चमी च षष्ठी चाक्रोशके तथा ॥७८ ॥ देवात्प्रिये मूर्खबोध्ये, वाग्दिक्पश्यद्भ्य एव च । युक्तिदण्डहरेष्वेव, तथा दासे दिवोऽपि च ॥ ७९ ॥ लागूलपुच्छशेपेषु शुनः, पुत्रे तु कुत्सने । योनिविद्यायुजि ऋतः, स्वसपत्योस्तथैव वा ॥ ८०॥ सप्तमी हलदन्ताच्च, मध्यान्ताभ्यां गुरावपि । अमूर्धमस्तकात्स्वाङ्गादकामे, गुहृदस्तथा ॥ ८१ ।। बन्धे वा हलदन्ताच, कृति तत्पुरुषे तथा । प्रावृट्शरत्कालदिवां वर्षक्षरशराद्वरात् ॥ ८२ ॥ जे, घकालतनेष्वेव कालनाम्नोऽप्यकालतः । शये वासे वासिनि वै, योनियन्मतुषु त्वपः ॥ ८३ ॥ इन्सिद्धबध्नातिषु च, भाषायां स्थे च सप्तमी । लुप्यते, त इति प्रोक्ता बोध्याश्चोदाहृति विना ॥ ८४ ॥ तद्धितकुसुमम् । तस्मै प्रयोगाय हिताः प्रत्ययास्तद्धिताभिधाः । बह्वर्थानां प्रभेदेन भवन्त्येकोनविंशतिः ॥ ८५ ॥ एषु केचित्प्रगृह्यन्ते बालानामुपयोगिनः । अण प्रायः सकलार्थेषु भवेत्सामान्यतः किल ॥ ८६ ॥ अपत्यार्थेऽत इञ् स्वीभ्यो ढक् चैवाऽग्नेः कलेरपि । पत्युत्तरपदाण्ण्यो, गोर्यदजादिप्रसङ्गके ॥ ८७ ।। उत्सादिभ्योऽन् तथा स्त्रीपुंसाभ्यां नञ् च स्नोव च । कुञादिभ्यो नडादिभ्यश्च्फञ्फको भवतस्तथा ॥ ८८ ॥ बिदादिभ्योऽञ् तथा गर्गादिभ्यो य च भवत्यपि । अश्वादिभ्यश्च फज् प्रोक्तः शुभ्रादिभ्यो ढगियपि ॥ ८९ ॥ क्षुद्राभ्यो वा चतुष्पादयो इक्ढौ भवतोऽपि च । रेवत्यादेश्च कुर्वादेष्ठक् च ण्यश्च भवत्यपि ॥ १० ॥ अन्येऽपि प्रत्यया बोध्याः प्रातिस्विकतयोदिताः । रकाचर्थेषु ठक्छौ ढक् ख्यड्ड्यौ, प्रातिस्विका अपि ॥ ११ ॥ तथा परिवृताचथें इन्यठक्वल ईरिताः। देवतार्थे छ घन् व्यण सक् ठञ् व्यञ्च दुलजादयः ॥ ९२ ॥ सामूहिके च यश्यत्तलूअञ्ठक्यञ्छत्रुजस्तथा ।
सज्जनेन्द्रप्रयागकल्पद्रुमकारिकाः । क्रीडायथ णो ठक् च बुन्निनिश्च भवन्ति हि ॥ ९३ ॥ देशे तदस्मिन्नस्तीति तेन निवृत्तमित्यपि । तन्निवासोऽदूरभव इत्येते चातुरर्थिकाः ॥ ९४ ॥ एषु चोरञ्, बह्वजङ्गान्मतुपः, सङ्कलादितोऽञ् । अरोहणादेव॒ञ् प्रोक्तः कृशाचादेश छण मतः ॥ ९५ ॥ कुमुदादेष्ट जित्युक्तः काशादिभ्य इलस्तथा । तृणादिभ्यश्च सः प्रोक्तः प्रेक्षादिभ्य इनिः स्मृतः ॥ ९६ ॥ अश्मादे रश्च, सख्यादेढ, ण्यः सङ्काशमुख्यतः । बलादेर्यश्च, पक्षादेः फक्, कर्णादेश्च फिञ् भवेत् ।। ९७ ॥ सुतङ्गमादिभ्य इञ् च प्रगद्यादेय॑ इत्यपि । वराहादेश्च कक् प्रोक्तः कुमुदादेश्च ठक् भवेत् ॥ ९८ ॥ मध्वादिभ्यो मतुप् चैवोत्करादिभ्य श्छ ईरितः । अन्येऽपि प्रत्यया ज्ञेयाः प्रातिस्विकतयोदिताः ॥१९॥ तत्र जातश्च, तत्सोढमस्य, तत्र भवस्तथा । तदागतः, प्रभवति, निवासः सोऽस्य इत्यपि ॥ १०० ॥ अधिकृत्य कृतो ग्रन्थः, सोऽस्य भक्तिस्तथैव च । तेन प्रोक्तमुपज्ञातं तथा तस्येदमित्यपि ॥ १०१ ।। एते च शैषिकाः प्रोक्ता, एघु कस्यादितो ढकञ् । नधादिभ्यश्च ढक् प्रोक्तो वृद्धाच्छः परिकीर्तितः ॥ १०२ ॥ काश्यादिभ्यष्ठभूमिठो चोकारान्ताच्चैव उज् मतः । धूमादिभ्यश्च वुञ् चोक्तः कालाज् परिकीर्तितः॥ १०३ ॥ भ्यः स्यात्परिमुखादिभ्यस्तथाऽध्यात्मादितश्च ठञ् । योनिविद्यायुजो वुज् च, ऋदन्ताज् प्रकीर्तितः ॥ १०४ ॥ शिशुक्रन्दादितश्छश्च, ज्यो भवेच्छण्डिकादितः। सिन्धुतक्षशिलादिभ्यश्चाऽणनौ परिकीर्तितौ ॥ १०५ ॥ वुज चैव हि कुलालादेः, छश्च रैवतिकादितः । प्राविस्विकतया प्रोक्ता अन्येऽपि प्रत्यया मताः ॥ १०६ ॥ वैकारिकेषु त्वोरञ् स्यात् पलाशादिभ्य एव च । प्राणिभ्यो रजतादेश्च, मयड् वृद्धाशरादितः ॥ १० ॥ अन्येऽप्येवंविधा बोध्याः प्रातिस्विकतयोदिताः। तेन दीव्यत्यथ जितं खनत्यपि जयत्यपि ॥ १०८ ॥ संस्कृत, तरतीत्येवं, चरत्यपि, हरत्यपि । उपसिक्तं च, संसृष्टं, तथोक्छति च, रक्षति ॥ १०९ ॥ अवक्रयः, तस्य धम्य, पण्य, शिल्पं तथैव च । तथा प्रहरणं, शीलं, वृत्ता चाध्ययने क्रिया ॥ ११० ॥ हितं भक्षाश्च, नियतं तदस्मै दीयतेऽपि च । एते ठकोऽवधीयाश्च, ठक् सामान्यत एयु हि ॥ १११ ! पर्यादितः ष्ठन् विहितो भस्वादिभ्यस्तथैव च ।
सज्जनेन्द्रप्रयोगकल्पद्रुमकारिकाः।
स्कारान्तादजित्युक्तः केचित्प्रातिस्विका अपि ॥ ११२ ॥
तत्र साधुस्तथान्ये च प्राग्धितीया इतीरिताः ।
यत् सामान्यः, प्रतिजनादितः खञ्, ठक् कथादितः ॥११३ ॥
गुडादिभ्यश्च ठञ् प्रोक्तोऽन्ये तु प्रातिस्विका अपि ।
तस्मै हितं, तदर्थं च विकृतेः प्रकृतौ तथा ॥ ११४ ॥
स्यात्तदस्य तदस्मिश्च प्राक्क्रीतीया उदाहृताः ।
एषु सामान्यताछः स्याद् , यद् भवेदुगवादितः ॥ ११६ ।।
शरीरावयवाच्चैवान्ये च प्रातिस्विका अपि ।
तेन क्रीतं, तन्निमित्तं संयोगोत्पातको तथा ॥ ११६ ।।
तस्येवरस्तस्य वापो, विदितस्तत्र चैव हि ।
वृद्धयायलाभशुल्कोपदास्तदस्मिश्च दीयते ॥ ११ ॥
तद्वरत्यावहति च वहत्यवहरत्यपि ।
पचत्यथो सम्भवति तदस्य परिमाणकम् ॥ ११८ ॥
तदर्हति, तथा तेन निर्वृत्तं, तमधीष्टकः ।
भृतो भूतस्तथा भावी, तदस्य ब्रह्मचर्यकम् ॥ ११९ ॥
परिजय्यं लभ्यकार्यसुकरं तेन चैव हि ।
कार्य च दीयते तत्र, सम्पादिनि तथैव च ॥ १२० ॥
प्रयोजनं, तदन्येऽपि प्रोक्ताः प्राग्वतयस्त्विमे ।
एषु सामान्यतष्ठञ् च, निष्कादिभ्यष्टगित्यपि ॥ १२१ ॥
दण्डादिभ्यश्च यत् प्रोक्तः शेषाः प्रातिस्विकास्तथा ।
तेन तुल्यं क्रिया चेच्च, तत्र तस्येव चेत्यपि ॥ १२२ ॥
तदहं चेति गदितास्त्र्यार्थिका, एषु वै वतिः ।
तस्य भावस्तस्य कर्म, भावकर्मार्थका इमे ॥ १२३ ॥
एषु तु त्वतलो, पृथ्वादिभ्यः स्यादिमनिच खलु ।
व्यञ् च वर्णदृढादिभ्यो गुणार्थादू ब्राह्मणादितः ॥ १२४ ॥
कर्मण्यपि च, पत्यन्ताद् यक् पुरोहितमुख्यतः ।
योपधाच्च गुरूपान्त्याद् वुञ् द्वन्द्वाञ्च प्रकीर्तितः ॥ १२५ ॥
तथा मनोज्ञादिभ्यश्च शेषाः प्रातिस्विका अपि ।
धान्यानां भवनं चैव, तेन वित्तस्तथैव च ॥ १२६ ॥
प्रमाणं, परिमाणं च, स एषां ग्रामणीस्तथा ।
एते पाञ्चमिकाः प्रोक्ता, एषु खञ् ढक् छ यत् तथा ॥ १२ ॥
मूले कर्णादितो जाहृच् पाके पील्वादितः कुणप् ।
तदस्य सातमिति तारकादेरितच तथा ॥ १२८ ॥
प्रमाणे द्वयसज्दष्नज्मात्रचः परिकीर्तिताः ।
परिमाणे वतुप् चैव, संख्यायास्तयबङ्गके ॥ १२९ ॥
मयड् गुणनिमाने च, गोषदादेश्च वुन् भवेत् ।
आकर्षादेश्च कन् प्रोक्त इष्टादिभ्य इनिस्तथा ॥१३० ।।
एतेषु चान्ये बहवः शेषाः प्रातिस्विका अपि ।
तदस्यास्त्यस्मिन्निति च मत्वर्थीयाः प्रकीर्तिताः ॥ १३१ ॥
ললনাক্কাঙ্কিা। रसादिभ्यो मतुप प्रोक्तः सिध्मादेलच प्रकीर्तितः । लोमादिभ्यश्च पामादेः पिच्छादिभ्यः शनेलचः ॥१३२ ॥ अकारान्तादिनिठनौ वीह्यादिभ्यस्तथैव च । तुल्दादिभ्य इलच् चैवाऽर्शआदिभ्योऽच् प्रकीर्तितः ॥ १३३ ॥ सुखादिभ्य इनिश्चैव पुष्करादिभ्य एव च । बलादिभ्यो मतुप् चैव शेषाः प्रातिस्विका अपि ॥ १३४ ॥ विभक्तिस्वार्थकालार्थाः प्रत्ययाः प्राग्दिशीयकाः। एषु पञ्चम्यास्तसिल् च सप्तम्यास्तु अलित्यपि ॥ १३ ॥ किसर्वनामबहुतोऽधुनादानींहदाहिलः । इदंकिमेतत्तयश्च था थमुः क्वन् च कीर्तिताः ॥ १३६ ॥ भूतपूर्वेऽतिशयिके विभक्तव्ये प्रशंसने । आसमासौ कुत्सिते चाऽज्ञाते चैवानुकम्पिते ॥ १३७ ॥ अल्पे हस्वे गर्वितेऽर्थे प्रागिवीया इमे मताः । एषु दिग्देशकालेभ्योऽस्तात्यस्यात्येनपो मताः ॥ १३८ ।। आजाहि च तथा ज्ञेयो विधार्थ धा धमुन् मतः । चरड् रूप्य तमए चेष्ठन् तरबीयसुनौ तथा ॥ १३९ ।। रूपप् कल्पप् देश्य देशीयर जातीयर् बहुच मतः । अव्ययेभ्यः सर्वनाम्नोऽप्यकच्, कश्च तथैव हि ॥ १४० ॥ जातिनाम्नो मनुष्यात् कन् , केचित् प्रातिस्विका अपि । इवार्थश्च समृहार्थो वीप्सार्थोऽनितरार्थकः ॥ १४१ ॥ अभूततनावकश्च व्यापनः प्रातिलोम्यकः । एते चान्य इवाद्यर्थकीया, एषु च कन् मतः ॥ १४२ ॥ शाखादिभ्यश्च यः प्रोक्तः, छः समासादिवार्थकात् । अण चैव शर्करादिभ्योऽगुल्यादिभ्यष्ठगित्यपि ॥ १४३ ॥ त्रिगर्तषष्टाहामन्यादेश्छः सङ्घार्थ ईरितः । स्थूलादिभ्यः प्रकारे कन् , प्राचुर्यप्रस्तुते मयट् ॥ १४४ ॥ देवतान्ताच्च यत् प्रोको विनयादेश्च ठक् स्मृतः । आधादिभ्यस्तसिश्चैव, च्विस्तु कृभ्वस्तियोगतः ॥ १४५ ॥ सातिया डाच् तथान्येऽपि प्रातिस्विकतयोदिताः। इति सङ्केपतः प्रोक्त एष तद्धितसङ्ग्रहः ॥ १४६ ।। तिकुसुमम् । लादेशास्तु तिङः प्रोक्ता लकारास्तु नवैव हि । ललिट्लुट्लूलोट्च ललिङ्लुड्लङ्चेति प्रकीर्तिताः ॥ १४७ ॥ अष्टादश तिङस्तिप्तझिसिप्थस्थमिपस्तथा । वस्मस्ताऽऽतांझथासाथांवमिड्वहिमहिछिति ॥ १४८ ॥ परस्मैपदसंज्ञास्तु पूर्वा एषु नवेरिताः । उत्तरास्तु नव प्रोक्का आत्मनेपदसंज्ञकाः ॥१४९ ॥ धातुभ्यश्च लकाराः स्युर्धातवस्त द्विधेरिताः ।
दशम्या असा मादयः । हाडकारिकाः । साकशासपमा कहता इति इतः ॥ १० ॥ मुकर्मकस्या समाजात ते। अकर्मकस्थो मात्रा कर सन्ति ते ॥ १९१ ॥ ते पुनद्विविधा उ. यः शादिभिः । शुद्धाश्चैव सनावदार अणा दश ॥ १५२ ॥ भवाद्योऽदादिलीथिति ३ तुदादिकः । रुधादिश्च तTE: जुद १५३ ॥ ललोट्लामालन नान्य प्रजन्ति हि ॥ १४ ॥ शबलभश्लुचनपुर २: माणिजिति कर्तरि। यगेव सावकर, साएश स्वृतः ॥ १५६ ॥ लुटि तासिलो स्थाने लिलङि स्मृतः । यस्त पुरुषा झाति त्रयः ॥ १६६ ॥ प्रथमा मध्यमवो समाचांत तु नासतः । मध्यमसन कक युष्मदर्शदे ॥१७॥ कर्थ इतरस्मिस्तु प्रथमः परिकोतितः । एकद्विबहुसंज्ञानिपचनाईन नि त्रिके ॥ १५८ ॥ प्रत्येक प्रनयन्ती पलहने च लट् स्मृतः । मृते लिट्लुङक उल्टो र भविष्यति ॥ ११९ ॥ प्रवर्तनाशिपोलिस सुध लामान्य सङ्ग्रहः । गुपतिजकिमानसिक दानन्या स्वार्थ सनिष्यते ॥ १६० ॥ आशंसाया तथेतकरीषिणः । धातोरिया स्थान वर काम्यच्च पुनः स्मृतौ ॥ १६१ ॥ मान्तनाम्ना भयात् क्यान कास्यच् भवति निश्चयात् । काधिकरणाकजा र समानतः ॥ १६२ ।। कर्तुः क्यड वा शादित्यर्थे सलोपकः । डाजन्तात् कय अवस्व लोहितादिभ्य एव च ॥१६३ ॥ सत्रात् कक्षात् कट कृच्छ्रवाहनेम्यश्चिकीर्षति । पापमथे, कष्टशब्दादुत्साह कमङिष्यते ॥ १६४ ॥ रोमन्थं वर्दयति च तपारति कर्मपाः । बाप्पामफेनामने, कालहाच्छन्दवैरयोः ॥ १६५ ॥ तथा ऋण्वाश्रमेवरः करोत्यर्थ च कर्मणः । सुदिनाद् दुर्दिनानीहाराद्भवत्यर्थ एव च ॥ १६६ ॥ मुखादिभ्यस्तथा कर वेदनायां क्यको विधिः । क्यच् नमोरिवर: चित्रः स्यात्, विप नाममात्रतः ॥ ६६७ ।। आचारार्थ च मुण्डादित्यादिभ्यां च णिच् मतः । प्रयोजकल्य व्यापारे वाच्ये च प्रेषणादिके ॥ १६८ ॥ पौनःपुन्ये भृशार्थ चैकाचो धातोहलादितः। सूच्यादेच, तथा गत्यर्थभ्यः कौटिल्य एव हि ॥ १६९ ॥ - सज्जनेन्द्रप्रयोगकल्पद्रुमकारिका ! लुपादेर्भावगर्हायां यङ्, लुक् तस्याचि बाहुलात् । कण्ड्वादिभ्यो यगायत्तु गुपेधूपः पणेः पनेः ॥ १७ ॥ विच्छेश्च, स्याद् ऋतेरीयङ्, कमेणिङ् ल्वार्थ एव हि । पुच्छादुदसने पर्यसने च व्यसने भवेत् ॥१७१ ॥ भाण्डात्समाचयनके, चीवरादर्जने तथा । परिधाने, सनाद्यन्ता द्वादशामी प्रकीर्तिताः ॥ १७२ ॥ येष्वर्थेषु लकाराः स्युस्ते कथ्यन्ते विशेषतः । भूतानद्यतने चैव परोक्षे लिट् प्रकीर्तितः ॥ १३ ॥ अत्यन्तापह्नवेऽप्येव लड्लिटौ तु प्रकीर्तितौ। हकारशश्वतोोगे प्रशने चासनकालके ॥ १७४ ॥ भूते लुङ् ननुयोगे तु लट् च पृष्टोत्तरे मतः । नुनयोगे तु कथितौ लुङ्लटौ च तदर्थेके ॥ १७५ ॥ भूतानद्यतने लङ् च, स्मयोगे लट् प्रकीर्तितः । स्म विहाय पुराशब्दयोगे प्रोक्तौ तु लङ्लटौ ॥ १७६ ॥ साका लङ्लूटाबुक्कावभिज्ञावचने बुधैः । यदयोगेन विनाऽभिज्ञावचने तु लडेव हि ॥ १७७ ॥ वर्तमाने च लट् प्रोक्तो भविष्यति तु सृट् स्मृतः । लुडनधतने ख्यातो भविष्यति, निपातयोः ॥ १७८॥ यावत्पुराशब्दयोस्तु योगे लट् नान्य एव हि । लिप्सायां चैव किंवृत्ते कदाकर्मियुते तथा ॥ १७९ ॥ लोडर्थलक्षणे चैव संसिद्धौ लिप्स्यमानतः । लट् स्मृतश्च यथाप्रासौ लट्लुटो परिकीर्तितौ ॥१८० ॥ ऊर्ध्वमौहूतिके काले लोडथै लिङ्लटो तथा । समीपे वर्तमानस्य भूते वाथ भविष्यति ॥ १८१॥ भूते भूता वर्तमाना भविष्यन्तो भविष्यति वर्तमानाश्च ला उक्ता आशंसायां तु लुटौ ॥ १८२ ॥ लट् चाथो, क्षिप्रपर्याये लट् स्यादुपपदे किल । लिडाशंसावाचिान चोपपदे गदितस्तथा ॥ १८३॥ क्रियासातत्यसामीप्ये भूते लुङ् लट् भविष्यति । मर्यादोक्तावहोरात्रभिन्नकालांशके च वै ॥ १८४ ॥ अवरस्मिन् लट् , परस्मिन् लट् लुटौ च भविष्यति । सर्वत्र लिनिमित्ते तु क्रियाऽनिष्पत्तिसूचने ॥ १८५॥ भविष्यति लव स्याद् , उताप्योरित्यतः पुरः । भूते वा लङ्, ततोऽने तु नित्यं भूतेऽपि लुङ् भवेत् ॥ १८६ ॥ गर्हायो जात्वपियुते लट् च कालत्रये मतः । कथंयोगे च गायां कालमात्रेऽपि लिङ्लटौ ॥ १८७ ॥ अन्येऽपि स्वस्थकाले स्युलकारास्तत्र चैव हि । किंवृत्ते गर्हणे प्रोक्तो लिङ्लटौ, तद्विनापि च ॥ १८८ ॥ क्षमासम्भावनार्थेऽथो तयोरेव तु सूचने ।
सज्जनन्द्रप्रयोगकल्पद्रुमकारेकाः ।
अस्त्यर्थ किंकिलाथै च लडेव परिकीर्तितः ॥१८९ ॥
यच्चयत्रयदाजातुयदियद्युजि लिङ् मतः !
यच्चयत्रयुते चैव चित्रीकरणके तथा ॥ १९० ॥
गीयां तु लिडेवाऽर्थादधिकोलोन लिङ् भवत् ।
लूट स्यादुपपदे यच्चयदियन्त्रविमिन के ॥ १९१ ॥
विस्मयीकरणे चाथो, उताप्योस्तु समर्थयोः ।
योगे लिङ्, इत ऊर्ध्वं तु भूतेऽपि नियतो हि लङ् ॥ १९२ ॥
कञ्चिद्योग विना स्वाभिप्रायाविष्करणे तु लिङ् ।
सिद्धाप्रयोगे प्रौढ्यर्थ लिङ् च सम्भावने मतः ।। १९३ ।।
तत्रैव सम्भावनाथै धातादुपपदेऽपि च ।
यद्योगरहिते लिङ् स्याद्यथाप्राप्तश्च लट् तथा ॥ १९४ ॥
हेतुहेतुमतोलिङ् च भविष्यति मतो बुधैः ।
इच्छार्थके तूपपदे स्वाभिप्रायप्रकाशने ॥ १९५ ॥
प्रैषादिविध्यार्थं च मुहूर्तादूर्ध्वके तथा ।
आशीरर्थे च लिङ्लोटौ, योग्यशक्यार्थके त्वथो ॥ १९६ ॥
यच्छब्दोपपदे काले वेलायां समयेऽपि च ।
समानकतकेच्छार्थीपपदेऽपि लिडेव हि ॥ १९७ ॥
समानकर्तृकेच्छार्थोपपदे वर्तमानके ।
इच्छाथै ललिङ च, स्मयोगे चाऽधीष्टके तथा ॥ १९८ ॥
घेषाद्यर्थे प्रासकाले मुहूतोरे स्मयोगके ।
लोट, माङ्युपपदे लुङ् स्यात् ,
समोत्तरे लङ्लुङौ मतौ ॥ १९९ ॥
तिवाच्यायाः क्रियायास्तु प्राधान्यादनुरोधतः ।
तथा गुणक्रियावाचिशब्देभ्यः प्रत्यया मताः ॥२०० ॥
पौनःपुन्ये भृशाथै च लोट् स्यात् हिस्वौ ततो न तिङ।
अनुप्रयोगो धातोश्च तद्बोधार्थं ततो मतः ॥ २०१॥
लोटः प्रकृतिभूतोऽसौ, विकल्पेन समुच्चये।
मन्योपपदकाद्धातोमध्यमः पुरुषो भवेत् ॥ २०२ ॥
मन्येतस्तूत्तमः प्रोक्तः स चैकार्थस्य वाचकः ।
भावकर्मव्यवस्था तु व्यवस्था कर्तृकर्मणः ॥२०॥
तथाऽऽत्मनेपदस्थापि परस्मैपदकस्य च ।
व्यवस्था मूलतो ज्ञेया विस्तरान्नेह कथ्यते ॥ २०४॥
लठ्यात्मनेपदं बोध्यमेकारान्त विचक्षणः ।
परस्मैपदमाख्यातमिकारान्त तथा लटि । २०६॥
इति सङ्कपतः प्रोक्त एष विङ्सङ्ग्रहः किल ।
अथ कृत्कुसुमम् ।
धातोः कृत्प्रत्यया बोध्याः कादित्रितयार्थके ॥ २०६ ॥
भूतादिकालत्रितये निरूप्यन्ते समोसतः ।
कृत्याः खलः कश्चापि सकर्मभ्यस्तु कर्मणि ॥ २०७ ॥
স্বল্যধনুনুজ্জাহিন্দ্রাঃ ? अकर्मकेभ्यो मावे ल्युः, कतार प्रत्याया परे । अहेशकमार्थयोः प्रालयालेसमा ८ ॥ भवन्ति प्रत्ययाः मातृ महायत। तव्यत्तव्याऽनीयरस्तु धातु मर भवेत् ॥ २०९॥ पवर्गान्ताददुपधाइ मन्ना यात्रा के लहे! एविस्तुशास्पृशः क्या याद ऋदुवापि ॥ १० ॥ आवश्यके उकारान्ताकारहलन्ततः । ण्वुल्तृचौ सर्वधातुभ्यो, नान्दहिपचादितः ॥ २११ ॥ ल्युणिन्यवः कमाता , अस्तु मागुपथकात्किरः । उपसर्गे तथाऽऽदन्तात् , बाबासापडशस्तु सः ॥ २१२ ॥ ज्वलादिभ्यः कसन्तेन्या वादिस्वस्तु नः स्मृतः ! पुसल्यः साधुकारित्व कुन स्वादाशिवतः ।। २१३ ॥ कर्मण्युपपदे बाबालवाऽण, अनुश गर्जतः । सुबन्ते वा उपपदे आदन्ताक लजीरितः ॥ २१४ ।। गापाभ्यां नोपसृष्टाभ्यां द मोऽधलेऽव् स्मृतः । शेतेरच् चाऽधिकरणे, चरेशोऽपि जास्तु लः ॥ ३१५ ॥ हेतुताच्छोल्यानुलोम्ये कन्नर्थ पूर्वबलू मः। ण्यन्तादेजेः खशन्येभ्योऽधली, प्रियवशे वदः ॥ २१६ ॥ खच् भुवः करणे भावे साशितोपदेच सः । कृनः क्षेमे प्रिये मद्रे खजणों तो, गनेस्नु खच ॥ २१७ ।। अन्तायुपपदे डच, किन शोऽनुदके सुषि विनन्ता ऋत्विगायाः स्युरहानायां दृशेतु कल ॥ २१८ ॥ किन च त्यदायुपपदे, जिनः लोपपलाडजेः । मनिनक्वनिप्वनिजिकिय धाताः स्युः, ल्थस्तु कचिपो ॥ २१९ ॥ अजात्यर्थं सुपि गिनिस्ताच्छील्येऽय तेऽखि च । उपमाने तथा कता भोप्ये बहुलं व सः ॥ २० ॥ इतः स्युः प्रत्यया भूते, णिनिः स्यात्करणे यजः । हनः कर्मणि ३, छिप तु ब्राण भ्रूणवृनयोः ॥ २२१ ॥ अनश्चिनः कृजः पुण्यपापमन्त्रमुकासु। दृशेः क्वनिप् जनेर्डः स्यादन्येभ्योऽन्याकेऽपि ३ ॥ २२२ ॥ कर्तरि क्तवतुर्भूते, भूते को भावकर्मणोः स्पष्टार्थोक्तानुवादोऽयमथ क्तस्त्वादिकर्मणि ॥ २२३ ॥ गत्यर्थाकर्मकश्लिषश्यादिभ्यः कर्मणि कर्तरि । भावे, तथाधिकरणे ध्रौव्यगत्यशनार्थकात् ॥ २२४ ॥ मतिबुद्ध्यर्चनाद्यर्थधातुभ्यो, जीत एव च । वर्तमानार्थके चः स्यात् , क्लीवे भावे तु सर्वदा ॥ २६ ॥ लिटः कानच्क्वसू धातोः, वसुः सदवसश्रुवः। इति भूताधिकारोऽभूत् , लटः स्तः शतृशानचौ ॥ २२६ ।। सम्बोधने क्रिषायास्तु हेत्वाल्लक्षणार्थकात् । ।
স্বভাব্দ:
२३
एष्वर्थेषु लात- नाममाया वाच॥ २२७ ।
चान भरेर ८. मनोबजारलपु!
इतः छिबन्नई छलि लद्धमनि पारि २२८ ।।
तत्साधुकामणिः लथात प्रत्यक पुरः ।
तृन सर्वेभ्यः, लवादिनादिन्यः चिनुण मतः ॥ २२९ ॥
हलादेरनुदात्तः, शादायकार।
अकर्मकादू, अमन दिया कुछ रूवृतः ॥ २३० ।।
उः सनदशंस.हर पस्योऽपि दृश्यते ।
इष्णुच् क्नुन्जु पाल्न बालुजिन क्मर ॥ २३१॥
धुर कुर र .. आजङ् बरच् ।
डुः ष्ट्रनिकः अक्लुम्ही सगोले पृथक पृथक् ॥ २३२ ।।
प्रत्यया भिन्नधातु विज्ञेचा मूलतः खलु ।
वर्तमाने तथा सूते बहुलं स्युरुणादयः ।। २३३ ॥
तुमुन्ण्वुलौक्रियार्थाय क्रियायो, केवलप्तुमुन् ।
समानकर्तृकेऽस्त्यर्थं कालाद च शकादिके ॥ २३४॥
पूर्णतावाचिसामर्थ्यवासिन्युपपदे भवेत् ।
भावे इत्यधिकृत्यास्त भाववचनाः स्मृताः ॥ २३५ ॥
क्रिया या क्रिमाचा धमाधाः स्युभविष्यति ।
क्षण् कर्मण्युपपद, बान कर्तरि पादितः ॥ २३६ ॥
भावे च सर्वधातुको कटारे कारके ।
अजेदन्ताहानुसार कारान्तादुदन्तत ॥ २३७ ॥
क्वचिद्भावे च कर कण्याचलः क्वदित् ।
डितः क्त्रिश्च इवितोऽथुछ च, यजादिभ्यश्च नङ् स्मृतः ।। २३८ ॥
उपसमें च वो स्मात, कगण्युपपदे तथा ।
आधारे, साथ भावादी स्त्रियां क्तिन् परिकीर्तितः ॥ २३९ ॥
क्यप भावे तु ब्रजमजोः, सहायों समजादितः ।
प्रत्ययान्ताद्धन्ताञ्च गुरोरश्न मतः खियाम् ॥ २४० ।।
भिदादिभ्यः पितचाऽङ् स्यात्, प्यालश्रन्धो युजित्यपि।
अहर्णोत्पत्तिपर्याशार्थ ण्वु परिकीर्तितः ॥ २४१ ॥
भावे नपुंसके ल्युट्की, कर्मण्युपपदे तथा ।
कर्तुः कायसुखं येन संस्पशील्ल्युट् ततः स्मृतः ॥ २४२ ॥
करणे चाधिकरणे, संज्ञार्या प्रायशस्तु वः ।
हलन्ताद्धातुतो व स्यात्, कृच्छ्राकृच्छ्रार्थकेपु तु ॥ २४३ ॥
भावे कर्मण्युपपदेष्वीपदुःसुपु खल् मतः।
कर्मकत्रोभूकृजोः स्याद् , आदन्ताच्चैव युच् मतः ॥ २४४ ॥
आवश्यकाधमाथ णिनिः, कृत्याश्च कीर्तिताः ।
नाम्नि धातोराशिषि च तिचक्तौ च परिकीर्तितौ ॥२४॥
अलवलूपपदयोनिषेधे क्त्वा प्रकीर्तितः।
एककर्तकयोधात्वर्थयोः क्त्वा पूर्वकालके ॥ २४६ ॥
सज्जनेन्द्रप्रयोगकल्पद्रुमकारिकाः। अर्थेऽस्मिन्नेव चाभीक्ष्ण्ये णमुल धातोः प्रकीर्तितः । कर्मोपपद आक्रोशे गम्ये चैव खमुन् मतः ॥ २४७ ॥ समूलादिप्रयोगेषु धातुतश्च कषादितः । स्वानुप्रयोगयुक्ताच्च, करणे कर्तृकर्मणोः ॥ २४८ ॥ अपादानेऽधिकरणे तथा चोपपदे णमुल् । द्वितीयायां तृतीयां सप्तम्यां च क्वचिद्भवेत् ॥ २४९ ॥ अर्थेषु विविधेष्वेव विविधोपपदेषु च । धातुभ्यो विविधेभ्यश्च णमुल् ज्ञेयो हि मूलतः ॥ २५० ॥ इत्थं समासतः प्रोक्तो बालानां सुखसिद्धये । सङ्ग्रहः कारकादीनां तेन तुष्यतु सज्जनः ॥ २१ ॥ इति सज्जनेन्द्रप्रयोगकल्पद्रुमकारिकाः ।
॥ श्रीः॥ सज्जनेन्द्रप्रयोगकल्पद्रुमस्य विषयानुक्रमणिका । स १ - " . विषयाः पृष्टाङ्काः विषयाः पृष्टाङ्काः मङ्गलाचरणम् । पञ्चमीतत्पुरुषः । ३० ग्रन्थरचनोपक्रमः । पष्ठीतत्पुरुषः । कारककुसुमम् । सप्तमीतत्पुरुषः । ३०-३१ कर्तृकारकम् । नञ् तत्पुरुषः। ३१ कर्मकारकम् । विशेषणपूर्वपदः कर्मधारयः।३१-३२ करणकारकम् । विशेषणोत्तरपदः ३२ सम्प्रदानकारकम्। विशेषणोमयपदा ३२-३३ अपादानकारकम् । ९-११ उपमानपूर्वपदः अधिकरणकारकम् । उपमानोत्तरपदः कारके कारकान्तरम् । १२-१३ अवधारणापूर्वपदः प्रथमा विभक्तिः। कुगतिप्रादिकः १३ द्वितीया १४-१५ उपपदसंज्ञः ३४-३५ तृतीया द्विगुः । चतुर्थी १७-१८ द्वितीयादिबहुव्रीहिषट्कम् ।" पञ्चमी १८-२० संख्योत्तरपदो बहुव्रीहिः । ३६ षष्ठी २०-२४ संख्योभयपदो सप्तमी २४-२७ व्यतिहाररूपो समासकुसुमम् । २८-४० दिगन्तरालरूपो समासभेदाः । सहपूर्वपदो प्रथमातत्पुरुषः(१)। द्वितीयातत्पुरुषः । २८-२९ अव्ययीभावः । तृतीयातत्पुरुषः । २९ अलुक्समासः । ३९-४० चतुर्थीतत्पुरुषः । २९-३० तद्धितकुसुमम् । ४०-५९ (१) भेदोऽयं प्राचामनुरोधेन । १" - " " " " २८ " ३७ ६ वयानुन पृष्टाका पृष्ठावा ५१ . मेवाः ! लनदेन लारविचारः। मप्रसधातून काति। ११ ४२ ६२ १ विषयाः तद्धितप्रत्ययभेदाः । अपत्यार्थाः । रक्ताधर्थाः । परिवृताद्यर्थाः । देवतार्थाः । सामूहिकाः। क्रीडाद्यर्थाः । चातुरर्थिकाः । शैषिकाः वैकारिकाः। उकोऽवधीयाः। प्राग्धितीयाः। द्वादश सनाधन्ताः लकारार्थविशेषाः सोदाहरणाः। ६४-७३ CED कृन्तकुसुम । ७३-८६ सूतादिकालभेदेन कृत्प्रत्यय - ४६-४६ भेदाः । त्यप्रत्ययाः। एजुल्तृजादयो जिन्यन्ताः कार्थाः प्रत्ययाः। ७४-७६ गुताधिकारोक्ता जिन्यादयः प्राक्क्रीतीयाः। " प्राग्वतयः । ६१ १ रूदन्ताः प्रत्ययाः । शाशाननादयः प्रत्ययाः । ७८ तृन्नादयः विचन्ताः - हम्णुजाय इन्नन्ताश्च रत्ययाः । ७८..८० सणादयः प्रत्ययाः । च्यार्षिकाः । भावकर्मार्थाः । पाञ्चमिकाः । मत्वीयाः । प्राग्दिशीयाः । प्रागिवीयाः । हवार्थाः। तिकुसुमम् । लकारभेदाः । धातुभेदाः। विकरणादयः । पुरुषभेदाः। .दनबुल्टप्रत्ययौ । ८०-८१ भावाधिकारोक्ता घनाद्या: CER क्ति कान्ताः प्रत्ययाः । ८१-८३ ५९-६० क्त्वादयो णमुलन्ताः . प्रत्ययाः। ८३-८५ उपरहार। इति ।
॥ श्रीः ॥
धर्माधिकारिकृष्णपण्डितविरचितः
सज्जनेन्द्रप्रयोगकल्पद्रुमः।
उत्सझस्थितजन्हुपर्वतसुते आलिजय बाहुद्वये-
नैकेनेतरकेण वक्त्रकमले उल्लास्य चुम्बस्तयोः
स्वास्याभ्यां युगपत् , पराणि च वृथा त्रीणीति खेदं वहन
पायाच्छङ्कर आशु पञ्चवदनः क्रीडोत्सुकः सर्वतः ॥
भुवनानि शालभजीभुवनानीव प्रदर्शयन्त्यनिशम् ।
प्रतिभाविमानरूदं कविमाराज्जयति सा वाणी ॥
शास्त्रागाधसरित्पतिमवगाहे तर्कनकोयम् ।
परवलमिव यत्कृपया तं वन्दे सद्गुरुं प्रीत्या ।।
स जयति महीमहेन्द्रो बहुविधविरुदावलीमिरुद्गीतः ।
उदयपुरेशो राणासज्जनसिंहो महाराजः ॥
तद्गुणकीर्तनहेतोः सुलभव्युत्पत्तये च बालानाम् ।
कारकसमासतद्धितयुततिङ्कृत्प्रत्ययान्तशब्दानाम् ।।
दुर्बोधमल्पविषयं दृष्ट्वा वररुचिकृतं प्रयोगमुखम् ।
सुखबोध एष रम्यो बहुविषयोऽप्रक्रियाक्लेशः ॥
सोदाहरणश्लोकः काव्ये शब्दानुशासने च हितः।
सज्जननृपकीर्तिकरः सगूढविवृतिश्च कारिकाबद्धः ।।
पुरहरपुरवसतिमता विदुषा धर्माधिकार्युपाख्येन ।
कृष्णेन सज्जनेन्द्रप्रयोगकल्पद्रुमः क्रियते ॥
हंसा इव पानीयं प्रमादकृतदोषमपहाय।
पय इव गुणं गृहीत्वा नन्दन्तु प्रार्थनेयं मे ।।
२ सज्जनेन्द्रप्रयोगकल्पद्रुमे- -- अथादौ कारककुसुमम् । अथ प्रयोगं जिज्ञासुर्जानीयात् कारकं पुरा । संज्ञाभिः षड्विधं प्रोक्तं ता उन्च्यन्ते पृथक् पृथक् ।। प्रयुज्यत इति प्रयोगो वाक्यरचना । ताः संज्ञा आह 'कर्ता कर्म च करणं सम्प्रदानं तथैव च । अपादानाऽधिकरणमित्याहुः कारकाणि षट् ।। ननु षष्ठयर्थस्य सम्बन्धस्य कारकत्वेन सप्त कारकाणि भवितुमर्ह- न्ति, कथं षटू कारकाणि ? इति चेदुच्यते-सम्बन्धस्य कारकत्वं नास्ति, क्रियायामन्वयाभावात् । क्रियान्वयित्वं हि कारकत्वम् । क्रियाशब्देनात्र धात्वों गृह्यत इति षडेव कारकाणि । कर्तृभेदानाह- कर्ता स्वतन्त्र इत्युक्तः स चतुर्विध ईरितः । उक्तोऽनुक्तस्तथा हेतुः कर्मकर्ता चतुर्थकः ॥ क्रियासिद्धौ यः परापेक्षां न करोति स स्वतन्त्र उच्यते । उक्तं च- 'प्रवृत्तौ च निवृत्तौ च कारकाणां य ईश्वरः । अप्रयुक्तः प्रयुक्तो वा कर्ता कारकमुच्यते' ।। 'स्वतन्त्रः कर्ता' (१।४।५४) इति कर्तृसंज्ञा । कर्तरि का विभ- क्तयो भवन्तीत्याह- तत्र कर्तर्यभिहिते प्रथमैव विधीयते। तृतीया चाऽथवा षष्ठी स्मृताऽनभिहिते तथा । अभिधानं च प्रायेण तिङ्कृत्तद्धितसमासैः । उक्तकर्ता यथा-- दिने दिने सज्जनसिंहभूपः करोति धर्म समुदकबीजम् । रति (१) सुधीभिर्भजते सहास्मादुपैति लक्ष्मी परिवर्धमानाम् ।। अत्र 'करोति भजते उपैति'इत्यत्र कर्तरि लडादेशतिडो विहितत्वेन कर्तुरुक्तत्वात् 'प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा' (२।३।४६) इति प्रथमा विभक्तिः । पुण्यकरणे रतिसेवने लक्ष्मीप्राप्तिकरणे च सज्जन. १) मैत्री"सहास्मात्प्राप्नोति । .
कारककुसुमम् । -- सिंहस्य स्वतन्त्रकर्तृत्वम् । यथा वा- स जयति सज्जनसिंहः प्रकृतिषु शाठ्यं न यस्यास्ति । यत्सदसि व्यवहारः सम्प्रतिपन्नः सदा भवति ।। अत्र 'जयति अस्ति भवति' इत्यकर्मकक्रियापदयोगेन कर्तुरभिहितत्व. मिति विशेषः । अनुक्तकर्ता यथा-- पूर्वाहे चर्यते धर्मोऽपराह्नेऽर्थो विचिन्त्यते । नक्तं संसेव्यते कामः सज्जनेन्द्रेण सर्वदा ॥ अत्र 'चर्यते विचिन्त्यते संसेव्यते' इत्यत्र तिङा कर्मणोऽभिहितत्वेन कर्तुरनुक्तत्वात् 'अनभिहिते' (२।३।१) इत्याधिकारे 'कर्तृकरणयोस्तृतीया' (२।३।१८) इति कर्तरि तृतीया । षष्ठी यथा- विहाय भूपतीनन्यानवदान्यानधार्मिकान् । सेव्यः सज्जनभूजानिर्जनानां जीविकाार्थनाम् ।। अत्र 'सेव्यः' इति कृत्प्रत्ययेन कर्मण उक्तत्वात् कर्तर्यनुक्ते 'कृत्यानां कर्तरि वा' (२।३।७१) इत्यनेन 'जनानाम्' इति षष्ठी । पक्षे तृतीया च । हेतुका यथा- श्रीमान् सज्जनसिंहोऽयं शर्म प्रापयति प्रजाः । न्यायः संदण्डथ निकृतानिक्ष्वाकुरिव धर्मदृक् ।। अत्र 'प्रजाः सुखं प्राप्नुवन्ति, ताः प्रजाः सज्जनसिंहः सुखं प्राप- यतीत्यर्थः। सुखप्राप्तिक्रियायां प्रजानां स्वतन्त्रकर्तृत्वम् , तत्प्राप्तौ प्रयोजयतीति हेतुरुच्यते । 'तत्प्रयोजको हेतुश्च' (११४५५) इति हेतुसंज्ञा, चकारात् कर्तृसंज्ञा । 'प्रापयति' इति हेतुमण्णिजन्त. क्रियापदम् । 'हेतुमति च' (३।१।२६) इति णिच् । कर्मकर्ता, कर्म चासो कर्ता चेति कर्मधारयः । कर्म भूत्वा कर्ता भवतीत्यर्थः । यथा-- दृश्यते स्वयकमेव खलस्य दोष आशु नयवर्त्मनि नूनम् । विद्यमान इह सज्जनसिंहे भिद्यते च रिपुमन्त्रणमेवम् ।। अत्र सज्जनसिंहो दोषं पश्यतीति दोषस्य कर्मत्वम् , स च दर्शन- क्रियायामानुकूल्यं भजमानः स्वयमेवात्मानं दर्शयतीति कर्मकर्ता भवति । -- सज्जनेन्द्रप्रयोगकल्पद्रुमे- 'कर्मवत्कर्मणा तुल्यक्रियः' (३।११८७) इति कर्मवद्भावः । कार्याति- देशोऽयम् न तु कर्तुः कर्मसंज्ञा, तेन यगात्मनेपदे भवतः । तिङ् तु कर्तर्येव, तेन कर्तुरुक्तत्वात् 'प्रातिपदिकार्थेत्यादिना प्रथमा । इति कर्तृ. कारकम् । अथ कर्मकारकम् । क्रियाफलाश्रयं कर्म तच्चतुर्विधमीरितम् । उक्तानुक्ते कर्तृकर्माकथितं चेति, ते पुनः । उक्तानुक्ते द्विधा प्रोक्त ईप्सितानीप्सिते इति ॥ कर्तुर्व्यापारस्य फलं यत्र तिष्ठति तत् कर्मेत्यर्थः । कर्मणि का विभ- क्तयो भवन्तीत्याह-- प्रथमाभिहिते कर्मण्यनुक्ते तु द्वितीयिका । तृतीया च चतुर्थी च षष्ठी चैव भवन्ति हि ।। अभिहितेप्सितं यथा-- कदाचिद्रन्तुकामस्य सज्जनेन्द्रस्य मन्त्रिणा । सभ्यः सार्घ राजकार्य क्रियते तत्वदर्शिना ॥ अत्र 'क्रियते' इति क्रियायाः फलं राजकार्यमेवाश्रयतीति तस्य कर्मत्वम् । तिडा कर्मणोऽभिहितत्वात् प्रथमैव । राजकार्यस्येष्टत्वात् 'कर्तु. रीप्सिततमं कर्म ( १।४।४९) इति कर्मसंज्ञा । अभिहितानीप्सितं -- यथा-- -- मारामे सज्जनेन्द्रेण लसत्कुसुमसङ्कुले । तरोः सञ्छिद्यते पत्रं कुसुमानि विचिन्वता ॥ अत्र अवचयक्रियायां कुसुमानामीप्सितत्वम् , पत्रच्छेदनस्येष्टत्वा. ऽभावात् पत्रस्यानीप्सितत्वम् । अभिहितत्वं प्राग्वत् | अनुक्तेप्सितं यथा-- प्रकृतिगतचरित्रं वीक्षते चारनेत्रः सपदि तदनुकूलं कार्यजातं करोति । त्यजति न हि कदाचित् स्वीयधर्मानुसार निजकुलसमकृत्यः सज्जनो/बिडोजाः ।।
कारककुसुमम् । - अत्र वीक्षणादिक्रियाणां फलं चरित्रादिषु वर्तत इति तेषां कर्मत्व- मिष्टत्वादीप्सितत्वम् । 'वीक्षते' इत्यादिषु तिङा कर्तुरुक्तत्वन कर्मणो. ऽनुक्तत्वात् 'अनभिहिते' (२।३।१) इत्यधिकारे 'कर्मणि द्वितीया' (२॥ ३१२) इति द्वितीया । अनुक्ताऽनीप्सितं यथा- सपत्नसङ्घा भुवि सज्जनेशितुर्भयेन कुत्रापि सुनिश्चलस्थितिम् । अलं समुद्विग्नहृदो न कर्तुमप्यदन्ति घोरं सहसा हलाहलम् ॥ अत्र भक्षणक्रियायां हलाहलविषस्याऽनीप्सितत्वं स्पष्टमेव । 'तथा- युक्तं चाऽनीप्सितम्' (१।४।६०) इति कर्मसंज्ञा । अनुक्तत्वं प्राग्वदेव । तृतीयाचतुर्थीषष्ठयो यथा-- सञ्जानीते कोशगुप्त्या मृगयायै बजत्यपि । कारको व्यवहारस्य सज्जनः पृथिवीपतिः ॥ अत्र सम्पूर्वकजानातिक्रियायोगे 'कोशगुप्त्या' इति 'संज्ञोऽन्यतरस्यां कर्मणि' (२।३।२२ ) इति कर्मणि तृतीया । कोशगुप्तिं सञ्जानाती- त्यर्थः । एवं 'मृगया?' इत्यत्र 'गत्यर्थकर्मणि द्वितीयाचतुर्यों चेष्टाया. मनध्वनि' (२॥३॥१२) इति गत्यर्थकब्रजधातुयोगेऽध्वभिन्नमृगया- रूपकर्मणि चतुर्थी । मृगयां व्रजतीत्यर्थः । तथा 'व्यवहारस्य' इत्यत्र 'कारकः' इति कृत्प्रत्यययोगे 'कर्तृकर्मणोः कृति' (२१३६५) इति कर्मणि षष्ठी । कर्तृकर्म यथा- देशं देशं गमयति चरान् , बोधयत्यर्थजातं कार्याध्यक्षान् , क्षितिसुरगणान् भोजयत्युत्तमान्नम् । कृत्वा शालां बहुविधकलाः पाठयत्येव सर्वान् राष्ट्र प्रीत्याऽऽसयति गुणिनः सज्जनक्षोणिपालः ॥ अत्र देशं देशं चरा गच्छन्ति, तान् सज्जनक्षोणिपालो गच्छ गच्छेति प्रयुङ्क्ते । गमयति चरान् देशं देशं सजननक्षोणिपालः । एवं बुध्यन्ते- ऽर्थजातं कार्याध्यक्षाः, तानयं प्रयुक्त इत्यादि बोध्यम् । प्रयुत इत्यनेन तस्य हेतुत्वात् 'हेतुमति च (३।१।२६) इति णिचि 'गमयति' इत्यादि ।
- सज्जनेन्द्रप्रयोगकल्पद्रुमे- चरादीनां कर्मसंज्ञा तु गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ' (१।४।५२ ) इत्यनेन । अयमर्थः-गत्यर्थानां बुद्ध्यर्थानां प्रत्यवसानार्थानां शब्दकर्मकाणामकर्मकाणां च धातूनां योगेऽण्यन्ता. वस्थायां यः कर्ता स ण्यन्तावस्थायां कर्म भवति । 'कर्मणि द्वितीया' (२॥३॥२) इति द्वितीया । गत्यर्थकेषु नीधातुबहधातुयोगे न भवति, प्रत्यवसानं भक्षणं तदर्थेषु अदखाधात्वोर्न, भक्षधातोरहिंसार्थस्य न, जल्प- स्यादियोगेऽपि भवति, इशिधातोरपि भवति, शब्दायतेन, एवं कृधातु- योगेऽपि भवतीति । अकथितं कर्म यथा- कांश्चिद्रुणद्धि निगडं धनं दण्डयतीतरान् । खलान् यथार्थदर्शी सन् सज्जनेशः समागतः ॥ अत्र 'रुणद्धि दण्डयति' क्रिययोः फलाश्रयीभूतैः खलैः कर्मभिर्युज्य- मानत्वान्निगडबन्धनयोरकथितकर्मसंज्ञा । येषां कर्मभियुज्यमानानि अक- थितकर्मसंज्ञकानि भवन्ति, ते धातवः परिगणिताः । तथा हि- 'दुह्याच्पच्दण्डधिप्रच्छिचिबूशासुजिमथ्मुषाम् । कर्मयुक् स्यादकथितं तथा स्यान्नीकृष्वहाम्' ॥ दुहादीनां द्वादशानां तथा नीप्रभृतीनां चतुर्णां कर्मणा यद् युज्यते तदेवाऽकथितं कर्मेत्यर्थः । एवमन्येषामप्युदाहार्यम् । कर्मान्तरमाह- योगेऽकर्मकधातूनां देशकालक्रियाऽयनम् । कर्मेति शेषः । यथा--. यः पालयन् प्रजाः सर्वा मेदपाटं विराजते । आस्ता स सज्जनः श्रीमान् शतवर्षमनामयः ।। अत्र 'विराजते आस्ताम्' इत्यकर्मकधातुयोगे देशकालवचनयोः मेदपाटशतवर्षयोः कर्मत्वम् । 'अकर्मकधातुभिर्योंगे देशः कालो भावो गन्तव्योऽध्वा च कर्मसंज्ञक इति वाच्यम्' इति कर्मसंज्ञा । इति कर्मकारकम् । अथ करणकारकम् । क्रियोपकारकं यत्तत् करणं स्वेकमेव हि ।
कारककुसुमम्। तत्र का विभक्तयो भवन्तीत्याह-- तृतीया पश्चमी चैव षष्ठी च करणे भवेत् ॥ तृतीया यथा-- छन्दोऽलङ्कृतिकाव्यनाटककलाकोशार्थशास्त्रादिक- व्यासाप्तविचारतर्कविभवप्रोद्यन्मनीषावता । सर्वी 'श्यामलदान'मन्त्रिपतिना सप्ताङ्गराज्यस्य वै श्रीमान् सज्जनसिंह एष वहति प्राज्यां धुरं नित्यशः ॥ अत्र सज्जनसिंहस्य सप्ताङ्गराज्यर्वहनक्रियायां श्यामलदानस्य प्रकृष्टोपकारकत्वात् करणत्वम् । 'साधकतमं करणम्' (१।४।४२) इति करणसंज्ञा । 'अनभिहिते' (२०३।१) इत्यधिकारे 'कर्तृकरणयोस्तृतीया' (२।३।१८) इति तृतीया । पञ्चमी यथा- व्यवहारगुरुत्वेऽपि बुद्धिमान् सज्जनाधिपः । कार्याकार्यातिचिन्तायाः स्तोकान्मुक्तो हि जायते ।। अत्र कार्याकार्यचिन्ताया मुक्तौ स्तोकस्य करणत्वम् । 'करणे च स्तोकाल्पकृच्छूकतिपयस्याऽसत्त्ववचनस्य' ( २।३।३३ ) इति पञ्चमी । षष्ठी यथा- चातुर्यौदार्यधैर्यप्रभृतिगुणगणालङ्करिष्णोः सहिष्णोः पाइगुण्योपायनीतिव्यवहृतिविदुषः स्वप्रधानोत्तमस्य । 'पन्नालालस्य जानात्यतिविशदमतिः सूक्ष्मदृक् सावधानो राज्यीयं गूढतत्त्वं स्वपरविषयगं सज्जनो भूमहेन्द्रः ॥ अत्र अज्ञातस्य गूढतत्त्वस्य 'जानाति' इति ज्ञानक्रियायां पन्ना. लालस्य साधकतमत्वात् करणत्वम् । 'ज्ञो विदर्थस्य करणे' ( २।३१५१) इति करणे षष्ठी । इति करणकारकम् । अथ सम्प्रदानकारकम् । क्रियया यमभिप्रेति सम्प्रदानं स उच्यते। तत्र का विभक्तयो भवन्तीत्याह-- चतुर्थी च तृतीया च भवतः सम्प्रदानक ॥ - - ८ सज्जनेन्द्रप्रयोगकल्पद्रुमे- -- चतुर्थी यथा- वर्षाऽशनानि भूमि च वाहनानि गृहाणि च । गाः स्वर्णं च द्विजातिभ्यः सज्जनेन्द्रो ददात्यलम् ॥ अत्र 'ददाति' इति दानक्रियायां द्विजातय आभिमुख्येन सम्बध्यन्त इति तेषां सम्प्रदानत्वम् । 'कर्मणा यमभिपैति स सम्प्रदानम्' (११४।३२) इति सम्प्रदानसंज्ञा । 'चतुर्थी सम्प्रदाने' ( २।३।१३) इति चतुर्थी । तृतीया यथा-- संयच्छते भूषणानि दास्या यो यश्च, तादृशः । कदापि सज्जनेन्द्रस्य पुरो न स्थातुमर्हति ॥ मत्र बच्छब्दवाच्यकामुकस्य भूषणदानक्रियायां दास्याः सम्प्रदानत्वम् । 'अशिष्टव्यवहारे दाणः प्रयोगे चतुर्थ्यर्थे तृतीया' इति तृतीया । सम्प्र. दानान्तराण्याह-- रुच्यर्थानां प्रीयमाणः, श्लाघढुङ्स्थाशपां तु वै। ज्ञीप्समानो, धारयतेरुत्तमर्णस्तथेप्सितः । स्पृहे, राधीक्षयोर्यस्य विप्रश्नः सम्प्रदानकम् ॥ यथा-- रोचते सज्जनेन्द्राय विद्या, संश्लाघते वधूः। सौख्यं शिवो धारयति नित्यं स्पृहयति प्रजा ॥ अत्र रुचधातुयोगे. प्रीयमाणत्वात् , श्लाघधातुयोगे बोधयितुमिष्ट- त्वात् , ण्यन्तधृधातुयोगे भक्त्या शिवकर्तृकसौख्यदानविषये उत्तमर्णत्वात् , स्पृहधातुयोगे प्राप्तुमिष्टत्वाच्च सज्जनेन्द्रस्य सम्प्रदानत्वम्। 'चतुर्थी सम्प्र- दाने' (२॥३॥१३) इति चतुर्थी । एवं राधाक्ष्योोंगे । यथा-- त्रिस्कन्धज्यौतिषाभिज्ञ(३)स्तिथिपत्रं विलोकयन् । गणको (२) गणितं कुर्वन् सज्जनेन्द्राय राध्यति ॥ मन राधधातुयोगे प्रश्नसम्बन्धिनः सज्जनेन्द्रस्य 'राधीक्ष्योर्यस्य (१)भिशो जन्मपत्र । (२) सयुक्ति । -- कारककुसुमम्.. विप्रश्नः' (१।४।३९) इति सम्प्रदानत्वम् । एवमीक्षधातुयोगेऽपि बोध्यम् । क्रुधदुहेाऽसूयार्थयोरे थे प्रति कोपनम् ॥ यथा- शत्रवः सज्जनेन्द्राय ह्यसमर्था रणाजिरे ! क्रुध्यन्तीर्ण्यन्त्यसूयन्ति द्रुह्यन्ति च पुनः पुनः ॥ अत्र क्रुधादीनां धातूनां योगे सज्जनेन्द्रं प्रति कोपत्वात्तस्य 'क्रुघ- द्रुहेाऽसूयार्थानां यं प्रति कोपः' (१।४।३७) इति सम्प्रदानत्वम् । इति सम्प्रदानकारकम् । अथ अपादानकारकम् । विश्लेषेऽवधिभूतं यत् तदपादानमीरितम् । अत्र का विभक्तयो भवन्तीत्याह- पञ्चम्येव त्वपादाने वर्तते, न ततोऽन्यथा ॥ यथा-- वदान्यः सज्जनेन्द्रोऽयमिति श्रुत्वा मनीषिणः । देशाद्देशात्समायान्ति सत्कृताश्च ब्रजन्त्यपि ॥ अत्र मनीषिणां सज्जनेन्द्रसमीपागमनक्रियायां स्वदेशविश्लेषे तत्तद्देशानामवधिभूतत्वादपादानत्वम् । 'ध्रुवमपायेऽपादानम् (१।४।२४) इति अपादानसंज्ञा । 'अपादाने पञ्चमी' ( १३।२८) इति पञ्चमी । अपादानान्तराण्याह--- जुगुप्सार्थविरामार्थप्रमादा क्रियायुजि । भयत्राणार्थधातूनां भयहेतावपीरितम् ।। यथा विरमति पापाद्धर्मात्प्रमाद्यति जुगुप्सते च दुःसङ्गात् । गुरुतो बिभेति दुःखात् त्रायत इह सज्जनेट् सर्वान् । अत्र विरामाद्यर्थकधातुयोगे पापादीनामपादानत्वम् । 'जुगुप्सा- विरामप्रमादार्थानामुपसंख्यानम्' इत्यपादानसंज्ञा । एवं बिभेति त्रायते' १० - सज्जनेन्द्रप्रयोगकल्पद्रुमे- इति योगे गुरुदुःखयोर्भयहेतुत्वात् 'भीत्रार्थानां भयहेतुः' (१।४।३५) इत्यपादानत्वम् । परापूर्वस्य जयतेरसोऽर्थेऽपि तद्भवेत् । ईप्सिते वारणार्थानामपादानत्वमिष्यते ॥ यथा- सज्जनसिंहस्तं मुहुरध्ययनाद् यः पराजयते । उत्साहयति समस्तस्वराष्ट्रवास्तव्यविप्रेषु ॥ अत्र परापूर्वकजिधातुयोगेऽसह्यार्थस्याध्ययनस्य 'पराजेरसोढः' (१। ४।२६ ) इत्यपादानत्वम् । वारणार्थयोगे यथा- : शत्रून् जित्वा लुण्ठत्सु तत्कोशान् । योद्धृषु वारयति द्राक् कांश्चिद्बहुमूल्यरत्नेभ्यः ॥ अत्र वारणक्रियायां बहुमूल्यरत्नानामीप्सितत्वादपादानत्वम् । 'वारणा- र्थानामीप्सितः' (१६४।२७ ) इत्यपादानसंज्ञा । मां न पश्येदयमिति व्यवधाने यमिच्छति । तदपादानसंज्ञं स्यादाख्याता चोपयोगके ॥ सज्जनसिंहः शत्रून् यथा- - सज्जनेन्द्रो महापातकिभ्यः सदाऽऽलीयते, वीक्षणं दुष्टमेषां यतः । संशृणोत्यादराद्धर्मशास्त्रं मुदा पण्डितेभ्यो मुहुर्धर्मरक्षाकृते ॥ अत्र महापातकिकर्तृकस्यात्मनो दर्शनस्याभावमिच्छतीति तस्यापादा- नत्वम् । 'अन्तौ येनादर्शनमिच्छति' (१।४।२८) इत्यपादानसंज्ञा । तथा धर्मरक्षारूपोपयोगस्य सत्त्वात् तद्वक्तृणां पण्डितानाम् 'आख्यातोपयोगे' (१।४।२९) इत्यपादानत्वम् । जायमानस्य हेतुश्च भूकर्तुः प्रभवस्तथा । यथा- सज्जनभूपतिवंश्याः सूर्यांशात्संप्रजायन्ते । प्रभवन्ति चोदयपुरात्तस्मादेव प्रतापाताः ॥ अत्र सज्जनभूपतिवंशीयानां सूर्यांशो हेतुरिति तस्य 'जनिकर्तुः कारककुसुमम्। प्रकृतिः' (१।४।३० ) इत्यपादानत्वम् । तथा भवनं भूरुत्पत्तिः, तस्कर्तृणां तेषामुदयपुरं प्रभव इति तस्य ‘भुवः प्रभवः' ( १।४।३१) इत्यपादानत्वम् । प्रभवत्यस्मिन्निति प्रभवः । 'अपादाने पञ्चमी' ( २।३। २८) इति पञ्चमी । इत्यपादानकारकम् । अथ अधिकरणकारकम् । आधारश्चाधिकरणं तच्च त्रेधा प्रकीर्तितम् । अभिव्यापकमौपश्लेषिकं वैषयिकं तथा ॥ तत्र का विभक्तय इत्याह- सप्तम्येवाधिकरणे सामान्यमिति कीर्तितम् । अभिव्यापकं यथा- द्रव्येषु स्वामिभावाद्, गुणिगणहृदये दातृभावात् , प्रजानां स्वान्ते तातत्वतोऽन्तःपुरयुवतिजने वल्लभत्वाद्रिपूणाम् । चित्ते हन्तृत्वतोऽयं, खलकुलहृदये दण्डदत्वात् , सखीनां चेतस्याहादकत्वाद इव विजयते सज्जनेन्द्रः समस्मिन् ।। अत्र सज्जनेन्द्रस्य स्वामित्वादिहेतुभिर्द्रव्यादीनभिव्याप्य स्थितिरिति द्रव्यादीनामभिव्यापकाधिकरणत्वम् । 'आधारोऽधिकरणम्' (१।४।४५) इत्यधिकरणसंज्ञा । 'सप्तम्यधिकरणे च ( २।३।३६ ) इति सप्तमी । औपश्लेषिकं यथा- विमलतरजलाशयातिरम्ये दृढगिरिदुर्गवति प्रसन्नराष्ट्रे । सममुदयपुरे समस्तवर्णैर्निवसति सज्जनभूपतिः प्रवीरः ।। अत्र सज्जनभूपतेर्निवासस्यैकदेशाश्रयत्वाद् उदयपुरस्यौपश्लेषिक मधिकरणत्वम् । वैषयिकं यथा- सत्कर्मणि गुणज्ञाने प्रजानां परिपालने । सज्जनक्षोणिपालस्य स्पृहा नित्यं प्रवर्धते ॥ अत्र सज्जनक्षोणिपालस्य स्पृहायाः सत्कर्मादीनि विषया इति तेषां वैषयिकाधिकरणत्वम् । इत्यधिकरणकारकम् । इति कारकसामान्यम् ।
१२ सज्जनेन्द्रप्रयोगकल्पद्रुमे- अथ कारकविशेषः। योगे धातुविशेषाणां कार के कारकान्तरम् । तथैवार्थविशेषेण जायन्ते हि विभक्तयः ।। तत्रादौ कारके कारकान्तरमाह-- कर्तुश्व सम्प्रदानत्वं करणत्वं च कर्मणः । कर्मत्वं करणस्यापि सम्प्रदानत्वमित्यपि ॥ सम्प्रदानस्य कर्मत्वमपादाने न किञ्चन । आधारे कर्मता चैवमित्येतत् कारकान्तरम् ॥ क्रमेणोदाहरणानि । कर्तरि यथा---- याच्यमाने तु भूम्यादौ सज्जनेन्द्रो द्विजातये । प्रीत्या प्रतिशृणोत्येतं, ददाति च विशेषतः !! अत्र भूम्यादियाचनक्रियायां द्विजातेः कर्तृत्वम् , तस्य प्रतिपूर्वक- श्रुधातुयोगे 'प्रत्याभ्यां श्रुवः पूर्वस्य कर्ता' (१।४।४० ) इति सम्प्र. दानत्वम् । एवम् आयूर्वश्रुधातुयोगेऽनुप्रतिपूर्वगृधातुयोगेऽपि बोध्यम् ! कर्मणि यथा- सज्जनेन्द्रो महाराजः सौवर्णेनातिमञ्जुना । पशुना रुद्रमयजदेकलिङ्गं सुभक्तितः ।। अत्र पशुं रुद्रायाऽयजदित्यत्र 'कर्मणः करणसंज्ञा सम्प्रदानस्य च कर्मसंज्ञा वक्तव्या' इति वार्तिकेन पशोः कर्मणः करणत्वं, रुद्रस्य सम्प्रदानस्य कर्मत्वम् । पशुनन्दी, अयजत् अददादित्यर्थः । करणे यथा - कार्तिके बलिराज्यस्य दिवसेष्वेव पञ्चसु । सज्जनेन्द्रः क्षमाजानिरक्षान् दीव्यति धर्मतः ।। अत्र दिवधातुयोगेऽक्षरिति करणस्य 'दिवः कर्म च' (१:४।४३) इति कर्मसंज्ञा । सम्प्रदानत्वं यथा- यः शताय परिक्रीतः कालेऽतीते ब्रजन् पुनः । स्थितये प्रार्थ्यते दासः सज्जनेन्द्रस्य वैरिणा ॥ - .. - कारककुसुमम् । १३ अत्र दासस्य नियतकालस्वीकृते दास्ये वेतनरूपस्य शतस्य करणस्य 'परिक्रयणे सम्प्रदानमन्यतरस्याम्' (१४४४ ) इति सम्प्रदानत्वम् । सम्प्रदाने तु 'पशुना रुद्रम्' इत्युदाहृतमेव । अन्यदपि यथा-- धर्माधिकरणे न्यायकर्ता सज्जनभूपतेः । अभिक्रुध्यति वै क्रूरं तद्दौर्जन्यपरीक्षया । अत्र सोपसर्गक्रुधधातुयोगे 'क्रूरम्' इति सम्प्रदानस्य 'क्रुधनुहोरुप- सृष्टयोः कर्म' (१।४।३८) इति कर्मत्वम् । अधिकरणे यथा अधितिष्ठत्युदयपुरं सन्मार्ग चाप्याभिनिविशते । संसदमुपवसति स्वां सज्जनसिंहोऽतिविततयशाः ॥ अत्र अधिपूर्वस्थाधातुयोगे 'उदयपुरम्' इति 'अधिशीस्थासां कर्म' ( १।४।४६ ) इति, अभिनिपूर्वविशधातोर्योगे 'सन्मार्गम्' इति 'अभिनिविशश्च' (१।४।४७) इति, उपपूर्ववसधातुयोगे 'संसदम्' इति 'उपान्वध्यावसः' (१।४।४८ ) इत्यधिकरणे कर्मत्वम् । इति कारके कारकान्तरम् । अथ विभक्तयः । अभावेऽर्थविशेषस्योत्सर्गतः प्रथमा भवेत् । एवमेवैकवचनं क्रियास्ति भवतीति च ॥ सा प्रातिपदिकार्थेऽपि संख्यामात्रे तथैव च । लिङ्गमात्रे मानमात्रे तथा सम्बोधनेऽपि च ॥ यथा- - सज्जनसिंह ! तवोच्चैरुद्योगः श्रीर्यशश्चास्ति । न्याय्यं सर्व बहवो भारा हि ब्रीहयोऽर्थिसान्नित्यम् ।। अत्र 'सज्जनसिंह' इति सम्बोधने 'सम्बोधने च' (२०३।४७ ) इति प्रथमा । 'उच्चैः' इत्यलिङ्गत्वात् 'उद्योगः श्रीर्यशश्च' इति नियत. लिङ्गत्वात् प्रातिपदिकार्थे, 'न्याय्यं सर्वम्' इति अनियतलिङ्गत्वाल्लिङ्गमात्रे, 'बहवः' इति संख्यामात्रे, 'भाराः' इति मानमाने 'प्रातिपदिकार्थलिङ्गपरि. माणवचनमात्रे प्रथमा' (२२३४६) इति प्रथमा । इति प्रथमा ।
--
१४
सज्जनेन्द्रप्रयोगकल्पद्रुमे-
अथ द्वितीया ।
उपर्युपर्यध्यधि चाधोऽधो धिक् परितोऽभितः ।
समयोभयतो हा च निकषा सर्वतः प्रति ।
अन्तरेणान्तरा चैषां योगे स्यात्तु द्वितीयिका ॥
विस्तरभयादेषां दिमात्रमुदाहियते । यथा--
तुलितं पूर्णचन्द्रणोपर्युपर्यातपत्रकम् ।
भद्रासनमधोऽधश्चोभयतः श्वेतचामरे ॥
अभितस्तु सभास्ताराः समया विदुषां गणः ।
सज्जनेन्द्रं महीपालं बिराजन्ते सदस्यलम् ।।
युग्मम् । अत्र उपर्युपर्यघोऽध उभयतश्च योगे
'उभसर्वतसोः कार्या घिगुपर्यादिषु त्रिषु ।
द्वितीयाऽऽनेडितान्तेषु नतोऽन्यत्रापि दृश्यते ॥
इति 'सज्जनेन्द्रम्' इति द्वितीया । एवम् अभितः समया च योगे
'अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि' इति द्वितीया । अन्तरादि-
योगे यथा-
सज्जनेन्द्रमन्तरा न सौख्यमन्यतो लभे
पण्डितैरतो नृपः स वीक्षणीय उद्यमात् ।
मेदपाटमेत्य यो न तं प्रभुं प्रवीक्षते
वञ्चितं सुखेन तं धिगस्तु सर्वथा खलु ॥
अत्र अन्तरायोगे 'सज्जनेन्द्रम्' इति 'अन्तरान्तरेणयुक्ते' (२।३।४)
इति द्वितीया । एवं धिग्योगेऽपि 'उभसर्वतसोः' इति द्वितीया । एव.
मन्येषामपि योगे द्वितीया बोध्या ।
लक्षणार्थतृतीयार्थहीनार्थद्योतकस्त्वनुः।
उपो हीनाधिकार्थश्च, प्रतिपर्यनवस्त्वथ ॥
भागवीप्सातत्वकथालक्षणार्था, अभिस्तथा ।
भागवर्ज तदर्थश्च, पूजातिक्रमणेऽप्यतिः ॥
कारककुसुमम् । १५ अनर्थकावधिपरी पूजार्थद्योतकश्च सुः । गहाँसम्भावनाकामचारानुज्ञासमुच्चये ॥ अपिरेते च सम्प्रोक्ताः कर्मप्रवचनीयकाः । एषां योगे द्वितीया स्यात् कालमार्थियोरपि । आत्यन्तिके च संयोगे द्वितीया परिकीर्तिता ॥ कर्मप्रवचनीयसंज्ञकयोगे यथा- भाति हृष्टं सज्जनेन्द्रमनूदयपुरं महत् । अनूदयपुर सेनाऽवसिता तस्य वर्तते(1)॥ अत्र उपलक्षणार्थत्वादनोः 'अनुर्लक्षणे' ( ११४८४ ) इति कर्म- प्रवचनीयसंज्ञा, तद्योगे 'सज्जनेन्द्रम्' इति 'कर्मप्रवचनीययुक्त द्वितीया' ( २।३।८) इति द्वितीया । एवम् अनोः तृतीयार्थकत्वात् 'तृतीयार्थे (१।४।८५ ) इति सा संज्ञा । पूर्वत्र हेतुभूतसज्जनेन्द्रोपलक्षितं सहर्ष- मुदयपुरमित्यर्थः । उत्तरत्र उदयपुरेण सह सम्बद्धा सेनेत्यर्थः । यथा च- अनु सज्जनभूपालं न भान्ति च सभासदः । सज्जनेशः सत्करोति गुणिनं गुणिनं प्रति ॥ अत्र अनोहीनार्थकत्वात् 'हीने' ( १।४।८६ ) इति सा संज्ञा । सज्जनेन्द्रहीनाः सभासद इत्यर्थः । एवं 'गुणिनं गुणिनम्' इति वीप्सायां 'प्रति' इत्यस्य 'लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिपर्यनवः' (१॥ ४।९० ) इति सा संज्ञा । एवम् अभ्यादियोगे बोध्या । अत्यन्तसंयोगे यथा- शतवर्ष तु कल्याणी भूयात् सज्जनभूपतिः । राज्यं चायुतगव्यूति तस्य भूयादकण्टकम् ॥ अत्र कालार्थकस्य शतवर्षस्य कल्याणिना सहात्यन्तसंयुक्तत्वात् , अध्वार्थाया अयुतगव्यूते राज्येन सहात्यन्तसंयुक्तत्वात् उभयत्र 'काला. ध्वनोरत्यन्तसंयोगे' ( २।३।५) इति द्वितीया । इति द्वितीया । (१) वर्तते सदा।
सज्जनेन्द्रप्रयोगकल्पद्रुमे- अथ तृतीया । द्योत्यायां तु फलप्राप्ती कालमार्थयोः ': खलु। आत्यन्ति के च संघोगे तृतीया भवति स्फुटम् ॥ यथा- उत्तमर्णेन संलब्धं निहवे भावितं वसु । व्यवहारे मुहूर्तेन कृते सज्जनजिष्णुना ॥ अत्र कालार्थकम्य मुहूर्तस्य व्यवहारेण सहात्यन्तसंयुक्तत्वात् 'अप. वर्गे तृतीया' (२।३।६।) इति तृतीया । वसुदापनरूपा व्यवहारस्य फलप्राप्तिः । विकृताङ्गेन येनैव लक्ष्यतेऽङ्गी विकारवान् । ततस्तृतीया भवति महार्थेन तथा युजि ।। यथा- रणे सन्ताडितः कश्चिद्योद्धा सज्जनभूपतेः । सख्या सह वने शत्रुरक्ष्णा काणः पलायितः ।। अत्र स्फुटनेन विकृतेनाक्षिरूपेणाङ्गेन काणत्वरूपविकारवानगी शत्रुर्लक्ष्यत इति तदङ्गवाचकात 'येनाङ्गविकारः' ( २।३।२० ) इति तृतीया । एवं सख्युः सहयोगेन 'सहयुक्तेऽप्रधाने' ( २।३।१९ ) इति तृतीया। कश्चित्प्रकारं प्राप्तस्य लक्षणे च तृतीयिका । हेत्वर्थे च तथैव स्यात् प्रकृत्यादिभ्य एव च ॥ यथा- दूरतः सज्जनेशानं 'राजायं छत्रचामरैः । निश्चित्यैवं जगादोच्चैदृष्टः पुण्येन वै मया ॥ कश्चिदिति शेषः । अत्र सज्जनेन्द्रगतराजत्वस्य छत्रचामराण्युप- लक्षकाणीति तेषाम् 'इत्थंभूतलक्षणे ( २।३।२१) इति तृतीया ।
कारककुसुमम्। यथाच- वैजवापायनो गोत्रेण प्रकृत्या च सुन्दरः । योऽस्ति, जीयाच्छतं वर्ष स सज्जनमहीपतिः । अत्र गोत्रप्रकृतिशब्दयोः 'प्रकृत्यादिभ्य उपसंख्यानम्' इति तृतीया। इति तृतीया । अथ चतुर्थी। तादर्थे च चतुर्थी स्यात् क्लपि सम्पद्यमानके । उत्पातेन ज्ञापिते च हितयोगेऽपि सा भवेत् ।। यथा- यथा वृत्तये सज्जनेट् (१) सेव्यः कल्पते च सुखाय सः । ततः स्वराज्यमनाय वामाक्षि स्पन्दते रिपोः ।। अत्र वृत्त्यर्थ सेव्य इत्यर्थे 'तादयें चतुर्थी वाच्या' इति चतुर्थी । एवं क्लपधातुयोगे सुखशब्दात् 'क्लपि सम्पद्यमाने च' इति चतुर्थी । तथा वामाक्षिस्पन्दरूपोत्पातेन बोधिते राज्यभङ्गे 'उत्पातेन ज्ञापिते च' इति चतुर्थी । एवं हितयोगेऽपि बोध्या । क्रियार्थोपपदस्थैवभप्रयुक्तस्य कर्मणि । क्रियार्थायां क्रियायां थे प्रत्ययाश्च तदन्ततः ॥ प्रवीरसैनिकैः साकमुत्साही सज्जनाधिपः । संयाति परराष्ट्रेषु घनेभ्यश्च जयाय च ॥ अत्र आहरणक्रियार्थी या यानक्रिया सा अप्रयुक्तस्य तुमुन उप- पदम् , तस्य कर्म धनानि, तेभ्यः 'क्रियार्थोपपदस्य च कर्मणि स्थानिनः' (२।३।१४) इति चतुर्थी । धनान्याहतुं यातीत्यर्थः । तथा रिपुजयः रूपक्रियार्थायां यानक्रियायां विहिताचप्रत्ययान्तजयशब्दात् 'तुमर्थाच्च भाववचनात्' ( २।३।१५) इति चतुर्थी । जेतुं यातीत्यर्थः । नमःस्वस्तिस्वधास्वाहाऽलं वषड्योगतो भवेत् । मनधातोः प्राणिवर्जकर्मण्यपि तिरस्कृतौ ।। (१) सज्जनः। ST ३ सज्जनेन्द्रप्रयोगकल्पद्रुमे- यथा- कश्चित् सज्जनभूपतिभटेन 'न त्वां तृणाय मन्य' इति । उक्त स्तुभ्यं नम' इत्यूचे भीत्यात्मरक्षायै ।। अत्र अनादरोक्तौ मनधातोस्तृणस्य प्राणिवर्जकर्मत्वात् 'मन्यकर्म- ण्यनादरे विभाषाऽप्राणिषु' (२।३।१७) इति चतुर्थी । एवं नमःशब्द- योगे 'तुभ्यम्' इति 'नमःस्वस्तिस्वाहास्वधाऽलंबषड्योगाच्च' (२।३।१६) इति चतुर्थी । एवं स्वस्त्यादियोगे बोध्या । इति चतुर्थी । अथ पञ्चमी। ल्यब्लोपे चाधिकरणे कर्मण्यपि च पञ्चमी । यथा- कुतुकेन गिरेः शोभा सज्जनः पृथिवीपतिः । प्रासादादासनाच्चैव प्रेक्षतेऽनुगतैः सह ॥ :: ... अत्र आरुह्येति ल्यपः कर्म प्रासादस्तस्मात् , उपविश्यति ल्यपो- ऽधिकरणमासनं तस्माच्च 'ल्यबलोपे कर्मण्यधिकरणे च' इति पञ्चमी । प्रासादमारुह्यासने उपविश्य प्रेक्षत इत्यर्थः । यतः कालाध्वनिर्माणं पञ्चमी तत्र, तद्युजि । काले तु सप्तमी मागें प्रथमा सप्तमी तथा ।। यथा कश्चित् सज्जनभूपदर्शनकृते देशात् स्वकादाब्रजन् नाऽपृच्छत् कतिदूरमित्यनुगतं, सोऽवोचदस्माद्वनात् । क्रोशाः षोडश पञ्च चोदयपुरं, श्रुत्वेति पुष्यं दिना- दस्मात्पञ्चमके दिनेऽस्ति सुखतः प्राप्स्याम्यवादीदिति ॥ अत्र वनदिनाभ्यां कालमार्गयोः प्रवृत्तिरिति ततः पञ्चमी, तद्युक्ते मार्गबोधके 'क्रोशाः' इति प्रथमा, कालबोधकात्पञ्चमदिनात् सप्तमी । तथा च वार्तिकम् - 'यतश्चाध्वकालनिर्माणं तत्र पञ्चमी तद्युक्तादध्वनः प्रथमासप्तम्यौ कालात्सप्तमी च वक्तव्या' इति ।
कारककुसुमम्। आराहतेऽन्यदिशब्दरञ्चूत्तरपदयुजि । आजाहियुक्त च तथा बहिःप्रभृतियोगतः ॥ यथा- - अन्यो नृपः सज्जनभूमिपालान्मान्यो वदान्योऽपि न चास्ति भूमौ । ऋतेऽन्यदेशे न हि मेदपाटात् सरोवरान्तर्गतरम्यवेश्म ॥ अत्र अन्यशब्दयोगे सज्जनभूमिपालशब्दात् , ऋतेयोगे मेदपाट- शब्दात् 'अन्यारादितरते दिक्शब्दाऽचूत्तरपदाजाहियुक्ते' (२।३।२९) इति पञ्चमी । एवमन्येषां योगे बोध्या । वर्जनेऽपपरी चैव मर्यादावचने तथाऽऽङ् । कर्मप्रवचनीयाख्यस्तद्योगे पश्चमी भवेत् ॥ यथा- अप सज्जनभूपतनूपा गुणविज्ञानविमूढचेतसः । विदुषामिह दैन्यसम्भवो भवति ह्यस्य किलाऽऽसमागमात् ।। अत्र वर्जनार्थकर्मप्रवचनीयाऽपयोगे 'सज्जनभूपतेः' इति पञ्चमी । सज्जनभूपतिवर्जमित्यर्थः । 'अपपरी वर्जने' ( ११४।८८) इति कर्म- प्रवचनीयसंज्ञा । तथा मर्यादार्थकोक्तसंज्ञकाऽऽयोगे 'समागमात्' इति पञ्चमी । समागमपर्यन्तमित्यर्थः । 'आङ्मर्यादावचने' (११४८९) इति सा संज्ञा । उभयत्र 'पञ्चम्यपापरिभिः' (२।३।१०) इति पञ्चमी । प्रतिदाने प्रतिनिधौ प्रतिस्तत्संज्ञको भवेत् । यथा-- मेदपाटाख्यदेशस्य राज्यशासनकर्मणि । सज्जनेन्द्रो महीपाल एकलिनात्प्रति ध्रुवम् ॥ अत्र प्रतिनिध्यर्थकोक्त संज्ञकप्रतियोगे 'एकलिङ्गात्' इति पञ्चमी । सज्जनेन्द्र एकलिङ्गस्य प्रतिनिधिरित्यर्थः । 'प्रतिः प्रतिनिधिप्रतिदानयोः' (१।४।९२ ) इति सा संज्ञा । 'प्रतिनिधिप्रतिदाने च यस्मात्' (२।३।' ११) इति पञ्चमी। गुणेऽकर्तणे हेतौ पृथङ्नानाविनायुजि ।
२० স্বল पकल्पद्रुमे- - यथा उत्तमणेनाभियुक्तः सजलेन्द्रष्ट संसदि । जाड्याद्धः शताबद्धोऽयमों द्रव्यजिहवे ।। अत्र हेतुभूत गुणवाचकजाड्यशब्दात् 'विभाषा गुणेऽस्त्रियाम्' ( २।३।२५) इति पञ्चमी । पक्षे तृतीयापि । एवं हेतुभूतशतर्णात् 'अकर्तणे पञ्चमी' ( २:३।२४ ) इति पञ्चमी । यथा च- विना सज्जनभूपालाद् गुणश्रमपरीक्षणम् । कर्तुं समर्थो नो राजा, तस्मात्सेव्यः स एव हि ॥ अत्र विनायोगे 'सज्जनभूपालात्' इति 'पृथग्विनानानाभिस्तृतीया. ऽन्यतरस्याम्' ( २।३३३२ ) इति पञ्चमी । पक्षे द्वितीया तृतीया च । तथा दूरान्तिकार्थेभ्यः पञ्चमी प्रविधीयते । यथा-- उदयपुरे रमणीयो राजकुलस्यान्तिकात् सुविस्तीर्णः । दीर्घश्चातिगभीरः कासारः सागरस्पर्धी । अत्र ‘अन्तिकात्' इति 'दूरान्तिकार्थेभ्यो द्वितीया च' ( २।३। ३५) इति पञ्चमी । पक्षे द्वितीयातृतीये । इति पञ्चमी । अथ षष्ठी। षष्ठी स्वस्वामिभावादिसम्बन्धे खलु जायते । तथा हेतुप्रयोगे च हेतौ द्योत्ये च वा भवेत् ॥ यथा- - मेदपाटस्य राजानं सज्जनेन्द्रं गुणाकरम् । गुणिनोऽनेकदेशस्था वृत्तेहेतोः श्रयन्ति हि ।। अत्र मेदपाटसज्जनेन्द्रयोः स्वस्वामिभावसम्बन्धे 'मेदपाटस्य' इति 'षष्ठी शेषे' (२।३।५० ) इति षष्ठी । एवं 'वृत्तेहेतोः' इति 'षष्ठी हेतुप्रयोगे' ( २।३।२६ ) इति षष्ठी । हेतोश्च.सर्वनाम्नश्च प्रयोगेऽपि भवेदिधम् ।
স্বাক্তম্ভ। AF - यथा- कस्य हेतोर्मेदपाटे भवन्तः प्रव्रजन्ति हि । इति पृष्टा द्विजाः प्राहुर्दातास्ते सज्जनाधिपः ॥ अत्र 'कस्य' इति सर्वनाम्नो हेतोश्च प्रयोगे 'सर्वनाम्नस्तृतीया च' ( २१३१२७ ) इति षष्ठी । तृतीयाप्यन्त्र । अतसर्थप्रत्ययेन युजि स्थानियवतः ॥ यथा पुरः सज्जनभूपस्य स्वगुणान् गुणिनो जनाः । सावधाना दर्शयन्ति गुणज्ञत्वान्महीपतेः ।। अत्र 'पुरः' इत्यतसर्थप्रत्यययोगे 'सज्जनभूपस्य' इति षष्ठयतसर्थ- प्रत्ययेन' ( २।३।३० ) इति षष्ठी । यथा च - दक्षिणेनोत्तरेणापि पूर्वेणाप्यपरेण च । सज्जनेन्द्रपुरस्यास्ति प्राकारो दृढमित्तिकः ।। अत्र 'दक्षिणेन' इत्याद्येनप्रत्ययान्तयोगे 'सज्जनेन्द्रपुरस्य' इति 'एनपा द्वितीया' (२।३।३१) इति षष्ठी । द्वितीयापि । अधीगर्थदयेशां च योगे दूरान्तिकार्थयोः । यथा- - निजकुलाचरितस्य हि कर्मणः स्मरति नित्यमपूर्वविघावपि । न हि विरोधि भवेत् किमु पूर्वजैरिति भिया किल सज्जनपार्थिवः।। अत्र 'स्मरति' इत्यस्य अधीगर्थत्वात् 'निजकुलाचरितस्य' इति 'अधीगर्थदयेशां कर्मणि' ( २।३।५२ ) इति षष्ठी । एवं दूरान्तिकार्थ- योगे बोध्या । गुणाधाने कृतः कर्मण्यपि षष्ठी विधीयते । यथा- सज्जनेन्द्राबहु धनं प्राप्य हृष्टा द्विजातयः । अन्नानां व्यञ्जनानां चोपस्कुर्वन्ति दिने दिने । अत्र 'उपस्कुर्वन्ति' इति कृधातोः कर्मभ्योऽन्नव्यञ्जनेभ्यः 'कृनः सजनेन्द्रप्रयोगकल्पद्रुमे- प्रतियत्ने' ( २१३३५३) इति षष्ठी । वेसवारादिभि(१)रन्नव्यञ्जनेषु गुणाधानं कुर्वन्तीत्यर्थः । रोगकर्तृकपीडाया अज्वरायाश्च कर्मणि । यथा अरण्येषु जलादीनां विपर्यासादिना रिपोः । रुजा रोगम्य कुरुते सज्जनेन्द्रापराधिनः ।। अत्र रोगकर्तृकरुजायाः कर्म रिपुस्तस्मात् 'रुजार्थानां भाववच- नानामज्वरेः' ( २।३।५४ ) इति षष्ठी । ज्वरसन्तापयोस्तु कर्मणि न भवति । नाथधातोराशिषि च कर्मण्यपि तथा भवेत् ॥ यथा- -- सत्कृता ब्राह्मणाः सर्वे सज्जनेन्द्रस्य भूपतेः । वाक्यैः शुभाशंसिभिश्च नाथन्ते हि मुहुर्मुहुः ।। अत्र आशीर्वादार्थकनाथधातोः कर्मणः सज्जनेन्द्रात् 'आशिषि नाथः' (२।३।५५ ) इति षष्ठी। हिंसायां निग्रहणननाटक्राथपिषां तथा । जासेश्च कर्मण्यपि हि समर्थव्यवहृअपणोः ॥ यथा- --- चौराणां सज्जनेन्द्रस्य पुरुषः प्रणिहन्त्यलम् । अन्विष्य सततं राष्ट्रे लुण्ठकानां पिनष्ट्यपि ।। अत्र 'चौराणां लुण्ठकानाम्' इति प्रणिहन्पिषधात्वोः कर्मत्वात् 'जासिनिप्रहणनाटकाथपिषां हिंसायाम्' ( २।३।५६ ) इति षष्ठी । यथाच--- सज्जनसिंहस्य पुरे स्वविषयदेशान्तरस्य कोटीनाम् । क्रयविक्रयेण वृद्ध्या धनिनो हि व्यवहरन्ति सत्येन ॥ (१) हिङ्ग्वामरिचं जीरं हरिद्रां धान्यकं तथा । क्रमेण द्विगुणं सर्व वेसवारमिमं जगुः ॥
कारककुसुमम्।
२३
अत्र व्यवहृधातोः कर्मभ्यः कोटिभ्यः 'व्यवहपणोः समर्थयो'
(२।३१५७ ) इति षष्ठी ।
तथा तदर्थस्य दिवः सोपसर्गस्थ चा भवेत् ।
शुद्धस्य सोपसर्गस्य चोदाहरणं 'व्यवहपणोः' इतिवद् बोध्यम् ।
देवतासम्प्रदानार्थधातोः प्रेष्यब्रुवोरपि ॥
यथा-
सज्जनेन्द्राश्रिता विप्रा यज्ञेष्वेवं पठन्ति हि ।
वपाया मेदसः प्रेष्य च्छागस्य हविषोऽग्नये ॥
अत्र अमिसम्प्रदानकार्थप्रेषधातोः कर्मणोर्हविर्वाचकवपामेदसोः
'प्रेष्यब्रुवोर्हविषो देवतासम्प्रदाने' (२।३१६१) इति षष्ठी । एवं ब्रूधातो.
रपि बोध्यम् ।
कृत्वोऽर्थानां प्रयोगे च कालाधिकरणे भवेत् ।
यथा-
अस्विकृत्व सन्ध्यां च द्विकृत्वो देवदर्शनम् ।
एककृत्वस्तु शयनं सज्जनेन्द्रः करोति हि ॥
अत्र 'त्रिकृत्वः द्विकृत्वः एककृत्वः' इति कृत्वसुजन्तानां प्रयोगे
'अहः' इत्याधारस्य 'कृत्वोऽर्थप्रयोगे कालेऽधिकरणे' ( २।३।६४ )
इति षष्ठी । त्रिकृत्वस्त्रिवारम् ।
कृद्योगे कर्तरि तथा कर्मणि प्रागुदाहृता।
कर्तृकर्मोभयप्राप्तौ कर्मण्येव विधीयते ॥
'कर्तृकर्मणोः कृति' (२॥३॥६५) 'कृत्यानां कर्तरि वा' (२।३।
७१) इत्येताभ्यामित्यर्थः ।
लोकाव्ययानां निष्ठायाः खलर्थानां तनोऽपि च ।
प्रयोगे नैव षष्ठी स्यादुके कामुकतो भवेत् ।
द्विषः शतुर्वा भवति शेषे सर्वेभ्य एव च ॥
एषां विभक्त्यन्तरोदाहरणान्यूह्यानि । शेषे षष्ठी तूदाह्रियते । यथा-
राज्यस्य कुर्वन्नहितस्य जिष्णुर्दातुं सुखाना हतवान् खलानाम् ।
नीतेरधीयन् सुनयस्य कर्ता जयत्यहो! सज्जनभूमिपालः ॥
सज्जनेन्द्र प्रयोशाकल्पगुमे- १ अत्र 'कुर्वन्' इति कादेशः, जिष्णुः' इति उः, 'दातुम्' इत्यव्ययम् , 'हतवान्' इति निष्ठा, 'अधीयन्' इति शत, 'कर्ता' इति तृन् । एला प्रयोगे राज्यातसुखखलनीतिसुनयशडेभ्यः कर्मभ्यः शेषत्वविवक्षया 'षष्ठी शेषे' ( २।३।५० ) इति षष्ठी । एवं प्रागुदाहृतासु शेषषष्ठीषु शेषत्वाविवक्षायां कर्मादिविभक्तयो भवन्त्येवेति बोध्यम् । वर्तमानार्थकक्तस्थ लथाऽऽधारार्थकस्य च । योगे षष्ठी भवत्येव तथा तुल्यार्थकैः सह ॥ यथा- -- सज्जनेन्द्रस्य सहशो नास्ति भूमौ परो नृपः । अतोऽयं सर्वभूपानां मतो बुद्धश्च पूजितः ।। अत्र 'सदृशः' इति तुल्यार्थकयोगे 'सज्जनेन्द्रस्य' इति 'तुल्याथै- रतुलोपमाभ्यां तृतीयान्यतरस्याम्' (२३७२) इति षष्ठी। 'अतुलो- पमाभ्याम्' इत्युक्तेस्तुलोपमाशब्दयोगे न भवति । पक्षे तृतीया । एवं 'मतो बुद्धः पूजितः' इति वर्तमानार्थकक्तयोगे 'सर्वभूपानाम्' इति 'क्तस्य च वर्तमाने' ( २।३।६७ ) इति षष्ठी । एवम् आधारार्थकेऽपि बोध्या । आयुष्यकुशलैश्चैक हितभद्रसुखार्थकैः । योगे षष्ठी भवेदाशीर्वादवाक्ये विकल्पतः।। यथा-- 'भायुष्यं कुशलं शं भद्रं चार्थो हितं भूयात् । सज्जनसिंहस्य सदा' विप्रा एवं वदन्ति मुहुः ।। अत्र आयुष्यादिप्रयोगे 'भूयात्' इत्याशीर्वादे 'सज्जनसिंहस्य' इति 'चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः' (२।३।७३) इति षष्ठी । पक्षे चतुर्थी । इति षष्ठी। अथ सप्तमी। साध्वसाधुप्रयोगे चेन्विषयक्तस्य कर्मणि निमित्तात् कर्मयोगे च सप्तमी प्रविधीयते ।। यथा-- -- कारककुसुमम् । नीतावधीती निकृतेष्वसाधुः साधुर्मुरौ चर्मणि यश्च हन्ति । व्याघ्रं सदा, सज्जनभूमिपालो जीयाचिरञ्जीवितवानरोगः ॥ अत्र 'अधीती' इति इनाविषयस्य क्तस्य योगे 'नीतौ' इति 'क्तस्ये. विषयस्य कर्मण्युपसंख्यानम्' इति सप्तमी । एवं 'निकृतेषु गुरौ' इति च 'साध्वसाधुप्रयोगे च' इति सप्तमी । तथा 'चर्मणि' इति 'निमित्ताकर्मयोगे' इति सप्तमी । क्रियान्तरं यत्क्रियथा लक्ष्यते तत्र सप्तमी । यथा- युध्यत्सु (१) सैन्येषु च सज्जनप्रभुः शीघ्रं पुरोभूय निहन्ति वैरिणः । पलायमानेष्वपि तेषु बेगतो गृह्णाति तांस्तुल्यपराक्रमः स्वयम् ।। अत्र सैन्यसम्बन्धियुद्धक्रियया एवं तुच्छब्दवाच्यवैरिसम्बन्धिपला- यनक्रियया हननग्रहणक्रिया लक्ष्यते इति सैन्यतच्छब्दाभ्यां 'यस्य च भावेन भावलक्षणम्' (२।३।३७) इति सप्तमी । युध्यत्सु सत्सु पलायमानेषु सत्सु इत्यर्थः । अत्र अनादरे वाच्ये षष्ठयपि षष्ठी चानादरे'(२।३।३८) इति भवतीति बोध्यम् । स्वामीश्वराधिपतिभिस्तथा दायादमातिभिः । प्रसूतप्रतिभूमिश्च योगे भवति सप्तमी ।। यथा- भूमिपालेष्वधिपतिः सज्जनेन्द्रोऽस्ति भूतले । बभूवुरन्ये राजानो यद्वशात् तिलकाङ्किताः ॥ अत्र अधिपतियोगे 'भूमिपालेषु' इति 'स्वामीश्वराधिपतिदायाद- साक्षिप्रतिभूप्रसूतैश्च' ( २।३।९३ ) इति सप्तमी । पक्षे षष्ठयपि । आयुक्तकुशलाभ्यां चासेवायां सप्तमी भवेत् ।। यथा- सज्जनेन्द्रो महीपाल आयुक्तो विप्रपूजने । बाणनाथस्य पूजायां कुशलो नित्यमादरात् ॥ अत्र आसेवार्थकाऽऽयुक्तकुशलशब्दाभ्यां योगे विप्रपूजनबाणनाथ- (१) युधमिच्छत्सु इत्यर्थे क्यजन्ताच्छतृप्रत्ययः ।
२६ सज्जनेन्द्रप्रयोगकल्पद्रुमे- पूजाशब्दाभ्याम् 'आयुक्तकुशलाभ्यां चासेवायाम्' (२।३।४३) इति सप्तमी । जातिक्रियागुणैनना समुदायास्पृशक्कृतिः । यतस्ततः सप्तमी स्यात् षष्टी चापि भवेदिति ॥ यथा -- नरेषु ब्राह्मणं श्रेष्ठ ब्राह्मणषु च पण्डितम् । पण्डितेषु क्रियावन्तं मनुते सज्जनाधिपः ॥ अत्र ब्राह्मणपाण्डतक्रियावतां जातिगुणक्रियाभर्नरब्राह्मणपण्डितेभ्यः पृथक्करणात् नरब्राह्मणपण्डितेभ्यो 'यतश्च निर्धारणम' ( २।३।४१) इति सप्तमी। अर्चायां साधुनिपुणाभ्यां योग सप्तमी भवेत् । प्रतितोत्सुकशव्दाभ्यां लुस प्रत्यय भादपि ॥ यथा- स्वगुरुषु निपुणोऽसावुत्सुकश्चैकलिने शरदि भगवती संस्थाप्य मूलेऽर्चति स्वे । अधिगृहमतिभक्त्या तोषयित्वोपचारैः (१) श्रवण इति करोति क्षमापतिः सज्जनेन्द्रः ।। अत्र पूजनार्थकनिपुणशब्दयोगे 'गुरुषु' इति 'साधुनिपुणाभ्या मर्चायां सप्तम्यप्रतेः' ( २।३।४३ ) इति सप्तमी । 'अप्रतेः' इति 'अप्र- त्यादिभ्य इति वक्तव्यम्' इति प्रतिपर्यनुप्रयोगे न भवति । एवम् उत्सुकशब्दयोगे 'एकलिङ्गे' इति 'प्रसितोत्सुकाभ्यां तृतीया च' (२।३।४४) इति सप्तमी । अत्र तृतीयापि । तथा 'मूले श्रवणे' इति तद्युक्तकालवाचकप्रत्ययलुप्तत्वात् 'नक्षत्रे च लुपि' (२।३।४५) इति सप्तमी। शक्तिद्वयस्थ मध्ये यो कालमागौं ततस्तु मा। यथा - देवित्वा सज्जनेन्द्रोऽद्य यहे देविष्यति ध्रुवम् । उन्नतस्थस्तथा क्रोशे लक्ष्यं विध्येच्छरैरलम् ॥ (१) सदसि बहुविधाभिस्तोषयित्वातिभक्त्या ।
কণ্ঠশুন । २७. . -- अत्र 'यहे' इति कालस्य कर्तृशक्तिद्वयमध्यगतत्वात् , 'क्रोश' इति मार्गस्य कर्तृकर्मशक्तिद्वयमध्यगतत्वात् सप्तमीपञ्चम्यौ कारकमध्ये ३१७) इति सप्तमी । पञ्चम्यपि ! ऐश्वर्येऽधौ कृषि तु वा कर्मप्रवचनीयता। यथा- अधिक्षितौ सज्जनोऽधिसज्जने क्षितिरस्त्यलम् । तस्मात्सर्वे समीहन्ते मामत्राऽधिकरिष्यति ।। अत्र स्वस्वामिभावसम्बन्धे 'अधि' इत्यस्य 'अधिरीश्वरे' (१।४।९७) इति कर्मप्रवचनीयतया तद्युक्तयोः क्षितिसज्जनयोः पर्यायेण 'यस्माद. धिकं यस्य चेश्वरवचनं तत्र सप्तमी' (२।३१) इति सप्तमी । एवम् 'अधिकरिष्यति' इत्यत्र 'विभाषा कृषि' (१५/९८ ) । इति तत्सं. ज्ञकस्य अधिपूर्वकृलो योगे 'अत्र' इति 'यस्मादधिकम्' ( २।३।९) इति सप्तमी। यतोऽधिक उपे चैव योगे चैवाधिकेन च । सप्तमी तु प्रवक्तव्या कारकस्यैष सङ्ग्रहः ॥ यथा-- - उपवाचि गुणास्तस्य तस्मिन्नास्त्यधिक किमु । अतो वाङ्मयमात्रेऽस्ति स एवोद हृतिः क्षितौ ।। अत्र 'उप' इति 'उपोऽधिके च' (१।४।८७) इति तत्संज्ञकयोगे. 'वाचि' इति 'यस्मादधिकम्' (२।३।९) इति सप्तमी । वाचोऽधिका; गुणा इत्यर्थः । एवम् अधिकशब्दयोगे 'तस्मिन्' इति तदस्मिन्नधिक- मिति' (५/३।४५) इति निर्देशात् सप्तमी । 'यस्मादधिकम्'. ( २।३।९) इति निर्देशाच्च पञ्चम्यपि । सज्जनेन्द्रयशोगन्धप्रसारणकरं परम् । कारकं नाम कुसुमं प्रथमं फुल्लतामयात् ।। इति श्रीधर्माधिकारिकृष्णपण्डितविरचिते सज्जनेन्द्र प्रयोगकल्पद्रुमे कारककुसुमं प्रथमम् ॥
२८ सज्जनेन्द्रप्रयोगकल्पद्रुमें- - अथ समासकुसुमम् । समासो द्विविधः प्रोतः सामान्यश्च विशेषकः । सामान्यः के बलं ज्ञेयः नुबन्तेन सुबन्ततः ।। सामान्यो यथा- ज्ञाने सुकी” सुकृते प्रतापे माने च धैर्ये विनये नये च । क्षोणीतले सज्जनभूपतुल्यो न भूतपूर्वो न च दृष्टपूर्वः ।। अत्र 'पूर्व भूतो भूतपूर्वः पूर्व दृष्टो दृष्टपूर्वः' इति सामान्यतः 'सह सुपा' (२।१।४ ) इति समासः । विशेषस्तु चतुर्धा स्यादेकस्तत्पुरुषः स्मृतः । द्वितीयश्च बहुव्रीहिन्द्रश्चापि तृतीयकः ॥ चतुर्थश्चाव्ययीभाव इति भेदचतुष्टयम् । द्विधा तत्पुरुषो बोध्यः सामान्योऽथ विशेषकः । सामान्यस्त्वष्टधा प्रोक्तो विभक्तीनां, तथा नमः ।। विभक्तीनां सप्तानामित्यर्थः । तत्र प्रथमातत्पुरुषो यथा अपरोदयपुर आरात्सरोऽर्धनगरऽस्ति सज्जनेशस्य । तुर्यसरस्यापन्नप्रकृष्टशोभानि भवनानि ॥ अत्र 'अपरमुदयपुरस्य अपरोदयपुरम्' इति 'पूर्वापरावरोत्तरमेक देशिनकाधिकरणे' (२।२।१ ) इति समासः । उदयपुरस्यापरभाग इत्यर्थः : । एवम् 'अर्घ नगरस्येत्यर्धनगरम्' इति 'अघ नपुंसकम्' (२।२१२) इति समासः । तथा 'तुर्थं सरसस्तुर्यसरः' इति 'द्वितीयतृतीयचतुर्थतुर्या. ण्यन्यतरस्याम्' ( २।।३) इति समासः । एवम् 'आपन्नानि प्रकृष्ट- शोभाम् आपन्नप्रकृष्टशोभानि' इति 'प्राप्तापन्ने च द्वितीयया' (२।२।४) इति समासः । अयं च पूर्वपदार्थप्रधानोऽनित्योऽलुक् च । प्रथमातत्पुरुषत्वमिति प्राञ्चः । द्वितीयातत्पुरुषो यथा- खट्वारूढयतिप्रभान् सुदमयन् शम्भुश्रितो भक्तितः क्रीडोद्यानगमी स्वयंकृतमयं सत्सम्मतीकारयन् । अस्य - कारककुसुमम् । २९ न्यायं सामिकृतं स्वकीयपुरुषैः शीघ्रं परावर्तयन् साविच्याश्च मुहूर्तचिन्तनपरः श्रीसज्जनो मोदते ।। अत्र 'खट्वामारूढः खट्वारूढः' इति 'खट्वा क्षेपे' (२।१।२६) इति समासः । नित्यसमासोऽयम् , न हि वाक्येन निन्दा गम्यते । निन्दितान् दमयन्नित्यर्थः । 'शम्भु श्रितः शम्भुश्रितः' इति 'द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः' (२।११२४) इति समासः । 'क्रीडोद्यानं गमी क्रीडोद्यानगमी' इति 'गम्यादीनामुपसंख्यानम्' इति समासः । 'स्वयंकृतम्' इति 'स्वयं तेन' ( २।१।२५ ) इति समासः । 'सामि- कृतम्' इति 'सामि' (२।१२७ ) इति समासः । 'मुहूर्त चिन्तन- परो मुहूर्तचिन्तनपरः' इति ‘अत्यन्तसंयोगे च' ( २।१।२९ ) इति समासः । तृतीयातत्पुरुषो यथा---- नीत्यर्था यस्य यान्ति, प्रचलदरिगणाः काकपेयाऽऽपगासू. न्मज्जन्ति, स्वादुदध्योदनघृतवटकान् यद्भटा भक्षयन्ति । शम्भुवातश्च काले परनगरमभिप्रस्थितः सत्प्रताप- भ्राजिष्णुः स क्षमायां जयति रघुसमः सज्जनो भूमहेन्द्रः ॥ अत्र 'नीत्या अर्थो नीत्यर्थः' इति, 'प्रतापेन प्राजिष्णुः प्रताप भ्राजिष्णुः' इति च 'तृतीया तत्कृतार्थेन गुणवचनेन' ( २।१।३० ) इति समासः । एवं 'काकैः पेयाः काकपेयाः' इति 'कृत्यैरधिकार्थवचने' (२। १॥३३ ) इति समासः । 'दधना ओदनो दध्योदनः' इति 'अन्नेन व्यञ्जनम्' (२।१।३४) इति समासः । 'घृतेन वटका घृतवटकाः' इति 'भक्ष्येण मिश्रीकरणम्' (२।१।३५) इति समासः । 'शम्भुना त्रातः शम्भुत्रातः' इति 'कर्तृकरणे कृता बहुलम्' (२।१।३२) इति समासः । 'रघुणा समो रघुसमः' इति 'पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः' ( २।१।३१ ) इति समासः । चतुर्थीतत्पुरुषो यथा-- विप्रार्थान्युत्तमान्नानि भूषाहेमानि चार्पयन् । सर्वदा गोहितं कुर्वन् सज्जनेन्द्रो विराजते ॥ -- AR सज्जनेन्द्रप्रयोगकल्पद्रुमे- अत्र 'विप्रेभ्य इमानि विप्रार्थानि' इति 'अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम्' इति समासः । नित्यसमासो. ऽयम् । 'भूषायै हेमानि भूषाहेमानि' इति ‘गवे हितं गोहितम्' इति च 'चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः' (२।१।३६) इति समासः । पञ्चमीतत्पुरुषो यथा- चोरभीतं सुखापेतं विप्रकृष्टात्समागतम् । शरण्यः सज्जनक्ष्माभृत् सत्वरं परिरक्षति ॥ अत्र 'चोराद्भीतश्चोरभीतः' इति ‘पञ्चमी भयेन' (२।।३७ ) इति सूत्रे 'भयभीतभीतिमीभिरिति वाच्यम्' इति समासः । 'सुखा दपेतः सुखापेतः' इति 'अपेतापोढमुक्तपतिताऽपत्रस्तरल्पशः' (२१ ११३८ ) इति समासः । विप्रकृष्टात्ममागतः' इति 'स्तो कान्तिकदूरार्थ कृच्छाणि क्तेन' (२।१।३२ ) इति समासः । अयमलुक्समास । षष्ठीतत्पुरुषो यथा-- मेदपाटेश्वरो भूपमहान् दारिद्यनाशनः । अमित्रोत्सादकः श्रीमान् सज्जनो वरिवर्त्यलम् ॥ अत्र 'मेदपाटस्येश्वरो मेदपाटेश्वरः' इति सम्बन्धमात्रे 'षष्ठी' (२॥ २।८ इति समासः । 'भूपानां महत्तरो भूपमहान्' इति 'गुणात्तरेण तर- लोपश्चति वक्तव्यम्' इति समास । 'दारिद्यस्य नाशनो दारिद्रयनाशनः' इति 'कृद्योगा च षष्ठी समस्यत इति वाच्यम्' इति समासः । 'अमित्राणामुत्सादकोऽमित्रोत्सादकः' इति 'याजकादिभिश्च' (२।२।२.) इति समासः । सप्तमीतत्पुरुषो यथा- यो विश्राणनशौण्डो व्यवहृतिसिद्धो महेश्वराधीनः । तीर्थध्वासान् गेहेशूरान् स दलयति सज्जनाधीशः ॥ अत्र 'विश्राणने शौण्डो विश्राणनशौण्डः' इति 'सप्तमी शौण्डैः'. ( २।११४०) इति समासः । व्यवहृतौ सिद्धः व्यवहृतिसिद्धः' इति 'सिद्धशुष्कपक्कबन्धैश्च' ( २।११४१ ) इति समासः । 'महेश्वरे अधीनो कारककुसुमम् । महेश्वराधीनः' इति 'सप्तमी शौण्डैः' ( २११४० ) इति सूत्रे अधि. शब्दोऽत्र पठ्यते' इति समासः । 'अध्युत्तरपदात्' इति खः । खस्य ईनादेशः । 'तीर्थे ध्वास इव तीर्थध्वाङ्गः' इति 'ध्वाङ्क्षण क्षेपे'. (२।११४२ ) इति समासः । लुब्ध इत्यर्थः । 'गेहेशूरः' इति 'पात्रेसमितादयश्च' (२।११४८ ) इति निपातितश्चाऽलुक्समासः । अथ नञ्तत्पुरुषः । तदभावस्तद्भिन्नतत्सदृशस्तद्विरुद्ध ईषदिति चत्वारो नञर्थाः। यथा-- यस्यापापं हृदये, श्रौतेष्वब्राह्मणो, मृगाक्षीषु । अप्रसितश्चाधर्मे त्यक्तेहः सज्जनः श्रीशः ।। अत्र न पापमपापम् , पापस्याभावोऽपापमित्यर्थः । न ब्राह्मणो. ब्राह्मणः, ब्राह्मणभिन्नो ब्राह्मणसदृश इत्यर्थः । न प्रसितोऽप्रसितः, ईष- प्रसित इत्यर्थः । न धर्मोऽधर्मः, धर्मविरुद्धोऽधर्म इत्यर्थः । 'नञ्' (२। २।६) इति समासः। अस्य तत्पुरुषत्वं प्राचामनुरोधेन । नव्यास्तु कर्म. धारये पठन्ति । विशेषो द्विविधः, कर्मधारयोऽथ द्विगुस्तथा । यः समानाधिकरणः स प्रोक्तः कर्मधारयः ।। संख्यावाचकपूर्वो यः स द्विगुः परिकीर्तितः । प्रथमस्त्वष्टधा प्रोक्तो विशेषणपुरःपदः ।। विशेषणोत्तरपदो विशेषणपदद्रयः। उपमानाद्यपदक उपमानोत्तरस्तथा ॥ वधारणापूर्वपदः कुगतिप्रादिकस्तथा । तथोपपदसंज्ञश्च कर्मधारय ईरितः ॥ विशेषणपूर्वपदः कर्मधारयो यथा- एकनाथो महाराज उर्वीतले वेदविप्रार्चकः पापशूद्रापहः । हर्षमाणीकृतस्वप्रजः किंप्रभु भयिन् वीरराट् सज्जनक्ष्मापतिः ॥ अत्र 'एकश्चासौ नाथश्चैकनाथः' इति 'पूर्वकालैकसर्वजरत्पुराणन केवलाः समानाधिकरणेन' (२।११४९) इति समासः । 'महांश्चासौ णनव- - सज्जनेन्द्रप्रयोगकल्पद्रुमे- राजा च महाराजः' इति 'सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः' (२॥१॥ ६१) इति समासः । 'वेदप्रियो विप्रो वेदविप्रः' इति 'शाकपार्थिवा. दीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम्' इति समासः । अयं मध्यमपदलोपी समास इत्युच्यते । 'पापश्चासौ शूद्रश्च पापशूद्रः' इति 'पापाणके कुत्सितैः' ( २१११५४ ) इति समासः । 'अहर्षमाणा हर्षमाणाः कृता हर्षमाणीकृताः' इति 'श्रेण्यादयः कृतादिभिः' (२!! ५९ ) इति समासः । 'श्रेण्यादिषु व्यर्थवचनं कर्तव्यम्' इति अभूततद्भावः । 'कुत्सितः प्रभुः किंप्रभुः' इति किं क्षेपे' ( २॥१॥ ६४ ) इति समासः । 'वीरश्वासौ राट् च वीरराट्' इति 'पूर्वापरप्रथम- चरमजघन्यसमानमध्यमध्यमवीराश्च' (२१११५८) इति समासः। 'सज्जन. श्वासौ क्षमापतिश्च सज्जनक्ष्मापतिः' इति 'विशेषणं विशष्येण बहुलम्' ( २।२।५७ ) इति समासः। विशेषणोत्तरपदो यथा- वैयाकणखसूचिं गोवृन्दारकमिवैति युवखलतिम् । नर्मसु विहसत्यञ्चति गवोद्धमपि राति सज्जनाधीशः ॥ अत्र 'वैयाकरणश्चासौ खसूचिश्च वैयाकरणखसूचिः' इति 'कुत्सि. तानि कुत्सनैः' ( २।१।५३ ) इति समासः । गौश्चासौ वृन्दारकश्च गोवृन्दारकः' इति 'वृन्दारकनागकुञ्जरैः पूज्यमानम्' (२३१०६२) इति समासः । 'युवा चासौ खलतिश्च युवखलतिः' इति 'युवा खलतिपलित. वलिनजरतीमिः' (२।१।६७ ) इति समासः । 'प्रशस्ता चासौ गौश्च गवोद्धः' इति प्रशंसावचनैश्च' (२०६६) इति समासः । विशेषणो- भयपदो यथा- कीर्तिप्रतापैः सितरक्तवर्ण जगत् प्रकुर्वन् समयानुवर्ती । श्रीसज्जनेशो धृतमुक्तशत्रुः कृताकृतं नैव करोति किञ्चित् ।। अत्र 'सितं च तद्रक्तं च सितरक्तम्' इति 'वर्णों वर्णेन' (२।१९६९) इति समासः । 'आदौ धृतः पश्चान्मुक्तो धृतमुक्तः' इति 'पूर्वकालैकसर्व जरत्पुराणनवकेवलाः समानाधिकरणेन' (२।१।४९ ) इति समासः ।
काकाकुसुम RU 'कृतं च तदकृतं च कृलाकरम् हात कक लविशिष्टेनाऽनम् (३।१।६०) इति समासः । उपमान उपमानपूर्वपदो श्रीमत्स सज्जनसिन्ः स्वाय हजै पुगेरखिले भूमण्डले दिलनुले रन्द्रक्षेलं यश अलरम् । अत्र 'चन्द्र इस खेलमा इति 'उपमानाने सामान्यवचनैः' (२।१।५५ ) इति स . उपमानोतरपदी अशा--- युध्यमाने सलेल्धेषु बहुदपि । सर्वतो विहरत्याजी राजा सज्जनकेसरी ।। अत्र 'सज्जनः केसरीव सज्जनले भारी' इति 'उयमितं व्याघ्रादिभिः सामान्याप्रयोगे' ( २५) इति सनारूः : अवधारणापूर्वपदो यथा- श्रीमान् सज्जन चन्द्राचिनत समाव्योममण्डले सततम् । विद्वत्कुलकुमुदवानं निजगुणकान्त्या विकासयति ॥ अत्र 'सज्जनसिंह एक चन्द्रः, लभैड व्योममण्डलम् , विद्वत्कुलमेव कुमुदवनम् , गुण एक ज्ञान्तिः' इति 'मयूरव्यंसकादयश्च' (२।११७२) इति समासः । मयूरव्यंसकादिसमासान्तरं यथा---- राज्ये यतः खादतनोदताऽत्यलं श्रीसज्जनेन्द्रस्य न सन्त्यकिञ्चनाः । सर्वे च लोका अकुतोभयाः सदा राजान्तर नो मनसापि यान्ति वै ॥ अत्र 'खादत मोदतेत्येवं सततं यत्राभिधीयते सा खादतमोदता' इति 'आख्यातमाख्यातेन क्रियासातत्ये' इति तदन्तर्गणसूत्रेण समासः । एवं 'नास्ति किञ्चन येषां तेऽकिञ्चनाः' इति 'नास्ति कुतो भयमेषां ते ऽकुतोभयाः' इति ‘अन्यो राजा राजान्तरम्' इति च तेनैव समासः । कुगति. प्रादिषु कुसुमासो यथा सज्जनेन्द्रो महीपालः कदश्वं नाधिरोहति । न याति कापथेनापि न सहास्ते कुपूरुषैः ।। अत्र 'कुत्सितोऽश्वः कदश्वः, कुत्सितः पन्थाः कापथः, कुत्सितः पूरुषः कुपूरुषः' इति 'कुगतिप्रादयः' (२।२।१८) इति समासः । - :
হালয়াস गतिसमासो यथा--- ये नित्यं प्रभुकार्यमुद्यततथा कुर्वन्ति दुःवं तिर. स्कृत्य स्वं च सुखं प्रलोभरहितास्तेभ्यो नृपः सज्जनः । ऊरीकृत्य ददाति बाञ्छितमलङ्कृत्य प्रवीभ्यो मुदा साक्षात्कृत्य धनं धनं निजगृहेभ्यो जीविकाकृत्य च ।। अत्र 'तिरःकृत्वा तिरस्कृत्य' इति 'तिरोऽन्त!' (१।४।७१) इति गतिसंज्ञा । 'ऊरीकृत्य' इति 'ऊर्यादिच्चिडाचश्च' (११४६१) इति गतिसंज्ञा । 'अलङ्कृत्य' इति भूषणेऽलम् (१।४।६४) इति गतिसंज्ञा । साक्षात्कृत्य' इति साक्षात्प्रभृतीनि च' (१।४।७४) इति गतिसंज्ञा । 'जीविकामिव कृत्वा जीविकाकृत्य' इति 'जीविकोपनिषदावौपम्ये (१४।७९ ) इति गतिसंज्ञा । सर्वत्र 'कुगति- प्रादयः' (२।२।१८) इति समासः । प्रादिसमासो यथा- प्रपुष्पसमये पिकोऽतिसहकार उद्भ्रान्तिमान् अवात्मरवसञ्चयः परिरुतो निराक्रीडकः । भवन्त्युपवनस्थलान्यपि सुतप्तरूक्षाण्यतो जहाति मृगयाविहारमपि सज्जनश्रीपतिः ।। अत्र 'प्रगतः पुष्पसमयः प्रपुष्पसमयः' इति 'प्रादयो गताद्यर्थे प्रथमया' इति समासः । 'सहकारमतिक्रान्तोऽतिसहकारः' इति 'भत्यादयः क्रान्ताद्यर्थे द्वितीयया' इति समासः । 'अनुष्ट- आत्मरवसञ्चयेनेत्यवात्मरवसञ्चयः' इति 'अवादयः क्रुष्टाद्यर्थे तृतीयया' इति समासः । आत्मरवः काकः । 'परिग्लानो रुताय परिरुतः' इति 'पर्यादयो ग्लानाद्यर्थे चतुर्थ्यां' इति समासः 'आक्रीडा- निष्क्रान्तो निराक्रीडकः' इति निरादयः क्रान्ताद्यर्थे पञ्चम्या' इति समासः । उपपदसमासो यथा--- कूटकारं रिपुं दण्डोपघातं परिकल्प्य च । दुर्गोपरोधं कलयत्यसौ सज्जनभूपतिः ॥ अत्र 'कूटं करोति कूटकारः' इति 'उपपदमतिङ्' ( २।२।१९) कारककुसुमम् । इति समासः । 'दण्डनोपघातं दण्डोपघातम्' इति 'दुर्गे उपरोधं दुर्गो. परोधम्' इति च 'तृतीयाप्रभृतीन्यन्यतरस्याम्' ( शरा२१) इति समा. सः । द्विगुर्यथा-- श्रीसज्जनो युद्धपटुत्वहेतोः शताश्वमारायुगपत् प्रघावयन् । पदादिकान् पञ्चसहस्रमुख्यान् करोति नित्यं कृतहस्तकान् स्वयम् ।। अत्र 'शतानामश्वानां समाहारः शताश्वम्' इति विशेषणं विशे- ष्येण बहुलम्' (२।१।५७) इति समासः । 'स नपुंसकम्' (२।४।१७) इति नपुंसकत्वम् । 'द्विगुरेकवचनम् (२।४।१ ) इत्येकवचनम् । 'अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः' इति स्त्रीलिङ्गत्वमपि । एवं 'पञ्चगुणितं सहस्रं पञ्चसहस्रम्' इति शाकपार्थिवादित्वात्समासः । 'संख्यापूर्वो द्विगुः' (२०१५२ ) इति द्विगुसंज्ञा । इति तत्पुरुषः । अथ बहुव्रीहिः । बहुव्रीहिर्दिधा प्रोक्तः सामान्योऽथ विशेषकः । सामान्यः षट्प्रकारः स्याद् द्वितीयादिविभक्तिभिः ।। यथा-- प्राप्ताम्बूदयपत्तने जितरिपुर्दतान्नवस्त्रान् बहून् कुर्वन्नुद्धृतशल्यमात्मविषयं रक्षन् प्रसन्नप्रजः । सैन्य हेतिकरं प्रवीरपुरुष दुर्गेषु संयोजयन् श्रीमान् सज्जनभूपतिर्विजयते राजीवनेत्रोऽपरः ।। अत्र 'प्राप्तमम्बु यत् तत्प्राप्ताम्बु, जिता रिपवो येन सः जितरिपुः, दत्तमन्नवस्त्रं येभ्यस्ते दत्तान्नवस्त्राः, उद्धृतं शल्यं यस्मात् तदुद्धृत. शल्यम् , प्रसन्ना प्रजा यस्य सः प्रसन्नप्रजः, हेतिः करे यस्य तद्धेतिकरम्, प्रवीराः पुरुषाः यस्मिन् तत्पवीरपुरुषम्, राजीवे इव नेत्रे यस्य स राजीव- नेत्रः' इति सर्वत्र 'अनेकमन्यपदार्थे' ( २।२।२४ ) इति समासः । अयं समानाधिकरणानामेव । व्यधिकरणानामपि कचिद्भवतीति 'हेति- करम्' इति दर्शितः । एवमुपमानपूर्वोऽपि भवतीति 'राजीवनेत्र' इति दर्शितः।
TOTRY Nmber hai ३६ या अनु - -- बिछोड पदार र सुदरता संख्यानमारका गाशिवाय पाया ! दिपालखाने । संख्योत्तरपदो यथा--- उपदशगृहशारी गतिविधि संशयनियमाप लाम् । आसन्नविंशमुद्रा इण्डयति हे झटिति नजनाधीशः ।। अत्र 'दशानां समीप यानि सन्ति तान्युपदशानि' नवैकादश वेत्य- र्थः । 'बहुब्रीहौ संख्येने उजबहुगणान्' ५।७३ ) इति डच् । एवं 'विशतेरासन्ना याः सन्ति ता आसजर्दिा ति विंशतेर्डिति' ( ६। ४।१४२) इति तिशब्दलोपः । उनमन्त्र 'संख्ययाऽव्ययासन्नादृराधिक- संख्याः संख्येये' ( १२३५ ) इति समासः । संख्योभयपदो यथा-- सज्जनेन्द्रस्य समिती पण्डिला द्विदशाधिकाः। विराजन्ते, दुर्जनास्तु द्वित्राः सन्ति न सन्ति था ।। अत्र 'द्विरावृत्ता दश द्विदशाः' विशतिरित्यर्थः, 'द्वौ वा त्रयो वा द्वित्राः' इति 'संख्ययाऽव्ययेति लाल: । व्यतिहारूपो यथा दुर्दान्ता राजमार्गे ये दण्डादण्डि कत्राकचि । कुर्वन्ति, तान् सुबध्नाति सज्जनेन्द्रस्य पूरुषः । अत्र 'दण्डैश्च दण्डैश्च प्रहृत्येदं युद्धं प्रवृत्तं दण्डादण्डि, कचेषु कचेषु गृहीत्वेदं युद्धं प्रवृत्तं कचाकचि' इति न तेनेदमिति सरूपे' (२।२।२७ ) इति समासः : दिगन्तरालरूपो बथा- उदयपुरं दिशि यस्यां पृष्टा सा कति वदति वधूः । श्रूतपूर्वा काशीतः किल दक्षिणपश्चिमास्तीति ।। अत्र 'दक्षिणस्याः पश्चिमायाश्च दिशोर्यदन्तरालं सा दक्षिणपश्चिमा' इति 'दिङ्नामान्यन्तराले' (२।२:३६) इति समासः । सहपूर्वपदो यथा- सपुत्रो ब्राह्मणः कश्चित्प्रसन्नो ह्याशिषं ददौ । स्वस्ति सज्जनभूपाय सहामात्याय वै भवत् ॥
कारककुसुम ३७ अत्र 'पुत्रेण सह वर्तते सपुत्रः, अमात्येन सह सहामात्यः' इति च 'तेन सहेति तुल्ययोगे' ( २११२५) इति समासः । पूर्वत्र 'वोप- सर्जनस्य' (६।३।८२ ) इति सहस्य सः । उत्तरत्र 'प्रकृत्याशिषि' (६।३।८३ ) इति न । इति बहुव्रीहिः । अथ बन्दः । इन्छ स्त्रिश समाख्यान इतरेतरयोगकः । द्वितीयस्तु ममाहार एकशेषस्तुतीथकः ॥ यथा--- साङ्गने ब्रजति सज्जनसिंहे विषबाहुजविशः शुभयानाः । संप्रगृह्य गृहिणीमपि पुत्रौ जम्मुरश्वगजगद्गमथान्ये ॥ अत्र 'विप्राश्च बाहुजाश्च विशश्च विप्रबाहुजविशः' इतीतरेतरयोगः । 'दुहिता च पुत्रश्च पुत्रौ' इति 'भ्रातृपुत्रौ सहितृभ्याम्' (१।२।६८) इत्येकशेषः । 'अश्वाश्च गजाश्च पदाच अश्वगजपदम्' इति 'द्वन्द्वश्व प्राणितूर्यसेनाङ्गानाम्' (२।४।३) ते समाहारः । सर्वत्र 'चार्थे द्वन्द्वः' ( २।२।२९ ) इति समासो द्वन्द्वसंज्ञा च । इति द्वन्द्वः । अथ अव्ययीभावः । द्विविधश्चाव्ययीभावः लासान्दश्च विशेषकः। सामान्यस्तु समर्थन समासादयस्य च ॥ यथा- सज्जनेन्द्रस्य नगरे प्रोन्नताचलवेष्टनात् । पझ्यन्त्योऽपि न जानन्ति मुग्धा अपदिशं मुहुः ।। अत्र 'दिशोमध्यमपदिशम्' इति 'अव्ययम्' (२०२६) इति योग. विभागात्समासः। मुग्धाः स्त्रिय इत्यर्थः । विशेषस्तु विभत्स्यर्थे सभीपार्थे समृद्धिके । व्यद्ध्यर्थे चाप्य भावार्थे चात्ययार्थे च साम्प्रते ॥ प्रादुर्भावे च शब्दस्य, पश्चादर्थे यथार्थ के । आनुपूर्थे योगपद्ये सादृश्यार्थे तथैव च ।।
साजेन्द्रप्रयोगकल्पद्रुम- , सम्पच्या कल्येऽवार्थ हव्ययमात्रकम् । यथाऽध्यायमाश्ये, यावच्छेवावधारणे । मात्रार्थे प्रातिन सुप, चाक्षसंख्ये परिणा तथा । शलाका, चाथ पञ्चभ्याऽपपरी बहिनचुका आङ् मर्धादाऽभिविध्योश्चाभिप्रती लक्षणेन च । आभिमुख्ये, लक्षणेन त्वनुत्समया तथा ।। यस्थायामेऽपि तच्चैक, तिष्ठद्गुप्रभृतीनि च । पारे मध्ये च षष्ठ्या वा, संख्या वंश्येन चैव हि ॥ नदीभिश्च तथा संख्याऽन्य पदार्थे सुबन्तकम् । एषां समासतो ज्ञेयोऽव्ययीभावो विशेषकः ॥ . दिङ्मात्रमुदाहियते । यथा- अधिमेदपाटमुपसज्जनसिंहं सुमहीसुरं दुरधर्म निरधर्मम् । अतिदुःखमत्यभिभवं प्रतिघस्रं स्वनुदानमाशु भवतादितिसाधु ॥ अत्र 'मेद पाटे इत्यधिमेदपाटम्' इति विभक्त्यर्थे, 'सज्जनसिंहस्य समीपे उपसज्जनसिंहम्' इति समीपार्थे, 'महीसुराणां समृद्धिः सुमही- सुरम्' इति समृद्ध्यर्थे, 'अधमानां व्यृद्धिर्दुरधमम्' इति व्यृद्ध्यर्थे, विगता ऋद्धिय॒द्धिः, 'अधर्मस्याभावो निरधर्मम्' इत्यर्थाभावे, 'दुःखस्यात्ययो- ऽतिदुःखम्' इति अत्ययार्थे, अत्ययो ध्वंसः, 'अभिभवः सम्प्रति न युज्यते इति अत्यभिभवम्' इति असम्प्रत्यर्थे, 'घस्रं घस्रमिति प्रतिघस्रम्' इति यथार्थे, योग्यतावीप्सापदार्थाऽनतिवृत्तिसादृश्यानि यथार्थाः, 'दानस्य पश्चादनु- दानम्' इति पश्चादर्थे, 'साधुशब्दस्य प्रकाश इतिसाधु' इति शब्दप्रादु. भीवे 'अव्ययं विभक्तिसमीपसमृद्धिव्युद्धयर्थाभावाल्ययाऽसम्पतिशब्द- प्रादुर्भावपश्चाद्यथानुपूर्व्ययोगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु' (२॥ १।६) इति समासः । एवमन्येष्वप्यषदाहायम् । यथा च--- सज्जनेन्द्रे महाराजे न दोषप्रति विद्यते । यावच्छ्लोकमतो नाम कीय॑ते गुणकीर्तने ।
कारककुसुमम् । a अत्र 'दोषस्य लेशः दोषप्रति' इति 'सुप् प्रतिना मात्रार्थे' (२।१। ९) इति समासः । एवं 'यावन्तः श्लोकास्तावद्वारं नाम यावच्छूलो- कम्' इति 'यावदवधारणे' (२.१८ ) इति समासः । यथा च येषामक्षपरि द्यूतं ये जयन्ति च तानापे । बहिःसज्जनराज्यं तु कुर्वन्त्यधिकृता नराः ।। अत्र 'अक्षेण विपरीतं वृत्तमक्षपहि' इति अक्षशलाकासंख्याः परिणा' (२॥१॥१०) इति समासः । एवं 'सज्जनराज्याबहिः बहिः- सज्जनराज्यम्' इति 'अपपरिबहिरञ्चवः पञ्चम्या' (२।१।१२) इति समासः । यथा च--- आपर्वतमभिनृपगृह मनुकाननमनुतडागमुदयपुरम् । भुवि शिवनगनगरमिव श्रीसज्जनसिंहपालितं जयति ॥ अत्र 'पर्वतं मर्यादीकृत्य वर्तत इत्यापर्वतम्' इति 'आङ् मर्यादा- ऽभिविध्योः' (२११॥१३) इति समासः । 'नृपगृहस्याभिमुखम् अभि- नृपगृहम्' इति 'लक्षणेनाभिप्रती आभिमुख्ये' ( २।१।१४) इति समासः । 'काननस्य समीपमनुकानम्' इति 'अनुर्यत्समया' (२।१।१५) इति समासः । तडागवदायामो यस्येन्यनुतडागम् , तडागदैर्ध्य- सदृशदोपलक्षितमित्यर्थः । 'यस्य चायामः ( २।१।१६ ) इति समा- सः । एवमन्येऽप्यव्ययीभावा ऊह्याः । इत्यव्ययीभावः । एषु केचित्समासास्तु विभक्तीनामलोपनात् । अलुक्समासाः सम्प्रोक्ताः सत्युत्तरपदे परे ।। तृतीया नाम्नि मनस, आज्ञायिनि परे तथा । ओजासहोऽम्भस्तमस, आत्मनः पूरणे परे । परात्मभ्यां चतुर्थी तु पदशब्दे परे सति । स्तोकादिभ्यः पञ्चमी च, षष्टी चाक्रोशके तथा ॥ देवात्प्रिये मूर्खशेध्ये, वाग्दिक्पश्यय एव च । युक्तिदण्डहरेष्वेच, तथा दासे दिवोऽपि च ॥ लागूलपुच्छशेपेषु शुनः, पुत्रे तु कुत्सने ।
211 ५ राजयोपो- योनिधि मर, ममोहन राय का सतनी साक्ष गुरमति । ওনলু :: ৫ জ ই ই, ইং-২: बोबा हा अति र पुरुषक: प्रावृशारा दिया। कार सवार जे, धकाललावा करने वालाः । शये धागोनियमतुषु मा । इनसिद्ध या कथेच सप्तमी । प्याने, हल्लिा कोटयाश्चोदालालि दिना विस्तरभयादिति भावः । एवं ससालाश्रयविषयोऽपि । सज्जनेन्द्र शोगन्धप्रसारण करं परम् । एतत् समासकुसुमं द्वितीयं फुल्लतामगात् ।। इति श्रीधर्माधिकारिकरूणा एण्द्धिनविरचिते मज्जनेन्द्र प्रयोग- कल्पद्रुमे समासकुसुमं द्वितीयम् ।। अथ तद्धितकुसुमम् । तस्मै प्रयोगाय हिताः प्रत्ययास्तद्धिताभिधाः । बह्वर्थानां प्रभेदेन भवन्त्य कोनविंशतिः ॥ एषु केचित्प्रगृह्यन्ते वालानामुपयोगिनः । अण प्रायः सकलार्थेषु भवेत्मामान्यतः किल । अपत्यार्थात इञ् स्त्रीभ्यो ढक् चैवाऽग्नेः कलेरपि । पत्युत्तरपदाण्ण्यो, गोर्यदजादि प्रसङ्गके ॥ उत्सादिभ्योऽञ् तथा स्त्रीपुंसाभ्यां नञ् च स्नोव च कुञादिभ्यो नडादिभ्यश्फञ्फको भवतस्तथा ॥ बिदादिभ्योऽञ् तथा गर्गादिभ्यो यञ् च भवत्यपि । अश्वादिभ्यश्च फजू प्रोक्तः शुभ्रादिभ्यो ढगित्यपि ॥
कारककुसुमम् । क्षुद्राभ्यो वा चतुष्पाद्भयो दूढो भवतोऽपि च । रेवत्यादेश्व कुर्वादेष्ठक् च ण्यश्च भवत्यपि । अन्येऽपि प्रत्यया बोध्याः प्रातिस्विकतयोदिताः ॥ प्रातिस्विकतयेति, तत्तच्छब्दमुच्चार्य विहिता इत्यर्थः । एषु दिङ्मात्रं यथा- - धर्मनीतावयं पाण्डवो विक्रमे जाहवेयोऽवने शौरिरित्थं जनैः । दृष्टकार्यत्रिकर्मन्यते सर्वदा वैजवापायनः सज्जनक्ष्मापतिः । अत्र 'पाण्डोरपत्यं पाण्डवः' इति 'तस्यापत्यम्' (४।१०९२) इति अण् । एवं 'जाहव्या अपत्यं जाह्नवेयः' इति 'स्त्रीभ्यो ढक्' (४॥१॥ १२० ) इति ढक् , ढस्य एयादेशः । तथा 'शूरस्यापत्यं शौरिः' इति 'अत इञ्' ( ४।११९५ ) इति इञ् । 'वीजवापस्य गोत्रापत्यं वैजवापा- यनः' इति 'नडादिभ्यः फक्' (४।१।९९) इति फक्, फस्य आयन् आदेशः । इत्यपत्यार्थाः । रक्ताद्यर्थेषु ठक्छौ ढक् ड्यड्ड्यौ, प्रातिस्विका अपि । यथा- - श्रीसज्जनेन्द्रस्य पुराङ्गनानां कौसुम्भहारिद्रसुनीलशाट्यः । गृह्णन्ति सौधेषु सिताम्रपती तडिद्युजीन्द्रायुधभूरिशोभाम् ॥ अत्र 'कुसुम्भेन रक्ताः कौसुम्भ्यः, हरिद्रया रक्ता हारिद्यः' इति 'तेन रक्तं रागात्' (४।२।१) इति अण् । 'नील्या रक्ता नील्यः' इति 'नील्या अन्' इति अन् । आदिशब्दग्राह्या यथा- पौषे राधानुराधीये वामदेव्येन वैदिकाः । प्रकुर्वन्त्याशिषो वृद्ध्यायाशिषः सज्जनाधिपम् ॥ अत्र 'पुष्येण युक्तं पौषं दिनम्' इति 'नक्षत्रेण युक्तः कालः' (४॥ २१३) इति अण् । एवं 'राधानुराधाभ्यां युक्तं राधानुराधीयं दिनम्' इति द्वन्द्वाच्छ:' ( ४।२।६ ) इति छः, छस्य ईयादेशः । एवं 'वाम- देवेन दृष्टं वामदेव्यं साम' इति 'वामदेवाट् ड्यड्ड्यौ' ( ४।२।९ ) इति ध्यत् । अत्रापि प्रातिस्विका ज्ञेयाः । इति रक्ताद्यर्थाः । ६ सज्जनेन्द्रप्रयोगकर कल्पद्रुमे- तथा परिवृताद्यर्थे इन्य ठक्ढन ईरिताः । यथा- - पुजीभूतगजौधै रथैरनेकैश्च चार्मणैर्वास्त्रैः । याने सज्जननृपतेश्वलिता भूरिव विभाति सगिरिपुरा ।। अत्र 'चर्मणा परिवृताश्चार्मणाः, वस्त्रेण परिवृता वास्त्राः' इति 'परिवृतो रथः' ( ४।२।१० ) इति अण् । आदिग्राह्या यथा--- श्रावणमासि श्रुत्वा चतुरो वेदान् हि सज्जनश्रीशः । क्षैरेयदाधिकान्नैरातृप्ति श्रुतिविदः प्रभोजयति ॥ अत्र 'श्रावणी पौर्णमासी अस्मिन् श्रावणः' इति 'साऽस्मिन्पौर्ण- मासीति' ( ४।२।२१ ) इति अण् । एवं 'क्षीरेण संस्कृतं क्षैरेयम्' इति 'संस्कृतं भक्षाः' ( ४।२।१६ ) इति अण् । 'दधना संस्कृतं दाघि. कम्' इति 'दध्नष्ठक्' ( ४।२।१८ ) इति ठक् । इति परिवृताद्यर्थाः । देवताथै छन् ट्यण ढक् ठञ् व्यच्च डुलजादयः । आदिना डामहजादिपरिग्रहः । यथा-- उद्गीतैर्द्विजनिभिरैकलिङ्गमन्त्रैः बैनाथैः सुमधुरपायसैविशेषात् । एकत्र श्रुतिरितरत्र वक्त्रमङ्गात्पावित्र्यं ब्रजति हि सज्जनेन्द्रदेशे ॥ अत्र 'एकलिङ्ग देवता एषामैकलिङ्गाः' इतिः'श्रीनाथो देवता एषा- मिति रैनाथाः' इति च 'सास्य देवता' (४।२।२४) इति अण् । मन्त्रैरिति स्तुतिमन्त्रैः । इति देवतार्थाः । सामूहिके च यञ्यत्तल्अञ्ठक्यञ्छवुञस्तथा । -- यथा--- हास्तिकमौष्ट्रक्रमाश्वं पादातं ग्रामता जनता । भूयात् सहायताऽपि च नित्यं श्रीसज्जनेन्द्रस्य । अत्र 'हस्तिनां समूहो हास्तिकम्' इति 'तस्य समूहः' (४।२।३७) इत्यधिकारे 'अचित्तहस्तिधेनोष्ठक्' ( ४।२।४७ ) इति ठक् । एवम् 'उष्ट्राणां समूह औष्ट्रकम्' इत्यत्र 'गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्स- मनुष्याजाद् वुञ् ( ४।२।३९) इति वुन् । एवम् 'अश्वानां समूह- कारककुसुमम् । आश्वम्' इति 'तस्य समूहः' (४।२।३७) इति अण् । तथा 'पदातीनां समूहः पादातम्' इति 'मिक्षादिभ्योऽण' ( ४।२।३८ ) इति अण् । एवं 'ग्रामाणां समूहो ग्रामता, जनानां समूहो जनता' इति 'ग्रामजन- बन्धुभ्यस्तल' ( ४।२।४३ ) इति तल् । 'सहायानां समूहः सहायता' इति 'गजसहायाभ्यां चेति वक्तव्यम्' इति तल् । इति सामूहिकाः । क्रीडाद्यर्थे णो ठक् च बुन्निनिश्च भवन्ति हि ॥ यथा-- -- : युद्धे कौशलसिथै सज्जननृपतेस्तु सैनिकैर्बहुशः । दाण्डा मौष्टा हैता पाट्टीशा क्रीड्यते नित्यम् ।। अत्र 'दण्डः प्रहरणमस्यां क्रियायां सा दाण्डा' एवं 'मुष्टिः प्रहरणं हेतिः प्रहरणं पट्टीशः प्रहरणमस्यां सा मौष्टा हैता पाट्टीशा' इति तदस्यां प्रहरणमिति क्रीडायां णः' (४।२।५७) इति णः । आदिग्राह्या यथा - विद्यमीमांसकपाणिनीया नैयायिका ज्योतिषिका विभान्ति | काव्या अपीन्द्रस्य सदोनिविष्टा ऋषिप्रवीरा इव सज्जनस्य ।। अत्र 'त्रिविधा विद्या त्रिविद्या, तामधीयते विदन्ति वा त्रैविद्याः' इति तदधीते तद्वेद' ( ४।२।५९ ) इति अण् । एवं 'मीमांसामधीयते विदन्ति वा मीमांसकाः' इति 'क्रमादिभ्यो वुन्' ( ४।२।६१) इति वुन् । एवं 'पाणिनीयमधीयते विदन्ति वा पाणिनीयाः' इति अण् , 'ध्यक्षत्रियार्षत्रितो यूनि लुगाणिोः (२।४।५८) इति तल्लुक् च । 'नैयायिकाः' इति ऋतूस्थादिसूत्रान्ताक्' (४।२६० ) इति ठक् । एवं 'काव्याः' इत्यत्रापि अण् । इति क्रीडाद्यर्थाः । देशे तदस्मिन्नस्तीति, तेन निवृत्तमित्यपि । तन्निवासोऽदूरभव इत्येते चातुरर्थिकाः ।। एषु चोरञ् , बह्वजङ्गान्मतुपः, सङ्कलादितोऽञ् । अरीहणादेवुञ् प्रोक्तः कृशाश्वादेश्च छण मतः ॥ कुमुदादेष्ठजित्युक्तः काशादिभ्य इलस्तथा । तृणादिभ्यश्च सः प्रोक्तः प्रेत्रादिभ्य इनिः स्मृतः।।
. सज्जनेन्द्रप्रयोगकल्पद्रुमे- अश्मादे रश्च, सख्यादेढज्ञ, ण्यः मङ्काशमुख्यतः । बलादेर्यश्च, पक्षादेः फक , कर्णादेश्च फिञ् भवेत् ॥ सुत्तङ्गमादिभ्य इञ् च प्रगद्यादेयं इत्यपि । वराहादेव का पोक्तः कुमुदादेश्च ठक् भवेत् ॥ मध्वादिभ्यो मतुए चैवोत्करादिभ्यश्छ ईरितः। अन्येऽपि प्रत्यया ज्ञेयाः प्रातिस्विकतयोदिताः ॥ . यथा- -- -- प्रायः समस्ततजातिविराजितत्वा- देकस्तरुबहुत या विवृतिं करोति । नो मेदपाटविषये बहलर्धियुक्त ह्यौदुम्बरप्रभृतिवन्नृपसज्जनस्य । अत्र 'उदुम्बराः सन्त्यस्मिन् देशे औदुम्बरः' इति तदस्मिन्नस्तीति देशे तन्नाम्नि' (४।२।६८ ) इति अण् । यथा च--- मुदितोत्साहितपौरा कौशाम्बी वत्सराजसमयेऽभूत् । तदधिकमौदयमधुना ह्युदयपुरं सज्जनेशसमयेऽम्ति ।। अत्र 'कुशाम्बेन निर्वृत्ता कौशाम्बी, उदयेन निवृत्तमौदयम्' इति 'तेन निवृत्तम्' ( ४।२।६८) इति अम् । यथा च -- परितः प्रावृतिमत्त्वाद् वैरेयत्वाच्च बल्यत्वात् । नगरत्वादपि सज्जनसिंहस्योदयपुरं हि सुरपुरवत् ।। अत्र 'वीराणां निवासो वैरेयम्' इति 'वुञ्छण' (४।२।८०) इति सूत्रे 'सख्यादिभ्यो दम्' इति ढञ् । एवं 'बलानां निवासो बल्यम्' इति 'बलादिभ्यो यः' इति यः । एवं 'नगानां निवासो नगरम्' इति 'अश्मा. दिभ्यो रः' इति रः । यथा च- सोपानराजिपरिमण्डिततीरदेश. स्वच्छातिनिम्नसलिलाशयशोभिताऽन्तम् ! संस्मारयत्युषसि मज्जनकारिलोकान् वाराणसी पुरवरं नृपसज्जनस्य ।।
कारकंकुसुमम् । अत्र 'वरणा च असिश्च वराणस्यौ, पृषोदरादित्वाद्वर्णव्यत्ययः, वराणस्योरदूरभवं वाराणसी' इति, यद्वा 'वरमनो जलं यस्याः सा वराऽनाः, वराऽनसो गङ्गाया अदूरभवं वाराणसी' इति 'अदूरभवश्व' ( ४।२।७०) इति अण् । एवमन्येऽप्युदाहार्याः । इति चातुर्थिकाः । तत्र जातश्च, तत्सोढमस्य, तत्र भवस्तथा । तदागतः, प्रभवति, निवासः सोऽस्य इत्यपि ॥ अधिकृत्य कृतो ग्रन्थः, सोऽस्य भक्तिस्तथैव च । तेन प्रोक्तमुपज्ञातं तथा तस्येदमित्यपि ॥ एते च शैषिकाः प्रोक्ता, एषु कयादितो ढकञ् । नद्यादिभ्यश्च ढक् प्रोक्तो वृद्धाच्छः परिकीर्तितः ।। काश्यादिभ्यष्ठनिठौ चौकारान्ताचैव ठञ् मतः। धूमाद्भ्यिश्च वुञ् चोक्तः कालाहन परिकीर्तितः ।। ज्यः स्यात्परिमुखादिभ्यस्तथाऽध्यात्मादितश्च ठञ् । योनिविद्यायुजो वुञ् च, ऋदन्ताट्ठा प्रकीर्तितः ।। शिशुक्रन्दादितश्छश्च, ज्यो भवेच्छण्डिकादितः । सिन्धुतक्षशिलादिभ्यश्चाऽणी परिकीर्तिती । वु चैव हि कुलालादेः, छश्च रैवतिकादितः । प्रातिस्विकतया प्रोक्ता अन्येऽपि प्रत्यया मताः॥ यथा- नादेयानि व सरसो ग्रामयकनागरेयकैर्वारि । उपयुज्यन्ते हि नदीमातृकवन्मेदपाटविषयोऽस्ति ॥ अत्र 'नद्यां जातानि नादेयानि' इति 'तत्र बातः' (४।३२५) इत्याधिकारे 'नद्यादिभ्यो ढक्' (४।२।९७ ) इति ढक् । एवं 'ग्रामे जाता ग्रामेयकाः, नगर्या जाता नागरेयकाः' इति 'कन्यादिभ्यो ढकञ्' (४।२।९५ ) इति ढकञ् । 'वारि' इति बहुवचनम् । यथा च- पनाकरा मैदपाटाः पारावारजिगीषवः । सद्वीपस्वाद्विस्तृतत्वाहाम्भीर्यान्मधुरत्वतः ।। - - सज्जनेन्द्रप्रयोगकल्पद्रुमे- अत्र ‘मेदपाटे भवा मैदपाटाः' इति तत्र भवः' (४।३।५३) इति अण् । यथा च-- आविमुक्तो मेदपाटे वृत्त्यायागत्य सुन्दरम् । सज्जनेन्द्रप्रयोगीयं ग्रन्थं रचितवानहम् ॥ भत्र 'अविमुक्तादागत आविमुक्तः' इति तत आगतः' (४१३१७४) इति अण् । एवं 'सज्जनेन्द्रश्च प्रयोगश्च सज्जनेन्द्रप्रयोगौ तावविकृत्य कृतो ग्रन्थः सज्जनेन्द्रप्रयोगीयः' इति 'अधिकृत्य कृते ग्रन्थे (४।३।८७) इत्यधिकारे 'शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यश्छः' (४।३।८८) इति द्वन्द्वाच्छः, छस्य ईयादेशः । सज्जनेन्द्रस्याधिकृतत्वं वर्णनीयत्वेन बोध्यम् । यथा च- आपूपिकान् पायसिकांस्तैव्यैर्ब्राह्मणान् बहून् । ऐकलिङ्गः सज्जनेशस्तत्प्रीत्यै तर्पयत्यलम् ॥ अत्र 'अपूपा भक्तिरेषामापूपिकाः, पायसं भक्तिरेषां पायसिकाः' इति 'भक्तिः' (४।३।९५) इत्यघिकारे 'अचित्ताददेशकालाढक्' (४।३।९६) इति ठक् ! एवम् ‘एकलिङ्गं भक्तिरस्यैकलिङ्गः' इति 'भक्तिः' (४।३।९५) इति अण् । यथा - द्योतमानाभिरनिशं यदीयातुलकीर्तिभिः । जिता चान्द्रमसी ज्योत्स्ना, स जीयात् सज्जनाधिपः ।। अत्र 'यस्येमा यदीयाः' इति 'त्यदादीनि च' ( १।७४ ) इति वृद्धसंज्ञायां 'वृद्धाच्छः' (१।१।११४ ) इति छः | एवं 'चन्द्रमस. इयं चान्द्रमसी' इति तस्येदम्' (४।३।१२०) इति अण् । एवमन्ये. ऽप्युदाहार्याः । इति शैषिकाः । वैकारिकेषु त्वोरञ् स्यात् पलाशादिभ्य एव च । प्राणिभ्यो रजतादेश्च, मयड् वृद्धशरादितः । अन्येऽप्येवंविधा बोध्याः प्रातिस्विकतयोदिताः॥ यथा-- कनकमयकटकहस्ताः सौवर्णाशुकनिबद्धकटिबन्धाः ।
कारककुसुमम् ।
-
सोत्तंसोष्णीषयुता (१) देवा इव सज्जनाश्रिता भान्ति ।।
अत्र 'कनकस्य विकाराः कनकमयाः' इति 'तस्य विकार' (४।३।
१३४) इत्यधिकारे 'मयड् वैतयोर्भाषायाममक्ष्याच्छादनयोः' (४।३।१४३)
इति मयट् । एवं 'सुवर्णस्य विकारः सौवर्णम्' इति 'तस्य विकारः'
(४।३।१३४ ) इति अण् । एवमन्येऽप्युदाहार्याः । इति वैकारिकाः ।
तेन दीव्यत्यथ जितं खनत्यपि जयत्यपि ।
संस्कृतं, तरतीत्येवं, चरत्यपि, हरत्यपि ॥
उपसिक्तं च, संसृष्टं, तथोञ्छति च, रक्षति ।
अवक्रयः, तस्य धम्य, पण्यं, शिल्पं तथैव च ॥
तथा प्रहरणं, शीलं, वृत्ता चाध्ययने क्रिया।
हितं भक्षाश्च. नियतं तदस्मै दीयतेऽपि च ॥
एते ठकोऽवधीपाश्च, ठक् सामान्यत एषु हि ।
पर्यादितः ष्ठन् विहितो भस्त्रादिभ्यस्तथैव च ।
ऋकारान्तादमित्युक्तः केचित्प्रातिस्विका अपि ॥
यथा--
---
भवति कदाचित् खाजिक औडपिकोऽप्याश्विकश्च, नारीभिः ।
विहरति, भवति सदैव हि सामाजिक एष सज्जनश्रीशः ।।
अत्र 'खड्नेन दीव्यति खानिकः' इति 'तेन दीव्यति खनति जयति
जितम्' (१।४।२) इति ठक् । एवम् 'उडुपेन तरत्यौडुपिकः' इति
'तरति' ( ४।४।५) इति ठक् । तथा 'अश्वेन चरत्याश्विकः' इति
'चरति' ( ४४८) इत्यधिकारे 'पर्पादिभ्यः ठन्' ( ४।४।१०)
इति ष्ठन् । एवं 'नरस्य धा नार्यः' इति तस्य धर्म्यम्' (४|४|४७)
इत्यधिकारे 'ऋतोऽन्' ( ४४४९) इति सूत्रे 'नराच्चेति वक्तव्यम्'
इति अञ् । तथा 'समाज रक्षति सामाजिकः' इति 'रक्षति' (४।४।३३)
इति ठक् । एवमन्येऽप्युदाहाः । इति ठकोऽवधीयाः।
(१) बहुविधरागोष्णीषा।
- साजनेन्द्रप्रयोगकल्पद्रुमे- तत्र साधुस्तथाऽन्ये च प्रारिपतीया इतीरिता । यत् सामान्या, प्रतिजनादित खञ् , ठक् कथादिला!! गुडादिभ्यश्च ठञ् प्रोक्तोऽन्ये तु प्रातिस्विका अपि । यथा- दीनापन्नशरण्यो वर्णाश्रमशासने च धौरेयः । सवयस्यः सज्जनराट् छन्दस्यमपीह धर्म्यमाचरति ॥ अत्र 'शरणे साधुः शरण्यः' इति 'तत्र साधुः' ( ४।४।९.८ ) इति यत् । एवं 'धुरं वहति घौरेयः' इति 'तद्वहति' (४।४।७६ ) इत्यर्थे धुरो यड्ढको' (४।४।७७) इति ढक् । तथा 'वयसा तुल्या वयस्याः' इति 'नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तायतुल्यप्राप्यवध्याऽऽनाम्य- समसमितसंमितेषु' ( ४।४।९१) इति तुल्यार्थे वयःशब्दाद् यत् । तथा छन्दसा निर्मितं छन्दस्यम् , इच्छया कृतमित्यर्थः । 'छन्दसो नि- मिते' (४।४।९३) इति निर्मितार्थे छन्दःशब्दाद् यत् । एवं 'धर्मादन- पेतं धर्म्यम्' इति 'धर्मपथ्यर्थन्यायादनपेते' (४१४९२) इति अनपेतार्थे धर्मशब्दाद् यत् । शरण्यादन्ये प्रातिस्विकाः । एवमन्येऽप्युदाहाः । इति प्राग्घितीयाः। तस्मै हितं, तदर्थं च विकृतेः प्रकृती तथा । स्यात्तदस्य तदस्मिश्च प्राक्क्रीतीया उदाहृताः॥ एषु सामान्यतश्छः स्याद् , यद् भवेदुगवादितः । शरीरावयवाचैवान्ये च प्रातिस्विका अपि। यथा- गिरियुगपि मेदपाटः सर्वीयः सर्ववस्तुसद्भावात् । लवणीयजलधिमत्त्वाद्वरः सुखीयोऽपि सज्जनस्वाम्यात् ॥ अत्र 'सर्वस्मै हितः सर्वीयः' इति 'प्राक् क्रीताच्छः' (५।१।१ ) इत्यधिकारे 'तस्मै हितम्' (२।२।५) इति छः । एवमन्येऽप्युदाहाः । इति प्राक्क्रीतीयाः ।
तद्धितकुसुमम् । तेन क्रीतं, तन्निमित्तं संयोगोत्पातको तथा । तस्येश्वरस्तस्य वापो, विदितस्तत्र चैव हि ।। वृद्ध्यायलाभशुल्कोपदास्तदस्मिंश्च दीयते । तद्धरत्यावहति च वह,त्यवहरत्यपि ॥ पचत्यथो सम्भवति तदस्य परिमाणकम् । तदर्हति, तथा तेन निर्वृत्तं, तमधीष्टकः ॥ भृतो भूतस्तथा भावी, तदस्य ब्रह्मचर्यकम् । परिजय्यं लभ्यकार्यसुकरं तेन चैव हि ॥ कार्य च दीयते तन्त्र, सम्पादिनि तथैव च । प्रयोजनं, तदन्येऽपि प्रोक्ताः प्राग्वतयस्त्विमे ॥ एषु सामान्यतष्ठञ् च, निष्कादिभ्यष्ठगित्यपि । दण्डादिभ्यश्च यत् प्रोक्तः शेषाः प्रातिस्विकास्तथा ॥ - यथा- आयुतिकादधिकमपि प्रगृह्यते वस्तु सज्जनेशेन । किं चित्रं यदमूल्यं तदपि स वै विप्रसात्कुरुते ॥ अत्र 'अयुतेन क्रीतमायुतिकम्' इति 'तेन क्रीतम्' (५।१।३७) इति ठञ्, ठस्य इकादेशः । यथा च-- शतिकः साहस्रश्वाऽगुणिनां गुणिनां च विप्राणाम् । सज्जननृपसंयोगो भवति हि किल मेदपाटयातानाम् ॥ अत्र 'शतस्य निमिचं शतिकः' इति तस्य निमित्तं संयोगोत्याती' ( ५।११३८ ) इत्यधिकारे 'शताच ठन्यतावशते' (५/१।२१) इति ठन् । एवं 'सहस्रस्य निमित्तं साहस्रः' इति 'शतमानविंशतिकसहस- वसनादण्' ( ५।१।२७ ) इति अण् । यथा च- द्विजेभ्यः सज्जनः श्रीमान् पार्थिवो मैदपाटिकः । प्रास्थिकानि द्रौणिकानि खारीकाणि ददात्यलम् ॥ अत्र 'पृथिव्यां विदितः पार्थिवः' इति 'तत्र विदितः' (५।१।४३) इत्यर्थे 'सर्वभूमिपृथिवीभ्यामणी' ५।११४१) इति अञ् । एवं ६० सज्जनेन्द्रप्रयागकलागु - 'मेदपाटस्येश्वरो सैदपाटिनः इति उपहारः ५११६४२ ) इति ठञ् । तथा 'प्रस्थानां नामः प्रास्थित जे. जान बापाः द्रौणिकानि, खारीणां वापाः खारीकाणि' इति तस्य वाम ११४५ ) इति ठञ् । उप्यन्ते येष्विति गणाः, क्षेत्रात्याक्षः यथा च दत्ते गृह्णाति तथा दचे गृह्णाति सज्जनामुन ! शत्यं शतिक धर्म शल्यं शतिक यथायथं काले !! अत्र 'शतं वृद्धिीयतेऽम्झिन् शत्यन् , तभायो दीयतेऽस्मिन् शतिकम् , शतं लामो दीयोऽस्मिन् शत्यम्, शलं शुल्कं दीयतेऽस्मिन् शतिकम्' इति तदस्मिन् वृद्ध्यायलाभशुरुको इन दीयते' ( ६।०४७ ) इत्यधिकारे 'शताच्च ठन्यतावशते ( ५१११११) इति यछनौ । अस्मिन् राजनि उस्कोचामाबाल उपदोदाहरणं नास्ति । यथा च--- प्रास्थिकादिषु पात्रेषु प्रास्थिकादीनि सर्वशः । दत्वाऽतिथीन् प्रास्थिकादीन् संभोजयति सज्जनेट । अत्र 'प्रस्थं सम्भवति प्रास्थिकम्' प्रस्थं स्वस्मिन् सम्भावयतीत्यर्थः, एवं 'प्रस्थमवहरति पचति वा' इति सम्भवत्यवहरति पचति' (५।११५२) इति ठञ् । एवं 'प्रस्थं परिमाणनस्य' इति तदस्य परिमाणम्' (५। ११५७) इति ठञ् । यथा च- श्वैतच्छत्रिक एष श्रीमान् सज्जननृपोऽवधानेन । अर्ये दण्ड्ये वध्ये यथायथं योग्यमाचरति ॥ अत्र 'श्वेतच्छत्रमर्हति श्वैतच्छत्रिकः' इति तदर्हति' (५४११६३) इति ठञ् । एवम् 'अर्धमर्हति अर्घ्यः, दण्डमर्हति दण्ड्यः, वधमर्हति वध्यः' इति 'दण्डादिभ्यो यत्' (५।१६६) इति यत् । यथा च- राष्ट्रे यस्य च मासिका द्विजवराः संसेविता मासिकै. भृत्यैर्मासिक उत्सवे दिविषदां हर्युता मासिकैः । भक्त्या चाह्निकपूजनादिकमहो कुर्वन्ति सवर्द्धये प्रत्यब्द, स हि तेन सज्जननृपो वर्वति सर्वोपरि ।। sn द्धतकुसुम अत्र 'मासमधीष्टा मासिका: सत्कृत्य व्यापारिता इत्यर्थः, एवं 'मासं भृता मासिकाः वेतनेन क्रीता इत्यर्थः, एवं 'मासं भावी मासिकः' उत्सवः, एवं 'मासं भूता मासिकाः' लावत्कालं व्याप्य स्थिता इत्यर्थः । 'तमधीष्टो भृतो भूतो भावी' (१९८०) इति ठञ् । तथा 'अह्ना निवृत्तमाह्निकम्' इति 'तेन निवृत्तम्' : ५:११७९ ) इति ठञ् । एव- मन्येऽप्युदाहार्याः । इति प्राग्वतयः । तेन तुल्यं क्रिया क्षेच, तऋ तस्येव त्यपि । तदहं चेति गदितास्यार्थिका, एषु वै वतिः ॥ यथा .. सज्जनेन्द्रो महीपालः स्वकर्मनियमादिषु । करोत्याचरणं नित्यमनालस्येन विप्रवत् । अत्र 'विप्रेण तुल्यं विप्रवत्' इति 'तेन तुल्यं क्रिया चेद्वतिः' (५।१।११५) इति वतिः । यथा च--- काशीवन्मेदपाटेऽस्मिन्नेकलिङ्गं विराजते । विधिवत् पूजितस्यास्य प्रभावो विश्वनाथवत् ।। अत्र 'काश्यामिव काशीवत् . विश्वनाथस्येव विश्वनाथवत्' इति 'तत्र तस्येव' ( ५११:११६ ) इति वतिः । एवं 'विधिमर्हति विधिवत्' इति तदर्हम्' (५।११११७ ) इति वतिः । इति व्यार्थिकाः । तस्य भावस्तस्य कर्म, भाछ कर्मार्थका इमे। एषु तु त्वतलौ, पृथ्वादिभ्यः स्यादिमनिच् खलु ॥ प्यञ् च वर्णदृढादिभ्यो गुणार्थाद्राह्मणादितः । कर्मण्यपि च, पत्यन्ताद् यक् पुरोहितमुख्यतः ॥ योपधाच गुरूपान्त्याद् वुञ् द्वन्द्वाच्च प्रकीर्तितः तथा मनोज्ञादिभ्यश्च, शेषाः प्रातिस्विका अपि ॥ यथा- r राजत्वं क्षत्रियता शूरत्वं ब्राह्मणप्रियता । सज्जनसिंहनृपालादितरस्मिन्नैव. दृश्यते भूमौ ।।
साजनेन्द्रप्रयोगकल्पद्रुमे.. . -- अत्र 'राज्ञो भावः राजत्वम् , क्षत्रियस्य भावः क्षत्रियता, शूरस्ट भावः शूरत्वम् , ब्राह्मणप्रियस्य भावः ब्राह्मणप्रियता' इति तस्य भाव स्त्वतलौ' ( ५।११११९) इति स्वतलौ । यथा च- दुःखाना महिमा, सदस्सु लघिमा, कीर्तेः परश्चाऽणिमा प्राकाम्यं प्रपलायनस्य, गरिमा वाह्यस्य शीर्षे भृशम् । प्राप्तिः काननकन्दरासु, वशिता पल्या, तनावीशिता चेत्थं सज्जनभूपते रिपुकुले सिद्ध्यष्टकं जायताम् ।। अत्र 'महतो भावः महिमा, लघोर्भावः लघिमा, अणोर्भावः अणिमा, गुरोभीवः गरिमा' इति 'पृथ्वादिभ्य इमनिज्वा' ( ५।१।१२२ ) इति इमनिच् । यथा च-- धावल्यं प्रापिते कीर्त्या त्रैलोक्ये सज्जनशितुः । शङ्खचक्रगदाप रेवाबोधि हरि रमा । अत्र 'धवलस्य भावो धावल्यम्' इति 'वर्णदृढादिभ्यः ष्यञ् च' (५।१।१२३ ) इति प्यञ् । यथा च-- मेदपाटे सज्जनेन्द्रे राज्यं कुर्वति धर्मतः । विद्यया तपसा चापि ब्राह्मण्यं प्रोज्ज्वलं ह्यभूत् ॥ अत्र 'राज्ञः कर्म राज्यम् , ब्राह्मणस्य कर्म ब्राह्मण्यम्' इति 'गुण- बचनब्राह्मणादिभ्यः कर्मणि च' (६।१।१२७) इति व्यञ् । चकारा. दावेऽपि । एवमन्येऽप्युदाहार्याः । इति भावकर्मार्थाः । धान्यानां भवनं चैव, तेन वित्तस्तथैव च । प्रमाणं, परिमाणं च, स एषां ग्रामणीस्तथा ॥ एते पाश्रमिकाः प्रोक्ता, एषु खञ् ढक छ यत् तथा। मूले कर्णादितो जाहच् पाके पील्वादितः कुणम् ॥ सदस्य सञ्जातमिति तारकादेरितच तथा । प्रमाणे व्यसदघ्नमात्रचः परिकीर्तिताः ॥ परिमाणे वतुप् चैव, संख्यायास्तयबङ्गके । मयड् गुणनिमाने च, गोषदादेश्च वुन् भवेत् ॥
नद्धितकुसुमम् । आकर्षादेश्च कन् पोक्त इष्टादिभ्य इनिस्तथा । एतेषु चान्ये बहवः शेषाः प्रातिस्विका अपि ।। यथा-- शालेयं मौद्रीनं गोधूमीनं च यव्यमाषीणम । क्षेत्रं वितरति विद्याचुञ्चुभ्यः सज्जनेड् बहुशः ॥ अत्र 'शालीनां भवनं शालेयम्' इति 'धान्यानां भवने क्षेत्रे खञ्' ( ५।२।१ ) इत्यधिकारे 'व्रीहिशाल्योर्डक्' (५।२।२) इति ढक् । एवं 'मुद्गानां भवनं मौद्गीनम् , गोधूमानां भवनं गोधूमीनम्' इति 'धान्यानां भवने क्षेत्रे खञ्' (५।२।१) इति खञ् । तथा 'यवानां भवनं यव्यम्' इति 'यवयवकषष्टिकाद्यत्' ( ५।२।३) इति यत् । एवं 'मा- षाणां भवनं माषीणम्' इति 'विभाषा तिलमाषोमाभङ्गाणुभ्यः' (६।२।४) इति खञ् । तथा 'विद्यया वित्ता विद्याचुञ्चवः' इति 'तेन वित्तश्चुचुप. चणपौ' ( ५।२।२६) इति चुञ्चुप् । यथा च-- पुरुषद्वयसानामपि पयसां किल मेदपाटसरसीनाम् । व्योमस्था इव तारा अन्तःस्थाः शुक्तयो भान्ति ।। अत्र 'पुरुषः प्रमाणमेषां पुरुषद्वयसानि' इति 'प्रमाणे द्वयसज्दघ्नञ्- मात्रच.' ( ५।२।३७ ) इत्यधिकारे 'पुरुषहस्तिभ्यामण च' (दा२।३८) इति चकारेण द्वयसच् । यथा च-- यत्पादजाहरजसाऽलङ्कृतमूर्धेव राजतिलकत्वम् । प्राप्नोति बाहुजोऽतस्ते सज्जनसिंहकाः सर्वे ॥ अत्र 'पादस्य मूलं पादजाहम्' इति तस्य पाकमूले पीत्वादि. कर्णादिभ्यः कुणब्जाहचौ ( ५।२।२४ ) इति जाहच् । एवं 'सज्जन. सिंहो मुख्य एषां सज्जनसिंहकाः' इति ‘स एषां ग्रामणीः' (६।।७८) इति कन् । यथा च- वेदचतुष्टयविज्ञाः पण्डितवर्याश्च शोभनैर्विधिभिः । विपदो हरन्त्यतोऽयं निरुपद्रव आर्यसज्जनो जयति ।। अत्र 'चत्वारोऽवयवा अस्य चतुष्टयम्' इति 'संख्याया अवयवे -- - सज्जनेन्द्रप्रयागलपनु - .. तय' ( ५।२।४२) इति तयप् । एवं पण्डा सञ्जाता एषां पण्डिताः इति 'तदस्य सञ्जातं तारकादिन इतच् ( ५१३१३६) इति इतन् : एवमन्येऽप्युदाहार्याः । इति पाञ्चमिकाः तदस्यास्यस्मिन्निलि च मत्वा प्रकीर्तिताः। भूमिनिन्दाप्रशंसासु नित्ययोगेऽतिशायने ? सम्बन्धेऽस्तिविवक्षायां भवन्ति मतुबादयः ।। रसादिभ्यो अतुप प्रोक्तः सिध्मादेलच् प्रकीर्तितः । लोमादिभ्यश्च पामादेः पिच्छादिभ्यः कानेलचः ।। अकारान्तादिमिठनौ ब्रीह्यादिभ्य रूतथैव च । तुन्दादिभ्य इलच् चैवाऽर्शआदिभ्योऽच प्रकीर्तितः ।। सुखादिभ्य इनिश्चैव पुष्करादित एव च । वलादिभ्यो मतुप् चैव शेषाः प्रातिस्विका अपि ।। यथा- प्रजासु स्नेहवान् , सत्सु मृदुलः, कर्कशो रिपौ। लक्ष्मणो दर्शन, दण्डी दुष्टे सज्जनभूपतिः !! अत्र 'स्नेहोऽस्यास्ति सेहवान्' इति 'तदस्याम्त्यस्मिन्निति मतुप्' ( ५।२।९४ ) इत्यधिकारे 'रसादिभ्यश्च' ( ५२२९५ ) इति मतुप् । तथा 'मृदु अस्यास्तीति मृदुलः' इति 'सिध्मादिभ्यश्च' ( ८।२।९७ ) इति लच् । मृदु, मार्दवामित्यर्थः । एवं 'कर्कमस्यास्ति कर्कशः' इति 'लो- मादिपामादिपिच्छादिभ्यः शनेलचः' ( ५।२।१०० ) इति लोमादि. त्वात् शः । कर्क शस्त्रम् । एवं 'लक्ष्मीरस्यास्ति लक्ष्मणः' इति पामा- दित्वात् नः । लक्ष्म्या अच्च' इति अकारादेशः । तथा 'दण्डो. ऽस्यास्ति दण्डी' इति 'अत इनिठनौ' (१२।११५) इति इनिः । यथा च- ब्राह्मणशीलिनि बाहुजर्मिणि परिषदले विचारवति । स्वामिनि सज्जनसिंहे राजन्वान् मेदपाटोऽभूत् ।। अत्र 'ब्राह्मणस्य शीलमस्यास्तीति ब्राह्मणशीली, बाहुजस्य धर्मो- तद्धितकुसुमम् । ऽस्यास्तीति बाहुजधर्मी' इति 'धर्मशीलवर्णान्ताच्छ' (५१२।१३२) इति इनिः । बाहुजः क्षत्रियः । एवं 'परिषदम्यास्ति परिषद्वलः' इति 'रजःकृष्यासुतिपरिषदो वलच्' ( ६१२।११२ ) इति वलच् । 'विचारो- ऽस्यास्ति विचारवान्' इति तदस्यास्त्यस्मिन्निति मतुप्' (६।।९४) इति मतुप् प्रशंसायाम् । एवं 'स्वमस्यास्ति स्वामी' इति 'स्वामिन्नैश्वर्ये' ( ५।२।१२६ ) इति आमिनच् तथा 'शोभनो राजास्यास्ति राज- न्वान्' इति 'राजन्वान् सौरराज्ये ४२११४ ) इति मतुप् । एवमन्ये. ऽप्युदाहाः । इति मत्वर्थीयाः । विभक्तिस्वार्थकालाद्यर्थाः प्रत्ययाः प्राग्दिशीयकाः एछ पञ्चम्यास्तमिलू च सप्तम्यास्तु लित्यपि ॥ किंसर्वनामबहनोऽधुनादानींहदाहिलः। इदंकिमेतत्तद्भयश्च थाथ मुः कन् च कीर्तिताः ।। यथा- इह सज्जनसिंह एवं दाता न हि कुत्रापि ततोऽपरस्तथास्ति । अधुना सुविचार्य चेतसीत्थं गुणिनो यान्ति सदैव मेदपाटम् ॥ अत्र 'अस्मिन्निति इह' इति 'इदमो हा' (५।३।११) इति हः, 'इदम इश्' (५३) इति इदम्शब्दस्य इश् आदेशः । एवं 'तस्मा दिति ततः' इति तच्छब्दात् 'पञ्चम्यास्तसिल्' (१७) इति तसिल । एवं 'तत्प्रकारकस्तथा' इति 'प्रकारवचने थाल' (५।३।२३ ) इति थाल् । तत्सदृश इत्यर्थः । एवम् 'अस्मिन् काले अधुना' इति 'अधुना' (५१३।१७) इति अधुना प्रत्ययः । एवम् 'अनेन एतेन वा प्रकारेण इत्यम्' इति 'इदमस्थमुः' (५।३:२४) इति थमुप्रत्ययः । एवं 'सर्वस्मिन् काले दा, सदा' इति 'सर्वैकान्यकिंयत्तदः काले दा' (५।३।१५) इति दा, 'सर्वस्य सोऽन्यतरस्यां दि' (२।३।६) इति सर्वस्य स आदेशः। इति प्राग्दिशीयाः । भूतपूर्वेऽतिशयिके विभक्तव्ये प्रशंमने । आसमाप्तौ कुत्सिते चाऽज्ञाते चैवाऽनुकम्पिते ।।
सज्जनेन्द्रप्रयोगकल्पद्रुमे- अल्पे हस्वे गर्वितेऽर्थे प्रागिवीया इमे मताः। एषु दिग्देशकालेभ्योऽस्तात्यस्थात्येनपो मताः ॥ आजाहि च तथा ज्ञेयो विधार्थे धा धमुञ् मतः । चरड् रूप्य तमप् चेष्ठन् तरबीयसुनौ तथा !! रूपप् कल्पए देश्य देशीयर जातीयर् बहुच् मतः । अव्ययेभ्यः सर्वनानोऽध्यकच्, कश्च तथैव हि ॥ जातिनान्नो मनुष्यात् कन् केचित् प्रातिस्विका अपि । यथा- उपरिष्टाद्गिरेरुच्चैः कासारस्य पुरः शुभाः । सज्जनेन्द्रगृहा भान्ति दूराच्छीदगृहा इव ॥ अत्र 'ऊर्ध्वमित्युपरिष्टात्' इति 'उपर्युपरिष्टात्' ( ५।३।३१) इति ऊर्ध्वशब्दात् रिष्टातिलू , ऊर्ध्वशब्दस्य उपादेशश्च अस्तातेर्विषये । एवं 'पूर्वस्यामिति पुरः' इति 'पूर्वाधरावराणामसिपुरधवश्चैषाम्' (५।३।३९) इति अस्तात्यर्थे असिः, पूर्वशब्दस्य पुरादेशः । यथा च- एकलिङ्गं सज्जनेन्द्रस्थितेरस्त्युत्तराहि यत् । तदुत्तरान्नायसिद्धिस्तेन लोकोत्तरो नृपः ॥ भत्र 'उत्तरस्यामित्युत्तराहि' इति 'उत्तराच्च' (५।३।३८ ) इति माहिप्रत्ययः । यथा च- विपथचरं क्षोदिष्ठं पन्थानं चैकलिङ्गयात्रायाः । सज्जनभूपः कृतवान् श्रेयांसं सत्पथं सुखेनैतुम् || अत्र 'विपथो भूतपूर्वः विपथचरः' इति 'भूतपूर्व चरट्' (५॥३॥ ५३ ) इति चरट् । एवम् ‘अतिशयेन क्षुद्रः क्षोदिष्ठः' इति 'स्थूलदूर- युवहस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः' (६।४।१५६ ) इति इष्ठन्परस्य रेफस्य लोप उकारस्य गुणश्च । एवम् 'अतिशयेन प्रशस्यः श्रेयान्' इति 'अजादी गुणवचनादेव' (५।३।५८ ) इति ईयसुन् , 'प्रशस्यस्य श्रः' ( ५।३।६० ) इति श्रादेशः । यथा च-- आरोहणज्ञदेश्यांस्तुरङ्गरूपस्य दक्षजातीयान् ।
ताद्धेतकुसुमम् । यथा कारयाते सज्जनेशः स्वबन्धुजनुषः कुमारकान् यत्नात् ॥ अत्र 'ईषदून आरोहणज्ञः' इति ईषदसमाप्तौ कल्पब्देश्यदेशीयरः' (५।३।६७) इति देश्यप्रत्ययः । एवं 'प्रशस्तस्तुरङ्गः तुरनरूपः' इति 'प्रशंसायां रूपप्' (५।३।६६ ) इति रूपप् । एवं 'दक्ष- प्रकारवान् दक्षजातीयः' इति 'प्रकारवचने जातीयर' ( ५।३।६९) इति जातीयर् । एवम् 'अनुकम्पितः कुमारः कुमारकः' इति 'अनुकम्पायाम्' ( ५।३७६ ) इति कन् आयातेषु विचक्षणेषु समिती श्रीसज्जनक्ष्मापतेः काव्यज्ञः कतरोऽनयोश्च कतमश्चैषां तु नैयायिकः । तान्पृच्छन्ति समस्तशास्त्रकवरा इत्यादि भूपाश्रिता वाकोवाक्यविनिर्णयं प्रकुरुते द्राङ् मेदपाटेश्वरः ।। अत्र 'अनयोर्द्वयोर्मध्ये क इति कतरः' इति 'किंयत्तदोर्निर्धारणे द्वयोरेकस्य डतरच्' ( २।३।९२) इति डतरच् । एवम् 'एषां बहूनां मध्ये कः कतमः' इति वा बहूनां जातिपरिप्रश्ने डतमच्' (५।३।९३) इति डतमच् । 'जातिपरिप्रश्ने' इति प्रत्याख्यातमाकरे । एवं 'समस्त- शास्त्रैर्गर्विताः समस्तशास्त्रकाः' इति 'अवक्षेपणे कन्' (५।३।९५) इति कन् । एवमन्येऽप्युदाहर्तव्याः । इति प्रागिवीयाः । इवार्थश्च समूहार्थों वीप्सार्थोऽनितरार्थकः । अभूततद्भाव कश्च व्यापनः प्रातिलोम्यकः ।। एते चान्य इबाद्यर्थकीया, एषु च कन् मतः । शाखादिभ्यश्च यः प्रोक्तः, छः समासादिवार्थकात् ॥ अण् चैव शर्करादिभ्योऽङ्गुल्यादिभ्यष्ठगित्यपि । त्रिगतषष्ठाद्दामन्यादेश्छः सङ्घार्थ ईरितः ॥ स्थूलादिभ्यः प्रकारे कन् , प्राचुर्यप्रस्तुते मयट् । देवतान्ताच्च यत् प्रोक्तो विनयादेश्च ठक् स्मृतः ॥ आद्यादिभ्यस्तसिश्चैव, च्विस्तु कृभ्वस्तियोगतः ।
सज्जनेन्दुप्रयोगकल्पद्रुमे- सातिस्त्रा डा तथान्येऽपि प्रातिस्विकतयोदिताः। इति सङ्केषतः प्रोक्त एष तद्धित सङ्ग्रहः ।। यथा- सूरके तेजसा घस्रे यशसा शशिके निशि । सज्जनेन्द्रे सति तयोर्नास्ति किञ्चित् प्रयोजनम् ॥ अत्र 'सूर इव प्रतिकृतिः सूरकः' इति, 'शशीव प्रतिकृतिः शशिकः' इति ‘इवे प्रतिकृतौ' ( ५।३।९६ ) इति कन् । यथा च-- लक्ष्यं विध्यन क्रीडया सज्जनेन्द्रस्तत्रायातो वन्यघृष्टिस्तरस्वी । विद्धो भूमौ सम्पपातोद्गतासुर्जातं चित्रं काकतालीयमेतत् (१) ॥ अत्र काकतालशब्दो काकागमनतालप लपतनपरौ, तेन 'काकागमन- मिव तालपतनमिव काकतालम्' इति इवार्थसमासः । काकतालसमागम. सहशो लक्ष्यवराहसमागम इति समासार्थः । ततः 'काकतालमिव काक. तालीयम्' इति 'समासाच्च तद्विषयात्' ( ५।३।१०६ ) इति छप्रत्ययः, छस्य ईयादेशः । तेन तत्प्रयुक्तं काकमरणसदृशं वराहमरणमिति प्रत्ययार्थः । अतर्कितोपनतमिति फलितोऽर्थः । यथा च-- जपपाठमयं यज्ञं कारयित्वा द्विजन्मनः । सन्तोषयति दत्वाऽन्नमयं सज्जनभूपतिः ।। अत्र 'प्राचुर्येण प्रस्तुतौ जपपाठावस्मिन् जपपाठमयः' एवं 'प्राचु. येण प्रस्तुतमन्नम् अन्नमयम्' इति 'तत्प्रकृतवचने मयट्' (५।४।२१) इति मयट् । यथा च-- श्वेतीकुर्वति यशसा सज्जनसिंहे जगत् , तमिस्रापि। ज्योत्स्नीभूता, ज्योत्स्ना दिवसीभूता विभाति पक्षयुगे ॥ अत्र 'अश्वेतं श्वेतं सम्पद्यते तत्कुर्वन्' इति, 'अज्योत्स्नी ज्योली (१) कश्चित्संन्यासिवेशो भ्रमति भुवि वदन् 'मूर्तिपूजा न कार्य- त्येवं तस्यागमो योऽभवदुदयपुरे, यश्च मूर्तीः प्रकल्प्य । प्रारम्भोऽनुष्ठितीनामुपचितिमहयुक् सज्जनेन्द्रस्य गेहे तञ्चैतत् काकतालीयमुपगतमहो खण्डनं तन्मतस्य ॥ .
तिङ्कुसुमम् ।
सम्पद्यते ज्योत्स्नीभूता' इति, 'अदिवसो दिवसः सम्पद्यते दिवसीभूता'
इति 'कृभ्वस्तियोगे सम्पद्यकर्तरि चित्रः' ( ५।४।५०) इति चिः ।
१
यथा च
सस्याख्या सलिलवती या दुष्टैरात्मसात्कृता भूमिः ।
तामादाय बलेन हि विप्रना सज्जनेट कुरुते ॥
अत्र 'आत्माघीनात्मसात्' इति तदधीलवचने (५।४।५४ ) इति
सातिप्रत्ययः । एवं 'विप्राधीना विप्रना' इति 'देये त्रा च' (५।४।५५)
इति त्राप्रत्ययः । यथा च--
सज्जनसिंहं तद्गुणसंरक्तः सर्वथाऽनुयायिगणः ।
अनुकूलाचरणेन हि सुखाकरोति प्रियाकरोत्येव ।।
अत्र 'आनन्दयति' इत्यर्थे सुखप्रियशव्दाभ्यां 'सुखप्रियादानुलोम्ये
(५।४।६३ ) इति डाच् । एवमन्येऽप्युदाहाः । इति इवार्थाः ।
सज्जनेन्द्रयशोगन्धप्रसारणकरं परम् ।
तद्धितं नाम कुसुमं तृतीयं फुल्लतां ययौ ।।
इति श्रीधर्माधिकारिकृष्णपण्डितविरचिते सज्जनेन्द्र
प्रयोगकल्पद्रुमे तद्धितकुसुमं तृतीयम् ॥
अथ तिङ्कुसुमम् ।
लादेशास्तु तिङः प्रोक्ता लकारास्तु नवैव हि ।
ललिट्लुलट्लोट्च ललिङ्लुङ्लङ्चेति प्रकीर्तिताः।
अष्टादश तिङस्तिप्तझिसिप्थस्थमिपस्तथा ।
वम्मम्ताऽऽतांझथासाथांवमिड्वहिमहिङ् इति ।
परस्मैपदसंज्ञास्तु पूर्वा एषु नवेरिताः ।
उत्तरास्तु नव प्रोक्ता आत्मनेपदसंज्ञकाः ।।
धातुभ्यश्च लकाराः स्युर्धातवस्ते द्विधेरिताः।
सकर्मकास्तथा कर्मरहिता इति भेदतः ॥
६०
.
সুলমাকাম
सकर्मकेभ्यः कर्थ कर्मार्थे च भवन्ति ते ।
अकर्मकेभ्यो भावार्थ कर्तयपि भवन्ति ते !!
ते पुनििवधा उक्ता धातवः शब्दवेदिभिः ।
शुद्धाश्चैव सनाद्यन्ताः, शुद्धानां च गणा दश ||
भ्वाद्योऽदादिहादिदिवाद्यो स्वाद्यश्च तुदादिकः ।
रुधादिश्च तनाद्यश्च क्रयादिश्चैव चुरादिकः ॥
'सन्क्यचकाम्यच्क्ययषोऽथाचारविबू णिज्यङौ तथा ।
यगाय ईयब् णिङ् चेति द्वादशामी सनादयः' ।।
दशभ्यो गणधातुभ्यो मध्ये विकरणादयः ।
लट्लोट्ल विधिलिङ्क्षवेव नान्येषु प्रभवन्ति हि ।।
शबूलुक्लुश्यन्नुशः श्नम् च उइनाणिजिति कर्तरि।
यगेव भावकमार्थ सनाद्यन्तेषु शप् स्मृतः ॥
लुटि तासिलङ्लटोः स्थः शस्थाने लिटुंङि स्मृतः।
त्रयस्ते पुरुषा ज्ञेया ये त्रिकाश्च तिङ त्रयः ।।
प्रथमो मध्यमाश्चैवोत्तमश्चेति तु नामतः ।
मध्यमश्चोत्तमश्चैव कर्थ युष्मदस्मदि ।।
कत्रर्थ इतरस्मिस्तु प्रथमः परिकीर्तितः ।
एकद्विबहुसंज्ञानि वचनानि त्रिके त्रिके ।।
प्रत्येकं प्रभवन्तीत्थं, वर्तमाने च लट् स्मृतः ।
भूते लिट्लङ्लुङश्चैव, लुट्लूटो लङ् भविष्यति ।
प्रवर्तनाशिषोलिङ्लोट् , एष सामान्य सङ्ग्रहः ॥
अत्र दशगणीयप्रथमधातूनां पृथक् पृथग् विकरण प्रदर्शनाय सामा.
न्यतः सङ्केपेण रूपाण्युदाहियन्ते । यथा---
त्वद्वेहे भवतीन्दिराऽत्ति मधुरं भूदेवसङ्घो जुहो-
त्यनौ होतृगणो हविः, पितृसुरा दीव्यन्ति सुन्वन्ति च ।
सोमं पातुमरीस्तुदन्ति बलिनो रुन्धन्ति तन्वन्ति ते
कीर्ति सज्जनसिंह ! चोरयति वा क्रीणाति सा स्वःश्रियम् ।।
तिङ्कुसुमम् । अत्र अकर्मकभूधातोः 'लः कर्मणि च भावे चाकर्मकेभ्यः' ( ३॥ ४।६९) इत्यनेन कर्तरि 'वर्तमाने लट्' ( ३।२।१.२३) इति लट्- प्रत्ययेऽटोरित्संज्ञालोपे लकारमात्रे 'लिप्तम्झि' (३।४।७८) इत्यनेन एक- वचनत्वात्तिपि मध्ये 'कर्तरि शप्' ( ३११।६८) इत्यनेन शपि शकार- पकारयोलौंपे धातोरूकारस्य 'सार्वधातुकार्धधातुकयोः' ( ७।३।८४) इति गुणे अवादेशे 'भवति' इति सिध्यति । एवं साधनप्रक्रिया ग्रन्थ- विस्तरभिया न प्रदश्यते । यो यो विशेषः स एव प्रदयते । तथा 'अत्ति' इति अदधातोस्तिपि 'अदिप्रभृतिभ्यः शपः' (२।४।७२) इति शब्लुक् । अयं सकर्मकः । तथा सकर्मकहुधातोस्तिपि 'जुहोत्यादिभ्यः श्लुः' (२।४७५ ) इति श्लशब्देन शपोलोपे 'श्लौ' (६।१।१०) इत्य. नेन धातोद्धित्वे 'जुहोति' इति । सकर्मकदिवुधातोर्बहुवचनत्वात् झौ 'झोऽन्तः' (७१३) इति तस्याऽन्तादेशे 'दिवादिभ्यः श्यन्' ( ३। ११६९ ) इति श्यनि शकारनकारयोोपे 'दीव्यन्ति' इति । तथा षुञ्- धातोः षकारस्य 'धात्वादेः षः सः' (६।१।६४) इति सादेशे झौ 'स्वा. दिभ्यः श्नुः' (३।२।७३) इति इनौ शकारलोपे 'सुन्वन्ति' इति । तथा तुदधातोर्शी 'तुदादिभ्यः शः' ( ३।११७७ ) इति शे 'तुदन्ति' इति । तथा रुघधातोझै 'रुधादिभ्यःश्नम्' (३।१।७८) इति श्नम् , स च मित्त्वा- दन्त्यादचः परः । नकारस्यानुस्वारे परसवर्णे 'रुन्धन्ति' इति । तथा तनु. धातोझै तनादिकल्भ्य उः' (३।११७९) इति औ 'तन्वन्ति' इति । तथा चुरधातोस्तिपि 'सत्यापपाशरूपवीणातूल श्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरा. दिभ्यो णिच्' ( ३।१।२५) इति स्वार्थे णिचि णकारचकारलोपे इका- रस्य गुणेऽयादेशे उकारस्यापि गुणे 'चोरयति' इति । अयं शविकर- णक एव सनाद्यन्तो धातुर्दशगणीयत्वादुदाहृतः । तथा क्रीघातोस्तिपि 'क्रयादिभ्यः श्ना' ( ३।११८१) इति श्ना, शकारलोपे णत्वे 'क्रीणाति' इति । उदाहरणे लडेव दर्शितः । लिडादीनामुदाहरणानि लकारार्थविशेष- प्रदर्शने कानिचिद् दर्शयिष्यन्ते । अधुना सनाद्यन्तघातूनामा उदाहर. णानि च स पतः प्रदर्श्यन्ते ।
..
सज्जनेन्द्रप्रयोगकल्पद्रुमे-
गुप्तिकिमान्बधिभ्यो दानशान्भ्यां स्वार्थे सनिष्यते।
आशंसायां तथेच्छ ककर्तृकादिषिकर्मणः ।।
धातोरिच्छार्थके च स्थात् क्यच काम्यच्च पुनः स्मृतौ ।
मान्तनानोऽव्ययात् क्यच न काम्यच् भवति निश्चयात् ।।
कर्माधिकरणाभ्यां क्यजाचारे चोपमानतः ।
कर्तुः क्यङ् वा भृशादिभ्यो भवत्यर्थे सलोपकः ॥
डाजन्तात् क्यष् भवत्यर्थे लोहितादिभ्य एव च ।
सत्रात् कक्षात् कष्टकृच्छ्रगहनेभ्यश्चिकीर्षति ॥
पापमर्थे, कष्टशब्दादुत्साहेऽर्थे क्यङिष्यते ।
रोमन्थं वर्तयति च तपश्चरति कर्मणः ॥
बाष्पोष्मफेनाद्वमने, कलहाच्छन्दवैरयोः ।
तथा कण्वाऽभ्रमेघेभ्यः करोत्यर्थे च कर्मणः ॥
मुदिनाद् दुर्दिनानीहाराद्भवत्यर्थ एव च ।
मुखादिभ्यस्तथा कर्तृवेदनायां क्यङो विधिः ॥
क्यच् नमोवरिवचित्रङ: स्यात् , किप नाममात्रतः ।
आचारार्थे च, मुण्डादिसत्यादिभ्यां च णिच मतः ॥
प्रयोजकस्य व्यापारे वाच्ये च प्रेषणादिके।
पौनःपुन्ये भृशार्थे चैकाचो धातोहलादितः ॥
सूच्यादेश्व, तथा गत्यर्थेभ्यः कौटिल्य एव हि ।
लुपादेर्भावगर्हायां यङ् , लुक् तस्याचि बाहुलात् ।।
कण्ड्वादिभ्यो यगायस्तु गुपेधूपेः पणेः पनेः !
विच्छेश्व, स्याद् ऋतेरीयङ्, कमेर्णिङ् स्वार्थ एव हि ॥
पुच्छादुदसने पर्यसने च व्यसने भवेत् ।
भाण्डात्समाचयनके, चीवरादर्जने तथा ।
परिधाने, सनाद्यन्ता द्वादशाऽमी प्रकीर्तिताः ॥
यथा--
-
तितिक्षते विप्रगणं श्रुतीस्तु मीमांसते धित्सति वा मुमूर्षम् ।
६३ -- तिकुसुमम् । मित्रीयति स्वस्तकिकाम्यतीदं शिवीयति ज्ञं किल सज्जनेन्द्रः ।। अत्र तिज्धातोः 'गुतिजकियः सन्' ( ३॥१॥५) इति सनि 'सनाद्यन्ता धातवः' ( ३।११३२ ) इति धातुसंज्ञायां लटि द्वित्वे 'ति- तिक्षते' इति । एवं मान्धातोः 'मान्बधदान्शानभ्यो दीर्घश्वाभ्यासस्य' (३।१।६) इति सन् । तथा धावातोः 'धातुमिच्छति' इत्यर्थे 'घातोः कर्मणः समानकर्तृकादिच्छायां वा' ( ३१११७ ) इति सन् । एवं मित्रशब्दात् 'मात्मनो मित्रमिच्छति' इत्यर्थे सुप आत्मनः क्यच् (३।११८) इति क्यच् । एवम् 'आत्मनः स्वस्तीच्छति' इत्यर्थे अकजन्तात् 'स्वस्तकी स्यव्ययात् 'काम्यच्च' (३।१।९) इति काम्यच् । तथा 'शिवमिवाचरति' इत्यर्थे शिवशब्दात् 'उपमानादाचारे' ( ३१४१०) इति क्यच् । यथा च-- यः स्वर्गीयति सौघसद्मसु भृशं विद्वस्यते संसदि प्राज्य वा सुमनायते चिरतरं हर्षायते पण्डितः । विश्वक्सेनति पालने, रिपुकुलं सन्त्रासयत्युद्धते. दण्डैः, सज्जनभूपतिः स रुचिमान् बोभूयते सर्वदा ।। अत्र 'स्वर्गे इवाचरति स्वर्गीयति' इति 'अधिकरणाच्चेति वक्तव्यम्' इति स्वर्गशब्दात् क्यच् । एवं विद्वानिवाचरति विद्वस्यते' इति 'कर्तुः क्यङ् सलोपश्च' (३।१।११) इति क्यङ् । एवम् 'असु- मनाः सुमना भवति सुमनायते' इति 'भृशादिभ्यो भुव्यच्वेलोपश्च हलः' ( ३।१।१२ ) इति क्यङ् । एवं 'हर्षवान् भवति हर्षायते' इति 'लो- हितादिडाज्भ्यः क्यष्' ( ३१५॥१३ ) इति क्यष् । एवं 'विश्वक्सेन. मिवाचरति विश्वक्सेनति' इति 'सर्वप्रातिपदिकेभ्यः किव्वा वक्तव्यः' इति कि । एवं 'रिपुकुलं सन्त्रसति, तदयं सन्त्रासयति' इति 'तत्प्रयोजको हेतुश्च' (१।४।५५ ) इति णिच् । तथा 'पुनः पुनरति. शयेन वा भवति बोभूयते' इति 'धातोरेकाचो हलादेः क्रियासममिहारे यङ् (३।१२२) इति यत् । यथा च- स सज्जनेन्द्रो वरिवर्ति, यः सदा महीयते राजसु, दुर्गमाहवान् । पणायते, क्षुब्धजनानृतीयते, सुधीजनान् कामयते स्वसंसदि ।।
सज्जनेन्द्रप्रयोगकल्पद्रुमे- अत्र 'अतिशयेन वर्तते वरिवर्ति' इति 'योऽचि च' (२१४१७४) इति यङो लुक् । तथा महीधातोः 'कण्ड्वादिभ्यो यक्' (३।१।२७) इति यक् । पूजां लभते इत्यर्थः । एवं पणधातोः 'गुपूधूपविच्छिपणि. पनिभ्य आयः' (३।१।२८ ) इति आयः स्वार्थे । व्यवहरति स्तौति वेत्यर्थः । तथा ऋतिधातोः 'ऋतेरीयङ्' ( ३।११२९) इति स्वार्थे ईयङ् । निन्दति कृपां करोति वेत्यर्थः । एवं कमधातोः 'कमेणिज्' (. ३।१।३० ) इति स्वार्थे णित् । इच्छतीत्यर्थः । अथ लिडादीनामर्थविशेषा उदाहरणानि च प्रदश्यन्ते- येष्वर्थेष्ठ लकाराः स्युस्ते कथ्यन्ते विशेषतः । भूतानद्यतने चैव परोक्षे लिट् प्रकीर्तितः ॥ यथा-- पपाठ बहुला विद्याः सारं तासां बुबोध (१) च। आचचार तदुक्तं हि सज्जनेन्द्रो निरालसः ।। अत्र पठबुधचरधातुभ्यः 'परोक्षे लिट्' (३।२।११५) इति लिट् । अत्यन्तापहवेऽप्येव ललिटी तु प्रकीर्तितो हकारशश्वतोयोंगे प्रश्ने चासनकालके ॥ -- यथा- - त्वं निशि वेशेऽवात्सीरिति पृष्टः सज्जनेन्द्रेण । नाहं जगाम वेशं योऽवददित्थं स दण्डितस्तेन ॥ अत्र गमधातोः 'अत्यन्तापहवे लिड् वक्तव्यः' इति लिट् । गमनाभावकथनेन वासस्यात्यन्तगोपनम् । यथा च- दानादि शश्वदकरोद्वयवहारमपि ह चकार सज्जनराट् (२)। तेन चिरायुर्भूत्वा यास्यति लोकान् हि शाश्वतान् दिव्यान् ॥ अत्र कृधातोः हकारशश्वच्छन्दयोगे 'हशश्वतोर्लङ् च' ( ३१२॥ ११६ ) इति लङ्लिटौ । उभयत्र लिड्लङावपि भवतः । एवमासन्न. काले प्रश्नेऽप्युदाहार्यम् । (१), 'बुध अवगमने' इति भौवादिकाल्लिट्। (२) लोकानाम् ।।
तिङ्कुसुमम् ।
भूते लुङ् ननुयोगे तु लट् च पृष्टोत्तरे मतः ।
नुनयोगे तु कथितौ लुङ्लटौ च तदर्थ के ॥
यथा-
--
अकार्षीद्ववनुष्ठानान्यभूच्च विपुलं (१) यशः ।
तेनाऽगमच्च विप्रौधः सज्जनेन्द्रस्य सन्निधौ ।।
अत्र कृभूगमधातुभ्यो 'लुङ्' ( ३१२१११० ) इति भूते लुङ् ।
यथा च--
-
'अकार्षीः किमु भोः ! सन्ध्या मिति पृष्टोऽवदटुः ।
'सज्जनेन्द्र ! महीपाल ! सम्यङ् ननु करोम्यहम् ॥
अत्र कृधाताननुशब्दयोगे 'ननौ पृष्टप्रतिवचने' ( ३।३।१२० )
इति भूते लट् । एवं नुशब्दनशब्दयोगेऽपि । तत्र पक्षे लुङपीति बोध्यम् ।
भूतानद्यतने लङ् च, स्मयोगे लट् प्रकीर्तितः ।
यथा
अभवन्मेदपाटेशयशःशुभ्रोऽर्बुदाचलः ।
अतः कैलासबुझ्याऽस्मिन्नीलकण्ठः (२) स्म तिष्ठति ॥
अत्र भूधातोः 'अनद्यतने लङ्' ( ३।२।१११) इति लङ् । तथा
स्मयोगे स्थाधातोः 'लट् स्मे' ( ३।२।१२८ ) इति भूते लट् ।
स्मं विहाय पुराशब्दयोगे प्रोक्तौ तु लङ्लटौ।
यथा-
उदयपुरं नामैतद्यथार्थमभवद् , यतो महावीराः ।
भूपा बोभुवति पुरा रविवंश्याः शत्रुतापना अस्मिन् ॥
अत्र 'बोभुवति' इति यङ्लुगन्ताद् भूधातोः पुराशब्दयोगे भूते
'पुरि लुङ् चाऽस्मे' (३।२।१२२) इति लट् , लुङ्लङ्लिटोऽपि ।
साकाले लङ्लटावुक्ताबभिज्ञावचने बुधैः ।
ययोगेन विनाऽभिज्ञावचने तु लडेव हि ॥
( १ ) वहुलं। (२) ०नेकलिङ्गः ।
सज्जनन्द्रप्रयागकल्पद्रुम- यथा- - मित्रं पृच्छति सज्जनक्षितिपतौ 'भो मित्र ! तत् स्मयते ! यद् वत्स्याम उपत्यकासु बहुशो बाल्ये तरशून्मृगान् । व्याघ्रांस्तत्र किटीन वृकानपि हनिष्यामः स्वहस्तेन वै' 'राजन् ! स्मर्यत' एवमुत्तरमदाद्वार्ताप्रसङ्गे सखा ॥ अत्र स्मृतिबोधके 'स्मयते' इत्युपपदे लक्ष्य लक्षणभावेन धात्वर्थस्य साकासत्वे 'वत्स्यामः, हनिष्यामः' इति वसहनधातुभ्यां 'विभाषा साकाङ्के (३।२।११४) इति भूते लट् । वासो लक्षणं हननं लक्ष्यम् । पक्षे लङ् । वर्तमाने च लट् प्रोक्तो भविष्यति तु लद् स्मृतः । यथा- नयेन वर्तते नित्यं सज्जनः पृथिवीपतिः । तेन राज्यं धनं चायुर्वृद्धिमेष्यति सर्वथा ।। अत्र 'वर्तते' इति वृतधातोः 'एष्यति' इति इण्धातोश्च 'वर्तमाने लट् (३।२।१२३ ) 'लट् शेषे च' ( ३।३।१३ ) इत्येताभ्यां लट्लटौ । लुडनद्यतने ख्यातो भविष्यति, निपातयोः । यावत्पुराशब्दयोस्तु योगे लट् नान्य एव हि ।। लिप्सायां चैव किंवृत्ते कदाहियुते तथा । लोडर्थलक्षणे चैव संसिद्धौ लिप्स्थमानतः ॥ लट् स्मृतश्च यथाप्राप्तौ लट्लुटो परिकीर्तितौ। ऊर्ध्वमौहूर्तिके काले लोडर्थे लिङ्लटौ तथा ॥ यथा- 'सज्जनेन्द्रसमीपे तु गमने भविता हि नः । मनोरथ' इति स्वान्ते निश्चिन्वन्ति विपश्चितः ।। अत्र 'भविता' इति भूधातोः 'अनद्यतने लुट्' (३।३।१५)इति लुट् । यथा च-- याते सज्जनसिंहभूपनिकषा विद्वद्गणे दूरतः 'कस्मै राति कदा ददाति धन'मित्युत्कण्ठितश्चेतसि ।
तिङ्कुसुमम् । वृत्ति प्रार्पयति स्वराज्यमधिकं प्राप्नोति चेत्थं वद. त्यस्मै सत्कृतिपूर्वकं समधिकं यावद्ददाति प्रभुः ॥ अत्र 'राति' इति राधातोः 'किंवृत्ते लिप्सायाम् (३।३।६) इति किशब्दयोगे लिप्सार्थे भविष्यति लट् । एवं कदाशब्दयोगे 'ददाति' इति 'विभाषा कदाकोः' (३।३।५) इति भविष्यति दाधातोर्लट् । एवम् 'प्रार्पयति' इति अर्पधातोः 'प्राप्नोति' इति आपधातोश्च वृत्तिदानेन स्वराज्यलाभे गम्यमाने 'लिप्म्यमानसिद्धौ च' ( ३३७ ) इति भविष्यति तथा निश्चयार्थकनिपातयावच्छब्दयोगे 'ददाति' इति दाधातोर्भविष्यति लट् । पक्षे यथाप्राप्तौ लट्लुटौ । एवमन्येऽप्यूह्याः । समीपे वर्तमानस्य भूते वाऽध भविष्यति । भूते भूता वर्तमाना भविष्यन्तो भविष्यति ॥ वर्तमानाश्च ला उक्ताः, लट् । यथा-- -- अत्र प्रणिधिः 'कदाssगतोऽसि हि कदा गमिष्यसि पुनस्त्व'मिति पृष्टः । कथयति सज्जननरपतिमयमागच्छामि चैष गच्छामि ॥ आगमनस्य वर्तमानकालिकाऽऽगमनप्रश्नसमीपवर्तित्वात् 'आगच्छामि' इति गमधातोः 'वर्तमानसामीप्ये वर्तमानवद्वा' (३३३३१३१) इति भूते वर्तमानलट् । एवं भविष्यत्कालिकगमनप्रश्नसमीपवर्तित्वात् गच्छा. मि' इति भविष्यति वर्तमानलट् । पक्षे भूतभविष्यन्तौ लङ्लटावपि । आशंसायां तु लुङ्लटौ। लट् चाथो, क्षिप्रपर्याये लट् स्यादुपपदे किल ॥ लिङाशंसावाचिनि चोपपदे गदितस्तथा । क्रियासातत्यसामीप्ये भूते लुङ् लट भविष्यति ॥ मर्यादोक्तावहोरात्रभिन्नकालांगके च वै । अवरस्मिन् लट्, परस्मिन् ललुटौ च भविष्यति॥ यथा-- 'प्रादाच्चेद्वसुधां हि सज्जननृपो धान्यान्यवाप्स्म क्रमात् सर्वाणी' ति वदन्ति केचिदपरे 'चेल्लोकयेत् स प्रभुः ।
६८
सज्जनेन्द्रप्रयागकल्पद्रुमे-
आशंसामह उन्नतार्थसुखिनो जायेमही'त्थं भृशं
तत्तद्वान्छितपूरको विजयते श्री मेदपाटेश्वरः ।।
अत्र 'प्रादात्' इति 'अवाप्स्म' इति च सम्भावनाद्योत्ये भविष्यति
काले 'आशंसायां भूतवच' (३।३।१३२) इति दाधातोर्वपधातोश्च
लुङ् । एवम् 'आशंसामहे' इति सम्भावनाबाचिन्युपपदे उक्तेऽर्थे 'लोकः
येत् , जायेमहि' इति लोकधातोर्जनघातोश्च 'आशंसावचने लिङ्'
( ३।३।१३४ ) इति लिङ् । एवमन्येऽप्युदाहार्याः ।
सर्वत्र लिङ्निमित्ते तु क्रियाऽनिष्पत्तिम्चने ।
भविष्यति लव स्याद्, उताप्योरित्यत: पुरः ॥
भूते वा लङ्, ततोऽग्रे तु नित्यं भूतेऽपि लङ् भवेत्।
गींयां जात्वपियुते लट् च कालत्रये मतः ॥
कथंयोगे च गर्दायां कालमात्रेऽपि लिङ्लटौ ।
अन्येऽपि स्वस्वकाले स्युर्लकारास्तत्र चैव हि ॥
किंवृत्ते गर्हणे प्रोक्तो लिङ्लटौ, तद्विनापि च ।
क्षमासम्भावनार्थेऽथो तयोरेव तु सूचने ।
अस्त्यर्थे किंकिलार्थे च लडेव परिकीर्तितः ।।
यथा--
सज्जनसिंहो नृपतिश्चेदगमिष्यद्वनेषु मृगयायै
हिंसकलुण्ठकतस्करनाशोऽप्यभविष्यदाशु शिष्टोऽपि ।।
अत्र हेतुहेतुमद्भावे द्योत्ये 'अगमिष्यत् , अभविष्यत्' इति ।
'लिङ्निमित्ते लङ् क्रियाऽतिपत्तौ ( ३।३।१३९) इति लुङ् ।
यथा च--
-
श्रीमत्सज्जनसिंहभूपतिलके सिंहासनाधिष्ठिते
'वं रे ! गच्छसि जातु वारवनिता, धर्म कथं त्वं त्यजेः ।
को वा पास्यति वारुणी, परधनं नो मर्षये त्वं हरे'.
रित्यादीनि वचांसि वक्तुमुचितो नो याति तत्संसदि ॥
६९ तिङ्कुसुमम् । अत्र जातुयोगे 'गच्छति' इति गर्दायां गमधातोः कालत्रये 'गर्दायां लडपिजात्वोः' ( ३।३।१४२ ) इति लट् । एवं कथयोगे 'त्यजेः' इति उक्तार्थे त्यजधातोः "विभाषा कथमि लिङ् च' (३।३। १४३ ) इति लिङ् । तथा 'पास्यति' इति किंवृत्ते उक्तार्थे पाधातो: 'किंवृत्ते लिङ्लटौ' ( ३।३।१४४ ) इति लट् । एवं हरेः' इति क्षमार्थे उपपदे 'अनवक्लप्त्यमर्षयोरकिंवृत्तेऽपि' (३।११४५ ) इति लिङ् । यच्चयत्रयदाजातुयदियद्युजि लिङ् मतः । यच्चयत्रयुते चैव चित्रीकरणके तथा ॥ गर्दायां तु लिङेवाऽर्थादधिकोक्तौ न लिङ् भवेत् । लट स्यादुपपदे यचयदियविभिन्नके । विस्मयीकरणे चाथो, यथा- प्राज्यं धनं प्रदधुर्यच्चान्ये भण्डमल्लकितवेभ्यः । न श्रद्धत्ते सज्जनभूपो यवनी यदीयुस्ते ।। अत्र यच्चयोगे गर्दायां 'प्रदाः' इति 'यच्चयत्रयोः' (३।३।१४८) इति लिङ् । एवं यदियोगे 'इयुः' इति 'यदायद्योरुपसंख्यानम्' इति इण्धातोर्लिङ् । यथा च- उत्कण्ठितो नियुद्धे निपातयेदेष कृशतरो मल्लः । पीवरबाहुं यच्चाश्चर्य तद्वदति सज्जनेन्द्र इति ॥ अत्र यच्चयोगे आश्चर्ये द्योत्ये 'निपातयेत्' इति पतधातोः 'चित्रीकरणे च' (३।३। १५०) इति लिङ् । उताप्योस्तु समर्थयोः योगे लिङ्, इत ऊवं तु भूतेऽपि नियतो हि लुङ् । यथा-- मेदपाटे बजाशु त्वं यदीच्छसि धनाढ्यताम् । सज्जनः पृथिवीजानिरपि हन्यादरिद्रताम् ।। अत्र अपियोगे बादार्थे 'हन्यात्' इति हनधातो ते 'उताप्योः समर्थयोः' (३।३।१५२) इति लिङ् । .
सज्जनेन्द्रप्रयोगकल्पद्रुमे- कच्चिद्योगं विना स्वाभिप्रायाविष्करणे तु लिङ् । यथा- 'भवान् भुञ्जीत, मे कामो' वदन्तीत्थं सदैव हि । सज्जनेन्द्रप्रकृतयो दृष्टमात्रे तु भूसुरे ।। अत्र 'भुञ्जीत' इति भुजधातोः स्वाभिप्रायप्रकाशने द्योत्ये 'काम- प्रवेदनेऽकचिति' ( ३।३।१५३) इति भूते लिङ् । सिद्धाप्रयोगे प्रौढ्यर्थै लिङ् च सम्भावने मतः। तत्रैव सम्भावनार्थे धातावुपपदेऽपि च । यद्योगरहिते लिङ् स्याद्यथाप्राप्तश्च लुद् तथा ॥ यथा-- दीर्घपीनायतभुजः सज्जनेन्द्रो विराजते । तेन सम्भावयामीत्थं 'दोामेव हरिं जयेत् ॥ अत्र 'सम्भावयामि' इति धातावुपपदे प्रौव्यर्थे सम्भावनेऽर्थे 'जयेत्' इति जिधातोः 'विभाषा धातौ सम्भावनवचनेऽयदि' (३।३।१५५) इति भूते लिङ् । हेतुहेतुमतोलिङ् च भविष्यति मतो बुधैः ॥ यथा-- 'दद्याच्चेत् सज्जनेन्द्रो मे यायाहारिधमाजनि' । मेदपार व्रजन् कश्चिन्मनस्येवमचिन्तयत् ॥ अत्र 'दद्यात् यायात्' इति दानदारिद्यगमनयोतुहेतुमद्भावे दायाधात्वोः 'हेतुहेतुमतोर्लिङ्' ( ३।३।१५६ ) इति भविष्यति लिङ् । इच्छार्थके तूपपदे स्वाभिप्रायप्रकाशने । प्रेषादिविध्याद्यर्थे च मुहूर्तादूर्ध्वके तथा ॥ आशीरथै च लिङ्लोटौ, योग्यशक्षार्थके त्वथो। यच्छन्दोपपदे काले वेलायां समयेऽपि च ।। समानकर्तृफेच्छार्थोपपदेऽपि लिडेव हि । समानकर्तृकेच्छार्थोपपदे वर्तमानके ।
यथा- तिकुसुमम् । इच्छा गर्थे ललिडो च, स्मयोगे चाऽधीष्टके तथा । प्रेषाद्यर्थे प्राप्तकाले मुहूर्ताचे स्मयोगके । लोट्, माङ्युपपदे लुङ् स्यात्, स्मोत्तरे लङ्लुङौ मतौ॥ वाक्यं काव्यकृतो- 'नरेन्द्र ! शृणु मे श्लोका' निति प्रार्थये श्रुत्वैवं शृणुयामितीच्छति, तथा वतीति 'संश्रावयेः । मा कार्षीः प्रविलम्ब'मित्यनुदिनं श्रीसज्जनमापतिः कुर्वन् विप्रवचासि सौख्यमतुलं गृह्णाति भूयादिति ।। अत्र 'प्रार्थये' इति इच्छार्थकोपपदे स्वाभिप्रायप्रकाशने 'शृणु' इति श्रुधातोः 'इच्छार्थेषु लिङलाटौ' (३।३।१५७) इति लोट् । एवम् 'इच्छति' इति एककर्तृकच्छार्थोपपदे 'शृणुयाम्' इति श्रुधातोः 'लिङ् च' ( ३।३।१५९ ) इति लिङ् । तथा प्राप्तकालार्थे 'संश्रावयेः' इति । श्रुधातोः 'प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च' ( ३।३।६१ ) इति लिङ् । एवं माकुपपदे 'कार्षीः' इति धातोलुङ् । एवमन्येऽप्युदाहार्याः । तिवाच्यायाः क्रियायास्तु प्राधान्यादनुरोधतः । तथा गुणक्रियावाचिशब्देभ्यः प्रत्यया मताः ।। यथा आशीर्वादं ददत्येवं सज्जनेन्द्राय भूसुराः । 'सर्वभूमेस्तु साम्राज्यं कुर्वन् पुत्रो भविष्यति' । अत्र 'भविष्यति' इति तिवाच्यभवनक्रियायाः प्राधान्यात् 'कुर्वन्' इति कृत्प्रत्ययवाच्यक्रियाया गौणत्वात् प्रधानक्रियानुरोधेन 'कुर्वन्' इति भविष्यति वर्तमानकृत्प्रत्ययः । पौनःपुन्ये भृशार्थे च लोट् स्यात् हिस्वी ततो न तिङ् । अनुप्रयोगो धातोश्च तद्बोधार्थ ततो मतः । लोटः प्रकृतिभूतोऽसौ, विकल्पेन समुच्चये ॥ यथा-- सज्जनसिंहः प्रघने स याहि याहीति याति भटपुरतः । शस्त्रं हराऽस्य, चैनं जहीति जयति रिपून् ॥ - एनं बधान,
७२
सज्जनेन्द्रप्रयोगकल्पद्रुमे-
अत्र पुनः पुनरतिशयेन वा याने बोध्ये 'याहि याहि' इति
याधातोः 'क्रियासममिहार लोट् लोटो हिस्वौ वा च तध्वमोः' (३।४।२)
इति लोट् , तस्य 'हि' आदेशः । ‘क्रियासमभिहारे द्वे वाच्ये' इति द्वित्वम् ।
'यथाविध्यनुप्रयोगः पूर्वस्मिन्' ( ६।४।४ ) इति लोटप्रकृतियाधातोरनु.
प्रयोगः, तस्मात्तु तिप् । इतिशब्दस्त्वभेदान्वयबोधकः । एवं बन्धनं
हरणं हन नमिति अनेकक्रियासमुच्चितजये द्योत्ये 'समुच्चयेऽन्यतरस्याम्'
(३।४।३) इति विकल्पेन लोटि 'हि'आदेशः । पक्षे लट् । 'जयति' इति
'समुच्चये सामान्यवचनस्य' (३।४।५) इति सामान्यस्य जिधातोरनुप्रयोगः ।
मन्योपपदकाहातोर्मध्यमः पुरुषो भवेत् ।
मन्येतस्तृत्तमः प्रोक्तः स चैकार्थस्य वाचकः ।।
यथा--
राठोरभूपालसुताविवाहे श्रीसज्जनेन्द्रं जगदुर्नताजयः ।
'नाहं ग्रहीष्यस्यमुमेव हारं मन्ये त्वमित्थं हि स एव लभ्यः ॥
अत्र 'ग्रहीष्यसि, मन्ये' इति प्रहासे द्योत्येऽस्मच्छब्दयोगेऽपि
मन्यधातुरुपपदं यस्य तादृशाद् ग्रहघातोः, युष्मच्छब्दयोगेऽपि मन्यधातोः
'प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच' (१।४।१०६)
इति मध्यमोत्तमपुरुषौ मन्यतेरेकवचनं च ।
भावकर्मव्यवस्था तु व्यवस्था कर्तृकर्मणः(१) ।
तथाऽऽत्मनेपदस्यापि परस्मैपदकस्य च ।।
व्यवस्था मूलतो ज्ञेया विस्तरान्नेह कथ्यते ।
(१) अयमत्र सङ्ग्रह
भावार्थेऽकर्मकाद्धातोः कर्मार्थे च सकर्मकात् ।
उभाभ्यामेव धातुभ्यां कर्बर्थे प्रत्यया मताः ॥
धातुलादेशयोर्मध्ये यकारो भावकर्मणोः।
लट्लोट्लङ्विधिलिङ्घ स्यात् , सर्वत्रैवात्मनेपदम् ॥
धातोरन्त इकारश्च लादेशो लुप्यते तथा।
लुङयेकवचने, कर्मकर्तर्यप्येवमेव हि ॥
कृत्कुसुमम् । लट्यात्मनेपदं बोध्यमेकारान्तं विचक्षणैः ।। परस्मैपदमाख्यातमिकारान्तं तथा लटि। इति सङ्केपतः प्रोक्त एष तिङ्सङ्ग्रहः किल । सज्जनेन्द्रयशोगन्धप्रसारणकरं परम् । एतत् तिङ्कुसुमं चारु चतुर्थ फुल्लतां दधौ ॥ इति श्रीधर्माधिकारिकृष्णपण्डितविरचिते सज्जनेन्द्र- प्रयोगकल्पद्रुमे तिकुसुमं चतुर्थम् ।। अथ कृतकुसुमम् । धातोः कृत्प्रत्यया बोध्याः कादित्रितयार्थके । भूतादिकालत्रितये निरूप्यन्ते समासतः ॥ कृत्याः खलाः क्तश्चापि सकर्मभ्यस्तु कर्मणि । अकर्मकेभ्यो भावे स्युः, कर्तरि प्रत्ययाः परे । अर्हशक्यार्थयोः प्रेषे प्राप्तकालातिसगयोः । भवन्ति प्रत्ययाः कृत्यास्तृजहाँर्थे तथेष्यते ॥ तव्यत्तव्याऽनीयरस्तु धातुभ्य: केलिमर भवेत् । पवर्गान्ताददुपधादजन्ताद् यत् शके सहेः॥ एतिस्तुशास्वृहजुषः क्यप् स्याद् ऋदुपधादपि । आवश्यके उकारान्ताण्ण्य ऋकारहलन्ततः ॥ भाववाच्यप्रयोगे च तृतीया कर्तृकारके । क्रियैकवचनान्तैव प्रथमे पुरुषे भवेत् ॥ कर्मवाच्यप्रयोगे तु तृतीया कर्तृकारके । प्रथमान्तं भवेत्कर्म कर्माधीनं क्रियापदम् ॥ कर्तृवाच्यप्रयोगे हि प्रथमा कर्तृकारके। द्वितीयान्तं भवेत्कर्म कर्बधीनं क्रियापदम् ॥ कर्तृवाच्या प्रयोगास्तु दशगण्यां प्रपञ्चिताः। कर्मकर्तृप्रयोगे तु कर्तरि प्रथमा भवेत् ॥
सज्जनेन्द्रप्रयोगकल्पद्रुमे-
यथा
-
जेतव्यो रिपुवर्गश्चयनीयोऽर्थो भिदेलिमं पापम् ।
कार्यों धर्मों लभ्यं ज्ञानं चेत्येव सज्जनेशमतिः ॥
अत्र अद्यिर्थे 'जेतव्यः, चयनीयः' इति जिचिधात्वोः 'तव्यत्
तव्यानीयरः' ( ३३११९६ ) इति तव्यानीयरौ । एवं 'भिदेलिमम्' इति
भिद्धातोः 'केलिमर उपसंख्यानम्' इति केलिमर् । तथा 'कार्यः' इति
कृधातोः 'ऋहलोर्यत्' ( ३।१।१२४ ) इति ण्यत् । एवं 'लभ्यम्'
इति लभधातोः 'पोरदुपधात्' ( ३।१।९८ ) इति यत् ।
ण्वुल्तृचौ सर्वधातुभ्यो, नन्दिग्रहिपचादितः ।
ल्युणिन्यचा क्रमात्, कस्तु ज्ञाप्रीगुपधकात्किरः।
उपसर्गे तथाऽऽदन्तात् , पाघ्रामाधेदृशस्तु शः।
ज्वलादिभ्यः कसन्तेभ्यः श्यैङादिभ्यस्तु णः स्मृतः ॥
मुसल्वः साधुकारित्वे वुन् स्यादाशिषि सर्वतः ।
कर्मण्युपपदे हावामश्वाऽण् , अनुपसर्गतः ॥
सुबन्ते वा उपपदे आदन्तात्क: समीरितः ।
गापाभ्यां नोपसृष्ठाभ्यां टक्, हृमोऽनुद्यमेऽच् स्मृतः॥
यथाः
धर्ता भूवलयस्य दुःखदमकः कृत्यैः प्रजारञ्जनः
स्थायी संसदि देवपूजनरतो विप्रप्रियः सत्यवाक् ।
चारैः पश्य उदारधीः सुलवकोऽरीणां नृपाराधितः
श्रेयश्चार उपायविद्विजयते श्रीसज्जनाधीश्वरः ।।
अत्र कर्बर्थे धरतीति 'धर्ता' इति धृधातोः, दमयतीति 'दमकः'
दम्धातोः ‘ण्वुल्तृचौ' ( ३।१।१३३ ) इति तृच्ण्वुलौ । एवं रञ्जयतीति
'रञ्जनः', तिष्ठतीति 'स्थायी', दीव्यतीति 'देवः' इति रञ्जस्थादिव.
धातुभ्यो 'नन्दिग्रहिपचादिभ्यो व्युणिन्यचः' ( ३।१।१३४ ) इति क्रमात
ल्युः णिनिः अच् प्रत्ययः । एवं प्रीणातीति 'प्रियः' इति 'इगुपधज्ञाप्री-
किरः कः' ( ३११११३५ ) इति कः । एवं चरन्तीति 'चाराः' इति
कृत् कुसुमम् । ७५ 'ज्वलितिकसन्तभ्यो णः' ( ३।१।१४० ) इति णः । तथा पश्यतीति 'पश्यः' इति पाघ्रामाधेड्डशः शः' ( ३।१।१३७ ) इति शः । एवं साधु लुनातीति 'सुलवकः' इति 'पुसृत्वः समभिहारे वुन्' (३।१।१४१) इति वुन् । तथा नृन् पातीति 'नृपः' इति 'आतोऽनुपसर्गे कः' (३॥ २१३ ) इति कः । एवं श्रेयश्चरतीति 'श्रेयश्चारः' इति 'कर्मण्यण' ( ३॥ २११) इति कर्मोपपदेऽण् । शेतेरच् चाऽधिकरणे, चरेष्टोऽपि कृमस्तु सः । हेतुताच्छील्यानुलोम्ये कर्बर्थे पूर्ववत् स्मृतः ।। ण्यन्तादेजेः खशन्येभ्योऽप्ययं, प्रियवशे वदः । खच भुवः करणे भावे ह्याशितोपपदे च सः ॥ कृषः क्षेमे प्रिये मद्रे खजणी स्तो, गमेस्तु खच् । अन्ताद्युपपदे डश्च, किन् स्पृशोऽनुदके सुपि ॥ किन्नन्ता ऋत्विगायाः स्युरज्ञानार्थाद् दृशेस्तु कञ् । किन च स्यदायुपपदे, नीतिर्यस्य यशस्करी रिपुगणः शैलेशयो, मानिनः सर्वे यस्य वशंवदा, भवति चोग्रंपश्य आलोकिते । यस्मिन् दुष्टजनः सतां सुगसदा मन्त्रस्पृगस्त्रे च यः स श्रीसज्जनभूपतिर्जयति, नो भूमौ नृपस्तादृशः ॥ अत्र हेतौ द्योत्ये यशः करोतीति 'यशस्करी' इति 'कृलो हेतु. ताच्छील्यानुलोम्येषु' ( ३।२।२० ) इति टः । एवं शैले शेते इति 'शैलेशयः' इति ‘अधिकरणे शेतेः' ( ३।२।१५) इति अच् । 'शय- वासवासिष्वकालात्' (६।३।१८) इति सप्तम्या अलुक् । तथा वशं वदन्तीति 'वशंवदाः' इति 'प्रियवशे वदः खच्' ( ३।२।३८) इति खच् । एवम् उग्रं पश्यतीति 'उग्रंपश्यः' इति 'उग्रंपश्ये. रंमदपाणिन्धमाश्च' (३।२।३७ ) इति खशन्तो निपातितः । तथा सुखेन गच्छत्यस्मिन्निति 'सुगम्' इति 'अन्तात्यन्ताध्वदूरसर्वानन्तेषु ड' यथा- - .
सज्जनेन्द्रप्रयागकल्पद्रुम- -- ३।२।४८) इति सूत्रे 'सुदुरोरधिकरणे' इति डः । सुगं सदो यस्येति राज्ञो विशेषणम् । एवं मन्त्रेण स्पृशतीति 'मन्त्रस्पृक्' इति 'स्पृशोऽनुदके किन्' (३।२।५८) इति किन् । तथा तत्तुल्यः 'ताहशः' इति 'त्यदा- दिषु शोऽनालोचने कञ् च' ( ३।२।६० ) इति कञ् । विः सोपपदकाद्भजे ॥ मनिनवनिप्वनिपूविक्किप् धातोः स्युः, स्थस्तु ककिपौ। अजात्यर्थे सुपि णिनिस्ताच्छील्येऽथ व्रतेऽपि च । उपमाने तथा कर्तर्याभीक्ष्ण्ये बहुलं च सः ॥ यथा-- 'षष्ठांशभाक् सुकृतदुष्कृतयोनृपोऽस्ती- त्येवं विचार्य नयवर्त्म विदाशुधीवा । धर्म प्रजारनुदिनं व्यवहारदर्शी संयोजयन् जयति सज्जनसिंहभूपः ।। अत्र षष्ठांशं भजतीति 'षष्ठांशभाक्' इति भजधातोः सुप्युपपदे भजो विः' ( ३।२।६३ ) इति ण्विः । एवं वर्तत इति 'वर्म' इति वृतधातोः 'अन्येभ्योऽपि दृश्यन्ते' (३।२।७५) इति मनिन् । तथा वेत्तीति 'वित्' इति 'किप च' (३।२।७६) इति क्विम् । एवम् आशु ध्यायतीति 'आशु. धीवा इति ध्यैधातोः 'अन्येभ्योऽपि दृश्यन्ते'( ३।२।७५ ) इति वनिप् । इशिग्रहणात् सम्प्रसारणम् । तथा व्यवहारं पश्यति तच्छीलो 'व्यवहारदर्शी इति दृश्धातोः 'सुप्यजातौ णिनिस्ताच्छील्ये' (३।२।७८) इति णिनिः । इतः स्युः प्रत्यया भूते, णिनिः स्यात्करणे यजः । हनः कर्मणि च, किम् तु ब्रह्मणि भ्रूणवृत्रयोः ।। अग्नेश्चित्रः कृतः पुण्यपापमन्त्रमुकर्मसु । दृशेः कनिए जनेः स्यादन्येभ्योऽन्यार्थकेऽपि च ॥ यथा-- -- अमिचितो द्विजवर्यान् कर्मकृतः सोमयाजिनोऽन्यांश्च । श्रुतिपारदृश्वनोऽपि प्रपूजयति वृत्रहेव सज्जनराट् ।।
कत्कुसुमम् । ७७ अत्र अमिं चितवानिति 'अग्निचित्' इति 'अग्नौ चेः' (३।२६५१) इति विप् । द्विर्जायत इति 'द्विजः' इति 'अन्येभ्योऽपि दृश्यते' ( ३।२। १०१) इति जनेर्डः । तथा कर्म कृतवानिति 'कर्मकृत' इति 'सुकर्मपाप. मन्त्रपुण्येषु कृञः' (३।२।८९) इति किम् । एवं सोमेनेष्टवानिति ‘सोम. याजी' इति 'करणे यजः' ( ३।२।८५) इति णिनिः । तथा श्रुतिपारं दृष्टवानिति 'श्रुतिपारदृश्वा' इति 'दृशेः कनिप्' (३।२।९४) इति कनिप् । एवं वृत्रं हतवानिति 'वृत्रहा' इति 'ब्रह्मभ्रूणवृत्रेषु विप्' ( ३।२।८७ ) इति विप् । कर्तरि क्तवतुर्भूते, भूते तो भापकर्मणोः । स्पष्टार्थोक्तानुवादोऽयमथ क्तस्त्वादिकर्मणि ॥ गत्यर्थीकर्मकश्लिष्श्यादिभ्यः कर्मणि कर्तरि । भावे, तथाऽधिकरणे ध्रौव्यगत्यशनार्थकात् ।। मतिबुद्ध्यर्चनाद्यर्थधातुभ्यो, भीत एव च । वर्तमानार्थके क्तः स्यात् , क्लीये भावे तु सर्वदा ।। यथा- यो विद्याः सुविदितवान् कलाश्च सर्वा, राज्यीयाऽऽसित उपविष्टमर्पितं च । विप्रेभ्यो धनमपि येन, स विदानी भूपानां नरपतिसज्जनोऽर्चितश्च ॥ अत्र विवेदेति 'विदितवान्' इति 'निष्ठा' ( ३।२।१०२) इति विद्धातोः क्तवतुः। आसते स्म राजानोऽस्मिन्निति 'आसितम्' इति आस- धातोः 'क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः' (३।४।७६) इति ध्रौव्यार्थेऽधिकरणे क्तः । एवम् 'उपविष्टम्' इति विशधातो वे क्तः । एवम् 'अर्पितम्' इति कर्मणि क्तः । तथा अर्यत इति 'अर्चित:' इति वर्तमाने क्तः । लिटः कानचक्कसू धातोः, कसुः सदवसश्रुवः । इति भूताधिकारोऽभूत्, सज्जनेन्द्रप्रयागकल्पद्रुमे- यथा- का- देवाननूचानमुखान् द्विजनजान् संपूज्य मान्यांश्च मुदा निषेदुषि । सिंहासने सज्जनसिंहवर्मणि प्रादुर्बभूवुः सहसा सुवृष्टयः ॥ अत्र वेदस्यानुवचनं कृतवन्त इति 'अनूचाना' इति 'उपेयिवाननाश्वा- ननूचानश्च' (३।२।१.० १) इति वचधातोर्निपातितः कानच् । तथा निष- सादेति 'निषेदिवान्' इति सद्धातोः 'भाषायां सदवसश्रुवः' (३।२।१०८) इति कसुः। लटः स्तः शतृशानचौ । सम्बोधने क्रियायास्तु हेत्वाल्लक्षणार्थकात् । एष्यर्थेषु लटस्तो स्तः प्रायश्चान्यत्र च कचित् । चानश् भवेत्तु ताच्छील्यवयोवचनशक्तिषु ।। यथा- - बिभ्राणः कुतुकेन लौहकवचं संयाति सैन्यान्वितः सामन्तैश्च तथैव वर्म रुचिरं संधारयद्भिः समम् । प्रत्यब्दं नगराबहिः पुरजनैरालोक्यमानस्ततो 'द्राक् सम्राड् भविते'ति सज्जननृपो मन्ये हनिष्यन् रिपून्। अत्र बिभर्तीति 'बिभ्राणः' इति भृधातोः 'ताच्छील्यवयोवचन. शक्तिषु चानश्' (३।२।१२९)इति चानश् । एवं धारयन्तीति धारयन्तः' इति घृधातोः 'लटः शतृशानचावप्रथमासमानाधिकरणे' ( ३।२।१२४) इति शतृप्रत्ययः । तथा आलोक्यत इति 'आलोक्यमानः' इति लोक. धातोस्तेनैव शानच् । एवं 'हनिष्यन्' इति हनधातोः 'लटः सद्वा' ( ३१३१४ ) इति शतृप्रत्ययः । इत: किबन्तं तच्छीले तद्धर्मणि च कर्तरि । तत्साधुकारािण तथा प्रोच्यन्ते प्रत्ययाः पुरः॥ तृन् सर्वेभ्यः, सम्पृचादिशम्यादिभ्यो घिनुण मतः ।
कृस्कुसुमम् । हलादेरनुदात्तेतः, शब्दार्थाच्चलनार्थकात् ॥ अकर्मकाद् , अयान्ताच्च ज्वादिभ्यश्चैव युच् स्मृतः । उः सनाशंसभिक्षिभ्यः, किप् सर्वेभ्योऽपि दृश्यते ।। इष्णुच क्नुरस्नुवुः षाकन्नुकमालुजिनिः कमरच् । घुरच कुरच करप रो रुरुक आरुजिङ् वरच् ॥ हुः ष्ट्रन्नित्रः क्रुक्लुकनौ भवन्त्येते पृथक् पृथक् । प्रत्यया भिन्नधातुभ्यो विज्ञेया मूलतः खलु ॥ यथा- - भूभर्ता धर्मरागी गिरिवदचलनो नीतितो वेदतत्त्वं जिज्ञासु रुरक्षी परपुरगृहयालुः शरारू रिपूणाम् । रोचिष्णुर्जागरूकः श्रुतिविमुखघियां निन्दकश्चारनेत्रो धृष्णक् श्रीसज्जनेन्द्रो जगति विजयते जित्वरः शम्भुभक्तः।। अत्र बिभर्तीति 'भर्ता' इति भूधातोः 'तृन्' ( ३१२।१३५ ) इति तृन् । एवं रज्यतीति 'रागी' इति रञ्जधातोः 'सम्पृचानुरुधाङ्यमाड्यस परिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिस्टपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुह. युजाक्रीडविविचत्यजरजभजातिचरापचरामुषाभ्याहनश्च' (३।२।१४२) इति घिनुण । तथा चलतीति 'चलनः' इति 'चलनशब्दार्थादकर्मकाधुच्' इति ( ३।२।१४८ ) इति युच् । एवं ज्ञातुमिच्छु: 'जिज्ञासुः' इति ज्ञाधातोः 'सनाशंसभिक्ष उः' (३।२।१६८) इति उः । तथा बिभेतीति 'भरुिः' इति भीधातोः 'भियः क्रुक्लुकनौ' ( ३।२११७४ ) इति क्रुः । एवं गृह्णातीति 'गृहयालुः' इति ग्रहधातोः 'स्पृहिगृहिपतिदयिनिद्रातन्द्रश्रद्धाभ्य आलुच्' (३।२।१५८) इति आलच् । तथा शृणातीति 'शरारुः' इति 'शृवन्द्यो- रारु:' ( ३।२।१७३ ) इति आरुः । एवं रोचत होत 'रोचिष्णुः' इति रुचधातोः 'अलंकृनिराकृमजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर. इष्णुच्' (३।२।१६३) इति इष्णुच् । तथा जागर्तीति 'जागरूकः' इति जागृधातोः 'जागरूकः' (३।२।१६५) इति ऊकः । एवं निन्दतीति 'निन्दकः' इति निन्दधातोः निन्दहिंसक्तिशखादविनाशपरिक्षिपपरिरट सज्जनेन्द्रप्रयोगकल्पद्रुमे- तथा .. यथा-- -- परिवादिव्याभाषासूत्रो वुञ्' (३।२।१४६ ) इति वुञ्' । नयत्यनेनेति 'नेत्रम्' इति नीधातोः 'दाम्नीशसयुयुजस्तुतुदसिसिचमिहपत. दशनहः करणे' ( ३१२।१८२) इति ष्ट्न् । एवं धृष्णोतीति 'कृष्णक्' इति धृषधातोः 'स्वपितृपोर्नजिङ्' ( ३।२।१७२ ) इति सूत्रे 'धृषेश्चेति वाच्यम्' इति नजिङ् । तथा जयतीति 'जित्वरः' इति जिधातोः 'इण्नशजिसर्तिभ्यः करप्' ( ३।२।१६३ ) इति करप् । एवं शं भवतीति 'शम्भुः' इति 'विप्रसभ्यो इवसंज्ञायाम्' ( ३।२।१८० ) इति सूत्रे 'मितद्रादिभ्य उपसंख्यानम्' इति डुः । वर्तमाने तथा भूते बहुलं स्युमणादयः । सज्जननृपतिः साधुषु दाशेषु वदान्य इति गमी सौख्यम् । भीमो जयत्यसाधुषु, ततो गमी शक्रपदमचलम् ॥ अत्र दाशन्ति तस्मै 'दाशः' इति, गमिष्यतीति 'गमी' इति, बिभ्यति तस्मात् 'भीमः' इति सम्प्रदानभविष्यदपादानेषु 'दाशगोनौ सम्प्र. दाने' (३।४।७३) 'भविष्यति गम्यादयः' (३।३।३) 'भीमादयोऽपादाने, (३।४।७४) इति सूत्रैः क्रमेण दाश्धातोः सम्प्रदाने पचाद्यच्, गमधातोः भविष्यति इनिः, भीधातोः मप्रत्ययसन्नियोगेन वैकल्पिक घुक् निपात्यन्ते । सम्प्रदानापादानाभ्यामन्यत्र सानोति परकार्य 'साधुः' इति साधधातोः 'कृवापाजिमिस्वदिसाध्यशूभ्य उण्' इत्युणादिसूत्रेण उण् । एवमन्येऽप्युणादयो मूलतो बोध्याः। तुमुन्ण्वुलौ क्रियाथीयां क्रियायां, केवलस्तुमुन् । समानकर्तृकेऽस्त्यर्थे कालादौ च शकादिके। पूर्णतावाचिसामर्थ्यवाचिन्युपपदे भवेत् ॥ यथा व्यवहारान् स्वयं द्रष्टुं याति नित्यं सदस्यहो!। गूढं तमपि विज्ञातुं प्रवीणः सज्जनाधिपः ॥ अत्र दर्शनक्रियार्थयानक्रियायां सत्यां दृश्धातोः 'तुमुन्ण्वुलौ
कृतकुसुमम् ।
क्रियायां क्रियार्थायाम् (३।३.१०) इति तुमुन् । ण्वुल् तु प्रागुदाहृतः ।
एवं सामर्थ्यवाचिनि 'प्रवीणः' इत्युपपदे ज्ञाधातोः 'पर्याप्तिवचनेष्वलमर्येषु'
( ३२४६६) इति तुमुन् ।
भावे इत्यधिकृत्योक्तास्ते भाववचनाः स्मृताः ।
क्रियार्थीयां क्रियायां तु घनाद्याः स्युभविष्यति ।।
अण् च कर्मण्युपपदे, घञ् कर्तरि पदादितः।
भावे च सर्वधातुभ्यो नाम्न्यकर्तरि कारके ।
अजेदन्ताद्धातुतश्चाऽप् ऋकारान्तादुदन्ततः।
कचिङ्गाचे च करणे कर्मण्यपि मतः कचित् ।।
यथा-
वर्षे वर्षे प्रकृतिषु सुखोत्पत्तये सज्जनेन्द्रः
सेनायुक्तो गिरिषु च यदा हिंस्रलावोऽभियाति ।
यान्ति स्वैरं सपदि भयतः पादमूलं किराता
हस्ते कृत्वा करमभिमतं प्रोद्गिरन्तः स्तवांश्च ।।
अत्र हिंसानिति कर्मण्युपपदे तल्लवन क्रियार्थायां यानक्रियायां लूञ्
घातोः 'अण् कर्मणि च' (२।३।१२) इति अण् । एवं भीतिः 'भयम्'
इंति भीधातो वे 'एरच्' ( ३३६२) इति अच् । तथा पद्यतेऽसौ
'पादः' इति पदधातोः कर्तरि ‘पदरुजविशस्पृशो घञ्' ( ३।३।१३ )
इति षञ् । एवं करणं 'करः' बलिरित्यर्थः, कृधातोर्भावे, स्तवनं 'स्तवः'
इति स्तुधातोश्च 'ऋदोरप्' ( ३१३१५७ ) इति अप् ।
इवितः त्रिश्च द्वितोऽथुच् च,
यथा-
--
उपवनमुपयाते सज्जनेन्द्र कदाचित
कुसुमचयनकाले पवित्रमं लातुकामे ।
फलमपि, मरुता सा वेपथु प्राप्य 'शोभा
मम न हि हरणीया दाडिमीत्थं प्रवक्ति ।
सज्जनेन्द्रप्रयोगकल्पद्रुमे- अत्र पाकेन निर्वृत्तं 'पवित्रमम्' इति पचधातोः 'ड्वितः वित्रः' (३। ३१८८) इति स्त्रिः । एवं वेपनं 'वेपथुः' इति 'ट्वितोऽथुच्' (३।३। ८२) इति अथुच् । यजादिभ्यश्च नङ् स्मृतः । उपसर्गे च घोः किः स्यात् , कर्मण्युपपदे तथा । आधारे, चाथ भावादौ स्त्रियांक्तिन् परिकीर्तितः ॥ यथा- सलिलधिपारेऽपि गता ह्ययत्नतः सज्जनेन्द्रनृपकीर्तिः । कचिदपि नान्तर्धिमगात् परम्परातस्तदीयकृत्यानाम् ।। अत्र सलिलानि धीयन्तेऽस्मिन्निति 'सलिलधिः' इति धाधातोः सलिलानीति कर्मण्युपपदे अधिकरणे 'कर्मण्यधिकरणे च' ( ३।३।९३ ) इति किः । एवं यतनं 'यत्नः' इति यत्धातोः 'यजयाचयतविच्छप्रच्छ- रक्षो नङ्' ( ३१३२९० ) इति भावे नङ् । तथा कीर्तनं 'कीर्तिः' इति कृधातोः 'ऊतियूतिजूतिसातिहेतिकीर्त यश्च' ( ३।३।९७ ) इति स्त्रियां क्तिन् निपातितः । एवम् अन्तर्धानम् 'अन्तर्षिः' इति 'उपसर्गे घोः किः' ( ३२३९२) इति किः । क्यप् भावे तु ब्रजयजोः, संज्ञायां समजादितः। प्रत्ययान्ताडलन्ताच गुरोरश्च मतः स्त्रियाम् । भिदादिभ्यः पितश्चाऽङ् स्यात् , ण्यासश्रन्थो युजित्यपि। . यथा- यदूहया दोषमृजा जिज्ञासा तस्य धारणा । जायते सज्जनेन्द्रे तु समज्यायां निषेदुषि ।। अत्र ऊहनम् 'ऊहा' इति गुरुमतो हलन्तात् ऊहधातोः 'गुरोश्च हलः' ( ३।३।१०३ ) इति अः । एव मार्जनं 'मृजा' इति मृजधातोः 'षिद्भिदादिभ्योऽङ्' ( ३।३।१०४) इति अङ् । तथा ज्ञातुमिच्छा 'जि. ज्ञासा' इति सन्प्रत्ययान्तात् ज्ञाधातोः 'अ प्रत्ययात्' ( ३।३।१०२) इति मः । एवं धारणं 'धारणा' इति ण्यन्तात् धृधातोः 'ण्यासश्रन्यो
कृतकुसुमम् ।
युच्' ( ३।३।१०७) इति युच् । तथा समजन्त्यस्यां सा 'समज्या'
इति सम्पूर्वात् अजधातोः 'संज्ञायां समजनिषदनिपतमनविदषुशीङ्-
भृत्रिणः' ( ३।३।९९) इति क्यप् ।
अर्होत्पत्तिपर्यायार्थेषु ण्वुच परिकीर्तितः।
भाषे नपुंसके ल्युटतौ, कर्मण्युपपदे तथा ॥
कर्तुः कायसुखं येन संस्पर्शाल्ल्युट ततः स्मृतः ।
करणे चाधिकरणे, संज्ञायां प्रायशस्तु घः ॥
हलन्ताहातुतो घञ् स्यात्, कृच्छाऽकृच्छार्थकेष्ठ तु।
भावे कर्मण्युपपदेष्वीषद्दुःसुषु खल् मतः ।।
कर्मकत्रो कृत्रोः स्याद्, आदन्ताचैव युच मतः ।
आवश्यकाधमार्थे णिनिः, कृत्याश्च कीर्तिताः ॥
प्रागिति शेषः ।
नाम्नि धातोराशिषि चक्तिचक्तौ च परिकीर्तितौ ।
यथा--
गुणाकरः कलारामः प्राप्तराजाऽप्रगामिकः ।
सज्जनेन्द्रो यतस्तस्य न किञ्चिदिह दुष्करम् ॥
अत्र आकुर्वन्त्यस्मिन् 'आकरः' इति कृधातोः 'पुंसि संज्ञायां घः
प्रायेण' (३।३।११८ ) इति घः । एवम् आरमन्तेऽस्मिन् 'आरामः'
इति रम्धातोः 'हलश्च' ( ३।३।१२१ ) इति घञ् । तथा अग्रे गमनम्
'अग्रगामिका' इति गम्धातोः क्रमार्थे 'पर्यायाहोत्पत्तिषु ण्वुच् ( ३।३।
१११) इति ण्वुच् । एवं कृच्छेण क्रियते 'दुष्करम्' इति कृधातोः 'ईषद्
दुःसुषु कृछाऽकृच्छार्थेषु खल्' (३।३।१२६) इति खल् । अन्ये प्रत्यया
अर्थान्तरे प्रागुदाहृताः।
अल लूपपदयोनिषेधे का प्रकीर्तितः ।
एककर्तृकयोर्धास्वर्थयोः त्वा पूर्वकालके ।
अर्थेऽस्मिन्नेव चाभीक्ष्ण्ये णमुल धातोः प्रकीर्तितः ।।
४ सज्जनेन्द्रप्रयागकल्पद्रुमे यथा- : - अलं दत्त्वेति नो वक्ति कदाचित् सज्जनाधिपः । विचार्य कुरुते कार्य स्मारं स्मारं गुरोगिरः ॥ अत्र निषेधार्थकाऽलंयोगे 'दत्वा' इति दाधातोः 'अलङ्घल्वोः प्रति. षेधयोः प्राचां क्त्वा' (३।४।१८) इति क्त्वा । एवं विचारकरणरूपयो- धात्वर्थयोरेककर्तृकत्वात् 'विचार्य' इति पूर्वकालक्रियार्थकविपूर्वकचर- धातोः 'समानकर्तृकयोः पूर्वकाले' (३।४।२१) इति क्त्वा । तस्य 'समासेऽनपूर्वे क्त्वो ल्यप् (१।३७ ) इति ल्यबादेशः । तथा अस्मिन्नेवार्थे पौनःपुन्ये च द्योत्ये स्मृधातोः 'आभीक्ष्ण्ये णमुल् च' (३।४।२२) इति णमुल् । कर्मोपपद आक्रोशे गम्ये चैव खमुञ् मतः । समूलादिप्रयोगेषु धातुतश्च कषादितः ।। स्वानुप्रयोगयुक्ताच, यथा कश्चिञ्चौरङ्कारं कदाचिदाक्रोशति प्राज्ञम् । तं द्राग्यस्तग्राहं गृह्णाति खलं हि सज्जनेन्द्रभटः ॥ अत्र चौरेतिकर्मण्युपपदे भर्सने गम्ये 'चौरकारम्' इति कृधातोः 'कर्मण्याक्रोशे कृत्रः खमुञ' ( ३।४।२५) इति खमुन् । एवं हस्त- शब्दप्रयोगेऽर्थादुपपदे 'हस्तग्राहम्' इति स्वानुप्रयोगयुक्तात् ग्रहधातोः 'हस्ते वर्तिग्रहोः (३।४।३९) इति णमुल् । करणे कर्तृकर्मणोः । अपादानेऽधिकरणे तथा चोपपदे णमुल् । द्वितीयायां तृतीयां सप्तम्यां च कचिद्भवेत् ॥ अर्थेषु विविधेष्वेव विविधोपपदेषु च । धातुभ्यो विविधेभ्यश्च णमुल ज्ञेयो हि मूलतः। इत्थं समासतः प्रोक्तो बालानां सुखसिद्धये ॥ सङ्ग्रहः कारकादीनां तेन तुष्यतु सज्जनः ।।.
उपसंहार
यथा--
धनपोषं स पुष्णाति सर्वविद्याविशारदान् ।
अतस्तं सज्जनेशानमेकलिनेश्वरोऽवतात् ।।
अत्र धनेनेति करणोपपदप्रयोगे 'धनपोषम्' इति स्वस्यानुप्रयोग.
युक्तात् पुषधातोः 'स्वे पुषः' (३।४।४०) इति णमुल् । एवमन्येऽप्यूह्याः
इति कृत्प्रत्ययाः ॥
सज्जनेन्द्रयशोगन्धप्रसारणकरं परम् ।
एतत् कृत् कुसुमं रम्यं पञ्चमं पुल्लतां ययौ ।।
इति धर्माधिकारिकृष्णपण्डितविरचिते सज्जनेन्द्र
प्रयोगकल्पद्रुमे कृत्कुसुमं पञ्चमम् ।।
उपसंहारः।
श्रीभोजराजोऽभवदतुलगुणो दत्तवान् श्लोकमात्रे
लक्षं, नासौ परीक्ष्याऽगुणमपि च गुणं केवलं दानशूरः ।
एष श्रीसज्जनेन्द्रः सकलविधगुणान् संपरीक्ष्य प्रदत्ते
वर्णे वणे च लक्षं कृतिकृतिषु तथा वृद्धये सद्गुणानान् ॥
राजानः सन्ति भूमौ विपुलधनयुताः शास्त्रावार्ताविहीनाः
केचिद्वेश्यानुरक्ता मधुमदनिरताः केचनाऽऽखेटसक्ताः ।
केचिम्लेच्छाऽतिसक्ताः श्रुतिमतविमुखा नास्तिकाः केचनान्ये
दोषो नैकोऽपि दृष्टः श्रुति विमलमतो सज्जनेन्द्रे गुणाव्ये ।।
सज्जनेन्द्रप्रयोगकल्पद्रुमे उपसंहारः ।
प्रतिग्रहकृति विना शिवपुरेऽल्पवृत्त्याऽपि वा
भवेद्धि मणिकर्णिकापयसि सर्वनित्यक्रिया ।
इतीप्सितसुपूर्तिकृन्नृपतिसज्जनान्नेतरो
निधाय मनसीदृशं प्रभुसमीपमेवाऽब्रजम् ॥
भूलोके सज्जनेन्द्रो रविकुलतिलको वर्णनीयश्च नेता
धीरोदात्तोऽस्य नूनं भवतु गुणगणः स्थास्नुराचन्द्रतारम् ।
सर्वेषां इलोकमात्रप्रप्रठनसमये कीर्तनाचद्गुणानां
कीर्तिर्याथार्थ्यमाप्नोत्विति मनसि निघायैष यत्नः कृतोऽत्र ॥
सम्मुखधृत्यनपेक्ष्ये स्थायिन्याकल्पमुज्ज्वले रम्ये ।
वाङ्मय आदर्शेऽस्मिन् जयतु श्रीसज्जनेन्द्रगुणबिम्बम् ।।
संवद् ग्रहगुणनन्दाचला(१९३९)मिते, शरदि बाहुले मासे ।
असिते पक्षे करभे द्वादश्यां भूमिसुतदिवसे ॥
कार कसमासतद्धिततिकृतकुसुमैः सुगन्धिमिः फुल्लैः ।
भवति स्म सज्जनेन्द्रप्रयोगकल्पद्रुमः पूर्णः ॥
समाप्तश्चायं सज्जनेन्द्रप्रयोगकल्पद्रुमः ।
पृष्ठाः ७३ ७६ ३१ ॥ श्रीः॥ सज्जनेन्द्रप्रयोगकल्पगुमान्तर्गतानां कारिकाणाम् अकाराद्यनुक्रमणिका। कारिकाः पृष्ठाङ्काः कारिकाः अकर्मकेभ्यो भावे स्युः ७३ आवश्यकाधमार्थ अकारान्तादिनिठनौ ५४ आवश्यके उकारान्ता अग्नेश्चिनः कृतः पुण्य ७६ / आशंसायां तथेच्छक अजात्यर्थे सुपि णिनि ७६ इति सङ्कपतः प्रोक्त अत्यन्तापसवेऽप्येव ६४ इतः स्युः प्रत्यया भूते अथ प्रयोग जिज्ञासु २ इत्थं समासतः प्रोक्तो अधिकृत्य कृतो ग्रन्थः ४५ इन् सिद्धबध्नातिषु च अधीगर्थदयेशांच २१ | उः सनाशंसभिशिभ्यः अन्तरेणान्तरा चैव १४ | उक्तानुके द्विधा प्रोत अन्तायुपपदे डश्च ७५ उत्सादिभ्योऽञ् तथा अन्येऽपि प्रत्यया बोध्या ४१ / उपमानाधपदक अन्येऽपि स्वस्वकाले स्यु ६८ उपर्युपर्यध्यधि चाधोऽधो अन्येऽप्येवंविधा बोध्याः ४६ उपसर्गे च घोः किः स्यात् अपत्यार्थऽत इञ् स्त्रीभ्यो ४० उपो हानाधिकार्थश्च अपादानेऽधिकरणे ८४ | ऊर्ध्वमौहर्तिके काले अभावेऽर्थविशेषस्यो १३ एते च शैषिकाः प्रोका अभिव्यापकमौपश्लेषिक ११ एतेषु चान्ये बहवः अभूततद्भावकश्व ६७ एषां योगे द्वितीया स्यात् अर्चायो साधुनिपुणाभ्यां ६६ एषु केचित्प्रगृह्यन्ते अथषु विविधेष्वेव ८४ एषु केचित्समासास्तु अर्थेऽस्मिन्नेव चाभीक्ष्ण्ये ८३ एषु चोरञ् बहुजङ्गा अलालूपपदयो ८३ एषु तु त्वतलौ पृथ्वा अल्पे हस्वे गर्वितेऽर्थे ६६ कच्चिद्योगं विना स्वाभि अवक्रयः, तस्य धम्य ४७ | कश्चित्प्रकारं प्रावस्य अवरस्मिन् लट् परस्मिन् ६७ करणे चाधिकरणे अश्मादे रश्च सख्यादे ४४ | कर्तरि कवतुर्भूते अष्टादश तिडस्तिप्तस् ५९ कर्ता स्वतन्त्र इत्युक्तः आङ् मर्यादाभिविध्योचा ३८ कतुः क्यङ् वा भृशादिभ्यो आचारार्थे च मुण्डादि ६२ कतुश्च सम्प्रदानत्वं आजाहि च तथा ज्ञेयो १६ | कर्तृकर्माभयप्राप्ती आजाहियुक्त च तथा १९ कर्बर्थ इतरस्मिस्तु आयुष्यकुशलैश्चैव २४ कमण्यपि च पत्यन्तादू १३ ६६ १६ १६ २ १२ 3 wo कारिकाणाम् अकाराद्यनुक्रमणिका । पृष्ठाङ्काः ७४ २ ४५ ४२ २५ ३१ ५१ ४९ ६ ४० ४९ कारिकाः कर्मण्युपपदे हावामश्चाऽण कर्मप्रवचनीयाख्य काले तु सप्तमी माग काश्यादिभ्यष्टजिठौ किंसर्वनामबहुतो कुमुदादेष्ठजित्युक्तः कृत्वोऽर्थानां प्रयोगे च क्यप भावे तु व्रजयजोः क्रियया यमभिप्रेति क्रियान्तरं यत्क्रियया क्रियाफलाश्रयं कर्म क्रियार्थायां क्रियायां तु क्रियार्थोपपदस्टोव क्रियासातत्यसामीप्ये क्रियोपकारकं यत्तत् क्वचिद्भावे च करणे क्विन् च त्यदायुपपदे क्षमासम्भावनार्थेऽथो श्रुद्धाभ्यो वा चतुप्पान्यो खच भुवः करणे भावे गत्यर्थाकर्मकष्क्ष्यिादिभ्यः गर्हाया जात्वपियुते गहांयां तु लिडेवार्था गर्दासम्भावनाकाम गापाभ्यां नोपसृष्टाभ्यां गुडादिभ्यश्च ठञ् प्रोक्को गुणेऽकर्तर्यणे हेतौ घुरच कुरच करप रो चतुर्थश्वाव्ययीभाव चानश् भवेत्तु ताच्छील्य जातिक्रियागुणैर्नाम्ना जातिनाम्नो मनुष्यात् कन् जायमानस्य हेतुश्च जुगुप्सार्थविरामार्थ जे धकालतनेष्वेव ज्वलादिभ्यः कसन्तेभ्यः ज्या स्यात्परिमुखादिभ्यः पृष्ठाङ्काः कारिकाः तत्र कर्तयभिहिते १९ तत्र जातश्च तत्सोढ १८ तत्र साधुस्तथान्ये च ४६ / तत्रैव सम्भावनायें ५५ | तत्साधुकारिणि तथा ४३ तथा कण्वाश्रमेघेभ्यः २३ तथा तदर्थस्य दिवः तथात्मनेपदस्यापि तथा परिवृताद्यर्थ तथा मनोज्ञादिभ्यश्च ४ तथोपपदसंज्ञश्च ८१ | तदहं चेति गदिता १७ | तदर्हति तथा तेन ६७ तद्धरत्यावहति च तस्मौ प्रयोगाय हिताः तस्येश्वरस्तस्य वापो ७६ तादर्से तु चतुर्थी स्यात् ६८ तिड्वाच्यायाः क्रियायास्तु ४१ / तुमुन्ण्वुलौक्रियार्थायां ७६ / तृतीया च चतुर्थी च तृतीया नाम्नि मनस ते पुनर्द्विविधा उक्ता ६१ त्रिगर्तपष्ठाद्दामन्यादेश्छः दण्डादिभ्यश्च यत् प्रोतः दशभ्यो गणधातुभ्यो देवतान्ताच्च यत् प्रोक्तो १९ देवात्प्रिये मूर्ख बोध्ये देशे तदस्मिन्नस्तीति २८ द्योत्यायां तु फलप्राप्ती ५८ द्वन्द्वस्विधा समाख्यात २६ द्विविधश्चाव्ययीभाव २६ । धातुभ्यश्च लकाराः स्यु १० नदीभिश्च तथा संख्या ९ परस्मैपदसंज्ञास्तु परात्मभ्यां चतुर्थी तु ७४/ परापूर्वस्य जयते ४६ | परिजय्यं लभ्यकार्य ७१ ४ ४९ ६० ४३ १६ ३७ ३८ १० ४९ कारिकाणाम् अकाराद्यनुक्रमणिका । ३ पृष्ठा AN ६६ ६४ कारिकाः पादितः ष्ठन् विहितो पवर्गान्ताददुपधा पूर्णतावाचिसामध्य पौनःपुन्ये भृशार्थं च पौनःपुन्ये भृशाथै काचो प्रत्यया मित्रधातुभ्यो प्रत्येक प्रभवन्तीत्थं प्रथमस्त्वष्टधा प्रोक्तो प्रथमो मध्यमवो प्रमाणं परिमाणं च प्रमाणे द्वयसज्दनम् प्रयोगे नैव षष्ठी स्या प्रयोजनं तदन्येऽपि प्रवर्तनाशिषोलिङ्लोट प्रसूतप्रतिभूमिश्च प्रादुर्भावे च शब्दस्य प्रैषादिविध्याधथे च प्रेषाद्यर्थ प्राप्तकाले बन्धे वा हलदन्ताच बिदादिभ्योऽञ् तथा भवन्ति प्रत्ययाः कृत्याः भविष्यति लव स्याद् भागवज तदर्थश्च भाण्डात्समाचयनके भावे कर्मण्युपपदे भावे च सर्वधातुभ्यो भावे नपुंसके न्युट्को भिदादिभ्यः पितश्चाऽङ् स्यात् भूतपूर्वेऽतिशयिके भूतादिकालत्रितये भूतानद्यतने लङ् च २२ ६२ पृष्ठाङ्काः कारिकाः ४७ मयड् गुणनिमाने व ७३ मां न पश्येदयमिति ८० मात्रा प्रतिना सुप् ७१ मान्तनाम्नोऽव्ययात् क्यच् न ६२ | मूले कर्णादितो जाहच ७९ यच्चयनयदाजातु ६० यच्छब्दोपपदे काले ३१ | यतोऽधिक उपे चैव यः समानाधिकरणः १२ यस्यायामेऽपि तचैव १२ / यावत्पुराशब्दयोस्तु २३ येष्वर्थषु लकाराः स्यु ४९ योगे धातुविशेषाणां ६० रसादिभ्यो मतुप प्रोक्तः २५ | रुच्यर्थानां प्रीयमाण: ३७ रूपप् कल्पप् देश्य देशीयर ७० रोगकर्तृकपीडाया ७१ | रोमन्थं वर्तयति च लट् चाथो क्षिप्रपर्याये ४० लट्यात्मनेपदं बोध्य ७३ लागूलपुच्छशेपेषु ६८ लादेशास्तु तिङः प्रोक्ता १४ लिटः कानच्वसू धातोः ६२ | लुटि तासिलङ्लटोः स्य ८३ लुपादेर्भावगहायां ८१ लोटः प्रकृतिभूतोऽसौ लोडर्थलक्षणे जैव १२ ल्यब्लोपे चाधिकरणे ५५ ल्युणिन्यचा क्रमात् कस्तु ७३ वर्तमानार्थकतल्य वर्तमाने च लट् प्रोक्तो ६७ विकृताङ्गेव येनैव ६५ विच्छेश्च स्याद् ऋतेरीया ६० विभक्तिस्वार्थकालार्थाः ७७ | विशेषस्तु चतुर्था स्या ४४ । विशेषस्तु विभत्त्यर्थ ७२ विश्लेषेऽवधिभूतं यत् ७३ ७७ ७१ १८ २४ भूते भूता वर्तमाना १६ भूते लुङ् ननुयागे तु भ्वायोज्दादिहादिदिवाछौ मतिबुचर्चनापर्थ मध्वादिभ्यो मतुप् चैवो मन्यतेस्सूत्तमः प्रोक्तः १२ कारिकाणाम् अकाराधनुक्रमणिका । पृष्ठाला ३५ ४२ कारिकाः विस्मयीकरणे चाथो वुञ् चैव हि कुलालादेः वैकारिकेषु त्वोरञ् स्यात् शक्तिद्वयस्य मध्ये यौ शब लुक्लु श्यन् नु श: शरीरावयवाच्चैवा शाखादिभ्यश्च यः प्रोक्तः शिशुक्रन्दादितश्छश्च षष्ठी स्वस्वामिभावादि संख्योभयपदश्चैव संस्कृतं तरतीत्येवं सकर्मकेभ्यः कत्रों सत्रात्कक्षात्कष्टकृच्छ्र सप्तमी हलदन्ताच समानककेच्छाओं समासो द्विविधः प्रोक्तः समूलादिप्रयोगेषु सम्पत्त्यर्थं च साकल्ये सम्प्रदानस्य कर्मत्व पृष्ठाकाः कारिकाः ६९ सम्बोधने क्रियायास्तु ४५ साकाङ्क्ष लङ्लटायुक्ता ४६ सातिवाडान् तथान्येऽपि २६ / साध्वसाधुप्रयोगे च ६० सा प्रातिपदिकार्थेऽपि ४८ सामान्यः षट्प्रकारः स्याद् ६७ सामान्यस्त्वष्टधा प्रोक्तो ४५ सामूहिके च यञ् यत् तल् २० सुखादिभ्य इनिश्चैव ३६ सुखादिभ्यस्तथा कर्तृ ४७ सुतङ्गमादिभ्य इन च ६० स्पृहे राधीक्षयोर्यस्य ६२ स्यात्तस्य तदस्मिश्च हलादेरनुदात्ततः हितं भक्षाश्च नियतं २८ हिंसायां निग्रहणन ८४ हेतुताच्छील्यानुलोम्ये ३८ हेतुहेतुमतोर्लिङ् च १२ | हेतोश्च सर्वनाम्नश्च ४४ ८ ४८ २२ ७० २० पृष्ठाङ्क: २० ४२ ३६ १४ ५६ ४६ २ श्लोकानां वर्णक्रमानुसारि सूचीपत्रम् । श्लोकाः पृष्ठाङ्काः श्लोकाः अकार्षीः किमु भोः सन्ध्या ६५ उदयपुरे रमणीयो अकार्षीद्वह्वनुष्ठाना ६९/ उद्गीतैर्बिजनिभि अग्निचितो द्विजवर्यान् ७६ / उपदशगृहशारीगति अधिक्षितौ सज्जनोऽधि २७ / उपरिष्टादिरेरुः अधितिष्ठत्युदयपुरं १३ / उपवनमुपयाते अधिमेदपाटमुप उपवाचि गुणास्तस्य अनु सज्जनभुपालं १५ उभसर्वतसोः कार्या अन्यो नृपः सज्जन १९ एकनाथो महाराज अपरोदयपुर आरात. २८ एकलिङ्ग सज्जनेन्द्र अप सज्जनभूपते १९ कदाचिदन्तुकामस्थ अभवन्मेदपाटेश ६ कनकमयकटकहस्ताः अभितस्तु सभास्तारा ४ | कर्ता कर्म च करणं अरण्येषु जलादीनां २२ कर्तृवाच्यप्रयोगे हि (टि०) अलं दत्त्वेति नो वक्ति ८४ | कर्तृवाच्याः प्रयोगास्तु (टि०) अहस्विकृत्वः सन्ध्यां च २३ । कर्मवाच्यप्रयोगे तु (टि०) आपर्वतमभिनृपगृह ३९ | कश्चिञ्चौरहारं कदाचि आपूपिकान पायसिका ४६ | कश्चित्संन्यासिवेशो (टिक) आयातेषु विचक्षणेषु ६७ | कश्चित् सज्जनभूपति आयुतिकादधिकमपि ४९ कश्चित् सज्जनभूपदर्शन आयुष्यं कुशलं शं कस्य हेतोमदपाटे आरामे सज्जनेन्द्रण ४, कांश्चिदुद्धि निगडं आरोहणजदेवयां १६ / कारकसमासद्धित आविमुको मेदपाटे ४६ | कार्तिके बलिराज्यस्य आशीर्वाद ददत्येवं ७१ | काशीवन्मेदपाटेऽस्मि इह सज्जनसिंह एव १६ | कीर्तिप्रतापैः सितरत उत्कण्ठितो नियुद्ध ६९ कुतुकेन गिरेः शोभा उत्तमणेन संलब्धं १६ / कूटकारं रिपुं दण्डो उत्तमणेनाभियुका २० खट्वास्यतिप्रभान् उत्सङ्गस्थितजन्हुपर्वत १ गिरियुगपि मेदपाटः उदयपुरं दिशि यस्या ३६ गुणाकरः कलारामः उदयपुरं नामैत ६५ | चातुर्योदार्यधैर्य ७३ ८४ १८ १८ २१ ६ ८६ १२ ५१ १८ श्लोकानां सूचीपत्रम् । पृष्टाङ्काः ६६ २१ ७५ ४५ पपाठ बहुला ६४ ४४ श्लोकाः चोरभीनं सुखापेतं चौराणां सज्जनेन्द्रस्य छन्दोऽलकृतिकाव्य जपपाठमयं यज्ञ जेतव्यो रिपुवर्ग ज्ञाने सुकीतौ सुकृते तद्गुणकीर्तनहेतोः तितिक्षते विप्रगणं तुलितं पूर्णचन्द्रेणो त्रिस्कन्धज्यौतिषाभिज्ञ विद्यमीमांसक त्वं निशि वेशेऽवात्सी त्वद्गेहे भवतीन्दिराऽत्ति दक्षिणेनोत्तरेणापि दत्ते गृह्णाति तथा दद्यात्सज्जनेन्द्रो मे दानादि शश्वदकरो दिने दिने सज्जनसिंह दीनापनशरण्यो दीर्घपीनायतभुजः दुःखानां महिमा दुर्दान्ता राजामार्ग ये दुर्बोधमल्पविषयं दुधाच्पच्दण्ड दूरतः सज्जनेशान दृश्यते स्वयकमेव देवाननूचानमुखान् देवित्वा सज्जनेन्द्रोऽथ देशं देशं गमयति पोतमानामिरनियं द्रव्येषु स्वामिभावादू द्विजेभ्यः सज्जनः श्रीमान् धनपोषं स पुष्णाति धर्ता भूवलयस्य धर्मनीतावयं पाण्डवो धर्माधिकरणे न्याय धातुलादेशयोर्मध्ये (टि०) पृष्ठाङ्काः श्लोकाः ३० धातोरन्त इकारश्च (टि०) २२ धावल्यं प्रापिते कीया नयेन वर्तते नित्यं ५८ नरेषु ब्राह्मणं श्रेष्ठ ७४ नादेयानि व सरसो २८ निजकुलाचरितस्य १ नीतावधीती निकृते ६२ नीतियस्य यशस्करी १४ नीत्यर्था यस्य यान्ति पद्माकारा मैदपाटाः ४३ विद्या: ६४ परितः प्रावृतिमत्त्वाद् ६० पुञ्जीभूतगजोधै २१ । पुरः सज्जनभूपस्य ५० पुरहरपुरवसतिमता पुरुषद्वयसानामपि ६४ / पूर्वं श्रीभोजराजो २ पूर्वाहे चयते धर्मो ४८ | पौषे राधानुराधीये प्रकृतिगतचरित्र વિશે प्रजासु स्नेहवान् सत्सु ३६ प्रणिधिः कदाऽऽगतोऽसि १ प्रतिग्रहकृति विना ६ / प्रपुष्पसमये पिको १६ प्रवीरसैनिकैः साक ३ प्रवृत्तौ च निवृत्तौ च २१ १ ८५ ३ ४१ ४ २४ ८५ ३४ प्राज्य धनं प्रदा ६९ ३५ ५० २६ । प्रादाच्चेद्वसुधां ५ प्राप्ताम्बूदयपत्तने ४६ प्रायः समस्ततरजाति ११ प्रास्थिकादिषु पात्रेषु ४९ बिभ्राणः कुतुकेन ८६ ब्राह्मणशीलिनि बाहुज ७४ भवति कदाचित् खाङ्गिक ४१ / भवान् भुजीत मे कामो १३ भाति र सज्जनेन्द्र ७२ | भाववाच्यप्रयोगे च (टि०) ६४ १६ ०३..
श्लोकार्मा सूचीपत्रम्। ३ पृष्ठाः १ ८१ ७१ २५ ४४ e ३ १७ १७ १५ ४९ श्लोकाः भावार्थेऽकर्मकाद्धातोः (टि) भुवनानि शालभञ्जी भूमिनिन्दाप्रशंसासु भूभर्ता धर्मरागी भूमिपालेष्वधिपतिः भूलोके सज्जमेन्द्रो मित्रं पृच्छति सज्जन मुदितोत्साहितपौरा मेदपाटस्य राजाने मेदपाटाख्यदेशस्य मेदपाटे व्रजाशु त्वं मेदपाटेचरो भूपः मेदपाटे सज्जनेन्द्र यः पालयन् प्रजाः सर्वा यः शताय परिक्रीतः यः स्वर्गीयति सौध यत्पादजाहरजसा यदूहया दोषमुजा यस्यापापं हृदये याच्यमाने तु भुम्यादौ याते सज्जनसिंह युद्ध कौशलसिझै युध्यत्सु सैन्येषु च युध्यमानेष्वमित्रेषु ये नित्यं प्रभुकार्य येषामक्षपरि धूतं यो विद्याः सुविदितवान् यो विश्राणनशौण्डो रणे सन्ताडितः कश्चिदू राजस्वं क्षत्रियता राजानः सन्ति भूमौ राज्यस्य कुर्वन्नहितस्य राज्ये यतः खादत राठोरभूपालसुता राष्ट्रे यस्य च मासिका रोचते सज्जनेन्द्राय लक्ष्य विध्यन् क्रोडमा पृष्ठाकाः श्लोकाः वदान्यः सज्जनेन्द्रोऽय १ | वर्षाऽशनानि भूमि च ५४ | वर्ष वर्षे प्रकृतिषु ७९ वाक्यं काव्यकृतो नरेन्द्र विना सज्जनभूपालादू ८६ / विपथचर क्षोदिष्ट ६६ | विप्रार्थान्युत्तमानानि विमलतरजलाशया विरमति पापाद्धर्मात् १९ | विहाय भूपतीनन्या ६९ वृत्तये सज्जनेट सेव्यः ३० | वेदचतुष्टयविज्ञाः ५२ | वैजवापायनो गोत्रेण ६ | वैयाकरणखसचिं १२ | व्यवहारगुरुत्वेऽपि व्यवहारान स्वयं द्रष्टुं ६३ शतवर्ष तु कल्याणी ८२ शतिकः साहसश्चा शत्रवः सज्जनेन्द्राय १२ शालेयं मौद्गीनं ६६ / शास्त्रागाधसरित्पति ४३ श्रावणमासि श्रुत्वा २५ | श्रीमत्सज्जनसिंहः ३३ श्रीमत्सज्जनसिंहभूपतिलके ३४ श्रीमान् सज्जनचन्द्रो ३९ श्रीमान् सज्जनसिंहोऽयं ७७ | श्रीसज्जनेन्द्रस्य पुरा ३० श्रीसज्जनो युद्धपटुत्व १६ | श्वेतीकुर्वति यशसा ५१ वैतच्छत्रिक एष ८५ षष्ठांशभाक् सुकृत २३ | संयच्छते भूषणानि ३३ संवदू ग्रहगुणनन्दाचला स जयति महीमहेन्द्रो स जयति सज्जनसिंहः ८ सज्जननृपतिः साधुषु ५८ | सज्जमभूपतिवाः ६३ १ १ ४२ ३३ ३३ ३ ४१ ow ५८ ३ ८ १० ८६ १ ३ १० श्लोकानां सूचीपत्रम् । पृष्ठा ११ २२ ६० ५ ३६ ८६ श्लोकाः पृष्टाङ्काः श्लोकाः सज्जनसिंह तद्गुण ६९ सज्जनेन्द्रो महीपाल स्वकर्म सज्जनसिंहः प्रधने ७१ सञ्जानीते कोशगुप्त्या सज्जनसिंहः शत्रून् १० सत्कर्मणि गुणज्ञाने सज्जनसिंह तवोच्च १३ सत्कृता ब्राह्मणाः सर्व सज्जनसिंहस्तं मुहु १० सन्क्यच्काम्यच् सज्जनसिंहस्य पुरे सपत्नसधा भुवि सज्जनसिंहो नृपति ६८ सपुत्रो ब्राह्मणः कश्चित् सन्जनेन्द्रमन्तरा १४ सम्मुखत्यनपेक्ष्ये सज्जनेन्द्रयशोगन्ध० २७,४०,६९,७३,८५ सलिलधिपारेऽपि सज्जनेन्द्रसमीपे तु ६६ | स सज्जनेन्द्रो वरिवर्ति सज्जनेन्द्रस्य नगरे ३७ | सस्याख्या सलिलवती सज्जनेन्द्रस्य सदृशो २४ साङ्गने व्रजति सज्जन सज्जनेन्द्रस्य समिती ३६ सूरके तेजसा घस्ने सज्जनेन्द्रादहु धनं २१ सोदाहरणश्लोक सज्जनेन्द्राश्रिता विप्रा २३ | सोपानराजिपरिमण्डित सज्जनेन्द्रे महाराजे ३८ स्वगुरुषु निपुणोऽसा सज्जनेन्द्रो महापातकिभ्यः १० हंसा इव पानीयं सज्जनेन्द्रो महाराजः १२ | हास्तिकमौष्ट्रकमावं सज्जनेन्द्रो महीपाल २५ हिवामरिच जोर(टि०) सज्जनेन्द्रो महीपालः कदरवं ३३ ६३ ३७ १८ १ १ ४४ २६ १ ४२ शुद्धिपत्रम् । पृष्ठम् पङ्किः ७ ૨૮ अशुद्धम् सम्प्रदानक क्रियारित भवतीति जाहियुक्त सम्प्रदानकार्थ शुद्धम् सम्प्रदानके क्रियास्तिभवतीति जाहियुक्त सम्प्रदानार्थक ow १७ २३ सजन सज्जन २१ मनुकाननम् ३९ १५ ०मनुकानम् ममत्या कालाद्यर्थाः ३ ०मभदया. कालार्थाः ९ काले दा सदा काले सदा २३ २१ वम्मम् महिङ इति मूचने " १५ इति। वसमस् महिङ्किति सूचने इति याहोति याति तन्द्राश्रद्धाभ्य श्रुतिविमल २० याहि १ तन्द्रश्रद्धाभ्य श्रुति विमल १९ - कारककुसुमम् समासकुसुमम् २२,३१,३३, ३५, ३७, ३९, ४१,४३, ४५, कारककुसुमम् तद्धितकुसुमम्
-
हमारे यहां हर तरहकी छपाई का कार्य भी होताहै।
हर तरह के संस्कृत ग्रन्थ तथा भाषा पुस्तकों के मिलने का पता
जयकृष्णदास-हरिदास गुप्तः-
चौखम्बा संस्कृत सीरिज़ आफिस,
विद्याविलास प्रेस, गोपालमन्दिर के उत्तरफाटक,
बनारस सिटी।
। । " ७१ (१) ब्रह्मसूत्रशाङ्करभाष्यम् । चतु:सूया नदी उमाल्या साहितमा श्रीगोविन्दानन्द प्रणीतया रत्ल प्रभया समन्वितम् । द्वितीयाध्यायल्य द्वितीय पादान्तो प्रथमाभागः । [वदान्तविभागे ९]हः २-८ ७१ (२) ब्रह्मसूत्रशारमाध्यम् । श्री गोविन्दानन्द प्रणीतया रत्नप्रभया समन्धि तम् । द्वितीयाध्यायस्य तृतीयपादमारभ्य समाक्षिपर्यन्तम् । द्वितीयोभागः। [बेदान्त वि० ९२०२८ [१]-सिद्धान्तशिरोमणिः । श्रीभास्कराचार्य विरचितः । “गणिताध्याय: वास. 1- साहितः ज्योतिषाचार्य म० मा श्री ६ महापूदेवशास्विकृतटिप्पणी सहितः । [ज्यो० वि० ४] रु०२-० ५३-[२]-सिद्धान्तशिरोमणिः "गोलाध्यायः" वासनाभाय सहितः । ज्योतिषाचार्य म० म० श्री ६ मद्वापूदेवशास्त्रि कृत टिप्पणी सहितः। [ज्यो० वि० ४ ] रु०२-० ७३ काकचण्डीश्वरकल्पतन्त्रम् । पण्डित रामकृष्ण शर्मणा सम्पादितम् । पण्डित बटुकनाथ शम्मा एम. ए. साहित्योपाध्याय इत्येतेन लिखितया प्रस्तावनया सनाथीकृतम्। [ आयुर्वेद शास्त्रविभागे १ ] रु० ०-८ ७४ किरातार्जुनीयम् । श्रीमत्कविकुलचूडामणिभारविविरचितम् मल्लिनाथसूरिकृतया घण्टापथसमाख्यव्याख्यया तथा पं० श्रीगङ्गाधरशर्मणा कृतया सुधाऽऽस्यव्या. ख्यया समलङ्कृतम् । [ सर्गत्रयमात्रम् ] । [काव्य वि०१०] रु००-१२ ७५ चन्द्रालोकः। पीयूषवर्षश्रीजयदेवकवि प्रणीतः । श्रीमत्पद्मनाभमिश्रापराभि- धान प्रद्योतनभट्टाचार्य विरचितया चन्द्रालोकप्रकाशापराख्य 'शरदागमा टीकया सडूलितः । साहित्याचार्येण खिस्ते इत्युपाख्यनारायणशास्त्रिणा भूमिकादिभिः सम्भृष्य सम्पादितः। [ अलङ्कार वि०३] रु००-१० ७६ किरातार्जुनीयम् । श्रीमत्कविकुलचूडामणिभारविविरचितम् । मल्लिनाथसूरि- कृतया घण्टापथसमारुपया तथा पं० श्रीकनकलालशर्मणा कृतया भावार्थदीपिनी- व्याख्यया समलकृतम् । [सर्गत्रयमात्रम् ]. [ काव्य वि०११] रु० ०-६ ७७ शक्तिवादः, श्रीगदाधरभट्टाचार्यप्रणीतः, पण्डितप्रवरश्रीहरिनाथतर्कसिद्धान्तभट्टा. चार्यविरचितविवृतिसहितः। [ न्यायविभागे १० ] रु० ३-० ५८ माथुरीपञ्चलक्षणी। पं श्रीउमानाथालकृतव्याख्या सहिता तथा माथुरीसिंह- व्यावलक्षणम् । पं० श्रीहरिरामशुक्ल विरचितया व्याख्यया सहितं तथा पं० श्रीहरिहरशास्त्रि सङ्कलित माथुरीपञ्चलक्षणी क्रोडपत्रेण च । न्याय वि० ११] रु० - ७९ रसाध्यायः । टीकया संवलितः। [ आयुर्वेदशास्त्र वि०२] रु००-१० ८० (१) पाणिनिव्याकरणे वादरत्नम् । न्यायव्याकरणाचार्य मीमांसक शिरोमणि पं. सूर्यनारायणशुक्तेन विरचितम् । (तत्र च न्यास परिष्कारपरिशिष्ट भेदेन प्रकरण श्रयम् यत्र पञ्चन्यून सार्धशतसुत्रेषु १४६ महताटोपेन न्यासाविचारताः तत्र प्रथम प्रकरणं मुदितं प्रथमो आगः। [ व्या० वि १०] रु०१-८ ८० (२) पाणिनीव्याकरणे वादरत्नम् । द्वितीयोभाग: [न्या वि०] रु०१-४ ८१ गणितकौमुदी। [हिन्दीभाषाटीकासहिता ] प्रथमापरीक्षापाव्यनिर्धारितगणित. संग्रहपुस्तकन् । [गणितविभागे १] रु० ०- ८२ छन्दः कौमुदी। [ हिन्दीभाषाटीकासहिता ] प्रथमापरीक्षापाट्यनिर्धारितछन्द. संग्रहपुस्तकम्। [छन्दोविभागे ३] २० ८३ योगदर्शनम् । महर्षिप्रवरपतक्षलिप्रणीतम् । तत्र (१) भोजवृत्तिः, [२] भावा- गणेशवृत्तिःना जीभवति] मणिप्रभा, ] योगचन्द्रिका अगसधाकराज्य टीका षटकसम टिपण। योग विभागे १ ] र काशी संस्कृत सीरिज़ मा. ८४ रघुवंशमहाकाव्यम् । श्रीकालिदासविरचितम । सङ्गीविनीटीका तथा परीक्षोपयोगि सुधाऽऽख्यव्याख्या सहितः। से सर्ग: मूल्यम् स० १-४-० तथा १ से ५ सर्गः रु०१-८ तथा ६ १. सर्गः। 9---2 ८६ योगदर्शनम् । पंश्रीबलदेव मिश्रकृत योगसूत्रप्रवीषिकास्यव्याख्यथा सम्।ि सटिप्पण। [योग kि:-- ८६ काव्यमीमांसा जशेषरविरचिता | साहित्याचार्य पं. श्रीनारायmar खिस्ते कृत काव्यमीमांसा--चन्द्रिका टीका सहित [१ से ६ अध्याय ] प्रथमो- भागः। [ काव्यविमा १३] at ८७ नागानन्यूनाटकम् । श्रीहर्षदेवप्रणीतम् । काशीविश्वविद्यालयाध्यापकन्न । ०५० साहित्याचार्य पण्डित श्री बलदेव उपाध्यायेन स्व प्रणीतया भावार्थदीपिका व्याख्यया समलकृत्य वृहत् भूमिका हिन्दीभाषानुवादादिभिः सनाधीकृत्य सम्पादितम् । [ नाटक विभाग १] ०१-४ ८८ मेघदुतकाव्यम् । महाकवि श्रीकालीदास विरचितम् । मलिनाथकृत सन्जीविन्या, चारित्रवर्द्धनाचार्य विरचित चारित्रवादिन्या तथा साहित्याचार्य पं० श्री नारायण शास्त्री खिस्तकृत भानप्रबोधिनीच्या टिप्पण्या च सहितम्। [काव्य०१४] रु0-2 ८१ जागदीशीव्यधिकरणम् । न्यायाचार्यश्रीशिवदामितिरचित गंगास्यव्याख्या टिप्पणी सहितम् । (न्यायविमागे १२) २०२-० ९० काव्यकरपलतावृत्तिः। श्रीअमरचन्द्रयतिनिर्मिता अरिसिंहकृतसूत्रसहिता। (अलङ्कारविभागे ४) ०१- ९१६१ वैयाकरणसिद्धान्तचन्द्रिका । श्रीरामाश्रमप्रणीता । श्रीसदानन्दकृत-सुबोधिन्या, श्रीलोकेशकरकृत-तत्त्वदीपिकया व्याख्यया च सहिता । पं० श्रीनकिशोर- शास्त्रिणानिर्मितया चक्रधराख्य महत्या टिप्पण्या अव्ययार्थमालया च सहिता। पूर्वार्द्धम् । (व्या० वि० ११) रु.२-८ ९१-[२] वैयाकरणसिद्धान्तचन्द्रिका । सुबोधिन्या तबदीपिका- व्याख्यया चक्रधराजप-टिप्पण्या लिङ्गानुशासनप्रक्रियया अगादिकोषण च सहिता। उत्तरार्द्ध। (व्या० वि०११ ) रु. ३-८ ९३ त्रिपुरारहस्यम् (महात्म्यखण्डम् ) साययोगशाबाचाय श्रीमुकुन्दलाल शा शानिणासंबोधितम् । साहित्याचार्य खिस्ते-इत्युपाण्य पं० श्रीनारायणशास्त्रिणा निबद्धाभ्यां भूमिकाऽध्यायानुक्रमणिकाभ्यां च सहितम्। (पुराणेतिहास वि०१)रु०५- १३ आपस्तम्बधर्मसूत्रम् । श्रीमद्धरदसमिध विरचितया उज्ज्वलाख्यया वृत्त्या संवलितम्। (कर्मकाण्डविभागे ७) २०४- ९४ अवच्छेदकत्वनिरुक्तिः । धीजगदीशतर्कालङ्कारकृताः । न्यायाचार्य श्रीशिवदत्त- मिश्रविरचित गंगाख्यव्याख्या टिप्पणी महितः । (न्यायवि०१३) रु०१-४ ९९ संस्कारदीपकः । गणेशपूजादिग्रहयागान्त-पूर्वाङ्ग-निरूपणात्मकः प्रथमो भागः। म०म० पण्डित श्रीनित्यानन्दपात पर्वचीयविरचितः। (कर्मकाण्ड वि०८) रु.२.-.. ९६ वर्षकृत्यदीपक कालनिर्णयव्रतोद्यापनसहितः । म. म. पं० नित्यानन्दान्त. पर्वतीय विरचितः। (कर्मकाण्ड वि) २०३८ ९८ नलचम्पः अथवा दमयन्तीकथा । महाकविश्रीत्रिविक्रममविरचिता विषमपद प्रकाशाज्यव्याख्यया सहिता । भावबोधिनी टिप्पणी माहिता । (का०वि०१६) ०१-४ ९९ श्रीब्रह्मसूत्रम् । श्रीभगवनिम्बार्क महामुनीन्द्रविरचित वेदान्तपारिजात सौरमा- ख्यसूत्रवाक्याथन श्रीश्रीनिवासाचार्यचरणप्रणीत श्रीवेदान्तकौस्तुभभाष्येन च सनाधीकृतम् । (श्रीनिम्बार्कभाष्यम् ) (वेदान्त वि०१०) रु.३-० प्राधिस्थानम्-चौखम्बा संस्कृत पुस्तकालय, बनारस सिटी ।