Bharatiya Vidya Bhavan Library, Mumbai
Tratiya Skandharth
Front matter
अथेदं प्रस्तूयते यत्, सुविदितमेवैतत्तत्रभवता भातां श्रुतिस्मृतिपुराणेतिहासपरिशीलनधीविभवानां समषा " विदुषाम् , यत्, श्रीभागवतं नामाद्वितीयमपूर्व च समुद्धृतं ग्रन्थरत्नं श्रीमद्ध्यासपादैः स्त्रीयानुभव- तोगरादिति । यद्धि प्राशयति सकलानपि श्रुतिस्मृतिप्रतिपाद्यान् प्रमेयजातान् उपक्रमः] प्रकाशते च स्वयमपि प्रमेयरूपतया श्रीकृष्णाभिन्ना, भक्तिरसतया, निगमागम- सारवत्तया च । उक्तमेव " निगमकल्पतरोर्गलितं फल"मित्यादिना । अनक्तार- ‘दशायां साक्षान्छीकृष्ण एवं श्रीभागवतररेणाविर्भूनः, समाधिदशायां साक्षात्कृतश्च श्रीव्यासपादैः श्रीगुकादिपरम्परयाऽयदिनं याव-साधकानामुपकाराय विराजते च । किञ्च, भक्तिरेव श्रीभागवतरूपेणालङ्करोति धरित्रीम् । भक्तिरसस्थायीभाव एव रसात्मा श्रीकृष्णः । श्रीभागवतमेव श्रीकृष्णः । भक्तिरेय भागवतम् । भागवतमेव भक्तिः । श्रीकृष्ण एवं भक्तिरसः । श्रीकृष्णः, भागवतम्, भक्तिश्चेति पदानि प्रमेयतयाऽभिन्नार्थ- श्रीभागवतस्वरूपम् ] कान्येवेनि भक्तिरसायन-भक्तिमार्तण्डायनेकग्रन्थाभिप्रायः, परमतत्वपरिशील- नप्रवणान्तःकरणानां महाभाग्यभाजनानां विपश्चिदपश्चिमानां स्त्रीयानु- भवश्च । अत एव. भक्त्या भागवतं शास्त्र न विद्यया न च टीकयेत्यभियुक्तोक्तिः । अत्रेदं तत्त्वम्-भागवतस्यं साधनं हि भक्तिरेव; भक्त्या यत्परात्परं फलं समुत्पाद्यते तदेव भागवतम् । तद्भागवतमेव रसामा श्रीकृष्णः, भक्त्याः परमफलत्वेन श्रीकृष्णावाप्तेरेवोक्तत्वात् । एवं च तत्वतो विचार्यमाणे भक्तिभागवतश्रीकृष्णरसादिपदानामभेद एव । एतदेव शुद्धाद्वैतम् । किञ्च, भागवतं भक्तिः, भक्त्या च भागवतमित्युक्त्या “साधनं च फलं यत्रे"- पारमार्थिकं स्वरूपम् ] त्युक्तेः साधनफलयोरक्यम् । स एव पुष्टिमार्गः । तथा च श्रीभागवतमेव प्रमाणं प्रमेयं साधनं फलं चेति । एतदेव निर्वचनम् एतदेव रहस्यम् । स्वदेव तत्त्वम् । एतदेव पारमार्थिकम् । पुराणं हरिरेव सः एतदेव श्रीमदाचार्यचरणप्रोक्त महावाक्यम् । तदभ्यासादेव निरोधः । तदेव च फलम् । अत एवाहुर्भगवन्तो भाष्यकारा. । श्रीमद्दल. भाचार्यचरणा: " श्रीकृष्णं सच्चिदानन्दं दशलीलायुत सदा । सर्वभक्तसमुद्रारे विस्फुरन्तं परं नुमः इत्यादि । श्रीकृष्णः श्रीभागवतं भक्तिश्चेति त्रितयमपि प्रमेयम् । तदेव च दशलीलापदेनाभिव्यज्यते । भक्तिमार्तण्ड-निबन्धप्रमेयप्रकरणप्रभृतिषु तत्रोपपादितमिति नाधिक तन्यते । श्रीभागवतस्यातिगूढार्थ वात्प्र यक्षर, प्रतिपदं, प्रतिवाक्यं, प्रत्ययाय, प्रतिप्रकरणं, प्रतिस्कन्धं च श्रीकृष्ण एव जेगीयते । अतएव भागवतशास्त्रं दशलीलायुतं श्रीकृष्णाभिन्नस्वरूपम् । यद्यपि, आपाततो भिन्नार्थकत्वं प्रतीयते, तथापि रहस्यवेदिनस्तु शास्त्रे, स्कन्धे, प्रकरणे, श्रीभागवतार्थः ] अध्याये, वाक्ये, पदे, अक्षरे, च प्रतीयमानमर्थमविरोधेनैकार्थतयैव विदुः, ये च तथा बोधयन्ते त एत्र मुन्यन्ते । तथा चाहुर्भगवत्पूज्यपादाः श्रीभागवतप्रति- पदमणिवरभावांशुभूषितमूर्तयः श्रीकृष्णवदनावताराः श्रीमदाचार्यचरणा:- “ " " - " शाम्ने सत्ये प्रारणेऽ याये वाक्ये पदेऽक्षरे । एकार्थ सप्तधा जाननविरोधेन मुयते ॥” इति । अत्रायमभिसन्धि --शास्त्रादिसप्ताप्यर्थीन् एकार्थतयाऽविरोधेन जानन्, एकार्थ श्रीकृष्ण चाविरोधेन सप्तधा जानन्, मुच्यते, अविरोधेन च अप्र यहेन च । नार मुक्ती विरोध सम्भवति । अतएव " भत्या भागात शास्त्रम् । नाय मुकर पया सर्वेषाम् । यद्यपि श्रीभागवतप्रोक्तभक्तिमार्गानुसरण मुलमम्, तथापि तदवोधातु दुर्लभ एवेति श्रीमदाचार्यचरणा एवार शरणम् । श्रीगुरु सतार्थानामेकार्यतया चरणशरणाइते भक्तिमार्गे प्रतिबद्ध एर प्रवेश । श्रीगुग्यश्च करुणावरुणा- व्यारयातत्त्वम् ल्या एरोति । तैरेव-श्रीभागवत व्यायातम् । प्रदर्शितिश्च तत्वार्थ- दीप , सुबोधितश्च गनिमार्ग सुबोधिन्या। अत एत्रोक्त तैरेव पू यपादे - अौ तस्य विवेचित न हि विमुश्वानराद्वाक्पते- रन्यास्तत्र विधाय मानुषतनु मायास हीपति । दत्ताज्ञा च कृपावलोकनपटुर्यस्मादतोऽह मुदा गुढा प्रकटीकरोमि बहुधा व्यासस्य विष्णो प्रियम् ।। इति । सर्वादारप्रयनात्मा कृष्ण प्रादुभूत ह । तथात्व येन ससिध्येत्तदर्थ व्यास उक्तवान् ।। श्रीभागवतमत्यन्त सपा सुखदायकम् । तस्यापि तत्व येनेव सिध्यदिति विचार्य हि ॥ अग्निचकारतासार्थदीप भागवते महत् । तच्चापि येन ससिध्येन्द्याख्यान तन्निरूप्यते ॥ इति च । किच्च, श्रीभागवतस्य श्रीकृष्णरूप वात् । श्रीकृष्णस्य परमतत्वेन प्रतिपादनात् । तसरू- पावगति सद्विारप्रयनेन तेनैव भवितुमर्हति ना यथेति श्रीकृष्णादनवैश्वानरादन्य श्रीमानवता याचित्यासुरपि न याथार्थापबोधने प्रभु । एष च श्रीगलभाचार्याणां श्रीभागरतार्थव्याख्याने भागवताचार्यतति । यत्तु, प्रस्थानत्रयमा याता, आचार्य, इति प्रसाद प्रसिद्ध , श्रीवल्लमाचार्याणां वेदव्या- रयानानि, गीताव्याख्यान व नोपरम्पत इति तेपामाचार्यत्व नाम्तीति काषायाम्बर कश्चिदाह । तदतीपाज्ञानविजृम्भितम् । ये च पुनासादेशादिप्रथगणनया प्रस्थानचतुष्टयव्याख्यात्तया साध यति तेषामाचार्य व तदपि पञ्चपर्वसु परिगणनीयम् । श्रीमद्लभाचार्यचरणानामाचार्य व हि भक्ति मार्गप्रवर्तक पादेव । अत एव वेदानामपि मागवताविरोधेन प्रामाण्य प्रतिपाद्यते । न तु पुराणानामिय केवटोदोपहकतया वेदमूलकतया वा । श्रीरामानुजाचार्यादयो न केवल भक्तिमार्गप्रवर्तका । अपि तु पाचारावाद्यागमोलोरासनाप्रवर्तका अस्मदारा यचरणास्तु नि साधनजनोद्धरणप्रवणा .
(३) " . रणमेव रादान्त बोधयन्तो निर्गुणभक्तिमार्गकप्रातका । अत एव तन्मते प्रमाणम्पन्य प्रमेय च पागनतमेर । व्यारयात च भागवतमेव । श्रुतिमूत्रादि-यारयानमपि श्रीभागरतार्थवोधनोपयोगित- व । न तु मागस्तव्यारयान वेदनोधाय । अपि तु वेदव्यारयान भागरतबोधायेति । तदेव दरतारप्रयोजनम् । एव च श्रीमद्वलभाचार्यचरणकृतव्यारयानादृते नान्य द्यारयान श्रीभागवत बोधनायालमिति । प्रथिततरमेवेत सुबोधिन्यादिप्रत्याध्येतॄणाम् । तदेतद्भागवत तृतीयस्क-धादेव प्रकृतमिति दशलीलार्थोदिनामपरोक्षम् । प्रमद्वितीययो. (धिकारज्ञानलीलाप्रतिपादक-बादशविधलीलासु गणनाभागाचेति । निबन्धश्वेत पूर्वमेवालङ्करोतिस्म श्रीभागवताध्येतॄणां करकमलानि । गोलोकवासि "श्रेष्ठिनारायणदासस्य" प्रकृतग्रन्थप्रकाशः ] "श्रेष्ठिजेठानन्दस्य च सरक्षितद्रव्यव्यवस्थापक प्राकाम्य नीत श्रीभागवताध्यायाः । पूर्व प्रकाशितोऽपि भागस्ता निषध श्रीक-याण- रायाणां टिप्पण्या सम्पत्तिस्तृतीयस्कन्धा एकाय प्रकाश्यते ते । स चाय तृतीयस्कन्ध सर्गलीलार्पक । ब्रह्मण सत्यादिगुणवेपम्भेन, पञ्च महाभूनानि, पञ्च त मात्रा , इन्द्रियाणि, अन्त करण चे येतेषामु पत्तिप्रकार एवात्र प्राधान्येनोपनर्णित । भगवतो वराहावतार कपिलानतारचोपवर्णितौ । प्रसङ्गास ड्ड्यज्ञान भक्तिश्च अन प्रतिपाद्या पिपयाः] प्रतिबोध्येते । यथा मुक्तिलीलारबोधक एकादशस्कन्धो विवचनीय- विषयबाहुल्येन चकासते तवाय तृतीयस्कध विराष्ट्रपत्रोधनेन, सृष्टिप्रक्रियाप्रतिपादनन, आसुरसम्पद्विरि या रसातलगमनेन, तदुद्धरणेन, कर्दमस्य तपश्चरणेन, कपिलापतारेण, तदुपदिष्टेन साङ्घयतत्वेन-तत्र प्रसङ्गात्-ज्ञानज्ञानाभासभ्रमख्यात्यज्ञानादिपदार्थप- रम्परावेदनपूर्वकभक्तिमार्गोपदेशेनेत्यादि विविधविषयेन विद्योतयति विद्याविलासनेदिना विपश्चिप्रम- राणा मानसानि । तदेतन्निखिल्मपि श्रीसुबोधिन्या सुस्पष्ट सुविस्तृत च ०यारयात श्रीमदाचार्य चरणे " किन्तु तदयबोधनाप्राक् सन्धार्थाप्रकरणार्याध्यायार्थानां परमावश्यक्तयाऽत्र त एपी प्रकाशिता । अत्र हि सर्गलीलाप्रतिपादके तृतीयस्कन्धे प्रकरणत्रयम् । (१) अधिकारप्रकरणम् , (२) बन्धगृष्टिप्रकरणम्, (३) मोक्षसृष्टिप्रकरण चेति । तत्रेमान्ययातरप्रकरणानि । पन्धसृष्टि प्रकरणे-(१) गुणातीतसृष्टिप्रकरणम् , (२) सगुणसृटिप्रकरणम् , (३) काल सृष्टिप्रकरणम् , (४) जीवसृष्टिप्रकरण चेति चतुष्कम् । मोक्षसृष्टिप्रकरणे च (१) नेर्गुण्यमोक्षसृष्टिप्रकरणम् , (२) तत्वमुक्तिप्रकरणम् , (३) कालमुक्तिप्रकरणम्, (४) साह्मयज्ञाना मुक्तिप्रकरणम् ,(५) सासयस्य साधन प्रमाण च, (६) सगुणमुक्ति , (७) जीपमुक्ति , (८) सर्गासनिर्धार , (९) सर्ग: फ प्रकरण चेति नाकम् । अन्यायास्तु प्रयस्त्रिंशदेव । एतेषां सङ्गतिवान मुग्य प्रतिपाद्यो विषय । rom at 7 मनितोपकरोति विचारान विचमणाशा (४) अस्य मुद्रणं दिनारायणदासम्म गाविदगादेर सपना । यणगङ्गादामन धीरज साल सांठियामहाभागम्य प्रो साहना प्रतिलिपिमुद्रणाई या भागमागमा पुरावा. गायत्ता द्वितगमनायेन मम्पादिता । तनु भाग्जामागैरे विशा- अस्य मुद्रणम् ] पिता प्राका, नियुत्तभाई तसशोधनाय । प्राध्या नारायणदासस्य जेष्ठानन्दस्य मा आसनमलतनुजन्मनोः मरक्षितद्वन्यायपरमापकोय । अत्र मुद्रणे प्रयुक्त पुस्तकप प श्रीगहरा पुस्तकाच्या सप्राप्तम् । अतस्तदध्यक्षाणा, प्रति. लिपिकारम्य वेगमङ्ग सदामम्य, नियोनास्य धीरजलारसाठीयामहाशयस्य उपकृतिस्मरणम् च सघाताया उपनेरत्र भूयो भूय सबमान स्मरण परम्पराप्राप्तमेति । क्षमापन च जीपदोपा मुद्रणार पदोषाहा मगात चे पान ताहि समायते पश्चिमारा नीरक्षीरविकचतुरा । विरम्यते च- विदुपा विधयेन, हरिशङ्करेण ।
શેઠ નારણદાસ આસનમલ.
એના અક
જન્મ -- વ ૧૦ શ્રાવણ સુદી ૭.
અવમાન આવત ૧૯૮૪ શ્રાવણ વદી ૭,
ઈ - ૧૯૯૮ તા ૬ ડી મટે.
30000000000 રી, શેઠ જેઠાનંદ આસનમલ- 00000000000000000 --> જન્મ - વત્ ૧૯૯૮ ના ફાગુન વદી ૧૧. અવસાન – વત્ ૧૯૮૫ પેય વદી ૧૨, ઇ . ૧૯૯ તા ૬ ડી કેબ્રુઆરી. જાદી- પ્રેસ, મુંબઈ-૪ M नाकृष्णाय नमः । श्रीभागवतप्रतिपदमणिवरभावांशुभूषितमूर्तिश्रीमढल्लभाचार्यप्रादुर्भाषिते सप्रकाशे तत्वदीपनिबन्धे भागवतार्थप्रकरणे तृतीयस्कन्धार्थः श्रीमत्कल्याणरायविरचितया टिप्पण्या समलङ्कृत. तृतीयस्कन्धनिबन्धनं चिकीर्षुरुक्तविवक्षितयोः सङ्गतिमाह- अधिकारिपु साङ्गं हि श्रवणं सुनिरूपितम् । . स्कन्धद्वयेन शेपेषु क्रियते विषयाभिधा ॥१॥ त्रयस्त्रिंशदाध्यायास्तृतीये सर्गवर्णने । अधिकारिध्विति । अधिकारः प्रथमस्कन्धार्थ । साङ्गश्रवणविधिद्धितीयार्थः । हुतीयादिदशस्कन्धेषु श्रोतव्यविषयः प्रतिपाद्यत इत्यर्थः ॥ १॥ एवं दशानां साधारणमर्थमुक्त्वा तृतीयस्कन्धार्थमाह- त्रयन्त्रिंशदथाध्यायास्तृतीये सर्गवर्णने इति । एकदेशे सर्गप्रतिपाद- नव्यावृत्यर्थं त्रयस्त्रिंशदथाध्याया' इत्युक्तम् । सर्वेषां सर्ग एवार्थः “ सर्गः कारण- श्रीकृष्णाय नम. तृतीयस्कन्धार्थनिबन्धविवृती श्रवणविधिरिति । मूले निरूपितमित्युक्ते. । सामान्यतो निरूपणमायातीत्याशङ्क्य श्रोतव्यत्वेन तस्माद् भारतति विधानादकरण फलाभाव प्रत्यवायबोधनार्थ तथोक्तमित्यर्थः । अत एव "अपश्यतामात्मतत्त्व" मियादिना तदकर्तृणां प्रथमत एव निन्दाकृतिरिति भाव. श्रोतव्यविषय इति । श्रोतव्यो विषयो लीलारूप । प्रतिपाद्यते । दशमि. स्कन्धैरित्यर्थः । एतेन स्कन्धद्वयस्य सौरेव स्कन्धै सङ्गतिरत्रै प्रतिपादिता न प्रयेक प्रतिपादनीयति बोधितम् ॥१॥ साधारणमिति । श्रोतव्यविषयलीलारूपमित्यर्थ । एकदेश इति । स्कन्धैकदेश इत्यर्थः । तथा सति सम्पूर्णस्य स्कन्धस्य सर्गप्रतिपादकत्व न स्यादिति भावः । सर्वेषामित्यध्यायानामित्यर्थः । यद्यपि भूतमात्रेन्द्रियभिन्नजीवकालतत्त्वादीनामपि सृष्टिनिरूपणात् न पूर्वोक्तलक्षणकः सर्ग. सर्वत्रा- वाति तथापि 'सर्गः कारणसम्भूति' रिति वाक्यादधिकारिभूतादिसृष्टी मुक्तियोग्य तादृश जीवं सृष्ट्वाऽऽधिदैविकतत्त्वान्यपि सृष्ट्वा तादृशमाधिदैविक मोक्षोपयोगिनमलौकिक कालमप्युत्पाद्य भगवान् तथा" इति पाठ ।
२ सप्रकाशे तत्वदीपनिबन्धे भागवतार्थप्रकरणे स्वाभिप्रेते सविशेपे स्वोपयुक्तार्थसंयुते ॥२॥ सम्भूतिः" इति वाक्यात् । सर्गश्च लौकिकालौकिकमेडेन द्विविध इति । अलौकिके प्रयस्त्रिंशद्देवा सृष्टाः सन्तो यज्ञं साधयन्तीत्यविवादम् । लौकिकेप्यष्टाविंशतितक्यानि चतुर्विधभूतवीजानि कालश्चेति प्रयस्त्रिंशत्प्रकारा सृष्टिर्भवति । अत एव सर्गस्य विशे- पणमाह स्वाभिप्रेत इति । न तु सर्गो यः कश्चित्सृष्टिसाधारणः । तत्र स्वाभिप्रेतः पूर्वमुक्तो लौकिकालौकिकभिन्नः । तत्रापि भगवद्रूपता सर्वत्रेति विशेषः । तत्रापि मोक्षार्थ तथा भूतादीनि सृजतीति सेपामपि तत्कारण वादन निरूपणमुचितमित्यर्थः । लौकिका- लौकिकभेदेनेति । साट्सपवैदिकभेदेनेत्यर्थः । उभयविधस्यापि प्रयस्त्रिंशदात्मकवं साधयन्त्यलौकिक इत्यादिना । अलौकिके । वैदिक इत्यर्थः । त्रयस्त्रिंशद्देवा इति । स जातोयरिच्यत" इति श्रुतेः 'स' विराट् पुरुषो ब्रह्मा पूर्वोक्तसहस्रशीदिविशिष्टात् पुरुषात् 'जातोऽन्यरिच्यत' पति- रिक्तः समृद्धस्त्रयस्त्रिंशदेवतारूपो जात इत्यर्थः । तथा च ब्रह्मणः सकाशात् जातेन हिरण्यगर्भेण सृष्टा इत्यर्थः । प्रयस्त्रिंशदिति । " देवास्त्रिरेकादशास्त्रियस्त्रिंशा" इति श्रुतेर्वसुरुद्रादित्यरूपात्रयस्त्रिः प्रत्येकं हिरण्यगर्भकादशेन्द्रियाधिष्ठातृन्वेनोत्पन्नै इति प्रयाणामेकादशविधयात् प्रयस्त्रिंशत्सपेयर्थः । यज्ञं साधयन्तीति । देवा यज्ञमतन्यते'तिश्रुतेरित्यर्थः । तत्रायं प्रकारः, प्रथमतः सहस्रशीर्षल्यव्याप- कवादिधर्मविशिष्टः परमात्मा स्वराट् , ततो विराट् कमलाकारेण विशेषेण राजत इति प्रपञ्चः सूक्ष्मी भगवान् नाभिकमलात्मकस्ततो विराट् पुरुषो ब्रह्मा ततस्तदिन्द्रियाधिष्ठातारो देवास्तैस्ततो यज्ञ आधिदैषिको विराट् पुरुषशरीरहविर्निष्पाद्यः कारसहितः प्रजापतिरूपः । यज्ञो वै प्रजापति रिति श्रुतेस्ततो यज्ञात् जातो यः साध्यर्षिकृत आध्यात्मिको यज्ञस्ततः पृषदाज्यं ततो वायव्या आरण्या: पशवस्ततो वेदा ऋगादयः स्थूलाश्छन्दांसि गायत्र्यादीनि तत आधिभौतिकहवीरूपाजाद्युत्पत्तिस्त- तस्तैर्यज्ञेन ब्रह्माण्डात्मकपुरुषविधान, " यत पुरुषं व्यदधु"रिति श्रुतेः, ततस्तस्य पुरुषस्य लोकरूपेण कल्पना तथा लोका अकल्पयन्नि"ति श्रुतेः, एवमाधिदैविकाप्यात्मिकाधिभौतिकभेदभिनस्य प्रपञ्चस्य ब्रह्मात्मकत्वबोधनाय" वेदाहमेतं पुरुषं महान्तमि" त्यादिश्रुतिभिर्ब्रह्मविज्ञान, तस्य च फलं "तमेवं विद्वानमृत इह भवती" त्यादिश्रुतिभिर्मोक्षो निरूप्यत इति मोक्षफलिका वैदिकी सृष्टिः पुरुषसूक्तोक्ता ज्ञेया। लौकिकेऽपीति । सासयसर्गेऽपीत्यर्थः । चतुर्विधभृतबीजानीति। भगवदायुधरूपाणीत्यर्थः । मोक्षदानायाधिकारिभूतादिसृष्टयर्थ भगवदाविर्भाव तेषामप्युत्पत्तेः । कालश्चेति । सासयसृष्टिहेतुभूत- गुणक्षोभकमौतिकविराट्पुरुपचेष्टारूप इत्यर्थः । मूलपुरुषेच्छाशक्तिरूपस्तु “ कालसंज्ञा तदा देवी- मि"त्यादिना वैदिकसृष्टावेव वक्तव्य इति । अत एवेति । यत उभयविधोऽपि त्रयस्त्रिंशत्प्रकारक: सो निरूपणीय इत्यर्थः। न तु यः कश्चिदिति । पुरुषसूक्तोक्तस्त्रयस्त्रिंशत्प्रकारापन्नाद् भिन्न आका- शादिकादिकः सर्ग इत्यर्थः । सृष्टिधारण इति । सृष्टिमात्रमेव येन सर्गेण निरूप्यते, न तु पुरुष- सूक्तोक्तवद् ब्रह्मात्मकत्वं मोक्षफलकत्वं प्रपञ्चस्योच्यत इत्यर्थः । तत्रेति । तेषु नानाविधस वित्यर्थः । लौकिकालौकिक भिन्न इति । लौकिक साङ्ख्यमलौकिको वेदस्ताभ्यां भिन्ना भेदयुक्त इत्यर्थः । ।
तृतीयस्कन्धार्थः स्त्रोपयुक्तार्थसहितो मोक्षादिफलयुक्तः । जीवस्य हि द्विधा सृष्टिः; बहिः, स्वरूपे च । पहिः यष्टिर्लोके प्रसिद्धा । सा हि वस्तुतो जीवस्य नाशरूपत्वात्प्रलयो भवति । अतो 'मोक्ष एव मुख्यसृष्टिः । अधिकारिदेहव्यतिरेकेण स न भवतीति मोक्षार्थमुत्पत्तिरपि निरूप्यते । तत्र गृहस्थस्यैव मुक्तिः सन्दिग्धेति दम्पत्योर्मुक्तिनिरूपणम् । तत्र गृहस्थस्य " .. वस्तुतस्तु प्रकारभेदेऽपि भगवल्लीलारूपत्वादेक एवेति भावः । तत्रापिति । उभयविधसर्गेऽप्रीत्यर्थः । भगवद्रूपतेति । सर्गे ये कारणवेनोक्ता ब्रह्मकर्दमादयस्तेऽपि भगवतः सर्गलीलोपयोगित्वेन तदङ्ग- भूता भूमिकाननद्रुमादय इस लीलारूपा इति तेवपि भगवद्रूपत्वं लीलायाः स्वरूपात्मकवादतावा- नस्मिन् सर्गे विशेषोऽन्यत्र सर्गागभूतानां जीवत्वमेवेति भावः । तत्रापीति । स्वं पूर्वोक्तो लीला- रूप उभयविधसर्गः, तत्रोपयुक्तो मोक्षादिरूपोर्थः पुरुषार्थो मोक्षदानार्थमेव भगयता लीलाकरणात तत्सहित इन्यर्थः । नन्वत्र सर्गली निरूप्या तन्मध्ये फलत्वेनापि मोक्षनिरूपणे स्कन्धार्थे सर्ग- लक्षणेऽतिव्यातिः स्यादित्याशङ्कयाहर्जीवस्य हीति । जीवा हि भगवतोऽक्षरांशत्वेन च णसंलग्ना उपर्येवावस्थिता न तु भगवत्यम्तर्न वा प्रपञ्चे वहिः, एवं सति यदा भगवतः सृष्टीच्छा तदा तान- क्षरात्मकचरणाद् विस्फुलिङ्गवद् व्युच्चरितान् स्वस्माद् बहिः स्थूलरूपे प्रपञ्चे पृथक्तया स्थापयित्वा स्वप्राप्तिसाधनानि कारयि वैप उ एवेति श्रुतेः, पश्चात् स्वात्मन्यन्तःप्रपञ्चे विषयानुभवमिव स्वान- न्दानुभने कारयितुमानन्दरूपेण सतमान् जीवान सृजति मपध्वसर्गव-मोक्षसोति पूर्वावस्था वक्षररूपतैव । तत्र प्रपञ्चेऽक्षरनिष्टतायां ज्ञानमार्गेण पुनरक्षरप्रवेशेन सच्चिदानन्दरूपतासम्पत्तिरिति च्युचरणसमये चिदंशत्वेऽपि प्रवेशसमये पूर्ववत् पूर्वावस्थाप्राप्तिः, भक्तिमार्गेण पुरुषोत्तमनिष्ठत्वे पुरुषोत्तमप्रवेशेनाक्षरोत्तमनिरवघ्यानन्दानुभवो विषयभोगप्रकारेण, तथा च येषां स्वानन्ददित्सा व्यदर्थ लोलाकृतिस्तान् मोक्षसर्गयोग्यान् कर्तृ देवोत्तमान् जीवान् प्रपञ्चोऽधिकारिशरीरनिष्पत्तये सृष्टान् करोतीति मुख्यो मोक्षसर्ग एवेति सर्गस्कन्धे तनिरूरणेऽपि न स्कन्धार्थाव्यातिरि- तिमावः । वस्तुतस्तु प्रपञ्चसर्गः सर्वत्वेन व्यवहियमाणो मोक्षसर्गहेतुत्वापर्यवसानतः सर्गः । पूर्व तु जीवस्य यत् स्वरूपमक्षरात्मकं तददर्शनहेतुत्वात् प्रलय एवेति न मुख्यसर्गत्वमिति मोक्षसर्गस्य साधनलम्यवश्रवणान भगवल्लोलात्वमित्याशङ्कय तत्वे उपपत्तिमातुः गृहस्थस्यैवेति । " त्यागेनै- केऽमृतवमानशु"रिति “ सन्यासयोगाद् यतयः शुद्धसत्वा" इति श्रुतेश्च सन्न्यासाभावात् न गृह- स्थस्य मुक्तिदमार्गेण, “गृहस्थ एता पदवी"मित्यादिना सतमस्कन्धे पञ्चदशाध्याये भक्तिमार्गप्र- कारेण मुक्तिकथनात् सन्दिग्धेत्युक्तम् । दम्पत्लोरिति । कर्दमदेवहूत्योरित्यर्थः । एतेन प्रमाणबल- विचारेण मुत्तययोग्यत्वेऽपि तदर्थ स्वयमेव कपिलरूपेणाविर्भूय मोक्ष दत्तवानित्येतस्य मोक्षस्य भगवल्लीलात्वमिति बोधितम् । ननु नि.साधनस्य मोक्षोक्तौ वेदविरोध इत्याशङ्कयाहुस्तत्र गृहस्थ- स्येति । गृहस्थस्य मोक्षसाधनरहितस्य मुक्तावन्येषां भगवद्वाक्यरूपवेद इन भगवदाविर्भावसाम- . १ भो' इतिपाठ: भादर्शदय उपलभ्यते ।
४ . । सप्रकाशे तत्त्वदीपनिबन्धे भागयतार्थप्रकरणे मुक्ती भगवत्सन्तोपः प्रयोजकः । तस्यापि' भक्तिः, ज्ञान, योगाथाऽऽज्ञाकरणं च । वस्मादेतत्सर्व सर्गमध्य इति स्वोपयुक्तार्थत्युक्तम् ।। २ ।। प्रसिद्धिविरोधमाशङ्कयाह- लोके सर्गविस! हि यादृशौ नेह तो मतो ।। किन्तु तो सार्थको वाच्यो तेन स्कन्धद्वयं ततम् ॥३॥ लोके सर्गविसर्गाविति । सार्थको पुरुपार्थपर्यवसायिनी । तेनैकैका लीला स्वतन्त्रेति प्रत्येकमेकैकस्कन्धवाच्यता, तेन स्कन्धद्वयविस्तरः ॥ ३ ॥ तत्रापि मैत्रेयविदुरसम्बाइप्रकारेण लीलाकथनमुचितमित्याह- लीलाद्वयस्य श्रवणात्सिद्धः क्षत्ताऽधिकारतः। किं पुनः सकलौतेत्यतस्तस्य कथा ततो ॥४॥ लीलाद्वयस्येति ॥ ४॥ यिकभक्तस्य भगवत्तोप एन मुक्तिप्रयोजक इति परोक्षापरोक्षव्यवस्थया वेदस्वसन्तोषाभ्यां मुक्ति दानान वेदविरोध इति भावः । ननु भगवत्सन्तोषोऽवतारदशायां सर्वेषु कथं न जायत इयाशङ्कया- हुस्तस्यापीति । प्रभुसन्तोपस्यापि भक्तिः प्रयोजिका “ भक्त्यैव तुष्टिमभ्येती" तिवाक्यादित्यर्थः । ननु भक्तिः कथं से स्यतीन्याशङ्कयाहुनि योग इत्यादि । ज्ञानं भक्तिसाधन सर्वत्र स्पष्टमेव । योगोऽपि चित्तवृत्तिनिरोधान्मा स्वरूपध्यानसहित इति भक्तिसाधनमेव । आज्ञाकरणं कर्मस्थितिः । सापि चित्तशुद्धिहेतुःयादगीकृतस्य भक्तिजनकैवेति । एतत् सर्व स्वमातरमुपदिशतः कपिलस्य वाक्यसम्हेनावगन्तव्यमिति दिक् । सर्गमध्य इति । मोक्षसर्गमध्य इत्यर्थः । प्रपञ्चसगमध्ये भक्ति- ज्ञानादीनामनुपयोग इति भावः ॥ २ ॥ प्रसिद्धीति । लोकप्रसिद्धेविरोधमित्यर्थः । लोके मोक्षसर्गवेनाप्रसिद्धेरिति भावः । पुरुषार्थपर्यवसायिनाविति । स्कन्धयेनोच्यमानी सर्गविसौं भगवल्लीलात्वात् पुरुषार्थ-वेन पर्य- वसायिनी पर्यवसानवन्तो स्वतःपुरुषार्थरूपावित्यर्थः । अत एव मूले सार्थकावि युक्तम् । अर्थसहि- तावेव न तु भेदेनार्थसाधको । लौकिके तु तावेतद्विलक्षणाविति नात्रनिरूपणीयत्वेन सम्मती भग- वलीलारूपत्वाभावादिति भावः । तेनेति । प्रत्येक पुरुषार्थपर्यसायित्त्वेनेत्यर्थः । स्वतन्त्रेति । अन्यानुपजीवनेन फलसमर्पकत्वादिति भावः । एकैकस्कन्धवाच्यतेति। स्वफलसहितलीलायाः प्रत्येक श्रीभागवतावयवत्वादित्यर्थः । तेनेति । येन हेतुना सर्गविसर्गयोः सजातीय वेऽपि नैकेन स्कन्धेन निरूपण प्रत्येक फलसाधक वात् तेनैव हेतुना लीलाबाहुल्यबाधायैतयोः स्कन्धयोविस्तर इत्यर्थः॥३॥ लीलाकथनमिति । शुकस्य तद्वाक्येन कथनमुचित सूतस्येव स्वतस्त गेरुत्तमवात, खापे क्षया लीलायुग्मश्रवणेनैव कृतार्थत्वादिति भावः ॥ ४ ॥ "भक्तिज्ञान इतिपाठ । .. १ २ तथा ।
हतायस्कन ५ सर्गलक्षणमाह- • तत्र सो रजोभाजो लीला कारणजन्मदा । देवस्य तु द्विरूपत्वात्कारणानां त्रिरूपतः।' पञ्चधा सा स्वतो द्वेधा वन्धमोक्षविभागतः॥५॥ तत्रेति । “भूतमात्रेन्द्रियधियां जन्म सर्ग उदाहृतः । ब्रह्मणो गुणवैषम्याद" इति मूले लक्षणम् । तत्र गुणवैपम्यं रजसैव, तस्यैव सृष्टिकारणत्वात् । ब्रह्मण इति सन्देहाभावाय । भगवत इति भृतमात्रेन्द्रियधियो देहरूपाः, कार्या अपि भवन्तीति कारणजन्मदा लीलेत्युक्तम् । एवं व्याख्यानस्यार्थान्तरमभिप्रेतम् । रजोमाजोऽपि लीलासृष्टिर्मुख्यब्रह्मणोऽपि लीला । कालत्वेन कालस्यापि सृष्टिीला । सर्गलक्षणमिति । तत्र सर्गो रजोभाजो लीला कारणजन्मदेत्यर्थः । अस्यार्थः, भगवतस्तत्र प्रपञ्चे स्वामिनि वा बन्धमोक्षाभ्यां वा लीला सर्गस्तत्रापि रजोभाजो रजोगुणस्वीकर्तु- विहारार्थत्वात सृष्टेस्तत्र तदुपयोगित्वेन रजोगुणस्वीकारस्यावश्यकत्वात् सृष्टिश्च नानाविधा विधेया, तत्र लोक इव चित्तविक्षेपैः साधनम्, स च रजोगुणकार्य इत्यतस्तत्स्वीकार आवश्यकस्तत्रापि कारणजन्मदा लीला न तु भूतादिमात्रोत्पत्तिदा, कारणानि तु कालजींवतत्त्वानि वर्तन्त इति तेषामपि सृष्टौ सङ्ग्रहः ॥ ४ ॥ नन्चेतलक्षणं मूलोक्तलक्षणाद् विलक्षणमिति तेन बिरोध इत्याशङ्कयाहस्तत्र गुणवैषम्य- मिति । गुणानां सत्वादीनां समभावेन वर्तमानना वैषम्यसम्पादकः क्षोभकतया रजोगुण इति मूलस्थगुणवैषम्यपदेन विवृतौ तद्धेतुभूतो रजोगुण एव गृहीत इति न विरोध इत्यर्थः । रजसैवेति । सत्वतमसो; स्वतः स्थिरत्वादिति भावः । तस्यैवेति । सृष्टिहिं मनसा, तच्च विक्षिप्तमेव तत्साधकम् । स च रजोगुणकार्य एवेति गुणत्रये स एव तथेत्यर्थः । ननु रजोगुणस्यैव सृष्टिकारण वेन प्रसिद्ध- त्वाद् ब्रह्मणि सशयः स्यात् सासयमत एवेत्याशङ्कयाईम्ले ब्रह्मण इति । शुद्धब्रह्मशब्दस्यैर जगत्का- रणनोक्तवादित्यर्थः । नन्वेव मूलोक्तप्रकारेण ब्रह्मणो रजोगुणस्य च कारणत्वमायाति न मुख्यतया ब्रह्मणः, तथा सति जगतो नैककारणत्वसिद्धिरित्याशङ्कयाहुः सन्देहाभावायेति । कारणद्वयमेकस्य ने सम्भवतीति तन्छ्रवणे सन्देहः स्यात् कस्य कारणतेति तदभावाय ' रजोमाज' इत्यनेने गुण- चान भगवानेव कारणलेनोक्त इति । तदेवात्र सिद्धमनूदितं भगवत इत्यनेनेत्यर्थः । ननु भूतमात्रे. न्द्रियधियामिति यथाश्रुतमपहाय सामान्यभाषया कारणजन्मदेति कथने किं प्रयोजनमित्याशङ्कयाहुः कार्या अपीति । भूतमात्रेन्द्रियधियामिति विशिष्यकथने ता अस्मदादिसड्यातेषु प्रतीयमानाः कार्या अपि भवन्तीति विसर्गमध्यस्थानामत्र निरूपणात् ' सर्गः कारणसम्भूति' रिति वाक्य पिरुद्धघेत- त्यर्थः । तथा च लक्षणमतिव्यापक भवेदिति भावः । एवं व्याख्यानस्येति । मूलोक्तलक्षणवाक्ये. लुमं आदर्शद्वयेपि ।
६ सप्रकाशे तत्वदीपनिबन्धे भागवतार्थप्रकरणे जीवोऽपि कारणमिति तस्यापि स्वरूपस्थितिः सृष्टिप्रयोजनत्वेन सर्गमध्यपातिनी भवति । अगुणवैपम्यावामणोऽपि जन्मेति व्याख्यानाथं कारणानां जीवानां जन्म धति खण्डयतीति व्याख्यानम् । अतः प्रकरणानि विभजते देवस्य तु द्विरूपत्वादिति । गुणातीतसगुणभेदेन कारणानां तच्चजीवानां त्रयो भेदास्तेन पञ्चधा पञ्च प्रकरणानि भवन्ति । एकप्राधान्येऽन्यस्य विभृतित्वमिति स्थितिः।यथा तत्त्वमष्टिगुणातीतविभूतिः, । - गुणवैषम्यपदेन गुणानां त्रयाणां वैषम्यं येन रजोगुणेनेति रजोगुणस्तेन तद्वान् लक्ष्यते तथा ' भूत- मात्रोन्द्रयधिपा' मिसनेन कारणसामान्यमुच्यत इत्येवं व्याख्यानस्येत्यर्थः । अर्थान्तरमिति । पूर्वो- दितनाकारणवसंशयसर्गलक्षणाव्याप्तिपरिहाररूपस्यार्थस्योक्तन्यादिति भावः । तमेवार्थ विशदयन्ति रजोभाजइति । हिरण्यगर्भररूपेण जातस्पेत्यर्थः । मुख्येति । चतुर्मुखोत्पत्तिकारणभूतस्येत्यर्थः । कारणत्वेन सड्गृहीतानामुत्पत्तिमाहुः कालत्वेनेति । कालो हि नित्योऽखण्डदण्डायमानो व्याप- कस्तस्य स्वरूपत उत्पत्तिरनुपपन्नेति कलनात्मकधर्मेणेव तस्यापि सृष्टिः। एतेन लीलार्थ सर्ग कुर्वताः भगवता स्वेच्छारूपे क्रियारूपे वा काले कालत्यमुत्पादितमिति बोधितम् | कालस्य कारणवं प्रल- यकाले सृष्टयभावाद्बोध्यम् । जीवोऽपीति । जीयस्य मोक्षार्थ मुख्यतया सूज्यत्वात् तस्य वन्धमोक्ष- सर्गयोः कारणत्वमित्यर्थः । तस्यापीति । कालबत् जीयत्वेन धर्मेणेत्यर्थः । किं जीवत्वमित्याका- क्षायामाहुः स्वरूपस्थितिरिति । अक्षराशत्वेन पूर्व तदभिन्नस्य स्वरूपेण स्वस्य रूपेण स्थिति- ख जीवत्वम् । तेन धर्मेण तस्यापि सृष्टिरित्यर्थः । ननु स्वरूपस्थितेः कथं सर्गत्वं पूर्वमभेदेऽपि जीयरूपेणैव तत्र सत्त्वादित्याशङ्कयाहुः सृष्टिप्रयोजनत्वेनेति । स्वरूपस्थितेः प्रयोजनं सृष्टिरेक सृष्टयर्थमेव स्वस्मात् पृथक्करणादतः सा सर्गमध्यपातिनीति । तन्मध्यपतितस्तद्ग्रहणेन गृह्यत इति न्यायेन स्वरूपस्थितिरपि सृष्टिरेवेत्यर्थः । नन्त्रत्र सर्गे भगवदवतारावुक्तो तयोर्मोक्षप्राप्यत्वेन जीवा- दिवत् कारणत्वाभावात् कथं सर्गे प्रवेश उचित इत्याशङ्कयाहुरगुणवैपम्यादिति । मूलेऽकारप्रश्ले- घेणागुणवैषम्यपदेन रजोगुणभिनकेवलसर्वोद्धारार्थ भगवदिच्छामात्रेण ब्रह्मणः श्रुतिसिद्धपराकाष्ठाप- नस्य जन्म प्राकट्यमित्येवम्प्रकारेण व्याख्यानार्थं व्याख्यानसिद्ध्यर्थ टीकायामपि 'कारणजन्मदे' त्यत्र कारणानां सृष्टिमुख्यकारणभूतानां जीवानां जन्म पूर्वजन्म द्यति खण्डयति एतादृशी सर्वोद्धारार्था स्वावतारप्रकृतिरूपापि लीलापि सर्ग इति सिद्धयस्वित्येवमत्रास्माभियाख्यातमित्यर्थः । अत इति । यतः कारणसामान्यजन्मैव सर्ग इति सिद्धमतस्तानि पुनर्बन्धमोक्षार्थभेदेन दशविधानीति तथा प्रकरणान्यपि विभज्यन्तइत्यर्थः । देवस्य विति । तुशब्देनान्येषां सगुणत्वेनैकरूपत्वमेवे- त्यर्थः । तेनेति । भेदपञ्चकेन सृष्टिः पञ्चधेत्यर्थः । पञ्चप्रकरणानीति । सर्गस्कन्धे सृष्टेः पंञ्चविधत्वात् तथा प्रकरणानि भवन्तीत्यर्थः । नन्वन्न पञ्चविधसगैलीले नोच्यते'मध्ये 'मध्येऽन्येषामपि सर्गाणां कथनात यया गुणातीतसृष्टिमध्ये तत्तसृष्टिरेवमानेऽपीत्याशङ्कयाहुरेकप्राधान्येऽन्यस्य विभृतित्व- मिति.। अत्र हि भगवतः पुरुषोत्तमस्य लीला सर्ग उच्यते न तु परम्परासों यः कश्चित् , सच भगवत्स्वरूप एव वाच्यो लीलात्वात् सूर्यकिरणवत् । न हि सूर्यकिरणा असूर्यमका भवितुर्महन्ति ।
यथा सगुणसृष्टिविसर्गरूपा ब्रह्मप्रभृतीनामुत्पत्तिः, यथा वा दशविधा लीला कालस्य सृष्टिः यथा तत्त्वानां लीला गुणसृष्टिः सायप्रकरणोक्ता, यथा जीवसृष्टिर्मतान्तर- भाषया, एवं पञ्चविधापि लीला सर्गरूपा पन्धमोक्षविभेदेन द्विरूपा, सगुणस्य मोक्ष- . , " अत एवैतलीलाश्रवणे भगवछ्रवणसिद्धिरेवं सति ' यो लोकत्रयमाविश्य बिभर्त्यव्यय' इति वाक्याद् विभूतिरूपधारणमेव पुरुषोत्तमलक्षणमिति तल्लीलायामपि सूदमरूमायां स्वविस्ताररूपविभूतिधारणं वक्तव्यमिति यत्र लीलाया सूक्ष्मभावेन निरूपितायामप्रे तदनुगत एवं विस्तारस्तत्र तद्विभूतिरूप- मिति सविभूतिकलीलानिरूपणमित्यर्थः । विस्तरस्यैव विभूतित्वं ' विभूतेत्रिस्तरो मया । नास्त्यन्तो विस्तरस्य म' इति गीतावाक्यैरेव विधीयते यथेति पञ्चमाध्याये ' भगवानेक आसेदमन' इत्या- दिनाऽध्यायसमाप्तिपर्यन्ता गुणातीतात् पुरुषोत्तमात् साक्षात्सृष्टिरक्ता, तस्याः षष्ठाभ्याये ब्रह्माण्डो- त्पत्तिपूर्वकं तदन्तर्गततत्त्वसृष्टिविभूतेविस्तर इत्यर्थः । पञ्चमषष्टाध्यायाभ्यामिदं प्रकरण समासमिति भावः । यथा सगुणसृष्टिरिति । सप्तमाध्याये ३-७-३० सृष्ट्वामे महादादीनी त्यारंभ्याट- माध्यायान्ते ३-८-३२ - 'तद्देव तन्नाभिसर' इति वाक्याधिरण्यगर्भोत्पत्तिपर्यन्तं या सगुणात स्वीकृतरजोगुणाद् भगवतो विसर्गरूपा " तेभ्यो विराजमुद्धृत्य"ति वाक्यम् । एतस्याः सृष्टेर्विभू- तिमाहुर्ब्रह्मप्रभृतीनामुत्पत्तिरिति । अर्थात् सा सृष्टिरियं विभूतिरित्यर्थः । नवमाध्याये ब्रह्मणो हिरण्यगर्भस्य स्तुतिमभिधाय दशमाध्याये सम्पूर्णेनाध्यायेन ब्रह्मागमारभ्य देवासुरसर्गपर्यन्तमेषामुत्प- त्तिविसर्गरूपसगुणसृष्टिमिन्यर्थः । यथा वेत्येकादशाध्याये ३-११-१ “ चरमः सद्विशेषाणा-" मित्यारभ्य " इति ते वर्णितः क्षत्तरि"त्यन्तं कालसृष्टिस्तस्या अग्रे द्वादशाध्याये " वेदगर्भोऽथ यथासाक्षीदि"तिं वाक्यात कालाधीनस्य हिरण्यगर्भस्य दशविधा लीला तामिस्रादिसनकादिरुद्र- मरीच्यादिवाग्नीहारवेदधर्मग्छन्दोमन्वायुत्पादनरूपा विनैव तपः स्वेच्छया मनादिम्यउत्पादनाललीला कालसृष्टेर्विभूतिरित्यर्थः । यथा तत्वानामिति । सायप्रकरणोक्तानां लीला तत्त्वैर्नानाविधपदार्थ- सर्जनरूपा सायप्रकरणोक्तायाः पूर्वोक्तगुणसृष्टर्भिन्नाया विभूतिरित्यर्थः । साङ्क्षयप्रकरणोक्तेति । विसर्गरूपगुणसृष्टिभेदार्थमुक्तमित्यर्थः । जीवसृष्टिरिति । जीवसृष्टिस्तु सनकाद्युत्पत्तावेवोक्ता काल; सृष्टिविभूतिनिरूपणे । अथवा त्रयोदशाध्याये तत्कारणभूतयज्ञवराहोत्पत्यर्षिस्तुतिनिरूपणेनैवोक्का पुनः षडघ्याय्यां मन्तातरभाषया निरूपणं तद्विभूतिरूपमित्यर्थः । बन्धमोक्षभेदेन । पञ्चस्वपि प्रकरणेषु बन्धनमोक्षभेदेन सृष्टिप्रतिपादनादित्यर्थः । तत्र सर्वत्र बन्धः सर्गः स्पष्ट एव । मोक्षसर्गनि- रूपणार्थ तत्साधनसाधकवं मोक्षसाधकत्वं च निरूपयन्ति सगुणस्येति । विसर्गरूपस्य सगुणस्य सर्गस्य भगवतो . मोक्षलीलया सात्मनि सर्जनरूपाया योगः सम्बन्धः भगवता मोक्षार्थ स्वेनोत्पादितानामेव मोक्षलीलासम्बन्धात् , अतो मोक्षलीलायोगो मोक्षे प्रथमसाधनत्वान्मोक्षरूप इत्यर्थः । गुणातीतस्येति । गुणातीतसर्गस्य षष्ठाभ्यायान्ते ' यता प्राप्य निवर्तन्ते वाचश्च तिवा- तर्वि. इंति शादर्शद्वयेऽस्ति..
-- सप्रकाशे तत्त्वदीपनिबन्धे भागवतार्थप्रकरणे लीलायोगः, गुणातीतस्य ज्ञान, कालस्य भक्तिः, तत्त्वानां मोक्षः, जीवस्य वैराग्यमिति । तस्मादर्थभेदेन दशप्रकरणानि भवन्ति । तदाह यन्धमोक्षविभागत इति ॥ ५॥ तान् भेदान् स्पष्टयति- गुणातीतात्सृष्टिरका सगुणाद् ब्रह्मणाऽपरा ॥ ६॥ कालो जीवस्तथा नाम तत्राऽपीशेच्छया भवः गुणातीतादिति । तत्त्वानां वक्तव्यत्वेऽपि नामसृष्टेः परिग्रहार्थ नामेत्युक्तम् । तेपी पूर्ववत्स्वातन्त्र्यं वारयति तंत्रापीशेच्छया भव इति न केवलं कालादेगा। ननु सर्गे भूम्यद्धारस्य कुत्रोपयोगस्तदाह- सर्वाधारस्वरूपा या तदर्थं भुव उद्धृतिः ॥७॥ सर्वाधारस्वरूपा या इति । भूम्युद्धारः सर्वसृष्ट्युपयोगी सर्वेपामाधारभूतः साधारणः। तेन बन्धलीलान्ते निरूपितः। जीवप्रकरणं व्यर्थमित्याशङ्कयाह मुक्तोऽपि म्येन ज्ञानं फलत्वेन निरूप्यत इति तस्यापि मोक्षसाधनत्यान्मोक्षरूपत्वमित्यर्थः । कालस्य भक्ति- रिति । कालसृष्टावप्येकादशाध्यायान्ते · नैवेशितु प्रभुर्भून' इत्यादिवाक्यैः, 'तदाहरक्षर ब्रीतिवा- क्यप्रतिपादिताक्षरस्य भगवद्धानो माहात्म्यप्रतिपादान्माहात्म्यज्ञानमभ्यंशतो भक्तिः, सैव फलत्वेन निरूप्यत इति तस्या अपि, मोक्षसाधनत्वात् तद्रूपत्वमित्यर्थः । तत्त्वानामिति । साङ्खयप्रकरणो- तानां तत्त्वानां त्वन्ते मोक्ष एव प्रतिपाद्यत इति स्पष्टमेव मोक्षरूपत्वमि यर्थः । जीवस्य वैराग्य- मिति । जीवप्रकरण षड्भिरध्यायैर्मतान्तरभाषया प्रतिपाद्यते, तत्र शापानन्तर राजसानामुभयविधाना सनकादिजयविजयप्रभृतीनां पश्चात्तापेन वैराग्यमेव सिद्धमिति तस्यापि मोक्षसाधनत्यान्मोक्षरूपत्व- मित्यर्थः । तस्मादिति । यस्मात पञ्चस्वपि सर्गेषु मोक्षलीलायोगज्ञानभक्तिमोक्षवैराग्यरूपाणामांना मोक्षरूपाणां प्रतिपादनात् पञ्चापि प्रकरणान्यथाभेदेन दश भवन्तीत्यर्थः ॥ ५॥ तानिति । दशभेदान मूले स्पष्टयतीत्यर्थः । नामसृष्टेरिति । अत्र हि भवत्रल्लीलारूपः सर्गः स च उभयविधोऽपीति नामसोऽपि प्रतिपादनीयस्तत्र नाम्नां शब्दात्मकन्वेन तन्मात्रारूपत्वात् तत्वेषु प्रवेशयोग्यत्वेन तत्सृष्टयैव तत्परिग्रह इति तत्वाना स्पष्टरवेन प्रतीयमानत्वादस्पष्टानां नाना- मेव निरूपणार्थ नामेत्युक्तमित्यर्थः । तेपामिति । गुणातीतसगुणसृष्टिसमुपादिततत्त्वानामित्यर्थः । पूर्ववदिति । पूर्ववत् तत्कारणभूतब्रह्मस्वरूपवदित्यर्थः । अवतारादिषु स्वस्यैवेशत्वेन पारतन्त्र्याभावादिति भावः । न केवलमिति । कालादेरेव न किन्तु गुणातीतसगुणसृष्टिस्थानामपीत्यर्थ. ॥ ६ ॥ ननु सर्ग इति । द्वादशाध्यायैः प्रतिपादिते बन्धसर्ग इत्यर्थः । भूम्युद्धारस्य मोक्षसर्गोपयोगि- वामावादिति भावः । सर्वसृष्टीति । भूम्यैव देहादिनिर्माणात् सर्वसृष्टयुपयोगित्वं भूमाववस्थापनात् सर्वाधारत्वमित्यर्थ । तेनेति । बन्धलीलोपयोगित्वेनेत्यर्थ जीवप्रकरणमिति। बन्धलीलाभाग इत्यर्थः। मोक्षोपयोगिजीवसृष्टर्मोक्षप्रकरण एव कथनीयत्वादिति भावः ।.मुक्तोपीति । तत्र प्रकरणे मुक्तानामपि तृतीयस्कन्धार्थः -- 1 - मुक्तोऽपि जायते जीव इति शापकथा तता॥७॥ जायत इति । मुक्तिौणीति केचित् । वस्तुतस्तु सनकाइयो मुक्ता एव पूर्वसिद्धज्ञाना एवोत्पन्ना अग्रे ज्ञानोपदेशाभावात् । तथा वैकुण्ठवासिनामपि भक्तानां मुक्तानामी- श्वरेच्छया सम्भवः । अतः शापकथा । एक कर्ता अपरो विषय इति ॥ ७ ॥ उपपत्तिरनेनोक्ता फलार्थ प्रक्रियान्तरम् ॥ ८॥ मतान्तरेण हि फलं राजसत्वान्निरूप्यते। एवं जीवोत्पत्तायुपपचिरेवोक्ता, न त्वयं प्रकारो भागवताभिमतस्तेषां जीवानां मोक्षार्थ प्रक्रियान्तरं साइख्यप्रकरणम् । मतान्तरेण फलनिरूपणे · हेतुमाह राजसत्वादिति ॥ ८॥ चन्धनिरूपणाद् बन्धप्रकरण एव तन्निरूपणमिति भावः । मुक्तिर्गौणीति । केचित मुक्तिसनकादीना जयविजययोश्च सगुणांवदन्ति परममुक्ताना पुनर्जन्मकथने श्रुतिविरोधः स्यादिति भावः। वस्तुतस्त्वि- ति । सनकाइयाः परममुक्ता एवान्यथा नारदादीनामिषामपि ज्ञानोपदेशः स्यात् । शुकवज जन्मान्तरोन्पन्नज्ञानवभावाच्च सिद्धज्ञानानामेवोत्पत्या तद्धर्मसम्बन्धाभावात् मुक्ता ऐवेत्यर्थः । एतेन ज्ञानमार्गीया मुक्तिरेतेपूक्ता प्रह्लादावतारेण भक्तिं दत्त्वा तन्मार्गीयां मुक्तिं दातु पुनर्जन्मकरण- मिति भावः। तथा वैकुण्ठेति। सनकादिवज्ञानाभावेऽपि जयविजययोः सेवार्थ भगवल्लोकस्थित्या मुक्तोपसृप्यव्यपदेशादिति न्यायेन मुक्तत्वमेवेत्यर्थः । एतयोरपि राजसयोः सगुणन्वे जाते गुणातीत- मुक्तिदानाय पुनर्जन्मेति बोध्यम् । ननु मुक्तानां जन्मकथने 'न स पुनरावर्तत' इति श्रुतिविरोध इत्याशङ्कयाहुः ईशेच्छयेति । यः सर्वज्ञ स सर्वशक्तिरित्यादिश्रुत्या भगवतः सर्वसमर्थत्वेन प्रतिपादनादन्यथाकर्तुं सामर्थ्यमपि श्रुतिप्रतिपादितमिति मर्यादयाऽनावृत्तिरेव प्रमेयवलेन पुष्टया मुक्तानां विशेषानुग्रहेण सेवार्थमावृत्तिरिति न विरोध इत्यर्थः । अत इति । यत उत्पादने भगवदिग्छात एव शापसम्बन्धिनी ज्ञानिनां भक्तयोश्च कथेत्यर्थः -। अन्यथा मुक्ताना शापदातृत्व रजोगुणसम्बन्धा- दनयोश्च तथाभूतयोर्वैकुण्ठद्वा.स्थयास्तद्विषयत्व न स्यादिति भावः । उभयेषा शापाभावेन कथं कथा. यास्तरसम्बन्धित्वमित्याशङ्कय सम्बन्ध विचयन्ति एक इत्यादिना ॥ ७ ॥ एवं जीवोत्पत्ताविति । एवमनेन प्रकारेण रजोगुणमाविर्भाव्य ज्ञान भक्तिं च सगुणा विधाय लीलार्थ स्वयमवतरन् विशेषानुग्रहाथ मुक्तानपि जीवानुत्पादयतीति तथा भगवदिच्छारूपोपपत्तिरेव तदुत्पत्तायुक्तेति जीवप्रकरणमुपपत्तिप्रकरणमित्यर्थः । न त्वयमिति । कथं मुक्तानामु पत्तिरित्यत्र युक्ति- खेच्छारूपा मतान्तरभाषयोक्ता न तु श्रीभागवतस्य समाधिभाषारूपस्याभिमतोऽयं प्रकारो मुक्तोत्पत्तौ किन्तु स्वावतारवल्लीलार्थ तदुपयुक्ताना मुक्तानां लक्ष्म्यादीना भगवदिच्छया भगवता सह जन्म न तु शापादिनेत्यर्थः । एतेन प्रकाणस्यास्य शानिभिर्भक्तानां शापनिरूपणेन भक्तरनुत्कर्ष- प्रतिपादनात् न समाधिभाषात्वमिति ज्ञेयम् । तेपामिति । शानि येनाक्षरात्मकवैकुण्ठवहिरवर्तित्वेन साक्षापुरुषोत्तमसेवाभावात् सगुणत्वाच मतान्तरीयाणां जीवानामित्यर्थः । प्रक्रियान्तरमिति । प्रकारान्तरमित्यर्थः । कः प्रकार इन्याकांक्षायामाहुः सादख्यप्रकरणमिति । मारणादिना सङ्घातात १० सप्रकाशे तत्त्वदीपनिबन्धे मागवतार्थप्रकरणे तथा सति फलवैपम्यमाशङ्कयाह- फले हि नास्ति वैषम्यमितीशस्योद्भवाभिधा ॥९॥ उपपत्तौ फले चैव तेनावतरणद्वयम् । क्रियाज्ञानविभेदेन कर्माधीनाऽन्यथा भवेत् ॥ १० ॥ फले हि नास्तीति । यत ईश एवोझ्य तत्रापि फलं प्रयच्छति । अतोऽस्या लीलायामवतारद्वयम् , क्रियावतारो वराहो, ज्ञानावतारः कपिल इति । ननु सृष्टौ किमर्थमवतारस्तत्राह कर्माधीनाऽन्यथाभवेदिति ।। १० ।। नन्वपूर्व निरूप्यते यन्मुक्तानां पुनरुत्पत्तिरिति तगाह- मुक्तोऽपि यदि नोत्पत्तिरुत्पन्ने मुक्तिरेव वा । तदा कृष्णेच्छया सृष्टिरित्यों हि विरुध्यते ॥११॥ मुक्तेपीति । तदा ईश्वरत्वं व्याहतं भवेदित्यर्थः ॥ ११ ॥ सृष्टिः सफलेति स्पष्टयति- स्त्रीपुंसमुक्तिकथनात्तदर्थं सृष्टिकृद्धरिः । पृथक्करणेनैवैतेषा स्वप्रापण न तु लीलास्थभक्तानामिव सशरीराणामेव स्वपदप्रापणमिति भाव । ननु तेष्वपि प्रभासीयकथया तथात्व प्रतीयत इति चेत्, न, तस्या व्यामोहलीलात्वेन तदर्थमेन तथा प्रद- र्शनात् । अत एव ' नश्वर गृह्यमाण च विद्धि मायामनोमय'मिति प्रभुनाक्यम् । अन्यथा ' व्रजपु- स्वनिताना वर्षयन् कामदेय मिति वाक्य विरुद्धयेतेति भाव । नन्वेतेषामपि सर्गलीलामध्यपातित्वात् कथ लीरास्थप्रकारण फलप्रापणमुचितम् । ननु शरीरपार्थक्यकरणरूपसाख्यप्रकारणेयाशक्य राज- सत्वेन सगुणत्वात् तादृशशरीरवन तथा फलसम्बधायोग्यत्वादन्तर्ग्रहगोपिकावच्छरीरनिवर्तन- प्रकारेण फलप्रापणमित्यर्थ ।। ८३॥ फले वैपम्यमिति । भगवत्प्राप्तिरूपे फले सगुणदेहत्वेन जघन्याधिकारित्वाद् वैपम्याशड्. केति भाव । यत ईश एवेति। आविर्भूय फलदाने इच्छैव प्रयोजिका न त्वधिकार इत्यर्थे । तत्रापति सगुणदेहव स्वपीयर्थ । अत इति । यतोऽवतार विना क्रोधवता दैत्याना स्त्राशरीरस्य देवहूतिजीवस्य च सगुणदेहत्वात् न मुख्यमुक्तिसम्भवोऽतोऽत्र क्रियाज्ञानाभ्यामरतारद्वय वराहकपिटरूपमि यर्थ । नियावतार इति । यज्ञात्मकवादिति भाव । ज्ञानावतार इति । कर्दमज्ञानस्येव देवहूतिकृपया सद पेण प्रकटत्वादिति भार । ननु सृष्टापिति । बन्धमोक्षभेदेनोभयविधसृष्टामित्यर्थ । किमर्थमिति।। मनवतीर्याप्युभयविधतेर्भगति सम्भवादित्यर्थ । कर्माधीनेति । यदि भगवान् नाविर्भवेत् तदा प्रमेयमलेन फलदानाभावादितरसृष्टिवादियमपि कर्माधीना फले भवेत्, तथा च सगुणदहाना विपरीतसाधनाता न मुरयफल सेस्पतीति भाव ॥१०॥ अपूर्वमिति ! श्रुतापश्रुत वादिति भार । ईश्वरत्वमिति। उच्चतया स्थिताना स्वैग्छया हीन- भारकरणे सथा स्थितानामुचतासम्पादन एवेश्वरत्वमन्यया तद् व्याहतं भवेदित्यर्थः ॥ ११ ॥ सृष्टिः सफलति । इस मोशसृष्टि फ्लरूपाप्युभयोर्दम्पत्योमोंग युर्वतारेव मोक्षसिदोंगरम- तृतीयस्कन्धार्थः ऐहिकामुष्मिकफलं मोक्ष प्रीतः प्रयच्छति ॥ १२ ॥ तस्मात्सृष्टयवतीर्णस्तु भजेत हरिमादरात् । स्त्रीपुंसेति । किमत्र स्कन्धार्थे फलितमित्याशङ्कयाह ऐहिकामुष्मिकफल- मिति ॥ ११॥ ननु साङ्ख्यप्रकरणे तदनुसारिणी सृष्टिः कथं नोक्ता, तबाह- साङ्खयेन मुक्तिकथनात्सृष्टिः समान्यतोदिता ॥ १३॥ तामसी राजसी चैव सात्त्विकीति क्रमात्रिधा । गुणसृष्टेस्तन्मतत्वाद्गौणत्वान्न विरुध्यते ॥ १४ ॥ साङ्ख्येनेति । सामान्यतो मता या काचिद्वक्तव्येत्युक्ता । उदितकि सन्धिरापख्यापकः । अत एव गौणी तदविरोधार्थ निरूपिता ॥ १४ ॥ ननु कर्दमस्य मुक्तौ साधनं नोक्तमिति चेत्तवाह- ज्ञानस्य पूर्वसिद्धत्वान्मुक्तिोगादिसंयुता। उपदेशेन च परा'चतुभिर्नवभिः क्रमात् ॥ १५ ॥ ज्ञानस्य पूर्वसिद्धत्वादिति । उपदेशेन स्त्रीमुक्तिः ॥ १५ ॥. फलसहितेत्यर्थः । किमोति । मोक्षस्य भोगसाहित्यनिरूपणेन स्कन्धार्थे सर्गलीलारूपे कि फलितं फलतः किं निरुपितं जातमित्यर्थः । ऐहिकेति । यो मोक्ष ऐहिकामुष्मिकालरूपो भोगप्रकारेण परमानन्दानुभवरूपस्त भगवानेव स्वय प्रीत: प्रयच्छतीति तदीप्सुभिर्भगवान भजनीय इति सर्गे पर्यवसानतो भक्तिरेव फलितेत्यर्थः ॥ १२३ ।। तदनुसारिणीति । तत्त्वमात्रसृष्टिः साख्योक्तैवात्र तत्प्रकरणे वाध्येति कथ पप्रकल्पप्रकारेण' सृष्टिनिरूपणमियर्थः। सामान्यत इति । सायप्रकरणेन मोक्षसर्ग एव निरूप्यते स बन्धसर्गोऽतस्तत्र तथा तात्पर्याभावाद् या काचिद् वक्तव्येति पद्मकल्पप्रकास्कियोक्त्यर्थ. । सन्धिरार्पख्यापक इति । सामान्योदितपदयोोकादसिद्धः सन्धिरय सर्गः आप इति ख्यापकः आप ऋषेर्भावः कर्म वा तस्य ख्यापक इत्यर्थः । एतेन पद्मोत्यितेन 'ऋषिमायं न वहातीति वाक्यादृषिगा ब्रह्मणा कृता सृष्टि- स्रोक्ता न साक्षाद् भगवत्कृता सोक्तन्यर्थः । ननु मुल्पसृष्टिमपहाय गोगसृष्टिकयने कि प्रयोजनमित्या- शङ्ख्याहुरत एवेति । यतः प्रकरणमिदं साइपस्प तच्च गौण तन्मतस्य गुणसृष्टिनिरूपकानात तेन सहाविरोधार्थमत्र मुख्यसृष्टिमपहाय गौणी सृष्टिनिरूप्यत इत्यर्थः ॥ १४ ॥ ननु कर्दमस्येति । बन्धप्रकरणीयजीवप्रकरणे दैत्याना निःसाधनमुक्ति प्रतिपादितेति, मोक्ष- प्रारणे ससाधना सा प्रतिपादनीयेति देवहूतावुपदेशसाधनसत्यात कर्दमस्य कथं तन्नोक्तमित्यर्थः। मानस्येति । पूर्वमेव कृतयुगे ' तावत् प्रसन्ना भगवान् पुष्कराक्षः कृते युगे । दर्शयामास तं क्षत्तः शान्दं प्रस दधपुरिति वाक्याद् भगाप्रसादेन ज्ञानस्य मोक्षसाधनसाक्षाकारामाज्ञानस्य सिद्धत्वादिदानी देवइतिवन्न साधनकयनमियर्थः। उपदेशेनेति । साक्षादवतीर्णकपिलोपदेशसामन,
२
सप्रकाशे तत्वदीपनिबन्धे भागवतार्थप्रकरणे
.
चतुःप्रकरणी स्थौल्ये सौम्ये तु दशधा मता।
अधिकारस्तथा सृष्टिरुपपत्तिः फलं तथा ॥ १६ ॥
तेन क्रमात्प्रकरणचतुष्टयं भवति । दश प्रकरणानि पूर्व निरूपितानि ।
स्थूलानि गणयति अधिकार इति ॥ १६ ॥
पञ्चधा सृष्टिरुक्ता हि तृतीया तु द्विधा मता ।
चतुर्थी तु त्रिधा प्रोक्ता दशैते सृष्टिसङ्गताः ॥ १७ ॥
अधिकारस्ततो भिन्नः स्कन्धद्वययुतः परः ॥ १७ ॥
पञ्चधा सृष्टिः पूर्वमेयोक्ता । चतुर्णामेव दशधात्वमिति । तत्र सृष्टिः पञ्चविधा,
'उपपत्तिर्द्विधा । त्रिधा मुक्तिः । एवं त्रयाणां दश भेदाः । अधिकारस्तु ततो
भिन्नः, तस्य स्कन्धंद्वयोपयोगात्, स्कन्धद्वयमेकं प्रकरणवत्: तेन पट्यध्यायाः
सर्गविसर्गयो । अधिकारे चतुष्टयामिति । भगवतः कला निरूपिता भवन्ति ॥१७॥
.
न ज्ञानादिनेत्यर्थः । ज्ञानयोगभक्त्यादिकथनं तु देवहूतेस्तेन मार्गेण मुक्तिः, पुष्टिमार्गप्रकारेण तन्मुक्तेः
किञ्चिच्चकार वदनं पुत्रविश्लेषकातर मिति वाक्यात् । अत एव सर्गनिर्णये पूर्वमुक्तं ' राजवत्
'कुत्रचित् कृष्ण' इति ॥ १५॥
प्रकरणचतुष्टयमिति । अधिकारसृष्टपुत्पत्तिमुक्तिभेदेनेत्यर्थः । स्थूलानि गणयतीति ।
सौम्ये सृष्टिप्रकरणान्येवार्थभेदेन दशविधान्युक्तानीति सड्ढयासिद्धेर्न गणना, यतः स्थूलानि
चतुर्विधानि गणयतीत्यर्थः ॥ १६ ॥
पूर्वमेवेति । गुणातीतात् सृष्टिरित्यादिने यर्थः । प्रकरणसड्ड्याधिक्याभावाय चतुर्णामेवार्थ-
मैदैर्दशविधात्वमाहुश्चतुर्णामेवेति । अधिकारादिचतुर्णामेवार्थभेदैर्दशधात्वमित्यर्थः । नन्वधिकार-
मिश्रणेन सृष्टभुपपत्तिमुक्तयाधर्थभेदगणन एकादशधात्वमायातीत्याशङ्कयाहुरधिकारस्ततो भिन्न
इति । सृष्टयादिप्रकरणेभ्यो भिन्नः सर्गविसर्गोभयोपयोगान विदुराधिकारस्य सत्त्वे मात्र प्रवेशो येन
ताप्रकरणसङ्ख्यां वर्धयस्यतो भिन्न एव प्रकरणेभ्यो वाच्य इति भावः । ननु तृतीयस्कन्धोक्तस्याधि-
कारस्य कथ चतुर्थस्कन्धीयस्वतन्त्रविमर्गलीलागवं स्कन्धभेदादुपपद्यत इत्याशङ्कयाहुः स्कन्धद्वयमेक
मिति । प्रकारभेदेन फलभेदेन चोमाभ्यां स्टेरेव प्रतिपादनादित्यर्थः । नन्वेवं स्कग्धभेदोऽनुपपन
एकार्यप्रतिपादकत्यादिति चेत् तत्राहुः प्रकरणवदिति । यथा प्रकरणानामेकस्यैवार्थस्य प्रकारभेदेन
प्रतिपादनादेकार्थप्रतिपादनेऽपि भेदस्तथा स्कन्धयोरपीत्यर्थः । तेनेति । अधिकारस्य भिन्नत्वप्रतिपादने-
नेसर्थः । सर्गविसर्गयोरिति । तावद्भिरेव तदुभयप्रतिपादनादिति भावः । अधिकार इति । उभय-
विधलीलाश्रवणाधिकारविषये अध्यायचतुष्टयमित्यर्थः । स्कन्धद्वयाध्यायसङ्ग्यासूचितमर्थमाहुर्भग-
चत इति । तथा च कलाशानेन विदुरस्य तद्वारा भगवद्ज्ञानादृदये सर्वदा भगवत्प्रकाशः
सर्वसन्देहनिवृत्तिव भविष्यतीति योधितम् ॥ १७ ॥
तृता ...: एवं प्रकरणाथं निरूप्य अधिकारेऽध्यायचतुष्टयमिति तत्र प्रथमाध्याये यादृशोऽधिकारः सम्पन्नस्तं प्रतिपादयितुमाह-- प्रतिवन्धो गृहासक्तिः शुद्धिस्तीर्थटनं मता ॥ १८॥ बाह्या हरिकथाश्रुत्या तथा चाऽऽभ्यन्तरी मता। कृष्णप्रसादयुक्तश्चेदधिकारी परः स्मृतः ॥ १९ ॥ प्रतिबन्ध इति । प्रतिबन्धनित्तिः शुद्धिस्तीर्थाटन मिति । भगवदीयत्वेऽपि त्रयो गुणा अधिकाः तेन पूर्वस्माद्विशिष्टो यं प्रथमः । तस्य भगवत्कथाश्रवणं चेत्त- तोऽप्युत्तमो भवति । तत्राऽप्यान्तरश्चेद्भगवद्गुणो भवति तदा तृतीयः । भगवत्कृपायां चतुर्थ इति । भगवढीयत्वेऽपि चतुष्टयं चेत्परमोऽधिकारी भवति । वाह्या शुद्धिविधा, . प्रकरणामिति । दशविधप्रकरणार्थमित्यर्थ । अधिकार इति । अधिकारप्रकरण इत्यर्थः । तत्रेति। तस्मिन् प्रकरण इत्यर्थः। यादृशोऽधिकार इति । अधिकारे प्रकारचतुष्टय द्विविधबाह्यशुद्धिक कथाश्रवणभगवत्कृपारूपमस्तीति तन्मध्ये यादृकप्रकारकः प्रथमाध्याये सम्पन्नः स प्रतिपाद्यत इत्यर्थः । प्रतिबन्धनिवृत्तिरिति । मूले 'प्रतिबन्ध पदेन तन्निवृत्तिरुपते अधिकारनिरूपणे तन्निरूपणादत एव 'गृहासक्ति रिति तद्विशेषणं, तस्या मोक्षकलकमार्गे सर्वथा निर्वर्तनीयचात् । न हि गृहासत्ता पारमार्थिकफलार्थ यतन्ते प्रत्युतान्यान् वारयन्नि, भगवल्लीलाश्रवण तु त्यक्तगृहासक्तानामेव सम्भव- तीति तथेति भावः । शुद्धिस्तीर्थाटनमिति । गुगाधायिका वाह्या शुद्धिरित्यर्थ. । अन्यथा प्रतिबन्ध- निवृत्तनिष्टनिवृत्तिरूपशुद्धित्वेन तथोक्तिर्न स्यादिति । भगवढीयत्वेऽपीति। यद्यपि विदुरपरीक्षितोर्मग- वदर्थसर्वपरित्यागाद् भगवदीयत्वमविशिष्ट तयापि विदुरे तीर्थाटनभगवद्गान्तरत्वभगवत्कृपारूपगुण- त्रयमस्तीति तेन गुणत्रयाधिक्येन हेतुना श्रवणदशायामेव प्रथमोऽसम्पन्नश्रवण. पूर्वस्मात् परीक्षितो विशिष्ट इत्यर्थ.। परीक्षिति तु न तीर्थाटनं नापि श्रपणात पूर्वमेवोद्भवादवगतगुणस्य विदुरस्येव हदि गुणस्थिति पि पिदुर इस निरुपाधिका कृपा, किन्तु तन्मातृकृपया तद्रक्षार्थ प्रवृत्तस्य जगति भागवतप्राकट्यार्थं च सेति न विदुरसमत्वमिति भावः । तस्येति । भगवदर्यसन्यागकर्तुगादीयस्ये- त्यर्थः । ततोऽपीति । अग्रुतभगवञ्चरिताद् भगवदीयादित्यर्थ । एतेन विदुरे भगवदीयत्व भागवत- श्रवणापूर्वमेय भगवाकपाश्रवणमस्तीति द्वितीयोऽधिकारीत्यर्थः । तत्रापीति । कथाश्रवणेऽपि, पदि ते गुणा हृदये वसन्ति तदा ततोऽप्युत्तमस्तृतीय इत्यर्थः । 'गुण' इयेकाचन तु उद्धयोक्तानी गुणाना सर्वेषो कुशलप्रश्नोतरार्थनेकरूपत्वावगमाये यर्थः । मगवत्कृपायामिति । यदने कथनापातिगूढनी- भागरतार्थो भगवता मैत्रेयस्पाले उदयाय कथित इति विदुरे परीक्षिदपेक्षपाऽधिका कृपेत्पर्य. नन्नेव परीक्षिदर्षे समाधी व्याप्सायापि साक्षाहीमागयतं भगरता प्रोक्तमिति तस्मिन्नपि तथाविधा सेति विदुरे किमाधिक्यमेतदंश इति चेन, मैत्रेयो हि नोवग्रावणीयप्रवणाधिकारी पुदिमागीयम्या- भावात् । तादशोऽपि प्रावित इति विदुरकरयाधिकारानधिकारस्पतिरपि मगयतो गतेति तस्मिनेर महती रुपयर्थः । भगवदीयत्वेऽसीति । गृहस्थितिपशंग भगवासम्बधिवेऽपीयर्थः । चतुष्टयमिति ।
सप्रकाशे तत्त्वदीपनिबन्धे भागवतार्थप्रकरणे दोपनिवृत्तिरूपा गुणाधायिका च। तत्र प्रथमाध्यायार्थः, गृहासक्तिरेव प्रतिवन्धः। अतस्तनिवृत्तिर्वक्तव्येति शेपः ॥ १९ ॥ “ननु क्षत्रियाद् भगवदीयाच्छूद्रः कथमधिकारी ततोऽप्युत्तमो वा कथं तत्राह- शतं वर्षाणि शूद्रत्वं पश्चाद्राजन्यताऽस्य हि । तावत्क्षत्ता ततो मन्त्री तस्मात्कृष्णसभोज्यता ॥२०॥ अतोऽधिकारस्तस्याऽत्र यथायुक्तं तु जीवनम् । शतं वणीति । "शापादर्पशतं यमः" इति वाक्यात् । शतवर्षपर्यन्तं शूद्रत्वम्। अन्यथा ब्रह्मवीजस्य मुख्यशूद्रलं नोपपद्येत, राजत्वार्थ प्रार्थितत्वात् । क्षत्रियत्वमेव पश्चात्। अत एव मन्त्रादाहानम् । तस्या शूद्रत्वे हेत्वन्तरमप्याह कृष्णसभोज्यतेति। प्रतिबन्धनिवृत्या चतुष्टयेत्यर्थ.। परम इति। सर्वोत्तम इत्यर्थः। एतेन परीक्षिति प्रतिबन्धनिवृत्तिमात्र- मेवास्ति नाप्रिमगुणत्रयमस्तीति न तथास्वमिति बोधितम् । दोपनित्तिरूपेति । शुद्रेः संस्काररूपत्वेन तस्य च दोषनिवृत्तिरूपत्यात् तथात्वमित्यर्थः । अत एवासस्कृता अशुदा इत्युन्यन्त । पृथक्शुद्धिपक्षस्तु गुणाधायिका तामभिप्रेय यथा ‘मन्त्रपूत जलं पित्रे'दित्यादौ । तत्रेति। उभयोर्बाह्यशुद्धयोरित्यर्थः प्रथमेति। तिबन्धनिवृत्तिरूपे यर्थः। ननु प्रतिबन्धान्तरमत्रः कुतो नोक्तमित्याशड्क्याइहासक्ति- स्वेति । सर्वप्रतिबन्धमूलत्यादिति भावः । अत एव एक्कारः तदभावे सर्वेषमप्रतिबन्धकवादित्यर्थः । शेप इति । मूलस्य शेषग्रन्योऽयमित्यर्थः ॥ १९॥ विदुराधिकारमाक्षिपन्ति ननु क्षत्रियादित्यादिना । क्षत्रियादर्जुनपौत्रवेन भगवत्सम्ब- न्धात् शूद्रो जातिहीनकुलासम्बधश्च कथमधिकारीयर्थः। ततोऽप्युत्तमो वेति कदाचिद्भगवद्भजने कुलसम्बन्धो न प्रयोजक इति भावेन तदीयत्वाद् भवेदधिकारितामात्रं उत्तमत्त्वं जातिहीनस्य कथं सम्भवतीत्यर्थः । शतवर्षपर्यन्तमिति । श्रीभागवतश्रवगावसरे शापप्रयुक्तशूद्रत्वस्य निवृत्तत्वादिति भावः । अन्यथेति । व्यासाद् ब्रह्मवित्वेन पराशरो-पनत्वेन च ब्राह्मणादुत्पन्नस्यास्य शूदाच्छ्यां समुत्पन्न इत्येवंविधं मुख्यशूद्रत्व ब्रह्मवीजस्य नोपपद्यतेति भावः । कदाचित् क्षत्रियत्वं सम्भाव्येते यत्र हेतुतामाहू राजत्वार्थमिति । व्यासवीर्यस्य राजत्वार्थ तन्मात्रा प्रार्थितत्वात् क्षत्रिय व सम्भाव्यतेत्यर्थः । क्षत्रियत्वमेवेति । व्यासस्य राजभावेन राजपुत्रोत्पत्यथं प्रवृत्तत्वेन तत उत्पन्नस्य पश्चाच्छापप्रयुक्त शूद्रस्वनिवृत्त्यनन्तरं क्षत्रियत्वमेवेत्यर्थः । अत एवेति । क्षत्रियत्वाभावे मन्त्रे यज्ञविवाहादावेतस्याहानं ना स्यादिति भावः । हेत्वन्तरमपीति । यद्ययं शूद्रः स्यात् तदा कृष्णः साम्प्रतं क्षत्रकुलावतंसस्तेन सह भोजन न कुर्यात् , अतो न शूद्र इत्यर्थः । नन्वेवं शूद्रगृहे सेवादी भगवतो मोजनमनुपपन्न- मिति चेत्, न सभोज्यता समभागेन भोजनमे निषिद्ध न वैश्वर्यभावेन तदनस्वीकारः । अन्यथा 'यो मे भरपा प्रपञ्छनीति सामान्याचनमयुक्तं स्यात् । मत एव गोवर्धने गोचारणलीलायां पुलि- न्ट्रीसमर्पितसकलपदार्थस्वीकारः । भक्त्या प्रपच्छनीति भगवद्ग्रहणे भक्तरेव प्रयोजावं न वर्णादि- अर्माणामिति बोध्यम् । विदुरगृहे मिभोजन तु क्षत्रिमपाण्डयादिवैमनस्माभावेनावतारधर्मस्थापनार्थ- - तुरथः १५ अतः क्षत्रियत्वात्तस्याधिकारः ब्रह्मवीजत्वं चाऽधिक प्रयोजनम् । ननु स शत- वर्षाण्येव जीवतीत्यभिप्रायेण कथं न शाप इत्यभिप्रायेणाह यथायुक्तमिति । जीवनं तु युक्त्या तस्य बहुकालं लक्ष्यते । स हि धृतराष्ट्रसमानो दुर्योधनसमानो भीमः । ततोऽपि कनिष्ठोऽर्जुनः । तत्समानः कृष्णः। तत्र च “ पञ्चविंशाधिकशतम्" इति वाक्यम् । अतः सार्थ शतं वा तस्य जीवनं भवति ॥ २० ॥ * एवं चतुर्णामर्थमुक्त्वा प्रथमाध्यायार्थमाह- अपमानाद्धि निर्विण्णो विशुद्धस्तीर्थसेवया ॥२१॥ क्षत्ता सत्सङ्गतः प्रीतः प्रश्नत्रितयकृद्धरेः। सामान्येन विशेषेण कुशलं चरितं तथा.॥ २२ ॥ अपमानाद्धि निर्विषण इति । स्वतो निर्विष्णः कदाचिदागच्छेदपि । अतो हेतुपूर्वको निर्वेदः साधनीयः, स चेन्निविण्णोऽन्यत्र तिठेत्पुनरासक्तिर्भवेत् । अतस्तीर्थ- मिति दिक् । नन्वेवं क्षत्रियत्वेनैवोत्तमत्वसिद्धौ ब्रह्मबीजावं विदुरे व्यर्थमित्याशङ्कयाहुब्रह्मयीजत्वमिति। ब्रह्मवीजत्वमधिकंधृतराष्ट्रायोपदेशदानरूपं.प्रयोजनं यस्य तादृशमित्यर्थः । क्षत्रिस्योपदेष्टत्वाभावा- दिति भावः । ननु स इति । 'शतायुर्वं पुरुष' इति श्रुतेर्जीवनं शतवर्षावध्येव भवतीति शतवर्षपर्यन्तं शापदानं विजीवाभिप्रायेणेति यावनीवं शूदत्वात् कथं पश्चात् क्षत्रियत्वमित्याशङ्कार्थः । यथायुक्त विति । विदुरस्य जीरनं न श्रुतिसिद्ध किन्तु यथायुक्तं यथा यथावद् युक्तिसिद्धं भगवलीलार्थ तदुपयोगि भक्तावेनावतीर्णत्वाद् यावलीलादर्शनं तस्थितिरिति न तस्य जीधने झुसिसिद्धव्यवस्था, पुष्टया तद्वाधात् । अन्येषां तु मर्यादा रूपा सेत्यर्थः । बहुकालमिति । श्रुतिसिद्धजीवनकालाधिककाल- मित्यर्थः । युक्तिमेवाहुः स हीति । व्यासस्यैकस्मिन्नेव दिने धृतराष्ट्रादिमातृप्रार्थनया राज्यार्थक- पुत्रोत्पत्त्यर्थं प्रवृत्तत्वादिति भावः । दुर्योधनसमान इति। 'गदायुद्धे तुल्यायोवला विति वाक्यादित्यर्थः। वत्समान इति । वयसा तथात्वादिति भावः तत्र चैति । कृष्ण इत्यर्थः । वाक्यमिति । वाक्ययशा- देममुच्यते । वस्तुतस्तु ' जपति जननिवास' इत्यादिवाक्यैः स सदैव सलीलाविशिष्टः सर्वोत्कर्षण वर्तत इति शेयम् । अत इति । यतः सपादशतवर्षपर्यन्तं भगवदर्शनमेव ततः पूर्व नपितृसमत्वात पञ्चविंशति वर्षाणि पुत्रोत्पादनक्षमताहेतुभूतान्यधिकानि भविष्यन्तीति साद्धं शतं तस्य जीवन- मित्यर्थः । वाशरोऽनादरे । कदाचित् पचविंशतिवर्षेभ्यः पुरैष पुत्रो पत्तिसम्भवादिति भावः ॥२०॥ चतुर्णामिति । मिलितानां तेषां समुदायेनार्थमुस्वेत्यर्थः । अध्यायार्थमिति । प्रत्येकमाहेन्यर्थः । कदाचिदिाते । यदा शुद्रिविशेषोदयेन दयाधुत्पतिरित्ययः । अत इति । यतः अहेतुकनिदे पुनरा. गमनसम्मापनेत्यर्थः । हेतुपूर्वक इति । निदस्य किक्षित् कारण कल्पनीयमित्यर्थः । नन्वे हेतु. कनिषेद विदुरस्य धृतराष्ट्रापदेशाप कथं पुनरागमनमिति चेत्, न हतोदुर्योधनस्य निरतायेन तस्य च पाण्डवगृह सत्वेन च मा यदीपगृहत्यात् तदागमनमिति जानीमः । साधनीय इनि । यथान्ये तिरायुस्तथा वचनादिक यता यमित्यर्थः । स चोदति । हेतुकेनापि निदन निर्विष्ण इत्यर्थः । मन्योति । यद निवेदस्तदसम्बन्धिदेश इत्यर्थः । पुनरासक्तिरिति । मगउदीयये सन्यपि ोत. + परिधामध्यवर्ष स्टमः। ..
सप्रकाशे तत्वदीपनिबन्धे भागवतार्थप्रकरणे सेवैव कर्तव्या। तत्रापि तीर्थे देवतावुद्धिस्तदेव सेवा भवति । तत्रापि कामनाभावाय विशुद्ध इति । क्षत्तेति । पूर्वमेव जितेन्द्रियता सिद्धा । सत्सङ्ग उद्धवसङ्गः, तेनैव प्रीतः, न तु प्रश्नार्थम् । तत्र प्रश्नत्रयं कृतवान् । भगवतः कुशलप्रश्नः सर्वेपां कुशलप्रश्नमिपेण भगवतः सामान्यप्रश्नश्चरितप्रश्नश्चेति । तदाह सामान्येनेति ॥ २२ ॥ उत्तरे क्रमेण उत्तराभावात्प्रकारमाह- गुणत्रयासिद्ध्या मुख्याधिकारासिद्धरित्यर्थः । अत इति । यतस्तीर्थसेवयैर गृहाद्यासक्तिनिवृत्तिस्तेषा- मन्त.करणशोधकत्यादित्यर्थः । मूले तीर्थसंवयेति मिनं पदं न विशुद्धौ करणत्वबोधकमतस्तीर्थसे- वया युक्तो भवे । अन्यथा कामनाभावरूपविशिष्टशुद्रेस्तीर्थामाध्यत्वात् करणत्वानुपपत्तिः, तीर्थानां नानाविधकलजनकताबोधकपुराणवाक्यैः कामनाजनकत्वात् । अत एव महाभारते 'यज्ञा- स्तीर्थानि चेतिगक्येन यज्ञाना तीर्थाना च समतोक्ता । एक्कारेण न तत्रान्यतः प्रतिग्रहादिक कर्तव्यमिति बोधितम् । तत्रापीति । तीर्थसेवायामपि तीर्थे देवताबुद्धिर्न जलबुद्धिः कार्या । अन्यथा माहात्म्यज्ञानप्रेमानुरूपाकृतिः सेरेति देवनाबुद्वयभावे तदभावात् सा न सम्भवेदतः सेवोक्त्येतत् सूचितमित्यर्थः । ननु तीर्थसेवयैव शुद्धिसिद्धेः पुन विशुद्ध' इतिविशेषगं व्यर्थमित्याशङ्ग्याइस्तत्रा- पीति । विशिष्टशुद्धिस्त्यागोत्तर तद्विषयककामनाभाव एव । अन्यथा 'मिथ्याचारः स उच्यत इति वाक्यात् तथात्वं भवेदित्यर्थः । पूर्वमेवेति । अधिकारसिद्धी प्रथमकारणत्वात् । अजितेन्द्रियस्य कामना सहस्रोदयात् निवृत्तिमार्गाधिकारसिद्धिसम्भावनाभावादित्यर्थः । उद्धवसङ्ग इति । उद्धवसङ्गस्यैवा- धिकारहेतुत्वादिन्यर्थः । सत्सङ्गो द्विविधः प्रेमहेतुनिहेतुश्च । तत्र प्रेमहेतुरधिकारसम्पादकः । तादृशेन तेन प्रेमोत्पत्या श्रवणाधिकारसिद्धेः । न ह्यनुत्पन्नप्रेना भगवञ्चरितं श्रोतुमर्हति । भक्तिवृद्धयुपायत्वेन श्रवणादीनां पूर्व भक्त्यङ्कुरस्थितिबोधकत्वात् । ज्ञानहेतुस्तु अवगसाधको यथा मैत्रेयसङ्ग इत्यर्थः । तेनैवेति । उद्धवसङ्गेन भगवति प्रेमोत्पादकेनैव प्रीतः भगवति प्रीतियुक्तो जातः । अत एव मूले. 'हरेः प्रश्नकदि'त्युक्तम् । अन्यथा स्वसन्देहवारणार्थफप्रश्नान्तर कुर्यादिति भावः। न तु प्रश्नार्थमिति । प्रश्नार्थ प्रीती प्रश्नमेव कुर्यात् नतूद्धवे गते तद्विरहण । वस्तुतो भगवद्विरहेण रोदन कुर्यादतः सत्सङ्गेन भगवति प्रीति. न तु प्रश्नकरणार्थमिति भावः । भगवतः कुशलप्रश्न इति । 'कञ्चित् पुराणौ पुरुषा' वित्यनेन भगवत एव सामजस्य विशेपेण प्रश्न इत्यर्थ. । सर्वेपामिति । 'कच्चित् कुरूणा परम' इत्यारभ्य 'सौम्यानुशोचे तमधः पतन्त'मित्यन्तैक्यैिः सर्वेषां वसुदेवोग्रसेनादीनां प्रश्न- मिपेण सामान्यतो भगवतो भगवत्कुशलमेव पृट तत्क्रुशलेनैव तदीयकुशलात् । चरित्रप्रश्नश्चेति । 'सोऽहं नृणा'मित्यारभ्य 'याता सखे कीर्तय तीर्थकीत'रिस्यन्तेन चरित्रप्रश्न इन्यर्थः ॥ २२ ॥ क्रमेणोचराभावादिति । विशेषप्रश्नस्य भगवद्विपयकस्य पूर्वमेव 'कृष्णद्युमणी'त्यादिनो- त्तरादन्तिमचरित्रस्य मध्ये कथनात् सामान्यभगवरकुशलप्रश्नस्य सर्वविषयकस्य चतुर्थाध्याये 'अथ ते तदनुज्ञाता' इत्यादिनोत्तरात् नात्र प्रश्नक्रमेणोत्तरमित्यर्थः । प्रकारमाहेति । पूर्व विशेषोत्तरमन्ते तृतीयस्कन्धार्थः । अन्तिमं मध्यतः कृत्वा द्वयोः सम्बन्धकारणात् । मारणे प्राप्तदोपस्य भक्तोद्धारेण वारणम् ॥ २३ ॥ अन्तिमं मध्यतः कृत्वेति । अन्तिम चरित्रं मध्यतो विशेषप्रश्नोत्तरमुक्त्या सामान्योत्तरमनुक्त्वा मध्ये चरित्रमुक्तम् । “कृष्णधुमणिनिम्लोचे" इति विशेपोत्तरं "राजस्त्वया नुपृष्टानाम्" इति सामान्योत्तरम् । मध्ये भगवतश्चरित्रं च द्विविधमपि निरूपितमित्यर्थः तत्र हेतुः, सम्बन्धकारणादिति । भगवतश्चरित्रकथनव्यति- रेकेणोत्तरासम्भवात्सम्बन्धे कारणम् । ननु भगवतश्चरित्रं ने समीचीनं भक्तानां बन्धूनां मारणाइतः कथमधिकारसिद्धयर्थ तच्चरित्रमुक्तमित्याशङ्कयाह मारणे प्राप्तदोपस्येति । यद्यपीवरत्वान्न दोपस्तथापि प्रतीत्या दापसम्भवेऽपि ते सर्वे भक्तास्तेन प्रकारेणोद्धृता इति दोपनिवृत्तिः ॥ २३ ॥ सामान्योत्तरं चरित्रोत्तरमन्तिममपि मध्ये कृत्वेत्यर्थ. । मूले स्थानानि निर्दिशति कृष्णामणी- त्यादिना । नन्वेक एवं प्रश्नो भगवतस्तदीयाना भातु भगवन्तमारभ्य सर्वेषां कृष्णनिरूपणाच । चत्रिप्रश्नस्तु द्वितीय इति । प्रश्नविष्यकथनमनुपपन्नमि-याशक्यतल्ली सम्बन्धिप्रथमस्त धोक्त प्रश्न- भेदबोधकं वाक्यमुद हरन्ति, राजंस्त्वयानुपृष्टानामिति । 'राजस्त्ययानुपृष्टाना'मियुपत्रभ्य 'निघ्नता मिथ' इत्यन्तेन वाक्येन तेषां प्रकारान्तरेणोत्तरकथनेन च भिन्नतया प्रश्नविषयत्वनिरूपणात् । अत्र तद्वाक्य निश्चायकं नास्तीति सन्देहः स्यादिति तत्रन्यमभिहितम् । द्विविधमपीति । 'यन्मयली- लोपथिक'मि यारभ्या सेसु नाभायुधमापतन्त'मि-यन्तेन पन्थेन माहात्म्यबोधक वसुदवस्य वाक्यमित्या- रभ्याध्यायपर्यन्त प्रीव्युत्पादकं च चरितं निरूपितमित्यर्थः । यद्वावतारसामयिक व्यामोहक चाथ- वोत्पादक महारकं चेत्यर्थ. 1 तत्रेति । द्विविधचरित्रनिरूपणमित्यर्थः । उत्तरासम्भवादिति । पृष्टं हि भगवतो भक्तानां च कुशल तदुत्तर तेषु विद्यमानेषु तैरेव भवति परोक्षे तु तच्चरित्ररेव सम्भवतीति विशेषमामान्यभेदेनोत्तरद्वयनिरूपणार्थनुत्तरद्वयमध्य एकैकस्य प्रत्येक हेतुन्वार्थमुभयविध- चरित्रं निरूपितमित्यर्थः । सम्बन्धे कारणमिति । प्रश्नम्योत्तरेण सम्बन्धे चरित्रमेव कारणं तथा च कारण वात् तथा निरूपितमिति भार. 1 नेदं समीचीनमिति । भक्तानां बन्धूनां लोकसम्बन्धेन सम्बद्धानां चरित्र 'सअहे स्वकुल मितियाक्याद् भगवतैव मारण तत् 'न में भक्तः प्रणश्यता त्यादिवा- क्यदविरुद्ध बम्धूनामर्थे स्वय क्लेशसहनस्य लोकसिद्धत्वाद् भक्तरक्षकवात् प्रभोभक्तिमार्गविरुद्ध चेति न समीचीनमित्यर्थः । अधिकारो हि श्रवणादौ, स च स्वस्य शक्तत्वेन स्वानुकूलचरित्रश्न- घणेन भवति । भक्तपक्षकचरित्रश्रवणेने स्वस्येदृश. प्रभुः श्रोतव्य इति बुद्ध्युपत्ते. । तथा च नेदृश चरित्रमधिकारसिद्धिप्रतिकूलत्वाद्वान्यमियर्थः । ईश्वरत्वादिति । अन्यथा कर्तुं समर्थवादित्यर्थः । मत एकादशे 'नवान्यत: परिभवोऽस्य भवेत् कयश्चित्' इति भगवद्वाक्यम् । न दोष इति । 'तेजी- यसा न दोषाय' इति याक्यादिति भावः। प्रतीत्येति। शास्त्रातो दोषाभावेऽपि बोधितेऽपि लोकदृष्टया स्वतः सदोषया दापाः प्रतीयते मृतदाहकवहाचिव तथा भगवत्यपि तया दोपसम्भवेऽपीयर्थः । तेन प्रकारेणेति । 'वृक्षमूलमुपाविश'दितिवाक्या वेगवेषु प्रविश्यान्तररम गार्थमग्तारलीलासम्पन्ध. मनेन नियर्य सयं च मूलरूरी भूचा तेषां नित्यडीलास्थानसम्बन्ध कारितगनितीतोऽयुद्वार एवापामेति भक्ताहिताचदोपनित्तिरित्यर्थः ॥ २३ ॥ १ इत्य हस्यादर्शट्येऽपि सम्मने।
.१८ सप्रकाशे तत्त्वदीपनिबन्धे भागवतार्थप्रकरणे ननु तथापि विदुरः परीक्षिदपेक्षया कथमुत्तमो भगवदीयत्वस्य तुल्यत्वादि- त्याशङ्कथाह- सेवनात् कृष्णदेवस्य तदाज्ञाकरणादपि । माहात्म्यस्य श्रुतत्वाच श्रेष्ठ उत्तमतो ह्ययम् ॥२४॥ अतस्तस्य कथा प्रोक्ता कृष्णविश्वासदायिनी ।। २४३॥ सेवनादिति । पूर्व भगवत्सेवा तेन महती कृता । तदाज्ञाकरणं पाण्डवानां रक्षा । विशेषतो भगवन्माहात्म्यश्रुतिश्च । एतहेतुत्रयं परीक्षिति नास्तीति ततोऽप्य- यमुत्तमः । उत्तमलं कुत्रोपयुज्यत इत्याशङ्कयाह कृष्णविश्वासदायिनीति । विश्वासस्याभिज्ञापिका निशई प्रवृत्तिः ।। २४ ॥ एवं प्रकरणार्थमुपपाद्य द्वितीयाध्यायार्थमाह- ६ तथापीति । यद्यप्येव पूर्वोदितप्रकारेण परमाधिकारी तथापीत्यर्थः । भगवदीस्येति । भाव- प्रधानो निर्देशः भगवदीयत्वस्येत्यर्थः । अत्रायमाशयः । भक्तेषु भगवदीयत्वमेव तरतमभायेनाविकारो न धर्मान्तरमन्यथा ' केवलेन हि भावेने त्यादिवाक्यानि विरुद्धघेरन् । तथा च धर्मान्तरसत्वेऽपि विदुरे परीक्षिति भगवदीयत्वं तत्तुल्यमिति सम्यक्कथनमुचितं कथं तत उत्तमत्वकथनमित्यर्थः । पूर्वमिति । त्यागात् पूर्व पाण्डवकार्याय भगवति धृतराष्ट्रममीपमागते स्वगृहे समुत्तीर्य भोजनादिभिर्महती दास्य- भावेन सेवा कृतेति भगवदीय वेप्याधिक्यमित्यर्थः । परीक्षिति तदभावात् न तथात्वमिति भावः । तदाज्ञाकरणमिति । भगवदाज्ञया विदुरेण पाण्डवरक्षा लाक्षागृहादौ गूढतन्मन्त्रज्ञापनात केता तथा च तस्मिन्नाज्ञादानाद् भगवदीयोत्तमत्वं परीक्षिति तदभावान्न तथान्वमिति भावः । विशेपत इति । श्रीभागवतश्रवणतः पूर्वमेवावमुखादिदानीमेव विशेषतो धर्मवर्मिभेदेन भगवन्माहात्म्यमनिमश्रवणे भावविशेषसम्पादकं विदुरेण श्रुत न परीक्षितेत्यस्य ततोप्युत्तमत्वमित्यर्थः। एतद्धेतुत्रयमिति । पूर्वो. क्तमुत्तमहेतुत्रयमित्यर्थः। उत्तमत्वमिति। लीलोत्तमत्वं कदाचिदानन्दविशेषोदयायोपयुश्येतापि श्रोतु- रुत्तमत्वमन्येषां कुत्रोपयुज्यत इत्यर्थः । कृष्णविश्वासेति । विदुरस्य निःसाधनस्योत्तमत्वं भगवत्कृतमेव प्रमेयत्रलेन न साधनान्तरकृत परीक्षिदादीनामित्र क्षत्रियत्वभगवत्सम्बन्धित्वादिभिस्तथा च तकथा- श्रोतॄणां हरिः सन निजेच्छातः करिष्यतीति प्रकारेणास्माकमपि साधनरहितानां सर्व प्रभुरेव सम्पाद: यिष्यति न साधनान्तरेण सेत्स्यतीत्योम्प्रकारको विश्वासः एतत्कथाश्रुत्या भविष्यतीति तत्रतदुत्तमत्वं उपयोक्ष्यत इति भावः । ननु परीक्षित्कथापि भगवद्विश्वासदायिकैव भगवतैव तत्र गर्भरक्षा रभ्य ससम्पादनात् को विशेषोऽम्यामित्याशङ्कयाहुर्विद्यासस्येति, निःसंशयप्रवृत्तिर्हि विश्वासस्याभिज्ञा. पिका पिचारे मतिगती हि तदभावात् । तथा च परीक्षिचरित्रश्रवणे तदुत्तमन्वं स्वाभाविकमवगत्य स्वस्य च हीनत्वं निश्चिय श्रवणेऽपि त दृशाधिकाराभावात् न फलिष्यतीति सर्वेषां प्रवृत्तिर्न भवि- ध्यति । विदुरकथाप्रवणेऽधिकारोत्तमत्वमपि भगवतैय सम्पायमिति भगवति विश्वासात् निःसंशया प्रवृत्तिर्मविष्यतीति मुख्यतया विश्वाससम्पादकत्वमेतकथया इति भावः॥ २४ ॥ एवमिति । प्रथमाध्यायार्थनिरूपणेनापि विदुराधिकारः सर्वोऽपि प्रमरणार्थ एव प्रतिपादित इति ४ कारिकात्मकः पदम. स्तयः।
तृतीयस्कन्धार्थः द्वितीये तु तथाऽध्याये समान्योत्तरमुच्यते ॥२५॥ तदर्थ हरिमाहात्म्यमार्थिकं कृतमेव च । द्वितीय इति । विशेपमाहात्म्यमेव प्रश्नस्य जीवपरत्वे सामान्यमाहात्म्य भवति । तदैवमर्थः । भगवत्प्रश्नो जीवानां साधारणप्रश्नः, विशेषप्रश्नस्तु तत्तन्नान्ना अतो भगवतोऽन्यशेषत्वात्तत्र विधासाथं भगवत आर्थिकं माहात्म्यं प्रथमम्, पश्चात्कृतं निरूप्यते ॥ २५३ ॥ तस्योत्तराङ्गत्वमाह- कृतं यद्यप्युत्तराङ्गं साम्यात्सम्बन्धतोऽपि तत् ॥२६॥ अत्रोक्तं फलसिद्धयर्थमुद्धवप्रेम चोच्यते । कृतमिति तृतीयाध्याये चरित्रमुक्तमिति। तत्साम्यादिदमपुत्रशेपत्वेनोच्यते। कथया कथा सम्बध्यत इति हेत्वन्तरम् । नन्वेवं सति किमत्र कथानिरूपगेनेत्यांश- . इत्यर्थः । ननूत्तरनिरूपकद्वितीयाध्यायादिषु भगवन्माहात्म्यचरित्रादिकमेपोच्यते तत्र कथं सामान्यविशे- पभावः भगवन्माहात्म्यादेः सर्वदा विशेषरूपत्वात् । नहि भगवन्माहत्म्यं कदाचिदपि सामान्य सम्भवतीत्याशङ्कयाहुर्विशेपेति । भगवतो विशेषमाहात्म्यमेव न कदाचित् सामान्यं परन्तु 'समो मशकेन समो नागेन चेति श्रुते'बहु स्याम् प्रजायेय'ति श्रुतेश्च स्वरूपमित्र माहात्म्यमप्यन्यसम्बलितं सामान्य भवतीति प्रकृतेर्मिन्नतया प्रश्नाकरणात 'कुशलं शूरंगेह ' इत्यनेन जीवसम्बन्धिान प्रश्नकरणात प्रश्नस्य जीनपरत्वेन तदुत्तररूपं भगवन्माहात्म्यमपि त सम्मलितमेव निरूपितं न पृथगिति तत्तये- त्यर्थः । तदेवमिति । यदैवं व्याख्या तदेत्यर्थः । भगवत्प्रश्न इति 'कञ्चित् पुरागा'वित्यनेन कृतो भगवत्प्रश्नोऽपि जीनसम्बन्धिवेन प्रश्नकरणात् जीवानामेव साधारणः समुदायरूपेण सर्वेषामेव- प्रभो भगवत्कुशलेनैर सर्वेषां कुशलात् सामान्येन विशेपेगेति मूलस्थकमोऽध्ये सङ्गछते वस्तुतो भगवान् न पृष्ट एव अन्यथोद्धवः स्वरूपनियुक्तः स्वरूपमेव साक्षा स्वयमनुभूयमानं वदेदिति भावः । अन्यशेपत्वादिति । सर्वसाधारण्येन प्रश्नादेति भावः । तत्रेति । उत्तर इयर्थः । अपृटत्वादार्थिकभगय. माहात्म्याकथने विदुरस्य केवलस्वरूपपरत्वाभावेन भगवति सर्वोत्कृटत्वेनोच्यमाने विश्वासो न भवेदिति भावः। प्रथम मिति । चरित्रनिरूपणात् प्रथमं निरूप्यत इत्यर्थः। कृतमिति । चरित्रमित्यर्थः ॥२५॥ तस्योचराङ्गत्वमिति । चरित्रनिरूपणेनैवानवतारदशायामुतरसम्भवात् तदङ्गरमियर्थः । नन्येमुत्तरमध्ये माहात्म्यनिरूपणं न सगउतं तदद्याभारादित्यागपादस्तत्साम्यदिति । तृती- पाया तु केवलं चग्निमेवोक्तं द्वितीयायाये माहाम्पसहितं मगरना ययमेनादृशचरित्रगास्मदयं मृतेन रक्षिता इति चरित्रत्वसाम्यात, तद्युत्ताशेपमेगाहसम्बद गदिति भावः । कथया कति माहाम्पसहितचरित्रनिरूपगे, एतादृशमाहाग्यसहितो भगगन देक्या जातवारेत्राणि कृतवा- निमि । कयोः पास समन्धे हेयन्तरमि पर्थः । किमत्र कथानिरूपणेनेति । अब तिीया- २० सप्रकाशे तत्वदीपनिबन्धे मागवतार्थप्रकरणे चाह-अत्रोक्तमिति । द्वितीयाध्याये विश्वासार्थ भगवत्कृतं फलमुक्तम्, तच्चरित्रेऽपि यथा भवति तदर्थ तत्सम्बद्धमुक्तम् । भगवतो वार्ताकथनमध्यायार्थः । तत्रोतरा- इवयम् । विश्वासार्थ माहात्म्यम् । कथाया अपि तयात्वं च । पूर्वाङ्गमेकम् । परमा भातः । अभक्तोक्ने सर्वधा न विद्यास इति उद्धवप्रेम चोच्यते ॥ २६ ॥ तब श्लोकान् विमजते- पद्धिस्तथैकेन पुनर्दशयुक्सप्तभिस्तथा ॥ २७ ।। दशभिश्च क्रमादत्र चत्वारोऽर्था निरूपिताः ॥२७॥ पभिरिति। विशेषस्य कुशलस्य । चतुर्थाध्याये उत्तरं श्लोकद्वयेन । तद्दोपपरि- हाराय पुनर्भक्तोद्धारे विंशतिः । अविद्यमाने भक्तोद्वारे चत्वारि वाक्यानीति ध्याये माहात्म्यबोधके वसुदेवस्य देवक्यामिन्यारभ्य केवलकथारूपचरित्रनिरूपणे किं प्रयोजन तादृशचरित्रस्य तृतीयाध्याये निरूपणीय वादिन्यर्थः । द्वितीयाध्याय इति । द्वितीयाध्याये विदुरस्य सर्वोत्कृष्टत्वेन बोधनीये भवति विश्वासार्थमेतादृश एव वस्तुनो भगवानिति निश्चया) भक्तेषु भगव- स्कृतं फलमुक्तं तथा च ततो माहात्म्यागमाद् विश्वास इति भावः। तचरित्रेऽपीति । द्वितीयाध्याये माहात्म्यबोधके केवलचरित्रकथन यथा भक्तषु भगवत्कृतफलनिरूपणेन माहात्म्यावगमाद् भगवति विश्वासस्तथा न चरित्रेऽपि भवतीति तदर्थ विश्वासार्थ केवलचरित्रमपि द्वितीयाध्याये माहात्म्यत्रोध- कचरित्रेण सम्बद्धमुक्तमित्यर्थः । वार्ताकथनमिति । पूर्वाध्याये ‘वाती सावे कीर्तये तिप्रश्नादत्रोत्तर- निरूपकाध्याये वार्ताकथनमध्यायार्थ इत्यर्थः । तत्रेति । वार्ताकथन इत्यर्थः । विश्वासार्थमिति । भगवति विश्वासयुक्ते हि तादृशेन वार्ता वान्या स च विश्वामो वक्तृनिष्टः, श्रोतृनिष्ठोपेक्ष्यस्तत्र श्रोतृविश्वासाय वार्ताकथनस्य पूर्वाङ्गं वक्तृनिष्ठा परमा भक्तिः । अभक्तकथिते स्वयमतादृशो मद्वञ्चनायैवं वद- तीति बुद्धयुयादविश्वासोत्पत्ते. । वक्तुर्विश्वासायोत्तराङ्गद्वयं श्रोतृनिष्ठमपेक्षितं तदैव वार्ताकथनेन श्रोता सम्पन्न इति विश्वासोदयात् । तच्च माहात्म्य भगवदीय वार्ताश्रवणकररूपं तच्छ्रवणे तत्राक्षेपाभावात् । तथा कथया अपि भगवत इव तादृशमाहात्म्याच स्वरूपसम वमिति यावत् । तया च वार्ताकयनोत्तरं श्रोतुरेतद्द्यावगतिसिद्धौ वक्तु सम्पन्न वार्ताकयनमिति विश्वासः । एतद्व- यामागे कथितापि सा अकथितैवेति तदभार इत्यर्थः ।। २६ ॥ तत्रेति। द्वितीयाय इत्यर्थः। पइभिरिति। पभिरुवप्रेमैकेनोत्तरं सप्तदशभिर्माहात्म्यं दशभि- श्वत्रिमे क्रमेण चत्वारोप्या निरूपिता इत्यर्थः । विशेपकुशलस्येति । तत्तनाम्ना यादवकुश- प्रश्नस्येत्यर्थः । श्लोकद्वयेनेति । चतुर्थे 'अथ ते तदनुज्ञाता' इत्यारभ्य तवयेनेत्यर्थः । तदोपेति । स्वकुट संहतिरूपदोपपरिहारान्यर्थः । अविद्यमानेति । अवतारदशायामपि मंगवत्समीपे अविध- तृतीयस्कन्धार्थः २१ तृतीयेऽष्टाविंशतिभिश्चरित्रं केवलं कृतम् ॥२८॥ विशेषस्योत्तरं तुर्ये श्लोकाभ्यां विंशतिः पुनः । भक्तोद्धारेऽविद्यमाने चत्वार्यकं वियोजकम् ॥२९॥ द्वयोराज्ञाप्रसिद्धयर्थं पञ्च सन्देहवारणे । चतुर्मिः सङ्गमश्चेति पडाःक्रमतोदिताः ॥ ३०॥ शेषः । एक वियोजकम् । " इति सह विदुरेण " इति । उभयोरुद्ववविदुरयोः । सन्देहनिवृत्तिः परीक्षितः। चतुर्भिर्गुरुशिष्यसङ्गमः। विद्यमानो भक्त उद्धवः। अविद्यमानो विदुरः । एतदकथने क्रूरत्वादभजनीयः स्यात् ॥ २९ ॥ ३० ॥ A माना ये भक्तास्तानुवमैत्रेयद्वारोतुं तयोरन्योपदेशाय स्वज्ञानस्थापनबोधकानिइन्युद्ववादुपाकये स्यारम्य मर्त्यलोकं जिहासते'त्येतानि चत्वारि वाक्यानीत्यर्थः । विद्यमानभक्तानां तु 'वृक्षमूलमुपा- विश'दिति वाक्यात् । स्वप्रवेशेनैवोद्धृतत्वेनोपदेशानवेक्षणादिति भावः । एकमिति। 'इति सह विदु- रेणैत्यक पद्यं तयोर्वियोजकमित्यर्थः । वियोजनप्रयोजनं तु मैत्रेये विदुराय त्वया वाच्यमिति भगवदाज्ञायाः प्रकर्षण "सिद्धिरिति बोध्यम् । अन्ययोद्धवसहस्थिती परमप्रेमोदयेन भगवति भावेन लय इव स्यादिति भावः । उभयोरिति । भगवास्तु स्वरूपेणोद्धवे गुणैर्विदुरे च प्रविष्ट इति न तद्वा- तॊपरमे न तहियोजक पद्यमेतदिति भावः । सन्देहनिवृत्तिरिति । परीक्षितः सन्देह सहिता तन्निवृत्ति निधनमुपगते वित्यारभ्य 'हरिमोजे समाधिनत्यन्तैः पञ्चभिर्वाक्यरित्यर्थः । गुरुशिष्यस- गम इति 1 उपदेशादानादुवो न गुरुः, किन्तु मैत्रेय एव; शिष्यो विदुरस्तयोः सङ्गमो विदुरोऽप्युद्ध- वाछु'त्यारम्प 'यत्र मित्रासुनो मुनि रित्यन्तैश्चतुर्भिर्वाक्यौरत्यर्थः । नन्वेतचरित्रेग भगवता विद्यमानाविद्यमानोभयविधभनोद्धारः कृत इति कथं शेयमित्याशङ्कयाहुर्विद्यमान इति । उभयोरवतार- सामयिकभक्तन्येऽपि तत्समये भगवत्सन्निधौ विद्यमान उप्रोऽविद्यमान विदुरस्तयोः स्वनो मैत्रेयद्वारा चौद्धारात् तथामिनायो ज्ञातव्य इत्यर्थः । एतेन भगवापरोक्षार्तिनां भगवदाप्तभगवदीयोपदेश एवं साधक इति सूचितम् । एतदकथन इति । भगति विद्यमानाचियमानोभयविधमतोद्वार- कवाकयन इत्यर्थः । रत्वादिति । परोक्षस्थितमनोद्वाराकर्तृतेन तेनु दयाभावात् । ऋरत्यनेदा- ना-तनैरभजनीयः स्यात् । तया च सर्पभजनीययेन सर्वेश्वरस्य भगति न स्वामिति भावः ॥३०॥ १ इति३ पारिवारमरः पटः स्लपरः ।
२२ सप्रकाशे तत्वदीपनिबन्धे भागवताथप्रकरणे एवं श्रोतुरधिकारं निरूप्य वक्तुरधिकारमाह- मैत्रेयस्यापि वक्तृत्वं श्रवणाज्ज्ञापनान्मतम् ॥ अत एवं हरिस्तस्य सङ्गं चक्रे स्वसिद्धये ॥३१॥ मैत्रेयस्यापीति । श्रोतवैवाऽनुप्रवेशः । ननु वक्तुः प्राधान्याद्भिन्नतया निरूपणमुचितं, तत्कथं श्रोतोपत्वमित्याशङ्कयाह अत एवेति । न हि मैत्रेयकृपया मैत्रेयो निकटे स्थापितः, किन्तु विदुरकृपया । अतो भगवन्मार्गे भक्त एव श्रेष्ठी नाऽन्य इत्यर्थः॥ ३१॥ एवं चतुर्भिरधिकार निरूप्य श्रोतरि सिद्धे मुख्यसृष्टिं निरूपयतीत्याह- उभयोमँदकमाह- अधिकारेऽथ संसिद्धे द्वाभ्यां सृष्टिर्निरूप्यते । तत्त्वकायविभेदेन गुणातीता द्विधा हिसा॥३२॥ अधिकार इति । तत्त्वकार्यविभेदेनेति । कार्य पुरुपशरीरम् । गुणातीता द्विधा हि सृष्टिः । अग्रे उभयोः कारणत्वाद् द्वयं कारणत्वेनैव निरूपितम् ॥ ३२ ॥ । . बतुरधिकारमिति | विदुराधिकारे परम उक्ते तद्वतत्वेन मैत्रेयस्यापि तादृशमधिकारमाहे त्यर्थः । श्रोतरीति । विदुरमात्रश्रवणार्थ विदुरे हृदि समानीय मैत्रेये तं भावयित्वा भगवता ज्ञापन दित्यर्थः । प्राधान्यादिति । ज्ञानस्य सिद्धत्वेन श्रोतुर्मुख्यत्वादित्यर्थः । भिन्नतयेति । तथैवाध्याय चतुष्टयेनेत्यर्थः । श्रोतशेपत्वेनेति । गौणशेषत्वेन मुख्यस्य कथनमनुचित मिति भाषः । भक्त एवेति । मूले 'स्वसिद्धय' इत्यनेन स्वः स्वीयो भक्तस्तस्य सिद्धय बानाय प्रभुणा तत्सङ्गकरणाद् भक्तिमार्गे भक्त एव श्रेष्ठो हीनोऽपि नान्य उत्कृष्टोऽप्रीत्यर्थः । तस्य च भक्तत्वं 'सेवनात् कृष्णदेवस्य त्यादिना -पूर्वमेव निरुपितं मैत्रेय तदभावाद् वक्तृत्वेऽपि गौणत्वमेवेत्यर्थः ॥ ३१ ॥ चतुर्मिरधिकारमिति । श्रोतृवक्तभेदेनोभयविधमधिकारमियर्थः । मुख्यमृष्टिमिति । गुणाती- तसृष्टिमि यर्थः । उमयोरिति । गुणातीतसृष्टिरुपैकार्थनिरूपकवेप्युभयोरध्याययोर्भेदकमद्वयमाहेत्यर्थः । पुरुषशरीरमिति । पुष्पावतारशरीरमेवात्र सृष्टावाधिदैविकनत्वकार्य न विसर्गरूपभौतिकतत्त्वादिक- मित्यर्थः । द्विधा हीति।व्यटिसमष्टिभेदनेत्यर्थ. । तत्त्वानि व्यष्टिस्तनिर्मितपुरुपशरीरं समष्टिरिति ज्ञेयम् । अग्र इति । सगुणसृष्टावित्यर्थः । उभयोरिति । तत्त्वतकार्यरूपन्यष्टिसमष्टयोरित्यर्थः । कारणत्वे. नैवेनि । ततः पुरुषशरीरामकभूतनिर्माण तेन च सर्वत्र प्रविष्टेन क्षोभोत्पादनात् तत्रैवेन्द्रियमात्रादि- भौतिकनिर्माणमुक्तमिति कारणवेनैव तद् द्वयमत्र प्रकरण उक्तमित्यर्थः । एतेनैतलीलायाः सर्गः कारणसम्भूति' रिति बायोक्तं सर्गरूपत्वमपि समर्थितम् ॥ ३२ ॥ कारिकामाः मतमः स्तरकः ।
तृता .. २३ तत्र तत्त्वेषु सन्देहाभावात्समष्टेः कारणत्वं साधयति- समप्टेः कारणत्वं हि कर्माणि प्रति वर्णिनाम् । प्रश्नत्रयं तृतीये तु द्वैविध्यं प्रथमे पुनः ॥३३॥ पड्भेदा नाऽवतारे हि साधनेनोपसंहतिः । द्वयोरपि विभेदेन प्रकटे ह्येक एव तु ॥३४॥ जन्मादयः प्रवेशश्च प्रकारद्वयमेव च । समेटरिति। एवं प्रकरणाध्यायार्थ निरूप्य विचारमारभते । तत्र प्रथम विदुरस्य प्रश्नः "सुखाय कर्माणि" (३-५-२) इति पञ्चदशभिः श्लोकैः । तत्र किं पृष्टमिति विचार- णीयम् । उत्तरत्वेन भगवल्लीलामाह उत्पत्तिस्थितिप्रलयरूपाम् । ततस्तदनुरोधेनैकः प्रश्नः कर्तव्य इति भवति तदभावाद्विचारः। तत्र प्रथम कर्मफले सन्देहः, फलार्थ विहि- तानि कर्माणि क्रियमाणानि विपरीतं फलं साधयन्तीत्येक प्रश्नः । तत्रांशत्रयमस्तीत्याह कर्माणि प्रति वर्णिनामिति । नैतानि कर्माणि लौकिकानिः किन्तु वैदिकानि । तत्त्वेष्विति । व्यष्टिरूपेष्वित्यर्थः । सन्देहाभावादिति । विसर्गरूपत्वसंशयामावादित्यर्थः । समष्टेरिति । पुरुषशरीरस्येत्यर्थः । एवं प्रकरणेति । प्रकरणस्य गुणातीतस्वमनेन प्रकारेणाध्याथ निरूप्य सगुणप्रकरणादौ प्रश्ननिरूपकपञ्चदशवाक्यानां सम्बन्धिनं प्रश्ननिर्धारकं विचारमारभत इत्यर्थः । तत्रेति । पञ्चदशसु श्लोकेष्वित्यर्थः । भगवल्लीलामिात । 'अथ ते भगवतीला' इतिवाक्या- दिति भावः । उत्पत्तीति । 'विश्वस्थित्युद्भवान्तार्था' इतिवाक्यादित्यर्थः । ततस्तदिति । तदनुरोधेन लीलारूपैकोनरानुरोधन प्रश्नोऽऽयेक एव तद्विषयकसंशयजनकः कर्तव्य इति विचारे क्रियमाणेऽर्थो भाती- त्यर्थः । तदभावादिति । एकप्रश्नाभावादित्यर्थः । तन्नेति । विचारे क्रियमाणे भगवल्लीलोत्तरकं प्रश्नत्रयं सेस्यतीति तन्मध्ये प्रथममि यर्थः । विहितानीति । वेदेन फलकारणचेन बोधितानीत्यर्थः । तथा च तादृशानां तेषां विपरीतफलसाधक प्रयक्षसिद्ध न सम्भवतीति भारः । तत्रोते । कर्मविषयकप्रभ इत्यर्थः । अंशत्रयमिति । कयं सुखार्थ क्रियमाणाना सुखासाधाव वोदिश्य भेदन दुःखाभारासा- धकवं कथं वार्थः । तथा च कर्मभिर्वेदिकैरपि जायमानं सर्गादि सुग्यमन्ते पातात् न मुखमिति प्रश्नकर्तरभिप्राय इत्यर्थः । किन्तु वैदिकानीति मूले । 'सुग्वायेति चतुर्या सुग्यमात्रार्थयेन ते प्रश्नविषयत्वोक्तः । अन्यथेति । लौकिको तापियर्थः । भ्रान्तस्येति । लौकिकार्माणि धनार्जनादीनि भान्स्पैक भवन्ति पूर्व तसिदपनिश्चयात् । तथा च भ्रान्तस्य शैयार्थिनी यही तापणार्थनो जलादी प्रयत्तस्य यथा फलविपर्यये फलाभारे न किछिद् दूषणं तत्र तफटाभावात् तथा लौकिककर्ममात्रस्य भ्रमप्रतिपनयन तत्र निष्फले प्रत्तो फलामा न किचिन पगमि पर्थः । अत इति । यतो लीक्षिा कर्मनु सुराहेतु सम्मायथितुम पशस्य विपरीतानुमपादतो यर्गिनां निधाना तानि वैदिकानि, २४ सप्रकाशे तत्त्वदीपनिबन्धे भागवतार्थप्रकरणे अन्यथा भ्रान्तस्य फलविपर्यये न किञ्चिद्दपणम् । अतो वर्णिनामेव. कर्माणि प्रति प्रश्नत्रयम् । कथं सुखं न जायते दुःखाभावो वा उद्देश्यभेदेन ? कथं वा सङ्कः लितं दुःखं जायत इति ? अथ यदि कर्ममार्ग एतादृश एव तदा प्राणिना किं कर्तव्य- मिति प्रथमः प्रश्नः । तत्र ययुत्तरं भगवद्भजन कर्तव्यमिति, तत्रापि भजनमपि कर्मेति, येन प्रकारेण कृतं भगवत्पीतेजनकं भवति तं प्रकारं कथयेति द्वितीयः प्रश्नः । अवतारचरितप्रश्नस्तृतीयः । अवतारव्यतिरेकेण कृते चरित्रे प्रश्नचतुष्टयम्--उत्प- तिस्थितिप्रलया नानात्वमिति । कार्यप्रश्नः पञ्चमः । सर्वत्र भिन्न प्रकारकरणहेतु: प्रश्नः पष्ठः । एवमवतारचरित्रेण. सह सप्त भवन्ति । एवं सति प्रश्नत्रयं भवति । जीवकर्माणि द्विविधानि, स्वार्थानि भगवदर्थानि चेति । भगवत्कर्माणि च तृतीयानि, तत्सामान्यतः प्रतिज़ानीते प्रश्नत्रयं भवति । एतत्पदं पूर्वेणापि सम्बध्यते वनिनामि- त्यनेन तद् द्योतितं प्रश्नप्रथमश्लोकार्थत्वेन, साधारण्येन च प्रतिज्ञा । प्रश्नत्रयमिति । .. . प्रत्यंशभेदेन प्रश्नत्रयं प्रस्तुतस्त्वेक इत्यर्थः । उद्देश्यभेदेनेति । उद्देश्यतावच्छेदकभेदेनैव दुःखाभावस्य भिन्नत्वं वस्तुतस्तु सुखदुःखाभावरूपेणैक व भगवानियर्थः । अत एव त यथा यथोपासते तथैव भवतीतिश्रुतिः । असङ्कल्पितमिति । कर्मफले कामः कारणं तत्र तद्वेतुभूतदुःखविषयकसङ्कल्प- स्याप्यभाये कथं तदुत्पत्तिरित्यर्थः । कर्ममागं एतादृश इति । सुग्भ्रमात् प्रवृत्तानां दुःखसाधक इत्यर्थः । किं कर्तव्यमिति । लौकिकं कर्तव्यमथवा तूष्णी स्थातव्यमित्यर्थः । प्रथमप्रश्न इति । भंश- यसहितो वैदिककर्मविषयकः प्रश्न इत्यर्थः । भगवद्भजनमिति । यदि त्वयैवमुत्तरं देयं यत्रास्ति पर- मानन्दस्तादृशमपि कर्मास्ति भगवद्भजनरूपं तत्कर्तव्यमिति परं तदपि कर्मेति क्रियारूपं तस्यापि प्रकारो ज्ञातव्यो भजनं बाह्यमान्तरं वा त्यागेनात्यागेन वा पुरुषोत्तमस्य साक्षाद् विभूतीनां च कर्तव्यं कीदृश भगवत्प्रीतिमाधकमिति येन प्रकारेण कृतं तद्भजनमपि फलं जनयति तत्प्रकारनि: रूपको मार्गो वाच्य इति । तत् साधुवर्यादिश वर्म शं न' इ-यनेन द्वितीयः प्रश्न इत्यर्थः । अब- तारेति । करोति कर्माणीत्यनेन तृतीय इत्यर्थः । अवतारव्यतिरेकेगेति । प्रपञ्चे समागमनव्यतिरेकेण तदा स्वस्थानस्थितेनैव चरित्रकरणादित्यर्थः । प्रश्नचतुष्टयमिति । ' यथा ससर्जाग्रे संस्थाप्य वृत्ति जगतो विधत्ते यथा पुनः स्वस्व इदं निवेश्य शेत एक एतदनुप्रविष्टो वहुधा यथासादित्यादिभिरुत्पत्ति. स्थितिप्रलयप्रवेशसूचितनानात्वविषयक प्रश्नचतुष्टयमित्यर्थः । कार्यप्रश्न इति । 'क्रीडन् विधत्त इतिश्लोकेन भगवदवतारचरित्रप्रश्न इत्यर्थः । पञ्चम इति । भिन्नतया कथनं पूर्वेषो प्रश्नानां कारणवि- षयकवेन सजातीयम्वोधनाय । सर्वत्रेति । प्रपञ्चे पदार्थेषु भिन्नप्रकारेण कारणं भगवता न येकेन प्रकारणेन्यत्र यो हेतुस्तत्वभेदरूपस्तद्विषयको यस्तत्त्रभेदै रित्यनेन कृतः पष्ठ इत्यर्थः । एवमिति । एतेऽनसतारचरित्रप्रश्नाः पडवतारचरित्रेण सहभूताः सप्त प्रश्ना भवन्ती पर्थः । एतेन पावत्यनच- तारचरितानि तान्यातीर्यापि लीलास्टी कोतीति वोधितम् । पर्यवसितमर्थमाहुरेवं सतीति। पञ्चद- शस्वपि श्लोका जीवकर्माणि भगवत्कर्माणि च पृष्टानि तत्र जीवकर्माणि द्विविधानि स्वार्थानि सालसाधकानि. मगवर्थानि स्वतन्त्रसेवासाधकानि भगवत्कर्माणि तचरित्राणीति त्रयाणां प्रश्नोत् सामान्यतः प्रश्नत्रयमित्यर्थः । एतत्पदमिति । एतत्पयस्य प्रश्नत्रयमिति पूर्वेण कर्माणि , तृतीयस्कन्धार्थः २५ , तृतीये भगवत्कार्यप्रश्ने अवतारानवतारभेदेन वैविध्यम् । तत्रा नवतारप्रश्ने पट भेदाः, स एव प्रथम इति प्रथमे पुनरित्युक्तं । पश्चाइवताराः। उद्देशेन ग्रहणसन्देह चारयति नाऽवतारेहीति। अतो नभिव्यक्तभगवत एव पट् प्रश्नाः कृता उपसंहारेऽपि निरूपिताः "यानीश्वर कीर्तय तानि मह्यम्" (३-५-१६) इति । गृहीतावतारस्य च तेन भगवत्कर्मस्वेव द्विविधेप्वपि तस्योपसंहार इति तत्रैवोत्तरमुक्तमिति न दोपः । यतः तिवर्णिनामित्यनेनापि देहलीदीपन्यायेन सम्बध्यत इत्यर्थः । नन्वेवं सम्बन्धे को हेतुस्तत्राहुर्च- र्णिनामिति । वर्गिनां हि कर्माणि त्रिविधानि भवन्ति सत्त्रादिगुणैर्वर्णभेदेन च शूद्रस्य कर्माभावात स्मार्तानां शूद्रेपू विहितानां कर्मत्वेनागणानात् । तथा च तान्येव त्रिविधानि प्रति प्रश्नत्रयमि यथः। ननु जीवस्वार्थकर्ममात्रविषयप्रश्नत्रयं वापि नास्तीन्याकाक्षायामाहुः प्रश्नप्रथमेति । — सुखाय कर्मा- णीति प्रथमश्लोके सुखाभावदुःखामावाभावदुःखसम्बन्धि वेन कर्मस्व प्रश्नत्रयकरणादित्यर्थः । सति भगवदर्यकर्मप्रश्नविविधभगवञ्चरित्रप्रश्नैः सह पद प्रश्ना भवन्ति । तथा च षड्गुणा भगवल्ली- लैव पृष्टेति सर्वेषामेकमेवोत्तरं लीलांनिरूपणमिति भावः । नन्येवं प्रश्नप्रयेथ सम्पन्ने इति प्रतिज्ञानुपप- त्तिरित्याशङ्कयाहुः साधरण्येनेति । चस्त्वर्थः । प्रतिज्ञा तु सामान्यतस्त्रयः प्रश्ना भवन्तीति साधा- रण्येन सामान्यप्रकारेणेत्यर्थः । अत एवाभासेऽपि 'सामान्यतः प्रतिजानीत' इत्युक्तम् । नन्वे प्रश्नत्र: यपक्षेऽपि भगवचरित्रस्य द्विविधत्वाचत्वारः प्रश्ना भवन्तीति प्रतिज्ञानुपपत्तिस्तादवस्यैवेति चेत तत्राहुरवतारति । अवतारानवतारभेदेनैव वैविध्यं वस्तुतस्तुभयोरुमयत्र सत्त्वाद् भगवञ्चरित्रत्वे - कत्वभि यर्थः । स एव प्रथम इति । स एवानवतारविषयकप्रश्न एव पश्चादेव स्वसृष्टजीवोद्धाराय स्वेन्छया भक्तकृपया वा प्राकट्यात प्रथम इत्यर्थः । उक्तमिति । मूल इत्यर्थः । पश्चाइवतारा इति । स्थ्यर्थ पविधपूर्वोक्तलीलाकरणानन्तरमेवेत्यर्थः । उद्देशेनेति उद्देशो नाममात्रेण कीर्तनम् । तथा च चरित्राण्येव पविधानीति तेषामत्र प्रश्नेषु ग्रहणमिति यः सन्देहस्तमित्यर्थः । नावतारेति । अवतारे तु दशविधलीलातदवान्तरभेदैश्च चरित्राणामनन्तत्वादिति भावः। अत इति । यतोऽवतारभेदानन्त्यमतोऽन- भिव्यक्तस्यैव पद प्रश्नास्तत्र पयामेव चरित्राणां सत्त्वादित्यर्थः । ननु तथापि भगवल्लीला सर्वत्र प्रश्नोत्तरत्न न युज्यते प्रथमत एव जीवकर्माणां पृष्टत्वादित्याशङ्कयाहुरुपसंहारेऽपीति ! भगवाप्रभा एवोपसंहारे निरूपिता इति तस्य प्राबल्यमिति जीवकर्मणां सुखासाधका दुःखसाधकत्वं भगवत्कर्म- णामेव सुखसाधकालमित्येतदभिप्रायेण तन्निरूपणमित्यर्थः । नन्वन्ते ' यानीश्वर' इतिवाक्ये ' यानी- तिसामान्योत्तया जीवरूपेणापि यत् करोति तत् पृष्टमिति न भगवकर्मयोपसंहार इत्याशङ्कचाहु- गृहीतावतारस्येति । अस्मिन्नेव पये 'गृहीतगुणारतारस्पति भगवद्विशेषणादिति भावः । तेनेति येन हेतुना अनयतारावतारभेदैन भगवञ्चरित्राण्येर पृटानीति तेष्वेवोपसंहारादुपक्रमस्यार्थविचारे दुर्व- रत्वात् तत्रैव भगवञ्चरित्र एयाय से भगवलीला ' इत्यादिनोत्तरमुक्तमिति न. प्रश्नोत्तरवैषम्पदोष इत्यर्थः । ननूपझमे जीयकर्मणामेव पृष्टत्यात् प्राथम्येनोपक्रमस्य पूर्वमीमांसान्यायेन प्रबटत्याचच तत्रै- योचरदानमुचितमिति तदभावात् प्रश्नोतरचैपम्पदोषो ययास्थित एवेयाशङ्याहुर्यतः साधन इति । । .
- २६ सप्रकाशे तत्त्वदीपनिबन्धे भागवतार्थप्रकरणे साधने जीवकतकर्मणि नोपसंहतिः । हेवन्तरमपि द्वयोरपि विभेदेनेति । 'तदस्य कौपारव' ( ३-५-१५) इति । “स विश्वजन्मस्थिती" ति ( ३-५-१६)। इदानी प्रश्नान गणयितुं प्रथम उद्देशप्रकारेण एक एव प्रश्न इत्याह प्रकटे ह्येक एव त्विति । प्रकटोचतारः । अप्रकटे पभेदान् वदति जन्मादय इति । उत्पत्तिस्थिति- प्रलयाः यथा “ ससर्जाग्रे " इत्यादिना । प्रवेशनानात्वे एकत्वेन गणिते । तदनन्तरं प्रकारद्वयप्रश्नः, “ यैस्तत्वभेदः, "" येन प्रजानामि"ति ३-५४ ॥ ३३ ॥ ३४ ॥ एवं भगवकर्मप्रश्नेषु क्रियमाणेषु पूर्वयोरुत्तरं न वक्तव्यमिति स्वरुच्या शास्त्र- निर्धारेण च निरूपयतीत्याह- हेतूत्या शास्त्रनिर्धारो भक्तत्वज्ञापनाय हि ॥३५॥ स्वरुचिथापि तत्रैव पदमु सर्वं प्रतिष्ठितम् । हेतृक्त्या शास्त्र निर्धार इति । " कस्तृप्नुयात्" इति (३-५-११) चतुर्भिः . जीवकतंककर्माणि साधन भगवकर्माणि फलं मोक्षाधिकस्वतन्त्रपुरुषार्थरूपत्वात् , तथा च साधन-. फलयोर्मुख्यता फल एवेति मुख्ये फले उपसंहारात् तस्यैव प्राबल्यम् । अनयोबलाबलनिर्णयेऽर्थवला- बलससत्वमेव नियामकम् । अन्यथा ' ब्रह्मविदाप्नोति पर'मित्युपक्रम्यान्त । य एवं वेदेत्युपनिषदि' - त्यनेन जीवे उपसंहागदुपनिषदा जीवपरत्वमेव स्यात् । प्रकृते तु जीवकर्मणां साधनवनोक्तालतो हीनत्वादुपक्रमे तन्निरूपणे तस्यापि न प्राबल्यमिति भाव. । हेत्वन्तरमपीति । अनवतारावतारभेदेन. भगवचरित्रे वयोपसहार इत्यत्र द्वयोश्चरित्रायोः कथारूपकृतिरूपयो स्तदस्य कौपारव' 'स विश्व- जन्मस्थिती तिश्लोकाभ्यामन्ते भेदेन प्रश्नादयमप्येको हेतुरन्यथा - यानीश्वर' इतिमामान्यभाषपैव प्रश्नः कृत. स्यात् , न भेदेनेत्यर्थः । इदानीमिति । प्रश्नान् निर्झर्य पञ्चदशसु श्लोकेषु कति प्रश्ना इति तान् गणयितुं लीलारूपोत्तरे सन्देहाभावाय प्रथमे सर्वकारणरूपे सृथ्यर्थं स्वत एवाविर्भूते उद्देश- प्रकारेण नाममात्रेण कीर्तनरूपेण एक एच प्रश्नः अवतीर्णचरित्रमात्रमुद्दिश्य प्रश्नकरणादिति भावः । प्रकटोऽवतार इति । एतेन भक्त्या तत्तदर्थप्रकटस्य भावेन स्वानन्ददायकत्वलक्षणचरित्रप्रश्नो न भवती- ति बोधितम् । अप्रकट इति अनवतीर्णेन तु परोक्षरसानुभवायान्तर्हित इत्यर्थ । प्रवेशनानात्व इति । प्रपञ्चमुत्पाद्य तत्र प्रवेशानन्तरमेव भगवत एकस्य नानात्वस्फुटीभावात् कारणकार्यभावन मृद्ध- टादीनामिव तयोरेकत्वेन गणनेत्यर्थः । प्रकारद्वयेति। यैस्तत्वभेदैः ''येन प्रजाना मिति वाक्याभ्य लोककल्पनभेटकरणप्रकारौ पृष्टाविन्यर्थ. ॥ ३४ ॥ एवमिति । उपसहारे मुख्यतयोभयविधभगवञ्चरित्रप्रश्नेषु क्रियमाणेष्वित्यर्थः । पूर्वयोरिति । जीवानां स्वार्थभगवदर्थककर्मणारित्यर्थः । न वक्तव्यमिति । श्रोतुर्मम रुन्यभावाच् छात्रनिरा- चेत्यर्थः । हेतृत्त्येति । 'परावरेषा मित्यनेन स्वस्य भगचरित्रश्रवणे तृप्त्यभावकथनेन तत्रैवा रुचिरक्ता।
,
तृतीयस्कन्धार्थः
प्रश्नैतक्तिः अनेनैव शास्त्रनिर्धारगृहासक्तिर्दुःखात्मकं संसारं प्रयच्छति । कर्माणित
गृहासक्तिकार्याणि । अतो दुःखजनकत्वमुचितमेवेति । ननु स्वयं पृष्ट्वा स्वयमेव कथेमुत्तर-
यतीत्याशङ्कयाह भक्तत्वज्ञापनाय हीति । भक्तो हि कर्मणामसारतां ज्ञात्वा भगव-
द्धर्मेपु रमते ततः कर्मप्रश्नस्तस्याऽयुक्तो भवति । एवं ज्ञापनेन स्वस्य भक्तत्वम् । रुच्या-
पीत्याह स्वरुचिश्चापीति । “परावरेपाम्" (३-५-१०) इति श्लोकेन स्वरुचिरक्ता।
'मामि'त्युपसंहारे.पि । नन्ववतारचरित्रमपि नोत्तरे निरूप्यत इत्याशङ्कयाह पद्सु
सर्व प्रतिष्ठितमिति । स्थिताववताराणां प्रवेशं मन्यते । पुरुषे वाऽनुप्रवेशः ॥३५॥
कस्तृप्नुयान् 'मुनिर्विचक्षु.'' सा श्रद्दधानस्य' 'तान शोन्यशोच्या निति चतुर्भिः श्लोकैः कथा-
यामेव सुखसाधकवरूपहेतूतयान्येषा दुःखसाधकत्वमेवेति शास्त्रार्थनिर्धारी बिदुरस्येत्यर्थः। ननु गृहं हि
लोके सुखसाधकं तदासक्तिनिवर्तकन्येन कथं कथायाः सुखसाधकत्वमिति हेतुरयं व्यभिचारीत्या-
शङ्क्याहुहासक्तिरिति । दुःखात्मकमिति । अहन्ताममतयोरेव दु.खत्वात् । अन्यथा जीवोऽक्षरात्मक
इति स्वानन्द च सर्वदानुभवेदित्यर्थः । नन्वेतावता कर्मणां दुःखसाधक-व कथं निश्चितमित्याशङ्याहुः
कर्माणि विति । गृहासक्तरव कार्यरूपाणि कर्माणि तदभावे विरक्तस्य सर्वत्यागेन मोक्षसाधक--
वर्मनि प्रवेशादित्यर्थः । अत इति । यतो गृहासक्तिमूलकानि कर्माणीत्यर्थः। उचितमेवेति । दुःखा-
त्मककारणजन्याना तेषा गृहासक्तिपोषकत्वादिति भावः । त्यागः सुखात्मक इति । सुखपोषकत्वमेव ।
दुःखात्मकगृहादि त्यागस्य सुखरूपत्वात् । अत एव 'न्यागेनैके अमृतवमानशु'रिति श्रुतिः । नन्वेवं
सति स्वयमेव पूर्व कर्माणि किमर्थं पृष्टवान् पृष्ट्वा वा किमिति तदुत्तरं दत्तवानित्याशङ्क्याहुक्त-
वेति । 'सुखाय कर्माणि करोति लोक' इतिप्रश्नस्यान्या) करणात् स्वयमेव तदुत्तरदानेन कर्मण्य-
सारतापगमबोधनान्मह्यमित्यनेन स्वनिश्चयज्ञापनाच्च स्वस्य भक्तत्वमेव ज्ञापितमन्यथाऽभक्ताय
भगवदीयो न भगवञ्चरित्रं वदेदिति भावः । ननु भक्तत्वमेवानेन कथं ज्ञापितं ज्ञानिनोऽपि कर्मण्य..
पसारताप्रतीतिरित्याशझ्याहुर्भगवद्धर्मेयिति । भगवद्धर्मेषु भगवत्कथाश्रवणादिषु भक्ता एव परमानन्द
प्राप्नुवन्ति न ज्ञानिन इत्यर्थः । अत एवोक्तमाचार्यनिरोधलक्षणे 'ये निरुद्धास्त एवात्र मोदमाया-
न्यहर्निश मिति । तत इति । यतोऽय भक्तोऽतस्तस्य स्वनिमित्तं कर्मप्रश्नो न युक्त इत्यर्थः । एवं.
ज्ञापनेनेति । एवमनेन प्रकारेण प्रश्नस्वरूपज्ञापनेन यद् भक्तवं ज्ञापितं तत् न शास्त्रार्थज्ञानेन
माहात्म्यज्ञानात् किन्तु प्रेम्णापीति ज्ञापयितुमाहू रुच्यापीति । रुचिस्तु 'परावरेषा' मिति श्लोकेनैवोक्ता।
तत्रापि प्रेम्गा आधिक्यज्ञापनाय शास्त्रार्थज्ञानज्ञापकलोकचतुष्टयात् पूर्वमेव रुचिरुक्तेति भावः । मद्य-
मिति । कदाचिदन्यार्थ प्रश्नोत्तरकथनेऽपि 'यानीश्वरः कीर्तय तानि मह मित्यत्रान्ते मा मितिकथनान
मदर्थ भयनिधभगवचरितान्येर कथयेत्यभिप्रायेण 'मां मित्युपसहारोऽपि भक्तत्वज्ञापक इत्यर्थः । ननु
मैत्रेपणानवतारसामयिकलीलाषट्कमेवोत्तरे निरूपितमिन्यतारचरित्रप्रश्न. स्वार्थोऽपि नोत्तरित इत्या:
शङ्कयाहुः स्थिताविति । षट्सूत्तरेषु या स्थितिलीलोक्ता तन्मभ्य एवावतारतचरित्रप्रवेशादित्यर्थः ।
अयमभिप्रायः । सत्ताधिष्टानेन भगवदवताराभावे सितिर्न भवति । ‘स वं त्रिलोकस्थित
विमषा ति याक्यात् । अत एव जगस्थित्यर्थ नारायगावतारेण तपःकरणम् ॥ ३५ ॥
२८ सप्रकाशे तत्त्वदीपनिबन्धे भागवतार्थप्रकरणे ननु " तत्साधुवर्यादिश वर्म शं नः" ( ३-५-४ ) इति प्रश्नोऽनुपपन्नः, प्रश्ने न्वा उत्तरे वा समानाभावादित्याशङ्कच समाधत्ते- इप्टे प्रसिद्धान्यहेतोगत्प्रीणनेऽपि च ॥३६॥ उत्तमे पथि संप्रश्न आद्यावेतौ यथोत्तरम् । इष्ट इति । इष्टे सुखदुःखाभावे भगवत्प्रीणने वा प्रसिद्धहेतोरभावादन्यो हेतुर्व- क्तव्य इति लोकोपकारार्थ प्रश्न उचितः । अत एवाद्यावेतो सर्वसाधारणौ लोकोप- कारार्थ स्वार्थं च यतनीयमिति । नन्वस्योत्तराभावात्कथं प्रश्न इति तत्राह यथोत्तर- मिति । यथावदुत्तरम् । उत्तरवाक्ये प्रथमत एव “लोकान् साध्वनुगृह्णता" (३-५-१८) इति प्रशंसायाः कृतत्वात् । तृतीयोत्तरेणैवाऽऽद्योत्तरं यथावदुक्तमित्यर्थः ॥ ३६ ॥ तत्र हेतुः- उत्तरत्वेन कथनादुत्तरं कर्मणि स्थितम् ॥ ३७ ॥ अतः सभाजनं तस्य तेनैवोत्तरमाद्ययोः । उत्तरत्वेन कथनादिति । तदेव स्पष्टयति उत्तरं कर्मणि स्थितम् । भगव- नन्वेव 'तत्साधुवर्यादिशेत्यनेन मार्गप्रश्नो व्यर्थः । कर्मप्रश्नस्य लोकार्थवेन स्वस्य भक्त- त्वज्ञापकत्वात् । न च लोकार्यमेनाय प्रश्न इतिवाच्यम् । 'पूर्ववल्लोक' इति प्रश्नवाक्ये कथनात् प्रत्युत 'न' इति स्वार्थत्वेन कथनाच । न च मार्गप्रश्नो लीलारूपेणोत्तरेण पूर्यत इति वाच्यम् । उत्तरे लीला एव निरूप्यन्त न तु तच्छ्रवणादि येन प्रश्नोत्तरयोः समानं वाक्य भवेदतोनुपपन्न एवायं प्रश्न उत्तराभावादित्यर्थः । इष्ट इति । सुखदुःखाभावरूपे इष्टे लोकानां प्रसिद्धो यो वेदाद। कर्मरूपो हेतुः स तु प्रयक्षविरोधान्न सम्भवतीत्यन्य एव तत्र हेतुर्वाच्यस्तथा भगव प्रसादेऽपि 'तस्य भत्तथैव तुष्टिमभ्येति' 'भत्तया तुतोष भगवान् गजयूथपाय त्यादिवाक्यैरतः कर्मपरा भगव- -मार्गाज्ञानात् कथं सुखवन्तो भविष्यतीति तेषु दयया तदर्थ तदनन्तरमव्यवधानेन मार्गप्रश्न इत्यर्थः । अत एव सर्वाभिप्रायेण 'न' इति बहुवचनम् । अन्यथा चरित्रप्रश्ने मह्यमिति बत्रापि एक- यचनमेर वदेदिति भाव. 1 अत इति । प्रश्नवाक्यविचारेण सर्वार्थाववैतौ प्रतायेतातस्तथेत्यर्थः । आद्यावेताविति । भगवद्भक्तानां दयालुत्वेन प्रथममन्योपकारविचारस्योचितवादित्यर्थः । लोकोपका- रार्थमिति। तदैव दयासिद्धेरिति भ वः स्वार्थ चेति । स्वार्थ प्रयत्नाभाचे स्वात्मनि करुणानां सिद्धये- दिति भावः । अत एव 'मृदेहमाद्यमिति श्लोके 'आत्महे त्यनेन तस्यात्मघातित्वमुक्तम् । अस्येति । लोकार्थप्रश्नस्येत्यर्थः । उत्तराभावादिति । उत्तरे लीलाकथनरूपे भगवन्मार्गाकथनादित्यर्थः । कथं प्रश्न इति । अविचार्य प्रश्नकरणं पिदुरेऽतिचतुरे न सम्भवतीति केन प्रकारेण प्रश्न इत्यर्थः । यथाव: दिति। प्रश्नो यथा येन प्रकारेण तद्वतनोत्तरनिरूपणात् प्रथमत एव 'लोकान् साध्यनुगृह्यते । तिप्रशसाकारणाचरित्रविषयकतृतीयप्रश्नोत्तरेण टीलाकथनरूपेणैव श्रीभागवतरूपत्वेनोक्तेन लोको- 'पकारस्योपकारत्यप्रकारेणोत्तरं निरुपिनमियर्थः ॥ ३६॥ तत्रेति। टमयोपकारकयनमित्यर्थः । उत्तरत्वेनेति । पृष्टस्य सर्वस्व निःसन्दिग्धताया असिद्धी २९. तृतीया धायः चरित्रकथने पर्यवसितम् । अत एव सभाजनम् । तदुत्तरेणैव आद्ययोरप्पुत्तरमिति । दुःखाभावः सुखावाप्तिः कथाश्रवणादेव । तेनैव भगवानपि तुप्यति ॥ ३७॥ ननु भक्तानां स्तुतिः कुत्रोपयुज्यते तबाह- कार्यसृष्टौ स्वन्त्रत्वं तेषां वारयितुं स्तुतिः ॥३८॥ विशेपतस्तु कथनं ब्रह्म गोऽपि सुदुष्करम् । श्रवणादिप्रसिद्धयर्थं किञ्चिदुक्तमिति स्थितिः॥३९॥ कार्यसृष्टौ स्वतन्त्रमिति । पौत्रोत्पत्तौ पुत्राणामिव न प्रकृते तत्वानां स्वत-- न्त्रता । ननु सामान्यतो निरूपणं प्रकृतोपयोगि भारतादावप्येतावच्छुतत्वादित्याङ्कयाह विशेषतस्तु कथन मिति । तर्हि कथनस्य किं प्रयोजनं तत्राह श्रवणादिप्रसिद्धयर्थ- मित्ति । श्रवणकीर्तनादेविपय एतादृश इति ज्ञापनार्थः ।।३९ ।। लीलाकथनस्योत्तरत्वमेव न स्यादिति भावः । तदेवेति । उत्तरत्वमेवेत्यर्थः । भगवचरित्रकथन इति: भागवतरूपन्वेन भगवञ्चरित्रे कथिने सर्वेषामेवोपकारालोकविषयकस्वविषयकप्रश्नस्योरं भगवञ्चरित्र एव पर्यवसितमित्यर्थः । अत एवेति । यतः प्रश्न एतादृशः कृतो यत्र भगवल्लीलातिरिक्तं नोत्तर- खेन वक्तु पनत्यतः 'साधु पृट मित्यनेन प्रश्नकर्तुः सनाजनमभिनन्दनमित्यर्थः । तदेव विवृण्वन्ति तदुत्तरेणैवेति । चरित्रप्रश्नोत्तरेणैवेत्यर्थः । आद्ययोरपीति । कर्मभगवन्मार्गविषययोः प्रश्नयोरित्यर्थः । आद्ययोरुत्तरं येन प्रकारेण भवति तं प्रकारमाहुर्दुःखाभाव इति । उत्तरत्वेन निरुपितेन तच्छ्रवणं सिद्धमर्थात् तथा च लीलाश्रवणमेव दुःखाभावसुखरूरोमयपुरुषार्थसाधकं स एव च मार्ग इत्युभयो- रुत्तरमप्यनेन जातमित्यर्थः । ननु लीलाश्रवणस्य कथं मार्गवमिन्याशङ्कयाहस्तेनैवेति । श्रवणेनैव. भगवान् तुप्यति 'शृण्वता स्वकथा' इति वाक्मादित्यर्थः ॥ ३७॥ नन्वत्र प्रकरणे देवतारूपाणां पुरुपशरीरकारणभूततत्त्वानां स्तुतेः कुत्रोपयोगः सृष्टाउनुपयो- गादित्याशङ्कयाहुः पौत्रोत्पत्ताविति । यथा पौत्रोत्पत्तौ पौत्रोत्पत्तिविषये पुत्राणामेव स्वातन्त्र्य न पितुस्तमपृष्ट्वैव स्वेच्छया पुत्रोत्पादनयत्नकरणात् तथा तत्वानामपि स्वकार्योत्पादने सातन्त्र्य भविष्यतीति शङ्का स्यात् तदभावार्थ स्तुतिनिरूपणेन तदानावमुक्तमित्यर्थः । प्रकृतोपयोगीति ।। प्रकृतं गुणातीतसृष्टिस्तदुपयोगि सामान्यतो निरूपणं एतावद् यावदत्रोच्यते तावत् भारत- विष्णुपुराणादावपि श्रुतत्वादत्र विशेषतो निरूपणं कर्तव्यमित्याशयेनाशङ्कत्यर्थः । ब्रह्मणोऽपिति !, मूले ब्रह्मणश्चतुर्मुखत्वताइक्मामर्थ्यवत्त्वेऽपि भगवलीलाया अनन्तत्वाद् यावदुच्यते तावत् स्वल्पमेवेति तस्यापि विशेषतो निरूपणं सुदुःकरमित्यर्थः । तीति । विशेषतो निरूपणाभावे कथनस्यैवात्र किं प्रयोजनं सामान्यतो निरूपणस्य सर्वत्र भारतादिषु सत्वेन तत एव श्रवणसिद्धरित्यर्थः श्रवणकीर्तनादेरिति । तस्माद् भारत तिपये श्रवणादिविधिः प्रतिपादितस्तत्र श्रवणादेषिपयः सर्गादिरेतादृशः श्रीमागवतोक्त एतदानुपूर्वी विशिष्टो न भारतायुक्तस्तत्र लीलारूपत्वेन सर्गादीनाम- प्रतिपादनादतस्तद्विषयस्वरूपज्ञापनार्थों मैत्रेयस्यैवं प्रकरण सर्गकथनाभिप्राय इत्यर्थः ॥ ३९ ॥ * इति ९ कारिकात्मकोष्टमः स्तवकः। -- ३० सप्रकाशे तत्त्वदीपनिबन्धे भागवतार्थप्रकरणे अवतारचरित्रस्याऽनन्तर्भावमाशङ्कयाह- सर्वावतारवीजत्वात्पुरुपेणैव तत्कथा। गुणातीतात्सृष्टिलीला द्वयेनैव निरूपिता ॥४॥ सर्वावतारवीजत्वादिति ।अध्यायद्वयार्थमुपसंहरति गुणातीतादिति॥४०॥, सगुणां तु त्रयेणाऽऽह पूर्वपक्षाधिकत्वतः । ततः कारणसम्भूतिः स्तुतिस्तस्य फलावधिः ॥४१॥ सगुणा तु लीला त्रिभिः । सृष्टिभगवतोर्मध्ये गुणानामधिकारत्वात् । ते हि पूर्वपक्षत्वेनैव मतान्तरभापया सिद्धा निरूप्यन्त इति ज्ञापयितुमाह पूर्व- पक्षाधिकत्यत इति । अत्रापि कारणसम्भूतिः कार्यसम्भूतिरित्यध्यायद्वयम् । तत्र अवतारचरित्रस्येति । उत्तरे षड्विधलीलानिरूपणे स्थिताववताराणां तद्धेतुत्वनान्तर्भावोऽ. तारचरित्रस्य साधुपरित्राणदुष्टविनाशहेतोयुद्धादिरूपस्प तु कुत्रान्तर्भावः, मुक्तिदातृत्वेन प्रलये स्थतशरीरादिनाशनान्न स्थितावुत्पुन्नस्य धर्मसहितस्य रक्षणे चान्त वायोग्यत्वात् । अत एत्र नानात्वकार्यप्रकारभेदप्रकारादिप्रश्नविषयचरित्रेषु च नान्तर्भावः । सर्वेति । 'पुरुषेगात्मभूतेन वीर्यमाधत्त धीर्यवा' निति श्लोके पुरुषनिरूपणं कृतं तत्कथा च मायायां वीर्याधानरूपोक्ता । तथा च स सर्वाव- तारवीजमे तन्नानावताराणा'मिति वाक्यादतस्तत्कथानिरूपणेन सर्वावतारकथा निरूपितेति भावः । अध्यायद्वयार्थमिति । पञ्चमषष्ठाध्यायार्थमित्यर्थः ॥ ४० ॥ त्रिभिरिति । अध्यायरित्यर्थः । नन्वत्र पूर्वसर्गात् को विशषोऽत्रापि भगवत एव मूलत्वप्रतिपा- दनादित्याशङ्क्याहुः सृष्टिर्भगवतोरिति । सृष्टिः कार्य भगवान् कर्ता तयामध्ये 'भगवानेक आसेद' मिति वाक्यान्न कोऽपि स्थितः । पूर्वसृष्टै भगवत एवासहायकर्तृत्वादेतत्स्टी तु गुणा एव भगवतः कर्तृत्वेऽधिकाररूपा इति तदस्वीकारे केवलस्य कर्तृत्वाभावादिति गुणवत्वं सृष्टिप्रयोजकमत्रेति पूर्वसर्गाद्विशेष इत्यर्थः । ते हीति । मतान्तरभापया साड्यशास्त्रसिद्धा गुणा निरूप्यन्ते वेदे भागवते च समाधिभाषया भगवति गुणसम्बन्धस्यानुक्तत्वात तेऽपि पूर्वपक्षवाक्येष्वेव निरूप्यन्ते न सिद्धान्तवाक्येषु तेषां परमतत्वसिदज्ञापनायेत्यर्थः । ननु तथापि ' सेयं भगवतो माय'त्यादिनाने मायया भगवच्छत्या गुणसम्बन्धस्य सिद्धान्तवाक्येषु वक्तव्यत्वेन तददूषणात् पूर्वोक्तगुण तीतसृष्टि- निरूपणमनुपपन्नमित्याशक्याहुः पूर्वपक्षाधिकत्यत इति । अत्र प्रकरणे सगुणसृष्टायपि पूर्वपक्षा- णामेवाधिकच न सृष्टेर्विसर्गरूपसगुणसृष्टित्व साड्य इव मायागुणैः सृष्टयनिरूपणात् किन्तु भगवद्गुणावतारब्रह्मरूपरजोगुणसाहित्यमेवेति गुणातीतसृष्टिसमानत्वमेव, सगुणत्वाक्तिस्तु स्वगुणरज:- प्राकव्येन तत्साहित्यमादायेत्यर्थः । अयमर्थः । एते त्रयोऽपि सत्त्वादयः सच्चिदानन्दानामंशभूना भगवत एव, तत्र सति सत्य, चिति रजः, तम आनन्दे, तेषामेवावतारा ब्रह्मविष्णुशिवाः प्रपञ्चे फलदानाय , •तृतीयस्कन्धार्थः कारणं ब्रह्मा, कार्य सर्व जगत् । तत्कालशेपत्वेन निरूपणीयमिति स्तोत्रमेव कार्य- त्वेन निरूप्यते सफलम् ॥ ४१ ॥ एवं सामान्यतस्त्रयाणामध्यायानामा निरूपिताः । अधुना विचार्यन्ते । नन्वियं लीला विसर्गे न सर्ग इत्याशङ्कयाह- एतद्विभूतिरूपत्वादन्येषां न विसर्गता । साधारण्ये कथनं प्रकृते नोपयुज्यते ॥ ४२ ॥ अतो विभूतिरूपेण सर्वेषां विनिरूपणम् । यादृशो हि विसोऽत्र स चतुर्थे विविच्यते ॥४३॥ , त एव बहुविधसर्गेषु मायासृष्टी कदाचिन्मायया परिगृहीतास्तद्गुणा उच्यन्ते यथा भगवत ऐश्वर्यादयो विभूतिरूपेषु स्थितास्तद्रुणास्तथा च तसृष्टी न मूलभूतसष्टित्वमुच्यते विभूतिकार्येषु मूलभूतकार्यत्वमिय, वस्तुतस्तु ब्रह्मवादे सर्व मूलकार्य तथापि लीलायां भेदस्तत्तद्रूपेण करणात् प्रकृते तु सर्गलीलेयं मूलरूपेण भगवच्छद्ववाच्येनोच्यते श्रोतव्यत्वनेति न तादृशसगुणसृष्टिनिरूपकत्वमस्य प्रकरणस्पति पूर्वपक्षरूपेणैव तेषां गुणानां निरूपणमिति भावः । अनापीति । अस्मिन् सगुणप्रकरणेऽपि गुणातीतप्रकरणवदेव कारणकार्यसृष्टिरेवोच्यते न विसर्गरूपा सगुणसृष्टिरित्यर्थः । तस्यां विभूति- रूपायां सत्त्वादिभेदेन सनकादिमरीच्यादिमहादेवादीनां त्रिगुणानामे व सृष्टेर्निरूपणीयत्वादिति भावः । कारणं ब्रह्मेति । रजोगुणसहितो भगवानेवेत्यर्थः । स्तोत्रमेवेति । यद्यपि ब्रह्मकार्य सर्वमेव त्रिगुणा- रमक जगत् तथापि तदत्र कार्यत्वेन न निरुप्यते विसर्गनिरूपणापत्तेरतस्तत् सृष्टिकारणरूप ब्रह्म- स्तोत्रमेव कार्यत्वेन निरूप्यते, तदग्र एतद्विभूतिनिरूपणार्थ कालप्रकरणे कारणभूतकालशेषत्वेनैव तदधीनाद् ब्रह्मणो निरूप्यत इति न कुत्रापि मुख्यविसर्गनिरूपणमिति सर्वप्रकरणेषु सर्गनिरूपणं निष्प्रत्यूह सेत्स्यतीति भावः । ननु स्तोत्रस्य कार्यत्वोक्तिग्नुपपन्ना ब्रह्मणा कृतत्वेऽपि न जगत्सृष्टि- रूपत्वमित्याशड्क्याहुः सफल मति । स्तोत्रमात्रमेव नात्राध्याये निरूप्यते किन्तु तत्फलमने किय- माण जगत्प्रकाशनं । व्यज्येदं कञ्जनाभस्तिरोदध' इति वाक्यान्निरूप्यत इति सूक्ष्मप्रकारेण सर्यापि सृष्टिब्रह्मणो हृदयागता निरूपितति तद्विशिष्टं स्तोत्रं सृष्टिरूपत्वात् कार्यरूपमेवेत्यर्थः ॥ ११॥ त्रयाणामिति । सप्तमाध्याये पूर्वपक्षत्वेन गुणनिरूपण मायाया भगवन्छाक्तत्वनिरूपणेन नान्य- गुणसम्बन्ध इति तदंशस्य जीवस्य विक्षेपशक्तिरूपया मायया विक्षेपात् तद्गुणसम्बन्धे स वै निवृ. त्तिधर्मेणे'त्यादिना तन्निवर्तकोपायज्ञानभगवत्कृतभक्त्यादिकमुक्तं तथाष्टमे कारणभूतब्रह्मोत्पत्तिरुक्ता नवमे तत्कार्यरूपं सृष्टिमंहितं स्तोत्रमुक्तमिति सामान्यतस्त्रयागामध्यानामा निरूपिता इत्यर्थः । अधुना विचार्यन्त इति । एते त्रयोऽयाः पूर्वोक्तसर्गरूपत्वदृढीकरणाय पूर्वपक्षसिद्धान्ताभ्यां विचार्यन्त इत्यर्थः । इयमिति । एतत्प्रकरणोक्तेत्यर्थः । विसर्गमध्य इति । कारणभूतब्रह्मस्वरूपनिर्णय- पूर्वकं चतुर्मुखोत्यत्तिनिरूपणेऽपि सृरेब्रह्मकृताया एव निरूपणादित्यर्थः । प्रथमसृष्टस्वरूपमिति । 'एतच्छन्दैन नाभिकमलस्थितब्रह्मसहितं. सर्वजगरसमष्टिरू तदात्मकं मूलभूतपुरुषावताररूपमुच्यते - ३२ सप्रकाशे तत्त्वदीपनिबन्धे भागवतार्थप्रकरणे एतद्विभूतिरूपत्वादिति। एतदिति प्रथमष्टिस्वरूपपुरुषरूपमुच्यते । अन्येषां ब्रह्मानामस्ति विभृतित्वं, ब्रह्मादीनामस्ति च विसर्गता । उभयोः किं प्रयोजन- मित्याकाङ्क्षायामाह साधारण्येन कथन मिति । भागवतं हि सारोद्धारात्मक- मुत्तमाधिकारसहितं च । तेन पुराणान्तरसाम्येन न विसर्गत्वेन निरूपणीयम् । तर्हि विसर्गों न वक्तव्य इत्याशङ्कयाह यादृशो हि विसर्ग इति । तस्य न विभूतित्वं सम्भविष्यतीति भावः ॥ ४२ ॥ ४३ ॥ गुणातीता सृष्टिलीला मैत्रेयेण स्वत एव निरूपिता भगवदाज्ञया । तावता तथा च तत्कार्यभूतानां करणत्वेनोक्तानामपि ब्रह्मादीनां मूलभूतविभूतिरूपत्वमेवेति विभूतिरूपवि- सर्गनिरूपणमेव न मुख्यविसर्गनिरूपगमित्यर्थः । अत एवान्येपां ब्रह्मप्रकृतीना विभातरूपत्वं न ब्रह्मण इत्याशङ्कय तस्यापि मूलरूपविभूतित्वमेवेत्यभित्रायेणाहुर्ब्रह्मादीनामिति । नु ब्रह्म गः सर्व- कारणस्य कथं विभूतिरूपत्यमित्याशङ्कयाहुरस्ति चेति । गीताया विभूत्यत्याय 'यचापि सर्वभूतानां बीज मिति वाक्येन तस्यापि तत्त्वेन निरूपणादिति भावः । ननु विभूतिवेऽपि कार्यरूपत्याभावात् कथं विसर्गता स्वत एव जातत्वादित्याशड्क्याहुर्विसर्गतेति । 'यो ब्रह्माण विदधाति पूर्व'मिति वाक्यात् तथात्वमपीत्यर्थः । उभयोरिति । यदि ब्रह्मादीना विसर्गत्वं तदा सर्गस्क-धे सर्गविमर्गयोनिरूपणे - कि प्रयोजकमित्यर्थः । भागवतं हीति । 'सर्ववेदेतिहासानां सारं सारं समुद्धृत मिति वाक्यादत्र भागवते सर्गादीनां सारोद्धार इति सर्गादिषु यः सारांशः साक्षात्पुरुषोत्तमलीलारूपो मोक्षरूपस- र्गादिरूपः स गृहीत इति स यादृशः स्वविभूतिसहितो भागवानेव तादृशोऽत्र निरूप्यत इति पुराणाम्तरे सर्गादीनां यत् साधारण्येन स्वतिभूतिं विहाय केवलं तन्मात्रनिरूपणं तन्नोपयुज्यत इत्यर्थः । किञ्चान श्रोत्रधिकारवैशिष्ट्यादपि न साधारण्येन कथनं घटत इत्यभिप्रायेणाहुरुत्तमा. धिकारसहितं चेति । अत्राधिकारी परमोत्तम एव प्रतिपादितः परीक्षिद्विदुरश्चान्येषां निरूपणं स्वेतदुत्तमतावगत्यर्थमिति तादृशेषु सर्वोत्तममेव सर्गादिक वक्तव्यमित्यर्थः । तेनेति । येन हेतुना भाग- वत सारोद्धाररूपमधिकारश्चोत्तमस्तेन न पृराणान्तरसमतयात्र सर्गादिकं निरूप्यमित्यर्थः । विस- गत्वेनेति । किन्तु सर्गविभूतित्वेनेत्यर्थः । तर्हि विसर्ग इति । विसर्गस्य सर्गविभूतित्वे तस्यात्र निरूपणाचतुर्थस्कन्धे स्वातन्त्र्येण तन्निरूपणं न कार्यमित्यर्थः । यादृशो हीति । विसर्गोऽपि सर्ग- वत् साक्षाद्भगवलीलारूपः विभूतिकः, तस्य धर्मादयः पुरुषार्था विभूतयस्तथा च तत्सहितश्चतुर्थ- स्कन्धे चतुर्भिः प्रकरणनिरूप्यत इति तस्य स्यविभूतिसहितत्यान विभूतित्वं सम्भविष्यत्यत्र तु तदनिरूपणाद् विभूतिरूपत्वमेवेति भावः ॥ ४३ ॥ ननु भत्रेपेण भागवतं तु सप्तमाध्यायमारभ्यैवोक्त मथापि कीर्तयाम्यङ्ग यथामति यथाश्रुत- मिति वाक्यात् । तथा चाध्यायद्वयीयकथा न भागवते प्रवेश्यतीत्याशङ्कयाहुः स्वत एवेति । विशिष्य- विदुरप्रश्नामावेऽभ्यनुचितन्यमयविचार्य भगवदाज्ञयोदयश्रयणसमयप्राप्तया स्वत , एव भगवदुक्ता: जातीतसर्गरूपा पराकाष्टापन्ना लोलोक्तेति मगवदुक्तत्वाद् भागवत एव प्रश्यतीति भावः । ननु तथापि कयनमनुचितं प्रश्नाभावे सत्य सापेक्षतादोषमुग्भयादित्याशङ्कयाहस्तानतेति । न हि सामा- - तृतीयस्कन्धार्थः ३३ विदुरस्याकाक्षायां असमाप्तौ सर्वसन्देहवारकं भागवतमेवेति सूतवत् शुकवद् भागवत- मेवोपक्षिपति । तत्राऽस्य परम्परा शेपासपणात् । तथा सति ब्रह्मादिक्रमेण नाऽऽग- तमिति कथं भागवतमित्याशङ्कयाह- कृष्णोक्तं तु पुराणं हि श्रीभागवतमुच्यते । अयमर्थस्त्वन्यमुखान्नोंदविष्यति कर्हि चित् ॥ ४४ ॥ कृष्णोक्तमिति । भगवता प्रोक्तं भागवतम् । गीतादीनामपि भागवतत्वमेव, परं न पुराणत्वम् । न ह्यन्यो भगवल्लीलां जानातीत्यभिप्रायेणाऽऽह अयमर्थ इति ॥४४॥ न्यतोऽप्यश्रुते भगवत्याकाङ्क्षा श्रोतुरिति तदाकाझौत्पादनार्थमेव भगवदुक्तं सूक्ष्मतम भागवतमुक्तं तदपि भगवदाज्ञयेति वस्तुतो भगवतैवोक्तमन्यथा तद्विस्ताररूपभागवतश्रवणाकाक्षा न भवेदतस्ता--- बता गुणातीतसर्गनिरूपणेन तस्याकाङ्क्षायामले भागवतनिरूपणं सेत्स्यतीति विदुरार्थमेव तान्नि- रूपणान मैत्रेयस्य सापेक्षतादोपः सम्भविष्यतीति भावः । अत एवाग्रिमप्रकरणारम्भे साकाङ्क्षता- ज्ञापिकव विदुरस्य पूर्वपक्षकृतिरन्यथोपेक्षैव कृता स्यादिति भावः | समाप्ताविति । गुणातीतप्रकरण- समाप्तापित्यर्थः । सर्वसन्देहवारकमिति । एतच्छ्रवणेन विदुरस्याकाङ्क्षोत्पन्नेत्यवगत्य भगवद्रूपमेव भागवतं ' भिद्यते हृदयप्रन्धि' रिति श्रुतेः सर्वसन्देहवारकं न जीवबुद्धिरिति तदेव वक्तव्यत्वेन विदुरस्यान ' अथापि कीर्तयामीति वाक्येनोपक्षिपति समीपे उपस्थापयतीत्यर्थः । ननु स्वातन्त्र्येण कथने काव्यादीनामिव स्वबुद्धिपरिकल्पितत्वमेव भवेन्न भगवद्रूपत्वमित्याशङ्कयाहुः सूतवच्छुकव. दिति । सोऽहं वः श्रावयिष्यामि' एवमेतत् पुरा पृष्टः '। अधीतवान् द्वापारादा वित्यादि- वाक्यैः सूतशुकाभ्यां यथा न स्वातन्त्र्येणोक्तं तथा मैत्रेयेणापि न स्वातन्त्र्येणोक्तमित्यर्थः । ननु तथापि मैत्रेयोक्तस्य न भागवतत्वं शेषपरम्परयाऽप्राप्तत्वात् । ब्रह्मादिपरम्परया प्राप्तस्यैव तत्त्वादित्या- शङ्कयाहुर्भगवता प्रोक्तमिति । ' भागवत'शब्दो न रूढः पुराणविशेष किन्तु यौगिकः । तथा च तेन प्रोक्तमित्यधिकारकाणप्रत्ययेन भगवत्प्रोक्तत्वं तस्य शब्दस्यार्थः । अतः सर्वासु परम्परासु भगव- प्रोक्तत्वमेतन्न व्यभिचरतीति मैत्रेयोक्तस्य ब्रह्मपरम्परातिरिक्तपरम्परागतस्यापि भागवतत्वमित्यर्थः । नन्वेवमस्य शब्दस्य यौगिकत्वे तमादाय गीतादिष्वपि तथा व्यवहारः स्यादित्याशङ्कयाहुर्भागवत- त्वेमेवेति । अन्यथा तद्विस्तारत्वमस्य सर्वथा भेदे न स्यादिति भावः । नन्वेवं व्यवहारो न दृश्यते गीतादिष्विति रुढ एवायं शब्दो निरुच्यतानित्याशङ्कमाहुर्नपुराणत्वमिति । गीतायां वस्तुतो भागवतस्वमेव तत्सूक्ष्मरूपत्वात् तथापि पुराणगणनायां विस्पष्टतया पुराणरूपेऽस्मिन्नेव भागवतशब्द- प्रयोगेण तत्रैव व्यवहारो गीतायां पुराणरूपत्वाभावेन न तथा व्यवहार इति भावः। वस्तुतस्तु व्यव. हारेऽपि तथा न दोष इति ज्ञेयम् । ननु व्यासोक्तऽस्मिन् मुलतो भगवत्प्रोक्तत्वमादाय भागवतशन्दो निरूप्यते तथा च रूढो व्यासस्य भगवदवतारत्वेन तत्प्रोक्तत्वाद् यौगिको वा सर्वपुराणस्मृतिसा- धारण उच्यतामित्याशङ्कयाहुरयमर्थ इति मूले । न ह्यन्य इति व्यासो हि कलावतारः पुरुषोत्तम- .
---- सप्रकाशे तत्त्वदीपनिबन्धे भागवतार्थप्रकरणे नन्वत्र परम्परायां पराशरान्मैत्रेयस्याध्ययनम् । स तु विष्णुपुराणमाहेति प्रसि- द्विस्तस्मादस्य न भागवतमित्याशङ्कयाह- वैष्णवादिपुराणानि तच्छेपाणीति निश्चितम् । सर्वतोमुखमेमद्धि तदर्थं शेषतः कथा ॥४५॥ अर्थमात्रप्रधानत्वान्न दूपणमिहाऽण्वपि । वैष्णवादिपुराणानीति । "त्रयोविंशति वैष्णवम्" इति । त्रयोविंशतिसहस्र- परिमितं पुराणं भिन्नमेव, तव्यासेनैव कृतम् । “अष्टादशपुराणानाम्" इति वाक्यात् । . धर्मवेतैव तद्धर्मज्ञानावतारत्वान्न स्वरूपवेत्ता भागवतं लीलानिरूपकपुरुषोत्तमस्वरूपमेवेति तन्निरू- पणं स्वयमात्मनात्मान' मिति वाक्यात् तम्झेनैव कर्तव्यमिति मूलभूतभवत्प्रोक्तत्वमादायात्र भागवत शब्द इत्यर्थः । अत एव पूर्वमुक्तं निबन्धे 'ईशवाक्यं तु तस्यापि दुर्बोध भजनाद् ऋत' इति ॥४४॥ ननु तथापि मैत्रेयोक्तस्य न भागवतत्वमायाति एतत्परम्परायां पराशरतोऽध्ययनेन तेन च लोकप्रसिद्धया विष्णुपुराणाध्यापनात् पुराणमेतद् विष्णुपुराणं वैष्णवमेवेत्यर्थः । प्रसिद्धिरिति । लोकप्रसिद्धिीवेत्यर्थः । वस्तुतस्तु पराशरसंहिता भिन्नैवेत्यग्रे चान्यमिति भावः । तच्छेपाणीति । पुराणसख्यागणनप्रस्तावे त्रयोविंशतिसहस्रलोकपरिमितं विष्णुपुराणं पराशरोक्ता भिन्नमेवै- तस्याल्पत्वात् । अत एव तद्विस्तारोऽप्यत्र स्कन्धद्वयेनैव जातस्तस्माद् व्यासकृतमेव न पराशरकृत लोकप्रसिद्धिस्तु भ्रमात् । तथा च वैष्णवादिसर्वेषां व्यासकृताना पुराणानां दशलक्षण उक्षितश्रीभा- गपतीयपञ्चलक्षणप्रतिपादकत्वात् तन्छेपत्वमेव भागवतवद् भगवत्परम्परासिद्धत्वाभावान मुख्यत्व- मित्यर्थः । अन्यपुराणानां परम्पराप्राप्तत्वाभावायाहुासेनैव कृतमिति । व्यासेन स्वज्ञानबलेन प्रादुर्भावितमित्यर्थः । अन्यथा पुराणत्वं न स्यात्, पुरा न नव पुर णमिति निरुक्तः । श्रीभागवतं तु तेनापि समाधौ परम्परया प्राप्तमिति स्वज्ञानसामध्येन कृतत्यादन्येषां पुगणानां तच्छेपत्वं युज्यत इति भावः । ननु विष्णुपुराण तु लोकप्रसिद्धया पराशरेण परम्परया प्राप्तमेवास्तु तस्य व्यासकृतत्वे कि प्रमाणमित्याशक्याहरटाइशेति । एतस्य व्यासकृतत्वाभाव टादशपुराणाना मिति वाक्ये सट्- त्यानुपपत्तेः । नन्वेमष्टादशपुराणान्तर्गतत्वेन श्रीभागवतस्यापि व्यासकृतत्वमेवायातीति सर्वमु- स्यत्यसिद्धिरिति चेन महाभारतान्तर्गतगीताबदष्टादशपुराणान्तर्गतत्येऽपि मुख्यत्वोपपत्तेः । दशल. क्षणलक्षितत्याच । नन्वस्याटादशपुराणान्तर्गतत्वमेरासम्भवि महाभारतकरणानन्तरनेतकरणात पुराणानामटादशानां तु भारतात् पूर्वमेवा'टादशपुराणानि कृत्वा सत्यवतीसुत' इति वाक्येन कर- गणादिति चेन मष्टादश भागनमस्ति सूक्ष्म वृत्रासुरवधोपेतत्वादिलक्षणं परं तत् पञ्चलक्षणमे- तस्माद् भिन्नम् । अत एव तत्र धर्मविस्तरवर्णनमुक्तं प्रकृते तु भक्तिः प्रतिपाद्यत इति मूलरूप. स्थावताररूपे प्रशयदेतस्यापि परम्पराप्राप्तस्याधिशलक्षणयुक्तस्य तत्र प्रवेश इति न मेदो नाप्यमेद मागपनत्वं भगवन्द्वमान्येन परमकाष्ठापनेन प्रोक्त गभानादित्याशपाइर्न कोऽपीति । सइकार- स्पापि तद्विभूतियेन भगवत्वादिति भारः । परम्पराभिनेति । तया च कारणभेदात् कार्पमति तृतीयस्कन्धार्थः इयं तु पराशरसंहिता भिन्नैव । पराशरो हि भागवतं श्रुत्वा मैत्रेयाय तथा बोधितवान् । तस्माचदपि भागवतमेवेति न कोऽपि विरोधः । ननु तथापि परम्परा भिन्नैवेति कथं भागवतमिति चेत्तत्राह सर्वतोमुखमिति । भगवतो हि स्वरूपं ( भगवतैव ) इति सर्वमुपपद्यते सवयादिकमिति न वाक्यविरोध इत्यर्थः । ननु तथाप्येककर्तृत्वमेवायातीति कथ- मेतन्मुख्यतोपपत्तिरिति चेत् कृष्णावतारे मूलरूपप्रवेशेन सर्वावतारमुख्यत्ववदेतस्प भगवदाविष्टत- दवतारख्यासकृतस्य तत्र प्रवेशेन तन्मुख्यत्वसिद्धेः । कृष्णावतारेऽभेदप्रतीतिवस्त्राप्यभेदप्रतीतिः । अत एवाचायः प्रथममेव भक्तिजनिकां संहितामारभमाण' इति संहितात्वमेवोक्त पश्चादेव पुराण- प्रवेशात् पुराणत्वं खिलस्य हरिवंशस्य भारतप्रवेशाद् भारत्वमिव । किञ्च सर्वेषामेव पुराणानां धर्मप्रतिपादकत्वमेव स च धर्मो वैदिको वाक्यानि च तत्र व्यासर्वेदिकान्यवोपनिबद्वानि, नापूर्वरचना । तथा च स्त्रीशूद्रादीनां धर्मानधिकारिणां न तैः कार्यसिद्धिनयी तु श्रुतिगोचरा न भवतीति कथं धर्मसिद्धिस्तेषां भविष्यतीति कृपया स्त्रीशूद्रादीनामर्थे सवेदार्थोपवृहितं लौकिकचरित्रनिरूपकं न वनवतारसामयिकभगवल्लीलारूपवेदार्थसर्गादिपञ्चलक्षणबोधकं भारत कृतवान् , ततोऽपि कन्नौ न विस्तरो धर्मज्ञानेऽपि कौ देशादिषट्साधनाभावाद् धर्मासिद्धेः । अत एव व्यासस्य शोकः सर्वो. द्वारार्थ पुराणभारतायुपायकारणेऽपि कलौ तदनुदारात् तथा चावतारदशायां निःसाधनजनोवृतये भक्तादुःखेन मूलरूपप्राकट्यवदत्रापि व्यासदुःखेन परमकृपालुः श्रीभागवतरूपेण स्वप्राकव्यं कृतवान् पर त्यस्ताररूपे तत्प्रवेशवदत्रापि पुराणरूपे तस्मिन् प्रदेश इति नानुपपत्तिः काचित् । अत एवा- चार्मिङ्गलाचरणीयप्रमथश्लोके 'मक्तिवच्च स्वतन्त्र शास्त्रं रूपं च लाके प्रकश्यति य' इत्युक्तम् । एतद्देदानागमात् तद्वाक्यमात्रमवलोक्य भ्राभ्यन्ति विद्वांसोऽपीति सर्वमनवद्यम् । अत एवैतस्याम्ब- रीपशुकप्रोक्त'मितिवाक्ये शुभप्रोक्तत्वं लक्षणमुक्तम् । 'यदीच्छसि भवक्षय'मित्यनेन मुक्तिसाधकत्वं चौक्तम् । अन्यस्य तु व्यासकृतत्वमेव न शुक्रोक्तव्यम् । अन्यथान्य यावर्तक 'शुकप्रोक्तमिति विशेषणं न वदेत् । अत्र व्यासोक्तिः कौरवदज्ञानाभावेन शब्दमात्रानुपादिकैर अर्थप्राकव्यायात एवास्म. दाचार्यवर्यारतारः । भगवद्वाक्यवादवताररूपस्य व्यासस्य भजनाभावेन पूर्व तदर्थानयोधः । अत एव परीक्षिन्छ्वणावसरे भजनसिद्धयर्थमेव श्रोतृत्वम् । एतेन व्यासस्य की स्पेन श्रवणसमये सकृतत्वस्पतिरपि नासीदिति सूचितम् । इयं विति। पराशरेग मैत्रेयं प्रयभिहिता भागवतार्थनिरस- पिका संहितेत्यर्थः । ननु पराशरसहिताया भागवतार्थयेन किं पिनिगमकमित्याशक्याहुः पराशरो होति । साङ्घयायनन्दनायनन्तपरम्पराप्राप्त भागयतं श्रुयैव मैत्रपाय पराशरसंहिताकथनात् तथा यमियर्थः । तथेति । भागयतार्थत्वेन तस्मै पराशरो योधितवानित्यर्थः । ननु तथापि नास्य भियतेति परम्पराद्वयसिद्धयोर्भागतयोरपि भेदः स्पादिति भावः । भगवडो हीनि लीविशि भगार - पं यत्र निरूप्य तर यास रूर निरूपाप साइशस्पेग भगवतेय तद् या । ३६ सप्रकाशे तत्त्वदीपनिबन्धे भागवतार्थप्रकरणे भागवते वक्तव्यम् । तद्भगवान् स्वयमेव कदाचिदति । कदाचित्सङ्घर्पणो वासुदेवस्यैवं तत्वं वदति, " तत्वमतः परस्य " इति वाक्यात् । ननु तत्र वाक्यानुपूर्वी विसदृशी तत्कथमनयोरेकत्वं तत्राऽऽह अर्थमात्रप्रधानत्वादिति । सर्गादयोर्था यादृशा भागवते विविक्षितास्त एव पराशरवत्कृष्णेऽपि सन्तीति न किञ्चिदनुपपम् ॥ ४५ ॥ केचित्पुनः मुक्ष्म भागवतं भगवड्रह्मसम्वादपरम्परया समागतं द्वितीयस्कन्ध- मात्रम् । स्थूलं तु दशस्कन्धात्मकं शेषतः समागतमिति । तं पक्ष दुपयति- स्थूलसूक्ष्मविभेदेन केचिदाहुपैव तत् ॥ ४६॥ पञ्चमादन्यवत्कृत्वा तथा शास्त्रविरोधतः । स्थूलेति । पञ्चमस्कन्धादिक न पराशरेणोक्तं, नापि व्यासः पराशराच्छ्रुत्वा शक्यामिति । स्वतः स्वविभूतिरूपो वा भगवानेव वदतीति भगवत्प्रोक्तत्वेन भागवतमेवेत्यर्थः । स्वयमेवेति यदा मूलरूपं तलीलाविशिष्ट परोक्षे भक्तानां बोधाय वक्तुमिच्छति तदा स्वयमेव ताह- शाधिकारिणे बदति, यथोद्धवाय । यदा पुनरवताररूपविवक्षा तदा तादृग्रूपेण, यथा नारायणो ब्रह्मणे । यदा वा विभूतिरूपमुक्तिदानादिकार्यविवक्षा तदा विभूतिरूपेण, यथा सङ्कर्षणः सनत्कु- माराय । तथा च सर्वत्र तत्तद्रूपैर्भगवानेव वक्तति सर्वथास्य भगवत्प्रोक्तत्वमेवेत्यर्थः । कदाचिदिति । यदा तत्त्वमतः परस्येतिवाक्यात् सङ्कर्षणादप्रिमस्य वस्तुतोऽपि तदशित्वात् परस्य वासुदे- वस्य तत्त्वं विवक्षितं भवति तदा 'सात्विकेषु तु कल्पेषु यः शेते सलिले हरिः । वासुदेकः स विज्ञेयस्तस्यांऽशोनन्त उच्यत' इति वाक्यात् तस्य सङ्कर्षणाशित्वेत तत्तत्त्वस्य तदंशभूतेन सङ्कर्ष- गेनैव वक्तुमुचितत्वात् तदा तद्द्वारेव वदतीत्यर्थः । ननु तत्रेति । पराशरसंहितायामेतन्मूलत्वेनीच्य- मानायामित्यर्थः । विसदृशीति । विलक्षणेत्यर्थः । कथमनयोरिति । पराशरसंहितारूपमैत्रेयोक्तभाग- वतयोरित्यर्थः । सर्गादय इति । श्रीभागवतस्य शब्दार्थभेदेनोभयविधस्य पूर्व हृदये भगवस्थितिभ- जिहानरूपफलद्यकथनाद् भन्मुसकरात. द्रणकायेर मापल्यं, भासद्भालमत् , त्याच श्रीभागवते सर्गादयः पुरुषोत्तमलीलारूपा अर्था यावद्भेदभिन्ना विवक्षिता वक्तुभिष्टास्तादृशा एव पराशरवकृके तत्संहितारूपे भागयते सन्तीत्यर्थैक्यानुभयोवैयमित्यर्थः । शब्दभेदस्तु वेद- शब्दवदस्यापि फल विशेषबोधनाय । अत एव पूर्वमुक्त मेतद्धारणमात्रेण कृष्णो भवति वै धृत इति । यथा वेदधारणेन नारायणता तथैतद्धारणेन कृष्णता भवतीत्यर्थः । तथा चावान्तरफलं परमफलं श्रीमागवतादेव भवतीति परोक्षे प्रकटो भगवानेवेदमिति भावः। एवं भगवदुक्तस्य ब्रह्मो- कम्प सड्कर्षणोक्तस्य च भागवतस्य सूक्ष्मता सूतोक्तशुकोक्तमैत्रेयोक्तानां तद्विस्तृतिरूपाणां स्थूल- रुपतेति सिद्धम् ॥ १५ ॥ केचिदिति । ब्रह्मोक्तं द्वितीयस्कधमात्रं स्वांशसहितं सूक्ष्मं स्कन्धमात्रपरिमितत्वादने दशक- न्यामकमेवमेतत् पुरा पृष्टो मैत्रेयो भगवान् किले'ति तृतीयारम्भे शुकवाक्याद् ब्रह्मोक्तसूक्ष्मस्य मैत्रेयोक्तं स्यूटमिति तयोरुभयोः शुकेनानुवादादेयं स्थूलसूक्ष्मविभागमाहुरित्यर्थः । तं पक्षमिति । प्रोक्तं ' केचिदिपारम्पक्ति पक्षमित्यर्थः । पञ्चमेति । स्थानादिलीलानिरूपर्क पञ्चममारभ्य स्कन्धा- ३७ , छष्णमगारे प्रथमतः सूक्ष्मरूपश्रीभागवतश्रयणे भगरमपात् सम्पने पक्षात् तद्विस्ताररूपस्या- तृतीयस्कन्धार्थः पश्चमादिकं कथयति । तथा सति ' कस्मै येन पुरे 'ति, श्लोकोक्ता समाप्तौ परम्परा विरुध्येत् । मध्ये च मैत्रेयप्रवेशो व्यर्थः स्यात् । अतः सर्वतोमुखत्वख्यापनार्थमेव अर्थप्राधान्यविवक्षया शेपकथा निरूपितेति निश्चयः ।। ४६ ।। एवं दूषणसमाधानमुक्त्वा प्रकृते सङ्गतिमाह- गुणातीतात्सृष्टिकथा स्वत उक्ताऽतिगोप्यतः ॥४७॥ कृष्णाज्ञया तन्मुखतः श्रुतत्वान्न स्वतन्त्रता ॥ गुणातीतादिति । एतत्पारशरमुखान श्रुतामिति किमत्र मूलमित्याकाङ्क्षा- यामाह कृष्णज्ञया तन्मुखत इति । अनेन मैत्रेयस्य कृष्णमुखादेव भागवतश्रवणामिति एकमित्यर्थः । न पराशरेणेति । मैत्रेयकथने बीजं हि पराशराच्छ्वणं, तत्र पराशरेण तु स्वसंहि- तायां सर्गविसर्गाववोक्तो न स्थानादिकमिति तच्छिष्यस्य तदुक्तानुवादकस्य मैत्रेयस्य कुतः स्थानादिवक्तृत्वमिति मैत्रेयोक्तं दशस्कन्धात्मकं श्रीभागवतं स्थूलमित्युक्तिः परेषां न घटत इत्यर्थः । ननु व्यासस्य पराशरोत्पन्नस्य तत एव श्रुत्वा स्थानादिकथनमिति तेपामपि पराशरोक्तत्वात चच्छिष्यत्वेन तत्रापि मैत्रेयकथनं सम्भाव्यतेति पूर्वोक्तैन स्थूलसूक्ष्मव्यवस्थेत्याशड्क्याहु पीति । न्यासोऽपि न पञ्चमस्कन्धात्मकं पराशराच्छ्रुत्वा वदति । अन्यथा · कस्मै येन पुरा प्रोक्ते 'त्यनेन दशस्कन्धे श्रीभागवतसमाप्तौ ब्रह्मनारदपरम्परा व्यासोक्तावुन्यमाना बाधिता भवेत् । अतो न पासोक्तौ न पराशरपरम्परेत्यर्थः । मध्ये चेति । यदि व्यासः पराशरादुपश्रुत्य वदतीत्युच्येत तदा पासोक्तत्वेनैव सम्पूर्णस्य पराशरवक्तृकत्वं भविष्यतीति तदर्थ मध्ये मैत्रेयप्रवेशो व्यर्थः स्यात, यासेनैव तत्कार्यकरणादित्यर्थः । अत इति । यतोऽत्र श्रीभागवते परम्पराबाहुल्यमतः श्रीभागवतस्य सर्वतोमुखत्वं भगवत इव सर्वतः प्रादुर्भाववत्त्वं तज्ज्ञापनार्थं बहुत्वमुक्तमित्यर्थः । ननु सर्वतोमुखत्वं मगवतोऽपि न मूलरूपेण तस्य स्वेनैव निरूपणात् स्वत एव प्रादुर्भावकरणात् कुतः पुनस्तद्रूपस्य श्रीमागवतस्य सर्वतोमुखत्वमित्याशक्याहुरर्थप्राधान्येति । अर्थस्य श्रीभागवतार्थस्य प्राधान्यं मुख्यन्वं तद्विवक्षया मूलत्वेनास्यामपि परम्पराया शेपस्य सङ्कर्षणस्य कथा निरूपितेत्यर्थः । अन्ययार्थस्य साधारणत्वे जीवत एव परम्परा प्रोक्ता स्यादिति भावः । तथा च यथा हिरण्यगर्भोऽनन्तो का बहुभिर्मुखैः पूर्व वेदमादि तस्य सर्वतोमुखत्वज्ञापनायान्यस्य तद्वक्तृवासम्भवात् स्वयमेव तथा निरूपितास्तथा भगवानपि भागवतार्थमत्यलौकिक स्वयमेवान्यवक्तृचासम्भवात् सविभूतिस्पैस्तस्प सर्वतोमुखत्वज्ञापनायोक्तवानिति भावः ॥ ४६॥ प्रकृते सङ्गतिमिति । गुणातीतकथायाः स्वत उक्तत्वेन भगवतोक्तन्वाभावात् प्रकृते भागयते सङ्गतिर्न स्यादित्याशङ्कय तामाहेत्यर्थः । स्वत उक्तेति । मूले गुणातीतसुष्टिकथायाः परम्परामा- पादतिगोप्यत्वेन गूढार्थे सामान्यतोऽपि ज्ञानाभावेन प्रश्नासम्भवात् कृष्णाज्ञया प्रश्नाभावेऽपि सा सत उक्तत्यर्थः । ननु तथापि मैत्रेयस्य कथने भगवदाज्ञासस्याद् दोषामायेऽपि कथमेतस्प भगव प्रो- कियाभावेन कथं भागवतन्यमित्याशङ्कयाहुरनेनेति । 'लापतो मामिन्युद्धवाक्याद् विदुराय भगवना मैत्रेयो भागयतं प्रायित इति भगवन्मुखतः श्रुतम्येन तमोक्तवाद् मागयत मियः ।
सप्रकाशे तत्त्वदीपनिबन्धे भागवतार्थप्रकरणे निरूपितम् । भगवान् आदिरूपेण ब्रह्मणे प्रोवाच, अवतीर्य तु मैत्रेयोद्धवाभ्याम् । उद्धवात्परम्परा न स्पष्टा । मैत्रेयो विदुराय प्रोवाच ।। ४७१॥ । इदमत्यन्तशुद्धचित्तस्य फलजनकम् । विदुरस्तु नैवविध इत्याह- . अत्यन्तशुद्धचित्तस्य युक्तिर्नाऽपेक्ष्यते क्वचित् ॥४८॥ इति वक्तुन सन्देहः श्रोतुस्त्वस्तीति संशयः । न्यतः श्रवणं श्रुतश्रवणमिवेत्यश्रवणमेवेत्यभिप्रायेणैवमुक्तमित्यर्थः । अतः परमवतीर्णानवतीर्णस्वरूपभे देन सर्वत्र भागवते भगवत्प्रोक्तत्वं विशदयन्ति भगवानिति । आदिरूपेणेति । येन रूपेण जगत्कार णभूतेन ब्रह्मणे वेदमवादीत् तेनैव रूपेण श्रीभागवतमप्युक्तवानित्यर्थः । एतेन श्रीभागवते तुल्यो त्पत्तिकतया वेदतुल्यत्वमपि सूचितमिति भावः। अवतीर्य विति । अनवतीर्णनैव केत्रलेनैतत्प्राकट्य करणे वेदतुल्यतया तदुपयुक्तानां द्विजानामेव तदुपयोगः स्यात् तथा चास्य न सर्वोद्वारकत्वं सिद्धये दिति स्वयं निःसाधनानां स्त्रीशूद्रादीनामर्थे मूलरूपेणावतीर्यापि भागवतं मैत्रेयोद्धवाभ्यामुक्त वानित्येतस्य सर्योद्धारकत्वंसिद्धिरित्यर्थः । भगवता तूभययोः कथनं साक्षात्परम्परया श्रीभागवते सर्वोद्धाराय तत्र मैत्रेये परम्परोद्धवे साक्षात् तथाकरणमिति ज्ञेयम् । अत एवोद्भवं प्रत्य'तो मद्वयुन लोकं ग्राहयन्निह तिष्ठवितिभगवद्वाक्यम् । न स्पष्टेति । विदुरार्थे मैत्रेयमिव शिष्यं भगवानुव नाज्ञापितवान् कस्याप्यर्थे सर्वलोकार्थत्वेनोद्धवाज्ञापनादुवैर्यः श्रीभागवतं स्वहृदय एव स्थापयति कस्याप्यने न वदति तादृशमन्विष्य स्वत: कृपया कथनाद् ये शृवन्ति ते मूफशर्कररावत् स्वयमेवा- नुभवन्तीति नोवपरम्परा स्पटेत्यर्थः । वस्तुतस्तुद्भवे स्वयं भगवानाविष्टो भक्तिवीजरक्षणायेति सदू बीजावापे तदुपायेस्तत्राङ्कुरोत्पत्तिवदङ्गीकृतजनहृदये उद्धक्यार्ताश्रयणेन तदागती भक्तिबीजावापे भगवद्गुणश्रवणादिभिरुपायर्भक्त्यङ्गुरप्रेमायुत्पत्तिरिति नौद्धवस्य साक्षादुपदेचं किन्तु हृदये प्रविश्व भगवद्भक्तितत्स्वरूपप्रकाशकत्वमिति न परम्परा स्पष्टेति भावः । अत एव ' नोवोण्वपि मन्यून इत्यनेन सर्वथा स्वसमत्वमभिधायाप्रे स्वज्ञानग्राहकत्वमुक्तं ' अतो मद्वयुनं लोक मित्यनेन; तथा च यथा भगवतः स्वप्रकाशकत्वं तदृदयं प्रविश्य तथैवास्यापीति भक्तिरूपेणावतीर्णो भगवानेत्रोद्धय इति साक्षादुद्वारकत्वं तस्मिन् युज्यत इति भावः । अत्र परम्परां स्पष्टयति मैत्रेय इति ॥ ४७६ ॥ ननु भागवतं सर्वसन्देहनिवृत्तिरूपफलजनकमिति भगवन्मुखाच्छ्रवणे मैत्रेयस्य सन्देहा- भाववन्मैत्रेयाद् विदुरस्य न सन्देहाभावः प्रत्युत संशयोत्पत्तिरिति कथमुत्तमवक्तृमुखाकर्णितमपि भागवतं न फलजनकं जातमित्याशङ्य श्रोतरि सच्छ्यणमात्रेण मुख्यबोधजनकाधिकारन्यूनतामा नैवं विध इति । यथा मैत्रेयः परमगुद्रचित्तो व्यामोहकलीलाकरणोद्युक्तप्रभुस्वरूपदर्शनेऽप्यन्यामुग्धः स्वस्थचित्ततया भगवदुक्तप्रवणात् तयोवतस्तादृशचरित्रश्रवणेपि शोकाविष्टत्वान्न विदुरः शुद्धचित्त इति श्रीभागवतमपि न तस्य सहन्छ्यणमात्रेण सर्वसन्देहनिवृत्तिरूपफलजनकं जातमित्यर्थः । मत एवास्मदाचार्यः श्रीभागवतमुग्न्याधेिकार निरूपणे पूर्व विपरीतादिभावनारहित इत्युक्तं. विरागोतो तृतीयस्कन्धार्थः अत्यन्तशुद्धचित्तस्येतिः । अनेन भागवतानां बहुत्वमपि ज्ञापितम् । भगवदीयो यः कश्चिद्भगवताप्रोक्तं कथयति तदेव भागवतमिति, सामान्यलक्षणम् ।४८॥ युक्त्या पदार्थनिर्धारो लौकिकः । भागवतार्थस्त्वलौकिक इति । तथाप्यधि- कारामावे सोऽर्थो न स्फुरतीति सन्देहे जाते तनिराकरणमवश्यं कर्तव्यम् । तत्र यावता यो मन्यते तथा तस्मै निरूपणीय मिति स्थितिः। तथा मैत्रेयोऽपि विदुरबुद्धिमाश्रित्य समाधत्ते । तत्र पूर्वपक्षं सिद्धान्तञ्चाह- गुणातीतात्सृष्टिकथा सर्वथा नोपपद्यते ॥ ४९ ॥ कार्यकारणवैजात्याल्लोकहेतोरभावतः । निरुपाधिकरूपे हि सन्देहद्वयमीरितम् ॥ ५० ॥ -- विपरीतादिभावनारहितः सुहृदि'तिश्लोके । तथा च विदुरे श्रवणात् पूर्व सर्वथा विपरीतभावना न निवृत्तेति फले विलम्बो युक्त्यादिकथनरूमो वक्तृप्रयासश्च जात इति भावः । सुहत्वं तूत्रे सर्वोप- कारकत्वादपकारिज्येष्ठभ्रातुरुपकारकरणाद् विदूरे च ज्ञेयम् । विपरीतभावनायाः पूर्वमनिवृत्चेरुद्भवतो न्यूनता । अत एव पुनधृतराष्ट्रोद्धारार्थं गतो विदुरो ' नावदेयत् सकरुण' इतिवाक्यादियं वार्ता शोकजनिकेति स्त्र तथा ज्ञात्वा युधिष्ठिरादिभ्यो नोक्तवांस्तथा च कश्चिदंशो विपरीतभावनायाः स्थित एव । अत एव तस्य प्रभासे शोकहेतुभूते देहपरित्याग अलौकिकशरीरनिष्पत्यर्थकः, अन्यथो- व इवाननैव देहेन हृदि प्रभुमनुभवन् वियोगेन सर्वदा तिष्ठेदिति भावः । अनेनेति । परम्परात्रय- कथनेनेत्यर्थः । तथा च यथा भगवान् यो यथा वदति यथा वा ध्यायति तथा भवति नानावादानुरो- धिवाद् । यद्यद्धिये तिवाक्याच्च तथा भागवतमपि तत्तदधिकारानुसारेण तत्र तत्र प्रकटीभवतीति भगवत इबैकत्वेऽपि तस्या बहुरूपत्वमिति भावः । सिद्धं सामान्यतोर्थमाहुर्भगवदीय इति । अनेन भागवतार्थः शब्दान्तरेणापि निरूपितो भगवदीयैर्भागवतरूप इति बोधितम् । अत एव पराशर- सहितायां भागवतत्त्वम सामान्यलक्षणमिति । विशेषटक्षण तु शब्दात्मकत्वे सति सर्वोद्रारार्थप्रकट- साकारभगवत्स्वरूपत्वमित्यर्थः ॥ १८ ॥ लौकिक इति । स्वबुद्धया ब्रह्मनिरूपणमिवेत्यर्थः । तं त्वौपनिषद'मिति श्रुतेस्तस्य वेदैकसम- धिगम्यत्वादिति भाः। अलौकिक इति।व्यासहृदयेऽपि भगवत इव समाधावेव प्रकटस्वादिरयर्थः । ननु मैत्रेयः किमिति ज्ञाततत्स्वरूपो लोकनीतिमनुसृत्य युक्तिभिस्तत्संशयं निराकृनयानित्याशङ्कयाहु- स्तथापीति । अधिकाराभाव इति । विदुरम तथा चित्तशुपभावान्मुरपाधिकाराभाव इत्यर्थः । सोःर्थ इति। यो मैत्रेयहृदय भासते मुख्याधिकारात् स इत्यर्थः । अवश्यमिति । भगवता विदुरार्थ स्यस्याशतत्वानोपेक्षणीय इत्यर्थः । ननु तथापि समाहिति विदुरस्य भगवदुक्तं किमिति संशयः । रेग कुतो न कृतथानिग्याशङ्कप श्रोत्यमोटो रीतिरीही मुएवार्थचार्य सप्रकाशे तत्त्वदीपनिबन्धे भागवतार्थप्रकरणे गुणातीतादिति । यथा बालः पुरुषस्य निपेकाजन्माज्ञात्वा भोजनमेहनावेव पश्यन्, तत्रापि कथां कल्पयन्, तदप्यनुपपन्नमिति संशयीभवति । तत्र वक्ता बालं यथाक- थञ्चिद्रोधयति, वस्तुतस्तु न स सिद्धान्तः। किन्तु, यथा निरूपितं "भगवानेके आसेदम्" ३-५-२३ इति स एव सिद्धान्तः । विदुरस्य संशये हेतूनाह कार्यकारणवैजात्या- दिति । कारणं गुणरहितम् । कार्य सगुणमिति । लोकहेतुश्च कामः । एवं गुणातीते संन्देहद्वयम् ॥ ५० ॥ भावेन युक्तिभिरनिरूपणे तस्याविश्वासः स्यादिति ज्ञापनाय लोकस्थिति निरूपयन्ति तत्र यावतेति। यावता निरूपणेन योऽधिकारी येन प्रकारेण · मन्यते जानाति तावता तस्मै तेन प्रकारेण निरूपणीयमित्यर्थ.। तथेति। लोकरीत्यनुसारेणेत्यर्थः। विदुरबुद्धिमिति । गुणातीतस्य वस्तुत उपा- धिसम्बन्धाभावेन सगुणत्यं सम्भवतीति पूर्वपक्षकर्तर्विदुरस्य बुद्धिस्तामेवाश्रित्य ' सेय भगवतो मायेंत्यादिनोपाधिसम्बन्धं वदन्नेव तस्या भगवच्छक्तित्वेन तदभेदान् नित्यसम्बन्ध एव न जीववद् व्यामोहाथ भगवतः सकाशात् प्रकटाया भेदेन व्यामोहिकायाः ससारसिद्धये आगन्तुकः सम्बन्ध इत्यनया रीत्या समाधत्त इत्यर्थः । अन्यथा शुद्धब्रह्मवादप्रकारेण भगवन्छक्तेर्मायायास्तद्रूपत्वमेव वदे- दितिभावः। तत्रेति। सगुणप्रकरण इत्यर्थः । ननु तथापि पूर्णज्ञानो मैत्रेयः स्वज्ञानानुसारेणैव किमिति नोक्तवान् कुतस्तद्बुद्धिमाश्रि येत्याशङ्कय बालदृष्टान्तेन विदुरस्य तथा कथनश्रवणानधिकारं निरूपयन्ति यथेति । अज्ञात्वेति। बालकस्य निषेकज्ञानाभावादित्यर्थः। भोजनमेहने एवेति । यथा वालः भोजनं तथा मेहनं जन्महेतुभूतेन्द्रिय च प्रत्यक्षतः स्वस्मिन् पश्यन् निषकमज्ञात्वा तत्रापि पितर्यपि तथा तयोरेव पुरुषोत्पत्तौ कारणवं कल्पयन् स्वतः पुरुषोत्पत्यभावात् संशयी भवति, को वदद भाति कारणं न वेति, तथा विदुरोऽपि सर्वमिद भगवत्सामर्थेन जायत इत्यज्ञात्वा सस्मिन् प्रयत्न गुणसम्बन्धं च पश्यन् सर्वत्र तयोरेव कारणत्वं कल्पयन् भगवतो गुणातीतत्वे कथं कारणतेति तत्र संशयी जात इत्यर्थः । तथा च बालकानुभवसंशयौ यथाऽज्ञानकृतौ तथैतस्यापि शुद्धब्रह्मवा- दाज्ञानकृतावेवेति भावः । यथा कथञ्चिदिति । निषेकप्रकारो वालस्याने वक्तव्य इति वक्ता तास- माधान मुख्यवार्तामाच्छाद्य तथा मैत्रेयोऽपि स्त्रीसम्बन्धवन्मायासम्बन्धेन सर्वमुत्पद्यत इतिप्रकारेण करोति, बीजं तु भगवत्सामध्यं तद्रूपत्वं वाऽमुख्याधिकारित्वान्न वदतीत्यर्थः । वस्तुतस्त्विति । बालबोधकसङ्गोपितवाक्याप्रतीतार्थवन्नायं मुख्यः सिद्धान्त इत्यर्थः । स एवेति । यो गुणातीत- प्रकरणे ' भगवानेक आसे त्यादिभिः सर्वरूपेण भगवानेवेद भेदे तु कर्तृत्वं कार्यत्वमिति तदभा- यात् ' स एव समिति यः सिद्धान्तः स एवेत्यर्थः । नत्वेव कर्तृत्वमवास्तवमेवायाति तथा सति कर्तृत्वबोधकानन्तश्रुतिस्मृतिपिरोध इति चेन सस्य सूक्ष्मस्य परमानन्दरसरूपस्य लीलयानुभवार्थ तदधिष्ठानस्यूटप्रपञ्चररूपेण प्रकटीकरणस्यैव कर्तृत्वात् । अत एव श्रुति: ' असद् वा इदमप्र आसीत ततो ये सदजायत तदात्मानं स्वयमफुरुत तस्मात् तत् सुटतमुच्यत' इति 'यद् वै तत्सुकृतम्' 'रसो चै सः रस होवार्य सन्धानन्दी भाति ' एतदर्थस्तु इदं परिदृश्यमानं जगद् व निश्चयेन तदभिन्न- 1"भगवतानेक" इतिपाठः । .
तृतीयस्कन्धार्थः तत्परिहारार्थ यदि सोपाधिक एव जगत्कर्ता निरूप्यते तदा पूर्वोक्तदोपपरि- हारो भवति । तथापि तदेव न सम्भवतीति तृतीयो दोपः समायातीत्याह- स्यादने प्रपञ्चरमणेच्छातः पूर्वमसत भेदेनाविद्यमानमासीत् तत. प्रपञ्चरमणेच्छातः सत् भेदेन विद्य- मानमजायत । नन्वेवमसतः सत्ता कथमसतः सज्जायते'तिश्रुत्यन्तरविरुद्धा कथं घटत इत्याश- ड्याहस्त दात्मान' मिति । तद् ब्रह्मैव स्वयं मायाद्यसहायमेव 'कदाचित् सर्वमान्मैव भवतीह जनार्दन' इति न्यायेनात्मान स्वस्वरूपमेवाकुरुत स्वक्रियाशक्तिं स्वस्मिन्नेव योजितवान् स्थूलरूपभवनाय यस्मात तस्माद्धेतोस्तद् ब्रह्मैव सुष्ठु समीचीनं सुतरामाधिक्येन वा कृतं यस्य तादृशमुच्यते । न खन्यः स्त्रक्रियां स्वस्मिन् योजयितु शक्तः । नन्वेवं स्वस्य स्थूलरूपकरणे किं प्रयोजनमित्याका- झायामाह 'रसो वै स' इति य आत्मानं स्वयामकुरुत प्रपञ्चरूपेण स रसात्मा स्थायिभावरूपः अतः स्वस्वरूपानन्दानुभवा) रसस्य साधिष्ठानस्यैवानुभवयोग्यत्वादधिष्ठानं प्रपश्चरूप स्वात्मान कृतवान् तत्र स्वांशान् जीवान् नायिका इव स्थापितवान् , ततस्तेषां स्वरूपभूतानामेव पन्नीवदर्ध- शरीररूपाणां रसात्मकस्वस्वरूपप्रवेशनेन स्वानन्दानुभवं कारितवान् । अत एव ततः पतिश्च पत्नी चाभरता' मिति श्रुत्यन्तरेण स्वस्यैवोभयरूपत्वमुक्तम् । तथा च सर्वसामग्रीसहितं रसात्मकं स्वस्व- रूपमेव क्रीडेच्छया प्रकटितवानित्युक्तम् । ननु प्रपञ्चप्राकट्यमस्तु परं तस्मिन् रसात्मकमूलरूपप्रा- दुर्भाचे किं प्रयोजनमित्याकाङ्क्षायामाह रस हीति । अयमंशभूतस्तिरोहितानन्दोऽथाशत्वेनाल्प- त्यादल्पानन्दस्तदीयोऽहमिति स्फूर्तिजनितानन्दवान् जीवो रस स्थायिभावरूपमेव लब्धा प्रकट प्राप्यैवानन्दी भवति भगवत्समानः पूर्णानन्दवान् भवति । योषेष सर्वसौख्ये सत्यपि पुरुषरसमनुभूति स्वसमानतासम्पादनेन पुष्टिमार्गीयमुक्तिदानार्थमेव सर्वरूपेण स्वामकरणमिति भगवतो मुल्यसर्गलीलेय मोक्षरूपेत्यर्थः । विदुरस्य संशय इति । गुणातीतस्य कर्तृवमुपपद्यते न वेत्येवंरूप इत्यर्थः । कारणं गुणरहितमिति । गुणातीतसृष्टिप्रकरणे तथैव प्रतिपादितन्यादित्यर्थः । कार्य सगुणमिति । जगतस्त्रि- गुणात्मकत्वस्य प्रतीतिसिद्धत्वादित्यर्थः । लोकहेतुरिति । यत् कामयते जनस्तत् करोतीनि कामस्यैव लोके कार्यविषयकोद्यमहेतुत्वेन सिद्धत्वादित्यर्थः । एवमिति । कार्य कथं कारणविजातीयं कथं वा हेत्वभावे कार्यमिति गुणातीते कारणभूते कारणत्रविषयक सन्देहद्वयमियर्थः ॥ ५० ॥ तत्परिहारार्थमिति । एतम्सन्देहद्वयपरिहारार्थमित्यर्थः। सोपाधिक एवेति । मापागादिरीये. रपर्यः। तथापीति । सोपाधिक्याम्युपगमे सन्देहपरिहारेऽपि तदेव प्रदेयोपाधिसम्बन्धे तन्मतरी यावि न सम्भवति किन्तु तदा जीय इति जगलर्जुनीययापत्तिरूपस्तृतीपो दोप आयातीपर्थः । दोषदर्य तु सस्मिन्नकारण याकर्तृत्यरूपं सन्देहदपेन प्रयम निमपितामिनि मारः। एतस्पेनि। जगकर्तुः सप्रकाशे तत्त्वदीपनिबन्धे भागवतार्थप्रकरणे सोपाधित्वे परीहारस्तदेव न भवेदिति । तृतीयो ब्रह्मगः सिद्धो जीवेऽप्येवमभेदतः ॥ ५१ ॥ सोपाधित्व इति । एतस्य दूपणस्य समाधानाभावात् तृतीयो ब्रह्मणः सिद्ध इत्युक्तम् । इदमेव दूपणं ब्रह्मणो जीवभावेऽपि ॥ ५१ ।। मायासम्बन्धे निरूपयितुं शक्ये हि दुभंगत्वादिकं सम्भवतीति एतयोः समाधान मायासम्बन्धे निरूपयितुं शक्ये सति तत्कार्यं च निरूपयितुं शक्ये सति भवतीत्याह- मायासम्बन्धकार्ये हि परिहार्ये तयोः क्रमात् । प्रथमस्य परीहारः पष्ठया नित्यतयोदितः ॥५२॥ मायासम्बन्ध इति । एवमेका शङ्का ब्रह्मगा अपरा जीवगेति । पूर्वपक्षं सोपाधित्वे जीवत्वापत्तिरूपस्य दूपणस्येत्यर्थः । समाधानाभावादिति । मायासम्बन्धेन ब्रह्मणो जीवभाव बदतो मायावादिनो न समाधानमस्य दूषणस्य तदशजीक्यादिनस्तु मायायास्तच्छक्तित्वेन तत्सम्बन्धेऽपि न तस्य जीवभावोऽशित्वादिति समाधानस्य सत्त्वादतस्तन्मये परिहाराभावाद् वजलेपा- यितोऽयं दोष इति सिद्धमित्युक्तमित्यर्थः । इदमेवेति । गुणातीतप्रकरणे 'आत्मेन्छानुगतावात्मा नाना• मत्युपलक्षित' इति वाक्येन तस्यैवात्मनामात्मनो भगवतः स्वेच्छयात्मत्वमुक्त तत्रापि ब्रह्मणो जीवभावे सोपाधिकत्व सिद्धयेदिति ब्रह्मत्वमेव न स्यादिति पूर्वोक्तमेव दूपणमित्यर्थः ॥ ५१ ॥ मायासम्बन्ध इति । जीवेऽपि ब्रह्माभेदतोऽब्रह्मत्वापत्तिभिया मायासम्बन्ध एव वक्तुं शक्यस्तस्याशत्वादिहेतुत्वेनाब्रह्मत्यापादकत्वात् तया च तदभावे ब्रह्मण एव जीवभावे तस्मिन मायाप्सम्बन्धकार्य दुर्भगत्वक क्लिष्टत्वादिकं च कथं सम्भवति । अतो अहाजीवोरभेदे मायास- म्बन्धो ब्रह्मगि जीवे मायाकार्यसम्बन्धोऽनयोः क्रमेण परिहार्यत्वमन्यथोभयोब्रह्मत्वं न स्यादिति भावः । सन्देहद्वयस्य विषयभेदं निरूपयन्ति एवमेत । एकेति । जगत्कर्तृत्वाय मायासम्बन्धे ब्रह्मत्वं न स्पादित्यर्थः । जीवगेति । तस्यैव जीवभावे तदभिनन्येन माय कार्यस्य तत्रावक्तव्यत्वाद् दुर्भगत्यादिक क्थं सम्भवतीति ब्रह्माण जीवे च शङ्कास्यमियर्थः । पूर्वपक्षमिति । पूर्वपक्षस्तु गुणातीतसर्गे हि सर्वस्य अमात्मकतोक्ता सा न घटते । जडस्य सगुणवेन कारणविजातीयत्वात् , न हि विजातीयं तदात्मकं भवति पटस्य मृदात्मकतापत्तेः । ब्रह्मणः कार्यसजातीयत्वार्थ सोपाधिकायस्वीकारे माया- सम्बन्धेनाब्रह्मलापत्तिः । तादृशतदात्मत्वेऽपि न ब्रह्मात्मकतासिद्धिः । मायासम्बदस्य तस्याग्रह्मत्वात्। जीयस्य ब्रह्मान्मकत्ये मायाकार्यदुर्भगत्वाचनुपपत्तिः । तदर्थ तत्र मायासम्बन्धस्वीकृती ब्रह्मत्वासिद्धः । जीवग्रह्मणोर्मेदस्वाहताशांशिमारेन तदात्मकत्वसिद्रावपि प्लेशायनुपपत्तिः । ब्रह्मांशस्य स्वतः शार्पसम्भवात् । मायासम्बन्धे तु स्वीक्रियमाणे ब्रह्मामकत्वमेव तस्य न स्यात् । तस्माद् गुणातीत- "मायासम्भवे " इतिपाठः ।
तृतीयस्कन्धार्थः निरूप्य सिद्धान्तं निरूपयति प्रथमस्य परीहार इति । '" सेयं भगवतो माया यन येन विरुध्यते " ३-७-८ इति भगवतो मायायाश्च नित्य एव सम्बन्धः पठया. निरूपितः ॥५२॥ नन्वेवं सति भगवत्त्वहानिः स्यादित्याशङ्कयाह- भगवत्त्वाविरोधित्वं प्रकृत्यैव च सूचितम् । असमासात् प्रधानत्वं तेन नोपाधिसम्भवः ॥५३॥ भगवत्त्वाविरोधित्वमिति । भगवत्पदेनेत्यर्थः । ननु विक्षेपशक्तिपक्षेऽपि भगवत्त्वाविरोध उपपद्यत इत्याशझ्याह असमासात्मधानत्वमिति । भगवतो मायेति पदद्वयस्याऽसमासादेकार्यत्वाभावः। तेन न मायावैशिष्टयं भगवतः, किन्तु, सा. पृथगेव दासीवतिष्ठतीत्युक्तम् ( भवति ) ॥५३॥ एवं भगवति परिहारमुक्त्वा जीवे परिहारमाह- द्वितीयस्य परीहारे विरोधात्कार्यवाधनम् । विरोधमात्रमाहोस्विदाये सेयं दृशिर्यतः॥५४॥ द्वितीयस्येति । भगवतो मायेति पदद्वयेनैव प्रथमस्य परीहारः। द्वितीये पक्ष विकल्पयति विरोधात्कार्यबाधनं, आहस्विद्विरोध एवेति । आये समाधान सेयं । सृष्टिः स्वात्मसृष्टिः सर्वथानुपपन्ना । किञ्च कर्तृत्वमपि तादृशेऽसम्भवि । कामाभावात् । तत्सत्त्वे सगुणत्वापत्तेः । तदभावे लोक इव प्रयत्नानुपपत्तिः । अतः सगुणस्यैव कर्तृता वान्या न शुद्धब्रह्मणः ।। नित्य एवेति । भगवदाकारत्वेनैव जलशैवालवन्सर्वदा तिष्ठतीति तथेत्यर्थः ॥ ५२ ॥ भगवत्त्वहानिरिति । मायावृतत्वे कारागृहावृतपुरुषवदसमर्थव स्यादित्यर्थः । प्रकृत्येति । न हि भस्मना वृतो वह्निरदाहसमर्थो भवति । तदपसारणे सर्वदाहसामर्थ्यात् तद्वदनापि भगवत्पदेने सामर्थ्य वाच्यमित्यर्थः । विक्षेपेति । ननु भगवत्त्व विक्षेपशक्तिपक्षेऽप्युपपद्यते । तद्वैशिष्टपेऽपि स- दोषोऽपि राजराजेतिवत् शक्त्या तथात्वेऽपि न भगवत्त्वं विरुद्धघत इति चेन्न; एतदुपपत्तापपि न प्रधानत्वोपपत्तिः । उभयोवैशिष्टयन समधात् । आवरणपक्षे तु दुरे स्थितदासीवदावारयतीति प्रधानत्वमुपपयत इत्यर्थः ॥ ५३ ॥ विरोधादिति । ब्रह्मरूपे जीवे मायाकार्यस्य दुर्भगायादेविरोधात् कार्यमेर मिथ्याभूतमिति कम्प्येत । जगदप्रतीतिप्रमहात् । न च शुक्तिरजनान्मायया सेति पाग्यम् । अपिपया जीयमिति जीवाना तत्प्रतीतनिधारपितुं शक्यचात् तदपगमे जीरयमेर नेति न प्रतीनिः । ननु प्रोतभेय १विरोधो वेति पाठ सप्रकाशे तत्वदीपनिबन्धे भागवतार्थप्रकरणे दृशिर्यत इति । कार्यवाधनं कर्तुं न शक्यते संसारस्याऽसिद्धत्वात् । नन्वेतदेव न स्थादित्युच्यत इति चेद्भगवन्मायया तदुपपत्तिरिति बुध्यताम् ।। ५४ ॥ तथापि युक्तिविरोध इति द्वितीयपक्षे समाधानमाह- द्वितीये भूपणं तस्या विरोधो न तु दूषणम् । विरुद्धकार्यसम्बन्धस्तत्कृतस्तेन वर्ण्यते ॥ ५५॥ द्वितीय इति । कथं भृपणमित्याशङ्कयाह विरुद्धकार्यसम्बन्ध इति । मायया हि विरुद्धं काय दृश्यते । शिरश्छिद्यते जीवति । अन्त्राणि निष्कास्यन्ते स्वस्थश्चेति ॥ ५५॥ नन्वत्रापि कोपपत्तिरित्याकाक्षायामाह- विरोधोऽपि प्रतीत्येव न वस्तुनि यतो बृहत् । दर्शनं ज्ञानिनोप्येवं जीवे सर्वस्य नेश्वरे ॥५६॥ इति दृष्टान्ततस्तस्य सत्ये भेदो निरूपितः । तनिवृत्तिप्रतीकारो दुर्लभस्तेन तत्कथा ॥ ५७ ।। विरोधोपि प्रतीत्यैचेति । सर्वभवनसमर्थत्वाद्ब्रह्मणस्तच्छक्तित्त्वान्मायायाश्च तथात्वम् । अयमात्मविपर्यय ईश्वरस्य कार्पण्यादिः स्वरूपे ज्ञाते न भविष्यतीत्याशङ्कयाह दर्शनं ज्ञानिनोऽप्येवमिति । यस्तु जीवे ज्ञानी जीवस्वरूपाभिज्ञः जीवस्वरूपं तु सर्वावस्थासु भासत एव, ईश्वरस्वरूपमेव परं न भासते। अतः स्वमद्रष्टा भगवानेवेति तेन 'सह स्वस्थाऽभेदज्ञानात्स्वशिरश्छेदः स्वमेभासते। वस्तुतस्तु जीवस्वामशरीरस्य शिरच्छेद इधरेण दृश्यते, स्वयं च तदभेदात्पश्यति । सुपुप्त्युत्कान्स्योरेव भेददर्शनम् । शारी- रात्मा प्राज्ञेनाऽत्मना सम्परिप्वक्तोऽन्वारुढ इति भेदेन निरूपणात् । ब्रह्मविदस्तत्र निषिद्वयत इति चेत् संसारस्येति । सिद्धत्वादनादिसिद्धत्वात् । कथमनादिसिद्धत्वमित्याहुः नन्विति । एतदेवति । सिद्धत्वमेवे यर्थ । भगवन्माययेति । प्रपञ्चोत्पत्त्यनुकूलया सर्वभवनसमर्थ- रूपया माययैव संप्सारः सम्पादितो जीवनामिति तद्विषयसिद्धयर्थ भगवतैव कार्यतामुन्पादितमिति न तद्वापः क्रुं शक्यः ॥ ५४॥ द्वितीय इति जीव मायया युक्तिविरुद्धकार्योत्पादनं स्त्रावरूपप्रकाशकत्वेन भूषणमेवेत्यर्थ ॥५५॥ स्वमद्रटा भगवानेवेति । सप्ते जीवस्य प्राशेनामनासम्परिवतत्वादित्यर्थ. 1 समुपसर्गे वा नया भेदो बोधितः । यस्तुतस्तु नामदः परिवक्तवादित्यर्थः । तेन सहेति । अमेदज्ञानादिति । अमेदाण्यासादिपर्यः ॥ ५६ ॥, ५७ ॥
तृतीयस्कन्धार्थः भेदेनाऽनुभवः । अन्यस्य त्वबोधस्तदाह इति दृष्टान्तत इति । स्वमदृष्टान्तेन सत्ये भगवत्स्वरूपे देहाद्देदो निरूपितः । तत्र द्रष्टा भगवानेवेति । तर्हि शिरो जीवस्येत्यत्र किं प्रमाणम् ? तत्र द्वितीयो दृष्टान्तो यथा जले चन्द्रमस इति । यस्तु देहादिसंसारे जलपाये अहमिति मन्यते तस्यैव कादिर्न त्वाकाशस्थस्य । अतोऽभेदेऽपि जीवस्यव तच्छिरः । अस्याऽनर्थस्य निवृत्तिः स्वतो भवतीति तन्निवृत्युपाय उच्यत इत्याह तन्निवृत्तिप्रतिकार इति, "सवै निवृत्तिधर्मेण" (३-७-१२) इत्यादिना।।५६॥५७॥ मार्गद्वयेनानर्थनिवृत्तिः भक्तिमार्गेण ज्ञानमार्गेण च । तत्र प्रथमे शनैस्तिरोभाव इति मैत्रेयाभिप्रायः । सर्वतिरोभावस्तु भगवत्साक्षात्कारे । तदा न स्वमदर्शनम् । जागरणेऽपि न देहादावात्मबुदिः, किन्तु सुपुप्तिवत्सर्वदा ब्रह्मानन्दानुभवः । तत्र प्रथमपक्षे मुक्तिर्वक्तव्येति मैत्रेयः कैमुतिकन्यायेन "अशेपसंक्लेशशमम् " ३-७-१४ इति श्लोकेन निरूपयतीत्याह- निदर्शनं सुलभं साधनं च गूढा सूक्तिस्तेन वै तत्प्रकाशः । तदुक्तं वै दर्शनं यन्न भेद्यं सेवाहेतुः शास्त्रनिष्ठेयमाद्या॥५८॥ निदर्शनं सुलभामिति । दृष्टान्तोत्र सुलभः । सर्वेषामेव भगवद्गुणानुवादे परमानन्दानुभवात् । साधनं च सुलभं सर्वत्र सता भगवद्गुणकीर्तनस्य नित्यत्वात् । चकारानात्र देशाद्यपेक्षा । नन्वेवं सति कथं न सर्वेपामनर्थो निवर्तते तबाह गूढा सूक्तिरिति । समीचीना भगवचरित्रोक्तिः, गूढा गुप्ता । तेनैव हि भगवत्प्रकाशः स च दुर्लम इति न सर्वमुक्तिः अत एव भक्तिमार्गो दुर्लभ इति' तदर्शनमुक्तम् । ज्ञानमार्ग उक्तः । तदपि तदेव दर्शनम् । यन्न भेद्यमात्मनो भेद न भासयति । एवं मार्गयस्यापि सेवा हेतुः । भगवत्सेवया द्वयमपि प्राप्यत इति । सापि सेवा शास्त्रनिष्ठा पञ्चरात्रोक्ता न स्वेच्छया यथाकथञ्चित्कृता । इयमाद्या प्रथमत एवं कर्तव्या । पश्चाद्भगवत्प्रसादे तदुक्तप्रकारेण स्वेच्छयापि सेवा भवतीत्यर्थः ॥ ५८ ॥ अयं सिद्धान्तो ज्ञातव्य इत्येवाभिप्रेस सर्व पृष्टमित्याह- तदर्थमेव सकलं पृष्टं दुर्लभसङ्गतः । अतोऽपि न विसर्गत्वमन्यशेपाद्यवीयसाम् ॥ ५९ ॥ तदर्थमेवेति । अनेन सर्गत्वमेव समर्थितमित्याह अतोऽपि न विसर्गत्य- मिति । यवीयसां ब्रह्मादीनां सृष्टिकर्तुर्भगवतो विभूतिशेपत्वात् । एवं पूर्वपक्षाध्याये विभूतिज्ञानार्थ प्रश्नः समर्थितः ।। ५९ ॥ चत्र प्रथमपस इति । ज्ञानपशे शनैस्तिरोभावे पुक्तिप्रकारो यक्तव्य इत्यर्थः । कैमुनिक- न्याय इति । ययय ससाक्षात्कार कर ने पर्यः ॥ ५८ ॥ १एतायस्पोपल शिपथी।
सप्रकाशे तत्त्वदीपनिबन्धे भागरतार्थप्रकरणे
विभूतिज्ञानं च भागवतादेव भवतीति तस्य प्रस्तावनेत्याह-
श्रीभागवतमेवाऽत्र श्रोतव्यं नान्यदस्ति हि।
स्वज्ञानख्यापनार्थं हि तदुपाख्यानमीरितम् ॥ ६० ॥
श्रीभागवतमेवानेति । अन्यतः श्रवणं वारयितुं परम्परामाहेत्याह
स्वज्ञानख्यापनार्थमिति ॥ ६ ॥
कथं ब्रह्मणो विभूतित्वमित्याशङ्कयाह-
तदुद्भवस्तदाऽऽज्ञप्तस्तपसा तोपिते हरौ ।
स्तुते सम्प्रार्थिते चैवं बोधितः सर्वमेव हि ॥ ६१॥
चतुर्मुखश्चकारेदं यथापूर्वं तदाज्ञया ।
इति दर्शयितुं पृष्ट उपोद्घातं विभिर्जगौ ।। ६२॥
तदुद्भवस्तदाज्ञप्त इति । सप्तधा यो भगवत्सम्बन्धी स तस्य विभूतिः ।
आवेशी भवतीत्येके । अत्र गुणातीतात्सृष्टिमुक्त्वा सगुणात्सृष्टिवक्तव्या, सापि
विरिञ्चोऽपि तथा चक्रे" ३-१०-४ इति दशमाध्याये वक्तव्या । मध्येऽध्यायत्रयेण
कथं सगुणा मुष्टिरित्याशङ्कयाह इति दर्शयितुं पृष्ट इति । त्रिभिरुपोद्धातो
निरूपितः । अनेन विभूतित्वनिरूपण एव तात्पर्यमिति ज्ञापितम् । यतः सृष्टिरल्पे-
नैवोक्ता ॥ ६१ ॥ ६२ ॥
पद्मकल्पस्य विशेपतो निरूपणे हेतुमाह-
पद्मकल्पः सात्त्विकानां श्रेष्ठस्तं तत उक्तवान् ।
पूर्वस्य प्रलयं शिष्टं हेतुं चाह विशुद्धये ॥ ६३ ॥
पद्मकल्प इति । पत्रकल्पात्पूर्वकल्पस्तामसो भवितुमर्हति । अतस्तस्य प्रलयो
निरूप्यते, तत्र यः शिष्टः शेषशायी भगवान् स चोत्तरत्र हेतुत्वार्थ निरूप्यते । अत:
पद्मकल्पोऽत्यन्तं शुद्धो भवति ॥ ६३ ॥
अत्र कल्पमेदेषु पढार्थानामन्यथात्वं दोपाय न भवतीति ज्ञापयितुं पृथिव्यात्रि-
रूपवमाह-
जधनाब्जपृथग्रुपैत्रिधा भूमेनिरूपणम् ।
बाझे पाझे वराहे च तेन नाऽन्योन्यदूपणम् ॥ ६४ ॥
जघनाजपृथग्रूपैरिति । ब्रह्मकल्पे विराजोजघनरूपा पृथिवी पद्मकल्पे तस्यैव
नाभिपमरूमा वराहकल्पे तु पृथापा। तत्राप्यादिवराहकल्पे ब्रह्मणा तलादिपञ्चलोकानां
हस्तेनोद्धृतिः कृता, पुष्करपणे च स्थापिता । सैव मग्ना पुनर्भगवतोद्धृता घराहकल्पे ।
अयं तु श्वेतवाराहकल्पस्ततोऽपि विसशस्तेन दृष्टश्रुतयोनिरोधो न मन्तव्यः ॥६४ ॥
भूनिर्माणम् । कटाहम्ले रसावले तदा सप्तममुद्राणां समाचे प्रमाणामावात्पश्चाशत्को ४ तृतीयस्कन्धार्थः ननु बहूनां कल्पानां विद्यमानत्वात्कथं त्रयमेव निरूपितं तत्राह- प्राकृतं त्रयमेतत्स्यादन्येष्वेक यथोचितम् । अतस्त्रिधा भागवते भुवो रूपनिरूपणम् ॥ ६५॥ प्राकृतं त्रयमेतदिति । अन्ये कल्पा एतद्विकाराः। अत एतेपामन्यतरस्य तेषु थिव्यादीनां रूपं भवति । अत्र निदर्शनार्थमाह अतस्त्रिधा भागवत इति।।६५।। तेषु कल्पेप्वन्यानपि धर्मान् विवेचयति- पुरुषावयवैः सर्वं यदा तस्य पृथङ् न हि । पृथिवी वा समुद्रा वा परिखामध्यवत्पुरम् ॥ ६६ ॥ तदा सर्व हरिमानी न मानीत्यपरे विदुः॥ पुरुषावयवैरिति । ब्रह्मकल्पव्यवस्थेयम् । तदा भगवतः सकाशात्पृथिव्यादीनां न भिन्नतयाऽवस्थानम् । एकमेव विरारूपमावरणजलमध्ये परिखामध्यनगरमिव तिष्ठति । तस्मिन् कल्पे सो हरिव शरीरत्वात, यतः स मानी । अन्ये त्वाः, विराटशरीरं भगवता नारायणेन लीलार्थ करणत्वेनैव गृहीतमिति । तस्मिन्पक्षे क्रीडाभाण्डं विश्वं न भगवस्वरूपमित्यर्थः । स्वस्यैव समवायित्वेऽपि कामधेन्वादिदृष्टा- न्तैर्न तबाऽऽत्मस्पतिः । किन्तु आत्मीयत्वेनैव स्फुरणम् ॥ ६६ ।। द्वितीयपक्षं निरूपयति- यदा पद्मात्सर्वमिदं तदा पूर्वकथा न हि ॥ ६७ ॥ जलं च मध्यतः सृष्टमथवाऽण्डस्य मध्यगम् ॥ ६७ ॥ यदेति । पद्मकल्पपक्षे प्रलयजलमपि नास्ति । किन्तु तिरोहितो नारायणः केवलं नाभिपद्यमेव स्थलमलवत्तिष्ठति । जलं च तन्मध्ये पुनः सृष्टम् । अण्डमध्ये वा विराजि तिरोहित कमलमा प्रादुर्भुतं तिष्ठति । तदा कमलात्सर्वम् । सर्वे भगवदंशा भगवन्मायासहिताश्चेति ॥ ६७६ ॥ तृतीयकल्पमाह- कदाचिजलवद्भूमिः पृथगेव विनिर्मिता ॥ ६८॥ कटाहमूले गमनं तदा तस्या निरूप्यते । न समुद्रास्तदा सप्त न तथा विस्तृता च भूः ॥ ६९ ॥ कदाचिजलवयूमिरिति । यथा पपकल्पं जलनिर्माणमेयं पराहकल्प रिबिस्तीणा धियी न भवति । ज्योतिशासपिरोपाप ।। ६९ ॥
४८ सप्रकाशे तत्त्वदीपनिबन्धे भागवतार्थप्रकरणे अन्यदपि वैलक्षण्यमाई- न शेते प्रथमे कल्पे-तिरोभावस्तु तस्य हि । द्वितीये शयनं तस्य तृतीयेऽपि कचिद्भवेत् ॥ ७० ॥ नशेत इति । ननु ब्रह्मकल्पातिरिक्तकल्पेषु कथं सर्वस्य भगवन्मूलत्वं तत्राह- तदुद्धारात्तदाधारात्तन्मूलं सर्वमत्र हि । अयं नारायणः शेते पूर्वसृष्टं निपीय तु ॥ ७१ ॥ तदुद्धारादिति । भगवतैवोद्धारः पृथिव्याः कृतः पद्मकल्पे पद्मस्य स एवाऽऽधारः, अतस्तन्मूलत्वम् । एवं कल्पभेदेन विरोधं परिहत्य " उदाप्लुतं विश्वम् " इत्यत्र कस्यचिच्छयनं निरूपितम् । तत्र पूर्वपक्षपरिहारार्थमाह अयं नारायणः शेत इति । विराजः शयनं न सम्भवतीति शङ्का । उत्तरं तु तिर्यग्गोलाभिप्रायेण । अस्यापि कल्पस्य पूर्वमपि पद्मकल्प एव । “अनेन लोकान् प्राग्लीनान्" इति वाक्यात् ॥७१॥ शयनस्थानमाह- स्वाधारेऽण्डकटाहे वा जलमध्ये तु तस्थितिः । उदरस्थं जगत्सर्वं रजोरूपेण वर्तते ॥ ७२ ॥ स्वाधार इति । स्वस्मिन्नेव जलं कल्पयित्वा तस्मिन शेते दैनंदिनप्रलयस्ताह- गोऽपि भवति । अन्यथा नारायणस्य शयनं न सम्भवति । अथवा, यथाश्रुतानुरोधेन पक्षा- तरं कल्पनीयमित्याह अण्डकटाहे वेति । तदा निद्रानिमित्तं प्रलयोऽभूल्लोकत्रयस्य । उदा नारायणोऽवेक्षको भिन्न एव, पूर्वोक्तपुरुषादिन्नस्तस्य वान्तर्यामिरूपः। उभयत्रापि अरुमध्य एक स्थिति, याबसम्मवानां पदार्थानां हानोपाराने कर्तव्ये । अत्र विरो- धमाशङ्कय परिहरति उदरस्थं जगत्सर्वमिति । जले मनं जगदिति प्रथमतो निरूप्य अन्तःशरीरेऽपितभृतसूक्ष्म " इति पुनरन्तर्निरूप्यते । तत्राधिभौतिक नएम, आध्या- त्मिकमन्तःप्रवेशितमिति व्यवस्था । तदाह जगत्सर्वं रजोरूपेण वर्तत इति ॥७॥ राजसत्वे हेतुमाह न मूढं न प्रकाशं च कृष्णदृष्टया तदुद्गमः। सङ्कोचश्च विकाशच नाऽन्यथेति तथोद्गमः ॥ ७३ ॥ न मूढामिति । तस्य निर्गमने हेतुमाहः कृष्णदृष्टयेति । तत्रापि हेतुमाह सोचश्चेति । अन्यथा सोचविकाशौ न सम्भवतः ।। ७३ ।। " नान्यस्येति।
आत्मैकविंशः" इति । किमनेन सिद्धमित्याकाक्षायामाह नित्यं भजनम् । तदेव जन्मनः फलम् । तचतुर्भिः श्लोकः प्राय॑ते । वस्तुतः भगवत्प्रसादः माधनीयः। तस्याप्यतत्कारणमिति तापदिदमेव प्रार्थ्यते । यतःसंसारे दुर्लममेतत् । भजनसिदपयं वर चत्वारोः प्रार्थिताः । तेनैवार्थारजन प्रार्थितं भवति ।। ७७ ॥ . ४९ तृतीयस्कन्धार्थः अस्मिन् कल्पे तत्त्वानां न नियम इति ज्ञापयितुं स्थानापत्तिमाह- प्रथमे तु महत्तत्त्वं यथा पमं तथाऽपरे । परिपालकरूपेण प्रविष्टो वेदरूपतः ॥ ७४ ॥ ब्रह्मा स्वयमभूद् द्वेधा स्वयमर्थान्तरः पृथक् । अनन्तदृष्टितो भ्रान्तस्तदृष्ट्या तस्य दर्शनम् ॥७५॥ प्रथमे तु महत्तत्त्वं यथेति । महत्त्वस्थानीयं पद्म, तदेव जगदाधारम् । ततः कथं ब्रह्मोत्पत्तिरित्याशङ्कय भगवानेव तत्र प्रविष्टो ब्रह्मरूपेण जातः, परं शब्दब्रह्मरूपेण विष्टः।अतः पुरुषस्थानीयोऽव्ययं ततो न्यूनरूपतया व्यपदिश्यतेऽपग्रकल्पेऽयमेव विराट- थानीयः । अस्य शब्दब्रह्मात्मरूपस्य कार्यद्वयसिद्धयर्थ रूपद्वयमाह ब्रह्मा स्वयभूद धेति । तत्रार्थरूपः स्वयं चतुर्मुख एव जातः । यतो रूपप्रपञ्चोद्भवः । अतः शन्दब्रह्म- पोऽपि जातः । यतो वेदा जाताः। यद्यप्यभेदेन वचनं तथाऽप्यर्थाच्छन्दात्मकः पृथक् । नन्वेवं महतस्तस्य पझे समुद्भूतस्य कथं स्वकारणान्येपणे भ्रमस्तत्राह अनन्तदृष्टितो प्रान्त इति । यदा पुनस्तदृष्टिरन्तदृष्टिस्तदा तस्य दर्शनम् ॥ ७४ ॥ ७५॥ तत्र यादृशो दृष्टस्तादृशमेव ब्रह्मस्वरूपमित्याह- साकारमेव तद् ब्रह्म कारणं च तदेव हि । इति तद्वर्णनं स्तोत्रं तद् ब्रह्मत्वाय वर्ण्यते ॥ ७६ ॥ साकारमेवेति । अस्मिन्कल्पे पद्म ब्रह्मा च नाऽतोऽन्यत्किश्चिदस्ति । एतस्य यत्कारणं तच्चेसाकारं तदा ब्रह्मैव तथा । कारणान्वेपिणा हि कारणमेव दश्यते । अतस्तदेव कारणमिति ज्ञात्वा भगववर्णनं स्तोत्रं च । अस्मिन् स्तोत्रे भगवत्स्वरूपनिर्णयः ॥ ७६ ॥ 'सङ्घचापि स्तोत्रश्लोकानां ब्रह्मत्वनिर्णय इत्याह- एकविंशतिभिर्नित्यं भजनं जन्मनः फलम् । चतुर्भिः प्रार्थ्यते तावत्संसारे तद्धि दुर्लभम् ॥ ७७ ॥ एकविंशतिभिरिति। "एकविंशी हि पुरुषो भवति दशहस्त्या अड्डुलयो दशपया नान् गणयति- ५० सप्रकाशे तत्त्वदीपनिबन्धे मागवतार्थप्रकरणे सात्त्विकत्वं गुणासक्तिर्वाचकाविस्मृतिस्तथा। अनुद्वेगश्च सर्वत्र कृष्णतस्तद्धि नाऽन्यथा ॥ ७८ ॥ सात्त्विकत्वमिति ।। नन्वेतच्चतुष्टयं प्रमाणादेव साधनीयमित्याशङ्कयाह कृष्णतस्तद्वि नान्यथेति ॥ ७८ ।। नन्वेवं प्रार्थनायां कथं न सिद्धवत्कारेण सर्व दत्तवान् किमिति साधनमुपदि- टवानित्याशङ्कयाह- प्रेम्णा न सेवनं यस्मादुपदेशस्ततः कृतः । आये तपस्ततो ज्ञानं तेनाऽन्यस्तत्फलं ततः ॥ ७९ ॥ द्विरूपं हृदयोत्साहस्तेनैवाऽविस्मृतिस्ततः । प्रेम्णा न सेवनं यस्मादिति । ननु प्रार्थनानुसारेण नोत्तरं किन्तु " भूयस्त्वं तप आतिष्ठ" इत्यादिभिन्न एचोपदेश इत्याशङ्कयाह आये तप इति । साधनं ह्युपदिश्यते साचिकत्त्वं तपसा भवति । भगवद्गुणेप्यासक्तिानेन भवति, तेनैव वाचकाविस्मृतिरपि, वेदानामविस्मरणम् । एतत्रितयसम्पत्ती तत्फलमनुद्वेगः सेत्स्यति । अन्यदपि फलं भगल्लीलापरिक्षानम् । तस्मिन् सिद्धे हृदयोत्साहोऽपि वेदाविस्मरणमपि सम्यक् सेत्स्यति ।। ७९३ ।। अनुदेगे हेत्वन्तरमप्याह- कृष्णासत्या त्वनुद्वेगः प्रीतो भक्ते हरिः सदा ।। ८०॥ अतोऽष्टभिर्वचस्तेन तिरोभावाच्च नित्यता। कृष्णासक्त्येति । नवप्राप्ते कृष्णे सुतरामुद्वेगः स्यादत आह प्रीतो भक्ते हरिः सदेति । नित्ये प्रीतियुक्तभक्त हरिः प्रीतः सनोद्वेगं प्रयच्छतीत्यर्थः ॥८॥ इममेवाथै ज्ञापयितुमष्टभिः श्लोकैर्भगवद्वचनं निरूपितम् । तेनैव रूपेण तिरोभूत इति नित्यताऽपि तस्य। एवं नवमेनाध्यायेन ब्रह्मपितुर्ब्रह्मतासाधिता॥८॥ ननु नवमाध्याय एव सगुणात्सृष्टिवक्तव्या तदर्थ प्रश्नच कर्तव्यस्तत्कथमत्रानु- यत्वा कालप्रकरणे दशमाध्याये प्रश्नोचरे इत्याशङ्कयाह- चरित्रपरचित्तत्वादग्रे पृष्टं न पूर्वतः ॥ ८१ ॥ अत एव गुरुः प्रीतः क्रमेणैवाह नाऽन्यथा। चरित्रपरचित्तत्वादिति । उपोद्घातत्वेन भगवचरित्रं मध्ये प्रस्तुतम् , तत्पर चित्तं जातमिति तत्पूर्तिपर्यन्नं न किश्चित्पृष्टमित्यर्थः । प्रश्नामाचादेवोत्तरमपि न ।
84 तृतीयस्कन्धार्थः उत्तरत्रोच्यमानमपि पूर्वशेप एव भविष्यतीति भावः । अनेन भगवद्भक्तानां प्रसङ्गादपि भगवत्कथासम्पत्तौ प्रक्रान्त औदासीन्यं सूचितम् । तदैव भक्तत्वम् । एतत्परीक्षार्थमेव गुरुणा तथोक्तम् ; 'प्रीतः प्रत्याह इति वाक्यात, पश्चात्प्रश्नेन प्रीतस्तदाह अत एव गुरुरिति । प्रीतिलिङ्गमाह क्रमणैवाऽऽह नान्यथेति । पूर्वसम्बद्ध रूपेणैव प्रश्नोत्तरमाह न तु मिन्नतया । अन्यथा तथा प्रश्नान् पूर्वासम्बद्धानेव वदेत् ।। ८१५ ॥ यद्येक एव पद्मकल्पः स्यात्तदा “ अनेन लोकान् प्राग्लीनान्" इति वाक्यं नोपपद्यत । अतस्तत्समर्थनार्थमाह- पद्मकल्पाश्च वहवस्तेन ज्ञानं तथोदितम् ॥ ८२ ॥ पद्मतः सर्वसम्भेदं ब्रह्मभेदं तथोक्तवान् । पद्मकल्पाश्च बहव इति । किं तेन सिद्धमित्याकासायामाह पद्मतः सर्वसम्भेदामिति । नन "तस्यैव चाऽन्ते कल्पोऽभृद्" इतिवाक्यं विरुद्धधेतेत्यत 'आह ब्रह्मभेदं तथोक्तवानिति । ब्राह्मण्टान्तरे भिन्नस्य ब्रह्मणः पूर्वपरार्धान्तपक्षे न दोपो भवतीति ब्रह्मभेदोऽप्यनेन मूचित इत्यर्थः ।। ८२३ ।। अथवा वाभिप्रायोन्तशब्दः, तदा त्रिशतं पष्ठिर्ब्रह्मकल्पा भवन्ति तदाह- सामान्यतो विभागोऽयं सर्वेषामुक्तमेव हि ॥ ८३॥ सृष्टिर्द्विधापि सम्पूर्णा कारणानामतः कथा। सामान्यतो विभागोयामिति । न तु चरमदिवसस्य एवं कल्पान्तराणामपि विभागः मूचितो ज्ञातव्यः । अथवा, सगुणाब्रह्मणः सृष्टिः कथं न विशेपाकारेणोक्ते- त्याशङ्कयाह सामान्यत इति । सामान्यप्रकारेण सर्वेषामेवोक्तम् । एतावान जीवलो- कस्येति ।। ८३॥ उपसंहरति सृष्टिद्धिधापीति । विभूतिरत्र मुख्येति कालद्वारा सृष्टिं वनुमाह कारणानामतः कथेति ॥ ८३ ॥ कालो जीवश्च वै रूपे नाम्नि वैदिकमुच्यते ॥ ८४ ॥ कालस्य कार्यतो जन्म तदुपाधिवशादपि । अव्यक्तत्वात्कृष्णभावान्नोत्पत्तिः कापि तस्य तत् ॥२५॥ तथापि कारणत्वाद्धि प्रश्नो युक्तं तथोत्तरम् । तत्र कालस्याध्यायद्वयेन निरूपणं कथयन् भेदमाह कालस्य कार्यत इति । स्वभावतो जन्माभावे हेतुमाह अव्यक्तत्यादिति । ‘जनी प्रादुर्भाचे' इति . पानास्ति।
सप्रकाशे तत्त्वदीपनिबन्धे भागवतार्थप्रकरणे धात्वर्थाभावाद्भगवदवतारत्वाच त्रिविधाऽप्युत्पत्तिास्ति । तर्हि सृष्टौ कथं तत्कथे- त्याशझ्याह तथापीति । कालस्य कारणत्वमनुभवसिद्धम् , "यद्याद्वाति वातोयम्" इत्यादिकाच । अतः प्रश्न उत्तरं च युक्तम् ।। ८५६ ।। लक्षणं च स्वरूपं च तस्य कारणताऽपि च ॥८६॥ सर्वस्य ब्रह्मरूपत्वात्परिच्छेदकरः स्वयम् । कालस्य कारणत्वे यनिमित्तं तदाह सर्वस्य ब्रह्मरूपत्वादिति ! कालैनैव परिच्छिन्नं कालेनैव क्रियते ।। ८६ ।। कथमेवं सामर्थ्यमित्याशक्यैतदर्थमेव कालरूपत्वमित्याह- इदं कालस्य कालत्वमाविर्भावादिकं स्वतः ॥ ८७॥ कार्यतः कालकथनात्सामान्येन निरूपणम् । इदं कालस्य कालत्वमिति । रसायभिनये हि केवलेनैव हस्तेन सर्वे पदार्था- श्वेष्टाविशेपेण प्रदश्यन्ते, अतः काल एव ब्रह्मणः सर्वभावेनाऽऽविर्भावे परिच्छेदहेतुः। केचन आविर्भावहेतुत्वेन वर्णयन्ति तन्निपेधार्थमाह आविर्भावादिकं खत इति । आविर्भावतिरोभावादिकं ब्रह्मणः स्वत एव, परिच्छेद एव परं कालात् ॥ ८७ ।। काली हि निरूपणीयः, स सामान्यविशेषप्रकारेणाऽध्यायद्वयन निरूपणीया तत्र कार्यनिरूपणस्य- कुत्रोपयोग इत्याशङ्कायामाह कार्यतः कालकथनादिति कार्यनिरूपणमेव सामान्यतो निरूपणम् ॥ ८७३ ।। नन्वत्र दशविधगणना किमिति कृता, सामान्यत एव कालकार्यत्वेन सर्वमेव जगद्वक्तव्यामित्याशझ्याह- कश्चित्प्रकारमाश्रित्य बुद्धिसौकर्यसिद्धये ॥ ८८ ॥ खंगानां गणना प्रोक्ता भल्लुके लोमपक्षता। पक्षिजातिविशेपो वा तच्छब्देन तथोदितः ॥८९॥ कश्चित्प्रकारमाश्रित्येति । तथा सति सर्व कार्य न ज्ञातं भवति । युद्धिसौकर्यसिद्धधर्थ ततो गणना। तत्र खगानां गणनामध्ये भल्लूको गणितः, सच मृगविशेपो लोके प्रसिद्धो जाम्बवज्जातीयः । तस्य पक्षिपु गणना न युक्तेत्याशझ्याह भल्लूके लोमपक्षतेति । पक्षान्तरमाह पक्षिजातिविशेपो वेति ।। ८९ ।। ननु " अर्वाक स्रोतस्तु नवमः" इत्यत्र कथं नराणामेकविधत्वं, मानुपेषु रचमा अपि " मध्यमा मानुपा ये तु" इत्यादिषु भेदेन गणनात् । तत्राह- "विधानाम् " पाठः! २" यथोदितः पाठः।
तृतीयकन्धार्थ. ५३ अकृत्रिमनराणां च त्रैविध्यं गुणतोऽपि हि । ते जायस्व म्रियस्वेति मार्गगा एव कीर्तिता ॥ ९० ॥ अकृत्रिमनराणां चेति । एते हि कालकार्यत्वेन कृत्रिमनरा गणिताः । अकृत्रिमाः सहजास्तु विविधाः । उत्तमाः सालिकाः । ते ज्ञाननिष्ठा भक्तिनिष्ठा वा ! अन्येऽपि ज्ञातव्याः । तेषां कर्माधीनलमाह ते जायस्व नियस्वेति ॥ ९० ॥ आत्मानं लीलया सजतीत्यभिप्रायमाह- अनेकविधसृष्टिश्चेद्वैपम्यादि हरेभवेत् । आत्मानं हि स्वयं चक्रे तेन नाऽत्रोक्तदूपणम् ।। ९१ ॥ अनेकविधसूष्टिश्चेदिति । नन्वेते दश प्रकाराः सर्वदा कालाजायन्ते आहोस्वित्सदित्याशङ्कथ सकृदेव कारणतया जाता इत्याह- तत्तदुत्पत्तिहेतुत्वावेदानां तत्कथा तता। कार्यनाशोऽणुपर्यन्तं परमस्तेन स स्मृतः ॥ ९२ ॥ तत्तदुत्पत्तिहेतुत्वादिति । तत्कथा कालकथा । परमाणुपदनिरुक्तिमाह कार्यनाशोऽणुपर्यन्तमिति । स्थौल्याभावे हि सूक्ष्मता सा यत्र पर्यवसिता स परमाणुः ॥ ९२ ॥ तत्र कालस्य परमाणुत्व उपपत्तिमाह- मानसोत्तरभूमेस्तु सोशः सूर्यरथेन हि । यावता क्रम्यते कालः परमाणुः स उच्यते ॥ ९३॥ सर्व नभोमण्डलं हि यावता क्रम्यते स तु । संवत्सरः परः प्रोक्तस्तदावृत्तिरतः परम् ॥ ९४ ॥ पटिभेदा द्वादशात्मा तेन पञ्चात्मकः स्मृतः। मानसोत्तरभूमेरिति । पञ्चसंवत्सरादिभेदेपूपपत्तिमाह षष्टिभेदा इति । प्रभवादयः पष्टि भेटा पाईस्पत्यमान एच सिद्धाः । तत्र बृहस्पतिद्वादशारं कालचक्रं द्वादशमियपराकामति, तस्य पटियषु पञ्चवारमाममणमिति संवत्सरादयः पश्च ॥९॥ सङ्ख्या च परपर्यन्ता न ततोधिका । संवत्सरगणनया ब्राह्मणो हिनं गणयितुं शवयमिति युगकल्पना कृतेत्याद- यत्राऽवृत्तिर्न चैवास्ति परार्धानधिकत्वतः ॥९५॥ सइयायास्तेन गणना यगादिभिरुदीर्यते ।
सप्रकाशे तत्त्वदीपनिबन्धे भागवतार्थप्रकरणे
यत्राऽवृत्तिरिति । " यत्र धर्मो विधीयते " इत्यादिनिरूपणं कालनिरूपणे
व्यर्थमित्याशङ्कयाह-
उत्पद्यमानसन्देहे धर्ममाह विभेदतः ॥ ९६ ॥
दिनरात्रिव्यवस्थायां कार्याकार्य तु सर्वतः ।
उत्पद्यमानसन्देह इति । कृतकृत्याः प्रजाजात्या" इत्यादिधर्मैः कृता-
दिशन्दप्रवृत्तिः । अतो मनुप्या अपि तनिरूपणार्थ निरूपणीयाः तेषां च धर्मभेदको
धर्म एवेति धर्मनिरूपणम् । नन्वेवं सति कृतादिप्वहोरात्रमपि धर्मप्रवृत्तिः स्यात्तत्राह
दिनरात्रिव्यवस्थायामिति तत्तु साधारण दिवस एव कार्य न रात्राविति ।।९६॥
तत्रापि कार्यभेदान हि वक्तुं धर्मादिवर्णनम् ॥ ९७ ॥
तत्सिद्धये पड्डिधत्वं हि ते हि भिन्ना यतः पृथक् ।
किञ्च, रात्री दिवसे च कार्यविभेदः प्रतिकल्पं भिन्नाः । अतोऽपि धर्मादि-
वर्णनं कर्तव्यम् । धर्मसिध्द्यर्थमेव मन्वन्तरनिरूपणं । मन्वन्तरस्य पइविधवं पडङ्ग-
निरूपणार्थम् । यतस्ते मन्वादयः पडभिः भिन्ना देशादयो यतो भिन्नतया स्थिताः ।
अतः षण्णां योगे धर्मो भवतीति सिद्धम् ॥ ९७ ॥
सर्वेषां स्थितिसिद्धयर्थं भगवत्कृतिवर्णनम् ।। ९८ ॥
तन्मूल एव प्रलयः शयने सर्वनिर्वतिः।
यथाकथश्चिदप्युत्पन्नाः परस्परं विरुद्धगुणा नाशं यास्यन्तीत्याशङ्कय भगवता
पालनमुक्तम् । तर्हि कदाचित्प्रलयो न स्यादित्याशङ्कयाह तन्मूल एव प्रलय इति ।
भगवतैव प्रलयः क्रियते । ननु परमदयालुः किमित्येवं करोतीत्याशङ्कयाह शयने
सर्वनिर्वतिरिति । निरन्तरमुत्पत्तिप्रलयाभ्यो पीडिता जीवा भगवच्छयन एव
निवृति प्राप्नुवन्ति ॥ ९८६ ।।
एतच्छयनं पाकल्प एव भवतीत्याह-
पद्मानुसारिशयनं ब्रह्मा चाण्डवपुः स्मृतः॥ ९९ ॥
भोक्तृत्वं कर्तृता चैव तस्य भेदेन वर्ण्यते ।
पनानुसारीति । नेन्ववं सति त्रिलोक्या नाशे "स्त्यमानो जनालयः" इति
चाक्यं नोपपन्नं स्यादत आह ब्रह्मा चाऽण्डवपुःस्मृत इति । ब्रह्माऽण्डविग्रहः । एवं
लोकवये कल्पादिव्यवस्था । अन्यथा "तस्यैव चान्ते" इतिवाक्यं नोपपद्येत । नन्वेवें
सति नाभिकमले को वा ब्रह्मा को वा सत्यलोक इति शङ्कायामाह भोत्कृत्वं कर्तृता
चैवेति । अभिमानी ब्रह्माण्डविग्रह इत्यवोचाम । एवं त्रयो ब्रह्माणो भवन्ति ॥१९॥
तृतीयस्कन्धार्थः दैनन्दिनप्रलये कब्रह्मणः शयनोपायमाह- भोक्ता सत्ये द्वितीयस्तु पझे नोदरगः सुखी ॥१०॥ प्रलयोऽयं समाख्यातः सर्गः पद्म पुनस्तथा ॥ पद्मे नोदरग इति । अनेनाऽभेदेन वर्णनपक्षो निवारितः। द्वितीयपद्मकल्पे पुनस्तथैव सर्गः । वाराहकल्पे त्वन्यथा । तां सृष्टिमग्रे वक्ष्यामः ॥ १० ॥ नन्वेकेनैव सर्गेण भगवल्लीलासिद्धौकिमित्यनेकवर्णनं तत्राह अस्मिन्नण्ड इति । अस्मिन्नण्डे त्रयोऽप्याऽसन्कल्पाः सर्वकथोक्तये॥१०१॥ तेपामुक्तिस्तथा चाये नाना रूपस्य वर्णनम् ॥ अन्यथा भगवानेव तेनाद्यो ब्राह्म उच्यते ॥ १०२ ॥ पौरुषोऽत्र विभृतिरूपः । सोऽस्मिन्नण्डे यादृशस्तादृशो वर्णनीयः । अतः सर्वेपा थासिद्धये कल्पानामुक्तिः ॥ १०१॥ तत्र प्रथमकल्पे ब्राह्मे सृष्टिकर्तानमा छन्दो- यो निरूपितः। स नोपपद्यत इत्याशङ्कय समाधानमाह तथा चाद्य इति । नाम- टिभिन्ना निरूपिता । सापि रूपसृष्टिपरतन्वेति न कोपि दोपः । आधिदैविकं वा रूपम् । व्यक्ताव्यक्तात्मन, " इतिवचनम् । अन्यथा प्रकारान्तरेणेति पूर्वेणैव सम्बध्येत । आधिदैविकस्य शरीरित्वसम्पादकत्वं भगवत एव युक्तं, नान्यस्तथा कर्तु शक्नोति । इमममर्थ शब्दप्रसिद्धयापि समर्थयते तेनायो ब्राह्म उच्यत इति । ब्रह्मशब्देन भगवानेव ॥ १०२ ।। कालनिरूपणप्रस्तावे सर्वप्रभुत्वं कालस्य निरूप्य अक्षरेपि प्रभुत्वं भविष्यती- त्याशङ्कय आध्यात्मिकभेदानां तत्र प्रवृत्त्यभावमाह- अतोऽधिकस्य गणना नास्ति कालस्य पूरुपे। तत्रोपपत्तिकथनमेवं कालो निरूपितः॥ १०३॥ अतोऽधिकस्येति । भेदे हि सङ्ख्या नियामिका, द्विपरार्दाधिकसङ्ख्थाया अभावात् । कालप्रवृत्तिः पुरुपे नास्ति, “निमेप उपचर्यते" इति तत्रोपपतिः। अध्याय- ये कालप्रकरणं निरूपितमित्युपसंहरति एवं कालो निरूपित इति ॥ १०३ ॥ अतः परं जीवसों मुक्तामुक्तविभेदतः। मुक्तानां कारणत्वं हि तदिच्छावशगा मतः ॥ १०४॥ अतः परमेकेनाध्यायेन जीया निरूप्यन्ते । तत्राऽमुक्ता जीवा मुक्तिप्रकरणे वक्तव्याः । ते न कारणभूताः । मुक्तास्तु जीवाः कारणभूता एकेनाध्यायेनोच्यन्ते । मुक्तानां कथं कारणत्वमित्याह मुक्तानामिति मुक्ता हि भगवत्सविधाने तिष्ठन्ति, - ५६ सप्रकाशे तत्त्वदीपनिबन्धे भागवतार्थप्रकरणे अतो यदा भगवान् सृष्टिं कर्तुमिच्छति तदा स्वलीलासिद्धयर्थं तान्प्रेरयति, अतो भगवदिच्छावशास्ते कारणभृता इत्यर्थः ॥ १०४ ॥ तत्र मुक्तानां वैविध्यमाह- लोकातीता लौकिकाश्च तत्राऽऽद्यानाऽधिकारिणः । उत्पत्तिदुर्घटा तेपामविद्या निर्मिता तंतः॥ १०५॥ लोकातीता इति।प्रथमानां मुक्तौ कारणत्वम्, सा हि जीवानां स्वरूपत (एव) आविर्भावरूपतेति पूर्वमुक्तम्, तत्र लोकातीता वैकुण्ठेपि विरक्तास्तिष्ठन्ति । अतः सृष्टी तेनाऽधिकारिणः । मुक्त्यर्थं चोत्पादनीयाः। ज्ञानांशं त एव गृहीत्वावतरन्ति, अतस्तान् व्यामोहयितुमविद्याया उत्पत्तिः ।। १५० ॥ अभिमानी देवतेयं यतः सर्व भविष्यति । मूलाविद्यावृत्तिरूपाः पञ्चैका वाऽत्र देवता॥ १०६ ॥ सा हि आधिदैविकी, तेन सर्वानेव व्यामोहयिष्यतीति सर्वकार्यसिद्धिः । अत्राऽ- विद्यायां पक्षद्वयमाह मूलेति । एकैव देवतेति सिद्धान्तः ॥ लोकातीतोत्पादनार्थ- मुत्पादिता ।। १०६॥ प्रथम बाह्याभावाइमाणमेव मोहितवतीत्याह- मूढस्तया चतुर्वक्रः कृष्णध्यानं चकार ह। लोकातीतास्ततोजाताः काये ध्यानं प्रतिष्ठितम् ॥१०७॥ मूढ इति । देवतारूपत्वान्न ध्यानप्रतिवन्धिका, लोकातीतानामुत्पत्त्यन्तरं तयानं सृष्टिप्रकरणे जातं, ब्रह्मणः शरीरे प्रतिष्ठितं तत्कार्यमग्रे भविष्यति ॥१०७।। मध्ये सनकादीनामुत्पत्त्यनन्तरं क्रोधो जात इत्याह- सगावेशात्सन्निधानादविद्याकार्यसम्भवः । तदुत्पत्तिविचारेण नियन्तुमुपचक्रमे ॥ १०८॥ सर्गावशादिति । ब्रह्मणो हृदये सृष्टिराविष्टा तत्प्रतिवन्धे क्रोधस्फूर्तियुक्तैच । अविद्यासन्निधानमपि हेतुः । तथापीच्छाभावे कथमुत्पत्चिरित्याशक्कयाह अविद्या- कार्यसम्भव इति । क्रोधस्त्वचियाकार्य तत एवोत्पद्यते, स च क्रोध आधिदैविकः । आध्यात्मिकभ्रमात्तनियमनाथ प्रवृत्त इत्याह तदुत्पत्तिविचारेणेति । सनकादयो- महान्तो मानार्थमेयोत्पादिता इति तदुत्पचिविचार:०८ . चार पाठ..
तृतीयस्कन्धार्थः क्रोधे हि ध्यानसंयोगात्कृष्णांशः प्रविवेश ह । तेनोभयस्य निस्तारो ह्यन्यथैकस्य संक्षयः ।। १०९ ॥ आधिदैविकः क्रोधो, न नियम्यः । ततो नियमनाथं -व्यापतो ब्रह्मशरीर दग्घुमद्यतः । तत्र पूर्व ध्यानं प्रतिष्टितमिति क्रोधस्य ध्यानेन सह सम्बन्धो जातः । तो ध्यानयुक्ते क्रोधे कृष्णावतार प्रतितो यजातं तदाह तेनोभयस्येति । सनकादीनां ब्रह्मशरीरस्य च ॥ १०९ ।। तस्य रोदनमयुक्तमित्याशङ्कयाह- उत्पत्स्यमानानखिलान दृष्ट्वा रोदनमागतम् । संश्लिष्टवचनं प्राह ब्रह्मप्रीत्यै स्वयं पुनः ॥ ११० ॥ संसारानुपयुक्तान हि स्रक्ष्ये सर्वानिति स्मरन् । उत्पत्स्यमानानिति । अयमंश कृपारूपः । ' नामानि कुरु मे धातः इतियाक्यं रोदन नामादिकरणहवा न भवतीत्साह संश्लिष्टवचन मिति ! धावचनस्य प्रयोजनमन्यदप्यस्तीत्याह स्वयं पुनरिति । तदाज्ञाव्यतिरेकेण यष्टिरशक्या, तस्यैव तत्राधिकाराद ।। ११० ॥ अतः शीघ्रमनेकेषामुत्पत्तिः प्रतिकूलतः ॥ १११ ॥ निवारणं तपोवोधः प्रतिवन्धनिवृत्तये । स तु पूर्वमा विशेषानभिज्ञ आज्ञां दत्तवान् । तच्छीघ्रमनेकेपामुत्पादनम् । ३ः कारणाये मुष्टिने भविष्यतीति निवारणम् ।। १११ ॥ निवारितः प्रतिबन्ध करिष्यतीत्याशय तपोबोधनम् । तपसा हि क्रोधकारणीभूता विद्या नाशमेष्यति, चतः शुद्धः क्रोधो यथायुक्तमेव कार्य करिप्यताति (ब्रह्म ) वाक्यार्थः । उपाधिविनिवृत्त्यर्थ कारणत्वान्न निर्गमः ॥ ११२ ॥ अतोऽभिनन्ध कृष्णस्य ध्यानमेव चकार है। उपाधिविनिवृत्यर्थमिति । नन्येवं सति महादेये मोपकारणीभूवाऽविधा तपसा कथं न दग्धा, दग्धायां या कारणस्प नष्टत्वाकधं न लया, कर्य केवलं प्रतिवन्पनिवृत्तिरेयेत्याशझ्याह कारणत्यान्न निर्गम इति । महादेवस्य कारणभूता सा। कार्यभूतं तु तपः । तेन कार्येण कारणस्य न निर्गम इत्ययः ॥ ११२ ।। अतः प्रतिपन्यानिवृत्तिरेय जावेत्याइ अतोऽभिनन्य कृष्णस्येति ॥ ११२३ ।। एवं लोकातीतानामुत्पत्तिमात्या लौरिकांधरस्वत एपोत्पादयेत्तदाऽमीएसिदिन पातीति तदरपाटने प्रस्ताति- तमाह- ५८ सप्रकाशे तत्त्वदीपनिबन्धे भागवतार्थप्रकरणे सृष्ट्यर्थं भगवद्धयानान्मरीच्यायुद्भवः पृथक् ॥ ११३ ॥ धर्मव्यवायसिद्धयर्थमेका स्त्री पुरुषाः परे । सृष्टियर्थमिति । पृथक् स्थानात्सर्वे उत्पादिताः। तत्प्रयोजनं धर्मव्यवासय- सिद्धिः। एवं सात्त्विकानां राजसानामुत्पत्तिमुक्त्वा तामसोत्पत्तिं करिष्यन् "पुत्रैर्निवा- रितः " इति वक्तुं कथं ब्रह्मणः सकाशात्तामसोत्पत्तिरित्याशङ्काव्युदासायाह एका स्त्रीति । वागेका स्त्री । अन्ये सर्वे पुरुषाः । आस्याद्वागिति ।। ११३३ ।। ततः किमत आह अविद्यासन्निधानाद्धि सृष्टयावेशाच्च तद्धृदि ॥ ११४ ॥ जातः कामो मतिं चक्रे तस्यां सर्गाय भूयसे । अविद्यासन्निधानादिति । दोपत्रयातस्यां सर्गाथं मति चक्रे । अविद्या- सृष्टचावेशो हृदि कामोत्यत्तिः ।। ११४३ ॥ निवारणे हेतुमाह अधर्म धर्मनाशः स्यादिति कृष्णेन वारणम् ॥ ११५॥ तद्भावस्य परित्यागे सा रिरंसाभवत्तनुः । अधर्म धर्मनाशः स्यादिति । तामसीमपि सृष्टि भगवाननुमन्येत । यदि सा धर्मनाशिका न स्यात् । तथा सति पूर्वसृष्टिद्वयमपि गच्छेत्, अतो निवारणं युक्तम् । ननु तनुत्यागो नामकः पदार्थस्तत्राह तद्भावस्य परित्याग इति; तनोः किं प्रकृतिकत्वमित्याकाङ्क्षयामाह सा रिरंसेति ॥ ११५३ ।। ववस्तृतीया सृष्टिर्न जातेति तदर्थ ध्याने क्रियमाणे वेदानामुत्पचिर्जावेत्याह सृष्टिभ्याने वाचकानां प्रकारस्य समुद्गमः ॥ ११६ ॥ तन्मूलस्य च शब्दस्य ब्रह्मणो रूपकीर्तनम् । सृष्टिध्याने वाचकानामिति । प्रकारः पूर्वादिमुखतः । तेन शन्दानां प्रकारमेदः । लौकिका लौकिकभेदेन तृतीया सृष्टिः । तेन जीवानां रूपनामनी सिद्धे नानामखण्डप्रवृत्यर्थ तन्मूलदेवतामाहेत्याह तन्मूलस्येति ॥ ११६ ।। एवं गुणसृष्टिमुक्त्वा केवलैः प्रपञ्चब्रह्मभावमाशङ्कय सन्निपातराष्टिं यतुं प्रवृत्त इति वदन समिपावविरोधिनं परित्यक्तवानित्याह अधर्मः सर्वनाशः'पाटा।
तृतीयस्कन्धार्थः नामावेशं परित्यज्य रूपावेशात्तु पूर्ववत् ॥ ११७ ॥ इच्छाध्याने समुद्भूते द्विधा चक्रतुरङ्गाकम् । नामावेशं परित्यज्येति । ततोऽपरामुपादायेत्यादिना । तत्र ब्रह्मणोन्ताकरण न सन्निपातरूपमिति भगवईपेक्षायां भगवदिच्छया तच्छरीरमेव द्विधाभूतं तदाह इच्छाध्याने इति ॥ ११७६ ॥ एवं चतुर्विधा मृर्षि निरूप्योपसंहरति कारणत्वान्मुक्तजीवा एवमेके निरूपिताः ॥ ११८॥ नामोत्पत्तिश्च तच्छेषा कारणत्वादिति । अमुक्तानामुत्पत्तिः पूर्वमेवोक्ता ॥ ११८ ॥ जीवप्रकरणे नामोत्पत्तेरयुक्तत्वमाशङ्कय पुनः स्मारयति नामोत्पत्तिश्च तच्छेपेति । इदानी तृतीयः कल्प उच्यत इत्याह तृतीयस्त्वधुनोच्यते कल्पस्तत्र हि सृज्यानां न पूर्वस्माद्विशिष्यते ॥ ११९ ॥ भूसंस्थानविशेषोऽस्ति तदेवात्रोच्यते परम् । ध्यानरूपो मनुर्जातः क्षत्तुः प्रश्नस्तु पूर्ववत् ॥ १२०॥ पित्राज्ञयैव तद्धर्मधेत्यैवं कथा तथा। तृतीय इति । कालजीयौ निरुपितौ । तदथ ब्रह्मकल्पपद्मकल्पौ च निरूपितौ । अधुना भूमिर्निरूप्यते सापि सर्वकारणमिति । तदर्थ वाराहकल्पोऽपि निरूप्यते । अत्र आदित आरभ्य सर्वनिरूपणमाशङ्कयाह तत्राहि सज्यानामिति । अतिदेशन्यायेन सर्व- कल्पेषु साधारणधर्माः समायान्ति, विशेषधर्मा एव वक्तव्याचे चेत्कस्यचित्स्थाने समायान्ति तदा स्थानानां वाधः । तत्र भूसंस्थान न पूर्ववदिति तदुच्ये, वेन पद्मजयनयोधिः । पूर्वधर्माणामनुवृत्तिं ज्ञापयितुं मनोरत्र प्रयोजकत्वं निरूपयतीति तस्य भावमाह ध्यानरूपो मनुर्जात इति । पूर्वमिच्छाध्याने निरूपिते तत्रेच्छा पवरूपा । ध्यान मनुः । तेन ब्रह्मणो विस्मरणेऽपि ध्यानमेव तं प्रेरयतीवि भावः । विभूतिविस्ताराचं मनोरवत्पत्तिः, सा भगवल्लीलेति मक्तत्पन्नापनाय प्रश्न इत्याह क्षतः प्रभ इति । सर्वकामाचोदनया या प्रवृत्तिः । वत्र कामप्रवृत्ती वराहकल्पो न मोक्षपर्य- वसायी भविष्यतीत्याशश्यच चोदनया प्रवृत्तिमाह पित्राज्ञयैवेति । उत्पाद्य शासपर्मण " इतिवाक्ये प्रजोत्पादनं पृथिवीपालन यमकरणमिति धर्मा उकाः । ते ब्राह्मण एव आशया कृताः । एवं शापपितुं मनुब्रह्मसंवादप्रकार इत्यर्थः ॥ १२० ।। . दशामा "पाद ६५ सप्रकाशे तत्वदीपनिवन्धे भागवतार्थप्रकरणे नन्वत्र करपे का व्यवथा। ब्रह्मा हि पूर्वकल्पे नाभिपये स्थितः सृजति । तदभावे ब्रह्मणः सृष्टिरस्ति न चेति सन्देहः । सृष्टिकरणपक्षे किं मनुना कुत्र वा सृजतीत्येतज्ज्ञातव्यम्, तत्राह सत्ये स्थितः सृजत्येवमित्यर्थों विनिरूप्यताम् ॥ १२१ ॥ स्थानमन्विष्य तु पुनर्गतस्य वचनं मनो। दिनान्ते दर्शनात्पूर्व सृजतः प्रातरेव हि ॥ १२२ ॥ सत्ये स्थित इति । असर्गपक्षे “ सृजतो में क्षितिर्वाभिः" इति वाक्यं विरुध्यते । अनेनैव वाक्येन पूर्व ब्रह्मणा स्वयं भूमिरुद्धतेति ज्ञातव्यम् । तस्यामेव पालनाज्ञापनम् । तथा सति या प्रियव्रतादीनां पूर्व सृष्टिरुक्ता सा आदिवराहकल्प इत्येव ज्ञेया । विज्ञापनं तु द्वितीय दिवसे प्रातरित्याह स्थानमन्विष्येति । आदेशेऽहं भगवतो वर्ते " इति ज्ञापनापेक्षा कथं ब्रह्मण इत्याशङ्कयाह दिनान्ते दर्शनात्पूर्व- मिति । आदिवराहकल्पस्य दिनान्ते यावद्भूम्यादीनामदर्शनं भवति तावदेव ब्रह्मा सत्यलोके गतः । तत्रैव च सृष्टिं करोति तदा प्रातरेव मनोविज्ञापनमित्यर्थः ॥१२२॥ विज्ञापनेऽतिनैकट्यात्तथा वचनमादरात् । सर्वेन्द्रियनिरोधेन ध्यायतः परमात्मनः ॥ १२३ ॥. प्रथम श्वाससम्भेदस्तेज कृष्णस्तथोक्तः । नन्वेवं सति कथामिदानीमेव प्लाव्यमानेति वचनमुपपद्यते तत्राह अतिनैक- ट्यादिति । आदरादित्यग्रेण सम्बध्यते । पुनरुद्धारेऽपि पूर्ववदेव प्लवनं भविष्यतीति भगवद्धयानम् । यादृशो ध्यातस्तादृशस्तमज्ञापयित्वैव निर्गत इत्याह प्रथम श्वास- सम्भेद इति । भक्तस्य दुःखनिश्वासात्पूर्वमेव भगवानाविर्भवताति ज्ञापितम् । अस्याऽवतारस्य स्वरूपमाह कृष्णस्तयोद्गत इति वराहरूपेण ॥ १२३ ।। तधारूपे हेतुमाह- यज्ञेन समता त्वस्य जलाद्वस्तूद्धृतौ क्षमो ॥ १२४ ॥ गजो वा सूकरो वापि यज्ञस्त्वेवंविधः पुनः। यज्ञेन समता त्वस्येति । यज्ञो हि मन्युशब्दवाच्यः । अत एव पशु- न्मारयति । वराहोऽपि तथा । “पशूनां या एप मन्युः" इति श्रुतेः । हेत्वन्तरमप्पाह जलाद्वस्तृढताविति । अवश्यमेकं रूपं कर्तव्यं ममपृथिव्युद्धारार्थम् । तर गुणातीतकार्य यशादेव भवतीति गजरूपता न कृता । १२४ ।। . "शात पाठ . विज्ञापिनेनि पाठ।
तृतीयस्कन्धार्थः १ यज्ञस्य जगत्कारणत्वे युक्तिन वक्तव्येत्यत आह- सृष्टौ तत्कारणत्वं च कर्मरूपत्वतः स्फुटम् ॥ १२५ ॥ ब्रह्माणोऽप्यवितयं हि रूपं भगवतो निजम् । दृष्टाविति । तस्य क्रियांशत्वमेवास्तु किमित्यवतारत्वमित्याशक्याह ब्रह्मणोऽप्यवितर्व्य हीति । एतादृशं रूपं निजमेव भवति ॥ १२५६ ।। स्वरूपमाह- एतदानन्दरूपं हि क्रियांशज्ञप्तये तथा ॥ १२६ ।। लक्षमात्रमियं भूमिः प्रायेणेति मतिर्मम । एतदानन्दरूपं हीति । अन्यथाप्रतीतों हेतुमाह क्रियांशज्ञप्तय इति । भगवतः क्रियाशक्त्यवतार इति ज्ञापयितुं यज्ञानुकारिरूपपरिग्रहः । 'सलिले स्वखुरा- क्रान्ते' इति वचनात्पञ्चाशत्कोटिविस्तीर्णा न भविष्यतीति लक्षमात्रमित्युक्तम् । जम्बूद्वीपस्यैव कर्मक्षेत्रवादियं च भूमिर्यज्ञार्थमेवेति । मतिर्ममेति । नाबाऽन्यसम्मतिः। पञ्चाशत्कोटिविस्तीर्णा' इतिवाक्यं कल्पान्तरपरम् । पञ्चसहस्रमात्रमेवेति ज्योति- विदः । तच्च विंशतिभागगणनयापि फलमायातीत्येतज्ज्ञापनार्थम् । इयं च भूमिखें- तिचकमध्ये वर्तते ॥ १२६ ।। अत्र स्तोत्रप्रयोजनमाह- यज्ञत्ववोधकं स्तोत्रं कथञ्चिन्मारणं विह ॥ १२७ ॥ उद्धृतिः स्थापनं स्तोत्रं मारणं चेति तत्क्रमः । यजत्वबोधकमिनि । नाऽस्माकमत्र श्रद्धाभाव इति । हिरण्याक्षमारणं तु यथा- कथश्चित् । इदं प्रकरणं भूम्युद्धार एव पर्यवसितम् । नाऽत्र मारणमभिप्रेतम् । अन्यथा वाक्यभेदः स्यात् । तस्मात्प्रधानानुगेधेना.न्येषां कालादिक्लूप्तिः । अकिञ्चित्करथाऽ- स्मिन्कल्पे दैत्यः । यज्ञश्य तस्य दाहक एव । अत आगमनमात्रेणैव मारणम् ॥१२७॥ मारणमुख्यपक्षे क्रममाह उद्धृतिरिति । स्तोत्रं यद्यपि सन्दिग्धं तथाप्युत्कर्ष- वर्णने तस्य दुःख भवतीति पूर्वमुक्तम् ॥ १२७ ।। ननु कल्पादौ भूम्युद्धारस्तत्वत्यो हिरण्यास इत्याशङ्कयामाह- पूर्वकल्पेऽस्य जननं रसायां प्रलये स्थितिः ।। १२८ ।। देवानामृर्ध्वगमनमन्येपां नाश एव हि । ऋपीणां तत्सुतानां च ब्रह्मसाम्यमवाधके ।। १२९॥ पूर्वकल्पेऽस्य जननमिति । महारुप एवं पूर्वमृष्टेनाशः । अयान्वरकल्पगु तु विलोक्यों विधमानानांमध्ये अमुराणामपोगमनम् । देवानामृध्वंगमनम् । मनुष्याणांतु
सप्रकाशे तत्त्वदीपनिबन्धे भागवतार्थप्रकरणे
नाशः । मनुप्रभृतीनां देवत्वम् । ऋपीणामप्यूर्ध्वगमनम् । विशेषोऽप्यस्ति । सत्यलोके
स्थितिः । तेन कश्यपस्योर्ध्वगमनं दितेरधोगमनमिति विमर्शः ॥ १२९ ।।
अत्र पडध्याया हिरण्याक्षवधप्रस्ताचे निरूपिता मतान्तरभाषासिद्धाः, अतो
भागवतार्थेन न पिरोधः । अत्रैपा व्यवस्था । प्रकृतकथायां प्रासनिककथा चैद्वि-
शेपाकारेण पृच्छयते तदा न तावन्मानं वक्तव्यम् । किन्तु यस्मिन् कल्पे तत्प्रमेय-
मुत्कृष्टतया सिद्धं तदेव वक्तव्यम्, भक्तिजननस्य प्रयोजकत्वादिति । अतो यस्मिन्कल्पे
हिरण्याक्षदीनामुत्कर्पः स निरूप्यते । तत्र वैकुण्ठगतानां कथं पुनरावृत्तिः ॥ १२९ ॥
न च वक्तव्यं कृत्रिमवैकुठगतानां पुनरावृत्तिरिति । तत्राह-
कृत्रिमेऽपि हि वैकुण्ठे मुक्तिरेव तथापि तु ।
कृष्णेच्छाया तु तजन्म नष्टानां गतिरीहशी ॥१३०॥
कृत्रिमेऽपि हि वैकुण्ठ इति । ये 'अनिमित्तनिमित्तेन धर्मेणाऽऽराधयन्
हरिम् । इति भगवदाराधनया चैकुण्ठगताः पुनरावृत्तिरहितमेव पदं प्राप्नुवन्ति,
तथापि कृष्णेच्छया जयविजयोर्जन्म । तत्रैच्छायाः प्रयोजनं लोकज्ञापनम् । तत्र किं
ज्ञापयतीत्याकाक्षायामाह नष्टानां गतिरीशीति । त्रिलोक्यां हिरण्याक्षादिसुख-
मिन्द्रादेरपि दुर्लभं तद्वैकुण्ठच्युताना निरूप्यते । सा हि तेषां परमाऽऽपत् । अनेन
वैकुण्ठसुखमुन्नेयमिति भावः ॥ १३० ॥
भूमावेव हि तयुद्धमिच्छयाऽमुक्तिरस्य हि ।
मारणानन्तरं तस्य [दरस्य विभेदनम् ॥ १३१ ॥
अस्मिन् पक्षे भूमावेव युद्धम् । भगवदिच्छयैव हिरण्याक्षस्याऽमुक्तिः । क्रिया-
शक्त्या हननाद्वा, मुक्त्यर्थमवतार एव; मुक्तिरिति वा । उदरभेदनेन न मारणं;
किन्तु मारणानन्तरमुदरभेदः । अन्यथा प्राणा भगवन्मुखे प्रविशेयुः । पुनदैत्यत्वा-
भावाय संस्कृतानामंशानां स्वस्मिन् प्रवेशार्थमुदरभेदनम् ।। १३१ ॥
हिरण्याक्षस्य माहात्म्यार्थमाह-
ब्रह्मणो दिनमेकं हि तद्युद्धमिति लक्ष्यते।
अथवा देवदत्तस्य दिन मेरुगतश्च सः॥ १३२॥
ब्रमणो दिनमेक हीति । अनेन वराहकल्पस्तेनैव समाप्त इति ज्ञापितम् ।
पश्चात् श्वेतवाराहकल्पे सृष्टिर्हिरण्यकशिपुराज्यं चेति ज्ञापितम् । पक्षान्तरमाह
अथवेति । तदा मासपर्टी युद्धम् । अस्मिन् पक्षे ब्राह्मवाक्यानां सङ्गत्यर्थमाह मेरुगतश्च
स इति । भूमिस्थापनानन्तरं पूर्ववन्मेरावेव ब्रह्मा स्थितः ॥ १३२॥
३ .. तृतीयस्कन्धार्थः किमनेन सिद्धमित्याकाक्षायामाह- पड्भिः संसारकथनमुत्पत्तिमरणं च सः। उपाधिजननं पूर्व स्थानभ्रंशश्च जन्म च ॥ १३३॥ प्रादुर्भावः सर्वतश्च विनश्यत्ता नशिस्तथा। ईश्वरेच्छैव पट्कस्य कारणं नान्यथा तु तत् ॥ १३४ ॥ पद्भिः संसारकथनमिति । मुक्तानां जीवानां भगवदिच्छया संसारः । सा भगवद्रूपेति पभिरध्यायः संसारो निरूप्यते । संसारस्वरूपमाह उत्पत्तिमरणं च स इति । उत्पचित्रिभिरध्यायैमरणं च तथेति । ' अनित्ये जननमित्यादिना त्रिविधोत्पत्तिनिरूपिता । “कालद्रव्यगुणैरस्य त्रिविधः प्रतिसक्रमः" इति मरणमपि विधा । तत्र वीजोत्पत्तिः प्रथमाध्यायार्थः । तत्र जीवसम्बन्धो द्वितीयाध्यायार्थः । भगवद्विभूत्यावेशस्तृतीयार्थ इति । अन्यथा तथा महत्त्वं नोपपद्येत । तदाह उपाधि- जननमिति । बीजजननम् । स्थानभ्रंशो बैकुण्ठात्ततिः जन्म प्रादुर्भावश्चैकेन । उत्कर्पस्य नाशरूपत्वमिति ज्ञापयितुं नाशाध्यायेषु निरूपणम् । वरुणवाक्येन नाशवी- ‘जकथनाविनश्यत्ता पञ्चमाध्यायार्थः । "नाशवीजं विनश्यत्ता विनाशश्वेति तद्भिदा"। कथं सुजीवस्यैवम्भाव इत्याशङ्कयाह ईश्वरेच्छैच पट्कस्य कारणमिति ॥१३३॥ ॥ १३४॥ अन्यथा बाधकमाह- दक्षकन्या ऋपेः पत्नी सन्ध्यायामनिहोत्रिणम् । निर्लज्जा वोधिता स्थातुं क्षणं न त्यक्तवत्यपि ॥१३५॥ दक्षकन्येति । सत्कुलोत्पन्ना पेरतीन्द्रियद्रष्टुः पत्नी क्षणमात्र स्थित्यर्थ याचिताऽपि न स्थितवती। न ह्येतद्भगवदिच्छाव्यतिरेकेण मर्यादया सिध्यति ॥१३५।। अस्तु वा स्त्रियाः, मुनेरपि तथाभावो नोपदद्यत इत्याह मौनत्यागस्तयोर्भापा स्तोत्रं तद्वश्यता तथा। अन्यत्रागमनं तत्र प्रतीकाराकृतिर्मुनेः ॥ १३६ ॥ स्वभावविनिवृत्त्यर्थं सम्वादस्तादृशः पुनः । मुनी पडी अनुपपन्नाः । पुनर्यो धर्मरूपः सम्पादः सोऽपि ज्ञापकः नेतयोरयं स्वभाव इति । एवं प्रथमाध्यायार्यस्याऽयुक्तत्वमुपपादितम् ॥ १३६ः ।। तथापि दितीयाध्यापार्यस्पायुक्तत्वमाह- सप्रकाशे तत्वदीपनिबन्धे भागवतार्थप्रकरणे सङ्क्षोभो न कचिद्येषां काले देशे च वस्तुनि ॥ १३७ ॥ ते कृष्णभावनायुक्ता वैकुण्ठे कृष्णभृत्ययोः । सनन्दनादयः क्रुद्धाः शापं दुर्विषहं ददुः ॥ १३८॥ सक्षोभ इति । वस्तुनि अयुक्तकरणे अवस्था च. कृष्णभावनायुक्ता । स्वयं च कुद्धाः । शापश्च दुर्विपहः ॥ १३८॥ एवं मुनीनामयुक्ततां निरूप्य जयविजयोरपि तथात्वमाह भगवद्भावसम्पन्ना इति द्वाभ्याम् । भगवद्भावसम्पन्ना भगवद्गुणतत्पराः । लतापक्षिस्त्रियवापि निरहंमत्सराः शुभाः॥ १३९ ॥ सालोक्यसार्टिसामीप्यसारूप्यं सर्वथा गतौ। वैकुण्ठे भक्तसन्दर्शविघ्नं चक्रुश्च गर्वितो॥ १४०॥ स्वभावविनिवृत्त्यर्थमुभयोश्र तथा कृतिः। पूर्ववदत्रापि स्वभावनिवृत्त्यर्थं शापानन्तरचेष्टेत्याह स्वभावविनिवृत्त्यर्थ- मिति ॥ १३९ ॥ १४० ॥ तृतीयाध्यायार्थोऽप्ययुक्त इत्याह- मोहनं तदुपेक्षा च दुर्घटं पतनं तथा ॥ १४१ ॥ द्वेपोत्पत्तिस्तयोः कृष्णे सर्वं कृष्णेच्छयाऽभवत् । मोहनमिति । मोहनवाक्यैः सनकादीनां मोहनम् । तयोरुपेक्षा । तथा वैकुण्ठाधुर्घटं पतनम् । भगवति द्वेपोत्पत्तिः । अन्यथोत्तरत्र द्वेपघुद्धिर्न स्यात् ।।१४१॥ एवमध्यायत्रयार्थ दुर्घटत्वेन निरूप्य पुनरन्येपां तथात्वं निरूपयति- अलौकिकी तदुत्पत्तिवृद्धिर्दिग्विजयस्तथा ॥ १४२ ॥ स्वामिनो दुर्वचो वादो युद्धं ब्रह्मभ्रमस्तथा। संम्मुखे मरणे कृष्णान्न मुक्तः किं ततोऽद्भुतम् ॥१४३॥ अलौकिकी तदुत्पत्तिरिति । न हि महन उत्पत्तौ दुनिमित्तानि भवन्ति । वृद्धिर्दिग्विजयश्चालौकिको । पञ्चामाध्यायार्थानुपपचिमाह स्वामिनो दुर्वचो वाद इति । युद्धमपि स्वामिना सहाऽयुक्तम् । ब्रह्मणव भ्रमः मुतरामयुक्तः । पष्ठाध्या- यार्थोऽप्ययुक्त इत्याह सम्मुग्वे मरणे कृष्णादिति ॥ १४३ ॥ उपसंहरति- तृतीयस्कन्धार्थ ६५ . सोपपत्तिकमाख्यानं जीवानां जननं हरिः। ऐहिकामुष्मिकफलं दातु सृजति नाऽन्यथा ॥ १४४ ॥ सोपपत्तिकमिति । हरिरेवोत्पादयत्यैहिकामुप्मिकफलदानार्थम् । अतः सर्गों लीला भवतीत्युक्तं भवति ॥ १४४ ।। एवं भापान्तरेण निरूप्य समाधिभापायामप्ययमेवार्थ इति निरूपयितुमाह- इति दर्शयितुं साङ्ख्यमते सृष्टयादिवर्णनम् । तेषां गुणप्रधानन्वागीणी सृष्टिर्निरूप्यते ॥ १४५ ॥ इति दर्शयितुमिति । सायपुरुषा जीवन्मुक्ताः । अतस्तन्मतानुसारेणोत्पन्ना मुत्यर्थमेव भवन्तीति सिद्धम् । तत्र सृष्टिभेदा एकादशप्रकाराः । तत्र हेतुमाह तेषां गुणप्रधानत्वादिति । अत एव प्रथमतो गौणी सृष्टिनिरूप्यते ॥ १४५ ॥ अत्र शौनकानां भगवत्कथाप्रस्तावे मनुकथाप्रश्नो न युक्त इत्याशङ्कयाह प्रकारान्तरसम्प्रश्नः स्वकृतः परतस्तथा। भक्तकर्तृत्वतस्तस्य कृष्णलीलात्वमुच्यते ॥ १४६ ॥ प्रकारान्तसम्प्रश्न इति । अयमपि प्रश्नो भगवत्कथाया एव किंतु प्रका- रान्तरेण । मनुमक्तस्तेन क्रियमाणं भगवत्प्रीतिजनकमेव भवतीति लीलाहेतुत्वात्सा लीलैव ॥ १४६ ॥ एवमुग्रश्रवाः पृष्टः" इति व्यासवाक्यं नोपपद्यत इत्याशङ्कयाह- प्रक्रियान्तरबोधाय व्यासोक्तिः शुकसूतयोः । एकरूपत्वकथनादेकोक्तिः पाक्षिकोऽन्ययोः॥ १४७ ॥ प्रक्रियान्तरयोधायेति । तथा शुकस्तयोरप्युक्तिः शुकवाक्येनैव निक- प्यते । अन्यथा सूतो विदूरवाक्यं न वदेत् । शुकश्च वदेदिति । एकोक्तौ हेतुः एकरूपत्वकथनं, शब्दतोऽर्थतश्च समानम् । अन्ययोः परीक्षिच्छुकयोः पालिकोन ज्ञातव्यः । यथा शौनकेन पृष्टं तथा राज्ञा पृष्टम्, यथा सूवेनोत्चरितं तथा शुकेनेति तुल्यत्वादेकः पक्षः कश्चिदुक्त इति ॥ १४७ ॥ साङ्ख्यमतगृष्टिः कस्मिन् कल्पे जातेत्याकालायामाह- आण्डकोशे पद्मकल्पो विशेषेणोच्यत्तेऽधुना। सास्याचार्यास्तु कल्पेऽस्मिन्मुक्तिमार्गहरीच्छया।॥१४८॥ ज्ञानमेकप्रकारेण हृदि प्राप्य परं गताः।
६६
सप्रकाशे तत्त्वदीपनिबन्धे भागवतार्थप्रकरणे
आण्डकोशे पद्मकल्प इति । ब्रह्माण्डमध्ये यः पनकल्पः केवलानिन्नस्त-
स्मिन्नैव साथमतं प्रसिद्धम् । तत्रैव ते सिद्धा.इति हेतुः । ननु तेषां ज्ञानं तत्त्वसूत्रे
निन्दितमिति कथं मुक्तिरित्याकाङ्क्षायामाह हरीच्छया ज्ञानमेकप्रकारेणेति ।।
॥१४८३ ॥
इति दर्शयितुं साङ्खये कल्पस्याऽस्य च वर्णनम् ॥४९॥
पञ्चशः प्राकृतोत्पत्तिस्तत्त्वत्वज्ञापनाय हि।
कल्पस्य । चकाराद्वराहकल्पस्य च वर्णनम् । अन्यथा प्रकृते तेन मार्गेण
मुक्तिर्न स्यात् । तस्य सृष्टिप्रकारस्य पूर्वस्माद्वैलक्षण्यं ज्ञापयितुमाह पञ्चशः प्राकृतो-
त्पत्तिरिति । " पञ्चभिः पञ्चभिर्ब्रह्मन् " इत्यग्रे वक्ष्यति । तथा सङ्ख्यायुक्तत्वकथने
सायं मतं भवति । तत्त्वता च पदर्थानां भवति ।। १४९३ ।।
अस्मिन्मते सृष्टेर्विस्तरेणाऽकथने हेतुः
उपलक्षणमात्रत्वादल्पोक्तिन विरुध्यते ॥ १५० ॥
तत्रैका दशधा सृष्टिः स्वभावगुणकार्यतः।
उपलक्षणमात्रत्वादिति । सैव सृष्टि प्रकारान्तरेण निरूप्यत इति निरूपकं
वाक्यमुपलक्षकं भवति । तत्रैकस्मिन्नेवाध्याय एकादशधा सृष्टिनिरूपितेत्याह तत्रेति ।
स्वभावगुणानां कार्यभेदात् । तत्र स्वभावस्य भेदद्वयम् । गुणानां नव भेदा
इति ॥ १५०६॥
तानेवाह-
त्रैगुण्यं निर्गुणावस्था भगवचिन्तनं तथा ॥ १५१ ॥
एवमेकादश प्रोक्ताः स्वभावे विस्तृतिः स्फुटा।
त्रैगुण्यमिति । निर्गुणावस्था दशमं ज्ञानरूपम् । भगवचिन्तनमेकादशरूपमिति
उपसंहरति एवमिति । गुणसृष्टिरेकाध्याये सझेपेणोक्ता । स्वभावसृष्टिस्तु ज्ञानभक्ति
भेदेन चतुर्भिर्नवाभिः क्रमाद्विस्तरेणोक्ता स्वयमेव अग्रे स्फुटा भविष्यति ॥ १५१ ।।
तत्र प्रथमं तामसादिभेदानाह-
यक्षरक्षांसि देवाश्च दैत्याश्च प्रथमास्त्रयः॥१५२ ।।
उपाधिरपि तेपां हि तथेति प्रतिपादितम् ।
यक्षरक्षामीति । अत्राविद्योत्पत्तिः पूर्ववदेव । विशेषस्त्वत्र यक्षरक्षसामप्युत्पत्ति-
रविद्यया सह । तथा मावान्तरेण देवानामप्युत्पत्तिः ॥ १५२६ ॥
तृतीयस्कन्धार्थः ६५ विलक्षणत्वसिद्धयर्थं देहत्यागः प्रजापतेः तत्तकालाभिमानिन्यो देवतास्ताः पृथक् स्थिताः । तत्रापि तनुत्यागो भावान्तरग्रहणार्थः । तनूनां स्वरूपमाह तत्तत्कालाभि- मानिन्य इति ।। १५३ ॥ ननु पञ्चपळविद्योत्पत्त्यनन्तरं किमिति देहं त्यक्तवास्तवाह- देवतोपाधिसम्बन्धात्कार्योत्पत्त्याऽतिविह्वलः॥१५४ ॥ तामसत्वात्तु ते मूढा वाक्यंमात्रेण संस्थिताः। देवतोपाधिसम्बन्धादिति । देवतारूपा पञ्चपर्वाऽविद्या, सा ब्रह्मणा उपाधि- रूपा जाता यदा, तदैव यतरक्षसामुत्पत्तिस्ततस्तान्विसदृशान् दृष्ट्वा भयविव्हलः सन् तनुमुत्ससर्जेति मन्तव्यम् । तदा भगवदिच्छया जातास्ते ब्रह्मा तन सहत इति भगव- प्रेरणया भक्षयितुं प्रवृत्ताः । तर्हि कथं निवृत्ता इत्याशङ्कयाह तामसत्वादिति । “अहो मे यक्षरक्षांसि " इति वाक्यमात्रेण निवृत्ताः॥ १५४५ ।। देवपक्षस्तु सुगम इत्याह- सात्त्विके नास्ति शङ्खव राजसेषु महानश्रमः ॥१५५॥ पृथक् स्थितां देवतां हि वर्णयन्ति कुबुद्धयः । सात्त्विक इति । राजसेषु महान् श्रमः । अतो यभनमारभ्य भगवदाज्ञया तनुत्यागपर्यन्ता कथा निरूपिता । अन्यास्तनवः शीघ्रमेव कालरूपतामापन्नाः कालभेदेनैव व्यवहियन्ते । रजसा राजसी त्वेपा तनुर्न सन्ध्यायामेकभावतापन्नाः किन्तु पृथक् स्थिता कियत्कालम्, अतस्तां वर्णयन्तीत्याह पृथगिति । पश्चात्कालेन सहक्ये दैत्यानां निवृत्तिरिति भावः ॥ १५५३ ।। द्वितीय विकमाह- गन्धर्वाश्च पिशाचाश्च पितरस्त्रिविधा गुणैः ॥ १५६ ॥ सत्त्वं तमो रजश्चेति न तैदोषाऽस्वभावतः। गन्धर्वाश्चेति । तत्र गुणक्रममा सत्वमिति। तेषु दोपा न वर्णिताः । तत्र हेतुः अस्वभावत इति । तेपां गुणत्वेऽपि न दोपस्वभावत्वम् । दोपरूपेणेतरप्रवेशा- भावादिति भावः ॥ १५६३ ।। तृतीयं त्रिकमाह- सिद्धाश्च किन्नराः सर्पाः सत्त्वादिभिरुदीरिताः ॥ १५७ ॥ सिद्धाश्चेति । का निर्गुणावस्थेत्याकासयामार-- ६८ सप्रकाशे तत्त्वदीपनिबन्धे भागवतार्थप्रकरणे कृतकृत्यता च नैर्गुण्यं कृष्णत्वं तपआदिभिः । ऋषिभावस्ततो भाव्यो नाऽन्यत्र विरमेद्बुधः ॥१५८॥ कृतकृत्यता च नैर्गुण्यमिति ॥ कृतकृत्यता नाम स्वस्यैव परमपुरुषार्थता । तपआदिभिस्तु कृष्णत्वम् । प्रकृते स ऋपिभावः । ततो ब्राह्मणापि स भावो भाव्यः। ततः किमित आह नाऽन्यत्र विरमेदुध इति,। अन्यथा सृष्टिं कुर्यादेव ब्रह्मा न विरमेत् । एवमेकाध्यायार्थो निरूपितः ॥ १५८ ॥ अतःपरं ज्ञानभक्त्योविस्तारं वक्तुं त्रयोदशाध्याया इति तत्र भेदद्वयमाह- चतुर्भिः सुखपूर्वा हि पुम्मुक्तिन्वभिः स्त्रियाः। एकस्य तु स्वतः सिद्धं ज्ञानं कृष्णप्रसादतः ॥ १५९ ॥ चतुभिरिति । ननु कथमेवमेकस्याल्पमपरस्य बहिति तत्राह एकस्य तु स्वतः सिद्धमिति । पुरुषस्य तु पुरुषार्थचतुष्टयसिद्धयर्थ चत्वारोऽध्यायः । तत्रापि तस्य साधनरूपं ज्ञानं स्वतः सिद्धम् । भगवत्कृपयैव पुरुषार्थानां ससाधनानां सिद्धः॥१५९॥ अन्यस्या उपदेशे हि स्त्रीत्वात्सर्व प्रकाश्यते। नवकन्याः कारणत्वात्स्त्रीजीवा अत्र वोधिताः॥१६०॥ अनेनैव स्त्रिया अपि धर्मार्थकामाः सिद्धाः सहभावात् । मोक्षः परं वक्तव्या, स केवल एव भवति न मिथुनीभावे । अतो बहुवक्तव्यत्वाभावात्पुम्मुक्तिरेकेन । स्त्रीमुक्तिस्तु अन्तःकरणदोपाणां नवानां गुणरूपाणां त्याजनाथं नवभिरध्यायदेव साधनजातं निरूप्यत इत्याह अन्यस्या उपदेशे हीति । नन्वत्र नवकन्यामुक्तिर- युक्तेत्याशङ्कयाह नव कन्या इति । स्त्रीजीवाः प्रकृतिपरवशाः।। १६० ॥ ननु जीवानां कारणत्वं पूर्वमेव निरूपितं,पुनः किमर्थं निरूप्यत इत्याशङ्कयाह- प्रकृतेः कारणत्वाय मायाशक्तिर्हि तादृशी। रमणोपयिकरूपा हि शुद्धसत्त्वादिभेदतः॥ १६१ ॥ प्रकृतेः कारणत्वायेति । स्त्रीजीवो हि प्रकृत्यधीनः । अतस्तस्य कारणत्वे प्रकृतेः कारणत्वं सिद्धयति, तथापि नवानां कोपयोग इत्याझ्याह मायाशक्तिर्हि ताशीति । सा हि गुणमयी प्रत्येक गुणानां त्रैविध्यानवरूपैतिभावः । ननु स्त्रीत्वं नाम किमित्याकाक्षायामाह रमणीपयिकरूपा हीति । प्रकृतिखिगुणात्मिका । तत्र गुणप्राधान्ये क्रोधादिवशानामपि स्वीत्वं स्यात् । गुणातिरिका तु प्रकृति- नास्तीति मतं निराक्रियते ।
तृतीयस्कन्धार्थः "गुणभावं परित्यज्य स्वरूपेण स्थिता तु या ।। पुरुष रमयन्ती सा स्त्रीरूपेति निगद्यते ॥ १.॥ पुरुपस्य च तस्याश्च सर्वतत्त्वेप्वथांशवः ॥ पृथक् सन्ति ततो यत्र दृष्टादृष्टादिकारणात् ।। २ ॥ भोग्यभावत्वमापन्नाः प्रकृत्यंशाः समागताः ॥ चीजभावं प्राप्नुवन्ति तदृद्धौ स्त्रीभवे तु सा" ॥३॥ एवमभिप्रेत्याह शुद्धसत्त्वादिभेदत इति । मिश्राणामेव गुणत्वम् । सत्त्व- प्राधान्ये देवस्तीत्वम्, रजःप्राधान्ये मनुष्यस्त्रीत्वम्, तम प्राधान्ये पशुस्त्रीत्वमिति ।१६१॥ आनन्दांशस्वरूपेऽपि शुद्धसत्त्वादिरूपतः। शक्तिप्राधान्यतः स्त्रीत्वं तत्त्वतः पुरुपाकृतिः॥१६२॥ आनन्द्रांशस्तत्र प्रविष्ट इति भोग्यत्वम् । यद्यपि पुरुषेऽप्यानन्दांशः प्रविशति खियाः- पुरुषो भोग्य इति तथापि गुणाः प्रबला इति शक्तिप्राधान्यतः स्त्रीत्वम्। पुरुषाकृतिस्तु तत्त्वतः परमार्थः । पुरुषांशसमवाये पुरुषत्वमिति भावः ॥ १६२ ।। किमत्र नियामकमित्यत आह- मोहकत्वमतः स्त्रीणां शक्त्याकृतिविशेषतः। विसर्गस्याऽत्र सम्प्रश्न उत्तरत्रोपयुज्यते ॥ १६३ ॥ मोहकत्वमतः स्त्रीणामिति । पुरुपं मोहयन्ती यतः, अतः, प्रकृत्याकृतित्वं स्त्रीणामित्यर्थः । ननु सर्गलीलायां मनुवंशाहे रुच्यादेवंशप्रश्नः कुत्रोपयुज्यत इत्या- शङ्कयाह विसर्गस्याऽत्र सम्प्रश्न इति ॥ १६३ ॥ नन्वेवं सति मध्ये कर्दमचरित्रमत्र किमथ निरूपितं तत्राह- नित्यसम्बन्धतासिद्धयै कर्दमोऽत्रैव योजितः। सर्वस्य कारणं कृष्णप्रसाद इति तत्कथा ॥ १६४ ॥ नित्यसम्बन्धतासिद्धया इति, प्रकृतिपुरुषयोनित्यः सम्बन्ध इति ज्ञापयितुं कर्दमस्य कथा । सम्बन्धस्तु सर्ग उपयुज्यते । भिन्नतया प्रसिद्धावपि स्वभावत एवं परस्पराकादसामुक्तौ । अतोयमों निरूपणीय इति कर्दमः सर्गे निरूपितः । सहज- योरपि विश्लेपे मुक्तिर्भवतीति (न्यायेन ) त्यागेनोभयोमुक्तिकथनं च युक्तं भवति । 'एवं प्रकरणाथं शोधयित्वा प्रथमाध्याये तपसा भगवत्तोपस्य प्रयोजनमाह सर्व- स्येति । अत एव प्रकरणादौ भगवनोपार्थ कर्दमप्रवृत्तिः ॥ १६४६ ।। , ननु केन तुष्टो भगवानित्याकाशायामाह- ७० सप्रकाशे तत्वदीपनिबन्धे भागवतार्थप्रकरणे . भक्तानां निर्णयस्तोत्रे सर्गार्थमुपयुज्यते । कामितं च हरिः पूर्व स्वयमेव विधास्यति ।। १६५॥ व्यर्थं वचनमित्यर्थं बोधयत्युत्तरं वदन् । भक्तानां निर्णय इति । भगवान् तपसा न तुष्टः । नापि स्तोत्रेण, किन्तु यथार्थभाषणेन, तत्रापि स्वगृहमर्मकथनेन, तदा हि भक्तानां निर्णय इति । तथावचनस्य प्रयोजनं स्वार्थम् । महतो निष्कपटभजने प्रसाटो भवति । भगवत्प्र- सादस्याऽनित्यतामाशङ्कय समाधानमाह कामितमिति । पूर्वमेव करणान्न कारण- साध्यत्वम् । कारणमपि प्रसाद एव । भगवदीयपदार्थभोगार्थ शरीरेन्द्रियसंस्कारत- पआदीनां कार्यम् । अतो भगवन्तं प्रति प्रार्थनावचनं व्यर्थम् । एतद्भगवद्वचनादे- वावगम्यते । अन्यथा वृत्तान्तं न कथयेत् ॥ १६५३ ॥ नन्वीवरप्रेरणाव्यतिरेकेण कथं पदार्थसिद्धिः । प्रेरणायां वा को हेतुः १ नि:- तुकत्वे वा सर्वेप्येव पदार्थसिद्धिः स्यादित्याशडूक्याह- पुरुषार्थाः स्वयं सर्वे समायान्ति हरिप्रिये ॥ १६६ ॥ इति दर्शयितुं राज्ञः स्वयमुद्यम्य याचनम् । पुरुषार्थाः स्वयं सर्व इति । भगवत्प्रियत्वमेव साध्यं नाऽन्यत् । तेनैव सर्वसिद्धिरिति भावः ॥ १६६३ ।। कर्दमस्य कन्यावर्णनमयुक्तमित्याङ्कयाह- दुहितुर्वर्णनं प्रीत्यै राज्ञो भक्तत्वतः समम् ॥ १६७ ॥ भक्तिश्च कार्यशुद्ध हि तपश्चैव स्वमुक्तये। दुहितुर्वर्णनं मीत्या इति । राजकर्तृत्वं वा वर्णनमृपिप्रीत्यै । ननु सकृदुपभो- गप्रतिज्ञायामपि कथं कन्या दानं तमाह राजो भक्तत्वतः सममिति । सर्वपां पुरपार्थसिद्धिर्भवविति समता । ननु विवाहानन्तरं कथं भक्तिः १ कथं वा तपः १ इत्याशङ्कयाह भक्तिश्चेति । अन्यथा कार्यदोपेणापि कारणं दुष्टं भवेत् । पुत्रापचारे पितुर्नरकवत् । कार्य दुहितरः चकारेण भक्तेर्नान्तरीयकार्यधर्मा गृह्यन्ते । तपसो भिग्नं प्रयोजनमा स्वमुक्तय इति । चकारात्तस्या अपि मुक्तये । अथवा तपसोऽपि भक्ति- सदग्रहः । तस्यास्तु तपः पूर्ववत्संस्कारार्थम् ॥ १६७६ ।। प्राधिताधिककरणे हेतुमाह- तृतीयसन्धार्थः ७१ अलौकिकस्य करणादनासक्तिः फलिष्यति ॥ १६८॥ ध्यानं भगवतो योगो भगवत्प्रेपितं च तत् । कन्याश्चैव तथा ज्ञानं तत्कृपातोऽस्य जायते ॥१६९॥ स्त्रिया माहात्म्यबुद्धयर्थमृपिकर्तृत्वमुच्यते । अलौकिकस्य करणादिति । विमानादिनिर्माणमलौकिकमन्यथा चित्ते अनासक्तिन भविष्यति । " कर्दगो योगमास्थितः" इत्यत्र योगपदार्थमाह ध्यान भागवतो योग इति । अन्यथा भगवत्प्रसादजन्यत्वं न स्यात् बन्धश्च भवेत् । तर्हि कथं विमानोत्पत्तिस्तत्राह भगवत्मेपितं च तदिति । विमानं तामसं, कन्या राजस्यो, ज्ञानं सात्त्विकमिति । नन्वेवं सति किमिति स्पष्टं नोच्यते तबाह स्त्रिया इति ॥ १६८ ॥ १६९५ ॥ तथापि नियतोपपत्तिर्वक्तव्येत्याशङ्कयाह- अत एव ऋपो यातेऽप्यवस्थानं तु तस्य हि ॥ १७० ॥ कायव्यूहेन नवधा स्वरूपकरणं मतम् । अत एव ऊपा यात इति । यस्माद्भगवता प्रेपितं न योगेन पिणा जातम् । अन्यथा भोगार्थ सृष्टा भोगाभावे गच्छेयुः । अत्र " नोधा विधाय रूपं स्वम्" इति निरूपितं तत्कथं नवधा निरूपणमित्याकाडायामाह कायब्यूहेनेति । अग्रे । परस्पर- विवाहसिद्धयर्थं भिन्नपारम्पर्यकथनाय नवरूपाणि । गौण्येवैपा सृष्टिः । गुणातीता तु भगवद्रूपा । अतः कायव्यूहं कृत्वा नवधा वीजाधानं कृतवान् ।। १७०३ ॥ नन्वेवं क्रियमाणे देवहूतिः कथं मन्यत इत्याशङ्कयाह- समानत्वान्न वैपम्यं दोपाभावः फलं ततः ।। १७१ ॥ रेतःसेकः क्रमेणैव सूक्ष्मत्वात्स न दृश्यते ॥ समानत्वान्न वैषम्यमिति । अत एव दोपाभावोऽपि । फलं तु रेतःसेक- लक्षणं भिन्न भिन्न जातमेव । ननु सेकभेदे कथं तस्याऽज्ञानं तत्राह सूक्ष्मत्वादिति । कालः सूक्ष्म इति भेदो न दृश्यते ॥ १७१३ ॥ एवं करणे प्रयोजनान्याह- मरीच्यादिविवाहेच्छां वहपत्ये स्त्रियास्तथा॥ १७२।। खवाक्यं च ऋतं कर्तुं गमनं स्त्रीविरक्तये। मरीच्यादिति । मैथुनधर्मेणैव सृष्टिर्भवत्विति भगवदिच्छया मरीन्यादीनां भार्यापेक्षया खिया अपि पहपत्येच्छा । स्ववाक्यं “ यावत्तेजो विभृयादात्मनो में" ७२ सप्रकाशे तत्वदीपनिबन्धे भागवतार्थप्रकरणे . इति । नन्वेवमपि वाक्यं स्वकीयं न कृतं तेजस एकत्वाभावात, प्रत्युत बहुपुरुष- सम्बधेन स्वस्य स्त्रियाश्च दोपजननमिति चैन्मैवम् 'आत्मनो मे' इत्यत्राहकारो व्याख्येयः । स च त्रिगुणात्मक इति नवरूपाणि भवन्ति । सायप्रप्रिया चेयम् । जात्यपेक्षया चैकवचनम् । मन्वादीनां चित्तपरीक्षार्थमेव तथा वचनमिति युक्तमुत्प- श्यामः । नन्वेवं समर्थस्य योगेन देहत्यागेपि मुक्तिसम्भवात्कथं वनगमनमित्याश- चाह गमनं स्त्रीविरक्तय इति । वस्तुतस्तु योगेपि त्यागोऽपेक्षितः। गृहत्यागेना कैवल्यं भवति । ततोऽर्थे देहान्तःकरणभेदेन द्विधा कृत्वा चेत्यजति तदैव कैवल्यमिति योगसावधयोनिष्कपः। भगवन्मार्गे त्वन्यथा पराश्रयत्वात् । यथा भगवानेव फलं तट्टीकायामुपपादितमिति विरम्यते ॥ १७३३ ॥ ननु कपिलावतारस्य किं प्रयोजनमित्याकाक्षायामाह- विरक्तो ज्ञानसिद्धयर्थं कृष्णं भावयते यदि। ज्ञानांशश्च तदा व्यक्तो येन सर्व फलिष्यति। विरक्तो ज्ञानसिद्धयर्थमिति । अनेन ' यावत्तेजः । इत्यत्रैव वाक्यं पर्यवसितं ज्ञेयम् । नव रूपाणि सन्यानि ॥ १७३३ ॥ एतत्सर्वं ब्रह्मणोऽभिप्रेतमिति ब्रह्मगमनम् । लोकप्रतीत्यर्थ प्रयोजनान्तर- मप्याह- अवतारो हरेर्यावान् तत्र ब्रह्मा स्वयं व्रजेत् ॥ १७४ ॥ वरादनुक्तेप्येवं हि स्तुतिः पूर्णे तु सर्वतः। वोधनं सर्ववोधाय गमनं सर्ववोधकम् ।। १७५॥ पुत्रपि च हरौ सर्वत्यागादावश्यकी भाजः। अवतार इति । नन्वेवं सति सर्वत्र तद्गमनं वक्तव्यं स्यात्तताह वराद नुक्तेप्येवं रीति । " यद्यत्करिष्यति गृहीतगुणारतारः " इति प्रार्थनया घरो दत्तः । अतोऽनुक्तेऽपि स्थले ब्रह्मगमनं ज्ञातव्यम् । परं मुख्यतया स्तुतिः पूर्णे कृष्ण एव । कन्यादानमोधनं भगवानयमिति च गोधनं सर्वेपामेव योधाय । दम्पत्योस्तु योधः पूर्वमेव सिद्धः । ननु मरीच्यादीनां विवाहानन्तरं यद्गमनमुक्तं तस्य कुत्रोपयोग इत्याकाक्षयामाह गमनं सर्वयोधकामिति । अन्यथा स्वेच्छया वीणा पतिसम्बध इत्यस्मिन् कल्पे चोधितं स्यात् । हरेर्ज्ञानरूपस्य परित्यागेन गमनयुक्तमित्यासङ्कयाह पुत्रेपिय हराविति । ॥ १७५ ॥ १७६ ॥ पुम्मुक्तिमुपसंहरति- तृतीयस्कन्धार्थ एवं चतुर्भिोंगादिमुक्त्यन्तं पुंसि वर्णितम् ॥ १७६ ॥ वैराग्यादिः स्त्रियाः प्रोक्ता मुक्तिर्नवभिरुत्तमा । ग्वमिति । अतः परमेकेनाध्यायेन खीमुक्तिक्तव्येत्याशङ्कयाह वैराग्या- दिरिति । वैराग्यादयोऽत्र विशेषतो वक्तव्या इति नैकेन वक्तुं शक्या। पुंमुक्तेः सका- शादीना भविष्यतीत्याशङ्कयाह उत्तमेति, साधनप्रकारैरुत्तमा ॥ १७७ ।। ननु कपिलेन औपनिपट परित्यज्य किमिति साह्वयं ज्ञानमुपदिष्टमित्यत आह यदीपनिपदं ज्ञान श्रीभागनतमेव वा। वर्णिनामेव तद्धि स्यात्स्त्रीशूद्राणां ततोऽन्यथा ॥ १७८ ॥ यदौपनिपदं ज्ञानमिति । गार्गी मैत्रयीप्रभृतीनां भी सह यज्ञसम्बन्धो वेदसम्बन्धोऽस्तीति तासां मुख्यमेव ज्ञानम्, कर्दमस्य तु न तथा । अन्यथा "स्त्रीशद्र- द्विजनन्धूनाम्" इत्या स्त्रीग्रहणं व्यर्थ स्यात् । भागवतज्ञानमपि त्रैणिकानामेव उपासनायाः प्राधान्यात् । यदेव भगवता ब्रह्मणे प्रोच्यते तत्रैगर्णिकानामेवेति ज्ञातव्यम् ।। १७८ ॥ विदुरस्याधिकारोऽत्र प्राधान्याद्वीजरूपयोः । अतः साङ्ख्यप्रकारेण तस्यै ज्ञानमुदीर्यते ॥ १७९ ॥ र मुख्यप्रकरणी विदुरस्तस्याऽप्यनुगुखं साडयमेव ज्ञानम्, ननु अतिशूद्रस्य सालयेऽपि नाधिकार इत्याशङ्कयाह प्राधान्याद्विजरूपयोरिति । बीजं ब्राह्मणस्य । रूपं क्षत्रियस्य ।। १८९॥ प्रमेयबलमाश्रित्य ममाधानमाह- यथाकथाञ्चिदात्मा हि ज्ञायतां साधने दृढे । ज्ञाने वा भक्तियोगे वा फलं भवति सर्वथा ॥ १८० ॥ अतोऽत्र त्रितयं प्रोक्तं योगेनैपा परं गता। यथा कथाञ्चिदिति । साडययोगौ भक्तिमार्गश्चेति त्रयमुपदिष्टम् । तत्रैपा योगेन परङ्गता तेन त्यागाभावेपि न दोपः भगवतो गमनेऽपि ॥ १८०॥ ननु देवहूतिः कथं " निर्विण्णातितराम् " इत्यादिवाक्यं कथमति, किमर्थ चेत्याकाक्षायामाह- गुरूपसत्त्या निर्विण्णा हेयांशं ज्ञापयेगुरौ १८१ ॥ श्रद्धाभक्तियुतस्तस्मै तत्त्वं वाच्यं न चाऽन्यथा।
सप्रकाशे तत्वदीपनिबन्धे भागवतार्थप्रकरणे + भर्तुश्च ब्रह्मणो वाक्याद्भगवत्वं तु तस्य हि १८२ ॥ साङ्ख्यप्रणेतृतां चैव ज्ञातवत्याऽऽह तादृशम् । गुरूपसत्त्ये ति द्वाभ्याम् । तत्र प्रथमे प्रकार उच्यते । तथा वचने हेतुस्तु ब्रह्मणो वाक्यातुश्च तस्य भगवत्वं निश्चितम् । अतो भगवति तथा वचनं नाद्भुतम् ॥ १८२३॥ सामान्य (तो) भर्ना साङ्मयप्रकारो निरूपितः, अतः प्रकारकथनमित्याह- देहादिष्वात्मविज्ञानान्मोहस्तेनेह संमृतिः ॥ १८३ ॥ मोहाभावः साइख्ययोगस्याद्धेतुस्तेन मोचिता। देहादिप्वात्मविज्ञानादिति । मोह एव संसारस्तभावः सायात, तद्धेतुः कपिल एवेति तेन कारणेन याचितौ प्रकृतिपुरुपौ ज्ञातौ ॥ १८३३ ।। प्रकृतिपुरुपयोर्विवके प्रार्थिते योगादिकथनमयुक्तमित्याशक्य ससाधनमुप- दिशतीत्याह- शान्दं सारुड्यं नोपयोगि सहकारि तु चेतसः ॥१८४॥ ज्ञानशङ्कानिवृत्तिश्च मनसः सहकारिणी। अतो हि यादृशं चेतः साक्षात्कार प्रयोजकम् ॥ १८५॥ तादृशं साधनः साध्यमित्याह गुरुराहतः । अतो दोपनिवृत्त्यर्थं योगः प्रथममुच्यते ॥ १८६ ।। निर्दुष्टमेव रमते समता लिङ्गमस्य हि । शाब्दं साङ्ख्यामिति त्रिभिः । तत्रादौ योगो मुख्यो दोपनिवर्तकत्वात् । दोपनिवृत्तिपर्यन्तं स कर्तव्यस्तदभिज्ञापकमाह समता लिङ्गस्य हीति ।। १८६॥ केवलयोगेनापि कार्य न सिद्ध्यतीति तदर्थ भक्तिमाहेत्याह- शुष्कयोगे नैव शक्यं स्वनिर्वाहोऽपि दुर्लभः ॥ १८७ ।। अतो भक्तिर्भगवति विना सद्धिर्न सा कचित् । शुष्कयोग इति । भक्तिरहितो योगो न चित्तशोधकः तस्य स्वनिर्वाहोऽपि सन्दिग्धः । योगोऽपि न सिद्ध्येदित्यर्थः । तत्राऽपि भगवत्येव भक्तिः संवसाधिका । सापि स्वत उत्पन्ना अन्यदर्शनजनिता वा न पुरुषार्थपयवसायिनित्यभिप्रायेणाऽऽह विना सङ्गिन साफचदिति । नूतनसन्देहानां तत्त एव निवारणसम्मवात् ।। १८७३ ।। रातोऽधिय।
तृतीयस्तत्वाधः ७५ सन्तश्च लक्षणैरेव सङ्गथ हरिवाचकः ॥ १८८ ॥ अतो विलोमविधिना साक्षात्कारः फलिष्यति । सन्तोऽपि न लोकप्रसिद्धया स्वरुच्या चा मन्तव्याः, किं तु लक्षणैरेय ज्ञातव्याः । सङ्गोऽपि भगवत्कथार्थमेव । कथायामेव तत्साधने वा । एवं शृङ्खला- रूपेण पदार्थानिरूप्य पर्यवसानमाह अतो विलोमविधिनेति । सत्सङ्ग कथाश्रवणे तदुक्तप्रकारेण योगसिद्धी चित्तनैमल्ये तद्धर्मरुच्या सद्भावे सम्पन्ने भगवत्साक्षात्कार- स्ततः सर्वज्ञता ततः स्वरूपवानमिति विलोमविधिः ॥ १८८३ ॥ साड्सचे भक्तरङ्गत्वं निरूप्य स्वमार्गे प्रधानरूपतेत्याह- भक्त्यैव हि सतां सर्वमित्यर्थादुक्तमित्यवेत् ॥ १८९ ।। अतो भक्तिं च योगं च द्वयं पृच्छति सा पुनः। श्रद्धया पृष्टमित्याह भक्ति ज्ञानं च तस्य तत् ॥ १९ ॥ प्रतिज्ञातत्रयं तस्मात्साङ्खये ज्ञानं फलं तथा । भत्त्यैव हि सतां सर्वमिति । मां प्रति तु प्रसङ्गादेवोतवानित्यवैदेवहूतिः । तेन सङ्गाथं न यत्नं कृतवती । पुनर्विशेषप्रश्नेन अयमेव हेतुः। मां प्रति यदि वक्ष्यति तदा भक्तियोगो योगो वा मया कर्तव्य इति वेद एव साधारण्येन पदार्थानिरूपयति । अन्ये पुनः प्रष्टुरधिकारानुसारेणेति तदाह भक्तिं च योगं चेति । भक्त्या प्रश्ने पुत्र- भावो गत इति सन्तुष्टः सन् चतुष्टयमाह । भक्तिरात्मानात्मविवेको ज्ञानं योगश्चेति । तत्रात्मानात्मविवेकस्याङ्गत्वात्रयं प्रतिज्ञातं "विदित्वार्थम् " इति श्लोके । तत्त्वाम्नायं साथम् । भक्तिवितानेन सहितो योगश्च । तेन त्रयं भवति । नन्वेवं सति प्रथमनिर्दिष्ट साथमनिरूप्य कथं भक्तिनिरूपिणं तत्राह साहये ज्ञानं फलमिति ज्ञानं हि मुख्यम् । तच्च प्रतिज्ञातं मन्तव्यम् । अन्यथा केवलसावयप्रतिज्ञा व्यर्था स्यात् । अतः समाधानस्य ज्ञानस्य बहुवक्तव्यत्वाद्भक्तः निरूपणमित्यर्थः ।। १९०३ ।। एवं प्रतिज्ञां सन्निग्धां मत्वा स्पष्टमाह- एवं चतुर्भिरध्योर्यचतुष्टयमुदीर्यत ।। १९१ ॥ भक्तावनधिकारित्वमस्या अर्थादुदीरितत् । त्रयं तदर्थमेवाऽऽह कृतियोंगे प्रतिष्ठिता॥ १९२ ॥ एवं चतुर्भिरध्यायैरिति । प्रथमाध्याये भक्तिः साड्यज्ञानयोगा उत्तरत्र । ननु भक्तेरसहायशूरत्वारिक चतुष्टयनिरूपणेनेत्याशङ्कयाह भक्तावनधिकारित्य- मिति । न हि देवहूत्यर्थ भक्तिनिरूपिता स्त्रीत्वात्सत्सङ्गाभावात् । “अथ ते सम्पर- सप्रकाशे तत्वदीपनिबन्धे भागवतार्थप्रकरणे क्ष्यामि " इति भिन्नप्रक्रमेण देवहूत्यर्थमेव सायादेरक्तत्वाच्च । तत्रापि सायथयो- गयोः प्रकारभेदाद् देवहूत्याः किम् । को मार्गः सिद्ध इत्याकाङ्क्षायामाह कृतियोंगे प्रतिष्ठितेति । भक्तिमार्गवत्सालयस्यापि तदनुपयोगो निरूपणेनैव ज्ञायत इति सायनिरूपणमिति भावः ॥ १९२ ॥ नाव भक्तिस्वरूपं निरूप्यते किं तु सर्वोपि मार्ग इत्याह- भक्तिमार्गस्य निर्धारस्त्रयोदशभिरीर्यते। द्वाभ्यां त्रिभिस्तथा चाऽत्रयमेकैकतस्तथा ॥ १९३॥ सफले लक्षणे मोक्षे लोकेष्वैहिकवस्तुषु । हेतौ च सम्मतो सर्वनिर्धारे क्रमतो मतैः॥ १९४ ॥ भक्तिमार्गस्येति । देवानामित्यादिभिः । त्रयोदशश्लोकानामवान्तरविनियो- गमाह-अत्र सप्त पदार्था निरूप्यन्ते । भक्तेः स्वरूपं । नान्तरीयकं फलं मोक्षः । लोकेषु भयाभावनिर्धारः । लोकानां विशेषणमैहिकवस्तुस्विति ज्ञानविपयत्वे तु नैवमिति भावः । हेतुश्च सम्मतिश्च महतां सर्वनिर्धारश्चेति । तत्र श्लोकानां विभागः । द्वाभ्यां भनिस्वरूपं निरूप्यते । 'नैकात्मताम्' इत्यादित्रिभिरानुपङ्गिक फलम् । 'अतो विभूतिम् , इति द्वाभ्यां सालोक्यलक्षणो मोक्षः । तथा चाग्रे द्वाभ्यामिति योजना । सुनाभ्यां मोक्षनिर्धारः, एवं मोक्षे भेदद्वयं सर्वभावभजनवैराग्यभेदेन । तथा सति द्वाभ्यां प्रत्येक त्रयं सिद्ध भवतीति । अग्रिमाणामेकैकत इति एकेनैकेन निरूपणम् । एवं सप्त वा अष्टौ वा अर्था निरूपिता भवन्ति । एवं सोपपत्तिको भक्तिमार्गो निरूपितः||१९४॥ तन्न देवहूतेरनधिकारमाह- सङ्गाभावान्मुमुक्षुत्वात्यागाशक्तेरशक्तितः । अयुक्ता मुख्यभक्ता हि तेनार्थान्तरमुच्यते ॥ १९५॥ सद्गाभावादिति । सत्सङ्गाभावात् । मुमुक्षुत्वमपि बाधकम् । वाधकरूपाणां स्त्रीणां त्यागय कर्तव्यः । स्वस्य च वैराग्यमशक्यं स्त्रीत्वात् । अतो मुख्यमक्तावयोग्या तेन सावधादिकं निरूप्यते ॥ १९५ ।। साइपनिरूपणप्रस्तावे ज्ञानमपि प्रतिज्ञायत इन्याह- द्वयं तत्र प्रतिज्ञातं हेतुः पद्मिद्धितीयके । सर्वभिन्नतया ज्ञान खण्डं स्त्रीणां तदेव हि ॥ १९६ ॥ वेदानधिकृतानां च साहयं तस्मान्निरूप्यते ।
" तृतीयस्कन्धार्थः दूयं तत्र प्रतिज्ञातमिति । अथ ते सम्प्रवक्ष्यामि " "ज्ञानं निश्रेय- सार्थाय इति" दाभ्याम् । ज्ञानार्थमध्यासः पभिः श्लोकनिरूप्यते । अनेनासङ्गतिः परिहता " अनादिरात्मा" इत्यादिनाम् । ननु सर्व ब्राह्मत्येवं ज्ञानं योधनीय, कि 'सवातविलक्षणात्मज्ञानेनेत्याशझ्याह सर्वभिन्नतयेति । इदं हि खण्टनानं स्त्रीणां मुख्ये ज्ञाने धिकाराभावाद्युक्तम् । अनधिकारे हेतुः वेदानधिकृतानां चेति । अध्या- ससमर्थनार्थ साड्डयनिरूपणम्, वस्तुतो भेदे हि अध्यासो भवतीति तदाह साङ्ग तस्मान्निरूप्यत इति ॥ १९६३ ।। तत्र यदुक्तं तदाह- उत्पत्त्या चोपपत्त्या च सर्वभेदो निरूपितः॥ १९७॥ तदर्थमेव सम्प्रश्नो भेदात्संसारभिन्नता। उत्पत्त्येति । ज्ञानार्थ साड्डयनिरूपणमित्यत्र हेतुमाह तदर्थमेव सम्पन इति भेदज्ञानं बाधकं मत्वा समाधानमाह भेदात्संसारभिन्न तेति । अनर्थरूपात्सं- सारात्स्वस्य भिन्नतया ज्ञानं मुख्यानधिकृतेपु न बाधकमित्यर्थः ।। १९७ ॥ " प्रकृतिस्थोऽपि पुरुषः" इत्यध्यायार्थमाह- साधनान्युपपत्तिश्च स्वरूपा) तथोच्यते ॥ १९८ ॥ अष्टाङ्गश्च तथा योगः कर्त्तव्यत्वाच विस्तृतः । साधनान्युपपत्तिश्चेति । उपपत्तिः प्रथमतः। "यमादिभिः" इति साधनानि । विचारोऽपि साधनमिति चकारार्थः । तेन “पुरुपं प्रकृतिर्ब्रह्मन् " इत्यायुपपद्यते । "योगस्य लक्षणम्" इत्यध्यायार्थमाह अष्टाल्गश्चेति । तस्याः कर्तव्यत्वाद्विस्तरेण कथनम् ।। १९८३॥ ततो वैराग्यभक्त्योः प्रश्नानुपपत्तिमाशय साधयति- वैराग्यभक्त्योः सम्प्रश्नः साधनत्वाद्विशेपतः ॥ १९९ ॥ तत्तौद्धितीयनिर्धारो दशभिः कारणं परे। वैराग्येति । विशेषत इति । उभयाभावे योगो न सिद्धयतीति भक्त्यघ्याये भयहेतोर्माहात्म्यनिरूपणं भक्तावपि माहात्म्यमङ्गमिति बोधनार्थम् । तत्र भक्तिस्वर पनिरूपणमष्टाविंशतिश्लोकः सार्धेः “भक्तियोगथ योगश्च " इत्यतः प्राक्तनैर्माहात्म्य दशमिः श्लोकैः॥ १९९३ ।। वैराग्यमध्यायद्वयेनोच्यत इत्याह- सप्रकाशे तत्त्वदीपनिबन्धे भागवतार्थप्रकरणे मृत्युजन्मविभेदेन दोपो वैराग्यबोधकः ॥ २० ॥ तेनाऽध्यायद्वयं प्रोक्तं यच्छ्रुत्वाऽभयमाप्नुयात् । मृत्युजन्मविभेदेनेति । भयाद्वैराग्यम् । तत्र प्रथमाध्याये मृत्युनिरूपितः । स च जन्मावधिरिति " पुनरत्रावजेत् " इत्युक्तम् ॥ २०१३ ।। गर्भस्तुतेरुपयोगमाह- सङ्गत्यागं विना ज्ञानं नोपयोगाय कल्पते ॥२०१ ॥ इति दर्शयितुं स्तोत्रं यतः सर्वोऽपि तादृशः। सङ्गत्यागं विनेति । सर्वेपामेव गर्ने ज्ञान भवति । अन्यथा तादृशस्यैव संसारकथनं नोपपद्यत । तस्माद्वैराग्यप्रकरणे ज्ञानस्याऽप्रयोजकता निरूपिता ।।२०१६।। अध्यायद्वयेन सिद्धमाह- तस्मात्सर्वपरित्यागाद भ्रमणं साधनं महत् ॥२०२॥ एवं त्रिभिर्द्वयं प्रोक्तं सर्वनिर्धारकं परम् । तस्मात्सर्वपरित्यागादिति । " अथ यो गृहमेधीयान " इत्यध्यायार्थमाह सर्वनिर्धारक परमिति | राजसानां साचिकानां तामसानां च निधारो निरूपितः । सात्त्विकनिरूपणे ब्रह्मादीनां निरूपणम् । “ ये विहाऽऽसक्तमनसः" इति तामसाः। 'तस्माचम्" इति निर्गुणावस्था । एवं सर्वनिर्धारो विस्तरेणैकस्मिन्नव्याये निरूपितः । संक्षेपेण निरूपणार्थमन्तिमाध्यायार्थः ।। २०२३ ।। "नैतत्खलाय" इत्यादिश्लोकानां प्रकृतोपयोगमाह- भविता सर्वथैवैतत्सम्वादस्य निवन्धनम् ॥ २०३॥ गुणदोपास्वतःस्तस्य विविच्यन्ते ह्यनेकधा । भविता सर्वथैवैतदिति । अयं संवादो व्यासादिभिर्भागवतादाववश्यं निरू- पणीयः । अतो गुणदोपा निरुप्यन्ते । प्रकृते तु नोपयोगः । अतःसङ्गत्यभायो न दोपाय ॥ २०३३ ।। अध्यायाएकार्थमुपसंहरति- एवं व्यासप्रकारेण तत्वमुक्तं विभागशः ।। २.४ ॥ समासेन तथैकस्मिन् सफलं पूरणं तथा।
तृतीयमधार्थ: एवमिति । विस्तारप्रकारेण सर्ववस्तुनिर्धारार्थ तत्त्वमुक्तम् । सुखप्रतिपत्त्यर्थ सक्षेपेणाऽऽह तस्याफलत्वमाशझ्यय सारोदारत्वज्ञापनाय शीघ्र फलसिद्धमाह सफलमिति ।। २०४॥ अवान्तराध्यायार्थमाह- गुरुप्रसादसिद्ध्यर्थं स्तोत्रं वागेव स स्मृतः ॥२०५॥ प्रतिपत्तिमकृत्वा चेल्लीना को वेद किं भवेत्। इत्यधारणया देहं जलं चक्रे महामतिः ॥ २०६ ॥ अवतारचरित्रत्वाच्छूवणे फलमुच्यते २०६३ ॥ गुरुप्रसादेति । स्तोत्रं देवहूतिकृतम् । स्तोत्रमात्रेणैव तोपे हेतुमाह वागेवेति । " ज्ञानकलावतीर्णः" इति सरस्वतीरूपः कपिलः । देहस्य संस्कारस्तथा कथं कृत इत्याशङ्कयाह प्रतिपत्तिमकृत्वेति । स्वस्य स्त्रीत्वाद्गुरोथ सरस्वतीरूपत्वात्तिर्यग्ग- तावपि जलधारैव कृता । अग्निमावेऽप्यूर्ध्वगतिर्गुरुसायुज्याद्भविष्यति इति ज्ञात्वैव तथा कृतवतीत्याह महामतिरिति कथाया अपि सफलत्वमाह ॥ २०५॥ २०६३ ।। इति श्रीमद्वल्लभदीक्षितविरचिते सप्रकाशतत्त्वार्थ- दीपनिवन्धे श्रीमद्भागवतार्थप्रकरणे तृतीयस्कन्धार्थनिरूपणं समाप्तम् ।
શેઠ નારાયણદાસ આસનમલ તથા જેઠાનંદ આસનમલના ફડમાંથી તેમના ટ્રસ્ટીઓએ પ્રકટ કરેલા પુષ્ટિસંપ્રદાયના ગ્રા. ૧ બડે શિક્ષાપત્ર. આ શિક્ષાપત્રની કીંમત પ્રથમ ત્રણ રૂપિયા હતી. તે આ ફંડ તરફથી બહુજ સસ્તી કીંમતે એટલે રૂ ૧ માં મળે છે. જે વૈષ્ણવોને જોઈએ તેમણે તરત મંગાવી લેવું. હવે નવી આવૃત્તિ છપાશે નહિ, કેમકે બીજા મોટા ગ્રન્થ છાપવા શરૂ કર્યા છે. માટે જ્યાં સુધી સિલકમાં હશે, ત્યાં સુધી જ મળશે, તેથી જલદી મંગાવી લેવું. ૨ વૃત્રાસુરચતું કી. શ્રી પુરૂષોત્તમજીના પ્રકાશ સાથે, ત્રજભાષામાં કિ. આને . ૩ નિબંધાનગત-ભાગવતાધ્યાયાર્થ, શ્રીગોકુલરાય ભટ્ટકૃત, કિ. આના ૯. ૪ નિબધ તૃતીયકંધ ટિપ્પણી, શ્રી કલ્યાણરાયજીકૃતા, કિં. આના ૮, ૫ સહસીભાવના, શ્રીહરિરાય પ્રકટિતા કિં. આના ૧૦. ૬ પુષ્ટિમાર્ગો પદેશિકા ભાગ ૨ જે કિં. આના ૧૨. છ વર્ષોત્સવનાં કીર્તન ( છપાય છે.) ૮ અણુભાષ્યવિવરણમ, ગેસ્વામિ શ્રીગિરિધરજીકૃતમ (યન્ચમ) ૯ શ્રીવલ્લભાચાર્ય વંશાવલી. પરમ ભગવદીય રણછોડદાસ હરજીવનદાસ પેટલાદીએ ૩૦-૪૦ વર્ષ સુધી શ્રમ લઈને તૈયાર કરેલી. ( છપાય છે.)
પુસ્તકો મળવાનાં ઠેકાણાં.
૧ શેઠ નારાયણદાસ અને જેઠાનંદ આસનમલ ફિટ ઑફીસ,
૨૩૬ કાલકાદેવી રેડ, મુંબઈ નં. ૨.
૨ પંડિત ગદુલાલજી પાઠશાળા, કથેડ્રલ સ્ટ્રીટ, બુલેશ્વર, મુંબઈ નં. ૨.
-
૩ ગિરિધરલાલ જ શાહ, મેટું મંદિર, ત્રીજે ભોઈવાડા, મુંબઈ નં ૨.
૪ પંડિત નારાયણ મૂલ બુકસેલર, કાલકાદેવી રોડ, મુંબઈ નં. ૨.
પ શેઠ નારાયણદાસ અને જેઠાનંદ આસનમલ પુષ્ટિમાર્ગીય પુસ્તકાલય,
રેમ્પાર્ટ રે, મુંબઈ બજાર, કરાંચી.
૬ શેઠ નારાયણદાસ આસનમલ, ઉદ્વવકુંડ ગોશાલા,પિસ્ટ-રાધાકુંડ,
ઉદ્ધવડ, જીલ્લા-મથુરા.
मुद्रका-प्रभाशंकर जयशंकर पाठक
धी जगदीश्वर प्रिंटींग प्रेस,
गिरगांव गायवाडी,
मुंबई ४.