Sanmati Library, Jaipur
वृत्तरत्नाकरौ ग्रंथौ
Front matter
No text on this page.
श्रीः
श्रुतबोध-वृत्तरत्नाकरौ ग्रंथौ.
श्रीकालिदास-श्रीभट्टकेदार-विरचितौ
.
इमौ सव्याख्या
श्रीकृष्णदासात्मजेन खेमराजेन
सुम्बापुयी
स्वकीये
'श्रीवेङ्कटेश्वराख्ये" मुद्रणयंत्रालये
मुद्रिती
श्रीविक्रमादित्यसंवत् १९४७
घोपणा शुकसागरकी. कलौभागवती वार्ता गेहे गेहे जनेजने. प्रिय सुहगण इस कराल कलिकाल दावानलसे दग्धोंको मेघ सम शांतिकारी और संसार सागर निमग्न हम सरीखे कायर कुटिल कलंकियोंको पार दर्शक जोहै तो केवल यही ललित लावण्य युक्त रसीली चटकीली श्रीमद्भागवतकी एक कथा मा- नहींहै जैसे- श्रीमद्भागवतपुराणतिलकंयद्वैष्णवानांधनम् । यस्मिन्पारमहस्यमेकममलं ज्ञानं परंगीयते ॥ यत्रज्ञानविरागभकिसहित कर्नामाविष्कृतम् । तच्छृण्वन्प्रपठविचारणपरोभत्त्याविसुच्येन्नरः ।। अर्थात् यह श्रीमद्भागवत सय पुराणोंका तिलक और वैष्णवों (भक्त जनों) का एकमात्र धनहै जिसमें परमहंस साधु महात्माओंका केवल सों- त्तम ज्ञान वर्णन कियागया है जिसमें ज्ञान, वैराग्य और भक्तिके साथ निष्काम धर्म कहाहै इसके सुन- नेसे और स्वयं पढ़ाहोय तो पाठ करनेसे और भक्तिपूर्वक विचार करनेसे यह प्राणी जन्ममरणके बंधनसे मुक्त होजाताहै।
३ जाहिरात. क्यानहो यहप्रत्यक्ष कृष्ण स्वरूप है जैसे "श्री मद्भागवताख्योयं प्रत्यक्षःकृष्णएवही " अतएव ऐसाकौन मनुष्य होगा जिसको इस ग्रंथमें प्रीति न होगी. अनेक महानुभावोंका नियमहै कि श्रीमद्भा- गवत को विनापढ़े अथवा सुने अन्नजल ग्रहण नहीं करते. परंतु जो वरके धंधेमें फंसरहेहैं उनको कहां इतनी आनेजानेकी फुरसत मिलतीहै. अतएव वह प्रेमसागर.ब्रजविलास.सूरसागर आदिके पाठसे ही अपने नियमका निर्वाह करतेथे. परंतु अव थोड़े दिनोंसे सुखसागरका प्रचार होनेसे सब वैश्नव जनों को अलभ्य लाभ होरहाहै इसकी प्रति अनेक स्थलों में छपीहैं परंतु जैसी श्रीवेङ्कटेश्वरप्रेसमें छपी है ऐसी मूलके अनुकूल कहीं नहीं छपी. इसकी अनेक स्प- र्धा करनेवालोंने नकल उतारी परंतु “कांचकांचो मणिर्मणी हीरही दोवार इसकी प्रतिछपकर हाथों हाथ विकगई,मित्रगणो!अबकी बार विद्वदर लाला शालिग्रामजीने सब देशोंके लाभदायक भाषानुवाद कियाहै और अनेक गूढाशयोंमें शंका समाधान तथा रुचिरस्थलोंमें मनभावन दोहा कवित्त छंद मि श्रित हैं और प्रमोदकारी कथाओंमें रुचिर दृष्टान्त समन्वित कियेगये हैं कि "न भूतो न भविष्यति" नकभी छपा और न अब ऐसा कभी छपेगा बहुत मोटेअक्षर औरचिकने कागजमें छापा गया है फिर जाहिरात.. भी कीमत सिर्फ १२ रुपेही जो लागत पड़ीहै वही रक्खीहै, मित्रहो। इसकी तौलही १० सेरसे कमनहीं है इसीपर आप विचार करलीजिये कि क्या लागत लगीहोयगी. जिनने इसके दर्शननहीं करे वो हमारे कथनको सर्वथा असत्य मानेंगे. परंतु जिनने एकवार मँगायावो फिर औरोंकोइसके ही मँगानेकी सलाह देवेंगे बहुत कहांतक लिखें शीघ्र इसके द्वार सुख समूह प्राप्तकरो यह अपूर्व पदार्थ जिनको लेना होय लेलीजिये फिर पछतानेके सिवाय और कुछ हाथ नहींरहेगा इस ग्रंथकीबड़ाहोनेके कारण पुष्ट दो जिल्दै बनाई गई हैं. किंबहुना पल्लवितेन । श्रीमहाभारत सटीक मोटे अक्षरका। महर्षिश्रीवेदव्यास प्रणीत और पंचमवेद संज्ञा होनेसे विशेष प्रशंसा करना निरर्थकहै ये वही पु- स्तक गणपतकृष्णाजीके छापेकीहै जो पूर्वकाल में ६०२०८० रुपयेकी मिलतीथी उसीकोहमने सवलेकर अब ४० रुपयेमें देतेहैं टपाल महसूल रु०अलग है परंतु अब थोड़ी पुस्तकें रहगई हैं म- हाभारतके प्रेमीलोगोंको शीघलेना चाहिये कुछ कालके पीछे मूल्य अधिक होजायगा ऐसा ग्रंथ उत्तम छपनेकी आशा कमतीहे-लीजिये ट खर्चा सहित मूल्य पैतालीसही रुपये में अभी देतेहैं।
श्रीमद्वेङ्कटेशाय नमः।
अथ सटीकः श्रुतबोधः।
छदसां लक्षणं येन श्रुतमात्रेण बुध्यते ॥
तमहं संप्रवक्ष्यामि श्रुतबोधमविस्तरम् ॥१॥ ॥
श्रीमत्सारस्वतं धाम नत्वा स्तुस्खा च सद्गुरुम् ॥ टीका श्रीश्रुत-
वोधस्य छंदसः क्रियते मया ॥ १॥ छंदसामिति । अहं तं श्रुतवो,
नाम छंदःशास्त्रं संप्रवक्ष्यामि । कीदृशं तम् अविस्तरं न विद्यते दि.
स्तरो यस्मिन् सोऽविस्तरस्तमविस्तरम् । येन श्रुतमात्रेण प्रस्तारादि
विनैव छंदसामार्थानुष्टुवादीनां लक्षणं गुरुलधुवर्णमात्रागणादिस्वरूपं
बुध्यते ज्ञायत इत्यन्वयः ॥ १ ॥
संयुक्ताय दीर्घ सानुस्वारं विसर्गसंमिश्रम् ।।
विज्ञेयमक्षरं गुरु पादांतस्थं विकल्पेन ॥ २ ॥
अथ छंदोलक्षणस्य लघुगुरुज्ञानमंतरेण दुर्विज्ञेयत्वाल्लघुगुरुलक्षण-
माह।संयुक्तायमिति । एतादृशमक्षरं गुरु ज्ञेयं । कीदृशमक्षरम् । संयु-
क्ताचं संयुक्तस्य संयोगीभूतस्याद्यमादिभवम् । पुनः कीदृशम् । दीर्घ
द्विमात्रकम् । सानुस्वारमनुस्वारेण सह वर्तमानम् । पुनः । विसर्ग-
संमिश्र वितर्गेण संमिश्र विसर्गसहितम् । पादांतस्थमसरं विकल्पेन
गुरु लघु विज्ञेयम् पादांते गुरुरपि लघुः स्यात्कुत्रचिल्लघुरपि गुरुः
स्यात् । तया चोक्तं अंयान्तरे ! वा पादांते त्वसौ वक्रो ज्ञेयोऽन्यो
मात्रको लघुः ॥२॥
२ सटीकः। आदिमध्यावसानेषु भजसा यांति गौरवम् ।। यरता लाघवं यांति मनौ तु गुरुलाघवम् ॥३॥ श्लोकादौ कस्मिंश्चिद्गणे पतिते शुभं कस्मिंश्चिद्गणे पतिते चाशुभं भवतीत्यष्टगणानां लक्षणमाह । आदिमध्यावसानेविति ॥ भजसाः भगणजगणगणाः आदिमध्यावसानेपु गौरवं गुरुतांयांति । आदिश्च मध्यं च अवसानं च तानि तेपु।तथाहि आदिगुरुभंगणःमध्यगुरुर्जगणः अंत्यगुरुः सगणः । यरताः यगणरगणतगणाः आदिमध्यावसानेपु लापवं लघुतां यांति । तथाहि । आदिलघुर्यगणः मध्यलयू रंगणा अन्त्यलघुस्तगणः । तु पुनः मनौ मगणनगणौ आदिमध्यावसानेपु गुरुलाघवं गुरुतां लघुतांच यातः । तथा च ! सर्वगुरुमंगणः सर्वलघु-. नंगणः भवतीति । एतेपां देवताः फलानि च ग्रंथांतरे । मो भूमि- श्रियमातनोति य जलं वृद्धि र वहिति सो वायुः परदेशदूरगमनं त व्योम शून्य फलम् । जः सूर्यो भयमाददाति विपुलं भेंदुर्यशो निर्मलं नो नाकश्च सुखप्रदः फलमिदं प्राहुर्गणानां बुधाः ॥ ३ ॥ यस्याः पादे प्रथमे द्वादश मात्रास्तथा तृतीयेऽ- पि ॥ अष्टादश द्वितीये चतुर्थके पंचदश सार्या ॥४॥ यस्याः पाद इति । सा आयो भवति । सा का यस्याः प्रथमे पादे द्वादश मात्राः स्युः । तृतीये तथा द्वादश मात्रा भवति । द्विती- येऽष्टादश मात्रा भवंति।चतुर्थके पंचदश मात्रा भवंति सा आर्या॥४॥ आयर्या । चरणेपु क्रमान्मात्रा:- १२, १८, १२, १५ ॥. आर्यापूर्वार्धसमं द्वितीयमपि यत्र भवति हंसगते ॥ छंदोविदस्तदानीं गीति ताममृतवाणि भाषते ॥६ आयर्यापूर्वार्धसममिति । हे अमृतवाणि छंदोविदस्तदानीं तां गीति ॥
३ श्रुतबोधः। भाषते ब्रुवते । हे हंसगते यत्रार्यापूर्वार्धसमं द्वितीयमपि उत्तरार्धमपि भवति । पूर्वार्धस्य प्रथमे द्वादश मात्रा द्वितीयेऽष्टादश तृतीये द्वादश चतुर्थकेऽष्टादश संकलनया षष्टिमात्राइत्यर्थः । अमृतमिव वाणी वाक् यस्याः सामृतवाणी तस्याः संबुद्धौ । छंदांसि विदंति जानतीति छंदो- विदः छंदःशास्त्रज्ञा इत्यर्थः । इंसस्य गतिर्गमनमिव गमनं यस्याः सा हंगता तस्याः संबुद्धौ हंसगते इत्यर्थः ॥ ५ ॥ गीतिः । चर- णेषु क्रमान्मात्रा:-१२, १८, १२, १८ ॥ आर्योत्तरार्धतुल्यं प्रथमाधमपि प्रयुक्तं चेत् ॥ कामिनि तामुपगीति प्रकाशयते महाकवयः॥६॥ आर्योत्तरार्धतुल्यमिति । हे कामिनि महाकवयस्तामुपगीति प्रका- शर्यते । उपगीतिसंज्ञको प्रस्टीकुर्वते इत्यर्थः । यदि आर्योंत्तरार्ध- तुल्यं प्रथमार्धमाप प्रयुक्त प्रयोगीकृतं चेत् भवति । प्रथमे द्वाद- शमात्रा द्वितीये पंचदश तृतीये द्वादश चतुर्थे पंचदश संकलनया५४ चतुष्पंचाशन्मात्रा इत्यर्थः । कामो विद्यते यस्याः सा कामिनी तस्याः संयुद्धौ । महांतश्च ते कवयश्चेति कर्मधारयः । तथा चोक्तं ग्रंथांतरे । आय द्वितीयकर्षे यद्गदितं लक्षणं तत्स्यात् । यद्युभयोरपि दलयोरुपगीत तां मुनिवृवते ॥ ६ ॥ उपगीतिः । चरणे' क्रमा- न्मात्राः १२, १५, १२, १५॥ आद्यचतुर्थ पंचमकं चेत् ॥ यत्र गुरुः स्या- साक्षरपंक्तिः॥७॥ अयाक्षरपंक्तिः । आधचतुर्यामति । यत्र यस्यां वृत्ती आयं प्रयमं चतुर्य पंचमकं गुरु स्यात्साक्षरपंक्तिः ज्ञेया । अक्षरशन्दः पादपूग्णार्यः छंदस्तु पंक्तिः प्रविचरणे इदं लक्षणम् । तथा चोक्तं रनाकरे । भोगाविति पंक्तिः ॥ ७ ॥ अक्षरपंक्तिः । चरणाक्षराणि ५ग. भ,गु.गु॥
40
सटीकः।
अगुरुचतुष्कं भवति गुरु द्वौ ॥ धनकुचयुग्मे
शशिवदनासौ ॥८॥
अगुर्विति । हेघनकुचयुग्मे यत्राचं चतुष्कं वर्णचतुष्टयं अगुरु-
स्याञ्चत्वारो वर्णा लघवः संसि ततो द्वौ पंचमषष्ठी गुरू दीर्घा
भवतस्तदा शशिवदना । चरणचतुष्टये इदं लक्षणं असाविति संबंधः ।
घनं कठिनं कुचयुग्मं यस्याः सा घनकुच युग्मा तस्याः संबुद्धी ।
तथा चोक्तं रत्नाकरे । शशिवदना न्यौ ॥ ८॥ शशिवदना । चर-
णाक्ष०६, ग०न, य॥
तुर्य पंचमक चेद्यत्र स्याल्ल्धु वाले । विद्भिर्मू-
गने प्रोक्ता सा मदलेखा ॥९॥
सप्ताक्षरजाती मदलेखालक्षणमाह । तुमिति । हे मृगने,
यदि तुर्य चतुर्थं पंचमकं पंचम लघु स्यात् हेवाले. नवयौवने।
विद्वद्भिः पंडितः सा मदलेखा प्रोक्ता । मृगस्य नेत्रे इव नेत्रे यस्याः
सा मृगनेत्रा तस्याः संबुद्धौ । उक्तं रत्नाकरे । मसौ गः स्पान्म-
दलेखा ॥ ९ ॥ मदलेखा । चरणाक्षः ७, ग० म, स, ग ।।
श्लोके पष्ठं गुरु ज्ञेयं सर्वत्र लघु पंचमम् ॥
द्विचतुष्पादयो स्वं सप्तमं दीर्घमन्ययोः ॥ १० ॥
अष्टाक्षरजाती लोकलक्षणमाह श्लोक इति । अन्ययोः प्रथमतृती-
यपादयोः सप्तममक्षरं गुरु द्विमात्रकं भवति । सर्वत्र चतुर्णपि
चरणेषु पंचमं वर्ण लघु स्यात् षष्ठं गुरु स्यात् । द्विचतुष्पादयोः
द्वितीयचतुर्यचरणयोः सप्तमं वर्णं इस्वं ज्ञेयम् । ईग्विधे श्लोक
पद्येऽनुष्टुवादयो भवंति ॥ १० ॥
पंचमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः ॥
षष्टं गुरु विजानीयादेतत्पद्यस्य लक्षणम् ॥ १३ ॥
श्रुतबोधः। मय पद्यलक्षणमाह । पंचममिति । एतत्पद्यस्य लक्षणं विजानी- यात् । यत्र सर्वत्र चरणेषु पंचमं लघु भवति । द्विचतुर्थयोः द्विती- यचतुर्यचरणयोः सप्तममक्षरं लघु भवति सर्वत्र चरणेषु षष्ठं अक्षरं .गुरु भवति ॥ ११ ॥ पद्यं । चरणाक्ष ८,गणनियमो नात्र ॥ आदिगतं तुर्यगत पंचमक चांत्यगतम् ॥ स्याद्गुरु चेत्तत्कथितं माणवकाक्रीडमिदम् ॥ १२॥ माणवकाक्रीडलक्षणमाह । आदिगतमिति । तदिदं माणवका- क्रीडं कथितं । कविभिरित्यध्याहार्यम् । आदिगतं प्रथमं तुर्यगतं चतुर्थ पंचमकं पंचमं अंत्यगतं अंत्यस्थितमष्टमं गुरु स्यात्तदिदं माणवकाक्रीडं बुधा विदंति । तथाचोक्तं रत्नाकरे । माणवकं भस्म- लगाः ॥ १२ ॥ माणवकं । चरणाक्ष० ८ ग. भ, त; ल, ग ॥ द्वितुर्यपष्टमष्टमं गुरु प्रयोजितं यदा ॥ तदा निवेदयति तां बुधा नगस्वरूपिणीम् ॥१३॥ अथ नगस्वकापणीलक्षणमाह । द्वितुयेति । वुधाः पंडिताः तदानीं नगस्वरूपिणी निवेदयति । तदा कदा यदा द्वितीयं तुर्य चतुर्थ षष्ठं अष्टम अक्षरं गुरु प्रयोजितं गुरुसंज्ञकं भवति एतादृशी तां नग- स्वरूपिणी निवेदयंति । तथाचोक्तं रत्नाकरे । प्रमाणिका जरी लगौ ॥ १३ ॥ प्रमाणिका, नगस्वरूपिणीति वा । १० अ०८, ग० ज,र,ल, ग॥ सवें वर्णा दीर्घा यस्यां विश्रामः स्याद्वेदेवेदैः॥ विद्वदैवीणावाणि व्याख्याता सा विद्युन्माला १४॥ जय विद्युन्मालालक्षणमाइ । सर्वे वर्ण इति । हे वीणावाणि विद्वटुंदः पंडितसमूहैः सा विद्युन्माला व्याख्याता ! वीणायाः वाणी वाणी यस्याः सा वीणावाणी तस्याः संवृद्धौ । विदुषां पंडितानां w सटीकः। श्रृंदानि समूहास्तैः । सा का यस्यां सर्वे वर्णाः दीर्वा गुरुभूताः भवंति । वदेवदश्चतुभिश्चतुर्भिविश्रामो भवतीति सा विद्युन्माला । तथा चोक्तं रत्नाकरे । मो मो गो गो विद्युन्माला ॥ १४ ॥ विद्यु- न्माला । च० ०८, गम, म, ग, ग, यतिः ४॥ तन्वि गुरु स्यादाघचतुर्थ पंचमपष्टं चांत्यमुपांत्यम्।। इंद्रियवाणैर्यत्र विरामः सा कथनीया चंपकमाला||१५|| अथ दशाक्षरजाती चंपकमालालक्षणमाह । तन्वीति । है तन्धि तन्वंगि सा चंपकमाला कथनीया । सा का यत्र यस्यां आधचतुर्थ प्रथमं चतुर्थ पंचमपष्ठं यंत्यं दशमं उपांत्य नवम एत गुरवो भवंति यत्र इंद्रियवाणः पंचभिरक्षरविरामो विश्रामः सा चंपकमाला कथ- नीया । आधचतुर्य पंचमषष्ठं इत्येकवे द्विगुद्वंद्वौ । इंद्रियाणि च वाणाश्च इंद्रियवाणास्तः तथाचोक्त रत्नाकरे। चंपकमाला चेद्रमसा गः ॥ १५ ॥ चंपकमाला|चअ० १०, ग० भ, म, स, ग, यतिः ५, ५ ॥ चंपकमाला यत्र भवेदंत्यविहीना प्रेमनिधे । छंदसि दक्षा ये कवयस्तन्मणिबंधते बुवते ॥१६॥ अथ नवाक्षरजाती मणिबंधलक्षणमाह । चंपकमालेति । हे प्रेम- निधे छंदसि छंदोग्रंथे दक्षाः कुशलास्ते कवयस्तन्मणिबंधसंज्ञक ब्रुवते यत्रांत्यविहीना चंपकमाला भवेत् । चंपकमाला तु दशाक्षरा इदं नवाक्षरं भवेत् । लक्षणं तु तदेव चंपकमालागतमेव तन्मणिबंध प्रेम्णः निधिरिव निधिः तस्याः संवृद्धौ अंत्यविहीनः अंतेभवोऽत्यो वर्णः तेन विहीना त्यक्ता भवेत् । तदुक्तं रलाको । भमसयुक्ता रुक्मवती ॥ १६ ॥ मणिबंध । च० अ० ९, ग. भ, म, स, ४॥ ॥ ५१ ॥
श्रुतबोधः। ७ वस्वो वर्णों जायते यत्र षष्टः कंबुग्रीवे तद्वदे- वाष्टमात्यः ॥ विश्रामः स्यात्तन्वि वेदैस्तुरंगे- स्तां भाषते शालिनी छान्दसीयाः ॥ १७ ॥ एकादशाक्षरजातौ शालिनीमाह । हस्व इति । हे तन्धि कृशां- "गि छांदसीयाः छंदसी कुशलास्तां शालिनी भाषते । तां का है कंबुग्रीवे यत्र यस्यां षष्ठी वर्णो हस्वः तदष्टमात्यः नवमः हलो जायते । यत्र वैदैश्व चतुर्भिस्तुरंगैः सप्तभिर्विश्रमस्तां शालिनी भाषते ब्रुवते । कंबोः शंखस्य ग्रीवावगीवा यस्याः सा तत्संबुद्धौ । कंग्रीवा विरेखा स्यादित्यमरः । तदुक्तं रत्नाकरे । शालिन्युक्ता म्तौ तौ गः ॥१७॥शालिनी । च०अ०११ ग०म, तत, ग, ग, । यतिः ४, ७॥ चत्वारः प्राक्तनु गुरखो द्वादशैकादशौ चे- न्मुग्धे वर्णौ तदनु कुसुदामोदिनि द्वादशांत्यौ। तद्वच्चांत्यो युगरसहयैर्यत्र कांते विरामो मंदा- क्रांतां प्रवरकवयस्तन्वि तां संगिरते ॥१८॥ चत्वारइति । हे सुतनु सुष्टु तनूः कायो यस्याः सा तस्याः संबोधनं हे सुतनु प्रवरकवयः श्रेष्ठकवयः तां मंदाक्रांतां वदति । तां कां चेद्यदि यत्र यस्यां प्रागादौ चत्वारो वर्णा गुरवो भवंति ! हे मुग्धे च पुनः द्वादशैकादशौ वर्णी गुरू भवतः । हे कुमुदामो- दिनि च पुनः तदनु द्वादशांत्यौ त्रयोदशचतुर्दशौ वर्णी गुरू भवतः । च पुनः अत्यौ तद्भवतः । इकांते च पुनः युगरसहयैश्चतुःषट्सप्तभिः कमेण विरामो भवति । प्रवरकवयस्तद्विदः ॥ १८ ॥ मंदाक्रांता । च० ० १७ ग. म, भ, न, त, त, ग, ग, यतिः ४, ६, ७, ॥ मंदाक्रांतांत्ययतिरहिता सालंकारे भवति यदि
८
सटीकः।
सा । तद्विद्वद्भिधुवमभिहिता ज्ञेया हंसी कम-
लवदने ॥१९॥
इंस्या लक्षणमाह । मन्दाक्रांतेति । इकमलवदने तत्तदा ध्रुवं
निश्चयेन इंसी ज्ञेया ज्ञातव्या | कमलवत्सौंदर्य सौरभादिगुणैः
कमलसदृशं वदनं मुखं यस्याः सा तत्संबोधनम् । कथंभूता इंसी विद्व-
दिः पंडितरभिहिता कथिता । तदा कदा हेसालंकारे यदि मंदाक्रांता
अंत्ययतिरहिता ते भवा अंत्या मंदाक्रांतायां युगरसहयैः विश्रामः
सांत्यरहिता दशवात्मिका सा हंसी ज्ञेया लक्षणं मंदाक्रांताया
एव । अलंकारेण आभूषणेन सह वर्तमाना सालंकारा तस्याः संबो-
धनं सालंकारे ॥ १९ ॥ हंसी । च० अ० १०, ग० म, भ, न,
ग,। यतिः । ४,६॥
आद्यचतुर्थमहीननितचे सप्तमकं दशमं च तथां-
त्यम् ॥ यत्र गुरु प्रकटस्मरसारे तत्कथितं ननु
दोधकवृत्तम् ॥ २०॥
अथ दोधकवृत्तलक्षणमाह | आधचत्तुर्थमिति । हेप्रकटस्मरसारे
कविभिः तत् ननु दोधकवृत्तं कथितं । प्रकटः स्मरसारः कामवलं
यस्याः सा तस्याः संवोधनम् । हेअहीननितंवे अहीनौ स्थूला नितं-
वौ कटिपश्चाद्भागौ यस्याः सा सरसंधुद्धा। यत्र यस्मिन् आद्य-
चतुर्ये प्रथम चतुर्थ सप्तमकं सप्तमं दशमं तथा अंत्यं एकादर्श
एतानि अक्षराणि गुरूणि संति । तदुक्तं रत्नाकरे । दोधकवृत्तमिदं
भमभागः ॥ २० ॥ दोधकं । च० अ० ११, ग. भ, भ, भ, ग, ग ॥
यस्यांविषट्सप्तममक्षरं स्याद्धस्वं सुजंघे नवम
ज तदत् ।। गत्या विलजीकृतहंसकांते तामिंद्र-
वत्रां अवते कवींद्राः ॥ २१॥
श्रुतबोधः अयेंद्रवज्रालक्षणमाह । यस्यामिति । हे गत्या विलजीकृतहंस- कांत कवींद्रास्तामिंद्रवज्रां ब्रुवते । गत्या गमनेन विलजीकृता इंसस्य कांतिः शोभा यया सा तस्याः संवोधनं । तां कां यस्यां त्रिषट्सप्त- ममक्षरं हवं स्यात् तद्ववनवमं तस्वं स्यात् । हे सुघंजे तामिति संव- धः । एतादृशी इंद्रवज्रां ब्रुवते सुष्टु शोभने जंघे यस्याः सा तत्संबु- दौ। कवीनां कविषु वा इंद्राः पूज्या वृहस्पत्यादयः। तदुक्तं रत्नाकरे। स्यादिंद्रवज्रा यदि तौ जगौ गः ॥ २१ ॥ इंद्रवज्रा । २० अ० ११, ग. त, त, ज, ग, ग; यतिः ५, ६ ॥ यदींद्रवज्राचरणेषु पूर्वे भवंति वर्णा लपवः सुवर्णे ॥ अमंदमाद्यन्मदने तदानीमुद्रवत्रा कथिता काः॥२२॥ अयोऐंद्रवज्रालक्षणमाह । यदीति । हे अमंदमाधन्मदने तदानी कोद्रेः यदींद्रवज्राचरणेपु पूर्व वर्णा लघवः संति शेषमिंद्रवज्रावत् आ- घवर्ण हस्वमेवेति शेषः चतुर्वपि पादेपु आयो ह्रस्व हे सुवर्णे साउपेंद्र- वज्रा कथिता । अमंदं बहुलं माद्यन् हर्ष कुर्वन्मदनो यस्यां सा तत्सं- बुद्धौ । तथा चोक्तं रत्नाकर । उपेंद्रवज्रा जतजास्ततो गौ ॥२२।। उपें- द्रवज्रा च० म० ११, ग. ज, त, ज, ग, ग, यतिः ५, ६ यत्र द्वयोरप्यनयोस्तु पादा भवंति सीमंतिनि चंद्रकांते ॥ विद्भिराद्यैः परिकीर्तिता सा प्रयु- ज्यतामित्युपजातिरेपा ॥२३॥ उपजातिलक्षणमाइ यत्रोत । हे चंद्रकांते सा एपा उपजातिरिति प्रयुज्यतां । कयंभूता सा आधैः पुरातनैविद्वद्रिः पंडितैः परिकीर्तिता कयितासाका हे सीमंतिनि यत्र द्वयोरनयोरिंद्रवज्रौपद्रवज्रयोरपि पा- दा यथाक्रमेण भवति । प्रथमे तृतीये च इंद्रवज्रालक्षणं द्वितीये चतु- ॥
सटीकः। थे च उपेंद्रवज्रालक्षणम् । सीमंतः केशवेशो विद्यते यस्याः सा तत्सं- बुद्धौ चंद्रवत्कातिर्यस्याः सा तत्संबुद्धौ । पक्षे चंद्रवत्कांता कमनीया या सा तत्संबुद्धौ । तदुक्तं रत्नाकरे । अनंतरोदीरितलक्ष्मभाजी पादौ यदीयावुपजातयस्ताः ॥ २३ ॥ उपजातिः च० अ० ११, प्रथमें वृतीचे च चरणे इंद्रवजा द्वितीये चतुर्थे चौपेंद्रवज्रेत्यर्थः । आख्यानकी स्यात्प्रकटीकृतार्थे यदींद्रवज्राचर- णः पुरस्तात् ॥ उपेंद्रवज्राचरणास्त्रयोऽन्ये मनी- पिणोक्ता विपरीतपूर्वा ॥२४॥ अथाख्यानकीलक्षणमाह । आख्यानकीति । हे प्रकटीकृतार्थे मनी- पिणा विदुपा यदि इंद्रवज्रावत्प्रथमचरणः स्यात् अन्ये त्रयश्चरणा उपेंद्रवज्रावसति तदा विपरीतपूर्वाख्यानकी विपरीताख्यानकीत्यर्थः । प्रकटीकृतोऽर्थः कामलक्षणो यया सा तत्संबुद्धौ । इयं वृत्तरत्नाकर नोक्ता तथापि पिंगलादिभिराचार्यईलायुधादावुक्तव ॥ २४॥ आख्या- नकी । च० अ० ११, प्रथमचरण इंद्रवज्रावत् अन्ये उपेंद्रवज्रावत् ॥ आद्यमक्षरमतस्तृतीयकं सप्तमं च नवमं तथां- तिमम् ॥ दीर्घमिन्दुमुखि यत्र जायते तां वदंति कवयो रथोद्धताम् ॥२५॥ अथ रथोद्धतालक्षणमाह । आद्यमिती । है इंदुमुखि कवयः तां रथोद्धतां वदंति । कां यत्राद्यमक्षरमतस्तृतीयकं सप्तमं नवमं तथां- तिम एकादशं एते वर्णा दीर्घा द्विमात्रिका जायंते । इंदुवन्मुखं यस्याः सा तत्संबुद्धौ । तदुक्तं रत्नाकरे । रानराविह रथोद्धता लगः ॥२५॥ रयोद्धता । च० अ० ११, गार, न, र, ल, ग. यतिः ७, ४ ॥ अक्षरं च नवमं दशमं चेन्यत्ययाद्भवति यत्र .
श्रुतबोधः।
११
विनीते ॥ प्रोक्तमेणनयने यदि सैव स्वागतेति
कविभिः कथितासौ ॥२६॥
स्वागताया लक्षणमाह । अक्षरमिति । हे एणनयने सैषा रथोद्ध-
ता तदा कविभिः स्वागतेति कथिता । है विनीत नम्रीभूते यदि यत्र
यस्यां व्यत्ययाद्वैपरीत्येन नवममक्षरं दशमवदशमं नवमवत् । नवमो
लघुः दशमो गुरुः । द्वौ चकारौ विपरीतार्थसूचकौ । एणस्य नयने
इव नयने यस्याः सा तस्याः संधुद्धौ । अयमर्थः । रथोद्धतायां न-
वमं अक्षरं गुरु भवति दशमं चाक्षरं लघु भवति स्वागतायां तु नव-
ममक्षरं लघु दशमं चाक्षरं गुरु भवतीतिभावः । तदुक्तं रत्नाकरे ।
स्वागतेति रनभाद्गुरुयुग्मम् ॥ २६ ॥ स्वागता । च० अ० ११,
ग० रन, भ, ग, ग, यतिः ७,४॥
हस्वो वर्णः स्यात्सप्तमो यत्र वाले तद्वदिवोष्टि
न्यस्त एकादशायः॥ बाणैर्विश्रामस्तत्र चेदा
तुरंग ना निर्दिष्टा सुभु सा वैश्वदेवी ॥ २७ ॥
अथ वैश्वदेवीलक्षणमाह । हस्व इति ! यन सप्तमो वर्णो -हस्वः
स्यात् । हेवाले षोडशवर्षाभ्यंतरवयस्के तहत्पूर्वोक्तप्रकारवत् । हे
विवोष्ठि एकादशायो दशमो वर्णो हस्वः स्यात् । एवं न्यस्तः नि-
क्षिप्तः स्याचेयदि तत्र वाणैः पंचभिस्तुरंगैः सप्तभिश्च विश्रामः स्या-
त् । हे सुभु सा नाना वैश्वदेवी निर्दिष्टा कथिता । सुष्टु ध्रुवौ
यस्याः सा तस्याः संबुद्धौ । विववदोष्ठौ यस्याः सा एकादशादी
जात एकादशायः । तदुक्तं रत्नाकारे । पंचाग्वैश्छिन्ना वैश्वदेवी मौ
यौ ॥ २७ ॥ वैश्वदेवी ! ५० अ० १२, ग० म, म, य, य. ५, ७॥
सतृतीयषष्ठमनंतरते नवमं विरतिप्रभवं गुरु
चेत् ॥ धनपीनपयोधरभारनते ननु तोटकवृ-
तमिदं कथितम् ॥२८॥
૧૨ सटीकः। द्वादशाक्षरजाती तोटकलक्षणमाह । सतृतीयकमिति । इचनपीन- पयोधरभारनुते ननु इह निश्चित तोटकवृत्तं कथितं विस्तारित चे- यदि हे अनंतरते सतृतीयकं पष्ठं नवमं गुरु स्यात्तृतीयं षष्ठं चं तृतीयपष्ठे ताभ्यां सह वर्तत इति । कीदृशं विरतिप्रभवं अंत्यं द्वादशं गुरु स्यात् । अनंता अपरिमिता रतिर्यस्याः सा अनंतरतिः तत्सं- बुद्धौ । घनौ च पीनी च धनपीनौ कठिननिविडी पयोधरौ च तयो- भीरः आधिक्यं तेन नता नम्रीभूता या सा तत्संबुद्धौ । विरते प्रभव उत्पत्तिर्यस्य तत्तथोक्तम् । तदुक्तं रत्नाकरे । इह तोटकमंबुधिसः कथितम् ॥ २८ ॥ च० अ० १२, स, स, स, स. यतिः ६, ६ ॥ यदाद्यं चतुर्थ तथा सप्तमं चेत्तथैवाक्षरं द्वस्वमे- कादशाद्यम् ॥ शरच्चंद्रविद्वेपिवकारविंदे तदुक्तं कवींद्रेभुजंगप्रयातम् ॥२९॥ भुजंगप्रयातलक्षणमाह । यदाद्यमिति । हे शरच्चंद्रविद्वेपिवक्रार विदे कवद्रिस्तच्छंदो भुजंगप्रयातमुक्तं कथितम् । किं चेचदा आयं प्रथमं तथा चतुर्थ तथा सप्तमं एव निश्चितं एकादशाध एकादशस्या- दिभूतं दशममक्षरं हवं स्यात्तदिति संबंधः शरदः चंद्रः शरच्चंद्रः तस्य विद्वेपि वक्रमेवारविंदं यस्याः सा तत्संबुद्धौ तदुक्तं रत्नाकरे । भुजंग- प्रयातं भवद्यैश्चतुर्भिः ॥ २९ ॥ भुजंगप्रयातं । च० अ० १२. ग. य, य, य, य. यतिः ६, ६ ॥ अयि कृशोदरि यत्र चतुर्थकं गुरु च सप्तमकं दशमं तथा ॥ विरतिजं च तथैव विचक्षणैर्दुत- विलंवितमित्युपदिश्यते ॥३०॥ द्रुतविलवितलक्षणमाह | अयि कृशोदरीति ॥ अयि इति कोम- लालापे । विचक्षणैः पंडितैर्दुतविलंवितमित्युपदिश्यते । इति किं है १३ श्रुतबोधः। कृशोदार यत्र चतुर्थकं चेत्सप्तमकं तथा दशमं इमान्यक्षराणि गुरू- णि सन्ति । विरतिजं अंत्यं द्वादशं गुरु स्यादित्यर्थः । कृशमुदरं यस्याः सा कृशोदरी तत्संबुद्धौ । तदुक्तं रत्नाकरे । द्रुतविलंबितमा- ह नभी भरौ ॥ ३० ॥ द्रुतविलवितं । च० अ० १२१ ग० न, भ, भ, र.॥ यदि तोटकस्य शुरु पंचमकं विहितं विलासिनि तदक्षरकम्।। रससंख्यकं गुरु न चेदवले प्रमि- ताक्षरेति कविभिः कथिता ॥३१॥ प्रमिताक्षरालक्षणमाह । यदि तोटकस्येति । है अवले कविभिः ममिताक्षरा इति कथिता । किं है विलासिनि यदि तोटकस्य उक्तल- क्षणकस्य पंचमकं वर्ण गुरु विहितं स्यात् रससंख्यक षष्ठं गुरु न- चेत् गुरु तु पंचममेव सा प्रमिताक्षरेत्यर्थः । विलासी विभ्रमो यस्याः सा विलासिनी तत्संबुद्धौ । तदुक्तं रत्नाकरे । प्रमिताक्षरा सजस- सरुदिता ॥ ३२ ॥ प्रमिताक्षरा । च० अ० १२. . स, ज, स, स || प्रथमाक्षरमायतृतीययोर्तुतविलंबितकस्य च पादयोः यदि चेन्न तदा कमलक्षणे भवति सुंद- रि सा हरिणीता ॥ ३२॥ अथ हरिणीतालक्षणमाह । प्रथमाक्षरमिति । हेकमलेक्षणे सुक- विभिः तदेयं हरिणीप्लुता कथिता । यदि द्रुतविलंवितकस्य छंदस आयतृतीययोः पादयोः प्रथमाक्षरं चेत् एकादशाक्षरमेवं विषमपाद- योः तदेयं हरिणीप्लुता | कमलवदीक्षणे यस्याः सा तत्संबुद्धौ हेसुं- दार शुभांगे । तदुक्तं रत्नाकरे १, ३, सौ स्लो गः १२, ४, भौ 1 पक्षे हरिणीप्लुता ॥ ३२ ॥ हरिणीता । च० १, २, ३० १२. ग. स. स. स: ल ग ॥ च. २,४ मा १२, ग. न, भ, भार॥ ।
सटीकः
उपेंद्रवज्राचरणेषु सति चेदुपांत्यवर्णा लपवः
कृता यदा ॥मदोल्लसद्भूजितकामकार्मुके वदंति
वंशस्थमिदं बुधास्तदा ॥३३॥
वंशस्थलक्षणमाह । उपेंद्रवज्रति हेमदोल्लसद्भूजितकामकार्मुके तदा
बुधा इदं वंशस्यं वदति । तदा कदा यदा उपेंद्रवज्राचरणेपु उपांत्यव-
गी त्यसमीपस्था वर्णा एकादशसंज्ञका लघवः सति प्रतिवरणे
एकादशो वर्णो लघुस्तदा वंशस्यम् । मदेन उल्लसंत्यो भ्रुवौ ताभ्यां
जितं कामकार्मुक मदनधनुर्यया सा तत्संबुद्धौ । त्यस्य समी-
पमुपांत्य उपांत्याश्च ते वर्णाश्चति । तदुक्तं रत्नाकरे । जता तु वंश-
स्थमुदीरितं जरौ ॥ ३३ ॥ वंशस्थं । च० अ० १२, ग. जा त,
जर; यतिः १,७॥
यल्यामशोकांकुरपाणिपल्लवे वंशस्थपादा गुरु-
पूर्ववर्णकाः ॥ तारुण्यहेलारतिरंगलालसे ता-
मिंद्रवंशां कवयः प्रचक्षते ॥ ३४॥
इंद्रवंशालक्षणमाह ! यस्यामशकिति । हे तारुण्यहेलारतिरंगला-
लसे कवयो यस्यां वंशस्थपादा गुरुपूर्ववर्णका भवंति है अशोका-
कुरपाणिपल्लवे तामिंद्रवंशां प्रचक्षते ब्रुवते । अशोकांकुरवत्याणि-
पल्लवौ यस्याः सा तारुण्यस्य हेलास्ताभी रतिरंगे लालसाअभिलापो
यस्याः सा तत्संबुद्धौ । तदुक्तं रत्नाकर । स्यादिंद्रवंशा तो नौ
॥ ३४ ॥ इंद्रवंशा । च० अ० १२, ग. त, त, ज, र; यतिः ५,७॥
यस्यां प्रिये प्रथमकमक्षरद्वयं तुर्य तथा गुरु नव-
मं दशांतिकम् ॥ सांत्यं भवेद्यदि विरतियुग-
ग्रहः सा लक्षिता झमृतलते प्रभावती ॥ ३५॥
श्रुतबोधः। १५ त्रयोदशाक्षरजातौ प्रभावतीलक्षणमाह । यस्यामिति । अमृतलते यस्यां प्रथमकमक्षरद्वयं तुयें चतुर्थं तथा नवमं दशांतिकं दशसहितं त्रयोदशं वर्ण युगग्रहश्चत्तुभिर्नवभिश्चाक्षरैर्विरतिः सा प्रभावती लक्षिता कथिता । अमृतस्य लतेव लता या सा तत्संबुद्धौ ॥ ३५ ॥ प्रभावती च० अ० १३, ग. ज, स, ज, गः यतिः ४, ९ ॥ आय चेत्रितयमथाष्टमं नवांत्यं वे चांत्ये गुरु- विरतौ सुभाषिते स्यात् ॥ विश्रामो भवति महेशनेत्रदिग्भिर्विज्ञेया ननु सुभगे प्रहर्षिणी सा॥३६॥ अथ महर्षिणीलक्षणमाह । आद्यमिति ॥ हे सुदति ननु इति निश्चितं आयं त्रितयं प्रथमतः वर्णत्रयं अथाऽष्टमं नवांत्यं दशम वांत्ये द्वे द्वादशत्रयोदशाख्ये एते गुरवो भवति । हे सुभाषिते महे- शनत्रैर्वर्णत्रयानंतरं दिग्भिर्दशवर्णानंतरं च विश्रामः स्यात्सा प्रह- पिणी विज्ञेया ज्ञातव्या । सुष्टु शोभनं भाषणं यस्याः सा तत्संबुद्धौ । सुशोभना दंता यस्याःसा सुदती तत्संबुद्धौ । तदुक्तं रत्नाकरे । नौ नौ गस्त्रिदशयतिः प्रहर्षिणीयम् ॥ ३६ ॥ प्रहर्षिणी च० अ. १३, ग० म, न, ज, र, ग; यतिः ३, १०॥ आय द्वितीयमपि चेद्गुरु तच्चतुर्थ यत्राष्टमं च दशमांत्यमुपांत्यमत्यम् ॥ कामांकुशांकुशित- कामिमतंगजेंद्रे कांते वसंततिलकां किल तां वदति ॥ ३७॥ चतुर्दशाक्षरजातो वसंततिलकालक्षणमाह | आद्यमिति ॥ है कामांकुशांकुशितकामिमतंगजेंद्रे यत्र आचं प्रथम द्वितीयमपि गुरु १६ सटीका चतुर्थ दशमांत्यं एकादशमुपांत्यं त्रयोदशं अंत्यं चतुर्दशं एते गुरवः स्युः हेकांते वुधास्तां वसंततिलकां वदति । काम एवांकुश- स्तेनांकुशिता वशीकृताः कामिन एव मतंगजेंद्रा यया सा तत्सं- बुद्धौ । तदुक्तं रत्नाकरे । उक्ता वसंततिलका तभजा जगौ गः ।। ॥ ३७ ।। वसंततिलका । च० अ० ११, ग० त, भ, ज, ग, ग | प्रथममगुरुपदं विद्यते यत्र कांते तदनु च दशमं चेदक्षरं द्वादशांत्यम् ॥ किरिभिरथ तुरंगयंत्र कांते विरामः सुकविजनमनोज्ञा मालिनी सा प्रसिद्धा ॥३८॥ पंचदशाक्षरजातौ मालिनीलक्षणमाह । प्रथममिति ॥ हेकांते यत्र प्रथमं पटकमगुरु लघ्वेव भवति तदनु दशमं द्वादशांत्यं त्रयोदशं च लघु । करिभिरथ तुरंगैरष्टभिः सप्तभिश्च विरामस्ता सुकविजन- मनोज्ञा मालिनी सा प्रसिद्धा कृता । तदुक्तं रत्नाकरे ! ननमयययुते मालिनी भोगिलोकैः ॥ ३८ ॥ मालिनी । च० अ० १५, ग.न न, म, य, य; यतिः ८,७॥ सुमुखि लघवः पंच प्राच्यास्ततो दशमांतिकं तदनु ललितालापेवौँ यदि त्रिचतुर्दशौ । प्र- भवति पुनर्यत्रोपांत्यः स्फुरत्करकंकणे यतिर- पि रसैर्वेदैरश्वैः स्मृता हरिणीति सा ॥ ३९ ॥ सप्तदशाक्षरजातो हरिणीलक्षणमाइ । सुमुखीति । हेस्फुरत्करक- कणे यत्र प्राच्याः प्रथमाः पंच वर्णा लघवः संति । ततो दशमां- तिक एकादशः हेललितालापे यदि त्रिचतुर्दशौ त्रयोदशचतुर्दशौ लघु स्यातां उपांत्यः पोडशोऽपि लघुः । रतैःषड्भिर्वेदैश्चतुर्भिरश्वैः न्ये चोपांत्याः सुततु श्रुतबोधः। सप्तभिश्च विरामः स्यात्तदा साहरिणी स्मृता । स्फुरति करयोः कंक- णानि यस्याः सा ललित आलापो यस्याः सा | उक्तं च रत्नाकरे। रसयुगहयन्सौं ब्रौ स्लो गो यदा हरिणी तदा ॥ ३९ ॥ हरिणी च० २० १७, ग० न, स, म, र, स, ल, ग; यतिः ६, ४, ७ ॥ यदा पूर्वी हवः कमलनयने पष्टकपरास्ततो वर्णाः पंच प्रकृतिसुकुमारांगि लघवः ॥ त्रयोऽ- भोगसुभगे रसै रुदै- यस्यां भवति विरतिःसा शिखरिणी ॥४०॥ अथ शिखरिणीलक्षणमाह । यदा पूर्वी न्हस्व इति । है सुतनु जघनाभोगसुभगे यदा पूर्वो वर्णों न्हस्थो भवति । हे प्रकृतिसुकुमा- रांगि ततः षष्ठकपराः षष्ठतः पंच वर्णाः सप्तमाष्टमनवमदशमैकादशा लघवः संति । अन्ये उपांत्यास्त्रयो वर्णाश्चतुर्दशपंचदशषोडशा लघ- वो भवति । यस्यां रसैः षड्भी रुद्रैरेकादशैविरतिर्भवेत् । हेसुतनु सा शिखरिणी कथिता । कमलवनयने यस्याः सा । प्रकृत्या स्वभावेन सुकुमाराण्यंगानि यस्याः । जघनयोराभोगस्तेन सुभगा । सु शोभना तनुर्यस्याः सा तत्संबुद्धौ । तदुक्तं रत्नाकरे । रसै रुद्रैश्छिन्ना यमन सभलागः शिखरिणी ॥४०॥ शिखरिणी। च० म० १७, ग. य, म, न, स, भ, ल, ग, यति:६, ११ ॥ द्वितीयमलिकुंतले यदि षडष्टमं द्वादशं चतुर्द- शमथ प्रिये गुरु गभीरनाभिन्हदे ।। सपंचदश- मांतिकं तदनु यत्र कांते यतिःकरींद्रमणिभृत्कु- लैर्भवति सुभ्र पृथ्वी हि सा ॥४१॥ पृथ्वीलक्षणमाहा द्वितीयमिति । हे सुच यदि द्वितीयसंख्याकं गुरु .
सटीक
स्यात् है अलिकुंतले पडष्टमं च गुरु हे प्रिये द्वादशमथ चतुर्दशं गुरु
हे गभीरनाभिन्ददे पंचदशेन सहितमंतिकं गुरु स्यात् । हे कांते यत्र
करीन्द्रेसष्टभिः फणिभृत्कुलैर्नवभिश्व यतिः जत्तपृथ्वीनामक वृत्तं
भवति । अलिवद्रमरवच्छ्या सला अलका यस्याः सा। गंभीरा
निम्ना नाभिरेव हदो यस्याः सीप हो । तदुक्तं रत्नाकरे । जसौ !
वसुनपनि पृथ्वी मु११ ॥ पृथ्वी । च० भ०
१७, ग० ज,
ल, ग. यतिः ८,९॥
चत्वारः
द्वादशैकादशौ चेन्मु-
गधे गौ तदनु कुसुद
द्वादशांत्यौ ॥
तहच्चांत्यौ युगरसहयैर्यत्र विरामो मंदाक्रां-
तां प्रवरकवयस्तन्वि तां संगिते ॥ १२ ॥
मंदाक्रांतालामाले चत्वार इतिा हेतुन्धि प्रवरकवयो यह जान
चत्वारो वर्णा गुरवः स्युः । हे कुमुदामोदिगि बेदी द्वादशांगने
गुरू स्त: । हे मुग्धे द्वादशांत्यो द्वादशात्यस्थिती त्रयो चतुर्दशी
गुरू स्यातां । अंत्या पोडशसप्तदशौ तद्वद्गुरू, म एता-
हता महामन्ती सरित 1 कुमुदवदामोद.: सुगंधियस्याः सा ।
तथोक्त रत्नाकरे । मंदाक्रांता जलधिपडगम्भी नतो ताद्गुरू चेत् ॥
॥ ४२ ॥ मंदाक्रांता ! च० अ० १७, ग० म, भ, न, त, त, ग,
ग, यतिः ४, ६, ७ ॥
आद्याश्चेद्गुरवस्त्रयः प्रियतमे षष्ठस्तथा चाष्टमो
नन्वेकादशतस्त्रयस्तदनु चेदष्टादशायौ ततः॥
मातडैमुनिभिश्च यत्र विरतिः पूर्णदुर्विवानने
तद्वृत्तं प्रवदंति काव्यरसिकाः शार्दूलविक्रीडि-
तम् ॥४३॥
श्रुतवोधः। १९ आधा इति । हे पूर्णेदुर्विवानने काव्यरसिकास्तवृत्तं शार्दूलविक्री- डितं वदति । यत्राधास्त्रयो गुरवः षष्ठस्तथाऽष्टमः गुरुः ननु एका: दशतस्त्रयः द्वादशगोदर तुर्दशा गुरवः ततश्चेदधादशस्यागौ, पो. डशसप्तदशौ गुरू स्यातां । यत्र मातडैर्मुनिभिवादशसप्ताभावरतिः । "हे प्रियतमे तदेतच्छार्दूलविक्रीडित पूर्णश्वासाविंदुस्तस्य बिंबवदा- ननं यस्याः सा । अतिशयन प्रिमियतमा तस्याः संबुद्धौ । तं रत्नाकरे । सूर्याधर्मसजस्तताः सगुरवः शारीडिलम् ॥१३॥ शार्दूलविक्रीडितम् । च० अ० १ १२.. स, त, त, ग, यतिः १२॥७॥ " चत्वारो यंत्र वर्णा प्रथममलनःषष्टकः सप्त- मोऽपि द्वौ तद्वत्षोईशायौ मृगमदमुदिते पोड- उथकान्यौ तथांत्यौ । रंभास्तंभोरु उनिमुनि- को सुनिभिदृश्यते द्विरामो वाले बयः कविः सुत: दिता स्नग्धरा सा प्रसिद्धा ॥ १४ ॥ इति कविकालिदासकृतः श्रुतबंधिनामक दो । ग्रंथ समाप्तः॥ . एकविंशत्यक्षरजातौ स्त्रग्धरालक्षणं । चत्वार इति ॥ हे सुदति वोः पूज्यैः कवींद्र प्रसिद्धा इयं स्नग्धरा गदिता । यत्र प्रथम चत्वारा वर्णा अलघवी गुरवः संति पष्ठकः सप्तमोऽपि तद्वद्गुरुः शेडशायौ चतुर्दशपंचदशी तयांत्यौ सप्तदशाष्टादशौ गुरू स्यातां । मुनिमुनिमुनिभिविरामः । हेरंभास्तभोरुकाते हैं वाले इयं सन्धरा प्रसिधा भूगस्य मदेन मुदिता सा | रंभायाः स्तंभवोः कांति- यस्यामा सुशोभना देता यस्याः सा तत्संबुद्धौ । तदुक्तं रत्नाकरे ।
२० सटीक नौ नौयानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम् ॥ ४४ || खग्वरा । च०० २१, ग० मार, भ, न, य, य, यतिः ७,७,७॥ इतिश्रीश्रुतबोधनामकस्य च्छंदोग्रंथस्य व्याख्या समाप्ता ॥ श्रुतबोधग्रन्थासमातः। गणनामदेवताफलानि । मो भूमिः श्रियमातनोति य जलं वृद्धि र चामिम॒तिं सो वायुः परदेशदूरगमनं त व्योम शून्यं फलम्।।जः सूर्यों रुजमाददाति विपुलं में- दुर्यशो निर्मलं नो नाकश्च सुखप्रदः फलमिदं प्रा- हुर्गणानां बुधाः॥१॥ or अथ गणसंख्यानामरूपदेवताफलज्ञापकं यंत्रम् गणनाम रूपम् देवता | फलम् मित्रादि । 'फलम् मगण:/55 मही लक्ष्मी मित्रम् शुभम् २ नगणः |111 स्वर्गः बुद्धिः मित्रम् शुभम् भगणः || शशी यशः दासः शुभम् यगणः |155/ जलम् आयुः दासः शुभम् जगणः/151 रविः रुक् उदासः | अशुभम् ६ रगण: 5/5/ अमिः । दाहः शत्रु: अशुभम् संगणः 115 वायुः | विदेशः शत्रुः । अशुभम् तगणः 551 नमः । शून्यम् उदासः अशुभम् | ३
अथ सटीको वृत्तरत्नाकरः
प्रारभ्यते।
श्रीगणेशायनमः ॥ सुखसंतानसिद्धयर्थ नत्वा
ब्रह्माच्युताचितम् ॥ गोरीविनायकोपेतं शंकर
लोकशंकरम् ॥१॥
तेन केदारेणेदं छंदः क्रियते । किं कृत्वा शंकरं नत्वा किमर्थ
नत्वा सुखसंतानसिद्धयर्थं सुखस्य संतानोऽविच्छेदस्तस्य सिद्धिनिष्प-
त्तिस्तदर्थं नत्वा । अथ सुखं च संतानश्च सिद्धयश्च सुखसंतानसिद्ध-
यः तदर्थं नत्वा सुखमात्यंतिकं मोक्षलक्षणं संतानः पुत्रपौत्रादिः सि-
योऽणिमादयस्तदर्थं तेन केदारेणेदं वृत्तरत्नाकरं नाम छंदः क्रियते
इति संबंधः । किविशिष्टं शंकरं ब्रह्मा च अच्युतश्च ब्रह्माच्युतौ ता-
भ्यामचितं पूजितं । पुनः किविशिष्टं गौरीविनायकोपेतं गौरी च
विनायकश्च गौरीविनायकौ ताभ्यामपेतं सहितं । पुन: किंविशिष्टं
लोकशंकर लोकानां शं सुखं करोतीति लोकशंकरस्तम् ॥ १ ॥
वेदार्थशैवशास्त्रज्ञः पव्येको भूविजोत्तमः ॥
तस्य पुत्रोऽस्ति केदार शिवपादर्चने रतः ॥२॥
वेदार्थश्च शैवशास्त्राणि च जानातीति वेदार्थशवशास्त्रज्ञः एवंविधः
पव्येको नाम द्विजोत्तमोऽभूज्जातस्तस्य पुत्रः केदारोऽस्ति स किवि-
शिष्टः शिवस्य ईश्वरस्य पादौ शिवपादौ तयोरचनं पूजनं तस्मिन्
शिवपादार्चने रत आसक्तः ॥ २ ॥
तेनेदं क्रियते छंदो लक्ष्यलक्षणसंयुतम् ॥
वृत्तरत्नाकरं नाम बालानां सुखबुद्धये ॥३॥
२२ वृत्तरत्नाकरः। किंविशिष्टं छंदः लक्ष्यलक्षणसंयुतं लक्ष्यमुदाहरणं च लक्षणं छंदः स्वरूपकयनं च लक्ष्यलक्षणे ताभ्यां संयुतं अन्येषु रामशर्मादिकृतेषु छंदःशास्त्रेषु लक्षणं सूत्रमेवास्ति लक्ष्यं प्रयोगो नास्ति एतत्पुनरुभा- भ्यामिह युक्तम् । वृत्तान्येव श्रीप्रभृतीनि रत्नानि तेपामाकरं वृत्तरत्रा- कर नाम !! कस्मै बालानामनधीतच्छंदःशास्त्राणां सुखवृद्धये सु- सावबोधाय ॥ ३॥ त्रिभिर्विशेषकम् ॥ पिंगलादिभिराचार्यदुक्तं लौकिक द्विधा ।। मात्रावर्णविभेदेन छंदस्तदिह कथ्यते ॥४॥ यपिगलादिभिराचायलौकिक छंदो द्विधोक्तं तेन प्रकारेण मात्राकारेण च तदिहास्मिन् ये छंदः कथ्यते । लोके भवं लौकि- कं न पुनर्वदिकं काव्यादिप्वनुपयोगात् ॥ ४ ॥ पडव्यायनिषदस्य छंदसोऽस्य परिस्फुटम् ।। प्रमाणमपि विज्ञयं पशिदधिकं शतम्॥५॥ अस्य छंदसः प्रमाणमपि परिस्फुट परि समंतात्मकट विज्ञेयं ज्ञातव्यं । किंविशिष्टस्य छंदसः पट्च तेऽध्यायाश्च पडव्यायास्तै-- निवदं तस्य किंप्रमाणं शतं किंविशिष्टं शत पत्रिंशताधिकम् ॥५॥ म्यरस्तजन्नगीतभिर्दशभिरक्षरैः॥ समस्तं वाङ्मयं व्याप्तं त्रैलोक्यमिव विष्णुना॥६॥ एभिर्दशभिरक्षरैः सकलं वाङ्मयं वाग्जालं व्याप्तं कुक्षीकृतं । किमिव त्रैलोक्यमिव केन विष्णुना नारायणेन । एभिः कैः म्यर- स्तजन्नगः लांतैः ॥ ६॥ सर्वगुर्मो मुखांतलौ यरावंतगलौ सतौ ।। ग्मध्या- यौज्भौ निलो नोष्टौभवंत्यत्र गणास्त्रिकाः॥७॥ 14
२३
सटीकः
इदानी तेषामक्षराणां लक्षणमाह ।। सर्वगुरुमैः मगणsss मुखे
आदौ अंतर्मध्ये लो लघुर्ययोस्तौ मुखांतलौं यगणरगणौ मुखलघु-
यंगणः । 5 मध्यलघु रगणाs | 5 अंते अवसाने गुरुलघुश्च ययो-
स्तौ अंतगलौ सतौ सगणतगणी अंतगुरुः सगणः ॥ 5 अंतलघुस्त-
गणः ऽऽ । गुरुमध्ये आये ययौस्तौ ज्भौ जगणभगणौ मध्यगुरुर्ज-
गणः 15 | आदिगुरुभंगणः । ॥ त्रीणि लघूनि यस्य सः त्रिलघु-
नंगमः । । । अत्रास्मिन् छंदसि अष्टौ गणात्रिकास्यवयवा
भवति ॥ ७॥
ज्ञेया सर्वांतमध्यादिगुरवोऽत्र चतुष्कलागणा-
चतुर्लघूपेताः पंचार्यादिषु संस्थिताः॥८॥
आर्यादिपु स्थिताः पंच गणाः ज्ञेयाः । किंविशिष्टाः चतुष्कला:
चतुर्मात्राः ते के पंच गणाः सर्वोतमध्यादिगुरवः सर्वश्च अंतश्च
मध्यश्च आदिश्च ते गुरवो येषां ते सर्वोतमध्यादिगुरवः किंभूतास्ते
लघूपताः पंचमो गणश्चतुर्लघुस्तनोपेताः युक्ताः स्थापना चैषा
सर्वगुरु:55 अंत्यगुरुः । 5 मध्यगुरुः ।।। मादिगुरु 5 । चतु-
लघुः । । । । इति ॥ ८॥
सानुस्वारो विसर्गातो दीयों युक्तपरश्च सः॥
वापादांते त्वसौग्वकोशे योऽन्यो मातृको लजुः॥९॥
सानुस्वारः सह अनुस्वारेण वर्तत इति सानुत्वारः विसगातः
विसर्गः अंते यस्य सः विसर्गातः दीर्घः युक्तपरः युक्तं संयोगाक्षरं परं
यस्मात्स युक्तपरः एतादृशः वर्णः वा विकल्पेन पादांते गुरुर्भवति ।
असो
गुरुस्तु पुनः स च प्रस्तारे वक्रो ज्ञेयः अन्यो अस्माद्विपरीतो
मातृका एकमातृकः स च प्रस्तारे ऋजुः पंचलघुर्भवति । (5)
गुरुः (1) लघुः ॥ ९॥
वृत्तरत्नाकरः।
पादादाविह वर्णस्य संयोगः क्रमसंज्ञकः॥पुर:-
स्थितेन तेन स्यालघुतापि कचिद्वरोः॥ १०॥
इह छन्दसि पादादी वर्णस्य संयोगः क्रमसंज्ञकः स्यात्तेन
वर्णस्य सेयोगेन पुरस्थितन अग्रस्थितन क्वचिद्गुरोरपि लघुता
स्यात् ॥ १०॥
इदमस्योदाहरणं ॥ तरुणं सर्पपशाकं नवौदनं
पिच्छिलानि च दधीनि ॥ अल्पव्ययेन सुंदर
ग्राम्यजनो मिष्टमश्नाति ॥ ११ ॥
अस्यौदाहरणं दर्शयति । हेसुंदरि स्तोकद्रव्येण ग्राम्यजनो मिष्ट
मधुरमभाति भुक्ते के तरुणमभिनवं सर्पपशाकं नवांकुरम् पिच्छि-
लानि चिक्कणानि दधीनि दुग्धं च ॥ अत्रायांयां या इत्येतस्मिन्
पादादिस्यितेन सुंदरि इत्येतस्य यदि गुरुत्वं क्रियते तदा युक्तपर-
तात्पंचलो भवति चतुर्माना गणाः आर्यायाः कर्तव्याः तस्माच्छ-
दाकरणाय कचिद्गुरोरपि लघुत्वं भवतीति ॥ ११ ॥
अधिभूतरसादीनांज्ञेया संज्ञान लोकतः॥ ज्ञेयः
पादश्चतुर्थांशो यतिविच्छेदसंज्ञिका ॥ १२ ॥
उत्तरत्र अंको संज्ञामाह || अब्धयः समुद्राश्चत्वारः ४ भूतानि
पंच महाभूतानि ५ रसाः पट ६ आदिशब्दग्रहणेन अश्वाः मुनयश्च
सप्त ७ अष्टौ पर्वताः यसपश्च ८ नव ग्रहाः रंध्राणि च ९ दश दिशः १०
। एकादश रुद्राः ११ द्वादश सूर्याः १२त्रयोदश विश्वेदेवाः १३ चतुर्दश
भुवनानि १४ इत्यादयो गृयते । एताः संज्ञा लोकतः पूर्वाचार्येभ्योऽ-
वगंतव्याः ज्ञयाः । चतुर्य:अंशः पादो ज्ञेयः यतिविरतिः किं कथ्यते
विच्छेदसंज्ञिका ॥ १२ ॥
सटीकः। युक्सम विषमं चायुक्स्थान सद्भिनिगद्यते ॥ सममर्धसमं वृत्तं विषमं च तथा परम् ॥ १३ ॥ सद्भिः सत्पुरुषैः समं स्थानं युगियते । विषमं स्थानमयुनिग- न्यते समं वृत्तं भवति अर्धसमं तथा परं विषमं भवति ॥ १३ ॥ अंघयो यस्य चत्वारस्तुल्यलक्षणलक्षिताः ॥ तच्छंदःशास्त्रतत्त्वज्ञाः समं वृत्तं प्रचक्षते॥१४॥ तल्लक्षणमाह । यस्य वृत्तस्यांप्रयः पादाश्चत्वारस्तुल्यलक्षणल- क्षिता भवंति तद्वृत्तं छंदःशास्त्रतत्त्वज्ञाः समं वृत्तं प्रचक्षते वदंति॥१४॥ प्रथमांत्रिसमो यस्य तृतीयश्चरणो भवेत् । द्विती- यस्तुर्यववृत्तं तदर्धसममुच्यते ॥ १५॥ यस्य वृत्तस्य प्रथमपादस्तृतीयपादेन समो भवेत् द्वितीयपादश्च- सुर्थपादवत्तद्वृत्तमर्धसमं भवेत् ॥ १५ ॥ यस्य पादचतुष्केऽपि लक्ष्म भिन्नं परस्परम् ।। तदाहुर्विषमं वृत्तं छंदःशास्त्रविशारदाः॥१६॥ यस्य पादचतुष्टयेऽपि परस्परं लक्षणं भिन्नं भेदयुक्तं भवति तद्वि- 'यमं वृत्तं छंदाशास्त्रविशारदा आहुः कथयति ॥ १६ ॥ आरभ्यैकाक्षरात्पादादेकैकाक्षरवार्धितः ।। पृथ- क्छंदो भवेत्पादेर्यावत्पदिशतिं गतम् ॥ १७ ॥ एकैकाक्षरात्पादादारभ्य आदी कृत्वैकैकमक्षरं पधितं येषु पादेषु ते एकैकाक्षरवर्धितास्तैः एकैकासरवधितैः पादैः पृथक् छंदो भवेत पादरित्यंभूतैर्यावत् पशितिं गतम् । तथा च प्रथमजातायुक्तायां
२६
वृत्तरत्नाकरः।
चत्वारोप्येकाक्षराः पादा भवंति अत्युक्तजाती चत्वारोपि यक्षराः
पादा भवंति इत्ययावत् यथा वृत्तावृत्तयोश्चत्वारोपि पादाः पशि-
तिवर्णप्रमाणा भवति ॥ १७ ॥
तदू चण्डवृष्टयादिदण्डकाः परिकीर्तिताः ॥
शेष गाथा त्रिभिः पश्चिरणैश्चोपलक्षिता ॥ १८॥
यस्याः पड्रिंशत्यारजातरू चण्डवृष्टिरादिउँपां ते चंडवृष्टया-
दिदण्डकाः परि समंतात्कीर्तिताः कथिताः । उक्तान्यच्छन्दःशेष
सा गाया । सा च त्रिभिः पडूभिर्वा वर पादरुपललिता चिन्हि-
ता भवति ॥ १८॥
उक्तायुक्ता तथा मध्या प्रतिष्ठान्यासुपूर्विका ॥
गायत्र्युष्णिगनुष्टुप् च बृहती पंक्तिरेवच ॥ १९ ॥
इदानी छंदोजातेरुद्देशमाह । उक्ता १ अत्युक्ता २ मध्या ३
प्रतिष्ठा ४ अन्या सुपूर्विका सुप्रतिष्ठा ५ गायत्री ६ उणिक ७
अनुष्टुप् ८ वृहती ९ पंक्ति: १० ॥ १९ ॥
त्रिष्टुप् च जगती चैव तथातिजगती मता ॥
शक्करी सातिपूर्वा स्यादष्टचत्यष्टी ततःस्मृत॥२०॥
विटुप् ११ जगती १२.अतिजगती १३ शकरी १४सा शक्करी
अतिपूर्वा स्यादतिशक्करी १५ अप्टिः १६ अत्यष्टिः १७ ॥ २० ॥
धृतिश्चाविधृतिश्चैव कृतिः प्रकृतिराकृतिः ॥
विकृतिः संकृतिश्चापि तथाभिकृतिरुत्कृतिः॥२१॥
धृतिः १८ अतिधृतिः १९ कृतिः २० प्रकृतिः २१ आकृतिः
२२ विकृतिः २३ संकृतिः २४ अभिकृतिः २५ टस्कृतिः २६॥२१॥
सटीकः। २७ - इत्युक्ताश्छंदसां संज्ञाः क्रमशो वच्मि सांप्रतम्॥ लक्षणं सर्ववृत्तानां मात्रावृत्तानुपूर्वकम् ॥ २२॥ इति भट्टकेदारविरचिते वृत्तरत्नाकरे प्रथ- मोऽध्यायः॥१॥ इति छंदसां संज्ञा जात्याख्याः क्रमशः क्रमेण उक्ताः । सांप्रतं सर्व वृत्तानां लक्षणं चिन्हं वच्मि भणामि मात्रावृत्तान्यार्यादीनि अनु- पूर्व यस्मिल्लक्षणे तन्मात्रावृत्तानुपूर्वकं लक्षणं भणामीति संबंधः।।२२।। इति वृत्तरत्नाकराख्यछंदःशास्त्रस्य टीकायां प्रथमोऽध्यायः ॥ १ ॥ आर्यालक्षणमाह ॥ लक्ष्मैतत्सप्त गणा गोपेता भवति नेह विषमे जः ॥ षष्ठोऽयं न लघुर्वा प्रथमेऽर्धे नियतमार्यायाः॥१॥ सांप्रतमार्यालक्षणमाह । आर्यायाः प्रथमेधैं एतल्लक्ष्म लक्षणं नियतं निश्चितं वर्तते । एतरिक सप्त गणा गोपेताः इहास्यामार्यायां विषमे स्थाने प्रथमतृतीयपंचमसप्तमरूपे जगणो न भवति षष्ठश्चायं जगणो भवति अथवा न लधुर्भवति इत्या-प्रथमदले निश्चित लक्षणं भवति शिष्येण पृष्टं आर्यायाः क्वचित्पदनियमोऽस्ति । गुरुराहर पष्टे द्वितीयलात्परकेंऽते मुखलाच्च सयतिप- दनियमः ॥ चरमर्षे पंचमके तस्मादिह भवति षष्ठो लः॥२॥ पष्टे द्वितीयेत्यादिव्याख्या । पठेऽते षष्ठस्थानवतिनि नलघुरूपे द्वितीयलाहितीयलयोः प्रारभ्य नियमो भवति पष्टे नगणलपी मार- भ्य नियमो भवति षष्टे नगणलघौ सति प्रथमलघुस्थाने यतिरित्यर्थः । ॥
वृत्तरत्नाकरः। तथापरके पुरोवर्तिनि सप्तमकाते नलयो सति मुखलापरः पदनि- यमो भवति पष्टगणांते यतिरित्यर्थः । पंचमीत्वात्पूर्वसंग्रहः अत्र पंचमी अक्सूिचिका दृश्यते यथा पाटलिपुत्रावृष्टो देव इत्यत्र पाटलिपुत्रपुरादाक् इति गम्यते चरमे) द्वितीयदले पंचमकते सति पंचमगणस्थानतिनि नलघौ सति तस्मान्मुखल चुतः परतः पंदनियभो भवति चतुर्थगणांत यतिरित्यर्थः इह द्वितीयेऽधे पष्टो लो लघुर्भवति ॥ २॥ त्रिष्वंशकेषु पादोदलयोरायेषु दृश्यते यस्याम्।। पथ्येति नाम तस्याश्छंदोविद्भिः समाख्यातम्।।३।। यस्या आर्यायाः इयोरायेपु त्रिवंशेषु गणेपु द्वादशमात्रासु पादो दृश्यत शेष प्रकटम् ॥ ३॥ सलंध्य गणत्रयमादिमं शकलयोईयोर्भवति पादः ॥ यस्यास्तां पिंगलनागो विपुलामिति समाख्याति ॥ ४॥ यस्या आर्याया द्वयोः शकलयोरादिमं गणत्रयं विलंध्यातिक्रम्म पादो भवति तां पिंगलश्चासौ नागश्च पिंगलनागः पिंगलाचार्यस्य शेषरूपत्वात् विपुलायर्यामिति समाख्याति ॥ ४ ॥ उभयायोर्जकारौ द्वितीयतुयौंगमध्यगौ यस्याः।। चपलेति नाम तस्याः प्रकीर्तितं नागराजेन ॥५॥ यस्या आर्यायाः उभयार्धयोद्वितीयतुर्यो जकारौ स्यातां जकारौं किंभूतो गुरूमध्यगतौ यस्याः चपलेति नाम नागराजेन प्रकीर्तित कायतम् ॥ ५ ॥ आचं दलं समस्तं भजेत लक्ष्म चपलागतं
सटीकः।
२९
यस्याः ॥ शेषे पूर्वजलक्ष्मा मुखचपला चोदिता
मुनिना ॥६॥
यस्या आर्याया आद्य दलं प्रथम चपलागतं चपलाश्रितं लक्ष्म
लक्षणं समस्तं भजेत आश्रयेत शेषे पश्चिमेधैं पूर्वज लक्ष्म यस्याः
सा पूर्वजलक्ष्मा मुखे आदौ चपला मुखचपला सा उदिता कथिता
मुनिना पिंगलेन ॥ ६॥
प्राक्प्रतिपादितमधे प्रथमेतरे तु चपलायाः॥
लक्ष्माश्रयेत सोक्ता विशुद्धधीभिर्जधनचपला ॥७॥
इत्यार्याप्रकरणम् ॥
प्रथमेधैं प्राक् पूर्वप्रतिपादितं कथितं सप्तगणा गोपेता भवति ।
नेह विषमे ज इत्यादिलक्षणमाश्रयेत पुनः प्रथमेतरे तु चरमेऽर्षे
चपलायाः लक्ष्म लक्षणमाश्रयेत सा विशुद्धधीभिर्जघने पश्चादागे
चपला इस जघनचपलोक्ता ॥ ॥ इति पंचार्याभेदाः ॥ इत्या-
याप्रकरणम् ॥
आर्याप्रथमदलोक्तं यदि कथमपि लक्षणं भवेदुः
भयोः॥ दलयोः कृतयतिशोभा तां गीति गी-
तवान् भुजंगेशः॥३॥
अधुना गीतिलक्षणमाह | यदि कयमप्यार्यायाः प्रथमदलोक्तं
लक्षणमुभयोरपि दलयोर्भवेत् तां गीति भुजंगेशः पिंगलः गीतवान् ।
गीति किविशिष्टां कृता यतिभिर्विच्छेदैः शोभा यस्याः सा तया तामर
आर्याद्वितीयकेधै यद्गदितं लक्षणं तत्स्यात् ॥
यधुभयोरपि दलयोरुपगीतितां मुनिब्रूते ॥२॥
वृत्तरत्नाकरः। यदाद्वितीयकेऽधै लक्षणं गदितं कथितं वर्तते तल्लक्षणं उभयो- रपि दलंयोः स्यात्तदा तामुपगीति मुनिः पिंगलो ब्रूते भणति ॥ २॥ आशिकलद्वितयं व्यत्ययरचितं भवेद्यस्याः॥ सोद्गीतिः किल कथिता तद्वद्यत्यंशभेदसंयुक्ता॥३॥ यस्या आर्यायाः शकलद्वितीयं खंडद्वयं व्यत्ययरचितं प्रथम स्थाने द्वितीयं द्वितीयस्य स्थाने प्रथम लक्षणं भवेत् प्रशमे दले मात्रा २७ द्वितीयदले मात्रा३० सा उद्गीतिः किलशब्दो निश्चये एतयैवं किल श्रूयते । कथिता तद्वत् तेनैव प्रकारेण यतयश्च अंशाश्च यत्यं- शाः तेषां भेदस्तेन संयुक्ता ॥ ३ ॥ आर्यापूर्वाध यदि गुरुणेकेनाधिकेननिधने युक्त- म् ॥ इतरत्तद्वन्निखिलं दलं यदीयमुदितैवमा- योगीतिः॥४॥ इति गोतिप्रकरणम् ॥ यदि आर्यापूर्वार्धमेकेनाधिकेन गुरुणा निधने अवसाने युक्तं भव- ति तदीयमितरद्वितीयं दलं निखिलं समस्तं तद्वत्तस्येव पूर्वदलबद्भ- वति तदा एवमार्यागीतिरुक्ता उदिता समस्तपादेपु कलाद्वात्रिंशत् ३२ भवंति ॥ ४ ॥ इति चतस्रो गीतयः ॥ इति गीतिप्रकरणम् ॥ पडिपमेऽष्टौ समे कलास्ताश्च समे स्युनों निरं- तराः॥न समात्र पराश्रिताः कला वैतालीयें। ते रलौ गुरुः ॥१॥ अत्र वैतालीये छंदसि विषमे पादे प्रथमतृतीयरूपे षट् कला भवंति समे पादे द्वितीयचतुर्थरूपेऽष्टौ कला भवति च पुनस्ताः कला: .
१ सटीकः। ३१ समे पादे निरंतरा अंतररहिता लघवो न स्युः अत्र वैतालीये समक- ला द्वितीया चतुर्थी षष्ठी च पराश्रिता न भवति कोर्थः द्वितीया लघुरूपा कला तृतीयकलायां न मिलति चतुर्थी पंचम्यां षष्ठी सप्त- भ्यां चेत्यं न स्यात् पूर्वाश्रिताः स्युर्द्वितीया प्रथमायां चतुर्थी तृती- यायामेदं स्यात् । अंते षट् कलायतोऽष्टकलाग्रतश्च रलो रगणलघू कायौँ ततो गुरुरेक इति चतुष्पादेषु ॥ १ ॥ पर्यते यौँ तथैव शेषत्वौपच्छंदसिकं सुधीभिरुक्तम् पर्यंते अंते यौँ रगणयगणी भवतः शेषं तथैव षट्कला विषमेऽप्यौ समे तदौपच्छंदसिक सुधीभिः पंडितैरुक्तं भणितम् ॥ २ ॥ आपातलिका कथितेयं भाद्रुकादथ पूर्ववदन्यत्॥३॥ भागणाद्गुरुको द्वौ यदि भवतस्तदा आपातलिकानाम छंदो भवति अथानंतरमन्यत्पूर्ववत् ॥ ३ ॥ तृतीययुग्दक्षिणांतिका समस्तपादेषु द्वितीयल॥४॥ समस्तपादेपु द्वितीयो लघुस्तृतीयेन सह युक् समिलितो भवेत् तदा दक्षिणांतिका नाम छंदो भवति ॥ ४ ॥ उदीच्यवृत्तिद्धितीयल सक्तोऽग्रेणभवेदयुग्मयोः॥६॥ यन अयुग्मयोर्विषमपादयोदितीयो लघुरग्रेण तृतीयेन लधुना सह सक्ता संवद्धो मिलितो भवति सा रदीच्यवृत्तिरुदिता कथिता ॥ ५ ॥ पूर्वेण युतोऽथ पंचम प्राच्यवृत्तिरुदितेतियुग्मयोः६ अयं यत्र युग्मयोः समपादयोः पंचमो लघुपूर्वेण युतश्चतुर्थन संयुक्तो भवति सा प्राच्यवृत्तिरुदिता ॥ ६ ॥ यदासमायोजयुग्मको पूर्वयोर्भवति तत्प्रवृत्तकम् ॥
૨૨
वृत्तरत्नाकरः।
ओजयुग्मको विषमसमा यदा पूर्वयोरुदीच्यवृत्तिप्राच्यवृत्त्योः
समौ तुल्यौ यथासंख्येन विषमसमौ यदा वा भवतस्तदा प्रवृत्तकं
नाम च्छंदो भवति ॥ ७॥
अस्य युग्मरचितापरांतिका ॥८॥
अस्य वैतालीयस्य युग्मरचिता समपादरचिता समस्तपादेष्वष्टों
कला रगणो लघुरुश्च भवति साऽपरांतिकामाम छंदः ॥ ८ ॥
अयुग्मगा चारुहासिनी ॥९॥
॥ इति वैतालीयप्रकरणम् ॥
वैतालीयादेविपमपादजाता समस्तपादपु सैव लक्षणेन चारुहासि-
नी भवति ॥ ९ ॥ इति वैतालीयप्रकरणम् ॥
वक्त्रं नाद्यान्नसौ स्यातामधेर्योऽनुष्टुभि ख्या-
तम् ॥ १॥
आद्यात्प्रथमाक्षरात्परतो नसी नगणसगणी न स्यातां न भवेतां
किंतु हि नियमेनान्यः परो यो यगणः कार्यस्तदा वक्रनाम छंदः
स्यात् । अनुष्टुभि अनुष्टुप्पकरणे ख्यातं प्रसिद्धम् ॥ १ ॥
युजोर्जेन सरिद्भर्तुः पथ्यावत्रं प्रकीर्तितम् ॥२॥
युजोः समपादयोः सरिद्रतुः समुद्राचतुरक्षरात् जेन जगणेन
कृत्वा पथ्यावक्रनाम छंदः प्रकीर्तितं कथितम् ॥ २ ॥
अयुजार्जन वारिधेस्तदेव विपरीतादि ॥३॥
अयुजोर्विषमपादयोरिधेश्चतुरक्षरात्परे पादे जेन जगणेन तदेव
पथ्यावक्र नाम विपरीतादि विपरीतपथ्यावत्रं भवतीत्यर्थः ॥ ३ ॥
चपलावक्रमयुजोर्नकारश्चेत्पयोराशेः॥४॥
सटीकः। ૨૨ अयुजाः विषमपादयोः पयोराशेः समुद्राच्चतुरक्षराचेद्यदि नकारो गणो भवति नदा चपलावकं नामः छंदः स्यात्॥ ४ ॥ यस्यां लः सप्तमो युग्मे सा युग्मविपुला मता ॥६॥ यस्यां छंदोजातौ सप्तमस्थाने युग्मे समपादे सप्तमो लो लघुर्भ-- वति सा युग्मविपुला मताभिप्रेता ॥ ५ ॥ सैव तस्याखिलेष्वपि ॥६॥ सैव तस्याचार्यस्याभिप्रायेण यस्याः सकलेपु समस्तेषु सप्तमी लघुर्भवति सा युग्मविपुला भवति ॥ ६ ॥ भेनाधितो भाद्विपुला ॥७॥ मन्धितासमुद्राड्रेन भगणेनभाद्भकारात्परा विपुला भविपुलेत्यर्थः।।७. इत्थमन्या रश्चतुर्थात् ॥ ८॥ इत्यममुना प्रकारेण चतुर्याच्चतुरक्षरात् रो रगणो यदि भवति तदान्या रविपुला भवति ॥ ८॥ नोम्बुधेश्चन्त्रविपुला ॥ ९॥ अंधुधेः समुद्राच्चतुरक्षरात्परोयदि नो नगणस्तदा नविपुला भवति तोऽब्धेस्तत्पूर्वान्या भवेत् ॥१०॥ ॥ इति वक्रप्रकरणम् ॥ मन्धेश्चतुरक्षराद्यदि तस्तदा अन्या विपुला तत्पूर्वा तविपुला भव- ति ॥ १० ॥ इति वक्रप्रकरणम् ॥ द्विकयुणितवसुलघुरचलधृतिरिति ॥ १ ॥ अथाव वृत्तान्यधिनियंते तान्येवाह ॥ दानेवदिको द्वाभ्यां गुणि- वृत्तरत्नाकरः। ता यसवोष्टौ लघवो यस्यां सा द्विगुणितवसुलघुः अवलधृतिनाम छंदो भवति तथा आपदाकुलकं छंदो यावद्विगुणितवसुलघुरिति वर्तते तेनोत्तरत्र पोडश मात्राअधिक्रियते ॥ १ ॥ मात्रासमकं नवमालगंतम् ॥२॥ उपचित्रा नवमे रयुक्ते ॥३॥ अष्टाभ्यो भाद्रावुपचित्रा ॥४॥ जान्लावथाम्बुधेविश्लोकः॥५॥ मात्रासमकं छंदः स्याद्यत्र नवमा ल् लघुः । ग गुरुः अंते यस्य तत् पोडश मात्राः । अष्टाभ्यो मात्राभ्यः परयुक्त दशमयुक्ते नवमे मात्रापोडशके उपचित्रा भवति । अष्टाभ्यो भगणस्तस्माद्वौ गुरू यदीयौ भवतस्तदा उपचित्रा स्यात् । अंबुधेश्चतसृभ्यो मात्राभ्यः परी जगणो यदि भवति न्लो वा नगणलघू वा भवतस्तदा विश्लो- कोनाम छंदो भवति ॥ २ ॥ ३ ॥ 2 ॥ ५॥ तयुगलाद्वानवासिका स्यात् ॥६॥ तागलादम्बुधियुग्मात् अष्टाभ्यो मात्राभ्यः परो जो यदि वा न्ली तदा वानपासिकानाम छन्दो भवति ॥ ६ ॥ वाणाष्टनवसु यदि लश्चित्रा ॥ ७॥ यदतीतकृतविविधलक्ष्मयुतैर्मात्रासमादिपादैः कलितम् । अनियतवृत्तपरिमाणसहितं प्रथितं जगत्सुपादाकुलकम् ॥ ८॥ चाणाटनवसु पंचमाटनघमात्रामु यदि लो लघुस्तदा चित्रानाम छंदः ॥ ७ ॥ यदिति । अतीतं पूर्व कृतं विविधं नानारूपं लक्ष्म लक्षणं तेन कलितः प्रागुक्तमात्रासमादिलक्षणसहितः पादैर्यच्छदंः सटीकः। कलितमनियतमनिश्चितं यदृत्तपरिमाणं तेन सहितमेवंविधं जगत्म- सिद्धं यत्तत्पादाकुलकं नाम छंदः ॥ वृत्तस्य लो विना वर्णैर्गा वर्णा गुरुभिस्तथा ॥ गुरखो लैर्दले नित्यं प्रमाणमिति निश्चितम्॥९॥ वृत्तस्येति । यस्य कस्यापि वृत्तस्य लो लघवो मात्रारूपा भवंति तेभ्यो वगैरसरैविना गा गुरुसंख्या भवति तथा. तेभ्यो लघुभ्यो. गुरु- भिस्तत्संख्यां विना वर्णसंख्या भवति तेभ्यो मात्राभ्यः तैलघुभि- विना शेषमात्राणां च दले कृते सति तत्संख्याका गुरवो वाच्याः ययात्रैव वृत्ते एवं सर्वत्र ज्ञेयम् ॥ ९ ॥ शिखिगुणितदशलघुरचितमपगतलघुयुगलमप- रमिदमखिलम् ॥ सगुरुकशकलयुगलमपि सुप- रिघटितललितपदनिचिति भवति शिखा॥१०॥ शिखीति॥ शिखी अनिः ३ शिखिस्विभिर्गुणिता ये दश लघवस्तै रचितं यत्तत् । पुनः कीदृशमपगतं लघुयुगलं यस्मात्तत् । एवं प्रथम दलं तथापरं द्वितीयं दलमखिलं संपूर्ण त्रिंशन्मात्रके तथा दलद्वय- मपि सगुरुकं । कोऽर्थः । प्रथमे दलेऽष्टाविंशतिलघवः प्रांते गुरुश्च द्वितीये त्रिंशन्मात्राः प्रांते गुरुः एवं दलद्वये द्विषष्टिलघव इत्यर्थः । कथंभूतं सुपरि शोभनप्रकारेण घटितानि वद्धानि मनोज्ञानि पदानि तेषां निचिती रचना यस्मिंस्तच्छिखानाम छंदो भवति ॥ १० ॥ विनिमयविहितसकलयुगललघुललितपदवित- तिरचितगणनिचया|श्रुतिसुखकृदियमपि जग- तिजशिर उपगतवति जि सति भवति स्वजा ११॥ विनिमयेन वैपरीत्येन विहितं यत्सकलयुगलं तस्य लघवस्त -
वृत्तरत्नाकरः।
लिता या विततिः पदश्रेणिस्तया रचिता निवद्धा गणसमूहा
यस्यां सा श्रुत्योः सुखं करोतीति श्रुतिसुखकृत के सति जि जकारे
जकारस्य शिरसि उपगतवतीत्यर्थः । स्वजानाम छंदः ॥ ११ ॥
अष्टावधं गा ब्यभ्यस्ता यस्याः सानंगक्रीडोक्ता
दलमपरमपि वसुगुणितसलिलनिधिलघुकविर-
चितपदवितति भवति ॥ १२॥
यस्या अर्धे दले अष्टौ गा गुरवो भवंति कथंभूता गुरवाव्यभ्यस्ता
द्विगुणिताः पोडश गुरष एव स्युरित्यर्थः । तथापरं द्वितीयमपि
दलं वसुभिरष्टभिगुपिता ये सीललनिधयश्चत्वारो लघवी यत्तत्क-
विभी रचिता पदविततिः पदश्रेणिर्यस्य तत् सा अनंगक्रीडानाम
छंदो भवति ॥ १२ ॥
त्रिगुणनलघुस्वसितिगुरुरिति दलयुगकृतततु
रिह रुचिरा॥१३॥
इति मात्राप्रकरणम् ॥ इति भट्टकेदाररचिते
वृत्तरत्नाकरे द्वितीयोऽध्यायः॥२॥
त्रिगुणास्त्रिभिर्गुणिता नव लघवो यस्यां सा त्रिगुणमवलघुः
अवसितो अवसाने गुरुर्यस्याः सा अवसितिगुरुः इत्येवं दलयुगेन
खंडयुग्मेन कृता तनुर्यस्याः सा दलयुगकृततनुः रुचिरानामेति
छंदः ॥ १३ ॥ इति वृत्तरत्नाकराख्ये छंदसि मात्राप्रकरणवृत्ती
द्वितीयोऽध्यायः ॥ २॥
उक्ता गः श्रीः॥१॥ अत्युक्ता गौ स्त्री ॥२॥
मध्या मो नारी रो मृगी॥ ३॥ प्रतिष्टा मौ
चेत्कन्या॥४॥
३ सटीकः। इदानी समवृत्ताध्यायमभिधातुमाह ॥ गः गुरुयदि पादेपाद स्कैको वर्णों भवति तदा उक्तायां जातौ श्रीनाम वृत्तं भवति॥१॥ पादेपादे द्वौ गकारौ यदि भवतस्तदा अयुक्तायां जातौ स्वीनाम छंदो भवति ॥ २॥ पादेपादे एकैको मगणो यदि भवति तदा मध्यायां जाती नारीनाम छंदः । रो रगणो यदि भवति तदा मध्यायां जाती मृगीनाम छंदः ॥ ३॥ एवं यावंतश्छंदोभेदा भवंति तावंत एवमवतार्याः गौ मगणगुरू चेद्यदि भवतस्तदा प्रति- छायां जातौ कन्यानाम छंदः ॥ ४ ॥ सुप्रतिष्ठा । मौगिति पंक्तिः॥५॥ गायत्री । त्यो स्तस्तनुमध्या। शशिवदना न्यौ सौ चेद्वसुमती॥६॥ भगौ भगणो द्वौ गुरू च भवत इति सुप्रतिष्ठायां जातौ पंक्ति - मछंदः ॥ ५ ॥ त्यो तगणयगणौ यदि स्तस्तदा गायध्यां जाती तनुमध्या । न्यौ नगणयगणौ यदि तदा शशिवदना । चेयदि सौ तगणसगणौ भवतस्तदा वसुमती ॥ ६ ॥ उष्णिक् । मधु यदि ननगाः । कुमारललिता ज्सौर । म्सौ गाल्यान्मदलेखा ॥७॥ यदि ननगाः द्वौ नगणौ गुरुश्च भवति तदा उप्णिहि जातो मधुसंज्ञं भवति । सौर जगणसगणौ गुरुश्च कुमारललिता । म्सौ गः मगणसगणौ गुरुश्च यदा भवति तदा मदलेखा ॥ ७ ॥ अनुष्टुप् । भौ ग्गिति चित्रपदा गः। मो मो गो यो विद्युन्माला ॥माणवकं भात्तलगाः । म्नौ गौ ૨૮ वृत्तरत्नाकरः। हंसरुतमेतत् । जौ समानिका गलौ च । प्रमा- णिका जरौं लगौ । वितानमाभ्यां यदन्यत्।।८॥ अथानुष्टुपजाती भी ग्गः द्वौ भगणौ गुरुद्वयं च यदा भवति तदा चित्रपदानाम | मो मो गो गो द्वौ मगणी द्वी गुरू च विद्युन्माला छंदः । भाद्भगणात् परे तलगाः तगणलघुगुरवो यदि भवंति तदा माणवकं छंदः । मगणनगणों द्वौ गुरू चतत् हंसरुतं नाम छंदः । रगणजगणी गुरुलयू च यदि भवतस्तदा समानिकानाम छंदः । जगणरगणौ लघुगुरू च तदा प्रमाणिकानाम छंदः । आभ्यां समानिकाप्रमाणिकाभ्यां यदन्यल्लक्षणं तद्वितानंनाम छंदो भवति ॥८॥ बृहती । रानसाविह हलमुखी । भुजगशिशुभृता नौमः॥९॥ अथ वृहत्यां जातौ रात् रगणात्परौ नसौ नगणसगणौ यदि भवतस्तदा हलमुखीनाम छंदः । इहास्मिन् शास्त्रे द्वौ नगणौ मगणश्च यदि भवति तदा भुजगशिशुभृतानाम छंदो भवति ॥९॥ पंक्तिः । म्सौ ज्गौ शुद्धावेराडिदं मतं । म्नौ गौचेति पणवनामेदम् । जौं रगौ मयूरसारिणी स्यात् । भ्मौ सगयुक्तौ रुक्मवतीयम् । ज्ञेया मत्ता मभसगयुक्ता । चंपकमाला चेगमसादः । नरजगैर्भवेन्मनोरमा॥१०॥ पंक्त्यां जातो म्सौ मगणसगणो ज्यौ जगणगुरू च यदि भवत- स्तदाशुद्धविराडिति मतमभिप्रेतम् । मगणनगणौ रगणगुरू च यदा भवतस्तदा पणवनामक छंदः । रगणजगणौ रगणगुरू च यदि भव- तस्तदा मयूरसारिणीनाम छंदः स्यात् । भगणमगणौ सगणगुरुभ्यां ३९ सटीकः। युक्तौ यदि भवतस्तदा रुक्मवतीयं भवति । मभसगाः मगणभगण- सगणगुरवस्तर्युक्ता यदा भवति तदा मत्ता ज्ञेया । भगणमगणसग- णावेद्यदि गुरुः भवति तदा चंपकमालानाम छंदः । नगणजगणरग- णगुरुभिर्युक्ता यदि भवेत्तदा मनोरमा भवति ॥ १० ॥ त्रिष्टा । नौ ज्यो गुरुणेयमुपस्थितोक्ता स्या- दिवत्रा यदि तो जगौगः । तद्रवज्रा जतजा- स्ततो गौ । अनंतरोदीरितलक्ष्मभाजौ पादौ यदीयाबुपजातयस्ताः । इत्थं किलान्यास्वपि मिश्रितासु स्मरंति जातिष्विदमेव नाम ॥ सां- द्रपदं भ्तो नगलघुभिश्च । नजजलगैर्गदिता सुमुखी। दोधकवृत्तमिदं भभभागौ । शालिन्यु- ताम्तौ तगौ गोब्धिलाकैबातोीय गदिता म्तौ तगौ गः पंचरसैः श्रीभैतनगगैः स्यात् । म्भौन्लौ गः स्याद्रमरविलसिता । रानराविह स्थोद्धता लगौ । स्वागतेति रनभाद्गुरुयुग्मं । ननसगगुरुरचिता वृत्ता। ननरलगुरुभिश्च भ- द्रिका ।इयेनिका रजारलौ गुरुयंदा। उपस्थि- तमिदं ज्सौ ताद्कारौ ॥ ११॥ त्रिष्टुमि जातो तगणजगणौ जगणगुरू च गुरुणा कृत्वा यदि तदेयमुपस्थिता टक्का कथिता । नौ तगणौ जगणगुरू गुरुश्च यदि भवति तदा इंद्रवज्ञानाम छंदः स्यात् । जतजा जगणतगणजगणा- स्ततोऽग्रतो गुरु द्वौ च यदि भवतस्तदा उपेंद्रवज्रा भवति । मनंतर- शन्दे पाश्चात्यवृत्तद्वयमिंद्रवज्रोपेंद्रवज्रास्यं गृह्यते अनंतरमुदीरितम- वृत्तरत्नाकरः। नंतरीदीरितमनंतरोदीरितं तच्च लक्ष्म तद्जतः अनंतरोदीरितलक्ष्म- भाजौ यौ.यदीयौ पादौ यस्या इमौ यदीयौ ता उपजातय उच्यते । इत्यमनेन प्रकारेण अन्यास्वपि जातिषु मिलितासु पूर्वाचार्या इदमेव नाम स्मरति । यथा कुमारसंभवे प्रथमसर्गे उपजातिश्छंदः। अ- स्त्युत्तरस्यां दिशि देवतात्मा अत्र प्रथमपादे इंद्रवज्रा । हिमालयो नाम नमाधिराज इत्यत्रीपेंद्रवजा । एवं तृतीयचतुर्थचरणयोरप्यवर्ग- तव्यम् । भ्तौ भगणतगणौ नगलघुभिः नगणगुरुलघुभिश्च सांद्रपदं नाम छंदः । नजजलगैः नगणजगणजगणलघुगुरुभिस्तदा सुमुखी गदिता कथिता । भमभागणावा गुरू यदि भवतस्तदा इदं दोषक वृत्तं स्यात् । मततगणादने द्वौ गुरू भवत्तोचान्धिलोकश्चतुःसलाम रसरैयतिविधया तदा शालिनी उक्ता । अत्र छंदसि चतुर्वणे- भ्यः एका यतिः कार्या ततः सप्तवर्णेभ्यो द्वितीया यतिविधेया। परमत्र यदि यतिन स्यात्तदा छंदोप्यलीकः । मगणतगणौ तगणगुरू गुरुश्च इयं वातोर्मी पंचरसैः पंचमिः पद्भिश्च यतिर्भवति । भतनगगैः भगणतगणनगणैर्गुरुभ्यां तदा श्रीनाम छंदः स्यात् । मगणभगणौ नगणलघुगुरवश्च भवति तदा भ्रमरविलसिता स्यात् । इह छंदोजातो सत् रगणान्नरौ नगणरगणौ लघुगुरू च भवतस्तदा रथोद्धत्तानाम ! रनभात रगणनगणभगणाद्यदिगुरुयुग्मं भवति तदा स्वागताभवति । नगणभगणसगणगुरुगुरुभी रचिता वृत्तानामछंदः । रगणजगणौ रग- पलधुगुरवश्च यदा एवं तदा श्येनिकानामछंदः । जगणसगणौ ततः तगणापरौ गुरू च भवतस्तदा उपस्थितमिदं छंदः ॥ ११ ॥ जगती । चंद्रवर्त्म गदितं तु रनभसैः। जतौतु वंशस्थमुदीरितं जरौ । स्यादिंद्रवंशा ततजैरसं- युतैः । इह तोटकमंबुधिसै प्रथितम् । द्रुतविलं- वितमाह नभो भरौ । वसुयुगविरतिनों म्यो पुटोऽयम् । प्रमुदितवंदना भवेत्री ररौ । नयस- सटीकः। हितौ न्यौ कुसुमविचित्रा । रसैर्जसजसा जलो- द्धतगतिः।भुजंगप्रयातं भवेद्यैश्चतुर्भिः। रैश्चतु- भिर्युता स्रग्विणी संमता । भुवि भवेन्नभनरैः प्रियंवदा । त्यो त्यो मणिमाला छिन्ना गुहवः। धीरैरभाणि ललिता तभी जरौ । जजाविह मौ- क्तिकदाम जजौ चात्यौ त्याविति निर्दिष्टा पुष्प- विचित्राविभावरीतु साजरौ जरौ यतः। प्रमि- ताक्षरा सजसरुदिता। ननभरसहिताभिहितो- ज्ज्वला । पंचाश्वैश्छिन्ना वैश्वदेवी समौ यौ। अब्भ्यंगैःस्याज्जलधरमाला म्भौ स्मौ । इह न- वमालिनी नजपरौ म्यौ । स्वरशरविरतिर्ननौ रौ प्रभा। भवति नजावथ मालती जरौ । इति व- दतामरसं नजजायः॥१२॥ जगत्यां जातौ रश्च नश्च भश्च सश्च रनभसा रगणनगणभगणस- गणास्तैश्चंद्रवर्म गदितं कथितं । जश्च तश्च जतौ जगणतगणौ तु पुनः जरौ जगणरगणी यदि भवतस्तदा वंशस्थनाम छंद उदीरित कथितं । तगणनगणजगणैः रगणसंयुक्तः इंद्रवंशा स्यात् । इह छंदो- जातौ अंबुधिसैश्चतुःसगणैः तोटकं प्रथितं । नश्च भश्च नभौ नगण- भगणौ भरौ भगणरगणौ च भवतस्तदा द्रुतविलंबितमाह । नौ नगण- नगणौ म्यौ मगणयगणौ च यत्र वसवोऽटौ युगानि चत्वारि तर्य- तिर्यस्मात्सोऽयं पुटोनाम छंदः। नगणनगणी रौ रगणरगणा. यत्र भवतः सा प्रमुदितवदना भवेत् । न्यौ नगणयगणौ नगणयगण- संयुक्तौ यत्र सा कुसुमविचित्रा । रसैः पतिः जसनसा जगण-
४२
वृत्तरत्नाकरः।
सगणजगणसगणः रचित्ता या सा जलोद्धतगतिर्नाम छंदः । चतुर्भि-
यंगणे जंगप्रयातं नाम छंदो भवेत् । चतुभिः रेः रगणैः स्रग्विणी
संमता कथिता । नगणभगणजगणरगण वेि पृथिव्यां प्रियंवदानाम
छंदो भवेत् । तगणयगणौ तगणयगणौ च यत्र सा मणिमालानाम
परं गुहकै छिना गुहः कार्तिकेयस्तस्य वक्राणि मुखानि षट् तसं-
ख्यया यतिर्षिधेया तगणभगणी जगणरगणीच यत्र सा धीरेमनी-
पिभिः ललिता अभाणि । चत्वारा जगणा यत्र तत् मौक्तिकदामछं-
दः इह अस्मिशास्त्रे स्यात् । तगणपगणी तगणयगणी च इत्यनेन
प्रकारेण यत्र सा मुमिना पुष्पविचित्रा निर्दिष्टा कयिता । जगण-
रगणा तु पुनः जगणरगणौ यतो भवतः सा विभावरीनाम | सगण-
जगणसगणनगणैः प्रमिताक्षरानाम दिता कथिता । नगणनगणभ-
गणरगणसहिता या सा उज्ज्वला अभिमता । द्वौ मगणी ततो द्वी
यगणी यत्र सा वैश्वदेवी परंतु पंचाग्वैश्छिन्ना पंचाक्षरैः प्रथमा यतिः
ततोऽः सप्तभिर्द्वितीया यतिः कार्या । अन्धयश्चत्वारोंगान्यष्टौ तर्वि-
रामो यत्र मगणभगणी सगणमगणी च स्याच सा जलघरमालानाम
छंदः । नगणजगणाभ्यां परौ भगणयगणी याद स्तस्तदा इह छंदो-
जाती नवमालिनी भवति । स्वरः सप्तभिस्ततः शरैः पंचभिर्विरति-
विरामो यत्र च द्वौ नगणौ द्वौ रगणौ च भवतः सा प्रभानाम छंदः।
नगणनगणी अय जगणरगणौ यत्र स्तः सा मालतीनाम भवति ।
नगणजगणजगणात्परो यगणः स्यात्तदा इति तामरस नाम वं
वद कथय ॥ १२॥
अतिजगती । तुरगरसयतिनौँ ततौ गःक्षमा ।
म्ती नौ गस्त्रिदशयति महर्षिणीयं । चतुर्ग्रहरिह
रुचिरा ज्भौ सरौ गः । वेदैरंधैम्तौं यसगा मत्त-
मयूरं । सजौ जतौ गो भवति मंजुभाषिणी। नन
ततगुरुभिश्चंद्रिकाश्वर्तुभिः॥ १३ ॥
. सटीकः। अयातिजगतीजातिः तुरगरसयतिः सप्तषभिर्विरामः स्याद्यत्र द्व नगणौ द्वौ तगणौ गुरुरेकश्च सा क्षमानाम छंदः । मगणतगणौ जग परगणौ गुरुश्च त्रिदशयतिः निभिरक्षरैस्ततो द्वितीयो दशाक्षरैविरामः इयं महर्षिणीनाम छंदः । जगणभगणौ सगणरगणौ गुरुश्च एभिः रुचिरानाम छंदः । इह छंदसि चतुर्भिरक्षरैः प्रथमा यतिः ततो अहेर्नवनिरक्षरैद्वितीया यतिः कार्या । वेदैश्चतुभिरक्षरैः रंः नवभिर्य- तिः मगणतगणौ यगणसगणगुरुभिः सह यत्र च तत् मत्तमयूरं छंदः। जतौ जगणतगणौ सजौ सगणजगणौ गो गुरुश्च यत्र सा मंजुभाषि- णी भवति । नगणनगणतगणतगणगुरुभिश्चंद्रिकानामछंदः । परमश्वैः सप्तभिस्ततः ऋतुभिः षड्मियतिः कार्या ॥ १३ ॥ शकरी । म्तौ न्सौ गावक्षग्रहविरतिरसंवाधा । ननरसलघुगैःस्वरैरपराजिता । ननभनलगिति प्रहरणकलिता। उक्ता वसंततिलका तभजा जगा गः सिंहोदतेयमुदिता मुनिकाश्यपेन ॥ उर्पिणीति गदिता मुनिशैतवेन श्रीपिंगलेन कथिता मधुमाधवीति ॥ १॥इंदुवदना भजसनः सगुरुयुग्मैः॥ द्विासप्तच्छिदलोला म्सौम्भौ गो चरणे चेत् ॥१४॥ अय शक्कयों चतुर्दशाक्षरायां जाती मगणतगणौ नगणसगणौ द्वौ गुरु च तदाऽसंवाधानाम छंदः अत्र अक्षरिद्रियैः पंचभिः अहेर्नवभि- यतिः कार्या । नगणनगणरगणसगणलधुगुरुभिरपराजितानाम छंदः अत्र स्वरैः सप्तभिर्यतिः कार्या । द्वौ नगणौ भगणनगणौ लघुगुरू च इत्यनया रीत्या प्रहरणकलिकानाम छंदः । तगणभगणजगणज- गणा द्वौ गुरू च एभिर्वसंततिलका उता । मतांतरमाह इयं वसंत- वृत्तरत्नाकरः। तिलका काश्यपेन मुनिना सिंहोद्धता उदिता भणिता | तथा चौतवेन मुनिना इयमुर्षिणी निगदिता । श्रीपिंगलेनाचार्येणेयं मधुमाधवीति कथिता । एवंच रूपाण्यपि मतानि | भगणजगण संगणनगणैर्गुरुयुग्मसहितैरिंदुवदना स्यात् । यदि चरणे पादे मगणसगणौ मगणभगणौ द्वौ गुरू च तदा अलोलानाम छंदः । अत्र द्विःसप्तच्छित् द्वौ वारी सप्तभिः सप्तभिः छित् छेदो यतिवि- राम इति ॥ १४॥ अतिशकरी। द्विहतहयलघुरथगिति शशिकला। श्रीगिति भवति रसनवकयतिरियं । वसुमु- नियतिरिह मणिगुणनिकरः। मा वाणा यस्यां सा कामक्रीडा ज्ञातव्या। ननमयययुतेयं मा- लिनी भोगिलोकैः । भवति नजौ भजो रसहितौ प्रभद्रकम् ॥ सजना नयौ शरदशकविरतिरेला । म्रो म्यौ यांती भवेतां सप्ताष्टकैश्चंद्रलेखा॥१६॥ अथ पंचदशाक्षरायां शक्कयाँ जातौ द्विहता द्वाभ्यां गुणिता हयाः सप्त जाताश्चतुर्दश प्रागेव तावतो लपवस्तदनु एको गुरुरित्यमुना प्रकारेण शशिकलानाम छंदो भवति । इयं शशिकला यदि रसनव- कयतिः षट्नवभिर्यतिस्तदेत्यनया रीत्या लग्नाम भवति । इह अस्यां शशिकलायामष्टसप्तभिर्यतिस्तदेयं मणिगुणनिकर स्यात् । मा वाणाः पंच मगणाः यस्यां सा कामक्रीडासंज्ञा ज्ञातव्या । द्वौ नगणौ एको मगणो द्वौ यगणौ च एभिर्युता इयं मालिनी अस्यां भोगिलोकैः अष्टभिः सप्तभिश्च यतिर्विधया। नगणजगणौ भगण- जगणी रगणसहितौ तदा प्रभद्रनाम छंदो भवति । सगणजगण- नगणा नगणयगणौ च भवतो यत्र शरदशकविरतिः पंचभिस्ततो दशभिर्वतिर्भवति सा एलासंज्ञा स्यात् । मगणरगणौ मगणय- सटीकः। गणौ यगणांतौ यदि भवेतां यतिश्च सप्तभिरष्टभिरक्षरैभवेत्तदा चंद्रलेखासंज्ञा स्यात् । इत्यतिशकरी जातिः ॥ १५ ॥ अष्टिः । भ्रविनगैःस्वरानवमृषभगजविलसितं । नजभजरैः सदा भवति वाणिनी गयुक्तैः। जरौ जरो जगाविदं वदति पंचचामरम् ॥ १६॥ अथ अष्टिजातिस्तत्र भ्रत्रीति भौ भगणरगणौ त्रिनं नगणत्रितयं ततो गो गुरुरेका एभिः ऋषभगजविलसितंनाम छंदोत्र स्वरात्सप्त- भ्यः नवं यतिः । नगणजगणभंगणजगणरगणैर्गुरुसहितः तदा वाणिनीनाम छंदो भवति । जगणरगणौ जगणरगणौ जगणगुरूच एतैरिदं छंदः पंचचामरं नाम छंदोविदः वदंति कथयति ॥ १६ ॥ अत्यष्टिः। रसै रुद्वैश्छिन्ना यमनसभला गःशि- खरिणी । जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः । दिग्मुनिवेशपत्रपतितं भरनभनलगैः । रसयुगहयैन्सौं नौ स्लौ गो यदा हरिणी तदा मंदाक्रांता जलधिषडगम्भौं नतौ ताद्गुरू चेत्। यदि भवतो नजौ भजजला गुरुर्नकुंटकं । मु- निगुहकार्णवैः कृतयति बद कोकिलकम्।।१७॥ मय अत्यष्टिजातिस्तत्र रसैः षड्भिस्ततो रुद्रैरेकादशभिश्छिन्ना विरातिर्यत्र च यगणमगणनगणसगणभगणलघवो गुरुश्च सा शिस्त्र- रिणी स्यात् । जगणसगणी जगणसगणयगणलघवो गुरुश्च यत्र सा पृथ्वीनाम छंदः । अत्र अभिस्ततो नवभिर्यतिः कार्या भगणरगण- नगणभगणनगणलघुगुरुभिर्वेशपत्रपतितनामछंदोऽत्र दशभिस्ततः सप्त- मितिः । षड्भिस्ततश्चभिस्ततःसप्तभिर्यतिर्यदा न सगणसगणी वृत्तरत्नाकरः। मगणरगणौ सगणलघु गुरुश्च तदा हरिणीनाम छंदः स्यात् । चेद्यदि जलीघीभश्चतुर्भिः पमिः अंगैः सप्तमिः यतिः मगणभगणी नगणत- गणी तात् तगणात गुरू व स्यातां तदा मंदाक्रांतानाम छंदः । यदि नगणजगणी भवतः भगणजगणजगणलघवो गुरुश्च स्यात्तदा नर्कुटकनाम छंदः । इदं नकुंटकं यदि मुनिगुहकार्णवैः मुनिभिः सप्तभिः गुहकैरिति गुहः कार्तिकेयस्तस्य कानि मुखानि षट् तै - हकै पद्दभिः अवैश्चतुर्भिश्च कृता यतिर्यत्र स मुनिगुहकार्णवैः कृतयतिस्तं तदा त्वं कोकिलकंनाम छंदः कयय ॥ १७ ॥ धृतिः। स्याद्भूतत्वश्वैः कुसुमितलताबेल्लिता म्तो नयाँ यो॥ १८॥ धृति म जातिस्तत्र यत्र भूतवन्यैः पंचपट्सप्तभिर्यतिः मगण- तगणी नगणयगणौ द्वौ यगणीच सा कुसुमितलतावेल्लिता स्यात् १८|| अतिधृतिः। रसवंश्चैय्मा सौररगुरुयुता मेघ- विस्फूर्जिता स्यात् । सूर्याश्वमसजस्तताः सगु- खः शार्दूलविक्रीडितम् ॥ १९॥ भय अतितितिः यमनसररगणगुरुयुता मेघविस्फूर्जिता स्यात् । सः षभिःऋतुभिः पमः अवैः सप्तभिः कृतविरामा । सूर्याचः द्वादशसप्तभिः कृतविरामं मसजसततगणा गुरुसहिता यत्र तत् शार्दूलविक्रीडितनाम छंदः स्यात् ॥ १९ ॥ कृतिः । ज्ञेया सप्ताश्वपभिर्मरभनययुता भ्ली गः सुवदना । त्री रजौ गलौ भवेदिहेशेन लक्ष- णेन वृत्तनाम ॥२०॥ अय कृतिलाती मरभनयगणसहिता भगणलघु गुरुश्च यत्र सप्ता-
सटीकः।
४७
श्वषभिः यतिः सप्तभिः अवैः सप्तभिः षभिः यतिः सा सुवदना
तैया। त्रिखीन वारान् रगणजगणौ ततो गुरुलवू इह ईशेन लक्ष-
गेन वृत्तनाम छंदो भवेत् ॥ २० ॥
प्रकृतिः। नभ्नैर्यानां त्रयेण त्रिमुनियतियुता
स्रग्धरा कीर्तितेयम् ॥२१॥
अथ प्रकृतिजाती मरभनगणस्ततो यानां त्रयेण यगणत्रयेण
इयं स्त्रग्धरा कीर्तिता । किंभूता स्रग्धरा त्रिमुनियतियुता सप्ताभ-
स्ततः सप्तभिस्ततः सप्तभिर्विरामसहिता ॥ २१ ॥
आकृतिः। भ्रौ नरना रनावथ गुरुर्दैिगर्कविरम
हि भद्रकमिदम् ॥ २२॥
अथ आकृतिजातौ भगणरगणौ ततो नगणरगणनगणास्तती
रगणनगणौ अथ गुरुः इदं भद्रकंनाम छंदः । किंभूतं दिगर्कविरमं
दशभिदशभिश्च विरामो यत्र तत् । अत्र हि पादपूरणे ॥ २२ ॥
विकृतिः। यदिह नजौ भजौ भ्जभलगास्तदा-
श्वललितं हराकयति तत् । मत्ताकोडं मौ भनौ
नौ लौ गिति भवति वसुशरदशयतियुतम्॥२३॥
अथ विकृति तिः यदिह शास्त्रे नगणनगणौ भगणजगणभ-
गणनगणभगणलघुगुरवश्च स्युस्तत् . अन्वलितं नाम छंदः । किंभूतं
तत् हरायति । हरैकादशभिरकादशभिर्यतिविरामी यत्र तत् । दौ
मगणी भगणनगणी द्वौ गणौ नगणलवू गुरुश्च इति लक्षणेन मताकीर्ड
नाम । कीदृशं मत्तानीहं वसुशरदशयतियुतमष्टपंचदशभियांत-
स्तया सहितम् ॥ २३ ॥
संकृतिः।भूतमुनीनयंतिरिह भतनाः स्भो भन-
याश्च यदि भवति तन्वी ॥२४॥
वृत्तरत्नाकरः। अथ संकृतिर्जातिः इह छंदोजाती भतनाः सभौ भनयाश्च एते गणा यदि भवेयुस्तदा तन्वीनाम छंदी भवति । अत्र पंचसप्तदादश- भिर्यतिः कार्या ॥ २४ ॥ अभिकृतिः। क्रौंचपदाम्मी स्भी नननोनगा- विषुशरवसुमुनिविरतिरिह भवेत् ॥ २५ ॥ अय अभिकृतिर्जातिः इह शास्त्रे चेद्यदि भगणमगणी सगणभग- गौ चत्वारो नगणा एको गुरुश्च इषुभिः शरैः पंचभिः वसुभिरष्टभि- मुनिभिः सप्तभिश्च विरतिः स्यात्तदाकौंचपदानाम छंदो भवेता२५॥ उत्कृतिः । वस्वीशाश्वच्छेदोपेतं मम तनयुगन- रसलगैर्भुजंगविजृभितम् । मो नाः षट् सगाग- ति यदि नवरसरसशरयतियुतमपवाहाख्यम्॥२६॥ अथ उत्कृतिजाती ममतगणास्तत्तो नयुगं नगणयुगलं ततो नर- सगणलघुगुरवः एतैर्भुजंगविजृमितनाम छंदो भवति । कीदृशं तत् वस्वीशाश्वच्छेदोपेतमष्टकादशसप्तभिश्छेदो विरामस्तेनोपेतं युक्तम् । एको मगणस्ततो नगणाः षट् ततः सगणस्ततो गुरुद्वयमित्यमुना प्रकारेण यदि नवषट्पंचभियंतिस्तया युत्तमुपेतं तदा अपवाहाख्यं नाम छंदः स्यात् ॥ २६ ॥ ॥ इति समवृत्तप्रकरणम्॥ यदीह नयुगलं ततः सप्त रेफास्तदा चंडवृष्टि- प्रयातो भवेइंडकः॥१॥ अथ चंडवृष्टयादिकदंडकानाह यदीहोते । यदि इह दंडकजातो आदौ नयुगलं नगणयुग्मं ततः सप्त रेफाः सप्त रंगणास्तदा चंड-
सटीकः।
ट्रिप्रयातोनाम दंडको भवेत् चत्वारोपि पादा ईदृशेन लक्षणेन
कर्तव्याः ॥ १॥
प्रतिचरणविवृद्धरेफाः स्युरार्णवव्यालजीमूत-
लीलाकरोदामशंखादयः॥२॥
तथात्र प्रतिचरणविवृद्धरेफा इति । दंडकं दंडकंप्रति पादेपादे
एकैकरगणवृद्धिः क्रियते तदा अमूनि नामानि दंडकानां पृथक् स्युः
आदौ सर्वत्र नगणद्वयमेव कार्य तथा च द्वौ नगणौ ततः सप्त रगणाः
अत्र तु द्वौ नगणौ पादे पादे ततः अष्टौ रगणास्तदा अर्णनाम दं.
डकं स्यात् । एवं प्रतिदंडकवृद्धौ नवभिरणवनाम दशभिः रगणैालः
एकादशभिः रगणैजीमूतनाम द्वादशभिः रगणैलीलाकरः त्रयोदशभिः
रगणैरहामः तथा पादे पादे आदी द्वौ नगणौ ततश्चतुर्दश रगणा-
स्तदा शंखोनाम दंडको भवति आदिशब्दात्पथ (?) गगनसमु-
द्रादयोपि शिष्टकृतनामानो गृह्यते रगणवृद्धिरपि कर्तव्या ॥ २ ॥
प्रचितकसमभिधो धीरधीभिः स्मृतो. दंडको
नद्वयादुत्तरः सप्तभियः॥३॥ इति भट्टकेदार-
विरचित वृत्तरत्नाकराख्ये छंदसि समवृत्ताच्या-
यस्तृतीयः समाप्तः॥३॥
तथा नगणद्वयादुत्तरैरतनैः सप्तभियर्यगणैर्धारधीभिः पंडितः
प्रचितकसमभिधोनाम दंडकः स्मृतः कथितः ॥ ३ ॥ इति दंडकाः ॥
इति वृत्तरत्नाकराख्ये छंदसि समवृत्ताघ्यायस्वृत्तीयः ॥ ३ ॥
विपमे यदि सौ सलगा दले भी युजिभाहरुका-
बुपचित्रम् ॥ १॥ भत्रयमोजगतं गुरुणी चत्
युजि च नजौ ज्ययुतौ द्रुतमध्या ॥२॥
वृत्तरत्नाकरः। इदानीमर्धसमवृत्ताध्यायो व्याख्यायते ॥ विषमे दले प्रथमत- तीये पादे यदि द्वौ सगणौ ततः सगणलघुगुरवो भवति पुनर्यदा युजि समे दले द्वितीयचतुर्यपादे द्वौ भौ भगणौ ततो भात् भगणात् द्वौ गुरू भवतस्तदा उपचित्रनाम छंदः अत्र तृतीयपादः प्रथमपाद- सदृशः चतुर्यपादो द्वितीयपादसशः एवं सर्वत्राधसमच्छंदसि ज्ञेय- म् ॥ १ ॥ वैद्यदि ओजगतं विषमपादोत्पन्नं लक्षणं भगणत्रयं प्रथमं ततो गुरुणी गुरुद्वयं च पुनः युजि समे पादे नगणजगणी जगणयगणसहितौ भवेतां तदा द्रुतमध्यानाम छंदो भवति ॥ २ ॥ सयुगात्सगुरू विपमे चेद्भाविह वेगवती युनि भाद्वौ ॥३॥ विषमे पादे सगणयुग्मात्सगणगुरू चेदि भवतः इह युजि समै पादे भौ भगणौ ततः पुनर्भगणात् द्वौ गुरू यदि भवतस्तदा वेग- वतीनाम छंदो भवति ॥ ३ ॥ ओजे तपरौ जरौ गुरुश्चेत् म्सौ ज्यौ भद्रविराइ भवेदनोजे ॥४॥ औजे विषमे पादे तगणात्परौ जगणरगणी गुरुश्चेद्भवति अनोजे समे पादे मसौ जगणगुरू च तदा भद्रविराट्नाम छंदो भवेत्॥४॥ असमे सनी सगुरुयुक्तो केतुमती समे भरनगा- दुः॥५॥ आख्यानकी तौ जगुरूच ओजे जतावनोजे जगुरू गुरुश्चेत् ॥६॥ असम विषमे पादे मजौ सगणजगणौ सगणगुरू ताभ्यां युक्तौ भवेतां समे पादे भगणरगणनगणगुरवः एभ्यः पुनर्गुरुरेको यदि भवति तदा केतुमतीनाम छंदः स्यात् ॥ ५ ॥ ओजे विषमे पादे तौ द्वौ तगणो जगुरू जगणगुरू पुनर्गुरुरेकश्च पुनरनोले समै पादे
सटीकः।
जगणतगणौ ततो जगणगुरू पुनरेको गुरुश्चेत्तदा आख्यानकी
नाम छंदः ॥ ६ ॥
जतौ जगौ गो विषमे समे स्यात् तौज्गौ गएषा
विपरीतपूर्वा ॥७॥
विषमे पादे जगणतगणौ जगणगुरू गुरुश्च पुनः समे पादे तो
द्वौ तगणौ जगणगुरू गुरुरेकश्च स्यात् तदा एषा विपरीतपूर्वा
विपरीताख्यानकी भवति ॥ ७ ॥
सयुगात्सलवू विषमे गुरुयुजि नभौ च भरोहरि-
णीप्लुता ॥ ८॥ अयुजि ननरला गुरुः समेन्ज-
मपरवमिदं ततो जरौ॥९॥
विषमे पादे सगणयुग्मात् सगणलघू गुरुश्च पुनयुजि समे पादे
नगणभगणौ भगणरगणौ च तदा हरिणीप्लुतानाम छंदो भवति ॥८॥
अयुजि विषमे पादे द्वौ नगणौ ततो रगणलथुगुरवः समे पादे न-
गणजगणौ ततोऽनंतरं जगणरगणौ इदमपरवनाम छंदः ॥ ९ ॥
अयुजि नयुगरेफतो यकारो युजि च नजो जर-
गाश्च पुष्पिताया ॥ १० ॥ वदंत्यपरवत्राख्यं
वैतालीयविपश्चितः ॥ पुष्पितामाभिधं के
चिदौपच्छंदसिकं तथा ॥११॥
अयुजि विपमे पादे नगणयुगं च रेफश्च नगणयुगरेफौ ताभ्यां
नगणयुगरेफत्तो यगणो भवति च पुनः युजि समे पादे नगणजग-
जो ततो जगणरगणगुरवश्च तदा पुष्पितायानाम छंदो भवेत् ॥१०॥
यदिदमपरवकाख्यंनाम छंदस्तद्विपश्चितः पंडिता वैतालीयं वदति
क्ययंति पाश्चात्त्य पुष्पितामाभिधं छंदो भवेत् ततः केचिदाचार्या
नौपच्छंदसिकं वदति ॥ ११ ॥
५२ वृत्तरत्नाकरः। स्यादयुग्मके रजौ रजौ समे तु जरो जरो गुरु- यंदा यवान्मतीयम् ॥ १२॥ अयुग्मके विपमे पादे रगणजगणी ततो रगणजगणी तु पुनः समे पादे जगणरगणौ ततो जगणरगणौ गुरुश्च तदा यवाद्यवशब्दा- स्परा मतीयं यवमतीत्यर्थः ॥ १२ ॥ इति वृत्तरत्नाकराख्ये छंदसि अर्घसमवृत्तरूपश्चतुर्योऽध्यायः ॥ ४ ॥ मुखपादोऽष्टभिर्वणः परेस्मान्मकरालयःक्रमा- वृद्धाः सततं यस्य विचित्रै पादैःसंपन्नसौंदर्य तद- भिहितममलधीभिः पदचतुरूाभिधं वृत्तम् ॥३॥ अथ विषमवृत्ताच्यायो व्याख्यायते । मुखपाद इति । यस्य वृत्तस्य मुखपाद आदिपादोऽष्टभिर्वर्णैः अस्मात् मुखपादात्परे अग्रे- तनास्त्रयः पादा मकरालयैश्चतुमिरक्षरः क्रमात् क्रमेण वृद्धा भवति द्वितीयपादो द्वादशभिरक्षरैः तृतीयः पादः पोडशाक्षरैश्चतुर्यों विंशत्य- रः अमलीमिः पंडितैस्तत् पदचतुरूवाभिधं वृत्तमभिहितं भणितं किंभूतं तत् सततमनवरतं यस्य वृत्तस्य विचित्रः नानाविधैः पादः संपन्नसौंदये जातचारुत्वम् ॥ १ ॥ प्रथममुदितवृत्तेविरचितविषमचरणभाजि गुरुक- -युगलनिधने इह कलित आडा विधृतरुचिरपद- विततियतिरिति भवति पीडः॥२॥ प्रयममिति । इह शास्त्रे प्रथममुदितवृत्ते पूर्व प्रतिपादिते वृत्ते पदचतुरूभिधे वृत्ते आडा कलितः पीडोनाम छंदो भवति । आ- पीड इत्यर्थः । किंभूते वृत्ते विरचिता विषमान् चरणान् पादान भजतीत्येवंशीलः स तथा तस्मिन् । किंभूतः आपीडः गुरुयुगलं निध- नेवसाने यस्य स तथा । पुनः किंभूतः । विधृता रुचिरा पदविततौ सटीकः। यतियन स तथा भावार्थस्त्वयं आपीडछंदसि सबै लक्षणं पदचतुरू- वाभिधमुक्तं किंतु पदे पदे प्रांते गुरुद्वयं कार्यम् ॥ २॥ प्रथममितरचरणसमुत्थं श्रयति जगति लक्ष्म इत्तरदितरजनितमपि यदि चतुर्थ चरणयुगल- कमधिकृतमपरमिति कलिका सा ॥३॥ प्रथममिति । तुर्य चतुर्योंशः पाद इत्यर्थः यदि प्रथमं तुर्य प्रथ- मपादः अष्टाक्षररूपः इत्तरचरणसमुत्यं द्वितीयचरणभवं द्वादशाक्षर- रूपं लक्ष्म लक्षणं श्रयति । इतरत्तुर्य द्वितीयपादो द्वादशाक्षररूप इतरजनितमपि प्रयमपादजनितमष्टाक्षररूपं श्रयति । अपरं चरणयु- गलं तृतीयचतुर्थमधिकारापन्नं पूर्वोक्तं क्रमेण षोडशविंशत्यक्षरं लक्ष्म चिह्न अयति इत्यनेन प्रकारेण जगति लोके तदा सा कलिकानाम छंदः ॥ ३॥ द्विगुरुयुतसकलचरणांता सुखचरणरचितमनु- भवति तृतीयः चरण इहहि लक्ष्म प्रकृतमपरम- खिलमपि भजति लवल्या ॥४॥ सा लवल्यानाम छंदो भवति । किंभूता । द्वाभ्यां गुरुभ्यां युतं युक्तं सकलचरणानामंतमवसानं यस्याः तथा इहास्यां लवल्यायां हि निश्चित्तं तृतीयः चरणो मुखचरणरचितं प्रथमपादोद्भवं लक्ष्म अनुभ- वति माश्रयते । प्रकृतं प्रस्तुतमपरमन्यदखिलं चरणत्रयं भजति॥४॥ प्रथममधिवसति यदि तुर्य चरमचरणपदमव- सितगुरुयुग्मा। निखिलमपरसुपरितनसममिह ललितपादत्रितयममृतधारा ॥५॥ प्रथममधीति । प्रथम तुर्य प्रथमपादोटाक्षररूपी यदि चरमवरण- वृत्तरत्नाकरः। पदं चतुर्थं पदं स्थानमाधिवसति प्राप्नोति निखिलं समस्तमपरमन्यत उपरितनसमं पाश्चात्त्यसमानं ललितपादत्रितयमिह शास्त्रे पादचतु- रूर्वं तदा अमृतधारानाम छंदो भवति। किंभूता अमृतधारा अवसि- तमवसाने गुरुयुग्मं यस्याः सा अवसितगुरुयुग्मा ॥ ५ ॥ ॥ इति पादचतुरूप्रकरणं समाप्तम्॥ सजमादिमे सलघुकौ च नसजगुरुकेष्वथो- द्वता ।। व्यधिगतभनजला गयुताः जगौ चरम- मेकतः पठेत् ॥ १॥ सजमादिमे इति । आदिमे प्रथमे पादे सज सगणजगणी पुनः सगणलघू भवतः । अथ द्वितीये पाद नगणसगणजगणगुरुपु सत्सु उद्तानाम छंदः त्रिशब्दस्तृतीयेवर्तते विश्वासावंधिश्च व्यंधिस्तृतीय पादस्तत्र गतास्ते च ते भगणनगणजगणलघवो गुरुयुताः स्युः चर- में पश्चिमं पादं सगणजगणसगणा जगणगुरू च यदि एकत्तः एकत्र पठेत् भणेत् तदा उद्त्तानाम छंदो भवति ॥ १ ॥ चरणत्रयं भजति लक्ष्म यदि सकलमुद्गतागतं नौ भगौ भवति सौरकं चरणे यदीह भवतस्तु- तीयके ॥२॥ चरणत्रयमिति । यदि इह छंदसि तृतीये चरणे नौ रगणनगणी भगौ भगणगुरू च भवतः अपरं तृतीयवय सकलं दलं चरणत्रयं यदिउद्तागतं लक्ष्म लक्षणं भजति तदा सौरभकनामछंदो भवति॥२॥ नयुगं सकारयुगलं च भजति चरणं तृतीयक सटीकः। तदुदितमुरुमतिभिललितं यदि शेषमस्य खलु पूर्वतुल्यकम् ॥३॥ नयुगामिति । यदि तृतीयकं चरणं पादं नगणद्वयं सगणद्वयं चास्य शेषमपरं पादत्रयं खलु निश्चितं पूर्वतुल्यकमुद्गतागतं लक्षणं भजति तदा उरुमतिभिः प्रचुरमतिभिः पंडितैस्तद्वृत्तं ललितनाम उदितमुक्तम् ॥ ३ ॥ ॥ इत्युद्ताप्रकरणं समाहम्॥ म्सौ ज्भी गौ प्रथमांघ्रिरेकतः पृथगन्यत् त्रितयं सनजरगास्तथा ननौ सःचिनपरिकलितजयौ प्रचुपितमिदसुदितमुपस्थितपूर्वम् ॥ १॥ म्साविति । ममणसगणौ जगणभगणौ दो गुरु च एषः प्रथमां- निश्चरणः एकतः प्रथमपादात्पृथगन्यदतनं पादत्रितयं किंलक्षण- रूपमित्याह सगणनगणजगणरगणगुरवो द्वितीये पादे । तथा ननौ दौ नगी सगणश्च तृतीये पादे । त्रयश्च ते नास्त्रिनास्तैखिनैः परि- कालितौ युक्तौ च तौ जया जगणयगणौ चतुर्थे पाद यदि भवतस्त- दोपस्थितपूर्व प्रचुपितमुपस्थितप्रचुपितंनाम छंदः इदमुदितं कथितं छंदोविद्धिरिति शेषः ॥ १॥ नौ पादेव तृतीयके सनौ नसयुक्तौ प्रथमांत्रिय- ति यदि प्रवर्धमानं त्रितयमपरमपि पूर्वसहश- मिह भवेत्प्रविततमतिभिरिति गदितं खलु वृत्तम् ॥ २॥ नौ पाद इति । अथानंतरं नृतीयके पादे नौ द्वौ नगणी पुनः
६
वृत्तरत्नाकरः।
सगणनगणी नगणसगणयुक्तौ यदि स्तः अपरमन्यत् पादत्रितयमिह
शास्त्रे पूर्वसदृशं पाश्चात्यछंदः समानमपि निश्चितं भवेत् यदि प्रय-
मांधौ यतियस्मिंस्तत्प्रथमांत्रियति । प्रविततमतिभिर्विस्तीर्णबुद्धिमिन-
रः खलु निश्चितमित्येवंभूतं वर्षमान छंदो गदित कथितम् ॥२॥
अस्मिन्नेव तृतीयपादके तजराः स्युः प्रथमे च
विरतिरार्षभं वदति तच्छुद्धविराट्पुरस्थित
त्रितयमपरमपि यदि पूर्वसमं स्यात् ॥३॥
अस्मिन्नेवेति । अस्मिन्नेव वर्द्धमानसंज्ञके छंदसि तृतीयपादके
तजराः तगणजगणरगणाः स्युः प्रथमे च पाद विरतिः कार्या ।
अपरं पादत्रितयं यदि पूर्वसमं स्यात् वुधास्तत् शुद्धविरापुर स्थित-
मार्षमै छंदो वदति शुद्धविराडार्षभमित्यर्थः ॥ ३ ॥ इत्युपस्थितप्र-
चुपितप्रकरणम् ॥
विषमाक्षरपाई वा पादैरसमं दशधर्मवत् ॥ य-
च्छंदो नोक्तमत्र गाथेति तत्सरिभिः प्रोक्तम्।।१।।
इति वृत्तरत्नाकराख्ये छंदसि पंचमोऽध्यायः ॥५॥
विषमाक्षरेति । विषमाक्षराः पादा यस्मिंस्तद्विषमाक्षरपादं छंदः
यस्येदमेव अष्टदशसप्तनवाक्षरं पादवृत्तं तथा पादैरसमं त्रिपादं षट्-
पाद त्रिषट्पादभेदात् दशधर्मवत् । यथा । दश धर्म न जानंति
धृतराष्ट्र निबोध तान् । मत्तः प्रमत्त उन्मत्तः श्रांतः क्रुद्धो बुभुक्षितः।
त्वरमाणश्च भीरुश्च लुब्धः कामी च ते दश । इयं खलु षट्पदी
गाथा । इत्येवमादि यच्छंदोत्र नोक्तं तत्पूर्वसरिभिरित्येषा गाथा
प्रोक्ता किनाम गाथा | गीतिका कलिका वेल्लितका द्विपदी ध्रुवको-
साहचत्वरीपदुलिकाप्रभृति तत्सर्वं गाथासंज्ञकम् ॥ १ ॥ इति वृत्त-
रत्नाकराख्ये छंदसि विषमवृत्तनिरूपणाख्यः पंचमोऽध्यायः ॥ ५॥
६७
सटीकः।
प्रस्तारो नष्टमुद्दिष्टमेकद्वयादिलगक्रिया ॥ सं-
ख्या चैवाध्वयोगश्च षडेते प्रत्ययाः स्मृताः॥१॥
प्रथमं द्वारश्लोकमाह प्रस्तार इत्यादि । द्वाराणि अमूनि प्रस्तारः
१ नष्टम् २ उद्दिष्टम् ३ एकद्वयादिलगक्रिया ४ संख्या ५ अध्वयो-
गः ६ एते षट् प्रत्ययाः स्मृताः ॥ १ ॥
पादे सर्वगुरावाचाल्लघु न्यस्य गुरोरधः॥ यथो-
परि तथा शेष भूयः कुर्यादमुं विधिम् ॥२॥
प्रस्तारमाह पादे सर्वेति । सर्वगुरौ पादे आयाद्गुरोरधो लघु
न्यस्य यथा उपरि तथा शेषं समस्तमुर्वरितं भूयोभूयः पुनःपुनरप्य-
मुं विधिं कुर्यात् ॥ २॥
ऊने दद्यादुरूनेव यावत्सर्वलघुर्भवेत् ॥ प्रस्ता-
रोयं समाल्यातश्छंदोविचितिवेदिभिः॥३॥
॥ इति प्रस्तारः॥
ऊन इति । ऊने पश्चादूने गुरुण्येव दद्यात् तावद्यावत्सलघुर्भ-
घेत प्रस्तार्यत इति प्रस्तारः वर्णानां विस्तारो न्यासः समाख्यातः
कथितः । कैः छंदांसि विचीयतेऽस्यामिति छंदोविचितिस्तां विदं.
तीति छंदोविचितिवेदिनस्तैः पंडितैः ।।
SS
SSS
155
155
15
SSI
isl
SIL
अथ प्रस्तारन्य
स्थापनाप्रकारः॥
55२
15
Si
॥ ॥
५८ वृत्तरत्नाकरः। एवं संक्षेपेणोक्ता विस्तारमाह । सर्वगुरौ पादे इति । पादे यावंती वर्णास्तावंतो गुरव एव लिख्यते आदौ यथा सर्वच्छंदो- जातिषु वर्णसंख्यया गुरवो लिख्यते । प्रथमरूपजातमेताक्ता तथा त्र्यक्षरे छंदसि स्थापना दृश्यते द्वितीयप्रस्ताररूपे क्रियमाणे आद्या- गुरोरघो लघुन्यसनीयो यथात्रैव त्रिगुणमस्तारे आद्यगुरोरधो लघु- रस्ति तस्माद्विन्यस्तलघोरग्रतः यथोपरितनप्रस्तारे तथैव कर्तव्यं ।' यत्रोपरि गुरुस्तत्राप्यधो गुरुः यत्रोपरि लघुस्तबाधोपि लघुः यत्र प्रस्तारे उपरि द्वौ गुरू अधोपि तथैव भूयो भूयः अमुमेव विधि कुर्यात् यशुपरितनप्रस्तारे आदौ लघुद्धितीयो गुरुस्तदा तस्माहि- तीयादधो लघुय॑स्यते अग्रतो यथोपरि तथा शेषविधिः कार्यः . ऊने दद्याद्गुरूण्येव यत्पूर्व पाश्चात्त्यमूनं स्थानं तत्र गुरुर्दीयते अथ तृतीयाद्गुरोरधो लघुस्ततः पूर्व द्वे गुरुणी दीयते यद्वा चतुर्था- द्गुरोरधः यदि लघुः स्यात् तदा त्रीणि ऊनस्थाने दीयते एवं तावन्मात्रः कार्यों यावत्सर्वलघुः प्रस्तारो भवेत् ॥ इति प्रस्ता- रविधिः । तथा चतुर्यवर्णमस्तारे षोडश रूपाणि लभ्यते । स्थापना लिखितैवास्ति एवं वृत्ते यावतो वर्णास्तावानयं मस्तारोपि कर्तव्यः ॥ ३॥ नष्टस्य यो भवेदकस्तस्याऽधै समे चलः ॥ विषमे चैकमादाय तदधेऽर्षे गुरुभवेत् ॥ इति नष्टं ससाप्तं ।। उदिष्टं द्विगुणानाद्यादुपयकान् समालिखेत् ॥ लघुस्था ये तु तत्रांकास्तैः सै- कैमिश्रितैर्भवेत् ॥ १॥ इति उदिष्टं समाप्तम् ।। नष्टमाइ नष्टस्यति । नष्टस्य गतरूपस्य योऽकः तस्यांकस्य समेऽ- धे कृते लो लधुर्लभ्यते च पुनर्विपमे एकमादाय मध्ये निक्षिप्य अर्धे कृते तदर्धे गुरुभवेदित्यन्वयार्थः । यथा केनापि पृष्टस्यं वृत्तस्य सटीकः। ज्यक्षरजातिकस्य प्रस्तारे चतुर्थरूपं कीदृशं स्यात् । नष्टस्य चतुर्य- रूपोंकः समो भवति तस्य समांकस्यार्धे कृते लधुर्लभ्यते पुनर्वरि- तौ द्वौ समौ तयोरर्धे कृतेपि लघुलभ्यते तत उर्वरितः एको विषमः विषमभागं न दत्ते ततो विपमे चैकमादाय एकमध्ये शिवा विषमः समः कार्यः सोप्येको विषमः सैफा सन् द्वौ जातौ तदर्धे तस्य विष- मांकस्य समीकृतस्यार्धे गुरुरेव लभ्यते एवं तावत्कर्तव्यं यावत्पादा- सरप्रमाणं लभ्यते ततत्यक्षरे छंदसि चतुर्य रूपम् ॥5 ईदृशं भवति पुनः केनापि पृष्ट चतुरक्षरे छंदसि पंचमं रूपं कीदृशं भवति । पंच विषमास्ते सैका जाताः षट् तदर्धे विषमत्वाद्गुरुः प्राप्यते । पुन- खयो विषमाः सैका जाताश्चत्वारस्तदर्धे च गुरुलभ्यते ॥ उर्वरित दौ समौ तदपि च लघुःप्राप्तः पुनरुर्वरित एकोऽस्य विषम- स्यार्धं न भवति ततः एकमादायाधं कृते गुरुः प्राप्तः ततश्चतुरक्षरे छंदसि पंचमं रूपम् 555 ईदृशं भवति इत्याम्नायः ॥ १ ॥ इति नष्टविधिः । उहिष्टमाह । उद्दिष्टमिति । कोऽर्थः केनापि पट्टके रूपं लिखित्वा कियत्तमं रूपमिदमिति पृच्छति । इदमुद्दिष्टमुच्यते उद्दिष्टा यावंतो वर्णा लिखिताः संति तेषां मध्य आयमक्षरमादौ कृत्वा सर्वेषामुपरि द्विगुणितानंकान समालिखेत् आयवर्णस्य मस्तके एकैको लेख्यः ततः स्यानद्विगुणिताः अंकाः शिरसि लेख्याः । कथं द्वितीयवर्णस्योपरि द्विकस्तृतीयवर्णस्योपरि चतुष्कका चतुर्थवर्णस्यो- परि अष्टको देयः पंचमवर्णस्योपरि षोडश देयाः पष्ठवर्णस्योपरि द्वात्रिंशदंका देयाः एवं तावद्यावदंत्यवोपर्यकः स्यात्तत्र पॅऽका गुरु- रूपोपरि लिखिताः संति तैर्न कार्यम् । लघुस्थाः लघुवर्णोपर्यपि कास्तत्र ते एकतो मूल्यंते एकीकृत्य पुनरेको मध्ये लिप्यते तत- स्तलघुस्यैरकैमिश्रितरेकीकृतैः सैकैरेकसहिर्यावदको भवेत्तावत्तम- सिदं रूपमिति वक्तव्यम् ॥ १ ॥ इत्युद्दिष्टस्याम्नायः समाप्तः ।। वर्णान् वृत्तभवान सैकाजुत्तराधरतःस्थिताम् ॥
६० वृत्तरत्नाकरः। एकादिक्रमशश्चैतानुपर्युपरि निक्षिपेत् ॥ उपां- त्यतोनिवतेत त्यजेदेकैकमवंतः ॥ उपर्याद्या- द्वरोरेवमेकद्वयादिलगक्रिया ॥२॥ इत्येकद्धयादिलगक्रिया एकद्वयादिलगक्रियार्थमाह । वर्णानिति । यावतो वृत्तभवावर्णा- स्तावतः सैकान् एकसहितान् अधऊर्वस्थितान कृत्वादिक्रमेण एता- नुपरि उपरि निक्षिपेत् उपांत्यतः समीपानिवतेत व्याघटेत ऊर्ध्वतः एकैकं त्यजेत् । उपरि आधादिलगक्रिया भवतीत्यन्वयः । विस्तर- माह । छंदोविद्भिर्वृत्तभवा यस्मिन् पादे यावंती वर्णास्तावंत एक- का लिख्यते सैकान् तन्मध्ये एकः पुनर्लिख्यते उत्तराधरतः अध- ऊर्वस्थिता लिख्यते । चतुरक्षरपादजातौ स्थापना एतानेकादिक्र- मेण उपरि उपरि निक्षिपेत् । तावत् यावत् उपांत्यं ततः उपांत्या- निवर्तेत स्पांत्यं त्यजदित्यर्थः । एकमेकमुपरि ऊर्चतस्त्यजन् । आद्याद्गुरारति भावार्थमाह | चतुरक्षरे छंदसि आद्यमेकं वृत्तं सर्व- गुरुभवति चत्वारि त्रिगुरूणि भवति । षट् रूपाणि द्विगुरूणि भवंति एकं सर्वलघु रूपं भवति कथमित्याह ॥ ये अध ऊर्ध्वं पंच एक- कास्तत्र प्रथम एको द्वितीये एकके क्षिप्यते तो ौ जातो वो च तृतीयकके क्षिप्येते ते त्रयो जाताः तेच चतुष्कैकके क्षिप्यंत चत्वारो जाताः पाश्चात्त्योंकः एकः कुत्रापि न लुप्यते सतः उपर्य- कमेकं त्यजन् निवतेत ततः पुनरपि प्रथम एको द्वितीये द्वितीयके क्षिप्यते ते त्रयो जाताः ते च तृतीये त्रिके नियंते पट जाताः तत रंपर्यंक चतुष्कं त्यजन्निवर्तेत । प्रथमांक सर्वगुरुप्रमाणं ततःपुनरपि प्रयमैको द्वितीये त्रिके क्षिप्यते चत्वारो जाताः ततः उपयैकं पर्क त्यजन्निवतेत ततश्चतुष्कः पाश्चात्त्योंकः स कुत्रापि न लुप्यते ततः उपर्यंकं त्यजन्निवर्तत तत्र प्रथमांक सर्वगुरुप्रमाणं द्वितीयांके. त्रिगुरु- सटीकः। प्रमाणं तृतीयांके द्विगुरुप्रमाणं चतुर्थी के एकगुरुप्रमाणं पंचमांके सर्दलघुप्रमाणं चोर्ध्वतो ज्ञातव्यम् । अधस्ताच प्रथमांके सर्वलघुप्रमाणं द्वितीयांके त्रिलघुप्रमणं तृतीयांके दिलघुप्रमाणं चतुर्थोके एकलधुम- माणं चरमांके सर्वगुरुप्रमाणं च ज्ञातव्यम् ॥ १ ॥ २ ॥ इति एकद्वयादिलगक्रिया ॥ लगक्रियांकसंदोहेभवेत्संख्याविमिश्रिते।।उद्दिष्टां कसमाहार सैको वा जनयेदिमाम् ॥ १॥ इति संख्या ॥ संख्यामाह लगक्रियांकेति । लगक्रियांकसंदोहे एकद्वयादि लगक्रियायाः अंकसमूहे विमिश्रिते एकतो. मिलिते तवृत्तमस्तार अपसंख्यामिलितोंकः स यथा । चतुरक्षरजातो एकश्चत्वारः षट चत्वार एकश्चैते लगक्रियांका भवंति एतेषां लगक्रियांकानां मिश्री- भावे षोडश भवंति ते षोडश एव संख्या चतुरक्षरजातः प्रस्तार- स्य ! पक्षांतरमाह । वाथवा उद्दिष्टांकसमाहारः उहिष्कृत्तवर्णशिर- म कास्तेषामेकीभावः पुनरेकरहितः इमां संख्यां जनयेत् तथा चतुरक्षरे छंदसि द्विगुणैरकरारोप्यमाणैः पंचदश भवति तैः सैक पोडश ॥ १ ॥ संख्यैव द्विगुणैकोना सद्भिरध्वा प्रकीर्तितः॥ वृत्तस्यांगुलिकी व्याप्तिमध कुर्यादांगुलिम्।।१॥ इत्यध्वा ॥ अध्वानमाह संख्येवोत । चतुरक्षरजाती पोडश संख्येव सा द्विगुणा द्वात्रिंशदेकोना एकत्रिंशद्भवति स सन्दिरध्वा वृत्तस्यानमार्गः कविता कयं । वृत्तस्य वर्णागुलिकी अंगुलिपरिमाणां व्याप्ति स्थान- मि कुर्याद तथा द्वयोः प्रस्तारयोरंतराले एकमेवांगुलं कुर्यात वृत्तरत्नाकरः। एकत्रिदशांगुलायां भुवि एवं चतुरक्षरं छंदः प्रस्तार्यते अध ऊर्व प्रमाणमिदं न तु दीर्घतायाः प्रमाणं तत्र प्रमाणाभावात् ॥ १ ॥ इत्यध्वा ॥ एते पद प्रत्ययाः ।। वंशेभूत्काश्यपस्य प्रकटगुणगणः शैवसिद्धां- तवेत्ता विप्रः पव्येकनामा विमलतरमतिवेदत- त्वाववोधे ॥केदारस्तस्यसूनुः शिवचरणयुगा- राधनकाग्रचित्त छंदस्तेनाभिरामं प्रविरचितमि दंवृत्तरत्नाकराख्यम्॥ १॥इति श्रीभट्टकेदारवि- रचिते वृत्तरत्नाकराख्ये छंदःशास्ने प्रस्तारप्रक- रणं समाप्तम् ॥ वंशेभूदिति । पव्येकनामा विमः काश्यपस्य वंशेऽभूत् । किंभूतो. विमः प्रकटगुणगणः पुनः किंभूतः शैवसिद्धांतवेत्ता पुनः किंभूतः दतत्वावबोधे विमलतरमतिः तस्य पन्येकस्य केदारः शिवचरणयु- गाराधनकाग्रचित्तः तेन केदारेण इदं वृत्तरनाकराख्यं छंदः प्रविरचितं किंभूतं छंदः अभिरामम् ॥ १ ॥ इति वृत्तरत्नाकरारुपच्छंदसो. 1. व्याख्या समाता ॥
जाहिरात । रामरसायन-रामायन । लीजिये पाठको ! यह परमप्यारी रसिकविहारीजीकी मनोहर काव्य रचना का बहुतही सुंदर अंथ, लीजिये. देखिये समग्र ग्रंथ परम रोचक दोहा, चौपाई, सोरठा इत्यादि छंदवद्धमें वर्णित है और स- म्पूर्ण ग्रंथ राम कथासे विभूषित है रामकथामृताभिलाषियोंको तो अत्यन्तही सौख्यप्रदहै रामजन्म, राम विवाह, वनगमन, सीताह- रण, रामरावणसंग्राम, रामराज्य, रामाश्वमेध, इत्यादिकथायें अत्यन्त विस्तारपूर्वक वर्णित हैं। काव्यानुरागियो ! यहनूतनकाव्य प्राचीन काव्योंसे किसीप्रकार भावगंभीर, पदरुचिरतामें न्यून नहीं है इसके पदपदमें काव्यकी छटा चित्तको हर्षित करती है विशेष लिखनेकी आवश्यकता नहीं है, काव्यानुरागी इसके द्वारा शीघ्र रुचि पूर्णक- मूल्य डाकव्यय सहित रु.॥ श्रीमद्भागवत ब्रजभाषाटीका । षष्टाध्यायी माहात्म्य, अनुक्रमणिका, शंका समाधान और बहुतसी उपयुक्तकथाओंके सहित जिसमें ५०० से भी कुछ अधिक दृष्टांत हैं तृतीयावृत्ति नवीन छपकर तयार हुई है, द्वितीयावृत्तिकी अपेक्षा कागज अक्षर मोटा और स्याही उत्तम है अक्षर मोटा होने तथा कथाओंकी अधिकताके कारण ग्रन्थका आकार भी बड़ाहोगया है इस आवृत्ति में ग्रंथकी शुद्धताकी ओर बहुतही ध्यान दियागया है जिससे पढ़ने पढ़ाने तथा पारायण करनेवालोंको किञ्चित्मानभी विचार करना नहीं पडता. मूल्य सबके सुगमार्थ केवल १२ रु. ही रक्खा गयाहै. श्रीमद्भागवत श्रीधरीय टीका और टिप्पणी समेत। यह पुस्तक अनेकानेक देशोंकी प्राचीन पुस्तकोंसे मिलाकर अत्यंत शुद्धकर सर्वत्र टिप्पणी शोध देकर अतिउत्तम कागनपर उत्तम अक्षरोंमें छापा है. यह प्रथमावृत्ति छपाई. ऐसा शुद्ध और सुंदर पुस्तक अन्यत्र मिलना दुर्लभ है. की. १२.रु.॥
जाहिरात। ताजिकनीलकंठीभाषाटीका। उक्त ग्रंथका भाषानुवाद तीनो तंत्र एकत्रित कर ज्योतिर्विद पं० महीधरजीने कठिन अंथ होनेपरभी ऐसी सरल टीका तथा गढ़ाशयों का प्रकाश किया कि जिसके द्वारा सामान्य श्रेणीके मनुष्यभी भलीभांति कानकाज कर सक्ते, वसेही शुद्धतापूर्वक टपमें चक्र और उदाहरणों सहित उत्तम कागजमें छापी गई है जिसके देखनसे चित प्रसन्न होजायगा और उत्तम विलायती कपड़ेकी जिल्द बाँधी गई, मूल्य केवल १॥ रु. मात्र है ॥ सामुद्रिक शास्त्र । यह पुस्तक प्राणियों के शरीरावयव तथा हस्तरेखाओंके फलाफल कथनमें परमोपयोगी है इसके द्वारा आयुज्ञान, संतानादि धनी निर्धनी, पंडित, मूर्ख, कामी, चोर, साधु और असाधुका ज्ञान केवल पठनमात्रसे सर्वसाधारण मनुष्य निसको कुछभी समझ होगी कहने में समर्थ हो सत्ता है इसकी भाषा परम मनोहर और सरल विशेष रोचकता इसमें यह कि प्रत्येक मूलके श्लोकोंका सान्वय सरल हिन्दीभापामें टीकाकिया गयाहै, जिससे भारीसे भारी पंडित और छोटेसे छोटे अल्पज्ञ अपने नेत्रोंसे अवलोकन कर इसका स्वाद पा सकते हैं, विलायती कपडेकी निल्द बंधी है. मूल्य केवलारुल्ह।। भक्तमाल संस्कृत-शुद्धतापूर्वक छपताहै ॥ ठिकाना- खेमराज श्रीकृष्णदास. "श्रींचेंकटेश्वरछापाखाना"--मुम्बई. पुस्तक मिलनेका
No text on this page.