S.P College, Srinagar

Shad Chakra Nirupanam

Yativirchitam Puranand · 2012

PDF Proofread

Front matter

А т д.
C
a
703
LEG
17.767 HET
SR
LIBRARY
Class to
891. 235
P895
Book No.
Accession No.
No. _4035

No text on this page.

No text on this page.

षट्चक्रनिरुपणम्।
सटीकम् ।
श्रीपूर्णानन्दयातिविरचितम् ।
रैक ( रायकवाल ) लल्लुरामतनुजनुषा
जीवरामशास्त्रिणा
संशोधितम् ।
*HO
इदं च
पण्डित ज्येष्ठाराम मुकुन्दजी शर्मणा
प्रकाशितम्।
स्था. कालिकादेवी रोड नं. ३५३ झवेरवाग, मुंबई
संवत् १९५६ सन् १८९९.
S
मौल्य रु. ०-८-०

इदं पुस्तकं बडोदा पत्तनस्थ नूतनविलासयन्त्रालयेमुद्रितम्.

षट्चक्रनिरूपणम्। RECORDC ॥ पङ. अथ तन्त्रानुसारेण षट्चक्रादिक्रमोद्गतः । उच्यते परमानन्दनिर्वाहप्रथमाकुरः॥ महायोगज्ञानात् परिचितषडम्भोजविभवः स एवान्तस्तत्त्व- प्रकटनसमर्थो न हि परः । बुधश्रेष्ठो ज्येष्ठोऽप्यमिलितकृपानाथ- करुणः षडब्जान्तस्तत्त्वं परमावभवं प्रस्फुटयतु । अथ दुःखपङ मनं जगदुद्दिधीर्घः परमकारुणिकः पूर्णानन्दस्वामी मुक्तिसम्पादक- तत्त्वज्ञानसिद्धये षट्चक्रे कुण्डलिनीयोगं वक्तुमिच्छन् साधकाव- धानाय प्रतिजानीते अथेति । अथानन्तरं स्वकृतश्रीतत्त्वचिन्ता- मण्यां षट्चक्रनिरूपणात् पूर्वप्रदर्शिततत्तत्कर्मकथनान्तरमित्यर्थः। अस्यार्थः परमानन्दनिर्वाहप्रथमाङ्कुरः उच्यते इत्यन्वयः । परमा- नन्दो ब्रह्म "नित्यं परमानन्दं ब्रह्म' इति श्रुतेः । तस्य निर्वाहस्त- साक्षात्काररूपनिष्पत्तिः तस्मै प्रथमाकुरस्तत्कारणभूतप्रथमप्रका- शमानकर्मस्वरूपः मया पूर्णानन्देनोच्यते इत्यर्थः । सोऽङ्कुरः किम्भूतः ? तन्त्रानुसारेण षट्चक्रादिक्रमोद्गत इति । तन्त्रानुसा- रेण तन्त्रमतेन षट्चक्रादीनां मूलाधारस्वाधिष्ठानमणिपूरकानाहत- विशुद्धाज्ञाख्यानाम् आदिना तत्सम्बन्धिनाडीलिङ्गव्योमपञ्चकशिव- शक्तयादीनां च यः क्रमः तञ्चिन्तनकुण्डलिन्युत्थापनब्रह्मपद्मगमना- २ पट्चक्रनिरूपणम् । मेरो यप्रदेशे शशिमिहिरशिरे सव्यदक्षे निषण्णे मध्ये नाडी मुषुम्णा त्रितयगुणमयी चन्द्रसूर्याग्निरूपा । धुस्तूर- स्मेरपुष्पग्रथिततमवपुःस्कन्धमध्याच्छिरःस्था मेद्देशाच्छिरास परिगता मध्यमे स्याज्ज्वलन्ती ॥१॥ वज्ञाख्या गमनशिवशक्तिमेलनादिविधानानुपूर्विकरूपः क्रमः तेनोद्गतः प्राप्तः योगसाधनाद्यभिन्न इत्यर्थः । ततश्च तन्त्रविहितषट्चक्रघटितयोग- साधना-भिन्नब्रह्मसाक्षात्कारादिकारणीभूत-कर्मस्वरूपोऽङ्गुरो म- या उच्यते इति समुदायानुगततात्पर्य्यार्थः ॥ अथ तादृशवक्ष्यमाणयोगः षट्चक्रनाड्योर्ज्ञानं विना न सम्भवतीत्यतः प्रथमं तदुपयुक्तनाड्यो निरूप्यन्ते मेरोरित्यादि त्रिमिः श्लोकैः । मेरोमेरुदण्डस्य स च दण्डो मूलावधि- ग्रीवापर्यन्तव्यापकपृष्ठास्थि इति स्फुटीकरिष्यामः । तद्वाह्य- प्रदेशे शशिमिहिरशिरे इति । शशी चन्द्रः मिहिरः सूर्यः शिरा नाडी ततश्च चन्द्रसूर्य्यस्वरूपिण्यौ द्वे नाड्यौ इडापिङ्ग- लाख्यौ सव्यदक्षे वामदक्षिणे निषण्णे स्थिते इत्यर्थः। तदाह भूतशुद्धितन्त्रे । मेरोवीमे इडा दक्षे पिङ्गला च स्थिते उभे इति । अनयोश्चन्द्रसूर्य्यस्वरूपत्वमाह सम्मोहनतन्त्र । वामगा या इड़ा नाड़ी शुक्ला चन्द्रस्वरूपिणी। शक्तिरूपा हि सा देवी साक्षादमृतविग्रहा । दक्षे तु पिङ्गला नाम पुरुषा सूर्यविग्रहा । रौद्रात्मिका महादेवी दाडिमी केशरप्रभा ।। इति । इमे नाड्यौ मूलानुरूपेणाज्ञाचक्रान्तं प्राप्य नासारन्ध्रगते । तदुक्तं यामले, इड़ा च पिङ्गला चैव तस्य वामे च दक्षिणे | ऋज्वीभूते शिरे ते च वामदक्षिणभेदतः । सर्वपद्मानि संवेष्ट्य नासारन्ध्रगते शुभे । अत्र शिरे ते च इत्यत्र चकारो वार्थः ३ । षट्चक्रनिरूपणम् । तेन सर्वपद्मानि संवेष्ट्य वामदक्षिणभेदतः । वामदक्षिणभेदेन वेणीनन्धक्रमेण सर्वपद्मानि संवेष्ट्य वा नासारन्ध्रगते इत्यर्थः । एतेनानयोः स्थित्यां द्विविधः कल्पो दर्शितः । अन्यत्रानयोर्धनुरा- कारेण स्थितिरक्ता तद्यथा । विद्धि ते धनुराकारे नाडीडापिङ्गले परे इति । धनुराकारप्रकारमाह । या वाममुष्कसम्बन्धा सा श्लिप्यन्ती सुषुम्णया । दाक्षिणं जत्रुमाश्रित्य धनुर्वका हृदि स्थिता। वामांशजवन्तरगा दक्षिणं नासिकामियात् । जत्रु स्कन्धभुजयोः सन्धिः । तथा दक्षिणमुप्कोत्था नासाया वामरन्ध्रगेति । वामद- क्षिणमुष्कोत्थिते ते भ्रूमध्यपर्यन्तं प्राप्य तत्र इडा पिङ्गला सु- घुम्णा नाडीत्रयाणां त्रिवेणीरूपेण ग्रन्थिभावमापन्ना नासारन्ध्र- मिलितेत्यर्थः । तदुक्तम् । इड़ायां यमुना देवी पिङ्गलायां सरस्वती । सुषुम्णायां वसेद् गङ्गा तासां योगस्त्रिधा भवेत् । सङ्गता ध्वजमूले च विमुक्ता भ्रूवियोगतः । त्रिवेणीयोगः सा प्रोक्ता तत्र स्नानं महाफलमिति । मध्ये इति मेरुदण्डमध्यरन्ध्रे इत्यर्थः । तदुक्तम् । मेरुमध्ये स्थिता या तु मूलादाब्रह्मरन्ध्रगेत्यादि । तथा त्रिपुरासारसमुच्चये । या मुण्डाधारदण्डान्तरविवरगतेत्यादि । अत्र यद्यपि मेरोामे स्थिता नाडी इडा चन्द्रामृता शिवे । दक्षिणे सूर्य्यसंयुक्ता पिङ्गला नाम नामतः । तद्वाह्ये तु तयोर्मध्ये सुषुम्णा वनिसंयुतेति तन्त्रचूड़ामणिवचने सुषुम्णाया मेरो ह्यास्थितिः प्रतीयते तथापि तद्वचनं मतभेदन, ग्रन्थकारमते तु मेरुमध्या- न्तरस्थान् सकलसरसिजानित्युत्तर श्लोके षट्पद्मानां मेरुमध्य- रन्भस्थत्वकथनेन तदाधारभूतायाः सृषुम्णाया मेरुमध्यरन्ध्रस्थत्वम् । त्रितयगुणमयोति । त्रितयं गुणं सुषुम्णा वजा चित्रिणीति रूपभेदेन त्रिसूत्ररूपं तदात्मिकेत्यर्थः । अथवा त्रितयगुणं सुषु- म्णादिनाहीत्रयमपेक्ष्य इयमेकेयमेकेयमकेति त्रितयावर्तनं यत्र ४ गु गु षट्चक्रनिरूपणम्। सा त्रितयगुणा तन्मयीत्यर्थः, यद्वा त्रितयगुणाः सत्त्वर- जस्तमोगुणा यस्यां तन्मयीत्यर्थः । ततश्च चित्रिणी सत्वगुणमयी वजा रजोगुणमयी सुषुम्णा तमोगुणमयीति । चन्द्रमूर्याग्निरूपेति चित्रिणी चन्द्ररूपा तेन शुक्लवर्णा वत्रिणी सूर्य्यरूपा तेन दाडि- मोकेशरप्रभा सुषुम्णा वन्हिरूपिणी तेन रक्तवर्णा इति । एतत् त्रिविधाख्यानप्रमाणमाह सुषुम्णालक्षणमभिधाय भूतशुद्धौ । तदन्तर्यफुलोर्चे तु वज्राख्या चित्रिणी तथा । अतः सुषुम्णा त्रिगुणा ललन्ती ललना यथा। सत्वादित्रिगुणाधारा चन्द्रसूर्या- ग्निरूपिणीति । कन्दमध्याच्छिरःस्था इति । कन्दः सर्वनाडीनां मूलं तल्लक्षणमाह । गुदात्तु द्वयकुलादूई मेदात्तु द्वयकुलादधः । चतुरङलविस्तारं कन्दमूलं खगाण्डवत् । नाड्यस्तस्मात् समुत्पन्नाः सहस्राणां द्विसप्ततिरिति । तद्रूपकन्दमारभ्य शिरःस्था शिरःस्थि- ताधोमुखसहस्रदल कमलकर्णिकावार्तद्वादशदलपङ्कजाधापर्यन्तस्थि- तेत्यर्थः । कुण्डलीविवरकाण्डमण्डितं द्वादशार्ण सरसीरुहं भने इति गुरुपादुकास्तोत्रस्वरसात् कुण्डलीविवरकाण्डरूपायाश्चित्रिणी नाड्याः तदवधिकत्वे तदधिकरणसुषुम्णाया अपि तदवधिक- त्वम् । अन्यथा सहस्रदलोध्र्धपर्य्यन्तस्थायित्वे सहस्रदलपद्मस्थं चत्वारिंशत् श्लोके शन्यदेशे विकाशमित्यनेन शून्यदेशे स्थायि- त्वानुपतत्तेः । सुषुम्णावृतत्वे शून्यदेशत्वाभावात् । अत्र केचित् मेरोर्मध्यपृष्ठगतास्तिस्रो नाड्यः प्रकीर्तिता इति · निगमतत्त्व- सारवचनं प्रमाण दर्शयित्वा इडा पिङ्गला सुषुम्णेति तिसमां नाड़ीनां मेरुमध्यस्थिति वदन्ति । तन्न इडापिङ्गलयोर्मे- रुबाहिःस्थिते सर्वतन्त्रवचनसिद्धत्वात् ग्रन्थकारेणापि मेरो;- ह्यप्रदेशे इत्यनेन तयोर्बहिःस्थिते स्पष्टमुखेनाभिधानाच्च । गु - षट्चक्रनिरूपणम्। किश्च इडापिङ्गलयोर्मेरुमध्यस्थत्वे धनुराकाराभङ्गया हृदयात् जत्रुसंलग्नत्वं न सम्भवति । निगमसारतत्त्ववचने तिस्रो नाड्य इति सुषुम्णा वज्रा चित्रिणीति तिस्रः न विडापिङ्गलयो- स्तदन्तर्भावः । अत्र सुषुम्णाया मूलादिमस्तकपर्य्यन्तस्थिति- प्रकारमाह । सुषुम्णा चव्यवल्लीव मेरुश्लिष्टा पुरोगता। ग्रीवा- न्तं प्राप्य गलिता तिर्यग्भूता वरानने । शलिनी नालमाल- म्व्य गता सा ब्रह्मसादनमिति । तथान्यत्र चापाकरि स्थिते चान्ये सुषुम्णा प्रणवाकृतिः । पृष्ठास्थ्नो घुण्टितो भिन्ना तिर्यग्भूता ललाटगा भ्रूमध्ये कुण्डलिलग्ना मुखेन ब्रह्मरन्ध्रगा इति। गलिता मेरुदण्डान्निःसृता । तथा घुण्टितो भिन्ना इत्यस्याप्ययमर्थः । एतेन मेरुदण्डस्य ग्रीवापर्य्यन्त- स्थितिः प्रतीयते । शङ्खिनी नालमालम्व्येति । शङ्किनी लक्षणमाह । ईश्वर उवाच । सरस्वती कुहुश्चैव सुषुम्णा पाश्र्वयोः स्थिते । गान्धारी हस्तिजिह्वा च इड़ायाः पूर्व- पार्श्वयोः । गान्धारायाः सरस्वत्या मध्ये प्रोक्ता च शङिनी । तथा । शङिनी नाम सा नाडी सव्यकर्णान्तमिप्यते । तथा- न्यत्र शडिनी कण्ठविवरात् तिर्यग्भूता ललाटगा । चित्रिणी सङ्गता श्लिष्टा यावच्छिरसमम्बिके इति । ततश्च सरस्वती. गान्धार्योर्मध्ये कन्दमूलमारभ्य कण्ठपर्यन्तं गता वक्रगत्या एकाग्रेण वामकर्णरन्ध्रमिलिता अपराग्रेण मस्तकान्तं प्रा- प्तति । अत्र केचित् पादादिब्रह्मरन्ध्रान्तं यदस्थिकीलको- पमम् । चतुर्दशानां लोकानां मेरुदण्डः प्रचक्षते । इति निगमतत्त्वसारवचनं प्रमाण दर्शयित्वा पदादिब्रह्मरन्धूपर्यन्तं मेरुदण्डस्य स्थितिमाहुस्तच्चिन्त्यम् । यः पृष्ठदण्डः स एव ख षट्चक्रनिरूपणम। तन्मध्ये चित्रिणी सा प्रणवविलसिता योगिनां योगगम्या लूतातन्तूपमेया सकलसरसिजान् मेरु- गु मेरुदण्डस्तम्य मूलकन्दादूर्वावधि ग्रीवापर्यन्तं स्थितेः प्रत्यक्ष- सिद्धत्वेन प्रत्यक्षसिद्धवस्तुनो वचनमन्यथा कर्तुं न शक्यते । किञ्चाखण्हेकास्थो मेरुदण्डस्य पादादिस्थितत्वे पादयोराकु- ञ्चनप्रसारणादिक्रिया न स्यात् तस्मान्मूलो/वधिरेव मेरु- दण्डः । निगमतत्त्वसारवचनस्य त्वयमर्थः । पादादिब्रह्मरन्धूपर्यन्तं शरीरमधिकृत्य यदस्थिकीलकोपमं कीलकत्रद्धारकमिति मेद्देशा- न्मूलकन्दाद् द्वयङलो/वधि । तदुक्तं भूतशुद्धौ । तन्मध्ये द्वय गुलोचे तु वजाख्या चित्रिणी तथेति ॥ १ ॥ तन्मध्ये इति । वज्रामध्ये इत्यर्थः । प्रणवविलसिता आज्ञा- चक्रावच्छेदे तन्मध्ये प्रणवप्रकाशेन प्रकृष्टोद्दीप्यमाना अत एव ग्रन्थकारेण षट्त्रिंशत्श्लोके तदनु च नवीनार्कवकुल- प्रकाशं ज्योतिर्वा गगनधरणीभध्यमिलितमित्युक्तम् । लूतातन्तूप- मेया मर्कटसूत्रतुल्यसूक्ष्मा तद्ग्रथनरचनया भित्त्वा देदीप्यते इति । षट्पद्मानि कर्णिकांवच्छेदे भित्त्व। मणिग्रथनवत् अपनरचनया देदीप्यते इत्यर्थः । यत्तु चित्रिणीशून्यविवरे सनाताम्भोरुहाणि षट् । तत्पत्रेषु महादेवी भुजङ्गी विहरन्ति च इति कल्पसूत्रचतु- र्थकाण्डीयवचनं तत् एकवचनान्तभुजङ्गीका वहुवचनान्तविह- रन्तिक्रियान्वययोगादमूलम् । समूलत्वेऽपि तस्यायमर्थः विहरन्ती- ति शिवोक्तत्वात् एकवचनार्थे बहुवचनम् । चित्रिणीरन्धविवरे इति करणार्थविषयाधारे सप्तमी । ततश्च भुजङ्गी कुण्डलिनी महादेवी षट्चक्रनिरूपणम् । मध्यान्तरस्थान् । भित्वा देदीप्यते तद् अयनरचनया शुद्ध. बोधस्वरूपा तन्मध्ये ब्रह्मनाड़ी हरमुखकहरादादिदेवा न्तसंस्था ॥२॥ चित्रिणी शून्ये चित्रिणीनाड्या मध्यरन्ध्रे यत् विवरम् इतस्ततो वहिर्गमनपथः तेन पथा चक्रभेदक्रमेण षडम्भोरुहाणि संजाता सम्प्राप्ता सती तत्पत्रेषु विरहति दीप्यते इत्यर्थः । यहा यानि प- इम्भोरुहाणि सुषुम्णान्तराले विहरन्ति प्रकाशन्ते भुजङ्गी चित्रि- णी रन्धविवरेण तत्पत्रेषु सती अनन्तरं सहस्रदले विह- रतीति । न तु तद्वचनात् षट्पद्मानां चित्रिणीविवरे स्थितिः प्रतीयते । तन्मध्ये चित्रिणीमध्ये । ब्रह्मनाडीति । अत्र नड़गता- विति धातोर्नब्यते गम्यतेऽनया पदव्या इति नाडी पदवी ब्रह्मणो नाड़ीति व्युत्पत्या ब्रह्मनाडी ब्रह्मपदवी शहब्रह्मरूपायाः कुण्डनि- न्याः परमशिवसन्निधिगमनपथरूपचित्रिणीनाड्यन्तर्गतशून्यभाग इति यावत् । न तु चित्रिणीमध्ये नाड्यन्तरमस्तीति निष्कर्षः हरमुखकुहरात् स्वयम्भुलिङ्गच्छिद्रात् आदिदेवः सहस्रदलकमन- कर्णिकामध्यस्थपरं विन्दुरन्यत् सुगमम् ॥ २ ॥ लोकान्तरेण तां विशेषयति विद्युन्मालेति । उसत्तन्तुरू- पेति । लसन्ती दीप्यमाना तन्तुरूपिणी अन्नतन्तुसदृशी कुण्ड- लिनी यत्र सेत्यर्थः सकलसुखमयी सर्वानन्दमयीत्यर्थः । शुदगो. धस्वभावेति शुद्धनोधाय तत्त्वज्ञानाय स्वस्य आत्मनो भावो भाव- ना यत्रेत्यर्थः । तदास्ये ब्रह्मनाच्याः आस्ये हरमुखकुहरे ब्रह्मद्वारं कुण्डलिन्याः शिवसन्निधिगमनाय प्रवेशनिर्गमपथरूपमित्यर्थः । सुधाधारगम्यप्रदेशमिति । सुधाधारः परमशिवशक्तिः सामरस्य निःमृतामृतधारो गम्यते मूलाधारस्पशिवशक्तिम्यां लभ्यते येन षट्चकानरूपणम् । विद्युन्माला विलासा मुनिमनसि लसत्तन्नुरूपा मुमू- क्ष्मा शुद्धज्ञानप्रबोधा सकलमुखमयी शुद्धघोषस्वभावा । ब्रह्मद्वारं तदास्ये प्रविलसति मुधाधारगम्यप्रदेशं ग्रन्थि- स्थानं तदेतद्वदनमिति मुषुम्णाख्यनाड्या लपन्ति ॥ ३ ॥ द्वारेण तद्रूपप्रदेशमित्यर्थः । तदेतदिति तस्य द्वारस्य एतत् समी- पवर्तिप्रदेशं सुषुम्णाया ग्रन्थिस्थानं कन्दमुपुम्णयोः सन्धिस्थानं सुषुम्णाया वदनञ्च इति लपन्ति आगमज्ञा वदन्ति इति समुदा यार्थः ।। ३ ॥ नाड़ी निरूप्य अङ्गप्रत्याङ्गादिसहितं मूलाधारचक्र निरूप्यते अथाधारपद्ममिति नवभिः श्लोकैः । सुषुम्णास्यलग्नं चतुःपार्वे कन्दसु- पुग्णयोः सन्धिस्थानसंलग्नपत्रमित्यर्थः । ध्वजाधो गुदोद्ध लिङ्गमूला- दधोऽवधि सुषुम्णापर्यन्तमित्यर्थः । चतुःशोणपत्रं रक्तवर्णचतुर्दलम् । वकारादिसान्तः वशषस इति वेदवणैर्युतम् । अत्र षट्चक्रेषु पद्मा- नां दलावच्छेदे दाक्षिणावर्तेन वर्णयोगश्चिन्तनीयः । तदुक्तं विश्वसार- तन्त्रे । सर्ववर्णात्मकं पत्रं पद्मानां परिकीर्तितम् । दक्षिणावर्तयोगेन लिखनं चिन्तयेद्धियेति ॥ ४ ॥ अमुप्मिन् धरायाश्चतु:कोणचक्रमिति । एतत् पनकर्णिकायां चतुष्कोणरूपं पृथ्वीमण्डलं समास्ते इत्यर्थः । मण्डलं विशेषयति समुद्भासीत्यादि । तस्य मण्डलस्याष्टदिक्षु प्रकाशमानाष्टशूलैयुक्त- म् एतन्मण्डलं पीतवर्ण स्पष्टमाह । मूलाधारे धराचक्रं चतुष्कोणं प्रियंवदे । पीतवर्ण परिवृतश्चाष्टशूलैः कुलाचौरति । शूलैः कीदृशैः कुलाचलैरिति कामिन्याः स्तनसदृशाग्रेरित्यर्थः।यहा कुलाच- लैरिति नीलाचलं मन्दरश्च पर्वतं चन्द्रशेखरम् । हिमालयं सुवेलञ्च- ९ पट्चक्रनिरूपणम् । अथाधारपद्यं मुषुम्नास्यलग्नं ध्वजाधो गुदोर्द्ध चतुःशो- पपत्रम् । अधोवक्त्रमुद्यत्मुवर्णाभवणैर्वकारादिसान्तैर्युत वेदवर्णैः ॥ ४ ॥ अमुष्मिन् धरायाश्चतुष्कोणचक्र समुद्भासि शूलाष्टकै- रावृतं तन् । लसत्पीतवर्ण तडित्कोमलाले तदङ्के समाप्ते घरायाः स्ववीजम् ॥ ५॥ मलयञ्च सुपर्वतम् । चतुष्कोणे वसेदेवि एतत् सप्त कुलाचल मिति निर्वाणतन्त्रवचनात् यथा पृथ्वीमध्ये सप्त कुलाचलास्त धाताष्टशूलानि कुलाचलसदृशानि इति भावः । तदन्ते इति तस्य धरामण्डलस्य अन्ते मध्ये धरायाः स्ववीजं णकारं समास्ते । ए- तद् बीजमपि पीतवर्णं तद् यथा वीजं तन्मध्यतश्चैन्द्रं पीतवर्ण च- तुर्भुजम् वजहस्तं महाबाहुमरावतगजस्थितम् इति तेन लसत्पी- सवर्णमित्युभयसम्बन्धः ॥ ५ ॥ धराबीजध्यानमाह चतुरित्यादि । यदेव धराबीजं तदेवेन्द्रवी- जमित्यविरुद्धम् । तदके इति धराबीजस्याङ्के सृष्टिकारी ब्रह्मा व- सेदित्यन्वयः । तदके धराबीजस्य बिन्दुमध्ये इति बोध्यम् । तदु- क मूलाधारे धराबीजं तद्विन्दौ ब्रह्मणः स्थितिः । तदके शिशु- रूपस्य गजारूढ़ोडमराधिप शते । शिशुरूपस्य ब्रह्मणः स्थिति- रित्यन्वयः तदके धरावीजक्रोड़े अमराधिप इति तु मतान्तरम् । स्वमते धराबीजैन्द्रवीजयोरभेदात् मन्त्रार्णा देवता प्रोक्ता देवता मन्त्ररूपिणीति वचनाच्च तयोरभेदवर्णनम् । निर्वाणतन्त्रे । ऐन्द्र- जिं वरारोहे लिङ्गस्य वामदेशके । सुसिध्धं ब्रह्मसदनं नादोपरि सुसन्दरम् । तत्रैव निवसेद् ब्रह्मा सृष्टिकर्ता प्रजापति-

१०
षट्चक्रनिरूपणम् ।
चतुर्बाहुभूपं गजेन्द्राधिरूढं तदङ्के नवीनार्कनुल्यप्रका-
शः। शिशुः सृष्टिकारी लसद्वेदबाहुर्मुखाम्भोजलक्ष्मीश्चतु-
भीगभेदः ॥ ६ ॥
रिति । अत्र धराचीनस्योद्धे नादोपरि ब्रह्मस्थितिकथने नादोई
विन्दुमध्ये स्थितिरगम्य लिङ्गस्य वामदेशके इति मतान्तरम् । अ.
तएव सारदायाम् आधारांश्च विदुस्तत्र मतभेदादनेकवेत्युक्तम् ।
स किंभूतः लसद्वेदबाहुरिति । अत्र केचित् ब्रह्मणो द्विभुनदर्श-
नेन लसद् बाहुवेदाः सामवेदादयो बाहौ यस्येति व्युत्पत्तिं कृत्वा
तदेव संस्थापयति तत्र ब्रह्मणो हस्ताभ्यां वेदधारणस्य कुत्राप्यद-
र्शनात् । किन्त्वत्र ब्रह्मा चतुर्भुजत्येनैव ध्येयः तथा स्पष्टमाह भूत-
शुद्धौ । तदके च चतुर्बाहुं रक्तवर्णं शिशु शिवे । चतुर्वक्त्रं हंस-
पृष्ठे ब्रह्माणं विद्धि पार्वतीति । मुखाम्भोजलक्ष्मीश्चतुर्भोगभेदः इति
अस्य ब्रह्मणश्चतुभि गर्यो भेद: अवयवेषु विशेष: सैव मुखाम्भोज-
लक्ष्मीरित्यर्थात् ब्रह्मणश्चतुर्मुखत्वमायातम् । यद्वा मुखे अम्भोजल-
क्ष्मीर्यस्य तथा चतुर्भिर्भागः अर्थात् मुखावच्छेदे भेदो यस्येति विशे-
पणद्वयम् । चतुर्भागवेद इति पदे अभेदरूपेण पूर्वप्रकारार्थः । अत्र
ब्रह्मणो इस्तेऽस्त्रानभिधानेऽपि दण्डकमण्डलुधराम् अक्षसूत्राभयं
तथा । ध्यायेत् तां रक्तवर्णाञ्च ब्राह्मी कृष्णाजिनोज्ज्वलामिति वि-
श्वसारतन्त्रोक्तब्राह्मीध्याने ब्रह्मशक्तिहस्ते दण्डकमण्डल्वक्षसूत्रा-
मयदर्शनादत्रापि तथा कल्प्यते यस्य देवस्य यद्रूपमित्यादिना
सप्तसतीस्तोत्रे शिवशक्त्योरेकास्त्रदर्शनात् इति वदन्ति । वस्तुतस्तु
भभयवरदहस्तं कुण्डिकामक्षमालां दधतममलभूषं चिन्तयेदादिम्-
तिमिति यामलोक्तकर्मान्तरीयध्यानप्राप्ताभयवरादीनि ध्येयानि
स्पष्टमन्यत् ॥ ६ ॥

षट्चक्रनिरूपणम्। ११ आधारपद्मे डाकिनीशक्तिस्थितिमाह वसेदिति । अत्र पद्मे डाकिनीनाम्नी देवी वसेदित्यन्वयः। सा किंभूता सदा सर्वस्मिन् काले शुद्धबुद्धत्त्वज्ञानस्य प्रकाशं वहन्ती तत्त्वज्ञानसम्पादयित्री- त्यर्थः । तथाच योगाङ्गत्वेनात तां ध्यात्वा तत्त्वज्ञानमामोति इति भावः । इयं देवी चक्राधिष्ठात्री तदुक्तं वक्त्रं वशषसोपेतं डाकिन्या समाधिष्ठितमिति । तथा डाकिनी राकिती चैव लाकिनी काकिनी तथा । शाकिनी हाकिनी चैव क्रमात् षट् पङ्कजाधिप इति । अस्याध्यानविशेषमान्यत रक्ताक्षी रक्तवर्णा पशुजनभयकृत् शूलखट्वाङ्गहस्तां वामे खड्गं दधानां चषकमपि सुधापूरितं चैकव- क्वम् । अत्युग्रामुग्रदंष्ट्रामरिकुलमथनीं पायसान्ने प्रसक्ताम् । मूलाधारे ऽमृतार्थे परिवृतवपुषा अकिनी चिन्तयेत् तामिति । तथा सिन्दूरतिलकोद्दीप्तामञ्जनाञ्चितलोचनाम् । कृष्णाम्बरपरी- धानां नानाभरणभूषितामित्यादिकान्तरोक्तडाकिनीध्याने प्राप्त कृष्णाम्बरं ध्येयमिति । अत्र ब्रह्मादीनां षट्चक्रस्थसकलदेवानां मावभेदेनोद्धोधोवक्त्रेण स्थितिचिन्तनमाह शाक्तानन्दतरङ्गिणीधत- मायातन्त्र पार्वत्युवाच । अधोवक्त्रस्थितिस्तत्र अधोमागे कथं भवे- दिति प्रश्नम् । महादेव उवाच । तत् सर्व पङ्कजं देवि सर्वतोमुख- मेव च । प्रवृत्ति भावचिन्तायामधोवक्त्राणि चिन्तयेत् । निवृत्ति- भावमार्गेषु सदैवोर्डमुखानि चेति । अन्यत् सुगमम् ॥ ७ ॥ मूलचक्रकर्णिकायां त्रिकोणं निरूप्यते वजाख्यावक्त्रदेशे इति । सुषुम्णाया आस्यात् यिंगुलो॰ लिङ्गमूलादधोवजावक्त्रम् । मूलाधारकमलकर्णिकामध्यस्थगहरान्तरवर्ति तत्र त्रिकोण विलसति इत्यन्वयः । त्रिकोणं कीदृशं त्रैपुराख्यमिति त्रिकोण- गर्भस्थकामबीजघटकककारमध्ये त्रिपुरसुन्दर्य्यधिष्ठानात् त्रैपुराख्य-

१२
षट्चक्रनिरूपणम्।
वसेदत्र देवी च डाकिन्यभिख्या लसदेदवाजवला
रक्तनेत्रा । समानोदितानेकसूर्यप्रकाशा प्रकाशं वहन्ती
सदाशुदबुद्धेः ॥ ७ ॥
मिति तात्पर्य्यम् । तदुक्तं शाक्तानन्दतरङ्गिण्यां ककारतत्त्वकथ-
नमुपक्रम्य; तेषां मध्ये स्थिता देवी सुन्दरी परिदेवतेति । कोमलं
सुस्निग्धं तथा कामरूपं कामं निरूप्यतउनुभूयते येन तादृशं मद-
नागारात्मकमित्यर्थः । अतएव त्रिकोणं तत्तु, शक्तिपीठं मनोहर-
मित्युक्तम् । एतत् त्रिकोणं धरावीजस्योर्वे तदुक्तं सम्मोहने धरा-
बीजमधिकृत्य; रामा ज्येष्ठा तथा रौद्री त्रिरेखा च तदूर्ध्वत इति ।
तत् त्रिकोणमध्ये कन्दर्पवायुस्थितिमाह कन्दर्प इति ।
समन्तात्
त्रिकोणव्यापकरूपणेत्यर्थः जीवेश इति
अस्य जीवधारकत्वाज्जीवेश इत्युक्तं तथा हि; कण्ठदेशे
वसेत् प्राणो ह्यपानो गुदमण्डले इत्यादिवचने गुदमण्डल-
स्थवायोरपानत्वाविधानात् तादृश्यगुदमण्डलस्थकन्दर्पवायोरप्य
पानांशः, ततश्च अपानः कर्षति प्राणं प्राणोडपानञ्च कर्षति ।
रज्जुबद्धो यथा श्येनो गतोप्या कृप्यते पुनः । तथा चैतौ विषं-
वादे संवादे संत्यजेदिममिति । विषवादे परस्पस्वैपरीत्यगमने एतौ
प्राणापानवायू तथा कर्पाकर्षिणौ संवादे अविरोधिगमने ईमं देह
संत्यजेदित्यर्शक तद्वचने कन्दर्पावान्तरनामकापानवायोः प्राणक-
र्षकत्वेन देहधारणत्वाज्जीवधारकं प्रतीयते अतो जीवेश इत्यु-
क्तिरिति भावः । अत एव ग्रन्थकता दशमश्लोके; श्वासोच्छास-
विजनेन जगतां जीवो यथा धाय॑ति इत्यनेन श्वासोच्छासरूपयोः
प्राणापानयोर्जीवधारकत्वं स्वयमेवोक्तं स्पष्टमन्यत् ॥ ८ ॥

१३ षट्चक्रनिरूपणम्। चचाख्यावक्त्रदेशे विलसति सततं कर्णिकामध्यसं- स्थं कोणं तत् त्रैपुराख्यं तडिदिव विलसत् कोमलं काम- रूपम् । कन्दर्पो नाम वायुर्निवसति सत्तवं तस्य मध्ये समन्तात् जीवेशो बन्धुजीवप्रकरमभिहसन् कोटिमूर्य- प्रकाशः॥८॥ त्रिकोणमध्ये स्वयम्भुलिङ्गस्थितिमाह तन्मध्य इति । त्रिकोणमध्ये लिङ्गरूपी स्वयम्भुः स्वयम्भुनामकशिवलिङो विल- सतीत्यन्वयः । द्रुतकनककलाकोमलः तप्तकाञ्चनावयव इव निग्धभाव इत्यर्थः । पश्चिमास्योउधोमुखः तदुक्तं कालीकामृते, तत्र स्थितो महालिङ्गः स्वयम्भुः सर्वदा सुखी । अधोमुखः क्रियावांश्च कामवीजेन चालित इति । ज्ञानध्यानप्रकाश इति । ज्ञानध्यानाम्यां प्रकाशो यस्य तादृश इत्यर्थः । तथा च ज्ञानेन निर्गुणरूपप्रकाशः ध्यानेन सगुणरूपप्रकाशो यस्य स एवायं स्वयम्भुरिति भावः । दृष्टान्तेन विशेषयति प्रथमकिसलयाकाररूप इति । अचिरोत्पन्नपत्रांकुरवत् आकाररूपो यस्य तेन स्थूलमू- लात् सूक्ष्मानपर्यन्तं चम्पककुसुममध्यस्थितशलाकावदुन्नतं श्याम- वर्णश्चेत्यर्थः तदुक्तं शाक्तानन्दतर रङ्गिण्याम्; स्वयम्भूलिङ्गं तन्मध्ये सरन्ध्र पश्चिमाननम् । ध्यायेच्च परमेशानी शिवं श्याम- लसुन्दरमिति । यत्तु मूलाधारे स्मरेदिव्यं त्रिकोणमतिसुन्दरम् । तस्यास्त्रिरेखामानीय अध उर्ध्वव्यवस्थिताम् । नीलतोयदमध्यस्थां तडिकोटिसमप्रभामिति यामलवचने कुण्डलिन्या नीलतोयद- मध्यस्थविशेषणेन स्वयम्भुलिङ्गस्य नीलवर्णत्वमायातं तन्नीलश्या- मयोरेकपर्यायत्वान्न विरुद्धम् । विद्युतत्पूर्णेन्दुविम्वप्रकरकरचय- २ १४ षट्चक्रानरूपणम्। तन्मध्ये लिङ्गरूपी द्रुतकनककलाकोमलः पश्चिमास्यो ज्ञानध्यानप्रकाशः प्रथमकिसलयाकाररूपः स्वयम्भुः । वि. द्युत्पूर्णेन्दुविम्बप्रकरकरचयस्निग्धसन्तानहासी काशीवासी विलासी विलसति सरिदावर्तरूपप्रकारः ॥ ९ ॥ स्निग्धसन्तानहासीति । विद्युत्पूर्णचन्द्रविम्वयोर्यः प्रकृप्टकरः उ- त्तापरहितकिरणं तत्तुल्यकिरणसमूहेन मृदुप्रवाहीवशिष्ट प्रका- शो स्यास्तीत्यर्थः । काशीवासी विलासीति । अत्र काशीवास- तुल्यवासविशिष्टः सन् विलासीत्यर्थः तेन यथा काशीवासे सुखं भुनक्ति तद्वदत्रापीति भावः । अथवा निवास उल्लासः कामप्र- फुल्लभाव इति यावत् तद्विशिष्ट इत्यर्थः । कामत्रीजेन चालित इति वचनात् अयं स्वयम्भुः काशीवासी एतेनास्य विश्वेश्वरत्वं सूचितमिति । सरिदावर्तरूपप्रकार इति । सरिदावर्ते यद्रूपस्तत्र प्रकारः ततश्च यथा भ्राम्यमाणनदीजले मध्यनिनम्तन्मध्ये कि- श्चिदुन्नतं शङ्खमध्योन्नतवदिति भावः । अयं स्वयम्भुः कामवी- जोपरिस्थितः तदाह कालीकुलामृते । किञ्जल्कोपरिशृङ्गाटः स- रन्ध्रः सुमनोहरः । तत्र स्थितो महालिङ्गः स्वयम्भुः सर्वदा सुखी । अधोमुखः क्रियावांश्च काम जेन चालित इति । तथान्यत्र । पूर्वो- तां डाकिनी तत्र कणिकायां त्रिकोणकम् । यन्मध्ये विवरं सूक्ष्म- रक्ताभं कामबीजकम् । तत्र स्वयम्भुलिङ्गञ्चाधामुखालक्तकप्रभमिति मतान्तरम् ॥ ९॥ स्वयम्भुलिङ्गे कुण्डलिनीशक्तिस्थितिमाह तस्योर्चे इति । द्वाभ्यामनयोरर्थः । यद्वा कुण्डलिन्या श्वासोच्छ्वासविभज्जनेन प्रवत्तनेन जगतां जीवो जीवात्मा धार्यते देहावच्छेदे स्थाप्यते सा देवी मत्तालिमालास्फुटं यथा स्यात्तथाकतिः एवं वक्ष्यमाणक्रमाचम् १५ षट्चक्रनिरूपणम्। तस्योधं बिसतन्नुसोदरलसत्मूक्ष्मा जगन्मोहिनी व्र- मद्वारमुखं मुखेन मधुरं सञ्छादयन्ती स्वयम् । शङ्खावत- निभा नवीनचपलामालाविलासास्पदा मुप्ता सर्पसमा शि- वोपरि लसत्साईत्रिवृत्ताकृतिः ॥ १० ॥ अर्थात् जनयन्ती सती अम्बुजगहरे मुलाधारककमलकर्णिकामध्ये त्रिकोणगहरे तस्य स्वयम्भुलिङ्गस्योभागे विलसतीति श्लोकद्वयम्य विशिष्टान्वितार्थः । विसतन्तु सोदरलसत्सूक्ष्मा मृणालसूत्रतुल्यमू- क्ष्मा इत्यर्थः। जगन्मोहिनी जगतां मायारूपिणीत्यर्थः । ब्रह्मद्वारमुख स्वयम्भुलिङ्गच्छिद्रं मधुरं मृद यथा स्यात्तथा स्वमुखेन सञ्छाद- यति इत्यर्थः । नवीनचपलामालाविलासास्पदेति । सर्वेषां नवी- नत्वे प्रकाशाधिक्यदर्शनादत्र नवीनोत्कीर्तनमधिकप्रकाशप्राप्त्यर्थं ततश्चातिप्रकाशितविद्युन्मालानां विलासस्य स्थिरतरकौतूहलवास- स्यास्पद इत्यर्थात् स्थिरतरातिप्रकाशितविद्युत्समूहप्रकाशतुल्यप्रका- शितवतीति पर्य्यवसितम् । वाक्यजननक्रममाह कोमलकाव्यवंध- रचनाभेदातिभेदक्रमैरिति । कोमलकाव्यं मृदुशब्दवटितरूपगुण- रसादिवर्णनात्मकवाक्यम् । बन्धः पद्मवन्धाश्ववन्धादिचित्रका- व्यम् । रचना तदतिरिक्तगद्यापद्यात्मकवाक्यम् । भेदस्तेषां वि- शेषः । अतिभेदस्तदितरसंस्कृतप्राकृतवाक्यसमुदायः । तयोर्यः क्रमः शास्त्रव्यवहारनिरूपणरीतिः । तादृशीभीरीतिभिर्वाचं जनय- न्तीति परिष्कृतार्थः । कुण्डलिन्याः संस्कृतप्राकृतविशेषाविशेष यावद्वाक्यजनयित्रीत्वात् । तदाह सारदायाम्, भिद्यमानात् परा- द्विन्दोरव्यक्तात्मा रवोऽभवत् । तत् प्राप्य कुण्डलीरूपं प्रागिनां देहमध्यगम् । वर्णात्मनाविर्भवति गद्यपद्यादिभेदत इति । गद्य- पद्यादीत्यादिपदात् यावद्वाक्यंगृह्यते व्यक्तमाह कादिमते, स्वा- १६ षट्चक्रनिरूपणम्। कूजन्ती कुलकुण्डली च मधुरं मत्तालिमाला स्फुटं वाचः कोमलकाव्यवन्धरचनाभेदातिभेदक्रमैः । श्वासो- च्छासविभञ्जनेन जगतां जीवो यया धार्यते सा मूला- म्बुजगवरे विलसति प्रोद्दामदीप्तावलिः ॥ ११ ॥ मेच्छाशक्तिघातेन प्राणवायुस्वरूपतः । मूलाधारे समुत्पन्नः परा- ख्योनाद उत्तमः । स एव चोर्ध्वतां नीतः स्वाधिष्ठानविजृभ- म्भितः । पश्यन्त्याख्यामवाप्नोति तथैवोर्ध्वं शनैः शनैः । अनाहते बुद्धितत्त्वसमेतो मध्यमाभिधः । तथा तयोरूर्ध्वगतो विशुद्धौ कण्ठदेशतः । वैरवाभिधः कण्ठशीर्पताल्वोष्ठदन्तगः । जिह्वा- मूलाग्रपृष्ठस्थस्तथा नासाग्रतः क्रमात् । कण्ठताल्वोष्ठकण्ठस्थः कण्ठोष्ठद्वयतस्तथा । समुप्तन्नान्यक्षराणि क्रमादादिक्षकावधि इति अलं विस्तरेण । कुण्डलिनीध्यानान्तरमाह अन्यत्र । ध्यायेत् कुण्डलिनी देवी स्वयम्भुलिङ्गवेष्टिनीम् । श्यामां सूक्ष्मां सृष्टिरूपां सृष्टिस्थितिलयात्मिकाम् । विश्वातीतां ज्ञानरूपां चिन्तयेदूल वाहिनीम् । तथा ध्यायेत् देवीमिष्टदेवस्वरूपि- णीम् । सदा घोड़शवर्षीयां पीनोन्नतपयोधराम् । नवयौवन- सम्पन्नां सर्वाभरणभूषिताम् । पूर्णचन्द्रप्रभा रक्तां सदा चञ्च- ललोचनाम् इति । रक्तामिति सुन्दरीविषये ज्ञेयमिति शाक्ता- नन्दतरङ्गिणीकारः । वस्तुतस्तु सर्वदेवताविषये एव कुण्डलिनी रक्तवर्णत्वेन ध्येया न तु श्यामवर्णत्वेन प्रायः सर्वतन्त्रे सर्वसंग्रहे च कुण्डलिन्यास्तड़िदाकारत्वकथनात् । मामित्यनेन शीतकाले भवेदुष्णा उप्णकाले च शीतला । प्रतप्त- काञ्चनाभासा श्यामा स्त्री परिकीर्तितेत्येतद्वचनाकान्तत्वं ज्ञापि- तम् । न तु श्यामवर्णत्वमतः सर्वशास्त्रसामञ्जस्यमिति । चक्र- कुण्डलिनी श्या- षट्चक्रनिरूपणम् । १७ तन्मध्ये परमा कलातिकुशला सूक्ष्मातिसूक्ष्मा परा नित्यानन्दपरम्परातिविगलत्पीयूषधाराधरा । ब्रह्माण्डादि- कटाहमेव सकलं यद् भासया भासते सेयं श्रीपरमेश्वरी विजयते नित्यप्रवोधोदया ॥ १२ ॥ भेदनात् पूर्व ब्रह्मद्वारमध्ये कुण्डलिनीध्यानमाह कङ्कालमालि- न्याम् । कोटिचन्द्रप्रतीकाशां परब्रह्मस्वरूपिणीम् । चतुर्भुनां त्रि- नेत्रां च वराभयकरां तथा । तथा पुस्तकवीणे च धारिणी सिंह- वाहिनीम् । गच्छन्ती स्वासनं भीमां नानारूपधरात्मिका- मिति ॥ १०॥ ११ ॥ स्वयम्भुलिङ्गवेष्टितकुण्डलिन्यूर्वे समसूत्रपातन्यायेन दण्डा- कारेण लिङ्गाग्रपर्यन्तस्थितां परशक्तिमाह तन्मध्ये इति । अस्यार्थः यद्भासया यस्याः शतया दीप्त्या ब्रह्माण्डादितत्कटाहंच भासते प्रकाशते सेयं श्रीपरमेश्वरी तन्मध्ये स्वयम्भुलिङ्गे कुण्डलिनीवेष्ट- नोर्वे विजयते सर्वान वशवत्तिनः कृत्वा तिष्ठतीत्यर्थः । सा कि- म्भूता परमा अघटनघटनफ्टीयसी माया । कला नादशक्तिरूपा कुण्डलिन्यभेदशरीरिणी। तदुक्तं शाक्तानन्दतरङ्गिण्याम् । कला कुण्डलिनी सैव नादशाक्तः शिवोदिता। तथान्यत्र, तस्योपरि मनो ध्यायेत् चित्कलामीशमाश्रिताम् । प्रदीपकलिकाकारां कुण्ड- ल्यभेदरूपिणीम् इति । तथा कालिकाश्रुतौं । तस्याः शिखायाम- ध्ये तु अध ऊर्ध्वं व्यवस्थिताम् । स ब्रह्मा सः शिवः सूर्यः स एव परमेश्वरः । स एव विष्णुः स प्राणः स कलानिः स चन्द्रमाः।इति कुण्डलिनी ध्यात्वा सर्वपापैः प्रमुच्यते इति ।तस्याः शिखाया मध्ये त्रिवलयस्योर्वे व्यवस्थितां परमां कलां नादरूपामित्यर्थः । इति ललि- तारहस्यकारः । अतिकुशला सृष्टिसम्पादनयोग्यतारूपकौशलवती- १८ पट्चक्रनिरूपणम। धात्वैतन्मूल चक्रान्तरविवरलसत्काोटसूर्यप्रकाश वाचामीशो नरेन्द्रः स भवति सहसा सर्वविद्याविनोदी । आरोग्यं तस्य निसं निरवाधि च महानन्दचित्तान्तरात्मा वाक्यः काव्यप्रवन्धैः सकल मुरगुरून् सेवते शुद्धशीलः ।। १३ ॥ त्यर्थः । नित्यानन्दपरम्पति । नित्यानन्दात परम्परा परपरक्रम- मम्बन्धो यम्या इत्यर्थः । ततश्च नित्यानन्दो निर्गुणं ब्रह्म तस्मा- त मगुणाविर्भावः सगणात् शक्तिः शक्तर्नादः नादाद्विन्दुःविन्दोः कुण्डलिनी कुण्डलिन्यवान्तररूपेयं चित्लेत्येवंप्रकारेण नित्या- नन्दपरम्परेति भावः । यहा नित्यानन्दपरम्परातिविगलतूपीयूष- धारावरेत्य कविश पणम् । नित्यानन्दात् परम्परया नित्यानन्दात् पर बिन्दुः तत्परमाज्ञाचक्रं तत्परं विशुद्धचक्रमेवं क्रमेण मूलाधा- र पर्यन्तमतिविगलन्ती या पीयूपधारा सा ध्रियते गृह्यते यया सत्यर्थः स्पष्ट मन्यत् ॥ १२ ॥ मूलाधारे कुण्डलिनीचिन्तनफलमाह ध्यात्वैतदिति । मू- रचक्रेति मूलाधारषटकानां मूलाधारं ततो विदुरिति वचनात् मू- लाधार चक्रं तम्यान्तरे मध्ये यद् विवरं गवरं तस्मिन् लस. कोटिसूर्यप्रकाशमित्यर्थः । सकलमुरगुरूनिति । मि- हाशार्दूलनागाद्याः पुंसि श्रेष्ठार्थवाचका इत्यमरोक्त्या सुरगुरुव- तिनः गुरुशब्देन सुरश्रेष्ठा ब्रह्मविष्णुशिवादयः प्रतीयन्ते । ततश्च तदादिदेवान सेवत स्तवादिवाक्यस्तोषयतीत्यर्थः स्पष्टमन्यत् । तदयं महावाक्यार्थनिर्णयः । मूलाधारचक्रं चतुर्दलं रक्तवर्ण वशपस इति स्वर्णाभचतुर्वर्णयुक्तदलकर्णिकायां धरामण्डलं चतु- कोणमष्टशूलावृतं पीतवर्णम् । तन्मध्याधो धराबीजं चतुर्भुन- १९ षट्चक्रनिरूपणम् । सिन्दूरपूररुचिरारुणपद्ममन्यत् सौषुम्णमध्यघटितं ध्व- जमूलदेशे । अङ्गच्छदैः परिवृतं तडिदाभवर्णैर्वाद्यैः सवि- न्दुलसितैश्च पुरन्दरान्तैः॥ १४ । मैरावतारूढं पीतवर्ण वज्रहस्तं चतुर्भुजम् । धरावीजनविन्दु- मध्ये शिशुरूपब्रह्मा चक्रवर्णः चतुर्भुजः दण्डकमण्डल्वक्षसूत्राभय- हस्तः चतुर्मुखः । तत्कर्णिकायां रक्तपद्मोपरि चक्राधिष्ठात्री डाकिनी शक्तिः रक्तवर्णा चतुर्भुजा शूलखट्वाङ्गचषकहस्ता । कर्णिकामध्ये विद्युदाकारत्रिकोणं तन्मध्ये कामवायुः कामवीनञ्च रक्तवर्णम् । तदुपरि स्वयम्भुलिङ्गः श्यामवर्णः । तस्योर्चे कुण्ड- लिनीशक्तिः सार्द्धत्रिवलयाकारा तदूधै लिङ्गाग्रे चित्कला द- ण्डाकारेण स्थितेति ॥ १३ ॥ मूलाधारचक्रं निरूप्य स्वाधिष्ठानचक्रं निरूपयति । सि. न्दूरपूरेत्यादि पञ्चभिः । प्रथमस्यायमर्थः । ध्वजमूलदेशे लिङ्गमूल- स्थाने अन्यत् आधारचक्रभिन्नं सिन्दूरपूररुचिरारुणपद्मं सिन्दूर- स्य पूरणेन यथा मनोहररक्तवर्णं पद्मम् आस्ते इति क्रियासमा- हारेणान्वयः । पद्मं विशेषयति सौषुम्णमध्यघटितमिति । सुषु- म्णानाडीमध्ये निर्मितं तथाङ्गच्छदैः परिवृतं षट्पत्रयुक्तम् । पुरन्द- रान्तैरिति । पुरन्दरो लकारः तदन्तैर्वाद्यैस्तेन वभमयरलेति षड्- भिस्तडिदाभवर्णैर्दलवत्परिवृतः तेन दलावच्छेदे वर्णयोगः प्रतीतः । वर्णान् विशेषयति सविन्दुलसितैरिति । बिन्दुना सह वर्तमानाः सविन्दवः लसिताः प्रकाशिताः । सविन्दवश्च ते लसिताश्चेति तैरित्यर्थः । ततश्चात्र विशेष्यविशेषणभावकल्पने विशेषणीभूत- विन्दौ लसितत्वकारणत्वं प्रतीयते । सुरापः पततीत्यत्र कर्तृविशे- षणसुरापाने पतनकर्तृत्ववदिति । यद्वा बिन्दूनां लसितं विन्दुल- सितं विन्दुप्रकाशः तेन सह वर्तमानैर्वाद्यरित्यर्थः ॥ १४ ॥ । ।

२० षट्चक्रनिरूपणम्। तस्यान्तरे प्रविलसद्विशदप्रकाशमम्भोजमण्डलमथो वरुणस्य तस्य । अर्द्धन्दुरूपलासितं शरदिन्दुशुभ्रं वङ्कार- बीजममलं मकराधिरूढम् ॥ १५ ॥ एतत् पद्मकर्णिकायामम्भोजमण्डलस्थितिमाह तस्यान्तरे इति । तस्य पद्मस्य अन्तरे मध्ये अम्भोजमण्डलमम्भोजाकार- मण्डलं प्रविलसत् प्रकाशमानम् । तत् किम्भूतं विशदप्र- काशं शुक्लवर्ण पुनः किम्भूतमर्द्धन्दुरूपलासितमर्द्धचन्द्रयुक्त मित्यर्थः इदं · जलमण्डलं तदाह सारदायाम् । अम्भो जमभसो भूमेश्चतुरस्रं सवजकमित्यादि । एतन्मण्डललक्षणमाह राघवभट्टः । अर्द्धचन्द्रं कृत्वा तदुभयभागे सरोजद्वयं कुर्यात् तदुक्तमाचार्यैः । अब्जोपेताद्धेन्दुमत् विम्बमिति । मण्डलमध्ये वरुण- बीनस्थितिमाह अथ इति । ताम्यति जलाधिष्ठातृत्वेन प्रसिद्ध- स्येत्यर्थः मकराधिरूढमिति । पाशहस्तञ्च तदाह । तदन्तर्वारुणं बीजं श्वेतं मकरवाहनम् । पाशहस्तं तदद्धञ्च हरिं श्यामं चतु- भुजमिति । अयं वरुणवीजस्वरूपो विकारो यवर्गीयः कुलाकुल- चक्रे मूतलिपिमन्त्रे च तद्द्वकारस्यैव यलवर्णत्वेनाभिधानात् स्पष्ट- मन्यत् ॥ १५ ॥ वरुणवीजस्याङ्के विष्णुस्थितिमाह तस्याङ्क इति अङ्के बीनमस्तकस्य बिन्दुमध्ये धरावीजवीन्दौ ब्रह्मणः स्थितिदर्शना- दत्रापि तथा दृष्टपरिकल्पनान्यायात् एवं वक्ष्यमाणसर्वत्र बोध्यं कलितः स्थित इत्यर्थः । नीलप्रकाशरुचिरश्रियमादधन इति । नीलज्योतिषां या मनोज्ञा शोभा तां दधानः इत्यर्थः तेन नीलतेजः पुञ्जशरीरीति यावत् । श्रीवत्सकौस्तुभधर इति तद्धयानमाह गौतमीये । कौस्तुभं हृदये रत्नं सूर्यायुतसमप्रभम् । तदधो वन- षट्चक्रनिरूपणम्। २१ तस्याकदेशकलितो हरिरेव पायात् नीलप्रकाशरुचि- रश्रियमादधानः । पीताम्बरः प्रथमयौवनगर्वधारी श्रीवत्स- कौस्तुभधरोधृतवेदवाहुः ॥ १६ ॥ माला च चन्द्रायुतसमप्रभा । कौस्तुभा च श्रीवत्सं चन्द्रायुत- समप्रभामिति । हरिहस्ते अस्त्रमाह तन्त्रान्तरे । पाशहस्तं तदङ्के च हरिं श्यामं चतुर्भुजम् । शङ्खचक्रगदापद्मधारिणं पीतवासस- मिति । पाशहस्तं वरुणमिति पूर्वेणान्वयः । अन्यत्र पीताम्बरं शान्तमूर्ति वनमालाविभूषितमिति । मूलाधारे हंसपृष्ठे ब्रह्मणस्थि- तिदर्शनादत्र गरुडोपरि विष्णुश्चिन्तनीयः ।। १६ ॥ एतत्पने राकिणीशक्तिस्थितिमाह । अत्रैवेति स्पष्टम् । राकिणीध्यानविशेषमाह श्यामां शूलाब्जहस्तां डमरुकरयुतां ती- क्ष्णटकं वहन्तीमुग्रां रक्तत्रिनेत्रां कुटिलसविलसद्दन्तदंष्ट्रप्रभाभिः । द्वीप्तां तां देवदेवी द्वितयकमलगां रक्तधारैकनासां शुक्लान्ने सक्तचित्तामभिमतफलदां राकिणीं चिन्तयेत्ताम्। अत्र पद्मान्तरे राकि- ण्या: स्थितिदर्शनात् सर्वत्र रक्तपद्मान्तरोपरि षट्शक्तीनां स्थिति- रिति बोध्यम् ॥ १७ ॥ स्वाधिष्ठानपद्मादिचिन्तनफलमाह स्वाधिष्ठानाख्यमिति । स्वशब्देन परं लिङ्गं स्वाधिष्ठानं ततो विदुरिति । अहङ्कारदोषादी- त्यादिना कामक्रोधादयो गृह्यन्ते तेन कामादिषड्रिपवः क्षीयन्ते इत्यर्थः । मोहाद्भुततिमिरचये इति दुनिवार्यमोहान्धकारसमूहे इत्यर्थः । ततश्च मायामोहरूपान्धकारनाशाय ज्ञानरूपसूर्यमा- मोतीति भावः स्पष्टमन्यत् तदयं महावाक्यार्थनिर्णयः । स्वाधि- छानचक्रं सिन्दूरवर्णषड्दलं तडिदाभासविन्दुबभमयरल इति पड़ दलं युक्तदलं तत्कर्णिकायां मध्यस्थला चन्द्रयुक्ताष्टपद्माकारम-

२२
षट्चक्रनिरूपणम् ।
अत्रैव भाति सततं खलु राकिणी सा नीलाम्बुजो-
दरसहोदरकान्तिशोभा । नानायुधोद्यतकरैर्लसिताङ्गलक्ष्मीः
दिव्याम्बराभरणभूषितमत्तचित्ता ॥ १७ ॥
स्वाधिष्ठानाख्यमेतत् सरसिजममलं चिन्तयेद् यो
मनुष्यस्तस्याहङ्कारदोषादिकसकलरिपुः क्षीयते तत्क्षणेन ।
योगीशः सोऽपि मोहाइततिमिरचये भानुतुल्यप्रकाशो
गद्यैः पद्यैः प्रवन्धेविरचयति मुधावाक्यसन्दोहलक्ष्मीः॥१८॥
म्भोजमण्डलं शुक्लवर्ण तन्मध्ये वमिति वरुणवीजं मकराधिरूढं-
पाशहस्तं तत्क्रोड़े विष्णुर्गरुडोपरि स्थितश्चतुर्भुजः शङ्खचक्र-
गदापद्मधारी पीताम्बरः वनमालाश्रीवत्सकौस्तुभधारी युवरूपः
पद्मकर्णिकायां रक्तपद्मोपरि राकिणी शक्तिः श्यामवर्णा चतुर्भुजा
शूलाब्जडमरुटङ्कधरा त्रिनेत्रा कुटिलदंष्ट्रा भयङ्करी शुक्लान्नरक्त-
धाराभिलासिनीति ॥ १८ ॥
मणिपूरचक्रं निरूपयति तस्योर्वे इत्यादि त्रिभिः । तस्य
स्वाधिष्ठानस्येत्यर्थः । दशदललसिते इति । दशदलैलसित प्रका-
शिते पझे इति शेपः । पञ किंभूते पूर्णमेवप्रकाशे कृष्णवर्णे ।
डादिफान्तैः डढण तयदधन पफेति दशवर्णरुपहितं युक्तं जठरं
मध्यं यस्य तद्रूपे इत्यर्थः । स चन्द्रेरिति । चन्द्रोऽर्द्धचन्द्रः युगला-
ध्यवाहित्वाद्विन्दुश्च ताम्यां सह वर्तमानैवर्णरित्यर्थः । वैश्वानरस्य
वन्हेः । अरुणमिहिरसमं वालार्कसदशमित्यर्थः । स्वस्तिकाख्यौरिति ।
स्वस्तिकं नाम मध्यमूर्ड विदिग्गतचतुर्वक्त्रम् । रेखाद्वयामिति रा-
घवमट्टोक्तं तत्प्रकारैस्त्रिभिः स्वस्तिकैः त्रिकोणावच्छेदे अभिल-
पितमित्यर्थः । अत्र वन्हिमण्डले वन्हिवीजं रम् ॥ १९ ॥

२३ षट्चक्रनिरूपणम्। तस्योर्चे नाभिमूले दशदललसिते पूर्णमेघप्रकाशे नी- लाम्भोजप्रकाशैरुपहितजठरे डादिफान्तैः सचन्द्रः । ध्या- येद्वैश्वानरस्यारुणमिहिरसमं मण्डलं तत् त्रिकोणं तद्बाह्ये स्वस्तिकाख्यस्त्रिभिरभिलसितं तत्र वन्हेः स्ववीजम् ॥ १९॥ ध्यायेन्मेपाधिरूढ़ नवतपननिभं वेदवाहूज्वलाङ्गं तत् कोड़े रुद्रमूर्तिर्निवसति सततं शुद्धसिन्दूररागः । भस्मालि- ताङ्गभूपाभरणसितवपुर्बद्धरूपी त्रिनेत्रो लोकानामिष्टदाता भयलसितकरः सृष्टिसंहारकारी ॥ २० ॥ । भस्मालिप्ताङ्गभूषाभरणसितवपुरिति । भस्मलेपनाङ्गभूषाभर- णाभ्यां शुक्लीकृतदेह इत्यर्थः । ध्यायेन्मेषेति । ध्याने विशेषमाहा- न्यत्र । मेषस्थं साक्षसूत्रञ्च शक्तिहस्तं स्मरेत्तत इति । विशेषान- भिधानादन्यहस्तद्वये वराभयौ चिन्तनीयौ ध्यानान्तरे तथादर्श- नात् । लोकानामिष्टदाता वरदातेत्यर्थः । अभयलसितकरस्तेन व राभयधारीति भावः अत्र वृषोपरि रुद्रो ध्येयः स्पष्टमन्यत् ॥२०॥ अत्रास्त इति । विविधरचनेति । विविधेन मणिमुक्तादि- योगेन चित्रविचित्रघटनेन विरचना यत्र तादृशमलंकृतं यस्य इत्यर्थः । यद्वा विविधविरचनया अलङ्कारो धार्यते यत्रेत्यर्थः । अत्र लाकिनीध्यानविशेषमाह । नीलां देवीं त्रिवक्तां त्रिनयनलासि- तां दष्ट्रिणीमुग्ररूपां वनं शक्तिं दधानामभयवरकरां दक्षवामे क्र मेण । ध्यात्वा नाभिस्थपञ दशदलविलसत्कर्णिके लाकिनी तां मांसाशी गौररक्तामृकह्रदयवतीं चिन्तयेत् साधकेन्द्रः । नाभिप- अचिन्तनमाह ध्यात्वतदित्यादि । नाभिपद्मं मणिपूराख्यम् । तत्- पद्मं मणिवद्भिन्नं मणिपूरं तयोच्यते इति गौतमीयात् । अन्यत् OC षट्चक्रनिरूपणम्। अत्रास्ते लाकिनी सा सकलशुभकरी वेदवाहूज्ज्व- लाङ्गी श्यामा पीताम्बरायविविधविरचनालङ्कता मत्त- चित्ता। ध्यात्वतन्नाभिपद्मं प्रभवति नितरां संहृतौ पालने वा वाणी तस्याननाब्जे निवसति सततं ज्ञानसन्दोहलक्ष्मीः ॥२१॥ तस्योर्चे हृदि पङ्कजं मुललितं बन्धूककान्त्युउज्वलं कायॆादशवर्णकैरुपहितं सिन्दुररागान्वितैः । नाम्ना- स्पष्टम् । तदयं महावाक्यार्थनिर्णयः । नाभिपद्मं मेघवर्णदशदलं तद्दलेषु निभासविन्दु डढण तथदथनपफ इति दशवर्णयुक्तं तत्क- र्णिकायां त्रिकोणाकारं त्रिकोणबहिः स्वस्तिकायुक्तं रक्तवर्ण वन्हिमण्डलम् । तन्मध्ये रमिति वन्हिवीजं रक्तवर्ण मेषाधिरूढं चतु. (नं वज्रशक्तिवराभयधरम् । तत् कोडे रुद्रः वृषारूढो रक्तव- ो द्विभुजो वराभयधारी भस्मलेपनशुक्लाभरणाभ्यां शुक्लीकृतदेहः वृद्धरूपः । पद्मकार्णकायां रक्तपद्मोपरि लाकिनीशक्तिः नील- वर्णा त्रिवक्त्रा त्रिनेत्रा चतुर्भुना वज्रशक्त्यभयवरकरा बोरदंष्ट्रा रक्तयुक्तखेचरान्नमांसाभिलासिनीति ॥ २१ ॥ हृदि पङ्कजं निरूपयति । तस्योर्धे इत्यादि षड्भि; । हृदि पङ्कजमिति । एवम्भूतं पङ्कनं हृदि घ्यायोदाते क्रियाप्याहारेणा- न्वयः । सुललितं मुस्निग्धमित्यर्थः । काद्यैरिति । कखगघङ चछनझन टठ इति द्वादशवर्णकैरिति वाव्यम् । तैरुपहितं युक्तमित्यर्थः । नाम्नानाहतसंज्ञकमिति । शब्दब्रह्ममयः शद्बोऽनाहत- स्तत्र दृश्यते । अनाहताख्यं पद्मं तत् मुनिभिः परिकीर्तितम् । इति वचनादनाहतनाम पद्ममिति तात्पर्य्यम् । यतः सुरतरुं कल्पतरु- षट्चक्रनिरूपणम्। २५ नाहतसंज्ञकं मुरतरुं वाञ्छातिरिक्तप्रदं वायोमण्डलमत्र धूमसदृशं षट्कोणशोभान्वितम् ॥२२॥ तन्मध्ये पवनाक्षरञ्च मधुरं धूमावलीधूसरं ध्या- येन् पाणिचतुष्टयेन लसितं कृष्णाधिरूढं परम् । तन्म- ध्ये करुणानिधानममलं हंसाभमीशाभिधं पाणिभ्यामभयं वरश्च विदधल्लोकत्रयाणामपि ॥ २३ ॥ भावः स्वरूपमतो वाच्छातिरिक्तफलप्रदमिति हेतुगर्भविशेषणमिति । तत्पद्मकणिकायां वायुमण्डलास्थितिमाह वायो- रिति ॥ २२ ॥ वायुमण्डलमध्ये वायुवीजमाह तन्मध्य इति । पवनाक्षरं यमिति वीनं मधुरं मनोहरम् । धूमावलीधूसरमिति । धूम श्रेण्यावृतदेहत्वात् धूमधूभ्रवर्णमिति भावः । कृप्णाधिरूढ़ मिति । कृष्णसाराधिरूढमित्यर्थः । वरुणहस्ते पाशदर्शनादत्र वायुहस्तेऽङ्कशो ध्येयः । वायुवीजमध्ये ईशस्थितिमाह तन्मध्य इति स्पष्टम् । सर्वत्र शिवस्य त्रिनेत्रत्वं शिवस्य त्रिनेत्रत्वादयं त्रिनेत्रः एवं ग्रेवेयाङ्गदहारनपुरयुतं क्षौमाम्बरं चिन्तयेदित्यादि- कर्मान्तरोक्तध्यानप्राप्त-ौमाम्वरत्वमीशस्य । एवं कान्तं कान्त- शशाङ्ककोटिकिरणं प्रद्योत् कपर्दोज्ज्वलमिति ॥ २३ ॥ अत्र कर्णिकायां काकिनीशक्तिस्थितिमाह अत्राम्ते इति । मत्ता स्वभावस्खलितभावा । पूर्णसुधारसाह- दयति । पूर्णः सम्पूर्णः तृप्तिननको यः सुधारसस्तेनाई परोपकाराभिमतकोमलं हृदयं चित्तं यस्या इत्यर्थः । यद्वा पर्णः पूर्णानन्दजनको यः सहस्रदलकमलान्तर्विमालतपरमा- ३ २६ षट्चक्रनिरूपणम्। अत्रास्ते खलु काकिनी नवतड़ित्पीता त्रिनेत्रा शुभा सर्वालङ्करणान्विता हितकरी सम्यक् जनानां मुदा । इस्तैः पाशकपालशोभनवरान् संविभ्रती चाभयं मत्ता पूर्णमुधारसाहृदया कङ्कालमालाघरा ॥ २४ ॥ एतन्नीरजकर्णिकान्तरलसच्छक्तिस्त्रिकोणाभिधा वि- गुत्कोटिसमानकोमलवपुः सास्ते तदन्तर्गतः । वाणाख्यः शिवलिङ्गकोऽपि कनकाकाराङ्गगरागोज्ज्वलो मौलौ मू- क्ष्मविभेदयुमणिरिवप्रोल्लासलक्ष्म्यालयः ॥ २५ ॥ मृतरसस्तेनार्द्र परमानन्दोत्फुल्लशिथिलं हृदयं यस्या इत्यर्थः । भन्यत् स्पष्टम् । कृष्णाम्बरपरीधानां नानाभरणभूषिताम् । ध्यायेत् शशिमुखी नित्यां काकिनी मन्त्रसिद्धये । इति ध्यानप्रा- तकृष्णाम्वरत्वमस्या बोध्यम् ॥ २४ ॥ एतत् पद्मकर्णिकामध्ये निकोणं निरूपयति एतदिति । त्रि- कोणाभिधा त्रिकोणाकारा शक्तिरित्यनेन त्रिकोणस्याधोमुखत्वं ज्ञापितम् । सा आस्ते इत्वन्वयः। एतत्रिकोणं वायुवीजस्याधो- देशे । तदाहान्यत्र । तत्कोडे ईशं तदधस्त्रिकोणे बाणलिङ्गकमि- ति । वाणाख्यलिङ्गं विशेषयति मौलौ सूक्ष्मविभेदः । शिवलिङ्गम- स्तकेऽर्द्धचन्द्रबिन्दुयोगात् तद्विन्दुमध्ये शून्यरूपो विभेदश्छिद्रं तेन युक्त इत्यर्थः । तदाह । यद्वा त्रिकोणान्तर्बाणलिङ्ग कनकामर- गैर्युतम् । चन्द्रार्द्धमस्तकं देवं मध्ये रक्ताम्बुजं परमिति । मध्ये र- क्ताम्बुजमिति हृत्पद्मस्य कर्णिकाधोदेशे ऊर्ध्वमुखरक्तवर्णाष्टदलपद्म- मित्यर्थः । एतत्पद्मोपरि मानसपूना कार्या। तदुक्तं यथा त- न्मध्येऽष्टदलं रक्तं तत्र कल्पतरूं तथा । इष्टदेवासनं चारुचन्द्रातप- २७ षट्चकनिरूपणम्। ध्यायेद् यो हृदिपङ्कजं मुरतरुं सर्वस्य पीठालयं देव- स्यानिलहीनदीपकलिकाहंसेन संशोभितम् । भानोमण्डलम- ण्डितान्तरलसकिञ्जल्कशोभाधरं वाचामीश्वर ईश्वरोऽपि जगतां रक्षाविनाशे क्षमः ॥ २६ ॥ विराजितम् । तथा नानापुष्पफलैर्युक्तं मञ्जवाक्पक्षिशोभितमित्या- द्यभिधाय तत्र ध्यायेदिष्टदेवं तत्तत्कल्पोक्तमार्गतः इति । अलं विस्तरेण प्रकृतमनुसरामः । बाणलिङ्गमस्तके बिन्दुप्रकाशदृष्टान्त- माह मणिरिवेति । यथा सरन्ध्रमाणप्रकाशस्तथा शिवलिङ्गोपरि बिन्दुप्रकाश इति भावः । प्रोल्लासलक्ष्म्यालय इति । प्रोल्लासः का- मोद्गमः तच्छोभायुक्त इत्यर्थः ॥ २५ ॥ हृत्पद्मचिन्तनफलमाह ध्यायेदित्यादि द्वाभ्याम् । अस्यार्थः यो जनो हृदि पङ्कजं ध्यायेत् स जनो वाचामीश्वरो वृहस्पतिसमो भवति एवं सर्वत्र ईश्वर इत्यादि प्रथमान्तेन भवति क्रियान्वयो बोध्यः । अत्र पद्मकर्णिकायां हंसरूपजीवात्मास्थितिमाह अनिलही- नदीपकलिकाहंसेन संशोभितमिति । वायुरहिता या दीपकलिका तत्सदृशहंसेन संशोभितमित्यर्थः । ततश्च पकणिकायां वाता- हतिरहितस्थिरतरदीपशिखाकारहसरूपः जीवात्मा वर्तते इति भावः । एतत्कर्णिकायां सूर्यमण्डलस्थितिं ज्ञापयति । भानोर्मण्डलम- ण्डितान्तरलसत्किजल्कशोभाधरमिति । भानोमण्डलेन मण्डि- ता भूषिता ये अन्तर्लसन्तः कर्णिकामध्ये प्रकाशमानाः किन्ज- स्काः केशराः अथवा याः किञ्जल्कशोभास्तां धारयतीत्यर्थः । अत्र भानुमण्डलमण्डितत्वं किजल्कविशेषणं न त्वन्तरविशेषणं तथात्वे सर्वस्मिन् पद्मे किञ्जल्कशोभाधरत्वादत्र विशेषोपादानं व्यर्थ २८ षट्चक्रानरूपणम्। योगीशो भवति प्रियात् प्रियतमः कान्ताकुलस्यानि- शं ज्ञानीशोऽपि कृती जितेन्द्रिययगणो ध्यानावधानक्षमः । गद्यैःपद्यपदादिभिश्च सततं काव्याम्बुधारावहो लक्ष्मीरङ्ग गदैवतं परपुरे शक्तः प्रवेष्टुं क्षणात् ॥ २७ ॥ स्यात् । भानोर्मण्डलमण्डितत्वविशेषणविशिष्टत्वे तादृशविशिष्ट- किञ्जल्कानामन्यत्रासत्वात् तदुपादानं सार्थकमिति । एवञ्च भानो- मण्डलस्य कर्णिकारूपकत्वे तत्तेजसा सर्वेषां किञ्जल्कानां शोभा- धिक्यरूपमण्डितत्वं सम्भवति न त्वेकदेशस्थितत्वे । ततश्च तत्कणिकायामादौ कणिकाव्यापकं वायुवीजत्रिकोणादिकं ध्ये- यम् । युक्तञ्चैतत् । मानसार्चने वन्हिमण्डलाय दशकला- त्मने नमः इत्यादिना पूनायाम् उपर्युपरि क्रमेण वन्ह्यर्कचन्द्रम- ण्डलास्थतिदर्शनात् दृष्टपरिकल्पना न्यायावतारात् । अलमति विस्तरेण । ईश्वर इति सृष्टिकर्ता इत्यर्थः । रक्षाविनाशे क्षमः स्थितिप्रलयकर्ता इत्यर्थः । तेन स जनः सृष्टिस्थितिप्रलयकर्तेति तात्पर्य्यार्थः ॥ २६ ॥ योगीश इति । प्रियात् प्रियतमः कान्ताकुलस्येति योषित् वर्गस्य कर्मकुशलः। जितेन्द्रियगण इति । जितेन्द्रियाणां मध्ये गण्यते तुल्यत्वेन गृह्यते असावित्यर्थः । ध्यानावधानक्षमः ध्याने ब्रह्मचिन्तने अवधानाय स्थिरमनोऽभिनिवेशं कर्तुं समः समर्थ इत्य- र्थः । काव्याम्बुधारावह इति । काव्यरूपाम्बूनां धारा अवि- च्छेदनिःसरणम् उह्यते धार्यते येन तादृशी भवतीति । लक्ष्मीरङ्गणदेवतः । विष्णुमदृश इत्यर्थः । यद्वा. लक्ष्मीः सम्पत्तिः रङ्गणम् आनन्दानुभवः दैवम् अदृष्टं तत्समूहो दैवता मनतावत् ततश्च लक्ष्मीभीरङ्गणाय देवता यस्येति बहुव्री.

पट्चक्रानरूपणम्। २९ विशुद्धाख्यं कण्ठे सरसिजममलं धूमधूम्रावभास स्वरैः सर्वैः शोणैर्दलपरिलसितैःपितं दीप्तबुद्धे । समास्ते पूर्णे- न्दुप्रथिततमनभोमण्डलं वृत्तरूप हिमच्छायानागोपरिलसि- ततनोः शुलवर्णाम्बरस्य ॥ २८ ॥ झथै णप्रत्ययेन तत्पदं सिद्धम् अत एवोक्तम् । इह भुक्त्वा वरान्ि भोगानन्ते मुक्तिपदं ब्रजेदिति । परपुरे शक्तः प्रवेष्टुं क्षणादिति । दुर्गद्वारपालादिना दुर्गमीकृतायामपि परपुऱ्या प्रवेष्टुं शक्तः प्रवे- शकारणभूतादर्शनाकाशगमनादियोग्यतापन्नो भवतीत्यर्थः । अत्र केचित् दैवतमिति विद्वन्तं पठित्वा यद्यपि जनविशेषणतया दैवत मित्यस्य पुंस्त्वं भरितुं पार्यते तथाप्यनहल्लिङ्गत्वान्नपुंसकत्वमिति वदन्ति । तत्र वृन्दारका दैवतानि पुंसि वा देवतास्त्रियामित्यमरकोषे दैवतशब्दस्य पुंन्नपुंसकत्वकथनात् दैवत इति विसर्गान्तपाठोऽपि साधुः । प्रदर्शितार्थे तु मुतरां तथेति स्पष्टमन्यत् । तदयं महावाक्या- थनिर्णयः । हृत्पद्मं बन्धुकाभं सिन्दूराभासबिन्दु कखगघडचछनझन टठ इति द्वादशवर्णयुक्तद्वादशदलम् । तत्कर्णिकायां षट्कोणा- कारवायुमण्डलं धूमाभं तदुपरि सूर्यमण्डलं तन्मध्ये विद्युत्कोटिनि मं त्रिकोणं तदूर्वे वायुबीजं कृष्णसाराधिरूढं धूमधूम्राभं चतुर्भुजम् अकुशहस्तं । तत्कोड़े हंसाभ ईशः द्विभुजः वराभयकरः त्रिनेत्रः । अत्र कर्णिकायां रक्तपद्मोपरि काकिनीशक्तिः पीतवर्णा चतुर्भुना पाशकपालवराभयकरा पीतवस्त्रा सर्वालङ्करणान्विता सुधार्द्रहृदया कङ्कालमालाधरा । मध्यत्रिकोणे बाणलिङ्गशिवः अर्द्धचन्द्रबिन्दु- रूपमस्तकः स्वर्णवर्णः कामोद्गमोल्लसितः । तदधः स्थिरतरदीपक- लिकाकारहंसरूपी जीवात्मा । एतत्कणिकाधो रक्तवर्णोर्ध्वमुखाष्ट- ३० षट्चक्रनिरूपणम्। भुजै पाशाभीत्यकुशवरलसितैः शोभिताङ्गस्य तस्य मनोरङ्के निसं निवसति गिरिजामिनदेहो हिमाभः। त्रिनेत्र: पञ्चास्यो लसितदशभुजो व्याघ्रचर्माम्बराट्यः सदापूों देवः शिव इति च समाख्यानसिद्धः प्रसिद्धः ॥ ॥ २९ ॥ दलपद्मं । तत्रकल्पवृक्षरत्नवेदीचन्द्रातपपताकाद्यलङ्कतं मानसपूजा- स्थानम् ॥ २७॥ इदानी कण्ठदेशे विशुद्धचक्रं निरूपयति विशुद्धाख्यमि- त्यादि चतुर्भिर्विशुद्धाख्यमिति । विशुद्धिं तनुते यस्माज्जीवस्य हंसलोकनात् विशुद्धं पद्ममाख्यातं आकाशाख्यं महत् परमिति । अस्यार्थः कण्ठे विशुद्धाख्यं विशुद्धनामकं सरसिजं समास्ते इत्य- न्वयः । पद्मं विशेषयति अमलभिति तेजोमयत्वात् मलरहितमि त्यर्थः । स्वरैः सर्वैः अकारादिविसर्गान्तैः षोडशस्वरैर्दीप्तबुद्धेः निरन्तरयोगाभ्यासेन विषयानुरागरूपमलरहितत्वेन प्रकाशितबु- द्वेः साधकस्य सम्बन्धे दीपितं प्रकाशितमित्यर्थः । स्वरैः कीदृशैः दलपरिलसितैरिति । एतेन स्वराणां षोडशत्वादेतत् पद्मं पेडाश- दलमिति मूचितम् व्यक्तमाहान्यत्र । तदूधै षोडशदलं पङ्कजं धूम्रवर्णकम् । युक्तं शोणेः षोडशभिः स्वैरविन्दुविभूषितैः आरक्तकिञ्जल्कयुतं व्योममण्डलमण्डितमिति । तथा पूर्णेन्दुप्रथित तमनभोमण्डलं पूर्णचन्द्रमण्डलवत् सम्पूर्ण शुक्लवर्णञ्च अतएव तत्तद्भूतसमाभानि विदुर्बुधा इति नारदोक्तवचनेन मण्डलानां तत्तदैवतभूतसमानवर्णविधानात् नभसः शुक्लवर्णत्वात् तन्मण्डलस्यापि शुक्लवर्णत्वं प्रतीयते । नभामण्डलं वृत्तरूपं समास्ते एतत्पद्मकर्णिकायामिति शेषः । शुक्लवर्णाम्बरस्येति । नभोमण्ड- लस्य मध्ये शुक्लवर्णस्याम्बरस्याकाशस्याङ्के सदापूर्वशिव इति स- मण्डलानि षट्चक्रनिरूपणम्। सुधासिन्धोः शुद्धा निवसति कमले साकिनी पीतव- स्त्रा शरं चापं पाशं सूणिमपि दधती इस्तपद्मश्चतुर्भिः। माख्यानासद्धेः सदाशिवनाम्ना ख्यातो देवः सततं निवसतीति द्वितीयश्लोकेनान्वयः । अम्बरस्य कीदशस्य हिमच्छायानागोपरि- लसिततनोः हिमच्छायया नागः हिमच्छायानागः इति तृतीया- न्ततत्पुरुषेण हिमोपमाविशिष्टनाग इत्यर्थः। यद्वा हिमच्छाया- तुल्यो नाग इति शाकपार्थिवादित्वात् मध्यपदलोपे तत्पदसिद्ध्या शुक्लवर्णनाग इत्यर्थः । अत्र नागो हस्ती व्यक्तमाह भूतशुद्धौ । तदन्तोमवीनञ्च शुक्लं हैममजस्थितामति । हैमति हिमस्याय- मितीदमर्थतद्धितप्रत्ययेन हैमगजः शुक्लहस्ती इत्यर्थः । ततश्च शुक्लहस्त्युपरि परिलसिता प्रकाशमाना तनुर्यस्य तादृशस्ये- त्यर्थः ॥ २८ ॥ पुनः कीदृशस्य भुजैः पाशाभीत्यङ्कुशवरलसितैः शोभि- साङ्गस्येति । पाशाङ्कशवराभयहस्तस्येति फलितार्थः । पुनः कीदृ- शस्य मनोरिति। हूमित्याकाशवीजं तदात्मकस्येत्यर्थः । तेनात्र क- णिकान्तरे नभोवीज स्थितं तत्तु उक्तरूपेण चिन्तनीयमिति तात्प- य॑म् । सदाशिवं विशेषयति गिरिजाभिन्नदेहइति । अर्द्धनारी- श्वर इत्यर्थः । हिमाभः शुक्लवर्णः ततश्चार्द्धनारीश्वरत्वाद्वामाईदेहं सुवर्णाभं दक्षिणाधं शुक्लामिति । व्यक्तमाह शुक्लाम्वरेण संवीतं तत्र देवं सदाशिवम् । गिरिजाभिन्नदेहार्ट रौप्यहैमशरीरकमिति । तत्र नभावनिकोडे इत्यर्थः। तथा सदा सुधास्त्राविचन्द्रमसः कलाधोमुखान्वितमिति निर्वाणतन्त्रे । विशुद्धचक्राधिकारे । यन्त्रमध्ये च वृषभं महासिंहासनन्ततः । तस्योपरि सदा गौरी ३२ षट्चक्रनिरूपणम् । सुषांशोः सम्पूर्ण शशपरिरहितं मण्डलं कर्णिकायो महा- मोक्षद्वार श्रियमभिमतशीलस्य शुद्धन्द्रि यस्य ॥ ३ ॥ दक्षमागे सदाशिवः । त्रिनेत्रः पञ्चवक्त्रश्च प्रतिवक्रे त्रिलोचनः । विभूतिभूषिताङ्गश्च रजताचलसोदरः । व्याघ्रचर्मधरोदेवो फणिमा- लाविभूषित इत्यादि । तस्योपरि सदा गौरीति शिवस्यार्धाङ्गरूपेण स्थितेति व्यक्तमाह तत्रैव । या गौरी लोकमाता च शम्भोरा- नहारिणीति । लसितदशभुज इति । लावण्येन प्रशंसितदशहस्त - युक्त इत्यर्थः । अत्र देवस्य दशभुजेष्वस्त्रविशेषानभिधानात् । शूलं टङ्ककृपाणवनदहनान्नागेन्द्रघण्टाङ्कुशान् पाशाभीतिहरं दधा- नममिताकल्पोज्ज्वलाङ्गं भजे इति ध्यानान्तरे यान्यस्त्राण्युक्तानि तान्यस्य भुनेष चिन्तनीयानीति ध्येयम् । प्रसिद्ध इति प्राधान्येन ख्यात इत्यर्थः अन्यत् सुगमम् ।। २९ । एतत्पद्मकणिकायां साकिनीशक्तिस्थितिमाह । सुधासि- न्धोरित्यादि । कमले विशुद्धचक्रकर्णिकायां साकिनी नानी शाक्तिर्निसवति इत्यन्वयः । तां विशेषयति सुधासिन्धोः शुद्धा इति । सुधासमुद्रमदृशशुक्लवर्णा तथा च यथा सुधासिन्धोरमृतम- यमुशीतलशुक्लत्वं तथा ज्योतिःस्वरूपायाः साकिन्या उत्तापरहि- तशक्लाकरणमिति भावः । ध्यानान्तरे साकिनी विशेषयति । देवी ज्योनिःस्वरूपां त्रिनयनलसितां पञ्चवक्राभिरामा हस्तैः पद्मश्च पार्श सृणिमपि दधती पुस्तकं ज्ञानमुद्राम् । ध्यायेत् कण्ठस्थपने निखिलपशजनोन्मादिनीमस्थिसंस्थां दुग्धान्ने प्रीतियुक्तां मधुम- दमुदितां साकिनी साधकेन्द्र इति । ज्योतिःस्वरूपां ज्योतिषां स्वभावतः शुक्लवर्णत्वेनेयं शुक्लवर्णा । अत्र ध्यानद्वये द्विविधास्त्र- षट्च कनिरूपणम् । इह स्थाने चित्तं निरवधि विनिधायात्तसम्पूर्ण योगः कविर्वाग्मी ज्ञानी स भवति नितरां साधकः शान्तचेताः । दर्शनादिच्छाविकल्पः । इयं देवी कणिकान्तश्चन्द्रमण्डले वत्तते तदाह प्रेमयोगतरङ्गिण्याम् । तत्रास्ते साकिनी शक्तिः सुधां- शोमण्डले शुभे इति । एतत्कणिकायां शुधांशोश्चन्द्रस्य शशपरिर- हितं निष्कलङ्गं सम्पूर्णमण्डलमपि विलसतीति पूर्व क्रियायामन्वयः । मण्डलं विशेषणेन प्रशंसति महामोक्षत्यादि । एतन्मण्डलं शद्धे- न्द्रियस्य जितेन्द्रियस्य महामोक्षद्वारं निर्वाणमुक्तिमाहुः । एतच्चि- न्तनादियोगमार्गमवलम्ब्य मुक्तिमाप्नोतीति भावः । श्रियमभिमत- शीलस्येति । श्रियं योगलक्ष्मीमभिमन्यते आकाङ्कतीति श्रियमभि- मतम् । तादृशं शीलं स्वभावो यस्य तद्रूपस्य शुद्धेन्द्रियस्येति विशिष्टार्थः । अत्र कणिकायां चन्द्रमण्डलादिस्थितिप्रकारस्तु आदौ कर्णिकान्तनमोमण्डलं तन्मध्ये त्रिकोणं तदन्तश्चन्द्रमण्डलं तन्मध्ये नमोबोजादिकमिति । तद्यथा कर्णिकायां त्रिकोणस्थं पूर्ण- चन्द्रन्तु चिन्तयेत् । हैमानं गजमारूढमाकाशं तत्र चिन्त- येत् । शुक्लाम्बरेण संवीतं तत्र देवः सदाशिव इति । शुक्लाम्ब- रेण सम्वीसमाकाशामिति ॥ ३० ॥ विशुद्धनक्रचिन्तनफलमाह इह स्थाने इति । आत्मसम्पूर्ण- । योग इति । आत्मनि ब्रह्मगि सम्पूर्गो सर्वव्यापकत्वेन परिपूर्णो- योगो ज्ञानं यस्य नादृशा । आत्तसम्पूर्ण योग इति आत्तः प्राप्तः ये सम्पूर्णयोगो येनेत्यर्थः । अतएवोक्तं श्रीमदाचार्यैः । पूर्ण गोधात्मना तिष्ठेत् पूर्णाचळसमुद्रवदिति । ततश्च यः साधक इह वां स्थाने निरवधि वित्तं विनिधायात्तसंपूर्णयोगो भवति स ज्ञानी - उपदेशं विना सर्वशास्त्रार्थवत्ता शान्तचित्तः शान्तिगुणाव- OC ३४ षट्चक्रनिरूपणम् । त्रिकालानां दर्शी सकलहितकरोरोगशोकप्रमुक्तश्चिरञ्जीवी जीवी निरवधि विपदां ध्वंसहंसप्रकाशः ॥ ३१ ॥ लम्बिचित्तः । दया भूतेप्वलोलुपत्वं मार्दवं हीरचापलम् । तेजः क्षमा धृतिः शौचमद्रोहो नाभिमानितेत्यादिगुणोपहितचित्त इति यावत् । त्रिकालानां दर्शीति । अत्र केचित् ज्ञानलक्षणात्मकाः लौकिकसन्निकर्षरूपयोगधर्मेण सर्वं पश्यन्तीति । अन्ये तु तादृशज- नस्यात्मप्रत्यक्षे तत्र भासमानसर्वप्रमेयवस्तूनां प्रत्यक्षो भवतीति वदन्ति । रोगशोकप्रमुक्तः सिद्धमन्त्रत्वाद्रोगमुक्तश्चिरञ्जीवी छिन्न- मायापाशत्वात् शोकरहित इत्यर्थः । स जीवी जनः नितरामतिश- येन कविर्भवति एवं सर्वत्र भवति क्रियान्वयः । निरवधिविपदां ध्वंस इति । अवधिः सीमा तद्रहितविपत् निरवधिविपत् आदिना पाप- पुण्यरूपकर्मबन्धे नानाविपत्तिरिति यावत् । तेषां ध्वंसाय विप- त्तिप्रागभावासमानकालीनविपत्तिनाशाय फलतो मोक्षाय हंसस्य सहस्रदलकमलकर्णिकान्तर्गतहंसरूपान्तरात्मनः प्रकाशो यस्य तादृशो भवतीति स्पष्टमन्यत् । तदयं महावाक्यार्थनिर्णयः कण्ठमूले विशुद्धचक्रं षोडशदलं धूमधूम्ररूपं आरक्तकेशरं रक्तवर्णसविन्दुकषोडशस्वरयुक्तम् । क- णिकायां नमोमण्डलम् वृत्तरूपं शुक्लवर्णम् । तन्मध्ये त्रिकेणं तत्र चन्द्रमण्डलम् । तदुपरि हं इति नभोबीजं शुक्लवर्ण शुक्लाम्बर- परीधानं शुक्लगजारूढं चतुर्भुजं पाशाङ्कुशवराभयधरं तत्कोड़े वृषभोपरिस्थितमहासिंहासने सदाशिव: अर्द्धनारीश्वरत्वादाङ्गसुव- र्णाभाङ्गिशुक्लाभः पञ्चवक्त्रः त्रिनेत्रः दशभुजः शूलटङ्कखड्वज- दहननागेन्द्रघण्टाङ्कुशपाशाभययुक्तदशहस्तः व्याघ्रचर्माम्बरः भ- स्मलिप्तसर्वाङ्गः नागहारशोमितः सुधास्त्राव्यधोमुखार्द्धचन्द्रशेखरः षट्चक्रनिरूपणम् । ३५ आज्ञा नामाम्बुजन्तद्धिमकरसदृशं . ध्यानधामप्रकाश इक्षाभ्यां वै कलाभ्यां परिलसितवपुर्नेत्रपत्रंसुशुभ्रम् । तन्म- एतत्कर्णिकायां चन्द्रमण्डलमध्ये अस्योपरि स्थिता साकिनी श. क्तिः शुक्लवर्णा चतुर्भुजा पाशाङ्कुशधनुःशरकरा पीताम्बरा पञ्चव- क्त्रा त्रिनेनेति ॥ ३१ ॥ इदानी भ्रूमध्यस्थिताज्ञाचक्रं निरूपयति आज्ञा नामाम्बु- जमित्यादि सप्तभिः । आज्ञासंक्रमणं तत्र भ्रुवोराज्ञात कीर्तित- म् । आज्ञा नामेति अत्र ध्रुवोराज्ञासंक्रमणादाज्ञा नाम ततश्च तन्ना- मकंतत्प्रसिद्धमम्बुजमास्ते इति क्रियाव्याहारेणान्वयः । एतत् पञ भूमध्ये स्थितं तद्यथा । तालुकण्ठं प्रविश्योवं भूयुगान्ते सितं गुभम् । द्विदलं हसवर्गाम्यां मनोऽधिष्ठितमम्बुजमिति पनं वि- शेषयति हिमकरसदृशमिति । चन्द्रवच्छुक्लवर्णमित्यर्थः । तथा ध्यानधामप्रकाशं ध्यानस्य धाम्ना तेजसा तेजो रूपशक्त्या प्रकाशो यस्येत्यर्थः । अत्र ध्यानशक्त्या धामवत् प्रकाशितावयवमित्यर्थः । वर्णानां कलावीनत्वात्तत्र कलापदप्रयोगः नेत्रपत्रं द्विदलं सुशुभ्र- मिति । हक्षाम्यां सुशुभ्रमित्यर्थः । तथा च स्वभावशुभ्रं हसव- योगेनातिशुभ्रमिति भावः । एतेन हक्षवर्णयोरपि शुक्लत्वं सूचित शुक्लयोगेनैव शुक्लस्यातिशय्यसम्भवात् । यद्वा आज्ञाचक्रं हिमक- रसदृशं चन्द्रस्यामृतमयशीतकिरणवत् शीतकिरणं तथा सुशुभ्रश्च । हक्षाम्यां कबूग्वर्णाम्यामिति बोद्धव्यम् । तदाह ईश्वरकात्तिकेयसं- वादे । आज्ञाचक्रं तदूर्ध्वं तु शुक्लं द्विदलमाण्डितम् । क—रहक्षलसितं मनोधिष्ठितरञ्जितमिति । एतत्कर्णिकायां हाकिनीशक्तिस्थितिमाह तन्मध्य इति । सा हाकिनी नानी प्रसिद्धा । विद्यां पुस्तकमुद्रां वराभयरूपां तेनास्या मुनेषु षड्विधायुधदर्शनात् षड्भुनेयम् ।

३६ षट्चक्रनिरूपणम। ध्ये हाकिनी सा शशिसमधरावक्त्रषद्कं दधाना विद्या मुद्रा कपालं डमरुजपटवीं विभ्रती शुद्धचित्ता ॥ ३२ ॥ केचित्तु, विद्यामुद्रामित्येकविमक्त्यन्तं पठित्वा विद्यायै मुद्रां वि- द्यामुद्रां व्याख्यामुद्रामिति व्याख्यायास्याश्चतुर्भुनत्वं वदन्ति । किन्तु नानापुस्तके पृथग्विभक्त्यन्तपाठो दृश्यते इति सुधीभिर्वि- केच्यम् । ध्यानान्तरेण हाकिनी विशेषयति चक्रस्थां शुक्लवर्णा डमरुकरयुतामक्षसूत्रं कपालं विद्यां मुद्रां दधानां त्रिनयनविलसद्र- तषड्वक्त्रयुक्ताम् | हारिद्रास्र प्रसक्तां मधुमदमुदितां शुक्लमब्ज सुरूढां देवी देवेन्द्ररत्नाकरमधुमुदितां भावयेत् हाकिनी तामिति स्पष्टमन्यत् ॥ ३२ ॥ एतत्पद्म मनःस्थितिमाह एतत्पद्मान्तराल इति । सूक्ष्मरूप- मतीन्द्रियमित्यर्थः । ननु मनसोऽतीन्द्रियत्वात् तत्सत्तायां किं प्रमाणमित्याह प्रसिद्वमिति । अनादिपुरुषपरम्पराप्राप्तप्रत्यक्षकरण- त्वेन प्रसिद्धम् । तथा सङ्कल्पञ्च कुर्वाणा भवेदित्यादिशास्त्रप्रमाणसिडञ्च । अत्र मानसस्थानं वक्ष्यमाणवे. दादिवीजम्योर्ध्वदेशे वक्ष्यमाणवचनात् । अतएव शिवलिङ्गस्थिति- माह योनौ तत्कर्णिकायामिति । कर्णिकान्तस्त्रिकोणे इतरशिव- पदम् इतरनामकशीवरूपं वस्तुनि वसतीति पूर्व क्रियान्वयः । लिङ्ग- चिद्वप्रकाशं लिङ्गरूपेण भासमानमित्यर्थः इदं लिङ्ग शुक्लवणं तदाह मूतशुद्धौ तदन्तस्थेतरं लिङ्गं स्फटिकाभं त्रिलोचनमिति लिङ्गं विशेषयति विद्युन्मालाविलासमिति । अत्र प्रणवस्थितिमाह परमेत्यादि । कर्णिकायां वेदादिवीज प्रणवोपि वसतीत्यन्वयः । बीजं विशेषयति परमकुलपदमिति । कुलं शक्तिस्तदत्र त्रि- कोणाकारपदं स्थानं परमं विद्युदाकारादिना उत्कृष्टं कुलं विकल्पञ्च तु मना-

३७
पट्चक्रनिरूपणम्।
एतत्पद्मान्तराले निवसनि च मनः मूक्ष्मरूपं प्रसिद्ध
योनौ तत्कर्णिकायामितरशिवपदं निचिन्हप्रकाशम् ।
विद्युन्मालाविलासं परमकुलपदं ब्रह्ममूत्रप्रवोधं वेदानामा-
दिवीजं स्थिरतरहृदयश्चिन्तयेत्तत्क्रमेण ॥ ३३ ॥
पदं यस्य तादृशमित्यर्थः । तथा च तहानं त्रिकोण.
मध्यवर्तीति पर्यवस्यति । व्यक्तमाह कर्णिकायां त्रिकोण-
म्यमात्मानं प्रणवाकृतिम् । ज्वलद्दीपनिभञ्चोर्ध्व नाद-
रूपं मनोहरम् । विन्दुमकाररूपञ्च तदूर्ध्व मानसालय इति :
नन्वत्र परमकुलपदस्य प्रणवाधा रत्वेनापृथक्त्वे मूलाधरं स्वाधि-
छानं मणिपूरमनोहरम् । विशुद्धमाज्ञाचक्रश्च विन्दुभूयः
कलापदम् ! निबोधिका तथार्द्धन्दु दो नादान्त एव च । उन्मनी
विष्णुचक्रञ्च ध्रुवमण्डीलकः शिवः । इत्येतत् षोडशाधारं कथि-
तं योगिदुर्लभमिति वचने षोडशाधारगणनायां कलापदस्य पृथग-
भिधानं कथं सङ्गच्छते इति चेन्न । तत्कलापदं नाज्ञाचक्रस्थं कि-
न्तु वक्ष्यमाणमहानादोर्चे शम्यदेशे स्थितमित्येतन्महानादप्रस्तावे
स्फुटीभविष्यामः ब्रह्मसूत्रप्रबोधमिति । ब्रह्मसूत्रं चित्रिणीनाडी त-
स्याः प्रबोधः प्रकाशो येनेत्यर्थः । अतएव पूर्वमुक्तं प्रणवविलसितेति
। तदिति प्रदर्शितहाकिनीमन इतरलिङ्गवेदादिवीजरूपं तत्सर्व
स्थिरतरहृदयः सन् क्रमेण चिन्तयेदित्यर्थः । कमोऽत्र न ग्रन्थ-
कारोक्तपाठक्रमः किन्तु पाठक्रमाच्छाब्दक्रमस्य बलवत्त्वात् प्रद-
शिवशाब्दक्रमो गृह्यते । एवञ्च पद्मकर्णिकायां हाकिनीशक्ति-
स्तदूर्ध्वं त्रिकोणे इतरलिङ्गं तदूधै त्रिकोणे प्रणवस्तदूधै मन इ-
त्येवं क्रमेण चिन्तयदिति ॥ ३३ ॥

३८ षट्चक्रनिरूपणम् । ध्यानात्मा साधकेन्द्रो भवति परपुरे शीघ्रगामी मुनी- न्द्रः सर्वज्ञः सर्वदर्शी सकलहितकरः सर्वशास्त्रार्थवेत्ता । अद्वैताचारवादी विलसति परमापूर्वसिद्धिप्रसिद्धो दीर्घायुः सोऽपि कर्त्ता त्रिभुवनभवने संहृतौ पालने च ॥ ३४ ॥ तदन्तश्चक्रेऽस्मिन्निवसति सततं शुद्धबुद्ध्यन्तरात्मा प्र. दीपाभज्योतिः प्रणव विरचनारूपवर्णप्रकाशः । तदृबै च- एतद्धयानस्य फलमाह ध्यानात्मेति । उक्तरूपेण ध्यान- परायणः साधकेन्द्रः परपुरे शीघ्रगामी भवर्त.ति सर्वत्र क्रियान्वयः | मुनीन्द्रः मुनिानयोगादिसम्पन्नम्तदिन्द्रस्तत्श्रेष्ठः सर्वज्ञः पूर्वोक्त रूपणे सर्वदशी शास्त्रव्यवहाररीत्यनुरूपविवेकबुद्धया पूर्वापरदर्शी । अद्वैताचारवादीति । पादोऽस्य विश्वा भूतानीति तदिदं सर्वं व्र- ह्येत्यादिश्रुतिवाक्येन अहं देवो न चान्योऽस्मि ब्रह्मवास्मि न शोकभाक् इत्यादिवाक्येन च ब्रह्मवैकं सद्वस्तु तदन्यदसत् प्रप- श्चसमुदायस्तु ब्रह्माभासतया भासते इत्यवधारणमद्वैतम् । ताह- शज्ञानेन यथाचारः जीवात्मपरमात्मनोरेक्यचिन्तनादिरूपयोगस्त- द्वादी तत्कथनशीलः स जनः अद्वैताचारवादी भवतीति फलितार्थ । परमापूर्वसिद्धिमहासिद्धिस्तया प्रसिद्धः प्राधान्येन ख्यात इत्यर्थः । सोऽपि कर्त्ता त्रिभुवनभवने संहृतो पालने चेति प्रशंसापरम् । अथवा तादृशसाधकस्य देहान्ते परमात्मनि लयात् यः सृष्टिस्थिति- प्रलयकर्ता स एवायं भवतीति तात्पर्य्यम् ॥ ३४ ॥ तदाज्ञाचक्रे प्रणवयोगं विवक्षुरादौ प्रणवं विशेषयति त- दन्तरिति । अस्यार्थः अस्मिन् चक्रे तदन्तस्तस्य पूर्वोक्तत्रि- कोणम्य अन्तर्मध्ये यः प्रणवविरचनारूपवर्णप्रकाशः प्र.

षट्चक्रनिरूपणम् । ३९ न्द्रार्द्धस्तदुपरिविलसद्विन्दुरूपी मकारस्तदूर्दै नादोऽसौ वलधवलसुधाधारसन्तानहासी ॥ ३५ ॥ इह स्थाने लीने मुमुखसदने चेतासे पुरं निरालम्बा बध्वा परमगुरुसेवा मुविदिताम् । तदभ्यासाद्योगी पवनमुह- णवस्य विरचनारूपेण अकारोकारयोः सन्धियोगेन य- स्त्रयोदशस्वरसदृशवर्णप्रकाशः सततं निवसति स शुद्धबुद्धयन्त- रात्मा इत्यन्वयः । तं विशेषयति प्रदीपाभज्योतिरिति । ननु तर्हि किं त्रयोदशस्वरसदृशवर्णमात्रं शुद्धवुद्धयन्तरात्मा इत्याह तदू- वे चन्द्रार्डस्तदुपरि लसद्विन्दुरूपी मकार इति । तेन तादृशवों- परि अर्द्धचन्द्रविन्दुयोगेन प्रकृतप्रणस्वरूपः पर्यवस्यति । तदूर्व नादोडसाविति । प्रणवावं अवान्तरनादोउस्तीति मत बलधवल- सुधाधारसन्तानहासी वलदेवस्य धवलं सुधाधारसन्तानञ्च उपह- सितुं शीलं यस्येत्यर्थात् अतिशयशुक्लवर्णो नादः। केचित्तु, तदाये नादोडसाविति पठन्ति तदाद्ये विन्दुरूपीमकारस्याद्य इति व्याख्या- यन्ति च । तदसत् तदुपरि विलसद्विन्दुरूपीमकारइत्यनेन म- काराचे नादप्राप्तौ पुनस्तदुपादानं व्यर्थ स्यात् । परन्त्वसौ नादः प्रणवघटकीभूत-नादातिरिक्तोऽभिद्यमानपरविन्दो-रवयव-विशेषः प्र- णवोचे वर्त्तते । यदि तु विशिष्टप्रणवनिरूपणे तदङ्गप्रत्यङ्गमेव वक्तुमुचितम् । कथं तदतिरिक्तनादो प्रस्तुतः प्रस्तूयते इति चेत्त- हि तदाद्ये नादोउसाविति पाठोडभिमन्यते । किन्तु तस्यायमर्थः । तदाद्ये विन्दुरूपमिकाराये प्रदर्शितोऽसौ नादो । बलधवलसुधाधा- रसन्तानहासीति पूर्वोक्तनादमनूद्य वलधवलेत्यादिविशेषणं विधी- यते । न तु विशिष्टस्यविधानमतो न पौनरुक्तिदोषः ॥ ३५ ॥ प्रणवं निरूप्य इदानीं तद्योगं निरूपयति इह स्थान इति ।

४० षट्चक्रनिरूपणम् । दां पश्यति कणान् ततस्तन्मध्यान्तः प्रविलसितरूपानपि सदा ॥ ३६॥ अम्यार्थः योगीजनः पुरं वध्वा कुतुकेनान्तःपुरं संरुध्य तत्प्रका- रणान्तःपुरवोधकावनीभूतयोनिमुद्रां वध्वा इह इति यावत् । तेन पुःशब्देन योनिमुद्रा लक्ष्यते । तन्मुद्रां बध्वा इह स्थाने आज्ञा- चके तदभ्यासात् तस्य प्रणवस्य पुनः पुनश्चिन्तनात् तत्र चेतसि प्रणवे चतुर्दिक्षु लीने सति ततस्तदनन्तरं तन्मध्यान्तःप्रणवाधार- त्रिकोणमध्ये अन्तरन्तरिक्षे पवनसुहृदां वह्नीनां कणान् वडिकण- वज्ज्योतिःस्फुलिङ्गान् पश्यति तेषां मानसप्रत्यक्षो भवति इत्यर्थः । अत्र पुरबन्धनं विना मनसः शुद्धस्थैर्य न सम्भवतीत्यतः पुरं वध्वेत्युक्तं पुरवन्धनकारणयोनिमुद्रालक्षणमाह । ततो गुह्ये वामपादपार्णिन्तु विनिवेशयेत् । तस्योपरि महादेवि दक्षपाणि- निवेशयेत् । ऋजुकायशिरोनीवं काकचञ्चपुटने च । आका- रेण बाहर्वायुं जठरं परिपूरयेत् अङ्गुलीभिई बध्वा करणानि समाहितः । अङ्गुष्ठाभ्यामुभे श्रोत्रे तर्जनीभ्यां वि- लोचने । नासारन्ध्रे च मध्याभ्यामन्याभिर्वदनं दृढ़म् । वध्वा मे प्राणमनसामेकत्वं तमनुस्मरन् । धारयेन्मारुतं स- म्यक् योगोऽयं योगिवल्लभ इति । एवं मुद्रया वानुरोथे मनसः स्थैर्यमाह श्रुतिः । एवं हंसवन्मनो विचर्यते इत- स्ततो विषयेषु भ्रमति तत्संयमेन मनःसंयमो जायते इत्यर्थः अथवा पुरं खेचरीमुद्रां वध्वा इत्यर्थः । तथापि न मनःस्थैर्य भवति । तदाह चित्तञ्चरति खे यस्मात् जिह्वा चरति खे यतः । तेनेयं खेचरीमुद्रा सर्वसिद्धिनमस्कृतेति । अत्र चित्तस्य खे- चरत्वान्मनःसंयोगाभावेन विषयज्ञानरहितत्वादुम्मनाभवति अत- ४१ षट्चक्रनिरूपणम् । ज्वलद्दीपाकारं तदनुं च नवीनार्कबहुलप्रकाशं ज्यो- तिर्वा गगनधरणीमध्यमिलितम् । इह स्थाने साक्षाद्भवति भगवान पूर्णविभोऽव्ययः साक्षी वह शशिमिहिरयोर्म- ण्डल इव ॥ ३७॥ एवोक्तम् उन्मन्या सहितो योगी न योगी उन्मनीं विनति । प्रणवस्य ज्योतिःस्फुलिङ्गवष्टितत्वं स्पष्टमाहान्यत्र । तंदूर्ध्व प्रणवा- कारमात्मानं दीपसन्निभम् । स्फुलिङ्गज्योतिरिङ्गाभैर्वेष्टितं परितः शुभमिति । स्थाने कीडशे सुंसुखसदने निरवच्छिन्नमुखस्य सदनं यत्र तादृशे, पुरं किम्भूतां निरालम्बो निर्गतोऽवलम्बो मनसो वि- पयंसम्बन्धो यया तादृशीमित्यर्थः । तथा परमगुरुसेवासुविदिता- मिति । परमः गुरुपरम्पराप्राप्तयोगाभ्यासनिपुणस्तादृशगुरुः तम्य सेवाभि तरूपयोपदेशेन सुविदितामिति फलितार्थः । अंतएवोक्तं गुरूपदेशात्तद्गम्यं नान्यथा शास्त्रकोटिभिरिति । कणान् किम्भूतान् प्रविलसितरूपान् प्रकृष्टरूपेण भासमानान् इति ॥ ३६ ।। तादृशयोगिनां वह्निकणावान्तरप्रकारदर्शनमपि भवतीत्याह । ज्वलद्दीपाकारमिति । तदनु वाहिकणादर्शनमनु दर्शनान्तरं ज्योतिः पश्यतेत्यर्थः ज्योतिर्विशेषयति चलदीपेत्यादि गगनधरणीमध्य- मिलितमिति । गगनं तदूर्ध्वं शङिन्या निवसति शिखरे शून्यदेशे विकाशमित्यनेन प्रदर्शितशङ्खिनीनाड्यूर्ध्वशून्यरूपगगनं धरणीमू- लाधारस्थधरामण्डलं तदुभयोर्मध्यमिलितं मूलाधारादिसहस्रारपर्य- न्तव्याप्तं ज्योतिरिति विशिष्टार्थः । वेति वाशब्दः समुच्चयार्थः । आज्ञाचक्रे सहस्रारवत् परमशिवस्थितिमाह इह स्थाने इति । भ- गवान् परमशिवः इह स्थाने साक्षाद्भवति स्वयं वर्तते इत्यर्थः ।

४२ षट्चक्रनिरूपणम । भगवन्तं विशेषयति पूर्णविभव इत्यादि । पूर्णः स्वात्मनि परिपूर्णः सृष्टिकर्तृत्वाद्यशेषयोग्यतारूपविभवो यस्येत्यर्थः । अथ वा विभ- वोऽनन्तसृष्टिप्रपञ्चसमुदायः पूर्णः सर्वव्यापकत्वन स्थितः तादृश- विभवो यस्मादित्यर्थः । यतो वा इमानि भूतानि जायन्त येन जा- .. तानि जीवन्ति यत्प्रयन्त्यभिसांविशान्त इति श्रुतेः । यद्वा विभवो विभुत्वं पूर्णः सर्वव्यापकत्वेन स्थितस्तादृशः विभवो यस्येत्यर्थः । यद्वा पूर्णत्वं फलानुपहितविषयितानास्पदेच्छाकत्वं तादृशो विभवो यम्येति निगृहम् । आत्मातिरिक्तवस्तूनामनित्यत्वादाकाशादीनां विभुत्वं न सर्वकालव्यापकमिति विशेषः । अत्र परमशिवस्थिति विशेषेण व्यनाक्त निर्वाणतन्त्रे । एतत्पद्मस्योर्ध्वदेशे ज्ञानप- मुद्र- लभम् । पत्रद्वयसमायुक्तं पूर्णचन्द्रस्य मण्डलम् । तथा शम्भुवीजं हि तन्मध्य साकारं हंसरूपकम् । तथा एवं हंसो मणिद्वीपे तस्य कोड़े परः शिवः । वामभागे सिद्धकाली सदानन्दस्वरूपिणीति । तस्य कोड़े हंसः इत्यस्य विन्दुद्वयरूपविसर्गमध्ये तदाह सहस्रारमुपक्रम्य । बि- न्दुद्वयन्तु तन्मध्ये विसर्गरूपमव्ययम् । तन्मध्ये शून्यदेशे तु शिवः परमपंज्ञक इति एवं सहस्रारदर्शनादत्राप्याकाङ्कायां तथा इति । अत्रानयोः शिवशक्त्योर्मायावन्धनाच्छादनेन च न कारात्मरूपपरे बिन्दुरूपेण स्थितिर्योध्या । तदुक्तमाज्ञाचक्रमुप- क्रम्य उत्कलादिमतेऽत्रैव चनकाकाररूपिणी । सृष्टिं करोति भू- तानि अत्र स्थित्वा सनातनीति । अत्र चनकाकाररूपः परमशिवः सदा वर्तते । उत्कलादिमते तु अत्र स्थित्वा सृष्टिं करोतीत्यर्थः । दृष्टान्तमाह वन्हेरित्यादि । यथार्केन्दग्निमण्डले भगवान् वर्तते तथात्रापीत्यर्थः । अर्कादिमण्डले भगवतोऽवस्थानं प्रसिद्धम् । यहा वदिशशिमिहिरमण्डले सहस्रकमलस्थान्दग्निमण्डले यथा चनकाकारण भगवान् वर्तते तद्वदत्रापाति । सहस्र- 67 ४३ षट्चक्रनिरूपणम् । इह स्थाने विष्णोरतुलपरमामोदमधुरे समारोप्य प्राणं प्रमुदितमनाः प्राणनिधने! परं नित्यं देवं पुरुपमजमायं त्रिजगतां पुराणं योगीन्द्रः प्रविलसति वेदान्तविदि- तम् ॥ ३८ ॥ दलेऽर्केन्द्वानमण्डले प्रदर्शयिप्यते । अतएव पीठपूजान्दग्निमण्ड- लोपरि परमात्मज्ञानात्मनोः पूजा विधीयते । परमात्मा परमशिवः ज्ञानात्मा ज्ञानशक्तिस्तदुभयाभिन्नशिक्शत्तयात्मकश्चनकाकारबि- न्दरिति ध्येयम् ।। ३७ ॥ आज्ञाचक्रे योगेन प्राणत्यागफलमाह इह स्थान इति । अ- स्यार्थः योगीन्द्रो जनः प्राणनिधने प्राणवियोगकाले प्रमुदितमनाः आत्मानन्देन हृष्टचित्तः सन् इह आज्ञाचक्रे विष्णोर्भगवतः स्थाने उपदर्शितविन्दुरूप प्राणं समारोप्य अथवा तहाद्विन्दौ प्राणं समा- राप्य प्राणनिधने सति परं पुरुषं प्रविशतीत्यन्वितार्थः । पुरुष विशेषयति नित्यमविनाशि देवं सृष्टिस्थिीतप्रलयैः क्रीडन्तमनं जन्मरहितं त्रिजगतामाद्यम् अनेन पूर्ववर्तित्वात् सर्वेषां सर्वका- रणत्वं सूचितम् । पुराणं पुराणपुरुष इति कृत्वा यो निगद्येत स एवायमिति भावः । वेदान्तो ब्रह्मनिरुपक श्रुतिवाक्यादि तज्ज्ञा- नज्ञाप्यमित्यर्थः । तदयं विष्णोःप्रास्थाने प्राणारोपणप्रकारः । प्र. णवियोगकालं ज्ञात्वा ब्रह्मणि लीनो भवतीत्यानन्दितमनाः यो- गासनमासीनः सन् कुम्भकेन वायु संरुध्य हृदिस्थं जीवात्मानं मू. लाधारमानीय गुदमाकुञ्चय यथोक्तविधोनन कुण्डलिनीमुत्थाप्य मूलादिब्रह्मरन्ध्रान्तं तडिदाकारमानन्दं कुण्डलीनीमयं सूत्ररूपं नाद ध्यात्वा प्राणरूपश्वासपरमात्मकं हंसं तन्नादे विलाप्य जीवन सह चक्रभेदक्रमेणाज्ञाचक्रमानीय तत्र स्थितायां कुण्डलिन्यां ४ षट्चक्रानिरूपणम्। लयस्थानं वायोस्तदुपरि च महानादरूपं शिवाई सिराकारं शान्तं वरदमयं शुद्धबुद्धिप्रकाशम् । यदा योगी पश्येद् गुरुचरणयुगाम्भोजसेवासुशीलस्तदा वाचां सिद्धिः करकमलतले तस्य भूयात् सदैव ॥ ३९ ॥ स्थूलसूक्ष्मक्रमात् पृथिव्यादिप्रपञ्चसमुदायं विलाप्य तो पुनर्जीवात्म- ना सह तत्र स्थितशिवशक्तिमयबिन्दुनैकीभावमापाद्य तिष्ठेत् ततो ब्रह्मरन्ध्रभेदेन देहं त्यक्ता ब्रह्मणि लीनो भवेदिति । तदयं महा- वाक्यार्थनिर्णयः । अज्ञाचक्र द्विदलं शुक्लवर्ण कव॒रवर्णहक्षद्वययु- क्तपत्रं कर्णिकायां चक्राधिष्ठात्री हाकिनी शक्तिः शुक्लवर्णा रक्तष- ड्वक्त्रा त्रिनेत्रा षड्भुना वराभयाक्षमालाकपाल डमरुपुस्तकधरा शुलपद्मोपरि स्थिता । तदूर्वे त्रिकोणे इतरलिङ्गः शुक्लवर्णः विद्यु दाकारः तदूर्वेत्रिकोणे प्रणवाकृतिरन्तरात्मा प्रदीपाभज्योतिः तस्य चतुर्दिक्षु अन्तरिक्ष ज्योतिःस्फुलिङ्गविम्वैर्वेष्टितः ज्वलद्दीपसदृशेन स्वतेनसा मूलादिब्रह्मरन्ध्रान्तप्रकाशकः । तदूर्दै सूक्ष्मरूपं मनः । तदूर्वं चन्द्रमण्डले हंसः परमशिवः सशक्तिक इति ॥ ३८ ॥ इदानीमाज्ञाचक्रोचे सहस्रदलकमलाधःस्थानवर्तिकारणा- वान्तरशरीरं निरूपयितुमिच्छन्नाह लयस्थानं वायोरिति । अस्या- थः यदा यस्मिन् काले योगिजनः गुरुचरणयुगाम्भोजसेवासु- शील: गुरुचरणयुगाम्भोजस्य सेवया मुशोभनं दृढतरैकाग्रमनोऽभि. निवशेन सर्वाङ्गसुदरं शीलं योगानुष्ठानरूपसद्वृत्तं यस्य तादृशः सन् तदुपरि आज्ञाचक्रो महानादरूपं महानादस्य रूपं पश्येत् तदा तस्य योगिनः करकमलतले सदा सर्वस्मिन् काले वाचा सिद्धिः वाक्यसिद्धिर्भूयादवेत्यन्वितार्थः नादं विशेषयति लयस्थानं वायोरिति । अत्र महानादे वायोर्लयः यस्मादुत्पत्तिस्तत्र लयानिय- ४५ षट्च ऋनिरूपणम् । तदूर्वे शजिन्या निवसति शिखरे शून्यदेशे प्रकाशं वि- सर्गाधः पद्मं दशशतदलं पूर्णचन्द्रातिशुभ्रम् । अधोवस्त्रं कान्तं मात् यद्यपि भूतसुद्ध्यादौ स्पर्शतत्वे वायोर्लयस्तस्य च व्योनि- दृश्यते तथापि कदाचित् नादेऽपि वायोर्लयो भवतीति । अत्र पृथिवीकाराद्रसवती रसादजायत ककारात् सर्वाणि जलानि तीर्थानि रेफाद्वह्नितत्त्वं नादाद्वायुः सर्वप्राणमयः बिन्दोर्गगनं सर्व- शून्यं शब्दमयं तेभ्यः पञ्चविंशतिगुणमयतत्वं सर्वमिदं विश्व ब्रह्माण्डं कालिकामयमिति श्रुतिवाक्येन कालीमन्त्रवर्णस्य सूक्ष्मे संहरणकाले नादे वायोर्लयो भवतीति ध्येयम् । शिवामिति । शिवस्यार्द्धनारीश्वरत्वात् तदर्द्ध शक्तिस्तदूपं नादमित्यर्थः । सि- राकारमिति दन्त्यादि सिरोलाङ्गलस्तदाकारामत्यर्थः । तदूर्ध्व तु महानादो लाङ्गलाकृतिरुज्ज्वल इति कार्तिकेयेश्वरसंवादवाक्यात् । यद्यपि कृषिको लाङ्गलं हलं गोदारणञ्च सीरश्चेत्यमरकोषे लाङ्ग- लवाचकसीरशब्दस्य चतुर्थस्वरयोगित्वं तथाप्यत्र वचनान्तरैक- चाक्यतानुरोधेन तृतीयस्वरयुक्तसिरःपदेनापि लाङ्गलः प्रतीयते इति । अथवा शिवाकारमिति तालव्यादिः तेन शिवशक्तिमयो- ऽयं नादः । तदुक्तं प्रपञ्चसारे । नादात्मना प्रवुद्धा सा निरा- मयपदोन्मुखी । शिवोन्मुखी यदा शक्तिः पुंरूपा सा तदा स्मृते- ति । अतएव तस्या एव शक्तेन दविन्दू पृषत्युपयोग्यरूपाविति राघवभट्टेन नाप्युक्तम् । अन्यत्र सातत्त्यसंज्ञा चिन्मात्रा ज्योतिषः सन्निधेस्तथा । विचिकीर्षुधनीभूय क्वचिदभ्येति विन्दुतामिति । तथा श्रीमदाचार्य्यवाक्यम्, नाद एव घनीभूतः क्वचिदभ्येति बिन्दुतामिति अत्र सकलवचनप-लोचनया शक्तिरेव नादविन्दु- ४ ४६ षट्चक्रनिरूपणम् । तरुणरविकलाकान्तिकिञ्जल्कपुञ्ज ललाराद्यैर्वर्णैः प्रविल- सितवपुः केवलानन्दरूपम् ॥ ४० ॥ रूपेणाविर्भूता सुवर्णकुण्डलमिव । नादविन्दुः पुनरेकाकारैव इति निष्कर्षः वरदातारमित्यर्थः ।। ३९ ॥ अथ समाधिरूपयोगानुशालनसाधकानां समाधिकालात् प्रागेवं विचिन्त्यातिप्रयत्नः स्थूलसूक्ष्मक्रमात् सर्वं चिदात्मनि विलापयेदि. त्याचार्यवचनेन समाधेः पूर्वं स्थूलसूक्ष्मरूपसृष्टिप्रपञ्चसमुदायचि- नन्तविधानात् तज्ज्ञानस्यावश्यकत्वादत्र वदन्ति । तत्र तावत् पृथि- व्यादिपञ्च स्थूलरूपाणि मूलादिविशुद्धान्तचक्रे उक्कानि तदाश्रि- तत्वात् मूलाधरे भूमण्डले पादघाणेन्द्रियगन्धतत्त्वेति त्रिः । जल- मण्डले पाणिरसनेन्द्रियरसतत्त्वेति त्रिः । वड्निमण्डले पायुचक्षुरि- न्द्रियरूपतत्वेति त्रिः । वायुमण्डले उपस्थत्वगिन्द्रियस्पर्शतन्वेति त्रिः । नभोमण्डले वाक्श्रोत्रन्द्रियशद्वतत्त्वेति त्रिरिति समुदायेन पञ्चदश तत्त्वानि वर्त्तन्ते । पृथिव्यादिना मिलित्वा विंशतितत्त्वानि स्थूलानि बोद्धव्यानि । इदानीं सूक्ष्मरू पाणि विधीयन्ते । तत्राज्ञा- चक्रे सूक्ष्मरूपं मनः स्वयं प्रदर्शितम् । अपराण्याह कङ्कालमालि- नीतन्त्रे आज्ञाचक्रमुपक्रम्य । मनञ्चात्र सदा भाति हाकिनशिाक्त- रञ्जितम् । बुद्धिप्रकृत्यहङ्कारालङ्कृतं तैनसं परमिति । अत्र बुद्धि- प्रकृत्यहङ्कारात्मक सूक्ष्मरूपत्रयाणां स्थितिः प्रतीयते । तत्राहका- रस्य न पाठक्रमात् स्थितिः मूलाधारादिसर्वत्र पृथिव्यादिजनकस्य तत्तद्विलयाधारस्य च जन्यविलाप्ययोरधःस्थितिदर्शनात् पाठक्र- माच्छाब्दक्रमस्य बलवत्त्वाचात्रापि तथा स्थितिः कल्प्यते । तेना- हङ्कारे हरे व्योम सशद्वं तन्महत्यपि इति वचनात् व्योनो विल- यार्थ तद्विलयाधिकरणम्याहकारस्य प्रथमोपस्थितं तदादावहङ्कार- ४७ षट्चक्रनिरूपणम् । स्तदूर्द्ध बुद्धिप्रकृत्योः स्थितिः । एतेषां जन्यजनकाभावमाह सा- रदायाम् । मूलभूतात्ततोऽव्यक्तात् विकृतात् परवस्तुनः । आसीत् किल महत्तत्वं गुणान्तःकरणात्मकम् । अभूत्तस्मादहङ्कारस्त्रि- विधःसृष्टिभेदत इति । विकृतादिति इदं परवस्तुनः प्रति- विम्बत्वेन विकृतिरूपं महत्तत्त्वादीनां प्रकृतित्वात् प्रकृतिनाम- कञ्च । अतएवोक्तं, प्रकृति: परमाशक्तिर्विकृतिः प्रतिविम्बतेति । तथा परं ब्रह्मात्मप्रकृतिप्रतिविम्बस्वरूपिणीति प्रागुपदार्शतम् । सारदावचने महत्तत्त्वमिति । यदेव महत्तत्त्वं सैव बुद्धिः । तदाह ईशानशिवेन वोडव्यलक्षणा सैव प्रकृतिः शक्तिजृम्भिता । बुद्धि- तत्त्वं भवेद् व्यक्तं सात्त्विकं गुणमाश्रिता । सैव बुद्धिर्महन्नाम तत्त्वं साङ्खये प्रगीयत इति । महत्तत्वन्तु गुणान्तःकरणात्मकम् । गुणाः सत्त्वरजस्तमोरूपाः अन्तःकरणमाह सारदायाम् । अन्त:करणमा- त्मनः मनोबुद्धिरहङ्कारश्चित्तञ्च परिकीर्तितमिति एतत् समुदाया- त्मकं महत् तत्त्वम् । ननु मनसो महत्तत्वात्त्तर्गतत्त्वे तदन्तश्चक्रेऽस्मि- न् प्रविलसति मनः सूक्ष्मरूपमित्यनेन पृथगभिधानं कथं सङ्गच्छते इति चेन्न तन्मनो न महत्तत्त्वान्तर्गतं किन्तु तदहङ्का- रजन्यमतिरिक्तं तदाह । यतोऽपरं मनस्त त्वं ससङ्कल्प- विकल्पकम् । तैनसादेव तज्ज्ञातमिति राघवभट्टः । एवश्वाज्ञाचक्रस्यमनःपर्यन्तानां क्रमेण स्थितेर्विहितत्वात् तदुर्बे हङ्कारादिना स्थितिध्या । ततश्चाज्ञाचक्रे हाकिनी इतर- लिङ्गप्रणवमनोऽहङ्कार-बुद्धिप्रकृतीनामव्यवहितोोर्ध्वक्रमेण स्थि- तिनिरूपणात् स्थानविशेषानभिहितस्य पूर्वदर्शितचन्द्रम- ण्डलस्य तेषामूर्ध्व स्थितिरिति । ननु तेषामधः कथं न स्थीयते इति चेन्न । इन्दुर्ललाटदेशे च तदूधै बोधिनी स्वयमिति सम्मोह- नतन्त्रवचनेन वक्ष्यमाणाज्ञाचक्रोवर्त्तिन्योः समनियतयोरिन्दु- ४८ तु षट्चक्रनिरूपणम्। बोधिन्योरधोभागे स्थितिबोधनात् तयोरव्यवधानाय सर्वांचे एव तस्य स्थितिरिति । अयाज्ञाचक्रोर्वे कारणरूपमाह सम्मोहनतन्त्रे । इन्दुर्ललाटदेशे च. तदूधै बोधिनी स्वयम् । तदूर्ध्व भाति नादो ऽसावर्द्धचन्द्राकृतिः परः तदूर्वं च महानादो लाङ्गलाकृतिरुज्ज्वलः । तदूर्वे च कला प्रोक्ता आजीति योगिवल्लभा । उन्मनी तु तदूधे च यद्गत्वा न निवर्तत इति । तदूधै बोधिनत्यित्र तदूधै ललाटोघे आज्ञाचक्रोधै इति यावत् । बोधिन्यधःस्थले विन्दुस्थितिमाह भूतशुद्धितन्त्रे । बिन्दुमात्राईतो देवी तवं नादसंज्ञितम् । लय- स्थानं तथा वायोमहानादं तदूर्द्ध इति मात्राी शक्तिः । बाल- सूर्यप्रतीकाशमासीद्विन्दुमदक्षरम् । तदुर्द्ध चार्द्धमात्रा तु गान्धार- रागमाश्रितेति बृहत्रिविक्रमसंहितावचनेनार्द्धमात्रायाः शक्तिवाच- कत्वप्रतीतेः । अत्र द्वयोवचनयोरेकवाक्यतया यार्द्धमात्रा सैव बोधिनीति बोध्यम् । बिन्दुवोधिनी नादेति त्रयं विन्दुमयपरशक्ते- रूपविशेषः । तदाह सार दायाम् । सच्चिदानन्दविभवात् सकलात् परमेश्वरात् आसीच्छक्तिस्ततो नादो नादाद्विन्दुसमुद्भवः । पर- शक्तिमयः साक्षात्रियासौ भिद्यते पुनः । बिन्दु दो बीजमिति तस्य भेदाः समीरिताः बिन्दुर्नादात्मको बीजं शक्तिर्नादस्तयोमिथः समवायः समाख्यातः सर्वागमविशारदैरिति । परशक्तिमयः परः शिवस्तेन शिवशक्तिमयो विन्दुः । अयं ललाटोघे स्थितो विन्दु र्नादात्मकः शिवात्मकः । वीनं शक्तिबोधिनीरूपमित्यर्थः । नाद- स्तयोः समवायः सम्बन्धः क्षोम्यक्षोभकरूपस्तेनार्य क्रियाशक्ति- रूपः एतत्रयोद्धे महानादः पूर्व प्रदर्शितः । तदूर्वे च कला प्रोक्ता इति । कला शक्तिः आञ्जीति तिर्यक् रेखारूपमात्राकारा इत्यर्थः इयं शक्तिः सृष्टयादौ आविर्भूता तदुक्तं पद्धरात्रे । एव- मालोक्य सर्गादौ सच्चिदानन्दरूपिणी समस्ततत्त्वसङ्घातां स्मृत्यधि- षट्चक्रनिरूपणम्। १९ छातृरूपिणीम् । व्यक्तां करोति नित्यां तां प्रकृति परमः पुमा- निति । अन्यत्र शिवशक्तिसमायोगादव्यक्तात् परमेश्वरात् । आद्या भगवती देवी सैव त्रिपुरसुन्दरी । आसीच्छक्तिस्ततो नादो नादाद्विन्दुसमुद्भव इति । उन्मनी तु तदूर्ध्वं चेति । तल्लक्षणमाह यत्र गत्वा तु मनसो मनस्त्वं नैव विद्यते । उन्मनी सा समा- ख्याता सर्वतन्त्रेषु गोपितेति । ततश्च मनोवृत्तिमद्विषयावलम्बन- घेष्टाकालीनविषयावलम्बनसामान्याभावसंपादनं तत्वमुन्मनीत्व मिति । सा च द्विविधा सहस्राराधारा निर्वाणकुलारूपा एतत्स्थानस्थिता वर्णावलीरूपा । तथा च कङ्कालमालिनी- सन्त्रे । सहस्रारकर्णिकायां चन्द्रमण्डलमध्यगा । सर्व- सङ्कल्परहिता कला सप्तदशी भवेत् । उन्मनी नाम तस्या हि भवपाशनिकृन्तनीति । तथा उन्मनीञ्च मालावर्ण स्मर- गात् मोक्षदायिनीति । मालावर्ण वर्णावलीरूपमित्यर्थः । उन्मन्यधः सम्बनीमाह भूतशुद्धौ । ततो हि व्यापिका शक्तिराञ्जीति यां विदुर्जनाः । सम्बनीमूर्द्धतस्तस्या उन्म- नी तु तदूर्ध्वत इति । इदमपि परशक्तेरवान्तररूपम् । ततश्चाज्ञा- चक्रोर्चे द्वितीयबिन्दुः शिवस्वरूपः तदूर्ध्व अर्डमात्राकारा बोधि- नी शक्तिस्तदूधै शिवशक्तिसमवायरूपाऽर्द्धचन्द्राकृतिर्नादस्तदूधै लाङ्गलाकृतिर्महानादस्तवे आञ्जीरूपाव्यापिका शक्तिस्तदूधै श- मनी तदूर्ध्व उन्मनीति क्रमेण सप्त कारणरूपाणि वर्तन्ते । अलम- तिविस्तरेण प्रकृतमनुसरामः । सहस्रदलपमं निरूपयन्नाह तदूर्व इति दशभिः । तदूर्ध्वं प्रागुपदर्शितसर्वेषामूचे पूर्वोपदर्शितशाङ्क नीनाड्याः शिखरे मस्तके शून्यदेशे नाड्यनावृतस्थाने तेन सुषु- म्नाया अपि ऊर्चे इति सूचितम् । विसर्गस्याधः दशशतदलं सह- लदलं पद्मं निवसति इत्यन्वयः । विसर्गन्तु ब्रह्मरन्ध्रस्यो भागे त- ५ ५० षट्चक्रानरूपणम्। स्मिन् रन्ध्र विसर्गच नित्यानन्दं निरञ्जनमित्यादि वक्ष्यमाणवच- नात् । पद्मं विशेषयति पूर्णचंद्रेत्यादि नकाराद्यैर्वर्णैः प्रविलसित- वपुरिति । भत्र नकारग्रहणं न विलोमेन वर्णचिन्तनाथ किन्तु नकारग्रहणं क्षकारपरित्यागार्थम् । तत्त्यागीनं हि वर्णानां सहस्त्र- दले स्थितिरावर्त्तनेनैव घटते । एवञ्च सकारसहितैकपञ्चाशद्वर्णानां विंशत्यावर्त्तने विंशत्यधिकसहस्रसंख्या भवन्ति । उनविंशत्याव- तैने तु एकत्रिंशन्यूनसहस्रसंख्या भवन्ति । अतः क्षकारपरित्यागे- न तत् समाधीयते । तेनाकारादिलकारान्तपञ्चाशद्वर्णा अनुलोमेन विंशत्यावर्त्तनेन सहस्रदले चिन्तनीया इति ध्येयम् । अनुलोमेन वर्णचिन्तनं व्यक्तमाह कङ्कालमालिनीतन्त्रे । सहस्रारं महाप- शुक्लवर्णमधोमुखम् । अकारादिक्षकारान्तैः स्फुरदूविराजितमिति । अत्र क्षकारान्तरित्यवान्तशब्दस्यावसानार्थकत्वात् क्षकारोऽन्ते- ऽवसाने यस्येति बहुव्रीहिणा क्षकारं विहाय लकारान्तपन्नाशद्वर्ण- योगः । अथवा लकाराद्यैरिति लकारक्षकारान्तपञ्चाशद्वर्णानाम- कथादित्रिरेखावद्वामावर्तन यथायोग्यावर्त्तनेन विन्यासः । कङ्का- लमालिनीवचनन्तु दक्षिणावर्तेन वर्णविन्यासविधायकमिति वचनद्व- योरविरोधः । अत्र पञ्चाशद्वर्णानां रूपविशेषानभिधानात्तद्वर्णमय्या- मातृकायाः शुक्लवर्णत्वदर्शनात्तेऽप्यत्र शुक्लत्वेनैव चिन्तनीया इति ध्येयम् । ललाटाद्यैवर्णैरिति पाठे तु ललाटशन मातृकान्यासोक्त- ललाटवर्ण अकारस्तदाद्यैवर्णेरित्यर्थः । एतत् पक्षे लकारं विहाय अकारादिक्षकारान्तं पञ्चाशद्वर्णयोगो बोध्यः । सर्वत्र पञ्चाशद्वर्ण- ग्रहणे अन्त्यनकारत्यागदर्शनात् । अत्र केचित् प्रविलासिततनु- रिति पठन्ति । तत्र वा पुंसि पद्ममिति दर्शनात् पुंसि विशिष्टस्य पद्ममित्यस्य विशेषणतया तनुरित्यस्यापि पुंस्त्वमिति व्याख्याय- न्ति च । तन्न एतत् च्छ्लोकस्थानिवसतिक्रियायाः कर्तृत्वेन पद्म- षट्चक्रनिरूपणम् । ५१ समास्ते तस्यान्तः शशपरिरहितः शुद्धसम्पूर्णचन्द्रः स्फुरज्ज्योत्स्नाजालः परमरसचयास्निग्धसन्तानहासी। त्रि- कोणं तस्यान्तः स्फुरति च सततं विशुदाकाररूपं तदन्तः शून्यं तत् सकल मुरगणैः सेवितश्चातिगुप्तम् ॥ ४१ ॥ मिति बिन्द्वन्तनिर्देशात् क्लीवलिङ्गप्रयोग एव प्रतीयते न तु पुलि- ङ्गप्रयोगस्तथात्वे विसर्गान्तो भवितुमर्हति अतस्तद्विशेषणस्य तनु- शद्वस्य क्लीबत्वमवश्यं वाच्यं तथात्वे निन्द्वन्तता न भवति निर्वि- न्दुल्वे छन्दःपातस्तस्माद्वपुरित्येव पाठः । स्पष्टमन्यत् ॥ १० ॥ सहस्रदलकमलकणिकायां चन्द्रमण्डलस्थितिमाह स- मास्तेति । तत्रान्तः तत्र पढ्ने अन्तर्मध्ये । शुद्धः निर्मलोदयविशि- ष्टः । चन्द्रं विशेषयति स्फुरदित्यादि परमरसचयस्निग्धसन्तानहा- सीति स्निग्धः आईसदृशभावस्तस्य सन्तानो विस्तारो यत्र इ- त्यर्थः । ततश्च परमामृतरसचयेन उत्तापहानतया स्निग्धसन्तानयु- तोहासवदानन्दमयकिरणविशिष्ट इत्यर्थः । अथ चन्द्रमण्डलस्याध ऊर्ध्वं अन्तरात्मादीनां स्थितिमाह कङ्कालमालिनीतन्त्रे। सहस्रारमुप- क्रम्य तत्कर्णिकायां देवेशि अन्तरात्मा ततो गुरुः । सूर्य्यस्य मण्ड- लश्चैव चन्द्रमण्डलमेव च । ततो वायुमेहानामा ब्रह्मरन्धं ततः स्मृतम् । तस्मिन् रन्ध्र विसर्गच नित्यानन्दं निरञ्जनम् । तदूधै शङ्खिनी दे- वी सृष्टिस्थित्यन्तकारिणीति। तत्रान्तः चन्द्रमण्डलमध्ये सततं निरन्तरं विद्युदाकाररूपं त्रिकोणं स्फुरतीति । तदन्तःशून्यमिति । अन्तर्मध्ये शून्यं यस्य तदन्तःशून्यं परं बिन्दुशरीरं तस्मिन् त्रि- कोणे अन्तःशून्यं तदन्तःशून्यं त्रिकोणमध्यवर्ति परं बिन्दुरूपं शू. न्यं स्फुरतीति क्रियान्वयः । यद्वा तदन्तस्त्रिकोणमध्ये शून्यं परं वि- दुरूपं स्फुरति अतएवोक्तं तोड़नतन्त्रे षष्ठोल्लासे निराकारं पर षट्चक्रनिरूपणम। सुगुतं तद् यत्नादतिशयपरमामोदसन्तानराशेः पर कन्दं सूक्ष्मं सकल शशिकलाशुद्धरूपप्रकाशम् । इह स्थाने देवः परमशिवसमाख्यानसिद्धः प्रसिद्धः स्वरूपी सर्वात्मा रसविरसमितोऽज्ञानमोहान्धहंसः ॥ ४२ ॥ ज्योतिर्विन्दुश्चाव्ययसंज्ञकम् । बिन्दुशब्देन शून्यं स्यात् तथा च गुणसूचकमिति । अत्राहारनिहारविहारयोगाः सुसंवृताः धर्मविदा तु कार्या इति वचनात् योगस्य गोपनेनानुष्ठानाविधानात् तदन्तः- शून्यमतिगुप्तं यथा स्यात्तथा सकलसुरगणैः सेवितमाराधित- मित्यर्थः ॥ ४१ ॥ सुगुप्तमिति । अस्यायमर्थः वक्ष्यमाणकेशाग्रकोटिभागैकरूप- त्वादतिगुप्तं तच्छून्यं यत्नात् चिरनिरंतरध्यानाद्यनुष्ठानात् सकल- शशिकलाशुद्धरूपप्रकाशं कला निर्वाणकला तया सह वर्तमाना या शशिनश्चन्द्रस्य षोड़शी कला तया निर्मलरूपप्रकाशो यस्य तदित्यर्थः । तथाचातिसूक्ष्ममपि त्रिकोणान्तर्वर्त्यमा कला निर्वाणक- लासहितपरं बिन्दुं रूपान्तशून्यं ध्यानेन प्रकाशितं भवतीति भावः परमामोदसन्तानराशेमोक्षस्य परं कन्दं प्रधानमूलमित्यर्थः । सुगु- प्तमित्यत्र सुगोप्यमिति पाठे यत्नादित्यस्य उभयत्रान्वय इति ध्येयं केचित्तु त्रिकोणान्तःशून्यं शून्यस्थानं तत्तु कीदृशं सकलशशि- कलाशुद्धरूपप्रकाशम् । शशिनश्चन्द्रस्य सकलकलाः सम- स्तकलाः पोड़शकलाः तत् शुद्धं शुक्लं यद्रूपं तदेव प्रकाशो यस्य तादृशपूर्णचन्द्रप्रकाशमित्यर्थः इति व्याख्यायन्ति तञ्चिन्त्यम् । तत्रिकोणस्य पूर्णचन्द्रमण्डलमध्यवर्तित्वकथनेनैव त्रिकोण- मध्यस्थानस्य पूर्णचन्द्रतुल्यप्रकाशप्राप्ती स्यात् । किञ्च सकलसुरगणैः सेवितमित्यनेन शून्य स्थानस्य पुनस्तत्कथनं व्यर्थ ५३ षट्चक्रनिरूपणम् । मुषाधारासारं निरवधि विमुञ्चत्रतितरां यतेः स्वात्म- ज्ञानं दिशति भगवान् निर्मालमतेः । समास्ते सर्वेशः सक- लमुखसन्तानलहरी परीवाहो हंसःपरम इति नाना परि- चितः ॥४३॥ मेवनं न युज्यते किन्तु त्रिकोणान्तबिन्दारेव सेव्यत्व- मिति । यदि तु तत् भूम्यस्थानस्य परं विन्दोराधिष्ठानात् सेव्यत्वमित्युच्यते तदा तत् शून्यस्थानमेव नो भवतीति सुधीभि- मान्यम् । सहस्रदलकर्णिकायां परमशिवस्थितिमाह इह स्थान इति । इह स्थाने कणिकायामित्यर्थः । परमशिवसमाख्यानसिद्धः परमशिवनाम्ना ख्यातो देवो वर्तते इति शेषः । देवं विशेषयति स्वरूपीति । ब्रह्मरूपि ब्रह्ममयमिति यावत् । सर्वात्मा सर्वेषां नीवानामात्मा जीवात्मस्वरूपः जीवात्मपरमात्मनोवस्तुतो भेदा. भावात् । आत्मा स एव जीवः अतएवोक्तमध्यात्मरामायणे। मीवात्मा परमात्मा च पर्यायो नात्र भेदधीः । आचार्यशास्त्रोप- देशादेक्यज्ञानं यदा भवेत् । आत्मनोनीवपरयोर्मूला विद्या तदैव सु इत्युक्तन् । श्रुतिरपि तत्वमसि इति वाक्येन तत्त्वं पदयोरेका- पलं दर्शयति । रसविरसमित इति । रसः परमानन्दरसः विर- सस्तद्वैलक्षण्येन शिवशक्तियोगनन्यसामरस्यानन्दरूपः । तदुभय- रसमितः प्राप्त इत्यर्थः । अथवा रसः प्रथमोपस्थितत्वेन विषयसस्तस्मिन् विरसा हेयता बुद्धिर्येन रसेन स परमानन्दरस- स्तन्मित इत्ययः । अज्ञानमोहान्धहंसः अज्ञानमोहान्धकारनाशक- त्वात् हंसः सूर्यरूप इत्यर्थः ॥ ४२ ॥ सुधाधारासारं निरवधि विमुञ्चन्नतितरामिति । निरवधि नि- रन्तरमातितरामतिशयं यथा स्यात्तथा सुधाधारारूपसारं वस्तु वि- ५४ षट्चक्रनिरूपणम्। मृञ्चन्नित्यर्थः । अथवा सुधाया आधारश्चन्द्रस्तस्मादाश्रियते नि:श्रि यते यत् तत् सुधाधारासारं शुक्लवर्णामृताकिरणं विमुञ्चन् प्रकाशय- नित्यर्थः। एतद्विशेषणेन विशेप्यस्य चंद्रवत् शुकुवर्णत्वं सूचितम् ।यद्वा आमायते निःसार्यते उच्चायते इति यावत् तद्वाक्यं सुघाधारया मह आसारं सुधाधारासारं सुधामयवाक्यमित्यर्थः ततश्च निरवधि सर्वस्मिन् काले अतितरां मोहनाशायातिप्रबलतरं सुधामयवाक्यं विमुञ्चन् उच्चरन् सन् यतेरुपास्यदेवतायां नियतमनसः स्वात्मज्ञानं स्वञ्जीवात्मा तेन सहात्मा परमात्मा ज्ञायतेऽनेनेति अत्रापृथक्- साहित्येन जीवात्मभेदेन परमात्मज्ञानकारणं तारकब्रह्मगंत्रमुपदि- शतीति समुदायार्थः । अथवा सुधा कृपामृतं तद्धारया युक्तं सारं ब्रह्ममन्त्रात्मकसारवाक्यमुच्चरन् स्वात्मज्ञानं दिशतीत्यर्थः । एतद्विशेषणेन तारकमन्त्रोपदेशकत्वज्ञापनातु विशेष्यगुरुत्वं मूचितम् । एवञ्चैताहशेपणं पूर्वश्लोकोक्तपरमशिवस्यैव गुरुत्वात् । अतएव ललितारहत्ये मुरुतत्वनिरूपणे । ख्यातोऽयं पुरुष श्रेष्ठः सर्वदात्मरतिप्रिय इत्यादिना गुरुं वर्णयित्वा, तेजो- रूपा प्रिया तस्य ब्रह्मवर्ती परमं ब्रह्म यत्पादपङ्कजातिवैभवमित्युक्त्या शोभाधिक्येन पदपङ्कनयोः परब्रह्मरूपपरमशिवस्य हृत्पद्मादिति व्याख्यातम् । तेजोरूपगुरु- प्रियायाः पादद्वयारोहणं गुरुहृदय एव न त्वन्यपुरुषस्यति । अतो यः परमशिवः स एव गुरुरिति तात्पर्य्यम् । निर्वाणतन्त्रेऽपि। शि- रःपद्मे महादेवस्तथैव परमो गुरुः । तत्समो नास्ति देवोश पूज्यो हि भुवनत्रये । तदंशं चिन्तयेद्देवि बाह्ये गुरुचतुष्टयमिति । अयं परमशिवः कर्णिकान्तस्त्रिकोगस्य बहिरधः कथ्यमानहंसः इत्यस्यो- परि वर्त्तते पूर्वोक्तककालमालिनीतन्त्रवचने, तत्कर्णिकायां देवेशि अन्तरात्मा ततो गुरुः । सूर्य्यस्य मण्डलं तत्र चन्द्रमण्डलमेव च । इ- सुदुर्लभा ५५ षट्चक्रनिरूपणम् । त्यादिना क्रमेण महाशाविनीशक्तिपर्य्यन्तस्थितिमभिधाय । तस्या- धस्ताञ्च देवेशि चन्द्रमण्डलमध्यगम् । त्रिकोणं तत्र सञ्चिन्त्य क्ष- यहीनात्मिका कला । तन्मध्ये कुटिला निर्वाणाख्यसप्तदशी क- लेति वचनेन चन्द्रमण्डलान्तस्त्रिकोणेऽमाकलादीनामेव स्थितेरु- कत्वात् । गुरुस्तु तदधोऽन्तरात्मन उपरि स्थितिरुवाच । ननु कङ्कालमालिनीवचनेऽन्तरात्मन उपरि गुरोः स्थितिरुक्ता तत्कयं हंसस्य ऊर्वे गुरोः स्थितिरुच्यते इति चन्न हंसान्तरात्मनोरेकार्थ- ल्वात् । तथाहि कङ्कालमालिनीतन्त्रे गुरुध्यानं यथा । सहस्रदल- मध्यस्थमन्तरात्मानमुत्तमम् । तस्योपरि नादविन्दोर्मध्ये सिंहासनो- ज्ज्वलम् । तस्मिन् निजगुरुं नित्यमित्यादि । तथान्यत्र हंसः पीठे मन्त्रमये स्वगुरुं शिवरूपिणम् । अमुकानन्दनाथान्तं स्मरेत्तन्नाम- पूर्वकमिति । तथा अन्नदाकल्पे । शिरःपञ शुक्ले दशशतदले के- शरगते पतत्रीणां तत्पे परमशिवरूपं निजगुरुमिति । एतेषां व- चनानां पालोचनया हंसान्तरात्मनोरभेदः प्रतीयते । एवं परम - शिवरूपं निजगुरुमित्यनेन परमशिव एव गुरुरिति भाव्यम् । यत्तु, सहस्रदलमुपक्रम्य तन्मध्ये तु त्रिकोणं स्याहिद्युदाकाररूपकम् । विन्दुद्वयञ्च तन्मध्ये विसर्गरूपमव्ययम् । तन्मध्ये शून्यदेशे तु शिवः परमसंकयः इति वचनं परमशिवस्य त्रिकोणमध्ये स्थिति- वोधकम् । तन्मतभेदेन सहस्रदलकमलाभिन्नतत्कणिकाधावय॒र्ध्व- मुखद्वादशदलकणिकान्तस्त्रिकोणे गुरुस्थितिबाधकमेतत् पादुकाप- ञ्चकस्तोत्रे स्पष्टीकृतम् । न तूर्ध्वसहस्रदलकर्णिकात्रिकोणे गुरुस्थि- तिबोधकम् । मध्यत्रिकोणस्याधस्तनत्रिकोणान्तरे तद्रूपेण स्थिनम् । अन्यथा कङ्कालमालिनीतन्त्रवचनविरोधात् । समास्ते सर्वेश इति अत्र कर्णिकायां सर्वेषामीश्वरः समास्ते इत्यर्थः । नन्वत्र परमशि- वस्थितिकथनेनैव ईश्वरस्थितिरुक्ता तत् कथं पुनः सर्वेशस्थितिरु- ५६ षट्चक्रनिरूपणम् । च्यते इत्यतः सर्वेशं विशेषयति हंस इति । अयं सर्वेशो हंसः इत्यानुपूर्विकमन्त्राकारः । तदुक्तं प्रपञ्चसारे । सा तत्त्वसंज्ञा चि- न्मात्रा ज्योतिषः सन्निधेस्ततः । विचिकीर्षुर्घनीभूय क्वचिदभ्येति विन्दुताम् । कालेन भिद्यमानस्तु स विन्दुर्भवति द्विधा । बिन्दुदक्षि- भागश्च वामभागो विसर्गकः । तेन दक्षिणवामाख्यो भागा पुं- त्रिविशेषितौ। हङ्कारो बिन्दारित्युक्तो विसर्गः स इति स्मृतः । विन्दुः पुरुष इत्युक्तो विसर्गः प्रकृतिः स्मृतः । पुंप्रकृत्यात्मको हं- सस्तदात्मकमिदं जगदिति । सुव्यक्तमाह महाकालीतन्ने प्रथमपट- छ । सहस्रारान्तरे शून्ये दिव्यतोरणशोभिते ! ! चन्द्र मण्डलमध्ये तु हंसवर्णद्वयोपरि । शुद्धस्फटिकसङ्काशं शुद्ध सौमविराजितमित्यादि । अत्र हंसवर्णद्वयोपरीति मुव्यक्तम् । अ. थवा हंसः परम इति नाम्ना च परिचितो विख्यात इत्यर्थः । अतएव ग्रन्थकारेणाष्टचत्वारिंशत् श्लोके केचित् हंसाख्यमेतदित्य- नेन हंसनामकत्वं स्वयमुक्तम् । यद्वा हंसोऽन्ते यस्य स हंसोऽन्तः हसोऽन्तश्चासी परमश्चेति कर्मधारयेन शाकपार्थिवादित्वात् मध्य- पदलोपे हंसपरम इति सिद्धम् । तेन परमहंस इति नाम्ना परि- चित इत्यर्थः । अतएवोक्तम् आगमकल्पद्रुमे । असौ परमहंसा- स्यो युक्तः स्थावरजङ्गमैः इति । सकलसुखसन्तानलहरीपरीवाह इति सर्वप्रकारसुखं सकलमुखं तस्य सन्तानो विस्तारः स एव लहरी श्रेणी परि सर्वतोभावनोह्यते उत्तरोत्तरकालस्थायित्वेन प्रका- श्यते यस्मिन् इत्यर्थः । ततश्च श्रेण्याकारेण सर्वव्यापकसर्वप्रकार- सम्वविशिष्ट इति यावत् अयं हंसः परमाशिवस्याधोवर्तीत्युक्तंबाक् ॥ १३ ॥ - षट्चक्रनिरूपणम्। शिवस्थानं शैवाः परमपुरुषं वैष्णवगणा लपन्तीति प्रायो हरिहरपदं केचिदपरे। परं देव्या देवीचरणयुगलाम्भो. नरसिका मुनीन्द्रा अप्यन्ये प्रकृतिपुरुषस्थानममलम् ॥४४॥ इदं स्थानं ज्ञात्वा नियतनिज चित्तो नरवरो न भूयात् संसारे पुनरपि न बद्धस्त्रिभुवने । समग्रा शक्तिः स्यात्रिय- एतत्ीणकायां सर्वदेवतामयहंसादीनामधिष्ठान नात् शैव- शाक्तादिसकलोपासकानामुपास्यदेवतास्थानमित्याह । शिव- स्थानमिति । शैवाः शिवोपासका एतत्पद्मं शिवस्थानं लपन्ति बदन्तीत्यर्थः । परमपुरुषं परमपुरुषस्य विष्णोः स्थानमिदमर्थनद्धि- तप्रत्ययेन सिद्धम् । केचिदिति । ये हरिहरोपासकास्ते शैवा वै- प्णवाश्च ते केचित् अपरे केवलशिवविष्णूपासकेतराः हरिहरपदं लपन्ति अतः सर्वे शैवा वैष्णवाः केवलशिवस्थानं केवलविष्णु- स्थानं न वदन्ति इत्यभिप्रायेण उक्तमन्ये युगलमजनशीलाः । यद्वा अन्ये हंसमंत्रोपासका मुनीन्द्राः प्रकृतिपुरुषस्थानं हंसस्य प्रकृतिपुरुषोभयरूपत्वात् तदधिष्ठितस्यानं लपन्तीत्यर्थः । एतत् प्रदर्शनमात्रं तत्स्थाने सर्वदेवतामयपरं निन्दोरधिष्ठानात् यो यदैवतोपासकः स तद्देवतास्थानं वदतीति बोध्यम् ॥ ४४ ॥ सहस्रारज्ञानफलमाह इदं स्थानमिति । साङ्गोपाङ्गरूपेणैतत्- स्थानज्ञानं मवतीति भावः । नियतनिचित्त इति । नियतं तन नियुक्तं निजचित्तं येन इत्यर्थः न भूयात् संसारे मुक्तो मवतीति मावः । यतः क्वचिदपि न बद्धस्त्रिभुवने इति हेतुगर्भविशेषणम् । पद्धः पुण्यपापरूपमायापाशवद्धः । तदुक्तं भागवते । कर्मणि क्रि- यमाणे तु गुणैरात्मान मन्यते । तदस्य संमृतिर्बन्धः पारतन्त्रयञ्च तु

५८
षट्चक्रनिरूपणम्।
तमनसस्तस्य कृतिनः सदा कर्तुं हर्नु खगतिरपि वाणी मुवि-
विमला ॥ ४५॥
अत्रास्ते शिशुसूर्यसोदरकला चन्द्रस्य सा षोडशी
शुद्धा नीरजमूक्ष्मतन्तुशतधाभागैकरूपा परा । विद्युत्कोटिस-
तत् स्मृतमिति । भगवडीतायामपि । स्वभावो येन कौन्तेय नि-
रुद्धः स्वेन कर्मणेति । ततश्च पुण्यपापभोगार्थ शरीरधारणात्
वन्धः । स च स्वर्गे पुण्यभोगार्थ पाताले पापभोगार्थ मत्त्ये उभय-
मोगार्थ भवतीति । तत्त्वज्ञानिनान्तु वन्धहेतुभूतपुण्यपापानुदयात्
सञ्चितपुण्यपापक्षयाच्च क्वचिदपि कस्मिन् कालेऽपि त्रिमुवने
स्वर्गमर्त्यपाताले न वद्धः न शरीरी भवति । सोऽयं प्रार-
ब्धकर्माभागपर्यन्तं जीवन्मुक्तः सन् तिष्ठति देहान्ते मुक्तो भव-
तीति भावः । तस्य पुण्यपापानुदयमाह कुलार्णवे । अश्वमेधशते-
नापि ब्रह्महत्याशतेन च । पुण्यपापैर्न लिप्यन्ते येषां ब्रह्म
हृदि स्थितमिति । तथा भगवद्गीतायाम् । नैव तस्य कृतेनार्थों-
नाकृतेनेह कश्चन । न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रय हीत ।
तस्य प्रक्रान्ततत्त्वज्ञानिनः कृतेन कर्मणा पुण्यं नास्ति न चाकृतेन
नित्यकर्मणा कश्चन प्रत्यवायोस्तीति सुबोधिनीव्याख्यानम् । स-
ञ्चितपुण्यपापक्षयमाह श्रुतिः । तस्मिन् मनसि लीने गते सङ्कल्पवि-
कल्पे दग्वे पुण्यपापे सदाशिवः शक्त्यात्मा शान्त इति । भगवद्-
गीतायामपि ज्ञानाग्निः सर्वकर्माणि
भस्मसात्
करते तथेति । तस्य
समग्रा सर्वकार्य्यसाधिका शाक्तः स्यात् । शक्तिकार्य दर्श
यति सदा कतमिति अभीष्टकार्य कर्तुं तथा हर्तमनिष्टं संहर्तु
शक्तिः खगतिराकाशपथगमनं सुविमला मधुरगद्यपद्यमयी वाणी
स्यादिति सर्वत्रान्वयः ॥ ४५ ॥

६९ षट्चक्रनिरूपणम्। मानकोमलतनूविद्योतितायोमुखी पूर्णानन्दपरम्परातिविग- लत्पीयूषधाराधरा ।। ४६ ॥ निर्वाणाख्यकला परा परतरा सास्ते तदन्तर्गता के- शाग्रस्य सहस्रधाविभजितस्यैकांशरूपा सती । भूतानाम- अथात्र पूर्व तदन्तःशून्यं तदित्यनेन सकलशशिकलाशुद्ध- रूपप्रकाशमित्यनेन च सरसारकर्णिकान्तस्त्रिकोणे अमाकला नि- णिकला परं विन्दूनामधिष्ठानं स्थूलनाभिहितम् । इदानीं तेषां स्वरूपेण इतरभेदकविशेषणेन च स्पष्टयितुमिच्छन्नादावमाकलास्व- रूपपाह अत्रास्ते इति । शशिसूर्यसोदरमित्यनेन कलाया रक्तवर्णत्वं ज्ञापितम् । चन्द्रस्य या षोड़शीत्यनेनेयममाकलेति ज्ञापितम् । नीरजतन्तुमृणालसूत्रं तस्य शतभागो दीर्घकालनेति बो- ध्यम् । शुद्धा कलङ्करहिता परा चिच्छक्तिरूपा चिच्छक्तरवेदं रूपम् । अवएवोक्तं प्रभासखण्डे । संस्थिता परमा माया देहिनां देहधारिणीति अमाविशेषणम् । नित्यानन्दपरम्परेति ब्रह्मपरम्परो- त्पन्ना इत्यर्थः अतिविगलत्पीयूषधाराधरा अतिशयामृतस्राविणी- त्यर्थः । यहा नित्यानन्दपरम्परातिविगलत्पीयूषधाराधरेत्येकविशेष- षणम् । अस्यार्थः परं विन्दुरूपं शिवः परा प्रकृतिः शक्तिः । आनन्देन समरसानन्देन परम्पराभ्यां शिवशक्तिभ्यामतिविगल- न्ती या पीयूषधारा परामृतधारा । नित्यं निरन्तरं तादृशधारा इव धारां धारयतीत्यर्थः । स्पष्टमन्यत् ॥ ४६ ।। निर्वाणकलास्वरूपमाह निर्वाणाख्यकलेति । सा परा पर- तरा परमा कला अस्या अपि परतरा श्रेष्ठा परादिति पाठे सर्व- श्रेष्ठा इत्यर्थः । सा तदन्तर्गता अमाकलायाः कोड़े स्थिता ।

६० षट्चक्रनिरूपणम्। घिदैवतं भगवती नित्यप्रबोधोदया चन्द्राङ्गसमानभङ्गुरववा सर्वार्कतुल्यप्रभा ॥ १७ ॥ एतस्या मध्यदेशे विलसति परमापूर्वनिर्वाणशक्तिः कोव्यादित्यप्रकाशा त्रिभुवनजननी कोटिभागैकरूपा । के शाग्रस्यातिसूक्ष्मा निरवधिविगलत्प्रेमधाराघरा सा सर्वेषा नविभूता मुनिमनसि मुदा तत्त्वबोधं वहन्ती ॥४८॥ सन्मध्ये कुटिला निर्वाणाख्यसप्तदशी कलेति पूर्वोक्तवचनात् । केशाग्रस्येत्यादि । केशाग्रस्य सहस्रभागेकभागरूपमूक्ष्मा सती भास्ते इत्यन्वयः । भूतानां सर्वप्राणिनामधिदैवतं हार्दचैतन्यस्वरूपा इत्यर्थः नित्यप्रबोधोदया तत्त्वज्ञानसम्पादयित्री चन्द्राभङ्गसमा- नभङ्गुरवती । चन्द्रा ङ्गरूपामाकलावत् कुटिलाकारेत्यर्थः । सर्वा- कंतुल्यप्रभा एकदा द्वादशसूर्योदये यादृशप्रकाशमाना रक्तवर्णा च ॥४७॥ परं बिन्दुस्वरूपमाह एतस्या इति । एतस्या निर्वाणकला- याः मध्यदेशे कोड़े अपूर्वा सृष्टेरादावाविर्भूतत्वात् किञ्चिदीप नास्ति पूर्व यस्यास्तादृशी । परमा परब्रह्मशक्ति- रूपा निर्वाणशक्तिविलसतीत्यर्थः । निर्वाणशक्तिं विशेषयति । कोट्यादित्यप्रकाशेति । त्रिभुवनजननी स्वर्गमर्त्यपातालादि- प्रपञ्चसमुदायस्योप्तत्तिस्थानरूपेत्यर्थः । केशाग्रस्य कोटिभागैकरूपा अतोऽतिसूक्ष्मा निरवधिविगळत्- प्रेमधाराधरेति प्रेम आनदार्द्रभावप्रफुल्लता । रस्यानन्दाभावप्रफुल्छताजनिता या परामृतधारा निरवधि निरं. न्तरं विगलन्ती तादृशधारां धारयतीत्यर्थः । सर्वेषां जीवभूतेति । एतस्य अंश एव जीवः तदुक्तं यथा । ज्वलदग्नयथा देवि स्फुर- यतः साम- पटव क्रनिरूपणम् । ६१ तस्यामध्यान्तराले शिवपदममलं शाश्वतं योगिग- म्यं नित्यानन्दाभिधानं सकलमुखमयं शुद्धवाधस्वरूपम् । न्ति विस्फुलिङ्गकाः । तस्याश्युतं परं विन्दुर्यदा भूमौ पतत्यपि । तदैव सदसा देवि संज्ञायुक्तो भवत्यपीति । तस्याः शिवशक्त्यात्म- कपरं विन्द्वन्तर्गतशक्त्याः संज्ञायुक्तो जीवनामा भवतीत्यर्थः । स्पष्टमन्यत् । इयं निर्वाणशक्तिः निर्वाणकलाधःस्थाने नादरूपनि- बोधिकोपरि वर्तते । तद्यथा, निर्वाणाभ्यन्तरगता वनिरूपा नि- बोधिका । नादाव्यक्ता तदुपरि कोट्यादित्यसमप्रभा । निर्वाण- शक्तिः परमा सर्वेषां योनिरूपिणी । तस्यां शक्ती शिवं ज्ञेयं निर्विकारं निरञ्जनम् । अत्रैव कुण्डलीशक्तिविहरेत् परमात्मनेति । निबोधिकाऽव्यक्तनादात्मिका वन्हिरूपा तथाहि नादस्य त्रिविधा- वस्था तमोगुणाधिक्येन केवलध्वन्यात्मकोऽव्यक्तनादः रजआधि- क्येन किञ्चिद्वर्णबद्धन्यात्मकः । सत्वाधिक्येन बिन्दुरूप इति रा- घवभट्टः । ततश्च नादविन्दुनिवोधिकाः अन्दवहिरूपाः ते ज्ञाने- च्छाक्रियात्मनो वतीन्द्वर्कस्वरूपिण इति सारदावचनात् । तस्मा- दत्र वद्विरूपानबोधिकोपरि स्थितिकथनात् मूर्यचन्द्रवट्किमण्डलो- परि निवाणशक्तेः स्थितिरिति सुधीभिर्भाव्यम् । व्यक्तमाह कुला- वोक्तपरब्रह्मध्याने विन्दुरूपं परं ब्रह्म सहस्रदलसंस्थितम् । इत्युप्रक्रम्य कर्णिकान्तस्त्रिकोणान्तर्मण्डलत्रयमण्डितमिति । मण्ड- लत्रयेण मूर्यचन्द्रवनिमण्डलेन मण्डितमित्यर्थः । इयं निर्वाणशक्तिः परबिन्दुरूपेति स्फटिकरिष्यामः ॥ ४८ ॥ निर्वाणशक्तिमध्ये परब्रह्मस्थानमाह । तस्यामध्यान्तराल इति । तस्याः परं विन्दुरूपनिवीणशक्तयाः मध्यान्तराले मध्य- स्थशून्ये अमलं मायामलरहितं शिवपदं ब्रह्मस्थानं लपन्ति तत्त्वज्ञा ६ ६२ षट्चक्रनिरूपणम् । केचिद् ब्रह्माभिधानं पदमिति सुधियो वैष्णवं तल्लपन्ति के चिद्धंसाख्यमेतत् किमपि सुकृतिनो मोक्षमात्मप्रबोधम् ॥४९॥ इति शेषः । योगिगम्यं सूक्ष्मातिसूक्ष्मतमत्वात् वाङ्मनसोरगोचर- त्वाच्च योगिनां ज्ञानमात्रगम्यमिति भावः । केचित् वेदान्तिका ब्रह्माभिधानं ब्रह्मेति नाम्ना लपन्ति अथवा हंसाख्यं हंसनामकमि- ति यथाध्रुतार्थः । अन्ये सुकृतिनः किमपि अनिर्वचनीयमात्मप्र- बोधमात्मसाक्षात्कारस्थानं लपन्तीत्यर्थः । मोक्षमिति । मुच्यते मायाप्रपञ्चाबहि भूयते यत्र तन्मोक्षरूपमित्यर्थः । अत्रेदमवधी- यताम् । सहस्रदलकणिकान्तस्त्रिकोणे मायावन्धनच्छादितप्रकृति- पुरुषात्मकपरं विन्दुः । तदुक्तम् । सत्यलोके निराकारा महाज्यो- तिःस्वरूपिणी । मायाच्छादितमात्मामं चणकाकाररूपिणी । हस्तपादादिरहिता चन्द्रसूर्याग्निरूपिणी । मायावन्धनमुत्सृज्य द्विधा भित्त्वा यदोन्मुखी । शिवशक्तिविभागेन जायते सृष्टिकल्प- नेति । सत्यलोके सहस्त्रारे इत्यर्थः । तथा निर्गुणो बिन्दुरूपश्च सिद्धि कारणमेव हि । केचिद्वदन्ति स ब्रह्मा कैश्चित् विष्णुः प्र- कथ्यते । कैश्चित् रुद्रो महापूर्ण एको देवो निरञ्जनः । आद्याश- क्तिर्यतो देवश्चणकाकाररूपक इति । अस्य विन्दोः केशारकोटि- भागैकभागरूपसूक्ष्म तेजोऽशो निर्वाणशक्तिमध्यशून्यभागो ब्रह्म- पदमिति गन्थकारमतम् । तथान्यत्र । तन्मध्ये परविन्दुश्च मृ. ष्टिस्थितिल यात्मकम् । शून्यरूपं शिवः साक्षात् विन्दुः परमकु- ण्डली । तथा वृतः कुण्डलिनी शक्तिर्गुणत्रयसमन्वितः । शून्य- भागं महेशानि शिवशक्तयात्मकं प्रिये इति । अयं बिन्दुः सर्व कारणरूप ईश्वर इति केचित् । पौराणिकास्तु महाविष्णुरू- पोऽयमिति वदन्ति । अन्ये तु ब्रह्मपुरुषोऽयम् । तदाह नाहो न तु षट्चक्रनिरूपणम्। ६३ रात्रि वियन्न पृथ्वी नासीत्तमो ज्योतिरभुन्न वान्यत् । श्रोत्रादि- बुद्ध्यानुपलभ्यमकं प्राधानिकं ब्रह्म पुमांस्तदासीदिति । निर्गुणः सगुणश्चेति शिवो ज्ञेयः सनातनः । निर्गुणः प्रकृतेरन्यः सगुणः सकलः स्मृतः इति शारदावचनात्तन्मध्ये ऽयं सगुणब्रह्मरूपः व- स्तुतस्त्वेकमेव मतभेदान्नानाविधिनाम्ना गायन्तीत्यलं विस्तरेण । तदयं महावाक्यार्थ नर्णयः । सुषुम्ना नाडय सहस्रदलपद्यं शु- क्लवर्णमधोमुखं रक्तकिञ्जक्लशोभितं अकारादिलकारान्तपश्चाशद्वर्णैः शुक्लामैविंशत्यावर्त्तनेन सहत्रसंख्यकैयुक्तं सहस्रदलं एतत्क- र्णिकायां हंसः ततः परमशिवरूपगुरुः । ततः सूर्यमण्डलं चन्द्रमण्डलं ततो महावायुः ततो ब्रह्मरन्ध्रम् । ततो महाशशिनी चन्द्रमण्डले विद्युदाकारत्रिकोणम् । तन्मध्ये मृणालसूत्रशतभाग कभागरूपमूक्ष्मा चन्द्रस्य पोड़शी कलाऽधोमुखी रक्तवर्णा तत्- कोड़े केशाग्रसहस्रभागैकभागरूपसूक्ष्मा निर्वाणकला रक्तवर्णाऽ धोमुखी तदधस्तात् अव्यक्तनादात्मकनिबोधिकाख्यवह्निः । तदु- परि निर्वाणकला क्रोडे परं बिन्दुःशिवशक्त्यात्मकः । अस्य कशा- प्रकोटिभागैकरूपसूक्ष्मतेजो हंसरूपा निर्वाणशक्तिः अस्याः हंसो- जीवः बिन्दोर्मध्ये शून्यं ब्रह्मपदमिति । आगमकल्पद्रुमपञ्चशाखा- दिमते सहस्रदलकर्णिकामध्ये चन्द्रमण्डले अकथादित्रिकोणं तन्म- ध्ये त्रिकोणसमीपे त्रिविन्दुः तस्याधोविन्दुहकारः पुरुषात्मकः । उर्द्ध बन्दुद्वपरूपविसर्गः सकारः प्रकृतिरूपः । एतदुभयात्मको हंसस्त्रिविन्दुरूपेण प्रकाशते । तन्मध्ये अमा कला तत्कोड़े नि- वर्वाणशक्तिः तस्य मध्यशून्यं परं ब्रह्म इति । तद्यथा अथ शुभ्रस- हस्रारे पूर्णेन्दुमध्यविस्फुरत्। त्रिकोणं तडिदाभासम् अकथादि- हलक्षयुत । तदन्तरे परं शून्यं विसर्गाधोव्यवस्थितम् । बालादित्यप्र- भा तत्र कला षोड़श्यधोमुखी । स्रवन्ती सौधधारां वै चन्द्रा - ६४ षट्चक्रनिरूपणम् । हङ्कारेणैव देवी यमनियमसमाभ्यासशीलः सुशीलो मात्वा श्रीनाथवक्त्रात् क्रममिति च महामोसवर्त्मप्रकाशम् । विभङ्गुरा । तदन्तरे परा शक्तिः कोट्यादित्यप्रभामयी । विसतन्तु सहमांशभागरूपा चिदात्मिका। तदन्तः सच्चिदानन्दो वेदा. तातो निरञ्जनः । बिन्दुः पुरुष इत्युक्तो विसर्गः प्रकृति- मतः । पुंप्रकृत्यात्मको हंसः स्वप्रकाशेन भासत इति । एतन्मतमाश्रित्य परं विन्दोरूढ़े हंसघटकविसर्गोपरि गुरु स्थितिरिति वदन्ति । तन्न समीचीनम् । निर्वाणतन्त्रे परं बिन्दु- रूपशक्तिसमीपे तस्याः पूजाध्यानपरायणस्य निजगुरोः स्थि- तिकथनात् पूनार्थोपवेशनन्तु अधःस्थले सन्मुख एव युज्यते । नतूर्द्धस्थले पश्चाद्देशे । तद्यथा । निर्वाणे । सत्यलोके वीजकोषे चिन्तामणिगृहे शुभे । ध्यायेन्निरञ्जनां देवीं रत्नसिंहासनोपारे । तस्यान्तिके निजगुरुं पूजाध्यानपरायणमित्यादि । किन्ज, पूर्वप्रद- शिते महाकालीतन्त्रवचने हंसवर्णद्वयोपरि गुरुस्थितिः सुव्यक्ता । अत्र मूलादिसहसूदलपर्य्यन्तोक्तप्रकारविपरितप्रकारबोधकानि तथा तदतिरिक्तवोधकानि च यानि वचनानि दृश्यन्ते तानि मतभेदेन प्रकारान्तरविधायकानि इति बोध्यम् ॥ ४९ ॥ अथेदानी सहस्रदलपर्यन्तं चक्रं निरूप्य तत कुण्डलिनी- योग कथीयप्यन्नादौ कुण्डलिन्युत्थापनप्रकारमाह । हूकारणेति । अस्यायमर्थः । सयोगित्वेन प्रसिद्धोजनः गुरुवक्त्रात् क्रमं ज्ञात्वा येन क्रमेण प्रकारेण हृदाद्याकुञ्चनादिपवनदहनयोराक्रमणं कुण्ड- लिन्युत्थापनादिकं भवति तत्प्रकारक्रमं श्रीनाथस्य गुरोर्वक्रात् ज्ञात्वा पवनदहनयोराक्रमेण हूमिति हूमिति कूर्चबीजोच्चारणेन च कुण्डलीनीमुत्थाप्य तल्लिङ्गरूपं भित्त्वा स्वयम्भुलिङ्गछिद्र षट्चक्रीनरूपणम् । १५ ब्रह्मद्वारस्य मध्ये विरचयति सतां शुद्धबुद्धिस्वभावो भित्त्वा तलिङ्गरूपं पवनदहनयोराक्रमेणैव गुप्तम् ।। ५० ॥ प्रस्फोटयित्वा तां देवीं कुण्डलिनी ब्रह्मद्वारस्य मध्ये चि- त्रिणींनाहीमुखमध्ये विरचयति प्रापयतीत्यर्थः । हूक- रिणेति । ततो हंसमुपस्मृत्य शनैराकुञ्चयेत् गुदमित्याद्यागमक- ल्पद्रुमवचने हंसमन्त्रस्योच्चारणेन कुण्डलिनीचालनविधानात् हूं हंस इति मन्त्रः कुण्डलिनीचालने विनियुक्त इति ललितारहस्य- कारः । किन्तु हंसस्मरणपूर्वकतदाकुञ्चनविधानात् हंस इति मनु- मन्युस्मृत्य जीवात्मानं हृदयस्थं दीपकलिकाकारं मूलाधारमानीय तेन सार्द्ध कुण्डलिनी चालयेदित्यभिप्रायः । अतएवागमकल्पद्रुमे । आरोप्यारोप्य शक्ति कमलजनिलयादात्मना साधकेन्द्र इति प. रवचने आत्मना जीवात्मना सार्ध चालनमुक्तम् । कालीकुला- मृतेऽपि । हृदया,समनुना नीत्वा जीवं मुखाम्बुजे । हूकरेण स- समुत्थाप्य कुण्डली परदेवतामिति । ककालमालिनीतन्ते । आ- कृप्य प्रणवेनैव जीवात्मानं नगेन्द्रजे | कुण्डलिन्या सह प्राणं ग- न्धमादाय साधकः । सोऽहन्तु मनुना देवीं स्वाधिष्टाने प्रवे. शयेदिति । ततश्च हंसेन प्रणवेन वा हृदयाजीवं मूलाधारमानीय केवलकूर्चवीनेन कुण्डलिनीमुत्थापयेदिति सुधीभिर्भाव्यम् । स जनः कीदृशः यमनियमसमम्यासशीलः यमनियम इति योगप्रति- बन्धककामक्रोधादिनाशकतदनुकूलशररािन्तर्वायुरेचनमनः स्थैर्या- दिसाधकाङ्गयोगप्रदर्शकं तैरेव प्रकृतयोगनिष्पत्तेः नतु केवलयम- नियममात्रेण । अतएव ग्रन्थकृता चतुःपञ्चाशत्श्लोके योगी यमाधैर्युत इत्यत्र यमायैरिति बहुवचनान्तत्वेन प्रयुक्तम् । भयन्तु यमाद्यम्यासः कामाद्याकुलितचित्तानामेव । यदि तु ६६ षट्चक्रनिरूपणम्। जन्मान्तरीयादृष्टवशात् स्वभावतो वा क्रोधकामादिरहितः तदा तद्योगाभ्यास विनापि प्रकृतयोगे शक्तो भवतीति बोध्यम् । सुशील इति । यतः यमाद्यभ्यासशीलः अत- एव सुशील इति । श्रीनाथवक्त्राादिति । गुरूपदेशं विना क्रमज्ञानं न भवति भावः। अतएवोक्तं गुरूपदेशतो ज्ञेयं न तु शास्त्रार्थ- कोटिभिरिति । क्रम विशेषयति । महामोक्षवम॑प्रकाशितमिति । मोक्षवर्त्म चित्रिणीनाडीमध्यछिद्ररूपवर्त्म तस्य प्रकाशः प्रस्फो. टनं येन क्रमेण यर्थः । शुद्धबुद्धिस्वभाव इति । शुद्धबुद्धी ब्रह्मणि स्वभावो यस्य अथवा शुद्धत्रुद्धया स्वस्मिन् आत्मानि भावो यम्ये- त्यर्थः सुगुप्तं यथा स्यात्तथेति क्रियाविशेषणम् । अथवा नलि- ङ्गरूपं सुगुप्तं मुद्रितमुखत्वेनाव्यक्तम् अप्रकाशित मुखमिति यावत् । अथात्र कुण्डलिन्युत्थापनप्रकारं विशेषेणाह | आगमप्रकल्पद्रुम- पञ्चशाखायांच । पद्मासने निवेश्याङ्के ततः पाणिद्वयं न्यसेत् । ततो हंसमुपस्मृत्य शनैः शङ्कोचयेद्गुदम् । वायुमुत्तोलयेत्तन वर्त्म- ना स पुनः पुनः । उत्तोल्य भेदयेच्चक्रं तम्यानुष्ठानमुच्यते। मूलाधार- सरोने तु त्रिकोणमतिसुन्दरम् | कामो भवति तन्मध्ये बालार्ककोटि- सन्निभम् । तदूर्द्ध कुण्डलीशाक्तं स्वयम्भुलिङ्गवेष्टिनीम् । तथा वामाग्निना कूर्चयोगात् परं हंसाभिलासिनीमिति । तथा भूतशुद्धौ । हृदिस्थां कुञ्चिकां कृत्वा गत्वा तदु- दरे शिवे । कण्ठाद्यं समनुप्राप्य द्वारं कुञ्चिकया हठात् । उहाव्य परमेशानि पवनेन प्रदीपयेत् हुताशनप्रतप्तां तु तापेन भृशमूर्द्धताम् । प्रसुप्तां नाग्नि लिङ्ग योनिवक्त्रे प्रबोधयेत् । ततः प्रचालयेद्वायुं यावन्नाड्यन्तरेषु च गुरुदृष्टेन मार्गेण सकृत्वा- कुम्भकेन वै । आक्रभ्यैवं यतो जीवं सुगुप्ते न पथा भृशम् । उ- द्वोच्छ्वासरूद्धमुखान् कारयेत् पङ्कजान् शिवे । प्रबोधयन् शनै- षट्चक्रानरूपणम्। ६७ भित्ता लिङ्गत्रयं तन् परमरसशिवे सूक्ष्मधाग्नि प्रदीप सा देवी शुद्धसत्त्वा तहिदिव विलसत्तन्तुरूपस्वरूपा । - माख्यायाः शिवायाः सकलसरसिज प्राप्य देदीप्यते त- मोक्षाख्यानन्दरूपं घटयति सहसा मूक्ष्मतालक्षणेन ॥५१॥ भानु मेरुशृङ्गं नयेत् सुधीरिति । तदयं सकलदचनप-लोचन- सिद्धः क्रमोऽवधीयताम् । योगी जनः विहितासने उपविश्य स्वा- के उत्तानो करौ कृचा खेचरीमुद्रया स्थिरचित्तः सन् देहान्ताः युमापूर्य कुम्भकं कृत्वा हृदयमाकुञ्चयेत् । तन उर्दोच्छ्रासो- त्सरणनिवृत्तिः । ततो देहान्तरस्थवायोरुदरकण्ठादिव्यापकतया आड़ोच्छिद्रप्रस्फोटनेनाधोगमनमनुभूय गुदमाकुञ्चयापानं संरुध्य वायु मुत्तोल्य मुलाधारकमलकणिकान्तस्त्रिकोणस्थकामं वाममाव- तयत् । तेनोद्दीप्तेन तत्र स्थितेन कामाग्निनोत्तप्तां कुण्डलिनी हङ्कारेण चेतयित्वा परमशिवसामरस्याभिलाषिणी तां स्वयम्भुलि- ङ्गमुखं स्फोटयित्वा तच्छिद्रेण चित्रिणीनाड़ीमुखमध्यं प्रापयदिति समुदितार्थः ॥ ५० ॥ इदानी कुण्डलिनीयोगप्रकारमाह भित्त्वति । संरुद्ध वर्त्मनि वर्मकरणं भेदः। अस्यार्थः सा देवी कुण्डलिनी तल्लिङ्गत्रयस्धयम्भु वाणेतराख्यालॉत्रयंभित्वा तैर्लिङ्गैः संरुद्ध्य वर्त्म कृत्वा ब्रह्मा- ख्यायाः शिवायाः चित्रिणीनाड़ीसम्बन्धितद्ग्रथितमिति यावत् ग्रथितं तत्सकलसरसिनं प्राप्य तत देदीप्यते ततःसूक्ष्मता । लक्षण सूक्ष्मभावस्वरूपण सूक्ष्मभावेनेति यावत् । तेन भावेन विलसत्तन्तुरूपस्वरूपा सती परमरसशिवे परमरसः परमानन्दः तन्मये शिवे सहस्रदलकार्णकास्थपरांवन्दुरूप शिवसमीपे अर्थाद्गत्वा मोक्षाख्यानन्दरूपमर्थात् साधकस्य नि- ६८ षट्चक्रनिरूपणम। त्यानन्दरूपमुक्तिं सहसा घटयतीत्यर्थ: लिङ्गत्रयमिति । तत् पूर्वोक्तं षट्चक्रं पञ्चशिवंञ्चेति चतुर्दशग्रन्थीन् भित्वेति बोध्यम् । तदुक्तं शाक्तानन्दतरङ्गिण्याम् | गच्छन्ती ब्रह्मरन्ध्रण भित्वा ग्र- न्यीश्चतर्दशेति । तत्र लिङ्गशिवयोर्भेदप्रकारमाह । स्वतान्त्रतन्त्र । षट्चक्रस्थान् शिवान् भित्वा देवी गच्छति निष्कलम् ।चक्राधिष्ठा. नतो रूपं धृत्वा तत्तन्मनोहरम् । मोहयित्वा महशानमानन्दाप्ल तविग्रहम् । रमित्वा तत्र तवैन यावत् प्राप्नोति शाश्वतम् । मो- हितः परया यस्मात्तस्माद्भिन उदाहत इति । तया मायातन्त्रे । भित्वा लिङ्गत्रयं देवी शक्तिमार्गेण गच्छति । तत्तद्रूग्ण चक्रेषु निष्कलं प्राप्य निवृतेति । तत्तद्रु पेणेति वैखरीमध्यमा पश्यन्ति भावेन । तदुक्तम् । प्रथमे वैखरीभावो मध्यमा हृदये स्थिता । भ्रूमध्ये पश्यन्तीभावः पराभावस्तद्विन्दुनि । अस्यार्थः पराप- श्यन्ती मध्यमा वैवरीति चतत्रः शब्दोत्पादिकाः शक्तयः कुण्डलिन्यभेदरूपाः । ततः सहस्त्रार कुण्डलिनी गमनकाले प्रथमे स्वयम्भुलिङ्गसमीपे वैखरीभावेन तं मोहयित्वा एवं हृदये वाण- लिङ्गं मध्यमाभावेन भ्रमध्ये इतरलिङ्गं पश्यन्ती भावेन मोहयित्वा परंबिन्दुनिकटे पराभावमाप्नोतीत्यर्थः । चक्रभेदप्रकारमाह । चि- त्रिणीविवरे रक्तमेदपङ्कसमुद्भवान् । सव्यदक्षपार्श्वयोश्च नालस्थान् वाहयेच्च तान् । पद्मान्नाडीमध्यवर्तीरोधीतान् परकेश्वरि । नालं वामं विशेत् पद्मं तेन भेदः प्रजायते । यथा शिल्पवती रश्मिवाही लाययति प्रभुः । मेदयित्वा तथा चक्रं षड् जीवेन नयेच तमिति । तथा षट्चक्रसन्धिमार्गेण सुषुम्नावर्त्मना तथा । हसेन मनुना दे. वीं सहस्रारं समानयेदिति । परमरसशिवं विशेषयति । सूक्ष्मधा- नि प्रदिपे इति । सूक्ष्मधाम निर्वाणशक्त्यात्मकपरं निन्दोस्तेजो हंसः तन्मध्ये दीपमानेत्यर्थः । देवीं विशेषयति । शुद्धसत्त्वेति ।

षट्चक्रनिरूपणम्। ६९ सत्त्वातिसत्त्वपरमसत्त्वशुद्धसत्त्वविशुद्धसत्त्वेति पञ्चविधं शरीराव- च्छिन्नचैतन्यमुत्तरोतरप्रकृष्टम् । तत्रेयं शुद्धसत्त्वा तुरीयेति या- वत् । केन प्रकारेण मोक्षाख्यानन्दं घटयनीत्याकाक्षायामुच्यते । तत्र परंविन्दो तां कुण्डलिनी विलाप्य केषाञ्चित् साधकानां शि- वात्मनोरभेदेन तद्विन्दचिन्तनने केषाचित् तथा शक्त्यात्मकचि- न्तनेन केषाञ्चित् परमपुरुषमयचिन्तनेन तथा केषाञ्चित् केवल- शिवशक्तिमामरस्य चिन्तनेन सा देवी मोक्षं घटथतीति । तदुक्त मायातन्त्रे । ऐक्यं जीवात्मनोराहुर्योगं योगविशारदाः । शिवा मनोरभेदेन प्रतिप्रत्तिं परे विदुः । शक्त्यात्मकं तथा ज्ञानं नगु- रागमवादिनः । पुराणपुरुषस्यान्ये ज्ञानमाहुविशारदाः । शिव- शक्त्योः सामरस्यात्मकं प्रकृतिनोऽपर इति ऐक्यं जीवात्मनोरिति समाधिविषयम् । योगमिति युज्यते परमात्मना एकीभ्यते अने- नासौ योगः । तं योगमित्यर्थः। समाधिमुक्ता ध्याने योगभेदमाह । शिवात्मनोरित्यादि । सामरस्यात्मकमिति । स्त्रीपुंयोगे तु यत् सौख्यं सामरस्यं प्रकीर्तितम् । तश्चिन्तनप्रकारमाह बृहत् श्रीक्र- मे । कलां कलङ्करहितां चिदानन्दमुपयुषीम् । बिम्बरूपनिदानश्च शुद्धस्फटिकसन्निभम् । परा विराजिवामोरुमदालसवपुः स्त्रियम् । नादोपरि महादेवं पश्यन्ति ज्ञानचक्षुषा इति । कलां कुण्डलिनी- म् । चिदानन्दं विन्दुरूपशिवमुपेयुषी प्राप्तवतीमित्यर्थः । विम्ब- रूंपनिदानं परशिवम् । तथान्यत । शून्यरूपं परशिवं प्रापयित्वा तु कुण्डलीम् । ततः सामरसीभूतां कारयित्वा परामृतम् । पुन- स्तेन पथा देवी प्रापयेत् कुलगहरमिति । यथा साङ्गत्यन्तु तयोः कृत्वा सामरस्यं विभाव्य च । तदुद्भूतरसेनैव तर्पयेद्देहदेवतामि- ति । प्रकारान्तरमाह गन्धर्वमालिकायाम् । सहस्रारं शिवपुरं रम्यं दुःखविवर्जितम् । सर्वतोऽलङ्कृतैर्दिव्यं नित्यपुष्पफलद्रुमैः । सदा.

पट्चक्रीनरूपणम्। शिवपुरं रम्यं कल्पवृक्षसुशोभितम् । पञ्चभूतात्मकं वृक्षं गुणत्रय- समन्वितम् । चतुर्वेदचतुःशाखानित्यपुप्पसमन्वितम् । पौत इवे- तं तथा कृष्णं रक्त पुष्पञ्च पार्वति हरितञ्च विचित्रच नानापु- प्पमनोहरम् । एवं कल्पद्रुमं ध्वात्वा तदयो रनवेदिकम् तत्रोपरि सुपर्यई नानावस्त्रोपशोभितम् । मन्दारपुप्पसहितं नानागन्धानु- मोदितम् । तत्रोपरि महादेवः सदा तिष्ठति सुन्दरि । ध्यायेत् सदाशिवं देवं शुद्धस्फटिकसन्निभम् । बद्धरत्न समाकीर्ण दीर्घबाहूं मनोहरम् । सुखप्रसन्नवदनं स्मेरास्यं सततं प्रिये । श्रवणे कुण्ड- लोपेतं रत्नहारेण शोभितम् । गले पह्मसहस्रेण मालया शोभितं वपुः । अष्टबाहुं त्रिनयनं शिवं पद्म इलेक्ष गम् । पादयोनूपुरं रम्य शहब्रह्ममयं वपुः । एवं स्थूलवपुस्तस्यभावयेत् कमलेक्षणे । पद्म- मध्ये स्थितं देवं निरीहं शवरूपवत् । शवरूपो महादेवः कृत्यं नास्ति कदाचन तथा ध्यायेत् कुण्डलिनी देवी स्वयम्भुलिङ्गवोष्ट- नीर । हंसेन मनुना देवी सहस्नारं समानयेत् । सदाशिवो महा- देवो यत्रास्ते परमेश्वरि । देवं रूपवती कामसमुल्लासविहारिणीम् । मुखारविन्दगन्धेन मोदितं परमं शिवम् । प्रबोध्य परमेशानि स- त्रैवोपविशेत् प्रिये । शिवस्य मुखपद्मं हि चूचम्बे कुण्डली शिवे । सदाशिवेन देवेशि क्षणमात्रं रमेत् प्रियो अमृतं जायते देवि तत्- क्षणात् परमेश्वरि । तद्भवामृतं देवि लाक्षारससमायुतम् । तेना- मृतेन देवाशे तर्पयेत् परदेवताम् । षट्चक्रदेवतास्तत्र सन्तप्पीम तधारया । आनयेत्तेन मार्गेण मूलाधारं पुन: सुधीः । यातायात क्रमेणैव तत्र कुर्यान्मनोलयम् । एवमभ्यस्यमानस्तु अहन्यहनि पार्वति । जरामरणदुःखाद्यैर्मुच्यते भवबन्धनात् । एवम्प्रकारान्तर- स्तन्त्रान्तरे अनुसन्धेयः ॥ ५१ ।।

७१ षट्चक्रनिरूपणम्। नीत्वा तां कुलकुण्डली लयवशात् जीवेन सार्द्ध गु- धीर्मोक्षे धामनि शुद्धपद्मसदने शैवे परे स्वामिनि । ध्याये- दिष्टफलप्रदां भगवती चैतन्यरूपां परां योगीन्द्रो गुरुपा- दपद्मयुगलालम्बी समाधौ यतः ॥ ५२ ॥ समुदायार्थः कुण्डलिनीध्यानयोगमुक्ता समाधियोगमाह नीत्वति । अ- स्यायमर्थः । समाधौ यतः योगीन्द्रः सुधीः तां पूर्वोक्तोत्थापनक- मेण ब्रह्मद्वाराप्राप्तवतीं भगवती कुण्डलिनी जीवेन साई लयवशात् लयक्रमेण शुद्धपद्मसदने सहतारमध्ये परे परविन्दुरूपे शिवे- शिवपदे स्वामिनि स्वामिनिकटे नीत्वा इष्टफलप्रदाम् इष्टदेवता- रूपां तां स्वामिरूपपरविन्दुना सहकीभावं प्रापयित्वा परां परवि- न्दुस्वरूपां ध्यायत् चैतन्यरुपामिति । तदनन्तरं परंविन्दु- मपि तन्मध्यशून्यमध्ये चिदात्मनि विलाप्य शुद्धचैतन्यरूपां ध्यायदिति । ततः सोऽहम्भावन जीवात्मनोरैक्यं ज्ञा- त्वा तत्र चित्तं विलाप्य सर्वव्यापकसम्पूर्णज्ञानात्मना स्थिरचित्तः सन् तिष्ठेदिति शेषः । तदुक्तं श्रीमदाचार्य्यस्वामिना । मकारं कारणं प्राज्ञश्चिदात्मनि विलापयेत् । चिदात्माहं नित्यशुद्धबुद्धमु- क्तसतद्वयः । परमानन्दसन्दोहं वासुदेवाहेमामिति । ज्ञात्वा वि- वेचकं चित्तं साक्षणि विलापयत् । चिदात्मनि विलीनञ्चत्त- चितं नैव चालयेत् । पूर्णवोधात्मना तिष्ठेत् पूर्णाचलममुद्रभवदिति । मकारमिति प्रणवपक्षे । अत्र कारणं परंविन्दुः । वासुवोऽहमिति वैष्णवं तलपन्ति । इत्वननैकवाक्यतया वैष्णवपक्षे । तेन यो यद्दे- वतोपासकः स सोऽहमिति ज्ञात्वा ओम् इति प्रणवोपासनायां अ- न्यत्र तत्तन्मन्त्रमयकुण्डलिनीस्वरूपं ज्ञात्वा इति बोध्यम् । तन्त्रा- न्तरे । किरणस्थं तदग्निस्थं चन्द्रभास्करमध्यगम् । महामूल्यमयं तत् ७२ षट्चक्रीनरूपणम् । कृत्वा पूर्णस्तिष्ठति योगिराडिति । जीवेन सार्द्ध नीत्वेति पूर्वप्रद- र्शितवचनात् हंस इति जीवात्मनां हृदयस्थं दीपकलिकाकारं हंस इति मन्त्रेण मूलाघारमानीय तेन सार्द्ध कुण्डलिनी नयेत् । लयव शादिति । लयक्रममाह । त्रिकोणाख्ये तु देवेशि लङ्कारं चिन्तये- त्ततः । ब्रह्माणंतत्र सञ्चिन्त्य कामदेवञ्च चिन्तयेत् । जीवं त. नैव निश्चित्य प्रणबोच्चारगेन च । पदे च गमनं पत्यौ विसर्गना- शकामिनी । घ्राणं संचिन्त्य देवोश महशि प्राणवल्लभे । डाकि- नी परमाराध्यं शक्तिञ्च भावयेत्ततः । एतानि गिरिजे मातः पृ. थ्वी नीत्वा गणेश्वरि । तथा ततश्च पृथिवीं धन्यां गन्धं नीत्वा महेश्वरी । आकृप्य प्रगवेनैव जीवात्मानं नगेन्द्रने । कुण्डलिन्या सह प्राणं गन्धमादाय साधकः । सोऽहन्तु मनुना देवि स्वाधि- ष्ठाने प्रवेशयेत् । तथा तत् कर्णिकायां वरुणं तत्रापि भावयेत् ह. रिम् । पुराणकारिणी शक्तिं चिन्तयित्वा वरानने । एतानि गन्ध- न्च शिवे वरं नीत्वा वरानने । जीवात्मानं कुण्डलिनी रसञ्च म- णिपुरके । तथा तत् कर्णिकायां सुश्रोण वटि संचिन्त्य साधकः । तत्र रुद्रः स्वयं कर्ता संहारे सकलस्य च । साकिनी शक्तिसं- युक्तं भावयेत्तं मनोहरम् । ततश्चक्षुरिन्द्रियंच ध्यात्वा तेजोमयं शिवे । एतद्रसानि सुभगे रूपं नीत्वा महाभगे । जीवात्मानं कु- ण्डलिनी रुपञ्चानाहते नयेत् । तथा तत् कर्णिकायां वायंच जी- वस्थाननिराशिनम् तत्र योनिमण्डलञ्च वाणलिङ्गविराजितम् । राकिनशिक्तिसंयुक्तं तत्र वायुत्वागन्द्रियम् एतानि रूपं संयुज्य स्पर्श त्वमलकाारीण । जीवं कुण्डलिनी स्पर्श विशुद्ध स्थापयत्त- तः । तथा । तत् कर्णिकायामाकाशं शिवंच साकिनीयुतम् । वा- चः श्रोत्रंच आकाशे संस्थाप्य नगनन्दिनि । एतानि स्पर्श शब्दे वै नत्विा शङ्करि मत्प्रिये । जीवं कुण्डलिनी शब्दंचाज्ञाचक्रे नि- - षट्चक्रनिरूपणम्। ७३ पापयेत् । इत्यन्तं कङ्कालमालिन्याम् । त्रिकोणाख्ये प्रक्रान्तमूला- धारत्रिकोणे । तन्मध्ये लङ्कारचिन्तनमिति । एवं प्रणवोच्चारणेन मीवानयनमिति मतान्तरम् । विसर्गनाशकामिनीति । विसर्ग उप- सर्गः कामोद्वेग इति यावत् । तन्नाशयितुं शीलं यस्याः सा कुण्ड- लिनी पत्यौ पदे सहस्त्रदलकमलस्थविन्दुमयशिवे गमनं साधन कायेति शेषः । एतानि लङ्कारब्रह्मकामदेवडाडिनीशक्तिघ्राणेन्द्रि- याणि पृथ्वी नीत्वा पृथ्यां विलाप्य पृथिवीं गन्धतत्त्वे विलाप्य जीवात्मानं कुण्डलिनी गन्धतत्त्वं प्रणवेनाकृष्य सोऽहं मन्त्रेण स्वा- धिष्ठाने समानयेत् इति शेषः । एवं सर्वत्र बोध्यम् । जीवं कुण्ड- लिनी शब्दतत्त्वमाज्ञाचक्रे नीत्वा शब्दतत्त्वं ननस्थाहकारेऽहङ्कारं महत्तत्त्वे हिरण्यगर्भाख्यसूक्ष्मप्रकृतां प्रकृति परविन्दौ विला- पयेत् । तदुक्तं सन्त्रतन्त्रप्रकाशे । अहङ्काते हरेद्वयोम सशब्द तन्महत्यपि । महच्च सर्वशक्तीनामव्यक्ते कारणे परे । सच्चिदान- न्दरूपं यद् वैष्णवं कारणं परम् । पृथिव्यादिक्रमात् सर्व तत्र लीनं विचिन्तयेदिति । सर्वव्यक्तिभव्यक्ते हिरण्यगर्माख्यसूक्ष्मप्रकृतौ मह- द्वरेत् प्रकृतिञ्च परे परविन्दुरूपकारणे हरेदित्यर्थः । अत्र समा धिकालात् प्रागेवं विचिन्त्यातिप्रयत्नतः । स्थूलसूक्ष्मक्रमात् सर्व चिदात्मनि विलापयोदित्याचाविधानात् स्मूलानां सूक्ष्मे लयः । पृथिव्यादिकमनाहतपर्यन्तं तेषामुक्तक्रमेणलये पृथिव्याश्रितले- न पादघ्राणेन्द्रिययोः पृथिवीप्रपञ्चसमुदायस्य च पृथिवीस्थाने विलापयेत् । एवं जलस्थाने पाणिरसनेन्द्रियजलप्रपञ्चानां चसिस्थाने पायुचक्षुरिन्द्रियवनिप्रपञ्चानां वायुस्थाने उपस्थत्व- गिन्द्रियवायुप्रपञ्चानाम् । आकाशस्थाने वाक्श्रोतन्द्रियाका- शप्रपञ्चानां लयः । भाज्ञाचक्रे सूक्ष्ममहदहकारादिक तंषा- मृक्तक्रमेण कारणे उयः। ततः क्षकाराधकारान्तवर्णान् विलोमेन पट्चक्रनिरूषणम्। विलाप्य स्थूलसूक्ष्मक्रमात् सर्वमित्यत्र सर्वमित्युपादानात् ब्रह्ममा- वावस्थितये आज्ञाचक्रोर्द्धस्थितपूर्वोपदार्शतविन्दुबोधिन्यादि सक लकारणशरीरमपि विलोमेनादिकारणे परंबिन्दौ विलापयेदिति । तत्प्रकारमाह । सङ्कल्पैवं ततोन्यासस्थानाद्वर्णाञ्च संहरेत् । प्रति- लोमे लक्षणयोलकारस्य हकारके । हलयोश्च सकारे च सलयोश्र षकारे । क्रमेणैवमपर्यन्तं लयमुत्पाद्य यत्नत इति । तथा तदर्ण संहरोद्विन्दी कलायन्तं नियोजयेत् । तं नादेनान्तरं नादं नादान्तं. संहरेत् पुनः । तामुन्मन्यां समायोज्य विष्णुवक्त्रे नयेच्च ताम् । तं पुनर्गुरुवक्त्रे तु योजयेत् साधकोत्तमः । ततश्च योजयेद्वर्णानिल- येत् परमे शिवे इति । विष्णुवक्त्रे पंबिन्दौ सूर्यविन्दुर्मुखं प्रोक्तम- धस्तादिन्दुपावको । इत्यादिवचने विन्दुः पुरुष इत्युक्तो विसर्गः प्रकृतिः स्मृत इत्यादिवचनयोरेकवाक्यतया तस्यैव वक्त्रत्वात् । नीत्वा तां पुंसि विन्द्वात्मनि तमय परात्मन्ययोकालतत्वे तद्वै श- क्तौ चिदात्मन्यपि नयतु तां केवले दाम्नि शाम्ते इति केशवाचा- र्यवचनैकवाक्यत्वाच्च । अत्र स्वस्वकारणे संहरणदर्शनात् नादात् तस्य व्यापकशक्तौ तामुन्मन्यां तां समन्यां तां विष्णुवक्त्रे इति वो- ध्यम् । एवं प्रकारेण वर्णानां संहरेण षट्चक्राणां संहारः पद्मदलाना वर्णमयत्वात् । तदुक्तं विश्वसारे । आदिवर्णात्मकं पत्रं पद्मानां परि- कीर्तितमिति । अथ वर्णपद्मोभयसंहरणप्रकारमाह संमोहनतन्ते । वादसन्तान् दलस्थार्णात् संहरेत् कमलासने । तं षट्पत्रमये पद्मे वादिलान्ताक्षरान्विते । स्वाधिष्ठाने समायोज्य बोधयेदाज्ञया गुरो इत्यादि । द्विपत्रे हसलसिते योजयित्वा ततः सुधीः । तद जो संहरोद्विन्दौ तं कलाया नियोजयेदित्यन्तवचगम् । ततश्र मूलकमले चतुर्वर्ण संहृत्य तत्पद्मं स्वाधीष्ठाने संहरेत् । एवं क्रमे गाज्ञाचक्रस्थहक्षपर्यन्तं संहृत्य तत्पमं विन्दौ बिन्दु बोधिन्यां ७५ षट्चक्रीनरूपणम् । लाक्षाभं परमामृतं परशिवात् पीत्वा पुनः कुण्डली नित्यानन्दमहोदयात् कुलपयान्मूले विशेत् सुन्दरी । तद्दि- व्यामृतधारया स्थिरमतिः सन्तर्पयेद् दैवतं योगी योगपर- म्पराविदितया ब्रह्माण्डमाण्डस्थितम् ।। ५३ ॥ एवं पूर्ववत् सर्व परविन्दौ विलापयोदति एवञ्चाज्ञाचक्रसंहरणे तत् कर्णिकास्थहाकिनीतरलिङ्गप्रणवादीनां निराधारस्थित्यसम्भ- वात् प्रकृतिपर्यन्तसंहरणानन्तरं तानपि परविन्दो संहरेत् । शुद्ध- पद्मसदने किम्भूते मोक्षे धामनि मुक्तिसम्पादकस्थाने इत्यर्थः । योगीन्द्रं विशेपयति । गुरुपादपद्मयुगलालम्पीति । गुरूपदेशेनैव मर्वसिद्धिरित्यतस्तत्पदाश्रितः सन्निति भावः । समाधौ यत इति । समाधिलक्षणमाह कुलार्णवे । यदत्र नात्र निर्भास स्तिमितोदधि वत् स्मृतम् । स्वरूपशून्यं यद्धयानं तत् समाधिर्विधीयते इति । तथान्यत्र । समत्वभावना नित्यं जीवात्मपरमात्मनोः । समाधि- माहुर्मुनयः प्रोक्तमष्टाङ्गलक्षणमिति । योगश्चित्तवृत्तिनिरोध इति पातञ्जलसूत्रम् । तस्मिन् यतः तदम्यासयुक्त इत्यर्थः ।। ५२ ॥ उक्तप्रकारसकलयोगचिन्तनानन्तरं यत् कर्त्तव्यं तदाह लाक्षाभमिति । अस्यार्थः । कुण्डलिनी सुन्दरी परशिवात् परमा- मृतं पीत्वा नित्यानन्दमहोदयानिःसृत्या कुलवधा चितिणीना- डीमध्यस्थब्रह्मपथं प्राप्य मूले मूलाधारे पुनः प्रविशेदित्यन्वयः । पीत्वेति पूर्वेक्ततत्तध्यानानन्तरं शिवशक्त्योः सामरस्यं विभाव्य मामरस्यानन्दे न परशिवादुत्पन्नपरमामृतेन कुण्डलिनी तर्पयेत् । तत् त्तर्पणामृतं पीत्वेत्यर्थः । साङ्गयन्तु तयोः कृत्वा पाययित्वा परामृतमिति । पूर्वोक्तवचने पाययित्वेत्यनेन पानकार्यप्ररणवोध- नात् । अमृतं विशेषयति लाक्षाभमिति । अलक्तरसवद्रक्ताभमि- त्यर्थः । नित्यानन्दमहोदयादिति नित्यानन्दस्य गदयो महाप्र- मूलाधारे ७६ षट्चक्रनिरूपणम। काशो यत्र तस्मादित्यर्थः । मूले विशेदिति । येन प्रकारेणोत्तान- नं पुनस्सेन प्रकारेण आनयनम् । तेन यदा लिङ्गादि- भेदक्रमेणोद्धं गच्छति तदा तद्रूपेणैव पुनराधारमायाति । तदुक्तं श्रीमदाचार्यस्वामिना । सुधाधारासारैश्चरणयुगलान्तर्विगठितैः प्रपञ्चं सिञ्चन्ती पुनरपि रसान्नायमहसा । आवाप्य स्वां भूमि भुजगनिभमध्युष्टवलयं स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणीति । अत्र श्लोके रसाम्नायमहसेति । आम्नायते कथ्यते विधियत इति यावत् । तेनाम्नायो विधानम् । महः प्रकाशः पुन- रित्यनेन पूर्वरूपरसविधानप्रकाशन स्वां भूमि मूलाधारमवाप्य इ. त्यर्थात् तथा प्रतीयते । लयक्रमेण गमते तु पुनः सृष्टिक्रमेणाग- मनम् । तदुक्तं यथा । ततः सा कुण्डली शक्तिर्मुद्राकारा सुरेश्व- री । पुनस्तेन प्रकारेण गच्छत्याधारपङ्कज इति । तथा भूतशु- दिप्रकरणे । परमात्मनः पृथिव्यादितद्वत्तत्त्वानि च च क्रमात् । जीवं कुण्डलिनी चापि स्वस्थानं प्रापयेत् क्रमादिति । विशेषस्तु प्रकाशमामा प्रथमप्रयाणे प्रतिप्रयाणेऽप्यमृतायमागामिति तदनन्त्र- रं तद्दिव्यामृतधारया पूर्वदर्शितशिवशक्तिसामरस्योत्पन्नपरमामृतस्य ब्रह्मरन्ध्रान्मूलाधारपर्यन्वगलितधारया । अतएवोक्तं तृतीयश्लोके । ब्रह्मद्वारं तदास्ये प्रविलसति सुधाधारगम्यप्रदेशमिति । स्थिरमतिः स योगी दैवतं इष्टदेवतं षट्चक्रस्थडाकिन्यादिदैवतञ्च सन्तर्प- येदित्यर्थः तेनामृतेन देवोश तर्पयेत् परदेवताम् षट्चक्रदेवता- स्तत्र सन्तामृतधारयेति । पूर्वोक्तवचनात् अमृतधारां विशेष- यति । योगपरम्पराविदितयेति । योगस्य गुरूपदेशपरम्पराप्राप्त- त्वात् । योगपरम्परेत्युक्तिरिति भावः । तेन गुरूपदेशपरम्परा- विदितयेति फलितार्थः । अमृतं विशेषयति । ब्रह्माण्डमाण्डस्थित- मिति । ब्रह्माण्डस्य भाण्ड आधारपत्रं कुण्डलिनी तस्याः सर्वेषां पट्चक्रनिरूपणम् । मात्वैतत् क्रममुत्तमं यसमना योगीयमाधैर्युतः श्रीदी- सागुरुपादपद्मयुगलामोदप्रवाहोदयात् । संसारे न हिजन्य- ते न हि कदा संक्षीयते संक्षये निसान्दपरम्पराप्रमुदितः शान्तः सतामग्रणीः ॥ ५४ ॥ योऽधीते निशि सन्ध्यायोरथ दिवा योगी स्वभाव- स्थितो मोक्षज्ञाननिदानमेतदमलं शुद्धश्च गुप्तं परम् । श्रीम- श्रीगुरुपादपद्मयुगलालम्बी यतान्तर्मनास्तस्यावश्यमभीष्ट- दैवतपदे चेतोनरीनृयते ॥ ५५ ॥ योनिरूपत्वात् । तत्र स्थितं कुण्डलिनीपात्रस्थितमित्यर्थः ॥ ५३ ।। उक्त्योगक्रमज्ञानफलमहा ज्ञात्वैतदिति । श्रीदीक्षागुरुपादप- मयुगळामोदप्रवाहोदयादिति । आमोद आनन्दः तस्य प्रवाहोऽवि- च्छिन्नोत्तरोत्तरसम्बन्धस्तेन नित्यानन्द इति यावत् तस्योदयो यस्मात् तदृशपादपद्मयुगलाज्ञात्वेत्यर्थः । दीक्षागुरुरिति । प्रथ- मोपस्थितत्वेन गौरवातिशयेन च तदग्रहणम् । तदभावि अन्यगु- रोरपि ज्ञातव्यम् । अतएवोक्तम् । मधुलुब्धो यथा भृङ्गः पुष्पात् पुष्पान्तरं व्रजेत् । ज्ञानलुब्धस्तथा शिप्यो गुरोगुर्वन्तरं व्रजेत् इति । नित्यानन्दपरम्पराप्रमुदित इति । नित्यानन्दधारारूपहर्ष- युक्त इत्यर्थः । सतां योगिरूपप्रशस्तजनानामग्रगण्य इत्यर्थः ॥१४॥ षट्चक्रश्लोकाध्यनफलमाह । योऽधीत इति । स्वभावे स्थित आत्मभावे नियुक्त इत्यर्थः । यतान्तर्मना इति । यतंयोगा- भ्यासेन ॥ स्थिरीकतं अन्तरात्मनि मनो येन तादृश इत्यर्थः । स्पष्टमन्यत् ॥ ५५ ॥ इति श्रीपूर्णानन्दयतिविरचित-श्रीतत्त्वचिन्तामण्यन्तर्गत- षट्चकविवरणश्लोकार्थपरिष्कारिण्यामष्टमं प्रकरण समाप्तम्।

No text on this page.

No text on this page.

Shad Chakra Nirupanam

Author
Yativirchitam Puranand
Title
Shad Chakra Nirupanam
File name
Shad Chakra Nirupanam
Text
OCR done
Citation
1956
Published
2012
Publisher
Satha Kalikadevi Road, Mumbai
Language
Sanskrit
Pages
84
Library
S.P College, Srinagar
Classification
Language. Linguistics. Literature
DLI number
242325
Barcode
99999990879724.00
Scanning centre
Allama Iqbal Library, University of Kashmir
Digital publisher
Digital Library Of India
Rights
In Public Domain
VMLT id
O9dnCxvTAFD
Download PDF

Shad Chakra Nirupanam