Scl-hyd
Viiramitrodaya Laqs-and-aprakaashha Vol 20
Front matter
No text on this page.
March 1976. THE CHOWKHAMBA SANSKRIT SERIES; А COLLECTION OF RĄRE & EXTRAORDINARY SANSKRIT WORKS, NO. 219. वीरमित्रोदयः। Registered According to Act XXV, of 1867. लक्षणप्रकाशः। AETHÊ1918/192ffaf mata: साहित्योपाध्यायविष्णुप्रसादशर्मणा संशोधितः। VIRAMITRODAYA, LAKSHANA PRAKASA, BY MAHÄMAHOPÅDHẤYA PANDITA MITRA MISRĄ, IDITED BY Pandita Vishnu Prasad. VOL, XX, FASCICULUS Y + OK PUBLISHED & SOLD BY THE SECRETARY, CHOWKHAMBA SANSKRIT SERIFS OFFICE. BENARE8. AGENTS OTTO HARRASRONMTZ, LEIPZIG: PANDI IA JYESHTHARAMA MUKUNDAJI, BOMBAY: PROBSTHAN & CO., BOOKSELLERS, LONDON. Printed by Jai Krishna Das Gupta, at the Vidya Vilas Pregs. BENARES. Price Rupea one.
FA ॥ श्री ॥ आनन्दवनविद्योतिसुमनोभिः सुसंस्कृता । सुवर्णाऽतितभव्याभशतपत्रपरिष्कृता ॥ १ ॥ चौखम्बा-संस्कृतप्रन्थमाला मजुलदर्शना ।। रसिकालिकुलं कुर्यादमन्दाऽऽमोदमोहितम् ॥२॥ स्तवकः-२१९ १ अस्यां चौखम्बा-संस्कृनमन्थमालायां प्रतिमासं पृष्ठशतके सुन्दरैः सीसकारैरुत्तमा पत्तेषु एक स्तवको मुद्रयित्वा प्रकाश्यते । एकस्मिन स्तवके एक एव ग्रन्थो मुद्यते । २ प्राचीना दुर्लभाश्चामुद्रिता मीमांसावेदान्तादिदर्शनव्याकरणधर्मशालसाहित्यपुराणादिग्रन्था एवाच सुपरिष्कृत्य मुचन्ते । ३ काशिकराजकीयप्रधान संस्कृतपाठशालाभ्यापकाः पण्डिता अन्ये च शासष्टयो विशेस एतत्परिशोधनादिकार्यकारिणी भवन्ति । १ भारतवर्गीयैः, बोदेशीयः सिंहलद्वीपवासिभिश्चतग्राहकैयं वार्षिकमप्रिम मूल्यम्-मुद्राः ७ानका: ५ अन्यदर्य प्रतिस्तव ६ पापणव्ययः पृथग् नास्ति । " ... ... साम्प्रतं मुश्चमाणा अन्या:- सूत्रस्य यतीन्द्रश्रीमरिज्ञानभिक्षुकृतन्या- (१) संस्काररलमाला । गोपीनाथभट्टकृता ख्यानम् । सम्पूर्ण । (वेदान्तः) ६ खण्ड २ (९) स्यावादमञ्जरीमहिषेणनिर्मिता सम्पूर्णार (१) शब्दकौस्तुभ । भट्टोजिदीक्षितकृतः १०(१०) सिद्धित्रयम्-विशिष्टोद्वैतब्रह्मनिरूपणपरम् (1) श्लोकवार्तिकम् । भट्टकुमारिलविरचितम् श्रीभाष्यकर्ता परमगुरुभिः श्री श्रीयामु- पार्थसारथिमिश्रकृतन्यायरलाकराख्यया नमुनिभिर्विरचितम् । सम्पूर्ण (वेदान्तः) भ्याख्यया सहितम् । सम्पूर्णम् । १० (११) न्यायमकरन्दः । श्रीमदानन्दबोधमहार- (6) भाष्योपहितं तस्वयम् । विशिष्टाद्वैत काचार्यसंग्रहीतः। प्राचार्यचित्सुखमुनि- वर्शनप्रकरणम् । श्रीमनोकाचार्यप्रणीतम्। विरचितम्याख्योपेतः (वेदान्तः) श्रीनारायणतीर्थविरचित्तभाट्टभाषाप्रकाश- (१२) विभक्त्यर्थनिर्णयो न्यायानुसारिप्रथमादि- 'सहित सम्पूर्णम् (वेदान्तः) २ सतविभक्तिविस्तृतविचाररूपः म० म० (५) करणप्रकाशः । श्रीब्रह्मदेवाविरचितः १ श्रीगिरिधरोपाध्यायविरचितः सम्पूर्ण: (६) भाचिन्तामाणः । महामहोपाध्यायश्री (न्यायः) गागाभट्टविरचिता। तपादः (मीमांसा)२ (१३) विधिरसासनम् । श्रीअप्पयदीकिकृतम्। (.) न्यायरत्नमाला श्रीपार्थसारथिमित्रविर - सम्पूर्णम् (मीमांसा ) ... पिता सम्पूर्ण: ( मीमांसा) २ | (१५) न्यायसुधा (तन्त्रवार्तिकटीका ) भाग- (4) असषभाष्यम्-बादरायणप्रणीतवेदान्त मेश्वरविरचिना । (मीमांसा) ...
गजलक्षणप्रकरणे गजाध्यक्षादिलक्षणम् । ४०१
अथ गजाध्यक्षलक्षणम् ।
विष्णुधर्मोत्तरे,
इस्तिशिक्षाविधानज्ञो वनजातिविशारदः ।
क्लेशक्षमस्तथा राज्ञो गजाध्यक्षः प्रशस्यते ॥ इति ।
पालकाप्ये,
गजाध्यक्षोऽतिमतिमान् शरण्या संयतेन्द्रियः ।
विनीतः सत्त्वसम्पन्नो वयस्थः प्रतिपचिमान् ।।
नृपतुल्या मियाभाषी महाभोगपरिग्रहः ।
गजजीवी गजानां तु हितकार्ये रतस्तदा ॥
स्वामिभक्तः शुचिर्दक्षो धार्मिकश्च प्रशस्यते । इति ।
इति गजाध्यक्षलक्षणम् ।
अथ गजारोहलक्षणम् ।
विष्णुधर्मोत्तरे,
एतैरेव गुणैर्युक्तः स्वाधीनश्च विशेषतः ।
गजारोहो नरेन्द्रस्य सर्वकर्मसु शस्यते ॥ इति ।
पालकाप्येऽपि,
रहस्यधृक् प्रियः शूरो धृतिमान् सुदृढेन्द्रियः ।
सुशरीरस्त्वरोगव यन्ताङ्कुशविभागवित् ।।
निमित्तोत्पातकुशलश्चिकित्सितविशारदः।
दम्यस्तु कुशलोत्साही गजभर्तृहिते रतः ॥
ब्राह्मणः शीलसम्पन्नो यज्ञकर्मप्रतिष्ठितः।
शक्तश्च युद्धे नागानामारोढा तु प्रशस्यते ॥ इति ।
इति गजारोहलक्षणम्।
इति श्रीमत्सकलसामन्तचक्रचूडामणिमरीचिमञ्जरी-
वीरमिनोदयस्य लक्षणप्रकाशे - -- नीराजितचरणकमल- श्रीमन्महाराजाधिराजमतापरुद्रतनज- श्रीमन्मधुकरसाइमनु- चतुरुदधिवलयवमुन्धराहृदयपुण्डरीक- विकासदिनकर- श्रीमहाराजाधिराज- श्रीवीरासिंहदेवायोजितश्रीहंसपण्डितात्मज- परशुराममिश्रस्तु- सकळविद्यापारावारपारीणधुरीणजगद्दारिद्रयमहागजपारी. न्द्रविद्वज्जनजीवातु- श्रीमन्मित्र मिश्रकते श्रीवीरमित्रोदयाभिधनिबन्धे लक्षणप्रकाशे गजलक्षण- प्रकरणं समाप्तम् ।
अश्वलक्षणप्रकरणे अश्वप्रशंसा।
४०॥
अथाश्वलक्षणप्रकरणम् ।
तस्य राष्ट्रं यशो लक्ष्मीधर्मकामार्थसम्पदः ।
वाजिनो यत्र तिष्ठन्ति सर्वलक्षणसंयुताः ॥
कुञ्जर तुरगं कुर्यात्तस्य राज्ञः परीक्षितम् ।
सर्वलक्षणसम्पूर्णमारहेद्वाजिनं नृप ।
इत्यादिवचनैः सुलक्षणैरेवाधर्मकामार्थादि शुभ फल प्रा.
प्यते । अतो राजा सङ्ग्रामादिकार्ये परीक्ष्य अशुभलक्षणमश्वं
विहाय मुलक्षणमश्वमेवारुहेदित्युक्तम् । तत्र किंलक्षणोऽभिमतः
किंलक्षणो निषिद्ध इत्यश्वलक्षणमुच्यते। अत एवजयदेवेनोक्तम्-
अशुभैलक्षणयुक्ता हया न ग्रहणोचिताः ।
अतो लक्षणमेवादौ तेषां वक्ष्यामि देहजम् ।। इति ।
तत्रादावश्वप्रशंसा उच्यते-
विष्णुधर्मोत्तरे,
पुष्कर उवाच।
राज्ञां तुरङ्गमायचं विजयं भृगुनन्दन ।
तस्मात्सर्वप्रयत्नेन तुरगाणां समर्जने ॥
राज्ञा यत्नवता भाव्यं पालने च विशेषतः ।
वावन्तस्तुरगा धार्या यावतां पोषणं सुखम् ॥
कर्तुं शक्यं न धार्यास्ते दुःखिताः क्षुधितास्तथा ।
दुःखितास्ते श्रिय लोकान् विनिम्नन्ति जयं तथा ॥
धारणीयाः मुविहिता विधिना यवसादिना ।
विधृतास्ते तथा कुर्युर्लोकद्वयजयं तथा ॥
मङ्गलास्ते पवित्रास्ते रजस्तेषां तथैव च ।
वीरमित्रोदयस्य लक्षणप्रकाशे
केवलस्यैव ते मक्ता देवस्य परमेष्ठिनः॥
अतिमेध्यतया तेन चानुज्ञाता दिवौकसाम् ।
ततोऽश्वमेधतुरगस्तस्यैवैकस्य हियते ॥
सर्वरत्नाधिको जातस्तुरगोऽमृतमन्थनात् ।
उच्चैःश्रवास्तेन इयाः सर्वरत्नोत्तमाः स्मृताः ।।
सपक्षा देववाहास्ते मानुषाणामपक्षकाः ।
छाना शालिहोत्रेण वाहनार्थ पुरा कृताः ॥
नीराजयन्ति ते देशान् हेषितैर्बलशोभिनः ।
गन्धर्वास्ते विनिर्दिष्टाः श्रियः पुत्रा जितश्रमाः ।।
प्रधानमनं सैन्यस्य शोभा च परमा हयाः ।
सुदरगमने युद्ध यानश्रेष्ठास्तुरङ्गमाः॥
वल्गन्तमुचैस्तुरगं चामरापीडधारिणम् ।
आरुड या भवेत्तुष्टिर्न सा राम त्रिविष्टपे ।
सभद्रपुरुषारूढः सुसनदैस्तुरङ्गमैः ।
हष्टैरेवारिसैन्यस्य पतन्ति हृदयान्यलम् ।।
तुरङ्गपादोद्धतधूलिदण्डं
यस्यातपत्रानुकृतिं करोति ।
नभः, समग्रा वसुधा तु तस्य
शैलावतंसा भवतीह वश्या ॥ इति ।
विशेषस्तूक्तो गणकृते-
अश्वायुर्वेदे,
'धर्मार्थकामसिद्धिर्यथा तुरर्भवेत्तथा पूर्वम् ।
कथितैव महामतिभिस्तथापि वक्ष्ये समुद्देशम् ॥
अश्वैर्हस्तगतां पृथ्वी श्रीरश्वैर्विपुलं यशः ।
विजयश्च भवेदश्वैरश्वो हर्यविभूषणम् ।।
-
४०५
अश्वलक्षणप्रकरणे अश्वमशंसा।
तस्य राष्ट्र यशो लक्ष्मीधर्मकामार्थसम्पदः ।
वाजिनो यत्र तिष्ठन्ति सर्वलक्षणसंयुताः ।।
तस्य सागरपर्यन्ता हस्ते तिष्ठति मेदिनी ।
एकाहमपि यस्याश्वा निवसन्ति गृहाजिरे।।
विष्णोर्वक्षस्थलं मुक्त्वा लक्ष्मीस्तस्य गृहे स्थिरा।
निवसत्यश्वसङ्घातैः सम्पूर्णा यस्य वाहिनी ।।
ते हयाः शत्रुलक्ष्मीणां हठादाकर्षणक्षमाः ।
ये वाजिनः सुसञ्चारा सन्यासव्येषु शिक्षिताः ॥
ते विपक्षक्षयं कृत्वा प्राप्नुयुः श्रियमुत्तमाम् ।
कोऽन्यस्तुरङ्गमं हित्वा प्रविशेद्रिपुवाहिनीम् ।।
श्येनवत्पुनरभ्येति कृत्वा परपराभवम् ।
स्वामिनो वाजिनं मुक्त्वा को निर्वाहयितुं क्षमः ॥
पवित्रं परमं स्थानं मानल्यमपि चोत्तमम् ।
दूराध्वानं गमयतां तथा सङ्क्रामकर्मणि ॥
अश्वेभ्यः परमं नास्ति राज्ञां विजयसाधनम् ।
यस्यैकोऽपि सुपुष्टोऽश्वो बदस्तिष्ठति वेश्माने ।
तस्यापि विगतोत्साहा भीतास्तिष्ठन्ति शत्रवः ।
दूरदेशान्तरस्थोऽपि रिपुस्तिष्ठति शङ्कितः ॥
तुरगा यस्य शास्त्रोक्ता विचरन्ति महीतले ।
आशु कार्याणि भूपानां यथाश्वाः पृथिवीतले ।।
कुर्वन्तीह तथा शीघं न गजा न पदातयः ।
पदातिगजमुख्यैश्च शतशोऽथ सहस्रशः ॥
वेष्टितोऽपि बजत्यश्वो यथेष्टं पक्षिराडिव ।
रणाहतोऽपि तुरगो देशकालाधपेक्षया ।।
पुनः प्रतिनिवृत्याशु हन्ति शडं च मूर्द्धनि ।
४०६
वीरमित्रोदयस्य लक्षणप्रकाशे
क्षणादेकत्वमायाति क्षणाधाति सहस्रताम् ।।
क्षणामुख्यं रिपुं वीक्ष्य नयति स्वस्य सादिनम् ।
क्षणमन्तः क्षणं दूरं क्षणं याति रिपुं प्रति ॥
इन्द्रजालिकतिष्ठेरकोऽन्य मुक्त्वा तुरङ्गमम् ।
खण्डीकृत्य रिपुव्यूहं विचरन्ति तुरङ्गमाः ।।
खड्गमाशधनुईस्ता सङ्ग्रामे दुर्जया नराः।
जितशीतातपा ये च जितत्रासा जितासनाः ।
युध्यमाना हयारोहा देवानामपि दुर्जया।
तस्मादरिघटा कार्या इयसन्दोहसंकृता ।
चन्द्रहीना यथा रात्रिः पतिहीना पतिव्रता।
हयहीना तथा सेना विस्तीर्णापि न शोभते ॥
युध्यन्ते येऽपि माता भिन्नाः शैलेन्द्रसभिभाः।
दुर्घरा दुर्निवारास्ते यानरत्नस्तुरमैः ।।
तस्मादश्वान् प्रधांसन्ति सेनाङ्गेषु महर्षयः।
अश्वैविहीनाः पात्यन्ते छिन्नमूला इव दुमाः ।।
तस्यानुरक्ता श्रुतदृष्टविग्रहा
महारिलक्ष्मी रणवाससअनि ।
हृष्टानना साप्यभिसारिका भवेत्
तुरनमा यस्य बले महीपतेः ।।
सर्वाम्भोनिधिमेखला सुरसरिद्रोमावलीभूषिता-
मुतुङ्गाद्रिपयोधरा पुरवरमाकारगण्होज्वलाम् ।
निाशेषप्रतिपक्षदोषरहिता विद्वज्जनौघानना
पृथ्वीं सोऽमरकामिनीमिव चिरं भुलेश्वसेनापति ॥
एते चान्ये च राजन् प्रकटगुणगणाः सन्ति मर्ये हयानां
स्वर्गेऽप्येवंगुणा ये सुरपतिसहिताः सूर्यचन्द्रादयश्च ।
अश्वलक्षणप्रकरणे अश्वानां नरवाहनत्वसम्भवः४०७
देवा जानन्ति येषां प्रवरगुणवता रोगनाशस्य हेतुं
सिद्धास्वमैश्च योगैर्मनिवरगदितैरप्यमीषां चिकित्साम्।।इति ।
इत्यश्वप्रशंसा।
अथाश्वानां नरवाहनत्वसम्भवः।
नकुलकृते अश्वशाखे,
सपक्षा वाजिनः पूर्व सञ्जाता व्योमचारिणः ।
गन्धर्वेभ्यो यथाकामं गच्छन्ति च समन्ततः ।
तान् दृष्ट्वा जवसम्पन्नान् बलौघान् वाहनोचितान् ।
शक्रः मोवाच पार्श्वस्थं शालिहोत्रं मुनीश्वरम् ।।
नासाध्यं च मुने किश्चित्तवास्ति भुवनत्रये ।
तस्मात्कुरु रथावाहे योग्यानेतान् हयोचमान् ॥
यथा मे युध्यतः सैन्ये प्रवहन्ति रथं सदा ।
अशक्या दानवेन्द्रस्य नित्यं च बलगर्विताः ।।
इषीकास्त्र समुत्सृज्य पक्षच्छेदं व्यधत्त सः।
चाजिनां शक्रवाक्येन शालिहोत्रो मुनीश्वरः ।।
छिनपक्षाश्च ते सर्वे गत्वा तमृषिमब्रुवन् ।
दीना दुःखसमोपेता रुधिरेण परिप्लुताः ॥
भगवन् किनिमिचेन पक्षच्छेदः कृतस्त्वया ।
अपराधविहीनानां न च हिंसन्ति पण्डिताः ।।
तस्मादतिर्भव प्राज्ञ सर्वेषामिह वाजिनाम् ।
यथा स्यात्सर्वदा सौख्यं तुष्टिश्च मुनिसत्तम ।
अतोऽसौ कृपयाविष्टस्तानुषाच सुदुःखितान् ।
इन्द्रादेशात्कृतं सर्वं भवतां पक्षभेदनम् ॥
तस्मादः प्रकरिष्यामि भविष्यति यथा मुखम् ।
४०८
वरिमिनोदयस्य लक्षणप्रकाशे
.
पुष्टिम्या यथा देहे गौरवं च जगत्रये ॥
यूयं शक्रादिदेवानां वाहनत्वं करिष्यथ ।
तथा भूमिपतीनां च गौरवेण समन्वितम् ।।
यो राजा भवतां पुष्टिं खानपानादिभिः सदा ।
करिष्यति न सन्देहो भविष्यति सुदुर्जयः ।।
न च त्यजति तं लक्ष्मीः कदाचिज्जयलक्षणा।
अपि सर्वगुणहीने बहुशत्रुभिरावृतम् ॥
तथा चैवं विधास्यामि परमं च चिकित्सितम् ।
तुष्टयर्थ रोगनाशार्थ नराणां विहितं यथा ॥
तस्माद्च्छत भूलोके पाताले च तथापरे ।
स्वर्ग चान्ये मदादेशाधेन शान्तिः परा भवेत् ।।
एवं विसृज्य तान् सर्वान् शालिहोत्रस्तुरङ्गमान् ।
चक्रे द्वादशसाहस्री तदाख्या संहितां तदा ॥
ततः प्रभृति लोकेऽस्मिन् वाया जातास्तुरङ्गमाः।
ततश्चिकित्सितं तेषां शालिहोत्रप्रकाशितम् ॥ इति ।
इत्यश्वानां नरवाहनत्वसम्भवः।
अथाश्वजातिविभागः ।
शालिहोत्रे,
हयस्वरूपतत्व वत्परं नियतेन्द्रियम् ।
शालिहोत्रं महाप्राज्ञ मित्रजित्परिपृच्छति ॥
चातुर्वण्य महातेजा जानीयाद्वाजिनां कथम् ।
कैश्चेष्टाव्यञ्जनाकारैस्तथा त्वं वक्तुमर्हसि ॥
व्यअनं चिन्हविशेषः ।
एवं पृष्टो महाचार्यः शालिहोत्रोऽभ्यभाषत ।
दुर्विज्ञेयं तु बाहानां चातुर्वण्य निबोध मे ।।
अश्वलक्षणप्रकरणे अश्वजातिविभागः। ४०९ - अभिज्ञातेन रूपेण शीलेनाभिजनेन च । स्वरसंस्थानवर्णैश्च गन्धैश्वाप्युपलक्षयेत् ।। चातुर्वर्ण्यविभागेन ये चाश्वा अनुलोमजाः । अनुलोमजपद प्रतिलोमजानामप्युपलक्षणार्थम् । तान् विशेषेण गदतः शृणु चैवोपधारय । रूपोपपत्राः श्रीमन्तो विनीताचारशालिनः । भृशं यत्नोपचार्याश्च स्मृतिमन्तः सुमेधसः ।। गुरूणां चैव राजश्च यत्नानिर्देशकारिणः । प्रदक्षिणाः समर्थाश्च शुचयः शुचिसेवनाः ॥ क्षुधासहा भारसहाः सुकोपाः सुप्रसादिनः ।। गन्धमाल्यप्रिया नित्यं भूपवेषा यथा तथा ।। पूजिताः सम्पहष्यन्ति भवन्ते चाग्रगाः सदा । नित्यं प्रमुदिताश्चैव भवन्ते चारुदर्शनाः॥ मनस्विनस्तेजोवन्तः सर्वकर्मानुयायिनः । पानास्वादनमोज्यानि उच्छिष्टानि त्यजन्ति च ॥ तथा चैवाशुचिं सर्वं पुरीष मूत्रमेव च । मधुलाजाघृतापूपपायसोचभिलाषिणः ॥ गन्धमास्यसुमनसः स्नानमालकानि च । प्रहेषमाणा जिघ्रन्ति सुस्वमाः प्रियदर्शनाः ।। क्षुत्पिपासासहाः शूरा सुनिनादा महास्वनाः। पीतश्वेतारुणा गौरा: प्रायशो मधुपिङ्गलाः ।। उदप्रगामिनो हृष्टाः स्निग्धानुध्वनिनः स्थिराः । स्निग्धवर्णास्तनुवाणा ब्राह्मणाः सर्वमन्त्रिणः ॥ क्षिमं सुप्ताश्च बुध्यन्ति लाजेशीरगन्धिनः । देवगन्धर्वसवास्ते सन्चल्यांचारशालिनः ।। . - . ૧૨
वीरमित्रोदयस्य लक्षणप्रकाशे
एवमाचारतस्ते वै विज्ञेया ब्राह्मणा हयाः।
क्षत्रिया दुःखशीलास्तु कोपना ब्रह्मवर्चसः ।।
तीक्ष्णप्रकृतयः शूरा महागम्भीरनिःस्वनाः ।
चर्मवन्तो महासत्त्वाः शुद्धसवा लघुक्रियाः ।।
धर्म प्रमाणम् ।
सारसंहननोपेता विविक्ताङ्गास्तनुत्वचः ।
सारो बलम् । संहननं संहतिः ।
वर्षादिजलसंहादे ताडने प्लवने भरे ।।
कर्कशस्पर्शने चैव निर्भया द्रुमसङ्कटे ।
निरोधविषमोच्चेषु न विषीदन्ति ते हयाः ।।
कल्याणाभिजवापातैः कल्याणप्रियदर्शनाः ॥
स्थनेमिनिनादेषु शङ्खतालस्वनेषु च ।
धुंहितेष्वथ नागानां घण्टास्वौदुम्बरासु च ॥
हितं शब्दितम् । उदुम्बरं ताम्रम् ।
वेलिताकृष्टनिनदैः प्रत्यश्वानां च हेषितैः ।।
शङ्खभेरी निनादैश्च वेणुदुन्दुभिनिःस्वनैः ॥
छत्रध्वजपताकाचैर्महाव्यूहेषु गर्विताः ।
महाव्यूहो महान् सेनासमूहः ।
वालधि पकिरनाथ हृष्यन्ते मुदितेक्षणाः ।
सम्पयुक्ताः प्रधापन्ति मेदिनीं धारयन्ति च ।।
खुरात्रैर्दारयन्तश्च तेऽपि हेषन्ति मेदिनीम् ।
स्वेदमूत्रपुरीषाणि सृजन्त्यत्यर्थमेव च ॥
आक्रीडन्ति प्रहेषन्ति तर्जयन्तः परान् इयान् ।
मुदितास्तेऽवगाहन्ति चतुरङ्गबलं रणे ।
सानुनाद स्वरं स्निग्धं इषन्ते पूरयन्ति च ।
अश्यलक्षणप्रकरणे अश्वजातिविभागः। ११५
अन्येषां पृष्ठतोऽश्वानां नेच्छन्ति गमनं सदा ।।
शस्त्रं दृष्ट्वा प्रहृष्यन्ति प्रहारैर्न व्यथन्ति च ।
आहवेषु पराक्रान्ताः शूरास्ते क्षिपकारिणः ॥
मणिमल्लिकपिङ्गाक्षा न विवर्णाऽविवर्णिनः।
सर्वकर्मसहश्लिष्टासुखा नात्मप्रमादिनः ॥
देवगन्र्धवसवास्ते कल्याणाभिजवस्वनाः ।
एवमाचारवन्तश्च विज्ञेयाः क्षत्रिया हयाः ॥
वैश्या यानक्रियामन्दगुरुमेधाल्पजातयः ।
न कुप्यन्ति न हुष्यन्ति स्थिरात्मानो जितेन्द्रियाः ॥
विनीताचारवन्तश्च जितक्रोधा न मानिनः।
मृदवः सामशालास्ते वेदनोष्णक्षुधासहाः ॥
भाराध्वगमनयानस्थिरा मध्यजवाश्च ते ।
मध्यसारबलाश्चैव हरिपिशक्षणास्तथा ।
कौश्चनेत्राः सिता शोणाघरपल्लवरोमकाः ।
नातिवीर्ययुताः पश्चादव्यङ्गाश्च भवन्ति ते ॥
मत्स्यविस्रावगन्धाश्च तथोष्ट्रीक्षीरगन्धिनः ।
सुप्ताः प्रसादिताः क्षान्ता मानुषं सत्त्वमास्थिताः॥
एवंविधसमाचारा वैश्या ज्ञेयास्तुरङ्गमाः ।
उच्छिष्टं ये हि मन्यन्ते परेषां पानभोजनम् ॥
युग्याशनमपि क्लिष्ट हृष्टाः सेवन्ति ते सदा ।
युग्या बलीवास्तेषामशनं भोज्यं कडङ्गरादि ।
शोणाला रक्तनेत्राश्च पादैर्भूमि लिखन्ति च ।
पुरीषमूत्रे जिघन्ति भक्षयन्ति जुगुप्सितम् ।।
मत्सरिष्यमवर्तन्ते निघ्नन्ति परिपालकान् ।
मे शृणु। वीरमित्रोदयस्य लक्षणप्रकाशे आत्मानं सुरपुच्छैा दन्तैस्ते वर्षयन्ति च ॥ प्रस्तब्धकुथकाः सन्ति भयाज्ञानविषादिनः । कुथः प्रावरणकम्बला। शुचित्वं च जुगुप्सन्ति नाचारशुचयश्च ते ।। चतुष्पथेषु द्वारेषु पुरीष चोत्सृजन्ति ते । धूमाभ्रसमवर्णाश्च स्थूलवक्रासिताननाः ॥ रुक्षा भिन्नस्वराः शूरा न प्रशस्ता दुरासदः ॥ पिशाचा राक्षसाश्चैव सर्वे सुप्ताः प्रमादिनः। एवमाचारसंस्थाथेच्छूद्रानवान् विनिर्दिशेत् ॥ विज्ञानमनुलोमाना जात्याचारं च ब्राह्मणो जनयद्गर्भ क्षत्रियां क्षत्रियो भवेत् ।। क्षत्रियाद्वैश्यवाजिन्यां वैश्यो वाहः प्रजायते । वैश्येन चैव शूद्रायां वैश्य उत्पद्यते हयः ।। अत्र अनुलोमा मातृसमानजातीयाः। “ब्राह्मणो जनयेत्" इत्यादिना ब्राह्मणात् क्षत्रियायामुत्पन्नः क्षत्रियः क्षत्रियाद्वैश्याया- मुत्पनो वैश्य इत्युक्तत्वात् । वैश्याच्छूद्रायामुत्पन्नः शूद्र एवेति वक्तव्ये वैश्याच्छूद्रायामुत्पनो वैश्य एवेति यदुक्तम् तत्तु शूद्रा- पेक्षया उत्कृष्टत्वज्ञापनार्थमित्याविरोधः । अपि च ब्राह्मणात् क्ष- त्रियायामुत्पनः क्षत्रिय इत्यत्र क्षत्रियपदं क्षत्रियजात्यश्वचेष्टा- दिसादृश्यार्थ रणादिकार्यान्तरयोग्यतार्थ चेति । एते द्विजसमाचारा यथावर्णा हयाः स्मृताः । परिभ्रष्टास्ततश्वभ्या शूद्वैस्तुल्या भवन्ति ते ॥ वैश्यायां ब्राह्मणाजातस्तं वैश्यमिति निर्दिशेत् । क्षत्रियेण तु शूद्रायां क्षत्रमुत्पन्नमादिशेत् ।। अथ वा त्रिभिरप्यन्यैर्निषादा स्याद्विजन्मभिः ।
अश्वलक्षणप्रकरणे अश्वजातिविभागः। ४१३
शूद्रायामित्यनुषङ्गः।
अनुलोमास्तु व्याख्याताः प्रतिलोमानिमान् शृणु ।
ब्राह्मण्यां जनयेदर्भ क्षत्रियः सूतमाह तम् ।।
कर्काः कुरण्टगौराश्च दन्तगौरारुणममाः।
कर्णाः अश्वाः।
प्रायशः सुमसनाक्षाः सानुनादा महास्वनाः।
पानमाल्यसुगन्धास्त न च निर्हारगन्धिनः ।।
मुप्तपमादिनः शान्ता ज्ञेया हि बधिरा हयाः ।
ब्राह्मण्यां तु यदा वैश्यो जनयेन्मागधस्तु सः ।।
भारक्षमाः सत्वहीना मृजाहीना न हेषणाः।
अनवस्थितशीलाश्च न जुगुप्सन्ति कस्य चित् ।।
सुप्रज्ञाहीनसहशाश्चण्डवेगा बनिता।
निर्वर्णवर्णाः प्रायेण पैशाचं सच्चमास्थिताः ।।
पापाभिजनिनः क्रूरा वसाकुणपगन्धिनः।
अनाचारप्रवणाश्च मागधा दीनदर्शिनः ।।
ब्राह्मण्यां तु यदाचायां शूद्र उत्पादयेत्सृतम् ।
स चाण्डाल इति ज्ञेया पापाभिजनगोचरः॥
नाभिजानन्ति काणि प्रमत्ताः खरनिस्विनाः ।
रूक्षभिन्ननखाः क्रूरा अप्रशस्ता दुरासदः ॥
उपदग्धाः प्रशस्तैस्तु व्यअनावर्तलक्षणैः ।
पुष्पैः पुण्ड्रैश्च विविधर्निन्दितैः परिमण्डिताः ॥
पुष्पैः शरीरोपरितनषिन्दुभिः । पुण्हैस्तिलक ।
पुरीष मूत्रमुत्कृष्ट खादन्ति न जुगुप्सिताः ।।
भिन्नागारेश्वशुचिषु शून्यागारेषु मोदनाः ।
शृगालवृकवर्णाश्च धूमवर्णा विवर्णिनः ।।
४१४ वीरमित्रोदयस्य लक्षणप्रकाशे
क्रूरस्वरा यूपगन्धाः प्रियमांससुरौदनाः।
पिशाचरक्षोभिजनाचाण्डालाश्च दुरासदः ।।
एभिर्व्यञ्जनलिङ्गैस्तु चातुर्वर्ण्य विनिर्णयेत् ॥ इति ।
किल्हणकृतसारसमुच्चये,
शीलान्वितो भारसहः सुगन्धः
शुबैकवर्णः सुमनोहरश्च ।
गम्भीरहेषः शुचिसत्वयुक्तो
प्रासातुरो ब्राह्मणजातिरश्वः ॥
शूरः मुतीक्ष्णस्त्वभिमानयुक्तः
क्रोधान्वितो वातभवः मुहेपी ।
सुदीर्घकायः सुलघुक्रमः स्यात्
स क्षत्रियोऽश्वो द्युतिसत्वयुक्तः ॥
मेघप्रियो मानविवर्जितश्च
क्षुदेदनाभारसहः मुसवः।
वेगान्वितः शौर्यकुलाभिमानी
पिङ्गेक्षणो वैश्यहयः प्रदिष्टः ।
छिद्रप्रहारो बाशुचिप्रियश्च
स्यात्क्रूरदृष्टिलघुकायवांश्च ।
क्रोधाभिमानातिशयेन युक्तः
शूद्रस्तुरङ्गोऽतिजडा प्रसिद्धः ॥ इति ।
नकुलकृते अश्वचिकित्सिते,
वाजिनो जलजाः केचिद्वन्हिजातास्तथा परे।
समीरमभवाश्चान्ये उलूकामृगजास्तथा ॥
जलोद्भवा द्विजा ज्ञेयाः क्षत्रिया वन्हिसम्भवाः ।
मभञ्जनभवा वैश्या एणोलकाश्च शूद्रकाः ॥
अश्वलक्षणप्रकरणे अश्वोत्पत्तिदेशाः।
४१५
पुष्पगन्धः सदा विप्रः क्षत्रियोऽगुरुगन्धकः ।
घृतगन्धोद्भवो वैश्यो मीनादीनां च शूद्रकः ।।
विवेकी सघृणो विप्रस्तेजस्वी क्षत्रियः स्मृतः ।
दुष्टभावस्तथा वैश्यः शूद्रो निःसत्त्वकातरः ॥
विमस्य वाहनाः सर्वे त्रयो भूमिपतेः सदा ।
द्वौ वैश्यस्य च शूद्रस्य एक एव सुखावहः ।।
केचिदिच्छन्ति भूपानां सर्वेऽश्वा वाहनोचिताः ।
तदर्थे भूतले यस्माच्छालिहोत्रेण निर्मिताः ॥
ब्राह्मणाः क्षेमकृत्येषु सिद्धिं गच्छन्ति वाजिनः ।
क्षत्रिया युद्धकार्येषु वैश्या भृत्यार्जने सदा ।।
शुद्राश्चान्येषु कार्येषु ज्ञात्वैवं वाजिनः सदा ।
आरुहेत्सर्वकृत्येषु य इच्छेच्छाश्वतीं श्रियम् ॥ इति ।
इत्यश्वजातिविभागः।
अथाश्वोत्पत्तिदेशाः।
नकुलकृतेऽश्वचिकित्सिते,
चतुर्षा वाजिनो भूमौ जायन्ते देशसंश्रयात् ।
ताजिकाः खुरसाणाश्च तुषाणाश्चोत्तमा हयाः ॥
गोजिकाणाश्च केकाणाः पोटाहाराश्च मध्यमाः ।
गाहुराः साहुराणाच सिन्धुवाराः कनीयसः ॥
अन्यदेशोद्भवा ये च नीचनीचास्तथा परे ॥ इति ।
जयदेवकृतेऽश्वायुर्वेदे,
अश्वानां जन्मदेशांस्तु प्रवक्ष्याम्यनुपूर्वशः ।
उत्तमानां च मध्यानामधमानां च तत्त्वतः ॥
उत्तमास्त्वधिकाः प्रोक्तास्तथा पारसिकाच ये ।
वीरामित्रोदयस्य लक्षणप्रकाशे
केकाणाश्चैव ये वाहाः पृष्ठजा ये च कीर्तिताः ।।
जरुजातास्तुरुष्काश्च सपृष्ठा माण्डलाश्च ये ।
पट्टनाः सैन्धवा मध्यास्तथा सारस्वता हयाः॥
सम्भलाथाकुलाश्चैव जटादेशोद्भवाश्च ये।
अधमा दक्षिणैः सार्धं ये च पारदक्षिणा हयाः ॥
वृत्तदीर्घाश्चितग्रीवस्वकर्णा महाहयाः ।
महाकाया महोरस्का निवासास्तेऽधिका मताः ॥
अत्यन्त विनतं येषां निमांसं च मुखं भवेन् ।
पोनेन कटिदेशेन मुखराश्च भवन्ति ये ॥
अध्वन्याश्च महास्वानाः सङ्कामे चाभिपूजिताः ।
अपि शाखाहतानाश्च नैव मुश्चन्ति सादिनम् ।।
पारसीकाधिकाः प्रोक्ताः केकाणाः किश्चिदूनकाः ।
स्यूलाः स्थूलशरीराश्च पृष्ठजा दीर्घपृष्ठका ॥
केकाणदेशजातानामधमानां च वाजिनाम् ।
नाविकैः सदृशं वक्त्रं बाहुल्येन विनिर्दिशेत् ।।
मुहत्तदेहस्तीक्ष्णश्च स्वप्रमाणेन मध्यमः ।
अरुजातः समुदिष्टः किश्चित्स्थूलो मनाग्जवः ।।
अतिस्थूलोऽतितीक्ष्णश्च इस्वग्रीवतनुस्तथा ।
तुरुष्का कीर्तितो वाजी स्थूलवक्रमुखश्च यः ॥
केकाणाकारदेहस्तु भवेन्माण्डलिको हयः।
शान्त्या चैव प्रमाणेन केवलं नैव तत्समः ॥
सिन्धुदेशोद्भवो वाजी सपृष्ठाश्वानुकारका ।
आननं चापि दीर्घ च तत्सपृष्ठं च कीर्तितम् ।।
सत्वेनैव जवेनापि रणशरत्वघातनः।
सादिभक्तोधतश्चापि ताजिकादधिकस्तथा ।
अश्वलक्षणमकरणे अश्वकुलविभागः ।
परिमण्डलदेहास्तु तीक्ष्णकर्णमुखा हयाः।
पदेशोद्भवा दृष्टास्तथा सारस्वताच ये॥
लम्बकर्णजटश्चैवमव्याल, परिकीर्चितः ।
सम्भले श्लिष्टजानुश्च पदा पश्चाद्धलोपमः ।।
पर्नुलश्चापि इस्वश्च टङ्को नाम स कीर्तितः ।
दाक्षिणात्यो भवेद्धोटो यो धन्यः सर्ववाजिनाम् ॥
जवहीना महादुष्टाः पूर्वदेशसमुद्भवाः ।
वाजिवदेसराणां च देशं विद्याद्विचक्षणः ॥ इति ।
इत्यश्वोत्पत्तिदेशाः।
अथांश्वकुलविभागः।
शालिहोत्रे,
आसीनं च हयागारे वेदवेदाङ्गपारगम् ।
मित्रजित्ममुखाः पुत्राः शिष्याश्च गुरुसम्मताः ।।
पप्रच्छुईयवेदज्ञं हयशिक्षाविशारदम् ।
भगवन् सागरान्तेयं वसुधा शैलमालिनी ।।
पत्तनागारदेशैश्च वनैश्चाप्युपशोभिता ।
तस्यां विभागातुरगा भवन्ते कामचारिणः॥
चरन्ति विविधाकारा उत्तमाधममध्यमाः ।
व्यामिश्रेषु चरन्त्यश्वा भृशं विस्मयते मनः ||
तेषां च जनने यानि कुलान्युपकुलानि च ।
देशलिङ्गाभिजन वर्णाचारवलौजसा ॥
पृथक् पृथक् कुलानां तु विज्ञानानि ब्रवीहि में।
ज्ञानं सङ्कीर्णदेशानां घोटकाजननानि च ॥
अन्त्यजाच गुणोपेता गुणै नाश्च देशजाः ।
भवन्ति कस्माचत्सर्व भगवन् वक्तुमर्हसि ॥
वीरमित्रोदयस्य लक्षणमकाशे
तता प्रोवाच भगवान् पुत्राणां मुनिसत्तमः ।
कुलाभिजनवणैश्च रूपाचारजवौजसा ।
छविसंस्थानगन्धैश्च गत्याऽनूकस्वरैस्तथा ।
सर्वमेतद्यथोरिष्ठं शालिहोत्रकुलोद्भवाः ॥
मादिसर्गेषु सृष्टाः स्म दिव्या गन्धर्वमातरः।
फर्का शोणा च काला च धूम्रा सिता तु पाटला ॥
क्रव्या सारा च सहिणी ता देशेषु विभाजिताः ।
एत एव च तावन्तस्तासां सृष्टा हयोत्तमाः ॥
इन्द्रसोमयमाश्च वायुना वरुणेन च ।
झ्यानां पत्तयः सृष्टा वाहिना धनदेन च ॥
भूमौ दिक्षु विभक्तास्ते दिव्या इयकुलाकराः ।
मसुकास्त्वेवमेवैते मधास्तरमरोत्तमैः ॥
पृथिव्यां प्रविभक्तास्ते दिक्षु जानपदेषु च ।
माहेन्द्रपृष्ठ्यः काश्च अपराश्च यथाक्रमम् ॥
तासां पुत्रैश्च पौत्रैश्च व्याता सर्वा वसुन्धरा ।
समुद्रमाश्रिताः केचिचथाऽन्ये सिन्धुमाश्रिताः ॥
श्रिता यवनकाम्बोजान् चानायुं चापरे पुनः ।
शतद्वै च विपाशां च चन्द्रभागां सकाभिधाम् ।।
सरस्वती कौशिकी च गङ्गा प्रेषवती तथा ।
महानदीनामेतासामन्तीपाश्रिताः परे॥
कच्छकं हिमवन्तं च मलयं गोरथिं गिरिम्
गन्धमादनकुमारौ कैलासमभि चाश्रिताः ।।
सुराष्ट्रान् सूरसेनश्चि काश्मीरान् मद्रभूमिकान् ।
पश्चालान कुक्कुसान् वान् गान्धारवनवरान् ।।
दशार्णान् मध्यदेशांच सौत्रीरान् विविधानपि ।
अश्वलक्षणप्रकरणे अश्षकुलविभागा। पूर्वावन्त्यकालिकांश विदर्भक्रयकौशिकान् ।। दिशो जनपश्चैिव पृथिव्यामाश्रिता हयाः । सेषां विभक्तिः कुलतो नामतश्चापि वक्ष्यते ।। देशवैशेष्यतस्तेषां विभक्ति त्रिविधामपि । जानीयादिति शेषः। सरस्वत्युत्तरे कूले तत्राभिजनितास्तु ये । नानाजननसम्भूताः विद्यात्तान् जननोत्तमान् ॥ अथ ये दक्षिणे कूले पूर्वस्रोतोनदीवने । ते सारबलतेजोभिर्मध्याऽमध्याश्च वर्मतः ।। भूपृष्ठपट्टभूमीषु मन्द्राः सौराष्ट्र केकयाः । कौशिकाः कोशवनेषु मगधेष्वपि ये हयाः ।। तेजाकायबलैहीना हीनसरवा जवौजसा। एतानि जननान्याहुः समुद्रान्तानि वाजिनाम् ।। चतुष्पश्चाशदेतानि कुलान्युपकुलानि च । शृणु सङ्कीर्यमानानि देशतद्विधनामभिः ।। तत्र चत्वारि कुलानि चत्वार्यपकुलानि चत्वार्यन्तस्थानि चत्वारि तदनुस्थानि पञ्च पश्चस्थानि पञ्च विषमेयस्थानि च त्वार्यनूपजानि चत्वारि आपसन्तकानि चत्वारि शुद्रकाणि चत्वारि दाक्षिणात्यानि चत्वारि वैशिमानि चत्वारि बेसराणि द्वावन्यौ कुक्कुसौ एकमुत्तरं हैमवतमेकं मागषमानव घोटककुलानि। चतुष्पश्चाशदेलानि कुलान्युपकुलानि च । नामतस्तानि वक्ष्यामि घोटकाजननैर्विना ।। সদ্ধান্ত অনায়ুতন্তু আসক্ত বস্তুত काम्बोजानां वालिहकेया उपकुलं, वानायुजानां गान्धारा उप- कुलम्, आरवनानां चाम्पेया उपकुलं, सैन्धवाना तिला उप-
वीरमित्रोदयस्य लक्षणप्रकाशे
समानि तेषां लिङ्गानि विशेषो यस्तु तं शृणु ।
दीर्घाङ्गा मृदवस्ते च दीर्घपृष्ठखुराश्च ते ।
आयामपरिणाहाभ्यां किञ्चिदश्वतराश्च ते ॥
सुपृष्ठइस्वजघना बिन्दुमन्तोऽसुकुष्टिकाः ।
पृष्ठोन्नतोद्यतग्रीवाः पूर्वकायसमुनताः।।
द्विजैः क्रुद्धास्त्वभिनन्ति न दीना भरीवत्सलाः ।
महासनाः स्थिराः शूरा भूयिष्ठं पिङ्गलाश्च ते ।।
न च त्यजन्ति पतितं सङ्कटेष्वथ सादिनम् ।
एतावदेव विज्ञान वाल्हिजानां प्रकीर्तितम् ।।
पानायुजा नातिइस्वा न महान्तः सुसंस्थिताः।
मध्यप्रमाणाः कोलाक्षाः पूर्वकायसमुन्नताः ॥
शङ्खकर्णा इस्वमुखा वृत्ताशास्तुङ्गनासिकाः ।
वृत्तायता: कायसमा इस्वपृष्ठत्रिकाच ते ॥
इस्वमेदाण्डकोशास्ते सुनेत्राश्चाहगामिनः ।
चारुगात्रा समाश्चैव न दीना दृढकुष्किकाः ।।
खुरैगईभसंस्थानैर्गम्भीरपरिमण्डलैः ।
स्थिराः कर्मसु सर्वेषु भारेऽध्वनि च पारगाः ।।
दृढास्तरस्विनः शीघ्रा धुरकर्मदुरासदाः ।
ये वातिजानते कर्म ते भवन्त्युत्तमा हयाः ।।
कृष्णानुवर्णा भूयिष्ठ मध्यकाश्च भवन्ति ते ।
सच्चतेजोवलोपेता हया वानायुजा स्मृता
तेषामुपकुले जाता गान्धारास्तान् शृणुष्व मे।
कृष्णा कुक्कुटका धूम्रा कृष्णसारा विवाणिनः ॥
शोणाश्च बहुवर्णाश्च कायवन्तः सुसंस्थिता ।
उपचापकायाच सोदाः पुरस्ततः ।।
अश्वलक्षणप्रकरणे अश्वकुलविभागः।
पश्चाविषमाश्चण्डा बलिनः स्थूलकेसराः।
तन्वायतमुखाश्चैव गान्धारकुलजा हयाः ।।
आरजानां विज्ञान कीर्यमानं
शृणुष्व
मे।
इस्वपृष्ठाः सुष्ठुमुखास्तनुवालाः शुभेक्षणाः ।।
उदनायतपूर्वार्धा मृदुश्लक्ष्णतनूरुहाः ।
तनुत्वचो इस्ववर्णा मृदुग्रीवा सुसंस्थिताः ।।
सुसंहिताः शङकर्णा दृढमध्याः मुकुष्किकाः ।
शोणा भूपृष्ठतः शीघ्रा उच्चरोमान्तपार्णयः॥
हरिवर्णानुवर्णाश्च हरिसाराश्च प्रायशः ।
उच्चपाणिविहाराश्च न च विक्षिप्तवारिणः ॥
महाजवा: मुविक्रान्ताः पादान्तरविहारिणः ।
आरजकुला येवं विज्ञेया बलिनो हयाः ॥
तेषामुपकुले जातायाम्पेयास्तान् शृणुष्व मे ।
परिमण्डला इस्वपृष्ठा मुगन्धाः मुप्रतिष्ठिताः ।।
एणजङ्कास्तनूपादा गात्रवन्तः मुविक्रमा:।
बलवन्तः सुरोमाणस्तेजसा रजसान्विताः ॥
स्थूलाक्षिकूटधातास्ते स्थिरपादाः सुकुक्षिकाः ।
समांसपूर्णकायाश्च चाम्पेयास्तुरगाः स्मृताः ।।
सैन्धवाः स्थिरपादाश्च विशीर्णजघनाः स्थिराः।
दीर्घग्रीवाः मुखास्यास्ते स्थूलाक्षास्तनुकेसरा।।
शाडकर्णा महाकाया महोच्छ्वासास्तनुत्वचः ।
तनुसका महामोथा हयास्ते षडवोदराः ।।
लघुमेहनमुकास्ते पुच्छवका महौजसः ।
मुख पृष्ठे च कल्याणा हयास्तेजस्विनस्तु ते ॥
शीलवन्तो पलोपेताः सर्वकम्माभियायिनः ।
४२४ वीरमित्रोदयस्य लक्षणप्रकाशे
सत्ववन्तश्च तुरगाः सैन्धवाः समुदाहताः ॥
तेषामुपकुले चाश्वास्तैतिला मन्दमेधसः ।
स्थूलग्रीवांसहनवः स्थूलवालधिकसराः ।।
स्थूलमेद्रफलाः क्षान्ता बलवन्तो जवान्विताः।
सारवन्तः मुगावाश्च समुच्छ्रितशिरोधराः॥
संस्थानवन्तो लघवो दृढपादाः मुकुष्किकाः।
पृथुवक्षोललाटास्ते विशालजघनेक्षणाः ॥
भाराध्वनि क्लेशसहा: क्षुत्पिपासासहाश्च ते ।
सत्ववन्तश्च तुरगास्तैतिला सम्मकीर्तिताः ॥
सुसंस्थानाश्चतुत्ता मेवकाः स्थूलवक्षसः ।
शङ्खकर्णाः सुष्ठुमुखास्तनुसक्का मदेक्षणाः ॥
दीर्घायतविदुग्रीवा गूढजत्रुमहोरसः ।
महासनाः पृथुग्रीवास्तनुत्तोरुजङ्घकाः ।।
इस्वकुक्षिककूळस्ते तनुमध्या मितोदराः।
रोमशाः पूर्वसर्वाङ्गाः समशीला न कर्कशाः ।।
बहुवर्णधराश्चित्रा हयाः पाटलपुष्पकाः ।
मध्यमा ध्वानचपला मध्यसारबलास्तथा ॥
सत्वतेजोजवैर्मध्या मेवकास्तुरगाः स्मृताः ।
तत्रोपमेवका इस्वाः स्थूलवालधिकेसराः ।।
महङ्गा दुर्बलशफास्तनुगात्राः सुकुष्किकाः ।
उच्चैद्धशिरोग्रीवा दुर्मुखा बहलैः कटैः ।।
इस्वोरस्का विरूपाक्षा हयाः स्युरुपपेचकाः ।
कुलजा दीर्घपृष्ठांसा इस्वमेद्रफलालसाः ।।
वृत्तग्रीवायतमुखास्तनुमध्या: सुकुष्किकाः ।
दीर्घवालधिकेशाः स्युः सूक्ष्मरोमशकेसराः ॥ .
अश्वलक्षणप्रकरणे अश्वकुलविभागः।
४२५
तनूरस्कास्तु तुरगाः कुलजा: समुदाहृताः।
अश्वोपकुलजा इस्वास्तनुमोयोरकृम्किकाः ।।
दीर्घवालधिकेशाः स्युः कुलजैः समलिङ्गकाः।
मन्दप्राणाल्पतेजस्काः कर्कशा इस्वविक्रमाः ।।
अल्पसत्त्वाल्पमेधाश्च तुरगास्तूपकूलजाः ।
तदनुस्थास्तु त्रैगा बलवन्तो न कर्कशाः ।।
इस्वग्रीवा महोरस्का रूक्षवालधिकेसरा।
मायशः शरवर्णास्ते हढपादशफास्तथा ।।
शशक्रोडाः शशमुखाः शशवालधिकेसराः।
क्रोधना नातिशूराश्च त्रैगरी दुःखवाहिनः ।।
आर्जुनेया महोरस्काः स्थूलाक्षाः स्थूलकेसराः।
मुमुखाः सुकृष्किकाच लम्बमेदफलास्तथा ।।
उपस्कन्धविदुग्रीवा कृष्णवर्णानुवर्णिनः ।
आजानेया जवाफ्रास्त्वार्जुनेयास्तुरङ्गमाः ।।
आर्जुनेया एच आजानेया इत्युच्यन्ते ।
सावित्रेया इस्वपृष्ठा विस्तीर्णजघना हटाः।
पुष्टास्या वक्रजननाः स्थूलवालधिकेसराः ॥
दीर्घपृष्ठोरुनाफास्ते स्थिरमांसमुगान्धिनः ।
मृङ्गाश्च मुनेत्राश्च पृथुपादा महौजसः ।।
दीर्घकट्यसपृष्ठास्ते स्थिरमांसा महोरसः ।
वर्मवन्तश्च शूराश्च सावित्रेयास्तुरङ्गमाः ।।
योधया इस्वकर्णोष्ठाः सारतेजोबलान्विताः।
वृत्तायतोन्नतग्रीवा वृत्तमध्योरुकुष्किकाः ॥
दीर्घवालधिकेशाच मुखुरा नातिपिङ्गलाः ।
श्रेष्ठायतमुखाश्चण्डाः मुविभक्ताः सुवक्षसः ॥
वीरमित्रोदयस्य लक्षणप्रकाशे
तनुत्वसूक्ष्मरोमाणो विभक्ताऽभमसन्धयः ।
योधेयाश्च भवन्त्यश्वा भारेऽध्वनि च पारगाः॥
विज्ञानं यवनाश्वानां हन्त वक्ष्याम्यतः परम् ।
मुललाटा: सुनेत्राङ्गास्तनुपृष्ठायतैर्मुखैः ।।
सनुत्वकसूक्ष्मरोमाणः शङ्खकर्णा लघुक्रमाः।
सुपृष्ठजघनोरस्का वर्मवन्त: मुमेधसः ॥
बहुवर्णाः सुवर्णाश्च मनोज्ञाः प्रियदर्शनाः ।
सारवन्तः सुगम्भीरा सत्वतेजोबलान्विताः ॥
सुश्लिष्टकखुराः शीघ्राः मुस्थिराः सर्वकर्मम् ।
यवनाश्वास्तु बोद्धव्या वृत्ताङ्गा दीर्घषाहवः ।।
चिन्हैरन्येऽपि वक्ष्यन्ते यावनाख्यास्तु वाजिनः ।
स्वभावतो इस्वकायाः सत्ववन्तो बलान्विताः ॥
पूर्णाङ्गास्तु विभक्ताङ्गास्तन्वङ्गास्तु सुसंहताः ।
मनोज्ञशफाः शुभाङ्गाः सुवर्णाः प्रियदर्शनाः ।।
सुरोमकेशवालान्ताः सुभगाः शुभमेधसः ।
कर्कशाः क्रीडनपरा ज्ञेया यवनवाहनाः॥
तुषाराः कायवन्तश्च तथा चैव जवान्विताः ।
पारगा बलवन्तश्च तेजार
सववहा बराः
रूक्षरोमलवोदप्रायोक्षापराः सुमेधसः ।
भारेऽध्वनि क्लेशसहाः शुभानूका मनस्विनः ।।
मुविक्रान्ता दृढशफास्तुषारा वाजिनः स्मृताः।
तुषाराश्चैव विज्ञेयाः कशैः सूक्ष्मतरैस्तथा ।।
जवोपेता विषमेया वृत्ताना इस्वकुष्किकाः ।
प्रगृहीतशिरोग्रीवासुबन्धा गात्रवर्द्धिनः ।।
निरुदरावर्तमध्याः पृथुरस्का लघुक्रमाः ।
॥
अश्वलक्षणप्रकरणे अश्यकुलविभागः।
श्वेतसारा: मुरोमाणो विषमेया हयाः स्मृताः ॥
कान्दरेयास्तु ये वाहास्तेषां शृणुत लक्षणम् ।
कायवन्तः सुसंवद्धा दृढपादाः मुकुष्किकाः ।।
स्थूलत्वकसूक्ष्मरोमाणः स्थूलबालधिकेसराः।
अकोपनाः सुशीलाच कान्दरेयास्तुरङ्गमाः ।।
वामतेयास्तनुग्रीवा इस्वाहा इस्त्रकुष्किकाः ।
पश्चाधकायेषु समाः पूर्वकायेषु च स्थिराः ॥
तनूदरा इस्वपृष्ठाः स्पर्शवन्तः सुसंहताः ।
शीलवन्तश्च विज्ञेया वार्ष्णतेयास्तुरङ्गमाः ॥
विषमेयास्तथाऽऽवन्त्याः स्थूलाङ्गा दृढकुष्किकाः।
गात्रवन्तो निरुदराः सुबन्धाः मुशिरोधराः ॥
शोणानुवर्णाश्च तथा वृत्तमध्याः पृथुरसः ।
आवन्त्याः सूक्ष्मरोमाणो महाजघनवक्षसः ।।
अतसा बलवन्तोऽश्वा वीर्यवन्तो मनस्विनः।
महोरस्कशिरोग्रीवाः पृथुजोराष्किकाः ॥
मृदुभृङ्गारकेशास्ते दृढपादा मनोहराः ।
विज्ञेया अतसा होवं श्वेतवर्णानुवर्णिनः ।।
काश्मीरका वर्मवन्तस्तेजोवन्तः शुभेन्द्रियाः ।
पृथ्वायतललाटास्ते शुद्धात्मलघुविक्रमाः ॥
तद्वच्च शकुकर्णास्ते सुरोमाणस्तनुत्वचः ।
सुष्ठ्वायतमुखाः शूराः सुविभक्ताः सुसंहताः ।।
दृढाङ्गतलसम्पन्ना दृढपादा मनस्विनः ।
शोणवर्णानुवर्णाश्च हयाः काश्मीरकास्तु ते ॥
सकानकानामश्वनां लक्षणं तु निबोध मे।
महानदी सकानाम प्रभूतयवसोदका।
४२८
वीरमित्रोदयस्य लक्षणप्रकाशे
शुराश्च रूपवन्तश्च तत्रोत्पन्नाः सकानकाः।
पूर्वकायव्युदग्रास्ते पश्चार्येषु समुचताः ॥
तन्वायतविदुग्रीवा दीर्घवालधिकेसराः ।
छुद्धा दन्तैः प्रार्ययन्ति धूम्रशुद्धक्षणा हयम् ॥
वाक्षमाणाश्व हेपन्ते प्रत्यश्व वडवामपि ।
शङ्कुकर्णाः सुष्ठुमुखास्तनुवृत्ताग्रतश्च ते ॥
दीर्घकेशाः सुदीर्घान्ता लम्बपाश्वोदरस्फिचः।
शाफैस्तलैश्च सुदृढैः कुरोमान्तपार्णयः ।।
उष्ट्रगात्रोरुजघना हयाः साकानकाः स्मृताः ।
पार्वतीयास्तनुग्रीवा महाजघनवक्षसः ॥
प्रध्वस्तपृष्ठगात्रास्ते दीर्घवालधिकेसराः ।
महाजवा बलोपेताः पारगाः सर्वकर्मसु ॥
धृष्टाश्च दृढपादाच पार्वतीयास्तुरङ्गमाः ।
अनूपोत्तरमाद्रेया दीर्घवालधिकेसराः ।।
पृथुग्रीवा महाकर्णा हयास्ते दीर्घगामिनः ।
न च कर्मणि योग्यास्ते न च शीलान्विता हयाः।।
दुरासदा दुःखशीला प्रेयांसो मधुपिङ्गलाः।
हरिवर्णानुवर्णाश्च दृढपादखुराश्च ते ।।
एवं दक्षिणमाद्रेया विज्ञेया लघुचारिणः ।
हया दक्षिणमाद्रेयास्तामसाचालसाः स्मृताः ।।
अन्तीपेषु ये जाता वक्ष्यन्ते तानिबोध मे।
ऐरावतीविपाशयोः शतद्रुचन्द्रभागयोः ।
अन्तर्द्वीपेषु ये जातास्ते तद्वीपकसंहिताः ।
अन्तास्था ये सरस्वत्या नादेयास्तु तुरङ्गमाः ।।
कल्याणव्यञ्जनोपेता दीर्घग्रीवा मुखोच्छिताः ।
अश्वलक्षणप्रकरणे अश्वकुलविभागः ।
४२९
मुजघनाः सुपृष्ठास्ते अन्तीपोद्भवा हयाः ॥
कैकेयका वर्मवन्तो महामोथमुखा हयाः ।
दीर्घग्रीवा महोच्छ्वासा दीर्घवालधिकेसराः ॥
समर्था लङ्घनेऽध्वनि पारगा मुखरा भृशम् ।
सुबाहुदृढपादास्ते कैकेया यवनैः समाः ॥
अम्बष्ठकाश्च तुरगा महास्कन्धा महाबलाः।
वृत्तग्रीवा मुखैर्भग्नरुपान्तविकटैश्च ये ॥
महोरस्का महावक्षोलम्बश्रवणमेहनाः ।
महास्कन्धफलाश्चैव वृत्तकोरुकुक्षिकाः ।।
वाजिनोऽम्बष्ठका ज्ञेयास्तानेवमभिनिदिशेत् ।
वासन्तकाः सुविक्रान्ता दीर्घग्रीवमुखा हयाः॥
मृगोदरा इस्वपृष्ठा इस्वश्रवणमहनाः।
स्पर्शवन्तश्च क्षान्ताश्च दृढपादाः सुकुक्षिकाः ।।
महोरस्कास्तु चपला महाजघनवक्षसः ।
एवं वासन्तका ज्ञेयास्तुरगाः शीलकर्कशाः ॥
सौवीरका इस्वपृष्ठा दृढगात्राः क्षमान्विताः ।
उदग्रगामिनो हप्ताः पादान्तरविहारिणः ॥
सुदम्यमानाः शीघास्ते स्थिराचारे तथाऽध्वनि ।
समसम्पूर्णसर्वाङ्गा हयाः सौवारकाः स्मृताः ।।
दरदा इस्वजघना इस्वकूर्चाल्पमेधसः।
महोदरशिरस्कन्धा महाकालपराक्रमाः ॥
सारवन्तो दृढपादा वर्णवन्तो जवान्विताः ।
इस्वातिपृष्ठलाशूला दरदा वाजिनः स्मृताः ॥
सैन्धवाः स्थूलवालाश्च स्थूलरोमत्वचस्तथा ।
विकटा वर्मवन्तश्च बलवन्तो जवान्विताः ॥
४३०
वीरमित्रोदयस्य लक्षणप्रकाशे
महोदरस्कन्धजघना महोच्छासा महाबलाः ।
स्थूलकुक्षिकजङ्घाश्च सैन्धवास्तुरगाः स्मृताः ।।
क्षुद्रका वर्मवन्तश्च बलवन्तो जवान्विताः ।
चतुरस्त्राः सुजघनाः स्वायता: सुप्रतिष्ठिताः ॥
दीर्घश्रवणमेद्राश्च सुखुराः क्षुद्रकाः स्मृताः ।
मालवा वर्मवन्तोऽश्वा विस्तीर्णजघनास्तथा ।।
पूर्वकायोधता सा लोहिताश्वा मनोरमाः ।
लम्बोष्ठा लम्बकर्णास्ते इस्वग्रीवा मनोहराः ॥
तेजोवन्तोऽतिजवना मालवा वाजिनश्च ते ।
ऐरावता रूक्षकर्णा मन्दमेधा जवापराः ॥
स्थूलसस्थिमांसास्ते तथा ऐरावताः स्मृताः ।
आवन्त्यका दाक्षिणात्या दीर्घकर्णमहाशिराः ॥
महाकायविदुग्रीवा महाजघनवक्षसः।
भनास्यास्तनुपाश्वांश्च विदुहस्वाः सुशीलिनः ॥
दीर्घकेशा मृदुतला मध्यसारजवाः स्थिराः ।
सुखिनो बहुवर्णाश्च मृदङ्गाः मायशश्च ते ॥
एवमावन्त्यका ज्ञेयाः सत्वहीना न कर्कशाः।
कालिङ्गकाः स्थूलपादा महाकर्णा द्वैः खुरैः॥
आयता विगताः स्तब्धाः पश्चार्या विषमास्तु ते ।
कुब्जा दण्डायतग्रीवा भनास्या लम्बमेहना।।
अल्पतेजोजवबला हयाः कालिङ्गकाः स्मृता।।
मौकुलाः स्थूलरोमाणो दुर्मेधाक्रोधनालसाः ।।
इस्वपृष्ठाङ्गजघनाः स्थूलकुष्ठिकनानवः ।
भारे चाल्पबला मन्दा हीनतेजोजवाश्च ते ॥
बहासना निरुत्साहा माकुलास्तुरगाः स्मृताः ।
अश्वलक्षणप्रकरणे अश्वकुलविभागः।
दाक्षिणात्यं चतुर्थं तु वक्ष्यते वानवासिकम् ॥
इस्वपृष्ठोरुजघनाः पूर्वकायेषु संहताः ।
पश्चाविकृता मन्दा दृढपादाः क्षमान्विताः ॥
मध्यमाणावाल्पजीवाः सचतेजोजवापराः ।
पानवासिकजातानामेतद्भवति लक्षणम् ।।
वैशिमास्त्वथ तैलङ्गाः क्रोधनास्तु कलस्वराः ।
क्रूरकर्माभिजनिता विकृताङ्गशिरोधराः ॥
महोरस्का महास्कन्धाः पश्चार्धेषु तु संहताः ।
दृढकुक्षिकपादाश्च हयास्तैलङ्गकाः स्मृताः ॥
क्रथना दीर्घकर्णाश्च दीर्घोरुजघना बलाः ।
उदग्राः पूर्वकायेषु पश्चार्धविकृताश्च ये ॥
हीनवर्णाल्पतेजस्काः स्तब्धगात्रा महोदराः ।
स्थूलकुक्षिकलाङ्घला: क्रथनास्ते हयाः स्मृताः ॥
अथोपावृत्तका मन्दाः स्थूललायूलकुक्षिकाः ।
लम्बकर्णविदुस्कन्धा लम्बसक्काण्डमेहनाः ॥
महापृष्ठाश्च कुब्जाश्च लम्बमक्थिविषाणिनः ।
पिङ्गलाक्षाश्च भूयिष्ठमुपाहत्ता हयाः स्मृताः ॥
सौराष्ट्राः स्थूलपादाच हढरोमान्तपार्णयः ।
दीर्घविस्तीर्णसक्थ्यका दर्शनीयाः पुरस्ततः ।।
पश्चाविकताव स्थूलजानूरुकुक्षिकाः ।
एवं सौराष्ट्रिका ज्ञेयाः मुपादा न च संहताः ॥
साल्वेया बेसरा ज्ञेयाः स्थिराणा इस्वकुक्षिकाः।
तन्वायतविदुग्रीवा दीर्घकर्णा महोरसः ॥
पश्चार्धविकृता रूक्षास्तनुवालधिकेसराः।
वेसराः साल्वजास्ते च विज्ञेयाश्च दुरासदः ।।
४३४ धीरमित्रोदयस्य लक्षणप्रकाशे
मन्तावकगुणैर्युक्ताः किञ्चिद्भस्वतराः खराः ॥
एवं चकोरको ज्ञेयः शुभश्रवणवालधिः।
घकोरकगुणैस्तुल्याः शुभगात्रान्तराः स्थिराः ॥
कृष्णानुवर्णिनस्तीक्ष्णा विज्ञेयाः श्वेतशैलजाः ।
चैदर्भिकाः कायवन्तः सोत्साहा वाग्मिनः स्थिराः ॥
अमार्षिणो वेगवन्तः सत्त्वोपेतशरीरिणः ।
पूर्वदक्षिणभागे ये हिमवन्तं समाश्रिताः ।।
भनइस्वायतस्थूराः स्थूलजङ्घोरुकुष्किकाः ।
इस्वाल्पतेजसः सारबलहीना न संस्थिराः ॥
पूर्वदक्षिणहैमेयाः समाः सामेयकाः स्मृताः ।
पूर्वदक्षिणहैमेया इत्यत्र पूर्वहैमेया दक्षिणहैमेया इति ज्या-
ख्येयम् । एवं च सति नव घोटककुलानीति सङ्ख्याऽनुगता
भवति । अन्यथा बाध्येत ।
तेभ्यो विशेषणं चात्र किश्चिदीर्घतराः स्थिराः ॥
शुभकूर्चखुराक्षास्ते बहुवर्णाः सुकुक्षिकाः ।
एवं सामेयका ज्ञेया घोटका नवमं कुलम् ॥
चतुष्पश्चाशदेतानि कुलान्युपकुलानि च ।
तथार्धमागधाश्चैव व्याख्याता घोटकास्तथा ॥ इति ।
एतेषामुक्तानामश्वकुलानामुत्तमादिभेदो ऽप्युक्तस्तत्रैव ।
श्रेष्ठमध्यजघन्यानि कुलानि शृणु मुश्रुत ।
काम्बोजादीनि श्रेष्ठानि कुलान्युपकुलानि च ॥
तथा परकुलानीह अन्तस्थानि च यानि तु ।
तुल्यान्येतानि राजेन्द्र मध्यमानि विनिर्दिशेत् ॥
अवशिष्टानि कनिष्ठानि ।
इत्यश्चकुलविभागः।
भइवलक्षणप्रकरणे अङ्गप्रदेश निर्देशः।
अथाङ्गप्रदेशनिर्देशः।
जयदत्सकृते अश्वायुर्वेदे,
प्रदेशान् वाजिदेहस्थान् यो न वेत्ति विभागतः ।
न स जानाति मृदात्मा लक्षणं च चिकित्सितम् ॥
अतः परं प्रदेशानां ज्ञानमादौ प्रकीर्तितम् ।
एतद्यनेन बोदव्यं वाजिनां हितकाम्यया ॥
अतिप्रसिद्धा जिहा तु तस्याः सूना भवेदवः ।
ऊर्च तालु भवेत्तस्यास्ततोऽग्रे दन्तपीठिका ॥
ततो दन्ताः समुद्दिष्टा ऊर्च दन्ता भवन्त्यधः ।
चिबुकं चाधरे भागे तेषां प्रोक्तं विचक्षणः ।।
चिबुकस्योपरिष्टात्तु अधरोष्ठः प्रकीर्तितः ।
चिबुकात्पार्श्वभागे तु हनुभागो विधीयते ।।
सकिद्वयं विजानीयाद्वपार्श्वगतं बुधः ।
उत्तरोष्ठं प्रयाणाख्यं तदूर्ध्वं प्रोथमुच्यते ।
नासाच्छिद्रे तथा पार्श्वे पोथस्यैव व्यवस्थिते ।
नासाच्छिद्राक्षिमध्ये तु घोणाख्यं समुदाहृतम् ॥
घोणापार्श्वगतौ गण्डौ क्षीरिके च ततः परम् ।
नेत्रयोरघरे भागे अश्रुपात उदाहृतः ।।
कर्णान्तं चैव नेत्रान्तमपाङ्ग ब्रुवते बुधाः ।
कनीनिकाख्यो विज्ञेयो यश्च नासासमीपगः ।।
सितासितं च यन्मध्ये नेत्रयोर्मण्डलं हि तत् ।
प्रच्छादनं भवेद्वमै चाक्षिकूटमतः परम् ।।
तस्माद ध्रुवोर्लेखा ललाटं च तदुत्तरम् ।
ऊर्ध्व ललाटदेशातु केशान्तं च ततः त्रुवम् ।।
ततः शिरो विजानीयात्स्नुवार्ध्वगतं बुधः ।
धीरमित्रोदयस्य लक्षणप्रकाशे
शिर पार्श्वगतौ कौँ तयोर्मूलं शकुन्तलम् ॥
अपाङ्गब्यङ्गुलं चै व शङ्ख विद्याद्विचक्षणः ।
शङ्गकर्णान्तरे चैव कटाक्षः समुदाहृतः ॥
विद मर्मविदश्चैव कर्णस्याधःषडगुले ।
शालिहोत्रे तु-
कर्णयोः पृष्ठतः पार्वे विद् । समुपलक्षयेदिति शेषः ।
घण्टाबन्धसमीपस्थो निगालः परिकीर्तितः ॥
अधस्तले निगालस्य गलमाहुर्मनीषिणः ।
ततः कण्ठं विजानीयादधोभागेन तं बुधः॥
ग्रीवा लोकप्रसिद्धा तु तस्याश्वोपरि केसरः ।
ग्रीवास्कन्धान्तरे चैव वह प्राहुर्मनीषिणः ॥
घहस्योपरि जत्रु स्यात्काकसं ककुदं च तत् ।
ततः पृष्ठं विजानीयादासन पृष्ठमध्यगम् ॥
अंसकौ ककुदधैव निबद्धौ परिकीर्तितौ ।
स्यातामसादधो बाहू तयोर्को षडङ्गले ॥
पाहोरभ्यन्तरे विद्यात्किणं चापि प्रकीर्तितम् ।
अधरे च ततो जानु निर्दिष्टं शास्त्रकोविदैः ॥
मन्दिर पश्चिमो भागः कलापी जानुनोऽग्रिमः ।
जानुनश्चाधरे भागे जवां विद्याविचक्षणः ।।
नवापार्वे कला विद्यात्सन्धि वैषिकसंझिकाम् ।
अप्रतः पतिहस्तः स्यात्पश्चात् कूर्च उदाहृतः ।।
किणं तत्रैव मध्ये स्यादधोभागे च कुष्किका ।
खुरसन्धिं ततो विद्यादधोभागे ततः खुरम् ॥
खुरस्य पार्वे पाणिः स्यादप्रभागे नखो भवेत् ।
खुरस्याधस्तलं चैव मण्डूकी तलमध्यतः ॥
भश्वलक्षणप्रकरणे भङ्गप्रदेशनिर्देशः।
खुरमांसं विजानीयात् क्षीरिकाख्यं विचक्षणः ।
हृदयाभ्यन्तरे कुक्षी पार्श्वतश्च विभागतः ॥
जठरं पार्श्वमध्यस्थं तस्य नाभिश्च मध्यतः।
रोमराजि ततो विद्यान्मूत्रकोशमतः परम् ।।
आकच्या पश्चिमे भागे पुटौ स्फिचौ च कीर्तितौ ।
रन्ध्र चाप्युपरन्ध्रे च कुक्षेरभ्यन्तरे स्मृते ।।
पुच्छमूलं च वाहानां मांसले पुच्छमूलतः ।
तस्याः कीर्तितः पायुः सीवनी च ततः परम् ।।
मुष्कौ च कटिसन्धि च ततो विद्यात्परं बुधः ।
अधस्तात्कटिसन्धेस्तु जरुसन्धिरुदाहृतः ॥
सक्थिनी तलसन्धिस्तु करू पादाभिधायकः ।
ततः स्थूरं विजानीयात्तस्याधो मन्दिरं भवेत् ।।
किणं चैव ततो विद्यान्मन्दिरेण मुसंस्थितम् ।
ततः परं विजानीयात्कलां कूर्च च कुष्टिकाम् ॥
खुरान्तसंज्ञां मण्डूकी ततो विद्याद्विचक्षणः ।
अग्रजङ्घाद्वयं चैव वक्षोनीवाशिरोमुखम् ।।
पूर्वकायः समुद्दिष्टः पृष्ठदेशस्तु मध्यमः ।
आकटे पश्चिमे भागे खुरान्तचापरः स्मृतः ॥
इति प्रदेशा व्याख्याताः पूर्वशास्त्रानुसारतः । इति ।
इत्यङ्गपदेशनिर्देश।
अथायुःपरिमाणम् ।
शालिहोचे,
यथा नरे वर्षशतं विंशतिवर्षशतं गजे ।
चतुर्विंशगवां चैव खरोष्ट्रौ पञ्चविंशतिः ॥
४३८ पीरमित्रोदयस्य लक्षणप्रकाशे
शुनि षोडशवर्षाणि द्वादशाथाज एडके ।
विंशतिवर्षाण्यायुर्यथा चाश्वतरे स्मृतम् ॥
मृगाणां षोडशसमा रोहितानां तथैव च ।
रोहितो मृगजातिभेदः।
द्वाविंशन्महिषस्यापि शृगालः पञ्चविंशतिः ॥
कृमयः सप्त चाहानि माक्षका च चतुर्दश ।
तथा हयेषु द्वात्रिंशत्परमायुर्विधीये ॥ इति ।
इत्यायुःपरिमाणम् ।
अथायुःपरीक्षा।
जयदत्तकृते अश्वायुर्वेदे,
आयुर्लक्षणमश्वानामत ऊर्च प्रचक्ष्यते ।
शालिहोत्रादिनिर्दिष्टं यथा पूर्व तपोधनैः ।।
उक्तमिति शेषः ।
मुसंहताश्च ये वाहा इस्वकर्णास्तथैव च ।
स्वरनेत्रास्यभावेषु न दीनाचिरजीविनः ॥
महाघोणा महाकाया ये चाश्वाः पृथुवक्षसः ।
तेषां दीर्घ भवेच्चायुः स्निग्धाङ्गाचैव ये सदा ॥
कर्णाग्रे पीडिते येषां सिन्दूरामस्य दर्शनम् ।
शोणितस्य भवेच्चैव ते मताश्चिरजीविनः ।।
विनिष्किरन्ति ये घासं स्वग्रासाय तुरङ्गमाः।
न वा जिघ्रन्ति ये चापि तेऽपि दीर्घायुषो मताः ।।
प्रतिस्रोतः पिबन्त्यम्भो ये च ते चिरजीविनः ।
पनपत्रसमाकारं जिहाग्रं यदि वाजिनः ।।
दन्ताश्च मौक्तिकाकारा लिङ्ग येषां च निर्मलम् ।
सित्कारश्च भवेद्येषां लागूले चालिते पुनः ॥
अश्वलक्षणप्रकरणे आयुःपरीक्षा । ४३९
प्रस्वेदा शुभगन्धस्तु नखा वै दर्पणोपमाः ।
येषां च दृढरोमाणि ते सर्वे चिरजीविनः ॥
स्निग्धा गम्भीरदीर्घाश्च पोथजा यस्य वाजिनः ।
भवन्ति विपुला रेखास्त विद्यादीर्घजीविनम् ।।
छत्रचामरभृङ्गारखड्गशङ्खाशमभाः।
शुक्तिवज्रगदाकारा ध्वजचक्र समोपमाः॥
ऊर्ध्व चोष्टस्थिता रेखा यस्य वामेन चानताः ।
श्रीवत्सस्वस्तिकाभासाः प्रोथरेखाश्चिरायुषः ॥
इस्वा वा यस्य वाहस्य न चिरं तस्य जीवितम् ।
कचे प्रोथसमा रेखा दृश्यन्ते यस्य वाजिनः ।।
तस्य मृत्युः समुद्दिष्टो दशमं प्राप्य वन्सरम् ।
ब्यङ्गुलास्तु दश द्वे च वर्षाणां तस्य जीवितम् ।।
प्रयोदश स जीवेत्तु यस्य स्युश्चतुरङ्गुलाः ।
प्रोथरेखा इत्यनुषङ्गः ।
तिर्यगेवोर्ध्वगे चैव द्वे रेखे यस्य वाजिनः ।
प्रोथगे यस्य वाहस्य तं विद्याच चतुर्दश ।।
अत्र वर्षाणि त्रयोदश चतुर्दश, जीवतीति प्रत्येक सम्बन्धः।
दक्षिणेन च पार्श्वन यः शेते सर्वदा हयः ।
बहुमूत्राल्पमूत्रश्च चिरं जीवत्यसौ हयः ।।
विनतः पूर्वकायेन स्थूलजानुश्च यो हयः ।
स्थूलक्षिकूटः स्तब्धाक्षः स्वल्पायुः स प्रकीर्तितः ॥ इति ।
इत्यायुःपरीक्षा।
अथ वर्णलक्षणम् ।
नकुलकृताश्वशास्त्रे,
सप्त वर्णा भवन्तीह सर्वेषां वाजिनां ध्रुवम् ।
४४०
वीरमिन्त्रोदयस्य लक्षणप्रकाशे
तानई सम्भवक्ष्यामि भेदैर्जाताननकथा ॥
श्वेतो रक्तस्तथा पीतः सारङ्गः पिङ्ग एव च ।
नीलः कृष्णोऽथ सर्वेषां श्वेतः श्रेष्ठतमो मतः ॥
पदार्दो भूपतेर्वाजी सर्वश्वेतः प्रजायते ।
तदभावे यथा मोक्तास्तथा श्रेष्ठाः क्रमेण ते ॥
श्वेतः भालेयसङ्काशो रक्तः कुडमसभिभः ।
पालेयं हिमम् ।
हरिद्रासदृशः पीतः सारङ्गः कर्बुरः स्मृतः ।।
पिङ्गस्तु पिङ्गलाकरो नीलो दुर्वाग्रसनिमः ।
कृष्णो जम्बूफलाकारः शास्त्रज्ञैः समुदाहृतः ॥
पातामा श्वेतपादो यस्तथा स्यात्सितलोचनः ।
चक्रवाका स विज्ञेयो राजा) वाजिसत्तमः॥
मुखचन्द्रकसंयुक्ता जम्बूफलसमाऽऽकृतिः ।
श्वेतपादः स विज्ञेयो मल्लिकाक्षः सुपूजितः ॥
सर्वश्वेतो हयो यस्तु भवेत् श्यामैककर्णकः ।
सवाजी वाजिमेधाईः श्यामकर्णः प्रकीर्तितः ॥
चत्वारोऽथ सिताः पादाः सर्वश्वेतस्य वाजिनः ।
भवन्ति यस्य स त्याज्यो यमदतस्तु दूरतः ।।
यस्य पादाः सिताः सर्वे पुच्छं वक्षो मुखं तथा ।
मूर्दजाच सिता यस्य तं विद्यादष्टमङ्गलम् ॥
भस्माभं वाजिनं जह्यात्सुदूरेण नराधिपः ।
यदि वाञ्छति कर्माणि यदि च श्रीसमुद्भवम् ।।
यस्य रोमविभेदेषु जायन्ते मधुबिन्दवः ।
पुष्पाक्षः स परित्याज्यः सर्ववाजिक्षयावहः ।।
यस्य पादाः सिताः सर्वे तथा चक्रं च मध्यतः ।
अश्वलक्षणप्रकरणे वर्णलक्षणम् । ४४१
कल्याणपञ्चकः प्रोक्तः सदा कल्याणकद्धि सः॥
विमित्रवर्णकाः सर्वे प्रशस्ता वाजिनः सदा ।
कृष्णनीलस्य मिश्रत्वमेकं मुक्त्वा सुदूरतः ।।
यस्योत्कृष्टतरा वर्णा वादि यान्ति शनैः शनैः ।
स नाशयति नीचांश्च करोत्यश्वतमान बहुन् ।
यश्चाधमेन वर्णेन भवेद्युक्तस्तुरङ्गमः ।
विवृद्धिं चैव गच्छन्सः करोति इयसङ्ग्यम् ।। इति ।
जयदत्तकृताश्वशास्त्रे,
यस्य गौराणि पीतानि गात्ररोमाणि वाजिनः ।
स भर्तुः श्रियमाधत्ते यस्य शुक्लानि त्रीणि च ।।
पुच्छकेशमुखानि त्रीणि शुक्लानीत्यर्थः ।
मभूतासितताराश्च प्रशस्ता मुनिभिः स्मृताः ।
यस्तु पीतसितैस्तारैः स धन्यः कीर्त्तितो हयः ।।
श्वेतया वेष्टितं कृष्णं रेखया तारकं च यत् ।
मल्लिकाक्षः स विज्ञेयः स्वामिनः सुखवर्द्धनः ।
सिततारोऽप्रशस्तश्च स्वामिनः क्लेशवर्द्धनः ।
सर्वश्वेतश्च कृष्णश्च रक्तः पीतस्तथैव च ॥
एते साङ्घामिकाः प्रोक्तास्तुरगा मुनिसत्तमैः ।
हरिताः किल जायन्ते वाजिनः पुण्यदार्शनाम् ।।
अतो हिता नरेन्द्राणामायुरारोग्यश्रीप्रदाः ।
रक्तास्यमेहनः शस्तः श्यामकर्णश्च यः सितः ॥
कपोतेन च वर्णेन यो हया शुक्लकेसरः ।
पाण्डुरा यस्य रेखा स्यात्पृष्ठवंशानुयायिनी ।।
श्वेतकृष्णं शिरो यस्य नैव धन्यः प्रकीर्तितः ।
अन्यवर्ण शिरो यस्य पुच्छ वा यस्य वाजिनः ।।
धीरमित्रोदयस्य लक्षणप्रकाशे
पुच्छेन शिरसा वापि नानावर्णेन निन्दितः ।
अव्यक्तवर्णो यो वाहस्तथा तित्तिरिसन्निभः ।।
कुत्सितो वानरास्यश्च तथा व्याघ्रावलीदकः । इति ।
गणकृतेऽश्यचिकित्सित,
सर्वे वर्णाः शस्तास्तुरगाणां सुप्रभास्थिराः स्निग्धाः ।
तेषां श्वेतः श्रेष्ठो यतो ध्रुवश्चाव्ययश्चासौ ॥
सर्वेषां वर्णानां संयोगः श्वेतसंयुतः शस्तः ।
सर्वश्वेताः शशिनो हरयः कनकप्रभाः सुरेन्द्रस्य ।।
कृष्णा यमस्य वाहाः कर्काः शुभलक्षणा विष्णोः ।
शुकगात्रनिभा भानोः किंशुकवर्णा हया हुताशस्य ॥
असिताभ्रनिभा वरुणस्य कुमुदवर्णाः कुबेरस्य ।
एभिर्वर्णरश्वाः शुभस्वरावर्तकायसर्वाश्च ॥
एतेषां देवानां पृथक्पृथक् वाहनाः कथिताः । इति ।
इति वर्णलक्षणम् ।
अथ गतिलक्षणम् ।
जदत्तकृतेऽश्वायुर्वेदे,
दुरमुक्षिप्य यः पादास्तप्ताङ्गारान् स्पृशनिव ।
द्रुतं याति सुसंहृष्टो वाजी भद्रगतिस्तु सः ॥
पूजिता पमातङ्गसिंहशार्दूलगामिनः ।
अतोऽन्यगतयो नेष्टाः सर्वशुद्धास्तुरङ्गमाः ॥
सङ्कीर्णवऋगा भ्रष्टा वका सौष्ठवर्जिता ।
अत्यूर्व चैव विक्रान्ता वाजिनां निन्दिता गतिः ।।
षोडशच्छोटिका देयाः करतालेन जानुनि ।
शतं द्विगुणितं गत्वा हस्तानां पुनरेति यः॥
स शीघ्रगतिरित्युक्तो पाजी धन्यस्तपोधनैः ।
अश्वलक्षणप्रकरणे गतिलक्षणम् । दशहीना भवन्त्येते मध्यगाधमगा हयाः ॥ इति । अमयर्थः जानुपादक्षिण्येन करतालेन षोडशच्छोटिकादाने यावान् कालस्नन्मध्ये योऽश्वः शतद्वयहस्तपरिमिता भूमिं गत्वा पुनरायाति स उत्तमः । यस्तु दशहस्तोनशतद्वयहस्तप्रमाणां भूमिमतीत्य पुनरायाति स मध्यमः । यस्तु विंशतिहस्तोनशत- द्वयहस्तममाणां भूमिं गत्वा पुनरायाति सोऽधम इति । किल्हणकृतेऽश्वसारसमुच्चये, उच्चैःपदन्यासयुता गतिः स्यात्मुसौष्ठवा या मसृणा हयस्य । विभक्तपादा चमनोहराया हिता सदासादिषु सा प्रशस्ता॥ सादी अश्ववारः। मत्तद्विषव्याघ्रमयूरहंसशाखामृगोष्टूसंगतैः समाना । या स्याद्गतिर्यस्य तुरङ्गमस्य भर्नुः शिवं सा तनुते यशश्च ॥ शाखामृगो वानरः। सङ्कीर्णवका विषमाधिपादा निस्सौष्ठवा बाह्यशफा स्खलन्ती या स्यादतिः सादिषु न प्रशस्ता दुःखानि भर्तुः कुरुते सदैव ।। यः शीघ्रगामी सविलासमुच्चैः पद्भ्यां व्रजेचायशिरोऽप्यधुन्वन् । संस्थानतोऽश्वोनकुलो यथैव सानाकुली तस्य गतिः प्रदिष्टा ॥ हृत्संस्पृशन् यो विकटैः खुराप्रैः पर्युल्लसद्भिश्चरणैः प्रयाति । साङ्गारभूमाविव तस्य यातं स्यातैत्तिरं तित्तिरवद्धयस्य ॥ उद्यम्य वकं तुरगः प्रयाति श्वासोऽमितः संस्थिरपादवाला। मयूरवद्यः सविलासगामी मायूरकी तस्य गतिः प्रदिष्टा ॥ शुभा गतिर्यस्य तुरङ्गमस्य तं प्राप्य राजा जयतेऽरिसङ्घान् । प्रामोति लक्ष्मीमतुलं यशश्च क्रीडेच नित्यं सह मृत्यमित्रः ।। सुगतिसहितमश्वं लक्षणैव होने शुभतरमपि चोक्तं शालिहोत्रेण सम्यक् ।
४४४
वीरमिनोदयस्य लक्षणप्रकाशे
यदि शुभतरलक्ष्यं धावितं नैव यस्य
कृषभ इव स निन्द्यः सङ्गराखेटकादौ ॥ इति ।
इति गतिलक्षणम् ।
अथ प्रसङ्गाद्वाहनविधिनिरूप्यते । जयदत्तकृते-
अश्वायुर्वेदे,
ब्रह्मणैव यथोद्दिष्टो वाहानां वाहने विधिः।
सारं तस्य समुद्धृत्य सर्वं तत्कथयाम्यहम् ।।
त्रासी लुब्बी क्षुधालुश्च विप्रः स परिकीर्तितः ।
शूरश्च दृहमन्युश्च क्षत्रियस्तुरगः स्मृतः ।।
पापिनः पापरूपाश्च दुष्टा वैश्याः प्रकीर्तिताः ।
विरूपा विषमाश्चैव शुद्धाश्चण्डा उदाहृताः ॥
ब्राह्मणान् भक्तदानेन साम्ना चैव तु क्षत्रियम् ।
वैश्यं दण्डेन शब्देन शूद्रं दण्डेन वाहयेत् ॥
प्रत्यूषे वाहयेद्विमं क्षत्रिय प्रहरे गते ।
वैश्यं सन्ध्यागते काले शूद्रं रात्रौ च वाहयेत् ।।
सत्वं च त्रिविधं प्रोक्तमुत्तमाधममध्यमम् ।
उत्तम चोपशामेन साना दण्डेन मध्यमम् ।।
शब्दारेन च दण्डेन वाहयेदधमं बुधः ।
सहजे निर्मले वाहे तैलदुग्धस्य रूपवत् ।।
शान्तिश्च द्विविधा प्रोक्ता बलदौर्बल्यसम्भवा ।
बलिष्ठो दुर्बलत्वेन दुर्बलोऽपि बलेन वा ॥
छलेनोपधिना वापि सच्वं ज्ञात्वा च वाहयेत् ।
साी मुकठिनां चैव पाषाणोदकसंयुताम् ।।
तृणकाष्ठसमायुक्तां रणभूमि तु वर्जयेत् ।
समां च विपुला चैव किश्चित्पांमुसमन्विताम् ।।
अश्वलक्षणप्रकरणे वाहनविधिः ।
एकान्ते विजने रम्ये रङ्गभूमि तु कारयेत् ।
स्थूलः क्रोधी च मूर्खच चिन्तोत्सुकचलासनः ।।
अस्थाने दण्डपाती यस्तस्य वाजी न सिध्यति ।
प्रचलेद्यस्य तु कटिरूलवाहुर्विभेति यः ॥
प्रचलेद्यस्य तु कटिरूर्व वा दण्डपातका-इति पाठान्तरम् ।
न तस्य वाहनं वाजी दुर्लभं वाजिवाहितम् ।
दृढासनोऽथ तत्त्वज्ञो दृढपृष्टो निरालसः ॥
अविरागी स्थिरश्चापि पडते वाजिवाहकाः।
चित्तं यो नैव जानाति तुरगस्य समासतः ।।
न वहन्ति हयास्तं च दण्डपातेन ताडिताः ।
हेषिते वलिते भीते तथा चोन्मार्गगामिनि ॥
कुपिते भ्रान्तचित्ते वा षट्सु दण्डं निपायेत् ।
हेषिते ताडयेन्मूर्ध्नि जानुभ्यां वलिते तथा ।।
कुपितोरसि हन्तव्यो भ्रान्तचित्ते तथोदरे ।
भीतं च ताडयेत्पश्चात् मुखे चोन्मार्गगामिनम् ॥
ज्ञात्वा दोषं च रूपं च स्थानेष्वतेषु ताडयेत् ।
अस्थाने ताडितो वाजी यावजीवं न सिध्यति ॥
न जहाति च तद्दोषं यावज्जीवमसौ हयः।
धाराः पञ्च प्रवक्ष्यामि ऋषिभिर्याः प्रकीर्तिताः॥
धाराशब्देन धावने अतित्वरितो गतिविशेष उच्यते ।
प्रथमा विक्रमा धारा द्वितीया पुलका स्मृता ।
तृतीया पूर्णकण्ठी तु चतुर्थी त्वरिता स्मृता ।।
पश्चमी चैव या धारा निरालम्बा प्रकीर्तिता ।
षष्ठी चैव तु या धारा श्रूयते न तु दृश्यते ।।
विक्रमा गतिधारा च चतुष्का पुलका महा।
बाराम
वीरमित्रोदयस्य लक्षणप्रकाशे
मुखपादसमायुक्ता पूर्णकण्ठी तु सा भवेत् ।।
स्वेच्छया त्वरिता धारा ताडिता चैव पञ्चमी।
षष्ठी चैव तु या धारा स्वर्गलोकेषु गीयते ॥
न वक्रो न तथोत्तानो न कुब्जो नाप्यधोमुखः ।
न भवेत्स्तब्धगावस्तु स भवेदश्ववाहकः ॥
स्थिरोरु स्थिरपादश्च त्रिकोनतः स्थिरासनः ।
त्रिकं पृष्ठवंशाधोभागः।
अश्ववारा समाख्याताः शेषास्तु भरदायकाः ।
ग्रीष्मादिषु न कर्तव्यमृतुपु त्रिषु वाहनम् ।।
हेमन्तादिषु कर्तव्यं सादिभिः शास्त्रवेदिभिः ।
प्रतिपत्सु त्रयोदश्यां पञ्चम्यां वा सिते दले ॥
धृतिसिद्ध्यादियोगेषु वासरे चन्द्रसूर्ययोः ।
मूलरोहिणिहस्तेषु पुष्ये चैवोचरासु च ॥
एवंविधे दिने सादी वाहनं वाहयेच्छुभे ।
रङ्गभूमौ च रेवन्तं स्थापयेत् पूजयेत्ततः ॥
पुष्पधूपैः प्रदीपैश्च चन्दनैः पायसैस्तथा ।
पकानाधैर्भक्ष्यभोज्यैः मातः शुचिमुवस्त्रकः ॥
रक्ताम्बरधरो भूत्वा रक्तपुष्पधरस्तथा ।
ॐ नमो रेवन्ताय अश्वहृदयाय ह्रीं क्लीं ॐ नमोऽश्वेताय
सौम्यरूपाय इममश्वं वर्धय वर्धय वश्यं कुरु महावीर्याय रे-
वन्ताय नमः।
एतन्मन्त्र जपेत्माज्ञो हयस्य दक्षिणे श्रुतौ ।
एकविंशतिवारांश्च ततः पर्याणयेद्धम् ॥
क्रोशमेकं तमाहरुह्य ईशानीं तु शनैर्नयेत् ।
दिशमिति शेषः।
४४७
अश्वलक्षणप्रकरणे वाहनविधिः।
नातिस्थूलं कृशं नाति न स्तब्धं नातिकर्कशम् ।
सप्ताङ्गुलप्रमाणं तु खलीनं कारयेद्बुधः ॥
खलीनं वल्गा।
शतहस्तादिकां भूमि सप्तहस्तावसानिकाम् ।।
भ्रामयेद्वाजिनं सादी सव्यं चैवापसव्यकम् ।
दद्याद्भयमभीतस्य भीतस्यापि हरेद्भयम् ।।
रहस्यं सादिनामेतद्वाहनेऽस्मिन्निवेदितम् ।
दम्यमानस्य अश्वस्य यो दोषः सादिदोपतः॥
जायतेऽसौ निराकर्तुं सादिना नैव शक्यते ।
एवं शास्त्रविधानेन यः सादी वाहयेद्धयान् ।।
हरयस्तस्य सिध्यन्ति भवन्ति फलदायकाः ॥
अस्थिभिर्दशनैश्चैव वृकाणां च तथा बुधः।
विषमं करदंष्ट्राभिधूपयेश्चैव सर्पिषा ॥
एलामृगमदोशीरनागकेसरचन्दनैः ।
सर्जिकातैलसंयुक्तैधूपयेदुष्टवाजिनम् ॥
सर्जिका मध्यदेशे साजीति प्रसिद्धा ।
विलिप्ता गोमयैः प्रातनिशीथे पर्वसन्धिषु ॥
अष्टम्यां च विशेषेण दुष्टाः सिध्यन्ति धूपिताः ।
फासीसं चन्दन कौन्तीसिद्धार्थमरिचानि च ।
सैन्धवं वडवामूत्रं गोमूत्रं कर्णजं मलम् ।
कासीसं लोके कौसीस इति प्रसिद्धम् । कौन्ती रेणुकेति
प्रसिद्धा । सिद्धार्थाः सर्पपाः ।
मुनिर्गुमानि पिष्टानि कणायासवचानि च ।
अञ्जनं सर्वदुष्टानां देयं पर्वणि पर्वणि ।
कणा पिप्पली । यासो जवासा इति भाषया प्रसिद्धः ।
४४८ वीरमिनोदयस्य लक्षणप्रकाशे
अनेनाभ्यञ्जितो वाजी निर्वाणमभिगच्छति ।
को मोहं भयं त्यक्त्वा वश्यः स्यात्सादिनो भृशम् ।।
प्रातः सादी शुचिः स्नातः शुक्लाम्बरधरस्तथा ।
उपोषितो यतिर्भूत्वा जपेत्कर्णे च दक्षिणे ।।
इय गन्धर्वराजस्त्वं शृणुष्व वचनं मम ।
गन्धर्वकुलजातस्त्वं मा भूयाः कुलदूषणम् ॥
द्विजानां सत्यवाक्यानां सोमस्य गरुडस्य च ।
रुद्रस्य वरुणस्यैव पवनस्य च लेखिनः ।।
लेखिनः इन्द्रस्य ।
हुताशनस्य दीप्तस्य स्मर जाति तुरङ्गम ।।
स्मर राजेन्द्रपुत्रस्त्वं सत्यवाक्यमनुस्मर ।
स्मर वं वारुणी कन्या स्मर त्वं कौस्तुभं मणिम् ।
क्षीरोदसागरे चैव मथ्यमाने सुरासुरैः ।।
तत्र देवकुले जातः स्ववाक्यं परिपालय ।
कुले जातस्त्वमश्वानां मित्रं मे भव शाश्वतम् ।।
शृणु मित्र त्वमेतद्वै सिद्धो मे भव वाहन ।
विजयं मे धरां चैव सङ्ग्रामे सिद्धिमावह ॥
तव पृष्ठं समारुह्य हता दैत्याः सुरैः पुरा ।
अधुना त्वां समारुख जेष्यामि रिपुवाहिनाम् ॥
मन्त्रजापं ततः कृत्वा मन्त्रेणानेन बुद्धिमान् ।
विसृज्य सर्वदेवांश्च ततः पर्याणयेद्धयम् ॥ इति ।
इत्यश्ववाहनविधिः।
अथ स्वरलक्षणम् ।
शालिहोत्रे,
शालिहोत्रः सुतं माह हयानां स्वरलक्षणम् ।
अश्यलक्षणप्रकरणे स्वरलक्षणम् ।
इसे भकुररक्रौश्चमेघदुन्दुभिनि:स्वनैः ।।
जलौघसघशैर्ये च ते स्युनित्यं विदिदा।
इभो गजः।
श्वकाकवानरोलककाष्ठपाषाणसभिभैः।
स्वनैरशनितुल्यैश्च पापाः स्युजिनो मताः ॥
अशनिवज्रम् ।
सामस्वरं हयं प्राप्य क्षिमपाप्यं न चाप्नुयात् ।
आप्यं वाञ्छितम् ।
हेषत्यधोमुखो वाजी यस्तु भर्तुरनर्थदः ।।
चामं निरीक्ष्य पार्वं च कुलनाशकरो भवेत् ।
दृष्ट्वा द्रव्यममल्यं मायशो यच हेषते ॥
अलक्ष्मी तनुते सोऽश्वो भर्तुःखकरः स्मृतः ।
खरबद्धषते यस्तु सोऽलक्ष्मीकस्तुरङ्गमः ।।
भर्तुर्वृद्धिकरः सेव्यो धनधान्यविवर्द्धनः ।
विलोक्य दक्षिणं पाच स्पृष्ट्वा वा यस्तु हेषते ।।
तमश्वमभिरुवाय राजा जयति मेदिनीम् ।
बहूनां हेषमाणानां श्रूयते यस्य हेषितम् ॥
सानुनादो हयो नाम भर्नुः सर्वार्थसाधकः।
एकस्य हेषमाणस्य बडूनामिव हेषितम् ।।
गम्भीरहेषी सोऽश्वः स्याद्राज्ञां विजयवर्द्धनः ।
श्रुत्वा तु हेषितं तस्य अन्ये हेषन्ति वाजिनः ।।
अश्वानां वर्धते सोऽश्वो राज्ञां शवसहस्रशः ।
अन्यस्य हेषितं श्रुत्वा या पश्चादनुहेपते ।।
तमश्वमभिरुनाथ मित्रवृद्धिमवाप्नुयात् । इति ।
धीरमित्रोदयस्य लक्षणप्रकाशे
जयदत्तकृतेऽश्वायुर्वेदे,
हेषितं मधुरं चैव तुरगस्य प्रशस्यते ।
अविच्छिवमदीनं च गम्भीरं सानुनादि यत् ।।
दृष्ट्वा हि पूर्णपात्रं च ब्राह्मणं कुसुमानि च ।
दपि वापि समालोक्य वाहाना हेषितं शुभम् ॥
पादितध्वनिमाकये हेषन्ते यदि वाजिनः ।
आसपूर्णमुखाश्चैव तदा भर्तुर्जयो भवेत् ॥
ध्वजाग्रं चैव सूर्य च पश्यन्तो वाजिनो यदा ।
हेपन्ते बहवो हृष्टास्तदा विद्याज्जयं प्रभोः ॥
भतो यद्विपरीतं तु हेषितं कुत्सितं तु तत् ।
मिन्मिनं गद्दं मूकं विरूशं काशजर्जरम् ॥
पाले च निर्गते युद्ध क्षुधिते वा पिपासिते ।
भान्ते भीते तथा वाहे न ग्राह्य स्वरलक्षणम् ॥ इति ।
इति स्वरलक्षणम् ।
अथ छायालक्षणम् ।
शालिहोत्रे,
पञ्चभूतात्मिको छायां पञ्चधा लक्षयोदमाम् ।
पायोरमेरपां भूमेनभसश्चापि पञ्चमी ।
सर्वरोमसु दन्तेषु वालकेशनखेषु च ।
वर्णः स्यादधिको भूतां छायामश्वस्य लक्षयेत् ॥
भूतां पञ्चमहाभूतात्मिकास् ।
पायव्या परुषा दीना भस्मवर्णा हयप्रभा ।
सुरक्ता चाथ सुस्निग्धाऽऽमेयी जाम्बूनदप्रभा ॥
भसितावदसाशा अलजा स्निग्धसुषमा ।
भश्वलक्षणप्रकरणं छायादिलक्षणम् । १५१
सक्षा तन्वी न नियता दुनियाऽन्तरिक्षजा ॥
गम्भीरस्निग्धवर्णा च सर्ववर्णा च पार्थिवी ।
जलजा पार्थिव्यानेयी प्रशस्ता निन्दितेतरे ।।
निन्दिता वा प्रशस्ता का कार्य तिष्ठति या चिरम् ।
छाया च लक्षणं तस्य विपुलं फलमश्नुते ॥
राज्यलाभ यशश्चैव स्त्रियं शान्ति सुखं तथा ।
रणे च विजयं नित्यं प्रशस्तास्वमिनिर्दिशेत् ।।
क्षिप्रमैश्वर्यमामेयी छाया भर्तुः प्रयच्छति ।
अब्जा बहुतरां कीर्ति सम्पदं हि प्रयच्छति ॥
पार्थिवी सर्वकामार्थयुक्तमैश्वर्यमक्षयम् ।
निःसपनं महाराज्यं छाया भर्तुः प्रयच्छति ।।
पायव्या चान्तरिक्षा च स्पृशते तुरगं यदा ।
तदा पराजयं भर्तुर्वधबन्धौ च निर्दिशेत् ॥
व्यसनं खलु बन्धं वा रोग मरणमेव च ।
अप्रशस्तासु जानीयातुश्च तुरगस्य च ॥ इति ।
इति छायालक्षणम् ।
अथ गन्धलक्षणम् ।
शालिहोत्रे,
परापर तत्वहं शालिहोत्रं जितेन्द्रियम् ।
ज्येष्ठः पुत्रोपसङ्गम्य मित्रजित्परिपृच्छति ।।
गन्धा मनोझाः पुण्याश्च ये च मन्यास्तथा शुभा।
तेषां मे ब्रूहि विज्ञानं फलमेषां शुभाशुभम् ॥
एवं पृष्टस्तु पुत्रेण शालिहोत्र: मभाषते ।
मुखे गन्धं विजानीयाभिश्वासे.माणसंस्थितम् ॥
वीरमित्रोदयस्य लक्षणप्रकाशे
माणसंस्थितमाभ्यन्तरस्थितम् ।
अक्षिकर्णगुदेष्वेव तथा मूत्रायिते पुनः ।
स्वेदमूत्रपुरीषेषु शुक्रे नामो तथा पुनः ।।
सर्वमेतत्मवक्ष्यामि श्रुत्वा गुह्योपधारय ।
चन्दनागरुगन्धाश्च तथा सामुगन्धिनः ।।
दधिक्षीरसमा गन्धास्तथा सर्जकभूस्तुणैः ।
हीवेरस्य मृणालस्य केसरोशीरयोस्तथा ॥
हीवेरमुशीरम् । अग्रिमोशीरपदेन कृष्णमुशीरं ग्राह्यम् ।
जम्बूबिल्वकपित्थानां पकस्याप्रफलस्य च ।
कदम्बार्जुननीपानां पाटलाशोकगन्धिनः ।।
कल्हारस्य शिरीषस्य मल्लिकामालतीत्वचः।
कुटजस्यन्दनानां च पुन्नागाशोकगन्धिनः ॥
सुगन्धाः करवीराणां ये च कर्पूरगन्धिनः ।
चम्पकस्य तमालस्य पत्रस्य तगरस्य च ।।
बसन्तवनराजीनां वारणानां मदस्य च ।
ये च गन्धा मनोज्ञाः स्युः सर्वे पुष्पफलान्विताः ।।
तेषां समानगन्धा ये मङ्गल्यास्ते हयोत्तमा:।
नित्यं प्रमुदिताश्चैव सर्वस्य च मनोहराः ॥
सर्वार्थसिद्धिपकराः सौभाग्यकुलवर्द्धनाः ।
पृथिवीमचिरं तैस्तु लभन्ते पार्थिवा हयैः ।।
यथा मनोज्ञगन्धास्ते मनोज्ञार्थकरास्तथा ।
पूजनीयाश्च ते वाहाः शाश्वताः सुखपुत्रदा ॥
आहवे जयिनो नित्यं यशोदाः पुत्रपौत्रदा।।
एवं पुण्यतमा गन्धा व्याख्याता शुणु चापरान् ॥
भूशं कुणपगन्नाथ घसादु गन्धिनः ।
३
अश्वलक्षणप्रकरणे सस्वादिलक्षणम् । ४५३
दुर्वासः अधमः काकः ।
मत्स्यपुच्छाण्डगन्धाश्च मलपूयसुगन्धिनः ।।
मार्जारोष्ट्रवराहाणां सगन्धा भूषकस्य च ।
श्वशृगालैश्च ते तुल्या न पुण्यं गन्धमाश्रिताः ।।
ते हयाः प्रतिकूलाः स्युरेतैर्दोषैः समन्विताः ।
असिद्धार्थकरा राज्ञाममङ्गल्यास्तथैव च ॥
न च दीर्घायुषस्ते स्युनिन्दिताश्चैव कर्मसु ।
इत्यमशस्तगन्धाः स्युः प्रशस्ताश्च प्रकीर्तिताः ।।
फलमिष्टमनिष्टं च यथावदनुपूर्वशः ।
इति ह स्माइ भगवान् शालिहोत्रोऽनुशासनम् ॥ इति ।
इति गन्धलक्षणम् ।
अथ सत्त्वलक्षणम्।
शालिहोत्रे,
पक्ष्यते त्रिविधं सत्वं शुद्धराजसतामसम् ।
शुद्धं सात्त्विकम् ।
हीमन्तः सुखमाजश्व सात्त्विका दीर्घदर्शिनः ॥
आयुष्मन्तथ विज्ञेयाः क्षमावन्तश्च ते हया।
दुःखमाजो मत्सरिणः मुतीक्ष्णाः साहसमियाः ॥
इस्वायुषो रोषणाच विज्ञेया राजसा हयाः।
तन्द्रिणः स्वमशीलाच मजाहीनास्तथैव च ॥
दुर्मेधसोऽलसाश्चैव विजेयास्तामसा हयाः । इति ।
जयदत्तकृतेऽश्वायुर्वेदे,
अमेध्ये कईमे चैव मास्ते मूत्रे विशेषतः ।
'पणा.यस्यास्ति बाइस्य देवसवः प्रकीवितः ।।
१५४
वीरमिबोदयस्य लक्षणप्रकाशे
पिशाचसत्वो मन्तव्यो व्यत्ययेन तुरङ्गमः ।
देवसत्वः शुभो भर्तुः पैशाचश्वाशुभः स्मृतः ॥ इति ।
सत्त्वप्रशंसा च किहणकृतसारसमुच्चये उक्ता-
वर्णाद्वतिर्गतर्हेषो हेषितात् स्फुरिता प्रभा ।
प्रभायाश्च ततो जातिर्जातेः सत्वं विशिष्यते ॥ इति ।
इति सत्वलक्षणम् ।।
अथानूकलक्षणम् ।
गणकृतेऽश्वायुर्वेदे,
अत ऊर्ध्वं प्रवक्ष्यामि अनूकं तु चतुर्विधम् ।
गत्या स्वरेण रूपेण सत्त्वेन च शुभाशुभम् ।।
तत्र सत्त्वगतं ज्ञेयमनूकं सत्त्वलक्षणम् ।
त्रिविधस्य तु सत्त्वस्य भेदाः कात्स्न्येन कीर्तिताः ॥
ते अनूकानि ज्ञेयानि प्रशस्तानीतराणि च ।
परदेहाकृतिनिभं रूपं काये विभावयेत् ।।
शुभाशुभस्वरानूकं यदुक्तं स्वरलक्षणम् ।
गत्यनूकमिति ज्ञेयं स्वरानूकं यथा तथा ॥
एवं चतुर्विधं त्वेतदनूकं शुभनिर्मितम् ।
सिंहादिराविणो येऽश्वाः स्वरानका शुभावहाः ।।
ते वर्द्धयन्ति नृपतेः कोष्ठागारं वसूनि च ।
भ्वाङ्गादिराविणो ये च ये चाप्यशुभलक्षणाः ॥
सिंहादिगतयो ये तु गत्यनूकेन ते शुभाः ।
विपरीता न शस्यन्ते एतच्चानूकलक्षणम् ॥ इति ।।
इत्यनकलक्षणम् ।
भरवलक्षणप्रकरणे सारलक्षणम् ।
अथ सारलक्षणम् ।
शालिहोत्र,
यस्य त्वक् स्नेहसम्पन्ना स्निग्धा रोमावली तथा।
शोभनैर्गुबदेशैश्च शुभावर्तश्च यो भवेत् ॥
मेधावी जवनो दक्षः शुक्ल: माजनवेदिता।
त्वक्सारः स तु विज्ञेयः मुश्लिष्टत्वक् हयो भवेत् ।।
माजनं केशः।
मानोन्मानविभक्ताङ्गः सर्वगात्रसमाहितः ।
शोणः शोणानुवर्णो वा रक्ताक्षश्चारुदर्शनः ।।
तेजस्वी च मनस्वी च मेधास्मृतिगुणान्वितः ।
रक्तसारो भवेत्सोऽश्वस्ताम्रमेदाण्डतालुकः ॥
स्निग्धदन्ताश्रुनयनः स्निग्धवालतनुरुहः ।
मृदुस्निग्धायतैः कैशैरल्पदीर्घशफस्तथा ।
जिहा मृद्वी घना चैव पनपत्रनिभा पुनः ।
मुसंहतैर्घनैमास रक्तसूनाक्षितालुकः ।।
मांससारः शुचिइँयो बलवान् रूपवांस्तथा ।
लोधपुष्पमतीकाशो वृत्तमेघनस्तथा ।।
दुढाङ्गसंयुतो वाहो मांसैर्वतैः सुमेदुरैः ।
सुसंहतविभक्तैश्च स्निग्धवर्णाक्षितालुकः ॥
मेदासारं तु तुरगं विद्यात्तं स्निग्धवर्णिनम् ।
शुक्ला वा क्षौद्रवर्णा वा सम्पूर्णाश्च घनाः समाः ।।
दन्ताः स्युर्यस्य दंष्ट्रास्तु सुशफाच विशेषतः ।
सुघनानि विभक्तानि दृढान्यस्थीनि यस्य तु ॥
न च ताम्यति भारेण सोऽस्थिसारस्तुरङ्गमः ।
घुतमण्डनिभा मज्जा स्थिरा गुर्षी शुभमदा ॥
धीरभित्रोदयस्य लक्षणप्रकाशे
.
सुस्निग्धानि च मांसानि सबाह्याभ्यन्तराणि च ।
सुपभे च सिते नेत्रे स्निग्धरोमत्वमेव च ।।
मज्जासारः स विज्ञेयो बलतेजोगुणान्वितः ।
स्निग्धं धनमदुर्गन्धि वटक्षीरोपमं च यत् ॥
स्याच्छुक्रं यस्य तत्सारं शृणु कीर्तयतो मम ।
सारवान् बलवान् दृप्तो हृष्टोदनो जवान्वितः ॥
सुखुरश्चारुसवाङ्गो मेघगम्भीरहेषितः ।
सुबद्धः सर्वगात्रेषु सुसन्धिः सर्वकर्मकृत् ॥
स्नायुसारो भवत्येष सवसारमिमं शृणु ।
शूरोऽविषादी समरे मेधास्मृतिगुणान्वितः ।।
स्निग्धवर्णो यवालो या श्लक्ष्णः प्राजनवेदिता ।
आयामोत्सेधनाहेन युक्तः सर्वगुणान्वितः ।।
सत्त्वसारः स तुरगो जवसारधनोपमः ।
सर्वभूमिषु शक्तश्च सर्वकर्मसु पूजितः ॥
कोपितो दर्पितो वापि न कुप्यति न हृष्यति ।
एवं सारा समाख्याताः शृणु तेषां गुणानिमान् ॥
श्लक्ष्णः माजनसंज्ञश्च स्यावसारो जवान्वितः ।
रक्तसारस्तु तेजस्वी मनस्वी बलवांस्तथा ॥
मांससारस्तु बलवान् रूपवांश्च तुरङ्गमः ।
स्यान्मेदसारस्तुरगो भारेऽध्वनि च पारगः ॥
अस्थिसारस्तु बलवान हर्षवान् सर्वकृत्तथा ।
मज्जासारस्तु विज्ञेयो बलतेजोजवान्वितः ॥
शुक्रसारस्तु भगवान् स्यात् स्थिरात्मा बहुमजाः।
भवति स्नायुसारोऽश्वो जितनिद्रो जितश्रमः ॥
स्थिरात्मा च जितात्मा च सत्वसारस्तु सर्वकत् । इति ।
इति सारलक्षणम् ।
अश्वलक्षणप्रकरणे प्रकृत्यादिलक्षणम् । ४५७
अथ प्रकृतिलक्षणम् ।
गणकृते अश्वायुर्वंदे,
श्रीमान् भद्रः सुखभागायुष्मान् साविको वाजी ।
इस्वायुषः सुतीक्ष्णा मत्सरिणो राजसा इया क्षेयाः ॥
दुर्मेधसोऽलसा ये इयास्वे तामसा मोक्ताः ।
अलसा मन्दा।
स्निग्धत्वयोमतनुः मुखसञ्चारः मुविग्रहः शूरः।
न त्रासी न विषादी सुबुद्धिमानेष भद्रोऽश्वः ।।
तनुकुष्टिकान्तरोमत्वक् शीघ्रस्वापी च शीघ्रवेगी च ।
घस्तो निरीक्षते यः परितस्तीक्ष्णो भवेत्सोऽश्वः ।।
अत्रासिनं विमूढ स्थूलत्वक्वालकृष्टिकं चैव ।
दीनं मृदुमयाणं मन्दं तुरगं विजानीयात् ॥ इति ।
इति प्रकृतिलक्षणम् ।
अथाङ्गमानलक्षणम् ।
किल्हणकृतसारसमुच्चये,
षष्टयधिकं शतमा मुनीन्द्रस्त्वायतिमानमथाकुलमानैः ।
उच्छयमेकशवं परिणाई सचमवाजिषु तत्परिमेयम् ॥
एक शातं विंशवियुक्तमेचमायाममश्वेषु कनीयसेषु ।
उच्छ्रायनादौ पुनरजुलानामशीतिरेवं कथित मुनीन्द्रमा इति।
नकुलकृते अश्वशास्त्र,
सप्तविंशत्ममाणेन मुखमश्वस्य शस्यते ।
अङ्गुलानामिति शेषः।
कौँ षडङ्गुलौ प्रोक्तौ तालुकं चतुरङ्गुलम् ॥
चत्वारिंशच समायो स्कन्धश्च परिकीर्तितः ।
४५८ वीरामित्रोदयस्य लक्षणप्रकाशे
पृष्ठवंशश्चतुर्विशत्सप्तविंशत्तथा कटिः॥
अतिसूक्ष्म तथा स्निग्ध पुच्छं हस्तद्वयायतम् ।
लिङ्ग हस्तममाणं तु तथा ऽण्डौ चतुरङ्गुलौ ।।
मार्गस्थानं चतुर्विंशत् हृदयं षोडशाङ्गुलम् ।
कटिकक्षान्तरं प्रोक्तं चत्वारिंशत्प्रमाणतः ॥
मणिबन्धद्वयं चैव खुराश्च चतुरङ्गुलाः ।
अशीत्यङ्गुल उत्सेधो दैर्घ्यं च अधिकं शतम् ॥ इति ।
इत्यङ्गमानलक्षणम्।
अथ प्रत्यवयवलक्षणम् ।
शालिहोत्रे,
तत्वलक्षणमाख्यामि प्रश्वाङ्गानां पृथक्पृथक् ।
भास्यं तु संवृतं श्रेष्ठं सुमहच्च सुगन्धि च ॥
सदास्य शस्यते यच्च लालाढ्यं चैव पाटितम् ।
दशनास्तु समा वृत्ताः परिपूर्णा घनाः स्थिराः ॥
अविकारा न विरलाः मुस्निग्धाभ्यन्तरोनताः ।
श्वेता वा मधुवर्णा या तुरगस्याभिपूजिताः ।।
दंष्ट्रा दन्तसवर्णीच तीक्ष्णाग्राश्चाभिपूजिताः ।
चतुरस्रा दृढाः स्निग्धाः सूक्ष्माश्चापि समाहिताः॥
जिहा तन्वी न चोद्धा ऋजुर्दीर्घा समाहिता ।
मृदुश्लक्ष्णा च रक्ता च श्वजिहेव प्रशस्यते ।।
सूना च युक्तोपचिता श्लक्ष्णा रक्ता समाहिता ।
स्थिरा निरुपदग्धा चास्निग्धवर्णा च पूजिता ॥
गम्भीरं त्वायतं रक्तं तनुलेख समं महत् ।
इलक्षण निरुपदग्धं च पूजितं तालु वाजिनाम् ।।
अश्वलक्षणप्रकरणे प्रत्पवयषलक्षणम् । ४५९
ओष्ठौ श्लक्ष्णौ न बलिनौ मृदुको पानसंस्थितौ ।
तनुलम्बौ न चोबद्धो दूरादाञ्छादनौ शुभौ ॥
चतुरस्रं समं वृचं प्रपानं शुभमिष्यते ।
कर्बोच्चासौ महान्तौ च संहती मृदुको समौ ॥
वृत्तौ श्लक्ष्णौ च विज्ञेयौ प्रशस्तौ नासिकापुटौ।
ऋजुः समाहितः श्लिष्टो नासावंशो घनश्च यः ।।
मोथ: समो मृत्त ऋजुः श्लक्ष्णः समाहितः ।
तनुमध्योचतश्चैव सुश्लिष्टश्च प्रशस्यते ।।
आयतश्च विशालश्च तथा मोथश्व पूजितः ।
समे समाहिते चैव निर्मासे ऋजुके घने ॥
सके तु महती शुद्धे तनूरुहविवर्जिते ।
अनुपूर्वायतौ गण्डौ निश्छिद्रौ नोल्बणौ शुभौ ॥
मध्ये हि खलु निर्मासा घोणा भवति पूजिता ।
घोणातटे प्रशस्येते अनुपूर्वायते घने ॥
मनमांसशिरास्नायुस्त्वश्रुपाता शुभो मतः ।
नेत्रे तु महती शुद्ध विशाले मधुसलिमे ।।
स्निग्धे मणिसवर्णाभे हिरण्यसदृशे स्थिरे ।
मछिकामे मयूरोष्ट्रकलविवाक्षिसमि॥
क्रौञ्चतित्तिरकृष्णाभे धारणाक्षिनिभे तथा ।
कुरङ्गहंसनेत्रामे दिहिभाक्षिनिभे तथा ॥
दीर्घानुबद्धपक्षे च प्रशस्ते ह च लोचने ।
अस्थूलान्यतिकूटानि शुभान्यविषमाणि च ।।
परिमण्डलश्लिष्टमांसौ ममस्नायू कदौ शुभौ ।
मनमांसशिरास्नायुः शङ्गः शस्तो हि पानिनाम् ।।
ललाद त्वायतोचान निर्मासं पृथुलं समस् ।
वीरमित्रोदयस्य लक्षणप्रकाशे
अनुपूर्वायतं चैव निर्वलीकं च भूषणम् ॥
आयते तु इन वक्रे वृत्ते चैव घने स्थिरे ।
युक्तानुपूर्वोपचिते श्लिष्टमांसास्थिसन्धिनी ॥
स्थिरं निरुपदग्धं च सर्वतश्च समाहितम् ।
अरोमशं च विज्ञेयं चिबुकं तुरगस्य तु ॥
ऋज्वास्यसदृशं चैव चिबुकं तत्पशस्यते ।
हस्वौ च तनुवृत्तौ च कौँ शिशुनिभौ समौ ॥
अरोमशौ च वलिनौ तीक्ष्णाग्रौ चाभिपूजितौ ।
समं च पृथुलं चैव समाहितमपिण्डितम् ।।
मस्तकं चोन्नतं किञ्चित् दृश्यते सर्ववाजिनाम् ।
सुधेतपाण्डुभिः केशैविशदैर्मृदुभिस्तथा ॥
वृत्तदी.स्तनुस्निग्धैरुपेतस्त्वभिपूजितः ।
मूदुकाश्चैकवर्णाश्च स्निग्धा वालाः सुपूजिताः ।।
पलक्ष्णास्निग्धा न जटिला बेकजातास्तथैव च ।
केशपतिः शुमा चास्य न इस्वा नापि चोत्थिता ॥
तनु मृदु धनं श्लक्ष्णं दृढमूलं तथैकजम् ।
अविवर्ण च स्निग्धं च रोम चाश्वस्य पूजितम् ।।
शिरोग्रीवान्तरे शिलष्टौ श्लक्ष्णौ वृत्तौ समाहिती।
नोल्वणी हि तथा चैव विद् वाहस्य पूजितौ ॥
सुबद्धो नोपदग्धश्च तथा च विमलः शुभः ।
ऋजुवृत्तसमश्चैव गला समशिरस्तथा ॥
कण्ठो वृत्तः समः श्लिष्टः पूजितश्चतुरो हयः ।
श्रीवा चैव हि सुश्लिष्टा वृत्तसन्धिः समाहिता ।।
उचैर्षद्धा च दुर्दृता तथा शिरसि चोयता।
निगाले चापि निर्मासा मृद्वी साचती भृशम् ॥
अश्वलक्षणप्रकरणे प्रत्यवयवलक्षणम् ४६१
श्लिष्टमांसा सुषद्धा च तुरगस्य प्रशस्यते ।
स्कन्धस्तु प्रतिसम्पूर्णः श्लिष्टमांसः पृथुस्तथा ॥
बहुमांससमाश्लिष्टः स्थिरमांसश्च पूजितः ।
अंसौ तु पृथुलो पीनौ श्लिष्टसन्धी समौ स्थिरौ ॥
मुबद्धपीनफलको उच्चौ बद्धौ सुपूजितौ ।
उरश्च बहुलोचानं प्रतिपूर्णं महत् स्थिरम् ॥
वृत्तं च घनपीनं च श्लिष्टमांसं च पूजितम् ।
वृत्तं समाहितं शिलष्टं क्रोडमश्वस्य पूजितम् ।।
बाहू दीर्यौ च पीनौ च धनौ वृत्तौ तथा समौ ।
विमुक्तौ चानुपूर्वी च श्लिष्टसन्धी च पूजितौ ।।
जानुनी च समै वृत्ते निर्मासे मुस्थिते घने ।
समाहिते प्रतिच्छन्ने समे श्लिष्टे च पूजिते ।
जचे वृत्ते च दीर्धे च निर्मासे ऋजुके घने ।
मप्रस्नायुशिरश्लिष्टे विमुक्त चाभिपूजिते ।
कूचौं सदुप्रतिस्तब्धी वृत्ती इस्वी सुसंस्थितौ ।
अस्थूला गूढसन्धिश्च प्रशस्ता तुरगस्य तु ।।
दीर्घा तीक्ष्णप्रतिच्छन्ना कला शिलष्टा च पूजिता ।
कुष्किका तु समा वृत्ता इस्वा श्लिष्टा समाहिता ॥
ईषन्मध्योन्नता चैव प्रतिच्छन्नशिरास्तथा ।
खुरास्तु बहुलास्तुमा वृत्तहस्वा हदायताः ॥
समुद्रमच्छिष्टपुटाः खरस्येष यथा तथा ।
अवलीकाः समाः श्लिष्टा न खण्डा: स्फुटिता: स्थिराः ।।
एकवर्णाः सिता रक्ता कृष्णाश्चाप्यभिपूजिताः ।
तलमध्ये तु गम्भीराः शिवातलनिभैः खुरैः॥
क्षीरिकाभिः सुजाताभिः समाभिस्तु समन्विताः।
४६२
वीरमित्रोदयस्य कक्षणप्रकाशे
निममहस्वमण्डूका विज्ञेयाः खुरसन्धिषु ॥
कठिनाश्चैकवर्णाश्च व्यक्तायःसनिमा घनाः ।
समाः श्लक्ष्णाः मुजाताश्च पादरोगैर्विवजिताः ॥
स्थिरा निरुपदग्धाश्च स्निग्धवर्णास्तु पूजिताः ।
परिपूर्ण समं पीनं ककुदं समामिष्यते ।।
आयतं पृथुलं श्लिष्ट युक्तमांसं च पूजितम् ।
पृष्ठमश्वस्य विनतमीषद्वंशसमुन्नतम् ।
निचितं च प्रशस्तं स्यात्मतिपूर्ण दृढं पृथु ।
दीर्घ च पार्चे निश्छिद्रे प्रतिपूर्णे स्थिरे समे ॥
वृत्ते मृदङ्गवचैव शिलष्टमांसे तु पूजिते ।
उदरं वृत्तमुत्स्तब्ध मृगस्योपचितं यथा ।।
अच्छिद्रवृत्तश्लिष्टाल्पसमकुक्षि च पूजितम् ।
जघनं च महावृत्तं चतुरस्त्रं पृथूरुकम् ॥
संवत च समच्छिद्रमुच्चैबद्धं च पूजितम् ।
अच्छिद्रे कुक्षिणी चापि समे ह्यश्वस्य पूजिते ।
रन्ध्रौ न लम्बी न च्छिद्रौ समावप्यभिपूजितौ ।
पुच्छं न इस्वं वृत्तं च बद्धमुच्चैः समाहितम् ॥
ऋग्वनुवर्तिकं चैव दीर्घवालं च पूजितम् ।
समाहितं सुमरोई मृदु वालं च पूजितम् ।।
मूले निममा दीर्घा च तन्वी वृत्ता च वर्तिका ।
जुस्तु पायुर्गम्भारो महांश्च संवतः शुभः ॥
सुश्लिष्टो निर्वलोकश्च तुरगस्याभिपूजितः ।
स्फिपिण्डौ हि घनौ चैव समौ वृत्तौ समाहितौ ।।
अपिण्डितौ न विक्षिप्तौ सहतौ चाभिपूजितौ ।
ऋजुः समाहिता लक्ष्णा समा दीर्घा च सीवनी ।।
अश्वलक्षणप्रकरणे प्रत्यवयवलक्षणम् । ४६३
न पिण्डितं न विक्षिप्तं मृदु चोर्वन्तरं शुभम् ।
शुभाण्डकोशसंश्लिष्टं तत्र मग्नं च पूजितम् ।।
वृषणौ तु समौ इस्वी वृत्तौ स्निग्धौ समाहिती।
अरोमशौ न वलिनौ सहितौ चाभिपूजितौ ।।
सहितौ परस्परसंलग्नौ।
समाहितः सुजातश्च न लम्बो न च विप्लुतः ।
मूत्रकोशः शुभोऽश्वस्य वृत्तः मुश्लिष्टमेहनः ।।
मे, इस्वं मृदु स्थूलं वृत्तं श्लक्ष्णं समं स्थिरम् ।
महामुखं चैकवर्ण संवृतं चाभिपूजितम् ।।
नाभित्ता शुभा स्निग्धा उनिम्ना चैव पूजिता ।
वडवायामवैशेष्य शृण्वङ्गेष्वधिकं तु यत् ॥
ऋज्वी पृथ्वी च ताम्रोष्ठी स्वञ्चिता संहता घना ।
वथा शुभानना ज्ञेया योनिदोषैर्विवर्जिता ॥
शिलष्टमांसशिरास्नायुपाण्डुपिण्डौ समुन्नतौ ।
घनौ वृत्तौ सुजातौ च वहावस्याश्च पूजितौ ।।
घनः सुजातो विपुलो न लम्बोधः प्रशस्यते ।
अधः अधोभागः, वहयोरेव ।
घनाः स्थिराः समा वृत्ताः मुतीक्ष्णास्तु शुभाः स्तनाः ।
ऋजुनी तु समे वृत्ते प्रतिपूर्णेऽथ सक्थिनी ।।
अनुपूर्वे च पूज्येते स्थूले वाप्यायते शुभे ।
जङ्कायवयवाश्चैव पूर्वमुक्ता विशेषतः ।।
तथैवापरकायस्य बोद्धव्यास्ते गुणान्विताः ।
न निन्ना नोल्बणाः श्लिष्टाः सन्धयोऽस्याश्च पूजिताः ॥
सुबद्धानि विभक्तानि नोवणानि समानि च।
प्रशस्यन्ते समाङ्गानि मुश्लिष्टानि धनानि च ॥
४६४
वीरमित्रोदयस्य लक्षणप्रकाशे
यत्किञ्चित्तु भवेदङ्ग गुणैरेतैर्विवर्जितम् ।
दुर्जात विकृतं हीनमधिकं वा न तच्छुभम् ॥
यथोक्तगुणयुक्ताङ्गा विभक्ताङ्गाः मुसंहताः ।
देशोपचितमांसाङ्गमानोन्मानसमाहिताः ॥
कान्ताः सुरूपाः सुभगा मनोनयननन्दनाः ।
शुभवर्णावविक्षिप्ताः सुबद्धाश्चारुदर्शनाः ।।
समुद्यतशिर स्कन्धा मृश्चितशिरोधराः ।
महावक्षोललाटाश्च महाजघनलोचनाः ॥
हस्वश्रवणमुष्काश्च तन्वायतमुखास्तथा ।
सनुत्वग्रोमवालाश्च सुकेशस्कन्धवाहनाः ।।
मृश्चितसमाः स्थूलाः श्लिष्टवंशाः मुकुक्षयः ।
मुसंस्थाना भवन्त्येते सर्वदोषविवर्जिताः ॥
एतैर्गुणैर्विपर्यस्तैर्दुसंस्थानान् विनिर्दिशेत् ।
दीर्घाणि तु प्रवास्यन्ते पाच ग्रीवा मुखं विदुः ॥
बाहू जिहा च तालुश्च जङ्घा चाष्टौ हयस्य तु ।
प्रोथकर्णौ च पृष्ठं च वृषणौ कुष्किकाः खुराः ।।
गुदं मेर् च इस्वानि पूज्यन्तेऽङ्गानि हि स्थितिः ।
पायुजङ्घादिभागा ये जानुनी खुरकुष्किकाः ॥
घर्तिकोरू च दंष्ट्रा च वंशाङ्गं वृत्तमिष्यते।
ललाटमासनं नेत्रे स्कन्धौ वक्षस्तथा कटिः ।।
उदरं चेति चाङ्गानि प्रशस्यन्ते पृथूनि तु ।
जिला प्रोथोष्ठसके च बालरोमाणि केसरम् ।।
सूना चेत्यष्ट पूज्यन्ते तनूनि च मृदूनि च ।
दन्ता नेत्रे च वर्णश्च खुराश्चाथ स्वरस्तथा ॥
स्निग्धान्येतानि पूज्यन्ते सदा पञ्चैव वाजिनाम् ।
अश्वलक्षणप्रकरणे प्रत्यवयवलक्षणम् ।
नासापुटौ पायुमुष्कौ शस्यन्ते परिमण्डलाः ।।
त्रीणि श्रेष्ठानि तीक्ष्णानि कर्णा दन्ताः कलास्तथा ।
खुरास्यं जघनं वक्षो नेत्रे नासापुटे तथा ।।
षडेतानि तुरगाणां शुभानि मुमहान्ति च ।
सक्थिनी च इनू कण्ठस्त्रितयं शुभमायतम् ॥
संवृतं त्रयमिष्टं तु शिश्नमास्यं च पायु च ।
सुराश्च तालुः पाश्च गम्भीरं पूजितं त्रयम् ।।
घोणाघाटे लालाटं च जानुकूचौं च पूजितौ ।
निर्मासाश्च प्रशस्यन्ते द्विजाः खुरास्तथोन्नताः ॥
यदर्थं तु प्रशस्यन्ते तत्फलं सम्प्रवक्ष्यते ।
अष्टदीर्घो भवेच्छ्रेष्ठः सदा भवति तूर्णगः ।।
अरोगप्रकृतिश्चाष्टास्वो भवति निश्चलः ।
आयुष्मानष्टकृत्तस्तु तेजस्व्यष्टतनुर्भवेत् ।।
एवमष्टमृदुश्चापि तथा सप्तपृथुर्वली।
पश्चस्निग्धस्तथाश्वस्तु त्रितीक्ष्णश्चापि वीर्यवान् ।।
मुविनीतश्च मेषाची धृतिमांस्तु त्रिमण्डलः ।
भवेच्च पञ्चनिर्मासो भारेऽध्वनि च पारगः ॥
षण्महान् सस्वसम्पनाशीलवांस्तु तुरङ्गमः।
शरीरं पूजितं यस्य रूपलक्षणचेष्टितैः ।।
तस्य सत्त्वमपि श्रेष्ठं विपरीतविपर्ययः ।
शरीरं सत्वमित्येतदन्योन्यमतिसंश्रितम् ।।
अतः सम्यक् बहुविधा वक्ष्यन्ते सत्वजा गुणाः ।
महाबुद्धिरसम्मोहः शौचशौर्यविचेष्टितैः ।।
औदार्यं च बुधत्वं च कर्मस्वभिरतिः सदा !
सौमनस्यमसन्ताप शीलवृद्धिः स्मृतितिः ॥
४६६
पीरमित्रोदयस्य लक्षणप्रकाशे
शुश्रूषा भाक्मानं च प्रहणं चारणं तथा ।
आत्मनोऽध्यवसायश्च सर्वकर्मसु नित्यदा ॥
प्रतिपत्तिरिति शेया हयानां सत्वजा गुणाः ।
तीक्ष्णता शौर्यता शौचदक्षताध्यवसायता ।
अविषाद इति ज्ञेया हयानां सत्त्वजा गुणाः ।
सत्वस्य ज्ञापना चैवंविधा स्यात् शुभाशुभा ॥
दृष्टैकरूपं जानीयात्संस्थानेन बलेन च ।
एवंविधशरीरा ये मानोन्मानसमाहिताः ॥
यशोऽर्थकुलरवानां स्वामिनस्ते विवर्द्धनाः।
विपरीतगुणास्त्वन्ये भर्नुः सर्वार्थहारकाः ॥ इति ।
इति प्रत्यवयवलक्षणम् ।
अथ पुष्पलक्षणम् ।
शालिहोत्रे,
सुश्रुतः श्रुतसम्पनं शालिहोत्रमपृच्छत ।
बहुवर्णानि पुष्पाणि पश्याम्याचार्य वाजिषु ॥
तेषां धन्यमधन्यं च पुष्पमिच्छामि वेदितुम् ।
किश्चाचार्य शरीरस्थं पुष्पमित्यभिधीयते ॥
एवं पृष्टो महाचार्यः शालिहोत्रोऽभ्यभाषत ।
विवर्णा बिन्दवो नूनं ये भवन्ति शरीरजाः ॥
अव्यक्तरूपा। सूक्ष्माश्च तेऽश्वानां पुष्पसंहिताः ।
धणे सवर्ण पुष्पं तु पुष्पत्वादुपलक्षयेत् ।।
स्नेहाद्रौक्षात्मसादाच रोमसंहननेषु च ।
स्निग्धेष्वेतानि पुष्पाणि खुरेष्वपि तथैव च ।।
प्रसादः अतिस्वच्छता । रोमसंहननेषु रोमसातेषु ।
ते अश्वलक्षणप्रकरणे पुष्पलक्षणम् । धन्या धन्यतमं कुर्युः पुत्रोत्पति च स्वामिनः । धन्याः वक्ष्यमाणप्रदेशविशेषविद्यमानपुष्पा अश्वार, भर्तुर्यनाद्यागमं कुर्युः । तानेवाह- मपाने वनपानाय प्रोथे शत्रुवधाय च । ललाटे धनलाभाय ध्रुवो राज्यविठ्ठद्धये ॥ मृक्किण्योश्चिबुके चैव विज्ञेयस्त्वनपानदः। भर्नुः शुभाभिकासी च धनधान्यसुखावहः ॥ देहं विवर्द्धयेत्तस्य निधिलाभश्च दृश्यते । प्रशस्तानि यथोक्तानि निन्दितानि यथा शुशु ॥ घोणाश्रये शखमृत्युगंण्डे पुत्रवधः स्मृतः । गलमध्ये भयान्यस्य आपत्ते शङ्खयोः क्षयम् ॥ उपसर्गोऽश्रुपातस्थे कटघाटागते वधः । भोजनाच्छादनं वित्तं स्याभिगाले तु पुष्पिते ।। सव्ये कर्णे सुतोत्पत्तिमित्रवृद्धिस्तु दक्षिणे । वामक्रोडोरुस्कन्धेषु पुष्पितेषु धनागमः ॥ दारान् पुत्रांच लभते कर्णे पुष्पं तु यस्य तु । अंसयोः पुत्रलाभाय तथा स्यात्मवाद्धये ॥ जान्वोस्तु कुलघाताय बाहो त्रुवधाय च । कुक्षिकक्षापये मृत्युमध्यग्रीवोष्ठयोर्वधः।। स्कन्धे धनागमं विधाकेशान्ते मित्रवर्धनम् । रन्ध्रयोः पुष्पिते पाडू विच मर्तुः प्रवर्तते ।। हृच्छोको प्रबन्धौ च हृदये पुष्पिते इथे। वामे तु धुपिते पाबें खीलामं स्वामिनो विदुः । किणे वित्तक्षयं विद्यात्सौभाग्यमपि चोरसि। पृष्ठे स्थान समृदिप बदरे शुद्भयं तथा ।।
वीरमित्रोदयस्य लक्षणप्रकाशे
सुष्कयोः पुष्पिते पाहे पुत्रोत्पतिं विनिर्दिशेत् ।
नाभ्याश्रये व्याधिपीडां जघने दारदृषणम् ।।
अपाने वालमूले च सर्वद्रव्यविनाशनम् ।
जङ्घयोः पुष्पिते बन्धस्तथा च गलकूर्चयोः ।
स्त्रीषु दोषं विजानीयान्मूत्रकोशे तु पुष्पिते ।
स्फिग्देशे पुष्पिते वाहे तीवं भर्तृभयं भवेत् ॥
तथैव कुलनाशश्च भवेदेतेन वाजिना।
सर्वाङ्गपुष्पितो वाजी भर्तुः सर्वार्थसाधकः॥
मित्रवद्धिकरो धन्यो यशोदः कुलवर्धनः ।
कर्के श्वेतानि धन्यानि सवर्णानि तथा पुनः ।।
पीतकेषु च सङ्ग्रामो बालार्कसदृशेषु च ।
कृष्णेषु युद्धं विद्यात्तु यातुश्चापभयं युधि ।
तीनं भर्तुभयं विद्याक्षेषु विषमेषु च ।
पुष्पेषु पुष्पमश्वस्य धूम्रवर्णानुवर्णजम् ॥
राजा मभ्रश्यते स्थानाद्राष्ट्रकोपश्च जायते ।
श्वेते श्वेतानि चात्यर्थ स्निग्धानि च समानि च ॥
पुष्पाणि शस्तरूपाणि राज्यलाभाय निर्दिशेत् ।
स राजा राज्यमामोति पुत्रपौत्रैश्च वर्द्धते ॥
सत्वानां च प्रशस्तानामायुधानां रणेषु च ।
तथा ध्वजपताकानां वेदियूपाकृतीनि च ॥
नन्द्यावर्त्तचतुष्काणां तथा शङ्खाकृतीनि च ।
पुष्पाणि शस्तरूपाणि वर्णाद्वर्णोत्तमानि च ।।
स्निग्धानि समरूपाणि प्राङ्मुखानि च वाजिनाम् ।
तान्याहुर्घनलाभाय भूपैश्चापि महीयते ॥
राज्यमाप्यायते राज्ञः पुत्रपौत्रैश्च वर्द्रते ।
अश्वलक्षणप्रकरणे पुष्पलक्षम् । ४६९
शृगालश्वानकाकानामाकृतीनि च यानि च ॥
विविधानां च सवानामप्रशस्ताकृतीनि च !
विवर्णानि विकीर्णानि रूक्षाणि विषमाणि च ।।
दुःसंस्थितानि यानि स्युस्तथा पश्चान्मुखानि च ।
तानि राष्ट्रविनाशाय राज्यभ्रंशकराणि च ॥
विनाशयन्ति नृपतेस्तानि कोषं बलं सुतान् ।
यथा क्षेत्रेषु दशधा विभक्तं लक्षणं पृथक् ।।
एवं पुष्पेषु न फलं तच्च विद्यानिमित्तजम् ।
तस्मानिमित्तवद्ग्राह्यमादेशश्च निमित्तवत् ॥
एवमुक्तानि पुष्पाणि यथाप्रश्नमशेषतः।
इति ह स्माइ भगवान् शालिहोत्रोऽनुशासनम् ॥ इति ।
तथा,
कृष्णभोगे यथा कृष्णं श्वेते श्वेतं च लक्षयेत् ।
भाति पुष्पं तथा मूर्त तुल्यवर्णेऽपि वाजिनि ।।
श्वेतमेव यदा पुष्पं श्वेतस्याश्वस्य दृश्यते ।
सुतोत्पत्तिर्जयश्चैव यात्रासिद्धिकरश्च यः ।।
भवतीति शेषः।
सुखी भवेत्तस्य भर्चा पुत्रपौत्रैश्च वर्धते ।
रक्तमेव यदा पुष्पं रक्तस्याश्वस्य दृश्यते ।।
महीश्वरो महीं मुझे भर्ता चारोग्यमाप्नुयात् ।
कृष्णमेव यदा पुष्पं कृष्णस्याश्वस्य दृश्यते ।
तस्य भी वर्ष तीव्रमाप्य शीघ्र विनश्यति ।
श्वेतस्य तु यदा रक्तं पुष्पमश्वस्य दृश्यते ॥
तस्य भाइवे पृष्ठे शिमं वध्येत शत्रुभिः ।
श्वेतस्य तु यदा कृष्णं पुष्प्रमश्वस्य दृश्यते ॥
-
वीरमित्रोदयस्य लक्षणप्रकाशे
अचिराद्वधमामोति भी तु समरे गतः ।
शोणस्य तु यदा श्वेतं पुष्पमश्वस्य दृश्यते ।।
की िभाऽस्य लभते समरे शस्त्रविक्षतः ।
कृष्णस्य च यदा रकं पुष्पमश्वस्य दृश्यते ॥
तस्यापि समरे भर्ती लभते कीर्तिमुत्तमाम् ।
यानि सन्धिषु दृश्यन्ते तथा मर्मसु वाजिनाम् ।।
अल्पस्नेहानि पुष्पाणि निन्दितान्येव तानि तु । इति ।
जयदत्तकृते तु विशेषा।
रक्तं पीतं तथा कृष्णं पुष्पं सर्वत्र नेष्यते ।
सर्वाङ्गपुष्पितोऽवश्य परित्याज्यो न संशयः ॥ इति ।
अश्व इत्यनुषः।
इति पुष्पलक्षणम्।
अथ पुण्डूलक्षणम् ।
पुण्ड्रस्तिलक।
शालिहोत्रे,
अपानो स्वाधस्तात् श्वेतं श्वेततरं तु यत् ।
तत्पुण्ड्रमिति विज्ञेयं तस्य संस्थानतः फलम् ॥ इति ।
जयदत्तकृते अश्वायुर्वेदे,
अत ऊर्ध्व प्रवक्ष्यामि पुण्ड्राणां लक्षणं शुभम् ।
आनुपूर्ध्या यथोदिष्टं मुनिभिश्चार्थवदिभिः
शक्तिशङ्खगदापचखद्गचक्राडशोपमः ।
शिरोललाटवदनं या पुण्डो व्याप्य तिष्ठति ।।
स धन्या पूजितो नित्यमल्पश्चापि हि यो भवेत् ।
पर्वतेन्दुपताकामा ये च स्निग्धाः समाश्रिताः ॥
अश्वलक्षणप्रकरणे पुण्ड्रादिलक्षणम् । ४७१
ते सर्वे पूजिता पुण्ड्रा धनधान्यफलमदाः।
इति पुण्डा समाख्याताः पूर्वशास्त्रानुसारतः ।।
अशुभांश्चैव वक्ष्यामि यथायोगं समासतः ।
काककङ्ककबन्धाहिगृध्रगोमायुसभिभा॥
असिताः पीतका रक्ताः पुण्डका न च पूजिताः।
तिर्यगता विचित्राश्च शृङ्खलापाशशोभिताः ।।
शूलाग्रा वामदेहस्थाः पुण्डका न शुभाः स्मृताः ।
जिमकृष्णातिकक्षाणि भस्मवर्णनिभानि च ।।
पुण्ड्रकाणि विनाशाय मिन्नवर्णानि वाजिनः । इति ।
शालिहोत्रे,
चतुरस्त्रं पुण्ई नृपते मिलाभाय निर्दिशेत् ।
खड्गः शङ्को धनुर्वजं लागलं मुशलं गदा ।।
ध्वजः पताका शक्तिों यस्य पुण्ड्रेऽङ्कितं भवेत् ।
सोऽश्वो राजेन्द्रवायः स्याद्विज्ञेयो विजयावहः ॥
तमारुह्य नृपः श्रेष्ठः सर्वानरिंगणान् जयेत् ।
यशः पुत्रांश्च पौत्रांश्च वित्तं चाप्यस्य वर्षते ॥ इति ।
इति पुण्ड्रलक्षणम् ।
अथ ललामलक्षणम् ।
शालिहोत्रे
ललाटमध्ये यच्छेतं तारारूपमिवोत्थितम् ।
ललाममिति विज्ञेयं तद्भर्तु विसूचकम् ।।
धन्याधन्यानि वक्ष्यामि ललामानि हयविह।
अश्वेतस्य ललाटस्थं श्वेतं यस्य ललामकम् ।
पुण्ड्वचापि विज्ञेयं ललामेष्वय लक्षणम् ॥
भूयश्च स्थानसंस्थानाद्विशेषस्तु शुभाशुभम् ।
४७२
वीरमिनोदयस्य लक्षणप्रकाशे
प्रवक्ष्यामि ललामेषु तच्छृणुष्व यथाक्रमम् ॥
चन्द्रार्धचन्द्रवजा सूर्यभद्रासनं कचित् ।
वर्मभाराकति चापि ललामं यस्य वाजिनः ।
तस्य भर्ता लभेद्राज्यं पुत्रपौत्रैश्च वर्द्धते ॥
नन्द्यावकितिनिभं कूर्मपृष्ठनिभं तथा ।
ललामं तत्मभावस्तु यातुः सौभाग्यवर्द्धनम् ॥
हयस्य तस्य भर्त्ता तु प्रभूतं धनमाप्नुयात् ।
यश्च मध्यललामोऽश्वो भर्तुमिष्टाशनो भवेत् ॥
गजाश्वबालवृषभपशूनां सहशाकृति ।
ललामं यस्य वाहस्य सोऽश्वः स्थाप्यो रणेऽग्रतः ॥
चतुरङ्गसहः श्रीमान् पुत्रपौत्रविवर्द्धनः ।
ललाटमध्योपरि यच्च दक्षिणभागिकम् ।।
ललाम तत्मशस्तं तु यातुः सौभाग्यवर्द्धनम् ।
इत्युक्तानि प्रशस्तानि शृण्वधन्यानि यानि तु ॥
ललामं च काकपदं तथा गोमेदकाकृति ।
तस्य भर्चा दुःखी भूत्वा सहाश्वेन विपद्यते ॥
विच्छिन्नानि विवर्णानि अर्द्धानि च तनूनि च ।
विमिश्राण्युपदग्धानि यानि दुःसंस्थितान्यपि ।।
अव्यक्तानि विवर्णानि परुषाण्याविलानि च ।
तानि वित्तविनाशाय ललामानि विनिर्दिशेत् ॥
इति ह स्माह भगवान् शालिहोत्रोऽनुशासनम् ॥ इति ।
इति ललामलक्षणम् ।
अधावलक्षणम् ।
जयदत्तकृते अश्वायुर्वेद,
अतः परं प्रवक्ष्यामि आवर्तानां विनिश्चयम् ।
अश्वलक्षणप्रकरणे आवर्तलक्षणम् । ४७६
शुभाशुभविवेकाय पचा बाले व्यवस्थितम् ।
विंशतिस्तु शुभा मोका पण्णवत्योऽशुमा स्मृताः ।
उत्तरोष्ठे अपानं स्याचत्रावर्चः शुभावहः ।।
सक्किण्योश्च तथा प्रोक्ताः सर्वकामफलप्रदाः ।
अयश्चैवाय चत्वारो वाजिनो यस्य रोमजाः ।।
द्वौ वा ललाटजौ यस्य स तु धन्यतमः स्तः ।
आनुपूर्व्याऽवस्थितास्ते वो ललाटजात्रयः ।।
निःश्रेणी नाम सा रूयाता भर्तुः सर्वार्थसाधिनी ।
शिरकेशान्तयोर्मध्ये सुवो नाना विधीयते ॥
वत्रावतः स्थितोऽश्वस्य भर्तुर्जयविवर्दनः ।
घण्टाबन्धसमीपस्यो निगाला कीर्तितो बुधैः ।।
तस्मिन् देवमणिर्नाम रोमजः शुभकृत् स्मृतः ।
कर्णमूले तथा बाहो केशान्ते मस्तके तथा ॥
आवर्ताः पूजिता नित्यं विशेषेण तु मस्तके ।
यावर्चा यस्य चत्वारो वाजिनो वक्षसि स्थिताः ।।
एकः कण्ठे भवेत्स्पष्टः स धन्यः सर्वकामदः ।
रन्धे चैव सदा भर्नुः शंसितार्थपदो मतः ।।
उपरन्ध्रोद्भवञ्चैव रोमजवातिपूजितः ।
शङ्खचक्रगदापनशक्तिवजोपमाश्च ये॥
विशेषेण शुभाः प्रोक्ता रोमजा झुंभदेशजा।
अत अर्ध्व प्रवक्ष्यामि रोमजानशुमोदितान् ।।
भर्नुः क्लेशापहान् सर्वान् धनप्राणापहारकान् ।
नासिकापुटयोर्मध्ये प्रदेश प्रोथ उच्यते ॥
तत्र भर्नुर्विनाशाय रोमजोऽश्वस्य कीर्तितः ।
अर्ध्वं च नासिकाच्छिद्रात्स्वामिनः क्लेशकारकः ॥
४७४
वीरमित्रोदयस्य लक्षणप्रकाशे
गण्डजचैव भर्तारं हन्त्यावर्तो दुरासदः ।
अश्रुपात: समुदिष्टः प्रदेशचक्षुषोरधः ।
तत्रावतॊ भवेद्धीनः स्वामिनः कुलनाशनः ।
अपाङ्गाद् व्यङ्गुले चैव प्रदेशः शङ्ख उच्यते ॥
तस्मिन् भर्नुविनाशाय भवेद्दाहस्य रोमजः ।
भ्रुवोर्देशे समुद्भूत आवत्तों नैव पूजितः ।।
सुहृद्वियोगकृत्स स्याद्भ रावसादका।
सव्यग्रीवां शिरा विद्यात्तत्रावर्तस्तु कुत्सितः ।।
कक्षयोश्चापि सङ्ग्रामे स्वामिनं वाशु घातयेत् ।
चिबुकस्य समीपस्थो वामदक्षिणभागतः ।।
प्रदेशस्तु हनुर्नाम तत्रावतॊ हि दारुणः ।
अधरोष्ठे निगालस्य मध्ये वा गल उच्यते ।
तत्रावतः स्मृतो भर्नुः सङ्ग्रामे जीवितान्तकृत् ।
कूचीदष्टाङ्गुलं चोर्ध्व पार्श्वतश्च कला स्मृता ॥
तत्र भर्तुः शराघात वितान्तश्च रोमः।
ककुद वृषभस्येव सुव्यक्तमुपलक्ष्यते ।।
वाजिनो यत्र तत्रस्थ आवर्तस्तु विनाशकृत् ।
ककुदस्य पुरोभागसमीपे वह उच्यते ॥
भर्तुः सुतसमेतस्य तस्मिन्नाशाय रोमजः ।
काकसे स तु यस्य स्यादावर्तोऽश्वस्य दारुणः॥
रणे इतः सम भ; क्रन्यादैः स विलुप्यते ।
कोडे चैवासने वापि हृदये यस्य वाजिनः ॥
आवतः स्वामिधाताय भवत्येव न संशयः ।
पायो रोमजी यस्य स चाश्वो नृपतिक्षयम् ॥
कुर्यादिति शेषः।
t
,
अश्वलक्षणप्रकरणे आवर्तलक्षणम् ।
सपक्ष वाशु भर्तारं नीहाराम्बु यथाम्बुजम् ।
नाशयेदिति शेषः ।
कूर्चस्याधम्मदेशस्तु कुष्टिश्च परिकीर्तितः ।।
अधन्यस्तत्र वाहस्य नक्योर्जानुनोच यः ।
नाभिजो मुष्कजश्चैव त्रिकजश्च विशेषतः ॥
पुच्छमूलगतश्चापि नैव धन्यः प्रकीर्तितः ।
कुक्षौ व्याधिक्षयं याति रोमनाः कुतिसम्भवाः ।।
पायुत्रिवलिमध्यस्था नैव धन्याः प्रकीर्तिताः।
स्फिचिजः खुरजश्चैव यस्यावतॊ हि दारुणः ॥
तलावर्तश्च तुरगो भर्तुः सर्वार्थनाशनः ।
शतपादीति विख्यातस्तथा च मुकुलोऽपरः ।।
आवर्तचैव सङ्घातः पादुका चार्धपादुका ।
शुक्तिश्चैवावलीढश्च आवर्तः कीर्तितोऽधा ॥
वाजिदेहगतः सम्यक् शुभाशुभनिवेदका ।
शतपादसमाकारः शतपादी प्रकीर्तितः ॥
जातीमुकुलसङ्कायो मुकुला समुदाहृतः ।
आवों भ्रमितो वालै सङ्घातो रोमपुञ्जका ॥
पादुका पादुकाकारस्तथा चैवार्धपादुकः ।
शुक्तिश्च शुक्तिसंस्थानो रोमभिर्व्यक्तलक्षणः ॥
एतेषामवलीढस्तु अवलीढः प्रकीर्तितः ।
बालविशेषसंस्थाननिर्दिशेन्मतिमान् भिषक् ।।
शास्त्रमार्गानुसारेण यथा प्रोक्तं तपोधनः।
एतेषामेव सर्वेषामावर्चानां विचक्षणः ॥
रोमजेति कुता संज्ञा वाजिलक्षणदिभिः।
शुभाशुभौतु यत्र द्वौ सत्रैको न फलमदा ।
२
वीरमित्रोदयस्य लक्षणप्रकाशे
एक हेना दहेल्पा तेन दोषो न दुष्यति । (१)
अथ वा वाजिनो मुख्या जवादिगुणासिन्धवः ।।
दवा प्रायाः क्रयेणैव दुरावस्तु काकुदी ।
श्रीवृक्षो रोमजथैव रोचमानस्तथैव च ॥
अङ्गदी मेखली नाम राज्यरकप्रदः सदा ।
श्रीक्षादिलक्षणमये वक्ष्यते।
अपाने मारुतं विद्याल्ललाटे च हुताशनम् ॥
उरसि चाघिनौ देवौ चन्द्रसूयौं च मूर्द्धनि ।
रन्ध्र स्कन्दविशाखौ च उपरन्ध्र हरिहरौ।
इत्येवं पूजितास्त्वेते दशावास्तु वाजिनाम् ।
अथैकेन विहीना ये भवेयुरशुभावहा: ।। इति ।
गणकृते अश्वायुर्वेदे,
आवर्तशुक्तिसातमुकुलान्यवलीढकम् ।
शतपादी पादुकापादुका चाष्टमी स्मृता ।
आवर्ताकतयश्चैता अष्टौ सम्परिकीर्तिताः।
रूपमासां विशेषेण पुनश्च कथयाम्यहम् ॥
तत्र प्रधानो बावः शुक्तिश्चापि शुभा मता।
शतपादी पादुका च शुक्तिश्चापि षडङ्गुला ॥
पादुका(कुला चैव मुकुलं तदुच्यते ।
विभागोऽङ्गुलमावर्तमानमेषामिति स्मृतम् ।।
तत्र प्रधानो यावर्तः शुक्तिश्चापि शुभा मता ।
श्रीवक्षो वक्षसि प्रोक्तो यावतः पञ्चभिर्भवेद ।। इति ।
आवौं सूक्तिस्थौ शुक्ती वा यस्य वाजिनः स्याताम् ।
मानोति मिष्टमनं भर्ता पुत्रांश्च पौत्रांश्च ।।
परस्य भवेता ललाटजी दो प्रदक्षिणावत्तौं ।
সংলগসন্ধান তথ।
तस्य स्वामी विजयी बहुमजो जयति रिपुमैन्यम् ॥
यस्य त्रेतानिनिभाः प्रदक्षिणा वै प्रयो ललाटस्था ।
तस्य स्वामी विजयी सन्तिष्ठति मूर्ध्नि शत्रूणाम् ।।
निाश्रेणी यस्य भवेत्रिभिरावलेलाटमध्ये तु ।
राजा तेनाश्वेन च लभते विजयश्च धनधान्यम् ॥
सव्यावताजी चतुर्दिक्षु संस्थितैर्ललाटे तु ।
कुरुते स्वामिनमचिरान्महीपतिं पुत्रवन्तश्च ।।
आवर्तो मुकुलो वा स्वप्रदेशे प्रदक्षिणो यस्य ।
तस्य तुरगस्य भर्ता सङ्ग्रामे जयति रिपुसैन्यम् ।।
आवत्तौं वृषभाख्यौ आयो तुरगस्य कर्णमूलस्यौ ।
ताभ्यां स्वामी विजयी लभतेऽलकारनिकरांश्च ।।
आवर्तस्तु निगाले देवमणिः सर्वकामदचासौ ।
राष्ट्रसुतकोशसम्पत्सौख्यानि ददाति विजया ।।
आव! हन्त्यशुभानग्रिमकाये ककुद्भवं मुक्त्वा ।
तत्रारूडो नृपतिर्जयति रणे शत्रुसैन्यानि ॥
यस्योपरन्ध्रभागे क्षेमावर्तः मजायते श्रीमान् ।
तस्य स्वामी विजयी रणमूनि भवति शत्रूणाम् ।।
आवतः कण्ठस्थः शुक्ति रोचमान इत्युक्तः।
राज्ञस्तेनाश्वेन तु कोशो मित्राणि वर्धन्ते ।।
रोचमानस्तु पूर्वार्दै निःश्रेणी शिरसि स्थिता।
पश्चार्दै मेखली सर्वानशुभान् हन्ति रोमनः ।।
केशान्तयोब शुक्ती द्वे तुरगस्य दृश्यते ।
तस्य स्वामी विजयी वर्द्धते पुत्रपौत्रैश्च ।।
आवर्ता वर्मस्थाश्चतसृष्वपि दिक्षु यस्य चत्वार ।
कण्ठेच रोचमानः सोऽश्वः श्रीवत्सकी नाम ।।
बीरमित्रोदयस्य लक्षणप्रकाशे
तेनाजो रिपुसैन्यं विजित्य विनिवर्तते राजा ।
मामोत्यर्थान् स्वबलाद्राष्ट्र सौख्यं यशश्चैव ।।
पक्षसि यस्यावताश्चत्वारस्तस्य वाजिनः स्वामी ।
मामोति रणे विजयं वित्तं निष्कण्टकं राज्यम् ।।
शुक्तयो वक्षसि तिस्रो यस्य स्युः सर्वकामदः सोऽश्वः ।
तेनासौ विजितारि: स्वस्थो विनिवर्त्तते राजा ।।
बाहोर्यस्यावौं शुक्ती वा सोङ्गदी हयः प्रोक्तः ।
पामोति तस्य भर्ती रवान्याभरणनिकरांश्च ।।
आवत्तौं रन्ध्रोपरि यस्य स्तो मूर्ध्नि मेखली नाम ।
तेनैश्वर्यं भवति हि पुत्राः पौत्राश्च वर्द्धन्ते ॥
एते शुभाः प्रशस्ताः सप्तत्रिंशद्रोमजाः कथिताः । इति ।
शालिहोत्रेऽपि,
आवर्तस्त्वघरोष्ठस्थः स्वामिनो मातृघातकः ।
स्वामिनः पितरं हन्यात्पपानोपरि दक्षिणः ॥
पामे भ्रातृवध विद्यागारमुपसंस्थिते ।
प्रोथाऽऽवी पोथयति भर्तारं सकुलं दहन् ।
नासापुटस्थावावौं भर्तुर्विचाविनाशको ।
यस्यावत्तौ च दृश्येते गण्डयोरुभयोः स्थितौ ॥
स्वामिनं ज्येष्ठपुत्रं वा स खादति तुरङ्गमः ।
आवर्ती चाश्रुपातस्थौ दृश्येते यस्य वाजिनः ।।
नित्याश्रुपतनं विद्यात्कुले यस्येहशो हयः।
कूटयोर्यस्य चावतौ दृश्येते व्यक्तरूपिणौ ॥
भर्तुः कुलं पातयति यावद्गोत्रपरिग्रहम् ।
दृश्येते यस्य चावौं भ्रुवोर्मध्यगतावुभौ ॥
सहयो भुकुटि म प्रातिमित्राविरोधकत् ।
अश्बलक्षणप्रकरणे आवर्तलक्षणम् ।
शङ्खयोरुभयोर्यस्य दृश्येते रोमजावुभौ ॥
कुलं स भक्षयेत्सर्वं भर्तुर्पसनदो हयः ।
मन्यायां हनुचक्रे च पादयोः स्कधसन्धिषु ॥
आवर्ता यस्य दृश्यन्ते कक्षावतिरोमजाः ।
प्राणघाती भवेद्भर्तुः स्कन्धभागकलादिषु ॥
अग्रकर्णाश्रितो यस्य दृश्येते रोमजावुभौ ।
मन्त्र विश्रावणकृतैर्दोषैर्भर्ता विपद्यते ॥
आवौं विदुमर्मस्थौ दृश्येते यस्य वाजिनः ।
नार्थसिद्धिकरो भर्तुमर्मावर्ती तुरङ्गमः ॥
यस्यावर्तः प्रहश्येत गलमध्ये प्रतिष्ठितः ।
स्वामी तस्याप्यनेत्रश्च नानपानस्य भाजनम् ॥
यस्यावत्तौ वहस्थौ तु स यो घातयेाधि ।
स्वामिन चैव नेतारं न च कर्मसु सिध्यति ।
यस्यावतस्तु ककुदे ककुदी स प्रकीर्चितः।
भर्तारं सान्वयं हन्यात्तथा भर्तुः कुलोद्वहम् ॥
वाहनानां विनाशाय राज्ञो राष्ट्रवधाय च ।
सर्वार्थनाशनं रौद्रं जातमात्रं विवासयेत् ॥
न तं शालासु बधीयादयं वैद्यविगहितम् ।
अवतीर्य च सकाम स जीवनाभिवर्तते ॥
हस्तस्पर्शनचक्षुभ्यों हरतः परिवर्जयेत् ।
द्विजेभ्यो वा प्रदातव्यः परराष्ट्रेषु वोत्स्नेत् ।।
दृष्ट्वा सूर्य निरीक्षेत स्पृष्ट्वा स्नायात्सवासप्ला ।
एषा ह्यावर्तरूपेण धूम्रकेतुरिवोत्थितः ॥
काकसावर्तिनोऽश्वस्य वायमैर्भक्ष्यते पतिः ।
नानासत्त्वैरनिष्टैश्च हतसैन्यो रणे हतः ।।
वीरमिनोदयस्य लक्षणप्रकाशे
पार्श्वयोर्यस्य चावौं भर्ता तस्य सबान्धवः ।
क्षयमायात्यकाले तु ग्रीष्मकाले यथा जलम् ।।
आसनावर्त्तिनो भर्ता शूलेन वधमहति ।
पृष्ठजावर्तिनो भर्ता रणमध्ये ऽस्य वाजिनः ॥
अथ दूषणदूषार्थ क्षिH शस्त्रण वध्यते ।
यस्थावर्तस्तु दृश्येत कोडमध्ये प्रतिष्ठितः ।।
भर्तारं सपरीवारं रणे सोऽश्वस्तु घातयेत् ।
नासावर्ती स्खलन् सख्ये द्विषत्सेव्ये समाकुलः ।।
राजचौराग्निदंष्ट्रेश्व कुलं मर्नुर्विनाशयेत् ।
सङ्ख्ये सङ्ग्रामे । दंष्ट्रव्याघ्रादिभिर्दष्ट्रिाभिः ।
तत्र विद्धि महादोषं जान्यावर्तस्तुरङ्गमः ।।
स पातयति भोगाच्च स्थानाच वसुधाधिपम् ।
जङ्घयोरुभयोर्यस्य दृश्येवे रोमजावुभौ ।।
निगडैर्बध्यते तस्य भर्ता तु सह बान्धवैः ।
कुष्किकावर्तिनोऽश्वस्य भी वध्येत संयुगे ।।
सततं बहुभिः क्लिष्ट व्यसनैरतिदारुणैः ।
हृदयावर्तिनोऽश्वस्य हृच्छोकपरिपीडितः ।।
बधबन्धपरिक्लिष्टः सान्वयस्तु विनश्यति ।
भतेति शेषः।
इयस्तु कक्षसंसिद्धा सङ्घाते वध्यते परैः ।।
स हयो यस्य भास्य स्वस्तिमान निवर्तते ।
कक्षससिद्धः कक्षावर्तः । सङ्घाते सङ्ग्रामे ।
एककक्षोऽल्पदोषस्तु गर्हितचोभयोः स्मृतः ॥
उभयोः कक्षयोरावर्ते उक्त सम्पूर्णो दोषः, एकनारप इति ।
नाभ्यामावर्तरूपं तु दृश्यते यस्प वाजिनः।
भरवलक्षणप्रकरणे भावर्तलक्षणम् ।
भर्चा तस्य ससन्तानो व्याधिभिः पीब्यते भृशम् ।।
आवौं मूत्रकोशस्थौ भर्नु रिव्यदूषणौ।
बहुमजा न चायुष्यं यस्यावचौ तु मुष्कजौ ।
त्रिकावर्तिनमास्थाय सङ्कामे यो ब्रजेन्नरः ।
सशल्यस्त्यजति प्राणान् सादी स च सहायवान् ।।
आवौं पुच्छमूलस्थौ दृश्येते यस्य वाजिनः ।
कुलघाती भवत्येव नात्र कार्या विचाणा ॥
पायुप्रदेशे कुक्षौ च सीवनीभागमाश्रितः ।
कुक्षिव्याधिको भर्तुः कचिन च मुखावहः ।।
स्फिपिण्डयोरुपरिजौ यस्यावत्तौं तु वाजिनः ।
स पिण्डपाती विज्ञेयो भन्नः कुलनाशनः ।।
स्थूलावर्ती च यो वाजी नित्यमध्वनि पूज्यते ।
शस्त्रवध्यो भवति च सह भो तुरङ्गमः ।।
जवादिभिः पूर्वमुक्तं व्याख्यातं पृष्ठतः फलम् ।
इत्यप्रशस्ता व्याख्याताः प्रशस्तानपरान् शृश॥
ललाटे यस्य चावौं समौ स्याता प्रदक्षिणौ ।
सङ्ग्रामे तेन जयति पुत्रपौत्रैव वर्धते ।
प्रदक्षिणा प्रमाणस्थात्रयो यस्य कलाटजाः ।
नैकातिविशेषास्तु अमिहोत्रनिभास्तथा ॥
नैकातिविशेषाः सहशाकृतयः ।
सत्रियस्तादृशं लब्ध्वा शत्रूणां मूर्ति तिष्ठति ।।
यज्ञाचैव समाषचे विपुलान् भूरिदक्षिणान् ।
ललाटे यस्य श्येत पहिलोयिता समा॥
त्रिभिः प्रदक्षिणावर्वैनिश्रेिणीत्याभसविता ।
तया तु निःश्रेणिकपा जयेद्राजा रिपून रणे।
१८३ वीरामिवोदयस्य लक्षणप्रकाशे
नियं हि विजयश्चैव स्वचक्रं चास्य वर्तते ।
धनधान्यसमृद्धिं च तेनाश्वेन समाप्नुयात् ॥
ललाटे यस्य चावश्वित्त्वारा स्युश्चतुर्दिशम् ।
नापसव्याः समा व्यक्ताश्चतुरङ्गेति तं विदुः ।।
तेन राजा विजयते नि:सपनां वसुन्धराम् ।
रणे च विजयी नित्यं वसुमान् पुत्रपौत्रवान् ।।
आवत्तों मुकुलो वापि खुवे यस्य पदाक्षिणः।
यस्तेन याति सङ्ग्राम जित्वा शनिवर्तते ।।
भावों कर्णमूलस्थौ दृश्येते यस्य वाजिनः ।
वृषभाविति तो शेयौ भर्तुरीप्सितकामदौ ।।
अलङ्कारैश्च भास्य वर्धते पुत्रपौत्रवान् ।
आवर्तस्तु निगालस्थो सुन्यूहः सुप्रदक्षिणः ।।
सवै देवमणि म सर्वकामार्थसाधका ।
निहन्ति चाशुभान् सर्वानावान् पूर्वकायजान् ।
तमारुह्य नृपः सङ्खये लभते शाश्वतं पदम् ॥
कण्ठे यथाऽऽयता शुक्तिरावर्तो वापि यो भवेत् ।
स रोचमानो विज्ञेयो भर्तुमित्राववर्द्धनः ।।
केशान्ते यस्य शुक्ती द्वे ऊर्ध्वं प्राचीनमायते ।
क्षत्रियस्तेन जयति पुत्रपौत्रैश्च वर्धते ।।
यस्यावर्चास्तु दृश्यन्ते वक्षास्था सुस्थितात्रयः।
प्रदक्षिणा व्यक्तरूपाः शुक्तयो वाइरोमजा।।।
भो तस्य रणे शत्रून् जिस्वा स्वस्थो निवर्तते ।
बाहुजौ यस्प चावतौं शुक्ती स्यातां हयस्य तु ॥
सोऽादी नाम तुरगो भराभरणमदः ।
रन्ध्रयोगपरिधातु यस्पावतौं मदक्षिणौ ॥
भरवलक्षणप्रकरणे महादोषलक्षणम् । ५८३
स मेखली वर्षयते कोष्ठागारं वानि च।
वित्तं चाप्यायते तस्य पुत्रपौत्रैव वर्धते ॥
श्रीक्षा स्वस्तिकं पलं वर्द्धमानगवाध्वजाः ।
नन्द्यावर्तो हलं चक्रं शो वजमसिनु।।
मत्स्यश्चन्द्रोऽर्धचन्द्रो वा पताका मुसलं तथा ।
एवमाद्याः शुभावा श्यन्ते यस्य वाजिनः ।।
पक्षासि स्युर्ललाटे वा राज्ञो राज्यमवापयेत् ।
इत्यावर्ताः प्रशस्ताः स्युाख्याता निन्दिताश्च ये॥ इति ।
इत्यावर्तलक्षणम् ।
अथ महादोषलक्षणम् ।
विष्णुधर्मोत्सरे,
पुष्कर उवाच ।
अश्वातामुषिभिः प्रोक्ता महादोषा भृगूचम ।
यैरन्विताः परित्याज्यास्तान्मे निगदतः शृणु।।
हीनदन्तोऽधिदन्तश्च कराली कृष्णवालुका।
कृष्णजिहश्च यमजो जातमुष्कश्च यस्तथा ।
द्विशफश्च तथा शृङ्गी त्रिकर्णी ध्यानरर्णकः ।
खरवर्णो भस्मवर्णो जातवर्णश्च कादी।
वित्री च काफसादी च खरसारस्तथैव च।
घानराशः कृष्णसटः कृष्णमुष्कस्तथैव च ।।
कृष्णमोथश्च सूकच यश्च विचिरसनिमः ।
विषमखेतपादस्तु ध्रुवावर्वविवर्जितः ॥
अशुभाव संयुक्तो वर्जनीयस्तरमा ।
नुवावलक्षणमुकम्न
१८४
बीरमित्रोदयस्य लक्षणप्रकाशे
तत्रैव,
रन्ध्रोपरन्ध्रयो द्वौ द्वौ द्वौ मस्तकवक्षसोः ।
अपाने च ललाटे च ध्रुवावर्ती दश स्मृताः॥
एकोऽपि न भवेद्यस्य ध्रुवावर्तस्तु वाजिनः ।
न त शंसन्ति धर्मज्ञास्तस्मा परिवर्जयेत् ॥ इति ।
विशेषस्तु जयदत्तकृते अश्वायुर्वेदे उक्त:-
आव? यस्य ककुदे काकुदी स उदाहृतः ।
करालाश्चाधरा दन्ता जायन्ते यस्य चोत्तरे ॥
स कराली इति प्रोक्तो भर्तुः पुत्रादिभक्षकः ।
चतुर्भिः पञ्चभिश्चैव हीनदन्तः प्रकीर्तितः ।।
सप्तभिश्चाष्टभिर्दन्तर्जातश्चाधिकदन्तकः ।
अङ्गुष्ठपर्वसङ्काशं छागलोपमं तथा ॥
जम्बूबदररूपं च तथा चामलकोपमम् ॥
आम्रास्थिसदृशं चापि हरीतक्याः फलोपमम् ।
दग्धचर्मनिभं चापि वालसंस्थानमेव च ॥
कीलं कर्णान्तरे यस्य केशान्ते चापि दृश्यते
धौरेयः सर्वपापानां वाहः शृङ्गी स कीर्तितः ।।
एवंविधेन शृङ्गेण शृङ्गी राष्ट्रे न वासयेत् ।
समिति शेषः।
एकतो लम्बमानेन मुष्केणैकाण्डसंज्ञकः ।
अत्यन्तोनासमाभ्यां तु ताभ्यां जाताण्ड उच्यते ॥
स्कन्धे पक्षास पाहोच अंसदेशे तथैव च ।।
अन्यवों भवेद्वाजी कञ्चुकी स प्रकीर्तितः ॥
पस्यान्यवर्णा रेखा च पादे कूर्चे च वाजिनः
भाजारपाद:मोक्तोऽसावधन्या कुलनाशनः ।।
५
"
N
अश्वलक्षणप्रकरणे महादोषलक्षणम् । ४८५
द्विखुरी गोखुराकारैः खुरैयो विचक्षणैः ।
अथ वा त्रिवलीयुक्तर्निम्नमध्यैश्च निर्दिशेत् ।।
खुरैरित्यनुपरः।
वृषणाभ्यां सस्तनाभ्यां जातस्तन्यभिधीयते ।
त्रिभिः कर्णैत्रिकर्णी च व्याघ्राभो व्याघ्रवर्णका।।
एकेनाङ्गेन होनेन निम्नेन च विशेषतः।
यमर्ज वाजिन विद्याद्वामन वामनाकतिम् ।।
वर्णादेकेन पादेन अन्यवर्णेन यो हयः ।
मुशलीति स विख्यातो भर्तुः कुलविनाशनः ॥
अथ चेडवायां तु विरोधमधिगच्छति ।
निगूढवृषणाख्यस्तु
विरोधं यो न वै याति दृष्ट्वाश्वान्मुष्कवर्जितः ।
इन्द्रवृद्धिः स विख्यातो भर्तुः कुलविनाशनः ।।
द्विवर्षे तु समारभ्य यावत्स्यात्पञ्चवार्षिकः ।
दन्तानां मुष्कयोश्चैव सम्भवो वाजिनः स्मृतः ॥
अतः परं न जायन्ते मुष्कौ दन्ताश्च वाजिनाम् ।
अशुभं तु फलं वाच्यमभावेन ततस्तयोः॥
एते दोषान्विता वाहास्त्याज्या वै भूतिमिच्छता।
धनप्राणहरा खेते बन्धुविग्रहकारकाः ।।
सुरथस्य गतं राज्यं ककुदस्यैव दूषणात् ।
हता कञ्चुकिभिः कर्णोऽधिकदन्तैश्च पाण्डवाः॥
सशस्तनदोषेण सुस्तनी सङ्गरे क्षयम् । (१)
भान्वावर्तीयदोषेण पश्चत्वं रावणो गतः ॥ इति ।
सर्वव्याधिकरः सदा॥
इति महादोषलक्षणम् ।
।
४८६
वीरमिनोदयस्य लक्षणप्रकाशे
अथ राजयोग्याश्चलक्षणम् |
शालिहोत्रे,
शालिहोत्रमूर्षि श्रेष्ठं कौरव्यः परिपृच्छति ।
अश्वं कीदृशमारुह्य राजा विजयते महीम् ।।
वृद्धिक्षयौ वा को शेयौ राज्ञो राज्यस्य वा कथम् ।
बलं कोशस्तथा राष्ट्र वर्द्धते इसते ऽपि वा ।।
कीहग्लक्षणयुक्तेन मित्रप्रकृतिरञ्जनम् ।
एवं पृष्टस्तु पुत्रेण कौरव्यं प्रत्यभाषत ।।
श्वेतपाटलगौरा ये ये च श्वेतानुवर्णिनः ।
एते यदि भवन्त्यश्वाः कालाक्षफलतालवः ॥
कालैः खुरैः कालवाला यस्य तिष्ठन्ति वेश्मनि ।
एतैश्व राष्ट्र कोशश्च कोष्ठागारं च क्षीयते ॥
मित्राणि चापरज्यन्ति वित्तं चास्य विनश्यति ।
यो होतैर्याति सङ्ग्राम स्वस्तिमात्र निवर्तते ॥
काला कपिलकेशान्तो हयः कपिलवालधिः ।
जह्यादनर्थसम्पन्न कुलमुत्सादेयत्कथम् ।।
शिरोवालाश्च केशाश्च प्रायोऽन्तर्दग्धचर्मवत् ।
गृहमग्निपियं तस्य यस्य तिष्ठति वेश्मनि ॥
कपालदग्धवर्णाभो निष्पभश्च तुरनमः ।
उलूकपिङ्गलो रौद्रो यस्य तिष्ठति वेश्मनि ॥
यतिकात्यर्थदीर्घा च सोत्सादयति तत्कुलम् ।
इत्यप्रशस्ता व्याख्याताः प्रशस्वानपरान् शृणु।
अर्कपत्रसवर्णस्य दन्ता ह्यविरळाः समाः ।
लक्षारससमा जिहा स्तनौ चोत्तरतालु च ॥
मणिवेवणे पोरे यस्य नखास्तथा।
अश्वलक्षणप्रकरणे राजयोग्याश्वलक्षणम् । ४८७
सुशुक्रवाहनो वाहो विषये यस्य तिष्ठति ॥
विषयो देशः।
कौरव्य पृथिवी तस्य चतुरन्ता ससागरा।
आज्ञाविनिर्जिता तिष्ठेत् यस्याश्वस्तादृशो भवेत् ।।
न शस्त्रममिमिक्षं रोगवन्धमरीभयम् ।
भवेत्तस्मिञ्जनपदे स हयो यत्र गच्छति ।।
सङ्घगमे विजयी चैव सर्वकामार्थदः सदा।
शुकपक्षसवर्णस्य यस्य रक्तं भवेच्छिरः ।।
स्निग्धं सर्वसमं चाक्षि नान्यवर्णेन चाहतम् ।
तेन राष्ट्रं च कोशश्च कोष्ठागारं च वर्धते ॥
मित्राणि चानुरज्यन्ते शत्रूश्चैवाधितिष्ठति ।
गौरो माणिनिभश्चैव श्वेतास्यस्ताम्रतालुकः ॥
पलं कोशोऽर्थमित्राणि प्रजा चैतेन वर्धते ।
यश्चाइवं व्रजेचेन सर्वोस्तानाशयेदरीन् ।
श्वेतोऽश्वस्तालुरक्तश्च मध्वक्षो लोहितः सटैः।
भावर्तशुद्धं तं वाहं राजा वेश्मनि वासयेत् ।।
तेन राष्ट्रं च कोशश्च कोष्ठागारं च वर्षते ।
यजते चाश्वमेधेन पृथिवीं चानुशासति ।
कृष्णमेघप्रभो बाजी मेघदुन्दुभिनिास्वनः ।
कुष्णसर्प इवोदय: शुभसवगतिश्च सः ॥
एतेनानुप्रयातस्य चक्रं तु प्रतिहन्यते ।
शङ्कश्वेतो भवेद्वाजी शङ्खघोषसमस्वनः ।।
सधीलं इंसवद्गच्छेन्मात्यय विनतोमतः ।
तेन राष्ट्रं च कोशश्च कोष्ठागारं च वर्षते ।।
मित्रावानुरज्यन्ति चाप्यवसिष्ठति ।
४८८
वीरमित्रोदयस्य लक्षणप्रकाशे
यजते चाश्वमेधेन पृथिवीं चानुशासति ॥
अरिष्टवर्णो विनतस्ताम्रोष्ठस्ताम्रतालुकः ।
पराभूताश्च तिष्ठन्ति शत्रवः कामदो हि सः ।।
पुष्करं पृथिवी माला चन्द्रो वै लागलं ध्वजः ।
शङ्ख पुङ्खा पताका वा ललाटे यस्य दृश्यते ।
पुष्करं कमलम् ।
सर्वशुक्लानि कौरव्य तस्य पार्थिवलक्षणम् ।
श्वेतपादश्च तुरगः श्वेतजश्च यो हयः ॥
आनन्दं ते विजानीयात्परराष्ट्रप्रमईनम् ।
चक्रं वा यदि वा वज्रमायतं वा धनुर्भवेत्
वर्णान्यत्वेन कौरव्य तस्य पार्थिवलक्षणम् ।
तेन मित्राणि रज्यन्ते कोशो राष्ट्र च वाजिना ॥
सङ्कामे विजयी चैव कामदस्तुरगोत्तमः ।
एतदि लक्षणं राजा एषु वर्णेषु लक्षयेत् ॥
तेषामास्तरणं लेपशिरःस्नानानुलेपनम् ।
अग्रमालाग्रगन्धाश्च भोजनानं तथैव च ।।
देयं नित्यं मुदाश्वेभ्यः कर्तव्याश्च प्रदक्षिणाः ।
तुरगाः पूजिताः सम्यग्यस्य तिष्ठन्ति वेश्मनि ॥
वर्धते पुत्रपौत्रैश्च मित्रैः शत्रून् जयत्यथ ।
अङ्गदण्डमनिष्टानि क्षमन्ते पूजिते सदा ।।
पूजयेत्तुरगं तस्माद्राजा नित्यं मुसंहतः ।
देवसत्त्वाश्च बहवो यक्षसवाश्च वाजिनः ।
गन्धर्वोरंगसत्वाश्च तस्मात्तान् पूजयेत्सदा ।
धर्मार्थकामैपतिं पूजिताः पूजयन्ति ते ॥ इति ।
इति राजयोग्याश्वलक्षणम् ।
भरवलक्षणप्रकरणे रणकाले शुभाशुभसूचकलक्षणम् । ४८९
अथ रणसमये शुभाशुभसूचकलक्षणम् ।
नकुलकृते अश्वचिकित्सिते,
सदा सुप्ता भवन्त्येते वाजिनो ये च भूतले ।
जाग्रति सारे मासे कर्करस्य च भक्षणः ।।
प्रबुद्धाः कथयन्त्याशु शुभं वा यदि वाऽशुभम् ।
स्वामिनो बाश्चिन्हैस्तद्विज्ञेयं विचक्षणैः ।।
यः सन्नद्धो यो रावमूर्खवकं करोति च ।
खुराग्रेण लिखेबूमि स शंसति रणे जयम् ॥
यः करोत्यसकन्मूत्रं पुरीषं चाश्रुमोचनम् ।
स शंसति परां भूतिं न भवेत्तु रणे जयः ॥
निरामिषं निशीथे यो हेपारावं करोति च ।
परचक्रागमाशंसी विज्ञयो हयपण्डितैः ।।
निरामिषं निनिमित्तम् ।
पुलकाङ्कितपुच्छो यो जायते भूपतेर्हयः ।
स शंसति ध्रुवं तत्र स्थिरस्यापि प्रयाणकम् ॥
स्फुलिङ्गा यस्य दृश्यन्ते पुच्छतोऽश्वस्य वहिजाः ।
निर्गच्छतः प्रभो शं ते वदन्ति निशागमे ।।
स्फुलिङ्गा अमिकणाः । विशेषान्तरमुक्तम्-
जयदेवकृने अश्वायुर्वंदे,
अतः परं प्रवक्ष्यामि तुरगाणां विभागजम्
चलितेन यथारेन फलं वाच्यं शुभाशुभम् ।।
यदा ज्वलति वाहस्य सर्वगात्र हुताशवत् ।
तदा विद्यादनावृष्टिमन्दमेकं न संशयः॥
अन्तापुरविनाशस्तु मेहने ज्वलिते भवेत् ।
प्रदरे विचनाशस्तु पायौ पुच्छ पराजयः ।।
६२
४२. पीरमित्रोदयस्य लक्षणप्रकाशे उत्तमाओं च वक्रे च स्कन्धे चैवासने तथा। भर्तुर्जयाय पाहाना ज्वलनं यत्र नेत्रके । नूनं ललाटे बाहोश्च तथा वक्षसि निन्दितम् । तत्रैव ज्वलनं शस्तं यदा नासासमुद्भवम् । यदा व्याधि विना वाजी ग्रासं त्यजति दुर्मनाः । अश्रुपातं च कुरुते तदा भर्तुरशोभनम् ॥ स्वामिनाऽऽरूढमात्रेण दक्षिण भागमात्मनः । तुरङ्गमो यदा नम्येत्तदा भर्तुर्जयो भवेत् ।। पुच्छं वहन् यदा वाहो वामतो विकिरेचदि । तदा भर्तुः प्रवासः स्यादक्षिणे विजयं तथा ॥ इति । इति रणसमये शुभाशुभसूचकलक्षणम् । अथ दशालक्षणम् । गणकृते अश्वायुर्वेदे, श्रीणि वर्षाणि मासौ द्वौ दिनानि द्वादशैव हि । द्वात्रिंशदायुषोऽश्वस्य तस्यैषा कथिता दशा ।। आयुषो दशभागेन दशा प्रोक्ता मनीषिभिः । इति । जयदेवकृताश्वायुर्वेदे तु विशेषः । दवादशकमश्वानां जीवितं परिकीर्तितम् । प्रवरं वाजिनामेतद्रक्षणात् सृजतां मजाः ॥ पासरा सप्ततिश्चैव वर्षाणाश्च तथा त्रयम् । दशाममाणं चाहाना शालिहोत्रेण कीर्तितम् ॥ अत्र पूर्व गणकृते द्वादशदिनाधिकमासद्वयसहितवर्षत्रयेणे- का दशोक्ता । एवं दशादशकम् । तत्र सर्वमेलने द्वात्रिंशत् वर्ष- मायुभवति । अत्र तु सप्ततिदिनाधिकवर्षत्रयेणैका दशा उक्ता ।
अश्वलक्षणप्रकरणे दशादिलक्षणम् । ४९१
एवं दशादशकमेलने विंशतिदिनन्यूनद्वात्रिंशत् वर्षाणि भवन्ति ।
एवं च दोष इति चेत्, न । अल्पान्तरत्वाम दोषः ।
प्रथमे प्रथमा चैव द्वितीया च द्वितीयके ।
दशा एवं क्रमेणैव भवेत् क्षेत्रे फलप्रदा ॥
प्रथमे क्षेत्रे प्रथमा दशा फलदा भवेदित्यन्वयः ।
प्रपानादाललाटं तु प्रथम क्षेत्रमुच्यते ।
ललाटान्मस्तकं यावत् द्वितीयं समुदाहृतम् ।।
ग्रीवास्कन्धावधि क्षेत्रं तृतीयं परिकीर्तितम् ।
उरो जानु तथाऽऽस्यं च ककुदं काकसं तथा ।।
चतुर्थं विहितं क्षेत्रं पश्चमं चासनं भवेत् ।
कटिं विन्देत पष्ठं च सप्तमं स्फिगुदाहृतम् ।।
स्थूलको चाष्टमं क्षेत्रं जङ्घा च नवमं स्मृतम् ।
कूर्चसन्धिः खुरं चैव दशमं परिकीर्तितम् ।।
एवं बुद्धा भिषक् माज्ञः सदृशं फलमादिशेत् ।
ककुदावर्तिनोऽश्वस्य तथा शृङ्गान्वितस्य च ॥
सर्वकालं समुदिष्ट दशा तत्र निरथिका । इति ।
इति दशालक्षणम् ।
अथ दन्तर्वयोज्ञानम्।
किल्हणकृतसारसमुच्चये,
द्विधा वयोहानमुशन्ति वैचा बा तथाऽभ्यन्तरतो हयानाम् ।
बाधं शरीरे बहितः प्रदिष्टमाभ्यन्तरं दन्तसमुत्थमेतत् ।।
अधस्तथोव तुरगस्य बके सन्देशमग्यं विदुरेतयोश्च ।
पार्वे स्मृतौ मध्यमको क्रमेण दन्तो तयोरेव च पारिभक्षौ।।
वादधो दन्तयुग मुजात मासयेनैव किशोरकस्य ।
बीरभित्रोदयस्य लक्षणप्रकाशे आय चतुर्भिश्च तथैव मध्यं मासैस्तथैव क्रमशोऽथ षभिः । मासैः शिशोरष्टभिराघदन्तौ श्वेतौ च मध्यौ दशभिश्च मासैः । अन्त्यौ रदौ द्वादशभिः क्रमेण मोक्तं मुनीन्द्रेण हि तथ्यमेतत् ॥ श्वेता द्विजाः स्युःप्रथमे तु वर्षे तथा द्वितीयेऽपि कषायकास्ते । वर्षे तृतीये तु तथोत्थितौ तु सन्दशकौ तु भवतो हयस्य ॥ वर्षे चतुर्थे पतितोत्थितौ तु स्यातां तु मध्यौ दशनौ तथैव । अन्त्यौ तु दन्तौ पतितोत्थितौ तु वर्षे तथा पश्चमके हयस्य ॥ सन्दंशकेषु त्वथ षष्ठमेऽन्ने स्यात्सप्तमेऽब्दे खलु मध्यमेतत् । अन्त्येषु दन्तेषु तथाष्टमेऽन्दे कृष्णान्तरेखा कथिता हयानाम् ।। आये तु लक्ष्या नवमे तु वर्षे मध्ये रदे वै दशमे तथाब्दे । अन्त्ये तथैकादशके तु वर्षे पीता तु रेखा हरिणी प्रदिष्टा ।। आधे तु वै द्वादशके तु वर्षे त्रयोदशे मध्यमकद्विजेषु । ज्ञेया तथान्त्यषु चतुर्दशेऽन्दे शुभ्रा तु रेखा दशनाग्रसंस्था ।। आधे तु वै पञ्चदशे तु वर्षे स्यात्षोडशे मध्यमदन्तसंस्थे । काचास्तथा सप्तदशे तु चान्त्ये काचानुमानेन विभावनीयाः ।। आयेषु चाष्टादशके रदेषु एकोनविंशेऽपि च मध्यमेषु । अन्त्येषु वै विंशतिमे तथाब्दे स्यान्मक्षिका मक्षिकया समाना ॥ आयेषु दन्तेषु तथैकविंशे द्वाविंशतो मध्यमकद्विजेषु । वर्षे त्रयोविंशतिमे च शङ्खः स्यात्पारिभक्षेषु च शकतुल्यः ॥ वर्षे चतुर्विशतिमे हयानामायेषु मध्यैषु च पञ्चविंशे । पत्रिंशके भक्षरदेषु छिद्रगुलखलाख्यं प्रवन्दति तज्ज्ञाः ॥ सन्दंशयुग्मेषु तु सतविंशे मध्येषु लक्ष्यं हि तथाष्टविंशे । एकोनत्रिशे दशनान्तिकेषु मध्येषु चालं चलनात्मदिष्टम् ॥ आद्या सुदन्ताः प्रपतन्ति त्रिंशे मध्यास्ततोऽश्वस्य तथैकत्रिंशे । द्वात्रिंशके अन्तरदा क्रमेण द्वात्रिंशदायुः कथितं मुनीन्द्रः ।।
भवलक्षणप्रकरणे दन्तसयादिलक्षणम् । ४९३ अष्टाङ्गमेतत्कथित इयानां यो लक्षणं वेत्ति शुभाशुभ थे। स वैद्यनाथोऽर्थकरो हि राज्ञां दानेन मानने च सम्मपूज्यः॥इति। वराहोऽपि, पर्दिन्तैः सिताभैर्भवति हयशियस्तैः कषायै विर्पः सन्द- शैमध्यपान्तैः पतितसमुदितै स्त्रिश्चतुः पञ्चकः स्यात् । सन्देशानुक्रमेण त्रिकपरिगणिताः कालिकापीत शुक्ला: फाचामाक्षीकशावटचलनमतो दन्तपातं च विदि । इति इति दन्तैर्वयोज्ञानम् । अथ दन्तसङ्ख्या। शालिहोत्रे, उत्तराश्चाधराथैव दन्ता द्वादश चाप्रतः । दंष्ट्राश्चतस्रो विज्ञेयास्तुरगस्याधरोचराः ॥ तथा चैव चतुर्विशद्भक्षार्थ दशनाः स्मृताः । दन्तसङ्ग्रह इत्येष चत्वारिंशक इष्यते ।। इति । नकुलकृते अश्वचिकित्सिते, अश्वानामेव सर्वेषां दन्ता द्वादश कीर्तिताः । इति । इति दन्तसङ्ख्या। अथाश्चशालालक्षणम् । नकुलकृतेऽश्वचिकित्सिते, मन्दुरान्ते सदा पार्यों रक्तवों महाकपिः । सर्वामयविनाशाय वाजिनां च विदये । मन्दुरा वाजिशाला। विष्णुधर्मोत्तरपि, तुरगार्य तथा धार्याः प्रदीपा सार्वरात्रिका।
+ धीरमित्रोदयस्य लक्षणप्रकाशे कुक्कुटान् वानरांश्चैव मर्कटांश्च नराधिपः ।। धारयेदश्वशालासु सवत्सां धेनुमेव च । अजाश्च धार्या यत्नेन तुरगाणां हितैषिणा ॥ इति । अत्र श्याममुखरक्तमुखभेदेन वानरमर्कटभेदोऽवगन्तव्यः । अजो मेषः । विशेषान्तरमप्यत्रोक्तम् - गोगजाश्वाविशालासु तत्पुरीषस्य निष्क्रमम् । अस्तङ्गते न कर्तव्यं देवदेवे दिवाकरे ।। इति । गणकृते तु विशेषः। तित्तिरिमयूरलावकचकोरसितमेषवानरशुकायाः । उन्मत्त कुक्कुटमयो खलु विभृयादेवाश्वशालासु ॥ दीपो हयशालायां प्रयत्नतः सार्वरात्रिका कार्यः । प्रभया प्रतिहन्यन्ते रक्षोगणतस्कराधाश्च ॥ इति । इत्यश्वशालालक्षणम् । अथाश्चाध्यक्षलक्षणम् । विष्णुधर्मोत्सरे, हयशिक्षाविधानबस्तश्चिकित्सितपारगः। अश्वाध्यक्षो महीभ ः स्वासनश्च प्रशस्यते ॥ इति । इत्यश्वाध्यक्षलक्षणम् । इति श्रीमत्सकलसामन्तकचूडामणिमरीचिमञ्जरीनीरा- जितचरणकमल- श्रीमन्महाराजाधिराजप्रतापरुद्रतनूज- श्रीमधुकरसाहसूनु- धतुरुदषिवलयबसुन्धराहदयपुण्डरीकविकासदिनकर- अश्वलक्षणप्रकरणम्। ४९५ - - श्रीमन्महाराजाधिराजश्रीधीरसिंहदेवोघोजित- श्रीहंसपण्डितात्मजश्रीपरशुराममिश्रस्तु- सकलविद्यापारावारपारीण- जगद्दारिद्यमहागजपारीन्द्र- विद्वज्जनजीवातु- श्रीमन्मित्र मिश्रकृते- पीरमित्रोदयाभिधनिबन्धे लक्षणप्रकाशे अन्धलक्षणप्रकरणं समाप्तम् । -
४९६
वीरमित्रोदयस्य लक्षणप्रकाशे
अथ शालग्रामशिलामूर्तिलक्षणप्रकरणम् ।
तत्र तावत्
शालग्रामशिलाचक्र पूजनीयं सदा द्विजैः ।
शालग्रामाशिलापूजां विना योऽनाति किश्चन ।।
स चाण्डालादिविष्ठायामाकल्पं जायते कृमिः।
इत्यादिवचनैः शालग्रामशिलापूजाया नित्यत्वाभिधानात् ,
साञ्छनैर्विविधाकारलाञ्छितं यच्च दृश्यते ।
पक्राङ्कित हरेश्चापि शालग्रामस्य लक्षणम् ॥
यथायोग्यं विचार्यैव ग्रहीतव्यं प्रयत्नतः ।
इत्यादिवचनैः सुलक्षणानामेव शालग्रामशिलामूर्तीनां पू.
ज्यत्वविधानात्,
बद्धचक्राय वा या स्याद्भमचका स्वधोमुखी ।
पूजयेद्या प्रमादेन दुःखमेव लभेत सः॥
शेषा तु गर्हिता प्रोक्ता तां गृही तु न पूजयेत् ।
इत्यादिवचनैस्तु दुर्लक्षणमूर्तीनां दुःखदातृत्वेन हेयत्वात्सु.
लक्षणा एव शालग्रामशिलामूर्तयः पूज्याः। तत्र कानि सुलक्षणा-
नि कानि दुर्लक्षणानीति शालग्रामलक्षणान्युच्यन्ते । तत्रादौ
शालग्रामपदं विचार्यते । केचित् शालग्राम इत्यत्र तालव्यं शकारं
पठन्ति, केचिच दन्त्यसकारम्, तत्र किं युक्तमिति ।
वाराहपुराणे,
मया देवप्रसादेन श्रुतं मन्दारवर्णनम् ।
मन्दारात्परमं स्थानं विष्णोस्तद्वक्तुमर्हसि ॥
इति धरण्या पृष्टे वराह उवाच ।
शृणु तत्त्वेन मे देवि यन्मां त्वं परिपृच्छसि ।
कथयिष्यामि ते गुवं शालग्राममिति स्मृतम् ।।
शालग्रामलक्षणप्रकरणे शालग्रामपदविचारः। ४९७ इत्युपक्रम्य शालग्रामतीर्थस्य तत्र विद्यमानानां गण्डक्या- दिनदीनां सोमेशादिलिङ्गानां च उत्पत्तिप्रशंसाद्युक्त्वा- सालङ्कायनकोऽप्याशु क्षेत्रे तस्मिन् परे मम । शालग्रामे महत्तीबमास्थितः परमं तपः ॥ इत्यादिना कश्चित्सालङ्कायननामा मुनिः शालग्रामतीर्थे म- माराधनं कुर्वन् महत्तपश्चकार इति वराहरूपी विष्णुर्धरां प्रत्यु- क्तवानिति पूर्वकथासम्बन्धः । ततः- भगवन्देवदेवेश सालङ्कायनको मुनिः। किं चकार तपः कुर्वन् तव क्षेत्रे विमुक्तिदे ॥ इति पुनर्भरण्या पृष्टे वराह उवाच । अथ दोघेण कालेन स ऋषिः शंसितव्रतः। तप्यमानो यथान्यायमपश्यच्छालमुत्तमम् ॥ अभिन्नमतुलच्छायं विशालं पुष्पितं तथा । मनोज्ञं च सुगन्धं च देवानामपि दुर्लभम् ।। ऋषिर्ज्ञानपरिभ्रान्तः सालङ्कायनकोऽद्भुतम् । पश्यते च पुनः शालं शुभानां शुभदर्शनम् ॥ ततो दृष्ट्वा महाशालं परिधान्तो महामुनिः । विश्रामं कुरुते तत्र द्रष्टुकामोऽथ मां मुनिः ।। शालस्य तस्य पूर्वेण स्थितः पश्चान्मुखो मुनिः । मायया मम मूढात्मा शक्तो द्रष्टुं न मामभूत् ततः पूर्वेण पार्वेण तस्य शालस्य सुन्दरि । वैशाखमासद्वादश्यां मदर्शनमुपागतः ।। दृष्ट्वा मां तत्र स मुनिस्तपस्वी शंसितव्रतः। "तुष्टाव वैदिक सूक्तः प्रणम्य च पुनः पुनः । ततोऽहं स्वयमानो वै ऋषिमुख्येन सुन्दरि । ॥ 2 1 धीरमित्रोदयस्य लक्षणप्रकाशे प्राप्तश्च परमां प्रीति तमघोचमृर्षि तदा ॥ साधु ब्रह्मन्महाभाग सालङ्कायन सत्तम । तपसानेन सन्तुष्टः स्तुत्या चैवानया तव ॥ घरं वरय भद्र ते संसिद्धस्तपसा भवान् । एवमुक्का स तु मया सालङ्कायनको मुनिः ॥ शालक्षं समाश्रित्य निभृतेनान्तरात्मना । ततो मो भाषते देवि स ऋषिः शंसितव्रतः ।। तवैवाराधनार्थाय तपस्तप्तं मया हरे । इति तद्वचः समाकर्ण्य तस्मै अभिलषितं वरं दत्वा तं प्रत्य- हमित्यवोचम्- अन्यच्च गुयं वक्ष्यामि सालङ्कायन तच्छृणु । तव प्रीत्या प्रवक्ष्यामि येनैतत्क्षेत्रमुत्तमम् ।। शालग्राममितिख्यातं तमिबोध मुने शुभम् । योऽयं वृक्षस्त्वया Eष्टः सोऽहमेव न संशयः॥ एतत्कोऽपि न जानाति विना देवं महेश्वरम् । माययाहं निगूढोऽस्मि त्वत्प्रसादात्मकाशितम् ॥ एवं तस्मै वरं दवा सालङ्कायनकाय वै । पश्यतस्तस्य वसुधे तत्रैवान्तहितोऽभवम् ॥ वृक्षं दक्षिणतः कृत्वा जगाम स्वाश्रमं मुनिः । मम तद्रोचते स्थान गिरिकूटशिलोचये ॥ शालग्राममितिख्यातं भक्तसंसारमोक्षणम् । इत्युपसंहृतम् । एतैश्च पचनैः शालेन वृक्षेण गम्यते ज्ञायते यः पर्वतविशेषः स शालग्रामगिरिस्तीर्थविशेष इत्युच्यते । गम्लु गतावित्यस्माद्धातोः “अकर्तरि च कारके संज्ञायाम्" इति कर्मणि पञ्, पृषोदरादित्वाद्रेफे वृद्धौ च कृतायां ग्राम इति - शालग्रामलक्षणप्रक०तत्पदेदन्त्यादितालव्यादिविचारा४९९ सम्पयते । ततश्च धातूनामनेकार्थत्वात् गमेरपि ज्ञानार्थत्वं युक्तमेव । धातूनामनेकार्थत्वं चोक्तम्- महाभाष्ये, पपिः प्रकिरणे दृष्टश्छेदने वापि वर्चते । इति । अत्र शालशब्दो दन्त्यादिस्तालव्यादिश्च । तत्रायः सलगती इत्यस्माद्दन्त्यादेर्धातोः सल्यते गम्यते इति कर्मणि पनि वृदौ च । सारशब्दाद्वा भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादयः॥ इति वार्तिककारवचनात. अतिशायने अर्श आयचि कृते रलयोरेकत्वस्मरणात् साल इति । तथा च- रायमुकुट, पुंसि भूव्हमात्रेऽपि सालो वरणसर्जयोः । इति दन्त्यादौ रभसादेः। सालकाननशोभिनि । इति दण्डी च । सालः पादपमात्रे स्यात्माकारे सर्जकलुमे । इति विश्वः । सालो वृक्षान्तरे दुर्गे-इत्यनेकार्थः । द्वितीयस्तु शल गतावित्यस्मादातोः शलति वायुना चलती- ति करि "ज्वलितिकसन्तेभ्यो " इति णे कवे सिध्यति । शालो हाले तुपे मत्स्यमभेदे सर्भपादपे । इति विश्वः। अत्र रायमुकुटे-"अनोकहा कुटः शाल" इत्येतदमरलोक- व्याख्यानावसरे साल गतौ सालो दन्त्यादिः समति वायुना चलति "ज्वलितिकसन्तेभ्यो " इति गो बा।
.
'वीरमित्रोदयस्य लक्षणप्रकाशे
मुसि भूरुहमात्रेऽपि सालो वरणसर्जयोः।।
इति दन्त्यादौ रभसादेरिति यदुक्तम्, तचिन्त्यम् । दन्त्यादेः
शलधाताश्च ज्वलादावपि पाठादिति। एवं च दन्त्यादिस्तालव्या.
दिश्च शालशब्दो सिद्धः। ततश्च शालंयक्षोपलक्षितः पर्वतविशे-
पः शालग्रामतीर्थमिति सिद्धम् । शालग्रामतीर्थपरिमाणं चोक्तम्-
बाराहे,
एतत्ते सर्वमाख्यातं क्षेत्रं गुह्यं वसुन्धरे ।
आरभ्य मुक्तिक्षेत्रं तत्क्षेत्रं द्वादशयोजनम् ॥
शालग्रामस्वरूपेण मया यत्र स्वयं स्थितम् । इति ।
". तत्रोपमा शिलाः शालग्रामाभिधानाः तत्र दन्त्यादिस्ता-
लव्यादिरित्युभयविधोऽपि शालग्रामशब्दपदप्रयोगः साधीया.
निति सिद्धान्तः । ताश्च सर्वा अपि शिलाः पूजने प्रशस्ताः ।
तथा चोक्तम्-
वाराहं महादेवेन,
शालग्रामगिरिविष्णुरई सोमेश्वराभिधः इति ।
तत्रैव विष्णुनाप्युक्तम्-
तस्मिन् क्षेत्रे हरो देवो मत्स्वरूपेण संयुतः ।
शालग्रामे गिरौ तस्मिन् शिलारूपेण तिष्ठति ॥
अहं तिष्ठामि तत्रैव गिरिरूपेण नित्यदा ।
तस्मिन् शिलाः समप्रास्तु मत्स्वरूपा न संशयः ।।
पूजनीयाः प्रयत्नेन किं पुनश्चक्रलाञ्छिताः । इति ।
चक्रलाञ्छितानां तु प्रशस्ततरत्वं तदन्तर्गततीर्थविशेषो.
त्पनत्वात् । तदप्युक्तं सालग्रामार्थमुक्त्वा-
वाराहे,
गुखानि तत्र वसुधे तीर्थानि दश पञ्च च ।
५ (१५) शिवस्तोत्रावली । उत्पलदेवविरचिता । प्रमेयरमाणेच श्रीक्षेमराजविरचितवृत्तिसमेता(वेदान्तः)२ (२९) भनुमानचिन्तामणिव्याख्यायाः शिरीम. (११) मीमांसम्बालप्रकाश अमिनीयद्वादशा पिकृतदीधित्या जागदीशी टीका। १३ ध्यायार्थसंग्रहः श्रीभट्टनारायणात्मजभट्ट (१०) वीरमित्रोदयः । महामहोपाध्यायश्रीमिष- शङ्करविरचितः। ( मीमांसा) २ मिश्रविरचितः परिभाषा-संस्कारप्रका- (१०) प्रकरणपश्चिका प्रभाकरमतानुमारि-मी शात्मकः । सापिण्यदीपक मांसादर्शनम् । महामहोपाध्यायधीशालि- (३१) वीरामित्रोदयः । महामहोपाध्यायत्रीमि- कनाथमिश्रविरचितम् श्रीशङ्करभकृता पमिश्रविरचितःाहिकप्रकाश मीमांसासारसंग्रहश्च सम्पूर्णः (मीमांसा) ३ (१२) स्मानिसारोद्धारः विद्वहरविश्वम्भरात्रिपाठि- संकलितः (१८) भतसिद्धिसिद्धान्तसारः । पण्डितप्रवर- श्रीसदानन्दव्यामप्रणीतस्तत्कृतन्याख्यास- (१३) वेदान्तरलमन्जूषा । श्रीभगवत्पुरुषोस- मलस्कृतः। (वेदान्तः) ३ माचार्यकृना। २ (१९) कात्यायनश्रौतसूत्रम् । महामहोपाध्याय- (३४) प्रस्थानरत्नाकरः । गोस्वामिश्रीपुरुषोत्त- मजीमहाराजविरचित श्रीकर्काचार्यविरचितभाष्यसहितम् । १६ (३५) वेदान्तपारिजातसौरभ नाम ब्रामीमांसा- (११) नमसूत्रभाष्यम् । श्रीभास्कराचार्यविर- भाध्यं श्रीनिम्बार्काचार्यविरचितम् । चितं सम्पूर्णम् (वेदान्तः) दे (१६) योगदर्शनम् । परमहंसपरिवाजकाचार्य. (२१) श्रीहर्षप्रणीतं खण्डनखण्डखायम् । आ- मारामतीर्थविरचित-योगसिद्धान्तचन्द्रि नन्दपूर्णविरचितया खण्डनफक्किकावि- कासमाख्यया व्याख्यया संवलितम् । २ भजनास्यया व्याख्यया विद्यासागरीतिप्र- (३०) वेदान्तदर्शनम् । परमहंसपरिवाजका सिद्धया समेतम् । (वेदान्तः) चार्यश्रीरामानन्दसरस्वतीस्वाभिकृत अमा- (२२) आख्यातचन्द्रिका श्रीमहमल्लविरचिता। मृतवर्षिणीसमाख्यव्याख्यासवलितम्।" (२३) श्रीलक्ष्मीसहस्रम्-बालबोधिनीव्याख्य- (३८) विश्वप्रकाशः । कोश । विद्वद्वरश्रीम- याध्यतरणिकया च सहितम् हेश्वरमूरिविरचितः। (२४) प्रसूत्रवानिः मरीचिका श्रीब्रजनाथम- (१९) श्रीमुबोधिनी । श्रीवल्लभाचार्यविनिर्मिता टेक्ता (वेदान्तः) ३ श्रीमद्भागवतव्याख्या गोस्वामीश्रीविठ्ठलना- (२५) क्रोडपत्रसंग्रहः । अब श्रीकालीशङ्करसि थदीक्षितविरचितटिप्पणीसहिता । श्रीम- द्वान्तवागीशविरचितानि अनुमानजागदी- लागवतदशमस्कन्धजन्मप्रकर्ण श्रीसुबो- श्या: प्रत्यक्षातुमानगादापों: प्रत्यक्षानु- धिनीटिप्पण्या:-प्रकाश गोस्वामि श्रीश्री मानमाथुर्या व्युत्पत्निवादस्य शक्तिवादस्य पुरुषोत्तमजीमहाराज विरचित मुक्तिवादस्य वान्दशक्तिप्रकाशिकायाकु- (५०) वीरभित्रोदयः । महामहोपाध्यायश्रीमि- सुमाञ्जनेश्च क्रोडपत्राणि २ अमिश्रविरचितः पूजाप्रकाशः। (२६) बासूत्रम् , द्वैताद्वैतदर्शनम् । श्रीसुन्दरभ- 1 (४१) वेदान्तासिद्धान्तसंग्रहः । श्रुतिसिद्धान्ताप- ट्टरचितसिद्धान्तसेतुकाभिधटीकासहि रनामकः । श्रीममचारिवनमालिमिश्रविर- तश्रीदेवाचार्यप्रणीतसिद्धान्तमाहवीयुतम्र चितः। वेदान्तकारिकावली श्रीपुरुषोत्तम- (२०) षड्दर्शनसमुच्चयः । बौद्धनैयायिकका प्रसाद शर्मकृता अध्यात्मसुभातरछि- पिलजनवैशेषिकजमिनीयदर्शनसंक्षेपः । ण्यापटीकयासहिता मणिभद्रकृतटीकया सहितः । हरिमन- (१२) स्वानुभवादर्शः। श्रीमत्परमहंसपरिमाण रिकृतः। काचार्यनारायणाश्रमाशिष्यमाधवाश्रमावर (१८) शुद्धाद्वैतमार्तण्डा प्रकाशव्याख्यासहितः। चितः । स्वतटीकाविभूषित। ..
... ६ (१३) याज्ञवल्कस्मृतिः । बालम्भट्टीसमाख्य पाध्याय-श्रीनागेशभट्टाविरचिता । व्याख्यसामलकृतमिताक्षरासहिता ।व्य श्रीमद्दुर्बलाचार्य बालभिटाभ्यां विर: घहाराध्यायः चितकृचिकाकलाहटीकायसवालता । ६ (४४) गादाधरी । श्रीगदाधरभट्टाचार्यचक्रव- | (४७) व्याकरणसिद्धान्तसुधानिधीः । पर्वतीय- तिकृता । श्रीगोंशोपाध्यायविरचिततत्त्व- विश्वेश्वरमरिविरचितः। चिन्तामण्या श्रीरघुनाथतार्किकशिरोमणि- (१८) विरमित्रोदयः । लक्षणप्रकाशः । विराचितदीधित्या च गर्भिता। महामहोपाध्यायग्रीमित्रमिअविरचिता (१५) शानदीपिका । श्रीपार्थसारथिमि मणि- ता। रामकृष्णविरचिंतयुक्तिस्नेहप्रपुरण्या- | (१९) बृहदारण्यकवार्तिकसार श्रीमद्विद्यारण्यस्वा- ख्यव्याख्यया सहिता तर्कपाद । मिविरचितः । महेश्वर तीर्थकृतयालघुसं- (११) वैयाकरणसिद्धान्तलघुमन्जूषा महामहो- प्रहाख्यया टीकया समलंकृतः। हरिदासगुप्ता, पत्नादिप्रेषणस्थानम् चौखम्बा बनारस सिटी ३
No text on this page.
No text on this page.
No text on this page.