Central Archaeological Library_asi_new Delhi

Kavyamala Part.ix

Pandit Shivadatta

PDF Proofread

Front matter

KÂVYAMÂLÂ.
Coliec ion of old and rare Sanskrit Kâvyas,
Natakas, Champûs, Bhâņas, Prahasanas,
Chhandas, Alankâras &c.
PART IX.
BDITED BY
MAHÂMAHOPADHYAYA PANDIT SHIVADATTA
OF
JAIPUR
AND
VÂSUDEVA LAXMAN S'ÂSTRI PANAS'IKAR.
sae
Ikaw
PUBLISHED BY
TUKÂRÂM JÁVAJÍ
RRIETOR OF THE

SQL &
CENTRAL A?CHAEOLOGIGAO
LIBRRY, NOWUt.11.
Aco. No. 83.9.2
Date.
26-.1....2:
Kaw
All rights reserved by the publisher.]
Published by Takaram Javaji, and Printed by Ramchand Yesu Buette
at the “Nirnaya-sagar," Press, 23, Kolbhat Lane, Bombay, i

॥ श्रीः ॥ काव्यमाला। नाम नानाविधप्राचीनकाव्यनाटकचम्पूभाणप्रहसन- च्छन्दोलंकारादिसाहित्यग्रन्थानां संग्रहः। नवमो गुच्छकः। जयपुरवासिमहामहोपाध्यायपण्डितशिवदत्तशर्मणा, मुम्बापुरवासिपणशीकरोपाह्वलक्ष्मणशर्मात्मज- वासुदेवशर्मणा च संशोधितः । द्वितीयं संस्करणम् । me- मुम्बय्यां तुकाराम जावजी श्रेष्ठिभिः गिराख्यमुद्रणयन्त्रालये वायसाक्षरैर्मुद्रयित्वा प्रकाशितः । शाकः १८३८, खिस्ताब्दः १९१६. अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा निर्णयसागरमुद्रायन्त्रालयाधिपते- रेवाधिकारः।)

अनुक्रमणिका। .... पृष्ठानि । १ आनन्दवर्धनाचार्यकृतं देवीशतकम् (कय्यटकृत टीकया समेतम्) २ अवतारकविप्रणीतमीश्वरशतकम् ( सटीकम् ) ३ मधुसूदनकविप्रणीतमन्यापदेशशतकम् १ लक्ष्मणाचार्यप्रणीता चण्डीकुचपञ्चाशिका ५ विद्यावागीशकविविरचितं कौन्तेयवृत्तम् ६ उत्प्रेक्षावल्लभकविविरचितं सुन्दरीशतकम् ७ श्रीनारायणपण्डिताचार्यविरचिता शिवस्तुतिः (सटी ८ श्रीमच्छंकराचार्यभगवत्पादविरचितं त्रिपुरसुन्दरीमानसिकोप- चारपूजास्तोत्रम् ९ श्रीसुन्दराचार्यकविनिर्मितं गीतिशतकम् १० श्रीसामराजदीक्षितविरचितं त्रिपुरसुन्दरीमानसपूजनस्तोत्रम् . ११० ११ श्रीशंकराचार्यविरचितं चतुःषष्टयुपचारमानसपूजास्तोत्रम् ....२५ 0.9 .

काव्यमाला। श्रीमदानन्दवर्धनाचार्यकृतं देवीशतकम् । श्रीकय्यटकृतया टीकया सहितम् । य ज्ञ नमोऽस्तु वागधीशाय हयग्रीवाय विष्णवे । तथा लि कौमोदकीचैक्रशङ्खकमलाङ्कितपाणये ॥ प्रणम्य परमं धाम यत्प्रसादाज्वलन्त्यमी। महामोहमहिम्नाता रविताराधिपानलाः ॥ संचिक्षिप्सुरलं खबुद्धिरचितैः पर्यायशब्दैर्व्यधा- हीका वल्लभदेव उत्तममतिस्मृत्यै भवानीस्तुतौ । पर्यायैः क्रियया समं कविकृतान्पाठान्पठन्कय्यट- श्चन्द्रादित्यतनूज इत्थमकरोत्तस्यैव नप्ता नवाम् ।। आनन्दवर्धनकविप्रवरप्रणीतकाव्ये किमल्पमतिना क्रियते मयैवम् । किं वा पिपीलककुलानि न संश्रयन्ते मत्तेभदन्तपदपलिममेयसाराम् ॥ विषमेऽत्र काव्यमार्गे सुरसे वा स्खलति मामकी धिषणा। बालेय निसरणं (2) संप्राप्य शनैः शनैस्तदपि याति ॥ सर्वत्र काव्यारम्भे संबन्धाभिधेयप्रयोजनानि ज्ञातव्यानि । “सिद्धिः श्रोतृप्रवृत्तीनां संब- न्धकथनाद्यतः । तस्मात्सर्वेषु शास्त्रेषु संबन्धः पूर्वमुच्यते ॥ सर्वस्यैव हि शास्त्रस्य कर्मणो १. ध्वन्यानोकाद्यनेकग्रन्थकर्ता श्रीमदानन्दवर्धनाचार्यः कश्मीरेषु ख्रिस्ताब्दीयनवम- शतकोत्तरभाग आसीदित्यसकृदुक्तम्. अयं देवीशतकटीकाकर्ता कय्यटोऽपि भीमगुप्तनरप- तिराज्ये तत्रैव ४०७८ मितेषु गतकलिवर्षेषु (९७८ निस्ताब्दे) टीकां प्रणीतवानिति टीकासमाप्तौ विलोकनीयम्. अयं कय्यटश्चन्द्रादित्यसूनुर्वैयाकरणकय्यटस्तु जय्यटात्मज इत्यस्माद्भिन्नः. सटीकस्य देवीशतकस्य पुस्तकद्वयमासादितमसामिः. तत्रैकं पुण्यपत्तनस्थ- राजकीयपुस्तकालयस्थं श्रीयुतभाण्डारकरपण्डितैः कृपया प्रहितमासीत् , तत्क-संज्ञकम्. अपरं कश्मीरमहाराजाश्रितैर्कोतिर्विदुपाश्रीदयारामपण्डितैः प्रहितम् , तत्ख-संज्ञकम्. २. 'शङ्खचक्र' ख. ३. 'उन्नतमति' ख. ४. ख-पुस्तके 'बालेयनिसरणं संप्राप्य' इत्यस्य स्थाने त्रुटिचिह्नमस्ति.

२ काव्यमाला। वापि कस्यचित् । यावत्प्रयोजनं नोकं तावत्तत्केन गृह्यते ॥' इह तु देव्याः स्तोत्रेण सू हाराध्याराधनं संबन्धः। तदीयगुणकर्माणि चेहाभिधेयानि । तदभिधानद्वारकस्य च देव्या- राधनस्य दृष्टादृष्टफलभूता भोगापवर्गफलप्राप्तिः प्रयोजनम् ॥ तत्रादौ कविः स्तोत्रं प्रारिप्सुः पञ्चमिः श्लोकैः कुलकं चकार- अनन्तमहिमव्याप्तविश्वां वेधा न वेद याम् । या च मातेव भजते प्रणते मानवे दयाम् ॥ १ ॥ नतापनीतक्लेशायाः सुरारिजनतापनी। न तापनी तनुर्यस्यास्तुल्या नादीनतापनी ॥ २ ॥ वक्रपद्मा विधेर्भान्ति यया सर्गलयो दया । या साक्षाद्या च जनितस्थितिसर्गलयोदया ॥ ३ ॥ याश्रिता पावनतया यातनाच्छिदनीचया । याचनीया धिया मायायामायासं स्तुताश्रिया ॥ ४ ॥ तमांसि ध्वंसमायान्ति यस्याः स्तुत्यादरेण वः । तस्याः सिध्यै धियां मातुः कल्पन्तां पादरेणवः ॥ ५ ॥ (कुलकम् ) तस्या घियां मातुः पादरेणवो वः सिध्यै कल्पन्ताम् । तस्या वर्णयिष्यमाणखरूपाया धियां मातुः प्रज्ञाजनन्याः संबन्धिनः पादरेणवश्चरणपांसवो वो युष्माकं सिद्ध्यै समीहितसंपा त्तये कल्पन्तां संपद्यन्ताम् । यां वेधा न वेद । यां देवीं वेधा ब्रह्मा न वेद न वेत्ति न जानाति । अपिशब्दोऽत्रार्थोऽवगम्यते। वेधा अपि न वेत्ति कोऽन्यो वराको ज्ञास्यतीति यथा-'क्रोधावृतासौ क्षमते न धातुः । धातुः प्रजापतेरपि न क्षमते इत्यर्थः । कि- भूवा याम् । अनन्तमहिमव्याप्तविश्वाम् । अनन्तो भगवान्विष्णुस्तस्य महिमा माहात्म्य तेन व्याप्तं पूरितं विश्वं त्रैलोक्यं यया ताम् । हरिमाहात्म्यवशेन हि भगवती जगदापूरय- तीत्यागमः । अथवा अनन्तैर्बहुभिरप्रमेयैर्महिमभिर्व्याप्तं विश्वं यया ताम् । अथ च या देवी मातेव जननीव प्रणते मानवे प्रहे भक्ते नरे दयां घृणां भजते पोषयति । यस्या अ. विज्ञेयखरूपाया अपि भकैर्भक्तिसुलभलमुक्तं भवति । यां वेधा अपि न वेद सा भक्त्या सुलमेति स्तोत्रोद्यमे साफल्यम् ॥ १॥ अपरम् । यस्यास्तापनी तनुर्भानवी मूर्तिः न न तुल्या । सदृशैवेत्यर्थः । तपनस्येयं तापनी। किंभूताया देव्याः।नतापनीतक्लेशायाः। नतानां भक्तानामपनीता विनाशिताःक्के- शा रागादयो यया तादृश्याः । कीदृशी च तापनी तनुः । सुरारिजनतापनी देवशत्रुमर्दनी। १. 'ऽतिसाफल्यम्' क.

देवीशतकम् । ३ । सुरारिजनांस्तापयतीति तच्छीलेति । देव्यप्येवंभूतैवेति तयोस्तुल्यखम् । तथा अदीनतामौ- जिल्यमापयति प्रापयत्यसावदीनतापनी । उच्छ्रायप्रदा । इत्युभयोः समानम् ॥ २ ॥ यया देव्या वायूपया विधेब्रह्मणो वक्रपद्मा मुखनलिनानि भान्ति शोभन्ते । कीदृशाः सर्गलयः । ऋच एवालयः [भ्रमराः] ऋगालयः वेदखण्डनयं सह तेन वर्तत इति । या च देवी साक्षाया । दयामयीत्यर्थः । तथा या च देवी जनितस्थितिसर्गलयोदया जनिता विहिताः स्थितिसर्गलयाः पालनोत्पत्तिविनाशा येनासौ जनितस्थितिसर्गलयो भगवान्वि- ष्णुस्तत उदयो यस्याः सा। भगवच्छकिरेव सा देवीति भावः। अथवा जनित उत्पादि- तः स्थितिसर्यलयानामुदयः प्रभवो यया ॥ ३ ॥ अन्यदपि । या पावनतया पवित्रत्वेनाश्रिता सेविता। पवित्रेत्यर्थः। तथा च या देवी यातनाछित् । यातना प्राग्विहितदुष्टकर्मविपाकः । अन्यच्च अनीचया अनूनया घिया प्र. ज्ञया मायाया आयामोऽविद्याप्रपञ्चस्तस्यायास उपपातो निवारणं तं याचनीया प्रार्थनीया। तथा श्रिया लक्ष्म्या स्तुता ॥ ४ ॥ तथा यस्या देव्याः स्तुत्यादरेण स्मरणाभिनिवेशेन तमांसि मोहाबोधादयो ध्वंसं विना- शमायान्ति प्राप्नुवन्ति तस्या एतादृश्या घियां मातुर्धिषणानां प्रसवित्र्याः संबन्धिनः पा. दरेणवश्चरणरजांसि वः सिद्ध्यै कल्पन्तामिति ॥ ५॥ ऋषीणां सादयामास या तमांसि त्रयीमयी। पायाद्वः सा दयामाधिच्छिदं जगति बिभ्रती ॥ ६ ॥ सा देवी वो युष्मान्यायाद्रक्षतात् । त्रयीमयी ऋग्यजुःसामरूपा ऋषीणां मुनीनां तमांस्यज्ञानानि सादयामास नाशयांबभूव । त्रामुदितायामृषीणां हि तमांसि नष्टानि । तथा दयां करुणां बिभ्रती दधाना । किंभूतां दयाम् । जगति विश्वस्मिन्नाधिच्छिदं मनःपी- डाविनाशिनीम् ॥ ६ ॥ स्मरद्विषा या ययाचे यया चेयं विधेः क्रिया । यां चाच्युतोऽपि तुष्टाव तुष्टा वः सास्तु पार्वती ॥ ७ ॥ सा पार्वती हिमवत्कन्या वो युष्माकं तुष्टा प्रसन्नास्तु भवतु । या देवी स्मरद्विषा का- मशत्रुणा ययाचे प्रार्थिता । यया देव्या हेतुभूतया विधेः प्रजापतेरियं प्रत्यक्षदृश्या सृष्टि- लक्षणा क्रिया सिद्धा।यां चाच्युतोऽपि तुष्टाव। हरिहरहिरण्यगर्भादिमिःस्तुतेत्यर्थः ॥७॥ या दमावनयागेन खाराधा नयसारया । हरिकैतवहास्याय सायामा विजिता यया ॥ ८॥ प्रतिलोमानुलोमत एवायं द्वितीयः श्लोकः- यायताजिविमाया सा यस्या हा बत कैरिह । या रसायनधारा खा न गेयानवमा दया ॥ ९ ॥ १. 'उत्तमया' क. २. 'स्मृत्यादरेण ख.

१ काव्यमाला। सा बुद्धिरुतमालोकः सतामार्या पुनातु वः । यद्भक्तरुत्तमा लोकः प्राप्नोत्येष विशुद्धताम् ॥ १० ॥ (विशेषकम्) सार्या पूज्या वो युष्मान्पुनातु पवित्रीकरोतु । या दमावनयागेन दम उपशान्तचित्त- ता तेनावनं पालनं तदेव याग इष्टिस्तेन खाराधा सुखमाराध्यतेऽभिमुखीक्रियते । यया नयसारया नीतिपरया हरिकैतवहास्याय हरेरिन्द्रस्य कैतवहास्याय व्याजोपहास्याय साया- माः सविस्ताराः कृतोद्यमा विजिताः पराभूताः । अभिमानवशेन शक्रमप्युपहास्याय के- चिदाक्रमन्ति तेऽप्यभिभूता ययेति भावः ॥ ८॥ या आयताजिविमाया आयते वितते आजौ सङ्ग्रामे विमाया विगतप्रपञ्चा। स्पष्टयुद्धा विविधमायाप्रपञ्चा वा । यस्याश्च देव्याः सा खा दया निजा करुणा अनवमा शोभना हा बत कैर्देवादिभिरिहास्मिञ्जगति न गेया न गातव्या। सर्वैरेव स्तुत्येत्यर्थः । हाबतशब्दौ द्वा- वपि विस्मये । यथा 'अहो बतासि स्पृहणीय वीर्य' इति । का च सा दया, या रसाय- नधारा पीयूषलुतिः । आह्लादकलात् ॥ ९ ॥ अन्यच्च । सतां साधूनां बुद्धिर्धीः । कीदृशी धीः। उत्तमालोक उत्कृष्टप्रकाशः। प्र- ज्ञाचक्षुर्हि अतरणिशशधरदहनभासोऽपि पश्यति न चर्मचक्षुरिति। रजस्तमोरहितप्रकाशरूपा हि या बुद्धिस्तद्देवीखरूपमाहुः । तथा च यद्भक्तेर्यदीयसेवनात् उत्तमा उत्खाततमाः वि- नाशितमोहः सन्' उद्ततमा अपि वैष लोकोऽयं जनो विशुद्धतामपगतकल्मषलमेति प्रा. नोति ॥ इत्यनुलोमोत्पन्नेन श्लोकेन सह श्लोकत्रयेण विशेषकमिदम् ॥ १० ॥ अयुद्ध साधुत्राणाय सामरा या सहारिणा । खङ्गेन दीपा देवानां सामरायासहारिणा ॥ ११ ॥ चरणाघातनिहतकासरा च रणाजिरे । रराज या नयजयैरराजसजनानता ॥ १२ ॥ सावताद्वोऽम्बिकाभ्यर्च्यनामा न न यशोऽभितः । तनोति प्रणतो यस्या ना माननयशोभितः ॥ १३ ॥ (इदमपि विशेषकम्) साम्बिका जननी वो युष्मानवताद्रक्षतात् । या सामरा सदेवा सती । अथवा साम सान्त्वं राति ददाति सामरापि सती साधुत्राणाय सज्जनपरिरक्षणायारिणा शत्रुणा समम- युद्ध युद्धमकार्षीत् । कीदृशी देवी । खङ्गेन करवालेन दीप्रा उज्ज्वला । कीहक्षेण । देवानाममराणां सामरं सङ्ग्रामभवमायासंक्लेशं हरति तच्छीलस्तेन सामरायासहारिणा । साङ्ग्रामिकक्लेशविनाशिनेत्यर्थः ॥ ११ ॥ १. 'नयन' क. २. 'नयन' क.

देवीशतकम् । ५ तथा या देवी नयजयैर्नीत्युत्कौं रराज शुशुभे । किंभूता । रणाजिरे सङ्गमाङ्गने चर- णाघातनिहतकासरा पादाहतिव्यापादितमहिषासुरा । अन्यत् , अराजसजनानता । रजः- प्रतिषेधारतरे तमो निषिद्धम् । तत्सात्त्विकजनप्रणतेत्यर्थः । यथा च 'अरजस्काः परं पदम् ॥ १२॥ _ अपरं यस्या देव्या ना मनुष्यः प्रणतः प्रो न नाभितः समन्ताद्यशः कीर्ति तनोति विस्तारयति । अपि तु तनोत्येव । स च नाभ्यय॑नामा पूज्याभिधानः । देवी वाभ्य? नामो नमनं यस्या इति । अन्यच्च स पुमान्माननयशोभितः।माननयाभ्यामलंकृत इत्यर्थः१३ संयतं याचमानेन यस्याः प्रापि द्विषा वधः । संयतं या च मानेन युनक्ति प्रणतं जनम् ॥ १४ ॥ या दमानवमानन्दपदमाननमानदा। दानमानमाक्षमानित्यधनमानवमानिता ॥ १५ ॥ (मुरजबन्धः) सा रक्षतादपारा ते रसकृद्धौरबाधिका । सारक्षतादपारातेरसकृद्गौरवाधिका ॥ १६ ॥ (समुद्कम् ) (इदमपि विशेषकम् ) सा देवी ते रक्षतादवतात् । यस्या द्विषा शत्रुणा संयतं सङ्ग्रामं याचमानेन प्रार्थयमानेन वधः प्रापि मरणमलम्भि। या च देवी प्रणतं प्रहं संयतं जनं यमनियमवन्तं लोकं मानेन युनक्ति पूजया संबध्नाति ॥ १४ ॥ या देवी दमानवमानन्दपदम् । दमेनेन्द्रियजयेनानवमः श्रेष्ठो य आनन्दपद आनन्द- स्थानम् । विद्यया हि शमसुखलाभः । किं च, आननमानदा । आननस्य मुखस्य मानं पूजां श्लाघारूपां ददाति प्रयच्छति । निरपभ्रंशपदभाषणान्मुखं पूज्यं भवति । एवं च पद- द्वयेन प्रकाशरूपं वाग्रूपं च देव्या आगमोक्तं प्रकाशितं भवति । तथा दानमानक्षमानित्य- धनमानवमानिता । दानं सत्पात्रे धनसमर्पणम् । मानं ज्ञानम् । क्षमा रोषोपघातः। ता एव नित्यमविनश्वरं धनं वित्तं येषां मानवानां पुंसां तैर्मानिता पूजिता । दानादिमिरेव देव्यर्चिता यथा भवति न तथा पुष्पादिभिरित्यर्थः । एष मुरजबन्धः ॥ १५ ॥ सा अपारा अपर्यन्ता गौर्वाक् अबाधिका अविघातिनी रक्षतात् । सारक्षतादुत्कर्षक्षतेः । असकृत्पुनःपुनः । रसकृत् रसं रागं करोति छिनत्ति च सा रसकृत् । अभिमतं निरीहं वा वस्तु रक्षतात् । कीदृशस्य ते।अपारातेनिःशत्रोः। किंच, गौरवाधिका गौरवेण पूजयाधि- कोत्कृष्टा । सर्वेषां गुरुरित्यर्थः । एष समुद्कबन्धः ॥ १६ ॥ १. 'अरजस्कं' क. २. 'भानन्द' क.

काव्यमाला। . अनुत्तमोहराशयो भवन्ति यामनाश्रिताः । अनुत्तमो हराशयो यया चिरं च रञ्जितः ॥ १७ ॥ अनन्तरागतापायास्तारयित्री भवापदः । अनन्तरागतापायाः सा वो गौरी हियाक्रियाः॥ १८ ॥ (संदानितकम्) सा गौरी वो युष्माकमनन्तरागतापायाः अनन्तरमविद्यमानान्तरं कृत्वा आगताः प्राप्ता अपाया विना यासां ताः । अनिष्पन्ना एवोत्पन्नविनाशा याः क्रियाश्चेष्टा ह्रियादप- हरतु । दुष्टक्रिया विनाशयत्वित्यर्थः । यां देवीमनाश्रिताः शरणं न प्राप्ता नरा अनुत्तमोह- राशयोऽप्रेरिताज्ञाननिवहा अविनाशिततमसो भवन्ति संपद्यन्ते । यया गौर्या अनुत्तमो- ऽविद्यमानप्रधानो हराशयो महादेवचित्तं चिरं बहुकालं रजित आवर्जितः । तथा या देवी भवापदः संसारदुःखात् । भव एवापत् भवस्येति वा । कीदृश्या भवापदः । अनन्तोऽपर्य- न्तो रागतापः स्मरार्तिदाहो यस्यास्ततस्तारयित्री उँधी । भवापद इति कृद्योगे कर्मणि षष्ठी।अथवा अनन्ता ये रागजनितास्तापास्तानायस्यति क्षिपतीति देवीविशेषणम्॥१७॥१८ यामायासजिदासक्तशोकजालस्य पातिनी । या माता सर्वदा भक्तलोकजालस्य पालनी ॥ १९॥ (गोमूत्रिकाबन्धः) सामरागमनायासं त्यक्त्वा साधं सुरारिभिः । सामरा गमनायासन्नुद्यता युधि यद्गणाः ॥ २० ॥ सामोदयाजया शातैः शस्त्रैः शत्रौ हते यया। सामोदया जयाशा तैर्गीर्वाणैर्गर्वतो जहे ॥ २१ ॥ ययायायाय्यया यूयं यो योऽयं येययैय याम् । ययुयायिययेयाय ययेऽयायाय याययुक् ॥ २२ ॥ साव्यागौरी सदा युष्मान्सदायुष्मान्समृद्ध्यति । शरणं यां नरोगच्छन्न रोगच्छन्दमेति च ॥ २३ ॥ (पञ्चभिः कुलकम्) सा गौरी गिरितनया युष्मान्भवतः सदा सततमव्यापायात् । या भक्तलोकजालस्य १. 'विघाता' क. २. 'अनिष्पन्नविनाशा याः' क. ३. 'विद्याप्रधानो' क. ४. 'उ- धरन्ती' ख. ५. 'जातस्य क. ६. 'ययो यो ख. ७. 'ये ये क. ८. 'जातस्य क.

देवीशतकम् । ७ । प्रणतजनसमूहस्य यामायासजित् । याममन्तककृतमायासमुपतापं जयत्यभिभवति । या माता करुणापरा सती सर्वदा सर्वकालं च भक्तानामेवासक्तशोकजालस्य पातिनी । आस- तानि संलग्नानि शोकजानि खेदोद्भवानि यान्यालस्यानि तानि पातयति निहन्त्यवश्य- मिति । भक्तलोकस्य जालं समूहस्तस्य पालनी गोत्री च । गोमूत्रिकाबन्धः ॥ १९ ॥ तथा यद्गणा यस्याः संबन्धिनः पार्श्वकिंकराः सुरारिभिः सार्ध दैत्यैः सह युधि सङ्ग्रामे गमनायोद्यताः प्रवेष्टुं साहंकाराः सामराः सदेवाः सन्त आसनभूवन् । किं कृला । साम- रागं सान्वसक्तिं त्यक्त्वा परित्यज्य । किंभूतम् । अनायासमक्लेशम् ॥ २० ॥ यया चाजया जन्मरहितया सामोदया सहर्षया शत्रौ विपक्षे शातैः शस्त्रैस्तीक्ष्णैरायु- धैर्हते निपातिते सति तैर्गीवाणैर्देवैः सामोदया जयाशा सान्त्वोद्भूता विजयाकाङ्क्षा गर्वतो. भिमानाजहे त्यक्ता । साम्न उदयो यस्या इति सामोदया ॥ २१॥ [यया आयाय अयि अया यूयं यः यः ऽयं येयया एय याम् । ययुयायियया इयाय यये अयायाय या आययुक् ॥ २२ ॥ इति पदांनि।] अयि जनाः, यया देव्या हेतुभूतया यूयं भवन्तः आयायाविर्भूय अया विष्णुशरणा भवत । अं भगवन्तं वासुदेवं यान्त्ययाः संपद्यध्वम् । प्रभवस्य हि हेतुर्दैवीति भावः । यथा च-'गोविन्दभगिनी देवी तदन्ते तद्गतिप्रदा। भगवती' इत्यागमः। यःयः अयं लोकः यामेय यां देवीं प्राप्य ययुयायियया इयाय । ययुभिरश्वैर्याति गच्छति तच्छीलो ययुयायी सूर्यः तं ययुयायिनं यातीति ययुयायियः रविमण्डलभेदी । मुक्त इत्यर्थः । तस्य या गतिः । यानं या। 'अन्यत्रापि दृश्यते' इति क्विपू । तया ययुयायियया सूर्यमण्डलमेदिगया । 'किबन्तो धातुत्वं न जहाति' इति परिभाषावचनात् 'आतो धातोः' इत्याकारलोपे कृते रूपमेतत् । इयाय जगाम । किंभूतया गत्या । येयया अवश्यप्राप्यया यो यो जनस्तां देवीं शरणमेति स स सूर्यमण्डलभेदिगत्या गच्छति । मुच्यते इति तात्पर्यार्थः। अन्यच्च या देवी अयायाय यये। अयो ज्ञानं दैवमनुकूलं वा कथ्यते तस्यायः अयायः । अयनमाया प्राप्तिः । तदर्थमयायाय ज्ञानप्राप्तये यये शिश्रिये । यस्माद्देवी आययुक् । आयेन ज्ञानेन धनागमनेन वा युनक्ति संबध्नाति । अयनमायः । भावे घञ्। एय इति ईङ् आङ्- पूर्वस्य ल्यपि ॥ २२ ॥ तथा यां देवीं शरणं गच्छन्नरः प्रपद्यमानः पुमान् । सदायुष्मान् शोभनचिरजीवी सन् समृद्ध्यति समृद्धिं संपत्तिं प्राप्नोति । रोगच्छन्दं च नैति व्याघेरनुवर्तनं च न प्राप्नोति । व्याधिवशादौषधपायी न जातु भवति । यो देवीं शरणमेति स आयुरारोग्यमैश्वर्यं लभत इति वाक्यार्थः ॥ २३ ॥ कृतास्पदा यया संपदघानि सुरवैरिषु । हन्ति या वाङ्मयी दूरादधानि सुरवैरिषुः ॥ २४ ॥ । - ८ काव्यमाला । .. जितानया या नताजितारसाततसारता । न सावना नावसानयातनारिरिना तया ॥ २५ ॥ (सर्वतोभद्रः) मनोभवारातिमनोभिरामया जरामयापाकरणैकढक्षया । मदक्षयान्निर्मलतां ददानया सदा नयास्था क्रियतां तवार्यया॥२६॥ (विशेषकम्) तव भवतस्तया आर्यया गौर्या नयस्यास्था नीत्यवस्थितिः सदा सर्वकालं क्रियता विधीयताम् । यया देव्या सुरवैरिषु देवशत्रुषु कृतास्पदा लब्धप्रतिष्ठा संपत्समृद्धिरघानि जन्ने हता । या च वाड्मयी परापश्यन्तीमध्यमावैखरीरूपा अधानि पापानि व्यसनानि वा हन्ति हिनस्ति । केन । सुरवैः साधुशब्दैः । सा च दूरहननादिषुरिवेषुः ॥ २४ ॥ या जितानया अविद्यमानो नयो नीतियेषां ते जितायया। तथा या देवी नताजिता. रसाततसारता । नतानां भक्तानां आजितः सङ्ग्रामात् यस्तारस्तारणं विजयस्तत्र या सातता सविस्तारा । आततनमातत इति । सारता दृढता। बहुतरं दाय सा देवीत्यर्थः । न सावना न । सहावनेन रक्षणेन वर्तते इति सावना न न सावना किं तु सावनैव । भक्तानां सरक्षणा । किं च अवसानयातनारिः। अवसाने अन्तकाले या यातना दुष्कृति- विपाकास्तासामरिः शत्रुः विनाशिनी । इना स्वामिनी । सर्वतोभद्र एषः । बन्धस्तु प्रसिद्ध एव ॥ २५ ॥ तया देव्या मनोभवारातिमनोभिरामया चित्तजन्मशत्रुचेतोनुकूलया त्रिनयनचित्तहा- रिण्या । तथा जरामयापाकरणैकदक्षया जरा पलितं आमया व्याधयस्तेषामपाकरणं तिरस्कारः विनाशनं तत्र दक्षया चतुरया। अन्यच्च मदक्षयादहंकारविघाताद्धेतोर्निर्मलता विरजस्कत्वं ददानया वितरन्त्या प्रयच्छन्त्या ॥ विशेषकमिदम् ॥ २६ ॥ समाययाविन्द्रहिताय या रणे समायया या न जितारिसेनया । स मा ययाचे हरमाश्रितः स्फुटं समा यया मुग्धतया मनोज्ञताः॥२७॥ सा भावक्षालवर्या नुतविभवितनुर्या वलक्षावभासा जानानस्याशयप्रा नवनलिनवनप्रायशस्याननाजा । सात वर्माननस्था रहसि रसिहरस्थाननर्मावतंसा पायादक्ता रणना मतनमनतमत्राणरक्ता दयापा॥ २८ ॥ (प्रतिपादं प्रतिलोमानुलोमः) (संदानितकम् ) सा देवी अक्का व्यक्ता पायादव्यात् । येन्द्रहिताय शक्रश्रेयोर्थ रणं सङ्ग्रामं समाययौ समाजगाम । एवं व्यकाव्यक्तखरूपिणी देवीत्युकं भवति । या समायया सकपटयारि- देवीशतकम् । सेनया शत्रुपृतनया न जिता नामिभूता । अपि च मुग्धतया कृशतया युक्तः स माश्च- न्द्रो हर महादेवमाश्रितः संश्लिष्टः सन् स्फुटं नूनं यया देव्या समा तुल्या मनोज्ञता रामणीयकानि यथाचे प्रार्थयामास । तत्समलावण्येच्छश्चन्द्रः स्फुटं हरं याचते ॥२७॥ [या च देवी] सा भावक्षालवर्या । क्षालनं क्षालः भावस्य चेतसः क्षालो नैर्मल्यं तत्र च या वर्या श्रेष्ठा । तथा नुतविभवितनुः । नुता विभविनी महाप्रभावा तनुर्मूर्तिर्यस्याः । बलक्षावभासा । वलक्षः शुद्धोऽवभासः प्रभा यस्याः । शुद्धप्रकाशरूपेत्यर्थः । किं च जानानस्य ज्ञानिनः आशयप्रा अभिलाषपूरणी । तथा नवनलिनवनप्रायशस्यानना । प्र. त्यग्रकमलखण्डतुल्यस्तुत्यमुखी । तथा अजा जन्मरहिता । किं चाननस्था मुखगता सती सातं वर्म श्रेष्ठः कवचः । सदैव सतां वाग्रूपेण परमं संनहनं सेत्यर्थः । तथा रहसि विजने रसी रसिको योऽसौ हरः शंभुस्तस्य यानि स्थाने नर्माणि अवसरे परिहसितानि तानि अवतंसः कर्णाभरणं यस्याः सा । रणना सङ्ग्रामत्रायिणी । अपरं मतनमनतमत्राणरक्ता । अतिशयेन मतमभिप्रेतं नमनं देवीप्रणामो येषां तेषां त्राणे रक्ता सक्ता । यतो दयापा। दयां करुणां पाति रक्षति आप्नोति वा । प्रणतानां दयापरेति भावः ॥ २८ ॥ उपासते कृष्टिकृतोदयां यां जना सदाराधनमीहमानाः । शंभोः प्रसिद्धा तनुतां वहन्ती गौरी हितं सा भवतां विधेयात् ॥२९॥ (अर्थत्रयवाची) सा गौरी मृडानीभवतां युष्माकं हितमनुकूलं विधेयात्कुर्यात् । यां जना लोका उपा- सते सेवन्ते । यतः कृष्टिकृतोदयाम् । कृष्टीनां सूरीणां कृतो विहित उदय आविर्भावो यया ताम् । कीदृशा जनाः । सदा सततं सच्छोभनं वाराधनं संमुखीकरण सेवामीहमानाः काङ्क्षन्तः । किंभूता देवी । शंभोः शर्वस्य तनुतां कायत्वं वहन्ती बिभ्राणा । प्रसिद्धा प्र- थिता ॥ अथ च सा गौर्वाणी इहितमभिमतं विधेयात् । कीदृशी। कृष्टिभिः सूरिभिः कृत उदयो विकासो यस्याः । शंभोर्ब्रह्मण अतनुतामकृशतां वहन्ती प्रसिद्धा ॥ तस्मिन्त्रीरूपे- णापि सुव्यक्ता स्थिता वागिति भावः। 'शंभू ब्रह्मेश्वरौ ज्ञेयौ' । यां जना उपासते। कीदृशाः । सतां साधूनामाराधनं चित्तग्रहणमीहमाना अभिलषन्तः ॥ अन्यच सा गौर्भूः वः ईहितं विधेयात् । यां जना उपासते अधितिष्ठन्ति । कीदृशाः । सदाराः सकलत्राः। धनं वित्तमीहमानाः प्रार्थयमानाः । कीदृशीं माम् । कृष्टिभिः कर्षणैर्हलविलेखनैः कृत उदयः कृत्यागमः । देवी च वाध्ययी (मही) मूर्तिरपीति वाक्यार्थः ॥ २९ ॥ यां सद्य एव त्रिदशैः पुमांसः समा नमस्यन्ति सदानभोगाः । अघानि यस्याः प्रणता विपक्षैः समानमस्यन्ति सदा नभोगाः ॥३०॥ यस्याः प्रभावो घुसदां विपक्षसेना वधानन्दयिताहरस्य । . मनोम्बुजस्यावहतु श्रियै वः सेनावधानं दयिता हरस्य ॥ ३१ ॥ (संदानितकम् ) नव० गु०२ । - - १० काव्यमाला। सा इना ईश्वरी हरस्य गिरीशस्य दयिता वल्लभा वो भवतां श्रियै लक्ष्म्यर्थमवधानं प्रयत्नमावहतु विदधातु । यां पुमांसो नराः सद्य एव प्रणतेः समनन्तरमेव त्रिदशैर्देवैः समास्तुल्या नमस्यन्ति प्रणमन्ति । किं च सदानभोगाः। सह दानेन त्यागेन भोगैर्विष- यानुभवैश्च वर्तन्ते ये ते । तथा यस्या देव्याः प्रणताः प्रहाः नभोगा नभसि गता इति विपक्षः शत्रुभिः समानं सहाघानि पापानि सदा सर्वकालमस्यन्ति क्षिपन्ति ॥ ३० ॥ तथा यस्या देव्याःप्रभावो माहात्म्यं द्युसदां सुराणां विपक्षसेना वधानन्दयिता अरि- वरूथिनीवधेन हननेनानन्दयिता परितोषयिता । किं चास्य मनोम्बुजस्य चेतःकमलस्य अहरिवाहः । विकासकवात् । एतद्देव्याः प्रभावस्य वा विशेषणम् ॥ ३१ ॥ सुरा जिता भावितदेवराजद्विपक्षमा यात रणादभीतम् । खापं न वो धाम हितं न नाम सदैवसेना भवतोहितानाम् ॥ ३२ ॥ सुराजिता भावितदेवराजद्विपक्षमाया तरणादभीतम् । खापन्नबोधामहितं ननाम सदैव सेना भवतो हितानाम् ॥ ३३ ॥ (महायमकम्) सुरानिति द्वेषिजनैरभिद्रुतानुदाहरद्या स्वयमाहवोद्यता । शिवोऽद्य तापप्रशमस्तया तव प्रशस्तया तत्त्वदृशा विधीयताम् ॥ ३४ ॥ (विशेषकमिदम्) तथा देव्या प्रशस्तया मङ्गलभूतया तव भवतः अद्यास्मिनहनि तत्त्वशा सारज्ञानेन शिवः श्रेयाननुकूलः मसुख इति यावत् । तापप्रशम आध्यात्मिकाधिदैविकाधि- भौतिकदोषत्रयस्य प्रशमो विनाशो विधीयतां क्रियताम् । या देवी सुरान्देवान्द्वेषिजनैः शत्रुजनैरमिद्रुतान्पलायितान्खयमाहवोद्यता सङ्ग्रामसंनद्धा सती इति वक्ष्यमाणप्रकारेणो- दाहरदवोचत् । कथमित्याह-हे जिता अमिभूताः सुरा देवाः, रणात्सङ्ग्रामादभीतं निर्भयं कृत्वा यात गच्छत । मा भूद्भवतां सङ्ग्रामभयमित्यर्थः । भाविता देवराजद्विपस्य ऐरावणस्य क्षमा अशक्तता यैस्ते । अपरं वो भवतां हितं धाम अनुकूलं स्थानं न न नाम खापम् । सुप्रापमेवेत्यर्थः । अन्यच्च या देवसेना सह' देवेन इनेन प्रभुणा च सुरा- जिताः सुष्टु भ्राजिता ऊहितानां तर्कितानां चित्तविषयाणां शत्रूणां मध्ये भवतः संपत् 'समस्तश्लोकयमनान्महायमकमिदम् ॥ ३२ ॥ ३३ ॥ ३४ ॥ वक्रं बिभ्रत्युपहितचन्द्रायासं या संमोहप्रशमनसूर्याकारा । कारानीतामरमरिमाचिक्षेप क्षेपत्यक्ता रणभुवि सा वः पायात् ॥३५॥ (काञ्चीयमकम्) सा देवी वो युष्मान्पायात् । या उपहितचन्द्रायासं वकं बिभ्रती वकान्त्यतिशयेनो- पहितो दत्तश्चन्द्रस्य शशाङ्कस्यायासो ग्लानिर्येन तादृशं वकं मुखं बिभ्रती धारयन्ती । तथा :

देवीशतकम् । ११ संमोहो हार्द तमस्तत्प्रशमने विनाशने सूर्याकारा भानुतुल्या । सूर्यो यथा तमोविनाशने दक्षस्तद्वद्धार्दतमोनिवृत्तये देवीत्यभिप्रायः। तथा या देवी क्षेपत्यक्ता भर्त्सनरहिता अनिन्द्या रणभुवि आहवभूमौ कारानीतामरं बन्धनस्थापितदेवं अरिं शत्रु आचिक्षेपाजुहावा समरार्थ- माहूतवतीत्यर्थः। काञ्चीवन्मेखलावत्स्तम्भनात्काञ्चीयमकम् । जलधरमाला नाम वृत्तम्३५ हितेहितेऽस्तु ते स्तुते जिताजितामितामिता । जयाजया जनोऽजनो यया ययावलं बलम् ॥ ३६ ॥ (आवलिन म यमकमिदम्) जयाख्या देवी ते तव हितहितेऽनुकूले चेष्टितेऽस्तु भवतु । हितं च तदीहितमिति । वद्धितकार्ये वर्ततामित्यर्थः । कीदृशे। हितहिते स्तुते प्रशस्त । कीदृशी देवी । जिताजितां लव्धजयसमरतामिता गता। तथा अमिता अपरिच्छन्नखरूपा। अन्यत् , यया हेतुभूतया। जनो लोकः अलमत्यर्थं बलं ययौ जगाम लेभे । कीदृश्या यया। अजया जन्मरहितया । कीदृशो जनः । अजनः जन्मरहितः सन् । जननं जन इति कृत्वा नसमासः। प्राप्ततत्त्व- ज्ञान इत्यर्थः । मुमुक्षुर्जनस्त्वत्प्रसादान्मोक्षावाप्तिसामर्थ्य लभत इत्युक्तं भवति॥ ३६ ॥ सक्तिं वः सुकृतार्जने विदधती सत्रा यतां त्रायतां दुर्गा दुर्ग्रहदूषितोद्धतधियामायासदा या सदा । साधूत्साहविधानसक्तमनसां मुख्या ततां ख्याततां संस्मृत्यैव " [मत्सरभरस्फीतापदां तापदाम् ] ॥ ३७ ॥ आयासदा क्लेशदायिनी । तथा साधूत्साहविधाने सज्जनानामुत्साह- करणे सक्तमनसामभिनिविष्टचेतसां लोकपालानां मुख्या प्रधानम् । अन्यच संस्मृत्यैव स्मरणेनैव ततां विस्तीर्णा ख्याततां...... । मत्सरत (भ)रो द्वेषबाहुल्यं स एव स्फीतो विप्रलाप (2) आपद्दर्भािग्यं येषां तेषां तापदां खेदप्रदाम् ॥ ३७॥ या मूर्ति किमपि स्मरारिवपुषा धत्ते समायोजितां यां दृष्ट्वैव विनाशमाप सहसा शुम्भः समायोऽजिताम् । या नद्रैः सुरसिद्धकिंनरनरैः खेदं विना शस्यते सा हेतुर्भवतां त्रिलोचनवधूरश्रीविनाशस्य ते ॥ ३८ ॥ त्रिलोचनवधूर्हरपत्नी ते भवतः अश्रीविनाशस्यालक्ष्मीप्रतिघातस्य हेतुर्निमित्तं भवता- त्संपद्यताम् । या स्मरारिवपुषा मदनरिपुशरीरेण समायोजितां मिश्रितां मूर्ति तनुं किमपि केनापि हेतुना धत्ते धारयति । यां चाजितामपरिभूतां शुम्भाख्यो दैत्यः समायः सप्रपञ्चो- ऽपि सन्दृष्ट्वैवावलोक्यैव सहसा झटित्येव विनाशं मरणमाप प्राप लेभे। तथा सुरसिद्धकि- नरनरैर्देवसिद्धगन्धर्वपुरुषैः खेदं विना आलस्यं विना शस्यते स्तूयते ॥ ३८॥ a.. ..

१२ काव्यमाला। सायासायास्त्रिलोक्याः शरणमकरुणक्षुण्णदैत्यप्रवीरा खैर खैरंशसगैंर्गहनतममहामोहहार्दै हरन्ती । शस्याशस्यादधाना सकलमभिहितं भक्तिभाजः स्मृतैव स्तादस्तादभ्रदोषा द्विषदुपशमनी सर्वतः पार्वती वः ॥ ३९ ॥ पार्वती वो युष्माकं सर्वतः समस्ताग्देिशकाद्विषदुपशमनी शत्रुमर्दिनी स्ताद्भवतात् । अस्ताः क्षिप्ता विनाशिता अदभ्रा महान्तो दोषा मूर्तामूर्त....."तथा सायासायाः सोप- तापायास्त्रिलोक्या भूर्भुवःस्खलक्षणायाः शरणमभयपदस्थानम् । अन्यच्चाकरुणं निर्दयं कृला क्षुण्णा विनाशिता दैत्यप्रवीरा असुरप्रधाना यया सा। अपि च खैर्निजैरंशसगैरव- यवप्रादुर्भावैः खैरं शनैः शनैः कृत्वा गहनतमो दुर्भेदो योऽसौ महान्हार्दो हृदयभवो मो- होऽविवेकस्तं हरन्ती निवारयन्ती । अन्यच्च भक्तिभाजः सेवासक्तपुंसः शस्याशस्य सम्य- क्स्तुत्याभिलाषस्य सतः स्मृतैवध्यातमात्रैव सकलमशेषमभिमतमादधाना पोषयन्ती ३९ सुरसुरचितचितनवनवभवभवनानादरादरायेये । लयलयचरणौ चरणौ न न मामि नतेन नमामि न ते ॥ ४० ॥ (निरन्तरावलियमकम्) हे देवि, सुरैर्देवैः सुरचितेन शोभनरचनया चिता दृष्टा नवा अनन्यकृता नवाः स्तवा यस्याः सा सुरसुरचितचितनवनवा । तथा भवभवाः संसारसंभूता ये नानादरा बहुप्रकारभयानि तन्निवृत्त्यर्थमादरेणौत्सुक्येन या आयेया आगन्तव्या । या भवभव- नानादरादरायेया यातव्या । प्रथमार्धश्लोकेन (नु) संधानम् । ते तव चरणौ पादौ लयो लीला विलासस्तस्य लयश्चरणं गमनं ययोस्तौ चरणौ नतेन नमनेन नमामि नमामि न पर्याप्तो भवामि । तृप्तिं न गच्छामीत्यर्थः ॥ ४० ॥ या विस्मयं स्मरभिदा चक्रेऽङ्कारोपिता नवं नारीणाम् । विदधे यच्चापस्य न च केंकारोऽपि तानवं नारीणाम् ॥ ४१ ॥ या हन्तां च प्रयाता विहायसा कंसमाह तारातिबलेन । कृष्णस्तव परमाया विहाय साकं समाहतारातिबलेन ।। ४२ ॥ तां नमत या च समरेष्वनेकशो भाति भद्रकाली नतया । ख्याति यया जनतोज्ज्वलविवेकशोभातिभद्रकालीनतया ॥ ४३ ॥ (कलापकम्) तां देवी नमत नमस्कुरुत या स्मरभिदा मदनहन्त्रा भर्ना हरेणाङ्कारोपिता उत्स- ङ्गमारोहिता सती नारीणां स्त्रीणां नवमपूर्व विस्मयमाश्चर्य चक्रे । तथा यच्चापस्य य- Madawaitndatibandar देवीशतकम् । १.३ दीयधनुषश्च संबन्धी कारोऽपि ध्वनिरप्यरीणामरातीनां तानवं क्षयं न न विदधे अपि तु चक्रे । अपरं या तारा प्रकाशरूपिणी विहायसा आकाशेन प्रयाता गता सती कृष्णो भगवान्वासुदेवस्तव भवतः हन्तां हिंसतु इत्यनेन प्रकारेण कंसाख्यं दैत्यमाहावो- चत्स्म । कथमित्याह-परमाया विहाय द्विषत्कुसृतीः परित्यज्य अतिबलेन बाहुना समा हतारातिना निहतशत्रुणा बलेन भगवता संकर्षणाख्येन भ्रात्रा साकं सह । तथा या च भद्रकाली कात्यायनी समरेषु युद्धेष्वनेकशो बहुधा भाति शोभते । यया च देव्या नतया प्रणतया जनता जनसमूह उज्ज्वलविवेकशोभा प्रकृष्टज्ञानप्रभा सती अतिभद्रका- लीनतया अत्यर्थमङ्गल्यसंपृक्ततया हेतुभूतया प्रशस्तया देवी भातीत्यर्थः । ख्याति प्रका- शते व्यक्तीभवतः (१) नमत इति संबन्धः ॥ ४१ ॥ ४२ ॥ ४३ ।। तां स्मरत या स्मृतैव हि मानवतामरसमानता राति बलात् । यत्प्रणतं श्रीः श्रयते मानवतामरसमानताराति बलात् ।। ४४ ॥ तां देवीं स्मरत चिन्तयत । हि यस्माद्या मानवता ज्ञानिना स्मृतैव ध्यातैव सती अमरसमानता देवतुल्यत्वानि अमृतवादीनि राति ददाति । तथा यत्प्रणतं यस्याः प्रहूं मानवतामरसं नरनलिनं आनतारातिबलात् आसमन्तानतं बन्धुरकंधरं यदरातिबलं तत्प- रित्यज्य इति ल्यब्लोपे कर्मणि पञ्चमी तस्मादेत्य श्रीः (बलात्) श्रयते सेवते ॥ ४४ ।। अनवरागसमुद्भवदेहतामुपगता ददृशे गिरिशेन या । अनवरागसमुद्भवदेह तामवनतोऽस्मि जगत्प्रियतां सतीम् ॥ ४५ ॥ तां सती सतीसंज्ञां साध्वीं वा अवनतोऽस्मि अहं प्रणतः । कीदृशीम् । या अनवरः सर्वोत्कृष्टो योऽसावगः पर्वतस्तत्समुद्भवदेहतां तज्जातशरीरत्वमुपगता जगत्प्रियतां च प्राप्ता सती गिरिशेन महादेवेन इहास्मिञ्जगति अनवरागसमुत् अनवेन चिरंतनेन रागेण प्रेम्णा समुत् सहर्षी ददृशे दृष्टा । तथा च कालिदासः-'सती सतीयोगविसृष्टदेहा' इति तथा भवदा भवं संसारं द्यति खण्ड यति ॥ ४५ ॥ मेने नूनमनेन माननमुमानाम्ना नु मेनोन्मना नुन्नेनोनमने निमानममुना नो नाम नानानुमे । मौनेनामममाननिम्नमननान्नानामिनानूनिमे मुन्मिन्नाननमा नमी मुनिमनोमानाननोन्नामिनि ॥ ४६ ॥ (ब्यक्षरः) हे नुन्नेनोनमने देवि, नुन्नं प्रेरितं यदेन: पापं तदेव नमनं प्रणतिर्यस्याः । पापघा- तिनी यस्याः सेवेत्यर्थः । तामाहूय तुभ्यमित्यर्थादभ्यूह्यते तेन हे देवि, तुभ्यं नमः । वयं खां प्रणमाम इति भावः । तथा हे देवि, मेना हिमवन्महिला उन्मना सोत्कण्ठा सती अनेन तावकेन उमानान्ना उमेति संज्ञया नूनं निश्चितं माननं पूजनं मेने जज्ञे बु-

१४
काव्यमाला।
बुधे । नु वितर्के । हे नानानुमे, नानाविधा अनुमाः संज्ञा यस्या इत्यनुमा अनेन च
नाम्ना नो नाम निमानं न पर्याप्तिः । नामशब्दोऽभ्युपगमे । एकेनोमानाम्ना कतमा पूजा
भवेदित्यर्थः । तथा मौनेन तपसा पूताद्युपलक्षणोऽत्र मौनशब्दः। नियमेव भावः । अमम-
माननिम्नमननन्नानामिनानूनिमे मममानं ममताज्ञानमहंकारस्तेन निम्नमल्पीभूतं मममान-
निम्नम् नसमासे कृते अमममाननिम्नं यन्मननं ज्ञानं तदेवानं शरीरवृत्तिर्येषां तपसा-
नहंकारज्ञानवृत्तीनाम् इनानूनिमे ऊनस्य भाव' ऊनिमा न ऊनिमा अनूनिमा । इना-
दादित्यादनूनिमा यस्याः । टाबन्ताया आह्वानं इनानूनिमे सूर्यसमाने । तथा हे मुन्मि-
नाननमाः मुदा हर्षेण मिन्नः स्निग्ध आननमा मुखचन्द्रो यस्याः । हे आन-
न्दमयीत्यर्थः । अन्यच हे मुनिमनोमानाननोनामः तदस्या अस्ति शीलं वेति तना-
मिनी । मुनिमनसामेषा ज्ञानमाप्याययतीति भावः । तस्य आह्वान मिति संबन्धः ॥४६॥
तां वन्देऽहं नवं देहं ज्ञानरूपं विधाय या ।
सुधीरस्यति धीरस्य महामोहमयीं त्वचम् ॥ ४७ ।।
तां देवीमहं वन्दे प्रणतोऽस्मि या धीरस्य विषयानपहृतस्य सुधीः शोभनबुद्धिरूपा
सती ज्ञानरूपं बोधमयं नवं प्रत्यग्रं देहं शरीरं विधाय निर्माय महामोहमयीं महदज्ञान-
रूपां खचं कृत्तिमस्यति क्षिपति नाशयति ॥ ४७ ॥
यां नुत्वा यान्ति हृद्यार्थसज्जायां गिरि शस्यताम् ।
नौम्यहं भक्तिमास्थाय सज्जायां गिरिशस्य ताम् ॥ ४८ ॥
तां गिरिशस्य जायां हरस्य पत्नी अहमस्मि भक्तिमास्थाय सेवां पुरस्कृत्य सत् शोभनं
कृखा वाङ्मनःकायैरिति नौमि स्तौमि । यां देवीं नुवा प्रणम्य हृद्यार्थसज्जायां मनोहरव-
स्तुप्रवणायां वाचि शस्यतां यान्ति प्रशंसां लभन्ते ॥ ४८ ॥
यदानतोऽयदानतो न यात्ययं नयात्ययम् ।
शिवे हितां शिवेहितां स्मरामितां स्मरामि ताम् ॥ ४९ ॥
तां देवीं स्मरेण कामेनामितामपरिच्छिन्नामनभिभूतां स्मरामि चिन्तयामि ध्याये ।
यदानतो यस्याः प्रणतः पुमान् अयदानतोऽयो दैवमनुकूलं तस्य दानं क्षयः । दीङ् आते
(धातोः ?) रूपम् । अतोऽयदानतो हेतोर्नयात्ययं नीतिविघातं न याति न गच्छति । की-
दृशीं देवीम् । शिव शंकरे हितामनुकूलाम् । तथा शिवं श्रेयःप्रदमीहितं यस्यास्ताम्॥४९॥
सर स्वतिप्रसादं मे स्थिति
चित्तसरखति ।
सरखति कुरु क्षेत्रकुरुक्षेत्रसरखति ॥ ५० ॥
हे सरस्वत्याख्ये देवि, स्खतिप्रसादं सुष्ठु अतिशयेन च प्रसादं सर गच्छ । स्वतिशब्दो
सुतरामर्थे । तथा मे चित्तसरखति चित्तमेव सरखान्समुद्रस्तत्र मनःसमुद्रे स्थितिं पदं
कुरु विधत्व । क्षेत्रं शरीरं तदेव कुरुक्षेत्रसंशं पुण्यस्थानं तत्र नित्यावस्थानात्सरस्वती न-
दीव सरखती। तस्या आमन्त्रणम् । शरीरे नित्योदितवाग्रूपतया स्थितेति भावः ॥५०॥

देवीशतकम् । १५ त्वद्भक्तिभावितधियो जगतामत्र ये त्रये । जन्मवत्तामहं मन्ये तेषामेवानृणां नृणाम् ॥ ५१ ॥ (विरोधाभासः) हे देवि, ये नरास्त्वद्भक्तिभावितधियस्त्वत्सेवाधिवासितधिषणा अत्रास्मिञ्जगति ज- गतां विष्टपानां त्रये त्रैलोक्ये ये सन्ति तेषामेव जन्मवत्तां सजन्मलमनृणां विनष्टऋण- त्रयामहं मन्ये । अस्मिञ्जगति ऋषिपितृदेवानां ब्रह्मचर्यप्रजायज्ञैर्यदानृण्यं तद्देवीभक्त्या भवतीति भावः । अत्रये त्रये, अनृणां नृणां इति विरोधाभासिलम् ॥ ५१ ॥ जगतः सातिरेका त्वं गतिरस्य स्थिराधिका। तरस्यत्रासतारारेः सास्यत्रासरसस्थिति ॥ ५२ ॥ (अर्धभ्रमोऽयम्) हे देवि, लमस्य जगतस्त्रैलोक्यस्य सतिरेका सातिशया गतिः परायणम् । शरण- मित्यर्थः । कीदृशी । स्थिरानपायिनी । अथाधिका सर्वेषां गरीयसीति भावः । तथात्रा- स्मिञ्जगति असतारा सती अरेर्मोहात्तरसि । सह तारेण वर्तत इति सतारा । न सतारा असतारा । अनायासेन मोहं नाशयसीत्यर्थः । कथम् । अत्रासरसस्थिति कृत्वा । त्रास- रसे अभिनिवेशे स्थितिः स्थानं न विद्यते यस्मिन् । सर्वतोभद्रापेक्षयाभ्रिमणादर्ष- भ्रमः कथ्यते ॥ ५२ ॥ त्वन्नामस्मरणादेव न लक्ष्मीश्चपलायते । सर्वतः पार्वति क्षिप्रमलक्ष्मीश्च पलायते ॥ ५३ ॥ हे पार्वति गिरिजे, खन्नामस्मरणाद्भावत्कसंज्ञाचिन्तनादेव लक्ष्मीः श्रीन चपलायते चपलत्वं नाचरति । न चलतीत्यर्थः । तथा क्षिप्रं त्वरितं सर्वतो दशदिकं सर्वपदार्थे- भ्योऽलक्ष्मीदौर्भाग्यं पलायते दूरीभवति ॥ ५३ ॥ जयन्ति भक्ता वित्तेशसमरायस्तवाहवे। तुभ्यं नमस्त्रिलोक्यर्थसमरायस्तबाहवे ॥ ५४ ॥ हे देवि, तव भवत्याः संबन्धिनो भक्ताः सेवका आहवे सङ्ग्रामे जयन्ति सर्वोत्क- र्पण वर्तन्ते । परानभिभूयेत्यर्थः । कीदृशा भक्ताः । वित्तेशेन वैश्रवणेन समस्तुल्यो रा धनं येषां ते वित्तेशसमरायः । तस्मात्तुभ्यं भवत्यै नमः । कीदृशे । त्रयाणां लोकानां समाहारस्त्रिलोकी तदर्थं त्रिलोकीरक्षणार्थं यः समरो यद्युद्धं तत्रायस्ता आ समन्तात्स- यत्ना व्यापृता बाहवो भुजा यस्या इति ॥ ५४ ॥ सत्त्वं सम्यक्त्वमुन्मील्य हृदि भासि विराजसे। द्विषामरीणां त्वं सेनां वाहिनीमुदकम्पयः ॥ ५५ ॥ (पुनरुक्तवदाभासः) १६ काव्यमाला । हे देवि, विराजसे विगतरजोविकारे हृदि हृदये त्वं भासि शोभसे । किं कृत्वा। स- म्यग्विधिवत्सत्त्वं चेतोगुणमुन्मील्य प्रकटीकृत्य । तथा द्विषां शत्रूणां संबन्धिनीं वाहिनी चमूमरीणां सारवती सेनां सेश्वरां समुदकम्पयः कम्पयांचकार कम्पितवती। भासि वि- राजसे, द्विषामरीणाम्, सेनां वाहिनीम् , उदकं पयः, इति पुनरुक्तभासनात्पुनरुक्तवदा- भासोऽयं न तु पुनरुक्तः ॥ ५५ ॥ दूरागतरसा धन्यः सेवते यस्तव स्तुतीः । दूरागत रसाधन्यः कल्पन्ते तस्य सिद्धयः ॥ ५६ ॥ हे देवि, यो धन्यः पुरुषः पुण्यवांस्तव भवत्याः स्तुतीः प्रशंसाः सेवते विदधाति तस्य पुंसः सिद्धयो मनोरथा अणिमाद्या वा कल्पन्ते संपद्यन्ते । किंभूताः सिद्धयः । दूरागतरसा दूरमत्यर्थमागतो रसः सक्तिर्यासु ताः । अभिलषणीया इति यावत् । तथा दूरागो दुष्टासकिस्ततस्तर उत्तरणं साधयन्ति संपादयन्ति तच्छीलास्ताः ॥ ५६ ॥ मोहं हत्वास्पदं यासि सात्त्वमम्ब रवासिना । या न संस्तूयसे केन सा त्वम्बरवासिना ॥ ५७ ॥ हे अम्ब मातः, सा त्वं वक्ष्यमाणखरूपा केनाम्बरवासिना धुसदा देवेन न स्तूयसे। सर्वैरपि देवैः स्तूयस इति भावः । सा त्वं का । या भवती रवासिना अनाहतखड्गेन मो- हमज्ञानं हत्वा विनाश्य प्रकाशात्मकसत्त्वगुणमयमास्पदं वकीयं प्रकाशस्थानं यासीत्यर्थः । तथा चोक्तम्-'अनाहते पात्रकर्णे भग्नशब्दे सरिद्रुते (?) । शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ ५७ ॥ प्रकाश्य गृह्यपुंसस्यखेदच्छेदाम्बुदावली । प्रज्ञात्मनेनविमला स्थिता दृश्यसि विद्वताम् ॥ ५॥ (अपशब्दाभासः) हे देवि, असि खम् । विद्वताम् वेदनं वित् ज्ञानं विद्यते येषां तेषां संबन्धिन्यां दृशि बुद्धौ प्रज्ञात्मना ज्ञानरूपेण विवेकात्मना प्रकाश्य प्रकटीकृत्वा इनविमला आदित्यरूपा ति- ष्ठसीत्यर्थः । कीदृशी खम् । गृह्यास्वत्सेवोद्यता ये पुमांसस्त एव' सस्यं शालिस्तस्य खेद आयासस्तस्य च्छेदे विनाशेऽम्बुदावलीत्यर्थः । गृह्य, प्रज्ञात्मनेन, दृश्यसि, विद्वताम् , इ- त्वपशब्दवदाभासनादपशब्दाभासः ॥ ५८ ॥ भवानि ये निरन्तरं तव प्रणामलालसाः। मनस्तमोमलालसा भवन्ति नैव तु क्वचित् ॥ ५९॥ हे भवानि शर्वभार्ये, ये जना निरन्तरमविरतं कृला तव भवत्याः प्रणामलालसाः प्रणतिपरास्ते मनस्तमोमलालसा चित्तमोहकलङ्कनिःशोभा न क्वचिन कुत्रचिद्भवन्ति संपद्यन्ते ॥ ५९॥ * देवीशतकम् । विभावनाकुला त्वयि क्रमेण देवि भावना । वपुष्पतिस्थिरेतरे नितान्तमेव पुष्यति ॥ ६० ॥ हे देवि, खयि विभौ व्यापिन्यां वद्विषये क्रमेण यथोक्तविधिना अनाकुला स्थिरा नि- श्वला भावना भक्तिः अतिस्थिरेतरे अतिशयेन स्थिरादितरे विनश्वरे वपुषि शरीरे निता- न्तमेवात्यर्थ पुष्यति पुष्टा । प्रकृष्टेत्यर्थः । अस्थिरेऽस्मिन्संसारे सद्भक्तिरेव सारमित्यर्थः६० ॥ महोऽदयानामवधी रणेन महोदयानामवधीरणेन । महोदयानामव धीरणेनमहोदयानामवधीरणेन ॥ ६१ ॥ (पादाभ्यासयमकम् ।) न दयन्ते रक्षन्तीत्यदया हिंस्रास्तेषामदयानां महस्तेजः रणेन संग्रामेण या बमहो आश्चर्य दयानामवधीरणेन तिरस्कारेणावधीः निहतवती । निर्दयतया हिंस्रात्वं समरं महोदयानामुत्सवोत्पत्तीनामवधीरणेनावधिक्षपणेन निरवधिसुखोत्पादनेन महोदया म- हान्तो बृहन्त ये उदया अयो ज्ञानं दैवमनुकूलं वा । उद्गतश्चासावय उदयः । महान्त उदया येषां तेषां धीरणेनं धीरयतीति धीरणं धैर्यकर्तारमिनमीश्वरं प्रभुमव रक्षख । महाज्ञानानां धैर्यकर्तारं प्रभु पालयेति यावत् ॥ ६१॥ न मजनेन तीर्थानां तदिह प्राप्यते शुभम् । नमज्जनेन तीर्थानां सेवया यत्तवाम्बिके ॥ ६२ ॥ हे अम्बिके मातः, तव भवत्याः संबन्धिनां तीर्थानामागमानां सेवया समाश्रयणेन नमज्जनेन प्रणतजनेन यच्छुभं फलं श्रेयः प्राप्यते लभ्यते तत्तीर्थानामृषिसेवितजलानां मजनेन न प्राप्यते ॥६२॥ प्रयाति मोहे निःसारभारतीव्रतमेत्ययम् । त्वत्प्रसादाजनः सारभारतीव्रतमेत्ययम् ॥ ६३ ॥ हे देवि, अयं जनो लोकस्त्वत्प्रसादात्त्वदीयेन कारणेन सारभारतीव्रतं सारा प्रधाना चासौ भारती वाक् तद्रतं तत्परतामेति प्राप्नोति । पश्यन्तीखरूपं लभत इत्यर्थः । वा वित्रतये हि प्रधाना पश्यन्ती। तथा चोक्तम्-'अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा। खरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनी ॥' कस्मिन्समये । मोहेऽज्ञानेऽत्ययं विनाशं प्रयाति गच्छति सति । कीदृशे मोहे ! निःसारभारतीव्रतमे निःसारस्य दुर्बलस्य यथा भार आयासहेतुस्तद्वत्तीव्रतमे दृढतमे । अविषयायासद इत्यर्थः ॥ ६३ ॥ शास्त्रप्रभावहसिताः सतां या निर्मला गिरः । शास्त्रप्रभावहसितास्त्वमम्ब तिमिरच्छिदः ।। ६४ ॥ हे अम्ब जननि, याः सतां साधूनां सूरीणां संबन्धिन्यः शास्त्रप्रभावेण पदवाक्यप्रमा- काव्यमाला। णानां माहात्म्येन हसिता गिरो वाचो निर्मला अकलङ्का निरपशब्दास्तास्त्वं शास्त्रप्रभा आयुधदीधितयस्तिमिरच्छिदोऽन्धकारन्यो वहसि बिभर्षि धारयसि । निरपशब्दा वाचो मोहन्यस्तवायुधमित्यर्थः ॥ ६४ ॥ शमीह ते समानतो विभावितोऽत्रसन्न यः । विभावितोऽत्र सन्नयः शमीहते स मानतः ॥ ६५ ॥ हे देवि, ते तव समानतः सम्यक्प्रणतो य इह संसारेऽत्रसन्नबिभ्यन्सन् न विभौ भगवति वासुदेवाख्ये ब्रह्मणि इतः न गतः । मोक्षं न प्राप्त इति भावः। शमी जिते- न्द्रियः सन् सन्नयो विद्यमाननीतिः। अत्र संसारे विभावितो लक्षितो मानतो ज्ञानाद्धेतो संश्रयत ईहते चेष्टते यः। संसारसक्ततया भगवन्तं विष्णुं न श्रितः सोऽपि लौ प्रणत श्वेत्तद्विद्यमाननीतिः शमी च प्राप्तज्ञानो विश्वं प्राप्नोतीति भावः ॥ ६५ ॥ मातरं त्वा पदं सद्य आश्रितास्ते कथं जनाः । मा तरन्त्वापदं सद्य आद्यं श्रेयः समाश्रिताः ॥६६॥ हे देवि, लां मातरमम्बिकां ये जना लोका आश्रितास्ते कथं केन प्रकारेण सद्यस्त- क्षणमेव आपदं दुर्गतिं मा तरन्तु मा लायन्तु । दुःखमुत्तीर्य वर्तन्त इति भावः । खां कीदृशीम् । सत्पदं शोभनस्थानम् । जनाः कीदृशाः। आद्यमग्रिमं श्रेयः शिवं समा- श्रिता अधितिष्ठन्तः ॥ ६६ ॥ भाति त्वत्तनुसंश्लेषे सत्यम्ब वपुरनुत्तरम् । संसाराब्धौ सदाहुस्ते सत्यं वपुरनुत्तरम् ॥ ६७ ॥ हे अम्ब मातः, खत्तनुसंश्लेषे खत्कायसङ्गे सति पुरनुत्रिपुरारातिः शंभुर्भाति शोभते । ते तव संबन्धि च सत्सत्यं ध्रुवं वपुः पश्यन्तीवाग्रूपं शरीरं संसाराब्धौ जगज्जलधौ स- त्तरं शोभनं प्लवं अनुत्तरमविद्यमानापरमाहुब्रुवते । तत्त्वविद एवं गायन्तीत्यर्थः । अवि- धातोरम्बाशब्दसिद्धेः कथं केवलौष्ठयतया मकारः परमवर्णः (१) दन्योष्ठयोयोरपीति यमकस्याभङ्गः ॥६७ ॥ यच्छ मे नित्यसंसङ्गि यच्छमे तदिदं मनः । स्वच्छलो भक्तियोगस्ते स्वच्छलो कविवेकसूः ॥ ६८ ॥ हे देवि, यत् शमे विषयाणामसङ्गे मनश्चेतो नित्यसंसङ्गि सततानुरक्तं तदिदं तथावि- धमेतन्मे मम यच्छ देहि । यतस्ते तव संबन्धी यो भक्तियोगः सेवासङ्गः स वच्छल: सुष्टु अविद्यमानच्छलो निच्छिद्रः सन्' स्वच्छं निर्मलं लोकानां जनानां लोकयोवा इहामुत्र व विवेकं प्रकृतिपुरुषोत्तमोत्कर्ष सूते जनयति । अत एव इहात्र परत्र च स्वच्छता ॥६८॥ के वलन्ते वितन्वन्तकृतस्त्वत्प्रणता भवे केवलं ते वितन्वन्त आसते विमलां धियम् ॥ ६९ ॥ ।

देवीशतकम् । १ ९ हे देवि, लत्प्रणतास्वत्प्रह्वा जना वितन्वन्तकृतः वितनोरनङ्गस्यान्तकृतो विनाशका- रिणो भवे संसारे के वलन्ते के आविर्भवन्ति । वत्प्रणता जितकामा विमुच्यन्त इति भावः। ते केवलमनन्यव्यापाराः सन्तो निर्मलाममोहां धियं बुद्धिं वितन्वन्तो विस्तारयन्त आसते तिष्ठन्ति । यावत्संसारस्ताव द्विमोहः । भूयश्च खत्प्रणता भवे न निवर्तन्ते ॥ ६९ ॥ देवि निर्दग्धकामस्य त्वं निरावरणात्मनः । दरस्य शुधसंतानं तेनासौ भ्राजते तथा ॥ ७० ॥ हे देवि, त्वं हरस्य गिरिवरतनयाधवस्य शिवस्य निर्दग्धकामस्य भस्मीभावितमीनके- तनस्य तथा निरावरणात्मनः निर्गतमावरणं परिधानमात्मनो यस्य आशाम्बरस्य दिग्वा- ससः शुभसंतानं पुण्यप्रतानं श्रेयोविस्तारस्तेन कारणेनासौ हरस्तथा माहात्म्ययुक्तो भ्रा- जते शोभते । अत्र च क्रियां प्रत्याकाङ्केव नास्ति । विमृश्यमानश्चार्थों नान्वयः (१) एवं क्रियाया अभावात् शुभसंतानमिति द्वितीयानुपपत्तेस्वमिति प्रथमाया असामानाधिकर- ण्याच एतत्प्रतीयमानार्थसंबन्धिनी क्रिया गोपिता भवति । अत्रैव च व्याख्यानाल्लभ्यते। तदा चान्वयो भवति-यथा देवि, निर्दग्धकामस्य निरभिलाषस्य तथा निरावरणात्मनः प्रक्षीणक्लेशजालखभावस्य यतस्वमशुभसंतानमावरणसंततिं हरसि निवारयसि तेनाशुभ- संतानहरणेनासौ तथा भ्राजते दीप्यते ॥ ७० ॥ द्विषद्भिया सपदि विमुच्यते यतस्तवानतो जननि जयाशया न कः । स्तवानतो जननिजया शयानकः करोति ते युधि मधुसूदनखसः ॥ ७१ ॥ हे मधुमथनभगिनि कात्यायनि जननि मातः, अतोऽस्माद्वक्ष्यमाणाद्धेतोः कः पुमान् युधि संग्रामे जयाशयारिपरिभवाभिलाषेण स्तवान्स्तुतीन करोति न विदधाति । सर्वलोको जिगीषुस्तव स्तुतीविरचयतीत्यर्थः । यतो यस्मात्कारणात्तव भक्त्या आनतः प्रह्वः जननि- जया लोकात्मीयया द्विषद्भिया शत्रुभीत्या का शयानकोऽपि निरुद्यमोऽपि सपदि तत्क्षणमेव प्रणामानन्तरमेव विमुच्यते त्यज्यते ततो हेतोरिति संबन्धः॥ ७१ ॥ ज्यायोनिष्ठारिवर्याधिनियमनवरस्वैरदत्तायताज्ञा खाराधत्वासमध्यानियजनजननि ज्ञेयसुस्थावभासा । नानापुण्यागमस्था जननमनमयज्ञाननन्द्या वरा धी- र्याता नव्या विभुत्वं नुतसरलमनस्तामसस्यावहास्ये ॥ ७२ ॥ प्रतिलोमानुलोमतयात एवायं द्वितीयश्लोकः- स्येहाव स्या समस्तानमलरसतनु त्वं भुवि व्यानतार्या धीरा वन्द्या न न ज्ञा यमनमननजस्थामगण्या पुनाना । - २० काव्यमाला। सा भावस्था सुयज्ञेऽनिनजनजयनि ध्यामसत्त्वाधराखा ज्ञातायत्तादरस्वैरवनमयनिधिर्या वरिष्ठानियोज्या ॥ ७३ ॥ (अनेन सह संदानितकम् ।। हे देवि, स्या समस्तानव । स्येति त्यदो रूपं सत्वे कृते। तेन स्या त्वं सा भवती इहा- स्मिञ्जगति समस्तान्सममानव रक्ष । या खमित्थंभूता ज्यायसां जगच्छ्रेष्ठानां निष्ठा परा कोटिः । तथारिवर्याणां शत्रुप्रधानानां आधीनां मनःपीडानां च नियमनाय निवारणाय वरस्याङ्गीकारस्य स्वैरं स्वातन्त्र्येण दत्ता वितीर्णा आयता दीर्घा अविनाशिनी आज्ञा शा- सनं यया । अथ वा दत्तं दानं यस्याः सा तथा । यताज्ञेति पृथगुक्तिः । खाराधत्वे. त्यादि । स्वाराधत्वेन सुखसेव्यतया समानि स्वप्रतिमानि ध्यानिनां योगिनां यानि यज- नानि यानाः (१) तानि जनयति या तस्या आमन्त्रणम् । ज्ञेये ज्ञातव्येऽर्थे सुस्थो निश्चलो- ऽवभासः प्रकाशो यस्याः सा ज्ञेयसुस्थावभासा। तथा नानापुण्यागमस्थानानाविधेषु बहु- प्रकारेषु पुण्यागमेषु धर्मशास्त्रेषु तिष्ठसि लम् । तथा जननमनमयज्ञाननन्द्या जनानां नमनमयं प्रणाममयं वत्प्रणामादागतं यज्ज्ञानं तेन नन्द्या । विद्यारूपा सती नन्दनीयेत्यर्थः। वरा श्रेष्ठा धीश्च खम् । तथा नुतसरलमनः नुतेन स्तवेन सरलं मनश्चेतो यस्यास्तादृशि देवि । तम एव तामसम् । प्रशादित्वात्खार्थे णः। तस्य तामसस्य मोहस्यावहास्ये त्वं विभुत्वमीशत्वं याता गता नव्या स्तव्या । अपरं हे अमलरसतनु। अविद्यमानो मलरस आवरणं रागस्तनौ शरीरे यस्यः तस्या आहूतिः । त्वं भवती भुवि भूमौ व्यानता विधिव- नमस्कृता । अर्या स्वामिनी । धीरा धैर्ययुक्ता । वन्द्या प्रणम्या । न न ज्ञा अपि तु ज्ञा सर्वदर्शिनी । यमनमननजस्थामगण्या च । यमेन अहिंसास्तेयसत्यब्रह्मचर्यापरिग्रहादिवि- धिना, तथा मननेन ज्ञानेन जातं यत्स्थाम बलं तेन गण्या परिच्छेद्या । तथा पुनाना पवि- त्रीकुर्वाणा च सती हे सुयज्ञे शोभनयजने । तथा अनिनजनजयनि अनीश्वरलोकपरि- भवकारिणि । सा एवंप्रकारा आयत्तादरस्वैः आयत्तो वश्योदरोऽभयः ख आत्मा येषां तैः भावस्था आशयस्था ज्ञाता बुद्धा । तथा ध्यामसत्त्वाधराखा ध्यामानां धूसराणां त- मोमयानां सत्त्वाधरा"......."आत्मीया। अवनमयविधिः पालनमयं विधानम् । तथा वरिष्टा श्रेष्ठा । अनियोज्या न केनचित्प्रेर्यते स्वतन्त्रेति भावः ॥ ७२ ॥ ७३ ।। अलोलकमले चित्तललामकमलालये । पाहि चण्डि महामोहभङ्गभीमबलामले ॥ ७४ ॥ (भाषाषट्कसमावेशः ।) हे देवि चण्डि, पाहि रक्ष । अलोला अचपलापि त्वं कमला लक्ष्मीः अलोलकमला। ताशि । तथा चित्तमेव ललामकमलं प्रधानपद्मं तदेवालयः कुलायो यस्याः । तथा महामोहस्य जन्मलक्षाव्यस्ताया अविद्याया भङ्गे विनाशे भीममुग्रं बलं सामर्थ्य यत्तेना- मलेऽकलङ्के । अमलज्ञानरूपिणी सती अज्ञानं निहंसीति भावः । संस्कृतमहाराष्ट्रपिशा- - - देवीशतकम् । २१ चमागधसूरसेनापभ्रंशात्मिकाः षडपि भाषा अत्र समाविष्टा यदा तदा भाषाषट्कस- मावेशोऽयम् । षण्णामपि भाषाणां साधारणा (2) न मिद्यन्त इति वाक्यार्थः ॥ ७४ ॥ दुर्गापि मातः सुलभासि भक्त्या भवानुकूलापि भवं क्षिणोषि । अध्येयतां यासि सदैव देवि ध्येयासि चित्रं चरितं तवैतत् ॥ ७५ ।। हे देवि । तव भवत्याः संबन्धि चरितमाचारश्चित्रमाश्चर्यप्रदम् । यतः हे मातर्जननि, दुर्गापि कात्यायन्यपि अविदितपरमार्थापि भक्त्या सेवया सुलभासि । तथा भवानुकूलापि हरानुरक्तापि भवं क्षिणोषि संसारं निहंसि । अपि च ध्येयापि चिन्तनीयापि सती अध्ये- यतां पठनीयत्वं सदैव सर्वकालं यासि गच्छसि । अपिरिह संभावनायाम् । या दुर्गा दु- र्गमा सा सुलभा, या भवानुकूला सा भवनी, या ध्येया सा अध्येयतां यातीत्यपिश- ब्देन विरुद्धवदाभासनाविरोधाभासोऽयम् ॥ ७५ ॥ महदेसुरसंधम्मे तमवसमासङ्गमागमाहरणे । हरबहुसरणं तं चित्तमोहमवसर उमे सहसा ॥ ७६ ॥ (संस्कृतमहाराष्ट्रभाषाश्लेषः ।। प्रकृतत्वात्संस्कृतशब्दार्थस्तावत्-हे देवि, महदे उत्सवदायिनि मे मम सुरसंधं सुरा देवाः संघिरवधिर्यस्य तम् आगमाहरणे शास्त्रार्जने समासङ्गं सम्यगासक्तिश्रद्धामव रक्ष । शास्त्रासक्तिर्देवैरपि न परित्यक्तेति भावः । यदुक्तम्-'तस्माच्छास्त्रं प्रमाणं ते कार्याका- यव्यवस्थितौ' इति । तथा हे उमे हे अगजे, हसनं हसः सह हसेन वर्तत इति सहसा सामोदा सती अवसरे प्रसङ्गे बहुसरणमत्यन्तव्यापारं तं चित्तमोहं चेतोजाज्यं हर वि- नाशय । कविवैचित्र्यरचितमहाराष्ट्रभाषाशब्दार्थोऽधुना-हे हरबहु शिववधु, धम्मे धर्मे पुण्ये रसं रागं देसु देहि ददख विधत्व । तथा णे नः अस्माकं गमागमा संसारात् तमवसं तमोवशां अविद्याप्रपञ्चायत्तां आसं आशां हर छिन्धि विनाशय । मोक्षं देही- त्यर्थः । मह मम तं त्वं सरणं शरणं परायणम् । सहसा झगित्येव चित्तमोहं मानसम- ज्ञानं चित्तमोहं वा चित्रं नानाविधं मोहं मोघं विफलमर्थात्संसारं अवसरउ अपसरतु प्रयातु इतिक्रियात्रितयेन द्वितीयभाषाशब्दार्थः ॥ ७६ ॥ वन्द्या प्रभातसंध्येव सूर्यालोकप्रवर्तिनी । निवर्तयसि देवि त्वं महामोहमयीं निशाम् ॥ ७७ ।। हे देवि, त्वं वन्द्या प्रणम्या । सूरीणां विदुषामालोकप्रवर्तिनी प्रकाशदायिनी ज्ञानदा सती महामोहमयीमज्ञानस्वरूपां निशामविद्यां निवर्तयसि द्रावयसि । अत एव प्रभात- संध्येव उषःप्रत्यूषयोरन्तरं यथा । सा हि संध्या सर्वेषां वन्द्या भवति तथा सूर्यालोक- प्रवर्तिनी महान्धकारां निशां निवर्तयति ॥ ७७ ॥ नव० गु० ३ काव्यमाला। २२ संवादिसारसंपत्तीसदागोरिजयेसुदे। तवसत्तीरदे सन्तु संसारे सुसमानदे ॥ ७८ ॥ (संस्कृतसूरसेनभाषाश्लेषः ।। तत्र संस्कृतशब्दार्थस्तावत्-हे देवि, असुदे प्राणदायिनि, तव संबन्धिन्यौ द्वे सत्ते । भावावित्यर्थः । तत्रैका विद्यमानता अपरा उज्ज्वलता ते सत्ते सद्विद्यमानमागोऽपराधो येषां तेषां सागसां सापराधानामरीणां शत्रूणां जयेऽभिभवे पराभवविषये संवादिसारसंपत्ती संवा- दिनी ज्ञायमाना सारस्य बलस्य संपत्तिः समृद्धिर्ययोस्ते सत्ते । सापराधा अरयो यथा जनेन जीयन्ते तथा तव संनिधानमौज्वल्यं च लक्ष्यत इत्यर्थः। तथा ते सत्ते द्वे भवसागरे सत्तीरदे शोभनपारप्रदे। खयि सत्यां खत्प्रभावेण वा संसारसागरादुत्तीर्यत इति भावः। तथा सुसमा- नमपभ्रंशमानं ददतः। अथवा सुसमं ब्रह्मादिस्तम्बपर्यन्तं चतुर्दशविधे भूतसर्गे नित्योदित- तया समत्वेन साधारणत्वेनावस्थितं शब्दं शब्दब्रह्म ददतः। तच्च संसारसागरसमुत्तरणप्लवम्। तथा च बाढची श्रुतिः-'ऋचो अक्षरे परमे व्योमन्यस्मिन्देवा अधिविश्वे निषेदुः । यस्तं न वेद किमृचा करिष्यति य एतद्विदुस्त इमे समासते॥' इति । सूरसेनभाषार्थोऽधुना हे गोरि हे गौरि, जयेसु जगत्सु त्रैलोक्यं दे ते तवसत्ती तपःप्रभावः सदा सर्वकालं संवादिसारसं- पत्ती शम्बातिसारसंप्राप्तिः शम्बवद्वज्रवदतिसारातिढा संप्राप्तिलाभो यस्याः सा शम्बाति- सारसंप्राप्तिः । यदुक्तममरसिंहेन-'हादिनी वज्रमस्त्री स्यात्कुलिशं मिदुरं पविः । शत- कोटिः स्वरुः शम्बो दम्भोलिरशनिद्वयोः ॥' इति । अनपायिनी खत्तपःशक्तिरित्यर्थः । कीशि गौरि । सत्ती रदे सत्त्वे रते चेतोविकारजयासक्ते । कीदृशे सत्त्वे । संसारे श्रेयःप्र- धाने । तथा हे गौरि, सुसमानदे सुशमानते सुशमैः सुष्टुचित्तोद्रेकजयिभिरानते प्रणते। मुमुक्षवस्वां प्रणमन्तीति भावः । यतश्चित्तजय एव मोक्षः । यदुक्तम्-'चित्तमेव हि सं. सारं रागादिक्लेशदूषितम् । तदेव तद्विनिर्मुक्तं मोक्ष इत्यभिधीयते ॥' इति ॥ ७८ ॥ आगममणिसुदमहिमसमसंमदकृदपरजस्सु । किर सविभयवदितो समय उज्जलभावसहस्सु ॥ ७९ ॥ संस्कृतापभ्रंशश्लेषः । द्विपथकाख्यं वृत्तम् । इहापि संस्कृतशब्दार्थस्तावत्प्रकृतत्वात्-हे देवि, अपरजःसु अपगतरजस्केषु गलितमोहेषु नृषु इतोऽस्मात्संसारादसमयेऽनवसरे आगममणिसुदमहि- मसमसंभदकृत् आगमाः शास्त्राणि त एव प्रकाशकखान्मणय इव मणयः तथा शोभनो यो दमश्चित्तोपशमः स एव निर्वापकवाद्धिमं तत्संबन्धी योऽसौ समोऽनाकुलः संमदो हर्षस्तं कृन्तति छिनत्ति यत्तत्किर उत्क्षिप । अज्ञानं विनाशयेति वाक्यार्थः । कथम् । सविभयवत् सवो यज्ञोऽस्यास्तीति सवी यायजूकस्तेषां भयवद्भीतिवत् । यज्वनां यथा भयं किरसि तद्वदज्ञानं नाशयेत्यर्थः । तथा कीदृशेषु नृषु । उज्जलभावसहस्सु उद्तो देवीशतकम् । २३ योऽसौ जलभावो जडभावो जाड्यं तत्र सहो बलं येषां तेषु । लडावेकरूपावित्ला- नायः । अथ प्राकृतापभ्रंशभाषार्थः । -जस्सु पर यस्य परं केवलं आगम मणि आगमाः शास्त्राणि मणि मनसि तथा सुदमहिम श्रुतमहिमा शास्त्राववोधः, तथा सम शमः विष- यनिग्रहः एते च सर्वे संमद साम्यदाः साम्यमनाकुलत्वं ददानाः किर स वि किल सोऽपि भयवदितोसमय उज्जलभावसहस्सु भगवतीतोषमयमुज्ज्वलभावसहस्रम् । सहस्र- शब्दो बाहुल्यार्थे । तदपि किल देवीपरितोषागतं निर्मलपदार्थसहस्रमित्यर्थः । देवीप्रसा- दविलसितं तत्तस्येति वाक्यार्थः ॥ ७९ ॥ अथ चक्रम्- त्वं वादे शास्त्रसङ्गिन्यां भासि वाचि दिवौकसः । तवादेशास्त्रसंस्काराज्जयन्ति वरदे द्विषः ॥ ८० ॥ (अप्रत्यभिज्ञायमकमिदम् ।) हे देवि वरदेऽमिलषितदायिनि, वादे स्वपक्षपरपक्षपरिग्रहे शास्त्रसङ्गिन्यां शास्त्रस- जायां वाचि भारत्यां त्वं भवती भासि शोभसे। तथा दिवौकसो लेखा देवास्तव भ- वत्याः संबन्धिन आदेशास्त्रसंस्कारान् आदेश आज्ञा तदेवास्त्रं विनाशायामिनिर्मितं द्रव्यं तत्संस्कारात्तद्भावनाबलाद्धेतोषिः शत्रून् जयन्यभिभवन्ति । वादे शास्त्रसमिति पञ्चा- क्षरयमनेऽप्यप्रत्यभिज्ञानादप्रत्यभिज्ञायमकमेतत् ॥ ८० ॥ सदाव्याजवशिध्याताः सदात्तजपशिक्षिताः। ददास्यजस्रं शिवताः सूदात्ताजदिशि स्थिताः ॥ ८१ ॥ (गोमूत्रिकाबन्धद्वयेन जालाकारबन्धसंबन्धादयं जालबन्धः ।) हे देवि, अजस्रमनवरतं शिवताः श्रेयस्वानि ददासि प्रयच्छसि । कीदृशीः शिवताः। सदा सर्वकालमव्याजैर्निर्दम्भैर्वशिभिर्जितेन्द्रियैर्ध्याताश्चिन्तिताः । तथा सच्छोभनं कृत्वा आत्तजपैयूँहीतमन्त्रावर्तनैः शिक्षिता अभ्यस्ताः। अन्यच सूदात्ताजदिशि स्थिताः सुठु उदात्ता ऊर्जिताः प्रधाना या अजदिक् विष्णुस्थानं परं ब्रह्म तत्र स्थिताः । परब्रह्मण आगता इति भावः । अनन्तरप्रक्रान्ताप्रत्यभिज्ञायमकश्लोकेन सहामुना गोमूत्रिकाबन्धेन सह जालबन्धोऽयम् । केचित्त्वनेन (केवलेन) गोमूत्रिकाबन्धेन केवलेनैव जालाकृति विलिखन्ति तत्र यथानुरूपे युक्तायुक्तविचारे जालस्य प्रयोगतत्त्वविदश्चित्रकाव्यकरणकु- शलाः कवयः प्रमाणम् ॥ ८१ ॥ हरेः स्वसारं देवि त्वा जनताश्रित्य तत्त्वतः । वेत्ति खसारं देवित्वा योगेन क्षपिताशुभा ॥ ८२ ।। हे देवि, जनता जनसमूहस्त्वा खां भगवती हरेः स्वसारं गोविन्दस्य भगिनीमाश्रित्य संसेव्य तत्त्वतः सत्यतः खसारं निजमुत्कर्ष वेत्ति जानाति । कथम् । योगेन चेतोवृत्तिनि- २४ काव्यमाला। . रोधेन देविला व्यवहृत्य क्षपिताशुभा विनाशितकिल्बिषा । तथा च मनुः-'प्राणायामै- हरेघोषान्प्रत्याहारेण संगतिम् । ध्यानेनानीश्वरान्भावान्धारणाभिश्च किल्बिषम् ॥ समस्ते- न्द्रियवृत्तिर्हि प्राणो वायुः प्रकीर्तितः। तज्जयादिन्द्रियाण्याशु विजितानि भवन्ति हि ॥ प्राणस्यैव जयो योगःप्राणस्यैव जयस्तपः। प्राणस्यैव जयात्सर्वं प्राप्यते नात्र संशयः॥' इति । तथा च छान्दोग्योपनिषदि-'यथा शकुनिः सूत्रे बद्धो दिशं दिशं पतिलान्यत्रा- यतनमलब्ध्वा बन्धनमेवोपाश्रयते एवमेव खलु सोम्य तन्मनो दिशं दिशं पतिवान्य- त्रायतनमलब्ध्वा प्राणमेवोपाश्रयते। प्राणनिबन्धनं हि सोम्य मनः ।' तथा च बा- हृची श्रुतिः-'सप्त युञ्जते रथमेकचक्रमेकोऽश्वो वहति सप्तनामा। त्रिनाभिचक्रमजरम- नवद्यं यत्रेमा विश्वा भुवनाधितस्थुः ॥ इति ॥ ८२ ॥ सदामोति यतिज्योतिस्तादृशं त्वत्प्रभावतः । प्रभावतः समो येन कल्पते मोहनुत्तितः ॥ ८३ ॥ हे देवि, लत्प्रभावतस्त्वन्माहात्म्यात् यतिश्चतुर्थाश्रमी संयमी वा तादृशं तथाविध सच्छोभनं ज्योतिःप्रकाशमान्तरं तेज आप्नोति लभते येन ज्योतिषा करणभूतेन हेतुना वा मोहनुत्तितो मोहविनाशाद्धेतोः प्रभा दीप्तिर्विद्यते यस्येति तस्य प्रभावतः सूर्यस्य सम- स्तुल्यः कल्पते समर्थो भवति । संपद्यत इत्यर्थः । एवं देव्या असकृन्नादरूपिणीत्वं प्रति- पाद्यानेन श्लोकेन बिन्दुरूपता प्रदर्शिता । परं ज्योतिर्हि बिन्दुशब्देनोच्यते । यदुक्तम्- 'यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि माम- कम् ॥' तथा चोपनिषत्सु ज्योतिःस्थानमसकृञ्चागमेषु चोक्तम्-'नेत्रयोरुभयोर्मध्ये नासावंशस्य मूलतः । हृदयं तद्विजानीयाद्विश्वस्यायतनं महत् ॥' इति ॥ ८३ ॥ त्वं सद्गतिः सितापारा परा विद्योत्तितीर्षतः । संसारादत्र चाम्ब त्वं सत्त्वं पासि विपत्तितः ॥ ८४ ॥ (अयं गूढचतुर्थः।) हे अम्ब हे मातः, संसारादुत्तितीर्घत उत्तर्तुमिच्छोः पुंसस्त्वं सद्गतिः शोभनं परा- यणं शरणम् । कीदृशी । सिता निर्मला । अपारा अपर्यन्ता । परा उत्कृष्टा विद्या तत्त्व- ज्ञानार्थदा । अत्र संसारे सत्त्वं प्राणिनं विपत्तित आपद आतेस्त्वं पासि रक्षसि । चतु- र्थोऽयं पादोऽत एव पादत्रयाल्लभ्यत इत्यस्य गूढचतुर्थता ॥ ८४ ॥ परमा या तपोवृत्तिरार्यायास्तां स्मृति जनाः । परमायात पोषाय धियां शरणमाहताः ॥ ८५ ॥ हे जनाः पुमांसः परमत्यर्थमाहताः सादराः सन्त आर्याया देव्याः संबन्धिनी तां स्मृतिं तत्स्मरणं शरणमायात आश्रयं श्रयध्वम् । स्मृतिं किंविधाम् । परमा प्रकृष्टा तपो- वृत्तिर्नियमव्रतवर्तनम् । देव्याः स्मरणमेव परमं तप इत्यर्थः । किमर्थं घियां बुद्धीनां पो- देवीशतकम् । पाय वृद्धये । अष्टप्रकारा वुद्धिरिति बहुवचननिर्देशः । यदुक्तम्-'शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । ज्ञानं विज्ञानमूहश्चापोहो बुद्धिः स्मृताष्टधा ॥' इति ॥ ८५ ॥ प्रवादिमतभेदेषु दृश्यस्ते महिमाश्रयः । भान्ति त्वत्रिशिखस्येव शिखानामसमाश्रयः ॥ ८६ ॥ हे देवि, प्रवादिनां वाग्ग्मिनां मतभेदेषु बुद्धिनानात्वेषु ते तव दृश आलोका भान्ति शो- भन्ते यान्येव प्रवादिनां भिन्नानि ज्ञानानि तास्त्वदीया एव दृष्टय इति तात्पर्यार्थः । कि- भूता दृशः । महिमाश्रयो माहात्म्यस्थानम् । लत्रिशिखस्येव भवत्रिशूलस्य यथा शिखानां कोटीनामसमा विषमास्तीक्ष्णा आश्रयो धारा भ्राजन्त एवम् । एतादृशा इत्यर्थः ॥ ८६॥ यच्चेष्टया तवे स्फीतमुदारवसु धामतः । यच्चेतो यात्यवहितमुदा रवसुधामतः ।। ८७ ।। (गोमूत्रिकाबन्धः । संदष्टयमकम् ) हे देवि, तव भवत्याश्चेष्टया व्यापारेण श्रवणचिन्तनाध्ययनलक्षणेन इन्द्रियादिनियमेन वा । यत एषैव वागीशायाश्चेष्टा । यत उक्तम्-'मनस्युपरतं कुर्यादक्षग्रामं बहिः स्थि- तम् । चित्तं बुद्धौ विनिक्षिप्य सा बुद्धिर्ज्ञानगोचरे ॥ ज्ञानभावनया कर्म कुर्याद्वा पारमा- र्थिकम् ।' इति । अत एव तया चेष्टया स्फीतं विकसितं यच्चेतः अवहितं च सावधान संयतं मनः अत एवोदारवसु परमनश्वरं धनं तच्चेतो मुदा हर्षेणोपलक्षितं सत् धामतो ज्योतिःस्थानान्मोक्षलक्षणात्स्थानात, रवसुधां शब्दामृतं याति प्राप्नोति । शब्दब्रह्मोदयं लभत इत्यर्थः । यदुक्तम्-'ओमित्येकाक्षरं ब्रह्म ।' तथा चोपनिषत्सु-'एतदेवाक्षरं ब्रह्म एतदेवाक्षरं परम् । एतदेवाक्षरं ज्ञाला यो यदिच्छति तस्य तत् ॥' गोमूत्रिकाब- न्धोऽयं यमकश्च । प्रस्तारस्त्वेकदा दर्शितः ॥ ८७ ॥ सुरदेशस्य ते कीर्ति मण्डनत्वं नयन्ति यैः । वरदे शस्यते धीरैर्भवती भुवि देवता ॥ ८८ ॥ (अर्धगोमूत्रिकाबन्धयमकम्) हे देवि वरदे, अभिमतदायिनि, थैधीरैरविकृतचित्तैर्भवती त्वं भुवि भूमौ संसारे देवता शरणं शस्यते स्तूयते ते पुमांसः कीर्तिं प्रथां सुरदेशस्य देवसदनस्य मण्डनत्वं भूषणत्वं नयन्ति प्रापयन्ति ॥ ८८ ॥ तत्त्वं वीतावतततुत्तत्त्वं ततवती ततः । वित्तं वित्तव वित्तत्वं वीतावीतवतां बत ॥ ८९ ॥ (यक्षरः) हे देवि, वित् विद्ये, बत आश्चर्य वीतावीतवतां सांख्यानाम्। वीतसंज्ञा अवीतसंज्ञा च सांख्यानाम् । प्रधानपुरुषसद्भावावेदकादेशहेतवः ते विद्यन्ते येषाम् । ततो हेतोस्तव भ- वत्या वित्तत्वं धनत्वं वित्तं ज्ञानम् । सार इत्यर्थः । ते हि ज्ञानादेव मोक्षमाचक्षते । य- काव्यमाला । स्मात् तत् त्वं तत्त्वं ततवती तद्भवती तत्त्वं परमार्थ परब्रह्मस्वरूपं ततवती विस्तार- यन्ती । कीदृक्तत्त्वम् । वीतावतततुत् वीता विगता अवतता विस्तीर्णास्तुदो व्यथा यत्र तत् । सांख्यानां त्वमेव सर्वप्रधानमिति तात्पर्यार्थः ॥ ८९ ॥ तारे शरणमुद्यन्ती सुरेशरणमुद्यमैः । त्वं दोषापासिनोदग्रवदोषा पासि नोदने ॥ ९० ॥ (पादगोमूत्रिकाबन्धद्वयेन तूणबन्धः) हे तारे ताराभिख्ये विमले, त्वं भवती शरणमुबन्ती आश्रितत्राणायोत्तिष्ठन्ती उदग्र- खदोषा उत्कटनिजबाहुना दोषापासिना दुरितविनाशकेन उद्यापारैर्नीदने प्रेरणे काले सुरेशरणं शक्रसंग्रामं पासि रक्षसि । पालिता देवा भवतीं शरणमेस पुनः संग्रामासक्ताः संपद्यन्त इति वाक्यार्थः । प्राक्तनेन 'सुरदेशस्य ते कीति' इत्यनेनार्धेन गोमूत्रिकाब- न्धेन सहामुना पादेनावृत्तिगोमूत्रिकाबन्धेन तूणबन्धोऽयम् ॥ न्यासः ॥ तत्र प्रकारप- ञ्चकमत्र व्याख्यायते ॥ ९ ॥ सुमातरक्षयालोक रक्षयात्तमहामनाः । त्वं धैर्यजननी पासि जननीतिगुणस्थितीः ॥ ९१ ॥ हे सुमातः, शोभनजननि, जनानां लोकानां नीतेनयस्य गुणानां सचरितानां स्थितीः स्थैर्याणि पासि आयसे । विद्याप्रसादाद्धि जनानां नीतौ गुणेषु च स्थैर्यमुत्पद्यते । शास्त्र- मार्गानुल्लची व्यापारो नीतिः । गुणाः क्षमादयः । कीदृशी लम् । अक्षयालोकरक्षया शाश्वतज्योतिस्त्राणेनात्तं गृहीतं महृदुदारं मनश्चेतो यया । अविनाशप्रकाशरूपिणीत्यर्थः । तथा च धैर्यजनकी धैर्यस्यानाकुलताया उत्पत्तिः ॥ ९१ ॥ ख्यातिकल्पनदक्षका त्वं सामय॑जुषामितः । सदा सरक्षसांमुख्यदानवानामसुस्थितिः ॥ ९२ ॥ (रेफविवर्तितकोऽयम् ) हे देवि, त्वं भवती इतोऽस्मिञ्जगति अनवानामकृतानां सामय॑जुषां त्रयाणां वेदा- नामसुस्थितिः प्राणरूपा सती । वेदानां हि वागीशी प्राणरूपा जनानां च । तथा च बा- ढची श्रुतिः -'चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य । त्रिधाबद्धो वृषभो रोरवीति महो देवो मानाविवेश ॥' इति । अतः सदा सततं सरक्षसांमुख्यदा निरपभ्रंशाभिमुख्यदायिनी । ख्यातेः समृद्धेः कल्पने रचने दक्षा चतुरा । एका नापरा। वेदानां विपर्ययदोषरक्षिणी खमेवेति भावः। रेफविवर्तनेनायमपरोऽर्थः-सरक्षसां रक्षोभिः सहितानां मुख्यदानवानां सामग्र्यजुषां सामग्र्यं समग्रतां जुषन्ति सेवन्ते ये तेषाम् । स- मग्राणामित्यर्थः । सदा ख्यातिकल्पनदक्षा प्रथाछेदनचतुरा भवसीत्यर्थः । रक्षोदानवयोरत्र . १. 'प्रकारपञ्चकं म्लिष्टवान्न लिखितम्' इति पुस्तकान्तरे.

देवीशतकम् । २७ भेदः। अथवा दासानि भृत्यानि अप्रधानानि यानि रक्षांसि तानि दासरक्षांसि । सह तैर्वर्तन्ते ये ते सदासरक्षसः तेषां सदासरक्षसाम् । सपरिवाराणामित्यर्थः । अथवा सह दासैः रक्षोभिश्च वर्तन्ते ये तेषामिति । अत्र श्लोके यवर्णस्थरेफस्य विपर्ययात् य इति जायते तेन रेफविवर्तकोऽयम् ॥ ९२ ॥ सिता संसत्सु सत्तास्ते स्तुतेस्ते सततं सतः । ततास्तितैति तस्तेति सूतिः सूतिस्ततोऽसि सा ॥ ९३ ॥ (अक्षरः) हे देवि, सा असि सा त्वं ततो हेतोः सूतिः शोभना ऊतिः रक्षा । अवतेः क्तिनि- घातनाद्रूपम् । यस्मात्ते भवत्याः संबन्धिन्याः स्तुतेः नुतेः हेतोः सतः साधोः सततं सदा संसत्सु सभासु सत्ता प्रशस्तता निर्मला आस्ते तिष्ठति । तथा तस्य सतस्तता अस्तिता एति विस्तीर्णा विद्यमानता आयाति । दीर्घमायुरारोग्यमैश्वर्यं च लभते आविर्भवतीति भावः । कीदृशी अस्तिता । तस्तेतिसूतिः तस्ता क्षपिता ईतीनां व्याधीनां सूतिः प्रसवो यस्याम् ॥ १३ ॥ त्वदाज्ञया जगत्सर्व भासितं मलनुद्यतः । सदा त्वया सगन्धर्व समिद्धमरिनुत्तितः ॥ ९४ ॥ (गोमूत्रिकाबन्धोऽयम्) हे देवि, मलनुत् आवरणनिवारिणि, बदाज्ञया भवच्छासनेन जगत्सर्व त्रैलोक्यं स- नग्रं (त्रैलोक्य)ज्ञानशक्तेरिच्छाशक्त्यात्मकं भवतीति भावः । यतो यस्मात्कारणादरिनु- त्तितः शत्रुप्रेरणाद्विपक्षनाशाद्धेतोः लया भवत्या समिद्धं संलब्धज्ञानं सगन्धर्व सदेवकु- शीलवमेतज्जगद्भासितं प्रकाशितम् । मलं हि भासो विपक्षं तं च त्वं तुदसि । प्रस्तारोऽस्य प्राग्वत् ॥ १४ ॥ यतो याति ततोऽत्येति यया तां तायतां यतैः । मातामितोत्तमतमा तमोतीतां मतिं मम ॥ ९५ ॥ (श्लोकाध यक्षरम्) हे देवि, मतिं बुद्धिं मम तायतां मे विस्तार्यताम् । कीदृशीम् । तमोतीतां विगतत. मस्काम् । यया मत्या यतो याति यतो निवर्तते ततोऽत्येति ततो विनश्यत इति भावः । कीदृशी मतिः। माता जननी। तथा अमिता अपरिच्छिन्ना। उत्तमतमा प्रकृष्टा ज्ञानमयी । एते षोडशश्लोकाश्चक्रे षोडशाराः । एत एव च पुनरनुलोमतो लिखिता अन्ये षोडश एवं द्वात्रिंशदराः ॥ ९५ ॥ महत्तां त्वं श्रिता दासजनं मोहच्छिदा वस। यच्छुद्धत्वं गतः पापमन्यस्य प्रसभं जय ॥ ९६ ॥ द्विप्रकारो दासजनः एको निवृत्तपापावरणः अपरः पापावृतः। तत्र मोहच्छित् अज्ञा- ।

२८ काव्यमाला। ननाशिनि देवि, त्वं भवती महत्तां श्रिता माहात्म्यमास्थिता सती यः शुद्धत्वं दासजनो गतः नैर्मल्यं प्राप्तः तमावस अधितिष्ठ । अन्यस्य सपापस्य पापं कल्मषं प्रसभं बला- ज्जय निवर्तय ॥ ९६ ॥ त्वं साज्ञासु जगन्मातः स्पष्टं ज्ञाता सुवर्त्मसु । प्रज्ञा मुख्या समुद्भासि तत्पृथुत्वं प्रदर्शय ॥ ९७ ॥ हे मातस्त्रैलोक्यजननि, सुवर्त्मसु सन्मार्गविषयाखाज्ञासु निरूपणासु त्वं भवती मुख्या प्रधाना प्रज्ञा बुद्धिः स्पष्टं ज्ञाता सुव्यक्तं विदिता तदा तत्पृथुत्वं प्रज्ञापृथुत्वं बुद्धिविस्तारं समुद्भासि समुद्भासते यत् तत्प्रदर्शय प्रकटीकुरु ॥ ९७ ॥ अस्मादेव श्लोकादक्षराण्युच्चित्येयमार्या भवति- आज्ञासु जगन्मातः स्पष्टं ज्ञाता सुवर्त्मसु प्रज्ञा । भासि त्वं सा मुख्या समुत्पृथुत्वं प्रदर्शय तत् ॥ ९८ ॥ अर्थोऽस्याः-हे देवि, जगन्मातस्त्रिलोकजननि, शोभनं वर्त्म मार्गों येषां पुंसां तद्वि- षया या आज्ञास्तासु त्वं सा ज्ञाता विदिता मुख्या प्रज्ञा भासि । स्पष्टं समुत् प्रकटमा- नन्दरूपं सत्पृथुत्वं महिमानं प्रदर्शय ॥ ९८ ॥ हन्त्र्यों रुषः क्षमा एता सदक्षोभास्तमुन्नतः । सतेहितः सेवते ताः सततं यः स ते हितः ॥ ९९ ॥ हे देवि, क्षमा एतास्त्वं एताः प्रसिद्धा याः क्षान्तयो दर्पनिहतयस्ता भवती इति भावः। कीदृशाः क्षमाः । रुषो हन्यः क्रोधविनाशिन्यः। तथा सदक्षोभाः सत्याश्चाक्षोभाश्च। श्रेष्ठा अधिकाश्चेत्यर्थः । ताः क्षमाः सततमजतं य उन्नतः प्रधानपुरुषः सता ईहितः शो- भनेन मार्गेण व्यापारितः सन्सेवते आश्रयते स ते भक्त्या हितोऽनुकूलः ॥ ९९ ॥ करोषि तास्त्वमुत्खातमोहस्थाने स्थिरा मतीः । पदं यतिः सुतपसा लभतेऽतः सशुक्लिम ॥ १०० ॥ हे देवि, उत्खातमोहस्थाने, उत्खातान्युन्मूलितानि मोहस्थानानि मदादयो यया तस्या आहूतिः। यतस्त्वं स्थिरा मतीः मैत्र्यादिका धिषणा अचलाः करोषि संपादयसि । अतो हेतोः यतिर्मुमुक्षुः सुतपसा शोभनेन निर्दम्मेन व्रतादिना सशुक्लिम शुक्लिमा शुक्लगुणत्वं तेन शुक्लिन्ना सह वर्तते यत्तत्सशुक्लिम सत्त्वगुणसहितं रजस्तमोरहितं पदं स्थानं लभते प्राप्नोति । चत्वार एते नेमिश्लोकाः। एभ्यश्च प्रथमं (प्रथममक्षरं) त्रीणि त्रीण्यक्षराणि लि- खिला चतुर्थमक्षरं श्लोकप्रान्ते च भवतीति नेमेर्द्वितीयमध मीलितं भवति । एवमेव चा- न्तलिखिखा मध्यान्नामिमीलनं भवति । एवं चक्रप्रस्तारः ॥१०॥ अत एव द्वात्रिंशतो नेमिस्थानान्नाभितो वा भ्रमं दत्त्वा तृतीयं तृतीयमेकोनत्रिंशमेको- देवीशतकम् । २९ नत्रिंशं चाक्षरमादाय यथा लिखितदर्शनानुसारमङ्कचिह्नानि वीक्ष्य वर्णद्वात्रिंशतः श्लो- कोऽयमुत्पद्यते- देव्या स्वप्नोद्गमादिष्टदेवीशतकसंज्ञया । देशितानुपमामाधादतो नोणसुतो नुतिम् ॥ १०१ ॥ इत्यश्लोकोऽयमुत्पद्यते । अर्थोऽस्यायम्-एतामेवमुक्तप्रकारां नुतिं स्तुति नोणसुतो नोणाख्यस्य कस्यचित्पुत्र आनन्दवर्धननामा आधाद्विहितवानकार्षीत् । कीदृशीम् । देव्या वागीश्वर्या स्वप्नोद्गमे निद्राविर्भावे आदिष्टा निरूपिता देवीशतकमिति संज्ञा तया देशिता- नुपमाम् । तल्लक्षणो देशो निदेश आज्ञा विद्यते यस्याः सा देशिनी तस्या भावो देशिता स्थानविशेषः तया देशितया अविद्यमानान्यप्रशंसामनुत्तमाम् । देवीस्तोत्रतया सर्वाति- शायिनीमिति भावः ॥ १०१ ॥ हार्दध्वान्तनियन्तृभाखरवपुः खर्वासिनां सर्वतो दुर्वारारिपरिक्षयं विदधती ध्यातैव निर्वाणसूः । देहार्धे निहिता भवेन भुवनत्राणैकतानात्मना देवि त्वं त्वमिवापरा जगति का सत्केसरीन्द्रस्थितिः ॥१०२॥ (प्रहेलिकेयम्) हे देवि, लमिन जगति कापरा भवतीतुल्या त्रिभुवने कान्या विद्यते । वत्सदृशी त्रै- लोक्येऽपि नान्या विद्यत इत्यर्थः । हार्दध्वान्तं खहन्मोहस्तस्य नियन्तृ प्रमाथि भास्वरं दीप्तिमद्वपुः शरीरं यस्याः सा तथाविधा । तथा वासिनां दिवौकसां सर्वतः समन्तात् दुर्वारारिपरिक्षयमजेयशत्रुशमनं विदधती कुर्वाणा । तथा ध्यातैव निर्वाणसू: चिन्तितैव निर्वाणं मोक्षं सूते प्रयच्छति । अपरं देहाधै निहिता भवेन (देवेन द्योतनशीलेन) भवेन शिवेन शरीरार्धे नियोजिता स्वशरीरवामभागे स्थापिता । हरेण प्रभुणा कीदृशेन । भुव- नत्राणैकतानात्मना भुवनानां त्रयाणां लोकाना त्राणे रक्षायामेकतान एकरसः सर्वदा प्र- सृत (प्रवृत्त) आत्मा प्रकृतिः खभावो यस्य तेन । त्वं च कीदृशी । सत्केसरीन्द्रस्थितिः शोभनसिंहराजे स्थितिवरस्थानं यस्याः सा । अथ च वमिवापरा जगति का इति प्रश्ने कृते सत्केसरीन्द्रस्थितिरित्युत्तरम् । खत्तुल्या का इति पृच्छायां भगवन्नृसिंहमूर्तिरित्युत्तर- दानात्प्रहेलिकेतीयमुच्यते । व्याख्या तु समाना सर्वत्र । केवलं देहाधै निहिता भवेनेत्य- नाकारप्रश्लेषो व्याख्यायते। तथा अभवेनाविद्यमानसंसारेणाजेन भगवता विष्णुना दे- हार्धे शरीरोपरिभागे निहितेत्येतावान्स्तुतिविशेषः । प्रहेलिकेयम् ॥ १०२ ॥ क्लेशोन्माथकरी सतां भवहरानन्दैकहेतो गुरु- र्माता त्वं जगतां भवन्ति विधवाः सर्वे तवानुग्रहात् । ।

३० काव्यमाला। - । दुर्गे न कचिदेव सीदति जनस्त्वद्भक्तिपूताशयः स्तुत्या भर्तुरभिन्नयेति विबुधैस्त्वं स्तूयसे श्रीरिव ॥ १०३ ॥ (चतुरर्थः) इतिशब्दः पूर्वोक्तप्रकारापेक्षायां वर्तते । भर्तुरभिन्नया पत्युः सदृश्या स्तुत्या नुत्या त्वं भवती विबुधैर्देवैर्मनीषिभिर्वा श्रीरिव लक्ष्मीरिव स्तूयसे नूयसे । अर्थवशाद्विभक्तिव- चनलिङ्गविपरिणाम इति लक्ष्मीर्यथा भर्तुरभिन्नया स्तुत्या स्तूयते तथा त्वं स्तूयस इति । एवममूनि स्तुतिपदानि चतुर्णा भवभवानीकमलाकान्तकमलानां योज्यन्ते । तत्रोपमा- नयोः कमलाकान्तकमलयोस्तावत्स्तुतिप्रकारा व्याख्यायन्ते । हे श्रीः, भवहरानन्दैक- हेतोः संसार(निवर्तक)स्य भगवतो विष्णोरानन्दे चित्ताह्लादने एकहेतो एकनिमित्तभूते, त्वं भवती सतां साधूनां क्लेशोन्माथकरी अविद्याविनाशिनी करीति आनुलोम्ये टचि डीप् । तथा त्वं जगतां त्रयाणां लोकानां गुरुः प्रधानम् । माता जननी । तथा विभवाः सर्वे समृद्धिगुणाः सकलास्तवानुग्रहाद्भवत्प्रसादाद्भवन्ति संपद्यन्ते । अन्यत्, त्वद्भक्तिपू- ताशयो जनः भवत्सेवापवित्रीकृतमना लोकः दुर्गे दुर्गतौ न क्वचिदेव न कुत्रचिदेव सी- दति मज्जति। भर्तुरभिन्नया स्तुत्येति तद्भर्तुः पक्षे योजना-हे भवहर संसारनिवर्तक विष्णो, तथा आनन्दैकहेतो, त्वं सतां क्लेशोन्माथे अविद्याविनाशने करी हस्ती । आनन्दैकहेतुला- न्मोक्षप्रद इत्यर्थः । तथा त्वं जगतां गुरुः माता मापकश्च । त्रिभिः क्रमैरिति भावः । भवन्ति विभवाः सायुज्यादयः सर्वे तवानुग्रहात् । दुर्गे संसारवन्धने न क्वचिदेव सी- दति जनस्वद्भक्तिपूताशयः । उपमेययोरधुना संबन्धः । तत्र भवान्यास्तावत्-सतां क्लेशोन्माथकरी भव । लोग्मध्य- मपुरुषैकवचनमेतत् । हे दुर्गे विन्ध्यवासिनि, हरस्यानन्दैकहेतो । शिष्टं श्रीस्तुत्या समानम्। एत्तद्भर्तुर्गिरिशस्याधुना-हे भव हे हर हे आनन्दैकहेतो, त्वं जगतां गुरुः माता हिंसिता । त्रैलोक्यसंहर्ता रुद्र इत्याम्नायः। मीनातेः कृतावस्य तृचि मातेति रूपम् । तवानुग्रहात्सर्वे विभवा अणिमाद्या ऋद्धयो भवन्ति । शिष्टं श्रीपतिस्तुत्या समानमिति । एवमर्थचतुष्टयवाची ॥ १०३ ॥ येनानन्दकथायां त्रिदशानन्दे च लालिता वाणी । तेन सुदुष्करमेतत्स्तोत्रं देव्याः कृतं भक्त्या ॥ १०४ ॥ अस्याप्ययमर्थः-वेन कविना नोणतनयेनानन्दवर्धनेन एतदेवमुक्तप्रकारं स्तोत्रं नवनं भक्त्या सेवया आरिराधिषया कृतं दृब्धं रचितम् । कीदृशं स्तोत्रम् । सुदुष्कर शोभना दुष्कराश्चक्रबन्धादयो यत्र सुष्टु वा दुष्करं नान्येन केनचित्कर्तुं शक्यमिति । केन कविनेत्याह-येनानन्दकथायां विषमबाणलीलायां त्रिदशानन्देऽर्जुनचरिते च वाणी भारती लालिता विनोदिता। विषमबाणलीलार्जुनचरितविरचयितुः कवेः कृतिरेतत्स्तोत्र- मिति वाक्यार्थः ॥ - । उ ईश्वरशतकम् । ३१ ३ वल्लभदेवायनितश्चन्द्रादित्यादवाप्य जन्मेमाम् । कय्यटनामारचयद्विवृति देवीशतस्तोत्रे ॥ एवं वागीश्वर्याः खरूपमाख्याय यन्मयावाप्तम् । पुण्यं तेन जगत्स्यात्प्रतिजन्मावाप्तपरबोधम् ॥ वसुमुनिगगनोदधि(४०७८)समकाले याते कलेस्तथा लोके । द्वापञ्चाशे वर्षे रचितेयं भीमगुप्तनृपे ॥ कर्मस्थानोदिता साहिमकरशशद्वह्निचक्रान्तरस्थ. क्षेत्रज्ञोद्बोधनाय प्रलयरविकराग्राभतेजोविरामा । नित्यं मन्दालिघोषा कचटतपयशालापिनी मध्यवाहा बालाग्रात्सूक्ष्मरूपा त्रिभुवनजननी पातु वागीश्वरी वः ॥ एकायनस्याच्युततुल्यमूर्तेराचार्यनारायणगर्तनान्नः । शिष्येण दृब्धेयमनन्तशास्त्रवेत्तुः सदृक्षेण च कय्यटेन ॥ इति नोणात्मजश्रीमदाचार्यानन्दवर्धनविरचितं कय्यटप्रणीतया टीकया . समेतं देवीशतकम् । काश्मीरिकश्रीमदवतारकविप्रणीतं ईश्वरशतकम् । सटीकम् । स वः पायाद्येन निन्ये वासुकिर्निजहारताम् । तपोपायात्तनुं कोपाद्यः स्मरस्य जहार ताम् ॥ १॥ स वः पायादित्यादिग्रन्थारम्भे त्रिविधविघ्नोपघातार्थ कविना नमस्कारवाक्यवदुचितं १. सटीकस्येश्वरशतकस्य प्रणेता श्रीमदवतारकविः कश्मीरेषु कदा समुत्पन्न इति न निश्चयः. किंतु स्तुतिकुसुमाञ्जलिटीकाकर्तृ राजानकरत्नकण्ठस्य पितामहोऽप्यवतारनामा- सीदिति 'सकलविपश्चिद्वर्यः प्रज्ञाजितवृत्रहामात्यः । अवतारोऽजनि तस्मात्पाण्डित्यस्याव- तार इव ॥' इति स्तुतिकुसुमाञ्जलिटीकासमाप्तिस्थार्यातः प्रतीयते. रत्नकण्ठेन च स्तु- तिकुसुमाञ्जलिटीका १७३८ मिते विक्रमाब्दे प्रणीतेति तत्रैव स्फुटम् , अतोऽवतारोऽपि १६२२ मितख्रिस्ताब्दासनकाल आसीत्. यदि स एव सटीकस्यास्य शतकस्य निर्माता- वतारकविः स्यात्तदा निर्णीत एव तत्सत्तासमयः. सटीकस्यास्य शतकस्य पुस्तकद्वयम- स्माभिरासादितम्. तत्रैकं श्रीयुतभाण्डारकरपण्डितैः पुण्यपत्तनस्थराजकीयपुस्तकालया- (कृपया प्रहितम्. अपरं कश्मीरनगराज्ज्योतिर्विदुपाश्रीदयारामपण्डितैः प्रेषितम्. पुस्तकद्वयेऽपि प्रायो नास्ति भेदः, द्वयं च कश्मीरलिखितमिति समानमातृकमेवेति प्र- तीयते. एतदाधारेणैवैतन्मुद्रणमुपक्रम्यत इति शिवम्.

३२ काव्यमाला। । , सूचितम् । येन भगवता खतन्त्रेण धराधराणयोग्यो वासुकिहरितां नीतः। एतेन वि- श्वाधारत्वं ध्वनितम् । तथा तपोपायात्संयमविघ्नविधायित्वात् न त्वीय॑या कोपात्तां वि- श्वस्य प्रसिद्धां स्मरस्य तनुं जहार दिदाहेति प्रतीयते । तामित्यनुभवगोचराम् । अत एव यच्छब्दोपादानं न कृतम् । यदाहुः-'प्रक्रान्तप्रसिद्धानुभूतविषयस्तच्छब्दो यच्छब्दो- पादानं नापेक्षते' । तत्र नमस्कारः खातन्त्र्यकर्तृवाद्भगवतः सर्वातिशायित्वादर्थादेवा- क्षिप्तः ॥१॥ रक्षावतारं गम्भीरं भवमुग्रं हरेश्वर । नय नीतिगुणं तं तु ममताप्रियतामिमाम् ॥२॥ हे ईश्वर परमात्मन् , तदुक्तम्- 'क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः'। तत्संबोधनम् । भवं संसारं गम्भीरं त्वं हर निवारय । कथंभूतं भवम् । उग्रं कठिनम् । त्वं भक्तानामवतारमवतरणं भवात्पुनःपुनरागमनं रक्ष । कविना च अवतारमवतारना- मानं मां पाहीति स्वनाम ध्वनितम् । तु पक्षान्तरे । इमां प्रत्यक्षां सर्वेषां ममताप्रिय- तामहंकृतिहेवाकितां तं प्रसिद्ध लोकोत्तरं नीतिगुणं नय प्रापय । अत्र च रक्ष अव, तारं गम्भीरं, भवं उग्रं, हर ईश्वर, नय नीति, गुणं तन्तुं, अमत अप्रिय, इति द्वयो- ईयोः शब्दयोरर्थस्य पौनरुक्त्यमिवावभासते । मिन्नार्थत्वात्तु पुनरुक्तवदाभासः । 'आ- मुखावभासनं तु पुनरुक्तवदाभासम्' इति ॥ २॥ वदामि ते खं रमयन्नमोऽहं वहामि संसारमयं न मोहम् । तनुर्मुदायोगवता स्मितेन मुक्तः स्फुरद्योग बतास्मि तेन ॥ ३ ॥ अहं ते तुभ्यं नमो वदामि नमस्कारं करोमि । अनेन कायवाक्चित्तानां प्रतीभावः सूचितः । अत एव खमात्मानं रमयन्नानन्दयन्संसारमयं मोहमज्ञानरूपं न वहामि । यदुक्तम्-'आनन्दं ब्रह्मणो विद्वान बिभेति कुतश्चन' इति । हे भगवन्स्फुरद्योग, आश्चर्ये । अहं तनुस्तुच्छोऽपि मानुषादज्ञानात् मुदां हर्षाणां निरतिशयप्रीतिरूपाणाम् आसमन्तात् योग आयोगः तद्वता मुदायोगवता खानुभवैकगोचरेण स्मितेन अमिम- तप्राप्त्या हसितेनोपलक्षितः सन्मुक्तोऽस्मि । यमकम् ॥ ३ ॥ सृष्टिस्थिती प्राग्भजता कृतापवर्गोद्यमेनाथ भवान्धकारे। धृतं त्वया विश्वमतो हतारिवर्गोऽद्य मे नाथ भवान्धकारे ॥ ४ ॥ हे नाथ हे अन्धकारे अन्धकासुररिपो, प्राक् सृष्टिस्थिती भजता कुर्वता त्वया अ- थानन्तरं भवान्धकारे संसाररूपान्धकारे कृतापवर्गोंद्यमेन कृतो भक्तानामपवर्गार्थमुद्यमो येन तथाविधेन । त्रिविधकृत्यकारिणा वयैव विश्वं धृतम् । अतो ममापि अद्य हतारि- वो भव । हता अरयो मुख्याः कामादयो येन तादृशः । पादयमकम् ॥ ४ ॥ सज्जातसज्जाततलोचनाग्रे संध्यात संध्यातपसा सुरौघैः । माधीनमाधीनपरिग्रहेण कालेन कालेन हृतं कृथा माम् ॥ ५॥ बत ईश्वरशतकम् । सत् अकृत्रिमं जातं जन्म यस्य स सज्जातः सजः संनद्ध आततो विस्तीर्णो विश्व- व्यापित्वालोचनाग्निर्यस्य तदामन्त्रणं सज्जातसज्जाततलोचनाग्ने । तथा सुरौघैर्बह्मविष्णुप्र- भृतिभिर्देवसमूहैः संध्यातपसा त्रिसंध्यं समाधानेन संध्यात सम्यग्ध्यातः। कालेन अ- सितवर्णेन । भयंकरेणेति यावत् । तथा आधीनपरिग्रहेण आधीनां मनःपीडानां ये इनाः खामिनो ज्वरादयो रोगास्तेषां परिग्रहः परिवारो यस्य स तादृशेन कालेन मृत्युना हतं सन्तं मां माधीनं कृथाः संपादय । (यद्वा) मायाः शोभाया आधीनमायत्तं माधीनम् । श्वेतराजर्षिवदित्यर्थः । आदियमकम् ॥ ५ ॥ भवोत्सुकानामसमाधिभिन्नः कश्चिन्मदन्यो न समाधिभिन्नः । ये त्वां प्रशंसन्ति सदा सभार्यास्त एव जीवन्ति सदासभार्याः ॥ ६॥ त्वं नोऽस्माकमुत्सुकानां सोत्कण्ठानामसमाधिभित् असमा अनल्पा ये आधयो म. नोरुजस्तान्भिनत्तीति तादृक् भव संपद्यस्व । यतो मत्सकाशात् अन्यो जनः समाधिभि- अश्चित्तैकाग्र्यबहिष्कृतो नास्ति । ये त्वां सदा सर्वकालं सभासु मध्ये अर्या निष्पापाः प्रशंसन्ति स्तुवन्ति त एव सदासभार्याः सह दासैर्भार्यया च वर्तन्ते ये ते सपरिवारा इत्यर्थः । जीवन्ति । पुनः संसारावृत्तिं न लभन्ते । अनश्वरपदप्राप्तेः । अन्ये तु संसा- रिणो नानाजन्मोपलब्ध्या जीवन्तोऽपि मृता एव । 'ब्रह्माण्डोदुम्बरान्तर्मशकवदपरे ज- न्तवो जातनष्टाः' इति यावत् । आदियमकम् ॥ ६ ॥ दैत्यद्विषां त्वच्चरणावलीनामिवाम्बुजे भग्नरणावलीनाम् । स्तुवन्त्यतो निःशरणा वलीनां त्वन्मूर्तिमीतेः सरणावलीनाम् ॥ ७ ॥ दैत्यद्विषां देवानां बच्चरणौ अलीनां भ्रमराणामिवाम्बुजे पद्मे भवतः विश्रान्तिस्थानं मनोभिलषितप्राप्तेः स्त इत्यर्थः । कथंभूतानां दैत्यद्विषाम्, भन्नाः पराजिता रणावलयः संग्रामसमूहा यैस्तथाविधानाम् । अतो हेतोः निःशरणा मादृशा अपि ईतेः संसारोपद्र- वस्य सरणौ मार्गे अलीनामश्लिष्टां त्वन्मूर्ति स्तुवन्ति । कथंभूताम् । वबयोरैक्यालि- नामिनां खामिनीम् । तदधिष्ठातृवात् । सर्वपादान्तयमकम् ॥ ७ ॥ भवेतिभिन्नः कुलपामराणां भवेऽतिभिन्नः कुलपामराणाम् । सदासकान्ताय न मोहराय सदा सकान्ताय नमो हराय ॥ ८ ॥ हे अमराणां देवानां कुलप, त्वं नोऽस्माकं कुलमध्ये पामराणामयोग्यत्वाद्वालिशाना- मीतिभित् दुर्गतिनिहन्ता भव । अतस्वमेव भवे संसारेऽतिभिन्न उत्तीर्णः । सह दासैर्व- तते कान्तश्च यः । सर्वाभिलाषदायित्वात् । सदासकान्तः। तस्मै । तथा मोहं राति ददाति मोहरः अज्ञानदायी । न मोहरः तस्मै न मोहराय । सदा सर्वकालं सकान्ताय निजशक्तिपरिवृताय हराय नमः । संपुटयमकम् ॥ ८ ॥ नव० गु०४ काव्यमाला। राजते विष्टपाकारा राकापाहिफणावरा । रावणाराधिताक्षारा राक्षाताम्राक्षि तेऽजरां ॥ ९॥ पद्मबन्धः ॥ तनुरद्रिसुताकान्त कान्तलावण्यवाहिनी । वाहिनीवामृतमयी मयीह विमलातनुः ॥ १० ॥ शृङ्खलायमकम् ॥ (युग्मम्) हे अद्रिसुताकान्त पार्वतीश, तव संबन्धिनी तनुर्मूर्तिः राजते । कथंभूता । विष्टपा- कारा विष्टपं जगत् तदाकारा। तथा राकापः पूर्णचन्द्रः तथा अहिफणाः तामिर्वरा उ. त्कृष्टा । तथा रावणेनाराधिता सेविता । अक्षारा न क्षारा। (मधुरा) सौम्यस्वभावेत्यर्थः । तथा राक्षा लाक्षा तद्वत्ताम्रमक्षि यत्रेति क्रियाविशेषणम् । राक्षाताम्राक्षि राजते इत्यर्थः। तथा अजरा जन्मादिरहितत्वात् । कान्तलावण्यवाहिनी अमृतमयी वाहिनी नदीव । अ. तनुर्बहला । युगलकम् । आद्यः श्लोकः पद्मबन्धः । द्वितीयः शृङ्खलायमकम् ॥९॥१०॥ दरवति वरदय भटभयदपणक्षणपथरथपर पुरशरसमरे । मदमयरणरय जय जय खमत क्षतमखसुरवरसुखद शिव ॥ ११ ॥ महादेवबन्धः । जागेश्वरबन्ध इत्यर्थः । हे शिव, त्वं जय जय । किंविध । दरवति सभये मादृशे वरदय वरा उत्कृष्टा दया यस्य । अन्धकादीनां विश्वकण्टकानामपि पुनर्दयया गाणपत्यप्रतिपादकलात् । तथा भ- टानां भयदः पणो व्यवहारो यस्य तादृशः। तथा क्षणं पन्था यस्य तादृग्यो रथस्तत्र पर उद्योगवान् तदामन्त्रणं भटभयदपणक्षणपथरथपर । तथा पुराणां त्रिपुराणां शरसमरे बाणयुद्धे मदमयः साहंकारो रणरयः संग्रामवेगो यस्य तदामन्त्रणम् । तथा खमत खा- नामिन्द्रियाणां मताभिप्रेत । तदधिष्ठातृवात्सर्वेन्द्रियाणाम् । तथा क्षतो मखो दक्षा- ध्वरो येन । तथा सुरवराणां सुखं ददातीति तत्संबोधनम् ॥ ११ ॥ क्रूरा नराणां भवता शोधनीयाविभागतिः । चराचराणां भवता बोधनीया शुभा मतिः ॥ १२ ॥ क्रूरा दुःसहा संसारे रता नराणां भक्तानां भवता खामिना अविभागतिस्तामसी गतिः शोधनीया । चराचराणां जङ्गमस्थावराणां शुभा मतिर्भवतैव बोधनीया । अयं गोमूत्रिकाबन्धः ॥ १२॥ नरकं कालमालाभरणा हि तरसा श्रिताः । नरककालमालाभरणाहितरसाश्रि ताः॥ १३ काञ्चीगोमूत्रिकाबन्धौ समुद्यमकम् ॥

. .. ईश्वरशतकम् । ३५ ततेतितति तातैता मम मा मामिमाममाः । ललल्लोलालिलीलालैरुरुरोराररैररम् ॥ १४ ॥ पादैकाक्षरः॥ यमवाराङ्गनाः कान्तैरवसादरतापदैः। समं त्रस्ता भवभक्तिरवसादरतापदैः ॥ १५ ॥ त्रिभिः श्लोकैर्वाक्यार्थतिलकम् ॥ हे तात पूज्य, ता यमवाराङ्गना मृत्युस्त्रियो भवद्भक्तिरवसादरतापदैः भवति विषये यानि भक्तिरवाणां सादरता तस्याः पदानि वाक्यानि तैः त्रस्ता भीताः कान्तैर्भतृभिः समं सह । कथंभूतैर्भर्तृभिः । अवसादरतापदैः अवसादं विनाशं रान्ति ददति तापं च ददति तादृशैर्भर्तृभिः साकं त्रस्ता भीताः। भवदीयभक्तजनस्तुतिवाक्यं श्रुत्वैव त्रस्ता इत्यर्थः । इमां मम संबन्धिनी मां लक्ष्मी मा एता न प्राप्ताःमाशब्दो निषेधार्थः । अमा अश्रीकाः । पुनः कथंभूताः। तरसा बलेन हि निश्चयेन नरकं श्रिताः । तता विस्तीर्णा या ईतिततय ईतीनां विनानां ततयः समूहा यत्र तथाविधं कृला कालमालाभरणा का - लस्य मा लक्ष्मीस्तल्लाभार्थ. रणो यांसां तथाविधाः। पुनः कथम् । नरककालमालाभर- णाहितरसाधि । नराणां कङ्कालमालाभिर्यान्याभरणानि तैराहितः रसात्रिः रसपर्यन्तो यत्र तथा । पुनः कथंभूतैर्भर्तृभिः । ललल्लोलालिलीलालैः ललन्त उल्लसन्तो लोलाश्च तेऽलय- स्तल्लीलां लान्ति कृष्णखात् ये तैः । उरुरोराररैः उरु बहुलं च तत् रोरं दारिच उरुरोरं तथा अरीणां समूह आरं उरुरोरं च आरं च तत् उरुरोरारं तं रान्ति ददति तथाविधैः । अरमत्यर्थम् । अत्र वाक्यार्थतिलकेन प्रथमः समुद्कयमकं काञ्चीगोमूत्रिकाबन्धौ च । द्वितीयः पादेकाक्षरः । तृतीयः पादयमकम् ॥ १३ ॥ १४ ॥ १५ ॥ प्रलापिनं मा रसेनाभयप्रद यमाकुलम् । आगत्य त्वरितं तीव्रप्रभावोचितविग्रह ॥ १६ ॥ हे तीव्रप्रभ, तथा उचितविग्रह, अभयप्रद, त्वं मा कर्मभूतं अव रक्ष । केन । रसे- नादरेण । मा कीदृशम् । यमाकुलं यमादाकुलम् । तथा प्रलपति तच्छीलः प्रलापी तं प्रलापिनम् । बरितमागत्य । गूढकर्मक्रियोऽयं श्लोकः ॥ १६ ॥ चिरार्तिचित्तेतिचितैरिताराच्चराचराचारचरित्रचार । रैचारुता चित्रतराचिरा रीतिं रतारैरुरुचौररोरैः ॥ १७ ॥ त्र्यक्षरः॥ हे भगवन् चराचराचारचरित्रचार, चराचराणां जङ्गमस्थावराणां यदाचारचरित्रं तत्र चारश्चरणं यस्य तत्संबोधनम् । रैचारुतायां धनानां चारुता ऐश्वर्य चित्रतरा साश्चर्या क्ष- ।

३६ काव्यमाला। णिकत्वादचिरार्चिषो विद्युतो रीतिमिता प्राप्ता । कैः हेतुभूतैः। उरवो बहला ये चौरास्तथा रोराणि दारिद्र्याणि (तैः) उरुचौररोरैः । कैः । रतारैः रतस्य चित्तविश्रान्तेराराणि अरि- समूहा इव तैः । पुनः कथंभूतैः। चिरं या आर्तिस्तथा चित्तेतिश्चित्तबाधा च तया चि. तैर्व्याप्तैश्चिरार्तिचित्तेतिचितैः । आरादूरतः । त्र्यक्षरोऽयं श्लोकः ॥ १७ ॥ मुदात्तसारा द्युसभासमाना सभासमानाङ्गमुदात्तसारा । विभावसुस्थान भव प्रभा ते भवप्रभाते रविभावसुस्था ॥ १८ ॥ व्यावृत्तयमकम् ॥ हे भगवन् भव, विभावसोनॆत्राश्रयस्य वह्नः स्थान आश्रय, भवप्रभाते संसारोदये सति ते तव संबन्धिनी प्रभा रविभाववत्सुस्था सामस्थ(खास्थ्य ?)वती । यतः मुदा हर्षेणात्तं सारं यस्याः मुदात्तसारा । द्युसभायां देवसदसि समाना सह मानेन पूजया वर्तते या । सभासमानानि रुचिराण्यङ्गानि यत्र तथाविधं कृला उदात्तमुद्भटं बलं यस्याः॥ व्यावृत्तयमकम् ॥ १८॥ देहान्तकाले खरसेन पाहि यमात्प्रभो भाखरलोचनाज । शमैकसर्वस्व सभूरिकामां मां यच्छ देवेश जहीहि मां मा ॥ १९ ॥ वज्रबन्धः ॥ हे भाखरलोचन धामत्रयनेत्र, अज अनादे, शमैकसर्वख उपशमैकसाधन, त्वं मां देहान्तकाले मरणसमये खरसेन कृपया यमान्मृत्योः पाहि । तथा भूरयो बहलाः कामा मनोरथानि यस्यां सा तादृशी सर्वाभीष्टप्रदां मां लक्ष्मी यच्छ वितर । मां च मा ज- हीहि । मा परित्यज ॥ वज्रबन्धः ॥ १९ ॥ तनुस्त्वदीया भगवन्स्मरारे रसासुखं मुक्तिमुखं सुसार । शुभावहा भक्तिपरायणानां सादान्तताकृत्तकृतान्तदासा ॥ २० ॥ हे भगवन् सुसार शोभनबल, स्मरारे, तव संबन्धिनी तनुर्मूर्ती रसायां सुखं लक्षणया भूतलस्थानां जनानां सुखदायिनी। तथा मुक्तिसुखम् । भोगमोक्षप्रदेत्यर्थः । अत एव भ- तिपरायणानां शुभावहा । तथा सादस्यावसादस्यान्तताविच्छेदस्तेन हेतुना कृत्तादिछन्नाः कृतान्तदासा यमभटा यया । बद्भक्तेभ्यस्ते निराशाः पलायन्ते नन्दिरुद्रवत् ॥ २० ॥ स्थिरासुरापक्षपरा सुरास्थिमालावरासन्नसरावलामा । वादे हिता मन्त्रमताहिदेवातिभाविता नुत्यनुता विभाति ॥ २१ ॥ प्रतिलोमानुलोमपादः । युगलकम् ॥ खदीया तनुरित्यनेन पूर्वश्लोकस्थेनान्वयः खदीया तनुर्विभाति । कीदृशी। स्थिरा येऽसुरा अन्धकादयस्तेषामपक्षपरा प्रतिपक्षभूता। सुराणां ब्रह्मादीनां चास्थिमालादिभि-

ईश्वरशतकम् ।
३७
वैरा उत्कृष्टा । तथा आसन्ना निकटा सरावा नादयुक्ता लामा उत्कृष्टरूपा देवता यस्यां
सा आसन्नसरावलामा । तथा वादे चतुर्दशविद्यास्थानविशारद (विचार)विषये हिता ।
भक्तविद्वज्जनेभ्य इति शेषः । तथा मन्त्रैर्मननत्राणधर्मादिभिर्देवतोच्चारकपदैर्मता भाविता।
यदाहुः—'मन्त्रमूर्तिस्तु देवता' इति । तथा अहिभिन गर्दैवैश्वातिभाविता अतिध्याता।
तथा नुत्या स्तुत्या ये ब्रह्मादयस्तैरपि नुता नुत्यनुता । एवंविधा वदीया तनुर्विभाति ।
'अमत्रमता' [इति पाठे] अमत्रेभ्यः पात्रेभ्यो मता अहयः सी यस्यां तादृशी देवा-
तिभाविता च । [इत्यर्थः] । युगलकम् । आद्यो युक्पादप्रतिलोमः। द्वितीयः प्रतिलो-
मानुलोमपादः ॥२१॥
तनोति ते तात नुतौ नितान्तं नूनं नतानां तनुतां न नीतिः ।
नेनेन नो नूतनतां तु नीता तेनोन्नतानन्ततनो ततेतिः ॥ २२ ॥
ध्यक्षरः ॥
हे भगवन् , तात पूज्य, उन्नतानन्ततनो, उन्नता अनन्ताः पृथ्व्यादयस्तनवो मूर्तयो
यस्य तत्संबोधनम् । ते तव संबन्धिनी नीतिः नतानां भक्तानां नुतौ स्तुतौ सत्यां नूनं
निश्चितं तनुतां लघुतां न तनोति । दायमेव पोषयति । तु पक्षान्तरे । तेन हेतुना इ-
नेनार्थाद्भवता स्वामिना नोऽस्माकं तता विस्तीर्णा ईतिः संसारबाधा नूतनतां नवत्वं न
नीता । भवनुतिमात्रेण वयं मुक्ता इति सूचितम् । श्लोकोऽयं यक्षरः ॥ २२ ॥
हर प्रभो परं वन्द्य रक्षोभागेऽस्थिरो भव ।
प्रभावितदमो रोरं भोगातत्त्व सदस्थिप ॥ २३ ॥
अर्धभ्रमः ।।
हे प्रभो भव, त्वं रोरं दारिद्र्यं हर निवारय । परमत्यर्थ वन्ध वन्दनीय । कथंभूतस्वम्।
रक्षसां हिंसापराणामपि भागे संविभागेऽस्थिरश्चञ्चलः । दानादावपि सर्वलो(प)कहित-
हेतुना कीलितः। पुनः कथंभूतः । प्रभावितः सर्वजनोपलक्षितो दम इन्द्रियजयो यस्य ।
तथा प्रभो कथंभूत । भोगातत्त्व भोगा अतत्त्वं यस्य । आभासमानलात् । पुनः कथंभूत
प्रभो, सदस्थिप सन्ति शोभनान्यस्थीनि भूषणतया पाति रक्षतीति तादृश ॥अर्धभ्रमः॥२३
कायेन भगवन्नास्ति तव कण्ठच्छवः समा ।
कालिकाकालिकालालीलीलाका परवीरप ॥ २४ ॥
त्रिशूलबन्धः ॥
परा उत्कृष्टा ये वीरास्तान्पः पाति तादृश परवीरप । 'वीतरागभयद्वेषो रहितः सर्व-
संशयैः । सर्वभूतानुकम्पी च वीर इत्युच्यते बुधैः ॥' इति । तव संबन्धिन्याः कण्ठच्छवेः
कान्या समा अस्ति । कीदृशी। कालयः तथा काकानामालयः पतयः तथा कालाना-
माली च तासामिव लीला विच्छित्तिर्यस्यास्तादृशी कृष्णत्वेन ॥ २४ ॥

३८ काव्यमाला । मरुमेरुररिारोऽमरारामोऽरमोऽरिरः । मुरारिरामा रोरोऽरमुमारामी ममोरुराः ।। २५ ॥ यक्षरः ॥ मम मेरुः सर्वदेवताविश्रान्तिस्थानमपि मरुनिर्जलप्रायो देश इव नावर्जकः। मारः कामोऽपि सर्वजनवल्लभोऽरिः शत्रुः। तथा अमराणां देवानामारामो विश्रान्तिप्रदो नन्द- नादिप्रदेशः सोऽपि अरमः शोभारहितः। अतएव अरिरः अरीन् रातीति असुखखाच्छत्रुद इव । मुरारेर्विष्णो रामा लक्ष्मीभगवती रोरो दारिद्र्यम् । अरमत्यर्थम् । उमारामी उमया सह योऽवश्यं रमते स पार्वतीवल्लभः स एव उरुराः महदुत्कृष्टं निधानभूतं धनम्॥२५॥ विहाय सस्यसंपन्नां सेव्यः खामी शिवं भवेत् । येनाप्यो दिवि पन्थानो राजेनत्वं च तिष्ठति ॥ २६ ॥ अपशब्दाभासः॥ नोऽस्माकं सस्यसंपन्नां धान्यादिसमृद्धिमत्त्वं विहाय स्वामी विश्वेश्वरः सेवनीयः । येन हेतुना शिवं कल्याणं भवेत् । दिवि च यः पन्थाः सचाप्यः प्राप्यः । राजेनत्वं राज्ञां मध्ये इनत्वं प्रभुत्वं च तिष्ठति । अत्र विहासस्य, संपन्नां, शिवं, खामी, सेव्यः, पन्थानः, आप्यः, राजेन, त्वं तिष्ठति इति सर्वेऽपि शब्दा अपशब्दा इवाभासन्ते अतोऽपशब्दा- भासोऽयम् । अर्थान्तरप्रतीतौ निर्दोषः ॥ २६ ॥ न भासते ते सभा न भाविताममता विभा । सता वदे देवतास ते मदेन नदेऽमते ॥ २७ ॥ सर्वतोभद्रः ।। भग्ना वयं भवमये नोद्धृताः पशवस्त्वया । यास्त्ववस्था रुजां भामामाभाजां रुद्र ता हर ॥ २८ ॥ परशुबन्धः ॥ युगलकम् ।। द्वयोष्टीका-हेभगवन् देवतास, देवतानां ब्रह्मविष्णुप्रभृतीनामासनं स्थितिः रक्षणं क्षेपणं विनाशो वा यस्मात् तत्संबोधनम् । ते तव सभा न न भासते । अपि तु सर्वोत्तमा भासते एव । किंविधा । भावितानां नन्दिप्रभृतीनां अममता निरहंकारता तया विभा दीप्तिर्यस्याम् । सता सत्यरूपेण ब्रह्मणा वदे । वदे इति 'संभासनोपसंभाषाज्ञानयत्नविम- त्युपमत्रणेषु वदः' इत्यात्मनेपदम् । ते तव वयं मदेनाहंकारेण नदे भवमये अमते अनीप्सिते दुस्तरे तडाके भग्ना बुडिताः सन्तः पशव इत्यज्ञानपरत्वात् खया नोद्धृताः। हे रुद्र रुजां दुःखानां भामः क्रोधः अमा अलक्ष्मीस्तद्भाजां रुजां या अवस्थास्ता हर निवारय । इति युगलकम् । एकः सर्वतोभद्रो द्वितीयः परशुबन्धः ॥ २७ ॥ २८ ॥ कलिकालकलालीककेलिः कलकलाकुले । कालेऽलिकोकिलाकाले कोऽलं लोले कुले किल ॥ २९ ॥ ब्यक्षरः॥ । न ईश्वरशतकम् । ३९ को नामालं समर्थो भवति । अपि तु न कश्चित् । कुले गृहे । शरीर इत्यर्थः । कुले शरीरे लोले अस्थिरे सति यतः कलिकाले याः कलास्तामिर्यदलीकं तदेव केलिः खेलनं यस्य । तथा कलकलैर्नानाविधोत्कलिकाभिराकुले क्षुभिते । तथा काले मृत्यौ जापती- त्यर्थः । तथा अलयो भ्रमरास्तथा कोकिलाश्च तद्वत्काले तामसे ॥ २९ ॥ आभातिभाति भवतस्तव कालमार्कि संचिन्तय स्मरहरोग्रतनुं कृशाङ्गम् । मां मास्य मुञ्च भव भीममलं कलङ्क हन्तातिकष्टममराधिप देव तेन ॥ ३० ॥ पुनरुक्तवदाभासः सर्वपदाश्रयः ।। हे स्मरहर, हे देव, हे अमराधिप, हे भव, एतान्यामन्त्रणानि भीतोक्त्या च पुनरु- 'क्तानि तवाभा शोभा अतिभाति अतिशयेन भाति । आकि उग्रतनुं रौद्रशरीरं संचिन्तय । कथंभूतमार्किम् , कालमतिमलीमसम् । तथा भवतो जन्महेतोः मां कृशाङ्गमतिभीत्या क्षा- मतनुं संचिन्तय। अतिदयालुतयेति शेषः । तेन हेतुना हन्ता वधकः तादृशानामुग्रशरीरा- णामपीत्यर्थः । समस्य कालस्य भीमं भयदायकमतिकष्टं कलङ्क मा मुञ्च । कलकं सर्वथा जहीत्यर्थः । अत्र च आभाति भाति, भवतः तव, कालं आर्कि, संचिन्तय स्मर, हर उग्र, तनुं कृशाङ्गं, मां मा, अस्य मुञ्च, भव भीम, मलं कलङ्क, हन्त अतिकष्टं, अमराधिप देव- तेन, इति सर्वपदाश्रयत्वं पुनरुक्तवदाभासस्य । देवतानामिनो देवतेनस्तदामन्त्रणम् ॥३० यजने वर धीसाररसामानससारस । सरसासनमासाररसाधीरवने जय ॥ ३१ ॥ दक्ष दासवरासारनद मत्तकृतारव । वरताकृत्तमदन रसाराव सदाक्षद ॥ ३२ ॥ युग्मम् ॥ हे भगवन्', त्वं जय । किंभूत । यजने यज्ञे वर उत्कृष्ट । तथा धीसाराणां योगिनां या रसा भूमिः सैव मानसं तत्र सारस हंस । तथा दक्ष निपुण । तथा दासानां निजभक्तानां वरा एव आसारस्तत्र नद सरोविशेष । तथा मत्तेषु कामाद्युन्मादयुक्तेषु कृत आरावस्त्रा- णवाग्रूपो येन । तथा वरतया उत्कृष्टतया कृत्तो मदनो येन तादृश । तथा रसो रस- युक्तः । अर्शआदित्वादच् । आरावः संजल्पो यस्य तदामन्त्रणम् । तथा सदा सर्वदा अ- क्षान्भवपाशरूपान् द्यूतपाशकान् द्यति हन्तीति तादृश सदाक्षद । कस्मिन् । सरसासन- मासार रसाधीरवने । सरसमासनं स्थितिर्येषां ते माया लक्ष्म्याः साराः रसायां भूमौ ये धीरास्त्वदेकताना भावुकास्तेषां वनं समूहस्तत्र । युगलकम् ॥ ३१ ॥ ३२ ॥ तवैव मूर्तिः शिव धर्मराजसुहृत्समानामसुहृत्समाना । शुभावहा तत्त्वजुषां निरस्तधनादराणां निधनादराणाम् ॥ ३३ ॥ ..

४० काव्यमाला। हे भगवन शिव, तवैव मूर्तिः असुहृत् प्राणहृत् भवति । केषाम् । धर्मराजसुहृत्स- मानां यमसुहृत्सदृशानां तत्प्रियलोकानां तत्किंकराणां वा । कथंभूता समाना सह मानेन पूजया वर्तते या सा । पुनः किंविधा । निरस्तधनादराणां दूरीकृतधनाभिलाषाणां तत्त्व- जुषां वदेकतानानां जनानां अराणामश्रिसमूहानां भवपाशरूपाणां निधनात्कर्तनाच्छु- भावहा शुभदा । युक्पादाद्यन्तयमकोऽयं श्लोकः ॥ ३३ ॥ भूयाद्भक्तिस्त्वय्युमाकान्त तीव्रासारा दक्षामोक्षादरा सा । नो चेन्नैषा जीयते कालसेना या कालिना नित्यनिम्नालिकाया ॥३४॥ युक्पादप्रतिलोमः॥ हे भगवन् उमाकान्त, खयि सा भक्तिर्मम तीव्रासारा अविच्छिन्ना भूयात् । पुनः किंभूतः । दक्षा निपुणा । पुनः किंभूता । अमोघः सफलो मोक्षे आदरो यस्याम् । नो चेद्भक्तिस्तव स्यात् तर्येषा कालसेना मृत्युचमूर्जन्ममरणादिरूपा न जीयते । केनापी- त्यर्थः । एषा कालसेना का । या कालिना मलीमसत्वेन नित्यनिम्नोऽतिनीचोऽलिकायो भ्रमरकायो यस्याः सा । भ्रमरकायादप्यत्यन्तमलिनेत्यर्थः ॥ ३४ ॥ न नानान्नानि नूनं नो न ना नीनानना न नः । नानु नानेन नुन्नैना ननु नेनाननेन नौः ॥ ३५ ॥ एकाक्षरः ॥ दृष्टेन लभ्या भवता नयनानलसाधुना । मुक्तिरूपा भवाब्ध्यन्ता नयनानलसाधुना ॥ ३६ ॥ पादयमकम् ।। युग्मम् ॥ नूनं निश्चये नोऽस्माकं नानान्नानि नानाविधानि अन्नानि न भवन्ति । यतः नीनाः नि- र्गत इनः स्वामी येषां ते नीनाः खामिरहिताः । अननाः अविद्यमाना अनाः प्राणा येषां ते अननाः । निष्प्राणा एवेत्यर्थः । नानुना इत्यादि । अनेन हेतुना अनु अविद्यमाना नौर्यस्मिन्कर्मणि तत् । अनु न भवति काका भवत्येवेत्यर्थः । ना नरः स्वामी न भवति केषाम् । नः। ननु निश्चये। इनाननेन इनस्याननं मुखं यस्य स इनाननो लक्ष्मीवान नेनाननो दरिद्रस्तेन नेनाननेन दरिद्रेणापि मुक्तिरूपा नौलभ्या । कदा। अधुना । केन हेतुना। भ- वता। कथंभूतेन दृष्टेन । पुनः कथंभूतेन । नयनानलसाधुना नयनानलेन साधुःप्रष्टास्याः(3) तेन । मुक्तिरूपा नौः कथंरूपा। भवाब्ध्यन्ता भवाब्धेरन्तो यस्याः सा। पुनः कथंभूताः । नयनानलसा नयने प्रापणे अर्थाद्भवोत्तारणे अनलसा सज्जा इति । मुक्तिरूपा नौः भूता । नुनैनाः नुन्नं नोदितमेनः पापं यया (युग्मम्) इति भक्तजनं प्रति ।आयोक्तिः। (अ. धुना इदानीम् ) आद्य एकाक्षरः द्वितीयं पादयमकम् । इह शब्दपौनरुक्त्यभ्रान्तिर्भिन्न- लिङ्गवान्न ग्राह्या । माघकाव्यकिरातार्जुनीयादिकाव्येषु बहुष्वपि पदार्थानां पौनरुक्त्यं दृश्यते तच्च पूर्वाचार्यैःसमर्थितम् । यथा-'यमकश्लेषचित्राणां नातिपदक्षोदः कार्यः' इति । अस्य कवेः क्वचित्पौनरुक्त्यादिचमत्कृतेः (१)। चित्रकाव्यस्य दुष्करत्वात् ॥ ३५॥३६ ॥ :पुनः कथं- ईश्वरशतकम् । ४१ सुसुररससभाभा खखदादाववक्र- क्रममनुनुततत्त्वा त्वाततप्रप्रजाजा। ननव वधधनानाञ्चञ्चला लाभभव्य- व्यस सततममन्दान्दाससङ्गङ्गते ते ॥ ३७ ॥ आवलिः ॥ मयि तनुमुचितां तां दर्शयस्येदृशी या रविजजविरणत्रा त्राणरक्तातिभाति । जय जय जगतस्त्वं तत्त्वतज्ज्ञोऽसि भासि- नरसिक सदसदासस्ते भवे भर्ग भव्यः ॥ ३८ ॥ एतस्य श्लोकस्य प्रथमान त्रिशूलबन्धः, द्वितीयार्धन गदाबन्धः । मा- लिनीवृत्ताभ्यां युगलकम् ॥ हे भगवन् भर्ग, न [नव] नव्य आदि [भूत ] लाभभब्यव्यस्य लाभेन हेतुनोत्कृष्टो व्यसो विशेषेणासनं त्यजनं यस्य हेतोः। पदार्थानामनन्तफलदत्वात् । तथाविध । हे भा- सिन् भासनशील रसिक भक्तजनप्रिय, ईदृशीं तनुं मयि ते तव दाससङ्गं गते आशु खरितं दर्शयख । या तव तनुरेवंभूतातिभाति सातिशया शोभते । कथंभूता । सुसुररससभाभ सुष्टु सुराणां रसा यस्यां तथाविधाया सभायामाभा यस्याः। आदावादावेव खखदा मरु- त्तादिभ्यो भकेभ्यः खमात्मीयं स्वं धनं ददातीति तथा । अवक्रमं कृत्वा अकौटिल्येन अनु पश्चान्नुतं तत्त्वं यस्याः सा । तु पक्षान्तरे आतता विस्तीर्णा प्रकृष्टा प्रजा प्रप्रजा सप्तर्षिप्रभृतिसकलनिर्माणं यस्यास्तथाविधा । वयं पुनरजा जन्मरहिता । तथा वधध- नानां हिंसाजीवनानामसुरादीनां चञ्चलास्थिरा । सततं सर्वकालममन्दां नित्योद्युक्ताम् । तां तनुमिति संबन्धः । तथा या च ते तनुः रविजस्य यमस्य ये जविनो वेगवन्तः। अर्थाद्भटाः । तैः सह यो रणस्ततस्त्रायते तथाविधा । अत एव सर्वेषां त्राणरका । अत एव त्वं जगतां तत्त्वविषये तज्ज्ञोऽसि विचारनिपुणः। जय जय । सदसतोर्नित्यानि- त्ययोर्य आस आस्थारूपस्ते तव भवे संसारे भव्य उत्कृष्टः । सतः सत्त्वेन स्थितिर्भ- वता कल्पिता, असतोऽपि खपुष्पादेर्व्यवधानायासत्त्वेन । यदाहुः-'कस्तु भवतला- न्यत्वेन नातिकामति' इति । प्रमेयमनुरूपेण प्रमाणेन प्रमीयते प्रत्यक्षवत्प्रमाणमध्यपति- तवादसतोऽपि व्यवस्थानादिसिद्धेश्वरनिर्माणवैचित्र्यात् ॥ अत्र युगलके एक आवलिः । द्वितीयश्लोकस्याद्याधन त्रिशूलबन्धः। द्वितीयार्धेन च गदाबन्धः ॥ ३७ ॥ ३८ ॥ सुखदोनवमत्वेन सुवर्णाकृतिविग्रहः । नागरागप्रथात्यक्तो गिरीशो जयतादसौ ॥ ३९ ॥ अर्थत्रयवाचकोऽयम् ॥

काव्यमाला।
.
।
असौ गिरीशो महादेवः, गिरीणामीशो मेरुः, गिरि वाचि ईशो बृहस्पतिश्चेति त्रय
उक्ताः। तत्राद्येऽर्थे-गिरीशो महादेवो जयति । सु शोभनानि खानि ददातीति सुखदः।
तथा अनवमत्वेनोत्कृष्टत्वेन सु शोभनानां वर्णानां ब्राह्मणादीनामक्षराणां वा आ सम-
न्तात्कृतिः सृष्टिर्यस्मात्स सुवर्णाकृतिस्तादृशो विग्रहः शरीरसंनिवेशो यस्य । नागराजा-
दीनां प्रथया प्रसिद्ध्या त्यक्तो विरहितः सर्वाङ्गभूषणखात् । तत्सहितः । एकोऽर्थः ॥ मे-
रुरपि-सु शोभनाः खदा गहराणि यस्य स सुखदः । नवोत्कृष्टा मा लक्ष्मीर्यस्य तद्भा-
वेनोपलक्षितः । सुवर्णमयी आकृतिर्यत्य । विविधानां वस्तूनां ग्रहो ग्रहणं यस्य च । न
अगराजप्रथात्यक्तः पर्वतराज एव । द्वितीयोऽर्थः ॥ बृहस्पतिः-नवमत्वेन सुखदः
'जीवः सप्तनवद्विपञ्चमगतः' इति । तथा सुवर्णा शोभनवर्णाकृतिर्यस्य तथाविधो विग्रहः
संनिवेशो यस्य । भासमानाकृतिखात् । 'बृहस्पतिजख' इति श्रुतिः। विशिष्टो ग्रहो
वा विग्रहः । नागराजस्य दन्तिनः प्रथया त्यक्तः । गजवाहनखात् । प्रथया अति अक्तो
वा सर्वोत्कर्षेण वर्तनात् । इति तृतीयोऽर्थः ॥ ३९ ॥
भवभव्य भवातीत तत्त्वतज्ज्ञ तमोहर ।
रणे रक्त रसेनैहि हिताहिसहितार्थद ॥ ४० ॥
दयादक्ष दहाघानि निन्द्यानि त्वं विरामय ।
यमायत्तं यतित्वाव वर वन्द्य वरेण्य माम् ॥ ४१ ॥
द्वाभ्यां गदाबन्धः ॥ युगलकम् ।।
हे भवभव्य सर्वोत्कृष्ट । भवं संसारमतीत निर्मुक्त । तत्त्वेन परमार्थेन तज्ज्ञ सम्य-
क्परमार्थज्ञ तद्ब्रह्म जानातीति तज्ज्ञ । तमोहर सर्वजनानामज्ञानध्वान्तन । रणे विश्व-
कण्टकोद्धरणार्थ रक्त हेवाकिन् । भैरवलात् । रसेन कृपाविशारद आदरेण एहि । हित-
सर्वजनेभ्यः, अहिभ्यः शेषादिभ्यः, सहितमरुत्तादिभ्यो भक्तभ्योऽर्थद । दयायां दक्ष
कुशल अघानि पापानि दह शान्ति नय । निन्द्यानि पापानि विरामय अधःकृतोरग।
यमस्यायत्तं मा मरणधर्मिलान्मर्त्यानां यतिला प्रयत्नपूर्व अव रक्ष । वर वन्द्य वरेण्य
इत्यामन्त्रणपदानि ॥ ४० ॥ ॥ ४१ ॥
न तनुतां दधती तततोदिता तुदति नीतिनिधे निधने तनुम्
निधिदनाथ ततं ननु नूतनं नुतिधनं तदिदं निददानि ते ॥ ४२ ॥
तवर्गबन्धः ॥
हे निविदनाथ कुबेरस्य स्वामिन् , हे नीतिनिधे, तततोदिता तोदा रोगाः । तततो-
दिता बहुलरोगिता निधनेऽन्तसमये तनुं देहं तुदति व्यथयति । यतस्तनुतां न दधती ।
बहुलेत्यर्थः । ततोऽस्माद्धेतोरहं ते तुभ्यं नूतनमिदं नुतिधनं स्तुतिरेव वित्तं निददानि ।
नीतेर्विश्वस्थितिरूपाया निधे आस्पद । ततं विस्तीर्णम् । ननु संमुखीकरणे । द्रुतविल-
म्बिताक्षराभ्यां तवर्गबन्धः ॥ ४२ ॥

ईश्वरशतकम् । सा राजते तनुरलं वरदा परासा- सारापदारहित सन्महहासदासा । सादासहाहतभवोत्करकाविलासा सालाविकारपृथु साक्षततेऽजरासा ॥ ४३ ॥ अष्टदलपद्मबन्धः ॥ हे भगवन् , असारायोग्या चासावापत्तया रहित असारापदारहित, तथा सह अक्ष- तत्याक्षमालया पाणिगया सह वर्तते यः स तदामन्त्रणं साक्षतते, ते तव संबन्धिनी सा तनुः राजते । वरान्ददातीति वरदा । परानस्यतीति परासा। परेषां शत्रूणामासः कोपो वा यस्याः सकाशात् । सन्मह उत्कृष्टोत्सवो हासः प्रमोदो येषां तथाविधा दासाः सेवका यस्याः सा सन्महहासदासा । तथा सादं न सहन्ते इति सादासहा मृदवस्ते- षामा समन्ताद्धतो भव एवोच्चैः करकाणां वर्षोपलानां विलासो बाहुल्यं यया सा सादा- सहाहतभवोत्करकाविलासा । कथम् । सालवदविकारपृथु निर्विकारप्रांशु कला । तथा अ- जरासा न विद्यते जराया आसा आस्था यस्याः ॥ पद्मबन्धोऽयं वसन्तवृत्तेन ॥ ४३ ॥ वरा सारवरासारपराभवपरा भव। समुद्वृत्ता समुद्वृत्तातनुस्तव तनुस्तव ॥ ४४ ॥ यमकावली ॥ हे भगवन् भव, समुद्वृत्तातनुस्तव सम्यग् उच्चैवृत्तानि छन्दांसि अनुष्टुप्प्रभृतीनि येषु तथाविध । अतनवो बहलाः स्तवाः स्तोत्राणि यस्य तादृश, तव संबन्धिनी तनुर्वरो- त्कृष्टा । तथा सारा मुख्या ये वरास्तेषामासारो बहलवर्षणं तत्र परोद्युक्ता सारवरासा- रपरा । तथा अभवं मोक्षं पिपर्ति पोषयति अभवपरा । तथा समन्तादुद्वृत्ता भैरवला. दुत्कटा ॥ ४४ ॥ साध्या मूर्तिर्गुणैर्या ते भावितत्वमतारसा । सारताबाधितविभा रविजस्य सदैव सा ॥ ४५ ॥ क्षुरिकाबन्धः ॥ सा तव मूर्तिर्यमनियमादिभिर्गुणैः साध्याराध्या । सा का । या भावितत्वेन मता प्रिया भावितलमता । तथा अरसा वीतरागा । तथा सारतयोत्कृष्टत्वेन बाधितोपशमिता विभा यया। कस्य । रविजस्य मृत्योः । सदा सर्वदैव ॥ इति क्षुरिकाबन्धः ॥ ४५ ॥ कुरवे काले साव यमारेऽरस सुकुमार सदानव देव । अनवदयाचित भव मदनारेऽचल मामुक्तियते मयि हेव ॥ ४६ ॥ संस्कृतकाश्मीरापभ्रंशश्लोकः ॥

४४ काव्यमाला। हे भव, कौ भूमौ रवे सूर्यवत्प्रकाशद कुरवे, मदनस्यारे मदनारे, काले समये हे साव सहावेन रक्षणेन वर्तते यस्तत्संबोधनम् । अहं स्मरामि मद्भक्तं नयामि परमां गति- मिति यावत् । यमस्यारे यमारे ! अरस संसारवासनोज्झित । सदा नित्यं नव तरुण । देव दिवु क्रीडाव्यवहारादिधात्वर्थवाचक । अनवदयया कृपया चित व्याप्त । अचल स्थिर । उक्तिषु यते उद्युक्ते उक्तियुक्त मयि विषये । अत एव मामव । इति पुराणपु- रुषसंस्कृतभाषार्थः ॥ कुरवे काले काश्मीरभाषया सर्वे मारिताः। रससुकुमाराः सदा नवा देवाः । अनवद भाषया निरवधीत्यर्थः । याचितभव प्रार्थितसंसार इति मदनारे इति मदवह्निना मुक्ताः । तादृशा अपि । इति कश्मीरभाषार्थः ॥ एवं संस्कृतकाश्मी- रापभ्रंशभाषाश्लेषः ॥ ४६ ॥ सा रसावर सारम्भ तरसावरसारता। तारसाररसा भक्तिस्थिर सावरसाभया ॥ ४७ ॥ उल्लसद्विजरानन्द शिव सद्विजराज यत् । मूर्तिराभाति ते भव्या सा स्थिराभातितेजसः ॥ ४८ ॥ अयं तूणबन्धः ॥ युग्मम् ॥ हे शिव, सद्विजराज चन्द्रभूषण, रसायां भुवि वरो मुख्यः सहारम्भेण वर्तते विश्व- कर्मणा वर्तते यस्तदामन्त्रणम् । तया भक्तिस्थिर । तथा उल्लसन् विजरो जरारहित- स्तरुण आनन्दो निरतिशयप्रीतिलक्षणो मोक्षपर्यायो यस्य स तथाविध । तव संबन्धिनी सा मूर्तिभव्योत्कृष्टा आभाति । अतितेजसः परमानन्दस्याभा स्फुरत्ता । यदाहुः-'देवः स कोऽपि जगतीप्रकाशः' इति, 'तदलं वात्मावबोधं पुष्णाति तेजोमयोऽमृतमयः पुरु- षोऽयमेव सः' इत्यादि, 'न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतो- ऽयमग्निः । तमेव भान्तमनुभाति सर्व तस्य भासा सर्वमिदं विभाति ॥' इति रीत्या 'सूर्यनिर्मलपरमेष्ठिमिः' इत्यादिमिः संवादैः सर्वदर्शनेषु परमात्मनः सर्वतेजांस्यतिशय्य सर्वेश्वरत्वं विश्वकर्तृवमिति सुसिद्धम् । इह काव्यमात्रप्रस्तावेन किंचिद्धृनितम् । अत्र विस्तरभयात्प्रकृतानुपयोगाच न वितत्य प्रपञ्चितम् । दीप्तिः तरसा अव रसेष्ववगतर- सेषु बालिशप्रायेषु अरतासक्ता । तारे संसारोत्तारणे सारः समर्थो रसो यस्याः सा तथा- विधा । वरेषु साभया अभयदायिनी। एवंरूपा तवैवेति ॥ द्वितीयस्तूणबन्धः ॥४७॥४८॥ चर्चाशिक्षितमन्त्रतत्त्वविभवोदारप्रतीति शं स्मर्ता वन्द्यभवप्रदोऽसि विदितस्त्वं कृत्तवैरिन्भुवि । विश्वस्तुत्य हिताय ते दिवि नमो धूतार्यजेयध्वने नेत्रामौ च हुतस्मराय विभवे शर्वाय विद्यात्मने ॥ ४९ ॥ कविनामगर्भश्चक्रबन्धः ॥ । - ईश्वरशतकम् । । 'शिवस्तुतिरियमवतारकृता' इति श्लोकान्निर्गच्छति ॥ चर्चया पुनः पुनः पर्यालोचनया अन्यैः खतः शास्त्र इति नीत्या पारम्पर्यक्रमेण यः शिक्षितो मन्त्राणां तत्त्वस्य परमार्थस्य विभवः स्फाररूपो महिमा तेनोदारा प्रतीतिर्यस्य तथाविधोऽसि । विश्वगुरोर्गुरोः कविना- मगर्भश्चक्रबन्धः 'शिवस्तुतिरियमवतारकृता' इति श्लोकानिर्गच्छति 'स त्वं मानवि- शिष्ट-' इति माघचक्रबन्धवद्वहिस्तृतीयावर्ते 'शिवस्तुतिः-' इत्यादि द्वादशाक्षरी निर्ग- च्छति । भवान्स्वविमर्शो गुरुः । अतश्चर्चया, न तु शिक्षया । भृशं स्मरति भृशं स्मर्ता । भक्तजनानां वन्द्यं ज्ञानयुक्तं भवं जन्मभुक्तिमुक्तिसाधकं ददाति यः स तथाविधः । म- नुष्यजन्मना हि बुद्धिबलेन सर्व साध्यते । अत एव भुवि सर्वजनानां विदितः सम्य- रज्ञातः । हे कृत्तवैरिन् , कृत्ता वैरिणः कामादय आन्तराः, बाह्याश्चान्धकासुरादयः । हे विश्वस्तुत्य विश्वस्मिन्सर्वोत्कृष्टवात्स्तुत्य तुभ्यं शर्वाय विभवे विश्वात्मने नमः । दिवि देव- भूमौ अर्थात् स्थितेभ्यो हिताय । सुराः सत्त्वप्रधानास्तदुपरि भगवतः सकृपत्वमुचितम् । धूता आकम्पिता अरयो येन स धूतारिः । तथा अजेयो दुरवगाह्यो ध्वनिर्नादरूपो यस्य स तथाविधः । तथा नेत्राग्नौ हुतः स्मरो येनैवंविधाय सर्वोत्कर्षवते । विद्या सम्यग्ज्ञान- रूपाविद्यातिरस्कारिणी भगवतो रूपम् । 'विद्ययामृतमश्नुते । सर्वागमेषु च 'महाविद्या ज्ञानयोगः' इति चतुष्टयं विद्या आत्मखरूपं यस्य तादृशाय ते नमः' ॥ ४९ ॥ मारासुघ्नाविपक्षादरवरवरदक्षापविघ्ना सुरामा सामासक्ता रणत्रा रिपुरसुरपुरि त्राणरक्तासमा सा । शापाकृष्टामृदुखा बत सरस तव खादुमृष्टा कृपासा नामा सत्या कृतज्ञा तनुरजरनुतज्ञातकृत्या समाना ॥ ५० ॥ प्रतिलोमानुलोमपादः ॥ हे भगवन् , सरस नित्यानन्दमय, अजर नित्यतरुण, बत आश्चर्ये तव संबन्धिनी तनुः मारस्य कामस्य असून्हन्तीति मारासुन्ना । अविपक्षा प्रतिपक्षवर्जिता । तथा अदरं निर्भयं कृत्वा खातन्त्र्येण वरेभ्य उत्तमेम्यो वरे दक्षा कुशला । अपविघ्ना निर्विना । सु शोभना रामा पार्वती यस्यां सा । साग्निवेदे आसक्ता संनिहिता । रणात्रायते इति रणत्रा । असुराणां पुरि नगर्या रिपुः । अत एव त्राणे सकलरक्षणे रक्तानुरागवती । असमा न विद्यते समस्तुल्यो यस्याः । सा विश्वप्रसिद्धा । शापेनाकृष्टः अमृदूनां क्रूरा. त्मनां व आत्मा यया । स्वादुना मृष्टा सर्वजनरुचिदा खादुमृष्टा । कृपया आसः स्थि- तिर्यस्याः : सा कृपासा ॥ अत्र चित्रकाव्ये शसयोरमेदः । न अमा अविद्यमाना मा यस्याः सा, अपि तु सश्रीका । सत्याविनश्वरा । कृतज्ञा भक्तानां सेवयान्तरज्ञा । अज- राणां देवानां यन्नुतिः(तं) स्तुतिः तेन ज्ञातं कृत्यं यस्याः । अत एव सह मानेन वर्तते या समाना ॥ स्रग्धरा वृत्तं प्रतिलोमानुलोमपादतः ॥ ५० ॥ नव० गु०५ काव्यमाला। पिता सुराणां क्षपितासुराणां भवस्यनूनं विभवस्य नूनम् । खराजितानां मुखराजितानां सदाशिव त्वं तु सदा शिवत्वम् ॥ ५१ ।। सर्वपादाद्यन्तयमकम् ॥ हे सदाशिव, खमेव तु सदा सर्वकालं क्षपितासुराणां मारितदैत्यानां सुराणां विष्णु- प्रभृतीनां संबन्धिनो विभवस्यैश्वर्यस्य पिता निर्माता भवसि । नूनं निश्चितम् । अनूनं कृत्वा खे आकाशे राजितानाम् । तथा मुखरैर्निन्दापरैर्वाचालैः प्रतिपक्षैरजितानां त्वमेव शिवत्वं शिवस्य भावः शिवत्वं कल्याणभावः ॥ सर्वपादाद्यन्तयमकम् ॥ ५१ ॥ अहीनभोगाभ रणादराय सदानयज्ञान्त कविग्रहाय । सुभूति चेतो हरवीरकाय वरायते सज्ज नमोऽक्षदाय ॥ ५२ ॥ अहीनभोगाभरणादराय सदानयज्ञान्तकविग्रहाय । सुभूतिचेतोहरवीरकाय वराय ते सज्जनमोक्षदाय ॥ ५३ ।। महायमकम् ॥ युग्मम् ॥ हे हरवीरकाय, तथा वर उत्कृष्ट, अहीनभोगादिषु राज्यादिषु आमा यस्मा- त्सोऽहीनभोगाभस्तदामन्त्रणम् । तथाविध । सर्वत्र भवद्दीप्तेरेव स्फुरणात् । तदु- क्तम्-'न सा जीवकला काचित्संतानद्वयवर्तिनी । व्याप्त्री विश्वकला यस्यामधिष्ठात्री न विद्यते ॥ इति । तुभ्यं नमः । अक्षाणीन्द्रियाणि दयते पलायते । मनःप्रभृतीनां सर्वेन्द्रियाणां बाह्यपदार्थानां च तदधिष्ठानमन्तरेण ग्राहकलग्राह्यलासिद्धेः । यदाहुः- 'आत्मा मनसा युज्यते, मन इन्द्रियेण, इन्द्रियमर्थेन' इति । रणादराय रणादैत्यसंग्रा- माददरो निर्भयस्तस्मै रणादराय सदालब्धजयखात् । सदानः सदक्षिणः यज्ञान्तः यस्य हेतोः । सर्वयज्ञसंपादनवेलायां रुद्रप्रीत्यर्थमेव दक्षिणादि यजमाना वितरन्ति । तावच यज्ञस्य पूर्णता न भवति । 'मृतो यज्ञस्वदक्षिणः' इति नीत्या यजमानमूर्ते। कं जलं मूर्तिर्विग्रहो यस्य तथाविधाय, अष्टमूर्तिवात् । शोभना भूतिरैश्वर्यं यत्र तत् सुभूति ऐ- श्वर्येण भोगः समोक्ष ईश्वरेच्छया प्राप्यते तथाविधं कृता । चः समुच्चये। इतो लोकात् । चेतः, इति पदच्छेदः । आयते मुक्तिमार्गे सज्ज भक्तजननिस्तारेण संनद्ध, ते नमः । अक्षदाय । एकोऽर्थः ॥ अर्थान्तरं यथा-वराय वरार्थ सज्जनानां मोक्षदाय तुभ्यं अहीनामिना नागराजास्तेषां ये भोगाः शरीरसंनिवेशास्तदाभरणे आदरो यस्य । सदा सर्वकालं नयं संसारस्थिति जानाति यस्तत्संबोधनम् । अन्तकं प्रति विग्रहो विरोधो यस्य सः । तथा सुभूत्या भस्माङ्गरागेण चेतोहरो वीरको नाम गणो यस्य स तथाविधाय ॥ इति महायमकम् ॥ युग्मम् ॥ ५२ ॥ ५३ ॥ साध्यं सुकृतिभिर्यत्नैरमरैर्नुतमञ्जसा । साहसानां निधि गम्यं न दुरासदतेजसा ॥ ५४ ॥ ।

ईश्वरशतकम्। साध्यार्चितं स्तुवे येन वरेयं भूषिता रसा। साधुवृत्तं साररूपं त्रिनेत्रमतिसादरम् ॥ ५५ ॥ द्वाभ्यां खड्गबन्धः ॥ युगलकम् ।। सुकृतिभिः सत्कर्मभिः साध्यं यत्नैर्ध्यानधारणातपोमिः अमरैब्रह्मादिभिर्नुतं स्तुतम- असा स्पष्टं साध्यैर्दैवविशेषैरचितं पूजितम् । येन भगवता इयं रसा भूभूषिता । तथा साधु वृत्तं यस्य स तादृशम् । तथा सारं रूपं यस्य तथाविधं त्रिनेत्ररूपं व्यक्तं भक्तज- नेषु सादरं साहसानां त्रिपुरदाहादीनां निधिं स्थानम् । दुरासदेन तेजसा हेतुना सर्वैः कैश्चिदेव भरगम्यमेवंविधं सर्वोत्तममहं स्तुवे ॥ इति श्लोकाभ्यां खड्गबन्धः॥ युगल- कम् ॥ ५४ ॥ ५५ ॥ सारखं च सदाचारतापच्छिदमुमावरम् । रंहसा नौम्यधिपतारम्यं मुक्तिफलप्रदम् ॥ ५६ ॥ मुसलबन्धः ॥ सारं मुकितत्त्वं जानातीति तथाविध सदाचाराणां समयिनां तापं त्रिविधं छिनत्ति यस्तमुमावल्लभवादुमावरं सर्वातिशायिनं रंहसा खरया अधिपतया सर्वेश्वरत्वेन रम्यम् । तथा मुक्तिफलं प्रददाति यस्तमहं नौमि ॥ मुसलबन्धः ॥ ५६ ॥ साधुचक्रनुतं वन्दे रेणुकोद्भवशौर्यदम् । दंष्ट्रा विपाटिता येन गजस्य विजिता रसा ॥ ५७ ॥ धनुर्बन्धः ॥ साधुचक्रैर्नुतं नियमिसमूहैः स्तुतम् । रेणुकोद्भवो जामदग्न्यस्तस्य शौर्यदम् । शस्त्रास्त्र- कर्मशिक्षाप्रतिपादनेन । येन दुर्जयस्य गजासुरस्य दंष्ट्रा विपाटितोन्मूलिता। अत एव रसा भूर्विजिता ॥ इति धनुर्बन्धः ॥ ५७ ॥ सावर्ता मित्रपरमाणवोऽपि कतमे स्थि(स्ति)सा (१)। सा भा नैकस्य तेभ्योऽपि देव मत्तनुरञ्जसा ॥ ५८ ॥ शरबन्धोऽयम् ॥ संसारे पितृपुत्रभ्रातृसुहृत्प्रभृतयः सावर्ता भ्रमन्तो नवनवाः कतमे तावत् असंख्या विस्तारणायोग्यवादगण्याः, तेभ्यो मध्यान्मत्तनुः एकस्यापि न सा भा सा दीप्तिः आ- त्मनो वा तेषां भवत्राणासमर्थेति (2) मित्रस्य वा परमाणवः ॥ ५८ ॥ सामर्थ्यद सुमूर्तिस्ते सदा जीयात्प्रभोऽरसा । सा रसासार सारास्थिस्थिरासा विदिता भुवि ॥ ५९॥ त्रिशूलबन्धः॥

४८ काव्यमाला। सामर्थ्य संसारसागरतरणयोग्यं ददाति यस्तथाविध, तव मूर्तिस्ते सर्वकालं जीयात् । रसासार रसायां मध्ये सार उत्कृष्ट, अरसा वीतरागा सारास्थि कृला स्थिर आसः स्थि- तिर्यस्याः । तथा भुवि विदिता ॥ इति त्रिशूलबन्धः ॥ ५९ ॥ सा विडम्बकतां नीत्वाप्तवती क्रूरतां विभो । विसारे कुरुते कालसेना दोषं मयि स्थिरा ॥ ६० ॥ डमरुबन्धः ।। कालसेना मयि विसारे दुर्बले विषये दोषं कुरुते । विडम्बकत्वं कृखा तामाप्तवती ॥ डमरुबन्धः॥६०॥ सारा बन्धैर्नाज विभो भियार्ता मे मतिः परा । सा राजते विनैव त्वां भगवन्नेहि रंहसा ॥ ६१॥ हलबन्धोऽयम् ॥ खड्गबन्धात्प्रभृतिभिः सप्तभिरमीभिर्बन्धैः कविनामगर्भश्चक्रबन्धः ‘कृतं चक्रमिदं बन्धैरवतारेण सप्तभिः' इति निर्गच्छति ॥ हे अज भगवन् , इयं मे मतिर्नैव विराजते । बन्धैराणवमायीयकार्मणैः (१) पाशै- यंत उपलक्षिता । सारा दुर्लभमनुष्यजन्मप्राप्या भव्या सती भिया यमभीत्या आता । परा उत्कृष्टा त्वं रंहसा चरितं एहि । मां पाहीत्यर्थः ॥ इति हलबन्धः ॥ ‘कृतं चक्र- मिदं बन्धैरवतारेण सप्तभिः' इत्यक्षराणि चक्रादुच्चित्य निर्गच्छन्ति ॥ ६१ ॥ सो हेममग्गसग्गो सोहारोहक्खमो विसुद्धो सि । सिद्धो सुविमोक्खहरो हासोग्गो सग्गममहेसो ॥ ६२ ॥ प्रतिलोमानुलोमगाथा ॥ एतस्याः संस्कृतीकरणम्- 'स हेममार्गसर्गः शोभारूपक्षमो विशुद्धोऽसि । सिद्धः सुविमोक्षहरो हासोग्रः संगममहेशः ॥' स हेममार्गसर्गः मरुत्तं प्रति शोभारूपा क्षमा यस्य । सुविमोक्षः। वरः (१) । यस्य संबन्धी अट्टहास उग्रः । सङ्गमेत्यामन्त्रणम् ॥ १२ ॥ पथेन साधुना माय कुसुमेषुस्यदक्षते । परमस्मै सतेजाय भोनमस्तेनमस्तव ॥ ६३ ॥ अपशब्दाभासः॥ भो भगवन् , इन खामिन् , हे अनमस्तव न अमाअनमाः सश्रीकाः स्तवा यस्य ताह- विध । अविद्यमाना मा लक्ष्मीर्येषां तेऽमाः । तथा कुसुमेषोः कामस्य यः स्यदो दीति- ईश्वरशतकम् । - शयस्तस्य क्षते हानौ अमाय निष्प्रपञ्च, सुकरवात् । साधुना पथा उपलक्षित, ते तुभ्यं नमः । अस्मै अनुभवगोचरखात्संविद्रूपेण वर्तमानाय । 'पथेन' इति, 'साधुनामाय' इति, 'कुसुमेषुस्य' इति, 'दक्षते' इति, 'परमस्मै' इति 'नमस्ते नमस्तव' इति, एते आमुखे अपशब्दा भासन्ते इति अपशब्दाभासाः ॥ ६३ ॥ किन्ते कार्य भर्गभयं कामद काला- चिन्तेयं मे मन्युममेयं जनयित्री। व्यते भालादग्निदलाभां तव दृष्टि- भुङ्क्ते नैनं मन्दमति] नैपुणतः किम् ॥ ६४ ॥ मत्तमयूरेण नन्दिकावर्तबन्धः॥ हे कामद सर्वाभिलषितदायिन् , इयं मम चिन्ता अमेयं बहुलं मन्युंजनयित्री। जन- यिष्यतीत्यर्थः । इयं का । यत्कालाद्भयं कार्य छिन्ते तव संबन्धिनी दृष्टि लाललाटात् अग्निदलाभां वह्निखण्डद्युतिं व्यते प्रकाशयति सा दृष्टिरेनं मन्दमतिं तुच्छहृदयं नैपुणतो दार्थेन किं न भुते । किमिति भस्मसान करोतीत्यर्थः ।। मत्तमयूरेण नन्द्यावर्तबन्धः॥६४॥ गिरिभिद्विधिजिद्विद्धि द्विषि च्छिन्द्धि स्थिति गिरि । श्रियि सिद्धिर्धियि विधिर्विच्छित्तिरिति चिद्भियि ॥६५॥ इकारान्त एकखरः॥ हे गिरिभिद्विधिजित् गिरिभिदिन्द्रः, विधिब्रह्मा तौ भुजस्तम्मेन शिरश्छेदेन च जित- वान् । तत्संबोधनम् । समिति विद्धि जानीहि । किम् । द्विषि वैरिणि या गीस्तस्यां स्थितिं संनिधिं छिन्द्धि विदारय । अत एव नोऽस्माकं श्रियि सिद्धिः, वियि प्रज्ञायां विधिविधानम् । चिद्भियि चितोऽपरिमितज्ञानाद्या भीतिः संसारभ्रमणात् तस्यां विच्छि- त्तिर्विच्छेदः । भवतीति सर्वत्र योज्यम् ॥ इकारान्तखरोऽयम् ॥ ६५ ॥ शर्व नयः शुभो वितरणे गुणे रत विभो तिष्ठति ते श्रियेऽजर परं चिरं परजये । तत्कृपया सुचारुरव मा क्षमावररुचा दर्शय सद्धिते परसुखं सुखं सुरपते ।। ६६ ॥ स्फुरबन्धः ॥ हे शर्व विभो, गुणे रत, अजर जरारहित, ते तव नयो नीतिराचारःशुभस्तिष्ठति। वि- तरणे दानविषये परमत्यर्थ चिरं श्रिये पर उत्कृष्टो यो जयस्तस्मिन्सति । तस्मात् हे सुर- १. आदर्शपुस्तकयोस्तु 'किन्ते' इत्येव पाठ उपलभ्यते, परंतु टीकायां 'छिन्ते' इति व्याख्यानस्योपलभ्यमानखात् 'छिन्ते' इत्येव पाठः स्यात्. ।

काव्यमाला। - पते, त्वं कृपयां सुचारू रमणीयः । मा अव मामव रक्ष क्षमया सामर्थ्यन सा वरोत्कृष्टा या रुक्तया सझ्यो हिते विषये यत्परमतिसौख्यं तथाविधं सुखं सुष्ठु खानीन्द्रियाणि यत्र तद्दर्शय ॥ स्फुरबन्धोऽयं श्लोकः ॥ ६६ ॥ कालाक्रान्ता तनुरमरनुत त्रस्तेयं मे विदितहित दिवि नश्यत्यग्रे तव सरस बत ग्लानिः सेयं वशिदमद शिव ॥ ६७॥ प्रतिलोमानुलोमपादार्थः॥ हे अमरनुत, हे दिवि विदितहित, हे सरस लब्धात्मविश्रान्ते, हे वशिनां जितेन्द्रि- याणां दमद सर्वसहत्वदायिन् , मम संबन्धिनीयं तनुः कालेनाक्रन्ता त्रस्ता।बत आश्चर्ये। तव प्रभोरग्रे नश्यति सेयं ग्लानिः शिव सर्वेषां श्रेयस्कर ॥ भ्रमरविलसितं वृत्तम् ॥६॥ दानासन्ना पवित्रानुतजनितरणत्रा रिपुत्वे न जेया माराभिख्यासचर्याविरतकृदरमद्यापि दक्षा पराका । शापाकृत्यायनज्ञावनमनजनिमुक्तारगत्यानपाया या सा रम्यागदत्वा शिवतनुरमदत्वातिहृत्तापरासा ॥ ६८ ॥ सारापत्ताहृतित्वादमरनुतवशित्वादगम्यारसा या या पानत्यागरक्ता मुनिजनमनवज्ञा नयत्याकृपाशा । कारापक्षादपि द्यामरदकृतरविर्या च सख्याभिरामा याजेनत्वे पुरि त्राणरतनिजतनुत्राविपन्ना सनादा ॥ ६९ ॥ प्रतिलोमानुलोमाभ्यां स्रग्धराद्वयम् ॥ (युग्मम्) सा शिवतनुः एवंविधा सती मुनिजनं भकलोकं कारापक्षात्संसारबन्धादपि द्यां न- यति । यतः। दाने आसन्नाभ्यर्णवर्तिनी । तथा पवित्रा । आ समन्तानुतं स्तवनं येषां तथाविधैरानतैर्भक्तजनैर्जनितो यो रणो विपक्षैः सह कलहस्ततस्त्रायते आनुतजनितरणत्रा। रिपुत्वे सति असुरादिभिन जेया। मारस्य कामस्य याभिख्या रूपलावण्यकान्तिमत्त्वा. च्छोभा तया समानचर्या । तद्युक्तेत्यर्थः । विरुद्धं यद्रतं रमणं संसारासक्तिस्तत्कृन्तति छिनत्तीति विरतकृत् । अरमत्यर्थ अद्यापि अविच्छिन्नप्रवाहेण दक्षा पञ्चकृत्यकुशला । परान् शत्रून् अकति कौटिल्येनोल्लङ्घयति पराका । शापोऽकृत्यं यस्याः शापाकृत्या कृ- पया वरदायिनीलात् । अयनं मुक्तिगमनं जानातीति अयनज्ञा। अवनमनेन नमस्कारेण जनेर्जन्मनो मुञ्चति अवनमनजनिमुक् । तारगत्या विस्तारकेणोपायेन अनपायाविन- श्वरी । एवंविधा या प्रसिद्धा सा रम्यमगदलमारोग्यं यस्याः सा रम्यागदखा। तथा अ- मदत्वं दीनतामतिशयेन हरति यस्तस्य भावोऽमदातिहत्ता तेजःप्रसादस्तेन परानस्यति क्षिपति परासा अमदातिहृत्तापरासा एवंविधा । सारा बहला या आपदस्तासां भावः 1334 ईश्वरशतकम् । । सारापत्ता तस्या हृतित्वं हरणभावस्तस्मात्सारापत्ताहृतिलात्, तथा अमरनुतशिखात्सु- रस्तुतजितेन्द्रियवादगम्या दुष्प्रापा । अरसा वीतरागा च । या च पाने रक्षणे त्यागे च भक्तजनाय इष्टदाने रक्ता हेवाकिनी । तथा अनवज्ञा न विद्यतेऽवज्ञा भक्तजनं प्रत्य- वहेला यस्याः । तथा आ समन्तात् कृपया आशा यस्याः सकाशात् । तथा-अरदः कृतो रविर्यया पूष्णो दन्तदलनादरदकृतरविः । या च तनुः सख्या सेवयाभिरामा भ- तानभिरमयति । या कारापक्षादपि अर्थात्संसाररूपात्कारागृहाद् द्यां स्वर्ग नयति । या अजा आद्या शक्तिः। इनत्वे सति प्रभुत्वे सति पुरि भवने त्राणरता पालनोद्युक्ता या निजतनुः क्षित्यादिरष्टविधा तामपि त्रायते परेण रूपेणाधितिष्ठते । अत एव अविपन्ना कल्पादावप्यनश्वरी । सनादा सशब्दोल्लासा। यतः 'न सोऽस्ति प्रत्ययो लोके यः शब्दा- नुगमादृते । अनुविद्धमिव ज्ञानं सर्वं शब्देन भासते ॥ इति वचनाच्छब्दात्मकं परं ब्रह्म- रूपम् ।। युगलकम् ॥ ६८ ॥ ६९ ॥ सुरद्विषां धामनिवार धामनिवारणाय तुभ्यं तुभ्यं समिद्धामनि वारणाय । नमोऽस्तु भव्याय भवाकुलाय संसाररक्षाप्रभवाकुलाय ॥ ७० ॥ यमकम् ॥ हे भगवन् , तुभ्यं नमोऽस्तु । सुरद्विषां दैत्यानां धामनिवारणाय तेजोग्लापनाय। तथा समिद्धामनि वारणाय समिद्धामनि दन्तिनो(१) क्षोभकलात् । भव्याय सर्वोत्कृ- शाय । अकुलाय जन्मरहितत्वात् । संसाररक्षाप्रभवैराकुलाय व्यग्राय ॥ ७० ॥ रसारसासारसार सारसाररसार सा। रसा रसासारसारसारसाररसारसा ॥ ७१ ।। मरुस्थलीत्वं त्वदृते मयीह सति धामनि । अतो मां यमसेनेामही हसति धामनि ॥ ७२ ॥ अत्राद्यो व्यक्षरो द्विखरोऽसंयुक्ताक्षरोर्धभ्रमः सर्वतोभद्रः, मकम्, मालायमकम् , आवृत्तयमकम् , गूढचतुर्थः, गूढतृतीयः, गूढत्रिंश- दक्षरो वा, गोमूत्रिकादयश्च बह्वो बन्धा अत्र श्लोके पृथक्प्रस्तार्य प्रेक्ष- णीयाः। द्वितीयः पादयमकः ।। हे भगवन् , रसारस रसेभ्यः शृङ्गारादिभ्योऽरसो विमुखस्तदामन्त्रणं हे रसारस, तथा असारसार असारात्संसारात्सारः तादृश हे असारसार । अरीणां समूहमारम्, सह आरेण वर्तते यत्तत्सारम् , सारं च तत्सारं बलं तत्र रसो यस्य सः । तद्विधा सा लोको- त्तरा रसा भूमिः आर जगाम । मरुस्थलीत्वं मयि विषये धामनि खे तेजसि सत्यपि इह संसारे। यतः । कीदृशी भूः। रसासारसारसारसाररसारसा। रसस्य जयस्य ये असारास्ते 8392 8 काव्यमाला। साराणि येषु तानि रसासारसाराणि, तथा सारसानां हंसानामारं गमनं राति ददाति एवंविधानि सारसानि सरःसमूहा यस्यां वारुण्या जलपूर्णा तथाविधापि मां तापयतीति। अतो हेतोर्यमसेना ईर्ष्यामयी मां हसति । धामनि गृहे ॥ ७१ ॥ ७२ ॥ अक्षय्यं क्षीणसादं नृबुधहतभयं सत्फलं धीरचित्तं तुझं श्रीसाररक्षोसुरहतिरभसं त्वां सगङ्गं श्रितं वा । चर्यालक्षेण लोकक्षममलयमहासंक्रमं खैरसज्जं स्थाणो खाबद्धसर्वाहवगरिमगुणं के तु नेह स्तुवन्ति ।। ७३ ॥ अयं श्लोको गाथागर्भः॥ हे स्थाणो, इह संसारे के खां न स्तुवन्ति, अपि तु सर्व एव । यतः अक्षय्यं क्षेतुं शक्यः क्षय्यः न क्षय्यः अक्षय्यः, तादृशम् । 'जिक्षेः शक्ये' इति यः। तथा क्षीणः सादः संसारावसादो यस्मात् , तादृशम् । तथा नृणां बुधानां देवानां च हतं भयं येन स तादृशं च । सतां फलं भुक्तिमुक्तिरूपं यस्मात् । धीरं स्थिरं भक्तानुग्रहं प्रति चित्तं यस्य । तुङ्गमत्युन्नतं सर्वोपरिवर्तिवात् । श्रिया सारा ये रक्षोसुरास्तेषां हतौ रभस आ- दरो यस्मात् । चर्यालक्षेण बहुलचर्यामिः सर्वदर्शनानां पृथक्प्रस्थापनलादाचारभेदैः श्रितं सेवितम् । सगङ्गं गङ्गाधरम् । लोकेषु सप्तसु मध्ये तु क्षमं सर्वसहम् । अलयोऽवि- नश्वरः महान् संक्रमो यस्य । स्वैरं स्वातन्त्र्येण सजं पञ्चकृत्यसंनाहम् । स्वेनात्मना आबद्धाः सर्वाहवेषु दैत्ययुद्धेषु गरिमगुणा येन दुरासदत्वात् । एवंविधम् ॥ गाथागर्भोऽ- यम् ॥ गाथा यथा-'अय्यं णदबुहभमलं रत्तङ्गं सारसुहरसासङ्गम् । तं चलणकमलम- समं रज्जं णो वसहगमण तुह ॥' इति । अस्य संस्कृतीकरणम्-'आर्य नतबुधभ्रमरं रक्काझं सारशुभरसासङ्गम् । तव चरणकमलमसमं राज्यं नो वृषभगमन तव ॥' इति । अस्या गाथायाः स्पष्टोऽर्थः ॥ ७३ ॥ सुरासुराजये जयेऽदरादरादमादमा । सदा सदारतारता विभो विभोगता गता ॥ ७४ ॥ आवलिः ।। सुरासुराणामाजये संग्रामाय जये विषये अदरो निर्भय आदरो यथा तथाविध अद- रादर हे विभो विभोगता। विशिष्टभोगता इति यावत् । सदा सर्वकालं सदारतायां गार्हस्थ्ये रतासक्ता । अमा अविद्यमाना लक्ष्मीर्यस्याः [निः]श्रीका म(8)..." गता ॥ आवली ॥ ७४ ॥ जय प्रसन्न तत्त्वद खतन्त्रसर्गतत्पर । जगत्रयप्रवर्धन क्षतस्मर प्रहर्षद ॥ ७५ ॥ अयमेकखरः श्लोकः ॥ ... ..

ईश्वरशतकम् । ५३ हे हर हर रोराही होरां रहोहरारिराहुहरे । रोहाहारैरहरहरहिहारेहाहरां हा हा ॥ ७६॥ अयं श्लोको यक्षरः ।। आर्यावृत्तम् ॥ हे हर, अहि[ हार] वासुकिभूषण, त्वं होरां लग्नस्थिति रोराही दारिद्यावहां हर निवा- रय । रहोहर रणे वेगहारो योऽरिः शत्रुः स एव राहुस्तस्य वमेव हरिः शिरोहरखात् । तदामन्त्रणं रहोहरारिराहुहरे, रोहाः कन्दमूलादयस्तेषामाहारैर्भक्षणैरहरहः प्रतिदिनम् । हा कष्टे । ईहां चेष्टां हरति तथाविधां होरां हर ॥ यक्षरः ॥ ७५ ॥ ७६ ॥ सारतास्थिरवरस्थिता रसाभारसौम्य गणगम्यसौरभा । राजते स्तुतिमतिस्तुतेऽजरा दक्ष मान्य धनधन्यमाक्षद ॥ ७७ ॥ खर्गमार्गद निरर्गलातनुः सा मतात्तकृतकृत्ततामसा । इन्दुमण्डितशिरःस्थजाह्नवीतीरभाव्यभयभव्य भारती ॥ ७८ ॥ प्रतिलोमानुलोमपादार्थः ॥ युगलकम् ॥ हे स्वर्गमार्गद, तथा हे इन्दुमण्डितं च तच्छिरस्तत्र तिष्ठतीति तादृशी या जाह्नवी तस्यास्तीरभावि यदभयं तेन भव्य उत्कृष्ट । तथा हे दक्ष सर्वत्र कुशल, हे मान्य पूज्य, तथा हे धनधन्यम धनेन मरुत्तादिभ्यो दत्तेन धन्या मा शोभा यस्य तादृश, तथा हे अक्षद अक्षाणि दिव्येन्द्रियाणि दूरदर्शनश्रवणयोग्यानि ददाति यस्तादृश, तथा हे रसा. भारसौम्य रसाभारे भूभारोद्वहने सति .....असौ निर्विकारा ते तव भारती राजते । कीदृशी । सारतास्थिरवरस्थिता सारतया स्थिराश्च ते वरास्तेषु स्थिता । पुनः कीदृशी । गणगम्यसौरभा गणैनन्दिप्रभृतिभिर्गम्यं प्राप्यं सौरभं यशःपरिमलो यस्याः तथा किंभूता । स्तुति(मतिः) स्तुतौ मतिर्यस्याः । तथा निरर्गला निर्निरोधा । अजरा नित्यतरुणा । पुनः कथंभूता । मतात्तकृतकृत्ततामसा । मतेन आत्तं च तत् कृतं पुण्यं तेन कृत्तं छिन्नं तामसं यया । पुनः कीदृशी । अतनुरखल्पा ॥ रथोद्धता ॥ युग्मम् । ॥ ७७ ॥ ७८ ॥ समाधिकारा सुरसारसादरा समाधिकारासुरसारसादरा । समाधिकारासुरसा रसादरासमाधिकारासुरसारसादरा ।। ७९ ॥ सुदर्शनस्येव युधि द्विषां वधे मतिः सुतीक्ष्णा भवतो जयत्यसौ । नमामि शंभो शमिमानवाभयं नयं भवानर्थजितं भवाततम् ॥ ८० ॥ आद्यः पादाभ्यासयमकम् । द्वितीयस्त्रिशूलबन्धः ॥ हे शंभो, कीदृश । समाधिकार समाधि चित्तैकाग्र्यं करोति समाधिकारस्तादृश, भवतो मतिरसौ सुतीक्ष्णा जयति । कथंभूता । समाधिकारा सह मया वर्तते यः स समः स- श्रीकोऽधिकारो यस्याः सा । तथा किंभूता । सुरसारसादरा सुरसारेषु विष्णुप्रभृतिषु सादरा सानुग्रहा। पुनः कीदृशी। समाधिकारासुरसारसादरा समाधिकाराः तुल्यबलवीर्यः, ।

काव्यमाला। - - तथा अधिकः अरो गमनं बाणादौ येषां तादृशा येऽसुरास्तेषां सारस्य बलस्य सादं सादं राति ददाति तादृशी । तथा किंविधा । [आ]सुरसा नतेषु [समन्तात् ] शोभनरसा । पुनः किंविधा । रसादरा रसायां भूमौ अदरा निर्भया । तथा असमाधिकारासुरसार- सात् असमा आधयः तथा कारा बन्धनगृहं येषु ते तादृशा ये असवस्तेषु यो रसो हेवाकस्तत्र आरं अरीणां समूह आरं सर्वसारसपत्र आरसात् द्विषां वधेन तेषामेव अरा धारा सुदर्शनस्येव । सा च अरिभटानां वधे सुतीक्ष्णा संवास आरात्परिसमूहा इव अहं तव नयं नमामि । त्वं किं शमिमानवा भयशमिनो मानवास्तेषां अभयमभयप्रदखात् । आयुधं तमिति न्यायेन यतो भवानिर्जितः । नयं कथंभूतम् भवानर्थजितं संसारानर्थभे- दिनम् । आततं विस्तीर्णम् ॥ ७९ ॥ ८० ॥ कृतानवतनुप्राज्ञ खाभासुरसमाधिकृत् । स्थिताज्ञाहिसितत्वाप्य दमासक्ताव मा व्यरि ॥ ८१ ॥ सुरमात्व स्थितिसम संतताथाद्वयखन । सरसारमना माक्षामतिसारतमोद्यम ॥ ८२ ॥ द्वाभ्यामष्टदलपद्मबन्धः ॥ (कुलकम्) हे कृतानवतनुप्राज्ञ कृता अनवा आद्यास्तनवः पृथ्व्यादयो येन तथाविधश्चासौ प्रा- ज्ञश्च तादृश । तथा हे खाभ शोभनदीप्ते । तथा असुरसमाधिकृत् । असुराणां समाधि कृन्तति छिनत्ति तद्विन्नकारित्वात् । तथा हे स्थिताज्ञाहिसितल स्थिता आज्ञाश्चाहयच सितत्वं च यस्य तद्विध । आप्य भक्तजनैः प्राप्य । तथा हे दमासक्त दमे आसक्त, मा मामित्यर्थः । त्वमव रक्ष । कथम् । व्यरि विगता अरयो यत्र तथाविधं कृखा। तथा हे सुरमालस्थितिसम शोभनं यद्रमालमैश्वर्यं तत्य या स्थितिस्तस्यां सम अनुद्रिक्त । तथा हे संतत अविनश्वर । तथा हे अद्वयखन अद्वयः खन आज्ञारूपः शब्दो यस्य स तादृश । तथा हे माक्षामतिसारतमोद्यम मया लक्ष्म्या तथा अक्षैरिन्द्रियैरा समन्तात् मतिसारतम उद्यमः कर्तव्यता यस्य तादृश । त्वं कथंभूतः सन् । रससारमना आदौ मुराचित्तः सन् ॥ युगलकम् ॥ ८१ ॥ ८२ ॥ वरतास्थिरसामन्त सारतातिसमाहित । सुकृताक्तासन खाज्ञादमाससुमतावसि ॥ ८३ ।। त्वमद्य भव्य साज्ञत्वानुकृताप्राप्य सद्वर । नाम सुस्थिर मोक्षाय ममाधिरिति सा तथा ॥ ८४ ॥ एतदुक्तचतुरङ्गाश्वपादपूरणश्लोकयुगलकम् ।। हे शंभो, वरतया प्राधान्येन स्थिराः सामन्ताः सेवका यस्य स तादृश वरतास्थिरसा-- मन्त । तथा हे सारतातिसमाहित सारतयोत्कृष्टत्वेन अतिसमाहित । तथा हे सुकृता- १. 'समाधि' क-ख.

ईश्वरशतकम् । क्तासन सुकृतेन धर्मेणाक्तं सेवितमासनं यस्य तद्विध । तथा हे खाज्ञादमाससुमत शो- भनाश्च ते आज्ञादमाश्च तेषां य आसस्तेन शोभना मता यस्य तादृश । अद्य । मामित्य- थात् । लमवसि रक्षसि । तथा हे [साज्ञखानुकृतप्राप्य [सालस्य यदनुद्धतमनुक- रणम् । नपुंसके भावे क्तः। तेन प्राप्य।सतां वरं । नाम संभावनायाम् । इत्यतो हेतो मो- क्षाय मम । तथा य आधिर्मनोरुक् । नय समवसीति स्पष्टीकृतं पुनः ॥ ८३ ॥ ८४ ॥ कृतानतज्ञसुरमाहितत्वाप्यवताद्वय । रसारक्षासारतम कृतज्ञ सुर माप्यव ॥ ८५ ॥ अष्टापदान्निर्गतसमञ्जसबोधो गूढचतुर्थः कृतमानतं जानन्ति ये तादृशाः कृतानतज्ञा देवा योगिनस्तेषां या सुरमा शोभना चासौ रमा लक्ष्मीस्तस्यै हितत्वं यस्य तथाविध हे कृतानतज्ञसुरमाहितल, तथा हे आप्य भक्तिगम्य । तथा हे अद्वय । तथा हे रसायां रक्षतया सारतम कृतज्ञ हे सुर देव म अपि माभपि लमव ॥ ८५ ॥ सुप्रज्ञानतसारज्ञ सकृतान्ततनुव्यय । रक्षावतारमद्य त्वमतिभासुर सुस्थिर ॥ ८६ ॥ अष्टापदनिर्गतः कविनाम्ना कुसुमोच्चयबन्धः ॥ हे सुप्रज्ञ शोभनश्चासौ प्रज्ञस्तथाविध, तथा आनतसारज्ञ आनतानां भक्तानां सार- मुत्कर्ष जानाति यस्तद्विध, तथा हे सह कृतान्ततनुव्ययेन वर्तते तद्विध, अवतारं र- क्षेति कविराशास्ते आत्मनि । हे अतिभासुर दीप्तिमन् । हे सुस्थिर अविनश्वर ॥ अष्टा- पदानिर्गतकविनाम्ना कुसुमोच्चयबन्धः ॥ ८६ ॥ वेद वेदविदां वादविद्देवो दिवि दावदः । वादो वादेवदेवादिविद्यो वादिवदे विदम् ॥ ८७ ॥ एकान्तरितघ्यक्षरः ॥ हे देवदेव, अहं वदे व्यक्तं वदामि । देवः देवादिवस्तुभावि वेद जानातीत्यर्थः । वेदविदां मध्ये वादवित् दिवि दावमुपतापं दैत्यकृतं द्यति खण्डयति यः स दावद आदिवित् सर्वज्ञवात् । देवीविदं अहं न झटित्यविदम् ॥ ८७ ॥ कथाभोगजडो मूढवया आरोषणामुखः । आद्या फलायदिशतो नाहं झटिति चाबुधः ॥ ८८ ॥ अपुनरुक्तव्यञ्जनः ॥ अहं कथाभोगजडः, मूढं व्यर्थ वयो यस्य, आ समन्तात् रोषणतया आमुखः, रफलायासापदिशतः । अबुधश्च ॥ ८८॥ १. 'सारकृत' क-ख. अचै-

काव्यमाला।
स्थिर सुरवरसुप्रसाद क्षमोपेत हा मोघमोहातपे मोक्षद त्वाम
दिवि भुवि च विभु कृपादे (वे)शहीनाविमौ कालकामौ विनाहीशदेहाङ्गदम्।
जितरणगुणरत्न तौ रौरवीयाधिदौ मा किमादौ धिया वीररौद्रौ यतः
किमु भव भवभङ्गदोषागते पाशवे साधुसावेशपाते गदा नन्त्यलम्।।८९॥
चण्डव्यष्टिप्रपातदण्डकेन नन्दिकावर्तबन्धः ।।
स्थिर अविनश्वर, सुरवरेषु ब्रह्मविष्णुप्रभृतिषु शोभनः प्रसादो यस्य तथाविध, क्षमो-
पेत क्षान्तियुक्त, हा कष्टम् । मोघे निष्फले मोहातपे अज्ञानतापे मोक्षद, वामजं हि
दिवि भुवि च विभुं द्यावापृथिव्योः स्वामिनम् , अहीशानां नागराजानां देहा अङ्गदा यस्य
तथाविधम् , विना इमौ तौ कालकामौ विना रौरवीयाधिदौ रौरवीया आधिः पीडा
तत्प्रदौ, धिया प्रज्ञया वीररौद्रौ किं मा मादोद्यताः (१) खण्डयतः । किमु तव जितरण-
गुणरत्न हे भव भवभङ्गदोषागते पाशवे पशोरयं पाशवस्तस्मिन्पाशवे, तथा साधुसावे.
शपाते सति गदा रोगा जरादयो घ्नन्त्यलं तत्सर्व देवदेव देवो देवी वा इति ॥ चण्ड-
व्यष्टिप्रपातदण्डकेन नन्दिकावर्तबन्धः ॥ ८९ ॥
तुभ्यं जगत्रयत्राणससंपज्जयते नमः ।
शिव संयत्सभाशील जय सज्जनवत्सल ॥ ९० ॥
'जय सज्जनवत्सल' इति चतुर्थः पादः समञ्जसेन प्रतिलोमेनैव पाठेन
निर्गच्छति भ्रान्तिसमञ्जसबोधो गूढचतुर्थः ॥
हे शिव, जगत्रयत्राणे सह संपद्भिरष्टाभिर्ऋद्धिमयीभिर्वर्तते यस्तत्संबोधनम् । जगत्र-
यत्राणससंपद् तुभ्यं जयते सर्वोत्कृष्टाय नमः ॥ संयत्सभाशील संग्रामपर्षत्परायण स-
त्पुरुषवत्सल त्वं जय ॥ तुभ्यमित्यस्मात् 'जय सज्जनवत्सल' इति चतुर्थः पादः समञ्ज-
सप्रतिलोमेनैव पाठेन निर्गच्छति ॥ समञ्जसबोधो गूढचतुर्थः ॥ ९ ॥
सुधीसारज्ञताभव्यजय मासामगक्षम ।
सुसाज्ञ भज मामक्षधीरताव्यय सागम ॥ ९१ ॥
प्रथमार्धादेकान्तरितान्यक्षराण्युच्चित्य तृतीयपादः, शिष्टाक्षरैस्तथैव
चतुर्थपादः ॥
सुधिया शोभनप्रज्ञया या सारज्ञता तया हेतुभूतया भव्य उत्कृष्टो जयो यस्य तद्विष ।
मा शोभा तया सामगा सान्वगा क्षमा यस्य तद्विध, सर्वसहेत्यर्थः । सुसाज्ञशोभनश्चासौ
साज्ञश्च तदामन्त्रणम् । अक्षर्या धीरता तया अव्यय । सागम सर्वागमसम । मां भज।]
प्रथमार्धादेकान्तरितान्यक्षराण्युच्चित्य तृतीयपादः, शिष्टाक्षरैस्तथैव चतुर्थपादः ॥ ११ ॥

। . ईश्वरशतकम् । नूनं नमन्मेनमनिम्नमेनमुमामनोमानननुन्नमौनम् । मानं मिमानं मुनिमानिनीनामनूननामानमिनं नमामि ॥ ९२ ॥ ध्यक्षरः ॥ अहमेनमिनं खामिनं अनूननामानं नमामि । अनन्ताभिधानम् । 'असंख्यातः सह- स्राणि' इति वेदश्रुतेः। तथान्यत्रागमेऽपि-'नवकोट्यस्तु चामुण्डा तावद्रूपाणि शंकरः। कृतवांस्तांश्च भजते पतिरूपेण भैरवः ॥' इति नीत्या भगवतोऽनूनानि [नामानि ] । नूनं निश्चितम् । [ नमन् प्रणमन् ] माया इनो मेनः लक्ष्मीपतिर्यस्य तथा । अनिम्नमत्यु- नतम् । तथा उमाया मनोमाननार्थं चेतोरञ्जनाय नुन्नं निवारितं मौनं येन तम् । मुनि- मानिनीनां मानं भर्तृविषय [कं] संयमं मिमानं हिंसन्तम् । देवदारुवनप्रवेशात् ॥ ९२ ॥ हृदि लसमान समा नो हियते [ते] शाश्वती समान समानः । कान समानसमानः करोप्यतस्त्यान्धकास मानसमा नः ॥ ९३ ॥ पादान्तयमकम् ॥ सर्वेषां हृदि लसमान, 'तथा स्थानं हृत्पङ्कजसमुद्कम्' इति नीत्या । हे अन्धकास, अन्धकदैत्यमस्यति यस्तत्संबोधनम् । कैश्चिदपि ते तव संबन्धिनी समान पूज्य शाश्वती समा अनन्तकालं न(नो) ह्रियते नापलप्यते । समः आनः आननं जीवनं [यस्य ] तथाविधः । कान् न समान् सश्रीकान् करोषि । यतः [अ]समानः अतुल्यः । [नः] अस्माकं मानसमा मानसस्य चेतसः मा शोभा मानसमा चेतःशोभा अतस्त्या अत आ गता ॥ सर्वपादान्तयमकम् ॥ ९३ ॥ चित्ते सद्धासमत्ते समिदपरमहोऽजो गदासंकरोसा- वाहेमासारवाही कदवरसमहामोहसत्तापहारी । पातादोजोगसत्तोऽविरलसुरणदोऽसच्चलासोऽकलको- ऽकाले कामेऽन्तको वोऽवितरततरसासज्जसंपत्तिदो वा ॥ ९४ ॥ अयं श्लोकः संस्कृतप्राकृताभ्यां भाषाश्लेषः ॥ असौ अकाले असमये । असंग्रामे इत्यर्थः । कामे विषये अन्तको वो युष्माकं पाताद्र- क्षतु । अवितरः, विगतः तरः तरणं यस्मात् स वितरः, न वितरः, ततः अवितरततः । अथ च रसायां भूमौ सज्जा चासौ संपत्तिश्च, तां ददाति रसासजसंपत्तिदः । तथा ओ- जोगसत्तः । ओजोगानां तेजोगामिनां सत्ता अस्तित्वं यस्य । परप्रकाशरूपत्वात् । तथा अविरलसुरणदः । अविरलं कृत्वा सुष्टु शोभनान् सुखदायिनो रणान्ददाति । तथा अस- चलासः । असत्सु वेद्यादिषु चला अस्थिरा आसा आस्था यस्य । अत एव अकलङ्कः । १. 'समूर्ते' क; 'ससत्ते' ख. नव० गु०६ काव्यमाला। चित्ते चेतसि सद्धासमत्ते सति सन् हासो विकासः तेन मते सति । समिदपरमहः । समित्सु संग्रामेषु अपरः मह उत्सवः । भगवतः स्मरणाद्रणे सर्वेषां सकृल्लब्धजयत्वात् । अनः जन्मरहितः । तथा गदासंकरः । न विद्यते गदैः सह संकरो यस्य । तथा आ समन्तात् हेनः सुवर्णस्य वर्षणं वहति । आहेमासारवाही । कदवरसमहामोहसत्ताप- हारी । कत् कुत्सितः अवरसो महामोहः तस्य सत्तां स्थितिमपहरतीति ॥ संस्कृतभाषाश्लेषः- [चित्रे श्रद्धासमाप्तौ शमितपरमखो यो गताशङ्करोषा- द्वाधे मासारवाहिः कृतवरसुमहामोघसत्ताप्रथारिः । पाताद्यो योगसक्तो विरलसुरनतः सत्यलास्यः कलाङ्कः काले कामेऽन्तको वा वितरतु तरसा सदृशं प्राप्तिदो वा ॥] चित्रे आश्चर्यवति श्रद्धासमाप्तौ आदरनिवृत्तौ । शमितपरमखः [शमितः परमखो] दक्षाध्वरो येन । तथा गताशङ्करोषात् । वह्निबाधे सति मासारवाहिः, मया शोभया उप- लक्षिताः सारवा अहयः वासुक्यादयो यस्य । तथा कृतवरसुमहामोघसत्ताप्रथारिः। कृतवरः सुमहा आत्मोत्सवात् मोघसत्ता या प्रथा तस्या अरिः । पातादो(दु)पनताद्धेतोः विरलैः कतिपयैः सुरैः ब्रह्मादिभिर्नतः सम्यक्प्रार्थनया नमस्कृतः । यदाहुः–'पूजका बहवः सन्ति भक्ताः सन्ति सहस्रशः। प्रसादपात्रमाश्वस्ता द्वित्रा एव न पञ्चषाः ॥" इति नीत्या । योगसक्तः । सत्यलास्यः । सत्यं लास्यं नटनं यस्य स सत्यलास्यः । क- ल्पान्तादौ नृत्यति । तथा कलाङ्कः । कला चान्द्री अङ्को यस्य सः । काले कामेन्तको वा । काले क्रमेण कोपः। वितरतु । तरसा वेगेन । सज्जसदृशं प्राप्तिदो वा । इति प्रा- कृतभाषाश्लेषेण संस्कृतप्राकृतभाषाभ्यां श्लेषोऽयम् ॥ ९४ ॥ कमलभ्यमलीकविधौ कमलं वय आननशोकमलं कमलम् । कुरुषे न विशङ्कमलं कमलं सवितेव लसत्कमलं कमलम् ॥ ९५ ॥ सर्वपादान्तयमकं तोटकवृत्तेन ।। त्वं कं जलं गाङ्गमलभ्यं दुस्तरं अलीकविधौ मुकुटचन्द्रे, न तु नैर्मल्यात् । कं ब्र- ह्माणं आननशोकमलं वयः सुखभगा (2) तथा कं न [कमलं ] जलं कुरुषे । अपि तु सर्व सुखयसि । अलं विशङ्ख कृला । कमिव । सविता रविः कमलमिव । कथंभूतम् । लसन्ती कमला लक्ष्मीर्यत्र तथाविधम् ॥ ९५॥ १. (सज्जसं) सदृशं' इति पाठो भवेत्. २. इतः प्राक् ‘विभो प्रसन्नास्य निता- न्तदीप्तयोऽजां प्रपश्यस्यतुलप्रताप । धिया दरिद्रस्य कृतावसाद दयाई विश्वाधिपते प्रसीद ॥ इति श्लोको दृश्यते स चाचमत्कारतया क्षेपक इति प्रतिभाति.

ईश्वरशतकम् । ५९ time भीमारारा रामा मारा मारारारा मारारामा । [रामारारारारामा] मारारारामामा मा मारा ॥ ९६॥ मारारातेराघाते सातेऽद्यासातेसा मा सेना । नादे नासादेनामानानादे सानाशादेशा ते ॥ ९७ ।। आद्यः श्लोकस्तुरगपदत्यक्षरः। द्वितीयो गजपदबन्धः । गजपदबन्ध- स्यासंयुक्तद्विखरत्वम् ॥ हे भीम भगवन् , रामा नायिका । अरा कुटिला आरा गतिर्यस्याः तथाविधा सती मारा मारणं मारस्तत्सहितेत्यर्थः । मारणपरैव यतः । तथा मारस्य आराश्चक्रधाराः ता राति तादृशी मारारारा इत्यर्थः । मारारामा मारस्यारामा विश्रान्तिस्थानं रामा भवति धनेनेति यतः आरामा । भीम कीदृश । रामारार । रामस्य जामदग्न्यस्य आरं शत्रुस- मूहः तस्य आरः भौमः । नाशकत्वात् तत्संबोधनम् । मा लक्ष्मीस्तां रातीति तादृशी [मारा ] इत्यर्थः ॥ हे अनादे, तव संबन्धिनी सा भा दीप्तिः भासुरता मे मम मारा । अरातेवैरिण आघाते गते सति । अनाश[:] अविनाश[:] आदेश आज्ञा यस्याः सा। तथा सेना नादे सति सासास्था अद्यासा अद्यति(?) अस्यति निवारयति सह(१) आशया आदेशः तस्य आशा दिक् । तवादेशेन मुक्तिरित्याशयस्थानम् ॥ विद्युन्मा- लाभ्यां युगलकम् ॥ ९६ ॥ ९७ ॥ स्फूर्जन्महाः प्रसन्नास्ते क्षणादेव त्वयि स्तुते । स सन्महानमुत्रास्ते यस्त्वां देव नमोऽस्तु ते ॥ ९८ ॥ काञ्चीबन्धः ।। स्पष्टोऽर्थः ॥ ९८॥ 'निजजानिं नुन्नानाजी नूनं नानाजनानजान्नानि(?)। निजानेनजानिनानुजजानूनानिजजनैः(१) ॥ ९९ ॥ ब्यक्षरः॥ हे इन खामिन् , ननु ऊनान् जनेर्जन्मनः हेतोः एतान् । कान् निजजनि खां भार्या, तथा नुन्नानीन् (?) नाना जनान् सुभटान् अजाश्चन्द्रागा(१) अन्नानि च अननं जीव- नम् । अजिनानि राङ्कवादीनि प्रावरणानि । अनुजाः खपरादयः निजा मित्रादयः। [ नूनं] निश्चितम् । ननु प्रश्ने । एतानि जनेः पुनः पुनः संसारभ्रमणात् । ऊनानुजनेनिः सरतीत्यर्थः (१) बत्पादसेवां विनेति प्रतीतिः॥ ९९ ॥ केन क्रौञ्चो विभिन्नः कमवनतगताः के दिनेशस्य तीक्ष्णा अन्तस्थाद्यक्षरं किं द्विजकुलमधिकां वक्ति कां जातिमय्याम् । १. 'निजजानि ननु निजान्नूनं नानाजनानि न । जानेननाजिनान्नानि नुन्नेनो जननीजनेः ॥ इति स्यात्.

काव्यमाला। । भृत्यानां कुत्र भक्तिः किमुचितमजयन्क्ष्मां नरेन्द्राः किमर्थ कसै भक्ता अजस्रं प्रविदधति नमः स्वामिने शंकराय ॥ १०॥ प्रहेलिकान्तापिकाख्येनेति खामिने शंकरायेति पदच्छेदेनोत्तरम् ॥ यथा-केन क्रौञ्चः शैलो विभिन्नः । अत्रोत्तरम्-स्वामिना इति कुमारेण । कं अ- वनतगताः । कं नवा गताः । लोकाः इति शेषः । अत्रोत्तरम्-ईशं महादेवम् । के दिनेशस्य रवेस्तीक्ष्णाः । अत्रोत्तरम्-कराः रश्मयः । अन्तस्थानां आबक्षरं किम् । अनोत्तरम्य इति । द्विजकुलं ब्राह्मणवर्गः अधिकां श्रेष्ठामय्यां कां जाति वक्ति । अनोत्तरम्-स्वाम् । भृत्यानां कुत्रभक्तिः । अत्रोत्तरम्-इने स्वामिनि । किमुचितं युक्तम् । अत्रोत्तरम्-शं कल्याणम् । राजानः मां भूमिं किमर्थमजयन् । अत्रोत्त- रम्-कराय प्रजाभ्यो ग्राह्यबल्यर्थम् । भक्ताः कस्मै नमः अजस्रं प्रविदधति । अत्रो- त्तरम्-शंकराय महादेवाय । इति स्पष्टः प्रहेलिकार्थः ॥ १० ॥ रिपुरोपारोपपर प्रोरुपापपरैररम् । रोरैरपाररूपैरापपे पुररिपो पुरा ॥ १०१॥ ब्यक्षरः ।। हे पुररिपो । कथंभूत । रिपुरोपारोपपर शत्रुकुन्तारोपणे उद्युक्त । पुरा पूर्व प्राग्ज- न्मनः प्रभृति अपाररूपैः अनन्तैः दौर्गत्यक्लेशैः प्रोरुपापपरैः प्रकर्षण उरूणि यानि पा- पानि तान्येव परं परमार्थों यत्र तथाविधैः पापैः प्राकर्मवैचित्र्यादेव जन्मादिदौगयोप- लब्धेः। अरमत्यर्थम् ॥ १०१॥ अपरुषो गतनिर्विभवासवः स्वयमिनः श्रितसत्यकलादयः । क्षततमा असुहृत्कलितापदस्त्वमसि नाथ वयं च तवार्थिनः॥ १०२॥ हे नाथ, त्वं अपरुषः, न परुषः अपरुषः। पारुष्यरहितः । वयं च संसारं प्रति अपगतरुषः । तेनैव बाधितत्वात् । त्वं गतनिर्विभवासवः, गतो निर्विभः निष्कान्तिः वासव इन्द्रो यस्मात् । खत्सकाशाद्वासवः...... स्तम्भनानिष्प्रतिभत्वं गतः । इन्द्र इ. त्यर्थः । वयं च गतनिर्विभवासवः, गता अस्मभ्यं पशुभ्य इव इति शेषः। निर्विभवाः असवः प्राणाः येषां ते । तथा त्वं स्वयमिनः सर्वेश्वरः । वयं च स्वयमिनः । त्वं श्रित- सत्यकलादयः, सत्यकला च दया च [श्रिते सत्यकलादये येन सः । वयं च श्रिताः सत्यकलादयः क्वचिद्यवहारार्थ सत्यं क्वचिच्च कलादयो यैः तादृशाः । तथा त्वं क्षत- तमाः, क्षतं तमो येन सः । वयं च क्षततमाः, अतिशयेन क्षताः। त्वं असुहृतां यम. भटानां युद्धरूपेण कलितापदं ददाति सः। वयं च असुहृद्भिरमित्रैः कलिता आपदो येषां तादृशाः वयं च तवार्थिनः याचापराः सेवकाः पालनीयाः इति प्रार्थयमाना वि- ज्ञप्तिः। इत्येकवचनबहुवचनश्लोकः । उक्तं चालंकारिकैः श्लेषलक्षणे-'वर्णपदलिङ्गभा- षाप्रकृतिविभक्तिवचनानामष्टविधः श्लेषः ॥ १०२ ॥ । । :

ईश्वरशतकम् । ६१ भाविदासहिते साररसा ते हि रमामय । यममारतनुत्यागगत्या नुत सदा विभा ॥ १०३ ।। हे रमामय लक्ष्मीमय तव संबन्धिनी विभा सातिशया दीप्तिः भाविदासेभ्यः भा- विभ्यो दासेभ्यो हिते सारः उत्कृष्टो रसो [यस्याः सा] यममारयोः तनुत्यागेन या गति- विच्छित्तिस्तया हेतुभूतया । सर्वैतृत स्तुत ॥ भद्रकावर्तबन्धः ॥ १०३ ॥ सादासन्ना रिपूणां परमुखसुरपक्षोतितखस्थिरासा सारास्थिखच्छभावा विभवनवभवित्राणभव्योत्तमासा । सामात्तव्योमरूपा तनुरमरनुतत्वात्पुरस्ताद्विलासा सालाद्विस्तारलाभातियजन जयति खःप्रसन्ना सदासा ॥ १०४ ॥ भद्रकावर्तबन्धः अष्टदलपद्मबन्धः, षोडशदलश्च ॥ हे अतियजन, तव तनुर्जयति । अतिशयितानि सर्वोत्कृष्टानि यजनानि यस्य ता- दृश । सर्वयज्ञेषु रुद्रस्य मुख्यत्वात् । कीदृशी । रिपूणां सादे विनाशे आसन्ना सादा- सन्ना । पुनः कीदृशी । परमुखे सुरपक्षे च तत्वन्तेन (2) स्थिरासा । सारः अस्ति (स्थि) खच्छभावो यस्याः तथा विभवेन ऐश्वर्येण नवभविनां नूतनसंसारिणां त्राणे रक्षणे भव्या उत्कृष्टा अपरुषा । सामात्ता(?) आत्तं व्योमरूपं यया । अमरनुतलात् । सर्वदेवस्तुतत्वात् । पुरस्तानिहिता विलासा यस्याः। तथा सालाद् देवदारोरपि वि- स्तृता, सालप्रांशुः । खः देवानां प्रसन्ना। सह दासैवर्तते या सदासा ॥ १०४ ॥ भव जलवायुनभोजनरुचिकर- म(मृ)दनलराजरमा(सा)मयदेह । अव मामतिमोहकमारसहर हर नम इह ते पुरभयदेह ॥ १०५ ॥ हे भव, जलवायुनभोजनरुचिकर, म(मृ)दनलराज र[सा]मयदेह । जलधि (लादि) रसान्तानां चार्थे द्वन्द्वः । तेषामष्टानां मूर्तिरूपा या प्रकृतिस्तन्मयदेह । जनशब्दो यज- मानवाचकः । तद्रूपशरीर । त्वं मामव रक्ष । यतः कीदृश। अतिमोहकोऽयं मारसो लक्ष्म्यमिलाषः तन्निवारक । हे हर, इह सर्वत्र भुवनान्तरे ते तुभ्यं नमः । तथा कथं- भूत । पुरभयदेह, पुराणां भयं ददाति । तथा ईहा यस्य तत्संबोधनम् । इति संस्कृत- कश्मीरापभ्रंशाभ्यां श्लेषः ॥ १०५ ॥ 'विविधधररसासाभ भव्य व्यसासा- धुधुततनन सासादद ज्ञज्ञ सासा । १. मालिनीवृत्तगन्धि वृत्तान्तरमेततू.

काव्यमाला। । ततसुसुर रसासारर खख सासा- ववननररसासावव न्यन्यसासा ॥ १०६॥ जयसि जलमनन्तं नन्दनं चाम्बुधे, नवमनमव धृत्वा देवदेवेशभृत्यः । जयसि जनमनन्तं नन्दयंश्चाविधेये अनवन नत कस्ते देवदेवेश भृत्यः ॥ १०७ ॥ आवली । युग्मम् । एकेन एकावली द्वितीयेन च्छत्रबन्धः ।। विविधधररसायां सर्वमयबहुरूपपर्वतभूमौ साभ सदीप्ते। भव्य उत्कृष्ट । व्यस वि- शेषेण असो गमनं यस्य । असाधूनां धुतं धूतं तननं येन तथाविध । असादं समुद्ध- रणं ददाति तथाविध । ज्ञा देवास्तेषां मध्ये वमेव ज्ञः । देवदेव इति । सासा । सह आसेन आस्थया वर्तते सासा सास्था । एवंविधा तनुर्जयति । ततसुसुराः [तताः] शो- भन देवा येन हेतुना तद्विध । रसायां भूमौ सारं सुवर्णवर्षणं राति । सासौ सप्राणे । खख आत्मधन । अवनेन रक्षणेन नरेषु विषये रसो यस्याः । असौ। इयमेवेत्यर्थः । अवनौ भूमौ अन्येषु दैत्येषु विषयेषु विरुद्धेषु सासासासा सास्था ॥ हे अनवम उत्कृष्ट, देवानां मध्ये देव, स त्वं जयसि । गङ्गाजलमनन्तं यथा अम्बुधेः समुद्रस्य नवं नन्दनं चन्द्रं धृत्वा धारयिला अनन्तं जनं च नन्दयन् । अविधेये दैत्यखार्थे अनवन अरक्षण, नत । सर्वे खां नताः। त्वं न कंचित् । इह हि तेनैव देवदेवेश भृत्यः ॥ छत्रबन्धो गोमूत्रिकाबन्धश्च ॥ १०६ ॥ १०७ ॥ यमादजावद्भयमादिदेव वदेयमे यद्भवितार्थिनोऽज । जनोऽर्थिताविद्भविता ततो हि हितोऽव तावद्भवजादमाय ॥ १०८ ॥ यमागताकृत्यमवेहि येन नयेन वै. सत्यसदासमेत । तमे सदासत्यनुते मिमान नमामि ते नुत्यकृतागमाय ॥ १०९ ॥ यदा तमोपेततया ज्ञ चारुरुचाज्ञया तत्त्वमतोवधान । न धावतोऽमस्तनुमोनतेन नते नमोनुत्तममोक्षदाय ॥ ११० ॥ यताकृते पर्वतजे निवासे सेवा निजेतर्वशताकृतेन । न ते कृताशंस(मान)मदा मयाभिभिया सदा सर्वपते कृताय ॥ १११॥ चतुर्भिः श्लोकैः प्रस्तारः ॥ हे आदिदेव, मम यमाद्भयमस्ति । अजावच्छागलीवत् । दुर्बलवत् दुर्बलखात् । अ- र्थिनस्वामर्थयन्ते इति भावः । हे अज, यतः रणन्तो जनः अर्थिताविद्भविता ममत्वं ईश्वरशतकम् । । । प्रति अर्थित्वस्य अन्तरज्ञो भविष्यतीति । भवजात्संसारजात् । ततः तमव रक्ष । हितः सन् । अमाय मायावर्जित । सत्यानुतिर्यस्य तत्संबोधनम् । यमं मिमान हिंसन् ।यमा- दागतं यदकृत्यं तदवेहि । येन नयेति, विचारयेत्यर्थः । तुभ्यं नमामि । नुत्याकृता आ- गमाः सर्वजनोपदेशार्थ शास्त्राणि येन तस्मै । वै सत्ये चैश्वर्ये च । एत कर्बुरवर्ण, हे भगवन् , ज्ञ अनन्त खामिन् । ततः सात्वतं(?) आज्ञया चारुरुचा मणिप्रदीप्त्यात्यर्थव- धान । यमनियममयेत्यर्थः । अतो हेतोर्यदा समुक्त्या यत्कारित्वेन क्षमैमत् (१) सतः सकाशाद्धावतः भ्रमणात् अन्यः तनुमः अल्पश्रीकः नास्ति । तुभ्यं (न) ते नम्र विषये अनुत्तममोक्षदाय उत्कृष्टमोक्षदायिने एवंविधाय नमः । हे शर्व (सर्वपते) यताकृते सं- युतात्मन्, निजेतः निःशेषेण जयनशील, इन स्वामिन् , मया वशताकृता आपत्तता- कारिणा, पर्वतजे निवासे सेवा न कृता । अमितः समन्तात् भीर्यस्य तथाविधेन । सदा कृताय पुण्यसंचयायार्थम् । न विद्यते मदो यस्यां तादृशसे [व]कमपि मां कृपया अवेति पूर्वोक्तवाक्यार्थः । चतुर्भिः कुलकम् (कालापकम् ) ॥१०८ ॥ १०९ ॥ ११० ॥ १११ ।। महामते मन्त्रपते परं पदं विना विभुं विन्दति कोऽतिभूतिमान् । कृपाकृते कृत्तयमाय मायते नमो नमो नम्रहिते हि पाहि माम् ॥११२॥ हे महामते विशुद्धरणे दक्ष, तथा मन्त्रपते 'ससप्ततिकोटीनां मन्त्राणां प्रभुरव्ययः' इत्यागमे । त्वां प्रभु विना परिहृत्य को जनः परं पदं मुक्तिरूपं विन्दति लभते । अति- शयेन भूतिमान् । अष्टविधैश्वर्ययुक्तः । नम्रहितप्राण ...यदा खमेव मां पाहि रक्ष । (मा) यते, तुभ्यं कृपाकृते करुणापराय । कृत्त[य]माय छिन्नकालाय नमः । चतुर्महा- देवस्वस्तिकबन्धः ॥ ११२ ॥ भो भो भविभुमावीभविभावैभव भीभुवः । भवाव भववा भाविभवाभिभवभावभित् ॥ ११३ ॥ भो भो भव महेश्वर, भानां नक्षत्राणां विभुः चन्द्रः । जूटेन्दुरित्यर्थः । तस्य [आ] भा दीप्तयः, तामिर्विगता इभस्य गजासुरस्य विभा वैभवं यस्मात्तादृश, खमव रक्ष । मामित्यर्थः ।.......'अर्थः प्रकरणं लिङ्गम्' इत्यलंकारज्ञः । भावीयः भवाभिभवः संसा- रखलीकारस्तस्य यो भावः सत्ता तद्भित् । भव वाशब्दो विकल्पे। 'भो भोः' इति प्र- धानामन्त्रणे । अव [२]क्ष । कृतान्तात् । भियो भयस्य (भवस्य) भूरुत्पत्तिस्थानम् ॥ झ्यक्षरोऽयं श्लोकः ॥ ११३ ॥ इति श्रीमहाकव्यवतारकृतमीश्वरशतकं सटीकं समाप्तम् । ।

६४ काव्यमाला। श्रीमधुसूदनकविप्रणीतम् । अन्यापदेशशतकम्। कालीयाहिफणाली क्रमणकरालीभवन्नघक्षाली । गोपालीकरतालीनर्तनशाली पुनातु वनमाली ॥१॥ पद्मालयासादरदृक्चकोरीपेपीयमानाननचन्द्रबिम्बः । विघ्नौघविध्वंसविधि विधत्तां राधामयूरीमुदिरो मुकुन्दः ॥२॥ विद्वन्मनोविनोदाय सद्युक्तिपरिशीलितम् । अन्यापदेशशतकं करोति मधुसूदनः ॥ ३ ॥ मर्यादानुपमैव शीलममृतोत्पत्त्यैव निर्वर्णितं नैर्मल्यं निजधर्म एव वचसां पारे तु गम्भीरता । किं वाच्यो महिमा तवार्णव रमाप्रेयानपि प्रार्थने तादृक्कौस्तुभभाजनेन भवता वैदग्ध्यमध्यापितः ॥ ४ ॥ हे पीयूषमयूख भूषणमणिः शंभोस्त्वमम्भोनिधे- रुत्पन्नोऽसि तवैव दैवतकुलं प्रीणाति साध्वी सुधा । विश्वेषामुपरि स्थितिर्ननु तनुस्तत्तत्कलाभाजनं किं वाच्या विभुता धराध्वरभुजां राजा त्वमाजानिकः ॥ ५॥ उन्मीलन्ति कियन्ति न क्षितितले पुष्पाणि नानाविधा- न्युन्मीलन्तु परंतु निर्भरमिदं किंचिद्वदामो वयम् । धन्यं जन्म तवैव चम्पकतरो यत्कोरकाणां पुरो हेम्नः श्रीरपि जायतेऽतिमलिना गण्या किमन्या रुचिः॥६॥ भाभि सितमम्बरं वितिमिरं क्षोणीतलं निर्मितं चक्रे चक्रकुलव्यथाहतिरथादिष्टाः ऋतूनां क्रियाः । अम्भोजानि विकासितानि भवता सद्यो ननु द्योमणे निर्बीजं बत कैरवोपरि परिक्षिप्तं किमन्धं तमः ॥ ७ ॥ १. अस्य श्रीमधुसूदनकवेर्देशो मिथिला, जनकः पद्मनाभः, माता शुभदा, इत्युपा- न्यश्लोकात् 'दुजती(उचिती) कुलम्' इत्यन्तिमश्लोकात्प्रतीयते. कालस्य तु न निश्चयः. २. अस्य काव्यस्य पुस्तकमेकमेव १८२२ संवत्सरलिखितं श्रीमता डॉक्टर् पीटर्सनेन मथुरात आनीय काव्यमालार्थ दत्तमिति तदाधारेणैवास्य शोधनमकारीति ज्ञेयम्, अन्यापदेशशतकम् । ६५ लक्ष्मी लेभे मुरारिः समलभत सुधां खर्गिवर्गः समग्रां तत्तद्वस्तूनि वास्तोष्पतिरपि सहसैरावतादीन्यवाप । पाथोधे त्वत्त एव प्रमथपतिरथ प्रापदापत्करं य- क्ष्वेडं तद्युक्तमेवाजनि जनिदिवसादेष यद्वामदेवः ॥ ८॥ पाण्डित्यं त्वयि ताण्डवानि तनुते शेते स नारायण- स्त्वामध्यास्य कृतस्त्वदेककलया शीर्णः प्रलम्बासुरः । धन्योऽसि त्वमनन्त संततमसौ यत्रातिसौख्योदया- द्विश्रामं लभते चराचरभराक्रान्तान्तरा मेदिनी ॥९॥ माकन्दा मकरन्दबिन्दुविधुरा व्यग्रो गजग्रामणी- रप्यन्तर्मदशोषदोषकलितं चक्रे हरेहुँकृतैः । त्वं हे कल्पतरो करोषि नहि चेदन्तः कृपाकोमलं कुत्रायं भ्रमरो मनागपि मनो विश्राममालम्बताम् ॥ १० ॥ त्वं तावन्निरुपाधिरम्बुद सुधासारानुकाराः पयो- धारा मुञ्चसि विश्वमोदजननीः सर्वत्र साधारणीः । द्वित्रा एव पतन्ति यत्पुनरमुष्यान्तर्मुखे बिन्दव- स्तगाढं जयतीह चातकशिशोर्दुर्दैवदुश्चेष्टितम् ॥ ११ ॥ चापल्यं परिमुञ्च चातकशिशो नैवार्तनादं वृथा कुर्याश्चिन्तय निश्चलेन मनसा धाराधरानन्वहम् । एषां जीवनमुन्नतिं च सहजामन्यार्थमेवासृज- द्धाता त्वं पुनरेतदेकशरणस्तद्धैर्यमालम्ब्यताम् ॥ १२ ॥ नोच्चैल्पति वारिदो यदधुना कासार तन्मा मनो- मालिन्यं समुपैहि हन्त महतां नैसर्गिकोऽयं क्रमः । काले वर्षितुमुद्यतो यदि भवेदेकक्षणार्धं तदा युष्माकं कियती तृषा त्रिजगती पूर्णा भविष्यत्यसौ ॥ १३ ॥ श्रीखण्डाचलगण्डशैलशिखरप्रान्ताटवीसंस्थिताः पाटीरा निभवन्ति शाल्मलिमुखा निःसारभूमीरुहाः ।

काव्यमाला।
मालत्याः नजि गुम्पितानि कुटजान्यप्यामुवन्ति स्फुटं
विद्वद्वन्दशिरोधिरोहणकृतामुच्चैस्तरामुन्नतिम् ॥ १४ ॥
अङ्के किं न कलङ्कतामपि गतं धत्ते मृगं चन्द्रमाः
किं वा शल्यमिवान्तरा वहति नो मैनाकमम्भोनिधिः ।
त्रायन्ते तरवो दहन्तमनलं वृष्टेः स्थितं कोटरे
किं किं नाश्रितपालनाय सहते कष्टं शरण्यो जनः ॥ १५॥
स्फीता शीतांशुकान्तिर्मुदमथ कुमुदान्यापुराशा विकाशा-
नाजग्मुर्वारिमुग्भिः प्रखरमुखरता दूरतो दागपास्ता ।
नैर्मल्यं वारि भेजे शरदुयदिनारम्भ युष्मत्प्रसादा-
स्रोतः स्रोतखतीनां कथय कथमहो र॑ण्यमभ्येति भूयः ॥ १६ ॥
विश्वोपकारकरणाय गुरुप्रयत्ना-
सृष्टः सरोरुहभुवा स्फुटमम्बुवाहः ।
धाराः वयं पुनरयं परितो विमुञ्च-
कि नाभिषिञ्चति लतां विपिने विषस्य ॥ १७॥
चञ्चू चारुतरे चिराय विहिते मञ्जिष्ठरागारुणे
पक्षौ चापि कृतौ हरिन्मणिनिभौ दूर्वाद्रवालेपनैः ।
काकैवं भवता शुकस्य समता निर्बन्धतो निर्मिता
सा संसारमनोविनोदजननी वाणी क लभ्या पुनः ॥ १८ ॥
यस्मिन्नम्बुरुहाणि जातसुदृढप्रेमाणि यस्मिन्धना-
नन्दं विन्दति चक्रवाकपटली यस्मिन्प्रसन्ना दिशः।
तस्मिन्विश्वविकाशितेजसि रवौ रज्यत्युलूको न चे-
द्धानिः कैव तदा रवेः परमसौ हास्यास्पदं जायते ॥ १९ ॥
म्लानान्भूमिरुहोऽभिषिञ्च परितः शुष्काः सवन्तीः पुन-
र्धाराभिः परिपूरय प्रतिदिशं संप्लावयोर्वीमिमाम् ।
अम्भोवाह परं त्वकीर्तिदमिदं पानीयपानाशया
स्तोकोऽसौ भवदेकवृत्तिरनिशं यद्रारटीत्याकुलः ॥ २० ॥

अन्यापदेशशतकम् । उच्चैरुत्पथगा नदीः प्रकुरुषेऽनच्छं च नीराशयं पन्थानं मलिनीकरोषि परुषं मौखर्यमालम्बसे । प्रावृष्येव कियन्त्यहान्यधिकृतस्त्वं वारिदैवं क्रिया नो जाने चिरमेषि चेदधिपतां स्यात्कस्तदोपद्रवः ॥२१॥ कान्तिः काञ्चनरूपदर्पदमनी सौरभ्यमभ्याहतं मध्यं चापि न धूलिधूसरतरं रोचिष्णुरुच्चैः स्थितिः । सर्वे विश्वविलक्षणास्तव गुणाः किं चम्पकैतावता नो चेत्त्वय्यनुरज्यते क्षणमपि क्षीणोऽपि पुष्पंधयः ॥ २२ ।। कः संबन्धो यदभिरमते वीक्ष्य मेघ मयूरी कैवासत्तिर्यदमृतरुचौ सानुबन्धा चकोरी। को वा हेतुः पतति परितो यत्कृशानौ पतङ्गः प्रायेणैवं विधिपरवशा प्राणिनां चित्तवृत्तिः ॥ २३ ॥ मन्दारो विविदे व्यलोकि बकुलं संशीलितश्चम्पकः पर्यालोचनयावधारितमिदं वन्द्यस्तु चाम्पेयकः । येनैकेन विधीयते मधुभराकृष्टालिमालागरु- द्वातोद्भूतपरागसौरभमरैरामोदिता मेदिनी ॥ २४ ॥ कुन्दं वारिभिरुक्ष यच्छ सुमना(नो)मूले मृदं यूथिका- पर्यन्ते रचयावृतिं कुरु मुहुर्मल्लीतले कर्षणम् । मालाकार विशेषतः पुनरसौ सेव्यो रसालस्त्वया सर्वेषामुपयोगिनी फलवती वृद्धिर्यदस्यैव हि ॥ २५ ॥ दत्त्वा स्कन्धतले पदं विनमितां कृत्वा तु शाखाशिखां सर्वेषां कुसुमावलीमवचिनु खच्छन्दमुर्वीरुहाम् । किं त्वस्मिन्वनपाल केतकतरौ यत्लैनिंदध्याः करौ स्यातां कण्टककोटिभिः कवलितौ नो तावदेतौ यथा ॥ २६ ॥ आरोहो निशिताङ्कुशेन कतिधा कुम्भं भिनत्ति क्रुधा पश्चाशचयैरयोमयमुखैनिम्नन्ति चान्ये जनाः ।

६८
काव्यमाला।
क्वापि स्थैर्यमुपागतस्य सहजेनाग्रे पदान्यर्पितुं
स्वेच्छाचारपरस्य पेचकिपते रोमापि न स्पन्दते ॥ २७ ॥
फेल्कुर्वन्त्यपि फेरवोऽतिपरुषं चेत्पार्श्वयोराश्रिताः
काकाश्चेदुपरि स्थिताः प्रतिदिशं कुर्वन्ति कोलाहलम् ।
मन्दं मन्दमुपान्तमीलितहशो मार्गे पदं न्यस्यतः
किं भेदं समुपैति कुञ्जरपतेर्मानोन्नता भ्रूलता ॥ २८ ॥
यद्यूथाधिपपालितेन भवतारण्या वने निर्जिता
हे दन्तावलडिम्भ किं भवति ते तत्कीर्तये पौरुषम् ।
यूथेशे समयेन कालवशतां प्राप्तेऽथ कुत्रापि चे-
किचित्सेत्स्यति ते बलं तदमलं कर्ता यशोमण्डलम् ॥ २९ ॥
चन्द्रस्तावदलंकरोतु रजनी भासां भरैर्मुद्वती
व्याधत्तां च कुमुद्वतीं विनयतु ध्वान्तोपरोधं दिशाम् ।
किं च क्लान्तचकोरचेतसि मुदं पुष्णातु किं तावता
यद्येता मलिनीकरोति पुरतस्ताराः सुदारानपि ॥ ३० ॥
माकन्दे कुरु मञ्जरी भिरशनं कर्णे सुधावर्षिणी
वाणी व्याहर किंतु कोकिल शुकस्पर्धा वृथा मा कृथाः।
योऽसौ काञ्चनपञ्जरे परिलसन्नाकर्णितान्युच्चर-
न्देवीभिः समुपास्यते सविनयं दुग्धौदनप्राशनैः ॥ ३१ ॥
स्वच्छन्दं कलहंस संचर सुखं निद्राहि पारावत
त्वं चोचै रट हे शिखावल शिखामारुह्य भूमीरुहाम् ।
अस्माभिः शुक एव केवलमिहारण्ये समन्विप्यते
यसै राजनितम्बिनी स्पृहयति श्रोतुं गिरां पाटवम् ॥ ३२ ॥
अङ्गीकृतः प्रसवबन्धनतो वियोगः
सोढानि तानि करजक्षतिपीडितानि ।
उद्यानपाल तदिदं तु मनो दुनोति
प्रश्नासि यत्कुरुबकैः सह मालती माम् ॥ ३३ ॥

अन्यापदेशशतकम् लवङ्गि द्रागङ्गीकुरु सुरभितामाहर मन- स्त्वमप्यम्भोजश्रीः कुमुद मुदमाधेहि हृदये। नमस्या सा कापि स्फुरति पुनरन्यैव लतिका गतवीडं क्रीडन्पिबति मधु यस्यां मधुकरः ॥ ३४ ॥ कियत्यः श्रीमत्यः कुसुमकुलसौरभ्यसुभगा हगानन्दं यूनां जगति जनयन्त्येव हि लताः। परं त्वासां मध्ये सफलजनिरेकैव सुमना विना सङ्गं यस्या दलति हृदयं हा मधुलिहः ।। ३५ ।। धन्याः स्पृशन्ति मधुपास्तव पल्लवाली- मन्तर्निविश्य मधु किंतु पिबन्ति पुष्पे । एतावतैव सफलं मम जन्म जात- माकस्मिकं यदिह मालति वीक्षितासि ॥ ३६ ॥ रे काक कालवशतो यदि सोधपृष्ठ- मारूढवानसि तथापि हि काक एव । जम्बालजालपतितोऽपि मरालबालः कैर्नाद्रियेत रमणीगमनोपमायाम् ॥ ३७ ॥ स्पर्धा जातिकृतां भजन्तु भवता सार्धे परे सागराः किंवा दुग्धपयोनिधे तव तुलामभ्येतुमेते क्षमाः। त्वं तादृङ्महिमालयो विजयते तत्तादृशं ते यशो देव्या सिन्धुभुवा समं यदुदरे निद्राति दामोदरः ॥ ३८ ॥ केऽमी दिक्करिणो रणोद्धुरतरश्चेदस्मि कस्मिंश्च वा शक्तिस्तादृगिहास्ति यस्य न भयं जागर्ति मदर्जिते । एवं केवलमात्मनैव गुरुतामात्मन्यभिद्योतय- न्साहंकारमितस्ततो विहरते कूपोदरे दर्दुरः ॥ ३९ ॥ द्वित्राम्भोधरवारिबिन्दुजटिले गर्ने स्थितः खां तनुं वीक्ष्य खर्णसमां किमित्यतितमां जल्पन्मुधा मोदसे । नव० गु०७

काव्यमाला।
फलैः
रे रे बर्बर दर्दुर स्फुटमिदं जानीहि वर्षात्यये
यत्नेनापि गवेषितः कुतुकिभिः कुत्रापि न प्राप्यसे ॥ ४० ॥
तुङ्गः साहजिकोऽसि नम्रतरतामभ्येषि भूयः
पुप्पामोदभरेण कस्य न मनोमोदं विधत्तेतराम् ।
कस्ते हे बकुलान्यजन्मदुरितोद्रेको गरीयानयं
येनेयं वनितावितीर्णमदिरागण्डूषपानस्पृहा ॥ ४१ ।।
सोढा श्रीविगमव्यथातिविषमा कल्लोलकोलाहलै-
रन्तस्तापभरा न वाभिलपिता दत्ता मणीनां चयाः ।
उच्चैर्मन्दरमन्थनेन हृदये व्यालोलितेऽतीव भू-
मर्यादा न विलविता तु भवता वन्द्योऽसि वारांनिधे ॥ ४२ ॥
यः सत्रौं सुरसिन्धुनीरनिकरे नित्यं निदाघार्दितो
हेमाम्भोजवनीपरागपटलैश्चक्रे रजःक्रीडनम् ।
निःशङ्क समवाप नन्दनवने खेच्छाविहारोत्सवं
सोऽयं कालविपर्ययात्करियुवा शुष्कं सरः सेवते ॥ ४३ ।।
यत्राजायत कौस्तुभो हि ककुभो भासा समुद्दीपय-
नुत्पन्नो हिमदीधितिस्तरुवरो जज्ञेऽथ कल्पद्रुमः ।
शम्बूका अपि संभवन्ति शतशस्तत्रैव पाथोनिधौ
विख्यातस्त्रिजगत्सु तस्य महिमा किं तावता हीयते ॥ ४४ ॥
मा खेदं समुपेहि चेतसि सखे पद्माकरोष्मागमे
शुष्कोऽसीति मरीचिमालिजटिलज्वालानिपीतोदकः ।
भावी कोऽपि स वासरः पुनरपि प्रावृट्पयःपूरितो
यत्र त्वं भवितासि वारिजवृतो दृश्यो दृशां कोटिभिः ॥ ४५ ॥
अग्रे कूप इतीव लोकमुखतः श्रुत्वा निदाघार्दितः
पास्यामीह यथाभिलाषमुदकं पान्थः समुत्कण्ठितः।
धावित्वाथ समागतोऽस्य सविधं हा हन्त कूपः पुनः
पाताले विनिवेश्य वारिपटलं व्यादाय वक्रं स्थितः ॥ ४६॥

अन्यापदेशशतकम् ।
७१
काकुं चातकपोत नाकुलतया कुर्या वृथा शारदे
यावद्वारिभरव्ययेन नितरां रिक्तीकृते वारिदे ।
त्वत्तृष्णा न विराममेप्यति परं काका पयोविग्रुषो-
ऽप्युत्सर्गे हतशक्तिरेष भविता ब्रीडां व्रजः केवलम् ॥ ४७ ॥
स्थाने स्थाने सुमेरुप्रभृतिगिरिवराः सन्ति नोव्या कियन्तः
किं तैरेको... ...."मलय महिमा पूजनीयस्तवैव ।
चञ्चत्पाटीरवाटीप्रभवनवनवामोदसंपत्समृद्ध्या
यस्त्वं शश्वत्समामोदयसि निरुपधिः सर्वतो दिङ्मुखानि ॥४८॥
सद्वृत्तोऽसि गुणान्वितोऽसि विमलच्छायोऽसि पृथ्वीपति-
त्रस्यच्चारुचमूरुशावकदृशामभ्येषि दन्तोपमाम् ।
मुक्ताहार परं त्वरंतुदमपि ब्रूमो वयं यद्भवा-
नन्तःशून्यतरोऽस्ति तत्प्रतिपलं चेतः समुत्ताम्यति ॥ ४९ ॥
भूयांसो जलबिन्दवो जलमुचा स्वातौ विमुक्ताः परं
निःपीता खलु शुक्तिकाभिरिह ये ते बिन्दवो बिन्दवः ।
तद्गर्भे परिणामतः परिणता मुक्ता नृपप्रेयसी-
पीनोत्तुङ्गपयोधरोपरि सुखं खेलन्ति हारस्थिताः ॥ ५० ॥
भ्रातः षट्पद यत्र तत्र कुसुमे तृष्णातुरो न भ्रमः
खल्पाहेन विराममेष्यति सरोजानां विपच्छैशिरी ।
अन्तारूढबिसप्रसूनमुकुलामोदैरिदं सूच्यते
द्वित्रैरेव दिनैः प्रफुल्लकमलाकीर्ण सरः स्यादिदम् ॥ ५१ ॥
भ्रमर भ्रमतोऽपि केतकीनां विपिनं नैव कदाचिदप्युपेहि ।
रसलब्धिरिहास्तु वा न वास्तु नियतः कण्टकसंकटे निपातः ॥५२॥
दूषणान्यपि महान्ति धीमतां संवृणोति समुपार्जितो गुणः ।
स्रग्विलुम्पति गुणेन केवलं मौक्तिकी प्रकटरन्ध्रमात्मनः ॥ ५३ ॥
मोहितो मधुप रूपसंपदा कर्णिकारकुसुमं किमीहसे ।
नेह सौरभसमागमस्तव व्यक्तिमेष्यति परं तु मूढता ॥ ५४ ॥

काव्यमाला।
सिन्धुबन्धुममुमम्बुलिप्सया सेवसे किमु निदाघबाधितः ।
सेवनस्य परिदेवनं फलं लप्स्यसे न कणमप्यपां पुनः ॥ ५५ ॥
यत्र नैव कलहंसकूजितं नाथ पङ्कजसमूहसंभवः ।
नापि कापि जलखेलनक्रिया तत्किमम्बुजलमुच्यते जलम् ॥ ५६ ॥
यद्विशालजघनाङ्गनागणस्नानधौतकुचकुङ्कुमारुणम् ।
उन्नदज्जलपतत्रिचित्रितं तत्सरोवरपयः पयः स्मृतम् ॥ ५७ ॥
हंसैमौनमकारि वारिजकुलैरासादितं मुद्रणं
शोकः कोकमवाप कामपि दिशं भेजे दिनश्रीरपि ।
अस्ते भाखति हा दिगम्बरतलं व्याप्तं तमोभिर्दिशो
भीमाः फेरवफू(पू)त्कृतिव्यतिकरैर्नृत्यन्त्यमी पेचकाः ॥ ५८ ॥
ज्योत्लाभिः ककुभो विभूषय तमोमालाजटालाम्बरं
द्रागुल्लासय वासयापि कुमुदामोदैर्महीं त्वं विधो ।
सर्व सम्यगिदं तथापि किमपि ब्रूमो वयं कुप्य मा
यादृक् श्रीजगतां रवौ न तु पुनस्तेनैव सा भाविनी ॥ ५९ ॥
वासन्ती न विलोकिता कमलिनी नालिङ्गिता नेक्षिता
यूथी नापि कुमुवती परिचिता नापेक्षिता मालती।
युष्मदानसमीहया मधुलिहा हन्त त्वयायं पुन-
दूरादेव निवार्यते गजप किं कर्णस्य विक्षेपणैः ॥ ६० ॥
यावन्नृत्यं कलयितुमलं सज्जते नीलकण्ठे
यावच्चञ्चूमपि च विवृणोत्यम्बुने चातकोऽपि ।
संनद्धोऽयं वियति जलदस्तावदुत्पातवातै-
रागत्योच्चैरहह सहसा काप्यपाकृष्य नीतः ॥ ६१ ॥
एकत्रैव कुलायकोषकुहरे वृद्धि परां प्राप्तयो-
रेकाकारजुषो रसालशिखरे साकं समासीनयोः ।
इत्थं कोकिलकाकयोः कथमहोत्पद्येत भेदग्रहो
नो चेज्जातिनियन्त्रितेह वचसा व्यक्तिर्भवेद्भेदिका ॥ ६२ ॥

७३
अन्यापदेशशतकम् ।
यः प्रासूत सुतं सुधाकरमुमाप्राणेशचूडामणिं
लक्ष्मीर्यस्य सुता हरिप्रियतमा यः कालकूटाश्रयः ।
पातुं पाणिपुटे कृतस्य मुनिनागस्त्येन तस्याम्बुधे-
र्जाताः केऽपि न रक्षणक्षमतमा दैवं ततो व्येतु कः ॥ ६३ ॥
यो दिङ्मण्डलमुद्धरत्युरुतमोग्रासादनायासतो
येनानन्दमनिन्दितेन लभते चित्ते कुमुद्वानपि ।
यं चाश्रित्य जगज्जयत्यतनुरप्येवंगुणोऽसौ विधू
राहोरास्यकरम्भतामुपगतः कस्मै किमावेद्यताम् ॥ ६४ ॥
कैरविणीकुलबन्धो हिमकर सिन्धोरवाप्तजन्मासि ।
इति तव महदयशस्यं मलिनयसि यदम्बुजश्रेणिम् ॥ ६५ ॥
संगम्य दुग्धनिवहैरविशेषबुद्ध्या
किं वारिपूर बहुदूरमुपेहि मोदम् ।
दुग्धाभिलाषिणि विवेकिनि राजहंसे
हा हा क यास्यति पदं भवतोऽभिमानः ॥ ६६ ॥
यो मन्दारमरन्दबिन्दुनिवहैः संवर्धितः शैशवे
तारुण्ये मदमाचचाम बलभिद्रुतण्डगण्डस्थले ।
सोऽयं जीर्णतनुर्निनीषति जनुः कार्पासपुष्पेष्वलि-
दुर्दैवव्यवसायतोऽस्य तदपि प्रायोऽभवदुर्लभम् ॥ ६७ ॥
नादत्तेऽनुचरोपनीतकवलं सर्पिःसिताप्लावितं
यत्नेनापि न पातुमिच्छति मनोहारीणि वारीण्यपि ।
विन्ध्यासन्नवनीवियुक्तकरिणीचिन्तादुरन्ताधिवा-
न्मूर्धानं विधुनोति बन्धनगतः स्तम्भेरमः केवलम् ॥ ६८ ॥
देशोऽयं मरुरुदतो विधिवशादमिंस्तडागोल्पक-
स्तत्रैकाजनि मद्विधालिनिकरप्राक्पुण्यतः पद्मिनी ।
तामुन्मूलयितुं समुद्यतकरस्त्वं तावदुत्कण्ठसे
हे दन्तावल ते कथं न वलते दृष्टिः कृपाकोमला ॥ ६९ ॥

काव्यमाला।
कस्मै दैन्यमुपैतु काननतले कोऽन्यो गरीयानितो
यं वालम्ब्य करेण कर्षति वपुस्तीरे न तादृक्तरुः ।
गृधैर्कोन्नि शिवागणैर्भुवि मुहुर्जिज्ञासितासुव्ययो
हा धिक् पङ्कपराभवे निपतितो दन्तावलो हीयते ॥ ७० ॥
पस्पर्धेऽञ्जनपर्वतेन सह यस्तन्वा तदन्वाययौ
साधर्म्य श्रुतसप्तधामदपयःसारेण धाराभृताम् ।
दिग्दन्तावलराजिमाजिषु रदाघातैर्जिगायौजसा
सोऽयं दैवनिबन्धनं विषहते दन्तावलो बन्धनम् ॥ ७१ ॥
अजनि रजनिजानिर्यद्यपि क्षीरसिन्धो-
रलभत पदमुच्चैर्मूनि कंदर्पशत्रोः ।
तदपि यदि जडात्मत्वात्कलङ्कावगुण्ठं
वहति हृदयमध्ये कस्तदा किं करोति ।। ७२ ॥
शरद्धने गर्जति वारिवाञ्छा कदापि रे चातक नैव कार्या ।
इदं तु नियूंढमवेहि तत्त्वं गर्जन्ति ये ते न फलोपलब्ध्यै ॥७३ ॥
रे काक किं रटसि कर्णभिदः कटूक्ती-
चालता नहि विदग्धविनोदभूमिः ।
पश्येति कोकिलयुवा समये कदाचि-
त्सूक्तिं लपन्नभिमतो न जनस्य कस्य ॥ ७४ ॥
वैदग्ध्यमन्दिर मनोहररूपमात्रा-
दिन्दिदिर भ्रमणमिच्छ न कर्णिकारे ।
अस्मिन्नुदेष्यति न कोऽपि रसोपलम्भः
सौरभ्यदुर्भगमिदं जगति प्रसिद्धम् ॥ ७५ ॥
अकाले संनद्धो नभसि मुदिरो मेदुरतरः
परीतस्तोयाशाविवृतवदनैश्चातकगणैः ।
तथानेनारब्धं किमपि चरितं येन करका-
निपातैरेतेषां सपदि शतधाभिद्यत शिरः ॥ ७६ ॥

अन्यापदेशशतकम् । यद्यपि सन्ति बहून्यपि कुसुमानि तथापि वारिजं वन्दे । निशि निशि मधुपयुवायं यन्मधुने बन्धनं सहते ॥ ७७ ॥ तुल्यैव रूपरचना गणनापि धातु- मध्ये समैव समता घटते तथापि । हेन्ना समं न दहने प्रविशारकूट व्यक्तीभविष्यति यतो भवतो विशेषः ॥ ७८ ॥ दुमानतिक्रामति पल्लवश्रीः प्रवालशोभां हरति प्रसूनम् । तरोरशोकस्य तथापि नाभूदुर्दैवतः साधुफलोपलब्धिः ॥ ७९ ॥ नैव त्वत्सदृशी परागपटली कुत्रापि पुष्पान्तरे नो वा सौरभमुग्रमीदृशमथो नैतादृशी सुच्छविः । अन्यस्मै स्पृहयन्ति किं मधुलिहो हित्वा भवन्तं तदा भ्रातः केतक कण्टकैः कटुमुखैस्त्वं स्या न चेदावृतः ॥ ८० ॥ स्निग्धं न वीक्षितमसिक्षितिलास्यमास्यं मुग्धे मुधा हलिकनारि कुचेष्टितेन । अन्यानि तानि ललितानि विलासिनीनां यैराहतानि हृदयानि हरन्ति यूनाम् ॥ ८१ ॥ एकः स एव धरणीधरचक्रवर्ती भूभृत्सु वन्द्यमहिमा हिमवान्न चान्यः । योऽसौ तपोभिरधिगम्य सुतामपर्णा- मर्थीचकार सुरसारमपीन्दुमौलिम् ॥ ८२ ॥ इतस्ततः श्रावणवारिवाह किमूषरे वारिभरव्ययेन । त्वमुर्वरां शश्वदिमां निषिञ्च जीवातुभूता जगतां यदेषा ॥ ८३ ॥ उपरि चरणपातं कुर्वती मौक्तिकानां हरिहतकरिकुम्भप्रच्युतानां समन्तात् । वनमटति किराती चिन्वती स्रक्षु गुञ्जां हूसति किमु महत्त्वं येन मुक्तामणीनाम् ॥ ८४ ॥ ।

७६
काव्यमाला।
उच्चैर्विरौति परितो यदि सारमेय-
स्तस्मिन्भवन्ति किमु केऽपि कृतावधानाः ।
धीरं ध्वनत्यवनिभृत्कुहरे हरीन्द्रो
दिग्दन्तिनां सपदि शुष्यति दानधारा ॥ ८५ ॥
ध्वनति मधुरमम्भोमुक्शरथेष भावी
झटिति जलनिपातोऽपीत्यनन्दकुमुद्वान् ।
तदिह पुनरनेनाकारि येनास्य जाता
रुचिरपि हिमरश्मेर्दुर्लभा सैव वृष्टिः ॥ ८६ ॥
कतिविधा विलसन्ति मधुप्लुताः कुसुमभारनता न लता वने ।
कमलिनीविरहव्यथितो रतिं वितनुते किमु तासु मधुव्रतः ॥ ८७ ॥
नैवासन्कति सन्ति नैव कति वा के के न वा भाविनो
राजानो जनकस्य जातु किममी कर्तुं तुलामीशते ।
सीताकल्पलताप्रतिग्रहमिह क्षोणीभुजामग्रतः
स्वस्तीत्युक्तवते त्रिलोकपतये रामाय योऽयं ददौ ॥ ८८ ॥
रे हंस संचर सरोरुहवृन्दमध्ये
त्वं चापि चक्र चर चंक्रमणं ततः किम् ।
योऽन्तर्निगूढमकरन्दरसोऽस्य हृयो
गृह्णाति तं परमसौ रसिको द्विरेफः ॥ ८९ ॥
वन्ध्ये किमन्ध शुक सीदसि काञ्चनारे
पुष्पश्रिये पटुरसौ न फलागमाय ।
उड्डीय गच्छ फलितं तरुमन्यमाशु
भ्रातर्न चेत्पुनरुपेष्यति तेऽनुतापः ॥ ९० ॥
एधन्तां त्वयि पीनमीननिवहग्रासैर्बका निर्भरं
पङ्केरुट्फलमूलशैवलगणानश्नन्तु कारण्डवाः ।
अन्ये चापि चिरं चरन्तु विहगाः स्वच्छाश्च पद्माकर
भ्रातर्या पुनरभ्युदेति सुषमा हंसैरमीभिर्न सा ॥ ९१ ॥

अन्यापदेशशतकम् । स्थाने स्थाने विकचकमलश्रेणिगुञ्जविरेफा न भ्राजन्ते किमिह सलिलोदीर्णरागास्तडागाः । उत्प्लुत्यायं तदपि कुधियां दर्दुराणां समूहः कस्मात्कूपे निपतति वयं तत्र बीजं न विद्मः ॥ ९२ ॥ चेदेकदा न सरसीषु न वा नदीषु वारीण्यवाप दुरवग्रहदूषितासु तत्किं तृषार्तिविभवाकुलितोऽपि तोय- पानाय कूपमनुधावति वारणेन्द्रः ॥ ९३ ॥ नास्सै हस्तिपते प्रसारय करं कूपाय तृष्णातुरो भावी नैव तव प्रसारितकरस्याप्यम्बुलाभोऽप्यतः । द्वित्राणीह दिनानि धेहि हृदये धैर्य भविष्यन्त्यमी द्राग्धाराभिरितस्ततो जलमुचां पूर्णास्तु पद्माकराः ॥ ९४ ।। किं गर्वमुद्वहसि कच्छप गाधतोये पद्माकरे समवहेलितदिव्यकूर्मः । स्यादेष चेत्पुनरवग्रहदोषशुष्क- स्तत्रावधारय विधिं निजजीवनस्य ॥ ९५ ॥ निदाघे छायायै तरणिकिरणोत्तापिततनु- टं यावद्विन्ध्येऽनुसरति समृद्धं करियुवा । तथा तुङ्गश्चायं दवदहनकीलैः कवलितो यथाभूदामूलं दहनमहसा भस्मनिचयः ॥ ९६ ॥ यदृच्छा जाताभूदुपवनतटे काचन शमी समृद्धिं योऽघानाधिकृतपुरुषैः प्रापि कृपया । तथाकस्माद्यस्यां हुतभुगुदियायान्तरगतो यथाभूदासन्नद्रुमनिवहदाहाय कुशला ॥ ९७ ॥ संतोषयाह्नि मकरन्दभरेण भृङ्गा- नम्भोज संपदि वरो हि परोपकारः ।

७८
काव्यमाला।
दोषागमोऽयमतिसंनिहितो यदस्मि-
कान्तिन तेन मधुना गमनं त्वमीषाम् ॥ ९८ ॥
अन्येऽपीह लसन्ति किं न कुसुमश्रेणीसमृद्धश्रिय-
स्ते ते चम्पककाञ्चनारबकुलाशोकादयो भूरुहः ।
हे माकन्द तथापि भेदविदुषामिन्दिन्दिराणां मनः
सान्द्रानन्दमहर्निशं रसवति त्वय्येव विश्राम्यति ॥ ९९ ॥
यज्जातोऽपि चतुःपथेऽत्र विषये निःशाखिभूमण्डले
शाखाभिर्निबिडाभिरुन्नततरच्छायोऽसि यत्त्वं पुनः ।
तं न्यग्रोधतरो सहख बहलच्छायाभिलाषाय त-
त्पान्थानामुपरोधखेदमधुना नैदाघमध्यंदिने ॥ १० ॥
विश्वेषां त्रिदिवौकसामपहरन्नार्तं हृदामन्वहं
यद्यप्याकुल एव तिष्ठति भवाञ्जानाम्यहं तत्त्वहो ।
हहो कल्पतरो परोपकृतये सृष्टोऽसि यद्वेधसा
तत्त्वत्तोऽहमपीप्सितामुपकृतिं किंचित्समीहेतमाम् ॥ १०१ ॥
तिष्ठामो विपिने सरःसु सलिलं खैरं पिबामस्तृणा-
न्यो यद्यपि सर्वतो भयपराधीनाश्च वर्तामहे ।
निर्बीज प्रहरन्ति हन्त तदपि व्याधा इमेऽस्मान्मृगा-
नीदृश्येव विधातृनिर्मितिव(र)तः किं कुर्म एते वयम् ॥ १०२ ॥
धन्या रोहणभूरियं सहजतो यस्यां मणिश्रेणयः
पर्यन्तेषु लुठन्त्यकुण्ठितरुचिव्यालिप्तदिग्भित्तयः ।
त्वस्याः पुनरन्य एव महिमा श्लाध्यः समन्तान्मणी-
न्यो गृह्णाति निजेच्छयैव सरसं गृह्णातु ना संमतिः ॥ १०३ ॥
मातङ्गाश्चलताप्यतस्त्वमपि हे शार्दूल दूरं ब्रज
त्वं चान्यत्र वराह निःसर पुरो यावस्थितं तत्स्थितम् ।
सोऽयं दीर्घकरीन्द्रकुम्भनखरकोडस्थमुक्तावली-
भासा दन्तुरयन्दिशो निविशते पञ्चाननः कानने ॥ १०४ ॥

७९ अन्यापदेशशतकम् । चेदङ्गीक्रियते न मत्तकरिणा भृङ्गीयुवा गौरवा- द्भूयादस्य गुणालयस्य तदये चित्तव्यथा किं वृथा । सौरभ्यस्रवनिर्झरभ्रमदलिभाजप्रसूनप्रभा- स्तास्ताः सन्ति लवङ्गिकाप्रभृतयश्चेतोमुदे चेल्लताः ॥ १०५ ॥ करटिकठिनदन्तोल्लेखसंकर्षिताया- मविरलघनवारासारसेकाप्लुतायाम् । अपि सुभगमुहूर्ते यत्नतो बीजमुप्तं गिरिशिखरशिलायां रोहते किं कदापि ॥ १०६ ॥ एतस्यां वनसीन्नि यद्यपि वसत्युग्रोऽपि कण्ठीरवो निःशङ्कं करिशाव संचर तथाप्याकर्ण्य वार्तामिमाम् । अन्ये ते करिणो मदोत्कटकटस्थानभ्रमच्छापद- श्रेणीगुञ्जितरञ्जितेषु हरयो येषु प्रहारप्रदाः॥ १०७ ॥ रे रे शूकरयूथनाथ महता तारुण्यदर्पोप्मणा दन्ताभ्यामिह पातनाय यतसे शालद्रुमस्यास्य किम् । जग्मुर्यत्र कठोरपर्वतशिलातुल्यत्वचि प्रांशवो दन्ता निष्ठुरवज्रकोटिकठिना दिग्दन्तिनां कुण्ठताम् ॥ १०८ ॥ लेभे यं शुभदा तपोभिरमलैः श्रीपद्मनाभात्सुतं यद्देशो मिथिलाखिलावनितलालंकारचूडामणिः । तेनेदं मधुसूदनेन कविना विद्यावता निर्मित श्लोकानां शतकं मुदे सुकृतिनामन्यापदेशाह्वयम् ॥ १०९ ।। निरवद्यमद्य शतमेतदतिप्रकटार्थवर्णपदसंवलितम् । दुज(उचि)तीकुलाम्बुजवनीरविणा मधुसूदनेन कविना रचितम् ॥११॥ इति मैथिलमधुसूदनकृतमन्यापदेशशतकं समाप्तम् ।

काव्यमाला। श्रीलक्ष्मणाचार्यप्रणीता चण्डीकुचपञ्चाशिका। श्रियं नौमि देवीं परां पारिजातां पदाम्भोजरेणूपसेवापराणाम् । यदाद्याक्षरस्याभिधेयेन शूली प्रलीढोऽपि मृत्युप्रजेता गरेण ॥१॥ आशादासीभिरूज़ करविधृतचतुष्कोणभागाभखण्डैः खण्डैराढ्या पटानां विधुरविघटिता शुष्कतावासयेया । खात्मानाधः पतन्ती सजवमसकृदाकर्षणक्लान्तिपति- श्वासोद्धासौघपूर्णा हिमगिरिदुहितुः पातु वोऽपूर्वकन्था ॥ २ ॥ आसीद्विरिञ्चिवरदा सुरसार्थतीर्थ तेजोमयी मखभुजामखिलास्ति शक्तिः । एवं भविष्यति पुरोऽपि पुरारिपत्नी त्रैकालिकं यदिति तन्मह आद्यमीडे ॥ ३ ॥ मध्ये पीयूषसिन्धोधनकुसुमलसत्कल्पवृक्षान्तराले दिव्ये मण्यन्तरीपे त्रिदशपरिवृढप्रौढगीर्वाणवा । शर्वाणी पूर्णमण्याभरणरणरणत्पाणिनाभ्यर्णवाणी तूर्ण चिन्तामणेर्मामपि सदसि सदाश्लिष्य सिंहासनेऽस्ति ॥ ४ ॥ वन्दारुवृन्दारकसुन्दरीणां सीमन्तभृङ्गाञ्चितपादपद्मा । संस्तोतृपद्मापतिपद्मजन्मखारापिकाल्याभ्रगुणा विभाति ॥ ५ ॥ यत्रोदग्रहरिन्मणिप्रविलसत्सौधाकुराणां गणै- रुद्गीर्णैर्निजगर्भतश्च चणकैः साम्यं गतानां नवैः । मुक्तानाममृतद्युतेरपि भरं वीक्ष्य स्थितानां हृदि श्रान्त्याखू रभसोत्पपात हृदये सारङ्ग एतन्मुधा ॥ ६ ॥ १. राधावेणीमाधवयोस्तनूजन्मा सामगोपनामकोऽत्रिवंशमुक्तामणिर्दाक्षिणात्यप्रकाण्डं लक्ष्मणाचार्यः सह्याद्रिप्रान्तवर्तिनि वांईसंज्ञके नगर आसीदित्यादि सर्व प्रकृतनिबन्धस्यै- कादशद्वादशत्रयोदशश्लोकैरुपसंहाराच्च व्यक्ततरमास्ते. भाति चायं नवीनः. २. अस्याः पञ्चाशिकाया एकं पुस्तकं राजगुरु-पर्वणीकरोपनामक-भदृश्रीनारायणशास्त्रिभिः वहस्तेन विलिख्य काव्यमालार्थमस्मभ्यं दत्तम् , तदाधारेणैतन्मुद्रणमजनीति तेषां विद्वन्मणीनां महान्तमुपकास्मुरीकुर्मः ܀ चण्डीकुचपञ्चाशिका । पादारविन्दस्य पुरंदरोऽपि सेवां विधातास्म्यहमेव देव्याः । नार्हस्त्वमस्मिन्निति वज्रपाणिक्षिप्यते यत्र गणैर्विचित्रम् ॥ ७ ॥ बिडौजसि पदाम्बुजे निबिडतेजसि त्र्यम्बक- स्त्रियाः प्रणतिमीप्सितप्रतिपदाप्तये निर्जरैः । हरावपि हरे विधौ प्रणतिकर्मकार्मीणके जयाम्ब जगदम्बिके जयजयेति यत्र ध्वनिः ॥ ८ ॥ तत्रैकदा निखिललोकचरित्रविद्भिः संप्रार्थिता भगवती प्रणिधीनवगैः । विज्ञाप्यमस्ति किमपीति रहस्यमस्म- दृग्यायिनः कविवरस्य कृतेविचित्रम् ॥ ९ ॥ किं कुङ्कुमोऽस्ति कलितामरभोज्यवीची- सारप्रसारवचसां प्रमुखः कवीनाम् । यत्काव्यमन्यकवितां विधुनोति जीर्णी जायामिवाभिनवमुग्धवधूस्तनश्रीः॥ १०॥ असह्यभरसह्यभूधरमणौ महाराष्ट्रके महाबलजटाब्यनिष्प्रथितकृष्णवेणी धुनी । तदम्बुलहरीप्लुता जयति वाञिसंज्ञा पुरी स लक्ष्मणकवीश्वरो वसति तत्र वृत्त्या वया ॥ ११ ॥ वेणीमाधव एव यस्य जनकः प्रख्यातकीर्तिस्तथा राधा यज्जननी सती गुणवती रामोऽपि यत्सोदरः । अत्रिर्गोत्रपुमांश्च यस्य कविता चेतोहरा सामगो- पाहो यः किल राजते चरणयोर्देव्या भवान्याः स्वयम् ॥ १२ ॥ यस्य गुरुयॊ जातो दण्डकराभिन्नपर्वतान्वयतः । रघुनाथमन्दराद्रिमथितुं तर्कादिशास्त्रचयजलधिम् ॥ १३ ॥ स त्वस्मत्पदपङ्कजस्फुरदमन्दानन्दसंदोहद- स्यन्दन्म मरन्दसुन्दरमधुव्यालोलरोलम्बका नव० गु०८ ८२ काव्यमाला। सत्पोतेतरताविनीतवनितासंभोगशून्यः पुन- योऽसौ संप्रति कथ्यते मम गुणप्रौढिप्रबद्धात्मकः ॥ १४ ॥ तस्यैव चेत्किमपि काव्यमकव्ययेच्छो- रस्मत्सभापरिसरे पठनीयमस्ति । यन्मत्पदाम्बुजमधुप्रतिषेचनेऽस्य मृद्वीकयापि न कयापि न मृद्विकासः ॥ १५ ॥ श्रुत्वादेशं दूतवगैर्भवान्या न्यासान्धन्यान्वीक्ष्य वाचः कवेस्तान् । न्यस्तो मूर्धा खामिनीपादपद्मे कर्ऋत्युक्तं तत्कृतेर्यत्कृतेऽत्र ॥ १६ ॥ सावधाना ततो देवी काव्यश्रवणकर्मणि । जातेत्यालोच्य सहगवगैः काव्यं प्रवर्ण्यते ॥ १७ ॥ यद्यपि पदनुतिरादौ कार्या मातुस्तथापि विश्वस्य । मुख्यमिति स्तनपानं लक्ष्मणबालेन तत्स्तुतिर्विहिता ॥ १८ ॥ प्रालेयशैलजनुषः सुहिरण्यवल्या गौर्याः पयोधरविचित्रफलं पिबामि । यस्पर्शनादपि बभूव स शूलिनोऽपि मृत्युंजयत्वविभवैकपदेऽभिषेकः ॥ १९ ॥ कल्याणावलिमातनोतु नितरां कर्पूरपूराधिक- प्रालेयं तुहिनालिशैलदुहितुस्तुङ्गं तदङ्गं हृदः । येनाकारि पुरारिभालनयनज्वालाकरालावली- बाढोल्लीढतनुस्तदीयहृदि सोऽनङ्गोऽपि रङ्गे नटः ॥२०॥ आजीवं तदुपास्महेऽद्रिदुहितुः कर्पूरगौरं कुच- द्वन्द्वं नीलगलं सुचन्दनयुतं तत्प्राङ्गखेन्द्वतितम् । यद्वीक्ष्यैव ममर्द किं नवमिदं जीवत्यशेषे मयि प्रारूढं शिवयुग्ममन्यदबलाहृन्मर्मणीतीर्ण्यया ॥ २१ ॥ प्रत्यूहावलिमालुनातु दयया यश्चार्धनारीकुच- प्रान्तोतुझपटीरपकमदनीमीनकमुद्राङ्करः ।

चण्डीकुचपञ्चाशिका ।
८३
यं कृत्वा स्वयमेव मन्मथरिपुः पाणिश्रितखेदतो
यातः सात्त्विकतां हि तत्कज इति ध्यात्वा स्मरातॊऽभवत् २२
शर्वाणीकुचकूलमूलविलसत्कर्पूरकस्तूरिका-
काश्मीरत्रितयावलेपरचनाचातुर्यचर्यावतात् ।
यामुद्दिश्य महेशमानसमहाहंसः प्रयागस्थिता
वेण्येवेत्यवधारयन्निव ममज्जानन्यवृत्तिश्चिरम् ॥ २३ ॥
नित्यं पायादपायाज्जगदिह तु शरच्चन्द्रगौरप्रभासौ
गौर्या वक्षोजयुग्मद्वयशिखरचरत्तारहीरालिमाला ।
चण्ड्या मे नाथचेतोविहरणनिपुणेतीjया तत्र बद्धां
गङ्गां निश्चित्य भर्गः करमपि च ददौ यत्पदे मोक्षकामः ॥ २४ ॥
नुमोऽपर्णारामस्थलहृदयकासारतटग-
प्रवल्गद्वक्षोजच्छलमिलितचक्राहयुगलम् ।
दरालोकाच्छंभोः शिशिरशशिरेखानखगता
स्मरन्ती सापत्यं व्यथयति नितान्तं यदिह सा ॥ २२ ॥
वन्दे तत्कुसुमायुधान्तकवधूतुङ्गस्तनाजद्वयं
दुग्धामन्दमरन्दमन्दिरमिदं चूचालिलीढं परम् ।
नित्यास्येन्दुविकासनान्मुकुलितं षड़वक्राम्बुजैः
पीतं किं किमितीश्वरस्य मनसो येनाभवद्विस्मयः ॥ २६॥
मल्लीस्रक्फणिभोगभूषणमणिश्रेणीविदूरोल्लस--
न्मैनाकाचलसोदरी कुचरसाधारद्वयी मञ्जुला ।
यस्याः स्पर्शनतस्त्रिलोचनमनोमानव्यपायोऽभव-
त्पायात्सा निखिलां हि विष्टपलतां संसारझञ्झानिलात्२७
तुषारगिरिकन्यकाकुचतटीपटीराटवी-
विपाटयतु कङ्कटोद्भवकठोरतापं हि सा।
यदीयदरदर्शनादपि गरप्रलीढो हरः
सुखेन धनसारति स्मररिपुर्महोग्रः शिवः ॥२८॥

८४ काव्यमाला। रचयतु शिवं वक्षोजन्मद्वयं द्रुहिणोज्वल- कनककलशत्विबीजं तन्निशुम्भरिपोश्विरम् । तदपि च मुहुर्दर्श दर्श कपालिकरोच्छ्रित- प्रखरनखरप्राञ्चच्चन्द्रोदयोऽपि भवत्यहो ॥ २९ ॥ दूरीकरोतु दुरितानि पुरारिदार- वक्षोजशैलमिथुनं जितमन्दराद्रि । येनाभवद्भवमनोऽर्णवतः प्रमोद- पीयूषमत्र हुतमन्मथजीवनाय ॥ ३०॥ अपारां संपत्तिं दिशतु कुचरत्नक्षितिधरः समुत्तुङ्गस्थानं सुमनस उमे ते मम चिरम् । यदीये मूर्ध्नि श्रीगलकरनखालिद्युतिभर- स्फुरद्गङ्गाभङ्गा इह हि विहरन्त्येव सततम् ॥ ३१ ॥ तं कासरासुरविमर्दसमुत्थशोण- शोणार्दशोणितकणं स्तनमम्बिकायाः । वन्देऽमरेन्द्रकरिणः कृतशिल्पचित्रं यच्छंभुहृद्यपि कटं स्मरणीबभूव ॥ ३२॥ उद्दामद्विपकुम्भदर्पदमनं प्रालेयशैलाङ्गजा- वक्षोजद्वयमत्र भद्रमनिशं धत्तां ममाप्राकृतम् । यच्छ्रीकण्ठकठोरकोटिनखरश्रेणीसृणिस्थापन- प्रद्योत"थुभाजनं समभवत्पुष्पायुधायोधने ॥ ३३ ॥ सौवर्णाचलसानुसंमितकुचद्वन्द्रं भवान्याः स्तुमः सेनानीस्फुरितद्विवेदरसनासंसर्पमञ्चायितम् । ईशो नजकरोरुभूषणगणं मत्वेति भूयस्तरा- मादातुं यतते यदीयशिखरप्राग्भारपाणिभ्रमः ॥ ३४ । मालरदुफलपदर्पशमनं प्रालेयभूमीघर- प्रत्युप्तप्रतिपक्षबीजमपरं दुर्गास्तनाद्रिद्वयम् ।

चण्डीकुचपञ्चाशिका। यद्भोगैकदृशः पिशाचनृपतेर्वक्षःस्थले जाग्रती चित्रा कापि विसंस्थुला नमत तत्कण्डूरखण्डाभवत् ॥ ३५ ॥ दिग्दन्तावलकुम्भमौक्तिकमणिश्रेणीकमेणीदृशः शर्वाण्याः कुचगुच्छयुग्ममवतात्संसारतापाद्रुतम् । यस्योपान्तसमुत्पतत्पशुपतिव्यालोलसामिस्फुर- ल्लीलापाङ्गतरङ्गभृङ्गसुभगैः शृङ्गाररङ्गायियत्() ॥ ३६ ॥ स्मरारातः खान्तप्रकटकुमुदं मोदयति यो हृदाकाशस्थस्तद्दहननयनाजं मुकुलयन् । दधचूचं लक्ष्म प्रकटयति चक्राह्वयुगलं निहन्त्वतः कन्याकुचविधुरघध्वान्तपटलीम् ॥ ३७॥ प्रालेयाचलकन्यकाकुचतटीपाटीरमोट्टायितां पापाटोपकठोरकष्टपटलान्यापाटयन्ती स्तुमः । यत्रापीनपिनाकपाणिकठिनोरःपीठकण्ठोल्लुठ- व्यालालीवलयावलेखमकरोदालिङ्गनेऽन्योन्यतः ॥ ३८ ॥ मातः पर्यभिवादये सुरपुरोधानान्तरालोल्लस- द्भूजन्यप्रसवासवावसथमुद्वक्षोजकोषद्वयम् । यस्यान्तः परमेश्वरस्य करतः संमदनव्यापृतौ भूतिः संक्षरति क्षपापरिवृढार्भप्रेड्यचूडामणेः ॥ ३९ ॥ परिधीमहिते कुचस्थलीं मणिकान्तिधुनदीनभःस्थलीम् । शिवपाणिनखेन्दुमण्डली निजमौलौ विनिधाय या स्थिता ॥ ४०॥ मातुनौमि पयोधरौ त्रिजगतामारम्भकुम्भौ शुभौ भावत्कौ भुवि तौ भवप्रियतमे भाव्यक्षतौ भासुरौ। यौ श्रीकण्ठकरप्रवाललतिकामूर्धस्फुरत्पल्लवौ पड़ऋद्विरदाननाननवनोज्जन्माभिलीढौ चिरम् ॥ ४१ ।। वक्षःपीठे पटाढ्यं स्मितविबुधधुनीनिझरैश्चाभिषिक्तं मातर्वक्षोजराजं श्रितपविमणिरुक्चामरं ते नमामि ।

८६ " काव्यमाला। - छत्रं क्षीरं पिपासोर्निटिलशशिकलां यत्र पुत्रस्य मत्वा दुर्गाधीशो महेशः करमपि स ददौ तत्स्थमाराभिनुन्नः ॥ ४२॥ पटासक्तं वक्षोजनियुगमपूर्व गिरिपतेः सुकन्ये मन्ये ते नवसुभगसारिद्वयमिति । यदुत्तुङ्गोत्सङ्गे मृगधरघराक्षानुसरणं कराजव्यापारैः सममनिशमुन्मूलतितराम् ॥ ४३ ॥ धयत्येतौ धाता जगदखिलमेतद्रचयितुं तथा पातुं विष्णुः पिबति हरजाये तव कुचौ । इति प्रेक्षं प्रेक्षं स्वयमपि हरो मर्दयति तौ जगत्संमर्दायाभ्यसति किमु विद्यामभिनवाम् ॥ ४४ ॥ भवेतां क्षेमाय सरहरवधूरोजकरिणौ ययोरेका रोमावलिकपटशुण्डाद्भुतकरी । महादेवखान्तप्रचुरतरकासारगतया यया तव्यापाराम्बुजमपहृतं क्रीडनविधौ ॥ ४५ ॥ उदञ्चन्तौ मातस्तव कुचहरी हृद्दरिमुखा- स्कुरङ्गानां तारौ शिवहृदटवीसीमनिहताम् । निहत्यैनःश्रेणीमदुरधिरोहद्विपपति प्रकुर्वाणौ मुक्तावलिमयमिदं यौ त्रिभुवनम् ।। ४६ ॥ तवेमौ वक्षोजौ वृजिनहरणौ दिव्यहरिणा- वहं ध्याये मातर्दितिजतृणराश्यअरवरौ । विरूपाक्षखान्तोपवनवरयात्रा चिरतरं ययोरस्ति स्माराभिधशबरघाटीव्यतिकरे ॥ ४७ ॥ दृढं कूर्पासेन प्रतिपिहितमुधिरसुते भवानि त्वद्वक्षोरुहयुगलमीडे तदनिशम् । स्मरन्तं वैरं तं स्मरमपरमासाद्य सुहृदं स्थितं संलीयेति व्यथयति हरो यत्पटगृहे ।। ४८॥

८७ चण्डीकुचपञ्चाशिका । वक्षस्तरक्षुवरसंस्थमुमे कुचं ते तं नीलकण्ठपरिलिङ्गितभोगमीडे । यत्रेश्वरस्य मनसस्तव रूपमेवे- त्याकल्पकल्पनमभूत्पविलोकनेन ॥ ४९ ॥ घनं वक्षोज ते नवन]वहिरण्याकृतिधरं नुमस्तं प्रह्लादावलिजनकमद्रीश्वरसुते । यदीयाभोगेऽस्मिन्ननुपमनखालिव्रणततिः स्फुरत्याकल्पं श्रीगलकपटकण्ठीरवकरैः ॥ ५० ॥ वर्धिष्णुर्बलिमस्तकस्थितपदो वक्षःकृतश्रीः सुखं कुर्यान्नस्तुहिनावनीधरसुते वक्षोजविष्णुस्तव । विष्णुः शंभुहृदीति वाक्यममलं सत्यं विधातुं स्वयं यस्तूर्णं कृतसंस्थितिर्विजयते तस्यैव हृन्मन्दिरे ॥ ५१ ॥ मनस्तिमिरशान्तये प्रतिपदं कुचार्कद्वयं भवानि तव चिन्त्यते हृदयदेववर्मस्थितम् । विकासयति संततं शिवमनःसरोजं परं यदेव दिवसे कथं व्यथयतीह कोकानहो ॥ ५२ ॥ स्मरान्तकरवल्लभे तव पयोधरश्रीफल- द्वयं स्मरति यो जनः स भवतीह सच्छ्रीफलः । इतीव किल बोधयन्स्मृतभवत्कुचश्रीः स्वयं समुद्रमथने पपावपि गरं हरः श्रीफलः ।। ५३ ॥ स्मृता तव कुचद्वयी तुहिनशैलबाले हर- त्यसावधभरं भवप्रियतमे नृभिः कैरपि । इतीव हृदि तां दधौ विधिशिरोविभेदोद्भवं प्रचण्डवृजिनावलीकवलितः कपाली ध्रुवम् ॥ ५४ ॥ उच्चैरुच्चैः पदं या नयति गुरुतरं वर्धयत्येव भोगं भूभृत्सत्तां तनोति क्षितिधरतनये त्वत्कुचश्रीः श्रिये नः।

काव्यमाला।
यद्दीक्षाभिः कपर्दी प्रथमपरिवृढो भैक्ष्यवृत्तिः कपाली
सोऽपि श्रीमान्विचित्रं सपदि च जगतामीश्वरोऽभूत्सुखेन ॥ ५५ ॥
वक्षःस्थं दितिजरिपोस्तवाभिवन्दे
तारुण्योदधिजमुरोजकौस्तुभं तम् ।
यत्स्थाने सरजनकं महो हि किंचि-
संमोहं सपदि महेशितुश्चकार ॥ ५६ ॥
तारुण्याम्भोधिजन्मा दलितसुमकरः कामदने प्रकामं
कामं यच्छत्वपर्णे पृथुहृदयजनुः पारिजातद्रुजातः ।
दैत्यत्रातातपन्नः पदगतजगतीं छायया खै रसौधै
रक्षस्तृप्तिं च कुर्वन्भवहृदयमहानन्दने नन्दते यः ॥ ५७ ॥
मातः स्तन्यमधु स्तनस्थमनघं यच्छत्वजस्रं तव
प्रौढोल्लासमखण्डितं पशुजनुःपाशच्छिदं सुन्दरि ।
यत्पानं गणपे प्रकुर्वति शिशौ चेतोदृशौ पश्यतः
शंभोर्मुग्धमभूद्बभूवतुरहो व्याघूर्णिते च क्षणात् ।। ५८ ॥
शैलेलापालबाले नुम इह विबुधप्राणजीवातुमूर्ति
क्षीरोदन्वत्प्रभूतं भवगदहमुरोजन्मधन्वन्तरिं ते ।
यस्योपास्तिप्रभावात्पितृगहनगतो वासुकि कालकूटं
कण्ठे बिझच्च शूली नयनगहुतभुक्सोऽपि मृत्युंजयोऽभूत्।।५९॥
चञ्चन्नीलाभचोलीसलिलदपटलीलीनमम्लानमाला-
लोलाल्पाकं दधानं धरणिधरसुते नौमि ते तं कुचेन्दुम् ।
यस्यालोकैर्विनिद्रं भवति भवमनःकैरवं हर्षितं च
क्षीरासारामृतौघं रसवदनमुखैः पातुकामैश्चकोरैः॥६० ॥
क्षीराशसंसकलकामदमावके ते
वक्षोजनुः सुरभिरूपमकं निहन्तु ।
यत्पातृषण्मुखगजास्यहरीन्द्रमुख्या
1. वत्सा रसस्थरसनावसनैर्विरेजुः ॥ ६१ ॥

चण्डीकुचपञ्चाशिका।
विचित्रालेखाढ्यं समरदसुचातुर्यकलितं
दधे मातस्तं ते हृदि हृदयजैरावणमहम् ।
यदीयाञ्चद्रोमावलिकपटशुण्डा शिवमनः-
सरोज तच्चक्षुः सरसि परिविश्यैव हरति ॥ ६२॥
भगवति तव वक्षोजन्मरम्भाखरूपं
शुकहृदि सुफलस्य भ्रान्तिदं दर्शनेन ।
दिशतु मम शिवं तन्नृत्यतीशस्य चेतः
कमलमिव सुधर्मा दिव्यदेशे चिरं यत् ॥ ६३ ॥
उदग्रग्रीवं तेऽविरलमसृणं नौमि गिरिजे
सुवृत्तं हीरोद्यन्मणिरुचमुरोजेन्द्रतुरगम् ।
पयः पातुं श्लिष्टद्विरदमुखषड्डक्रवदना-
न्यपश्यत्सप्तेशो गणपतिपिता यत्र सहसा ॥ ६४ ॥
दितिजजनविनाशकं नमस्ते भगवति कुचकूटकालकूटम् ।
यदिह हृदि हरस्य कण्ठलग्नं किमिति मदन्यदितीर्ण्ययावतस्थे ।। ६५ ।।
कर्पूरकुङ्कमसुनाभिजचित्रलेख
मन्ये कुचं वलयितं जननीन्द्रचापम् ।
यस्योद्भवे स्मररिपोः प्रववर्ष शंभो-
रानन्दजाश्रुसलिलं नयनाम्बुवाहः ॥ ६६ ॥
शर्वाणि ते तरुणिमोद्मसिन्धुजातं
मन्ये कुचं दरमहं वृजिनावलिघ्नम् ।
यं कुर्वतो निजकरे शशिशेखरस्य
जातः स्मरैकजनकत्वपदेऽभिषेकः ॥ ६७ ॥
धराधरसुते सुतत्रिदशपेयमाशास्महे
तव स्तनजनुःसुधारसमसारसंसारहम् ।
स्मरामि नयनोज्लज्वलनजालदग्धोऽप्यसा-
वनङ्ग इह यत्पदे कृतपदेन संजीवितः ॥ ६८ ॥

काव्यमाला।
अलमलममलोहैः श्लोकजालैः कवेस्तै-
यदिदमखिलमेतैः क्रीतमेवास्मदीयम् ।
पुनरपि यदि चैवं वर्ण्यते तहं स्यां
तदपि भवतु चेकिं पारितोषीयमस्य ॥ ६९ ॥
इत्याकर्ण्य वचो विचार्य च चमत्काराञ्चितं चेतसि
श्रीदेव्याश्चकिताः प्रभोः प्रणिधयश्चक्रुस्तथा तैः परम् ।
भूयः किंचिदुदञ्चितस्तबकया वाचेदमन्विष्यते
यच्चोक्तं किल पारितोषिकमिति स्याम्कि तदुक्तं वद ॥ ७० ॥
स्तोत्रं गृहीतमनघं स्तनपाललक्ष्म्या
शुल्कं मदीयमखिलं हि मयास्य दत्वा ।
शिष्टाहमस्मि मदभेदमनर्घमेतं
दास्यामि तस्य परितोषणिकं सुखेन ॥ ७१ ॥
एतदेव कविराजमानसे काङ्कितं लसति संततं किल ।
अन्यदेकमपि दीयते खतः श्रूयतामनुचरेश्वराः स्फुटम् ॥ ७२ ॥
इति स्तनघटस्तवं पठति यस्तु चण्ड्या मम
प्रसन्नहृदयः प्रियो भवति मे सदा सूनुवत् ।
कविर्भवति भूमिपस्तुतवचःप्रपञ्चः क्षितौ
लभेत किल वाञ्छितं सहृदि सुन्दरीणां स्मरः ॥ ७३ ।।
मदीयचरणाम्बुजे भवति भक्तिभाजां प्रभुः
क्षितीशमुकुटस्थितप्रसवपूज्यपादाम्बुजः ।
अनेकनवपद्मिनीस्तनगिरीन्द्रकान्तिच्छटा-
जटालहृदयान्तरो(रः) [सद]सि संस्थितो राजते ॥ ७४ ॥
यः श्रद्धया मम घनस्तनकुम्भलक्ष्म्याः
स्तोत्रं पठेत(?) किल संशृणुयात्सलोकः ।
गीर्वाणवामनयनानयनारविन्द-
जालप्रभासरणिकजलतामुपैति ॥ ७५ ॥

९१
चण्डीकुचपञ्चाशिका ।
पृथिव्यां भूपालो भवति नववामोरुनयन-
प्रफुल्लाम्भोजन्मधुमणिरपि वाचा सुरगुरुः ।
निरस्तप्रोच्चण्डाखिलरिपुगणो मत्कुचतटी-
स्तवं कुर्वन्नित्यं जयति निजलक्ष्म्यापि धनदम् ॥ ७६ ।।
यश्चित्ते मम कुचसंस्तवं दधाति
प्रावीण्यं सकलकलासु सोऽयमेति ।
आम्नायस्मरणमपीह मामकीने
पादाम्भोरुहयुगले लभेत भक्तिम् ॥ ७७ ॥
-रमापि सदने सदा कृतपदा मुदा दासव-
द्विपुर्भवति मित्रवधुवतिसंगमो मोक्षवत् ।
अवागपि कवीशवद्भवति पातकं पुण्यव-
धशोभिरमला दिशो दश भवन्ति यस्तं पठेत् ॥ ७८ ॥
चण्डीकुचपञ्चाशत्संज्ञमिमं यः स्तवं नवं पठति ।
स नरो न पुनर्जनुषे भवति हि निःश्रेयसाय मे दयया ॥ ७९ ॥
तथास्तु किल तत्परं तव जयन्तु मातः प्रभो
पदाम्बुजमधुच्छदाः कविवरस्य मौलौ वरम् ।
यतो हि कवितामृतं पिबति यः स मुक्तः श्रुत-
स्ततः स भविता न किं जगति मुक्तिकान्तापतिः ॥ ८० ॥
इत्युक्तवत्यनुचरेन्द्रगणे पुरस्ता-
दम्बापदाम्बुजनुषो(जनिता) मकरन्दधारा ।
या स्यन्दिता शिरसि मे कविलक्ष्मणस्य
खप्नोत्थितस्य तु पुनातु पुनस्त्रिलोकीम् ॥ ८१ ॥
यावच्छिवार्धगतमस्ति वपुस्त्वदीयं
यावत्त्वदनिकमलं च पुनाति विश्वम् ।
तावत्तवाम्ब चरणाम्बुजयोर्निपत्य
याचाम्यहं(महे)किमपि यः शयनोत्थितस्त्वाम् ॥ ८२ ॥

काव्यमाला। वाक्कायचित्तप्रकृतिखभाव- बुद्ध्यात्मभिः सदसतोरपि संगमेन । यद्यत्कृतं यदपि भाव्यमशेषमात- यद्यत्करोम्यखिलमस्तु तवार्पणं तत् ॥ ८३ ॥ इति श्रीमदत्रिगोत्रमाणिक्यसामगोपनामकवेणीमाधवाचार्यसुतरसालंकारपारा- वारपारीणलक्ष्मणाचार्यकृता श्रीचण्डीकुचपञ्चाशिका संपूर्णा ॥ श्रीविद्यावागीशकविविरचितं कौन्तेयवृत्तम् । प्रथमः सर्गः। दिश्युत्तरस्यां निकषा हिमाचलं चकास्ति शैलः किल गन्धमादनम् । अन्वर्थमुद्रां निजनाम्नि योजयन्प्रसूनसंपत्तिविसारिसौरभैः ॥ १॥ सिञ्चन्ति चेतः सुखवृत्तिधारया यत्कन्दराभ्यन्तरवासिनश्चिरम् । मुञ्चन्ति किं चानुचिताः सनातनीनिरन्वयं बन्धनवासनाः समाः ॥२॥ सदा सदारैरनुदारमानसैर्मुदा यदारामविहारसादरैः । सेनादनालोकितभानुभानुभिर्विद्याधरायैरतिनीयते तपः ॥ ३ ॥ गाढं परिष्वज्य रसासुन्दरीरासां पिबन्तो रदनच्छदामृतम् । हिमागमे यत्र हि मायता दरीरध्यासते धन्यतरा निरन्तरम् ॥ अधिश्रयन्तो यदधित्यकावनं न शाखिनः किं परिणाहशालिनः । करम्बितास्तारकमौक्तिकश्रिया स्फुरन्ति नित्यं निशि पुष्पिता इव ॥५॥ शृङ्गाणि यस्मिन्निशि भान्त्यनारतं विचित्ररत्नप्रचुराणि कानिचित् । विसृत्वरैरूर्ध्वमुखं मरीचिभिः किर्मीरयन्त्यन्तिकतारकागणम् ॥ ६॥ १. अस्य श्रीविद्यावागीशकवेर्देशकालौ न ज्ञायते, परंतु समाप्तिलेखे 'माधवभट्ट- तनय' 'भट्टाचार्य' इति त्रुटिपूरणस्योपलभ्यमानत्वेन भट्टाचार्यपदस्य वङ्गेषु प्रसिद्धत्वेन वङ्गदेशः कदापि भवेत्. मातापितरौ तु सर्गसमाप्तौ 'रमामाधवा' खयमेव स्त्रवीति. २. अस्य काव्यस्य पुस्तकमेकमेव शुद्धप्रायं सप्तपत्रात्मकं प्राचीनं श्रीकृष्णचन्द्रभट्टैः काव्यमालार्थ प्रत्तमिति तेषामुपकारवर्णनेऽशक्तास्तांश्चिरायुष्ट्वाशिषा योजयाम. ३. सर्वा इत्यर्थः ४, सदा इत्यर्थः, - कौन्तेयवृत्तम् । ९३ यत्रीस्त किंचित्पुरुषायितश्रमास्तल्पान्तमध्यास्य शरन्निशान्तरे । सलीलमिन्दावरविन्दनालकैः पिबन्ति पीयूषरसं सुराङ्गनाः ॥ ७ ॥ प्रभिन्नसप्तच्छदगन्धिभिर्मदैनिरस्तविन्यस्तपदैरपि क्रमात् । यस्मिन्मदान्धद्विपदर्शनोत्सुका मार्ग मृगेन्द्रा मृगयन्ति मानिनः ॥ ८॥ पञ्चापि पार्थास्तु विना धनंजयं पञ्चालभूपालजया जयान्विताः । तीर्थाश्रमारामगतिप्रसङ्गतो गिरीन्द्रमेनं समया समाययुः ॥९॥ संभेदमुन्नादतरं तरङ्गिणं वनानि मञ्जून्यवनानि नेत्रयोः । निरूपयन्तस्तदुपत्यकासु ते सुतेजसस्तत्र विचेरुरश्रमाः ॥ १० ॥ विचित्रधातुद्रवनिर्झरस्फुरन्नानामणीनिर्मितरामणीयकम् । अन्तर्विलोकोत्कलिकासमाकुलैस्तद्धर्मराजादिभिरारुरुक्षितम् ॥ ११ ॥ अथैकमत्या मिलिता जितश्रमाः प्रपातभागानपहाय ते समान् । अकृत्रिमेणैव गतागताध्वना नगं तमारोढुमुषोपचक्रमुः ॥ १२ ॥ अथाञ्जसा स्वेदषन्तिसंततिं मुक्तामणिश्रेणिमिवातिमञ्जलाम् । शिरीषमृद्वी स्तनभारमन्थरा बभार मालाभरणं नितम्बिनी ॥ १३ ॥ स्रवत्सुधे वक्रविधौ तथाविधे चलाञ्चले श्वासबलादुरःस्थले । सकम्पयोः किं च तदूरुदण्डयोर्मूदुश्रियोः शोणपदारविन्दयोः । समाधिमन्तः स्तिमितातिकातराः पेतुश्चतुर्णा मसृणा गंशवः ॥ १४ ॥ विलासिनीनामिव चारुवीरुधामथाङ्गहारानुपशिक्षयन्निव । वनाधिदेव्या मृदुचञ्चलीकृतात्किं तालवृन्तादुपलम्भमागतः ॥ १५ ॥ समीरणः शीकरसारमुद्रिन्पराङ्गसङ्गी मकरन्दमेदुरः। आनन्दयामास नितम्बिनीमिमां विश्रान्तिमेतेऽपि वितेरुरन्तरा ॥१६॥ तामाश्रयन्तीमथ मन्थरां गतिं तथानुकुर्वन्ननुरागसागरः । धर्मात्मजन्मा प्रथमामधित्यकां जगाम यामेन समं सहोदरैः ॥ १७ ॥ १. अस्तः क्षिप्तः; नष्ट इति यावत्. २. जयेनान्विताः, अजयायोनिजया वा. ३. नदीसंगममित्यर्थः. ४. पृषन्तिशब्दोऽपि रायमुकुटे खीकृतः. ५. आदर्शे सार्धश्लोके- ऽको दत्त. नव० गु०९ काव्यमाला। विधूनयद्भिस्तिमितांस्तनूरुहान्विहंगमैरन्तिकतो निवेदितम् । अन्विप्य तस्यां विमलापमाप सा सुधारसं पञ्चतयी सरोवरम् ॥१८॥ अतिप्रकाशेन तलावलम्बिनीं विलोकमानेन कणामणीयसीम् । तटस्थलीमाश्रयताप्यनाविलं क्षणं न साक्षाक्रियते यदञ्जसा ॥ १९ ॥ अजस्रचक्षुःप्रसरावरोधिनो निखातभूमीवदनावलम्बिनः । चकासतः स्फाटिकपट्टकस्य यत्तुलामुपास्ते चतुरस्रताभृतः ॥ २० ॥ समस्तमन्तर्गतमस्तसंशयं निवेदयन्नुल्लसितप्रभाप्रभम् । जानाति मन्ये जनता सरस्तया समीरणान्दोलितसंवरेण यत् ॥ २१ ॥ विराजिकादम्बनितम्बिनीगिरं रथाङ्गनारीरतिकेलिमन्दिरम् । पङ्केरुहस्तोमतिरोहितान्तरं तदन्तिके भाति वरं सरोऽन्तरम् ॥ २२ ॥ नितान्तदीव्यत्कलहंसकध्वनिः प्रतीकचञ्चन्मुंकुरौर्जुनोर्मिका । मनोहरन्ती रुचिरेव पंद्मिनी रसोत्तरेयं सरसी विराजते ॥२३॥ सदारविन्दद्युतिकृत्सरोहिता समुल्लसच्चञ्चलचारुपुष्करा । तिग्मातपोत्तापतिरस्कृतिक्षमा कादम्बिनी सा सरसीति निश्चयः ॥२४॥ उमेव गौरीयमथापि पार्वतीश्रिया युता किंच हरेस्तनूरिव । द्विजैरुपास्यारुणशोणपुष्करा प्रभातवेलेव विभाति निर्भरम् ॥ २५ ॥ लसन्ति चास्यां कमलानि मङ्गलं मृगेक्षणाया वदनं विलोकितुम् । तद्देवतायाः कृतमूर्तिसंततेः समुद्तानीव मुखानि कौतुकात् ॥ २६ ॥ यः सूचयन्नस्य नगाधिराजतां दधाति शैलस्य किलातपत्रताम् । सोऽयं विशालोन्मुखसुन्दराग्रणीरन्तस्तयोरस्ति पुराणरोहिणः ॥ २७ ॥ निःसंधिसौगन्ध्यसमृद्धिशालिना पर्यन्तविस्तारिपटीरशाखिना । निरन्तरं सौरभसारसंक्रमान्निसर्गगन्धां निजभङ्गमापितः।।२८॥(युग्मम् ) अस्ति प्रशस्तोपलजालकल्पिता तन्मूलमालम्ब्य विशालवेदिका । संक्रान्तलक्षच्छदगर्भशोभया विभाति गारुत्मतनिर्मितेव या ॥ २९ ॥ १. संवरं जलम्. २. हंसाः, कटकाश्च. ३. मुकुरा बकुलाः, आदर्शाश्च. ४. अर्जुनः ककुभवृक्षः, धवलश्च. ५. ऊर्मिकास्तरङ्गाः, अङ्गुलीयकं च. ६. पद्मिनी स्त्रीविशेषः, क- सलवती च. ७..कृत् कारिका, नाशिका च. ८. सरोहिता सरोभ्यो हिता, रोहितेन स- हिता च. ९. पुष्करो मेघः, जलं कमलं वा.

कौन्तेयवृत्तम् । अथो मृणालानि मृदूनि कानिचिन्मरन्दसाराणि सरोरुहाणि च । आदाय मध्येऽहनि विश्रमाय ते निषेदुरध्यासितसाधुवेदिकाः ॥३०॥ आहर्तुकामो विहितेन हेतुना समानुमत्यात्तरसं रसोत्तरम् । भव्ये मृगव्ये विनिधाय मानसं जगाम जङ्घालतयार्जुनाग्रजः ॥ ३१ ॥ महोरुहच्छायमदभ्रमाश्रितं युवानमेकं तृणतृप्तमसलम् । सकृष्णसारं शरपातसंमितां महीमतीत्य स्थितिमन्तमैक्षत ॥ ३२ ॥ स यावदिष्वासनिषङ्गसङ्गिनं विभाव्य भीमं वलते पलायितुम् । संधाय बाणं पवमाननन्दनो जगाम तावत्तदुपान्तिके जवात् ॥ ३३ ॥ प्रस्कन्दमानं वसुहस्तपातिनं पश्यन्तमत्यन्तमधीरया दृशा । आलक्ष्यलक्ष्यं चलमेनमञ्जसा बिभेद भीमो निशितेन पत्रिणा ॥३४॥ तेने ततस्तेन तदेतदद्भुतं गुणावतंसेन विसारि सौरभम् । विचित्रचेतोहरमाधुरीभरं करम्बितं नूनमनूनतेमनैः ॥ ३५ ॥ विभज्य भोज्यं मृदुमदुरोज्वले शिलातले वल्लभयोपकल्पितम् । आखाद्य सर्वेऽपि विधाय विश्रमं विहारकासारमुपेयुरुत्सुकाः ।। ३६ ॥ यथोचितं तान्यवचित्य कौतुकाददूरपद्माकरवारिजानि ते । प्रसन्नवारिण्यवसन्निषद्वरे सरोवरे चिक्षिपिरे विलासिनः ॥ ३७॥ तस्मिन्भवं ते भजमानमञ्जसा योगेन पद्माकरनामधेयताम् । आश्लेषलेशादपि तापभञ्जनं शनैः शनैरेव सरो जगाहिरे ॥ ३८ ॥ पयोभिरुच्चैः करतालचालितैः पाणिद्वयीयन्त्रविनिर्गतैरपि । तौ सारसासारसिकेलिसंगरं जायापती विभ्रमतो वितेनतुः॥ ३९ ॥ तदा रसाट्टैण हृदा कृतादरावनेकजातीयजलादिकेलिषु । श्रियं दधानौ रतिपञ्चबाणयोर्जगन्ति जाने जयतः स जम्पती ॥ ४०॥ तत्रारविन्दच्छदभाजि वक्षसा भुजक्षिपाभिश्चरणप्रचारणैः । निमग्नभझ्या शयनीयशीलनैस्तेरुः कलाकौशलकल्पनैरमी ॥ ४१ ॥ निर्गम्य तस्मात्सरसो रसोत्तरास्ताम्रारविन्दच्छदचारुचक्षुषः । आयासनिश्वाससमीरसंगमैरभ्यासमामोदमयं विधायिनः ॥ ४२ ॥ १. अंसलं पुष्टम्.

काव्यमाला। हर्षावगाहोद्भवदेहलाघवाः खेलासमारम्भनिबद्धमध्यमाः । विश्रामकामां दयितामपीदृशीं निपीयमानाः सुदृशं विशश्रमुः ॥४३ ।। मुदं दधानेन तपानुबन्धिना दिनेन तेनेत्थमुदित्वरश्रियम् । सीमानमुल्लङ्ग्य निसर्गनिर्मितां पराबभूवे कतमो न वासरः ॥ ४४ ॥ चित्राषिो रोचिरुदञ्चयन्करैः संकोचयन्कंचन भानुसंचयम् । अचण्डचञ्चद्रुचियुग्विरोचनश्चुचुम्ब चूलं किल पाश्चिमाचलम् ॥ ४५॥ आसन्नविश्लेषमलीमसश्रियां विश्वासमाधातुमिहाम्बुजन्मनाम् । समाचरन्सत्यमिवात्मसंगमे दधार मध्येऽग्नि करं स रागवान् ॥ ४६॥ दिवाधिकारादपनिद्रपद्मया जगन्ति संतोष्य चरत्करश्रिया । देवादियं संकुचतीति भावयन्नदृश्यतां नूनममन्यतोचिताम् ॥ ४७ ॥ जपावसाने जगतीविलोचनं बवा विवस्वन्तमुपासितुं मुदा । काले तदा कुङ्मलदम्बुजन्मनां (तां) दधुस्तला(मा)मञ्जलयो द्विजन्मनाम् ।। निर्गम्य माहेन्द्रमहीधकंदरादुद्दामभाखन्मणिमौलिमञ्जुना । निपीतकिंचित्पयसा पयोनिधौ न्यमज्यताहीनदिनेन पश्चिमे ॥ ४९ ॥ प्रसादयन्निर्भरमम्बरस्पृशा करेण माहेन्द्रदिगङ्गनामुखम् । ततश्चिरोत्कण्ठचकोरचक्षुषामासेचनश्चारु चचार चन्द्रमाः ॥ ५० ॥ ततः प्रसन्नामुदिते कलानिधौ कुमुद्वतीं योषितमात्ममन्दिरात् । पद्मासना सत्वरमेत्य संमुखी शृङ्गारयामास मुदेव नन्दिनी ॥ ५१ ॥ श्रीसंनिधानत्रपया तया समं न प्राप साक्षात्परिरम्भसंभ्रमम् । प्रभाभिरेनां परिरभ्य निर्भरं प्रमोदयामास परं कलानिधिः ॥ ५२ ।। नीलैकभागं तदखण्डमण्डलं प्राकल्पि लोकैः किल शुक्तिसंपुटम् । गलन्ति यत्तारकवृन्दकैतवात्समौक्तिकानीति गृहीतयुक्तिभिः ॥ ५३ ॥ ते कौमुदीसंगतचन्द्रकान्तस्रवत्सुधानिर्झरमञ्जुनादम् । निपीयमानाः किल कीरकण्ठीमालापयन्तो मधुरेति हान्तः॥ ५४ ॥ यामान्तरोज्जृम्भितवत्रचन्द्राः प्रमीलदम्भोरुहचारुनेत्राः । तयापि तादृग्विधया समेतास्तिरस्कृतोद्यद्रतिकामदाः ॥ ५५ ॥ १. चित्रार्चिषो वढेः.

कौन्तेयवृत्तम् । मन्दं वहत्युत्पलगन्धवाहे समन्ततश्चन्दनकाननान्तः । शिलामिलत्पल्लवतूलिकायां निद्रामवापुः प्रमदाचित्ताः ॥ ५६ ॥ गोपीकान्तपदारविन्दयुगलीरोलम्बशीलान्तरौ यं मातापितरौ हितोन्नतिपरौ श्रीमद्रमामाधवौ । स्निग्धाशीर्भिरपुष्यतां मधुभिदो भृत्येन तेनाहिते काव्येऽस्मिन्प्रमदावत्यवसितः सर्गोऽयमौपक्रमः ॥ ५७ ।। इति श्रीविद्यावागीशकृतौ कौन्तेयवृत्तामिधाने काव्ये स्नेहविहारो नाम प्रथमः सर्गः । द्वितीयः सर्गः। अथ सुप्तोत्थितानेतानसेवत समीरणः । कलारसारसुरभिधीरो नीरेणुरौत्तरः ॥ १ ॥ तदीयसौरभभरैरुत्तरोत्तरपीवरैः । अनाघ्रातचरैस्तेषामञ्जसा हृतचेतसाम् ॥ २ ॥ आनन्दोच्छ्रसदङ्गानां दर्शनोत्कलिकावताम् । विषयान्तरसंचारं मनागपि न बिभ्रताम् ॥ ३ ॥ दत्तसादरदृष्टीनामुत्तरायतवम॑नि । कथंचित्सहमानानां तदालोकविलम्बनम् ॥ ४॥ कियतापि क्षणेनेदमभून्नयनगोचरः । अभ्यासमेष्यदानीतमनुकूलेन वायुना ॥ ५॥(पञ्चभिः कलापकम्) जघनाभोगभारेण मत्तवारणगामिनी । मनोरथेनाभिययौ द्रुतं द्रुपदनन्दिनी ॥ ६॥ उत्पक्ष्मणैकलक्षेण चक्षुषा वीक्षमाणया । करद्वये तदूर्वाग्रे जगृहे महदेतया ॥ ७ ॥ सौगन्धिकमदो रेजे तन्वङ्ग्या करधारितम् । विकासिनीव राजीवे स्मेरं सरसिजान्तरम् ॥ ८॥ प्रकृत्या पुण्डरीकेण सदृशं पाणिपल्लवे । धार्यमाणमिदं सद्यो दधे कोकनदद्युतिम् ॥ ९ ॥ तन्मुखाम्भोजकलारमन्तरा दृग्द्युतिच्छटा । रेजे द्विरेफराजीव राजीवद्वयसंगता ॥ १० ॥ .

काव्यमाला।
अनुजैः पूजितायेदं प्रेयसे धर्मजन्मने ।
ददौ स्मेराननं सुभ्रूर्मुदा मदिरलोचना ॥ ११ ॥
इदमात्तवतस्तस्य दत्तं दयितया तया ।
विचकास हृदम्भोजमुखाजनयनाम्बुजम् ॥ १२ ॥
न स्पर्शेन न रूपेण न सौरभभरेण च ।
तथा तं प्रीणयामास तद्वितीर्णतया यथा ॥ १३ ॥
अथ सौगन्धिकैरेव विहर्तु विहितस्पृहा ।
स्मितेनासिञ्चदधरं विवक्षास्फुरितं प्रिया ॥ १४ ॥
प्रेम्णातिशयमग्नेन धर्मराजेन तां प्रति ।
समुन्नीतविवक्षेण वचश्चतुरमाददे ॥ १५ ॥
यत्ते सितसुधासिक्तं स्फुरत्यधरपल्लवम् ।
तदिन्दुवदने किंचिद्विवक्षन्तीव लक्ष्यसे ॥ १६ ॥
निजाधीने जने सुभ्रूः किंच संकोचमञ्चसि ।
विपञ्चीवाणि कल्याणि विकासय तदाशयम् ॥ १७ ॥
विन्यस्यन्ती भरं भीमे दृशा कर्णान्तिकस्पृशा ।
जगाद मधुरस्निग्धं तमवन्ध्यमनोरथा ॥ १८ ॥
नाथ निर्मातुमिच्छामि साधुसौगन्धिकस्रजः ।
कान्त कामं मम खान्तमेतैः खेलितुमीहते ॥ १९ ॥
दृशैवाशयमुन्नीय तस्या धर्मानुजन्मना ।
वितेने सूनृता वाणी मन्वानेनात्मनो जयम् ॥ २० ॥
चारुकहारसंभारं मुदे हृदयदेवते ।
अहं समाहरिप्यामि हंसमालासमत्विषम् ॥ २१ ॥
इत्युक्त्वा वन्दमानस्य पवमानात्मजन्मनः ।
गदायुद्धप्रसिद्धस्य बलसंपत्तिशालिनः ॥ २२ ॥
प्रस्थानं भीमसेनस्य प्रयुञ्जानः शुभाशिषम् ।
अनुमेने धर्मसूनुः सत्यवादिधुरंधरः ॥ २३ ॥

कौन्तेयवृत्तम् । ९९ अथ प्रतस्थे परितः पादपान्प्रक्षिपन्पदा । पार्थः पन्थानमपथे प्रथयन्पवनोपमः ॥ २४ ॥ कियड्रमतिक्रम्य स शूरस्तनिताकृतिम् । निरुध्य सरणिं सन्तं हनुमन्तमलोकत ॥ २५ ॥ मुञ्च पन्थानमित्युक्तो नाहं चलितुमुत्सहे । त्वमेव मामितः क्षिप्रं क्षिपेति छद्मनाब्रवीत् ॥ २६ ॥ गिरं गृहीत्वा भूतार्थी यत्नैः क्रमविवर्धितैः । मनागपि स्पन्दयितुं न क्षमः प्रणनाम तम् ॥ २७ ॥ गम्भीरकरुणाम्भोधेः प्रकाशितनिजाकृतेः । तस्माद्विदितवृत्तान्तः श्रीदपद्माकरं ययौ ॥ २८ ॥ अन्तरायतया प्राप्ता यक्षा रक्षाधिकारिणः । क्षणेन भीमसेनस्य गदया विकलीकृताः ॥ २९ ॥ तमुपद्रवमाकर्ण्य धनदः प्राहिणोन्मुहुः । कटकं तमहो भीममरुत्तृण्यामिवाक्षिपत् ॥ ३० ॥ अथ स्वयमुपायातः कुबेरः परिचिन्त्य तम् । पूजयामास संपत्त्या तत्कार्य चान्वमन्यत ॥ ३१ ॥ अवन्ध्यवीक्षणास्त(तस्मादधिगम्य प्रभाविताम् । यथेच्छमथ सोऽभ्ययात् ॥ ३२ ॥ ततस्तेन समागम्य त्रयस्ते पाण्डुनन्दनाः । पाञ्चाली प्रमदं पूर्णमवापुः सिद्धलालसाः ॥ ३३ ॥ गोपीकान्तपदारविन्दयुगलीरोलम्बशीलान्तरौ यं मातापितरौ हितोन्नतिपरौ श्रीमद्रमामाधवौ । स्निग्धाशीमिरपुष्यतां मधुभिदो भृत्येन तेनाहिते काव्येऽस्मिन्प्रमदाङ्कवत्यवसितः सर्गो द्वितीयः शुभः ॥ ३४ ॥ इति श्रीविद्यावागीशकृतौ कौन्तेयवृत्ताभिधाने.काव्ये सौगन्धिकाहरणो नाम द्वितीयः सर्गः । समाप्तमिदं कौन्तेयवृत्ताभिधानं काव्यम् ॥ सौगन्धिकान्युपादाय १०० काव्यमाला। श्रीमदुत्प्रेक्षावल्लभकविरचितं सुन्दरीशतकम् । जयति विलासवतीनां नेत्रप्रान्तावलोकनप्राणः । वदनेन्दुद्युतिसदनः स्मितमाध्वीमेदुरो मदनः ॥ १ ॥ सहृदयहृदयग्राह्यं मदनमहीपालशासनादेव । विरचयति सुन्दरीशतमुत्प्रेक्षावल्लभः सुकविः ॥ २॥ चन्द्राधिकरुचयोऽपि क्षालनशुचयोऽपि चन्द्रकान्तेन । सुन्दरि तव नखमणयो न नयो यत्तापयन्ति मनः ॥ ३ ॥ वरवर्णिनि तव चरणौ कस्य न हृदयानुरञ्जनं कुरुतः । परमेष्ठिनोऽतिनिष्ठुरपाणितलस्पर्शतस्ताम्रौ ॥ ४ ॥ सुन्दरि जवायुगमिदमुपासनस्तम्भविभ्रमं धत्ते । इषुभिरतनोर्मनो मे विद्धं यल्लग्नमात्रमिह ॥ ५ ॥ सुन्दरि काञ्चनकदली कर्पूरोत्पत्तिशालिनीत्यनया । चन्द्रोद्वर्तनसुरभिस्तवोरुरुपमीयते कविभिः ॥ ६ ॥ विपरीतरतसमुद्यमपुलकप्रथमानमांसलाभोगम् । सुरतसुखैकनिधानं सुन्दरि जघनस्थलं जयति ॥ ७ ॥ वलिमिर्बन्धमकस्मादुपेत्य मध्यस्तनूभवत्यस्याः । आनन्दीति नितम्बः समुन्नतिं निर्भरं धत्ते ॥ ८ ॥ अम्बरचुम्बिनमेनं नितम्बमधिरुह्य मुग्धनयनायाः । दूरात्पश्यति यूनां मनांसि पाटच्चरो मदनः ॥ ९ ॥ १. अस्य कवेर्देशो न ज्ञायते. गोकुलनाम्नश्चास्योत्तमकाव्यनिर्मित्या 'उत्प्रेक्षावल्लभ' इति नाम जातमिति चरमश्लोकतो ज्ञायते. आदर्शपुस्तकसमाप्तौ 'चिन्तामणिभट्टानामिदं' पद्यम्-'अनलशररसधाराङ्के वर्षे माघस्य शुक्लशुभषष्ठ्याम् । गुरुवारे रेवत्यां संपूर्ण सुन्दरी- शतकम् ॥' इत्युपलभ्यते. तथा च विक्रमसंवत् १६५३ (निस्ताब्दाः १५९४) कालः स्फुट एव. २. अस्य काव्यस्य पुस्तकं त्वेकमेव शुद्धं जीर्ण प्राप्तम्. तच्च कदाचित्कर्तृ- समयलिखितमेव भवेत्.

सुन्दरीशतकम् ।
१०१
अस्मिन्प्रकृतिमनोज्ञे लग्ना प्रायेण मान्मथी दृष्टिः ।
सुन्दरि यतो भवत्याः प्रतिक्षणं क्षीयते मध्यः ॥ १० ॥
या तव गात्रे यौवनतपनरथारोहनेमिनवरेखा ।
सुन्दरि सैव जनानां जनयति रोमावलिभ्रान्तिम् ॥ ११ ॥
स्मररविपुरःसरीकृतयौवनमायातमभिमुखं सुतनोः ।
आलक्ष्यते यथेषा रोमालिच्छमतश्छाया ॥ १२ ॥
सुतनोरियप्रदेशे तिष्ठतु नवरोमराजिभुजगीती।
त्रिवलित्रिसत्यरेखा वयःफणिग्राहिणाकारि ॥ १३ ॥
वक्षसि सुमुखि भवत्या मनोहरं कान्तिमण्डलं जयति ।
भ्रामितमभिनववयसा कामनृपादेशचक्रमिव ॥ १४ ॥
वयसा कुम्भकृतास्याः परिभ्रमत्कान्तिमण्डलच्छलतः ।
अभ्रमि किमुरसि चक्रं कुचकुम्भं कर्तुकामेन ॥ १५ ॥
कृतचन्दनाङ्गरागो मदनसखः श्रीफलद्वेषी।
सुन्दरि सुवर्णवर्णो वक्षोजः कीदृशो रुद्रः ॥ १६ ॥
करनखललितभुजायाः पल्लवकुसुमाभिरामलतिकायाः ।
अनयोर्विशेषदर्शी सुन्दरि कुसुमेषुरेवैकः ॥ १७ ॥
यस्य खरेण विजितः प्रिये पिकोऽभूद्वनप्रियः सपदि ।
उपमामुपैतु शङ्खः कण्ठे तस्मिन्निधित्वेन ॥ १८ ॥
वदनमिदमृतमयमिति न तर्कितं किं तु तत्प्रमितम् ।
मुग्धे दुग्धरतिप्रियजीवनमेव प्रमाणमिह ॥ १९ ॥
इन्दोरखण्डमण्डलनिर्यत्पीयूषसृष्टरसनो यः ।
अधरदलं तव सुन्दरि वर्णयितुं कल्पते यदि सः ॥ २० ॥
सुन्दरि तव दृक्तुलनामारोढुं विकसितं सरोजेन ।
विधिना तदैव दत्तं परागविषतो मुखेऽस्य रजः ॥ २१ ॥
लोचनयोः श्रीभृतयोः कर्णान्तिकवासिनोः पृथुक्रमयोः ।
अनयोस्तन्वि किमुचिता वद परहृदयापहारिणी रीतिः ॥ २२ ॥

काव्यमाला।
सुन्दरि तव नयनाम्बुजभालकलानाथखण्डयोर्मध्ये ।
अन्योन्यकलहशान्त्यै भ्रुकुटिभ्रमरावली व्यरचि ॥ २३ ॥
तव नयनवारिरुहयोः संकोचो भालचन्द्रमुवीक्ष्य ।
मा भूदिति कमलभुवा भ्रूलेखा व्यरचि किं मध्ये ॥ २४ ॥
तव निर्मलौ कपोलौ सौन्दर्यासारसुन्दराभोगौ ।
किं वर्णयामि सुन्दरि चुम्बनयोग्याकृती कृतिनः ॥ २५॥
सीमन्तिनि तव कुटिलस्निग्धायतमेचकः कटाक्ष इव ।
हा हन्त केशहस्तो हृदयं हस्ताद्विहस्तयति ॥२६॥
युवजनमारणशाला सुन्दरि वेणीकृपाणिकोपेता।
तव चरममङ्गमेतत्कवयित्वा पातकी कः स्यात् ॥ २७ ॥
कुसुमशरनृपनिदेशात्सुतनौ चकितं नवं वयो विशति ।
नवसेवक इव पार्थिवसद्मनि दत्तप्रवेशोऽपि ॥ २८ ॥
शरणमिव याचमानं क्वचित्कचिवाल्यमङ्गेषु ।
भ्रमति मनोजनिदेशादधिकारिणि यौवने भवति ॥ २९ ॥
कुसुमशरनृपतिशासनमभिनवसौन्दर्यसारसौभाग्यम् ।
युवजनमनोविनोदो जयति प्रथमं वयस्तस्याः ॥ ३० ॥
जयति स्मितप्रकारः स्फुरदधरोपान्तविश्रमस्तस्याः ।
कुसुमाञ्जलिरिव दत्तो नवेन वयसा रतीशाय ॥ ३१ ॥
सुन्दरि तव स्मितेन स्फुरिताधरपल्लवाङ्कमिलितेन ।
मकरध्वजनृपहस्ते वद कस्य मनो न विक्रीतम् ॥ ३२ ॥
अङ्गं कोमलमादधरोऽधरतोऽपि चन्द्रमुखि वचनम् ।
वचनादपि स्मितं ते तत्कथमन्तर्भिनत्ति मम ॥ ३३ ॥
अधरदलोपरि निहितं मुक्ताचूर्ण दरस्मितं तस्याः ।
आखाद्योच्छूनमिदं मनो मम स्नेहमभिलषति ॥ ३४ ॥
सस्मितमुखमवधीरितचेलाञ्चलमीषदानतग्रीवम् ।
तिर्यग्विलोकयन्त्या कोऽपि कृती लक्षितः क्रियते ॥ ३५ ॥

सुन्दरीशतकम् ।
१०३
तरुणि तरलनयनान्तं वलितग्रीवं वधूतचेलान्तम् ।
भवनद्वारि विशन्त्यास्तव दृष्टं द्रष्टुमुत्कण्ठे ॥ ३६ ॥
पश्यत्यसंमुखं मां मयि पश्यति साथ संमुखीभवति ।
स्मरमेकतोऽवरोहैः श्रमयति कोटिद्वये मौर्वी ॥ ३७ ॥
तव सुन्दरि मधुरमितमेदुरमच्चक्षुरभिमुखं चक्षुः ।
शरदिन्दुकिरणतुन्दिलकुमुदोन्मुखमधुपमनुहरते ॥ ३८ ॥
सुन्दरि विवृत्य दृष्टः कष्टमपाङ्गेन भुजगेन ।
अधरामृतेन जीवति सोऽयमुपायान्तरासाध्यः ॥ ३९ ॥
कुञ्चन्मृदुकरशाखाकृष्टाञ्चलकोणतिर्यगुल्लसितः ।
लक्षीकरोति धन्यं सुन्दरि दीर्घः कटाक्षस्ते ॥ ४० ॥
निष्ठुरपञ्जरकोषे नवसंयमितस्य खञ्जनस्येव ।
गुरुजनसमक्षमक्षिव्यापारो जयति मुग्धाक्ष्याः ॥ ४१ ॥
तव नयनपुण्डरीकात्प्रिये कटाक्षकमा विराजन्ते ।
विकसितविचकिलकुसुमात्कुसुमानीवावतीर्णानि ॥ ४२ ॥
किंचिदुदञ्चय चञ्चलमञ्चलमचिरेण लोचनांशुकयोः ।
सुन्दरि कर्णवतंसः कैरवमिन्दीवरं भवतु ॥ ४३ ॥
चक्षुरपाङ्गमपाङ्गः कर्णे कर्णोऽपि दूतिकावचनम् ।
अवधत्ते मम तपसामुदारसारः क्रमः सोऽयम् ॥ ४४ ॥
कातरनयननिवेदितनिर्दयकंदर्पवेदनातिशयम् ।
दृष्टं निखातमन्तः प्रियया प्रस्थानवेलायाम् ॥ ४५ ॥
संसदि सखीजनानां गोष्ठी कर्तु पुरः प्रवृत्तायाः ।
गोत्रस्खलनविलक्षं सुन्दरि मुखमीक्षणीयं ते ॥ १६ ॥
अरविन्दद्युतिशोणं लोचनकोणं सरोजाक्ष्याः ।
प्रणमति मय्यथ सदयं हरिहरि(?) हृदयं न विस्मरति ॥ ४७ ॥
सागसि मयि मन्दपदं पश्चादेत्य स्थिते सरोजदृशम् ।
मुकुरं प्रदर्शयन्त्या तत्सख्या किमिव नोपकृतम् ॥ १८ ॥

१०४
काव्यमाला।
सस्मितमरुणकपोलं रचितभ्रूभङ्गमञ्चितत्रीडम् ।
संपृक्तभावरुचिरं वदनं तस्याः स्मरामि सखे ॥ ४९ ॥
ज्ञातासि गृहजनैरिति कथिते संभ्रान्ततारकं दूत्या ।
अरुणमपि मानवत्याः स्मरामि पाण्डूभवद्वदनम् ॥ ५० ॥
प्रेमासवोन्मदिष्णोः प्रणयतनीयांसि तानि वचनानि ।
करणीयानि न हृदये दयिते यदयं दयावसरः ॥ ५१ ॥
तव विरहानलतप्तं स्नेहकटाहं मदन्तरात्मानम् ।
सुन्दरि चन्दनशाखे शीतलय स्पर्शमात्रेण ॥ ५२ ॥
सहचर कुशलं तस्याः कुशलवती कथय किमपि संदिष्टम् ।
कं संदिशतु कृशाङ्गी न तत्र मरुतोऽपि यद्गमनम् ॥ ५३ ॥
अवधिदिवसप्रयाणाः प्रियतम तस्या मृगीदृशः प्राणाः ।
तिष्ठन्ति कतिपयाहं कृत्वा प्रस्थानमधिकण्ठम् ॥ ५४ ॥
गच्छति वर्षाकाले जलधरपटली यथा यथा रिक्ता
वर्षति लोचनयुगली तथा तथा पुण्डरीकदृशः ॥ ५५ ॥
नदति कलापिकलापे नवजलदच्छायशान्तसंतापे ।
संशयदोलारूढं जीवितमस्याः स्मरेण कृतम् ॥ ५६ ॥
किं वा कृतैः प्रयत्नैरेतैस्तुहिनोपचारसमवेतैः ।
उष्णीभवति यदस्याः परितः शीतोऽपि संचरन्पवनः ॥ ५७ ।।
अग्निश्चन्दनलेपो विषममृतं मरणमेव जीवातुः ।
सुन्दरि विरहिजनानां काचन लोकोत्तरा रीतिः॥५८ ॥
विरहार्तिदलनमौषधमेकं चेष्टासु तासु तादात्म्यम् ।
सुन्दरि यस्मिञ्जाते ब्रह्मानन्दोऽपि नाकाङ्क्षयः ॥ ५९॥
सुन्दरि रहस्यमालिषु कल्याणी स्फूर्तिरेव तव वेद ।
गोत्रस्खलनभयेन त्यक्ता यद्गौरवी संसद् ॥ ६ ॥
सुन्दरि वसन्तपथिकान्रजनिभुजङ्गी यथा यथा दशति ।
तद्विषसंक्रान्तिवशात्तथा तथा क्षीयते दैर्ध्यात् ॥ ६१ ॥

सुन्दरीशतकम् । सुन्दरि समुदितशशिकरधौततमा नेयमष्टमी रात्रिः । विरहिजनमसितभुजगी विदृश्य परिवर्तितोत्ताना ॥ १२ ॥ पर्यवपार्श्वलग्नां गलदश्रुप्लावितैकभुजमूलाम् । अञ्चलसंवृतवदनां तामन्तश्चिन्तयामि चिरम् ॥ ६३ ॥ अश्रुप्लुतमतिकातरमनिमिषमस्पन्दतारकं तस्याः। लोचनयुगलं स्मरतः स्मरतो मम केवलं भीतिः ॥ ६४ ॥ प्रत्येकमिन्द्रियाणामास्तां भिन्नैव देवतान्यस्य । परिणमति मम तु सैका सकलेन्द्रियदेवतात्वेन ॥ ६५ ॥ अयि पथिक रक्ष जीवं परिहर दूरेण केतकीकुसुमम् । इह वसति पुष्पधन्वा स्मरहरनयनान्निरातङ्कः ॥ ६६ ॥ तव रथ्या राजगृहं प्रेमधनं किं च परिजनो बन्धुः । सख्यो मूर्ताः प्राणाः सुन्दरि किमतो ममाकाङ्क्षयम् ॥ ६७ ॥ साहसभवनमदूतिकमवलोकनदानवर्धमानमिदम् । जयति कचिदपि धन्ये सुन्दरि सहजं तव प्रेम ॥ ६८॥ शितिकण्ठकण्ठकान्तिप्रतिमल्ले स्फुरति सर्वतस्तिमिरे । धन्याय वदति सुन्दरि तवागमं परिमलोत्कर्षः ॥ ६९ ॥ मन्त्रो मनसा द्वेषश्चन्द्रमसा हन्त परिचयस्तमसा । सुन्दरि तवाभिसारे परिपाटी काचिदन्यैव ॥ ७० ।। आसारनपिते यत्प्रयासि पथि दुस्तरे पयोदजलैः । प्राक्तनमुदवासतपः फलोन्मुखं कस्यचित्कृतिनः ॥ ७१ ॥ द्विगुणीकृतान्धतमसं वर्षति रुद्धानिलं पयोवाहे । आकस्मिकमागमनं कान्त्यानुमितं सखे तस्याः ॥ ७२ ॥ अतिमन्दवर्षदम्बुदशीकरशिशिराईसान्द्रवसनायाः । आकस्मिकागतायाः कण्ठग्रहणं फलं जनुषः ॥ ७३ ॥ सितवसनमौक्तिकावलिचन्दनचर्चासहायशालिन्याः । ज्योत्स्नाभिसारिणि तव च्छाया परिपन्थिनी भवति ॥ ७४ ॥ नव० गु. १०

काव्यमाला।
यावत्पतति न चरणं छाया दुर्वारवैरिणी शिरसि ।
ज्योत्स्लाभिसारवेषः सहचरि नेशः कृतार्थयितुम् ॥ ७५ ॥
वचनरचनैः कृतं तव कितवप्रणिपातमात्रसाध्यायाः ।
अस्या मानकदल्याः फलावसानः परीपाकः ॥ ७६ ॥
भ्रूभङ्गभङ्गिभुमं तिर्यक्चललोचनं मुखं दधती ।
सुरतप्रार्थनवेलाकृतावहेला वधूर्जयति ॥ ७७ ॥
विश्लथयति किमपि नीवीं कलकण्ठि रतस्य कूजितं यत्ते ।
शिक्षाविस्मृतिरेषा गुरोरभक्तिं निवेदयति ॥ ७८ ॥
मधुधौतमधुरमधुरं धृतधम्मिलं धवे धयति ।
कवलयति किमपि कम्पितकान्ताकरकंकणकणितम् ॥ ७९ ॥
अर्चितचण्डीचरणप्रसादफलमन्यदुर्लभं तरुणः ।
सुन्दरि हसितकरम्बितमखण्डपुण्येन खण्डयत्यधरम् ॥ ८० ॥
मेरानने मुखं तव सुधानिधेर्मण्डलेन तुलयन्तम् ।
एनं निजाधरसुधादानेन न किं विलक्षयसि ॥ ८१ ॥
निबिडीकृतोरुबन्धं वेल्लितवदनेन्दुनिद्भुतोच्छासम् ।
तस्याः स्मरामि सुरतं तत्करभररुद्धमन्नामि ॥ ८२ ॥
सस्मिततिर्यग्वेल्लितमुखपर्यन्तप्रकीर्णकबरीकम् ।
अतिभाग्यवान्भवत्याः सुन्दरि पुरुषायितं लभते ॥ ८३ ॥
प्रतिपणितमेकवारं पातुं छूते जितं पिबन्नधरम् ।
आवृत्तिद्वयभीत्या नायं निश्चूषते धूर्तः ॥ ८४ ॥
आश्लेषोऽधरदानं चुम्बनमनिमेषवीक्षणं सुरतम् ।
इत्येकैकपणेन क्रीडति मिथुनं जितान्योन्यम् ॥ ८५ ॥
संस्पृष्टपद्मिनीको यथा यथार्कः करान्प्रसारयति ।
सुन्दरि मानवतीयं संकुचति तथा तथा छाया ॥ ८६ ॥
प्रातः पृच्छति निभृतं सखीजने रजनिकेलिवृत्तान्तम् ।
मन्दस्मितादजायत रहस्यभेदः सरोजाक्ष्याः ॥ ८७ ॥

सुन्दरीशतकम् ।
१०७
दोरान्दोलनसुभगं नितम्बभरमन्थराजिविन्यासम् ।
तव गजगामिनि गमनं कुरुते यतिचित्तसंयमनम् ॥ ८८ ॥
चरणक्रममनुविलसद्दयुगविन्यासमानतग्रीवन् ।
नृत्यन्नितम्बबिम्बं गतमस्या कं न मोहयति ॥ ८९ ।।
चरणतलगलदलतकवलत्पदं वर्म चकितनयनायाः ।
अनुरागबन्धपद्धतिरियतीति परं निवेदयति ॥ ९० ॥
नतवदनमुन्नतभूः पश्यन्ती वदनमूर्मिकामुकुरे ।
सुन्दरि मृदु स्मयन्ती कस्य न नयनं कृतार्थयसि ॥ ९१ ॥
अधरोत्तरासमर्थ मदनपुमथै स्मितेन परिपुप्यत् ।
कस्य न करोति कदनं वदनं दष्टाधरं तस्याः ॥ ९२ ॥
त्रिवलीतरङ्गतरलितनखाङ्कमीनं झपाङ्ककैवर्तः ।
तस्यां सुधासरस्यां वलयति रोमालिबडिशेन ॥ ९३ ।।
सुन्दरि तव रोमावलिमुखाग्रजाग्रन्नखाङ्कलेखेयम् ।
प्रत्यप्रविधृतभुजगी दंष्ट्राकोटिश्रियं वहति ॥ ९४ ॥
दरविकसदम्बुजास्या भाति रवेः संमुखस्थिता नलिनी ।
हिमकरकरोपनीतां कदर्थनां वक्तुकामेव ॥ ९५ ॥
सौधशिखराधिरूढा मन्दानिलकम्पमानवसनान्ता ।
कस्यापि धन्यजनुषः पुण्यपताका परिस्फुरति ॥ ९६ ॥
पुनरुक्तभूषणानां हृदयाभिन्ने निवेद्यमानानाम् ।
सुन्दरि तव चरितानां कथमपि कथया न तृप्यामि ॥ ९७ ॥
अङ्कगतस्तव कुमुदिनि मत्तो मधुपः प्रसुप्त इति मन्ये ।
संभावयति सरोजं यन्न विनिद्रं समागत्य ॥ ९८ ॥
अपकृतये तव पद्मिनि सहवासो भवति हन्त कुमुदिन्याः।
त्वयि निशि निशि खपत्यामनया यन्नीयते मधुपः ॥ ९९ ॥
त्वमधिकगुणासि मालति मल्लीलवलीलवङ्गलतिकाभ्यः ।
सकललतिकानुसारी यया निबद्धः षडतिरपि ॥ १० ॥

काव्यमाला। मधुकर तवैव धन्यं जनुरभितो वन्यमन्यदुत्सृजतः यस्य प्रेमाबन्धो मालत्यां यत्र तस्याश्च ॥ १०१॥ किं कृतमनेन मरुता माधविकाकुसुमसौरभं वहता । आश्लिष्टभ्रमरीकोऽप्यौत्कण्ठ्यं मधुकरो नीतः ॥ १०२ ॥ स्थास्यति कुवलयकलिका कर्णे तव तावदेव कमलाक्षि । विकसति न यावदेषा चन्द्रकरस्पर्शदुर्ललिता ॥ १०३ ॥ आश्लिष्य जिघ्र पिब मधु मधुकर तोषोदयाय मालत्याः । निर्दय सुगन्धिवल्लीरेताश्चरणैः किमाक्षिपसि ॥ १०४ ॥ ईशस्याप्युपकुरुते क्वचित्कलावान्निसर्गकुटिलोऽपि । भूर्भवति चन्द्रलेखा सुन्दरि शंभोस्तृतीयदृशः ॥ १०५ ॥ केतकि तव यदि न कृतं परिशीलनमादरान्महेशेन । इयता न कापि हानिः सौरभ्याकृष्टमधुपायाः ॥ १०६ ॥ प्रकटितकपटाचारं रथ्यामुखरचितमन्दिरद्वारम् । युवतीहृदयस्तेनं युवानमेनं नमस्कुर्मः ॥ १०७ ॥ कति कति नात्र युवत्यो जडीभवन्ति स्खलन्ति वेपन्ते । इदमुदवसितोपान्तं तत्साध्व्यो दूरमुज्झन्ति ॥ १०८॥ अधिभवनमुच्चपीठे पामरवध्याहृते सुखासीनः । अभिलषितमुत्तमर्णः कटाक्षयंस्तामवानोति ॥ १०९ ॥ कुसुमेषुशास्त्रचर्चा सरसहृदां भावनीयं यत् । तब्यरचि....."सुन्दरमुत्प्रेक्षावल्लभेनेदम् ॥ ११० ॥ भारत्यैव क्रियते स्तोत्रैः संतुष्टया द्विजद्वारा । श्रीगोकुलस्य सुकवेरुत्प्रेक्षावल्लभेत्यभिधा ॥ १११ ॥ इति श्रीमदुत्प्रेक्षावल्लभकविरचितं सुन्दरीशतकं समाप्तम् ।

शिवस्तुतिः। १०९ श्रीमल्लिकुचिमूरिसूनुनारायणपण्डिताचार्यविरचिता शिवस्तुतिः। (सटीका ।) स्फुटं स्फटिकसप्रमं स्फुटितहाटकश्रीजटं शशाङ्कदलशेखरं कपिलफुल्लनेत्रत्रयम् । तरक्षुवरकृत्तिमद्भुजगभूषणं भूतिम- कदा नु शितिकण्ठ ते वपुरवेक्षते वीक्षणम् ॥१॥ भवस्यान्तः समासीनं भवतापनिवारकम् । संकर्षणं समानस्य व्याकरिष्ये शिवस्तुतिम् ॥ स्फुटमिति । हे शितिकण्ठ, मे वीक्षणं ते वपुः कदा न्ववेक्षत इत्यन्वयः। शितिः कण्ठे यस्यासौ शितिकण्ठः तस्य संबुद्धिहे शितिकण्ठ नीलकण्ठ । 'शिती धवलमेचकौ' इत्यमरः । मे मम वीक्षतेऽनेनेति कर्तृ ते तव वपुः शरीरं कर्म कदा नु कस्मिन्वा समये स्फुटं यथा भवति तथा क्रियाविशेषणमेतत् । अवेक्षतेऽवेक्षिष्यते । करणे त्यो(कर्तृत्वो)पचारः। कीदृशं वपुः। स्फटिकसप्रभं तत् । पुनः । स्फुटितहाटकश्रीजटं स्फुटितं (तत्) संतप्त तत् हाटकं च सुवर्णं तस्य श्रीरिव श्रीर्यासां ता एवंविधा जटा यस्य तत् । पुनः । श- शाङ्कदलशेखरं शशाङ्कस्य दलं शशाङ्कदलं खण्डं शेखरे यस्य शिरोभूषणं यस्य तत् । पुनः । कपिलफुल्लनेत्रत्रयं कपिलं पिङ्गलं विकसितं नेत्रत्रयं यस्य तत् । पुनः । तरक्षु- वरकृत्तिमत् । तरक्षोर्व्याघ्रस्य वरा श्रेष्ठा या कृत्तिश्चर्म तद्यस्यास्तीति । तद्यथा-व्या. घ्रचर्मपरिधानम्' इति रुद्राध्याये । पुनः । भुजगभूषणं भुजगाः सर्पाः ते भूषणमलंकारो यस्यास्तीति । पुनः। भूतिमत् । 'भूतिभस्मनि संपदि' इत्यभिधानम् ॥ त्रिलोचन विलोचने लसति ते ललामायिते स्मरो नियमघस्सरो नियमिनामभूद्भस्मसात् । खभक्तिलतया वशीकृतवती सतीयं सती खभक्तवशतो भवानपि वशी प्रसीद प्रभो ॥ २ ॥ त्रिलोचनेति । त्रीणि लोचनानि यस्यासौ त्रिलोचनः तस्य संबोधनं हे त्रिलोचन । ते तव विलोचने ललामायिते रत्नवदाचरिते विशिष्टे तृतीयनेने लसति भासमाने सति स्मरः कामः भस्मसात्कृतः भस्म संपद्यत इति भस्मसात् अभूत् । किंलक्षणः । नियमिनां निय- मवतां नियमस्य घस्मरो नाशकः । इयं सती साध्वी सती उमा स्वभक्तिरेव लतानया खां वशीकृतवती वशीचकार । भवान् वशी स्वतन्त्रः तथापि वभक्तवशतः खकीया भक्तास्तेषां वशतोऽधीनखतः त्वं मह्यं प्रसीद प्रसन्नो भव ॥

काव्यमाला। महेश महितोऽसि तत्पुरुष पूरुषाय्यो भवा- नघोर रिपुघोर तेऽनवम वामदेवाञ्जलिः । नमः सपदिजात ते त्वमिति पञ्चरूपोऽञ्चितः प्रपञ्चय च पञ्चवृन्मम मनस्तमस्ताडय ॥ ३ ॥ महेशेति । हे भहेश, महितोऽसि पूजितोऽसि । इन्द्रादिभिरिति शेषः। हे तत्पुरुष, तस्य परमात्मनः पुरुषो दासः तस्य संबुद्धिः।हे वामदेव, वामः सुन्दरो देवो यस्यासौ वामदेव । भवान् पुरुषेषु अग्र्यः श्रेष्ठः । हे अघोर भक्तानामभयंकर । हे अनवम न अवमस्तस्य सं- बुद्धिः । हे वामदेव तथोक्तसंबुद्धिः। अनवमश्चासौ वामदेवश्चानवमवामदेव इत्येकं पदं वा। 'वामः सव्ये प्रतीते दक्षिणे वाथ सुन्दरे' इत्यभिधानम्। ते तुभ्यमञ्जलिरस्तु। हे सपदिजात- सद्योजात, ते तुभ्यं नमः।इत्यनेन प्रकारेणाञ्चितः पञ्चरूपस्त्वं पञ्चवृत् 'मनो बुद्धिरहंकार श्चित्तं चेतनम् इति पञ्चप्रकारमित्यर्थः । एवं मनोऽन्तःकरणं प्रपञ्चय विस्तारय । पञ्च- वृत् पश्चप्रकारम् । तमोमोहमहामोहतामिस्रमिति पञ्चधा मिन्नं तमोऽविद्यां ताडय नाशय। अत्र श्रुतिः-'ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम्' इति, 'तत्पुरुषाय विद्महे इति, 'अघोरेभ्योऽथ घोरेभ्यः' इति, 'वामदेवाय नमः' इति, 'सद्योजातं प्रपद्यामि' इति ॥ रसाधनरसानलानिलवियद्विवस्खद्विधु- प्रयष्टषु निविष्टमित्यज भजामि मूर्त्यष्टकम् । प्रशान्तमुत भीषणं भुवनमोहनं चेत्यहो वपूंषि गुणपुंषि तेऽहमहमात्मनोऽहंभिदे ॥ ४ ॥ रसायनेति । हे अज हे महारुद्र । 'अजा विष्णुहरच्छागाः' इत्यभिधानम् । रसा पृथिवी, घनरसं जलम्, अनलोऽग्निः, अनिलो वायुः, वियदाकाशम्, विवखान् सूर्यः, विधुश्चन्द्रः प्रयष्टा सोमयाजी, तेषु निविष्टं मूर्त्यष्टकमहं भजामि । प्रशान्तं मनोहरमुत अन्यत् भीषणं भयंकरं भुवनमोहनं भुवनशब्देन तनिष्ठो जनो लभ्यते । जनव्यामोहमहंकारमित्यर्थः । गुणपुंषि ज्ञानभक्तिवैराग्यादिगुणपूर्णादीनि वपूंषि रूपाणि चाहं भजामि । कथंभूतस्य तव । अहमात्मनः अहमित्यव्ययमहंकारवाचकम् । अहंकारस्यात्मा अभिमान्यहमात्मनः । कस्मै प्रयोजनाय अहमिदे देहादावहंममवलक्षणाभिमाननिवृत्तये ॥ विमुक्तिपरमाध्वनां तव षडध्वनामास्पदं पदं निगमवेदिनो जगति वामदेवादयः । कथंचिदुपशिक्षिता भगवतैव संविद्रते वयं तु विरलान्तराः कथमुमेश तन्मन्महे ॥ ५ ॥ ।

शिवस्तुतिः। । विमुक्तिपरमेति । प्रसिद्धा निगमवेदिनो वामदेवादय ऋषयःभगवतैव ज्ञानमुक्तिवैरा- ग्यादिगुणवतैव लया उपशिक्षिताः सन्तो विमुक्तिपरमाध्वनां विमुक्तौ परमा असक्ता एते- पामध्वनामागमभूतानां षडध्वनां षड्दर्शनानामास्पदं विषयत्वेनाश्रयीभूतं तव पदं पद्यत इति पदं ज्ञेयं परं ब्रह्मतत्त्वरूपं वा कथंचिन्महतायासेन यथाकथंचित् केनचित्प्रकारेण न तु सामस्त्येन संविद्रते जानन्ति । 'समो गम्युच्छिप्रच्छिखरत्यर्तिश्रुविदिभ्यः' इति विदे- रात्मनेपदम् । 'वेत्तेर्विभाषा' इति रुट । यद्वा संविद्रते संविदि ज्ञाने रतिर्यस्य स संविदति- स्तस्य संबुद्धः तदा जानन्तीति शेषः । हे उमेश विरलान्तराः विरलमल्पविषयमन्तरं मनो येषां ते विरलान्तरा वयं तु विशेषेण तत् परं ब्रह्म तव स्वरूपं कथं मन्महे जानी- महे । यदा विज्ञा वामदेवादयो भवदुपदिष्टाः सन्तस्तदुपास्यं परं ब्रह्म खत्खरूपं वा का- स्न्येन ज्ञातुमशक्तास्तदाल्पज्ञा वयं कथं विशेषेण सामस्त्येन जानीमहे इति भावः ॥ कठोरितकुठारया ललितशूलया बाहया रणड्डमरया स्फुरद्धरणया सखट्वाङ्गया। चलाभिरचलाभिरप्यगणिताभिरुन्नृत्यत- श्चतुर्दश जगन्ति ते जय जयेत्ययुर्विस्मयम् ॥ ६ ॥ कठोरेति । हे महेश, कठोरितकुठारया कठोरितः कुठारो यस्यां सा तया । ललितं शूलं यस्यां सा तया । रणड्डमरो यस्यां सा तया । स्फुरद्धरणया। एवंविधया बाहया । जातावेकवचनम् । बाहामिर्बाहुभिश्चलामिश्चञ्चलामिरचलामिः स्थिराभिरगणितामिर- संख्यामिः । अतिनर्तनवृत्तिमिरिति विशेष्यपदाध्याहारो बोद्धव्यः । उन्नृत्यत उच्चैर्नर्तनं कु. वतस्ते तव चतुर्दशजगन्ति चतुर्दशभुवनानि तनिष्ठा जना वा युवत् (१) जय जयेति न- न्दन्तो विस्मयमयुः प्रापुः ॥ पु (प) रत्रिपुररन्धनं विविधदैत्यविध्वंसनं पराक्रमपरम्परा अपि परा न ते विस्मयः । अमर्षबलहर्षित क्षुभितवृत्तनेत्रोज्ज्वल- ज्वलज्ज्वलनहेलया शलभितं हि लोकत्रयम् ॥ ७ ॥ पुरेति । हे महारुद्र, पु(प)राणामन्यामेद्यत्वेनोत्कृष्टानां त्रयाणां पुराणां रन्धनं भस्मी- करणम् । विविधदैत्यविध्वंसनम् । इत्याद्याः परा अपि पराक्रमाणां परम्परा अपि ते वि. स्मयो न आश्चर्यो न। हे अमर्षबलहर्षित, अमर्षबलाभ्यां कोपसामर्थ्याभ्यां हर्षितो हर्ष प्राप्तः । लोकानां भुवनानां त्रयं तव क्षुमितवृत्तनेत्रोज्वलज्वलज्ज्वलनहेलया क्षुभितं क्षोभ- युक्तं वृतं वर्तुलं यन्नेत्रं तत्सामर्थ्यादुज्वलः प्रकाशमानो ज्वलन् दहन् ज्वलनोऽग्निस्तस्य हेलया ज्वालाविलासेन 'हेला विलासे-' इत्यमिधानम् । शलभितं हि शलभवत् संजातं हि । यथा शलभोऽनौ प्रविष्टो भस्मीभवति, तद्विद्भस्मीभूतमित्यर्थः ॥ । - ११२ काव्यमाला। । सहस्रनयनो गुहः सहसहस्ररश्मिर्विधु- बृहस्पतिरुताप्पतिः ससुरसिद्धविद्याधराः । भवत्पदपरायणाः श्रियमिमां ययुः प्रार्थिनां भवान्सुरतरुदृशं शिव(दिश) शिवां शिवावल्लभ ॥ ८॥ सहस्रति । हे रुद्र, सहस्रनयन इन्द्रः, गुहः स्कन्दः, सहस्रं रश्मयो यस्यासौ सह- सरश्मिः सूर्यः, तेन सहवर्तमान एवं भूतो] विधुश्चन्द्रः, बृहस्पतिः । उतशब्दोऽप्यर्थः। अप्पतिरपां पतिवरुणः, शक्राद्या इति शेषः(१) । ससुरसिद्धविद्याधराः सर्वे तत्तद्योगजना भवत्पदं भवदुपास्यं ब्रह्म परमयनमाश्रयो येषां ते भवत्पदपरायणाः सन्त इमां तद्योग्यां श्रियं संपदं ययुः प्रापुः । यतो भवान्प्रार्थिनां सुरतरुः कल्पवृक्षः । सुचिन्तितमनोरथ- प्रदः । हे शिवावल्लभ उमाकान्त, त्वं मह्यं शिवां मङ्गलां दृशं दृष्टिं दिश देहि ॥ तव प्रियतमादतिप्रियतमं सदैवान्तरं पयस्युपहितं घृतं स्वयमिव श्रियोवल्लभम् । विभिद्य लघुबुद्धयः खपरपक्षलक्ष्यायितं पठन्ति हि लुठन्ति ते शठहृदः शुचा शुण्ठिताः ॥९॥ तवेति । लघुबुद्धयः क्षिप्रबुद्धयः । सूक्ष्मार्थदर्शिन इति यावत् । 'लघु क्षिप्रमरं द्रुतम्' इत्यमरः । एवंविधाः पण्डिताः तव प्रियतमाद्वस्तुतोऽतिप्रियतमं निरुपाधिविषयम् एका- न्तभक्तखात् । तदुक्तम्-'एकान्तानां न कस्यचिदर्थे नारायणो देवः सर्वमन्यत्तदर्थ- कम्' इति । सदैव स्वपरपक्षयोः पूर्वपक्षसिद्धान्तयोः लक्ष्यवत् आचरितमान्तरमन्तरे व- र्तमानं कथमिव पयस्युपहितं खयं स्वेच्छया रतं धृतमिव श्रियो वल्लभं लक्ष्मीकान्तं वि- मिद्य वेद्य । तन्मीमांसा यथा क्षीरे तत्स्थितं घृतं क्षीरादिविवेक्षण (केन) जानन्ति तथा वदन्तर्गतं ब्रह्म ज्ञाखा पठन्ति । शिष्येभ्य उपदिशन्तीति भावः । शठहृदः परव. श्चनचित्ताः ये के ब्रह्मवादिनस्ते शुचा शोकेन शुण्ठिताः स्तम्भिताः सन्तो लुठन्ति । नित्यं निरये पतन्तीत्यर्थः । उक्तं च श्रीमद्भागवते–'एवं तत्समुपासीना न मुह्यन्ति शुचार्पिताः' इति । तथा जीवात्मभेदज्ञानमेव मोक्षसाधनं नाद्वैतज्ञानमिति भावः ॥ निवासनिलयश्चिता तव शिरस्ततिर्मालिका कपालमपि ते करे त्वमशिवोऽस्यनन्तर्धियाम् । तथापि भवतः पदं शिव शिवेत्यदो जल्पता- मकिंचन न किंचनावृजिनमस्ति भस्सीभवेत् ॥ १०॥ निवासेति । हे महेश चिता श्मशानभूमिः तव निवासनिलयो निवासस्याश्रयः शिर- स्ततिः शिरःपरम्परा तव मालिका, ते करे कपालमपि विद्यते, खमनन्तर्धियां बहिई.

शिवस्तुतिः। ११३ । टीनां पामराणामशिवोऽमङ्गलोऽसि । यद्यप्येवम् ,तथापि हे अकिंचन अविद्यमानचिन, किमप्यासमन्ताद्वर्तमानं पापं नास्ति । किं तु सर्वं भस्मीभवेदित्यर्थः ॥ त्वमेव किल कामधक्सकलकाममापूरय- न्सदा त्रिनयनो भवान्वहसि चात्रिनेत्रोद्भवम् । विषं विषधरान्दधत्पिबसि तेन चानन्दवा- विरुद्धचरितोचिता जगदधीश ते भिक्षुता ॥ ११ ॥ लमेवेति । हे विरुद्धचरित, वमेव कामं कन्दर्प दहतीति कामधक् किल सकलानां योग्यानां कामममिलाषमापूरयन्वतसे । अत्र शब्दमात्रसामान्येन विरोधभावः । अर्थ- मेदाद्विरोधपरिहारः । सदा त्रिनयनस्त्रिनेत्रः, अत्रिनेत्रोद्भवं चन्द्र वहसि च। विषधरान् दधत् सन् विषं पिबसि तेन विषपानेनानन्दवांश्च भवसि । हे जगदधीश, ते भिक्षुता न्याय्या। अत्र विरोधाभासोऽलंकारः॥ नमः शिवशिवाशिवाशिव शिवार्ध कृन्ताशिवं नमो हर हराहरहरहरान्तरी मे दृशम् । नमो भव भवाभवप्रभव भूतये ते भवन् नमो मृड नमो नमो नम उमेश तुभ्यं नमः ॥ १२ ॥ नमः शिवेति । हे शिव शिव, शिवानां योग्यजीवानां शिवं करोतीति (शिवं भव- तीति) शिवः अस्य संबुद्धिः शिव । 'तत्करोति तदाचष्टे' इति णिजन्ताच्छिवयतेः सु. ब्धातोः 'अप्रत्ययात्' इति अप्रत्ययः (१)। हे अशिवाशिव, अशिवानामयोग्यजीवानाम- शुभोऽशुभकरस्तत्संबुद्धिः । नमस्तुभ्यमिति शेषः । हे शिवार्ध, शिवा अर्धे यस्यासौ त- थोक्तः तत्संबुद्धिः त्वं मम अशिवममङ्गलं कृन्त नाशय । हे हर हर। आदराद्विरुक्तिः। तुभ्यं नमः । अहरहः निरन्तरं वीप्सायामव्ययीभावः (१) । अन्तरोऽन्तरे सर्व यस्य रं- स्थत (१)इत्यन्तरो विष्णुस्तत्संबन्धिनी दृशं ज्ञानं मह्यमाहर देहि । हे अभव, तुभ्यं नमः। हे अभवप्रभव । अभवस्य प्रभव उत्पादको यस्य सोऽभवप्रभवस्तत्संबुद्धिः तुभ्यं नमः । हे भवन् , मद्भूतये भवेति । हे मृड, तुभ्यं नमो नमः । अत्रादरनैरन्तर्याभ्यां नमो नमः कर्तव्यमिति पुनः पुनरुक्तिः ॥ सतां श्रवणपद्धतिं सरतु संनतोक्तेत्यसौ शिवस्य करुणाङ्कुराप्रतिकृतात्सदा सोदिता । १. अस्य 'स्त्रियाम्'इत्यधिकारे विधानाचिन्यमिदम् , तस्मात्पचादेराकृतिगणवाद प्रत्ययो बोध्यः.

११४ काव्यमाला। इति प्रथितमानसो व्यधित नाम नारायणः शिवस्तुतिमिमां शिवां लिकुचिसूरिसूनुः सुधीः ॥ १३ ॥ सतामिति । सासौ शिवस्तुतिः सतां साधूनां श्रवणपद्धतिं कर्णमार्ग सरतु गच्छतु । किंभूता । संनतोक्ता संनता (तेन) नम्रेणोक्ता । पुनः । प्रतिकृतात् शिवस्य करुणाङ्कुरा- त्सदोदिता ! उक्ता । नारायणो नाम लिकुचिसूरिसूनुरिमां शिवां शिवस्तुतिं व्यधित कृ- तवान् । किंभूतः। प्रथितं ख्यातं मानसं यस्य सः ॥ इति श्रीलिकुचिसूरिसूनुनारायणपण्डिताचार्यविरचिता सव्याख्या शिवस्तुतिः समाप्ता। श्रीमच्छंकराचार्यभगवत्पादविरचितं त्रिपुरसुन्दरीमानसिकोपचारपूजास्तोत्रम् । मम न भजनशक्तिः पादयोस्ते न भक्ति- न च विषयविरक्तिर्ध्यानयोगे न सक्तिः । इति मनसि सदाहं चिन्तयन्नाद्यशक्ते रुचिरवचनपुष्पैरर्चनं संचिनोमि ॥ १॥ व्याप्तं हाटकविग्रहैर्जलचरैरारूढदेवव्रजैः पोतैराकुलितान्तरं मणिधरैर्भूमीधरैर्भूषितम् । आरक्तामृतसिन्धुमुद्धरचलद्वीचीचयव्याकुल- व्योमानं परिचिन्त्य संततमहो चेतः कृतार्थीभव ॥ २ ॥ तस्मिन्नुज्ज्वलरत्नजालविलसत्कान्तिच्छटाभिः स्फुटं कुर्वाणं वियदिन्द्रचापनिचयैराच्छादितं सर्वतः । उच्चैः शृङ्गनिषण्णदिव्यवनितावृन्दाननप्रोल्लस- द्गीताकर्णननिश्चलाखिलमृगं द्वीपं नमस्कुर्महे ॥ ३ ॥ जातीचम्पकपाटलादिसुमनःसौरभ्यसंभावितं ह्रींकारध्वनिकण्ठकोकिलकुहूप्रोल्लासिचूतद्रुमम् । आविर्भूतसुगन्धिचन्दनवनं दृष्टिप्रियं नन्दनं चञ्चच्चञ्चलचञ्चरीकचटुलं चेतश्चिरं चिन्तय ॥ ४ ॥ १. 'शक्तिः क. 'भक्तिः' ग. २. 'कुल' क.

त्रिपुरसुन्दरीमानसिकोपचारपूजास्तोत्रम् । ११५ परिपतितपरागैः पाटलक्षोणिभागो विकसितकुसुमोचैः पीतचन्द्रार्करश्मिः । अलिशुकपिकराजीकूजितैः श्रोत्रहारी स्फुरतु हृदि मदीये नूनमुद्यानराजः ॥ ५॥ रम्यद्वारपुरप्रचारतमसां संहारकारिप्रभ- स्फूर्जत्तोरणभारहारकमहाविस्तारहारधुते । क्षोणीमण्डलहेमहारविलसत्संसारपारप्रद- प्रोद्यद्भक्तमनोविहार कनकप्राकार तुभ्यं नमः ॥ ६॥ उद्यत्कान्तिकलापकल्पितनभः स्फूर्जद्वितानप्रभः सत्कृष्णागुरुधूपवासितवियत्काष्ठान्तरे विश्रुतः । सेवायातसमस्तदैवतगणैरासेव्यमानोऽनिशं सोऽयं श्रीमणिमण्डपोऽनवरतं मच्चेतसि द्योतताम् ॥ ७ ॥ क्वापि प्रोद्भटपद्मरागकिरणबातेन संध्यायितुं कुत्रापि स्फुटविस्फुरन्मरकतद्युत्या तमिस्रायितम् । मध्यालम्बिविशालमौक्तिकरुचा ज्योत्लायितं कुत्रचि- न्मातः श्रीमणिमन्दिरं तव सदा वन्दामहे सुन्दरम् ॥ ८॥ उत्तुङ्गालयविस्फुरन्मरकतप्रोद्यत्प्रभामण्डला- न्यालोक्याङ्कुरितोत्सवैर्नवतृणाकीर्णस्थलीशङ्कया । नीतो वाजिभिरुत्पथं बत रथः सूतेन तिग्माते- वल्गावल्गितहस्तमस्तशिखरं कष्टैरितः प्राप्यते ॥ ९॥ मणिसदनसमुद्यत्कान्तिधारानुरक्ते वियति चरमसंध्याशङ्किनो भानुरथ्याः । शिथिलितगतकुप्यत्सूतहुंकारनादैः । कथमपि मणिगेहादुच्चकैरुचलन्ति ॥ १० ॥ १. 'सुर' क-ग. २. 'धारक' क. ३. 'मण्डपं' क. ४. 'मण्डलीमालो' क.

काव्यमाला। भक्त्या किं नु समर्पितानि बहुधा रत्नानि पाथोधिना किं वा रोहणपर्वतेन सदनं यैर्विश्वकर्माकरोत् । आ ज्ञातं गिरिजे कटाक्षकलया नूनं त्वया तोषिते शंभौ नृत्यति नागराजफणिना कीर्णा मणिश्रेणयः ॥ ११ ॥ विदूरमुक्तवाहनैर्विनम्रमौलिमण्डलै- निर्बद्धहस्तसंपुटैः प्रयत्नसंयतेन्द्रियैः । विरञ्चिविष्णुशंकरादिभिर्मुदा तवाम्बिके प्रतीक्ष्यमाणनिर्गमो विभाति रत्नमण्डपः ॥ १२ ॥ ध्वनन्मृदङ्गकाहलः प्रगीतकिंनरीगणः प्रनृत्तदिव्यकन्यकः प्रवृत्तमङ्गलक्रमः । प्रकृष्टसेवकव्रजः प्रहृष्टभक्तमण्डलो मुदे ममास्तु संततं त्वदीयरत्नमण्डपः ॥ १३ ॥ प्रवेशनिर्गमाकुलैः खकृत्यरत्नमानसै- बहिःस्थितामरावलीविधीयमानभक्तिभिः । विचित्रवस्त्रभूषणैरुपेतमङ्गनाजनैः सदा करोतु मङ्गलं ममेह रत्नमण्डपः ॥ १४ ॥ सुवर्णरत्नभूषितैर्विचित्रवस्त्रधारिभि- र्गृहीतहेमयष्टिभिर्निरुद्धसर्वदैवतैः असंख्यसुन्दरीजनैः पुरस्थितैरधिष्ठितो मदीयमेतु मानसं त्वदीयतुङ्गतोरणः ॥१५॥ इन्द्रादींश्च दिगीश्वरान्सहपरीवारानथो सायुधा- न्योषिद्रूपधरान्खदिक्षु निहितान्संचिन्त्य हृत्पङ्गजे । शङ्के श्रीवसुधारया वसुमतीयुक्तं च पद्मं स्मर- कामं नौमि रतिप्रियं सहचरं प्रीत्या वसन्तं भजे ॥१६॥ १. 'इन्द्रादीन्दिगधीश्वरा' क. २. 'नियता' क. ३. 'रक्तं' क.

त्रिपुरसुन्दरीमानसिकोपचारपूजास्तोत्रम् । गायन्तीः कलवीणयातिमधुरं हुंकारमातन्वती- राभ्यासकृतस्थितीरिह सरस्वत्यादिकाः पूजयन् । द्वारे नौमि मदोन्मदं सुरगणाधीशं मदेनोन्मदा मातङ्गीमसिताम्बरां परिलसन्मुक्ताविभूषां भजे ॥ १७ ॥ कस्तूरिकाश्यामलकोमलाङ्गी कादम्बरीपानमदालसाङ्गीम् । वामस्तनालिङ्गितरत्नवीणां मातङ्गकन्यां मनसा स्मरामि ॥ १८॥ विकीर्णचिकुरोत्करे विगलिताम्बराडम्बरे मदाकुलितलोचने विमलभूषणोद्भासिनि । तिरस्करिणि तावकं चरणपङ्कजं चिन्तय- करोमि पशुमण्डलीमलिकमोहदुग्धाशयाम् ॥ १९ ॥ प्रमत्तवारुणीरसैर्विघूर्णमानलोचनाः प्रचण्डदैत्यसूदनाः प्रविष्टभक्तमानसाः । उपोढकजलच्छविच्छटाविराजिविग्रहाः कपालशूलधारिणीः स्तुवे त्वदीयदूतिकाः ॥ २० ॥ स्फूर्जन्नव्ययवाङ्कुरोपलसिताभोगैः पुरः स्थापितै- र्दीपोद्भासिशरावशोभितमुखैः कुम्भैर्नवैः शोभिना वर्णाबद्धविचित्ररत्नपटलीचञ्चत्कपाटश्रिया युक्तं द्वारचतुष्टयेन गिरिजे वन्दे मणीमन्दिरम् ॥ २१॥ आस्तीर्णारुणकम्बलासनयुतं पुष्पोपहारौन्वितं दीप्तानेकमणिप्रदीपसुभगं राजद्वितानोत्तमम् । धूपोद्गारिसुगन्धिसंभ्रममिलद्भुङ्गावलीगुञ्जितं कल्याणं वितनोतु मेऽनवरतं श्रीमण्डपाभ्यन्तरम् ॥ २२ ॥ कनकरचिते पञ्चप्रेतासनेन विराजिते मणिगणचिते रक्तश्वेताम्बरास्तरणोत्तमे । कुसुमसुरभौ तल्पे दिव्योपधानसुखावहे हृदयकमले प्रादुर्भूतां भजे परदेवताम् ॥ २३ ॥ . १. 'मधिकमोहमुग्धाशयाम् क. २. 'र्दीपोद्भा' क. ३. 'राञ्चितम क. नव० गु०११ काव्यमाला। सर्वाङ्गस्थितिरम्यरूपरुचिरां प्रातः समभ्युत्थितां जुम्माम मुखाम्बुजां मधुमदव्याघूर्णदक्षित्रयाम् । सेवायातसमस्तसंनिधिसखीः संमानयन्ती दृशा संपश्यन्परदेवतां परमहो मन्ये कृतार्थ जनुः ॥ २४ ॥ उच्चैस्तोरणवर्तिवाद्यनिवहध्वाने समुज्जृम्भिते भक्तैर्भूमि विलग्नमौलिभिरलं दण्डप्रणामे कृते । नानारत्नसमूहनद्धकथनस्थालीसमुद्भासितां प्रातस्ते परिकल्पयामि गिरिजे नीराजनामुज्ज्वलाम् ॥ २५ ॥ पाद्यं ते परिकल्पयामि पदयोरय॑ तथा हस्तयोः सौधीभिर्मधुपर्कमम्ब मधुरं धाराभिराखादय । तोयेनाचमनं विधेहि शुचिना गाङ्गेन मत्कल्पितं साष्टाङ्गं प्रणिपातमीशदयिते दृष्ट्या कृतार्थीकुरु ॥ २६ ॥ मातः पश्य मुखाम्बुजं सुविमले दत्ते मया दर्पणे देवि खीकुरु दन्तधावनमिदं गङ्गाजलेनान्वितम् । सुप्रक्षालितमाननं विरचयन्निग्धाम्बरप्रोञ्छनं द्रागङ्गीकुरु तत्त्वमम्ब मधुरं ताम्बूलमाखादय ॥ २७ ॥ निधेहि मणिपादुकोपरि पदाम्बुजं मजना- लयं व्रज शनैः सखीकृतकराम्बुजालम्बनम् । महेशि करुणानिधे तव हगन्तपातोत्सुका- न्विलोकय मनागमूनुभयसंस्थितान्दैवताम् ॥ २८ ॥ हेमरत्नवरणेन वेष्टितं विस्तृतारुणवितानशोभितम् । सज्जसर्वपरिचारिकाजनं पश्य मज्जनगृहं मनो मम ॥ २९ ॥ कनककलशजालस्फाटिकस्नानपीठा- धुपकरणविशालं गन्धमत्तालिमालम् । स्फुरदरुणवितानं मञ्जुगन्धर्वगानं परमशिवमहेले मज्जनागारमेहि ॥ ३० ॥ १. 'समभ्युच्छ्रिता' क.

त्रिपुरसुन्दरीमानसिकोपचारपूजास्तोत्रम् । पीनोत्तुङ्गपयोधराः परिलसत्संपूर्णचन्द्रानना रत्नवर्णविनिर्मिताः परिलसत्सूक्ष्माम्बरप्रावृताः। हेमखानघटीस्तथा मृदुपटीरुद्धर्तनं कौसुमं तैलं कऋतिकां करेषु दधतीर्वन्देऽम्ब ते दासिकाः ।। ३१ ॥ तत्र स्फाटिकपीठमेत्य शनकैरुत्तारितालंकृति- नींचैरुज्झितकञ्चकोपरिहितारत्तोत्तरीयाम्बरा । वेणीबन्धमपास्य कङ्कतिकया केशप्रसादं मना- कुर्वाणा परदेवता भगवती चित्ते मम द्योतताम् ॥ ३२ ॥ अभ्यङ्गं गिरिजे गृहाण मृदुना तैलेन संपादितं काश्मीरैरगरुद्रवैर्मलयजैरुद्वर्तनं कारय । गीते किंनरकामिनीभिरभितो वाद्ये मुदा वादिते नृत्यन्तीमिह पश्य देवि पुरतो दिव्याङ्गनामण्डलीम् ॥ ३३ ॥ कृतपरिकरबन्धास्तुङ्गपीनस्तनाब्या मणिनिवहनिबद्धा हेमकुम्भीर्दधानाः । सुरभिसलिलनिर्यद्गन्धलुब्धालिमालाः सविनयमुपतस्थुः सर्वतः स्नानदास्यः ॥ ३४ ॥ उद्गन्धैरगुरुद्रवैः सुरभिणा कस्तूरिकावारिणा स्फूर्जत्सौरभयक्षकर्दमजलैः काश्मीरनीरैरपि । पुष्पाम्भोभिरशेषतीर्थसलिलैः कर्पूरपाथोभरैः स्नानं ते परिकल्पयामि गिरिजे भत्त्या तदङ्गीकुरु ॥३५॥ प्रत्यङ्गं परिमार्जयामि शुचिना वस्त्रेण संप्रोञ्छनं कुर्वे केशकलापमायततरं धूपोत्तमै—पितम् । आलीवृन्दविनिर्मितां जवनिकामास्थाप्य रत्नप्रभं भक्तत्राणपरे महेशगृहिणि स्नानाम्बरं मुच्यताम् ३६ ॥ पीतं ते परिकल्पयामि निबिडं चण्डातकं चण्डिके सूक्ष्म स्निग्धमुरीकुरुष्व वसनं सिन्दूरपूरप्रभम् । १. 'हृता' क. २. 'स्थाय रम्यप्रभा' क. ३. 'चन्द्रानकं' क.

१२० काव्यमाला। मुक्तारत्नविचित्रहेमरचनाचारुप्रभाभाखरं नीलं कञ्चकमर्पयामि गिरिशप्राणप्रिये सुन्दरि ॥ ३७ ॥ विलुलितचिकुरेण च्छादितांसप्रदेशे मणिनिकरविराजत्पादुकान्यस्तपादे । सुललितमवलम्ब्य द्राक्सखीमंसदेशे गिरिशगृहिणि भूषामण्डपाय प्रयाहि ॥ ३८ ॥ लसत्कनककुट्टिमस्फुरदमन्दमुक्तावली- समुल्लसितकान्तिभिः कलितशकचापव्रजे। महाभरणमण्डपे निहितहेमसिंहासनं सखीजनसमावृतं समधितिष्ठ कात्यायनि ॥ ३९॥ स्निग्धं कङ्कतिकामुखेन शनकैः संशोध्य केशोत्करं सीमन्तं विरचय्य चारु विमलं सिन्दूररेखान्वितम् । मुक्ताभिग्रंथितालकां मणिचितैः सौवर्णसूत्रैः स्फुटं प्रान्ते मौक्तिकगुच्छकोपलतिका प्रश्नामि वेणीमिमाम् ॥ ४० ॥ विलम्बिवेणीभुजगोत्तमाङ्गस्फुरन्मणिभ्रान्तिमुपानयन्तम् । खरोचिषोल्लासितकेशपाशं महेशि चूडामणिमर्पयामि ॥ ४१ ।। त्वामाश्रयद्भिः कबरीतमिस्रर्बन्दीकृतं द्रागिव भानुबिम्बम् । मृडानि चूडामणिमादधानं वन्दामहे तावकमुत्तमाङ्गम् ॥ ४२ ॥ खमध्यनद्धहाटकस्फुरन्मणिप्रभाकुलं विलम्बिमौक्तिकच्छटाविराजितं समन्ततः । निबद्धलक्षचक्षुषा भवेन भूरि भावितं समर्पयामि भाखरं भवानि भालभूषणम् ॥ ४३ ॥ मीनाम्भोरुहखञ्जरीटसुषमाविस्तारविस्मारके कुर्वाणे किल कामवैरिमनसः कंदर्पबाणप्रभाम् । माध्वीपानमदारुणेऽतिचपले दीर्धे दृगम्भोरुहे देवि वर्णशलाकयोर्जितमिदं दिव्याञ्जनं दीयताम् ॥४४॥ १. 'विलसत्सिन्दू' क. २: 'खनद्धमध्यहाटक' क.

त्रिपुरसुन्दरीमानसिकोपचारपूजास्तोत्रम् ।
१२१
मध्यस्थारुणरत्नकान्तिरुचिरां मुक्तामुगोद्भासितां
दैवाद्भार्गवजीवमध्यगरवेर्लक्ष्मीमधः कुर्वतीम् ।
उत्सित्ताधरबिम्बकान्तिविसरैौमीभवन्मौक्तिका
मद्दत्तामुररीकुरुष्व गिरिजे नासाविभूषामिमाम् ॥ ४५ ॥
उड्डुकृतपरिवेषस्पर्धया शीतभानो-
रिव विरचितदेहद्वन्द्वमादित्यबिम्बम् ।
अरुणमणिसमुद्यत्प्रान्तविभाजिमुक्तं
श्रवसि परिनिधेहि वर्णताटङ्कयुग्मम् ॥ ४६ ॥
मरकतवरपद्मरागहीरोत्थितगुलिकात्रितयावनद्धमध्यम् ।
विततविमलमौक्तिकं च कण्ठाभरणमिदं गिरिजे समर्पयामि ॥ ४७ ॥
नानादेशसमुत्थितैर्मणिगणप्रोद्यत्प्रभामण्डल-
व्याप्तैराभरणैर्विराजितगलां मुक्ताछटालंकृताम् ।
मध्यस्थारुणरत्नकान्तिरुचिरां प्रान्तस्थमुक्ताफल-
वातामम्ब चतुष्किकां परशिवे वक्षःस्थले स्थापय ॥ ४८॥
अन्योन्यं प्लावयन्ती सततपरिचलत्कान्तिकल्लोलजालैः
कुर्वाणा मजदन्तःकरणविमलतां शोभितेव त्रिवेणी।
मुक्ताभिः पद्मरागैर्मरकतमणिभिर्निर्मिता दीप्यमान-
नित्यं हारत्रयी ते परशिवरसिके चेतसि द्योततां नः ॥ ४९॥
करसरसिजनाले विस्फुरत्कान्तिजाले
विलसदमलशोभे चञ्चदीशाक्षिलोभे ।
विविधमणिमयूखोद्भासितं देवि दुर्गे
कनककटकयुग्मं बाहुयुग्मे निधेहि ॥ ५० ॥
व्यालम्बमानसितपट्टकगुच्छशोभि
स्फूर्जन्मणीघटितहारविरोचमानम् ।
मातर्महेशमहिले तव बाहुमूले
केयूरकद्वयमिदं विनिवेशयामि ॥ ५१ ॥

१२२ काव्यमाला। विततनिजमयूनिर्मितामिन्द्रनीलै- विजितकमलनालालीनमत्तालिमालाम् । मणिगणखचिताभ्यां कङ्कणाभ्यामुपेतां कलय वलयराजी हस्तमूले महेशि ॥ ५२ ।। नीलपट्टमृदुगुच्छशोभिताबद्धनैकमणिजालमञ्जलाम् । अर्पयामि वलंयात्पुरःसरे विस्फुरत्कनकतैतृपालिकाम् ॥ ५३ ।। आलवालमिव पुष्पधन्वना बालविद्रुमलतासु निर्मितम् । अङ्गुलीषु विनिधीयतां शनैरङ्गुलीयकमिदं मदर्पितम् ॥ ५४ ॥ विजितहरमनोभूमत्तमातङ्गकुम्भ- स्थलविलुलितकूजत्किङ्किणीजालतुल्याम् । अविरतकलनादैरीशचेतो हरन्ती विविधमणिनिबद्धां मेखलामर्पयामि ॥ ५५ ॥ व्यालम्बमानवरमौक्तिकगुच्छशोभि- विभ्राजिहाटकपुटद्वयरोचमानम् । हेम्ना विनिर्मितमनेकमणिप्रबन्धं नीवीनिबन्धनगुणं विनिवेदयामि ॥ ५६ ॥ विनिहितनवलाक्षापङ्कबालातपौधे मरकतमणिराजीम मञ्जीरघोषे । अरुणमणिसमुद्यत्कान्तिधाराविचित्र- स्तव चरणसरोजे हंसकः प्रीतिमेतु ॥ ५७ ॥ निबद्धशितिपट्टकप्रवरगुच्छसंशोभितां कलक्कणितमञ्जुलां गिरिशचित्तसंमोहनीम् । अमन्दमणिमण्डली विमलकान्तिकिर्मीरितां निधेहि पदपङ्कजे कनकधुमुरूमम्बिके ॥ ५८ ॥ विस्फुरत्सहजरागरञ्जिते शिञ्जितेन कलितां सखीजनैः । पद्मरागमणिनूपुरद्वयीमर्पयामि तव पादपङ्कजे ॥ ५९॥ १. 'ललित' क.

त्रिपुरसुन्दरीमानसिकोपचारपूजास्तोत्रम् । १२३ पदाम्बुजमुपासितुं परिगतेन शीतांशुना कृतां तनुपरम्परामिव दिनान्तरागारुणाम् । महेशि नवयावकद्रवभरेण शोणीकृतां नमामि नखमण्डली चरणपङ्कजस्थां तव ॥ ६० ॥ आरक्तश्वेतपीतस्फुरदुरुकुसुमैश्चित्रितां पट्टसूत्रै- वस्त्रीभिः प्रयत्नादगुरुसमुदितैषूपितां दिव्यधूपैः । उद्यद्गन्धान्धपुष्पंधयनिवहसमारब्धझांकारगीतां चञ्जत्कारमालां परशिवरसिके कण्ठपीऽठेर्पयामि ॥ ६१ ॥ गृहाण परमामृतं कनकपात्रसंस्थापित समर्पय मुखाम्बुजे विमलवीटिकामम्बिके । विलोकय मुखाम्बुजं मुकुरमण्डले निर्मले निधेहि मणिपादुकोपरि पदाम्बुजं सुन्दरि ॥ ६२ ।। आलम्ब्य खसखीं करेण शनकैः सिंहासनादुत्थिता कूजन्मन्दमरालमञ्जलगतिप्रोल्लासिभूषाम्बरा । आनन्दप्रतिपादकैरुपनिषद्वाक्यैः स्तुता वेधसा मच्चित्ते स्थिरतामुपैति(तु) गिरिजा यान्ती सभामण्डपम् ॥६३॥ चलन्त्यामम्बायां प्रचलति समस्ते परिजने सवेगं संयाते(?) कैनकलतिकालंकृतिभरे । समन्तादुत्तालस्फुरितपदसंपातजनितै- झणत्कारैस्तारैझणझणितमासीन्मणिगृहम् ॥ ६४ ॥ चञ्चद्वेवकराभिरङ्गविलसद्भूषाम्बराभिः पुरो- यान्तीभिः परिचारिकाभिरमरवाते समुत्सारिते । रुद्धे निर्जरसुन्दरीभिरभितः कक्षान्तरे निर्गतं वन्दे नन्दितशंभु निर्मलचिदानन्दैकरूपं महः ॥ ६५ ।। ३. 'रणत्कारैस्तारैर्गु- १. 'दिव्यस्त्रीभिः' क. २. 'कलिंतललितालंकृतितरे' क. गगुणितमा' क. ४. 'समुद्गीरिते' क.

१२४ काव्यमाला। वैधाः पादतले पतत्ययमसौ विष्णुर्नमत्यग्रतः शंभुर्देहि दृगञ्चलं सुरपतिं दूरस्थमालोकय । इत्येवं परिचारिकाभिरुदिते संमाननां कुर्वती दृग्द्वन्द्वेन यथोचितं भगवती भूयाद्विभूत्यै मम ॥ ६६ ॥ मन्दं चारणसुन्दरीभिरभितोयान्तीभिरुत्कण्ठया नामोच्चारणपूर्वकं प्रतिदिशं प्रत्येकमावेदितान् । वेगादक्षिपथं गतान्सुरगणानालोकयन्ती शनै- लिप्स(र्दित्स)न्ती चरणाम्बुजं पथि जगत्पायान्महेशप्रिया ॥६७॥ अग्रे केचन पार्श्वयोः कतिपये पृष्ठे परे प्रस्थिता आकाशे समवस्थिताः कतिपये दिक्षु स्थिताश्चापरे । संमद शनकैरपास्य पुरतो दण्डप्रणामान्मुहुः कुर्वाणाः कतिचित्सुरा गिरिसुते दृक्पातमिच्छन्ति ते ॥ ६८॥ अग्रे गायति किंनरी कलपदं गन्धर्वकान्ताः शनै- रातोद्यानि च वादयन्ति मधुरं सव्यापसव्यस्थिताः । कूजनूपुरनादमञ्ज पुरतो नृत्यन्ति दिव्याङ्गना गच्छन्तः परितः स्तुवन्ति निगमस्तुत्या विरश्च्यादयः ॥ ६९॥ कौचित्सुचिरादुपासितमहामन्त्रौषसिद्धि क्रमा- देकमै भवनिस्पृहाय परमानन्दवरूपां गतिम् । अन्यस्मै विषयानुरक्तमनसे दीनाय दुःखापहं द्रव्यं द्वारसमाश्रिताय ददतीं वन्दामहे सुन्दरीम् ॥ ७० ॥ नम्रीभूय कृताञ्जलिप्रकटितप्रेमप्रसन्नानने मन्दं गच्छति संनिधौ सविनयात्सोत्कण्ठमोघत्रये । नानामन्त्रगणं तदर्थमखिलं तत्साधनं तत्फलं व्याचक्षाणमुदग्रकान्ति कॅलये यत्किंचिदाद्यं महः ॥ ७१ ॥ १. मन्दोच्चार' ख-ग. २. 'सानन्दं शनकैरपि वपुरतो' क. ३. "किंनरीकुलमिदं' क.४,'-निलये' क.

त्रिपुरसुन्दरीमानसिकोपचारपूजास्तोत्रम् । १२५ तव दहनसदृक्षैरीक्षणैरेव चक्षु- निखिलपशुजनानां भीषयद्भीषणास्यम् । कृतवसति परेशप्रेयसि द्वारि नित्यं शेरभमिथुनमुच्चैर्भक्तियुक्तो नतोऽस्मि ॥ ७२ ॥ कल्पान्ते सरसैकदासमुदितानेकार्कतुल्यप्रभा रत्नस्तम्भनिबद्धकाञ्चनगुणस्फूर्जद्वितानोत्तमाम् । कर्पूरागुरुगर्भवर्तिकलिकाप्राप्तप्रदीपावली श्रीचक्राकृतिमुल्लसन्मणिगणां वन्दामहे वेदिकाम् ॥ ७३ ॥ खस्थानस्थितदेवतागणवृते बिन्दौ मुदा स्थापितं नानारत्नविराजिहेमविलसत्कान्तिच्छटादुर्दिनम् । चञ्चत्कौसुमतूलिकासनयुतं कामेश्वराधिष्ठितं नित्यानन्दनिदानमम्ब सततं वन्दे च सिंहासनम् ॥ ७४ ।। वदद्भिरभितो मुदा जय जयेति वृन्दारकैः कृताञ्जलिपरम्परा विदधती कृतार्था दृशा । अमन्दमणिमण्डलीखचितहेमसिंहासनं सखीजनसमावृतं समधितिष्ठ दाक्षायणि ॥ ७५ ॥ कर्पूरादिकवस्तुजातमखिलं सौवर्णभृङ्गारक ताम्बूलस्य करण्डकं मणिमयं चैलाञ्चलं दर्पणम् । विस्फूर्जन्मणिपादुके च दधतीः सिंहासनस्याँभित- स्तिष्ठन्तीः परिचारिकास्तव सदा वन्दामहे सुन्दरि ॥ ७६ ॥ त्वदमलवपुरुद्यत्कान्तिकल्लोलजालैः स्फुटमिव दधतीभिर्बाहुविक्षेपलीलाम् । मुहुरपि च विधूते चामरग्राहिणीभिः सितकरकरशुभ्रे चामरे चालयामि ॥ ७७ ॥ १. 'दवदहन' ख-ग. २. 'शलभ' क. ३. 'नमामि' क. ४. "सरसै' ख-ग.५. 'दीपक. ६. 'कृतां तनु' क. ७. संबन्धसामान्यविवक्षया षष्ठी. ८. 'यदमलपुनरुद्यत्का' क. ९. 'अर्पयामि' क.

१२६ काव्यमाला। प्रान्तस्फुरद्विमलमौक्तिकगुच्छजालं चञ्चन्महामणिविचित्रितहेमदण्डम् । उद्यत्सहस्रकरमण्डलचारु हेम- छत्रं महेशमहिले 'विनिवेशयामि ॥ ७८ ॥ उद्यत्तावकदेहकान्तिपटलीसिन्दूरपूरप्रभा- शोणीभूतमुदग्रलोहितमणिच्छेदानुकारिच्छवि । दूरादादरनिर्मिताञ्जलिपुटैरालोक्यमानं सुर- व्यूहैः काञ्चनमातपत्रमतुलं वन्दामहे सुन्दरम् ॥ ७९ ॥ संतुष्टां परमामृतेन विलसत्कामेश्वराङ्कस्थितां पुष्पौधेरैभिपूजितां भगवतीं त्वां वन्दमाना मुदा । स्फूर्जत्तावकदेहरश्मिकलनाप्राप्तस्वरूपाभिदाः श्रीचक्रावरणस्थिताः सविनयं वन्दामहे देवताः ॥ ८० ॥ आधारशक्त्यादिकमाकलय्य मध्ये समस्ताधिकयोगिनीं च। मित्रेशनाथादिकमत्र नाथचतुष्टयं शैलसुते नतोऽसि ॥ ८१ ॥ त्रिपुरासुधार्णवासनमारभ्य त्रिपुरमालिनी यावत् । आवरणाष्टकसंस्थितमासनषट्कं नमामि परमेशि ॥ ८२ ॥ ईशाने गणपं स्मरामि विरद्विघ्नान्धकारच्छिदं वायव्ये बटुकं च कजलरुचिं व्यालोपवीतान्वितम् । नैर्ऋत्ये महिषासुरप्रमथिनीं दुर्गा च संपूजय- न्नामेयेऽखिलभक्तरक्षणपरं क्षेत्राधिनाथं भजे ॥ ८३ ।। उड्यानजालंधरकामरूपपीठानिमान्पूर्णगिरिप्रसक्तान् । त्रिकोणदक्षाग्रिमसव्यभागमध्य स्थितान्सिद्धिकरान्नमामि ॥ ८४ ॥ लोकेशः पृथिवीपतिर्निगदितो विष्णुर्जलानां प्रेभु- स्तेजोनाथ उमापतिश्च मरुतामीशस्तथा चेश्वरः। १. "विनिवेदयामि' क. ५. 'पति' क. २. 'रपि' क. ३. 'विलस' क. ४. 'औज्यान' का त्रिपुरसुन्दरीमानसिकोपचारपूजास्तोत्रम् । १२७ आकाशाधिपतिः सदाशिव इति प्रेताभिधामागता- नेतांश्चक्रबहिःस्थितान्सुरगणान्वन्दामहे सादरम् ॥ ८५ ॥ तारानाथकलाप्रवेशनिगमव्याजागतासुप्रथं(जाद्भुताशप्रभं) त्रैलोक्ये तिथिषु प्रवर्तितकलाकाष्ठादिकालक्रमम् । रत्नालंकृतिचित्रवस्त्रललितं कामेश्वरीपूर्वकं नित्याषोडशकं नमामि लसितं चक्रात्मनोरन्तरे ॥ ८६ ॥ हृदि भावितदैवतं प्रयत्नाभ्युपदेशानुगृहीतभक्तसंघम् । खगुरुक्रमसंज्ञचक्रराजस्थितमोघत्रयमानतोऽस्मि मूर्धा ॥ ८७ ॥ हृदयमथ शिरः शिखाखिलाये कवचमथो नयनत्रयं च देवि । मुनिजनपरिचिन्तितं तथास्त्रं स्फुरतु सदा हृदये षडङ्गमेतत् ॥ ८८ ॥ त्रैलोक्यमोहनमिति प्रथिते तु चक्रे चञ्चद्विभूषणगणत्रिपुराधिवासे । रेखात्रये स्थितवतीरणिमादिसिद्धी- मुद्रा नमामि सततं प्रकटामिधास्ताः ॥ ८९ ॥ सर्वाशापरिपूरके वसुदलद्वन्द्वेन विभाजिते विस्फूर्जत्रिपुरेश्वरीनिवसतौ चक्रे स्थिता नित्यशः । कामाकर्षणिकादयो मणिगणभ्राजिष्णुदिव्याम्बरा योगिन्यः प्रदिशन्तु कासितफलं विख्यातगुप्ताभिधाः ॥ ९० ॥ महेशि वसुभिर्दलैर्लसति सर्वसंक्षोभणे विभूषणगणस्फुरत्रिपुरसुन्दरीसद्मनि । अनङ्गकुसुमादयो विविधभूषणोद्भासिता दिशन्तु मम काङ्कितं तनुतराश्च गुप्ताभिधाः ॥ ९१ ॥ लसद्युगदृशारके स्फुरति सर्वसौभाग्यदे शुभाभरणभूषितत्रिपुरवासिनीमन्दिरे । स्थिता दधतु मङ्गलं सुभगसर्वसंक्षोभिणी- मुखाः सकलसिद्धयो विदितसंप्रदायाभिधाः ॥ ९२ ॥ १. 'दुपदेशा' क. २. 'चित्रितं' क. ३. 'भिधानाः' क.

MASHARAMINATHANIRAMNADA १२८ काव्यमाला। बहिर्दशारे सर्वार्थसाधके त्रिपुराश्रयाः । कुलकौलाभिधाः पान्तु सर्वसिद्धिप्रदायिकाः ॥ ९३ ।। अन्तःशोभिदशारकेऽतिललिते सर्वादिरक्षाकरे मालिन्या त्रिपुराद्यया विरचितावासे स्थितं नित्यशः । नानारत्नविभूषणं मणिगणभ्राजिष्णु दिव्याम्बरं सर्वज्ञादिकशक्तिवृन्दमनिशं वन्दे निगर्भाभिधम् ॥ ९४ ॥ सर्वरोगहरेऽष्टारे त्रिपुरासिद्धयान्विते । रहस्ययोगिनीनित्यं वशिन्याद्या नमाम्यहम् ॥ ९५ ॥ चूताशोकविकासिकेतकरजःप्रोद्भासिनीलाम्बुज- प्रस्फूर्जन्नवमल्लिकासमुदितैः पुष्पैः शरान्निर्मितान् । रम्यं पुष्पशरासनं सुललितं पाशं तथा चाकुशं वन्दे तावकमायुधं परशिवे चक्रान्तराले स्थितम् ॥ ९६ ॥ त्रिकोण उदितप्रभ जगति सर्वसिद्धिप्रदे युते त्रिपुरयाम्बया स्थितवती च कामेश्वरी । तनोतु मम मङ्गलं सकलशर्म वज्रेश्वरी करोतु भगमालिनी स्फुरतु मामके चेतसि ॥ ९७ ॥ सर्वानन्दमये समस्तजगतामाकासिते बैन्दवे भैरव्यौ त्रिपुराद्यया विरचितावासे स्थिता सुन्दरी । आनन्दोल्लसितेक्षणा मणिगणभ्राजिष्णुभूषाम्बरा विस्फूर्जद्वदना परापररहः सा पातु मां योगिनी ॥ ९८ ॥ उल्लसत्कनककान्तिभासुरं सौरभस्फुरणवासिताम्बरम् । दूरतः परिहृतं मधुव्रतैरर्पयामि तव देवि चम्पकम् ॥ ९९ ॥ वैरमुद्धतमपास्य शंभुना मस्तके विनिहितं कलाच्छलात् । गन्धलुब्धमधुपाश्रितं सदा केतकीकुसुममर्पयामि ते ॥ १० ॥ चूर्णीकृतं द्रागिव पद्मजेन त्वदाननस्पर्धिसुधांशुबिम्बम् । समर्पयामि स्फुटमञ्जलिस्थं विकासिजातीकुसुमोत्करं ते ॥१०१॥ १. त्रिपुरमालिन्या. २. त्रिपुरासिद्धया चक्रेश्वया. ३. त्रिपुरभैरव्या.

त्रिपुरसुन्दरीमानसिकोपचारपूजास्तोत्रम् । १२९ अगरुबहलधूपाजस्रसौरभ्यरम्या मरकतमणिराजीराजिहारिस्रगाभाम् । दिशि विदिशि विसर्पगन्धलुब्धालिमालां बकुलकुसुममालां कण्ठपीठेऽर्पयामि ॥ १०२ ॥ ईंकारोर्ध्वगबिन्दुराननमधोबिन्दुद्वयं च स्तनौ त्रैलोक्ये गुरुगम्यमेतदखिलं हार्द च रेखात्मकम् । इत्थं कामकलात्मिकां भगवतीमन्तः समाराधय- नानन्दाम्बुधिमज्जने प्रलभतामानन्द) सज्जनः ॥ १०३ ॥ धूपं तेऽगरुसंभवं भगवति प्रोल्लासिगन्धोद्धुरं दीपं चैव निवेदयामि महसा हार्दान्धकारच्छिदम् । रत्न वर्णविनिर्मितेषु परितः पात्रेषु संस्थापितं नैवेद्यं विनिवेदयामि परमानन्दात्मिके सुन्दरि ॥ १०४ ॥ जातीकोरकतुल्यमोदनमिदं सौवर्णपात्रे स्थितं शुद्धान्नं शुचि मुद्गमाषचणकोद्भूतास्तथा सूपकाः । प्राज्यं माहिषमाज्यमुत्तममिदं हैयंगवीनं पृथ- पात्रेषु प्रतिपादितं परशिवे तत्सर्वमङ्गीकुरु ॥ १०५॥ दुर्गे रोहितखण्डमण्डजपलं कौर्माजखाङ्गं पृथ- क्षट्त्रिंशन्ति(?) सुसाधितानि मृदुना सद्ध्यञ्जनान्यग्मिना । संपन्नानि च वेसवारविसरैर्दिव्यानि भक्त्या कृता- न्यग्रे ते विनिवेदयामि गिरिजे सौवर्णपात्रव्रजे ॥ १०६ ॥ माषव्यञ्जनजातमुत्तमतमं मुद्गप्रकारान्बहू- न्हारिद्रक्वथिकारसैविलुलितापूपांस्तथा चाणकान् । मांसं सर्पिषि साधितं बहुतरं शूलाकृतं मारिचं मत्स्यांश्चैव सुसंस्कृतान्परशिवे संस्थापयाम्यग्रतः ॥ १०७ ।। १. 'शिम्बीसूरणशाकबिम्बबृहतीकूष्माण्डकोशातकीवृन्ताकानि पटोलकानि मृदुना संसाधितान्यग्निना' ख. नव० गु०१२ काव्यमाला। निम्बूकाकचूतकन्दकदलीकौशातकीकर्कटी- धात्रीविल्वकरीरकैविरचितान्यानन्दचिद्विग्रहे । राजीभिः कटुतैलसैन्धवहरिद्राभिः स्थितान्पातये संधानानि निवेदयामि गिरिजे भूरिप्रकाराणि ते ॥ १०८ ॥ सितयाञ्चितलड्डुकव्रजान्मृदुपूपान्मृदुलाश्च पूरिकाः । परमान्नमिदं च पार्वति प्रणयेन प्रतिपादयामि ते ॥ १०९॥ दुग्धमेतदनले सुसाधितं चन्द्रमण्डलनिभं तथा दधि । फाणितं शिखरिणी सितासितां सर्वमम्ब विनिवेदयामि ते॥११०॥ अग्रे ते विनिवेद्य सर्वममितं नैवेद्यमङ्गीकृतं ज्ञात्वा तत्त्वचतुष्टयं प्रथमतो मन्ये सुतृप्तां ततः । देवीं त्वां परिशिष्टमम्ब कनकामत्रेषु संस्थापितं शक्तिभ्यः समुपाहरामि सकलं देवेशि शंभुप्रिये ॥ १११ ।। वामेन स्वर्णपात्रीमनुपमपरमान्नेन पूर्णी दधाना- मन्येन स्वर्णदवीं निजजनहृदयाभीष्टदां धारयन्तीम् । सिन्दूरारक्तवस्त्रां विविधमणिलसद्भूषणां मेचकाङ्गी तिष्ठन्तीमग्रतस्ते मधुमदमुदितामन्नपूर्णा नमामि ॥ ११२ ॥ पतंयोपविष्टान्परितस्तु चक्र शक्त्या खयालिङ्गितवामभागान् । सर्वोपचारैः परिपूज्य भक्त्या तवाम्बिके पारिषदान्नमामि ॥ ११३ ॥ परमामृतमत्तसुन्दरीगणमध्यस्थितमर्कभासुरम् । परमामृतघूर्णितेक्षणं किमपि ज्योतिरुपास्महे परम् ॥ ११४ ॥ दृश्यते तव मुखाम्बुजं शिवे श्रूयते स्फुटमनाहतध्वनिः । अर्चने तव गिरामगोचरे न प्रयाति विषयान्तरं मनः ॥ ११५ ॥ त्वन्मुखाम्बुजविलोकनोल्लसत्प्रेमनिश्चलविलोचनद्वयीम् । उन्मनीमुपगतां समामिमां भावयामि परमेशि तावकीम् ॥११६ ॥ चक्षुः पश्यतु नेह किंचन परं घ्राणं न वा जिघ्रतु श्रोत्रं हन्त शृणोतु न त्वगपि न स्पर्श समालम्बताम् ।

त्रिपुरसुन्दरीमानसिकोपचारपूजास्तोत्रम् । १३१ जिह्वा वेत्तु न वा रसं मम परं युष्मत्स्वरूपामृते नित्यानन्दविघूर्णमाननयने नित्यं मनो मजतु ॥ ११७ ॥ यस्त्वां पश्यति पार्वति प्रतिदिनं ध्यानेन तेजोमयीं मन्ये सुन्दरि तत्त्वमेतदखिलं वेदेषु निष्ठां गतम् । यस्तस्मिन्समये तवार्चनविधावानन्दसान्द्राशयो यातोऽहं तदभिन्नतां परशिवे सोऽयं प्रसादस्तव ॥ ११८ ॥ गणाधिनाथं बटुकं च योगिनीः क्षेत्राधिनाथं च विदिक्चतुष्टये । सर्वोपचारैः परिपूज्य भक्तितो निवेदयामो बलिमुक्तयुक्तिभिः ॥११९॥ वीणामुपान्ते खलु वादयन्त्यै निवेद्य शेषं खलु शेषिकायै । सौवर्णभृङ्गारविनिर्गतेन जलेन शुद्धाचमनं विधेहि ॥ १२० ।। ताम्बूलं विनिवेदयामि विलसत्कर्पूरकस्तूरिका- जातीपूगलवङ्गचूर्णखदिरैर्भक्त्या समुल्लासितम् । स्फूर्जद्रत्नसमुद्गकप्रणिहितं सौवर्णपात्रे स्थितै- दीपैरुज्ज्वलमन्नचूर्णरचितैरारार्तिकं गृह्यताम् ॥ १२१ ॥ काचिद्गायति किंनरी कलपदं वाद्यं दधानोर्वशी रम्भा नृत्यति केलिमञ्जुलपदं मातः पुरस्तात्तव । कृत्यं प्रोज्झ्य सुरस्त्रियो मधुमदव्याघूर्णमानेक्षणं नित्यानन्दसुधाम्बुधिं तव मुखं पश्यन्ति हृष्यन्ति च ॥१२२॥ ताम्बूलोद्भासिवस्त्वदमलवदनालोकनोल्लासिनेत्र- श्चक्रस्थैः शक्तिसंधैः परिहृतविषयासङ्गमाकर्ण्यमानम् । गीतज्ञामिः प्रकामं मधुरसमधुरं वादितं किंनरीभि- वीणाझंकारनादं कलय परशिवानन्दसंधानहेतोः ॥ १२३ ।। अर्चाविधौ ज्ञानलवोऽपि दूरे दूरे तदापादकवस्तुजातम् । प्रदक्षिणीकृत्य ततोऽर्चनं ते पञ्चोपचारात्मकमर्पयामि ॥ १२४॥ १. 'मुक्ताचित्रचतुष्कशालिनि महासौवर्णपात्रे स्थितैः' ख. २. 'सुस्थीकृत्य मनोऽ- परा' ख. ३. 'हृष्यत्त्वचः'ख. ४. 'विमलीकृते मुहुश्चित्प्रतिविश्वानन्दनाथचरणेन । मम हृदयदर्पणेऽस्मिन्प्रतिपालिता भावना तेषाम् ॥' इत्यधिका.

काव्यमाला। यथेप्सितमनोगतप्रकटितोपचारार्चितां निजावरणदेवतागणवृतां सुरेशस्थिताम् । कृताञ्जलिपुटो मुहुः कलितभूमिरष्टाङ्गकै- नमामि भगवत्यहं त्रिपुरसुन्दरि त्राहि माम् ॥ १२५ ॥ विज्ञप्तीरवधेहि मे सुमहता यत्नेन ते संनिधि प्राप्तं मामिह कांदिशीकमधुना मातर्न दूरीकुरु । चित्तं त्वत्पदभावने व्यभिचरेदृग्वा च मे जातु चे- त्तत्सौम्ये स्वगुणैर्बधान न यथा भूयो विनिर्गच्छति ॥ १२६ ॥ क्वाहं मन्दमतिः क चेदमखिलैरेकान्तभक्तैः स्तुतं ध्यातं देवि तथापि ते स्वमनसा श्रीपादुकापूजनम् । कादाचित्कमदीयचिन्तनविधौ संतुष्टया शर्मदं स्तोत्रं देवतया तया प्रकटितं मन्ये मदीयानने ॥ १२७ ॥ नित्यार्चनमिदं चित्ते भाव्यमानं सदा मया । निबद्धं विविधैः पद्यैरनुगृह्णातु सुन्दरी ॥ १२८ ॥ इति श्रीपरमहंसपरिव्राजकाचार्यश्रीमच्छंकराचार्यविरचितं श्रीत्रिपुरसुन्दरी- मानसिकोपचारपूजास्तोत्रं समाप्तम् । श्रीसुन्दराचार्यकविनिर्मित गीतिशतकम् । किं देवैः किं जीवैः किं भावैस्तेऽपि येन जीवन्ति । तव चरणं शरणं मे दरहरणं देवि कान्तिमत्यम्ब ॥ १ ॥ अरुणाम्बुदनिभकान्ते करुणारसपूरपूर्णनेत्रान्ते । शरणं भव शशिबिम्बधुतिमुखि जगदम्ब कान्तिमत्यम्ब ॥ २ ॥ कलिहरणं भवतरणं शुभभरणं ज्ञानसंपदा करणम् । नतशरणं तव चरणं करोतु मे देवि कान्तिमत्यम्ब ॥ ३॥ १. गीतिशतकमिदं तिरुनेल्वेलिडिस्ट्रिक्टप्रदेशवर्तिकीलपुत्तनेरिनिवासिमिः 'जयपुरि- कृष्णमाचार्यैः श्रीनिवासाचार्यैश्चास्मत्संनिधौ प्रेषितमिति तेषामुपकारगौरवं बिभृमः,

RW
सचरणाजस्य कान्तिमत्यम्ब॥ ६॥
गीतिशतकम् ।
अमितां ममतां मम तां तनु तां तनुतां गतां पदालं ते ।
कृपया विदितो विहितो यया तवाहं हि कान्तिमत्यम्ब ॥ ४ ॥
मम चरितं विदितं चेदुदयेन्न दया कदापि ते सत्यम् ।
तदपि वदाम्ययि कुरु तां निर्हेतुकमाशु कान्तिमत्यम्ब ॥ ५॥
न बुधत्वं न विधुत्वं न विधित्वं नौमि किं तु भृङ्गत्वम् ।
अभजमहं किं सारे कंसारे वीपदेऽपि संसारे ।
रुचिमत्तां शुचिमत्तामहह त्वं पाहि कान्तिमत्यम्ब ॥ ७ ॥
मामसकृदाप्रसादाद्दुष्कृतकारीति मावमन्यख ।
स्मर किं न मया सुकृतं वर्धितमिदमद्य कान्तिमत्यम्ब ॥ ८॥
करुणाविषयं यदि मां न तनोषि यथा तथापि वर्तेऽहम् ।
भवति कृपालुत्वं ते सीदामि मृषेति कान्तिमत्यम्ब ॥ ९॥
अतुलितभवानुरागिणि दुर्वर्णाचलविहारिणि मयि त्वम् ।
समतेjया प्रसादं न विधत्से किं नु कान्तिमत्यम्ब ॥ १० ॥
यां गां वाभ्यपतं यदि जीवातुस्त्वामृतेऽन्ततः को मे।
हित्वा पयोदपङ्गिं स्तोकस्य गतिः क कान्तिमत्यम्ब ॥ ११ ॥
कं वा कटाक्षलक्ष्यं न करोष्येवं मयि त्वमासीः किम् ।
किं त्वामुपालभेऽहं विधिगरीयान्हि कान्तिमत्यम्ब ॥ १२ ॥
तनुजे जननी जनयत्यहितेऽपि प्रेम हीति तन्मिथ्या ।
यदुपेक्षसे त्रिलोकी माती देवि कान्तिमत्यम्ब ॥ १३ ॥
निन्दामि साधुवगै स्तौमि पुनः क्षीणषङ्गसंसर्गम् ।
वन्दे किं ते चरणे किं स्यात्रीतिस्तु कान्तिमत्यम्ब ॥ १४ ॥
गीर्वाणवृन्दजिह्वारसायनखीयमाननीयगुणे ।
निगमान्तपञ्जरान्तरमरालिके पाहि कान्तिमत्यम्ब ॥ १५ ॥
त्रिनयनकान्ते शान्ते तान्ते खान्ते ममास्तु वद दान्ते ।
कृपया मुनिजनचिन्तितचरणे निवसाद्य कान्तिमत्यम्ब ॥ १६ ॥

00
काव्यमाला।
धुतकदने कृतमदने भृशमदने योगिशर्वभक्तानाम् ।
मणिसदने शुभरदने शशिवदने पाहि कान्तिमत्यम्ब ॥ १७ ॥
गिरितनुजे हतदनुजे वरमनुद्धाजेभिधे च हर्यनुजे ।
गुहतनुजेऽवितमनुजे कुरु करुणां देवि कान्तिमत्यम्ब ॥ १८ ॥
गजगमने रिपुदमने हरकमने क्लुप्तपापकृच्छमने ।
कलिजनने मयि दयया प्रसीद हे देवि कान्तिमत्यम्ब ॥ १९ ॥
यन्मानसे पदाजं तव संविद्भाखदाभयाभाति ।
तत्पाददासदासकदासत्वं नौमि कान्तिमत्यम्ब ॥ २० ॥
दुष्करदुष्कृतराशेर्न बिभेमि शिवे यदि प्रसादस्ते ।
दलने दृषदां टङ्कः कल्पेत न किं नु कान्तिमत्यम्ब ॥ २१ ॥
कोमलदेहं किमपि श्यामलशोभं शरन्मृगाङ्कमुखम् ।
रूपं तव हृदये मम दीपश्रियमेतु कान्तिमत्यम्ब ॥ २२ ॥
किंचनवञ्चनदक्षं पञ्चशरारेः प्रपञ्चजीवातुम् ।
चञ्चलमञ्चलमक्ष्णोरयि मयि कुरु देवि कान्तिमत्यम्ब ॥ २३ ॥
अञ्चति यं त्वदपाङ्गः किंचित्तस्यैव कुम्भदासत्वे ।
अहमहमिकया विबुधाः कलहं कलयन्ति कान्तिमत्यम्ब ॥ २४ ॥
किमिदं वदाद्भुतं ते कस्मिंश्चिल्लक्षिते कटाक्षेण ।
बृंहादीनां हृदयं दीनत्वं याति कान्तिमत्यम्ब ॥ २५ ॥
प्रायो रायोपचिते मायोपायोल्बणासुरक्षपणे ।
गेयो जायोरुबले श्रेयो भूयोऽस्तु कान्तिमत्यम्ब ॥ २६ ॥
करणं शरणं तव लसदलकं कुलकं गिरीशभाग्यानाम् ।
सरलं विरलं जयति सकरुणं तरुणां हि कान्तिमत्यम्ब ॥ २७ ॥
शंकरि नमांसि वाणी किंकरि दैतेयराड्भयंकरिते ।
करवै मुरवैर्यनुजे पुरवैर्यभिकेऽद्य कान्तिमत्यम्ब ॥ २८ ॥
तव सेवां भुवि के वा नाकाङ्क्षन्ते क्षमाभृतस्तनये ।
त्वमिव भवेयुर्यदि ते भजन्ति ये यां हि कान्तिमत्यम्ब ॥ २९ ॥

गीतिशतकम् ।
१३५
भवदवशिखाभिवीतं शीतलयेमी कटाक्षविक्षेपैः ।
कादम्बिनीव सलिलैः शिखण्डिनं देवि कान्तिमत्यम्ब ।। ३० ॥
त्वद्गुणपयःकणं मे निपीय मुक्तेरलंक्रियां गिरतु ।
चेतःशुक्तिर्मुक्तां भक्तिमिषां देवि कान्तिमत्यम्ब ॥ ३१ ॥
गुणगणमहामणीनामागमपाथोधिजन्मभाजां ते
गुणतां कदा नु भजतां मम धिषणा देवि कान्तिमत्यम्ब ॥ ३२॥
पाटीरचर्चितस्तनि कोटीरकृतक्षपाधिराट्कलिके ।
वीटीरसेन कविताधाटी कुरु मेऽद्य कान्तिमत्यम्ब ॥ ३३ ॥
तव करुणां किं ब्रूमस्त्वामप्येषानवेक्ष्य तूष्णीकाम् ।
ऊरीकरोति पापिनमपि विनतं देवि कान्तिमत्यम्ब ॥ ३४ ॥
ईशोऽपि विना भवतीं न चलितुमपि किं पुनर्वयं शक्ताः ।
किमुपेक्षसे प्रसीद क्षितिधरकन्येऽद्य कान्तिमत्यम्ब ॥ ३५ ॥
मन्मानसाम्रशाखी पल्लवितः पुष्पितोऽनुरागेण ।
हर्षेण च प्रसादाल्लघु तव फलिनोऽस्तु कान्तिमत्यम्ब ॥ ३६॥
ध्यानाम्बरवसतेर्मम मानसमेघस्य दैन्यवर्षस्य ॥
पदयुगली तव शम्पा लक्ष्मी विदधातु कान्तिमत्यम्ब ॥ ३७ ।।
कलितपनभानुतप्तं चित्तचकोरं ममातिशीताभिः ।
जीवय कटाक्षदम्भज्योत्स्लाभिर्देवि कान्तिमत्यम्ब ॥ ३८ ॥
ज्योत्स्नासध्रीचीभिर्दुग्धश्रीभिः कटाक्षवीचीभिः ।
शीतलयानीचीभिः कृपया मां देवि कान्तिमत्यम्ब ॥ ३९ ।।
रुष्टा त्वमागसा यदि तर्जय दृष्ट्यापि नेक्षसे यदि माम् ।
बाल इव लोलचक्षुः कं शरणं यामि कान्तिमत्यम्ब ॥ ४०॥
विभवः के किं कर्तुं प्रभवः करुणा न चेत्तवान्तेऽपि ।
नोच्छ्रसितुं कृतमेभिस्त्वामीश्वरि नौमि कान्तिमत्यम्ब ॥४१॥
जित्वा मदमुखरिपुगणमित्वा त्वद्भक्तभावसाम्राज्यम् ।
गत्वा सुखं जनोऽयं वर्तेत कदा नु कान्तिमत्यम्ब ॥ ४२ ॥

काव्यमाला।
अखिलदिविषदालम्बे पदयुग्मं देवि ते सदालम्बे ।
जगतां गोमत्यम्ब क्षितिधरकन्येऽद्य कान्तिमत्यम्ब ॥ ४३ ।।
अत्रैव कल्पवल्लीचिन्तामणिरस्ति कामधेनुरपि ।
वेद्मि न किं यदि बुधता पुंसा लभ्येत कान्तिमत्यम्ब ।। ४४ ॥
नाहं भजामि दैवं मनसाप्यन्यत्त्वमेव दैवं मे ।
न मृषा भणामि शोधय मानसमाविश्य कान्तिमत्यम्ब ॥ ४५ ॥
खेदयसि मां मृगं किं मृगतृष्णेव प्रसीद नौमि शिवे ।
मोदय कृपया नो चेत्क नु यायां देवि कान्तिमत्यम्ब ।।
कार्य खेन स्वहितं को नाम वदेदयं जनो वेत्ति ।
त्वं वा वदसि किमस्माद्गतिस्त्वमेवास्य कान्तिमत्यम्ब ॥ १७ ॥
धन्योऽस्ति को मदन्यो दिवि वा भुवि वा करोषि चेत्करुणाम् ।
इदमपि विश्वं विश्वं मम हस्ते किं च कान्तिमत्यम्ब ॥ ४८॥
तरुणेन्दुचूडजाये त्वां मनुजा ये भजन्ति तेषां ते ।
भूतिः पदाजधूलिधूलि तिस्तु कान्तिमत्यम्ब ॥ १९ ॥
त्वामत्र सेवते यस्त्वत्सारूप्यं समेत्य सोऽमुत्र ।
हरकेल्यां त्वदसूयापात्रति चित्राङ्गि कान्तिमत्यम्ब ॥ ५० ॥
चित्रीयते मनस्त्वां दृष्ट्वा भाग्यावतारमूर्ति मे ।
किंच सुधाब्धेर्लहरी विहारितामेति कान्तिमत्यम्ब ॥ ५१ ॥
किरतु भवती कटाक्षाञ्जलजसदृक्षानसेन तादृक्षान् ।
कृतसुररक्षान्मोहनदक्षान्भीमस्य कान्तिमत्यम्ब ॥ ५२ ॥
मानसवार्धिनिलीनौ रागद्वेषौ प्रबोधवेदमुषौ ।
मधुकैटभौ तवेक्षणमीनो मे हरतु कान्तिमत्यम्ब ॥ ५३ ॥
मञ्जलभाषिणि वञ्जलकुमलललितालके लसत्तिलके ।
पालय कुवलयनयने बालं मां देवि कान्तिमत्यम्ब ॥ ५४ ॥
पुरमथनविलोलाभिः पटुलीलाभिः कटाक्षमालाभिः ।
शुभशीलाभिः कुवलयनीलाभिः पश्य कान्तिमत्यम्ब ॥ ५५ ॥
करुणारसानयने शरणागतपालनैककृतदीक्षे ।
प्रगुणाभरणे पालय दीनं मां देवि कान्तिमत्यम्ब ॥ ५६ ॥

गीतिशतकम् ।
१३७
नरजन्मैव वरं त्वद्भजनं येन क्रियेत चेदस्मात् ।
किमवरमेवं नो चेदतस्तदेवास्तु कान्तिमत्यम्ब ॥ ५७ ॥
यदुर्लभं सुरैरपि तन्नरजन्मादिशो नमाम्येतत् ।
सार्थय दानाद्भक्तेर्व्यर्थय मान्येन कान्तिमत्यम्ब ॥ ५८ ॥
जीवति पञ्चभिरेभिर्न विनास्त्येभिर्जनस्तनुं भजते ।
तदपि तदासीनां त्वां दरमपि नो वेत्ति कान्तिमत्यम्ब ॥ ५९॥
यत्प्रेमद्विपवदने षड्दने वा कुरुष्व तन्मयि ते ।
जात्वपि मा भूद्धेदः स्तोकेष्वस्मासु कान्तिमत्यम्ब ॥ ६०॥
शम्बररुहरुचिवदने शम्बररिपुजीविके हिमाद्रिसुते ।
अम्बरमध्ये बम्बरडम्बरचिकुरेऽव कान्तिमत्यम्ब ॥ ६१ ।।
मन्मानसपाठीनं कलिपुलिने क्रोधभानुसंतप्ते ।
सिञ्च परितो भ्रमन्तं कृपोर्मिभिर्देवि कान्तिमत्यम्ब ॥ २ ॥
यमिनः क वेद मुकुटान्यपि भवती भावयन्ति वा नो वा ।
यद्येवं मम हृदयं वेत्तु कथं ब्रूहि कान्तिमत्यम्ब ॥ ६३ ।।
क्लिश्यत्ययं जनो बत जननाद्यैरित्यहं श्रितो भवतीम् ।
तत्राप्येवं यदि वद तव किं महिमात्र कान्तिमत्यम्ब ॥ ६४ ॥
वृजिनानि सन्तु किमतस्तेषां धूत्यै न किं भवेद्वद ते ।
स्मरणं दृषदुत्क्षेपणमिव काकगणस्य कान्तिमत्यम्ब ॥ ६५ ॥
प्रसरति तव प्रसादे किमलभ्यं व्यत्यये तु किं लभ्यम् ।
लभ्यमलभ्यं किं नस्तन विना देवि कान्तिमत्यम्ब ॥ ६६ ॥
किं चिन्तयामि संविच्छरदुदयं त्वत्पदच्छलं कतकम् ।
घृष्टं यदि प्रसीदेबृदयजलं मेऽद्य कान्तिमत्यम्ब ॥ ६७ ॥
विभजतु तव पदयुगली हंसीयोगीन्द्रमानसैकचरी ।
संविदसंवित्पयसी मिलिते हृदि मेऽद्य कान्तिमत्यम्ब ।। ६८॥
कियदायुस्तत्राधैं खमेन हृतं कियच्च बाल्याद्यैः ।
कियदस्ति केन भजनं तृप्तिस्तव केन कान्तिमत्यम्ब ॥ ६९॥
वेनि न धर्ममधर्म कायक्लेशोऽस्त्यदो विचारफलम् ।
जानाम्येकं भजनं तव शुभदं हीति कान्तिमत्यम्ब ॥ ७० ॥

१३८
काव्यमाला।
स्निह्यति भोगे द्रुह्यति योगायेदं वृथाद्य मुह्यति मे ।
हृदयं किमु खतो वा परतो वा वेत्ति कान्तिमत्यम्ब ॥ ७१ ।।
न बिभीमो भवजलधेर्दरमपि दनुजारिसोदरि शिवे ते ।
आस्ते कटाक्षवीक्षातरणिर्ननु देवि कान्तिमत्यम्ब ॥ ७२ ॥
चिन्तामणौ करस्थेऽप्यटनं वीथीषु किं ब्रुवे मातः ।
वद किं मे त्वयि सत्यामन्याश्रयणे न कान्तिमत्यम्ब ॥ ७३ ॥
नरवर्णनेन रसना परवनितावीक्षणेन नेत्रमपि ।
क्रौर्येण मनोऽपि हतं भाव्यं तु न वेद्मि कान्तिमत्यम्ब ॥ ७४ ।।
त्रासितसुरपतितप्तं तप्तं किं धर्ममेव वा क्लृप्तम् ।
किमपि न संचितममितं वृजिनमये किं तु कान्तिमत्यम्ब ।। ७५ ॥
पापीत्युपेक्षसे चेत्पातुं कान्या भवेद्विना भवतीम् ।
किमिदं न वेभि सोऽयं बकमन्त्रः कस्य कान्तिमत्यम्ब ॥ ७६ ॥
वञ्चयितुं वृजिनाद्यैर्मुग्धान्भवतीं विनेतरान्नेक्षे ।
किमतः परं करिष्यसि विदितमिदं मेऽद्य कान्तिमत्यम्ब ॥७७॥
वञ्चयसि मां रुदन्तं बालमिव फलेन मां धनाढ्येन ।
मास्तु कदापि ममेदं कैवल्यं देहि कान्तिमत्यम्ब ॥ ७८ ॥
त्रय्या किं मेऽद्य गुणे तव विदिते यो यतस्तु संभवति ।
आस्तां मौक्तिकलाभे सति शुक्त्या किं नु कान्तिमत्यम्ब ॥ ७९ ॥
अद्भुतमिदं सकृद्येन ज्ञाता वा श्रियो दिशस्येभ्यः ।
ये खलु भक्तास्तेभ्यः कैवल्यं दिशसि कान्तिमत्यम्ब ॥ ८०॥
सुरनैचिकीव विबुधान्कादम्बिनिकेव नीलकण्ठमपि ।
प्रीणयसि मानसं मे शोभय हंसीव कान्तिमत्यम्ब ॥ ८१ ॥
कर्तुं मनःप्रसादं तव मयि चेत्किं करिष्यति वृजिनम् ।
जलजविकासे भानोः परिपन्थितमो नु कान्तिमत्यम्ब ॥ ८२ ।।
तव तु करुणा स्रवन्त्यां प्रवहन्त्यां स्तोकता गतेति मया ।
लुठति स्कुटति मनो मे नेदं जानासि कान्तिमत्यम्ब ॥ ८३ ॥
शोधयितुमुदासीना यदि मां पात्रं किमस्य पश्याहम् ।
मादृशि का वा वार्ता दासजने कान्तिमत्यम्ब ॥ ८४ ॥

गीतिशतकम् ।
१३९
अभजमनन्यगतिस्त्वां किं कुर्यास्त्वं न वेश्यतःप्रभृति ।
अवने वानवने वा न विचारो मेऽस्ति कान्तिमत्यम्ब ।। ८५ ॥
किं वर्तते ममास्सान्निखिलजगन्मस्तलालितं भाग्यम् ।
यमिहृदयपद्महंसीं यत्त्वां सेवेऽद्य कान्तिमत्यम्ब ॥ ८६ ॥
कर्तु जगन्ति विधिवद्भर्तु हरिवद्रीिशवद्धर्तुम् ।
लीलावती त्वमेव प्रतीयसे देवि कान्तिमत्यम्ब ॥ ८७ ॥
केचिद्विदन्ति भवती केचिन्न विदन्ति देवि सर्वमिदम् ।
त्वत्कृत्यं वद सत्यं किं लब्धं तेन कान्तिमत्यम्ब ॥ ८८ ॥
शास्त्राणि कुक्षिपूत्यै स्फूत्यै निगमाश्च कर्मणां किं तैः ।
किं तव तत्त्वं ज्ञेयं यैस्त्वत्कृपयैव कान्तिमत्यम्ब ॥ ८९ ॥
किं प्रार्थये पुनः पुनरवने भवती विना विचारः स्यात् ।
कस्याः क इति विदन्नपि दूये मोहेन कान्तिमत्यम्ब ।। ९० ॥
विदुषस्त्वां शरणं मे शास्त्रश्रमलेशवार्तयापि कृतम् ।
करजुषि नवनीते किं दुग्धविचारेण कान्तिमत्यम्ब ॥ ९१ ।।
प्रणवोपनिषन्निगमागमयोगिमनस्विवातितुङ्गेषु ।
भाहि प्रभेव तरणेमम हृदि निन्नेऽपि कान्तिमत्यम्ब ॥ ९२ ॥
स्फुटितारुणमणिशोभं त्रुटिताभिनवप्रवालमृदुलत्वम् ।
श्रुतिशिखरशेखरं ते चरणाजं स्तौमि कान्तिमत्यम्ब ।। ९३ ॥
तव चरणाम्बुजभजनादमृतरसस्यन्दिनः कदाप्यन्यत् ।
खनेऽपि किंचिदपि मे मा स्म भवद्देवि कान्तिमत्यम्ब ॥ ९४ ॥
विस्मापनं पुरारेरस्मादृग्जीविकां परात्परमम् ।
सुषुमामयं स्वरूपं सदा निषेवेय कान्तिमत्यम्ब ॥ ९५ ॥
मङ्गलमस्त्विति पिष्टं पिनष्टि गीः सर्वमङ्गलायास्ते ।
वशितजयायाश्च तथा जयेति वादोऽपि कान्तिमत्यम्ब ॥ ९६ ।।
आशासितुर्विभूत्यै भवति भवत्यै हि मङ्गलाशास्तिः ।
खामिसमृद्ध्याशंसा भृत्योन्नत्यै हि कान्तिमत्यम्ब ॥ ९७ ॥

काव्यमाला। निगमैरपरिच्छेद्यं क वैभवं तेऽल्पधीः क्व चाहमिति । तूष्णीकं मां भक्तिस्तव मुखरयति स्म कान्तिमत्यम्ब ॥ ९८ ॥ अनुकम्पापरवशितं कम्पातटसीम्नि कल्पितावसथम् । उपनिषदां तात्पर्य तव रूपं स्तौमि कान्तिमत्यम्ब ।। ९९ ।। जय धरणीधरतनये जय वेणुवनाधिराप्रिये देवि । जय जम्भभेदिविनुते जय जगतामम्ब कान्तिमत्यम्ब ॥१०॥ गुणमञ्जरिपिञ्जरितं सुन्दररचितं विभूषणं सुदृशाम् । गीतिशतकं भवत्या क्षयतु कटाक्षेण कान्तिमत्यम्ब ॥ १०१॥ वप्ता यस्य मनीषिहारतरलः श्रीवेङ्कटेशो महा- न्माता यस्य पुनः सरोजनिलया साध्वीशिरोभूषणम् । श्रीवत्साभिजनामृताम्बुधिविधुः सोऽयं कविः सुन्दरः देव्या गीतिशतं व्यधत्त महितं श्रीकान्तिमत्या मुदे ॥१०२॥ इति तिरुनेल्वेलिसप्रदेशवर्तिविठ्ठलपुरनिवासिमिः, अष्टगोत्रं तिरुमलैनल्लान्चक्रवर्तिश्रीवा- त्स्यवेङ्कटेशविद्वन्मणितनूजैः, श्रीसुन्दराचार्यकविभिरभिनिर्मितं गीतिशतकं संपूर्णम् । श्रीसामराजदीक्षितविरचितं त्रिपुरसुन्दरीमानसपूजनस्तोत्रम् । अमृतजलधिमध्योल्लासिरत्नान्तरीप- प्रसृमरकिरणालीकल्पितोद्यानशोभे । सुरतरुनिकुरम्बस्पृष्टवातायनान्त- श्चलदलिपटलीभिः क्लुप्तधूपादिकृत्ये ॥ १ ॥ मणिमयभवनेऽन्तःप्रौढमाणिक्यशाला- मधिवसति विशाला कापि ते रत्नवेदी। १. अस्य कवेः स्थानं श्रीमथुरा. समयश्च ख्रिस्तीयषोडशशतकोत्तरार्धम्. अनेन च पूजारत्नादयोऽनेके ग्रन्थाः कृताः. एतस्य पुत्रपौत्रादयोऽपि दीक्षितकामराजव्रजराजा- दयो महाकवयो ग्रन्थकारश्चासन्. एतस्य वंश्यो दीक्षितबालकृष्णशर्माद्यावधि मथु- रायां वर्तते. एतत्सर्व तत्कृतग्रन्थेभ्योऽवगम्यते.

त्रिपुरसुन्दरीमानसपूजनस्तोत्रम् । तदुपरि कृतवासं दत्तबालार्कहासं दिशतु शुभमनन्ते देवि सिंहासनं ते ॥२॥ तदुपरि धृतनानाहेतिभूषाश्मरश्मि- व्यतिकरपुनरुक्तीभूतरम्योत्तरीयाम् । गलदमलदयाम्भःसिक्तभक्तप्ररोहां प्रणवनलिनभृङ्गी भावये ज्ञानभङ्गीम् ॥ ३॥ द्रुहिणहरिहराणां मौलिसंचारशीलं मणिघटितविभूषारश्मिनिर्णेजितं च । निजमतिदृषदाहं भक्तिगङ्गापयोभिः पदयुगममलं ते देवि निर्णेजयामि ॥ ४ ॥ गरुडमणिमयूखस्पर्धिदूर्वासनाथैः कुशशिशुपरिजुष्टैः स्फीतसिद्धार्थसाथैः । उपहितसितगन्धैः साक्षतैर्वारिभिस्ते जननि चरणपझे पाद्यमाद्यं ददामि ॥ ५ ॥ फलकुसुमसनाथं नूनरत्नप्ररोह मलयजरसदिग्धं स्निग्धमुग्धाक्षतं च । दरनियमितभक्तानीकवाञ्छाप्रदाने करसरसिरुहेऽस्मिन्नर्घ्यमध्ये ददामि ॥ ६ ॥ शिशिरकिरणजातीपत्रदेवप्रसून- स्फुटितदलनवैलाक्रान्तककोलगन्धम् । शिशिरममलमेतबद्धपीयूषसख्यं सलिलमखिलमातस्त्वं प्रसन्नाचमेथाः ॥ ७ ॥ नवमणिहयपीठे प्रेतपद्मस्थितापि प्रपदतरलशोभास्पृष्टसद्विष्टरश्रि। दधिमधुघृतमिश्रं त्रिविराजोपनीतं शशिमुखि मधुपर्क त्वं मुखान्तर्नयेथाः ॥ ८ ॥ १. कुशशिशंवो नूतना दर्भाः. नव० गु०१३

१४२
काव्यमाला।
पुनराचमनं कार्य जगज्जननि सुव्रते ।
त्वच्छिक्षितेन मार्गेण यतो लोकः प्रवर्तते ॥ ९॥
त्वरितसहचरीभिर्दत्तहस्तावलम्ब
चरणनलिनमेतत्पादुकास्थं विधाय ।
प्रविश विविधशालं स्नानगेहान्तरालं
पशुपतिसहितैवाभ्यङ्गमङ्गीकुरुष्व ॥ १० ॥
अपि रसिकविगीतं भक्तचित्तानुमत्यै
सदयहृदयभावे नाहि पञ्चामृतेन ।
शशिमृगमदमुस्तागौरसिद्धार्थचूर्णैः
कुसुमजलविमित्रैः खैरमुद्वर्तयाङ्गम् ॥ ११ ॥
परिजनपरिमृष्टे त्वच्छरीरे न याव-
च्छिशिरसलिलधारां कापि चिक्षेप तावत् ।
उदयिनि जनमातः सीत्कृते बद्धभावै-
स्त्रिपुरमथनहासैीडितं क्रीडितं ते ॥ १२ ॥
अथ विमलितरत्नवर्णदुर्वर्णकुम्भै-
स्त्रिभुवनगततीर्थानीतपानीयपूर्णैः ।
स्वपयति सुरनारीवृन्दमेतत्तथापि
प्रणयजलमिदं नः स्नानकृत्यं करोतु ॥ १३ ॥
विमलधवलचीनप्रच्छदप्रावृताङ्ग्या-
स्तव शिरसिरुहेभ्यो निहरेऽम्बाम्बुबिन्दून् ।
अगरुशकलधूपैयूंप्यतां चाङ्गमङ्गं
सह पशुपतिना त्वं याहि वासोगृहान्तः ॥ १४ ।।
नवविमलविचित्रे वाससी नूतरत्न-
द्युतिकृतपुनरुक्तायामसंशोभिनी ते ।
अथ कुचपरिणाहाच्छादिनीं शंभुनेत्र-
त्रितयभवदसूयां कञ्चुकीमर्पयामि ॥ १५ ॥

त्रिपुरसुन्दरीमानसपूजनस्तोत्रम् । १४३ नहनमपि कचानां कङ्कतीभिर्विधाय ग्रथितमणिविभूषां देवि वेणी करोमि । निहितनवकिरीटालम्बिमुक्तालताभि- स्ततबहलमयूखां चन्द्रलेखां विदध्याम् ॥ १६ ॥ अलिकतलविलम्बिस्फीतसीमन्तमुक्ता- सरणिघटितहीरास्पष्टचन्द्रात्ततन्द्रे । विविधमणिगणाङ्कोत्तंससंश्लिष्यदश्मा श्रवणयुगविभूषा देवि तोषाय भूयात् ॥ १७ ॥ विविधविरचनाभिभिन्नभिन्ना विभूषा जनयतु तव कण्ठे देवि कामप्यभिख्याम् । गुणिनमपि गिरीशश्लेषदत्तान्तरायं कठिनकुचयुगाग्रे हारमारोपयामि ॥ १८ ॥ दरतरलविलम्बिवर्णसूत्रान्तगुच्छे जननि तव दिशेतामङ्गदे शर्मकर्म । अथ वलयमणीनां रश्मिसंभिन्नमुद्रां जनयतु पुनरुक्तां शृङ्खलामन्तरीणाम् ॥ १९ ॥ मणिमयरशनाधःक्षुद्रघण्टानिनादा मणितगुणनिकानां स्मारकाः स्युः शिवस्य । मरकतमणिजातं मञ्जुमञ्जीरयुग्मं रचयतु शशिमौले रञ्जनं सिञ्जितेन ॥ २० ॥ अरुणमणिकृतानामङ्गुलीभूषणानां प्रभवतु पदमुझैाक्षया रञ्जितं ते । मृगमदरचितायां पत्रभङ्गीलताया- मनुभवतु दृगन्तो बन्धनं भूतभर्तुः ॥ २१ ॥ भज जननि हरिद्रां दत्तहारिद्रमुद्रां कुसुमसलिलतैलाक्रान्तकाश्मीरकोशाम् । १. किरणैः.

१४४ काव्यमाला । अथ नसि कुरु मुक्तां दन्तवासोनुषक्तां स्मितरुचिपुनरुक्तां नन्दितानेकभक्ताम् ॥ २२ ॥ सहजनलिननीले खञ्जने खञ्जनानां भवनिगडगतानां मोचने लोचने ते । जननि गिरिशचेतोरञ्जने मन्दमन्दं मसृणिमसृणितैस्तैरञ्जनैरञ्जनेयम् ॥ २३ ॥ प्रणतिभिरुपनीतं दीप्तलालाटनेत्र- प्रतिभटमिव शंभोर्मृत्युबाधाविरोधि । शशिन इव मुखेन्दोर्भेदकः कोऽपि धर्मो जनयतु मुदमुच्चैः कुङ्कुमं रकुनेत्रे ॥ २४ ॥ युगपदुपगतेन्द्रोपेन्द्ररुदादिमौलि- स्थलमुकुटविघट्टच्चण्डदण्डाभिघातैः । कृतसरणिरजस्रक्रुद्धदौवारिकैस्ते जननि भव विभूषा प्रेतपद्मासनस्य ॥ २५ ॥ अहमहमिकयाधः पातुकानां सुराणां प्रपदमपि शरीरे देवि संयोज्य शीघ्रम् । करुणरसमयीनां लोचनान्तश्छटानां कतिपयवलनाभिर्देहि पूजावकाशम् ॥ २६ ॥ अगुरुघुसृणचोरीशीरगोरोचनाभि- मलयजमृगनाभिस्फीतकर्पूरपूरैः । कुसुमसलिलघृष्टैः कल्पयित्वाङ्गरागं पटुतरपटवासैर्वासये तेऽङ्गकानि ॥ २७ ॥ कमलकुमुदमल्लीमालतीकुन्दजाती- बकुलकनकनीपाशोकचाम्पेयकाद्यैः । मरुबकतुलसीभिः केतकीबिल्वपत्र- दमनकशतपत्रैरर्चये त्वत्पदाजम् ॥ २८॥ १. मृगविशेषनयने.

त्रिपुरसुन्दरीमानसपूजनस्तोत्रम् । १४५ हारशेखरवतंसशाटिकापच्छकातुलितकञ्चुकीमुखैः । मण्डपैर्जवनिकाभिरुच्चकैः कौसुमैस्तव मुदं कदम्बये ॥ २९ ॥ कनकमयहसन्तीकोटिमध्यस्थितानां मृदुपवनधुतानां दीप्तवैश्वानराणाम् । अगरुमुपरि हुत्वा गुग्गुलु सर्जखण्डा- न्घृतजतुपरिमिश्रं त्वां शिवे धूपयामि ॥ ३० ॥ धूपवर्तितरुमन्तरान्तरा गन्धतैलपरिपूर्णदीपिकाः। आवहन्तु तव पार्श्वयोस्तरामम्बिके जवनिकापटश्रियम् ॥ ३१॥ सुरसुरभिजसर्पिःपूरिते रत्नपात्रे हिमकिरणरजोभिर्लोडितां तूलवर्तीम् । तरुणदहनयुक्तामम्ब कृत्वा ददेयं निरयनिरसनाय प्रस्फुरन्तं प्रदीपम् ॥ ३२ ॥ रजतकनकहीराद्यश्मपात्रेषु मात- विविधरससनाथै श्चोष्यलेह्यप्रपेयैः । उपहितबहुभक्ष्यैर्व्यञ्जनैश्चारुखाद्यै- र्जठरदहनतृप्तिं नित्यतृप्ते चरेथाः ॥ ३३ ॥ परस्परकुतूहलैः कवलदानरूपैः शिवे पुराणतरुणौ युवां चरतमत्र लीलाशितम् । सुगन्धि सलिलं तथा पिबतमेणनाभीरसैः सकेसरनिशाकरै रचयतं करोद्वर्तनम् ॥ ३४ ॥ पनसकदलजम्बूकर्कटीहारहूरा- मलकबदरनिम्बूदुम्बरैर्बीजपूरैः। अमृतलकुचबिल्वैर्दाडिमीनालिकेरै रुचिरुचितफलैस्ते. वर्धतां बद्धरागा ॥ ३५ ॥ शशिकरधवलानां नागवल्लीदलानां क्रमुककदरजातीचन्द्रसंयोगभाजाम् ।

काव्यमाला।
मृगमदसुरसूनुस्फीतचूर्णावृतानां
भजतु जननि रागं त्वन्मुखाम्भोजमेतत् ॥ ३६ ॥
कनकभरितपृथ्वीं मानुषानन्दमाहु-
स्तदुपरि शतकोटिकामुकानन्दमाहुः ।
जननि तव ददेयं दक्षिणां कां तथापि
प्रथय मयि दृगन्तं दक्षिणावीक्षणेन ॥ ३७॥
त्रिभुवनकुहरेऽस्मिन्पूरिते वेणुवीणा-
पटुपटहकझिल्लीतालघण्टानिनादैः ।
उरगसुरवधूभिर्गीयमानं समन्ता-
जनयतु पदमुच्चैर्देवि नीराजनं ते ॥ ३८ ॥
प्राणेषु पञ्चसु निधाय षडात्मवृत्ति-
वर्तीश्चिदग्निपरिचुम्बितजातशोभाः ।
नीराजयामि भवती भवतीव्रताप-
निर्वापहेतुमधुना मधुनालसाक्षि ॥ ३९ ॥
उरगतुरगहंसीकेकिशालूरभृङ्गी-
मदकलकलविङ्कीश्येनपारावतानाम् ।
गतिभिरुपचितोऽयं मौलितः पादमूलं
हरतु दुरितजातं देवि कर्पूरदीपः ॥ ४० ॥
जय देवि जय देवि जय विश्वाधारे
दीनानाथोद्धरणप्रवणे जनसारे ।
त्वत्पदपद्मे पझे विधृतव्यापारे
मयि दीने कुरु करुणां करुणामृतपारे ॥ ४१ ॥
अमृतोदधिमध्यस्थितनवरत्नद्वीपे
विष्वग्विकसितसुरतरुनवचम्पकनीपे
नानाकुसुमामोदिनि विधुतागरुधूपे
चिन्तामणिभवनेऽङ्गनतिष्ठत्सुरभूपे ॥ ४२ ॥

त्रिपुरसुन्दरीमानसपूजनस्तोत्रम् । माणिक्योज्ज्वलचत्वरसिंहासनशोभे शवपञ्चकमञ्चेऽञ्चितजनलोचनलोभे । सुश्वेतातपवारणचलचामरदम्भे ध्याये भवतीमनिशं कृतजगदारम्भे ॥ ४३ ।। दलितजपाकुसुमोपमवसनच्छन्नाङ्गी तरुणारुणकरुणप्रदकिरणावलिभङ्गीम् । दधतीं रचनां नयने यमुनातारङ्गी कलयन्ती कुचकोशे सुषमा नारङ्गीम् ॥ ४४ ॥ शरपञ्चकबाणासनसृणिपाशोल्लसितां मलयानिलपरिवाददमुखपद्मश्वसिताम् । बालामृतकरमण्डितचूडातटमहिता ज्योतिस्त्रितयालंकृतनयनत्रयसहिताम् ॥ ४५ ॥ पशुपतियन्त्रणपटुतररोमावलियूपी मन्मथतस्करगुप्तिक्षमनाभीकूपाम् । प्रपदालम्बिशिखामणिवृन्दारकभूपां कमलासनहरिहरमुखचिन्त्यामितरूपाम् ॥ ४६॥ काली बगला बाला तारा भुवनेशी वाराही मातङ्गी कमला वचनेशी। छिन्ना दुर्गा गङ्गा काशी कामेशी त्वत्तो नान्यत्किंचित्त्वं चिद्रसपेशी ॥ ४७ ॥ त्वं भूमिस्त्वं सलिलं त्वं तेजः प्रबलं त्वं वायुस्त्वं व्योम त्वं चित्तं विमलम् । त्वं जीवस्त्वं चेशस्त्वं ब्रह्मास्यमलं सत्यानृतयोरन्यत्त्वत्तः किं सकलम् ॥ १८ ॥ कुलकुण्डे त्वं कुरुषे शयने प्रखापं खाधिष्ठाने मिहिरायुतदीधितितापम् ।

काव्यमाला। नीला नाभौ कण्ठे शशिभा हृतपापं वर्षस्यमृतं बिन्दावानन्दावापम् ॥ ४२ ॥ त्वत्पदपद्मे चित्तं त्रिपुरे मे रमतां तत्रैव प्रतिवेलं मौलिर्मे नमताम् । यातायातक्लेशः : सद्यः संशमतां याचे भूयो भूयो भवता मे भवताम् ॥ ५० ॥ नृत्यति गायति सुरसं सुरनारीवृन्दे करतालीदानोत्सुकसुरविततानन्दे । नीराजनकाले तव मुनिजननुतवेदे चरणानतसम्राजः परिहृतभवखेदे ॥ ५१ ॥ मिलदलिपटलीभिः केवलं प्रातपूर्वः स्फुटितकुसुमगर्भः खैरसंचारिणीभिः । उपहितपटवासः पुष्पधूलीकदम्बैः प्रभवतु पदपाती देवि पुष्पाञ्जलिस्ते ॥ ५२ ।। सकृदपि विनताधिस्त्वां परिक्रम्य मात- र्भवति मखफलेषु क्षीणलोभं मनो नः । सरसिजमकरन्दाखादतृप्तो मिलिन्दः क्वचिदपि पिचुमन्दे चित्तवृत्तिं तनोति ॥ ५३ ॥ जननि खलकपोतन्यायतः पातुकाना- मधिपदकमलं ते मन्दवृन्दारकाणाम् । भवतु नयनयोस्ते गोचरः कानतिमें न लसति पुनरुच्चैः खैरमुद्रीविका चेत् ॥ ५४ ॥ विमलमुकुरबिम्बं पुण्डरीकातपत्रं शिशिरकरसमाने चामरे चामरेशि । करितुरगकदम्बं शक्तिभिर्दिश्यमानं जनय सफलमञ्चल्लोचनालोचनाभिः ॥ ५५ ॥ १. शिवता.

१४९ त्रिपुरसुन्दरीमानसपूजनस्तोत्रम् । अथ कृतपरिवाराभ्यर्चनं ते समl स्तुतिभिरनुपमाभिः पावये खां रसज्ञाम् । यदपि न रविरश्मिः खोपकारं विधत्ते तदपि कमलमालाम्लानहानि तनोति ॥ ५६ ॥ श्रवसि विशति यस्य त्वन्मनोरेकवर्णः सकृदपि विधियोगादम्बिके मानवस्य । लघुतरफलमेतद्यत्रिवर्गाश्रयत्वं परिचरति पुरस्तात्पुरुषार्थश्चतुर्थः ॥ ५७ ।। हृदयकमलमध्ये त्वां समानीय मातः पवनभरितनाडीरन्ध्रमुद्राविधिज्ञाः । दधति परमधन्याः कुण्डलीस्पर्शहृष्य- च्छशिगलदमृतौघप्लावजन्यप्रमोदम् ॥ ५८ ॥ वदति विधिकलत्रं त्वां शिवे कोऽपि कश्चि- त्रिपुरमथनपुण्यं श्रीपतेः कोऽपि भाग्यम् । प्रकृतिमिति परेऽपि प्रौढविज्ञानमेके निखिलनिगममूलं मन्महे बोधमेव ॥ ५९ ॥ कदा तव पदाम्बुजस्मरणजातरोमोद्गमः सदाशिवमदालसे जननि मातरित्युदिनरन् । निलीनकरणक्रियस्त्रिदशगर्वसर्वकषा- मखर्वपदवीं भजे हरिहरादिभिर्भाविताम् ॥ ६० ॥ त्वदीयमुखचन्दिरे चलितलोचनेन्दिन्दिरे प्रसादकुलमन्दिरे स्थगितपद्मचन्द्रन्दिरे। प्रभापटलतन्तुरे ललितहावकेलीपुरे हृतस्मरहरान्तरे धृतमतिर्भवं संतरे ॥ ६१ ॥ त्वदीयं यद्रूपं जनजननि बिन्दुत्रययुतं स्मरन्नन्तर्योगात्रिदिवपतितामाप सुरपः ।

काव्यमाला।
इदं को जानीते क्षणमपि हरार्ध प्रजपतां
हसाधै व्यालम्ब्य प्रतिफलति हंसः परिणतिः ॥ ६२ ॥
जननि निभृतं यत्ते रूपं वदत्यतिशाश्वतं
लसतु हृदि नो दीपप्रायः स कोऽपि हसात्मकः ।
स्मरणविषये येन खैरं खरेण विजृम्भता
त्रिपुरमथनः प्रापेशत्वं तदात्मकतां गतः ॥ ६३ ॥
ऋचामाचार्यासि स्तुतिशतजुषां चापि यजुषां
महाधाम्नां साम्नां प्रथितयशसोऽथर्वशिरसः ।
हरिब्रह्मेशाद्याः प्रपदकिरणोत्तंसमुकुटा-
स्तवातस्त्वां स्तोतुं जनजननि को वा प्रभवतु ॥ ६४ ॥
त्रस्यत्खञ्जनगञ्जनव्यसनिनीमुन्माथिनीं माद्यतो
जीवंजीवकुलस्य भृङ्गपटलीन्यकारबद्धव्रताम् ।
रडूच्छङ्कुविधायिनी च नलिनश्रीगर्वसर्वकषां
कारुण्यामृतवर्षिणीं मयि शिवे दृष्टिं मनाङ्मोटय ॥ ६५॥
रिजङ्गकदम्बडम्बरपरिष्वङ्गप्रसङ्गाकुल-
प्रत्यूषस्फुरमाणपङ्कजवनीसौभाग्यसर्वकषः ।
दृक्कोणः करुणाङ्कुराङ्किततनुः कोऽप्यद्रिजे मद्वपुः-
पान्थत्वे तरसा भवेत्परिकरी धन्यस्तदा स्यां न किम् ॥६६॥
समुद्यन्मार्तण्डप्रसृमरकरालीमसृणया
पदद्वन्द्वानन्दप्रणयिजनरिङ्गत्करुणया ।
ललल्लीलाभाजा परशिवपरिष्वङ्गपरया
धिया चेतः कालं नय गतनय त्वं क्षणमपि ॥ ६७ ॥
वेदैरशिभिरुज्ज्वलोपनिषदां वृन्दैरधःकल्पितैः
शास्त्राद्यैरपि तिर्यगूर्ध्वकलितैरोंकारमार्गेण च ।
विष्वङ्मात्रनिबन्धनैः परिचितेऽस्मिन्वाङ्मये पञ्जरे
कीरी काचन चेतनैकविभवा चित्ते चकास्ताच्चिरम् ॥ ६८॥

चतुःपशुपचारमानसपूजास्तोत्रम् । १५१ तरुणारुणप्रतिमरम्यरुचिं कुसुमेषुचापसृणिपाशकराम् । त्रिगुणात्परां त्रिगुणरूपमयीं भवतीमहर्निशमहं कलये ॥ ६९ ॥ इति निजमतिवैभवानुरूपामकृत कविर्भुवि सामराजनामा । समयिजनमुदेऽम्बिकासपर्याममृतसुखात्मकताविकासपर्याम् ॥ ७० ॥ इति श्रीसत्यानन्दनाथापरनामधेयसामराजदीक्षितविरचिते पूजारत्ने स्थित त्रिपुरसुन्दरीमानसपूजनस्तोत्रम् । श्रीशंकराचार्यविरचितं चतुःषष्ट्युपचारमानसपूजास्तोत्रम् । उषसि मागधमङ्गलगायनर्झटिति जागृहि जागृहि जागृहि । अतिकृपाकटाक्षनिरीक्षणैर्जगदिदं जगदम्ब सुखीकुरु ॥ १ ॥ कनकमयवितर्दिशोभमानं दिशि दिशि पूर्णसुवर्णकुम्भयुक्तम् । मणिमयगृहमध्यमेहि मातर्मयि कृपया हि समर्चनं ग्रहीतुम् ॥ २ ॥ कनककलशशोभमानशीर्ष जलधरलैंम्बि समुल्लसत्पताकम् । भगवति तव संनिवासहेतोर्मणिमयमन्दिरमेतदर्पयामि ॥३॥ तपनीयमयी सुतूलिकाकमनीया मृदुलोत्तरच्छदा । नवरत्नविभूषिता मया शिबिकेयं जगदम्ब तेऽपिता ॥४॥ कनकमयवितर्दिस्थापिते तूलिकाब्ये विविधकुसुमकीर्णे कोटिबालार्कवणे । भगवति रमणीये रत्नसिंहासनेऽस्मि- नुपविश पदयुग्मं हेमपीठे निधेहि ॥ ५॥ मणिमौक्तिकनिर्मितं महान्तं कनकस्तम्भचतुष्टयेन युक्तम् । कमनीयतमं भवानि तुभ्यं नवमुल्लोचमहं समर्पयामि ॥ १. अस्य स्तोत्रस्य पुस्तकद्वयं समासादितम् . तत्रैकं क-चिह्नितं जयपुरराजगुरुश्री- नारायणपर्वणीकराणां नवपत्रात्मकम्. अपरं ख-चिहितं चातुर्वैदिकोपाख्यगौडराम- चन्द्रशर्मतनूजनाथूनारायणशर्मणां चतुर्दशपत्रात्मकं समासादितम्. २. 'हेमपूर्णकुम्भ' क. ३. 'मण्डपमेतदेहि' ख. ४. 'चुम्बि' ख.

१५२ काव्यमाला। दूर्वया सरसिजान्वितविष्णुक्रान्तयापि सहितं कुसुमाढ्यम् । पद्मयुग्मसदृशे पदयुग्मे पाद्यमेतदुररीकुरु मातः ॥ ७ ॥ गन्धपुष्पयवसर्षपदूर्वासंयुतं तिलकुशाक्षतमिश्रम् । हेमपात्रनिहितं सह रत्नरर्ध्यमेतदुररीकुरु मातः ।। ८ ॥ जलजद्युतिना करेण जातीफलकङ्कोललवङ्गगन्धयुक्तैः । अमृतैरमृतैरिवातिशीतैर्भगवत्याचमनं विधीयताम् ॥ ९॥ निहितं कनकस्य संपुटे पिहितं रत्नपिधानकेन यत् । तदिदं भवतीकरेऽर्पितं मधुपर्क जननि प्रगृह्यताम् ॥ १० ॥ एतच्चम्पकतैलमम्ब विविधैः पुष्पैर्मुहुर्वासितं न्यस्तं रत्नमये सुवर्णचषके भृङ्गैर्धमद्भिर्वृतम् । सानन्दं सुरसुन्दरीभिरभितो हस्ते धृतं तन्मया केशेषु भ्रमरप्रभेषु सकलेष्वङ्गेषु चालिप्यते ॥ ११ ॥ मातः कुङ्कुमपङ्कनिर्मितमिदं देहे तवोद्वर्तनं भक्त्याहं कलयामि हेमरजसा संमिश्रितं केसरैः । केशानामलकैर्विशोध्य विशदान्कस्तूरिकाद्यर्चितैः स्नानं ते नवरत्नकुम्भविधिना संवासितोष्णोदकैः ॥ १२ ॥ दधिदुग्धघृतैः समाक्षिकैः सितया शर्करया समन्वितैः । स्वपयामि बताहमाहतो जननि त्वां पुनरुष्णवारिभिः ॥ १३ ॥ एलोशीरसुवासितैः सेकुसुमैर्गङ्गादितीर्थोदकै- माणिक्यद्रवमौक्तिकामृतरसैः खच्छैः सुवर्णोदकैः । मन्त्रान्वैदिकतान्त्रिकान्परिपठन्सानन्दमत्यादरा- त्लानं ते परिकल्पयामि जननि स्नानं त्वमङ्गीकुरु ॥ १४ ॥ बालार्कद्युति दाडिमीयकुसुमप्रस्पर्धि सर्वोत्तमं मातस्त्वं परिधेहि दिव्यवसनं भक्त्या मया कल्पितम् । मुक्ताभिम्रथितं सुकञ्चकमिदं खीकृत्य पीतप्रभं तप्तस्वर्णसमानवर्णमतुलं प्रावर्णमङ्गीकुरु ॥१५॥ १. 'केसरम्' ख. २. 'सुकुसुमैः' ख. ३. 'क्यामृत' ख. ४. 'मात्रिकान्' ख. ५. 'सस्पधि क. ६. 'च कञ्चुक' ख.

१५३ ३ चतुःषट्युपचारमानसपूजास्तोत्रम् । नवरत्नमये मयार्पिते कमनीये तपनीयपादुके । सविलासमिदं पदद्वयं कृपया देवि तयोर्निधीयताम् ॥ १६ ॥ बहुभिरगुरुधूपैः सादरं घूपयित्वा भगवति तव केशान्कङ्कतैर्मार्जयित्वा । सुरभिभिररविन्दैश्चम्पकैश्चार्चयित्वा झटिति कनकसूत्रैर्जूटयन्वेष्टयामि ॥ १७ ॥ सौवीराञ्जनमिदमम्ब चक्षुषोस्ते विन्यस्तं कनकशलाकया मया यत् । तन्यूनं मलिनमपि त्वदक्षिसङ्गाब्रह्मेन्द्राधभिलषणीयतामियाय ॥ १८॥ मञ्जीरे पदयोर्निधाय रुचिरां विन्यस्य काञ्ची कटौ मुक्ताहारमुरोजयोरनुपमा नक्षत्रमालां गले । केयूराणि भुजेषु रत्नवलयश्रेणी करेषु क्रमा- त्ताटके तव कर्णयोर्विनिदधे शीर्षे च चूडामणिम् ॥ १९ ॥ धम्मिल्ले तव देवि हेमकुसुमान्याधाय भालस्थले मुक्ताराजिविराजमानतिलकं नासापुटे मौक्तिकम् । मातमौक्तिकजालिकां च कुचयोः सर्वाङ्गुलीषूमिकाः कट्यां काञ्चनकिङ्किणीविनिदधे रत्नावतंसं श्रुतौ ॥२०॥ मातर्भालतले तवातिविमले काश्मीरकस्तूरिका- कर्पूरागरुभिः करोमि तिलकं देहाङ्गराँगं तव । वक्षोजादिषु यक्षकर्दमरसं सिक्तासु पुष्पाक्षतैः पादौ कुङ्कुमलेपनादिभिरहं संपूजयामि क्रमात् ॥ २१ ॥ रत्नाक्षतैस्त्वां परिपूजयामि मुक्ताफलैर्वा रुचिरैरविद्धैः । अखण्डितैर्देवि यवादिभिर्वा काश्मीरपङ्काङ्किततण्डुलैर्वा ॥ २२ ॥ जननि चम्पकतैलमिदं पुरो मृगमदोऽयमिदं पटवासकम् । सुरभिगन्धमिदं च चतुःसमं सपदि सर्वमिदं प्रतिगृह्यताम् ॥२३॥ सीमन्ते ते भगवति मया सादरं न्यस्तमेत- सिन्दूरं ते हृदयकमले हर्षवर्ष तनोतु । १. 'युते' ख. २. 'मजीरान्' क. ३. 'विराजिहेमलतिका' ख. ४. 'रागात्ततः' क. ५. 'मयं पंटवासकः' ख. नव० गु० १४ काव्यमाला॥ बालादित्यद्युतिरिव सदा लोहिता यस्य कान्ति- रैन्तर्ध्वान्तं हरतु सततं चेतसा चिन्तयामि ॥ २४ ॥ मन्दारकुन्दकरवीरलवङ्गपुष्पै- स्त्वां देवि संततमहं परिपूजयामि । जातीजपाबकुलचम्पककेतकानि नानाविधानि कुसुमानि च तेऽर्पयामि ॥ २५ ॥ मालतीबकुलहेमपुष्पिकाकाञ्चनारकरवीरकैतकैः । कर्णिकारगिरिकर्णिकादिभिः पूजयामि जगदम्ब ते वपुः ॥ २६ ॥ पारिजातशतपत्रपाटलैर्मल्लिकाबकुलचम्पकादिभिः । अम्बुजैः सुकुसुमैश्च सादरं पूजयामि जगदम्ब ते वपुः ॥ २७ ॥ लाक्षासंमिलितैः सिताभ्रसहितैः श्रीवाससंमिश्रितैः कर्पूराकलितैः सितामधुयुतैर्गोसर्पिषा लोडितैः । श्रीखण्डागरुगुग्गुलप्रभृतिभिर्नानाविधैर्वस्तुभि- धूपं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु ॥ २८ ॥ रत्नालंकृतहेमपात्रनिहितैर्गोसर्पिषा दीपितै- दीपैर्दीर्घतरान्धकारभिदुरैर्बालार्ककोटिप्रमैः । आताम्रज्वलदुज्वलज्वलनवदनप्रदीपैः : सदा मातस्त्वामहमादरादनुदिनं नीराजयाम्युच्चकैः ॥ २९॥ मातस्त्वां दधिदुग्धपायसमहाशाल्यन्नसंतानिकाः सूपापूपसिताघृतैः सवटकैः सक्षुद्ररम्भाफलैः । एलाजीरकहिङ्गनागरनिशॉकस्तूरिकासंस्कृतैः शाकैः साकमहं सुधाधिकरसैः संतर्पयाम्यम्बिके ॥ ३० ॥ सापूपसूपदधिदुग्धसिताघृतानि सुखादुभक्ष्यपरमान्नपुरःसराणि । १. 'रन्तान' क. २. 'कुरण्ट' क. ३. 'अम्बुजैश्च कुसुमैश्च' ख. ४. 'जननी धूपं' क. ५. 'सर्पिषोद्दीपितैः' क. ६. 'प्रदीपैस्तथा' ख. ७. 'कुस्तुम्बरीसंस्कृतैः' ख.

चतुःषयुपचारमानसपूजास्तोत्रम् । १५५ शाकोल्लसन्मरिचजीरकबाल्हिकानि भक्ष्याणि भक्ष जगदम्ब मयार्पितानि ॥ ३१ ॥ क्षीरमेतदिदमुत्तमोत्तमं प्राज्यमाज्यमिदमुत्तमं मधु । मातरेतदमृतोपमं त्वया संभ्रमेण परिपीयतां मुहुः ॥ ३२ ॥ उष्णोदकैः पाणियुगं मुखं च प्रक्षाल्य मातः कलधौतपात्रे । कर्पूरमिश्रेण सकुङ्कुमेन हस्तौ समुद्वर्तय चन्दनेन ॥ ३३ ॥ अतिशीतमुशीरवासितं तैपनीयावपने निवेदितम् । पटपूतमिदं जितामृतं शुचि गङ्गामृतमम्ब पीयताम् ॥ ३४ ॥ जैम्ब्वाम्ररम्भाफलसंयुतानि द्राक्षाफलाक्रोडसमन्वितानि । सनालिकेराणि सदाडिमानि फलानि ते देवि समर्पयामि ॥ ३५ ॥ कलिङ्गकोशातकिसंयुतानि जम्बीरनारङ्गसमन्वितानि । सबीजपूराणि संबादराणि फलानि ते चाम्ब समर्पयामि ॥ ३६॥ कर्पूरेण युतैलवङ्गसहितैः कङ्कोलचूर्णान्वितैः सुखादुक्रमुकैः सगौरखदिरैः सुस्निग्धजातीफलैः मातः केतकपत्रपाण्डुरुचिभिस्ताम्बूलवल्लीदलैः सानन्दं मुखमण्डनीयमतुलं ताम्बूलमङ्गीकुरु ॥ ३७॥ एलालवङ्गादिसमन्वितानि कङ्कोलकर्पूरसमिश्रितानि । ताम्बूलवल्लीदलसंयुतानि पूगानि ते देवि समर्पयामि ॥ ३८ ॥ ताम्बूलवल्लिदलनिर्जितहेमवर्ण खक्तिपूगफलमौक्तिकचूर्णयुक्तम् । रत्नस्थगिस्थितमिदं खदिरेण युक्तं ताम्बूलमम्ब वदनाम्बुरुहे गृहाण ॥ ३९ ॥ महति कनकपात्रे स्थापयित्वा विशाला- न्डमरुसदृशरूपान्बद्धगोधूमदीपान् । बहुघृतमथ तेषु न्यस्य दीपानुकम्पा- न्भुवनजननि कुर्वे नित्यमारार्तिकं ते ॥ ४० ॥ १. 'भुझ्व' ख. २. 'तपनीयाचमनैर्निवे.' ख. ३. 'आताम्र' ख. ४. 'कुष्माण्डी' ख. ५. 'सजाम्बवानि' ख. ६. 'देवि' ख. ७. 'मिन्दुरुचिमि' क. ८. 'साध' ख.

१५६ काव्यमाला। सविनयमथ दत्त्वा जानुयुग्मं धरण्यां सपदि शिरसि धृत्वा पात्रमारार्तिकस्य । खकमलसमीपे तेऽम्ब सांध त्रिवारं भ्रमयति मयि भूयात्ते कृपाः कटाक्षः ॥ ४१ ॥ अथ बहुमणिमित्रैमौक्तिकैस्त्वां विकीर्य त्रिभुवनकमनीयैः पूजयित्वा च वस्त्रैः । मिलितविविधमुक्तादिव्यलावण्ययुक्तां जननि कनकवृष्टिं दक्षिणां तेऽर्पयामि ॥ ४२ ॥ मातः काञ्चनदण्डमण्डितमिदं पूर्णेन्दुबिम्बप्रभं नानारत्नविशोभिहेमकलशं लोकत्रयाह्लादकम् । भाखन्मौक्तिकजालिकापरिवृतं प्रीत्यात्महस्ते धृतं छत्रं ते परिकल्पयामि शिरसि त्वष्ट्रा स्वयं निर्मितम् ।। ४३ शरदिन्दुमरीचिगौरवर्णैर्मणिमुकाविलसत्सुवर्णदण्डैः । जगदम्ब विचित्रचामरैस्त्वामहमानन्दभरेण वीजयामि ॥ १४ ॥ मार्तण्डमण्डलनिभो जगदम्ब योऽयं भत्तया मया मणिमयो मुकुरोऽर्पितस्ते । पूर्णेन्दुबिम्बरुचिरं वदनं खकीय- मस्मिन्विलोकय विलोलविलोचने त्वम् ॥ ४५ ॥ इन्द्रादयो नतिनतैर्मुकुटप्रदीपै- नीराजयन्ति सततं तव पादपीठम् । तस्मादहं तव समस्तशरीरमेत- नीराजयामि जगदम्ब सहस्रदीपैः ॥ ४६॥ प्रियगतिरतितुङ्गो रत्नपल्लाणयुक्तः कनकमयविभूषः स्निग्धगम्भीरघोषः । भगवति कलितोऽयं वाहनार्थ मया ते तुरगशतसमेतो वायुवेगस्तुरंगः ॥ ४७ ॥ १. 'धारण्यां' क-ख. २. 'जननि तव प्रकुर्वे नित्यमारार्तिकं ते ख. ३. 'प्रीत्यै खह ख. ४. 'पर्य' ख.

चतुःषष्ट्युपचारमानसपूजास्तोत्रम् । १५७
मधुकरवृतकुम्भे न्यस्तसिन्दूररेणुः
कनककलितघण्टः किङ्किणीशोभिकण्ठः ।
श्रवणयुगलचञ्चचामरो मेघतुल्यो
जननि तव मुदे स्तान्मत्तमातङ्ग एषः ॥ ४८॥
द्रुततरतुरगैर्विराजमानं मणिमयचक्रचतुष्टयेन युक्तम् ।
कनकमयमहं वितानवन्तं भगवति ते हि रथं समर्पयामि ॥ ४९ ॥
हयगजरथपत्तिशोभमानं दिशि दिशि दुंदुभिमेघनादयुक्तम् ।
अतिबहुचतुरङ्गसैन्यमेतद्भगवति भक्तिभरेण तेऽर्पयामि ॥ ५० ॥
परिखीकृतसप्तसागरं बहुसंपत्सहितं मयाम्ब ते ।
विपुलं धरणीतलाभिधं प्रबलं दुर्गमिदं समर्पितम् ॥ ५१ ॥
शतपत्रयुतैः खभावशीतैरतिसौरभ्ययुतैः परागपीतैः ।
भ्रमरीमुखराकृतैरनन्तैर्व्यजनैस्त्वां जगदम्ब वीजयामि ॥ ५२ ।।
भ्रमरललितलोलकुन्तलाली विगलितकाल्यविकीर्णरङ्गभूमिः ।
इयमतिरुचिरा नटी नटन्ती तव हृदये मुदमातनोतु मातः ॥ ५३ ॥
मुखनयनविलासलोलवेणीविलसितनिर्जितलोलभृङ्गमालाः ।
युवजनसुखकारिचारुलीला भगवति ते पुरतो नटन्ति बालाः ॥ ५४ ॥
रुचिरकुचतटीनां नाट्यकाले नटीनां
प्रतिगृहमथ तत्र प्रत्यहं प्रादुरासीत् ।
धिमिकितिधिमिधिद्धी धिद्धिधिद्धीधिमिद्धी
घिमिकितिधिमितत्ताथेयथेयेति शब्दः ॥ ५५ ॥
भ्रमदलिकुलतुल्या लोलधम्मिल्लभारा
सितमुखकमलोद्यदिव्यलावण्यपूरा ।
अनुपमतमवेषा वारयोषा नटन्ती
परभृतकलकण्ठी देवि धैर्य तनोतु ॥ ५६ ॥
डमरुडिण्डिमझुझुरभल्ली मृदुरवार्द्रघटाघटाहयः ।
झटिति झाकृतिभिर्जगदम्बिके मुहुरिमे हृदयं सुखयन्तु ते ॥ ५७ ॥

१५८
काव्यमाला।
विपञ्चीषु सप्त स्वरान्वादयन्त्यरतब द्वारि गायन्ति गन्धर्वकान्ताः ।
क्षणं सावधानेन चित्तेन मातः समाकर्णय त्वं मया प्रार्थितासि ॥५८॥
अभिनवकमनीयैर्नर्तनैर्नर्तकीनां
क्षणमथ रमयित्वा चेत एवं त्वदीयम् ।
स्वयमहमपि चित्रैर्नृत्यवाद्यप्रगीतै-
भगवति भवदीयं मानसं रञ्जयामि ॥ ५९॥
तव देवि गुणानुवर्णने चतुरा नो चतुराननादयः ।
तदिहैकमुखेषु जन्तुषु स्तवनं कस्तव कर्तुमीश्वरः ॥ ६० ॥
पदे पदे या परिपूजकेभ्यः सद्योऽश्वमेधादिफलं ददाति ।
तां सर्वपापक्षयहेतुभूतां प्रदक्षिणां ते परिकल्पयामि ॥ ६१ ।।
रक्तोत्पलारक्तलताप्रभाभ्यां ध्वजोर्ध्वरेखाकुलिशाङ्किताभ्याम् ।
अशेषवृन्दारकवन्दिताभ्यां नमो भवानीपदपङ्कजाभ्याम् ॥ १२ ॥
चरणनलिनयुग्मं पङ्कजैः पूजयित्वा
कनककमलमालां कण्ठदेशेऽर्पयित्वा ।
शिरसि विनिहितोऽयं रत्नपुष्पाञ्जलिस्ते
हृदयकमलमध्ये देवि हर्ष तनोतु ॥ ६३ ॥
अथ मणिमयमञ्चकाभिरामे द्युतिमति पुष्पवितानराजमाने ।
प्रसरदगरुधूपधूपितेऽस्मिन्भगवति वासगृहेऽस्तु ते निवासः ॥६॥
तव देवि सरोजचिह्नयोः पदयोनिर्जितपद्मरागयोः ।
अतिरक्ततरैरलक्तकैः पुनरुक्तां रचयामि रक्तताम् ॥ ६५ ॥
अथ मारुतशीतवासितं निजताम्बूलरसेन रञ्जितम् ।
तपनीयमये हि पट्टके मुखगण्डूषजलं निधीयताम् ॥ ६६ ॥
एतस्मिन्मणिखचिते सुवर्णपीठे त्रैलोक्याभयवरदे निधाय पादौ ।
विस्तीर्णे मृदुतरलोत्तरच्छदेऽस्मिन्पर्य के कनकमये निषीद मातः ॥६७॥
क्षणमथ जगदम्ब मञ्चकेऽस्मिन्मृदुतरतूलिकया विराजमाने ।
अतिरहसि दा शिवेन साधै सुखशयनं कुरु मां हृदि स्मरन्ती ॥१८॥

चतुःषष्ट्युपचारमानसपूजास्तोत्रम् । १५९ मुक्ताकुन्देन्दुगौरां मणिमयमुकुटां रत्नताटङ्कयुक्ता- मक्षस्रक्पुष्पहस्तामभयवरकरां चन्द्रचूडां त्रिनेत्राम् । नानालंकारयुक्तां सुरमुकुटमणिद्योतितवर्णपीठां सानन्दां सुप्रसन्नां त्रिभुवनजननी चेतसा चिन्तयामि ॥ ६९ ॥ एषा भक्त्या तव विरचिता या मया देवि पूजा खीकृत्यैनां सपदि सकलान्मेऽपराधान्क्षमख । न्यूनं यत्तत्तव करुणया पूर्णतामेति सर्व सानन्दं मे हृदयकमले तेऽस्तु नित्यं निवासः ॥ ७० ॥ पूजामिमां पठेत्प्रातः पूजां कर्तुमनीश्वरः । पूजाफलमवाप्नोति वाञ्छितार्थ च विन्दति ॥ ७१ ॥ प्रत्यहं भक्तिसंयुक्तो यः पूजनमिदं पठेत् । वाग्वादिन्याः प्रसादेन वत्सरात्स कविर्भवेत् ॥ ७२ ॥ पूजामिमां यः पठति प्रभाते मध्याह्नकालेऽप्यथवा प्रदोषे । धर्मार्थकामान्पुरुषोऽभ्युपैति देहावसाने शिवतामुपैति ॥ ७३ ॥ इति श्रीपरमहंसपरिव्राजकाचार्यश्रीमच्छंकराचार्यविरचितचतुःषष्ट्युपचार- मानसपूजास्तोत्रं समाप्तम् ।

Kavyamala Part.ix

Author
Pandit Shivadatta
Title
Kavyamala Part.ix
File name
Kavyamala Part.ix
Text
OCR done
Citation
1916
Publisher
Tukaram Jawaji. Bombay
Language
Sanskrit
Pages
163
Library
Central Archaeological Library_asi_new Delhi
Classification
Litrature
DLI number
280216
Barcode
5990010900478.00
Scanning centre
IIIT, Allahabad
Digital publisher
Digital Library Of India
VMLT id
OP0bdcEMVIm
Download PDF

Kavyamala Part.ix