Svclrc

Harshacharitha Sangraha

PDF Proofread

Front matter

।। हषचारतसंग्रहः ॥
मद्रपुरीस्थराजकीय-आङ्गलकलाशालायां
प्रधानसंस्कृताध्यापकपदमधिष्ठितवतां
श्री सुब्रह्मण्यशास्त्रिमहाशयानाम्
उपोद्घातेन सहितः।
"अभिनवभबाण-शब्दतालंकारविद्याभूषण"
ण्डितराज" "विद्वत्कवि" बिरुदभाग्भिः वात्स्यचक्रवर्तिभिः
हामहोपाध्यायः रायपेट्टै कृष्णमाचार्य:
समुद्धत्य संकलितः।
चेन्नपुयाँ
श्रीवालमनोरमामुद्रायन्त्रालये
समुद्रितः।
(पञ्चमं मुद्रणम्)
१९६०

AL
0
P
11
U.
U.
No
IAKO#O#OOOOOOUUCODONC
wn
1
23
ar
ALE
heid
bet
4
5
AI
I
-
8.9.48
ACC.
Taie
2879142

PREFACE THERE is no need for commending this new book of mine "Harsha Charita Sangraba" to the public, when it bas bestowed generous praise on a similar venture of mine, Kadambari Sangraba, published twenty years ago. My activities in this direction are the outcome of a deep-seated conviction that a sound taste for Sanskrit language and literature can be best cultivated in our youngsters, by adapting in various ways our great classics to their juvenile understanding. With this object in view, I began publishing the series 'Laghugadya Sangraha' and have brought out the following prose worke, Vemabhupala Charitam, Kadambari, Harsha Charitam and Dasakumara Charitam, and poems like Dilipa Charitam and Parvati Parinayam, the last two being adaptations of the famous Raghuvamsam and Kumara. sambhavam. These, I am gure, will meet the requirements of the HightSchool Sanskrit pupile. My Sanskrit Primer known as 'Deva Bhasha Bala Patha,' which I planned as the gateway to my adaptations, mainly consists of extracts, again, from our ancient writers. I think I am to some extent entitled to feel proud, seeing that my innovation has been appreciated in unexpected quarters, by the self-game extracts getting incorporated, though unacknowledged, in other publications.

11 The descriptive portions of Harsha Charitam, in the original, are in many respects more difficult to adapt and condense, than those of Kadambari. So a good deal of it had to be dropped for making the book suitable as a Middle Grade text. But I have taken care not to omit dialogues and portions useful for historical research, As I propose publishing separately the first two Uochvasas and a half of the third, as 'Bhatta Bana Charitam,' in this volume, I include only what might be conveniently styled Harsha Chari. tam proper. I cannot sufficiently thank Mabamahopa dhyaya S. Kuppuswamy Sastriar Avl., M.A., I.E.S. Professor of Sanskrit and Comparative Philology Presidency College, Madras who, like his predeces sor, the late Professor Rao Bahadur M, Rangachari ar in the case of my Kadambari Sangraba, helpe me considerably by going through the manuscript offering useful suggestions and encouraging met bring out this edition. In conclusion, my heartfelt thanks are due t Sri. P. P. S. Sastriar Avl., B. A. (OXON. M. A., M. R. A.S., Superintendent of Sanskrit school and Colleges, Madras, who in spite of his nume rous duties, readily found time to oblige me b furnishing this book with a very valuable intri duction. KUMBAKONAM RV. KRISHNAMACHARIA 5-8-1926.5 INTRODUCTION The idea of popularising our standard probe works by epitomising them in a convenient form, fully preserving the native vigour of the author's style and omitting unnecessarily long compounds and uninteresting puns and repetitions was first conceived by Pandit R. V. KRISHNAMACHARIAR, Readers of the Kadambari Sangraba know full well how successfully our Pandit has achieved this laborious task. Thanks to the Kadambari Sangraba, the immortal story of Kadambari is now more widely known and better appreciated by scholars and students alike. The learned Pandit has now presented the other great prose work of Banathe Harsha Charita--in an abridged form as the Harshacharita Sangraha. The story of King Sri Harsha is bere retold in an interesting and attractive form in Bana's own words. Much irrelevant matter contained in the first three Ucchvasas bag been deser vedly omitted. The interest of the reader is deftly kept up till the end by piecing together the narrative material from incident to incident with sustained charm. Bana represents a definite landmark in the history of Sanskrit literature. In his Harsha Charita, he has given us definite information about his contemporaries. By his own statements regarding his patron Sri Harsha, be enables us to find his date with fair certainty. Thanks to the Chinese iy pilgrim's authentic account and the historical researches of modern scholars, it is now definitely known that Sri Harsha Deva, king of Kanoui was born in 590 A. D. and ruled over the whole of Northern India from 606 A. D to 647 A. D. Bana was one of his foremost favourites and must therefore have flourished during the first half of the seventh century of the Christian era. King Sri Harsha Deva whose life-story is presented to us in the Harsha Charita is also a wellknown author. The name Harsba Deva appears to have been assumed by at least two kings who have also been authors. The earlier Harsha Deva is a contemporary of the famous Chinese traveller Hiquen Thsang who travelled in India during the first half of the seventh century of the Christian era. This Harsha Dova is to be identified with king Harsha Deva of Kanouj (Kanyakubja and Sthanes- Wara), the subject mattter of the Harsbacharita of Bana Tbe other Harsha Deva is the famous poet-king of Kashmir who ruled from 1113 A. D. to 1125 A. D. according to the Rajatarangini of Kalhapa. King Sri Harsha Deva of Kanouj is best remembered as the author of the three famous dramas, Ratnāvali, Nāgānanda and Priyadarśikā. P. P. S. SASTRI, B A. (OXON.), M.A., M.R.A.S.

॥ श्रीः॥ ॥ हर्षचरितसंग्रहः ॥ अस्ति पुण्य कृतामधिवासः, वासवावास इव वसुधाम- वतीर्णः, शशिकरावदातवृत्तैर्मुक्ताफले फिलैरिव गुणिभिः प्रसाधितः, श्रीकण्ठो नाम जनपदः ।। तत्र च एकदेश इव सुरराज्यस्य, प्रथमोऽवतार इव ब्रह्म- लोकस्य, प्रतिनिधिरिव चन्द्रलोकस्य, नामाभिहार इव कुबेरनग- रस्य, स्थाण्वीश्वराख्यो जनपदविशेषः । यः, तपोवनमिति मुनिभिः, यमनगरमिति शत्रुभिः, चिन्तामणिरिति अथिभिः, गुरुकुलमिति विद्यार्थिभिः, वसुधारेति विप्रैः अगृह्यत ॥ ॥ विषमपदटिप्पणी ॥ शशिकरवत् चन्द्रकिरणवत् अवदातं शुद्धं वृत्तं चरितं येषां ते तादृशाः । इदं च गुणिपक्षे । मुक्ताफलपक्षे तु शशि करवत् अवदातानि धवलानि, वृत्तानि वर्तुलनि । शशिकरावदातानि च तानि वृत्तानि चेति कर्मधारयः । गुणिभिः सौशील्यादिगुणयुक्तैः सूत्रयुक्तैश्च । जनानां पदं जनपद इति केचित् । जनैः पद्यते प्राप्यते इति परे । नामाभिहारः नाम्रो विनिमयः, अपहारो वा । पर्यायान्तरमिति शंकरः । वसुधारा धनप्रवाहः ॥

२ हर्षचरितसंग्रहे च साक्षात्सहस्राक्ष इव सर्ववर्णधरं धनुर्दधानः, जलनिधिमय इव मर्यादायाम् , शशिमय इव कलासंग्रहे, गुरुर्व चसि, पृथुरुरसि, विशालो मनसि, जनकस्तपसि, बुधः सदसि, अर्जुनो यशसि, भीष्मो धनुषि, राजा पुष्पभूतिरिति नान्न बभूव ॥ तस्य च शैशवादारभ्य अन्यदेवताविमुखी भगवति भक्ति सुलभे भवे भूयसी भक्तिरभूत् । अकृतवृषभध्वजपूजाविधि स्वप्नऽप्याहारमकरोत् । अजम् अजरम् अमरगुरुम् असुरपुररिप पशुपतिं प्रपन्नः, अन्यदेवताशून्यममन्यत त्रैलोक्यम् ॥ तथा च परममाहेश्वरः स भूपालः, लोकतः शुश्राव भग चन्तं दाक्षिणात्यं भैरवाचार्यनामानं महाशैवम् । आचकाङ्क सर्वथाप्यस्य दर्शनम् ॥ अथ कदाचित्पर्यस्ते वासरे, अन्तःपुरवर्तिनं राजानमुप सृत्य प्रतीहारी विज्ञापितवती 'देव, द्वारि परिबाट आस्ते कथयति च-भैरवाचार्यवचनाद्देवमनुप्राप्तोऽस्मि इति" इति ।। सहस्रम् अक्षीणि यस्य सः सहस्राक्षः। सर्ववर्णधरं सकलब्राह्मणादि जातिपालकम् , सकलरक्तपीतादिवर्णधारकं च । मर्यादा आचारः, सीमा च कलाः चतुष्षष्ठिः, षोडश च । गुरुः महान् बृहस्पतिश्च । पृथुः विपुल: तनामा राजा च। विशालः विस्तृतः, कश्चन राजा च । जनकः उत्पादक: विदेहराजश्च । बुधः पण्डितः, चन्द्रपुत्रश्च । अर्जुनः धवलः, भीष्मः भयंकरः, भीष्माचार्यश्च । महेश्वरः भक्तिः भजनीयः यस्य स माहेश्वरः । शैव इत्यपि एवमेव । दक्षिणा भव: दाक्षिणात्यः । पर्यस्त परिणतः, गतो वा। परित्यज्य सर्व व्रजतीति परिव्राट् संन्यासी ॥ मध्यमपाण्डवश्व तृतीयोच्छ्वासः। ३ राजा तु तच्छुत्वा सादरम् "कासौ ? आनयात्रैव । प्रवेशयैनम्" इत्यब्रवीत् । तथा चाकरोत्प्रतीहारी ।। न चिराञ्च प्रविशन्तं प्रांशुम् आजानुभुजं भैक्षक्षामं पृथूत- माङ्गम् , ईषदावक्रघोणम् , अंसावलम्बिना योगपट्टकेन विरचित- वैकक्षकम् , धातुरसारुणेन कपटेन कृतोत्तरासङ्ग मस्करिणम् अद्राक्षीत् ॥ क्षितिपतिरप्युपगतमुचितेन चैनमादेरणाग्रहीत् । आसीनं च पप्रच्छ----"क भैरवार्चायः" इति । सादरेण नरपतिवचनेन मुदितमनास्तु परिव्राट् , तम् उपनगरं सरस्वतीतटवनावलम्बिनि शून्यायतने स्थितमाचचक्षे । भूयश्चाबभाषे-"अर्चयति महा- भागं भगवानाशीर्वचसा" इत्युचवा च उपनिन्ये भैरवाचार्यप्रहि- तानि रत्नवन्ति पञ्च राजतानि पुण्डरीकाणि ।। नरपतिस्तु प्रियजनप्रणयभङ्गकातरो दाक्षिण्यमनुरुध्यमानः, प्रहणलाघवं च लक्चयितुमसमर्थः, दोलायमानेन मनसा स्थित्वा कथं कथमपि तानि जग्राह । जगाद च-"सर्वफलप्रसवहेतु: प्रांशुः उन्नतः । भिक्षाणा समूहः भैक्षम् । योगपट्टकः योगसाधने दृढस्थूलस्वल्पदीर्घवस्त्रखण्डः । “पृष्ठजान्वोः समायोगे वस्त्रं वलयवदृढम् परिवेष्ट्य यदूर्ध्वजुस्तिष्ठेत्तद्योगपट्टकम् । ॥” वैकक्षकम् उपवीतवत् वक्षसि तिर्यक् क्षिप्त माल्यम् । कर्पटः वस्त्रम् । मलिनत्वादिदुष्टजीर्णवस्त्रखण्ड इति केचित् । प्रस्वेदादिमार्जनार्थहस्तम्थवस्त्रखण्ड इत्यन्ये । उत्तरे ऊर्वभागे आसज्यते इति उत्तरासङ्गः उत्तरीयम् । मस्करः वेणुः (दण्ड:) अस्यास्तीति मस्करी संन्यासी । “मस्करमस्करिणौ वेणुपरिवाजकयोः ।" राजतानि रूप्यमयानि । दोलेव आचरत् दोलायमानम् , चञ्चलम् ॥

हर्षचरितसंग्रहे - शिवभक्तिरियं नो मनोरथदुर्लभानि फलति फलानि। येनैवमस्मासु प्रीयते भगवान्भुवनगुरुभैरवाचार्यः । श्वेो द्रष्टास्मि भगवन्तम् इत्युक्त्वा च मस्करिणं व्यसर्जयत् । अनया च वार्तया परां मुदमवाप ॥ अपरेशुश्च प्रातरेवोत्थाय वाजिनमधिरुह्य समुच्छ्रितश्वेता- तपत्रः समुद्भूयमानधवलचामरयुगलः कतिपयैरेव राजपुत्रैः परि- वृतः, भैरवाचार्य द्रष्टुं प्रतस्थे । गत्वा च किंचिदन्तरं तदीयमेव अभिमुखम् आपतन्तम् अन्यतमं शिष्यम् अद्राक्षीत् । अप्राक्षीच्च- 'क भगवानास्ते' इति । सोऽकथयत् -"अस्य जीर्णमातृगृहस्यो- त्तरेण बिल्ववाटिकामध्यास्ते" इति । गत्वा च तं प्रदेशमव- ततार । प्रविवेश च बिल्ववाटिकाम् ।। अथ महतः कार्पटिकबृन्दस्य मध्ये, प्रातरेव स्नातम् , दत्ताष्टपुष्पिकम् , अनुष्ठिताग्निकार्यम् , व्याघ्रचर्मण्युपविष्टम् , प्रतस्थे “समवप्रविभ्यः स्थः" इत्यात्मनेपदम् । “एनपा द्वितीया इत्यत्र एनपेति योगविभागमाश्रित्य एनबन्तयोगे षष्ठयपि भवतीति वैयाकरणाः । अतः मातृगृहस्य उत्तरेणेत्यत्र षष्ठी। "ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा। वाराही चैव माहेन्द्री चामुण्डा सप्त मातरः॥" वाटिकाम् अध्यास्ते "अधिशीङ्स्थासां कर्म ।" कपटैः जीर्णवस्त्रैः चरन्ति इति, कर्पटं तत्त्वं विदन्ति इति वा कार्पटिकाः भिक्षवः । अष्टानां पुष्पाणां समाहारः अष्टपुष्पी, सैव अष्टपुष्पिका। तानि च पुष्पाणि चम्पकमल्लिकादीनि । पूर्वोत्तरग्रन्थपर्या- लोचनायामेवं व्याख्यैव ज्यायसी । (चन्दन) प्रभृति गन्धप्रधानं पार्थिवम् , अय॑नानादिकं रसप्रधानम् आप्यम् , प्रदीपाभरणप्रभादि रूपप्रधानं तैजसम् , अनुलेपनप्रभृति स्पर्शप्रधानं वायवीयम् , सुषिरातोद्यगीतादिकं शब्दप्रधानम आकाशीयम् , अनुध्यानं मानसम् , अस्ति सर्वत्रैवेश्वर इति निश्चयो बौद्धम् , .. . - तृतीयोच्छवासः । - विद्युत्कपिलेन आत्मतेजसा शिष्यलोकं लिम्पन्तम् , अबहुभाषिणं मन्दहासिनं सर्वोपकारिणं कुमारब्रह्मचारिणम् , धाम धर्मस्य, पत्तनं पूततायाः, शालां शीलस्य, क्षेत्रं क्षमाया, आकरं करुणायाः, समाज सौजन्यस्य, भगवन्तं साक्षादिव विरूपाक्षं भैरवाचार्य ददर्श ॥ भैरवाचार्यस्तु दूरादेव राजानं दृष्टा प्रत्युजगाम। समर्पित- श्रीफलोपायनश्च गम्भीरया गिरा स्वस्तिशब्दमकरोत् । नरपति- रपि दूरावनतः प्रणाममभिनवं चकार । आचार्योऽपि 'आ- गच्छ । अत्रोपविश' इति शार्दूलचर्मात्मीयमदर्शयत् ।। उपदर्शितप्रश्रयस्तु राजा, मधुरसमयीं प्रवर्तयन्वाचं व्या- जहार-"भगवन् , नाहसि माम् अन्यनृपस्खलितैः खलीकर्तुम् । अभूमिरयमुपचाराणाम् । अलमतियन्त्रणया । दूरस्थितोऽपि मनोरथशिष्योऽयं जनो भवताम् । माननीयं च गुरुवन्नोल्लचन- मर्हति गुरोरासनम् । आसतां च भवन्त एवात्र” इति व्याहृत्य परिजनोपनीते वाससि निषसाद । भैरवाचार्योऽपि प्रीत्या अन- तिक्रमणीयं नृपवचनमनुवर्तमानः पूर्ववत्तदेव. व्याघ्राजिनम- भजत ।। अहमेवेश्वर इति आहंकारिकम्" इति अष्टपुष्पिकां शंकरो व्याचष्टे । "अहिंसा प्रथमं पुष्पं पुष्पमिन्द्रियनिग्रहः । सर्वभूतदया पुष्पं क्षमा पुष्पं विशेषतः ॥ ज्ञानं पुष्पं तपः पुष्पं ध्यानं पुष्पं तथैव च । सत्यमष्टविधं पुष्पं विष्णोः प्रीति- करं भवेत्" इत्येवम् अष्टपुष्पिकाम परे व्याचक्षते । श्रीफलं बिल्वफलम् । यन्त्रणा निर्बन्धः॥ ---- ६ हर्षचरितसंग्रहे आसीने च सराजके परिजने शिष्यजने च, समुचित मादिकं चक्रे । क्रमेण च नृपमाधुर्यापहृतान्तःकरण उवाच- "तात, अतिनम्रतैव ते कथयति गुणानां गौरवम् । सकलसंप त्पात्रमसि। विभवानुरूपास्तु प्रतिपत्तयः। जन्मनः प्रभृत्यदत्त दृष्टिरस्मि स्वापतेयेषु । धनैरविक्रीतं क्वचित् शरीरकमस्ति । भैक्ष रक्षिताः सन्ति प्राणाः । दुर्गृहीतानि कतिचिद्विद्यन्ते विद्याक्षराणि भगवच्छिवभट्टारकपादसेवया समुपार्जिता कियत्यपि संनिहित पुण्यकणिका । स्वीक्रियताम् -यदत्रोपयोगार्हम्" इति ॥ राजा तु तं प्रत्यवादीत्-"भगवन, अनुक्तेष्वपि शरी रादिषु साधूनां स्वामिन एव प्रणयिनः । युष्मदर्शनादुपार्जितमेवा परिमितं कुशलजातम्" इति । विविधाभिश्च कथाभिश्चिरं स्थित्व गृहमगात् ॥ अन्यस्मिन् दिवसे भैरवाचार्योऽपि राजानं द्रष्टुं ययौ तस्मै च राजा सान्तःपुरं सपरिजनं सकोशमात्मानं निवेदित वान् । स च विहस्य "तात, क विभवाः ? क च वयं वन वर्धिता:?" इत्युक्त्वा स्थित्वा च कंचित्कालं जगाम ।। परिव्राट् तेनैव क्रमेण पञ्च पञ्च राजतानि पुण्डरीकाण्यु पायनीचकार । एकदा तु श्वेतकर्पटावृतं किमप्यादाय प्राविशत् प्रविश्य च पूर्ववस्थित्वा मुहूर्तमब्रवीत्-'महाभाग, भवन्तमा भगवान् , यथा-'अस्मच्छिष्यः पातालस्वामिनामा ब्राह्मणः गौरवम् उत्कर्षः, भारवत्त्वं च । भाराकान्तो हि नम्रो भवति स्वपतौ साधु स्वापतेयं धनम्। "पथ्यतिथिवसतिस्वपतेढञ्" ॥

तृतीयोच्छवासः। तेन ब्रह्मराक्षसहस्तादपहृतो महासिः अट्टहासनामा । सोऽयं भव- द्भुजयोग्यो गृह्यताम्' इति" इत्यभिधाय, अपहृतकर्पटावच्छादना- परिवारादाचकर्ष शरद्गनमिव पिण्डतां नीतम् , कालिन्दी- प्रवाहमिव स्तम्भितजलम् , कुलमित्रं कोपस्य, अपत्यं मृत्योः, आगमनमागं लक्ष्म्याः, कृपाणम् ।। अवनिपतिस्तु तं गृहीत्वा करेण सुचिरं ददर्श । संदिदेश "वक्तव्यो भगवान्-परद्रव्यग्रहणावज्ञादुर्विदग्धमपि हि मे मनो युष्मद्विषये न शक्नोति वचनव्यतिक्रममाचरितुम्" इति । परिबाट तु गृहीते तस्मिन् , परितुष्टः ''स्वस्ति भवते । साधयामः" इत्युक्त्वा निरयासीत् ।। अथ ब्रजत्सु दिवसेषु, एकदा, भैरवाचार्यों राजानमुपह्वरे सोपग्रहमवादीत्---"तात, स्वार्थालसाः परोपकारदक्षाश्च प्रक- तयो भवन्ति भव्यानाम् । भवाशां चार्थिदर्शनं महोत्सवः । भूमिरसि सर्वलोकमनोरथानाम् । येनाभिधीयसे । श्रूयताम् भावतो महाकालहृदयनाम्नो महामन्त्रस्य कृष्णनगम्बरानुलेपेना- कल्पेन कल्पकथितेन महाश्मशाने जपकोट्या कृतपूर्वसेवोऽस्मि । तस्य वेतालसाधनावसाना सिद्धिः । असहायैश्च सा दुरापा। त्वं चालमस्मै कर्मणे । त्वयि च गृहीतभरे भविष्यन्त्य परे सहाया- स्त्रयः। एकः स एवास्माकं टीटिभनामा बालमित्रं मस्करी, यो - उपग्रहः अभ्यर्थना, अनुवृत्तिर्वा । भव्याः योग्याः। आकल्पः वेषः । अलं पर्याप्तः । नम.स्वस्तिस्वाहास्वधालंवषड्योगाच' इति चतुर्थी ।

८ हर्षचरितसंग्रहे " इति ।। भवन्तमुपतिष्ठते । द्वितीयः स पातालस्वामी । अपरो मच्छिष्य एव कर्णतालनामा द्राविडः । यदि साधु मन्यसे, ततो नीयतामयं दिङ्नागहस्तदी? गृहीताट्टहासो निशामेकामेकदिङ्मुखार्गलतां बाहुः कृतवचसि च तस्मिन् , नरेन्द्रः समभाषत-"भगवन् , परमनुगृहीतोऽस्मि अनेन शिष्यजनसामान्येन निदेशेन । कृत- परिग्रहमिवात्मानमवैमि” इति । ननन्द च तेन नरेन्द्रव्याहृतेन भैरवाचार्यः । चकार च संकेतम् --"अस्यामेव आगामिन्याम- सितपक्षचतुर्दशीक्षपायाम् इयत्या वेलायाम् अमुष्मिन्महाश्मशान- समीपभाजि शून्यायतने शस्त्रद्वितीयेन आयुष्मता द्रष्टव्या वयम् इति । अथातिक्रान्तेष्वहस्सु प्राप्तायां च तस्यामेव कृष्णचतुर्दश्यां शैवेन विधिना दीक्षितः क्षितिपो नियमवानभूत् । कृताधिवासं च संपादितगन्धधूपमाल्यादिपूजं खड्गमट्टहासमकरोत् ।। ततः परिणते दिवसे, राजा सान्तःपुरं परिजनं वश्चयित्वा खड्गमादाय एकाकी नगरान्निरगात् । अगाच्च तमुद्देशम् ।। अथ प्रत्युजग्मुस्ते त्रयः संनद्धाः स्नाताः स्रग्विणो बद्धासि- धेनवः टीटिभकर्णतालपातालस्वामिनः । निवेदितवन्तश्चात्मानम् । उपतिष्ठते उपश्लिष्यति । उपाद्देवपूजासगतिकरणमित्रकरणपथिष्विति याच्यम्' इत्यात्मनेपदम् । अधिवासः वासना । “नियमदिवसादाद्ये अहनि यथाशास्त्रं विधिना मन्त्रन्यासादिः । पर्वपूजेति यावत्" इति शंकरः । एकाकी असहायः । “एकादाकिनिच्चासहाये"। संनद्धाः कवचिनः । "संनद्धो वर्मितः सनी दंशितो व्यूढकङ्कटः" इत्यमरः । असिधेनुः शस्त्री ॥

तृतीयोच्छवासः । अवनिपतिस्तु "कोऽत्र कः" इति त्रीनपृच्छत् । आचचक्षिरे च स्वं स्वं नाम त्रयोऽपि ते । तैरेव चानुगम्यमानो जगाम तां समुपकल्पितसर्वोपकरणां निःशब्दां च गभीरां च भीषणां च साधनभूमिम् अवनिपतिः ।। तस्यां च भस्मना लिखितस्य महतो मण्डलस्य मध्ये स्थितम् , रक्तचन्दनानुलेपिनो रक्तस्रगम्बराभरणस्य उत्तानशयस्य शवस्योरसि उपविश्य जातजातवेदसि मुखकुहरे प्रारब्धाग्निका- र्यम् , कृष्णोष्णीषम् , कृष्णाङ्गरागम् , कृष्णप्रतिसरम् , कृष्णवास- सम् , मुखेन किमपि जपन्तं कृष्णतिलाहुतिकरं भैरवाचार्यम- पश्यत् । उपसृत्य चाकरोन्नमस्कारम् । अभिनन्दितश्च तेन स्वव्यापारमन्वतिष्ठत् ॥ अत्रान्तरे पातालस्वामी शातक्रतवीमाशामङ्गीचकार, कर्ण- तालः कौबेरीम् , परिबाट प्राचेतसीम् । राजा तु त्रैशङ्कवेन ज्यो- तिषा अङ्कितां ककुभमलंकृतवान् ।। एवं चावस्थितेषु तेषु दिक्पालेषु विस्रब्धं कर्म साधयति भैरवं भैरवाचार्य, अतिचिरं कृतकोलाहलेषु निष्फलप्रयत्नेषु प्रत्यूहकारिषु शान्तेषु कौणपेषु, गलत्यर्धरात्रसमये, मण्डलस्य नातिदवीयसि उत्तरेण अकस्मारिक्षतिग्दीर्यत । सहसैव च तस्मा- उत्तानः शेतं उत्तानशयः । जाते जाते विद्यते, जातं जातं वेत्ति वा जातवेदाः । उष्णम् ईषते हिनस्ति इति उष्णीष शिरोवेष्टः । प्रत्यूहः विघ्नः । रात्रेः अर्धम् अर्धरात्रः । दूरः, दवीयान् , दविष्ठः । उत्तरेणेत्यव्ययम् उत्तरदशे॥ ।

१० हर्षचरितसंग्रहे द्विवरात्कुवलयश्यामलः पुरुष उज्जगाम । जगाद च विहस्य " विद्याधरीश्रद्धाकामुक, किमयं विद्यावलेपः सहायमदो वा यदस्मै जनाय अविधाय बलिं बालिश इव सिद्धिमभिलषसि का ते दुर्बुद्धिरियम् ? एतावता कालेन क्षेत्राधिपति गतस्ते श्रोत्र पकण्ठं . श्रीकण्ठनामा नागोऽहम् ? भूनाथोऽप्ययमनाथस्तपर्व यस्त्वाशैः शेवापशदैरुपकरणी क्रियते । सहस्वेदानी सहामुन दुनरेन्द्रेण दुर्नयस्य फलम्" इति। अभिधाय च निष्ठुरैः प्रकोष्ट प्रहारैस्त्रीनपि टीटिभप्रभृतीनभिमुखं प्रधावितान् सशरीरावरण कृपाणानपातयत् ॥ अथ नरनाथः सावज्ञमवादीत्-"रे काकोदर काव मयि स्थिते राजहंसे न जिहृषि बलिं याचितुम् ? अमीभिः नि वा परुषभाषितैः । भुजे वीर्य निवसति, न वाचि । प्रतिपद्यर शस्त्रम् । अयं न भवसि । अगृहीतहेतिष्वशिक्षितो मे भुज प्रहर्तुम्" इति ॥ नागस्तु अनाहततरम् “एहि । किं शस्त्रेण । भुजाभ्यामे भनज्मि भवतो दर्पम्" इत्यभिधायास्फोटयामास । नरपतिर्रा निरायुधमायुधेन युधि लजमानो जेतुम् उत्सृज्य सचर्मफलक मसिम् , अोरुकस्योपरि बबन्ध बाहुयुद्धाय कक्ष्याम् । युयुधा च शिलास्तम्भैरिव पतद्भिर्बाहुदण्डैः शब्दमयमिव कुर्वाणौ भुव विद्याधर्यां विद्याधर्या वा श्रद्धया आदरेण कामुकः विद्याधरीश्रद्ध कामुकः। बालिशः मूर्खः । अपशदः अधमः । ऊरोः अर्धे काशते इ अर्धोक चण्डातकम् , लंगोट इति भाषायाम् ॥ .

तृतीयोच्छवासः । - तौ। न चिराञ्च पातयामास भूतले भुजंगं भूपतिः । जग्राह च केशेषु । उच्चखान च शिरश्छेत्तुमट्टहासम् । अपश्यञ्च वैकक्ष- कमालान्तरेणास्य यज्ञोपवीतम् । उपसंहृतशस्त्रव्यापारश्चावादीत्- "दुर्विनीत, अस्ति ते दुविनय निर्वाहबीजमिदम् । यतो विस्रब्ध. मेवाचरसि चापलानि" इत्युक्त्वा उत्ससर्ज तम् ।। अनन्तरं च सहसैवातिबहुलां ज्योत्स्नां ददर्श । शरदि विकसतां कमलवनानामिव च घ्राणावलेपिनामामोदमजिघ्रत् । झटिति च नूपुरशब्दमशृणोत् । व्यापारयामास च शब्दानुसारेण दृष्टिम् ॥ अथ करतलस्थितस्याट्टहासस्य मध्ये तटितमिव नीलजल- धरोदरे स्फुरन्तीं तामरसहस्तां मृणालकोमलैरवयः कमलसं- भवत्वमनक्षरमाचक्षाणां स्त्रियमपश्यत् । असंभ्रान्तश्च पप्रच्छ- "भद्रे कासि ? किमर्थं वा दर्शनपथमागतासि ?" इति । सा तु स्त्रीजनविरुद्धेनावष्टम्भेन अभिभवन्तीवाभाषत तम् –“वीर, विद्धि मां नारायणोरःस्थलीविहारहरिणीम् असिधाराजलकम- लिनीं श्रियम् । अपहृतास्मि तवामुना शौर्यरसेन । याचस्व । ददामि ते वरमभिलषितम्” इति ॥ वीराणां तु अपुनरुक्ताः परोपकाराः । यतो राजा तां प्रणम्य स्वार्थविमुखो भैरवाचार्यस्य सिद्धिं ययाचे । लक्ष्मीस्तु देवी प्रीततरहृदया भूपालम् 'एवमस्तु' इत्यब्रवीत् । अवादीच पुनः 'अनेन सत्त्वोत्कर्षेण भगवच्छिवभट्टारकभक्त्या चासा. चापलम् अविमृश्यकरणम् । दर्शनस्य पन्थाः दर्शनपथः ॥

१२ हर्षचरितसंग्रहे धारण्या भवान् भुवि सूर्याचन्द्रमसोस्तृतीय इवाविच्छिन्न महतो राजवंशस्य कर्ता भविष्यति । यस्मिन्नुत्पत्स्यते सर्व पानां भोक्ता हरिश्चन्द्र इव हर्षनामा चक्रवर्ती" इति वचसोऽ तिरोबभूव ।। भूमिपालस्तु तदाकर्ण्य हृदयेन अतिमात्रमप्रीयत । भैरव चार्योऽपि तस्या देव्यास्तेन वचसा कर्मणा च सम्यगुपपादिते सद्य एव कुन्तली किरीटी कुण्डली हारी केयूरी मेखली मुद्ग खड्गी च भूत्वा अवाप विद्याधरत्वम् । प्रोवाच च-"राजन अदूरव्यापिनः फल्गुचेतसामलसानां मनोरथाः। सतां तु भु विस्तारवत्यः स्वभावेनैवोपकृतयः । स्वप्नेऽप्यसंभावितां दातुमिम् दक्षिणां क्षमः कोऽन्यो भवन्तमपहाय । संपत्कणिकामपि प्राप तुलेव लघुप्रकृतिरुन्नतिमायाति । त्वदीयैर्गुणैरुपकरणीकृत त्वत्त एव च लब्धात्मलाभस्य निर्लज्जता इयमस्य मूढहृद यस्य । तदिच्छामि येन केनचित्कार्यलवोपपादनोपयोगेन स्मरयि तुमात्मानम्” इति । प्रत्युपकारदुष्प्रवेशास्तु भवन्ति धीराणां हृद यावष्टम्भाः । यतस्तं राजा "भवसिद्धथैव परिसमाप्तकृत्योऽस्मि साधयतु मान्यो यथासमीहितं स्थानम्" इति प्रत्याचचक्षे ।। तथोक्तश्च भूभुजा जिगमिषुः सुदृढं समालिङ्घय टीटि. भादीन् , सास्रेण चक्षुषा वीक्षमाणः क्षितिपतिं पुनरुवाच- "तात, किं ब्रवीमियामीति, न स्नेहसदृशम् । त्वदीयाः प्राणा इति, पुनरुक्तम् । निष्कारणस्त वोपकार इति, अनुवादः । स्मर्तव्य। सूर्यश्च चन्द्रमाश्च सूर्याचन्द्रमसौ । गन्तुमिच्छुः जिगमिषुः ॥ । - तृतीयोच्छवासः । १३. वयमिति, आज्ञा । सर्वथा कृतघ्नालापेषु असज्जनकथासु च चेतसि कर्तव्योऽयं स्वार्थनिष्ठरो जनः" इति । एवमभिधाय गगनतलमुत्पपात, ययौ च सीमन्तितग्रहग्रामः सिद्धथुचितं धाम ॥ . । श्रीकण्ठोऽपि "राजन्, पराक्रमक्रीतः कर्तव्येषु नियोगे- नानुग्राह्यो ग्राहितविनयोऽयं जनः" इत्यभिधाय, राज्ञानुमोदित- स्तदेव भूयो भूविवरं विवेश ।। नरपतिस्तु क्षीणभूयिष्ठायां क्षपायां त्रीनपि टीटिभादीन गृहीत्वा नागयुद्धव्यतिकरमलीमसानि शुचिनि वनवापीपयसि प्रक्षाल्याङ्गानि नगरं विवेश । अन्यस्मिन्नहनि च तेषामात्मशरी- रानन्तरं स्नानभोजनाच्छादनादिना प्रीतिमकरोत् ।। कतिपयदिवसापगमे च परिबाट भूभुजा वार्यमाणोऽपि वनं ययौ । पातालस्वामिकर्णतालौ तु शौर्यानुरक्तौ तमेव सिषे. वाते। कथान्तरेषु च अन्तरान्तरा समादिष्टौ विचित्राणि भैरवा- चार्यचरितानि शैशववृत्तान्तांश्च कथयन्तौ तेनैव साधू जरां जग्मतुः ॥ ॥ इति भट्टबाणविरचिते हर्षचरिते राजवंशवर्णनं नाम तृतीय उच्छवासः ॥ अन्तरा अन्तरा मध्ये मध्ये ॥

॥ चतुर्थ उच्छासः ॥ 0 अथ तस्मात्पुष्पभूतेः, लक्ष्मीपुरःसरो रनसंचय इव रत्नाकरात् , दुर्जयबलसनाथो हरिवंश इत्र शूरात्, निर्जगाम राजवंशः । यस्मात् प्रतापाक्रान्तभुवनाः किरणा इव तेजोनिधेः, इच्छाफलदायिनः कल्पतरव इव नन्दनात् , अजायन्त राजानः॥ तेषु चैवमुत्पद्यमानेषु, क्रमेण उदपादि प्रतापशील इति प्रथितापरनामा प्रभाकरवर्धनो नाम राजाधिराजः ॥ तस्य च पार्वतीव शंकरस्य, लक्ष्मीरिव लोकगुरोः, रोहि- णीव कलावतः, अरुन्धतीव महामुनेः, हंसमयीव गतिषु, परपुष्ट. मयीव आलापेषु, चक्रवाकमयीव पतिप्रेम्णि, यशःपुष्टिरिव चारि- त्रस्य, हृदयतुष्टिरिव धर्मस्य, शमस्यापि शान्तिरिव, विनयस्यापि विनीतिरिव, धैर्यस्यापि धृतिरिव, यशोवती नाम महादेवी प्राणानां प्रणयस्य विस्रम्भस्य धर्मस्य सुखस्य च भूमिरभूत् ।। निसर्गत एव स नृपतिरादित्यभक्तो बभूव । प्रतिदिनमुदये दिनकरस्य, स्नातः सितदुकूलधारी धवलकर्पटप्रावृतशिराः प्राङ्. मुखः क्षितौ जानुभ्यां स्थित्वा कुङ्कुमपङ्कानुलिप्ते मण्डलके पवित्र- पद्मरागपात्रीनिहितेन रक्तकमलपण्डेन अचों ददौ । रत्नाकरात्, शूरादिति पुष्पभूतेरपि विशेषणम् । रत्नाकरः समुद्रः, श्रेष्टवस्तूनां निवासभूतश्च । शूरो नाम कश्चन राजा। लक्ष्म्या: पुरःसरः, लक्ष्मीसहित इत्यर्थः । बहुव्रीहिस्तु चिन्त्यः । बलं सैन्यम् , बलो बलरामश्च ॥ - अजपच्च चतुर्थोच्छवासः। प्रत्युषसि मध्यंदिने दिनान्ते च प्रयतेन मनसा मन्त्रमादित्य- हृदयम् ॥ भक्तजनानुरोधविधेयानि तु भवन्ति देवतानां मनांसि -स राजा कदाचिद्रीष्मसमये हर्म्यस्य पृष्ठे सुष्वाप । पार्थे चास्य द्वितीयशयने देवी यशोवती शिश्ये । परिणतप्रायायां तु श्यामायाम्, देवी यशोवती सहसैव "आर्यपुत्र, परित्रायव परित्रायख" इति भाषमाणा उदतिष्ठत् ।। अथ तेन ध्वनिना दग्ध इव श्रवणयोः एकपद एव निद्रां सत्याज राजा । निद्रया कोपेन चातिलोहिताभ्यां लोचनाभ्यां पाटलयपर्यन्तान् आशानाम् , “देवि, न भेतव्यम् न भेतव्यम्" इत्यभिदधानो वेगेनोत्पपात । सर्वासु च दिक्षु विक्षिप्तचक्षुर्यदा नाद्राक्षीत्किचिदपि, तदा पप्रच्छ तां भयकारणम् ।। अथ सा समभाषत-"आर्यपुत्र, जानामि स्वप्ने- वतः सवितुर्मण्डलान्निर्गत्य द्वौ कुमारको तेजोमयौ गृहीतशस्त्रो रुधिरेण स्नातौ, कन्ययैकया च सुषुम्णरश्मिनिर्गतया अनुगम्य- मानौ क्षितितलमवतीर्णौ । तौ च मे विलपन्त्याः शस्त्रेणोदरं विदार्य प्रवेष्टुमारब्धौ । प्रतिबुद्धास्मि चार्यपुत्रं विक्रोशन्ती वेपमानहृदया” इति ॥ एतस्मिन्नेव च कालक्रमे प्रथयन्निव स्वप्नफलम् उपतोरणं रराण प्रभातशङ्खः । भाविनी भूतिमिवाभिदधाना दध्वनुरमन्द दुन्दुभयः । जय जयेति प्रबोधमङ्गलपाठकानामुच्चैर्वाचोऽश्रयन्त ।। - भग- हर्षचरितसंग्रह । नरपतिस्तु तच्छ्रुत्वा प्रीयमाणेन अन्तःकरणेन तामवा. दीत्-“देवि, मुदोऽवसरे विषीदसि । समृद्धास्ते गुरुजनाशिषः । पूर्णा नो मनोरथाः । परिगृहीतासि कुलदेवताभिः । प्रसन्नस्ते भगवान् अंशुमाली । न चिरेणैव अतिगुणवदपत्यत्रयलाभेन आनन्दयिष्यति भवतीम्” इति । अवतीर्य च यथाक्रियमाणाः क्रियाश्चकार । यशोवत्यपि तुतोष तेन पत्युर्भाषितेन ॥ ततः समतिक्रान्ते कस्मिंश्चित्कालांशे, देव्यां च यशोवत्यां देवो राज्यवर्धनः प्रथममेव संबभूव गर्भे । गर्भस्थितस्यैव च यस्य यशसेव पाण्डुतामादत्त जननी । गुणगौरवक्लान्तेव गात्र- मुद्वोढुं न शशाक । उदरे तनयेन हृदये च भ; तिष्ठता द्विगुणितामिव लक्ष्मीमुवाह ।। अवतीर्णे च दशमे मासि असूत देवं राज्यवर्धनम् । मासमेकं दिवसमिव महोत्सवमकरोन्नरपतिः ।। अथान्यस्मिन्नतिक्रान्ते कस्मिंश्चित्काले, नभसि, देव्या देवक्या इव चक्रपाणिर्यशोवत्या हृदये गर्भे च सममेव संबभूव हर्षः । चतुर्णामपि महार्णवानाम् एकीकृतेनाम्भसा स्नातुमस्या वाञ्छा बभूव । संनिहितेष्वपि मणिदर्पणेषु, मुखमुत्खाते खड्ग.. पट्टे वीक्षितुं व्यसनमासीत् । पजरकेसरिषु चक्षुररमत || ततश्च प्राप्ते ज्येष्ठामूलीये मासि बहुलासु बहुलपक्षद्वादश्यां नभसि श्रावणमासे । व्यसनम् आसक्तिः । ज्येष्ठामूलीये ज्यैष्ठे मासि । "ज्येष्ठामूलीयमिच्छन्ति मासमाषाढपूर्वजम् । बहुलाः कृत्तिकाः । बहुलपक्षः. कृष्णपक्षः॥

चतुर्थोच्छवासः। व्यतीते प्रदोषसमये समारुरुक्षति क्षपां यौवने, सहसैवान्तःपुरे समुदपादि कोलाहलः स्त्रीजनस्य । निर्गत्य च ससंभ्रमं स्वयमेव यशोवत्या हृदयनिर्विशेषा धात्र्याः सुता सुयात्रेति नाना राज्ञः पादयोर्निपत्य “देव, दिष्ट्या वर्धसे द्वितीयसुतजन्मना" इति व्याहरन्ती पूर्णपात्रं जहार ।। अत्रान्तरे स्वयमेवानाध्माता अपि तारमधुरं शङ्का विरेसुः । अताडितोऽपि जुगुञ्ज अभिषेकदुन्दुभिः । अनाहतान्यपि मङ्गलतूर्याणि रेणुः । यज्वनां मन्दिरेषु प्रजज्वलुरनिन्धना वैतानवह्नयः ॥ तत्क्षण एव च शुक्लवाससो ब्रह्ममुखाः समुपतस्थिरे द्विजा- तयः । साक्षाद्धर्म इव शान्त्युदकफलहस्तस्तस्थौ पुरः पुरोधाः । प्रावर्तत च विगतराजकुलस्थितिः समस्वामिपरिजनो निर्विशेष- बालवृद्धो दुज्ञेयमत्तामत्तप्रविभागः पुत्रजन्मोत्सवो महान् ॥ एवं च वृत्ते तस्मिन्महोत्सवे, शनैः शनैः पुनरप्यतिक्रामति काले, धात्रीकराङ्गुलिलग्ने पञ्चषाणि पदानि प्रयच्छति हर्षे, षष्ठं वर्षमवतरति च राज्यवर्धने, देवी यशोवती गर्भेण अधत्त नारायणमूर्तिरिव वसुधां देवीं राज्यश्रियम् । पूर्णेषु च प्रसव- दिवसेषु चन्द्रलेखामिव प्रतिपत् , गौरीमिव मेना प्रसूतवती दुहितरम् ॥ समुदपादि समुत्पन्नः । धात्री उपमाता। "हर्षादुत्सवकाले यदलका- राम्बरादिकम् । आकृष्य गृह्यते पूर्णपात्रं पूर्णानकं च तत् ॥” पञ्च वा षड्दा पञ्चषाणि ॥ 2 १८ हर्षचरितसंग्रहे अथ अस्मिन्नेव तु काले यशोवत्या भ्राता, सुतमष्टवर्षदेशीयं पीनप्रकोष्ठप्रतिष्ठितपुष्पलोहवलयं शैशवेऽपि सावष्टम्भं बीजमिव वीर्यद्रुमस्य भण्डिनामानम् अनुचरं कुमारयोरर्पितवान् । राज- पुत्रावपि सकलजीवलोकहृदयानन्ददायिनौ तेन प्रकृतिदक्षिणेन मधुमाधवाविव मलयमारुतेन उपेतौ नितरां रेजतुः ।। क्रमेण च अपरेणेव भ्रात्रा प्रजानन्देन सह वर्धमानी यौवनमवतेरतुः । स्थिरोरुस्तम्भौ पृथुप्रकोष्ठौ दीर्घभुजार्गलो विकटोरःकवाटी प्रांशुसालाभिरामों महानगरसंनिवेशाविव सर्वलोकाश्रयक्षमो बभूवतुः॥ चन्द्रसूर्याविव ज्योत्स्नायशःप्रतापाक्रान्तभुवनौ, इन्द्रोपेन्द्राविव नागेन्द्रगतौ, राज्यवर्धन इति हर्ष इति सर्वस्यामेव पृथिव्याम् आविर्भूतशब्दप्रादुर्भावौ स्वल्पीयसैव कालेन द्वीपान्त- रेष्वपि प्रकाशतां जग्मतुः ।। एकदा च तावाहूय, भुक्तवान् अभ्यन्तरगतः पिता सस्नेह- मवादीत्-"वत्सौ, प्रथमं राज्याझं दुर्लभाः सद्धृत्याः । दर्पण- अष्टौ वर्षाणि यस्य सः अष्टवर्षः, ईषदसमाप्तः अष्टवर्षः अष्टवर्षदेशीयः । पुष्पलोहो नाम रत्नविशेषः । अवष्टम्भो गर्वः । दक्षिणः अनुकूलः, दाक्षिणा- त्यश्च । स्थिरोरुस्तम्भावित्यादीनि विशेषणानि समासभेदाश्रयणेनोभयत्रापि योज्यानि । अरू सक्थिनी। उरवः बृहन्तः । प्रकोष्ठः कूपराधोभागः, कक्ष्या च । प्रकृष्टः कोष्ठः गृहमध्यमिति वा । सालः वृक्षविशेषः, प्राकारश्च । ज्योत्स्नावत् यश इव ज्योत्स्ना च । प्रतापः कोशदण्डज तेजः, भातपश्च । उपेन्द्रः वष्णुः । नागः गजः, सर्पश्च । गतं गमनम् , गतः प्राप्तश्च । द्विगताः आपः येषु तानि द्वीपानि ॥ .. यशः, चतुर्थोच्छवासः। १ मिवानुप्रविश्य आत्मीयां प्रकृति संक्रामयन्ति पल्लवकाः । स्वमा इव मिथ्यादर्शनैरसद्बुद्धिं जनयन्ति विप्रलम्भकाः। अतः सर्वैर्दो- याभिषङ्गैरसंगतो, बहुधा उपधामिः परीक्षितौ, शुची विनीतौ विक्रान्तौ अभिरूपौ मालवराजपुत्रौ कुमारगुप्तमाधवगुप्तौ अस्मा- भिर्भवतोरनुचरत्वार्थमिमौ निर्दिष्टौ। अनयोरुपरि भवद्भ्यामपि नान्यपरिजनसमवृत्तिभ्यां भवितव्यम्" इत्युक्त्वा, तयोराद्वानाय प्रतीहारमादिदेश ॥ न चिरात् द्वारदेशनिहितलोचनौ राज्यवर्धनहर्षों, प्रती- हारेण सह प्रविशन्तम् अग्रतो ज्येष्ठम् अष्टादशवर्षवयसं नात्युच्च नातिखवं तेजस्विनमपि शीलेनाहादकेन सवितारमिव शशिना- न्तर्गतेन विराजमानं कुमारगुप्तम् , पृष्ठतस्तस्य कनीयांसम् अति- प्रांशुतया गौरतया च मनःशिलाशैलमिव संचरन्तं माधवगुप्तं “च दहशतुः ॥ प्रविश्य च तो दूरादेव नमश्चक्रतुः। स्निग्धनरेन्द्रदृष्टि- निर्दिष्टाम् उचितां भूमि भेजाते । मुहूर्त च स्थित्वा भूपतिरादिदेश तौ-' अद्यप्रभृति भवद्भ्यां कुमारावनुवर्तनीयौ” इति । ज्ञापयति देवः” इति राज्यवर्धनहरों प्रणेमतुः, तो च पितरम् । ततश्चारभ्य क्षणमपि निमेषोन्मेषाविव चक्षुर्गोचरात् अनपयान्तौ, पल्लवकाः कोमलानि किसलयानि, कुत्सिता विटाश्च । मिथ्यादर्शनम् अलीकवस्तुप्रदर्शनम् , असच्छास्त्रं च । अभिषङ्गः पराभवः, आकान्तिरिति यावत् । संपर्क इत्यन्ये । उपधा राज्ञा धर्मार्थकामभयैरमात्यादेः परीक्षणम् । अभिरूपी सुन्दरौ, बुधौ वा ॥ " यथा- 40 .

हर्षचरितसंग्रह EVE उच्छासनिःश्वासाविव नक्तंदिवमभिमुखस्थितौ, भुजाविव सतत पार्श्ववर्तिनी कुमारयोस्तौ बभूवतुः॥ अथ राज्यश्रीरपि नृत्यगीतादिषु विदग्धासु सखीपु सक. लासु कलासु च प्रतिदिनमुपचीयमानपरिचया, शनैः शनैरवर्धत । परिमितैरेव दिवसैयौवनमारोह । निपेतुरेकस्यां तस्यां भूभुजा सर्वेषां दृष्टयः । दूतप्रेषणादिभिश्च तां ययाचिरे राजानः ।। कदाचित्तु राजा अन्तःपुरप्रासादस्थितो महादेवीं जगाद- "देवि, तरुणीभूता वत्सा राज्यश्रीः। यौवनारम्भ एव च कन्य- कानामिन्धनीभवन्ति पितरः संतापानलस्य । केनापि कृताधा नाभिमता मे स्थितिरियम् -यत् अङ्गसंभूतानि अङ्कलालितानि अपरित्याज्यानि अपत्यकानि अकाण्ड एव अगत्या असंस्तुतै- नयन्ते । को हि नाम सहते विरहमपत्यानाम् । किं क्रियते । तथापि गृहगतैरनुगन्तव्या एव लोकवृत्तयः । प्रायेण च सत्स्व.. प्यन्येषु वरगुणेष्वभिजनमेवानुरुध्यन्ते धीमन्तः । धरणीधराणां च मूर्ध्नि स्थितो माहेश्वरो मौखरिवंशः । तत्रापि तिलकभूतस्य अव- न्तिवर्मणः सूनुरग्रजो ग्रहवर्मा नाम ग्रहपतिरिव गां गतः पितु- रन्यूनो गुणैरेनां प्रार्थयते । यदि भवत्या अपि मतिरनुमन्यते, ततस्तस्मै दातुमिच्छामि ॥ इत्युक्तवति भर्तरि, महादेवी प्रत्युवाच- संवर्धनमात्रोपयोगिन्यो धात्रीनिर्विशेषा भवन्ति खलु मातरः- धर्मात् अनपता धा, न धा अधा। अकाण्डे अनवसरे सहसेति यावत् । संस्तुताः परिचिताः । अभिजनः कुलम् । गां भूमिम् ॥ " आर्यपुत्र, चतुर्थोच्छवासः। २१ कन्यकानाम् । दाने तु प्रमाणमासां पितरः। केवलं कृपाकृतविशेष: सुदूरेण तनयस्नेहादतिरिच्यते दुहितृस्नेहः । यथा यावज्जीवम् आवयोः आर्तितां न प्रतिपद्यते, तथा आर्यपुत्र एव जानाति" इति ॥ .. राजा तु जातनिश्चयो दुहितृदानं प्रति, समाहूय सुतावपि विदितार्थावकार्षीत् । शोभने च दिवसे ग्रहवर्मणा कन्यां प्रार्थयितुं प्रेषितस्य पूर्वागतस्यैव प्रधानदूतपुरुषस्य करे सर्वराजकुलसमक्षं दुहितदानजलमपातयत् ।। जातमुदि कृतार्थे च गते तस्मिन् , आसन्नेषु च विवाह- दिवसेषु, उद्दामदीयमानताम्बूलपटवासकुसुमप्रसाधितसर्वलोकम् , क्षितिपालैश्च स्वयमावद्धकक्ष्यैः प्रारब्धविविधव्यापारम् , आ • सूर्योदयाच्च प्रविष्टाभिः सतीभिः सुरूपाभिः समन्तात्सीमन्तिनी- भिर्व्याप्तम् , दुकूलैश्च निश्वासहायः स्पर्शानुमेयैः सर्वतः संछादि- तम्, पटवितानैमण्डपैः स्तम्भैश्च समुज्ज्वलम् , रमणीयं च औत्सुक्यदं च मङ्गल्यं चासीद्राजकुलम् ॥ देवी तु यशोवती विवाहोत्सवपर्याकुलहृदया, हृदयेन भर्तरि, कुतूहलेन जामातरि, स्नेहेन दुहितरि, उपचारेण निम- न्त्रितस्त्रीषु, आदेशेन परिजने, शरीरेण संचरणे, चक्षुषा कृताकृत- प्रत्यवेक्षणेषु, आनन्देन महोत्सवे, एकापि बहुधा विभक्तेवाभ- बत् । भूपतिरपि सत्यप्याज्ञासंपादनदक्षे मुखेक्षणपरे परिजने, समं पुत्राभ्यां दुहितृस्नेहविक्लबः सर्वं स्वयमकरोत् ।। पटवासः गन्धचूर्णम् । मङ्गलम् अर्हति, मङ्गले साधु वा मङ्गल्यम् ॥

२२ हर्षचरितसंग्रहे , एवं च तस्मिन्नविधवामय इन भवति राजकुले, मङ्गलमय इव जायमाने जीवलोके, पटहमय इव कृते अन्तरिक्षे, गण्यमान इव जनाङ्गुलीभिा, आलोक्यमान इव मार्गध्वजैः, प्रत्युद्गम्यमान इव मङ्गल्यवाद्यप्रतिशब्दकैः, परिष्वज्यमान इव वधूसखीहृदयै- राजगाम विवाहदिवसः। प्रातरेव प्रतीहारैः समुत्सारितनिखिला.. निबद्धलोकं विविक्तमक्रियत राजकुलम् ।। अथ प्रतीहारः प्रविश्य नृपसमीपम् , "देव, जामातुरन्ति- कात्ताम्बूलदायकः पारिजातकनामा संप्राप्तः” इत्यभिधाय, स्वाकारं युवानमदर्शयत् । राजा तु तम् आगतजामातृनिवेदनागतं ज्ञात्वा दर्शितादरः कृतसत्कारम् 'यामिन्याः प्रथमे यामे विवाहकाला- त्ययकृतो यथा न भवति दोषः” इति संदिश्य प्रतीपं प्राहिणोत् ।। अथ समवसिते वासरे, स्फुरति संध्यारागे, उजिहाने ज्योतिर्गणे, आजगाम नक्षत्रमालामण्डितमुखी करिणीमारूढः,, पुरोधावमानैः पादातैः वाजिनां बृन्दैः करिणां घटाभिश्च आपूरित-- दिग्भागः प्रत्यासन्नलग्नो ग्रहवर्मा ।। राजा तु तम् उपद्वारमागतं चरणाभ्यामेव राजचक्रानु. गम्यमानः ससुतः प्रत्युजगाम । अवतीर्णं च तं कृतनमस्कार मन्मथमिव माधवः प्रसारितभुजो गाढ मालिलिङ्ग । यथाक्रम परिष्वक्तराज्यवर्धनहर्ष च हस्ते गृहीत्वा अभ्यन्तरं निन्ये स्वनिर्विशेषासनदानादिना चोपचारेणैनमुपचचार ॥ अनिबद्धः संबन्धरहितः। विविक्तं विजनं पूतं वा । “सा तु नक्षत्रमाला स्यात्सप्तविंशतिमौक्तिका ।" पदातीनां समूहाः पादातानि । माधवः वसन्तः ॥ حته चतुर्थोच्छ्वासः। . नचिराच गम्भीरनामा नृपतेः प्रणयी विद्वान द्विजन्मा ग्रह- वर्माणमुवाच-"तात, त्वां प्राप्य चिरात्खलु राज्यश्रिया घटितौ तेजोमयौ सोमसूर्यवंशाविव पुष्पभूतिमुखरवंशौ । प्रथममेव कौस्तुभमणिरिव गुणैः स्थितोऽसि हृदये देवस्य । इदानीं तु शशीव शिरसा परमेश्वरेणासि वोढव्यो जातः" इति ॥ एवं वदत्येव तस्मिन् , नृपमुपसृत्य मौहूर्तिका:-"देव, समासीदति लग्नवेला । ब्रजतु जामाता कौतुकगृहम्" इत्यूचुः । अथ नरेन्द्रेण "उत्तिष्ठ ; गच्छ” इति गदितो ग्रहवर्मा प्रवि- श्यान्तःपुरं जामातृदर्शनकुतूहलिनीनां स्त्रीणां पतितानि लोचन- सहस्राणि लङ्घयन् आससाद कौतुकगृहद्वारम् । निवारितपरि- जनश्च प्रविवेश ॥ अथ तत्र कतिपयाप्तप्रियसखीस्वजनप्रमदाप्रायपरिवाराम् , अरुणांशुकावगुण्ठितमुखीम् , चन्दन धवलतनुलताम्, रतिमिव पुनर्जाताम , अधोमुखीम , मुहुर्मुहुः कृतमुखोन्नमनप्रयत्नं च सखी. जनं निर्भसंयन्ती वधूमपश्यत् ॥ परिहासस्मेरमुखीभिश्च नारीभिः कौतुकगृहे यद्यत्कार्यते जामाता, तत्तत्सर्वमतिपेशलं चकार । कृतपरिणयानुरूपवेषपरि- ग्रहां गृहीत्वा करे वधूं निर्जगाम । जगाम च नवसुधाधवलाम् , उपकृशानुनिहितानुपहतहरितकुशां वेदीम् । आरुरोह च तां राज्यश्रीः राज्यलक्ष्मीः, प्रभाकरवर्धनसुता च । परमेश्वरः हरः, राजा च । मुहूर्त विदन्ति मौर्तिकाः । कौतुकगृहं प्रतिसरबन्धनगृहम् ॥

२४ हर्षचरितसंग्रहे दिवमिव सज्योत्स्नः शशी । समुत्ससर्प च वेल्लितारुणशिखा- पल्लवस्य शिखिनः कुसुमायुध इव रतिद्वितीयो रक्ताशोकस्य समी- पम् । हुते च हुतभुजि प्रदक्षिणं बभ्राम । पात्यमाने च लाजा- अलौ नखमयूखधवलिततनुः अदृष्टपूर्ववधूवररूपविस्मयस्मेर इव अदृश्यत विभावसुः ॥ अत्रान्तरे निर्वदनविकारं रुरोद वधूः । उदश्रुविलोचनानां च बान्धववधूनाम् उदपादि महानाक्रन्दः। परिसमापितवैवाहिक- क्रियाकलापस्तु जामाता वध्वा समं प्रणनाम श्वशुरौ । प्रविवेश च द्वारपक्षलिखितरतिपतिदैवतम् , मङ्गलप्रदीपैः प्रकाशितम् , सोपधानेन स्वास्तीर्णेन शयनेन शोभमानम् , शयनशिरोभाग- स्थितेन च निद्राकलशेन राजतेन विराजमानं वासगृहम् ।। स्थित्वा च श्वशुरकुले आनन्दमयानि दश दिनानि, शीले- नामृतमिव श्वश्रूहृदये वर्षन् , कथं कथमपि विसर्जितो नृपेण वध्वा सह स्वदेशमगमत् ।। ॥ इति भट्टबाणविरचिते हर्षचरिते चक्रवर्तिजन्मवर्णनं नाम चतुर्थ उच्छवासः॥ शिखापल्लवाः ज्वालाप्राणि, अप्रपर्गानि च । शिखी अग्निः, वृक्षश्च । श्वश्रूश्च श्वशुरश्च श्वशुरौ । वासगृह भोगागारम् ॥

॥ पञ्चम उच्छासः ॥ अथ कदाचिद्राजा राज्यवर्धनं कवचहरमाहूय हूणान् अपरिमितबलानुयातम् उत्तरापथं प्राहिणोत् ।। प्रयान्तं च तं देवो हर्षः कतिचित्प्रयाणकानि तुरंगदैरनुव- प्रविष्टे च कैलासप्रभाभासिनी ककुभं भ्रातरि, वर्तमानो गसि विक्रमरसानुरोधिनि, तुषारशैलेोपकण्ठेषु क्रीडन्मृग- कतिपयान्यहानि बहिरेव व्यलम्बत। चकार च स्वल्पी- | दिवसैनिःश्वापदान्यरण्यानि ।। एकदा तु वासतेय्यास्तुरीये यामे, प्रत्युषस्येव स्वप्ने दुनि- वहुतभुजा दह्यमानं केसरिणमद्राक्षीत् । तस्मिन्नेव दाव- समुत्सृज्य शाबकान् , उत्प्लुत्य चात्मानं पातयन्ती सिंही. ।। आसीञ्चास्य चेतसि-"लोके हि लोहेभ्यः काठनतराः हमया बन्धनपाशाः। यदाकृष्टास्तिर्यचोऽपि एवमाच. , इति ।। प्रबुद्धस्य चास्य मुहुर्मुहुर्दक्षिणेतरदक्षि पस्पन्दे । गात्रेषु देव वेपथुर्विपप्रथे । निनिमित्तमेव अन्तर्बन्धनस्थानाच्च- हृदयम् । अकारणादेव च अजायत गरीयसी दुःखा- । किमिदमिति च समुत्पन्नविविधविकल्पविमथितमतिः वचं हरति स्वीकरोतीति कवचहरः । “वयसि च" इत्यच्प्रत्ययः ।।

हर्षचरितसंग्रहे अपगतधृतिः चिन्तावनमितवदनः स्तिमिततारकेण चक्षुषा समुद्भिद्यमानस्थलकमलिनीवनामिव चकार क्षणं क्षोणीम् । आरोहति च हरितहये मध्यमह्नः, भवनमागत्य, वेत्रपट्टिकामधि- शयानः साशङ्ख एव तस्थौ ।। -- अथ दूरादेव लेखगर्भया चीरचीरिकया रचितमुण्ड- मालम्, वर्त्मनि शून्यहृदयतया स्खलन्तम्, श्रमातपाभ्याम् आरोप्यमाणकायकालिमानं कुरङ्गकनामानमायान्तमद्राक्षीत् दृष्टा चाभिद्यत हृदयेन ॥ कुरङ्गकन्तु कृतप्रणामः समुपसृत्य प्रथममाननलग्नं विषाद- मुपनिन्ये, पश्चाल्लेखम् । तं च देवो हर्षः स्वयमेवादायावाचयत् । "कुरङ्गक, किं मान्द्यं तातस्य” इति चाभ्यधात् । स च "देव, दाहज्वरो महान्" इत्याचचक्षे । तच्चाकर्ण्य सहसा सहस्रधेवास्य हृदयं पफाल । कृताचमनश्च जनयितुरायुष्कामः, आत्मपरिबई- मशेषं ब्राह्मणसादकरोत् । अभुक्त एव उच्चचाल । “दापय वाजिनः पर्याणम्" इति च पुरःस्थितं शिरःकृपाणं बिभ्राणं बभाण युवानम् । वेपमानहृदयश्च ससंभ्रमप्रधावितपरिवर्धकोपनीतमारुह्य तुरङ्गम् एकाक्येव प्रावर्तत ।। प्रस्थितस्य चास्य प्रदक्षिणेतरत्प्रयान्तो विनाशमुपस्थित राजसिंहस्य हरिणाः प्रकटयांबभूवुः । हृदयेन च पितृस्नेहाहित- म्रदिम्ना तत्तदुपेक्षमाणः, बहुयोजनसंपिण्डितमध्वानकेनैवाहा समलवायत् ॥ - पश्चमोच्छ्वासः। २७ उपलब्धनरेन्द्रमान्द्यवार्ताविषण्ण इव नष्टतेजसि अधो- मुखीभवति भगवति भानुमति, भण्डिप्रमुखेण प्रणयिना राजपुत्र- लोकेन बहुशो विज्ञाप्यमानोऽपि नाहारमकरोत् । वहन्नेव च निन्ये निशाम् ।। अन्यस्मिन्नहनि मध्यंदिने, विगतजयशव्दम् , अस्तमित- तूर्यनादम् , उपसंहृतगीतम् , उत्सारितोत्सवम् , अप्रसारितापण. पण्यम् , अमङ्गलैरिव परिगृहीतम् , यातुधानैरिव विध्वस्तम् , कलिकालेनेव कबलितम् , पापपटलैरिव संछादितम् , शून्यमिव सुप्तमिव मुषितमिव मूर्च्छितमिव स्कन्धावारं समाससाद ॥ प्रविशन्नेव च विपणिवर्मनि कुतूहलाकुलबहुलबालकपरि- वृतम् , ऊर्ध्वयष्टिविष्कम्भवितते वामहस्तवर्तिनि भीषणमहिषाधि- रूढप्रेतनाथसनाथे चित्रवति पटे परलोकव्यतिकरम् इतरकर- कलितेन शरकाण्डेन कथयन्तं यमपट्टिकं ददर्श । गीयमानं श्लोकमशृणोत्- "मातापितृसहस्राणि पुत्रदारशतानि च । युगे युगे व्यतीतानि कस्य ते कस्य वा भवान् ।' इति । तेन चाधिकतरमवदीर्यमाणहृदयः क्रमेण राजद्वारं प्रतिषिद्ध- सकललोकप्रवेशं ययौ ।। तुरगादवतीर्णश्च अभ्यन्तरान्निष्क्रामन्तं सुघेणनामानं वैद्य- कुमारमप्राक्षीत्-"सुपेण, अस्ति तातस्य विशेषः, न वा ?" इति । सोऽब्रवीत्-"नास्तीदानीम् । यदि भवेत् कुमारं दृष्टा" इति । मन्दं मन्दं द्वारपालैः प्रणम्यमानश्व, दीयमानसर्वस्वम् , तेनैव च - २८ हर्षचरितसंग्रह १ पूज्यमानकुलदैवतम् , प्रारब्धामृतचरुपचनक्रियम् , प्रवर्त्यमान. ग्रहशान्ति, प्रयतविप्रप्रस्तुतसंहिताजपम, दुःखदीनवदनेन च प्रघणेषु बद्धमण्डलेन उपांशुव्याहृतैः केनचिच्चिकित्सकदोषानुद्भाव- यता केनचिदुःस्वप्नानावेदयता केनचित्पिशाचवाता विवृण्वता केनचित्काान्तिकादेशान्प्रकाशयता अन्येन दैवमुपालभमानेन अपरेण धर्माय कुप्यता बाह्यपरिजनेन कथ्यमानकष्टपार्थिवावस्थं राजकुलं विवेश । वाष्पपरिप्लुतलोचनेन च पितृपरिजनेन वीक्ष्य- माणः काथानां सर्पिषां तैलानां च गन्धमाजिघ्रन् अवाप तृतीयं कक्ष्यान्तरम् ॥ तत्र चातिनिःशब्दे गृहावग्रहणीग्राहितबहुवेत्रिणि त्रिगुण- तिरस्करिणीतिरोहितवीथीपथे पिहितपक्षद्वारके परिहतकवाटरटिते घटितगवाक्षरक्षितमरुति दूयमानपरिचारके चरणताडनस्वनत्सो. पानप्रकुपितप्रतीहारे निभृतसंज्ञानिर्दिश्यमानसकलकर्मणि प्रविष्ट- कतिपयप्रणयिनि गम्भीरज्वरारम्भभीतभिषजि दुर्मनायमानम- न्त्रिणि धवलगृहे स्थितम् , अनवरतपरिवर्तनस्तरङ्गिणि शयनीये विचेष्टमानम् , गोचरीकृतं ग्लान्या, दष्टं दुःखासिकया, क्रोडी- कृतं कालेन, पीतमिव पीडाभिः, निगीर्णमिव वैवर्येन, आदित्सितं देवेन, घ्रातमनित्यत्वेन, अभिभूयमानमभावेन, दत्ता- वकाशं क्लेशस्य, निवासं वैमनस्यस्य, समीपे कालस्य अन्तिके अन्त्योच्छवासस्य द्वारि दीघनिद्रायाः जिह्वाने जीवितेशस्य वर्तमा- नम् , विरलं वाचि, चलितं चेतसि, प्रचुरं प्रलापे, जितं जृम्भि- काभिः, अनुबद्धमनुबन्धिकाभिः, पार्थोपविष्टया अनवरतरो- . - पश्चमोच्छवासः। २९ दनोच्छूननयनया मुहुर्मुहुः “आर्यपुत्र स्वपिषि ?" इति व्याहर- न्या देव्या यशोवत्या शिरसि वक्षसि च स्पृश्यमानं पितर- मद्राक्षीत् ॥ दृष्ट्वा च अन्तकपुरवर्तिनमेव पितरममन्यत । निराकृत इव चान्तःकरणेन क्षणमासीत् । अवधूतश्च धैर्येण, पावकमयमिक हृदयमुद्वहन्नाविन्दत कर्तव्यम् । पस्पर्श च हृदयेन भियम् , उत्तमाङ्गेन च गाम् ।। अवनिपतिस्तु दूरादेव दृष्वातिदयितं तनयम् , तदवस्थोऽपि निर्भरस्नेहावर्जितः प्रधावमानो मनसा प्रसार्य भुजौ " एोहि' इत्याह्वयन् शरीरार्धन शयनादुदगात् । ससंभ्रममुपसृतं चैनं विन- यावनम्रम् उन्नमय्य बलादुरसि निवेश्य विशन्निव प्रेम्णा निशा. करमण्डलमध्यम् , मज्जन्निवामृतमये महासरसि, अङ्गैरङ्गानि पीडयन् विस्मृतज्वरसंज्वरः सुचिरमालिलिङ्ग । कथं कथमपि चिराद्विमुक्तं विगतनिमेषनिश्चलेन चक्षुषा व्यलोकयत् । पस्पर्श च पुनःपुनर्वेपथुमता पाणितलेन । क्षयक्षामकण्ठश्च कृच्छादिवावा- दीत् - वत्स, कृशोऽसि" इति । भण्डिस्त्वकथयत् 'देव, तृतीयमहः कृताहारस्यास्याद्य” इति । तच्छ्रुत्वा बाष्पवेगनिगृह्यमाणाक्षरं कथं कथमप्यायतं निःश्वस्य उवाच-"वत्स, जानामि त्वां पितृप्रियम् अतिमृदु- हृदयम् । ईदृशेषु विधुरयति धीमतोऽपि धियम् अतिदुर्धरो बान्धवस्नेहः सर्वप्रमाथी। अतो नार्हस्यात्मानं शुचे दातुम् ।। -- ३० हर्षचरितसंग्रहे उद्दामदाहज्वरदग्धोऽपि दह्ये खल्वहमनेन आयुष्मदाधिना। निशि- तमिव शस्त्रं तक्ष्णोति मां त्वदीयस्तनिमा । सुखं च राज्यं च वंशश्च प्राणाश्च त्वयि मे स्थिताः । यथा मम, तथा सर्वासां प्रजा- नाम् । त्वद्विधानां पीडाः पीडयन्ति सकलमेव भुवनतलम् । नाल्प- पुण्यभाजां वंशमलंकुर्वन्ति भवादृशाः। फलमस्यनेकजन्मान्तरो- पार्जितस्य अकलुषस्य कर्मणः। करतलगतमिव कथयन्ति चतु. मप्यर्णवानामाधिपत्यं ते लक्षणानि । त्वजन्मनैव कृतार्थोऽस्मि । निरभिलाषोऽस्मि जीवितव्ये । भिषगनुरोधः पाययति मामौपधम् । अपि च, सर्वप्रजापुण्यैः सकलभुवनतलपरिपालनार्थम् उत्पत्स्य- मानानां भवाशां जन्मग्रहणोपायः पितरौ । प्रजाभिस्तु वन्धुमन्तो राजानः, न ज्ञातिभिः। तदुत्तिष्ठ । कुरु पुनरेव सर्वाः क्रियाः । कृताहारे च त्वयि अहमपि स्वयमुपयोक्ष्ये पथ्यम्" इति || एवमभिहितस्य चास्य नितरां शोकानलः संदुधुक्षे। क्षण- मात्रं च स्थित्वा पित्रा पुनराहारार्थमादिश्यमानो धवलगृहादव- ततार। चकार च चेतसि-"सामान्योऽपि तावच्छोकः सो- च्छवासं मरणम् , अभस्मीकरणोऽग्निप्रवेशः, अनुपरतस्यैव नरक- वासः । किमुत विशेषाश्रितः । किमत्र करवाणि" इति ।। राजपुरुषेणाधिष्ठितश्च गत्वा स्वधाम, धूममयानिव कृता- श्रुपातान् अग्निमयानिव जनितहृदयदाहान् विपमयानिव दत्त- मूर्छावेगान् कतिचित्कबलानगृह्णात् ।। आचामंश्च अगृहीतताम्बूल एवोत्ताम्यता मनसा अस्ताभि- लाषिणि सवितरि सर्वानाहूय वैद्यानुपहरे किमस्मिन्नेवंविधे पञ्चमोच्छवासः । ३१ " विधेयमधुना" इति विषण्णहृदयः पप्रच्छ । ते तु व्यज्ञपयन्- देव, धैर्यमवलम्बस्व । कतिपयरेव वासरैः पुनः स्वां प्रकृतिमा- पन्नं स्वस्थं श्रोष्यसि पितरम् " इति ।। तेषां तु भिषजां मध्ये पौनर्वसवो युवा अष्टादशवर्ष- देशीयः, तस्मिन्नेव राजकुले कुलक्रमागतः, गतः पारमष्टाङ्गस्या- युर्वेदस्य, भूभुजा सुतनिर्विशेषं लालितः, प्रकृत्यैवातिपटीयस्या प्रज्ञया यथावद्विज्ञाता व्याधिस्वरूपाणाम् , रसायनो नाम वैद्य- कुमारकः सास्रस्तूष्णीमधोमुखोऽभूत् । पृष्टश्च राजसूनुना "देव, श्वः प्रभाते यथावस्थितमावेदयितास्मि" इत्यब्रवीत् ।। गतेषु च भिषक्षु, क्षतधृतिः क्षपामुखे क्षितिपालसमीपमेव पुनरारुरोह । तत्र च--"दाहो महान् । आहर हारान् हरिणि । हिमलवैलिम्प ललाटं लीलावति । कपोले कलय कुवलयं कला- वति । समुपनय मृणालानि मालति । का वेला विलासवति, नैति निद्रा" इत्येवंप्रायान् पितुरालापाननवरतमाकर्णयन, दूय- मानहृदयो दुःखदीघाँ जाग्रदेव निशामनैषीत् ।। उपसि चावतीर्य चरणाभ्यामेव स्वमन्दिरमाजगाम । तत्र च त्वरमाणो भ्रातुरागमनार्थम् उपर्युपरि क्षिप्रपातिनो वां प्रकृतिम् आपन्नः मान्धरहितः, पृथिव्यादिपञ्चभूतलीनदेहश्च । 'प्रकृतिमरणं शरीरिणाम्" इति रघुः । स्वस्थः व्याधिरहितः, स्वर्गस्थश्च । स्वः स्वर्गे तिष्यतीति स्वस्थः । 'खपरे शरि' इति विसर्गलोपः । श्रोष्यसि- न तु द्रक्ष्यसि । पुनर्वसोः अपत्यं पुनर्वामुनिना प्रेक्तमायुर्वेदमधीते वा पौनर्व- सवः । अष्टौ शल्य शालाक्य कायचिकित्सा भूनविद्या कौमारभृत्य अगद रसाय- नतन्त्र वजीकरणतन्त्ररूपाणि अङ्गानि यस्य सः अष्टाङ्गः॥ .

हर्षचरितसंग्रह देव, पाव दीर्घाध्वगान्प्रजविनश्चोष्ट्रपालकान् प्राहिणोत् । प्रक्षालितवदन परिजनोपनीतमपि प्रतिकर्म नाग्रहीत् । अग्रतः स्थितानां राज पुत्रयूनां विमनसाम् “रसायनो रसायनः" इति जाल्पितमव्यक्त मनीषीत् । “भद्राः किं रसायनः" इति पृष्टाश्च ते सर्वे सममेक तूष्णींबभूवुः । भूयो भूयश्चानुवध्यमानाः, प्रविष्टः” इति दुःखेन कथं कथमप्याचचक्षिरे ॥ तच्च श्रुत्वा प्लुष्ट इवान्तस्तापेन सद्यो विवर्णतामगात् आसीच्चास्य चेतसि-"कामं स्वयं न भवति, न तु श्रावयत्य- प्रियं वचनमरतिकरमितर इवाभिजातो जनः । समुचितमेवेद- मथवा स्नेहस्य । किमस्य तातो न तातः, किं वाम्बा न जननी, वयं वा न भ्रातरः ? अन्यस्मिन्नपि तावत्स्वामिनि दुर्लभीभवति भवन्त्यसवो ध्रियमाणा ह्रीहेतवो लोके ; किमुत अमृतमयेऽ- नुजीविनां निर्व्याजबान्धवे अवन्ध्यप्रसादे सुगृहीतनाम्नि ताते । संप्रति सांप्रतमाचरितमनेनात्मानं दहता । पतितः स केवलं दहने । दग्धास्तु वयम् । धन्यः खल्वसावग्रणीः पुण्यभाजाम् । अपुण्यभाक् तु इदमेव राजकुलम् ; कुलपुत्रेण यत्तादृशा वियु.. क्तम् । अपि च, ममापि कः खल्वेतेषां प्राणानां कार्यातिभारः कृत्यशेषो वा, येन नाद्यापि निष्ठुराः प्रतिष्टन्ते । को वान्तरायो हृदयस्य, येन न सहस्रधा दलति" इति । दुःखार्तश्च न जगाम राजसद्म । समुत्ससर्ज च सर्वकार्याणि । शयनीये निपत्य उत्तरीयवाससा सोत्तमाङ्गमात्मानमवगुण्ठ्य अतिष्ठत् ।। इत्थंभूते च देवे हर्षे, राजनि च तदवस्थे सर्वस्य लोकस्य पञ्चमोच्छवासः। ३३. , कपोलेषु कीलिता इव कराः, नासाग्रेषु प्रथिता इव दृष्टयः, कर्णेषु उत्कीर्णा इव रुदितध्वनयः, लपनेषु पल्लवितानीव श्वसितानि, हृदयेषु निधानीकृतानीव दुःखान्यभवन् । कथास्वपि नाश्रूयन्त परिहासाः। स्वप्नेऽपि नागृह्यन्त प्रसाधनानि । वार्तापि नालभ्य- तोपभोगानाम् । नामापि नाकीर्यत आहारस्य । दिवापि नामुच्यन्त शयनानि ॥ शनैः शनैश्च महापुरुषविनिपातपिशुनाः समं समन्तात्स- मुदभवन्मुवने भूयांसो भूपतेरभावाय भयमुत्पादयन्तो भूतानां महोत्पाताः । तथा हि-दोलायमानसकलकुलाचलचक्रवाला पत्या सार्धं गन्तुकामेव प्रथममचलद्धरित्री । परस्परास्फालनवाचाल- वीचयो विजुपूर्णिरे अर्णवाः । उपसिंहासनम् आकुलं बभ्राम भ्रामरं पटलम् । अटतामन्तःपुरस्योपरि क्षणमपि न शशाम व्यावक्रोशी वायसानाम् । हर्षोऽपि महोत्पातदूयमानः कथमपि निनाय निशाम् ।। अन्यस्मिन्नहनि, समीपमस्य राजभवनात्, द्रुतगतिवश- विशीर्यमाणालंकारझांकारिणी, वेत्रलतामुत्सृजन्ती, मुखमरुत्तरङ्गि- तामुत्तरीयांशुकपटीमाकर्षन्ती, शोकोचितेन धम्मिल्लरचनारहितेन शिरोरुहसंचयेन चश्चता प्रावृतकुचा, कुचताडनपीडया समुच्छूना- ताम्रश्यामलतलं मुहुर्मुहुः करकिसलयं धुनाना, "क कुमारः ? क कुमारः ?" इति प्रतिपुरुपं पृच्छन्ती वेलेति नाम्ना यशोवत्याः व्यावक्रोशी परस्पराह्वानम् । कर्मव्यतीहारे णच् । व्याक्रोशी इति. पाठान्तरम् । धम्मिल्लरचना केशसंयमनम् ॥ 3 हर्षचरितसंग्रहे प्रतीहारी आजगाम । विषण्णलोकलोचनप्रत्युद्गता चोपमृत्य कुट्टिमन्यस्तहस्तयुगला विज्ञापितवती-“देव, परित्रायस्व । परित्रायस्व । जीवत्येव भर्तरि किमप्यध्यवसितं देव्या” इति ॥ ततस्तदपरमाकर्ण्य च्युत इव सत्त्वेन, दुत इव दुःखेन, आचान्त इव चिन्तया, अप्रतिपत्तिरासीत् । आसीचास्य चेत- सि-"प्रतिपन्नसंज्ञस्य बहुशोऽपि हृदये दुःखाभिषङ्गो निपतन् अश्मनीव लोहप्रहारः कठिने हुतभुजमुत्थापयति, न तु भस्मसा- स्करोति मे निरनुक्रोशस्य कायम्" इति । उत्थाय च त्वरमाणोऽ न्तःपुरमगात् । तत्र च मर्तुमुद्यतानां राजमहिषीणाम् अशृणोदूरा- देव "कुरङ्गवति, अयमामन्त्रणाञ्जलिः । सानुमति, अयमन्त्यः प्रणामः । कुवलयवति, एष ते अवसानपरिष्वङ्गः” इत्येवं. प्रायानालापान् ॥ दह्यमानश्रवणश्च तः, प्रविशन्नेव, निर्यान्ती दत्तसर्वस्वा- पतेयाम् , गृहीतमरणप्रसाधनाम् , जानकीमिव जातवेदसं पत्युः पुरः प्रवेक्ष्यन्तीम् , प्रत्यग्रस्नानादेहतया श्रियमिव भगवती सद्यः समुद्रादुत्थिताम् , कुसुम्भबभ्रुणी वाससी दधानाम् , संनिहित- प्राणसमं मरणाय चित्तमिव चित्रफलकमविचलं धारयन्तीम् , परिजनेन संतापेन च गृहीतसर्वावयवेन परीताम् , कञ्चुकिभि- दुःखैश्वातिवृद्धरनुगताम , भूपालवल्लभान्कौलेयकानपि सास्त्रमालो- कुटिमः निबद्धा भूः । सत्त्वं मनोबलम् । अप्रतिपत्तिः इतिकर्त- व्यतामूढः। भस्मसात्करोति कृत्स्नं कायं भस्म करोति। “विभाषा साति कास्न्य" इति सातिः। अनुक्रोशः दया। पुरः पूर्वभागे, पूर्वकाले च। कुले ।

पञ्चमोच्छवासः। कयन्तीम, सपत्नीनामपि पादयोः पतन्तीम् , चित्रपुत्रिका अप्यामन्त्रयमाणाम् , पशूनप्यापृच्छमानाम् , भवनपादपानपि परिष्वजमानां मातरं ददर्श ।। 1 दूरादेव च बाष्पायमाणदृष्टिरभ्यधात्-" अम्ब, त्वमपि मां मन्दपुण्यं परित्यजसि । प्रसीद । निवर्तख" इत्यभिदधान एव चरणयोयंपतत् । देवी तु यशोवती तथा तिष्ठति पादनिहित. शिरसि विमनसि कनीयसि प्रेयसि तनये, स्नेहसंभारेण निर्भरा- विर्भूतेनाभिभूयमाना निवारयितुं न शशाक बाष्पोत्पतनम् गद्गदिकागृह्यमाणगलविकला च निःसामान्यमन्युतरलीक्रियमाणा- धरोद्देशा निमील्य नयने नयनाम्भःसे कालवेन प्लावयन्ती विमलो कपोली, संछाद्य अंशुकपटान्तेन किंचिदुत्तानितं वदनेन्दुम् , दूयमानमानसा, स्मरन्ती प्रसवदिवसादारभ्य सकलमङ्कशायिनः शैशवमस्य, ज्ञातिगृहगतहृदया अम्ब तात, न पश्यतं पापां परलोकप्रस्थितां मामेवमतिदुःखिताम्" इति मुहुर्मुहुराक्रन्दन्ती पितरौ,, "हा वत्स, विश्रान्तभागधेयया न दृष्टोऽसि" इति प्रेष्ठं ज्येष्ठं तनयमसंनिहितं क्रोशन्ती, “अनाथा जाता इति श्वशुरकुलवर्तिनी दुहितरमनुशोचन्ती, "निष्करुण, किमपराद्धं इति देवमुपालभमाना, "नास्ति मत्समा भवाः कौलेयकाः श्वानः। 'कुलकुक्षिग्रीवाभ्यः श्वास्यलङ्कारेषु' । समानः पतिः यासां ताः सपल्यः । आपृच्छमानाम् "आङि नुप्रच्छयोः" इत्यात्मने- पदम् । बाष्पम् उदमन्ती बाप्पायमाणा । " बाष्पोष्मभ्यामुद्वमने" इति क्या । युवा कनीयान् कनिष्ठः ॥ तवामुना जनेन" ३६ हर्षचरितसंग्रह सीमन्तिनी दुःखभागिनी" इति निन्दन्ती बहुविधमात्मानम् । मुक्तकण्ठमतिचिरं प्राकृतप्रमदेव प्रारोदीत् ।। प्रशान्ते च मन्युवेगे सस्नेहमुत्थापयामास सुतम् । हस्तेन चास्य प्ररुदितस्य क्षरन्ती दृष्टिमुन्ममा । स्वयमपि लोचने प्रमृज्य, पुनः पुनरायततरं निःश्वस्यावादीत् - "वत्स, नासि न प्रियो निर्गुणो वा परित्यागा) वा । स्तन्येनैव सह त्वया पीतं मे हृदयम् । आस्मिंश्च समये प्रभूतप्रभुप्रसादान्तरिता त्वां न पश्यति दृष्टिः । कुलकलनमस्मि चारित्रधना धर्मधवले कुले जाता । किं विस्मृतोऽसि मां समरशतशौण्डस्य पुरुषप्रकाण्डस्य केसरिण इव केसरिणी गृहिणीम् । वीरजा वीरजाया वीरजननी च माशी पराक्रमक्रीता कथमन्यथा कुर्यात् ? मर्तुमविधवैव वाञ्छामि । न च शक्नोमि दग्धस्य भर्तुरायपुत्ररहिता रतिरिव निरर्थकान्प्रला- पान्कर्तुम् । प्रत्यग्रदृष्टदारुणदुःखदग्धायाश्च मे किं धक्ष्यति धूम- ध्वजः। मरणाञ्च मे जीवितमेवास्मिन्समये साहसम् । अति- शीतलः पतिशोकानलादक्षयनेहेन्धनादस्मादनलः । कैलासकल्पे प्रवसति जीवितेश्वरे जरत्तृणकणिकालघीयसि जीविते लोभ इति क घटते । अपि च, जीवन्तीमपि मां नरपतिमरणावधी- रणमहापातकिनी न स्प्रक्ष्यन्ति, पुत्र, पुत्रराज्यसुखानि । दुःख- दग्धानां च भूतिरमङ्गला चाप्रशस्ता च निरुपयोगा च भवति । त्स, विश्वस्तानां यशसा स्थातुमिच्छामि लोके, न वपुषा । दहमेव त्वां तावत्तात, प्रसादयामि, न पुनर्मनोरथप्रातिकूल्येन कदर्थनीयास्मि' इत्युक्त्वा पादयोरपतत् ।।

पञ्चमोच्छवासः । स तु ससंभ्रममपनीय चरणयुगलम् , अवनमिततनुः उदनमयन्मातरम् । दुर्निवारतां च शुचः समवधार्य, कुलयोषि- दुचितां च तामेव श्रेयसीं मन्यमानः क्रियाम् , कृतनिश्चयां च तां ज्ञात्वा तूष्णीमधोमुखोऽभवत् । अभिनन्दति हि स्नेहकातरापि कुलीनता देशकालानुरूपम् ।। देव्यपि यशोवती परिष्वज्य समाधाय च शिरसि, निर्गत्य, चरणाभ्यामेव चान्तःपुरात्सरस्वतीतीरं ययौ । तत्र च स्त्रीस्वभा- वकातरैदृष्टिपातैः प्रविकसितरक्तपङ्कजपुखैरिवार्चयित्वा भगवन्तं भानुमन्तमिव मूर्तिरैन्दवी चित्रभानुं प्राविशत् । इतरोऽपि मातृ- मरणाविह्वलो बन्धुवर्गपरिवृतः पितुः पार्श्व प्रायात् । अपश्यच स्वल्पावशेषप्राणवृत्तिं जनयितारम् । आश्लिष्य चास्य पादपद्मा, अश्रुस्रोतसां संतानं वर्षन्नितरवद्विमुक्तारावश्चिरं रुरोद ।। राजा तु तम् उपरुध्यमानदृष्टिः अविरतरुदितशब्दाश्रित- श्रवणः प्रत्यभिज्ञाय शनैः शनैरवादीत्-"पुत्र, नार्हस्येवं भवि- तुम् । भवद्विधा न ह्यमहासत्त्वाः। सत्त्व वतां चाग्रणीः सर्वाति- शयाश्रितः ‘क भवान , क च वैक्लब्यम् । कुलप्रदीपोऽसि इति, दिवसकरसदृशतेजसस्ते लघूकरणमिव । गृह्यतां श्रीरिति, स्वयमेव श्रिया गृहीतस्य विपरीतमिव । उह्यतां राज्यभार इति, भुवन- त्रयभारोचितस्यानुचितनियोग इव । निगृह्यतां चापलमिति, नूतनतरवयसि निगृहीतेन्द्रियस्य निरवकाशेव मे वाणी। निरव- शेषतां शत्रवो नेया इति, सहजस्य तेजस एवेयं चिन्ता" इत्येवं बदन्नेव अपुनरुन्मीलनाय निमिमील राजसिंहो लोचने ।

Aw हर्षचरितसंग्रहे अस्मिन्नेवान्तरे पूषाप्यायुषेव तेजसा व्ययुज्यत। क्रमेण चा प्रवृत्तायां संध्यायाम् , नाकपथप्रस्थितपार्थिवप्रत्युद्गतपुरुहूतातपत्र इव पूर्वस्यां दिशि दृश्यमाने चन्द्रमसि, नरेन्द्रः स्वयं समर्पि. तस्कन्धैर्गृहीत्वा शवशिबिकां सामन्तैः पौरैश्च पुरोहितपुरःसरे सरितं सरस्वती नीत्वा नरपतिसमुचितायां चितायां हुताश- संस्क्रियया यशःशेषतामनीयत ।। देवोऽपि हर्षः पुञ्जीभूतेन सकलेनेव जीवलोकेन लोकेन् राजकुलसंबद्धनाशेषेण शोकमूकेन परिवृतः, निर्व्यवधानायां: धरण्यामुपविष्ट एव तां निशीथिनी भीमरथीभीमामखिला सरा- जको जजागार ॥ अजनि चास्य चेतसि-"ताते दूरीभूते संप्रत्येतावान्खलु. जीवलोकः । लोकस्य भन्नाः पन्थानो मनोरथानाम् । खिलीभू- तानि भूतिस्थानानि । स्थगितान्यानन्दस्य द्वाराणि । सुप्ता सत्य- वादिता । लुप्ता लोकयात्रा । विलीना बाहुशालिता। प्रलीना- प्रियालापिता । समाप्ता समरशौण्डता । ध्वस्ता परगुणप्रीतिः । विश्रान्ता विश्वासभूमयः । अपदान्यपदानानि । निरुपयोगाणि, शास्त्राणि । कथावशेषा विशेषज्ञता । ददातु जनो जलाञ्जलिम्। और्जित्याय । प्रतिपद्यतां प्रव्रज्यां प्रजापालता । बध्नातु वैधव्य- वेणी वरमनुष्यता । समाश्रयतु राजश्रीराश्रमपदम् । परिधत्तांत धवले वाससी वसुमती । तपस्यतु तपोवनेषु तेजस्विता । कः गम्यतां पुनस्तस्य कृते कृतज्ञतया । क पुनः प्राप्स्यति तादृशान भपदानं शुद्धचरितम् पूर्ववृत्तं वा। और्जित्य स्थैर्यम् । तपस्यतु तपः करोतु ॥

पश्चमोच्छवासः। - महापुरुषनिर्माणपरमाणूपरमेष्ठी । शून्याः संवृत्ता दश दिशो गुणानाम् । जगज्जातमन्धकारं धर्मस्य । निष्फलमधुना जन्म शस्रोपजीविनाम् । अपि नाम स्वप्नेऽपि दृश्येत दीर्घरक्तनयनं पुनस्तन्मुखसरोजम् ? जन्मान्तरेऽपि पुनः परिष्वज्येत तद्भुज- युगलम् ? लोकान्तरेऽपि 'पुत्र' इत्यालपतः श्रूयेत सा सुधारस- मुनिरन्ती भारती?" इत्येतानि चान्यानि च चिन्तयत एवास्य कथमपि सा क्षयमियाय यामिनी ॥ ततः शुचेव मुक्तकण्ठमारटत्सु कृकवाकुकुलेषु, तनूभूते तमसि पतितयूथप इव वनगजयूथे कक्ष्यान्तरवर्तिनि पितृपरि- जने, विषादिनि उ परिरुदन्निषादिनि च स्तम्भनिषण्णे निस्पन्दमन्दे राजकुञ्जरे, मन्दुरापालकाक्रन्दकथिते चाजिरभाजि राजवाजिनि, विश्रान्तजयशब्दकलकले च शून्ये महास्थानमण्डपे, दह्यमान- दृष्टिनिर्जगाम राजकुलात् । अगाञ्च सरस्वतीतीरम् । तस्यां सात्वा पित्रे ददावुदकम् । अपस्नातश्च अनिष्पीडितमौलिरेव परिधाय उद्गमनीयदुकूलवाससी निःश्वासपरो निरातपत्रो निरुत्सारणः, चरणाभ्यामेव भवनमाजगाम || राजवल्लभास्तु भृत्याः सुहृदः सचिवाश्च तस्मिन्नेवाहनि निर्गत्य प्रियं पुत्रदारमुत्सृज्य उद्बाष्पैर्बन्धुभिर्वार्यमाणा अपि बहु- नृपगुणगणहृतहृदयाः केचिद्वैश्वानरं विविशुः, केचिटवीभुवः शून्या जगृहुः, केचिन्मुनयो बभूवुः ॥ अपनातः मृतस्नातः । उद्मनीयं धौतवस्त्रयुमम् ॥

हर्षचरितसंग्रह देवमपि हर्ष पितृशोकविह्वलीकृतम् , श्रियं शाप इति, मही महापातकमिति, राज्यं रोग इति, भोगान् भुजंगा इति, निलयं निरय इति, बन्धुं बन्धनमिति, जीवितम् अयश इति, देहं द्रोह इति, कल्यतां कलङ्क इति, आयुः अपुण्यफलमिति, आहारं विषमिति, विषम् अमृत मिति, हृदयस्फुटनम् अभ्युदय इति च मन्यमानम् , सर्वासु क्रियासु विमुखम् , ग्राह्यगिरो गुरवः, श्रुति- स्मृतीतिहासविशारदाश्च जरद्विजातयः, यथावदधिगतात्म- तत्वाश्च मस्करिणः, समदुःखसुखाश्च मुनयः, संसारासारत्व- कथनकुशला ब्रह्मवादिनः, शोकापनयननिपुणाश्च पौराणिकाः पर्यवारयन् ॥ अनुनीयमानश्च तैः कथं कथमप्याहारादिकासु क्रियास्वा- भिमुख्यमभजत । भ्रातृगतहृदयश्चाचिन्तयत्-" अपि नाम ता. तस्य मरणमुपश्रुत्य आर्यो बाष्पजलस्नातो न गृह्णीयाद्वल्कले ? नाश्रयेद्वा राजर्षिराश्रमपदम् ? न विशेद्वा पुरुषसिंहो गिरि- गुहाम् ? अनित्यतया जनितवैराग्यो वा न निराकुर्यादुप- सर्पन्ती राज्यलक्ष्मीम् ? इहागतो वा राजभिरभिधीयमानो न पराचीनतामाचरेत् ? अतिपितृपक्षपाती खल्वार्यः” इत्येतानि चान्यानि च चिन्तयन् , दर्शनोत्सुकहृदयो भ्रातुरागमनम् दीक्षमाणः कथं कथमप्यतिष्ठत् ।। इति भट्टबाण वेरचिते हर्षचरिते महाराजमरणवर्णन नाम पञ्चम उच्छवासः ।

॥ षष्ठ उच्छासः ॥ अथ प्रथमप्रेतपिण्डभुजि भुक्ते द्विजन्मनि, गतेष्वाशौचदि- बसेषु, दीयमाने द्विजेभ्यो नृपोपकरणकलापे, नीतेषु तीर्थस्थानानि कीकसेषु, क्रमेण च मन्देष्वाक्रन्देषु, विश्राम्यत्यश्रुणि, कृतेषु कविरुदितकेषु, देवो हर्षः कदाचिदुत्सृष्टसकलव्यापारः, पुञ्जीभूत- वृद्धबन्धुवर्गाग्रेसरेण अवनतमूकमुखेन महाजनेन मौलेनाकाले आत्मानं वेष्ट्यमानमद्राक्षीत् । दृष्टा चाकरोन्मनसि--"किम- न्यत् ? आर्यमागतमावेदयत्ययं शोकपराभूतो लोकाकरः” इति । चेपमानहृदयश्च पप्रच्छ प्रविशन्तमन्यतमं पुरुषम् -~~~-" अङ्ग, कथय, किमार्यः प्राप्तः" इति । स मन्दमब्रवीत्-"देव, यथा- दिशसि, द्वारि" इति ॥ अनन्तरं च द्वारपालमुक्तेन प्रथमप्रविष्टेन परिजनेनेवाक. न्देन कथ्यमानम् , प्रथीयसा वाष्पपयःप्रवाहेण महीमनवरतं सिञ्चन्तम् , क्रीतमिव क्रशिम्ना, मूकीकृतमिव मौनेन, पिष्टमिव पीडया, विवृतमिव वैराग्येण, अवज्ञातमिव प्रज्ञया, अबाध्येन वृद्धबुद्धीनाम् असाध्येन साधुभाषितानाम् अगम्येन गुरुगिराम् भुक्ते भुक्तवति, बाहुलकात् कर्तरि क्तः । आशौचम् अशुचेर्भावः । कीकसानि अस्थीनि । अग्रे सरतीति अग्रेसरः । “पुरोऽप्रतोऽग्रेषु सर्तेः" इति टः। मूलात् आगतो मौलः, परंपरागत इत्यर्थः। भाकरः समूहः। अ भोः । पृथुः प्रथीयान् प्रथिष्ठः । कृशस्य भावः ऋशिमा ॥ .

हर्षचरितसंग्रहे अपथेन प्रज्ञाप्रयत्नानाम् अगोचरेण सुहृदनुरोधानाम् अभूमिभूतेन कालक्रमापचयानां शोकेन कबलीकृतं ज्येष्ठं भ्रातरमपश्यत् ।। अथ दूरादेव दृष्ट्वा देवो राज्यवर्धनः चिरकालकलितं बाष्पवेगं मुमुक्षुः, सुदूरप्रसारितेन दोर्दण्डद्वयेन गृहीत्वा कण्ठे भ्रातरम् , मुक्तकण्ठं सरोद । सुचिराञ्च कथं कथमपि निर्वृष्ट- नयनजलः पर्जन्य इव शरदि स्वयमेवोपशशाम । तूष्णीमेक च चिरं स्थित्वा उत्थाय स्नानभूमिमगात् । तस्यां च स्थित्वा मौलिमनादरान्निष्पीड्य चतुःशालवितर्दिकायां पर्यङ्किकायां निपत्य जोषमस्थात् । देवोऽपि हर्षस्तथैव स्नात्वा अदूर एवास्य तूष्णी- मेव समवातिष्ठत । दृष्ट्वा दृष्ट्वा दूयमानमानसमग्रजन्मानं समस्फुटदिवास्य सहस्रधा हृदयम् ।। औरसदर्शनं हि यौवनं शोकस्य । लोकस्य तु नरपतिमरण- दिवसादपि दारुणः स बभूव दिवसः। सर्वस्मिन्नेव नगरे न केनचिदस्नायि, न केनचिदपाचि, न केनचिदभोजि ; सर्वत्र सर्वे. णारोदि । केवलमनेन क्रमेणातिचक्राम दिवसः॥ स चापरपारावारपयसि ममज मञ्जिष्ठारुणोऽरुणसारथिः । अकाशत चाकाशे शशाङ्कमण्डलम् । अस्यां च वेलायामनतिक्रम- णीयवचनरुपसृत्य प्रधानसामन्तैर्विज्ञाप्यमानः कथं कथमप्यभुक्त ।। प्रभातायां च शर्वर्याम् , सर्वेषु प्रविष्टेषु राजसु, समीपस्थितं हर्षदेवमुवाच-"तात, भूमिरसि गुरुनियोगानाम् । शैशव एवाग्राहि भवता तातस्य चित्तवृत्तिः। भवन्तमेवंविधं विधेयं अपचयः हासः॥

षष्ठोच्छवासः। विधिविधानोपनतनैघृण्यमिदं किमपि बिभणिषति मे हृदयम् । नालम्बनीया बालभावसुलभा वामता । वैधेय इव मा कृथाः. प्रत्यूहमीहितेऽस्मिन् । न खलु न जानासि लोकवृत्तम् । लोकत्रय- त्रातरि मांधातरि मृते किं कृतं पुरुकुत्सेन, भ्रूलतादिष्टाष्टादशद्वीपे दिलीपे वा रघुणा, महासुरसमरमध्याध्यासितत्रिदशरथे दशरथे वा रामेण, गोष्पदीकृतचतुरुदन्वदन्ते दुष्यन्ते वा भरतेन । यं च किल शोकः समभिभवति, तं कापुरषमाचक्षते शास्त्रविदः । स्त्रियो हि विषयः शुचाम् । तथापि किं करोमि स्वभावस्य । सेयं कापुरुषता वा स्त्रैणं वा, यदेवमास्पदं पितृशोकहुतभुजो जातोऽस्मि । मम हि प्रनष्टः प्रज्ञालोकः, प्रज्वलितं हृदयम् , नोपसर्पति विवेकः, मुह्यति मतिः। न शक्नोति मे हृदयं तादृशस्य सुमेरुकल्पस्य महापुरुषस्य विनिपातमश्रुभिरेव केवलैरतिवाहयि- तुम् । सोऽहमिच्छामि मनसि वाससीव सुलग्नं स्नेहमलमिदम् अमलैः शिखरिशिखरप्रस्रवणस्वच्छस्रोतोम्बुभिः क्षालयितुमाश्रम-- पदे । अतस्त्वमनभिमतामपि जरामिव पूरुराज्ञया गुरोर्गृहाण मे राज्यचिन्ताम् । त्यक्तसकलबालक्रीडेन हरिणेव दीयतामुरो लक्ष्म्यै । परित्यक्तं मया शस्त्रम्" इत्येवमभिधाय, खड्गमाहिणो हस्तादादाय निजं निस्त्रिंशम् उत्ससर्ज धरण्याम् ।। अथ तच्छ्रुत्वा निशितशिखेन शूलेनेवाहतः प्रविदीर्ण- कुत्सितः पुरुषः कापुरुषः । “विभाषा पुरुषे” इति कादेशः । स्त्रियो भाव: कर्म वा बैणम् । स्नेहः प्रेम, तैलं च । त्रिंशतः अङ्गुलिभ्यः निर्गतः निस्त्रिंशः खगः॥

४४ हर्षचरितसंग्रहे हृदयो देवो हर्षः समचिन्तयत्-"किं नु खलु मामन्तरेणार्य केनचिदसहिष्णुना किंचिद्ाहितः कुपितः स्यात् ? उतानया दिशा परीक्षितुकामो माम् ? उत शोकजन्मा चेतसः समाक्षेपोs यमस्य ? आहोस्वित् आर्य एवायं न भवति ? किं वार्येणान्य देवाभिहितम् , अन्यदेवाश्रावि मया शोकशून्येन श्रवणेन्द्रियेण ? आर्यस्य वान्यदेव विवक्षितम् , अन्यदेवापतितं मुखात् ? अथवा -सकलवंशविनाशाय निपातनोपायोऽयं विधेः ? मम वा निखिल. पुण्यपरिक्षयोपक्षेपः कर्मणाम् ? येनायं यः कश्चिदिव यत्किंचन- कारिणं मामपुष्पभूतिवंशसंभूतमित्र अताततनयमिव अनात्मानुज. मिव अभक्तमिव दृष्टदोषमिव, श्रोत्रियमिव सुरापाने, सद्धृत्यमिव स्वामिद्रोहे, सज्जनमिव नीचोपसर्पणे, अतिदुष्करे कर्मणि समा- दिष्टवान् । तदेतत्तावदनुरूपम् , यत्ताहशि पितरि मृते तपोवनं वा गम्यते, वल्कलानि वा गृह्यन्ते, तपांसि वा सेव्यन्ते । या तु मयि राज्याज्ञा, सा दग्धेऽपि दाहकारिणी मय्यवग्रहग्लपिते धन्वनीवाङ्गारवृष्टिः । तदसदृशमिदमार्यस्य । यद्यपि च विभुर- नभिमानः, द्विजातिरनेषणः, मुनिररोषणः, कपिरचपलः, कवि- रमत्सरः, साधुरदरिद्रः, अमात्यः सत्यवादी, राजसूनुरदुर्विनी- तश्च जगति दुर्लभः ; तथापि ममार्य एवाचार्यः । को हि नाम तद्विधे निपतिते जनयितरि, ईदृशे च त्यक्तराज्ये भ्रातरि ज्यायसि तपोवनं गच्छति, मृदोलकं वसुधाभिधानं चण्डालोऽपि काम- अन्तरेण उद्दिश्य । "श्रोत्रियनु छन्दोऽधीते" । अवग्रहः वर्षाभावः । थन्वा मरुप्रदेशः । एषणा अभिलाषः ॥ . , षष्ठोच्छवासः । येत ? कथमिव संभावितमत्यन्तमनुचितमिदमार्येण ? किं वास्य चेतसश्च्युतः सौमित्रिः, विस्मृता वा वृकोदरप्रभृतयः । किं वा ममानेन वृथा बहुधा विकल्पितेन । तूष्णीमेवार्यमनुगमि- ध्यामि । गुरुवचनातिक्रमकृतं च किल्बिषमेतत्तपोवने तप एवा-- पास्यति" इत्यवधार्य, मनसा प्रथमतरं गतस्तपोवनमधोमुख- स्तूष्णीमवातिष्ठत ॥ अत्रान्तरे पूर्वादिष्टेनैव रुदता वस्त्रकर्मान्तिकेन समुप- स्थापितेषु वल्कलेषु, रटति राजस्वैणे, तारमब्रह्मण्यम् ऊर्ध्वदोष्णि विरुवति विप्रजने, पादप्रणति परे फूत्कुर्वति पौरबृन्दे, निराशेषु निःश्वसत्सु सामन्तेषु, सबालवृद्धासु तपोवनाय प्रस्थितासु सर्वासु प्रजासु, सहसैव प्रविश्य शोकविक्लबः प्रक्षरितनयन-. सलिलो राज्यश्रियः परिचारकः संवादको विमुक्ताक्रन्दः सदस्या- स्मानमपातयत् ॥ अथ संभ्रान्तो राज्यवर्धनस्तं पर्यपृच्छत्-“भद्र, भण भण किमपरमधिकतरमितः समुपनयति विधिः” इति । स कथं कथमप्यकथयत् देव, पिशाचानामिव नीचात्मनां चरितानि छिद्रप्रहारीणि प्रायशो भवन्ति । यस्मिन्नहन्यवनिपतिरुपरत इत्य- भूद्वार्ता, तस्मिन्नेव देवो ग्रहवर्मा दुरात्मना मालवराजेन जीव- लोकमात्मनः सुकृतेन सह त्याजितः । भर्तृदारिकापि राज्यश्री वृकोदरः भीमसेनः । कर्मगः अन्तः अस्मिन् अस्तीति कर्मान्तिकः भृत्यः । ब्रह्मणि साधु ब्रह्मण्यम्, न ब्रह्मण्यम् अब्रह्मण्यम् । “अब्रह्मण्यम.. वध्योको” इत्यमरः॥ - हर्षचरितसंग्रहे कालायसनिगडयुगलचुम्बितचरणा चौराङ्गनेव संयता कान्यकुद कारायां निक्षिप्ता । किंवदन्ती च, यथा किल-अनायकं साध मत्वा जिघृक्षुः स दुर्मतिरेतामपि भूमिमाजिगमिषति इति विज्ञापिते प्रभुः प्रभवति" इति ॥ ततश्च तादृशमनुपेक्षणीयमसंभावितमाकस्मिकमपरं व्यान करमाकर्ण्य, अभुतपूर्वत्वात्परिभवस्य, परपरिभवासहिष्णुतया खभावस्य, दर्पबहुलतया च नवयौवनस्य, कृपाभूमिभूताया स्वसुः स्नेहात् , स तादृशोऽपि बद्धमूलोऽपि अत्यन्तगुरुरेकप एवास्य ननाश शोकावेगः । विवेश च हृदयं भयंकरः कोपावेगः अनुजमवादीच-" आयुष्मन् , इदं राजकुलम् , अमी बान्धवा परिजनोऽयम् , इयं भूमिः, एताः प्रजाः । गतोऽहमद्यैव माल कुलप्रलयाय । इदमेव तावद्वल्कलग्रहणम् , इदमेव तपः, शोकार -गमोपायश्वायमेव, यत् अत्यन्ताविनीतारिनिग्रहः। सोऽयं कुर ङ्गकैः कचप्रहः केसरिणः, भेकैः करपातः कालसर्पस्य, तिमि "स्तिरस्कारो रवेः, यो मालवैः परिभवः पुष्पभूतिवंशस्य । रितस्तापो मे महीयसा मन्युना। तिष्ठन्तु सर्व एव राजानः करि णश्च त्वयैव सार्धम् । अयमेको भण्डिरयुतमात्रेण तुरङ्गमाणामनु यातु माम्" इत्यभिधाय चानन्तरमेव प्रयाणपटहमादिदेश ।। तं च तथा समादिशन्तमाकर्ण्य, निवर्तनादेशेन दूरप्ररूढ प्रणयपीडः प्रोवाच देवो हर्ष:-" कमिव दोषं पश्यति आय ममानुगमने? यदि बाल इति, नितरां तर्हि न त्याज्योऽस्मि रक्षणीय इति, भवद्भुजपञ्जरं रक्षास्थानम् । अशक्त इति, ६ मा षष्ठोच्छवासः। परीक्षितोऽस्मि । अक्लेशसह इति, बीपक्षे निक्षिप्तोऽस्मि । सुख- मनुभवविति, त्वयैव सह तत्प्रयाति । प्रलघुपरिकरः प्रयामीति, पादरजसि कोऽतिभारः । द्वयोर्गमनमसांप्रतमिति, मामनु. गृहाण गमनासया । कातरो भ्रातृस्नेह इति, सदृशो दोषः । अवश्चितपूर्वोऽस्मि प्रसादेषु । तत्प्रसीदत्वार्यः, नयतु मामपि" इत्यभिधाय पादयोरपतत् ।। तमुत्थाप्य पुनरप्रजो जगाद-"तात, किमेवमतिमहा- रम्भपरिग्रहेण गरिमाणमारोप्यते बलादतिलघीयानप्यहितः । इरिणार्थमतिद्वेपणः सिंहसंभारः । तृणानामुपरि कति कवचयन्ति आशुशुक्षणयः । अपि च, तवाष्टादशद्वीपा मेदिन्यस्त्येव विक्र- मस्य विषयः । न हि कुलशैलनिवहवाहिनो वायवः संनयन्त्य- तितरले तूलराशौ । तिष्ठतु भवान्" इत्यभिधाय तस्मिन्नेव वासरे निर्जगाम अभ्यमित्रम् ॥ अथ तथागते भ्रातरि, उपरते च पितरि, प्रोषितजीविते च जामातरि, मृतायां च मातरि, संयतायां च स्वसरि, स्वयूथ- भ्रष्ट इव वन्यः करी देवो हर्षः कथं कथमप्येकाकी कालं तमनैषीत् ॥ अतिक्रान्तेषु च बहुषु वासरेषु, कदाचित् , आस्थानगतः सहसैव प्रविशन्तम् , अनुप्रविशता विषण्णवदनेन लोकेनानु- गम्यमानम् , नासावंशस्याने ग्रथितदृष्टिं कुन्तलं नाम बृहदश्ववारं राज्यवर्धनस्य प्रसादभूमि ददर्श । तस्माच हेलानिर्जितमालवानी- ४८ हर्षचरितसंग्रहे r कमपि गौडाधिपेन मिथ्योपचारोपचितविश्वासं मुक्तशस्त्रमेक किनं विस्रब्धं स्वभवन एव भ्रातरं व्यापादितमश्रौषीत् ॥ श्रुत्वा च महातेजस्वी सहसैव प्रजज्वाल। ततश्च ह इव कृतभैरवाकारः, हरिरिव प्रकटितनरसिंहरूपः, महाशीवि इव दुर्नरेन्द्राभिभवरोषितः, तारुण्यावतार इव तेजसः, सर्वो द्योग इव दर्पस्य, राज्याभिषेक इव रणरसस्य, परां भीषण तामयासीत् ॥ अवादीच-"गौडाधिपमपहाय कस्तादृशं महापुरुषं मुक्त शस्त्रं कलशयोनिमिव कृष्णवर्मप्रसूतिरीदृशेन सर्वलोकविगर्हिते. मृत्युना शमयेदार्यम् । कां नु गतिं गमिष्यति ? कस्मिन्वा नरः निपतिष्यति ? श्वपाकोऽपि क इदमाचरेत् ? नामापि गृहृतोऽस्य पापकारिणः पापमलेन लिप्यत इव मे जिह्वा । केदानी यास्यति दुर्बुद्धिः" इति ॥ एतदभिधत एवास्य पितुरपि मित्रं सेनापतिः, समग्र विग्रहप्राग्रहरः, हरितालशैलावदातदेहः, प्रांशुः, गतभूयिष्ठे वयसि वर्तमानः बहुशरशयनसुप्तोत्थितोऽपि हसन्निव शान्तनवमतिदीर्घ णायुषा, स्थैर्यकार्कश्योन्नतिभिरचलानपि हृपयन्निव, सहजप्रचण्ड तेजःप्रसरपरिस्फुरणेन सवितारमपि तृणीकुर्वन्निव, अरणिरमर्षाग्नेः भैरवः भयंकरः, शिवावतारभेदश्च । नरसिंहः नर श्रेष्ठः, अवतारभेदश्च नरेन्द्रः : राजा, विषवैद्यश्च । कलशयोनिः द्रोणाचार्यः । कृष्णवर्मा अग्निः स प्रसूतिः उत्पत्तिस्थानं यस्य सः धृष्टद्युम्नः । कृष्णं श्यामं दुष्टं वर्त्म मार्गः तस प्रसूतिश्च । शान्तनवं भीष्माचार्यमपि ॥ .

षष्ठोच्छ्वासः। ऐश्वर्य शौर्यस्य, जीवितं जिगीषुतायाः, कुलगुरुवीरगोष्ठीनाम् , तुला शौर्यशालिनाम् , सीमान्तहश्वा शस्त्रग्रामस्य, पारगः प्रतिज्ञा- याः, मर्मज्ञो महाविग्रहाणाम् , संनिधावेव समुपविष्टः सिंहनाद- नामा स्वरेणैव दुन्दुभिघोपगम्भीरेण सुभटानां समररसमान. यन्विज्ञापितवान्-“देव, न कचित्कृताश्रयया मलिनया मलिन- तराः कोकिलया काका इव कापुरुषा हतलक्ष्म्या विप्रलभ्यमान- मात्मानं न चेतयन्ते । छत्रच्छायान्तरितरवयो विस्मरन्यन्य तेजस्विनं जडधियः । किं वा करोतु वराकः, येनातिभीरुतया नित्यपराङ्मुखेण न दृष्टान्येव कुपितानां तेजस्विनां मुखानि । नासौ तपस्वी जानात्येवम् , यथा- अभिचारा इव विप्रकृताः सद्यः सकल- कुलप्रलयमुपहरन्ति मनस्विनः । जलेऽपि ज्वलन्ति ताडितास्तेज- स्विनः। सकलवीरगोष्ठीबाह्यस्य तस्यैवेदमुचितमनुत्तारनिरयनिपात- निपुणं कर्म । मनस्विनां हि प्रधनप्रधानधने धनुषि ध्रियमाणे, सति च कृपाणे, कृपणोपायाः पयोधिमथनप्रभृतयोऽपि श्रीसमुत्थानस्य, किंपुनरीदृशाः । यचाहिनहतस्वजनो मनस्विजनो द्विषद्योषिदुरस्ता- डनेन कथयति हृदयदुःखम् , परुषासिलतानिपातपवनेन उच्छच- सिति, निरुच्छवसितशत्रुशरीराश्रुधारापातेन रोदिति, विपक्षव- निताचक्षुषा ददाति जलम् , स श्रेयान् नेतरः । न च स्वप्नदृष्ट- नष्टेष्विव क्षणिकेषु शरीरेषु निबध्नन्ति बन्धुबुद्धिं प्रबुद्धाः । स्थायिनि यशसि शरीरधीवीराणाम् । मणिप्रदीपमिव कज्जलमलो अभिचाराः हिंसाकर्माणि । विप्रकृताः पीडिताः, विप्रैः कृताश्च ।। ताडिताः प्रहृताः, तडित्संबन्धिनश्च । जले सलिले जडे च ॥ 4.

हर्षचरितसंग्रहे न स्पृशत्येव तेजस्विनं शोकः । स त्वं सत्त्ववतामग्रणीः, प्राग्रहरः प्रथमः समर्थानाम् , प्रष्ठोऽभिजातानाम् , अग्रेसरस्ते. जस्विनाम्, आदिरसहिष्णूनाम् । एताश्च धीरताया निवास. शिशिरभूमयः स्वायत्ताः सुभटानामुरःकवाटभित्तयः । ततः किं गौडाधिपेनकेन । तथा कुरु, यथा नान्योऽपि कश्चिदेवमाचरति भूयः । येनैव ते गतः पिता पितामहः प्रपितामहो वा, तमेव मा हासीत्रिभुवनस्पृहणीयं पन्थानम् । अपहाय कुपुरुषोचितां शुचम् , प्रतिपद्यस्व कुलक्रमागतां राजलक्ष्मीम् । देव, देवभूयं गते नरेन्द्रे, दुष्टगौडभुजंगजग्धजीविते च राज्यवर्धने, वृत्तेऽस्मिन्महाप्रलये धरणीधारणाय अधुना त्वं शेषः। समाश्वासय अशरणाः प्रजाः । मापतीनां शिरःसु शरत्सवितेव ललाटंतपान्प्रयच्छ पादन्यासान्" इत्युक्त्वा व्यरंसीत् ॥ देवस्तु हर्षस्तं प्रत्यवादीत् "करणीयमेवेदमभिहितं मा- न्येन । इतरथा हि मे गृहीतभुवि भोगिनाथेऽपि दायाददृष्टिरी- ालोर्भुजस्य । तेजोदुर्विदग्धान् अर्ककरानपि चामराणि ग्राह- यितुमीहते हृदयम् । अपि च, हृदयविषमशल्ये मुसल्ये जीवति जाल्मे जगद्विगर्हिते गौडाधिपाधमचण्डाले जिमि शुष्काधरपुटः प्राग्रहरः मुख्यः। “प्रष्ठोऽग्रगामिनि"। देवस्य भावः देवभूयम् । जग्धं भक्षितम् । प्रलयः कल्पान्तः, नाशश्च । शेषः अवशिष्टः, अनन्तश्च ।। ललाटं तपन्तीति ललाटतपाः । “असूर्यललाटयोईशितपोः" इति खश् । 'पादः चरणः, किरणश्च । व्यरसीत "व्यापरिभ्यो रमः" इति परस्मैपदिनो लुङ् । मुसलं तत्प्रहारं अर्हति मुसल्यः ॥

षष्ठोच्छवासः। + पोटेव प्रतीकारशून्यं शुचा सूत्कर्तुम् । श्रूयतां मे प्रतिज्ञा-शपा- म्यार्यस्यैव पादपांसुस्पर्शेन ; यदि परिगणितैरेव वासरैर्निर्गौडां न करोमि मेदिनीम् , ततस्तनूनपाति पातकी पातयाम्यात्मानम् ।। इत्युक्त्वा च महासंधिविग्रहाधिकृतमवन्तिमन्तिकस्थमा- दिदेश-" लिख्यतां सर्वेषां राज्ञाम् --सज्जीक्रियन्तां करा: करदानाय, शस्त्रग्रहणाय वा । गृह्यन्तां दिशः, चामराणि वा। नमन्तु शिरांसि, धनूंषि वा । कर्णपूरी क्रियन्तामाज्ञाः, मौव्यो वा। मुच्यन्तां भूमयः, इषवो वा । परागतोऽहम्” इति । कृतनिश्चयश्च मुक्तास्थानो विसर्जितराजलोकः स्नानारम्भाकावी सभामत्याक्षीत् । उत्थाय च स्वस्थवनिःशेषमाह्निकमकार्षीत् । अगलच्च दर्पप्रसर इव श्रुतप्रतिज्ञस्य शाम्यदूष्मा दिवसत्रिभुवनस्य ) OK ततश्च निजाधिकारापहारमीत “इच "भगवत्यपि कापि गते गततेजस्य हिमभासि, प्रदोषास्थाने, नातिचिर, तस्यौता प्रतिषिद्ध- परिजनप्रवेशश्च शयनगृहं प्राविशत् । उतानश्च मुमोचाङ्गानि शयन- तले । दीपद्वितीयं च तम् अभिसर इव लब्धावसरस्तरसा भ्रातृशोको जग्राह । जीवन्तमिव हदये निमीलितलोचनो ददर्शा- ग्रजम् । मुखमाच्छाद्य निःशब्दमतिचिर रुरोंद । प्रभातायां च शर्वर्याम् , प्रातरेव प्रतीहारमादिदेश-"अशेषगजसाधनाधिकृतं स्कन्दगुप्तं द्रष्टुमिच्छामि” इति ॥ पोटा स्त्रीपुंसलक्षणा। करः राजग्राह्यो भागः। भाह्निकम् आह्नि भवं "नित्यकर्म ।। 8948 Ph...

५२ हर्षचरितसंग्रहे - - अथ युगपत्प्रधावितबहुपुरुपपरंपराहूयमानः स्वमन्दिरात अप्रतिपालितकरेणुश्चरणाभ्यामेव, संभ्रान्तः, एकभर्तृभक्तिनिश्चला कुलाङ्गनामिवानन्यगम्यां प्रभुप्रसादभूमिमारूढः, निष्कारण- बान्धवो विदग्धानाम् , अक्रीतदासो विदुषां स्कन्दगुप्तो विवेश राजकुलम् । दूरादेव चोभयकरकमलावलम्बितं स्पृशन्मौलिना महीतलम् नमस्कारमकरोत् ।। उपविष्टं नातिनिकटे तं तदा जगाद देवो हर्षः- "श्रुनो विस्तर एवास्यायव्यतिकरस्य अस्मच्चिकीर्षितस्य च ? अतः शीघ्र प्रवेश्यन्तां प्रचारनिर्गतानि गजसाधनानि । न क्षाम्यत्यतिस्वल्प- मध्यार्यपरिभवपीडापावकः प्रयाणविलम्बम्” इति ॥ एवमभिहितश्च प्रणम्य व्यज्ञापयत्-"कृतमवधारयतु स्वामी समादिष्टम् । किं तु स्वल्पं विज्ञाप्यमस्ति भर्तृभक्तेः। तदा- कर्णयतु देवः । देवेन हि पुष्पभूतिवंशसंभूतस्य सहजस्य तेजसः, दिक्करिकरप्रलम्बस्य बाहुयुगलस्य, असाधारणस्य च सोदरस्नेहस्य सर्व सदृशमुपक्रान्तम् । काकोदराभिधानाः कृपणाः कृमयोऽपि न मृष्यन्ति निकारम् , किमुत भवादशास्तेजसां राशयः। केवलं देव- राज्यवर्धनोदन्तेन कियदपि दृष्टमेव देवेन दुर्जनदौरात्म्यम् । ईदृशाः खलु लोकस्वभावा । प्रतिग्राम प्रतिनगरं प्रतिदेशं प्रति- द्वीपं प्रतिदिशं च भिन्ना वेषाश्चाकाराश्चाहाराश्च व्यवहाराश्च । तदियमात्मदेशाचारोचिता स्वभावसरलहृदयजा त्यज्यतां सर्ववि- श्वासिता । प्रमाददोषाभिषङ्गेषु श्रुतबहुवात एवं प्रतिदिनं देवः” इत्युक्त्वा विरराम, स्वाम्यादेशसंपादनाय च निर्जगाम ॥

सप्तमोच्छवासः। ५३ देवोऽपि हर्षः सकलराज्यस्थितीश्चकार । ततश्च तथा कृतप्रतिज्ञे प्रयाणं विजयाय दिशां समादिशति देवे हर्षे, गतायुषां अतिसामन्तानामुदवसितेषु बहुरूपाण्युपलिङ्गानि वितेनिरे । इति भट्बाणविरचिते हर्षचरिते राजप्रतिज्ञावर्णनं नाम षष्ठ उच्छवासः । ॥ सप्तम उच्छासः ॥ अथ व्यतीतेषु केषुचिदिवसेषु, मौहूर्तिकमण्डलेन शतशः सुगणिते प्रशस्ते अहनि दत्ते चतसृणामपि दिशां विजययोग्ये दण्डयात्रालग्ने, स्नात्वा विरचय्य परमया भक्त्या भगवतो नील- लोहितस्यार्चाम् , उदर्चिपं हुत्वाशुशुक्षणिम् , दत्त्वा द्विजेभ्यो रन- वन्ति राजतानि जातरूपमयानि च सहस्रशस्तिलपात्राणि कनक- पत्रलतालंकृतशफशृङ्गशिखरा गाश्चार्बुदशः, समुपविश्य वितत- व्याघ्रचर्मणि भद्रासने, विलिप्य प्रथमविलिप्तायुधश्चन्दनेन शरी- रम् , परिधाय राजहंसमिथुनलक्ष्मणी दुकूले, कल्पयित्वा सित- 'कुसुममुण्डमालिकां शिरसि, नीत्वा कर्णगोचरतां गोरोचनाच्छरित- -मभिनवं दूर्वापल्लवम् , विन्यस्य सह शासनवलयेन गमनमङ्गल- ५४ हर्षचरितसंग्रहे । प्रतिसरं प्रकोष्ठे, शान्ति सलिलशीकराभ्युक्षितशिराः, विमुच्य बन्धः नानि, प्रमुदितप्रजाजन्यमानजयशब्दकोलाहलो भवनान्निर्जगाम ॥ नातिदूरे च नगरादुपसरस्वति निर्मिते महति तृणमये मन्दिरे प्रस्थानमकरोत् । तत्रस्थस्य चास्य ग्रामाक्षपटलिकः सकल. करणिपरिकरः, "करोतु देवो दिवसग्रहणमद्यैवावन्ध्यशासनः शासनानाम् इत्यभिधाय, वृषाकामभिनवघटितां हाटकमयीं मुद्रामुपनिन्ये । जग्राह च तां राजा। समुपस्थापिते च प्रथमत एव मृत्पिण्डे परिभ्रश्य करकमलादधोमुखी महीतले पपात मुद्रा । मन्दाश्यानपङ्कपटले मृदुमृदि सरस्वतीतीरे व्यराजन्त राजयो वर्णानाम् । अमङ्गलाशङ्किनि च विषीदति परिजने नरपतिरकरो- न्मनस्येवम्-" तत्वदर्शिन्यो नहि भवन्त्यविदग्धानां धियः । तथाहि-एकशासनमुद्राङ्का भूर्भवतो भविष्यतीति निवेदितमपि निमित्तेन अन्यथा गृह्णन्ति ग्राम्याः इत्यभिनन्द्य महानिमित्तं तत्, सीरसहस्रसंमितसीम्नां ग्रामाणां शतमदाहिजेभ्यः । निनाय च तत्र तं दिवसम् । प्रतिपन्नायां शवयाँ संमानितसर्वराजलोकः सुष्वाप ॥ अक्षाणां भूतानां व्यवहाराणां वा पटलं समूहः, तत्र नियुक्तः अक्षपटलिका, प्रामस्य अक्षपटलिकः प्रामाधिकारी। करणं लेख्यं तद्वन्तः करणिनः कायस्थाः। कायस्था इत्येके । करणिः लेख्यमित्यन्ये । परिकरः परिवार: सहायः सामग्री वा। शासनानि आज्ञाः, आज्ञालेख्यानि वा। वृषः वृषभः अङ्कः यस्याः सा तां वृषाङ्काम् । आश्यानं शुष्कम् । विदग्धाः रसिका, विवेकिनः । एकम् अद्वितीयं मुख्यं वा शासनं पालनम् एकस्य शासनं वार तस्य मुद्रा अङ्कः चिह्नं यस्याः सा। प्रामे भवाः ग्राम्याः विवेकरहिताः ॥ . .. करणयः सप्तमोच्छवासः। : ह्यमानः अथ गलति तृतीये यामे अताडयत प्रयाणपटहः । अग्रतः स्थित्वा च मुहूर्तमिव पुनः प्रयाणक्रोशसंख्यापकाः स्पष्टम् अष्टौ अदीयन्त प्रहाराः पटहे पटीयांसः । ततो रटत्पटहे कूजकाहले शब्दायमानशळे प्रयाणसमये, प्रतिदिशमागच्छद्भिः उद्घोष्यमाण- नामभिः उन्मुखपादातप्रतिपाल्यमानाज्ञापातः राजभिरापुपूरे राजद्वारम् ॥ उदिते च भगवति दिनकृति, राज्ञः समायोगग्रहणसमय- शंसी सस्वान संज्ञाशको मुहुर्मुहुः। अथ नचिरादिव करेणुकयो- दण्डिभिरितस्ततः समुत्सार्यमाणजनसमूहो निर्जगाम नरपतिः। अथ प्रस्थिते राजनि, इतस्ततो वितस्तार तारतरस्तू- र्याणां प्रतिध्वनिराशातटेषु । दिग्गजेभ्यः प्रकुपितानां त्रिप्रसुतानां करिणां मदप्रस्रवणवीथीभिरलिकुलकालीभिः कालिन्दीवेणिकास- हस्राणीत्र सस्यन्दिरे। दोधूयमानश्च सचराचरमाचचाम चामर- संघातो विश्वम । सर्वतो विक्षिप्तचक्षुश्च भूपालोऽद्राक्षीत् आवा- सस्थानसकाशात्प्रतिष्ठमानं स्कन्धावारम् अधोक्षजकुक्षेरिव युगादौ निष्पतन्तं जीवलोकम । वीक्षमाणश्च कटकं जगाम ।। आसन्नवर्तिनां च तत्रभवताम् “मान्धात्रा प्रवर्तिताः पन्थानो दिग्विजयाय । अप्रतिहतरथरंहसा रघुणा लघुनैव कालेन अकारि ककुभां प्रसादनम् । नातिजिगीषवः खलु पूर्वे, येनाल्प एव भूभागे भूयांसो भगदत्तदन्तवक्त्रशिशुपालजरासंध. समायोगः सजता, "समायोगस्तु संयोगे समवाये प्रयोजने" इति मेदिनी। समायोगः भूषणादिपरिकर इत्यन्ये ।।

हर्षचरितसंग्रहे अथ अभृतयोऽभवन्भूपतयः ।" इत्येवंप्रायान् उद्योगद्योतकानालापान पार्थिवकुमाराणां बाहुशालिनां शृण्वन्नेव आससादावासम् । मन्दिरद्वारि चोभयतः सबहुमानं भूलताभ्यां विसर्जितराजलोकः, बाह्यास्थानमण्डपस्थापितमासनमाचक्राम अपास्तसमायोगश्च क्षणमासिष्ट ॥ अथ तत्र प्रतीहारः पृथ्वीपृष्ठप्रतिष्ठापितपाणिपल्लवो विज्ञा- पितवान्- "देव, प्राग्ज्योतिषेश्वरेण कुमारेण प्रहितो हंसवेगो नाम दूतस्तोरणमध्यास्ते” इति । राजा तु "तमाशु प्रवेशय" इति सादरमादिदेश । दक्षतया क्षितिपालादराच्च प्रतीहारः स्वयमेव निरगात् । अनन्तरं च हंसवेगः सविनयं प्रभूतप्राभृतभृतां पुरुषाणां समूहेन महतानुगम्यमानः प्रविवेश राजमन्दिरम् आरादेव च पञ्चाङ्गालिङ्गिताङ्गनः प्रणाममकरोत् । स्निग्धनरेन्द्र- दृष्ट्या निर्दिष्टमविप्रकृष्टं च प्रदेशमध्यास्त | ततो राजा संमुखीन- स्तं सप्रश्रयं पप्रच्छ-"हंसवेग, श्रीमान् कञ्चित्कुशली कुमारः ?" इति । स तमन्ववादीत्-" अद्य कुशली, येनैवं स्नेहनपितया सगौरवं गिरा पृच्छति देवः" इति ।। स्थित्वा च मुहूर्तमिव पुनः स चतुरमुवाच-"चतुरम्भो. धिभोगभूतिभाजनभूतस्य देवस्य सद्भावगर्भमपहाय हृदयमेकम् , अन्यदनुरूपं प्राभृतमेव दुर्लभं लोके । तथाप्यस्मत्स्वामिना संदेशमशून्यतां नयता पूर्वजोपार्जितं वारुणातपत्रम् आभोगाख्यम् अनुरूपस्थानन्यासेन कृतार्थीकृतमेतत् । अस्य च कुतूहलकृन्ति सप्तमोच्छ्वासः। बहून्याश्चर्याणि दृश्यन्ते-प्रतिदिवसं प्रविशति शैत्यहेतोश्छायायाः किरणसहस्रादेकैकः सोमस्य रश्मिरस्मिन् । अस्मिन्प्रविष्टे प्रध्याना- नन्तरं स्वादवो दन्तवीणोपदेशाचार्याश्च्योतन्ति चन्द्रभासाम- म्भसां मणिशलाकाभ्यो यावदिच्छमच्छा धाराः । प्रचेता इव यश्चतुर्णामर्णवानामधिपतिर्भूतो भावी वा, तमनुगृह्णाति छायया नेतरम् । इदं च न सप्ताचिर्दहति, न पृषदश्वो हरति, नोदकमा- यति, न रजांसि मलिनयन्ति, न जरा जर्जरयति । एतत्तावदनु- गृह्णातु दृशा देवः । संदेशमपि विस्रब्धं श्रोष्यति" इत्येवमभिधाय विवृत्य, आत्मीयं पुरुषमभ्यधात्- "उत्तिष्ठ, दर्शय देवस्य" इति ।। स वचनानन्तरमुत्थाय पुमान् ऊर्वीचकार तत्, धौतदु- कूलकल्पिताञ्च निचोलकादकोषीत् । आकृष्यमाण एव च यस्मिन् अतिसितमहसि, सरभसमहासीव हरेण, रसातलादुदलासीव शेष- फणिफणाफलकमण्डलेन, अस्थायीव चक्रीभूयान्तरिक्ष क्षीरोदेन । चित्रीयमाणचेताश्च सराजको राजा दण्डानुमाराधिरो- हिण्या दृष्ट्या सादरम् ऐशिष्ट तत् तिलकमिव त्रिभुवनस्य, शैशवमिव श्वेतद्वीपस्य, अंशावतारमिव शरदिन्दोः, हृदयमिव धर्मस्य, उपरिस्थितमिव सर्वमङ्गलानाम् , श्वेतमण्डपमिव श्रियः, हासमिव कीर्तेः, त्रैलोक्याद्भुतं महच्छत्रम् ।। दृष्टे च तस्मिन्प्रथमे, शेषमपि प्राभृतं प्रकाशयां चक्रुः क्रमेण निचोलकः प्रच्छदपटा । क्षीरम् उदकं यस्य स: क्षीरोदः । चित्रीयमाणं विस्मयमानम् । राज्ञां समूहः राजकम् । प्राभूतम् उपहारः॥

हर्षचरितसंग्रहे कार्माः; तद्यथा-आहतलक्षणानलंकारान् , अनेकरागरुचिरवेत्र करण्डकुण्डलीकृतानि शरच्चन्द्रमरीचिरुञ्चि शौचक्षमाणि क्षौमाणि, अगरुवल्कलकल्पितसंचयानि च सुभाषितभाञ्जि पुस्तकानि, कुतूहलकृन्ति कनकशृङ्खलानियमितग्रीवाणां किंनराणां वनमानुषाणां च जीवजीवकानां च जलमानुषाणां च मिथुनानि, जलहस्तिनाम् उदग्रकुम्भमुक्ताफलदामदन्तुराणि च दन्त काण्ड. कुण्डलानि ॥ बाल- . राजा तु छत्रदर्शनात्प्रहृष्टहृदयः प्रथमप्रयाणे शोभनं निमित्त- मिति मनसा जग्राह । हंसवेगं च प्रीयमाणो बभाषे-“भद्र, सकलरत्नधाम्नः परमेश्वरशिरोधारणार्हस्यास्य महातपत्रस्य महार्ण- वादिव कुमुदबान्धवस्य कुमाराल्लाभो न विस्मयाय । विद्याः खलु महतामुपकृतयः" इति । अपनीते च तस्मात्प्रदेशा- त्प्राभृतसंभारे, क्षणमिव स्थित्वा “ हंसवेग, विश्रम्यताम्” इति प्रतीहारभवनं विसर्जयांबभूव । स्वयमप्युत्थाय स्नात्वा मङ्गला. काङ्क्षी प्राङ्मुखः प्राविशदाभोगस्य छायाम् । अथ विशत एवास्यः छायाजन्मना जडिम्ना चूडामणितामनीयतेव शशिबिम्बम् । अम्बु. बिन्दुमुचश्चुचुम्बुरिव चन्द्रकान्तमणयो ललाटतटम् । कर्पूररेणव कार्माः कर्मशीलाः "कार्मस्ताच्छील्ये" । आहतलक्षणान् गुणैः प्रथितान् । “गुणैः प्रतीते तु कृतलक्षणाहतलक्षणौ" इत्यमरः । शौचं निर्णजनम् । दाम श्रेणिः । सकलानां रत्नानां मणीनां श्रेष्टवस्तूनां च धाम वासस्थानं तस्मात् । इदं महार्णवकुमारयोविशेषणम् । परमेश्वरः शिवः, प्रकृष्टः प्रभुश्च । इदं च महातपत्रकुमुदबान्धवयोर्विशेषणम् । संभारः समूहः ॥

सप्तमोच्छवासः । ५९. - इव व्यलीयन्त लोचनयुगले । कुमुदमयमिव हृदयमभवत् । जातविस्मयश्चाकरोन्मनसि एकमजयं संगतमपहाय कास्त्यन्या प्रतिकौशलिका" इति । आहारकाले च हसवेगाय विलिप्तशेष चन्दनम् , अङ्गस्पृष्टे च वाससी, परिवेशं नाम कटिसूत्रम् , तरङ्गक नाम कर्णाभरणम् , प्रभूतं च भोज्यजातं प्राहिणोत् । एवंप्रायेण च क्रमेण जगाम दिवसः ।। ततः कटकस्थ वलबहुलधूलिधूसरितवपुः अंशुमाली, मली. मसमङ्गमिव क्षालयितुमपरजलनिधिमवातरत् । आभोगातपत्र- प्रदानवार्तामिव निवेदयितुं वरुणाय वारुणी दिशमयासीत् । अस्यां च चेलायां विततवितानतलवर्ती नरेन्द्रः, 'यात तावत्' इति विसानुजीविनः, हंसवेगमादिष्टवान् --'कथय संदेशम्' इति ॥ प्रणम्य स कथयितुं प्रास्तावीत् देव, पुरा वराहसंपर्क- संभूतगर्भया भगवत्या भुवा नरको नाम सूनुरसावि रसातले । यश्च वरुणस्य बहिवृत्ति हृदयम् इदमातपत्रमहार्षीत् । महात्म- नस्तस्यान्वये भगदत्तपुष्पदत्तवत्रदत्तप्रभृतिषु व्यतीतेषु बहुषु महीपालेषु प्रपौत्रो महाराजभूनिवर्मणः पौत्रश्चन्द्रमुखवर्मणः पुत्रो देवस्य कैलासस्थिरस्थितेः स्थितिवर्मणः सुस्थिरवर्मा नाम महा- राजाधिराजो जज्ञे तेजसा राशिः ; मृगाङ्क इति यं जना जगुः । तस्य च सुगृहीतनानो देवस्य देव्यां श्यामादेव्यां भास्करद्युति- र्भास्करवर्मापरनामा कुमारः समभवत् ॥ न जीर्यतीति अजय॑म् । "अजय संगतम्" । प्रतिकोशलिका प्रत्युपहारः॥

हर्षचरितसंग्रह अयमस्य च शैशवादारभ्य संकल्पः स्थेयान-स्थाणुपा- दारविन्दद्वयात् ऋते नाहमन्यं नमस्कुर्यामिति । ईदृशश्चायं मनो- रथस्त्रिभुवनदुर्लभत्रयाणामन्यतमेन संपद्यते -सकलभुवनविज- येन वा, मृत्युना वा, यदिवा जगत्येकवीरेण देवोपमेन मित्रेण मैत्री च प्रायः कार्यव्यपेक्षिणी क्षोणीभृताम् । कार्य च कीदृशं नाम तद्भवेत् यदुपन्यस्यमानं मित्रतामुपनयेद्देवम् । देवस्य हि यशांसि संचिचीषतो बहिरङ्गभूतानि साधनानि । बाहावेव च केवले निषण्णस्य शेषावयवानामपि साहायकसंपादनमनोरथो निरवकाशः, किमुत बाह्यजनस्य । तदत्र प्रार्थनामात्रमेव केवल. मनुरुध्यमानः शृणोतु देवः -प्राग्ज्योतिषेश्वरो हि देवेन एक- पिङ्ग इवानगद्विषा, धनंजय इव पुष्कराक्षेण, मलयानिल इव माधवेन, अजयं संगतमिच्छति । यदि च देवस्यापि मैत्रीयति हृदयम् , अवगच्छति च--पर्यायान्तरितं दास्यमनुतिष्ठन्ति सुहृद इति, ततः किमास्यते ? समाज्ञाप्यताम् । अनुभवतु गाढोपगूढानि देवस्य कामरूपाधिपतिः । नाभिनन्दति चेद्देवः प्रणयम् , आज्ञाप- यतु-किं कथनीयं मया स्वामिने ?” इति ।। on- . विरतवचसि तस्मिन् , भूपालः सादरं जगाद-"हंसवेग, कथमिव तादृशि महात्मनि महाभिजने पुण्यराशी गुणिनां प्राग्रहरे परोक्षसुहृदि स्निह्यति, मद्विधस्यान्यथा स्वप्नेऽपि प्रवर्तेत मनः। -सुबहुगुणगणक्रीताश्च के वयं सख्यस्य 1 सजनमाधुर्याणाम् सख्युः भावः कर्म वा सख्यम् ॥ .

सप्तमोच्छवासः। अमृतदास्यो दश दिशः । श्रेयांश्च संकल्पः कुमारस्य । स्वयं बाहुशाली मयि. च समालम्बितशरासने सुहृदि हरात् ऋते कमन्यं नमस्य ति ? संवर्धिता मे प्रीतिरमुना संकल्पेन । अवले- पिनि पशावपि केसरिणि बहुमानो मे हृदयस्य, किंपुनः सुहृदि । तत्तथा' यतेथाः, यथा न चिरमियस्मान्क्लेशयति कुमारदर्शनो- त्कण्ठा" इति ॥ हंसवेगस्तु विज्ञापयांबभूव-"देव, किमपरमिदानी केशयति ? अभिजातमभिहितं देवेन । सेवाभीरवो हि सन्तः । तत्रापि विशेषेणायमहंकारधनो वैष्णवो वंशः । आस्तां तावदस्म- स्वामिवंशः। पश्यतु देवः-पुरुषस्य हि सेवां प्रति दुर्जनन्येवाति- वृद्धया दुर्गत्या वा अभिमुखी क्रियमाणस्य, कुडुम्बिन्येवासंतुष्टया तृष्णया वा प्रेर्यमाणस्य, दुरपयैरिव यौवनजनितै नाभिलाषि- भिरसत्संकल्पैर्वा आकुलीक्रियमाणस्य, नृपशोस्तृणेऽपि लब्धे कंधरामवनमयतः, जठरपरिपूरणमात्रप्रयोजनजन्मनो मांसपि- ण्डस्य गर्भरोगस्य मातुः भृतकस्य किं प्रायश्चित्तम् ? प्रतिक्रिया? क गतस्य शान्तिः ? कीदृशम् जीवितम् ? कः पुरुषा- भिमानः ? किनामानो विलासाः कीदृशी भोगश्रद्धा ? प्रबल- पङ्क इव सर्वमधस्तान्नयति दारुणो दासशब्दः धिक् तदुच्छ्व- सितम् । उपयातु तद्धनं निधनम् । अभवनिर्भूतेरस्तु तस्याः । अमृताः सत्यः दास्यः वेतन विना परिचारिकाः । अभिजातं न्या- स्यम् , रमणीयं वा । दुर्गतिः दैन्यम् । भृतकः सेवकः । निधनं नाशम् । भभवनिः अनुत्पत्तिः । "आक्रोशे नव्यनिः" ॥ का ..

हर्षचरितसंग्रहे , नमस्तेभ्यः सुखेभ्यः । तिष्ठतु दूर एव सा श्रीः । यदर्थमुत्तमाकं -गां गमिष्यति । (यदि) वराकः सेवकोऽपि मर्त्यमध्ये, (तदा) -राजिलोऽपि वा भोगी, पुलाकोऽपि वा कलमः । तदेवमभिनन्दि- तास्मदीयप्रणयो देवोऽपि, दिवसः कतिपयैरेव परागतः प्राग्ज्यो- तिषेश्वर इति करोतु चेतसि” इत्युक्त्वा तूष्णीमभूत् । अचिराच्च नमस्कृत्य निर्जगाम || राजापि रजनी तां कुमारदर्शनौत्सुक्यस्वीकृतहृदयः समन- पीत् । आत्मार्पणं हि महताममूलमन्त्रमयं वशीकरणम् । प्रभाते च प्रभूतं प्रतिप्राभृतं प्रधानप्रतिदूताधिष्ठितं दत्त्वा हंसवेगं प्राहिणोत् । आत्मनापि ततः प्रभृति प्रयाणकैरनवरतैरभ्यमित्रं प्रावर्तत ।। कदाचित्तु राज्यवर्धनभुजबलोपार्जितमशेषं मालवराजसा. धनमादायागतं समीप एवावासितं लेखहारकाद्भण्डिमशृणोत् श्रुत्वा चाभिनवीभूतभ्रातृशोकहुताशनः कातरहृदयो बभूव । अतिष्ठञ्च समुत्सृष्टसकलव्यापारः, प्रतीहारनिवारणनिभृतनिःशब्द परिजने निजमन्दिरे सराजकपरिवारः, तदागमनमुदीक्षमाणो मुहूर्तम् ॥ अथ भण्डिरेकेनैव वाजिना कतिपयकुलपुत्रपरिवृतो मलि नवासाः, पातकीव अपराधीव द्रोहीव मुषित इव राजद्वारमा जगाम । अवतीर्य च तुरंगमादवनतमुखो विवेश राजमन्दिरम् राजिलः निर्विषो द्विमुखः सर्पः । पुलाक: तुच्छधान्यम् । मूलम ओषधिमूलम् , औषधमिति तात्पर्यम् । अभ्यभित्रं शत्रुमभिमुखीकृल आवासितं संजातावासम् । निभृत: निश्चलः ॥

सप्तमोच्छवासः। । - दूरादेव च विमुक्ताक्रन्दः पपात पादयोः । अवनिपतिरपि दृष्टा तम् उत्थाय विरलैः पदैः प्रत्युद्गम्य उत्थाप्य च गाढमुपगुह्य कण्ठे करुणमतिचिरं रुरोद । शिथिलीभूतमन्युवेगश्च पुरेव पुनरागस निजासने निषसाद । प्रथमप्रक्षालितमुखे च भण्डौ मुखमक्षाल. यत् । समतिक्रान्ते च कियत्यपि काले भ्रातृमरणवृत्तान्तमप्रा- क्षीत् । अथाकथयञ्च यथावृत्तमखिलं भण्डिः । अथ नरपति- स्तमुवाच-"राज्यश्रीव्यतिकरः कः ?" इति । स पुनरवा- दीत्-" देव, देवभूयं गते देवे राज्यवर्धने, गुप्तनाम्ना च गृहीते कुशस्थले, देवी राज्यश्रीः परिभ्रश्य बन्धनाद्विन्ध्याटवीं सपरिवारा अविष्टेति लोकतो वार्तामशृणवम् । अन्वेष्टारस्तु तां प्रति प्रभूताः अहिता जना नाद्यापि निवर्तन्ते” इति। तच्चाकर्ण्य भूपतिरब्रवीत्- "किमन्यैरनुपदिभिः । यत्र सा, तत्र परित्यक्तान्यकृत्यः स्वयमहं यास्यामि । भवानपि कटकमादाय प्रवर्ततां गौडाभिमुखम्” इत्यु. स्वा चोत्थाय स्नानभुवमगात् । कारितशोकश्मश्रुवपनकर्मणा च प्रतीहारभवनस्नातेन भण्डिना सार्धमभुक्त। निनाय च तेनैव सह वासरम् ॥ अथापरेधुरुषस्येव भण्डिः, भूपालमुपसृत्य व्यज्ञापयत्- "पश्यतु देवः श्रीराज्यवर्धनभुजबलार्जितं साधनं सपरिबर्ह मा- लवराजस्य" इति । नरपतिना सः “एवं क्रियताम्" इत्यभ्यनुज्ञा- तो दर्शयांबभूव । अथालोच्य तत्सर्वमवनिपालः स्वीकर्तुं यथाधि- उपगुह्य आलिङ्गय । अनुपदम् अन्वेष्टारः अनुपदिनः । “अनुपद्य- ज्वेष्टा" । कटकं सैन्यम् । परिबर्हाः राजकीयवस्तूनि ॥ - ६४ हर्षचरितसंग्रहे कारमादिक्षदध्यक्षान् । अन्यस्मिंश्चाहनि, हयैः स्वसारमन्वेष्टु- मुच्चचाल विन्ध्याटवीम् , अवाप च परिमितैरेव प्रयाणकैस्ताम् ।। : अथ प्रविशन दूरादेव दह्यमानषष्टिकबुस विसरविसारिवि- भावसूनां वन्यधान्यबीजधानीनां धूमेन धूसरिमाणमादधानः शुष्कशाखासंचयरचितगोवाटवेष्टितविकटवटैः व्यापादितवत्सरूप. करोषरचितव्याघ्रयन्त्रैः यन्त्रितवनपालहठह्रियमाणपरग्रामीणका. ष्ठिककुठारैः गहनतरुपण्डनिर्मितचामुण्डामण्डपैर्वनप्रदेशैः प्रकाश- मानम् , अटवीप्रायप्रान्ततया कुटुम्बभरणाकुलैः कुद्दालप्रायकृषि- भिः कृषीवलैर्भज्यमानभूरिशालिखलक्षेत्रखण्डकम् , उपक्षेत्रमुपर- चितैरुच्चैर्मश्चैश्च सूच्यमानश्वापदोपद्रवम् , दिशि दिशि च प्रति- मार्गदुमकृतानाम् अध्वगजनजग्धजम्बूफलास्थिशबल समीपभुवाम् षष्टिकानां षष्टिरात्रेण पच्यमानानां धान्यानां बुसाः कडङ्गराः । "षष्टिकाः षष्टिरात्रेण पच्यन्ते" । विभावसुः अग्नि. । बीजधानी बीजावापक्षे. त्रम् , नात्तकाल् इति द्रविडभाषायां प्रसिद्धम् । गोवाटः गोवन्धनस्थानम् , माटुप्पट्टि इति यस्य भाषायां प्रसिद्धिः । विकटः विशालः । वत्सरूपकाः प्रशस्ता वत्सतराः । यन्त्रिताः अधिकृताः, अयन्त्रितति पाठे स्वतन्त्रा इत्यर्थः । परग्रामीणाः ग्रामान्तरादागताः । काष्ठैः जीवन्ति दीव्यन्ति वा, काष्ठं पण्यम् एषामिति वा काष्ठिकाः काष्ठजीविनः । कुद्दालो नाम धान्यविशेषः, तत्प्राया तत्प्रचुरा कृषिः येषां तैः । कुद्दालः मलैयकत्ति इति द्राविडाः । व्रीहि भेद इत्यन्ये । कृषिः एषामस्तीति कृषीवलाः कर्षकाः । भज्यमानाः मृद्यमानाः भूरयः शालयः धान्यविशेषः येषु ते, तादृशाः खलक्षे. त्राणां खण्डाः यस्मिन् तत् तादृशम् । खलक्षेत्रं नाम कळमिति भाषायां प्रसिद्धम् । श्वापदः दुष्टमृग. ॥ . . . .

सप्तमोच्छ च्छवासः। : उदकुम्भाकृष्टपाटलशर्कराशकलशिशिरीकृतदिशां घटमुखघटितकर- हाटपाटलपुष्पपुटानाम् अटवीप्रवेशप्रपाणां शैत्येन त्याजयन्तमिव प्रैष्ममूष्माणम् , कचिदन्यत्र ग्राहयन्तमिव अङ्गारीयदारुसंग्रह- दाहिभिः व्योकारैः, सर्वतश्च प्रातिवेश्यविपयवासिनी समासन्न- ग्रामगृहस्थापितस्थविरपरिपाल्यमानपाथेयस्थगितेन कृतदारुणदारु- व्यायामयोग्याङ्गाभ्यङ्गेन स्कन्धाध्यालितकठोरकुठारकण्ठलम्ब- मानप्रातराशपुटेन पाटञ्चरप्रत्यवायप्रतिपन्नपटच्चरेण काष्ठसंग्रहार्थ- मटवीं प्रविशता नैकटिककुटुम्बिलोकेन व्याप्तदिगन्तरम् , अति- विप्रकृष्टान्तरैः मरकतस्निग्धस्नुहीबाट वेष्टितैः कार्मुककर्मण्यवंश- पाटलाः श्वेतरक्ताः, शर्कराः पानककलनाय उदकुम्भ निक्षिप्ता. मधुराः खाडविकृतयः। जलनेमल्याय पाटलवर्णाः दृषत्कणा निक्षिप्यन्त इत्यन्ये । शैत्याय उदकुम्भानामधस्तात् आर्द्राः सिकताः प्रक्षिप्यन्त इति तदभिप्रायेणेद. मिति परे। घटखेपु घटिताः स्थापिताः करहाटानां पद्मकन्दानां पाटलपुष्पाणी च पुटाः यासु ताः तादृश्यः । प्रपाः पानीयशालाः । अङ्गारेभ्य इमानि अङ्गारी- याणि। “तथं विकृतेः प्रकृतौ" इति छः । “व्योवारो लोकारकः” इत्य- मरः । प्रानिदेश्यविपयः समीपस्थो देशः । समासन्नं यत् ग्राम गृहं ग्राम चावटि इति भापायां प्रसिद्धं तत्र स्थापितानि यानि स्थविर परिपाल्यमानानि पाथेयानि मार्गगमनोपयोगी नि अपूपादीनि तैः स्थगितेन तत्क्रयणाय किंचित्कृतविलम्बेन । समासन्नो यो ग्रामः तत्रत्ये गृहे स्थापितः स्थविरः वृद्धः, तेन परिपाल्यमानः पाथेयः स्थगितेन व्याप्तेन सहितेन वेति केचित् । व्यायामः देहश्रम । अभ्यङ्गः तैलानुलेपनम् । प्रातराशपुटः कल्यवर्तमूतः। गृहं पाठयन् चरतीत पाटचरः तस्करः । प्रत्यवायः दोषः पीडेति यावत् । प्रतिपक्ष स्वीकृतम् । पटचरं जीर्ण- वत्रम् । निकटे भरः नैकटिकः । वाटः श्रेणिः। कर्मगि साधवः कर्मण्याः । कर्मणे प्रभवति कार्मुकम् । कार्मुककर्मण्याः धनुष्करणयोग्याः वंशविटपा वेणु- शाखाः तैः संकटानि व्याप्तानि तैः ॥ .. .. 5 हर्षचरितसंग्रहे विटपसंकटः कथमपि कुक्कुटरटितानुमीयमानसंनिवेशः वेणुपोट- दलनलशरमयवृतिविहितभित्तिभिः शाल्मलीफलतूलसंचयबहुलैः संनिहितनलशालिशालूरखण्डकुमुबीजवेणुतण्डुलै: अटवीकुटुम्बिना गृहैरुपेतं वनग्रामकं ददर्श । तत्रैव चावसत् ।। इति भट्टबाणविरचिते हर्षचरिते छत्रलब्धिर्नाम सप्तम उच्छवासः। ॥ अष्टम उच्छ्वासः॥ अथापरेशुरुत्थाय पार्थिवस्तस्माद्बामकान्निर्गय विवेश विन्ध्याटवीम् । आट च तस्यामितश्चेतश्च सुबहून् दिवसान् ।। एकदा तु भूपतेभ्रंमत एव आटविकसामन्तशरभकेतोः सूनुर्व्याघ्रकेतुर्नाम, कुतोऽपि, कज्जलश्यामलम् , श्यामलतावल- येन अधिललाटमुच्चैःकृतमौलिबन्धम् , अन्धकारिणीमकारणभुवा भ्रुकुटिभङ्गेन त्रिशाखेन त्रियामामिव साहससहचारिणी ललाट- संनिवेशः स्थितिः । वेणुपोटदला: पाटितानां वेणूनां शलाकाः । नलशरो तृणविशेषौ। पोटगलेति पाठे पोटगलः तृणविशेषः। शालूरखण्डाः कल्हारादि- कन्दसमूहाः । शालूकेति पाठान्तरम् । शालूकं पद्ममूलमिति शंकरः । वेणुतण्डुल इत्येकम् , भिन्नं वा पदन् । -- ..

अष्टमोच्छवासः। स्थली सदा समुद्वहन्तम् , अवतंसितैकशुकपक्षकप्रभाहरितायमा- नेन पिनद्धकाचरकाचमणिकर्णिकेन श्रवणेन शोभमानम् , किंचि. च्चुल्लस्य प्रविरलपक्ष्मणश्चक्षुषः सहजेन रागरोचिषा रसायन- रसोपयुक्तं तारक्षवं क्षतजमिव क्षरन्तम् , अवनाटनासिकम् , चिपिटाधरम् , चिकिनचिबुकम् , जंगममिव गिरितटतमालपाद- 'पम्, पाकलं करिकुलानाम , धूमकेतुं मृगराजचक्राणाम् , महा- नवमीमहं महिषमण्डलानां शबरयुवानमादाय आजगाम ।। दूरे च स्थापयित्वा विज्ञापयांबभूव-"देव, सर्वस्यास्य विन्ध्यस्य स्वामी सर्वपल्लीपतीनां प्राग्रहरः शबरसेनापतिर्भूकम्पो नाम । तस्यायं निर्घातनामा स्वस्रीयः सकलस्यास्य विन्ध्यका- न्तारस्य पर्णानामप्यभिज्ञः, किमुत प्रदेशानाम् । देवः। योग्योऽयमाज्ञां कर्तुम्" इति कथिते च निर्घातः क्षिति- तलनिहितमौलिः प्रणाममकरोत् । उपनिन्ये च तित्तिरिणा सह शशोपायनम् ॥ अवनिपतिस्तु संमानयन् , स्वयमेव तमप्राक्षीत्-"अङ्ग, अभिज्ञा यूयमस्य सर्वस्योदेशस्य । विहारशीलाश्च दिवसेष्वेतेषु काचरः कपिलः । कर्णिका कर्णभूषणम् । "कर्णललाटात्कन्नलंकारे"। चुलं क्लिन्नम् । रसायनम् औषविशेषः । तरक्षुगां व्याघ्राणामिदं तारक्षवम् । अवनाटचिपिटचिकिनशब्दाः प्रकृते नतार्थकाः । शकरस्तु "अवनाटः निनः । चिपिट. स्थूल ईषल्लम्वश्च । चिकिनं स्थूलेषद्भस्वम् । चिबुकम् अधराधः" इति लिखति । पाकलः हस्तिज्वरः । महः उत्सवः । महानवमी आश्वयुजशुक्लाष्टमी मूलनक्षत्रयुता । महानवम्यां महिषा देव्यै विशस्यन्ते । पल्ली ग्रामटिका । स्वसुः अपत्यं स्वस्खीयः। एनं पृच्छतु ..

६८ हर्षचरितसंग्रहे भवन्तः। सेनापतेर्वा अन्यस्य वा तदनुजीविनः कस्यचिदुदार. रूपा नारी आगता भवेद्दर्शनम् ?” इति । निर्घातस्तु भूपालाला- पनप्रसादेनात्मानं बहुमन्यमानः, दर्शितादरं व्यज्ञापयत्- "देव, प्रायेणात्र हरिण्योऽपि नापरिगताः संचरन्ति सेनापतेः, कुत एव नार्यः । नाप्येवंरूपा काचिदबला । तथापि देवादेशादि- दानीमन्वेषणं प्रति प्रतिदिनमनन्यकृत्यैः क्रियते यत्नः । इतश्चाध- गव्यतिमात्र एव मुनिमहिते महति महीधरमालामूलरुहि महीहाँ पण्डे पिण्डपाती प्रभूतान्तेवासिपरिवृतः पाराशरी दिवाकरमित्र- नामा गिरिनदीमाश्रित्य प्रतिवसति । स यदि विन्देद्वार्ताम्" इति । तच्छुत्वा नरपतिरचिन्तयत्-" श्रूयते हि तत्रभवतः सुगृहीत नान्नः स्वर्गतस्य ग्रहवर्मणो बालमित्रं मैत्रायणीयस्त्रयों विहाय ब्राह्मणायनो विद्वानुत्पन्न ममाधिः सौगते मते युवैव कापा- याणि गृहीतवानिति । प्रायशश्च जनस्य जनयति सुहृदपि दृष्टो भृशमाश्वासम् । आभिगमनीयाश्च गुणाः सर्वस्य । कस्य न प्रती. क्ष्यो मुनिभावः। भगवती वैधेयेऽपि धर्मगृहिणी गरिमाणमापा- अपरिगताः अज्ञाताः । गप्यूतिः स्त्री कोशयुगम्"। पिण्डपातः अस्यास्तीति पिण्डपाती भैक्षोपजीवी। अन्ते समीपे वसन्तीति अन्तेवासिनः शिष्याः । पाराशर्येण व्यासेन प्रोक्तं भिक्षुसूत्रमधीते पाराशरी भिक्षुः । मैत्रायणीयः यजुर्वेदमैत्रायणीय शाखानुयायी । त्रयी वेदः । ब्राह्मणस्य अपत्यं ब्राह्मणायनः । "ब्राह्मणायनः द्विजवरिष्ठः इति शंकरः । त्रयों विहाय ब्राह्मणायनः-वेदाध्ययनं विना अन्येषां ब्राह्मणकृत्यानामनुष्ठाता। त्रयीं विहाय गृहीतवानिति संबन्ध इत्येके । समाधिः नियमः, चित्तकाम्यं वा । मनस्सङ्ग इत्यन्ये । सौगते बौद्ध । प्रतीक्ष्यः पूज्यः ॥ ..

अष्टमोच्छ्वासः। दयति प्रव्रज्या, किं पुनः सकलजनमनोमुषि विदुषि जने । यतो लः कुतूहलि हृदयमभूत्सततमस्य दर्शनं प्रति । प्रासङ्गिकमेवेदमा- पतितमतिकल्याणम् । पश्यामः प्रयत्नप्रार्थितदर्शनं जनम्" इति । प्रकाशं चाब्रवीत्.."अङ्ग, समुपदिश तमुद्देशम् ; यत्रास्ते स पिण्डपाती” इति । एवमुक्त्वा च तेनैवोपदिश्यमानवा प्राव. तर्त गन्तुम् ।। अथ क्रमेण गच्छत एव तस्य अनवकेशिनः, कुड्मलित- कर्णिकाराः, प्रचुरचम्पकाः, स्फीतफलेग्रहयः, फलभरभरितनमे- रवः, नीलदलनलद नारिकेलनिकराः, प्रचुरपूगफलाः, परिमल- घटितघ्राणदृप्तयः, मरकतमणिश्यामलाः क्रीडापर्वतका इव वस- न्तस्य, तनया इवाटवीजाता विन्ध्यस्य, पातालान्धकारराशय इव भित्त्वा भुवमुत्थिताः, इन्द्रनीलमयाः प्रासादा इव वनदेवताना पुरस्तादर्शनपथमवतेरुस्तरवः ।। ततो नरपतेरभवन्मनसि-अदूरवर्तिना खलु भवितव्यं भदन्ते नेति । अवतीर्य च गिरिसरिति समुपस्पृश्य, अस्मिन्नेव प्रदेशे स्थापयित्वा वाजिसेनाम् , अवलम्ब्य च तपस्विजनदर्शनो- चितं विनयं हृदयेन, विरलेरेव राजभिरनुगम्यमानः, चरणा- भ्यामेव प्रावर्तत गन्तुम् ॥ अथ तेषां तरूणां मध्ये, नानादेशीयः स्थानस्थानेषु स्थाणू- नाश्रयद्भिः शिलातले पूपविष्टैः लताभवनान्यध्यावसद्भिः तरुमूलानि , प्रव्रज्या संन्यासः। अवकेशी अफलः । फलानि गृह्णन्तीति फलेग्रहयः । फलेपहिरात्मभरिश्च"। स्थाणून शङ्कन् ॥

हर्षचरितसंग्रहे निषेवमाणैर्वीतरागैराहतमस्करिभिः श्वेतपटैः पाण्डुरिभिक्षुभि- र्भागवतैर्वणिभिः कापिलैर्लोकायतिकैः काणादैरौपनिषदैरीश्वरकार- णिकैः कारंधमिभिर्धर्मशास्त्रिभिः पौराणिकैः साप्ततन्तवैः शाब्दैः पाश्चरात्रिकैरन्यैश्च स्वान् स्वान् सिद्धान्तान् शृण्वद्भिरभियुक्तैश्चि. न्तयद्भिश्च संशयानैश्च निश्चिन्वद्भिश्च विवदमानैश्च व्याचक्षाणैश्च शिष्यतां प्रतिपन्नैर्दूरादेवावेद्यमानम् , अतिविनीतैः कपिभिरपि चैत्यकर्म कुर्वाणस्त्रिसरणपरैः परमोपासकैः शुकैरपि शाक्यशासन- कुशलैः कोशं समुपदिशद्भिः अनवरतश्रवणगृहीतालोकैः कौशिक- रपि बोधिसत्त्वजातकानि जपद्भिः उपास्यमानम् , आसनोपान्तोप- विष्टविस्रब्धानेककेसरिशाबकतया मुनिपरमेश्वरम् अकृत्रिम इक सिंहासने निषण्णम् , उपशममिव पिबद्भिर्वनहरिणर्जिह्वालताभि- रुपलिह्यमानपादपल्लवम् , वामकरतलनिविष्टेन नीवारमनता पारा- वत पोतेन कर्णोत्पलेनेव प्रियां मैत्री प्रसादयन्तम् , इतरकरकिस- लयनख मयूखलेखाभिर्जनितजनव्यामोहमद्रीवं मयूरं मरकतमणि- आहताः जैनाः । भागवताः विष्णुभक्ताः । वर्णिनः ब्रह्मचारिणः । कापिलाः सांख्याः । ईश्वरकारणिकाः नैयायिकाः। कारंधमिनः धातुवादिनः। सप्त- तन्तुः यागः, साप्ततन्तवाः मीमांसकाः। पाञ्चरात्रिकाः वैष्णव भेदाः । अभि- युक्ताः व्यवस्यन्तः। चैत्यं बुद्धालयः बुद्धबिम्बं वा । त्रयाणां सरणानां मार्गा- णाम् उपायानां समाहारः त्रिसरणम् । त्रिशरणेति पाठान्तरम् । बुद्धः धर्मः संघश्चेति त्रीणि सरणानि । शाक्यः वृद्धः। कोशः वसुबन्धुकृतः बौद्धसिद्धा- न्तग्रन्थ इति शंकरः । आलोकः ज्ञान प्रकाशश्च । कौशिका: उलूकाः। बोधि. सत्त्व इति बुद्धस्य पूर्वजन्मनाम । जातकानि पूर्वजन्मकथाः। “बोधिः समाधिः तत्प्रधानं सत्त्वं बुद्धभट्टारक. तदीयानि जातकानि जीमूतवाहनादिजन्मकथा: "" इति शंकरः । मैत्रीम् अपकारिण्यपि प्रीतिम् ॥ .

अष्टमोच्छवासः। . करकमिव वारिधाराभिः पूरयन्तम् , इतस्ततः पिपीलकश्रेणीनां श्यामाकतण्डुलकणान् स्वयमेव विकिरन्तम् , अरुणेन चीवरपट- लेन म्रदीयसा संवीतम् , अनौद्धत्यादधोमुखेन मन्दमुकुलितकुमु- दाकारेण स्निग्धधवलप्रसन्नेन चक्षुषा जनक्षुण्णक्षुद्रजन्तुजीवनार्थ- ममृतमिव वर्षन्तम् , सर्वशास्त्राक्षरपरमाणुभिरिव निर्मितम् , पर- मसौगतमपि अनवलोकितेश्वरम् , आलोकमिव यथावस्थितस- कलपदार्थप्रकाशाकं दर्शनार्थिनाम्, सुगतस्याप्यभिगमनीयमिव, धर्मस्याप्याराधनीयमिव, जन्म यमस्य, नेमि नियमस्य, तत्त्वं तपसः, शरीरं शौचस्य, कोशं कुशलस्य, वेश्म विश्वासस्य, सर्वखं सर्वज्ञतायाः, पारं परानुकम्पायाः, मध्यमे वयसि वर्तमान दिवाकरमित्रमद्राक्षीत् । अतिप्रशान्तगम्भीराकारारोपितबहुमानश्च दूरादेव शिरसा मनसा वचसा च ववन्दे । . दिवाकरमित्रस्तु मैत्रीमयः प्रकृत्या, विशेषतस्तेनापरेणादृष्ट- पूर्वेणामानुपलोकोचितेन भ्राजिष्णुना भूपतेरप्राकृतेन आकारविशे- षेण तेन चाभिजात्यप्रकाशकेन गरीयसा प्रश्रयेण आह्लादितः, चक्षुषि च चेतसि च युगपदग्रहीत् । धीरस्वभावोऽपि संपादित. ससंभ्रमाभ्युत्थानः उरिक्षप्य दक्षिणं हस्तम , मधुरया वाचा सगौ- रवमारोग्यदानेन राजानमन्वग्रहीत् । अभ्यनन्दच्च स्वागतगिरा । करकः कमण्डलुः। चीवरं वल्कलम् । नास्ति अवलोकितेश्वरः बुद्ध- विशेषो यस्येति विरोधः। अनवलोकितः अदृष्टः ईश्वरः प्रभुर्येनेति परिहारः । अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः शौचसंतोषतपःस्वाध्यायेश्वर- प्रणिधानानि नियमाः" इति योगसूत्रे । आभिजात्यं महाकुलीनत्वम् ।।

हर्षचरितसंग्रहे गुरुमिव अभ्यागतं बहु मन्यमानः स्वेनासनेन 'आध्वमत्र' इति निमन्त्रयांचकार । पार्श्वे स्थितं च शिष्यमब्रवीत्--"आयुष्मन् , उपानय कमण्डलुना पादोदकम्” इति ।। राजा त्वचिन्तयत्-"अलोहः खलु संयमनपाशः सौ- जन्यमाभिजातानाम् । स्थाने खलु तत्रभवान्गुणानुरागी ग्रहवर्मा बहुशो वर्णितवानस्य गुणान् " इति । प्रकाशं चाबभापे- -'भग- वन् , दर्शनपुण्यानुगृहीतस्य मम पुनरुक्त इवायमार्यप्रयुक्तः प्रति- भात्यनुग्रहः । चक्षुष्प्रदानप्रसादस्वीकृतस्य च परकरणमिव आस- नादिदानोपचारचेष्टितम् । संभाषणामृताभिषेकप्रक्षालितसकल- वपुषश्च मे प्रदेशवृत्ति पाद्यमप्यपार्थकम् । आसतां भवन्तो यथा- सुखम् । आसीनोऽहम्” इत्यभिधाय क्षितावेवोपाविशत् ।। "अलंकारो हि परमार्थतः प्रभवतां प्रश्रयातिशयः, रत्नादिकस्तु शिलाभारः" इत्याकलथ्य पुनः पुनरWथ्यमानोऽपि यदा न प्रत्यपद्यत पार्थिवो वचनम् , तदा स्वमेवासनं पुनरपि भेजे भदन्तः । स्थित्वा च कांचित्कालकलामवादीत्-'अद्यप्रभृति न केवलमयमनिन्द्यः, वन्द्योऽपि प्रकाशित सत्सारः संसारः । किं नाम नालोक्यते जीवद्भिरद्भुतम् , येन रूपमचिन्तितोपनतमिदं दृक्पथमुपगतम् । एवंविधैरनुमीयन्ते जन्मान्तरावस्थितसुकृतानि हृदयोत्सवैः । इहापि जन्मनि दत्तमेवास्माकममुना तपःक्लेशेन फलमसुलभदर्शनं दर्शयता देवानां प्रियम् । आ तृप्तेः पीतममृत- मीक्षणाभ्याम् । जातं निरुत्कण्ठं मानसं निवृत्तिसुखस्य । महद्भिः पुण्यैर्विना न विश्राम्यन्ति सज्जने त्वाशि दृशः। सुदिवसः सः, अष्टमोच्छवासः । - यस्मिन् जातोऽसि । सा सुजाता जननी, या सकलजीवलोक- जीवितजनकमजनयदायुष्मन्तम् । पुण्यवन्ति पुण्यान्यपि तानि, येषामसि परिणामः । भव्यः स पुरुषभावः, भवत्यवस्थितो यः । यत्सत्यं मुमुक्षोरपि मे पुण्यभाजमालोक्य पुनः श्रद्धा जाता मनु- व्यजन्मनि । नेच्छद्भिरपि अस्माभिदृष्टः कुसुमायुधः। कृतार्थमद्य चक्षुर्वनदेवतानाम् । अमृतमयस्य भवतो वचसां माधुर्यं कार्यमेव अस्य त्वीदृशे शैशवे विनयस्योपाध्यायं ध्यायन्नपि न संभावयामि भुवि । सर्वथा शून्य आसीदजाते दीर्घायुषि गुणग्रामः । धन्यः स भूभृत, यस्य वंशे मणिरिव मुक्तामयः संभूतोऽसि । एवं. विधस्य च पुण्यवतः कथंचित्प्राप्तस्य केन प्रिय समाचराम इति पारिप्लवं चेतो नः। सकलवनचरसार्थसाधारणस्य कन्दमूल- फलस्य गिरिमरिदम्भलो वा वयम् । अपरोपकरणीकृतस्तु कायकलिरयमस्माकं सर्वस्वमवशिष्टमिष्टातिथ्याय । विद्यन्ते विद्याविन्दवः कतिचित् । उपयोगं तु न प्रीतिर्विचार- यति । यदि च नोपरुणद्धि कंचित्कार्यलवम् , अरक्षणीयाक्षरं वा कथनीयम्, तत्कथयतु भवान् , श्रोतुभभिलषति हृदयं सर्व- मिदं नः। केन कृत्यातिभारेण भव्यो भूपितवान्भूमिमेतामभ्रमण- योग्याम् । कियवधिर्वा शून्याटवीपर्यटनक्लेशः कल्याणराशेः । कस्माच्च संतप्तरूपेव ते तनुरियममंतापार्टी विभाव्यते” इति । कार्यमेव युक्तमेव । भूभृत् राजा, पर्वतश्च । वंशः कुलम् , वेणुश्च । मुक्तामय. मौक्तिकस्वरूपः, त्यक्तरोगश्च । पारिप्लवं चञ्चलम् । कायः कलिरिव कायकलिः दुष्ट शरीरम् । अनास्थया एवमुक्तिः ।। के स्वायत्ताश्च .. . ..

७४ हर्षचरितसंग्रहे राजा तु सादरतरमब्रवीत्-"आर्य, दर्शितसंभ्रमेणानेन मधुरमविसरं वर्षता वचसैव ते सर्वमनुष्ठितम् । धन्योऽस्मि यदेवमभ्यहितमनुपचरणीयमपि मान्यो मन्यते माम् । अस्य च महावनभ्रमणपरिक्लेशस्य कारणमवधारयतु मतिमान्-मम हि विनष्टनिखिलेष्टवन्धोर्जीवितानुबन्धस्य निबन्धनमेकैव यवीयसी स्वसावशेषा। सापि भतुर्वियोगाद्वरिपरिभवभयाद्धमन्ती कथमपि विन्ध्यवनमिदमाविशत् । अतस्तामन्वेणुं वयं सततमिमामटवी- मटामः । न चैनामासादयामः । कथयतु च गुरुरपि, यदि कदाचित्कुतश्चिद्वनचरतः श्रुतिपथमुपगता तद्वार्ता ?" इति ।। अथ तच्छत्वा जातोद्वेग इव भदन्तः पुनरभ्यधात्- तच्छ्रुत्वा धीमन् , न खलु कश्चिदेवंरूपो वृत्तान्तोऽस्मानभ्युपगतवान् । अभाजनं हि वयमीहशानां प्रियाख्यानोपायनानां भवताम् इति भाषमाण एव तस्मिन् , अकस्मादागत्य अपरः शमिनि वयसि वर्तमानः संभ्रान्तरूप इव पुरस्तादुपरचिताञ्जलिर्जातकरुणः प्रक्ष- रितचक्षुर्भिक्षुरभाषत-"भगवन् भदन्त, महत्करुणं वर्तते । बालैव बलवद्व्यसनाभिभूता कल्याणरूपा स्त्री वैश्वानरं विशति । संभावयतु तामप्रोषितप्राणां भगवान् । अभ्युपपद्यतां समुचितैः समाश्वासनैः । अनुपरतपूर्व कृमिकीटमपि दुःखितं दयाराशेरार्यस्य गोचरगतम्" इति ॥ राजा तु जातानुजाशङ्को गद्गदिकागृहीतकण्ठो वाष्पाय- विसरः समूहः प्रवाह इति यावत् । यवीयसी कनीयसी ॥

अष्टमोच्छवासः। माणदृष्टिः पप्रच्छ 'पाराशरिन् , कियहरे सा योषिदेवंजाती- या ? जीवेद्वा कालमेतावन्तम् ? पृष्टा वा त्वया-'कासि, कस्यासि, कुतोऽसि, किमर्थं वनमिदमभ्युपगतासि, विशसि च किं निमित्तमनलम्' इति । आदितः प्रभृति कात्स्न्येन कथ्यमान- मिच्छामि श्रोतुम्---कथमार्यस्य गता गोचरम् ? आकारतो वा कीदृशी” इति ॥ . तथाभिहितस्तु भूभुजा भिक्षुराचचक्षे-"महाभाग, श्रय- ताम्-अहं हि प्रत्युषस्येवाद्य वन्दित्वा भगवन्तमनेनैव नदी- रोधसा सैकतसुकुमारेण यहच्छया विहृतवानतिदूरं । एकस्मिंश्च वनलतागहने गिरिनदीसमीपभाजि भ्रमरीणामिव हिमहतकमला- करकातराणां रसितम् एकतानं नारीणां रुदितमधृतिकरमतिकरुण- माकर्णितवानस्मि । समुपजातकृपश्च गतोऽस्मि तं प्रदेशम् । दृष्टवानस्मि च दृषत्खण्डखण्डिताङ्गुलिगललोहितेन च पाणिप्रविष्ट- शरशलाकाशल्यशूलसंकोचितचक्षुषा च अध्वनीनश्रमश्वयथुनिश्चल- चरणेन च स्थाण वणव्यथितगुल्फवद्धभूर्जत्वचा च विदारीदा- रिततनुदुकूलपल्लेवेन च उत्कटवंशविटपकण्टककोटिपाटितकञ्चुक- कर्पटेन च केनचिकिसलयोपपादितात पत्रकृत्येन केनचित्कदली- दलव्यजनवाहिना केनचित्पाथेयीकृतमृणालपूलिकेन तत्र शोक- एकतानम् एकरूपम् अनवरतं वेति शंकरः । पाणिः पादाधःप्रदेशः । प्रकृते तु लोचनप्रान्तपर इत्यन्ये । शलाकाः कृशदीर्घाः काण्डाः । शल्यम् अग्रम् । शूलं पीडा । अध्यानम् अलं गच्छति अध्वनीनः, अध्वनीनशब्द.. प्रकृते अध्वजातपरः । स्थाणवं स्थाणुजनितम् । पूलिका पुञ्जः ॥

६ हर्षचरितसंग्रहे . विकलेनाबलानां चक्रवालेन परिवृताम् , आपत्कालेऽप्यमुच्यमानां लावण्येन, मृन्मयीमिव निश्चेतनतया, सलिलमयीमिव अस्रपत्र- वणेन, पावकमयीमिव संतापसंतानेन, मरुन्मयीमिव निःश्वास- संपदा, वियन्मयीमिव निरवलम्बनतया, दग्धदशाविसंवादितां प्रत्यूषप्रदीपशिखामिव क्षामक्षामां पाण्डुवपुषम् , स्थितां तरुतले मरणे च, पतितां धात्र्युत्सङ्गे महानर्थे च, आकुलां केशकलापेन मरणोपायेन च, धृतमुखी पाणिना मौनेन च, अलसामुन्मेषे, दक्षामश्रुमोक्षे, कृशां काये, पूरिता दुःखेन, रिक्तां सत्त्वेन, शून्यां हृदयेन. वसतिं व्यसनानाम् , आस्पदमापदाम् , कारणं करुणाया योपितम् । चिन्तितवानस्मि च - "चित्रमीदृशीमप्याकृतिमुपतापाः स्पृशन्ति" इति ॥ सा तु समीपगते मयि तदवस्थापि सबहुमानमानतमौलिः प्रणतवती । अहं तु प्रबलकरुणार्यमाणस्तामालपितुकामः पुनः कृतवान्मनसि-"कथमिव महानुभावामेनामामन्त्रये ? वत्से इति अतिप्रणयः। मातः इति चाटु। भगिनि इति आत्मसंभा- वना। देवि इति परिजनालापः। आयुष्मति इति अवस्थायाम- प्रियम् । कल्याणिनि इति दशायां विरुद्धम् । बाले इति अगौर- वोपेतम् । अपि च, कासि इति अनभिजातम् । किमर्थ रोदिषि इति दुःखकारणस्मरणकारि । मा रोदीः इति शोक कारणमनपनीय न शोभते । समाश्वसिहि इति किमाश्रित्य ? इत्येवं चिन्तयत्येव अस्त्रम् अश्रु। दग्वदशा दुरवस्था, प्लुटा वर्तिका च । विसंवादिता विशोभीकृता॥ , अष्टमोच्छवासः । प्रकृत्यैव मयि, तस्मात्स्त्रैणादुत्थायान्यतरा योपित् शोकविक्लबा समुपसृत्य, कतिपयपलितशारं शिरो नीत्वा महीतलम् , अश्रुबिन्दुभिश्चरण- युगलं दहन्ती मम, अभिहितवती- 'भगवन् , सर्वसत्त्वानु- कम्पिनी प्रायः प्रव्रज्या। करुणालगृहं च भगवतः शाक्यमुनेः शासनम् । परलोकसाधनं च धर्मो मुनीनाम् । प्राणरक्षणाच न परं पुण्यजातं जगति गीयते जनेन । अनुकम्पाभूमयः युवतयः, किंपुनर्विपदभिभूताः । साधुजनश्च सिद्धिक्षेत्रमार्तवच- साम् । इयं नः स्वामिनी मरणेन पितुः, अभावेन भर्तुः, प्रवा- सेन च भ्रातुः, भ्रंशेन च शेषम्य बान्धववर्गस्य, अतिमदुहृदय- तया अनपत्यतया च निरवलम्बना, परिभवेन च नीचारातिकृतेन अमुना च महाटवीपर्यटनक्लेशेन कर्थित सौकुमार्या, दग्धदेवदत्त- रेवंविधैर्यहुभिरुपयुपरि व्यसनैर्विक्लवीकृत हृदया, दारुणं दुःखम- पारयन्ती सोढुम् , अग्नि प्रविशति । परित्रायताम् । आर्योऽपि तावदसपशोकापनयनोपायोपदेशनिपुणां व्यापारयतु वाणीमस्याम्' इति चातिकृपणं व्याहरन्तीमहमुत्थाप्योद्विग्नतरः शनैरभिहितवान् आर्ये, यथा कथयसि, तथा । अस्मनिरामगोचरोऽयमस्याः शोकः । शक्यते चेन्मुहूर्तमात्रमपि त्रातुम् , उपरिष्टान्न व्यर्थेयम- भ्यर्थना भविष्यति । मम हि गुरुरपर इव भगवान्सुगतः समी- पगत एव । कथिते मयास्मिन्नुदन्ते, नियतमागमिष्यति परम- दयालुः। दुःखान्धकारपटलभिदुरैश्च सौगतैः सुभाषितैः स्वकैश्च दर्शितनिदर्शनैर्नानागम गुरुभिर्गिरां कौशलैः कुशलशीलामेनां प्रबोध- निदर्शनं दृष्टान्तः ॥

हर्षचरितसंग्रहे - पदवीमारोपयिष्यति' इति । तच्च श्रुत्वा 'त्वरतामार्यः' इत्यभि- दधाना सा पुनरपि पादयोः पतितवती । सोऽहमुपगत्य त्वरमाणो व्यतिकरमिममतिकरुणमत्रभवते गुरवे निवेदितवान्" इति । अथ भूभृत्समवधार्य तद्भाषितम् , अश्रुतेऽपि स्वसुर्नानि निम्नीकृतमना मन्युना, सर्वाकारसंवादिन्या दशयैव दूरीकृत- संदेहः, श्रमणाचार्यमुवाच-"आर्य, नियतं सैवेयमनार्यस्यास्य जनस्यातिकठिनहृदयस्य मन्दभाग्यस्य भगिनी। विदीर्यमाणं में हृदयमेवं निवेदयति इत्युक्त्वा तमपि श्रमणमभ्यधात् - 'आर्य, उत्तिष्ठ । दर्शय । कासौ। सुप्रभूतप्राणपरित्राण पुण्यो. पार्जनाय यामः। यदि कथंचिज्जीवन्ती संभावयामः" इति भाषमाण एवोत्तस्थौ।। अथ समग्रशिष्यवर्गानुगतेन आचार्येण समस्तेन सामन्त. लोकेन च पश्चादनुगम्यमानः, पुरस्ताच्च तेन शाक्यपुत्रीयेण प्रदर्यमानवी पद्भयामेव तं प्रदेशमविरलैः पदैः पिबन्निव प्रावर्तत । क्रमेण च समुपगतः शुश्राव लतावनान्तरितस्य मुमूर्षोभहतः स्त्रैणस्य तत्कालोचिताननेकप्रकारानालापान्-"भग- वन् धर्म, धाव शीघ्रम् । क्कासि कुलदेवते । क्कनु खलु प्रोषिता पुष्पभूतिकुटुम्बिनी लक्ष्मीः । भगवन् , भक्तजने संज्वरिणि सुगत, सुप्तोऽसि । पतङ्ग, प्रसीद, पाहि पतिव्रतामशरणाम् । व्यतिकरः विषयः। निम्नीकृतं भग्नम् । मन्युः दुःखम् । शाक्य पुत्रस्य बुद्धस्य अयं शाक्यपुत्रीयः । मुमूर्षुः मरणाशङ्काविषयः । आशङ्कायां सन् । पतङ्गः सूर्यः । .

अष्टमोच्छ्वासः । अयनरक्षित कृतघ्न चारित्रचाण्डाल, न रक्षसि राजपुत्रीम् । व्यपेहि पाप पावक स्त्रीघातनिघृण ज्वलन्न लजसे । भ्रातर्वात, दासी तवास्मि । संवादय द्रुतं देवीदाहं देवाय दुःखितजनार्ति- हराय हर्षाय । विजने वने कमाक्रन्दामि, कस्मै कथयामि, कमुपयामि शरणम् , कां दिशं प्रतिपद्ये १ करोमि किमभागधेया ? गान्धारि, गृहीतोऽयं लतापाशः । सुतनु, तनूनपाति पतिष्यसि त्वमपि । विजये, वीजय कृशानुम् । सुभद्रे, भद्रमस्तु ते परलोक- गमनम् । कलिङ्गसेने, अयं पश्चिमः परिष्वङ्गः । वामनिके, वामेन मे स्फुरितमणा । हरिणि, हेषितमिव हयानामुत्तरतः । कस्येदमातपत्रमुच्चमत्र पादपान्तरेण प्रभावति, विभाव्यते । कुरङ्गिके, केन सुगृहीतनाम्नो नाम गृहीतममृतमयमार्यस्य । देवि, दिष्ट्या वर्धसे देवस्य हर्षस्यागमनमहोत्सवेन" इत्येतच्च श्रुत्वा सत्वरमुपससर्प । ददर्श च मुह्यन्तीमग्निप्रवेशायोद्यतां राजा राज्य- श्रियम् । आललम्बे च मूच्र्छामीलितलोचनाया ललाटं हस्तेन तस्याः ससंभ्रमम् ।। अथ तेन भ्रातुः प्रेयसः प्रत्यानयतेव कुतोऽपि जीवित- माह्लादकेन हस्तस्पर्शेन सहसैव समुन्मिमील राज्यश्रीः। तथा चासंभावितागमनस्य अचिन्तितदर्शनस्य सहसा प्राप्तस्य भ्रातुः कण्ठे समाश्लिष्य, तत्कालाविर्भावनिर्भरेण दुःखसंभारेण स्थूल- प्रवाहमुत्सृजन्ती बाष्पवारि लोचनाभ्याम् , "हा तात, हा अम्ब, हा सख्यः” इति व्याहरन्ती, "वत्से, स्थिरा भव त्वम्" इति भ्रात्रा कर स्थगितमुखी समाश्वास्यमानापि, "कल्याणिनि, हर्षचरितसंग्रहे कुरु वचनमग्रजस्य गुरोः" इत्याचार्येण याच्यमानापि, “स्वामिनि, भ्रातरमवेक्षस्व" इति परिजनेन विज्ञाप्यमानापि, प्रभूनमन्यु-- भारभरितान्तःकरणा, करुणकाइलेन स्वरेण अकलिनकालमति- चिरं सरोद । विगते च मन्युवेगे वह्नः समीपादाक्षिप्य भ्रात्रा नीता निकट वतिनि तरुतले लिपसाद ।। शनैराचार्यस्तु तदा हर्ष इति विज्ञाय विवर्धितादरः सुतराम् , मुहूर्नमिवातिवाह्य निभूत संज्ञाज्ञापितेन शिष्येणोपनीतं नलिनीदलैः स्वयमादाय नम्रो मुखप्रक्षालनायोदकमुपनिन्ये । नरेन्द्रोऽपि सादर गृहीत्या प्रथमम् अनवरतरोदनासानं स्वसुश्चक्षुरक्षालयन , पश्चा- दात्मनः । प्रक्षालितमुखशशिनि च महीपाले सर्वतो निःशब्द: संबभूव सझलो लिखित इव लोकः । ततो नरेन्द्रो मन्दमन्दम- ब्रवीत्स्व मारम् -- "वत्से, वन्दस्वात्रभवन्तं भदन्तम् । एप ते भर्तुद्वितीयं हृदयम् , अस्माकं च गुराः अस्माकं च गुरुः" इति । राजवचनात्तु राजदुहितरि पतिपरिचय श्रवणोद्धातेन पुनरानीत नेत्राम्भसि नम- न्याम् , आचार्यः किंचित्परावृत्तन यनो दीर्थ निशश्वास । स्थित्वा च क्षणमे प्रदर्शितप्रश्रयो मृदुवादी मधुरया वाचा व्याजहार- "कल्याणराशे, अलं रुदित्वातिचिरम् । राजलोको नाद्यापि रोदनान्निवर्तते । क्रियतामवश्यकरणीयः स्नानविधिः। स्नात्वा च गम्यतां तामेव भूयो भुवम्” इति ।। अथ भूपतिरनुवर्तमानो लौकिकमाचारम् आचार्यवचनं उत्थाय स्नात्वा गिरिसरित्ति, सह स्वस्रा तामेव भूमिमया- काहलः महान् । उद्धातः आरम्भः, अभिघात इत्यन्ये ।।

अष्टमोच्छवासः। सीत् । तस्यां च सपरिजनां प्रथममाहितावधानः पार्श्ववर्ती पर- वतीं शुचा प्रयत्नप्रतिपन्नाभ्यवहारकरणां भगिनीमभोजयत् । अनन्तरं च स्वयमाहारस्थितिमकरोत् । भुक्तवांश्च बन्धनात्प्रभृति विस्तरतः स्वसुः कान्यकुब्जागौडसंभ्रमम् , गुप्तितो गुप्तनाम्ना कुल- पुत्रेण निष्कासनम्, निर्गतायाश्च राज्यवर्धनमरणश्रवणम् , श्रुत्वा चाहारनिराकरणम् , अनाहारपराहतायाश्च विन्ध्याटवीपर्यटन- नेदम् , जातनिर्वेदायाः पावकप्रवेशोपक्रमणं यावत्सर्वमशृणो- व्यतिकरं परिजनतः ।। ततः सुखासीनमेकत्र तरुतले, भगिनीद्वितीयं राजान- माचार्यः समुपसृत्य वक्तुमुपचक्रमे-" श्रीमन् , आकर्ण्यताम् । आख्येयमस्ति नः किंचित् । अयं हि यौवनोन्मादात्ताराराजो धिषणस्य धर्मपत्नी तारां नामापजहार, नाकतश्च पलायांचक्रे । चिराच कथंचित्सर्वगीर्वाणवाणीगौरवाद्रािं पत्युः पुनरपि प्रत्यर्प- यामास ताम् । एकदा तु शैलादुदयादुदयमानो विमले वारिणि वरुणालयस्य संक्रान्तमात्मनः प्रतिबिम्ब विलोकितवान् । दृष्ट्वा च तदा सस्मार सस्मरः स्मेरगण्डस्थलस्य ताराया मुखस्य । मुमोच च मम्मथोन्मादमथ्यमानमानसः स्थवीयसो बाष्पवारिबिन्दून् । अथ पततस्तानुदन्वति समस्तानेव आचेमुर्मुक्ताशुक्तयः। तासां च कुक्षिकोशेषु मुक्ताफलीभूतानचाप तान्कथमपि रसातलनिवासी अभ्यवहारः भोजनम् । गुप्तिः कारागृहम् । वरुणालयः समुद्रः । सस्मार मुखरूपोत्यत्र "अधीगर्थ-" इति षष्ठी । उन्मादः चित्तविभ्रमः। स्थवीयसः स्थूलतरान् । 6 ८२ हर्षचरितसंग्रहे वासुकिर्नाम विषमुचामीशः । स च तैर्मुक्ताफलैरेकावलीमक-- स्पयत् । चकार च मन्दाकिनीति नाम तस्याः। सा च भगवत सोमस्य सर्वासामोपधीनामधिपतेः प्रभावादत्यन्तविषघ्नी, हिमा- मृतसंभवत्वाच स्पर्शेन सर्वसत्त्वसंतापहारिणी बभूव । स तो सर्वदा विपोष्मशान्तये वासुकिः पर्यधत्त । समतिकामति च कियत्यपि काले कदाचित्तामेकावली तस्मान्नागराजान्नागार्जुनो नाम नागैरेवानीतः पातालतलं भिक्षुरभिक्षत, लेभे च । निर्गत्य रसा.. तलात् त्रिसमुद्राधिपतये सातवाहननाम्ने नरेन्द्राय सुहृदे स दौ ताम् । सा चास्माकं कालेन शिष्यपरंपरया कथमपि हस्तमुप-- गता। यद्यपि च परिभव इव भवति भवादृशां दत्रिम उपचारः,. तथाप्योषधिबुद्धया बुद्धिमता सर्वसत्त्वराशिरक्षाप्रवृत्तेन रक्षणीय- शरीरेणायुष्मता विषरक्षापेक्षया गृह्यताम्" इत्यभिधाय भिक्षो- रभ्याशवर्तिनश्चीवरपटान्तसंयतां मुमोच तामेकावली मन्दा. किनीम् ॥ तु मांसलैस्तस्याः संमुखैमयूखैराकुलीक्रियमाणं मुहुर्मुहुरुन्मीलयन्निमीलयंश्च चक्षुः कथमपि ददर्श । पश्यंश्चैता. विस्मयमाजगाम मनसा सुचिरम् । आचार्यस्तु तामुद्धृत्य बबन्ध बन्धुरे स्कन्धभागे भूपतेः ॥ अथ नरपतिरपि प्रीतिमुपदर्शयन्प्रत्यवादीत्-"आर्य, रत्नानामीहशानामनहींः प्रायेण पुरुषाः । तपःसिद्धिरियमार्यस्य देवताप्रसादो वा। के च वयमिदानीमात्मनोऽपि, किमुत ग्रहणस्य, एकावली एकसरा मौक्तिकमाला ॥ राजा अष्टमोच्छवासः। ८३ प्रत्याख्यानस्य वा। दर्शनात्प्रभृति प्रभूतगुरुगुणगणहृतेन हृदयेन 'परवन्तो वयम् । संकल्पितमिदम् आ मरणादार्योपयोगाय शरी- रम् । अत्र कामचारो वः कर्तव्यानाम्" इति ॥ समतिक्रान्ते च कियत्यपि काले, लब्धविस्रम्भा राज्यश्री- स्ताम्बूलवाहिनी पत्रलतामाहूयोपांशु किमपि कर्णमूले शनैरादि- देश । दर्शितविनया च पत्रलता पार्थिवं व्यज्ञापयत्-"देव, देवी विज्ञापयति—न स्मराम्यायस्य पुरतः कदाचिदुच्चैर्वचन- मपि, कुतो विज्ञापनम् । इयं हि शुचामसह्यता व्यापारयन्ती इतदेवदत्तादेशा शिथिलयति विनयम् । अबलानां हि पतिरपत्र वावलम्बनम् । उभयविकलानां तु दुःखानलेन्धनायमानं प्राणि- तम् अशालीनत्वमेव केवलम् । आर्यागमनेन च कृतोऽपि प्रति- हतो मरणप्रयत्नः । अतः काषायग्रहणाभ्यनुज्ञयानुगृह्यतामयम- पुण्यभाजनं जनः” इति । जनाधिपस्तु तदाकर्ण्य तूष्णीमेवावा- तिष्ठत ॥ अथाचार्यः सुधीरमभ्यधात्- "आयुष्मति, शोको हि नाम पर्यायः पिशाचस्य । तारुण्यं तमसः । अयमप्रतिबोधो निद्राप्रकारः । अयमबुधसेवितो ग्रहवर्गः । तदस्य अजस्रस्राविणो हृदयमहाव्रणस्य जीवितापहारदक्षस्य अनभ्रवज्रपातस्य स्फुरदन- वद्यविद्याविद्युदुद्दयोतमानानि भूरिकाव्यकथाकठोराणि विदुषा- मपि हृदयानि नालं सोदुमापातम् , किमुत नवनवमालिकाकु. सुमकोमलानां सरसबिसतन्तुदुर्बलमबलानां हृदयम् । एवं सति अशालीनत्वं धाष्यम् । बुध. पण्डितः, चन्द्रपुत्रश्च ॥

८४ हर्षचरितसंग्रहे सत्यव्रते, वद किमत्र क्रियते । कतम उपालभ्यते । कस्य पुर उराक्रन्द्यते, हृदयदाहि दुःखं वा ख्याप्यते । सर्वमक्षिणी निमील्य सोढव्यममूढेन मर्यधर्मणा । पुण्यवति, पुरातन्यः स्थितयः एताः केन शक्यन्तेऽन्यथाकर्तुम् । तृप्तिमशिक्षिता च भगवतः सर्वभूतभुजो बुभुक्षा मृत्योः । अतिदुतवाहिनी चानित्यतानदी । सर्वमात्मनोऽनीश्वरं विश्वं नश्वरम् । एवमवधृत्य नात्यर्थमेवाहसि मेधाविनि, मृदुनि मनसि तमसः प्रसरं दातुम् । एको हि प्रतिसंख्यानक्षण आधारीभवति धृतेः । अपि च दूर- गतेऽपि हि शोके नन्विदानीमपेक्षणीय एवायं ज्येष्ठः पितृकल्पो भ्राता भवत्या गुरुः । इतरथा को न बहुमन्येत कल्याणरूपमीशं संकल्पमत्रभवत्याः काषायग्रहणकृतम् । अखिलमनोज्वरप्रशमन- कारणं हि भगवती प्रव्रज्या । ज्यायः खल्विदं पदमात्मवताम् । महाभागस्तु भिनत्ति मनोरथमधुना । यदयमादिशति, तदेवानुष्ठे. यम् । यदि भ्रातेति, यदि ज्येष्ठ इति, यदि वत्सल इति, यदि गुणवानिति, यदि राजेति, सर्वथा स्थातव्यमस्य नियोगे"" इत्युक्त्वा व्यरंसीत् ॥ उपरतवचसि च तस्मिन्निजगाद नरपतिः-"आर्य- मपहाय कोऽन्य एवमभिदध्यात् १ अनभ्यर्थितदैवनिर्मिता हि विषमविपदवलम्बनस्तम्भा भवन्तो लोकस्य । स्नेहार्द्रमूर्त यो मोहा. न्धकारध्वंसिनश्च धर्मप्रदीपाः । किंतु प्रणयप्रदानदुर्ललिता दुर्लभ- मर्त्यस्य धर्मों यस्य सः मर्त्यधर्मा । "धर्मादनिच केवलात्" । मेधा भस्या अस्तीति मेधाविनी । प्रतिसंख्यान विवेकः । दुर्ललिता उच्छृङ्खला ॥

अष्टमोच्छवासः। - कोपस्य । मन्त्रभवतः मपि मनोरथमतिप्रीतिरभिलषति । अतः किंचिदर्थये भदन्तम्- इयं नः स्वसा बाला च बहुदुःखखेदिता च सर्वकार्यावधीरणोप- रोधेनापि यावल्लालनीया नित्यम् । अस्माभिश्च भ्रातृवधापकारि- रिपुकुलप्रलयकरणोद्यतस्य बाहोर्विधेयैर्भूत्वा सकललोकप्रत्यक्षं प्रतिज्ञा कृता । पूर्वावमाननाभिभवमसहमानैरर्पित आत्मा अतो नियुतां कियन्तमपि कालमात्मानमार्योऽपि कार्ये मदीये । अद्य प्रभृति यावदयं जनो लघयति प्रतिज्ञाभारम् , आश्वासयति च तातविनाशदुःखविक्लबाः प्रजाः, तावदिमा- कथाभिश्च धाभिः कुशलप्रतिबोधविधायिभि- रुपदेशैश्च अस्मत्पाोपयायिनीमेव प्रतिबोध्यमानामिच्छामि ।। इयं तु ग्रहीष्यति मयैव समं समाप्तकृत्येन काषायाणि । अर्थिजने च किमिव नातिसृजन्ति महान्तः । सुरनाथमात्मा. स्थिभिरपि यावत्कृतार्थमकरोद्धैर्योदधिर्दधीचः । मुनिनाथोऽपि अनपेक्षितात्मस्थितिः, अनुकम्पति कृत्वा कृपावानात्मानं वठर- सत्त्वेभ्यः कतिकृत्वो न दत्तवान् । अतः परं भवन्त एव बहुतरं जानन्ति” इत्युक्त्वा तूष्णीं बभूव भूपतिः ।। भूयस्तु बभाषे भदन्तः " भव्या न द्विरुच्चारयन्ति वाचम् । चेतसा प्रथममेव प्रतिग्राहिता गुणास्तावकाः कायबलि- ममुना जनेन । उपयोगस्तु निरुपयोगस्यास्य लघुनि गुरुणि वा यावत् कान्फैन । यावच्छक्यमिति केचित् । लघयति लघूकरोति । धर्मात् अनपेताः धाः । वठर सत्त्वानि दुष्टप्राणिनः । भव्याः श्रेष्ठाः ।। "भव्यगेय-" इति निपातितोऽयम् ॥ - हर्षचरितसंग्रहे कृत्ये गुणवदायत्तः” इति । अथ तथा तस्मिन्नभिनन्दितप्रणये प्रीयमाणः पार्थिवः, तत्र तामुषित्वा विभावरीम् , उषसि वस- नालंकारादिप्रदानपरितोषितं विसर्ग्य निर्घातम् , आचार्येण सह स्वसारमादाय, प्रयाणकैः कतिपयैरेव कटकमनुजाह्नवि निविष्टं प्रत्याजगाम ॥ तत्र च राज्यश्रीप्राप्तिव्यतिकरकथां कथयत एव प्रणयिभ्यो रविरपि ततार गगनतलम् । बहुलमधुपङ्कपिङ्गलः पङ्कजाकर इव संचुकोच चक्रवाकवल्लभो वासरः। अवसिते च संध्यासमये, समनन्तरमपरिमितयशःपानतृषिताय मुक्ताशैलशिलाचषक इव निजकुलकीर्त्या, कृतयुगकरणोद्यताय आदिराजराजतशासनमुद्रा- निवेश इव राज्यश्रिया, सकलद्वीपजिगीषाचलिताय श्वेतद्वीपदूत इव चायत्या, श्वेतभानुरुपानीयत निशया नरेन्द्राय ॥ ॥ इति भट्टबाणविरचिते हर्षचरिते अष्टम उच्छवासः ॥ हर्षचरितसंग्रहः समाप्तः॥ मधुपकेन मधुपकवच पिालः । चषकः पानपात्रम् । राज्यश्री: राज्यलक्ष्मीः । आयतिः उत्तरः कालः, आगामि शुभदेवमिति यावत् ॥

GLOSSARY. This follows the Tert'order. वृत्त Character, round काकोदर Serpent गुण (गुणिन् ) Merit, thread हेति Weapon नामाभिहार, पर्याय Synonym चर्मफलक .. Shield. गुरु Great, Brihaspati अधोरुक Underwear Cate Broad, a King (equivalent of बुध Wise, Mercury modern shorts) प्रतीहारी Portress कक्ष्या Sash परिवाट', मस्करिन् Ascetic अवष्टम्भ Courage कापैटिक Pilgrim मुद्गर Hammer भाकर Mine तोरण Porch 19 Bilva fruit पञ्जर Cage उपायन Present धात्री Nurse अजिन Skin पल्लवक Libertine, sprout स्वापतेय, Property, wealth विप्रलम्भक Cheat परिवार A sheath उपधा Trial or test of कल्पः Procedure honesty अर्गल Bolt अभिजन Descent संकेत Agreement पटवितान Canopy उत्तानशय Lying supinely औत्सुक्य Ardent desire gautis Turban विविक्त 'Solitary कौणप Fiend कौतुकगृह Bridal chamber अवलेप Conceit प्रकोष्ठ.. Fore-arm शिखा Flame, top सुधा Lime 2 लाज Fried grain byla ft Mutual cawing विभावसु Fire उप्राप्त Portent उपधान Pillow कुट्टिम Pavement वासगृह Bed-chamber आमन्त्रण Bidding good-bye -मृगया Hunt बभ्रु Reddish brown वापद Wild beast कौलेयक A hound वासतेयी Night गददिका Sobbing affra Royal insignia शौण्ड Skilled 'पर्याण Saddle स्नेह Love, oil "परिवर्धक Groom भूति Ash, prosperity 'प्रण्य Merchandise विश्वस्ता Widow, confidant न्यातुधान Fiend भीमरथी The seventh night स्कान्धावार Capital in the seventh montla विष्कम्भ Support of the 77th year of यमपट्टिक Yamaloka-In a man's life. ferno showman 899677 Noble deed चर Oblation of rice कृकवाकु Cock 990 Porch before the निषादिन् Rider door of a house मन्दुरा Stable काथ Decoction अंजिर Quadrangle अवग्रहणी Vestibule निरय Hell 'पक्षद्वार Side-door कीकस Bone जृम्भिका Yawning भाकर Crowd मनुबन्धिका Pain in the चतुश्शाल Quadrangle joints or biceough enclosed by four उष्ट्र Camel buildings प्रतिकर्म Personal decora- वितर्दिका Balcony tian qerine ait A small gofa 3 The army पारावार Ocean ग्रामाक्षपटलिक Village प्रन्नवण Stream Munsif निस्त्रिंश Sword for Clerk (karnam) भवग्रह Drought सीर Plough धन्वन् Desert ET A measure of dig- 4787 Burning cinder tance equal to th कान्तिक Servant of a yojana fra Fetters स्कन्धावार अश्ववार An officer of $C$ Camp, army cavalry Rifton Clattering of आशीविष Serpent teeth विग्रह Battle Rib अभिचार Magical epell for निचोलक Case securing some malevo. कार्म Servant lent purpose प्रतिकौशलिका A present ia प्रधन War return शल्प Dart एकपिङ्ग Kubera gtai Hermaphrodite अभवनिः An end महासंधिविग्रहाधिकृत The chief राजिल Poisonless snake minister entrusted gota Bad grain with affairs of war High Seeker बुस Chaff THAT Attendant (Thief) गोवाट Cow-pen प्रचार Pasturage वत्सरूषक Young calves उदवसित House SOTT Axe जातरूप Gold HEIT Fibrous root of a शफ Hoof { millions lotus अर्बुद One hundred ATT Water-arbour and peace 4 PETT Blacksmith चीवरपटल Red robe प्रातिवेश्यविषय Neighbour परकरणमिव • Making a ing district stranger of one स्थविर Old man TIT King, Mountain पाटन्चर Robber att Family, Bamboo पटचर Rag कायकलि Wretched body वेणुपोटदल Slips of bamboo 2979 Buddhist mendican भाटविकसामन्त A tributary एकतान Monotonous, inchief in the forest शूल Pain [cessant कजल Collyrium अध्वनीन Caused by the काचर Tawny fatigue of journey काचमणि Crystal गुल्फ Ankle कर्णिका Ear-ring qF# Bundle क्षतज Blood qigatie Variegated चिबुक Chin with gray hair पाकल Fever of elephant STAM A Duduliist ascetic qoh (Forest) Hamlet The Sun Fai Sister's son हेपित Neighing Togía Iwo krosas 14xcamgive वैधय Idiot faat Despair प्रव्रज्या Asceticism ifra: Ordinances चैत्य Monument ÄRZTE Discrimination M171F Light, enlighten- ITAUT Wicked animals ment, a Buddhietic 99% book 7 Haziqagenajat The पारावत Pigeon stamp of the silver करक Water pot seal of authority

Harshacharitha Sangraha

Title
Harshacharitha Sangraha
File name
Harshacharitha Sangraha
Text
OCR done
Citation
1850
Publisher
Sri Baalamanoramaakudrayathralaya
Language
Sanskrit
Pages
96
Library
Svclrc
DLI number
368457
Barcode
5010010002665.00
Scanning centre
RMSC, IIIT-H
Digital publisher
UDL TTD TIRUPATI
VMLT id
OcfZrMCkwFQ
Download PDF

Harshacharitha Sangraha