Sringeri Sharada Peetham
Tithinirnaya
Front matter
1937. AIMIMPHim. -2... TA CHOWKHAMBA SANSKRIT SERIES A COLLECTION OF Rare & EXTRAORDINARY SANSKRIT WORKS. NO.472. श्रीमद्भट्टोजिदीक्षितविरचितः, श्रीमन्नागोजिभट्टविरचितश्व- तिथिनिर्णयः। Registered according to Act XXV. of 1867, ( All Rights Reserved. ) वेदाचार्य-धर्मशास्त्राचार्यवर्य- पण्डितप्रवरश्रीविश्वनाथशास्त्रिभिः सम्पादितः परिष्कृतश्च । THE TITIINIRNAY, OF M. M. S'RI BHAȚIOJI DIKŞITA & M. M. S'RĪ NĀGOJI BHATTA PUBLISHED BY THE SECRETARY, CHOWKHAMBA SANSKRIT SERIES OFFICE, Benares Citas 500IDOOGOGIOBC00000000001 *भी आनन्दवनविद्योतिसुमनोभिः सुसंस्कृता। सुवर्णाऽङ्कितमब्याभशतपत्रपरिष्कृता ॥ १ ॥ चौखम्बा-संस्कृतग्रन्थमाला मन्जुलदर्शना । रसिकालिकुलं कुर्यादमन्दाऽऽमोदमोदितम् ॥ २॥ . स्तबका४७२. Printed by Jaya Krishna Das Gupta at the Vidya Vilas Press, Benares. 1940,
THE
CHOWKHAMBA SANSKRIT SERIES
A
COLLEOTION OF RARE & EXTRAORDINARY SANSKRIT WORKS,
NO. 472
THE
TITBINIRNAYA
OF
M. M. S'RI BHATTOJI DIKŞITA
&
M.M. SRI NĀGOJI BHATTA
Edited with Introduction etc.,
BY
TIDA-DHARMAS'ĀSTRĀCHĂRYA
PANDIT S'RĪ VIS'VANĀTHA S'ASTRI
Head of the Dharmasastra Department
Hindu University, Benarés.
BENARES,
JAYA KRISHNA DAS HARIDAS GUPTA,
CHOWKHAMBÂ SANSKRIT SERIES OFFICE
1940.
$
1
VIDYA VILAS PRESS, BENARES CITY.
OLAN KO
FAITH THAT
1940,
All Rights Reserved by the Publishers.
* श्री * चौखम्बा-संस्कृत-ग्रन्थमाला *- (ग्रन्थ-संख्या ८५) ग्रन्थाः ४७२. श्रीमद्भट्टोजिदीक्षितविरचितः श्रीमन्नागोजिभट्टविरचितश्च तिथिनिणयः खेलमारतीयसनातनधर्ममहापमा-विद्वत्परिषस्प्रधानमन्त्रिभिः श्रीकाशिक- हिन्दूविश्वविद्यालय-वेदधर्मशासप्रथानाध्यापक, भारत- प्रथितत्रौतस्मातकर्माबधानधुरन्दरः वेदाचार्य-धर्मशास्त्राचार्यवर्य- पण्डितप्रवरश्रीवि वनायशानिमिः सम्पादितः परिष्कृतबा जयष्णदास-हरिदासगुतः खम्बा संत नीरज़ आफिस, बनारस सिटी। विक्रम संवत् १९९७ | अस्य पुनर्मुद्रणादिकाः सर्वेऽधिकारी प्रकाशषधीना]
श्री विश्वनाथः प्रसीदतु ।
भूलोकालोक-रत्नं निखिलमतिमतां मुर्तमानप्रतिष्ठा
पुण्योत्ककभूमिनिकषशिला वामिनां वाग्मितायाः;
आर्यावर्ताभिमानस्मरहरनगरी विश्वविद्यालयात्मा,
मान्यात्मा मालवीयो जयति कुलपतिर्भारतानन्दकन्दः॥
तस्मै विदें मदनमोहनमालवीय
मान्याय धर्मगुरवे प्रयतः प्रणम्य,
बद्धादरः कतिमिमां महिता मनोज्ञा.
धा समर्प्य जनतापरमोफ्कीम् ।।
0
..
मीमांसा-पारहश्वा निगमवरवनी सिंहविक्रान्तवीर्यों
धर्माम्भोषि-प्रमथ्नद्विपुलबललसन्मन्दरोदारदर्पः ।
सद्वाल्योल्लासलीलाललितपदधुनीदन्तिहप्यस्प्रतापः,
शास्त्री श्रीविश्वनाथो जगति विजयते विद्वदाश्चर्यचर्यः ।।
अक्षयतृतीया १९९७ वि.
विनिवेदनं किञ्चित् । । सुविदितमेवेदं सर्वेषां विद्वत्तल्लजानां यदिह चतुर्विधपुरुषार्थेषु धर्माख्यः प्रथमः पुरुषार्थः । सम्प्राप्ते च तस्मिन्नातिदुर्लभा इतरे कामार्थमोक्षाः । तत्राभ्युदयनिःश्रेयसे साधनस्वेन धारयतीति धर्मः । यद्यप्यस्ति धर्मस्वरूप. निश्चये वादिनां विप्रतिपत्तिस्तथापि शास्त्रकारस्तस्याः निराकृतत्वात् । तथाहि- तार्किकास्तावत्-आत्मगुणौ धर्माधर्मावित्याहुः । विहितक्रिययासाध्यो धर्मः पुंसो गुणो मतः । प्रतिषिद्ध क्रियासाध्यः पुंगुणोऽधर्म उच्यते ॥ इति मीमांसकास्तु-"चोदना लक्षणोऽर्थो धर्मः" इत्यसूत्रयन् । (पू० मी० १-१-२) तत्र भाटा मन्यते-द्रक्रिया गुणादीनां धर्मत्वं स्थापयिष्यति। तेषामन्द्रियकत्वेऽपि न ताबूप्येण धर्मता ॥ श्रेयः साधनता येषां नित्यं वेदाप्रतीयते । तादूप्येण च धर्मत्वं तस्मान्नेन्द्रियगोचरः । तं. वा. १-१-२-इति प्रामाकरास्तु-कार्यनियोगापूर्वशब्दैरुच्यमान पावसायं खर्गादिफलसाधन- मात्मगुणं धर्ममाहुः॥ मपि च-यमार्याः क्रियमाणं तु शंसन्त्यागमवेदिनः । स धर्मों यं विगहेन्ते तमधर्म प्रचक्षते ॥ इशस्य हि धर्मस्य स्वरूप व्याकुलोतु । जानातीत्यस्ति तत्राऽपि प्रावीण्यं धर्मशानिनाम् ॥ इति विश्वामित्रः विद्वद्भिः सेवितः सद्भिनित्यमद्वेषरागिभिः । हृदयेनाभ्यनुज्ञातो यो धर्मस्तं निबोधत ॥ इति मनुः नन्वेवं धर्मस्वरूपमनिरूपितमेव स्यात् । तथाहि-विश्वामित्रमनुवाक्याभ्यो तावत् सामान्याकारः प्रतीयते, न तु द्रव्यगुणादिरूपो विशेषाकारः। एतदेवामिप्रेस्य महाभारते राजधर्म स्मर्यते- न कल्माषो न कपिलो न कृष्णो न च लोहितः। भणीयान् क्षुरधारायाः को धर्म वक्तुमईति ॥ इति नैष दोषः उक्तवाक्ययोरधर्मव्यावृत्तस्याकारविशेषस्य स्फुटं प्रतीयमान- स्वात् वादिविप्रतिपत्तेश्च समाधातुं शक्यत्वात् । स्वर्गादीष्टसाधनस्य शास्त्रकसमधि- गम्यस्यातिशयस्य धर्मत्वेन सर्वसम्प्रतिपत्तेः । द्रव्यादिनिष्ठः, आत्मनिष्ठश्च । तत्रात्मनिष्ठस्यातिशयस्य लनिष्पत्तिपर्यन्तं चिरकालमुपस्थानाच्च, तद्विवक्षया मिः । इति तार्किकप्राभाकरावाहतुः । उक्तस्या. प्रेत्य तत्साधनभूतो द्रव्याचतिशयोधर्मः, इत्याहु- दिविरुद्धम् । “व्यवहारे भहनयः" इत्यभ्युपगमात् । यमानः शौचाचमनसन्ध्यावन्दनादि स्थूलो धर्मः । धुं योग्यः इतरेषामधर्मत्वभ्रान्तिविषयो द्रौपदी विवा- विधस्यापि धर्मस्य माहात्म्यं श्रुतिस्मृतिभ्यो स्फुट धर्मो विश्वस्य जगतः प्रतिष्ठा कोके धर्मिष्ठ प्रजा उपसन्ति । धर्मेण पापमपनुदन्ति, धर्म सर्व प्रतिष्ठितं तस्माद्धर्म परमं वदन्ति ॥ इति श्रुतिः धर्म शनैः सश्चिनुयात् वल्मौकमिव पुत्तिकाः। परलोकसहायार्थ सर्वभूतान्यपीडयन् ॥ नामुत्र हि सहायार्थ पिता माता च तिष्ठतः । न पुत्रदारा न ज्ञातिधर्मस्तिष्ठति केवलः ॥ एकः प्रजायते जन्तुरेक एव लीयते । एकोऽनुभुङ्क्ते सुकृतमेकएव च दुष्कृतम् ॥ मृतं शरीरमुत्सृज्य काष्ठलोष्ठसमं क्षितौ । विमुखा बान्धवा यान्ति धमस्तमनुगच्छति ॥
[ ३ ] सस्माद्धर्म महायार्थ नित्यं सश्चिनुयाच्छनैः। धर्मेण हि सहायेन तमस्तरति दुस्तरम् । धर्मप्रधान पुरुष तपसा हतकिल्बिषम् । परलोकं नयत्याशु भास्वन्तं खशरीरिणम् ॥ इति मनुस्मृतिः धर्म एव हतो हन्ति धर्मो रक्षित रक्षितः इत्यादि वचोमिच-घम- स्योपादेयत्वं श्रुतिस्मृतिभ्यां बहुप्रकाशितमेव नातितिरोहितमिव स्वाध्यायशीलानां विदुषाम् । तत्र दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत, सूर्याचन्द्रमसोर्ग्रहणे स्ना. यात् , एकादशीमुपवसेत्-अनध्याये माधीयीत, नवरात्रव्रतं कुर्यात् , श्रावण्यामुपाकर्म, वसन्तोत्सवः कर्तव्यः, होलाका कर्तव्या इत्यादि धर्मसम्बन्धि विध्यामुष्ठाने, तिथिनिर्णयस्यावश्यकत्वात्तथैवानुष्ठाने धर्मोत्पत्तेश्च लोकोपकारपरा- यणाभ्यां सर्वतन्त्रस्वतन्त्राभ्यां महामहोपाध्यायपदसम्मानिताभ्यो वैयाकरणकेस- रिभ्यो श्रीमद्भवोजिदीक्षित श्रीमन्नागेशभाभ्यां च तिथिनिर्णयाभिधं प्रन्थरत्न- विरच्य पूर्वमेव संस्थापितम् । परम्वेदमेवाद्यावधि अप्रकाशितमेवासीत् । तदिह समेषां धर्मानुष्ठाननिष्ठानां सज्जनानामुपकार विचिन्त्य संस्कृतप्रन्थपुक्षप्रकाशनेन लन्धराकाशशाङ्कसुन्दरयशोमिः गुप्तश्रीजयकृष्णदासहरिदास महोदयः सम्मुद्रितमेतभिवन्धद्वयम् । तदेवं रीत्या तैः संस्कृतभाषाप्रयत्नतत्वप्रणयिना धाम्मिकविदुषां बहूपकृतमिति ते सकलविवुधाना साधुवादार्हाः । संशोधनार्थ पुस्तकप्रदातृभ्यः, श्रीमद्भयोवेदाचार्यगुरुवर श्रीविद्याधर शर्मभ्यः, तथा साहित्यौदधिकणधार राजकीय संस्कृतमहाविद्यालय ( गवर्नमेंट संस्कृतकालेज ) पुस्तकालयोपाध्यक्ष-श्रीमन्नारायणशास्त्री खिस्ते महोदयेभ्यः, प्रिन्सिपल डाक्टर मङ्गलदेवशास्त्रिभ्यश्च सबहुमानं धन्यवाद समयं- अन्ते वयमपि जगदेकरक्षक श्रीकाशीविश्वनाथं भूयोभूयं शिरसा प्रणम्य सर्वत्र पुस्तकस्यास्य आर्य ( हिन्दु ) जनतासु सुप्रचारं कामयामह इति । धर्मशास्त्र-विभागः काशीहिन्दुविश्वविद्यालयः श्रीविश्वनाथशास्त्री - १९९०वि० ॥ श्रीः॥ अथ श्रीमता पण्डितप्रवरेण काशीहिन्दविश्वविधालयवेदधर्मशाब प्रधानाध्यापकेन वेदधर्मशास्त्राचार्येण श्रीविश्वनाथशर्मणा सावधानेन चेतसा सम्पादितम् , काशीचौखम्बासंस्कृतपुस्तकालयाध्यक्षश्रेष्ठिवर्यश्रीजयकृष्णदास हरिदास गुप्त महोदयप्रकाशितम् , सर्वतन्त्रस्वतन्त्राभ्यां श्रीमद्भट्टोजिदीक्षित-श्रामबागेशमधयां निबद्धं तिथिनिर्णयामिधं निबन्धद्वयम् , बहोः कालाद् दिक्षितमय दृष्ट्वामन्दानन्दमहोदधौ निमज्जन् महोदधिस्नानेनात्मानं पावयामि । सन्त्येव निर्णयसिन्धुस्मृतिकौस्तुभ-पुरुषार्थचिन्तामणि -धर्मसिन्धु प्रभृतयो निबन्धास्तैस्तैः प्रथितयशोभिर्निबन्धकारैर्निबद्धास्तथापि ते मतान्तरखण्डनमण्डनादिना गुरुशरीरतामापन्नाः स्थूलमतिमिर्दुहा इति मतान्तरखण्डनमण्डनादिरहितं लघुशरीरं तिथिनिर्णयाभिषं निवन्धद्वयं ब्रतादिनिर्णयविधौ स्थूलमतीनामपि यथोपकरिष्यति न तथान्य इति मे दृढो विश्वास इति । 4 सूर्यनारायणशर्म शुक्लस्य, अध्यापकस्म गवर्नमेण्टसंस्कृतमहाविद्यालय- काश्वाय।
॥ श्रीः॥ श्रीमद्भट्टोजिदीक्षितविरचितस्य तिथिनिर्णयस्य विषयसुची। विषयः पृछाङ्क: १ १२ १३ " १४ " पृष्ठाङ्कः विषयः चैत्र शुक्लप्रतिपदि वत्सरारम्भः रम्भाव्रतम् अस्यामेव नवरात्रारम्भः दशहरा निर्णयः भत्र प्रपादानम् तत्र दशयोगा: चैत्रशुक्लतृतीयायो दोलोत्सवः निर्जला एकादशी सौभाग्यशयनव्रतम् : सावित्री व्रतम् इयं मन्वादिः तत्र वटपूजा अत्र श्राद्धम्। भाषाढमासनिर्णयः अकरणे प्रायश्चित्तम् मत्स्यजयन्ती मत्स्यजयन्तीनिर्णयः विष्णुशयनोत्सवः कल्पादि निर्णयः ३ | चातुर्मास्यव्रतारम्भः भवान्याउत्पत्तिः तत्र वावय॑निरूपणम अशोककलिकाप्राशनम् कोकिलाव्रतम् रामनवमीनिर्णयः कूर्मजयन्ती तत्र पूजादिविधानम् दधिव्रतम् चैत्र शुक्लैकादश्यां दोलोत्सवः पवित्रारोपणम् चैत्र शुक्लद्वादश्यां दमनोत्सवः शिवपवित्र निर्माणप्रकारः अनमवतम् उपाकर्म निर्णयः चैत्री पौर्णमासी श्रवणाकर्म बारुणी निर्णयः ५ कज्जलीनिर्णयः अथ वैशाखनिर्णयः जन्माष्टमीनिर्णयः वैशाखस्नानम् हरितालिकाव्रतम् अक्षयतृतीया ६ | वरदचतुर्थी युगादिनिर्णयः ऋषिपञ्चमी धर्म घटदान विधिः वाराहजयन्ती परशुरामजयन्ती ८ | दूर्वाष्टमीनिर्णयः गहोत्पत्तिनिर्णयः नृसिहजयन्ती निर्णयः " १६ " १८ १९ १९ तत्र विधि: " ज्येष्ठापूजा २ विषयसूची। पृष्ठाकः | विषयः पृष्टाका " " " ३९ " " विषयः शक्रध्वजोस्थापनम् विष्णुशृङ्खलयोगः वामनावतारनिर्णयः अनन्त व्रतम् अगस्त्योदयः भाद्रपदपौर्णमास्यां श्राद्धम् महालयः तत्र श्राद्ध पञ्च पक्षाः सकृन्महालये विचारः सन्यासिनो श्राद्धम् भथात्र देवताः विधवाकर्तृकश्राद्धविचारः भरण्यां श्राद्धमतिप्रशस्तम् चन्द्रषष्ठी महालक्ष्मीव्रतम् अन्वष्टकाश्राद्धम् त्रयोदशीश्राम चतुर्दशीश्राद्धविचारः मजन्यछाया दौहित्रकर्तृकश्राद्धविचारः नेवरात्रारम्भः देवीपूजाविचारः तत्र माधवमतसमालोचनम् उपाशललिताव्रतम् सप्तमीपूजा অমীমুলা महानवमीनिर्णयः विजयादशमीनिर्णयः तत्र कृत्यम् द्विदलव्रतम् आश्विनपौर्णमासी ललितायात्राविधानम् २. कोजागरव्रतम् २१ कार्तिकस्नानारम्भः पश्चनदस्नानम् कार्तिकमासः करकचतुर्थी वत्सद्वादशी दीपावली नरकचतुर्दशी २३ कार्तिकामावास्याकृस्यम् कार्तिकशुक्लप्रतिपत् २४ | यमद्वितीया " कूष्माण्डनवमी २६ । भीष्मपञ्चकव्रतम देवोत्थापनम् चातुर्मास्य व्रतसमाप्तिः बैकुण्ठचतुर्दशी २७ काशीविश्वेश्वरस्थापनदिनम् २८ कार्तिकपौर्णमासी त्रिपुरोत्सवः २९ / मार्गशीर्षमासः कालाष्टमी नागपञ्चमी ३० चम्पाषष्ठी स्कन्दषष्ठी चतुर्दशीस्नानम् दत्तात्रेयोत्पत्तिविचारः ३२ प्रत्यवरोहणम् पौषमासः ३४ अर्धोदयः बौद्धजयन्ती माघमासः ३५ कहिकजयन्ती " १ " " : " बिषयसूची। ३ विषयः पृष्ठाङ्कः " विषयः तिलचतुर्थी कुन्दचतुर्थी श्रीपञ्चमी रथसप्तमी पद्मकयोगः भीष्मतर्पणम् भोप्मद्वादशी माघीपौणिमा जानक्युत्पत्तिः पृष्ठाकः ४३ / शिवरात्रिः शिवरात्रिपारणम् ४४ मासशिवरात्रिः फाल्गुनमासः होलिकोत्सवः होलिकाविषये विशेष विचारः वसन्तोत्सवः चूतकुसुमप्राशनम् प्रन्थसमाप्तिः " " " पृष्ठाङ्क: ६२ तिथिविचारः " " ६३ ६४ मङ्गलाचरणम् श्रीमन्नागोजिभट्ट विरचितस्य तिथिनिर्णयस्य विषयसूची- विषयः पृष्ठाङ्कः विषयः ५१ हविष्याणि देवपित्र्यकर्मविचारः व्रताहे वोनि उपवासादिविषये विशेषविचारः दशम्यां वानि प्रतिपरिणयः ५३ / पारणाहे वोनि द्वितीयानिर्णयः ५४ | श्राद्ध ब्राह्मण परीक्षा तृतीयानिर्णयः श्राद्ध देश विचारः चतुर्थीनिर्णयः पञ्चमीनिर्णयः ५५ क्षारगणः षष्ठीनिर्णयः व्रते एकादशीविचारः सप्तमीनिर्णयः विद्वैकादशी विचार: अष्टमीनिर्णयः गौडमते विचारः महालक्ष्मीव्रतम् ५६ / श्रवणद्वादशी नवमीनिर्णयः विष्णुशृङ्खलयोगः दशम्यादिचतुर्दश्यन्तनिर्णयः ५७ / शिवरात्रिव्रतम् पञ्चदशीनिर्णयः ५८ | अथैकभक्तम् अथ जन्माष्टमी निर्णयः ५८-५९-६० एकादशी निर्णयः ६१ | मथायाचितम् श्राद्धपूर्वदिन कृत्यम् ६५ ६७-६८ अथ नक्तम् विषयसूची। 1 " " ७४ " विषयः पृष्ठाङ्क: विषयः पृष्ठाक अथोपाकर्म प्रसङ्गादन्यविचार: कातीयानामुपाकर्मनिर्णयः आमान्नश्राद्धादि विचार: बौधायनानामुपाकर्म निर्णयः श्राद्धविषये मरणदिवससम्बन्धिविचारः, सामगानामुपरकर्म निर्णयः ३ सङ्घातमरणे विचार: आयर्वणानामुपाकर्मनिर्णयः नवश्राद्धविचारः रक्षाबन्धः षोडशश्राद्ध विचारः अथोत्सर्जनम् सपिण्डीकरणकाला। नानातिथिसाध्यव्रतनिर्णयः तत्र मतभेदप्रदर्शनम् नवरात्रप्रतिपनिर्णयः ७४-७५ व्युत्क्रममृतौ विचारः तत्रसात्विकी राजसी तामसी श्राद्ध तिथिनिर्णयः ९४ पूजाविचारः ७५ तत्र माधवमतसमीक्षा नवरात्रप्रतिपन्निर्णयः खण्डतिथिविचार सप्तम्यष्टमी नवमी निर्णयः ७६-७७ श्राद्ध अमा निर्णयः विसर्जनम् निरग्निकान् प्रति अमानिर्णयः नवरात्रे पारणविचारः तत्र हेमाद्रि मते व्यवस्था अथ दीपावली अथ सङ्क्रान्तिः अथ तदमा अथ प्रहणकाल: अथ तत्प्रतिपदा प्रस्तास्ते विचारः अथ होला अथ श्राद्धम् अथानध्यायाः १०० श्राई द्विविधम् अथ नैमित्तिकाः अथ महालयः अनध्यायाध्ययने दोषोद्भावनम् त्रयोदश्यां श्राद्धविचारः अथमासनिर्णयः चतुर्दश्यां श्राद्धविचारः ८४ तत्र विभिन्नकाय मासव्यवस्था १०३ नवान्नश्राद्धम् ८५ प्रन्थसमाप्तिः। आब्दिक श्रादविचारः समाप्तिमङ्गलम् ७८ " . " mitha श्रीगणेशायनमः। श्रीभद्योजिदीक्षित विरचित:- तिथिनिर्णयः। चैत्रशुक्लपतिपदि वत्सरारम्भः । तत्रौदयिकी तिथिया । 'चैत्रे मासि जगब्रह्मा ससर्ज प्रथमेऽहनि । शुक्लपक्षे समग्रं तु तदा सूर्योदये सति । इति हेमाद्रौब्राह्मोतः। दिनद्वयेऽपि तव्याप्ताव- व्याप्ती वा पूर्वैव । वत्सरादौ वसन्तादौ बलिराज्ये तथैव च । पूर्वविद्वैव कर्तव्या प्रतिपस्सर्वदा बुधैरिति गोविन्दार्णवेवृद्धवसिष्ठोक्त। चैत्रस्य मलमासे तु तत्रैव वत्सरारम्भः इत्येके । शुद्ध एवेत्यपरे । तत्र तैला. भ्यङ्गो नित्यः ॥ वत्सरादौ वसन्तादौ बलिराज्ये तथैव च । तैलाभ्यङ्गम. कुर्वाणो नरके प्रतिपद्यते इतिवृद्धवसिष्ठोक्त। अस्यामेव नवरा. त्रारम्भः । तत्र परयुता । अमायुक्ता न कर्तव्या प्रतिपञ्चण्डिकार्चने । मुहूर्त्तमात्रा कर्तव्या द्वितीया गुणान्वितेति देवीपुराणात् । अत्र प्रपादानमुक्तम् । अपरार्के भविष्ये- अतीते फाल्गुने मासि प्राप्ते चैत्रमहोत्सवे । पुण्येऽह्नि विप्रकथिते प्रपादानं समाचरेदित्युपक्रम्य-ततश्चोत्सर्जयेद्विद्वान्मन्त्रेणानेन मानवः । प्रपेयं सर्वसामान्या भूतेभ्यः प्रतिपादिता । प्रपादानात्तु पितरस्तृप्यन्तु हि पितामहाः । आनिवार्य ततो देयं जलं मासचतुष्टयमिति । तथा-प्रपादा- तुमशक्तेन विशेषाद्धर्ममीप्सुना। प्रत्यहं धर्मघटको वस्त्रसम्वेष्टिताननः । ब्राह्मणस्य गृहे देयं शीतामलजलः शुचिः । तत्र मन्त्रः। एष धर्मघटो दत्तो ब्रह्म विष्णुशिवात्मकः । अस्य प्रदानात्सकला मम सन्तु 2 तिथिनिर्णये मनोरथाः। मनेन विधिना यस्तु धर्मकुम्भं प्रयच्छति । प्रपादान फलं सोपि प्राप्नोतीह न संशयति । चैत्रशुक्लतृतीयायां गौरीमीश्वरसंयुता सम्पूज्य दोलोत्सवं कुर्यात् तथा निर्णयात देवी की पुराण च। तृतीयायां यजेहेवीं शङ्करेण समन्विताम् स्नग्गन्ध धूपदीपैश्च दमनेन विशवत मातुष्टये सदा इति । इयं परा प्राधा । महत्तमात्रसत्वेऽपि दिने गौरीव्रत परा माधवोक्तः । अत्रैव सौभाग्यशयनव्रतमुक्तम्मारस्ये । वस. न्समासमासाद्य तृतीयायां जनप्रिये । सौभाग्याय सवा स्त्रीमित कार्य पुत्रसु. खेप्सुमिः । इयं च मन्वादिः । शुक्लपक्षस्थितत्वात्पौर्वाहिकी प्राथा । पूर्वाह्ने तु सदा प्रायाः शुक्लामनुयुगादयः । देवे कर्मणि पैञ्येच कृष्णे चै- वापराविकाः । इति गालववचनादिति हेमाद्रिः । कालादर्श तुं पिज्ये आपराडिकमेवोक्तम् । अत्र च श्राद्धमुक्तं मात्स्य । कृत श्राद्धं विधानेन मन्वादिषु युगादिषु । हायनानि द्विसाहस्रं पितॄणां तृप्तिद मवेत् । अधिकमासेपीद कर्तव्यम् । मन्वादिकं तैर्थिकं च कुर्यान्मासद्व. येपि चेति स्मृति चन्द्रिकोका। मंत्र पिण्डदानं नास्ति । विषुवायन संक्रान्ति मन्वादिषु युगादिषु । विहाय पिण्डनिपि सर्वे श्राद्धं समार्च- रेदिति कालादोक्त करणे प्रायश्चित्तमुक्तमृग्विधोने। त्वं भुवः प्रतिमन्त्रं च शतवारं जले जपेत् । मन्वादयो यदा न्यूनाः कुरुते नैव चापि यः । इति । मन्त्रस्तु-त्वं भुवः प्रतिमानं पृथिव्या ऋष्ववीरस्य वृहतः पतिः विश्वमाप्रा अन्तरिक्षं महित्वा सत्यमद्धा न किरन्यस्त्वावान् ॥ ऋ० श४ एवं षण्णवतिश्राद्धान्यपि नित्यानि, तेषामयं संग्रहः- अमामनुयुगक्रातिधृतिपात महालयाः । अन्वष्टक्यं च पूर्वेयुः षण्णवस्यस्तथाष्टकेति । चैत्र शुक्ल तृतीयायां मत्स्यजयन्ती । चैत्र शुक्लपञ्चमीत्यन्ये । आषाढशुक्लकादशीत्यपरे । इयं तदुपासकानां नित्या । अन्येषां तु काम्या । fan चत्रमास:। चैत्रशुक्लपश्चमी कल्पादिः । अत्र स्नानदानादि महाफलम् । चैत्रशुक्लाष्टम्यां भवान्या उत्पत्तिः । तत्र युग्मवा. क्यात्परा । अत्र भवानीयात्रोक्ता काशीखण्डे । भवानी यस्तु पश्येत शुक्लाष्टम्यां मधौ नरः । न जातु शोकं लभते सदानन्दमयो भवेत् । अत्रैवाशोककलिकाप्राशनमुक्तं हेमाद्रौलैङ्गे । अशोक कलिकाश्चाष्टौ ये पिबन्ति पुनर्वसौ। चैत्रे मासि सिताष्टम्यां न ते शोक- मवाप्नुयुः । प्राशनमन्त्रस्तु त्वामशोकवराभीष्टं मधुमाससमुद्भवं । । पिबामिशोकसन्तप्तो मामशोकं सदा कुरु । इति । पृथ्वीचन्द्रोदये. विष्णुः पुनर्वसु बुधोपेता चैत्रेमासि सिताष्टमी । प्रातस्तु विधिवत्स्ना- स्वावाजपेय फलं लभेत् । इति । चैत्रशुक्लनवमी रामनवमी सा मध्याहयोगिनी प्रामा । उक्त चागस्त्य सहितायाम् । चैत्रशुक्ले तु नवमी पुनर्वसुयुता यदि । सैवमध्याह्न योगेन महापुण्यतमा भवेत् । इति । तथा-चैत्रमासे नवम्या तु जातो रामः स्वयं हरिः। पुनर्वस्वृक्ष संयुक्ता सा तिथिः सर्वकामदा । केव- लापि सदोपोष्या नवमीशब्दसंग्रहादिति । दिनद्वये मध्याहव्याप्तौ तदभावे वा पुनर्वसुयुतामपि पूर्वी त्यक्त्वा परैव ग्राह्या तदुक्तन्तत्रैव-नवमी चाष्टमी विद्धातु त्याज्या विष्णुपुराण वचनात् । प्रातस्त्रिमुहूर्ता नवमी दशमीचेतस्मिन्नेव दिने समाप्यते तदा स्मार्तानामुत्तरदिवसे एकादशी निमित्तोपवासे नवमीव्रताङ्गपारणालोपो माभूदिति, ततः स्मारैष्टमीवि- द्वैवग्राह्या । वैष्णवैस्तु परैवेति सूचितमिति बोद्धयम् । इदं च व्रतं नित्यं काम्यञ्च । उपोषणं जागरणं पितॄनुद्दिश्य तर्पणम् । तस्मिन्दिने कर्तव्यं ब्रह्मप्राप्तिमभीप्सुभिः । यस्तु-रामनवम्यां वै मुत्र मोहाद्विमू. दधीः । कुम्भीपाकेषु घोरेषु पश्यते नात्र संशयः । इत्यगस्त्यसंहि- तोक्तः। अत्र मध्याहे पूजा, रात्री जागरणं, परेयुः प्रातः पायसहोमः । श्रीरामप्रतिमादानादिकं हेमाद्रौ बोद्धयम् । इयं च मलमासे न कार्या। सुजप्तमप्यजप्तस्यानोपवासः कृतो भवेत् । न कुर्यान्मलमासे तु महादान. तु .
तिथिनिर्णय व्रतानि. चेति माधवीये संग्रहवचनात् । अयमन्त्रस्तु-दशा- नन वधार्थाय धर्मसंस्थापनाय च । राक्षसानां विनाशाय दैत्यानां निधनाय च । परित्राणाय साधूनां जातो रामः स्वयं हरिः । गृहाणायं मया दत्तं प्रातृभिः सहितोऽनघ । प्रतिमादानमन्त्रस्तु-इमां स्वर्णमयीं राम प्रतिमा समलङ्कताम् । चित्रवस्त्रयुगच्छन्नां रामोऽहं राघवाय ते । श्रीराम प्रीतये दास्ये तुष्टो भवतु राघवः । इति दत्वा विधानेन दद्याद्वैः दक्षिणां भुवम् । ब्रह्महत्यादि पापेभ्यो मुच्यते नात्र संशयः । इति । ... चैत्र शुक्लैकादश्यां दोलोत्सव उक्तो ब्राह्मचैत्रमासस्थ शुक्लायामेकादश्यां तु वैष्णवैः । आन्दोलनीयो देवेशः सलक्ष्मीको महो- सवैः । इति । चैत्र शुक्लबादश्यां दमनोत्सवः । द्वादश्यां चैत्रमासस्य शु- दायां दमनोस्सवः । बौधायनादिभिः प्रोक्तः कर्तव्यः प्रतिवत्सरमिति रामार्चनचन्द्रिकोक्तः। ऊर्जे व्रतं मधौ दोला श्रावणे तन्तुपूज- नम् । चैत्रे च दमनारोपमकुर्वाणो बजत्यधः । इति तत्रैवपामवच- नाच्च । इदं च शुक्रास्तादावपि कार्यम् । उपाकर्मोत्सर्जनं च पवित्रदमनार्प- णम् । ईशानस्य वलिं विष्णोः शयनं परिवर्तनम् । कुर्याच्छुक्रस्य च गुरो- मौंब्येपीति विनिश्चित इति गोविन्दार्णवेवृद्धगाग्र्यवचनात् । चैत्र शुक्लत्रयोदश्यामनगनतम् । तत्रा पूर्वा ग्राह्या, गयोदशी तिथिः पूर्वसितेति दीपिकोक्तः । चैत्रशुक्लचतुर्दशी पूर्वा । निशि अमन्ति भूतानि शक्तयः शूलभृधतः । अतस्तत्र चतुर्दश्यां सत्यां तत्पूजनं भवेत् । इति ब्रह्मा- वैवर्तात् । मघोः श्रावणमासस्य शुक्ला या तु चतुर्दशी । सा रात्रिव्या- पिनी ग्राह्या नान्या शुक्ला कथञ्चन इति । हेमाद्रौ बौधायनोक्तेश्च । चैत्री पौर्णमाणी सामान्यनिर्णयात्परैव । विशेषो निर्णयामृते विष्णुस्मृतौ--चैत्रो चित्रायुता चेत्स्यातस्यां चित्रवनप्रदानेन सौभाग्यमाप्नोतीति । तथा ब्राह्मे । मन्देवार्के गुरी वैशाखमासः। वापि वारेष्वेतेषु चैत्रिका । तत्राश्वमेधजं पुण्यं स्नानश्राद्धादिमिर्मवेत् । वायवीये-सम्बत्सरकतार्चायाः साफल्यायाऽरिवलान्सुरान् । दमनेनार्च येच्चैयां विशेषेण सदाशिवम् । इयं मन्वादिरपि । सा च पूर्वाहिकी । चैत्र कृष्णत्रयोदश्यां वारुणीसंज्ञको योगः। तदुक्तं वाचस्पतिनिवन्धे । शनिवारसमायुक्ता विख्याता वारुणी स्मृता । गनायां यदिलभ्येत कोटिसूर्यग्रहाधिका । शुभयोगसमायुक्ता शनौ शत- भिषा यदि । महामहेति विख्याता त्रिकोटिकुलमुद्धरेत् । चैत्रासिते वारु. मऋक्षयुक्ता त्रयोदशी सूर्यसुतस्य वारे। योगे शुभे सा महती महत्या गङ्गाजलेऽग्रहकोटितुल्या इति । त्रिस्थलीसेतो ब्रह्माण्डपुराणेऽ पि। वारुणेन समायुक्ता मधौ कृष्णा त्रयोदशी । गङ्गायां यदि लभ्येत कोटिसूर्यग्रहस्समा इति । कल्पतरौब्राझे-मधौ कृष्णत्रयोदश्यां शनी शतभिषायुते । वारुणीति समाख्याता शुभेति महतीस्मृता । इति । चैत्र कृष्णचतुर्दश्यां विशेष: पृथ्वीचन्द्रोदये पुलस्त्यः चैत्रकृष्णचतुर्दश्यां यः स्नायाच्छिवसन्निधौ । न प्रेतत्वमवाप्नोति गङ्गा- यां तु विशेषत इति । इयं पूर्वा ग्राह्या । कृष्णपक्षस्थितत्वादिति । इति श्रीमद्भवोजिदीक्षित विरचिते तिथिनिर्णये चैत्रमासः समासः ॥ अथ वैशाखनिर्णयः पृथ्वीचन्द्रोदय ब्राह्मे । तीर्थे चानु- दिन स्नानं तिलैश्च पितृतर्पणम् । दान धर्मपटादीनां मधुसूदनपूजनम् । माधवेमासि कुर्वीत मधुसूदनतुष्टिदम् । अत्र वैशाखस्नानम् । तत्र पृथ्वीचन्द्रोदये विष्णुस्मृतिपादुमयोः। तुलामकरमेषेषु प्रा. तःस्नायी सदा भवेत्। हविष्यं ब्रह्मचर्य च महापातकनाशनमिति, सौरमा- स उक्तः । अन्यदपि पक्षद्वयमुक्तं तत्रैव । मधुमासस्य शुक्लायामेका- दश्यामुपोषितः । पञ्चदश्यां च भो वीर मेषसंक्रमणेतु वा । वैशाखस्ना- ननियमं ब्राह्मणानामनुज्ञया । मधुसूदनमभ्यर्च्य कुर्यात्सपपूर्वकम् । तत्र ६ तिथिनिर्णय मन्त्रः । वैशाखं सकलं मासं मेषसंक्रमणेरखेः । प्रातः सनियमः स्नास्ये प्रीयतां मधुसूदन । मधुहन्तुः प्रसादेन ब्राह्मणानामनुग्रहात् । निर्विन- मस्तु मे पुण्यं वैशाखस्नानमन्वहम् । माधवे मेषगे भानौ मुरे मधुसूद- न । प्रातःस्नानेन मे नाथ फलदो भव पापान् । इति । तीर्थनामपरि. ज्ञाने तु तत्रैव स्मर्यते। न ज्ञायते यदा नाम तस्य तीर्थस्य भो द्विजाः। तत्रेत्युच्चारणं कार्य विष्णुतीर्थमिदन्विति । अत्र त्रिकालं तुल स्याः विष्णुपूजा। अश्वस्थमूले जलदानं चेत्यादि तत्रैवोक्तम् । अश- तस्तु व्यहं स्नायात् । तदुक्तं पाझे । त्रयोदश्यां चतुर्दश्यां वैशाने च दिवत्रयम् । अपि सम्यग्विधानेन नारी वा पुरुषोऽपि वा । प्रातः स्नातः सनियमः सर्वपापैः प्रमुच्यते । यदा तु वैशाखो मलमासो भवति तदा काम्यानां तत्र समातिनिषेधात् मासद्वयं स्नानं तन्नियमाश्च कर्चव्याः । मासोपवास चान्द्रायणादि तु मलमास एव समापयेत् । तदुक्तं दीपि. कायाम् । नियतस्त्रिंशदिनत्वाच्छुभेमास्यारभ्य समापयेन्मलिने मासोपवासव्रतमिति । वैशाख्यां विधिवत्स्नात्वा भोजयेद् ब्राह्मणान् दश । कृसरं सर्वपापेभ्यो मुच्यते नात्र संशयः । इति । वैशाखशुक्लतृतीया अक्षयतृतीया। सा पूर्वाहव्यापिनी ग्राह्या । दिनद्वये तव्याप्तौ तु परैवेति निर्णयामृतादौ स्थितम् । इयं युगादिरपि । भारते । या मन्वाधा युगायाश्च तिथयस्तासु मानवः । स्नात्वा हुत्वा च दत्वा च जप्त्वानन्तफलं लभेत् । श्राद्धेऽपि पूर्वाह्वव्यापिनी ग्राह्या । पूर्वाले तु सदा ग्राह्या शुक्ला मनुयुगादयः । देवे कर्मणि पित्र्ये च कृष्णे चैवापरालिकाः । इति नारदोक्तेः। दिवो. दासीये गोभिलः। वैशाखस्यतृतीयां यः पूर्वविद्धा करोति वे हव्यं देवा न गृह्णन्ति कन्यं च पितरस्तथा इति । स्मृत्यर्थसारे गोवि- न्दार्णवादिष्वप्वम् । तेनेयं पूर्वाहव्यापिनी एव । दिनदये तथा . वेपि परा । इमामुपक्रम्य-गौरीविनायकोपेता पुण्यकोटिपदासदेति नार. दोके । उपवासे तु पूर्वा ।
वैशाखमासः। सवैधृतिव्यतीपातो युगमन्वादयस्तथा । सम्मुखा उपवासे स्युदाना दावन्तिमाः स्मृताः । इत्यनन्तभद्दोदाहृतवचनात् । यत्तु निर्ण- यामृते । अमा श्राद्धे आपरालिक्येव ग्राह्या 'द्वेशुक्ले' इत्यादिवचनं वि- ष्णुपूजाविषयकमिति तत्पूर्वोत्तरगोभिलादिवचनविरुद्धम् । कालादों क्तिस्तु-कृष्णपक्षयुगादि विषयेति दिक् । अत्र विशेषोहेमाद्रौ भविष्ये । वैशाख शुक्लपक्षे तु तृतीयायां तथैव च | गङ्गातोये नरः स्नात्वा मुच्यते सर्वकिरिबषैः। तस्या कार्यों यहोमो यविष्णुं समर्चयेत् । यवान्दद्याइद्विजातिभ्यः प्रयतः प्राशयेद्यवान् । इति । अत्र दानविशेषस्तत्रैव भविष्ये । इमा. मुपक्रम्य-उदकुम्भान् सकनकान् सान्नान् सर्वरसैः सह । यवगोधमचण. कान्सक्तुध्योदनं तथा । प्रैष्मिकं सर्वमेवात्र सस्यं दाने प्रशस्यते । इति । देवीपुराणेऽपि-तृतीयायां तु वैशाखे रोहिण्यक्षे प्रपूज्यतु । उद. कुम्भप्रदानेन शिवलोके महीयते । मन्त्रस्तु-एष धर्मघटो दचो ब्रह्मवि- ष्णुशिवात्मकः । अस्य प्रदानात्तृप्यन्तु पितरोऽपि पितामहाः । गन्धो. दकतिलमिश्र सावं कुम्भं फलान्वितम् । पितृभ्यः सम्प्रदास्यामि अक्ष. ग्यमुपतिष्ठतु । इदं च श्राद्धं पिण्डरहितमित्युक्तम् । अत्र रात्रिभोजने प्रायश्चित्तमुक्तमृग्विधाने । रात्रौ मुक्त वत्सरे तु मन्वादिषु युगा- विषु । अमिस्ववृष्टिं मन्त्रं च जपेद्दश न पातकमिति । मन्त्रस्तु-अभि स्व वृष्टिं मदे मस्य युध्यतो रध्वीरिव प्रवणे ससुरूतयः । इन्द्रो यद्वनी धृषमाणी अन्धसामिनलस्य परिधीरिव त्रितः ऋ. १-४ अपराधै यमः। कृतोपवासाः साहिलं ये युगादिदिनेषु तु । दास्य. त्यनादिसहितं तेषां लोका महोदया इति । वैशाखे मलमासे सति तत्रैव युगादिः कार्याः । दशहरासु नोस्कर्षः चतुर्वपि युगादिषु । इति हेमाद्री ऋष्यशृङ्गवचनात् । अन्दोदकुम्भमन्वादि महालय युगादिष्विति कालादर्शकृतमलमासकृत्येषु परिगणितत्वात् । महालयशब्देनेह मघात्रयोदशी विवक्षितेति माधवः । स्मृतिचन्द्रिकायां तु मासद्वयेऽपि तिथिनिर्णये कर्तव्यमित्युक्तम् । “योगादिकं मासिकं तु श्राद्धं चापरपक्षिकम् । मन्वा- दिक तैर्थिकं तु कुर्यान्मासद्वयेपि च" | इति अपरपक्षः कृष्णपक्षः न तु महालयः । तस्य तत्र निषेधात् । मदनरत्ने मरीचिः। प्रतिमासं मृताहे च श्राद्धं यत्प्रतिवत्सरम् । मन्वादौ च युगादौ च तन्मासे उमयो रपि । प्रतिवत्सरं क्रियमाणं कल्पादिश्राद्धमिति तत्रैव व्याख्यातम् । अत्र समुद्रस्नानं महाप्रशस्तम् । तदुक्तं पृथ्वीचन्द्रोदये सौरपुराणे । युगादौ तु नरः स्नात्वा विषिवल्लवणोदकैः । गोसहसप्रदानस्य कुरुक्षेत्रे फलं हि यत् । तत्फलं लभते मयों भूमिदानस्य च ध्रुवम् | इति । भयं निर्णयः सर्वयुगादिषु बोद्धव्यः । इयमेव परशुराम जयन्ती। सा च प्रदोषव्यापिनी प्राथा तदुक्तं भार्गवार्चनचन्द्रिका स्कान्दभविष्ययोः । वैशाखस्य सिते पक्षे तृतीयायां पुनर्वसौ । निशायाः प्रथमे यामे रामाख्यः समये हरिः । स्वोच्चगैः षड्मयुक्ते मिथुने राहुसंस्थिते । रेणुकायास्तु यो गर्भादवतीर्णो हरिः स्वयम् इति । दिनद्वये तयाप्सावंशतः समव्याप्तौ च परा, अन्यथा पूर्वैव । तदुक्तं तत्रैव भविष्ये । शुक्लतृतीया वैशाखे शुद्धोपोष्या दिनद्वये । निशायाः पूर्वयामे चेदुत्तरान्या पूर्विका । इति । वैशाख शुक्लसप्तम्यां गङ्गोत्पत्तिः। तदुक्तं पथ्वी- चन्द्रोदये । वैशाखे जनुना जाहवी पुरा । क्रोधात्पीता पुनस्त्यक्ता कर्णरन्ध्रातु दक्षिणात । तां तत्र पूजयेद्देवीं गळा गगनमेखलाम् । इति । इयं च शिष्टाचारान्मध्याहव्यापिनी ग्राखा । दिनद्वये तद्व्याप्तावव्याधावेकदशव्याप्तौवा पूर्व ग्राह्या, युग्मवाक्यात् । वैशाखशुक्लद्वादश्यां योगविशेषो हेमाद्रौ । पञ्चाननस्थौ गुरुमू- मिपुत्रौ मेषे रविः स्याद्यदि शुक्लपक्षे । पाशामिधाना करभेण युक्ता तिथि- यंतीपात इतीह योगः । अस्मिस्तु गोभूमिहिरण्यवस्त्रदानेन सर्व परिहाय पापम् । सुरस्वमिन्द्रत्वमनामयत्वं माधिपं संलभते मनुष्यः । इति । पश्चाननः सिंहः । पाशाभिधानातिथिादशी करभो हस्तः । शुक्लसप्तम्यां ज्येष्ठमास:। वैशाखशुक्ल चतुर्दशी नृसिंहजयन्ती । सा प्रदोषव्यापिनी प्राथा । तदुक्तं हेमाद्रौ नृसिंहपुराणे । वैशाख शुक्लपक्षे तु चतु- दश्यां निशामुखे । मजन्मसम्भवं पुण्यं व्रतं पापप्रणाशनम् । वर्षेवर्षे तु कर्तव्यं ममसन्तुष्टिकारणम् । इति । दिनद्वये तव्याप्तावंशतः समव्याप्तौ च परा । विषमव्याप्तौ स्वधिकव्याप्तिमती । दिनद्वयेत्वव्याप्तौ परा । परदिने गौणकालव्याः सत्वात् पूर्वदिने च तदभावात । अस्यां च सङ्कल्प रूपनतोपक्रमो मध्याह्न एव कर्तव्यः । ततो मध्याहवेलायां नद्यादौ विमले जले । इस्युपक्रम्य-परिपाय ततो वासो प्रतकर्म समारमेदिति । तत्रैवोक्तः। अस्या एव घोगविशेषेण प्राशस्त्यम्-तत्रैव स्मयते. स्वातीनक्षत्रयोगे च शनिवारे महाव्रतम् । सिद्धियोगस्य संयोगे वणिजे करणे तथा । पुंसां सौभाग्ययोगेन लभ्यते दैवयोगवः । तथा-एभिर्योगै. विनापि स्यात् मदिनं पापनाशनम् । तथा-सर्वेषामेव वर्णानामधिकारो. स्ति मद्बते । विज्ञाय महिनं यस्तु लङ्येत्पापकनरः । स याति नरकं घोरं यावच्चन्द्रदिवाकरौ । अतएवेदं नित्यं काम्यमित्याहुः । वैशाखशुक्लपौर्णमास्यां विशेषः स्मर्यते । भविष्ये । वैशाखी कार्तिकी मापी विथयोऽतीव पूजिताः । स्नानदानविहीनास्ता न नेयाः पाण्डुनन्दन इति । इति श्रीमहोजिदीक्षित विरचिते तिथिनिर्णये वैशाखमासः समासः॥ ज्येष्ठ शुक्लतृतीयायां रम्भाव्रतम् । तदुकं माधवीये भविष्ये । भद्रे कुरुष्व यत्नेन रम्भारव्यं व्रतमुत्तमम् । ज्येष्ठ शुक्लतृती- यायां स्नाता नियमतत्परा इति । सा पूर्वविद्धा प्राधा । बृहत्तपा तथा रम्भा सावित्री वटपैतृकी। कृष्णाष्टमी च भूता च कर्चव्या सम्मुखी तिथिः । इति स्कान्दोक्त। २ तिथिनिर्णये ज्येष्ठ शुक्लदशमी दशहरा। तदुक्तं हेमाद्री वाले। ज्येष्ठे मासि सिते पक्षे दशमी हस्तसंयुता । हरते दश पापानि तस्मा- दशहरा स्मृता । इति । वाराहेऽपि-दशमी शुक्लपक्षे तुज्येष्ठे मासि कुजेऽहनि । अवत्तीणां यतः स्वर्गाद्धस्ताः च सरिद्वरा । हरते वचपापा. नि तस्माद्दशहरास्मृता । इति । स्कान्दे तु दशयोमा उक्ताः । ज्येष्ठे मासिः सिते पक्षे दशम्या बुधहस्तयोः । व्यतीपात गराबन्दे कन्या चन्द्रे वृषे खौ। दशयोगे नरः स्नात्वा सर्वपापैः प्रमुच्यते । इह बुध- भौमयोर्विकल्पः । इयं च यत्र योगबाहुल्यं सा मामा। योगाधिक्ये फलाधिक्यात् । ज्येष्ट मलमासे 'सत्यपि तत्रैव दशहरा काम न तु शुद्धे । “दशहरासुनोस्कर्ष" इत्युक्तेः । स्कान्देन्या काश्चिस्तरित प्राप्य दद्यादय तिलोदकैः । मुच्यते दशभिः पापैः समहापातकैरपि. इति । अत्र विशेषः काशीखण्डे । ज्येष्ठे मासि सिते पक्षे प्राप्य प्रतिपदं तिथिम् । दशाश्वमेधिक स्नात्वा सर्वपापैः प्रमुच्यते । एवं सर्वासु तिथिषु क्रमस्नायी नरोत्तमः । आ शुक्लपक्षदशमी प्रतिजन्माधमुत्सृजेत् । तथा- लिङ्गं दशाश्वमेधेशं दृष्ट्वा दशहरा तिथौ । दशजन्मार्जितैः पापस्त्यज्यते नात्र संशयः । इति । ज्येष्ठ शुक्लैकादशी निर्जला। तत्र निर्जलमुपोष्य विप्रेभ्यो जलकुम्भान् दद्यादिति निर्णयामृते उक्तम् । ज्येष्ठपौर्णमास्यां सावित्री व्रतम् । तदुक्तं स्कान्द भविष्ययो:-ज्येष्ठे मासि सिते पक्षे द्वादश्यां रजनीमुखे । इत्युपक्रम्य- 'व्रतं त्रिरात्रमुद्दिश्य दिवारात्रि स्थिरा भवेत् । इत्युक्त्वान्तेप्युपसंहृतम् । ज्येष्ठे मासि सिते पक्षे पूर्णिमायां तथा व्रतम् । चीर्ण पुरा महामक्त्या कथितं ते मयाऽनघ इति । दाक्षिणात्याश्चैतदेवाचरन्ति । पाश्चात्यास्तु-अमावास्यायामाचरन्ति । तचोक्तं निर्णयामृते भविष्ये-अमायां च तथा ज्येष्ठे वटमूले महासती। त्रिरात्रोपोषिता. नारी विधिनानेन पूजयेत् । अशक्तौ तु त्रयोदश्यां नक्कं कुर्याजितेन्द्रिया । - .
आषाढमासः। १२ व अयाषितं चतुर्दश्याममायां समुपोषणम् । हेमायादिभिस्तु-भाद्रपौर्ण- मास्यामिदमुक्तम् । तत्तु नेदानीमाचरन्ति । अत्र पूर्णिमामावास्ये पूर्वविद्धे माझे । भूतविद्धा न कर्त्तव्या अमावास्या च पूर्णिमा । वर्जयि- स्वा मुनिश्रेष्ठ सावित्री व्रतमुत्तमम् । इति-ब्रह्मवैवर्तात । यदावष्टा. दशघटिकाचतुर्दशी तदा परैव । पूर्वविद्वैव सावित्रीव्रते पञ्चदशी तिथिः। नायोऽष्टादशभूतस्य स्युश्चेतत्र परेऽहनि। इति माधवोक्तः। अत्र पूर्णिमातुरोधेनैव यथा त्रिरात्रसम्पत्तिर्मवति तथा त्रयोदश्यादिग्राह्यम् । तस्याः प्राधान्यात् । एवममायामपि । अस्य मेव पूर्णिमाया विशेषः स्मयते । आदित्यपुराणे । ज्येष्ठे मासि तिलान्दद्यात्पूर्णिमायां विशेषतः । अश्वमेधस्य यत्पुण्यं तस्त्राप्नोति न संशयः । विष्णुरपि । ज्येष्ठी ज्येष्ठायुता चेत्स्यात्तस्यां छत्रोपानत्पदानेन नरो नराधिपत्यमाप्नोति । इयं मन्वादिरपि।सा पौर्वाह्निकी ग्राह्या । इत्युक्तमपराके वामनपुराणे । उदकुम्भोऽम्बुदानं च तालवन्तं सचन्दनम् । त्रिवि- क्रमस्य प्रीत्यर्थ दातव्यं ज्येष्ठमासि तु इति । इति श्रीमहोजिदीक्षित विरचिते तिथिनिर्णये ज्येष्ठमास: समाप्तः। अथाषाढः। आषाढशुक्लदशमी पौर्णमासी च मन्वादिः। सा च पूर्वाहव्यापिनत्युिक्तम् । आषाढशुक्लैकादशी मत्स्यजयन्ती। आषाढशुक्लद्वादश्यामनुराधायोगरहितायों पारणं कुर्यात् । तदुक्तं हे. माद्रौ भविष्ये-आमाकासितपक्षेषु मैत्रश्रवणरेवती । सङ्गमे न हि भोक्तव्यं द्वादश द्वादशीहरेत् । आषाढमाद्रपदकार्तिक शुक्लद्वादशीपवनुराधा- श्रवणरेवतीयोगे पारणं न कुर्यादित्यर्थः । अत्र विशेषो-विष्णुधर्मे । मैत्राद्यपदे स्वपितीह विष्णुः पोष्णान्त्यपादेप्रतिबोधमेति । श्रुतेश्चमध्ये परिवर्तमेति सुप्तिप्रबोधपरिवर्तनमेव वय॑म् । आषाढ शुक्लैकादश्यां द्वादश्यां वा विष्णु शयनो.
सिथिनिर्णये स्सवः कर्तव्यः । उक्तं च हेमाद्रौ ब्रा-एकादश्यां तु शुक्लाया- माषाढे भगवान्हरिः। भुननशयने शेते क्षीरार्णवजले सदा । द्वादश्यां शुक्लपक्षे च प्रस्वापावनोत्सवाः । इति तत्रैव । वाराहे-द्वादश्यां सन्धि समये नक्षत्राणामसम्भवे । भभाकासितपक्षेषु शयनावर्चनादिकम् इति । पत्रद्वादश्यामिति पारणाहे विवक्षितम् 'पारणाहे पूर्वराने घण्टादी न्यादयन्मुहुः । इति रामार्चनचन्द्रिकोक्त। निशि स्वापो दिवो- स्थानं सध्यायां परिवर्जनम् । पादयोगो ,यदा न स्याहक्षेणापि तदा भवेत् । द्वादश्यामृक्षसंयोगो न कारणमिति वाराहोक्तिः । इदं मलमासे न कार्यम् । ईशानस्य वलिर्विष्णोः शयनं परिवर्तनम् । इति कालादर्श निषेधात् । अत्र चातुर्मास्यव्रतारम्भउको भारते । आषाढस्य सिते पक्षे एकादश्यामुपोषितः । चातुर्मास्यव्रतं कुर्याचत्किञ्चिनियतो नरः । इति। अस्य नित्यत्वं तत्रैवोक्तम् । वार्षिकांश्चतुरोमासान् वाहयेत्केनचिन्नरः । व्रतेन नोचेदाप्नोतिकिरिव वत्सरोद्भवम् । असम्भवेतुलार्केऽपि कर्तव्यं - तपयलतः इति । अस्यारम्भः शुक्रास्तादावपि कार्यः। न शैशवं न मौव्यं च शुक्रगुर्वोन वा तिथेः । खण्डवं चिन्तयेदादौ चातुर्मास्यविधी नरः इति वृद्धगाग्र्योक्तः। इदं च द्वितीयाघारम्भ विषयम् । तथाचा- शौचमध्ये द्वितीयारम्भो भवस्येव । अशुचिर्वा शुचिर्वापि यदि स्त्री यदि बा पुमान् । व्रतमेतबरः कृत्वा सर्वपापैः प्रमुच्यते । इति भार्गवार्च- नचन्द्रिकायां स्कान्दोक्तः। आरम्भे सूतकं न स्यादनारब्धे तु सूतकमिति विष्णुवचनाच । यत्तु-असंक्रान्त तथा मासं देवे पिध्ये च कर्मणि । मलमासमशाचं च वर्जयेन्मतिमानरः । इति हेमाद्रौ चातुर्मास्यव्रतप्रकरणे भविष्यवच- नम् . तत्प्रथमारम्भविषयम् । नच प्रतिवर्षे चातुर्मास्यव्रतप्रयोगाणा भिन्नत्वादाशीचादिपाते द्वितीयप्रयोगोऽपि कस्यादितिवाच्यम्। प्रतिवर्षे च यो कुर्यादेवं वै संस्मरन् हरिम् । देहान्तेऽतिप्रदीप्तेन विमानेनावर्चसा । r आषाढमासः । १३ मोदते विष्णुलोकेऽसौ यावदाभूतसंप्लवमिति वचनादिति । हेमाद्रौ भ. विष्ये । एवं तां प्रतिमां विष्णोः पूजयित्वा स्वयं नरः। प्रभाषेताप्रतो विष्णोः कृताञ्जलिपुटस्तथा । चतुरो वार्षिकान्मासान्देवस्योत्थापनावधि । इमं करिष्ये नियम निर्विघ्नं कुरु मेऽच्युत । इदं व्रतं मया देव गृहीतं पुरतस्तव । निर्विघ्नं सिद्धिमायातु प्रसादात्तव केशव | गृहीतेऽस्मिन बते देव पञ्चत्वं यदि मे भवेत्। तदा भवतु सम्पूर्ण त्वत्प्रसादाजनार्दन । इति । भविष्ये । श्रावणे वर्जयेच्छाकं दघि भाद्रपदे तथा । दुग्धमाश्व युजे मासि कार्तिके द्विदलं त्यजेत् । स्कान्दे। माषमुद्गमसूराश्च चण. काश्च कुलस्थकाः । निष्पावा राजधान्याश्च आढक्यो द्विदलंस्मृतम् तथा-चत्वार्येतानि नित्यानि चतुराश्रमवासिनाम्। प्रथमे मासि कर्तव्यं नित्यं शाकन नरैः। द्वितीये मासि कर्त्तव्यं दषिव्रतमनुत्तमम् । पयोव्रतं तृतीये तु चतुर्थेऽपिनिशामय । द्विदलं बहुधीजं च वृन्ताकं चैव वर्जयेत् । नित्यान्येतानि विप्रेन्द्र ब्रतान्याहुर्मनीषिणः । तथा-जम्बीर राजमाषांश्च मूलकं रक्तमूलकम् । कूष्माण्डञ्चेक्षुदण्डं च चातुर्मास्ये त्यजेद्बुधः । विशेषाहदरों धात्री कूष्माण्डं विन्तिी त्यजेत् । जीर्णधात्रीफलं ग्राह्य कथंचित्कायशोधनमिति । स्कान्दे-वार्षिकश्चितुरोमासान् प्रमुप्ते वैजना- ईने । मश्चखट्वादिश्चयनं वर्जयेद्भक्तिमानरः । अनृतौ वर्जयेद्भार्या मासं मधु परौदनम् । पटोलं मूलकं चैव इन्ताकं च न भक्षयेविति । शाक- शब्दस्त दशसु रुढः । मूलपत्रकरीरामफलकाण्डाधिरुढकाः । त्वक् पुष्पं कवचं चेति शाकं दशविध स्मृतमित्युक्तः । अविरुढमंकुस । आचार- प्रदीपे । वृन्ताकं च कलिङ्गं च बिस्वादुम्बरभीसटाः । उदरे यस्य जीर्यन्ते तस्य दुरतरो हरिः। मिःसटेति इस्वपाठे दग्धानम् । भीसटेति दीर्घपाठे भीसर्ट श्लेष्मातकमिति धन्वन्तरि निघण्टुः। तथा-निष्पावान् राजमाषांश्च मसूरं सन्धितानि च । वृन्ताकं च कलिङ्गं च सुप्ते देवे विवर्जयेत् । सन्धितानि लवणशाकादीनि । अत्रैव तप्तमुद्राधारणमुक्तम् । रामार्चनचन्द्रिकायाम् । पृथ्वीचन्द्रोदये तुशूद्रादिविषयं तदिति निर्णीतम् ।
१४ तिथिनिर्णय आषाढपौर्णमास्यां कोकिलावतम् । उक्तं च हेमाद्रौ भविष्ये । आषाढपौर्णमास्यां तु सन्ध्याकालेबुपस्थिते । सङ्करुपयेन्मास- मेकं श्रावणे प्रत्यहन्त्वहम् । स्नानं करिष्ये नियता ब्रह्मचर्य स्थिता सती। भोक्ष्यामि नक्तं भूशय्यां करिष्ये प्राणिनां दयाम् । अस्य नक्तव्रतस्वात् सायाहव्यापिनी ग्राह्या। अत्रैव व्यासपूजोक्ता। तत्र मध्याह्वव्यापिनी ग्राह्या । दिनद्वये तथात्वे तु परैवेति सन्यासपद्धताविति । इत्याषाढः। इति श्रीमद्भटोजिदीक्षितविरचिते तिथिनिर्णये आषाढमासः समासः। अथ श्रावणः । श्रावणशुक्लतृतीया कूर्मजयन्ती। इयमेव मधुस्रवाख्या गुर्जरेषु प्रसिद्धा । सा परयुतेति दिवोदासीये। श्रावणशुक्ल चतुर्थी पूर्वयुता "मातृविद्धोगणेश्वर"इति वचनात् । श्रावण- शुक्लपञ्चमी नागपूजायां परा | चमत्कारचिन्तामणौ। पञ्चमी नागपूजायाँ कार्या षष्ठीसमन्विता । तस्यां तु तुषिता नागा इतरा सचतुर्थिकेति । मदनरस्नादायप्येवम् । अत्र विशेषो हेमाद्रौ भविष्ये । श्रावणे मासि पञ्चम्यां शुक्लपक्षे नराधिप । द्वारस्योभयतो लेख्या गोमयेन विषोल्वणाः । पूजयेद्विधिवद्वीर दघिदूर्वाधेरैः कुशैः । गन्धपुष्पोपहारैश्च ब्राह्मणानां च तर्पणैः। ये तस्यां पूजयन्तीह नागा- भक्तिपुरस्सराः । न तेषां सर्पतो वीर भयं भवति कुत्रचित् । इति । श्रावणशुक्लद्वादश्यां दधिव्रतम् । तक्रादीनां त्वनिषेधः । तत्र दधिव्यवहाराभावात् । अत्रैव द्वादश्यांविष्णो:पवित्रारोपणमुक्त हेमाद्री विष्णुरहस्ये । श्रावणस्य सिते पक्षे कर्कस्थे च दिवाकरे । द्वादश्यां वासुदेवाय पवित्रारोपणं स्मृतम् । द्वादश्यां श्रवणे वापि पञ्च- म्यामथवा द्विज । आनुकूल्येषु कर्त्तव्यं पञ्चदश्यामथापिवा। इति । तथा.. शिव तु तत्रैव-कालोत्तरे तन्त्रे-आषाढान्ते चतुर्दश्यां नमस्यनमसो. स्तथा । अष्टम्यां च चतुर्दश्यां पक्षयोरुभयोरपि । इति । अधिवासनं तु श्रावणमास। .. दीपिकायाम् । गोबोहाम्तरिते काले पूर्वेधुर्वाधिवासनमिति। गौण- कालो रामार्चन चन्द्रिकायाम् । पवित्रारोपणं विघ्नात् श्रावणे न भषेद्यदि । कार्तिक्यवधि शुक्लार्के कर्तव्यमिति नारदः । हेमरौप्यताम्र- सोमैः सूत्रैः कौशेयपद्मजैः । कुशैश्च काशैः कार्पासैः ब्राह्मण्या कारितैः शुभैः । कृरवा त्रिगुणितं सूत्रं त्रिगुणीकृत्य शोषयेत् । तत्रोत्तम पवित्रं तु षष्ट्या सह शतैत्रिमिः । सप्तत्या सहितं द्वाभ्यां शताभ्यां मध्यम स्मृतम् । साशीतिना शतेनैव कनिष्ठं तत्समाचरेत् | साधारण पवित्राणि त्रिभिः सूत्रः समाचरेत् । उत्तमं तु शतप्रन्थि पञ्चाशद्वन्धि मध्यमम् । कनिष्ठं तु पवित्र स्थापट्त्रिंशद्धन्थिशोभनम् । षड्विंशचचतुर्विशद्वादशेति च केचन । चतुर्विशद्वादशाष्टावित्येके मुनयो विदुः । शिवपवित्रं तु तत्रैव शिवागमे । एकाशीत्यथवा सूत्रत्रिंशता वाष्टयु. तया । पञ्चाशता वा कर्तव्यं तुल्यग्रन्थ्यन्तरालकम् । द्वादशाङ्गुल. मानानि व्यासादष्टाङ्गुलानि च। लिङ्गविस्तारमानानि चतुरङ्गलकानिच इति। तच नित्यम् । न करोति विधानेन पवित्रारोपणं तु यः। तस्य साम्ब- सरीपूजा निष्फला मुनिसत्तमाः । तस्माद्भक्तिसमायुक्तैनरैविष्णुपरायणैः । वर्षे वर्षे प्रकर्तव्यं पवित्रारोपणं हरेः इति तत्रैवोक्तम् । श्रावणशुक्लचतुर्दशी पूर्वयुता । चैत्रशुक्लचतुर्दशीवत् । अथोपाकर्म । तच ववचैः श्रवणे कार्यम् । दिनद्वये श्रवणे उत्तरं ग्राह्यम् । वृद्धमनुकात्यायनौ । अर्घराबादधस्ताचेत्संक्रान्तिर्महणं यदा। उपाकर्म न कुर्वीत परतश्चेन्न दोषकृत् । श्रावणशुक्लपंचम्या हस्ते वा कुर्यात् । इदं कर्कटस्थे भानौ निषिद्धम् । स च निषेधो नर्मदो. तरभागविषयः । इति माधवीयेपारिजातादौ स्थितम् । नर्म दोत्तरभागे तु कर्त्तव्यं सिंहयुक्तके । कर्कटे संस्थिते भानौवुपाकुर्याध दक्षिणेति वचनात् । केचित्तु-सामगानां सिंहस्थे रवावुपाकर्मवि- घानात्तत्रैवोपसंहारः । चतुर्धाकरणवाक्यस्याग्नेये यथेति वदन्ति । एतच्च शुक्रास्तादावपि कर्तव्यम् । प्रथमारम्भस्तु तत्र न भवति । अघिमासे न भवत्येव त .
। १६ तिथिनिर्णये. सामगामा त्वधिमासेऽपि भवति । एतस्त्रसामगैरपराहृकार्यम् । इतरः पूर्वाहे । याजुषाः पर्वणि कुर्युः । पर्वद्वधे तु आपस्तम्बैरुत्तरम् । इतः पूर्वम् । इदंचौपासनाग्नौ कर्तव्यम् । अप्पध्याप्यैरन्वारब्ध इति सूत्रात् । पक्षे तु लौकिकाग्नौ। .. अत्राश्वलायनेन श्रवणाकर्मोक्तम्। 'श्रावण्या पौर्णमास्यां श्रवणाकर्मेति । तत्रास्तमययुगमाया ।' अस्तमिते स्थालीपाकं श्रपयित्वेति सूत्रात् । अद्भुतसागरे-नारदः । मानौ सिंहगते चैव यस्य गौः स- प्रसूयते । मरणं तस्य निर्दिष्टं षड्भिर्मासैनसंशयः । तत्र शान्ति प्रवक्ष्यामि येन सम्पद्यते शुभम् । प्रसूता तत्क्षणादेव तां गां विप्राय दापयेत् । ततो होमं प्रकुर्वीत घृतात्तै राजसपैः। माहुतीनां घृताक्तानामयुतं जुहुया. ततः । व्यातिभिश्चायं होमः । सोपवासः प्रयत्नेन दद्याद्विप्राय दक्षिणा. मितिः । अथर्ववेदिनां गृद्यपरिशिष्टे-माघे बुधे च महिषी श्रावणे वडवा दिवा । सिंहे गाव: प्रसूयन्ते स्वामिनो मृत्युदायकाः । अत्र तदुक्ताऽमृताख्या शान्तिः कार्या । श्रावणादि मासचतुष्टयकृष्णपक्ष- द्वितीयासु-अशून्यशयनव्रतम् । तत्र चन्द्रोदयव्यापिनी प्राया। दिनद्वये सत्वे परेति निर्णयामृते । नमः कृष्णतृतीया कजली संज्ञा सा परेति दिवोदा- सीये । नभोबहुलचतुर्थी बहुलाख्या मध्यदेशे प्रसिद्धा सा सायाव्या- पिनी । दिनद्वये तु पूर्वा । अत्र गोपूजा यवानाशनं च कार्येति दिवोदा- सीये | नभः कृष्णचतुर्थी सङ्कटचतुर्थी। सा चन्द्रोदयव्यापिनी ग्राह्या। नमस्ये बहुले. पक्षे चतुथ्यां तु विघूदये । गणेशं पूजयित्वा तु चन्द्रायाय प्रदापयेत् । इति कथायां पूजाविधानात् । दिनद्वये तद्वथाप्तावव्याची पूर्वा, मातृविद्धो गणेश्वर इत्युक्तेः । भाद्रपदकृष्णाषष्ठी हलषष्ठी सापरयुता ग्राह्या। अथ जन्माष्टमी । सा च श्रावणकृष्णपूर्णिमान्तपक्षे । भाद्रपद. कृष्णजन्माष्टमी व्रतं च नित्यम्। जयन्तीव्रतं नित्यं काम्यं च । यस्मिन् वर्षे जयन्त्याख्यो योगो जन्माष्टमी तदा । अन्तर्भूता जयम्त्यां स्यादृक्षयोगप्रश- श्रावणमासः। स्तितःइति माधवः ।हेमाद्रिस्तु-जयन्तीव्रतं न भिन्नम् । जयन्तीश- ब्दो हिरात्रि विशेषवचनः । अभिजिन्नाम नक्षत्रं जयन्ती नाम शर्वरी । मह. विजयो नाम यस्मिन् जातो जनार्दन इति ब्रह्माण्डवचनात् । तेन तद्युक्तरोहिण्यां निशीथे राजसत्तम । समजायत गोविन्दो वालरूपी चतुर्भुजः। तस्मातं पूजयेत्तत्रेति वह्निपुराणात् । एवं च रोहिणीयोगाभावेप्या- रात्रव्यापिन्यष्टमी ग्राह्या । परिदिने सन्नपि नक्षत्रयोगोऽकिश्चित्करः, बुधवारादिवत् । यत्तु स्कान्दे-उदयेचाष्टमी किश्चिनवमी सकला यदि । लभ्यते बुधसंयुक्ता प्राजापत्यक्ष संयुता । अपि वर्षशतेनापि लभ्यते वा न लभ्यते इति, तदानादि विषयम् । उपवासाश्रवणात् । उदये चन्द्रोदये इति वा व्याख्येयम् । मर्द्धराने तु योगोयं तारापत्युदये सति, इति विष्णु. धर्मोक्त। अत्र केचित् । उदयव्यापिनी प्राधा कुले विविरुपोषणे। निम्बाकों भगवानेष वान्छितार्थ प्रदायक इति ब्रतं, हेमाद्रौ निम्बसप्तमी व्रते भविष्यवचनानिम्बादित्यसाम्प्रदायिकानामौदयिक्येवेयम् । एवं शि. वराव्यादिकमपीत्याहुः। तहहवोनाद्रियन्ते, प्रकरणेन निम्बसप्तमीत्रते नियन्त्रितस्यान्यत्रगमनायोगादिति दिक् । श्रीकृष्णदेवकीवसुदेवयशोदानन्दादिप्रतिमानिर्माणं तत्पूजनादिकं वतं हेमाद्रौ स्पष्टम् । अर्यमन्त्रः । जातः कंसवधार्थाय भूभारोचारणाय च। पाण्डवानां हितार्थाय कौरवाणां वधाय च । राक्षसानां बवाय धर्मसंस्थापनाय च । गृहाणायं मया दत्तं देवक्या सहितो हरे । चन्द्राध्येमन्त्रौ । क्षीरोदार्णव सम्मत अत्रिगोत्र समुद्रव । गृहाणाम्य मया दत्तं रोहिण्यासहितः शशिन् ॥ ज्योत्स्नापते नमस्तुभ्यं नमस्ते ज्योतिष पते । नमस्ते रोहिणीकान्त अर्य मे प्रतिगृह्यतामिति । इयं मन्या. दिः। आपराहिकी। श्रावणामावास्यायां कुशग्रहणमुक्तं हेमाद्रौहारीतेन-मासे- नभस्यमावास्या तस्यां द ग्चयो मतः । भवातयामास्ते दर्भा विनि- योज्याः पुनः पुनः । इति । नमः श्रावणः दर्शान्तपक्षे । मदनरत्नेतु- ३ १८ तियिनिर्णये मासे नमस्येऽमावास्या तस्यां दर्मोच्चयो मत इति मरीचिवाक्यमु. दाहृतम् । इदं च पूर्णिमान्तामिप्रायेणेति हारीतेन सहकवाक्यतैव । केचितु-मरीचिवाक्येऽपि दर्शान्तपक्षमाश्रित्य महालयान्तर्गतपक्षे कुशोच्चयमाहुः । इति श्रीमहोजिदीक्षितविरचिते तिथिनिर्णये श्रावणमासः समाप्तः। ar अथ भाद्रपदः। भाद्रपदशुक्लतृतीयायां हरितालिकान. तम् । तत्र परा प्राया। मुहर्तमात्रसत्वेपि दिने गौरीबतं परति माध- वोक्ता हरितालिकास्वपुरस्कारेणापि परविद्धग्रहणवचनानान्दिवोदा. सीये उदाहृतत्वाच्च । इयं मन्वादिः । पूर्वाहिकी । भाद्रपदशुक्लचतुर्थी वरदचतुर्थी, सा मध्याहव्यापिनी प्राधा । दिनद्वये मध्याहव्याशावव्याप्तौ पूर्वैव, परेदयुरेवमध्याहव्याप्तौ विध्नस्यसोत्तरा । अन्यथा पूर्वविद्वैव मातृयोगप्रशस्तितः । इति माधवो केयं च रविभौमयोरतिप्रशस्ता। भाद्रशुक्लचतुर्थी या भौमेनार्केण वा युवा । महती साऽत्र विघ्नेशमचित्वेष्टं लभेनर इति निर्णयामृते वारा. होक्तः। अत्र चन्द्रदर्शनं निषिद्धम् । तथा चापरार्के मार्कण्डेयः । सिंहादित्ये शुक्लपक्षे चतुर्थी चन्द्रदर्शनम् । मिथ्याभिदृषितं कुर्यात्तस्मा- स्पश्येन तं सदा, पराशरः। कन्यादित्ये चतुर्थी तु शुक्ले चन्द्रस्य. दर्शनम् । मिथ्याभिषितं कुर्यात्तस्मात्पश्येन्न तं तदा । तथा पञ्चानने भानौ पक्षयोरुभयोरपि । तद्दोषशान्तये सिंहः प्रसेनमिति वै पठेत् । श्लोकस्तु-विष्णुपुराणे । सिंहः प्रसेनमवधीत् सिंहो जाम्बवता हतः । सुकुमारक मारोदीस्तवह्येषः स्यमन्तकः । इति । तेन चतुर्थांमु. दितस्यैव दर्शननिषेधः । भाद्रपद शुक्लपश्चमी-ऋषिपञ्चमी । सा हेमाद्रिमते परा । सितापरयुतास्यात्पञ्चमीति दीपिकोक्तः । माघवमते तु पूर्वा । सर्वत्र भाद्रपदमासः। पञ्चमी पूर्वेत्युक्तेः। मत्र ऋषिपूजनं तु मध्याहव्यापिन्यां प्रशस्तम् । पूजावतेषु सर्वेषु मध्याहव्यापिनीतिथिरिति माधवीये हारीतोक्त। दिनद्वये मध्याहव्याप्तावव्याप्ती वा पूर्वव, युग्मवाक्याच । अत्र कर्तव्यं निर्णयामृते स्पष्टम् । भाद्रपदशुक्लषष्ठी वाराहजयन्ती । सा पञ्चमीयुता प्रायां । भाद्रपदशुक्लाष्टमी दूर्वाष्टमी । सा पूर्वा । शुक्लाष्टमी तिथियां तु मासि भाद्रपदे भवेत् । दुर्वाष्टमी तु विज्ञेया नोत्तरा सा. विधीयते । इति पुराणसमुच्चयोक्तः । यत्तु-मुहारोहिणेष्टम्यां पूर्वा वा यदि वा परा । दुर्वाष्टमी तु सा कार्या ज्येष्ठां मूलं च वर्जयेत् । इत्युत्तरार्द्धस्याग्राह्यत्ववचनं तत् पूर्वदिने ज्येष्ठादियोगे द्रष्टव्यम् । दुर्वा- ष्टमी सदा त्याज्या ज्येष्ठामूलर्भसंयुता। तथा-ऐन्द्रः पूजिता दूर्वा हन्त्य- पत्यानि नान्यथा । भर्नुरायुईरा मूले तस्मात्ता परिवर्जयेदिति निषेषादिति हेमाद्रौस्थितम् । इदं चागस्त्योदये कन्या: च न कार्यम् । शुरले भाद्रपदेमासि दुर्वा सज्ञा तु साष्टमी । सिंहा एव कर्तव्या न कन्याः कदाचन । सिंहस्थेसोत्तमा सूर्य उदिते मुनिसत्तम । इति मदनरस्ने स्कान्दोक्तंः। नागस्त्य उदिते जातु पूजयेदमृतोद्भवाम् । वैधव्यं पुत्र. शोकं च दशवर्षाणि पञ्चचेति तत्रैवं दोषोक्तेश्च । इदं च व्रतं स्त्रीणां नित्यम् । या न पूजयते दुर्वा मोहादिह यथाविधि। त्रीणि जन्मानि वैधन्य लभते नात्र संशयः । इति पुराणसमुच्चयात् । यदा ज्येष्ठादिकं विनाष्टमी न लभ्यते तदा तत्रैवोक्तम् । कर्त्तव्या चैकभक्तंन ज्येष्ठामूल यदा भवेत् । दूर्वामभ्यर्च्ययेद्भक्त्या न बन्ध्यं दिवसं नयेदिति । मत्र विधिर्मदनरत्ने भविष्ये। शुचौ देशे प्रजातायां दुर्वायां ब्राह्मणो- तम । स्थाप्य लिङ्ग ततो गन्धैः पुष्पैथुपैस्समर्चयेत् । दध्यक्षतैर्द्विज- श्रेष्ठ अयं दद्यात् त्रिलोचने । दूर्वाशमीभ्यां विधिवत्पूजयेच्छद्धयान्वितः । मन्त्रस्तु-त्वं दुर्वेऽमृतजन्मासि वन्दितासि सुरासुरैः। सौभाग्यं सन्तति देहि सर्वकार्यकरी भव । यथा शाखाप्रशाखाभिविस्तृतासि महीतले । तथा तिथिनिर्णये ममापि सन्तानं देहि स्वमजरामरमिति । अत्रानग्निपर्क भक्षयेत् । मन. ग्निपकमश्नीयादनं दधि फलं तथा । मक्षारलवणं ब्रह्मनाश्नीयादिति मे मसिः । इति तत्रैव भविष्योक्त।। भत्रैव ज्येष्ठा पूजोक्ता माधवीये स्कान्दे। मासि भाद्रपदे शुक्ले पक्षे ज्येष्ठलंसंयुते । यस्मिन्कस्मिन्दिनेकुर्याज्जेष्ठायाः परिपुजनमि. ति । इयं ज्येष्ठावशेन पूर्वा परा वा ग्राह्या । दिनद्वययोगेऽपि परा। पूर्वहिरा. त्रियोगे पूर्वैव । नवम्या सह कार्यास्यादष्टमी नात्र संशयः। मासि भाद्रपदे शुक्ले पक्षे ज्येष्ठलंसंयुता । रात्रिर्यस्मिन् दिने तत्र ज्येष्ठायाः परिपूजन- मिति तत्रैवोक्तेः । अस्यापवादः। यस्मिन्दिने मवेज्जेष्ठा मध्याहादूर्ध्व- मध्यणु । तस्मिन् हविष्यं पूजां च न्यूनत्वे पूर्ववासर इति । इयं च (केवल) तिथौ केवलनक्षत्रे चोक मारस्थे । प्रत्याब्दिकं तिथावुक्तं तज्ज्येष्ठादैवतं प्रतम् । प्रतिज्येष्ठात्रतं यच्च विहितं केवलं शुमे । तिथावेवाचरेदाचं द्वितीयं केवलक्षक इति । दाक्षिणात्यास्तु-ऋक्ष एव कुर्वन्ति ।। तथा-त्रेणावाइयेदेवी ज्येष्ठाया तु प्रपूजयेत् । मूले विसर्जयेदेवीं त्रिदिनं मन्त्रस्तु-ज्येष्ठाय ते नमस्तुभ्यं ज्येष्ठाय ते नमो- नमः । शिवाय ते नमस्तुभ्यं शाय ते नमोनमः । भाद्रशुक्ल द्वादश्यां श्रवणयोगरहितायां पारणं कुर्यात् । आमाकासितपक्षेविति दिवोदासोदाहृतवचनात् । उपोष्यैकादशीमोहास्पारणं श्रवणे यदि । करोति हन्ति तत्पुण्यं द्वादशद्वादीभवम् । इति स्कान्दात् । अस्यैव तत्र प्रति. प्रसवः । विशेषेण महीपाल श्रवणं वर्द्धते यदि । तिथिक्षये न भोक्तव्यं द्वादशी लक्षयेमहि । इति । इह च श्रवणक्षं त्रेधा विभज्य मध्यमविंशतिघ. टिकायोग त्वक्त्वा पारणं कुर्यात् । तदुक्तं विष्णुधर्म-श्रुतेश्चमध्ये परि- वर्तमेति मुतिप्रबोधपरिवर्तनमेववर्यम् । इति । फेचिञ्चतुर्धा विभज्य मध्यमपादद्वयं वळमित्याहुः। अत्रैव विष्णुपरिवर्तनोत्सव कुर्यात् । अत्रैव शक्रध्वजोत्थापनमुक्तम्। अपरार्के गर्गेण- द्वादश्यां तु सिते पक्षे मासि प्रौष्ठपदे तथा । शकमुत्थापयेद्राजन् विश्व. - भाद्रपदमासं ३१ श्रवणवासरे । इयमेव श्रवणशादशी । तत्रैकादश्यां द्वादशीश्रवणयोगे. सैवोपोष्या, विष्णुशृङ्गलयोग विशेषात् । एकादश्यां श्रव- गयोगाभावेऽपि तद्दिनावच्छेदेन श्रवणस्पृष्टद्वादशीयोगादेव विष्णुशृ' जलमिति हेमाद्रिमतम् । निर्णयामृते तु-श्रवणस्यैकादशी द्वादशीभ्यां योगे एव विष्णुशृङ्खलं नान्यथेति । यदा निशीथानन्तरं सूर्योदयावधि द्विकलामात्रमपि श्रवणक्षं तदापि पूर्वव । दिवोदासीये रात्रेः प्रथमयामे श्रवणयोगे पूर्वा । अन्यथोत्तरेत्युक्तम् । इयं बुध- वासरेऽतिप्रशस्ता । यदावेकादश्येव श्रवणयुता, न द्वादशी, तदा एकाद- श्यामेव व्रतं भवति । यदा द्वादश्येवर्शयुता तदा शक्तः उभयत्रोपवसेत् । अशक्तस्तु-एकादश्यां गौणोपवासं कृत्वा द्वादशीमुपवसेत् । यदा ऋक्ष- स्पृष्टापि द्वादशी न, तदा मदनरत्ने-द्वादशीश्रवणस्पृष्टा कृच्छा पुण्यतमातिथिः । न तु सा तेन संयुक्ता तावत्येव प्रशस्यते । इदं च व्रतं काम्यमिति गौडाः । नित्यमिति दाक्षिणात्याः । पारणं.तूभ- यान्ते अन्यतरान्ते वा कुर्यात | भाद्रपदे श्रवणैकादश्यां मध्याह्वे वामनावतारः। तत्र वामनपूजा पतिमादानादिकं व्रतं हेमाद्री स्थितम् । श्रवणयुतशुद्धैकादश्यामलामे तु दशमीविद्यापि श्रवणयुता प्रामा । तथा च मदनरत्ने वहिपुराणे-दशम्यकाकादशी यत्र सा नोपोष्या भवेतिथिः । श्रवणेन तु संयुक्ता सोपोष्या सर्व कामदेति । अस्या द्वादश्यां दुग्धव्रतसल्पः। दुग्धवते तु पायसादिकं वयम् । दषिघृतादयस्तद्विकारा ग्राह्या । नन्वेवं सन्धिन्यादि क्षीरनिषेधेषि दध्यादिग्राह्यं स्यादिति चेत्तत्र वाचनिक निषेधसत्वात । तदाहापराक- शङ्खः । क्षीराणियान्यभक्ष्याणि वद्विकाराशने बुधः । सप्तरात्रत्रतं कुर्यात्प्रयत्नेन समाहितः । व्रतकोमूत्रयावकम् । भाद्रपदशुक्लचतुर्दश्यामनन्तव्रतम्। तत्र द्विमुर्तव्याप्तौद- यिकी माहोति माधवः । दिवोदासीये तु-मध्याहे भोज्यवेला. यामिति कथायां श्रवणात् मध्याहव्यापिनी ग्राओत्युक्तम् । .. सिंहगे सूर्ये एकविंशतिदिनोपरि अगस्त्योदयः । उदेति ૨૨ तिथिनिर्णय याम्यां हरिसंक्रमाद्रवेरेकाधिके विशतिमेअगस्त्यः । इति दिवोदा. सोदाहृत् वचनात् । तत्र काशपुष्पमयीं अगस्त्यप्रतिमा कृत्वा तत्पू. जादिफलकम् । "अगस्त्यः खनमानः खनित्रैः प्रजामपत्यं वलमिच्छ. मानः । उभौवर्णावृषिरुनः पुपोष सत्या देवेष्वाशिषो जगाम" इति मन्त्रेणाध्यदधादित्यादिवतं हेमाद्रौ स्पष्टम् । भाद्रपदपौर्णमास्यां प्रपितामहात्परान् त्रीनुदिश्य श्राद्ध कार्यम् । तदुक्तं हेमाद्रौब्राममार्कण्डेययोः। नान्दीमुखाना प्रत्यब्द कन्याराशिगते रवौ। पौर्णमास्यां तु कर्तव्यं वाराहवचनं यथा इति । नान्दीमुखत्वं चोक्तम्-तत्रैव-पिता पितामहश्चैव तथैव प्रपिता- महः । त्रयो ह्यश्रुमुखा लेते पितरः परिकीर्तिताः । तेभ्यः पूर्वतरा ये च प्रजावन्तः सुखैधिताः। ते तु नान्दीमुखानान्दी-समृद्धिरिति कथ्यते । एतच्च नित्यम् । प्रत्यब्दमित्युक्तेः । अत्र मातामहा अपि कार्याः । पितरो यत्र पूज्यन्ते तत्र मातामहा अपीति धौम्योक्तेः । पितृशब्दस्य पितृभावापनमात्रपरत्वात् । जनकपरत्वे बहुवचनासामञ्जस्यात् । आ- न्दिके तु वचनानिवृतिः । इति श्रीमद्भदोजिदीक्षित विरचित तिथिनिर्णये भाद्रपदमासः समास: अथ महालया। पृथ्वीचन्द्रोदये वृद्धमनुः । आषाढीमवधि कृत्वा पञ्चमं पक्षमाश्रिताः। कान्ति पितरः क्लिष्टा अन्नमप्यन्वहं जलम् ॥ ब्रह्माण्डमार्कण्डेययो। । कन्यागते सवितरि दिनानि दश पञ्च च । पार्वणेनैव विधिना श्राद्धं तत्र विधीयते । हेमाद्रौ । कन्यागते सवितरि यान्यहानि तु षोडश । क्रतुभिस्तानि तुल्यानि देवो नारायणोऽब्रवीत् । इत्यु- दाहृत षोडशत्वं त्रेधा व्याख्यातम् । तिथिवृच्या पक्षस्य षोडश दिनात्म. करवे श्राद्धवृद्ध्यर्थमित्येक पक्षः। भाद्रपक्षपूर्णिमया सहेति द्वितीयः। बाश्वि नशुक्लप्रतिपदा सहेति तृतीयः । इह पञ्चपक्षाः । पक्ष पर्यन्तः १ पञ्च- आश्विनमासः। २३ । म्यादिः २ मष्टम्यादिः ३ दशम्यादिः ४ एकस्मिन् दिने वा श्राद्धमिति'५ तथा च गौतमः । अथापरपचे श्राद्धं पितृभ्यो दद्यात् । पञ्च- म्यादिः। दर्शान्तम् । अष्टम्यादिः । दशम्यादिः । एकस्मिश्चेति । हेमाद्रौ नागरखण्डे । भाषायाः पञ्चमेपक्षे कन्यासंस्थे दिवाकरे । यो वै श्राद्धं नरः कुर्यादेकस्मिमपि वासरे। तस्य सम्वत्सरं यावत्सन्तुष्टाः पितरो ध्रुवम् । सकृन्महालये वर्ण्यतिथ्यादिकं पृथ्वीचन्द्रोदये प्रयोगपा- रिजातायुक्तम् । तत्र पशिष्ठः। नन्दायां भार्गवदिने चतुर्दश्यां त्रिज- न्मसु । एषु श्राद्धं न कुर्वीत गृही पुत्रवनक्षयात् । जन्मभं तत्पूर्वोतरे च त्रिजन्मानि । अस्यापवादो हेमाद्रौ । अमापाते भरण्यां च द्वादश्या पक्ष मध्यके । तथा तिथिं च नक्षत्रं वारं च न विचारयेदिति। पराशरमान धवीये मदनपारिजातादिष्वप्येवम् । निर्णयदीपिकायां तु-पितृमृताहेऽपि सर्वनिषेधापवाद उक्तः । आषाढ्याः पञ्चमेपक्षे कन्या संस्थे दिवाकरे । मृताहनि पितुर्योवै श्राद्धं दास्यति मानवः । तस्य सम्ब. सरं यावत्सन्तुष्ठाः पितरोध्रुवमिति नागरखण्डोके । या तिथिर्यस्य मासस्य मृताहे तु प्रवर्त्तते । सा तिथिः पितृपक्षे तु पूजनीया प्रयत्नत इति कास्यायनोक्तेश्च । अत्रिः। महालये क्षयाहे च दशे पुत्रस्य जन्मनि । तीर्थं च निर्वपेपिण्डान् रविवारादिकेष्वपि । कात्यायनः । मशक्तः पक्षमध्ये तु करोत्येकदिने तथा । निषिद्धेष्वपि दिने कुर्यापिण्ड. दानं यथाविधि। यत्तु स्मृत्यर्थसारे। विवाहव्रतचूडासु वर्षमई तदर्धकम् । पिण्डदानं मृदास्नानं न कुर्यात्तिलतर्पणम् । अस्यापवादमाह दि. वोदासीये वृहस्पतिः। तीर्थे सम्वत्सरे प्रेते पितृयागे महालये । पिण्डदानं प्रकुर्वीत युगादि भरणी मधे । महालये गया श्राद्धे मातापित्रोः क्षयेऽहनि । कृतोद्वाहोपि कुर्वीत पिण्डनिर्वपणं सदा । इति । सन्यासिनां तु बादश्यां श्राद्धं कार्यम् । यतीनां च २४ तिथिनिर्णय वनस्थानां वैष्णवाना विशेषतः । द्वादश्यां विहितं श्राद्धं कृष्णपक्षे:विशे. पतः । इति पृथ्वीचन्द्रोदये सङ्घहोक्तेः । इदं च श्राद्धमन्नेनैव कर्तव्यम् । मृताहं च सपिण्डं च गयाश्राद्धं महालयम् । आपन्नोपि न कुर्वीत श्राद्धमामेन कर्हिचित । इति स्मृतिदर्पणे गालवोक्तेः। : अथान देवताः । सङ्कहे-ताताम्बात्रितयं सपत्नजननी माता- महादित्रयं सस्त्रि स्त्रीतनयादि तातजननीस्वभ्रातरस्तत स्त्रियः । ताता- म्बात्मभगिन्यपत्यधवयुक् जायापिता सद्गुरुः शिष्याप्ताः पितरो महा. लयविधौ तीर्थे तथा तर्पणे । अस्यार्थः । तातत्रयी पितृत्रयी मातृत्रयी च । अत्र विशेषः-स्मृतिदर्पणे गालवः । अनेका मातरो यस्य श्राद्ध चापरपरपक्षिके । अर्घ्यदानं पृथक्कुर्यात पिण्डमेकं तु निर्वपेत् । जीव. मातृकस्तु सापत्नमातुरेकोदिष्टं कुर्यान्न पार्वणम् । सनीति मातामहावित्रयं सपत्नीकमित्यर्थः । तथा च नवदैवत्यम् । उक्तञ्च-हेमाद्रौ-महालये गयाश्राद्धे वृद्धौ चान्वष्टकासु च । नवदैवतमेवेष्टं शेषं षाटपौरुषं विदुः। विभवे सति तु मातामहादीनां पृथक्कार्यम् । महालये गयाश्राद्धे वृद्धौ चान्वष्टकासु च । ज्ञेयं द्वादशदेवत्यं तीर्थे प्रौष्ठे मघासु च । इति निगमोक्तेः। तातभ्राता पितृव्यः, जननीभ्राता मातुलः, तत् स्त्रियः पितृव्यस्त्रीमातुलानीभ्रातृजायाः । पितृष्वसा मातृष्वसा भगिन्योऽपत्यमत तेन सापत्यायै सघवाय इति प्रयोगो ज्ञेयः । एतासु सतीषु न तद्भादेर्दानं, द्वारलोपात् । जायापिता श्वशुरः । अत्र श्वश्रूरपि बोध्या तथा च हेमाद्रौ । उपाध्यायगुरुश्वश्रूपितृव्याचार्यमातुलाः । श्वशुरमातृतत्पुत्र पुत्रविशिष्यपोषकाः । भगिनीस्वामिदुहितजामातृभगिनीसुताः। पितरौ पितृपत्नीनां पितुर्मातुश्च या स्वसा। सखिद्रव्यदशिष्याद्यास्तीर्थ चैव महा. लये । एकोद्दिष्टविधानेन पूजनीयाः प्रयत्नतः। इति । अत्र क्रमान्यत्वेप्या. चाराद्व्यवस्था । अशक्तौ तु चतुर्विशतिमते। एकस्मिन् ब्राह्मणे सर्वानाचार्यादीन् प्रपूजयेत् । दश द्वादश वा पिण्डान् दपादकरणं न तु । विधवायास्तु-विशेषः स्मृतिसंग्रहे। चत्वारि पार्वणानीह युक्ताः '-.
आश्विनमासः। २५ विधवायाः सदैव हि । स्वभर्तृश्वशुरादीनां मातापित्रोस्तथैव च । ततो मातामहानां च श्राद्धदानमुपक्रमेत् । तथा-श्वश्रूणां च विशेषेण माताम- द्यास्तयैवचेति । अशक्तौ तु-स्मृत्तिरत्नावल्याम् । स्वमर्तृप्रभृति त्रिभ्यः स्वपितृभ्यस्तथैव च । विधवा कारयेच्छाद्धं यथाकालमतन्द्रिता । वि- धवा स्वयं सङ्कल्पं कृत्वान्यबामणद्वारा कारयेदियुक्त प्रयोगपारिजाते। अत्रैकपाको वैश्वदेवतन्त्रं पिण्डं वहिश्चैकमिति स्मृत्यर्थसारे । अत्रैकोविष्टेषु पाणिहोमः।पिण्डाश्च द्विजान्तिक इत्याचार्याः । अत्र धुरि- लोचनौ वैश्वेदेवौ । प्रतिदिनं च प्रयोगभेदाद् दक्षिणामेदः । प्रयोगैक्यादन्ते एवं वा दक्षिणेति हेमाद्रौ स्थितम् । एतच्च सन्यस्तपितृका. दिना जीवपितृकेणापि कार्यम् । पद्धौ तीर्थे च सन्यस्ते ताते च पतिते सति । येभ्य एवं पिता दद्यात्तेभ्यो दद्यात्स्वयं सुतः इति कात्याय. नोक्तः । यत्तु कौण्डिन्या । दर्शश्राद्धं गयाश्राद्धं श्राद्धं चापरपक्षि. कम् । न जीवपितृकः कुर्यातिलस्तर्पणमेव च इति । तरसन्यस्तपितृका. धन्यपरम् । काम्यश्राद्धपरं वा । एतच जीवपितृकेण पिण्डरहितं का. यम् । मुण्डनं पिण्डदानं च प्रेतकर्म च सर्वशः । न जीवापतृकः कुर्याद्गुर्विणीपतिरेव चेति दक्षोक्तः । अन्वष्टक्यमातृवार्षिकादौ तु वचनाद्भवति । तथा च-छागलेयः। पिण्डो यत्र निवर्तेत मघादिषु कथञ्चन । साङ्करुपं तु तदा कार्य नियमाद्ब्रह्मचारिभिः । अत्र श्राद्धाङ्गतर्पणं पक्षश्राद्धं प्रतिदिनं श्राद्धोत्तरम् । सन्महालये तु परेलि कार्यम् । तदुक्तं नारदीये । पक्षश्राद्धं यदा कुर्यातर्पणं तु दिने दिने । सन्महालये चैव परेऽहनि तिलोदकम् । इति । यत्त संग्रहे-पक्षश्रा हिरण्येचपरेहनितिलोदकमिति तत् सक. न्महालयाविषयम् । प्रयोगपारिजाते गर्गः । कृष्णे भाद्रपदे मासि श्राद्धं प्रतिदिनं भवेत् । पितॄणां प्रत्यहं कार्य निषिद्धाहेपि तर्पणम् || इदं नित्यं काम्यं च । एतच्च मलमासे न कार्यम् । पित्रोमरणे प्रथमारे तु कृतास्तमिति त्रिस्थलीसेतो। .
तिथिनिर्णये पत्र भरण्यां श्राद्धमतिप्रशस्तम् । तदुक्तं मारस्ये । भरणी पितृपक्षे तु महती परिकीर्तिता । तस्यां श्राद्धं कृतं येन स गया. श्राद्धकृद्भवेत् । पृथ्वीचन्द्रोदये-नभस्यापरपक्षस्य द्वितीया यदि या. म्यभे । तृतीया चाग्निताराभिः सहिता प्रीतिदा पितुः । अत्र प्राजापत्यः । अस्मिन् पक्षे कपिलाषष्ठी-तदुक्तं वाराहे-नमस्य कृष्णपक्षे तु रोहिणीपातसुतैः । युक्ता षष्ठी पुराणज्ञैः कपिला परिकीर्तिता ॥ अतोपवासनियमैर्भास्करं तत्र पूजयेत् । कपिलां च द्विजाग्ग्यायदत्वा ऋतुफलं लभेत् । अत्रैव हस्ताः फलातिशय इति निर्णयामृते पुराणसमुच्चये च । भाद्रेमास्यसिते पक्षे मानौ चैत्र करे स्थिते । पाते कुजे च रोहि. ण्या सा. षष्ठी कपिला भवेत् । संयोगे तु चतुर्णी तु निर्दिष्टा परमेष्ठिना इति । इयमेव चन्द्रषष्ठी। सा पूर्वयुता प्राह्या । तदुक्तं भविष्ये। तद्वद्भाद्रपदे मासि पठ्या पक्षे सितेतरे। चन्द्रषष्ठीव्रतं कुर्यात्पूर्ववेधः प्रश. स्यते । तथा-चन्द्रोदये यदा षष्ठी पूर्वाहेचापरेऽहनि । चन्द्रषष्ठ्यसि पक्षे सैवोपोष्या प्रयत्नतः । इति । तस्माच्चन्द्रोदयव्यापिनी पूर्वा ग्राह्या। दिनद्वये चन्द्रोदयसस्वासत्वे पूर्वा । इति । अत्राष्टम्यामाश्वलायनेन मधावर्षसंज्ञं श्राद्धमुक्तम् । "एवेन माध्यावर्ष प्रौष्ठपद्याऽपरपक्षे" इति । इदं च सप्तम्यादिषु त्रिष्वहःसु कार्य: मिति नारायणवृत्तिः । हरदत्तस्तु-मघायुक्तवर्षासु भवं त्रयोदशी श्राद्धमिति व्याचरव्यौ । अत्रैवाष्टम्यां महालक्ष्मीबतम् । तत्र चन्द्रोदयव्यापिनी ग्राह्या, त त्रैव-पूजाद्युक्तेः । परदिने चन्द्रोदयादूवं त्रिमुहू पि सा पूज्या । परत- श्चोर्द्धगामिनीति मदनरत्ने सङ्घहोक्तः । अर्धरात्रमतिक्रम्य वर्तते योत्तरातिथिः । तदा तस्यां तिथौ कार्य महालक्ष्मीव्रतं सदेति वचनात् । अथ नवम्यामन्धष्टकाश्राद्धम् । तत्र अन्वष्टकासु नवभिः पिण्डैः श्राद्धमुदाहृतम् । पित्रादि मातृमध्यं च ततो. कात्यायन:।
आश्विनमासः। २७ मातामहान्तकम्-पृथ्वीचन्द्रोदये बमाण्डे । पितॄणां पथमं दद्यान्मा- तृणां तदनन्तरम् । ततो मातामहानां च अन्वष्टक्ये क्रमः स्मृतः । श्राद्ध- हेमाद्री छागलेयः। केवलास्तु क्षये कार्या वृद्धावादौ प्रकीर्तिताः । अन्वष्टकासु मध्यस्था नान्त्याः कार्यास्तु मातरः । दीपिकायां तु- मातृश्राद्धमादौ कार्यमित्युक्तम् । तथा च निर्णयामृते मैत्रायणीये आवष्टक्यं गयाप्राप्तौ सत्यां यच्च मृतेऽहनि । मातुःश्राद्धं सुतःकुर्यारिप- तर्यपि च जीवति । यद्यपि जीवस्पितृकस्य पञ्चान्वष्टका अवश्यंकर्तव्या- स्तथाप्यशक्तस्येयमावश्यकी । अत्र स्वमातरि जीवन्त्यामपि सपत्न- मातृभ्यो दद्यात् । सर्वासामेव मातॄणां श्राद्धं कन्यागते रवौ । नवम्यां हि प्रदातव्यं ब्रह्मलब्धवरा यतः। इतिसूतौक्तौ सर्वासां नाम कथनात् । अत्र सर्वासां नामनिर्देशनकोब्राह्मणोऽयः पिण्डश्च । नामैक्ये तु द्विवचनादि प्रयोग इतिनारायणवृत्तौ । अत्र भर्तृमरणोत्तरं पूर्वमृतमातृश्राद्धं न कार्यमिति मन्वाना केचित्पठन्ति । श्राद्धं नवम्यां कुर्यात्तन्मृते भर्तरि लुप्यत. इतितनिर्मूलमिति प्रामाणिकाः । इदं च जीवस्पितृकेणापि सपिण्डं कार्यम् तदुक्तं हेमाद्रौ-विष्णुधर्मे । अन्वष्टकासु च स्त्रीणां श्राद्धं कार्य तथैव चेत्युपक्रम्य पिण्डनिर्वपणं कार्यमित्युक्तत्वात् । इहासिदेशादेव पिण्ड. दाने प्राप्ते जीवस्पितृकत्व गर्भिणीपतित्वादिप्रयुक्तनिषेषादिस्थले प्रतिप्रस. वार्थं तदुक्तिः। अत्र सुवासिनी भोजनमुक्तं मार्कण्डेयपुराणे । मातुः श्राद्धे तु सम्प्राप्ते ब्रामणैः सहभोजनम् । सुवासिन्यै प्रदातव्यमिति 'शाता- तपोऽब्रवीत् । म र मृता नारी सह दोहेन वा मृता। तस्याः स्थाने नियुञ्जीत विरैः सह सुवासिनीम् ।। तथैव मदालसावाक्यम्--स्त्रीश्राद्धे पुत्रदेयाः स्युरलहाराश्चयो. षिते । मञ्जीरमेखलादामकर्णिकाकरणादयः । इति । अत्रैव च त्रयोदश्यां श्राद्ध महाफलम् । मघायुक्तायां तु अतीव प्रशस्तम् एतच्चाविभक्तैरपि पृथक्कार्यम् । तथाच हेमाद्रौ-विभक्ता वाs. विभक्ता वा कुर्युः श्राद्धं पृथक् सुताः । मघासु च ततोऽन्यत्र नाधिकारः २८ तिथिनिर्णय पृथग्विनेति । अपराकै वायवीये। हंसे करस्थिते या तु मघायुक्ता त्रयो. दशी तिथिवैवस्वती नाम सा छायाकुञ्जरस्य तु । अत्र पिण्डदानं नास्ति । इदश्च मलमासेऽपि कार्यम् । मघात्रयोदशीश्राद्धं प्रत्युपस्थिति हेतुकम् । अनन्यगतिकत्वेन कर्तव्यं स्यान्मलिम्लुचे इति काठकगृयोक्तः । इयं युगादिरपि । अत्र मघात्रयोदशी महालययुगादि श्राद्धानां तन्त्रेण प्रयोग अथ चतुर्दशी । तत्रापमृत्युहतानां श्राद्धम् । एतच्च दैवयु- कमेकोद्दिष्टमित्युक्तं प्रयोगपारिजाते-प्रेतपक्षे चतुर्दश्यामेकोद्दिष्ट- विधानतः । दैवयुक्तं तु तच्छाद्धं पितॄणामक्षयं भवेत् । तथा-तच्छाद्धं देवहीनंचे पुत्रदारधनक्षयः । एकोद्दिष्टं दैवयुक्तमित्येवं मनुरवीत् । पितामहोपि शखहतश्चेदेकोद्दिष्टद्वयं कार्यम् । यत्तु-देवस्वामिनोक्तं त्रिष्वपि शस्त्रहतेषु पृथगेकोद्दिष्टवयं कार्यम् । नतु पार्वणमाहत्यवचनाभावात् । तदन्ये नानुमन्यन्ते । पित्रादयस्त्रयो यस्य शस्त्रधातादिभिर्हताः । सम्भूते पार्वणं कुर्यात् माब्दिकानि पृथक् पृथक् ॥ इति बृहत्पराशरोक्तेः। एकस्मिन् वा द्वयोवापि विधुच्छनादिमिर्हते । एकोद्दिष्टद्वयं कुर्यात् त्रयाणां दर्शवद् भवेत् ।। इति पृथ्वीचन्द्रोदये वचनाच । अपरार्के हेमाद्रौ चैवम् । यस्स्वत्रैव शस्त्रादिना हतस्तस्य वार्षिकेणैवास्य प्रसङ्गसिद्धिर्न पृथगनुष्ठानमिति पृथ्वीचन्द्रोदये। मत्र श्राद्धाकरणे तु दिनान्तरे पा. र्वणमेव कार्यमिति तत्रैव स्थितम् । अमायां विशेषमाहापरा यमः। हसे करस्थिते या तु ममावास्या करान्विता । सा ज्ञेया कुञ्जरच्छाया इति बौधायनोऽब्रवीत् ।। इति श्रीमद्भवोजिदीक्षित विरचिते तिथिनिर्णय महालयः समाप्तः।
आश्विनमासः ૨૬ आश्विन शुक्ल प्रतिपदि दौहित्रो मातामहश्राद्धं कुर्यात् । उक्तं च हेमाद्रौ-जातमात्रोपि दौहित्रो जीवस्यपि हि मातुले । कुर्यान्मातामह श्राद्धं प्रतिपद्याश्विने सिते । इति । इयं च सनवव्यापिनी ग्राह्येति निर्णयदीपे उक्तम् । प्रतिपद्याश्विन शुक्ले दौहित्रस्त्वेकपार्व. णम् । श्राद्धं मातामहं कुर्यात्सपिता सङ्गवे सिते । जातमात्रोपि दौहित्रो जीवस्यपि हि मातुले । प्रातः सङ्गवयोर्मध्ये याऽश्वयुक् प्रतिपद्भवेत् । इति वचनात् । मत्र सपितेति विशेषेणाज्जीवपितृक एवाधिकारी । अतएव- पिण्डरहितं कुर्यात् । मुण्डनं पिण्डदानं च प्रेतकर्म च सर्वशः । न जीव. पितृकः कुर्यात् गुर्विणीपतिरेव च इति दक्षवचनात् । आन्वष्टक्य- वद्विशेषवचनाभावात् । इति ॥ अत्रैव नवरात्रारम्भः । तत्र परविद्धा ग्राह्या । तदुक्तं गो. विन्दार्णवे मार्कण्डेय देवीपुराणयोः । पूर्वविद्धा तु या शुक्ला. भवेत्पतिपदाश्विने । नवरात्रंत्रतं तस्यां न कार्य शुभामिच्छता । देशभजो मवेत्तत्र दुर्मिक्षं चोपजायते । नन्दायां दर्शयुक्तायां यत्र स्यान्मम पूज- नम् । इति । तथा तत्रैव देवीपुराणे-न दर्शकलया युक्ता प्रतिपच्चण्डि. कार्चने । उदये विमुहर्चाऽपि प्राया सोदयकारिणीति । यदा तु-पूर्वदिने शुद्धा भूत्वा परदिने वर्द्धते तदा पूर्वैव । सम्पूर्णत्वादमायोगाभाबाच्च । यानि च द्वितीयायोगनिषेधपराणिवचनानि तानि शुद्धाधिकपराण्येव । परदिने प्रतिपदोऽसत्वे तु अमायुक्तापि ग्राह्या । अमायुक्ता प्रकर्त्तव्येति वृसिंहप्रसादोदाहृतवचनान्येप्येतविषयाण्येव । अत्र देवीपूजाप्रधानम् । उपवासादिकस्पाम् । अष्टम्यां च नवम्यां च जगन्मातरमम्बिकाम् । पूजयिस्वाश्विने मासि विशोको जायते नरः। इति हेमाद्रौ भविष्ये तस्या एव फल सम्बन्धसत्वात् । उक्तवचनादष्टमी. नवरूिपदिनद्वयपूजैव प्रधानमितरत्सर्वमङ्गमिति तु गौडाः । हेमाद्री भविष्ये । एवं च विन्ध्यवासिन्यां नवरात्रोपवासतः । एकभक्तेन नक्केन तथैवायाचितेन च । पूजनीया जनैर्दैवी स्थाने स्थाने पुरे पुरे इत्यादि । देवीपुराणे तु त्रिकालं पूजयेद्देवीजपस्तोत्रपरायणः इति ।
'01 तिथिनिर्णये यतु माधवेनोक्तम् । तस्य नक्तव्रतस्यादिति सोऽयं पाक्षिक नक्तानुवादः, अन्यथा नवरात्रोपवासत इत्याधपक्षानुपपत्तेः । अत्र वैधृति चित्रां चातिक्रम्य व्रतारम्मः । तदसम्भवे तयोरंशत्रयं पादद्वयं वा त्याज्यम् । तथा च भार्गवार्चनदीपिकायां देवीपुराणे। त्वाष्ट्रवैधृतियुक्ता चेत्प्र. तिपश्चण्डिकार्चने । तयोरन्ते विधातव्यं कलशारोपणं गुह । इति । दुर्गा त्सवे कात्यायनः । प्रतिपच्चाविने मासि भवेद्वैधृतिचित्रयोः। आद्य- यादौपरित्यज्य प्रारभेन्नवरात्रकम् । भविष्ये । चित्रा वैधृति संयुक्ता प्रति- पच्चद्भवेन्नृप । त्याज्याचंशात्रयस्त्वाद्यास्तुरीयांशे तु पूजनम् । कलश. स्थापनं तु रात्रौ न कार्यम् । न रात्रौ स्थापन कार्य न च कुम्भाभिषेच. नमिति मात्स्योक्तः। भास्करोदयमारभ्य यावत्तु दशनाडिकाः । प्रातः काल इति प्रोक्तः स्थापनारोपणादिषु । इति विष्णुधर्मोक्तेश्च । माद्याः षोडशनाडीस्तु त्यक्त्वा यः कुरुते नरः । कलशस्थापन तत्र छ. रिष्टं जायते ध्रुवमिति भार्गवार्चन दीपिकायां देवीपुराण हाम- रुतन्त्रवचनोदाहरणाच्च । अत्र केचित्-नवरात्रशब्दो नवाहोरात्र, परः । वृद्धौसमाविरष्टम्यां हासेऽमा प्रतिपतिथिः । प्रारम्भो नवचण्या- स्तु नवरात्रमतोऽर्थवदिति देवीपुराणादित्याहुः । अन्ये तु वचनमिदं निर्मूलं मत्वा तिथिविशेषपरतामेवाहुः । युक्तञ्चैतत् । अतिहासवृद्धी न्यूनाधिकतायाः दुष्परिहरत्वात् । उक्तञ्च-तिथिवृद्धौ तिथिहासे नवरात्र- मपार्थकम् । अष्टरात्रे न दोषोयं नवरात्रतिथिक्षये । इति । प्रारम्भो नव- रात्रस्येत्यादी लक्षणयाकर्मपरतेति दिक् । विश्वरूपनिवन्धे- सूतकेपूजनं प्रोक्तं दानं चैव विशेषतः । देवीमुद्दिश्यकतव्यं तत्र दोषो न विद्यते इति वचनान्मध्ये आशौचपातेपि पूजा ब्राह्मणद्वारा कार्या न तु स्वयम् । विष्णुरहस्ये । पूर्वसझल्पितं यच्च व्रत सुनियतव्रतैः । तत्कर्त्तव्यं नरैः शुद्धे दानार्चनविवर्जितमिति । उपवासादि स्वयमेव कार्यम् । सङ्कल्पोव्रतसत्रयोरितिवचनात् । अनारब्धं तूपवासादि अन्यद्वारा कारयेदिति दिवोदासीये । ब्राह्मणभोजनावि सूतकान्ते कु.
आश्विनमासः। यति । भारजन्मा कश्चित्साक्षादेवपूजन कार्यमिति जजल्प । एवं रजोदो. षेपि । पूजा तु अन्यद्वारा कार्यां । सुवासिनीनां तु-गम्घालङ्कारताम्बूलं पुष्पमाल्यानुलेपनम् । उपवासे न दुष्यन्ति दन्तधावनमज्जनमिति । आश्विन शुक्लपञ्चम्यामुपांगललिताव्रतम् । अत्र विशे. षवचनाभावेऽपि शक्ति पूजनस्वादात्रिव्यापिनीमाया । रात्रिशब्दः पूर्वविद्धा वचनपर इति हेमाद्रिः।युग्मवाक्याच्च ।भुक्त्वा जागरणे नक्के चन्द्रायात्रते तथा । तारावतेषु सर्वेषु रात्रियोगः प्रशस्यते इति कालहेमाद्रिवच- नादपि पूर्वविद्धा ग्राह्या । अस्य च भुक्त्वा जागरणरूपत्वात् । यत्तु भूरि- जन्मा जजल्प-वचनम्विना रात्रिव्यापिन्या ग्रहणे प्रमाणाभावात् जागरणस्यचाङ्गत्वात् पूर्वाह्वव्यापिन्येव प्राधेति तद्भरिजन्मनो मन्दप्रज्ञ. स्य दुवुद्धिविलसितमात्रमित्युपेक्ष्यम् । आश्विन शुक्लससमी देवीपूजायां परा । युगाद्या वर्षवृद्धिश्च सप्तमी पार्वतीप्रिया। वेरुदयमीक्ष्यन्ते न तासु तिथियुग्मतेति प्रतापमा- तण्डभविष्योक्तेः । वर्षवृद्धिर्जन्मतिथिः । अत्रैव मूलनक्षत्रे पुस्तकस्थापनमुक्तं देवीपुराणे। मूलेषु स्थापन देव्याः पूर्वाषाढासुपूजनम् । उत्तरासु बलिं दद्याच्छुवणेन विसर्ज- येत् । रुद्रयामले-मुलऋक्षे सुराधीश पूजनीया सरस्वती । पूजयेत् प्रत्यहं देव यावद्वैष्णवमृक्षकम् । नाऽध्यापयेचलिखेन्नाधीयीत कदा- चन । पुस्तके स्थापिते देव विद्याकामो द्विजोत्तमः । इति । अथाष्टमी । तत्राष्टम्या महाकाली वक्षाध्वर विनाशिनी । प्रादुर्भूता महाघोरा योगिनीकोटिभिता । सा च परयुता ग्राह्या । देवीपुराणे. सप्तमीवेधसंयुक्ता यैः कृता तु महाष्टमी । पुत्रदारधनीना श्रमन्तीह पिशा. चवत् । मदनरत्ने स्मृतिसंग्रहेऽपि- शरन्महाष्टमी पूज्या नवमीसंयुता सदा । सप्तमी संयुता नित्यं शोकसन्तापकारिणी । जम्भेन सप्तमी युक्ता पूजिता च महाष्टमी । इन्द्रेणाभिहतो जम्भस्तस्यां दानवपुङ्गवः । तस्मात्सर्वप्रयत्नेन सप्तमीसहिताष्टमी । वर्जनीया प्रय- ३२ तिथिनिर्णय स्नेन मनुजैः शुभकासिभिः । तथा-सप्तमी कळया यंत्र परतश्चाष्टमी भवेत् । तेन शल्यमिदं प्रोक्तं पुत्रपौत्रक्षयप्रदम् । पुत्रान् हन्ति पशून् ह. न्ति हन्ति राष्ट्रं सगजकम् । हन्ति जातानजाताँश्च सप्तमीसहिताष्टमी । शुक्लपक्षेऽष्टमी चैव शुक्लपक्षे चतुर्दशी । पूर्वविद्धा न कर्तन्या कर्तव्या पर. संयुता । वसुरन्ध्रयोरिति युग्मवाक्यञ्चात्र मुहूर्तन्यूनामि सप्तमी वर्जन प्रयो. जिका न त्रिमुहूव । पुराणे-सप्तमी स्वरूप संयुक्ता मामाया सदाष्टमी। स्तोकापि सा तिथिः पुण्या यस्यां सूर्योदयो भवमिति नवमीयुताऽलामे तु सप्तमीयुतैव ग्राह्या । तथा च स्मृतिसंग्रहे-यदा पूर्वदिने न स्यानवमी च परेऽहनि । तदाष्टमी प्रकुर्षांत सप्तम्या सहितानृपेति । उपवासं महाष्ट. म्यां पुत्रवान समाचरेत् इति मदनरत्ने । अथाश्विन शुक्ल नवमी महानवमी लैङ्गे दुर्गापूजासु नवमी मूलाक्षसमन्विता । महती कीर्तिता बस्या. दुर्ग महिषम दिनी । पूजयेदिति शेषः । सा पूर्वविद्धा प्राया । युग्मवाक्यात् । वृहद्यमोऽपि । श्रावणी दुर्गनवमी दूर्वाचैव हुताशनी । पूर्वविद्धा प्रकर्तव्या शिवरात्रिर्वलेनिमिति । अस्यामेव पूजनहोमवलिदानादि का. यमिति राजमार्तण्डे । नवम्यां च जपं होमं समाप्य विधिवद्वलि. मिति । ब्रह्मवैवर्तपि । अत्रापराहिके काले वलिदानं प्रशस्यते । दशमी वर्जयेत्तत्र नात्र कार्या विचारणेति । तेन नवम्यामुपक्रम्य नव म्यामेव समापयेत् । केचिदष्टमीमारभ्य नवम्यां समापयन्ति । तत्र मूलं शिष्टाचार एव । अत्र डामरतन्त्रे विशेषः । पायसं सर्पिषा युक्तं तिलैः शुक्लैर्विमिश्रितम् । होमयेद्विधिवद्भक्त्या दशाशन नृपोत्तम । रुद्राध्याये यथा होम मन्त्रेणानेन साधयेत् । रुद्रयामलेऽपि । प्रधानद्रव्यमुद्दिष्टं पापसान्नं तिलास्तथा । किंशुकैः सर्पपैः पूगैर्लाजादूर्वान्कुरैरपि। यवैर्वा श्रीफलैर्दिव्यैर्नानाविधफलैरपि । रक्तचन्दनखण्डैश्च गुग्गुलैश्च मनोहरैः । प्रतिश्लोकं च जुहुयात् सर्वव्याणि च क्रमात् । पारणा तु नवम्या कार्या तदुक्तं रुद्रयामले । अष्टम्यां जागरं कुर्यानवम्यां पारणा तथा ।
आश्विनमासः। दशम्यां च विसर्गः स्यादभिषेकश्च माधव । नवम्यां च विशालाक्ष कार्या होमादिका किया। पारणं च प्रकुर्वीत देवीपूजनपूर्वकमिति । तस्मात्तु पारणं कुर्यान्नवम्यां विवुधाधिप । नवम्यां पारिता देवी कुलवृद्धि प्रयच्छति । दशम्यामिश्रिता यत्र पारणे नवमी भवेत् । सप्तजन्मकृतं पुण्य तत्क्षणादेव नश्यति । तथा-योमोहाल्पारणं कुर्याद्दशमी दिवसे विभो । तद्राष्ट्र नाशमायाति दुर्मिक्षादि भयं भवेत् । नृपहीनं भवेद्राष्ट्र दशम्यां पारणे कृते । तस्मात्तु पारणं देव नवम्यां भक्तितत्परः । नवमीवृद्धिश्चत्तदा पूर्वदिने पारणं कार्य, न तु परदिने इत्यादि । अत्र केचिद्दशम्याम. प्याहुः। माश्विने मासि शुक्ले तु कर्तव्यं नवरात्रकम् । प्रतिपदादि क्रमेणैव यावच नवमी भवेदिति हेमाद्रि वचनात् । भविष्ये । तस्मा- दियं महापुण्या नवमी पापनाशिनी । उपोप्या सुप्रयत्नेन सततं सर्वपार्थि- वैरिति । नवमी तिथिपर्यन्तं वृद्ध्या पूजाजपादिकम् । इति । मादिशब्देनोप- वासादि । एवं तूमयविधायकवाक्यानां स्वकुलपरम्पराचारतो व्यवस्था । येनास्य पितरो याता इति मनुवचनात् । पारणं च सूतकेऽपि कार्यम् । रुद्रयामले । सूतके पारणं कुर्यान्नवम्यां होमपूर्वकम् । तदन्ते भोजयोविमान दानं दद्याचशक्तितः । इति । काम्योपवासे प्रक्रान्ते अन्तरा- मृतसूतके । तत्र काम्यत्रतं कुर्यादानार्चनविवर्जितमिति माधवीये- कौर्मोक्तश्च । एवं रजोदर्शनमध्येपि कार्यम् । सत्यवतः-प्रारब्धदीर्घ- तपसा नारीणां यद्रजो भवेत्। न तत्रापि व्रतस्यस्यादुपरोधः कथश्चनेति । एतच सधवापरम् । विधवायास्तु त्रिरात्रमध्ये भोजननिषेधादिति केचित् । तन्न । निषेधस्य रागप्राप्तभोजनगोचरस्वेन वैधपारणविषयत्वायो. गात् । अन्ये तु-नियमस्था यदा नारी सम्पश्येदन्त। रजः । उपोष्यव तु ता रात्रीः स्नात्वा शेष व्रतं चरेदित्यङ्गिरोवचनात् पञ्चमेऽ हनि पारणं कार्यमित्याहुः इति महानवमी निर्णयः। अथ विजयादशमी । सा शमीपूजा यात्रादौ नक्षत्रोदय- व्यापिनी ग्राया। तदुक्तं रत्नकोशे । ईषरसन्ध्यामतिक्रान्तः किश्चिदुद्भिः भतारकः । विजयो. नाम कालोऽयं सर्वकार्यार्थसाधकः । इति । दिनद्वये तिथिनिर्णय तद्व्याप्तौ पूर्वव । या पूर्व नवीयुक्ता तस्या पूज्यापराजिता । क्षेमार्थ विजयार्थं च पूर्वोक्तविधिना नरैः। नवमीशेषयुक्तायां दशभ्यामपराजिता । ददाति विजयं देवी पूजिता जयवर्दिनी । एकादश्यां न कुर्वीत- पूजनं चापराजितमिति स्कान्दोक्तेश्च । दशमी यः समुल्लङ्घय प्रस्थानं कुरुते नरः । तस्य सम्वत्सरं राज्ये न कोपि विजयो भवेत् । दिनद्वये तार- कोदयकालाभावे परदिने एकादशमुह यात्रादि कार्यम् । आश्विनस्य सिते पक्षे दशम्यां सर्वराशिषु । सायंकाले शुभा यात्रा दिवा वा विजय. क्षणे । एकादश मुहूर्वोऽपि विजयः परिकीर्तितः। तस्मिन् सर्वैविधातव्या यात्रा विजयकाशिमिः । इति भृगुक्तः । परदिने एकादश मुहर्वेदशभी. व्याप्त्यभावेऽपि श्रवणयोगश्वेत्तदैव यात्रा कार्या । उदये दशमी किञ्चित् सम्पूर्णैकादशी यदि । श्रवणः यदा काले सा तिथिविजयामिधा । इति मदनरत्नेदक्षोक्त। तथा च कश्यप। श्रवणः तु पूर्णायां काकुस्थः प्रस्थिवो यतः । उल्लङ्घयेत्तु सीमानं तद्दिनः ततो नरः । अत्र कृत्यं भविष्ये । शमी सल्लक्षणोपेतामाशानाशा प्रतिष्ठिः ताम् । सम्प्रार्थितां च सम्पूज्य ईशानी सम्मुखो भवेत् । शमी शमयते पापं शमी लोहितकण्टका । धारयव्यर्जुनास्त्राणां राम सम्वाददायिनी । करि- ष्यमाणयात्रायां यथाकालं सुखं मम । तत्र निर्विघ्नकी स्वं भव श्रीराम- पूजिते । गृहीत्वा साक्षतामादों शामूलगतां मृदम् । गीतवादित्रनिषै. रानयेत्स्वगृहं प्रति । ततो भूषणवस्त्रादि धारयेत् स्वजनैः सह इति दिक् । इति विजयादशमी । आश्विन शुक्लद्वादश्यां द्विदलव्रतम् । आश्विनीपौर्णमासी परा ग्राह्या । आश्वयुजी कर्मणि तु पूर्वाहव्यापिनी दैवकर्मत्वात् । हेमाद्रिलिखितमादित्यपुरा णं पूर्णिमारम्भे प्रमाणम् । अत्रैव ब्रीद्याश्रयणम् । तच शेषपर्वणि कार्यम् । इदं च मलमासे न कार्यम् । आप्रयणादि कार्यमेव । अस्याकरणे प्रायश्चितम्-कारिकायाम् । मकतामयणोऽश्नीयानीवरान् कार्तिकमासः। ३५ ३ यदि वै नरः । वैश्वानराय कर्तव्यश्चरुः पूर्णाहुतिस्तथेति । आश्विन कृष्णतृतीयायां ललितादेव्या यात्रा काशीखण्डे -आश्विनकृष्णतृती- यायां ललिता प्रतिपूज्य वै । नारी वा पुरुषोवापि लभते वान्छितं फलम् । आश्विनपौर्णमास्या कोजागरव्रतम् । तत्र निशीथव्यापिनीति लिङ्गपुराणे। आश्विन शुक्लैकादश्यां पौर्णमास्यां वा कार्तिकस्नानारम्भ। विष्णुरहस्ये-प्रारभ्यैकादशी शुक्लामाश्विनस्यैव मानवः । प्रातःस्नानं प्रकुर्वीत यांवरकार्तिकमास्करः। विष्णुना तुतुलासंक्रान्तिमारभ्य कर्तव्यमि- युक्तं पूर्वमेव । पूर्णिमाश्वयुजेमासि पौर्णमास्यां समाहितः । इत्युक्त्वा "मास समन परया च मक्त्या समाप्यते कार्तिकपौर्णमास्यामिति" हेमाद्रिः। इदं कार्तिकस्नानं काशीस्थ पञ्चनदेऽति प्रशस्तम् । किरणा- धूतपापा च पुण्यतोया सरस्वती । गंगा च यमुना चैव पञ्चनद्यः पुनन्तु माम् । शतं समास्वपस्तप्त्वा नरैर्यत्प्राप्यते फलम् । तत् कार्तिके पञ्चनदे सकृत् स्नानेन लभ्यते । इति काशीखण्डात् । इति ॥ इति श्रीमद्भहोजिदीक्षित विरचिते तिथिनिर्णये आश्विनमासः समाप्तः। अथ कार्तिकमासः। तत्र स्कान्दे-कार्तिके मासि विप्रेन्द्र धात्रीवृक्षोपशोभिते । वने दामोदर विष्णुं चित्रान्नस्तोषयेद्विभुम् । मूलेन पायसेनाथ होमं कुर्याद्विचक्षणः । ब्राह्मणान् भोजयेत्पश्चात् स्वयं भुञ्जीत बन्धुभिरिति निर्णयामृते । तुलायां तिलतैलेन सायङ्काले समागते । आकाशदीपं यो दपान्मासमेकं हरिप्रियम् । महतीं श्रियमा. प्नोति रूपसौभाग्यसम्पदमिति । तत्र दीपदानमन्त्र:-दामोदराय नमसे नमोऽनन्ताय वेधसे । प्रदीपं ते प्रयच्छामि तुलस्या लोलया सह । इति ।
तिथिनिर्णये कार्तिककृष्णचतुर्थी करक चतुर्थी। सा चन्द्रोदयव्यापिनी प्राया । मत्र स्त्रीणामेवाधिकारः । तासामेव फलश्रुतेः । कार्तिककृष्ण द्वादशीवत्सबादशी। सा पूर्वयुता । वत्सपूजा वटश्चैव कर्तव्या प्रथमेऽहनि । इति स्मृत्यन्तरात् । युग्मवाक्याच्च । भविष्ये-सवत्सा तुल्यवर्णां च शालिनी गां पयस्विनी। चन्दनादिभिरा. लिप्य पुष्पमालाभिरर्चयेत् । तत्राय॑मन्त्रः । क्षीरोदार्णवसम्भूते सुरासुरनमस्कृते । सर्वदेवमये मातहाणाय नमोनमः । इत्यध्ये दद्यात् । बहिने तैलपक्वं च स्थालीपाकं युधिष्ठिर । गोक्षीरं गोघृतं चैव दधि तक्रं च वर्जयेत् । इति भविष्योक्त। अथ दीपावली । ज्योतिर्निवन्धे नारदः । आश्विने कृष्णपक्षे तु द्वादश्यादिषु पञ्चसु । तिथिषूक्तः पूर्वरात्रे नृणां नीराजनो विधिः । नीराजयेयुर्देवास्तु विप्रान् गाश्च तुरनमान् । ज्येष्ठान्श्रेष्ठान्जष. न्यांश्च मातृमुख्यास्तु योषितः । कार्तिककृष्णचतुर्दशी नरक चतुर्दशी। सा अभ्यने-चन्द्रों- यव्यापिनी ग्राह्या । कार्तिकस्यासिते पक्षे चतुर्दश्यां विधूदये । अवश्य- मेव कर्तव्यं स्नानं नरकभीरुभिः । इति निर्णयामृते भविष्योक्तः । ब्राह्म-आश्वयुक् कृष्णपक्षस्य चतुर्दश्यां विधूदये । कर्तव्यं तिलतैलेन स्नानं नरकभीरुभिरिति । दिनद्वये वित्ये चतुर्दशी सत्वे पूव । पूर्वविद्ध- चतुर्दश्यां कार्तिकस्य सितेतरे। पक्षे प्रत्यूषसमये स्नानं कुर्यात् प्रयत्नतः। इति स्मृतिदर्पणोक्तेः । निर्णयामृते तु परैव । दिनद्वये चन्द्रोदये चतुर्दश्यभावे तु चतुर्दश्यां चतुर्थयामे स्नानमिति दिवोदासनि- बन्धे स्मृतिदर्पणेऽपि-चतुर्दशी याऽश्वयुजस्य कृष्णा स्वास्यसंयुक्ता च भवेत्प्रभाते । स्नानं समभ्यज्य नरैस्तु कार्य सुगन्वतैलेन विभूतिकामैः । इति। तथा-तैले लक्ष्मी जले गङ्गा दीपावल्याश्चतुर्दशीम् । पाप्येति शेषः। तथा च नारायणः । तथा कृष्णचतुर्दश्यामाश्विनेऽकोंदयात् पुरा। या- मिन्याः पश्चिमे यामे तैलाभ्यो विशिष्यते इति । मृगाहोदयवेलाय त्रयो- - कार्तिकमासः। - दश्यां यदा भवेत् । दशैं वा महलस्नानं दुःखशोकभयपदम् । इति का. लादर्श त्रयोदशी निषेधात् । यद्यपि-त्रयोदशी यदा प्रातः क्षयं याति चतुर्दशी । रात्रिशेषेत्वमावास्या तदाभ्यनेत्रयोदशीति वचनं तद्धे. माद्रिनिर्णयामृतादिभिरलिखितस्वान्निर्मूलम् भतएवं सर्वज्ञनारायणेन चतुर्थयाममाने स्नानमुक्तम् इति । ज्योतिनिध. धे नारदः । ईषासितचतुर्दश्यामिन्दुक्षयतिथावपि । ऊर्जादौ स्वातिसं. युक्ते तदा दीपावली भवेदिति । अमावास्या चतुर्दश्योः प्रदोषे दीपदान तः। यममार्गान्धकारेभ्यो मुच्यते कार्तिके नर इति दीपदानमुक्तम् । अत्र यमतर्पणं कार्यमिति ब्रामे । जीवपितृकेणापि कार्यमिति तत्रै- वोके। इति चतुर्दशी अथ कार्तिकामावास्यायां कृत्यमुक्तम् । आदित्य- पुराणे । दिवातत्र न भोक्तव्यमृते वालातुराजनात् । प्रदोषसमये लक्ष्मी पूजयित्वायथाक्रमम् । दीपवृक्षास्तथा कार्याः शक्त्या देवगृहेषु च । ब्राह्मणान् मोजयिस्वादौ सम्मोज्य च बुभुक्षितान् । स्वलंकृतेन भोक्तव्यं नववस्त्रोपशो- मिना । दीपमन्या-त्वं ज्योतिः श्रीरविश्चन्द्रो विद्युत्सौवर्णतारकः । सर्वेषां ज्योतिषां ज्योतिदीपज्योतिश्रतेनमः । मन्त्रेणानेन कमला दीप. हस्तानियो द्विजाः । देवा प्रबोधयेयुश्च सतः कुर्याश्च भोजनम् इति । इयं प्रदोषव्यापिनी प्राथा। दिनद्वयसस्वासत्वे परा । युग्मवाक्यात् । पूर्वेपुरेव प्रदोषव्यापिने पूर्वा, श्राद्धेतु परैव । ज्योतिर्निवन्धे-तुलासंस्थे सहस्रांशी प्रदोषे भूतदर्शयोः । उस्काहस्ता नराः कुर्युः पितॄणां मार्गद. शनम् । इत्यमावस्था । कार्तिक शुक्ल प्रतिपत्पूर्वा । पूर्वविद्धा प्रकर्तव्या शिवरात्रिर्वले. दिनमिति बृहधमोक्तेः । मत्र तैलाभ्यङ्गो नित्यः । वत्सरावौ वसन्तादौ वलिराज्ये तथैव च । तैलाभ्यामकुर्वाणो नरकं प्रतिपद्यत इति वृद्धव. शिष्ठोक्तः । हेमाद्रौ स्कान्दे च-प्रातगावर्द्धनः पूज्यो धूतं चापि समाचरेत् । पूजनीयास्तथा गावस्त्याज्ये वाहनगोधने । गोकीडनादौ तिथिनिर्णय यद्यपि प्रातःकालव्यापिनी उतरैव प्रतिभाति । तथापि "सोमो राजा पशून् हन्ति" इति देवळवचनात् परविद्धा चन्द्रदर्शनवती निषिद्धत्वादविद्धव ग्राह्या । प्रतिपदर्श संयोगे क्रीडनं तु. यवां मतमिति तेनैवोक्तत्वाच द्वितीय दिने चन्द्रदर्शनाभावे गोक्रीडनादावुत्तरैव । तन्त्र मन्त्रः । गोवर्द्धन धराधार गोकुलनाणकारक । वहुवाहुकृतच्छाय गा- कोटिप्रदो भव इति ब्राझे । तस्माद्यूतं प्रकर्त्तव्यं प्रभाते तत्र मानवैः । तस्मिन्द्यूत जयो यस्य तस्य संवत्सरं जयः । पराजयो विरुद्धश्च लाभना- शकरो भवेत् । दयिताभिश्च सहितैर्नया सा च भवेनिशा । इति प्रतिपत्। कार्तिक शुक्ल द्वितीया यमद्वितीया । सा पूर्वविद्धा अपराह- व्यापिनी . प्राधा । तदुक्तं स्कान्दे-ऊर्जे शुक्ले द्वितीयायां अपराहेऽर्च- येद्यमम् । स्नानं कृत्वा भानुजायां यमलोकं न पश्यति ।ऊर्जे शुक्ल द्विती. यायां पूजितस्तर्पितो यमः । वेष्टितः किंकरैर्हृष्टैस्तस्मै यच्छति वाञ्छितम् । भविष्ये-कार्तिक शुक्लपक्षस्य द्वितीयायां युधिष्ठिर । यमो यमुनया पूर्व भोजितः स्वगृहेऽर्चितः । अतो यमवितीयेपं त्रिषु लोकेषु विश्रुता । तस्या निजगृहे विप न भोक्तव्यं ततो नरैः। स्नेहेन भगिनी- हस्ताद् भोक्तव्यं पुष्टिवर्धनम् । दानानि च प्रदेयानि भगिनीभ्यो विषा- नतः । स्वर्णालङ्कारवानान्नपूजासस्कारभोजनैः । सर्वा भगिन्यः सम्पूज्या अभावे प्रतिपन्नकाः । प्रतिपन्नका भगिनीस्थाने मानिता । ब्रमाण्डे-या तु भोजयते नारी भ्रातरं युग्मकेतिथौ । अर्चमित्वापि ताम्बूलैर्न सा वैधव्यमाप्नुयात् । भ्रातुरायुः क्षयो राजन्न भवेत्तत्र कहिंचित् । इति यमद्वितीया। कार्तिकशुक्लनवमी कूष्माण्डनवमी । तत्र कूष्माण्डदान- मुक्तम् । इयं युगादिः पूर्वाहिकी प्राशा । शुक्लपक्षस्थत्वात् । कार्तिक शुक्लैकादश्यां भीष्मपञ्चकव्रतमुक्तम् । नारदीये- पञ्चाहं पञ्चगव्याशी भीष्मायायं च पञ्चसु । अहःस्वपि तथा दद्यान्म- - कार्तिकमासः। न्त्रेणानेन सुव्रत । सत्यप्रताय शुचये गानेयाय महात्मने । भीष्मायतइदा. म्यय॑माजन्मब्रह्मचारिणे ।वैयाघ्रपदगोत्रायेति वाऽध्य दत्वा तर्पण कार्यम् । इदं व्रतमेकादश्यादिपंचदिनात्मकम् तिथिहासेऽपितस्यानुष्ठानमिति । कार्तिक शुक्लबादश्यां रेवतीनक्षत्रयोगरहिताया पारणं कुर्यात् । मामाकासित पक्षेति वचनात् । यदा तु रेवतीयो- गरहिता द्वादशी न लभ्यते, तदा रेवत्यन्तपादं वर्जयित्वा पारणं कुर्यात् । मस्यामेव रात्री देवोत्थापनमुक्तम् । ब्राह्म-एकादश्यां तु शुक्लायां कार्तिके मासि केशवम् । प्रसुप्तं बोधयेद्रात्रौ भक्तिश्रद्धासमन्वितः । रामार्चनचन्द्रिकायां तु बादश्यामुक्तम् । पारणाहे पूर्वरात्रे घण्टादीन्वादयन्मुहुरिति । अस्य देशाचारतो व्यवस्था । उत्था- पनस्तोत्रा-वाराहे-ब्रह्मेन्द्ररुद्रामि कुवेरसूर्यसोमादिभिवन्वित वन्द. नीय । बुद्ध्यस्व देवेश जगन्निवास मन्त्रप्रभावेण सुखेन देव । इयं तु द्वादशी देव प्रबोधार्थ विनिर्मिता। स्वयैव सर्वलोकानां हितार्थ शेष- शायिना । उत्तिष्ठोचिष्ठ गोविन्द त्यज निद्रा जगत्पते । खयि सुप्ते जग- नाथ जगत्सुप्तं भवेदिदम् । उस्थिते चेष्टते सर्वमुत्तिष्ठोचिष्ठ माधव । गता मेघा वियचैव निर्मलं निर्मला दिशः। शारदानि च पुष्पाणि गृहाण मम केशव । इदं विष्णुरिति प्रोक्तो मन्त्र उत्थापने हरेरिति । अस्थामेव चातुर्मास्यव्रतसमाप्तिः । चतुर्षा गृप वै चीर्ण चातुर्मास्यव्रतं नरैः । कार्तिक शुक्लपक्षे तु द्वादश्यां तत्समापयेत् । मन्त्रस्तु भारते-इदं ब्रतं मया देव कृतं प्रीत्यै तव प्रभो । न्यूनं सम्पूर्णतां यातु त्वत्प्रसादाजनार्दन । इति । इदं शुक्रास्तादावपि कार्यम् । भाशौचे तु पूजादिकमन्येन कारयेत् । कार्तिकद्वादशी पौर्णमासी च मन्वादिः । सा पौर्वा - ढिकी प्राया। कार्तिक शुक्ला चतुर्दशी वैकुण्ठशतुर्दशी । सा रात्रि- व्यापिनी प्राया । तदुक्तं हेमाद्रौ भविष्ये। कार्तिकस्य सिते पक्षे तिथिनिर्णये च चतुर्दश्यां नराधिप । सोपवासस्तु सम्पूज्य हरि रात्री जितेन्द्रियः । अस्यामेव यदा विश्वेश्वरप्रतिष्ठादिनस्वात तत्प्रीतये उपवासादि क्रियते, तदा निशीथव्यापिनी अरुणोदयव्यापिनी ग्राह्या । दिनद्वययोगे परा । तदुक्तं-सनत्कुमारसंहितायाम्-वर्षे हेमलम्बाख्ये मासेश्रीमति कार्तिके। शुक्लपक्षे चतुर्दश्यामरुणाभ्युदयं प्रति । महा- देवतिथौ ब्राझे मुइर्ते मणिकर्णिके । स्नात्वा विश्वेश्वरो देव्या विश्वे. श्वरमपूजयत् । सङ्घपं ज्योतिषस्तत्र प्रतिष्ठाख्यं तदाऽकरोत् । स्वयमेव स्वमात्मानं चरन् पाशुपतव्रतम् । इति । पूर्वदिने कृतोपवास:, अरुणोदये मणिकर्णिक्या स्नात्वा विश्वेश्वरं पूजयेत् । ततः प्रभाते कि. मले कृत्वा पूजां महाद्भुताम् । दण्डपाणेमहापाम्नि वनेऽस्मिन्कृतपारणः । श्रीमद्भवानीसदनं सम्प्रविश्येदमुत्तममिति । काशीखण्ड-कार्तिकस्य चतुर्दश्यां विश्वेशं यो विलोकयेत् । स्नात्वा त्रिपथगामिन्यां न तस्य पुनरागमः । इति । अथ कार्तिकपौर्णमाप्ती। सा च सामान्य निर्णयापरेति दी- पिकोक्त। अत्रकर्तव्यम्-काशीखण्डे -कार्तिक्यां कृत्तिकायोगे य: कुर्यात्स्वामिदर्शनम् । सप्तजन्म भवेद्विषो घनान्यो वेदपारगः । इति । त्रिपुरोत्सवोप्यत्रैवोक्तः । भविष्ये । पौर्णमास्यां तु स. ध्यायां कर्त्तव्यः त्रिपुरोत्सवः । दद्यादनेन मन्त्रेण दीपाश्चैव सुरालये । कोटाः पतका मशकाश्च वृक्षा जले स्थले ये विचरन्ति जीवाः । दृष्टा प्रदीपं नहि जन्मभागिनो भवन्ति नित्यं श्वपचा हि विप्राः । इयं त्रिपुरोत्सवे सन्ध्याकालव्यापिनी ग्राह्या । इति श्रीमद्भवोजि दीक्षितविरचिते तिथिनिणेये कार्तिक मासः समाप्तः ।
मार्गशीर्षमासः। अथ मार्गशीर्षः। मार्गशीर्षकृष्णाष्टमी कालाष्टमी । सा रात्रिव्यापिनी प्राथा। मार्गशीर्षसिताष्टम्यां कालभैरवसन्निधौ । उपोष्यजागरं कुर्वन् सर्वपापैः प्रमुच्यत इति काशीखण्डात् । रुद्रप्रतेषु सर्वेषु कर्तव्या सम्मुखीतिथिरिति ब्रह्मवैवर्तात्-रात्रिव्रतावगते दिनद्वयें - शतोव्यासावुत्चरैव, भैरवोत्पत्तेः प्रदोषकालीनत्वादिति केचित् । तम । शिवरहस्ये मध्याह्ने भैरवोत्पत्तेः श्रवणात् । तथा च-नित्ययात्रादिकं कृत्वा मध्याहे संस्थिते रवी । इत्युपक्रम्य ब्रह्मणा रुद्रावगतेरुक्तम् । तदोग्र. रूपावनधान्मत्तः श्रीकालभैरवः । माविरासीचदालोकान् भीषयन्नखिलानपि । कृत्वा च विविधां पूजां महासम्भारविस्तरैः । नरो मार्गासिताष्टम्यां वार्षिक विघ्नमुत्सृजेत् । तीर्थ कालोदके स्नात्वा कृत्वा तर्पणमस्वरः । विलोक्य कालराजानं निरयादुद्धरेपितॄन् । इति । तेन मध्याहव्यापिनी युक्ता इत्युक्तम् । तथापि-शिवरहस्ये उत्तोपवासादानजागरणैः, रात्री यामचतुष्टयपूजादि बहुकृत्याभिधानाद्रात्रिव्यापिनी पूर्वविद्धव प्राधा । कृष्णपक्षवारकालव्यापित्वाच्च । दिनद्वये तव्याप्तौ पूर्वव । मार्गशीर्ष शुक्लपञ्चमी नागपञ्चमी । शुक्ले मार्गशिरे पुण्या श्रावणे नागपञ्चमी । स्नानदानैर्वहुफला नागलोकप्रदायिनी, इति हेमा. द्रौ स्कान्दे च । इयं परा, पञ्चमी नागपूजायामिति वचनात् । मार्गशीर्षशुक्लषष्टी चम्पाषष्ठी । मार्गे भाद्रपदे शुक्ला षष्ठी वैधृतिसंयुता। रविवारेण संयुक्ता सा चम्पेतीह कीर्तिता इति मल्लारि- माहात्म्ये । तपा-मार्गशीर्षेऽमले पक्षे षष्ठ्या वारेंऽशुमालिनः। शतता. रागते चन्द्रे लिए स्यादृष्टिगोचरमिति । इयं योगविशेषेण पूर्वा, परा वा प्राद्या । तदभावे सप्तमीयुता, युग्मवाक्यात् । इयमेव स्कन्दषष्ठी। सा पूर्वयुता। अथ चतुर्दशी। काशीखण्डे-मार्गशुक्लचतुर्दश्यां कपर्दी- श्वरसन्निधौ। स्नात्वाऽन्यत्रापि मरणानपिशाचत्वमाप्नुयात् । मत्रप्राप्त. पैशाच्यस्य स्वपित्राघुद्देश्यकत्वे च पार्वणवादपराव्यापिनी । अज्ञात- ६ ४२ तिथिनिर्णये - नामापशाचायुद्देश्यकत्वे खेकोदिष्टत्वान्मध्याहव्यापिनी प्राया। कुलधर्मा- दावुत्तरैव । चैत्रनमोगतेतरसिता स्यादृर्द्धमिति दीपिकोक्तेः । मस्या साम्वत्सरीयात्रा ये करिष्यन्ति मानवाः । तीर्थप्रतिग्रहापापा- मिस्तरिष्यति ते नराः इति । अथ मार्गशीर्षपौर्णमास्यां दत्तात्रेयोत्पत्तिः । तदुक्तं स्कान्दे. सह्याद्रिखण्डे-मार्गशीर्षे तथा मासि दशमेऽह्नि सुनिर्मले। मृगशीर्ष- युतेपार्णमास्यां ज्ञस्य च वासरे। जनयामास देदीप्यमानं पुत्रं सती शुभम् । तं विष्णुमागतं ज्ञात्वा अत्रि माऽकरोत् स्वयम् । दचवान्स्वस्य पुत्रवादत्ता- त्रेय इतीश्वरः । इति । इयं प्रदोषव्यापिनीति वृद्धाः । अत्रैव प्रत्यक- रोहणम् । तत्र गृह्य-मार्गशीयांप्रत्यवरोहणं चतुर्दश्यां पौर्णमास्या वेति । अमान्तमासपक्षेण मार्गशीर्षकृष्णाष्टमी । अष्टका हेमन्तशिशिरयोश्च- तुर्णामपरपक्षाणामष्टमीष्वष्टका, इत्याश्वलायनवचनात्। तत्पूर्वदिने सप्त- मीषु पूर्वेधुरष्टकासूत्तरेधुरन्वष्टकासु च श्राद्धमुक्तम्-कालादर्श-मार्गशीर्षे च पौषे च माधे प्रौष्ठे च फाल्गुने । कृष्णपक्षेषु पूर्वयुरन्वष्टक्यं तथाष्टकर इति । अत्राष्टमी अपरालव्यापिनी ग्राह्या । सप्तम्यन्वष्ट काश्राद्धयोस्तु- अष्टभ्यनुरोधेन निर्णयः। मार्गादिषु मलमासे सति तत्रान्वष्टका न कार्या । इति श्रीमहोजिदीक्षित विरचिते तिथिनिर्णये मार्गशीर्षमासः समाप्तः। अथ पौष:-पौषे माघे च अमायां योगविशेषेणार्धोदयः । अमापातश्रवणैर्युक्ताचेत्पौषमाषयोः । अघोंदयः स विज्ञेयो सूर्यपर्वशता- धिकः । दिदैव योगः शस्तोऽयं न तु रात्रौ कदाचन । स्कान्दे-अद्भेदये तु सम्प्राप्ते सर्व गङ्गासमं जलं। शुद्धात्मानो द्विजाः सर्वे भवेयुर्बमस- म्मिताः। यत्किश्चिद्दीयते दानं तहानं मेरुसन्निभमिति । प्रसङ्गादन्यद- पि।मासोमसमायोगे श्राद्धं यद्यत्र लभ्यते । तीर्थे कपिलधारेऽस्मिन् गयया पुष्करेण किम् । दिव्यान्तरिक्षेभौमानि यानि तीर्थानि सर्वशः । तान्यत्र पौषमासः। निवसिष्यति दर्श सोमदिनान्विते इति स्कान्दोक्तः। शङ्खः । अमा. वास्या तु सोमेन सप्तमी भानुना तथा । चतुर्थीमूमिपुत्रेण सोमपुत्रेण- चाष्टमी। चतस्रस्तिथयस्त्वेताः सूर्यग्रहण णसन्निभाः। स्नानं दानं तथा श्राद्धं सर्व तत्राक्षयं भवेत् । पौषकृष्णसप्तमी बौद्ध जयन्ती। पौषशुक्लैकादशी मन्वादिः, पौर्वाहिकी इति । इति श्रीमद्भवोजिदीक्षित विरचिते तिथिनिर्णये पौषमासः समाप्तः। ॥ • - अथ माघमासः । तुलामकरमेषेषु प्रातःस्नायी सदा भवेत् इति माघस्नानमुक्तम् । माघमासे च यः स्नायानरन्तर्येण भारत | पौण्ड- रीकफलं तस्य दिवसे दिवसे भवेत् । ब्रह्मपुराणे । एकादश्यां शुक्ल पक्षे पौषमासे समारभेत् । द्वादश्यां पौर्णमास्यां वा शुक्लपक्षे समापनम् । ततः-स्नानस्यावसाने तु भोज्यद्रव्यं सुसंस्कृतम् । भोजयेद्विजदाम्पत्यं भूषयेच्च सुभूषणैः। दम्पत्योसिसी सूक्ष्मे सप्तधान्यसमन्विते । त्रिंशच्च मोदका देया शर्करा तिलसंयुताः । सौभाग्यद्रव्ययुक्त शूर्पकृत्वेति शेषः । इति चन्द्रिकोक्तः । माघकृष्णचतुर्दश्यां यमतर्पणमुक्तं हेमाद्रौ। अनौम्युदिते काले माघकृष्णचतुर्दशीम् । स्नातः सन्तप्यं तु यमं सर्वपापैः प्रमुच्यते । इति । माघशुक्लतृतीया कल्किजयन्ती। माघशुक्लचतुर्थी तिल चतुर्थी । सा प्रदोषव्यापिनी ग्राह्या । माघशुक्ल चतुर्थयोतु नक्तत्रतपरायणः । ये त्वां ढुंढेऽर्चयिष्यन्ति तेऽा. सुरसुरद्रुहाम्, इति काशीखण्डात् । विधाय वार्षिकी यात्रा चतुर्थी प्राप्य तापसीम् । शुक्लान् तिलान् गुडैर्वद्ध्वा प्राश्नीयाल्लडुकान्बती । इति तत्रैवाक्तेः । तापसी माषी। इयमेव कुन्दचतुर्थी । सा प्रदोषव्या- पिनी प्राधेति कौर्माता तिथिनिर्णये माघशुक्लपञ्चमी श्रीपञ्चमी। इयं माधवमते पूर्वा । हेमाद्रि- मते परा । चैत्रशुक्लपञ्चमी श्रीपञ्चमीति दिवोदासः ॥ माघशुक्लसप्तमीरथसप्तमी।सा अरुणोदयव्यापिनी स्नानादौ प्राया। सूर्यग्रहणतुल्या तु शुक्ला माघस्य सप्तमी । अरुणोदयवेलायां तस्यां स्नानं महाफलमिति विष्णूक्तेः। अरुणोदयवेलायां शुक्ला मावस्य सप्तमी। प्रयागे यदि लभ्येत कोटिसूर्यग्रहैः समेति स्मृत्यन्तराच्च ।दिन- द्वयेऽरुणोदये चेत्पूर्वैव । षण्मुन्योरिति युग्मवाक्याच। भविष्ये। सौवर्णे राजते ताने भक्त्याऽलाबुमये तथा । तैलेन वर्तितव्या महारजनरञ्जिता। समाहितमना भूत्वा दवा शिरसि दीपकम् । भास्करं हृदये ध्यात्वा इम मन्त्रमुदीरयेत् । नमस्ते विष्णुरुपाय रसानां पतये नमः । वरुणाय नमस्ते- स्तु हरिवास नमोऽस्तुते । जले परिहरेदीपं ध्यात्वा सन्तर्प्य देवताः इति- दिवोदासीये। महारजनं कुङ्कुमम् । इक्षुदण्डेन जलं चालयित्वा सप्ता- कंपपत्राणि बदरीपत्राणि च शिरसि निधाय वक्ष्यमाणमन्त्रैः स्नायात् । यद्यज्जन्मकृतं पापं मया सप्तसु जन्मसु । तन्मे रोगं च शोकं च माकरी हन्तु सप्तमीति । अर्घमन्त्रः । सप्तसप्तिवहप्रीत सप्तलोक प्रदीपक । सप्तमी- संहितो देव गृहाणाध्य दिवाकर इति मदनरत्ने । जननी सर्वलोकानां सप्तमी सप्तसप्तिके । सप्तव्याहृतिके देवि नमस्ते सूर्यमण्डले । इति प्रार्थ- येत । लोला रथसप्तम्यां स्नात्वा गङ्गासिसङ्गमे । सप्तजन्मकृतैः पापैर्मुक्तो. भवति तत्क्षणात्। इति काशीखण्डे । गर्ग:-षष्ठी च सप्तमी योगे वारश्चेदंशुमालिनः। योगोऽयं पद्मकोनाम सहस्राग्रहः समः । इति । इयं मन्वादि। माघशुक्लाष्टम्यां भीष्मतर्पणम् । तदुक्तं ब्राह्म-माघे मासि सिताष्टम्यां सतिल भीष्मतर्पणम् । श्राद्धं च ये नराः कुर्युस्ते स्युः सन्तति- भागिनः इति । तर्पणमन्त्रस्तु भारते-भीष्मः शान्तनवो वीरः सत्यवादी जितेन्द्रियः। आभिरद्भिरवाप्नोतु पुत्रपौत्रोचिंता क्रियाम्। वैयाघ्रपदगोत्राय सांकृत्यप्रवराय च । मपुत्राय ददाम्येतज्जलं भीष्माय वर्मणे । वसूनामवता- माघमास:। ४५ राय शन्तनोरात्मजायच । अध्यं ददामि भीष्माय मावास्यब्रह्मचारिणे । ब्राह्मणाद्याश्च ये वर्णा दार्भीष्माय नो जलम् । संवत्सरकृतं तेषां पुण्यं नश्यति सत्चमेति । इदं च जीवपितृकेणापि कार्यम् । माघशुक्लबादशी भीष्मवादशी। इयं पूर्वयुता । युग्मवाक्यात। अथ माघीपौर्णिमा । भविष्ये-वैशाखी कार्तिकी माघी तिथयोऽतीव पूजिताः। स्नानदानविहीनास्ता न नेयाः पाण्डुनन्दन इति। माघपूर्णिमानन्तराष्टमी माघी अष्टका उक्का पूर्वम् । तथा च-चतसृ. ध्वष्टकास्वशक्तस्येयमावश्यकी । एकस्यां वेत्याश्वलायनोक्तः । इयं मन्वादिः। इति श्रीमहोजिदीक्षितविरचिते तिथिनिर्णये माघमासः समाप्तः ॥ फाल्गुनकृष्णाष्टम्यां जानक्योत्पत्तिः । इति । अथ शिवरात्रिः। माघस्य कृष्णपक्षे या तिथिश्चैव चतुर्दशी। शिवरात्रिस्तु सा ख्याता सर्वपापप्रणाशिनी । इदं नित्यं काम्यं च । परात्परतरं नास्ति शिवरात्रिः परात्परम् । न पूजयति भक्त्येशं रुद्रं त्रिभुवनेश्वरम् । जन्तुर्जन्मसहस्रेषु प्रमते नात्र संशयः। इति नित्यत्वमुक्तम् । शिवं च पूजयित्वा तु यो जागर्ति चतुर्दशीम् । मातुः पयोधररसं न पिबेत् स कदाचन । मम मक्तस्तु यो देवि शिवरात्रिमुपोषकः । गणत्वमक्षयं दिव्य- मक्षयं शिवशासनम् । सर्वान्भुक्त्वा महाभोगान् मृतो भूयो न जायते। इति काम्यत्वञ्चोक्तम् । तत्र चतुर्दशी निशीथव्यापिनी प्राथा । माघकृष्णचतुदर्शया- मादिदेवो महानिशि । शिवलिङ्गमभूत्तत्र कोटिसूर्यसमप्रभम् । तत्कालव्या- पिनीग्राह्या शिवरात्रिवते तिथिरिति, ईशानसंहितोक्तेः। नारदी- ये । अर्द्धरात्रयुता यत्र माघकृष्णा चतुर्दशी। शिवरात्रिव्रतं तत्र वाजि- मेघफलं लभेत् । स्कान्वे-महतामपि पापान दृष्टा वै निष्कृतिः पुरा। न तिथिनिर्णये दृष्टा कुर्वतां पुंसां कुहूयुक्तां तिथिं शिवाम् । इति दर्शयोगनिषेधात् । स्मृ. त्यन्तरे । भवेद्यत्र त्रयोदश्यां भूतव्याता महानिशा । शिवरात्रिवतं तत्र कुर्याज्जागरणं तथा । इति। ईशानसंहितायां- व्याप्यारात्रं यस्यां तु लम्यते या चतुर्दशी । तस्यामेव व्रतं कार्य मत्प्रसादार्जिमिनरैः । पूर्वेधुर्वा परेधुर्वी महानिशि चतुर्दशी। व्याप्यासौ दृश्यते यस्यां तस्याँकुर्याद्रतं नरः । शिवलिङ्गाविर्भावकाले व्याप्या ग्राह्या चतुर्दशी । तदूदुर्वाधोन्विता भूता सा कार्या प्रतिभिः सदेति। ममप्रीतिकरी ह्येषा माघकृष्णा चतुर्दशी। महा. निशि ततः कुर्यादिदं प्रोक्तं व्रतं ममेति । दिनद्वये निशीथव्याताकव्याप्तौ वा परैव। मादित्यास्तमये काले अस्तिचेद्या चतुर्दशी। तद्रात्रिः शिवरात्रिः स्यात् सा भवेदुत्तमोत्तमेति कामिकात् । शिवपुराणे-प्रदोषव्यापिनी ग्राह्या शिवरात्रिः शिवप्रियः । रात्री जागरणं यस्माचस्मात्तस्यामुपोषण- मिति । दिवारात्रिव्रतं यच्च एकमेव तिथौ गतं । तस्यामुभययोगिन्यामा चरेत्तद्वतं व्रतीति स्मृतेः । प्रदोषव्याप्त्याधिक्याच्च पूर्वदिन एवं निशीथ- प्रदोषोभयव्याप्तौ पूर्वैव । त्रयोदश्यस्तगे सूर्ये चतसृष्वेव नाडिषु । मृतविद्धा तु या तत्र शिवरात्रित्रतं चरेदिति वायुपुराणात् । त्रयोदशी यदा देवि दिनभुक्तिप्रमाणतः । जागरे शिवरात्रिः स्यान्निशिपूर्णा चतुर्दशी । इति स्कान्दात् । परेधुर्यदि तादृशी चेरसैव । निशाद्वये चतुर्दश्या पूर्वी त्याज्या पराशुभेति कामिकात् । यदापूर्वेधुनिशीथे परेधुश्च प्रदोषे तदा पूव । अर्द्धरात्रात्पुरस्तावेजयायोगो यदा भवेत् । पूर्वविद्धैव कर्तव्या शिवरात्रिः शिवप्रियः इति पामोक्तेः। स्कान्दे-माघकृष्ण चतुर्दश्यां रविवारो यदा भवेत् । भौमो वाऽथ भवेद्देवि कर्तव्यं व्रतमुत्तमम् । शिवयो. गस्य योगे वै तद्भवेदुत्तमोतमम् । भविष्ये-माघमासे चतुर्दश्या कृष्णपक्षे समाहितः। कृत्तिवासेश्वरं लिङ्गं येऽर्चयन्ति विधानतः। ते यान्ति परमं स्थानं सदाशिवमनामयम् । इति । पारणं तु तिथिमध्ये एव कार्यम् । माधवीये-उपोषणं चतु. दश्यां चतुर्दश्यां तु पारणम् । कृतैः सुकृतलक्षश्च लभ्यते वाऽथवा - माघमासः। न वा । ब्रह्माण्डोपरिमध्ये च यानि तीर्थानि सन्ति । संस्नातानि भव. न्तीह भूतायां पारणे कृते । तिथिनामेव सर्वामुपवास व्रतादिषु । तिथ्यन्ते पारणं कुर्यात् विना शिवचतुर्दशीम् । यत्तु-कृष्णाष्टमी रोहिणी च शिवरात्रिस्तथैव च । पूर्वविद्धव कर्तव्या तिथिमान्ते च पारणमिति । स्कान्देऽपि । कृष्णाष्टमी स्कन्दषष्ठी शिवरात्रि चतुर्दशी । एताः पूर्व- युताः कार्या तिथ्यन्ते पारणं भवेदिति, तद्गौणकालपरम् । स्वकाला दुत्तरो गौणः कालः सर्वस्य कर्मणः इति मंडनोक्तः। उभयविधायक- वाक्यानां व्यवस्था तु मदनरत्ने । यदा दिनमध्ये एव चतुर्दशी समा. प्यते तदा तदन्ते । यदा तृतीयप्रहरादूद्धवं तदा चतुर्दश्यामेवेति । इति शिवरात्रिः। मासशिवरात्रिस्तु बहुरात्रिव्यापिनी ग्राह्या । यत्तु प्रदोषव्या- पिनी प्राधेति तत्सन्यस्तविषयम् । तथा च विश्वरूपनिवन्धे नन्दिकेश्वरवचनम् । मोक्षमारतानां च मुनीनामूर्ध्वरेतसाम् । तेषामेव तु सा प्रोक्ता सामावास्या चतुर्दशी । शिवरात्रिव्रतं देव पूजाजप- परायणः । करोमि विधिवदत्तं गृहाणाध्य महेश्वर । नमः शिवाय शान्ताय सर्वपापहराय च । इति प्रतिमासाशिवरात्रिः। माघमासस्थामावास्या मन्वादि। अथ फाल्गुन । फाल्गुनामावास्यायां रुद्रादिपूजोक्ता । लेख्ने फास्शुनप्रक्रमे-मायां तु प्रपूज्याश्च रुद्रोमिः ब्राह्मणास्तथा । मांसोदनैः पोलिकाभिः पूज्यश्चात्मा सबान्धवः इति । मथ श्रवणाचर्कयोगे व्यतीपातः । तथा च शङ्खः। श्रवणाश्विध- निष्ठा नागदेवतमस्तके । यद्यमा रविवारेण व्यतीपातः स उच्यते । तत्र दत्तं हुतं जप्तं सर्व कोटिगुणं भवेत् । इति । नागदैवतमाश्लेषा । मस्तकं मृगशीर्षकम् । फाल्गुनपौर्णमास्यां होलिकोत्सवः । नृपं प्रति नारदधचो. भविष्ये अद्य पञ्चदशी शुक्ला फारगुनस्य नराधिप । अभयं चैव लोकानां फाल्गुनमासः। प्ररक्ष्य तिथिष्वनुक्रमात् । इषु सूर्यनखोद्भुतः पुनर्षटिकाम्यो :घटिकात्रयं शुभम् । गजादितिथिषु इष्वादिघटिकोत्तरं घटिकात्रयं भद्रापुच्छमित्यर्थः । अस्मिन्विषये पूर्णिमोत्तरदिने सार्द्धयामत्रयमिता ततोऽधिका वा प्रतिपद- श्वद्भिस्तदा पूर्णिमोचरप्रतिपदि प्रदोषे होलिका कार्या, नतु पूर्वेयुर्विष्टि- पुच्छे । सार्द्धयामत्रयं पूर्णा द्वितीये दिवसे यदा ।प्रतिपद्वर्द्धमाना तु तदा सा. होलिका स्मृता इति भविष्योक्तः । यातूतरदिने प्रदोषैकदेशेऽस्ति पूर्वरात्रे च भद्रारहिता नैव लभ्यते सा सुतरामुत्तरैव । यदा पूर्वदिने रात्री भद्राव्याता, उत्तरदिने च प्रदोषे चन्द्रग्रहणं, तदा तत्र स्नात्वा कार्या । स्नास्वा कर्माणि कुर्वीत शृतमन्नं च वर्जयेदिति वचनात् । फागुनो मलमासश्चे. च्छुढे मासि होलिका कार्या । स्पष्टमासविशेषाख्याविहितंवर्जयेन्मले, इति वचनात् । पूजामन्त्रस्तु-अष्टकूपाभयत्रस्तैः कृता त्वं होलि वालिशैः । अतस्त्वां पूजयिष्यामि भूते भूतिप्रदा भव । इति । किञ्च-होलिकाग्रहण भावुकायनं प्रेतदाहदिवसोऽत्र पञ्चमः । तत्परं च करिसंज्ञकं दिनं वर्जितं सकल कर्म सूभयम् । अपि च-होलिका ग्रहण भावुकायनं प्रेतदाहमिति पञ्चकं स्मृतम् । तत्परेऽहनि करीषमृत्युकर्मकृत् सर्वगमने विवर्जयेत् । होलिकानां करीषेषु सर्वकर्म विवर्जयेत् । इति । इयमपि मन्वादिः । चैत्रकृष्णप्रतिपदि वसन्तोसवः साचौदायकीप्राया । प्रवृत्ते मधुमासे तु प्रतिपादिते रवौ। इति भविष्योक्तेः । दिनद्वये तयात्वे पूर्वा । क्त्सरादौ वसन्तादौ बलिराज्ये तथैव च । पूर्वविद्धैव कर्तव्या प्रतिपत्सर्वदा बुधैः । इति वृद्धवशिष्ठवचनात् । पत्रविशेषो हेमाद्रौ भविष्ये-चैत्रे मासि महाबाहो पुण्ये तु प्रतिप- दिने । यस्तत्र श्वपचं दृष्ट्रा स्नानं कुर्यान्नरोत्तमः । न तस्य दुरितं किञ्चि- नाधयो व्याघयो नृप इति । तथा--प्रवृत्ते मधुमासे तु प्रतिपादिते रवौ । कृत्वाचावश्यकार्याणि सन्तप्र्य पितृदेवताः । वन्दयेद्धोलिकाममि सर्वदुः खोपशान्तये । मन्त्रश्च-वन्दितासि सुरन्द्रेण ब्रह्मणा शङ्करेण च । मत- स्त्वं पाहि नो देवि भूते भूतिप्रदा भव । इति ।
तिथिनिर्णयः अत्र चूतकुसुमप्राशनमुक्तं तत्रैव पुराणसमुच्यये-वृत्ते तुषारसमये सितपञ्चदश्यां प्रातर्वसन्तसमये समुपस्थिते च। सम्पाश्य चूतकुसुम सहचन्दनेन सत्यं हि पार्थ पुरुषोऽथ समाः सुखी स्यात् । मन्त्रस्तु-चूत- मान्यं वसन्तस्य माकन्द कुसुमं तव । सचन्दनं पिबाम्यद्य सर्वकामार्थ सिद्धये ॥ इति । चैत्रामावास्या मन्वादिः । साचापराहव्यापिनी प्रामा । कृष्णपक्षस्थत्वादिति । इति फाल्गुनमासा समाप्तः । इति पदवाक्यप्रमाणज्ञ लक्ष्मीधरसूरेः सूनुना भट्टोजिदी- चितेन विरचितस्तिथिनिर्णयः समाप्तः । विश्वोऽसौ यस्य वश्यः स्वयमपि सततं भक्तपश्यो यच । साचाल्लक्ष्मीविहीनः क्षपयति जगतां लक्ष्म्यपूर्ति क्षणेन त्रैलोक्यान्तैकहेतुर्हितमति रचयत्यर्चितो योऽचिरेण विष्वक्तं विश्वनाथा प्रणमति शिरसा विश्वनापैकनाथः॥ श्रीविश्वनाथ प्रसीदतु ।
- श्री गणेशाय नमः। श्रीमन्नागोजिमहविरचितः- तिथिनिर्णयः। तिथिद्वैधा, सम्पूर्णा'खण्डा च । सूर्योदयमारभ्य द्वितीयसूर्योदयपर्यन्त सम्पूर्णा । सूर्योदयमारभ्य सूर्यास्तपर्यन्ताप्पहात्रसाध्ये कर्मणि सम्पूर्णा योदयान्मध्याहपर्यन्ता, सापि तावन्मात्रसाध्ये कर्मणि सम्पूर्णेति जटमल्ल विलासः। रात्रिस्तु तत्र विहितकर्मातिरिक्तकमणि निषिद्धा । तदितर खण्डा | तत्र पूर्णायामसन्देहात्खण्डा निर्णया। तत्र निषेधे न सा निर्णया तस्य कालमात्रापेक्षितत्वात् किन्तु विधावेव । मन्वादियुगादिग्रहणवैधृति. व्यतीपातेषु विधिविषयेऽपि तस्कालव्यापितेव । तानि कर्माणिद्विविधानि देवानि पियाणि च । तत्र देवानि-उपवासकभक्तनक्तायाचितवनदान । रूपाणि। बहश्च प्रातःसङ्गवमध्याह्नापरासायाहात्मकः पञ्चधाविभाग एवं प्रायः। तत्रोपवासोऽहोरात्राभोजनपालनरूपः । तदहोरात्रावच्छिर द्वितीयभोजनामावविशिष्टं मध्याह्नभोजनमेक भक्तम् । तादृशमेव प्रदोषमो जनं नकम् । भयाचितलवस्य तादृशमेव सकृद्धोजनमयाचितम् । एक विशेष्यमात्रं मध्याहादिसाध्यम् । विशेषणांशस्त्वहोरात्रसाध्य एव । तत्र यस कर्मणो या काळस्तद्व्यापिनीतिथिस्वत्र कर्मणि ग्राह्येत्युत्सर्गः । तत्र कर्म- कालव्याप्तौ पञ्चपक्षाः । पूर्वयुरेव साकल्येनैकदेशेन वा । परेयुरेव वा : तथा उमयेयुः कास्नेन सा । उभयेयुरेकदेशेऽपि न सा । उभयेयुरे. कदेशेनैवेति । अन्त्येऽपि द्वैषम् । साम्येन वैषम्येणवेति । तत्र या एकत्रैव काल्नेनैकदेशेन वा कर्मकालव्यापिनी सा सैव ग्राह्या । क्वचिदपवादो वक्ष्यते । वैषम्मेण व्याप्तौ यदा याधिककालयोगिनी सा माह्या । साम्येन व्याप्तौ यत्कर्म मध्याहादावेवोपक्रम्य वा मध्याहादावनुष्ठीयमाने कर्मणि साम्येन तदेकदेशस्पर्शस्तेषु तेषु कर्मकालव्याप्तनिर्णयेषु निर्णयो युग्मवा- तिथिनिर्णय क्यादिभिः । तत्र द्वितीयातृतीययोः पूर्वातिथिरुत्तरविद्धा, उत्तरतिथिः पूर्व- विद्धा कार्या। एवं कृष्ण त्रयोदशी चतुर्दश्योरपि । इति दैवकर्मसु निर्णयः। पित्र्ये तु तिथिसाम्ये तद्वृद्धौ वा परा पूज्या । तत्क्षये पूर्वेति । माधवस्तु-तिथिविशेषमुपजीव्य प्रवृत्तशास्त्राणां कर्मकालव्याप्तिशास्त्रात् दुर्वलत्वं यतस्तिथिरङ्गं कर्मप्रधानमतः पूर्वाहवै देवानामिति शास्त्रबोधित त्रिमुहूर्तपञ्चमुहूर्तान्यतररूपपूर्वाहरूपकर्मकालव्याप्त्यैव देवकर्मसु निर्णयः । परदिन एव त्रिमुर्त्तव्याप्तौ क्षयगामित्वे त्रिमुहर्तामपि परां हित्वा पूर्वेयुरेवानुष्ठानम् । वृद्धिगामित्वे सा च परेयुः । इतरेषु तु पक्षेषु पूर्वत्रै. वेति माधवः। ननु प्रतिपद्वितीयायुता, द्वितीयायुता च प्रतिपद्माह्या । एवं चतु- तृतीययोरपि स्मृतिषूक्तम् । एवं च विरोध इति चेन्न । शुक्लपक्षे उद- यगामिन्यास्तिथेः कृष्णपक्षे अस्तगामिन्यास्तिथेधितयाऽविरोधात् । क्व. चित्कर्मविशेषणापि व्यवस्था वक्ष्यते । एवञ्च मानान्तरेण पूर्वस्याः परस्या वा तिथेयत्वे सिद्धे तदहभागे तिथेरभावेऽपि तत्रैव तत्कर्मानुष्ठानम् । उदयास्तगामिन्योः साकल्यस्य देवलेनोक्तः । इदमुदयोचरमस्तापूर्व वा वर्तमान तिथे ह्यत्वम् । साकल्यं च त्रिमुहूर्त सत्वे एव नतु न्यूनत्वे। कचिद्विमुहर्चाया अपि ग्राह्यत्वकथनं त्रिमुहूर्तावश्यं प्राधेत्येतत्परम् । भपिशब्दघटितत्वातद्वाक्यस्य । दानस्नानादौ द्विमुहूर्तानुकल्प इत्यन्ये । भन्स्यात्पूर्व तु त्रिमुर्तसत्तैवापेक्षिता । एवं वेधिकाऽपि त्रिमुहूर्त्तव वधि- का न न्यूना । एवञ्चोत्सर्गतो दिवेव वेधव्यवहारः। क्वचिद्रात्रिकायें रात्रिवेषोऽपि । यदिदमापादितसाकल्येन तत्तकाले तत्तत्तिथ्यमावेऽपि कर्मा. नुष्ठानं तन्मन्वादिग्रहणवैधृतिव्यतीपातकर्तव्यस्नानश्राद्धाद्यातीरक्तविष- यम् । तेषां तु तत्कालावर्तिन्यामपि निर्णयेन प्राप्तानां तवतिथिमध्य. एवानुष्ठानम् । न तत्तत्कालप्रतीक्षा । उपवासे तु-शुद्धत्रिमुहूर्वाधिकायां सत्यप्युत्तरस्यायुग्मत्वे कालव्याप्तिवशात्पूर्वव । या तु शुद्धाप्युत्तरदिने नात्ये- ब, त्रिमुहून्यूना वा साऽयुग्मापि पूर्वैव । परन्तु तस्यां न मुख्योपवासः ।
प्रतिपनिर्णयः। किन्त्वनुकल्पः । न्यूनया वेधेत्याज्यत्वबोधकानि, यानि च त्रिमुहू न्यूनाया अपि पाहत्वबोधकानि, तानि तन्निन्दास्तुतिपराणि एकादशी विषया- णि वा । एकमुलकल्पनालाघवात्' । या तु त्रिमुहूर्तपूर्वतिथिविद्धो- चरदिने त्रिमुहूर्ता सा परयायुग्मत्वे सति परैव । युग्मत्वादुपक्रमकाले सत्वात् । या तुवाशी पूर्वतिथ्या युग्मा सा पूर्वव । युग्मत्वादहोरात्रसस्वाच । अस्तमयवर्तिन्या अपि आपाध साकल्येन सङ्कल्पकालेऽपि सत्वाच । सङ्कल्पश्च-प्रातःकालवर्तमानतिथिमेवकर्मकालयुक्तत्वेनरूपेणाधिकरणत. योलिख्यामुकतिथ्युपवासमहं करिष्य इति । अनेकदिनसाध्येत्वद्यप्र. तितावदन्तं करिष्य इति । स च शङ्खशुक्ताश्मकास्यरूप्यताम्रमयपात्रे साप्रमूलदर्भत्रयफलपुष्पान्विते जलं गृहीत्वा पूर्वदिमुखेनोत्तरदिङ्मुखेन बा जलाशयादितीरे ऐशान्यां जलप्रक्षेपण कार्यः । पात्राभावे हस्तेनापि । मृन्मये तु सर्वथा वर्ण्यम् । उपवासोत्तरदिने च भोजनात्मकं पारणं वत्तत्तिथ्यन्ते सतिसम्मवे पूर्वाद्ध एव कार्यम् । पारणं चोपवासाङ्गम् । भो. येऽहं पुण्डरीकाक्षेति सङ्कपविषयत्वात् । अमाशनरूपप्रतिनिधि विधानाच्च । एवमेकभक्तनक्तादिष्वपीति माधवः । उपवासएवेश्य- न्ये । तिथिनक्षत्रोमयव्रते उभयान्ते पारणम् । यदि तु दिवा विध्यन्तादि- प्रतीक्षया कालो न लभ्यते तदा न तत्प्रतीक्षा, किन्तु दिवैव । घारणपारणाख्ये व्रते रात्रावपि तत् । एवं जन्माष्टमीव्रतेऽपि । तत्रापि महानिशा वयैव । यामत्रयोर्ध्वगामिन्यां प्रातरेव हि पारणमित्यत्र मूलं चिन्त्यम् । तन्त्र प्रतिपदुपवासे शुक्ला कृष्णा वा पूर्वैव । यद्यपि सूर्यास्तपूर्वत्रिमुहूर्ता. मकसायाहमात्रव्याप्स्यापि पूर्वविद्धा भवति, एषैव संमुखीत्युच्यते तथापि प्रतिपत् तत्पूर्वभावि त्रिमुहूर्तमकापराहेऽपि यदि वर्चते तदेव पूर्वा । अन्यथा तु परैव । उपवासे तरदैवकर्मसु कृष्णा उत्तरविद्धा, शुक्ला तु तेष्वपि पूर्वैव । आपरालिके अन्यथा परैव । माधवस्तु उपवासेऽपि कृष्णोत्तौवेत्याह । उपवासेतरदेवकर्मसु शुक्ला सायाहमात्रव्यापिन्यप्य नु- करप्यत्वेन प्रायतिचाह । इति प्रतिपनिर्णयः । , तिथिनिर्णये अद्वितीया । वितीया तु कृष्णा पूर्वा, शुक्ला परााउपवासा विसर्वदेवेषु। केचित्तु युग्मवाक्यमात्रादरेण सर्वाऽपि द्वितीया परैवेत्याहुः प्रा. च्यायापिकृष्णा उपवासादौ पूर्वा, सा यदि त्रिमुहूर्तात्मके पूर्वाहे प्रविष्टा बेचदैन । नोचेरसापि परैव, यदि परदिचे त्रिमुहर्चास्ति । ततो न्यूनत्वे पर्वथा अभावे वा पूर्वव । एवं या शुक्लापि परदिने त्रिमुहर्तन्यूना नास्त्येव, सापि पूर्वैव । इति द्वितीया। तृतीयातु-रम्भाव्रतातिरिक्तेषूपवासादि सकल दैवकर्मसु चतु- यीयुता प्राधा । द्वितीयाविद्धा च त्याज्या । अत्रैतत्काव्यरम्भा. बतादतिरिक्तगौरीदेवत्यव्रतेषु यद्वितीयायावेधकत्वमुत्तरविद्धाया ग्राह्य- त्वम् , तत्र न त्रिमुहूर्ताग्रहः । किन्वल्पयापि पूर्वतिथ्याविद्धा त्याज्या । उत्तराचारपापि प्राति केचित् । यदा चतुर्थीयुता न किश्चिदपि लभ्यते तदा गौरीव्रतेष्वपि त्रिमुह लाभेचतरेष्वपि द्विती. यायुतापि आया । अन्येत्वत्रापि त्रिमुहीदर एव कलाकाष्ठापीत्यपि सन्दस्वरसादित्याहुः । अन्येषु तु सर्वेषां त्रिमुहर्चादरः । कलाकाठादि- रूपमल्पस्वं च मुहर्तरूपमिति । रम्भावतेतूपवासानुपवासरूपे सर्वत्र द्वितीयाविद्धव वैशाखशुक्लतृतीयायामक्षयतृतीयावतमप्युत्तरवि. दायामेव कार्यम् । यत्तु शुद्धाधिक्येऽपि तृतीयायाः शुद्धामपि हित्वा- ऽधिकाचतुर्थीयुतैव गौरीव्रते प्रायति माधवेनोक्तं, तश्चिन्त्यम् । इति तृतीया। चतुर्थी तु विनायक नाग गौरीव्रतान्युपवासपूजारूपाणि हि- स्वाऽन्यदेवत्ये उपवासे व्रतान्तरे वा पञ्चमीयुतैव । विनायकनाग- बतयोस्तु मध्याहव्यापिनी । तत्रापि वैनायके यदा परेधुरेव मध्याह- व्यातिः, सम्पूर्णाधिका वा तदैव परविद्धा । इतरेषु तु सर्वपक्षेषु तृतीयायुतैव । गौरीयोगप्राशस्त्यात् । नागवते तु पूर्वेधुरेव हल्याप्तौ पूर्वा । अन्ये तु सर्वपक्षेषतरा, पञ्चम्या नागतिथि वेन तयोगस्य तत्र प्राशस्त्यत्वात् । गौरीव्रते तु तद्देवत्यतृतीयायोगस्य प्रल मध्या- पञ्चम्यादि निर्णयः। स्तत्वातृतीयायुतैव । बहुलावतेप्येवमेव । प्रतिमासक्रियमाणसईष्टः चतुर्थीव्रते तु चन्द्रोदयव्यापिनी प्राथा । दिनद्वये तद्व्याप्तौ, तदव्याखौ वा पूर्वविद्धा, मातृविद्धा प्राशस्त्यात् । इति चतुर्थी । पञ्चमी तु-उपवासादिसर्वकर्मसु चतुर्थीविद्धव । नागवते स्कन्दवते च परविद्धव । सापि त्रिमुहूंतचतुर्थीवघे परदिने त्रिमु. इर्तसत्वे । अन्यथा तु पूर्वैव । हेमाद्रिगौडाश्च कृष्णापश्चमी पूर्वा, शुक्ला परेत्याहुः । उपवासे पूर्वा । तदितरकर्मसु परविद्धेस्यपि पक्षान्तरं हेमाद्रिः। इतिपञ्चमी । षष्ठीतु स्कन्दव्रतातिरिक्त सर्वत्रोपवासादौ सप्तमीविदा । अत्र च षण्मुहूर्तपञ्चमीविद्धा त्याज्या, न तु त्रिमुहर्तविद्धापि । स्कन्दषष्ठी तु षण्मुहूर्तपञ्चमीयुता पूव । माधवस्तु त्रिमुहूर्तपश्चमीयुतैव पूर्वा । षण्मुहूर्वतद्युता तु परैवेत्याह । अयं च षण्मुहर्तविद्धषष्ठीनिषेषो नक्कैक भक्तादिव्यतिरिक्तविषय इति हेमाद्रिः। तदपि पूर्वदिनएव मण्या- हादिव्याप्तौ द्रष्टव्यम् । इति षष्ठी। सप्तमी तु-उपवासादि सर्वकर्मसु पूर्वविद्वैव । यदा तु पूर्वेधुर- स्तमयपर्यन्ताषष्ठी, परेधुश्च क्षयवशादष्टम्याविद्धा सप्तमी, तदा गुणा- नुरोधेनलोपस्यान्याय्यत्वानिषेषमतिक्रम्याप्युत्तरविद्धा गौणकालरवेन स्वी. कृत्य तत्रैवोपवासादि सर्व कर्मकार्यमिति सप्तमी। अष्टमीतु शुक्लोतरा, कृष्णा पूर्वोपवासादिसर्वकर्मसुमाया। दूर्वा ष्टमी तु शुक्लापि पूर्वविद्धव । इदश्च प्रतं ज्येष्ठामूलरहितायां भ्राद्रपदशुक्लाष्टः म्यां सिंहस्य सूर्यऽनुदितेऽगस्स्ये च मध्याहव्यापिन्याम् । शुक्ले गस्त्योदये माः विनि सुसन्निहित तत्पूर्वकृष्णाष्टम्यां कार्यम् । भाद्रस्याधिमासत्वेप्येवम् । किंबहुना । अगस्त्ये उदिते वार्षिकस्त्रीब्रतानि निखिलान्यपि न भवन्ति । एवं च पूर्वस्याः कर्मकालस्पर्श सत्यपि वा तत्स्पर्श ज्येष्ठामूलान्यतर. योगे उत्तरा तद्रहिता कर्मकालस्पर्शिन्यपि दुर्वाव्रते प्राधा । मापाथ साकस्यसत्वात् । अनुष्ठानं तु रोहिणमुइएव । नित्यंचेदम् । तेन वर्षे तिथिनिर्णये. ज्येष्ठामूलरहिताया- अलाभस्तत्राप्यनुकल्पेनकभक्तेनानुष्ठान, न तु सर्वथा त्यागः । अन्यद्वारा च पूजा । ज्येष्ठासूलेति निषिद्धकालमात्रोपलक्षणम् । अनिषिद्धेऽपि काले ब्राह्मणेभ्यः पिष्टकदानानन्तरमनमिपक्कभोजन कार्य- मिति निर्णयामृते । निषिद्धकालेवनमिपकनैकमक्तम् । यत्तु भाद्रपद शुक्लाष्टमीमारभ्य कृष्णाष्टमीपर्यन्तं कर्तव्यं महालक्ष्मीव्रतम् तदुपक्रमे इवरव्रतवनवमीयुतायामेव, ज्येष्ठायुतायामसम्भवे. केवलाया- मपि नवमीयुतायाम् । अस्य च सिंहस्थरवौ प्रारम्भा,कन्यास्थे समापनम् । समापनं तु यस्कृष्णाष्टम्यां तश्चन्द्रोदयव्यापिन्यां चन्द्रा- ध्र्यवानोक्तेः। उभयदिने तद्व्याप्तौ कृष्णत्वात् पूर्वा । तत्रापि यदि चन्द्रोदयोत्तरत्रिमुहूर्तस्पर्शिनी तदोत्तरैव । तस्यां च नवमीवेषो हस्तोत्तरदलकत्वं त्रिस्पृशत्वमवमत्वञ्चेति. दोषचतुष्टयं वयंम् । पुष्य- योगे तु प्राशस्त्यमिति निर्णयामृते । अस्यव्रतस्यारब्धस्योक्ते निषिद्ध. काले यदा समाप्तिप्रसक्तिस्तद्वर्षे नास्यारम्भः कार्यः। द्वितीयादि प्रयो- गस्यतु निषिद्धेऽपि समापनम् । यत्तु -भाद्रपदशुक्लाष्टम्यामेवालक्ष्मीनिवृ. तये ज्येष्ठाशब्देनालक्ष्मी पूजा खीणामुक्त्वा तत्र यैव ज्येष्ठायुता सैव प्रामा । अत्र कन्यायोगेन प्राशस्त्यम् । मासस्तुभाद्रश्चान्द्र एव । न तु तद्युततिथ्यन्तरे । अत्राष्टमी परैव । दिनद्वयेऽपि तद्योगे तु मध्या- हादृवं नक्षत्रयोगसने परा। अन्यथा रात्रावपि तद्योगे पूर्ववेति को त् । केवलज्येष्ठ:ऽपि विहितं ब्रतान्तरम् , तत्तु मध्याहोत्तरमपि यहिने ज्येष्ठाव्याप्तिस्तहिनएव । न्यूनत्वे तु पूर्वदिन एव । तिथिविषये तु मध्याहा- दूर्व सत्ताऽवश्यकीत्यन्ये । भानुवारयुतज्येष्ठक्षस्यैव "नीलज्येष्ठेति" नाम केवलनाक्षत्रव्रते इत्येके । भानुज्येष्ठायुताष्टम्या एवेदं नामेति माध- वादयः । यत्तु-मिलितशिवशक्तिदैवस्यत्रतं, तत्र पक्षद्वयेऽपि नवमीयु- ताष्टमी । एतद्विषया एव सप्तमीविद्धा निषेधाः । इत्यष्टमी। ...नवमी पक्षद्वयेप्यष्टमीयुतैव सर्वकार्येषु । रामनवमीव्रते तुम- ध्याह व्यापिनी सा । मध्यहृश्च पञ्चधाविभागेन, त्रेधाविभागेनेति केचित् ।
नवम्यादि निर्णयः। ५७, .. भावनाख्यमुहूर्त एवं वा । अत्र मध्याह्नः कृष्णाष्टम्यां मध्य- रात्रवदिति परे । दिनद्वयेऽपि मध्याहन्यातौ तदव्याप्तौ तदेकदेशव्याप्ती वा या पुनर्वसुयुता सा कार्या । तादृश्या दिनद्वयेऽपि पुनर्वसुयोगे मध्याह्ने तयोगवती ग्राह्या । दिनद्वयेऽपि मध्याहे तद्योगे मध्याहं विहाय, वा तद्योगे सर्वथाऽयोगे चोत्तरैव । इयंसर्वान् प्रति नित्येत्येके । रामो. पवासकान् प्रत्येव तथेत्येन्ये । इति नवमी । दशमी तु दिनद्वयेऽपि कर्मकालव्यापिनी, परा वा पूर्वी वा यथेच्छया ग्राह्या । अन्येषु पक्षेषु पूर्वेति हेमाद्रिः। माधवस्तु व्याप्त्यानिर्णये शुक्लकृष्णवाक्याभ्यां व्यवस्थामाह । दशमी सर्वापि पूर्ववेत्यन्ये । इति दशमी। एकादशी तु सर्वकार्येषु द्वादशीयुतैव । उपवासे तु निर्णेष्यते । इत्येकादशी। द्वादशी तु सर्वकार्येस्वेकादशीयुतैव । तत्र यदेकादशी. द्वादश्युपवासौ खण्डतिथित्वादेकदिने प्राप्नुतस्तदोपक्रमप्रभृति तन्त्रण कार्यों । यदा तु तिथेरखण्डवादुपवासद्वयं नैरन्तर्येण प्राप्नोति तदा प्रक्रान्तद्वादश्युपवातेन .. प्रधानानुरोधादेकादश्युपवासाङ्गपारणं वाषिरवो- पवासद्वयं कार्यम् । अनुपक्रान्त तदुपवासेनतुः नोपक्रमितव्य एवं स इत्येके । माधवस्तु-अद्भिः पारणं कृत्वोपक्रान्तानुपक्रान्तो वा द्वादश्यु- पवासः कार्य एवेत्याह । अन्यतिथिष्वपि नैरन्तर्येणोपवासप्राप्तावयमेव निर्णयः । इति द्वादशी। त्रयोदशी तु कृष्णोपरा । शुक्ला पूर्वा । उपवासादि सर्वकर्मसु या च शुक्ला त्रयोदशी पूर्वा ग्राह्या सा न सायाहमात्रव्यापिनी, किन्त्वापराणिक्याप । कामत्रयोदशी वनापराहिक्यपि पूर्वैव शुक्ला । सा कृष्णापि परदिने न लभ्यते तदा पूर्वाऽपि । इति त्रयोदशी। चतुर्दशी शुक्ला परा । कृष्णा पूर्वा, उपवासे तु पक्षद्वयगापि परैव । रुद्रदेवत्योपवावे तु पक्षद्वयगाप्यापराहिकीचेरपूर्वैव । आपराहिक्य- तिथिनिर्णये 1 लामेकत्रापि परैव । एवं कृष्णापि पूर्वालामे परैव । दमनकपवित्रारो. पणयोस्तु शुक्लेऽपि चैत्रश्रावणचतुर्दश्यौ रात्रियोगिन्यौ पूर्वे एव प्राद्यौ । इदमपि दिवेत्यन्ये । अनन्तचतुर्दशी तु त्रिमुर्गमकं पूर्वाहण्या- पिनी ग्राह्या । दिनद्वयेऽपि तद्व्याप्तौ पूर्वैव । सम्पूर्णत्वात् । दिनद्वयेऽपि तदेकदेशव्याप्तौ यत्र कर्मकालपर्याशा सैव । अन्यथा पूर्वैव । मध्याहगौण- कालमुख्योमयव्याप्तेः। शिवरात्रिस्तु वक्ष्यते । इति चतुर्दशी। पञ्चदशी च शुक्ला कृष्णा च सावित्रीब्रतातिरिक्त सर्वत्रोपवासादौ परविद्वैव प्राधा । सावित्रीवते तु पूर्वविद्धव, शुक्ला च । कन्यामकर- मीनतुलामिथुनस्था तु द्विविधाऽपि तत्तत्पुरस्कारणविहितश्राद्धव्रतादौ रवि. व्रतादौ च पूर्वविद्वैव । अत्र पूर्वविद्धयोः कर्त्तव्यमपि सावित्रीवतं नवम्- इात्मकभूतविद्धयोन कार्यमिति माधवः । अन्ये तु यत्र भूतविद्धा निषिद्धा तत्र तावद्विद्धा न कार्या । सावित्रीत्रतं तु तावद्वेधेऽपि कार्यमे- मेवेत्याहुः । इति पञ्चदशी। .... अथ जन्माष्टमी-सा च पूर्णिमान्तमासपक्षे भाद्रपदकृष्णा. टमी । दर्शान्तपक्षे श्रावणकृष्णा । सा द्विविधा, शुद्धा विद्धा च। तत्र सप्त- मीयोगरहिता शुद्धा, तद्युक्ता विद्धा। अत्र रात्रिमात्रसस्वेऽप्यष्टम्यावि. द्वस्वमिति माधवादयः । अत्र त्रिकालपूजाप्युक्ता । तथाप्यद्धरात्रपूजा प्रधानमिति च । अतएवार्द्धरात्रोऽत्र मुख्यः कालः। मुख्यस्यप्रधानकाल इति हेतोरित्येके । असाधारण्येन निर्णायकत्वात् मुख्यः काल इत्यन्ये । उपवासोऽप्यत्र प्रधानमित्येके । कर्तृसंस्कारकतयानमित्यन्ये । पत्राष्टम्या. रोहिणीमात्रयोगे जयन्तीत्वमिति दाक्षिणात्याः। भर्द्धरात्रे एव तद्योगे जयन्तीत्वमिति प्राच्याः। जयन्तीव्रतं भिन्नमभिन्नं वेति तु न विचार्यते। भेदवादिनोप्युभयसन्निपाते जयन्तीव्रतानुष्ठानस्यैव सम्मतत्वात् । सेयं द्विविधाप्यष्टमी प्रत्येक द्विधा । परदिने सूर्योदयोतरं सती असतीचेति । ताहश्यपि पुनः प्रत्येक द्विधा । रोहिणीसहिता तद्रहिताचेति । तत्र शुद्धा- या विद्धायां च रोहिणीसहितायां तद्रहितायां परदिने सर्योदयोचरम- जन्माष्टमीनिर्णयः। ५९ सत्यां विवाद एव न । द्वितीयदिनेऽष्टम्यभावात् । शुद्धाधिकायाविद्धा. धिकाया अन्यत्रैव रोहिणीयोगे थैव रोहिणीयुता सैव प्राधा । तेन परदिन एव रोहिणीयोगे निशीथव्यापिन्यपि । किंबहुना । शुद्धामपि पूर्वी त्यक्त्वा परैव ग्राह्या । केचित्वेतादृशशुद्धविषये पूर्वद्युरेव व्रतमाचरन्ति, तदाऽग्रहमात्रमित्यन्ये।रोहिणीयोगस्य मुख्यतया निर्णायक- स्वम् । तेन सन्देहे निशीथस्य, तेनापि सन्देहे नवमीयुक्तत्वादि निर्णा- यकत्वं वदन्तः। केचित्तु-अर्द्धरात्रएव मुख्यो निर्णायकः । रोहिणीयोगस्तु तेन निर्णयासम्भवे निर्णायकः । शुद्धायान्तु सन्देहाभावान्नास्यप्रवृत्तिरि- त्याहुः । तन्मते तादृश शुद्धाविद्धाविषये च पूर्वदिन एव व्रतम् । शिष्टा- चारोप्येवमेव । अस्तु वा विद्धाविषये तथा, शुद्धाविषये तु पूर्वत्रैवानु. धानं युक्तम् । या तु शुद्धाषिकपूर्वदिने निशीथे तद्विहाय वा रोहिणीयुक्ता, सा सैवोपोष्या। विद्धाधिका परदिने च रोहिणीयुक्ता दिनद्वये वा रोहिणीरहिता सा पूर्ववोपोष्या।या तु विद्धाधिकान्तरदिने एव निशीथे रोहिणीयुक्ता, सैवोपोष्या। विद्वाधिकार्यदिनद्वयेऽपि निशीथे रोहिणीयोगे परैव । तत्र घटि- काद्वयरूपार्द्धरात्रव्यापित्वे सम्यमेव । अत्र मूलम्-अर्द्धराबादधश्चोर्द्ध- मेकापटिका तथा । रोहिणी चाष्टमी ग्राह्या उपवासवतादिष्विति माध- वीये योगीश्वरः । तदभावे आघन्ताघटीद्वयव्यापिनी प्राया। तत्र सप्तमीविद्वायां पूर्वार्द्धावसानेऽर्घघटीयोगः। नवमीयुतायामुत्सरा घटी योगमपच्छादियोगस्तु दुर्जेयत्वान्ननिर्णायका विद्धाधिकाया दिनद्वयेऽपि निशीथं विहाय रोहिणीयोगोऽनेकैः प्रकारैः पर्षेयुर्निशीदूर्व प्रवृत्तयोस्तिथिनक्षत्रयोः परेयुनिशीथाद गेव समाप्स्ययोः ऋक्षस्य पूर्वेधु- निशीपादांगेव प्रवृत्तस्य परेधुस्तस्मादाक् समाप्तस्य तिथिमात्रस्य वा तथा प्रवृत्तिसमाप्स्या, पषु तत्रैव ब्रतम् । तृतीयप्रकारे केचित्पूर्वत्र व्रतमिच्छन्ति । दिनद्वयेऽपि निशीबव्यापिनी पूर्वयुरेव रोहिणीयुक्ता यदि सदोरैव । केषित्त्वीर विषय पूर्वामिच्छन्ति ते मान्याः। यापि दिन- ।
तिथिनिर्णये द्वयेप्यर्द्धराबादन्यत्र रोहिणीयुक्ता, परेधुरेव निशीथव्यापिनी, सापि परैव । तथा-विद्धाधिकादिनद्वयेऽपि रोहिणी योगरहिता सापि त्रिधा- अन्यतरत्रैव निशीथे वर्तमाना, दिनद्वयेऽपि तादृशी, दिनद्वयेऽपि तदस्पर्शिनी चेति । तत्राद्ये याहशी सा प्राथा । अन्त्ययोस्तूतरैव । वैष्णवास्तु-अर्द्धरात्रव्यापिनीमपि, रोहिणीयुतामपि, सप्तमी- विद्धा परित्यज्य नवमीयुतैव प्राोति दृसिंहपरिचर्यायनुया- पिनः । अस्यामेव नवमीबुधसोमान्यतरयोगेन प्राशस्त्यम् । पारणं तु--केवलाष्टम्युपवासे पारणादिने विध्यनुवृत्तौ तदन्ते कार्यम् । रोहिणीयुक्ताष्टम्युपवासे तु पारणदिने । उभयानुवृत्तावुभयान्ते । तदपि यदि, साद्वययामोपरितनैकयामात्मकमहानिशातोऽर्वागुभयान्त प्रतीक्षया भोजनकालो लभ्यते तदा । यदा तु ताशे काले उभयान्तो न लभ्यते, तदैकतरान्त एव । यदा तु महानिशाऽव्यवहित पूर्वक्षणएवैक- तरस्याप्यन्तस्तदा महानिशायामपि तदिति हेमाद्रिः। तदा दिन एवेति गौडाः। इदमेव युक्तम् । अशक्तस्यतूत्सवान्त एव । इदं च नित्यं काम्यम् । एतदकरणे प्रायश्चित्तं तु प्राणायामशतम् । मशती प्रतिनिधिरुतः, एकत्राह्मणभोजनं, सहसंगायत्रीजपो वा द्विगु- णानदान वा, द्वादशप्राणायामा वा। काम्यमेव नित्यत्वबोषकविषयस्तु सन्दिाबमूलाः । पारब्बनतं प्रति वा नित्यत्वबोधका इत्यन्ये । इति जन्माष्टमी। अथैकादशी। अत्र केचित् सर्वैः शक्तः शुक्लायां कृष्णायां च कालमात्रावच्छेदेन सकलादनीयाभ्यवहरणत्याज्यमेष । भोजननिषेधस्मृतेः । अस्या भोजननिषेधो नित्य एव ॥ नित्यका- म्यमहोरात्रावच्छिन्नाभोजनसङ्कल्परूपं व्रतं चात्र । तत्रोभयोरेकदिनप्रसको प्रतानुष्ठानेनैव निषेधपरिपालनसिद्धिः। तत्र निषेधे पक्षद्वयेपि सर्वेषामविकारः। व्रते तु पक्ष द्वयगतेऽपि । नित्ये गृहस्थव्यतिरिक्तानामावालवृद्धा. तुराणामधिकारः। वालश्चाष्टवर्षपर्यन्तः । गृहस्थस्य समक- एकादशीनिर्णयः। वीणां च शुक्लायामेव । शयनीबोधिनीमध्यवर्तिकृष्णायां च । पुत्रवद्गृह- स्थस्य तु तस्यामपि नोपवास इति हेमाद्रिः। यहा-पुत्रवद्गृहस्थ. स्यैवेतरकृष्णापर्युदासः । शयनीबोधिनीमध्यवर्तिनी तु तस्यापि । काम्यं तु--सर्वगृहस्थेनापि कृष्णायां कार्यमेव । वक्ष्यमाणल. क्षणैवैष्णवैः पुत्रवद्भिरपि नित्यंत्रतं कृष्णायामपि कार्यमेव । यस्तु-रवि. बारादौ पुत्रवद्गृहिण उपवासपारणयोनिषेधः स तन्निमित्तकस्य, न तु तदधिकरणकैकादश्यादि निमित्तकस्यापि । पारणमपि शनिवाराद्युपवासाङ्ग. ज्यादौप्राप्त निषिच्यते । तेनापि तदङ्गकोपवासनषिध एव द्रष्टव्यः । व्यतीपातश्राद्धादावुपवासनिषेधस्तु काम्योपवासविषयः । नित्योपवासस्य श्राद्धदिने प्राप्तौ तु तदा पितृसेविताघाणमात्रं कार्यमित्याहुः । अन्ये त-भोजननिषेधस्मृतिरपि व्रतपरैव । तद्विध्येकवाक्यत्वात् । इदं च काम्यमेव । गृहीतैकादशीव्रतं प्रत्येव तु नित्यम् । तस्यैव त्यागे दोषश्रवणात् । अत एवं वाराहपुराणे-सास्वेकादशी. खूपवासमभिधाय तदश्चत्तौ चातुर्मास्यैकावशीषु, तदशकौ मासयका- दशीषु, तदशक्ती एकस्यामपि नक्काउनुष्ठानेन सिद्धिर्दर्शिता । किना. त्रापि पूजैव प्रधानमुपवासस्त्वङ्गमित्याहुः। अत्र जीवत्प. तिकायाः पत्यनुज्ञयैव नित्यं काम्यं वानवादि । विधवाऽपि यदधीना तद. नुजयैव । तस्याः पुष्पालङ्कारगन्वपाञ्जनदन्तधावनादित्यागोऽपि ब्रतानत्वेन विहितो न भवति । रजोदर्शनेऽप्युपवास तदङ्गनियमाश्च स्वयं कार्याः । पूजादिकमन्यद्वारा । एषमाशौचादावपि । यत्तु-तदङ्गभूतदानहोमादि, तदन्ते स्वयमेव कार्यम् । वैश्यशदयो. द्विरात्राधिककालव्याप्ति निषिद्धः। अत्र सर्वत्र भक्ष्यस्थागेनोपवा- सो मुख्यः। तदसामथ्र्य क्रियाऽनुकल्पः । स च पञ्चगव्य भाज्यक्षीरति. लफलानोदन हविष्यान्न नक्कानि पूर्वपूर्वाभावे । मोवनशब्देन भक्ष्यभोज्यले- रूपं त्रिविधं गृह्यते । भक्ष्यं रोटिकादि, भोज्यं भक्तत्यक्त्वादि । बिहया गृहीत्वा यदित्यते तस्लेखम् । एवञ्च पेयचोष्येऽनोदनमित्याहुः । तिथिनिये प्राच्या । नक्तस्याप्यसम्मवेऽयाचितैकमक्के जन्माष्टमीप्रकरणोक्तानि च । फलं मूलादेरुपलक्षणं क्षीरदध्यादेश्च । हविष्याणि च । कलापकङ्गुनीवारा वास्तुकं हिलमोचिका । है मन्तिकं सितास्विनं धान्यमुद्गायवास्तिकाः। षष्ठिका कालशाकं च मूलक केमुकेतरत् । लवणे सैन्धवसामुद्रे गध्ये च दषिसर्पिी । पयोऽनुधृत सारं च पनसाम्रहरीतकी । तितिडी जीरकं चैव नागरं गजपीपली । कदली लवली धात्री फलान्यगुडमैक्षवम् । तैलपक्वं मुनयो हविष्याणि प्रच. क्षते । शाम्भवं लवणमप्यन्ये । मूलकं च पटोलं च त्रपु संसूरणादि. यत् । कन्दोपलक्षणमिदम् । कोशकारप्रभेदाश्च विकारा गुडवर्जिताः । हविष्याणि च शृङ्गाराः शालकादि विसादि यदित्यन्यत्र । गोधमा अप्यापदि तयेत्यन्ये । नारिकेलश्यामाकावपि परे। पत्र सङ्कल्से तपदाहारो निराहारो वेत्युरिलखेत् । क्रियानुष्ठानेऽप्यसमर्थः पुत्रभार्यो- भ्रातृदौहित्रभगिनी शिष्यैः कारयेत् । दक्षिणां तु दत्वा ब्राह्मणद्वारा वा । तेषो पूर्णोपवासफलमधिकमपि । राजा पुरोहितद्वारापि दक्षिणां विनापि । नित्यस्याप्यशक्तेन बुद्धिपूर्वक सर्वथाकरणाभ्यासे प्रायश्चितं चान्द्रायणम् । एवमष्टमीचतुर्दश्योर्दिवाभोजने, पर्वणि नक्तभोजने च। काम्ये प्रतिनिधिस्तूपक्रमोत्तरम् । भष्टौ तान्यव्रतनानि आपो मूलं फलं पयः । हविाह्मणकाम्या च गुरोर्वचनमौषधम् । प्रमादेनानादि भक्षणमप्यव्रतघ्नम् । असकृजलपानाच सकृत्ताम्बूलचर्वणात् । उपवास: प्रणश्येत दिवास्वापाच्च मैथुनात् । उपवासपदं व्रतमात्रोपल- क्षणम् । प्राणात्यये जलपानं कार्यम् । अथ व्रताहे वानि । पतित पाखण्डिनास्तिकाविसम्माष- णानुसाश्लीलमांसानि । मांसमौषधमपि । तथा काष्ठवन्तधावनाभ्यापतित. सूतिकारजस्वलास्पर्शामिभाषणे भक्षानुलेपनानि । मन्नस्य स्मृत्यावलोकन- गन्धास्वादनकीर्तनेच्छाश्च । भन्यानि च वलकराणि । मैथुनं परदोषु- एकादशीनिर्णयः। स्मरण कीर्तनकेलिपेक्षणगुणभाषणसङ्करपाध्यवसायात्मकमष्टामपि । स्वदा- रेषु तु रेतो विसर्ग एव । सोप्यन्तौ । हिंसाऽऽमिषादि च । दशम्यां वानि। कांस्यामिषानृतपुनर्भोजनमैथुनपरान धू- तात्यंबुपानसुरातैलपवासदिवास्वापतिलपिष्टक्षारगणतत्पशयनादीनि । मो. जनोत्तरं च दन्तकाष्ठं तदिने भक्षणीयम् । प्रातश्च सङ्कल्पः कार्यः । तदनन्तरं च देवाय पुष्पाञ्जलियः । तदनन्तरं त्रिरष्टाक्षराभिमन्त्रित जलं पेयम् । बिद्धोपवासत्वेकादश्यां रात्रौ सङ्कल्प इति केचित् । तदुत्तरं पूजादि । सा च पञ्चोपचारैः, ॐनमोनारायणाये त्यष्टाक्षरेण । तदनन्तरं तज्जप्यजपनकथाश्रवणतदर्चनतनामकी- तनश्रवणहोमप्रदक्षिणाप्रणिपातस्तोत्रपाठजयशब्दपुराणश्रवणादिमिर्जागरः कार्यः । सतः प्रातरुपवासं भगवते समर्प्य तुलसीयुक्तेन नैवेधशेषण यथासम्भवं ब्राह्मणैर्वन्ध्वादिभिः सह पारणं कुर्यात् । तत्र पारणाई बानि । कास्यमांसमाषतिलपिष्टसुराक्षौद्रलो. मान्तव्यायामप्रवासव्यवायदिवानिद्राङ्ताद्यजनाभ्यङ्गतिलापिष्टमसूर क्रोध. हिंसालोक्यतैलनिर्मात्यलङ्घनपुनर्मोजनामिषक्षाराणि वर्जयेत् । तत्र ब्राह्मणं न परीचयेत् । केवलां चिन्तयेज्जातिं गुणान्नाविन- वालजेति । न ब्राह्मणं परीक्षेत कदाचिदपि बुद्धिमानिति । विश्वा- मित्रश्च । दानार्थ यो द्विजं पृच्छेदधीतं च कुलं श्रुतम् । यश्च तस्मै परिवते तावुभौनारकौस्मृताविति । गौतमश्चेत्यादीनि विपरीक्षा निषेधकानि, तानि श्राद्धेतरदानपराणि, नित्यश्राद्धपराणि का। वीर्य- श्राद्धपराणि वा । अतिथि पूजापराणि वा । अज्ञातकुलनामानं द्वारदेश- मुपागतम् । विपश्चितोऽतिथि प्राहुर्विष्णुवतं प्रपूजयेत् । न वृत्तं न कुलं शीलं नैव विद्या विचिन्तयेदिति पुराणात् । तीर्थे तु ब्राह्मणं नैव परी- क्षेत्तु कदाचन । अर्चयेत्समनुप्रावं भोजयेन्मनुशासनादिति मत्स्यपुरा. णाच्च । एतदपि विशिष्टब्राह्मणालामे एव वेदितव्यम् । ननु विशि- टबामणालामे श्राद्धान्तरं किं त्याज्यमेव, नेत्याह पराशरः। युगा. - तिथिनिर्णये नुरूपतो यस्तु विद्याचारादि संयुतः । सम्पूज्योऽनभिशस्तश्च षट्कर्मनि- रतोद्विज इति । आश्वालयनगृो-ब्राह्मणान् श्रुतशीलवृत्तसम्पन्नान् तदभावे एकेन वेति । एकेन वा विशिष्टगुणेनयुक्तानित्यर्थः। सुवासिन्यां मृतायां च यच्छाद्धं प्रतिवत्सरम् । सुवासिन्यै प्रदातव्यं ब्राह्मणैः सह भोजनम् । तथा-वृद्धा सुवासिनी ग्राह्या रजोयुक्ता पतिव्रता । सद्वंशजा वा नारीणामप्रजा न तु रोगिणी । न वालैः सह मुज्जीत न पुनभोर्जन तथेति । इति ब्राह्मणनिर्णयः। अथ देशः। स च दक्षिणनिम्नः । दक्षिणाप्रवणेदेशे श्राद्धं कुर्यात्तुपैतृकमिति बृहदुपराशरात् । पैतृकमित्युक्तेर हैवमुदकप- वणे बोद्धयम् । गोभिला-परकीयप्रदेशेषु श्राद्धं यस्क्रियते नरैः । तमिस्वामिपितृभिहन्यते श्राद्धकर्म तत् । अग्रभावं ततस्तेभ्यो दद्या- न्मूल्यं च जीवतामिति । अटवी पर्वतां पुण्या नद्यस्तीर्थानि यानि च । सर्वाण्यस्वामिकान्याहुर्नहि तेषु परिग्रह इति यमः। एवं पूतिगन्धरू- क्षकृमिपूर्णपदार्थान्तरसतीर्ण पिपीलिकाम्यालादिजुष्श्वखरोष्ट्रादिजुष्ट कृत्रिम श्रूयमाणानिष्टशब्दभूमयो वाः। तन्मूलानि महानिवन्धेषु । उत्त. रेण महानद्या दक्षिणेन तु कीकटात् । एष त्रैशरवो देशः श्राद्धकर्मणि वर्जितः । इति वायुपुराणे। येषु देशेषु गमने पुनःसंस्कारः श्रूयते तेऽपि वाः । पुनःसंस्कारश्च मेखलाजिनदण्डकमण्डलूपवीतर- हितो मौजीबन्धः । इति देशः। अथश्राद्धपूर्वदिनकृत्यम् । वाराहे--वस्त्रशौचादिकर्तः व्यं श्वः कर्त्ताऽस्मीति जानता । दक्षिणांप्रवणां भूमि गोमयेनोपलेपयेत् । इति । गोमयं च सवत्सायाश्चरप्रसूतायाः कपिलायाः प्रशस्वतरम् । ततस्तत्र तिलान्विकिरेदांश्च वघ्नीयात् । तिलांश्च विकिरेत्तत्र सर्वतो बन्धयेदजान् । असुरोपहतं सर्वं तिलैः शुद्धत्यजेनचेति । क्षारं च-तिलमुद्गाहते शैम्ब्यं मांस गोधूमकोद्रवौ । चीनकं देवघा- न्यं च चणकं च तथैक्षवम् । स्विन्नधान्यं तथौषध्यः. एष क्षारगणः तिथिनिर्णये वश्यामेवोपवासः स्मार्तानाम् । अत्र शुद्धा नामारुणोदयमारभ्योदया. न्ता । अन्ये तु-शुद्धाद्वितीयभेदविषये गृहिमिः पूर्वा कार्या, यविमिरुत्तरेत्याहुस्तदनाकरमित्यन्ये । त्रिकाण्डमण्डनस्तु-अ. त्रापि पूर्वा गृहस्थस्य यतेरुत्तरवेत्याह । सम्पूर्णैकादशी यत्र प्रभाते पुनरेव सा । सरेवोत्तश कार्या परतो द्वादशी यदि । इति मारदः। अन्ये तु-स्माः पूर्वा कार्या, वैष्णवैादशी उपोष्या इति व्यवस्थामाहुः । इद. मेव युक्तम् । या तु शुद्धाधिकद्वादशिका सा सर्वैः परोपोष्या । या तु शुदाधिकाऽनधिकद्वादशिका, तस्यां गृहिणां पूर्वेयुर्यतीनामुत्तरेयुरिति माधवः । अत्र यतिपदं वनस्थविधवानामप्युपलक्षणम् । मत्र शुद्धाशब्देनोदयव्यापिन्येव । पूर्वतिर्घटित्रयाधिकवृद्धावुत्तरतियेस्तद. धिकवृद्धहासस्याप्रसिद्धः। एवञ्चात्रापि विषये वैष्णवानां परैव । अन्ये तु सकामानां पूर्वेयुः, निःकामगृहिणामप्युत्तरेधुरिति व्यवस्थामाहुः । यति विधवावनस्थास्तु निष्कामा एव । सकामत्वे तु भवतु तेषामपि पूर्ववेति तेषामाशयः । निष्कामस्तु गृही कुर्यादुत्तरैकादशीसदेत्येतन्मतमूलभूतं. वचनं निष्कामस्त्वगृहीति माधषानुयायिनः पठन्ति । अगृहीपद- व्याख्यानत्वेन व्याचक्षते च । यत्तु-ईदृशीमुपक्रम्य-"उपोष्ये द्वे तिथी तत्र विष्णुप्रीणनतत्परैरिति" वचनं तत्तिथिद्वयसम्बन्धो यथा भवति तथो. पवासः कार्य इत्यर्थकतयोचरत्रोपवासविधायकमेव । विष्णुप्रीणनतत्परैरिति च प्रायो यत्यादीनां तथात्वात्तदुपलक्षणमेवेति माधवानुयायिनः । अन्ये तु-तत्कामानामेतद्वलानरन्तर्येणोपवासद्वयमिच्छन्ति । अथ विद्धा । तत्र या तावत्तदुक्तवेधरीत्या विद्धाधिकाधिकद्वा. दशिका सा सर्वैः परैवोपोण्या। या तु विद्धानपिकानधिकद्वादशिका, तस्यां वैष्णवानां शुद्धद्वादश्यामुपवासः । त्रयोदश्यां पारणम् । अन्येषां तु यतीनां गृहस्थानां च विद्धायामेवोपवास इति माधवः । अन्ये तु- एकादश्या न्यूनत्वरूपक्षये माधवोक्तैव व्यवस्था । तस्यास्साम्ये तु गृहिणा पूर्वेधुर्यतीनामुत्तरेयुः। द्वितीयसूर्योदयपर्यन्तत्वं साम्यम् , ततो एकादशीनिर्णयः। न्यूनत्वेक्षयः। किश्च क्षयविषयेऽप्यपुत्रगृहिणामेव विद्धोपवासः । पुत्रव- द्गृहिणातु परदिन एव । तेषां त्रिस्पृशाया उपवासनिषेधात् । साम्ये तु तेषाम- पि पूर्ववेत्याहुः। मदनरत्नेतु-विद्धन्यूनायामपि मुमुक्षूणां परेधुरुपवासः । पूर्वविधायकवाक्ये यतिपदं तु नियमयुक्तमुमुक्षुनैष्ठिकवानप्रस्थादिपर- मित्युक्तम् । हेमाद्रावप्येवमेव । या तु विद्धाषिकानषिकद्वादशिका, सा सवैरपि परैवोपोष्या साम्ये क्षये चेत्येके । माधवस्त्वत्रापि स्मातविषये गृहियतिव्यवस्थामाह, शुद्धाधिकावत् । या तु विद्धानषि- काधिकद्वादशिका, तस्यां वैष्णवानां द्वादश्यामेवोपवासः। अन्येषामपि तत्रैवेत्यलम् । गौडास्तु-यतिरेव वैष्णवः । तेन सर्वत्र गृहियति व्यवस्थैव । वैष्णवस्मार्चव्यवस्थात्वनाकर्येव । एवं च विद्धा यतिभिः सर्वथा त्याज्या । शुद्धाप्यन्यतरस्या अपि परत्र सत्वे इत्याहुः। पत्र विद्धा करणे पुरुषानिष्टमपि स्मयते । पादकृच्छु प्रायश्चितम् । तदरुणो- दयवेधो वैष्णवानां सर्वत्र । काम्ये इतरेषामपि । नित्येवितरेषां सूर्योदय- वेध एवेति । इति एकादशी निर्णयः। गोडमते तु-विद्धाधिकाधिकद्वादशिका विषये एव तत् विश्वरूपनिवन्धेतु-शुद्धा त्रेधा तथा विद्धा भेदैन्यूनसमाधिकः । प्रत्येकं च पुनस्त्रेषा द्वादश्यूनसमाधिकैः । आद्या षट्सु पूर्वव व्यव. स्थानन्तरद्वये। गृहमेधियतीनां च नवमी तु परेऽहनि । भाषास्ति- सस्तु पूर्वास्युः व्यवस्थानन्तरद्वये। अपरेऽहनि शेषाः स्युः सप्तमी च व्यवस्थयेति । वल्लभाचार्योऽपि-शुद्धा विद्धा तथा नेपा भेदेन्यूनसमाधिकः । प्रत्येकं द्वादशी विद्धि साम्यहाथैः पुननि. धा। तत्रैकैकाद्वादशीस्थवृद्धिसामोनता गुणैः । आद्योपोष्या परे हे द्वे पावापर्यायवस्थिते । गृहियत्योरुतरामु षट्सु पूर्वैव संमता । विसृष्व- त्यासु विद्वैव तत्पूर्वे तुव्यवस्थिते । अविद्धैव तु शेषासु तृतीया तु व्यव- स्थितेति । विष्णोरशयनपरिवर्तन प्रबोधोत्सवाः, क्रमे णाषाढभाद्रकार्तिकशुद्धैकादशीषु कार्या इति मात्स्ये ।
तिथिनिर्णय तत्र-निशिस्वापो दिवोत्थानं सन्धायां परिवर्तनम् , ' एष्वेवमासेषु शुक्लद्वादशीषु शयनादिकं वाराहे उक्तम् । द्वादशीषु रात्रौ स. ध्यायां दिनेचानुराधाश्रवणरेवतीनामादिमध्यान्तं भागयोगास्तेषु श- स्वाः । यदा तु द्वादश्यां राज्यादिभागेषु तत्तन्नक्षत्रांशायोगस्तदा द्वादशी नक्षत्रमात्रयोगोऽपि तत्तत्कालगतो प्रायः । यदा तु द्वादशीषु नक्षत्राण्येकदेशेनापि न भवन्ति किन्तु पूर्वपरदिनयोः, तत्रापि तत्त- वृक्षमागयुक्तकाले निशाधनादरेणैव । एवं द्वादश्यां निशाद्यादरेऽन्यति- थौ तचन्नक्षत्रभागयोगादरे नियते यदा द्वादशीषु निशादेरन्यत्र तत्तन्नक्ष- त्रभागयोगोऽन्यतिथौ च तदितर नक्षत्रभागयोगऽस्तदा द्वादशीष्वेव तत् । परंतु सायंसन्ध्यायामेव त्रयम् । केचितु-दिनत्रयेऽपि ऋक्षाणामसम्भवे द्वादश्यां सन्धिसमये । उक्तविषये तु तत्काल एवानुष्ठानमाहुः। द्वादश्यामकृतोत्सवेन त्रयोदश्या- दावपि कार्यम् । तेषां गौणकालत्वात् । पौर्णमास्यामङ्गीकृतशयनोत्सवास्तै. स्तत्रैव कार्यम् । केचितु-ऋक्षयोगस्य द्वादश्यामभावेऽपि तत्रैव प्रबोधः । ऋक्षस्य प्राशस्त्यार्थत्वात् । तिथेरपि रात्रावसत्वे दिवैव । द्वादश्यां दिने रेवत्यन्त्यमागयोगे दिनतृतीयभाग एवोत्थानम् । दिवापि ऋक्षयो. गामावे सन्ध्यायामेव द्वादश्याम् । त्रयोदश्यादि तु गौणकाल एवेत्याहुः । केचिच्छयनीव्रतं दिनत्रयसाध्यमाहुः । अत्र पाराणायां तेषां नक्षत्राणामादिमध्यान्तभागा वाः । यदा तु स्वल्पाद्वादशी वय॑क्षमागयुक्ता च तदा द्वादश्यामेव पारणमित्याधु. निकाः। चातुर्मास्यव्रतारम्भोप्यासु द्वादशीषु, तदुतरपौर्णमा. सौषु, कर्कसक्रान्तिदिने वा । यद्वा-कदाप्यारम्भे, समातिः कार्तिशुक्लद्वा- दश्यामेव । पौर्णमास्यां वा। शयनाद्युत्सवः चातुर्मास्यत्रतारम्भो गुरुशुका. स्तादावपि । मलमासे तु नेति वक्ष्यते । इति शयन्पादिनिर्णयः । अथ श्रवणद्वादशी। द्वादश्यामस श्रवणयोगेपि तत्प्रयुक्तोप- वासादि भवत्येव । नतूदयास्तान्तरपयन्तत्वं तद्योगस्यापेक्षितम् । तत्र शिवरात्रिनिर्णयः। ६९ या तावदेकदिन एव श्रवणयोगवती शुद्धा विद्धा तदधिका वा, तस्यां विवाद एव न । यदा विद्धाषिकायां दिनद्वयेऽपि श्रवणयोगस्तदेकादशी- युता ग्राद्या । अयमेव विष्णुशृङ्खलयोगः। तन्त्रेण चोपवासद्ध- यम् । तत्रापि तिथिद्वयस्य श्रवणस्पर्शेऽतिप्रशस्तत्वम् । कचित्त-रात्रेद्वितीयपहरादौ श्रवणयोगः परदिन एवोदयका- लिकस्तदा परा । पूर्वदिनेप्युदयकालिकत्वे पूर्वैव । यदावेकादश्यामेव श्रवणयोगस्तदा तस्यामप्येतत्प्रयुक्तं व्रतं कार्यम् । सत्यबुधयोग द्वादश्या न कार्यम् । एकादश्यामेवैकादश्युपवासस्तेषां तन्त्रेण द्वयम् । अन्येषान्त. पवासद्वयम् । पूर्वबताङ्गपारणस्य बाघ एव । अद्भिर्वातत् । यस्तु प्रक्रान्त- श्रवणद्वादशीव्रतः उपवासस्य सामर्थे निश्चयाच्च कृतकादशीसङ्कल्पः, पश्चात्तत्रासमर्थः स सङ्कल्पितं विधाय श्रवणद्वादशीप्रयुक्तं पूजादिमानं विधाय भुञ्जीत । यस्तु प्रागेव निश्चितोपवासद्वयासामयः, स श्रवणद्वा. दश्युपवासभेव कुर्यात् । तद्वतपारणन्तु पारणादिने, उमयानुवृत्तावुमया- न्त इति मुख्यः। अन्यतरान्तो गौणः। यदा तु विष्णुशृङ्खले तिथ्य- पेक्षया नक्षत्राधिक्यं पारणातिथौ तदा द्वादश्यामेव पारणेति केचित् । अस्यां सङ्गमस्नानं महाफलम् । एवं पुनर्वसु पुष्यरोहिणी- युत द्वादशीष्वप्युपवासो महाफलः । तस्मादुदयमारभ्य द्वितीयोदयप- यन्तं वा ऋक्षयोगो प्रायः । इति श्रवणद्वादशी। अथ शिवरात्रिः । सा च माधफाल्गुनकृष्णचतुर्दशी । अत्रापि पूजा प्रधानम् , उपवासजागराङ्गमित्येके । तेपि प्रधानमित्यन्ये । उप- वास एव प्रधानमिति गौडाः । इदं नित्यं काम्यम् । अथ तिथिद्वैधे अर्द्धरात्रव्याप्स्या निर्णयः । तस्य प्रादुर्भावकालत्वात् । अर्द्धरात्रोऽत्रापि जन्माष्टमीवदेव । तत्र निशीथादूद्धर्वमप्यनुवर्तमानया त्रयोदश्यायुक्ता चतु. देशी परदिने निशीथायोगिनी अपि परैवोपोष्या। एतद्विषयाण्येव प्रदो- पच्यापिनीप्रायत्वबोधकवचनानि । या तु पूर्वद्युरेव निशीथयोगिनी, सा पूर्वव । या तु दिनद्वयेऽपि ताहशी सा परेपि माधवः। सापि पूर्ववे- ७० तिथिनिर्णये त्यन्ये । या तु परदिन एव तादृशी सा परैव । यदा पूर्वदिने निशीथै- कदेशव्याप्तिः, परदिने च सम्पूर्णा तव्याविस्तदापि परैव । अस्या रवि. भौमान्यतरयोगे प्राशस्त्यम् । तत्रापि शिवयोगे प्रशस्त. तरत्वम् । एकवासरे १३॥१४॥३० । रूपतिथित्रययुक्तापि प्रशस्ता । अस्याः पारणं तिथिमध्ये एव । तत्रासम्मवे तिथ्यन्तेत्येके । विपरीत परे । माधवस्तु-यामत्रयोर्ध्वगामिन्यां प्रातरेव हि पारणेत्याह । एवं प्रति. मासं कृष्णचतुर्दशीषु क्रियमाणशिवरात्रिवतेऽप्ययमेव निर्णयः । रात्रि. व्याप्तिसाम्ये तु परस्यामेवेदम् । रुद्रव्रतानां संमुखी तिथौ कर्त- व्यत्वात् । संमुखी सायाहव्यापिनी । केचित्त्वस्यां सायाहन्या. पिनीत्वेनैव निर्णयं कुर्वन्ति । केचित्तु-प्रदोषव्याप्स्यैव । इति शिवरात्रिः। अथैकभुक्तम् । तच्च द्वितीयमोजनाभावविशिष्टं भोजनम् । अत्रष्टिौ प्रासा मुनेर्भक्ष्याः षोडशारण्यवासिनः । द्वात्रिंशत्तु गृहस्थस्ये. स्युक्तसङ्घया मध्ये ग्रासत्रयन्यूनभोजनमपि नियमः। अन्ये नियमाः व्रत. सामान्योक्ताप्यत्र । अस्यमुख्यकालस्त्रेधा चतुर्दा पञ्चषा विभागेन च प्राप्तावर्तनोपरितनो मध्याह्नोत्तरभागः सर्वोऽपि त्रेधा विभागेनैव प्राप्त इत्यन्ये । पञ्चधा विभागप्राप्त एवेत्यन्ये । तदुत्तरोऽस्तमया- वधिौणः । यातु-अन्यतरदिने एवं मध्याहोचरकालव्यापिनी तदेक- देशव्यापिनी वा, सा सैव ग्राह्या । दिनद्वयेऽपि तद्याप्तौ तदस्परों साम्येन- तदेकस्परों च पूर्वव । गौणकालव्याप्राधिक्यात् । मुख्यकाले तिथ्यमा. भावेऽप्यनुष्ठानं मुख्यकाल एव । अत्रोत्तरतिथेः स्वमासषष्टिपटिकापेक्षया यावान्हासो वृद्धिा स पूर्वतिथौ हीनः कार्यः प्रक्षेप्यश्च । तत्र वृद्धिप्र- क्षेपः पूर्वदिने कर्मकालासत्वप्रतिपादनाय । हेमाद्रिस्तु-दिनद्वये मध्याहव्याप्तौ युग्मवाक्यादत्र निर्णयमाह तच्चिन्त्यमित्यन्ये । वैषम्येण मुख्यकालैकदेशव्याप्त्यावधिकतव्यापिनी प्राधा । अङ्गमौक. भक्तेषु प्रधानकालनिर्णयेनैव निर्णयः। तत्र मध्याहस्य प्रधानेन व्याखौ . नक्तवतनिर्णयः। गौणकाले तत्कार्यम् । उपवासप्रतिनिधिभूसंतूपवासयोग्यतिथौ मध्या- होत्तरदले कार्यम् । इत्येकभुक्तम् । अथ नक्तम् । दिवा भोजनाभावविशिष्टरात्रिभोजनं हि तत् । तत्र प्रदोषव्यापिनी तिथिः । एकादशीप्रयुक्तं नक्तं तूदयव्यापिन्याम् । प्रदोषश्च-सूर्यास्तोचरत्रिमुइ स्मकः । दिनान्त्यमुहूत्तौं गौणः कालः । तत्पूर्वमाध्यपिमुहूर्तद्वयं गौणतरः कालः । मुख्यकालेप्याद्यमुहद्वयं मुख्यतरम् । मैथुनाहारस्वाध्यायादिषु वा सन्ध्या तु नक्षत्रदर्शनपर्य- न्तैव । सन्ध्यागर्जितादावनध्यायप्रयोजिका तु घटिकात्रयात्मिका । रविवा. रादौ रात्रिभोजननिषेधस्य रागप्राप्तविषयत्वात्तत्रापि प्राप्तं वैध नक्तभोजनं मुख्यकाल एव कार्यम् । एवञ्चाहारादिनिषेधे घटिकात्रयसन्ध्याग्रहणेऽपि न क्षतिः । निषेधस्य रागप्राप्तविषयत्वात् । माधवस्तु-रविवारादौ नक्त- भुक्तौ गौणकाल एवेच्छति । सूर्यदैवत्यनक्तं तूक्तगौणकाले एव। एवं यति. विधवाधिकारिकमपि नक्तं गौणकाले दिवेव । यात्वन्यतरदिने एव कास्ने। नैकदेशेन वा मुख्यकालं व्याप्नोति, सा सैव । दिनद्वयेऽपि प्रदोषव्यापि. न्युत्तरैव । दिनद्वयपि प्रदोषास्पर्शिनी च परा । भोजनमपि तस्या सायाह एव । दिनद्वयेऽपि साम्येन वैषम्येण वा तदेकदेशस्पर्शिन्युत्तरैव । वैषम्येण प्राप्तौ यदि पूर्वदिने भोजनदेवपूजापर्याप्तमाधिक्यं, तदा पूर्वाऽन्यथापरेति विशेषः । एवं सौरनक्ते यतिनक्ते च सायाहव्याप्त्या निर्णयः । एवमेव गोवत्सबादश्यादौ नक्तवते । मन्याने उपवासप्रतिनिधौ च वाह- गेव न्याय एव । अयमेव निर्णयस्तत्कालविहितपूजादावपि तिथिद्वयप्र युक्तकभक्तयोरेकदिने प्राप्तौ तु पूर्वप्रारब्धयोर्द्वयोः पूर्वतिथिप्रयुक्तं मुख्य- कल्पेन कार्यम् । इतरस्तूत्तरदिने गौणकाललामे उत्तरदिने स्वयमेव कार्यम् । असत्वे तु-तस्मिन्नेवदिने कन्तरेण कारणीयम् । अयमेव न्यायोऽनेकतिथिव्यापि पूर्वप्रारब्धव्रतान्तःपातिनि तद्विरोध्येक- तिथिवतेऽपि । प्रासनियमस्त्वत्र द्वादश वा पञ्चदश वा द्वाविंशतिर्वेति यथाशक्यम् । इति नक्तम् ।
तिथिनिर्णये अथायाचितम् । अयाचितं तवासवदहोरात्रसाध्यत्वादहो. रात्रयोगिन्यां कार्यम् । यदा तु तिथिरेकत्रदिवैव परत्ररात्रौ एव तदाहापिन्याम् । सम्भावितपक्षान्तरेषूपवासवदेव निर्णयः । अया- चितमित्यादिनापि रागप्ताप्लेभोजने याचितभिन्नरूपसाधनविशेषा नियम्य- ते । याचितमिन्नं च तत्सदृशं परकीयमेव । अतएवैकादश्यादिदिने प्रा- रब्धमासादिव्यापि चतुर्थकालिकत्वब्रतानुष्ठाननिमित्तभोजनाकरणं दृश्य- ते । प्रासनियमोऽत्र चतुर्विशतिः षोडशवेति यथाशक्यम् । इत्य- याचितम् । अथोपाकर्म । तत्र ऋग्वेदिमां श्रावणमासि श्रवणो मुख्यः । सोऽपि शुक्लपक्षस्थ एव । तस्य ग्रहणसंक्रान्त्यादि दुष्टत्वे सूतकादिसम्भाव- जायां तन्मासशुक्लपञ्चम्या हस्तयुक्तायां केवलायां वा हस्तयुक्तदिनान्तरे वा कार्यम् । अवृष्ट्यादिनौषधीप्रादुर्भावाभावेन श्रावणश्रवणाद्यसम्भवे भाद्रपदशुक्लगयोः श्रवणपञ्चम्योः कार्यम् । एवं श्रावणश्रवणस्य गुरुशु- कास्ताद्याक्रान्तत्वे, तत्र प्रथमोपाकर्मनिषेधात्तत्रापि यथासम्भवं श्रावण- पञ्चम्यादि, भाद्रपदश्रवणपञ्चम्यादि वा । एवं सिंहस्य गुरुवक्रातिचारयो- रपि प्रथमस्य निषेधः । मलमासादौ द्वितीयादेरपि । यजुर्वेदिनां तु- श्रावणी पूर्णिमा मुख्या। तत्रासम्भवे येषां गृधे श्रवणहस्तपञ्चम्यावुके तैस्ते प्राधे । तत्राप्यसम्भवे भाद्रपूर्णिमा तद्गतहस्तपञ्चम्यौ वा । येषां नोक्ते, तैर्भाद्रपद्येव । कातीयानान्तु-श्रवणासम्भवे श्रावणपूर्णिमायां हस्तपञ्चयां वा, तदभावे प्रौष्ठपद्याम् । बौधायनानान्तु-श्रावण्या ग्रहणादिदुष्टत्वे आषाब्यां वृष्ट्य- भावे तु भाद्रपद्यामेव । एवं बहृचयाजुषैश्च मुख्यकालासम्भवे स्व स्व सूत्रोक्ता अन्येऽपि काला ग्राह्या । केचित्तु-संक्रान्तिग्रहणाद्यपि प्रथ. मोपाकर्मण्येव निषिद्धमाहुः । एवं श्रवणादीनां सक्रान्त्यायधिकरणत्वे एव दुष्टत्वं, तदिन एवनक्षत्रान्तरे तिथ्यन्तरे वा सक्रान्त्यादौ न तेषां उपाकर्ममिर्णयः । न दुष्टत्वमिति केचित् । यहिने सङ्क्रान्तिस्तदिनसम्बन्धिनां दुष्टस्व. मित्यन्ये । सामगैस्तु--सिंहस्थे रवौ हस्तनक्षत्रे कार्य, यस्या कस्याञ्चित्ति- थौ तदप्यपराह एव । अन्येषां तु-दैवत्वात्पूर्वाह एव । तत्रास्ता- दिसत्वे श्रावण्यामुपाकृत्वा भाद्रपदशुक्लहस्तक्षपर्यन्तं न पठेयुः । एषा मलमासनिषेध आद्यएव । द्वितीयादि मलमासेपि । आथर्वणानां तु -श्रावण्यां भाद्रपद्या वा पौष्यामुत्सर्ग इति । ग्रहसंक्रान्तियोगश्च यद्दिने उपाकर्म तदिनार्द्धरात्रात्पूर्वमेव तन्नक्षत्रतिथ्यो- विद्यमान एव तयोर्दूषकः, नतु तत्परस्तात् । तथा अतीवार्द्धरात्रात्परतो विद्यमानो दूषकः नतु तत्पूर्वः । अर्द्धरात्रशब्देनावरात्रिपूर्वार्द्धग्रहणम् । अत्र हस्तश्रवणपर्वणो खण्डखे मौदयिकानां ग्रहणम् । तदपि सङ्गवस्पृ- धानाम् । येषां तु त्रिमुहत्मिकप्रातःकालमात्रसाध्यमुपाकर्म तेषां सङ्गवास्पृष्टमपीति केचित् । अपरालोपाकर्मणां सामगानां तत्कालव्यापिनमपि पूर्वहस्तं वाघित्वोचरदिने एवापराढे तदनुष्ठानम् । हेमाद्रिस्तु-तैत्तिरीयाणामेवोपाकमोदयिके पर्वण्यन्येषां याजुषाणां तु पूर्वाह्नषिद्ध एव पर्वणीत्याह । नर्मदोत्तरमागे सिंहयुक्तेऽके कार्यम् । दक्षिणे तु कर्कस्थेऽर्के इति तु निर्मूलम् । इदञ्च ग्रहणाध्ययनोभयानतयाचानुष्ठेयम् । प्रत्यब्दं च । यदा ब्राह्मणो बहुमिः सहकरोति, तदा लौकिकामौ कार्यम् । एकश्चेद्गृह्यामौ कुर्यात् । इत्यु: पाकर्म । श्रावण्यां रक्षाबन्ध उक्तः। स पूर्वविद्धायामिति केचि.. त् । उदयव्यापिन्यां कार्य इत्यन्ये। स च भद्रायां न । उपाकर्म तु भवत्येव मद्रायामपि । इति रचावन्धः । अथोत्सर्जनम् । तच्च आश्वलायनेन माध्यामुक्तम् । पौधायनेन पौष्यामपि । इदं षण्मासाध्ययनाभिप्रायेण तत्र श्रावण्यामुपाकर्मणि माध्याम् , आषाढ्यां तस्मिन्पौष्याम् । सा.
५४ तिथिनिर्णये ईपञ्चमासाध्ययनपक्षे तु-यदा श्रावण्यामुपाकर्म तदा पौषशुक्लपतिपदि, यदा प्रौष्ठपद्यां तदा माघशुक्लप्रतिपदि । याज्ञ. वल्क्येन तु-पौषकृष्णाष्टम्यामुक्तम् । यथाचारं व्यवस्था। सामगानां सिंहस्थे खौ पुष्पनक्षत्रे । यदा सिंहस्थे रवी हस्ता. त्पूर्वः कर्कस्थस्तदा तत्रैवोत्सर्जनं तेषां सर्वेषामुपाकर्मदिन एव ततः पूर्व वा । एते च कालाः खण्डत्वे औदयिका प्रायाः । इदानीन्तु शिष्टा उपाकर्म दिन एवं पूर्वमुत्सर्गमाचरन्ति । इत्युत्सर्जननिर्णयः । अथ नानातिथिसाध्यत्रतनिर्णयः । तानि द्विधा । केषुचिदेकंकर्मप्रधानमुपवासपूजाद्यात्मकं नानातिथिष्वभ्यस्यते । कर्मण एकरवञ्चापूर्वक्यात् । तत्र सर्वतिथीनां प्रधानकालत्वमेव । केषुचिदन्त्य. तिथिकृत्यमेव प्रधानम् । तत्राये स्वातन्त्र्येणैव तत्तत्कर्मयोग्यतावतिथि. निर्णयः कार्यः। तस्मिंश्च क्रियमाणे कचित्तिथिद्वयप्रयुक्तस्य तन्त्रेणानु- छानात् । कचिदेकतिथिप्रयुक्तस्यावृत्यानुष्ठानात् सकलव्रतप्रयोगस्यन्यूना. धिकसावनव्यापित्वेपि न क्षतिः। यथा नवरात्रादौ वटपूर्णिमादि त्रिरा- वादावाचविषेप्यन्त्येचान्तिमतिथिं निर्णीय तदनुरोधेनैकदेशवर्तिनीनामपि तदन्यवाहितपूर्वतिथीनां यावदपेक्षं ग्रहणं, नतु तासां स्वातन्त्र्येण निर्णयः कार्यः । तत्राद्यविधानां यत्रान्तिमतिथेनिर्णयोपजीव्यस्वरूपप्राधान्यद्योतक समाख्याधस्ति तत्रैव । अथवा वटपूर्णिमादौ । अथ नवरात्रप्रतिपत् । तत्र नवरात्र तु कर्तव्यमित्यादी नवरात्राख्यो गुणविधिरिति कश्चित् । कर्मनामधेयमित्या परे । अत्र पूजैव प्रधानम् । उपवासस्नपनवलिदानहोमादित्वङ्गम् । उपवासासामर्थेन नक्कै कभुक्तायाचितान्यनुकल्पाः । इदं नित्यं का. म्यम् । तत्रापि रात्रिपूजैव प्रधानम् । अत्र स्त्रीशूद्रम्लेच्छादी- नामधिकारः । एषामन्त्रिकैव पूजा । जपहोमादि ब्राह्मणद्वारा । सम- न्त्रपूजापि तद्द्वारैव । तत्र विप्राणां जपयज्ञनिरामिषभक्तवलिदानकू- माडादिवलिदानमगवतीमाहास्यपठनरूपायां सास्विक्यामेवाधि- नवरात्रनिर्णयः। कार।। जपयज्ञादि विशिष्टवलिदानसामिषनैवेद्य स्वगात्ररुधिरदानपशु. हिंसादिरूप राजस्थां क्षत्रियवैश्ययोरधिकार।। मन्त्रहनिसुरा- मासाद्युपहारादिविशिष्ट तामस्यां स्त्रीशुदम्लेच्छादीनामाष. कारः। विपस्त्रीणान्वमन्त्रकसात्विक्यामेव सः । श्रीशू- द्रादिमिरुपहारवल्यादीनां देवीमुद्दिश्य नममोत्सर्गः कार्यः । पत्र पति- पदमारभ्य नवम्यन्तं कार्यमिति मुख्यः पक्षा। तदसमर्थ प्रति सप्त. म्यादि दिनत्रयम् । तत्राप्यसामर्थेऽष्टमीनवम्योरिति दिनद्वयम् । तृती. यामारभ्य सप्तरात्रं, पञ्चमीमारम्य पञ्चरात्रं वेत्यपिपक्षौ। पंचरात्र पक्षे पञ्चम्यामेकमक्कम् । षष्ठ्यां नक्तम् । सप्तम्यामयाचितम् । अष्टम्या- मुपवासः । नवम्यां पारणमित्यपि पक्षान्तरम् । सर्वत्रासामध्ये केव. लाष्टम्यामपि । अष्टम्यामुपवासः पुत्रवतो निषिद्धः । तेन नक्काद्यनुकल्प एव कार्यः । केवलनवन्यामप्युपवासपूर्वक पूजोक्ता. ऽन्यत्र । षष्ठ्यादिपक्षोप्यन्यत्र । तत्र षष्ठयां बिरवशाखाया देव्या. बोधनम् । सप्तम्यां तदाहरणपूर्वकं तस्यां पूजाम् , अष्टम्यां पुनस्तस्यामेव. पूजा जागरे। महानिशि वलिदानं च । नवम्यां प्रभूतबलिदा. नम् । दशम्यां विसर्जनमिति प्रकारा। इयं पूजा मुख्यनवरात्रक- स्पापीत्यन्ये । स्वस्याशक्तावन्यद्वारा पूजा । तत्र पुत्रजामातगुरुवात भागिनेयशिष्या मुख्याः । इतरप्रतिनिधौ तु दक्षिणादानेपि न्यूनफलता । राज्ञः पुरोहितामात्यावपि । भारम्भोचरमन्तराशौचपाते सङ्कल्पि- तद्रव्येणान्यद्वारा पूजा । पूर्वमाशौचेत्वनारम्भ एव । नृपतेस्त्वाशौचमध्ये. ऽपि पुरोहितेन स्वीयशुद्ध्या शान्तिकपौष्टिकादिकार्यमेवेति प्राच्या। विस्तृतपूजाऽशक्तो गन्धपुष्पधूपदीपनैवेद्यरूपपंचोपचारैः कार्यः । तस्या प्यभावे गन्धपुष्पाभ्या, तोयमात्रेण वा, भक्तिमात्रेण वा । अथ प्रतिपत्रिर्णयः । अत्र केचित् । अस्य नक्तवतत्वा- प्रतिपन्नक्तव्रतवनिर्णेतव्या । तत्र पूर्वदिन एव प्रदोषव्याप्तौ पूर्वा । तद्वि. षयाण्येवामाविद्धाविषायकानि, द्वितीयाविद्धानिषेधकानि च । इतरसर्वप- .
७६ तिथिनिर्णय क्षेषु परा । तद्विषयाणि द्वितीयाविद्धाविधायकानि, अमाविद्धा निषेध- कानि चेति वदन्ति । परे तु-दैवकार्यस्वात्पूर्वावस्यैव कर्म कालत्वात्तव्या- प्त्यैव निर्णयं कुर्वन्ति । यदा तु सम्पूर्ण प्रतिपत् तदा आद्यषोडशनाडीसु त्यक्त्वाऽपराइएव कलशस्थापनादि पूजोपक्रमः । अन्यत्रापि यथासम्भवं ता हेया एवं । येषां नक्तवतत्वं तेषां सायाद एव तदुपक्रमः । सर्वदा चित्रावैधृतोरपि कलशस्थापनं न कार्यम् सति सम्भवे । तत्राप्याद्यां- शत्रयं पूर्वाई वाऽतिदुष्टम् । सर्वथा त्यागासम्भवेऽमिजिन्मुहूते मध्य- दिने प्रदोषादूर्व प्रवृत्तापरदिनेऽस्तात्पूर्वमेव समाप्ता, एवं दिनद्वयेऽपि कर्मकालस्पर्शिनी, तत्र पूर्वव स्वोत्तरकालरूपगौणकालव्यापित्वात् । पूजोप- क्रमस्त्वत्रापि प्रदोष एवेत्येके। परेतु-परैव सङ्कल्पकाले पूर्वाहमध्याह्नपू- जयोश्च सत्वात् । सायाहरूपगौणकालव्यापित्वाच रात्रिपूजाकालेऽपि यांति- थिमित्यापाय साकल्येन सत्वाच । एवञ्च या त्रिमुहूर्वदर्शयुक्ता तामुलंध्य द्वितीयाविद्धामुहूर्तमात्रायामपि परदिने नवरात्रारम्भः, केषाञ्चिद्घान्त्यैव । एवं च यदा अमाविद्धा चित्रावैधृत्यायन्विता तदा तस्यामुपवासाद्यन्यत. रदेवीपूजामात्रं च कृत्वा द्वितीयदिने यथायोग्यकालं कलशस्थापन कार्यम् । येषां तु कुलपारम्पर्येणामाविद्धद्वितीयाविद्धयोरन्यतरस्याङ्गीका- रस्तर्व्यवस्थया तस्यामेव नवरात्रारम्भः कार्यः। तदभावे तूक्तनिर्णयानु. सारेण । इति प्रतिपत् । सप्तम्यादिदिनत्रयविहितपत्रिकादि पूजायां सप्तम्यादय उदयव्या. पिन्यः। पूर्वाडे तस्या विधानात् । तत्र क्रमेण ज्येष्ठामूलपूर्वोत्तरयोगे प्राशस्त्यम् । न तु तद्नुरोधेन पूर्वविद्धाग्राह्यत्वम् । उमयत्र पूर्वालालामे परैव । तदंगं बिस्वशाखाया देवीवोधनम् । आश्विनकृष्णनवम्यामा- युतायां , केवलायां वा । तत्र पूर्वाहव्यापिनी सा । उभयत्र तद्व्याप्तीचा- युतायाम् । पूर्वाहेतरकाले आोलामे तु तत्रापि । नक्षत्राभावे तु नव- म्यामेव । पूर्वाहे उभयत्र तदलाभे लाभे वा पूर्वस्मिन्नेव युग्मवाक्यात् । तस्यामसम्भवे नवरात्रान्तर्गत षष्ठयां सायाहे आमन्त्रणम् । यse- नवरात्रनिर्णयः। मीविलमा प्रवेशपूर्वदिने सायाह्ने षष्ठ्यमावेप्यामन्त्रणम् । इयं च पत्रिकापजातिभिवृद्धिवशाच्चतुरहव्यापिन्यपि । क्षये यहव्यापिन्यपि । एतद्वियजीव पूजाति मिनिर्णयानुरोधेन यत्रैव दशम्या योग्य तत्रैव । अथाष्टमी। सा नक्तवतत्त्ववादिना प्रतिपद्रात्रिव्यापिन्यवेति पूर्वविद्धा प्राप्नोति । तथाप्युदयानन्तरं नवमीदिने स्वत्समपि विद्यमाना- ऽष्टमी, उपवासपूजावलिदानादिषु दिवारात्रिकर्त्तव्येषु परैव । अत्र न त्रि- मुहर्रव सप्तमीवधिका किन्तु स्वल्पापि । स्वल्पत्वं चोभयत्रापि मुहूर्तमात्ररूपमिति प्रामाणिकाः । यदातु पूर्वदिनेऽष्टमी सप्त- भाविद्धा, नवमी न परदिने तदापि विद्धैव सा । यदा तु पूर्वदिने पूर्णा- ष्टमी, परदिने च नवमीविद्धा तदा पूर्वव । मत्र पूर्णाष्टम्या तत्पूजा परदिने सन्धिपूजा । तत्परदिने नवमीपूजा, तत्परदिने विसर्जनमिति प्राच्याः। यदोचराऽरपापि गृह्यते तदा वलिदानादिकं स्व स्व काले एव । अथ नवमी।साऽष्टमीविद्धव पूजायाम्। बलिदाने तु सा दशमी विद्वैव । द्वितीयदिने नवम्यलाभे पूर्वदिने एवं नवमीमध्ये कार्यम् । बलिदानंचाष्टमीपयुक्त महानिशायाम् । नवमी प्रयुक्तं तु दिवैव । होमस्तूमयत्र वा एकतरस्मिन् वा इच्छया । यदा तु नवमीविद्धायाँ पूजात्रयस्येवकालताप्रसक्तिस्तदा तन्त्रेण तत् । यदाष्टमीनवमी- पूजयोः प्राप्तकालिकयोः पृथक्सम्भवस्तदा पृथगेव । सन्धिकालस्य पृथक्लामे सनिवपूजापि दिवा वा रात्री वा पृथगेव कार्या। सन्धिः श्व तिधोरन्याय दण्डात्मकः। यदा षष्टिदण्डाया अष्टम्याः परदिनेशेषस्तृवाष्टमीपूजा पूर्वद्युरेव । सन्धिपूजा नवमीपूजा सह पर दिने । प्राच्योक्तं पत्रिकापूजाविषयमिति केचित् । अथ विसर्जनम् । तद्दशम्याम् । तस्याः खण्डत्वे पूर्वदशम्याम् । श्रवणान्त्यभागयोगे पूर्वत्र । तत्र तद्योगाभावे परत्रैव । परदिने दशम्य. भावे तु पूर्वदिनएव नक्षत्रयोगापि दिनद्वयेपि नक्षत्रयोगसत्त्वासत्व- योस्तु प्रात:कालप्राशस्त्येन निर्णयः । तदनन्तरं च तस्यां पारणा ।
तिथिनिर्णये येषां नवम्यामेव पारणाविसर्जनयोराचारो, नवम्यां पारणा दशम्यां विस- जनमिति वा कुलाचारस्तैस्तथैव कार्यम् । कुलाचारानुरोधात् । नवमीपारणायां तु तिथिवृद्धौ परैव सा । साम्येचाथक्षये पूर्वा पारणाह विनिर्णय इति परशुरामप्रतापे । अष्टभ्यां पारणेति केषाश्चित्कु लाचारस्तेषामष्टमीप्रयुक्तपूजादि करवा पारणा । एवं नवम्यां पार- णायामपि । दशम्यां पारणायान्तु क्रमेणानुष्ठानम् । अस्यां दशम्यामेव शमीदर्शनं, राज्ञामपराजितापूजा, खञ्जरीटदर्शनं, सी. मोल्लघनं च। तत्र प्रामसीमान्तैशान्यदिगन्ता शमी पूज्या। एषु कर्मसु दशम्या खण्डवे यदा परदिने एवापराहव्याप्तिस्तदा परत्रैव । तदमावेऽपि परस्यामेव । श्रवणलामे सैवैकादशीयुता प्राथा । अपराहरूप. कालव्यातिरप्यत्र नापेक्षिता । अपराहश्चात्र ब्रेधाविभागेन, तथैवाचारदर्शनात् । उत्तरस्यां श्रवणयोगाभावे तु सर्वपक्षेषु नवमीयुतैव । अपराहकालव्याप्तिलाभात् । प्राच्यास्तु-विनद्वयेप्य. पराहव्याप्तौ नक्षत्रयोगाभावेपि परदिन एव | घटिकान्यूनदशम्याः पूजा- नहत्वाच्छवणयोगेपि पूर्वव । तत्पूर्वकृत्यञ्च देवीविसर्जनाचं दशम्या, तन्मध्ये अपराजितापूजनमित्याहुः । पारणाहे द्विविधसूतक- प्राप्तौ तु ब्राह्मणद्वारा नवम्यां होमं कारयित्वा पारणं कार्यम् । सूतकान्ते ब्राह्मणभोजनं दानं च । एवं रजस्यपि । इति नवरात्रम् । अथ दीपावली। तत्र चतुर्दशी, अभ्यङ्गस्नाने प्रात:कालण्या- पिनी पूर्वा परा वा ग्राह्येति प्राच्याः। दाक्षिणात्यास्तु-चन्द्रो- दयव्यापिनी ग्राह्या, तदसम्भवे प्रातःकालव्यापिन्यपीत्याहुः। अस्यां प्रातरभ्यङ्गस्नान, ततो यमतर्पणम् । ततो नरकनिवृतये दीपदानं, प्रदोषसमये ततो ब्राह्मणैः सह नक्तभोजनमिति, कृत्यम् । तत्र या पूर्वैव प्रातश्चन्द्रोदये वा वर्तते साऽखण्डा सर्वकृत्येषु योग्यैव । या तूत्तरैव प्रातश्चन्द्रोदये वा वर्तते तावस्येव समाता । तत्र तस्यामेव स्नात्वा यमतर्पणम् , दीपदानं तु पूर्वदिने प्रदोषव्यापिन्यामि- ७९ होलोत्सवनिर्णयः। स्येके । अन्ये तु- स्नानोतरप्रदोषे, स्नानदिनप्रदोषे, तिथ्यनपेक्ष्यत- विधानादित्याहुः। या तु दिनद्वयेऽपि, तस्यां पूर्वस्यामेव । सम्पूर्ण- खाद्भ्यः कृत्यक्रमानुग्रहाच्च । एवं दिनद्वयेऽपि वैषम्येण साम्येन- वैकदेशेव्यासावपि पूव । या दिनद्वयेऽपि तदस्पर्शिनी तस्यां परत्रैव स्नानादि चन्द्रोदयएववेत्याहुः । इदं तु युक्तम् । अथ तदमा । अस्यामभ्यगस्नानम् , अमा कर्त्तव्यदीपदानं च श्राद्धानन्तरकर्तव्यत्वेन प्रतीयते । तत्र यदा श्राद्धदिने एव प्रदोषव्या- पिन्यमा तदा सम्यगेव । तथापि यदा पूर्वेयुरेव प्रदोषव्यापिन्यमा द्वितीय- दिने च श्राद्धयोग्या तदा पूर्वेधुरेव तत्प्रयुक्तलक्ष्मीपूजा दीपदानादि कार्यम् । उल्काभिः पितृणां मार्गदर्शनमप्यत्रैव प्रदोषे। अथ तत्पतिपदा । अस्यामभ्यगस्नानं घूतादिकं च कार्यम् । काले वलिपूजा तदुद्देशेन दीपदानं च । रात्री बलिपूजायामेषा प्रतिपत् पूर्वविद्धा प्राधा। यत्वव पूर्वाह्न गो. क्रीडापूजनादिकमुक्तम् । तत् प्रविपदिने चन्द्रदर्शनसम्भवे पूर्व- विद्धायामेव प्रातःकार्यम् । सार्द्धत्रियामाधिकसत्वेन परदिने चन्द्रदर्शना- सम्भवे तु परा । अस्यां नारीनीराजनं मङ्गलमालिकाचेति कर्म- द्वयमुक्तम् । तन्मुहर्तमात्रायामप्युत्तरस्यामेव प्रतिपदि । तत्र नारीनारीजनं प्रातः सायं मलमालिकेति केषित् । उभयमपि सायमेवेत्यन्ये । आषं युक्तम् । एतदुसरद्वितीयायां भ्रातृपूजादिकमुक्तम् । इदं मध्याहव्यापिन्यां कार्यम् । या तु पूर्वत्रैव ताहशी सा सैव । पक्षा- न्तरेषुपरैव । युग्मवाक्यात् । इति दीपावली। अथ होला। तत्र पौर्णमासी पूर्वविद्धव । युग्मवाक्यात् । दीपनं च प्रदोषे मुख्यम् । भद्रायां सत्या तन्न कार्यम् । तत्र यैव प्रदो- षे पूर्वा परा वा सा ग्राह्या । तत्र पूर्वस्यां प्रदोषे भद्रायामसत्यां सम्यगेव । यदा तु तत्र भद्रा, तदा सूर्योदयपूर्वभाविघटीद्वयात्पूर्व भद्रान्तप्रतीक्षया तद्रहितः कश्चिदपि कालो लभ्यते तदा प्रदोषातिक्रमेऽपि तत्र कार्यम् ।
तिथिनिर्णये -- यदा तु तावत्पर्यन्तमपि भद्रारहितकालालाभस्तदा पूर्वदिने रात्रावेव भद्रापुच्छे कार्यम् । यदात्वत्रैव विषये परदिने पूर्णिमा सार्द्धयामत्रयमिता ततोऽधिका वा प्रतिपच परतोवृद्धिगामिनी तदा परदिने प्रतिपद्येव प्रदोषे तद्दीपनं, न तु पूर्वदिनेविष्टिपुच्छे । तत्र प्रतिपत्प्रवेशात्पूर्वमेव तहोपनमिति कश्चित् । एवं च या दिनद्वयेपि कास्नेनैकदेशेन वा प्रदोषव्याप्ता सा सुतरामुत्तरा । पूर्वत्र रात्री भद्रासत्वात् । यदा तु दिनद्वयेपि प्रदोषास्पर्शः, प्रतिपदश्चवृद्ध्यभावः, उक्तसमये भद्रापुच्छाऽलाभश्व तदा भद्रायामपि दीपनम् । कदाचित्तत्काले ग्रहणेऽपि स्नात्वा दीपनं कार्यम् । नित्यनैमित्तिकेषु तत्राप्यधिकारात् । इति होलोत्सवः। अथ श्राद्धम् । अधिगीतश्राद्धव्यवहारविषयत्वं श्रा. द्धत्वम् । तदधिकारिणस्त्वौरसः पुत्रस्तदभावे पौत्रः । ततः पत्नी यदि दायहरा। अन्यथा यो दायहरः सः। तदभावे दौहित्रः । ततः सो. दरस्ततो प्रातृपुत्र इत्याद्यन्यत्र विस्तरः । सर्वाभावे स्त्रियः कुर्युरिस्यादि विवाहोढा विषयम् । अनुपनीतोऽपि पुत्रो श्राद्धाधिकारी कृतचूडश्चेत्स्व. धाशब्दं प्रयुञ्जीत । अकृतचूडोपि त्रिवर्षः कृतचूडस्त्रिवर्षश्चेद्वेदमन्त्रा- नपि पठेत् । तत्र श्राद्धं विविधम्। पार्वणमेकोद्दिष्टश्च । तत्र सर्व- श्राद्धानां दर्शश्राद्धं प्रकृतिः । आपस्तम्बानामपरपक्षश्राद्धं, तेषां सूत्रे तथैव धर्मोपदेशात् । अमाश्राद्धं च कृष्णपक्षश्राद्धामिन्नमेव । तथा- प्यमाश्राद्धमात्रकरणेनाप्यशक्तस्य कृष्णपक्षश्राद्धसिद्धिर्भवति । अविरु- द्धाङ्गत्वे तन्त्रेण । विरुद्धाङ्गत्वेत्वाऽवृतिरस्तु इति कश्चित् । अन्ये तु- तस्या उभयधर्माकान्तत्वेन तन्मात्राधिकरणकश्राद्धानुष्ठानेनोमयोरपि सिद्धिरित्याहुः । प्रत्यमं कर्तुमशक्तस्तु कुम्भा वृषार्के कन्या अमाया- मिति त्रिः कुर्यात् । तत्राप्यशक्तौ कन्या अमायाम् । तत्राप्यशक्तेन ब्राधणभोजनं कार्यम् । साग्नेस्तु-पिण्डदानेनापि सिद्धिः। पूर्णा- .
श्रादनिर्णयः । नदानाशक्तौ किञ्चिद्धान्यदानम् । तत्राप्यशक्तौ कराग्रमित तिलदानम् । बदभावे सत्यष्टतिलयुक्ततिलाञ्जलि दानम् । गोभ्यो यवसदानं किञ्चित् । सर्वाभावे वनं गत्वा भुजावूर्वोकृत्वा-न मेऽस्ति वित्तं न धनं न चान्य- रक्षुषोपयोग्यं स्वपितृन्नतोस्मि । तृप्यन्तु भक्त्या पितरौ मयेतौ कृती भुजौ वमनि मारुतस्येति त्रि: पठेत् । एवञ्च एकः श्राद्धका. लः । एवमष्टकाख्यं कर्म आश्वलायनादीनां सहोम- श्राद्धरूपम् | कात्यायनादीनां काले अष्टका पदप्रयोगो गौणः । तत्राश्वलायनानाममान्तमार्गशीर्षादीनां चतुर्णा मासानां कृष्णा. ष्टमी चतसृषु तदनुष्ठानम् । तादृश भाद्रपदाष्टम्यामपि माध्यावर्षसञ्ज. कमेकाष्टका समानतन्त्रम् । अन्ये-फारगुनाष्टमीपरित्यागेन ताश- भाद्रपदाष्टम्यासह चतस्रः। तत्राद्यायां शाकप्राधान्यम् । द्वितीयायां मांस- प्राधान्यम् । तृतीयामपूपप्राधान्यम् । चतुर्थ्यामपि शाकप्राधान्यम् । तासां पूर्वापरदिनेऽन्वष्टके । अयं द्रव्यभेद आश्वलायनव्य- तिरिक्तानामेव । तेषां तु सर्वत्र द्रव्यदेवतैक्यमेव । वृद्धिश्रा. इस्य तु-अग्न्याधानादीनि श्रौतानि, महादान तटाकादीनि पौ. राणानि । स्त्रीसंस्कारापत्यसंस्कारादीनि सौत्राणि। ग्रहशान्त्या- दि राज्याभिषेकादि स्मातकर्माणि । तेषां प्रारम्भकाले, वृषोत्सर्गे काम्ये, ( न तु प्रेतत्वनिवृत्यर्थे ) जातकर्म, प्रोषितागतकर्म, (सोष्य- न्ती कर्मसु न, अष्टकासु च न ) आधान, होम, वैश्वदेव, वलिकर्म, दर्शपौर्णमास, नवयज्ञेषु, प्रारम्भारम्भ एव । इदानीं शिष्टानां तेषु केषुचिदनाकरणमेव । कृष्णपक्षः सर्वोऽपि कालः । तत्र सक- देव । न तु प्रतितिथ्यावृत्तिः । कामनयाप्येककृष्णपक्षे एक तिथावेव । अत्र चतुर्दशी वया। एवं च यस्यांकस्याचिदन्यतिथौ कृष्णप- क्षनिमित्तके श्राद्धे कृतेऽमायां तन्निमित्तं पृथक् कार्यम् । मायामेव करणे तु न पृथक् । एवं नन्दा भृगुवार जन्मतारारेवतीरोहिणीमघा कृत्ति- काभरणीसप्तमी त्रयोदशीरविवारभौमवारगण्डवैधृतिव्यतीपातेषु कृष्णपक्षे सामान्यनिमित्तं श्राद्धं न कार्यम् ।
८२ तिथिनिर्णये अथ महालयः। तत्र षट्पक्षाः। कृष्णप्रतिपदादि शुक्लप्रतिप- दन्त षोडशदिनपक्षः । प्रतिपदादि दर्शान्तं पञ्चदशेति पक्षः । पञ्चम्यादि, अष्टम्यादि, दशम्यादि, चतुर्दशीवजं दर्शान्तम् । एकतिथिपक्षश्चेतिषट् । अत्रैकदेशवर्ति कन्यासक्रान्तियोगेन सकलस्य पक्षस्य प्राशस्त्यम् । हेमाद्रिणा-पूर्णिमां गृहीत्वा षोडशपक्ष उक्तः । तिथिवृद्धावेति च युक्तम् । तदयुक्तमित्यन्ये। यानीवरिपतृकैराश्विन शुक्लप्रतिपदि मातामहश्राद्धं क्रियते। यच्च नवम्या, तदपि महालयापरपक्षनिमित्तकमेव । अपरपक्षश्राद्धनिषेधस्तु तेषां सामान्यकृष्णपक्षविषयः । येषां श्राद्धे ये अधिकारिणस्तेषां कन्यागतोपलक्षितेऽपरपक्षेऽपि तैस्तैस्तृप्तरवश्यसम्पादनी. यत्वात् । अतएव जीवत्पितृकैरेव क्रियते . मृतपितृकैः पितृश्राद्धदिन एव पृथक् पृथग्वा तत्तृप्तेः सम्पादितत्वात् । अतएव पुत्रपितृव्यज्येष्ठम्रात्रा- दीनामपि तत्तन्मृततिथौ जीवपितृकैः शिष्यैः करणं महालये । तत्रा- चारानवमीप्रतिपदोरेव तत्करणम् । अत्रैकतिथिपक्षातिरिक्तपक्षेषु निमन्त्र. णादि विसर्जनान्त श्राद्धप्रयोगस्य यावत्तिथ्यभ्यासो न तु भेदः । संख्या. प्यभ्यासानामेव । अतएव स्मृतिषु श्राद्धं दिने दिने इत्येवचनम् । निम- त्रण दक्षिणादाने तु प्रतिप्रयोग भिन्न एव । किञ्च पक्षश्राद्धार्थब्रामणैस्सह सहदेव संवादोऽपि । तेषामाशौचोल्पातावन्तरत्यागोऽन्येषांमुपादानश्च । शास्त्रीयनिमन्त्रणाभावेनाशौचनिमन्त्रणाप्रवृत्तेः । प्रयोगस्य सम्भूय फल. जनकत्वेऽपि सायं प्रातरग्निहोत्रवत् प्रतितिथिसङ्कल्पभेद एव । अन्तरा प्रतिवन्धानिश्चयेन केनचिदभ्यासवताऽपि क्षणारब्धेश्राद्धेऽन्तराशौचपाते चो- त्तरप्रयोगाणामननुष्ठानमेव । मुख्यस्य प्रारम्भस्याभावात्सङ्कल्पाभावाञ्च कृता. नामपि सहकार्यभावादफलत्वम् । माशौचापगमे च सकृत्पक्षेण यावद्दी. पावली पुनस्तस्कार्यम् । प्रतिवन्धान्तरे तु-तदैव प्रतिनिधिना कार्यम् । तत्र तिथिहासे तिथिद्वयप्रयुक्तस्य तन्त्रणानुष्ठानम् । वृद्धौरवाचारादा. पत्तिः। एषु न नन्दादि वर्जनम् । एकदिनपक्षे नन्दादि चतुर्दशी च वानि । इदानीं तु-एकदिनपक्षे मृततिथिसमानजातीयाया निषेध.
श्राद्धनिर्णयः। प्रयोजकं नन्दादियुक्तायामपि चतुर्दशीभिन्नायां तिथौ शिष्टा महा- लयश्राद्धं कुर्वति । अमा, व्यतीपात, भरणीद्वादश्यष्टमीषु निषेधप्रयोज- कान्तरसत्वेऽपि सकृन्महालयो भवत्येव । आसु श्राद्धे महाफलम् । नित्यं चात्रापरपक्षेऽपि श्राद्धम् । यदि केनचित्प्रतिवन्धेन, अमान्तकृष्णपक्षे. ऽपि महालये श्राद्धं न जातं, तदा तदनन्तरशुक्लपञ्चमी यावत् । तत्राप्य. सम्भवे तुलासङ्क्रान्ति यावत् । तत्राप्यसम्भवे वृश्चिकसक्रान्ति यावत् । तत्रापि दीपान्वितामा मुख्या । आहिताग्नेस्तु-कृष्णपक्षसामान्यानि मित्तवदिदमपि सकृत्पक्षे द” एव । सन्यासिनस्तु-सकृत्पक्षे द्वाद- श्यामेव । तत्रासम्भवेऽन्यत्रापि । एवं चतुर्दशीमृतस्यापि शस्त्रादिहतस्य महालये तिथ्यन्तरे एव । शस्त्रादिहतस्यैव तत्र श्राद्धविधेः । चतुर्दश्या- मेवेत्यपि कश्चित् । पौर्णमासीमृतस्य तु श्राद्धेऽमायन्यतरत् । तत्रासम्मवे तिथ्यादि निषेधविचारपूर्व दिनान्तरे । अथ त्रयोदश्यां श्राद्धं विचार्यते। तत्रेदं स्वतन्त्र, भिन्न- मेव महालयनिमित्तात् । इदमपि नित्यम् । अस्या युगादित्वेऽपि पुनर्विषिरावश्यकत्वार्थः, फलातिशयार्थों वा । एवमेतत्पक्ष. गा मघापि श्राद्धकालः । मघात्रयोदशीयोगेपि प्राशस्त्यम् । ये तु पुत्रवतः कृष्णपक्षसामान्यतस्त्रयोदशीश्राद्धनिषेधास्ते पुत्रवतोऽन्यबहुलाभार्थत्रयो. दशीश्राद्धविषयाः । तेन सर्वथा सन्तानरहितस्य तद्वतोऽपि वा. तदतिरिक्त मोक्षादिफलार्थिनो न निषेधः। यत्तु-महालयत्रयोदश्यां केवलायां मघायां वाऽत्यावश्यकं श्राद्धं, वपुत्रवता पिण्डदानाप्नौकरणरहितं कार्यम् । नियमेन मातामहवर्गसहितं च कार्यम् । अन्यत्र तु-गृह्येषु मातामहा. नामनुक्त्या, वृद्धिश्राद्धादिषु पुनः “षड्भ्यः पितृभ्यः इत्युक्ते- श्व" तेषामनावश्यकत्वम् । अविशेषेण मातामह श्राद्धं कार्यमितित्वपुत्र मातामहविषयम् । तादृश मातामहश्राद्धस्य दौहित्रेणावश्यकर्त्तव्यत्वात् । येन च मातुः सपिण्डनं मातामहेन सहकृतं तेन चावश्यं कार्यम् । अपुत्रेण तु पिण्डदानमपि कार्यमिति व्यवस्था । केचि.
प तिथिनिर्णय - तु-पुत्रवतः श्राद्धाभाव एव । अपुत्रः पिण्डदानरहितमित्याहुः । तदयुक्तम् । अथ चतुर्दशी। तत्र कृष्णपक्षसामान्यचतुर्दश्यां येनकेनापि पक्षेण यस्यांकस्याञ्चित्तिथौ चतुर्दशीभिन्नायां पित्रादिश्राद्धे कृतेऽपि शस्त्रा. दिनिमित्तमरणनिमित्तं पुनस्तेषां श्राद्धं चतुर्दश्यां कार्यम् । विष सर्प श्वापदादि तिर्यक् ब्राह्मण शस्त्र मरकाद्युपद्रववह्निजलो. बन्धनमृतानां युवावस्थामृतानां च तत् । वृक्षारोह- विद्युतादिमृतानांच। सर्वथा दुर्मुत्युमृतानामुपलक्षणमिदम् । यस्तु- प्रायश्चितार्थ विहितवुझ्या जलादि प्रवेशेन मृतः, योवाऽतिवृद्धः प्रत्या. ख्यातभिषक्रियस्तथामृतस्तस्य चतुर्दश्यां न कार्यम् । सङ्घनमप्रायोपवे- शानशनानां विहितत्वेऽपि तैर्मृतानां चतुर्दश्यां श्राद्धं कार्यमेव । एतच्च पित्रादीनामप्येकोदिष्टमेव । येषां तु-सपिण्डीकरणमेव नास्ति तेषा- नैतत् । येषां वर्षमध्ये बौद्धदेहिकमेव निषिद्धमत्रे च नारायणव- ल्यादिपूर्वकं विहितं, तेषामपि यावत्सपिण्डीकरणं न भवति । अन्य- कृष्णपक्षापेक्षया महालयेऽत्यावश्यकमिदम् । पित्रादित्रिकमध्ये द्वयोरयाणां वा शस्त्रादिहतत्वे एकोदिष्टद्वयं, त्रयं वा तन्त्रेण भवति । त्रयाणां दुर्मरणमरणे पार्वणमित्येतदनाकरम् । यस्तु-महालयचतु- दश्यामेव मृतस्तस्य मृताहनिमित्तश्राद्धं यथाचारमेकोदिष्टं पार्वणं वा । अमावस्याक्षयो यस्येत्यस्य समूलत्वे तु-पार्वणमेव । तदा चतु. दशीनिमित्तमेकोदिष्टं पृथग् न भवति । न्यूनधर्मतया पार्वणेनापि तन्त्रो- पपत्तेः । सक्रान्तिव्यतीपातादिनिमित्तं तस्यां पार्वणमेव । चतुर्दशीनि- मित्तं तु तदा पृथक् सपिण्डं कार्यम् । सपिण्डत्वरूप विरुद्धधर्मकत्वात् । दुर्मुत्युनिमित्तके चतुर्दश्यां श्राद्धे कृतेऽपि महालयनिमित्तं दिनान्तरे कार्य- मेव । महालयनिमित्तस्य तस्यावर्जनात् । मात्रादितृप्त्यर्थ पितृव्यादि- तृप्त्यर्थ च । येषु तु पक्षेषु चतुर्दशीवर्जनं नास्ति तेषु महालयचतुर्दशी. निमित्तयोस्तन्त्रमेव । चतुर्दश्या दुर्मुत्युनिमित्तश्राद्धासम्भवे लोप एव, प्राइनिर्णयः। दिनान्तरे पार्वणविधिना कार्यमिति हेमाद्रिस्तु निर्मूलम् । एवं कन्यास्थे रवी पौर्णमास्यां स्वपितृपितामहप्रपितामहेभ्यः परे ये नान्दी. मुखसंज्ञकात्रयस्तेषां प्रत्यब्दं पार्वणविधिना कार्यम् । हेमाद्रिस्तु- कन्यायोगाभावेऽपि चान्द्रभाद्रपदपौर्णमास्यां कार्यमाह-इति महालयः। नवान्नश्राद्धं शरदि वसन्ते च कार्यम् । अवृष्ट्या तयोर्धा- न्यापाके तु यदासस्यस्तदैव कार्ये । तत्रापि धनुषि न । मातापित्रोम॑ततिथि- सजातीयतिथौ प्रत्यन्दमत्यावश्यकम् । अपुत्रज्येष्ठनातुश्चावश्यकम्। कनीयसस्तु नावश्यकम् । पुत्रानुजयोः सपिण्डीकरणं पितृज्येष्ठधात्रोर्य- द्यपि निषिद्धं, तथापि तदभ्युदयैककामनयाऽन्यद्वारा कार्यम् । ततः स्नेहेन यदीच्छा, तदा सांवत्सरादिकमपि ताभ्यां कार्यम् । अत्र मर. णक्षणसम्बन्धिनी तिथिह्या । साजात्यञ्च तन्मासतत्पक्षगत. स्वेन । अब्दश्चात्र चान्द्रः। अथाब्दिकम् । इदमपि वत्सरान्ते मृताहन्येव । इदं चाब्दिक ग्रहणतत्पूर्वकालप्राप्तं भोक्तृब्राह्मणलाभेऽनेनैव । तदसम्भवे आमादिनापि तद्दिन एव कार्यम् । आमं चात्र वितुषम् । एवं मासिकमपि । श्राद्धान्तरे तु-पाकश्राद्धासम्भवे तु आमानसाधनत्वे विवाद एव नास्ति । यत्तु-ग्रहणद्वितीयेऽहनि तदिति, तदनाकरम् । प्रसङ्गादुच्यते । आपदि आमश्राद्धम् । स च प्रवासादिषु पाकश्राद्धासम्भवात् । अन्नाभावे पाक्याभावकृतः सः । ग्रहणपुत्र- जन्मनोः पक्कान्नभोक्त्रभावकतः सः। पत्न्यभावतद्रजोदोषैकाकी प्रवासतीर्थ. प्राप्त्यादिषु भोक्त्यभावकृतः सः । एवं च तत्सम्भवे तेष्वपि पाकश्राद्ध- मेव । केचित्तु-सम्भवेप्येषु आमश्राद्धं वदन्ति । सङ्क्रमोपासना- धन्यभावयोस्तु-आपदमावेऽपि स्वातन्त्र्येणामश्राद्धनिमित्तत्वम् । अग्न्यभावेऽग्नौकरणं तु विप्रपाणावेव साग्नेरपि। आमासम्भवे तु चतुर्गुणमूल्येन हेम्ना । आमान्नं च द्विगुणं, भोजनपर्याप्त्या देयम् । पुत्रजन्मनि हेमश्राद्धमेव मुख्यम् । तदभावे भामानम् । तच्च तिथिनिर्णय विप्रलब्ध स्वयम्भोक्तव्यमेव । क्षत्रियादिलब्धं यथेष्टं विनि- योज्यम् । शुद्रलब्धस्य तु-स्वीये परकीये वा भोजन एव यथेष्ट. विनियोगो न तु नित्यनैमित्तिके। नापि विप्रलब्धवत्स्वभोजन एव। ततो लब्धहेम्ना तु श्राद्धादि नित्यादिकमपि । स्त्रीणां शूद्राणां च सदा आमश्राद्धमेव । पिडास्तु-पायसादिनापि । विकिरादि तु- सर्वमामेनैव । आमादिश्राद्धे च प्राणाहुत्यादिलोपः। ग्रहणादन्यत्र मृताहे द्विजानामामश्राद्धम् , मृताहश्राद्धं पत्न्या रजस्वलायामपि तदहरेव । हेमा. द्रिस्तु-तस्या रजोनिवृतौ पञ्चमेऽहनि कार्यम् । तदपि साग्निना । सहाधिकृतभार्यान्तरसत्वे तु तेनापि तद्दिन एवेति तदाशयमेके । निरग्निकेनापि-पञ्चमेऽहनि कार्यमित्याशयमन्ये वर्णयन्ति । यत्र तु भाथैव की, सा रजस्वला, तदा तया तु पञ्चमेऽहन्येव कार्यम् । अमादिनिमित्तं तु तस्या लुप्यत एव । अत्र रजोवद्धार्याकर्तृकममादिश्राद्धं वदहरेवाऽमेन, नत्वन्नेन । केचित्तु-पन्त्यभाव एवेदं, तत्सत्वे तु- पाकेनापीत्याहुः। महालयश्राद्धमप्येवम् । आशौचेन तु क्षयाहप्रतिवन्धे भाौचान्त्यदिनोत्तरदिने तत् । एवं महालयमासि. काद्यपि । तद्भिन्नममादिश्राद्धं तु लुप्यत एव । तत्रासम्भवे कृष्णका- दशी, अमाशुक्लैकादश्यायन्यतरत् । तत्रान्स्येमुख्थे । तत्र सन्निहित- पूर्वपूर्वाभावे उत्तरम् । पाकासम्भवादिनाऽब्दिकविघ्ने तु- तदुत्तरामादौ पूर्ववत् । व्याध्यायशक्तपुत्रादिना तु-तदिन एवा. नेन प्रतिनिधिद्वारा । प्रतिनिधिनाप्यसम्भवेऽमादिषु । मासिकं स्वा. शौचातिरिक्तनिमित्तेनान्तरितमुत्तरमासिकेन सह कार्यम् । तदि. नेचोपोषणरूपं प्रायश्चितं च कार्यम् । आशौचेन प्रतिवन्धे तु आब्दिकवत् । यस्य मरणतिथिर्न ज्ञायते, मासस्तु ज्ञायते, तदाब्दिक तन्मासगतामायाम् । पक्षज्ञाने यदि शुक्लपक्षस्तदाशुक्लकादश्याम् । कृष्णे तु, अमा तदेकादशी वा । पक्षाज्ञानेपीमे । तत्रामा मुख्या । यदा मरण- तिथिरेव ज्ञायते, न मासस्तदा मार्गमाघभाद्रपदान्यतमे मासि तिथौ श्रादनिर्णयः। . कार्यम् । आषाढोऽपि. कैश्चिदुक्तः। तत्र पक्षज्ञाने तत्पक्षगतों सो । नोचेकृष्णपक्षगता सा। मरणसम्बन्धिनोस्तिथिमासयोरुभयोरप्यज्ञाने, . प्रस्थानोत्तरमेव । यस्य जीवनवाती नास्ति-तस्मृताहश्राद्धे प्रस्थान दिन मासौ ग्राह्यौ। प्रस्थानस्यापि मासमात्रज्ञाने तन्मासादिषु । दिनमात्रज्ञाने मार्गादिषु तदिने । शुक्लपक्षे तदज्ञानयोः पूर्ववत् । यदा प्रस्थान दिनमासयोरप्यज्ञान, यस्य वा प्रस्था. नोत्तरं बहुकालं जीवनवार्ता श्रुता, पश्चात्तन्मरणज्ञानं, नतु तद्दिनमासौ, तदा मरणसम्बन्धिनौ दिनमासौ ग्रायौ । मरणवार्ताश्रवणसम्बन्धिमास- मात्रस्मरणे तदमादिषुः । तदिनमात्रस्मरणे मार्गादिसम्बन्धि तदिने । पक्षज्ञानाज्ञानयोः पूर्ववत् । यस्य तु-मरणतच्छवणप्रस्था. नानां सर्वेषामपि दिनमासयोरज्ञाने तस्य माघमार्गाद्यन्यतमा- मायाम् । यस्य त्वज्ञातदेशगतस्यानिर्धारणात् द्वादशवर्षादि प्रतीक्षया प्रतिकृतिदाहाद्यौर्वदेहिकं क्रियते, तस्य दाहकालिकतियावेवाब्दिक- मासिके कार्यम् । तत्र पितृविषये तारुण्यादिसत्वे पञ्चदश. वर्षप्रतीक्षा। पित्रतिरिक्तस्य तु ताशवे द्वादशान्दम् । पितु. रपि पश्चाशदूर्ध्ववयसो बादशवर्षम् । तदानी भार्यायाः सहग. मनादिकमपि भवत्येव । एतेचामाद्याः नियमेन षड्दैवत्यपार्वण- कालाः प्रत्याब्दिकसपिण्डीकरणे वर्जयित्वा । सपिण्डीकरणात् प्राक् तु एकोद्दिष्टमेव । महालयादिषु सर्वदेवत्यमिति केचित् । आ- ब्दिकं तु यते। पार्वणमेव । प्रेतपक्षामामृतयोरपि पार्व- णमेवेति केचित् । मातापित्रोस्तु-औरसक्षेत्रजाभ्यां साग्नि- काभ्यां पार्वणमेव । अन्यैस्तु-एकोद्दिष्टमामं वेति केचित् । मिताक्षरातु-मातापितृविषये पार्वणैकोद्दिष्टयोर्वि- हितयोराचाराद्यवस्थामाह-तत्र प्राच्यादय एकोद्दिष्ट माचरन्ति । पार्वणं दाक्षिणात्याः। दाक्षिणात्यानामपि ज्येष्ठपितृन्यभ्रातृमातृसपत्नीनामपुत्राणां पार्वणे आचारः। कनिष्ठानां तु. .
6 तिथिनिर्णये एकोद्दिष्टे । दम्पत्योमिथः पार्वणे। मातामहस्यापि पार्वणे । अन्ये- बांतु-एकोद्दिष्टमेव । प्राच्यास्तु-क्षयाहे सर्वेषामेकोद्दिष्ट- मेवाचरन्ति । सङ्घातमरणेत्वासक्त्या प्राक्रमः । यथा पतिपस्न्योः सम्बन्धः प्रत्यासन्नम् । पुत्रस्य ततो विप्रकृष्टः । ततोऽपि प्रातुरित्यायूह्यम् । पित्रोः पत्न्यादीनां तत् द्वादशाह एव । एकदिने तिथिभेदेन पित्रोमरणे सहैवोभयोः । अनुगमनेप्येवम् । सपिण्डीकरणं तु- तत्तद्वाद शाह एव । एकदिने तिथिमेदेन पित्रोः प्राप्तौ पितृपूर्वक द्वयोरपि क्रमेण । अन्येषां तथा प्राप्तौ वा सति क्रमेण । "नैका श्राद्धद्वयं कुर्यादिति तु"-एकस्मिन् क्रियमाणे यत्रापरस्यप्रसङ्गासिद्धिस्तविषयम् । यथा अमानित्यश्राद्धयोः, यथाचारदर्शनयुगादिश्राद्धयो । यत्र पत्नी. भर्तृचित्यामन्वारुह्य मृता, तत्र तिथिभेदेन मरणे तत्तत्तिथौ तस्य तस्याश्च पृथगेवाब्दिकम् । यदा तत्र तिथ्यैक्यं, पाकं तन्त्रेण कृत्वा श्राद्धं पृथगेव। एवमन्येषामपि सङ्घातमरणे। आसक्तिक्रमेण मरणक. मेण वा क्रमः। परन्त्वन्वारोहणे द्वयोः पिण्डै क्यम् । द्वि. पितृकक्रियमाणे श्राद्धे पितृद्वयोरुद्दिश्यकैकपिण्डवत् । ब्राह्मणोप्येक एव । नवश्राद्धानि पृथगेव । तत्र पिण्डोऽपि पृथगेव । अबतन्त्रता तु तत्रापि पृथगेव, ब्राह्मणः पिण्डश्च । अङ्गानामेव तन्त्रमित्यपि पक्षान्तर- माब्दिकविषये। अनयोश्च शक्त्यपेक्षया व्यवस्था । अव्यवहितमिन्नतिथिमरणे खण्डतिथित्वादेकदिनश्राद्धप्राप्तावप्ययमेव निर्णयः। यत्तु-तिथिभेदेनाप्यान्वारोहणे भर्तृतियावेव पल्या अपि श्राद्धानुष्ठानं, तन्न युक्तम् । तत्र तत्तिथौ पृथगेव तस्य तस्याश्च श्राद्धं युक्तम् । अनेकाभिर्मातृभिरेकपित्यारोहेप्येवमेव । तत्र द्वितीयपक्षे-प्रथमं पितुस्ततः साक्षान्मातस्ततो ज्येष्ठादिक्रमेण । पाणैकोद्दिष्टयोस्सन्निपाते पूर्व पार्वणम् , तत एकोदिष्टमि- त्येके। विपरीतमित्यन्ये । अनेकनिमित्तसन्निपाते निमित्चानुक्रमेण ।
*. आदनिर्णयः। यद्यप्येकदेवताकमायादीन्येकदिने निषिद्धानि, तथापि नैमित विकानि वचनबलाद्भवत्येव । नित्यकाम्ययोरकदेवस्ययोः समिपाते काम्येन नित्यसिद्धिः । इति पार्वण श्राद्धकाला। सपिण्डीकरणात्प्राक् नियमेनैकोशिष्टमेव । तत्र दशाहान्तक्रियमाणानि नवानि । एष्वेकोदिष्टेष्वपि ब्राह्मणा युग्मा एवेत्येके । अन्ये तु- अयुग्मा एवेत्याहुः। एकादशाहिके एकोऽपि । तत्र शय्यादानवृषोत्सर्गादि । एकादशाहिकश्राद्धं स्वस्वाऽऽशौचा- न्तोत्तरदिने । तेन क्षत्रियादिभित्रयोदशाहादौ व्यहैका. हाशौचिमिश्च तन्मध्य एव दशाहकृत्यानुष्ठाने तदन्ते एव तत्कार्यमिति शूलपाणिः। मिताक्षरायाम्-क्षत्रियादिमिराशौचमध्येपि वचनादे. कादश एव तत्कार्यम् । व्यहैकाहाशौचिभिरपि तत्रैव तत्कार्यमित्युक्तम् । गावपूरकदशमपिण्डसमाप्तिस्त्वतन्मतेपि क्षत्रियादीनां स्वस्वाशौचा. न्यदिन एव । इति नवानि । अथ नवमिश्राणि । तानि च षोडश पाडानि । आ- यमासिकोनमासिकद्वितीयमासिक त्रैपक्षिक तृतीय- मासिक चतुर्थमासिक पश्चममासिक पाण्मासिकोऽनषा- मासिक सप्तमाष्टमनवमदशमेकादशवादशोनाब्दिका. नीति ॥१६॥ तत्र मासिकानि प्रथममासाधमृततिथौ । ऊना- नि तु-तत्तन्मासान्त्यतिथिषु । एषु भोजने प्रायश्चितानि- नवश्राद्धे चान्द्रायणम् । मासिके पराकः। त्रैपक्षिकेऽति कृच्छः। पाण्मासिके कृच्छः। ऊनाब्दिके पादयकृच्छः। आब्दिके एकाह इति । ऊनाद्यमासिकं बादशाहेऽपि । तत्रैकादशाहे त्रयम्-नवश्राद्धमाघमासिकम्महकोद्दिष्टं चेति। मईको- द्दिष्टं विप्राभावेऽग्नौ, तत्र त्रैपक्षिकपर्यन्तानि । आहिताग्नेहिदिना- दारम्यैकादशाहादिषु । एकाग्न निरग्ना मरणदिनादारभ्य । तदू- नितूभयोमरणदिनादेव । एतानि षोडशश्राद्धानि स्व स्व तिथिनिर्णये काले कर्तव्यानीति मुख्यः कल्पः । यदा-एकस्मिन्नेवाहि एकादशे द्वादशे वा। द्वादशदिनपक्षे आद्यमासिकन्यूनानि पञ्चदशैव । एवं वृद्धिपूर्वदिनादौ ( यदा सपिण्डीकरणाथ क्रियते, सदा) यावन्ति स्वकालताऽवशिष्टानि तावन्त्येव । तथैकादशाहप्रभृति भाब्दमेकविप्रभोजनपर्याप्त्यानसहित उदकुम्भो. देयः। अत्र पि. ण्डदानं कृताकृतम् । तत्र वर्षान्तसपिण्डीकरणपक्षे प्रेतशब्देनोल्लेखः। द्वादशाहादौ सपिण्डीकरणे प्रेतशब्दोल्ले. खो न कार्य: । प्रत्यहं तत्पूरणाशको, एकस्मिन्नेवदिनेऽपक्ष्यापि कार्याणि । अत्रोदकुम्भानयोः पृथगेव त्यागः । एष उदकुम्भः, इद. मन्नमिति । नतु सोदकुम्भमिति वा, आचारात् । अत्रार्ध्या- बाहनादि श्राद्धीयसकलधर्मनिवृत्तिः। कर्तृभोक्तृनियमराहित्यं च । यदेदं पार्वणं तदाप्यदैवं, एकोद्दिष्टेतिकर्तव्यता च । एकोऽयः, एक दलम् । एकः पिण्डो नावाहनाऽमौकरणविश्वेदेवाः, स्वदितमिति तृप्ति- प्रश्नः । सुस्वदितमित्यनुज्ञा । उपतिष्ठतामित्यक्षय्यस्थानेऽभिरम्यतामिति विसर्गेऽमिरतास्मः, इत्युत्तरमिति । अथ सपिण्डीकरणकाला। तब सामिकेन पिण्डपितृयज्ञा. विकारिणा कोऽशौचोत्तरदिने यथासम्म षोडशश्राद्धानि विधाय तदु. त्तरदिने वर्शादर्वाक् यत्रक्वापि दिने वा सपिण्डीकरणं कृत्वा दर्श पि. ण्डपितृयज्ञः। द्वादशदिने एव दर्शपाते तत्रैव तन्त्रेण षोडशश्राद्धानि, सपिण्डनम् । पिण्डपितृयज्ञस्य कर्तुमशक्यत्वात् मृपितृकस्य तदकरणे प्रत्य- वायात् । मातुरपि पितृत्वप्राप्तिः श्राद्धार्थमिव पिण्डपितृयज्ञार्थमप्यपेक्षि. तैव, तत्पिण्डेष्वपि तस्या अंशमागित्वात् । नचैवं पिण्डपितृयज्ञपि सप- त्नीकत्वेनोरलेखापत्तिः । तं विनाप्यंशभागित्वेनोपपतेः । मातुर्मातामहेन सपिण्डने तत् पिण्ड एव । अन्यथा मातामहांशभागित्वार्थ तत्रापि सदुहि- तृकेत्युल्लेखापत्तेः । एवं च श्राद्धेऽपि तादृशोरलेखोऽयुक्त एव । दर्शश्रा- द्धार्थमपि सामिकस्यापकर्ष मावश्यकः । तस्यापि सपिण्डनं विना त श्रादनिर्णयः। प्रति निषिद्धत्वात् । एवं दर्शश्राद्धाधिकारिखच्छूरैरपि दर्शश्राद्धार्थ द्वादशाह एवं कार्यम् । नत्वनाहिताभिवत्रयोदरो । यद्याहिताग्ने प्रतिबन्धक वशादेषुनजातं तदा वक्ष्यमाण त्रिपक्षादिषु कार्यम् । निरग्निक नखाहिताः प्रेतस्य मृततिथ्यवधिकतृतीयपक्षे यत्र कापि तत्कार्यम् । प्रेतश्राद्धनिषिद्धतिथिनक्षत्रादिकं तु परिहार्यम् । एतन्निरमिकस्याहिता- मिप्रेतविषयं कालं प्राच्या न लिखन्ति । उभयोनिरनिकत्वे सम्ब. सरपूर्त्यनन्तरमृततिथिर्मुख्यः कालः । स्मृत्यर्थसारे-तत्पूर्वभाविप्रथ. मसम्वत्सरान्त्यदिने तदुक्तम् । तदयुक्तम् । तत्र प्रथमाब्दिकस्य लोप एवेति श्रीदत्तादयः। परे तु-सपिण्डीकरणे प्रेतत्वनिवृत्तिपूर्वक पितृत्त्वप्राप्तिरूपफल. भागि प्रेतदेवस्यत्त्वेनैकोद्दिष्टस्य मुख्यत्वात्तस्य मध्याह्नः कालः। पार्वणं तु-तदभावे संयोजनस्य कर्तुमशक्यत्वात्तदुपकारि, आब्दिकस्य तु पार्वणत्वादपरातः काल इति न तत्कालावरोषः। द्वितीयश्राद्धकरणोचर तन्त्रणोभयानभोजने न क्षतिः । येषामप्याब्दिकमेकोदिष्टं, तैरपि गौणकालस्याविरोधाचतकर्तुं शक्यम् । यद्यपि प्रेतकोदिष्टः शेषभोजनं निषिद्धन्तथापि पार्षणांशतद्भोजनमावश्यः अतएव तत्र पार्वणैकोद्दिष्टांशयोः पाकभेदाचार शिष्टानाम् । एवञ्च सपिण्डीकरणं कृत्वा तदिनएवाब्दिकानुष्ठान- मित्याहुः । सम्वत्सरान्ते तत्करणाशक्तिनिर्णये तु- एकादश, नव,षष्ठ,तृतीयमासतृतीयपक्षेषु यस्यां कस्याञ्चित्तियो क्रमेण पूर्व- पूर्वाभावे । तत्राप्यशक्ती-एकादशदिनमारभ्य द्वादशषु षोडशश्राद्धानि कृत्वा त्रयोदशे ११ आषं १२ जनाधं द्वितीयं च १३ त्रैपक्षिक तृतीयं च १४ चतुर्थ १५ पञ्चमं १६ षष्ठं १७ ऊनपाण्मासिकं सप्तमं च १८ अष्टमं १९ नवम २० दशमं २१ एकादशं २२ द्वादशमनाब्दिक चेति । तत्रापशक्ती एकादशे वा तानि कृत्वा मृतदिनाद्वादशाहे अयमेव पक्षः शस्तः। 'आनन्याकुलधर्माणां पुंसां चैवा. कम् ।
तिथिनिर्णय युषा क्षयात् । अस्थितेश्च शरीरस्य द्वादशाहः प्रशस्यते' इत्युक्त । अस्मादेव ज्ञायते सपिण्डीकरणाधिकारिणा यावत्सपिण्डीकरणं, कुलाचारादिप्राप्तमपि मानल्यं कर्म न कार्यमिति । द्वादशाहादिकाले प्रमादादकतन्तत्तदुत्तरमाविकाले यथासम्भवं कार्यम् । तथा द्वादशाहा. तिरिक्तपक्षेष्वावश्यकंवृद्ध्यादिप्राप्तौ तन्निमित्तमांगपि वृद्धिसन्निहते का यम् । पितृस्वाभावेन वृद्धिश्राद्धस्य कर्तुमशक्यत्वात् । एवं च वृद्धिश्राद्धे येषां देवतात्वं तत्सर्वसपिण्डनस्यापकर्षः । एवं पितृव्यादिमितुः पुत्रादीनां संस्कारे संस्कार्यपित्रादीनामपि तदङ्गश्राद्ध देवतावेन तन्नि. मित्तं संस्कार्यपित्रादिसपिण्डनस्याप्यपकर्षः । यत्तु-यस्यकस्यापि सपिण्डनस्य मृगौ तत्सपिण्डनामावे येन- केनापि तत्सपिण्डेन तदसम्बद्धश्राद्धानकमपि स्वपुत्रोत्सवादि न क्रियते, तदुपस्थितौ च सपिण्डनानधिकारिणाप्यारण्य क्रियते, तन्निर्मूलम् । आचारएवमूलम् । तत्र ज्येष्ठासन्निधौ कनिष्ठेनाप्यपकृष्य कार्यम् । मैथिलास्तु--ज्येष्ठेऽसन्निहिते कनिष्ठेन स्वपुत्रादिसंस्कारोपस्थिती पितरिमृते पितामहादेरेव श्राद्धं कार्यमित्याहुः। तदयुक्तमित्या न्ये । तत्र यदा तदपकर्षप्रसक्तिः, तदा स्वकाल कृतावशिष्टषोडशश्राद्धा- न्यप्यपकृष्य कार्याणि । अपकृष्य कृतान्यपि स्वस्वकाले पुनरप्यनुष्ठेया. न्येव । द्वादशाहे सपिण्डीकरणे षोडशश्राद्धे च कृते पुनः स्वकालेऽनु. ष्ठीयमाने तेषु वृद्ध्युपस्थिती पुनस्वदपकर्षः । तदुत्तरं च पुनर्न कार्याणि । येषामधिकारिणामुत्तरक्रियाया नावश्यकत्वं तैः सपिण्डीकरणोचरं षोडश. श्राद्धानि न कार्याणि । यदा पितामहे प्रपितामहे वा कृतसपिण्डीकरणे. पितामृतस्तदा तयोः सपिण्डनेन पितृभावे तत्पुत्रादिना सम्पादिते तद. भावे स्वयं वा तत्सम्पाद्य पितुस्तकार्यम् । यदि तथा क्रियमाणे वर्षान्त. पंयन्तकालीतकमा न भवति । तदतिक्रमे त्वकृतसपिण्डनाभ्यामपि ताभ्यां पितुः सपिण्डनमन्तिमकाले कार्यम् । एवं कृते दर्शश्रादमपि वाहशाभ्यामपि ताभ्यां सह कार्यम् । सपिण्डीकृताभ्यामपि सुतराम् । एवं महालयादीन्यपि।
श्रादनिर्णयः। केचित्तु-सपिण्डने कृतेऽपि प्रथमाब्दे दर्शश्राद्धादीनि न का. याणीत्याहुः । यत्र तु सहगमनेनान्यथा वा बियाः पत्यासह सपि- ण्डीकरणं, तत्र भयकृतसपिण्डनेऽपि प्रेतीमतेनैव सह तेन तस्याः सपिण्डनम् । अखण्डपत्नीपिण्डप्रेतस्यैव भर्तुः पिण्डे संयोज्य ताहरां भतपिण्डं त्रेधाकृत्वा पित्रादिपिण्डत्रये तस्य संयोजनमिति प्रकारेणै- कोद्दिष्टद्वयवैश्वदेवपार्वणार्थविप्रपात्रोपादानेन सर्वत्र च पिण्डसंयोजनं, पिण्डोत्थापनपर्यन्तं पिण्डदानप्रयोगं कृत्वा कार्यमिति बहवः । अन्ये तु-सपिण्डनं तावन्मात्रोपयोगिपात्रोपादानेन कृत्वा तद्दिन एव कालान्तरे वा, मिन्नप्रयोगं स्त्रियाः सपिण्डनं कार्यमिति मन्यन्ते । व्युत्क्रममृतो तु-पितामहे विद्यमानेऽपि पितरि मृते प्रपिता- महपूर्वकामयः पिण्डास्तेषु च पैतृकस्य नियोजनम् । एवं मातुः प्रपि. वामयादिभिः । एवं प्रपितामहजीवने तस्पित्रादिमिः पितामहे मृतेऽपि । मातापितृभर्तृभिन्नानां व्युत्क्रममृतानां नैव सपिण्डी. करणम् । प्रयाणां योगपधे तु प्राधान्यास्पितुः सपिण्डनं कृत्वा पूर्वयोः कुर्यात् । पितामहेमृते, दशाहान्तःपातिपितृमृतौ पितुः संस्कार करवा पिता- महस्य पुनः सर्वमावयेत् । वृत्ते दशाहे तु नैवम् । मशक्तपित्रनुज्ञया पौत्रेण पितामहश्राद्धे प्रक्रान्ते पितृमृती वदाशौचं. वहन्नेव पौत्रः पिताम- हकर्मापि कुर्यादिति वहवः । स्त्रीणां तु भर्तृगोत्रेणैव । तत्र जीवस्पिता- पितामयाः । तत्सत्वे प्रपितामधाः। मृपितृकः पित्रा। पुत्रिकासुतो माता- महेन । अपुत्रायास्तु भार्यायाः श्वश्रवादिभिः सह । एवमपुत्रस्य भर्तुः स्त्रियाप्यमन्त्र तस्कार्यम् । अग्रे आन्दिकादिकं च । ब्रह्मचारिणां यतीनां च सपिण्डनं नास्ति । आद्यानां सदैकोद्दिष्टः मेव । अन्त्यानां पार्वणमेव । आसुरादिविवाहोढानां पितृगोत्रेणैव, तन्मातृपितामहीप्रपितामहीभिस्तन्मातामहेन वा तत् । केचित्तु-व्युत्क्रममृताना वसुरुद्रादित्यैः सपिण्डनमपुत्राणामित्याहुः । इति श्राद्धकाला।
९४ . तिथिनिर्णय अथ तविषयतिथिनिर्णयः। तदात्रौ द्वयोः सन्ध्ययो', अचिरोदिते सूर्ये, अतिसन्ध्यासमीपतः चतुर्थप्रहरे च न कार्यम् । तत्र प्रातः सन्ध्या तत्समीपनिषेधः प्रातःकालिकवृद्धिश्राद्धविषयः । सोऽपि पुत्रजन्मातिरिक्त । सायं सन्ध्यातत्समीपनिषेधः, आपरासिकपार्वणविषयः । अपराहस्य देधा त्रेधा विभागेन रात्रिपर्यन्तत्वात् । रात्रिनिषेधस्तीर्थश्राद्धविषयः। ग्रहणपुत्रजन्मादिनिमित्तं श्राद्धमलभ्ययोगा- दिनिमित्तं च तत्रापि । एवं रात्रौ विवाहे यदा. प्रातद्धिश्राद्धं न कृतं, तदा रात्रावपि तदिति शुलपाणिः । तीर्थश्राद्धं च रात्रिव्यतिरिक्ते- काले प्रातः सायाह्ने वा यदैव तीर्थप्राप्तिस्तदा मुख्यकालमप्रतीक्ष्यापि पविलम्बेन कार्यम् । एवं मुख्यकालं यावदस्थायि द्रव्यब्राह्मणसम्पता- बपि । भोजनोत्तर तीर्थप्राप्तावपि न श्राद्धं, किन्तु परेधुरेव । हरदत्तस्तु-प्रारब्धे श्राद्धे केनापि प्रतिबन्धेनासमाजावेव सूर्यास्ते रात्रौ तन समापनीयं निषेधात् । किन्वर्द्धमेव स्थापयित्वा परेयुः तत्समापनम् , यजमानेनापि तदुत्तरमेव भोक्तव्यमित्याह । माधवस्तु-रात्रावेव समापनमाह । आयं युक्तम् । तत्र देषिके पूर्वाह्नः शस्तः । पार्वणे अपराह्नः शस्तः । एकोद्दिष्टे मध्याह । वृद्धौ त्रिमुहूर्तात्मकं प्रातः। आमश्राद्ध पूर्वाह्नः । सायाहोऽपि गौणः कालः। पार्वणप्रारम्भे (दिनाष्टममुहारम- कः) कुतुपः शस्तः। एवं च वृद्धिश्राद्धातिरिक्त प्रातःकालीनमुहद्वया. तिरिक्तः सन्ध्यापर्यन्तश्राद्धकालः। प्रातः सायाव्यतिरिक्तं तदन्तराल. मुहूर्तनवकमित्यन्ये । तत्र कुतुपादिमुहूर्तपश्चकं पार्वणेऽति- । शास्तम् । एकोद्दिष्टे मध्याहीयकुतुपहिणात्मकमुहर्तद्वयम् , सायाहोप्य- नयोगौणः । प्रातः कालस्त्वनयोगौणोऽपि न । केचित्त-शुक्लपक्षीये- पार्वणे द्वेधाविभक्तपूर्वाद्धान्तर्गतकुतुपपूर्वभागे आरम्भः । कृष्णपक्षीये साहशापरावान्तर्गत तदुत्तरमागे आरम्भ इत्याहुः । एकोदिष्टस्य तु सर्वदा कुतुपपूर्वभाग एवापेक्रमः । गौणतया तत्पूर्वभावि गान्धर्वप्युप- अमानिर्णयः। , क्रमः। वैविकामश्राद्धयोर्यः पूर्वाहस्तत्र पूर्वाहारामध्याहप्राभावी सङ्गया। शुद्रकर्तृकामाद्धे न पूर्वाह्रविधिरिति हेमाद्रिः। वृद्धि- श्राद्धे प्रातश्च दिनाघमुहूर्तत्रयात्मकः। अपराहश्वाहितामिकर्तृकेपार्वणे वेधाविभागेनैव । अन्येषां तु-पञ्चधाविभागेनैव । अथ खण्डतिथिः, दर्शातिरिक्त, एकोद्दिष्टे पार्वणेच निर्णीयते । तत्र-एकोद्दिष्टेकुतुपरौहिणरूपमध्याहव्यापिनी, पा. वणे च कुतुपादिमुहूर्तपञ्चकव्यापिनी प्राह्या । कृष्णपक्षपुरस्कारेण विहित- पार्वणे तु तदुत्तरार्धादिसामुहूर्तचतुष्टयव्यापिनी प्राह्या । यदा पार्वणे तादृशी न लभ्यते तदा प्रधानयोगकालत्रिमुहूर्तात्मकापराहव्यापिनी प्राधा । तत्र यैकदिन एव कास्नेनैकदेशेन वोक्तयोः श्राद्धयोः काले वर्तते सा सैव ग्राह्या । दिनद्वयेऽपि वैषम्येण तदेकदेशव्याप्तौ तदाधिक्यवती। दिनद्वयेऽपि साम्येन तदेकदेशब्याविस्तस्या एवं तिथिक्षयेण साम्येन वृद्ध्या च भवति । तत्र क्षये पूर्वी । वृद्धावुत्तरा । साम्येचोत्तरा । यदा तु वृया दिनद्वयेऽपि तयोरुत्तरयोरुक्तंकालं सम्पूर्ण व्याप्नोति तवोत्तरतिथेः क्षये पूर्वा, साम्ये च पूर्वा, वृद्धावुत्तरा । माधव स्त्वत्र विषये उत्तरतिथेः साम्येऽप्युत्तरा प्राोत्याह-तनिर्मूलम् । मासिकेप्येवमेवाब्दिकवत् । मृताहव्यतिरिक्तेषु काम्यादिषु दिन- द्वये कालव्यातौ सदा पूर्वव । दिनद्वये कर्मकालस्पर्शिनी च पूर्वैव । श्राद्धत्वेकभक्तादिवत्स्वकाल एव । तत्र तिथ्यमावेऽपि शुक्लपक्षगयुगा- चव्यतिरिक्तेषु सर्वश्राद्धेष्वयमेव निर्णयः । शुक्लपक्षयगाद्या तु कुतुपपूर्वाहरूपपूर्वालव्यापिनी यदा परदिने हेमाद्रिस्तु-शुक्लपक्षगासु मन्वन्तरास्वप्ययमेव निणय इत्याह । सनावकालिकयोः, आमदैवश्राद्धयोरप्ययमेव तव्याप्त्यादौ निर्णयः । दिनद्वये कृत्स्नकर्मकालव्याप्तौ तदस्पर्श च दैविके उत्तरा । अथामा निर्णीयते । तत्र येषां सानिकानामन्वाधान पिण्ड. पितृयज्ञ दर्शश्राद्धान्येकदिनकर्त्तव्यानि, तैस्त्रेधाविमक्तमागेन तृतीयभाग- तिथिनिर्णये रूपापराव्यापिन्यमा प्राधा । दर्शदिने नित्यश्राद्धं न पृथक् , प्रसङ्गेन. सिद्धः । पितृवलिस्तु भवत्येव, . तस्य पितृभ्य इति बहुवचनेन साधा. रणपितृदेवत्यतथाप्रसङ्गादसिद्धेः । तत्राहिताग्नेः, श्राद्धा. पूर्वमेव । केवलोपासनिकस्य, श्राद्धान्त एव । तं प्रति च दिना- न्त्यमुइतएव निषिद्धो न सम्पूर्णः । सायाहमुहूर्तद्वये तावदनुष्ठानासम्भ- वात् । पिण्डपितृयज्ञस्याप्यपरालकालत्वात् । तत्र तृतीयभागरूपापराड- व्याखौ दिनद्वयेऽपि तद्वयातिपक्षयोरसम्भव एव । त्रिमुहूर्चाधिकवृद्धि. क्ष्ययोरभावात् । तस्मात्पक्षचतुष्टयमेव । अन्यतरदिन एव का- स्न्येनैकदेशेन वा व्याप्तिः । दिनद्वयेऽपि साम्येन वैषम्येण वा तदेकदेश- व्याप्तिरिति । तत्रैकस्मिन्नेव दिने कृत्स्नकालव्याप्तिरितरदिने तदस्पर्शेनैक- देशब्याप्त्या वा भवति । तत्र तदस्पर्शश्चतुर्दश्यपेक्षया अमायाः साम्येनाधि. क्येन. क्षयेण वा । एकदेशव्याप्तिराधिक्येनैव । तत्र या पूर्वेयुरेव कृत्स्न- कालव्यापिनी परत्र तदेकदेशमपि न स्पृशति सा तावत्पूर्वैव । याऽपि तादृशी परत्र तदेकदेशस्पर्शिनी सापि पूर्वैव । येषां परदिने चन्द्रदर्शनादेकदे- शाव्याप्तिदिनएव यागस्तेषां परैव । यात्वेकदेशमपि पूर्वेचुरेव प्राप्नोति सा तु पूर्वव । दिनद्वयेऽपि क्षयेणैव देशसमव्याशावपि पूर्वैव । यातूत्तरैव कृत्स्न कालव्यापिनी पूर्वेद्युस्तदस्पर्शेन वा सोत्तरैव । याऽपि परत्रैवैकदेशव्यापिनी, साप्युत्तरैव । या तु दिनद्वयेऽपि वैषम्येणैकदेश- व्यापिनी, सा यैवाधिका सैव प्राथा । यागस्य तृतीयदिनगतत्वे तु तदनुरो. धेनास्पाप्युत्तरैव । याऽपि दिनद्वये साम्येनेकदेशव्यापिनी सा यदि क्षयेण, । तदा पूर्वैव। यदि वृद्ध्या, तदोपरा यागप्रयुक्तोऽपवादोऽत्रापि । यदि साम्येन सदा परा। यागप्रयुक्तोऽपवादोऽत्रापि । अत्र यदा चतुर्दशी मिश्रा- sमाया श्राद्धं, तदा यद्यमाप्रतीक्षयातिसन्ध्यासमीपात्पूर्व पिण्डपितृयज्ञः, श्राद्धच्चानुष्ठातुं शक्यते, तदा सम्प्रतीक्षा । नोचेच्चतुर्दश्याष्टमांशे चतुर्थ. भागोनकलावशिष्टतारूपक्षीणताऽमासप्तमांशे कृत्स्नपक्षे । ज्येष्ठमार्गयो. स्तु, अमान्ते कृत्स्नक्षय इति ज्योतिःशास्त्रे प्रसिद्धम् ।
सक्रान्तिनिर्णयः । अथ निरग्निकान् प्रति सा निर्णीयते । तेषां पञ्चषा विभक्तापराहव्याप्त्या निर्णयः। तत्र या पूर्वक तादृशी, सा सैवप्राथा । दिनद्वये कृत्स्नापराहव्याप्तावुत्तरतिवृद्धिसाम्ययोरुत्तरैव । तस्याः क्षये पूर्वा । दिनद्वयेऽपि वैषम्येणैकदेशव्याप्तावधिकृतद्वती प्राथा । दिनद्वयेऽपि साम्येन तस्यां तु, अमावृद्धिसाम्ययोः परा । ममाक्षये पूर्वा । एतत्पर्यन्तमन्वाधान, पिण्डपितृयज्ञ, श्राद्धकर्तव्यता, नियमरहित. साग्निकानामपि तुल्यम् । पिण्डपितृयज्ञश्राद्धयोभिन्नदिनपातेऽप्य. पराडास्पर्शे तु सामिभिः पूर्वा कार्या । निरमिकैः परा । साग्नयोऽत्री. पासनाग्निमन्तोपि। हेमाद्रिस्तु-निरनिकानां कुतुपोऽमाश्राद्धकाल इति तद्व्याप्त्यैव तेषां निर्णयः॥ यत्र मुख्यकुतुपेऽसम्भवस्तत्र कुतुपादित्रिमुहूर्तरूपगौणकुतुप. व्याप्त्या निर्णयः । अपराह्नस्तु-साग्निकविषय इस्याह- कालादर्शोऽप्येषमेव । तदयुक्तमित्यन्ये । प्राच्यास्तु-दिन- येप्यपराहव्याप्तौ तिथिक्षयविषये साग्नेः पूर्वा, निरग्नेरुत्तरा। दिनद्वयेप्यपराहव्याप्तौ गान्धर्ष, कुतुप, रौहिणरूपत्रिमुर्तव्यापिनी या सा सैव प्रात्यपि बदन्ति । रौद्र, चैत्र, मैत्र, सारक, सावित्र, जयन्त, गान्धर्ष, कुतुप, रौहिण, विरंच्य, विजय, नैत, महेन्द्र, वरुण, पटाइति पश्चदश मुहूर्ताः इति । इत्यमानिर्णयः। अथ सङ्क्रान्तिः । पत्र स्नान किञ्चिदानादि नित्यम् । तत्र सर्व. सक्रान्तिषु-अघ उर्व च मिलित्वा त्रिशन्नाड्यः पुण्यकाल इति सामान्यनिर्णय इति देवलः । उभयतः षोडशषोडशेति शातातपः। तत्र स्थिरासु विष्णुपदाख्यासु प्राक्कालः शस्तः । द्वि:- स्वभावरूप षडशीति तूत्तरः प्रशस्तः। एवं कऽपि पूर्व, मकरे चोत्तरतः। तुलामेषयोस्तूभयतो दश दश शस्ताः । याः याः सनिहितास्ता अतिपुण्याः । वशिष्ठस्तु-कर्के त्रिंशत् तिथिनिर्णये . त्रिंशत्पूर्वाः। मकरे परा विंशतिः शस्ता इत्याह । एवं च त्रिधा सङ्क्रान्तिः। पूर्वभोगिन्य उत्तरभोगिन्ध उभयभोगिन्य इति । ता यदि दिवा मध्याह्लादिषु जायन्ते तदा विवैव तत्काललाभा. सम्यगेव । यदा तु पूर्वभोगिन्यामुदयोत्तरमव्यवधानेन जायमानायां दिवा पूर्वः शस्तः कालो न लभ्यते, उत्तरभोगिन्यामस्तात्पूर्वमव्यवधानेन जायमानायामुत्तरस्तथा न लभ्यते, तदा पूर्वभागावच्छिन्नं परभागाव- च्छिन्नं दिनमेव कृत्स्नं पुण्यम्', नतु प्रशस्तकाललामेऽपि रात्रिः । मर्ष. रात्रादघोरात्रौ सक्रमणे, आवर्तनोत्तरतः पूर्वदिनभागः, तदूर्व रात्री सक्रमणे उदयोचरतः परदिनगोमध्याह्नपर्यन्तः । पूर्णार्द्धरात्रे धीद्वयात्मके सक्रमणे तु यदि पूर्वदिनोत्तरार्द्धवर्तितिथ्या, यद्यमिन्नासङ्कमकालिकी तिथिर्दिनद्वयार्द्धयोरपि तदा पूर्वभोगिनीषु पूर्वदिनोचरार्द्धम् , उत्तरमो. गिनीषत्तरदिनपूर्वार्द्धम् , उभयतोभोगिनीष्विच्छा । मकरकर्कटयो. स्तु-रात्रिजातयोर्षिशेषः । तत्र मकरेऽस्तादूद्धवं यदाकदाचिजाते उत्तरदिनपूर्वार्द्ध पुण्यम् । कर्केचोदयात्पूर्वं यदाकदाचिजाते पूर्वदिन- एवोत्तराद्धं पुण्यम् । आचाराद्रात्रौ वाऽनुष्ठानम् । पत्र सत्ययश्चारुणोदयोत्तरोदयकालः पूर्वसन्ध्यायां कर्के उत्तरादिनार्दै पुण्य. मितिनारदः । अस्तादूर्व सन्ध्यायां मकरे च । सक्रान्तिप्रयुक्त यात्रामैथुनादिनिषेधेष्वपि त एव कालाः । इति सक्रान्तिका. लनिर्णयः। अथ ग्रहणकालः । अत्र दानस्नानहोमश्राद्धानि नित्यानि। काम्यानि च । तस्य अस्यमाने स्नानं, अस्ते होमः,माद्धं च । मुख्य- माने दानं, मुक्तेऽपि स्नानं नित्यम् । अत्राशौचिनोप्यधि- कारः। यत्तु-स्नानमेवाशौचिनो न दानश्राद्धे इति तन्निर्मूलम् । तब-श्राद्धमामेन हेम्ना वा । सतिसम्भवे पक्वेनापीत्यन्ये। इदं च स्नानश्राद्धादि रात्रावपि । अत्र दानंचासत्युत्तमपात्रेऽन्यायापि देयम् । संस्कारादिरहितजातिमात्रब्राह्मणायापि। अय- ग्रहणनिर्णयः मेवाब्राह्मण इत्युच्यते । अत्र स्नानद्वयमपि सचैलमेव । ग्रहणा- शौचान्तरितं पूर्वपक्वं च त्याज्यम् । आरनाल, किलाट, सक्तु, स्नेहपक्यतैलानि तु न बानि । उदकं च कुशच्छन्नं न दुष्यति । अत्र यद्देशे यावच्चाक्षुषयोग्यता तदेशे तावान्पुण्यकालः । तादृशस्य च शास्त्रतो ज्ञानमप्यनुष्ठानप्रयोजकम् । अतएव-द्वीपा- न्तरस्य ग्रहणे न स्नानादि । योग्यतानिवेशेन चान्धानां मेघाच्छन्ने च जन्माष्टम्यादिस्थस्य दर्शननिषेधपालपितॄणां च स्नानाद्यनुष्ठानम् । अति- सूक्ष्मकालतयाऽनादेश्यानां कस्यापि दर्शनायोग्यानां निमित्तत्वनिरासः। प्राच्यास्तु-स्नानादिकर्तुस्तदर्शनमेव निमित्तम् । एवञ्चान्धानां मेधा. छन्ने च न स्नानादि । द्वीपान्तरीयग्रहणे स्नानादिनिषेधस्तु-नित्या. नुवादः । मुक्ति ज्ञानं तु शास्त्रीयमेव । अतएव मुक्तिकाले मेघाछन्नेऽपि स्नानं, तदुत्तरभोजनादि च भवत्येव । प्रस्तास्ते तु-वचनात् परेधुरुदये स्नानादि । अत्राप्युदयस्य शास्त्रीयमेव ज्ञान प्रयोजकम् । दर्शनयोग्यताया निमित्त्वेऽपि प्रयत्नान- पनेय प्रतिबन्धकविरह एव । तेनान्धानां मेघाच्छन्ने च स्नानादि भव- त्येवेत्याहुः । उपरागनिष्ठ शास्त्रनिर्णीतकालावयवकि- चिन्निष्ठपरप्रयत्नापनेय प्रतिबन्धकविरहोऽत्रोपराग. निष्ठदर्शनयोग्यता। स च स्नाननिमित्तं निश्चियमानः । एष. चान्धस्य स्नानं भवत्येव । यस्य चाष्टमादिस्थाने ग्रहणं, तेन दृष्ट्वाऽपि स्नानं न बाधकम् । मेघाच्छन्ने तु-न स्नानमिति =m. व्याः । भोजनं तत्काले तत्पूर्वकाले प्रस्तास्ते उत्तरकाले च निषिद्धम् । तत्र सूर्यग्रहे-ग्रहणयामरूपावधेः पूर्व यामचतुष्टयं न भोक्तव्यम् । चन्द्रग्रहे तु तदवधेर्यामत्रयम् । विधोप॑स्तोदये ततः पूर्वमह्नि- भोजनाभावः । एवं चन्द्रग्रस्तास्ते तां रात्रिमुत्तरंचाहरभोजनम् । सूर्य ग्रस्तास्ते तु-तदहोरात्रमभोजनम् । यच्चन्द्रग्रहे मोक्षोत्तरं भोजनं सार्द्धयामपर्यन्तमेवेति राजा। द्विघटिकात्मकमहानिशान्तः पूर्वमि- १०० तिथिनिर्णये त्यन्ये । पालवृद्धातुरैस्तु-ग्रहणाद्यमुहर्रावधेः प्राक्मत्तत्रय नसर्वथा भोक्तव्यम् । एवं प्रस्तचन्द्रास्तेऽपि। यावतदुदयमभोजनेनावस्था- तुमसमर्थानां शास्त्रावगतमुक्तिकालभूताहांगोत्तरं भागद्वयमेकमागं पा त्यक्त्वा भोजनम् । एवं प्रस्तास्तसूर्यास्तेऽपि । एवं प्रस्तास्ते पुत्र- बद्गृहिणामप्यहोरात्रनिषेधः पास्यः । यस्तु-ग्रहणे पुत्रवदुपवास. निषेधा, स तन्निमित्तकस्य काम्यस्य । काम्योऽपि ग्रहण दिन एव, न तत्पूर्वदिने। प्राच्यास्तु-ग्रहणदिने श्राद्धादिकारिणा ततः प्राक् न भो- क्तव्यमित्याहुः। अत्र चन्द्रसूर्यग्रहणकाले भोजने प्राजाप्रत्यं प्रायश्चितम् । नदिने भोजने तदूर्व प्रस्तोत्तरनिषिद्धकालभोजने चैतत् । स्त्रीवालवृद्धानामर्द्धम् । इन्द्रोलक्षगुणं पुण्यं रवेर्दशगुणं ततः । गङ्गातोये तु सम्प्राते इन्द्रोः कोटी रवेर्दश । अन्यकाली. नतत्तीर्थस्नाने यत्पुण्यं, ततोक्षगुणं ग्रहणकालिकततीर्थस्नानेत्यर्थः । आतुर उष्णोदकेनापि स्नायात् । रविवारे रवग्रहणं, सोमवारे सोमग्रहणं चातिप्रशस्तम् । सतीर्थेऽकेंविधुप्रासे तन्तुदामन- पर्वणोः। मन्त्रदीक्षाप्रकुर्वाणो मासान्नि शोषयेत् । इति ग्रहणम् । अथानध्याय:-तत्र नित्यास्तावत्-चतुर्दश्यौ, अष्टम्यौ पञ्चदश्यो प्रतिपवयम् । मन्वाद्या युगाद्याश्च । ज्येष्ठशुक्ल द्वितीया, बाशिव नशुक्लदशमी, माघशुक्ले चतुर्थी द्वादश्यौ । कार्तिकी फाल्गुनी आषादी उत्तरद्वितीया। मयने विषुवे आषाढकार्तिकशुक्लद्वादश्यौ । भाद्रपदशुक्ल- द्वादशी च । महालयान्तर्गते मघाभरण्यो । पूर्वापरमहर्चद्वयरूपा महानिशा च । अस्तादुर्ध्वमर्घरात्राच्च त्रयोदशी सप्तमी चेत्तदा प्रदोषः। चतुर्थी नव नाटिकापर्यन्तायां तत्रार्द्धरात्रावनध्यायः । उत्तरदिनेऽनध्याये भाविनि पूर्वनिशाचानध्यायः । खडण्त्वे तनिर्णयश्च-उदयेऽस्तमयेवाऽपि मुहर्त त्रयगामियत् । वत्तिथिस्तदहोरात्रमनध्यायविधौ विदुः । केचित्तु-याव. बाडीपर्यन्तमनध्यायतिथिस्तावदेव नाध्येयमित्याहुः । अत्यन्तवृद्धि- क्षययो:-क्षये दिनान्तैकमहर्याप्यनध्यायप्रयोजिका, वृद्धी तु त्रिमु. -- अनध्यायनिर्णयः। १०१ इषिका तत्प्रयोजिका । अल्पवृद्धिक्षययोस्तु-द्विमुह दुपर्यनध्या- यतिथिदर्शनेऽनध्यायः। प्रतिपल्लेशमात्रेण कलामात्रेण चाष्टमी । उदये नियमानोऽनध्यायप्रयोजिकेति केचित् । अप नैमित्तिकाः । तत्र तात्कालिकाः । बक्रोष्टुगर्दम- वृककाकोलकशृगालदन्तिदुःखिताक्रोशे रोदने च नापीयीत । सामशब्दे भूयमाणे ऋग्यजुषोस्तयोः शब्दे च साम्नाद्यनध्यायः । वादित्रवीणागी- तनृत्यरथशकटशब्दे च श्रूयमाणे । वाणमोक्षशिक्षाशाद्युस्पले च शब्दे देहच्युतमासास्थिशवविष्ठारेतोमूत्राचववसास्वेवाश्रुदूषिकाश्लेष्ममयशवशुद्धा- स्पंजश्मशानपतिताः पावदृष्टिमापद्यन्ते तावदनध्यायः । शूद्रपतितयोः समानागारेऽपि चाण्डालशवसूतिकाना भावणे त्रिरात्रं वा- ग्यमः प्रायश्चित्तम् । शवान्त्यजानां ग्राममध्यवस्थानामनध्यायः । नग- तु न दोषः। श्मशानामान्तमहापधेषु नाध्येयम् । माशी. चिनो विदाशौचमनध्यायः । ब्रह्मचारिणामाशौचाभावेऽपि सपिण्डमरणे व्यहम् । महागुरु, आचार्यनिपाते द्वादशाहम् । अशुचिदूषितदेशे च । विद्युत्स्तनितवर्षाणामकाले सन्ध्याकालातिरिक्तकालेऽसदुपजने प्रत्येक वास्कालिकोऽनध्यायः । सन्ध्ययोस्तु प्रत्येकमपौवाकालिकः । भकाले त्रयाणां सन्निपाते यदा कदाचिजाते व्यहम् । अनुराधामारभ्य षोडशसु ऋक्षेषु यावत्सूर्यस्तावदकाला। थावभूमिः व्युदकत्येके । ऋतौ तु सन्ध्यातिरिक्त त्रयमेलने तत्कालमेव । स- ध्यायां सज्योतिः। द्वयोः सन्निपाते द्विदिनम् । केवलाऽतिवृष्टावपि त्रि. दिनम् । अतिमारतेऽत्रनाध्येयम् । अपराहे गर्ने विद्युति वा उरकायां वा सम्पूर्ण रात्रमनध्यायः । प्रदोषेचेदपररात्रिपर्यन्तं, तथा सन्ध्ययोन ध्येय. म् । दुर्गन्धोपलब्धौ च । समानप्रामे शिष्टे च गृहागवे यावदनुशं, मामा- न्तरीणेस्वहः । खरोष्ट्राश्वेरिणगजवृक्षनौयानरोहणे च । तथा-शयानः प्रौढपादश्च भीतः कृत्वाऽवसक्थिकः । शुक्लार्द्रपाणिर्जग्ध्वाच सूतकानं निरामिषम् । नीहारे वारिमध्ये च वाक्शस्त्रकलहे तथा । वान्ते जीणे प्रहा- १०२ तिथिनिर्णये रेण रुधिरे च परिसुते । शाल्यत्व श्लेष्मातक मधूक कोविदारकपित्थच्छा- यासु। गोवित्रावरोधने । श्वादिपतो, मुक्ते, उद्गारे, मैथुने, वाससः परिधाने च । रविपरिवेषे च । अभ्यङ्गस्नानकाले च । प्रौढपादः पादारोपितपादः प्रसारितपादो वा । परेवुवित्सएव कालस्तस्कालभवमाकालिकम् । एष्वाद्याध्ययने व्यह, विद्युत्सहितोल्कापातेऽपि व्यहः । अल्पदिग्दाहादौ तात्कालिकम् । उपाकर्मणि कृते व्यहम् । उत्सर्गे आयाध्ययने व्यहम् । अन्यत्राहः । अन्यत्र धारणार्थेऽध्ययने । मन्त्रब्राह्मणयोरेकं समाप्यारण्य- कमधीत्य तदह्नि अन्यन्नाध्येयम् । प्रस्तास्ते सम्पूर्णमासे व्यहम् । अन्यत्र वदहराकालिकं वा प्रेतश्राद्धिकं भुक्त्वा प्रतिगृह्य च व्यहम् । अन्नजरणा- वधि वा । पूर्वावषिश्च निमन्त्रणकालः । अन्यश्राद्धेष्वहोरात्रम् । श्राद्धकर्तुं. रप्यहोरात्रम् । अल्पोत्सवे भुजेः उत्सवान्त, महसूपनयनोद्वाह- प्रतिष्ठोपाध्ययनादिष्वहः । यज्ञेचावभृथान्तमृतिजामाचार्याणां च । मा- व्याभ्यां गुरुशिष्यान्तरगमने वर्षम् । श्वपाकाजशशैः षण्मासम् । वव. शूकरैस्त्रिरात्रम् । विड्वराहखरोष्ट्राश्वाहिमार्जारमूषकनकुलोलककरटगृध्र. हंसमण्डूकगोऽवि, अश्वाऽश्वतरमहिषवानरऋषभसरीसृपरुरुपृषतमृगैरन्त- रायेऽहोरात्रम् । आद्याध्ययने व्यहम् । एतदितरसूक्ष्मपशुपक्ष्याऽन्त- राये न दोषः । इन्द्रध्वजोच्छायपतनदिने च । एते च सर्वमेधावि- नाम् । दुर्मेधानां भूरिवेदाध्येतॄणां च चतुर्दश्यष्टमी पर्वप्रतिपत्स्वेव एते च वेदस्यैवाहणधारणाध्ययनयोः । नस्वनाऽध्ययने, मनानान्त्वष्टमी चतुर्दशी प्रतिपत्पर्वण्येव । ग्रहणे च सर्वानध्यायः । ब्रह्मयज्ञस्य द्वाव. नध्यायो, यदात्माशुचिर्यद्देशश्च । अनवरतविद्युदादिसम्पाते तात्कालि कश्च । अनध्यायाध्ययनेन गुरुशिष्ययोरायुषक्षयः । इत्यनध्याय:। अथ मासनिर्णयः । मासों हि दिनचातुर्विध्याश्चतुर्विधा । एक- तिथ्यात्मकं चान्द्रं दिनम् । अहोरात्रात्मकं सावनम् । रवः शशित्रिशांश भोगेन सौरम् । चन्द्रनक्षत्रभोगेन नाक्षत्रम् । त्रिंशत्तिथिसमुदायः शुक्ला- दिर्दर्शान्तो मुख्यः । चान्द्र: कृष्णादिः पूर्णिमान्तो वा । त्रिंशदहो.
अनध्यायनिर्णयः। रात्रः सावनः। रवरकराशिभोगेन सौरः। चन्द्रस्य सर्वक्षयपरिवते. नक्षत्रः। स च सप्तविंशतिदिनात्मकः । यत्किञ्चितिथिसमुदायोऽपि गौणश्चान्द्रः । अस्य मासिकाब्दिकादावुपयोगः । चैत्रादिशब्दै- श्व सौरचान्द्रयोरेव व्यवहारो नान्ययोः । तत्रापि शुक्लचा- न्द्रवचना एव मुख्याः। "शेते विष्णुः सदाषाढ इत्यादौ"माषाढ- भाद्रपदादयोऽपि चान्द्रा एव । पक्षशब्दोऽपि प्रतिपदादिपूर्णिमान्त, तदाध. मान्ततिथिसमुदायवचन एव । सौरादिषु तु गौणः । एवं वसन्ताद- योऽपि चान्द्रमास विकद्रिकवचना मुख्याः। सौरे तु गौणाः । कृष्णादौ च । एवं सम्वत्सरोऽपि । क्षेत्रशुलपति- पदादि फागुनदर्शान्तो मुख्यः। सौरादिस्तु-गौणः। एवं तत्त. तिथिमारभ्यषष्ठ्यधिकत्रिंशतिथिसमुदायोऽपिगौणः । अयने त सौर मानेनैव । विवाहादौ सौरोमासः । यज्ञादौ साधनः । आदिकादौ चान्द्रः। तिथिकृत्येषु कृष्णादिः । एवं विप्रस्था मापरिच्छिनोमासः। नृपस्य सङ्क्रान्तिपरिच्छिन्नः । वैश्यस्य पौर्णमासीपरिच्छिन्नः । विन्ध्यस्य दक्षिणे शुक्लादिः । तदुत्तरभागे कृष्णादिः। तत्राब्दिकादौ चान्द्रः। त्रिंशत्तिथिसम्बद्धो गौणः । विन्ध्यदक्षिणादि देशव्यवस्थाः सङ्कल्पायु- लेख्यमासविषयाः । इति । इति श्रीमन्नागोजिभविरचितः तिथिनिर्णयः सम्पूर्णः। विश्वोऽसौ यस्य वश्यः स्वयमपि सततं भक्तवश्यो य एव । साक्षालक्ष्मीविहीनः क्षपयति जगतां लक्ष्म्यपूर्ति क्षणेन ॥ त्रैलोक्यान्तैकहेतुर्हितमतिरचयत्यचितो योऽचिरेण । विष्वक् तं विश्वनाथः प्रणमति शिरसा विश्वनाथैकनाथः ॥ १ ॥ श्रीविश्वनाथ प्रसीदतु।
m
प्रासिस्थानम्-
चौखम्बा संस्कृत पुस्तकालय,
बनारस सिटी।
* काशी संस्कृत सीरिज़ प्रथमाला। ९६ वर्षकृत्यदीपकः । कालनिर्णयवतोयापन, सहितः।म०म०पण्डित नित्यानन्द पन्त- पर्वतीयाविरचितः। (कर्म वि.) ०३-०१ ९० औतसूत्रम् । श्रीमन्महर्षि-लाव्यायनप्रणीतमग्निष्टोमान्तम् । (कर्म० वि०१०)रु०२-० १८ नलचम्प अथवा दमयन्तीकथा । महाकविश्रीत्रिविक्रमभविरचिता। विषमपद. प्रकाशाख्यव्याख्यया सहिता । भावबोधिनी टिप्पणी सहिता । (का०वि०१५) ०१-४ १९९ श्रीब्रह्मसूत्रम् । श्रीभगवनिम्बार्क महामुनीन्द्रविरचित वेदान्तपारिजात सौरमा- ज्यसूत्रवाक्याथेन श्रीश्रीनिवासाचार्यचरणप्रणीत श्रीवेदान्तकौस्तुभभाष्येन च सनाथीकृतम्। (श्रीनिम्बार्कभाष्यम् ) (वेदान्त वि०१०)२०३-. ०० वाग्वल्लभः । श्रीमत्ता दैवज्ञाग्रेसरणागममार्मिकेण कविपुङ्गवेन दुःखभजनविदुषा . . विरचिता, तत्सुतेन बहुशासपारगेण कविचक्रवर्तिना महामहोपाध्यायेन देवीप्रसाद. पण्डितप्रवरेण कृतया वरवर्णिन्या टीकयोपस्कृतः । (छन्दः शास्त्र वि०४) रु.२-४ १०१ सिद्धान्तलक्षणम् । श्रीजगदीशतर्कालशरकृतम् । न्यायाचार्य श्रीशिवदत्तमिश्न- विरचित गंगाख्यव्याख्या टिप्पणी सहितम् । (न्याय विभागे ४))०१-८ १०२ वेदभाष्यभूमिकासंग्रहः । ( सायणाचार्यविरचितानां स्ववेदभाष्यभूमिकामां संग्रहः)। [वेद०वि०६०२-८ १०३ माधवीयधातुवृत्तिः । श्रीमत्सायणाचार्यविरचिता। (व्या० वि० १२) २०५- १०४ बौधायनधर्मसूत्रम् । श्रीगोविन्दस्वामिप्रणीतविवरणसमेतम् । [कर्म०वि०११] २०४- १०६ ताण्डयमहाबाह्मणम् । सायणाचार्यविरचितभाष्यसहितम् । (वेदवि०६) रु०१२-० १०६ न्यायमञ्जरी । जयन्तभकृता । न्याय-व्याकरणाचार्येण पं० सूर्यनारायणशास्त्रिणा कृतया टिप्पण्या समेता । सम्पूर्ण । [भ्या०वि०१५] २०८--. १०७ वारदातिलकम् । श्रीमद्राववभकृतपदार्थादर्शटीकासहितम् । (तन्त्र०वि०१) २०६- १०८ मन्त्रार्थदीपिका । म०म० श्रीशत्रुघ्नविरचिता । सटीक। (वेद० वि०.) २०३--० १०९ शब्दशक्तिप्रकाशिका । श्रीमजगदीशतर्कालङ्कारविनिर्मिता । श्रीकृष्णकान्त- विद्यावागीशकृतया कृष्णकान्तीटीकया श्रीमद्रामभद्रसिद्धान्तवागीशविरचितया रामभद्रीटीकया च समलकुता । पं० दुण्डिराजशासितया छात्रोपयुकथा विषमस्थलटिप्पण्या मुलकारिकाथन च सहिता। (न्या वि०१६) २०४-८ १० योगदर्शनम् । पातालदर्शनम् ) भगवत्पतञ्जलिरचितं, राघवानन्दसरस्वतीकृत. "पातालरहस्याख्याटिप्पनीयुकया द्वादशदर्शनकाननपश्चाननवाचस्पतिमिश्रवि. रवितया"तस्वशारया व्याख्यया भूषितेन विज्ञानभिक्षुनिर्मित योगवाचिका. समुद्भासितेन स्वामिहरिहरानन्दारण्यकृतमास्वतीवृत्त्या सहितेन भगवच्छीकृ. ष्णद्वैपायनव्यासदेकोपज्ञ-"सांख्यप्रवचन, भाष्येणोद्योतितम, गोस्वामि- दामोदरशामिणा विहितया टिप्पण्या "पातालप्रभागनामिकया भूमिकया च सैवलितम्। ( योग. वि.३) ४- १११ सारस्वत व्याकरणम् । अनुभूतिस्वरूपाचार्यप्रणीतम् । श्रीचन्द्रकीतिमूरि- प्रणीतचन्द्रकीर्तिनाम्न्या सुबोधिकया व्याख्यया, श्रीवासुदेवमविरचितप्रसादा. ख्यटीकया च समन्वितम् । कवितार्किकोत्कल-यास्क श्रीनवकिशोरशास्त्रिणा निर्मितया मनोरमाविवृत्या च समुद्भासितम् । (व्या. वि. १३) सम्पूर्णम् । २०३-० ११२ सामान्यनिरुक्ति-गादाधरी-गूढार्थतत्त्वालोकः । ६० कुलपति झोपाख्य-श्री. धर्मदत्त [श्रीबच्चा झा] शर्मविरचितः । (न्या. वि. १७) रु०१-८ ११३ जागदीशी पक्षता । गंगाख्यव्याख्या टिप्पणीसहिता। (न्या. वि. १८) ०१-८ ११४ मनुस्मृतिः।कुल्लुकमहकतमन्वर्णमुक्तावलीव्याख्यया पं० नेने इत्युपात गोपालशाखि संगृहीतपरिशिष्टटिप्पण्यादिभिरपि सहिता। सम्पूर्णम् । (धर्म. वि.३ ) रु०२-४ ११५ व्युत्पत्तिवादः । श्रीमद्गदाधरभट्टाचार्यचक्रवर्तिविरचितः । पण्डितराज शुक्ल श्रीवेणीमाधवशास्त्रिरचित [शाखा-परीक्षोपयोगि] शालार्थकला टीका. सहितः। (न्या.वि.१९)रु०२-० .
1 - - ६ . । .... काशी संस्कृत सीरिज़ प्रन्यमाला। १६ भामती। ब्रह्मसूत्रशाङ्करभाष्यव्याख्या सर्वतन्त्रस्वतन्त्रश्रीमद्वाचस्पतिमिशविर- चिता। न्यायाचार्य पं० दुण्डिराजशास्त्रिणा सङ्कलितया विषमस्थल टिप्पण्या सम- सम्पूर्णः। (वेदान्त वि०११) २०२-८ ११७ जन्मपत्रदीपकः । सोदाहरण-सटिप्पण-हिन्दीटीकासहितः। ज्यो०५० श्रीवि- ध्येश्वरीप्रसाद द्विवेदिना विरचितः । (ज्यो. वि. ५)रु० ११८ गोभिलगृह्यसूत्रम् । सटीकम् । (कर्मकाण्ड वि०१२) रु०३-० ११९ सिद्धान्तकौमुदी । व्याकरणाचार्य नेने पं० गोपालशास्त्रि विरचित संरला टिप्पण्या सहिता । "रुपलेखनप्रकार-पद्धिलेखनप्रकाराख्य परिशिष्ट सहिता च । कारकान्तो भागः। (व्या०वि०१४). १२० कास्यायनशुल्बसूत्रम् । कर्कभाष्य-महिधरवृत्ति सहितम् । (कर्म० वि०१४) २० १२१ व्यक्तिविवेकः। श्रीराजानकमहिममहकृतः । श्रीराजानकस्थ्यककृत व्याख्यया साहित्याचार्य पं० श्रीमधुसूदनशास्त्रिरचित मधुसूदनीविवृत्या च समुद्भासिता रु०४-८ १२२ श्राद्धविवेकः । श्रीरुद्रधरकृतः । वेदाचार्य पं. अनन्तरामशास्त्रि कृत टिप्पणी सहितः। (कर्म०वि०१३)रु०१- १२३ सांख्यतत्वकौमुदी। पण्डितराज श्रीराजेश्वरशास्त्रिद्राविड महोदयनामाज्ञया न्यायाचार्य श्रीहरिराम शुक्ल विरचितया "सुषमाख्या कौमुदी व्याख्पया समलता। (सांख्य वि०२)०१-६ १२४ वाक्यपदीयम् । श्रीमर्तृहरिमहावैयाकरण विरचितम् । न्याय-व्याकरणाचार्य पं. श्रीसूर्यनारायण शर्म शुक्लेन विरचितथा भावप्रदीपाख्य व्याख्यया टिप्पणेन च सम्पादतम् । (ब्रह्मकाण्डम् )। (व्या० वि०१५) ०१- १२९ प्रौढमनोरमा । भैरवी-भावप्रकाश-सरलाटीकोपेतः लघुशब्दरत्नश्च । [स्त्रीप्रत्ययान्तो भागः] (व्या० वि०१६ ) रु० ६. १२६ जैमिनीयन्यायमाला। श्रीमन्माधवाचार्यविरचिता । तद्विरचितेन विस्वरेण विभूषिता । मीमांसाचार्य पं० पहामिशमशास्त्रिणा रचितया विषयवाक्यविव. रण्या समलष्कृत्य संशोधिता। [ तृतीयाध्यायान्ता] (मीमांसा वि. ७) रु. २-० १२७ शतपथब्राह्मणम् । (शुकृयजुर्वेदान्तर्गतमाध्यन्दिनशाखीय) वेदविशारद मीमांसा. केसरिणा पण्डित चिनस्वामिशास्त्रिणा टिप्पण्यादिभिर्विमृष्यविशोधितम् । [काण्डचतुष्टात्मकः प्रथमोमागः] (वेद वि०.) ०२-८ १२८ लघुशब्देन्दुशेखरः। म. म. श्रीनागेशमविरचितः । [नपादान्तत्सूत्रान्तोभागः] मागेशोक्तिप्रकाश व्याख्यया संवलितः। (व्या०वि०१७) रु०२-८ १२९ कृत्यसारसमुच्चयः। म. म. श्रीअमृतनाथझा शर्मणा विरचितः । पण्डितश्रीगङ्गा. धरमिश्रशर्मणा यथास्थलोपयुक्तटिप्पणीमिः प्रयोजनीयविविधपरिशिष्टविषयैश्च समलकृतः । (धम० वि०४)रु०१-१२ १३०-(भावप्रकाशः । श्रीभावमिश्रप्रणोतः । वनस्पतिविशेषज्ञ-रूपनिघण्टुकार- श्रीरूपलालवैश्यवरेण विरचितेन निघण्टुभागीय-सचित्र-विवरणेन समुपबृंहित्या भिषमन-श्रीब्रह्मशङ्करशाखिणा विनिर्मितया विद्योतिनीनामिकया भाषाटोकया संवलितः। [ पूर्वखण्डान्तः ] ( आयुर्वेदवि०३).०५-० १३०-(२) भावप्रकाशः। विद्योतिनी-भाषाटीका सहितः। [ज्वराधिकारमात्रः] रु०१-८ १३१ गादाधरी-सामान्यनिरुक्तिः। गंगाख्यव्याख्या टिप्पणी सहितः (न्या०वि०१९) २०३-० १३२ चरणव्यूहसूत्रम् । आचार्यमहिदासकृतभाष्यसहितम् । वेदाचार्य डोगरा- अनन्तरामशास्त्रिणा टिप्पण्यापरिष्कृत्य संशोधितम् । । (बेद वि०८) रु००-८ १३३ वैयाकरणभूषणसारः। श्रीहरिवल्लभविरचित-दर्पणटीकया, म. म. श्रीभैरव- मिश्रकृतया-परीक्षाटीकया, श्रीकृष्णमित्रकृत-भूषणव्याख्यया, श्रीखुदीझा- शर्मकृत तिब्र्थवादसारेण च सहितः । (व्या०वि०१८) रु०३-० प्राप्तिस्थानम-चौखम्बा मम्त बालरा ---ी।