Svi-vmpl-machilipatnam

Shrungarabhushhand-amu

Shriivaamanabhat't'a

PDF Proofread

Front matter

KÂVYAMÂLÂ, 58.
THE
SYRINGÅRABHÛSIIANA
VÁMANA-BHATTA-BÂNA
EDITED BY
PANDIT SITADATTA
Head Pandit and Superintendent, Sanskrit Department,
Oriental College, Lahore,
AND
KÂSÎNÂTH PÂNDURANG PARAB.
PRINTED AND PUBLISHED
BY
TUKÂRÁM JÁVAJÍ,
PROPRIETOR OF JAVAJÍ DÂDÂJÍ'S "NIRNAYA-SAGARA" PAFSS,
BOMBAY
1896.
Price is

(Registe, 17 according to act XXV of 1867.) (All rights reserved by the publisher.)

काव्यमाला.५८. श्रीवामनभट्टबाणविरचितं शृङ्गारभूषणम् । , जयपुरमहागजाश्रितमहामहोपाध्यायपण्डितदुर्गाप्रसाददारक- केदारनाथकृपाङ्गीकृतशोधनकर्मणा शिवदत्तशर्मणा, मुम्बापुरवासिपरबोपाह्वपाण्डुरङ्गात्मजकाशीनाथ- शर्मणा च संशोधितम् । मुम्बय्यां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीतम् । १८९६ (अस्य ग्रन्थस्य पुनर्मुद्रणादि विषये सर्वथा निर्णयसागरमुद्रायन्त्रालयाधिपते- रेवाधिकारः ।) मूल्यं ३ आणकाः ।

No text on this page.

काव्यमाला। श्रीवामनभट्टबाणविरचितं शृङ्गारभूषणम् । मैत्री येन मनोभवो विरचयन्विश्वं जयत्यञ्जसा येनोद्दीपनकारिणा विजयते शृङ्गारनामा रसः। रम्या यत्किरणाश्चकोरपरिषत्सौहित्यनाडंधमाः सोऽयं वः सुखमातनोतु जगतामानन्दनश्चन्द्रमाः ॥ १॥ अपि च। ताराजालकचुम्ब्यमानकमलं धौतप्रवालोदरं शङ्खान्तर्गतकूजितं शशिकलासंसक्तकालाम्बुदम् । शैलक्षोभवलन्मृणाललतिकं संत्रस्तविद्युल्लतं वेलोल्लङ्घिमनोभवं विजयते वीरायितं योषिताम् ॥२॥ (नान्द्यन्ते) सूत्रधार:-(सप्रश्रयमञ्जलि वडा) असितमलके मध्ये शून्यं नितम्बभरे नं मधुरमधरे मन्दं याने च तुङ्गमुरोजयोः । अधिकमृदुलं बाह्वोरायामशालि विलोचने वपुरवतु वो मुग्धाक्षीणामभङ्गुरवैभवम् ॥ ३ ॥ (इति पुष्पाञ्जलिं विकीर्य नेपथ्याभिमुखमवलोक्य ।) मारिष, इतस्तावत् । (प्रविश्य।) पारिपार्थकः- -भाव, अयमस्मि । १. द्रविडदेशविहितसंचारोऽयं शृङ्गारभूषणभाणः काव्यमालाकरावलम्वनमहोत्सव- मनुभूय सार्वजनीनतां सार्वत्रिकतां च भजतामित्यादरपुरःसरमस्मत्संनिधौ श्रीमद्भिः सुब्रह्मण्यशास्त्रिभिः प्रेषित इति तेषामुपकारं बिभृमः.

२ काव्यमाला। मूत्रधारः-मारिष, अद्य खलु चराचरगुरोरुत्तुङ्गतुङ्गभद्रातरङ्गताल- वृन्तापनीयमानसंध्याताण्डवपरिश्रमस्य हेमगिरिकूटनीलाकरहेमकूटशृङ्गवि- हितमङ्गलायतनस्य कौमागमगन्धिवामभागस्य शेखरीभूतशीतभानुशकलस्य भगवतो विरूपाक्षस्य चैत्रयात्रामहोत्सवे रतितन्त्रदेशिकानां रतिपतिनिगमान्तवावदूकानाम् । वैदग्ध्यभूषणानामेषा परिषत्समागता विदुषाम् ॥ ४ ॥ तत्केनापि रूपकेण सभामिमामाराध्य सफलयिष्यामो वयं कुलक्रमागतं प्रयोगविद्यावैशद्यम् । पारिपाचकः-यथा गेचते भरतकुलभूषणाय भावाय । मूत्रधारः-तत्किमिति क्रियते विलम्बः । पारिपार्श्वकः-भाव, कस्य पुनः कवेः कृतिमभिनीय सामाजिकम- नांसि रञ्जयिष्यति भवान् । सूत्रधार (स्मरणमभिनीय ।) सौभाग्यस्य निधिः श्रुतस्य वसतिर्विद्यावधूनां वरो लक्ष्म्याः केलिगृहं प्रसूतिभवनं शीलस्य कीर्तेः पदम् । निःसामान्यविकासया कवितया जागर्ति वत्सान्वयः श्रीमान्वामनभट्टबाणसुकविः साहित्यचूडामणिः ॥ ५ ॥ नि कविना प्रणीतं शृङ्गारभूषणं नाम भाणं प्रयुञ्जानैरस्माभिर्नियत- वर्जितैव सभा । पारिपार्श्वक:-सम्यगुपन्यस्तं भावेन । सूत्रधार:-किंच वाचस्तस्य कवेः प्रसन्नमधुरा दक्षाः प्रयोगे वयं वैदग्ध्यप्रथमावतारसरणिः सामाजिकानां मनः । कालः कोकिलकण्ठरागविलसत्कंदर्पदपोदयः शृङ्गारोऽपि रसः स एष मिलितो दिल्या गुणानां गणः ॥६॥ रिपार्श्वक:-सम्यगुपक्षिप्तं वसन्तागम इति । तथा हि ।

शृङ्गारभूषणम् ।
३
कुङ्मलितचूतविटपाः कोमलकलकण्ठपञ्चमप्रसराः ।
पक्ष्मलितमदनशौर्या मदयन्ति मनांसि माधवारम्भाः ॥ ७ ॥
सूत्रधारः-तर्हि नियुज्यन्तां भूमिकापरिग्रहाय भरतलोकाः ।
पारिपार्थका-यदाज्ञापयति भावः । (इति निष्क्रान्तः ।)
सूत्रधारः-(सर्वतोऽवलोक्य ।) अये, मधुसमयारम्भगुम्भितामोदमुत्सव-
मयमिव जगदखिलमालक्ष्यते । तथा हि ।
बूताः पञ्चशरस्य वाणरचनाप्रस्तावमातन्वते
संल्लापान्परिचिन्वते परभृताः प्रादुर्भवत्पञ्चमाः ।
आदत्ते पवनोऽपि सौरभमयीमन्यादृशमैं वासनां
पुष्पोद्भेदवतीमशोकलतिकामभ्येति पुष्पंधयः ॥ ८ ॥
(परिक्रम्यावलोक्य च ।) क एष कामिनीकुचकलशगाढाश्लेषविलिप्तकु-
कुमवंक्षःस्थलः कङ्केलिपल्लवानुकारिणा कौसुम्भेन वाससा कलितसंव्यानः
कर्णपूरपदनिहितकमनीयकलारः करतलकलितकनकवेत्रयष्टिः कंदर्प इव
मूर्तिमानित एवाभिवर्तते । य एष
विलुलिततिलकश्री नकर्णावतंसो
दरमुकुलितनेत्रो दर्शयन्नङ्गकेन ।
नवनखपदभागां नैशसंभोगमुद्रा-
मिह विशति विटानासग्रणीर्वेशवांटीम् ॥९॥
(निरूप्य ।) अयं खलु भागिनेयो भरतशेखरो विलासशेखरभूमिकामा-
दायेत एवाभिवर्तते। अहमप्यनन्तरकरणीयाय सज्जीभवामि। (इति निष्क्रान्तः।)
इति प्रस्तावना।
(ततः प्रविशति विलासशेखरः ।)
विलासशेखरः-(विलोक्य ।) अये, प्रभातप्राया विभावरी । तथा हि
आकुलिततिमिरचिकुरामामीलिततारकामसौ श्यामाम् ।
अनुभूयेव श्रान्तः संप्रत्युपयाति वारुणी चन्द्रः ॥ १० ॥

अपि च ।
अयमिह मधुपविलासी सादरमनुभूय कुमुदिनी रात्रौ ।
आविस्मितकमलमुखीमम्बुजिनीमद्य चुम्बति प्रेम्णा ॥ ११ ॥
(परिवृत्यावलोक्य ।) अये, मार्तण्डस्य धूर्तजनाचरणसरणिवैदग्धी । एप खलु
आश्लिप्यत्यनुरागिणीं कमलिनी गाढानुरागः करै-
रालिम्पन्हरिचन्दनेन हरितो बालातपच्छद्मना ।
आनन्दं दिवसश्रियो विरचयन्नाकृष्टरक्तांशुको
मीलत्तारकमुच्चलद्भमरकं प्राचीमुखं चुम्वति ॥ १२ ॥
(स्मरणमभिनीय।)
आघ्राय कर्णमूलं सुतनोः सुरतश्रमेण सुप्तोऽहम् ।
प्रतिबोधितः प्रभाते तारनिनादेन ताम्रचूडेन ॥ १३ ॥
तदानीं च
उन्निद्रोऽपि घनस्तनं वरतनोरालिङ्गय गाढं वपु-
निद्राशेषकषायितेन मनसा व्यामीलदर्धक्षणः ।
अङ्गैरुत्पुलकैरनङ्गकलहव्यापारदूरालसै-
रैक्यं तादृशमन्वभूवमलकामोदेन वीतश्रमः ॥ १४ ॥
(परिक्रम्य स्पर्शसुखमभिनीय सानन्दम् ।)
विलुलितचिकुरो विलासिनीनां विदलितपङ्कजवासनासनाथः ।
अयमिह पवनः प्रभातजन्मा कलयति चेतसि कंचन प्रमोदम् ॥१५॥
(कतिचित्पदानि गत्वा सवितर्कम् ।) अये, महत्येव प्रत्यूषे गुरुतरकार्यारम्भ-
व्याप्त इव किमित्यहं निर्गतोऽस्मि । (सस्मरणम् ।) आः, ज्ञातमेव । कामुक-
जनहरिणवञ्चनवागुरायाः कनकमञ्जरीदुहितुरनङ्गमञ्जर्याः प्रथमार्तवमहो-
त्सवं संभावयितुमुद्यतोऽस्मि । अथवा विस्मृतिशीलः खलु कामिलोकः ।
यतः ।
अधरयति भावमन्यं तत्तादृक्सुरतकौशलं सुतनोः
अनुभूयमानमिव मे संग्रति संचिन्त्यमानमपि मन्ये ॥ १६ ॥

शारभूपणम् तदहमधुना विटविदूषकपीठमर्दकसंकुलेन विविधविलासिनीवर्गेण म- न्द्रतरतन्त्रीरवानुकारिकर्णहारिकलमधुरगीतेन धम्मिल्लहल्लकानुसारिमधुक- रझंकाररचितमन्मथचापटकारविभ्रमेण निरन्तरवितन्यमानमहोत्सवेन निर- कुशानङ्गशासनन वशवाटन भणयकलह कोपोद्वेलं नियम्य विलासिनः प्रकृतिमधुरं नर्मालापं विधाय वधूजनैः । दिवसमखिलं नीत्वा तां तां विलोक्य चमत्कृतां मुदितहृदयः सायं गन्ता सखीमहमीक्षितुम् ॥ १७ ॥ (परिक्रम्याग्रतो दृष्टिं दत्त्वा ।) कैषा गाढपरिभोगशंसिना वपुषा बालातपलेखेव भासुरमधिवसति रम्यहर्म्यतलम् । तथा हि । नखपदविषक्तमलकं विमोचयन्ती विमुक्तसीत्कारम् । सुरतपरिश्रमखिन्ना सुतनुरियं सौधमध्यमध्यास्ते ॥ १८ ॥ एषा खलु मन्दारिकादुहिता मलयवती । तदेनामुपसृत्य सल्लापयिष्ये । (तथा कृत्वा ।) अयि मलयवति, जातश्चेतिमपल्लवं शशिकलासंनद्धमुक्तावली म्लाने चम्पकमालिके मणिगणव्यासङ्गिनौ दर्पणौ । मात्राधिक्यजुषानिलेन कलशद्वंद्वं च कम्पोत्तरं क्लान्तं व्योम च कस्य वा सुकृतिनः शंसन्ति भाग्योन्नतिम्॥१९॥ किं ब्रवीषि-~~'भाव, किं न जानासि गन्धसारम्' इति । (सश्लाघम् ।) साधु रे गन्धसार, साधु । ईदृशभाग्यानुभवभाजनं भवानेव धन्यः । सखि मलयवति, इयमाशीः । .ईदृशं प्रेम युवयोरेव मन्येऽन्यरागिणोः । अनन्यपरतन्त्रेण रतितन्त्रेण वर्धताम् ॥ २० ॥ किं ब्रवीषि-'किमन्यतो गन्तुमभिलषति भावः' इति । भवत्वेवम् । पूर्वेयुः प्रत्यूषवेलायामेव सख्याः कनकमञ्जर्या दुहितुरनङ्गमञ्जर्याः प्रथमार्त- वमहोत्सवं संभावयितुं निमन्त्रितोऽस्मि । आस्व । (इति परिक्रम्यान्यतोऽव- लोक्य ।) एषा खलु कलावतीदुहिता कमलवती भवनवेदिकामधिवसति ।

स्मरमृगयुवागुराभानसितानवकीर्य नखमुखैरलकान् । तरुणजनहृदयहरिणान्निसर्गतरलान्गृहीतुमुद्युतते ॥ २१ ॥ तदेनामुपसर्पामि । (तथा कृत्वा ।) सखि कमलवति, परिदर्शितचारुबाहुमूलं प्रकटालक्षितनव्यभोगचिह्नम् । कचसंयमनच्छलेन कान्ते मनसः संयमनं ममातनोषि ॥२॥ किं ब्रवीषि-'भवानेव जानाति चाटुवैदग्ध्यम्' इति । (सस्मितम् ।) . शृणु तन्वि, आमण्डलीकृतकुचं परिरभ्य दोभा आघ्राय कण्डमगुरुद्रवरञ्जितं ते । बिम्बाधरं विहसितामरलोकसार- मास्वाद्य रन्तुमभिलष्यति मेऽन्तरात्मा ॥ २३ ॥ किं ब्रवीषि-'धूर्त, निगूढं भण । अन्तरास्ते माधवगुप्तः' इति । (विहस्य ।) किं मलयगुप्तो निष्कासितः । अथवा किमसुलभं जननीपिशाचिकायां जीवन्त्याम् । तथा हि । रसज्ञलोकैरभिनन्दितानां वाराङ्गनाचन्दनवल्लरीणाम् । मुहुर्वमन्त्यो गरलं मुखेन खमातरः कालभुजङ्गय एव ॥ २४ ॥ अपि चायमाजन्मसिद्धः खभावः । तरुणं वा ललितं वा गुणोन्नतं वा कुलप्रसूतं वा । अपहाय मातृलोको धनिनं यं कंचिदेव कामयते ॥ २५ ॥ किं ब्रवीषि-'किमस्त्यविदितं भावस्य' इति । (सोत्प्रासम् ।) सखि, हितमुपदिशामि मातृगृहानुसरणमुन्मुच्य नवनवसंपन्नलावण्यं, सफलीकु- रुष्व तारुण्यम् । आस्व । साधयामि । (इति परिक्रामितकेनान्यतो दत्तदृष्टिः ।) अत्र हि कण्ठैमञ्जुलनिनदैः साकं सौधे निलीय दयिताभिः । कुर्वन्त्यमी कपोताः कूजव्याजेन मणितरणितानि ॥ २६ ॥ (अन्यतोऽवलोक्य ।) क एष गाढतरताम्बूलकृष्णिकालंकारिताधरदलाति- ते

शारदूषणम् ।
व्यक्तदशनक्षतः करपदमुद्राङ्कितकर्णबाहुमूलः कामिनीकुचकलशहरिद्रा-
द्रवरञ्जितोपसंवीतस्तिष्ठति । (सविमर्शम् ।) एष खलु माधवसूनुर्मन्दारको
नाम विप्रविटः पितुरध्वरार्थनिहितानि धनान्यपहृत्यामङ्गसत्रे दीक्षितवान् ।
भवतु । एनं तावत्परिहासभाजनं विधास्यामि । (उपमृत्य।) सखे मन्दारक,
साधु कृतं भवता । यतः।
रम्भाभोगसुखं महाक्रतुकृतां स्वर्गे भवेदित्यहो
वाचा केचन मोहिता विदधते यागेन वित्तव्ययम् ।
कन्दर्पाध्वरदीक्षितेन भवता द्रव्यं खपित्रार्जितं
कान्ताश्लेषमहोत्सवोऽयमधुना निर्विघ्नमासाद्यते ॥ २७ ॥
अपि च ।
अकृताधरबिम्बचुम्बनानामनभिज्ञातनखाङ्कसीत्कृतानाम् ।
अवधूतनिषेधगर्भवाचामसिपात्रं नकुलाङ्गनारतानाम् ॥ २८ ॥
किं च वयस्य, ते हितमुपदिशामि । किं ब्रवीषि-त्वदृते को मे हित-
मुपदेक्ष्यति' इति । शृणु तावत् ।
वामरङ्गे वदनेऽपि वक्षसि विभोरव्याहतप्रक्रमा-
माज्ञां शम्बरशासनस्य यदमी देवास्त्रयो बिभ्रति ।
कान्तारे विषयोपभोगविमुखा ये केऽपि तेषां ततः
कान्ताश्लेषसुखोपरोधवचनं नैव प्रमाणं हि ते ॥ २९ ॥
तस्मात्त्वं श्रुतिस्मृतिविहितान्यपहाय कामागमविहितानि कर्माणि नि-
विशङ्कमनुतिष्ठ । एष खलु परमो धर्मः। किं ब्रवीषि—'यथोपदिष्ट भावेन'
इति । (सश्लाघम् ।) आस्व । अन्यतो गच्छामि । (इति परिक्रामितकेन ।) इयं
खलु रत्नावली मदुपभुक्तयौवनारम्भा प्रणयकलहवतीव मामाघूर्णितया दृशा
दर्शितैकस्तनोत्तरीया विलोकयति । तदेनां कपटगतादिभिरुक्तिभिः प्र-
लोभ्य कृतापराधमात्मानं मोचयामि । इतरथा पुनरियमनागममूला-
न्यागांसि संजनयति । (उपसृत्य सस्मितम् ।) रत्नावलि,
अमृतकरबिम्बमेतन्मुञ्चति किमिति प्रसादमात्मीयम् ।
कोणेन शोणिमानं कुवलययुगलं च किमिति संधत्ते ॥ ३० ॥

८ काव्यमाला। सख्युत्सवसंभावनाय किमेवं मयि भाषमाणेऽप्यनालपन्ती तिष्ठसि । किं ब्रवीषि-'कितव, काहं तवोत्तरं दातुम्' इति । (सानुस्मरणम् ।) त्यज विलासिनि दासजने रुषं किमिति कोपकंषायितमीक्षणम् । न विहितं नलिनायतलोचने तव निदेशविलङ्घनसाहसम् ॥ ३१ ॥ किं ब्रवीषि—'नाहं भाजनं विटजनकपटचाटुपाटवस्य । पश्य । अन्तर्गुम्मितगरलं वहिरपि पुण्ड्रेक्षुसारतो मधुरम् । कथमिव सत्यं मन्ये खलवचनं गगनकुसुमगन्धनिभम् ॥ ३२ ॥ तद्यथागतं गच्छ' इति । शृणु भामिनि, सहजनिजचापलेन भ्रसरयुवा तत्र तत्र कृतकेलिः । कमलमुखि कस्य मान्यः कमलिन्या गाढरोषमवधूतः ॥ ३३ ॥ तत्कृतापराधमपि मां क्षमख। (इति पादयोः पतन् ।) किं ब्रवीषि-'तर्हि ताम्बूलं गृहीत्वा गच्छ' इति । (सहर्ष नाव्येन ताम्बूलं गृहीत्वा ।) साधयामि । (इति यामितकेन दक्षिणतोऽवलोक्य ।) अयं खलु नवोढया क- नकलतया सह कामन्दको भवनवेदिमधिवसति । तदेनमुपसृत्य नववधू- विस्रम्भणमुपदेक्ष्यामि । (इति तथा कृत्वा ।) अये कामन्दक, इयं कनकलता भाग्येन ते पञ्चशरविजयदायिना वयसा परिष्क्रियते । तथा हि । आभोगेन कुचद्वयी विवृणुते संनाहमागामिनं नेत्रे विस्तृतिशालिनी नवनवं कौटिल्यमभ्यस्यतः । चक्षुर्गोचरतामुपैति शनकैस्तन्वी च रोमावली बाला सेयमुपैति मन्मथयशःसंजीवनं यौवनम् ॥ ३४ ॥ किं ब्रवीषि-किं न संपद्यते भावपक्षपातेन' इति । वयस्य, यदुच्यते गन्तृच्छायां परित्यज्यागामिनीच्छाया गृहीतव्येति, तदिदं तव फलि- तम् । यतः। परिमुच्य पत्रलेखां परिणततारुण्यगर्वदुर्ललिताम् । अनुभवसि वीतबाल्यामेनामप्रौढयौवनां तन्वीम् ॥ ३५ ॥ अपि चायमेव कालः शृङ्गारसर्वस्वं रतिसुखमनुभवितुम् । किं ब्रवीषि- - शृङ्गारभूषणम् । 'आश्लेषे सति संकुचद्वपुरियं बिम्बाधरस्य आहे व्यावृत्ताननपङ्कजा स्तनतटस्पर्शे कृतस्वस्तिका। नीवीमोक्षविधौ च निहतिपरा नोपूरयत्यञ्जसा. मद्वाञ्छामधुना तथापि जनयत्यानन्दमन्यादृशम् ॥ ३६ ॥' इति । दयस्य, इतः परं कर्तव्यमुपदिशामि ते । इक्षुलतामिव मधुरामिन्दुकलामिव मनोज्ञलावण्याम् । एमामनतिक्लिश्यां मधुकर इव भुव मालतीमालाम् ॥ ३७ ॥ आस्ख । साधयामि । (इत्यन्यतोऽवलोक्य ।) इतः पुनरियमिन्दुमती क- न्दुकताडनमाचरन्ती परिक्रीडते । (उपमृत्य ।) भद्रे इन्दुमति, शश्वन्निःश्वसितानिलव्यतिकरव्याधूतबिम्बाधरं स्वेदाम्भःकणमञ्जरीविलुलितव्याकीर्णचूडालकम् । उत्कम्पिस्तनलोलहारलतिकं क्लान्तावलग्नं वपुः कुर्वन्कन्दुक एष कान्त इव ते धत्ते परां निर्वृतिम् ॥ ३८ ॥ विस्मयमानमुखी किं ब्रवीषि-'कुटिलमेव भाषितं भावस्य' इति । किमत्र चित्रं यदाचार्यस्य गुणो न शिष्यस्य । पश्य । पञ्चशरमोहनास्त्रं पङ्कजवनभागधेयपरिणामम् । उपदिशति लोचनं ते कामुकलोकस्य किमपि कौटिल्यम् ॥ ३९ ॥ किं च स्पृहयामि खलु दुर्ललितायास्मै कन्दुकाय । यतः । निपत्य चरणान्तिके करसरोजसंताडितः पुनश्च सहसोत्पतन्नधरबिम्बलोभादिव । अधीरनयनं त्वया क्षणमिवायमालोकित- स्तनोति मम कौतुकं पुलकितस्तनाश्लेषवान् ॥ ४० ॥ किं ब्रवीषि-'क्षणमिव मिथः संल्लप्य गम्यताम्' इति । (सस्मितम् ।) इदानीं खलु सख्युत्सवविलोकनकौतुकिना मया न काल: क्षेप्तव्यः । नि- वृत्तावेव सर्व भविष्यति । आस्व । (इत्यन्यतः परिक्रम्य ।) कैषा सौधशिरो- ऽधिरोहिणी जननीनिष्कासितप्रियतममार्गावलोकिनी संलक्ष्यते । यैषा १० काव्यमाला आभाति मलयमरुता तरलितसंव्यानपल्लवा तरुणी । चारुतरनयनशफरा शम्बररिपुविजयवैजयन्तीव ॥ ४१ ॥ (निरूप्य ।) इयं खलु माधवीदुहिता वासन्तिकां । (उपसृत्य ।) सखि वा- सन्तिके, सौधशिखरमधिरूढा किं करोषि। किं ब्रवीषि-'अभिनववसन्ताव- ताररमणीयस्य पश्यामि सौभाग्यमुपवनस्य' इति । (रावेहस्य ।) कोमलस्तबकानम्रा चारुपल्लवरागिणी । माकन्दमिह वासन्ती संत्यज्य किमु शोभते.॥ ४२ ॥ सलज्जसिता किं तूष्णीं भवसि । किं ब्रवीषि-'जानामि ते मत्सुहृदि माकन्दे महाननुरागः' इति । किमेष धनलुब्धया जराग्रहगृहीतया जनन्या निष्कासितः । किं ब्रवीषि-'भवानेव जानाति परेङ्गितम्' इति । सखि वासन्तिके, काकोऽपि रटतु घटीयन्त्रं च प्रवर्तताम् । पश्य । आक्रन्दनं कामुककालरात्रिः करोतु तावजननी पिशाची । तथापि भूयादियमव्यपाया माकन्दसंभोगरसानुभूतिः ॥ ४३ ॥ साधयाम्यहम् । (इति परिक्रम्य दक्षिणतोऽवलोक्य ।) इयं पुनन्यासङ्गकलुषा कलकण्ठी मेखलादामनि गलितभुजयुगलमधोमुखं धनमित्रमाहन्ति बकुल- मालिकया। तदेनमनागसं विधास्यामि । अथवापराधितैव रमणीया। तथा हि। आकुञ्चितेन हननं नयनाञ्चलेन काञ्चीगुणेन दृढसंयमनं च बाह्वोः । संताडनं बकुलमालिकया च लब्धं भाग्यं कियद्विहितवान्धनमित्र एषः ॥ ४४ ॥ (उपसृत्य ।) सखि कलकण्ठि, किमपराद्धं धनमित्रेण । किं ब्रवीषि-'भाव, एष खलु मद्भगिनीमप्रौढयौवनां परभृतिका मामेतिवादिनीमुपहरेऽनुभ- वनसत्सख्या मदलेखया दृष्टः' इति । (कर्णी पिधाय ।) शान्तं पापं शान्तं पापम् । (अपवार्य ।) सखे, किमनुष्ठितं भवता । कि ब्रवीषि- 'तैस्तैर्वचोभिरनुनीय कथंचिदेनां तालाकृतिस्तनयुगां तरलायताक्षीम् । - ,

शृङ्गारभूषणम् ।
आलिङ्गय गाढमधरं न पिबामि याव-
त्तावच्चकार हत दुर्विधिरन्तरायम् ॥ ४५ ॥
अहो साधुतरे संग्रामे चापस्य ज्याभङ्गः । साधु कृतं भवता । यतः ।
यद्यपि सहोदरीणां मधुकर इव नव्यचूतकलिकानाम् ।
इपभोगमुत्पलदृशां न विमुञ्चति विटजनो गुणग्राही ॥ ४६ ॥
किं ब्रवीषि-'तद्भवानेव मामनागसमाकलितप्रायश्चित्तं च विधत्ताम्'
इति । (सस्मितम् ।) सखि कलकण्ठि, कस्य वा गच्छतः स्खलनं न संभ-
वति । अथवा रागचपलेन यत्किंचिदसाधु चेष्टितवान् । तदिदानीमस्य दृढ-
मुपदिशामि।
वाचालमञ्जीरमनोहरेण पादेन पद्मोदरकोमलेन ।
वक्षःस्थले ताडनमाचरन्त्या वराङ्गि सोऽयं क्रियतामशोकः ॥४७॥
सखे धनमित्र, इतःपरं त्वमप्येतादृशस्य व्युत्क्रमस्याकरणाय
देवेन चित्तजनुषा मरुता मलयादिजन्मना मधुना।
शशिना च संप्रति भवाञ्शपथं सख्याः करोतु निःशङ्कम् ॥४८॥
एवं च कृत्वा प्रणिपातविधानेनं व्यपनय कोपमस्याः । (सहर्षम् ।) अये,
प्रियतमप्रणामेन व्यपगतरोषैव कलकण्ठी । तथाहि ।
परिणेतरि कुर्वति प्रणाम मुखमुन्मुक्तकलङ्कमायताक्ष्याः ।
भजते सुषमामभूतपूर्वामपनीहारमिवाम्बुजं प्रभाते ॥ ४९ ॥
सखे धनमित्र, सखि कलकण्ठि, इदानीमाशास्महे ।
अक्लिष्टयौवनोन्मेषविकखरविलासयोः ।
एधतां प्रेम युवयोरिन्दुचन्द्रिकयोरिव ॥ १० ॥
आस्ख । (इत्यन्यतोऽवलोक्य ।)
अर्धारुकव्यवहितोरुनितम्बसीनां
कक्ष्यावबद्धकमनीयतरस्तनीनाम् ।
लावण्यकल्पितपरिष्कृतिरङ्गशाला-
मभ्येति वृन्दमरविन्दविलोचनानाम् ॥ ११ ॥

.१२ काव्यमाला। (निर्वर्ण्य ।) एषा खल पुरः समायान्ती तरुणजननयनानन्दचन्द्रिका बा- लचन्द्रिका । एनां हि वालां तमालनीला योग्यां तैलाभिषेकललिताङ्गीम् । तेजनतैलनिषिक्तां शङ्के शृङ्गारवीरखगलताम् ॥ १२ ॥ तदिदानी नाट्यशालां प्रविश्य सख्या गणदत्तेन क्रियमाणां मृत्यशिक्षा द्रष्टुमभिलषति मे हृदयम् । (रङ्गशालाप्रवेशं नाटयित्वा ।) अये, गणदत्त एवायं मदभिमुखमापतति । (उपसृत्य ।) सखे गणदत्त, परिष्वजल माम् । (इति नाट्येन परिष्वज्य।) किं ब्रवीषि-मुहूर्तमानं नृत्तशिक्षाविलोकनेन मां कृतार्थ- यतु भवान्' इति । तथा क्रियताम् । (सहर्षम् ।) सखे गणदत्त, अदृष्टपूर्व- मस्या बालचन्द्रिकाया नृत्तशिक्षाचातुर्यम् । पश्य । हृद्यं मण्डलसौष्ठवं सुललितः प्रौढाङ्गहारक्रमो न्यासस्ताललयान्वितश्चरणयोर्मञ्जु क्वणन्नूपुरम् । तत्तद्भावविशेषसौरभजुषो रम्या दृशोर्विभ्रमाः साकूतस्मितचारुवत्रकमलं श्राव्यं च गीतामृतम् ॥ ५३॥ यद्यस्ति नर्तकीनां वैशद्यं किमपि गीतविद्यायाम् । तत्किल विदग्धलोकः कथयति कनकस्य सौरभं जातम् ॥ १४ ॥ किं ब्रवीषि-'भाव, परिग्रहेणैव नः प्रकाशते नृत्तविज्ञानम्' इति । (अपवार्य ।) सखि बालचन्द्रिके, खेदाम्बुमौक्तिकपरिष्कृतफालदेशं मन्दस्मिताङ्कुरितमन्मथबाहुदर्पम् । मात्राधिकश्वसितमाननपङ्कजं ते रम्भोरु पातुमभिवाञ्छति मानसं मे ॥ ५५ ॥ किं ब्रवीषि-'किमात्मीयमात्मनो दुर्लभम्' इति । (गणदत्तं प्रति।) सखे, सरसरमणीयोऽयं कालक्षेपः । तथापि सख्युत्सवसंभावनाय गन्तव्यम् । (इत्यन्यतः परिक्रम्य कर्णं दत्वा ।) अये, मकरन्दस्य गृहे कर्णमधुनिष्यन्दि हि- ण्डोलागानमाकर्ण्यते । तथा हि ।

शृङ्गारभूषणम् । AW संवाहिकाकरसमीरितरत्नडोला- पर्यन्तबद्धमणिकिङ्किणिकानिनादैः । साकं समुल्लसति पङ्कजलोचनानां संगीतमङ्कुरितपञ्चशरावलेपम् ॥ ५६ ॥ तदुपसृत्य संभावयामि । (इति तथा कृत्वा ।) अये, मन्दारिकामकरन्देन सार्ध वसन्तडोलाविहारोत्सवमनुभवति । इयं हि दत्तकबाहुपाररम्भणमादरण वामेतरेण परिणाहवता स्तनेन । वक्षःस्थलं प्रियतमस्य निपीडयन्ती डोलां गता विहृतिमातनुते मृगाक्षी ॥ १७ ॥ (उपगम्य ।) अये, इयमवतितीर्षति मामवलोक्य मन्दारिका । अयि म- न्दारिके, अलमलमतिसाहसेन । अवतरणसंभ्रमेण स्तनभरपरिणाहदूरखिन्नस्य । मध्यस्य चेद्विभङ्गो भविता भङ्गुरमनङ्गसर्वस्वम् ॥ १८ ॥ किं ब्रवीषि-'वासन्तिकडोलाविहारोत्सवमनुभवामि' इति । साधु साधु । श्रवणमधुरं ते हि डोलागीतं श्रोतुमिच्छामि । कथं गायसि । जअइ महुमासलच्छी जअइ अणङ्गस्स बाहुदप्पसिरी । जअइ णिसाअरबिम्बं जअइ अ मलअदिसंभवो पवणो ॥ १९ ॥ अइ अ मज्झं वि किसं जहणं वि घणं थणं वि उत्तुङ्गम् । णअणजुअलं वि दीहं तत्तारिसमङ्गणाण सोभग्गम् ॥ ६ ॥ अहो गीतस्य माधुर्यम् । पुंस्कोकिलस्य ललितेन च पञ्चमेन तन्त्रीरवेण मधुरेण च वल्लकीनाम् । १. जयति मधुमासलक्ष्मीर्जयत्यनङ्गस्य बाहुदर्पश्रीः। जयति निशाकरबिम्बं जयति च मलयादिसंभवः पवनः॥ [इति च्छाया]. २. जयति च मध्यमपि कृशं जघनमपि घनं स्तनमप्युत्तुङ्गम् । नयनयुगलमपि दीर्घ तत्तादृशमङ्गनानां सौभाग्यम् ॥ [इति च्छाया.

काव्यमाला। " आनन्दमेति न तथा स्फुटरागभङ्गया गीत्या तवाद्य करभोरु यथा मनो मे ॥ ६१ ॥ खच्छन्दं परिक्रीड। साधयाम्यहम् । (कतिचित्पदानि गत्वा ।) इयं खलु विलासवती विटशेखरेण सह प्रवर्तिताक्षयूता विभाव्यते । मुखरितवलयं सलीलमक्षान्करकमलेन मुहुर्मुहुः क्षिपन्ती । तरुणजनमनांसि मोहयन्ती कलकरभोरु करोषि किं विहारम् ॥६२॥ किं ब्रवीषि-भाव, इत उपविश्यतां क्षणमात्रम् । आवयोरक्षक्रीडि- तस्य साक्षी भवतु भवाञ्जयपराजययोः' इति । अथ कीदृशः पणबन्धः । अथवा वयस्यमेव पृच्छामि । वयस्य, कीदृशो वां पणबन्धः । किं ब्रवीषि- 'पराजयवता सुरतेष्वधः शेतव्यम्' इति । साधु भणितम् । किंतु अयमस्तु पराजयो महीयान्भवतः केवलमुत्सवोपमेयः । अवलग्नमिदं नतं मृगाक्ष्या वद वीरायितसंभ्रमे कथं स्यात् ॥६३।। तत्सखीपराजयान्तरित एव विहारः क्रियताम् । अन्यतो गच्छामि । (इति परिक्रम्यावलोक्य प्रौढातपस्पर्शमभिनयन् ।) . गगनकेशवकौस्तुभमणिभंग- वानम्बरमणिरलंकरोति मध्याह्नम् । उपैति शफरावलिः शिशिरशैवलाभ्यन्तरं कथन्मधुमधुव्रतः कमलकाननं मुञ्चति । कपोतपरिपाटिकागृहविटङ्कमासेवते मुखानि सुदृशामपि श्रमजलान्यलंकुर्वते ॥ ६४ ॥ इमामुग्रातपवेलां चन्द्रवतीमन्दिरोद्याने यापयामि । (परिक्रम्य ।) इयं खलु चन्द्रवती चन्द्रकान्तमणिवेदिकामधिवसति । (उपसृत्य ।) सखि चन्द्रवति, मुग्धे मुखकमलं ते मौक्तिकनासाविभूषणोदारम् । अङ्कुरितामृतबिन्दोरिन्दोरिव बिम्बमातनोति मुदम् ॥ ६५ ॥ सखि, क गतः सखा मे वसन्तकः । किं ब्रवीषि-'मालतीनिमित्तं माध- वसेनचन्द्रसेनयोरन्योन्यकलहमुपशमयितुं गतः' इति । सखि, दारुणतर- तरणिकिरणतापो न व्यज्यतेऽस्मिन्भवनोद्याने । तथा हि। , शृङ्गारभूषणम् । १५. सीमा तत्तद्विटपिजनुषां संपदामार्तवीनां योग्या शाला मलयमरुतामालयः शीतलिनाम् । गञ्जाशाला मधुपैसुदृशां केलिसौधं पिकानां गेहोद्यानं दिशति नितरां नेत्रयोरुत्सवं मे ॥ ६६ ॥ (क्षणमिन स्थित्वा ।) चन्द्रवति, व्यतीतो मध्याह्नसमयः । त्वया च गम्यते खलु सख्युत्सवसंभावनाय । तत्संल्लापयामि । (परिक्रम्यावलोक्य । अये, कैषा अजलविटकुट्टनस्थपुटितस्तनाभ्यन्तरा नखव्रणकिणावलीविषमितं वपुर्बिभ्रती । करस्थगितपत्रिकापलितपाण्डुधम्मिल्लका प्रसह्य जरती पुनस्तरुणमेकमाकर्षति ॥६७ ॥ अयि, तथैव सा लौकिकी गाथा वृद्धवारविलासिनी वानरी भवतीति । नूनमियं स्वदुहितरि नवमालिकायामलमल्लकमात्रावशेषमपगतवित्तं माध- वदत्तमाकर्षति व्यवहारश्रवणाय करगृहीतपत्रा वेत्रवती । तदहमपि सभ्या- मामन्तरे भवामि । (उपसृत्य .) अयि वेत्रवति, किमिदानीं नारीजनोचित- माचर्यते दारुणं कर्म । किं ब्रवीषि-'अविलासिजनोचितमनेन माधवद- तेनाचर्यते' इति । तत्कथय कोऽयमस्यानाचारः। किं ब्रवीषि--'षण्मासान्म- दुहितरं नवमालिकां कलत्रीकृत्य न किंचिद्रव्यमर्पयति' इति । (अपवार्य ।) सखे, त्वदर्थमेव पक्षपाताद्वक्ष्यामि । (प्रकाशम् ।) शृणु वेत्रवति, वित्तहीनोऽयं माधवदत्तः । इयं च ते दुहिता षण्मासाननुभुक्ता। किं ब्रवीषि-नायमव- सरः परिहासस्य । पश्य तावदनेन दत्तां कलत्रपत्रिकाम्' इति। (इति नाट्येनादाय वाचयति-) 'स्वस्ति समस्तभुवनमोहने मन्मथनामनि संवत्सरे विजयनगर- वासी माधवदत्तो वेत्रवतीदुहितुर्नवमालिकायाः कलत्रपत्रमर्पयति- षण्मासानियमस्तु मे प्रणयिनी शश्वत्पणानां शतं दास्यामि प्रतिमासमिन्दुधवलं धौतं दुकूलद्वयम् । माल्यं नूतनमन्वहं मृगमदं कर्पूरवीटीशतं यच्चाभीप्सितमन्यथा पुनरसौ सर्व च मे दास्यति ॥६८ ॥" " - काव्यमाला। . इति । भद्र माधवदत्त, न ह्यस्ति लिखित्वा व्यवहारः । तदुच्यतामुत्तरम् । किं ब्रवीषि- 'श्वश्रुपिशाचिकेयं मामतिसंधाय कृत्रिमोपायैः । आहूय धनिनमन्यं दुहितरमेनां तनोति तद्दयिताम् तदहमियमन्यगामिनीति दत्तान्यंशुकानि प्रत्याहर्तुमुद्यतोऽस्मि'. इति । (सस्मितम् ।) सखे, कादाचित्कमपराध क्षमख । भद्रे वेत्रवति, जामातरमाहूय भवनं प्रति गच्छ । उभौ किं ब्रूथ—'यदादिशत्यलङ्घनीयो भावः, इति । भो भोः सभासदो युवानः, सायं सख्युत्सवं संभावयितुं भवद्भिः संनिधात- व्यम् । किं ब्रूथ-'तथा करिष्याम' इति । (पदान्तरे स्थित्वा साश्चर्यम् ।) अत्र हि पश्चात्किचिदिवोपसृत्य मिलितौ तिर्यङ्नमत्कंधरौ शृङ्गाग्राहितलोहशृङ्खलखलात्कारक्रुधा मेदुरौ । कूटास्फालनघोरमस्तकयुगव्याघातभीमारवौ कुर्वाते प्रहति विटप्रणिहितौ मेषौ सरोषाविमौ ॥ ७० ॥ अहो तिरश्चामप्यभिवर्धते परस्परं विरोधः । (कतिचित्पदानि गत्वा दक्षि- णेन निरीक्ष्य ।) अत्र खलु व्याधूतपक्षतिचलच्चरणावबद्ध- शस्त्रक्षतिक्षरितलोहितदिग्धदेहाः अन्योन्यतुण्डपरिघट्टनचारुचूडाः सज्जन्त्यमी समरकर्मणि ताम्रचूडाः ॥ ७१ ॥ किमेतेषां परिमितबलानां समरावलोकनेन । (कतिचित्पदानि गत्वा ।) इह हि आदौ संमृज्य पाणी क्षितितलरजसा गाढसंश्लिष्टकक्षौ बाहू कल्पान्तमेघस्तनितकटुतरध्वानमास्फोटयन्तौ । निष्पिष्टोरःकवाटौ गिरिशिखरशिलानिष्ठुरैर्मुष्टिपातैः कुर्वाते मल्लवयौँ रणमखिलजगद्भीषणं गर्जयन्तौ ।। ७२ ॥

शृङ्गारभूषणम्। १७. (निवेण्य ।) उद्धतनियुद्धभाजोर्निर्दयमुष्टिप्रहारनिष्ठुरयोः । अतिभीमसेनमन्योः प्राचण्ड्यं प्रेक्ष्य वेपते हृदयम् ॥ ७३ ॥ अन्यतो गच्छामि । (कर्ण दत्वा ।) अये, बधिरितहरिदन्तरो महान्कल- कलः । नन्वयमेव चन्द्रवतीनिवेदितो मालतीनिमित्तं माधवसेनचन्द्रसेन- योरन्योन्वशस्त्रपातभीषणो महान्कलहः । अत्र हि अन्योन्यखनपरिघट्टनजायमान- ज्योतिःकणप्रकरतारकितान्तरिक्षम् । एतौ युगान्तकुपितान्तकदुर्निरीक्ष्यौ रक्तोक्षितौ रचयतां रणकर्म वीरौ ॥ ७४ ॥ (क्षणमिव निर्वर्ण्य ।) अहो नृशंसमत्याहितं निपतितम् । यतः । प्रलयसमयकुप्यत्कालरुद्राट्टहास निजगलविवरोद्यत्क्ष्वेलनां निर्दधानः । कलयति रिपुकण्ठच्छेदपर्यन्तमग्रे करधृतकरवालः साहसं चन्द्रसेनः ॥ ७९ ॥ इदानी निःसपत्नं मालतीसुरतसुखमनुभवतु चन्द्रसेनः । अहं पुनरीह- शमत्याहितमवलोकयितुं न शक्नोमि । (अन्यतो गत्वा । एषा खलु चन्द्रसे- नायाः शम्भली चतुरिका नाम । दशनक्षतदन्तुराधरोष्ठी नखनिर्भिण्णकपोलबाहुमूला । उपयाति विटान्विलोभयन्ती कबरीकल्पितभुक्तमुक्तमाल्या ॥ ७६ ॥ (उपसृत्य ।) हल्ले चतुरिके, व प्रस्थितं भवत्या । किं ब्रवीषि-भावं द्रष्टु- मेव' इति । विदग्धः खलु वेशवाटजनोऽन्यत्कार्यमन्यत्रारोपयितुम् । किं ब्रवीषि- 'अभ्यस्य करणशिक्षा नैकमुखी मन्मुखेन खलु बाल्ये। प्रौढः करोति हि भवानन्यत्रान्यत्र मधुप इव सक्तिम् ॥ ७७ ॥ अयं खलु भवान्नद्यां तीर्णायां नाविकमवमति(?)' इति । (सस्मितम् ।) ३ १८ काव्यमाला) वल्गद्धनस्तनभराकुलितावलग्नं व्यालोलकुण्डलकलापविकीर्णमाल्यम् । विस्रब्धचाटुशतजल्पमनल्परागं नो विस्मरामि दयिते पुरुषायितं ते ॥ ७ ॥ किं ब्रवीषि-'क गम्यते भावेन' इति । सख्युत्सर्वाय गच्छामि (इत्यन्यतोऽवलोक्य ।) मत्तकोकिलातनया मञ्जुभाषिणी आलिङ्गय स्तनमण्डलाहितमुखीमाकल्पितां वल्लकी तन्त्री तारनिनादिनी नखमुखैरास्फालयन्ती मुहुँः । मग्नं मन्मथरागसागरजले यूनां मनः कुर्वती तत्तद्रागविशेषसौरभवती गाथामियं गायति ॥ ७९ ॥ (क्षणमिव स्थित्वा ।) हृदयहारिणा गीतेन विवशीकृतोऽस्मि । मुकुलयति पुलकमङ्गे मुद्रयति मनांसि मोहमातनुते । किंवा प्रथयति सौख्यं किं किं न करोति गीतमबलानाम् ॥८॥ (ऊर्वमवलोक्य ।) अये, परिणतप्रायो दिवसः । क्रीडादिग्गजहस्तवेगविधृतव्योमापगाम्भःपत- च्छोणाम्भोजविडम्बिपश्चिमदिशस्ताटङ्कचक्रोपमम् । एतत्पक्कादनद्रुमच्युतफलच्छाय शनरम्बरा- द्वन्धूकच्छविबिम्बमम्बरमणेरस्ताद्रिमालम्बते ॥ ८१ ॥ यद्यपि हृदयहारि संगीतम् , तथापि सख्युत्सवसमयः समतिकामति । (इति परिक्रम्य ।) इदं खलु प्रियसख्याः काममञ्जर्याः प्रारब्धमहोत्सवं सद- नमालक्ष्यते । तत्सखीं संभावयामि । (अन्तःप्रवेशं नाटयित्वा साश्चर्यम् ।) इदं किलाविरताहन्यमानमङ्गलमृदङ्गनिनदजनितकर्णपारणम् , आरणन्मणिनू- पुरवाचालचरणशम्भलीजनमोदमानकमलमुकुलकलारमालिकापरिमलवाहि- मन्दपवनम् , अभ्यन्तरमन्दिरोपविष्टसैरन्ध्रकावशसंपद्यमानप्रसाधनोपकर- णम् , अतित्वरितचेटीसमारोप्यमाणदीपिकाचक्रवालनिद्भुतसायंतनसमयस- न्तमसबन्धम् , अधिराज्यदेवताभिरिवानङ्गस्य मोहनविद्याभिरिव चक्षुषा- मनवद्यसर्वाङ्गीभिरभिनववसन्तनवकुसुमाङ्गरागधारिणीभिरङ्गनाभिरलंकृतम् , , शृङ्गारभूषणम् । १९. अतिविदग्धविटविदूषकपीठमर्दकविलासिसंकुलमुत्सवायतनम् । (निर्वर्ण्य ।) एषा खलु काममञ्जरी संसारतरुमञ्जरीदुहितरं नितरामलंकृत्य भद्रपीठ- मारोपयति । प्रकृतिरमणीयेयमनङ्गमञ्जरी प्रथमार्तवमहोत्सवेन भासते नितराम् । तथा हि । कामं खभावललिता मधुपकुंलामोददायिनी लतिका । नयनोत्सवं विधत्ते लब्ध्वा प्रथमतुसंभवां लक्ष्मीम् ॥ ८२ ॥ एषा मङ्गलमज्जनेन विशदा पट्टांशुकोद्भासिनी कस्तूरीतिलकातिरम्यवदना पुष्पाभिरामालका । काश्मीराकलिताङ्गरागरुचिरा कहारमालावती मूर्ता शम्बरवैरिणो विजयते साम्राज्यलक्ष्मीरिव ॥ ८३ ॥ (सर्वतो दत्तदृष्टिः ।) अहो सकलोऽपि संमिलितः समयः । (परिक्रम्य ।) अये, सखी काममञ्जरीयमभिमुखमापतति निर्भरानन्दा । तदेनामुपसमि। (तथा कृत्वा ।) सखि काममञ्जरि, संसारतरुमञ्जरीदुहितुरनङ्गमञ्जर्याः प्रथ- मार्तवमहोत्सवेन वर्धसे । किं ब्रवीषि—'भाव, समागमादुत्सवः संपन्नः' इति । सखि, पश्य । असाधारणः खल्वावयोरुत्सवः । एतस्यामुदितायामिन्दुकलायामिवातिललिताङ्गयाम् । अनुभवतु बन्धुलोको मकरालय इव महान्तमानन्दम् ॥ ८४ ॥ (प्राचीमवलोक्य ।) अये, उदितभूयिष्ठ एव भगवानोषधीरमणः । तथा हि । त्रिभुवनविजयोद्यतस्य कर्तुं धवलमिवातपवारणं स्मरस्य । उदयशिखरिकन्दरान्तरालादुडुपतिमण्डलमेतदुजिहीते ॥ ८५ ॥ सखि काममञ्जरि, लब्धसकलमनोरथानां निशि किमतःपरेणानन्देन । तथापीदमस्तु भरतवाक्यम् । वेधोविष्णुमहेश्वरप्रभृतिभिः संभाविता निर्जरै- राज्ञा शम्बरशासनस्य महती लोकत्रये दीव्यतु । सत्स्वन्येषु रसेषु चास्तु विजयी शृङ्गार एको रसः संनाहि स्तनमण्डलं मृगदृशां तारुण्यमुज्जृम्भताम् ॥ ८६ ।। समाप्तोऽयं ग्रन्थः। ,

Shrungarabhushhand-amu

Author
Shriivaamanabhat't'a
Title
Shrungarabhushhand-amu
File name
Shrungarabhushhand-amu
Text
OCR done
Citation
1896
Publisher
Tukaram Javaji,bombay
Language
Sanskrit
Pages
23
Library
Svi-vmpl-machilipatnam
Classification
Literature
DLI number
368880
Barcode
5010010032901.00
Scanning centre
RMSC, IIIT-H
Rights
OUT_OF_COPYRIGHT
VMLT id
OgaMfINWy2J
Download PDF

Shrungarabhushhand-amu