Bharti Bhawan Library, Allahabad
Vedantdarshana
Front matter
1010.
CHOWKHAMBA SANSKRIT SERIES;
COLLECTION OF RARE & EXTRAORDINARY SANS KRIT WORKS.
NO. 156.
वेदान्तदर्शनम् ।
Registered According to Ac XXV. of_1867. CAL Rianna RiSennen
परमहंसपरित्राजकाचार्यश्रीरामानन्दसरस्वती
स्वामिकृत ब्रह्माऽमृतवार्षिणी समाख्य
व्याख्यासंवलितम् ।
वेदान्तपरिनिष्टितप्रज्ञश्रीप्रज्ञानानन्दसरस्वती
स्वामिभिः परिष्कृत्य संशोधितम् ।
VEDÂNTADARŜANA
WITH A COMMENTARY CALLED BRAHMÂMRITAVARSINI,
by
ŜRÎ RAMÂNANDA SAASWATI SWÂM.
EDITED BY
PRAJNÂNÂNAND SARASWATI SWAMI
FASCICULUS II.
PUBLISHED AND SOLD BY THE SECRETAR Y
CHOWKHAMBA SANSKRIT BOOK-DEPOT.
BENARES:
AGENTS: OTTO HARRASSOWITZ, LEIPZIG:
PANDITA JYESHTHARAMA MUKUNDAJI,BOMBAY.
PROBSTHAIN & CO., BOOKSELLERS, LONDON.
Printed by Hari Krishna Dasa Gupta
PROPRIETOR, AT THE VIDYA VILASA PRESS.
BENARES.
Price Rupee One.
भारती-भवन पुस्तकालय प्रयाग क्रमिक संप्या९६५७ विभाग २२-7/09 MANISM SHWAR ॥ श्रीः ॥ आनन्दवनविद्योतिसुमनोभिः सुसंस्कृता ।। सुवर्णाऽङ्कितभव्याभशतपत्रपरिष्कृता ॥१॥ चौखम्बा-संस्कृतग्रन्थमाला मञ्जुलदर्शना । रसिकालिकुलं कुर्यादमन्दाऽऽमोदमोहितम् ॥२॥ स्तबकः- १५६ merrerANISAMWAD १ अस्यां चौखम्बा-संस्कृतग्रन्थमालायां प्रतिमासं पृष्ठशतके सुन्दरैः सीसकाक्षरैरुत्तमेषु पत्तेषु एकःस्तबको मुद्रयित्वा प्रकाश्यते। एकस्मिन् स्तबके एक एव ग्रन्थो मुद्यते । २ प्राचीना दुर्लभाश्चामुद्रिता मीमांसावेदान्तादिदर्शनव्याकरण धर्म- शास्त्रसाहित्यपुराणादिग्रन्था एवात्र सुपरिष्कृत्य मुद्यन्ते। ३ काशिकराजकीयप्रधानसंस्कृतपाठशालाऽध्यापकाः पण्डिता अन्ये च शास्त्रदृष्टयो विद्वांस एतत्परिशोधनादिकार्यकारिणो भवन्ति । ४ भारतवर्षीयैः, ब्रह्मदेशीयः, सिंहलद्वीपवासिभिश्च एतद्ग्राहकै- देयं वार्षिकमग्रिम मूल्यम्-मुद्राः ७ आणकाः८ ५ अन्यैदेयं प्रतिस्तबकम् १ ६ प्रापणव्ययः पृथग् नास्ति । (१) संस्काररत्नमाला । गोपीनाथभट्टकृता ( संस्कारः) २ (२) शब्दकौस्तुभः । भट्ठोजिदीक्षितकृतः (व्याकरणम् ) १० (३) श्लोकवार्तिकम् । भट्टकुमारिलविरचितम् पार्थसारथिमिश्रकृत-न्यायरत्नाकराख्यया १० व्याख्यया सहितम् । सम्पूर्णम् । (४) भाष्योपबृहितं तत्त्वत्रयम् । विशिष्टाद्वैतदर्शनप्र- करणम् । श्रीमल्लोकाचार्यप्रणीतम् । श्रीनारायण (वेदान्त)२ तीर्थ विरचित भाट्टभाषा प्रकाशलहितम् । सं० (५) करणप्रकाशः । श्रीब्रह्मदेवविरचितः सम्पूर्णः (ज्योतिषः) १ (६) भादृचिन्तामणिः । महामहोपाध्याय-1 श्रीगागाभट्ट विरचितः। तर्कपादः (मीमांसा) २ SAREERMIRE BREAVESTERelips न वेदान्तदर्शनम् । १ अध्याये ३ पादः। पतिः पुनद्वात्रिंशतं वर्षाणि ब्रह्मचर्य चर अद्याप्यक्षीणकल्मषो- ऽसीत्युवाच। चरित्वा आगतायेन्द्राय प्रजापतिाचष्टेयोऽयमाद्य- द्वितीयपर्याययोरक्षिणि स्वमे चात्मा दार्शितःस एष सुषुप्त्यवस्थायां प्रकाशत इत्याहातद्यत्रतत्सुप्त इति।तदतदिति सम्बन्धः। यत्र यस्यां सुषुप्त्यवस्थायामेतत् स्वमं यथा स्यात्तथा सुप्तस्तस्यामवस्थाया. मुपसंहृतकरणग्रामः समस्तः करणव्यापारकृतकालुष्यहीनः सं- प्रसनःस्वममज्ञानमात्रतया विलापयन्मुक्ताद् व्यावृत्तःस्वममयुक्त- तैजसत्वं विहाय प्राज्ञो भूत्वा ज्ञानक्रियां विना स्वरूपचैतन्येना- ऽज्ञानसाक्षी साक्ष्यस्य देहादेः स्वसत्तास्फूर्तिपदत्वादात्मेत्यर्थः । इदं श्रुत्वा पुनरिन्द्रो, न किञ्चित्तत्र ज्ञायते इत्याह । नाहेति । अहेतिनिपातः खेदार्थे । खिद्यमानो हीन्द्र उवाच । अयं सुप्तः पुरुषः, अयमस्म्यहमित्येवं नाऽऽत्मानमस्यामवस्थायां जानाति, इमानि भूतानि नो एव जानाति, विनाशमेव प्राप्तो भवति । नाहमत्र भोग्यं पश्यामीत्येवं दोषं दृष्ट्वा पुनः प्रजापतिमुपससाद उपसनं पुनरुवाच । बताऽद्यापि ते कल्मषक्षयो नाऽभवत्तदर्थ- पुनः पञ्च वर्षाणि ब्रह्मचर्य चरेति । तदेवमेकोत्तरशतं ब्रह्म- चर्य चरते सहस्राक्षाय ब्रह्मचर्यसम्पन्मृदितकषायाय प्रजापति- याचष्टे । योऽयमाद्यद्वितीयतृतीयपर्यायेषु अक्षिणि स्वप्ने सुषुप्तौ चाउनुस्यूतोऽपहतपाप्मत्वादिगुणो दार्शितः तमेव भूयोऽनुब्या- ख्यास्यामि नैतस्मादन्यमित्युपक्रम्य तुरीये, मघवन् मयं वा इदं शरीरमित्यादिना शरीरं निन्दित्वा तस्मादुत्थितं जीवमेवोत्तम पुरुषं दर्शयति प्रजापतिः । य एष सम्पसादोऽस्मादित्यादिना । तस्मादपहतपाप्मत्वादीनां जीवे सम्भवाज्जीव एव दहराकाश इति प्राप्ते ब्रूमः । आविर्भूतस्वरूपस्तु । तुशब्देन पूर्वपक्षव्यावृत्तिः। उत्तरात् प्रजापतिवाक्यादपि न जीवशङ्का युक्तत्यर्थः । यत आ- ब्रह्माऽमृतवर्षिणीसमाख्यवृत्तिसहितम् । विर्भूतस्वरूपोन जीवो विवक्षितो, न तु जीवत्वेन रूपेणेति पर ज्योतिरुपसम्पद्य स्वेन रूपेणाऽभिनिष्पद्यते इत्युपसंहारदर्शनात् यदपहतपाप्मत्वादिभिः प्रतिपाद्यं परं ब्रह्म तदेव जीवस्य पार- मार्थिक स्वरूपं, न तु जीवत्वम् । तथाचाविभूतस्वरूपस्य जीव- स्य ब्रह्मत्वेनाऽपहतपाप्मत्वादिकमुपपद्यते । न तु जीवत्वेन रूपेणेति, नासम्भवादितिपूर्वसूत्रस्थहेतु सिद्ध इतिभावः॥१९॥ ननु दहराकाशस्येश्वरत्वेऽथ य एष सम्प्रसाद इत्यादिना जीवपरामर्शो व्यर्थः स्यादित्यत उत्तरं पठति- अन्यार्थश्च परामर्शः ॥ २० ॥ अन्यार्थोऽयं जीवपरामर्शो न जीवप्रतिपादनायापरं ज्योति- रुपसम्पद्य स्वेन रूपेणाऽभिनिष्पद्यत इत्युपसम्पत्तव्यपरमात्मपर एवाऽयं जीवपरामर्शः । जीवोपसम्पत्तव्यत्वेन हि परमात्मोप- दिश्यते । स चोपदेशो जीवपरामर्श विना न सम्भवतीति तदर्थ जीवपरामर्शो न जीवप्रतिपादनार्थमिति ॥ २० ॥ अल्पश्रुतेरितिचेत्तदुक्तम् ॥ २१ ॥ ननु दहरोऽस्मिन्नन्तराकाश इत्याकाशस्याऽल्पत्वश्रवणान परमात्मत्वं किन्त्वाराग्रमात्रजीवत्वं युक्तमितिचेत् , तत्र समाधान- मुक्तम् , अर्भकौकस्त्वात्तव्यपदेशाच्चेत्यत्र । उपासनार्थमौपाधिक- मल्पत्वं, परमेश्वरेऽप्यविरुद्धमित्यर्थः । तस्माद् दहराकाशः परमात्मैवोपास्य इति सिद्धम् ॥ २१ ॥ (७। चैतन्यस्य सर्वजगद्भासकवाधिकरणम् । सूत्रे २) अनुकृतेस्तस्य च ॥ २२ ॥ - पूर्व परं ज्योतिरुषसम्पद्येति वाक्यार्थविचारप्रसङ्गात् , त- च्छुभ्र ज्योतिषां ज्योतिरितिवाक्योक्तपरं ज्योतिष्ट्वसाधकं न घेदान्तदर्शनम् । १ अध्याये ३ पादः । १०३ तत्रेति वाक्यं विचार्यत इति प्रसङ्गसङ्गतिरस्याधिकरणस्य । यद्वा पूर्वत्राऽऽत्मश्रुत्यऽनुरोधादाकाशशब्दस्य रूढित्यागेन ईश्वरे वृत्ति- रुक्ता । तथेहापि तत्रेति सतिसप्तम्या । तत्र शब्दवाच्यस्य तेजोऽन्तराभिभावकत्वप्रतीत्यनुरोधान भातीत्यस्य वर्तमानार्थ- त्यागेन यस्मिन् सति सूर्यादिकं न भास्यति स तेजोधातुरुपास्य- त्वेनोच्यते इति पूर्वपक्षोत्थानाद् दृष्टान्तसङ्गतिः । पूर्वपक्षे अलौ- किकतेजउपास्तिः फलं, सिद्धान्ते निर्विशेषब्रह्मपमितिरिति भेदः। मुण्डकोपनिषदि श्रूयते । न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः * तमेव भान्तमनुभाति सर्व तस्य भासा सर्वमिदं विभातीति । सिद्धान्ते तत्रेति विषयसप्त- मी । तथाच तत्र तस्मिन ब्रह्मणि विषये सूर्यादयो न भासक- त्वेन भासन्ते । यथा घटादौ विषय आलोकादिकं भासकत्वेन भासते, तद्वत् । अल्पतेजसो वढेः फल्गुत्वमभिप्रेत्य कैमुतिक- न्यायमाह । कुत इति । इतश्च सूर्यादेन ब्रह्मणि भासकत्वमित्याह तमेवेति । यथा सूर्यादिप्रकाश्यो घटादिन सूर्यादिप्रकाशकः, एवं ब्रह्मपकाश्यः सूर्यादिर्न ब्रह्मप्रकाशक इत्यर्थः । ननु यथा गुरौ गच्छति शिष्यस्याऽनुगमनं स्वनिष्ठगमनकृतम् , एवं सूर्यादेः स्व- निष्ठभानंकृतमनुभानं किन्नेत्यत आह । तस्येति। यथाऽयःपिण्डस्य दाहक्रिया वह्निनिष्टैच, तथा सूर्यादेर्भानं ब्रह्मनिष्ठमेव, न पृथग् भानमित्यर्थः । अत्र संशयः। सूर्यादिजगद्भासकतया प्रतीयमानं तेजोविशेषो वा ब्रह्म वेति। तेजस एव प्रकाशकत्वप्रसिद्धेः प्रबलेन तेजसा दुर्बलस्याभिभवदर्शनाच्च, तेजोविशेष एवेति प्राप्ते चूमः ॥ अनुकृतेस्तस्य च ॥ अत्र तथा प्रतीयमानं ब्रह्मैव । कुतः । अनुकृतेः । अनुकृतिरनुकरणम् । यत्तमेव भान्तमनुभाति सर्व- मित्यनुभानं, तदनुकृतिशब्देनोच्यते । न हि तेजस्तेजोऽन्तरे- । ११ कक RAJASTHAMESHGADARNE ब्रह्माऽमृतवर्षिणीसमाख्यवृत्तिसहितम् । भासमाने भासते । तस्मात् स्वप्रकाशतया भासमानं चैतन्य- मनुसर्व सूर्यादि भासत इति युक्तम् । सूत्रे, तस्य चेत्यनेनोदाहृत- वाक्ये चतुर्थचरणोऽभिप्रेतः । तस्य भासा सर्वमिदं विभातीति सर्वभासकत्वं, तेजोऽन्तरस्याऽप्रसिद्धं, विरुद्धं च । भासमानस्य तेजसस्तेजोऽन्तराभिभावकत्वेन भासकत्वाऽभावात् । ब्रह्मणस्तु उपपन्नम् । तद्देवा ज्योतिषां ज्योतिरित्यादौ प्रसिद्धं च । न तत्रेति तच्छब्देन च, हिरण्मये परे कोशे विरजं ब्रह्मनिष्कलम् * तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुरिति प्रकृतब्रम- ग्रहणमेव युक्तमिति । श्रुत्यर्थस्तु । हिरण्मये ज्योतिर्मये आनन्द- मय इत्यर्थः । तस्मिन्नन्नमयाद्यपेक्षया परे कोशे ब्रह्मपुच्छं पति- ठेति यत्प्रतिष्ठाभूतं ब्रह्म तत्सतिष्ठितम् । तच विरजम् आगन्तुक- मलशून्यम् । निष्कलं निरवयवं शुभ्रं नैसर्गिकदोषशून्यम् । ज्योतिषां सूर्यादीनां ज्योतिरवभासकम् । तच्च विदुषामनुभव- सिद्धमिति ॥ २२॥ अपि च स्मयते ॥ २३ ॥ अपि च ब्रह्मणः सूर्याधप्रकाश्यत्वं तत्प्रकाशकत्वं च भगव- गीतासु स्मर्यते । न तद्भासयते सूर्यो न शशाङ्को न पावकः * यद्गत्वा न निवर्तन्ते तद्धाम परमं मम । यदादित्यगतं तेजो जग. द्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाऽग्नौ तत्तेजो विद्धि मामक- मिति ॥ तस्मादनन्यप्रकाश्यः सर्वजगद्भासकः परमात्मा ज्ञेय इति सिद्धम् ॥ २३ ॥ (८। परमेश्वरस्याङ्गुष्ठमात्रत्वाधिकरणम् । सूत्रे २) शब्दादेव प्रमितः ॥ २४ ॥ पूर्वत्राऽनुभानादिना लिङ्गेन तत्रेति विषयसप्तमी कृत्वा, न antalRRIAUNTatue PaaNaulipistians । वेदान्तदर्शनम् । १ अध्याये ३ पादः । भातीत्यादौ णिजध्याहारेण न भासयतीत्यर्थो वर्णितो भवति । भासकत्वेन न भान्ति सूर्यादय इत्यर्थकथनात् । तथेहापि, अङ्गुष्ठमात्र इति परिमाणलिङ्गाज्जीवमादायेशानोऽसीति स्मारये- दिति विध्यध्याहारेणोपास्तिपरमङ्गुष्टचाक्यमस्त्विति दृष्टान्तसङ्ग- तिः । पूर्वपक्षेऽभेदोपास्तिः फलं, सिद्धान्ते अभेदभमितिः फल- म् । कठवल्लीषु पठ्यते । अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि ति- ष्ठति । तथा, अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाऽधूमकः । ईशानो भूतभव्यस्य स एवाऽद्य स उ श्वः। एतद्वैतदिति च । अस्यार्थः । स्वाभाविक परिच्छेदं वारयति । पुरुष इति । पूर्णत्वेन सर्वत्रो- पलभ्यमान इत्यर्थः । तर्हि कथमङ्गुष्ठमात्रत्वमित्याशयाभि- व्यक्तिस्थानद्वारा तदाह । मध्य इति । आत्मनि देहमध्ये हृदय- पद्मनीत्यर्थः।। जीवभावमापन्नस्य ब्रह्मण इदमङ्गुष्ठमात्रत्वसमर्थन- मिति बोध्यम् । ईशानो भूतभव्यस्येत्यादिना, त्वंपदवाच्या- ऽङ्गुष्टमात्रजीवाऽनुवादेनाऽभेदबोधनादिति, तस्यैव परमात्मत्व- वादिवाक्यान्तरमुदाहृतम् । तथेति । अधूमकमिति लिङ्गव्यत्य- यः । ज्योतिःपरत्वात् । यथाऽधूमकं ज्योतिरकलुषितमेकरूपं प्रकाशमानं दृष्टं तथाऽयमपि । वस्तुतः कूटस्थप्रकाशधातुरित्यर्थः। शोधितत्वमर्थस्य तदर्थतामाह । ईशान इति । भूतभव्यग्रहणं भवतोऽपि प्रदर्शनार्थम् । अद्वितीयत्वमाह । स एवेति। अद्य वर्त- मानकाले, स एवास्ति । श्वः भविष्यत्काले, स एव भविता । अतीतकाले स एवाऽऽसीत् । यन्नचिकेतसा पृष्टम् ,अन्यत्र धर्मा- दित्यादिना तदेतदेवाऽद्वितीयं वस्त्विति । अत्र संशयः। कि- मिदमङ्गुष्ठवाक्यं जीवपरमुत ब्रह्मपरामिति । तत्राङ्गुष्ठपरिमाणस्य ब्रह्मण्यसंभवाज्जीवपरमिदं वाक्यमिति प्राप्ते ब्रूमः । प्रत्यगभिन्नः परमात्मा वाक्यप्रतिपाद्यः पमितः । कस्मात् ? । शब्दादेव ।
ब्रह्माऽमृतवर्षिणीसमाख्यवृत्तिसहितम् । ईशानो भूतव्यस्येत्यत्रत्येशानशब्दात् । न हि जीवे ईशानशब्द आञ्जसः । न चाङ्गुष्ठपरिमाणलिङ्गाज्जीवः प्रतिपाद्य इति युक्तम् । लिङ्गश्रुत्योर्विरोधे श्रुतेः प्रबलत्वात् । एतत्सूचनार्थमेवकारः । ननु वाक्यस्य परमात्मपरत्वे कथमङ्गुष्ठमात्रत्वस्योपपत्तिरिति चेत्, काऽन्न कथन्ता । त्वम्पदवाच्याङ्गुष्ठमात्रजीवानुवादेन ब्रह्माऽभेद- परे वाक्ये अनुपपत्त्यभावादिति ॥ २४ ॥ ननु जीवस्य वस्तुतः सर्वगतस्य कथमङ्गुष्ठमात्रत्वमित्यत आह- हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥ २५॥ तु-शब्दः शानिरालार्थः। वस्तुतः सर्वगतस्यापि जीवभाव- मापनस्य परमात्मनोऽङ्गुष्ठपरिमाणहृदयावच्छिन्नतयाङ्गुष्ठमात्र- त्वमुपपद्यत इत्यर्थः । ननु गजपुत्तिकादिशरीरेषु हत्पुण्डरीकस्या- ऽनियतपरिमाणत्वात् कथं जीवस्याङ्गुष्ठमात्रत्वनियमस्तत्राह । मनुष्याधिकारत्वादिति । शास्त्रस्येतिशेषः । षष्ठे, फलार्थे कर्मणि तिर्यगादेरपि स्वर्गकामस्याऽधिकारः । स्वर्गकामश्रुतेरविशेषादि- त्याशङ्याङ्गश्रुत्यर्थवत्त्वाय समर्थविषयतया तिर्यगादेः सामर्थ्या- ऽभावेन स्वर्गकामपदं संकोच्य मनुष्याऽधिकारत्वे स्थिते चातु- वर्ण्यमधिकरोति शास्त्रमिति प्रापय्य, वसन्ते ब्राह्मणोऽनीनाऽऽद- धीत, ग्रीष्मे राजन्यः, शरदि वैश्य इति, त्रयाणामेवाऽग्निसंबन्ध- श्रवणात्तेषामेवाऽधिकार इति राद्धान्तितम् । तथाच मनुष्या- णां हृदयस्याङ्गुष्ठमात्रत्वात्तदपेक्षयाऽङ्गुष्ठमात्रत्वमित्यविरोध इति तात्पर्यम् । एवमङ्गुष्ठमात्रजीवाऽनुवादेन विरुद्धांश परि- त्यज्याऽभेदो बोध्यते । अनेन वाक्येन इममर्थमुत्तरग्रन्थ- संदर्भेण स्पष्टीकरिष्यति । अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सनिविष्टः । तं स्वाच्छरीरात् प्रहेन्मुञ्जा- KARANEWSPANESEN वेदान्तदर्शनम् । १ अध्याये ३ पादः । दिवेषीकां धैर्येण तं विद्याच्छुक्रममृतमिति । अस्यार्थः । यो- ऽन्तरात्मा पुरुषत्वात् पूर्णोऽयं जनानां हृदये सदा सन्निविष्टः, अतोऽङ्गुष्ठमात्र इति त्वम्पदवाच्याऽनुवादः । तस्याऽन्वय- व्यतिरेकाभ्यां तदनुसारिश्रुत्या च शोध्यत्वमाह । तं स्वा- दिति । शरीरं स्थूलं सूक्ष्मं च तस्मात् स्वाभिमानविषयात्, प्र- वृहेत् पृथक् कुर्याद्वैर्येण समाधिनेति यावत् । तं विविक्तमात्मानं विशुद्धममृतं ब्रह्मैव जानीयादित्याह । तमिति । तदेवं काठक- वाक्यं प्रत्यग् ब्रह्मणि ज्ञातव्ये समन्वितमिति सिद्धम् ॥ २५ ॥ (९। देवादीनामप्यधिकारित्वाधिकरणम् । सूत्राणि ८) तदुपर्यपि बादरायणः संभवात् ॥ २६ ॥ पूर्व मनुष्याधिकारं शास्त्रमित्युक्तम् । तहि क्रममुक्त्यर्थाऽभि- रुपासनाभिर्मनुष्याणां देवत्वं प्राप्तानामधिकारो न स्यादित्या- क्षिप्य समाधीयत इत्याक्षेपसंगत्याऽस्यारम्भः, प्रसङ्गसङ्गत्या वा । अत्र चाऽधिकारनिरूपणद्वारा मन्त्रार्थवादादीनां मानान्तर- माप्तिविरोधयोरसतोर्देवताविग्रहादौ समन्वयोक्तेरध्यायसङ्गतिः । एवं मन्त्रादीनां स्वार्थे प्रामाण्ये न्यायसाम्याद् उपासना- ऽधिकार्यादिसमर्पकाणां स्वार्थे प्रामाण्यात्तत्त्वमस्यादिवाक्यानां ब्रह्मात्मैक्ये पर्यवसानमिति श्रुतिशास्त्रपादसंगतयः । पूर्वपक्ष मन्त्राद्यप्रामाण्यादुपगमनादिवाक्यानामपि स्वार्थे तदयोगात् तत्त्व- मस्यादेरपि नैक्यनिष्ठतेति फलति । सिद्धान्ते तत्सर्वसंभवादैक्य- निष्ठतेति फलम् । यद्वा देवानामनधिकारात् क्रममुक्तिसाधने - पासनेषु देवतादिभोगद्वारा मोक्षकाममनुष्यप्रवृत्तिर्नास्तीति पूर्व- पक्षे फलम् । सिद्धान्ते तादृशप्रवृत्तिरस्तीति । बृहदारण्यके श्रूयते । तद्यो यो देवानां प्रत्यबुद्ध्यत, स एव तदभवत्तथर्षीणां ।
KruarAHANI.sivanKIWAKRAMANE १०८ ब्रह्माऽमृतवर्षिणीसमाख्यवृत्तिसहितम् । तथा मनुष्याणामिति देवादीनां मध्ये यो ब्रह्म प्रत्यक्त्वेन, साक्षादकरोत् स एव ब्रह्मात्मनाऽतिष्ठदित्यर्थः । अत्र किं देवा- ऽऽदीनां ब्रह्मविद्यायामधिकारोऽस्त्युत नास्तीति विशये, शास्त्र. स्य मनुष्याधिकारत्वान्नास्तीति प्राप्तेऽभिधीयते॥ तदुपर्यपि बाद- रायणः संभवादिति ।। तेषां मनुष्याणामुपरिष्टाये देवादयस्तेषा- मपि ब्रह्मविद्यायामधिकारोऽस्तीति बादरायण आचार्यों मन्यते स्म । कस्मात् । सम्भवात् । आर्थित्वसामर्थ्याघधिकारकारणस्य संभवादित्यर्थः । देवादीनां सदा भोगशालित्वेऽपि भोग्यवस्तुष्व- नित्यत्वदोषदर्शनाद्वैराग्यादिकं निरतिशयानन्दमोक्षार्थित्वं च सम्भवतीति भावः ॥ २६ ॥ विरोधः कर्मणीति चेन्नाऽनेकप्रतिपत्तेर्दर्शनात् ॥२७॥ ननु देवादीनां विग्रहवत्वं विना ब्रह्मविद्यायामनधिकारात्, तदङ्गीकरणीयम्।तथाच सति कर्मण्यपि शरीरतया ऋत्विगादिवत् सन्निधानेनैवोपकारकत्वं स्यात् । तच्च न संभवति । एकस्य शरीरस्याऽनेकत्र युगपत्सनिधानाऽसंभवात् । तस्माद्विग्रहवत्त्वा- ऽङ्गीकारे कर्मणि देवताया उपकारकत्वविरोधः प्रसज्ज्यतेतिचे- नैष दोषः । कस्मात् । अनेकप्रतिपत्तेर्दर्शनात् । एकस्य देवस्या- ऽनेकेषां शरीराणां युगपत्माप्तेः श्रुतौ दर्शनादित्यर्थः । तथाहि बृहदारण्यके शाकल्यब्राह्मणम् । अथ हैनं विदग्धः शाकल्यः पप्रच्छ । कति देवा याज्ञवल्क्येत्युपक्रम्य, सहैतयैव निविदा प्रतिपेदे, यावन्तो वैश्वदेवस्य निविद्युच्यन्ते । त्रयश्च त्री च शता त्रयश्च त्री च सहस्रत्युक्त्वा कतमे त इति पृच्छायां महिमान एवैषामेते त्रयस्त्रिंशत्त्वेव देवा इति त्रिसहस्रषडधिकत्रिशतदेवानां त्रयस्त्रिंशद्देवेषु अन्तर्भावमुक्त्वा त्रयस्त्रिंशतोऽपि षट्सु षण्णां त्रिषु त्रयाणां योदयोरेकस्मिन् वाय्वात्मके देवेऽन्तर्भावं त्रुवन् एकस्य PARAMHASEAN THEYARLANDSAMAGRMAHIPAMORYANANNAR वेदान्तदर्शनम् । १ अध्याय ३ पादः । चायोरनेकरूपतां दर्शयति । अस्यार्थः । एनं याज्ञवल्क्यं विदग्धः शाकल्यो वैश्वदेवनामकस्य शस्त्रस्य निविदि शस्यमाना देवाः कतीति पप्रच्छ । तत्र याज्ञवल्क्योत्तरं निविदि त्रयश्चेत्यादि । शस्यमानदेवनिष्ठसंख्यावाचकं मन्त्रपदं निविदित्युच्यते । एवं षडधिकत्रिशताधिकत्रिसहस्रसंख्यानिर्णयानन्तरं कतमे त इति संख्येयस्वरूपप्रश्ने अष्टौ वसव एकादश रुद्रा द्वादशाऽऽदित्याः प्रजापतिरिन्द्रश्चेति त्रयस्त्रिंशदेवेषु पूर्वेषामन्तर्भावो दर्शितो, महि- मान एवैषामित्यादिना।एषां त्रयस्त्रिंशद्देवानां महिमानो विस्तारा एव वस्तुतस्त्रयस्त्रिंशदेवेत्यर्थः । तेऽपि त्रयस्त्रिंशद्देवाः षण्णामग्नि- पृथिवीवाय्वन्तरिक्षाऽऽदित्यदिवां महिमानः । तेऽपि षड्देवा- स्त्रयाणां लोकानां महिमानः । ते त्रयोदेवा द्वयोरन्नमाणयोस्तो चैकस्य प्राणशब्दवाच्यस्य वायोमहिमानाविति ॥ यद्वा अनेक- प्रतिपत्तेर्दर्शनादनेकत्र कर्मणि एकस्य प्रतिपत्तिरङ्गभावः । तस्य लोके दर्शनादित्यर्थः । यथा बहुभिर्नमस्कुर्वाणैर्युगपदेको ब्राह्मणो नमस्क्रियमाणो दृश्यते। एवमेकां विग्रहवती देवतामुद्दिश्य युगपत् सर्वे हवींषि त्यक्ष्यन्तीति नकश्चित् कर्मणि देवताया उपकारक- त्वे विरोधः ॥२७॥ शब्द इतिचेन्नातः प्रभवात् प्रत्यक्षानुमानाभ्याम॥२८॥ ननु मास्तु कर्मणि विरोधः, तथापि शब्दे वेदवाक्ये वि- रोधः स्यादेव । अनित्यविग्रहवदेवतायां नित्यवेदार्थत्वाङ्गीकारे शब्दस्याऽर्थेन नित्यसंबन्धाभावेन नित्यानित्यसंयोगविरोधा- दितिचेद्, नायमप्यस्ति विरोधः । कुतः । अतः प्रभवात् । देवादिनिष्ठनित्याऽऽकृतिवाचकादिराशेरेव देवादिप्रपञ्चस्य प्र- भवादुत्पन्नत्वश्रवणादित्यर्थः । तथाहि स्मृतिः । अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा * आदौ वेदमयी दिव्या यतः ।
SHIVARIA andARL ब्रह्माऽमृतवर्षिणीसमाख्यवृत्तिसहितम् । सर्वाः प्रवृत्तयः॥ नाम रूपं च भूतानां कर्मणां च प्रवर्तनम् । वेदशब्दभ्य एवादौ निर्ममे स महेश्वर इति ॥ श्रुतिरपि, एत इति ह वै प्रजापतिर्देवानसृज्यताऽसृग्रामिति मनुष्यानिन्दव इति पितॄस्तिरः पवित्रमिति ग्रहानाऽऽशव इति स्तोत्रं विश्वानीति शस्त्रमऽभिसौभगेत्यन्याः प्रजा इति । तथा, स मनसा बाचं मिथुनं समभवदिति । अस्यार्थः । एते असृग्रमिन्दवस्तिर पवित्र- माशवः विश्वान्यभिसौभगेत्येतन्मन्त्रस्थपदैर्देवादीन् स्मृत्वा ससर्ज ब्रह्मा । तत्र एतच्छब्द इन्द्रियाधिष्ठानदेवस्मारकः। अमृग्र- शब्दोऽसूक्शब्दवाच्यरुधिरप्रधानदेहरमणमनुष्यस्मारकः । इन्दु- मण्डलमध्यवर्तिपितृस्मारक इन्दुशब्दः । पवित्रं सोमं खमध्ये तिरस्कुर्वतां धारयतां ग्रहाणां तिर पवित्रशब्दः स्मारकः । ऋचोऽनुवतां स्तोत्राणां गानरूपाणाम् आशवशब्दः स्मारकः । विश्वेदेवशंसनशस्त्राणां विश्वशब्दः स्मारकः । अभिसौभगोति शब्दो निरतिशयसौभाग्यवाचकः प्रजानां स्मारक इति । स प्रजापतिर्मनसा सह वाचं मिथुनभावं समभवत् । समभावयत् त्रयीप्रकाशितां सृष्टिं मनसा आलोचितवानिति यावत् । सूत्रस्थ. प्रत्यक्षानुमानशब्देन सृष्टेर्वेदप्रभवत्वप्रतिपादकश्रुतिस्मृती गृह्यते । तथाच श्रुतिस्मृतिभ्यां वेदशब्दप्रभवत्वं सृष्टेरित्यर्थः । आकृत्या- लिङ्गितविग्रहानङ्गीकारे कस्य सृष्टिः स्यादिति भावः । तस्मा- घथा गवादिशब्दानां नित्याऽऽकृतिवाचकत्वम् एवं वैदिक- शब्दानां नित्याकृतिवाचकत्वमिति, न शब्देऽपिविरोधइति ॥२८॥ अत एव च नित्यत्वम् ॥ २९ ॥ अस्मृतककत्वादिना सिद्धमेव वेदस्य नित्यत्वमनित्यार्थ- संयोगेनानुपपन्नामित्याशङ्कां वेदादेवाकृतिविशेषाऽवच्छिन्नदेवा- दिसृष्टिरिति प्रतिपादनान्नित्याकृतेरेव शब्दार्थत्वात्रानुपपन्न- नमNAJARE वेदान्तदर्शनम् । १ अध्याये ३ पादः । मित्यभिप्रायेण परिहरति । अत एव, नित्याकृतेः। शब्दार्थत्वा- देव वेदस्य नित्यत्वं नानुपपन्नमित्यर्थः। एतत्सूत्रसूचितः प्रयोग- श्व- वेदः अवान्तरप्रलयाऽवस्थायी जगहेतुत्वादीश्वरवदिति । अवान्तरमलयाऽवस्थायित्वमेव हि नित्यत्वं नाम । अनुमान- सिद्धार्थे श्रुतिरपि । यज्ञेन वाचः पदवीयमायन् तामन्वविन्दन् ऋषिषु प्रविष्टामिति । यज्ञेन पुण्यकर्मणा वाचो वेदस्य पदवीयं ग्रहणयोग्यतामायन प्राप्तवन्तः । अतस्तामृषिषु विद्यमानां वाचं याज्ञिका अन्वविन्दन् उपलब्धिमन्तो बभूवुरित्यर्थः। पूर्व स्थिता- मेव वाचं सर्वे ज्ञातवन्त इति तात्पर्यम् ॥ २९॥ समाननामरूपत्वाच्चाऽवृत्तावप्यविरोधो दर्शनात स्मृतेश्च ॥ ३०॥ नन्वाकृतिपदार्थकत्वेऽपि प्रलये सर्वाकृतिकव्यक्तिनाशे पुन- स्तदाकृतिकव्यक्त्युत्पत्तौ मानाभावानित्यानित्यसंयोगविरोध- स्तदवस्थ इतिचेदुच्यते । सृष्टिप्रलयात्तावपि न शब्दे विरोधः। कस्मान समाननामरूपत्वात् । न हि प्रलये जगतो निरन्वयनाशो- ऽस्ति येनोत्पद्यमानं जगद्विलक्षणं स्यात् । किन्तु संस्कारात्मना, अविद्यायां तिष्ठत्येव जगद्,अनुभव इव भावनाख्यसंस्कारात्मना। नचाऽर्थसंस्कारे मानाभावः । मृदि मण्डूकसंस्कारदर्शनात् । नित्यप्रलयाख्यसुषुप्तौ सविषयेन्द्रियाद्यर्थसंस्कारसद्भावाच्च प्रबोधे सजातीयव्यवहारात् । नच प्रतिदिनं सृष्टिलययोः सद्भावे माना- ऽभावः । यदा मुप्तः स्वमं न कञ्चन पश्यत्यथास्मिन् प्राण एकथा भवति तदैनं वाक् सर्वैर्नामाभिः सहाप्येति, चक्षुः सर्वै रूपैः सहाप्यति, श्रोत्रं सर्वैः शब्दैः सहाप्येति, मनः सर्वैर्ध्यानैः सहाप्यति । स यदा प्रबुद्ध्यते यथाऽग्नेचलतः सर्वा दिशो
BANKirin.
१९२
।
ब्रह्माऽमृतवर्षिणीसमाख्यवृत्तिसहितम् ।
विस्फुलिङ्गा विप्रतिष्ठेरनेवमेवैतस्मादात्मनः सर्वे प्राणा यथा-
यतनं विप्रतिष्ठन्ते, प्राणेभ्यो देवा देवेभ्यो लोका इत्यादिश्रुते-
नित्वात् । अस्यार्थः । अथशब्दस्तदार्थकः । यदेत्युपक्रमात् ।
प्राणशब्दः परमात्मपरः । अस्मिन् प्राणे जीव एवैकधा भवति,
तदात्मना तिष्ठतीत्यर्थः। तदा एकीभावावस्थायाम् एनं प्रकृतं पाणं
परमात्मानमन्तर्बहिरिन्द्रियाणि सर्वाणि सविषयाणि, अपियन्ति
परमात्मान लीनानि भवन्तीत्यर्थः। प्रबोधे तस्मादेव परमात्मनो
जगतो जन्माह । स इति । अविलम्बन उत्पत्तौ दृष्टान्तः ।
यथेति । एवं-शब्दात् पूर्व तदेत्यध्याहारः । प्राणा वागादय-
स्तेभ्योऽनन्तरं तदनुग्राहकदेवा अग्न्यादयस्तेभ्योऽनन्तरं लोकाः
शब्दादिविषया इति । तथाच यथा संस्कारबलात् पूर्वमण्डूकादि-
समाननामरूपत्वमुत्तरकार्यस्य एवं पूर्वकल्पप्रपञ्चसमाननाम-
रूपत्वादुत्तरप्रपञ्चस्येति पूर्वाकृतिव्यक्त्युत्पत्तेर्न शब्दे कश्चिद्
विरोधः। समाननामरूपत्वं च श्रुतौ दर्शनात् स्मृतेश्चाऽभ्युपगन्त-
व्यम् । सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् दिवं च पृथिवीं
चान्तरिक्षमथो स्वरिति । तथाच नक्षत्रेष्टौ, अग्निर्वा अकामयत
अन्नादो देवानां स्यामिति। स एतमग्नये कृत्तिकाभ्यः पुरोडाश-
मष्टाकपालं निरवपदिति भाविवृत्तिमाश्रित्य, यजमानोऽग्निरित्यु.
च्यते । एवं कामायित्वा किं कृतवाँस्तदाह ।स इति! कृत्तिकाभ्यः
कृत्तिकाख्यनक्षत्रदेवतायै । बहुवचनं नक्षत्रबाहुल्याद् बोद्ध्य-
म् । अष्टाकपालम् अष्टसु कपालेषु पचनीयं निरवपत् । उक्त-
पुरोडाशहविष्कामिष्टिं कृतवानित्यर्थः । तथाच योऽग्निर्यस्मै
अग्नये निरवपत् तयोः समाननामरूपत्वं दर्शयतीति सिद्धम् ।
स्मृतिरपि, यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये * दृश्यन्ते
तानि तान्येव तथा भावा युगादिष्वित्यादिका द्रष्टव्या ॥३०॥
CAMENTA वेदान्तदर्शनम् । १ अध्याये ३ पादः। उक्तं देवादीनामाधिकारमाक्षिपति- मध्वादिष्वसंभवादनधिकारं जैमिनिः ॥ ३१ ॥ देवादीनां ब्रह्मविद्यायामनधिकारं जैमिनिराचार्यों मन्यते । कस्मात् । मध्वादिष्वसम्भवात् । एवं हि मधुविद्या श्रूयते । असौ वा आदित्यो देवमधु देवानां मोदनान्मध्विव मधु । तस्य मधुनो युलोकएव तिरश्चीनवंशः।अन्तरिक्षेआदित्याख्यमधुनोऽवस्थाना- त्तदेव मध्वाधारोऽपूपः। रोहितं शुलं कृष्णं पर कृष्णं गोप्यं चेति पञ्च रोहितादीन्यऽमृतानि प्रागायूर्वान्तं पञ्चदिगवस्थिताभि- रादित्यरश्मिनाडीभिर्मधुच्छिद्रभूताभी रोहिताद्याख्याभिस्तत्तद्- वेदोक्तकर्मकुसुमेभ्यस्तद्वदिकमन्त्रमधुकरैरादित्यमण्डलमानीता- नि पञ्चमममृतं गोप्याख्यं प्रणवकुसुमादुपासनाभ्रमरैरूलदिगात्त- सूर्यरश्मिरूपगोप्याख्यमधुच्छिद्रद्वारा आदित्यमण्डलम् आनीतं रोहितादिकममृतं मकरन्दस्थानभूतं वह्नौ हुतसोमाज्यपयःपुरोडा- शादिरूपं द्रष्टव्यम् । तानि च रोहितादीन्यमृतानि यशस्तेजोवीर्य- सकलन्द्रियान्नरूपेण निष्पन्नान्यादित्यमधुसम्बद्धानि प्रागादि- दिक्षु क्रमेण विद्यमानानां वसुरुद्रादित्यमरुत्साध्यरूपाणां देवा- नामुपजीव्यानीत्येवं चिन्तयतां फलं वस्वाद्याऽऽतिरुच्यते । वस्वादीनां समानानां मध्ये एको भूत्वा यशआधऽमृतं प्रत्यक्षा- नुमानादिभिः करणैरुपलभ्य तृप्यतीति । न ह्येवम्भूतमधुविद्या- यां सूर्यवस्वादीनां देवानामधिकारः संभवति । एकस्योपास्यो- पासकभावप्राप्यप्रापकभावयोर्विरोधात् सूत्रस्थाऽऽदिशब्देन यासु विद्यासु,आदित्यो ब्रह्मेत्येवमादिरूपासु देवानामुपास्यत्वं ता विद्या गृह्यन्ते । तथा इमावेव गौतमभरद्वाजावयमेव गौतमोऽयं भरद्वाज इमावेव विश्वामित्रजमदग्नी अयमेव विश्वामित्रोऽयं जमदग्निरि- मावेव वसिष्ठकश्यपावयमेव वसिष्ठोऽयं कश्यपो, वागेवाऽत्रिरि- ।
MASSAGE ब्रह्माऽमृतबर्षिणीसमाख्यवृत्तिसाहितम् । त्याद्यासु ऋष्युपास्यका न तेषामेवर्षीणामधिकारः संभवति । श्रुत्यर्थस्तु, इगौ दक्षिणवामकर्णी क्रमेण गौतषभरद्वाजावित्युपा- स्यौ । द्वितीयेमावित्यनेन दक्षिणवामाक्षिद्वयोक्तिः। तृतीयेमावि- त्यनेन दक्षिणवामनासिकाद्वयोक्तिः। एवं सप्तसु शीर्षण्यन्द्रियेषु सप्तर्युपास्तिरित्यर्थः । नच मध्वादिविद्यासु देवादीनामनधिकारे- ऽपि ब्रह्मविद्यायामधिकारः किं न स्यादिति वाच्यम् । विद्यात्वा- ऽविशेषेण ब्रह्मविद्यायामप्यनधिकारात् । तथाचाऽयं प्रयोगः। ब्रह्मविद्या न देवादीनधिकरोति, विद्यात्वात् , मध्वादिविद्या- वदिति ॥३१॥ अपि च, - ज्योतिषि भावाच ॥ ३२॥ भ्रमणक्त्तया परिदृश्यमानज्योतिर्मण्डल एव सूर्यचन्द्रादि- देवताशब्दानां लोके प्रयोगसद्भावान्मण्डलस्य मृत्पिण्डादिवद- ऽचेतनत्वेन विग्रहाभावादग्निवाबादीनामपि तत्तुल्यत्वेन सामर्थ्यादेश्चेतनधर्मस्याऽभावान देवादीनामधिकारः । नच मन्त्रार्थवादेभ्यो देवानां विग्रहवत्यसिद्धः सर्व सुस्थितमिति वाच्यम् । तेषामन्यपरत्वेन स्वार्थे प्रामाण्याऽभावात् । तस्माद् देवादीनां ब्रह्मविद्यायामधिकाराभावं जैमिनिर्मन्यते इति शङ्का- सूत्रयोरभिप्रायः ॥ ३२॥ सिद्धान्तयति भावं तु बादरायणोऽस्ति हि ॥ ३३ ॥ तुशब्दः शङ्कानिरासार्थः, बादरायण आचार्यों ब्रह्मविद्या- यां देवादीनामधिकारस्य भावं मन्यते । यद्यपि देवतामिश्रोपा- सनास्वनधिकारस्तथापि निर्गुणब्रह्मविद्यायां देवानामप्यधि- wwmum ANTHALISAHASRESIDENICAMEE वेदान्तदर्शनम् । १ अध्याये ३ पादः । कारोऽस्ति हि । पूर्वोक्तस्य विद्यात्वादित्यनुमानस्य ज्योतिष्टोमादि न ब्राह्मणकर्तव्यं, कर्मत्वाद् राजसूयवदित्याभाससाम्यं द्रष्टव्यम् । यद्वा ज्योतिषि भावाचेत्यस्योत्तरम्- अस्ति हीति ॥ यद्यपि देवताशब्दा ज्योतिरादौ प्रयुज्यन्ते, तथापि तदभिमानिदेवता- परा एव सम्भवन्ति । अस्ति हि ऐश्वर्ययोगाज्ज्योतिरादिरूपेणा- ऽवस्थातुं विग्रहं गृहीत्वा व्यवहर्तुं च सामर्थ्यम् । तथाहि श्रूयते, मेधातिर्भेषेति । मेधातिथि काण्वायनं मेषो भूत्वेन्द्रो जहारेत्य- ऽर्थः । तथा स्मर्यते च, आदित्यः पुरुषो भूत्वा कुन्तीनुपजगामे- ति । नन्वर्थवादादीनां स्वार्थे प्रामाण्याऽभावात् कथं तेभ्यो विग्रहवत्त्वसिद्धिरितिचेन । तत्राप्यस्ति हीत्येवोत्तरं मानान्तरवि- रोषसंवादयोरभावे तेभ्य एव विग्रहवत्त्वसिद्धिरस्ति । तथाहि । अर्थवादादिभिः स्तुत्यादिकं लक्षयतां वाच्यार्थोऽजीकृत एव । न हि वाच्यार्थाऽभावे, लक्षणा युक्ता। किञ्च, व्रात्यो ब्रात्य- स्तोमेन यजेतेत्यादौ ब्रात्यस्वरूपाकाहायां, सावित्रीपतितो व्रात्यो यस्य पिता पितामहो वा सोमं न पिवेत् स व्रात्य इति व्रात्यस्वरूपं विध्यपेक्षितं सद्विधिप्रमाणकमित्युच्यते । यथा वा स्वर्गरूपं विध्यपेक्षितं सद्विधिप्रमाणकं तथानिःस्वरूपदेवतोदेशेन द्रव्यत्यागाऽयोगाद्विध्यपेक्षितं देवतादिस्वरूपं विग्रहवत्वं विधिप्र- माणकमेव । एवं मन्त्रार्थवादप्रत्यक्षमूलेतिहासपुराणादिभिरपि विग्रहवत्वसिद्धिः । नच प्रत्यक्षमूलत्वं पुराणादीनामसिद्धमिति वाच्यम् । तत्कर्तृणां योगमाहात्म्यादेवादिभिः सह प्रत्यक्षव्यव- हारसम्भवात् । तथाच श्रुतियोगमाहात्म्यमाह- पृथ्व्यशेजोऽनिलखे समुत्थिते पश्चात्मके योगगुणे प्रवृत्ते । न तस्य रोगो न जरान मृत्युः प्राप्तस्य योगाऽग्निमयं शरीरमिति ॥ पादतलमारभ्याजानोराजानोरानाभेराग्रीवं श्रीवायाश्चाकेशपरोह- ब्रह्माऽमृतवर्षिणीसमाख्यवृत्तिसहितम् । माकेशप्ररोहाचाब्रह्मरन्ध्रक्रमेण पृथिव्यादिधारणया पृथिव्यादि- पञ्चाऽऽत्मके भूतसमुदाये समुत्थानप्रतिपत्तिद्वारा वशीकृते, योगगुणे चाऽणिमादौ प्रवृत्ते योगाभिव्यक्तं तेजोमयं देहं प्राप्तस्य योगिनो न रोगादिप्राप्तिरित्यर्थः । तस्मात् समूलेतिहासपुराणा- दिभ्यो विग्रहवत्त्वसिद्धावर्थित्वादिसम्भवाद्देवादीनां ब्रह्मविद्या- यामधिकारोऽस्तीति क्रममुक्त्युपासनासु मुमुक्षुप्रवृत्तिरविकलेति सिद्धम् ॥ ३३ ॥ (१० जातिशूद्रस्य ब्रह्मविद्यायामनधिकाराधिकरणम् । सू०५) शुगस्य तदनादरश्रवणात्तदाद्रवणात सूच्यते हि ॥३॥ पूर्वं यथा, तद्यो यो देवानामिति देवशब्दश्रुत्या मनुष्या- धिकारनियमाऽपवादेन देवानामधिकार उक्तः । तथा मुमुक्षौ जानश्रुतौ शूद्रशब्दश्रुत्या, लिङ्गेन द्विजात्यधिकारनियममपोद्य शूद्रस्याप्यधिकारोऽस्त्विति दृष्टान्तसङ्गत्येदमारभ्यते। शूद्रशब्दस्य सिद्धान्ते क्षत्रिये समन्वयोक्तेरध्यायान्तर्भावोऽस्य युक्तः । शूद्रशब्दस्येव वेदान्तानां स्वार्थे समन्वयसिद्धेः श्रुतिसङ्गतिः । पूर्वपक्षे जातिशूद्रस्यापि ब्रह्मविद्यायां त्रैवर्णिकादविशेषः फलं, सिद्धान्ते ततो विशेष इति विवेकः । एवं किलाऽत्र छान्दोग्ये चतुर्थाध्याये उपाख्यायते । जानश्रुतिः पौत्रायणः प्रियातिथि- बन्नदाता बहुसद्गुणो बभूव । तस्य राज्ञो गुणगणगरिम- सन्तोषिताः सन्तो देवर्षयो हंसरूपमास्थाय निदाघसमये प्रासादोपरि शयानस्याऽस्य राज्ञ उपरि मालामाबद्धयाऽऽजग्मुः । तेषामग्रेसरं हंसं संबोध्य पृष्ठत आगच्छन्नेको हंसः साद्भुतमभ्यु- वाद । भो भो भल्लाक्ष, भल्लाक्ष, अस्य राज्ञो जानश्रुतेर्युलोकं व्याप्य विद्यमानं तेजो न पश्यसि किं, तत्तेजस्त्वां धक्ष्यति । अतस्तदतिलङ्घय न गच्छेति । भल्लाक्षेत्युपहासः। भद्राक्ष KAREERALIANSLATICHRIHERYONEHANAMRAPAR । वेदान्तदर्शनम् । १ अध्याये ३ पादः। इत्यर्थः । इदमुपश्रुत्याग्रगामी हंसः प्रत्युवाच । कमु वर एनमेतत् सन्तं सयुग्वानमिव रैकमात्थेति । अयमर्थः । वरेति सोपहाससं- बोधनम् । अवरेत्यर्थः । यद्वाऽवरो वराको जानश्रुतिः । कम- पदमाऽऽक्षेपार्थकं, कथमित्यर्थः । रैको नाम कश्चन ब्रह्मनिष्ठः । योजयति देशान्तरं गमयति स्वारूढमिति युग्वा गन्त्री शकटी तया सह वर्तते इति, सयुग्वानमित्यर्थः । तथाच एनं वराक जानश्रुतिं प्राणिमात्रं सन्तं मूढम् अरे सयुग्वानं भगवन्तम् असह्यतेजसं रैकमिव, कथमेतद्वचनं ब्रवीषि । इदं श्रुत्वा अयं राजा ब्रह्मविद्यार्थ रैकसमीपं गत्वा कृतार्थो भविष्यतीति दयालूनां हंसानामभिप्रायः। अथैष राजा हंसपयुक्तमनादरवाक्यं श्रुत्वा स्वस्याऽत्यन्तनिष्कर्षम् , उत्कर्षकाष्ठां च रैकस्य ज्ञात्वा दुःखितमनाः कथमपि निशामतिवाहयाम्बभूव । ततो निशा- ऽवसानसूचक पन्दिन्दसमारब्धस्तुतिसहस्रसंवलितमङ्गलतूर्य- निर्घोषमाकर्ण्य तल्पस्थ एव राजा झटिति यन्तारमाहूयाऽऽदि- देश । विविक्तदेशेषु पर्वतगुहादिषु तेषु तेषु रैकाह्वयं सयुग्वान- मन्विष्य यत्नतोऽस्मभ्यमाचक्ष्वेति । स यन्ता तथैव कचिदंति- विविक्तदेशे शकटस्याधस्तात् सन्तं पामानं कण्डूयमानं दृष्ट्वाऽयमेव रैक इति निश्चित्याऽतिकुशलो रैकस्य तैस्तैरिङ्गितैर्गार्हस्थ्येच्छां धनेच्छां चोनीय, राज्ञे निवेदयामास । स राजा तन्निशम्य गवां षट्शतानि हारं रथं चाऽश्वयुक्तमादाय सत्वरं रैकमुपससाद । उपसद्य चोवाच- हे रैक,इदं सर्व गवादिकं गृहीत्वाऽनुशाधि मां भगवन्निति । अथैवमुक्तवन्तं ससम्भ्रमं सस्पृहं चोवाच रैकः । अह हारेत्वा शूद्र तवैव सह गोभिरस्त्विति । अहोतिनिपातः साटोपाह्वानमाह । हारेण युक्तो रथो हारेत्वा गाभिः सहितस्तवै- वाऽस्तु । किमेतावन्मात्रेण मम निर्वाहाऽनुपयोगिनेति भावः ।
ब्रह्माऽमृतवर्षिणीसमाख्यवृत्तिसहितम् । । एवं स्थिते चिन्ता । किं शूद्रस्य ब्रह्मविद्यायामधिकारोऽस्ति न वेति । अस्तीति तावत् प्राप्तम् । कस्मादर्थित्वादिसम्भवात् । वेदाध्ययनसाध्याहवनीयाद्यभावेनाग्निसाध्यकर्माऽनधिकारेऽपि देवादिवद्विद्यायामधिकारसम्भवात् । संवर्गविद्यायां मुमुक्षौ जान- श्रुतौ शिष्ये रैकेण गुरुणा शूद्रशब्दप्रयोगाचेति । अत्र ग्रूमः । न शूद्रस्य ब्रह्मविद्यायामधिकारः। उपनयनाभावेन वेदाध्ययना- ऽभावात् । न हि वेदवाक्यविचारसाध्यब्रह्मविद्यायामनधीत- वेदस्याऽधिकारः सम्भवति । शास्त्रीयसामर्थ्याऽभावात् । न चैवं सति देवानामप्यनधिकार इति साम्पतम् । तेषां स्वयम्प्रभात- वेदत्वात् । न च शूद्रस्यापि लिखितपादिना वेदमाप्तिरिति युक्तम् । गुरूपसदनपूर्वकाऽध्यनसंस्कृतवेदस्यैव ब्रह्मविद्यायुप- कारकत्वात् । न च शूद्रश्रवणलिङ्गेन तस्याधिकारः। न्याया- भावे लिङ्गस्याऽतापकत्वात् । तर्हि वैदिकशूद्रशब्दोऽनर्थकः स्यादित्याशक्य तं व्याख्यातुमिदं सूत्रं, शुगस्येत्यादि । अस्य जानश्रुतेः क्षत्रियस्य तदनादरश्रवणात्तस्य हंसस्याऽनादरवणा- द्या शुगुत्पन्ना सा शूद्रशब्देन भूच्यते हि रैकेण । स्वस्य सर्व- ज्ञत्वज्ञापनार्थ रैकः शूद्रशब्दं प्रयुक्तवानिति भावः । शूद्रशब्द योगेन क्षत्रिये वर्तयति. ॥ तदाद्रवणादिति ॥ तस्याः शुचो जानश्रुति प्राशत्वादित्यर्थः । यद्वा, तस्य जानश्रुतेः शुचं प्राप्तत्वा- दिति । अथवा तं रैकं प्रति जानश्रुतिः शुचा दुद्रावेति शूद्रो जानश्रुतिरुच्यते । अतो न शूद्रस्याधिकारः ॥ ३४ ॥ ननु मुख्य एव शूद्रो जानश्रुतिरस्तु, किं जघन्येन योगेने- क्षत्रियत्वगतेश्योत्तरत्र चैतरथेन लिङ्गात् ॥ ३५ ॥ जानश्रुतिर्न मुख्यशूद्रः कुतःक्षित्रियत्वगतेः॥क्षत्रियत्वाऽवधृतेरि- त्यत आह- EMAINTAMAROVARAMMARIXMRITIGATINAMANAND । वेदान्तदर्शनम् । १ अध्याये ३ पादः । त्यर्थः। सापि कुतः।उत्तरत्र संवर्गविद्यावाक्यशेषे चैत्ररथेन प्रसिद्ध- क्षत्रियेणाऽभिप्रतारिनामकेन सह समभिव्याहारात्मकलिङ्गादि- त्यर्थः । सजातीयानामेव हि प्रायेण सहचारो भवतीति भावः। एवं ह्यभिपतारी सङ्कीर्त्यते । अथ ह शौनकं च कापेयमभिप्रता- रिणं च काक्षसनि सूदेन परिविष्यमाणौ ब्रह्मचारी विभिक्ष इति। संवर्गविद्याविध्यनन्तरमर्थवादारम्भार्थोऽथशब्दः । शुनकस्या- ऽपत्यं शौनक, कपिगोत्रं कापेयं पुरोहितमभिप्रतारिणं च नाम्ना राजानं कक्षसेनस्याऽपत्यं, काक्षसेनिम् । तौ भोक्तुमुपविष्टौ, सूदेन पाचकेन परिविष्यमाणो सेव्यमानौ भिक्षितवानित्यर्थः । अस्य चाऽभिप्रतारिणश्चैत्ररथत्वं कापेयेन चित्ररथपुरोहितेन योगादवगन्तव्यम् । चित्ररथपुरोहितत्वं च कापेयानां श्रुतौ प्र- सिद्धम्। एतेन वै चित्ररथं काया अयाजयन्निति। एतेन द्विरात्रेण। समानान्वयानां हि प्रायेण समानान्वया एव याजका भवन्ति । ननु चित्ररथपुरोहितकापेययोगाइभिमतारिणश्चैत्ररथत्वं भवतु तथापि कथं क्षत्रियत्वमितिचेन । तस्माच्चैत्ररथिर्नामैकः क्षत्रिय- पतिरजायतेतिश्रुतेः । तस्माञ्चित्ररथादित्यर्थः । एवमभिप्रतारिणः क्षत्रियत्वे सिद्धे तत्समभिव्याहारात्मकलिझज्जानश्रुतेः क्षत्रियत्व- मिति सिद्धम् ॥ ३५॥ संस्कारपरामर्शात्तदभावाभिलापाच्च ॥ ३६ ॥ आयसूत्रे बेदाध्ययनाङ्गोपनयनाभावान जातिशूद्रस्या- ऽधिकारः । कुतः । विद्याप्रदेशेषूपनयनादिसंस्कारपरामर्शात् । तं होपनिन्ये, अधीहि भगव इति होपससाद । ब्रह्मपरा ब्रह्म- निष्ठाः परं ब्रह्मान्वेषमाणाः । एष ह वैतत्सर्व वक्ष्यतीति । ते ह समित्पाणयो भगवन्तं पिप्पलादमुपसन्ना इति । अयमर्थः । तं विद्यार्थिनमाचार्यः किलोपनिन्ये उपनीतवान् । अनुपनीताय ब्रह्माऽमृतवर्षिणीसमाख्यवृत्तिसहितम् । विद्यादानाऽयोगादिति तात्पर्यम् । सनत्कुमारं प्रति नारदः अधीहि भगव इति मन्त्रमुच्चार्य गुरूपसदनं कृतवानित्याह । अधीहीति । भरद्वाजादयः षड् ऋषयः परं ब्रह्म परत्वेनोपगतवन्त इति ब्रह्मपरास्तद्ध्याननिष्ठाः परं परमार्थरूपं ब्रह्म विचारयन्तो, निर्णयार्थमेष पिप्पलादस्तज्जिज्ञासितं सर्व वक्ष्यतीति निश्चित्य रिक्तहस्तानां गुरूपसदनाऽयोगात् समित्पाणयः सन्तस्तमुप- सन्नाः किलेत्याह । ब्रह्मपरा इति । ननु, तान् हानुपनीयैवेत्यनु- पनीतानामपि वैश्वानरविद्यायामधिकारश्रुतेरनियतमुपनयनामिति चेन्न । निषेधस्य प्राप्तिपूर्वकत्वात् प्राप्तोपनयनानां प्राचीनशाला- ऽऽदीनां द्विजातीनामेवाधिकारात् । निषेधस्तु विद्योपदेष्टुरश्व- पते राज्ञो न्यूनवर्णत्वाद् द्रष्टव्यः । तान प्राचीनशालादीऋषीननु- पनीयैवाऽश्वपती राजोवाचेति श्रुत्यर्थः । ननु शूद्रस्याप्युपनयनं कल्प्यतामित्यत आह ॥ तदभावाभिलापाचेति ॥ न शूद्रे पातकं किञ्चिन्न च संस्कारमहति । शूद्रश्वतुर्थो वर्ण एकजातिरित्यादिना उपनयनादिसंस्काराऽभावाभिलापादित्यर्थः । पातकं भक्ष्या- भक्ष्यविभागाऽभावकृतम् । एकजातिः । उपनयनरहित इति स्मृत्यर्थः ॥ ३६॥ किञ्च- तदभावनिर्धारणे च प्रवृत्तेः ॥ ३७ ॥ जाबालो हि मृतपितृको गुरूपसदनं कर्तुकामो गोत्रमजा- नानो मातरं पप्रच्छ, किंगोत्रोऽहमस्मीति । सा चाप्यहं न जाना- मीत्युवाच । ततः स जाबालो गौतममुपससाद । उपसद्य चोवाच । हे भगवन् ब्रह्मचर्य चरितुं त्वयीच्छामि मामनुगृह्णातु भवानिति । ततो गौतमेन, किंगोत्रोऽसीति पृष्टः सत्यकामो जाबाल आह । नाहं गोत्रं वेद, नाऽपि मन्मातेति । ततः स वेदान्तदर्शनम् । १ अध्याये ३ पादः। गौतमस्तदीयेन सत्यवचनेन जाबालस्य शूद्रत्वाऽभावं निश्चित्य प्रववृते । नैतदब्राह्मणो विवक्तुमर्हति । समिधं सोम्याहरोप त्वा नेष्ये न सत्यादगा इति । एतत् सत्यवचनं विविच्य निःसं- दिग्धं वक्तुमब्राह्मणो नार्हति । अतस्त्वं न सत्यादगाः सत्य- वचनानातिगतोऽसि । अतस्त्वामुपनेष्ये । तदर्थ समिधमाहरेत्य- ऽर्थः। ततश्च सूत्रस्यायमर्थः। तस्य शूद्रत्वस्याऽभावनिर्धारणे सत्येव विद्योपदेशे प्रवृत्तिदर्शनादिति । तस्मान शूद्रस्याधिकारः ॥३०॥ श्रवणाध्ययनार्थप्रतिषेधात् स्मृतेश्च ॥ ३८॥ इतश्च न जातिशूद्रस्याधिकारः । यतः स्मृतितो वेदश्रवण- स्य तदध्ययनस्य तत्प्रयोजनयोरर्थज्ञानाऽनुष्ठानरूपयोरर्थयोः प्रतिषेधादित्यर्थः । एवं स्मरति । अथाऽस्य वेदमुपशृण्वतस्त्रपु- जतुभ्यां श्रोत्रपूरणमिति श्रवणस्य निषेधः । त्रपुजतुभ्यां सं- तप्ताभ्यां सीसलाक्षाभ्यामस्य शूद्रस्य द्रुताभ्यां श्रोत्रद्वयपूरणं वेदश्रवणप्रायश्चितमित्यर्थः । पशु ह वा एतच्छ्रमशानं यच्छूद्रस्त- स्माच्छूद्रसमीपे नाऽध्येतव्यमित्यध्ययननिषेधः । न ह्यश्रुतस्या- ऽध्ययनं सम्भवति । पद्यु पादयुक्तं, सञ्चारसमर्थमिति तादृशं श्मशानं यच्छूद्र इत्यन्वयः । न शूद्राय मतिं दद्यादिति तदर्थज्ञाननिषेधः। द्विजातीनामध्ययनमिज्या दानमिति तदर्था- ऽनुष्ठाननिषेधः । शूद्राणां दानशब्देनाऽत्र नित्यदानमुच्यते । नैमित्तिकदाने शूद्रस्याप्यधिकार इति द्रष्टव्यम् । विदुरधर्मव्याध- प्रभृतीनां तु पूर्वजन्मकृतश्रवणादिना गर्भस्थवामदेववज्ज्ञानोप- पत्तिर्मन्तव्या । तस्मान कथमपि ब्रह्मविद्यायां शूद्रस्य वेदपूर्वको- ऽधिकार इति सिद्धम् ॥ ३८॥ ( ११ ईश्वरस्यैव कम्पनहेतुताऽधिकरणम् । सूत्रम् १ ) कम्पनात् ॥ ३९ ॥ - यावत् । ।
१२२ ब्रह्माऽमृतवर्षिणीसमाख्यवृत्तिसहितम् । , । समाप्तः प्रासङ्गिकोऽधिकारविचारः । इदानी प्रकृतं वाक्या- ऽर्थविचार प्रवर्तयिष्यामः । शब्दादेव प्रमित इत्यत्र, ब्रह्मवाक्ये, जीवाऽनुवादो ब्रह्मैक्यज्ञानायेत्युक्तम् । न तथेह, यदिदमित्यादि- वाक्ये, प्राणाऽनुवादो युक्तः, प्राणस्य स्वरूपेणापि, कल्पितस्य ब्रह्मैक्याऽयोगादिति प्रत्युदाहरणसङ्गत्यास्याऽऽरम्भापासङ्गिक- त्वान्नाव्यवाहितेन सङ्गत्यपेक्षा । पूर्वपक्षे प्राणोपास्तिः फलं, सिद्धान्ते निर्विशेषब्रह्मज्ञानमिति भेदः । काठकवाक्यं पठ्यते । यदिदं किञ्च जगत्सर्व प्राण एजति निःसृतं महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्तीति । अस्यार्थः। यत्किञ्चेदमविशिष्टं जगत्सर्व प्राणे निमित्ते सत्येजति चेष्टते । एन कम्पने इति धातोः कम्पनार्थकत्वात् कम्पनं चेष्टैवेति चेष्टत इत्युक्तम् । तच्च जगत्तस्मादेव निःसृतम् उत्पन्नम् । तच प्राणाख्यं जगत्कारणं महत् अनवच्छिन्नम् । विभेत्यस्मात् सर्व वाय्वादीति भयम् । भीषास्माद्वातः पवत इत्यादिश्रुत्यन्तरात् । तदेव भयहेतुत्वं निरूपयति । वज्रमिति । उद्यतं वज्रमिवेत्यर्थः । प्राणा- ख्यब्रह्मज्ञानस्य मोक्षहेतुत्वमाह । य इति । अत्र संश- यः । किं प्राणशब्देन मुख्यप्राणवायुं गृहीत्वा, वज्रशब्देन चाऽशनिहेतुं वायुं लक्षयित्वा उभयविषयकमेकमुपासनं विधेय- मुत निर्विशेषं ब्रह्माऽनेन वाक्येन प्रतिपाद्यमिति । तत्र तावदु- पास्तिपरमिति युक्तम् । प्राणशब्दस्य तत्र प्रसिद्धेः । वायौ हि पर्जन्यभावेन विवर्तमाने विद्युन्मेघवृष्ट्यशनयो जायन्त इत्यशनि- हेतुवायुलक्षकत्वं वज्रशब्दस्यापि युक्तम् । न च मोक्षफल- श्रवणविरोधः। तस्माद्वायुरेव व्यष्टिर्वायुः समष्टिरप पुनर्मृत्युं जय- ति य एवं वेदेति वायुवेदनस्यापि मोक्षहेतुत्वश्रवणादित्येवं प्राप्ते, ब्रूमः। शब्दादेव प्रमित इति व्यवहितमपि मण्डूकप्लुत्याऽनुवर्तते।
१२३
वेदान्तदर्शनम् । १ अध्याये ३ पादः।
अस्मिन् वाक्ये प्राणादिशब्दात् परमात्मैव प्रमितः । कुतः १ ॥
कम्पनात् ॥ सर्वशब्दवाच्यस्य सवायुकस्य जगतः कम्पना-
जीवनादिचेष्टाहेतुत्वादित्यर्थः।ब्रह्मण्यपि प्राणशब्दप्रयोगो बहुलं
वेदे दृष्टः । प्राणस्य प्राणमित्यादौ वज्रशब्दोऽपि भयहेतुत्वसाम्या-
दुपपद्यत इत्युक्तम् । वाक्यार्थकथनसमये, कम्पनहेतुत्वं ब्रह्मणः
श्रुत्यन्तरे प्रसिद्धम्-
न माणेन नापानेन मयो जीवति कश्चन ।
इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रिताविति ।।
इतरेणाऽऽत्मना,एतौ प्राणापानौ । किञ्च, कम्पनवाक्यात्
पूर्वमुत्तरत्र च ब्रह्मोक्तेरिहापि ब्रह्मग्रहणं न्याय्यम् ॥
तदेव शुक्रं तद्ब्रह्म तदेवाऽमृतमुच्यते ।
यस्मॅिल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चनेति पूर्ववाक्ये
ब्रह्मोक्तम् । शुक्रं ज्योतिष्मत् । अमृतं कूटस्थम् उक्तं सर्वा-
धिष्ठानत्वं व्यतिरेकमुखेनाह ॥ तदु नेति । किञ्चन जडं तद्ब्रह्म
नात्येति, अतिक्रमेण न वर्तत इत्यर्थः । तथोत्तरत्रापि-
भयादस्याग्निस्तपति भयात्तपति सूर्यः।
भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चम, इति ।।
अस्येश्वरस्य भयादग्न्यादयः स्वव्यापारे नियमेनाऽनुवर्तन्ते,
राजाज्ञया भृत्यादिवदिति । उक्ताऽग्न्याद्यपेक्षया मृत्योः पञ्चम-
त्वम् । यदुक्तं वायुवेदनस्य मोक्षहेतुत्वम् । तन्न । विशेषसामा-
न्यात्मकस्य व्यष्टिसमष्टिवायोर्ज्ञानादपमृत्युनिवृत्तिमात्रश्रवणात् ।
तस्मादनेन वाक्येन निर्विशेषब्रहा ज्ञेयमिति सिद्धम् ॥ ३९ ॥
( १२ ब्राह्मण एव ज्योतिष्ट्वाधिकरणम् । सूत्रम् १)
ज्योतिदर्शनात् ॥ ४० ॥
ब्रह्माऽमृतवर्षिणीसमाख्यवृत्तिसहितम् । पूर्व सर्वशब्दश्रुतिसंकोचाऽनुपपत्त्या प्रकरणात् प्राणशब्द ब्रह्मत्युक्तम् । न तथेह संप्रसादवाक्ये प्रकरणाऽनुग्राहकं किञ्चि- दस्ति, येन प्रकरणाज्ज्योतिःशब्दं ब्रह्म स्यादिति प्रत्युदाहरण. संगत्याऽस्यारम्भः । पूर्वपक्षे आदित्योपास्त्या क्रममुक्तिः। सिद्धान्ते ब्रह्मज्ञानान्मुक्तिरिति फलभेदः । छान्दोग्ये प्रजापति- विद्यायां श्रूयते । य एष संप्रसादोऽस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाऽभिनिष्पद्यते स उत्तमः पुरुष इति । एतदर्थो दहराधिकरणेऽनुसन्धेयः । तत्र संशयः । किं ज्योतिः- शब्देन प्रसिद्धसूर्यादितेजोऽभिधीयते, उत ब्रह्मेति। तत्र सूर्यादीति युक्तं, प्रसिद्धत्वात् । अथ या एता हृदयस्य नाड्य इत्यादि नाडी- खण्डे । अथ यत्र एतस्माच्छरीरादुत्क्रामत्यथ तैरेव रश्मिभिरूल- माक्रमत इति मुमुक्षोरादित्यप्राप्त्यभिधानादत्रापि ज्योतिरुपसंप- घेति श्रवणाचाअयमर्थः। विशेषज्ञानोपरमानन्तर्यमथशब्दार्थः। यत्र प्रारब्धकावसानकाले एतदुत्क्रमणं यथा स्यात्तथेति क्रियावि- शेषणम् । अस्मादभिमानविषयाइहादुत्क्रमणं यदा करोत्यथ तदा एतैरेवाऽऽदित्यस्य रश्मिभिरालम्बनैरारूढः सन्नाक्रमते, उपरिगच्छति तत आदित्यं गच्छतीति । एवं प्राप्तेऽभिधीयते । ज्योतिरत्र ब्रह्मैव । कुतः । दर्शनात् । आत्माऽपहतपाप्मेत्युप- क्रमालोचनया, ब्रह्मण एव प्रतिपाद्यतयाऽनुवृत्तिदर्शनादित्यर्थः यदुक्तं मुमुक्षोरादित्यप्राप्तिरभिहितेति । तन्न । अस्य निर्गुण- ब्रह्मप्रकरणत्वात् । न हि निर्गुणब्रह्मविदो गत्युत्क्रान्ती स्तः। अत्र ब्रह्म समश्नुत इति श्रुतेः । तस्मात् परं ज्योतिब्र होपसंपत्तव्य- त्वेन निर्दिश्यत इति सिद्धम् ॥ ४० ॥ ( १३ ब्रह्मण एव नामरूपनिर्वाहकताधिकरणम् । सूत्रम् १) आकाशोऽर्थान्तरत्वादिव्यपदेशातू ।। ४१ ॥ ।
Prerna । ? वेदान्तदर्शनम् । १ अध्याये ३ पादः। पूर्वसुपक्रमवशादर्थान्तरे प्रसिद्धोऽपि ज्योति शब्दः स्वा- ऽर्थात् पच्यावितः। तथाऽऽकाशोपक्रमवशाद् ब्रह्मादिशब्दोऽपि स्वार्थात् प्रच्याव्यतामिति दृष्टान्तसङ्गत्या इदमारभ्यते । पूर्व- पक्षे भूताकाशाभिन्नसर्वाधिष्ठानभूताऽऽकाशात्मकब्रह्मण उपास्त्या क्रममुक्तिः,सिद्धान्ते सर्वाधिष्ठानब्रह्मधिया साक्षान्मुक्तिरिति फल- भेदः । छान्दोग्ये अन्ते श्रूयते । आकाशो ह वै नाम नामरूपयो- निर्वहिता ते यदन्तरा तहह्म तदमृतं स आत्मेति । ते नामरूपे यस्माद् ब्रह्मणो भिन्ने तदित्यर्थः । यद्वा, ते नामरूपे य- स्य ब्रह्मणोऽन्तरा मध्ये वर्तेते तदित्यर्थः । तत्र, किमाकाश- शब्देन भूताकाश उच्यते ? उत परमात्मेति विशये,रूढ्या भूता- काश इति प्राप्ते ब्रूमः । परमात्मैवाकाशशब्दवाच्यः । कस्मात् । अर्थान्तरत्वादिव्यपदेशात् । ते यदन्तरेत्याकाशस्य नामरूपाभ्या- मर्थान्तरत्वेन व्यपदेशात् । न हि नामाद्यन्तःपातिन आकाश- स्य भूतस्य स्वस्मादर्थान्तरत्वं युक्तम् । आदिशब्देन तद्ब्रह्मे- त्यादिना ब्रह्मत्वादिव्यपदेशो द्रष्टव्यः । तस्मादाकाशः परमात्मा ज्ञेय इति सिद्धम् ॥४१॥ (१४ ब्रह्मण एव विज्ञानमयाधिकरणम् । सूत्रे २) सुषुप्त्युत्क्रान्त्योर्भेदेन ॥ ४२ ॥ व्यपदेशादित्यनुवर्तते । पूर्व नामरूपाभ्यां भेदेन व्यपदेशा- दाकाशो ब्रह्मेत्युक्तम् । तदयुक्तम् । प्राज्ञेनाऽऽत्मना संपरिष्व इत्यत्राभिन्ने जीवे भेदोपचारादित्याक्षिप्य प्राज्ञशब्दस्य ब्रह्म- परतया न भेद औपचारिक इति समाधानात् सङ्गतिः। पूर्वपक्ष जीवाऽनुवादेन कर्मशेषकर्तुः स्तुतिः फलम् । सिद्धान्ते जीवा- ऽनुवादेन प्रत्यग्ब्रह्मैक्यधीरिति विवेकः । बृहदारण्यके पष्ट- प्रपाठके। कतम आत्मेति योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्योतिः NIPAT ब्रह्माऽमृतवर्षिणीसमाख्यवृत्तिसहितम् । ॥ पुरुष इत्युपक्रम्य सुषुप्त्याद्यवस्था मध्य उपन्यस्य, स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु य एषोऽन्त- हृदय आकाशस्तस्मिञ्च्छेते सर्वस्य वशी सर्वस्येशानः सर्वस्या- ऽधिपतिरित्युपसंहारो दृश्यते । अस्यायमर्थः । देहादीनामन्यतमो वा तदतिरिक्तो वात्मेति जनकस्य प्रश्ने याज्ञवल्क्यस्योत्तरम् । योऽयमिति । विज्ञानं बुद्धिस्तन्मयस्तत्मायः। प्राणेषु हृदीति व्य- तिरेकार्थे सप्तम्यौ । प्राणबुद्धिव्यतिरिक्त इत्यर्थः । बुद्धिवृत्तेर्वि- विनक्ति । अन्तरिति । अज्ञानाद्भिनत्ति । ज्योतिरिति । पुरुषः पूर्णः । योऽयमेवम्भूतः स आत्मेत्यर्थः । स्वाधीनं सर्व नियन्तु शक्तिरस्तीति वक्तुं, सर्वस्येशान इत्युक्तम् । स्वाधीनं स्व- नियम्यं च । सर्वमधिष्ठाय पालयतीति वक्तुं सर्वस्याऽधिपति- रित्युक्तमिति । अत्र संशयः। किमयं वाक्यसंदर्भो जीवाऽनुवा. दकः, उत तदनुवादेनाऽसंसारिस्वरूपप्रतिपादनपर इति । तत्रा- ऽवस्थाडुपन्यासात् परमात्मवाचकशब्दाऽभावाज्जीवाऽनुवादक इति प्राप्ते ब्रूमः । विज्ञानमयसुषुप्त्यायवस्थावज्जीवानुवादेन ब्रह्माऽभेदप्रतिपादनपरोऽयं वाक्यसंदर्भो, न जीवाऽनुवादकः । कस्मात् । सुषुप्त्युत्क्रान्त्योरवस्थयोः शारीरानेदेनेश्वरस्य प्राज्ञ- शब्देन व्यपदेशात् । तथाहि सुषुप्तौ तावधपदेशो दृश्यते । तद्यथा प्रियया स्त्रिया संपरिष्वक्तो न बाह्यं किञ्चन वेद नान्तरमेव- मेवाऽयं पुरुषः प्राज्ञेनाऽऽत्मना संपरिष्वक्तो न बाह्यं किञ्चन वेद नान्तरमिति । उत्क्रान्तावपि,अयं शारीर आत्मा प्राज्ञेनाऽऽत्मना- ऽऽन्वारूढ उत्सर्जन यातीति श्रुतिः शारीराद्भदेन परमात्मानं प्राज्ञशब्देन व्यपदिशति । अन्वारूढोऽधिष्ठितः। उत्सर्जन वेदना- तः शब्दं कुर्वनिति यावत् । ननु भेदव्यपदेशमात्रेणाऽभेदमति- पादनपरोऽयं संदर्भ इति कथं गम्यते इति चेत् । उच्यते ।
१२७
वेदान्तदर्शनम् । १ अध्याये ३ पादः।
ध्यायतीव लेलायतीवेत्यादिग्रन्थप्रवृत्तिदर्शनात् । बुद्धौ ध्याय-
न्त्यां स्वयमात्मा ध्यायतीव, चलन्त्यां चलतीव । वस्तुतो न
ध्यायति, न चलतीत्यर्थः । एवमत ऊर्ध्व विमोक्षायैव बहीति
पदे पदे प्रश्नः, अनन्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुष इति पदे
पदे प्रतिवचनं च वाक्यसंदर्भस्याऽभेदपरत्वं फलयति । अस्या-
ऽर्थः । अतः कामादिविवेकानन्तरं मोक्षसाधनीभूतसाक्षात्कारा-
यैव बहीति जनकप्रश्नार्थः । तेन जाग्रगोगादिना, अनन्वागतो-
ऽस्पृष्टो भवति, असङ्गत्वादिति ॥ ४२ ॥
पत्यादिशब्देभ्यः॥ ४३ ॥
इतश्च जीवस्याऽसंसारित्वप्रतिपादनपरमिदं वाक्यजातं,
यतोऽस्मिन् वाक्ये पत्यादयः शब्दा असंसारित्वप्रतिपादनपराः
संसारित्वप्रतिषेधपराश्च दृश्यन्ते । सर्वस्य वशी सर्वस्येशानः
सर्वस्याधिपतिरित्यसंसारित्वपराः, स न साधुना कर्मणा भूया-
नो एवाऽसाधुना कनीयानित्याद्याः संसारित्वप्रतिषेधका इति ।
तस्मादसंसारिपरमात्मस्वरूपप्रतिपादनपरोऽयं वाक्यसंदर्भ इति
सिद्धम् ॥ ४३ ॥
इति श्रीमद्ब्रह्मसूत्रवृत्तौ ब्रह्माऽमृतवर्षिण्यां प्रथमाध्यायस्य
तृतीयः पादः॥१॥३॥
१२८ ब्रह्माऽमृतवर्षिणीसमाख्यवृत्तिसहितम् । प्रथमाध्याये चतुर्थः पादः॥१॥४॥ एवं तावत् प्रथमे पादे जिज्ञास्यत्वेन प्रतिज्ञाते ब्रह्मणि जग- जन्मादिकारणे सर्वज्ञे समन्वयं वेदान्तानां प्रसाध्य ब्रह्म- लक्षणस्य प्रधाने तिव्याप्तिमाशयाशब्दत्वेन निराकृतमीक्षते - ऽशब्दमित्यत्र । तदनन्तरं स्पष्टब्रह्मलिङ्गानि वाक्यानि ब्रह्मणि समन्वितानीत्यप्युक्तम् । द्वितीयतृतीयपादयोरस्पष्टब्रह्मलिङ्गानि प्रायश उपास्यगानि ज्ञेयगानि च समन्वितानीत्यप्युक्तम् । इदानीं तु प्रधानस्याऽशब्दत्वमसिद्धम् । कचिच्छाखासु तत्परशब्दाना- मपि दर्शनादित्याशा तेषामन्यपरत्वप्रतिपादनार्थमयं पाद आरभ्यते- (१ कारणशरीरस्यैवाव्यक्तशब्दवाच्यताधिकरणम् । सू०७) आनुमानिकमप्येकेषामितिचेन्न शरीररूपकविन्यस्त- गृहीतेर्दशयति च ॥ १॥ पूर्वस्मिन् सूत्रसंदर्भे ब्रह्मैव जगत्कारणं वेदान्तप्रतिपाद्य, न प्रधानादीत्युक्तमयुक्तम् । ब्रह्मवत् प्रधानस्यापि जगत्कारण- त्वेन वेदान्तबोध्यत्वात् । न च कारणद्वयवैयर्थ्यम् । कल्प- भेदेन व्यवस्थानादिति ब्रह्माङ्गीकारेणाऽऽक्षेप इत्याक्षेपसङ्गतिः । पूर्वग्रन्थेनाऽस्याधिकरणस्य सूत्रकारैरेवाऽप्येकशब्दं प्रयुञ्जानैः सूचिता । अव्यवहिताधिकरणेन तु प्रसिद्धजीवोक्तिभङ्गेना- प्रसिद्धब्रह्मोक्तिवदप्रसिद्धप्रधानोक्तिपरमेव काठकवाक्यमस्त्वि- ति दृष्टान्तसङ्गतिः । प्रधानस्याऽशब्दत्वप्रतिपादनेन ब्रह्मणि वेदान्तानां समन्वयदाादस्ति श्रुत्यध्यायसङ्गतिः । अविरोध- नयपर्यन्तं, पदविचारत्वात् सर्वेषां नयानाम् आपादं पादसङ्ग- तिः । पूर्वपक्षे ब्रह्मण्येव वेदान्तानां समन्वय इति नियमाऽभावः १२९ topati वेदान्तदर्शनम् । १ अध्याये ४ पादः। फलम् । सिद्धान्ते तु तादृशनियम इति विवेकः । काठकवाक्यं पठ्यते- आत्मानं रथिनं विद्धि शरीरं रथमेव तु। बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् । आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥ सोऽध्वनः पारमामोति तद्विष्णोः परमं पदम् , इति ।। अनियतेन्द्रियादेः पुंसः संसारित्वं, नियतेन्द्रियस्याऽध्वनः पारं विष्णोः परमं पदमिति श्रावयित्वा, किं तदध्वनः पारं विष्णोः पदामित्याकाङ्क्षायां तेभ्य एवेन्द्रियादिभ्यः परत्वेन परमात्मानं विष्णोः पदं दर्शयति- इन्द्रियेभ्यः परा वर्था अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिबुद्धरात्मा महान् परः ॥ महतः परमव्यक्तमव्यक्तात् पुरुषः परः। पुरुषान परं किञ्चित् सा काष्ठा सा परा गतिरिति ॥ अस्यार्थः आत्मनो भोक्तृत्वेन प्राधान्याद्रथित्वं रथस्वामि- त्वम् । स्थूलं शरीरं भोगायतनत्वेन गुणतया रथसमम् । विवे- काविवेकवृत्तिभ्यां बुद्धिरेव शरीरद्वारा भोक्तारं सुखं दुःखं वा उपनयतीति सारथिः । मनसा अश्वरशनास्थानीयेन विवेकिना विषयेभ्य इन्द्रियाणि निगृह्यन्ते । तेनाऽविवेकिना विषयेषु प्रव- य॑न्ते । तेन युक्तं मनसः प्रग्रहत्वम् । इन्द्रियाणि संयतानि मुक्ति- द्वारं प्रापयन्ति, असंयतानि अनर्थ संसारमिति हेयत्वं तेषाम् । यथाऽश्वो मार्गमालक्ष्य चलति, एवमिन्द्रियहयाः स्वार्थमुपलभ्य चलन्तीति शरीरादिषु मध्ये शब्दादीनां विषयाणां मार्गत्वम् । ननु मार्गे रथिनो रथाद्यपेक्षा, न भोगे । चिद्रूपतया स्वभावेनैव । ब्रह्माऽमृतवर्षिणीसमाख्यवृत्तिसहितम् । तद्भोगादित आह। आत्मेति । आत्मा भोक्तेत्याहुरिति संवन्धः। तस्यासनस्यार्थेन्द्रियाऽसंनिकर्षे भोगायोगाद् इन्द्रियमनोयोगो यथा भवतीति क्रियाविशेषणेन भोक्तृत्वमाह। इन्द्रियति । भावे निष्ठा । यद्वा आत्मा देहः । तयुक्तमात्मानं भोक्तेत्याहुरिति यो- जना । यद्यप्यन्तरङ्गत्वादिन्द्रियाणामर्थापेक्षया परत्वं, तथापी- न्द्रियाणां ग्रहत्वमर्थानां शब्दादीनामविग्रहत्वं श्रुतौ निर्दिष्टमि- त्यर्थानामेव परत्वम् । गृह्णन्ति वशीकुर्वन्ति पुरुषपशुमिति ग्रहा इन्द्रियाणि,तेषां ग्राहकत्वं विषयाधीनमित्यतिमहा विषयाः। तेना- ऽतिग्रहतयार्थानां प्राधान्यमित्याह । इन्द्रियेभ्य इति । सर्वेन्द्रिया- ऽर्थव्यवहारस्य मनोमूलत्वान्मनसोऽर्थेभ्यः परत्वम् । निश्चया- ऽऽत्मकबुद्धिद्वारा विषया भोक्तुरुपकुर्वन्तीति संशयात्मकमनस्रो बुद्धेः प्राधान्यम् । पूर्व यो रथित्वेनोक्त आत्मा स भोक्ता बुद्धः परः । भोगोपकरणत्वात्तस्याः । स्वामित्वाच आत्मनो महत्त्व- म् । यदि महत्त्वस्याऽऽत्मविशेषणत्वे आत्मनः परमव्यक्तमि- ति स्यात् तस्य विशेष्यत्वादिति ब्रूपे, तदा महच्छब्देन हिरण्यगर्भ- बुद्धिरुच्यते । तस्या व्यष्टिबुद्धिव्यापनादात्मत्वं च । एवम्भूत- हिरण्यगर्भकुद्धिं स्मृतिर्दर्शयति- मनो महान्मतिब्रह्मा पूर्बुद्धिः ख्यातिरीश्वरः । प्रज्ञा संविञ्चितिश्चैव स्मृतिश्च परिपठ्यते ।। अयमर्थः । सर्वे प्रथमान्ता हिरण्यगर्भबुद्धिपराः। तस्या मन- स्त्वे संदेहरूपत्वं स्यादित्यत आह । मतिरिति । महत्त्वमुपपाद- यति । ब्रह्मेति । भोग्यजाताधारत्वमाह । पूरिति । निश्चयात्म- त्वमाह । बुद्धिरिति । चितिशक्तिमती ख्यातिः । ईश्वरो निया- मकः प्रज्ञा लौकिकप्रकृष्टज्ञानम् । संवित् ज्ञानफलम् , उपासकस्य तत्यानेः । चितिः चित्प्रधाना । स्मृतितिसर्वार्थानुसंधानwomanmun वेदान्तदर्शनम् । १ अध्याये ४ पादः । शक्तिमती। विद्वत्यसिद्धिमुक्तबुद्धावनुकूलयति। परीति। श्रुतिरपि, यो ब्रह्माणं विदधाति पूर्वमित्यादिका हिरण्यगर्भबुद्धौ वेदावि- र्भावमीश्वराऽनुग्रहाद् दर्शयन्ती तस्या उक्तरूपत्वमाह । एतादृशी बुद्धिः सर्वासां बुद्धीनां परा उत्कृष्टा । आस्मिन् पक्षे पुरुष- ग्रहणेनैव तदभिन्नो रथी भोक्ता गृहीतो द्रष्टव्यः । आत्मानं रथिनं विद्धीत्यादिवाक्यानिर्दिष्टाः सर्वे गृहीताः। अवथिष्ट स्थत्वेन कल्पितं शरीरम् । अव्यक्ताख्याऽविद्याकार्य लक्षणया अव्यक्त- शब्देन निर्दिशति । महतः परमव्यक्तमिति । एवं वस्तुगत्यार्थः भदर्शितः । तत्र संशयः। किमव्यक्तशब्देन प्रधानमुच्यते, उत पूर्वप्रकृतं शरीरमिति । तत्र सांख्यस्मृतौ महदव्यक्तपुरुषशब्दानां तत्त्वत्रये प्रसिद्धत्वादव्यक्तं प्रधानमेवेत्याह । आनुमानिकमप्ये- केषामिति चेदिति ॥ अनुमानगम्यं प्रधानमप्येकेषां शाखिनां प्रत्यक्षमव्यक्तशब्देन पठ्यत इत्यशब्दत्वमसिद्धमिति चेदिति सूत्रा- ऽवयवार्थः । परिहरति । नेति ॥ कुतः॥ शरीररूपशविन्यस्त- गृहीतेः॥ शरीरस्य पूर्ववाक्ये रथरूपेण विन्यस्तस्य कल्पितस्या- ऽव्यक्तशब्देन गृहीतेग्रहणादित्यर्थः । रूपकाऽऽत्मना रथात्मना विन्यस्तं रूपकविन्यस्तम् । शरीरं च तद्रूपकविन्यस्तं च तत्तथो- क्तम् । तस्य गृहीतेरिति विग्रहः । कथं शरीरपरोऽव्यक्तशब्द- स्तत्राह ॥ दर्शयवि चेति ॥ पूर्वाऽपरवाक्यसंदर्भः पर्यालोच्य. मान औचित्येन, प्रकृतं परिशिष्टं च शरीरमेवाऽव्यक्तशब्देन बोध्यं दर्शयतीत्यर्थः॥१॥ ननु स्वूलशरीरस्य व्यक्तशब्दाईस्य कथमव्यक्तशब्दाईत्व- मित्यत उत्तरं पठति- सूक्ष्मं तु तदर्हत्वात ॥ २॥ दर्शयतीत्यनुपङ्गः शब्दःशक्षानिरासार्थः । स्थलशरारीरा- ब्रह्माऽमृतवर्षिणीसमाख्यवृत्तिसहितम् । रम्भकं भूतानां सूक्ष्मं कारणमव्यक्तशब्देन दर्शयति । कुतः ॥ तदर्हत्वात् ॥ अव्यक्तशब्दार्हत्वादित्यर्थः । गोभिः श्रीणीत मत्सरमित्यादिवत् । प्रकृतिवाचकशब्देन विकारो लक्ष्यत इति भावः । गोभिः गोविकारैः पयोभिर्मत्सरं सोमं श्रीणीत मिश्रितं कुर्यादित्यर्थः ॥ २॥ ननु भूतसूक्ष्मात्मकाऽव्यक्ताङ्गीकारे आगतः प्रधानकारण- वाद, सांख्यैस्तस्यैव प्रधानत्वेनाङ्गीकारादित्यत आह- तदधीनत्वादर्थवत् ॥ ३॥ न प्रधानकारणवादो मयाङ्गीकृतः। कुतः ॥ तदधीनत्वात् । ईश्वराधीनत्वाङ्गीकारात् । स्वतन्त्रं चेतनानधिष्ठितमव्यक्तं ज- गत्कारणमिति सांख्यमतम् । सिद्धान्तं त्वीश्वराजधिष्ठितं माया- ऽविद्याऽऽकाशादिशब्दवाच्यं जगत्कारणमिति महद्वैलक्षण्यम् ॥ नन्वीश्वरादेव जगदुत्पत्तावव्यक्तवैयमित्याशमाह ॥ अर्थवदिति ॥ प्रयोजनवदित्यर्थः । देवात्मशक्ति स्वगुणैर्निगूढां, मायां तु प्रकृतिं विद्यादितिश्रुतिसिद्धमीश्वरस्य सहकारिभूत- मव्यक्तमवश्यमङ्गीकर्तव्यम् । न हि शक्तिरहितेश्वरः कार्यलेशं वा कर्तुं समर्थः । असङ्गत्वादिति तात्पर्यम् । नन्वेवमपि कथं शरीर- स्य महतः परत्वं, कथं वा अव्यक्तकार्यत्वस्येन्द्रियादीनामवि- शेषे, शरीरस्यैवाऽव्यक्तपदार्हत्वमितिचेत् । उच्यते । महच्छब्द- वाच्यभोक्त्रऽपेक्षया हिरण्यगर्भबुद्ध्यपेक्षया वा अव्यक्ताख्या- ऽविद्यायास्तावत्परत्वं सर्वसिद्धम् । तदधीनत्वाद्भोक्त्रादेः । तथाच तन्निष्ठपरत्वं, तद्विकारे देहे उपचर्यते । इन्द्रियादीनां त- कार्यत्वाऽविशेषेऽपि स्वस्वशब्दैरेवोपात्तत्वात् परिशेषात् प्रकृता- कामयऽव्यक्तशब्देन स्थूलदेहग्रहणं न्याय्यमिति ॥ आचार्यैकदेशीयैः सूत्रद्वयमिदमन्यथा व्याख्यातम् । शरीरं वेदान्तदर्शनम् । १ अध्याये ४ पादः। १३३ द्विविधं, स्थूल सूक्ष्मं च । द्वयमपि पूर्ववाक्ये रथत्वेन गृहीतम् , उत्तर- स्मिन् वाक्ये सूक्ष्ममेवाऽव्यक्तशब्देन गृहीतम् । तदर्हत्वात् । तच्चाऽर्थवत् । तदधीनत्वाद् बन्धमोक्षव्यवहारस्येति । सर्वथापि । प्रधानस्य नावावकाशः॥३॥ अपि च, ज्ञेयत्वावचनाच्च ॥ ४ ॥ सांख्यैः प्रकृतिपुरुषविवेकान्मोक्ष इति वदद्भिः प्रकृतिरपि तदर्थ ज्ञेयेत्युक्तम् । न च ज्ञेयत्वेन,प्रकृतेअव्यक्तमुच्यते । अव्यक्त- शब्दमात्रश्रवणात् । तस्मादपि, नाऽव्यक्तं प्रधानम् ॥ ४॥ वदतीतिचेन्न, प्राज्ञो हि प्रकरणात् ॥ ५ ॥ अत्राह सांख्यः, ज्ञेयत्वाऽवचनादित्यसंगतम् । अव्यक्त- शब्दवाच्यस्यैवोत्तरत्र ज्ञेयत्ववचनात् ॥ अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यगन्धवच्च यत् । अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात् प्रमु. च्यत, इति ॥ अशब्दमित्यादिषु प्रत्येकं नित्यामिति संबद्ध्यते । नित्यं सर्वदा निचाय्य ज्ञात्वा । यादृशं शब्दादिहीनं प्रधान तादृशमेवेदं वाक्यं, ज्ञेयत्वेन वदतीतिचेन्न । प्राज्ञो हि परमात्मा निचाय्यत्वेन निर्दिष्टो, न प्रधानम् । कस्मात् ? पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः । एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते इत्यादिनाऽऽत्मन एव प्रकरणात् ॥ ५॥ त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥ ६ ॥ किञ्च, न प्रधानमव्यक्तशब्दवाच्यं ज्ञेयम् । वाक्यात् त्रयाणामेव अग्निजीवपरमात्मनामेव एवं पूर्वोत्तरवाक्यपर्या- ब्रह्माऽमृतवर्षिणीसमाख्यवृत्तिसहितम् । लोचनया वक्तव्यत्वेनोपन्यासस्तद्विषय एव प्रश्नोऽपि दृश्यते कठवल्लीग्रन्थे, नाऽन्यस्य । तत्र, स त्वमग्निं स्वयंमध्येषि मृत्यो प्रब्रूहि तं श्रद्दधानाय मह्यमित्यग्निविषयः प्रश्नः । येयं प्रेते वि- चिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके । एतद्विद्यामनु- शिष्टस्त्वयाऽहं वराणामेष वरस्तृतीय इति जीवप्रश्नः । अन्यत्र धर्मादन्यत्राऽधर्मादन्यत्राऽस्मात् कृताऽकृतात् । अन्यत्र भूताच्च भव्याच्च यत्तत् पश्यसि तद्वदेति परमात्मप्रश्नः ॥ लोकादिमग्निं त- मुवाच तस्मै या इष्टका यावतीर्वा यथा वेत्यग्निविषयमुत्तरम् । हंत त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् । यथा च मरणं प्राप्यात्मा भवति गौतम ॥ योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतमिति जीवस्योत्तरम् । न जायते म्रियते वा विपश्चिदित्यादि परमात्मनः प्रतिवचनम् ॥ न ह्येवं प्रधानस्य प्रश्नोत्तरे दृश्येते, येनाऽव्यक्तशब्दवाच्यत्वं ज्ञेयत्वं वा स्यात् ॥ श्रुत्यर्थस्तु- हे मृत्यो, स मदर्थ दत्तवरस्त्वं स्वयं स्वर्गहेतुमग्निमध्येषि सदा स्मरासि तेन त्वं तद्विषयां विद्यां वदेत्य- ऽर्थः । जीवपरमात्मप्रश्नौ पूर्व व्याख्यातौ । लोकादि लोकहेतुं, विरादृष्टयोपास्यत्वाल्लोकादिं तमग्निमुक्तवानचिकेतसे । याः स्व- रूपतो यादृशीः यावती: संख्यातो यथा वाग्निश्चीयते तत्सर्वमु- वाचेति संबन्धः । हंत इदानीं गुह्यं गोप्यं चिरन्तनं ब्रह्म प्र- वक्ष्यामीत्युपक्रम्य जीवमपि ब्रवीति । यथेति । आत्मा जीवो मरणं प्राप्य यथा भवति तथा वक्ष्यामीति योजना। कथं भवती- त्यत आह । योनिमिति । मृतानां पुनर्विचित्रजन्मापत्तौ निमित्त- माह । यथेति । यद्यप्यस्मिन् कठवल्लीग्रन्थे जीवपरमात्मनोः पृथकप्रश्नौ न स्तः । वरान् वृणीष्वेति मृत्युना प्रेरितेन नचिकेत- सा पितुः सौमनस्याऽग्निविद्याऽऽत्मविद्यात्मकवरत्रयमेव पृष्टमिति ।
।
वेदान्तदर्शनम् । १ अध्याये ४ पादः।
वराणामेष वरस्तृतीय इतिलिङ्गानिश्चितत्वात्तथापि जीवपरयोः
कल्पितभेदाऽपेक्षया त्रयाणामित्युक्तं सूत्रकारैः। वस्तुतस्तु, येयं
प्रेत इत्यादिना पृष्टस्यैवात्मनोऽन्यत्र धर्मादित्यादिना धर्मविशेष-
पुरस्कारेणाऽनुकर्ष इत्येक एव प्रश्नः । भेदस्य च कल्पितत्वं
वाक्यपालोचनयाऽवगतम् । तथाहि । यदेवेह तदमुत्र य-
दसुत्र तदनिह । मृत्योः स मृत्युमामोति य इह नानेव पश्यती-
ति जीवप्राज्ञभेददृष्टिमपवदति । इह देहे यच्चैतन्यं, तदेवाऽमुत्रा-
ऽऽदित्यादावसंसारिब्रह्म । यच्चाऽमुत्र तदेवेह देहेऽनुप्रविष्टमित्य-
न्योन्यैक्यमित्यर्थः । अभेदं द्रढयितुं भेदं निन्दति । मृत्योरिति ।
यः कश्चिन्मूढः इह ब्रह्मात्मनि नानेव मिथ्याभेदं पश्यति वस्तुतो-
ऽहं भिन्न इति स मरणान्मरणं पुनः पुनः प्रामोति नसुखभागी-
त्यर्थः। तथा जीवप्रश्नानन्तरमन्यं वरं नचिकेतो वृणीष्वेत्यारभ्य
मृत्युना तैस्तैः कामः प्रलोभ्यमानोऽपि नचिकेता यदा न चचाल,
तदैनं मुमुक्षुमत्वा, विद्याभीप्सितं नचिकेसं मन्ये न त्वा कामा बह-
वोऽलोलुपन्तेति प्रशस्य प्रश्नमपि तदीयं प्रशंसन् यदुवाच तं दु.
दर्श गूढमनुप्रविष्टं गुहाहितं गहरेष्टं पुराणम् । अध्यात्मयोगाधिगमेन
देवं मत्वा धीरो हर्षशोको जहातीति । तेनाऽपि जीवप्राज्ञयोर-
भेद एवेति गम्यते । यद्युभयोर्मेदस्तदा जीवप्रश्नानन्तरं प्रशंसा
विफलैव स्यात् श्रुत्यर्थस्तु, त्वा त्वां बहवोऽपि कामा नालोलुपन्त
श्रेयोविच्छेदं न कृतवन्तः । ततो विद्यार्थिनं त्वां मन्येऽहमिति ।
जीवप्रश्नस्य परमात्मवाक्येनोत्तरमाह । तं दुर्दशमिति । न ह्यत्र
भेदमिथ्यात्वे विवादः । यतो जीवप्रश्ने परमात्मानं प्रतिपादय-
ति । उभयो दे तात्त्विके उन्मत्तालापो भवेदित्येवमादीनि
वाक्यानि भेदमिथ्यात्वे बोध्यानि ॥६॥
महद्दच्च ॥ ७॥
१३६ ब्रह्माऽमृतवर्षिणीसमाख्यवृत्तिसहितम् । । किञ्च । यथा, बुद्धरात्मा महान् परः । वेदाहमेतं पुरुष महान्तमित्यादौ वेदे श्रुतो महच्छब्दो बुद्ध्याख्यद्वितीयतत्त्ववाची नाङ्गीक्रियते सांख्यैस्तथा वैदिकः अव्यक्तशब्दो नाऽप्रकृत- प्रधानवाची । तस्मात् प्रकृतशरीरपरमेवाऽव्यक्तपदमित्यशब्दत्वं प्रधानस्यति सिद्धम् ॥ ७॥ (२ तेजोऽबन्नात्मकप्रकृतेरेवाजात्वाधिकरणम् । सू०३) चमसवदविशेषात् ॥ ८॥ पूर्वमव्यक्तशब्दमात्रप्रत्यभिज्ञानेन प्रधानस्याऽर्थतोऽमत्य- भिज्ञानादव्यक्तपदवाच्यत्वेऽपि त्रिगुणत्वादिना, अजामन्त्रेऽर्थतः प्रत्यभिज्ञानादजापदं प्रधानपरमस्त्विति प्रत्युदाहरणसङ्गत्या- ऽस्यारम्भः । अध्यायपादसङ्गतिफलानि पूर्ववद् बोध्यानि । श्वेताश्वतरोपनिषदि श्रूयते- अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः । अजो टेको जुषमाणोऽनुशेते जहात्येनां मुक्तभोगामजोऽन्यः, इति ॥ तत्र संशयः । किमजाशब्देन प्रधानमुच्यते, उत तेजो- ऽबन्नात्मिका छान्दोग्ये सिद्धावान्तरप्रकृतिरिति । तत्र,न जायत इत्यजेत्यजा सांख्यसिद्धा प्रकृतिरेव । रजःसत्चतमोगुणात्मक- त्वाल्लोहितशुक्लकृष्णा च भवति । किञ्च एकोऽजः पुरुषो जुष- माणः सेव्यमानः कार्यकारणसङ्घाताभिमानीति यावत् । स ता- मनुशेते तामजां भ्रमेणाऽऽत्मत्वेनाऽवगम्य तत्कार्यबुद्धिनिष्ठ- सुखदुःखादिकमनुभवति । अहं सुखी दुःखीति । अन्यस्तु विवेकी भुक्तभोगां कृतभोगविवेकज्ञानां जहाति त्यक्त्वा मुच्यत इति जीवभेदप्रतिपादनादजा प्रधानमिति न अशब्दं प्रधानमित्येवं प्राप्ते ब्रूमः । न प्रधानस्याऽसाधारण्येनाऽत्र प्रत्यायकमस्ति । न जायत इत्यजेत्यन्यत्रापि योजयितुं शक्यत्वात् । लोहितादिशब्दा- FIROIN PRATAPrint/sk.satirit वेदान्तदर्शनम् । १ अध्याये ४ पादः। श्च रूपविशेषेषु रूढाः,न रजादौ। यथाकथञ्चिन्नयनमन्यत्रापि तुल्यम् । साधारणस्थले, इदमेतत्पदवाच्यमितिनिर्धारणाभावे दृष्टान्तः ॥ चमसवदिति ॥ यथाऽर्वाग्विलश्चमस ऊर्ध्वबुध्न इत्य- ऽस्मिन्मन्त्रे अयं चमसइत्यवधारणं न भवति। कथञ्चिदग्विल- त्वादेरन्यत्राप्यविशेषात् । एवमजामन्त्रेऽप्यजात्वादेरविशेषान्न प्रधाननिर्णय इत्यशब्दं प्रधानमित्यर्थः ॥८॥ ननु, इदं तच्छिर एष बर्वाग्विलश्चमस ऊर्ध्वबुन इति वाक्यशेषात्, शिरश्चमस इति निर्णयो भवति । इह त्वजामन्त्रे केयमजा प्रतिपत्तव्येत्याशङ्ग्य सजातीयश्रुत्यन्तरात् तेजोऽवन- लक्षणाऽजा प्रतिपत्तव्येत्यहृदयवाचामिति न्यायेनाऽऽह- ज्योतिरुपक्रमा तु तथा ह्यधीयत एके ॥ ९ ॥ ज्योतिस्तेज उपक्रमे आदौ यस्यास्तेजोऽबन्नलक्षणयाः सा ज्योतिरुपक्रमा । तु अवधारणे । सैवेहाऽजा निर्धारणीया, न प्रधानम् । कस्मात् ॥ तथा बधीयते एके ॥ हि यस्मादेके छन्दोगास्तेजोऽवनात्मिकाया भौतिककार्यप्रकृतेस्तथा लोहितादि- रूपतामधीयते आमनन्ति । यदग्ने रोहितं रूपं तेजसस्तद्रूपं, य- च्छुक्लं तदपां, यत्कृष्णं तदन्नस्यति । तथाच, लोहितादिशब्दसाम्यात् तान्येव तेजोऽबन्नानीह प्रत्य- भिज्ञायन्ते । यद्दा अत्रैव श्वेताश्वतरोपनिषदि पौर्वापालोचना- याम् अनिर्वाच्यमायाया जगत्कारणत्वप्रतीतेस्तस्या अजाशब्देन ग्रहणम् । तथाहि । किं कारणं ब्रह्मेत्युपक्रम्य, ते ध्यानयोगा- ऽनुगता अपश्यन् देवात्मशक्तिं स्वगुणैर्निगूढामिति वाक्योप- क्रमे ईश्वरशक्तायाख्याया जगद्धेतुत्वं गम्यते । वाक्यशेषे- ऽपि, मायांतु प्रकृति विद्यान्मायिनं तु महेश्वरमिति । यो योनि योनिमधितिष्ठत्येक इति च तस्या एवाऽवगतिर्न स्वतन्त्रप्रधान- १८ १३८ ब्रह्माऽमृतवर्षिणीसमाख्यवृत्तिसहितम् । स्येति । श्रुत्यर्थस्तु, ब्रह्मणः शुद्धत्वान्न जगहेतुत्वमिति श्रुति- ब्रह्मवादिनः प्रति शङ्कते । किं कारणमिति । यज्जगत्कारणं, तत् किं ब्रह्म वा अन्यद्वेत्यर्थः । यद्वा जगदुत्पत्तौ किमुपकरण- वब्रह्मत्यर्थः । ते पृष्टा ब्रह्मवादिनोऽनया रीत्या विमृश्य ध्याना- ऽख्येन योगेनानुगताः परमात्मानमनुपविष्टाः सन्तस्तस्यैव देवस्यात्मभूतामैक्येनाऽध्यस्ता मायाशक्तिं गुणत्रयवतीं त्रिगुण- स्य जगतो निर्माणे सहकारिणीमपश्यन्निति योजना । प्रधान मायाशब्दं वारयति । मायिनमिति । अविद्याशक्तिोनिस्तस्या एकत्वेऽपि कार्यभेदेन भेदाद्वीप्सा । तदुक्तं सुरेश्वराचार्यैः स्वतस्त्वविद्याभेदोऽत्र मनागपि न विद्यत इति । अधितिष्ठति प्रेरयति । न हि परमते ईश्वरस्य तदधिष्ठातृत्वं सम्मतमिति रहस्यम् ॥ ९॥ नवजाशब्दो न तावत्तेजोऽबन्नात्मिकायां प्रकृतौ रूढः । छागादाविवाऽजात्वजात्याधारत्वाभावात् । नाऽपि यौगिकः । जनिमत्त्वात्तेजोऽबनानामित्यत आह- कल्पनोपदेशाच्च मध्वादिवदविरोधः ॥ १०॥ चः शङ्कानिवृत्त्यर्थः । तेजोऽबन्नात्मिकायां प्रकृतौ नाऽजा- शब्दस्याऽनुपपत्तिः । कुतः ॥ कल्पनोपदेशात् ॥ यथा लोके प्रसिद्धामजां भुक्तभोगामेकस्त्यजति, अन्यस्तामनुवर्तते, एवं त्यागभोगयोः कार्यकारणसंघातायुपादानभूतायास्तेजोऽवन्ना- त्मिकायाः प्रकृतेः साम्यद्योतनार्थं कल्पनयाऽजात्वस्योपदेशात् । यथा मधुभिन्नस्याऽऽदित्यस्य,असौवाआदित्यो देवमधु इति मधु- त्वोपदेशः। यथा वा धेनुभिन्नाया वाचो धेनुत्वोपदेशः। एवमजा- भिन्नायाः प्रकृतेरजात्वोपदेशे न कश्चिद्विरोधः । यदुक्तं जीवभेदो- ऽस्मिन्मन्त्रे प्रतिपाद्यते इति । तन्न । लोकसिद्धभेदाऽनुवादेन वेदान्तदर्शनम् । १ अध्याये ४ पादः। वन्धमोक्षव्यवस्थापरत्वादस्य । एको देवः सर्वभूतेषु गूढ इत्या- दिनाऽऽत्मैक्याऽवगमात्। तस्मान्नात्र प्रधानस्याऽवकाश इत्यशब्दं प्रधानमिति सिद्धम् ॥ १० ॥ (३ प्राणादीनामेव पञ्चजनत्वाधिकरणम् । सूत्राणि ३) न संख्योपसंग्रहादपि नानाभावादतिरेकाच्च ॥ ११ ॥ पूर्वमाध्यात्मिकाधिकारे, प्रसिद्धच्छागीग्रहणाऽयोगादजा तेजआदिकेत्युक्तम् । तथा यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठित इति मन्त्रे पञ्चजनशब्देन प्रसिद्धमनुष्यग्रहणाऽयोगाद- वयवव्युत्पत्त्या सांख्याऽभिमतपञ्चविंशतितत्त्वानां ग्रहणमस्त्विति दृष्टान्तसंगत्याऽस्यारम्भः । फलं पूर्ववद् द्रष्टव्यम् । बृहदारण्यके षष्ठाध्याये श्रूयते, तद्देवा ज्योतिषां ज्योतिरायुोपासतेऽमृत- मित्यनन्तरम्- यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः । तमेवमन्य आत्मानं विद्वान् ब्रह्माऽमृतो मृतम् ॥ प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रं मनसो ये मनो विदुः । ते निचिक्युब्रह्मपुराणमग्रयमिति।।परमार्थतोऽस्यार्थः ज्योतिषां सूर्यादीनां ज्योतिर्भासकं तद्ब्रह्म देवा उपासते आयु- ष्ट्वेनाऽमृतत्वेन च । तेनोपासनेनायुष्मन्तो जाता इति पूर्ववाक्या- ऽर्थः। सूर्यादिज्योतिरेकं पूर्वोक्तं प्राणस्य प्राणमित्यादिवाक्यशेष- गताश्चत्वारः प्राणादयश्चेति मिलित्वा पञ्चजनाः पञ्च । पञ्चजन- शब्दोऽवयवार्थमनपेक्ष्य पुरुषमात्रं वक्ति लोके । अत एव, स्युः पुमांसः पञ्चजना इत्यमरो जगाद । प्रकृते च पुरुषग्रहणे वाक्य- स्य निस्तात्पर्यापत्त्या तत्संबन्धिप्राणादयो गृह्यन्ते पञ्चजनशब्देन। ते कतीत्याकाङ्क्षायां पञ्चेति संख्यापूरणम् । तथाच पञ्च पञ्चजना आकाशश्चाविद्याख्यो यस्मिन् प्रतिष्ठितस्तमेव निष्पपश्चं ब्रह्माऽमृतवर्षिणीसमाख्यवृत्तिसहितम् । ब्रह्मात्मकममृतमात्मानं मन्य इति मन्त्रशा याज्ञवल्केनोक्ते जनकः पप्रच्छ बहिरेव त्वं किञ्चिद्विद्वान्मन्तव्यादन्यो मर्त्य इति । ने- त्याह । विद्वानमृत इति । अस्मीति शेषः । अविद्यया कल्पितं मर्त्यत्वमिति भावः । प्राणादीनां जीवनादिनदं त्वम्पदलक्ष्यं ये विदुस्ते तस्य स्वस्वरूपं पुराणं चिरन्तनमग्रे कार्यदशायामप्यलुप्त- त्वेन भवमग्यं ब्रह्म निचिक्युः निश्चयेन ज्ञातवन्त इति । तत्र किं पञ्चजनशब्देन मूलभकृत्यादीनि पञ्चविंशतितत्त्वान्युच्यन्ते, उत वाक्यशेषगताः प्राणादय इतिसंशये तत्त्वानीति प्राप्तम् । तथाहि- मूलप्रकृतिरविकृतिर्महदाथाः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुष, इति सं- गृहीतानि, पञ्चविंशतितत्त्वानि वर्त्तन्ते, पञ्च पञ्चजना इति।पश्चा- नां जनानामादिमपञ्चपदेन पञ्चत्वोक्तौ पञ्चविंशतिजनाः सं- पद्यन्ते । ते जनाः कतीत्याकाङ्क्षायां सांख्यस्मृतिसंगृहीतानि पञ्चविंशतितत्त्वानि संबद्ध्यन्ते इति न अशब्दं प्रधानमिति । स्मृ- त्यर्थस्तु, मूलप्रकृतिः प्रधानमविकृतिः । अनादित्वात् । महद- हङ्कारौ पञ्च भूतानि सूक्ष्माणि पञ्चतन्मात्रसंज्ञानि च सप्त मह- दाद्याः प्रकृतयो विकृतयश्च । तत्त्वान्तरोपादानत्वं प्रकृतित्वम् । अस्ति हि महतो बुद्ध्याख्यस्याऽहङ्कारतत्त्वं प्रत्युपादानत्वम् । प्र- धानाऽपेक्षया विकृतित्वम् । एवं पूर्वापेक्षया विकृतित्वमहारादी- नां द्रष्टव्यम् । प्रकृतित्वं चाऽहङ्कारस्य पञ्चतन्मात्राणामेकादशे- न्द्रियाणां चोपादानत्वात् । पञ्चतन्मात्राणांच आकाशादिमहाभूत- प्रकृतित्वम् । षोडशकस्य षोडशसंख्याऽवच्छिन्नस्य एकादशे- न्द्रियपश्चमहाभूतसमुदायस्य विकारत्वमेव, न प्रकृतित्वम् । पुरुषस्तु कूटस्थ इति ॥ अत्राभिधीयते । अस्मिन्मन्त्रे श्रूयमाणया पञ्चविंशतिसंख्यया स्मृतिपसिद्धानां पञ्चविंशतितत्त्वानामुपसं-
वेदान्तदर्शनम् । १ अध्याये ४ पादः।
१४१
।
NRNA
ग्रहात् प्रधानस्य शब्दवत्त्वमित्यपि न । कुतः । मानाऽभावात् ।
अस्मिन्मन्त्रे सर्वनाम्नाऽऽकाशशब्देन चात्माकाशयोः पृथक्श्रूय-
माणत्वात् तौ विहाय गुणास्त्रयो महदादयो द्वाविंशतिः सम्भूय
पञ्चविंशतिसंख्येया वक्तव्याः। तथाच पञ्चानां पञ्चकानामेक-
पञ्चकपर्याप्तान्यपञ्चकव्यावृत्तधर्मवचाभावेन नानाभावात् पश्च
पञ्चजना इत्यनेन पञ्चानां पञ्चकानां ग्रहणमिति प्रतिपादनमशक्य-
समर्थनम् । लोके हि, गोपञ्चकं ब्राह्मणपञ्चकं चेति पञ्चकद्वय-
मिति वक्तुमुचितम् । एकपञ्चकपर्याप्तान्यपञ्चकव्यावृत्तगोत्वादि-
धर्मवत्त्वादित्यर्थः । नानात्वेऽपि कथञ्चित् पञ्चविंशतिसंख्यापति-
पादकत्वाङ्गीकारे वाधकान्तरमाह-
अतिरेकाच्चेति ॥ न ह्यस्मिन्मन्त्रे पञ्चविंशतिसंख्यैव श्रूय-
ते, किन्तु अतिरिक्ताऽऽत्माकाशावपि श्रूयते। तथाच तयोः पञ्च-
विंशतितत्त्वातिरिक्तत्वात् । सप्तविंशतितत्वप्राप्तावपसिद्धान्तापा-
तः । नच गुणत्रित्वविवक्षया पञ्चविंशतिसंख्यापूरणान्न तत्त्वा-
ऽतिरेक इति वाच्यम् । तथा सत्यात्माकाशयोः पृथक्कथनवैय-
र्थ्यात् ॥ कथञ्चिद्भोग्यजाताऽपेक्षयात्मनः पृथक्त्वेन कथनस्य
सार्थकत्वेऽपि आकाशस्य पृथक्कथनं निष्फलमेवेति भावः ।
वस्तुतोत्र पञ्चविंशतिसंख्याप्रतीतिरेव नास्तीत्यापिशब्देन सू-
चयति । पञ्चजनशब्दस्यैकत्वेन योगमनपेक्ष्य पुरुषेषु रूढत्वात् ।
ते कतीत्याकाङ्क्षायां पञ्चत्वसंख्यान्वयात् । अन्यथा पञ्चजना
इत्यत्र पदभेदाङ्गीकारे प्रधानजनान् प्रति गुणत्वेनाऽन्वितस्य
पञ्चत्वस्याऽऽद्यपञ्चत्वेनान्वयायोगो बाधकः । गुणयोः परस्परा-
ऽन्वयादर्शनात् । उभयोः पञ्चत्वयोः प्रधानजनाऽन्वयसम्भवे-
ऽपि जनेषु दशत्वसंख्याप्रतीतिरेव, न पञ्चविंशतिसंख्यामतीति-
रिति, न शब्दवत् प्रधानम् ॥ ११ ॥
ब्रह्माऽमृतवर्षिणीसमाख्यवृत्तिसहितम् । ननु ते पञ्चत्वसंख्याकाः पञ्चजनाः के इति स्वरूपप्रश्न- स्योत्तमाह- प्राणादयो वाक्यशेषात् ॥ १२ ॥ माध्यन्दिनशाखायां पञ्चजनमन्त्रानन्तरमन्त्रे प्राणचक्षुः- श्रोत्राऽन्नमनांसि श्रूयमाणानि पञ्चजनशब्देनोच्यन्ते । कस्मात् ।। वाक्यशेषात् ॥ प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्र- मुताऽन्नस्थाऽन्नं मनसो मनो ये विदुरिति वाक्यशेषस्थत्वा- दित्यर्थः ॥ १२॥ ननु माध्यन्दिनानां प्राणादिष्वन्नस्याऽऽम्नाद्भवतु पञ्च- संख्या, काण्वानां त्वनाम्नानात् कथं पञ्चसंख्येत्यत आह- ज्योतिषैकेषामसत्यन्ने ॥ १३ ॥ एकेषां काण्वानामसत्यने तद्देवा ज्योतिषां ज्योतिरायुहो- पासतेऽमृतमिति पूर्ववाक्यस्थज्योतिषा पञ्चत्वं पूरणीयमित्यर्थः । तस्मादशब्दं प्रधानमिति सिद्धम् ॥ १३ ॥ (४ जगद्योनौब्रह्मण्येव सर्ववेदान्तवाक्यसमन्वयाधिकरणम्।सू०२) कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ॥१४॥ पूर्वाधिकरणत्रयेण प्रधानस्य अशब्दत्वप्रतिपादनेन जग- कारणत्वलक्षणंब्रह्मण्येवेति नातिव्याप्तमित्युक्त्याकारणविषयाणां वेदान्तानां ब्रह्मणि समन्वय उक्तः । स न सम्भवति । तेषां वेदान्तानां परस्परविरुद्धार्थप्रतिपादकत्वेन स्वार्थनिश्चायकत्वा- भावात् । अनुमानसिद्धप्रधानलक्षकत्वे उक्तसमन्वयासिद्धि- रित्याशङ्कानिरासार्थमिदमारभ्यते ॥ नचाविरोधार्थमधिकरणं नेह सङ्गतमिति वाच्यम् । समन्वयतो वाक्यार्थज्ञाने स्मृत्यादिमानान्तरविरोधाशङ्कानिरासस्याविरोधा- वेदान्तदर्शनम् । १ अध्याये ४ पादः । ध्यायार्थत्वादिह तु कारणविषयवाक्यानामेव मिथोविरोधान समन्वयो ब्रह्मणीत्याशा तन्निरासेनैव समन्वयस्य साध्यत्वा- दध्यायसङ्गतिसिद्धः । असत्पदस्य वाह्याभ्युपेताऽसत्परत्वनिरा- करणेन समन्वयस्थापनात्पादसङ्गतिर्बोध्या । पूर्व पञ्चत्वसंख्या- पूरणमन्नेन ज्योतिषा वेति विकल्पस्याऽविरोधेऽपि प्रकृते सिद्ध कारणात्मकवस्तुनि विकल्पायोगात् । विरोधे सत्यप्रामाण्यं वाक्यानामिति तनिरासाय प्रधानस्य कारणत्वमिति प्रत्युदाहरण- लक्षणाऽवान्तरसङ्गतिः। पूर्वोत्तरपक्षयोः समन्वयासिद्धिस्तत्सिद्धिः फलमिति विवेकः । अत्र जगत्कारणवादिवाक्यानि ब्रह्मणि मानं न वेति विशये, नेति प्राप्तम् । कस्मात् । परस्परविरोध- दर्शनात् । तथाहि । कचिदात्मन आकाशः संभूत इत्याकाश- पूर्विका सृष्टिः श्रूयते, कचिच्च, तत्तेजोऽसृजतेति तेज आदिका, कचित्तु, स प्राणमसृजतेति प्राणादिका, कचिदक्रमैव सृष्टिः श्रूयते । स इमाँल्लोकानसृजताम्भोमरीचीमरमाप इति । स ईक्षिता परमात्मा लोकानाह । अम्भ इति । अब्बहुलः पाताललोक आप इति । एवं सृष्टौ विगाने तत्कारण. त्वलक्षितब्रह्मणि विगानं साक्षादपि जगत्कारणे विगानं दृश्यते असद्वा इदमग्र आसीत्ततो वै सदजायतेत्यसतः कारणत्वं कचि- दवगम्यते । एवमसदेवेदमग्र आसीत्तत्सदासीत्तत् समभवदिति। वस्तुतोऽयमर्थः । इदं जगदग्रे प्रागवस्थायामसदिवाऽव्यक्तमासी- त् । ततोऽनभिव्यक्तनामरूपादव्यक्तात् कारणादभिव्यक्तनाम- रूपं जगज्जातम् । अव्यक्तमेव व्यक्तं भवतीति यावत् । तत्कारणं यदात्मना समभवत् तत्सदर्थक्रियोन्मुखमासीदिति । कचित्तु तटैक आहुरसदेवेदमन आसीदित्यसद्वादमुपन्यस्य कथमसतः सजायतेति तनिरस्य सतः कारणत्वमाह । सदेव सोम्येदमन HARRANI ब्रह्माऽमृतवर्षिणीसमाख्यवृत्तिसहितम् । आसीदिति । क्वचित् स्वकर्वकैव सृष्टिः श्रूयते । तद्धेदं तहव्या- कृतमासीत्तन्नामरूपाभ्यामेव व्याक्रियतेति । तदिदं जगत्तर्हि तदा प्रागवस्थायामव्याकृतं कारणमासीत्तत्कल्पितशब्दात्मना अर्थात्मना च व्याक्रियत व्यक्तमभवदित्यर्थः । एवं परस्पर- विरोधान्न ब्रह्मणि समन्वयो वाक्यानां, किन्त्वनुमानादिसिद्ध- प्रधानलक्षकत्वमिति प्राप्ते ब्रूमः । कार्यविषयं विगानमक्रमादि- प्रयुक्तं न वियदश्रुतेरित्यादिना परिहरिष्यत्याचार्यः । अत्र तु कारणविगानं परिहरति।चशब्दस्तुशब्दसमानार्थकः शङ्कानिरासं वक्ति । ब्रह्मणः कारणत्वे विरोधो नास्ति । कुतः १ ॥ यथा- व्यपदिष्टोक्तेः ॥ आकाशादिषु यथाभूत ईश्वरः कारणत्वेन व्यपदिष्ट एकस्मिन् वेदान्ते तथाभूतस्यैवाऽपरवेदान्तेऽप्युक्ते- रित्यर्थः ॥ १४ ॥ न च कचिदसतः कचित् सतः कचित् स्वभावादुत्पत्ति- श्रवणाद्विरोध इति वाच्यमित्याह सूत्रकारः- समाकर्षात् ॥ १५ ॥ असन्नेव स भवति असब्रह्मेति वेदचेदित्यसद्वादमपोद्य, अस्ति ब्रह्मतिचेद्वेदेति सदात्मानं निर्धार्य सोऽकामयतेति सतः सकाशात् सृष्टिमुक्त्वा तत्सत्यमित्याचक्षत इति सदात्मानमुपसं- हृत्य, तदप्येष श्लोको भवतीति प्रकृते सदात्मनि श्लोकमुदा- हरति । असदा इदमग्र आसीदिति । तथाचाऽसच्छब्देन सत एव समाकर्षान्नाऽसतः कारणत्वशङ्केत्यर्थः । यद्यस्मिन श्लोके निरात्मकमसदुच्यते, तत्तदाऽन्यसमाकर्षणेनाऽन्यस्योदाहरणात् प्रकृतासंबद्धः श्लोक आपद्येत । एवमसदेवेदमग्रासीदित्या- द्यपि तत्सदासीदिति समाकर्षादनभिव्यक्तनामरूपमसच्छब्दं ब्रह्मैव । एवं तद्धेदं तह्मव्याकृतमासीत् तन्नामरूपाभ्यामेव व्या- ।
वेदान्तदर्शनम् । १ अध्याये ४ पादः। क्रियतेत्यत्रापि, स एष इह प्रविष्ट आनखाग्रेभ्य इति प्रकृतपरा- मर्शिना स इत्यनेनात्मनः समाकर्षणाद्, न स्वभावादेव जगदु- त्पत्तिः । व्याक्रियतेति कर्मण एव कर्तृत्वबोधकलकारो, लूयते केदारः स्वयमेवेतिवत् सत्यपि पृथकर्तरि न विरुद्ध्यते । यद्वा कर्मण्येवाऽयं लकारो, गम्यते ग्राम इत्यादिवद्रष्टव्यः । एवं ब्रह्मणः कारणत्वे न कश्चिद्विरोधः। नापि सृष्टिविरोधात्तत्कारणे ब्रह्मणि विरोधः । सृष्टिवाक्यानां निष्प्रपञ्चब्रह्मपरत्वेन सृष्टौ तात्पर्याऽभावात् ॥ श्रुतिरपि निष्फलसृष्टेः फलवब्रह्मपतिपत्त्यर्थत्वं दर्शयति । अन्नेन सोम्य शुङ्गेनापो मूलमन्विच्छाद्भिः सोभ्य शुङ्गेन तेजोमूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छे- ति । शुङ्ग कार्य सन्मूलं ब्रह्म । तस्मान केनाऽपि विगानमिति जगत्कारणवाक्यानां ब्रह्मणि समन्वयः सिद्धः॥ १५ ॥ (५ परमात्मन एव जगत्कर्तृत्वाधिकरणम् । सू० ३) जगद्वाचित्वात् ॥ १६ ॥ एवं हि गार्याख्यऋषिणा बालाकिना अजातशत्रुनामकस्य राज्ञः संवादः श्रूयते कौशीतकीब्राह्मणे। बालाकिरजाशत्रुणा ब्रह्म- ज्ञेन ब्रह्मणि संवदितुंब्रह्म ते ब्रवाणीत्युपक्रम्याऽऽदित्यादिपुरुषा- जीवानुत्का तूष्णीं बभूव । तमजातशत्रुर्मषावादितयाऽपोध शिष्यभूताय गााय ब्रह्मोपदेशार्थमिदमाह । यो वै बालाके एतेषां पुरुषाणां कर्ता, यस्य वैतत् कर्म स वै वेदितव्य इति । अस्यार्थः । हे बालाके, त्वया ये पुरुषा आदित्यादिगता ब्रह्म- त्वेनोक्तास्तेषां न केवलं जगदेकदेशपुरुषः कर्ता अपि तु सर्व- स्यैव जगत इत्याह । यस्येति । कर्मपदं जगद्वाचि।एवं सामान्य- विशेषाभ्यां जगत्कर्ता ततो निष्कृष्टो ज्ञेय इत्याह । स इति । एवमस्य संगतिः।पूर्व सच्छब्दात्तदेकवाक्यस्थाऽसच्छब्दो नीतः।
१४६ ब्रह्माऽमृतवर्षिणीसमाख्यवृत्तिसहितम् । इह तु बालाकिवाक्यस्थब्रह्मशब्दादजातशत्रुवाक्यस्थकर्मशब्दो न शक्यते तदनुगुणतया नेतुं, वाक्यभेदादिति प्रत्युदाहरणम् । यद्वा वाक्याभेदेऽपि यथोत्तरसच्छब्दात् प्राचीनाऽसच्छब्दो नीत- स्तथोत्तरकर्मशब्दात्तदनुगुणतया ब्रह्मशब्दनयनमिति दृष्टान्त- संगतिः । उक्तवाक्यसमन्वयाऽसिद्धिस्तत्सिद्धिः पूर्वोत्तरपक्षयोः फलं बोध्यम् । एवं स्थिते संशयः। किमत्र पुरुषाणां कर्ता वेदि- तव्यः प्राणः, उत जीवः, आहोस्वित् परमात्मेति । प्राण इति तावत् प्राप्तम् । कुतः । यस्य वैतत्कर्मेति चलनात्मकस्य कर्मणो वाय्वात्मकप्राणस्यैव संभवात् । वाक्यशेषे चापि, अस्मिन् प्राण एवैकया भवतीतिप्राणशब्दश्रवणाज्जीवो वा तल्लिङ्गस्यापि वाक्य- शेषे दर्शनात् । तद्यथा श्रेष्ठी स्वैर्भुङ्क्ते, यथा वा स्वाः श्रेष्ठिनं भुञ्ज- ते, एवमेवैष प्रज्ञात्मा तैरात्माभिर्भुङ्क्ते एवमेवैत आत्मानं भुञ्ज- न्तीति । अयमर्थः । श्रेष्ठी प्रधानः पुरुषः स्वैर्भूत्यैरुपकरणैर्भुते, भृत्या अप्यशनाच्छादनादिना प्रधानमुपजीवन्ति । एवं जीवो- ऽप्यादित्यादिभिःप्रकाशादिना भोगोपकरणैर्भुते,मृत्यवदादित्या- दयोऽपि देवा जीवं हविग्रहणादुपजीवन्तीति प्राणभृत्वाज्जीव- स्यैव भोग उपपन्नः । तस्माज्जीवमुख्यप्राणाऽन्यतरसमन्वितमिदं वाक्यमिति प्राप्ते, ब्रूमः । अत्र वेदितव्यः पुरुषाणां कर्ता पर- मात्मैव । तथाहि।ब्रह्म ते ब्रवाणीत्युपक्रम्य बालाकिनाऽऽदित्या- धमुख्यात्ममुक्तेषु सत्सु तममुख्यात्मवादितयापोद्याजातशत्रुणा वेदितव्यतयोपदिष्टः पुरुषः कर्ता जीवो, मुख्यप्राणो वा न हि भवितुमर्हति । तथात्वे गाग्र्यापेक्षयाऽजातशत्रोरविशेषप्रसङ्गा- त् । पुरुषकर्तृत्वं च परमात्मनोऽन्यत्राञ्जसा न संभवत्येव । नच कर्मशब्दाऽनुपपत्तिः । क्रियत इति व्युत्पत्त्या कर्मशब्दस्य जग- द्वाचित्वात् प्रत्यक्षायुपस्थितं जगदेतदिति सर्वनाम्ना परामृशति।
वेदान्तदर्शनम् । १ अध्याये ४ पादः । न च जगदन्तर्भूतपुरुषकर्तृत्वं पृथग् न वक्तव्यमिति युक्तम् । गार्येण ब्रह्मत्वेनोक्तपुरुषाणाम् अब्रह्मत्वद्योतनाय गोवलीवर्द- न्यायेन पृथगुक्तिसम्भवादिति ॥ १६ ॥ जीवमुख्यप्राणलिङ्गान्नेति चेत्तद् व्याख्यातम् ॥ १७ ॥ ननु जीवलिङ्गान्मुख्यप्राणलिङ्गाच्च न ब्रह्मपरत्वाऽवधारण- मितिचेत् तद् व्याख्यातं प्रतर्दनाधिकरणे, उपासात्रैविध्या- दाश्रितत्वादिह तद्योगादित्यत्र । अविरुद्धतया जीवमुख्यमाण- लिङ्गं ब्रह्मपरं व्याख्यातमित्यर्थः । जीवप्राणपरत्वेऽभ्युपगम्य- माने ब्रह्मपरत्वस्याप्यावश्यकत्वाद्वाक्यत्रैविध्यं स्यादित्येष दोष- स्तत्रोक्तः प्रकृतेऽपि समान इति भावः । प्रतर्दनविचारे कर्मपद- स्या विचारादगतार्थता द्रष्टव्या ॥ १७ ॥ अन्यार्थ त जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ॥ १८ ॥ जैमिनिराचार्योऽस्मिन् प्रकरणे जीवपरामर्शमन्याथ ब्रह्म- प्रतिपत्त्यर्थं यतो मन्यते अतो ब्रह्मपरमेवेदं वाक्यम् । कुतो मन्य- ते ॥ प्रश्नव्याख्यानाभ्याम् ॥ आत्मजिज्ञातुं वालाकिमादाया- ऽजातशत्रुः सुप्तपुरुषसमीपं गत्वा, हे सोमराजन् इति सुप्तमाहू- याहानशब्दाऽश्रवणात् प्राणादीनामभोक्तृत्वं प्रतिपाद्य यष्टिया- तोत्थापनेन प्राणादिव्यतिरिक्ते जीवे प्रतिबोधिते पुनर्जीवाऽति- रिक्ताधिकरणभवनाऽपादानविषयान् प्रश्नान् स्वयमेव चकार। कैष एतद् बालाके पुरुषोऽशयिष्ट क वा एतदभूत् कुत एतदा- गादिति । अयमर्थः । भो बालाके, शयनमेतद्यथा स्यात्तथैष पुरुषः कस्मिन्नधिकरणे स्वापे शयनं कृतवानित्याधिकरणप्रश्ना- ऽर्थः । एतद्भवनमेकीभावो यथा स्यात्तथा क्वाश्रये सुप्तोऽभूदिति ब्रह्माऽमृतवर्षिणीसमाख्यवृत्तिसहितम् । भवनायतनप्रश्नार्थः । शयनभवनयोराधारं पृष्ट्वा उत्थानाव- स्थायामागमनाऽपादानं पृच्छति । कुत इति । एतदागमनं यथा स्यात्तथा कस्मादुद्दोधावस्थायामागात् । उत्थानं कृतवानित्य- ऽर्थः । एतत्पश्नोत्तरदानाऽसमर्थ वालाकिं मत्वा स्वयमेवोत्तर- माह । यथा सुप्तः सुप्तं न कञ्चन पश्यत्यथास्मिन् प्राण एवैकया भवतीत्यादिना शयनभवनयोराधार उत्थानापादानं च प्राण- शब्दवाच्यः परमात्मैवेत्युत्तरार्थः । तस्माद्यस्मिञ्जीवस्य भोक्तुः शयनभवने, यस्माचोत्थानमेकीभावभ्रंशरूपं सोऽत्र परमात्मा वेदितव्यतयोपदिष्टः पुरुषकर्ता ॥ अपि चैवमेके ॥ वाजसनेयिनो बालाक्यजातशत्रुसंवादे एवं स्पष्टं विज्ञानमयं जीवं तद्यतिरिक्तं परमात्मानमामनन्ति । य एष विज्ञानमयः पुरुषः कैष तदाऽभूत् कुत एतदागादिति प्रश्ने । य एषोऽन्तहृदय आकाश- शस्तस्मिञ्च्छेते इत्युत्तरे च आकाशः परमात्मेति दहराधिकरणे निर्णीतम् । तस्मात् पुरुषकर्तरि वेदितव्ये परमात्मनि कौशीतकी- ब्राह्मणवाक्यं समन्वितमिति सिद्धम् ।। १८ ।। (६ परमात्मन एव दर्शनयोग्यात्मत्वाधिकरणम् । सू०४) वाक्यान्वयात् ॥ १९ ॥ पूर्व ब्रह्मोपक्रयसामर्थ्यानपरत्वमुक्तम् । तर्हि तदेव मैत्रेयीब्रह्मणवाक्यस्य जीवोपक्रमसामर्थ्याजीवपरत्वमस्त्विति दृष्टान्तसंगतिः । फलं पूर्ववत् । बृहदारण्यके श्रूयते । स होवाच न वाऽरे पत्युः कामाय पतिः प्रियो भवतीत्युपक्रम्य पतिजाया- पुत्रपशुवित्तादिप्रपञ्चस्याऽऽत्मार्थत्वेन पियत्वमुक्त्वाऽनन्यार्थ- तया निरुपाधिनियत्वेनाऽनतिशयानन्दात्मनो ज्ञातव्यतामाह याज्ञवल्क्यः । आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदि- ध्यासितव्यो, मैत्रेय्यात्मनो वा अरे दर्शनेन श्रवणेन मत्या PASETTOMATINEERINJALITARYANANEE REAMSTONARAINS वेदान्तदर्शनम् । १ अध्याये ४ पादः । विज्ञानेनेदं सर्व विदितमिति । अत्र संशयः । किं जीवोत्र द्रष्ट- व्यत्वादिरूपेणोपदिश्यते, किंवा परमात्मेति । तत्र जीव इति प्राप्तम् । कुतः। पतिजायादिभोग्यजातवतो भोक्तुरुपक्रमान्मध्ये- ऽपीदं महद् भूतमनन्तमपारं विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञास्तीति प्रकृतस्य द्रष्टव्यस्य भूतेभ्यः समुत्थानं जीवरूपेण वदञ्जीवस्य द्रष्टव्यत्वं दर्शयति । श्रुत्यर्थस्तु, इदं प्रत्यग्रूपं महत् अनवच्छिन्नं भूतं सत्यम् अनन्तं नित्यम् अपारं सर्वगतम् । विज्ञानघनो ज्ञानक- तानः । जात्यन्तराऽसंमिश्रार्थत्वमेवकारार्थः। स चैतेभ्यः कार्य- कारणाकारेण परिणतेभ्योऽविद्याभूतेभ्यः साम्येनोत्थाय जीव- त्वमनुभूय । तान्येव भूतानि ज्ञानाद्विनश्यन्ति सन्त्यनु पश्चाद्विन- श्यति जीवत्वं त्यजति । न हि तत्त्यागानन्तरमस्य रूपादिविशेष- ज्ञानमस्तीति । तस्माज्जीव इति प्राप्ते, ब्रूमः । परमात्मैवाऽत्र द्रष्टव्यतयोपदिष्ट आत्मा । कुतः । वाक्यान्वयात् । उपक्रमादि- पर्यालोचनया वाक्यस्य ब्रह्मण्येवाऽन्वयादित्यर्थः । तथाहि । अमृतत्वस्य तु नाऽशास्ति वित्तेनोति वित्तसाध्येन कर्मणा मोक्ष प्रत्याशा नास्तीति याज्ञवल्क्यादुपश्रुत्य मैत्रेयी मोक्षमाशासाना तत्साधनं पृच्छति । येनाऽहं नाऽमृता स्यां किमहं तेन कुर्या, यदेव भगवान् वेत्थ तदेव मे बहीति । यदमृतसाधनं वेत्थ तदेव मे बहीत्यर्थः । एवं पृष्टो याज्ञवल्क्य इदमात्मज्ञानमुपदिशति, आत्मा वा अरे द्रष्टव्य इत्यादिना । न हि जीवज्ञानान्मोक्ष इति कश्चिदभ्युपैति । अतो द्रष्टव्यः परमात्मा । तथा आत्मनो वा अरे दर्शनेनेति यदात्मज्ञानात् सर्वज्ञानं प्रतिज्ञातं, तद् दुन्दुभ्या- दिदृष्टान्तैः साधयन् अस्य परमात्मत्वं गमयति । स यथा दुन्दुभे- ईन्यमानस्य नाबाह्यान् शब्दाञ्च्छक्नुयादित्यादिना दुन्दुभि- ।
ब्रह्माऽमृतवर्षिणीसमाख्यवृत्तिसहितम् । शङ्खवीणाशब्दा दृष्टान्तत्वेनोक्तास्तस्यायमर्थः । दुन्दुभिशङ्ख- वीणापदैस्तजन्यसामान्यशब्दा लक्ष्यन्ते । तथाच यथा दुन्दुभ्या- दिशब्दसामान्याद् दुन्दुभ्यादिशब्दविशेषा भेदेनाऽगृह्यमाणाः शुक्तिग्रहग्राह्यरजतवत्तत्र कल्पितास्तद्ग्रहणे गृहीता भवन्ति, तथा चिद्रूपस्फुरणं विना स्थितिकाले स्फुरणशून्यं जगत्तत्र क- ल्पितं तद्ब्रहणेन गृहीतं भवतीति ततो नाऽतिरिच्यत इति । तथा एतावदरे खल्वमृतत्वमित्युपसंहारदर्शनाचाऽत्र द्रष्टव्य आत्मा परमात्मैवेति ॥ १९॥ ननु पतिजायादिभोग्यजातेन लिङ्गेन जीवोपक्रमः प्रतीयते, स कथमित्यत आह-- प्रतिज्ञासिहोर्लिङ्गमाश्मरथ्यः ॥२०॥ जीवब्रह्मणोहि कार्यकारणयोर्भेदाऽभेदौ वर्तेते । अत्यन्त. भेदे एकविज्ञानप्रतिज्ञाविरोधप्रसङ्गात् । तथाच तत्प्रतिज्ञासिद्धे- रिदमभेदांशमादाय जीवोपक्रमणलिङ्गमित्याश्मरथ्य आचार्यो मन्यते ॥ २० ॥ जीवस्य कार्यत्वमभेदसमानसत्ताकभेदवत्वं चाऽसहमानः समाधानान्तरमाह- उत्क्रमिष्यत एवम्भावादित्यौडुलोमिः ॥ २१ ॥ संसारदशायामत्यन्तं भिन्नस्य जीवस्य ब्रह्मात्मत्वसाक्षा- त्कारात् कार्यकारणसंघातादुत्क्रमिष्यत एवम्भावात् परमात्मनै- कीभावाद्भविष्यदभेदमादाय जीवोपक्रम इत्यौडुलोमिराचार्यों मन्यते ॥ २१ ॥ नन्विदमप्यसंगतं, सत्यकार्यकारणसंघातवतः संसारिणो- ऽत्यन्तं भिन्नस्य मुक्तिदशायामभेदाऽयोगादित्यरुच्या परमं समा- वेदान्तदर्शनम् । १ अध्याये ४ पादः । parva । धानमाह अवस्थितेरिति काशकृत्स्नः ॥ २२ ॥ ब्रह्मण एवाऽविद्याकल्पितभेदेन जीवरूपेण अवस्थिते. जीवोपक्रमाऽविरोधं काशकृत्स्न आचार्यः श्रुतेस्तात्पर्यज्ञो मन्यते । अत एव विज्ञानात्मभावेन ब्रह्मणो भूतेभ्यः समुत्थानं जीव- लिङ्गत्वेन प्रागुपन्यस्तं न विरुद्ध्यते । अभेदादेव । तस्माद् द्रष्टव्ये परब्रह्मणि मैत्रेयीब्राह्मणवाक्यं समन्वितमिति सिद्धम् ॥ २२ ॥ (७ ब्रह्मण एवोपादाननिमित्तकारणत्वाधिकरणम् । सू०५) प्रकृतिश्च प्रतिज्ञादृष्टान्ताऽनुपरोधात् ॥ २३ ॥ जन्माद्यस्य यत इति सूत्रे यद् ब्रह्मणो जगत्कारणत्वमुक्तं, तदत्र विचार्यते । यद्यपि जन्मादिनयानन्तर्यमेतस्य युक्तं, तथा- ऽपिनिर्णीततात्पर्यैर्वेदान्तैर्निमित्तत्वमात्रसाधकानुमितेर्विरोधोक्तिः मुकरेति समन्वयावसाने लिखितमिदमधिकरणमिति बोध्यम् । न च जन्मायधिकरणवैयर्थ्यम् । निर्विषयसमन्वयसाधना- ऽसंभवेन जगत्कारणात्मकविषयमात्रस्य तत्रोक्तत्वात् । उपा- दानत्वं त्वेतदधिकरणसिद्धं तत्रोक्तमिति न कश्चिद्दोषः।जन्मादि- नयस्य अध्यायादिसंगतत्वाद् अस्यापि तद्विचारात्मकस्या- ऽस्त्यध्यायादिसंगतिः। पूर्वपक्षे एकविज्ञानात् सर्वविज्ञानप्रतिज्ञा- गौणत्वं, सिद्धान्ते तन्मुख्यत्वमिति फलभेदः। अत्र संशयः। किं ब्रह्मणि जगन्निमित्तत्वमात्रमुतोपादानत्वमपीति । तत्र, तदैक्षत बहु स्यांप्रजायेयेत्यादिना सर्वत्रेक्षापूर्वककर्तृत्वश्रवणात् कुलाल- वन्निमित्तत्वमात्रमिति प्राप्ते ब्रूमः । प्रकृतिश्च ब्रह्म । चकारानि- मित्तत्वमपि । कुतः।।प्रतिज्ञादृष्टान्ताऽनुपरोधात् ॥ प्रतिज्ञादृष्टान्त- योः सामञ्जस्यादित्यर्थः । प्रतिज्ञा हि, येनाऽश्रुतं श्रुतं भव- ।
ब्रह्माऽमृतवर्षिणीसमाख्यवृत्तिसहितम् ।
त्यमतं मतमविज्ञातं विज्ञातमिति। अस्यां च प्रतिज्ञायाम्, आत्म-
ज्ञानेन सर्वविज्ञानमुच्यमानमात्मन उपादानत्वं गमयति । नि-
मित्तत्वे तदसंभवात् । न हि कुलाले ज्ञाते घटादिकं ज्ञातमिति
शक्यते वक्तुम् । उपादानत्वे तु तयोरुपादानोपादेययोरव्यतिरे-
कायुक्तं तज्ज्ञाने तज्ज्ञानम् । दृष्टान्तोऽपि यथा सौम्यैकेन
मृत्पिडन सर्व मृन्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं
मृत्तिकेत्येव सत्यमित्युपादानविषय एव दृश्यते । विकारो वागा-
लम्बनमानं वस्तुतोऽसन्निति यावत् । तदेव साधयति ॥ नाम-
धेयमिति । शून्यशेषं निषेधयति । मृत्तिकोति । निमित्तत्वमपि
प्रतिज्ञादृष्टान्ताऽनुपरोधादेव बोध्यम् । निमित्तस्योपादानाद्भेदे
प्रतिज्ञादृष्टान्तयोरसामञ्जस्यं स्यात् । तथा बृहदारण्यकेऽपि
प्रतिज्ञादृष्टान्तौ दृश्यते । आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं
सर्व विदितमिति प्रतिज्ञाय, स यथा दुन्दुभेर्हन्यमानस्य न बाह्या-
ञ्च्छब्दाञ्च्छक्नुयाद् ग्रहणाय, दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघात-
स्य वा शब्दो गृहीत इति दृष्टान्तः । घटायधिष्ठानतयाऽनुगतो
यः प्रकाशः स उपादानमित्यत्र स दृष्टान्तो यथा तथोच्यते ।
बाह्यान् दुन्दुभिशब्दसामान्यवहिर्भूतान् दुन्दुभेस्तच्छब्दसामान्य-
स्येत्यर्थः । तथाच हन्यमानदुन्दुभिजन्यस्य शब्दसामान्य-
स्य ग्रहणमन्तरेण कश्चित् पुमान् दुन्दुभिशब्दसामान्यबहिर्भू-
ताञ्च्छब्दविशेषान् ग्रहणाय ग्रहीतुं न शक्नुयादिति व्यतिरेकः।
अन्वयोऽपि दुन्दुभिशब्दसामान्यस्य ग्रहणेन दुन्दुभ्याघातसंज्ञको
विशेषशब्दो गृहीतो भवति । दुन्दुभ्याघातस्य वीररसाभि-
व्यञ्जकस्य विशेषशब्दस्य ग्रहणात्तदवान्तरशब्दविशेषो गृहीतो
भवतीत्यर्थः ॥ २३॥
अभिध्योपदेशाच्च ॥ २४ ॥
.. वेदान्तदर्शनम् । १ अध्याये ४ पादः । इतश्चात्मनः कर्तृत्वप्रकृतित्वे । कुतः । अभिध्योपदेशात् ॥ ध्यानोपदेशादित्यर्थः । सोऽकामयतेति ध्यानोपदेशात् कर्तृत्वं, बहु स्यामिति ध्यानोपदेशात् प्रकृतित्वमिति ॥ २४ ॥ साक्षाच्चोभयाम्नानात् ॥ २५ ॥ प्रकृतित्वे हेत्वन्तरमिदम् । सर्वाणि ह वा इमानि भूतानि आकाशदेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यन्तीत्याकाशशब्देन साक्षाद् ब्रह्म गृहीत्वा जगदुत्पत्तिमलययोरुभयोराम्नाद् ब्रह्म प्रकृतिरित्यर्थः । यस्मिन्नुत्पत्तिप्रलयौ यस्य कार्यस्य तत्कार्य प्रति तदुपादानं यथा घटस्य मृदिति व्याप्तेरिति भावः ॥ २५ ॥ आत्मकृतेः परिणामात् ॥ २६ ॥ लोके हि कृतिमान् कर्ता कृतिविषयो मृदादिरुपादानमिति व्यवस्था । प्रकृते चाऽऽत्मनः कृतिमत्त्वं कृतिविषयत्वं च श्रूयते । तदात्मानं स्वयमकुरुतेति । आत्मानमिति द्वितीयया कृतिविषयत्वं, स्वयमित्यनेन कृतिमत्त्वम् । तथाच ब्रह्म निमित्त- मुपादानं च । कुतः । आत्मकृतेः ॥ आत्मसम्बन्धिनी कृति- रात्मकृतिः । सम्बन्धो विषयविषयिभावः, आधाराधेयभावश्च । ततो हेतोरित्यर्थः । नन्वात्मनः कर्तृत्वेन पूर्वसिद्धस्य कथं कृति- कर्मत्वमत आह ॥ परिणामादिति ॥ परिणामो विवर्तः, सिद्ध- स्यापि विवर्तात्मना साध्यत्वात् कर्मत्वोपपत्तिरित्यर्थः ।। यद्वा, परिणामादिति पृथक् सूत्रम् । इतश्च प्रकृतिब्रह्म। कुतः १ ॥ परिणामात् ।। सच त्यचाऽभवदित्यादिना परिणाम- सामानाधिकरण्येन आत्मनः श्रवणादित्यर्थः । मृद् घट इति प्रकृतिविकारयोः सामानाधिकरण्यं दृष्टमिति भावः ॥ २६ ॥ योनिश्च हि गीयते ॥ २७ ॥ २० ब्रह्माऽमृतवर्षिणीसमाख्यवृत्तिसहितम् । यद् भूतयौनि परिपश्यन्ति धीराः। कर्तारमीशं पुरुषं ब्रह्म- योनिमिति च प्रकृतिवाचकयोनिशब्देनात्मा यतो गीयते । अतश्च प्रकृतिब्रह्मेत्यर्थः । तस्माद् ब्रह्मणः प्रकृतित्वं कर्तृत्वं चेति सिद्धम् ॥ २७॥ (८ ब्रह्मण एव जगत्कारणत्वेऽन्याऽसंभवाधिकरणम् । सू०१) एतेन सर्वे व्याख्याता व्याख्याताः ॥ २८ ॥ एतावता ग्रन्थेन,ईलते ऽशब्दमित्यादिना अशब्दत्वादिभि- हेतुभिः प्रधानकारणवादो निराकृतः । न पुनरणुस्वभावाऽस- कारणवादास्तेषामपि कारणत्वबोधकश्रुतयो दृश्यन्ते । तथाहि छान्दोग्ये श्वेतकेतुं प्रत्युद्दालकः सूक्ष्मवस्तुनि स्थूलस्यान्तर्भावं प्रतिपिपादयिषुराहान्यग्रोधफलमत आहरेतीदं भगव इति,भिन्धी- ति भिन्नं भगव इति । किमत्र पश्यसीत्यण्व्य इवेमा धाना भगव इत्यासामङ्गैकां भिन्धीति । भिन्ना भगव इति । किमत्र पश्यसीति । न किञ्चन भगव इति । एतस्यैव सोम्यैषोऽणिम्न एवं महान् न्यग्रोधस्तिष्ठतीति जगतः प्रागवस्थायां दृष्टान्तः श्रूयते । तत्र, न किञ्चनाऽणुशब्दश्रवणाच्छ्न्यस्वभावाऽणुकारण- वादा दान्तिकत्वेन प्रतीयन्ते । तथा, असदेवेदमग्र आसीत्, तन्नामरूपाभ्यामेव व्याक्रियतेत्यादौ असत्स्वभाववादौ प्रतीये- ते । तासां श्रुतीनां तेषु वादेषु तात्पर्यमस्ति न वेति संशये, अस्तीति प्राप्ते, अतिदिशति ॥ एतेनेति ॥ एतेन प्रधानकारण- वादनिराकरणेन ये हेतवोऽशब्दत्वाचेतनत्वैकविज्ञानप्रतिज्ञाऽनु- पपत्त्यादयस्तेषामण्वादिपक्षेऽपि साम्येन, सर्वेऽण्वादिकारण- वादा निराकृतत्वेन व्याख्याताः । न च, न किञ्चनादिशब्दवि- रोधः। अनभिव्यक्तनामरूपपरत्वेनाऽविरोधात् । सूक्ष्मत्वाच्चा- ऽऽत्मन्यणुशब्दो गौणः स्वभाववादस्तु पूर्व समाहितः।अभ्यासो-
वेदान्तदर्शनम् । १ अध्याये ४ पादः।
ऽध्यायपरिसमाप्तिं द्योतयति । तस्माज्जगत्कारणे सर्वज्ञे जिज्ञास्ये-
वेदान्तानां समन्वयो, नान्यत्रेति सिद्धम् ।। २८॥
समन्वये स्पष्टलिङ्गमस्पष्टत्वेऽप्युपास्यगम् ।।
ज्ञेयगं पदमात्रं च चिन्त्यं पादेष्वनुक्रमादिति ॥ १ ॥
इति श्रीपरमहंसपरिव्राजकाचार्यश्रीमन्मुकुन्दगोविन्दश्रीचरण-
शिक्षितश्रीरामकिङ्करवर्यकृतौ ब्रह्मसूत्रवृत्तौ ब्रह्माऽमृत-
वर्षिण्यांप्रथमस्याऽध्यायस्य चतुर्थः पादः॥१॥४॥
प्रथमाध्यायश्च समाप्तः॥१॥ सूत्राणि ॥ १३४ ॥
१५६ ब्रह्माऽमृतवर्षिणीसमाख्यवृत्तिसहितम् । द्वितीयाध्यायस्य प्रथमः पादः ॥२॥१॥ अतिदेशाधिकरणे प्रधानवदऽशब्दत्वं परमाण्वादीनामपी- त्युक्तम् । सम्पति प्रधानस्य वैदिकशब्दवाच्यत्वाऽभावेऽपि स्मृतिरूपशब्दवत्त्वमाशा परिहरति- (१ सांख्यस्मृतेर्बाध्यत्वाधिकरणम् । सूत्रे २) स्मृत्यनवकाशदोषप्रसङ्ग इतिचेन्नाऽन्यस्मृत्य- ऽनवकाशदोषप्रसङ्गात् ॥१॥ प्रथमाध्याये सर्वज्ञे सर्वशक्तौ जगजन्मादिकारणे सर्वेषां वेदान्तानां समन्वयः प्रतिपादितः। अशब्दत्वादिहेतुभिः प्रधाना- दिकारणवादाश्च निराकृताः । इदानी द्वितीयाध्याये प्रथम- पादे सांख्यादिस्मृतितर्काभ्यां स्वपक्षे विरोधः परिहियते । द्वितीयपादे सांख्यादिमतानां दुष्टत्वं प्रतिपाद्यते । तृतीयपादे आद्यभागेन पञ्चमहाभूतश्रुतीनां परस्परं विरोधः परिहियते, द्वितीयभागेन जीवश्रुतीनाम् । चतुर्थपादे लिङ्गशरीरश्रुतीनां पर- स्परं विरोधपरिहार इत्येतदर्थमयमध्याय आरभ्यते। तदुक्तम्- द्वितीये स्मृतितर्काभ्यामविरोधोऽन्यदुष्टता । भूतभोक्तृश्रुतेर्लिङ्गश्रुतेरप्यविरुद्धतेति ॥ उक्तसमन्वयस्य स्मृत्यादिविरोधे तनिरसनमनेन क्रियते इत्यनयोरध्याययोर्विषयविषयिभावः संबन्धः । निर्विषयक-वि- रोधपरिहाराऽयोगाद्विषयभूतसमन्वयस्याऽऽदौ विचारः कृतः। विषयिभूतविरोधपरिहार इदानीं क्रियते इति युक्तमेतस्याध्याय- स्य पूर्वाध्यायाऽऽनन्तर्यम् । श्रौतसमन्वये विरोधपरिहारत्वादस्य पादस्य श्रुत्यध्यायसङ्गतिः । सर्वत्र पूर्वोत्तरपक्षयोर्विरोधाविरोधौ फलमिति विवेकः । तत्र प्रथम स्मृतिविरोधपरिहारः । अत्र वेदान्तदर्शनम् । २ अध्याये १ पादः । । संशयः । उक्तसमन्वयः किं सांख्यादिस्मृत्या विरुद्धयते, न वेति । विरुद्धयत इति प्राप्तम् । कुतः । सर्वज्ञकपिलादिप्रणीत- त्वेन प्रामाण्यात् । श्रुतिरपि कपिलमुनिमप्रतिहतज्ञानं दर्शयति- ऋषि प्रसूतं कपिलं यस्तमग्रे ज्ञानविभर्ति जायमानं च पश्येदिति। यस्तावदने सर्गादौ जायमानं कपिलनामानम् ऋषि स्थितिकाले च प्रसूतं भूतभविष्यद्वर्तमानविषयकज्ञानैर्बिभर्ति पुष्णाति, त- मीश्वरं पश्यदिति योजना । तस्मान्न ब्रह्मणि कारणे समन्वयः। महर्षिप्रणीतप्रधानकारणवादादिस्मृतीनामनवकाशरूपदोषप्रसङ्गा- त् । न च जगत्कारणे सिद्धे वस्तुनि विकल्पो युज्यते । तस्मात् प्रधानाऽनुगुणतया श्रुतयो नेया इति, चेदित्यन्तसूत्राऽवयवार्थः। परिहरति॥नेति ॥ कुतः।। अन्यस्मृत्यनवकाशरूपदोषणसङ्गात् ।। तथाहि । चेतनं प्रकृत्य, तस्मादव्यक्तमुत्पन्न त्रिगुणं द्विजसत्तमे- ति स्मृतिरव्याकृतनामरूपप्रपञ्चस्य ब्रह्मजन्यत्वमाह । तथा भगवद्गीतास्वपि, अहं सर्वस्य जगतः प्रभवः प्रलयस्तथा इति चेतनकारणत्वं स्मर्यते । तथाच प्रधानकरणवादे एतत्स्मृतीनाम- ऽनवकाशो दोषः प्रसज्ज्येत । अतः स्मृतिद्वयविरोधे श्रुत्यविरुद्धा स्मृति प्रमाणमित्यप्रमाणसांख्यस्मृत्या, न विरोधः । श्रुतिश्चैत- तदन्यकपिलविषया कपिलैक्ये प्रमाणाऽभावादिति ॥१॥ इतश्च सांख्यस्मृतेरनवकाशो न दोष इत्याह- इतरेषां चाऽनुपलब्धेः ॥ २ ॥ सांख्यस्मृतिप्रसिद्धानां प्रधानादितरेषां महदहङ्कारादीनां तत्त्वानां लोके वेदे चाऽनुपलब्धेश्च सांख्यस्मृतेरप्रामाण्यं नदोषः। तथाच तदेकदेशप्रधानस्मृतेरप्यपमाण्यमिति भावः ॥ २॥ (२ योगस्मृतेर्बाध्यत्वाधिकरणम् । सूत्रम् १) एतेन योगः प्रत्युक्तः ॥ ३ ॥ Hamansi ब्रह्माऽमृतवर्षिणीसमाख्यवृत्तिसहितम् । आतिदेशत्वान्न पृथक्संगत्याद्यपेक्षा । योगास्तावत् सेश्वरा इत्येतावान् कपिलमताद्विशेषः । प्रधानादिप्रक्रिया समैव । तथाच कापिलमतनिरासादेव पातञ्जलमतं निरस्तं भवतीत्यर्थः । नचा- तिदेशवैयर्थ्यम् । ज्ञानसाधनत्वेन श्रुतिसिद्धयोगपतिपादकत्वेन प्रामाण्याशङ्कायामतिदेशसार्थक्यात्। तर्हि अप्रामाण्ये, कथं तस्मा- द्योगः प्रमेतिचेद्, उच्यते । तात्पर्यविषयभूतार्थे अप्रामाण्यं हि शास्त्रस्याप्रमाण्यमावहति, यथा कापिलस्मृतेः । न हि योगस्मृतेः प्रधानादौ तात्पर्य येनाऽप्रामाण्यं भवेत्, किन्तु योग एव । स- चाबाधितः । श्रुतिसिद्धत्वात् । किञ्चिदालम्ब्य योगः प्रतिपाद- नीय इति परमतसिद्धप्रधानादिकमालम्बनत्वेन गृहितम् । तत्रापि प्रामाण्याशङ्कायामतिदेश इत्यविरोधः । एवं यदंशे सांख्यस्मृतेर- विरोधस्तदंशे प्रामाण्यमिति, अधिकरणद्वयस्य तात्पर्यम् । योग- स्य कथं श्रौतत्वमितिचेद्वक्ष्यामः । श्वेताश्वतरमन्त्रोपनिषदि, त्रिरुन्नतं स्थाप्य समं शरीरमित्यादिना योगप्रपञ्चं कृतम् । त्रीणि कायग्रीवशिरांसि उन्नतानि यस्मिस्तच्छरीरं समं स्थाप्य युञ्जीतेति योजना । तथा काठकेऽपि, तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणामिति । विद्यामेतां योगविधि च कृत्स्नमि ति । इन्द्रियाणां स्थिरामैकाग्यलक्षणां धारणां योगविदो योगं मन्यन्ते । यथोक्तमैकाग्यमेव परं तप इति वक्तुमिति शब्दः। एतां ब्रह्मविद्यां योगप्रकारं च सर्वे मृत्योः सकाशानचिकेता लब्ध्वा ब्रह्म प्राप्तोऽभूदित्यर्थः ॥३॥ (३ वैलक्षण्याभासस्य जगत्कारणत्वाऽबाधकत्वाधिकरणम् । सू०८) न विलक्षणत्वादस्य तथात्वं च शब्दात् ॥ ४॥ स्मृतिविरोधः परिहृतः । इदानीं न्यायविरोधः परिहियते। यद्यपि सापेक्षतर्केण निरपेक्षश्रुतिसमन्वयस्य न विरोधस्तथापि । वेदान्तदर्शनम् । २ अध्याये १ पादः। साक्षात्कारस्य मोक्षसाधनत्वेन प्राधान्यात् तर्कस्य दृष्टाऽनु- सारेणार्थसमर्पकत्वेनापरोक्षार्थविषयकत्वात प्रधानसाक्षा- कारस्य विषयतोऽन्तरङ्गं तर्कः । शब्दस्तु परोक्षार्थबोधनस्व- भावो बहिरङ्गमिति बलवचर्केण विरुद्ध्यत इत्याक्षेपो युक्तः। पूर्व वेदविरुद्धस्मृतेर्मूलाभावादप्रामाण्यमुक्तम् । तर्हि तर्कस्य व्याप्ति- पक्षधर्मतयोर्मूलत्वेन लोकसिद्धत्वात्तेन विरोध इति प्रत्युदाहरण- सङ्गत्यायमाक्षेपः । आकाशादिकं न चेतनप्रकृतिकं द्रव्यत्वा- द् घटवदिति तर्केण समन्वयो विरुद्ध्यते ? न वेति सन्देहे वि- रुध्यत इत्याह ॥ न विलक्षणत्वादिति ॥ जगचेतनप्रकृतिकमि- ति यदुक्तं, तन्न । कुतः । विलक्षणत्वात् ॥ अस्य जगतश्चेतना- द्विलक्षणत्वाचेतनं ब्रह्म शुद्धं, जगदचेतनं परिच्छिन्नमशुद्धमिति विलक्षणम् । यद् यद्विलक्षणं न तत् तत्प्रकृतिकम् । यथा तन्तु- विलक्षणो घटो न तन्तुप्रकृतिक इति ॥ ननु ब्रह्मजगतो_लक्षण्यं कुत इत्यत आह ॥ तथात्वं च शब्दादिति ॥ तथात्वं वैलक्ष- ण्यम् । विज्ञानं चाऽविज्ञानं चाऽभवदित्यादिश्रुतितोऽवगमादि- त्यर्थः। अत्र श्रुतौ आविज्ञानशब्देन जडमुच्यते ॥४॥ ननु ब्रह्मवज्जगदपि चेतनं श्रूयते, ते हीमे प्राणा अहंश्रे- यसे विवदमानाः, मृदब्रवीत् , आपोऽब्रुवन् , ते ह वाचमूचुस्त्वं न उद्गायेत्यादिश्रुतिभिरित्यत आह- अभिमानिव्यपदेशस्तु विशेषाऽनुगतिभ्याम् ॥ ५ ॥ उक्तशङ्कानिरासर्थस्तुशब्दः। उक्तश्रुतिभिर्न जगतश्चेतन- त्वं प्रत्येतव्यम् । यतो, मृदाद्याभिमानिनीनां देवतानां तत्र व्यपदेशो भवति, न मृदादिमात्रस्य । इदं तु कुतः॥ विशेषानु- गतिभ्याम् ॥ कौषीतकीब्राह्मणे, एता ह वै देवता अहंश्रेयसे वि- वदमाना इति बृहदारण्यके प्राणसंवादे श्रुतम्, प्राणानां देवता- a १६० ब्रह्माऽमृतवर्षिणीसमाख्यवृत्तिसहितम् । शब्देन विशेषितत्वान्न प्राणा इन्द्रियाणि, किन्तु तदाधिष्ठान्यो देवता इति, नेन्द्रियादिजगतश्चेतनत्वम् । अग्निर्वाग् भूत्वा मुखं प्राविशदित्यादिमन्त्रार्थवादादिषु सर्वत्र तदभिमानिदेवताना- मनुगतेः श्रवणाच, न चेतनं जगत् । ते ह वाचमूचुरित्यत्रापि, ते ह देवा वागभिमानिनी देवतामूचुः । किमिति । त्वं न उद्गाये- ति । भोगमस्मभ्यं संपादय इत्यर्थो बोध्यः ॥५॥ तस्मादचेतनस्य जगतो बैलक्षण्यान चेतनप्रकृतिकत्वमितिमाप्ते, राद्धान्तसूत्रम्- दृश्यते तु॥ ६॥ पूर्वपक्षनिरासार्थस्तुशब्दः । यदुक्तं चेतनविलक्षणं जगद्, न तत्प्रकृतिकमिति । तन्न । चेतनात् पुरुषाद्विलक्षणानां नख- लोमादीनामचेतनाचगोमयाचेतनवृश्चिकस्योत्पत्तिर्यतो दृश्यते अत इत्यर्थः । प्रकृतिविकारयोरत्यन्तसादृश्य प्रकृतिविकारभावा- ऽनुपपत्त्या यत्कञ्चित् सादृश्यं वाच्यम् । तच्च प्रकृतेऽपि जगति स्फुरणाद्यनुवृत्त्या समानमिति भावः । किञ्च ब्रह्मण्युपनिषध- तिरिक्ततादेः प्रमाणस्य प्रवेशाऽभावाद्, न तेन विरोधः सम- न्वयस्य । तथाच श्रुतिः । नैषा तण मतिरापनेया मोक्ता- ऽन्येनैव सुज्ञानाय प्रेष्ठेति, कोऽद्धा वेद क इह प्रवोचदियं वि- सृष्टिर्यत आबभूवेति । ब्रह्मविषया मतिरेषा तर्केण नापनेया न प्रापणीयेत्यर्थः । यद्वा कुतर्केणापनेया निरस्या न भवति, किन्तु अन्येनैवाचार्येण वेदविदा प्रोक्ता सती सुज्ञानाय फलावसायि- साक्षात्काराय भवति । हे प्रेष्ठेति, मियतमति, नचिकेतसं प्रति मृत्योर्वचनम् । को ब्रह्म व्यवहारभूमौ अद्धा साक्षाद्वेद, कोज़ वा तत् प्रवोचत् प्रावोचदित्यर्थः । छान्दसो दीर्घलोपः । यत आत्मनः सकाशादियं विविधा सृष्टिर्बभूव, स एव स्वरूपं उत्पत्तेः प्राक् पूर्व जगदसत् स्यादितिचेन्न । कुतः॥ प्रतिषेधमात्र- वेदान्तदर्शनम् । २ अध्याये १ पादः। वेद नान्य इति मन्त्रप्रतीकयोरर्थः॥६॥ असदितिचेन्न प्रतिषेधमात्रत्वात् ॥ ७॥ ननु चेतनस्य नामादिहीनस्याचतननामादिमज्जगद्धेतुत्वे त्वात् ॥ असत् सदितियोऽयं प्रतिषेधस्तत्प्रतिषेधमात्रं, न तु तस्य प्रतिषेध्यमस्तीत्यर्थः । अयं भावः । न हि कार्यसत्ता कारणाद्भिद्यते, किन्तु कारणमेव । स्थितिदशायामपि जगत्सत्ता ब्रह्मैव । तथाच ब्रह्मात्मकजगतः सत्त्वमुत्पत्तेः माग् नासज्जग- दिति ॥७॥ आक्षिपति- अपीतौ तद्वत्प्रसङ्गादमञ्जसम् ॥ ८॥ ननु शुद्ध्यादिगुणं ब्रह्म, जगदुपादानमिति असमञ्जसम् । कुतः ॥ अपीतौ तद्वत्प्रसङ्गात् ॥ अपीतौ प्रलयसमये जाड्या- ऽशुद्ध्यादिगुणकं जगद् ब्रह्मणि लीयमानं स्वनिष्ठजाड्यादिभि- धर्मेब्रह्म दूषयेत् । यथा शाकादौ लीयमानं हिङ्ग्वादिकं स्वनिष्ठ- गन्धादिभिः शाकादिकं दूषयति, तद्वत् । तथाच तद्वत् कारण- स्यापि ब्रह्मणोऽशुद्ध्यादि प्रसज्ज्यतेत्याक्षेपसूत्रार्थः॥८॥ परिहरति- न तु दृष्टान्तभावात् ॥ ९ ॥ तुरेवार्थः । पूर्वोक्तमसमञ्जसं नास्त्येवेत्यर्थः । कुतः। दृष्टा- न्तभावात् । कार्य कारणे लीयमानं स्वधर्मेण कारणं न दूषयती- त्यस्मिन्नर्थे शतशो दृष्टान्तानां सत्त्वादित्यर्थः । यथा घटशरावादिकं कार्य, मृदिलीयमानं मृदं स्वनिष्ठधमैन दूषयति । यथा वा स्वाम- प्रबोधौ न स्वधर्मैः कारणमात्मानं दूषयतस्तथा मायिकं जगदु- २१ ब्रह्माऽमृतवर्षिणीसमाख्यवृत्तिसहितम् । । त्पत्तिप्रलयावस्थाख्यात्रयसाक्षिणं परमात्मानं न जगत् स्वनिष्ठ- जाड्यादिभिर्धर्मेर्दूषयेत् । परमात्मनोऽवस्थात्रयाऽसंबन्धे वृद्धसं- मतिरपि- अनादिमायया सुप्तो यदा जीवः प्रबुद्ध्यते । अजमनिद्रमस्वममद्वैतं बुद्ध्यते तदा, इति ॥ अनादिमाययातस्वरूपो जीवो यदा आचार्यप्रतिपादना- ऽवस्थायां स्वरूपज्ञानभाग् भवति, तदा अद्वैतं बुद्ध्यत इति योजना । अजामित्युत्पत्त्यवस्थायाः संबन्धाऽभाव उक्तः, अनिद्र- मिति लयावस्थायाः, अस्वप्नामिति स्थित्यवस्थाया इति भेदः ।। किञ्च, कार्यस्य कारणात्मकत्वेऽपि न कारणं कार्यात्मक- मिति, न कार्यधर्मदूषणं कारणस्येति समञ्जसं वेदान्तशास्त्र- मिति ॥९॥ स्वपक्षदोषाच ॥ १० ॥ ये दोषाः- विलक्षणत्वात् प्रकृतिविकारभावानुपपत्तिरुत्पत्तेः पागजगतोऽसत्त्वप्रसङ्गोऽपीतौ तद्वत्प्रसङ्ग इंति सांख्येनोद्भा- वितास्ते सांख्यपक्षेऽपि समानाः । शब्दादिहीनप्रधानसकाशा- च्छब्दादिमतो विलक्षणस्य जगत उत्पत्त्यङ्गीकारादित्यर्थः।वस्तुतः प्रपञ्चसत्यत्वसत्कार्यवादिनः सांख्यस्यैवैते दोषाः, न ममानि- र्वचनीयवादिन इति भावः ॥ १० ॥ तर्का प्रतिष्ठानादप्यन्यथानुमेयमिति चेदेव- मप्यविमोक्षप्रसङ्गः ॥११॥ केवलस्य तर्कस्याप्रतिष्ठानादप्यप्रतिष्ठितत्वाच न तेन समन्वय- विरोधाशङ्केत्यर्थः । एकेन तार्किकेण यत्नेनाऽनुमितोऽप्यर्थोऽन्येन श्रेष्ठतरेणाऽन्यथा नीयते,एवमन्येन श्रेष्ठतमेनाऽन्यथा नयनमित्यर्थ
ननु
।
वेदान्तदर्शनम् । २ अध्याये १ पादः ।
इति तर्कस्याऽप्रतिष्ठानं बोध्यम् । तर्कमात्रस्याऽप्रतिष्ठितत्वे
धूमज्ञानानन्तरं वयर्थियवृत्त्यनुपपत्तिर्वाक्यार्थसन्देहे तर्केणा-
ऽनिर्णयप्रसङ्गश्च । किञ्च,तर्काप्रतिष्ठानादित्ययमपि तर्कोऽप्रतिष्ठित
एवेति, न तेन परमतनिराकरणं स्यात् । तस्मात् कस्यचित्तर्क-
स्याऽप्रतिष्ठितत्वेऽपि कस्यचित् प्रतिष्ठानसम्भवात् तेन समन्वय-
विरोधशङ्का युक्ता इत्याक्षिपति- अन्यथानुमेयमितिचेदित्य-
न्तेन । अप्रतिष्ठिततर्कादन्येन प्रकारेण प्रतिष्ठिततर्केण समन्वय-
विरोधाद्यनुमेयमिति शङ्कार्थः । तर्कस्य कचित् प्रतिष्ठितत्वमङ्गी-
कृत्य समाधत्ते । एवमपीति ॥ अन्यत्र तर्कस्य प्रतिष्ठितत्वेऽपि
प्रकृते लिङ्गादिहीने ब्रह्मणि वेदनिरपेक्षस्य तर्कस्याऽप्रतिष्ठतत्व-
दोषादनिर्मोक्षप्रसङ्ग एवेति समाधानार्थः । यद्वा, महतां कपिल-
कणादादीनां परस्परविप्रतिपत्नैरागमनिरपेक्षस्तस्तत्त्वनिर्णया-
ऽभावादनिर्मोक्षप्रसङ्ग इत्यर्थः । तस्मादागमविरोधितर्कोऽप्रमाण-
मिति न तेन विरोध इति सिद्धम् ॥ ११ ॥
(४ काणादादिमतैर्वाध्यत्वाभावाधिकरणम् । सू०१)
एतेन शिष्टापरिग्रहा अपि व्याख्याताः ॥ १२ ॥
आतिदेशत्वान्न पृथक् सङ्गत्याद्यपेक्षा । ब्रह्म न जगदुपा-
दानं विशुद्धत्वाव्योमवदित्यनेन वैशेषिकाबनुमानेन ब्रह्मकारण-
बोधकः समन्वयो विरुद्ध्यते न वेति सन्देहे,विरुद्ध्यत इति प्राप्त-
म् । कुतः । अबाधितत्वात् । तस्मादण्वादय एवोपादानमिति
प्रासेऽतिदिशति । एतेन मन्वादिभिः शिष्टैः केनचित् सत्कार्य-
वाशेन परिगृहीतप्रधानकारणवादनिराकरणप्रकारेण शिष्टापरि-
ग्रहाः, शिष्टः केनचिदयंशेन अपरिगृहीता, अण्वादिकारणवादा
व्याख्याता निरस्ता द्रष्टव्या इत्यर्थः। तर्कस्य वेदवाधितत्वादिति
भावः॥१२॥
ब्रह्माऽमृतवर्षिणीसमाख्यवृत्तिसहितम् । (५ अद्वैतस्यैव भोक्तृभोग्याकारभासमानत्वाधिकरणम् । सू.१) भोक्त्रापत्तेरविभागश्चेत् स्यालोकवत् ॥ १३ ॥ अद्वितीयाद्ब्रह्मणो जगत्सर्ग ब्रुवन् समन्वयः प्रत्यक्षादिना विरुद्ध्यते ? न वेति सन्देहे, ब्रह्मणि तर्कस्याप्रतिष्ठितत्वेऽपि जगदे तस्य प्रतिष्ठितत्वादिति विरुद्ध्यत एवेति प्रत्युदाहरणेन अयमाक्षेपः । भोक्रापत्तेरविभागश्वेदिति ॥ अद्वितीयब्रह्मणो जगदुपादानत्वे भोक्तृभोग्यप्रपञ्चस्य सर्वस्य ब्रह्मानन्यत्वेन भोग्यशब्दादे क्त्रात्मकत्वापत्तेर्मोक्तुर्वा भोग्यात्मकत्वापत्तेः प्र- त्यक्षसिद्धः,परस्परविभागो न स्यादिति प्रत्यक्षविरोधः समन्वय- स्य । भोक्तभोग्यप्रपञ्चो नाऽद्वितीयवस्तूपादानकः परस्परं भिन्नत्वाद् व्यतिरेकेण ब्रह्मवदित्यादितर्कविरोधश्च । विपक्षे हेतू- च्छित्तिर्बाधिकति शङ्कार्थः । समाधत्ते ॥ स्याल्लोकवदिति ॥ एकब्रह्मोपादानकत्वेऽपि भोक्तृभोग्यप्रपञ्चस्य परस्परं विभागः स्यात् ॥ लोकवत् ॥ यथा मृदात्मना अभिन्नानां घटशरावादीनां परस्परं भेदोऽस्ति,यथा वा एकरज्जूपादानकानां दण्डसादीनां परस्परं भेदस्तद्वदित्यर्थः। कल्पितभेदसत्त्वान्न प्रत्यक्षविरोधः। दण्डादौ व्यभिचारान्न तर्कः प्रमाणमिति मन्तव्यम् ॥ १३ ॥ ननु ब्रह्माभेदं जगतोऽङ्गीकृत्य लोकदृष्टान्तेन विरोधः परि- हृतः । तस्य ब्रह्मभेद एव कुतो न स्यादित्याशङ्कय जगतो- ऽनिर्वचनीयत्वान ब्रह्माऽतिरेकेण सत्ता इत्याह- (६ ब्रह्मण्यद्वैतस्यैव तात्त्विकत्वाधिकरणम् । सू. ७) तदनन्यत्वमारम्भणशब्दादिभ्यः ॥ १४ ॥ पूर्व परिणामवादमालम्ब्याऽऽपाततः, स्याल्लोकवदिति समाधानमुक्तम्।इदानीं विवर्त्तवादमाश्रित्य परमं समाधानमुच्यत १६५ वेदान्तदर्शनम् । २ अध्याये १ पादः । इत्येकफलकत्वं सङ्गतिः।सन्देहः पूर्ववत् । तस्माद्ब्रह्मणःप्रपञ्चस्या- ऽनन्यत्वं, पृथक्सत्ताराहित्यम् । कुतः ॥आरम्भणशब्दादिभ्यः॥ एकविज्ञानात् सर्वविज्ञानप्रतिज्ञासिद्ध्यर्थ,दृष्टान्त उपन्यस्तः । यथा सोम्यैकेन मृत्पिण्डेन सर्व मृन्मयं विज्ञातं स्यात्, वाचारम्भणं वि- कारोनामधेयं मृत्तिकेत्येव सत्यम् । तत्र मृत्पिण्डे ज्ञाते कथं घटादि- ज्ञानमित्याशङ्कय विकारो घटादिर्वागालम्बनमात्रम् । यतो नाम- धेयं विकारो, न तु नामाऽतिरेकेण विकारोऽस्तीत्युक्त्वा मृत्तिकामात्रमेव विकारस्य पारमार्थिक स्वरूपमिति तस्मिन् ज्ञाते वस्तुतो घटादिर्तातो भवतीत्युक्त्या, विकारो मिथ्याकारणं सत्यमित्ययमों दृष्टान्तवाक्ये सिद्धः। तथा दार्शन्तिकेऽपि ब्रह्मव्यतिरेकेण प्रपञ्चसत्ता नास्तीति तदनन्यत्वम् । सूत्रस्था- ऽऽदिशब्देन, ब्रह्मैवेदं सर्वमित्यादि तदनन्यत्वप्रतिपादकं गृह्य- ते ॥१४॥ तदनन्यत्वे हेत्वन्तरमाह- भावे चोपलब्धेः ॥ १५ ॥ भावपदं कारणसत्त्ववाचकं तदुपलब्ध्युपलक्षणार्थमेवमुप- लब्धिपदं कार्योपलब्धिमात्रकं कार्यसत्त्वोपलक्षणार्थम् । तथाचार्य प्रयोगः । विकारः कारणादनन्यः । कारणसत्त्वोपलम्भाऽनु- विधायिसत्त्वोपलम्भवत्त्वात् । यो यस्माद्भिन्नो न स तत्सत्त्वोप- लम्भाऽनुविधायिसत्त्वोपलम्भवान् । यथा घटात् पट इति । हेतौ उपलम्भपदद्वयत्यागे बदिसत्त्वानुविधायिधूमे व्यभिचारः स्या- तद्वारणाय तद्ब्रहणमिति । सत्त्वपदद्वयत्यागे यथाश्रुतसूत्रे चालोकसत्त्वानुविधायिज्ञानवति रूपे व्यभिचारः । अतस्तदर्थ तद्ग्रहणमिति ॥ यद्वा ॥ भावाचोपलब्धेरिति सूत्रम् ॥ न केवलं श्रुत्या m ब्रह्माऽमृतवर्षिणीसमाख्यवृत्तिसहितम् । कार्यकारणयोरनन्यत्वं, किन्तु प्रत्यक्षोपलब्धे वाचाऽनन्यत्व- मित्यर्थः । न हि तन्तुव्यतिरेकेण पटो नाम कश्चिदुपलभ्यते, किन्तु संयोगविशेषाऽवच्छिन्नास्तन्तव एव पटव्यवहारविषयाः प्रत्यक्षमुपलभ्यन्ते । अतोऽनन्यत्वं विकारस्य ॥ १५ ॥ सत्त्वाचावरस्य ॥ १६ ॥ अवरस्य कार्यस्योत्पत्तेः प्राक् कारणानन्यत्वेन सत्त्वात्,सत्त्व- श्रवणादुत्पत्त्यनन्तरमनन्यत्वं सिद्धमित्यर्थः । ब्रह्म वा इदमग्रे आसीदित्यादौ प्रपञ्चोपस्थापकेदम्पदस्य ब्रह्मसामानाधिकरण्या- तदनन्यत्वं द्रष्टव्यम् । अन्यथा ब्रह्मात्मना पूर्व प्रपञ्चस्याऽसत्त्वे तत उत्पत्त्यनुपपत्तेः । न हि सिकतात्मनाऽविद्यमानं तैलं ताभ्यो जायतेति ॥ १६ ॥ असयपदेशान्नेतिचेन्न धर्मान्तरेण वाक्यशेषात् ॥ १७ ॥ नन्वसद्वाइदमग्र आसीदित्यादिनाप्रागुत्पत्तेरसत्त्वव्यपदेशा- न कार्यस्य कारणात्मना पूर्व सत्त्वमितिचेन्नान ह्यत्यन्ताऽसत्त्वा- ऽभिप्रायेणायमसत्त्वव्यपदेशः, किन्तु व्याकृतत्वरूपधर्मापेक्ष- या । अव्याकृतत्वं धर्मान्तरं, तेन धर्मान्तरेणाऽयमसत्त्वव्यप- देशः । कुतः । वाक्यशेषात् । तत्सदासीदिति वाक्यशेषः पूर्व- मत्यन्ताऽसतो ग्रहणे बाध्येत । असदेवेदमित्यत्राऽसत्त्वं, किं तुच्छं ? किं वा सदेवानभिव्यक्तनामरूपमिति सन्देहे, अनमि- व्यक्तनामरूपमसच्छब्दवाच्यमिति निश्चीयते । आसीदित्यतीत- कालसम्बन्धोक्तेश्च न शून्यामिति । तस्माब्याकृतं सदित्युच्यते, अव्याकृतं चाऽसदिति सिद्धं कारणाऽनन्यत्वं कार्यस्य ॥१७॥ युक्तः शब्दान्तराच्च ॥ १८ ॥ कारणानन्यत्वमुत्पत्तेः प्राक् सत्त्वं चेति शेषः । युक्तिरेवं, १६७ । वेदान्तदर्शनम् । २ अध्याये १ पादः। घटो जायते इति प्रतीत्या घटस्य तावदुत्पत्तिकर्तृत्वं प्रतिभाति । न हि उत्पत्तेः प्रागत्यन्तं घटस्यासत्त्वे तत्कर्तृत्वं युक्तम् । तस्मा- त् कारणात्मना सन्नेव घट उत्पत्तिकर्ता । किञ्च मृदात्मना पूर्व घटस्यासत्त्वे मृदेव घटार्थिना नोपादीयेत, यत्किञ्चिदेवोपा- दीयेत । असत्त्वाविशेषादित्येवमादियुक्तिरूह्या । पूर्वसूत्र उदा- हृताऽसच्छब्दाच्छब्दान्तरं, सदेव सोम्येदमग्र आसीदित्यादौ विद्यमानसच्छब्दः । तस्मादपि कारणादनन्यत्वं पूर्वमुत्पत्तेः सत्त्वञ्चत्यर्थः ॥१८॥ युक्तरित्येतत् प्रपञ्चयति- पटवच्च ॥ १९ ॥ ननु मृद्घटौ भिन्नौ विलक्षणप्रतीतिविषयत्वाद् घटपटव- दित्युक्ते,तस्य हेतोयभिचारमाह ॥ पटवच्चेति ॥ यथा संवेष्टित- प्रसारितपटस्य विलक्षणप्रतीतिसत्त्वेऽपि न भेदः, एवं मृद्घटयो- रित्यर्थः ॥ १९ ॥ न विलक्षणकार्यकारित्वमपि हेतुर्व्यभिचारादित्याह- यथा च प्राणादिः ॥ २० ॥ यथा प्राणापानादिना निरुद्धः प्राणापानादिर्जीवनमात्र कार्य निर्वर्त्तयति, अनिरुद्धस्त्वाकुञ्चनप्रसारणादिकार्य करोति । नैतावता तस्य प्राणस्य भेदोऽस्ति । तस्मात् कार्यकारणयो- रनन्यत्वं सिद्धम् ॥ तदनन्यत्वाच्चैकविज्ञानात् सर्वविज्ञानप्रतिज्ञा- ऽपि सिद्धा भवति ॥ २० ॥ (७ परमेश्वरस्य हिताहितभागित्वाभावाधिकरणम् ॥ सू० ३) इतरव्यपदेशाद्धिताकारणादिदोषप्रसक्तिः ॥ २१ ॥ पूर्व कार्यस्य कारणाद् अनन्यत्वमेकविज्ञानप्रतिज्ञासिद्धये wHURI ब्रह्माऽमृतवर्षिणीसमाख्यवृत्तिसहितम् । समर्थितं, तर्हि तेनैव न्यायेन जीवब्रह्मणोरप्यभेदाजीवधर्मा हिताऽकरणादयो ब्रह्मणि प्रसज्ज्येरनित्याक्षेपात् सङ्गतिः । जीवाभिन्नं ब्रह्म जगदुपादानमिति ब्रुवन् समन्वयो विषयः। स किं यदि ताहा ब्रह्म जगज्जनयेन तर्हि स्वानिष्टं जनयेदिति तर्केण विरुद्ध्यते न वेति सन्देहे, पूर्वपक्षमाह ॥ इतरव्यपदेशादिति ॥ इतरस्य जीवस्य तत्त्वमसीत्यादिना ब्रह्मात्मत्वव्यपदेशादितरस्य ब्रह्मणो वाऽनेन जीवेनाऽऽत्मनाऽनुमविश्येत्यादिन शारीर- त्वव्यपदेशाद्ब्रह्मणः स्रष्तृत्वे जीवस्यैव स्रष्टत्वं स्यात् । तथाच हिताऽकरणादिरूपदोषप्रसक्तिब्रह्मणः । नव्यत्यासेन अहित- जरामरणादिवहुविधाऽनर्थकरणादिरूपदोषस्य प्रसक्तिरित्यर्थः । आदिपदेन, जीवस्य जरादिकं मया सृष्टमिति ज्ञानं स्यात् ।। तत्संहर्तृत्वं च स्यादित्यादिदोषा गृह्यन्ते । तस्माज्जीवाभिन्न- ब्रह्मणो नाऽनिष्टमपञ्चजनकत्वम् अभ्रान्तचेतनत्वादिति,नचेतनो- पादानकं जगदित्याक्षेपसूत्रार्थः ॥ २१ ॥ समाधत्ते अधिकं तु भेदनिर्देशात् ॥ २२ ॥ तुः पूर्वपक्षव्यावृत्त्यर्थः । यतः शरीरादधिकमन्यत् सर्वज्ञ सर्वेश्वरं सर्वशक्तिब्रह्म जगदुपादानं स्रष्ट्र चेति ब्रूमः । अतो न हिताकरणादिदोषप्रसक्तिः । कुतः ॥ भेदनिर्देशात् । आत्मा वा अरे द्रष्टव्यः, सता सोम्य तदा सम्पन्नो भवतीत्यादिना कल्पित- स्य भेदस्य व्यपदेशादित्यर्थः । न हि ब्रह्मणो नित्यमुक्तस्य हितमहितं वा किश्चिदस्तीति न हिताकरणादिदोषमसक्तिः कल्पितभेदमादायैव सर्वाऽसाङ्कोपपत्तेरिति तात्पर्यम् ॥ २२ ॥ नन्वेकरूपब्रह्मणो जगत्कारणत्वे कार्यवैचित्र्यं न स्यादि- ति दोषं दृष्टान्तेन परिहरति- FERREARNERIES वेदान्तदर्शनम् । २ अध्याये १ पादः । अरमादिवच्च तदनुपपत्तिः ॥ २३ ॥ यथा लोके एकपृथिवीजन्यानामश्मनां वज्रवैदूर्येन्द्रनील- पद्मरागादिभेदेन वैचित्र्यमेवं ब्रह्मकार्याणां स्वरूपवैचित्र्यं युज्य- ते । नन्वेकब्रह्माश्रितकार्येषु कथं धर्मवैचित्र्यं, कथं वार्थक्रिया- वैचित्र्यमित्याशङ्कानिरासार्थमादिवञ्चेत्युक्तम् । तस्यार्थः । यथा एकपृथिव्याश्रितानां बीजानां बहुविध पत्रपुष्पफलगन्धरसादि- वैचित्र्यम् । यथा एकस्याऽन्नस्य केशनखादिविचित्रार्थक्रिया- कारित्वं तद्वत्सर्वमुपपद्यते इति तदनुपपत्तिः उक्तदोषाऽनुपपत्ति- रित्यर्थः ॥ २३॥ (८ अद्वितीयब्रह्मण एव नानाविधसृष्टिकर्तृत्वाधिकरणम् । सू०२) उपसंहारदर्शनान्नेतिचेत् क्षीरवद्धि ॥ २४ ॥ असहायाब्रह्मणो जगत्सर्ग ब्रुवन् समन्वयो विषयः । स किं ब्रह्म उपादानं कर्तृ वा असहायत्वात् संमतवदितिन्यायेन विरुद्ध्य- ते न वेति संशये । पूर्वमौपाधिकजीवभेदाद्धिताकरणादिदोषो नास्तीत्युक्तम् । संप्रत्युपाधितोऽपि विभक्तब्रह्मणः प्रेरकादिकं नास्ति ब्रह्मनानात्वाभावादिति प्रत्युदाहरणेनाक्षिप्य समा- धत्ते ॥ उपसंहारेति ॥ लोके कुलालस्य कर्तुर्दण्डचक्रायुपसंहार- दर्शनान्मृदो बोपादानस्य स्वभिन्नकुलालादिसहायस्य दर्शनात्त- दुभयविलक्षणस्य ब्रह्मणो न जगत्कर्तृत्वमुपादानत्वं वा संभव- तीतिचेदिति शङ्कार्थः । समाधत्ते ॥क्षीरवद्धीति।। हिशब्दो हेत्व- ऽर्थः। यथा लोके क्षीरं बाह्यसाधनान्यनपेक्ष्य दध्याकरण परि- णमते तद्वद् ब्रह्मापीत्यर्थः । नचौष्ण्यसापेक्षत्वं क्षीरस्यास्तीति वाच्यम् । औष्ण्यस्य दधिभावे त्वरामात्रनिमित्तत्वादिति श्रुति- रप्यसहायस्य ब्रह्मणः कार्यकारित्वं दर्शयति- न तस्य कार्य करणं च विद्यते न तत्समश्चाऽभ्यधिकश्च दृश्यते * पराऽस्य ૨૨ ब्रह्माऽमृतवर्षिणीसमाख्यवृत्तिसहितम् । शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानवलक्रिया चेति ॥ २४ ॥ ननु चेतनत्वे सत्यसहायत्वं हेतुरतो न क्षीरे व्यभिचार इत्याशय, चेतनदृष्टान्ते तस्य व्यभिचारमाह- देवादिवदपि लोके ॥ २५ ॥ लोक्यतेऽनेनेति लोकः शब्दो मन्त्रार्थवादेतिहासादिः । त- स्मिन् यथा, देवाः पितर ऋषय इत्येवमादयश्चेतनाः स्वतःसिद्ध- सामाः साधनान्तरं बाह्यमनपेक्ष्य संकल्पमात्रेणेव नाना- विधकार्यकर्तार उपलभ्यन्ते तद्ब्रह्मापीत्यर्थः । अयं भावः। कुलाल- स्तावद्वाह्यमान्तरं च संकल्पादिकमपेक्ष्य कार्यकर्ता भवति, देवा- दयस्त्वान्तरसंकल्पमात्रमपेक्ष्य कार्येषु समर्थाः । तथाच यथैक- स्य कार्यजनने सामर्थ्य तथैवाऽन्यस्येति नियमाऽभावाद् न दृष्टान्तेन प्रत्यवस्थानमिति ॥ २५ ॥ ननु निरवयवाह्मणो जगत्सर्ग क्रुधन समन्वयः, सावयव- स्यैव नानाकारेण परिणाम इति न्यायेन विरुद्ध्यते, न वेति क्षीरादिकदृष्टान्तकथनेन ब्रह्मणः परिणामित्वभ्रमोत्पत्त्या संदेहे कार्यकारणभावसंगत्या पूर्वपक्षयति- (९ ब्रह्मणो विवर्त्तत्वाधिकरणम् । सू०४) कृत्स्नप्रसक्तिनिरवयवत्वशब्दकोपो वा ॥ २६ ॥ पूर्वाधिकरणस्य भ्रमोत्पादकत्वेन कारणत्वमेतस्य कार्यत्व- मिति बोध्यम् । ननु ब्रह्म निरवयवं वा परिणमते, साक्यवं वा । आये कृत्स्नस्य ब्रह्मणः कार्याकारेण परिणामप्रसक्तिः। ततश्च कार्याऽतिरिक्तं ब्रह्म न स्याद्, दुर्ज्ञानत्वश्रुतिविरोधश्च । कार्यस्य प्रत्यक्षत्वात् । द्वितीये कृत्स्नमसक्तिर्नास्ति । एकांश-परिणाम- ऽप्यपरांशस्थितिसंभवात् । तत्रापि निष्कलमित्यादिनिरवयवत्व- शब्दकोषः। उभयस्मिन् पक्षेऽप्यनित्यत्वप्रसङ्ग इति ब्रह्मणः परि- ।
वेदान्तदर्शनम् । २ अध्याये १ पादः । १७१ णामित्वभ्रममूलकः पूर्वपक्षः ॥ २६ ॥ सिद्धान्तयति- श्रुतेस्तु शब्दमूलत्वात् ॥ २७ ॥ तुराक्षेपनिरासं ब्रूते । न तावत्कृस्नप्रसत्तिरस्ति । कुतः ॥ श्रुतेः ॥ यथा जगदुपादानत्वं ब्रह्मणः श्रूयते, एवं कार्यव्यतिरे- केण ब्रह्मणः सत्त्वं श्रूयते, एतावानस्य महिमेत्यादौ । तथाच श्रुत्यैव विवर्तवादः स्फुटीकृतः। न हि परिणामवादे कार्यव्यतिरे- केण सत्त्वं संभवति । तस्मात् कार्यातिरेकेण ब्रह्मणोऽवस्थान- श्रुतेनॊक्तदोष इत्यर्थः । ननु श्रुतिर्वा कथं कार्यातिरेकेण ब्रह्मणः सत्त्वं बोधयेदुक्तयुक्तिवाधितत्वादित्यत आह ॥ शब्दमूलत्वा- दिति ॥ ब्रह्मणः शब्दैकप्रमाणकत्वाद्यथाशब्दं कार्योपादानत्वं, तदतिरेकेण सत्त्वं चाऽविरुद्धमित्यर्थः॥ २७ ॥ जगतो ब्रह्मविवर्तत्वेन स्वमप्रपञ्चवन्मायिकत्वात्तदुपादान- त्वेऽपि ब्रह्मणो न कृत्लप्रसत्यादिदोषः स्वमसाक्षिवदित्याह- आत्मनि चैवं विचित्राश्च हि ॥ २८ ॥ एवं ब्रह्मणीव, हि यस्मादेतोरेकस्मिन्नात्मनि स्वमहशि, निर- वयवे विचित्राः सृष्टयः श्रूयन्ते । न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान् रथयोगान् पयः सृजत इत्यादौ स्वमे रथादीनामभावे कथं तदुपलब्धिरित्याशझोक्तं श्रुतावथे- त्यादिवत्रे चशब्देन मायाविदृष्टान्तं समुचिनोति । यथा लोके मायाविस्वरूपाऽनुपमर्दैनैव विचित्रा हस्त्यश्वादिसृष्टयो दृश्यन्ते तथा ब्रह्मण्यपि विविधस्माधिरित्यर्थः ॥ २८ ॥ यत्रोभयोः समो दोष इति न्यायेन कृत्स्नसक्त्यादीना- मनुद्भाव्यत्वं दर्शयति- SENTS ब्रह्माऽमृतधर्षिणीसमाख्यवृत्तिसहितम् । स्वपक्षदोषाच ॥ २९॥ सांख्यादयोऽपि निरवयवं प्रधानं जगत् परिणामीत्यङ्गी- चक्रुः । तथाच कृत्स्नमसक्त्यादिदोषाः सर्वे समानाः।अणुवादिनो- ऽपि परमाणुद्वयसंयोगेन घणुकादिसृष्टिमङ्गीचक्रुः । संयोगः किं व्याप्यवृत्तिरव्याप्यवृत्तिर्वा । आधे दृष्टविरोधः । कार्यप्रथिमा- ऽनुपपत्तिश्च । द्वितीये सावयवत्वं विनाऽव्याप्यवृत्तिसंयोगानुप- पत्तिनिरवयवत्वव्याकोप इत्यादयो दोषाः समानाः । ब्रह्मवादे ते दोषा न सन्ति च । तस्मादत्यन्तमुपपन्नः परमात्मकारणता- वादः॥ २९॥ एकस्यापि ब्रह्मणो विचित्रकार्यशक्तिमत्त्वमुक्तम् । तत् समर्थयति- (१० ब्रह्मणोऽशरीरस्यैव मायाधिष्ठानाधिकरणम् । सू०२) सर्वोपेता च तदर्शनात् ॥ ३०॥ मायाशक्तिमतो ब्रह्मणो जगत्सर्ग ब्रुवन् समन्वयोऽशरीरस्य न मायेतिन्यायेन विरुद्ध्यते, न वेति संदेहे पूर्वोक्तशक्तिमत्त्व- विषयकशङ्कानिरासेन तत्समर्थनात्मकत्वाद्विषयविषयिभावसंगत्या विरुद्ध्यत इति पूर्वपक्षे राद्धान्तः ॥ सर्वोपेता ॥ सर्वशक्तियुक्ता परा देवता । कुतः ॥ तदर्शनात् ॥ तस्य सर्वशक्तियोगस्य श्रुतौ दर्शनादित्यर्थः । सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिद- मभ्यात इत्यादिश्रुतिद्रष्टव्या ॥ ३० ॥ विकरणत्वान्नेतिचेचदुक्तम् ॥३१॥ सर्वशक्तियुक्तानामपि देवादीनां चक्षुरादिकरणवतामेव विचित्रकार्यकर्तृत्वमवगम्यते । अचक्षुष्कम् अश्रोत्रमित्यादिना ब्रह्मणो विकरणत्वावगमान्न कर्तृत्वमितिचेद्, यदत्रोत्तरं वक्तव्यं तत् पूर्वमेव, न विलक्षणत्वाद्, देवादिवदपि लोके इत्यादा- १७३ वेदान्तदर्शनम् । २ अध्याये १ पादः । बुक्तम् । श्रुत्यैकसमधिगम्यत्वान्न तर्केण विरोधाशङ्का । यथा एकस्य तथैवान्यस्येति नियमाऽभावादित्यादिकमित्यर्थः॥३१॥ ब्रह्मणो जगत्कर्तृत्वं हेत्वन्तरेणाक्षिपति- (११ नित्यतृप्तस्यापि ब्रह्मण एव जगत्स्रष्मृत्वाधिकरणम् । सू०२) न प्रयोजनवत्त्वात् ॥ ३२ ॥ अवाप्तसकलकामाब्रह्मणो जगत्सर्ग ब्रुवन् समन्वयो, ब्रह्म विना फलेन न सृजति, अभ्रान्तचेतनत्वात् संमतवदिति- न्यायेन विरुद्ध्यते ? । नवेति संदेहे, पूर्वोक्तकर्तृत्वाऽऽक्षेपसंगत्या पूर्वपक्षः । ब्रह्मणो जगत्कर्तृत्वं न संभवति । नित्यतृप्तत्वेन प्रयोजनाऽभिसन्धिविरहितत्वात् प्रेक्षावत्महत्तेः प्रयोजनवत्त्वा- ऽवगमादिति ॥ ३२॥ अत्र राद्धान्तः- लोकवत्तु लीलाकैवल्यम् ॥ ३३ ॥ तुरुक्तशङ्कानिरासकः । यथा लोके राजतदमात्यादीनां फलं विनैव केवललीलारूपाः प्रवृत्तयो दृश्यन्ते, यथा वा उच्छ्वासादयः स्वभावादेवोपपद्यन्ते एवं ब्रह्मणोऽपि विचित्रकार्य- रचना लीलाकैवल्यं, केवललीलामात्रं, न फलसापेक्षम् । कथञ्चिद् राजादीनां लीलायां फलसंभवेऽपि नित्यत्तस्य ब्रह्मणो लीला- मात्रमेतदित्यभिप्रायः ॥ ३३ ॥ विधान्तरेण ब्रह्मणः कारणत्वमाक्षिप्य, समाधत्ते- (१२ ब्रह्मणो वैषम्यनैण्याभावाधिकरणम् । सू०३) वैषम्यनैपुण्ये न सापेक्षत्वात्तथाहि दर्शयति ॥ ३४ ॥ निरवद्याद्ब्रह्मणो जगत्सर्ग ब्रुवन् समन्वयो, यो विषमसृष्टि- कर्ता स सावध इति न्यायेन विरुद्धयते ? न वेति विशये, पूर्व , १७४ ब्रह्माऽमृतवर्षिणीसमाख्यवृत्तिसहितम् । मायामय्या लीलया ब्रह्मणो यत्स्रष्मृत्वमुक्तं तस्यात्राक्षेपात् सं- गतिसिद्धौ पूर्वपक्षः । ब्रह्म किं माणिकर्मसापेक्षं जगत्कर्त, निर- पेक्षं वा । नाद्यः । अनीश्वरत्वप्रसङ्गात् । द्वितीये वैषम्यनघण्ये प्रसज्येयाताम् । काँश्चितिर्यगादीनत्यन्तदुःखिनः सृजति काँश्चिन्मनुष्यादीन् सुखदुःखसाधारणान् काँश्चिदेवादीनत्यन्त- सुखिन इति वैषम्यं, सर्वसंहर्तृत्वाच्च नैघण्यम् । ततश्च सावद्यत्वं प्रसज्ज्येत । तस्मानिरवद्यस्येश्वरस्य न जगत्कर्तृत्वमितिशङ्का- निरासमाह ॥ वैषम्य घृण्ये न स्याताम् ॥ कस्मात् ॥ सापेक्ष- त्वात् ॥ प्राणिकर्मसापेक्षत्वात् । कर्मानपेक्षत्वे हि वैषम्यादिः स्यान्न सापेक्षत्वे इत्यर्थः। न च सापेक्षत्वेऽनीश्वरत्वम् । भृत्यादि- सेवाऽनुसारेण फलदात् राज्ञोऽराजत्वादर्शनात् । ईश्वरस्तु पर्जन्यवद् द्रष्टव्यः । यथा तत्तद्वीजे सत्यपि न पर्जन्यं विना अङ्कुरोत्पत्तिस्तद्वदिति कर्मणैवोपपत्तौ किमर्थमीश्वरस्वीकार इतिचोचं श्रुत्या पराकृतमित्यादि भाष्ये द्रष्टव्यम् । नन्वीश्वरस्य कर्मसापेक्षत्वं कुत इत्यत्राहातथाहि दर्शयतीति॥ श्रुतिः स्मृतिश्चे त्यर्थः । एष हि एव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते एष उ एवासाधु कर्म कारयति तं यमधो निनीपत इति । पुण्यो वै पुण्येन कर्मणा भवति, पापः पापेनेत्याद्या श्रुतिः।यमुन्निनीषते ऊर्ध्वं नेतुमिच्छतीश्वरस्तं साधु कर्म कारय- ति । पूर्वजन्मकृतसुकृतवशादिति योजना । पुण्यः सुखी, पापो दुःखी । स्मृतिस्तु, ये यथा मां प्रपद्यन्ते ताँस्तथैव भजाम्यह- मित्याद्या द्रष्टव्या ॥ ३४ ॥ न कर्माऽविभागादितिचेन्नाऽनादित्वात् ॥ ३५॥ सदेव सोम्येदमग्रआसीदेकमेवाद्वितीयमित्यादिना सृष्टेः भाग- वेदान्तदर्शनम् । २ अध्याये १ पादः । विभागाऽवधारणान्न तदानी कर्मास्तीत्यतः कर्मापेक्षया विषमा सृष्टिरित्यसङ्गतमितिचेन्न ॥अनादित्वात्।। संसारस्य बीजाङ्करवद् हेतुहेतुमद्भावोपपत्तेरित्यर्थः। पूर्वमृष्टौ सम्पादितधर्माधर्मप्रपञ्चस्या- त्यन्तिकनाशाभावात् तदपेक्षयोत्तरसृष्टौ न किञ्चिद्वाधकामिति भावः॥ ३५॥ ननु संसारस्याऽनादित्वं कुत इत्यत आह- उपपद्यते चाऽप्युपलभ्यते च ॥ ३६॥ संसारस्याऽनादित्वमुपपद्यते च । अन्यथाऽकस्मादेव सृष्टयङ्गीकारे मुक्तस्यापि पुनर्जन्मप्रसङ्गात् । पूर्वसृष्टिसा- दृश्याऽनुपपत्तेश्च ॥ श्रुतिस्मृत्योः ॥ संसारस्याऽनादित्वमुप- लभ्यते च । अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्या- करवाणीति प्राणधारणनिमित्तेन जीवशब्देन सृष्टयादौ शारीर- मभिलपन् प्राणधारणादिसंसारस्याऽनादित्वं दर्शयति । धाता यथापूर्वमकल्पयादित्यादिश्रुतिरपि पूर्वकल्पसद्भावं दर्शयति । स्मृतिरपि संसारस्याऽनादित्वमाह । न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्पतिष्ठेति । स्मृत्यर्थस्तु, अस्य संसार- वृक्षस्य कल्पितस्य रूपं पारमार्थिकं स्वरूपं ब्रह्म तथा घटादिव- दिह प्राकृतैर्व्यवहारभूमौ नोपलभ्यते, न चान्तोऽवधिरस्य सं- सारस्य विना ब्रह्मविद्यामुपलभ्यते, नाप्यादिरनिर्वचनीयत्वा- देव, नाऽपि सम्पतिष्ठा मध्यामिति ॥ ३६॥ इदानीं परपक्षप्रतिषेधप्रधानपादमारब्धुकामः स्वपक्षे निर्दु- ष्टतामुपसंहरति- (१३ निर्गुणस्यापि ब्रह्मणो मायिकप्रकृतित्वाधिकरणम् । सू०१) सर्वधर्मोपपत्तेश्च ॥ ३७॥ ।
१७६
ब्रह्माऽमृतवर्षिणीसमाख्यवृत्तिसहितम् ।
पूर्वाधिकरणे कर्मवशादीश्वरस्य विषमसृष्टिहेतुत्वमुक्तं, तद-
ऽस्तु । विषमसृष्टिप्रयोजककर्मणः सत्त्वात् । तद्वदुपादानत्वप्रयो-
जकसगुणत्वस्याऽभावान्नोपादानत्वमिति प्रत्युदाहरणेनाऽस्यार-
म्भः । निर्गुणाद् ब्रह्मणो जगत्सर्ग वदन् समन्वयो, यन्निर्गुणं
तन्नोपादानं यथा गन्ध इति न्यायेन विरुद्ध्यते ? न वेतिसन्देहे,
विरुद्ध्यते इति प्राप्ते, ब्रूमः॥सर्वधर्मोपपत्तेश्चेति॥ सर्वे जगत्कारण-
त्वसर्वज्ञत्वादयः कारणधर्मा ये विद्यन्ते तेषां पूर्वोक्तप्रकारेण
ब्रह्मण्युपपत्तेर्ब्रह्मैव जगत्कारणमित्यौपनिषदशास्त्र निर्दोषामित्य-
ऽर्थः । अयं भावः। यनिर्गुणं तन्नोपादानमिति व्याप्तौ, किं परि-
णामित्वाभावो व्यापक, उत विवोंपादानत्वाभावः । नाद्यः ।
इष्टत्वात् । न द्वितीयः । आरोपितानित्यत्वोपादाने ज्ञानजात्या-
दौ व्यभिचारात् । तस्मानिर्गुणत्वे ब्रह्मणो विवर्त्तजगदुपादान-
त्वमविरुद्धमिति । तस्मान्न कथमपि समन्वयस्य विरोध इति
सिद्धम् ॥ ३७॥
इति श्रीमद्ब्रह्मसूत्रहत्तौ ब्रह्माऽमृतवर्षिण्यां द्वितीयाध्यायस्य
प्रथमः स्मृतिपादः संपूर्णः ॥२॥१॥
वेदान्तदर्शनम् । २ अध्याये २ पादः। १७७ । द्वितीयाध्यायस्य द्वितीयः पादः ॥२॥२॥ इयता प्रवन्धेन मुमुक्षूणां सम्यग्ज्ञानोत्पत्तये वाक्यानां समन्वयः प्रतिपादितः । तस्मिन् समन्वये परपरिकल्पितदूषण- निरासेन स्वपक्षः स्थापितः । इदानीं मुमुक्षूणामद्वैतशास्त्रे नि- विचिकित्सप्रवृत्तिसिद्धये परमतदूषणप्रधानः पाद आरभ्यते (१ प्रधानस्य जगद्धतुत्वाभावाऽधिकरणम् । सू० १०) रचनानुपपत्तेश्च नाऽनुमानम् ॥ १ ॥ सांख्यमतस्य शिष्टपरिगृहीतत्वेनाऽभ्यर्हितत्वात्तदादौ नि- राक्रियते । पूर्वमीक्षते ऽशब्दामित्यादिना प्रधानपरत्वेन वेदा- न्तानां व्याख्यानं निरस्तमिह तु प्रधानसाधकवेदनिरपेक्षयुक्ती- नामाभासत्वमुच्यते इति न पौनरुक्त्यम् । अत्र सांख्यादिमत- निरासेन, समन्वयस्य तन्मतविरोधनिरासद्वारा दृढीकरणादस्य पादस्य श्रुत्यध्यायसङ्गती बोध्ये । समन्वये स्मृतिविषयकविरोध- निरासेन स्वपक्षस्थापनपरप्रथमपादेनाऽस्य पादस्योपजीव्योप- जीवकभावसङ्गतिः। स्वपक्षस्थापनं विना परपतनिरासाऽयोगाद स्वसिद्धान्तज्ञानहेतुत्वाद्वा पूर्वपादस्योपजीव्यत्वं बोध्यम् । परमत- निरासपरत्वादेव सर्वेषामधिकरणानां पादसङ्गतिः । सर्वधर्मो- पपत्तेश्चेत्यनेन ब्रह्मणि कारणधर्माणामुपपत्तिरित्युक्तम् । तेषां प्रधान एवोपपत्तिः किं न स्यादिति आक्षेपस्याज निरासादन योरधिकरणयोराक्षेपलक्षणाऽवान्तरसङ्गतिः। फलंतु पादसमाप्ति- पर्यन्तं परमतयुक्तिविरोधाऽविरोधाभ्यां समन्वयाऽसिद्धि- तसिद्धी इति विवेकः । तत्र प्रधानमचेतनं जगदुपादानमिति सांख्यसिद्धान्तो विषयः । सन्दिह्यमानस्यैवाऽधिकरणविषय- त्वात् । स च सिद्धान्तः सन्दियते । किं प्रमाणमूलो ? । २३
mpous
ब्रह्माऽमृतवर्षिणीलमाख्यवृत्तिसहितम् ।
भ्रान्तिमूलो वेति । तत्र प्रमाणमूल एवेति युक्तम् । तथा
हि । बाह्याध्यात्मिक जगत् सुखदुःखमोहात्मकसामान्योपादानक
भवितुमर्हति । तदन्वितत्वात् । यद्यदन्वितं तत्तदुपादानकं यथा
मृदन्वितं घटादिकं मृदुपादानकमिति । तथाच यदेव सुखदुःख-
मोहात्मकं किञ्चित्सिद्धं तदेव सत्त्वरजस्तमोगुणात्मकं प्रधान-
मिति प्रामाणिकः सांख्यसिद्धान्त इति प्राप्ते ब्रूमः । उक्तानुमान-
सिद्धं प्रधानं न जगदुपादानम् ॥रचनानुपपत्तेः॥ चेतना प्रेरिता-
व स्रष्टव्यज्ञानशून्यात् प्रधानादनेकविविधविचित्रजगद्रचनानुप-
पत्तरित्यर्थः । लोके विचित्रप्रासादादिरचनायां बुद्धिकुशल-
शिल्प्यादिकार्यत्वदर्शनादितिभावः। सूत्रे चशब्देन हेतोः स्वरूपा-
सिद्धिं समुचिनोति । सुखादीनामान्तरत्वप्रतीतेस्तदन्वितत्वं
जगतोऽसिद्धम् । तस्मादप्रामाणिकः सांख्यसिद्धान्त इति ॥१॥
प्रवृत्तेश्च ॥ २ ॥
साम्यावस्थापना गुणा हि प्रधानम् । साम्यावस्थायाञ्च न
किञ्चित्कार्य जायते, किन्तु साम्यवस्थापच्यवेन गुणानामङ्गाङ्गि-
भावे जाते कार्यस्योदय इति प्रक्रिया, सा न युक्ता, लोके अचेतन-
रथादिप्रवृत्तेश्चेतनाऽधीनत्वदर्शनात् प्रधानस्य साम्यावस्था-
अच्युतिरूपप्रवृत्तेश्चेतनप्रेरणं विनाऽनुपपत्तेरित्यर्थः ॥ २॥
पयोऽम्बुवञ्चेत्तत्रापि ॥३॥
नवचेतनस्य स्वयम्प्रवृत्तिरपि दृश्यते । यथा क्षीरं वत्सवि-
वृद्धये स्वयमेव प्रवर्त्तते, यथा वा जलं स्वयमेव स्यन्दते तथा
पयोऽम्बुवत् प्रधानं स्वयमेव प्रवर्तते इतिचेन्न । यतस्तत्रापि
परमात्मा प्रेरकः श्रूयते, योऽप्सु तिष्ठन्नित्यादिना । तथाच पक्ष-
त्वान्न व्यभिचारः पयोऽम्बुनोरिति भावः ॥ ३ ॥
SPECAR PUNERAL वेदान्तदर्शनम् । २ अध्याये २ पादः। व्यतिरेकाऽनवस्थितेश्वानपेक्षत्वात् ॥ ४ ॥ अपिच न स्वतन्त्रं प्रधानं जगदुपादानम् । कुतः ॥ व्यति- रेकानवस्थितेः । स्वतन्त्रस्य तस्य कारणत्वे सर्वदा कार्यप्रसक्तौ कदाचिदपि कार्यव्यतिरेकस्यावस्थित्यभावप्रसङ्गादित्यर्थः । त- दपि कुतः ॥ अनपेक्षत्वात् ।। स्वतन्त्रस्य प्रधानस्य चेतनादि- सहकार्यान्तराऽनपेक्षत्वाऽभ्युपगमात्त्वयेत्यर्थः ॥ ४ ॥ अन्यत्राभावाच्च न तृणादिवत् ॥ ५ ॥ ननु तृणोदकादिकं निमित्तान्तरनिरपेक्षमेव क्षीराकारेण परिणमते, तद्वत्प्रधानमपीतिचेन्न । कुतः ॥ अन्यत्राऽभावात् ।। धेन्वादेरन्यत्र बलीवर्दादौ तृणादेः क्षीरीभावस्याऽभावादित्यर्थः। तथाच धेन्वादिसापेक्षमेव तृणादिकं क्षीरीभवति, निरपेक्षत्वे वलीवादावपि क्षीरीभावप्रसङ्ग इति भावः ॥ ५॥ अभ्युपगमेऽप्यर्थाभावात् ॥ ६ ॥ प्रधानस्य स्वतःप्रवृत्त्यभ्युपगमे पुरुषार्थस्याप्यपेक्षाऽभाव- प्रसङ्गादित्यर्थः । न चेष्टापत्तिः । प्रधानमचेतनं चेतनस्य पुरुषार्थं साधयितुमेव प्रवर्तत इति, स्वाभ्युपगमविरोधादिति भावः । यद्वा, अर्थाभावात् प्रयोजनाऽभावादित्यर्थः। तथाहि । न तावत् प्रधानप्रवृत्तिः पुरुषस्य भोगापवर्गार्था । भोग्यानामानन्त्याद- ऽनिर्मोक्षप्रसङ्गात् । नाप्यपवर्गार्था । भोगाभावप्रसङ्गात् । प्रधान- स्याप्रत्तिप्रसङ्गाञ्च पुरुषस्य स्वरूपेणाऽवस्थितिलक्षणस्य मोक्ष- स्य प्रधानाप्रवृत्त्यैव सिद्धेः । तस्मात् प्रयोजनाभावान्न प्रधान- स्य जगद्धेतुत्वम् ॥ ६॥ पुरुषाश्मवदितिचेत्तथापि ॥ ७ ॥ ।
१८० ब्रह्माऽमृतवर्षिणीसमाख्यवृत्तिसहितम् । ननु पुरुष एव प्रधानस्य प्रवर्तकः । ननु स्वयमप्रवर्तमानः कथं परं प्रवर्तयेदितिचेत्,पुरुषाश्मवदिति।।बूमः । लोके यथापङ्गुः पुरुषः स्वयमप्रवर्तमानोऽन्धं प्रवृत्तिशक्तिमन्तं प्रवतर्यति, यथावा- ऽयस्कान्तोऽश्मसंनिधिमात्रेणाऽयः प्रवर्तयति । एवं पुरुषः प्रवर्तक इतिचेन्न। यतस्तथापि दोषाणामनिर्मोक्षः।तथाहि।प्रधानस्य पुरुषप्रे- यत्वे प्रधानं स्वतन्त्रमिति स्वाऽभ्युपगमविरोधः।पुरुषस्य प्रवर्तकत्वे कूटस्थत्वहानिः।स्वस्य व्यापारं विना प्रवर्तकत्वाऽयोगात्। पङ्गो- रपि वाग्व्यापारस्य सत्वात् । अयस्कान्तस्य त्वनित्यसनिधिरेव व्यापाराप्रधानपुरुषसन्निधेर्नित्यत्वेन व्यापारत्वायोगः। नित्य- स्यापि व्यापारत्वे प्रधानप्रवृत्यविच्छेदप्रसङ्ग इत्यादयो दोषाः द्रष्टव्याः। ब्रह्मणस्त्वाविद्यकं प्रवर्तकत्वमिति न कौटस्थ्यहानिः॥७॥ अङ्गित्वाऽनुपपत्तेश्च ॥ ८॥ अपिच, गुणत्रयसाम्यावस्थापकृतिः । साम्यावस्थापच्यु- त्या गुणानामङ्गाजिभावे महदायुत्पत्तिरिति वदता सांख्येनेदं वक्तव्यम् । प्रकृतिः किं कूटस्था, उत विकारिणी । आये पर- स्परापेक्षाणां गुणानां साम्यावस्थापच्युत्याङ्गाङ्गिभावाऽनुप- पत्तेः कार्यानुदयप्रसङ्गः । प्रच्युत्यङ्गीकारे स्वरूपहान्यापत्तेः । द्वितीये, किं स्वतः प्रच्युतिरुताऽन्यतः।नाद्यः । सदा कार्यप्रसङ्गा- त् । न द्वितीयः । पुरुषस्योदासीनत्वादभ्युपगमहानेश्च । अतः प्रच्युत्यभावेनाङ्गाङ्गिभावानुपपत्तेः कार्याभावप्रसङ्ग इत्यर्थः ॥८॥ अन्यथानुमितौ च ज्ञशक्तिवियोगात् ॥ ९ ॥ नन्वनपेक्षस्वभावाः कूटस्थाश्च गुणा नानुमीयन्तेऽस्माभिः, किन्त्वन्यथा प्रकारान्तरेणैव । यथा कार्योत्पत्तिसम्भवस्तथानु- मीयन्ते कार्याऽनुमेयत्वात् प्रधानस्येत्यताङ्गिभावसम्भवात् कार्यो- वेदान्तदर्शनम् । २ अध्याये २ पादः । १८१ त्पादः सम्भवतीतिचेन्न ॥ ज्ञशक्तिवियोगात् ॥ गुणानां ज्ञान- शक्तिरहितत्वादित्यर्थः । अयं भावः । अचेतनानां गुणानां साम्यावस्थापच्युत्यादियोग्यत्वेऽपि प्रच्युतेर्निर्निमित्तत्वाऽसम्भ- वात् किश्चिन्निमित्तं वक्तव्यम् । तथाचान्यस्य निमित्तस्याऽस- म्भवेन, स्वतो वैषम्ये सर्वदा वैषम्यं स्यात् । स्वतोऽप्यवैषम्ये सदा साम्यप्रसङ्ग इत्यङ्गाङ्गित्वानुपपत्तिस्तदवस्थेति कार्यानुत्पादो- ऽपि तदवस्थ इति ॥ ९॥ विप्रतिषेधाच्चासमञ्जसम् ॥ १०॥ सांख्या हि कचिन्महतः पञ्चतन्मात्रसर्ग वदन्ति कचिद- ऽहङ्कारात् कचिदेकादशेन्द्रियाणि कचिद्वाह्यन्द्रियाणि त्वगिन्द्रिये- ऽन्तर्भाव्य सप्तेन्द्रियाणीतिस्थापयन्ति । तथाच परस्परविप्रतिषेधा- दसमअसं सांख्यमतमित्यर्थः । तस्मात सांख्यमतस्य भ्रान्ति- मूलत्वात्तदीययुक्तिविरोधः समन्वयस्य नास्तीति सिद्धम् ॥१०॥ ननु प्रपञ्चस्य ब्रह्मोपादानकत्वे ब्रह्मवचैतन्यं स्यात् कारण- गुणस्य कार्येऽवश्यम्भावादित्याशोमं नियमं तदीयप्रक्रियया व्यभिचारयति- (२ ब्रह्मणो विसदृशजगदुत्पत्तौ काणादीयदृष्टान्तसद्भावा- ऽधिकरणम् । सू०१) महद्दीर्घवदा हस्वपरिमण्डलाभ्याम् ॥ ११ ॥ प्रपञ्चस्य प्रधाननिष्ठाऽशब्दत्वादिगुणानन्वयात् प्रधाना- ऽनुपादानकत्ववब्रह्मगुणचेतनत्वाऽनन्वयात् ब्रह्मोपादानकत्वं न स्यादिति दृष्टान्तसङ्गत्यास्यारम्भः। यद्यपि स्वपक्षे दोषनिरासा- ऽऽत्मकस्यास्याधिकरणस्य नात्र सम्बन्धः, किन्तु स्मृतिपाद एव तथाप्युक्ताऽवान्तरसङ्गतिलोभादिह लिखितमिति मन्तव्यम् । अत्र चेतनाब्रह्मणो जगत्सर्ग ब्रुवन् समन्वयो विषयः । स किं ब्रह्माऽमृतवर्षिणीसमाख्यवृत्तिसहितम् । कारणगुणाः कार्ये स्वसमानजातीयगुणारम्भका इति न्यायेन विरुद्ध्यते, न वेति सन्देहे विरुद्ध्यते इति प्राप्ते, व्यभिचारान्न विरोध इति राद्धान्तः। सूत्रे वाशब्दश्वार्थोऽनुक्ताणुसमुच्चयं ब्रूते । तथाच हस्वपरिमण्डलाभ्यां व्यणुकपरमाणुभ्यां महद्दीर्घाणुव- चेतनाद्ब्रह्मणोऽचेतनं जगद्भवतीतियोजना ।वैशेषिका हि ह्रस्वा- दणोश्च घणुकाद् महद्दीर्घ च व्यणुकं जायते घणुकगतहस्वत्वा- ऽणुत्वे तु व्यणुके स्वसमानजातीयहस्वत्वाणुत्वे नारभेते । किन्तु व्यणुकगतत्रित्वसंख्या ज्यणुके महत्त्वादिकमारभते इति वदन्ति । एवं परिमण्डलात् परमाणोरणुव्यणुकं जायते । परमाणुगत- पारिमाण्डल्यं तु ध्यणुके पारिमाण्डल्यं नजनयति,किन्तु परमाणु- गतद्वित्वसंख्या घणुकेऽणुत्वादिकमारभत इति प्रक्रियां दर्शयन्ति। एवं वर्णयतां वैशेषिकाणां, कारणगुणाः कार्ये स्वसमानजातीय- गुणारम्भका इति नियमाऽभासं वदतां कथं लज्जा न भवेत् । व्यभिचारस्य स्फुटत्वादिति तात्पर्यम् । एतेन, शिष्टापरिग्रहा अपि व्याख्याता इत्यस्याऽयं प्रपञ्च इति न तेन पौनरुत्यं शङ्क: नीयमिति ॥ ११ ॥ इदानी प्रकृतं परमतनिरासमुपक्रमते- (३ परमाणुकारणवादनिराकरणाधिकरणम् । सू०६) उभयथाऽपि न कर्मातस्तदभावः ॥ १२॥ प्रासङ्गिकाव्यवहितेनाऽस्य सङ्गति पेक्षितति व्यवहितेनो- च्यते । ननु प्रधानस्य चेतनाऽनधिष्ठितत्वात् कारणत्वा- ऽभावे तर्हि चेतनाधिष्ठिताः परमाणवः कारणं जगत इति प्रत्युदाहरणेनास्यारम्भः । अत्र परमाणुप्रक्रियया, जगदुत्पत्ति- रिति वैशेषिकसिद्धान्तो विषयः । स किं मानमूलो भ्रान्ति- मूलो वेति विशये, मानमूल इति प्रासे, ब्रूमः । वैशेषिकाः खलु वेदान्तदर्शनम् । २ अध्याये २ पादः। कर्मणा सृष्टेः पूर्व निश्चलयोः परमाण्वोः संयोगे घ्यणुकाद्युत्पत्ति- रिति वदन्ति । तस्य कर्मणः किञ्चिनिमित्तमभ्युपगम्यते, न वा । आये कनिमित्तत्वेन प्रसिद्ध जीवप्रयत्नाभिघातादिकमङ्गी- कर्तव्यम् । न हि तत् संभवति । सृष्टयुत्तरकालीनत्वात्तस्य । द्वितीये कर्मानुत्पत्तिः। अत उभयथापि न कर्म। अतः कर्माभावा- त्तदभावः । व्यणुकादिक्रमेण सृष्टयुत्पादाभाव इत्यर्थः।यद्वा जीवा- ऽदृष्टवशादायं कर्म परमाणुष्विति तत्सिद्धान्तः।तथाच तददृष्टं किं जीवनिष्ठं वा परमाणुनिष्ठं वा । उभयथापि न कर्म । अदृष्टस्या- ऽचेतनस्य कर्माभिमुख्यायोगात् । तथात्वे सर्वदा सृष्टिप्रसङ्गात् । न च जीवोऽदृष्टस्य प्रेरकः । तदानीं तस्य ज्ञानवत्त्वाभावात् । नच वैशेषिकाभिमत ईश्वरः प्रेरक इति वक्ष्यते । अतः सर्गा- भाव इत्यर्थः । यद्वा परमाण्वोः संयोगोत्पत्तौ सृष्टिविभागोत्पत्तौ च प्रलयस्तयोश्च संयोगविभागयोः कर्मैव हेतुरिति तत्सिद्धान्तः । तथाच संयोगहेतुः कर्म नास्तीत्युक्तम् । एवं विभागहेतुः कर्म नास्ति निमित्तस्यादृष्टस्य नोदनादेरसंभवात् । अदृष्टं च भोगार्थ- मेव, न प्रलयार्थमित्युभयथापि न कर्माऽतः संयोगविभागहेतु- काभावात्तदभावस्तयोः सृष्टिप्रलयोरभाव इत्यर्थः । तस्मादनु- पपन्नः परमाणुकारणवादः॥ १२ ॥ समवायाभ्युपगमाच्च साम्यादनवस्थितेः ॥ १३ ॥ तदभाव इत्यनुषङ्गः । तस्य परमाणुकारणवादस्याऽसम्भव इत्यर्थः । कुतः । परमाणुव्यणुकयोः समवायाऽभ्युपगमात् । अभ्युपगमे को दोषस्तत्राह ॥ साम्यादनवस्थितेरिति ॥ यथा ध्यणुकं परमाणुभ्यामत्यन्तं भिन्नं तत्समवायमपेक्षते, एवं सम- वायोऽपि समवायिभ्यामत्यन्तं भिन्नः सन्नन्येन समवायेन समवायिभ्यां सम्बद्ध्येताभिन्नत्वस्य सम्बद्धस्य साम्यादसम्बद्ध- ।
ब्रह्माऽमृतवर्षिणीसमाख्यवृत्तिसहितम् । स्य सम्बन्धत्वादर्शनात् । तथाच तस्यापि भिन्नत्वसाम्यात् । समवायान्तरमित्यनवस्था स्यादित्यर्थः। स्वरूपस्य सम्बन्धत्वे समवायलोपप्रसङ्ग इति बोध्यम् । तथाच समवायासिद्धौ समवेत- बणुकादिसृष्टयासिद्धिः स्यादिति भावः ॥ १३ ॥ नित्यमेव च भावात् ॥ १४ ॥ परमाणूनां प्रवृत्तिस्वभावत्वे प्रवृत्तर्नित्यमेवभावात् मलया- भावप्रसङ्गः । निवृत्तिस्वभावत्वे निवृत्तर्नित्यमेव भावात् सृष्टय- ऽभावप्रसङ्ग इति भावः॥ १४ ॥ रूपादिमत्त्वाच्च विपर्ययोऽदर्शनात् ॥ १५ ॥ चतुर्विधाः परमाणवो रूपस्पर्शादिमन्तो नित्या अणवश्चेति वैशेषिकासिद्धान्तः । स नोपपद्यते । तथाहि । परमाणवो नित्याः स्थूलाश्च भवितुमर्हन्ति । रूपादिमत्त्वात् पटादिवत् । पटो हि रूपादिमत्त्वात् स्वकारणतन्त्वपेक्षया स्थूलो नित्यश्च । तद्वज्ज- गत्कारणस्यापि रूपादिमत्त्वे अनित्यत्वप्रसक्तौ स्वकारणाऽपेक्ष- या स्थूलत्वं स्यादिति न जगजत्कारणस्य रूपादिमत्त्वमिति तात्पर्यम् । सूत्रार्थस्तु, भवन्मते जगत्कारणस्य रूपादिमत्त्वादणु- त्वनित्यत्वाविपयर्यः स्थूलत्वमनित्यत्वं च प्रसज्ज्येत । लोके रूपादिमतः पटादेस्तथा दर्शनादिति ॥ १५ ॥ उभयथा च दोषात् ॥ १६ ॥ रूपरसगन्धस्पर्शात्मिका पृथिवी स्थूला दृश्यते । रूपरस- स्पर्शात्मिका आपः मूक्ष्माः, रूपस्पर्शात्मकं तेजः सूक्ष्मतरम् । स्पर्शात्मको वायुः सूक्ष्मतम इत्यनुभवागमसिद्धा प्रक्रिया । तत्र पृथिव्यादिवत् परमाणवोऽप्युपचिताऽपचितगुणात्मकाः कल्प्यन्ते न वा|आधेऽणुत्वव्याघातः। उपचिताऽपचितगुणात्यकपृथिव्यादेः वेदान्तदर्शनम् । २ अध्याये २ पादः। स्वरूपोपचयापचयदर्शनाद् गुणानां द्रव्यादतिरिक्तत्वेऽपि तादृशगुणवत्वेन पृथिव्यादीनामुपचयदर्शनात् । अणुत्वव्याघात एव । न वा गुणगुणिनोर्भेदः सम्भवति । भेदे गवाश्ववद्गुण- गुणिभावाऽनुपपत्तेर्द्वितीये तत्कार्यपृथिव्यादिषु रूपाद्यनुपलम्भ- प्रसङ्ग इत्युभयथापि दोषादनुपपन्नः परमाणुकारणवादः ॥१६॥ अपरिग्रहाच्चाऽत्यन्तमनपेक्षा ॥ १७ ॥ प्रधानवादो हि सत्कार्यत्वाद्यंशेन मन्वादिभिः शिष्टैः परि- गृहीतः। परमाणुकारणवादस्तु केनचिदप्यंशेन कैश्चिदपि शिष्टैन परिगृहीत इति शिष्टाऽपरिग्रहाचात्यन्तमनपेक्षा परमाणुकारण- वादे कर्तव्या वेदविद्भिरित्यर्थः । सूत्रे चशब्देन वैशेषिकाभिमत- षट्पदार्थाऽसम्भवः सूचितः। स चासम्भवः प्रतिपादितो भगवता भाष्यकृता । तस्माद्ब्रान्त्येकमूलवैशेषिकादिमतेन न समन्वय- स्य विरोध इति सिद्धम् ॥ १७ ॥ (४ वैनाशिकखण्डने समुदायासियाधिकरणम् । सू०१०) समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॥ १८॥ वैशेषिकस्तावत् परिमाणभेदेन देहादेराशुतरविनाशित्वा- ऽङ्गीकारादात्मनः स्थायित्वाङ्गीकाराच्चाईवैनाशिकः । सर्वक्षणि- कत्ववादिनस्तु पूर्णवैनाशिका इत्यर्द्धवैनाशिकवैशेषिकमत- निराकरणानन्तरं पूर्णवैनाशिकमतं बुद्धिस्थमिदानीं निराक्रियत इत्यवान्तरसङ्गतिद्रष्टव्या। तत्र तावद् बुद्धमुनिना आगमउपदिष्टः। म चागमो बैभाषिकसौत्रान्तिकयोगाचारसर्वशून्यवाद्याऽऽख्य- चतुर्विधशिष्यप्रतिपत्तिवैचित्र्याचतुर्विधो भवति । तत्र वैभाषिक- सौत्रान्तिकयोञ्जनं तदतिरिक्तपदार्थाश्च सर्वे क्षणिकाः सत्यभूताः सन्ति । इयान् परं भेदो, वैभाषिकस्य घटादिपदार्थाः प्रत्यक्षाः, । ૨૪
१८६
ब्रह्माऽमृतवर्षिणीसमाख्यवृत्तिसहितम् ।
सौत्रान्तिकस्य तु ज्ञाने घटाद्याकारे सम्पन्ने तेनाकारण
प्रत्यक्षेणाऽमत्यक्षघटादयोऽनुमीयन्त इति । तत्राऽऽदी वैभापिक-
सौत्रान्तिकयो ह्यास्तित्वाऽविशेषात्तयोर्मतमेकीकृत्य तन्मतं
प्रमाणमूलं भ्रान्तिमूलं वेति सन्देहे, प्रमाणमूलमिति प्राप्तम् ।
तथाहि । पृथिव्यप्तेजोबायश्चत्वारि भूतानि चतुर्विधपरमाणुपुञ्ज-
स्वरूपाणि । एवं भौतिकानि रूपादिविषयन्द्रियाणि परमाणु-
पुञस्वरूपाणि । न हि परमाणुसमूहव्यतिरेकेणावयविभूतं कि-
श्चित् कार्यमस्तीति परमाणुहेतुक एव पृथिव्यादिसमुदायोबाह्यः।
आध्यात्मिकञ्चसमुदायःस्कन्धहेतुकः। तथाहि । रूप विज्ञानवेदना-
संज्ञासंस्काराश्च पञ्चैते स्कन्धाः।तत्र रूपस्कन्धः सविषयन्द्रियाणि।
विषयाणां रूपादीनामाध्यात्मिकत्वमाध्यात्मिकेन्द्रियसम्बन्धाद्
द्रष्टव्यम् । अहमित्यालयविज्ञानप्रवाहो विज्ञानस्कन्धः। मुखादि-
प्रत्ययो वेदनास्कन्धः।गौरश्वइत्यादिशब्दादिविशिष्टवस्तुविषयक-
सविकल्पकप्रत्ययः संज्ञास्कन्धः । रागद्वेषमोहधर्माधर्माः
संस्कारस्कन्धः । तत्र विज्ञानस्कन्धश्चित्तमित्यात्मेति च गीयते ।
इतरे स्कन्धाचैत्ताः । एतेषां चित्तचैत्तानां स्कन्धानां समुदायः
सर्वव्यवहाराऽऽस्पदम् । आध्यात्मिकश्च समुदायः स्कन्धहेतुक
इति सर्वक्षणिकत्ववादिनोर्वैभाषिकसौत्रान्तिकयोर्मतम् । त-
निराकरोति ॥ समुदाय उभयहेतुकेऽपि तदप्राप्तिरिति ॥ उभय-
हेतुकेऽपि समुदाये परमाणुहेतुके बाह्यसमुदाये स्कन्धहेतुके
आध्यात्मिकसमुदाये च तदप्राप्तिस्तस्य समुदायस्याप्राप्तिरित्यर्थः।
अचेतनानां परमाणूनां स्कन्धानां च स्वतःसमुदायाऽयोगा-
दन्यस्य च स्थिरस्य, चेतनस्य समुदायकर्तुरनभ्युपगमादिति
सूत्रवाक्यशेषः ॥ १८॥
इतरेतरप्रत्ययत्वादितिचेन्नोत्पत्तिमात्रनिमित्तत्वात॥१९॥
FASHNEEMAMANANDHRINEERININEERINIKHACKERAYRANAANTIHARIENNIAMHARINAM वेदान्तदर्शनम् । २ अध्याये २ पादः । । ननु संहन्तुश्चेतनस्याभावेऽपि संघात उपपद्यते । तथाहि । अविद्या संस्कारो विज्ञानं नाम रूपं षडायतनं स्पर्शो वेदनेत्ये. वञ्जातीयकानामविद्यादीनाम् इतरेतरप्रत्ययत्वादितरेतरकारण- त्वाद्घटीयन्त्रवदनिशमावर्तमानेष्वविद्यादिष्वक्षिप्तः संघात उपपद्यत इति शङ्कार्थः। कार्य प्रति अयते जनकत्वेन गच्छतीति व्युत्पत्त्या प्रत्ययशब्दः कारणवचनः । अविद्यादीनामयमर्थः । क्षणिकेषु स्थिरत्वनित्यत्वादिभ्रान्तिरविद्या सा च विषयेषु रागाद्यात्मकसंस्कारहेतुः । स च संस्कारो गर्भस्थस्याऽऽयं विज्ञानं जनयति । तस्माचाऽऽलयविज्ञानात् पृथिव्यादिचतुष्टयं, शरीरस्य समुदायस्य कारणभूतं जायते । तदेव नामाश्रयत्वा- नाम इत्युच्यते । तच नाम सिताऽसितादिरूपं तच्छरीरं जन- यति । गर्भभूतस्य देहस्य कलिलं बुद्बुदाद्यवस्था नामरूपशब्दा- ऽर्थ इति पर्यवसनं पृथिव्यादिचतुष्टयं नाम रूपं च शरीरं विज्ञान- धातुश्चेति षड़ायतनानि यस्येन्द्रियजातस्य तत् षडायतनम् । नामरूपेन्द्रियाणां मिथःसम्बन्धः स्पर्शस्ततः सुखादिका वेदना, ततः पुनरविद्यादय इति । निराकरोति ॥नेति।। कुतः। उत्पत्ति- मात्रनिमित्तत्वात् ॥ अयमर्थः । द्विविधो हि कार्योत्पादस्तवा- ऽभिमतः- हेत्वधीनः, कारणसमुदायाऽधीनश्चेति । तत्र हेत्व- ऽधीनो यथा बीजादङ्कुरः अङ्कुरात् पत्रं पत्रात् काण्डमित्यादौ । कारणसमुदायाऽधीनो यथा पृथिव्यप्तेजोवाय्वाकाशकाल- विशेषाणां मेलने सति तेभ्य उपकृताबीजादङ्कुरो जायते, एव- माध्यात्मिक कार्योत्पादोऽपि पूर्ववद् द्विविधः । तत्राद्यो हेत्व- धीनः कार्योत्पादचाविद्यादीनाम् । द्वितीयस्तु पृथिव्यप्तेजोवाय्या- काशाऽऽलयविज्ञानानां समवायात् कार्यस्योत्पाद इति, कार्ये- ऽङ्कुरादौ काठिन्यस्नेहपाकादीनां दर्शनात् पृथिव्यादीनां कारण- १८८ ब्रह्माऽमृतवर्षिणीसमाख्यवृत्तिसहितम् । त्वमूह्यते । उभयविधेऽपि, कार्योत्पादे न चेतनापेक्षेति । तत्रा- धमङ्गीकृत्य द्वितीयं कार्योत्पादं हेतुसमुदायाधीनं दूषयति।उत्पत्ति- मात्रनिमित्तत्वादिति। अविद्यादीनामितरेतरकारणत्वेऽप्युत्पत्ति- मात्रे निमित्तत्वान्न हेतुसंघाताधीनः कार्योत्पादः सम्भवति । संहन्तुः स्थिरस्य चेतनस्याऽनङ्गीकारादित्यर्थः ॥ १९ ॥ सर्वक्षणिकत्ववादिनां हेत्वधीनोऽपि कार्योत्पादो न स- म्भवतीत्याह- उत्तरोत्पादे च पूर्वनिरोधात् ॥ २० ॥ कार्यकाले विद्यमानस्यैव मृदादेः कारणत्वं दृश्यते, न तु नष्टस्य । भवन्मते तूत्तरस्य कार्यक्षणस्योत्पादे पूर्वस्य कारणक्षण- स्य निरोधाद् नाशाङ्गीकाराद्, न हेत्वधीनोऽपि कार्योत्पादः स- भ्भवतीत्यर्थः ॥२०॥ ननु निर्हेतुक एव कार्योत्पादोऽस्तु । तथाच, नोक्तदोष इत्याशझ्याह- असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ॥ २१ ॥ असति हेती,कार्योत्पत्यङ्गीकारे पूर्वज्ञानचक्षुरालोकविषयेषु चतुर्यु हेतुषु सत्सु कार्य नीलादिज्ञानं जायते इत्यस्याः प्रतिज्ञा- या उपरोधः स्यात् । अन्यथा कार्य सहेतुकमित्यङ्गीकृत्य कार्य- पर्यन्तं हेतोः स्थित्यङ्गीकारे हेतुफलयोर्योगपद्यम् । एकस्मिन् काले स्थितिः स्यादित्यर्थः । तथाच क्षणिकत्वप्रतिज्ञाहानिरि- ति भावः ॥ २१ ॥ प्रतिसंख्याऽप्रतिसंख्यानिरोधाऽप्राप्तिरविच्छेदात् ॥२२॥ वैनाशिकाः खलु बुद्धिपूर्वकनाशो भावानामबुद्धिपूर्वक नाश आकाशं चेति त्रयमपि अवस्तुसनिरुपाख्यं निर्हेतुकं MMIDrama MAHARAMNNITION संभवति । मूलस्य मृदादेः प्रत्यभिज्ञायमानत्वात् । तस्मान्निरोध- घेदान्तदर्शनम् । २ अध्याये २ पादः । तुच्छमिति वदन्ति । तत्राऽऽकाशस्य निरुपाख्यत्वमुत्तरसूत्रे निरसिष्यते । अत्र तु बुद्धिपूर्वकनाशाबुद्धिपूर्वकनाशरूपनि- रोधद्वयं निराक्रियते । प्रतीपाप्रतिकूलाऽसन्तं घटमसन्तं करो- मीत्येवमाकारिका संख्याबुद्धिः प्रतिसंख्या । तत्पूर्वको नि- रोधो नाशः प्रतिसंख्यानिरोधः।अतत्पूर्वको नाशोऽअतिसंख्यानि- रोधः। तयोनिरोधयोःसंतानिषु,संताने वा अप्राप्तिरसंभव इत्यर्थः। कुतः । अविच्छेदात् । न तावन्निरोधद्वयस्य संतानगोचरत्वं, संतानस्याविच्छेदात् । संतानविच्छेदो हि चरमसंतानिविच्छे- दाद्वक्तव्यः। स न युक्तः। चरमसंतानिनः कार्यान्तरजनकत्वे सं- तानस्याविच्छेद एव । अजनकत्वे चरमसंतानिनोऽर्थक्रियाकारि- त्वरूपसत्त्वाभावेनात्यन्तासन्चात् पूर्वसंतानिनां सर्वेषां शून्यता- परिशेषापत्तिः। अर्थक्रियाया अभावात्। नापि संतानिप्रतियोगि- कत्वं निरोधद्वयस्य । सन्तानिनां घटादीनां क्षणिकत्वेन बुद्धि- पूर्वकनाशायोगात् । नाप्यबुद्धिपूर्वकः समूलनाशस्त्वदभ्युपगतः द्वयस्याऽनुपपत्तिः ॥ २२ ॥ उभयथा च दोषात् ॥ २३॥ स्थिरत्वादिभ्रान्तिरूपाविद्यायाः किं सम्यग्ज्ञानाद्विनाश उत स्वतो वा । नांद्यः । निर्हेतुकनाशाऽभ्युपगमहानिप्रसङ्गात् । द्वितीये सम्यग्ज्ञानोपदेशांनर्थक्यामित्युभयथापि दोषादसङ्गतं सौगतमतमित्यर्थः ॥ २३ ॥ आकाशस्य निरुपाख्यत्वं दूषयति- आकाशे चाविशेषात् ॥ २४ ॥ आत्मन आकाशः संभूत इति श्रुत्या शब्दगुणकत्वेन चा- १९० ब्रह्माऽमृतवर्षिणीसमाख्यवृत्तिसहितम् । ऽऽकाशेऽपि पृथिव्यादिवद्वस्तुत्वप्रतिपत्तेरविशेषान्न निरुपाख्यत्व- मित्यर्थः ॥ २४॥ आत्मनः क्षणिकत्वं दूषयति- अनुस्मृतेश्च ॥ २५॥ अनुभवमनु अनन्तरमुत्पद्यमाना स्मृतिरनुस्मृतिस्तद्धलाद् आत्मनोऽनुभवितुर्न क्षणिकत्वमित्यर्थः । अन्याऽनुभूतेऽन्यस्य स्मरणाऽयोगादिति भावः ॥ २५ ॥ नासतोऽदृष्टत्वात् ॥ २६ ॥ क्षणिकात् कार्योत्पत्तिमिच्छता अर्थादभावानिरुपाख्यादेव कार्योत्पत्तिरङ्गीकृतेति प्रतिभाति। पूर्वक्षणनाशं विना कार्यक्षणो- त्पत्त्ययोगात् साक्षादभावाद्भावोत्पत्तिः स्वग्रन्थे दर्शिता । तथा- चाऽसतोऽभावान्निरुपाख्यात् कार्योत्पत्तिर्न युक्ता । कुतः १ ॥ अदृष्टत्वात् ।। निरुपाख्यानरविषाणादेः कार्योत्पत्तेरदृष्टत्वादित्य- ऽर्थः । दृष्टत्वादिति वा पदच्छेदः । सत एव मृदादेः कार्योत्पत्ते- ईष्टत्वादित्यर्थः ॥ २६ ॥ उदासीनानामपि चैवं सिद्धिः २७॥ किश्चैवमभावाद्भावोत्पत्त्यङ्गीकारे उदासीनानां तत्तत्कार्य- साधनेषु कृष्यादिष्वमवर्तमानानां, स्वगृहे तूष्णीमुपविष्टानामपि पुंसां स्वस्वाऽभिमतस्य कार्यस्य सिद्धिः स्यादित्यर्थः । तस्माद् भ्रान्त्येकमूलेन,वैभाषिकसौत्रान्तिकयोlद्यार्थवादिनोर्मतेन,सम- न्वयस्य न विरोध इति सिद्धम् ॥ २७॥ (५ विज्ञानवादनिराकरणाधिकरणम् । सू०५) नाभाव उपलब्धेः ॥ २८ ॥ एवं क्षणिकबाह्यार्थवादिनिराकरणं कृतम् । तन्निराकरण- वेदान्तदर्शनम् । २ अध्याये २ पादः । मुपजीव्य क्षणिकविज्ञानमात्रसत्यत्ववादी प्रत्यवतिष्ठते इत्यनयो- रुपजीव्योपजीवकभावः संगतिः। विज्ञानवादिनो बौद्धस्य योऽयं सिद्धान्तो, विज्ञानाऽतिरिक्तस्यबाह्यपदार्थस्याभाव इति, सोऽस्या- ऽधिकरणस्य विषयः। स किं मानमूलो भ्रान्तिमूलो वेति सन्देहे मानमूल इति प्राप्तम् । तथाहि । नीलादिविज्ञानस्य, स्वरूपतः सवोर्थान् प्र- त्यविशिष्टत्वाद्वाह्यार्थवादिनापि तस्य नीलादिविज्ञानत्वसिद्धये नीलाद्याकारत्वमङ्गीकरणीयम् । तथाच तेनैवाऽऽकारेण सर्वव्य- वहारोपपत्तौ किं बाह्येन नीलादिना बन्ध्यायमानेन । तथाच स्वप्रकाशनीलादिविज्ञानस्य क्षणिकत्वात् साकारत्वाच स्थायि- निराकारविज्ञानाद्ब्रह्मणो जगत्सर्ग ब्रुवन् समन्वयो न सिद्ध्यती- ति प्राप्ते, ब्रूमः । विज्ञानव्यतिरिक्तानामर्थानामभावो न सम्भवति। कुतः ? ॥ उपलब्धेः ॥ विज्ञानातिरिक्तानाम् अर्थानां घटः पट इत्याद्यनुभवसिद्धत्वादित्यर्थः । नच विज्ञानाकारेणाऽनुभवस्या- ऽन्यथासिद्धिः। बाद्याथै विना तत्सारूप्यात्मकाकारस्य ज्ञाने- ऽपि आसिद्धः । एवञ्च प्रतीयमानो बाह्यार्थ एवेति न ज्ञानस्य साकारत्वं,नापि क्षणिकत्वम् । मानाभावादनुमानस्य पक्षाचनेक- ज्ञानसाध्यतया स्थायिनमनुमातारं विनाऽनुदयादितिस्थायि- निराकारब्रह्मणि समन्वयो न विरुद्भ्यत इति ॥ २८ ॥ ननु जाग्रदवस्थायामुत्पन्नाः सर्वे प्रत्यया निरालम्बनाः। प्रत्ययत्वात् । स्वमगन्धर्वनगरमायाविनिर्मितमायादिपत्ययवदि- त्याशय दृष्टान्ते बाधितविषयत्वमुपाधिरित्याह- वैधाच न स्वप्नादिवत् ॥ २९ ॥ स्वमादिदृष्टान्तेन निरालम्बनत्वं, जाग्रत्मत्ययस्येत्यर्थः चशब्देन दृष्टान्ते साध्यवैकल्यं सूचितम् । स्वमादावपि प्राति- १९२ ब्रह्माऽमृतवर्षिणीसमाख्यवृत्तिसहितम् । MONTRani BRament भासिकविषयाणां सत्त्वादिति ।। २९ ॥ किञ्च, बाह्यार्थानामभावे घटज्ञानं पटज्ञानमित्यादिवैचित्र्यं ज्ञाने न स्यात् । नचं पूर्वपूर्वानादिविचित्रवासनावशाद्वैचित्र्यं स्यादिति वाच्यम् । बाह्यार्थाभावे वासनानामप्यभावादित्याह- न भावोऽनुपलब्धेः ॥ ३०॥ वासनानां न भावो न सम्भव इत्यर्थः । कस्मात् ॥ अनुप- लब्धः। त्वत्पक्षे बाह्यार्थानामनुपलब्धरित्यर्थः। वासनानां बाह्या- ऽर्थानुभवव्याप्यत्वाध्यापकाऽभावे व्याप्याऽभाव इति बाह्यार्था- ऽनुभवस्य वासनानां प्रति कारणत्वात् कारणाभावे कार्याभाव इति वा तात्पर्यम् । किञ्च वासनानां संस्काराभिधानानां त्वत्पक्षे आश्रयाऽसम्भवादनुपपत्तिः ॥ ३०॥ नन्वहमित्यालयप्रत्यय एवाऽऽश्रय इत्यत आह- क्षणिकत्वात् ॥ ३१॥ आलयविज्ञानस्य क्षणिकत्वाङ्गीकारान्नाश्रयत्वं, संस्कारा- श्रयत्वे वा न क्षणिकत्वम् । संस्कारसमानकालीनस्य वा सं- स्कारकाले असतो वाऽऽश्रयत्वायोगादिति भावः ॥ ३१ ॥ सर्वथानुपपतेश्च ॥ ३२॥ पश्यना, तिष्ठनेत्याद्यपशब्दप्रयोगाद् ग्रन्थतोऽप्यनुपपन्नामि- दं वेदबाह्यानां मतमुक्तमकारेणार्थतोऽप्यनुपपन्नमिति सर्वथानुप- पत्तेर्नादरणीयं श्रेयोऽर्थिभिः सौगतमतमित्यर्थः । दर्शनमिति वक्तव्ये, पश्यनेत्यपशब्दास्थानमिति वक्तव्ये, तिष्ठनेत्यपशब्दः, दृशेस्तिष्ठतेश्च धातोः शिति प्रत्यये पश्यतिष्ठावादेशौ भवतः । नपुन्प्रत्यये तस्याशित्त्वादिति बोध्यम् ॥ नतु बाह्यार्थवादस्य केवलविज्ञानमात्रवादस्य चोक्तरीत्या- PHINMMENAMEERVESHAMACHMENTAmemo वेदान्तदर्शनम् । २ अध्याये २ पादः। असम्भवाच्छ्न्यं निःस्वरूपमेव प्रपञ्चतत्त्वं किं न स्यादिति शङ्का- यां पुनर्नाभाव उपलब्धेरित्यादीनि सूत्राणि शून्यमतनिरास- परत्वेन योज्यन्ते । प्रपञ्चशून्यत्वस्य सर्वप्रमाणबाधितत्वेन तन्नि- साय पृथक्प्रयत्नानपेक्षणात् । तथाहि । ज्ञानार्थयोर्नाऽभावः । प्रमाणैरुपलब्धेरित्यर्थः ॥ वैधाचेति सूत्रं पूर्ववद् व्याख्येय- म् । प्रपञ्चस्य बाध्यत्वे बाधाधिष्ठानं सत्यं किञ्चिद् वक्तव्यम् । निराधष्ठानबाधायोगात् । तस्य चाऽधिष्ठानस्य त्वन्मते,न भावः, न सत्त्वम् । प्रमाणतस्तदनुपलब्धेरिति, न भावोऽनुपलब्धेरिति सूत्रार्थः॥ क्षणिकत्वाच्चेतिसूत्रे विभक्तेः पूर्वमुपदेशेत्यध्याहारः । तथाच कचित् पदार्थानङ्गीकृत्य तेषां क्षणिकत्वोपदेशाच्छ्न्योपदेशाच्च व्याहतार्थबोधकः सुगत इत्यर्थः ॥ अन्त्यसूत्रं कृतव्याख्यानम् । तस्माद् भ्रान्त्येकशरणवौद्धमतेन न समन्वयस्य विरोध इति सिद्धम् ॥ देहस्य सर्वसाधारणत्वेन जडत्वविभक्तत्वरूपेण प्रत्यक्षत्व- नश्वरत्वात्तस्यात्मता नसम्भवतीत्युपेक्षितं सूत्रकारिति तेनापि समन्वयस्य न विरोधः ॥ ३२॥ (६) आर्हतानां सप्तभङ्गीनयनिराकरणाधिकरणम् (सू०४) नैकस्मिन्नसम्भवात् ॥ ३३ ॥ एवं मुक्तकच्छानां बौद्धानां मते निरस्ते विवसनानां जैना- नां मतं बुद्धिस्थं बुद्धिसनिधिलक्षणसङ्गत्या निराक्रियते । तत्र संशयः । किं दिगम्बरमतं मानमूलं भ्रान्तिमूलं वेति । मानमूल- मिति प्राप्तम् । तथाहि । स्यादास्त, स्यानास्ति, स्यादस्ति नास्तिच, स्यादवक्तव्यः, स्यादस्ति चावक्तव्यः, स्यान्नास्ति चावक्तव्यः, स्यादस्ति नास्ति चावक्तव्यश्चेत्येवंरूपसप्तभङ्गनयमस्तित्वनास्ति- ब्रह्माऽमृतवर्षिणीसमाख्यवृत्तिसहितम् । त्वादिविरुद्धधर्मद्वयमादाय सर्वेषु योजयन्तो विवसनाः पदार्थ- मात्रस्याऽनेकरूपत्वम् आचक्षते उपादानादिव्यवहारसिद्धये । अन्यथा वस्तुन एकरूपत्वेन सर्वात्मनाऽस्तित्वं, नास्तित्वं वा । वक्तव्यमिति प्राप्यात्मनापि सत्त्वाद् वस्तुप्राप्त्यर्थमुपादानादि- व्यवहारो नस्यात् । अतः केनचिद् घटादिरूपेणाऽस्ति, केनचित् प्राप्यादिरूपेण नास्तीत्यनेकत्वमेव वस्तुनः । सप्तभङ्गनयो नाम सप्तस्वस्तित्वादिषु वस्तुन्येकत्र विरोधभङ्गः । स एवात्र नयो युक्तिः, स इत्यर्थः । स्यादस्तीत्यादेरयमर्थः । स्यात्पदं कथश्चि- दित्यर्थकम् । वस्तुनोऽस्तित्वविवक्षायामाद्यो भङ्गः । असत्त्ववि- वक्षायां द्वितीयो भङ्गः । क्रमेणोभयवाञ्च्छायां तृतीयो भङ्गः। युगपदुभयवाञ्च्छायामास्तित्वनास्तित्वयोर्युगपद्वाचा वक्तुमशक्य- त्वादवक्तव्यत्वं वस्तुन इति चतुर्थो भङ्गः। आद्यचतुर्थयोर्भङ्गयोः क्रमेण वाञ्च्छायां पञ्चमो भङ्गः । द्वितीय- चतुर्थयोर्विवक्षायां षष्ठो भङ्गः । आद्यद्वितीयचतुर्थानां वाञ्च्छा- यां सप्तमो भङ्ग इति । एवमेकत्वाऽनेकत्वनित्यत्वाऽनित्यत्वादि- विरुद्धधर्मद्वयमादायोक्तनयो योजनीय इति । तस्माद्वस्तुमात्रस्य सत्त्वमसत्त्वं चेत्येवमादिविरुद्धाऽनेकधर्मवत्त्वमेवेत्येकरूपब्रह्म- समन्वयो न सिद्ध्यतीतिप्राप्ते ब्रूमः- नैकस्मिन्नसम्भवादितिाएकस्मिन् परमार्थरूपे वस्तुनि विरुद्धधर्मा- णामसम्भवाद्वस्तुनोऽनेकरूपत्वं नास्तीत्यर्थः। यदस्ति तदस्त्येव, न नास्ति । यनित्यं तन्नित्यमेव, नाऽनित्यम् । यथा प्रत्यगात्मा वस्तुभूत एवं प्रपञ्चस्यापि त्वन्मते वस्तुभूतत्वान्नानेकरूपत्व- सम्भवोऽस्मन्मते तु प्रपञ्चो, न सन्नाप्यऽसत् किन्त्वनिर्वचनीय एव । तेन सर्वव्यवहारसम्भव इति भावः ॥ ३३ ॥ एतेषामाहतानां देहपरिमाण एवात्मेति मतं दूषयति- RACHN-DMRITSANSAWUNNINTHANIASIYA वेदान्तदर्शनम् । २ अध्याये २ पादः । एवश्चात्माऽकात्यम् ॥ ३४ ॥ यथैकत्र विरुद्धधर्माऽसम्भवो दोषस्तेषामार्हतानां मते एव- मात्मनोऽकात्स्न्यं परिच्छिन्नत्वं, दोषान्तरं स्यात् । जीवस्य देह- परिमाणत्वाङ्गीकारादित्यर्थः । तथाच परिच्छिन्नत्वादात्मनो घटादिवदनित्यत्वं स्यादिति भावः। किश्वात्मनो देहपरिमाण- से मनुष्यात्मनः कर्मवशाद् गजशरीरे कृत्स्ने प्रवेशो न स्यात् । पुत्तिकाशरीरे वा कृत्स्नस्याऽऽत्मनः प्रवेशो न स्यात् ।। ३४॥ ननु जीवस्य सावयवत्वाङ्गीकारात् पर्यायेण गजादिशरीर- माप्तौ केचिदवयवा. आगच्छन्ति, सूक्ष्मपत्तिकाशरीरमाप्ती च केचिदपगच्छन्तीति न मनुष्यात्मनः स्थूलनुक्ष्मशरीरमाप्तिवि- रोष इत्याशक्य निराकरोति- न च पर्यायादप्यविरोधो विकारादिभ्यः ॥ ३५ ॥ पर्यायादपि अवयवगमनागमनाभ्यामपि तत्तत्स्थूलसूक्ष्म- शरीरपरिमाणत्वस्यात्मन्यविरोध इति न चेत्यर्थः । कुतः ॥ विकारादिभ्यः॥आत्मनः सावयवत्वेन तत्तच्छरीरप्राप्त्या वृद्धि- हासवत्वाङ्गीकारे विकारवत्त्वप्रसक्तौ प्रदीपादिवदनित्यत्वं स्याद् अनित्यत्वे च वन्धमोक्षाभ्युपगमो विरुद्ध्येत । जलतुम्बिका- न्यायेन संसारसागरे मनस्य बन्धविच्छेदात् संततोर्ध्वगमनं मुक्तिर्भवतीति त्वयाभ्युपगमादिति । यद्वा पूर्वसूत्रे परिच्छिन्न- स्वादात्मनोऽनित्यत्त्वं स्यादिति उक्तमयुक्तम् । अनित्यत्वेऽपि बौद्धवत् सन्ताननित्यत्वोपपत्तरित्याशझ्याह । न चेत्यादि सूत्र- म् ॥ पर्यायादपि सन्तानरूपेण नित्यत्वस्यात्मन्यविरोध इति न चेत्यर्थः । कुतः॥विकारादिभ्यः॥ सन्तानस्य सन्तानिव्यतिरिक्त- स्य सत्वे तस्य च सन्तानिजन्यत्वाद्विकारवत्वं स्यादेव । असत्त्वे ब्रह्माऽमृतवर्षिणीसमाख्यवृत्तिसहितम् । नैरात्म्यवादप्रसङ्ग इत्यर्थः ॥ ३५ ॥ किञ्च, अन्त्यावस्थितेश्वोभयनित्यत्वादविशेषः ।। ३६ ॥ मुक्तात्मनो यत् परिमाणं तदन्त्यं, तच्च नित्यमप्यणुत्वा- धन्यतमपरिमाणत्वेन व्यवस्थितं चेति जैनसिद्धान्तः। तथाच, अन्त्यस्य परिमाणस्य नित्यत्वेनाऽवस्थितेस्तदृष्टान्तेनाऽऽत्म- परिमाणत्वेन हेतुनोभयोरायमध्यमपरिमाणयोनित्यत्वप्रसङ्गात् । त्रयाणामाद्यमध्यमान्त्यपरिमाणानामविशेषः साम्यं स्यादित्यर्थः । नित्यपरिमाणानां त्रयाणामेकत्राऽसंभवानित्यत्वमापाद्य, तेन साम्यमापादितमिति द्रष्टव्यम् । परिमाणसाम्ये स्थूलसूक्ष्मशरीर- प्राप्तौ परिमाणवैषम्यं नस्यादिति भावः।यद्वा सर्वदैकमेव परिमाणं स्यादित्यापाद्यम् । तथाहि । अन्त्यपरिमाणस्य जन्यत्वे नित्यत्व- विरोधादाद्यमध्यमकालाऽवस्थानं वक्तव्यमिति, यदन्त्यपरिमाण- मणु महद् वा तदेवैकं सर्वदा स्यान्नान्यत् । तथाचान्त्यपरिमाण- स्यावस्थितरणुत्वाद्यन्यतमत्वेन नियतत्वादाद्यमध्यकालयोरुभयो- स्तस्य परिमाणस्य नित्यत्वादेकत्वादविशेषः । जीवोऽणुश्चे- दणुरेव, महाँश्वेन्महानेव स्यादित्यर्थः । तथाच न शरीरपरि- माणनियम इति भावः। तस्मादयुक्तविवसनमतेन न समन्वयस्य विरोध इति सिद्धम् ॥ ३६॥ इदानीं केवलं निमित्तकारणमेवेश्वरो, नोपादानमिति येषां सेश्वरसांख्यपातञ्जलिशैवकणभुगादीनां मतं, तदीयं दूषयति- (७ केवलनिमित्तकारणवादनिराकरणाधिकरणम् । सू०५) पत्युरसामञ्जस्यात् ॥ ३७ ॥ पूर्व सत्त्वासत्त्वयोरेकत्र विरोधादसम्भव इत्युक्तम् । तर्हि तद्वदुपादानकर्तृत्वयोरेकत्र विरोधादसम्भव इति दृष्टान्तसङ्गत्या वेदान्तदर्शनम् । २ अध्याये २ पादः। १९७ । निमित्तोपादानोभयात्मकब्रह्मसमन्वयाऽसम्भव इत्याक्षेपे सिद्धा- न्तः- पत्युरीश्वरस्य जगदुपादानप्रधानादिप्रेरकत्वेन जगनि- मित्तत्वमात्रं न सम्भवति । कुतः ॥ असामञ्जस्यात् ॥ ईश्वरस्य जगत्सर्जने प्रवृत्तौ रागद्वेषादिप्रसङ्गाद् असामञ्जस्यं स्याद् । प्रवृत्ते रागद्वेषादिपूर्वकत्वेन लोके दृष्टत्वाद् दृष्टाऽनुसारित्वात् कल्पनायाः। अस्माकं तु श्रुत्यनुसारित्वादनिर्वचनीयवादित्वाच न दोष इति भावः ॥ ३७॥ सम्बन्धाऽनुपपत्तेश्च ॥ ३८॥ प्रेर्यप्रधानादिभिः प्रेरकस्येश्वरस्य सम्बन्धो वाच्यः । असम्बन्धस्य प्रेरकत्वाऽयोगात् । न च सम्बन्धः सम्भवति । निरवयवत्वादयुतसिद्धत्वाञ्च संयोगसमवाययोरनुपपत्तेरित्यर्थः । सिद्धान्ते त्वविद्यादिप्रेरकत्वं कल्पिततादात्म्येनोपपद्यत इति भावः ॥ ३८॥ किञ्च, कुम्भकारस्य मृदादिप्रेरत्वदृष्टान्तेनेश्वरस्य प्रधाना- दिप्रेरकत्वं कल्पनीयम् । न हि तत् सम्भवति । प्रधानस्यं रूपा- दिहीनत्वेन दृष्टमृदादिवैलक्षण्यात् प्रधानादिविषयकप्रेरणाया ईश्वरस्याऽनुपपत्तेरित्याह- अधिष्ठानानुपपत्तेश्च ॥ ३९ ॥ अधिष्ठानं प्रेरणा । सिद्धान्ते तु न दृष्टापेक्षा, श्रुत्येकशरण- त्वादिति भावः ॥ ३९ ॥ करणवचेन्न भोगादिभ्यः ॥ ४०॥ ननु करणानीन्द्रियाणि अप्रत्यक्षाण्यपि, यथाजीवेन प्रेर्यन्ते, एवं प्रधानादिकमप्रत्यक्षमपीश्वरेण प्रेर्यन्ते इतिचेन्न । कुतः ॥ भोगादिभ्यो, दोषेभ्यः । जीवो हीन्द्रियग्रामं भोगार्थ प्रेरयति ।
ब्रह्माऽमृतवर्षिणीसमाख्यवृत्तिसहितम् । तदृष्टान्तेनेश्वरस्य प्रेरकत्वे तद्बद्भोगादयः प्रसज्ज्येरनित्यर्थः ।। यद्वा, सशरीरस्यैव प्रेरकत्वदर्शनादीश्वरस्य च शरीरानुप- पत्तेन प्रेरकत्वमित्याह ॥ अधिष्ठानानुपपत्तेश्च ॥ ३९ ॥ भोगाधिष्ठानं शरीरमधिष्ठानशब्दार्थः ॥ करणवचेन्न भोगा- दिभ्यः ॥ करणवदिन्द्रियाधिष्ठानं शरीरमित्यर्थः । तदीश्वरे अङ्गीक्रियते एवेतिचेन्न । शरीरवत्वे भोगादिप्रसङ्गादीश्वरत्वमेव न स्यादित्यर्थः ॥ ४०॥ अन्तवत्त्वमसर्वज्ञता वा ॥ ११ ॥ किञ्च, प्रधानजीवेश्वराणां या संख्या, यच्च परिमाणं, तदुभयमीश्वरेण परिच्छिद्यते ? न वा। आये परिच्छिन्नसंख्या- वत्त्वात् परिच्छिन्नपरिमाणवत्त्वाच त्रयाणां प्रधानजीवेश्वराणां घटादिवदन्तवत्त्वं विनाशित्वं स्यात् । द्वितीये ईश्वरस्याऽसर्व- ज्ञत्वं स्यादित्यर्थः । तस्मादसङ्गतेन तार्किकपरिकल्पितेश्वर- कारणवादेन ननिमित्तोपादानब्रह्मसमन्वयविरोधइतिसिद्धम्।।४१ (८) जीवोत्पत्तिवादनिराकरणाधिकरणम् । सू०४) उत्पत्त्यसम्भवात् ॥४२॥ एवं केवलाधिष्ठातैवेश्वर इति वेदाऽसङ्गतमते निरस्ते, नि- मित्तं प्रकृतिश्चेश्वर इति भागवतमतस्य वेदसङ्गतार्थत्वात्तदङ्गी- कृतजीवोत्पत्त्यंशेऽपि प्रमाणमूलत्वं स्यादिति प्रत्युदाहरणसङ्गत्या- रम्भः । तद् भागवतमतं प्रमाणमूलं, भ्रान्तिमूलं वेति सन्देहे प्रमाणमूलमिति प्राप्तम् । तथाहि । वासुदेवः खलु परमात्मा परमार्थतत्त्वं जगदुपादानं निमित्तं च । तस्माद्वासुदेवात् सङ्कर्षणा- ऽऽख्यो जीव उत्पद्यते । ततो जीवात् प्रद्युम्नाख्यं मनो जायते । मनसञ्चाऽनिरुद्धाख्योऽहङ्कार इति । तथाच जीवाभिन्नाद्ब्रह्मणो जगत्सर्ग युवतः समन्वयस्यासम्भव इति प्राप्ते, वेदाऽविरुद्धांश- ।
१९९ वेदान्तदर्शनम् । २ अध्याये २ पादः । मङ्गीकृत्य वेदविरुद्धजीवाद्युत्पत्त्यशं दूषयति।। उत्पत्त्यसम्भवादि- ति ॥ परमात्मनो वासुदेवाज्जीवस्योत्पत्तेरसम्भवाद् न तन्मतं साध्वित्यर्थः। अन्यथा जीवस्योत्पत्त्यङ्गीकारे घटादिवदनित्यत्वा- पत्त्या भगवत्प्राप्तिरूपमोक्षस्त्वदभ्युपगतःकस्य स्यादित्यर्थः॥४२॥ न च कर्तुः करणम् ॥ ४३ ॥ लोके कर्तुर्देवदत्तादेः सकाशात् करणस्य कुठारादेरुत्पत्त्यदर्शना- जीवात् कर्तुः करणं मनो जन्यत इत्येतन्न युक्तमित्यतश्च तन्मत- मसङ्गतमित्यर्थः। अयं भावः । किं जीवो मनः करणान्तरमासाद्य जनयति, अनासाद्य वा। आये तत्करणान्तरं जीवजन्यं न वा। आद्येऽनवस्था। आद्यविकल्पावतारसम्भवात् । द्वितीये तदेव मनो- ऽस्त्विति न मनसो जीवजन्यत्वम्। आद्यद्वितीये करणरहितस्यैव जीवस्य कार्यजननसामाङ्गीकारे किं मनःकल्पनयेति ॥४३॥ ननु संकर्षणादयस्त्रयो न जीवादिरूपाः, किन्तु वासुदेव- वद्विज्ञानस्वरूपा ईश्वरा एवेत्याशङ्याह विज्ञानादिभावे वा तदप्रतिषेधः ॥४४॥ सङ्कर्षणादीनां त्रयाणां वासुदेववद्विज्ञानादिभावे वा विज्ञानैश्वर्यबलवनिर्दोषनिरवद्यस्वरूपत्वेऽपि, तदप्रतिषेधः । तस्योत्पत्त्यसम्भवरूपदोषस्य प्रकारान्तरेणाऽप्रतिषेध इत्यर्थः । तथाहि । न तावच्चतुर्णा वासुदेवादीनामीश्वराणां, किञ्चित् प्रयोजनमस्तिाएकेनैव कार्यसिद्धर्भगवानेवैको वासुदेवः परमार्थ- तत्त्वमिति त्वत्सिद्धान्तहानिश्च । नन्वीश्वराणां संकर्षणादीनां त्रयाणां वासुदेवतुल्यानामेव वासुदेवादुत्पत्तिरभ्युपगम्यत इति नोक्तदोष इतिचेतागत उत्पत्त्यसम्भवो दोषः । सङ्कर्षणादी- नामीश्वरत्वाविशेषे वासुदेवस्य ततोऽऽतिशयाऽभावेन त्रयाणां HTTA
२००
ब्रह्माऽमृतवर्षिणीसमाख्यवृत्तिसहितम् ।
वासुदेवेन जन्यत्वानुपपत्तेरिति ॥४४॥
विप्रतिषेधाच्च ॥ ४५ ॥
कचिज्ज्ञानेश्वर्यशाक्तिबलवीर्यतेजांसि वासुदेवगुणा इति प्रति-
पादयन्ति, कचिच्चोक्तगुणा एवाऽत्मानो वासुदेवा भगवन्त
इत्यभेदं गुणगुणिनोर्वर्णयन्ति । तथाच परस्परं विप्रतिषेधा-
चाऽसमञ्जसमिदं भागवतमतमित्यर्थः । तस्मानिरवद्ये ब्रह्मणि,
वेदान्तानां समन्वय इति सिद्धम् ॥ ४५ ॥
इति श्रीमद्ब्रह्मसूत्रवृत्तौ द्वितीयस्याध्यायस्य
द्वितीयः पादः ॥२॥२॥
२ ५ (७) न्यायरत्नमाला-श्रीपार्थसारथिमिश्र वि० सं० (मीमांसा) (८) ब्रह्मसूत्रभाष्यम्-बादरायणप्रणीत- वेदान्तसूत्रस्य यतीन्द्र श्रीमद्विज्ञान- (वेदान्तः)६ भिक्षुकृत व्याख्यानम् । सम्पूर्णम् । (९) स्याद्वादमञ्जरी-मल्लिषेणनिर्मिता सम्पूर्णा । (जैनदर्शनम् )२ (१०) सिद्धित्रयम्-विशिष्टाद्वैत-ब्रह्मनिरूपण- परम्-श्रीभाष्यकृतां परमगुरुभिः श्री६ (वेदान्तः)१ श्रीयामुनमुनिभिर्विरचितम् । सम्पूर्णम् (१२) न्यायमकरन्दः । श्रीमदानन्दबोधभट्टा- रकाचार्यसंगृहीतः । आचार्यचित्सुख- (वेदान्तः)४ मुनिविरचितव्याख्योपेतः (१२) विभक्त्यर्थनिर्णयःन्यायानुसारिप्रथमादि- सप्तविभक्तिविस्तृतविचाररूपः म०म० (न्यायः) श्रीगिरिधरोपाध्यायरचितः । सम्पूर्णः (१३) विधिरसायनम् । श्रीअप्पयदीक्षितकृतम् । सं० ( मीमांसा) ૨ (१४) न्यायसुधा (तन्त्रवार्तिकटीका) भट्ट- सोमेश्वरविरचिता। (मीमांसा ). १६ (१५) शिवस्तोत्रावली । उत्पलदेवविरचिता। श्रीक्षेमराजविरचितवृत्तिसमेता । (वेदान्तः)२ (१६) मीमांसाबालप्रकाशः (जैमिनीयद्वादशा- ऽध्यायार्थसंग्रहः) श्रीभट्टनारायणात्मज (मीमांसा)२ भट्टशङ्करविरचितः। (१७) प्रकरणपश्चिका (प्रभाकरमतानुसारि-मीमांसादर्शनम् ) महामहो- पाध्यायश्रीशालिकनाथमिश्रविरचितं, श्रीशङ्करभट्टकृतो मीमांसा- सारसंग्रहश्च सम्पूर्णः (मीमांसा)३ (१८) अद्वैतसिद्धिसिद्धान्तसारः । पण्डितप्रवरश्रीसदानन्दव्यासप्रणीत- स्तत्कृतव्याख्यासमलङ्कृतश्च । (वेदान्त)३ (१९) कात्यायनश्रौतसूत्रम् । महामहोपाध्यायश्रीककर्का- चार्यविरचितभाष्यसहितम् । (२०) ब्रह्मसूत्रभाष्यम् । श्रीभास्कराचार्यविरचितम् ( वेदान्तः) (२१)श्रीहर्षप्रणीतं खण्डनखण्डखाद्यम् । आनन्दपूर्ण-) विरचितया खण्डनफक्किकाविभजनाख्यया व्या-(वेदान्तः) १३ ख्यया ( विद्यासागरी)ति प्रसिद्धया समेतम्। (२२) आख्यातचन्द्रिका श्रीभट्टमल्लविरचिता । (२३) श्रीलक्ष्मीसहस्रम्-वालबोधिनीव्याख्यया-1 ऽवतराणिकया च सहितम् । १ १ ग-} २ १ २ १ १३ (२४) ब्रह्मसूत्रवृत्तिः मरीचिका श्रीवजनाथभट्टकृता (वेदान्त) (३५)क्रोडपत्रसंग्रहः । अत्र श्रीकालीशङ्करसिद्धान्तवागीशविरचि. तानि अनुमानजागदीश्याः प्रत्यक्षानुमानगादाधर्याः प्रत्यक्षानु- मानमाथुर्या व्युत्पत्तिवादस्य शक्तिवादस्य मुक्तिवादस्य शब्द- शक्तिप्रकाशिकायाः कुसुमाञ्जलेश्च क्रोडपत्त्राणि । (न्यायः) (२६) ब्रह्मसूत्रम् , द्वैताद्वैतदर्शनम् । श्रीसुन्दरभट्टरचितसिद्धान्तसेतुका- ऽभिधटीकासहितश्रीदेवाचार्यप्रणीतसिद्धान्तजाह्नवीयुतम् (२७) षड्दर्शनसमुच्चयः । बौद्धनैयायिककापिलजैनवैशेषिक- जैमिनीयदर्शन संक्षेपः । मणिभद्रकृतटीकया सहितः । हरि- भद्रसारकृतः। (२८) शुद्धाद्वैतमार्तण्डः प्रकाशव्याख्यासहितः । प्रमेयरत्नावश्च (२९) अनुमानचिन्तामणिव्याख्यायाः शिरोमणिकृतदीधित्या- जागदीशी टीका। (३०) वीरमित्रोदयः । महामहोपाध्यायश्रीमित्रमिनविरचितः परिभाषा संस्कारप्रकाशात्मकः । (३२) वीरमित्रोदयः। महामहोपाध्यायश्रीमित्रमिश्रविरचितः आह्निकप्रकाशः। (३२) स्मृतिसारोद्धारः विद्वद्वरविश्वम्भरत्रिपाठिसंकलितः। (३३) वेदान्तरत्नमञ्जूषा । श्रीभगवत्पुरुषोत्तमाचार्यकृता । (३४) प्रस्थानरत्नाकरः।गोस्वामिश्रीपुरुषोत्तमजी महाराजधिरचितः २ (३५)वेदान्तपारिजातसौरभं नाम भीमांसाभाप्यं श्रीनिम्बार्का- चार्यविरचितम् । (३६) योगदर्शनम् । परमहंसपरिव्राजकाचार्य-नारायणतीर्थ- विरचित-योगसिद्धान्तचन्द्रिका-समाख्यया संवलितम् । (३७) वेदान्तदर्शनम् । परमहंसपरिव्राजकाचार्यश्रीरामानन्द सरस्वती स्वामिकृत ब्रह्माऽमृतवर्षिणी समाख्य व्याख्या- संवलितम् । २ ३ २ १ २ पत्त्रादिप्रेषणस्थानम् । हरिदास गुप्ता चौखम्बा, बनारस सिटी.