Asr,melkote

Purusartha Mimamsa

Subrahmand-yashaastrii · 2004/12/25

PDF Proofread

Front matter

No text on this page.

No text on this page.

No text on this page.

॥ श्रीः॥ यान्यस्माक मुचरितानि तानि वयोपास्यानि ||" ॥ पुरुषार्थमीमांसा ॥ श्रुतिमूलः स्मृतिस्कंधः सदाचारसुमोज्वलः ॥ धर्मकल्पतरु यात्पुरुषार्थफलपदः ।। इह खलु सर्वेषां मानुषाणामिष्यमाणतयाऽवगतेषु पुरु- पार्थेषु प्रवृत्ति सर्गिकी। सा प्रवृत्तिरविगीता पुंसां निखिल- श्रेयस्साधनाय कल्पते ॥ विभिन्नरुचीनां लोकानां पुरुषार्थ- प्रवृत्तयोऽमि नानाप्रकाराः। विशिष्टसंस्कारोपेतांतःकरणानुरूपा मनुष्याणामभिरुचिः ॥ सा यद्यनवस्थिता तदा लोकमर्यादा विपर्यस्ता भवेदिति लोकतः शास्त्रतश्च कापि व्यवस्था सर्वेषा- मावश्यकी भवति । पौरुषेयीमपौरुषेयी वा व्यवस्थामाश्रित्य पुरुषार्थसाधनाय प्रयतते ॥ महापुरुषैरनुष्ठीयमानो धर्मः प्रचयं गमिष्यति । धर्मस्वरूपनिरूपणं हि नानाशाखासु विप्रकीर्णत्वेन कालदेशादिभेदेन व्यवस्थानामानंत्येन नानाप्रकरणस्थत्वेन च दुरवगाहमतिमूक्ष्मं च तदत्र शास्त्राण्येव प्रमाणम् । उक्तं च भगवता (गी.१६ अ. श्लो. २४) 'तस्माच्छास्त्रं प्रमाणं ते कार्या- कार्यव्यवस्थिता' विति । शास्त्राणि पुरुषं धर्मे प्रवर्तयंति निव- , २ तयंति चाधर्मात् ॥ प्रवृत्तिप्रयोजको विधिः । निवृत्तिप्रयोजकः प्रतिषेधः । विधिप्रतिषेधौ शास्त्राचार्योपदेशनयलोकहत्तादिवि- शानेन सम्यग्विज्ञाय पुरुषार्थसाधनाय प्रयतितव्यम् ॥ अज्ञाते अन्यथा ज्ञाते वा पुरुषार्थखरूपे न किमपि प्रयोजनं भवति । परमार्थदर्शिनः पुरुषाः परस्परानुबंधिषु पुरुषार्थेषु यथा- योगं प्रवृत्ताः परां सिद्धिमुपयाति ॥ अत्र केचन मुखहेतु- त्वादर्थकामावेव श्रेयो मन्वते ॥ अपरे कामहेतुतामवष्टभ्य ध- मार्थों श्रेयो विजानंति ॥ अर्थ एव धर्मकामयोस्साधनामिति तमेव परमार्थमाचक्षते मनीषिणः कतिचन ॥ आचार्याः केचन धर्म एवार्थकामयोर्मूलमिति व्यवस्यति ॥ अनायविद्यावासनया कृतकामकर्मवशादुच्चावचेषु जन्मसु परिभ्रमतो जीवराशेः कदाचित्स्वकृतकुशलकर्मणा लब्धे मानुष्यके यथाविधि साधि- तेन त्रिवर्गेण शुद्धसत्वस्य कर्मबंधनिवृत्तिलक्षणो मोक्ष एव परमार्थस्तत्साधनद्वारा धर्मार्थकामरूपस्य त्रिवर्गस्यापि पुरुषा- चत्वामिति प्रकाशयंति शाखरहस्यमन्ये ॥ एवं यथाभिलाषं विम तिपञपि पुरुषार्थविचारे परस्पराविरोधिनश्चत्वारः पुरुषार्थाः श्रेयोभ्युदयहेतव इति सर्वेषामपि माज्ञानामभिमतम् ॥ यथा वि- जिलासितस्यास्यैवार्थस्याभिव्यक्तिर्भवेत् तथैवेयमारभ्यते पु- पार्थमीमांसा॥

पुरुषार्थाश्चत्वारी धर्मार्थकाममोक्षाः । एतेषु धर्मार्थका- मानां त्रिवर्गसंज्ञया व्यवहारः । समोक्षाणामेषां चतुर्वर्ग इति च ॥ पुरुषार्थसाधनाय प्रयतमानेन सांगानि सरहस्यानि तत्पमाणान्यध्येतव्यानि ॥ उपासनीया ज्ञानद्धा गुरवः ॥ स्वयं च श्रद्धवास्तिक्यपूतमानसेन भाव्यम् ॥ कामात्मानो हेतु- बादपरा नास्तिकाश्च नाधिक्रियते शाखेषु । प्रभुसंमितानि शाखाणि विकल्पासहानि ॥ लौकिकालौकिकोपायबोधकानि तान्यान्वीक्षिकी त्रयी वार्ता दंडनीतिरिति चत्वारि ॥ आन्दी- क्षिक्यां जीवस्य स्वरूपानंदाविर्मावलक्षणमोक्षोपायः । त्रयां धर्माधर्मविवेकः । वार्तायां कृषिवाणिज्यपाशुपाल्यममुखवृत्ति- निरूपणम् ॥ दंडनीत्यां लोकयात्रानिर्वहणोपायः ॥ एष्बेब मतिष्ठितास्सर्वे पुरुषार्थाः॥ इतराण्यपि शास्त्राणि साक्षात्परंपरया वा बहूपकुर्वति पुरु- पार्थानाम् ॥ पुरुषार्थसाधकानां शास्त्रविज्ञानं सहजः प्रबोधः क्रियासु दाक्ष्यं देशकालानुरोधः सूनृता वाणी स्थिरस्संकल्पः प्रतिभा चेति लोकमान्या गुणाः काममापूरयंति त्रिवर्गस्य लौकिकमलौकिकं चेति द्विविधं फलम् ॥तत्र प्रथमोद्दिष्टं लोकया- बानिर्वहगोपयोगि भवति ॥ शारीरमानसबलद्धिरात्मरक्षणं विहितवृत्या जीविकालामः स्वकुटुंधरक्षणं परोपकृतिः सामा- जिकव्यवहारो नीत्यनुरोधः पापानिवृत्तिरित्यादयस्सर्वेषामैहि- कसुखहेतवः शास्त्रनिर्दिष्टा यथाविध्यनुष्ठातारं सुकृतैर्वर्धयति ॥ द्वितीयं तु जन्ममरणलक्षणसंसारपरिश्रांतस्य जीवस्य स्वर्गाप- वर्गसाधकम् ॥ एतदेवैहिकमामुष्मिकं फलं मनुपराशरादिभि- महामुनिभिर्धर्मशास्त्रेषु मपंचितम् ॥ चतुर्यु पुरुषार्थेषु धर्मस्यैव प्राधान्यम् । अर्थकामावपि धर्मस्यैवांगभूतौ ॥ केवलभोगार्थयो- रनयोर्न पुरुषार्थत्वम् । शास्त्रेषु विनिंदितत्वात् । अतः धर्मस्य पुरुषार्थेष्वभ्यर्हितत्वात् तत्स्वरूपलक्षणप्रामाण्यविभागादीन् विचारयामः ॥ 'श्रुतिचोदितक्रियाजन्यो निखिलश्रेयोभ्युदय- हेतुरपूर्वाख्यो गुणो धर्मः । यमार्याः क्रियमाणं प्रशंसंति स- धर्मः' इत्यादीनि धर्मलक्षणानि श्रुतिमूलकतयैव प्रामाण्यं धर्मस्य कथयंति ॥ एतेन पौरुपैयाँ कांचन व्यवस्थामाश्रित्य प्रवृत्तेषु चैत्यवंदनकेशोल्लुन्छनननस्नानादिरूपेषु शाक्यादि- धर्माभासेषु श्रुतिमूलकत्वाभावात् धर्मत्वं प्रत्यादिष्टम् । ननु 'शाक्यादयः क्षत्रियाः श्रुतिविदः। तत्प्रणीतागमानामपि श्रुति- मूलकतया प्रामाण्यमव्याहतं तन्मूलभूतश्रुतीनामिदानीमुत्सन्न- प्रच्छन्नत्वेनानुपलंभा दिति चेन्मैवम् ॥घेदापामाण्यवादिनां तेयां धर्मस्य वेदमूलकत्वकल्पनानौचित्येन तदसंभावितमेव ॥ नच पापीयसी योनिमापमानां संकरातीनां कैवर्तमिल्लपुल्कसा- दीनां श्रुत्यनहर्याणां तत्तत्कुलीनमहापुरुषाचरितधर्मेणैव चारि- नार्थ्य दृष्टम् । भगवान्वाइरायणोपि (भागवते ७ स्कंधे १४ अध्याये) "स्वभावविहितो धर्मः कस्य नेष्टः प्रशांतये" इति प्रत्य- पीपदत् । उक्तंचभगवता (गीतायां १८ अ.) "स्वभावविहितंकर्म सदोषमपि न त्यजेत्" इति । तस्मात्स्वभावविहितधर्मस्य श्रुति- चोदनाभावादिदं लक्षणमव्याप्तमिति वाच्यम् ॥ धर्मविभागा- परिज्ञानमूला भ्रांतिरियं यदुच्यते विहितकुलाचारेण चारि- तार्थ्यमिति ॥ स हि वृत्तिधर्मतया विहितः॥ लोकयात्रानिर्वा- हाय वृत्तिधर्मोपि श्रुतिचोदित एव ॥ मन्वादयो महर्षयो मंत्र- द्रष्टारस्तमर्थ स्मृतिषु निवबंधुः । नहि वितथगिरो महामुनयः॥ तस्मिन्नपि वृत्तिधर्मे यावदर्थपरिग्रहादिधर्मेण वर्तमानानामष्टा- भिरात्मगुणैर्दया क्षांति रनमूया शौचमनायासो माङ्गल्यमकार्प- ण्यमस्पृहेतिगौतमादिप्रतिपादितैनिवृत्तानामस्त्येव कोप्यु- त्तरोत्तरप्रकृष्टज महेतुर्धर्मइति संप्रतिपत्रमेव विदुषाम् ॥ तत्त. त्कुलीना अपि महापुरुषा निर्वैररागाः प्रशांतहृदयाः कमपि धर्म मुझमेक्षिकया विचार्य जीविकानिहाय निरूपयामासुः ॥ यथा लोकयात्रा न विपद्येत यथा धर्मः स्वनुष्ठितो भवेत् तथैव प्रवर्तते महाजनाः ॥ रजस्तमःप्रकृतयो वृत्तिकर्शिता हिंसाचौर्यादिषु यथा न प्रवर्तेरन् तथा लोकरक्षणाय सर्वे ६ नियमास्समारब्धाः ॥ तमेतमर्थमभिसंधायैव भगवान्मनुरापि 'विद्वद्भिस्सेवितः 'हृदयेनाभ्यनुज्ञातोयोधर्म' इति धर्मलक्षणम- भाणीत् द्वितीयाध्याये ॥ तस्माल्लोकद्वयाविरोधिनां सर्वेषामपि धर्माणां वेदमूलकतयैव प्रामाण्यनिर्वाहानोक्तदोषप्रसंगः धर्मज्ञापकहेतवः श्रुतिः स्मृतिः सदाचारः अविगीतात्मेच्छेति चत्वारः परस्परानुबंधिनः श्रेयोभ्युदयहेतवः ॥ सदाचारः सर्वधर्ममूलम् ॥ उक्तलक्षणो धर्मो द्विविधः ॥ साधारणो विशिष्टश्चति ॥ तत्र साधारणो याज्ञवल्क्यादिभिरुपदर्शितः। अहिंसा सत्यम् अस्तेयम् शौचम् इंद्रियनिग्रहः दानं दया दमः शांतिरिति सर्वेषां साधारणः ॥ विशिष्टस्तु श्रौतः स्मा- संयोति द्विविधः। सोमसंस्थादिः श्रौतः॥ तदुपयोगी स्मार्तस्तु वर्णधर्षः आश्रमधर्मः वर्णाश्रमधर्मः गुणधर्मः निमित्तधर्मश्चेति पंचविधवर्णिकमात्रविषयः ॥ इतरेषामपि सत्यलौकिको- पायबोधार्थित्वे हेत्वंतरेण निषेधदर्शनान तत्राधिकार यस्मिा अविचिमा गर्भाधानादयो वैदिकास्संस्कारा यथाक्रम नि- हृत्ताः स द्विजो विहितेषु धर्मेष्वधिकारी भवति ॥ द्विजशरीरं वैदिकसंस्कारैस्संस्कृतमुपचितगुणं भवति ॥ यथा दोहदेन गुणाधिक्यं तरूणाम् ॥ अस्तु वा ताइक्संस्कारः शूदस्या- पीति चेत् ॥ न चायमईति वैदिकं संस्कार योग्यताभावात् । केव- ७ लरजस्तमप्रकृतीनां सत्वैकसाध्यानि कर्माणि दुश्चकानि ॥ श्रद्धामयः पुरुषस्तदनुरूपमेव कारभते ॥ इदं च प्रतिपादितं भगवता (गीतायां १९अ.) "सत्वानुरूपा सर्वस्य श्रद्धाभवति भारते"त्यादिभिः॥ नहि शक्यं प्रकृतिमन्यथा कर्तु व्यापारब- तैरपि ॥ द्रव्याणां मुमुक्ष्मः कश्चिविलक्षणः परिणामविशेषः संस्कारसाध्यः ॥ तद्विशेष सर्वबकल्पा मंत्रार्थरास्यवेत्तारो मुनयो विजानते॥ नियोगपर्यनुयोगपदमतिकामंतिमहतां शास- नानि ॥ वयमिह तदादेशकारिणः केवलम् ॥ अपरे छांदसा: पुनर्गायच्या प्रामणमसृजत् निभा राजन्यं जगत्या वैश्यम् न केनापि शूद्वमिति श्रुतिमवलंन्यच्छन्दसा सृष्टानां त्रैव- र्णिकानामेवच्छांदसरसंस्कारो नान्येषामिति निगदंति ॥ ब- स्तुतस्तु लोकेपि यथा गुणाधिकष्वेवाधिकारः प्रचयं गमिष्यति तथैव संसारिणः पुरुषस्यापीति हृदयम् ॥ त्रैवर्णिकेष्वपि तत्तदा- श्रमानुरोधेन धर्मो विहितः॥ यथा ब्रह्मचारिधर्मो गृहस्थधर्म इ. त्यादिः॥ ननु वेदाभ्यासाग्निहोत्रादीनि कर्माणि विधीयते शा- खेषु न धर्माः । अतींद्रियाणां तेषां निरूपणाशक्यत्वात् इति चे- सत्यम् ॥ अतींद्रियस्यापि कर्मजन्यापूर्वाख्यस्य धर्मस्य तद्धेतु- भूतकर्मव्याख्यानादेव लक्षणमामाण्याघभिव्यक्तिर्भविष्यतीति सर्वाण्यपि कर्माण्येव निरूपितानि ॥ वर्णमधिकृत्य प्रहत्तो वर्ण- धर्मः उपनयनवेदाभ्यासादिः स साधारणस्त्रैवर्णिकानाम् ॥ ब्राह्मणानां तु प्रवचनप्रतिग्रहादिको विशिष्ट इति पूर्वोक्तपं- चस्वपि साधारणविशिष्टाख्यौ भेदौ प्रवर्तेते ॥ वर्णाश्रमोचितानि कर्माणि यथाविधि यथाशक्ति सम्य- गाचरन् संकल्पितानैहिकान् आमुष्मिकांश्च कामान् समश्नुते ।। अहिंसादयो ये साधारणधर्मास्तान्निरूपयामः ॥ अहिंसा- नाम त्रिभिः करणैः प्राणिनामपीडनं यया च्छेदभेदादिनात्यर्थ व्यर्थते भूतानिसा कायिकी। यया हृदि विद्ध इव संतप्यते लोकः सा वाचिकी । मानसिकी पुनरनिष्टचिंतनया समुद्भूतक्रोधा- वेशादिना भूतानि बाधते मलिनयति च चित्तम् । मलिने चित्ते परात्मनोविनाशहेतवो रागद्वेषादयस्समुत्पद्यते ॥ त एव खलु साक्षात्पुरुषार्थविरोधिनः ॥ उक्तं च भगवता (गी. अ. १९) "द्वारं नाशनमात्मन" इति ॥ मनस्तु सकृदृष्टश्रुतानुभूतार्थान् विषयीकृत्य आहितसंस्कारवशात् कचित्कदाचित् तदेवान्वेति प्राक्संस्कारारब्धान्येव कर्माणि प्राणिनां यतो जातमात्रस्यापि शिशोरसंस्कृतमतेः स्तन्यपानादिप्रवृत्तिरपि प्राक्संस्कारार- थैव, पुनर्जन्मबंधहेतुरपि संस्कार एव जननांतरकृतानि संस्म- रति खलु मनः ॥ महाकवयोपि मनो हि जन्मांतरसंगतिज्ञ मिति प्रत्यपीपदन् ॥ संस्कारः फलानुमेय इति प्रथितं च लोके ।। यथा मनसि पापीयान् संस्कारांकुरो नोत्पद्येत तथा प्रयतितव्यमित्यनुशासनार्थमेव ॥ सर्वश्शास्त्रीयविधिप्रतिषे- धारंभः सफलो भवति ॥ कायिकेनापराधेन स्थावरवं वा- चिकन पाशवं मानसिकेन च अंत्यजतामुपैतीति भृगुसंहि- तायां (१२ अ.) मनूक्तमन्यते । अतः पापीयान्मानसिको- पराधः । तस्मात्रिभिः करणैरहिंसैव परमो धर्म इति श्रुतिरनु- शास्ति 'माहिस्यात्सर्वाभूतानी' ति ॥ नचाग्निष्टोमीयपश्वालं- भनस्यापि हिंसारूपत्वेन कथमहिंसा परमो धर्म इति वा- च्यम् । यथा दंडपारुप्यनिर्णये राजाज्ञाविहितकशाप्रहारो न हिंसा भवति यथा अन्यत्र सा हिंसैव तथा विहितेषु न हिंसैव ॥ अहिंसया स्थैर्य वैतृष्ण्यं मनःप्रसादमभयं चाधि- गच्छति । शरीराधस्थिरत्वविचारेण निवृत्तहिंसाकर्मणः पुरु- पस्य संसर्गाद् भूतान्यपि निराणि भवंति ॥ अतः अहिंसा- परमो भवेत् ॥ सत्यं नाम यथार्थमूनृताभिधानम् । 'सत्या- नास्ति परो धर्मः' 'सत्येन विधृतानि जगंति' 'सर्वाणि भूतानि सत्येन संतिष्ठते 'सत्ये सर्व प्रतिष्ठित ' मिति ॥ यजु- रारण्यकी श्रुतिरपि तस्मात्सत्यं परमं वदंती' त्यभिदधाति ।। तदेतत्सत्यं सर्वधर्मप्वभ्यहितमहिंसाधतिक्षमादिशुभगुणानां नि- गनं सत पुरुषार्थसाधनाय बहुपकरोति ॥ अत्र लोकतंत्र- १० निष्णाताः "सत्यं दुरूहलक्षणं न निश्चेतुं शक्यते । येन परषामुपतापो भवति तत्सत्यमपि विफलं प्रत्यवायहेतुश्च । तस्मात्सुसूक्ष्मां कार्यगतिमभिवीक्ष्य सत्यासत्ययोः प्राबल्य- दौर्बल्ये निश्चेतव्ये । कार्यगत्यनुरोधेनानृतमपि सत्यस्यैव फलमुपनयति । तदेतदनुशिष्टं पूर्वाचार्यैः ‘पंचानृतान्याहुर- पातकानी' ति ॥ उपन्यस्यति 'अन्यदेव हि पांडित्यमन्य- च्छास्त्रनिबंधन मिति॥नात्र स्वाच्छन्द्यमवलंबितुंयुज्यते॥कचि- त्सत्यानृतयोः फलविपर्यासः सुसूक्ष्मेण केनापि हेतुना निष्प- नोपि न ह्यनृतं सत्यवद्भवति ॥ बलिर्दानेन संबद्ध इति न लोभस्योत्कर्षः कदापि संपद्यते ॥ यदुक्तं 'कार्यगत्यनुरोधे- नानृतमपि विशिष्यत' इति । तदेतदर्थतंत्राणामतिसाहसं ध- मप्रधानाः प्रशमायना न सहते ॥ शुभान्यशुभानि वा क- माणि कृतानि कायेनाभ्युदितानि वाचा चिंतितानि मनसा जलतरंगसंगततैलबिंदुवद् विसृखराणि खोत्तरोत्तरविपुल- कर्मजनकानि भूखा सर्वथैव कर्तारं भजते ॥ अनृतं हि मह- स्पातकं श्रेयोविघातकं सर्वस्य ॥ ऐतरेयारण्यके 'तस्मादन- तन्न वदेहयेतवेनेनेति सर्वथा निंदत्यनृतम् ॥ अर्थकेवलिभिः पुनराद्रियंते खल्वन्येपि धर्मविद्विष्टा औपनिषदधिकरणोक्ताः काणकुष्ठादयो योगाः । अर्थशास्त्रनिर्दिष्टाः विवाहबंधमोचना- - दयो लोकस्थितिहतव इति तदभिप्रायेण यथार्थधर्मनिवाहो नैव भवेत् । तदुपेक्ष्यमेव । तस्मात्सत्यमेव परमं वदंति ॥ दमो नाम बायेंद्रियनिग्रहः। निगृहीते खल्विंद्रियग्रामे सर्वसंपदा भा- जनं भवति पुरुषः । सर्वधर्ममूलं हि दमः। यदर्थमेव कृच्छ्रचां- द्रायणादयो नियमाः प्रकृप्ताः ॥ नियमाध्ययनस्य वृद्धोपास- नायाश्च दम एव फलम् । अदांतः पुरुषः सर्वक्लेशभाजनं भ- वति । इंद्रियारामा दांडक्यादयो विनष्टा इति प्रथितमेव । दम- प्रभवा एते धृतिदाक्ष्यसाम्यावमार्दवप्रियवादिताऽकार्पण्य- संतोषादयो महागुणा मंडयंति पुरुषमकांडम् ॥ सारस्वतप्र- थमावतारभूमिवल्मीकजन्मा महामुनिः श्रीरामायणयुद्धकांडे प्रतिपादयति 'इंद्रियाणि पुरा जिला त्रैलोक्यं जितवान- सी' ति ॥ अतः दम एव दोषानुषंगिणावप्यर्थकामौ धर्मानु- बांधिनौ विदधाति ॥ संतोषो नाम देवाल्लब्धेन पर्याप्तिबुद्धिः। येन केनापि संतुष्टस्य यत्सुखं तदेतदुपर्युपरि मनोरथमनुकाम- यमानस्य तदलाभाक्लिश्यतः दुरापूरेण कामेन नष्टबुद्धेः पुरु- षस्य कुतः स्यात् ।। असंतोषप्रभवा इमे रागद्वेषभयक्रोधश्रम शोकमोहादयो दोषाः पुरुषस्य तेजोदाक्ष्ययश प्रमुखान् पुरुषा- थसाधनहेतुभूतान् विनाशयंति शुभगुणान् । यथा नैराश्येन मनसः प्रशांतिर्न तथा दुराशासंपादितैरथैरिति मंकिरनु- १२ जगौ महाभारत ॥ ययातिरपि उपभागन कामो न शाम्यति किं तु परित्यागेनैव शाम्यतीति भागवते जगाद ॥ एवमन्ये शुकादयोप्यसंतोषं विनिंदतो नैराश्यं परमं सुखमिति व्यव- स्थति ॥ संतोषस्य फलमद्रोहः ॥ अक्रोधो नाम सत्स्वपि क्रोधहेतुपु परेषामाकोशाभिघातादिषु समुत्पतितस्य क्रोधस्य क्षमयैव निरासः। अक्रोधेनैवमैत्रीप्रमुदितादयो महात्मभिरप्य- लभ्याः भूयांसो गुणाः लभ्यते ॥ क्रोधोच्चलगात्रस्य भृकुटी- भीषणमुखस्य भूतवित्रासोः गुरुतिरस्कृतिरात्मोपघातः प्रद्वेषो- बाच्यजल्पनमित्यादयः सर्वप्राणिविद्वेषहेतवो दोषास्समुद्भ- वंति श्रेयांसि प्रतिबन्नंति पुरुषस्य ॥ अक्रोधनः शुभलक्षणः पुमान् मंगलमायतनं लक्ष्म्याः । अतः पुरुषार्थसाधकस्य अं- तरंगतमः क्रोधक्षयः ॥ शमो नाम अंतरिद्रियनिग्रहः । येनै- केन बलवदभ्यस्तेन त्रिवर्गसिद्धिः स्वयं वृणुते पुमांसम् । यदर्थमेव मुनयो गिरिगुहाग्रावाणमधिशिश्यिरे ॥ यदर्थमेव यतते चतुराश्रमिणोपि ॥ यदर्थनिबंधनाः निखिलाम्नायमौ. लिमीमांसारंभाः ॥ ताहशमस्य लाभ एव पुरुषार्थलाभ इति प्रभिन्नप्रस्थानानामपि विदुषामेकं मतम् । नारायणीय- याज्ञिक्युपनिषदि समानायते 'शमेन शांताश्शिवमाचरंति' इनि । सैपा शमप्राप्तिर्वहुसाधनापेक्षिाति प्रवृत्ताः शास्त्र- .. नियमाः कामचारकामवादकामभक्षादीन् अत्यंत निषेधति । दिङमंडलजयिनो महावीरास्तपस्विनो महर्षयः सर्वस्वदाता- रस्सत्पुरुषाः सदसस्पतयोपि मनीषिणः शमसंपदमनुपलभ्य विफलायासास्संदृत्ताः ॥ अत एव भगवती श्रुतिरपि 'शमो भूतानां दुराधर्षम् ' इति प्रतिपादयति ।। भगवानपि (गीता ६ अ.) 'मनो दुर्निग्रहं चल' मित्यभिौति ॥ तन्निनहोपायाश्च अ- भ्यासवैराग्यादयस्तत्रैव प्रतिपादिताः ॥ किं बहुना तेनैकेन शमाभिधेन सर्वधर्महेतुना भुवनभूषणा भवंति महापुरुषाः ॥ स एव सकलपुरुषार्थहेतुः ॥ अप्रदत्तानुपादानम् अस्तेयम् । बहिरंत शुद्धिः शौचम् । आपन्नार्तिपरिहारोदया। पात्रेभ्यः- तिपादनं दानम् । चित्तस्य निर्विकारः क्षमा । एत एव धर्माः सर्वमानुषसाधारणाः । यैरेतैर्विदुरादयः शूद्राः पापयोनयो धर्मव्याधादयश्च पूतात्मानो महापुरुषतां प्राप्ताः ॥ एतैर्धमैर्वि- रहितानां त्रैवर्णिकानापपि वर्णाश्रमविहितधर्मो न गुणाय क- ल्पते ॥ यागः अध्ययनं दानं तपः इत्येते चखारो धर्ममार्गाः कैश्चिदभार्थमपि सेव्यते ॥ सत्यं दया क्षमा अलोभ इति च- खारो महापौरुषिका एव धर्माः॥ महाभारते आरण्यपर्वणि युधिष्ठिराजगरसंवादे अयमेवार्थः सम्यक्प्रपंचितः । तस्मादेते सार्वजनिका धर्मा निखिलश्रेयोभ्युदयहेतवो महापुरुषैरम- मत्तैस्ससावताः पुरुषार्थफलं साक्षात्परपरया वा समुपन- यंति ॥ यथा त्रैवर्णिकविषयाः विशिष्टधर्मास्साक्षानिश्रेयस- करास्तथा ताव्याख्यास्यामः॥ब्राह्मणस्याध्ययनयजनदानानि साधारणो धर्मः। अध्यापनयाजनप्रतिग्रहाः विशिष्टो धर्मः। क्षत्रिय स्य युद्धाभिनिवेशः प्रजापालनं विशिष्टः । वैश्यस्य वा- ताश्रयणं विशिष्टः । अध्ययनयजनदानानि सर्वेषां साधा- रणः । शूद्रस्य सेवैकैव । त्रैवर्णिकाः स्वस्वविहितेन धर्मेणैव पू. तात्मानः परां सिद्धिमभियांति ॥ प्रतिजानाति भगवान् य- दुनंदनो गीतायां (१८ अ.) 'स्वकर्मणा तमभ्यर्च्य सिद्धिं विं- दति मानव' इति ॥ त्रैवर्णिकानां ये ये धर्मा विहितास्तेपि दे- शधर्मजातिधर्मकुलधर्मादिभेदेन बहुधा विभिन्ना महाजनैरनु- मताश्च ॥ शिष्टाचारमाप्तस्याप्युपादेयतामंगीकृत्य लोकविद्विष्टं धर्म्यमपि नाचरेदिति मन्वादयो न्यरूपयन् ॥ शिष्टसांप्रदा- यिका अपि देशकालानुकूलाः वृत्तिलोपभिया प्रवृत्ताः पुरु- पार्थाविरोधिनः जनोपकारका भवंति ॥ यथौत्तरीयाणां स- मुद्रसंयानं ब्राह्मणानामायुधग्रहणादिकम् ॥ दाक्षिणात्यानां मातुलकन्यापरिणयो यातयामानभोजनादिकं च देशाचारा- त्पतम् ॥ तत्र देशाचार एव प्रमाणम् ॥ धर्मशास्त्रेषु तेषां पातकेषु परिगणनात् ॥ एवं स्थितेपि अविगीतशिष्टाचारम- चनैः १५ वृत्ताः श्रुतिस्मृत्यनुज्ञाता एव धर्माः श्रेयसे कल्पते नेतरे । उक्तं च मनुना (१ अ.) 'आचारः प्रथमो धर्मः श्रुत्युक्तः स्मात एव चेति ॥ ब्राह्मणानां विहितेषु कर्मसु यजनाध्यापनदा- नानि निष्कामकृतानि मोक्षसाधनानि ॥ सकामानि प्रवृत्ति- लक्षणानि ॥ अध्यापनादीनि वृत्यर्थकानि ॥ आपदि वृत्ति- कर्शितस्य ब्राह्मणस्य प्रत्यनंतरवृत्तिग्रहणमप्यनुज्ञातं शास्त्रव- । प्रत्यनंतरकृत्याश्रयिणो ब्राह्मणा भोगलोलुपा अर्थकेव- लिनः कामात्मानो ब्राह्मप्यलक्षणाच्यवंते च्युतानां पुनर्वर्ण- सांकर्येण वर्णाभिव्यंजकलक्षणमपि संकीर्णमायं इसति ॥ एवं क्षत्रियादीनामपि ॥ एवं संकर्णिवृत्तिभिरर्थकामपरैवैदिको ध- मस्व यथान्यथायुक्तिवलादुनीतः स्वरूपहानिमापद्य पुरुषार्थ- साधनाय दुर्बलः संवृत्तः ॥ शास्त्रनिर्दिष्टवर्त्मना स्ववर्णाश्रम- धर्मा अनुष्ठेयाः ॥ आश्रमाश्चवारः । तेष्वाद्यं ब्रह्मचर्यमेव । आश्रमांतराणां तन्मूलानां पुरुषार्थानां च निदानं वेदग्रहणव- ताचरणं ब्रह्मचर्यम् । तच्च गर्भाधानादिभिर्वैदिकैस्संस्कारैस्सं- स्कृतस्य यथाकालं विहितोपनयनस्य द्विजन्मनो विहितम् । उपनयनं नाम विद्यार्थस्य श्रुतितस्संस्कारः। उपनीतो ब्रह्म- चारी गुरुकुलमधिष्ठाय वेदग्रहणांनं यथोक्तनियमेन वर्तमानो द्वितीयाद्याश्रमयोग्यो भवति । त्रिवर्गसाधनाय ये य गुणा- १६ स्समपेक्षितास्ते सर्वेपि ब्रह्मचर्य यथोक्तनियमवता पुरुषेण ल. भ्यते । नवे वयस्याहितस्संस्कारो गुणोपचयाय संपद्यते । रागादिभिरमलिनायां चित्तवृत्तौ सदुपदेशाः प्रतिफलंति । यथोक्तनियमविधुरः फले दुर्विधो भवति । यावज्जीवमनुभू- यमानत्रिवर्गस्य मूलं ब्रह्मचर्यम् । अनेनोपचितदृढशरीरस्या- लंकर्मीणस्य प्रसन्ने चेतसि प्रज्ञाप्रतिभादयः स्वयमुत्पद्यते ॥ नियमानभ्यस्यतः क्लेशसहिष्णुता सुखदुःखसंवेदनं भूतमैत्री प्रमुदिता इंद्रियजयः संतोषः परोपकृतिस्पशांतिरकार्यान्नि- वृत्तिरनालस्यं सन्नतिरिति सर्वार्थहेतवो गुणास्संभवति । यः पुमानायुपि यं यं कामं कामयेत तमहिकामुष्मिकं वा समधि- गंतुं शास्त्रोक्तनियमचारी ब्रह्मचारी शक्नुयात् ॥ यद्यपि प्रा- चामिव यथोक्तनियमानुष्ठानं कालदेशविपर्यासेनाधुनातनानां दुष्करं तथापि 'यावच्छक्यं तदाचरे' दित्येवं महर्षयो वि- हितं पत्रिंशदाब्दिकं ब्रह्मचर्य वेदग्रहणांतं वेति संकुच्य निरू- पयामासुः ॥ नियमवान् ब्रह्मचारी सर्वदा गुरुशुश्रूषया प्र- तिषिद्धपरित्यागेन यथाकालप्रवोधेन अखंडितब्रह्मचर्येण च समिध्यमानब्रह्मतेजसा ज्वलन् श्रेयोविघातकान् प्रमादाल- स्यजाड्यादीन् विजेतुं सांयुगीमो भवति ॥ अग्नीधनभैक्ष्यच- योदयो ब्रह्मचारिनियमास्तेजोयशःप्रज्ञामेधायुष्यादिकं वर्ध- १७ यति । अतस्समाचरितब्रह्मचर्यो भवति त्रिवर्गभाजनम् । एवं ब्रह्मचारी वेदशास्त्राभ्यासादिना विज्ञातोभयलोकतंत्रः गाई- स्थ्यमाश्रित्य श्रुतिसमुदितमैहिकं पारलौकिकं च धर्ममाचरेत् ।। गार्हस्थ्यं नाम श्रुन्युदिताम्याधानादिकर्मनिर्वहणयोग्यतासं- पादकम् । संतत्या पितृऋणापाकरणं प्रधानं फलं गाई- स्थ्यस्य । तथाच याज्ञिक्युपनिषदि श्रूयते 'प्रजननं वै अ- तिष्ठा लोके साधु प्रजायास्तंतुं तन्वानः पितृणामनृणो भवति इति ।। स एष गृहस्थाश्रमस्त्रिवर्गावापक्षेत्रं यस्मिन्नुप्तानि त्रिव- सर्वाजानि फलंति ॥ धर्माविरुद्धयोरर्थकामयोगार्हस्थ्यमेव जन्मभूमिः ॥ तदिदं सर्वेषां प्राणिनामुपर्जावनम् । अत एवं मन्वादिभिरस्यैवोत्कर्षः प्रतिपादितः। महाभारते शांतिपर्वणि मुनिशकुनिसंवादरूपाख्यायिकामुखेनास्यैव प्रशंसाभिधीयते।। ब्रह्मचर्यादेव प्रव्रजतः कुमारानुवीक्ष्य शक्रः शकुनिरूपस्तानि- वर्तयितुकामः प्रावोचत् 'अये कुमाराः विघसामृताशने परि- त्यज्य प्रबजतां भवतां कुतश्चित्तशुद्धिः । ऋणान्यनपाकृत्य कर्य मुमुक्षवो भवथेति ॥ कृतदारसंग्रहस्य खेपां परेषां वा यो- क्षेमनिर्वहणाय अप्रतिषिद्धावर्थकामौ यावदर्थ जुपमाणत्या साधीयान्पुरुषार्थलाभः स्यात् । 'जायमानो वै ब्राह्मणस्त्रिभि- ऋणवा जायते' इति श्रुत्या देवर्षिपितृणापाकरणगावश्यक वति ॥ ऋणं नाम मद्धेश्यास्सर्वे वेदाभ्यासादिकं नोल्लंघयेयु- रिति बलवदनुशासनम् ॥ अधीतवेदः ऋषीन् आहिताग्नि- वान् कुलतंतुना पितश्च प्रीणयन् कृतकृत्यो भवति । देवर्षि- पितृभूतानि नित्यमन्नादिसंविभागेनाराधितानि श्रेयांस्याशा- सते गृहस्थस्य । गीतासु 'एतेन प्रसविष्यध्वमेष वोस्त्विष्टका- मधुकू' इति(३अ.) भगवान् निरूपयामास । यज्ञस्य स्वार्थपरि- त्यानपूर्वकपरोपकृतिः फलम् । ते च ब्रह्मयज्ञदेवयज्ञपितृयज्ञ- मनुष्ययज्ञभूतयज्ञसंज्ञकाः पंच ।। शतपथब्राह्मणे 'पंच वा एने महायज्ञाः सतति प्रतायंते सतति संतिष्ठंत' इति आम्नातम् । सर्वेषामपि यज्ञविधीनां तत्तत्कर्मोचितानेकावांतरक्रियाकलाप- रूपाणामपि पुरुषार्थसाधनोपयोगी कश्चित्परमार्थो निहो विज्ञायते । यजेर्देवपूजादानायकवेन यज्ञशब्दस्यापि य- थासंभवं दानादिकमर्थः । ब्रह्मयज्ञो नाम अध्ययनमध्यापन च । अनुष्टीयमाने कर्मणि विधिप्रतिषेधज्ञानमावश्यकम् । तद- मध्यपनं च । अनधीतवेदः प्रमाअति खकर्तव्यतायाम् । अ- ध्यापनस्य च अनभिज्ञानां कर्तव्यतोपदेशः फलम् । अतो नित्यानुष्ठेयो ब्रह्मयज्ञः स्वस्य च परेषां चोपकुरुते नित्यहोमेन तर्पणेन च समाराधितेदवः पितृभिश्च परमनुगृहीतः संवर्धते । देवाः पितरश्च भौमेन पथा निगूढं संचरमाणाः क्रियावतः पुरुषस्य कामानापूरयति । तैर्दत्तैरर्थस्तानेवाराध्य श्रेयो विंदते विघलामृताशी सर्वकिल्विपात्यतिमुच्यते । देवयानेन पितृया- जन वा स्वकर्मवशात्संचरमाणस्य तदनुग्रहेण त्रैलोक्यपि मुख. यामः स्यात् । यस्तु स्वोदरपूरणायैव पचति नार्थिभ्यस्संविभ- जने स पापीयान् भवति श्रेयसा च वियुज्यते ।। भगवता संद- शितोयमर्थो गीतायां 'धुंजते तेवघं पापा' इति । अतो दैवाल्ल- धनदेवपितृयज्ञावनुष्ठेयौ । अतिथिसत्कारो मनुष्ययज्ञः। सुवि- दितमेतत्सर्वेषां गृहागतानां महीयसां सत्कारैर्दुलभस्याप्यर्थस्य लाभः स्यादिति । रंतिदेवालकशिविप्रमुखैः परमादरेण प्रद- गिलोयंकावास्य वा धर्मिष्ठस्य नाभिमतः स्यात् । अनेन महा- गजेन अहरहराचरितेन सर्वेषां दयनीयः कौटुंविकः सर्वक्लेशा- नुत्तरति ॥ स एष महायज्ञ स्वल्पेनापि तृणजलभूनृतादिना निप्पाछते । माईस्थ्यमाश्रितेन सर्वभूतदयालुना भाव्यम् । यशशक्ति प्राणिनामुपकुर्वाणः आतीनायातिहरः सर्वभूतांतर- स्थमात्मानं समाराध्य स्वात्मोद्धाराय प्रभवति । कविरभि- धने 'सदुपकारफलां श्रियमर्थिन' इति । स एप सर्वार्थ- साधको मनुप्ययज्ञः। भूतयज्ञो नाम आश्वपचमा च कीटपतं- गेभ्यो भूतेभ्योऽनादिसंविभागः। वाश्रितभरणं हि साधी- यान्धर्मपः । अनभ्यवहारदूनेषु स्वाश्रितेषु कस्य वा सचेतन- २० बहुद्रव्यसाध्यानाति स्यात्मा परितुष्यति । तिरश्चामपि भूताराधनप्रवृत्तिर्दृश्यते क- पोतलुब्धकोपाख्यानेन महाभारते । कश्चित् कपोतो गृहागतं लुब्धकमपि स्वैमासन्यमंत्रयदिति । प्राणिनां क्षुत्पिपासादि- जनितदुःखं स्वानुभवेन विजानन् रंतिदेवः कतिचिहिनान्युप- वसन्नपि दैवाल्लब्धं जलमन्नं चार्थिभ्यः प्रायच्छदिति च । त एते सर्वेपि महायज्ञा अर्थमूलाः॥ अर्थो नाम व्यवहारोपयोगी चराचरात्मको वस्तुविशेषः । अर्थेन विहीनस्य सर्वाः क्रिया न्बुच्छिद्यते । अनधिगतार्थः पुमानणुमात्रमपि दातुं भोक्तुं च न पारयति । इष्टापूर्तानि कर्माणि वहुधा प्रपंचितं शास्त्रेषु । तत्र सप्तविधा अर्थागमात्रैवर्णिकानां य- थायोगं विहिताः। अदुष्टः प्रतिग्रहः । कुलानुगतं धनम् । निध्यादीनां लाभः। क्रयविक्रयोपार्जितः । विजयलब्धः । कुसीदलब्धः । कृषिवर्धितश्चेति ॥ अत्र त्रैवर्णिकानां वृत्तिध- मंतया यो विहितोधिगमः स श्रेयान् । वृत्तिकर्शितस्य सीदत्कुटुंवस्य धर्मादनपेतः प्रत्यनंतरवृत्तिलब्धोपि विहितः । संपन्नः पुनर्वृत्त्यंतराश्रयणेन दूषितो भवति । आपदि “विद्या शिल्पं भृतिः सेवा गोरक्ष्यं विपणिः कृषिः। धृतिर्भेक्ष्यं कुसीदं च दश जीवनहेंतव" इति मनुरब्रवीत् ॥ एतापे मनुष्याणामत्यं तापदि धाः। एतेषु यथायोग्यं वर्तमानस्यैवर्णिकाः स्व- २१ धर्मान् आतिष्ठेयुः। आपदनापद्विषयौ देशकालानुगुण्येन व्यव- स्थितौ । तत्रापि तारतम्येन कांचन पौरुषेयी व्यवस्थामवलंब्य धर्म प्रयतेरन् । यद्यतरा कामलोभादयो नापतेयुः तदा शास्त्रोक्ता विधयोपि सफला भवेयुः । इदानी तादृशानां विधीनामात्यं- तिको विलोप एव कचित्कचिदश्यते। तादृशलोपस्य केवलका- मलोभादय एव हेतवः ॥ त एते श्रेय परिपंथिनो विद्वांसमपि धीरमपि सचेतनमपि बलादाक्रभ्य खलीकुर्वते ॥ एतैराक्रांत- चेतसां सर्वा अपि विधिचोदिताः क्रियाः कृता अपि निष्फला भवंति ॥ तस्माद्यथा नावस्कंदेयुरिमे लोभादयो नाभिभवे- युर्दोषा रजस्तम प्रभवा नाक्रामेयुरपयशांसि पुरुषं तथा विधिम- तिषेधौ निदर्शयति शाखाणि ॥ शास्त्रविध्युल्लंघने दोषमपि भग- वान् (गीता१९अ.) न्यरूपयत् 'यः शास्त्रविधिमुत्सृज्य' इत्यादि । श्रद्धा वित्तं विधिरिति श्रेयोभ्युदयहेतवः शास्त्रनि- र्दिष्टा नोल्लंघनीया लेखामात्रमपि । अतो वृत्तिकर्शिता द्वि- जातयो मनूक्तेषु दशविधजीवनहेतुष्वपि येनात्मापकों न भवेद्यदालंबनेन कुलधर्मा न विपोरन् येनांतरात्मापि प्रमोदेत तमेव जीवनहेतुमाश्रित्य यावदर्थपरिग्रहाः स्वधर्मानातिष्ठेयुः । अन्यथा विधेति मद्यसंधानावरोहणं लाभ इति न्यासहरणं शिल्पमिति कृत्तिसीवनं कुसीदमिति चक्रवृद्धिग्रहणं सेवेति २२ नीचोपसर्पणं विपणिरिति विगीतवस्तुविक्रयो वृत्तिरित्युच्चा- वचकर्मारंभश्चैते पुनर्द्विजन्मनां नाशहेतवः। विगीतवृत्या वृत्ति- सांकर्य तेन वर्णसांकर्य ताभ्यामात्मापकर्षस्तैरधोधःपात इत्य- नर्थपरंपरा प्रसज्येत ॥ तस्मादभिजातः पुमानात्मोद्धारायैव प्रयतेत नैवात्मनिपाताय । अनुशास्ति यदुनंदनो गीताशास्त्रे 'उद्धरेदात्मनात्मानं नात्मानमवसादये ' दिति ॥ तस्माद्विहि- नैर्वृत्तिधर्मरास्थितलोकयात्रः सुखमेधते । उक्तैर्दशविधजीवन- हेतुभिः सप्तधनागमैश्च समुपार्जितेन वित्तेन नित्यनैमित्तिकानि निर्वर्तयन् पंचमहायज्ञान् यथाशक्ति समाचरदन्यथा समधि- कार्थलोभेन पापीयान् भवति । इतिधर्मरहस्यम् ।। अर्थतंत्राः पुनरेतन्न क्षमते ॥ यथाकथंचिदर्थलाभ एव पुरु- पार्थः। धर्मकामावपि तदधीनौ । तद्विहीनस्य तेजो धृतिर्दाक्ष्य महापौरुषिकसमित्यादयः सर्वजनाभिनंदनीया गुणा विली- यंते । व्यर्थः कुटुंबभरणाकल्पः सर्वैः परिभूयमानो न शर्म लभते । नास्त्यर्थवतामसाध्यं नाम । अतः कौटिल्यकामंदका- दिभिरुपदिष्टमर्थशास्त्रमागमनिदानमिति मन्वानाः अर्थोपा- जनाय प्रवृत्ताअर्थार्जनरक्षणवर्धनादिष्वेवाप्रमत्ता दिवानिशंप- यतते । काणवराटिकाव्ययमप्यसहमानानां येषामभीक्ष्णध- नागमचिंताशबलितधियां वितस्तिमात्रोदरपूरणाय व्ययिता- मृतिपरिमिततंडुलं तत्पाकव्ययितेंधनसंचयं च विलिख्य वि- लिख्य भृशं निःश्वसतांन धर्मो नापि वा भोगः संपद्यते वृथासं- चितेनेति केचन तदसत्। अर्थपूर्वास्सर्वे समारंभातस्मादर्थवृध्यै अयव्ययपरिवर्तनप्रतिबंधापहारोपभोगादीनापचयहेतूनपास्य कृषिपाशुपाल्यशिल्पविद्याप्रमुखान्यर्थोपचयसाधकानि संवर्ध- येत् । यद्यत्र सामयिकाचारधर्मशास्त्रादिनियमभंग स्यात् तदा तत्संकोचेनैव व्यवहरेत् । देशकालानुरोधेन धर्मशास्त्रार्थशा- स्वयोः संकोचविकासौ संभवतः। येन केन वा निमित्तेन स्वा- थोद्धारः प्राज्ञलक्षणं तद्भशो हि मौर्यम् । नित्यमुत्थानवता- धिगमायैव प्रयतितव्यम् । प्रचुरधनवतामेव यज्ञदानादयः कामोपभोगादयश्च सेत्स्यते । धनविहीनानामग्निहोत्रादिक- मपि निंदति श्रुतिः । संचितधनानामेव सोमपानाहतां मनु- रनुनानीते ॥ यदि कुटुंविनां यावत्कुटुंबभरणपर्याप्स्यधिक धनं विद्यते तदा दानादिषु प्रवृत्तिर्भवति । यानासनशयनोल्लोचभ- बनादिकामोपसाधनान्यर्थमूलानि पुरुषमनुरंजयंति । धर्माय यशसेाय कामाय स्वजनाय च पंचधा संविभज्य यथा- योग्यमर्थमुपजुपाणः पुरुषार्थमुपचिनोति । अधिगमाय प्रयतमानानां कथंचिद्धर्मलोपसंभवेपि प्रचुरधनसाध्यैः पाय- श्चित्तैः स दोपः शाम्यति । निंदति च स्वानर्थकारणं धर्ममपि- २४ बचाः ॥ पराग्वा एतद्रिक्तमक्षरं यदेतदोमिति । धनाद्धर्मस्त- तस्मुखमित्यभियुक्तोक्त्या च धनं धर्ममूलम् ॥ तस्माद्धर्मका- भयोरानुबंधिनोः पुरुषार्थवमर्थादेवेति तमेव प्रधानं मन्यते पुरुषार्थम् ॥ केमे धनलाभमोहाभ्यां संतापितहृदयाः काण- वीटकाकराटाः क ते मुकृतिनस्सर्वस्वदक्षिणादातारो महा- धीरा धर्मगोप्तारः । न संभावितमेव धर्मविधुरयोरर्थका- भयोः पृथक् पुरुषार्थवम् । सर्वलोकनिंद्यास्ते अर्थकामपरमा लुब्बाः कामिनश्च । अर्थतंत्राः केचन न विजानति तमेतं परमार्थम् । यदिह लोके स्पंदनप्रवेक्षकैरश्वरत्नैर्मदालसमदा- बलैविहारवीथीषु विचरति श्रीमंतस्सुकृतिनस्तदेतद्यानविल- सितमिति ॥ यदिह सुखिनोऽस्पृष्टक्लेशलेशाः संपन्नसर्वमनोरथा विराजते तदेतद्धर्मवैभवमिति । यदिह वसुंधरायां यशस्विनों दयालवः सर्वजनश्लाध्यमानदिव्यमहिमानः सुकृतभागिनः सर्वभूतान्यावर्जयंति तदेतत्पूर्वकृतपरोपकारफलमिति च । किंबहुना ? तुल्यश्रुतधरास्तुल्योद्योगिनोप्यपुण्यभाजो न ल- भंते काकिणीमपि ये पुनस्सुकृतिनः संचिन्वते सर्वमप्यभी- प्सितमर्थमनायासेन ॥ एवं दृष्टश्रुतानुभूतैर्लिङ्गै धर्म एवानु- मीयते ॥ श्रुतिरपि 'धमा विश्वस्य जगतः प्रतिष्ठा लोके धर्मिष्ठं प्रजा उपसर्पती' ति धर्मधर्मवतो प्रशंसामभिधत्ते ॥

दिना विहित काम प्रशंसत्येव । कामोहि द्विविधः । प्रवृत्ति- जनको निवृत्तिजनकश्चेनि । स्वर्गादिफलाभिलाषणानुष्ठितानि कर्माणि पुनर्जननहेतुनया बंधकारणानि भवति । यानि नित्यनैमित्तिकानि कर्माणि सत्खमंशुद्धिकामैरनुष्ठीयंते स काम आत्मज्ञानसहकारितया मोक्षाय कल्पते प्रशस्ततरश्च भवति ॥ पूर्वोक्तं वैविध्यमप्यधिकारिभेदाद्भिद्यत । अधिकारिणः पुन- विभिनेच्छानियंत्रिताः कर्मवासनया स्वस्वाभिमतेषु प्रवर्तते । नचैकस्मिन् विषये समानधर्माणः पुरुषाः॥ तमेतमर्थ छंदोगा अनुश्रावयंनि ‘स यदा पितृलोककामो भवति संकल्पादेवास्य पितरस्समुत्तिष्टनी' त्यादिभिः। एतदविरोधी धर्ममूलः विधिविहितश्चेद्रियमीतिहेतुः स्वक्चंदनबनितालि- गनादिरूपश्च कचिदभ्यनुज्ञायते मुनिभिः ॥ उत्सिताना- मिंद्रियाणां विषयरसास्वादवैरस्यप्रदर्शनद्वारा निग्रह एवात्र विविक्षितः। नतु तदेकांतिकतम् । इंद्रियाणि विषयाणामसेवया नियंतुमशक्यानि भवति ।। अनुभूतास्वादानि न जहत्येव विषयरसम् । सर्वथा दुश्शकमेवात्र तदभ्यनुज्ञामात्रमपि। चप- लानींद्रियाणि यदि विषयप्रवणानि तदा प्राज्ञस्यापि प्रज्ञा परिभूयते । प्रज्ञाविधुरो न शक्नोति युक्तायुक्तचिंतायामपि मनस्समाधातुम् । अविवेकिनः कायवाङ्मानसैरपराधेरैधः- चिद्विष्टत्वाच्च साधुभिनिदितखाच्च धर्मप्रमावचनैः। या कि केवलेच्छासमारब्धे वस्तुनि विगीने प्रवर्नते तस्यद्रियचपलम्या नायं लोकोस्ति ॥ बहुप्रकाराः कामशाखाः पुरुषमदान बलान्निपातयति । नहि कामादन्यत्रैवंविधो निपातहेतुरुप लभ्यते । बहवो विशिष्टमतयः खलीकृताः खल्वनेन । -विनाश एवास्य फलम् । भगवता गीतायामुपदर्शितं ( २ अ०) ये ये दोषाः पुरुषार्थविरोधिनस्ते सर्वेपि काम- प्रभवाः । सौभरिप्रमुरवा मुक्तमंगा अपि केनापि हेतुना संभूतेनानेन स्वसिद्धिं परित्याजिताः । सैषा कथा विष्णु- पुराणे संदर्शिता । सौभरिर्मुनिः मंगभीतो जलांतर्निमग्न- स्तपश्चरन् कस्यचन मीनस्य कौटुंबिकव्यापारेण विकृतचेताः पंचाशन्मांध तदुहितुरुद्वहन् चिराय विषयसुखांतरितविवेक आसीदिति । आस्वादितविषयरुचिरिद्रियगणो नोपारमनि विषयेभ्यः॥ न द्वितीयः। बंधहेतुतया दूषितलादाचार्यः ।। जन्ममरणलक्षणस्य संसारस्य वासनारूपेणावस्थितः काम एक निदानम् । तस्मान्न पुरुषार्थः काम इति ॥ आस्तामयं वि- वादशीलानां विवादः । सुप्रयुक्तः कामः पुरुषार्थ एव । कामात्मता न प्रशस्ते' त्यादिना मनुर्विगीतं कामं निषे- पनि नतु शास्त्रविहितं कामम् । तेषु 'सम्यग्वर्तमान ' इत्या- + दिना विहित कामं प्रशंसत्येव ॥ कामोहि द्विविधः । प्रवृत्ति- जनको निवृत्तिजनकश्चेति । स्वर्गादिफलाभिलाषणानुष्ठितानि कर्माणि पुनर्जननहतुतया बंधकारणानि भवति । यानि नित्यनैमित्तिकानि कर्माणि सखमंशुद्धिकामैरनुष्ठीयते स काम आत्मज्ञानसहकारितया मोक्षाय कल्पते प्रशस्ततरश्च भवति ॥ पूर्वोक्तं वैविध्यमप्यधिकारिभेदाद्भिद्यत । अधिकारिणः पुन- विभिनेच्छानियंत्रिताः कर्मवासनया वस्वाभिमतेषु प्रवर्तते । नचैकस्मिन् विषये समानधर्माणः पुरुषाः ॥ तमेतमर्थ छंदोगा अनुश्रावयंनि ‘स यदा पितृलोककामो भवति संकल्पादेवास्य पितरस्समुत्तिष्ठंनी ' त्यादिभिः। एतदविरोधी धर्ममूलः विधिविहितश्चेद्रियनीतिहेतु: सक्चंदनवनितालिं- गनादिरूपश्च कचिदभ्यनुज्ञायते मुनिभिः ॥ उत्सिताना- मिद्रियाणां विषयरसास्वादवरस्यप्रदर्शनद्वारा निग्रह एवात्र विविक्षितःगनतु तदेकांतिकलम् । इंद्रियाणि विषयाणामसेवया नियंतुमशक्यानि भवति ॥ अनुभूतावादानि न जहत्येव विषयरसम् । सर्वथा दुश्शकमेवात्र तदभ्यनुज्ञामात्रमपि। चप- लानींद्रियाणि यदि विषयप्रवणानि तदा प्राज्ञस्यापि प्रज्ञा परिभूयते । प्रज्ञाविधुरो न शक्नोति युक्तायुक्तचितायामपि मनस्समाधातुम् । अविवेकिनः कायवाङ्मानसैरपराघरधः- पातो भवति । अतः कामः किंरूपः किंलक्षणकः कानि वास्य स्थानानि किमधिष्ठानमिति दुरूहतरलमानसैरद्यापि विमृश्यते मनीषिभिः । नाद्यावधि कैश्चिदपि निर्णयो दत्तः । सर्वः कामपरतंत्रो लोक उच्चावचेषु कर्ममु प्रवर्तते स एव परमाथ इति मन्यते च ॥ किंबहुना । नैतादृशं संवननं प्राणिनां त्रिषु लोकवघ्यन्यदास्त ॥ अतो गुरूपदेशशास्वावगाहन- न्यायनिष्णातमतिभिरस्य स्वरूपं सम्यगालोच्य यथानुषंगं धर्माविरोधन प्रयतितव्यम् । विधिविहितः सतां संपतिपन्नः कामः पुरुषार्थ इति संपिंडितोर्थः ॥ अन्योन्याबाधितत्रिवर्ग- मुपजुषाणो गृहस्थाश्रमे परमार्थमोक्षहेतुभूतपरिव्राजकधर्म- साधनाय वैखानसाश्रममवलंब्य तत्तनियमाननुष्ठाय मनो मोक्षे निवेशयेत् ॥ गृहस्थाश्रमनिर्वानि कर्माणि यथाविधि समाप्य कुटुंबभरनिर्वहणधुरीणेषु पुत्रादिष्वाहितभरो जरा- जीर्णमात्मानं तपसि नियोजयेत् । चिरानुभूतविषयरसम- लिनं हि मनो नापीयसा कारणेन विरज्यते यमनियमैः सात्विकैराहारैः पराकचांद्रायणादिभिर्विषयवैराग्याभ्यासैर- न्यैश्च देहवाङ्मनोदंडैः सर्वतः प्रतिरुद्धमसरं शनैर्निर्वि- षयकं भवति मनः । कामाशयं हि चित्तं चिराहितदृढतरवि- षयवासनया कलुषितं पुन:पुनरुच्चावचजन्मकारणं भवति ।

मानुष्यं हि स्वर्गापवर्गयोारम् । सुकृतविशेषलब्धे तस्मि- मात्मनो बंधमोक्षायैव प्रयतितव्यम् ॥ प्रशांतचेतसः काम- संकल्पशून्यस्यात्मानमनुसंदधानस्य संसरणनिवृत्तिः कदापि भूयादिति सर्व वैखानसनियमाः प्रकल्पिता मुनिभिः । यथा युगांतरेषु सर्वे वर्णाश्रमधर्मा नियता आसन् न तथेदा- नींतनानां नियतुं शक्यते । युगभेदाद्धर्माधर्मयोईद्धिहासो स्वयमेव संभवतः । देशकालवयोगव्यादिभेदेन विभिन्ना पौरुषेयी व्यवस्थापि । शक्याशक्यविचाराधीनं हि करणी- यम् । यावच्छक्यमात्मश्रेयसि प्रयतितव्यम् ॥ कुटुंबभरण- लालनवर्धनादिचिंतया वा लोकानुसरणजीविकासंपादन व्यग्रतया वा केवलमायुषो व्ययेन न कश्चिदात्मोद्धारमयो- नको लाभः संजायते । स्वार्थावबोधक्रियाकल्पेष्विंद्रियेषु कार्याक्षमेष्ववयवेषु चिंतासंतानसंदानितस्य तृष्णायष्टिमव- लंब्य संचरतो यदि कदाचिदपिनोत्पद्यते विवेकस्तदा मुतरामेव न किंचिदपि प्रयोजनं स्यात् । अतः स्वहितमिच्छता पुरुषेण विवेकिना भाग्यम् । स च विवेको नित्यानित्यवस्तुविचार एव ॥ यत्रेदं सचराचरं त्रिगुणात्मकं जगदविद्यया भासते तन्नित्यं तदन्यत् सर्वमपि स्वाविद्याविजूंभितमनित्यमिति परीक्ष्य निर्वेदाद् गुरुमभिगच्छेदेव । तदनुग्रहेणासादितब्रह्म- विद्यो ध्यानधारणादिभिर्योगैर्यावदात्मसाक्षात्कारस्तावन्न वि- रमेत् ॥ निष्पन्ने पुनरात्मदर्शने कृतकृत्यो भवति ॥ एतदर्थमेव ३० सर्वेऽपि विधिप्रतिषेधादयो धर्मशाखेषु निरूपिताः ॥ सर्व- पामपि धर्मनियमानां योगांतरायहेतुभूतषड्वर्गसंयमः फलम् । अन्यथा केवलं श्रमावहा एव ॥ देहायभिमानो हि बंधहेतुः । सर्वोपि आढ्योहमभिजातः कोन्योस्ति मत्सम इत्यभिमन्यते स्वात्मानम् । अनेनैवाभिमानेन कामक्रोधलोभमोहदभमदमा- त्सर्यादयः श्रेयोविरोधिनस्संभवंति । तन्निग्रहार्थमप्रमत्तः प्रयतेत । असंकल्पात्कामं कामनिग्रहात्क्रोधमर्थेष्वनर्थबुध्या लोभमात्मविद्यया मोहं साधुसेवया दंभं तखावमर्शन मदं भूतसाम्येन मात्सर्य च समूलघातं निहत्य शास्त्राचार्योपदेश- कुशलमतिीरः श्रेयो विंदते । ततपरामर्शात् केवलसखयो गात् कर्मबीजपरिक्षयात् सतां सन्निकर्षाच योगः प्रवर्तते । ईश्वरमणिधानेन नानाविधजन्ममरणक्लेशमहाणकारणेन विग- लितान्यसंबेदनः स्वसंवेद्यमानंदं समश्नुते ॥ यद्यपि वर्णाश्रम धर्माः साकल्येन सर्वैरनुष्ठातुं न शक्यते तथापि शास्त्रनिर्दिष्ट- वर्त्मना यत्रकुत्राप्याश्रमे वसन् सत्यास्तेयेंद्रियनिग्रहदयाभूत- साम्यादिभिः कल्याणगुणैः परां सिद्धिमधिगच्छति ॥ तदेत- त्परमकारुणिकेन योगेश्वरेण याज्ञवल्क्येन सम्यग्व्यवसितम् । यथा "न्यायागतधनस्तखज्ञाननिष्ठोऽतिथिमियः॥ श्राद्धक- सत्यवादी च गृहस्थोपि हि मुच्यत" इति । तदिदं धर्मसर्वस्वं मुं- डकोपनिषदि प्रतिपाद्यते"परीक्ष्य कर्मचितान् लोकान् ब्राह्मणो निर्वेदमायादिति । “यदहरेव विरजेत् तदहरवे प्रव्रजेत्" इति ३१ च । “तमेतं ब्राह्मणा विविदिषंति यझेन दानेन तपसानाश- केन" इत्याद्यन्यत्रापि । तदेतत्सर्वमनुशासनं स्वकर्मवशादेवति- यङ्नरादिषु परिभ्रमतो जीवराशेरात्यंतिकसंसारोच्छेद एव परमः पुरुषार्थ इति निरूपणायैव प्रवृत्तम् । तत्साधनान्य- न्यानि त्रिवर्गसाधनान्यपि विहितानि । सर्व एते नियमा निवृत्तिप्रयोजका एव ॥-भागवत एकादशस्कंधे " व्यवस्थि- तिस्तेषु विवाहयज्ञसुराग्रहैराशु निवृत्तिरिष्टेति " प्रतिपादितम् । श्रुतयोपि " लागेनैकेमृतसमानशु "रिति प्रतिपादयति । तस्मात्पुरुषार्थेषु मोक्ष एव श्रेष्ठइति व्यवसितमाचार्यैः ॥ वस्तुतस्तु सर्वेपि पुरुषार्थाः परस्परोपकारका यावदर्थपरि- ग्रहविधया संसेविता मोक्षाय संपद्यते । शररिवाङ्मनोभिः श्रद्धया विहितैर्विद्ययानुष्ठितैः कर्मभिरंतरात्मा प्रसीदति । प्रसन्ने तस्मिन् स्वस्वश्रद्धानुरूपान् भौमान् दिव्यांश्च कामान् ययाधिकारं पुरुषस्समश्नुते । इदमेव पुरुषार्थप्रयोजनम् । एतदर्थमेव विधिनिषेधात्मक शास्त्रं प्रवृत्तम् ।। नन्वस्तु धर्ममो- अयोरत्यंताप्राप्तयोर्विधायकं शास्त्रम् । रागमाप्तयोरर्थकामयोः किं विधायकेन शास्त्रेणेति चेत्-रागप्राप्तेष्वपि नियंत्रणाभावे लोकसेरनवस्था भवेत् । अनवस्थितायां लोकवृत्तौ का म- सक्तिधर्ममोक्षयोः । अतो रागमाप्तयोरपि तयोर्धार्थ नि- यत्रणमावश्यकमेव । अतः शास्त्रमेव बलवदिष्टानुबंधिषु श्रे- योहेतुषु प्रवर्वयति निवर्तयति च बलवदनिष्टानुबंधिभ्यः श्रे- योविघातकेभ्यः । भृग्वंगिरोमनुहारोतममुखैरवितथवचनै लो- कानुग्रहायैव गृहीतविग्रहैः स्वयमनुष्ठाय प्रदर्शितेन सत्पथेन संचरंते साधवः ॥ संदिग्धविपर्यस्तबुद्धीनां रजस्तमःमक- तीनामपि स एव साधुपथः श्रेयोभ्युदयहेतुः । तमिममर्थमाम- नति तैत्तिरीयाः। “अलूक्षाधर्मकामाःस्युः। यथा ते तत्रवर्तेरन् । तथा तत्र वर्तेथाः । एष आदेश" इति । इत्थं च स्वरूपानंद:- विर्भावलक्षणो मोक्षः परमः पुरुषार्थः ॥ तदंतरंगसाधनं धर्मः। इष्टापूर्तादिधर्मोपयोगितया अर्थः ॥ तदुभयाविरोधी धर्मप्र- जासंपत्तिहेतुः काम इति ॥ पूर्वपूर्वापेक्षया प्रत्यवरीणधर्मामः पुरुषार्थाश्चत्वारः सर्वेषां श्रेयोभ्युदयहेतवः प्रसिद्धाः॥ यथा- स्माभिरयमर्थः संगृहीतस्तथा भगवती श्रुतिराभिमुख्येनानुमो- दते । गर्भाधानपुंसवनमुखैस्संस्कारैः परिपूतशरीरस्य द्विजन्मनोऽधीतवेदस्य कृतदारसंग्रहस्य यायजूकस्य क्रमेण विषयपराङ्मुखचेतसः कर्मसहकृतशुद्धसबसम्पादितब्रह्मज्ञा- नस्य सच्चित्खरूपेणावस्थितिरेव परमः पुरुषार्थस्यैवर्णिकानाम्। तदितरेषां स्वस्ववृत्तिधर्मानाश्रित्य सर्वसाधारणैः सत्यास्तेया दिभिर्वर्तमानानां पुण्योपचयसंपादितोत्तरोत्तरोत्कृष्टजन्मला- भद्वारा श्रेयोलाभो भविष्यतीति प्रतिपादनायैव कल्पविधिमं- त्रार्थवादमीमांसान्यायसांख्यधर्मशास्त्रपुराणेतिहासादि निबंध- नारंभास्सर्वेपि सफला॥ ॥ इति श्रीसुब्रह्मण्यमण कृतिषु पुरुषार्थमीमांसा ।।

No text on this page.

RELESEE RESSESS-LESEDS-2525-LESSUESLS LEESesa हेतुवादः। पदवाक्यप्रमाणपरिपाटीपाटववित्तपण्डितबर के. सु- ब्रह्मण्यशाखिभिः पुरुषार्थमीमांसानामाऽयं लघुर्नि- बन्धो व्यलेखि गतकार्तिकमासे । प्रयोजकं तत्र कि- श्चित्सप्रेरणमासीत् । सौजन्यादिसद्गुणगणालङ्कृतैः श्रीमद्भिर्माधवरावमहाशयैर्महीसूरमहीमहेन्द्रमन्त्रिभिः प्रसिद्धीकृतं यत्पुरुषार्थविषयकनिबन्धलेखकाय यदि तदीयलेखं परीक्षकपरिषत्समीचीनतम निर्णष्यति तदा पारितोषिकमुपहारीकरिष्यत इति । पारितोषि- कासादनायायनुभिः केवलं परीक्षकपरिषत्परीक्षणच- णताश्रयेण निबन्ध विलिख्य न्यधुस्तद्ग्रे । यद्यपि पारितोषिकयोग्यता परिषदान्यत्र निहिता तथापि "किमवद्यः करिकुम्भजो मणि"रिति माघोक्तिमनुस- न्धाय निबन्धस्यास्य मुद्रणं लोकोपकाराय भविष्य- तीति मखा मुद्रापितोऽयं ग्रन्थः । स्वल्पस्याप्येतस्य निबन्धस्य परिशीलनेन परिशीलयितुरवश्यमेव पुरु- पार्थखरूप-तत्साधनावगम-तत्फलसंवेदन-तदासा- दनौत्सुक्यादिनकविधमयोजनासिद्धिर्भवित्रीति- आशासानः जामनगरबास्तव्यो हरिशङ्करात्मजः शाखी हाथीभाईशर्मा. RESTLEJ0HRESTHETES THE THRS OF005-

No text on this page.

No text on this page.

Purusartha Mimamsa

Author
Subrahmand-yashaastrii
Title
Purushhaar^thamiimaan'saa
File name
Purusartha Mimamsa
Text
OCR done
Citation
1970
Published
2004/12/25
Publisher
Vidya Sagara Press,jamnagar
Language
Sanskrit
Pages
39
Library
Asr,melkote
Classification
Hinduism Narrowly
Keywords
Mimamsa Philosophy
DLI number
383227
Barcode
1990020047515.00
Scanning centre
ASR, Melkote
Digital publisher
Digital Library Of India
Rights
Not Available
VMLT id
OjZ1r5sRz30
Download PDF

Purusartha Mimamsa