Ramkrishna Mission Institute Of Culture, Golpark

Upadeshasahasri Pt. 1

Shastri, Wasudev Laxmana, Ed. · 2006/04/26

PDF Proofread

Front matter

No text on this page.

UPADESHASAHASRÎ
BY
Shrimad Bhagwatpâdâchârya,
With the Commentary Padayojanikâ
BY
SHRÎMAD RÂMATÎRTHA.
PART I (Prose only)
EDITED BY
WASUDEV LAXMANA SHÂSTRÎ PANSHÎKAR.
PUBLISHED
BY
TUKÂRÂM JAVAJÎ,
PROPRIETOR OF THE "NIRNAYA-SAGAR" PRESS.
Bombay.
Rrld & Anings.
QALOUTTA

(Registered according to Act XXV of 1867.)
[ All rights reserved by the publisher. ]
Published by Tukaram Javaji, Proprieto Nirnaya-Sagar Press, and
Printed by Ramchandra Yesu Shedge, at the Nirnaya-Sagar
Press, 23, Kolbhat Lanc, Bombay.

ॐ
श्रीमद्भगवत्पादाचार्यप्रणीता
उपदेशसाहस्री।
पदयोजनिकाख्यया श्रीमद्रामतीर्थविरचितव्याख्यया
संवलिता।
गद्यरूपः प्रथमो भागः
अयं ग्रन्थः
पणशीकरोपाह्वविद्वद्वरलक्ष्मणशर्मतनुजनुषा
वासुदेवशर्मणा संस्कृतः।
मुम्बय्यां
तुकाराम जावजीश्रेष्ठिना
खीये निर्णयसागराख्यमुद्रणयन्त्रालयेऽङ्कयित्वा प्रकाशितः ।
शाक. १०३६ सन १९१५.
मूस्यो आपकार

:; ?C { :: }£in:! y
ܘ
[4783
(;) 3 .ܙ2
S;
ܬܙܝ
ܝܠܟ
7

प्रास्ताविकम्- अतक्र्ये खलु भ्रमिमति संसारचक्रे विपरिवर्तमानानामाध्या- स्मिकाधिदैविकाधिभौतिकत्रिविधतापतप्तानामैकान्तिकात्यन्तिकदुःख- निवृत्त्युपकारकसाधनतया पुरुषार्थोपायमभिवाञ्छतां पुरुषधौरेयाणां पुरुषर्थोपायान्वेषणैवादावुत्पद्यते । पुरुषार्थश्च द्वेधोपवर्ण्यते दृष्टोऽदृष्ट- श्चेति । तत्राये दृष्टविषये 'बुभुक्षितोऽश्नीयात्' इत्यादिशावं व्याव- हारिकविषयेषु नावश्यकं, विनापि शास्त्रव्यापार तत्र लोकप्रवृत्तिदर्श- नात् । द्वितीये अदृष्टे तु खर्गापवर्गमात्रे नैसर्गिकमोहान्धकारलुप्ता- लोकस्य लोकस्यास्सदादेः शास्त्रमेव दिव्यं चक्षुनियन्तृ च सिद्धान्तितं । तस्मादखिलैः शास्त्रमेवाधिगन्तव्यम् । शास्त्रं पुनद्वैधा कर्मब्रह्मोपास- नात्मकत्वेन वरीवति । तज्जीवातुभूताश्च सन्ति खतःप्रमाणभूता मनब्राह्मणात्मिकाः श्रुतयः । तन्मूलप्रमाणभूता मन्वादिस्मृतयः, अखिलपुराणानि च । तत्र श्रुतयस्तावत्साक्षादेव विलसन्ति पुरुषार्थ- साधनोपदेशखभावाः । यथा-'अमिहोत्रं जुहुयात्वर्गकामः', 'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः' इति । अथ स्मृतिपुराणाभ्यामपि वैदिक एवार्थः प्रकाश्यते, यथा-'इतिहासपुरा- णाभ्यां वेदं समुपबृंहयेत् । बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति ।' इति । तदेतेषामप्युपदेशस्वभावत्वेन लोकशासनाच्छास्त्रत्वम् । सर्वथाभ्यर्हिते वेदेऽपि परस्परविरोधकृन्ति सन्ति 'उदिते जुहोति', अनुदिते जुहोति' इत्याधुदितानुदितहोमादिविरुद्धार्थकवाक्यानि नेकशस्तत्रतत्र । तयवस्थायै साक्षाद्विध्येकवाक्यतयाऽखिलवेदवा- क्यानां कर्मपरत्वं प्रतिपादयन् वेदवाक्यार्थविचारात्मिकां द्वादशलक्षणी २ उपदेशसाहस्री पूर्वमीमांसां भगवान् जैमिनिः सूत्रयांबभूव । यत्परिचयमन्तरा कृतविविधविद्यापरिश्रमा अपि न विद्युर्यथावत्कर्मकाण्डैकपदीमण्वी- मपि । भगवान्बादरायणस्तु परब्रह्मपर्यवसायीनि सूत्राण्यसुसूत्रत् यानि ब्रह्मसूत्रनामधेयेनाप्रथन् । तदुपरि श्रीमद्भगवत्पादाचार्याः सागराम्बरायामात्मानात्मोपदेशेन मानवप्राण्युद्दिधीर्षया अद्वैतवेदा- न्तसिद्धान्तमुपोद्दलयन्तो ब्रह्मसूत्रभाष्यमभाषिषन् । अकार्पश्चानुपदं विविधान्वेदान्तप्रकरणग्रन्थान् । यदभ्याससाहाय्येन सुकुमारमतयो- ऽप्यद्वैतसिद्धान्तान्प्रकामं निश्चिनुयुः । तेप्वेवायमुपदेशसाहस्रीसमाख्यो मुख्यो ग्रन्थः प्राकाश्यं नीतोऽस्माभिरिति संख्यावन्तो विदांकुर्वन्तु । विशेषतश्च भूयः सानन्दं निवेदयामः-पूर्वमस्योत्तरो भागः केवलपद्यमय ऊनविंशतिप्रकरणात्मकः कीलैरानक्य प्रकाशितोऽस्ति परंच तदानीमेतस्यालाभाद्यावल्लब्ध एवापूर्णतया कथंकथमप्यवसि- तोऽभूत् , तस्यैवायं गद्यरूप आदिमो भागः प्रकरणत्रयात्मक एतर्हि बनारसक्षेत्रमधिष्ठितैर्महोदयैः हरि अनन्त परांजपे इत्येतैर्महता प्रया- सेन संपाद्य सुष्टुक्षरैर्विलिख्य श्रीमद्वाराणसीक्षेत्रात्प्रहितः, सचायं प्रापणसमकालमेव समुन्य प्रकाशितोऽस्माभिः । शंकरभगवत्पादानां जन्मसमयः कलिगताब्दाः ३८८९, विक्रम-: संवत् ८४५ । तथाच शंकरमन्दारसौरभे- 'प्रासूत तिष्यशरदामतियातवत्या- मेकादशाधिकशतोनचतुःसहरुयाम् ।' इति । तथान्यत्रापि तत्परम्पराप्रवणानामुक्तिः 'निधिनागेभवन्ह्यब्दे ३८८९ विभवे मासि माधवे। शुक्ले तिथौ दशम्यां तु शंकरार्योदयः स्मृतः। इति । विदुषामेकान्तवशंवदः पणशीकरो वासुदेवशर्मा ।। -- उपदेशसाहस्रीविषयानुक्रमणिका गद्यप्रबन्धः १. शिष्यप्रतिबोधविधिप्रकरणं प्रथमम् वाक्यसंख्या. .... "" or ... २ .... ३ .... ४ .... .... .... .... w .... .... .... चिकीर्षितप्रतिज्ञापूर्वकं शास्त्रीयानुबन्धसंग्रहः संग्रहेणोक्तस्यार्थस्य विवरणम्. गुरूपसत्तिः कार्येत्यभ्यनुज्ञा. पुनःपुनर्गुरूपदेशे हेतुः ज्ञानोदयहेतुजातोपदेशः गुरुकर्तृकोपदेशक्रमः श्रुतिभिः स्मृतिभिश्च ब्रह्मणो लक्षणं याहयेत् उपदेशानन्तरं मतिनैश्चल्याय शिष्यं पुनःपुनः पृच्छेदित्याचार्यकृत्यम्. अप्रतिपत्त्यादिदोषात् शिष्यस्योत्तरम्. पुनरुपदेशेन तादृशं दोषं त्याजयत्याचार्यः स्थूलदेहाभिमानत्यागानन्तरं शिष्यस्योक्तिः.... शिष्यप्रशंसापूर्वकमाचार्यस्योत्तरम्. उक्तार्थवैशद्याय शिष्यप्रश्नोत्थापनम्. गुरोरुत्तरदानाय प्रवृत्तिः शरीरस्य भिन्नजात्यन्वयसंस्कारत्वज्ञापनायोपपत्तिप्रकारः शरीरोत्पत्त्युपदेशः .... ... .... .... ९ १० ११ १२ १३-१५ १६ १७ १८ १९-२१ .... .... ....

.... २ उपदेशसाहस्री। वाक्यसंख्या. सूक्ष्मशरीराभिमानत्याजनम्. २२-२३ परमात्मा वै क्षेत्रज्ञ इत्यत्र स्मृतयः २४ परजीवयोरभेदे अनुभवविरोध इति शंकानिरासपूर्वकं भेददृष्टेनिन्दा. २५-२७ अभेददृष्टिप्रशंसापूर्वकं ससाधनस्य कर्मणः प्रतिषेधोपपादनम्.२८-३२ उक्तमेव ब्रह्मात्मैक्यं युक्त्या व्यवस्थापयति ३३-३५ वेदनादीनामनात्मधर्मत्वोपपादनम्, ३६-३८ ब्रह्मात्मैकत्वे लौकिकवैदिकव्यवहारविरोधशङ्का. ३९ अत्राचार्यकृतं समाधानम्. कर्मकाण्डाप्रामाण्यशङ्कापरिहारौ. ४१-४२ अविद्योन्मूलनफलम्. ४३ मुमुक्षायामुत्पन्नायां ससाधनकर्मत्यागनिगमनम्. .... .... ४४ .... .... .... .... २. कूटस्थाव्यात्मबोधप्रकरणं दितीयम् कृतसंन्यासस्य मुमुक्षोः कृत्यं श्रवणं विधितः सूचयन् संसारविषयकशिष्यप्रश्नानवतारयति. ४५ शिष्याश्वासनपूर्वकं गुरोरुत्तरम्. ४६-४८ पुनः विशेषबुभुत्सया विनेयप्रश्नः अविद्याविषयकः ४९ गुरोरुत्तरम्. ५० अध्यासानुपपत्तिप्रदर्शनपूर्वकं शिष्यप्रश्नः. ५१ गुरोरुत्तरम् . ....५२-५४ अध्यस्तत्वादात्मनः सत्त्वानुपपत्तिरिति शिष्यशङ्का. ५५ अत्रोत्तरम्. ५६ .... .... .... .... ....

.... .... .... विषयानुक्रमणिका। वैनाशिकपक्षप्राप्तिदोषाशङ्कापरिहारौ. परमते दूषणमापादयति. प्रकारान्तरेणाध्यासानुपपत्तिशङ्कापरिहारौ. कूटस्थविषयसंशयपरिहारौ. उपलब्धृत्वेन कूटस्थत्वानुपपत्तिशङ्कापरिहारौ. अवस्थात्रयसाक्षितया कूटस्थत्वानुपपत्तिशङ्कापरिहारौ. संविदः नित्यत्वाक्षेपपरिहारौ. प्रमातृत्वानुपपत्तिशङ्कापरिहारौ..... कर्तृत्वाक्षेपपरिहारौ. अवगतेः कूटस्थत्वफलत्वयोः विरोधशङ्कापरिहारौ. द्वैतस्य मृषात्वप्रकटनम्. ३ वाक्यसंख्या. ५७-५८ ५९ ६०-७३ ७४-७५ ७६-८५ ८६-९२ ९३-१०१ १०२-१०३ १०४-१०७ १०८ १०९-१११ .... .... ३. परिसंख्यानप्रकरणं तृतीयम्. सोपस्कारपरिसंख्यानप्रकारोपदेशः ११२-११३ शब्दादिभिरात्मनोऽनभिभवानुचिन्तनम्. ११४-११५ शब्दाद्यनुभवानुचिन्तनं-आत्मनोऽविकारित्वानुचिन्तनं च समाप्ता चेयं पूर्वभागस्यानुक्रमणी।

पद्यप्रबन्धस्य प्रतिप्रकरणं विषयसूची. श्लोकसंख्या. .... .... १. उपोद्धातप्रकरणम् मङ्गलाचारपूर्वकं ब्रह्मविद्यारम्भसमर्थनम्. ज्ञानस्यैव मोक्षहेतुत्वम्. ज्ञानकर्मसमुच्चयवादः तन्निरासश्च. कर्मकाण्डाप्रामाण्यशङ्कापरिहारौ. अविद्यायाः पुनरनुद्भवः विद्यायाः सहकारिनिरपेक्षत्वेनैव मोक्षहेतुत्वम्. उपनिषच्छब्दार्थकथनम्. .... १-५ ६-७ ८-१५ १६-१७ १८-१९ २०-२४ २५-२६ .... २. आत्मज्ञानोत्पत्तिप्रकरणम्. ब्रह्मात्मज्ञानस्य वाक्यादनुत्पत्तिशङ्कापरिहारः उत्पन्नस्य ज्ञानस्य प्रत्यक्षादिबाध्यत्वशङ्कापरिहारः .... १-२ २ ४ ३. ईश्वरात्मप्रकरणम् जीवब्रह्मणोरभेदः अभेदाभावे श्रुत्यनुपपत्तिप्रदर्शनम्. १-२ .... .... १ यद्यपीयमुत्तरभागानुक्रमणी द्वितीयभागीया नात्रावश्यकी तथाप्यग्रिमसं- स्करणे गद्यपद्योभयभागसंयोजनेऽतीवोपयुक्ता स्यादिति मुद्यते ।

विषयानुक्रमणिका । ६ श्लोकसंख्या. ४. तत्त्वज्ञानखभावप्रकरणम्. आत्मनो ज्ञानं न मोक्षसाधनं संचितानेककर्मप्रतिबन्धा- १-२ प्रारब्धकर्मफलावसाने ज्ञानोत्पत्तिरिति तत्रोत्तरम् .. दिति शङ्का. .... .... १ ५. बुद्ध्यपराधप्रकरणम्. सर्वस्य जन्तोरात्मज्ञानाग्रहे उदङ्कस्याख्यायिका. संसारविभ्रमकारणं प्रमाणं च. पदार्थविवेकवता भाव्यं मुमुक्षुणा. २-४ .... ६. विशेषापोहप्रकरणम्. स्थूलोपायेन पदार्थशोधनप्रकारोपदेशः विशेषणानामनात्मत्वम्. आत्मनोऽन्यनिरपेक्षा स्वतःसिद्धिः १-२ ३-४ .... .... ५-६ .... ७. वुद्ध्यारूढप्रकरणम्. बुद्ध्यारूढस्यार्थस्य स्वानुभवावष्टम्भेन स्पष्टीकरणम्. आत्मनो विकारित्वादिदोषाभावोपपादनम् आत्मनः शुद्धत्वमद्वितीयत्वं च १-२ ३-४ .... - .... ८. मतिविलापनप्रकरणम्. बुद्ध्यात्मनोः संवादरूपेण बुद्धेः प्रशमोपदेशः एतत्प्रकरणनिर्माणे निमित्तम्. १-४ ५-६ & उपदेशसाहसी। श्लोकसंख्या. ९. सूक्ष्मताव्यापिताप्रकरणम् आत्मनो निरतिशयं सूक्ष्मत्वं व्यापित्वं च ब्रह्मादीनामात्मानं प्रति शरीरत्वम्. स्वरूपज्ञानस्य निर्विषयत्वं नित्यत्वं च. ४ .... .... .... १०. दृशिखरूपपरमार्थदर्शनप्रकरणम्. आत्मनो निर्विषयज्ञानखभावत्वस्य खानुभवामिनयेन प्रकटनम्. जन्मजरादिविक्रियाभावेन कूटस्थाद्वयस्खाभाव्यं श्रुति- प्रदर्शनपूर्वकमुपपादयति. आत्मतत्त्वपरिज्ञानस्य कैवल्यं फलम्..... आत्मविदः खरूपम्. .... ३-९ १०-१२ १३-१४ .... १-३ ४-१४ १५-१६ .... ११. ईक्षितत्वप्रकरणम्. कर्मणः, कर्मसहितज्ञानस्य वा मोक्षहेतुत्वशङ्कानिरासः द्वैताभावे प्रत्यक्षादिविरोधनिराकरणम्. कर्मणो मोक्षहेतुतायामनुपपत्तिः १२. प्रकाशप्रकरणम्. आत्मनः साभासान्तःकरणाविवेकाद्याथात्म्याज्ञानम्. आत्मनो याथात्म्यज्ञानसिद्ध्यै तत्त्वमिति श्रुत्युपदेशः चिप्रकाशस्य नित्यत्वोपपादनपूर्वकमात्मनो नियोज्य. वाभावप्रतिपादनम्. १-४ १६-१९ विषयानुक्रमणिका । श्लोकसंख्या, १३. अचक्षुष्ट्वप्रकरणम् आत्मनः शुद्धत्वाचलत्वादिव्यवस्थापनम. १-१० संसारनिवृत्त्युपायं ब्रुवन् मुमुखं शिक्षयति ११-१३ अविकारित्वात् विक्षेपः समाधिश्च न स्तः १४-१८ आत्मनः पूर्णत्वम् १९-२४ अहं ब्रह्मास्मीति सदानुसंदध्यादिति मुमुक्षु प्रोत्साहयति. २५-२६ .... .... १४. स्वमस्मृतिप्रकरणम्. अन्तःकरणस्यापरोक्षत्वं तत्फलम्. आत्मनि हेयाद्यभावः अनुभवेनाप्यवगम्यते. मोक्षाय स्मृतिः कर्तव्या. ब्रह्मणोऽक्षरत्वम्. आत्मविदः सफलं कर्मेतिशकावारणम्. आत्मज्ञस्य फलम्. आत्मनोऽकार्यशेषत्वम्. आत्मनो देहद्वयविविक्तत्वम्. .... १-१० ११-१५ १६-१९ २०-२२ २३-२६ २७-२९ ३०-४० ४१-६० .... .... .... १५. नान्यदन्यत्प्रकरणम्. खभावाशुद्धात्मा साधनविशेषेण शुद्धो भवतीति केषांचि- न्मतं निरस्यति. १-३ आत्मनः साक्षित्वम्. विदुषः क्रियात्यागः स्मर्तव्यमात्मरूपं च ७-१८ ब्रह्म प्रतिपत्तुं पदार्थविवेकं कुर्यान्मुमुक्षुः १९-२१ .... .... ..

८ उपदेशसाहस्री। श्लोकसंख्या. २२-३५ ३६-३९ जागराद्यवस्थाः तत्साक्षी आत्मा च. मुमुक्षोः कर्तव्योपदेशः वयंप्रकाशत्वं ज्ञेयत्वाभावश्च. .... .... ... १ .... .... .... .... .... २-३ ४-१४ १५-२१ २२ २३-२९ ३०-४८ .... १६. पार्थिवप्रकरणम्. स्थूलशरीरात्मवादिमतनिराकरणम्. इन्द्रियात्मवादिमतनिराकरणम्. बुद्ध्यात्मवादिमतनिराकरणम. शून्यात्मवादिमतनिराकरणम्. दिगम्बरमतनिराकरणम्. शाक्यमतनिराकरणम्. शून्यमतनिराकरणाय खमतसामञ्जस्यम्. प्रधानपुरुषयोः संबन्धाभावप्रपञ्चनम्. वैशेषिकमतप्रक्रियादूषणम्. बन्धस्याज्ञानात्मकत्वम्. मोक्षखरूपम्. परपक्षनिराकरणं संक्षिप्य खमतोपसंहारः. .... .... .... .... । .... .... ५८-६१ ६२-६७ ६८-७४ १-३ १७. सम्यातिप्रकरणम्. गुरुदेवतानमस्कारः आत्मलाभस्य परत्वम्. .... आत्मनो ब्रह्मणश्चैकत्वम्. चित्तस्य तपोभिः शोधनम्. .... १०-२१ २२-२६ विषयानुक्रमणिका। ९ .... .... मायाकल्पितमात्मनो बहुत्वम्, बुद्धौ आत्मनो ग्रहणं नित्यत्वादिकं च. कर्मणां त्याज्यत्वम्. गुरूपसत्तिः पदार्थविवेकः प्रतिबुद्धस्य मुमुक्षोरनुसन्धानप्रकारः उक्तस्य प्रकरणार्थस्योपसंहारः श्लोकसंख्या. २७-३२ ३३-४२ ४३-५१ ५२-५३ ५४-५६ ५७-८१ ८२-८९ ..... ... .... .... .... .... १८. तत्त्वमसिप्रकरणम्, गुरुनमस्कारपूर्वकं संप्रदायशुद्धिरभिहिता. तत्त्वमस्यादिवाक्यादेवापरोक्षज्ञानमनर्थनिवृत्तिफलमुत्पद्यते. ३-८ प्रसंख्यानवादिमतमुत्थापयति. ९-१८ खसिद्धान्तं दर्शयति. १९-२३ आत्मनः प्रत्ययागोचरत्वम्, २४-२७ शब्दागोचरत्वम्, २८-३३ एकदेशिमतानि दूषयितुं संगृह्णाति. ३४-३६ आभासनिरूपणपूर्वकं चिच्छायावादिप्रभृतिमत- निराकरणम्. ४७-५० आत्मनि जानात्यादिशब्दव्यवहारानुपपत्तिशङ्का. ५१-५६ एतत्परिहारः ५७-६६ बुद्धिविषये तार्किकसौगतादिमतनिरासः ६७-७४ आभासविषये शङ्कापरिहारौ. ७५-९० युष्मदस्मद्विवेकः ९१-९८ .... .... ....

उपदेशसाहती। श्लोकसंख्यां. .... विज्ञातपदार्थतत्वे पुरुषे महावाक्यं फलबद्विज्ञानं जनयति प्रतिपत्तव्यार्थखभावनिरूपणम्. विज्ञानवादिबौद्धमतनिराकरणम्. प्रत्ययाध्यक्षयोः संबन्धः विवेकाविवेकयोः बाध्यबाधकभावः .... तत्त्वंपदयोरेकार्थत्वे पर्यायत्वादिशकापरिहारः त्वंपदार्थविवेकः तत्त्वमसीत्यादिवाक्यार्थविचारः प्रकारान्तरेण प्रसंख्यानप्राप्तिनिरासः प्रकरणार्थोपसंहारः ९९-१०४ १०५-१४० १४१-१५२ १५३-१५९ १६०-१७२ १७३-१८० १८१-१८३ १८४-२०५ २०६-२२९ २३०-२३३ .... .... ३ .... १९. भेषजप्रयोगप्रकरणम् संसारस्य मनोध्यासनिबन्धनत्वद्योतनायात्ममनःसंवादः आत्मनोऽद्वितीयत्वम्. मात्मनो विकल्पनाद्यविषयत्वम्. विचारः अद्वैतनिश्चयहेतुः उक्तार्थनिश्चयशून्यानामनर्थप्राप्तिः बस्तुमात्रस्य कारणत्वकार्यत्वयोः निरासः द्वैताभासनिरूपणम् मङ्गलं च. समाप्तेयमपरमागस्य विषयसूची। १-८ ९-१२ १३ १४-१८ १९-२० २१-२४ २५-२८ .... ....

ॐ श्रीमच्छङ्कराचार्यप्रणीता उपदेशसाहस्री। श्रीरामतीर्थविरचितपदयोजनिकाख्यव्याख्यायुता । (गद्यप्रबन्धः प्रथमोभागः।) शिष्यप्रतिबोधविधिप्रकरणम् १ प्रणम्य रामाभिधमात्मधीपदं जगत्प्रसूतिस्थितिसंयमायनम् । तदात्मकान्शंकरपूर्वकान्गुरून्मयोपदेशार्थविभाग उच्यते ॥ १ ॥ इह भगवत्पादाभिधो भगवान् भाष्यकारः सर्वोपनिषदर्थसारसं- प्राहिकामुपदेशसाहस्रीं गद्यपद्यविभागग्रन्थरचनया प्रकटीकुर्वन्नादौ गद्यबन्धमारभमाणः प्रारिप्सितपरिसमाप्तिप्रचयगमनादिप्रयोजनं शि- टाचारविशेषपरिप्राप्तं मङ्गलमाचरति- अथ मोक्षसाधनोपदेशविधिं व्याख्यास्यामो मुमुक्षूणां श्रद्दधानानामर्थिनामर्थाय ॥१॥ अथेति-ॐकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं मित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ ॥ इति स्मृतौ अथशब्दस्य उ. सा.१

२
उपदेशसाहस्री।
[शिष्यप्रतिबोध-
माङ्गलिकत्वावगमात् ।
अथवा आनन्तर्यार्थ एवायमथशब्द
उच्चारमात्रेण मङ्गलप्रयोजनोऽपि भवति-अन्यार्थ क्रियमाण
मृदङ्गादिध्वनिश्रवणादिवत् । किमानन्तर्यार्थतेति चेत्–विस्तरे
णानेकशास्त्रार्थनिबन्धनिर्माणानन्तर्यार्थतेति वदामः । प्रश्नप्रतिवचना
क्षेपसमाधानप्रकारैः अनेकप्रमाणयुक्तिविशेषैः निपुणतरमवधारित
समस्तोपनिषच्छास्त्रार्थे अनेकवाक्ययुक्त्यनुसंधानव्यवधानमन्तरेण
साक्षादनुभवोदयाय संग्रहनिरूपणप्रवृत्त्युपपत्तेरिति । अत्र चिकी
र्षितं प्रतिजानानः प्रवृत्त्यङ्गतया शास्त्रीयानुबन्धजातं संगृह्णाति-
मोक्षसाधनेति । अथ विस्तरेण शास्त्रार्थनिरूपणानन्तरं मोक्ष
निष्प्रपञ्चब्रह्मात्मताविर्भावः तस्य साधनं औपनिषदाद्वितीयात्मतत्त्व
ज्ञानं तस्य उपदेशः उपदेशनमुपदेशः तदर्थवाक्यानामर्थविभागे
शिष्यप्रति प्रतिपादनं तस्य विधिः प्रकारविशेषः तं विस्पष्टं आख्या
स्यामः कथयिप्यामः । मोक्षशब्देन प्रत्यक्तत्वं ब्रह्मविषयो निर्दिष्टः
साधनशब्देन तत्त्वज्ञानस्योक्तत्वात्-तत्साध्याज्ञानादिबन्धनिवृत्ति
प्रयोजनं सूचितम् । उपदेशविधिशब्देन संबन्धो बोध्यबोधकलक्षण
शास्त्रविषयो दर्शितः । इदानीं अधिकारिणमाह-मुमुक्षूणामिति
मुमुक्षूणां मोक्षमात्रमिच्छतामिति । अनेन ऐहिकामुष्मिकार्थतृष्ण
लेशवतामप्यत्रानधिकार इति सूचितम् । श्रद्दधानानां । अस्मिन्नु
देशशास्त्रार्थेविश्वासवतामिति । अनेन मुमुक्षवोऽपि सन्तो ये कर्म
अन्यशास्त्रेष्वपि वा श्रद्दधते तेषामिहानधिकारः सूच्यते । अर्थिन
एतच्छास्त्रार्थज्ञानार्थिनामिति । अनेन श्रद्दधाना अपि ये पाण्डिल
विस्तरप्रवणमतयः तेषामिहानधिकारो ध्वनितः । तथाच-एवंविध
नामधिकारिणां अर्थाय उपकाराय व्याख्यास्याम इत्यन्वयः ॥ १ ॥

प्रकरणम् १] पदयोजनिकाव्याख्या। ३ -- - संग्रहेण उक्तमर्थ विवृणोति- तदिदं मोक्षसाधनं ज्ञानं साधनसाध्यादनित्यात्सर्व- स्माद्विरक्ताय त्यक्तपुत्रवित्तलोकैषणाय प्रतिपन्नपरमहंस- पारिवाज्याय शमदमदयादियुक्ताय शास्त्रप्रसिद्धशिष्य- गुणसंपन्नाय शुचये ब्राह्मणाय विधिवदुपसन्नाय शिष्याय जातिकर्मवृत्तविद्याऽभिजनैः परीक्षिताय ब्रूयात् पुनःपुनः यावद्रहणं दृढीभवति ॥ २॥ तदिदमिति । तदिदं मोक्षसाधनं ज्ञानं विधिवदुपसन्नाय शिष्याय ब्रूयात् इत्यन्वयः। तत् ग्रन्थान्तरेषु विस्तरेण प्रतिपादितं । इदं इदानीं इह वक्ष्यमाणमित्यर्थः । किं तत् मोक्षसाधनं सहेतुबन्धनिवृत्त्या ब्रह्मा- त्माविर्भावस्य निमित्तं यदुक्तं तदिदं ज्ञानं वक्ष्यमाणमित्यर्थः । मोक्षसा- धनपदं व्याख्यातम् । उपदेशविधिपदमग्रे शिष्याचार्यप्रश्नादिपरम्परया व्याख्यास्यन् मुमुक्षूणामित्याद्युक्तमधिकारिणं व्याचष्टे-साधनेत्यादिना। संग्रहे अधिकारिबहुत्वनिर्देशः प्रदर्शनार्थः, नतु विवक्षितः अतएव विवरणे एकवचनम् । एकात्मवादे बहूनां निरपेक्षाणां मुमुक्षूणां असंभवादिति । 'नाविरक्ताय संसारान्नानिरस्तैषणाय च' इत्यादि- शास्त्रमुररीकृत्याह–साधनसाध्यादिति । साधनैः दृष्टादृष्टाथैः कृप्यादियागादिभिः साध्यात् ऐहिकादामुष्मिकाच भोग्यजातात्- अतएव अनित्यात् अशाश्वतात् सर्वस्मात् ब्रह्मलोकान्तादपि विरक्ताय विगतरागाय निवृत्ताभिलाषायेत्यर्थः । कथमवगम्यते अयं विरक्त इत्यपेक्षायां विशेषणान्तरेण विरक्तचिह्नमाह-त्यक्तेति । अत्र एषणाशब्देन कामापरपर्यायेण तत्प्रयुक्ता प्रवृत्तिलक्ष्यते । तत्र पुत्रार्थ दारसंग्रहे प्रवृत्तिः पुत्रैषणा । कर्माद्यनुष्ठानार्थ अपरविद्यागवादिरूपो- उपदेशसाहस्री। [शिष्यप्रतिबोध- भयविधवित्तपरिग्रहो वित्तैषणा । पुत्रकर्मापरविद्यासाध्य-एतल्लोक-पि. तृलोक-देवलोक-फलैषणा लोकैषणा । एता एषणाः त्यक्ता येन तस्मै । साधनेषु प्रवृत्त्यौत्सुक्यत्यागादेव साध्याभिलाषशून्यता गम्यत इत्यर्थः । तथाच श्रुतिः-'न कर्मणा न प्रजया धनेन त्यागेनैवे अमृतत्वमानशुः' इति । इदानीं-'एतमेव प्रवाजिनो लोकमिच्छन्त प्रव्रजन्ति', 'तानि वा एतान्यवराणि तपांसि न्यास एवात्यरेचयत् इत्यादिशास्त्रमनुरुध्याह-प्रतिपन्नेति । परमहंसविशेषणं कुटीच कादिस्मार्तसंन्यासिव्यावृत्त्यर्थम् । नहि द्वैताद्वैतवादिनां अद्वितीया स्मतत्त्वोपदेशग्रहणाधिकार इति भावः । एतावता मुमुक्षुपदं व्याख्या तम् । अत्रापि आश्रमधर्ममात्रनिष्ठस्य अधिकारो नास्ति इति विव क्षन् पुनः विशिनष्टि-शमदमदयादियुक्तायेति । शमः अन्तःक रणस्य अनात्मविषयेभ्यो व्यावृत्तिः । दमः बाह्येन्द्रियाणाम् । दय भूतेष्वद्रोहः । आदिपदेन उपरति-तितिक्षा-समाधान-श्रद्धाः संगृ ह्यन्ते । एतेन श्रद्दधानानामित्येतत् व्याख्यातम् । 'अमान्यमत्सरं दक्षो निर्ममो दृढसौहृदः । असत्वरोऽर्थजिज्ञासुरनुसूयुरमोघवाक् । इत्यादिवचनमनुसृत्य पुनर्विशिनष्टि-शास्त्रप्रसिद्धेति । एतेनाथि नामिति व्याख्यातम्-'नाशुचिर्ब्रह्म कीर्तयेत्', 'त्रिसंध्यादौ स्नान माचरेत्' इत्यादिशास्त्रमाश्रित्याह-शुचय इति । सबाह्याभ्यन्त रशौचसंपन्नायेत्यर्थः । 'ब्राह्मणो निर्वेदमायात्', 'एतद्ध स्म तत्पूर्वे ( ब्रामणा अनूचाना) विद्वांसः प्रजां न कामयन्ते, ए वै तमात्मानं विदित्वा ब्राह्मणाः' इत्यादिशास्त्राण्यनुसृत्याह-ब्राह णायेति । विविदिषवोऽपि क्षत्रियादयो न पारमहंस्ये संन्यासधर्मे अधि क्रियन्त इति भावः । अतएव उत्पन्नज्ञाना अपि जनकादयो न गार्हस्थ परित्यक्तवन्त इति श्रूयते । इदं च शास्त्रं यथोक्तसंन्यासाधिकारिकमे प्रकरणम् १] पदयोजनिकाव्याख्या। - I0 - - .नाश्रमान्तराधिकारिकम् । आश्रमान्तरस्य प्रवृत्तिधर्मपरत्वेन तदत्यागे । तद्विरुद्धनिवृत्तिनिष्ठापरत्वायोगात् , त्यागे च आश्रमान्तरानुपपत्तेः । वक्ष्यतिच भगवान्भाष्यकारः-'अहं ब्रह्मास्मि कर्ता च भोक्ता चास्मीति ये विदुः । ते नष्टा ज्ञानकर्मभ्यां नास्तिकाः स्युन संशयः ॥' इति 'संन्यासिभ्यः प्रवक्तव्यः शान्तेभ्यः शिष्टबुद्धिना ।' इति च । अतः पारिवाज्यविशेषणं नित्याधिकारित्वख्यापनार्थ, नाश्रमान्तरव्यावृत्त्यर्थ इति केषांचित् व्याख्यानं चिन्त्यम् । तद्विज्ञानार्थं स गुरुमेवाभिगच्छे- समित्याणिः श्रोत्रियं ब्रह्मनिष्ठम्' इत्यादिश्रुतिमाश्रित्याह-विधिवदु- पसनायेति । विद्याग्रहणार्थ गुरुपादग्रहणपूर्वकं 'अधीहि भगवः' इत्यादिमन्त्रोच्चारणेन अभिसंवादनं उपसत्तिः तां कृतवते इत्यर्थः । शिष्याय शासनार्हाय पूर्वश्रुतत्वादिनिमित्तौद्धत्यरहिताय विनय- युक्तायेत्यर्थः । 'किंगोत्रो नु सोम्यासि', 'तान्ह स ऋषिरुवाच भूय : एव तपसा श्रद्धया ब्रह्मचर्येण संवत्सरं संवत्स्यथ', 'नासंवत्सरवासिने प्रब्रूयात्' इति श्रौतलिङ्गमवष्टभ्याह-जातिकमत्यादिना । जा- । तिपरीक्षणं कुण्डगोलकक्षत्रियादिव्यावृत्त्यर्थम् । कर्मपरीक्षणं पतित- स्वाभिशस्तत्वादिराहित्येन शिष्टताज्ञानाय । वृत्तमाचारः शीलं वा सत्परीक्षणं विद्याग्रहणोत्तरकालमपि तत्परिपालनयोग्यताज्ञानार्थम् । । विद्या पूर्वाधीतवेदशास्त्रादिरूपा उपास्यदेवतादिविशेषविषया वा, सापि परीक्षणीया उक्तार्थग्रहणधारणादियोग्यत्वायोग्यत्वनिश्चयाय । तथाच श्रुतिः-'नाप्रशान्ताय दातव्यं नापुत्रायाशिष्याय वा पुनः' इति । अभिजनः कुलं जन्म स्थानं तदपि परीक्षणीयम् । मातापि- [तृभ्यां गुरुभिश्च शिक्षितत्वाशिक्षितत्वज्ञानार्थ—'यथा मातृमान् पितृमानाचार्यवान्ब्रूयातू' इति श्रौतलिङ्गात् । एवंविशिष्टाय शिप्याय अभूयात् इत्याचार्य शिक्षयति। उपदेशस्य दृष्टार्थतामभिप्रेत्याह-पुनः -- २.

ar उपदेशसाहस्री। [शिष्यप्रतिबोध. 'आ पुनरिति । अवधिमाह-यावद्हणं दृढीभवतीति । शिष्यस्या शेषः ॥२॥ एवमुक्तविशेषणेन शिष्येण गुरूपसत्तिः कार्या-गुरुश्च तमुपदि शेद्विद्याम् इत्युक्तेऽर्थे श्रुतिमुदाहरति- श्रुतिश्च-परीक्ष्य लोकान्', 'तत्त्वतो ब्रह्मविद्याम्- इति । दृढगृहीता हि विद्या आत्मनः श्रेयसे संतत्यै ३ भवति। विद्यासंततिश्च प्राण्यनुग्रहाय भवति नौरिव नर्द तितीर्णोः । शास्त्रं च-'यद्यप्यस्मा इमामद्भिः परिगृहीत धनस्य पूर्णा दद्यात् एतदेव ततो भूयः' इति । अन्यथ च ज्ञानप्राप्त्यभावात्-'आचार्यवान् पुरुषो वेद', चार्याद्वैव विद्या विदिता', 'आचार्यः प्लावयिता' सम्य ग्ज्ञानं प्लव इहोच्यते । इत्यादिश्रुतिभ्यः, 'उपदेक्ष्यन्ति । ज्ञानं' इत्यादिस्मृतेश्च ॥ २॥ श्रुतिश्चेति । 'परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमा यात्' इत्युपक्रम्य—'येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतं ब्रह्मविद्याम्' इत्यन्तेन ग्रन्थेन । उक्तोऽर्थों निरूपित इत्यर्थः शिष्यस्य दृढग्रहणपर्यन्तं गुरुणा पुनःपुनर्विद्योपदेष्टव्येत्यत्र हेतुमा ह-दृढगृहीता हीति । आत्मनः श्रेयः अविद्यादिदोषसंसारनिवृ त्तिः । संततिः शिष्यप्रशिष्यादिसंचारेण विद्याया अविच्छेदः विद्यासन्ततेः कोपयोग इत्यत्राह-विद्येति । यथा नदीतरणा' तत्र प्रविष्टस्य अगाधे जले निमज्जतो नरस्य परं प्रापयितुं नौरुपस्था प्यते कृपालुना, तथा संसारसागरे निमज्जतः प्राणिनः उद्धरणे प्रकरणम् १] पदयोजनिकाव्याख्या। तत्पारं विष्णोः परमं पदं प्रापयितुं विद्यासन्तानसंरक्षणमित्यर्थः । पूर्वोक्तशिष्यगुणसंपन्नाय परीक्षिताय विधिवदुपसन्नायैव विद्या देया न यथाकथंचित्प्राप्ताय धनादिलोभावति गुरोनियमार्थ श्रुतिशासनमु- दाहरति-शास्त्रं चेति । नियामकं शास्त्रं च अत्रास्तीत्यर्थः । तदे- वाह-यद्यपीति । इमां पृथिवीं अद्भिः परिगृहीतां समुद्रपरिवेष्टितां धनस्य पूर्णी वित्तेनोपचितां दद्यात् कश्चिद्यद्यपि तथापि नैतदर्शनं तस्मै दद्यात् । यतः एतत् ततो वित्तपूर्णपृथिवीदानादपि भूयः अधि- कतरमिति योजना । नह्याकाशादिसमस्तभूतभौतिकाधिष्ठानस्य ततो- ऽप्यधिकतरस्यापरिच्छिन्नस्य ब्रह्मणो दानस्येदमनुरूपमिति भावः । तथाच श्रुतिः—'पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि' इति । तदेवमाचार्येण परीक्षिताय शिष्याय कृपयैव विद्या वक्तव्येत्युक्तम् । तत्र किमाचार्योपगमेन कार्य- खयमेव जिज्ञासोः न्यायाद्यनुसरणतो विद्योदयसंभवात् इति शङ्कायामाह-अन्यथेति । यद्वा-किमिति एवं संकटमवष्टभ्य आचार्येण विद्या देया, शिष्यः स्वयमेव तां किं न नयति (इत्यत आह)-आचार्यवानित्यादिना। 'आचार्याद्वैव विद्या विदिता साधिष्ठं प्रापत्' इति वाक्यशेषः । आदिपदात् 'तद्वि- द्धि प्रणिपातेन परिप्रश्नेन सेवया । उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्त- स्वदर्शिनः ॥' इत्यादिवचनं गृह्यते । तथाच अतिसूक्ष्मपरमार्थनिर्ण- यस्य स्वबुद्धिसामर्थ्यमात्रेण संपादयितुं अशक्यत्वमेतैर्वाक्यैर्गम्यत इत्यर्थः ॥ ३॥ ननु जिज्ञासोः उक्तविशेषणस्य शिष्यस्य सकृदुपदेशग्रहणादेव विद्यादाोपपत्तेः किमिति पुनःपुनरुपदेशः कार्य इत्युक्तमत आह- शिष्यस्य ज्ञानाग्रहणं च लिङ्गैर्बुध्वा अग्रहणे हेतून् ८ उपदेशसाहस्री। [शिष्यप्रतिबोध. । अधर्म-लौकिक-प्रमाद-नित्यानित्यविवेकविषयासंजात दृढपूर्वश्रुतत्व-लोकचिन्तावेक्षण-जात्यायभिमानादीन् तप्रतिपक्षैः श्रुतिस्मृतिविहितैः अपनयेत् अक्रोधादि भिरहिंसादिभिश्च यमैः ज्ञानाविरुद्धैश्च नियमैः॥ ४ ॥ शिष्यस्येति । शिष्यस्य ज्ञानाग्रहणं चकाराद्विपर्ययग्रहणं मुखादिचेष्टावचनव्यक्त्यादिलिङ्गैर्बुध्वा अग्रहणादिहेतून् तत्प्रतिपक्ष तन्निवर्तकैः श्रुतिस्मृतिविहितैः अपनयेत् इति संबन्धः । तानेवा ह-अधर्मेत्यादिना । अधर्मः संचितः । लौकिकः इदानांतनः प्रमादः कामचारवादभक्षणादिः । तत्र सूर्यादिदेवतोपासनादिनियमो पदेशेन अधर्मक्षपणं कारणीयम् । वर्ध्यावादियतिधर्मशास्त्रेय प्रमादनिरासः । नित्यानित्यविवेकस्य यो विषयः चेतनाचेतनरूप तस्मिन् असंजातं तत्पर्यन्तं न प्रसृतं यदृढपूर्वश्रुतत्वं तद्युक्तिविशेषा द्युपन्यासेनापनीय विवेकपर्यन्ततां नयेदित्यर्थः । लोकचिन्तावेक्षण लोकानां व्यवहारसाधुत्वासाधुत्वविचारलक्षणं, लोकेभ्यः पूजासन्माना द्यपेक्षया तत्संसर्गोपरोधेन व्यवहरणं वा । एतच्च वक्ष्यमाणामानित्व मदम्भित्वमित्यादिशास्त्रोक्तनिष्ठोपदेशेनापनेतव्यम् । जात्यादि इत्या दिपदात् कुलविद्यादि गृह्यते । त्वंपदार्थपरिशोधनोपदेशेन जात्याद्य भिमानं त्याजयेदित्यर्थः । अभिमानादीनित्यादिपदेन तत्प्रयुक्त व्यवहारः अन्यधिकरणादिर्गृह्यते । अक्रोधादिभिरित्यत्र आदिपदेन अकामादयो गृह्यन्ते। अहिंसादिभिश्चेत्यादिपदात् सत्यास्तेयब्रह्मचर्यापरि ग्रहा गृह्यन्ते। तत्र अक्रोधादीनां अहिंसादीनां उपायोपेयभावेन उपदेश बोद्धव्यः । शौचसंतोषतपःखाध्यायेश्वरप्रणिधानानि नियमा उच्यन्ते तषां ज्ञानाविरुदैरिति विशेषणेन तीर्थयात्राचान्द्रायणोपवासादि प्रकरणम् १] पदयोजनिकाव्याख्या। ९ कर्मकाण्डपरायणबाह्यसाधनक्रियाप्रधानेश्वरपूजानिष्ठादि च यत् ज्ञान- निष्ठाविक्षेपकरं तस्यानादरणीयतां दर्शयति, यमनियमोपदेशस्तु सर्वदोषनिराससाधारणोपाय इति द्रष्टव्यम् ॥ ४ ॥ एवं ज्ञानग्रहणप्रतिबन्धकनिवर्तकमुपदिश्य ज्ञानोदयहेतुजातमुप- दिशति- अमानित्वादिगुणं च ज्ञानोपायं सम्यक ग्राहयेत्॥५॥ अमानित्वादिगुणमिति । आदिपदात् अदम्भित्वादितत्त्वज्ञा- नार्थदर्शनान्तं गृह्यते। यद्वा अमानित्वेन अदम्भित्वादिकं सहपठितत्वेन उपलक्ष्य आदिपदेन 'अद्वेष्टा सर्वभूतानां' इत्यादिनोक्ता अद्वेष्टुत्वादयो धर्मा ग्राह्याः । अत्र सम्यक्पदं एतन्निष्ठस्य सर्वदोषपरिहारेण अयत्न- लभ्यं ज्ञानदाय इति दर्शयितुम् । अयं भावः-नहि सकृद्रहणमात्रात् विद्या दृढोत्पद्यते । 'आवृत्तिरसकृदुपदेशात्' इति न्यायात् । श्रवणोत्तरकालं मननादिविधानसामर्थ्याच्च । दृढत्वं हि फलपर्यन्तत्वं विद्याया विवक्षितम् । अतः फलानुकूलतया यावन्निर्विचिकित्सं तत्संजायते तावद्गुरुणा शिष्यं कृतार्थ कर्तुं प्रवृत्तेन विद्योपयोगार्थ वा प्रवृत्तेनोपदेशः कार्य एवेति ॥ ५ ॥ एवमाचार्यकृत्यमुक्त्वा तस्य लक्षणमाह- आचार्यस्तूहापोहग्रहणधारणशमदमदयानुग्रहादिसंप- ब्रो लब्धागमोदृष्टादृष्टभोगेष्वनासक्तः त्यक्तसर्वकर्मसाधनो ब्रह्मवित् ब्रह्मणि स्थितोऽभिन्नवृत्तो दम्भदर्पकहकशाठ्य- मायामात्सर्यानृताहंकारममत्वादिदोषवर्जितः केवलप- रानुग्रहप्रयोजनो विद्योपयोगार्थी पूर्वमुपदिशेत्- 'सदेव - १० उपदेशसाहस्री। [शिष्यप्रतिबोध- सोम्येदमग्र आसीदेकमेवाद्वितीयम्', 'यत्र नान्यत्प श्यति', 'आत्मैवेदं सर्वम्', 'आत्मा वा इदमेक एवार आसीत्', 'सर्वं खल्विदं ब्रह्म' इत्याद्याः आत्मैक्यप्रतिपा दनपराः श्रुतीः ॥ ६॥ आचार्यस्त्विति । एतच्च तत्त्वजिज्ञासुनाऽधिकारिणा एवंवि आचार्य उपगन्तव्यो नान्यादृश इति दर्शयितुं नतु आचार्येण एवं विधगुणेन भवितव्यं इति नियोगः क्रियते, तस्य कृतार्थत्वादि द्रष्टव्यम् । शिष्येणानुक्तस्याप्यूहनमूहः उपदेशसमसमयं शिष्यप्रति पत्त्यनुकूलापूर्वयुक्तिकल्पनं वा, शिष्यस्य मिथ्याग्रहणापाकरणसामट मपोहः, सिद्धान्तप्रतिपक्षनिराकरणसामर्थ्य वा-शिप्यकृतप्रश्नाक्षेप वाक्यार्थानां सद्योऽवधारणसामर्थ्य ग्रहणम् । गृहीतानां तेषां सारास रावधारणपूर्वकं प्रत्युक्तिसमये स्मरणयोग्यतापादनं धारणम् शमदमौ व्याख्यातौ । दया दुःखिनं प्रति अनुजिघृक्षा । तदनन्त दुःखिनो दुःखापाकरणे प्रवृत्तिरनुग्रहः । आदिशब्दात् उपसन्नर विनीतस्यानुगृहीतस्यापरित्यागो गृह्यते । यस्तु-'हिंसानुग्रहयोरना म्भी' इति गौतमेन संन्यासिधर्मो दर्शितः, यच्च-'न व्याख्या परो यतिः' इत्यादिवचनं, तत् ख्यातिलाभपूजापाण्डित्यवृद्ध्यादि तुप्रवृत्तिविषयमित्यदोषः । संपन्न इति पूर्वोक्तगुणैराढ्यतोच्यते लब्धागमः स्वगुरुभ्यः प्राप्तविद्योपदेशः । अनेन विशेषणेन गुर सांप्रदायिकत्वमपि शिष्येणान्वेषणीयमिति · सूचयति । दृष्टा भोग ऐहिकाः, अदृष्टाः पारलौकिकाः तेवनासक्तः । तत्साधनलोकाराधन तपोयज्ञादिप्रवृत्तिशून्य इत्यर्थः । यतः त्यक्तानि सर्वकर्मणां साधना धनदारसंग्रहशिखायज्ञोपवीवादीनि येन स तथा । अतो भोगानास ।

प्रकरणम् १] पदयोजनिकाव्याख्या। ११ क इति विदित इत्यर्थः । ब्रह्मवित् महावाक्यार्थप्रत्यगात्मतत्त्वज्ञान- यानित्यर्थः । तत्किं परोक्षतैव, नेत्याह-ब्रह्मणि स्थित इति । ब्रह्मणि स्थिति म नित्यापरोक्षं ब्रह्मैवाहमस्मीति स्फुटानुभावेनावस्था- नम् । एवंविधोऽपि न यथेष्टचेष्टावानित्याह-अभिनवृत्त इति । न भिन्नं नोल्लचितं वृत्तमाचारो येन स तथा-शिष्टविगर्हितो न भवतीत्यर्थः । दम्भो धर्मध्वजित्वं आत्मनो लोके धार्मिकत्वख्यापन- मिति यावत् । कुहकं परप्रतारणम् । शाठ्यं नैष्ठुर्यम् । माया परव्या- मोहनम् । मात्सर्य गुणेषु दोषख्यापनम् । अनृतं मिथ्याभाषणम् । अहंकारो देहाभिमानः । ममत्वं पुत्रशिष्यादिषु स्वत्वाभिमानः । एतैर्दम्भादिदोषैर्वर्जित इत्यर्थः । एवंविधस्य किमित्यन्योपदेशे प्रवृत्तिः इत्यत आह-केवलेति । परस्य संसारसागरान्निविण्णस्य यः परम- पदपारप्रापणरूपोऽनुग्रहः तदेव प्रयोजनं यस्य स तथा । केवलवि- शेषणेन आनुषङ्गिकमपि प्रयोजनान्तरप्रवृत्तिहेतुं वारयति । तर्हि किं निर्निमित्तमेव परानुग्रहेऽस्य प्रवृत्तिः उन्मत्तप्रवृत्तिवद्यादृच्छिकी, नेत्याह-विद्योपयोगार्थीति । उपयोगो विनियोगः 'चात्वाले कृष्णविषाणां प्रास्यति' इत्यादिवत् 'त्यज धर्ममधर्म च उभे सत्यानृते त्यज । उभे सत्याऽनृते त्यक्त्वा येन त्यजसि तत्त्यज ॥' इत्यत्र येन ज्ञानेन धर्मादिषु प्रवृत्तिनिरोधेन तानि परित्यजसि तज्ज्ञानं परित्यज इत्युक्ते ज्ञानस्यामूर्तत्वात् स्वरूपेण त्यागायोगात् विशिष्टे शिष्ये प्रतिपादनं प्रतिपत्तिकर्म क्रियते । तच्च वस्तुमहिम्ना परानुग्रहतां प्रतिपद्यत इति भावः । एवंविध आचार्यः पूर्वमुपदिशेदित्युक्तं, तत्र उपदेशक्रमं दर्शयति । प्रथमं किमुपदिशेत् इत्यपेक्षायां आत्मैकत्व- प्रतिपादकवाक्यान्युपदिशेत् इति तानि वाक्यानि पठति-सदेवेत्या- दिना। इत्यात्मैकत्वप्रतिपादनपर श्रदी: पूर्वमादिशेव इति संबन्धः।

१२ उपदेशसाहस्री। [ शिष्यप्रतिबोधः 'यत्र नान्यत्पश्यती'त्यत्र 'नान्यच्छृणोति नान्यद्विजानाति स भूम इति वाक्यशेषः । 'ब्रह्मैवेदं विश्वमिदं वरिष्ठम्' इति शेषः । अ सत्-भूमा-आत्मा-ब्रह्मशब्दाः पर्यायाः । अनेकशाखादिगतवाक्यं दाहरणम् 'गतिसामान्यात्' इति न्यायेन अविरोधतः खार्थपरत्व ख्यापनार्थम् ॥ ६ ॥ किं तद्ब्रह्मादिशब्दैः वस्तूच्यते कथं च तदद्वितीयमवगम्य इत्यपेक्षायामाह- उपदिश्य च ग्राहयेत् ब्रह्मणो लक्षणम्-'य आत्मा पहतपाप्मा', 'यत्साक्षादपरोक्षाब्रह्म', 'योऽशनायापिप से', 'नेति नेति', अस्थूलमनणु', 'स एष नेति', 'अह द्रष्टु', 'विज्ञानमानन्दम्', 'सत्यं ज्ञानमनन्तम्', 'अदृश्ये नात्म्ये', 'स वा एष महानज आत्मा', 'अप्राणो ह्यमनाः 'सवाह्याभ्यन्तरो ह्यजः', 'विज्ञानघन एव', 'अनन्तरर बाह्यम्', 'अन्यदेव तद्विदितादथो अविदितात् 'आकाशो वै नाम' इत्यादिश्रुतिभिः ॥ ७ ॥ उपदिश्य च ग्राहयेब्रह्मणो लक्षणमिति । 'योऽशनायापिप शोकं मोहं जरां मृत्युमत्येति' इति शेषः । आनन्दम् अनन्त इत्युभयत्र ब्रह्म इति वाक्यशेषः । एवं सर्वत्र वाक्येषु शेषाक्षरा श्रुतिपरिचयेन पूरणीयानि ग्रन्थभूयस्त्वान्न सर्वत्र प्रदर्श्यन्ते। 'य 3 त्मापहतपाप्मा' इत्यादि प्राजापत्यवाक्येन जायदाद्यवस्थासु द्रष्टुर नानुगतः अवस्थाधर्मरहितोऽशरीरः प्रियाप्रियाभ्यामसंस्पृष्टः प्रत्या स्मैव परंज्योतिः परंब्रम उपास्यं ज्ञेयं च इति प्रकरणार्थोपन्या प्रकरणम् १] पदयोजनिकाव्याख्या। प्रत्यग्ब्रह्मैक्यमुपलक्षयेदित्यर्थः । य आत्मा सर्वान्तरो दृष्टेर्बुद्धिवृत्तिल- मणाया द्रष्टा प्राणनादिव्यापारोपलक्षितः स एव अशनायादिप्राणा- नवःकरणशरीरधर्मातीतः साक्षादपरोक्षाद्ब्रह्मेति द्वितीयवाक्यार्थः । 'मेति नेति' इत्यादिवाक्यानां सकलदृश्यप्रविलापनेनाद्वितीयात्मत- स्वोपलक्षणपरत्वम् । 'अदृष्टं द्रष्टु' इत्यादिना, 'नान्यदतोऽस्ति द्रष्टु' इत्यादिवाक्यैः सह सर्वसाक्षिप्रत्यगात्मैव अक्षरं यस्मिन्नव्याकृताका- शादिधरित्र्यन्तं जगत् ओतं च प्रोतं च इति तत्त्वंपदार्थपरिशोधनपूर्वक वाक्यार्थो दर्शितः । तत्र अपूर्वमित्यादिना कार्यकारणत्वादिधर्मरहित- वेन तत्पदार्थ उपलक्षितः । सर्वानुभूरिति सर्वसाक्षितया त्वंपदार्थः, अयमात्मा ब्रह्म इति वाक्यार्थः इति विभागः। मनःप्राणादिषु प्रकाश- करवेन प्रेरकत्वेन च उपलक्षितं आत्मतत्त्वं ब्रह्म विदिताविदिताभ्यां कार्यकारणाभ्यामन्यत् इति तत्वरूपं निवेद्यते- 'अन्यदेव तद्वि- दितादथो अविदितादधि' इत्यनेनेत्यर्थः । कचिदाकाशशब्देनापि ब्रह्म लक्ष्यत इत्याह-आकाशो वै नामेति । नामरूपयोः जगबीजभूतयोः अव्याकृतयोः यो निर्वहिता व्याकर्ता ते नामरूपे यदन्तरा यस्य मध्ये वर्तेते न ततः पृथक्वतन्त्रे । 'तद्ब्रह्म तदमृतं स आत्मा' इति वाक्यशेषात् । 'दहरोऽस्मिन्नन्तराकाशः' इत्यत्र आकाशशब्देनापि प्रम लक्ष्यत इत्यर्थः । आदिपदात् 'प्राणोऽस्मि प्रज्ञात्मा प्राण इति होवाच' । इत्याद्याः श्रुतयो गृह्यन्ते ॥ ७ ॥ न केवलं श्रुतिभिरेव ब्रह्मणो लक्षणं ग्राहयेत्-अपि तु स्मृति- मिश्चेत्याह- स्मृतिभिश्च-'न जायते म्रियते वा', 'नादत्ते कस्यचि- लापम्', 'यथाऽकाशः स्थितो नित्यम्', 'क्षेत्रनं चापि १४ उपदेशसाहस्री। [शिष्यप्रतिबोध मां विद्धि', 'न सत्तन्नासदुच्यते' 'अनादित्वानिर्गुण त्वात्', 'समं सर्वेषु भूतेषु', 'उत्तमः पुरुषः' इत्यादिमि श्रुत्युक्तलक्षणाविरुद्धाभिः परमात्मासंसारित्वप्रतिप दनपराभिः तस्य सर्वेणानन्यत्वप्रतिपादनपराभिश्च ॥८ स्मृतिभिश्चेति । श्रुत्युक्तलक्षणान्तं च इत्युपलक्षितं तत्त्वमित्यर्थः 'विज्ञानमानन्दं ब्रह्मेति को न्वेनं जनयेत्पुनः । मर्त्यः स्विन्मृत्युन वृक्णः कस्मान्मूलात्प्ररोहति' इति पृष्टस्य जगन्मूलकारणत्वेनोपलक्षितर खरूपं विज्ञानानन्दलक्षणम् इति तत्पदार्थतत्त्वमुपलक्षितमित्यर्थः। ए 'ब्रह्मविदाप्नोति परम्'ति प्रकृतस्य ब्रह्मणः 'सत्यं ज्ञानमनन्तं ब्रह इति स्वरूपं निर्दिश्य, 'तस्माद्वा एतस्मादात्मन आकाशः संभूत इत्यादिना जगत्कारणत्वेनोपलक्ष्य तस्यैव सृष्टेषु कार्यकारणसंघातेषु प्रवे दर्शयित्वा, 'अदृश्येऽनात्म्येऽनिरुक्ते'इत्यादिना प्रपञ्चापवादेन सर्वाध सर्वसाक्षिणमात्मानमानन्दरूपं 'ब्रह्मपुच्छं प्रतिष्ठा' इति 'अथ सोऽभ गतो भवति', 'स यश्चायं पुरुषे यश्चासावादित्ये स एकः' इति तत्त्वमुपलक्षयेदित्यर्थः । ‘स वा एष महानज आत्मा योऽयं विज्ञ नमयः प्राणेषु य एषोऽन्तर्हृदय आकाशस्तस्मिन्छेते सर्वस्य वश इत्यादिना जाग्रदाद्यवस्थाधर्मैः अनन्वागतस्यासङ्गस्य कामाकामा संसारमोक्षावनुभवतो बुद्ध्यादिसाक्षिणश्चिदात्मनः अन्तर्हृदये आक शशब्दवाच्याजरामराभयादिलक्षणब्रह्माभेद इति तत्त्वमुपलक्षि मित्यर्थः । 'दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः । अप्रार ह्यमनाः शुभ्रो यक्षरात्परतः परः' इति, 'अथ परा यया तदक्षर धिगम्यते यत्तददेश्यम्' इत्यादिना ग्राह्यग्राहकाधनेकोपाधिप्रति नोपलक्षितस्य सर्वभूतयोनित्वेन च संभावितस्य सर्वज्ञस्य सर्वविदे , प्रकरणम् १] पदयोजनिकाव्याख्या । १५ मिविस्फुलिङ्गादिवत् जीवरूपेण विभक्तत्वोक्त्या प्राप्तपरिच्छेदशङ्का- निराकरणेन प्रत्यक्तत्वमुपलक्षितं 'ब्रह्मैवेदं विश्वमिदं वरिष्ठम्-' इत्यन्तेनेत्यर्थः । 'इदं सर्वं यदयमात्मा' इति सर्वस्य दृश्यस्य आत्म- अतिरेकेण वरूपाभावमुक्तं दुन्दुभ्यादिदृष्टान्तैरुपपाद्य किं तदात्मनः खरूपं इत्यपेक्षायां—'महद्भूतमनन्तमपारं विज्ञानघन एव' इति तत्त्वमुपदिष्टमित्यर्थः । तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यं', 'अयमा- स्मा ब्रह्म सर्वानुभूः' । विरुद्धाभिः इति स्मृतिविशेषणम् । श्रुत्युक्तेऽर्थे स्मृत्युदाहरणं प्रतिपत्तिदाार्थ न श्रुतेः प्रामाण्यसिद्ध्यर्थम् । विशेषणं व सांख्यादिस्मृतावतिप्रसङ्गव्यावृत्त्यर्थमिति द्रष्टव्यम् । परमात्मा- संसारित्वप्रतिपादनपराभिः इत्यादिविशेषणद्वयं श्रुतिस्मृत्योः साधार- गम् । परमश्वासावात्मा च परमात्मा। परमत्वं च अस्याविद्यातत्कार्य- संघाततदवस्थासाक्षितया अव्यभिचार्यलुप्तप्रकाशस्वभावत्वम् । तस्या- संसारित्वप्रतिपादनं संघातादवस्थात्रयोपाधेः सम्यग्विवेचनम् तत्परा- भिरित्यर्थः । तस्य शोधितस्य त्वंपदार्थस्य सर्वेण सर्वमस्मिन्निति सर्व सर्वाधिष्ठानं ब्रह्म तेन अनन्यत्वं तदेकात्मत्वं तत्प्रतिपादनपराभिरित्यर्थः। न्यायानुगृहीतश्चेत्यस्मिन्नर्थे चकारः ॥ ८ ॥ एवं वाक्योपदेशेन तदर्थोपलक्षणपरश्रुतिस्मृतिव्याख्यानेन च प्रतिबोधितं शिष्यं अज्ञानसंशयविपर्ययापोहेन उपदिष्टार्थे मतिनैश्च- ल्याय पुनः पृच्छेदाचार्य इति आचार्यकृत्यमाह- एवं श्रुतिस्मृतिभिः गृहीतपरमात्मलक्षणं शिष्यं संसारसागरादुत्तितीर्घ पृच्छेत् कस्त्वमसि सोम्येति ॥९॥ एवं श्रुतिस्मृतिभिरिति । तथाच शिष्यप्रतिपत्तिपरीक्षणार्था श्रुतिर्भवति-'यदि मन्यसे सुवेदेति दभ्रमेवापि नूनं त्वं वेत्थ १६ उपदेशसाहस्री। [शिष्यप्रतिबोध ब्रह्मणो रूपम् । इत्याद्या हे सोम्य प्रियदर्शन, कस्त्वं किमात्र इति ॥९॥ स यदि ब्रूयात्-ब्राह्मणपुत्रः अदोन्वयः ब्रह्मचाय सम्-गृहस्थो वा, इदानीमस्मि परमहंसपरित्राट् संसा सागरात जन्ममृत्युमहाग्राहात् उत्तितीर्युरिति ॥ १० इति गुरुणापृष्टः यदि शिष्योऽप्रतिपत्त्यादिदोषप्रतिबन्धवश ब्रूयात् ब्राह्मणपुत्र इत्यादि तदा आचार्यों ब्रूयादिति संबन्धः असावन्वयो वंशो यस्य सोऽहं अदोन्वयः । अमुकदीक्षितवंश्योs मित्यर्थः । महाग्राहो नक्रः तिमिङ्गिलो वा ॥ १० ॥ अहो अयमद्यापि देहाभिमानप्रतिबद्धज्ञानोदय इति तं त्याज त्याचार्यः- आचार्यों ब्रूयात् इहैव तव सोम्य मृतस्य शर्र वयोभिरद्यते मृद्भावं वापद्यते तत्र कथं संसारादुद्ध मिच्छसीति । नहि नद्याः अवरे कूले भस्मीभूते नह पारं तरिष्यसीति ॥ ११ ॥ इहैव तवेत्यादिना । वयोभिःपक्षिभिः । गृध्रादिभिरित्यर्थः ॥१ एवं स्थूलदेहाभिमाने त्याजिते ततो विविक्तमात्मानं मन्यम सन्–स यदि शिष्यो ब्रूयादन्योऽहं शरीरात् इत्यादि तदा आच ब्रूयादित्युत्तरेणान्वयः । कथं शरीरादन्यत्वमवगतमित्यत आह- स यदि ब्रूयात् अन्योऽहं शरीरात् । शरीरं तु जार म्रियते वयोभिरद्यते शस्त्राभ्यादिभिश्च विनाश्यते व्र प्रकरणम् १] पदयोजनिकाव्याख्या। ध्यादिभिश्च प्रयुज्यते। तस्मिन् अहं खकृतधर्माधर्मवशात् पक्षी नीडमिव प्रविष्टः पुनःपुनः शरीरविनाशे धर्माधर्म- विशात् शरीरान्तरं यास्यामि पूर्वनीडविनाशे पक्षीव नी- रडान्तरम् , एवमेवाहमनादौ संसारे देवमनुष्यतिर्यकिरय- स्थानेषु खकर्मवशादुपात्तमुपात्तं शरीरं त्यजन् नवं नवं च अन्यदुपाददानो जन्ममरणप्रवन्धचक्रे घटीयन्त्रवत् खक- मेणा भ्राम्यमाणः क्रमेणेदं शरीरमासाद्य संसारचक्रभ्र- मणात् अस्मानिर्विण्णो भगवन्तमुपसन्नोऽस्मि संसारच- भ्रमणप्रशमाय । तस्मानित्य एवाहं शरीरादन्यः शरी- शणि आगच्छन्त्यपगच्छन्ति च वासांसीव पुरुपस्येति १२ शरीरं तु जायते इत्यादिना । शरीरावस्थाद्रष्टुत्वादृश्याद्विका- रणोऽहं द्रष्टा अविकार्यन्य इत्यर्थः । कथं तर्हि देहादन्यस्य तव देहाभिमानपूर्वकत्वं इति चेत् , अविद्याप्रयुक्तकामप्रवर्तितधर्माधर्मव- शादित्याह-तमिन्नहमिति । वकृतविशेषणेन अहंकारपूर्वकत्वद्योत- नादहंकारस्य चाविद्यांविना केवले आत्मन्यसंभवात् अविद्याप्रयुक्ता- मेमानमूलत्वं धर्माधर्मयोरिति भावः । यद्येवं जानासि मा तर्हि कर्म कार्षीः इति चेत् पूर्वकृतकर्मवासनावशतया उत्तरोत्तरकर्मप्रवृत्तेः न शक्नोम्यहं निरोढुं इत्यभिप्रेत्याह---अनादाविति । ह्रियमाणका- उनद्याः कचित्तरति कचिन्नेत्यादिन्यायेनाह–क्रमेणेदं शरीरमा- पायेति । बहूनां कर्मणां संचितत्वेऽपि क्रमेणैव फलारम्भो न युग- त् इत्येकभविकत्ववादः क्रमशब्देन निरस्यते । एतेन नित्यानित्य- कोक आत्मनो जातः इति फलितमाह-तस्मानित्य एवेति॥१२॥ उ.सा.२

उपदेशसाहस्री।
[शिष्यप्रतिबो
आचार्यस्तु विवेकोक्ति प्रशंसन्नभ्यनुजानाति--
आचार्यों ब्रूयात् साध्ववादीः सम्यक्पश्यसि ।
मृषाऽवादीः ब्राह्मणपुत्रोऽदोन्वयो ब्रह्मचार्यासम् , गृहर
वा इदानीमस्मि परमहंसपरिवाडिति ॥ १३ ॥
साध्ववादीरिति । एवंविवेकवतस्तव वर्णाश्रमाद्यभिमानो भ्रा।
मूल एवेत्याह-कथं मृपावादीरिति ॥ १३ ॥
कथं भ्रान्तिर्मम इति पृष्टवन्तमाचार्यो ब्रूयात् इत्याह-
तं प्रति ब्रूयादाचार्यः स यदि ब्रूयात्-भगवन् , क
महं मृषाऽवादिपमिति ॥ १४॥ यतस्त्वं भिन्नजा
न्वयसंस्कारं शरीरं जात्यन्वयवर्जितस्यात्मनः प्रत्या
ज्ञासीः ब्राह्मणपुत्रोऽदोन्वय इत्यादिना वाक्येनेति॥१
तमिति । किं ब्रूयादित्येतदाह-यतस्त्वमित्यादिना । जा
जन्म । अन्वयः पित्रादिः। संस्कारो जातकर्मादिरुपनयनादिश्च । नि
अनात्मभूता जात्यन्वयसंस्कारा यस्य शरीरस्य तत्तथा । जात्यन्वर
स्कारवर्जितस्यात्मनः कूटस्थस्य स्वरूपमिव अहमित्युल्लिखन् ।
ज्ञातवान् ब्राह्मणपुत्र इत्यादिना वाक्येन । अतो विपर्ययदर्शित
मृपाऽवादीरित्यर्थः ॥ १४ ॥ १५ ॥
उक्तमर्थ विशदीकर्तुं शिप्यप्रश्नमुत्थापयति-
स यदि पृच्छेत् कथं भिन्नजात्यन्वयसंस्कारं शरी
कथं वा अहं जात्यन्वयसंस्कारवर्जित इति ॥ १६ ॥
स यदीति ॥ १६ ॥

प्रकरणम् १ ]] पदयोजनिकाव्याख्या। १९ गुरोरुत्तरदानाय प्रवृत्तिमाह- आचार्यो ब्रूयात् शृणु सोम्य, यथेदं शरीरं त्वत्तो- भिन्नं भिन्नजात्यन्वयसंस्कारं त्वं च जात्यन्वयसंस्कारव- र्जितः इत्युक्त्वा तं स्मारयेत्-स्मर्तुमर्हसि सोम्य, परमा- स्मानं सर्वात्मानं यथोक्तलक्षणं श्रावितोऽसि 'सदेव सोम्येदम्' इत्यादिभिः श्रुतिभिः स्मृतिभिश्च । लक्षणं च तस्य श्रुतिभिः स्मृतिभिश्च ॥ १७ ॥ आचार्य इति । वक्तव्यस्यार्थस्य अतिसूक्ष्मदृष्टिगम्यत्वात् साव- धानो भवेत्याह-शृणु सोम्येति । यथेदमित्यादि वर्जित इत्यन्तम् । शिष्योत्तयनुवादवाक्यमुक्त्वा तं शिष्यं पूर्वोक्तं परमात्मलक्षणं स्मार- येदिति योजना । यस्मात् 'सदेव' इत्यादि श्रुतिभिस्तदर्थानुकूलाभिः स्मृतिभिश्च यथोक्तलक्षणं परमात्मानं सर्वात्मानं श्रावितोसि, तस्मा- स्मर्तुमर्हसि सोम्येति योजनीयो ग्रन्थः । 'य आत्माऽपहतपाप्मा' इत्यादिभिः श्रुतिभिः, 'न जायते' इत्यादिस्मृतिभिश्च । पूर्वोक्तं ब्रह्मोपलक्षणं च तस्यात्मनः स्मर्तुमर्हसीत्यन्वयः ॥ १७ ॥ एवमुक्तं स्वरूपं स्मारयित्वा शरीरस्य भिन्नजात्यन्वयसंस्कारत्व- ज्ञापनाय तदुत्पत्तिप्रकारमुपदिशेदित्याह- लब्धपरमात्मलक्षणस्मृतये ब्रूयात्-योऽसावाकाश- नामा नामरूपाल्यामर्थान्तरभूतः अशरीरः अस्थूलादि- अक्षणः अपहतपाप्मादिलक्षणश्च सर्वैः संसारधमैः अना- पन्धितः 'यत्साक्षादपरोक्षाद्ब्रह्म', 'य आत्मा सर्वान्तरः', अदृष्टो द्रष्टा अश्रुतः श्रोता अमतो मन्ता अविज्ञातो फेज्ञाता नित्यविज्ञानखरूपः अनन्तरः अबाह्यः विज्ञान- . , २० उपदेशसाहस्री। [ शिष्यप्रतिबं घन एव परिपूर्णः आकाशवत् अनन्तशक्तिः आ सर्वस्य अशनायादिवर्जितः आविर्भावतिरोभाववर्जि खात्मविलक्षणयोः नामरूपयोः जगद्वीजभूतयोः स्वा स्थयोः तत्त्वान्यत्वाभ्यामनिर्वचनीययोः स्वयंवेद्य सद्भावमात्रेणाचिन्त्यशक्तित्वाद्वयाकर्ता अव्याकृतयोः लब्धपरमात्मेति । लब्धा परमात्मलक्षणविषया स्मृतिरनुसं येन तस्मै शिप्याय ब्रूयादित्यर्थः । उपलक्षणत्वेन उक्तवाक्या प्रकटयन् आत्मनः सकाशात् संघातोत्पत्तिप्रकारमाह-योऽस त्यादिना । यः शाखान्तरे प्रकरणान्तरे च आत्मादिशब्दैः प्रसिद्ध 'आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा' इत्यत्र छान निर्दिष्टः आकाशनामा खात्मविलक्षणयोः नामरूपयोः व्याकत सर्वस्य आत्मेत्यन्वयः । आकाशनामेत्युक्ते भूताकाशशङ्का स्यात 'आकाशोऽर्थान्तरत्वादिव्यपदेशात्' इति न्यायेन परिहरति-न रूपाभ्यामर्थान्तरभूत इति । भूताकाशस्य नामरूपान्तःपातिर तयोराधारभूत आत्मा आधेय आकाशादेरन्य इत्यर्थः । असङ्गाति राकाशसाम्यात्परमात्मापि आकाशशब्देन श्रुतिपु क्वचिन्निर्दिः गोण्या वृत्त्येति द्रष्टव्यम् । अतएवाशरीरो मूर्तिवर्जितः । अशर्र दमनिन्द्रियत्वादेरप्युपलक्षणं इत्यभिप्रेत्य विशिनष्टि-अस्थूल लक्षण इति । अथवा अशरीरः शरीरादिसंघातरहितः इत्यत्र प्र सूचयति-अस्थूलादिलक्षण इति । यतः शरीरेन्द्रियमनःप्राणा हितः अतएव अपहतपाप्मादिलक्षणः । अभिमन्यमानस्याभावे अ मानाभावादित्यर्थः । चशब्देन खतो विकारराहित्यं समुच्चीय सर्वैविशेषणैः सिद्धमर्थमाह-सर्वैरिति । अनागन्धितः अझै करणम् १] पदयोजनिकाव्याख्या । २१ त्यर्थः । ननु एवं परमात्मनः अशरीरादिलक्षणत्वेऽपि जीवः शरी- 'दिलक्षण एव स्यात् इत्याशक्य तस्य तेनानन्यत्वश्रवणान्मैवमित्य- प्रेत्याह-यत्साक्षादित्यादिना । विज्ञातेत्युक्ते प्राप्तं विज्ञानक- वारयति-नित्यविज्ञानस्वरूप इति । तत्र प्रमाणमाह- निन्तर इत्यादिना । आकाशवत्परिपूर्ण इत्यन्वयः । पूर्ण इति ष्ठाप्रत्ययो न कर्मणि किंतु कर्तरि परिच्छेदाभावद्योतीत्याकाश. न्तिः । कथं एवंलक्षणस्य द्रष्टुत्वादिकमुक्तं इत्यत आह–अनन्त- तिरिति । 'इन्द्रो मायाभिः पुरुरूप ईयते' इति श्रुतेः अनन्ता नवच्छिन्ना दुर्लक्ष्या मायावस्थारूपाः शक्तय उपाधयो यस्य सोऽन- तशक्तिर्मायाकार्यान्तःकरणेन्द्रियोपाधिभिर्द्रष्टुत्वादिव्यपदेशभाग्भवति त्यर्थः । सर्वस्य स्थावरजंगमस्य प्रपञ्चस्यात्मा स्वरूपमित्यर्थः । तस्य नेत्यमसंसारित्वं स्वाभाविकमाह-अशनायादीति । आविर्भावति- भावसाक्षित्वादेव तद्विवर्जित इत्यर्थः । एवं आत्मस्वभावमुक्त्वा मरूपात्मकानात्मस्वभावं प्रपञ्चयति-स्वात्मविलक्षणयोरित्या- देना । अचेतनयोरित्यर्थः । जगबीजभूतयोः इत्युपादानत्वमुच्यते । थं तर्हि आत्मोपादानत्वश्रुतिरित्यत आह--स्वात्मस्थयोरिति । पादानाधारतामात्रेण कथमुपादानत्वसिद्धिः इत्यत आह-सद्भाव- मात्रेणेति । सद्भावो नाम सत्त्वम् । आत्मसत्तामात्रेणैव आत्मनि खतंयोः न पृथक्सतोः आत्मनिष्टयोरित्यर्थः । तथाच खात्मैकतां तियो मरूपयोः व्याकर्ता खात्मन एव व्याकर्ता इत्युपादानत्वसि- रात्मन इत्यभिप्रायः। कुत एवं चिद्रूपस्यात्मनः अचिद्रूपेण खात्म- ज्योकिरणम् इत्यत आह-अचिन्त्यशक्तिखादिति । अव्याकृतयोः अनभिव्यक्तयोरित्यर्थः । अनभिव्यक्ततया स्थितं हि व्यक्तीक्रियते न मागसत् अतिप्रसङ्गादिति भावः ॥ १८ ॥ 174783 २२ उपदेशसाहस्री। [शिष्यप्रतिबोर उक्तलक्षणयोर्नामरूपयोः यदाऽसौ निष्पादयिता तदा किमात्र ते प्रथमं निष्पाद्यते इति तदाह- ते नामरूपे अव्याकृते सती व्याक्रियमाणे तस्मा तस्मादात्मन आकाशनामाकृती संवृत्ते । तचाकाशार भूतमनेन प्रकारेण परमात्मनः संभूतं प्रसन्नादिव सरि लान्मलमिव फेनम् । न सलिलं न च ललिलादत्यन भिन्नं फेनम् । सलिलव्यतिरेकेणादर्शनात् । सलिलं खच्छं अन्यत्फेनान्मलरूपात् । एवं परमात्मा नामरूप भ्यामन्यः फेनस्थानीयाभ्यां शुद्धः प्रसन्नः तद्विलक्षणः नामरूपे अव्याकृते सती व्याक्रियमाणे फेनस्थान आकाशनामाकृती संवृत्ते ॥ १९ ॥ ते नामरूपे इत्यादिना । तस्मात् अपहतपाप्मत्वादिलक्षण एतस्मादचिन्त्यशक्तेः सर्वज्ञात् आकाश इति नामवाचकः आकृ र्वाच्याकार इत्येवमाकारे संवृत्ते एवं व्यवहारयोग्ये अभूतामित्यर्थ वाच्यवाचकाकारेण सदात्मकं ब्रह्मैव मायावशात् अभिव्यक्तमाकाशा शब्दार्थात्मकमिति तात्पर्यार्थः । ननु कथंचिदात्मनः अचिदात्म काशात्मना निष्पत्तिरिति शङ्कां दृष्टान्तेन प्रत्याचष्टे-तच्चाकाशार मित्यादिना । दृष्टान्तं विवृण्वन् आत्मनः परिणामित्वशङ्कां वार ति-न सलिलमित्यादिना । सलिलव्यतिरेकेण वरूपतः पृथ नुपलम्भादित्यर्थः । फेनस्य सलिलाद्भेदाभावे सलिलस्यापि न र भेद इत्यत आह–सलिलं खिति । अतो न सलिलमेव फेनं न ततो भिन्नं किंतु अनिर्वचनीयमित्यर्थः । तथाच श्रुतिः 'वाचारम ध-करणम् १] पदयोजनिकाय्याख्या। २३ कारो नामधेयम्' इति दान्तिकमाह-एवं परमात्मेति । रूपितामाकाशोत्पत्तिं निगमयति--ते नामरूपे इति ॥ १९ ॥ इदानीं ततो वाय्वागुत्पत्तिं प्रतिपादयति । ततोऽपि स्थूलभावमापद्यमाने नामरूपे व्याक्रियमाणे युभावमापद्यते ततोऽप्यग्निभावं अग्नेरभावं ततः थ्वीभावं इत्येवंक्रमेण पूर्वपूर्वानुप्रवेशेन पञ्चमहाभूतानि थिव्यन्तान्युत्पन्नानि । ततः पञ्चमहाभूतगुणविशिष्टा थ्वी। पृथ्व्याश्च पञ्चात्मक्यो व्रीहियवाद्या ओषधयो सायन्ते ताभ्यो भक्षिताभ्यो लोहितं च शुक्रं च स्त्रीपुं- शिरीरसंबन्धि जायते । तदुभयमृतुकाले अविद्याप्रयुक्त- कामखजनिर्मथनोद्धृतं मत्रसंस्कृतं गर्भाशये निषिच्यते। त्खयोनिरसानुप्रवेशेन विवर्धमानं गर्भाभूतं नवमे दशमे IT मासि संजायते ॥ २० ॥ ततोऽपीत्यादिना । आकाशात्मना स्थिते नामरूपे तदनुगतेन मात्मना व्याक्रियमाणे ततोऽपि आकाशादपि स्थूलभावमापद्यमाने ती वायुभावमापद्यते इति योजना। स्थूलभावः स्पर्शगुणेनोपचयः । । नामरूपे आकाशात्मतां प्राप्ते ते एव व्याक्रियमाणे वायुभावमाप- घेते इति वदन् विकारस्य विकारान्तरोपादानत्वं वारयति । एवमुत्त. त्रापि द्रष्टव्यम् । तदेवं भूतोत्पत्तिमुक्त्वा तेभ्यः संघातस्य स्थूलस्यो- पतिप्रकारमाह-पृथिव्याश्चेति । पश्चात्मक्य इति । पञ्चीकृतप- वस्तनिर्वर्तिता इत्यर्थः । तदुभयं स्त्रियाः लोहितं पुंसः शुक्रं चेत्य- । काम एव खजो विलोडको मन्था तेन निर्मथनोद्भूतमित्यर्थ ।

उपदेशसाहस्री। [ शिष्यप्रतिबोर 'गर्भ धेहि सिनीवालि गर्भ धेहि सरस्वति' इत्यादि गर्भाधानम संस्कृतमित्यर्थः ॥ २० ॥ एवं शरीरोत्पत्तिमुपोद्वाततयोपदिश्य तस्य भिन्नजात्यन्वयसंस्त्र पृष्टं प्रतिपादयति- तज्जातं लब्धनामाकृतिकं जातकर्मादिभिःमत्रसंस्कृ पुनः उपनयनसंस्कारयोगेन ब्रह्मचारिसंशं भवति । तदे शरीरं पत्नीयोगसंस्कारयोगेन गृहस्थसंज्ञं भवति । तदे वनस्थसंस्कारेण तापससंशं भवति। तदेव क्रियाविनि त्तिनिमित्तसंस्कारेण परिवादसंज्ञं भवति । इत्येवं त्व भिन्नं भिन्नजात्यन्वयसंस्कारं शरीरम् ॥ २१ ॥ तज्जातमित्यादिना । जातमित्यस्य व्याख्या-लब्धनामा तिकमिति । भूतोपादानकत्वेन पित्रादिनिमित्तकत्वेन च भिन्नजात न्वयौ शरीरस्योक्तौ, इदानीं संस्कारमाह-जातकर्मादिभि ति ॥ २१॥ एवं स्थूलशरीराभिमानात् शिष्यं व्युत्थाप्य सूक्ष्मशरीराभिमा मपि तस्य त्याजयन् तस्यापि भौतिकत्वमाह- मनश्चेन्द्रियाणि च नामरूपात्मकान्येव 'अन्नमयं । सोम्य मनः' इत्यादिश्रुतिभ्यः ॥ २२ ॥ मनश्चेत्यादिना । नामरूपात्मकान्येव भौतिकान्येवेत्यर्थः तत्र प्रमाणमाह-अन्नमयमिति । अतो मनआदिसूक्ष्मसंघातोऽ नात्मा भौतिकत्वात् स्थूलवदित्यर्थः ॥ २२ ॥ कथं भिन्नजात्यन्वयसंस्कारं शरीरं इत्यस्य प्रश्नस्योत्तरमभिधा कथं चाई जात्यन्वयसंस्कारवर्तित दति शिष्योक्तिमनटा उत्तम्याट धपकरणम् १] पदयोजनिकाव्याख्या। २५ सबै कथं चाहं भिन्नजात्यन्वयसंस्कारवर्जित इत्येतच्छृणु। मोऽसौ नामरूपयोाकर्ता नामरूपधर्मविलक्षणः स काएक नामरूपे व्याकुर्वन् सृष्ट्वेदं शरीरं स्वयं संस्कारधर्म- र्जितो नामरूपे इह प्रविष्टः अन्यैरदृष्टः वयं पश्यन् तथाऽश्रुतः शृण्वन्-अमतो मन्वानो-अविज्ञातो विजा- इनन् ‘सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाऽ देभेवदन् यदास्ते' इति । अस्मिन्नर्थ श्रुतयः सहस्रशः वृतत्सृष्ट्वा तदेवानुप्राविशत्', 'अन्तः प्रविष्टः शास्ता तजनानाम्','स एष इह प्रविष्टः', एप त आत्मा', स एत- व सीमानं विदायेंतया द्वारा प्रापद्यत', 'एष सर्वेषु कृन्तेषु गूढोत्मा', 'सेयं देवतैक्षत हन्ताहमिमास्तिस्रो त्यदेवताः' इत्याद्याः॥ २३ ॥ रि कथं चेत्यादिना । यस्तु नामरूपविलक्षणः पूर्वोक्तविलक्षणो नामरूपात्मकस्य सर्वस्य स्रष्टा जात्यन्वयसंस्कारवर्जितः स एवाविकृतः नपृष्टेषु कार्यकारणसंघातेपु प्रविष्टो जीवात्मेति श्रुतिस्मृतिप्रसिद्धत्वात् न तस्य जात्यन्वयसंस्कारसंबन्ध इति प्रतिपादयन्नाह-योऽसावि- त्यिादिना । ननु परमात्मैव चेदिह प्रविष्टः पक्षीव नीडं तर्हि कथं स सर्वनोंपलभ्यत इति तत्राह–अन्यैरदृष्ट इति । 'अदृष्टो द्रष्टा' इत्यादिश्रुतिरिहार्थतो दर्शिता । सर्वस्य यो विज्ञाता सर्वावभासकत्वा- भिमन्यैरवभास्यते सोऽस्त्येवेह प्रविष्ट इति भावः । अत्र मन्त्रमुदाहरति- सर्वाणीति । रूपाणि शरीराणि विचित्य विरचय्य धीरोधीमान्सर्वज्ञः तत्र प्रविश्य नामानि कृत्वा देवोऽहं मनुष्योऽहमित्यभिवादनादिव्या- -पारं कुर्वन् यदास्ते तं 'वेदाहमेत' इति पूर्वार्धनान्वयः । असिन्नर्थ २६ उपदेशसाहस्री। [ शिष्यप्रतिबोध इति । स्रष्टुरेव जीवरूपेण प्रवेश इत्यत्रेत्यर्थः । ब्राह्मणवाक्यान्यः दाहरति-तत्सृष्ट्वेत्यादिना । 'एष त आत्माऽन्तर्याम्यमृतः' इ वाक्यशेषः । स ईक्षणपूर्वकं जगत्सृष्ट्वा एतमेव प्रसिद्धं सीमानं शि कपालसंधिं विदार्य भित्त्वा एतया ब्रह्मरन्ध्रवाच्यया द्वारा छि: प्रापद्यत देहमध्ये प्रविष्ट इत्यर्थः । 'अन्तः प्रविष्टं करिमेतं', 'भ सन् भ्रियमाणो बिभर्ति', 'एको देवो बहुवा निविष्टः', 'इन्दं गि वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान् । एकं सद्विप्रा बहु वदन्त्यनिं यमं मातरिश्वानमाहुः' इत्यादिमन्त्रब्राह्मणवादानप्ट सूचयन्ति इत्याद्या श्रुतय इति ॥ २३ ॥ परमात्मैव क्षेत्रज्ञ इति श्रुत्युक्तेऽर्थे स्मृतीरप्युदाहरति- स्मृतयोऽपि 'आत्मैव देवताः सर्वाः', 'नवद्वारे ! देही', 'क्षेत्रज्ञं चापि मां विद्धि', 'समः सर्वेषु भूतेषु 'उपद्रष्टानुमन्ता च', 'उत्तमः पुरुषस्त्वन्यः', 'अशरी शरीरेषु' इत्याद्याः । तस्मात् जात्यन्वयसंस्कारवर्जितस्त मिति सिद्धम् ॥ २४ ॥ स्मृतयोऽपीति । शरीरे वर्तमानस्यापि शरीरधर्माऽसंस्पर्शि श्रुतिं प्रमाणयति-अशरीरं शरीरेष्विति । स पर्यगाच्छुक कायमत्रणमनाविरं शुद्धमपापविद्धम्' इत्यादिश्रुतय आदिशब्दार्थः यस्मादेवं श्रुतिस्मृतिन्यायैरात्मा देहादेर्भिन्नः असङ्गः तदसंस्पृष्ट तस्मादिति । प्रकृतमुपसंहरति-तस्मादिति ॥ २४ ॥ एवं परमात्माभेदोपदेशेन जीवस्य जात्यन्वयसंस्कारराहित्यमुर मवधार्य तत्र खानुभवविरोधं शकते- स यदि बयात-अन्य एवाहमजः सखी ढःखी बर २७ , पर धाकरणम् १] पदयोजनिकाव्याख्या । सोसारी-अन्योऽसौ मद्विलक्षणः असंसारी देवः तमहं ल्युपहारनमस्कारादिभिः वर्णाश्रमकर्मभिचाराध्य सं- सारसागरादुत्तितीपुरस्मि कथमहं स एवेति ॥ २५ ॥ स यदीति । अज्ञत्वादेः स्वात्मन्यनुभवसिद्धत्वात् तद्विलक्षणेश्वरा- मे मत्वं श्रुत्यादिभिरुक्तमपि न संभावयामि किंतु भिन्नमेव तमहं मन्ये दुधस्कृष्टमीश्वरं, निकृष्टसंसार्यात्मना पश्यतः प्रत्यवायापत्तेः । अतस्तं देवं वकर्मणा भक्त्या च आराध्य तत्प्रसादान्मुक्तसंसारो भविष्यामीति । मतिरिति शिप्याभिप्राय इत्यर्थः ॥ २५ ॥ मैवं वादीः भेददर्शन एव प्रत्यवायश्रवणात् इति गुरुः परिह- ति- पुर आचार्यो यात्-'नैवं सोम्य, प्रतिपत्तुमर्हसि प्रति- रिषेद्धत्वाद्भेदप्रतिपत्तेः' । कथं प्रतिषिद्धा भेदप्रतिपत्तिरि- वयत आह-'अन्योऽसावन्योऽहमस्मीति न स वेद', 'ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद', 'मृत्योः स मृत्युमा- मोति य इह नानेव पश्यति' इत्येवमाद्या ॥ २६ ॥ म. नैवं सोम्येति संग्रहवाक्यं आक्षेपसमाधानाभ्यां विवृणोति- कथमित्यादिना । प्रत्यक्षसिद्धस्य भेदस्य कथं तद्विरुद्धपमाणान्तरेण अतिषेध इत्याक्षेपार्थः । असंसारीश्वरस्य अप्रत्यक्षत्वात्तद्भेदस्य खात्मनि प्रत्यक्षत्वाभावात् सुखित्वाद्यनुभवस्य भ्रान्त्याप्युपपत्तेः तबलात् भेदा- तव्यवसायायोगात् अन्यथा सिद्धार्थश्रुतिनिषिद्धो भेदो न मानमर्हतीति समाधानाभिप्रायः। तथाहि अन्योऽसौ परमेश्वरो मद्विलक्षणः अन्योऽहं द्वतद्विलक्षणः संसार्येवेति योऽन्यां देवतामुपास्ते तात्पर्येण पश्यति " २८ उपदेशसाहस्री। [शिष्यप्रतिबोध न स वेद तत्त्वमिति भेददर्शनस्य अविद्यामूलत्वमुक्त्वा 'य पशुरेवं स देवानाम्' इति देवपशुत्वप्राप्तिं तस्य दर्शयन्ति । न पराधीनात्मत्वतोऽन्यदैन्यं कष्टं वा वर्तत इति । तथा योऽन अन्यदेवेदमित्यात्मनः पृथगेव ब्रह्म ब्राह्मणजाति वेद तं तदेव । ब्राह्मणत्वजातिः परादात् पराकुर्यात् तत्त्वविमुखं कुर्यात् आत्मर मामऽनात्मतया पश्यतीति द्वेष्ट्येव नतु हितमावहतीत्यर्थः । एवं 'द तं पगदात्' इत्यादि सर्व तं परादात्' इत्यन्तमुदाहरणं द्रष्टव्यम इहात्मनि यो नानेव पश्यति। इवशब्दो नानात्वदर्शनस्य आभासत द्योतनार्थः । स मृत्योर्मृत्यु संसारात्संसारं अनर्थपरम्परामेवाप्नोती र्थः । इत्येवमाद्या इति । 'नेह नानास्ति किंचन', 'उदरमन कुरुते । अथ तस्य भयं भवति' इत्याद्याः श्रुतयो गृह्यन्ते ॥ २६ उदाहृताः श्रुतयो न भेददर्शनमात्रे निषेधन्ति किंतु भेददर्शि प्रत्यवायमपि अनर्थप्राप्तिरूपमावेदयन्तीत्याह- एता एव श्रुतयो भेदप्रतिपत्तेः संसारगमनं दर्श न्ति ॥ २७ ॥ एता एवेति ॥ २७॥ भेददृष्टिं निन्दित्वा अभेददृष्टिं फलवत्तया प्रशंसन् तस्या । उपादेयतां दर्शयति- अभेदप्रतिपत्तेश्च मोक्षं दर्शयन्ति सहस्रशः ‘स आत तत्त्वमसि' इति परमात्मभावं विधाय 'आचार्यवान्पुरु। वेद' इत्युक्त्वा 'तस्य तावदेव चिरम्' इति मोक्षं दद यन्त्यभेदविज्ञानादेव सत्याभिसंधस्यातस्करस्येव दाहा माता गंगारामा गति सामील

प्रकरणम् १]
प
m
पदयोजनिकाव्याख्या।
२९
स्याभिसंधस्य संसारगमनं दर्शयन्ति तस्करस्येव दाहादि-
दृष्टान्तेन ॥ २८॥
अभेदप्रतिपत्तेश्चेति । तत्र श्रुत्येकदेशमुदाहृत्य व्याचष्टे-स
आत्मेत्यादिना। तत्रैव अन्वयव्यतिरेकोपपत्तिपरश्रुत्यर्थमुदाहरन् उक्त-
(मर्थ द्रढयति-अभेदविज्ञानादेवेति । 'पुरुषं सौम्योत हस्तगृहीत-
मानयन्ति' इति खण्डे इममर्थ दर्शयतीत्यर्थः ॥ २८ ॥
सुपुप्तौ परमात्मन्यभेदसंपत्तावपि तथा ज्ञानाभावापराधादेव
| पुनरपि व्याघ्रादिभावेनोत्थितानां संसाराविच्छेदं दर्शयति श्रुतिः ।
। परमात्माभेदेनात्मज्ञानमेव मोक्षहेतुः इति सूचयतीत्यभिप्रेत्याह-
'त इह व्याघ्रो वा' इत्यादिना च अभेददर्शनात् ‘स
खराट् भवति' इत्युक्त्वा तद्विपरीतेन भेददर्शनेन संसा-
रगमनं दर्शयन्ति-अथ येऽन्यथाऽतो विदुरन्ये राजान-
स्तेऽक्षय्यलोका भवन्ति' इति प्रतिशाखम् । तस्मात् मृङ्ग-
वैवमवादीः ब्राह्मणपुत्रोऽदोन्वयः संसारी परमात्मविल-
क्षण इति ॥ २९॥
त इह व्याघ्रो वेत्यादिना चेति । अत्रैव उदाहरणान्तरमाह-अ-
भेददर्शनात् स स्वराडित्यादिना । 'यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्ये
ऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते अथ सोऽभयं गतो भवति'
'यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते अथ तस्य भयं भवति' इत्याद्याः
श्रुतयोऽप्युदाहर्तव्या इत्याह-इति प्रतिशाखमिति । यस्मादेवं
भेवदर्शननिन्दया अभेददर्शनस्तुत्या च जीवस्य ब्रह्माभेदोऽवधारितः
अतो ब्राह्मणत्वाद्यमिमानस्य आत्मनि मिथ्यादृष्टित्वं सिद्ध इति प्रकृत-
मुपसंहरति-तसादिति ॥ २९ ॥

३०
उपदेशसाहस्री। [शिष्यप्रतिब
यदुक्तं तमहं बल्युपहारनमस्कारादिभिर्वर्णाश्रमकर्मभिरारा
सापि दृष्टिः भेददर्शनापवादादेव न सम्यग्दृष्टिरित्याह-
तस्मात् प्रतिषिद्धत्वाद्भेददर्शनस्य भेदविषयत्वाचक
पादानस्य कर्मसाधनत्वाच यज्ञोपवीतादेः कर्मसाधनो
दानस्य परमात्माऽभेदप्रतिपत्त्या प्रतिषेधः कृतो वेरि
व्यः । कर्मणां तत्साधनानां च यज्ञोपवीतादीनां पर
त्माभेदप्रतिपत्तिविरुद्धत्वात् । संसारिणो हि कर्माणि
धीयन्ते तत्साधनानि च यज्ञोपवीतादीनि। न परमात्र
ऽभेददर्शिनः। भेददर्शनमात्रेण च ततोऽन्यत्वम् ॥३
तस्मात्प्रतिपिद्धवादिति । भेदविषयत्वाच्च कर्मोपादानस्ये
क्रियाकारकफलभेदाश्रयमन्तरेण · कर्मणः खरूपासिद्धिरित्यर्थ
'यज्ञोपवीत्येवाधीयीत याजयेद्यजेत वा' इति श्रुतेः यज्ञोपवीतधारण
कर्मसाधनत्वावगमात् साध्यकर्माभावे तत्साधनपरिग्रहो निर
इत्यभिप्रेत्याह-कर्मसाधनखाच यज्ञोपवीतादेरिति । कर्मसा
योरुपादानम् कर्मसाधनोपादानं तस्येति विग्रहः। कथं अभेदप्रतिप
मात्रेण कर्मतत्साधनप्रतिषेधसिद्धिः । कर्मणोऽपि अभेदप्रतित्तिसंभ
इत्याशङ्कयाह-कर्मणामिति । ब्रह्माहं कर्ता चाहमिति विरुद्धा
पत्त्योरेकस्मिन्पुरुषे समुच्चयायोगादित्यर्थः । तर्हि अधिकार्यभा
निरालम्बनं कर्मकाण्डमप्रमाणं स्यादिति नेत्याह-संसारिणो ही
संसारिणो जात्याद्यभिमानवत इत्यर्थः । न परमात्मनोऽभेददा
इत्यर्थः। संसारिणोऽपि परमात्मानन्यत्वात्कथं तस्य कर्मविधिः इ
आह-भेददर्शनमात्रेण च ततोऽन्यत्वमिति । न वस्तु
भेटाया कर्मविधेः टति भात ॥ 3 ॥

ते प्रकरणम् १]] पदयोजनिकाव्याख्या। यदुक्तं ब्रह्मात्मैक्यप्रतिपत्त्या कर्मणां तत्साधनानां च श्रुत्या प्रतिषधेः कृत इति तद्व्यतिरेकमुखेन साधयति- में यदि कर्माणि कर्तव्यानि न निवर्तयिषितानि कर्म- पसाधनासंवन्धिनः कर्मनिमित्तजात्याश्रमाद्यसंवन्धिनश्च (परमात्मनश्च आत्मनैवाभेदप्रतिपत्तिं नावक्ष्यत् ‘स आ- मत्मा तत्त्वमसि' इत्येवमादिभिर्निश्चितरूपैर्वाक्यैः, भेदप्र- िितपत्तिनिन्दां च नाभ्यधास्यत् ‘एष नित्योमहिमा- ब्रिाह्मणस्य', 'अनन्वागतं पुण्येनानन्वागतं पापेन, अत्र स्तेनोऽस्तेनः' इत्यादिना ॥ ३१ ॥ यदि कर्माणि इत्यादिना । परमात्मनश्च इति चकारादात्मनो ब्रह्मणैवाभेदप्रतिपत्तिमिति योज्यम् । एवमादिभिरिति । अहं [ब्रह्मास्मीत्यादिवाक्यं गृह्यते-निश्चितरूपैर्वाक्यरिति । संवादिवि- संवादिप्रमाणान्तरासिद्धविषयत्वे सति अनन्यशेषतया च स्वार्थकपर- वेन नितिखभावैरित्यर्थः । भेदप्रतिपत्तिनिन्दामिति । 'मृत्योः सि मृत्युम्' इत्यादिभिर्वाक्यैरिति शेषः। ब्राह्मणस्य ब्रह्मविदः स हि मुख्यो ब्राह्मणः ‘स ब्राह्मणः' इति श्रुतेः इत्यर्थः ॥ ३१॥ उदाहृतवाक्यानां क्रमेण तात्पर्यमाह- कर्मासंबन्धिस्वरूपत्वं कर्मनिमित्तवर्णाद्यसंवन्धरूपतां च नाभ्यधास्यत् कर्माणि च कर्मसाधनानि च यज्ञो- पबीतादीनि यद्यपरितित्याजयिषितानि तस्मात् ससाधनं कर्म परित्यक्तव्यं मुमुक्षुणा परमात्माऽभेददर्शनविरोधात् आत्मा च परएवेति प्रतिपत्तव्यो यथाश्रत्युक्तलक्षणः३२ + ल ३२ उपदेशसाहस्री। [ शिष्यप्रति कर्मासंबन्धीत्यादिना । यदि कर्मादीनि न परितित्याजा तानि तर्हि एवमुक्तं सर्व नाभ्यधास्यदिति संबन्धः । अभिध श्रुतिः तं तमर्थम् , अतो ब्रह्मात्मज्ञानमिच्छता कर्मादीनि परित्या नीत्याह-तस्मादिति ॥ ३२ ॥ तदेवं आगमावष्टम्भेन निरूपितं ब्रह्मात्मैक्यं युक्त्यापि व्यः पयितुं उत्तरो ग्रन्थः । तत्राक्षेप्ता शिप्यो जीवपरमात्मानौ वर भिन्नौ विरुद्धधर्मसंसर्गित्वात् शीतोष्णवत् इत्यनुमानेन प्रत्या इत्याह- स यदि ब्रूयात् भगवन् , दह्यमाने छिद्यमाने वा प्रत्यक्षा वेदना-अशनायादिनिमित्तं च प्रत्यक्षं दुःखं र परश्वायमात्मा, 'अयमात्माऽपहतपाप्मा विरजो विम विशोको विजिघत्सोऽपिपासः सर्वगन्धरसवर्जितः' सर्वश्रुतिषु स्मृतिषु । कथं तद्विलक्षणः अनेकसंसार संयुक्तः परमात्मानमात्मत्वेन च मां संसारिणं परमा त्वेन अग्निमिव शीतत्वेन प्रतिपद्येयम् । संसारी च सर्वाभ्युदयनिःश्रेयससाधने अधिकृतः अभ्युदयनिः ससाधनानि कर्माणि तत्साधनानि च यज्ञोपवीताद कथं परित्यजेयमिति ॥ ३३ ॥ स यदीत्यादिना । एवं विरुद्धधर्मवत्त्वहेतुमुपपाद्य अनुमान ह-कथं तद्विलक्षण इति । एवंसति भेदस्य तात्त्विकत्वेन क साधनपरित्यागात्मकस्य संन्यासस्य नास्त्यवसर इत्याह-संस धिकारणम् १] पदयोजनिकाव्याख्या। ३३ ये तत्रानुमाने तावद्धत्वसिद्धिं दर्शयितुं उपक्रमते- ते तं प्रति ब्रूयात्-यदवोचो दह्यमाने छिद्यमाने वा देहे जत्यक्षा वेदनोपलभ्यते ममेति तदसत्। कस्मात् । दह्यमाने छेधमान इव वृक्षे उपलब्धुरुपलभ्यमाने कर्मणि शरीरे माहच्छेदवेदनाया उपलभ्यमानत्वात् दाहादिसमानाश्र- नव वेदना । यत्र हि दाहः छेदो वा क्रियते तत्रैव व्यपदि- तेति दाहादिवेदनां लोकः न वेदनां दाहाद्युपलब्धरीति। थं । क ते वेदनेति पृष्टः शिरसि मे वेदना उरसि उदरे ति वा यत्र दाहादिस्तत्रैव व्यपदिशति न तूपलब्धरी- ते । यधुपलब्धरि वेदना स्यात् वेदनानिमित्तं वा हिच्छेदादि वेदनाश्रयत्वेनो नव्य)पदिशेद्दाहाद्याश्रय- त् ॥ ३४॥ तं प्रति ब्रूयादित्यादिना । जीवपरमात्मानाविति किं उपाधिभे- विशिष्टं वस्तु यथाप्रतिपत्ति निर्दिश्यते किंवा चैतन्यमात्राकारम् । साये बाधव्यभिचारौ । आकाशभेदवदोपाधिकस्य भेदस्य अवास्तव- वात् , भेदमात्रसाधने सिद्धसाधनत्वाच्च इत्यभिप्रेत्य द्वितीयेऽसिद्धि- क्वा तामुपपादयति-तदसत्कस्मादित्यादिना । वृक्ष इव समाने छिद्यमाने शरीरे दाहच्छेदनवेदनाया उपलभ्यमानत्वात् । पाहादिसमानाश्रयैव दाहच्छेदादिवेदनेति योजना । शरीरस्यैव तदुप- सिन्धृत्वशङ्कां वारयितुं तद्विशिनष्टि -कर्मणीति । कर्मत्वं साधयति में उपलब्धुरुपलभ्यमान इति । उक्तमर्थं लोकप्रसिद्ध्या द्रढयति- सच हीति । तत्रैवानुभवमपि प्रश्नपूर्वकमभिनयति-कथमित्यादि- ना। पूनस्तदेव व्यतिरेकमुखेनोपपादयति-यापलब्धरीति । ह स ३४ उपदेशसाहस्री। [ शिष्यप्रतिः उपदिशेदित्यस्मात्पूर्व उपलब्धारम् इत्यध्याहारः । यद्युपल वेदना स्यात् तदा दाहाद्याश्रयदेह देशवत् वेदनानिमित्तं दाहर दिजवेदनाश्रयत्वेनोपलब्धारमुपदिशेल्लोकः। नैवमुपदिशन्नुपल अतो दाहच्छेदादिसमानाश्रयैव वेदनेति योजना ॥ ३४ ॥ तत्रैव युक्त्यन्तरमाह- खयं च नोपलभ्येत चक्षुर्गतरूपवत् । तस्मात् र च्छेदादिसमानाश्रयत्वेन उपलभ्यमानत्वाहाहादिवत मभूतैव वेदना। भावरूपत्वाच साश्रया तण्डुलपाक वेदनासमानाश्रय एव तत्संस्कारः। स्मृतिसमान एवोपलभ्यमानत्वात् वेदनाविषयः। तन्निमित्तविर द्वेषोऽपि संस्कारसमानाश्रय एव । तथा चोक्तम् संस्कारतुल्याऽधी रागद्वेषौ भयं च यत् ॥ गृह्यते धं तस्माज्ज्ञाताशुद्धोऽभयः सदा ॥ ३५ ॥ स्वयं चेति । यथा चक्षुर्गतं रूपं न चक्षुषा गृह्यते तथाऽ वेदना आत्मना न गृह्येत कर्मकर्तृत्वविरोधादित्यर्थः । अ वेदनाश्रयत्वनिराकरणमुपसंहरति-तस्मादिति । ननु वेदना दुःखं न तदचेतने देहे संभवति, सुखदुःखादिधर्माणां चेतना नियमात् । यदि पुनः चेतनोऽप्यात्मा न वेदनाश्रयः तदा श प्यचेतनं न तदाश्रयः इत्यनाश्रयैव वेदनाऽस्तु, बौद्धैरपि तथा पगमात् इत्यत आह---भावरूपखाच्चेति । भावरूपत्वं कार्य वेदना साश्रया कार्यत्वात् तण्डुलपाकादिवत् इत्यर्थः । हेतो. जकतामाशङ्कय विपक्षे बाधकमाह-वेदनासमानाश्रय इ करणम् १] पदयोजनिकाव्याख्या। ३५ पादित्यर्थः । यद्वा हेत्वसिद्धिं परिहरति-वेदनासमानाश्रय एव संस्कार इति । वेदनाया अकार्यत्वे तत्संस्कारस्मृत्योरभावात्का- यजन्तरे पादे मे वेदनाऽभूत् इत्यादिव्यवहारो न स्यादित्यभिप्रायः । मचा-साश्रया यदि वेदना तर्हि आत्माश्रयैव स्यात् आत्म- येव तत्संस्कारस्मृत्यादेरुपलम्भात् इत्याशङ्कयाह-वेदनासमाना- हाभय एव तत्संस्कार इति । यत्स्था वेदनोऽपलभ्यते तत्स्थ एव जन्यसंस्कारादिः, वेदना तत्संस्कारस्मृतीनां एकाश्रयत्वनियमात् , वदनायाश्च उपलब्धिकर्मनिष्ठत्वोपपादनात् नोपलब्धर्यात्मनि तत्सं- कारादीत्यर्थः । तदेवानुमानेन साधयति-स्मृतिसमानकाल ए- ति । स्मृतेर्यः कालो जाग्रत्खमावस्थारूपः तत्रैव उपलभ्यमानत्वात् पुस्यादावनुपलभ्यमानत्वात् वेदनाविषयो वेदनासमानविषयः। समा- श्रय एव तत्संस्कारइत्यक्षरार्थः । तथाचयं प्रयोगः-वेदनादिरना- माश्रयः अनात्मप्रत्ययकाल एव उपलब्धिगोचरत्वाद्देहकार्यादिवदि. ते। इतोप्यनात्माश्रय एव वेदनादिरित्याह-तनिमित्तविषयश्चेति । मरत्तस्या वेदनाया यन्निमित्तं दाहच्छेदादि तद्विषयो द्वेषोऽपि संस्कार- [पुल्याश्रयः अनात्माश्रय इत्यर्थः । अयमिह प्रघट्टिकाभिप्रायः-देहे छेद्यमाने दह्यमाने च अहं छिन्नो दग्ध इति च देहाभिन्नमात्मानं पन्यमानः संतप्यते जनः, तन्निमित्तकवेदना तत्संस्कारस्मृतिद्वेषांश्च दिहाभिन्न एवात्मन्युपलभ्यते न देहाभिमानहीनावस्थायां देहश्चोपल- ऽध्यमानत्वादुपलब्धिकर्मैव नोपलब्ध्याश्रय इति संघातस्यैव वेदनादि वासंहतस्य साक्षिण आत्मन इति नित्यशुद्ध एव आत्मेति । एवं निरूपि- प्रदेड-वृद्धसंमतिमाह-तथाचोक्तं रूपेति । रूपं नीलपीतादिविषयः तेरल संस्कारः सूक्ष्मावस्था तदनुभवसंस्कारो वा स्मृतिहेतुः स रूप- ए i------ r- . लि. amom ....

उपदेशसाहस्री। [ शिष्यप्रतिब - रागद्वेषयोः तौ रूपसंकारतुल्या धीः यच्च भयं त्रासस्तदपि रूपसंर तुल्याधीत्यर्थः। किमाश्रयत्वमेषामित्यत आह-गृह्यते धीश्रयमि गृह्यते तत्रयमेतदिति शेषः । संकल्पविचिकित्सादेरप्युपलक्षणमे यद्यस्मात् रूपादिसंस्कारः तज्जन्यरागादिसर्व धीसंश्रितमेवोपल न तत्साक्षिसंश्रितं तत्तस्मात् ज्ञाता आत्मा सदा शुद्धो रागद्वेषर। अभयश्च संसाररहित इत्यर्थः ॥ ३५ ॥ युक्त्या संमत्या चोपपादितं वेदनादीनामपि अनात्मधर्मत्वं प्रश्नपूर्वकं श्रुत्या प्रतिपादयस्तदाश्रयविशेषं निर्धारयति- किमाश्रयाः पुनः रूपादिसंस्कारादय इति। उच्च यत्र कामादयः। क पुनस्ते कामादयः 'कामः संक विचिकित्सा' इत्यादिश्रुतेः बुद्धावेव । तत्रैव रूपात स्कारादयोऽपि 'कस्मिन्नु रूपाणि प्रतिष्ठितानीति ह इति श्रुतेः-'कामा येऽस्य हृदि श्रिताः', 'तीर्णो यदा सर्वान् शोकान् हृदयस्य', 'असङ्गो ह्ययम्', '. अस्यैतदतिच्छन्दाः' इत्यादिश्रुतिभ्यः, 'अविकार्योऽ: च्यते', 'अनादित्वान्निर्गुणत्वात्' इत्यादि । इच्छाद्वेष च क्षेत्रस्यैव विषयस्य धर्मो नात्मन इति स्मृति: कर्मस्थैवाशुद्धिः नात्मस्था इति ॥ ३६ ॥ किमाश्रया इत्यादिना । इत्यादिश्रुतेः 'एतत्सर्व मन इत्यवधारणात् मनोबुद्ध्योश्चान्तःकरणात्मनैकत्वाझुद्धावेव कामादर आत्मनि इत्यवधारितमित्यर्थः। कामादेर्बुद्ध्याश्रयत्वेऽपि कथं रूप बोधकरणम् १] पदयोजनिकाव्याख्या। - स्कतमाह-तत्रैवेत्यादिना । कामादेः अन्तःकरणनिष्ठत्वे वाक्यान्तरं ठिति-कामायेऽस्येति । 'तीर्णो हि तदा सर्वान्हृदयस्य' इत्युक्तेः तानिदानानामेव तेषां हृदाश्रयत्वं गम्यते तस्मात् शोकनिमित्तरूपा. संस्काराणामपि बुद्ध्याश्रयत्वं युक्तमेव, अन्यथा सर्व विशेषणानुपपत्ते- हित्यर्थः। इदानीमात्मनो वेदनाकामद्वेषाद्यसंस्पृष्टत्वे श्रुतिस्मृती पठ- ते-असङ्गो हीत्यादिना । अतिच्छन्दा इति छान्दसं रूपविशेषण- वात् । अतिच्छन्दं छन्दः कामः अतिगतकामं असंस्पृष्टकामादिदोष पु तदात्मस्वरूपमित्यर्थः । निर्गुणत्वात् इत्यादिस्मृतिभ्यश्चेति संबन्धः । दानी सिंहावलोकनेन कामादेरनात्मधर्मत्वे श्रुत्युक्ते स्मृतिमाह- प्रत्च्छाद्वेषादीति। 'इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः ॥ लतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥' इत्यादिस्मृतिभ्यश्च इच्छादिः देशत्रस्यैव धर्मो न आत्मन इति योजना । क्षेत्रस्यानात्मत्वं द्योतयितुं दवेषयस्य इति विशेषणम् ।श्रुतिस्मृतिसिद्धमर्थमुपसंहरति-कर्मस्थैवा- द्धिर्नात्मस्थेति । इति सिद्धमिति शेषः ॥ ३६ ।। तः परमप्रकृतमुपसंहरति- या अतो रूपादिसंस्काराद्यशुद्धिसंबन्धाभावात् न पर- गामादात्मनो विलक्षणस्त्वमिति प्रत्यक्षादिविरोधाभावात् न्याकं पर एवात्माऽहमिति प्रतिपत्तुम्-'तदात्मानमेवा- दहं ब्रह्मास्मि', 'एकधैवानुद्रष्टव्यम्', 'अहमेवाऽधस्ता- ए', 'आत्मैवाऽधस्तात्', 'सर्वमात्मानं पश्येत्' 'यत्र यो वस सर्वमात्मैव', 'इदं सर्वं यदयमात्मा', 'स एषोऽ- पाकिला', 'अनन्तरमबाह्यम्', 'सबाह्याभ्यन्तरो ह्यजः', उपदेशसाहस्री। [ शिष्यप्रति यानि', 'सत्यं ज्ञानमनन्तं ब्रह्म', 'तस्माद्वा', 'तर तदेवानुप्राविशत्', ‘एको देवः सर्वभूतेषु गूढः सर्व पी', 'अशरीरं शरीरेषु', 'न जायते म्रियते', 'खा जागरितान्तम्', 'सम आत्मेति विद्यात्', 'यस्तु सव भूतानि', 'तदेजति तन्नजति', 'वेनस्तत्पश्यन्', 'त मिः', 'अहं मनुरभवं सूर्यश्च', 'अन्तः प्रविष्टः श जनानाम्', 'सदेव सोम्य', 'तत्सत्यं स आत्मा तर सि' इत्यादिश्रुतिभ्यः ॥ ३७ ॥ अतो रूपादीति । रूपादिसंस्काराद्यशुद्धिसंबन्धाभावादेव प्रत दिविरोधाभावान्न परस्मादात्मनो विलक्षणस्त्वं इति हेतोः पर स्माऽहमिति प्रतिपत्तुं युक्तमिति योजना । आत्माभेदेनैव ब्रह्मप्रतिप मित्युक्तेऽर्थे श्रुतिवाक्यान्युदाहरति तदात्मानमेवावेदित्यादि आत्मानं प्रत्यञ्चमेवाहं ब्रह्मास्मीति अवेत् अवगतवान् तद्ब्रह्मेत्य एकधैव एकस्वरूपेणैव नतु विषयत्वेन भेदेन वा अनुद्रष्टव्यं चार्योपदेशानन्तरं अनुसन्धेयम् । 'एतदप्रमयं ध्रुवम्' इति वाक्य 'स एवाऽधस्ता' दित्यादिना भूमानं परमात्मानं सर्वाधिष्ठानमुपा तस्य ताटस्थ्यशङ्कानिवृत्तये अहंकारात्मत्वमुपदिश्य पुनः अहमु गकृतपरिच्छेदादिनिवृत्तये तत्साक्षिप्रत्यगेकरसतां तस्य निर्दिः छान्दोग्यश्रुतिरित्याह-अहमेवाधस्तादिति । शमादिसाधनसंपन्नः सर्वमात्मानं पश्येत् इति निर्दिष्टेऽर्थे हेतुमिव वचनान्तरमाह यत्र त्वस्य सर्वमात्मैवेति । 'अभूत् तत्केन कं पश्येत्' इत्यादिवा शेषः । इदं सर्वं यद्भोक्तृभोग्यादिलक्षणं विश्वं तत्सर्वमयमात्मा न तोऽन्यद्वस्तुतोऽस्तीत्यर्थः : । स एष इति । स एषोऽकलोऽमृतः' बोरकरणम् १] पदयोजनिकाव्याख्या। ३९ - त्यात्यर्थः । सामोपनिषद्तं वाक्यम् । स एष प्रत्यगात्मा कलाशब्दवाच्यप्राणाद्युपा- व्यनिर्वियुक्तः अमृतः अमृतं ब्रह्मैवेति तस्यार्थः । तदेतद्ब्रह्म अपूर्वम- पासपमनन्तरमबाह्यमयमात्मा ब्रह्म' इति बृहदारण्यवाक्यमुदाहरति- विनम्तरमबाह्यमिति । मुण्डकवाक्यं च तत्समानार्थमाह—सबाह्ये- देवते । अमूर्तः पुरुष एव सबाह्याभ्यन्तरः सर्वस्य सह बाह्याभ्यन्तर- रूपेण वर्तते नान्यः। अजो न जायते इत्यजः जन्मादिविक्रियारहित । 'ब्रह्मैवेदममृतं पुरस्तात्' इत्यादि च अत्रोदाहर्तव्यमित्याह- बझैवेदमिति । इदं सर्व ब्रह्मैवेत्यर्थः । एवं ब्रह्माद्वयात्मप्रतिपादकानि क्यान्युदाहृत्य ब्रह्मण एव जीवात्मना कार्यप्रवेशनादिवाक्यानि च यजीवस्य ब्रह्माभेदप्रतिपत्त्यर्थमुदाहरति-एतया द्वारेत्यादिना । 'स एएतमेव सीमानं विदार्यतया द्वारा प्रापद्यत' इति शिरःकपालयोः तसन्धिगतच्छिद्रेण देहे प्रवेशं स्रष्टुरीश्वरस्य दर्शयत्यैतरेयकवाक्यमित्य- एनर्थः । तत्र प्रविष्टस्य स्वरूपनिर्धारणपरं वाक्यं-'येन वा पश्यति येन वा अर्थशृणोति' इत्यादि 'प्रज्ञानस्य नामधेयानि भवन्ति' इत्यन्तं प्रज्ञप्ति. इलमात्रं तत्स्वरूपं प्रज्ञानं ब्रह्मेति । तस्य ब्रह्मात्मत्वं च तत्रोक्तमित्य- शेभिप्रेत्याह-प्रज्ञानस्य नामधेयानीति । स्रष्टुरेव सृष्टे कार्ये जीवरू- क्रपेण प्रवेश इत्येतदेव तैत्तिरीयकवाक्येन द्रढयति-सत्यं ज्ञानमन- पान्तमित्यादिना । परमात्मैव सर्वसाक्षी सर्वभूतान्तरात्मा इत्यत्र श्वेता- शाश्वतरीयमन्त्रमुदाहरति -एको देव इति । शरीरादिसंस्पृष्टतया प्रती- "यमानस्यापि आत्मनः तद्धर्भसंसर्गाभावेन ब्रह्मात्मनो ज्ञेयत्वे काठक- वास्यद्वयमुदाहरति-अशरीरं शरीरेषु । न जायते म्रियते वा विपश्चिदिति च । अवस्थासाक्षिण आत्मनो अवस्थाधर्माऽस्पर्शित्वेन जास्वप्रतिपत्तौ काठकवाक्यमाह-स्वप्नान्तं जागरितान्तमिति ।

उपदेशसाहस्री। [ शिष्यप्रति नेम्यरनाभिरूपरथचक्रनिदर्शनेन दृश्यदर्शनतत्साधनभूतसर्वजग यरूपं प्राणशब्दितं ब्रह्मैव स मे मम आत्मेति प्रवृत्तं कौषीतकी निषद्वाक्यमुदाहरति—स म आत्मेति विद्यात्। 'यस्तु सर्वाणि न्यात्मन्येवानुपश्यति', 'तदेजति तन्नैजति' इति च मत्रद्वयं ईद स्यगतमुदाहृतं, तत्र आद्यो मन्त्रः स्पष्टार्थः-द्वितीयः परोपाधिनि चलनादिप्रतिभानम् स्ववस्तुनिर्विकारः शुद्ध एवात्मा इति दर्श मित्यर्थः । 'वेनस्तत्पश्यन्विश्वा भुवनानि विद्वान्यत्र विश्वं भवत्येकनी इति मन्त्रं तैत्तिरीया आमनन्ति तस्यार्थः-यत्र यस्मिन् सर्वा सर्वोपादाने पूर्वोत्तरमन्त्रनिर्दिष्टे वस्तुनि विश्वं समस्तं एकनीडं । एकायनं वर्तते-तदेव विश्वा भुवनानि सर्वाणि भुवनानि न पृथक् किमप्यस्तीति पश्यन् श्रुत्याचार्यप्रसादादनुभवन् विद्वान् : वेनो भवति-विनतेः कान्तिकर्मणो वनतेर्वा संभजनीयार्थस्य । इदं रूपम् । वेनः कान्तिमान् संभजनीयो वा भवति ईश्वरएव भवती पुनरपि विदुषः सर्वात्मत्वे मन्त्रद्वयं पठति—'तदेवाऽग्निस्तद्व इत्यादिरेकः 'अहं मनुरभवं सूर्यश्च'इति वामदेववाक्यरूपोऽपर 'अन्तः प्रविष्टः शास्ता जनानाम्', 'एकः सन्बहुधा विचचार' तैत्तिरीयश्रुतिः एकस्यैवान्तर्यामिणो बहुधा विचरणं संसारख्या वदन्ती जीवपरयोरभेदं सूचयतीत्यर्थः । तत्रैव सोपक्रमं छान्दोग क्यं पठति-सदेवेति ॥ ३७ ॥ श्रुत्युक्तेऽर्थे स्मृतीरप्याह- स्मृतिभ्यश्च-'पूः प्राणिनः सर्वगुहाशयम्', 'आर देवताः', 'नवद्वारे पुरे', 'समं सर्वेषु भूतेषु', 'विद्या नयसंपन्ने', 'अविभक्तं विभक्तेषु', 'वासुदेवः सर्व । - करणम् १] पदयोजनिकाव्याख्या। ४१ त्यादिभ्यः एक एवात्मा परं ब्रह्म सर्वसंसारधर्मविनि- कस्त्वमिति सिद्धम् ॥ ३८ ॥ स्मृतिभ्यश्चेति । सर्वप्राणिनो गुहाशयस्य एकस्यैवात्मनः पूः राणि शरीराणि न प्रतिशरीरमात्मभेद इत्यर्थः । उदाहृतश्रुतिस्मृत्यर्थ कल्प्य प्रकरणार्थमुपसंहरति-एक एवेति ॥ ३८ ॥ तदेवं श्रुतिस्मृतिन्यायसिद्धे ब्रह्मात्मैकत्वेऽभिहिते लौकिकवैदिक- वहारविरोधं शङ्कते- स यदि ब्रूयात्-यदि भगवन् , 'अनन्तरोऽअबाह्यः"सबा- गाभ्यन्तरो बजः' 'कृत्स्नःप्रज्ञानघन एव' सैन्धवघनवदा- मा सर्वमूर्तिभेदवर्जितः आकाशवदेकरसः तर्हि किमिदं श्यते श्रूयते वा साध्यं साधनं वा साधकश्चेति श्रुतिस्मृ- तेलोकप्रसिद्धं वादिशतविप्रतिपत्तिविषय इति ॥ ३९ ॥ स यदीति । गृहक्षेत्रदेशकोशादिकं साध्यमैहलौकिकं दृश्यते, साधनं च प्रतिग्रहसेवाविजययुद्धादि, तत्साधकश्च तदर्थिवर्गो मणादिः दृश्यते, तथा यागादि साधनं, स्वर्गादि साध्यं, तत्कामश्च षकः इति पारलौकिकमपि त्रिकं श्रूयते—'स्वर्गकामो यजेत' त्येवमादीत्यर्थः । कुत्र दृश्यते श्रूयते वा इत्याकाङ्क्षायामाह--श्रुति- मृतिलोकप्रसिद्धामेति।लोक इति व्यवहर्तृजन उच्यते। देहात्मप्र- द्विवल्लोकप्रसिद्धेः।अतन्त्रत्वशङ्कायामाह-वादिशतेति ।वादिशत. प्रतिपत्तीनां विषयो विषयत्वं यस्मिन्नुक्तत्रितये तत्तथोक्तम् ॥३९॥ व्यवहारस्य अविद्यात्मकत्वात् न तेन पारमार्थिकं ब्रह्मात्मैक्यं बेरुध्यत इति समाधत्ते- ४२ उपदेशसाहस्री। [शिष्यप्रति . आचार्यो ब्रूयात्-अविद्याकृतमेतद्यदिदं दृश्यते थ वा, परमार्थतस्त्वेक एवात्मा अविद्यादृष्टेः अनेकवत् भासते, तिमिरदृष्ट्या अनेकचन्द्रवत् 'यत्र वा अन्य स्यात्', 'यत्र हि द्वैतमिव भवति तदितर इतरं पश्य 'मृत्योः स मृत्युमाप्नोति', 'अथ यत्रान्यत्पश्यति अन्य णोति अन्यद्विजानाति तदल्पम् अथ यदल्पं तन्मर्त्य ति','वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्य 'अन्योऽसावन्योऽहम्' इति भेददर्शननिन्दोपपत्तेरवि कृतं द्वैतम् ‘एकमेवाद्वितीयम्', 'यत्र त्वस्य', 'को मं कः शोकः' इत्यायेकत्वविधिश्रुतिभ्यश्चेति ॥ ४० ॥ आचार्यो ब्रूयात् इत्यादिना। स्पष्टाऽर्थः । उक्तेऽर्थे श्रुतीरुर रति—यत्र वा इत्यादिना । इवशब्दोऽन्यदर्शनस्य आभासत्वं तयति । स्वप्नावस्थादृष्टान्तार्थो वैशब्दः। यत्र यदा अविद्यावस्थायां है भावेऽपि द्वैतमिव द्रष्टदृश्यदर्शनभेदवद्भवति तत्तदा इतरो द्रष्टा खव्यावृत्तं कर्मभूतं विषयं इतरेण चक्षुषा करणेनेत्यर्थात् पश्यत त्यर्थः । यच्च भेददर्शनोपलब्धं तदल्पं परिच्छिन्नं, यच्च परिचि तन्मयं विनाशि, यच्च विनाशि न तत्सत् । 'नाऽसतो विद्यते भ इति वचनादित्यर्थः । द्वैतस्याविद्याकृतत्वे श्रुतीरुपन्यस्य ब्रह्मात्माद्व परमार्थत्वे श्रुतीरुपन्यस्यन्ते-एकमेवेत्यादिना ॥ ४० ॥ ननु साध्यसाधनभेदश्चेदविद्याविषयः तर्हि मिथ्यार्थगोचर कर्मकाण्डमप्रमाणं स्यात् इति शिष्यः शङ्कते- किमर्थ श्रुत्या साध्यसाधनादिः उच्यते उत्पत्तिः प्रलयश्चेति ॥४१॥ यद्येवं भगवन्, ४ करणम् १] पदयोजनिकाव्याख्या। ४३ । यद्येवमिति। न केवलं कर्मकाण्डाप्रामाण्यापत्तिः द्वैतमिथ्यात्वे अपितु ज्ञानकाण्डेऽपि सृष्ट्यादिवाक्यानां निर्विषयतया प्रामाण्यहानि- नक इत्यभिप्रेत्याह-उत्पत्तिः प्रलयश्चेति । श्रुत्या किमर्थं उच्यते हलनुषङ्गः ॥ ४१॥ तत्र वेदान्तवाक्यजनितब्रह्मात्मविज्ञानात्प्राक् कर्मकाण्डाप्रामाण्या- पत्तिः शङ्कते तदूर्व वा इति विकल्प्य आद्यं प्रत्याह- अत्रोच्यते-अविद्यावत उपात्तशरीरादिभेदस्य इष्टा- निष्टयोगिनमात्मानं मन्यमानस्य साधनैरेवेष्टानिष्टप्राप्ति- परिहारोपायविवेकमजानतः इष्टप्राप्तिं चानिष्टपरिहारं चेच्छतः शनैस्तद्विषयमज्ञानं निवर्तयितुं शास्त्रं न साध्य- साधनादिभेदं विधत्ते । अनिष्टरूपः संसारो हि स इति तद्भेददृष्टिमेवाविद्यां संसारमुन्मूलयति उत्पत्तिप्रलयाद्य- कत्वोपपत्तिप्रदर्शनेन ॥ ४२ ॥ अत्रोच्यते-अविद्यावत उपात्तेति । 'अप्राप्ते शास्त्रमर्थवत्' इति न्यायात् कर्तृसाधनफलभेदस्वरूपस्य शास्त्रज्ञानशून्यानामपि प्र- सिद्धेः तत्र वेदस्यातात्पर्यात् यथाप्रसिद्धं भेदमादाय पुंसः पुरुषार्थ- सापनमविज्ञातं बोधयतः शास्त्रस्य नाप्रामाण्यशकेत्यभिप्रेत्य संगृही- तमर्थ विवृणोति-शरीरादिभेदस्येत्यादिना । साधनैरेव इष्टप्राप्ति 'अनिष्टपरिहारं चेच्छतः इष्टानिष्टप्राप्तिपरिहारोपायविवेकमजानतः शनैस्तद्विषयमज्ञानं निवर्तयितुं शास्त्रमित्यन्वयः । साधनैरेव इष्टानिष्ट- प्रातिपरिहारेच्छायां निमित्तं विशेषणान्तरेण द्योतयन्नाह-शरीरेति । शरीरादिभेदस्य शरीरेन्द्रियादिसंघातविशेषस्य संबन्धिनी ये इष्टानिष्टे 1 ४४ उपदेशसाहस्री। [शिष्यप्रति तद्युक्तमात्मानं मन्यमानस्येति योजना । अयं भावः-अनाद्यविन तनिजखभावस्य शरीरेन्द्रियमनोबुद्धिप्राणेषु अध्यस्तात्मभावस्य च्छिन्नमात्मानं मन्यमानस्य खातिरिक्तविषयसंबन्धाधीनमेव पुरु मिच्छतः तदुपायं पर्येषमाणस्य साक्षात्पुरुषार्थमात्मतत्त्वं बोद्धुम र्थत्वात् प्रथमं तदभिलषितवर्गादिसुखादिसाधनं मानान्तरादवि बोधयञ्छास्त्रं तं विधिनिषेधयोः व्यवस्थापयति । ततो विहितानुष्ठ निषिद्धपरिवर्जनाच्च अहरहरेधमानात्मशुद्धेः अनुपचीयमानपाए निषिद्धफलमिव काम्यफलमपि अनित्याशुचिदुःखरूपं संसार ए काम्यकर्मपरित्यागेन आवश्यकमेव कर्म ईश्वराराधनरूपमनुति अतितरां शुद्धान्तःकरणस्य सूक्ष्मवस्तुतत्त्वप्रतिपत्तियोग्यः अयमित जात इति आत्मतत्त्वज्ञानमज्ञातं परमपुरुषार्थसाधनमुत्पादयन् अ प्रणालिकया अज्ञातार्थावबोधनेन अज्ञानं पुंसो निवर्तयितुं ३ प्रवृत्तमिति एतदभिप्रेत्य शनैरित्युक्तमिति । ननु किमित्येवं ता वर्ण्यते प्रतीयमानसाध्यसाधनभेदस्वरूपस्यापि शब्दशक्तितात्पर्यग रता किं न स्यात् इत्याशङ्कय उभयपरत्वे वाक्यभेदापत्ते,वमित्या न साध्येति । कस्मादन्यतरपरत्वेऽपि वस्तुसत्वपरत्वं नेष्यते इत्यार अपुरुषार्थे तात्पर्यायोगात् इत्यभिप्रेत्याह-अनिष्टरूपः संसारो स इति । एवं कर्मकाण्डस्य अज्ञातार्थावबोधने तात्पर्य न भेदस्य व त्वबोधने इत्यप्रामाण्यशङ्कां तस्यापाकृत्य सृष्ट्यादिवाक्यस्य साक्षा तवस्तुप्रतिपत्तिपरत्वात् न अप्रामाण्यशङ्केत्याह-तद्भेददृष्टिर्माि उत्पत्तिप्रलयादेः इत्यादिपदात् स्थितिप्रवेशनियमनानि गृह्यन्ते । त्तिप्रलयादेः एकत्वोपपत्तिदर्शनेन अद्वैतयुक्तिदर्शनद्वारेण संसारमूर विद्यामेवोन्मूलयति सृष्ट्यादिवाक्यमित्यध्याहारेण योजना । अवि याः संसारमूलत्वं द्योतयितुं तां विशिनष्टि-तभेददृष्टिमिति ।।

४५ -- - धाकरणम् १] पदयोजनिकाव्याख्या। सांध्यसाधनसाधकरूपस्य भेदस्य दृष्टिः प्रतिभासो यस्याः सा तथोक्ता गमित्यर्थः ॥ ४२ ॥ अविद्योन्मूलने वा किं स्यादित्यत आह अविद्यायामुन्मूलितायां श्रुतिस्मृतिन्यायेभ्यः 'अन- तरमबाह्यम्', 'सबाह्याभ्यन्तरो बजः', 'सैन्धवघ- लवत', 'प्रज्ञानघन एवैक आत्मा', 'आकाशवत्परिपूर्णः' इत्यत्रैव एका प्रज्ञाप्रतिष्ठा परमार्थदर्शिनो भवति न साध्यसाधनोत्पत्तिप्रलयादिभेदेन अशुद्धिगन्धोऽप्युपप- यते ॥४३॥ [ अविद्यायामुन्मूलितायामित्यादिना । एवं प्रतिष्ठितप्रज्ञस्य पर- मार्थदर्शिनः साध्यसाधनविशेषबुद्ध्यजनकत्वात् तदा कर्मकाण्डस्यैव पवरूपतः अप्रतीतेः अप्रामाण्यमिष्टमेव इति विकल्पान्तरपरिहार उक्तो वेदितव्यः ॥ ४३॥ एवं सत यदुक्तं प्राक् यद्येवं संसारी च सन्-इत्यादि तदप्य- ज्ञानविलसितं मुमुक्षायामुत्पन्नायां कर्मतत्साधनपरित्यागे हेत्वभावात् इत्यभिप्रेत्याह- तचैतत् परमार्थदर्शनं प्रतिपत्तुमिच्छता वर्णाश्रमाद्य- भिमानकृतपातरूप-पुत्रवित्तलोकैषणादिभ्यो व्युत्थानं कर्तव्यम् । सम्यक्प्रत्ययविरोधात्तदभिमानस्य भेददर्शन- प्रतिषेधार्थोपपत्तिश्चोपपद्यते । नोकस्मिन्नात्मन्यसंसारि- स्वशुद्धौ शास्त्रन्यायोत्पादितायां तद्विपरीता बुद्धिर्भवति। नसमौ शीतत्वबुद्धिः शरीरे वा, अजरामरणबुद्धिः प उपदेशसाहस्री। [शिष्यप्रति तस्मादविद्याकार्यत्वात् सर्वकर्मणां तत्साधनानां चर पवीतादीनां परमार्थदर्शननिष्ठेन त्यागः कर्तव्यः॥४ यच्चैतदिति । पालरूपेति। पञ्चप्रकारेत्यर्थः । यजमान-पत्नी वित्तद्वयसाध्यकर्मफलभूतैतल्लोक-पितृलोक-देवलोकैषणाभ्यो व्यु वैपरीत्येनोत्थानं तत्र निस्पृहतया तत्साधनसर्वकर्म तदुपकरण सरूपं पारिव्राज्यं कर्तव्यमित्यर्थः। आपाततः परोक्षतो वा भरि ब्रह्मात्मभावस्य तदा आपरोक्ष्योन्मुखस्य ब्राह्मण्यादिदेहाद्यध्यासनि नकर्माधिकारित्वाभिमानशैथिल्यात् तस्योद्देश्यविरोधाच्च त्याज ससाधनं कर्म इत्युक्तेऽर्थे हेतुमाह-सम्यगिति । अभेददर्श सम्यग्ज्ञानं तदिच्छता च तद्विरुद्धाभिमानः तदास्पदं सर्व । इत्यत्रैव श्रुतार्थापत्तिमाह--भेददर्शनेति । 'मृत्योः स मृत्युमा य इह नानेव पश्यति', 'उदरमन्तरं कुरुते अथ तस्य भयं भ इत्यादिभेददर्शनप्रतिषेधरूपो योऽर्थः तस्योपपत्तिः उपपादनं सोप इत्यक्षरार्थः। भेदस्य तत्प्रयुक्ताभिमानस्य च प्रामाणिकत्वं श्रुत्या षेधो न घटेत । नहि प्रमाणसिद्धस्य प्रमाणेन प्रतिषेधः संभवति च प्रतिषेधश्रुतेः विषयान्तरमुत्प्रेक्ष्यते । अतः प्रतिषेधकवाक भेदापवादपरत्वाभावे तदा आम्नानमनर्थकं स्यात् । तच्चानिा अध्ययनविधिविरोधादिति भावः। ननु सम्यग्ज्ञानस्य कर्मसमुच्चिर मोक्षसाधनत्वात् न विहितकर्मत्यागो युक्त इत्यत आह-न ही विरोधादेव समुच्चयस्य अनुष्ठातुमशक्यत्वात् तद्विधानासंभवात् जन्यस्य च अनित्यत्वात् मोक्षत्वानुपपत्तेः न ज्ञानकर्मसमुच्चयो । साधनमिति भावः । यद्वा उक्तमेव विरोधं दृष्टान्तोक्त्या द्रढयति नहीत्यादिना। निरूपितमर्थसारमुपसंहरति--तस्मादिति ॥ ॥ इति शिष्यप्रतिबोधनविधिर्नामप्रथमप्रकरणं विवृतम् ॥

पागम् २] पदयोजनिकाव्याख्या । कूटस्थाद्वयात्मबोधप्रकरणम् ॥ २ ॥ तदेवं शिष्यस्य देहद्वयाभिमानापोहेन ब्रह्मरूपत्वमुपदिश्य तस्या- लायां कर्मतत्साधनसंन्यासो न्यायत उपपादितः, ब्रह्मस्वभावविपरीतं "अविद्याकृतमित्युपक्षिप्तं, तदिदानी अब्रह्मस्वरूपत्वस्य अविद्यात्मक- | आत्मनः कूटस्थतया खाभाविकं ब्रह्मरूपत्वं च उपपादयितुं प्रक- गान्तरमारभमाणः कृतसंन्यासस्य मुमुक्षोः कृत्यं श्रवणं विधितः चयन् शिष्यप्रश्नमवतारयति- ; सुखमासीनं ब्राह्मणं ब्रह्मनिष्ठं कश्चिद्रह्मचारी जन्मम- रणलक्षणात् संसारात् निर्विण्णो मुमुक्षुः विधिवदुपस- भः पप्रच्छ-भगवन् , कथमहं संसारान्मोक्षिष्ये शरीरे- न्द्रियविषयवेदनावान् जागरिते दुःखमनुभवामि तथा खप्नेऽनुभवामि च पुनः पुनः सुषुप्तिप्रतिपत्त्या विश्रम्य विश्रम्य, किमयमेव मम खभावः किंवा अन्यखभावस्य सतो नैमित्तिकः इति । यदि खभावः न मे मोक्षाशा खमावस्यावर्जनीयत्वात्।अथ नैमित्तिकः निमित्तपरिहारे स्यान्मोक्षोपपत्तिः॥ ४५ ॥ । सुखमिति । सुखमासीनमित्यनेन अविक्षिप्तचित्ततया प्रसन्नतो- क्ता । व्यावहारिकदृष्टया ब्राह्मणमित्युक्त्या अनापदि ब्राह्मणेतरवर्णात् नोपदेशो ग्राह्य इति सूचयति। परमार्थतो ब्रह्मनिष्ठमित्युक्त्वा शिष्य- प्रतियोधनसामर्थ्य सूच्यते-कश्चिदिति । प्रागुक्तगुणगणाढ्यः सुपरीक्षितः शिष्यः उक्तः-तस्योपदेशग्रहणकाले एकाकित्वं सूचयितुं कसिदित्युक्तम् । तस्य विशेषणानि-ब्रह्मचारीत्यादीनि । ब्रह्मणि

उपदेशसाहस्री।
[ कूटस्थाद्वयात्म
प्रत्यक्तत्वे चरितुं विचरितुं शीलमस्यास्तीति ब्रह्मचारी ब्रह्मविन
त्पर इत्यर्थः । अनेन नित्यानित्यवस्तुविवेको दर्शितः। विशेषण
ण वैराग्यमुक्तम् । विवेकवैराग्ययुक्तस्य शान्त्यादिः अर्थप्राप्त
मत्वा चरमं विशेषणमाह-मुमुक्षुरिति । 'तद्विज्ञानार्थ स
मेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्' इत्यादिशास्त्र
रन्नाह—विधिवदुपसन्न इति । प्रश्नप्रकारमेवाह-भगवनि
दिना, नैमित्तिक इत्यन्तेन ग्रन्थेन । संसारमोक्षविषयः
प्रश्नः, दुःखानुभवस्यात्मस्वभावत्वविषयोऽपरः किमयमित्यादिप्रश्न
विवेकः । प्रथमप्रश्नस्य निमित्तमाह-शरीरेति । शरीरेन्दिर
यनिमित्तवेदनानुभवो हि संसारः । तद्वान्सन् अहं कथं संसार
क्षिष्य इति । जागरित इति द्वितीयप्रश्नस्य बीजमुक्तम् । जाग्र
योः दुःखानुभवात् सुषुप्तौ च आत्मनि तत्तदननुभवात् संशयोत
मित्यर्थः । नैमित्तिक इति च पप्रच्छेत्यन्वयः । उभयत्र फलमा
यदि स्वभाव इत्यादिना ॥ ४५ ॥
अखभावपक्षमवलम्व्य गुरुरुत्तरं वदन् न भेतव्यं त्वयेति ।
आश्वासयतीत्याह-
तं गुरुरुवाच-शृणु वत्स, न तवायं स्वभावः । नै
त्तिकः ॥ ४६॥
तं गुरुरिति । किंत्विति मध्ये अध्याहारः कर्तव्यः ॥ ४
कृताश्वासः शिष्य उवाच-
इति उक्तः शिष्य उवाच-किं निमित्तं, किंवा
निवर्तकम्, को पा मम खभावः यस्मिन्निमित्ते निव
ते नैमित्तिकाभावः रोगनिमित्तनिवृत्ताविव रोगी व
प्रपद्येयेति ॥४७॥

। कारगम् २] पदयोजनिकाव्याख्या । किं निमित्तमिति । निमित्तनिवृत्तिमन्तरेण नैमित्तिकस्यात्यन्ति- निवृत्त्यनुपपत्तेः तत्स्वरूपमविदित्वा तत्परिहारायोगात् तस्य प्रश्न: ता, निवर्तकप्रश्नस्तु खभावपरिज्ञानेन तदवलम्बनार्थः । सुखदुःखा- मत्वस्य अस्वभावत्वोक्तो तर्हि किं खभाव आत्मेति, निःस्वभावं वस्तु स्तीति मन्वानः पृच्छति-को वेति । यस्मिन्निमित्ते निवर्तिते मित्तिकाभावः तकिनिमित्तं किं वा तस्य निवर्तकमित्यन्वयः । वशब्दो यथाशब्दार्थः । रोगी रोगनिमित्तनिवृत्तौ यथा स्वभावं तिपद्यते तथा दुःखनिमित्तनिवृत्तौ यं खभावमहं प्रतिपद्येय स को [ मम स्वभावः इति योजना, इति शिष्य उवाचेति संबन्धः॥४७॥ पृष्टवस्तुखरूपकथनेन उत्तरं गुरुरुवाच- गुरुरुवाच-अविद्या निमित्तं, विद्या तस्य निवर्तिका, विद्यायां निवृत्तायां तनिमित्ताभावात् मोक्ष्यसे जन्म- रणलक्षणात् , स्वप्नजाग्रदुःखं च नानुभविष्यसीति॥४८॥ अविद्येत्यादिना । सा अविद्या निमित्तं निदानं यस्य स संसारः निमित्तः तस्य अभावात् इति विग्रहः । तदा स्वमजागरितदुःखं | आत्मधर्मत्वेन नानुभविष्यसीत्यर्थः ॥ ४८ ॥ खरूपतोऽवगतपदार्थानां विशेषबुभुत्सया विनेयः पृच्छतीत्याह- शिष्य उवाच-का सा अविद्या, किंविषया वा, बेद्या च का यया स्वभावं प्रतिपद्येयेति ॥ ४९ ॥ शिष्य उवाचेति । वाशब्दश्चार्थे । किमाश्रया च सेत्यर्थः । मा प्रतिपद्येय । जाग्रदादावपि दुःखाद्यनुभवहीनमात्मतत्त्वं उप- पबेयेत्यर्थः ॥ ४९॥ . उ.सा.४ उपदेशसाहस्री। [कूटस्थाद्वयात्म तव खरूपावरणविपर्ययाध्यासलक्षणा त्वत्स्वरूपाश्रयविषया घेति प्रथमप्रश्नस्योत्तरं गुरुरुवाचेत्याह- गुरुरुवाच-त्वं परमात्मानं सन्तं असंसारिणं सं हमस्मीति विपरीतं प्रतिपद्यसे, अकर्तारं सन्तं क अभोक्तारं सन्तं भोक्तेति, विद्यमानं च अविद्यमान इयमविद्या ॥५०॥ गुरुरिति-परमात्मानं परिपूर्णखरूपं, विपरीतं परिच्छिन्न अहमस्मीति त्वं प्रतिपद्यसे इति प्रतिद्वन्द्वं योज्यम् । यन्निरि संसार्याद्यात्मतामेव प्रतिपद्यसे परिपूर्णत्वाद्यात्मत्वं विद्यमानम प्रतिपद्यसे, सेयमविद्या त्वदाश्रया त्वद्विषया चेति त्वदनुभवरि त्वं तु चिदानन्दैकरसः कूटस्थ इत्यभिप्रायः । विद्यमानं च मानमिति । नित्यं सन्तमनित्यमित्यर्थः ॥ ५० ॥ शिष्यस्तु आत्मनो नित्यत्वमुक्तत्वमङ्गीकृत्य असंसार्याद्यात्म आक्षिपति इत्याह- शिष्य उवाच-यद्यप्यहं विद्यमानः तथापि : मात्मा, कर्तृत्वभोक्तृत्वलक्षणः संसारो मम खभावः, क्षादिभिः प्रमाणैः अनुभूयमानत्वात् । न अविद्यानि अविद्यायाः स्वात्मविषयत्वानुपपत्तेः । अविद्या ना न्यस्मिन् अन्यधर्माध्यारोपणा-यथा प्रसिद्धं रजतं द्धायां शुक्तिकायां, यथा प्रसिद्धं पुरुषं स्थाणावध्य यति प्रसिद्ध वा स्थाणुं पुरुषे । नाप्रसिद्धं प्रसिद्ध चाप्रसिद्धे । नचात्मन्यनात्मानमध्यारोपयति आ - करणम् २] पदयोजनिकाव्याख्या । अप्रसिद्धत्वात् । तथा आत्मानं अनात्मनि आत्मनोऽप्र- सरत्वादेव ॥ ५१॥ जा शिष्य उवाचेति । प्रत्यक्षं अहंकर्तेत्यादिप्रत्ययः कर्तृत्वादिः यः धर्मत्वात् , रूपादिवदिति साश्रयत्वे सिद्धे न अचेतने सुख- नःिख पाषाणादौ तददर्शनात् , परिशेषात् चेतनाश्रयत्वसिद्धिरनुमानम् गुणान्ययो यः फलकर्मकर्ता कृतस्य तस्यैव सचोपभोक्ता ‘स एष स्वसेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः' इत्यादिरागमश्च आदि- शब्दार्थः । विपक्षे बाधिको युक्तिं संगृह्णाति-अविद्यायाः स्वात्म- पिवषयत्वानुपपत्तेरिति । अविद्यास्वरूपोपन्यासपूर्वकं संगृहीतमर्थ वृणोति-अविद्या नामेत्यादिना । मिथ्याज्ञानमेवाविद्योक्तेति विन्वानस्य अयमुपन्यासः । शुक्तिकायां अध्यारोपयतीति वक्ष्यमाण- आनुषङ्गः । एवं उत्तरत्राप्यनुषङ्गो द्रष्टव्यः । कस्मिंश्चिद्विषयभूतेऽर्थे न्यतः प्रसिद्धस्य विषयान्तरस्याध्यारोपो हि अविद्येति प्रसिद्धिः । 'त्र आत्मा यदि प्रसिद्ध एव स्यात् तदा तस्य अध्यासविरोधिप्रका- त्मिकत्वात् न तस्मिन् अतद्धर्मप्रतिभासः स्यात् । यदि अप्रसिद्धः दा विषयास्फुरणात् कुत्र अतद्धर्मप्रतिभासो भवेत् , तथाच कर्तृ- प्रादेः आत्मनि आविद्यकत्वानुपपत्तिः । अतः स्वाभाविक एवात्मनः मर्तृत्वादिलक्षणो धर्म इत्यभिप्रायः ॥ ५१ ॥ । तत्र अधिष्ठानाध्यस्यमानयोः पृथक् प्रसिद्धिमन्तरेण अध्यासा- प्रपपवेरिति ते मतं, किं वा प्रसिद्धिमात्रं विना इति विकल्प्य शन्स्या प्रसिद्धिमात्रस्याङ्गीकारात् इत्यभिप्रेत्य आद्यं निराकरोति- गुरुरुवाच-न, व्यभिचारात् । नहि वत्स, प्रसिद्ध सिड एवाध्यारोपयतीति नियन्तुं शक्यम् । आत्मन्य- व ५२ उपदेशसाहस्री। [ कूटस्थाद्वयात्म ध्यारोपणदर्शनात् । गौरोऽहं कृष्णोऽहमिति देहध अहंप्रत्ययविषये आत्मनि, अहंप्रत्ययविषयस्य च आ नः देहे अयमस्मीति ॥ ५२ ॥ गुरुरुवाच । न, व्यभिचारादिति । सुषुप्त्यादौ ३ न्यवभासमानेऽपि कर्तृत्वाद्याकारस्य अनवभासात् विशिष्टात्मनि त्वमेव प्रत्यक्षानुमानागमानामिति अविद्यात्मत्वाबाधकत्वमिति व्यम् । वत्सेति संबोधयन् अद्यापि त्वं बाल एव न न्यार व्युत्पन्न इति दर्शयति । अन्यत्र पृथक् प्रसिद्धमेव अन्यत्र प्र अध्यारोपयतीति नहि नियन्तुं शक्यते व्यभिचारात् इत्यन्त कुत्र व्यभिचार इति तत्राह-आत्मनीति । संग्रहं विवृणो गौरोऽहमिति । देहातिरिक्तात्मवादिभिः कृशोऽहमित्यादिदेहा भासः आत्मन्यहंप्रत्ययविषये । तस्य च देहे मनुष्योऽहं जाना वभासोऽपि अध्यासोऽङ्गीक्रियते । नहि देहात्मनोः पृथक्प्रसिद्धि अतः तत्रोक्तनियमभङ्ग इत्यर्थः ॥ ५२ ॥ यथा स्थाणुपुरुषयोः प्रसिद्धयोः अन्योन्यस्मिन्नध्यासः तथा मनोरपि इन्द्रियविषयत्वेन अहंप्रत्ययविषयत्वेन च प्रसिद्ध इतरस्मिन्नितराध्यासे विशेषाभावान्न व्यभिचार इति शङ्कते- शिष्य आह-प्रसिद्ध एव तात्मा अहंप्रत्यय यतया देहश्च अयमिति । तत्रैवंसति प्रसिद्धयोरेव स्मनोरितरेतराध्यारोपणात् स्थाणुपुरुषयोः शुक्तिक तयोरिव । तत्र के विशेषमाश्रित्य भगवतोक्तं प्रसि रितरेतराध्यारोपणेति नियन्तुं न शक्यते इति ॥

पकरणम् २] पदयोजनिकाव्याख्या । ५३ 'शिष्य आहेति । तथाच अहंकर्तृचिदात्मनोः पृथगवभासाभा- मातरेतराध्यास इति दान्तिकासिद्धिरिति भावः ॥ ५३ ॥ भाचार्यस्तु देहात्मनोः प्रसिद्धत्वेऽपि त्वदभिमतनियमस्तत्र ना. तीत्यभिप्रेत्य व्यभिचारं द्रढयतीत्याह- । गुरुराह-शृणु । सत्यं प्रसिद्धौ देहात्मानौ नतु स्थाणु- पुरुषाविव विविक्तप्रत्ययविषयतया सर्वलोकप्रसिद्धौ । कथं तर्हि नित्यमेव निरन्तराविविक्तप्रत्ययविषयतया । हि अयं देहः, अयमात्मा, इति विविक्ताभ्यां प्रत्यया- न्यां देहात्मानौ गृह्णाति यतः कश्चित् । अतएव हि गोमुह्यते लोकः आत्मानात्मविषये एवमात्मा नैवमा- मा इति । इमं विशेषमाश्रित्यावोचं नैवं नियन्तुं शक्य- मेति ॥ ५४॥ गुरुरिति । सत्यं प्रसिद्धौ देहात्माना तत्र शृणु विशेषमिति योजना ।-नत्विति । अविविक्तप्रत्ययविषयतया प्रसिद्धिमेवाभि- पयति-नद्ययमित्यादिना । तत्र लिङ्गमाह-अतएव हि मो- बुखते लोक इति । मोहातिशयमेवाभिनयति-एवमात्मेति । देह आत्मा, इन्द्रियाण्यात्मा, कर्ता आत्मा, अकर्ता आत्मा, व्यापकः, परिच्छिन्नः, सगुणः, निर्गुणः, इति लोकवादिविप्रतिपत्तेः सर्वो लोको मोमबमानो दृश्यते । विविक्ततयोपलम्भे तु इदं न स्यात्-इति अखिविशेष इत्युपसंहरति—इमं विशेषमिति । तस्मात् एकज्ञानो- परततया उपलम्भ एव अध्यस्यमानाधिष्ठानयोः सिद्धिः अध्यासे अपक्वते न पृथसिद्धिः-इत्यतः अहं कर्ता भोक्तेत्यपि अहं मनुष्य इतिवत्-याकारप्रतिभासादध्यारोपस्वसिद्धिरिति भावः ॥ ५४॥ .

उपदेशसाहसी। [ कूटस्थाद्वयात्मब ननु आत्माऽनात्मनोः उभयोरपि यदि अध्यासगोचरता अध्यस्तस्य मिथ्यात्वात् आत्मनः सत्त्वानुपपत्तिप्रसङ्ग इति शि शकते- ननु अविद्याऽध्यारोपितं यत्र यत् तदसत् तत्र यथा रजतं शुक्तिकायां, स्थाणौ पुरुषं, रज्वां स आकाशे तलमलिनत्वमित्यादि, तथा-देहात्मनो नित्यमेव निरन्तराविविक्तप्रत्ययतया इतरेतराध्यारो कृता स्यात् तदितरेतरयोः नित्यमेव असत्त्वे स्या यथा शुक्तिकादिषु अविद्याध्यारोपितानां रजताद नित्यमेव अत्यन्तासत्त्वंतद्विपरीतानां च विपरीतेषु त देहात्मनोरविद्ययैव इतरेतराध्यारोपणा कृता स्यात तत्रैवंसति देहात्मनोरसत्त्वं प्रसज्येत । तच्चानिष्टं वै शिकपक्षत्वात् । अथ तद्विपर्ययेण देहः आत्मन्य द्ययाऽध्यारोपितः देहस्यात्मनि सति असत्त्वं प्रसज्ये तच्चानिष्टं प्रत्यक्षादिविरोधात् । तस्मादेहात्मानौ ना द्यया इतरेतरस्मिन् अध्यारोपितो कथं तर्हि वंशस्तम् नित्यसंयुक्तौ ॥ ५५॥ नन्विति । यद्यदविद्याध्यारोपितं तत्तदसत् दृष्टं यथा शुक्ति रजतादीति व्याप्तिमुक्त्वा पक्षधर्मतामाह-तथा देहात्मनोरपी अनुमानं प्रयुङ्क्ते-तदितरेतरयोरित्यादिना । तत्र व्याप्तिपक्ष त्वसिद्धौ सत्यामिति यावत् । आत्मनि अनात्मा, अनात्मनि आत्मा नित्यमेवासन्भवितुमर्हति नित्यमेवेतरेतरत्राध्यस्तत्वात् शु

करणम् २]
पदयोजनिकाव्याख्या।
भादो रजतादिवत् रजतादौ शुक्तयादिवच्चेति । अवयवत्रयमभिधाय
पनयनिगमने निदर्शयति-तदेहात्मनोरिति । सिद्धसाध्यत्वशतां
राकरोति-तच्चानिष्टमिति । ननु नेतरेतराध्यासोऽजीक्रियते-
कात्मनोऽप्यसत्त्वप्रसङ्गः स्यात् , किंतु अन्यतराध्यास एव अन्य
लाजीक्रियत इत्याशङ्कते गुरु:- अथेति । तद्विपर्ययेण अनात्मा-
धेष्ठानविपर्ययेणेत्यर्थः । तदेव स्पष्टयति-देह इति । शिष्यो नि.
करोति-देहस्यात्मनि सतीति । यथा शुक्तिकादौ सत्येव नेदं
(जतं इत्यादिना तदसत्त्वं प्रतीयते तथा आत्मनि अहमवभासे सत्येव
देहस्यासत्त्वमनुभूयेत नह्यनुभूयते । अनुभूयत एव इत्युभ्यपगमः प्रमा-
विरोधादयुक्त इत्यर्थः । यस्मादेवं युक्तिं न सहते तस्मान्नाध्यास
त्युपसंहरति-तस्मादिति । कथं तर्हि अहं मनुष्य इत्यादिव्यव-
हारो लोकस्येति
गुरुः
शङ्कते -कथं तहीति । शिष्यो मीमांसका-
देमतमाश्रित्य संयोगसंबन्धादिति सदृष्टान्तमाह-वंशस्तम्भवदि-
ते । यथा वंशानां स्तम्भाना आधाराधेयभावेन परस्परं संयोगवि-
षे सति गृहमित्येकशब्दप्रत्ययगोचरत्वं एवं देहात्मनोरपि संयोग-
वेशेषात् अहं मनुष्य इत्यादिसामानाधिकरण्यव्यवहारगोचरत्वमि-
यर्थः ॥ ५५ ॥
सिद्धान्ती परिशेषेण इतरेतराध्यासं साधयितुं उक्तसंबन्धं ताव-
प्रत्याचष्टे-
स। अनित्यत्वपरार्थत्वप्रसङ्गात्-संहतत्वात् परार्थत्वं
मनित्यत्वं च वंशस्तम्भादिवदेव । किंच यस्तु परैर्दैहेन
तः कल्पित आत्मा स संहतत्वात् परार्थः । तेन
सस्तः परोऽन्ये नित्यः सिद्धस्तावत् ॥ ५६ ॥

उपदेशसाहस्री। [ कूटस्थाद्वयात्मबोध- न । अनित्यत्वेति । यत्संहतं तदनित्यं परार्थ च दृष्टं यथा वं- शस्तम्भादि, तथा यदि आत्मापि देहादिभिः संहत एव स्यात् तदा सोऽप्यनित्यः परार्थश्च स्यात् , तच्चानिष्टम् । अनित्यत्वे संघातात्मवा- दापत्तेः, परार्थत्वे च अचेतनत्वापत्तेरित्यर्थः । एवं परपक्षनिराकर- णेन अन्नित्यः खार्थश्चात्मा अभ्युपेय इत्युक्तं तदेवानूध आस्तिकैः सुदूरमपि गत्वा सोऽभ्युपगन्तव्य इत्यभिप्रेत्य स्वपक्षं साधयति-कि- चेति । तेन परार्थेन अनित्येन संघातेन लिङ्गेन परः संघातादन्यो विलक्षणः तावदात्मा नित्यः सिद्ध इति योजना । विमतः खविलक्ष- णशेषसंहतत्वात् गृहवत् इत्यर्थः ॥ ५६ ।। ननु सत्यं संघातादचेतनादन्य आत्मा तस्य संघातासंबन्धे अहं मनुष्य इति व्यवहारानुपपत्तेः तत्संबन्धो वाच्यः । तत्र संयोगवि- शेषस्यानङ्गीकारे तादात्म्याध्यासः संबन्ध इत्यायातम् , तथाच नि- रात्मवादापत्तिरिति प्रागुक्तं शिष्यः स्मारयति- तस्यासंहतस्य देहे देहमात्रतया अध्यारोपितत्वेन असत्त्वानित्यत्वादिदोषप्रसङ्गो भवति । तत्र निरात्मको देह इति वैनाशिकपक्षप्राप्तिदोषः स्यात् ॥ ५७ ॥ तस्यासंहतस्येति । तस्यासंहतस्य संघातसाक्षिणो देहे स्वस्मिन्न- ध्यस्ते इति योज्यम् । देहस्य खातव्येण सिद्ध्यनङ्गीकारादित्यर्थः । तथाच तादृशे देहे अध्यारोपितत्वेन हेतुना आत्मनो देहमात्रतया असत्त्वानित्यत्वादिदोषप्रसङ्गो भवति । तत्र एवं परस्पराध्यासाभ्युप- गमे सतीति यावत् । अध्यस्तस्य मिथ्यात्वनियमान्निरात्मको देहो निर्देहकश्चात्मेति शून्यवादप्रसङ्ग इत्यर्थः॥ ५७ ॥ किं शून्यवादप्रसङ्गात् तादात्म्यावभासस्य अध्यासनिबन्धनत्वं प्रकरणम् २] पदयोजनिकाव्याख्या। नेष्यते भवता, किंवा आधाराधेयभावादिसंबन्धस्य प्रामाणिकस्य तद्धेतोः सत्त्वात् इति विकल्प्य आद्यं निराकरोति गुरु:- न खत एवात्मनः आकाशस्येव असंहतत्वाभ्युपग- मात् सर्वेणासंहतः स च आत्मेति न निरात्मको देहादिः सर्वः स्यात् । यथाच आकाशं सर्वेणासंहतमिति सर्वन निराकाशं भवति एवम् । तस्मान्न वैनाशिकपक्षप्राप्ति- दोषः स्यात् ॥ ५८॥ न स्वत एवेति । अयमर्थः-देहादिर्हि रूपादिमत्त्वात्सावयव- त्वाद्वा घटादिवत् जडोऽपि सन् तद्विलक्षणचेतनात्मतयोपलभ्यते । ततश्च तप्तायःपिण्डवत् तस्य चेतनसंश्लेषो वक्तव्यः । तथा आत्मनः संघातसाक्षिणः चैतन्यमात्रस्वभावस्य निरवयवस्य आकाशवत् स्वतः- परिच्छेदाशुद्ध्यादिधर्मयोगासंभवात् देहसंश्लेषकृतः तस्मिन् तत्प्रति- भास इति वक्तव्यम् । तथाच इतरेतरधर्मसंसर्गितया उभयोरितरेत- राध्यासे अनुभवानुसारेणैव सिद्धे निरधिष्ठानस्यारोपस्य अदृष्टचरत्वात् आरोपज्ञाने स्फुरतोर्मध्ये यदन्योपरागमन्तरेण कदापि स्वातन्येण न स्फुरति तत्स्वरूपेणैवारोपितं भवति । यथा गगनोपरक्ततया स्फुर- न्मालिन्यादि, यत्तु तद्विपरीतं तदितरस्मिन् न स्वरूपेणारोपितं भवति, किंतु संसृष्टरूपेणैव यथा शुक्तीदमंशादिरूप्यादौ तत्रात्मनो देहायु- परागं विनापि सुषुप्त्यादौ स्वतःस्फुरणात् तस्य संघाते स्वरूपेण नाध्यासः, किंतु संसृष्टत्वेनैव देहादेस्तद्विपरीतत्वात् स्वरूपेणैवेति न अनित्यत्वादिदोषप्रसङ्गः चिदात्मनः । नापि देहादेर्निरात्मकत्वप्रसङ्ग इति न शून्यवादशङ्कावकाशः । देहस्य तु चैतन्याध्यासव्याप्ततया चिद्धर्माध्यारोपाधिष्ठानत्वमुपचर्यते इति न परस्पराध्यासपक्षे कश्चि- उपदेशसाहस्री। [ कूटस्थाद्वयात्मबोध- दोष इति स्वतोऽसंहतस्यात्मनः सर्वत्र सर्वदा विद्यमानत्वात् न संघालो निरात्मकः स्यात् । नाप्यात्मा अनित्यत्वादिदोषवान् स्यादित्यर्थः । आकाशस्येवेत्युक्तं दृष्टान्तं विवृणोति-यथाचाकाशमिति । खप- क्षदूषणोद्धारमुपसंहरति-तस्मादिति ॥ ५८ ।। तदेवं दूषणोद्धारेण इतरेतराध्यासं तादात्म्यव्यवहारहेतुं ग्राहयि- स्वा आद्यं विकल्पं नेिराकार्षीत् । इदानीं परमते दूषणमापादयितुं द्वितीयमुत्थापयति- यत्पुनरुक्तं देहस्यात्मन्यसत्त्वे प्रत्यक्षादिविरोधः स्या- दिति। तन्न।प्रत्यक्षादिभिः आत्मनि देहस्य सत्त्वानुपल- ब्धेः । नद्यात्मनि कुण्डे बदरं क्षीरे सर्पिः तिले तैलं भित्तौ चित्रमिव च प्रत्यक्षादिभिः देह उपलभ्यते । तस्मान्न प्रत्यक्षादिविरोधः ॥ ५९ ॥ यत्पुनरुक्तमिति । निराकरोति-तन्नेति । आत्मनि देहोऽ- स्तीत्येवं प्रत्यक्षं तावत् न संभवति । चक्षुःस्पर्शनाभ्यां देहस्य गृहीत. त्वेऽपि आत्मनः ताभ्यामगृहीतत्वात्, तद्हणाभावे च तत्रेदमिति ग्रहणानुपपत्तेः । ' पराश्चि खानि ' इति श्रुतेश्च नात्मा इन्द्रियवि- षयः । अतो न तस्मिन् देहसंबन्धः प्रत्यक्षः । अतएव नानुमाना- दिगोचरत्वमपीत्यभिप्रेत्य अनुपलब्धि व्यतिरेकदृष्टान्तैर्विवृणोति- नहीत्यादिना । आद्यः प्रत्यक्षस्य, द्वितीयोऽनुमानस्य, तृतीयोऽर्था- पत्तेः । नहि कुण्डे बदरवत् देहात्मानौ एकदेशसंलमावुपलभ्येते इत्युक्ते भित्तिचित्रयोर्भेदेनानुपलम्भेऽपि यथा आधाराधेयभावः तथा अत्राऽपीत्याशङ्कयाह-भित्तौ चित्रमिवेति । चित्राङ्किताया भित्तेः उपलम्भवत् देहाकाराहित आत्मा नोपलभ्यते । तथा सति मयि प्रकरणम् २] पदयोजनिकाव्याख्या। मनुष्यो देहोऽयमस्तीति व्यवहारः स्यात् । नतु मनुष्योऽहं स्थूलोऽह- मित्यादिरिति समुदायार्थः ॥ ५९॥ ननु सामान्यतो गृहीते विशेषतश्चागृहीते विषये विषयान्तराध्या- सो दृष्टः, तदिहात्मनः प्रत्यक्षाद्यविषयत्वे कथं तत्रानात्माध्यारोपः, अनात्मनि च कथमात्माध्यारोपः, तस्य अत्यन्तासत्त्वे इत्यभिप्रेत्य शिष्यः शङ्कते- कथं तर्हि प्रत्यक्षाद्यप्रसिद्धात्मनि देहाध्यारोपणा, देहे च आत्मारोपणा ॥६० ॥ कथं तहीति ॥ ६०॥ किं आत्मनः स्फुरणाभावात् तत्राध्यासो न संभवतीत्युच्यते, किं वा विषयत्वेन स्फुरणाभावात् , गृहीतसामान्यांशागृह्यमाणविशेषांशा- भावाद्वा । तत्र नाद्यः इत्याह- नायं दोषः । स्वभावप्रसिद्धत्वादात्मनः । नहि कादा- चित्कसिद्धावेव अध्यारोपणा न नित्यसिद्धौ इति निय- न्तुं शक्यं, आकाशे तलमलाद्यध्यारोपणदर्शनात् ॥६१॥ नायं दोषः । स्वभावप्रसिद्धखादात्मन इति । खप्रकाशस्या- त्मनः स्वमहिम्नैव स्फुरणादित्यर्थः । न द्वितीय इत्याह-नहीति । आकाशे अप्रत्यक्षेऽपीति शेषः । अनैन्द्रियकेऽप्याकाशे ऐन्द्रियकभ्र- मदर्शनात् अविषयेऽपि खतः स्फुरति आत्मनि विषयाध्यासो नासं. भावित इत्यर्थः । न चरमः । बहिरर्थेषु विद्यमानयोरपि सामान्यवि- शेषांशयोः अमिपैङ्गल्यादिवत् धूमादावध्यासं प्रति अतन्त्रत्वात् वरू- पमात्रेण स्फुरणं अध्यासविरोध्याकारणास्फुरणं च अधिष्ठानस्याध्यासे अपेक्ष्यते तदिहात्मनः खरूपतः स्फुरणेऽपि अनृतजडदुःखान्तवत्त्वा- ६० उपदेशसाहस्री। [ कूटस्थाद्वयात्मबोध- मात्मव्यावृत्ताकारेण वेदान्तजनितज्ञाने अध्यासविरोधिनि स्फुरणाभा- वात् अध्यासोपपत्तेः न कश्चिद्दोष इति द्रष्टव्यम् ॥ ६१ ॥ ननु अध्यासज्ञानाकारपरिणामः किं आत्मनः, उतानात्मनः, किंवोभयोः। नाद्यः । तस्य विकारित्वापत्तेः अनित्यत्वादिदोषप्रसङ्गात् । न द्वितीयः । अचेतनस्य तदनुपपत्तेः । अतएव न तृतीय इत्यभि- प्रेत्य शिष्यः पृच्छति- किं भगवन् , देहात्मनोः इतरेतराध्यारोपणा देहा- दिसंघातकृता अथवा आत्मकृतेति ॥ ६२॥ किं भगवनिति ॥ ६२ ॥ शिष्याभिप्रायं श्रोतुकामो गुरुः कस्मिन् सति किं स्यात् इति पृच्छति- गुरुरुवाच-यदि देहादिसंघातकृता यदि वा आत्म- कृता किं तत्र स्यात् ॥ ६३॥ यदीति । किं तत्र स्यात् तवेति शेषः ॥ ६३ ॥ स्वाभिप्रायं शिष्यः प्रकटयतीत्याह- इत्युक्तः शिष्य आह-यद्यहं देहादिसंघातमात्रः ततो ममाचेतनत्वात् परार्थत्वमिति न मत्कृता देहात्मनोः इतरेतराध्यारोपणा । अथाहमात्मा परोऽन्यः संघातात् चितिमत्त्वात् स्वार्थ इति मयैव चितिमता आत्मनि अध्यारोपणा क्रियते सर्वानर्थबीजभूता ॥ ६४ ॥ इत्युक्त इति । अनात्मनः स्वरूपेणाध्यस्तत्वात् निःस्वभावस्य तस्य अध्यासकर्तृत्वानुपपत्तेः ‘आत्मैव तत्कर्तेति खयमूहमानः अहम- वभासस्यात्मप्रत्ययत्वात् संघाते च तद्दर्शनात् स वा अहं अन्यो वा -

प्रकरणम् २]
पदयोजनिकाव्याख्या ।
-
अध्यासकर्ता इत्युभयत्र दोषमुपन्यस्यति-शिष्य आह-यद्यहमि-
त्यादिना । आद्ये पक्षे अध्यासकर्तुरभावात् संसारदर्शनं न स्यादिति
भावः । द्वितीये स्वयमेव खानर्थार्थ
प्रवृत्तत्वात्
अनिर्मोक्षत्वापत्तिरि-
ति भावः ॥ ६४ ॥
चिन्मात्राश्रयविषयानाद्यनिर्वचनीयाऽविद्यावेशवशात् चिदात्मैव
अविद्यापरिकल्पित अहंकारादिस्थूलशरीरान्तं आत्मत्वेनाभिमन्यमानो
मिथ्यैवाध्यासकर्ता इति प्रसिद्धिमुपगतः । परमार्थतस्तु कूटस्थ
एवात्मा । अविद्यानिवृत्त्या च संसारनिवृत्तिः, निद्रानिवृत्त्येव स्वप्न-
निवृत्तिरिति नानुपपन्नं किंचित्-इत्यभिप्रेत्य शनैःशनैरुक्तार्थ शिष्य-
बुद्धिमारोहयति गुरुरित्याह-
इत्युक्तो गुरुरुवाच-अनर्थवीजभूतां चेत् मिथ्याध्या-
रोपणां जानीषे मा कास्तिहि ॥ ६५ ॥
इत्युक्तो गुरुरित्यादिना । देहाद्यात्मभावनामनर्थार्थी चेत्
अवगच्छसि किमिति तर्हि तां न मुञ्चसि-अनर्थवीजभूता-
मिति ।। ६५॥
साक्षिणः कूटस्थत्वात् नानर्थसंबन्धः परमार्थतः इत्युक्ताभिप्राय
अनवबुध्यमानः शिष्यः प्राह-
नैव
भगवन्,
शक्नोमि न कर्तुम् । अन्येन केनचित्
प्रयुक्तोऽहं न खतन्त्र इति ॥ ६६ ॥
नैव भगवनिति । हे भगवन् , न कर्तुं नैव शक्नोमीत्यन्वयः ।
अनिच्छतोऽपि मे निवृत्त्यभावात् नाऽहं खतन्त्रः । अन्येन केनचित्
प्रेर्यमाण एव इति मन्ये इत्यर्थः ॥ ६६ ॥

३२ उपदेशसाहस्री। [ कूटस्थाद्वयात्मबोध- यद्येवं मन्यसे तदा चितिमत्त्वात्स्वार्थ इति मयैव इत्यादिनोक्तं, मृषेति गुरुः खामिप्रायं प्रकटयति- न तर्हि अचितिमत्त्वात् खार्थः त्वम् । येन प्रयुक्तः अखतत्रः प्रवर्तसे स चितिमान् खार्थः संघात एव त्वम् ॥ ६७॥ न तर्हि अचितिमत्त्वादिति ॥ ६७ ॥ ननु कथमहं संघातः ज्ञातृत्वात् इति शिष्य आह- यद्यचेतनोऽहं कथं सुखदुःखवेदनां भवदुक्तं च जा- नामि ॥ ६८॥ यद्यचेतन इति । भवदुक्तमिति । संघात एव त्वं इत्यादी- त्यर्थः ॥ ६८॥ मिथ्याध्यासप्रयुक्तकर्तृत्वाद्यवभासस्य देहेन्द्रियान्तःकरणगतचि- दाभासाविविक्ततया तद्विशिष्टात्मविषयत्वात् तस्य च अविवेकविवे- काभ्यां आत्मनः परतन्त्रत्वस्वतन्त्रत्वप्रतिभासगोचरत्वात् अविवेकनि- राकरणेन अस्य स्वरूपप्रतिष्ठाबुद्धिः संपाद्या इत्यभिप्रेत्य आचार्यः पृच्छतीत्याह- गुरुरुवाच-किं सुखदुःखवेदनाया मदुक्ताचान्यस्त्वं, किं वा अनन्य एवेति ॥ ६९ ॥ गुरुरुवाच किमित्यादिना ॥ ६९ ॥ शिष्यः पुनः स्वानुभवमनुस्मरन् उत्तरमाहेति दर्शयति- शिष्य उवाच-नाहं तावदनन्यः। कस्मात् । यस्मा- त्तदुभयं कर्मभूतं घटादिकमिव जानामि, यद्यनन्योऽहं - प्रकरणम् २] पदयोजनिकाव्याख्या। तेन तदुभयं न जानीयां, किंतु जानामि तस्मादन्यः । सुखदुःखवेदनाविक्रिया च खाथैव प्राप्नोति त्वदुक्तं च स्यात् । अनन्यत्वे न च तयोः खार्थता युक्ता । नहि चन्दनकण्टककृते सुखदुःखे चन्दनकण्टकार्थे घटोपयोगो वा घटार्थः। तस्मात् तद्विज्ञातुर्मम चन्दनादिकृतः अर्थः। अहं हि ततोऽन्यः समस्तमर्थ जानामि बुद्ध्यारूढम् ॥७०॥ शिष्य इति । नाहं संघातानन्यः तद्रष्टुत्वात् । यो यद्रष्टा न स तदनन्यः यथा घटद्रष्टेत्यर्थः । हेतोरप्रयोजकताशङ्कामनवकाशयति- यदीति । तेन इति अनन्यत्वहेतुना इत्यर्थः । नहि खयं स्ववेद्य किमपि भवति । स्वात्मनि वृत्तिविरोधात् , जडस्य च स्वप्रकाशतानुप- पत्तेः । स्वान्यष्टविषयत्वाभावे तदसिद्धिप्रसङ्गात् तद्व्यवहारलोपः प्रस- ज्येत इति भावः । उपनयनिगमने दर्शयति-किंतु जानामि तस्मादन्य इति । अनन्यत्वे विषयत्वानुपपत्तिरूपं बाधकमभिधाय शेष्यन्तराभावात् संघातस्य खशेषत्वापत्तिं बाधकान्तरमाह - सुख- दुःखेति । विक्रिया कर्तृत्वादिलक्षणा इत्यर्थः । वदुक्तं चति । असत्त्वानित्यत्वादिपूर्वोक्तदोषश्च प्रामोतीत्यर्थः । भवतु खार्थता इत्याशक्य विषयस्य स्वार्थत्वाभावं दृष्टान्तेनोपपादयति-नच तयो- रिति । सुखदुःखवेदनाविक्रिययोरित्यर्थः । द्रष्टुरात्मनो दृश्यादन्यत्वं शेषित्वं च उपपादितमुपसंहरति-तस्मादिति । ज्ञातुर्जेयसंबन्धमाह -बुयारूढमितिः ॥ ७० ॥ यद्येवं प्रतिबुद्धोऽसि वत्स, न तर्हि परप्रयुक्तता तव इति तत्त्व- मवबोधयत्याचार्य इत्याह- तं गुरुरुवाच- एवं तर्हि खार्थस्त्वं चितिमत्त्वान्न

६४
उपदेशसाहस्री। [ कूटस्थाद्वयात्मबोध-
परेण प्रयुज्यसे । नहि चितिमान् परतत्रः परेण प्रयु-
ज्यते-चितिमतश्चितिमदर्थत्वानुपपत्तेः समत्वात्प्रदीपप्र-
काशयोरिव । नापि अचितिमदर्थत्वं चितिमतो भवति,
अचितिमतोऽचितिमत्त्वादेव खार्थसंबन्धानुपपत्तेः । ना-
पि अचितिमतोः अन्योन्यार्थत्वं दृष्टम् । नहि काष्ठकुड्ये
अन्योन्यार्थ कुर्वाते ॥ ७१ ॥
तं गुरुरिति । ननु चितिमतोऽपि परार्थत्वं किं न स्यात् इति-
चेत् तत्र वक्तव्यं किं चितिमान् चितिमदर्थः, किंवा अचितिमदर्थ
इति । आद्येऽपि स्वयमेव खार्थः चितिमदन्तरार्थो वा । नाद्यः ।
एकस्मिन्नुपकार्योपकारकभावलक्षणस्य अर्थाथित्वस्यायोगादित्यभिप्रेत्य
द्वितीयं प्रत्याह-चितिमत इति । समत्वात् अन्योन्यस्मिन्नन्यो-
न्यकृतातिशयाभावादित्यर्थः । द्वितीयं दूषयति-नापीति । अचि-
तिमदर्थत्वं चितिमत इति पूर्वेणानुषङ्गः । अचितिमतो जडस्य
जडत्वादेव शेषित्वानुपपत्तेः इति हेत्वर्थः । माभूत्तर्हि अचेतनानामपि
चितिमच्छेषत्वं तेषां अन्योन्यार्थता किमिति न भवेत् । अतः
किमिति चेतनोऽध्यक्षः खार्थः कल्प्यते
इत्याशय
दृष्टविरोधान्मैव-
मित्याह-नाप्यचितिमतोरिति ॥ ७१ ॥
यदुक्तं चितिमतः चितिमदर्थत्वं नोपपद्यते समत्वात् इति तत्र
व्यभिचारं शकते-
ननु चितिमत्त्वे समेऽपि भृत्यखामिनोः अन्योन्यार्थ-
त्वं दृष्टम् ॥ ७२॥
नन्विति ॥ २ ॥

प्रकरणम् २] पदयोजनिकाव्याख्या । खामिचैतन्यस्य भृत्यदेह एव अचेतनभागः उपकरोति न तन्नि- रपेक्षं चिन्मात्रम् , तथा भृत्यचैतन्यस्य खामिदेह एव अचेतनभागः उपकरोति न चैतन्यमानं तथा दर्शनादित्यभिप्रेत्य परिहरति- नैवं-अग्नेरुष्णप्रकाशवत् तव चितिमत्त्वस्य विवक्षि- तत्वात् प्रदर्शितश्च दृष्टान्तः प्रदीपप्रकाशयोरिति । तत्रै- वं सति स्वबुद्ध्यारूढमेव सर्वमुपलभसे अम्युष्णप्रकाशतु- ल्येन कूटस्थनित्यचैतन्यस्वरूपेण यदि चैवमात्मनः सर्व- दा निर्विशेषत्वमुपगच्छसि । किमित्यूचिवान् सुषुप्ते विश्रम्य विश्रम्य जाग्रत्स्वप्नयोः दुःखमनुभवामि इति । किं अयमेव मम स्वभावः किंवा नैमित्तिकः इति च । किमसौ व्यामोहोपगतः किंवा नेति ॥ ७३ ॥ नवमग्नेरिति । तदेवं चेतनस्य अनन्यशेषत्वे सति तस्य ईश्वरा- त्मत्वं सिद्धं, अतः कूटस्थ एवात्मा इत्युपसंहरति-तत्रैवं सतीति । चितिमतः स्वार्थत्वमेव न परार्थत्वं सर्वदेति स्थिते सतीत्यर्थः । स्वबु- ध्यारूढमेव स्वाध्यस्तान्तःकरणवृत्तिकवलितमेव सर्वमध्यात्माधिभूता- दिलक्षणं संघातं अग्युप्णप्रकाशवत्स्वरूपभूतेन निर्विकारनित्यचैतन्य- खभावेनोपलभसे त्वम् । अतो नित्यमुक्तोऽहं न संघाताध्यासकर्ता न मे संघातधर्मसंसर्गोऽस्तीति स्वस्थो भवेत्यर्थः । ओमिति चेत् स ब्रूयात् तदा गुरुरेवं ब्रूयात् इत्याह-यदि चैवमिति । मोहादेवा- ब्रुवम् इतिचेत् स ब्रूयात् तदा तं प्रति गुरुणा वक्तव्यमाह- -किम- साविति ॥ ७३॥ ननु संसार्यहं दुःखी नित्यमुक्तखभावादीश्वरादन्यः इत्यादिभ्रम- उ.सा. ५ १६ उपदेशसाहस्री। [ कूटस्थाद्वयात्मबोध- हेतुः यो व्यामोहः अविवेकलक्षण आसीन्मम स इदानीं त्वत्प्रसादा- निवृत्तः परंतु कूटस्थचैतन्यखरूपेणेति यदिदं मम कूटस्थत्वमूचिवान् भवान् तत्र प्रतिविषयज्ञानकर्तृत्वात् कथं कूटस्थचित्खभावता इति संशयो जायते इति शिष्यप्रश्नमुत्थापयति- इत्युक्तः शिष्य आह-भगवन् , अपगतः त्वत्प्रसादात् व्यामोहः किंतु मम कूटस्थतायां संशयः कथम्-शब्दादी- नांखतः सिद्धिर्नास्ति अचेतनत्वात्-शब्दाद्याकारप्रत्ययो- त्पत्तेस्तु तेषाम् प्रत्ययानामितरेतरव्यावृत्तविशेषणानां नीलपीताद्याकारवतां स्वतःसियसंभवात् । तस्माद्वाह्या- कारनिमित्तत्वं गम्यते इति बाह्याकारवत् शब्दाद्याका- रत्वसिद्धिः । तथा प्रत्ययानामपि अहंप्रत्ययालम्बनवस्तु. भेदानां संहतत्वात् अचैतन्योपपत्तेः स्वार्थत्वासंभवात्- खरूपव्यतिरिक्तग्राहकग्राह्यत्वेन सिद्धिः शब्दादिवदेव असंहतत्वे सति चैतन्यात्मकत्वात् खार्थोऽपि अहंप्रत्य यानां नीलपीताद्याकाराणामुपलब्धेति विक्रियावाने कूटस्थ इति संशयः ॥ ७४ ॥ इत्युक्तः शिष्य आहेति । अपगतः व्यामोह इत्यनुषङ्गः संघातसाक्षिणो निर्विकारस्योक्तत्वात् कथं संशय इति तन्मुखेनै कूटस्थतामवगमयितुं गुरुः पृच्छति-कथमिति । संशयः इत्यनुषङ्ग शिष्यः स्वविदितमर्थं निवेदयति-शब्दादीनामिति । शब्दस्पर रूपरसगन्धास्तावद्विषयाः प्रसिद्धाः तेषामचिद्रूपत्वात् खतःस्फुर नास्ति इत्यविवादम् । कथं तर्हि तेषां स्फूर्तिरिति, तदाह-शब्द प्रकरणम् २] पदयोजनिकाव्याख्या । ६७ द्याकारप्रत्ययोत्पत्तेस्तु तेषामिति । सिद्धिरित्यनुषङ्गः । शब्दाद्या- काराणां प्रत्ययरूपत्वात् न स्वातिरिक्तग्राह्यता इति विज्ञानवादिमत- माशय मध्ये निराकरोति-प्रत्ययानामित्यारभ्य सिद्धिरित्य- न्तेन । इतरेतरं व्यावृत्तानि विशेषणानि शब्दाद्याकाररूपाणि येषां ते तथा । हेतुगर्भ विशेषणम् । प्रकाशखरूपत्वात् प्रत्ययानां खतएव परोपरागं विना नीलपीताद्याकारवत्ताया असंभवात् न प्रत्ययमात्रख- रूपाः शब्दादयः इत्यध्याहारेण योजना । परमत निराकरणमुपसंह- रति-तस्मादिति । बाह्याकारः शब्दादिरूपः इन्द्रियसंसृष्टः अर्थः निमित्तं येषां प्रत्ययानां तेषां भावो बाह्याकारनिमित्तत्वमिति विग्रहः । इत्यतः तस्मात् प्रत्ययानां बाह्याकारवच्छब्दाद्याकारत्वसिद्धिरित्यन्व- यः । चैतन्यात्पृथगाकारवन्तो ये शब्दादयः पराग्व्यवहारयोग्याः तत्कृताकारत्वात्सिद्धिः प्रत्ययानां न खत इत्यर्थः । एवं शब्दादीनां वि- षयाणां खव्यतिरिक्तप्रत्ययग्राह्यत्वं चेत् अध्यवस्यसि तर्हि प्रत्ययस्वरूपे विशेषाभावसिद्धेः कूटस्थत्वसिद्धिः इत्याशङ्कयाह-तथा प्रत्ययाना- मपीति । नहि विषयसंसृष्टतया भासमाना विषयाकाराः प्रत्ययाः खप्रकाशचैतन्यरूपा भवन्ति आगमापायित्वात् , किंतु अन्यसाक्षिका एव इत्यभिप्रेत्य तत्स्वरूपविशेष विशेषणनिर्देशेन कथयति-अहं- प्रत्ययालम्बनवस्तुभेदानामिति । अहंप्रत्ययालम्बनं वस्तु अन्तः- करणं ( अहंकरणं ) तस्य भेदा वृत्तिविशेषाः तदात्मकानामित्यर्थः । विमताः प्रत्ययाः न चित्स्वभावाः संहतत्वात् । संहतत्वं च आगमापायि- त्वात् शब्दादिवत् देहादिवद्वा । तथा विमताः खातिरिक्तग्राहकग्राह्याः अचेतनत्वात् शब्दादिवदेव इत्यर्थः । अतः परमाकाराभावात् प्रत्य- योत्पत्त्याद्यवस्थासाक्षी निर्विशेषश्चिदात्मा सिद्ध एवेति कुतः कूटस्थ-

६८
उपदेशसाहस्री। [ कूटस्थाद्वयात्मबोध-
तायां संशयः इति न वाच्यं इत्याह-असंहतले सतीति । यद्यपि
संघातादन्यः चैतन्यस्वभावः स्वार्थ एवात्मा, तथापि अहंप्रत्ययानां
अन्तःकरणवृत्तीनां नीलपीताद्याकाराणामुपलब्धा उपलब्धिकर्ता इति
हेतोः विक्रियावानेवायं कथं कूटस्थ इति मे संशय इत्यर्थः ॥७४ ।।
एवं चेत् दृश्यदर्शने विवेचयसि न तर्हि ते संशयावकाश इति
परिहरति-
तं गुरुरुवाच-न युक्तस्तव संशयः। यतस्तेषां प्रत्ययानां
नियमेन अशेषतः उपलब्धेरेव अपरिणामित्वात् कूटस्थ-
त्वसिद्धौ निश्चयहेतुमेव अशेषचित्तप्रचारोपलब्धि संश-
यहेतुमात्थ । यदि हि तव परिणामित्वं स्यात् अशेषख-
विषयचित्तप्रचारोपलब्धिन
स्यात्
चित्तस्येव स्वविपये।
यथा चेन्द्रियाणां स्वविपयेषु । नच तथाऽत्मनस्तव
खविषयैकदेशोपलब्धिः। अतः कूटस्थतैव तवेति ॥७५॥
तं गुरुरुवाचेत्यादिना । संशयायोगे हेतुमाह-यत इति ।
यः परिणामी चित्तादिः तस्य क्रमेण स्वविषयग्राहकत्वं च दृर
तयापकमात्मनः प्रत्ययसाक्षिणः सकाशाब्यावर्तमानं खव्याचं
परिणामित्वमपि तस्य व्यावर्तयति इति व्यापकविरुद्धोपलब्धेः कूटस्थ
त्वसिद्धौ निश्चय एव युक्तो न संशय इत्यर्थः । उक्तमेवार्थ व्यति
रेकव्याप्ति विवृण्वन्नुपपादयति-यदि हीति ॥ ७५ ।।
इदानीं प्रकृतिप्रत्ययार्थपर्यालोचनया उपलब्धा कूटस्थ इति विर
द्धमिति शिष्यः शङ्कामुद्भावयति-
तत्राह-उपलब्धिर्नाम धात्वर्थो विक्रियैव उपलब्ध
कूटस्थात्मता चेति विरुद्धम् ॥ ७६ ॥

प्रकरणम् २] पदयोजनिकाव्याख्या । तत्राहेति । उपोपसर्गस्य लभतेः धातोः कर्तरि तृचो विधानात् धात्वर्थस्य च क्रियात्वात् क्रियायाश्चोत्पत्तिविनाशवत्त्वात् तत्कर्तरि कथं क्रियाराहित्यमित्यर्थः ॥ ७६ ॥ क्रियैष प्रकृतिभूतधात्वर्थः । कतैव च प्रत्ययार्थः सर्वत्र मुख्य इति नास्ति नियमः । 'गडि वदनैकदेशे' सविता प्रकाशते सविता प्रका- शयतीत्यत्र व्यभिचारात् इत्यभिप्रेत्य प्रकृते धात्वर्थतत्कर्तृवचनस्योप- लब्धृशब्दस्य गौणार्थत्वमेव युक्तम् इत्याह गुरु:- न धात्वर्थविक्रियायां उपलब्ध्युपचारात् । यो हि बौद्धः प्रत्ययः स धात्वर्थो विक्रियात्मकः आत्मनः उप- लब्ध्याभासफलावसान इति उपलब्धिशब्देन उपचर्यते । यथा छिदिक्रिया द्वैधीभावफलावसानेति धात्वर्थन उप- चर्यते तद्वत् ॥ ७७ ॥ न धात्वर्थेति । संग्रहं विवृणोति-यो हि बौद्ध इति । बौद्धो बुद्धिपरिणामः प्रतिविषयं अयति गच्छतीति प्रत्ययः । ननु बुद्धेर- न्तःकरणस्य द्रव्यत्वात् तत्परिणामस्य च मृत्परिणामघटादिवत् द्रव्यत्वोपपत्तेः कथं क्रियात्वमिति तत्राह–स धात्वर्थो विक्रिया- त्मक इति । विशिष्टक्रियात्मक इत्यर्थः । नहि मृदादिवत् खाका- रतिरोधानेन अन्तःकरणपरिणाम इष्यते किंतु जलूकावत् आलोक- वद्वा संकोचविकासरूपेण । तादृशस्तु परिणामः परिणामिचेष्टारूपत्वात् तक्रियेति वक्तुं युक्तेत्यभिप्रायः । तस्याः क्रियाया उपलब्धिशब्दो. पचारे निमित्तमाह-आत्मन इति । आत्मनः खरूपभूता या उप- लब्धिः-'सत्यं ज्ञानं' 'विज्ञानधन एव' इत्यादिश्रुतिसिद्धा तस्या आभासो वहित्याप्तायःपिण्डस्य वयाकारत्ववत् चिदात्मव्याप्ततया उपदेशसाहस्री। [ कूटस्थाद्वयात्मबोध- चिच्छायापत्तिः तदेव फलं तदवसानः तत्पर्यन्त इतिकृत्वा उपलब्धि- शब्देनोपचर्यते इत्यर्थः । तत्रानुकूलं दृष्टान्तमाह---यथेति । अयं भावः-अर्थप्रकाशो हि उपलब्धिशब्दार्थः प्रसिद्धः स नार्थधर्मः अर्थानां जडत्वात् इत्युक्तम् । नाप्यन्तःकरणधर्मः तस्यापि करण- त्वात् , चैतन्यप्रकाशाश्रयत्वायोगात् , तथापि स्वयंप्रकाशमाननित्यचै- तन्यात्मनि अव्यवधानेन अहंतयैवाध्यासात् खसत्तायां प्रकाशाव्य- तिरेकात् आत्मचैतन्यव्याप्ताः तत्तदाकारा वृत्तीः कुर्वत् अन्तःकरणं उपलब्धा कर्ता प्रमाता भोक्ता इति च प्रमातृत्व-कर्तृत्व-भोक्तृत्व-अ- नुभवितृत्वव्यपदेशास्पदं भवति यथा अयःपिण्डो दहति प्रकाशय- तीति तद्वत् आत्मा आकाशवदविक्रियत्वात्कूटस्थोऽपि सन् तादृगन्तः- करणगतखाभासाविवेकात्तद्धर्मेः तदवस्थाभिश्च मिथ्यैव व्यपदिश्यते चतुष्कोणो वर्तुलः कृशः स्थूलो जातो नष्टः अग्निरिति यथा अयः- पिण्डगताभासाविवेकात् अमिः व्यपदिश्यते तद्वत् । तस्मात् अन्तः- करणस्य विकारिणः कर्तृत्वेऽपि उपलब्धेः क्रियमाणत्वाभावात् उपल. ब्धिस्वरूपस्यात्मनः सिद्धं कूटस्थत्वमिति ॥ ७७ ॥ तत्रोक्तमर्थ विशदीकर्तु दृष्टान्तस्य दार्टान्तिकाऽननुरूपत्वं शङ्क यति- इत्युक्तः शिष्य आह-ननु भगवन् , मम कूटस्थत्व प्रतिपादन प्रति असमर्थो दृष्टान्तः कथम् , छिदिः छेद्य विक्रियावसाना उपचर्यते-यथा धात्वर्थत्वेन तथा उप लब्धिशब्दोऽपचरितोऽपि धात्वर्थो बौद्धप्रत्ययः आत्मन उपलब्धिविक्रियावसानश्चेत् नात्मनः कूटस्थतां प्रति पादयितुं समर्थः ॥ ७८ ॥ - प्रकरणम् २] पदयोजनिकाव्याख्या। इत्युक्तः शिष्य आह नन्विति । उभयत्र प्रकृतिप्रत्ययार्थयोः औपचारिकत्वस्योक्तत्वात् कथं दृष्टान्तासामर्थ्यमिति गुरुराह-कथ- मिति । उपचरितत्वेऽपि उपलब्धुः विक्रिया दुर्वारा । यतः छिदि. क्रियासाध्यं द्वैधीभावाख्यं फलं विक्रिया, एवं उपलब्धिफलस्यापि फलत्वाविशेषात् साध्यतया विक्रियात्वोपपत्तेः कथं उपलब्धा कूटस्थः स्यात् इति शिष्यो दृष्टान्तासामर्थ्य उपपादयति-छिदिः छेद्येत्या- दिना । छिदिक्रियायाः छेद्यविक्रियावसानत्ववत् बौद्धो धात्वर्थः उपलब्धिशब्दोपचरितोऽपि आत्मोपलब्धिविक्रियावसानश्चेदिति यो- जना । छिदिक्रियायाः छेत्तकृतद्वैधीभावपर्यन्तत्ववत् आत्मकृतोपल- ब्धिविकारपर्यन्तः उपलब्धिधात्वर्थश्चेदित्यर्थः ॥ ७८ ॥ उपलब्धेः खरूपेणैव फलत्वं विवक्षित्वा दृष्टान्ताननुगुणत्वं अध्य- वस्यसि, किंवा उपाधिवशात् इति विकल्प्य आद्यं दूषयति- गुरुरुवाच-सत्यमेवं स्यात् यदि उपलब्ध्युपलब्धोः विशेषः । नित्योपलब्धिमात्र एव हि उपलब्धा नतु तार्किकसमय इव अन्या उपलब्धिः अन्यः उपलब्धा- च ॥७९॥ सत्यमेवमिति । विशेषो भेदः । नित्यशब्देन बौद्धमताया- वृत्तिः। मात्रपदेन भेदाभेदमतात् 'प्रज्ञानघन एव', 'प्रज्ञानं ब्रह्म' इत्यादिश्रुतिप्रसिद्धं हेतुमाह-हीति । एवकारल्यावर्त्यमाह-नतु तार्किकेति ॥ ७९ ॥ यद्येवं आत्मतत्वं कथं तर्हि धात्वर्थफलवत्त्ववचनमिति शिष्यः शङ्कते- - - ७२ उपदेशसाहस्री। [ कूटस्थाद्वयात्मबोध- ननु उपलब्धिफलावसानो धात्वर्थः कथमिति॥४०॥ नन्विति ॥ ८॥ उपाधिवशात्फलत्वोपचारोपलब्धेः न खरूपतः इत्युक्तं स्मारयन् पक्षान्तरमविरुद्धमित्याह- उच्यते-शृणु-उपलब्ध्याभासफलावसान इत्युक्तं किं न श्रुतं तत् त्वया, नतु आत्मा विक्रियोत्पादनावसान इति मयोक्तम् ॥ ८१॥ शृण्विति । अन्तःकरणवृत्तीनां आविर्भावतिरोभावधर्मकत्वात् तद्विशिष्टतया स्फुरणं अङ्गीकृत्य विषयस्थ चैतन्याभेदेन प्रकाशमान- वृत्तितत्स्थाभासाश्रयतया भासमानात्मा प्रमाता इत्युच्यते । कर्मेन्द्रियाणि अधिष्ठाय क्रियावत्प्राणप्रधानान्तःकरणलिङ्गगताभासा- विवेकात्कर्तेत्युच्यते । शुभाशुभकर्मोपस्थापितान्तःकरणपरिणामवि- शेषं तदविवेकात् स्वगतमिव पश्यन्नात्मा भोक्तेत्युच्यते । एतां सर्वामेव चित्तविलासावस्थां स्वरूपचैतन्यानुगममात्रेण साक्षादवभासयन्निव भासमानः अलुप्तप्रकाशः असंदिग्धः अवि- पर्यस्तः अविषयः साक्षी उपलब्धा ज्ञाता इति च व्यपदिश्यते । वृत्तिविनाशात् तद्गतचिदाभासस्यापि विलयात् तत्संस्कारसंभवे सति समयान्तरे पूर्वावगतविषयाकारस्मृतिवृत्त्युदये तद्गताऽभासद्वारा स एव स्मर्तेति व्यपदिश्यते । स एव तु चिदात्मा समस्तकार्यकारणप्र- पञ्चोपलक्षितः तदनुवृत्तसत्ताऽभेदेन सर्वाधिष्ठानमित्युच्यते । कारणो- पाध्यविवेकेन अलुप्तज्ञानशक्तितया च अन्तर्याम्यादिशब्दवाच्योऽपि भवति । तस्मात् केनचित् उपाधिना कचित् क्वचित् तथा तथा प्रकरणम् २] पदयोजनिकाव्याख्या। ७३ - व्यवहारास्पदत्वेन अविद्यावशात् भासमानोऽप्यात्मा स्वरूपतो निर्वि- कारो निर्धर्मकः असङ्गः कूटस्थ एवेति ॥ ८१॥ एतत्सर्वमभिप्रेत्य उक्तमर्थं प्रश्नमुत्थाप्य उपसंहरति- शिष्य उवाच-कथं तर्हि कूटस्थे मयि अशेषस्वविष- यचित्तप्रचारोपलब्धृत्वमित्यात्थ ॥ ८२ ॥ तं गुरुरुवाच-सत्यमबोचं, तेनैव कूटस्थतामब्रुवं तव ॥ ८३॥ शिष्य उवाच । कथं तहीत्यारभ्य तवेत्यन्तेन । तेनैव अशे- पखविषयचित्तप्रचारोपलब्धृत्वेनेत्यर्थः । अतः कुतस्तत्र तवानाश्वासो जायत इत्यभिप्रायः ॥ ८२ ॥ ८३ ॥ आत्मनो नित्यनिवृत्ताशेपखगतविशेषतया कूटस्थत्वे अवबोधिते अवबुद्धस्वरूपः शिष्यः खभ्रान्तिबीजमपश्यन् पृच्छति- यद्येवं भगवन् , कूटस्थनित्योपलब्धिखरूपे मयि शब्दाद्याकारबौद्धप्रत्ययेषु च मत्स्वरूपोपलब्ध्याभास- फलावसानवत्सु उत्पद्यमानेषु कस्त्वपराधो मम ॥४॥ यद्येवमिति । अथवा-बौद्धप्रत्ययाश्चेत् उपलब्ध्याभासफलाव- सानाः जायन्ते तदा तानात्मनि नित्यं पश्यतो मम कोऽपराध इत्या- क्षिपति-यद्येवमिति ॥ ८४ ॥ प्रश्नस्योत्तरमाह- सत्यम् नास्त्यपराधः किंतु अविद्यामात्रस्तु अपराध इति प्रागेवावोचम् ॥ ८५॥ सत्यं नास्त्यपराध इति । कथं तर्हि किं न श्रुतं त्वया-इति - -

७४
उपदेशसाहस्री।
[ कूटस्थाद्वयात्मबोध-
-
मामात्थेति शङ्कते-किंखिति । जिज्ञासोः तव प्रेक्षावत उक्तार्थान-
वधानं न आगन्तुकदोषनिमित्तकं संभाव्यते इत्यभिप्रेत्य मयोक्तमिति
परिहरति-अविद्येति । यद्वा आक्षेपं परिहरति-सत्यमिति ।
नास्त्यपराधस्तव खानुभवाप्रच्छादकत्वात् । कथं तर्हि त्वयोक्तं ममाना-
श्वासो जायते इति पृच्छति-किंखिति । अन्योस्तु अपराध इत्यु-
तरमाह-अविद्येति । तदेवं यथावदात्मनः खरूपानवभासावि-
द्यानिबन्धन एव संसारित्वं अधिकृतत्वं इत्यादि अतद्धर्मावभासः न
परमार्थोऽस्तीति उपपत्तितोऽवगमितमात्मनः कूटस्थनित्यत्वम् ॥८६॥
इदानी अवस्थात्रयसाक्षितया अवस्थाधर्मास्पर्शित्वेन पुनः कूट-
स्थतां प्रतिपादयितुमाक्षेपमुत्थापयति-
यदि भगवन् , सुषुप्त इव मम विक्रिया नास्ति कथं
खानजागरिते ॥ ८६ ॥
यदि भगवनिति । स्वप्नजागरिते ममेति शेषः ॥ ८६ ॥
त्वच्चैतन्यप्रकाश्यत्वात् न तव खभावभूते ते अवस्थे इति परि-
हरति-
तं गुरुरुवाच-किंत्वनुभूयते त्वया सततम् ॥ ८७ ॥
गुरुरुवाचेति-सततमिति । यदा ते भवतः तदा नानुभू-
यमाने भवत इत्यर्थः ॥ ८७ ॥
अनुभूयमानत्वमङ्गीकृत्य सततानुभवशब्दार्थमजानानः शिष्य
आह-
विच्छिद्यविच्छिद्य नतु
बाढम् अनुभवामि, किंतु
सततम् ॥८८॥

Minakaitri प्रकरणम् २] पदयोजनिकाव्याख्या । ७५ बाढमिति ॥ ८॥ तं गुरुराह- तं गुरुरुवाच-तर्हि आगन्तुके त्वेते न तवात्मभूते, यदि तवात्मभूते चैतन्यखरूपवत् खतःसिद्ध संतते एव स्याताम् । किंच खप्नजागरिते न तव आत्मभूते व्यभि- चारित्वात् वस्त्रादिवत् । नहि यस्य यत्स्वरूपं तत् तद्यभिचारि दृष्टम् । स्वप्नजागरिते तु चैतन्यमात्रत्वा- व्यभिचरतः । सुपुप्ते चेत् खरूपं व्यभिचरेत् तन्नष्टं नास्तीति वा बाध्यमेव स्यात् आगन्तुकानां अतद्धर्माणां उभयात्मकत्वदर्शनात् यथा धनवस्त्रादीनां नाशो दृष्टः स्वप्नभ्रान्तिलब्धानां तु अभावो दृष्टः ॥ ८९ ॥ आगन्तुके त्वेते इति । सुषुप्तौ आत्मस्वरूपे भासमानेऽपि तयोः अनवभासात् न आत्मनः स्वरूपभूते ते अवस्थे । अतो विच्छिद्य- विच्छिद्यानुभूयेते त्वया ते इत्यर्थः । विमते अनात्मभूते व्यभिचारित्वात् वस्त्रादिवत् इत्युक्त्वा व्यतिरेकेण एतदेव द्रढयति-यदीत्यादिना । चैतन्यमात्रत्वादिति । चित्स्वभावादित्यर्थः । यत्र यत् अनुभवगो- चरः तत्रैव चेत् तत् नानुभूयते तदा तस्य ध्वंसो बाधो वा स्यात् । उभयथापि तस्य न अधिष्ठानधर्मत्वं इति सदृष्टान्तमुपपादयति-सुषुप्ने चेदित्यादिना । नाशो ध्वंसः अभावो बाधः ॥ ८९ ॥ तत्र शिष्योऽतिप्रसङ्गं शङ्कते- नन्वेवं भगवन तन्यखरूपमपि भोगन्तुकं प्रासं । 10AL ७६ उपदेशसाहस्री। [ कूटस्थाद्वयात्मबोध- खप्नजागरितयोरिव सुषुप्ते अनुपलब्धेः । अचैतन्यखरूपो वा स्यामहम् ॥ ९॥ नन्वेवमिति । दृष्टि-श्रुति-मति-विज्ञातिलक्षणे हि स्वप्नजागरिते दृष्ट्यादिमत् चैतन्यमेव । अतो यदि सुषुप्तौ वमजागरिते नोपलभ्ये- चैतन्यमेव सुषुप्तौ नास्तीत्यात्मा आग- न्तुकचैतन्यो वा स्यात् अचैतन्यस्वरूपो वा गत्यन्तराभावादित्यर्थः९० ते इति तत्र ते न स्तः, तदा गुरुः परिहरति- न पश्य तदनुपपत्तेः । चैतन्यखरूपं चेत् आगन्तुकं पश्यसि, पश्य । नैतद्वर्षशतेनापि उपपत्त्या कलयितुं शक्नुमो वयम् , अन्यो वाऽचैतन्योऽपि संहतत्वात् पारायं अनेकत्वं नाशित्वं च न केनचित् उपपत्त्या वारयितुं शक्यम् । अवार्थस्य स्वतःसियभावादित्यवोचाम । चैतन्यखरूपस्य तु आत्मनः खतःसिद्धेः अन्यानपेक्षत्वं न केनचित् वारयितुं शक्यम् , अव्यभिचारात् ॥ ९१ ॥ नेति। नैवं । नैवं वक्तुमुचितमित्यर्थः । कथं इति चेत् तत्राह- पश्येति । पर्यालोचनयेत्यर्थः । वस्तुस्वभावे आलोच्यमाने चैतन्यस्य आगन्तुकत्वानुपपत्तेः नैवं वक्तुमुचितं इति वाक्यार्थः । ननु सुषुप्ते दृष्ट्यादिरूपस्य चैतन्यस्यादर्शनात् जाग्रदादौ दर्शनात् आगन्तुकमेव चैतन्यं पर्यालोचयामि इतिचेत् तत्र वक्तव्यं, किं निरुपाधिकचित्त. रूपमेवागन्तुकं पश्यसि, किंवा नयनादिद्वारकबुद्धिवृत्त्युपहितं, इति विकल्प्य आद्यं प्रत्याह-चैतन्यस्वरूपे चेदिति । अलौकिकप्रज्ञ- स्त्वं चेत् चैतन्यस्वरूपमागन्तुकं पश्यसि तर्हि पश्य, वयं तु न्यायप्र- माणकुशला अपि तचैतन्यस्वरूपमागन्तुकं द्रष्टुं घटयितुं बा न वर्ष-

प्रकरणम् ॥
पदयाजानकाव्याख्या ।
७७
शतेनापि शक्नुमः । अन्यो वा कश्चित् अचैतन्योऽपि मूढोऽपि न
शक्नुयादित्यर्थः । अयं भावः-चैतन्यस्य आगन्तुकत्वं चैतन्येन गृह्यते
किंवा अचैतन्येन। नाद्यः । स्वग्राह्यत्वे स्ववृत्तिविरोधात् । नाङ्गुल्य-
ग्रेण तदेव स्पृश्यते, असिधारया वा असिधारा छिद्यते, नापि अन्य-
चैतन्येन अन्यचैतन्यस्यागन्तुकत्वं ग्राह्यं अन्यत्वस्य अद्याप्यसिद्धेः ।
न द्वितीयः । जडस्य चिदधीनप्रकाशतया चित्प्रकाशत्वायोगात् ।
अतः चैतन्यं नागन्तुकमिति । श्रुतिश्च भवति-'यद्वैतन्न पश्यति
पश्यन् वै तन्न पश्यति नहि द्रष्टुर्दृष्टेविपरिलोपो विद्यते अविनाशि-
त्वात् नतु तद्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत्' एवमाद्यं कल्प
अनुपपत्त्या निराकृत्य द्वितीयं अचैतन्यापादनेन निराकरोति-सं-
हतवादिति । नयनादिद्वारकबुद्धिवृत्त्युपाधिग्रस्तस्य तु संहतत्वात्प-
रार्थत्वादिकं पूर्वमेवोपपादितमिति नेदानीमुपपत्तिर्वक्तव्या इत्याह-
इत्यवोचामेति । अत्रापि श्रुतिर्भवति-'न दृष्टेष्टारं पश्येन श्रुतेः ।
श्रोतारं शृणुया न मतेमन्तारं मन्वीथा न विज्ञातेर्विज्ञातारं विजा-
नीयाः' इत्याद्या । अस्मिंस्तु श्रुतिवाक्ये षष्ठयन्तशब्दवाच्यदृष्ट्यादेः
अन्यद्रष्ट्रव्याप्यतया अचैतन्यस्वभावत्वोक्तेः तदन्यो दृष्ट्यादिस्वरूप-
प्रकाशकत्वेन द्रष्ट्रादिशब्दनिर्दिष्टः साक्षी नित्यचैतन्यस्वभावः सिद्ध
इति उपसंहरति-चैतन्यस्वरूपस्य खिति ॥ ९१ ॥
-
उक्तमेवार्थ युत्तयन्तरेणोपपादयितुं शङ्कामुद्भावयति-
ननु व्यभिचारो दर्शितो मया सुषुप्ते न पश्यामी-
ति ॥ ९२॥
नन्विति ॥१२॥

उपदेशसाहस्री। [ कूटस्थाद्वयात्मबोध- उत्तरं संग्रहेणाह- न व्याहतत्वात् । कथं व्याघातः पश्यतस्तव न पश्यामि इति व्याहतं वचनम् । नहि कदाचित् भगवन् , सुषुप्ते मया चैतन्यं अन्यद्वा किंचित् दृष्टम् । पश्यन् तर्हि सुषुप्ते त्वम् यस्मात् दृष्टमेव प्रतिषेधसि न दृष्टिम् । या तव दृष्टिः तत् चैतन्यमिति मयोक्तम् । यया त्वं विद्य- मानया न किंचित् दृष्टमिति प्रतिषेधसि सा दृष्टिः त्वच्चै- तन्यम् । तर्हि सर्वत्र अव्यभिचारात् कूटस्थनित्यत्वं सिद्धं खत एव न प्रमाणापेक्षम् । स्वतःसिद्धस्य हि प्रमातुः अन्यस्य प्रमेयस्य परिच्छित्तिं प्रति प्रमाणापेक्षा । या तु अन्या नित्यापरिच्छित्तिः अपेक्ष्यते अन्यस्य अपरिच्छि- त्तिरूपस्य परिच्छेदाय सा हि नित्यैव कूटस्था खयं- ज्योतिःस्वभावा, आत्मनि प्रमाणत्वे प्रमातृत्वे वा न तां प्रति प्रमाणापेक्षा, तत्स्वभावत्वात् । यथा प्रकाशनं उष्णत्वं वा लोहोदकादिषु परतः अपेक्षते अग्यादित्या- दिभ्यः अतत्वभावत्वात् न अग्यादित्यादीनां तदपेक्षा सर्वदा तत्स्वभावत्वात् ॥ ९३ ॥ न व्याहतखादिति । व्याहतत्वमेव प्रश्नपूर्वकं विवृणोति- कथमित्यादिना । नहि कदाचिदिति पुनः शिष्यप्रश्नः। पश्यं- स्तहीति गुरोरुक्तिः । पश्यन् द्रष्टा दृष्टिमानेव त्वं सुषुप्त इत्यर्थः । यस्मादित्यादिः । तदुपपादनपरो ग्रन्थः स्पष्टार्थः। सुषुप्ते मया किंचिन्न दृष्टं इति उत्थितस्य परामर्शानुपपत्त्या सौषुप्तानुभवस्यावश्यंभावात् ,

Upadeshasahasri Pt. 1

Author
Shastri, Wasudev Laxmana, Ed.
Title
Upadeshasahasri Pt. 1
File name
Upadeshasahasri Pt. 1
Text
OCR done
Citation
1914
Published
2006/04/26
Publisher
Tukaram Javaji, Bombay
Language
Sanskrit
Pages
95
Library
Ramkrishna Mission Institute Of Culture, Golpark
Classification
Hinduism narrowly
DLI number
344981
Barcode
4990010216714.00
Scanning centre
C-DAK, Kolkata
Digital publisher
Digital Library Of India
Rights
In Public Domain
VMLT id
Oq92bvVxTeJ
Download PDF

Upadeshasahasri Pt. 1