Uttarpara Jaykrishna Public Library, Hooghly

Mukund Debatmani Darshanam

Tarkaratna, Panchanan · 2005/11/21

PDF Proofread

Front matter

श्रीरामः।
मुकुन्द वात्मनिर्शनम्।
(तंत्र)
वृत्ताख्यानम् ।
श्रीविश्वनाथचरणाम्बुजलनचेतो.
भूदेव-सेवन-रतस्य महामहिम्नः ।
गोविन्दवन्दननितान्तमुदो मुकुन्द-
दवस्य साधुचरितं परिशीलयामः ॥१॥
'मु'कोऽत्र जन्मनि यशोनिचये च 'कुंन्द-
कान्तो 'मुखोद्भव'कु'लोज्ज्वलतान्दधानः ।
भूदेव' नामचरमांशसमाप्तिपूतः
सत्यार्थवर्णविवृतः स मुकुन्ददेवः॥२॥
यः सत्यपालनरतः सकृदात्मवाचो
बतथ्यमा कटुपाकमुदाजहार।
मात्मस्तुतिन च विनिन्दनमन्यदीयं
भोजे सुखं वचसि यस्य पदं चबके॥३॥

मुकुन्ददेवात्मनिदर्शने मातोंऽपि यो नहि मुहर्तमपि खकर्म तत्याज-तीसचरितादिकथानुबन्धि । तस्योचहास्यबहुलास्यपवित्रभावं प्राणात्ययेऽप्यूविकृतं सततं स्मरामि ॥४॥ तातं पुराणमुनिमेष स मन्यमानः शानेच तश्चसिचाजनि तुल्यभक्तिः। रास्त्रार्थसंशयतमःशमने पुनस्तद्- वास्मीमबोधि निशि देवगृहे प्रदीपम् ॥५॥ कीति स पाठसमवे सुचरित्र-तर्क- प्रक्षाबलादि-जनितां किल यामवाप । दोषोज्झितकमविवृद्धगुणाभिमृष्टा सा निर्मला च महती च शनैर्बभूव ॥६॥ बुद्धया खया सहजया जनकोपदेश- ज्येष्ठानुवर्तनसदाचरितादरैश्च । उल्लेखनज्वलनवस्तुविशेषशक्ति- योगेन कानमियाज्ज्वलतां स लेभे ॥७॥ विद्याविश्वविदितोत्तमरत्नों नैवात्यगात् समुचितस्थितिहेरभावाम् । रोषामिमानविकलोऽपि पितुः स वाचम् नो लङ्कतेोजलनिधिः क्षुभितोऽपि वेलाम् ॥८॥ राक्षः स शासनविभागनिर ककम्मा प्रादेशिकोचपदमप्युपलभ्य साधुः।

वृत्ताल्यानम्।
न्याय्यात् पयो न विचचाल रहस्याज्ञा
लब्ध्वापि मुख्यपुरुषस्य विरुद्ध पाम् ॥ ६॥
प्राप्ते दिवं पितरि वत्सरमात्रपूर्ती
ज्येष्ठे च दारसहिते पितुरनिकस्थे।
एको बभार परिवारमनेकबालं
ज्येष्ठागतां धुरमपि स्वपदोचितां च ॥ १० ॥
कार्य पुरा यदभवद्विदुषां त्रयाणां
यत्नेन बुद्धिविभवेन तथार्जनेन ।
एकस्तदेव निरवर्त्तयदप्रमत्तः
शेषो दधाति धरणीधुरमेक एव ॥ ११ ॥
भूदेवदेवकृतदानविधिव्यवस्था-
संवादपत्रभरणप्रभृतिक्रियाणा।
प्रागवत् समाचरणमुन्नतिभिस्तु पूर्ण
तस्याभवत् प्रवसतोऽपि सतः सुबुद्धः॥ १२॥
तातापिरजसताङ्कमनुप्रपन्नो
गोविन्द त्तिमकृताग्रजनामपुण्याम् ।
तत्सम्मतां च 'वड़मा भिधवृत्तिमन्यां
तहारमङ्गलफलस्मृतिशुद्धिहे. म् ॥ १३ ॥
धर्माय स प्रियममन्यत मातृभाषा-
संसेवनं न यमसेन तथा धनाय ।
वित्तं पसेपकृतये न निजोपभुक्कैथ
चित्तं च साधुमननाय न दुःस्पृहायै ॥ १४॥

मुकुन्ददेवात्मनि-गन कार्येषु तस्य सुमहत्वपि नीरवत्वं प्रन्ये स्वयविरचिते न च कर्तृनाम । इत्यात्मरप्तिसहितेऽखिलसाधुकृत्ये गाढ़ग्वृत्तिात्र मुदुर्लभाच ॥ १५ ॥ अन्यैरभीप्सितपदापशक्तिपूर्णा- दादाय मोऽवसरमज्झितकालवृद्धिः । काश्यामुवास निजधर्मरतो मनखी पुत्रादिशोकमपि दुविषहं स लेहे ॥ १६ ॥ काशीनिवासिबुधले नयोग्ययागां भूदेववृत्तिमकरोदय उमालेवार । स्वर्गीयपुत्रचरिताभिध-सोमदेव- सत्कर्मभाण्डनिमयं च बहुप्रबन्धम् ॥ १७ ॥ तन्मूलसंधितमवान्तरकोषजा सर कम्मसाधनमथास्य रहस्यदानम् । वैदुष्यमार्जवमनाविलदेशधर्म- भक्तिश्च विश्वहिततां स्फटयां 'वुः ॥ १८॥ चूडामणेरभिमतोचित धर्मशास्त्र- कोषो पपादनविधौ वसुवर्षणेन । प्रोत्साहनेन समुपक्रमणेन चासीत् सब्रीहिजन्मति पयोद वाघ हेतुः ॥१६॥ शोकेषु कर्ममुरुता तदुदीर्ण खेदे कर्तव्यगौरवमतिश्च शमाय जड़े।

वृत्ताल्यानम्। योऽयं शमः स शमनेन समो नहीनो (१) ध्याधि व्यवत्त दि तस्य बलाबलोपः ॥२०॥ प्रायरलक्षितमयामयमेनम प्तः शारीरशक्तिमुपचेतुमना यथेषम् । व्यायाममध्वारिलबनजं चचार तस्मात् फलं शुभमयं न पुनः स लेभे ॥ २१ ॥ तस्मिन्नदत्तहदयो निजकार्यजात- सम्पादनाय नियतं त्वरितो बभूव । व्याधिः स्फुटोऽजनि बहुप्रसरस्तथापि तत्याज कर्म न कदापि स कर्मवीरः ॥२२॥ एवं विनिजितबहिबलताविलक्षो व्याधिर्बभूव हदि तस्य पुनर्निगढ़ः । मायाविनां प्रकृतिरीश्वरनिर्मितेयं मेघावृतोऽकृत रणं किल मेघनादः ॥२३॥ इत्थं रुजा विवृतसंवृतघोरमूर्त्या नीतोऽवसावमुचितामृतसारशेषः । मासीत् शशीव पितृतृप्तिकृतां क्रियाणां निवर्सको मलिनपक्षमनुप्रपत्रः (२) ॥२४॥ (१) शमः शमनेन समः हीनो न, अथ च-न-हीनः नका. रमात्रेण हीनः शमन-शब्दो नकारहीनः शमो भवति । (२) शशिनोरोगः पौराणिककयापासखः। उचिता- तला- रोष उचितः योग्यायामासुतं मग पन्तस्थायी सारा अथवा मु देवात्मनिदर्शने कल्कातया न हि विनेशदुर्बलत्व- व्याधेश्चिकित्सितमलक्षि फलोपधादि। तष गम्यमचिराद्भवतेतिवाचं स स्वैर्जनैरभिहितामपि नाभ्यनन्दत् ॥ २५॥ "श्रीस्वामिपादशुभसङ्गति-तर्करत्न- चूड़ामणि-प्रणयमेलनजां मुदं याम् । काश्यं भजामि मदनामयतृप्तिहेतुं नान्यत्र सेति कथयन् न जहौ स काशीम् ॥२॥ क्रीतं मया भवनमाशु दिडक्षमाणो यो दुबलोऽपि दयिता-तनया-सहायः। आगत्य सायमधिक: सातगालो मूच्छासिवाए स ततः स्वसुखं जगाद ॥ २७॥ यःअमृतसारः अमृतस्य मृत्युपर्यन्तमप्राप्तस्य सारः स्थिरांशः यस्य स्थिरांशस्य सत्ता प्रामृत्यु तिष्ठति तन्मात्रशेषः । शशिपक्ष कृष्णप्रतिपदादिर कलाक्षयेण अमृतक्षपाद्यत्र तिथौ यथा- तस्थितिक्षचता तन्मात्रशेषः। मलिनपतं विषाणस्वजनं कृष्णपक्षं च । कृष्णपक्षो हि पितृकर्मयोग्यः । अर्थान्तरं चभाव्यम्॥ • स्वामिपादाः श्रीभारतधर्ममहामण्डलप्राणभूतश्रीस्वामि- जाः। चूड़ामणिमहामहोपाध्यायः श्रीन चरणका "चूडामणिः । तर्करनः मूलरचयिता ॥

वृत्ताख्यानम् । शीर्ष निधाय शिथिलं प्रतनी मदके चूडामणेः करपरीततनुः शवानी कालं कियन्तमतिवाय शनैरवादीत् "मप्रासाप्रशयनीयसुखं मातम्" ॥ २८ ॥ तस्यास्मदर्थविपुलश्रमदर्शनेन खेदं हियं च न लभेय यथा तथोक्तिम् । युक्तां चकार तदनुस्मृतिलब्धखेदो हा व्यर्थमद्य विलपामि तदुज्झितोऽहम् ॥ २६ ॥ यो रोगगोकमलिनोऽपि सुदुःखितोऽपि दृष्ट्वैव माशजनं सविधोपयातम् । चीरोगशोक इव हर्षविकस्वरास्यः सरसङ्कथाभिरनुरजयति स्म सद्यः ॥ ३०॥ योगीव सोऽवगतदेहविमुक्तिकालो भूदेवदेवचरितं त्वरितं समाप्य । कमान्तरं च विनिवेश्य यथार्हपात्रं प्रत्यक्षत स्वजनुषश्चरमप्रशान्तिम् ॥ ३१ ॥ यनिश्चिकाय कृतयेऽद्य तदह्नि तस्मिन् युक्तश्चकार न ररक्ष दिनान्तरार्थम् । काऱ्यांवोपदबन्धनखिनचेताः शान्ति न मृत्युसमये लभते मनुष्यः॥ ३२ ॥ सोऽचिन्तयत् प्रतिदिनं पितरौ सुतौ च ज्येष्ठादिकान् निजजनांश्च यदन्तिकस्थान् ।

न्वयात्मनिदर्शने तत्पादपागलं कुलदेवताया इष्टुं चकार चरम धुंधुड़ास्थमः ॥ ३३ ॥ "यासां सभक्तिकसमचनमात्मकार्य- मापूर्वपूरुषमवर्तत निर्वपलीकः । तासां न जनमहा कुलदेवताना- मस्मसमक्षमपि, यत् क्रियते परेण" ॥ ३४ ॥ इत्थं निवेध स बहिस्तदुपानिनीषर्षा व्यक्तीचकार दयितेषु जनेषु धीरः। काश्यां तदन्तिमविलाकनकामन स्था- मन्तः पुपोष सुकृतीत्यधुना तु विमः ॥ ३५॥ स्थानान्तरोपनयने गृहदेवतानां वारद्वयं किल बभूव महाननर्थः । तत् सन्तु ता निजगृहेविति शंसतः स्वान् संकल्पितं स्वमजहत् स सुधीरुवाच ॥ ३६ ।। "अस्मत्परोक्षमपरेण सता कथशित् पूजैकतश्च परतस्त्वशुभस्य शङ्का । पूजा च नोऽभिमुखमात्म-शापि वा स्या- देवं स्थितेऽत्र परमं चरमं वृखोमि" ॥ ३७॥ मामेकदा स विनिवेद्य समस्तवृत्तं सेवागसः प्रतिविधि समयान्य। तव्याहतिं निजजनामिमा चशंसन् शास्रोपदेशमवगन्तुमियेष मत्तः॥ ३ ॥ .

वृत्ताख्यानम्। 8 "धा चलाचलतया प्रतिमापतष्ठा या स्याश्चला नहि नदानयनं निषिद्धम् । योग्योऽत्र वाष्पशकटाहितशुद्धिकक्षा नैौर्वाश्रयस्तदनयोः परमोत्यकल्पः" ॥ ३९ ॥ श्रुत्वेति मामकवचः स विहस्य किश्चि- दूचे “सविघ्नसविलम्बगतिर्हि नौकर। वाप्पोययान मनुशक्तिविशोध्यकत- मालव्य" मित्या तथानयदीप्सितार्चाः॥४०॥ तदर्शनप्रगातिवन्दनपूर्णकाम- प्रायोऽखिलस्वजनमेलनया च तृप्तः । वैशाख शुक्लहरिवासर-कर्म तात- श्राद्धं विधाय चरम परमाबभाषे॥४१॥ "एकादशी स्वजनदुःखकरी मृतस्य न द्वादशीमपि तिथि वरयामि भद्राम् । यात्रासुमङ्गलकरी गुणभूमिमानां * मन्ये तिथिं प्ररणकर्मणि सुप्रशस्ताम्" ॥४२॥ स द्वादशोमपि तिथि स्ववशः सभाया- मामन्त्रितश्च मिलितश्च निनाय साधुः। * गुणभूमिमानां त्रयोदशीम् । अथ च गुणभूमिः गुण- गनं मानं परिमाणं यस्यास्तां सींशतो गुणवती नतु णतृतीयादिवत् पकांशतो विष्टिदुष्टाम्।

मुकुन्ददेवात्मनिदर्शने स्वोक्त दिने दिनमुखे क्रमशोऽवसन्नो निःस्नेहदीप बस प्रशमोन्मुखोऽभूत् ॥ ४३ ॥ प्रामाणनिर्यममधिप्रहरार्द्धमात्रे चूडामणि सविधमरगतमेव दृष्टुर। 'नन्वागतोऽसि कथयन्निति कण्ठदेशे प्रीत्या स बाहुविटपेन समालिलिंग ॥४४॥ श्रीविश्वरूपहरिदर्शनयोगमग्रयं चूड़ामणिप्रपठिवं श्रुतिसारभूतम् । गीतागतं प्रणिहितेन हृदा निशम्य खट्वाङ्गभूप इव शान्तिमगात् क्षणेन * ॥ ४५ ॥ भास्वन्मुखश्रियमवेक्ष्य भियेव मृत्यु- स्तस्यान्तिकं न समुपेनुमलं बभूव । मृत्युञ्जयेन विहितः प्रशमस्त्वमृत्यु- स्तं दुःखसंकुलभुवः स्वयमाजहार ॥ ४६॥ उच्चः स्वरेण वपुषा हसितेन चोचः प्रचः मुनिर्मलयशोभिरपि क्रियाभिः । अत्युश्चधाम समवाप महोश्चनामा नीचैः स्थिता वयमहो विधिना हताःम्मः॥४७॥ हा हा 'कुमार' 'सर' 'भास्कर' हाऽनुरूपे', * दिलीपापरनामा खट्वाङ्गो नाम राजामुहूर्तमात्रावशिष्ट- मायुर्निशम्य तत्क्षणात् परमात्मनिवेशितमना मुक्तिमगा- दिति पुराणकथा।

वृत्ताख्यानम् । हो यामवस्तदितरा न परं गुरुर्वः । देशस्य रत्नमपि यो हरता तमध दैन्यं न कस्य सुजनस्य कृतं विधात्रा॥४॥ यम्योपदेशवचनं श्रुतसत्यतं यस्यामला व्यवतिर्मुनिषूपलभ्या। सन्नित्यसेवनविलोकनपुण्यपुञ्ज- . भ्रष्टास्तु यूयमनुशोच्यदशां प्रपन्नाः ॥ ४ ॥ हा हा कुमारजननि ! त्वमभूहस्य लक्ष्मीर्मुकुन्दपतिसङ्गतिलाभभाग्यात् । तेनाधुना विरहिता सहसा च्युतश्री- रस्मारशां द्विगुणमाधिमुपादधासि ॥ ५० ॥ बन्धो मुकुन्द न भवान् परिशोचनाहः काश्यां विमुक्ततनुरक्षतपुण्यशीलः । भाग्याभवादशमहापुरुषप्रियत्वं प्राप्तास्ततो विरहिता वयमेव शोच्याः ॥५१॥ योगीन्दमिन्द्रमपहाय च कृष्णचन्द्रं * जीवामि यत्प्रणयदिव्यरसाभिषिक्तः । * योगीन्द्रः 'बङ्गवासी' संवादपत्रप्रतिष्ठाता योगीन्द्रचन्द्र- पमुः। इन्द्रः पञ्चानन्दादिप्रणेता 'बङ्गवासी'-रक्षकः सुप्रसिद्ध इन्द्रनाथवन्द्योगध्यायः। कृष्णचन्द्रः 'बङ्गवासी संपा चन्द्रवन्धोपाध्यायः ।

१२ मुकुन्ददेवास्थानिदर्शने हा हन्त सम्प्रति जही स च मां मुकुन्दो मृत्युञ्जय त्वमथ मा त्यज मामनाथम् ॥ ५२॥ चूडामणे ननु भवान् प्रशमप्रधानोऽ- प्येतच्छुचो गुस्वरेण निपीड्यतेऽद्य । शैलोपमोऽपि विटपी बलिनानिलेन प्रोन्मूल्मते तदिह तत्त्वमनुस्मरामः ॥५३॥ मुकुन्दमिलदङ्गता मम पुराणवादंगता प्रतीतिमुपपद्यतामपि नवीनशिक्षाभृताम् । इतीव मदनान्तकोऽवसितकाममक्षनजं विभूतिमपि विभ्रतं स्ववपुषा तमन्वयहीत् ॥ ५४ ।। जय त्रिजगदीश्वर त्रिपुरनाशन त्र्यम्बक त्रितापभयाजन त्रिगुण-सिन्धु-निस्तारक । त्रिविग्रह विनाशनी त्रिवपुषः कुरुष्वाध नो भवचरणपाजस्थिरमतीन् मुकुन्दप्रिय ॥ ५५ ॥ वृत्ताख्यानं समाप्तम्।

खण्डन-विद्यासागरीय-पंछिविचारः। अनष्टभूतिविदिताष्टभूति- मृत्युञ्जयो यो यमशक्तिवश्यः । स सर्व एकोऽर्द्धशिवश्च पूर्ण- शिवो भवो मे भवहानयेऽस्तु ॥१॥ शोकश्रमामयमये समयेऽपि यस्य प्रीतिः पुरा मम कृतिश्रवणेन जाता। तत्-सर्वदुःखपरिशुन्य-मुकुन्द-देव- सम्प्रीतयेऽध वितनोमि नवप्रबन्धम् ॥२॥ प्रसादिता न या पंक्तिः सहस्रमुखसूरिभिः । यत्नोऽयं तत्प्रसादाय श्रीपञ्चाननशर्मणः ॥३॥ अथ खण्डनखाद्यीयविद्यासागरीतिप्रथितव्याख्यायाः पंक्ति विशेषपरिष्कारार्थं प्रस्तूयते । सा हि पंक्तिः 'चौखाम्बासंस्कृतसिरियेस' इत्याख्यप्रन्थ- राशीनामेकाशीतितमखण्डीयखण्डनफक्तिकाविभजनात्यविद्या- सागरीतिप्रसिद्धटीकान्तर्गता व्याख्याता च सा प्रसिद्ध विदुष महामहोपाध्यायगङ्गानाथझामहोदयेन । तद्व्याख्यानं न समीचीनतया प्रतिभाति-तथाहि-"इयं पृथिवी सकर्तृकाकर्तृकवृत्तित्वरहितानेकाकर्तृकवृत्तित्वरहि- तानेकतन्निष्ठाधिकरणं मेयत्वाद् घटवद्” इति विद्यासागरीय मुकुन्ददेवात्मनिदर्शने पंक्तिस्तव्याख्यानं चैवम्-"अत्रानुमाने 'इयं पृथिवी' इति पतः 'सक काकर्तृ कत्तित्वरहितानेकाकर्तृकवृत्तित्यरहितानेकत. निष्ठाधिकरणम्' इसिाध्यम् , मेयत्वादिति हेतु: सकत्तृ का घटादयःअकका गस्नादयः पतदुभयवृत्तित्वरहितः अथच अनेके अकत्तृ काः परमाणव मात्मानो जात्यादय आकाशादयश्च तनिरूपितवृत्तित्वरहितं यदनेकंशब्दःघटत्वादिकं च [यतःशब्द आकाशरूपेऽकत्तू के वर्तते किन्त्वाकाशोऽनेको न भवति तथा च घटत्वमनेकेषु घटेष्वस्ति किन्तुघटा अकर्तृका न भवन्ति ] तनिष्ठो धर्मः शब्दगतः सकनुकत्वरूपः घटत्वनिष्ठो नित्यत्व- रूपः एतदुभयधर्मस्यान्यतराधिकरणत्वमत्र साध्यते” इति । अत्र प्राक् 'तनिष्ठाधिकरणम्' इतिसाव्यमित्युक्त चरमचा- ज्यतराधिकरणत्वमत्र साध्यते इति कथितं तयोः सामञ्जस्यं लक्ष- णाश्रयमन्तरेण न सम्भवति मच व्याख्याने लक्षणा युक्ता, द्राकरप्रमादश्वेदस्तु तावदन्यत्रावधीयताम् तद्यथा-प्रथम रहितान्तव्याख्याने रहित इति पुंलिङ्गनिर्देशः, द्वितीयरहितान्त- व्याख्याने च रहितमिति क्लोवलिङ्गनिर्देशः तस्माइहिता- न्तद्वयं नैकस्य विशेषणं किन्तु प्रथमरहितान्तं निष्ठः (धः) इत्यस्य द्वितीयरहितान्तमनेकमिति विगृहीतभागस्य चेति एवं स्थिते अनेकतन्निष्ठति गर्भस्थं 'तत्पदं व्यर्थमभिमता. म्वर्यबाधकं च । अनेकनिष्ठधर्मयोः सकर्तृकत्वनित्यत्वयोरम्यत. राधिकरणत्वस्य साध्यत्वे अनेकपदार्थेन निविशेषणकनिष्ठेत्य- स्यान्वये कर्तव्ये तत्पुरुषसमासान्तर्गन' तत्'पदस्य व्यवधा- खण्डन-विद्यासागरीय-पंक्किषिचारः। यकतया बाधकत्वात्। अत एव सामर्थ्याभावात् समामा- सम्भवश्च । चरममनेकपदमपि व्यर्थम् । नेकाकर्तृवृत्तित्व- रहितनिष्ठेत्यनेनैव शब्दनिष्ठसकर्तृकत्वस्य घटत्वादिनिष्ठनित्यः त्वस्य च लाभात् । अपिच द्वितीयरहितान्तदलमपि निष्प्र- योजनकं न च तदनुषादाने घणुकादीनां प्रहणसम्भवेन तनिष्टधम्मस्य तावदन्यतमत्वस्य लाभात् सिद्धसाधनमिति वाच्यं तदुपादानेऽपि अनेकाकर्तृकवृत्तित्वरहितं यदनेक घट- पटादि तनिष्ठत्वेन तावदन्यतमत्वस्य व्युदासासम्भवेन सिद्ध- साधनतादवस्थात् । द्यणुकानां परमाणुद्वयवृत्तितया द्वितीय- रहितान्तत्वविरहेऽपि द्यणुकघटपटाद्यन्वतमत्वस्य घणुके- विव घटपटादावपि वृत्तितया तथाविधानेकनिष्ठत्वाक्षतेः । न च तथाविधानेकमात्रनिष्ठ एव धम्मों विवक्षितः घणुक- साधारणान्यतमत्वस्य तथात्वाभावात्रोक्तदोष इति वाच्यं सकर्तृकत्वस्य द्यणुकसाधारणतया तस्य साध्यकोटी प्रवे शानुपपत्तेः। च निरीश्वरमते ध्यणुकादौ सकर्तृकत्वं नास्तीति न तस्य साध्यकोटिबहिर्भाव इति वाच्यं तन्मते तु अकर्तृकजन्ये हाणुकादौ सकर्तृत्वनित्यत्वान्यतराधिकर- णत्वाभावाद् व्यभिचारप्रसङ्गात् । प्रथमरहितान्तं तन्निष्ठध- म्मविशेषणमपि व्यर्थं न च वाव्यत्वादिकमादाय सिद्धसाधन वारणाय तत्, एवमपि द्वयणुकाधन्यतमत्वं परमाणुवृत्तिगन्ध- प्रागभावादिकं नित्यत्वं चादाय सिद्धसाधनस्य दुर्वारत्वात्। किञ्च सकतकत्वं नित्यत्वञ्चेतिवव सकर्चकमक कत्वं च मुकुन्ददेवात्मनिदर्शने साध्यकोटी प्रवेष्टुमीष्टे तथा च द्यणुकाङ्कुरादावकः कत्व- सिद्धावान्तरं दुरिम्, निरीश्वरमते द्वयणुकादावकरी - कत्वजन्यत्वयोरङ्गीकारात् । तस्मादनवबोधविधुरा विद्यासाग- रीयतत्पंक्तिव्याख्या। अथासौ परिष्क्रियते। इयं पृथिवीति व्यणुकाङ्कुरादिकं दृश्यमानभूमण्डलं वा सक कत्वेन विमता पृथिवीति समुदितार्थः घटपटात्मकपृथिव्याः पक्षत्वव्युद स य इयमिति विशेषणम्। सामानाधिकरण्येन सिद्ध- रवच्छेदावच्छेदनानुमिति पतिवन्धकत्वमिति प्राचां मतमादृत्यैव तद्व्युदासप्रयासः। यस्मिन् सका कत्वाकत्त कत्वयोरन्यत- रनिश्चयः नस्य पक्षत्वं न भवति सन्दिग्धसाध्यकस्यैव पक्षनौ- चित्यात् तदतिरिक्ता पृथिवी पक्ष इति बोधयितुमिमिति वा । रहितान्तद्वयमेकस्यैव विशेषणम्। विशेष्यदलञ्च अनेकत. निष्ठेति। तदर्थश्च एक्तनिष्ठभिन्नो धर्मः। एक एकव्यक्ति. मात्रस्वरूपं यत् तत्पदवाच्यं सकरी कं प्रकान्तेषु तस्यैव प्रथमोपस्थितत्वात् तत्र निष्ठो वृत्तिमानिति कर्मधारयगर्भ- तत्पुरुषः । न एकनिष्ठः अनेकनिष्ठः स च धर्मः अनेक सकतंकवृत्तिः सकर्तृ कत्वादिः, अकर्तृ कैक्मात्रवृत्तिः तत्तध्यक्तित्वादिश्च तदधिकरणत्वं साध्यम् नुगमायाधिकरणत्वग्वेशः । सकत्त काकत्तु कोभयनिरूपित. वृत्तित्वशुन्येति प्रथमरहितान्तार्थः एतहलानुक्तौ एकैकयणु- कादिन्यक्तिघटपटाधन्यतमत्वमादाय निरीश्वरमतेऽपि साध्य- : साध्या- १७ खण्डन-विद्यासागरीय-पंक्तिप्रसादनम् । सिद्ध्यार्थान्तरं, स्यात्।। तन्मते अणुकादेरकर्तृकत्वेऽपि तत्साधारणप्रागुक्तान्यतमत्वस्या कैकयणुकादिवृत्तितयानेका- कत कवृत्तित्वविरहार एकमात्रसकर्त कनिष्ठभिन्नत्वाच । तह- लोकौ तु निरीश्वरमते तथाषिधान्यतम्मवर सकत काकत कवृत्तित्वेन न साध्यकुक्षौ प्रवेशः । न च तहलोकावपि तन्मते अणुकाधकर कमात्रवृत्त्यन्यतमत्वमादायार्थान्तप्तादवस्ध्यमिति वाच्यं द्वितीयरहिवान्तदलेन तद्वारणात् । किश्व रितीयरहिता. तानुपादाने सकर्श कत्वमक कर चेति द्वयमेव साध्यकोटौ विशति ततश्च निरीश्वरमते घणुकादावकत्त पित्याध्या- यन्तिरं स्यात् तदुपादाने तु अकत कत्वस्यानेकाकतक- स्तत्वविरहाभावेन प्रहीतुमशक्यत्वात् नोक्तदोषः । परमा. एवादौ व्यभिचारवारणाय अनेकेत्यकत्तु कविशेषणम् । अने. तदित्यादिविशेष्यदलानुक्ती गन्धाधिकरणत्वमादाय सेद्धसाधनम् , तदुपादाने तु घटादिगन्धस्यैकसकतृक- नष्ठत्वात्तत्साधारणनिरूपकताकाधिकरणत्वस्य कोटौ लाभसम्भः । न चैकसक कावृत्तिर्यः परमाणुगन्धः निष्ठा या गन्धत्वावच्छिन्ननिरूपकता तनिरूपिताधिकरण- वस्य सर्वत्र पृथिव्यां सत्वात् सिद्धसाधनतादवस्थ्यमिति गच्यम् भनेकतनिष्ठेत्यनेन एकमात्रसकरी कवृस्य तित्वस्याधेि. करणतानिरूपकताय विशेषणतया विवक्षितत्वात् । गन्धत्वाव. च्छा निरूपकतायास्तत घटादिगन्धसाधारणतया तत्तद्घटी- देगन्धस्य चैकमासकरी कवृत्तिनयाग्रहीतुमयोग्यत्वात्ानन्ध- साध्य.

मुकुन्ददेवात्मनिदर्शने नेकनिष्ठेत्येवोच्यतां तेनैव गन्धादिव्यावृत्तिसम्भवे किं सकरी - कार्थकेन तदित्यनेनेतिचेन्न रहितान्तद्वयविशेषणकस्यानेकनिष्ठध- मस्य परमाण्वादावसत्वेन तत्र व्यभिचारात् । तदित्युक्ती च परमाएवादिनिष्ठतत्तयक्तित्वादेरेकमात्रसकरी कवृत्तिभिन्नत्वेन रहितान्तद्वयलभ्यत्वेन च साध्यमध्ये प्रवि:तया व्यभिचार- शङ्कानवकाशात् । न चैवमपि निरीश्वरमते घणुकादेर- प्यकर्तृकत्वेन तत्तद्व्यक्तित्वमादायार्थान्तरमिति वाच्यं त- दिति तत्पदेन सकर्तृकतया खाभिमतस्य जन्यमात्रस्य फलतः प्रक्रान्तत्वेनोपादानात् तथा चानकतन्निष्ठेत्यनेनानेकजन्य- निष्ठस्य धर्मस्य साध्यकोटो प्रवेशात् घणुकादिगततयक्ति- त्वस्य निरोश्वरमतेऽपि एकजन्यनिष्ठत्वेन व्युदासान्नार्था- न्तरमिति। अथवा तत्पदप्रयोगोऽयमापाततः, घणुकादिगत. तत्तद्यक्तित्वमादाय दोषः समुद्भाव्यते चेत् तद्वारणाय तत्- पदस्थाने जन्यगात्रं निवेशनीयम् । कल्पद्वय एवानेकजन्ये- त्यस्य एकमात्रजन्यभिन्नेत्यर्थः, घटद्वयं नैको घटः इति प्रत्य- यायणुकद्वये एकमात्रजन्यभिन्नत्वं वर्तत एवञ्च सकतं. कत्वमात्रस्य साध्यकोटौ प्रवेशः एतेन "सका केति प्रथमविशेष- णदले कृतिमजन्यार्थकत्सक केत्यत्र कृतिमदंशो विफलः जन्या- कर्च कवृत्तित्वरहितेत्यस्यैव-सम्यक्त्वात् , तद्वैफल्ये च द्वितीय- विशेषणदलविशेष्यदले अपि विफले द्यणुकादिमात्रवृत्तिधर्म- स्यापि निरीश्वरमते जन्याकर्तृकोभयवृत्तित्वेन धतुमरक्यतया समादायार्थान्तरासम्भवात् , स्वमते घणुकादेः सकर्तृ कत्व एव ।

खण्डन-विद्यासागरीय-पंक्तिप्रसादनम्। तवृत्तिधर्मस्य साध्यकोटौ प्रवेशात् तत एव फलतः सकर्तृ- कत्वस्य दत्र तत्र सिद्धिरिति न सिद्धसाधनापत्त्यवकाशः। निरोश्वरमते घणुकादौ अन्यत्वमफत्तू कत्वं चास्तीति तधर्म- स्य तन्मते साध्यकोटी न प्रवेशसम्भव इति भवत्येवान्तिमविशे- षणदलस्य विशेष्यदलस्य च वैफल्यम् । तस्मात् सकत्तु केत्यादि- प्रथमद तस्य कृतिमविशिष्टवृत्तित्वशून्येत्यों, वाच्यः, वैशि- ष्ट्यं च स्वजन्यनिरूपितत्वस्वाजन्यनिरूपितत्वोभयसम्बन्धेन । वृत्तित्वांशे कृतिमत एव सम्बन्धद्वयेन विशेषणत्वबोधनाय सकर्तृकाकर्तृ केति, न तु साध्यकोटौ कृनिमतो द्विधा प्रवेशः न वा वस्त्वन्तरस्य जन्यतानिरूपकतया प्रवेशः। एवञ्च सक- तृकाकत्तू केत्यत्र कृतिमज्जन्यस्य प्रकारविधया प्रवेशाभावेन कृतिमदंशवैफल्यं न शङ्कास्पदं भवितुमर्हति । सकृत्प्रविष्ट- कृतिमदंशमनुपादाय वस्तुमात्रप्रवेशे तु निरीश्वरमते तत्परमा णुजन्यत्वादिमात्रसिद्धयार्थान्तरं स्यात् तत्परमाणुजन्यत्वं हि तत्परमाणुविशिष्टवृत्तित्वशुन्यं भवति वजन्यनिरूपितचसम्ब- न्धेन तवृत्तित्वे तत्परमाणोः सम्बन्धित्वेऽपि स्वाजन्यनिरूपि- तत्वघटिततथाविधोभय सम्बन्धेन तस्यासम्बन्धित्वात् । किञ्च खमते सकत्र्तृकत्वस्य साध्यकोटावुपादानं न स्यात् सकर्तृक- त्वनिष्ठवृत्तित्वस्य कपालादिरूपवस्तुविशिष्टत्वेन शून्यान्तदलेन तबारणात , नचैवं चैत्रवैशिष्ट्यस्य निरुक्तोमयसम्बन्धेन सकत्तकत्वनिष्ठवृत्तित्वे सत्वात् कृतिमदंशप्रवेशेऽपि तद्दोष. तावस्थ्यमिति वाच्यं कृतिमद्विशिष्ट वृत्तित्वशन्यत्वात्मक- २२ मुकुन्ददेवात्मनिदर्शने सिद्धरुदीव्यत्वेन साक्षात् सकत्तु कस्बसाधनाय गुरुसाध्यानु- सरणात्, साध्यान्तरण प्रकृतसाध्यस्य गुरुशरीरस्याप्यन्यथा- कत्त मशक्यत्वात, दुरूहसाध्योपन्यासस्य युक्ततायाः प्राक् प्रतिपास्तित्वाच्च । अन्यथा क्षितिः सकत्त केति लघुसाध्यो- पेक्षा निर्बीजा स्यात् । नव नित्यानित्यसाधारणष्टान्तलाभाय तदुपेक्षा युक्तेतिवाच्यं प्रत्यक्षयोग्यघटादेष्टान्तत्बे सम्भवति परोक्षाणां दृष्टान्ततया लाभस्याकिञ्चित्करत्वादिति विशि- टैकसाध्यस्थापनप्रकाराः । अथ प्रकारान्तरम्। तत्र सकत्तू केत्यादिसाध्यनिर्देशवाक्ये प्रथमान्तपदत्रयमस्ति-तथाहि सकरी केत्येकम् , अकर्त्तक- वृत्तित्वरहितेत्यन्यत्, अनेकाकर्तृकवृत्तित्वरहितानेकतमिष्ठा- धिकरणमित्यपरम्। पूर्वंद्वयं पृथिवीविशेषणतया स्त्रीलि. ङ्गम् अन्त्यन्तु अजहल्लिङ्गम् । इति साध्यत्रयं पर्यावसितम् । चकाराद्यभावेऽन्यसमस्तविभिन्नपदाद् विभिन्नसाध्यबोधो ना- प्रसिद्धः, साध्यच्याप्यहेतुमान् पक्षः साध्यवानिति दीधितिव्या- ख्यायां गदाधरभट्टाचार्येण साध्यद्वयनिर्देशपक्षव्यवस्थापनात् । इयं पृथिवीसकत्तु का मेयत्वादित्येवोऽनुमानप्रदर्शकाकारःप्रक- तं कवृत्तित्वरहिता मेयत्वादित्यपरः अनेकाकर्त कवृत्तित्वरहिता- नेकतन्निष्ठाधिकरणं मेयत्वादितितृतीयः । अन्त्ययोः पक्षस्तु प्रथ- मवदेव।साध्यमिद्देशवाक्यानामसमस्तत्वे पक्षादिपदानामावृत्त्या न्यायघटकत्वसम्भवात्।नच मेयत्वं हेतुः सकरी कत्वादी साध्ये व्यभिचारी नित्यसाधारणत्वादिति वाच्यम् परिमेयस्वरूपमेयत्व- २३ खण्डन विद्यासागरीष पंक्तिपूसादनम् । स्य हेतुत्वात् , परिमेयत्वं च परिमातुं शक्यत्वं,तुलादिना सूत्रा- दिना वा मानसाधनेन निर्णयपरिमाणधिशेषत्वमिति फलितं तच सावयवद्रध्यमात्रवृत्तीति व्यभिचारासम्भवात् । स च गुरुत्वविशेषो वा परिमितिविशेषो वा श्रन्यो वा धर्मो यथा भवतु नित्ये नास्त्येवेति । ननु परिच्छिन्नपरिमाणवति गुरुत्ववति च परमाणौ तदभ्युपगमे बाधकामावाद् व्यभिचारतावस्थ्यम् तदवृत्तिपरिमाणादेः प्रकृतिप्रत्ययालभ्यत्वेऽप्युपादाने तु लाक्ष- णिकत्वापत्तिः, नव मातुंशश्यत्वं परमाणौ नास्ति अतीन्द्रियत्वा- दिति वाच्यं तथा सति तादृशमेयत्वस्यद्वयणुकेऽप्यभावेन भामा- सिद्धः यणुकस्याप्यतीन्द्रियत्वादित्यतः साध्यान्तरमाह अकर्तृ कवृत्तित्यरहितेति, अकत्तू कश्च वृत्तिश्च तयोर्भावः अक- कवृत्तित्वम् अकतं कत्वं वृत्तित्वञ्च तदर्थः तद्रहिता, वृत्ति- रिति कर्तरि तिन् । नित्यद्रव्ये वृत्तित्वराहित्यादुभयराहित्य वृत्तौ जन्यद्रव्ये अकरी कत्वराहित्यादुभयराहित्यं जन्यत्वेन वादिप्रतिवादिभ्यामङ्गीकृते द्यणुकादौ वृत्तिस्वरूपेअकरी कत्ववि- रहेणोभयाभावलिद्धया सकतुकत्वसिद्धिः। मेयत्वस्य केवला- न्वयिरूपल्यैव प्रसिद्धतया तथाविधहेतौ यत्साध्यस्याव्यभिचा. रित्वं तदाह अनेकाकर्ट कवृतित्वरहितेत्यादि। एकमात्राकरी के सकरी के च यद्वत्त ते एकैकपरमाणुघटान्यतरत्वमेकैक- जातिपटाद्यन्यतमत्वं समवायसकर्ते कान्यतमत्वादिकं तदेवानेकाकर्तृ कवृत्तित्वरहितम् अनेकतनिष्ठं च, अनेकनिष्ठं तनिष्ठं च पूर्वववन्द्वगभंसमासः, अथवा अनेकं तनिष्ठ- च मुकुन्ददेवात्मनिर्शने मिति कर्मधारयः, एकमस्यास्ति इस्येकमर्शमादित्वाद, अस्येति सम्बन्धश्चाधयत्वरूपः गुरोर्देशः निःस्वानां प्राम: इत्यादिवत् एकमात्राधिकरणकमितियावत् तन्न भवती. त्यनेकं नास्ति एकं यस्येति तु भट्टाचार्याः । तन्निष्ट. मित्यत्र तत्पदं वृत्तिस्वरहितपरम् । अनेकाकी कवृत्तित्व रहितेत्यत्र प्रक्रान्तेषुसमानाधिकरणयोरनेकाकर्तृकयोरनेकमात्र- प्रहणेनेतरस्याकी कस्य वर्जनं सिद्धमिति पारिशेयार , यदि बृत्तित्वरहितं तदपि नियमेनानेकाकरी कवृत्तित्वरहितम. करी नायरहितश्चेति प्रकर्षाव तत्पदेन वृत्तित्वरहित- मात्रग्रहणम् । तत्तु नित्यद्रव्यम् । वृत्तित्वरहितत्वरूपेण तस्य न्यायशरीरे प्रवेशः। एवञ्च व्यत्याविशेष्यदललभ्यत्वेऽपि भनेकाकर्त कवृत्तिवाहित्यरूपविशेषणविरहेण न सिद्धसाध- नादिप्रसङ्गः । एकैकनित्यद्रव्यमात्रवृत्तिधर्मतत्तदृष्यक्ति स्वादिनिरूपकताकाधिकरणस्वानामनन्तानाम: मितिविधेयत्व. व्युदासायानेकेति विशेष्यदलेऽन्तर्भावितम् । विधेयभेदेन पक्षतानुमित्योः काय्यकारणभावभेद इति प्राचां मतमाद कारणलाघवसम्पिपादयिषयैवेदम् । नचैवं घटत्यादौ व्यभि धारः, घटत्वमात्रवृत्तिधर्मस्थ अनेकनिष्ठत्वाभावाद् वृतित्व रहितनिष्ठाभावाच । घटत्वघटोन्यतरत्वादेवत्तिरवरहित- निष्ठत्वाभावात् घटत्वगगनाम्यतरत्वादेरनेकाकर्त कवृत्तित्वाच मगनयन्कान्यतरत्वस्य तु निवतरूपस्यामावति घटत्वे प्रमेयत्वस्य पत्तेरिति वाच्यम् भनेकाकरी केत्यत्राकर्षक २५ खण्डन-विद्यासागरीय-पंकिपूसादनम् । पदस्याकरी कपाल घटत्वगगनान्यतरत्वादेः कोटिप्रविष्टतया ब्यभिचारासम्मवात् । तद्द्वपाकघटान्य. तरत्वादेवत्तित्वरहितवृत्तित्वाभावान्नार्थान्तरादिशङ्का। एकैक- परमाणुव्यणुकान्यतरत्वस्य निरोश्वरखतेऽनेकाकर्तृवृत्तित्व- मिति न तन्मतेऽर्थान्तरं स्वमते तादृशाम्यतरस्वसिद्ध्यैव सक कत्वसिद्धिः। इति निरवद्यम् । पत् तु एतत्पंक्त्यर्थविवृतये मनोषिभिरनुयुक्तानां पूज्य. पाद-महामहोपाध्याय-राखालदासन्यायरनभट्टाचार्य महाशयाना- मद्वैतखण्डनपरिशिष्ट प्रकाशितं प्रतिवचनं "सकर्त कादिस्यात् साध्यत्रयबोधः तत्र प्रथमरहितान्तेनैकं साध्य बोध्यते तश्च कृति- मजन्ये तदजन्ये चोभषत्र वृत्सित्वरहितरूपम् अत्र कल्पे एतत् पृथिवीगततत्तध्यक्तित्वादेरपि साध्यान्तर्गततया प्राप्तत्वेन मत- द्वय एव क्लुप्तत्वेन सिद्धसाधनमित्यपरितोषेण कल्पान्तरमाह- तम् कल्पान्तरोयप्रथमसाध्यमनेकाकर्त्त कत्तित्वरहितानेकेत्य- न्तेन लब्धम् । साध्ये अनेकाकर्त कवृत्तित्वराहित्यविशेषणं तु पक्षीभूततत्पृथिव्यां सकरी कत्वसिद्धिप्रयोजनकम् , विशेष्यां- गानुपादाने पक्षगततत्तद्व्यक्तित्वरूपसाध्यघटकपदार्थमादाय सद्धसाधनम् । एवं च ईशानुमानात् साध्यताव- वेदकरूपेण तत्पृथिवीगगना िरूपनित्यव्यक्तयन्यतरत्वस्यैव पोऽनुमिति पयतया तत्पृथियां सुतरां सकतै कत्थ. लदिपश्यवसानः । ईशानुमितिश्चाकरी करयवृत्तित्व. जानं प्रति विरोधिनी, प्रवस्तमाकर्स कस्वशका कथमपि न २६ कुन्ददेवात्मनिदर्शने भवितुं 'प्रभवेत् । तत्पृथिव्यां अकर्त कत्वपदाववादमते प्रकृतसाध्यतावच्छेदकरूपेण पनघटान्यतरत्वस्यापि तादृशा- नुमानविषयतया प्राप्तत्वेन तत्राका कत्ववादिनामपीष्टसि- द्धिरित्यस्वरसात् कल्पातरमाह तदित्यादिना । तृतीयकल्पीय. साध्यन्तु अकषु कद्वयावृत्तित्वे सति तनिष्ठम् अर्थात् अकर्स क. निष्ठं प्रागभावाप्रतियोगिनिष्ठमितियावर न तु नित्यवृत्ति. धर्मास्तथा सति प्रागभावे व्यभिचारः स्या"-दित्यन्तम् तदनु- युजानानां मतिवैभवपरीक्षार्थं प्रौढ़िवादमात्रं न तु वास्तवम् । प्रतिज्ञादिघटितन्यायैकदेशस्यानुमानाकारतया प्रसिद्ध्या प्रकृ- तानुमित्यन्यूनानतिरिक्तबोधकवाक्यस्य प्रतिक्षात्वेन साध्यत्रय- वोधकैकवाक्यस्य प्रतिज्ञात्वासम्भवादनुमानाकारप्रदर्शनाय ता- दशवाक्यप्रयोगस्यायुक्तत्वात्, साध्यत्रयबोधकवाक्यस्य वि- शेषणकर्मधारयसमासत्वे प्रत्येकप्रकारकैकैकमुख्यविशेष्यक- बोधानुपपत्तः नहि शीतोष्णं जलमित्वतः शीतं जलमुष्णं जलञ्चेति वोधो भवति, भवति तु शीतोष्णं जलमित्येकमुख्य विशेष्यकविशिष्ट बोधः, समाहारद्वन्द्वाभ्युपगमे च ततोऽपि नैकैकमुख्यविशेष्यकप्रत्येकप्रकारकबोधः तथा सति सच्छिद्र- निच्छिद्रं घट इत्यपि प्रयोगः सच्छिद्रो घटः निश्छिद्रश्च घट इति बोधयन् साधुः स्यात् । किञ्च समस्तवाक्यस्यैक साध्यपरत्वे सम्भवति समासघटकवाक्येभ्यः खण्डशः साध्यत्रयबोध इत्येतारशकल्पनाया अन्याय्यत्वात् । अन्यथा पर्वतः पर्वतीयव हिमानित्यादावपि पर्वतीयत्वमात्रापच्छिम- २७ खण्डन-विद्यासागरीय-पंक्तिरसादनम् । पह्नित्वमात्रावच्छिशाध्ययोर्बोध: स्यात् । मया हा पक्षीभूत. ध्यणुकादावकत्र्तृकत्वसिद्ध्यार्थान्तराञ्च । अपिच द्वितीयकल्पे यत्किञ्चिद्ह्यणुकघटादिगतान्यतरत्वमादाय सिद्धसाधनं द्विती- यकल्पपरित्यागवीजतया स्वयमुपदर्शितं, प्रथमकल्पपरित्या- गवीज च पक्षीभूतधणुकादिगततत्तद्यक्तित्वमादाय सिद्ध- साधनमिति खयमुक्तम् । तथा च प्रथमद्वितीयुकल्पदोषस्तृती. येन परिहरणीयः न च तथा भवति,यतोऽकर्तृकद्वयावृत्तितन्नि- ष्ठाधिकरणत्वमत्र साध्यं तत्पदश्चाकर्तृवाचकं तस्य प्रक्रान्त- त्वात् । एवं स्थिते घणुकादिगततत्तद्यक्तित्वमादाय तयणु- कघटादिगतान्यतरस्वमादाय च सिद्धसाधनमत्र तदवस्थम्, न चाकरी कनिष्ठेतिविशेष्यदलस्थाकर्तृ कपदंप्रागभावाप्रतियोगिपरं तेनैव तदोषवारणंभवतीति वाच्यं साध्यनिर्देशे विशेष्यांशे साक्षा- दक कपदासत्वात् तत्पदस्य च सत्त्वात् तत्पदस्य प्रक्रान्तक- तिमदजन्यस्वरूपाकर्तृकबोधकतया प्रागभावाप्रतियोगिबोधक- त्वासम्भवात् ,नचकृतेमदनपघटकाजन्यस्य प्रक्रान्ततयातस्वैव प्रागभावाप्रतियोग्यर्थकत्वमितिवाच्यं तत्र जन्यताया अन्यथासि- ध्यनिरूपकत्वादिरूपायाः कृतिमदन्विततया प्रवेशात् प्रागभावा. प्रतियोग्यर्थकाजन्यस्य प्रक्रान्तत्वोभावात् । न च यद्यत् कृति. मदजन्यं तत् तत् प्रागभावाप्रतियोगीति वस्तुगतिमनुरुध्य तस्य प्रक्रान्तत्वमुच्यत इति वाच्यं सकर्तृकाकर्तृ केल्यादेः कृतिमद्- विशिष्टवृत्तिताशून्यार्थकत्वे तात्पर्य्यस्य प्रागुपवर्णितत्वेन कतिमदजन्यस्याप्रवेगदेवाजन्यस्य कथमपि प्रकान्तत्वासम्भ- कुन्द वात्मनिपरान बण्डनधिसागरांच-पंक्तिप्रेसादनम्। पांतू, सितायां वैशिष्टयं च सम्पनि पितत्वखाजन्य निरू- पितत्वोभयसम्बन्धेनेत्युक्तमधस्तात् । अन्यथा जन्याक कवृत्तित्वरहितेत्यस्य सम्यक्त्वेन प्रथमकृतिमदंशवैफल्यं स्यात् द्वितीयतृतीयकल्पा सरणं च निर्वाजं स्यात् पक्षोभू. तद्यणुकादिगततव्यक्तित्वस्य परमते जन्यवृत्तितयाऽक. कवृत्तितया च साध्यकोटावप्रवेशात् खमते तत एव तत्र सकतत्वसिः। किञ्च तदित्यादिना तृतीयकल्पः स्वयम- पन्यस्तः, तत्र तन्निष्ठाधिकरणत्वमानं लभ्यते, न तु अकर्तृक- इयावृत्तित्वे सतीति खोतविशेषणम् द्वितीयकल्पोकसाध्यता. वच्छेदकशरीरमावेशापारी कवृत्तित्वरहितस्य तदर्थकत्वे सम्भवत्यपि तृतीये तत्प्रवेशासम्भवात् । न च स्वयमेव पूरणेन तत्साध्योपन्यांस इति युक्तं निष्कृष्टकल्पतया कथि- तस्य चरमकल्पस्य द्रव्यत्वादिकमादाय प्रथमकल्पतोऽपि स्फु. टतरसिद्धसाधनादिदुष्टत्वे पोयाविशेषणेन तदुद्धाऽपि मूल. न्यूनताया वज्रलेपत्वात् । न हि तादृशं व्याख्यानं बहुमन्यते येन मूलापकर्षः स्यादित्यादिकं निपुणतरं विभावनीयम् । मनोरञ्जनवेदान्ततीर्थनार्थवुभुत्सुना। पृष्टस्य मे प्रतिवचो यदयं तस्य संग्रहः॥ शालतस्वानुसन्धानरससिन्धौ निमजतः। सर्गुिरुनिबन्धेऽपि क्षम्यं मे पाणिचापलम् ॥ भूदेवकर्मरक्षायै विहितानेकचेष्टितः । वन्ददयः प्रीतोऽस्तु मम कल्पनयानया ॥ इति कुन्ददेवात्मानेदर्शने खण्डनफक्किकापतिप्रसादनः । भाव-श्रीपश्चाननतकरतमाचार्यकृतं मुकुन्ददेवात्मनिदर्शनं समाप्तम् ॥

No text on this page.

Mukund Debatmani Darshanam

Author
Tarkaratna, Panchanan
Title
Mukund Debatmani Darshanam
File name
Mukund Debatmani Darshanam
Text
OCR done
Citation
1979
Published
2005/11/21
Publisher
Kashi
Language
Sanskrit
Pages
27
Library
Uttarpara Jaykrishna Public Library, Hooghly
Classification
Poem.Poetry.Verse
Keywords
Sanskrit - Stotra
DLI number
345345
Barcode
4990010226399.00
Scanning centre
C-DAK, Kolkata
Digital publisher
Digital Library Of India
Rights
In Public Domain
VMLT id
OqLdQIXtE1v
Download PDF

Mukund Debatmani Darshanam