Canegie Mellon Univeristy
Varavaramuni Shatakan' Savyakhyanama~
Front matter
No text on this page.
No text on this page.
No text on this page.
No text on this page.
No text on this page.
देवराजरामानुजदासस्य जीवनचरितसंडशिपः । अथ कोयं देवराजरामानुजदासः चैव जातिमानीतिजनक श्रीवरवरमुनिशतकं स- व्याख्यानं मुद्रापितमिति जिज्ञासायां तज्जीवनचरितं संग्रहेणोन्यते यद्यपि नाहं तेन तदीयेन शरीरसम्बन्धिना वा मनागप्यस्मिन् विषयेऽभिहितोऽस्मि तथापि देवान्मोहमयीपत्तन समा- गतेन मया 'श्रीभूतपुरादेवराजरामानुजदासेन सव्याख्यानं श्रीवरवरमुनिशतकं मुद्रणा- धे प्रेषितम्' इति श्रुतम्, व्याख्यानदिदृक्षाकुतूहलाकृष्टहृदयो मुद्रणालयं गत्वा दृष्ट्वा च व्याख्यानकौशलं तुष्टमना अभूवम्, अथ मुद्रापयितुरुपकारो गुणाश्च सद्यस्स्मृतिःथम- गच्छन्, ततश्च लब्धावसरः स्वयमेव "घुकुलतिलकमेक कलयतां कवीनां को दोषः स तु गुणगणानामवगुणः" “मौनद्रुहो मुखरयन्ति गुणास्त्वदीयाः' इत्युक्तप्रकारेण तद्गु- गैहटादाकृष्टहृदयो बाचालता नीतोऽस्म्यतोऽज्ञातप्राथमिकविषयोऽपीतस्ततोऽवगत्य कि- चिद्वच्मि ॥ अस्ति किल सुप्रसिद्धजयपुरनगरादत्तरस्यां दिशि प्रायेण दशयोजनदूरवात बाल- काभूयिष्ठेपि विविधसम्पत्परिपूर्णतमेऽतिधनाढयजनसमाकुले शेखावाटीति प्रसिद्धिमुपगते जनमनोहारिणि जनपढे तद्देशालंकारभूतं 'लक्ष्मणगढ' इति समाह्वयं नगरम् । “य- स्मिश्रीपूर्णमल्लो धनिकुलतिलको वैश्यवंशेऽवतीर्य श्रीकाञ्चीवादिभीकृद्गुरुकुलतिलका- नन्तसूरेः पदाब्जम् ॥ संश्रित्यानन्दपूर्णः समजनि सुमहदिव्यदेशं विधाय कैकय पुष्करादौ हारवरनिलये सात्वतीयं च चक्रे" तस्मिन् नगरवरे वैश्यवंशोद्भव "सवाईराम" इति शुभनामधेयात्पितुश्चन्द्राम्बरनन्देन्दुमिते ( १९०१) वैक्रमाब्दे लब्धजनिरयं कतिचिद्वर्षी- म्तत्र नीत्वा पितरि परलोकं प्रस्थिते श्रीरामनारायणाहृयेन स्वपितृव्येन सभ्रातको गुर्जरदेशालङ्कारभूतम् ' अमदाबाद' पत्तनं व्यापारार्थं समायातः । तत्र च स्वकुलो- चितन्यापारपरायणो न्यवसत, अथैकदाऽयं सभ्रातृकः स्वपितृव्येण रामनारायणेन सह मोहमयीपत्तनं गतः तत्र चाज्ञातसुकृतपरिपाकेन सर्वेऽपि श्रीवरवरमुनिपादुका- रत्नभूतश्रीवरदनारायणगुरुपरम्परान्तर्गतानां “मुम्बई' पत्तनगतश्रीनारायणवाटि- कास्थकंदाडै श्रीरामाचार्यस्वामिनां श्रीचरणकमलसमाश्रयणं प्राप्ताः "आचार्यों वेद- सम्पन्नो विष्णुभक्तो विमत्सरः" इत्यादिसदाचार्यलक्षणोपेतैः श्रीरामाचार्यस्वामिमि (६) जीवनचरितम् । रपि श्रीमहालक्ष्मीपुरुषकारपूर्वक परमवात्सल्येन परमकरुणया नारायण दयासिन्धो वात्सल्यगुणसागर !। एनं रक्ष जगन्नाथ बहुजन्मापराधिनम्” इत्यादिप्रार्थनापूर्वक भगवतोऽखिलेश्वरस्य श्रीमन्नारायणस्य शरणवरणतां नीत्वा कृतार्थीकृताः प्रायेणायं परमोपकारो महाभागवतस्य श्रीरामनारायणस्यैवेति तत इदानीमपि सर्वे कृतज्ञतया- तस्य महानुभावस्य महोपकारं सर्वदा स्मरन्ति ततश्च सर्वे श्रीरामानुजसम्प्रदायानुया- यिनः पारलौकिकोपदेशवृष्टिस्थिरीभावयोग्यनिम्नहृदयभूमयो जाताः । तत्र देवराज- रामानुजदासस्य कनिष्ठो भ्राता रामप्रपन्नरामानुजदासः रामनारायणरामानुजदासस्य पुत्रो मधुसूदनरामानुजदास इतीमे चत्वारः सुखेनाऽमदावादनगरे न्यवसन् । किञ्चित्का- लानन्तरं श्रीसम्प्रदायश्रीरूपां परमां वैष्णवीं श्रियं त्रिभ्योऽपि पुत्रेभ्यस्तुल्यां विभज्य रामनारायणरामानुजदासे परमपदं प्रस्थिते सति देवराजरामानुजदासप्रभृतय इमे त्रयोऽपि भ्रातरः परमसौहार्देन लौकिक्यां सम्पदि प्रारब्धमात्रमवेक्षमाणाः पारलौ- कियां वैष्णव्यां कैंकर्यरूपायां सम्पदि वृद्धिप्रयत्नपरायणाः क्रमेण वैष्णवीं सम्पद- मेव वर्द्धयाञ्चक्रिरे ! तत्र रसरामनन्देन्दुमितात् ( १९३६ ) वैक्रमाब्दादारभ्य पञ्चवर्षपर्यन्तं श्रीरामचरणस्वामि-मंगलिस्वामि-प्रभृतिपरमभागवतजनसहवासेनाहोरात्रं पञ्चरहस्यादिस्वरूपशोधकसरन्यकालक्षेपश्रवणमननादिना त्रयाणामपि हृदयालवाल- समुद्भूतो वैष्णवतारूपवृक्षाङ्कुरः समुल्लसितपल्लवो जातः, ततस्तस्मिन्नेवामदाबादपत्तने श्रीवैकुण्ठरामानुजदासप्रभृतिवैष्णवेभ्यः षोडशाब्दपर्यन्तम् आजन्मन षोडशाब्दास्त न्याचनभिलाषिणः श्रीशानुभवपुष्टस्य श्रीशठकोपसूरेः कृतिरूपरसामृतस्य पानेन स वैष्णवतावृक्षः श्रीशानुभवरसाऽमृतपुष्टः स्कन्धशाखाप्रशाखादिसम्पन्नस्सन पुष्पितो- व्यभवत, एवं रैबताऽचलप्रान्तगतखरारिपुरमठस्थश्रीरघुनाथस्वामिकृपयाऽप्येषां परमो लाभ आसीत्, एवमेव. तत्तत्समये तेषान्तेषामनेकेषां महात्मनां परमानुग्रहपात्राप्येतेऽ- भवन, परञ्च यत्समयमारभ्यतेषां गृहे वैष्णवताऽवततार तदाप्रभृत्येव श्रीवैष्णवसे- वाया अपि क्रमशो वृद्धिः समजनि सौभ्रात्रञ्चैतेषामुत्तरोत्तरं वाचामगोचरं समेधितम्, तदनन्तरं नाऽपि चैतेषां रसना कदापि वैष्णवदोषान् स्पृशति नाप्यन्यैर्वैष्णवदोषो- द्धाटनेपि कदाचिदेते वाचाप्यनुमन्यन्से प्राप्तेऽपि कथनप्रसंग एवं किल ते कथयन्ति जीवनचरितम् । यत्स्वकीयपापदृष्टिदोषेणैव निर्मलनिर्दोषेषु वैष्णवेष्वसन्तो दोषा भासन्ते यथाऽसदेव स्वभावधवले शंखे काचकामलादिदोषेण पतित्वमिति इत्येवमादिकान्तेषां वास्तवगुणान् यदा द्वारकादितीर्थपर्यटनपरा दक्षिणयात्रागमनागमनविधायिनो भागवता जनाः परस्पर- मेकेऽन्येभ्यश्च तत्र तत्र कथयाम्बभूवुः तदारभ्यते परमां प्रसिद्धिं गमिताः । ततश्च तदाप्रभृत्येवेतेषां गृहमपि श्रीवैष्णवानामावासस्थानमासीत् , तत एव च ये केचनोत्तर- देशयात्राटनाय निर्गतास्ते प्रायेण सर्वेऽपि स्वयमाचार्याश्चतुःसप्ततिपीठस्थेष्वन्यतमा अष्टदिग्गजवंशीया वा अन्ये केचनोत्तमवंशजाचार्यपुरुषा देवराजरामानुजदासस्य निवासस्थलं स्वचरणसरोजरजोभिः पावनीकृत्यैव गताः, तदनन्तरं क्रमेण सर्वेप्यनेक- वारं श्रीदक्षिणदिव्यदेशयात्रायां भगवतः पुरुषोत्तमस्य श्रीमन्नारायणस्य वैभवज्ञापका- नुत्सवान्संसेव्यात्मानं कृतार्थं चक्रुः । एवं दक्षिणयात्रापि तैः सकुटुम्बैरसकृदावृत्ता तया श्रीबदरिकाश्रमद्वारकामथुरामायाऽयोध्यावृन्दावनगोकुलश्रीपुष्करपुरुषोत्तमक्षेत्रायु त्तरदेशतीर्थयात्रापि बहुवारं सुविहिता, श्रीवृन्दावनादिदिव्यदेशेष्वतेषां भागवतसेवाफि सततमविच्छिन्ना यथोचितं प्रचलति । किञ्च लोकेऽन्येषां कुलपरम्परागतवैष्णव- ताशालिनां सप्तपूर्वपुरुषतो वैष्णवतांवतामपि नैतादृशी वैष्णवतासम्पत्तिर्याशी किलेतेषां वरीवर्तीत्यपि नाश्चर्यकरम् “ जायमानं हि पुरुषं यं पश्येन्मधुसूदनः । सात्त्विकः स तु विज्ञेयः सवै मोक्षार्थचिन्तकः” इत्युक्तप्रकारेण तेषामुत्पत्तिकालीनभग- वत्कटाक्षविशेषविषयत्वात, अपि चैतेषां पुरुषार्थचतुष्टयमपि साधनसम्पदमन्तरेणापि हस्तामलकतांगतमिवाभाति यथोक्तं महाभारते “या या साधनसंपत्तिः पुरुषार्थचतु- ष्टये । तया विना तदाप्नोति नरो नारायणाश्रयः" इति । अथ क्रमेणेतेषां भगव- द्विषयपरिचयमारभ्य भगवद्विषयनसामृतसिन्धुमीनायमानानां सतां भगवद्भक्तिपराका- ष्ठाभूता मुक्तिपथसंशयविध्वंसिनी भागवतभक्तिरुत्कूलप्रवाहा समवर्द्धत । अतस्तेषु "मुक्तिर्भवति वा नेति संशयोऽच्युतसेविनाम् । न संशयोऽस्ति तद्भक्तपरिचर्यारतात्म- नाम्" इति शाण्डिल्योक्तं सार्थकमिवाऽदृश्यत तदनन्तरमेते स्मरणीयाहोरात्रचर्यास्सम- जनिषत । .. परमेतेषु त्रिष्वपि भ्रातृषु कन्दाडै श्रीरामाचार्यस्वामिकृपया भगवन्तं प्रपन्नेषु समानगुणशीलेष्वपि देवराजरामानुजदासस्य प्रात्यैवार्त्तितांगीकृता तत आरभ्य तत्पर- १८) जीवनचरितम् । वशतां गत आतप्रपन्नलक्षणोपेतः श्रीरामानुजचरणावेव शरणमिति केवलवाग्व्यापार- भन्तरा मनसापि तथा निश्चित्य खेष्वकेन्दु ( १९९० ) मिताद्वैक्रमाब्दात्समा- रभ्यादिशेषावतारभूतस्य विभूतिद्वयाधीश्वरस्य श्री मद्भगवतद्रामानुजाचार्यस्यावतारस्थले श्रीमन्महाभूतपुरे स्वनिवासं संरोचयामात स्वपत्नीपरलोकगमनानन्तरन्तु सर्वतो मनोवृत्ति- निवारिणी स्वपदकमलमनोनुरागविस्तारिणी पारक्याकार्यानुकूल्यसम्पादिनी परमा भगवत्कृपामेवात्मानं प्लावयन्ती मेले । ततश्च "अथो विहायेमममुञ्च लोकं विमार्शतो हेयतया पुरस्तात् ।। कृष्णाडि सेवामधिमन्यमान उपाविशत्प्रायममर्त्यनद्याम्" इत्युक्त- प्रकारेण परमभागवतपरीक्षिदिव लोकप्रवादं लौकिकजनसहवासञ्च सहैव मुक्त्वं काञ्चीपुरात्पूर्वदिशि योजनत्रयदूरवर्तिनि श्रीमन्महाभूतपुरे स्वनिवासं विनिश्चित्य तत्रापि “स्वामी निहन्तु विहसन्तु पुरः सपत्न्यो भर्तुर्भजन्तु पितरो गुरवश्च लजाम् ॥ एतावता यदि कलांक कुलं तदस्तु रामानुजे सखि ! तनोतु मनोऽनुरागम्' इत्युक्त- वत्याः कस्याश्चित्कृष्णानुरागरक्ताया गोकुलयुक्त्या इवानुष्ठानं विदधल्लोकव्यवहार सलजं परिभूय चरमपर्वनिष्टतया श्रीरामावरजमुनीन्द्राभिमानविषयीभवश्रीरामानुजा- वतारसनाथीकृतं प्रथमप्रादुर्भूतकेशवं श्रीभूतपुरमध्युवास । तत्रापि भगवद्भागवता- चार्यसवापरायणस्सन्निवासस्थलं कल्पयित्वा कतिपयैवैष्णवजनस्तत्र निवसन्ना- गन्तुकान्वैष्णवजनान्सत्कर्तुकामः श्रीकेशवस्य भगवतो मन्दिरे प्रतिदिवसं भगवन्निवेदनपू- वक विंशतिसङ्ख्याकवैष्णवानां तदीयाराधनं सुस्थिरं विदधे । तच्चेदानी सुखेन प्रचलति। अन्येपि च देशदेशान्तरस्था धार्मिका जनास्तस्मिन्परमया श्रद्धया महाविश्वासेन च श्रीरंगादिदिव्यदेशसेवाकैककार्थमर्थं प्रेषयन्ति तदपि द्रव्यं यथार्ह विनियुक्ते. एवं तदीयां पारलौकिकी सम्पदं दृष्ट्वाद्य किञ्चित्किञ्चित्कतिकति न मनुजास्तमनुसरन्ति किम्ब- हुक्तेन श्रीवेंकटेशमहामुद्रालयाध्यक्षः श्रीकृष्णदासात्मजः खेमराजोपि तमनुचिकीर्षुः श्रीमत्यां भूतपुर्या स्वमनोविश्रान्ति विदधत्स्वानिवासार्थ तत्र सदनं क्रीणातिस्म यस्मि- कति कति महानुभावाः श्रीवैष्णवा यात्रोत्सवादिप्रसंगसमागता विश्राम लभन्ते । अथ यदि भगवतः पूर्णानुग्रहोऽभविष्यत्तदा खेमराजोपि देवराजमन्वसारष्यत, एवन्तमनुसतुं बहव उत्सहते किन्तु भगवतो लक्ष्मीनायकस्य श्रीकेशवस्य जगद्गुरोर्यतिराजस्य च मुमुक्षु- जनानन्दनैनित्यनैमित्तिकमहोत्सवैरतिरमणीये तस्मिन्पुरे सततनिवासिभिरागन्तुकैश्च वकु- जीवनचरितम् । (९) लघरयतीश्वरादिसरस्वतीसुरभिताशयैर्महाभागवतैरनिशनिवासेन तद्वदनारविन्दनिर्ग- तभगवचरित्रपीयूषानेन च तद्धृदयं रमाकान्तमन्दिरमेव संवृतमतोऽवाप्तसमस्तकामोपि निखिलब्रह्माण्डनायकोपि सर्वान्तर्यामी सन्नपि देवराजरामानुजदासहृदयकमलमेव विशि- ष्टतया स्वनिवासं चक्रमे, सम्प्रति च तस्य चर्यापि कथमिव वर्णयितुं शक्यते । यः श्रीभूतपुरीमास्थितोऽपि तत्रत्यस्वामिलोकश्रीवदनारविन्दगलितं तिरस्कृतसुधावैभव नित्यं भगवद्विषयं द्विव्यचरितं कर्णरन्ध्राभ्या निपीय तदतृप्तामृतमाधुयातिशयमनु- भूय “एकः स्वादु न भुञ्जीत" इति न्यायमनुसृत्य स्वभ्रातृवर्गमपि "श्रीभगव- द्विषयस्यामुकशतकान्तर्गताऽमुकदशकीयामुकगाथाया अमुकस्वामिभिरेवं विशेषार्थः प्रत्यपादि" इत्यादि पत्रद्वाराज्ञापनेन कृतार्थयति श्रीभूतपुरादागतं तदीयं पत्रमपि तद्भात- वर्गस्य कालक्षेपकौतुकं विदधद्वेदवाक्यमिव माननीयम्भवति । स च स्वामाधारण- वैष्णवोचितसौजन्येन स्वभ्रातृसन्ततिवर्गमपि कृतार्थयितुकामः काले कालेतत्तत्कर्त- व्यशिक्षणं पत्रद्वारा परमसौहान लिखति-तथाहि देवराजरामानुजदासस्य यः कनिष्ठा भ्राता रामप्रपन्नरामानुजदासो वर्तते, तत्पुत्रो घनश्यामरामानुजदासः समुचितगुणसम्पन्नः पितृभक्तः सुशीलो वैष्णवसेवी लोकद्वयसाधनचतुरो जात इति देवराजरामानुजदासस्य महान् सन्तोषोऽस्ति घनश्यामरामानुजदासस्यापि सम्प्रति त्रयः पुत्राः सन्ति रामानुजदासो नारायणदासो रघुनाथदासश्चेति, तत्र ज्येष्ठो रामानुजदासः प्रायेण दशवर्षीयो जातः तच्छिक्षणार्थ देवराजरामानुजदासः श्रीभूतपुरादेवं लिखति “सम्प्रति चिरायू रामानुजदासो दशवर्षों जातः इतः परं तस्य मृत्तिकया हस्तपादादिशौचावधियथाशास्त्रं शिक्षणीयः । यदि गुरुपरम्परापुस्तकं सम्यगवगतं स्यात्तर्हि दिनचर्या पाठनीया" इति । एवमा- दिकमात्मलाभात्परं किञ्चिदन्यन्नास्तांति निश्चित्य सर्वेषां स्वसम्बन्धिनां स्वस्मिन द्वावतां स्वाज्ञाकारीणां भगवदोन्मुख्यार्थ प्रयतते न तु प्राकृतसम्बन्वेन कुत्रापि तस्य रागस्ति, यथैतेषु ततोऽधिकं हरिप्रियेषु ततोऽप्यधिक भागक्तप्रियेष्वनुरागं विधत्ते किं बहुना स्वशरीरमपि भोटकाश्वमिव गणयति नित्यं ब्राह्ममुहूर्तादपि पूर्व समुत्थाय सप- रिकरं श्रीमन्नारायणं ध्यात्वा श्रीवकुलधरमुनीन्द्रप्रसादितसहस्त्रगीतीतिप्रसिद्धदिव्यप्रब- न्धस्य श्रीगोवर्द्धनरंगदशिकप्रसादितसंस्कृतानुवादमुच्चैःपठन् प्रथममानन्दसुधाप्रवाहैरात्मान - १ भाडेका टटू ।
जीवनचरितम् । प्लावयति । ततः सूर्योदयादागेव बाह्यकृत्यतो निवृत्तः श्रीमदनन्तससि स्नात्वा द्वादशो- ईपुण्ड्रयुगलमालादिकं धृत्वाऽऽवश्यकमनुष्ठाय परमभागवतैस्सह श्रीमन्महामन्दिरं प्र- विश्य नित्यं भगवद्भागवताचार्यकृपापात्रं भवति । अहमपीतः परमिदमेव परमकारु- णिकं श्रीमन्नारायणमाशासे यादृशी वैष्णवी सम्पदस्मै क्षवे दत्ता हे पुरुषोत्तम दया- निधे ! कदा वा मह्यमपराधपूर्णाय दीनाय दास्यसे तादृशामिति । मुमुक्षुभिरियमेव च प्रार्थनीया यतोऽस्मिन्कलौ विरलाः खल्बेतादृशा इति मनुते श्रीबलरामस्वामिचरणा- श्रितो वृन्दावननिवासी भागवतदासः ।। श्रियै नमः।
श्रीमते रामानुजाय नमः । वरवरमुनिशतकस्थश्लोकानामकारादिक्रमानुक्रमणिका। श्लोकाः श्लोकसं० ६४ १०२ ४६ ३ ३३ १०७ (अ) भने पश्चादुपरिपरितः भनुदिनमनवधैः अन्तस्ताम्यत्रघुपतिरसौ अन्तर्ध्यायन्वरवरमुने अन्तस्स्वान्तं कमपि मधुरं अर्थीदार्यादपि च वचसाम् अध्वश्रान्ति हरसि सरसेः अल्पादत्तं क्षणिकमसकृत् अस्माद्भूयास्त्वमसि विविधा- ( आ २) आचार्यत्वं तदधिकामिति आबिभ्राणश्चरणयुगलीम आशापाशेरवधिविधुरैः आत्मानात्मप्रमितिविरहात् आम्नायेषु स्मृतिभिरमितैः (ए ३) एवं देवः स्वयमभिलषन ६२ १५ ७६ १७ ९२ १२१ अनुक्रमणिका । श्लोक श्लो०सं० ६५ ४३ ५० कर्माधीने वपुषि कुमतिः कल्याणैकप्रवणमनसम् कामक्रोधक्षुभितहदयाः कामावेशः कलुपननसाम् कारागारे वरवरमुने काल: किंस्विन्न भवति समे काले यस्मिन् कमलनयनम् कालेकाले कमलजनुषाम् कालोऽनन्तः कमलजनुषः कुरु मयि विमलं हगञ्चलं ते केचित्स्वरं वरवरमुने कोणैरक्ष्णः कुमनतमिमम् काहं क्षुद्रः कुलिशहृदयः (ग५) ६७ २० २९ ३ ६ ७९ ܘܘ गुणमणिनिधये नमो नमस्ते जय नान्यकिमपि यदि मे जयतु यशसा तुंगम् १०२ ८ (त ७) तस्यै नित्यं प्रदिशतु दिशे तत्त्वं यत्ते किमपि तपसा त्वत्पादाब्जप्रणयविधुरः वत्शदाजं भवतु भगवन् ४३ ३३ ७६ अनुक्रमणिका श्लो०सं० पृष्ठम् ६ ९ ६१ ५६ ५१ ७१ नित्यं पत्युः श्लोक त्वद्धृत्यानामनुभजति यः त्वम्मे बन्धुस्त्वमसि जनकः (द ८) दिव्यं तत्ते यदिह कृपया दीने पूर्णी भवदनुचरे देव प्रसीद मयि दिव्यगुणैकसिन्धो. देवी गोदा यतिपतिशठद्वेषिणी दोषेकान्ती दुरितजलधिः (न ९.) नामैतत्ते नवनवरसम्. नासौ वासं नभसि परमे परिचरणतः नित्यं निद्राविगमसमये वृत्तिं त्रातुं वरवरमुने नित्यानां यः प्रथमगणनाम् नित्ये लोके निवसति पुनः निरवधिनिगमान्तविद्या- (प १०) पठति शतकमेतत् प्रत्यहम् पत्रं मूलं सलिलमपि यत पश्यत्वेनं जनकतनया पश्यन्नने परिमितहित- पश्यन्नेवं प्रभवति जनः पायम्पायम्प्रणयमधुरे पारावारप्लवनचतुरः १५ ४६ ३२ ९९ १०३ ८३ १०६ १२४ ११० १२२ (१४) अनुक्रमणिका। श्लो०सं० पृष्टम् ४६ १६ २७ ६९ १०६ ८२ श्लोक पृथ्वी भित्वा पुनरपि दिवम् प्रत्यूषार्कातिपरिचय- प्रादुर्भूतप्रचुरमतयः प्राप्तः क्षेम प्रकृतिमधुरैः प्रेमस्थानं वरवरमुने! (ब ११) बाणैर्यस्य ज्वलनवदनैः (भ १२) भक्त युत्कर्षे दिशति यदि मे भक्ष्याऽभक्ष्ये भयविरहितः भुक्तेनैव प्रथमकवले भूत्वा पश्चात्पुनरयमथ भृत्यैत्रैिः प्रियहितपरैः (म १३) मयंकंचन्वरवरमुने मन्त्रो दैवं फलमिति मया मध्ये मांसक्षतजगहनम् मुक्त्वैव त्वां वरवरमुने मुग्धालोकं मुखमनुभवन् मूलं शठारिमुखसूक्तिविवेचनायाः (य १४) यदि पुनरभिधेयमद्वितीयम् यन्मूलमाश्वयुजमास्यवतारमूलम् वत्सम्बन्धाद्भवति सुलभ ६२ ६९ ५ १०० २९ अनुक्रमणिका। लो०सं० ९६ १९ पृष्ठम्. १२७ २८ ४ १२५ २६ श्लो० यस्मादेतत् यदुपनिषदाम् यस्मिन्किञ्चिद्विधिरपि यथा यस्मिन्प्रीतिं मदभिलषिताम् वृत्तिर्मनसि मम (र १५) रविसुतसुहृदे नमो नमस्ते रामः श्रीमानविसुतसखः ( ल १६) लक्ष्यं यस्ते भवति भगवन् लक्ष्यं त्यक्त्वा यदपि विफल: लक्ष्मीभर्तुः परमगुरुताम् (व १७) वरवरमुनिवर्यपादुरत्नम् वरवरमुनिवर्यचिन्ताम् वरवरनुनिवर्यपादावुपादाय- विख्यातं यद्रघुकुलपतेः (श १८) श्रीमद्रंग जयतु परमम् ( स १९) सत्यं सत्यम्पुनारतिए सत्वोन्मेषप्रमुषितः सत्त्वोदप्रैस्सक भुवन- २ २ १२८ १२९ 1. ६४ ११ २५ १६ ७२ २० १२ ३ सत्सम्बन्धो भवति हितमिति सर्वावस्थासहशविविधा सारासारप्रमितिरहितः २५
(१६)
अनुक्रमणिका
श्लोक
२३
७७
श्लो०
सिद्धोपायस्त्वमिह सुलभः
सिंहव्याघ्रौ सपदि विपिन
सुग्रीवो नश्शरणमिति यत
सोढुं तादृप्रघुपरिवढः
सोदर्येषु त्वमसि दयितः
सोयं भूयः स्वयनुपगतः
स्वप्नपि वपदकमलयोः
९६
११२
८६
१०१
११७
१३
इति श्रीवरवरमुनिशतक स्थश्लोकक्रमानुक्रमणिका समाप्ता ।
॥ श्रीः॥ श्रीवरवरमुनिशतकं- सव्याख्यानम्। श्रीमते रामानुजाय नमः । श्रीलोकगुरवे नमः ॥ श्रीवरवरमुनये नमः। व्या०-महीसारपुराधीशो महनीयगुणार्णवः । भक्तिसारो विजयते भुक्तिमुक्तिप्रदो नृणाम् ॥ ३॥ श्रीदेवराजगुरुवरविरचितमिदं व्याकरोति सत्प्रीत्यै। वरवरमुनिवरशतकं वाधूलो वीरराघवो दासः॥२॥ अ०-इह खलु चरमपर्वनिष्ठानामग्रणीदेवराजगुरुः “गुरुरेव परं बह्म" उपायोपेयभावेन तमेव शरणं व्रजेत्” “साक्षान्नारायणो देवः कृत्वा मर्त्यमयीं तनुम् । मनानुदरते लोकान्कारुण्याच्छास्त्रपाणिना॥" इत्यादिप्रमाणैराचार्यरूपस्य भगवतः परतन्त्रशेषित्वविलक्षणजीवाधि- ष्ठित्त्वाच्यामव्यभिचरितोपायत्वं खण्डशर्कराक्षीरवत् मिलितानु- भाव्यत्वरूपपरमोपेयत्वञ्च निर्णीय तादृशाचार्यत्वपूर्तेः "विष्णुः शेषी Satta (२) श्रीवरवरमुनिशतकं- तदीयश्शुभगुणनिलयो विग्रहः श्रीशठारिः” इत्याधुक्तप्रकारेण भग- वति रामानुजाचार्य सम्प्रतिपन्नत्वेन तमेव चरमोपायोपेयमभिसन्धाय तनिष्ठापूर्णत्वेन तत्तादात्म्येन वा भगवतः सौम्यजामातृमुनेस्तु शेषि- त्वशरण्यत्वप्राप्यत्वरूपाऽऽकारत्रयमनुसन्धाय तादृशानुसन्धानजनि- वतद्विषयकपरमभक्तिपरितो माहशजनानर्थपरिजिहीर्षया च वरवरमु- निशतकमेतत्प्रणेतुकामो मङलमाचरति- श्रीदेवराजगुरुवर्यविषयोऽयं श्लोकः । सौम्यजामातृयोगीन्द्रचरणाम्बुजषट्पदम् देवराजागुरुं वन्दे दिव्यज्ञानप्रदं शुभम् ॥ मूलम्-वरवरमुनिवर्यपादुरत्नं वरदगुरुंगुरुमाश्रये गुरूणाम्॥ उपनिषदुपगीतमर्थतत्त्वंतदिह यदीयवशम्बदं समिन्धे॥७॥ व्या-वरवरेति ॥ 'वृक सम्भक्तौ' वियते प्रार्थ्यत इति वरो रम्यः वरो जामाता वरश्याऽसौ वरश्च इति कर्मधारयः । रम्यजा- मातेत्यर्थः । मुनयः मननशालाः, मननश्चेह विषयस्वाभाव्यात चरम- स्वरूपोपायोपेयविषयकं ज्ञेयम् । तेषां वर्यः श्रेष्ठः, वरवरचाऽसौ मुनिवर्यश्चेति विग्रहः । तस्य पादुरत्नं पादुकाश्रेष्ठम् अयमेव चास्य वरदनारायणगुरो स्वरूपत्राप्तत्वात् आयो व्यपदेश इति सूचनाया- ऽस्य विशेषणस्य प्रथमं निवेशः । स्वनिकटंप्रति वरवरमुनिसन्निधाप, नरूपमहोपकारकर्तृस्वाचार्यनिष्ठतसादुकात्वविषयककृतज्ञतया वा १ पादुरत्नम् अत्र पादु इति “ इकोहस्वोऽडयो गालवस्य" इति हस्वेन साधु अत एव पादयुग्ममिति ।
सव्याख्यानम् । (३) पूर्व तदुक्तिः । रत्नम् इति पदेनाऽस्य वरवरमुनेः भगवद्रामानुजत्वे दिव्यपादुकाभूतदाशरथिवियते । तत्पादुकापेक्षया तदीय- पादुकाया अत्यहितत्वात् । गुरूणां सकलजगद्वितोपदेतृणां गुरुम् हिततमोपदेष्टारम् । “गृणातेः कुयोरुब" इत्युप्रत्ययः । वरदगुरुम् वरदनारायणगुरुम् । अत्रत्यगुरुशब्दः स्वापेक्षया गुरुत्वाभिप्रायकः। आश्रये सेवे, तद्विषकानुकूलवृत्तिं करोमि तत्प्रसिद्धम् उपनिषद्भि- रव्यवधानेन भगवत्प्रतिपादकवेदभागैः उपगीतम् उपदिष्टम् । गीतप- देन उपनिषदश्छान्दोग्यादिका इति सूच्यते । छान्दोग्यसमत्वेन प्रसिद्धसहस्रगाथोपनिषदिति च गीतोपनिषदिति च सूच्यते । अर्थ- स्याभिधेयस्य तत्त्वं याथात्म्यं तात्पर्यम् । अर्थस्य प्रयोजनस्य तत्त्वं याथात्म्यं चरमपर्वात्मकं वा इह अन्यथाऽज्ञानादिपूणे संसारमण्डले यदीयवशंवदं सत् यदीयानां यादृशवरदनारायणाभिमानविषयाणां वशंवदं सत् तदधीनं सत् "प्रियवशे वद खच्” । समिन्धे सम्य- प्रकाशते । उपसर्गवर्तमाननिर्देशान्यां दीरद्यतनाऽस्मदादिपर्य- न्तातिविषयत्वापादकाविच्छेदाविचाल्यत्वापादकस्फोरत्वे उच्यते । तत्त्वपदंचाभिधानवृत्या अनिषदामर्थान्तरमपि गनयति । तच्च प्रथमपादिकम् । यदीयवशम्बदं समिन्धे तं वरदगुरुमाश्रये इत्य न्वयः ॥ १॥ अवतारिका-इत्थं स्वाचार्य प्रणम्य भगवदन्दनं स्वायं गुरु- वन्दनपूर्वकम् इति प्रापकाचार्यप्रणामपूर्वकमाप्येष्टदेवताप्रणामस्य १ गुरूणाम्, सकलजगद्वितोपदेष्टृणां वरवरमुनिवर्याणाम् पूजायां बहुवचनम्, गुरुम् आचार्यवर्यम्,मद्गुरुं संश्रय इति वरवरमुनिवर्येण स्वेनैवोक्तेः अयमर्थस्सम्प्रदायतोऽवगन्तव्यः।
(४) श्रीवरवरमुनिशतकं- स्वादुतातिशयावगमेन पादुरत्नम् इति प्रापकपणामानन्तरं प्राप्यं प्रणमति- मू०-गुणमणिनिधये नमो नमस्ते । गुरुकुलधुर्य नमो नमो नमस्ते ॥ वरवरमुनये नमो नमस्ते। यतिवरतत्त्वविदे नमो नमस्ते ॥२॥ व्या०-गुणमणिनिधय इति॥ अयंच मूलमन्त्रार्थच्छायानुकारि श्लोकः । तथा हि, वाक्यैकत्वद्वित्वत्रित्वभेदैरनेकधा भिन्नानां मूलमन्त्रयोजनानां मध्ये सारभूतं स्वरूपस्वरूपानुरूपपुरुषार्थपरत्व स्वरूपोपायफलपरत्वात्मकयोजनायं चरमविषयेऽप्यवशिष्टम् । एवंचाऽस्य श्लोकस्य पूर्वार्दै प्रथमपादे नमः शब्दस्य द्विरावृत्तिः प्रथमयोजनायां स्वरूपपुरुषार्थरूपस्थानद्वयान्वयतात्पर्येण द्वितीयपादे तस्य त्रिः प्रयोगो द्वितीययोजनायां स्वरूपोपायफलात्मकस्थानत्र- यान्वयतात्पर्येण। अत्र च नम इति निषेध्यमहम्मदीयञ्चेति प्रसंजनम- प्यनिष्टमिति व्यञ्जयितुं तयोरनुक्तिः। प्रकरणादेव तयोरवगतिरि- त्याशयः। तत्र स्वारसिकप्रेमास्पदगुणविशेषवैशिट्यतदुपपादिताचार्यत्व यूर्तिवैशिष्टयतदुभयाश्रयदिव्यमंगलविग्रहदिव्यात्मस्वरूपाणामुद्देश्यता- सूचनाय पादत्रयात्मकवाक्यत्रयेण तेषां क्रमेण निर्देशः। सर्वेषामप्य- मीषामुद्देश्यतायां मूलकन्दञ्च यतिबरतत्त्वविद इति तुरीयपादेनोक्तम् । अत्र भगवन् इति सम्बुद्धिरपेक्ष्यते त इत्युक्तेः । अहमिति च नम इति च निषेधसामर्थ्यात् । ततश्च हे भगवन् अहम्, गुणमणिनिधये सव्याख्यानम् । (५) ते मो न गुणाः परमकारुणिकत्वे निरवधिक वात्सल्यजलधित्व प्रभृतयः, त एव मणयः अनन्योपमधत्वतेजिष्टत्वरञ्जकत्वैस्सादृश्या- द्रूपणं तेषां निधये अक्षयाऽधारायायथा लोके आभरणस्था मणयो निधिसम्बन्धिनो निधेरेव संग्रहीताः, तथा इतोऽन्यत्राऽऽचार्येषु दृश्यमानाः कारुणिकत्वादय एतत्सम्बन्धिन एतस्मादेव संग्रहीता इति सूच्यते । अत्र मम पुरुषार्थ इत्यध्याहीयते । हे भगवन् मम पुरुषा- र्थस्त्वकिकरवृत्तिरूपस्ते मः न । मम इति प्रथमपादे नमश्शब्दयो- स्र्थः । गुणविशेषवैशिष्ट्यमुक्त्वा तदुपपादिताचार्यत्वपूर्तिमाह, गुरुकुल इति । धुरं वहतीति धुर्यः अनेन तद्भवोदृत्वमुच्यते । अत्राहं मदु- पायः मम फलं चेत्यपेक्ष्यन्ते।तत्र क्रमेण अहं ते मःन मदुपायस्तेमः नमम फलं ते मः न इति नमश्शब्दानामर्थः। एवं पादद्वयेन योजनाइयं कोरितम् । पूर्वोत्याश्रयदिव्यमंगलविग्रहदिव्यात्मस्वरूपे आह, वरवरमुनय इति । शरीरविशिष्टात्मवाचित्वात् अस्य शब्दस्योभय- लाभः। अत्र स्वरूपपुरुषार्थपरत्वरूपप्रथमयोजनाया आयहितत्वेन तड्योतनाय पुनक्यिान्तरे तत्सूचकनमश्शब्दद्विरावृत्तिः। सर्वेषा- मप्यमीषां गुणादीनामुद्देश्यतायां मूलकन्दमाह,यविवरेति । यतिवरस्य रामानुजाचार्यस्य तत्त्वम् उपायोपेयत्वे ते वेत्ति जानातीति यतिवरतत्त्व- वित् । “उपायोपेयत्वे तदिह तब तत्त्वम्" इति तयोस्तत्त्वत्वेन कथ- नात् । यद्दा यतिवरतत्त्वं यतिवरतादात्म्यं विन्दति लभत इति यति वरतत्त्ववित्, श्रीरामानुजाचार्यतादात्म्यवानित्यर्थः । अयंचार्थः सम्प्र- दायतोऽ वगन्तव्यः। तथा विधायाहं मः नेत्यादि अत्रादराति- Mus (६) श्रीवरवरमुनिशतकं- शयात् नमश्शब्दावृत्तिः इत्यप्याहुः। “नमः पुरस्तादथ पृष्ठतस्ते नमोऽ स्तुते सर्वत एव सर्व” इत्युक्तरीत्या प्राच्यादिष्वष्टासु दिवञ्च प्रणामा- भिप्रायकं नमःशब्दावृत्तिनवकमिति वा ज्ञेयम् । अत्र च गुरुकुलधुर्य इत्यत्र नमश्शब्दावृत्तित्रयमाचार्यकैंकर्यस्य त्रिवृत्त्वसूचनाय । आचा- यस्य हि भगवद्भागवताचार्यात्मकत्वेन तद्विषयकैंकर्यस्याऽपि त्रिगु- णत्वात् । तत्र तिसृष्वपि विधासु स्वार्थतागन्धराहित्यद्योतनं गुरुकुलधुर्य नमोनमोनमस्ते इति नमश्शब्दैस्त्रिभिर्भवति ॥ २ ॥ अ०-मुख्यान्मुख्यतमवरवरमुनिचरणसरसिजलक्षणप्राप्यपापक- लामः स्वकुलदेवताभूतरघुकुलतिलकनिरवधिककरुणामूलक इति तमुत्तरश्लोके प्रणमस्यन् तत्रूपारूपां जनकराजतनयां प्रणगदि- मू०-कुरु मयि विमल गञ्चलं ते कुशलनिदानदया- निधे नमस्ते निशिचरपरिपन्थिनित्ययुक्त नि- मिकुलमङ्गलदीपिके नमस्ते ॥३॥ व्या-कुरुमयीति॥कुशलनिदान इतिसम्बुध्यन्तं सीवापरं नित्य- नपुंसकम् । एकपदत्वेन दयाविशेषणं वा। कुशलस्य चरमपर्वाधिकार- रूपपरमनिःश्रेयसस्य निदान मूलकारणभूते । मूलकारणञ्च कारण कारणम् । उक्तकुशलकारणं भगवत्कृपा, सा चैतदधीनेति भावः । "देव्या कारुण्यरूपया” इति युक्तम् । कारुण्यं रूपयति प्रकाशय तीति तदर्थः। तदाह दयानिधे इति । भगवतः परमकारुणिकत्वम- प्येतदधानमिति भावः । "पाडगुण्यविग्रहाम्” इति युक्तम् । भगव- दीयज्ञानशक्त्यादिअभिमानित्वं तदर्थः । विमलम्, रजस्तमोपह सव्याख्यानम् । (७) ते दृगञ्चलं दृशोरञ्चलमपाङ्गम् । मयि चरमपर्वाधिकारात्मकसाम्राज्य- सिंहासनमधिरूढे मयि । कुरु त शाऽभावाय कुर्वित्यर्थः । “विज्ञानं यदिदं प्राप्नं यदिदं स्थानमार्जितम् । जन्मान्तरेऽपि मे देव माभूत्तस्य परिक्षयः” इतिवत् । ते नमः त्वां प्रणमामीत्यर्थः । निशिचरपरि- पन्थिना राक्षसरात्रुणा पौलस्त्यकुलधूमकेतुना नित्ययुक्ते नित्ययो- गवति। परिपन्थिशब्दो लोके न न्याय्य इति वैय्याकरणाः कवयस्तु बहुलं प्रयुञ्जते "पन्थानं परिपन्थिनाम्” "दनुजपरिपन्थी" इत्यादि। निमिकुलमंगलदीपिके जनककुलम्प्रति श्रेयस्करत्वप्रकाशकत्वान्यां मंगलदीपिकात्वरूपणम् । उक्तञ्च "जनकानां कुले कीर्तिमाहरिष्यति मे सुता” इति । निशिचरपरिपन्थिनित्ययुक्ते निमिकुलमंगलदी- पिके इत्युक्तेः । निमिकुलमंगलदीपिकायां निशिचरपरिपन्थिनि- त्ययोगस्नेह इवेति व्यज्यते । उपकारस्मृत्यनुवर्तनात् पुनर्नमस्यति नमस्त इति ॥ ३॥ अ०-उत्तरीत्या भगवन्तं प्रणमति- मू-रविसुतसुहृद नमोनमस्तेरघुकुलरत्न नमो नमो नमस्ते ॥ दशमुखमकुटछिच्दे नमस्ते दशरथनन्दन सन्ततं नमस्ते ॥४॥ व्या०-रविसुतस्येति ॥ रविसुतस्य सुग्रीवस्य सुहृदे शुभाशं सिहृदयाय । अनेन चेतनस्य स्वहितचिन्तायाः पूर्वमेव भगवतस्तच्चि- न्तकत्वमुच्यते। रघुकुलरत्न रघुवंशालंकारभूत अत्र तुल्यत्वात् रवि- कुलरत्न इति वक्तव्ये प्रत्युत प्रासवशात् तथैव वा वक्तव्ये रघुकुल- (८) श्रीवरवरमुनिशतकं- इत्युक्तेश्शरण्यतायां महाव्रतत्वं स्फोर्यते । दशमुखमकुटच्छिदे अनेन प्रार्थयितॄणामप्रार्थयितॄणाश्चाऽनिष्टनिवर्तकत्वमुच्यते । दशरथनन्दन अनेनानन्यप्रयोजनानां स्वरूपेण भोगहेतुत्वमुच्यते । आह च दशरथः। “अहं पुनर्देवकुमाररूपं स्खलंकृतं तं सुतमाबजन्तम् । नन्दामि पश्यन्नपि दर्शनेन भवामि दृष्टा च पुनर्युवेव॥"इति । अत्र यथा सुग्रीवस्य स्वयमेव तमभिगम्य हितं कृतवान, तथा स्वयमेव मह्यं वरवरमुनिचरणलक्षणहितं दत्तवानिति व्यज्यते । अत एवो- पकारस्मृत्यनुवर्तनात् प्रणामावृत्यः॥४॥ अ० -वरवरमुनिवरचरणनलिनलक्षणविलक्षणप्राप्यमापकानुस- न्धानजनिततद्विषयकपरमभक्तिमरितेन मया करिष्यमाणोऽयं प्रबन्धो नुपददर्शितप्राप्यप्रापकयाथात्म्यबुभुत्सूनामादरणीयम् इत्यभिसन्धा- यावगततद्याथात्म्यानामपि निरन्तरतद्गुणानुभवोपयिक इति वदन सति विषयबैलक्षण्ये वक्तवैलक्षण्यमकिञ्चित्करमित्याह- मू०-यदि पुनरभिधेयमद्वितीयं । कृतिभिरतः परमीक्ष्यते न किञ्चित् ॥ विजहति न हि जातु शुक्तिमुक्तं । विशदशशिद्युतिमौक्तिकं विदग्धाः॥५॥ व्या०-यदीति ॥ अत्र कृतिभिरिति पदं स्त्रीलिङ्ग पुंल्लिङ्ग वा तत्राऽऽये कतिभिः प्रबन्धरित्यर्थः । “कतिरातनुताम्मुदम्" कृतिवि- षय आरम्भ उचितः इत्यादौ तथाप्रयोगाद्वितीये कृतिभिः कुशलै- रित्यर्थः । “कृती कुशल इत्यपि” इत्यमरः । कतिभिः प्रबन्धैः
सव्याख्यानम्।
(९)
अभिधेयम्, वर्णनीयं वस्तु । अद्वितीय यदि निस्समात्यधिकञ्चेत् ।
अतःपरम् वर्णनीयाऽद्वितीयवस्तुतोऽन्यत्किञ्चित् वक्तृवैलक्षण्यादिषु
अन्यतमं न ईक्ष्यते न दृश्यते । दर्शनाभावे अपेक्षाभावः कैमुत्तिक-
सिद्ध इति भावः । अत्र पक्षे विदग्धैरिति शेषः। "प्रबन्धानां प्रबन्ध-
णामपि कीर्तिप्रतिष्ठयोः । मूलं विषयभूतस्य नेतुर्गुणनिरूपणम् ।।
इत्यादिकमिह भाव्यम् । अथवा अभिधेयं वर्णनीयं वस्तु अद्वितीयं
यदि अतः परं किञ्चित् , वक्तृबैलक्षण्यादिषु अन्यतमम् । कतिभिः
प्रमेयसौष्ठवपरिज्ञानवद्भिः । निरुक्तविलक्षणप्राप्यप्रापकगुणानुभव
हेतुभूतभाग्यातिशययुक्तैर्वा नेक्ष्यते न दृश्यते इत्यादिपूर्ववत् । अत्र
पक्षे प्रबन्धरिति पूरणीयम् । तत्र दृष्टान्तमाह विजहति इत्यादि। वि-
दग्धाः हारलावण्यविशेषविवेचनचतुराः। शुक्तिमुक्तं स्फोटेनोगीर्णम् ।
विशदा विमला शशिन इव धतयः शोभा यस्य तथोक्तं मौक्तिकं न
विजहति हि न त्यजन्तिहि । यथा मौक्तिकस्य शोभाविशेषापेक्षया
हेयशुक्तिमुक्तत्वमकिञ्चित्करम् ।तथातद्विलक्षणविषयप्रबन्धस्याविलक्ष
णकर्तृकत्वमकिञ्चित्करमिति भावः। वैधाण दृष्टान्तालङ्कारः॥५॥
अ०-ननु, अवैलक्षण्यं स्वस्योक्तं कथं तर्हि निस्समाश्यधिकवर्ण-
नीयकटाक्षसिद्धिरित्याशय न तत्कटाक्षसिद्ध्यसिद्धयोर्मद्वैलक्षण्या
प्रवलक्षण्ये हेतुः किन्तु विलक्षणाचार्यसम्बन्धतदभावावित्याह-
मू-देव प्रसीद मयि दिव्यगुणैकसिन्धो
दृष्टया दयाऽमृतदुहा सकृदीक्षितुं माम् ॥
नैतेन कृत्यमसतेति न चिन्तयित्वा
नारायणं गुरुवरं वरदं विदन्मे ॥६॥
(१०) श्रीवरवरमुनिशतकं- व्या०-देवेति ॥ हेदिव्यगुणैकसिन्धो दिवि "अथ यदतः परो दिवः” "त्रिपादस्याऽमृतं दिवि” इत्यादौ घुशब्दवाच्यत्वेन प्रसिद्ध श्रीमति वैकुण्ठदिव्यभुवने भवाः दिव्याः "दिगादित्वात् यत्प्रत्ययः" गुणाः परमकारुणिकत्वप्रभृतयः तेषामेकसिन्धो अद्वितीयसिन्धो समस्तानां कल्याणगुणानां सत्तामात्रं परमपदे,संघातभावस्तु भगवति वरवरमुनिवर इति भावः। सिन्धुर्हि असंहत्यजातानां स्रोतोवहानां संघातभावाधिकरणं तहदित्याशयः । देव शेषिन् । “यथा देवे तथा गुरौं” "देवमिवाचार्यम्" इति देवतुल्यत्वाद्दा देवशब्दप्रयोगः। इदश्च वरवरमुनिवरपरम् । असता अवस्तुभूतेन नन्त्रिवयुक्तन्यायेन सत्सादृश्यं लायते । तच्च लौकिकसंव्यवहारादिविषयत्वेन स्वरूपज्ञान वैधुर्ये "असन्नेव स भवति" इत्यसद्व्यपदेशात् एतेन यथाकथञ्चिङ्घ दिस्थेन । कत्यं कृत्यहम् ।न इति नास्तीति 'नासाधितं करणम्' इति न्यायादिति भावः। न चिन्तयित्वा अचिन्तयित्वा । वरदं नारायणं मे गुरुवरं विदन् वरदनारायणं मद्गुरुं विदन् जानन् । दयै- वामृतं सुधाभोग्यत्वसञ्जीवनत्वान्यां सादृश्याद्रूपणम् । तदुग्धे उत्पा- दयतीति दयाऽमृतधुक तथा विधया दययाऽमृतं मोक्षं दुग्ध इति वा । उक्तञ्च यस्याऽनुभावपर्यन्ता दृष्टिस्तत्त्वे प्रतिष्ठिता। तदृष्टिगोचरास्सर्वे मुच्यन्ते सर्वकिल्विषैः” इति। तथाविधया दृष्ट्या माम् आचार्यवन्त माम् । सकत् एकवारम् । ईक्षितुं मयि प्रसीद प्रसादं प्राप्नुहि कालु- व्यअहिहीत्यर्थः । तद्धि नानाविधानन्तापचारमूलकम् । अयमाशयः सात हि विपये दृष्टिप्रसरणं भवति, कथंनाम असताऽनेन दृष्टिविषयता रूपकत्यं भविष्यति'नासाधितंकरणम्' इति न्यायादिति नाशंकनीयम्, RSARIA सव्याख्यानम् । (११) वरदनारायणगुरुवराभिमानविषयत्वादेव मम वस्तुभूतत्वादिति न चिन्तयित्वेति नायं नसमासः नलोपादर्शनापि नशब्दस्य ल्यप्- प्रसंगात् , किन्तु नेति चिन्तयित्वेति पृथक्पदे तत्र नञो धात्वर्थेन सम्बन्ध इत्यूह्यम् ॥६॥ अ०-इत्थं षड्भिः श्लोकैः प्रबन्धोपोद्रात उक्तः अथ प्रबन्ध- मारभते- मू०-श्रीमद्रङ्गं जयतु परमंधाम तेजोनिधानं । भूमा तस्मिन् भवतु कुशली कोपि भूमासहायः ।। दिव्यं तस्मै दिशतु विभव देशिको देशिकानां । काले काले वरवरसुनिः कल्पयन मङ्गळानि ॥७॥ व्या-श्रीमद्भगमिति॥अत्र वरवरमुनिलक्षणस्वसजीवनहेतुवस्तु- सत्तापालनार्थ मङ्गलाशासनप्रणाडिकां रचयति-जयतु भवतु दिशतु इति । तथा च श्रीमदंगस्योपलवाभावे तत्स्थवस्तुन उपयुवाभावः' वस्मिथ सति मंगलाशासनपूर्वकतादिभवादानोपवाभावः वारमश्व सति वरवरमुनिवरात्मकस्वीयदैवत सचोपवाभाव इति प्रथमं प्रथमपर्व कमेणोपक्रमः कृतो ग्रन्थकारै गलाशासनकजीवना होतादृशाः। एव- श्चाद्यश्लोकेन धर्मिसिद्धौ उपरितनश्लोकैरिसाधयिष्यन्ते इति हृदयम् । श्रीमत् श्रीस्सम्पद सा च नित्यमूरिषु मूर्धन्यस्य शेपस्य शेषिविषयकाऽशेषशेषवृत्तिकरणार्थ स्वरूपेण सौमित्रि-रामानुजाचार्य वरवरमुनिवररूपस्वावतारभेदैश्च कालत्रयेऽपि सन्निधानरूपा साऽस्या स्तीति श्रीमत प्रशंसायां मतुप्। प्रशस्ताच श्रीरुक्ता। अनेन वामनभ- (१२) श्रीवरवरमुनिशतकं- रतकृष्णरूपावतारत्रयमात्रेण तन्मात्रसन्निधानरूपश्रीयुक्ता मथुरा व्यावयते। तेजोनिधानम्, तेजसां निधिः "अत्यानलदीप्तं तत्स्थान विष्णोर्महात्मनः” इत्युक्तेः । तेजसः पराभिभवनसामर्थ्यस्य वा निधानं परमंधाम लीलाविभूतौ प्रकृष्टं स्थानम् । परमंधाम "प्रत्यक्षं परमम्पदम्" इतिवद्वा । रंगम् "क्षीराब्धेर्मण्डलादानोयोगिनां हृदया- दपि । यस्माइक्तिगतो देवस्तेनेदं रंगमुच्यते” इत्युक्तरीत्या भगवतः प्रकष्टप्रमोदस्थानं रंगधाम जयतु अनुपप्लवेन वर्तताम् । आशिषि लोट् । बाहुलको रअधातोऽधिकरणे घञ् । भूमयोभूमिलक्ष्म्योस्सहायः पतिः भूमात्यां भूलक्ष्मीयां सह आयते आगच्छतीति वा भमास- हायः । "अयपयगतौ” इति अयधातोः पचायच्प्रत्ययः । अथवा भूमे सहायभते यस्य स तथोक्तः सहायो हि प्रधानकर्तचिकीर्षित क्रियायामप्रधानकर्ता। एवञ्च जगइक्षणक्रिय यां प्रधानकर्तृत्वम् “येन त्वं बत संरब्धः प्राणिनः पालयिष्यसि” इति प्रतिपादितम् , भग- वतः लक्ष्म्यास्तु "लक्ष्म्या सह हृषीकेशः" इत्युक्तमप्रधानकर्तृत्वञ्च स्फोर्यते । अत्र भूश्च माचेति द्वन्दे । अनुप्रासवशात् धर्मादित्वा- श्रयणेन भूशब्दस्य पूर्वनिपातः । अथवा दोषप्रधानलीलाविभूति विषये क्षमाया आवश्यकत्वेनाऽज्यहितत्वात्तदभिमानिन्या भुवः पूर्व निपातः। यद्वा "भोग्या वामपि नान्तरीयकतया पुष्पांगरागैस्समम्" इति श्रीश्रीशयो ग्यवर्द्धकत्वकस्वभावायाः भूदेव्याश्शब्दतोऽपि तयो संश्लेपान्तरायत्वं माभूदिति भूशब्दस्य पूर्वनिपातः । भूमासहायता- यां हेतुमाह भूमेति । बहोवो भूमा 'बहोर्लोपो भूच बहोः इति निष्पन्नोऽयं शब्दः इह धमिनिर्देशः । अल्पप्रतिसम्बन्धिनिर्देशत्वा- - सव्याख्यानम् । (१३) दित्युक्तम् । एवञ्च “यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यवि- जानाति स भूमा” इत्युक्तोऽपरिच्छिन्नानन्दस्वरूपः कोऽपि अवा- ङ्मनसगोचरः पुरुषः।तस्मिन् रंगधाग्नि कुशलीक्षेमवान् भवतु अयम- प्याशिषि लोटाशीहि आशासनं देशिकानां भगवर्यन्तानामाचा- याणाम् । देशिक: आचार्यः । भगवन्तं प्रति द्रविडोपनिषत्तात्पर्या र्थोपदेष्टुत्वादेव सर्वान्प्रत्ययाचार्योऽयं वरवरमुनिः। कालेकाले सर्व- स्मिन्काले मंगलानि कल्पयन्मंगलाशासनं कुर्वन् तस्मै पूर्वोक्तपत्नी पारच्छदान्विताय श्रीरंगनाथाय दिव्यं त्रिपाद्विभूतीयम्, विभवं समृद्धिम्, दिशतु प्रददातु "आशिषि लोट् । एवं सति मदिष्टसत्ता सिध्यतीति भावः ॥ ७ ॥ अ०-पूर्ववत्-स्वसजीवनहेतुभूतवरवरमुनिसत्तायाम्पणाडिकयो- पयोगिनी श्रीमतीकबेरनन्दिनीप्रादुर्भूतिमतीदक्षिणां दिशङ्कृतज्ञतया प्रणमति- मू-तस्यै नित्यम्प्रदिशति दिशे दक्षिणस्यै नमस्याम् । यस्यामाविर्भवति जगताञ्जीवनी समकन्या ॥ पुण्यैर्यस्याः क्षितितलजुषं पूरुषं रङ्गभूषां । पश्यन्धन्यो वरवरमुनिः पालयन्वर्तते नः॥८॥ व्या०-तस्य इति॥ वरवरमुनिः यस्या कावेाः पुण्यैः सुकृतैः क्षितितलजुषं भूतलं प्राप्तवन्तं भूतेल मोदमानं वा । “जुषि प्री विसेवनयोः” इति धातुः । रंगभूषां रंगधामालङ्कारभूतं पूरुष सर्वांपे क्षितप्रदं श्रीरंगनाथम् । पुरुबहु साधति ददावीति पूरुषः पुरुराब्दः
NAL
LL
८
(१४) श्रीवरवरमुनिशतकं-
"उपपदेष्णुदान"इत्यस्मात् अन्येन्योऽपि दृश्यते” इति उ प्रत्ययः।
उक्तञ्च "पुरुदानाच्च केशवः” इति । पृषोदरादित्वात् षत्वं पूर्वपदे
दीर्घश्च "पुरुषः पूरुषस्तथा” इति द्विरुपकोशः पश्यन् अनवरतं ने-
वायां पिजन् पालयन् अस्थानरक्षाव्यसनेन मङ्गलाशासनैरक्षणं
कुर्वन् । धन्यस्तन् “लब्ध्वा कुलधनं राजा” इति निरुपाधिकधनभू-
तश्रीरङ्गनायलाभवान्सन् नः अस्मदर्थम् । वर्तते देशकालसम्बन्धवा-
न्भवति, सत्तावान्भवतीति यावत् न इति तादर्थं चतुर्थी सा तथा
विधाययत्तदोनित्यसम्बन्धात् सेति लायते। जगताञ्जीवनी जीव-
न्ति जनाः अनयेति जीवनी। “करणाधिकरणयोश्च" इतिल्युट्वान्नी-
प्समस्तजगज्जीवितभूतश्रीरंगनाथस्थितिहेतुत्वादेव जगताञ्जीवनी-
इति व्यपदिश्यते यद्वा व्यपगतप्राणात्मसजीवनीम्" इत्यत्रैव जीवनी
शब्दः मोक्षरूपनित्यनिरुपाधिकजीवनहेतुपरः । "कावेरीतीरमा-
श्रित्य" इत्यादिकमिहानुसन्धेयम् । सह्यकन्या कावेरी यस्यां दिशि
आविर्भवति प्रकाश प्रवहतीत्यर्थः। मरुद्वृधेत्यनुक्त्वा सह्यकन्येति
सह्यमपि स्मरति उपकारस्मृत्या तस्यै पादत्रयोक्तसर्वस्थितिनि-
दानभूतायै दक्षिणस्यै दिशे अनेन ग्रन्थकतामुदीच्यत्वं गम्यते ।
नमस्यां प्रणाम नित्यं प्रतिदिनम् । प्रदिशति प्राभृतत्वेन प्रददाती
त्यर्थः। अयञ्जन इति शेषः । प्रदिशतु इति पाठे सर्वोऽपि लोक.
इति शेषः । ईदृशमहोपकारकारिण्यै । सर्वलोकैरपि प्रणाम
कर्तव्य इति बहुमानातिशयो गम्यते दिशे वापि नमस्कुर्यादित्ये-
तत्सूचितम् ॥ ८॥
marthi सव्याख्यानम्। (१५) अ०-इत्थं श्लोकदयेन धर्मिसिद्धिमभिसन्धायोपरितनश्लोकै- पेक्षितधर्मान्विदधावि- मू-आशापाशैरवधिविधुरैः स्वैरमाकृष्यमाणं । दूरादूरं पुनरपि न मे दूयतामेव चेतः ॥ अन्तःकृत्वा वरवरमुने नित्य मंनियंते । धाराकारस्मरणसुभग निश्चली भूय तत्र ॥९॥ व्या-आशापाशैरिति ॥ हे वरवरमुने ! अवधिविधुरैः अवधिः अवमानम्, तेन विधुरैः शून्यैः निरवधिकरित्यर्थः । आशापाशै आशा एवं पाशास्तैः बन्धकत्वेन सादृश्याद्रूपणम् स्वैरं प्रतिगातेन आवष्यमाणं नीयमानं दूराङ्करम् अत्यर्थ मे चेतः पुनरपि इतः परं नैव दूयताम्, नैव परितापम्भजतु।दूयमानत्वाभावः प्राप्तकाल इति भावः। प्राप्तकाले लोट् कथामिदमित्यत्राह, अन्त इति । धाराकारस्मरणसु- भगं धारायास्तैलधारायाः आकार इवाकरो यस्य तथोक्ते स्मरणे सुभगं हृद्यम् । यथा यथा वैशयं भोग्यवस्तुनः तथातथा तदीयभो- ग्यतातिशयाऽभिव्यक्तिरिति भावः ते प्राप्ततुलभशेषिणः । अंघियं पादद्वयम् अन्तः कृत्वा मध्ये निधाय तत्र अंधिहये निश्चलीभूय निश्चलं भूत्वा वरवरमुने मे चेतः धाराकारस्मरणसुलभं ते अंघिद्वयं अन्तः कृत्वा तत्र निश्चलाभूय पुनरपि भूयोऽपि अवधिविधुरैराशापाशैईरारं स्वैरमाकष्यमाणं यत् नैव दूयताम् इत्यन्वयः ॥ ९ ॥ अ०-"सर्व एव सः' सर्व यदेव' वासुदेवः सर्वम्" इत्याह- मू-त्वम्मे बन्धुस्त्वमसि जनकस्त्वं सखा देशिकस्त्वम् । विद्या वृत्तं सुकृतमतुलं वित्तमप्युत्तमं त्वम् ।
(१६) श्रीवरवरमुनिशतकं- आत्मा शषी भवसि भगवन्! आन्तरशासिता त्वं । यद्वा सर्व वरवरमुने ! यद्यदात्मानुरूपम् ॥१०॥ व्या०-त्वं मेबन्धुरिति ॥ हे भगवन् ! "सदाचार्यण सन्दृष्ट्वा" इत्युक्तोत्तारकत्वौपयिकज्ञानशक्त्यादिपूर्ण ! वरवरमुने त्वम्मे बन्धुरसि मे त्वदेकनिष्ठस्य बन्धुस्त्वमसि बंधुत्वं हि प्रियाऽप्रिययोः प्रियाऽपि यभाक्त्वम्। बध्नातीति बन्धुः वर्तमान निर्देशेन आत्मान्तबन्धुत्वं लश्य- ते । एवं सर्वत्रापि त्वं जनको ऽसि उत्पादकोसि । उत्तरोत्तरजायमा- नस्वरूपसमृद्ध्यतिशयविशिष्टस्वरूपस्य सदोत्पत्तेजनकत्वमपि । सदातनमिति लट् उपपत्तिः “स हि विद्यातस्तञ्जनयति तच्छ्रेष्ठम्" इत्युक्तं वा । जनकस्त्वम्, त्वं सखासि समानं ख्यायत इति सखा, स्वरूपानुरूपभोगसाचिव्यवृत्तभोगकीर्तनविषयत्वादिना सखात्वं त्वं देशिकोऽसि हिताहितप्रवृचिनिवृत्युपदेष्टाऽसि त्वं विद्यासि "कि किन साधयति कल्पलतेव विद्या” इत्युक्तविद्या भवसि वं वृत्तमसि वाहशविद्याकार्यभूतसदाचारोऽसि त्वं सुकृतमति उक्तवक्ष्यमाणसक- लनिदानभूतजन्मांतरीयसुकृतमसि "न जातुहीयते' इतिवदन वर्त- मानवोपपत्तिः। अत एव चास्य मध्ये कीर्तनं त्वमुत्तमं वित्तमप्यसि स्वरूपानुरूपत्वात्मान्तभोगप्रयोजनत्वाऽऽपद्रक्षकत्वादिभिः प्रकष्टधन भूतोऽसि । “उत्तमं स्वार्जितं वित्तम्” इत्युक्तस्वासाधारणवित्तं वा । त्वमात्माऽसि पूर्वोक्तं सर्वम्पति शेषी भवसि । शेषीभवसि तं प्रत्यपि १ पूर्वोक्तं सर्वप्रति शेषी भवसि, तं प्रत्यपि शेषीभूतस्त्वम् इति 'स्व' पुस्तके पाठः समीचीनपाठः पुस्तकान्तरादन्वेषणीयः ।
सव्याख्यानम् । (१७) शेषीभूतस्त्वम् आन्तरः अन्तरः परमात्मा “य आत्मानमन्तरः” इत्युक्तेः । अन्तरसम्बन्धी आन्तरः शासिता नियन्ता आन्तरश्शा- सिता परमात्मा, आन्तरशासिता त्वम् । “ज्ञानी त्वात्मा” इत्युक्तेः। अथवा किं प्रथमकीर्तनेनोक्तानुक्तं सर्वमपि त्वमेवेत्याह, यद्वेति । यद्वेति पूर्वोक्तप्रतिक्षेपार्थकः आत्मानुरूपं निष्कृष्टस्वरूपानुरूपम् । अत्र प्रसिद्धजनकादीनां तन्मात्रत्वम्, अस्य तु जनकादिसर्वविधत्व- मिति भावः । आत्मा भवसीत्यत्र त्वमहमसीत्यर्थः । तथाच त्वदर्थत्वे ममत्वमपीष्टमिति भावः । आत्मा उपादाता "आमोत्यादत्त इति वा आत्मा” इति निरुतेः। शासिता नियामकः शेषी तज्जन्या- तिशयभाक् ॥ १०॥ अ०-अथाऽसाधारणं पञ्चमोपायतत्त्वप्रवर्तकत्वमाह- मू-आम्नायेषु स्मृतिभिरमितैस्सेतिहासैः पुराणैः दृश्यं यत्नैर्यदिह विदुषां देशिकानां प्रसादात् ॥ स्वैरालापैस्सुलभयसि तत्पञ्चमोपायतत्त्वम् दर्शदर्श वरवरमुने दैन्यमस्मद्विधानाम् ॥ ११॥ व्या-आम्नायेष्विति ॥ हे वरवरमुने ! इह अन्यथाज्ञानादि- पूणे संसारमण्डले विदुषा जानता, पुरुषेणेति शेषः। “विदेश्शतु- वसुः” इति वर्तमानार्थकलडादेशस्य शतुर्बसुरादेशः अत एवाऽ विरतज्ञानवत्त्वलाभः । अनवरतसर्वदुरीहविषयकज्ञानशीलेनेति यावत् । विदुषेति कर्तृसमर्पकम्, यत्नैः श्रवणमननरुपैहेतुभिः, दृश्यम् इत्यत्रान्वेति यदा प्रसादात इत्यत्रान्वेति। यत्नैः बहुतरस्वानु- २ (१८) श्रीवरवरमुनिशतकं- वर्तनैः यः देशिकानाम्प्रसादः अनुग्रहः, तस्माद्धेतोः स्मृतिभिः मन्वादिप्रणीताभिः सेतिहासैः भारतरामायणात्मकेतिहासयुक्तैः अ- मितैः बहुभिः पुराणैः विष्णुपुराणादिभिश्च करणैः आनायेषु वेदेषु करणस्यैवाऽधिकरणत्वविवक्षया सप्तमी । यत् पञ्चमोपायतत्त्वं दृश्यं ज्ञातुं शक्यम्, तत्पञ्चमोपायतत्त्वम्। पञ्चमश्वाऽसावुपायश्चेति विग्रहः। रामानुजाचार्यरूपचरमोपायः “ऊर्ध्व नयन्त्युपायास्ते" इति वदी- यात्यन्तपारतन्त्र्यात्मकोच्चैर्गतिप्राप्तिहेतुरुपायः। उपरि आयतीत्यर्थे पृषोदरादित्वात् उपरिशब्दे रिलोपः णिचो लोपश्च । तस्य तत्त्वम् स्वरूपम्। कर्मज्ञानभक्तिप्रपत्त्याचार्याभिमानात्मकानां पञ्चानामुपाया- नां मध्ये पंचमोपायः आचार्यात्मकः,सच रामानुजार्य इति पर्यवसा- नगतिः । अस्मद्विधानाम् अस्माकं पूर्वोक्तयत्नप्रसादाऽभिमाना- तिशयितज्ञानादिविकलानामस्माकम्, विधाः प्रकारा इव विधाः प्रकारा येषां तेषाम्।बहुत्वदयेन भूयस्तमत्वं लत्यते । दैन्यं दीनत्वम्, प्रणष्ट स्वरूपकत्वं स्वरूपनाशमिति यावत् । दर्शदशं दृष्ट्वा दृष्ट्वा । 'दीङ क्षये' इत्यस्मात् दीनशब्दो निष्पन्नः। कपातिशयवशात पुनःपुनः दर्शमिति द्विरुक्तिः स्वैरालापैः आन्तरालिकासक्तानुप्रस- तसरसश्रीसूक्तिभिः । अस्मद्विधानां सुलभयसि सुलभं करोषि । बहुतरस्वानुवर्तनसाध्यबहुतराचार्यप्रसादबहुश्रुत्याधुपकरणैरनवरता- तिशयितज्ञानवता येन केनचित्कयंकथंचित् शक्यज्ञानञ्चरमोपाय: मनायासेन स्वैरभाषणैरज्ञानामस्मदादीनां भूयस्त्वन्न केवलं सुगम करोषि, किन्तु सुलभमपि करोषीत्यर्थः। वर्तमाननिर्देशेन सदा करोषीति लायते । ईशमहौदाद्धि "प्रपन्नजनचातकाम्बुदम्"
सव्याख्यानम् ।
(१९)
इति व्यपदिश्यन्त्येनम् । “कर्तुं त्यक्तुमपि प्रपत्नुमनलं सौदामि दुः-
साकुलः” इत्युक्तम् । स्वरूपस्वातन्त्र्यचिन्तनहेतुकभीतिप्रयुक्तं वा
दीनत्वमिह दैन्यमित्यत्र विवक्षितम् । स्वैरालापरित्यनेनाऽस्मद्धि-
धानां हितोपदेष्टुतादृशभवद्विषयेऽपि दुर्मानमूलकाऽसूयाप्रसवभूमि-
त्वमभिसन्धायोपदेष्टुपदेश्यमर्यादां गृहयित्वैव सरससँहापापदेशेन
साहशार्थविशेषाऽऽवेदकत्वमित्यपि लायते अत्र आत्मा येषु इत्यादिषु
"यस्य देवे" "देवमिवाचार्यम्" "गुरुरेव परं ब्रह्म "साक्षान्नारायणो
देवः "आचार्यवत्तया” 'आचार्यवान् पुरुषो वेद" "येनैव गुरुणा
यस्य” “यस्यानुभावपर्यन्ता" "अन्वयादपि चैकस्य " "बालन-
कजडान्धाश्च "धन्याः केचन तेभ्योऽपि तेषामादेशवर्तिनः "सि-
धिर्भवति वा नेति संशयोऽच्युतसेविनाम् । न संशयोऽस्ति तद्भक्तप-
रिचर्यारतात्मनाम्” “यत्र पूर्वे” “यत्र ऋषयः” "चक्षुषा तब सौ-
म्येन पूतास्मि रघुनन्दन । पादमूलं गमिष्यामि यानह पर्यचा-
रिषम्" "नय मां निजभृत्यपाच कथन्नु विसृजे तव भत्यदास्यम्"
इत्यादिकं द्रष्टव्यम् । इदमुपलक्षणम् आचार्योक्तीनामपि “पितामह
नाथमुनि विलोक्य "यदा भागवताभिमानस्तव भरोऽहमकााँ
"सत्यं सत्यं पुनस्सत्यं यतिराजो जगद्गुरुः भक्तिमात्ती यदि
दुष्करे वो रामानुजार्यम्" "विष्णुः शेषी" "तनिष्ठसंश्रयः "तद-
नुबन्धमदावलिप्तो "रामानुजः शरणमस्तु मुनिः स्वयम्" "अनुक-
ल्पभूतमुरभित्पदम् "दिव्यापांगं दिशासि करुणे येषु सद्देशिकामा
क्षिप्रं प्राप्तावृषगिरिपति क्षत्रबन्ध्वादयस्ते ।” "तृणीकतविरिश्च्या-
दि कालत्रयेऽपि करणत्रय” इत्यादिकं द्रष्टव्यम् ॥ १३ ॥
(२०) श्रीवरवरमुनिशतकं- अ०-अथ द्वाश्यां श्लोकाभ्यां वरवरमुनीनामुक्तविधत्वे भगवान् श्रीरंगनाथ एव प्रमाणमित्याह- मू-सत्सम्बन्धो भवति हितमित्यात्मनैवोपदिष्टं । शिष्टाचारं दृढयितुमिह श्रीसखो रंगधुर्यः॥ द्वारं प्राप्य प्रथितविभवो देवदेवस्त्वदीयं । दृष्ट्वैव त्वां वरवरमुने दृश्यते पूर्णकामः ॥१२॥ व्या०-सत्सम्बन्ध इति॥ हे वरवरमुने प्रथितार्वभवः प्रसिद्धसमृ- दिकः श्रीसखः श्रियःसखा रंगधुर्यः श्रीरंगनाथः सत्सम्बन्धः सतां "सन्तमेनं ततो विदुः" इति स्वरूपज्ञानेन लब्धसत्ताकानां, संम्बधः सहवासादिरूपसंसर्गः हितं परमपुरुषार्थसाधनं भवतीति आत्मनैव स्वेनैव उपदिष्टम् अज्ञातज्ञापनविषयक गीतादिष्विति शेषः। शिष्टा- चारं शिष्टानां तत्त्वहितपुरुषार्थेषु त्रान्तिरहितानामाचारमनुष्ठानं दृढ- यितुम् अनुष्ठानन स्थिरीकर्तुम् “यद्यदाचरति श्रेष्ठः” इत्युक्तरिति मावः। श्रेष्ठतानियामकश्च प्रथितविभवः श्रीसखः देवदेवः इति विशे- पणत्रयोपादानम् । किञ्च श्रियापि "इह सन्तो न वा सन्ति सतो वा नानुवर्तसे" इत्यादिना सत्सम्बन्धस्य हितत्वमुपदिष्टमिति तस्या अपि सहागतिरावश्यकीति श्रीसख इत्युक्तम्। त्वदीयं द्वारं श्रीमदीयदि व्यावासद्वारं प्राप्य 'सुदूरमपि गन्तव्यम् इतिवतु आसाय प्राप्तिरप्युद्दे श्येति सूच्यते । त्वां दृष्ट्रय पूर्णकामः पर्याप्तमनोरथः दृश्यते सर्वैरपि साक्षाक्रियते स्वोपदेशस्याननुष्ठानलक्षणाप्रामाण्यपरिहाराय स्वय- मनुष्ठातुमागत्येति विवक्षितम्, स्वोपदिष्टदृढीकरणं नान्तरीयक कृत्यं सव्याख्यानम् । (२१) त्वदर्शनलक्षणविलक्षणफललाभेन पूर्णमनोरथः श्रीरङ्गनाथ इत्यत्र सर्वेऽपि साक्षिणः स च भवन्माहात्म्यसाक्षीति भावः ॥ १२॥ अ०-दारं प्राप्य दृश्यते इत्युक्तोपसदनपूर्वक "तद्विद्धि प्राणिपातेन परिजश्नेन सेवया । उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः” इति स्वोपदिष्ठमर्थमनुष्ठानेना दर्शयन्नित्याह- मू-सोऽयम्भूयस्स्वयमुपगतो देशिकैस्संसदंते। श्रुत्वा गूढं शठरिपुगिरामर्थतत्त्वं त्वदुक्तम् ।। आगोपालं प्रथयतितरामद्वितीयं त्वदीयं । वाचां दूरं वरवरमुने वैभवं शेषशायी ॥१३॥ व्या०-सोयम्भूय इति॥हेवरवरमुने! सोऽयं देवदेवत्वादिगुणविशिष्टो- ऽनुपदोक्तोपसदनविशिष्टश्च श्रीरंगनाथः देशिकै आचार्यपदनिर्वाहक नाण्यामुनप्रमुखैरित्यर्थः। सहयोगे तृतीया'तैर्युक्तः सन् चिरोपासन- विपयस्य ते तव संसद श्रीमती दिव्यसभाम,सम्यक् सीदन्त्यस्याम् इनि संसद सीदन्तीत्युक्तनिषसदनस्य सम्यक्त्वञ्च समीचीनकर्तृत्वप्रयुक्त- मिति विलक्षणपुरुषप्रकाण्डाधिष्ठितत्वं व्यज्यताअतोनसभामित्युक्तिः। भूयः पुनः पूर्वश्लोकोक्तागमनमनुवर्तनार्थ ततोऽभ्यदिदमुपदेशसिद्धयर्थ मिति पुनश्शब्दार्थोपपत्तिः। स्वयमुपगतः सञ् स्वयमुपसन्नस्सन् स्वय- मित्यनेनाचर्यासाधारणमर्चपराधीनाखिलात्मस्थितित्वमपि परि- त्यक्तमिति व्यज्यते । त्वदुक्तं चिरोपासितेन त्वयोपदिष्टं शठरिपुगि- राम् अन्यथाज्ञानादिनिरासकं भगवत्सरांकुशपाददिव्यसुक्तीनाम् अर्थतत्त्वम् अभिधेयस्वरूपं याथात्म्यं वा श्रुत्वा शब्देन बुद्धायदा त्वत (२२) श्रीवरवरमुनिशवकं- इति पृथक्पदम्पञ्चम्यन्तम् उक्तम् । कलिवैरिदासपादैर्व्यक्तं प्रतिपा- दितम् । 'बन्-व्यक्तायां वाचि' इति धातोः क्तप्रत्यये 'ब्रूवोचि रिति वच्यादशः। षट्त्रिंशत्सहस्त्रिकायां विस्तरेण व्याख्यातम् । गूढम् एवमपि दुरवहशठरिपुगिरामर्थतत्वम्, त्वत् श्रुत्वा भवत्सकाशान्नि- यमपूर्वकमाधिगम्य । "आख्यातोपयोगे" इति पञ्चमी वाचांदूरं वाचा- मगोचरम् अद्वितीयं नास्ति सदृशं द्वितीयं यस्य तथोक्तम् । त्वदीयं समयगुरुपरम्पराविलक्षणं भवदीयम्। वैभवं माहात्म्यं न ह्याचार्येष्वेवं श्रीरङ्गनाथो यत्र क्वचिदुपससादेति वा तत्वम्बुबुधे इति वा शुश्रुमः । शेषशायी सन् भुजंगशयस्सन् सहस्रवदनमधिष्ठितस्सन्वा आगो- पालं गोपाला ह्यज्ञा इति प्रसिद्ध तानपि अभिव्याप्य, विशेषज्ञाऽविशे षज्ञविभागराहित्यनेत्यर्थः। प्रथयतितराम् अतिशयेन प्रख्यापयति 'प्रथप्रख्याने अत्र शेषशायी इत्यनेनामुमर्थ सत्यापयामीति. भुजगश यानस्सन् इति व्यज्यते । सत्यापयितारो हि भुजं गर्म गृहन्ति नाहं केवलं गृह्णामि, किन्तु तस्मिन निर्भयश्शयनं करोमि इति । तस्मिन् शयानस्सन् इति सत्याप्य वरवरमुनिवरवैभवे याथायें दाढय स्फार्यते। सहस्रबदनशेषसाहाय्येन प्रख्याप्यवैभवस्य वा भूयस्तमत्वं व्यज्यते । अत्र वक्तव्यं सम्प्रदायतोऽवगन्तव्यम् ॥ १३ ॥ अ०-एवमनिवरसाधारणमाहात्म्यमुक्तम्, "स्वयमाचरते यस्तु आचारे स्थापयत्यपि'इत्युक्तं परार्थपरतन्त्रत्वरूपमुत्तारकत्वं परप्रवा दयितृत्वरूपमुपकारकत्वं पुरुषकारत्वञ्चाह, यहा वरवरमुनिवरव्यति- रिक्तविषये गुरुपुरुषकारोपायानां भेदेन नैकरूपत्वं हि तस्य अस्य तु सर्वविधत्वेनैकरूपत्वमित्याह- सव्याख्यानम्। (२३) मू-सिद्धोपायस्त्वमिह सुलभो लम्भयन्पूरुषार्था- नज्ञातांश्च प्रथयसि पुनः यत्ततो देशिकस्त्वम् । देवी लक्ष्मी भवास दयया वत्सलत्वेन च त्वं । कोसौ यस्त्वां वरवरमुने।मन्यते नात्मानीनम्॥११॥ व्या-सिद्धोपायइति॥ हे वरवरमुने! पुरुषार्थान् पुरुषरर्यमा- नमोक्षादीन् । अत्राऽऽ दिकचतुर्विधानामपि ग्रहणं, तेषाञ्चरमाविषये ऽपि अविशेषात् लम्भयन्प्रापयन् ।पुरुषान इति शेषः । सुलभः न तु सुकरस्त्वम्, सिद्धोपायोऽसि सिद्धः चेतनव्यापारानपेक्षस्वरूपकः उपायः पुरुषार्थसाधनभूतोसि । सुलभ इति सिद्धत्वं लम्भययन् इति उपायत्वञ्च अत एव लम्भयन् इति णिजन्तेन णिजन्तोपायशब्द विवरणम् । अत्रोपायसिद्धताप्रयुक्तं सर्वदाकार्योत्पत्तिप्रसंगम् । सुलभ इत्युत्तोपायलाभहेतुभूतायाः पुरुषार्थान् इत्यत्रोक्तायाः प्रार्थनामात्रस- न्तुष्टः । "प्रार्थनामतिः” “अपत्तिः शरणागतिः "विश्वासपूर्व- कम्" इत्यादौ प्रतिपादितायाःप्रार्थनाया अभावो वारयतीति संक्षेपः। अज्ञातान्, स्वस्वरूपायनभिज्ञान्प्रथयसि ज्ञापयसि इति । यत्ततो देशिकोऽसि दिशति उपदिशति इति देशिक: आचार्यः। दिशते. करि णन् । किञ्च, त्वं पूर्वोक्तधर्मद्वयविशिष्टस्त्वम् । दयया आभि- मुख्यमात्रोद्भूतरुपया वत्सलत्वेन तथाविधवात्सल्येन च, अत एव हि पुरुषकारस्य पुरुषकारानपेक्षा,देवी देवस्य स्त्रीकर्मानुगुणफलप्रदानात्म- कव्यवहारशीलस्य प्रीतिविषयभूता 'दिवुक्रीडाविजिगीषाव्यवहारे' त्यादि । इदञ्च पुरुषकारवोपयुक्तविशेषणम् । लक्ष्मीर्भवसि लक्ष्म्य- (२४) श्रीवरवरमुनिशतकं- धिष्ठातृप्रयुक्तपुरुषकारत्ववान् भवसि । अयःपिण्डो वह्निरितिवत सामानाधिकरण्यम् । उक्तञ्च एतत्सम्बन्धसापेक्षमन्येषाममलात्म- नाम् । देविसूरिगुरुणाञ्च घटकत्वं न तु स्वतः" इति । यत एवं ततः यस्त्वाम् उपायादिश्यात्मकं भवन्तम् । आत्मनीनम् आत्महि- तम् । हिताधिकारे आत्मनो यत्सनाविति खञ् न मन्यते न जानाति । असौ आत्मद्रोही कः किस्वरूपः प्रेक्षावान् तव हि तत्त्वानातीति भावः ॥ १४ ॥ अ०-भगवद्रामानुजाचार्यस्यैवोपायत्वं प्रसिद्धम्, इह तु वरवरमुनेस्तदुक्तमितीमं विरोधं तदभिन्नाभिन्नस्य तदभिन्नत्वनयनेन परिहरति- मू०-नित्यं पत्युः परिचरणतो वर्णतो निर्मलत्वात् । वृत्या वाचां विबुधसरितश्चातुरीमुद्रिरन्त्या॥ शेषः श्रीमानिति रघुपतेरन्तरेणाऽपि वाणीः को नाम त्वां वरवरमुने कोविदो नावगन्तुम्।। १५॥ व्या-नित्यं पत्युरिति ॥ हे वरवरमुनेकः जन्तुः नित्यम्पत्युः परिचरणतः सर्वकालशेषिविषयकारोषशेषवृत्या वर्णतो निर्मलत्वाद, श्वेतवर्णनिष्ठनैमल्यात् सप्तभ्यास्ततिः। विबुधसरितः गगनगंगायाः चातुरी विनमम् उद्भिरन्त्या उद्दमन्त्या वाचां वृत्या व्यापारेण च हेतु- मिः हेतुना वा त्वाम् उक्तहेत्वाश्रयस्त्वाम् । श्रीमान् शेष इति अवगन्तुं श्रीरिह “ लक्ष्मणो लक्ष्मिसम्पन्नः" इत्युक्तलक्ष्मणावता- रश्री "श्रीमान् रामानुजार्यः पदकमलयुगम्" "श्रीमानाविरभुद्धमौ रामानुजदिवाकरः' "श्रीमॅलक्ष्मणयोगि” इत्यायुक्तरामानुजावतार .
सव्याख्यानम् । (२५) श्रीश्च विवक्षिता । तादृशशेष इत्यनुमातुम्, यद्दा श्रियः कैर्य- सम्पच्छोभा, ऋग्यजुःसामाथर्वणोपलक्षिता वाक्च तद्वान् । “ऋचो यजूंषि सामानि “सा हि श्रीरमृता सताम्" इत्युक्तेः । तादृशशेष इत्यनुमातुम् । रघुपतेः वाणीमन्तरेणाऽपि अस्मद्कुलधनश्रीरघुकु- लनाथश्रीसूक्ति विनापि अवगन्तुमित्यन्वयः। न कोविदो नाम सर्वोऽ पि कोविद इत्यर्थः । अत्र शब्दानुग्रहीतानुमानस्य प्रामाण्यमिति वासनया रघुपतेरन्तरेणापीत्युक्तम् । एतेन स्वस्य वरवरमुनिश्शे- पावतार इति रघुनाथोऽकथयत् इति स्फोर्यते । इदञ्च सम्प्रदायतोऽ वगन्तव्यम् ॥ १५॥ अ०-इत्थं शेषावतारत्वरूपयुक्तिं साधयित्वा पूर्वोक्तविरोधपरि- हारं निगमयति- मू०-सत्यं सत्यं पुनाति पुरा सारविद्भिर्यदुक्तं । ब्रूमश्रोत्रैश्पृणुत सुधियो मत्सरं वर्जयित्वा ॥ तत्त्वं विष्णुः परमनुपमं तत्पदं प्राप्यमेवं । तत्सम्प्राप्तौ वरवरमुनिर्देशिको दीर्घदर्शी ॥१६॥ व्या०-सत्यं सत्यमिति ॥ हे सुधियः ! शास्त्रशीलनपरिष्कृतबु- यस्सारविद्भिासेन पूर्वाचार्यश्च सत्यं सत्यम्पुनरिति यदुक्ता "सत्यं सत्यं पुनस्सत्य मुद्धत्य भुजमुच्यते । वेदशास्वत्परं नास्ति न दैवं केशवात्परम्” इति व्यासेन "सत्यं सत्यं पुनस्सत्यं यतिराजो जगद्गुरुः। स एव सर्वलोकानामुखी नात्र संशयः" इत्याचार्यश्च यदुक्तं तद्ब्रूम तत् इति लायवे मत्सरं वर्जयित्वा "बोद्धारो मत्सर (२६) श्रीवरवरमुनिशतकं- प्रस्ताः इति साधुत्वनियतान्यकृतशुभकार्यद्वेषरूपमात्सर्यमुत्सायं श्रोत्रैः शृणुत श्रोतृनिर्माणसाफल्यं लभध्वमिति भावः । किन्तदि- त्यत्राह, तत्वम् इत्यादि । विष्णुः परंतत्वम् अनुपमं तत् पदं तस्य विष्णोः स्थानम् । प्राप्यं पुरुषोरिति शेषः । दीर्घदी सर्वज्ञः वरवर मुनिः। एवम्पूर्वोत्तरीत्या रामानुजावतारत्वात् तत्सम्प्राप्तौ चरमपर्व- लक्षणविष्णुपदप्रानौ देशिकः दाता आचार्य इति वार्थः । तस्य सम्प्राप्तिरिति विग्रहः । आतिः प्राप्तिस्सा प्राप्तिः आप्तिः प्रथमपर्व विधया प्राप्तिः मध्यमपर्वविधया सम्पाप्तिः चरमपर्वविधया एवं प्राप्यमित्यत्रापि आप्यम् आआप्यं प्रआप्यमिति द्रष्टव्यम् । "अकस्सवणे” इति दीर्घोत्राऽनुशिष्टः ॥ १६ ॥ अ०-वरवरमुनिसम्बन्धतद्वयतिरेको मुक्तिनरकयोः प्रयोजका- वित्याह- मू-लक्ष्यं यस्ते भवति भगवंश्चेतसश्चक्षुषो वा । तुभ्यं द्रुह्यन्त्यपि कुमतयो ये वृथा मत्सरेण ॥ मुक्तिं गच्छेन्मुषितकलुषो मोहमुध्दूय सोऽयं । नानाभूतान्वरवरमुने नारकान्प्राप्नुयुस्ते ॥१७॥ व्या०-लक्ष्यमिति ॥ हे भगवन् ! वरवरमुने ! यः ते चेतसः अथवा चक्षुष अन्यार्थोन्मीलितचक्षुषः लक्ष्यं शरव्यम्भवति शरव्य- विषयी भवति । कुमतयः कुबुद्धयः । ये मत्सरेण अन्यकतशुभकार्य- देषरूपमत्सरेण हेतुना वृथा निरर्थक तुल्यं सर्वप्राणिप्राणनभवद्विषये द्रुह्यन्ति अपकारं कुर्वन्ति क्रुधदुहेति चतुर्थी सोऽयं त्वदपांगविषयी- AMARRIAAR सव्याख्यानम्। (२७) भवनरूपभाग्यवत्तया प्रशस्तः पुरुषः मुषितकलुषस्सन्स्वेनाऽप्यज्ञात अपगतसर्वपापस्सन् । 'मुषस्तेये' क्तः मोहम् अन्यथाज्ञानादिकम् उद्भूय विमुच्य "अश्व इव रोमाणि विधूय” इति अतिः स्मार्यते। मुक्तिं परमपुरुषार्थकाष्ठां गच्छेत् प्राप्नुयात् । ते द्रोग्धारः इमे च मुषितकलुष इत्युक्तमोषणकर्तारः 'अप्रियादुष्कृतम् इत्युक्तेः । नानाभूता अविद्यमानेषु अपर्याप्त्या भयोऽपि बहुधो- त्पन्नान् नारकान् समूहस्यैव शेषत्वविवक्षयाऽप्रत्ययः। नरकसमूहा- नित्यथः प्राप्नुयुः ॥ १७ ॥ अ०-यथाकश्चित् वरवरमुनिसम्बन्धोऽपि मुक्ताव्यभिचारितो- पाय इत्याह- मू-स्वप्नेऽपि त्वत्पदकमलयोरनलि कल्पयित्वा । श्रुत्वा यद्वा सकृदपि विभो ! नामधेयं त्वदीयम् ॥ निष्प्रत्यूह वरवरमुने ! मानवः कर्मबन्धान् । भस्मीकृत्य प्रविशति परं प्राप्यमेव प्रदेशम् ॥१८॥ व्या०-स्वम इति ॥ हेवरवरमुने ! मानवः मनुष्यत्वजातिमान पः, कश्चन बा भवत्विति भावः । त्वत्पदकमलयोः प्राप्तशेषिणस्तव, कमलवत्पावनभोग्यचरणविषये अञ्जलि स्वमेऽपि कल्पयित्वा स्वा- मिकदशायामपि कृत्वा स्वामिककत्याकत्ययोर्न फलजनकपाय- श्चित्तीयत्वे, किन्तु यथा स्वफलविशेषसूचकत्वमात्रमित्यपि शब्दप्रयोगः । प्रस्तुतप्रभावातिशयावेदनाय मतान्तरवत् स्वमम- यथार्थमङ्गीकत्य वाऽपि शब्दप्रयोगः । “वपुरादिषु योऽपि (२८) श्रीवरवरमुनिशतकं- कोऽपि वा” इतिवदिति । स्वमेऽपि निद्रायामपि मुखं व्यादायेति- स्वापोत्तरव्यादानवत् त्वदिगभिमुखं स्वापकालिकवातप्रयुक्ताञ्जलि बा कत्वेत्यर्थः । यद्वा पूर्वोक्तकल्पाभावे त्वदीयं नामधेयं सक्कदपि एकवारमपि श्रुत्वा, न कीर्तनक्लेश इति भावः । शब्दो हि वायुना नीयमानो ऽवर्जनीयश्रवण इति हृदयम् । निष्पत्यूहं निर्विघ्नं प्रारब्ध निवृत्तिपूर्वक कर्मबन्धान तदितरपूर्वोत्तरपुण्यपापरूपान् भस्मी- कृत्य नाशयित्वा परं प्रकष्टं प्राप्यं प्राप्तव्यम् । प्रेदशमव बैकुण्ठं- दिव्यभुवनरूपमेव प्रविशति प्रदेशभेदेन चरमाधिकार्युचितो भाग इति सूच्यते ॥ १८॥ अ०-वरवरमुनिवैभवज्ञस्य मयोक्तमिदं रोचेत स एव दुर्लभ इत्याह- मू०-यस्मिन् किञ्चिद्विधिरपि यथा वीक्षितुं न क्षमः स्यात् । वक्तुं शक्तः क इह भगवन् ! वैभवं तत्त्वदीयम् ॥ यस्सर्वज्ञः स खलु भगवानीक्षते तत्समय। तस्याऽपि त्वं वरवरमुने ! मन्यसे तत्त्वमेकः ॥१९॥ व्या०-यस्मिन्निति ।। हे भगवन् ! वरवरमुने ! यथा येन कारणेन विधिरपि सर्वजगत्स्रष्टा चतुर्मुखोऽपि यस्मिन् त्वदीयवैभवे । किञ्चित् एकदेशमपि वीक्षितुम्, न क्षमस्स्यात् न योग्यः स्यात् । तत् तादृशम्, त्वदीयं वैभवम् इह आज्ञाशक्तपायप्रपञ्चे कः वक्तुं शक्तः न कोपीत्यर्थः। अलीकत्वं प्रतिक्षिपति ( यः ) इति सर्वज्ञः यः सहजसार्वज्ञवान् यः । भगवान् स खलु परमैश्वर्यविशिष्टः स एव।
SAUR सव्याख्यानम्। (२९) तत् समयं तव वैभवं समग्रम् । ईक्षते अनवधिकत्वाद्यशेषविशेषयुक्तं साक्षात्करोति एकस्त्वम् अद्वितीयस्त्वम् । तस्य तत्त्वमपि अनव- धिकातिशयैश्वर्यस्य तस्य स्वभावमपि समग्रम् । मन्यसे अनव- धिकत्वाद्यशेषविशेषयुक्तं जानासि ।अतो मया पूर्वश्लोकोक्तं तस्मा एव न रोचत इत्याशयः॥ १९ ॥ अ०-वरवरमुनिकटाक्षबीक्षणवशात् स्वस्य तद्वैभवविषये कि- चिज्ज्ञतापीत्याह- मू-कालोऽनन्तः कमलजनुषो न व्यतीताः कियन्त- स्तिर्यङ्मय॑स्तृणवनलताः प्रस्तरोवाऽप्यभूवम् ॥ इत्थं व्यर्थं निमृतिशतैरेनसामेव पात्रं। दिष्टया सोऽहं वरवरमुने दृष्टिगम्यस्तवासम् ॥२०॥ व्या०-काल इति॥ हे वरवरमुने ! कालोऽनन्तः अपरिछिन्नः। कियन्तः कीदृशसंख्याकाः कमलजनुपः कमले भगवन्नाभिकनले पझे जनुः उत्पत्तियेषां तथोचाः चतुर्मुखाः न व्यतीवा न गताः। अहं तिर्यगभूवं पश्वादिरभूवम्, मोऽभूवम् अनुलोमप्रतिलो- मात्यां ब्राह्मणादिरभूवम् । तृणवनलताः तृणानि वनानि लताश्चेति इन्दः । तृणवनलता अभूत्रम्, गतोऽहमित्यर्थः प्रस्तरो वा शिला वाऽभूवम् अहल्यावासवदत्तावदिति भावः । अनादौ संसार इत्ये- तन्न्यायसूचनाय कालो ऽनन्त इत्युक्तम् । स्रष्टारश्च बहव इति वक्तुं कमलजनुष इत्यायुक्तम्, यद्दा कालो ऽनन्त अपरि- च्छिन्नः यत एव ततोऽहं व्यतीताः कियन्तः कमलजनुषो नाऽभूवम,
(३०) श्रीवरवरमुनिशतक-
कियन्त इत्येतत् प्रथमया विपरिणमध्य कियान् मत्ा नाभूवम्,
इत्यादियोजनीयम् । इत्थं पूर्वोक्तरीत्या व्यथैः जनिमृत्योरभावे
मृतिजन्योरभाव इति परस्परव्यतिरिक्तफलरहितैः परमपुरुषार्थर-
हितैर्वा । अनेन "वृथैव भवतो याता भूयसी जन्मसन्ततिः”
इति वचनं स्मार्यते । जनिमृतिशतै अनेन "जायस्व नियस्व” इति
श्रुतिः स्मार्यते । शतशब्द इहाऽनन्त्यवाचक अनन्तैर्जननमरणैर्हतौ
तृतीया अस्याश्च :दिष्टयेत्यत्रान्वयः । जनिमृतिशतैर्या दृष्टिस्तये-
त्यर्थः । दिष्टिविधिस्स च भगवत्कृपा तेनाऽप्यनतिकमणीयत्वात
तस्यास्तथा व्यपदेशः । एतेन “ एवं संमृतिचक्रस्थे चाम्यमाणे
स्वकर्मभिः । जीवे दुःखाकुले विष्णोः करुणा कापि जायते"
इति वचनं स्मार्यते । दिष्टयेत्यानन्दार्थको निपातो वा। अत्र पक्षे
जनितिशतैरिति उपलक्षणे तृतीया अहमित्यत्रान्वेति सोऽहमित्य
व्यर्थैर्जनिमृतिशतैः दिष्ट्या केवलदुर्गविहेतुकभगवत्कृपया तब दृष्टिगम्य
आसम् त्वत्कटाक्षविषयोऽभवम् । “असभुवि" लडुत्तमपुरुषः ।
अतएव तव वैभवे किंचिज्ज्ञताऽपि मे जाता इत्याशयः ॥ २० ॥
अ०-"माधवांघिदयोपायो माधवांधिप्रयोजनः” इत्युक्तके-
शबैकान्त्यभाजामपि वरवरमुनिरपक्षित इत्याह-
मू०-मुक्त्वैव त्वां वरवरमुने सम्पदां मूलकन्दं ॥
क्षेमं किञ्चिन्नखलु सुलभं केशवैकान्त्यभाजाम् ।
दृष्टो दैवात्तव पुनरनुक्रोशकोशैरपाङ्ग-
निमर्यादः पशुरपि भृशं नीयते निर्मलत्वम् ॥ २३॥
सव्याख्यानम् । (३१) व्या०-मुक्कैवेति॥हे वरवरमुने!केशवैकान्त्यभाजाम,केशवे ब्रह्मे- शानाद्युत्पत्तिहेतौ क्लेशनाशने प्रशस्तकुंतलेवा भगवति ऐकान्त्यं प्राप्यत्रा पकनैय्यत्यं भजन्तीति केशवैकान्त्यभाजः तेषां केशवैकान्त्यभाजाम्। सम्पदा मूलकन्दं त्वामुक्त्वा केशवकान्त्यं भजन्ति ये तेषाम् । क्षेमम्, प्राप्तांशपालनमपि न खल सुलभं नैव सुलभम् । निर्मर्यादः विधिनिषे- धरहितः पशुः जननितदितविषययोर्वपरीत्येन वर्तमानपशुसदृशः पुरुषः । अनुक्रोशकोशैः, अनुक्रोशस्य मुक्तकण्ठकोशनहेतुपरदुःखदु- खित्वरूपकरुणायाः कोशैः वित्तगृहभूतैः तवाऽपाङ्गैः, दैवात् दृष्टः हेतुं बिना केवलादृष्टवशादृष्टस्सन् भृशम् अतिशयेन निर्मलत्वम् । निर्दोषत्वम्, नीयते प्राप्यते अत्र "दुराचारोपि यस्याऽनुभावपर्यन्ता बुद्धिः” इत्यादि द्रष्टव्यम् ॥ २१ ॥ अ०-"चितः परमचिल्लाभे प्रपत्तिरपि नोपधिः । विपर्यये नैवात्य प्रतिषेधाय पातकम्" इति श्लोकच्छायया वरवरमुनिवराऽ संबन्धसम्बन्धयोस्सतोः प्रपत्तिपातके अकिञ्चित्करे इत्युक्तम्, इदानीं स्वस्य वरवरमुनिपादैकान्त्यप्राप्तौ विस्मयते- मू०-मर्त्यङ्कञ्चन्वरवरमुने ! मानहीनःप्राशंसन् । पादौ तस्य प्रपदनपरःप्रत्यहं सेवमानः॥ तच्छेषत्वं निरयमपि यश्श्लाघ्यमित्येव भुते। सोऽयं प्राप्तः कथमिव परं त्वत्पदैकान्त्यवृत्तम् ॥२२॥ व्या०-ममिति ॥ हे वरवरमुने! यः अयञ्जनः कञ्चन्मय॑म् अभिजनविद्यावृत्येष्वन्यतमेनापि शून्यं केवलं मनुष्यत्वजात्यव- (३२) श्रीवरवरमुनिशतकं- च्छिन्नम्, मानहीनः आत्मसंभावनामूलचित्तसमुन्नत्या हीनश्शून्यः प्रशंसन् प्रकर्षण स्तुवन् सन् अत्र च "माने गच्छति वारयन्त्युपशमे मामालिखन्त्यां ह्रियाम् इति श्लोको योजयितव्यः।प्रपदनपरः अपे- क्षितयाचनापरस्सन तस्य स्तुत्याऽभिमुखस्य तस्य पादौ चरणौ प्रत्यहं प्रतिदीन सेवमानश्च सन् तद्विषयकसबाहनायनुकूलवृत्ति कुर्वाणश्च सन् निरयमपि अप्राप्तत्वहेयत्वाभ्यां नरकतुल्यमपि तच्छे- पत्वं तस्य पुरुषाधमस्य शेषत्वम्, तादर्थ्यम् श्लाध्यमित्येव प्राप्तत्व भोग्यत्वाच्यामभिनन्दनास्यमित्येवेति जाननेव भुंक्ते सुखरूपज्ञान- विषयीकरोति एवकारेण न तु कदाचिदपि तदीयदुःखरूपता जानन्निति लभ्यते अत्र पूर्व हेयपुरुषदर्शनं ततोऽस्य मानहानिः, अनन्तरं तत्पशंसा, अनन्तरं तथा प्रीतेन तेन पादप्रसारणम्,अनन्तरं तत्प्रसारितपादशुश्रूया, अनन्तरं तदशीकरणमनन्तरन्तम्प्रति स्वापे- क्षितयाचा अनन्तरं तदज्युपगन्तृतच्छेषत्वभोग इति कमो व्यज्यते भुंक्त इति वर्तमान समीपभूते लट् । सोऽयं तादृशोऽयं परम् "इन्द्रि- येयः परा ह्याः” इविवत दुष्पापं त्वत्पदैकान्त्यवृत्तम् त्वदी- यश्रीपादविषयकोपायोपेयाऽध्यवसायरूपवृत्तिम् कथमिव प्राप्तः केन प्रकारेण प्राप्तः, इति विस्मयो गम्यते अत्र स्वरूपज्ञानानन्तरं सोऽहमभुजे इति वक्तव्ये परोक्षनिर्देशं करोति तस्य पूर्वमसत्वात सोऽहं प्राप्त इति वक्तव्ये सोऽयमिति वदति- अंह शब्दोच्चारणभ- यादिति ॥ २२ ॥ अ०-पूर्वोक्तवृत्तप्राप्तिरपि तत्कटाक्षहेतुकेत्याह- सव्याख्यानम्। (३३) मू-नित्यानां यः प्रथमगणनां नीयसे शास्त्रमुख्यैः। कृत्याऽऽकृत्या भवसि कमलामतुरेकान्तमित्रम् ॥ देवः स्वामी स्वयमिह भवन्सौम्यजामातृयोगी। भोगीश त्वद्विमुखमपि मा भूयसा पश्यसित्वम्॥२३॥ व्या०-नित्यानामिति ॥ हे भोगीश शैत्यसौरत्यमार्दवस्वभाव- क भुजगपते शास्त्रमुख्यैः भगवच्छास्त्रप्रभृतिभिः यस्त्वं नित्यानां कदाचिदप्यस्पृष्टप्रकृतिसम्बन्धानां शेषशेषाशनादीनाम्, प्रथमगणनां तेषां मध्ये आदिगणनां नीयले प्राप्यसे तहेतुमाह-कृत्येतिीयस्त्वम् कृत्या अशेपशेषवृत्त्यात्मकव्यापारण, आकत्या निवासशय्यासनपा दुकेत्युक्ततदुपयुक्तशरीरभेदैश्च कमलाभर्तुः श्रियःपतेः एकान्तमित्र भवसि नियतमित्रमसि त्वम् त्वाद्विमुखमपि माम् तादृशे त्वयि आभि मुख्यमात्रेणाऽपि शून्यं माम् इह संसारमण्डले देवः स्वामी सौम्य- जामातृयोगी भवन्सन् देवः शेषी स्वामी स्वेषु स्वत्त्वाभिसन्धानवान तादृशवरवरमुनिरूपेणावतरन् सन, भूयसा अतिशयेन पश्यलि कटाक्षविषयीकरोषि ॥ २३ ॥ अ०-वरवरमुनिः स्वयमेवात्मानमंगीचकारेत्याह- मू-अर्थौदार्यादपि च वचसामञ्जसा सन्निवेशा- दावि ष्पैरमलमतिभिनित्यमाराधनीयम् ॥ आशासानैर्वरवरमुने नित्यमुक्तैरलभ्यं । मयों लब्धं प्रभवति कथं मद्विधः श्रीमुखं ते॥२४॥ व्या०-अर्थौदार्यादिति ॥ हे वरवरमुने ! अर्थस्याभिधे- यस्य औदार्यात महत्वात् अर्थेऽभिधेये विषये, औदार्यात् (३४) श्रीवरवरमुनिशतकं- दातृत्वान्महार्थप्रतिपादकत्वाहा अनेकार्थप्रतिपादकत्वाद्देत्यर्थः । ५ उदारो दातृमहतो इति कोशः । वचसामञ्जसा सन्नि- वेशात; अपिपदानां संग्रहेणावस्थानादपि चेत्यनुक्तप्रसादादीनां समुच्चयः आविर्बाष्पैः प्रसृताधिकाश्रुभिः अमलमतिभिस्तथा सारग्रहणौपयिकपरिणामेन निर्दोषबुद्धिभिर्महद्भिरिति.शेषः । नि- त्यमाराधनीयं नित्याग्निहोत्रादिषु द्रव्यकालनियमराहित्येन पूज- नीयम् आशासानैः अपेक्षातिशयवद्भिः नित्यमुक्तैः अलभ्यम्,त्वकपा विना स्वयत्नेन दुर्लभम्। वे श्रीमुखं भवत्सन्निधेरागतं श्रीमॅल्लेख्यम् म- द्विधो मर्त्यः माहशहेयजन्तुः कथम् केन हेतुना लब्धं प्रभवति शक्नोति नैव शक्नोति, किन्तु भवत्वपैव तन्निमित्तमिति भावः। इदञ्चसम्प्रदाय तोऽवगन्तव्यम् ॥ २४॥ अ.-"रघुपतेरन्तरेणाऽपि वाणीम्" इत्युक्तं विशदयति- मू०-साराऽसारप्रमितिरहितस्सर्वथा शासनं ते । सद्यः श्रीमन् ! कपिकरकृतां मालिकामेव कुर्याम् ॥ नोचेदेतद्वरवरमुने ! दूरदूरं श्रुतीनाम् ॥ मौलौ कुर्यात्पुरुषवृषभो मैथिलीभागधेयम् ॥ २५ ॥ व्या०-सारासारेति ॥ हे श्रीमन् ! परमपुरुषसम्भावनीयतात्म- कसम्पन्निधे वरवरमुने ! साराऽसारप्रमिविरहितोहम् उपादेयहेय- विषयकप्रमात्मकज्ञानरहितोऽहम् । तद्विषयकनान्तिमानहमिति ल- स्यते ते शासनम्, भवन्नियोगलेख्यम् । सबः दर्शनदिन एवं कपिकर- कताम्मालिकाम् तद्वद्विशकलिताम् । कुर्यामेव कर्तुमर्ह एव श्रुतीनां दूरदूरम् वेदानामगोचरः मैथिलीभागधेयम्,जानकीभाग्यरूपम्।पुरुष- !
mangathan सव्याख्यानम्। (३५) वृषभः पुरुषश्रेष्ठः अस्मत्कुलधनरघुपतिरित्यर्थः। एतचे शासनम्।मौली दिव्यमूर्ध्नि नो कुच्चित । तदा सद्यस्ते शासनं कापकरकतमालिका- सदृशं कुर्यामेवेत्यन्वयः । इदमपि सम्प्रदायतोऽवगन्तव्यम् ॥२५॥ अ०-इत्थं वरवरमुनिश्रीमुखलोभ उक्तः अथ तत्फलमाह- मु०--लक्ष्यं त्यक्त्वा यदपि विफलो जायते रामबाणो । वाणी दिव्या वरवरमुने ! जातु नैवन्त्वदीयम् ॥ सोऽयं सर्वम्मदभिलषितं वर्षति श्रीमुखाब्द- स्तस्मै नित्यन्तदिह परमं धाम कस्माहुरापम् ॥२६॥ व्या०-लक्ष्यं त्यक्त्वेति ॥ वरवरमुने ! रामबाणो यद्यपि अमोध- खेन प्रसिद्धःदाशरथिशरो यद्यपि लक्ष्यन्त्यक्त्वा यदपि विफलो जायते जायेतापि त्वदीया दिव्या वाणी तु जात्वपि कदापि विफला नैव जा- यते विफलेत्यनुषक्तस्य विपरिणामः सोऽयम्, सेयं वाणी श्रीमुखाब्दः श्रीमुखजलदस्सन् यत एवं विधेयप्राधान्यात्पुंस्त्वं सोयमित्यस्य । सर्व मदभिलषितं वर्षति सर्वाण्यपक्षितानि मह्यं ददातीत्यर्थः । तस्मै मद- भिलषितम् इत्यत्राऽभिलाषाश्रयत्वेन पूर्वोपस्थिवाय मह्यमित्यर्थः यस्मादेवं तत्तस्मात् परमं धाम परमं स्थानम् । इह मद्विषये कस्मात केन हेतुना दुरापम् ,दुःखेनाऽऽप्तुं योग्यम् अपि तु स्वापं सुखेनाऽप्तुं योग्यमित्यर्थः ॥ २६ ॥ अ०- नारायणं गुरुवरं वरदं विदन्मे' इत्यत्र वक्तव्यम् "अकृत्रिमत्वचरणारविन्द इत्यादिस्थानीयं वरदनारायणाना वरवरमु निवरप्रेमस्थानत्वमाह- श्रीवरवरमुनिशतकं- मु०-प्रेमस्थानं वरवरमुने ! सन्तु सन्तश्शतं ते। तुल्यः को वा वरदगुरुणा तेषु नारायणेन ॥ सानुक्रोशस्स तु मयि दृढं सर्वदोषास्पदेऽस्मिन् । मामेवं ते मनसि कुरुते मत्समः को हि लोके ॥२७॥ व्या०-प्रेमस्थानमिति ॥ हे वरवरमुने ! ते परमकारुणिकस्य तव प्रेमस्थानम् अभिमतविशेषविषयभूताः शतम् अनन्ताः सन्तः महापुरुषाः सन्तु इष्टापत्तिविषया एव त इति भावः । तथापि तेषु त्वदभिमतविशेषविषयीभूतेषु मध्ये को वा नारायणेन वरदगुरुणा वरदनारायणगुरुणा तुल्यः तत्तुल्यस्त्वदभिमतविषयवान् न कोड- पीत्यर्थः । ज्ञानव्यवसायप्रेमसमाचारात्मकपदत्रयार्थनिष्ठातारतम्यमे- वाचार्याभिमतविशेषतारतम्यमूलमिति हृदयम् । सर्वेषां दुराचार- त्वादीनामखिलानां दोषाणां हेयकत्यानाम् आस्पदे आवासभूते अस्मिन् दोषाणां वाचामगोचरत्वात्तदीयसार्वज्ञस्यैव गोचर इत्यं- गुल्या निर्दिशति-अस्मिन्निति। मयि दृढं सानुक्रोशः तथाविधमद्वि- षयका विचाल्यपरमकारुणिकत्ववान् यथायथा दुःखभूयस्तथा- तथा तदधीनदुःखातिशयात्मककपातिशय इति भावः । स वरदना- रायणगुरुः मां स्वीयनिर्हेतुककपाविषयं माम् । ते हृदि स्वविषयक- निरतिशयप्रेमवतस्तव दिव्यहृदये एवं कुरुते नित्यमुक्तैरपि दुर्लभश्री- मुखप्रेषणाऽई करोति। क्रियाफलस्य स्वस्वरूपनिष्पत्तेवरदनारायणा- त्मककर्तृगामित्वात्कुरुत इत्यात्मनेपदं प्रयुक्तम् । हि यस्मादेवं तस्मात् लोके सर्वेषु लोकेषु मध्ये को मत्समः मया तुल्यः न कोपीत्यर्थः । शरण्यस्य शरणागतिनिष्ठापूर्णपुरुषविषयीकरणं हि वैधम् , तत्कपाविषयपुरुषविषयीकरणं तु रागमाप्तं गुणवत्ताप्रथानि- ATAPRIL सव्याख्यानम् । (३७) बन्धनञ्चेति तादृशस्य स्वस्य न कोऽपि सदृश इति भावः । एवं स्थिते यत्तत्र "देव प्रसीद" इति सादनं कृतम्। तत् "प्रणाम कीर्तनं विष्णोः स्मरणं वापि केवलम् । एकैकमपि चांगानां प्रपत्तिः प्राजसंश्रयात्" पांचरात्रे इति रीत्याऽप्रतिषेधपरमिति संक्षेपः॥२७॥ अ०-सर्वथा वरदनारायणवरवरमुनित्यामन्येन न किञ्चि- साध्यमित्याह- मू०-भत्त्युत्कर्ष दिशति यदि मे पादपद्मे त्वदीये । तस्मादस्मै भवति वरदस्सार्थनामा गुरुमे ।। यद्वा तस्मै वरवरमुने ! यद्यहं प्रेमयुक्तो। धन्यस्त्वं मामनुभजसि तत्किन्न मन्ये यदन्यैः॥२८॥ व्या०-भत्त्युत्कर्षमिति॥हेवरवरमुने! सार्थनामा प्रार्थितप्रदत्वा- ऽवयवार्थयुक्तनामवान् वरदः वरदनामवान् अत एव सार्थनामेति अत्रो. पस्थितिरस्य नाम्नो भवति मे गुरु: मदाचार्यः त्वदीये पादपने भत्त्यु- त्कर्ष त्वदीयपादपद्मविषयकपरमभक्तिं प्राप्य रुच्यतिशयरूपां पुनार्व- श्लेषभीरुत्वरूपां वा यदि दिशति ददाति यदि वरदगुरुरिति अनुषज्यते तस्मात्स्वदत्तभक्त्युत्कर्षाद्धेतोः अस्मै भवति इमम्मा रक्षितुं भवति 'क्रियार्थोपपदस्य०' इति चतुर्थी स्वातिमात्रप्रावण्यविषयविषयप्रा- वण्यातिशययुक्तमद्रक्षणानुकूलकतिमान् स्वयमेव भवतीत्यर्थः। यद्वा- पूर्वोक्तकल्पाभावे अहं त्वत्पादभक्तिविकलोऽहं तस्मै प्रेमयुक्तो यदि वादृशभवदभिमवविषयवरदनारायणगुरुवरमुखोल्लासहेतुतद्विषयप्रेम- योगवांश्चेत्त्वम्,तद्विषयनिरतिशयोमवांस्त्वम्।धन्यः सन् एतावन्मात्रेण निरतिशयधनलाभजन्यप्रीतितुल्यनीतिमान्सन्। "धनगणं लब्धा"इवि सूत्रेण द्वितीयान्तादनशब्दाल्लब्ध्यर्थे यत्प्रत्ययः। माम्, भवत्प्रेमविषय (३८) श्रीवरवरमुनिशतकं- कोमयुक्त माम् अनुभजसि अवसरं प्रतीक्ष्याऽन्वग्भूय मदनुकूलमा- चरसि तच्च मोक्षप्रदानादिकम्। तस्मै प्रेमयुक्त इत्यत्रापि तदुल्लासयितु- मित्यर्थे क्रियार्थोपपदस्येति चतुर्थीत्युक्तार्थलाभः। यस्मादेवं तस्मात अन्यैर्यत उक्तोभयव्यतिरिक्तैस्माध्यं यत, तत्किम् न किमपीत्यर्थः । गम्यमानाऽपि क्रियाविभक्तीनां प्रयोजिकेति तृतीया ॥ २८ ॥ अ०-अथवा द्वितीयकल्प एव मुख्य इत्याह- मू-यत्सम्बन्धाद्भवति सुलभं यस्य कस्याऽपि लोके । मुक्तैनित्यैरपि दुरधिगं दैवतं मुक्तिमूलम् ॥ तं त्वामेवं वदति वरदे सौहृदं मे यदि स्यात् । तस्यैव स्यादरवरमुने सन्निधौ नित्यवासः॥२९॥ व्या०-यत्सम्बन्धादिति ॥ हे वरवरमुने ! मुक्तैः निरस्तसंसार- सम्बन्धैः नित्यैः अस्पृष्टसंसारसम्बन्धैः अपि दुरधिगम्, दुःखेनाऽधिग- च्छन्त्यास्मिन्निति दुरधिगम् । “अन्यत्रापि दृश्यते इति वक्त- व्यम्” इति वार्तिकेन दुर् अधि अनयोरुपसर्गयोरधिकरणेऽर्थे गमि- धावोर्डप्रत्ययः । नित्यमुक्तकर्तृकदुःखयुक्तगमनाधिकरणं तैर्दुर्लभमिति यावत नित्यमुक्त (रधिगमित्यत्र"कर्तृकर्मणो कति" इति षष्ठ्या अनि- त्यत्वात् तृतीया । तदनित्यत्वे 'ज्ञापकन्तु तदहम्" इति निर्देशः अ- न्तों येनाऽदर्शनम्” इति निर्देशश्चेति वक्तव्यम् । मुक्तिमूलम्, मोक्षसाधनं दैवतं देवतैव दैवतम् । स्वार्थिकोऽण् प्रत्ययः स्वार्थिकाः प्रत्ययाः प्रकृतितो लिंगवचनानि अतिवर्तन्त इति नपुंसकत्वञ्चाश्रियः पतिरूपं रामानुजाचार्यात्मकं वा दैवतं यत्सम्बन्धात् यस्य वरवरमु नेस्सम्बन्धात अद्वेषप्रभृतिपरमभक्तिपर्यन्तेष्वन्यतमाघस्य कस्याऽपि सव्याख्यानम् । (३९) अभिजनादिनाऽहंकुर्वाणस्य वा तैरपि हीनस्य वा सुलभं भवति सुखेन लन्धुमह भवति लोके पश्यामीत्यर्थः। तन्त्वं तादृशं त्वाम् एवं वदति उपायत्वेन बोधयाने वरदे बरदानारायणे गुरौ विषये मे सौहृदं स्यात् यदि तद्विषये मम शोभनहृदयवत्वं स्यायदि हृदयस्य शोभनत्वञ्च ताह- शमहोपकारिविपये असूयारहितत्वम् एतच्च प्रायेण दुर्लभमिति "इदन्तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे, न च मां योऽयसयति" इति चोक्तं भगवता व्याख्यातञ्च “असूयाप्रसवभः' इत्यत्र कलिवैरिदासपादैः। सौहद मैत्री वा मम तस्मिन् दुर्मानवशेन गौरव्यताप्रयुक्तभत्त्यभावेऽपि साम्यबुद्ध्या गुणवशाच्च मैत्री स्यात्, सा वा स्यादिति भावः । अत्र "सुहृदुईदौ मित्राऽमित्रयोः" इत्यादेशहृच्छब्दत्वात् "हृद्भगसिन्द्धन्ते पूर्वपदस्य च” इत्यत्राऽस्य ग्रहणमिति नोत्तरपदवृद्धिरिति स्पष्टम् । यशोदया सौहृदादीनामित्यत्र यमकरत्नाकरच्याख्याने अन्यथा सौहा- ईमिति स्यात् इति तदा तस्यैव सन्निधौ तस्य वरदनारायणगुरोरत्य- र्ण एव नित्यवासः स्यात्, नियतवासः स्यात् ॥ २९॥ अ०-"स्वाधीनकुशलास्सिद्धिमन्त" इति न्यायेन स्वाधीनपर मपद- गमने विलम्ब्यलीलाविभूतोवरवरमुनीनां वासो मादृशचेतनार्थ इत्याह- मू-सर्वावस्थासदृशविविधाऽशेषगस्त्वत्प्रियाणां । त्यत्वा भर्तुस्तदपि परमं धाम तत्प्रीतिहेतोः ॥ मग्नानग्नौ वरवरमुने मादृशानुन्निनीषन् । माऽवासो भवसि भगवन् ! मंगलं रंगधाम्नः॥३०॥ १ द्रविडोपनिषद्भाष्ये इति शेषः भगवद्विषय इति प्रसिद्धिनाम स्तोत्ररत्नव्याख्या- जन्तु श्रीकृष्णपादैः कृतमिति प्रसिद्धम् ।
(४०) श्रीवरवरमुनिशतकं- व्या-सर्वावस्थेति । हे भगवन् ! स्वाधीनोभयविभूते "भगः श्रीः" इति कोशः । वरवरमुने ! त्वत्प्रियाणाम् त्वयि प्रीणन्तीति त्व- स्त्रियाः त्वद्विषयकपीतियुक्ता इत्यर्थः। "इगुपधज्ञाप्रीकिरः कः' इति कप्रत्यये प्रिय इति रूपम् । त्वत्प्रियो येषामिति वा त्वदीयप्रीतिविषया इत्यर्थः। तेषां सर्वास्ववस्थासु जागरांदिषु सदृशा उचिताः विविधाः अनेकप्रकाराः ये अशेषाधारकादयः तत्तां गच्छन्तीति सर्वावस्था- सहशविविधाऽशेषगः। अशेषशब्दो भावप्रधानपरः तत्प्रसिद्धम् । परमं सर्वोत्कृष्टम्, भर्तुः मूलमन्त्रप्रधानप्रतिपादितनवविधसम्बन्धमध्याश्य- हितचेतननिष्ठाऽनन्याहशेषतानिरूपकशेषित्वविशेषवतः श्रियःपत्युः धाम स्थानमपि त्यक्त्वा त्यजिरिहासम्बन्धार्थकः अगत्वेत्यर्थः। परम- पदस्य स्वाधीनतास्फोरणार्थं त्यक्वेत्युक्तम् । विलम्बितगमनेच्छा- रूपमानसत्यागो बा तूर्णमनपक्ष्येत्यर्थः । अपिशब्देन "सतीमपि ज्ञातिकुलैकसंश्रयां जनोऽन्यथा भर्तृमती विशंकते” इत्युक्तदोषोऽपि माशचेतनार्थमंगीकत इति व्यज्यते तत्पीतिहेतोः विग्रहेण सह ज्ञानि- विषयकात्यादररूपभर्तृप्रीत्यात्मकफलाय । हेतुः फलं कारणश्चेत्युक्तम् अग्नौ संसारामौ मन्नान् अवगाढान् । अत्र "वरं हुतवह” इत्यादि द्रष्टव्यम्।मादृशान् स्वस्य प्राचुर्येण भवाग्निमज्जनमिति मादृशान् इत्यु- पमानत्वमुक्तम् । उन्निनीषन् उर्तुमिच्छन् मावासस्सन् मानामावासो यस्य तथोक्तस्सन् । निरुक्तभर्तृप्रीत्यर्थमस्मदाधु- झारणार्थश्च मनुष्यलोकवासी सन् । रंगधाम्नो मंगलं भवसि श्रीरंगात्मकदिव्यदेशस्य परमनिःश्रेयसभूतोऽसि ॥ ३० ॥ १ पिता च रक्षकः शेषी भर्ता ज्ञेयो रमापतिः । measur सव्याख्यानम् । (४१) NAGAR अ०-उन्नयनप्रकारमाह- मू०-प्रत्यूषार्कद्युतिपरिचयस्मेरपद्माभितानं । पश्येयं तद्वरवरमुने पादयुग्मं त्वदीयम् ॥ पाथो बिन्दुः परमणुरपि स्पर्शवेधी यदीयो। भावभावे विषयमुषितान्पावयत्येव लोकान् ॥ ३१ ॥ व्या०-प्रत्यूषार्केति ॥ हे वरवरमुने ! परमतिशयेनाऽणुरपि स्वल्पमपि स्पर्शवेधी स्वस्पृष्टवस्तुनः सुवर्णतापादकवस्तुविशेषव- स्वस्पृष्टानामतिमात्रदोषवतामपि अत्यन्तनैर्मल्यसाधकः स्पर्शवेधी- तुल्य इत्यर्थः । सादृश्यं च दर्शितविधया यदीयः यस्य वरवरमुनि- श्रीपादस्याऽवनेजनसम्बन्धिपाथोबिन्दुः दिव्यतीर्थकणः भावभावे जन्मनिजन्मनि विषयमुषिवान् शब्दादिना दूरमपहृतान लोकान् जनान् । पावयति पूतान्करोति तत् तादृशम् । प्रत्यूषार्काविपरिच- येन प्राभाविकमूर्यकिरणसम्पर्कण स्मरं विकसितं यत्पमं कमलं तद्वदभिताम्रम् । अभितोरक्तम् ,अनेन पावनत्वभोग्यत्वे उक्ते । त्वदी- यम्, प्राप्तशेषि भवदीयं पादयुग्मं श्रीचरणयुगलं पश्येयं द्रष्टुमाशं- सावानस्मि । अत्र "तस्पृष्टमखिलं शुचिः” "समित्पशुच्छेदनयोग्य- शस्त्रे रसेन हेमीकरणं समानम्" इत्यादिकमनुसन्धेयम् ॥ ३३ ॥ अ०-वरवरमुनिः “विपर्यये तु नैवास्य प्रतिषेधाय पातकम्" इति पांचरात्रोक्तरीत्या निर्हेतुकमिदानीमंगीकुर्वन् एतावन्तं कालं कुतो नांऽगीचकारेति अनुतापवशेन तमुपालभते- १ 'लोकस्तु भुवनेजे' इति कोशः।
(४२) श्रीवरवरमुनिशतकं- मू-नित्ये लोके निवसति पुनः श्रीमति मागतानां दूरीभावः प्रभवति पुरा दुष्कृतर्विपाकैः ॥ सम्प्रत्येवं सकलसुलभो यद्यपि त्वं दयाब्धे मामेवैकं वरवरमने मन्यसे वर्जनीयम् ॥ ३२॥ व्या०-नित्य इति ॥ हे वरवरमुने क्ष्मागतानां, महतां पुण्य- पुञ्जेन परमपुरुषार्थसिद्धियोग्यभूमिगितानामपि जनानां दुर्विपाकैः दुःखैकसाधननानाविधपरिणामवदिः दुष्कतैः दुरितहेतुभिः इदं निवसतीत्यत्रान्वेति । श्रीमति स्वरूपानुरूपभूयस्तमसम्पन्निधौ त्वयि नित्ये लोके श्रीवैकुण्ठे निवसति सति मागतानां दुष्कतैर्निवास कुर्वति सति दूरीभावः भवद्विपकर्षः पुरा प्रभवति अतिशयेनाऽभूत् । सन्तीहपराच्छात्रा इतिवत् भूते लट् । सम्प्रति पुनः इदानीन्तु दयाब्धे अनवधिकातिशयकरुणानिधे त्वं यद्यपि सकलसुलभः सकलैदेशका- लकरणसन्निकर्षसौलत्यवान् चाक्षुषविषयत्वपूर्वकसमाश्रयणीयत्ववान् सकलेषु परव्यूहविभवाऽन्तर्याम्यर्चाऽचार्यरूपेषु षट्सु प्रकारेषु पूर्वप्र- कारव्यावृत्तसौलन्यवानिति सत्यमेव तथाप्येवं सत्यपि एकम्मा केवलं मां वर्जनीयमेव अवश्यवर्जनविषयमेव मन्यसे न तु जात्वप्यवर्ज- नीयं मन्यसे अमंस्थाः। वर्तमानसमीपे लट् । वर्जनीयं परिहरणीयम्। मन्यसे एव अमंस्था एव । अत एव एतावत्कालं नांगीचकथोर्त हृदयम् । अथवा श्रीमुखप्रेषणादिना मानसांगीकारेऽपि चक्षुर्विषय- १ "पूर्वस्मादपि पूर्वस्माज्ज्यायांश्चैवोत्तरोत्तरः । सौलभ्यतो जगत्स्वामी सुलभो द्युत्तरोत्तरः” इति अर्चावतारस्याऽवतारान्तरात्सौलभ्यमुक्तं, तदपेक्षयाप्याचार्यरूपाव- तारस्य सौलभ्यमात्सिद्धमिति भावः।
सव्याख्यानम् । (४३) त्वाऽभावात्तव मद्विषयकवर्जनसंकल्प इति फलबलात्कल्प्यत इति मन्यसे इति यथाश्रुतमेव बोध्यम् । अत एव सकलसुलभ इति संगच्छते ॥ ३२॥ अ०-बहुधा हि चरमाधिकारिण इहत्यामात्मयात्रां निवर्तय- न्ति, चरमविषये तद्यथा "दुर्गतावपि जातायां त्वगतो मे मनोरथः । याद नाशं न विन्देत तावताऽस्मि कती सदा” इत्युक्तरीत्या केचन प्राप्तिनिरपेक्षं प्राप्यरुच्यैव सुधाप्रायया निवर्तयन्ति आत्मयात्राम केचन "बोधयन्तः परस्परम् इति रीत्या "कृष्णायन्त्यपराकाचित्" इति रीत्या चाऽनुकरणादिधारणहेतुतदीयसाहाय्येन केचन स एवोपर्यु- परि अस्य पराम्प्रीतिमुपावहन् "वृत्त्याख्यफलतां याति तदेवाऽमृत- मुच्यते” इति रीत्या चाक्षुषपूर्वकाऽऽश्रयणानन्तरं सम्बन्धस्मरणेन केचन "आमोक्षं लक्ष्मणार्य ! त्वत्प्रबन्धपरिशीलनैः" [प्रार्थनाप- चके ] इति रीत्या तद्विषयकतत्प्रणीतप्रबन्धाभ्यां केचन "शरीरं वसुविज्ञानम्” [पांचरात्रे] इति रीत्या प्रधानभूतकैडादिना तत्रैक- विधाया अपि नास्त्यवकाशो मम त्वविप्रकष्टस्येत्याह- मू-त्वपादाब्जप्रणयविधुरो दूरगस्त्वत्प्रियाणां । त्वत्सम्बन्धस्मरणविमुखो वीतरागस्त्वदुक्तौ ॥ त्वत्कैयत्वदुपसदनत्वत्प्रणामाऽनभिज्ञो। दूये दूरं वरवरमुने ! दोषलकलक्ष्यम् ।। ३३॥ १ प्रार्थनापञ्चकाख्योऽयम्प्रबन्धः वात्स्यवरदगुरुशिष्याग्रेसरेण घटिकासहस्त्रार्येण प्रणीत इति श्रीवैष्णवसमयाचारनिष्कर्षाख्यग्रन्थे लिखितम् । केचन वरवरमुनिशतकक देवराजगुरुवरेणेति, अन्ये वरदनारायणगुरुवरपौत्रेणेति च वदन्ति ।
(४४) श्रीवरवरमुनिशतकं- व्या-त्वत्पादाजेति॥ हे वरवरमुने ! त्वत्तादाजप्रणयेन पाव- नत्वभोग्यत्वाश्यां कमलतुलितप्राप्तशेषिभवदीयश्रीपादविषयकचक्षुः प्रीत्यनन्तरभाविमनस्सङ्गपदवाच्यप्रेमविशेषरहितः । अनेन प्राप्य- रुच्यभाव उक्तः । त्वत्प्रियाणां त्वद्विषयकपीतिमतां त्वत्पीतिवि- षयाणाञ्च दूरगः विप्रकष्टदेशवर्ती । अनेन तदीयसहायाभाव उक्तः।त्व- सम्बन्धस्मरणविमुखः चाक्षुषपूर्वकाश्रयणानन्तरभाविभवदीयसम्बन्ध- निरन्तरस्मृतिरहितः । अनेन स एवोपर्युपर्यस्येत्यादेरभाव उक्तः । तबोक्तिः त्वदुक्तिः तस्यां कतरि कर्मणि च षष्ठी। त्वत्पणीवप्रबन्ध त्वद्विषयकाम्बन्धे च वीतरागः अनुत्पन्नप्रीतिमान् । त्वत्कैयस्य आचार्यादिन्यात्मकत्वं मुखोल्लासकायोजनव्यापारस्य त्वदुपसदनस्प- तत्वोपदेशनाज्ञाननिवर्तकत्वत्सन्निश्यवस्थानस्य, त्वत्प्रमामस्थ त्वदुपदेशश्रवणानन्तरं “यदा सर्वज्ञोऽहम्” इति रीत्या पूर्वकाले चि- रानुवृत्तसर्वज्ञताभिमानभंगपुरस्सरं छिन्नमलद्रुमपतनसदृशसविधान णामस्य चानभिज्ञः तद्विषयज्ञानरहितः । पूर्वोक्तसर्वनिदानमाह- दोषेति । दोषाणाम्-प्राप्यरुच्यादिप्रतिबन्धकदुरिवानाम्, लक्षस्य सदसहस्त्रिकायाः एकलक्ष्यम् अद्वितीयनिलयभूतः। यहा-दोषाणां ये लक्ष्यभूतास्तेषामेकलक्ष्यमित्यर्थः । तथाविधोऽहम्, दूरं त्व प्रकृष्टदेशे वर्तमानस्सन, ये पारितापवानस्मि । इदश्च देवराजगुरा स्वकीयग्रामावस्थानकालाभिप्रायं वेदितव्यम् ॥ ३३ ॥ अ०-मत्स्वभावपर्यालोचनायां त्वत्पादाब्ज प्रणयोऽप्यपराधको- टावन्वेतीत्याह। १ भगवद्भागवताऽऽचार्यरूपत्र्यात्मकत्वमित्यर्थः।
सव्याख्यानम्। (४५) मू०-प्रादुर्भूतप्रचुरमतयो ये परब्रह्मसाम्यात् । पश्यन्त स्तत्पदमनुपमं ये पुनश्शुद्धसत्त्वाः ॥ सर्वैरेतैर्वरवरमुने ! शश्वदुद्दिश्य सेव्यम् । कांक्षत्येतत्कथमयमहो कामकामः पदाब्जं ॥३४॥ व्या०-हे वरवरमुने ! कामेषु काम्यमानदेहादिषु, कामः "संगात सआयते कामः” इत्युक्तरीत्या संगानन्तरभाविविषयानु भवाभावव्यतिरेके नियतस्पृहाविशेषो यस्य तथोक्तोऽयञ्जनः कर्तृस मर्पकमिदं कांक्षतीति प्रधानक्रियायामन्येति ये परब्रह्मसाम्यात आवि- भूताऽपहतपाप्मत्वादिगुणाष्टकरूपपरमात्मपरमसादृश्यावेतोः प्रादुर्भूत प्रचुरमतयो भवन्ति निवृत्तनिश्शेषदोषतयाऽसंकुचितज्ञानप्रसरा भवन्ति ये पुनः ये च शुद्धसत्त्वाः कदाप्यस्पृष्टदोषान्तःकरणास्सन्तः अनुपम तत्पदं पश्यन्तो भवन्ति । “तद्विष्णोःपरमं पदं सदा पश्यन्ति सूरयः” इति सेवैरप्येतैः पूर्वोक्तैनित्यैश्च, शश्वत् सर्वकालमुद्दिश्य पार्य सेवितव्यम् । एतत वाचामगोचरमहिमवत्वात अंगुल्या निर्दिशति एतदिति प्रतिपत्तिसन्निकर्ष इह विवक्षितः । पदान्जं भवदीयश्री- पादांबुजम् कथं कांक्षति कुतो हेतोरिति नित्यानाञ्च ताहशभवत्प्रेम षयवरवरमुनिवरविषयकैंथ साध्यविवृद्धिरूपतया उद्देश्यम्, शेषिमु खोल्लासकायोजनस्य हि चेतनस्य यावता तन्मुखोल्लासातिशयासद्धिः स एवोपादेयः शेषिमुखोल्लासश्च विषयभेदेन तरतमभावापन्नः मम मद्भक्तभक्तेषु प्रीतिरस्यधिकाभवेत्” इति शेषिवचनेन भगवतः । .. mom १ ऋग्वे०सं। २ भारते।
(४६) श्रीवरवरमुनिशतकं- स्वस्वभक्ततद्भक्तेषु यथाक्रमं प्रीत्यधिकप्रीत्यायधिकप्रीतीनामवगमात्। एवञ्च तादृशभगवदीयायधिकप्रीतिविषयभूतवरवरमुनिविषयककैंकर्य- स्य साध्यविवृद्धिरूपत्वमिति परमास्तिकाग्रेसरा विदांकर्वन्तु॥३४॥ अ०-पूर्वोक्तं स्पष्टमाह- मू०-प्राप्तः क्षेमं प्रकृतिमधुरैः प्रागपि त्वत्कटाक्षः। सोऽयजन्तुस्त्वदनुभजनं त्वत्त एवाऽऽनुमिच्छन् । क्रन्दत्युच्चैः कलुषमतिभिः संवसन कामकामैः । कालक्षेपो वरवरमुने तत्कथं युज्यते ते ॥ ३५ ॥ व्या०-प्राप्त इति॥हे वरवरमुने ! प्रकृतिमधुरैः स्वभावरमणीयैः त्वत्कटाक्षैः भवदपांगवीक्षितैः प्राक् एतत्पूर्वकालं क्षेमम् स्वरूपनाशा- भावरूपम् स्थितिपरिपालनं प्राप्तोप्यधिगतोऽपि,सोयजन्तुः स्वस्य क्रि मिकीटादिसमाधिना जन्तुरिति व्यपदेशः त्वत्त एव त्वत्सकाशादेव । अपादानार्थकपञ्चम्यास्तसिः । त्वदनुभजनम् त्वद्विषयकानुसञ्चरणा दिकैंकर्यम्, आप्तुमिच्छन् लब्धुमभिलषन्सन् । कामकामैः स्वरूप विरुद्धपुरुषार्थस्पृहावद्भिः । कलुषमतिभिः तन्मलकाधलोभायविलब द्वियुक्तैः। संवसन् सन् “प्रियञ्जनमपश्यन्ती पश्यन्ती राक्षसीगणम्। इत्युक्तरीत्या प्रतिकूलसहवासमात्रवान्सन्नित्यर्थः । उच्चैः मुक्तकण्ठं, कन्दति रोदिति । "दस्युभिर्मुषितेनैव युक्तमादितुं भराम्” इतिव दिति भावः । तत् तस्माद्धेतो, कालक्षेपः मदपेक्षितत्वदनुभजन- संकल्पनकालविलम्बः । ते सर्वस्य सर्वशक्तस्य परमकारुणिकस्य -- सव्याख्यानम्। (४७) . सिद्धोपायस्य तव कथम् केन हेतुना, युज्यते युक्तो भवति।"आर्ताना माशुफलदा" इत्युक्तरिति भावः ॥ ३५॥ अ०-त्वत्स्वभावपर्यालोचनायां मत्परित्यागोऽनुचित इत्याह- मू०-कोणैरक्ष्णः कुमनसमिमं निर्मलं कल्पयित्वा । हातुं दूरे वरवरमुने! हा??? कथं युज्यते ते ॥ पाथः पातुं प्रयतनपर पंकिलं शोधयित्वा । पंके मुञ्चन् पुनरिदमतःप्राप्नुयादेव किंवा ॥३६॥ व्या०-कोणैरिति॥हे वरवरमुने! कुमनसं स्वरूपोपायपुरुषार्थेषु अन्यथाज्ञानवन्तं त्याज्योपादेयविवेकरहितञ्च जन्तुं स्वामिति यावत् अक्ष्णः एकतरस्य दिव्यनयनस्य कोणैः अञ्चलैरपाङ्गैरित्यर्थः। निमर्ने कल्पयित्वा निरस्ताऽज्ञानादिदोषं कृत्वा, दूरे विपकष्टदेशे हातुं त्यक्तुं ते आत्मलाभात्परं किञ्चिदन्यन्नास्तीति निश्चयवतस्तव कथं युज्यते केन हेतुना युक्तं भवति । हानं कथं युक्तमिति भावः । हा अस्य शोच्यते पातुम्प्रयतनपर पानार्थप्रयत्नवान प्रेक्षावान् इति शेषः पंकिलं पंकयुक्तं, "पिच्छादित्य इलच्"पाथः पानीयं शोधयित्वा निष्पक *वा इदं शोधितपानीयं । पके कर्दमे । पुनर्मुञ्चन् प्रास्यन्सन् । अतः पुनःकर्दमनिक्षितपानीयादेतोः । किमेव वा प्राप्नुयात् शकि लिङ् । अनवकुमावे शब्दः दृष्टान्तालंकारः ॥ ३६ ॥ अनिपुणनिरूपणे तादृशपरमकारुणिक वरवरमुनिवरोपालम्भो न युक्तः, किन्तु तत्समागमकालो नायात इत्याह ।
(४८) श्रीवरवरमुनिशतकं- मू-कालः किंस्विन्न भवति समं कांक्षितः कांक्षितानां । यस्मिन्नस्मादनलजलधेरुलतस्त्वांनमस्यन् ॥ सिक्तः श्रीमन् । वरवरमुने ! शीतलैस्त्वत्कटाक्षे मुक्तस्तापैरमृतमतुलं गाहते मोदमानः॥ ३७॥ व्या०-काल इति ॥ हे श्रीमन्! आर्तिहरणौपयिकसौम्यत्व- शीवलत्वादिगुणप्रशस्तशोभानिधे वरवरमुने ! यस्मिन्काले अयञ्जनः अस्मात् वाचामगोचरान्मायाधिष्ठितात् अनलजलधेः त्वद्विप्रकष्टदेशा- मकानलजलधेः निगीर्याध्यवसायाद्रूपकातिशयोक्तिः । “बरं हुतवह ज्वाला" इत्यादिकमनुसन्धेयम्।लौकिकानां हि सप्तैव समुद्राः अस्य त्वष्टमोऽपि वह्निसमुद्रः कश्चनेति गम्यते । तदिदमात्य॑तिशयप्रयुक्तं उत्सतस्सन्अतिशयिवलुतगमनवान्स पदनं नाम पदन्यासं विना वियति पेगवशात् पतनं त्वां श्रीरंगनिलयं भवन्तं नमस्यन् प्रणमन् शीतलैः वात्सल्यसौशील्यकारुण्यप्रकाशकतया सुधालहरिवत्सौम्यैः त्वत्कटाक्षैः प्राप्तशेषिभवदीयैः कटाक्षः सिक्तस्तन् अनलजल धिमज्जनप्रयुक्तवह्निनिर्वाणौपयिका भाववान्सन् सेचनमाभाव इत्युक्तम् । शीतलैः कटाक्षैस्सिक्त इति साभिप्रायविशेषणरूपप- रिकरः तापैः तापत्रयेणाऽपि मुक्तस्सन् रहितस्सन्नित्यर्थः । दमानः आनन्दशीलस्सन् अतुलममृतं निस्समात्यधिकसुधां गाहते तस्मिन्मयो भवति । अत्र कैर्यजनितानन्दातिरकलाभस्य निगीयो १ वात्सल्यम् दोषेष्वपि गुणत्वबुद्धिः यथा मातुर्वत्सः । मन्दस्सइनीरन्ध्रेण संश्लेषांवभावत्वम् । २सौशील्यम् महतो सव्याख्यानम्। (४९) ध्यवसायाद्रूपकातिशयोक्तिः। "एष ब्रल प्रविष्टोऽस्मि ग्रीष्मे शीतमिव ह्रदम्" "आनन्दसान्द्रममृतप्नुवनादिवाभूत्” इत्यादि द्रष्टव्यम् । सः तथाविधः कांक्षितानाङ्कांक्षितः अभिलषितसकलवस्तूनाम्मध्ये त- व्यावृत्ताभिलाषाविषयः कालः मे स्वं किन्न भवति मन्निरूपि- तस्वत्ववान् किमर्थन्न भवति; स्वीयः किमर्थन भवतीत्यर्थः । तस्य स्वीयत्वे सति तत्प्रतीक्षणं न कार्यमिति भावः । सामान्ये नपुंसकम्। 'किंस्वित्' इति पाठे किंस्वित्कुतो वा न भवति न जायते ॥ ३७॥ अ०-अनलजलधेरुप्लुत इत्युक्तोत्यूवनक्रियान्वयसिद्ध्यर्थं त- समर्थतापत्तिमपेक्षते- मू-पारावारप्लवनचतुरः कुञ्जरो वानराणां । पद्माभर्तुः प्रियसहचरः पत्रिणामीश्वरो वा ॥ वायुर्भूत्वा सपदि यदि वा मार्गमुल्लङ्घय दुर्ग । कालेकाले वरवरमुने ! कामये वीक्षितुं त्वाम्॥३८॥ व्या०-पारावारेति ॥ हे वरवरमुने ! अहं अनलजलधौ मनोऽह पारावारस्य समुद्रस्य प्लवने लङ्घने चतुरो निपुणः वानराणाकुञ्जरः कपिश्रेष्ठो हनूमानित्यर्थः। गरुडवायुत्ताहचर्यात अन्यत्र गरुडादायो- रन्यत्र च हनूमतः" इति हि पठितं पद्माभर्तुः श्रियःपत्युः प्रियसहचरः इदं च मध्यममणिन्यायेन पूर्वोत्तराज्यामन्वेति । एष सर्वस्वभूतस्तु परिष्वंगो हनूमतः” इत्यादिना तस्याऽपि तथात्वावगमात् । गरुडस्य च तथात्वं “दासस्सखा वाहनम्" इत्यायुक्तम्। पत्रिणाम् वेगस्वभा- वानां पक्षिणाम् ईश्वरो वा गरुडो वा वायु पूर्वोक्तयोरपि वेगाति- शयप्रयोजको वायुर्वा भूत्वा यदि वा अथवा । पूर्वोक्तकल्पाभाव (५०) श्रीवरवरमुनिशतकं- इति यावत् । सपदि एकक्षणे अत्रातिशयितवेगवतामपि हनूमत्र- भृतीनां तादात्म्ये अंततो यत्किञ्चित्क्रमप्राप्तिरवर्जनीयेति यदि वे- ति कल्पान्तरमाश्रितम् । तदिदं प्राप्यत्वराविशयकार्यम् । अत एव हि चरमस्वरूपविरुद्धमपि पद्माभर्तुः प्रियसहचरयोस्तादात्म्य- मतथाभतस्याऽपि वायोश्च तादात्म्यमपेक्षितम् । दुर्ग दुर्गमं कर्मण एवाधिकरणविवक्षया "सुदुरोरधिकरणे” इति डप्रत्ययः। मार्गमुल्लंघ्य अतिशयेन लंबित्वा । कालेकाले क्षणेक्षणे त्वां निरतिशयभोग्य वां बीक्षितुं चक्षुया इष्टुं कामये इच्छामि ॥ ३८॥ अ-विरोधिभूयिष्ठे देशे गुणज्ञानेन धारणमपि दुश्शकमित्याह- मू-कामक्रोधक्षुभितहृदयाः कारणं वर्जयित्वा मत्त्यौपम्यं वरवरसुने ! ये पुनमन्वते ते॥ दुष्टं तेषामभिमततया दुर्वसं देशमृच्छ- अन्तःस्वान्तं कथमपि मिथो भावयेयं भवन्तम्॥३९॥ व्या०-कामक्रोधेति ॥ हे वरवरमुने ! कारण वर्जयित्वा निमित्त विनापि कामेन स्वरूपविरुद्धपुरुषार्थस्पृहया क्रोधेन तत्पतिबन्धक- शंकामूलकमनःप्रज्वलनेन च क्षुभितहृदयाः अप्रकृतिंगतमनस्काः ये दुर्जनाः ते मौपम्यम् अयःपिण्डानिवत् विष्णोविशेषाधि- छानयुक्तशेषाख्यविलक्षणजीवस्य तव अतथाभूतमनुष्यसाम्यम् मन्यते अभिमन्यन्ते तेषां दुर्जनानाम् अभिमततया प्रीतिविषय- तया दुष्टं दोषयुक्तम् । अत एव दुर्वसं दुःखेन वस्तुमर्हम् । देशम् ऋच्छन् भजन् अहं त्वां दिदृक्षुरहम् । भवन्तं दर्शनेन विना दुर्लभधारणविषयं त्वाम् अन्तःस्वान्तं हृदि मिथः अन्योन्यं सव्याख्यानम्। LI हृदयसहकारेणेत्यर्थः । कथमपि अतिप्रयासेन भावयेयं निरंतर स्मृविविषयं कुर्याम् ॥ ३९ ॥ अ०-इच्छानुगुणं त्वद्विषये प्रवृत्चिविनियोगोऽपि स्वपरदोषैः प्रतिबद्ध इत्याह- मू०-नामैतत्ते नवनवरसं नाथ ! संकीर्त्य नृत्य- नन्तःकर्तु वरवरमुने ! नित्यमिच्छत्ययं त्वाम् ।। अनिद्रा हरति दिवसस्याऽर्द्धमन्यन्नृशंसो । वासो मूढैमलिनमतिभिर्वाक्प्रवृत्तिं निरुन्धे ॥ ४० ॥ व्या०-नामेति ॥ हे वरवरमुने ! अयं जनः एतत् सम्बु- ड्यन्तं बुद्धिस्थम् । नवनवरसं नवात् नूतनादपि नवे रसे माधुर्यलक्षणे यस्मिन् तथोक्तं प्रतिक्षणं प्रत्यारसमित्यर्थः ते माधुर्या भावेऽपि जपितव्यनामवतस्तव “गुरोर्नाम सदा जपेत्" इत्युक्तेः । नाम दिव्याभिधानम् संकीर्त्य " विसृज्य लज्जां योऽ- धीते" इत्यादिरीत्या कीर्तयित्वा नृत्यन् तत्कीर्तनजनिताऽनन्दपार- वश्येन गात्राणि विक्षिपन्सन् ला निरतिशयभोग्यं भवन्तं नित्यं नियमेन अन्तःकर्तुम् आध्यातुम् इच्छति । इच्छानुगुणप्रवृत्तौ का प्रतिहतिरित्यत्राह-नाथेति । नाथ स्वामिन् ! दिवसस्य जीवनका- लस्य अर्द्ध समांशम् निद्रा तमोगुणवशात्सर्वेन्द्रियव्यापारावरतिप्रयो- जकसुषुप्तिः हरति गमयति । अन्यत् निद्रातिरिक्तमाहारादिकं दिवसस्या हरति गमयति नृशंसः परमक्रूरः मलिनमतिभिः अन्यथाज्ञानवद्भिः मूरैः ज्ञानशून्यैश्च जनैः वास सहस्थितिः वाम- वृत्ति वागिन्द्रियव्यापार निरुन्धे प्रतिहन्ति । अई निद्रा हरतीत्यनेन SEARTIONARY (५२) श्रीवरवरमुनिशतकं- स्वदोषैर्ज्ञानप्रतिबन्धः वासो मूढैः इत्यनेन परदोषैर्नामसंकीर्तनप्रतिबन्ध इति विवंकः॥४०॥ अ०-"अनिद्रस्सततं रामः" " सुप्तोऽपि च” इतिवत् कथं- कथश्चित्तव ध्यानेन सुख्यन्नप्यहं तद्रहितपरनर्थदर्शनेन क्षुन्या- मीत्याह- मू-अन्तायन्वरवरमुने ! यद्यपि त्वामजस्रं । विश्वं तापैस्त्रिभिरभिहतं वीक्ष्य मुह्याम्यसाम् ।। क्षुत्सम्पातक्षुभितमनसां को हि मध्ये बहूनां । एकरस्वादु स्वयमनुभवन्नति चेतःप्रसादम् ॥४१॥ व्या०-अन्तर्ध्यायन्निति ॥ हे वरवरमुने ! अहं त्वां परमभोग्य त्वाम् अजस्र सततम् अन्तर्हदि ध्यायन् अपि स्मर्यमाणात्यर्थप्रियत्वेन स्वयमप्यत्यर्थप्रियस्मृतिविषयं कुर्वन्नपि यद्यपीति शब्दः अपिशब्दा- र्थकः त्रिभिस्तापैःआध्यात्मिकादितापत्रयेण अभिहतम् अभितो हिंसि वम् असा दुस्सहं विश्वं प्रपञ्चं वीक्ष्य मुह्यामि मूर्छामि। कः पुरुषः एकस्सन् क्षुत्सम्पावन धारावाहिकक्षुषा क्षुभितमनसाम् अप्रकतिगतहद याणाम् "क्षुभ सञ्चलने"। सञ्चलनं नाम प्रकृतिविपर्यास इत्युक्तम् । बहूनां मध्ये स्वादुरस्यवस्तुस्वयं स्वेन अनुभवन्सन् चेतःप्रसाद मनस- अक्षोभम् एति भजति न कोप्रीत्यर्थः "एकः स्वादु न भुञ्जीत" इत्युक्तेरिति भावः ॥ ४१ ॥ अ०-परानर्थदर्शने सति हि पूर्वोक्तमूर्छा भवति तदेव मा भू- दिति प्रार्थयते- .. सव्याख्यानम् । (५३) मू०-सत्त्वोदप्रैस्सकलभुवनश्लाघनीयैश्चरित्र- वैयन्तार्थप्रकटनपरैः सारगर्भवचोभिः।। लोकोत्तीर्ण वरवरमुने लोकसामान्यदृष्टया। जानानस्त्वां कथमपि न मे जायतामक्षिगम्यः॥४२॥ व्या-सत्त्वोदौरिति ॥ हे वरवरमुने ! सत्त्वेन मोक्षहेतुज्ञानम्- योजकभगवदेकनियतसत्त्वाख्यगुणविशेषेण उदः प्रचुरैः । इदच व्यधिकरणसजातीयाल्पत्वापेक्षम् । सकलभुवनश्लाघनीयैः अखि- लजनश्लाघना कचित् श्लावनाभावस्तु कर्तृगुणाभावप्रयुक्तः न तु विषयप्रयुक्त इति भावः । चरित्रैर्वृत्तैः बहुवचनेन "तेजीयसां न दो- पाय" इति समाधानं नापेक्षितमेव । एकतरस्यापि वित्तस्योल्लेखत्वा भावादिति सूच्यते । त्रयन्तार्थप्रकटनपरैः ऋग्यजुस्सामात्मकवे- दान्तार्थप्रकटनेच्छया प्रयुक्तैः । सारगर्भः चरमस्वरूपोपायोपेयात्म कत्रय्यन्तसारार्थः गर्भे येषां तथोक्तैः वचोभिः श्रीसूक्तिभिः चकारा भावः परस्परनरपेक्ष्यद्योतकः लोकोत्तीर्ण पूर्वोक्तहेतुभिस्सकललोक विलक्षणं त्वां भवन्तं लोकसामान्यदृष्ट्या समानस्य भावः सामान्यं, लोकसजातीयत्वप्रकारकज्ञानेन, जानानः विषयीकुर्वन्, नरपशुरिति शेषः मे अक्षिगम्यः परानर्थदर्शनजन्यदुःखत्वमावस्य मम दृष्टिविषयः कथमपि सर्वात्मनाऽपि न जायतां माभूत् ॥ ४२ ॥ अ०-इत्थं गुणज्ञानेन धारणं कथमपि शक्यमित्युक्तम् अथ तत एव हेतोस्समागमसंकल्पविलम्बस्स्यादित्याशंक्य पुनरपि समागमापे- क्षां दर्शयति- मू-कल्याणकप्रवणमनसं कल्मषोपप्लुतानां । शान्तिस्थेमढिमसमताशीलवात्सल्यसिन्धो ॥ MARA (५४) श्रीवरवरमुनिशतकं- त्वामेवाऽयं वरवरमुने ! चिन्तयन्नीप्सति त्वा- मात श्रीमन् ! कृपणमपि मामहसि त्रातुमेव ॥४३॥ व्या०-कल्याणकेति ॥ हे श्रीमन् श्रीवैष्णवनिधे कपणर- क्षणोपयिकसम्पन्निधे वा क्षान्तीत्यादि शान्तिः शिक्षणक्षमेष्वागस्स- हत्वं स्थेम स्थिरत्वं वच्चेह परतन्त्रशोषित्वप्रयुक्तं स्थिरतमचेतनसंरक्ष- गसंकल्पवत्वं द्रढिमा दृढत्वं प्रणतपाणिजावरक्षणभरणधारणसामर्थ्यम "दृढः स्थूलबलयोः" इत्युक्तेः। बलं इढिमा तच्च धारणसामर्थ्यम्।सम- ता आश्रितेष्वविशेषेण वर्तनं शीलं महतो मन्दैस्सह नीरन्ध्रेण संश्लेष स्वभाववत्वं वात्सल्यं दोषभोग्यत्वं क्षान्तिरिति स्वस्वीयविषयकपरिभ- वादिसहत्वं वात्सल्यं तु अनादिकालानुवृत्ताऽकत्यकरणादिदोषभोग्यत्वं सिन्धो अक्षीणस्थानभूत अत्र च यथा परत्वे ज्ञानशक्तिबलैश्चयवीर्य तेजांसि इति । यथा वा विभवे "आनृशंस्यमनुक्रोशः श्रुतं शीलं दम- श्शमः। षदगुणाश्शोभयन्त्येनं राघवं पुरुषर्षभम्" इति।तथाऽऽचार्यत्वे ऽपि षड्गुणाः क्षान्त्यादयः प्रधानभूता इति षट्स विश्रान्तिरादिश- ब्दाऽप्रयोगः । इमे चाऽश्रेयणसौकर्यापादकाः समतया प्राप्तिपूर्योऽपि लाभाअयं जनः कल्मषोपप्लुतानाम् अनादिकालानुवृत्ताऽविद्यादिदोष पीडितानां जनानां विषये शेषे षष्ठीयं कल्याणे परमनिःश्रेयसे एक स्मिन्न तु पापानुगुणफलदानेपीति भावः । प्रवणं आसक्तं मनः यस्य तथोक्तम् "एके मुख्यान्यकेवलाः” इति कोशः । केवल- १ टि० आश्रयणसौकर्यापादकाः आश्रयणे शरणवरणे सौकरस्य सुकरत्वस्य आपाद- काः ज्ञापका इत्यर्थः “आश्रयणोपयोगित्वञ्चाक्षुषपूर्वकाश्रयणे निग्रहापादकत्वान्यतरबुद्धि- निवर्तनद्वाराश्रयणप्रवृत्यौपयिकज्ञानविषयत्वम्” इति पूरुक्तं निर्वचनमनुसन्धेयम् ।
सव्याख्यानम् । कल्याणनिरतहृदयमित्यर्थः अत्र " भूतानामेव चरितं दुःसाय च भुखाय च।सुखायैव तु भूतानां त्वादृशामच्युतात्मनाम्" इति भगवान बन्धमोक्षसाधारणः आचार्यस्तु मोकान्त इत्यादि सूच्यते । प्रवणपदेन कल्मषपदेन च प्रपीडितप्राणिजावदुर्गतिदर्शनेन स्व- यमेव तान्प्रार्थयित्वा तेश्यः कल्याणं प्रयच्छतीति व्यज्यते । "वन सम्भक्तौ” सम्भक्तिः प्रार्थना इत्युक्तम् । त्वाम् आचार्यादि व्यात्मकत्वेन परमभोग्यं भवन्तम् । एक्कारेण पर्वान्तरव्या- वृत्तिः। चिन्तयन् अविरतं ध्यायन्सन् "स्वमेऽपि यद्यहं वीरं राघवं सहलक्ष्मणम् । पश्येयं नावसीदेयम्" इत्यादिरीत्या सर्वदा प्रार्थ- यानस्सन्नित्यर्थः ईप्सति आप्तुमिच्छति गुणज्ञानमपर्याप्तमित्यर्थः । अत्र चिन्तयन् इति शतृत्वहेतुत्वमीप्सांप्रति इज्ञानस्य इच्छा- हेतुत्वात् । यद्यपि “विविदिषन्ति" इत्यत्र यज्ञादेवेदनहेतुत्वम- श्वेन जिगिमिषतीत्यादिवत् इति सिद्धान्तः । तथापि सिद्धोपाय- निष्ठस्य साधनान्तरशून्यत्वात् न चिन्तनस्याऽऽप्तिहेतुत्वमिति । तदे- तदाह, कपणम् इति । कपणम् उपायान्तरप्रवृत्यनहस्वभावम् । “कार्प- ण्येनाप्युपायानां विनिवृत्तिरिहेष्यते” इत्युक्तेः । आत त्यविश्लेष- प्रकृष्टदेशस्थितिरूपदुःखातिरेकयुक्तं मामपि मां च अनेन बहवो वरवरमुनिभिः पालिता इति गम्यते । त्रातुमेवाहसि विग्रहदर्शनेन रक्षितुमेव योग्योऽसि न तु त्वत्स्वभावपर्यालोचनायामेव गुणज्ञान- मात्रसंकल्पनेन मत्परित्यागार्ह इत्यर्थः । “परित्राणाय साधूनाम्" इत्यत्रैव त्राणमिह विवक्षितमित्यर्थलाभः । इदंच द्वयानुसारी श्रीमन् इति वत्र सम्बुद्ध्यन्तमुपात्तम् । तत्र हि योजनांवरे तदपि स्वीकतं ।
(५६) श्रीवरवरमुनिशतकं- अत एव "श्रीमन्नारायण स्वामिन्” इत्यादि तद्विवरणं च । अव- शिष्टसम्बुद्धयंतपदद्वयेन नारायणपदार्थ उक्तः। कल्याणैकप्रवणमनस त्वां चिंतयन् त्रातुमर्हसीत्यत्र 'शरणं प्रपये' इत्यनयोरर्थ उक्तः । 'त्वामीप्सति' इत्यत्र त्वाम् इत्युत्तरखण्डस्थचतुर्थ्यन्तपदद्वयार्थः । ईप्सवीति आनधातुना चतुर्थ्यर्थः सना अध्याहृतःस्यां शब्दार्थचो- तः। एवकारेण च नमःशब्दार्थ इति ॥ ४३ ॥ अ०-कृपण इत्युक्तं विशदयति- मू०-दोकान्ती दुरितजलधिर्देशिको दुर्मतीनां । मूढो जन्तुळूवमयमिति श्रीमता मोचनीयः ।। पायुग्मं भवदनुचरैरपितं भक्तिनने। मौलौ कृत्वा वरवरमुने वर्ततां तत्र धन्यः॥४४॥ व्या-दोषकान्तीति ॥ हे वरवरमुने ! श्रीमता "पापानां वा शुभानां वा वधार्हाणां पूर्वगम । कार्य कारुणमार्येण न कश्चि- मापराध्यति" इत्युक्तगुणविशेषवशात् श्रियोऽधिष्ठानयुक्तेन त्वया अयं जन्तुः दोषाणाम् अकत्यकरणादीनाम् एकान्तः नैयत्यमस्याऽ- स्तीति दोपैकान्ती दुरितानां जन्मान्तरकृतपापानां जलधिः मुख्य- समुद्रः दुर्मतीनाम् अन्यथाज्ञानविपरीतज्ञानवतां देशिकः गुरुः मूढः ज्ञानशून्यश्चेति हेतुना मोचनीयः दोषादियो मोक्षयितव्य इत्यर्थः । ईप्सतीत्युक्तं पादूयुग्मम् इत्यादिना बहुभिश्च श्लोकैर्विवृणोति तत्र हि आप्तिः प्राप्तिः सा च परिचर्याजनितप्रीतिविशिष्टवरवरमुनिरूप- प्राप्यसम्बन्धानुकूलव्यापारभूतसर्वविधकर्यरूपा। भवतः परमकार- १ स्यामिति क्रियापदस्यार्थः।
- । सव्याख्यानम् । (५७) णिकस्य तव अनुचरैः "अनुमञ्चरन् छायावा" इत्युक्तपारतन्त्र्यसारै महानुभावैः अर्पितं "तुल्यो भवतु चास्माभिः" इतिवत् परसमृद्धयैक- प्रयोजनवशात्यापितं; पाइयुग्मं दिव्यपादुकायुगलं भक्तिनने प्रीति- प्रकर्षहीभूते मौलौ शिरसि कत्वा धन्यस्सन् “धनम्मदीयन्तब पाद- पंकजम्"इत्युक्तरीत्या पादुकात्मकनिरतिशयधनलाभवान्, वरदनारा- यणगुरुवररूपत्वेन "गुरुरेव परं धनम्" इत्युक्तधनलाभवान्सन्; तत्र भवदन्तिके वर्तताम् आत्मयात्रारूपवृत्तिं लभताम् । पादृशब्दः ऊद- तत्वाद्दीर्घान्तः । वरवरमुनिवर्यपादुरत्नं” इति तु " इको हस्त्रो यो गालवस्य" इति ह्रस्वेन साधु ॥ ४४ ॥ अ०--अथ नित्यं निद्राविगमसमये इत्यादिसप्तश्लोक्या प्रबोध- प्रभृति संवेशपर्यन्तासु नित्यदिव्यचर्यासु मध्ये कासुचित्प्रधानभूतासु स्त्रोपयोगमाशंसते- मू-नित्यं निद्राविगमसमये निर्विशङ्करनेकै स्त्वन्नामैव श्रुतिसुमधुरं गीयमानं त्वदीयैः ।। प्रायस्तेषां प्रपदनपरो निर्भरस्त्वत्प्रियाणां । पादाम्भोजे वरवरसुने ! पातुमिच्छाम्यहं ते ॥४५॥ व्या०-नित्यमिति ।। हे वरवरमुने ! अहं निर्विशंकः स्वरूपवि- रुद्धपुरुषार्थादिविषयविविधसंशयरहितैः। अनेकैः त्वदीयैः कर्तृभिः। ते निद्राविगमसमये तव प्रबोधकाले गीयमानं. रञ्जकस्वरसम्बन्धयुक्तं क्रियमाणं श्रुतिसुमधुरं गानाभावेऽपि मधुरं 'सु' इति भगवन्नामव्या- वृत्तिः, त्वन्नामैव त्वदीयदिव्याभिधानमेव, इदं पातुमित्यत्रान्वेति तेषां नाम गायताम्; त्वप्रियाणां त्वद्विषयकपीविप्रकर्षवताम् पादा-
(५८) श्रीवरवरमुनिशतक-
म्भोजे प्रायः अधिक, प्रपदनपरस्सन् त्वदीयदिव्यनामगानरूपकत-
ज्ञतया पतन्सन्; निर्भरश्च सन् पातुमिच्छामि पेयसम्पादनरूपभरर-
हिवस्सन् पिपासामीत्यर्थः ॥ ४५ ॥
अ०-प्रबोधोपलक्षितसर्वपौर्वाह्निकानुष्ठानानन्तरं तत्त्वप्रवचनार्थ
दिव्यसंसदवस्थानदशायां स्वोपयोगमाशंसते-
मु०-अन्तःस्वान्तं कमपि मधुरं मन्त्रमावर्तयन्ती-
मुघद्वाष्पस्तिमितनयनामुज्झिताशेषवृत्तिम् ॥
व्याख्यागर्भ वरवरमुने ! त्वन्मुखं वीक्षमाणां ।
कोणे लीनः क्वचिदणुरसौ संसदं तासुपास्ताम्॥४६॥
व्या-अन्त इति ॥ हे वरवरमुने ! व्याख्यागर्भ "पदच्छेदः
पदार्थोतिर्विग्रहो वाक्ययोजना। आक्षेपस्य समाधान व्याख्यानं
पञ्चलक्षणम्” [पाराशरपु० १८-१८]इत्युक्तलक्षणलक्षितवेदान्त-
द्वयव्याख्यानं गर्भे यस्य तथोक्तं, त्वन्मुखं वीक्षमाणां विशेषतः पश्य-
वीम्, अत एव अन्तःस्वान्तं हृदयमध्ये मधुरं रस्यं कमपि लोकवि-
लक्षणं मन्त्रं जितं जयेत्याद्यर्थकभगवद्विषयमन्त्रम् आवर्तयन्ती प्रत्यर्थ
अवणं भवाभिमानतया सन्ततं चिन्तयन्तीम् उद्यद्वाष्पेण सदोदितान
न्दाऽश्रुणा स्तिमितनयन। शीतलनेत्रां स्तब्धनेत्रां वा "स्तिमि आ-
द्रभाव"उज्झिताऽशेषवृत्तिम् आसारप्रसारादिसर्वचेष्टाविस्मृतिकीम्,
तां प्रसिद्धाम्; संसदं श्रियः प्रभृतिसमयपुरुषप्रकाण्डाधिष्ठितां दिव्य-
सभाम्, असौ अणुः बुद्धिस्थमात्रोऽल्पकः कचित् कोणे कुत्रचित
अग्रदेशे लीनस्सन् श्लिष्टस्सन् अदृष्टस्सन्या । तां संसदमुपास्तां
समीपदेशे तिष्ठतु ॥ ४६॥
D
सव्याख्यानम्।
(५९)
अ०-तत्रैव वरवरमुनिवरश्रीचरणनलिनोपसंग्रहणपूर्वकतत्वाछु-
काऽऽभरणादीनां सतां प्रेक्षणीय इत्यनेन तीर्थन तद्विषये स्वोप-
योगमाशंसते-
मू-आबिभ्राणश्चरणयुगलीमर्पिता त्वत्प्रसादा-
द्वारंवारं वरवरमुने ! वन्दमानेन मा ।
शृण्वन्वाचः श्रुतिशतशिरस्तत्त्वसञ्जीविनीस्ते।
पश्यन्मूर्ति परिषदि सतां प्रेक्षणीयो भवेयम् ॥४७॥
व्या-आवित्राण इति ॥ हे वरवरमुने! अहं परिषदि
त्वदीयदिव्यसभायाम, त्वत्प्रसादात् मदनुवृत्त्या विना केवलत्वदधी-
नप्रसादाखेतोः, अपितां दत्तां ते चरणयुगली श्रीपादद्वयं वन्दमा-
नेन नमस्यता मूर्धा, वारंवारं पौनःपुन्येन आबिन्नाणस्सन् आभ-
रणत्वेन धारयन्सन् “मदीयमूनिमलङ्करिष्यति" इविवत । आङ्-
पूर्वको बिभर्त्तिः अलंकारत्वेन धारणे वर्तते । अत एव हि आभ-
रणशब्दः । शतानां शिरसां समाहारः शतशिरः श्रुतीनां शतशि-
रसां श्रुतिशतशिरः तस्य तत्त्वं तत्प्रतिपाद्यः परमात्मा तस्य
सञ्जीवनीः तत्प्राणनहेतुभूताः कुदृष्टिपरिगृहीतानां वेदन्तानां यथाव-
दर्थप्रतिपादकाः ते वाचः शृण्वन्सन् त्वदीयश्रीसूक्तीः श्रवणविषयी-
कुर्व सन् “संवेव मधुरं वाक्यम्" इत्यर्थपर्यालोचनेन विनापि
स्वरूपेण तासां भोग्यत्वं व्यज्यते । ते मूर्ति पश्यन त्वदीयदिव्यमंग-
लविग्रहं चक्षुषा सेवमानस्सन्, सत्तां स्वरूपज्ञानेन लब्धसचाकानां
प्रेक्षणीयः दर्शनीयो भवेयम् ॥४७॥
gAR . (६०) श्रीवरवरमुनिशतकं- अ०-रंगनाथमंगलाशासनार्थमागमनसमये स्वोपयोगमाशंसते- सू०-काले यस्मिन्कमलनयनं देवमालोकयिष्य- नियासि त्वं वरवरमुने ! नित्ययुक्तैस्त्वदीयैः॥ अग्रे नृत्यन्नयमपि तदा गाहतां हर्षसिन्धौ। मज्जम्मजम्मधुवनजुषां वैभवं यूथपानाम् ॥४८॥ व्या०-काल इति ॥ हे वरवरमुने ! यस्मिन्काले वं शेषिवि- पयमङ्गलाशासनरूपसाक्षात्कलैकपरस्त्वं नित्ययुक्तैः त्वामेवोपाय- मुपेयञ्च श्रद्दधानः त्वदीयैः त्वदेकनिरूपणीयैः सद्भिः सहार्थे तृतीया । अनया तेषामप्राधान्यावगमात् रङ्गनाथमङ्गलाशासनार्थ वरवरमुनिवरगमनसमये तन्मङ्गलाशासनपरत्वं तेषां व्यज्यते । कमलनयनं पुण्डरीकाक्षम् इदमेव नेत्रसौभाग्यम् । "स्नेहादस्थान- रक्षाव्यसनिभिः" मंगलाशासनहेतुः । देवं प्राप्तशेषिणम् इदञ्च तस्य स्वरूपानुरूपत्वोपपादकम् आलोकयिष्यन्सन आपादान्मौलिपर्यन्तं मंगलाशासनार्थं द्रक्ष्यन्सन् अत्राऽऽलोकयिष्यन् इति दर्शनफलस्य कर्तृगामित्वबोधकस्य "णिचश्च" इत्यात्मनेपदस्याऽनुक्तेरालोकनस्य परार्थत्वमिति मंगलाशासनार्थत्ववाचोयुक्तिः । निर्यासि परिषद इति शेषः । तदा तस्मिन् प्रथमपरिस्पन्दप्रभृतिगमनकाले अयं जनोपि हर्षसिन्धौ आनन्दान्धौ मज्जमज्जं णमुलन्तोऽयं शब्दः पौनःपुन्यं द्विरुक्त्यर्थः नृत्यन् सन् गात्रविक्षेपं कुर्वन्सन मधुवन- जुषां सुग्रीवपालितमधुवनाख्यकीडोयानं प्राप्तानां तस्मिन् प्रीयमा- णानां वा यूथपानाम् अंगदप्रभृतीनां सेनानाथानां । वैभवं सव्याख्यानम् । (६१) आनन्दसमृद्धिम्, गाहतां उन्मस्तकं प्राप्नुयात् तत्र गाहनं हि तस्मिन्नुन्मस्तकप्रवेशः ॥ ४८ ॥ अ०--तस्मिन्नेव काले वरवरमुनिवरमभितो मंगलाशासनविधया स्वोपयोगमाशंसते- मु०-भूत्वा पश्चात्पुनरयमथ व्योनि गोपायमानो। भूयः पार्श्वद्वितयसुषमासागरं गाहमानः॥ जल्पन्नुच्चैर्जयजय विभो ! जीवजीवेति वाचं । शंसन्मार्ग वरवरमुने ! सौविदल्लो भवेयम् ॥ १९ ॥ व्या०-भूत्वेति ॥ हे वरवरमुने ! अहम् अथ नर्तनानन्तरम् पश्चात् पृष्ठतः व्योम्नि ऊध्वम्, पुनर्भूत्वा अनुपदं स्थित्वा, पार्श्व- द्वितयसुषमासागरं सव्येतरभागद्दयसौन्दर्यसमुद्रम्, गाहमान स्सन वस्मिन्मनस्सन, अनिष्टानि निवारयन्सन् विभो सर्वदेशसर्वकाल- व्यापिन् । जयजय सर्वत्र सर्वदा सर्वोत्कृष्टो भूयाः जीवजीन सर्वत्र सर्वदाऽनामयो भूयाः इति वाचमुच्चै ल्पन् सन् मार्गम् इत इतो देवेति शंसन्सन सौविदल्लः कञ्चुकी भवेयं भवितुमाशासे ॥४९॥ अ०-अथ तत्र सेवाक्रमेण गोदाप्रभृतीन्सेवमानस्य वरवरमु- निवरस्य श्रीपादयुग्मं "रममाणा वने त्रयः" इत्यत्र लक्ष्मणरमण वत्सवितुं प्रार्थयामीत्याह, तत्र हि शेषिदम्पतिमिथस्संश्लेषरसदर्श- नजन्यानन्दो लक्ष्मणस्य रमणमित्युक्तन् । मू-देवी गोदा यतिपतिशठवेषिणौ रंगशृंगं । सेनानाथो विहगवृषभः श्रीनिधिस्सिन्धुकन्या।।
(६२) श्रीवरवरमुनिशतकं- भूमानीलागुरुजनवृतः पूरुषश्चेत्यमीषा- मग्रे नित्यं वरवरमुनेरंघ्रियुग्मं प्रपद्ये॥५०॥ व्या०-इदश्चाऽस्मदाचार्याणां श्रीरङ्गधामनि सेवाक्रमाभिप्रायक मिति। अमीषां पूर्वोक्तगोदादिपूरुषपर्यन्तानाम् अग्रे पुरतः,नित्यं निय- तमू, वरवरमुनेरधियुग्मं श्रीपादयुगलं प्रपद्ये प्रार्थयामीत्यर्थः । प्रपू- कपत्लुधातोः मार्थनावाचित्वं दीपकद्भिरभिहितम् अत एव प्रपत्ति- विश्वासः स च सकप्रार्थनामात्रेणापेक्षितं दास्यतीति विश्वास- पूर्वकप्रार्थनमिति यावत् इति सम्प्रदायावगतमिति भगवद्भाष्यका- रसूक्तिश्च ॥ ५० ॥ अ०-अथ 'सायन्तनं ततः कृत्वा' इत्युक्तदिव्यचर्यानन्तरभा- विसंवेशविषये स्वोपयोगमाशंसते- मू०-भृत्यैदिनैः प्रियहितपरैरञ्चिते भद्रपीठे। तुङ्गं तूलासनवरमलंकुर्वतस्सॉपधानम् ॥ अनिद्वन्द्वं वरवरमुनेरब्जपत्राऽभितानं । मौलौ के भुजशिरसि मे वक्षासि स्यात्क्रमेण ॥५१॥ व्या०--भृत्यैरिति ॥ प्रियं यत् हितं तत्परैः; प्रियत्वं तादा- त्विकपीतिप्रयोजकत्वं हिवत्वं पथ्यत्वम् अनयोश्च प्रायेण सहानव- स्थानलक्षणविरोध एव । क्वचित्तु दुर्लभः समागमः तादृशप्रियत्वे सति हितम्भूयशः परीक्ष्य लब्धतद्विषयकासक्तिमद्धिरिति भावः । तादृशा अपि दुर्लभा इत्याह-वित्रैः इतिाद्वौ वा त्रयो वेति विकल्पनी- यरित्यर्थः । तद्विषये चतुष्टवादिकं तु नास्त्येवेति भावः । भृत्यैः दासैः सव्याख्यानम् । (६३) ते च पा(रत्नपादरेखामयप्रभृतयः । अञ्चिते अञ्चनेन पूजया निष्पा- दिते; यथा हि इष्टदेवताचाराधनमत्यन्तसावधाननिष्पाद्यं तद्वनि- पादित इत्यर्थः । अत एवाऽझोपाऽभाव इडागमश्च । गत्यर्थत्वे तु उदक्तमुदकं कूपात इत्युदाहृतं भद्रपीठे भई मंगलं तदेकहेतुः पीठो भद्रपीठः तस्मिन, अब्भक्षवत, अनेन महामतीनाम्भीत्यवलम्बना भावस्सूच्यते । तुंगम् उन्नतं सौकुमार्यभूयस्त्वार्थमिदं सोपधानं तूलापाश्रयसहितं तूलासनवरं तूलनिर्मिताऽऽसनश्रेष्ठं शयेत्यनुत्ते लौकिकत्वस्वापाभावो लत्यते । तत् अलंकुर्वतः भूषयतः अने- नाऽनन्यप्रयोजनभृत्यकृषिसाफल्याथ तत्राऽवस्थानं न स्वार्थमिति सूच्यते । भूषणं हि न स्वार्थम् अपि तु द्रष्टुणां । शत्रादेशवोऽप्य- यमों व्यज्यते । न ह्यलंकरणफलं कर्तृगामीति सूचयति । अन्यथा- उलङ्कुर्वाणस्येत्येव वदेत। किञ्च-शोभाकरस्यैवालंकारत्वमिति"श्रीमान सुखसुप्तः” इत्येतदप्यस्तीति व्यज्यते । उक्तञ्च "काव्यशोभाकरा ये स्युस्तेऽलंकाराः प्रकीर्तिताः” इति । तथाविधस्य वरवरमुनेः अजपत्राऽभितानं पुण्डरीकपलाशबदरुणतरन् अनिवन्दं वरवर- मुनिवरश्रीचरणयुगलं मौलौ शिरसि भुजशिरसि अंसयोः वक्षसि उरसि क्रमेण उक्तानुपूर्व्या स्यात् तन्निष्ठं भूयात् । अत्राऽजपत्राभिताम्र- मंघ्रिद्वन्दं मौलाविति उक्तेः पुष्पसदृशत्वात् शिरसि रसपारिमला- १ पादुरत्नम् वरदनारायणगुरुः, पादरेखा रामानुजमुनिः अनेन भगवदूरवरमुनेः श्रीपादुका वरदगुरुः एवेति गम्यते रामानुजमुनिस्तु भगवद्रामानुजसन्निहितरामानुजपद- च्छायाख्यगोविन्दाचार्यवत् “रम्यजामातृयोगीन्द्रपादरेखामयं सदा" इत्युक्तेः अयमर्थः सदाचार्यादवगन्तव्यः ।
(६४) श्रीवरवरमुनिशतकं- ध्यामास्ये,पत्रशब्दप्रयोगेण बहुपत्रगुम्फितमालिकासादृश्यात् अंसयो- वक्षसि च मालिकावच्च भूयादिति लभ्यते । भृत्यविषये ह्यलंकर्तृत्व- मुक्तं तद्वदात्मानमप्यलंकरोत्वित्याशयः । पादोपधानं मामंगीकरो- वित्याशयः॥५१॥ अ०-एवं सप्तश्लोक्यां प्रदिपादितां वरवरमुनिवरदिव्यचर्यामह- रहरनुवृत्तां सूचयन् तत्र स्वोपयोगमाशंसते- मू०-अग्रे पश्चादुपरि परितो भूतलं पार्श्वतो मे । मौलौ वत्र वपुषि सकले मानसाम्भोरुहे च ॥ दर्शदर्श वरवरमुने ! दिव्यमाघ्रद्वयं ते । मजन्मजन्नमृतजलधौ निस्तरेयं भवाब्धिम्॥५२॥ व्या-अय इति॥हे वरवरमुने ! अहं मे मम अग्रे पुरतः पश्चात पृष्ठतः उपरि ऊर्ध्वम् । भूतलं परितः पार्श्वतः पार्श्वव्ये, मौलौ वक्र वपुषि सकले सर्वस्मिन् शरीरे। मानसाम्भोरुहे च हृदयपुण्डरीके च त्वदीयदिव्यचरणयुगं दृष्ट्वा, अमृतजलधौ आनन्दसुधासमुद्रे,नित्यम्म- ज्जन् पूर्वोक्तप्रकारेणाऽवगाहनं प्रतिदिनम् कुर्वन्, भवाब्धिं निस्तरेयं भवाब्धेरुगच्छेयमित्यर्थः । स्वस्य पृष्ठतो गमनशाऽभिप्रायेण अग्र इत्युक्तम्, पुरोधावनाभिप्रायेण पश्चादित्युक्तम् वहनायभिप्रायेण उपरीत्युक्तम्, "जल्पन्नुच्चैर्जयजय विभो जीवजीव” इत्युक्ताभिप्रायेण पार्श्वत इत्युक्तम्। दिव्यदेशदिव्ययात्राभिप्रायेण परितो भूतलमित्युक्तं १ 'नित्यंमज्जन्' इति व्याख्याने प्रतीकोपादनात् 'नित्यमज्जन्'इत्येव पाठः स्वीकृतः व्याख्यात्रेति गम्यते अतो मूलेऽपि तथा पाठ एवाङ्गीकरणीयः पुस्तकद्वयेऽपि ' मज्ज- न्मजन् । इत्येव दृश्यते एवमेव वृद्धाः पठन्ति च ।
सव्याख्यानम्। (६५) पादोपधानभावाभिप्रायेण मौलौ वक्के वपुषि सकल इत्युक्तं,स्वीयसुषु- प्तिकालाभिप्रायेण देशान्तरनियुक्तक्रियानुष्ठानार्थप्रवासाभिप्रायेण वा मानसाम्भोरुह इत्युक्तमिति विभावनीयम् ॥ ५२ ॥ अ०-"कुशस्थले निवसति स च प्रातरिहेष्यति" इति रीत्या भवत्प्राप्तिहेतुभूतमव्यवहितप्रभातं सुप्रभातं संकल्पयस्वेत्याह- मु०-कर्माधीने वपुषि कुमतिः कल्पयानात्मभावं । दुःखे मनः किमिति सुचिरं दूयते जन्तुरेषः॥ सबै त्यक्ता वरवरमुने! सम्प्रति त्वत्प्रसादा- दिव्यं प्राप्तं तव यदयुगं देहि मे सुप्रभातम् ॥५३॥ व्या०-कर्माधनि इति॥हे वरवरमुने ! संप्रति अयैव त्वत्प्रसादात त्वदीयोनेहेतुकानुग्रहात्मकहेतुना, मे सर्व त्यक्त्वा दिव्यं तव पदयुगलं प्राप्तं सुप्रभातं ममाऽविद्याप्रभृतिभगवत्पर्यन्तत्यागपूर्वकचरमपर्वात्मक- भवदीयश्रीपादवन्दशामिहेनुभूतशोभनप्रभावमङ्गलभूतं त्वद्विपकर्षका- लरात्र्यवसानात्मकं प्रातःकालं कर्मपदमिदं देहीत्यत्रान्वेदि ! कर्मा- धीने कर्मस्थितिनियतस्थितिके, वपुपि शरीरे, आत्मभावम् आत्मत्वं कल्पयन् जानन्, कुमतिः अन्यथाज्ञानवान्, गोबलीवईन्यायात समादानम् अत एव दुःखे ममः एष जन्तुः किमर्थ सुचिरं दूयते परितापं भजतीति मत्वा, देहि सुप्रभातं देहीत्यर्थः । अनेनानिदस्यैव मनोरथ इति व्यज्यते ॥ ५३ ॥ अ०-अभिनिवेशातिशयेनाऽन्यपरज्ञानादिजनकसामग्र्यधीन- जन्मकज्ञानादिकं त्वद्विषयकसंस्मरणादिरूपेण जायतामित्यत्राह- , (६६) श्रीवरवरमुनिशतकं- मू०-या या वृत्तिर्मनसि मम सा जायतां संस्मृतिस्ते । यो यो जल्पस्स भवतु विभो ! नामसङ्कीर्तनं ते ॥ या या चेष्टा वपुषि भगवन् ! सा भवेद्वंदनं ते । सर्व भूयादरवरमुने! सम्यगाराधनं ते ॥५४॥ व्या०-यायेति ॥ तथाऽप्यत्र प्रवृत्तिर्या वत्स्मृतेस्सा विनश्यतु इति वरणदशायां मे उत्तरभाविनिषिद्धप्रवृत्तिनिवर्तनप्रार्थनायां तसिद्धिवत् निषिद्धप्रवृत्तिजनकसामग्र्या एवं प्राप्तविषयमार्थनायां तत्सिद्ध्यतीत्याशयमूलिकेयं प्रार्थना, न त्ववश्यं मम बुद्धिपूर्वकनिषि- प्रवृत्या भाव्यम्।सा च तव त्वत्संस्मृत्यादिवत् भोग्या भवत्विति विप- रीतप्रार्थनाऽत्र विवक्षिता; तथा सति संस्मृत्यादिपदे लक्षणापत्तेः मम तु मृद्धटो भवतीत्यत्रेवात्र मुख्यत्वमेव इदानीमपि प्रातिकूल्यव्य- वसायनिवृत्त्यभावेनाऽनधिकरित्वापत्तेः, वरवरमुनिवरविषयकैर्यमा- र्थनामकरणत्वेन तदन्यबुद्धिपूर्वनिषिद्धप्रवृत्तिप्रार्थनायां प्रकरणविरो- धापत्तेः, एतत्कृतविलक्षणमोक्षाधिकरिनिर्णयाख्यग्रंथविरोधापत्तेः, ते संस्मृतिर्जायतामित्यत्र त्वदभिमतं यत्त्वसंस्मृतिवत् प्रीतिजनकत्वं तब- ज्जायतामित्यर्थस्य वक्तव्यतया चेति शेषे षष्ठीत्वापत्तेश्च मम कते बन्दनमिति त्वत्कर्मकवन्दनादिकमित्यर्थेन कारकषष्ठीत्वादित्यलम् । हे वरवरमुने मम मनसि "प्रपन्नस्यापिहि" इत्यायुक्तरीत्या दुर्निवार- प्रकतिसम्बंधस्य मम हृदये, याया प्रीति यते स्वस्वकारणाधीनं य- यत् ज्ञानं जायते; अत्र क्रियापेक्षायामुपस्थितजनिधातोरेव विभक्ति- १ अनेन न देवराजगुरुवरेण विलक्षणमोक्षाधिकरिनिर्णयः कृत इति कोचदाहुः ते निरस्तप्रायाः ॥ २ वृत्तिरिति पा० । ३ करणाधीनेति पा० ।
मुव्याख्यानम् । (६७) विपारणामेन जायत इति लायते । भवतु भवेत् इत्यत्रापि भवतीति लायते. सा स्वकारणाधीनज्ञानरूपमनोवृत्तिः ते संस्मृतिजार्यता त्वद्विषयकसंस्मृतिरूपा उत्पद्यताम्, गोमयात् वृश्चिकोत्पत्तिवत वेतृकन्दावीपान्तरे कदल्युत्पत्तिवच्च प्रपत्तव्यशक्तिविशेषायुज्यत इदमिति भावः । अत्र निषिद्धनिवृत्तिप्रार्थनाया प्राप्तविषयप्रवृचित्रा- र्थना पृथकर्तव्येति स्वकारणवशात् जायमानप्रवृत्तित्वावच्छिन्नस्यो- त्पत्तिदशायामेव प्रातविषयप्रवृत्तित्वेनोत्पत्तिप्रार्थनायां लाघवमिति एवंविधशैली आश्रिता एवं 'यद्धिमनसा" इत्युक्तरीत्योक्तम् "तवाचा वदति इत्युक्तरीत्याऽऽह-यो योजल्पो भवति त्वकारणाधीनोयो यश्श ब्दः जायते सः स्वकारणाधीनशब्दः, ते नामसङ्कर्तिनं भवतु त्वदीय- दिव्यनामधेयसम्यकीर्तनरूपमुत्पद्यताम् “तत्कर्मणा करोति' इत्यु- क्तमाह,वपुषि याया चेष्टा भवति शरीरे स्वस्वकारणाधीना याया स्प- न्दादिरूपक्रिया उत्पद्यते,सा ते वन्दनं भवतु सास्वकारणाधीनक्रिया, वत्कर्मकवन्दनमुत्पाद्यताम्.सर्वम् उक्ताऽनुक्तं समस्तं,तेसम्यक्आराधनं भूयात् त्वदीयनिरतिशयमुखोल्लासमयोजकव्यापाररूपमुत्द्यताम् . उत्पत्तिदशायामेव तथाविधत्वेनोत्पत्तेः न प्रायश्चित्तानुष्ठानक्लेश इति भावः॥ ५४॥ अ०-अथ नमश्शब्दविवक्षिततदीयपर्यन्तकैङ्कर्ष प्रार्थयिष्यन् तद्विषयकतीवरुचिसिद्धयै तदीयेत्यत्र तत्पदवाच्यवरवरमुनिवरविषये परमभक्तिम् “या प्रीतिरविवेकानाम्" इति रीत्या प्रार्थयते-- मू-कामावेशः कलुषमनसामिद्रियार्थेषु योऽसौ । भूयो नाथे मम तु शतधा वर्ततामेव भूयान् । GA (६८) श्रीवरवरमुनिशतक- भयोऽप्येवं वरवरमुने! पूजनत्वे प्रियाणां । भूयोभूयस्तदनुभजने पूर्णकमो भवेयम् ॥ १९ ॥ व्या-कामावेश इति ॥ इयञ्च चरमाचरमनिष्ठा हे वरवरमुने यः यत्स्वरूपकः यावत्परिणामको बा कलुषमनतां क्षुभितहृदयाणां पुंसाम; कामस्य कामदेवस्य आवेशः स्वप्रकतिविस्मरणपूर्वकशरीर-- परवशताधिष्ठानविशेषः, विषयानुभवाभावव्यतिरेकप्रयोजकस्पृहा परिणाम इति यावत्। अत एव “युवतिजनेषु शनैश्शनैरनङ्गः" इत्यु- कम्।असौ तावत्सरिमाणस्तत्स्वरूपः,कामावेशः परमभक्त्यतिशयरूप इति शेषः।मम नाथे स्वरूपानुरूपशेषिणि त्वयि विषये भूयो वर्ततां बहुकत्लो वर्तताम्, शतधा वर्तताम् अनन्तप्रकारविशिष्टो पर्वताम् । भूयान्वर्ततां विपुलस्वरूपो वर्तताम, एवं यथा वद्विषये तथैव खस्त्रियाणां पूजनविषये भूयः बहुशः पूर्णकामः अपरिच्छिन्नाभिनि- धेशवान् भवेयम्; तदनुभजने त्वदीयभजनानुभजने, त्वत्सम्बन्धिस- म्बन्धिविषयककैङ्कर्ये भूयोभूयः पूर्णकामो भवेयम् । अत्यापरि- च्छिन्नाभिनिवेशातिशयवान् भवितुं प्रार्थयामि ॥ ५५ ॥ अ०-एवं वरवरमुनिवरतत्संबन्धिसम्बन्धिविषयसर्वदेशसर्वकालस- विस्थोचितसर्वविधकैकयहेतुतद्विषयातिमात्राभिनिवेशातिशयः प्रार्थितः । अथ सति सर्वलोकसाक्षिकमस्मिन्नभिनिवेशातिशये तब्द- लात्कारतदर्शितकैकर्यकरणानुरोधेन भक्ष्याभक्ष्यभक्षणसेव्यासेव्य- सेवनकत्याऽकत्यकरणानि लक्ष्मीतन्त्रादिषु अस्याधिकारिण- १ लक्ष्मीतन्त्रे १७ अध्याये यथेष्टं द्रष्टव्यम् ।
सव्याख्यानम्। स्त्याज्यतयोक्तार्थसाधकानर्थसाधककर्मरूपराशियान्तर्गतानि प्रसंज- न्ति चेदपि नास्ति वैधयं तेपामभिनिवेशातिशयबलात्कारित्वे- न भगवदनाभमतिपुरुषार्थहानिप्रयोजकत्वाऽभावात् अत एव ह्यन- न्यदैवत्वविरुद्धप्रवृत्तिदर्शनोक्तिः नाऽप्यत्र लोकापवादभीतिकरुणा- क्षोभाप्रतिबंधकाः, तेषामुक्ताविमात्राभिनिवेशातिशयेन प्रतिबंधात्. "अत्यंतभक्तियुक्तानां नैव शास्त्रं न चक्रमः" इति वचनेन तदधिकारि- विषये तादृशाभिनिवेशप्रतिसन्धानवतां स्वयं तादृशाभिनिवेशाभावव- तामेवंविधविपये अपवादानवकाशात् लोकानुत्सादाचेत्यादिकम- भिप्तन्धायाह-- मू०-भक्ष्याऽभक्ष्ये भयविरहितस्सर्वतो भक्षयित्वा । सेव्याऽसेव्यौ समयरहितस्सेवया तोषयित्वा ।। कृत्याकृत्ये किमपि न विदन् गर्हितं वाऽपि कृत्वा । कत युक्तं वरवरमुने ! कांक्षितं त्वत्प्रियाणाम् ॥५६॥ व्या०-भक्ष्याभक्ष्य इति ॥ हे वरवरमुने ! अत्राऽभिनिविष्ट इति प्रथमान्तं पूरणीयम् अभिनिविष्टः पूर्वप्रार्थित सर्वलोकसाक्षिकाति- मात्राभिनिवेशवान्पुरुषः, सर्वतो लोकापवादभगवदनभिमविपरुषार्थ- हानियो यत् भयं भाव्यनर्थाशंकनरूपं तेन विरहितस्सन् शुन्यस्स- न्,भक्ष्याऽभक्ष्ये भक्षयित्वा भक्ष्यम् अर्थसाधकभक्षणक्रियाकर्मभूतम्, अभक्ष्यम् अनर्थसाधकभक्षणक्रियाकर्मभूतं, ते हे भक्षयित्वा तद्भक्ष- गं कृत्वा; इदश्च त्वत्रियाणां काङ्कितं कर्तुं युक्तमित्यत्रान्वेति । भक्ष्यं द्वादश्यां मुनिशाकादिकम् अभक्ष्यं लशुनादिकं समयेन व्यव-
१
(७०) श्रीवरवरमुनिशतकं-
स्थारहितस्तन , सेव्यः अर्थत्ताधकसेवाकर्मभूतकापाधिकमातापि-
त्रादिः। असेव्यः अनर्थसाधकसेवाकर्मभूतनीचादिः। तौ सेवया शुश्रू-
पया, तोषयित्वा मन्तुष्टौ कत्वा; अस्याऽपि पूर्ववदन्वयः । किमपि
गहितं न विदन सन् त्याज्यत्वाविशेषात् गहिंतयोः कृत्याकत्ययोर्मध्ये
एकतरमपि निन्दितत्वेन न जानन्सन,कत्याऽकत्ये अर्थसाधकानुष्ठान-
विषयानर्थसाधकानुष्ठानविषयभूते कृत्वा अस्यापि पूर्ववदन्वयः। वाअपी
त्याच्यामेषां विकल्पो समुच्चयौ लायेते, त्वत्प्रियाणां ये त्वयि प्रीयन्ते,
येषु त्वं प्रीयसे तेषामित्यर्थः । कांक्षितं कांक्षाहम् अर्हार्थे क्तः अनेन
तदीयविषयकांक्षाविषयत्वानहकरणव्यावृत्तिः अधिकारिणोऽभिनिवे-
शातिशयस्वरूपपर्यालोचनायान्तु नैव तत्प्रसक्तिरिति हृदयम्।उत्तञ्चैतै-
खे "अपगतमदमानैरन्तिमोपायनिष्ठैरधिगतपरमार्थैरर्थकामानपेक्षः।
निखिलजनसुहृद्भिनिर्जिवक्रोधलोभैवरवरमुनिभृत्यैः” इति कांक्षा-
वैलक्षण्यं कर्तुं युक्तं निष्पादयितुमर्ह इत्यर्थः । अत्राभिनिविष्ट-
पुरुषकर्तृकमभिनिवेशवशेन निर्भयतत्कर्तृकभक्ष्याऽभक्ष्यभक्षणहेतुके
यत्त्वत्रियाणां कांक्षाविरहवाहिककर्यकरणं तदभिनिविटोऽहंतीति
बोधः।एताहशाभिनिवेशशून्यानां विषयचापल्येन केवलं तद्वत्ताभिनयः
परवञ्चनामात्रनिति सम्प्रदायविदः यथा “वृद्धौ च मातापितरौं'
इत्यादरकिञ्चने दोषाभावबोधकत्वम्, यथा वा “सर्वान्नानुमतिश्च
प्राणात्यये" इत्यस्याऽऽपदि तत्त्वम् । तथैव "अत्यन्तभक्तियुक्तनाम्"
इत्यस्य स्वरूपानुरूपाभिनिवेशवाद्विषये दोषाभावबोधकत्वमिति ।
अभिनिविष्टस्त्वत्रियाणां कांक्षितं कर्तु युक्तं कर्तुं योग्यः युक्तमित्य-
व्ययम् ॥ ५६॥
सव्याख्यानम् । (७१) अ०-उक्तरीत्या भक्ष्याऽभक्ष्यभक्षणादीनां नानिष्टप्रयोजकत्वं सर्वात्मनापि यदि कथञ्चित् तत्त्वं तथापि दर्शितककर्यरुपमहाफल सिद्धौ सत्यां तदकिश्चित्करमित्याह- मू०-वृत्तिं त्रातुं वरवरमुने ! विश्वतो वीतरागैः। प्राप्यं सद्भिः परमिदमसौनेच्छवि ब्रह्मसाम्यम् ।। निर्मर्यादः पततु निरये निन्दितैरप्यनल्पै- लब्ध्वा किञ्चित्त्वदनुभजनं वन्मुखोल्लासमूलम्॥१७॥ व्या-वृत्तिमिति ॥ हे वरवरमुने ! असौ चरमविषयाभिनि- वेशवान् अयजनः, विश्वतो वीतरागैः प्राप्यम् ऐश्वर्यादि- सर्वपुरुषार्थविषयककामनाशून्यैः सद्भिः ब्रह्मज्ञानवद्भिः प्राप्यम् ।। प्राप्तुं शक्यम् । इदं सत्यामिच्छायां सिद्धप्रायम्, परं ब्रह्मसाम्यं परमात्मपरमसाम्यम्, नेच्छति न वाञ्च्छति किमर्थं तत्राह वृत्ति त्रातुमिति । लब्धचरमनिष्ठात्मकवृत्तिरक्षणार्थमित्यर्थः । निर्मर्यादा अतिमात्राभिनिवेशवशेन मर्यादां व्यवस्थामविकांतोऽयअनः अ- नल्पैः अपरिनितैः निंदितः निपिकृत्यैहें तुभिः । त्वन्मुखोल्लासमूलं त्वदीयस्वरसमीतिहेतुभूतं त्वदनुभजन त्वकर्यविशिष्टत्वदीयकैड- यम, लब्ध्वा तल्लाभवान्सन् निरये पततु अपि नरके पततिचेव, कामं पततु इति भावः ॥ ५७ ॥ अ०-एवञ्चरमप्राप्यकैंकर्यस्याऽवश्यकत्वं प्रतिपादितम्, अथ तदर्थ लीलाविभूतौ बासमपेक्षते- मू०-नाऽसौ वासं नभसि परमे वाञ्च्छति त्वत्प्रसादान् । मावासो यदिह सुलभः कोऽपि लाभो महीयान् ।
(७२) श्रीवरवरमुनिशतकं- किञ्चित्कृत्वा वरवरमुने ! केवलं त्वत्प्रियाणां । पश्यन् प्रीतिं भवति भवतो वीक्षणानां निधानम्॥५८॥. व्या-नासाविति ।। हे वरवरमुने ! असौ त्वद्विषयेऽत्यन्ताभि- निविष्टोऽहमित्यर्थः । परमे नभसि श्रीवैकुण्ठदिव्यभुवने, वासं न वाञ्च्छति नेच्छति यत यस्मात् । इह लीलाविभूतौ महीयान् अति- शयेन महान् कोऽपि विलक्षणः लाभः महत्तरविलक्षणलाभभूत इत्यर्थः । मानामप्यावासः त्वत्प्रसादाद्धेतोः सुलभः तस्मान्न वाञ्छतीति पूर्वत्र सम्बन्धः । मावासस्य लाभहेतुत्वमाह किञ्चि- दित्यादि । वलियाणां तब त्वयि च प्रियाणाम्, किश्चित्कृत्वा शेष- वृत्तिं कृत्वा केवलं त्वत्रियाणां प्रीतिं पश्यन् स्वार्थतागन्धराहित्येन स्वकृतकिञ्चित्कारजनिततदीयपीतिञ्चैतन्यफलतया जानन भवतो वीक्षणानां भवदीयकटाक्षाणाम् निधानं अक्ष्णां अधिकरणभूतो भवति ॥ ५८ ॥ अ०-स्वाधीनपरमपदगमने बिलम्बहेतुं तेन विना तत्र स्वस्य गमनेऽपि प्रयोजनाभावश्चाह- यू०-अस्माद्भयास्त्वमसि विविधानात्मनश्शोधयित्वा । पद्माभर्तुः प्रतिदिनमिह प्रेषयन् प्राभृतानि ॥ तस्मिन्दिव्ये वरवरसुने ! धामनि ब्रह्मसाम्या- त्पात्रीभूतो भवति भगवन् । नैव किञ्चिदयायाः॥१९॥ व्या-अस्मादिति ॥ हे भगवन् ! उभयविभूतिनिर्वाहक वरवरमुने ! विविधान् जन्मवृत्तज्ञानरुच्चावचान् आत्मनः स्वाभावि- १ अस्य वरवरमुनेरुभयविभूतिनिर्वाहकत्वं भगवद्रामानुजाचार्यात्रतारविशेषात् श्रीरामानुजाचार्यस्य तु स्वतन्त्रेण भगवता दत्तमिति सुप्रसिद्धम् उडैयवरिति नाम्ना च ।
सव्याख्यानम्। (७३) कशेषत्वज्ञानानन्दमयत्वलक्षणचेतनान्, शोधयित्वा "मलप्रक्षालना- न्मणेः” इत्युक्तरीत्या परिशुद्धान् कृत्वा, पद्माभर्तुः उत्तरवाक्यदि- शाप्राप्यभूतश्रीमन्नारायणाच, प्राभृतानि उपादानद्रव्याणि, उपहार- खेनेत्यर्थः । अस्मात् संसारमण्डलात् प्रतिदिनं प्रेपर्यस्त्वं पद्माभर्तुरिह भयान् असि बहुमतोऽसि, अत एव तव परमपदगशने विलम्ब इति भावः । दिव्ये तस्मिन् धामनि श्रीवैकुण्ठदिव्यभुवन, ब्रह्मसाम्यात् परमात्मना तुल्यनिरतिशयानन्दाहेतोः, अयञ्जनः भवतो दयायाः त्वदोयनिर्हेतुकपरदुःखदुःखित्वरूपझपायाः, किञ्चिदपि पात्रीभूतः ईपदपि विषयीभूतो नैव भवति ततस्त्वां विना तत्र गमनेऽपि नोद्दे- श्यसिद्धिरिति भावः॥ ५९ ॥ अ०-त्वदनुभवरूपपरमपुरुषार्थस्य इहैव लाभे भूतल एवं नित्यवासो न विरुद्ध इत्याह- मू०-जयनान्यत्किमपि यदि मे दिव्यनान्नस्त्वदीया- त्रैवोपास्यं नयनसुलभादंघ्रियुग्माहते ते ॥ प्राप्यं किञ्चिन्न भवति परं प्रेष्यभावाहते ते। भूयादस्मिन् वरवरमुने ! भूतले नित्यवासः॥६॥ व्या-जप्यमिति ॥ हे वरवरमुने ! त्वदीयादिव्यनाम्नः दिवि भवं दिव्यं दिवे हितं वा दिव्यम् । अनेन भोग्यत्वोपायत्वे उक्ते ताह- शभवन्नामधेयात्; अन्यत् भगवन्नामादिकं मे न जयं यदि मत्कर्तृ- कनिरन्तरानुसन्धानविषयं न यदि नयनसुलभात् चक्षुषा सुखेन लब्धुमर्हात, ते अंधियुग्मात् ऋते भवदीयश्रीपादयुगलं विना नैवोपास्यं यदि कथञ्चिदपि न सेव्यञ्चेत, ते प्रेष्यभावाहते भवदीयशे- DETAIMER (७४) श्रीवरवरमुनिशतकं- पवृत्रिं विना परं प्रकष्ट, किश्चिदेकमपि प्राप्यं न भवति यदि प्राप्तिफलं न भवति । यदि, अस्मिन् भूतले रजस्तमःप्रचुरायामपि लीलाविभूतौ, नित्यवासः कालतत्त्वव्यातवास: भूयात भवितुमाशं- साविषयः। आशिषि लिङ्, आशीः आशंसा ॥ ६० ॥ अ०-एवं प्रार्थितत्वेऽपि "प्रियञ्जनमपश्यन्ती पश्यन्ती राक्षसी- गणम्” इति रीत्या यदि प्रतिकूलैस्सह स्थितिरनुकूलसहवासालाभश्च स्याताम, तदा देहत्यागविषयककर्तव्यताऽध्यवसायं देहीति प्रार्थयते- मू-मन्त्रो दैवं फलमिति मया वाञ्छितं यद्यपि स्या- न्मध्ये वासो मलिनमनसामेवमेवं यदि स्यात् ॥ यद्वा किञ्चित्त्वदनुभजनं सर्वदा दुर्लभं स्या- देहें त्यक्तुं वरवरमुने ! दीयतां निश्चयो मे ॥६॥ व्या०-मन्त्र इति ॥ हे वरवरमुने! मन्त्री दैवं फलं स्यात् इति यद्यपि मया वाच्छितमित्यन्वयः । पूर्वश्लोके जपन्नान्यदित्यादिना त्वदीयदिव्यनामरूपमन्त्रः, भवदंधिमूलरूपदेवता, त्वदनुभजनरूप- फलञ्च स्यात् इति ययपि मया प्रार्थितमेवेत्यर्थः । मध्ये इत्यादि अत्र तथापीति शेषः । तथापि एवं प्रार्थिते सत्यपि, मलिनमनसां भवत्मावण्यविरोधिरजस्तमाकलुषितहृदयजनानां मध्ये वासः मध्ये स्थितिः, एवमेवम् एतेनतेन प्रकारेण, स्यायदि अवर्जनीयतया भावी चेदित्यर्थः यति पूर्वोक्तदुर्जनमध्यवासातिरेकेणेत्यर्थः। किश्चि त्वदनुभजनं सर्वदा दुर्लभं स्यात् यदि बहुविधेषु त्वदीयमुखोल्ला- सार्थवृत्तिविशेषेषु एकापि त्वदनुकूलवृत्तिरलाया भवेञ्चेत, देहं त्य- " " सव्याख्यानम् । (७५) क्तुं निश्चयो मे दीयताम् । उक्तरीत्या निरर्थकस्य देहस्य त्यागवि- षयनिश्चयो मह्यमकिञ्चनाय दीयतां त्वयेति शेषः प्रार्थनायां लोट् । अत्र नहि मे जीवितेनार्थः नैवार्थेन च भूषणैः।वसन्त्या राक्षसीमध्ये विना रामं महारथम्" इत्युक्तजनकराजतनयाशैली स्फोर्यते । मध्य इत्यनेन परितो विद्यमानेषु प्रतिकुलेषु त्वदलंकृतदिगवलोकनमपि प्रतिद्धमिति व्यज्यते । सर्वदेति पदेन जागदशायां स्वमदशायाञ्च त्वदनुभजनं दुर्लभं स्यादित्यर्थलाभात् "स्वमेऽपि यद्यहं वीरं राघवं सह लक्ष्मणम् । पश्येयं नायसीदेयं स्वमोऽपि मम मत्सरी” इति श्लोकार्थों व्यज्यते । देहं त्यक्तुमित्यत्र “विषस्य दाता न हि मेस्ति कश्चिच्छस्त्रस्य वा” इति श्लोकार्थों व्यज्यते ॥ ६ ॥ अ०-मन्त्रो दैवमिति मन्त्रप्रसङ्गात् तत्पदत्वेन श्रीरंगनाथं कृतज्ञतयाऽनुसन्धत्ते- मू-आचार्यत्वं तदधिकमिति ख्यातमानायमुख्यै- रेप श्रीमान् भवति भगवान ईश्वरत्वं विहाय ॥ मन्त्रं दाता वरवरमुने ! मन्त्ररत्नं त्वदीयं । देवः श्रीमान् वरवरमुनिर्वतते देशिकत्वे ॥ ६२ ॥ व्या०-आचार्यत्वमिति ॥ हे वरवरमुने ! श्रीमान् श्रिया नित्ययुक्तः, भगवान् नित्यासंकुचितज्ञानशक्त्यादिगुणपरिपूर्णः एषः श्रीरंगनाथः, कर्ता आम्नायमुख्यैः श्रुतिपाञ्चरात्रेतिहासादिमिः, ख्यातं अपञ्चितम्, ईश्वरत्वं समस्तचिदचिन्नियन्तृत्वम्; विहाय तिरोधाप्य, शेषित्वं वा तिरोधाप्य, किञ्च, देवः दीप्तिमान् निर्दोषः, श्रीमान्
,
(७६) श्रीवरवरमुनिशतकं-
कल्याणगुणाकरः, वरवरमुनिः कान्तोपयन्तृयोगी देशिकत्वे
आचार्यपदे, वर्तते तिष्ठति तत् तस्मात् महाजनपरिग्रहाद्धेतोः,
आचार्यत्वम् अभिमतोपदेष्टत्वम्, अधिकमिति मत्वा ईश्वरत्वशेषि-
त्वाभ्यामतिशयितमिति मत्वा, मन्त्ररत्नम् अनुसन्धातृरक्षकतया
प्रसिद्धमूलमन्त्रादिमन्त्रेषु श्रेष्ठं त्वदीयं तावकं मन्त्रम् "श्रीशैलेश"
इत्यादिमन्त्रं दाता भवति । ददातीत्यर्थः मन्त्रदातृत्वेन सचावानिति
वाऽर्थः मन्त्रं दातेति तृन्नन्तदातृशब्दयोगान्मन्त्रमिति द्वितीया श्रीरं-
गनाथस्य किल देशिकत्वे वरवरमुनेर्वर्तनादीश्वरत्वापेक्षयाऽचार्य-
त्वभतिशयितमिति मत्वा ईश्वरत्वं तिरोधाप्य वन्मन्त्रप्रकाशनेनाss
चार्यत्वमनुभवतीति भावः । मत्वेति अध्याहारलब्धम् ॥ ६२ ॥
अ०-भगवत आचार्यत्वामिलापे सत्यपि वरवरमुनिमन्त्रप्रका-
शनेन
कुतस्तत्स्वीकृतमिति
शंकायां देहात्माभिमानादिना
त्यन्तमधःपततामस्मादृशां स्वपादच्छायाप्रापणात्मकमहोपकारकर्तु-
वरवरमुनेः प्रत्युपचिकीर्षुः श्रीरंगनाथः तस्माइविडोपनिषद्भाष्यश्रव-
णप्रयुक्ततच्छिष्यताव्याजेन तन्मन्त्रप्रकाशनमेव तस्य प्रत्युपकाति
मत्वा तथा कृतवान् इत्याशयेन तन्मन्त्रप्रकाशनाते तस्य किमपि न
विद्यत इत्याह-
1203
मू०-आत्मानात्मप्रमितिविरहात्पत्युरत्यन्तदूरो।
घोरे तापत्रितयकुहरे घूर्णमानो जनोऽयम् ॥
पादच्छायां वरवरमुने । प्रापितो यत्प्रसादा-
त्तस्मै देयं तदिह किमिव श्रीनिधे विद्यते ते॥६३॥
सव्याख्यानम् । (७७) व्या-आत्मेति ॥ हे वरवरमुने! आत्मानात्मप्रमितिविरहात् अयमात्मा ज्ञानानन्दादिलक्षणः अयं देहो मलादिदोपदूषित इत्याकारकयथार्थज्ञानाभावात् प्रत्युत विपरीतज्ञानादित्यर्थः। पत्युर- त्यन्तदूरः "पति विश्वस्य" इत्युक्तसर्वशेषिणः श्रियः पत्युः बहुविप्र- कृष्टः पत्युरिति पञ्चमी षष्ठी वा पत्युर्विप्रकष्टत्वमिह तत्सन्निक- टाभावः सन्निकर्षश्चेह भगवदत्यन्तपारतव्यज्ञानम्।वद्धि ज्ञानारोहक्रमे देहात्मविवेकात्तुरीयपर्वनिष्ठं तदुक्तम् "विवेकाऽन्यशेषत्वस्वस्वानन्य- निवृत्तिपारतन्याणि" इत्याचार्यहृदये । तथा च देहात्मविवेकेनापि शून्यस्य कथं भगवदत्यन्तपारतन्त्र्यज्ञानरूपतत्सन्निकर्ष इति भावः । घोरे स्मृत्यापि भयावहे तापत्रितयकुहरे आध्यात्मिकादितापत्रया- त्मकश्चन्ने पूर्णमानः सततं नमन् अयञ्जनः अहं मादृशाश्च जना इत्यर्थः । जात्येकत्वपरमेकवचनम् । पादच्छायां पत्युश्चरणार- विन्दसन्निकर्षम्, यत्प्रतादात् यस्य तव प्रसादात् विशेषकटाक्षात, प्रापितः अनुमतिमात्रेणापि शून्यः केवलं दण्डादिवन्नीतः प्राप्त इति वक्तव्ये प्रापित इत्युक्तिबलात् उक्तार्थलाभः"विष्णुश्शेषी तदीयश्शु- भगुणनिलयो विग्रहः श्रीशठारिः श्रीमान् रामानुजार्यः पदकम- १ पारतन्त्र्यम् पराधीनफलत्वपराधीनकर्तृत्वस्वरक्षणोपायप्रवृत्यनर्हत्वादिरूपेणानेक- विधम् राज्ञो मृत्यः स्वकर्मानुगुणफलमात्रे पराधीनः अतस्स परतन्त्रः, पराधीनस्वीय- कृतिसाध्यसाधनप्रीतिपराधीनफलकत्वादुपासकः ईश्वरस्याऽतिपरतन्त्रः, पराधीनाखिलस्व- व्यापाराधीनसाधनताकपराधीनफलकत्वात् प्रपन्नः ईश्वरस्याऽत्यन्तपरतन्त्रः, अनेना- स्वरक्षणोपायप्रवृत्यनहत्वामिति वाग्भूषणटीकायामुक्तम् । २ दण्डादिभिारति पाठे तु यतीन्द्रप्रवणप्रभावादेतियमूयम् । त्यन्तपारतन्त्र्यन्नाम (८०) श्रीवरवरमुनिशतकं- यादृशः याहगुपायसाध्यतत्त्वज्ञानः भवतीतिशेषः याहस्छब्दा- छैषिकोण प्रत्ययः।यादृक् शब्दस्तादृशशब्दविक्षिवार्थपरः तादृशैरेवा- ज्ञानादिहेतुभूतं प्रकृतिसंसर्गमभिभूय सम्यक् ज्ञानोत्पादनसमथैविपरीत ज्ञानाद्युत्पत्तिप्रतिबन्धनसमर्थैः एव कारेण तत्त्वज्ञापनेषु अधिकताधिक रशास्वप्रवर्तनादिनियतोपकरणकभगवड्यावृत्तिः योगैः उपायैः सम्यगुप देशनिर्हेतुककपादिरूपाणां तन्त्रेण संग्रहाय योगैरिति सामान्यशब्दो पादानं,त्वं मय्यर्थप्रसन्नस्त्वं,तस्य मे 'पश्यन्नन्ध' इत्यायुक्तविशेषविशि यस्य मम रघुकुलपतमहत्त्वं प्रकटयसि"मित्रभावेन सम्मानम्""सकदेव अपनाय" इति तदीयचरमश्लोकार्थोपदेशेन प्रत्यक्षयसीत्यर्थः॥६४॥ अ०–'तादृशैरेवे योगैः' इत्यत्राऽभिप्रेतं वैभवप्रदर्शनं स्फुटयन् तत्पुरस्सररहस्यत्रयार्थोपदेष्टुत्वरूपं रक्षकत्वमनुसन्धत्ते-- मू-लक्ष्मीभर्तुः परमगुरुतां लक्षयन्ती गुरूणां । पारम्पर्यक्रमविवरणीया हि वाणी पुराणी ॥ अर्थ तस्याः प्रथयसि चिरादन्यतो यहुरोपं । दिव्यं तन्मे वरवरमुने ! वैभवं दर्शयित्वा ।। ६५ ॥ व्या-लक्ष्मीभक्षुरिति ॥ हे वरवरमुने ! लक्ष्मीभर्तुः श्रियः पत्युः परमगुरुतां यस्मात् परमुत्कृष्टो मा, स परमः, परमश्वासौ गुरुश्च परमगुरुः, परमगुरोर्भावः परमगुरुवा,तां परमाचार्यत्वमित्यर्थः। गुरुत्वमिह हितोपदेशेनाऽन्धकारनिवर्तकत्वम्, तत्र परमत्वञ्च निर्हेतुक कृपामूलकम, उक्तञ्च" अस्थाने स्नेहकारुण्यधर्माऽधर्मधियाकुलम् । १ चरमोपायप्रतिपादकपरत्वेन चरमश्लोक इति सम्प्रदायविदः पठन्ति ।
सव्याख्यानम्। (८१) पार्थ प्रपन्नमुद्दिश्य शास्त्रावतरणकृतम्" इति । लक्ष्मीभर्तुः इत्येनेन भगवत आचार्यत्वे लक्ष्म्याः वाल्लायेन प्रेरकत्वादिकं लायते. लक्ष यन्ती द्योतयन्ती, आचार्यत्वं हि भगवत्सङ्कल्पविशेषः, उपदेष्टकत्वा- दिकं तु तव्यञ्जकम् अत एव लक्षयन्ती इत्युक्तम्। गुरूणां भगवतोऽ- र्वाचीनानामाचार्याणां पारम्पर्यक्रमेण परम्परैव पारम्पर्यम्, स्वार्थे प्यम् परम्परा च क्रमतोत्पत्तिकानां विजातीयाव्यवाहिताना समुदायः तेन क्रमेणाऽयौगायेन बहुकालप्रयुक्तविलम्बाभिप्रायकः क्रमशब्दः, विवरणीया हि प्रकाशनार्हा हि पुराणी वाणी नित्या वाक्, रहस्यत्रयरूपा लक्ष्मीभर्तुः परमगुरुतां लक्षयन्ती पुराणी वाणी गुरूणां पारम्पर्यक्रमविवरणीया हीत्यन्वयः । वस्याः पूर्वोक्त- रीत्या प्रसिद्धाया रहस्यत्रयरूपाया वाण्याः अर्थम् अभिषेयम् प्रथ- यसि प्रकाशयति "प्रथ प्रख्याने” किं कृत्वेत्यपेक्षायामाह-चिरा- दित्यादि । यत् प्रसिद्धं यादृशं वरवरमुनेबेभवत् अन्यतः वरवरमुनि- व्यतिरिक्तात् भगवतोऽपि मुखयितुं प्रकाशयित्वेत्यर्थः । क्रियार्थी- पपदस्येति चतुर्थी वैभवं दर्शयित्वा तस्या अर्थ प्रथयसीति पूर्वेणा- न्वयः केवलं हिततमार्थोपदेशे मन्दानामप्रामाण्यशंका स्यादिति तन्नि राकरणाथै स्वीयाप्रकृतवैभवनदर्शनपूर्वाक तदुपदेशः अनेन च यथा भगवता चरमश्लोकोपदेशः कत इति व्यज्यते ॥ ६५ ॥ अ०-अन्यतो दुरापमित्युक्तं विशिनष्टि- मु०-तत्त्वं यत्ते किमपि तपसा तप्यतामप्युषीणां । दूरादुरं वरवरमुनेदुष्कृतैकान्तिनो मे ॥
(८२) श्रीवरवरमुनिशतकं-
व्याकुर्वाणः प्रतिपदमिदं व्यक्तमेवं दयावा-
नाथो नैतत्किमिति जगति ख्यापयत्यद्वितीयम् ॥६६॥
व्या०-तत्त्वमिति॥हे वरवरमुने ! अप्राकतवैभवस्य तव किमपि
अपरिच्छेद्यम् यत प्रसिद्ध तत्त्वम् प्रकष्टज्ञानशक्त्यादिविशिष्टस्व
रूपयाथात्म्यम् । तपसा अभिमतसाधनीभूतकायशोषणात्मनाऽशना
दिनियमेन तप्यताम् ऐश्वर्यवताम् अभिमतार्थनिष्पादनसामर्थ्यवता
मित्यर्थः। तप ऐश्वर्ये" बेत्यनुशासनात् तपधातोरैश्वर्यार्थकत्वम्।तप्य
मानानामिति वक्तव्ये तप्यतामित्युक्तिरनुदात्तत्वनिबन्धनमात्मनेपद
मित्येतन्मूलिका वा शब्द उत्तरावयव इत्यायुपगमात् एवंविधाना
मृषीणामपि योगमूलकज्ञानवैशयवतां दूरादूरम् अत्यन्तदुर्जेयम्
इदम् एतादृशं तव तत्त्वम् दुष्कृतकान्तिनो मे दुष्कृतेषु पापकर्मसु
एकान्तिनः नैयत्यवत इत्यर्थः । मुख्यकर्तव्यताविषयकनिश्चयवत
इति वा मे मम व्यक्तं स्फुटं यथा तथा प्रतिपदं मुहुर्मुहुः, व्याकुर्वाणः
प्रकाशयन्, त्वद्वैभवप्रकटनहेतुभूतनिर्हेतुकदयावान् नाथः अस्मत्कुल
धनभूतो रघुपतिः, अद्वितीयं नास्ति ईदृशं तथाविधम्, निस्समात्य-
धिकमित्यर्थः । एतत् वैभवम्, एवं यथा मा प्रकाशितवान्
तथा,किमिति न ख्यापयति, न प्रकाशयंति।अयम्भावः मम वरवरमु-
निवैभवप्रकाशने महतदुष्कतैकान्तत्वं रघुपतिनिर्हेतुकदयाचेति द्वौ
हेतू तत्र जगतो दुष्कवैकान्तत्वाभावात् वा रघुपतेर्दयाभावाद्वा;
कस्माइतोममैव त्वद्वैभवं प्रकाशितवान् जगतो न प्रकाशितवान् ।
रघुकुलपतिर्यदि जगतः प्रकाशयेत, तदाऽहमिव निखिलजगत् वरव-
रमुनिचरणारविन्दप्रवणं भवेदिति ॥ ६६ ॥
सव्याख्यानम् । (८३) अ०-यत एवं रघुकुलपतिर्जगतो न प्रकाशयति, तत एव वर- वरमुनिचरणारविन्दं बहवो नाश्रयन्ते इत्याह- मू-कालेकाले कमलजनुषां नास्ति कल्पायुतं किं । कल्पेकल्पे हरिवतरन् कल्पते किन मुक्त्यै ।। मृत्वामृत्वा तदपि दुरितैरुद्भवन्तो दुरन्तै- स्याऽपि त्वां वरवरमुने! हन्त नैवाऽऽश्रयन्ते ॥६॥ व्या०-काल इति॥हेवरवरमुने! कालेकाले सर्वस्मिन्काले कम- लजनुषां भगवन्नाभिकमलजनुषां चतुर्मुखानाम्, “जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः' इत्यमरः । कल्पायुतं कल्पानां परार्धद्वयपरिमि. तचतुर्मुखजीवनावच्छेदककालविशेषाणाम्,अयुतम् दशसहस्री,आन- न्त्यस्येदमुपलक्षणम्, "शतं सहस्रमयुतं सर्वमानन्त्यवाचकम्” इत्यु- केकालेकाल इत्यत्र कल्पानामपक्षयस्थूलकालो विवक्षितः कल्पा युतंनास्ति किमस्त्येवेत्यर्थः । तत्तन्महाकालान्तर्भूता अनन्ता ब्रह्मक- ल्यास्सन्त्येवेत्यर्थः। कल्पेकल्पे प्रतिब्रह्मकल्पं हरिः दुरिवहरणशीलो भगवान्, “हरिहरति पापानि" इत्युक्तेः।अवतरन् प्रादुर्भवन्सन,मुक्त्यै प्राणिनां मोक्षाय, न कल्पते किं सामर्थ्यवान्न भवति किं साम- र्थ्यवान् भवत्येवेत्यर्थः । तदपि कालस्यापरिच्छिन्नत्वेऽपि भगवतोऽ वतारादीनां मोक्षजननस्वरूपयोग्यत्वेऽपि चेत्यर्थः। मृत्वामृत्वा “जायं- स्व मृयस्व इति "जायन्त" इति श्रुत्युक्तरीत्या उत्तरोत्तरमातृगर्भजन- नमरणपरम्परावन्तो जना इति शेषः। दुरन्तैः अपरिच्छिन्नैर्दुष्पापोऽ १ 'मृयस्व' इति मात्रमुपलभ्यते 'क' पु० ।
(८४) श्रीवरवरमुनिशतकं- न्तो येषां तथोक्तैः, प्रापशब्दरूपमध्यमपदलोप्ययं समासः । दुरितैः भगवता त्वद्वैभवप्रकाशनप्रतिबन्धकपांपैर्हेतुभिः, अद्यापि दुर्गत्यतिश- यवन्तं मां प्रति तत्प्रकाशनकालेऽपि, त्वां नैवाऽश्रयन्ते भगवता प्रकाशितवैभवास्सन्तः अव्यभिचारितोपायं त्वाम्, नाऽऽश्रयन्ते एव इन्वेति परानर्थजनितदुःखाविशयो योत्यते ॥ ६ ॥ अ०-एवं दुरितातिशयेन वरवरमुनिचरणमनाश्रयतामप्राप्तवि- षयवर्तनमाह- मू-कारागारे वरवरमुने ! वर्तमानश्शरीरे । तापैरेष त्रिभिरपि चिरं दुस्तरैस्तप्यमानः॥ इच्छन्भोक्तुं तदपि विषयानेव लोकः क्षुधातों । हित्वैव त्वां विलुठति बहिारि पृथ्वीपतीनाम्॥६८॥ व्या०-कारागार इति॥ हे वरवरमुने ! कारागारे बन्दिगृहसा- दृश्यश्च तत्र स्थिते दुःखरूपता जानंतोऽपि अशक्यनिर्गमनकत्वेन, शरीरे क्षणक्षरणाद्युपलक्षितविविधहेयास्पदे शरीरे । उक्तञ्च शरीरस्य हेयत्वम् “यदि नामाऽस्य कायस्य यदन्तस्तद्वहिर्भवेत् । दण्डमुद्य- म्यलोकोयं शुनः काकांश्च वारयेत्” इति । वर्तमान स्थितिमान् दुस्तरैः दुःखेन तरितव्यैः अशक्यतरणैरित्यर्थः। त्रिभिस्तापैः गर्भवासा- दिदुःखपक्षिसरीसृपादिजन्यदुःखयमयातनात्मकदुःखरूपतापत्रयेण, चिरम् अनन्तकालम, तप्यमानःअपि वप्तो भवन्नपि; अनेन बन्दीगृहे स्थितस्य क्षारादिभिधूपनोपमा व्यज्यते । तदपि तथापि, “आहारो पिन रोचेत किमुतान्या विभूतयः" इत्युक्तदशाविशेषयोगेऽप्रीत्यर्थः ।
सव्याख्यानम् ।
।
विषयानेव शब्दादीनेव, येषामनुभवः शरीरस्थित्यादिहेतुः, तानेवेति
एवकाराभिप्रायः भोक्तुमिच्छन् अनुभवितुमभिलपन्सन, इच्छन्
इत्यनेन विषयाणामलाभस्सूच्यते क्षुधातः क्षुद्रपुरुषसेवयाऽनपाना-
दिराहित्येन क्षुत्तृष्णादियुक्तः, उक्तञ्च "वस्वाभावागगनवमनस्तैल-
शून्यो जटावान् शूली जातः कदशनवशाइँक्ष्ययोगाकपाली ॥
इत्थं नित्यं त्वदुपसदनादीश्वरत्वं मयाप्तं कस्माद्धेतोः कथय नृपते नाई-
चन्द्रं ददासि” इति । एवं विधः, एष लोकः परिदृश्यमानविविध-
दुःखभाजनं जनः, त्वां निरुपा (धिक) यपुरुषार्थप्रदं निरुपायहरु-
पार्थभूतश्च त्वाम्, हित्वैव त्यक्त्वैव, अनाश्रित्यैवेत्यर्थः । हित्वेत्यनेन
लब्धप्रायत्वं व्यज्यते । एक्कारेणाऽप्राप्तिव्युदासः पृथ्वीपतीनां भूप'
तीनाम्, अनेन तेषां बहुत्वमपैश्वर्यञ्च लभ्यते । बहिरि बाह्ये
द्वारि, बहिरित्यनेन यद्यान्तरद्वारे गत्वा प्रतीक्षेत तदा बाह्यो जनः
किमप्ययमन्तर्गत्वा राज्ञा मन्त्रयते तस्मादयमस्मत्कार्य निष्पादये
दिति श्रमेण द्रव्यप्रदानादिनोपकुर्यात् तदपि नेति व्यज्यते । एतेन
राज्ञां दुर्लभत्वमुच्यते विलुठति अनवस्थितस्थित्यासनादिमान्
भवतीत्यर्थः ॥ ६८॥
अ०-त्रिभिस्तापरित्युक्ततापत्रयस्वरूपं विवृण्वन् तत्सम्बन्ध-
निबन्धनं देहिनोऽतिजुगुप्सितत्वमाह-
मू० मध्ये मांसातजगहनं विड्भुजामेव भोज्यं।
दीनो वोढुं दृढमिति वपुश्चेष्टते राज्यहानि ॥
भग्ने तस्मिन् परिणमति यः पातकी यातनाभ्यो।
देही नित्यो वरवरमुने ! केन जिज्ञासनीयः॥ ६९॥
(८६) श्रीवरवरमुनिशतकं- व्या-मध्य इति ॥ हे वरवरमुने ! यः अनुभूयमानविविध- दुःखानुभवः देही मध्ये मांसक्षतजगहनं मांसातजात्मकगर्भभना- रूपकलेवरप्रदेशमध्ये, "पारे मध्ये षष्ठया वा” इति समासः,मातुरिति शेषः विड्भुजामेव तत्रत्यविष्टाभोजनशीलकमिणामेव,भोज्यम् अन्नभूतं वपुः शरीरं दृढमिति स्थिरमिति मत्वा, वोढुं धारयितुम्, दीनः ताप- त्रयाऽभिहतिहेतुभूतभाग्यहानिमान्, य इत्यत्रान्वेति रात्र्यहानि रात्रिषु कास्न्र्येन, अहस्सु कात्स्येन चेत्यर्थः । अत्यन्तसंयोगे द्वितीया चेष्टते शरीरधारणार्थहिताहितप्राप्तिपरिहारार्थस्पन्दवान्भवति, तस्मिन् पूर्वो- क्तशरीरे, भने सति नष्टे सति, पातकी शरीरसम्बन्धनिबन्धनदुरितवान् यो देही यातनाभ्यः परिणमति यमलोकानुभाव्यतीव्रवेदनानुभवार्थ नारकशरीरसम्बन्धलक्षणावस्थावान् भवति; यातनाश्य इत्यत्र क्रियार्थोपपदस्येति चतुर्थी स देही तथाविधदेहविशिष्टो जीवः,नित्यः स्वरूपेणोत्पत्तिविनाशरहितोऽपि;अपि शब्दाऽध्याहारः केन कुतोहेतोः जिज्ञासनीयः ज्ञातव्यतया इष्टः, तद्विषयज्ञानमप्यनिष्टं भवतीत्यर्थः । अत्र प्रथमपादन गर्भवासदिदुःस्वरूपआध्यात्मिकादिताप उक्तः द्वितीयपादेन पिपीलिकादिजन्यदुःखरूपआधिभौतिक उक्तः । चेष्टाया हिताहितप्राप्तिपरिहारार्थस्पन्दरूपत्वात् परिहारत्य चप्राप्तिपूर्व कत्वात् उक्तार्थलाभः, तृतीयपादेन च याम्ययातनारूप आधिदैविक- ताप उक्तः।तुरीयपादेन चैवविधस्य चाऽतिजुगुमितत्वमुक्तम् ॥६९॥ अ०-ननु सत्यपि तापत्रयाभिधाते मध्ये कानिचित्सुखानि सन्त्ये- वेति कथं केन जिज्ञासनीयः इत्यत्यन्तहेयत्वं मनुष्यजन्मन उच्यते, सव्याख्यानम् । (८७) इतिचेत्, बहुदुःखहेतुभूतदुष्कृतसाध्यस्योत्तरकालमपि दुःखकान्त- स्य सुखस्य दुःखरूपत्वमेवेति वदन् त्वत्सम्बंधविरहात् मुक्तिमूलमपि शरीरं व्यर्थीकरोति जन इति वरवरमुनि प्रत्याह- मू०-अल्पादल्पं क्षणिकमसकृदुष्कृतान्येव कृत्वा । दुःखोदग्रं सुखमभिलषन्दुर्लभैरिद्रियार्थैः ।। मोघं कृत्वा वरवरमुने! मुक्तिमूलं शरीरं । मज्जत्यन्धे तमसि मनुजस्त्वप्रियस्त्वप्रियाणाम् ॥७॥ व्या०-अल्पादिति॥हे वरवरमुने!मनुजः"दुर्लभो मानुषो देहः” इत्युक्तरीत्या भाग्यातिशयलब्धमनुष्यजन्मवान् चेतनः, असकत मुहुर्मुहुः, दुष्कृतान्येव सुकतलेशाऽसंकीर्णानि दुरितानि कत्वा,दुर्लभैः अलायैः इन्द्रियाथैः शब्दादिविषयैः जन्यमिति शेषः । अल्पादल्पं तुच्छत्वपर्यवसायि क्षणिक क्षणमात्रस्थायि, दुःखोदनं स्वपूचर- कालयोर्दुःखप्रचुर सुखम् सुखसज्ञकं अभिलपन अत्यन्तमिच्छन्सन् अत एव त्वस्त्रियाणां त्वत्प्रीतिमतां तव प्रीतिविषयाणाञ्चं, अप्रियः तत्प्रीत्यविषय तद्विषयकपीतिशून्यश्च सन् मुक्तिमूलं "शरीरमाचं खलु धर्मसाधनम्” “महता पुण्यपण्येन क्रीतेयं कायनौस्त्वया" इत्युक्तरी त्या मोक्षं प्रति आय साधनं शरीरं मोक्षार्थप्रयत्नविलम्बासहिष्णुत्व क्षयिष्णुत्ववन्तं देहम्, मोघं कत्वा उक्तरीत्या वैषयिकसुखाभावात् मोक्षसुखाभावाच्च निरर्थकं कृत्वा ,अन्धे तमसि अन्धे ज्ञानहानिकरे तमसि तमोगुणप्रचुरसंसारमण्डले,मज्जति अवगाढो भवति त्वरियाणा मप्रियस्सन्मुक्तिमूलं शरीरमित्युक्त्या त्वत्प्रियाणां प्रियत्वे मुक्तिजनन- .
PRERAL (८८) श्रीवरवरमुनिशतकं- स्वरूपयोग्यस्य शरीरस्य मुक्तिफलोपाधायकत्वमिति सूच्यते । प्रिय शब्दः प्रीत्याश्रयवाची, प्रीतिविषयवाची च 'इगुपधज्ञाप्रीकिरं का' इति सूत्रेण प्रीयते कतरि कात्ययविधानात,प्रियगुम्फ इत्यादिप्रयोगेषु प्रीविविषयवाचीत्ववश्यंभावाच ॥ ७० ॥ अ०-त्वद्विषयकाऽसूयावत्वं त्वद्वैभवोक्तौ परिहसनकर्तृत्वञ्च त्वत्प्रियाणामप्रियत्वे देहिनो हेतुरिति सूचयन् तत्रापि त्वद्वैभवसा- क्षात्काराभावो मूलमिति वदन् भवद्वैभवंजनान् साक्षात्कारयेति प्रार्थनामाविष्करोति- मू०-पश्यन्नेवं प्रभवति जनो नेयितुं त्वत्प्रभाव । प्राज्ञैरुक्तं पुनरपि हसन्दर्शयत्यभ्यसूयाम् ॥ नश्यत्यस्मिन् वरवरसुने ! नाथ ! युक्तं तदस्मिन् । प्रत्यक्षं तत्परिकलयितुं तत्त्वमप्राकृतं ते॥७१॥ व्या-पश्यन्निति ॥ हे वरवरमुने ! जनः त्वत्लभावं त्वदीयं निरतिशयोत्कर्ष पश्यन्नेव साक्षात्कुर्वन्नेव न तु शृण्वन्नपीत्यर्थः । ईठितुम् असहनवान्भवितुं न प्रभवति न शक्नोति ईर्ष्या हि त्वद्धि- पये आकष्यमाणा अपि न गच्छतीति भावः । प्राज्ञैरुक्तं त्वत्प्रभावं पुनरपि हसन् अश्यसूयां दर्शयति त्वद्वैभवविषयीकरणपर्याप्त प्रकष्ट- ज्ञानयुक्तपुरुषैरुक्तमुपदिष्टं त्वद्वैभवं तु अवाच्यवादादिना परिहसन् अभितो गुणेषु दोषारोपं दर्शयति प्रकटयति यावन्तस्ते कल्याण- गुणाः तेषु सर्वेष्वपि दोषत्वारोपं करोति इति अभिशब्देन लभ्यते । तत् तस्माद्धेतोः नाथ ! स्वामिन् एवम्भतेष्वपि तेषु दयाकरणनि- १ समग्रपद्यतात्पर्यपालोचने नेक्षितुमित्येव युक्तंभाति ।
सव्याख्यानम् । यामकस्वैकवेदनीयावर्जनीयसंबन्धविशेषयुक्त इत्यर्थः। अस्मिन् प्रकते जने नश्यति सति पूर्वोक्तरीत्या त्वद्विषयकापचारेण स्वरूप- नाशं प्रामवति सति अप्राकृतं ते तत्त्वं दिव्यं त्वद्वैभवम् अस्मिन्प्र- त्यक्षं परिकलयितुं युक्तं पूर्वोक्तरीत्या दुर्गत्यतिशयवत्तया पूर्वप्रकृत- जनवृत्तिप्रत्यक्षज्ञानविषयीकर्तुमर्हम् अस्मिन्निति पुनरुक्तिर्दुगत्यति- शयोपस्थापनार्थी । अपालतमित्यत्र प्राकृताः प्रकृतिसंसृष्टाः तेन सन्त्याधारतया यस्य तथोक्तमिति विग्रहः प्रकृतिसंसृष्टपुरुषावृत्त- मित्यर्थः दिव्यमिति फलितार्थकथनम् ॥ ७१ ॥ अ०-वरवरमुनिना स्ववैभवस्य सर्वलोकप्रत्यक्षविषयीकर- णाभावे वद्विषये जनोऽयसूयां करोति । तथा च स्वरूपनाशं प्रामो- तीत्युक्तम्। तत्कथमुपपद्यते वरवरमुनिविषयेऽज्यसूयावतामपि अन्यविषयेऽनसूयूनां पुरुषार्थसिद्धौ सामर्थ्य स्यात् इत्याशय तथाविधानामन्यविषयेऽनसूयत्वादिगुणजातं व्यर्थमेवेत्याह- मू०-सत्त्वोन्मेषप्रसुषितमनःकल्मषैः सत्त्वनिष्ठैः। सङ्गं त्यक्त्वा सकलमपि यः सेव्यसे वीतरागैः ।। तस्मै तुभ्यं वरवरमुने ! दर्शयन्नभ्यसूयाँ । कस्मै कृत्वा किमिव कुमतिः कल्पतामिष्टसिद्धय।।७२॥ व्या-सत्त्वोन्मेषेति ॥ हे वरवरमुने ! यः त्वम् ,सात्त्विक- गोष्ठिप्रसिद्धज्ञानशत्त्यायुत्कर्षस्त्वम् सत्वस्य सम्यग्ज्ञानवर्धक- तया "सत्त्वात्सआयते ज्ञानम्” इत्यादिशास्त्रप्रसिद्धसत्त्वाख्याऽचि- व्यगुणविशेषस्य उन्मेषेण उद्भवेन प्रमुषितम् अभिभूतं मनःकल्मषं -
.4
(९०) श्रीवरवरमुनिशतकं-
रजस्तमोरूपचान्तिज्ञानजनकमनोमलं येषां तथोक्तैः सत्त्वोन्मेषस्य
कर्मादिहेत्वनुक्तेनिहतुकभगवत्सौहार्दमूलकत्वं व्यज्यते । अनेन
"जायमानं हि पुरुषम्” इति श्लोकोक्तसात्त्विकमुमुक्षुविशेषा उक्ताः।
सत्त्वे शुद्धसत्त्वे परमपद इत्यर्थः । निष्ठा स्थिविर्येषां तथोक्तैः नित्य-
मुक्तरित्यर्थः । सकलमपि सङ्गं त्यक्त्वा ऐश्वर्यप्रभृतिभगवत्पर्यन्तस्पृहां
त्यक्त्वा वीतरागैः त्वत्कर्यविषयेऽपि स्वार्थताभिलाषगन्धरहितैः
सेव्यसे वरिवस्यसे तत्कतककिंकरवृत्तिविषयो भवसीत्यर्थः। तस्मै
तुभ्यं मुमुक्षुनित्यमुक्तसेव्यभवद्विषये अस्यसूयां गुणेषु दोषत्वारोप
दर्शयन् न केवलं मनसि तद्वान् अपि तु बहिः प्रकटयन्नित्यर्थः ।
असूयाशब्दयोगे 'कुधदुह' इति सूत्रेण विषयतायाञ्चतुर्थी विहिता
कुमतिः एवंविधाऽभ्यसूयाहेतुभूताऽन्यथाज्ञानविपरीतज्ञानपूर्णोजनः
अयसूयां दर्शयन् कुमतिरित्यनेन पूर्वोक्तसेवासत्त्वोन्मेषप्रति
कोटि अवस्थाद्वयमुक्तम् । कस्मै किमिव कत्वा भगवत्प्रभृतिषु कत-
मस्मै पुरुषाय भक्त्यादिषु निष्कृतिषु कतमत्कृत्वा कल्पवाम् । इष्ट-
सिद्ध्यै पुरुषार्थसिद्ध्यै समर्थों भवेत् न कस्मै किञ्चिदपि कृत्वा पुरुषा-
थनिष्पादनाहों भवतीत्यर्थः । नित्यमुक्तादिसेव्यभवद्विषयेप्रचारतो
जनस्य तेषु न कोऽपि मुक्तयुपायकिञ्चित्कारप्रतिसम्बन्धीत्यर्थः७२॥
अ०-पुनरपि दिव्यवैभवप्रकाशनं प्रार्थयते-
मू०-दिव्यं तत्ते यदिह कृपया देवदेवोपदिष्टं
तत्त्वं भूयादरवरमुने ! सर्वलोकोपलभ्यम् ।।
व्यक्ते तस्मिन् विदधति भवद्वैभववेषिणो ये।
द्वेषं त्यक्त्वा सपदि दुरितध्वंसिनीं त्वत्सपर्याम् ॥७३॥
सव्याख्यानम्। (९१) व्या०-दिव्यमिति ॥ हे वरवरमुने ! दिव्यं आलोकसामा- न्यम् ते त्वदीयं यत् बुद्धिस्थं तत्त्वं बैलक्षण्यातिशयः इह अस्मिन् जने इति शेषः मयीत्यर्थः । कृपया मदुःखाऽसहिष्णुतया देवदेवेन मत्कुलधनभूतरघुनायकेन उपदिष्टम् अज्ञातदशायां ज्ञापितम् तत् ते तत्त्वम् तादृशं त्वदीयनिरतिशयबैलक्षण्यम् । सर्वलोकैः असूयत्व- देष्टुत्वादिसर्वप्रकारयुक्तैर्जनैः उपलयं सुज्ञेयं भूयात् भवत्विति प्रार्थना । ये भववैभववेषिणः नामग्रहणस्याऽनहींः त्वदीयनिरतिश- यवलक्षण्यविषयाप्रीतिनिरूपणीयाः जना ये भवन्ति ते तस्मिन् व्यक्ते सति त्वदीयनिरतिशयोकर्षे सम्यक् ज्ञाते सति द्वेषं त्यक्त अप्रीतिं मुक्त्वा सपदि अचिरेण दुरितवंसिनी त्वत्माप्तिविरोधिसकल- पापनाशिनीं त्वत्सपयों त्वत्कैकय विदधति त्वदेकरयोजनत्वेन कुर्वन्ति । कर्तृगामिक्रियाफलसूचकस्यात्मनेपदस्याऽभावाद प्रयोज- नवनिवृत्तिलाभः "अवशाः प्रतिपेदिरे" "झटित्यस्मिन्दृष्टे किमिति परवानस्मि" इत्यायुक्तरीत्या वैभवसाक्षात्कारः द्वेषनिवृत्त्यादिहेतु- र्भवतीत्याशयः ॥ ७३ ॥ अ०-भवदाश्रयणात् पूर्व दूरतया त्याज्योऽपि भवन्तं सर्वात्मना समाश्रितो जन्मवृत्तज्ञानेष्वेव कतरेण शून्योऽपि जनः मम भवद- पेक्षयापि भियतर इत्याह- मू-केचित्स्वैरं वरवरमुने ! केशवं संश्रयन्ते । तानप्यन्ये तमपि सुधियस्तोषयन्त्यात्मवृत्त्या ॥ त्वत्तो नाऽन्यत्किमपि शरणं यस्य सोयं त्वदीयो। भृत्यो नित्यं भवति भवतःप्रेयसां प्रेमपात्रम्७४॥
" (९२) श्रीवरवरमुनिशतकं- व्या-केचिदिति ॥ हे वरवरमुने! केचित् धन्यताप्रयोजक- भगवत्कटाक्षविशेषविषयाः, केऽपि चेतनाः, केशवं प्रकृष्टकेशसौभा- ग्यवत्तया परमभोग्यभूतम्, केशिहन्तृतया विरोधिनिरसनशीलञ्च श्रियः पतिम्, स्वैरम् उपायोपेयान्तरसंबन्धरूपप्रतिघातराहित्येन संश्रयन्ते उपायोपेयभावेन स्वीकुर्वन्ति, "केशाहोऽन्यवरस्याम्” इति सूत्रेण कल्याण इति अनुवर्तितपदसहितेन "केशवः क्लेशनाशनः" इति स्मृत्यंतरसहितेन प्रथमयोजनार्थलाभः; "केशवः केशिहन्ता" इति निर्वचनेन द्वितीययोजनार्थलाभः; अन्ये धन्यतमत्वहेतुभूतभगव- स्कटाक्षविशेषविषयाः पूर्वोक्तश्योऽपि विलक्षणाः केचित् चेतनाः तानपि तमपि भगवत्प्रवणान् भगवन्तञ्च परस्परसमुच्चयेन आत्म- वृत्त्या स्वीयकैंकर्यरूपव्यापारण, सुधियः कैंकर्यपारिकरभूतपरमभक्ति- रूपशोभनज्ञानयुक्ताः सन्तः तोषयन्ति केवलपरार्थतया प्रीणयन्तीत्य र्थः। णिचश्चेत्यात्मनेपदस्याभावेनोक्तार्थलाभः अपि शब्दद्वयेन तुल्य समुच्चयलाभः “धन्याःकेचन तेन्योऽपि तेषामादेशवर्तिनः" इत्युक्तध- न्यत्वधन्यतमत्वे केचित् अन्य इत्यत्र विवक्षिते ते तिष्ठत्विति हृदय स्थितोर्थः। यस्य पूर्वोक्तकोटिद्वयवलक्षण्यप्रयोजकभगवत्कटाक्षविशेष विषयस्य, यस्य चेतनस्य; जात्यादिकं न विवक्षितमिति यस्येत्यनेन सूच्यते । त्वत्तः विलक्षणोपायोपेयभूतात् भवतः, अन्यत् इतरत;पर- ब्रह्मप्रभृतिकमित्यर्थः।किमपि शरणं तद्विविधं हि शरणम् उपायोपेया त्मकं, तत्रैकतरदपि यस्य न भवतीत्यर्थः शरणशब्दोऽयं तन्त्रे उपाय गृहवाचितया व्याख्यातः, "उपाये गृहरक्षित्रोः शब्दः शरणमित्ययं वर्तते" इत्यनेन किमपि एकमपीत्यर्थः, त्वदतिरिक्तं यस्य उपायभूव सव्याख्यानम्। (९३) मुपेयभूतमुभयं वा न भवति, सः तथाविधः, अयं मम सदा बुद्धि सन्निहितः, त्वदीयः भृत्यः त्वद्धृत्य इति केवलं निरूपणीयः,जन्मवृ- वज्ञानैर्यथा तथा भूतोऽपि जनः, भवतः प्रेयसां भवदपेक्षयाऽप्यति शयितप्रीतिविषयाणां महात्मनां मध्ये, प्रेमपात्रम् अतिशयितमदीय प्रीतिविषयः, नित्यं सदा, परिचयेऽपि भवतीत्यर्थः चरमाञ्चरमनिष्ठेयं प्रकशिता ॥ ७४ ॥ अ०-"त्वदीयो भृत्यो नित्यं भवति भवतः प्रेयसां प्रेमपात्रम्" इत्युक्तनिष्ठाविशेषहेतुभूतायां वरवरमुनिदिव्यसन्निधिप्राप्ती स्वराति शयं व्यञ्जयति- मू-दीने पूर्णा भवदनुचरे देहि दृष्टिं दयाऽऽदी। भक्त्युत्कर्ष वरवरमुने। तादृशं भावयन्तीम् ॥ येन श्रीमन् ! द्रुतमहमितः प्राप्य युष्मत्पदाब्जं । त्वद्विश्लेपे तनुविरहितस्तत्र लीनो भवेयम् ॥ ७॥ व्या०-दीन इति॥हे वरवरमुने! तादृशं पूर्वश्लोकोक्तरीत्या त्वरी- बन्धसंबन्धिविषयेऽपि प्रेमप्रकर्षहेतुभूतं भवत्युत्कर्ष भक्त्यतिश्यम्, अतिशयितां भक्तिमित्यर्थः।भावयन्ती मुहुर्मुहुरुत्सादयन्ती पूर्णो समयां दयया मदनाऽसहिष्णुत्वेन, आदी शीतलाम् आर्द्राम् इत्यनेन दयायास्सुधापायत्वं व्यज्यते दृष्टिम् । विशेषकटाक्षरूपां दृष्टिम्, भवदनुचरे भवत्परिजनभूते दीने भवत्परिजनत्वातिरेकेण भवत्या- प्युपायेषु येन केनाऽपि शून्ये मयीति शेषः "उपायेनैव सिद्धयन्ति पाया बहुलास्तथा । इति या गर्वहानिस्तदैन्यं कार्पण्यमच्यते" इत्यतं दैन्यं दीन इत्यत्र विवक्षितम् देहि । वितर येन भक्त्यु- AND (९४) श्रीवरवरमुनिशतकं- त्कर्षण त्वविश्लेषे भवद्वियोगे तनुविरहितः शरीरेण विरहितः विरहामिदग्धशरीर इति यावत् । अहं त्वविरुष्टदेशस्थितोऽहम्. इतः घटिकाचलनिकटभूतात् ग्रामात्, द्रुतं झटिति “अपादाने पञ्चम्यास्तसिः” युष्मत्पादाब्जम् अनुचरवर्गसहितस्य तव श्रीपादार- विन्दं प्राप्य प्रकर्षेण लब्ध्वा अपुनविश्लेषं सम्बद्धयेत्यर्थः । त्वदनु- चराश्च त्वञ्च यूयं "त्यदादीनिसनित्यम् इति सूत्रेणैकशेषः । तत्र भवत्पादाब्जे, लीनः नामरूपानहसम्बन्धवानित्यर्थः । भवेयं स्यां तद्भक्त्युत्कर्षे भावयन्तीमिति पूर्वेणाऽन्वयः तादृशमित्ययं शब्दः केनत्यस्य प्रतिसम्बन्धिनिर्देशः येनेत्यस्योत्तरयच्छब्दत्वात् एवं शरीरवियोगेनापि प्राप्यत्वोपपादनसौभाग्यातिशयः श्रीमन् इत्यत्रो- च्यते त्वविश्लेषे वनुविरहितः तत्र लीन इत्यनेन चिन्तयन्तीवृत्तान्त स्स्फोर्यते । एतेनायं चरमदीर्घचिन्तयन्तीति व्यपदेश्यता भजवि, चिन्तयन्तीप्रसिद्धा भगवद्विषयप्रावण्यात् दीर्घचिन्तयन्ती भगवान् परांकुशः अयंतु आचार्यविषयकात्यर्थप्रावण्यात् चरमदी- चिन्तयन्तीति तथोक्तं चान्यत्राऽनेनैव "वरवरमुनिमेव चिन्त- यन्ती मतिरियमति निरत्ययं प्रसादम्” इति ॥ ७५ ॥ अ०-"मनोरथानामतटाः प्रवाहा” इति न्यायेन वरवरमुनि चरणमाप्तिर्दुर्लभास्तु तत्रापि तदीयानां मध्ये स्थितिदुर्लभास्तु, तथाऽपि वरवरमुनिचरणविमुखानां सहवासाभावमात्रेण पुरुषार्थकाष्ठा सिद्धिर्मम स्यादित्याह- मू-त्वत्पादाब्जं भवतु भगवन् दुर्लभं दुष्कृतो मे, वासोऽपि स्यात् वरवरमुने! दूरतस्त्वत्प्रियाणाम् ।।
सव्याख्यानम् । (९५) त्वद्वैमुख्याद्विफलजनुपो ये पुनस्तूर्णमेषां । दूरीभूतः क्वचनगहने पूर्णकामो भवेयम् ॥ ७६॥ व्या-त्वत्पादानमिति॥हेभगवन् ज्ञानशक्त्यादिकल्याणगुणपूर्ण, हेवरवरमुने ! त्वत्पादाब्ज दुर्लभं त्वदीयपादानं पाचनत्वभोग्यत्वा- दिभिरजसादृश्यं विवक्षितम् कर्तृ दुष्कृतः त्वत्पादावचूडनविरुद्धविष- यव्यासादिदुर्व्यापारकर्तु भवतु अलग्यं भवतु कामचारा नुज्ञायां लोट् त्वत्प्रियागां त्वत्तीतिविषयाणां त्वयि प्रीतिमताञ्च महात्मनाञ्च, दूरतः विप्रकृष्टदेशे वासोऽपि तत्सहवासरूपपरमपुरुषार्थ प्रतिद्वन्द्वितद्विप्रकष्टदेशस्थितिरपि स्यात् भवतु अपिशब्देनो- क्तवासस्याऽत्यर्थहेयत्वं व्यज्यते। तथा च सोऽप्यन्युपगतो वक्ष्यमाण- हेयप्रसंगापेक्षयेवि हृदयम् । एवञ्च युष्मत्पादाजमिति श्लोकाभिप्रेत तदीयप्राप्त्यपेक्षा व्यञ्जिता ताई किन्तवानुमतमित्यत्राह-त्वदि- त्यादि। ये पुनः ये तु एतादृशानां स्मरणमपि स्वस्य दुस्सहमिति द्योतनाय नामरूपादिविशेषनिर्देशाभावः पुनश्शब्देन तेषां दुर्गति वैलक्षण्यं वाचामभूमिरिति व्यज्यते । त्वद्वैमुख्यात् परमकारुणिके परमप्राप्ते परमसुलभे परमवत्सले त्वयि अद्वेषमात्रस्याप्यभावात विफलं विरुद्धफलकं,जनुर्जन्म येषां तथोक्ताः,वरवरमुनिविषयकाऽऽभिमुख्या- भावात् न केवलमेषां प्राप्तफलाऽभावः तेषामसत्कल्पत्वद्योतनाय भवन्तीति नोक्तम्।एषाम् ईदृशानां तूर्णं दूरीभूतः झटिति अपगच्छन्, एषां तूर्णमित्यनेन तादृशानां समीपस्थितिरिदानीमिति व्यज्यते युक्तञ्चैतत् “बाहि वात यतः कान्ता तां स्पृष्ट्वा मामपि स्पृश । त्वयि मे गात्रसंस्पर्शश्चन्द्रे दृष्टिसमागमः” इत्यनुकूलवातातपादिसम्पर्कस्या- PMHATRINA (९६) श्रीवरवरमुनिशतकं- नुकूलत्वे तुल्यन्यायवया प्रतिकूलसंसर्गस्य तस्य प्रतिकूलस्य सिद्धत्वात पूर्णकामः प्राप्तसकलपुरुषार्थः, भवेयं सद्भावार्ह इत्यर्थः । भवेयमिति प्रार्थना वा त्वदाभिमुख्यं त्वयि प्रीतिमत् त्वद्गुणज्ञानेन धारणं त्वत्समागमस्त्वदीयसमागमश्चेवि तरतमभावापन्ना बहवो हि पुरुषार्थाः,तेषां सर्वेषी लाभे यावानानन्दः स सर्वोऽपि मम खद्विमुख- जनदुर्गमदेशस्थित्येति भावः ॥ ७६ ॥ अ०-ननु, वरवरमुनिविमुखजनसहवासपरिहाराय गहने स्थित्वा पूर्णकामो भवेयमित्यवोचः, तत्र गहनपदेन गुहाविवक्षणे तत्र प्रायशः सिंहव्याघावस्थानसम्भवात् त्वत्प्राणहानिरूपमहानर्थस्स्यात् तेन कुआदिविवक्षायां तत्र प्रायशः सविस्थानसम्भवात दवानलोप प्लवसम्भवाच्च तत्कृतो महाननर्थस्स्यात, इत्याशंक्य तदप्यभिमते वरवरमुनिविमुखजनसंसर्गाद्यवेक्षयेत्याह- मू-सिंहव्याघ्रौ सपदि विपिने पन्नगः पावको वा- कुर्युः प्राणान्तकमपि भयं को विरोधस्ततो मे ॥ नैते दोषग्रहणरुचयस्त्वत्मियनिनिमित्तै- नानाजल्पैर्वरवरमुने! नाशयन्त्यन्तिकस्थान् ॥७७॥ व्या-सिंहव्याघ्राविति॥हे वरवरमुने!विपिने गुहाकुआदिभूयिष्ठे कानने, सपदि मयि प्रविष्टमात्रेणैव, सिंहव्याघौ हिनस्तीति हिंसः इति हिंसैकनिरूपणीयसिंहः हिनस्तीति हिंस इत्येतत सिंह इति वर्णविपर्ययात् भवति "सिंहो वर्णविपर्ययात्” इत्युक्तेः । व्याजिन- तीति व्याघ्रः आघाणमात्रेण प्राणिनां प्राणवियोगकारी शार्दूलः । व्याघस्य हि आघाणमात्रेण बाधकत्वं प्रसिद्धं “व्याघ्राघातमृगी" सव्याख्यानम्। इत्याद्युक्तेः । दौ, पन्नगः दृष्टिविषश्वासविषादिभेदेनाऽनेकविधस्सर्पः, पावकः ह्निः 'वा' शब्देनैतेषां विकल्पसमुच्चयौ विवक्षितौ प्राणान्तकं भयमपि प्राणस्यान्तः प्राणान्तकः तथाविधः प्राणवियोगहेतुमृत्युभूतं भयमपि भाव्यनर्थाशंकनमपि अपिशब्देन प्राणहानिरूपशंक्यमाना- नर्थस्समुच्चीयते कुर्युः अनुज्ञायां लिङ् ततः सिंहव्याघ्रादिकृतप्राणहा- न्या मे त्वद्दिमुखसहवासमात्रदुःखकस्य मम को विरोधः विरुध्यमान- पुरुषार्थः क इत्यर्थः। मदीयपुरुषार्थसिद्धिप्रतिबन्धकः क इति वाऽर्थः त्वय्यविद्यमानदोषग्रहणरूपो बा अप्रियजल्परूपो वा, निनिमित्त- जल्परूपो वा, तहेतुकस्वरूपास्थितिरूपो वा न कोऽपीत्यर्थः । तदेव विवृणोति-नैते इत्यादिना । ऐते तु सिंहादयः तुशब्दो वरवर- मुनिविमुखजनापेक्षया वैलक्षण्यद्योतकः दोषग्रहणरुचयस्सन्तः दोष- स्य ग्रहणमवगमस्तस्मिन् रुचिः अतिशयितेच्छा येषां तथोक्ता- स्सन्तः वरवरमुनिविमुखजनवदिति शेषः।अप्रियैः सर्वलोकद्वेषविषयै- रित्यर्थः। निनिमित्तैः शब्दस्य निमित्तं ह्यर्थः तद्रहितैरित्यर्थः अनृतै- रिति यावत् अलीकरिति फलितम् "अलीकं त्वप्रियेऽनृतम्” इति हे कोशः। नानाजल्पैः सर्वोत्तरविरुद्धभाषणं जल्पःबहुवचनेन पौन:- पुन्गमुच्यते नानाशब्देन हासानुकारवैविध्यमुच्यते अन्तिकस्थान स्वसमीपस्थिताञ्जनान, न नाशयन्ति न नष्टस्वरूपान्कुर्वन्ति वरवर- मु-विमुखास्तु तथा कुर्वन्तीत्यर्थः। रुचय इत्यनेन दोषाभावप्रयुक्त- तणाऽभावो व्यज्यते । त्वत्प्रियरिति पाठे तु त्वत्प्रियैस्सहान्तिक- स्थान् न नाशयन्तीत्यन्वयः। त्वयि सौहाईवतः त्वयि उदासी- नांश्च न नाशयन्तीत्यर्थः । अथवा त्वप्रियः इत्येतत् जल्पविशे- , (९८) श्रीवरवरमुनिशतकं- षणम्, तव "वृत्त्या पशुः” 'कूराधिनाथ' इति श्लोकद्वयोक्तानु- सन्धानवतस्तव प्रियैः इष्टैः, परैरात्मदोषकथनं हि सवामिष्टं भवति, तदुक्तम् “परैर्दोषोक्तिलाभश्चेव्यञ्जीवनलाभिनः" इति ॥ ७७ ॥ अ०-'दीने पूर्णी' 'त्वत्पदाञ्जम्' इति श्लोकाच्यामियाऽनिष्ट- प्राप्तिपरिहारौ प्रार्थिती, तत्र सिंहव्याघाविति श्लोकः प्रासंगिकः अवृत्तः, अस्मिन् श्लोके वरवरमुनि प्रति स्वाभिलषितप्रार्थनाया अपि तदीयत्वकाष्ठाभूतं महापुरुष प्रति तत्मार्थना ज्यायसीत्याह- मू-त्वद्धृत्यानामनुभजति यस्सर्वतो भृत्यकृत्यं । तद्धृत्यानामभिलपति यस्तादृशं प्रेष्यभावम् ॥ मद्धृत्योऽसाविति मयि स चेत्सानुकल्पैरपांगैः। क्षेमं कुर्याद्वरवरमुने! किं पुनरिशष्यते मे ।। ७८ ॥ व्या०-त्वभृत्यानामिति॥ हे वरवरमुने! यः पुरुषः, त्वद्धृत्यानां चरमशेषिणश्वरमोपायस्य चरमप्राप्यस्य तव परिजनभूतानाम्,अनेन जन्मवृत्तादिकं नापेक्षितमित्युक्तं भवति सर्वतः सर्वेषामित्यर्थः, कल- त्रपुत्रसहितानामित्यर्थः, अथवा भिन्नभिन्नवर्णाश्रमयुक्तानामित्यर्थः, अथवा सर्वत इत्यस्य भृत्यकत्यमित्यन्वयः । सर्वत इत्यस्य सर्वमि- त्यर्थः सार्वविभक्तिकस्तसिः, द्वितीयायामपि भवति वाचिकादिरूपं पादसंवाहनादिरूपं वा अथवा सर्वत इत्यस्य सर्वस्मादित्यर्थः । तथा चलोकप्रसिद्धात् सर्वस्मादपि भृत्यकत्यात् विलक्षणं भृत्यकृत्यमासर्वत इत्यस्य सर्वस्मिन्देश इत्यर्थः । इदं सर्वदेशकालादेरप्युपलक्षकम् अनुभजति प्राप्नुवानमनुप्रामोति तद्धृत्यानां तस्य भृत्या ये केचिचेषां सव्याख्यानम्। (९९) तादृशं प्रेष्यभावम् तदधीनप्रवृत्तिमत्त्वम्, यः अभिलपति अत्यन्त- मिच्छति तादृशमित्यनेनोक्तप्रेष्यभावस्य निरतिशयपुरुषार्थरूपता प्रदर्श्यते अभिलपतीत्यनेन तस्य दौल यमभिलाषस्यैव पुरुषार्थ- रूपता तद्वतः परमगौरवञ्च व्यज्यते । सः 'अभिलपति' इत्युक्तमहा- पुरुषः, मयि असौ ममृत्यः इति सानुकम्पैः सदयैः, अपांगैः नेत्राञ्जलैः क्षेमं कुर्याच्चत् लब्धभवद्विषयप्रावण्यरूपमदीयरक्षण करोति चेत् मे एवंविधस्य मम पुनः भूयः किं शिष्यते प्रार्थ- नादिकं न किमपि कर्तव्यतयाऽस्तीत्यर्थः । त्वयि प्रार्थितऽपि त्वदीयविषयमार्थनाशिष्टा त्वदीय एवं मम सर्वभरं स्वीकरोति चेत किं शिष्यत इत्यर्थः त्वद्धृत्यानामित्यत्र त्वद्धृत्यत्वं साक्षात्पर- म्परया विवक्षितम् अनुभजति अभिलषतीत्याभ्यां प्रथमोक्तभृत्या- पेक्षयाऽनन्तरोक्तप्रेष्यभावस्याऽयर्हितत्वं सूच्यते । अत्राध्य- मर्थोऽनुसन्धेयः भृत्यानामिति बहुवचनद्दयस्यापि कपिञ्जलाधि- करणन्यायेन प्रत्येकं त्रिन्वमर्थः तथा च सर्वत्रापि सङ्कलने सचेदित्युक्तः पुरुषः वरवरमुन्यपेक्षया दशमो भवति तं प्रति चा:- नेन भृत्यत्वमनुसंहितं स्वस्मिन्परांकुशेन स्वशेष्यपेक्षया सप्तशेषत्व- व्यवहितं शेषत्वं स्वस्मिन्ननुसंहितं भगवद्दिव्यपादुकया च तदप्यन्त- र्भाव्य अष्टशेषत्वव्यवहितशेषित्वमाश्रितम् अनेन तु देवराजगु- रुणा स्वशेष्यपेक्षया नवशेषत्वव्यवहितशेषित्वमनुसंहितम् अनुभज- वीत्यनुशब्देन केवलभजनकर्तुराक्षेपालाभः अतः स चेदित्युक्तस्य दशमत्वसिद्धिः परांकुशभगवत्पादुकयोरुक्तविधत्वञ्च “यस्सप्तपर्वव्यव- १ सप्तपर्णेति 'ख' पु० पा० ॥
(१००) श्रीवरवरमुनिशतकं- धानतुङ्गां शेषत्वकाष्ठामभजन्मुरारेः । तस्याऽपि नामोदहनात्त्वयाऽ- सौ लघूकतोऽभूच्छठकोपसूरिः" इति श्लोकेऽनुसन्धेयम् तथा चाऽयं देवराजगुरुः शेषत्वसाम्राज्यविषये विषयव्यवधानात्यां परांकुशभगव- सादुकाऽपेक्षयान्यहिततम इत्यनुसन्धेयम् । विषयो वरवरमुनिरूप- चरमशेषिरूपः व्यवधानञ्च शेषत्वनवकव्यवधानरूपम् ॥ ७८॥ अ०-स्वस्याऽन्यथाज्ञानादिमत्त्वं वरवरमुनिवरसंश्लेषविश्लेषैकसु खदुःखप्रयोजनहृदयमार्दवञ्च विवृण्वन वरवरमुनिवरं प्रात स्वस्य बुद्धियोगप्रदानप्रार्थनां निगमयति- मू-काऽहं क्षुद्रः कुलिशहृदयो दुर्मतिःक्वाऽत्मचिन्ता। त्रैयन्तानामसुलभतरं तत्परं काऽऽत्मतत्त्वम् । इत्थम्भूते वरवरमुने ! यत्पुनस्स्वात्मरूपं । द्रष्टुं तत्तत्समयसदृशं देहि मे बुद्धियोगम् ॥ ७९ ॥ व्या०-काहमिति ॥ हे वरवरमुने ! क्षुद्रः अत्यन्तविहीनकृत्य- तयाऽत्यल्पीयान् कुलिशहृदयः, वजबन्निष्ठुरहृदयः दुर्मतिः अन्य- थाज्ञानादिपूर्णः अहं क कस्मिन् प्रकारे स्थित इत्यर्थः। आत्म- चिन्ता देहातिरिक्तात्मस्वरूपनिरूपणम् क कस्मिन् प्रकारे स्थितम्, त्रैय्यंतानां वेदान्तानामसुलभम् प्रथमपर्व इदं तु असुलभतरम् अत्यन्तदुर्लभम् तत् तथाविधं वाचामगोचरं महिमवदित्यर्थः परं सर्वविलक्षणम् आत्मतत्त्वम् आत्मनः बुद्धिस्थस्य तव तत्त्वं याथा- म्यं व कस्मिन्प्रकारे स्थितम् इत्थम्भूते एवं सति हृदयकाठिन्या- दिमतो मम ज्ञातृत्वायोग्यत्वे सति देहात्मवैलक्षण्यस्य दुर्जेयत्वे च ..
सव्याख्यानम् । (१०१) सति निर्दोषप्रमाणभतवेदेनाऽपि अशक्यवेदनस्य भवद्याथात्म्य- स्यात्यन्त यत्वे सतीत्यर्थः। यत्पुनः स्वात्मरूपं स्वस्य ममात्मनः भवतश्च रूपं याथात्म्यं चरमशेषित्वादिरूपस्त्वदाकारः चरमशेष- वादिरूपो मदाकारश्वेत्यर्थः। तदित्यध्याहारः तद्भवत्स्वरूपयाथात्म्यं मत्स्वरूपयाथात्म्यश्च द्रष्टुं साक्षात्कर्तुम् तत्तत्समयसदृशं देहात्मा- भिमानकालादिरूपतत्तत्कालानुरूपं बुद्धियोगं भत्त्याख्यं भवत्सं- श्लेषविश्लेषैकसुखदुःखत्वादिरूपपरमप्राप्यदशापरिकरम् योग इहो- पायः मे एवं विधाय मह्यम् देहीति प्रार्थना ॥ ७१ ॥ अ०-वरवरमुनिसंश्लेषविश्लेषकसुखदुःखवत्ताप्रयोजकस्य हृद- यमार्दवस्याऽभावस्स्वस्मिन्ननुसंहितः अथ तत्सम्भवस्थलं दिदर्शयिषुः प्रथम स्वकुलधनभूतरघुपतिरेव तादृशमार्दवस्य प्रथमोदाहरणभूमि- रित्याह- मू०-सोढुंताग्रघुपरिवृढो न क्षमस्त्वद्वियोगं । सद्यः कांक्षन वरवरमुने ! सन्निकर्ष तवैषः॥ सायम्प्रातस्तव पदयुगं शश्वदुद्दिश्य दिव्यं । मुञ्चन् बाष्पं मुकुलितकरो वन्दते हन्त मूर्ना ॥ ८ ॥ व्या०-सोडुमिति ॥ हे वरवरमुने ! त्वद्वियोगम् अत्यभि- मतस्य तब विरहं सोढुं न क्षमः नाऽर्हः । एषः मत्कुलधनतया मद्रे- हवासी रघुपतिः सद्यः अस्मिन्नेवाऽह्नि झटितीत्यर्थः। तव क्षणदुस्सह- विरहस्य तव सन्निकर्ष समीपावस्थानं कांक्षन्सन् शश्वत् मुहु- १ "योगस्सन्नहनोपायः" इति कोशः ।
(१०२) श्रीवरवरमुनिशतकं- मुहुः बाष्पं मुञ्चन् दुःखाश्रूणि विकिरन्सन् तव पदयुगं इविडोप- निषद्भाष्योपदेतृतया स्वाचार्यभूतस्य तव श्रीपादयुगलम् उद्दिश्य विषयोकत्य मुकुलितकरः अञ्जलिभूतकरः सायम्प्रातः मूर्धा बन्दते प्रणमति "स्त्रियो वृद्धास्तरुण्यश्च सायम्पातस्समाहिताः । सर्वान्दे- वान्नमस्यन्ति रामस्यार्थे यशस्विनः” इति सर्वस्वविषये कर्तव्यं देवतोद्देशेन सायम्प्रातः प्रणामं रघुपरिवृढस्त्वद्विषये करोवि हन्ते- त्यनेनैताहशमाई स्वस्मिन्नास्तीति दुःखातिशयो व्यज्यते ॥ ८०॥ अ०-पूर्वस्मिन् श्लोके त्वद्वियोगं सोढुं रघुपरिवृढः न क्षम इत्युक्तम् इदानीं तस्य वरवरमुनिषियोगप्रयुक्तान्दशाविशेषानाह- मू०-अन्तस्ताम्यत्रघुपतिरसावन्तिके त्वामदृष्ट्वा । चिन्ताकान्तो वरवरमुने! चेतसो विश्रमाय । त्वन्नामैव श्रुतिसुखमिति श्रोतुकामो मुहुर्मा। कृत्यैरन्यैः किमिह तदिदं कीर्तयेति ब्रवीति ।। ८१ ॥ व्या०-अन्तस्ताम्यन्निति ॥ हे वरवरमुने ! असौ मदाराधनभूतो रघुपारवृढः अन्तिके वामदृष्ट्वा समीपे अत्यर्थप्रेमविषयं भवन्त- मपश्यन्नित्यर्थः । अन्तः हृदि ताम्यन् ग्लानिमान् “अनिर्विष्णो गभीरत्वादन्तगूढधनव्यथः” इत्युक्तरीत्या स्वमात्रसंवेद्यवेदनाति- शयवानित्यर्थः । चिन्तकान्तश्च सन् नानाकोटिकविपरीवसम्भावना- पूर्णस्सन् “याता भवेद्भगवती भवनं सखी नो जीवत्यथेष्यति न वेत्य- भिशंकितोऽस्मि” इत्युक्तबहुप्रकारविपरीवसम्भावनावांश्च सन्नित्यर्थः । चेतसः उक्तविधदुःखेनात्यायासवतो हृदयस्य विश्रमाय किञ्चिदाया- १ परिवृढः परब्रह्म 'ब्रह्मपरिवृद्धसर्वतः' इतियास्कः ( पा० १३-३) स सव्याख्यानम्। (१०३) सनिवृत्तये त्वन्नामैव अत्यर्थाभिमतस्य तव दिव्याभिधानमेव एवका- रेण वाग्वृत्यन्तरव्युदासः नामेति च द्वितीयान्तम् । श्रोतुकाम इत्यत्रा- वेत श्रुतिसुखमिति “मद्वक्रवस्तव गुणानभिशृण्वतश्च प्रत्यक्षरं पुलक- जालिकपोलमूलम्" इत्युक्तरीत्या सौख्यातिशयहेतुत्वाद्धेतोः इति हेतौ श्रोतुकामः आकर्णितुमत्यन्तमपेक्षमाणस्सन्नित्यर्थः। इह अभिम- तजनविश्लेषणात्या मद्विषये, अन्यैः कृत्यैः वरवरमुनिवर दिव्या- भिधानव्यतिरिक्तैः कतिसाध्यैः, कत्यैरित्यनेन सिद्धरूपस्य स्वरू- पादेरशक्यनिवर्तनत्वेन दुःखासहननियतत्वं व्यज्यते किं न किमपी- त्यर्थः, विरहानस्य ममाऽशनाऽऽसनादिव्यापारान्तराणि विरहवि- नोदनान्यपि न भवन्ति, अभिमतसमागमरूपाणि अपि न भवन्ती- त्यर्थः । तत् तस्मात्त्वत्कृतार्घ्यपायादेरकिञ्चित्करत्वादित्यर्थः । इदं ममाऽनवरतबुद्धिस्थं वरवरमुनिवरदिव्याभिधानं कीर्तयेति संश- ब्दयेति, तदाराधने प्रवृत्तं धुकुटीभटं मां मुहुः ब्रवीति असकद्वदति, मुहुरित्यनेन वरवरमुनिदिव्याभिधानकीर्तनेऽत्यादरो व्यज्यते।इदमित्ये- कवचनेन एकवारं तत्कीर्तनमपि प्राणप्रतिष्ठापनमिति व्यज्यते । अन्त- स्वाम्यन्नित्यनेन ग्लानि मसञ्चारीभाव उक्तः यथोक्तम् "ग्लानि- भयस्याऽपचयाऽवैवाऽरतिकारणम्” इति । चिन्ताक्रान्तमित्यनेन शङ्कानामसञ्चारीभाव उक्तः । यथोक्तम्, "अनिष्टागमनोलेक्षा शंकाद्वेषादिकारणम्” इति चेतसो विश्रामयेत्यनेन श्रमोनाम संचा- रीभाव उक्तमयथोक्तम् "श्रमः खेदोध्वरत्यादेातस्वेदादिभूमिकत्" इति चिन्ताक्रान्त इत्यनेन चिन्तावाससंचारीभाव उक्तः । यथोक्तम् “इष्टाऽनभिगमाझ्यानं चिन्ताशून्यत्वतापकद" इति कृत्यैरन्यैः (१०४) श्रीवरवरमुनिशतकं- किमित्यनेनाऽरतिर्नामावस्थोक्ता उक्तञ्च "अन्यत्राऽमीतिररतिः' इति अष्टजनवियोगजन्यदुःखातिशयरूपस्य करुणारसस्य निबन्ध- नात् तदनुबन्धिनो भावा निबद्धाः ॥ ८ ॥ अ०-त्वद्वियोगे त्वन्नामैवेत्यभिप्रेतं वरवरमुनेर्भगवदत्यन्वाभि- मतत्वं विवृण्वन् तद्वियोगाऽक्षमत्वं रघुकुलपतेढयति- मू०-भुंक्ते नैव प्रथमकवले यस्त्वया नोपभुक्ते। निद्रा नैव स्पृशति मुहृदं त्वां विना यस्य नेत्रे ॥ हीनो येन त्वमसि सलिलोक्षिप्तमीनोपमानः। कोऽसौ सोढुं वरवरमुने ! राघवस्त्वद्वियोगम् ॥८२॥ व्या०-भुक्त इति ॥ हे वरवरमुने! यः रघुपतिः प्रथमकवले खया सौमित्रिरूपेण भवता, नोपभुक्ते सति समीपभुव्यभुक्ते सतीत्यर्थः न शब्दस्योपभुक्तशब्देन समासः नभुंक्त एवं नाऽयवहरत्येव, सुहृदम् स्निग्धं त्वां विना यस्य अनुरक्तभूतभवद्विरहितस्य यस्य, विना शब्दो सहार्थवाची यस्य निद्रा नेत्रे दृशौ नैव स्पृशति न किंचिदपि सम्बध्नात्येवेत्यर्थः । निद्राया हि नेत्रेण निमीलनादिद्वारा व्यंग्य- व्यंजकभावसम्बन्धोऽस्ति स स्वलोऽपि इह नास्तीत्यर्थः । येन हीनस्त्वम् येन रघुपतिना रहितस्त्वम्, सलिलोरिक्षप्तमीनोपमान- स्सन् सलिलात् जलात्, उत्क्षिप्तस्य मीनस्य मत्स्यस्य । उपमानं सादृश्यं यस्य तथाविधोऽसि उपमितिरुपमानम्, भावे ल्युट् समा- नाधिकरणे बहुव्रीहिः अत्र हीनशब्दः प्रसज्यमानविश्लेषपरः मीनोपमानत्वमपि प्रसज्यमानं विवक्षितम् । अथवा यथाश्रुतमेव भवतु सव्याख्यानम् । (१०५) “परित्यजे त्वां सौमित्रे माभूत्तस्य विपर्ययः । त्यागो वापि वधोवाऽपि साधूनामुभयं समम्” इत्युत्तरत्र शरीरत्यागकथनात मीनोपमानत्वं चेह मीनवदुद्धारोत्तरक्षणमेव स्फुरणम् यावदाईभावं कथञ्चित्लाणधारणमपि विवक्षितम् असौ एवंविधो राघवः त्वद्वि- योगम् एवंविधस्य तव विश्लेषं सोढुं कः कीदृशः विषयान्तरप्रवणा- वयमपि न, प्रतिकला रावणादयोऽपि न तस्मात् सोढुं नाहतीत्यथः। अत्र भुंक्ते नैवेत्यत्र “मृष्टमन्नमुपानीतमश्नाति न हि तं विना" इत्येत- दुनुसन्धेयम् निद्रा नैवेत्यत्र “न च तेन विना निद्रां लभते पुरु- षोत्तमः” इत्येतद्रष्टव्यं सुहृदमित्यत्र "बाल्यात प्रभृति सुस्निग्धः लक्ष्मणो लक्ष्मिवर्द्धनः" इत्येतद्रष्टव्यम् हीनो येनेत्यत्र "न च सीता त्वया होना न चाऽहमपि राघव । मुहूर्तमपि जीवावो जला- न्मत्स्याविवोद्धृतौ” इत्येतद्रष्टव्यम् ॥ ८२ ।। अ०-स्वतो भोग्यताशून्यमपि तत्तद्वस्तुजातं वरवरमुनिवराव- तारविशेषभूतसौमित्रिसम्बन्धवशात अत्यन्तभोग्यमभूदित्यतस्तस्मिन भगवतोऽत्यन्ताऽभिमतमाह- मू०-पत्रं मूलं सलिलमपि यत्पाणिनोपाहतं ते। मात्रा दत्तादपि बहुमतं पत्युरेतद्घूणाम् ॥ शाखागेहं समजनि विभोःसम्मतं सौधशृंग। भूत्वा वासो महदपिवनं भोगभूमिस्त्वयाऽभूत्।।८३॥ व्या-पत्रमिति ॥ हे वरवरमुने इति पूर्वस्मात् अनुषंगः ते पाणिना अत्यन्ताभिमतस्य तव हस्तेन, उपाहृतम् आनीतं यत् पत्रं BAN (१०६) श्रीवरवरमुनिशतकं- मूलं सलिलमपि, अपिशब्दात मांसादिकं समुच्चीयते एतत् रघूणां पत्युः रघुकुलपतेः, मात्रा दत्तादपि अत्यन्तप्रीतिमत्या कौसल्यया उपाहृतादपि, बहुमतम् अत्यन्ताऽभिमतविषयीभतम्, अभूदि- त्याकर्षः । शाखागेहं त्वत्कृता पर्णशाला त्वया हेतुना विभोरसम्मतं सौधश्रृंगम् समजनि-आसीत्, महदपि बनम् अत्यन्तभयङ्करं दण्डकारण्यमपि, वासो भूत्वा वासभूमितां प्राप्य त्वया हेतुना विभोर्भोगभूमिरभूत भोगविभूतिभूतं श्रीवैकुण्ठनगर्यभूदित्यर्थः । अत्र पत्रं मूलं सलिलमपीत्यत्र "जलमेवाददे भोज्यं लक्ष्मणेनाऽऽहतं स्वयम्" इत्यादिकं द्रष्टव्यम् "रमणीयान्बहुविधान पादपान्कुसु- मोत्कटान् । सीतावचनसंरब्ध आनयामास लक्ष्मणः” इति च "राघवः पर्णशालायां हर्षमाहारयत्परम् । सुसंहृष्टः परिष्वज्य बाहुल्यां लक्ष्मणं तथा । अतिस्निग्धञ्च गाढञ्च वचनश्चेदमब्रवीत् । प्रीतोऽस्मि ते महत्कर्म त्वया कृतमिदं प्रभो । प्रदेयो यन्निमित्तस्ते परिष्वंगो मया कतः। भावज्ञेन कृतज्ञेन” इत्यारण्य "तस्मिन्देशे बहुफले "न्यवसच्च सुखी” इत्यादिकमपि भाव्यम् । इष्टजन- समागमे हि बहुदुःखकरमपि वनं सुखप्रकर्षहेतुरिति व्यजितम्, सीतया "एतत्तु वचनं श्रुत्वा रामस्य तु सुदुःखिता । प्रसक्ताश्रुमुखी मन्दं वचनश्चेदमब्रवीत् । ये त्वया कीर्तितादोषा वने वस्तव्यतां प्रति । गुणा इत्येव तान्मन्ये तव स्नेहपुरस्कृता" इति "कुशकाशशरेषीका ये च कण्टकिनो द्रुमाः। तृणलाजिनसंस्पर्शा मार्गे मम सह त्वया । महावावसमुद्भूतं यन्मामवकरिष्यसि । रजो रमण तन्मस्ये पारार्थ्य- - सव्याख्यानम् । (१०७) मिव चन्दनम्” इति चोक्तत्वात् “अधिकं पुरवासाच” "जहौ च दुःखम्पुरविप्रवासात्” इति च व्यक्तमनुसन्धेयम् ॥ ८३ ॥ अ०-"भवांस्तु सह वैदेह्या गिरिसानुषु रंस्यते।अहं सर्व करिष्यामि जामतः स्वपतश्च ते” इत्यत्र सर्वपदाभिप्रेतान् परिचरणविशेषान लक्ष्मणत्वे वरवरमुनिना कताननुसन्धत्ते- मू०-अध्वश्रान्ति हरसि सरसैराशाखासमोरैः । पादौ संवाहयसि कुरुषे पर्णशालां विशालाम् ॥ भोज्यं दत्वा वरवरमुने ! कल्पयन् पुष्यशय्यां । पश्यन्धन्यो निशिरघुपति पासि पत्नीसहायम् ॥ ८४॥ व्या०-अध्वश्रांतिमिति। अत्र त्रिष्वपि पादेषु रघुपति पत्नीसहायम् इत्यनयोराकष्टयोः षष्ठ्या विपरिणामः । हे वरवरमुने! सरसैः पुष्पर- ससहितैः आईशाखासमारैः शीतलसलिलक्लिन्नचम्पकबकुलादिशा- खाप्रयुक्तमृदुलवातैः अग्रशाखासमीरैः इति पाठे किसलयप्रचुरत्वमय- पदाभिप्रेतं मन्तव्यम् । सरसैराति सौरत्यं शैत्यञ्चोक्तम्, बहुवचनेन मान्यं विवक्षित प्रत्येकं श्रमापनयनासामर्थ्यावगमात् पत्नीसहायस्य रघुपतेर्जनककुलसुन्दरीसहितस्य दाशरथेः अध्वश्रान्ति मार्गगमना- 'यासं हरसि अपगमयसि ॥ यस्त्वया सह स स्वर्गो निरयो यस्त्वया विना" इत्युक्तरीत्या परस्परसाहित्येन परस्पर (योः) आन्तिप्रस- क्त्यभावेऽपि परस्परश्रान्तिशंकया परस्परस्य श्रान्तिरविरुद्धा हरसि इत्यात्मनेपदपयोगाऽभावेन परिचरणस्य स्वार्थतारहित- परार्थत्वं व्यज्यते “ कुरुष्व मामनुचरम्” इति परमोपक्रमे कर्तृ- (१०८) श्रीवरवरमुनिशतकं- गामिक्रियाफलपरस्यात्मने पदस्य प्रयुक्तत्वात् त्रेतायां त्वत्कृतात्यर्थ- सौख्यहेतूपचारविशेषा आफलान्तसलिलसेकवदयापि भगवतो धारका इति वर्तमाननिर्देशेन व्यज्यते । उपचरणीयत्वे सामर- स्याऽभिप्रायकः पत्नीशब्दः "पत्यु!यज्ञसंयोग” इत्यनुशासनम् संयोगः फलसंयोगरूपाख्या विशेषा (भेदा) दित्यादौ तथा दर्श- नात् अत एवोत्तरखण्डार्थकैंकर्यप्रतिसम्बन्धित्व एव दम्पत्योस्तु- ल्यत्व मनुगृहीतं पूर्वाचार्यैः पत्नीसहायस्य रघुपतेः पादौ संवाह- यसि जानक्या दाशरथेश्च पादौ गमनप्रयुक्तखेदीनवर्तकं यथा तथा दृढं निपीडयसीत्यर्थः । करेणेत्यनुक्तिस्तु अतिसुकुमार- चरणकिसलयसंवाहने लक्ष्मणकरकिसलयस्यासद्भतस्येव करण- त्वं द्योतयितुमिति मन्तव्यम् । अत्रापि परस्मैपदेन पारार्थ्य व्य- ज्यते पत्नीसहायस्य रघुपतेः विशालां पूर्णशालां कुरुषे विशाला- मित्यनेन देवतायतनाऽग्निशरणादिसंविभागः केलिग्रहादिसंविभा गश्च कत इति व्यज्यते " भावनेन कृतज्ञेन धर्मज्ञेन च लक्ष्मण । त्वया पुत्रेण धर्मात्मा न संवृत्तः पिता मम” इति श्लोके भावज्ञेने- त्यत्राभिप्रेतोऽर्थः। विशालामित्यनेनोक्तः त्वया मम पिता न संवृत्तः इत्यत्राऽभिप्रेतोऽर्थः कुरुष इत्यत्र कथितः पित्रा हि पुत्र- विषये क्रियमाणमुपचारादिकं पित्रर्थमेव भवति पितुः पुत्रं प्रवि शेषित्वात् अतः कर्तुः क्रियाफलभात्वसूचकेनात्मनेपदेन क्रिया- १ त्रेताद्वापरयोर्मध्ये किल रघुनाथस्याऽवतारः २ शरणंगृहरक्षित्रोरिति कोशः । तथा शेषसंहितादिषूक्तेः सव्याख्यानम् । (१०९) फलभावप्रयोजकपितृत्वपरस्य न संवृत्तः पिता ममेत्यस्य वाक्य- स्यार्थः सूचितः भावनेनेति श्लोकस्य पर्णशालाप्रकरणस्थत्वात् अत्र पर्णशालां कुरुषे इत्यात्मनेपदंप्रयुक्तम् । पत्नीसहायस्य रघु- पतेः भोज्यं दत्वा जनककुलसुन्दरीसहितेन रघुपतिना भोजनाई- फलमूलादिकमुपहृत्य स्वस्वत्वनिवृत्तिपूर्वकत्वघटितमुख्यदानस्या- (त्रा) सम्भवादुपहरणमात्रपरो दत्वेति शब्द इति रघुपतेरिति षष्ठ्यन्तान्वयसम्भवः पुष्पशय्याम् पुष्पमयशयनम् कल्पयन् निर्मि- माणस्सन् यथा दम्पत्योरसम्बाधेन शयितव्यं तथा कल्पयन्नित्यर्थः । वर्तमानेन पदेपदे ग्लानपरिहारेणा ग्लानपुष्पशयनकल्पनं व्यज्यते । निशि रात्रौ पत्नीसहायं रघुपतिं पश्यन् अनिमिषेण लोचनेन निरीक्षमाणस्सन् धन्यः सन् स्वकृतपरिचरणाङ्गीकारात्मकमहा- धनलाभवान्सन्नित्यर्थः । पासि रक्षसि, धनुर्धरस्सन् अप्रमत्तो गुहा दिष्वप्यतिशंकया रक्षसीत्यर्थः । अत्र श्लोके पादत्रयेण “ अहं सर्वं करिष्यामि” इत्यर्थ उक्तः निशि रघुपतिमित्यादिना च स्वपतो- ऽहं सर्व करिष्यामीत्यर्थ उक्तः । अत्र पुष्पशयां कल्पयन् इत्यन्तेन पश्यन्नित्यन्तेन च “परमप्रयोजनप्रवृत्तिः प्रयत्नफलम् तद्विषय- प्रीतिश्चैतन्यफलम्" इत्यनयोक्यियोरर्थस्स्मारतः । धन्य इत्यने- नाऽप्राप्तविषयजनसंवाहनादिकं कुर्वतो राजान्तरस्याऽधन्यत्वं व्य- ज्यते उक्तञ्च दुष्यन्तेन “किं शीतलैः क्लमविनोदिभिराईवाता- न्सञ्चारयामि नलिनीदलतालवृन्तैः । अंके निधाय करभोरु यथा- सुखं ते संवाहयामि चरणावुतपद्म ताम्रौ” इति धनगणं लब्धा' इति सूत्रेण धनलाभवति धन्यशब्दो व्युत्पादितः निशि पत्नीसहार्य ।
(११०) श्रीवरवरमुनिशतकं-
रघुपतिं पश्यन् धन्य इत्यनेन " अहं पुनर्देवकुमाररूपं स्वलंकतं
तं सुतमावजन्तम् । नन्दामि पश्यन्नपि दर्शनेन भवामि दृष्ट्वा
च पुनर्युवेव” इत्युक्तदशरथादपि वैलक्षण्यं व्यज्यते, रघुपते-
भोज्यमिति अर्थि यप्रत्ययेन “यदन्नः पुरुषो भवति तदन्ना-
स्तस्य देवताः" इत्युक्तनिर्बन्धो व्यावय॑ते. ईदृशो लक्ष्मणस्य रघु-
पतौ भावबन्धः यथोक्तं लक्ष्मणेन "अनुरक्तोऽस्मि भावेन भावरं
देवि! तत्त्वतः। सत्येन धनुषा चैव दत्तेनेष्टेन ते शपे॥ दीप्तमग्निमरण्यं
वा यदि रामः प्रवेक्ष्यति ॥ प्रविष्टं तत्र मां देवि ! त्वं पूर्वमवधारय"
इति स्वकरणकलेबरादेस्सर्वदा (सर्वथा ) भगवदेकविनियोगार्हत्व-
मपि तेनैवोक्तं यथा “अद्य चन्दनसारस्य केयरामोक्षणस्य च । वसू-
नाञ्च विमोक्षस्य सुहृदां पालनस्य च । अनूकुलाविमौ बाहू रामकर्म
कारष्यतः” इति एवं “ततश्चिरोत्तरासङ्गसन्ध्यामन्यास्य पश्चिमाम् ।
जलमेवाऽऽददे भोज्यं लक्ष्मणेनाऽऽहृतं स्वयम् । तस्य भूमौ शयानस्य
पादौ प्रक्षाल्य लक्ष्मणः 7 इत्यादि तं जाग्रतमित्यादि च
दृष्टव्यम् ॥ ८४
अ०-एवं दात्यां श्लोकाभ्यां कायिकीपारचर्योक्ता; अथ
वाचिकमाह-
मू०-पश्यन्नग्रे परिमितहितस्निग्धवाग्वृत्तियोग।
सद्यः शोकप्रशमनपरं सान्त्वयन्तं भवन्तम् ॥
प्राज्ञो जज्ञे स खलु भगवान्दूयमानो वनान्ते ।
पश्चात्क वरवरसुने ! जानकीविप्रयोगम् ॥ ८५॥
सव्याख्यानम् । (११३)
व्या०-पश्यान्निति ॥ हे वरवरमुने ! भगवान् ज्ञानादिपूर्णः
सः सीतावियुक्तरघुपतिः दूयमानस्सन् जानकीविप्रयोगप्रयुक्तपरिवाप-
वान्सन्,परिमिता विनयगौरवान्यां सत्याय च स्तोका हिता अनुकूलो-
दका हिता।स्निग्धा स्नेहयुक्ता स्नेहहेतुके स्नेहाश्रयत्वोपचारःभोग्यता
विशयव्यञ्जनार्थः वाग्वृत्तिरेव वाग्व्यापार एवं योगः विरहविनो
दनोपायः यस्य तथोक्तस्तं, "योगः सन्नहनोपायः" इति कोशः।
सद्यः शोकातिरेकोत्सत्तिक्षण एव, शोकस्य सीतावियोगजन्यदुःखस्य
प्रशमनं प्रकर्षण निवर्तनं परं सर्वस्मादपि . व्यापारादभिमतं यस्य
तथोक्तस्तं सान्त्वयन्तं स्वविषयकात्यर्थमधुरवचनानि वदन्तं भवन्तं
त्वाम् अये पुरतः पश्यन्वनान्ते वनसीनि, जानकीविप्रयोगम् अत्यर्था-
मिजावजनककुलसुन्दरीविश्लेषं पश्चात्कर्तुं लंघयितुं प्राज्ञो जज्ञे
खलु निपुणो जातः किल अत्र परिमितेत्यादिविशेषणेनाऽनिष्टनि-
वृत्तिविषयकोपन्यासमाधुर्यमुक्तं सान्त्वयन्तमित्यनेनेष्टप्रामिविषयको-
पन्यासमाधुर्यमुक्तम् अतो रावणो हतः सीता प्राप्तेत्याकारकप्रति-
पत्तिजननात् त्वया जानकीविप्रयोगो रघुपतिना सोढ इति भावः।
युक्तञ्चैतत् “चिरनिवृत्तमप्येतत्प्रत्यक्षमिव दर्शितम्” इति चिरातीव-
वृत्तान्तस्य वर्तमानमिवाऽवभानं प्रतिपादकसौभाग्यायचञ्चेत् भाविनोड
पि तस्य तथाभावनस्य न्याय्यत्वात् तदुक्तम् “आश्वासितो लक्ष्म-
णेन" इत्यारश्य "स्मरन्कमलपत्राक्षी रामस्सन्ध्यामुपासते” इति !
प्रकर्षेण जानातीति प्रज्ञः, प्रज्ञ एव प्राज्ञः, ज्ञाने प्रकर्षश्च तदनुगुण-
शक्तियोगरूपयोगः अतो निपुणोभूदिति फलितम् ॥ ८५॥
(११२) श्रीवरवरमुनिशतकं- अ०-पूर्वस्मिन् श्लोके भातुर्विरहव्यथासमाश्वासनादिरूपा वाचिकी परिचर्योक्ता; अस्मिन श्लोके तत्कार्यसिद्ध्यर्थान्यविषयवा- ग्वृत्तिरूपा परिचर्याच्यते-- मू०-सुग्रीवो नशरणमिति यत्सूनृतं भ्रातुरर्थे । पम्पातीरे पवनजनुषा भाषितं शोभते ते॥ कालातीते कपिकुलपतौ देव तत्रैव पश्चा- चापं धन्वन्वरवरमुने यद्भवान्निग्रहेऽभूत् ।। ८६ ॥ व्या-सुग्रीव इति॥ हे वरवरमुने! पम्पातीरे पम्पाभिधानसरो- रोधसि पवनजनुषा हनुमता सह यत् 'भाषितम्' इत्यत्रान्वेति सूनृतं मधुरं सत्यञ्च, सुग्रीवो नश्शरणमिति चातुरर्थे यत् भाषितं मम च राघवस्य च सुग्रीव एवाऽनिष्टनिवृत्तौ चेष्टप्राप्तौ च निरपेक्षोपाय इति एतदर्थफलकम् “अहञ्चैव हि रामश्च सुग्रीवं शरणं गतः” इत्या- कारकं भातृप्रयोजनकस्वप्रयोजनकं यवचनं (भाषितम् ) न इति 'अस्मदोईयोश्च” इति द्वित्वे बहुवचनं कालातीत इत्यादि भवान त्वम्, अत्र यदित्यनुवर्तते यच्च कपिकुलपतौ त्वदीयपुरुषकारभावप्रा- पिकपिराज्यवति सुग्रीवे कालं रावणवधार्थसेनासन्नाहायर्थप्रति- ज्ञातवार्षिकमासोत्तरकालात्मककालम् , अतीते अतिक्रान्ते सति चापं धून्वन, धनुयाशब्दं कुर्वन्,तत्रैव तथाऽभिमतसुग्रीवविषय एव, पश्चात् अनन्तरम्, निग्रहे वधपर्यन्तदण्डाय अभूत् आसीः । निग्रह इति फलस्यैवाऽधिकरणविवक्षया सप्तमी तदुभयम् ते शोभते नातृप्रयो- जनकप्रयोजनस्य तवौज्ज्वल्यकरं भवतीत्यर्थः देवेत्यनेन तदुचितमाहा ३ सव्याख्यानम्। (११३) त्म्यमुच्यतोसुग्रीवो नश्शरणमित्यत्र एष दत्वा च वित्तानि प्राप्य चानु त्तमं यशः । लोकनाथः पुरा भूत्वा सुग्रीवं नाथ मिच्छति॥ यस्य प्रसादे सततं प्रसीदेयुरिमाः प्रजाः । स रामो वानरेन्द्रस्य प्रसादमभि काक्षते॥” इत्यादिकं द्रष्टव्यम् । कालातीत इत्यत्र "रोषवेगप्रत पितः श्रुत्वा चाऽभरणध्वनिम् । चकार ज्यास्वनं वीरो दिशश्शब्देन पूरयन्” इति "मासांश्च चतुरः कृत्वा प्रमाणं वगेश्वरः। व्यतीवस्ता न्मदव्यत्रो विहरन्नावबुद्धयते” इति "कृतत्वं नाभिजानीषे रामस्याऽ क्लिष्टकर्मणः । सधस्त्वं निशितैर्बाणैर्हतो द्रक्ष्यसि वालिनम्” इत्या दिकञ्च द्रष्टव्यम् ॥ ८६॥ अ-वरवरमुनेश्वरमशेषित्वरूपंचरमोपायत्वरूपञ्च स्वरूपयाथा म्यं रघुपरिवृढावैन्द्रव्याकरणपण्डितमुखेन जनककुलसुन्दरीसन्दे शोक्ति प्रमाणयन विशदयति- मू-यस्मिन्प्रीति मदभिलषितामार्यपुत्रो विधत्ते। येनोपेतःस्मरति न पितुस्सोऽतिवीरो गतिमें।। इत्येवं त्वां प्रति रघुपतिप्रेयसी सन्दिशन्ती- व्यक्तं देवी वरवरमुने तत्त्वमाह त्वदीयम् ॥ ८७ ॥ व्या०-पस्मिन्निति॥हे वरवरमुने! आर्यपुत्रः मम भर्ता रघुपतिः आर्यपुत्र इति स्त्रीभिर्भर्तृव्यपदेशः । आर्य इति श्वशुर उच्यते, तस्य पुत्रो भर्ता मदभिलषितां मयाऽभिलषितां प्रीति स्नेहविशेषम्,यस्मिन १ ऐन्द्रव्याकरणपण्डितो हनुमान् ।
CHERRO (११४) श्रीवरवरमुनिशतकं- यादशलक्ष्मणे विधत्ते विदधाति । स्वप्रयोजनत्वेन करोतीत्यर्थः “न चास्य माता न पिता न चान्यस्स्नेहाद्विशिष्टोस्ति मया समो वा" इत्युक्तरीत्या सर्वातिशायिनीतिमत्त्वं जनककुलसुन्दयो रघुपतेः प्रसिद्ध तलीतरविशयितां प्रीति यद्विषये करोतीत्यर्थः । आर्यपुत्रः येनो पेतस्सन् येन लक्ष्मणेन सहितस्सन् पितुः न स्मरति "न संवृत्तः पिता मम” इत्युक्तरीत्या दशरथविषयकस्मृतिमान्न भवतीत्यर्थः। पितुरिति कर्मत्वार्थे षष्ठी अतिवीरः सः रघुपरिवढाऽपेक्षया प्रकष्टशौर्यादिगुण वान् भगवत अत्यर्थप्रीतिविषयस्सौमित्रिः मे भगवतोऽत्यर्थाभिमति विषयभूताया मम गतिः शरणम् । इति उक्ताकारेण एवमुक्तप्रकारेण च त्वाम्प्रति सौमित्रिरूपत्वदुद्देशेन सन्दिशन्ती ऐंद्रव्याकरणपण्डि तमुखेन वाचकोक्तिं वदन्ती देवी अयोनिजत्वेनाऽतिरोहिताप्राकृता कारा रघुपतिप्रेयसी रघुपतेः प्राणेश्योपि प्रियतमा जनककुलसु न्दरी त्वदीयन्तत्त्वम् भगवदत्यर्थप्रीतिविषयान्प्रतिशेषित्वशरण्यत्व रूपभवत्स्वरूपयाथात्म्यं व्यक्तमाह स्फुटं प्रतिपादयति स्म अत्र"मत्तः प्रियतरो नित्यं नाता रामस्य लक्ष्मणः । राघवस्त्वत्समारम्भान्मयि यत्नपरो भवेत्" इत्यादिकमनुसन्धेयम् । भगवत्प्रीत्युपायकत्वैक वेषस्य चेतनस्य तरतमभावेन भगवदभिमतविषयेषु पूर्वपूर्वपर्वापेक्ष योत्तरोत्तरपर्वविषयेषु प्रीतेरतिशयितत्वेन तद्विषयकैंकर्यचेतनस्य स्वरू पानुरूपमिति कैंकर्यप्रतिसम्बन्धित्वरूपं शेषित्वं भगवत्पीतिविशेषविष यत्वनिबन्धनमिति "मत्तःप्रियतरः" इत्यनेन शेपित्वलाभः "राघवस्त्व समारम्भान्मयि यत्नपरो भवेत्” इत्यनेन शरण्यत्वलामः CHENSION सव्याख्यानम् । (११५) देवीत्यनेन वक्तृदोषभूतानां ममप्रमादाविप्रलम्भादीनां विरहो व्यञ्जितः ॥ ८७ ॥ अ०-अतिवीर इत्यत्रोक्ताऽतिवीरकत्यं दर्शयन्विरोधिनिरसन रूपं कायिकपरिचरणमाह- मू-बाणैर्यस्य ज्वलनवदनैर्वाहिनी वानराणां वात्यावेगभ्रमितजलदस्तोमसाधर्म्यमेति ॥ सोऽयं भग्नो वरवरमुने ! मेघनादश्शरैस्ते रक्षोनाथः कथमितरथा हन्यते राघवेण ॥ ८८॥ व्या-बाणैरिति ॥ हे वरवरमुने ! वानराणां वाहिनी तेषु संख्या न विद्यते, इत्युक्तरीत्याऽसंख्येयानाम् "एषैवाशंसते लङ्का स्वेनानीकेन मर्दितुम्" इत्युक्तरीत्या प्रत्येकं लंकापवर्षणसमर्थानां सुग्रीवप्रभृतीनां कपीनां वाहिनी सेना प्राधान्यं षष्ठ्यर्थः।वानरप्रधाना सेनेत्यर्थः।तेन भल्लूकादेरपि संग्रहः।ज्वलनवदनैः ज्वलनःज्वालायुक्तो बह्निवदनेषु अग्रेषु येषां तथोक्तैः । यस्य "किं प्रशंससि रावणिम्" इत्युक्तरीत्या प्रकृष्टतमशौर्यादिमत्त्वेन प्रसिद्धस्य मेघनादस्य बाणै- दात्यायाः वातसमूहस्य वेगेन भ्रमितानां मण्डलाकारेण चलिवानां जलदानां मेघानां स्तोमस्य संघातस्य साधय साम्यम् एति प्रामोवि। चिरातीतमपि इन्द्रजित्मयुक्तं वानराणां व्यसन भगवद्विषयेऽत्यर्थनी १ भ्रमः अन्यथाज्ञानम्, प्रमादः अनवधानम्, विप्रलम्भः बुद्धिपूर्वकपरचमोत्पाद- नरूपवञ्चनम्, आदिशब्दस्तु अशक्तिसंग्रहपरः, अशक्तिः करणापाटवम् । २ विप्रलिप्सादीनामित्यपि पाठः ।
(११६) श्रीवरवरमुनिशतकं- तिमताऽनेन ग्रन्थकारेण श्रीरामायणादवगम्यमानं वर्तमानवदनुभूयत इति वर्तमाननिर्देशेन व्यज्यते । प्रसिद्धश्चाऽयं भगवति कुलशेखरे । सः तथाविधः अयं स्मर्यमाणोऽपि मम वर्तमानवदवभासमानः मेघना दः उत्सत्तिक्षण एवं मेघनादवन्निनादाद्धेतोः मेघनाद इति पित्रा कत नामधेयइन्द्रजित ते शरैः सौमित्र्यवतारस्य तव बाणैः भनः आम- दित इति यत् । इतरथा इतोऽन्येन हेतुना, तत्कतेन्द्रजिद्वधाति- रिक्तेन कायिकेन हेतुना रक्षोनाथः रावणः, राघवेण कथं हन्यते इदानीमस्माभिः स्मर्यमाणराघवकर्तृकवधकर्मीभवेत् "रावणेहि जयेनाऽद्य जितमित्युपधारय” इत्यादिकं ब्रष्टव्यम् ॥ ८८॥ अ०-प्रतिकूलजननिवर्तनरूपकायिकपरिचरणादपि दिव्यमङ्ग- लविग्रहविषये परिचर्यालपशेषवृत्तिः प्रकृष्टेति व्यञ्जयितुं परिचरण- रूपां शेषवृत्तिं पुनरप्यनुसन्धत्ते- मू-पृथ्वी भित्वा पुनरपि दिवं प्रेयसीमश्नुवानां दृष्ट्वा श्रीमद्भदनकमले दत्तदृष्टिः प्रसीदन् । प्रेमोदवरवरमुने ! भृत्यकृत्यैस्त्वदीयै- Hतःप्रीत प्रतिदिनमसौ शासिता नैर्ऋतानाम्॥८९॥ व्या०-पृथ्वीमिति ॥ हे वरवरमुने ! नैतानां शासिता रावणप्रभृतीनां राक्षसानां वधप्रयोजकः रघुपतिः पृथ्वी भित्वा "तथा मे माधवी देवी विवरं दातुमर्हति" इत्युक्तरीत्या पृथिव्या . १ दिव्यसूरिचरितादिषु द्रष्टव्यम् ।
सव्याख्यानम्।
(११७)
विवरं लब्ध्वा, दिवं परमाकाशं पुनरपि अश्नुवानां पूर्ववत्परमाकाश-
सम्बन्धवतीम्, अथवा पुनरपि पृथ्वी भित्वेत्यन्वयः । जननकालव-
निर्याणकालेऽपि भूभेदनं कवेत्यर्थः । प्रेयसी प्राणज्योपि
प्रियतमां जानकी दृष्ट्वा प्रत्यक्षं ज्ञात्वा, श्रीमद्वदनकमले
दत्तदृष्टिः “लक्ष्मणो लक्ष्मिसम्पन्नः” इत्युक्तरीत्या प्रशस्तक-
कर्यसाम्राज्यलक्ष्मीयुक्तस्य तव, वदनकमले कमलवद्रोग्यभूतव-
दने, न्यस्तचक्षुस्सन्, प्रसीदन् जनककुलसुन्दरीविश्लेषप्रयुक्तक्षोभ
मुञ्चन्।प्रेमोदयैः अनुरागातिशयेन हेतुनाऽनवधिकैः, त्वदीयै त्यकत्यैः
क्रयविक्रयाहदासाऽसाधारणपरिचरणरूपत्वदीयबहुव्यापारैः प्रतिदिन
प्रीति नीतः।जनककुलसुन्दर्या सह स्थितिदशायां या प्रीतिः तां प्रीति
प्रापित इत्यर्थः। धैर्यप्रतिष्ठापनरूपस्वीययत्किञ्चिव्यापारेण शून्यत्वं
रघुपतेर्तीत इत्यनेन व्यवच्छिद्यते दृष्ट्रेत्यनेन पूर्वविश्लेषाऽपेक्षया
दुःखभूयस्त्वं व्यज्यते । पूर्व ह्यस्मदसन्निधानात्सीताविश्लेषस्संवृत्त-
इति मञ्चिदाश्वास्येत; अयंत्वपरोक्षो विश्लेषः । दुःसह इत्येवंविध
दुःखमपि त्वया रघुपतेविस्मारितमिति भावः ॥ ८९ ॥
अ०-एवं सौमित्रिरूपवरवरमुनिवरसमागमे भगवतो निरविश--
यानन्द उक्तः, अथ तव्यतिरेके निरतिशयदुःखमाह--
मू०-सोदर्येषु त्वमसि दयितो यस्य भृत्यस्सुहृद्धा।
सोढव्योऽभूत्त्वयि सहचरे जानकीविप्रयोगः ।।
ध्यायन्ध्यायन्वरवरमुने! तस्य ते विप्रयोगं ।
मन्येऽनिद्रामरतिजनितां मानयत्यग्रजोऽयम् ॥ ९ ॥
, (११८) श्रीवरवरमुनिशतकं- व्या-सोदर्येष्विति ॥ हे वरवरमुने! त्वं सौमित्रिरूपस्त्वं यस्य रघुपतेः सोदर्येषु दशरथरूपैकपितृजातन्त्रातृषु मध्ये दयितः अत्यर्थमिष्टः भृत्यः क्रयविक्रया) दासः सुहृत सखा, असि भवसि; वाशब्दः पक्षभेदद्योतक: रामाभिप्रायेण भ्रातृत्वसुहृत्त्वादिकं सौमित्यभिप्रायेण भृत्यत्वमिति अत एव "अवरो नाता गुणैर्दास्य- मुपागतः” इत्यत्राभिसन्धिभेदेन व्याख्यातं द्रविडोपनिषद्भाष्ये । स त्वयि सहचरे सति त्वयि समक्षवृत्तिनि सति,जानकीविप्रयोगः प्रशस्ता भिजनश्लाघनीयाया मैथिल्यास्तृतीयविश्लेषः, यस्य सोढव्योऽभूत् येन रघुपतिना सहनार्होऽभूत् । तथाविधः मत्कुलधनभूतो रघुपतिः, तस्य ते तथाविधसौमित्रितादात्म्यवतस्तव, विप्रयोगं वियोगं, "विस- जये त्वां सौमित्रे” इत्युक्तरीत्या स्वेनैवाऽऽपतितं विश्लेषं ध्यायन्ध्याय न्मुहुर्मुहुरुत्कण्ठापूर्वकं स्मृत्वा,अरतिजनितां सर्ववस्तुष्वप्रीतिरूपाऽरत्या जनितां निद्रां परागर्थाऽनुसन्धानाभावं मानयति सम्भावयति (इति) मन्ये इति शड़े मननमिह परागर्थानुसन्धानभावस्याऽविच्छेदेनाs ङ्गीकारः अत्र चार्चावतारप्रयुक्तस्य परागर्थानुसन्धानाभावस्य विश्लेषध्यानहेतुकाऽरतिहेतुकनिद्रावोत्प्रेक्षा; अथवा मन्य इति स्वाभिप्रायकथनं 'सम्भेदेनाऽन्यवरवैय्यर्थ्यम्' इति न्यायेन परागर्थानुसन्धानाभावस्यार्चात्वप्रयुक्तत्ववत् विश्लेषप्रयुक्तत्वस्याऽ प्युपपत्तेः ॥९॥ अ०-पूर्वस्मिन् श्लोके सौमित्रिरूपभवद्विप्रयोगाऽभावे भगवत स्सीताविप्रयोगस्याकिञ्चित्करत्वमुक्तम्, अस्मिन् श्लोके भवद्विप्रयोगे सति सीवासंश्लेषस्याऽपि अकिञ्चित्करत्वमुच्यते- सव्याख्यानम् । (११९) मू-मुग्धालोकं मुखमनुभवन्मोदते नैव देव्याः। स्निग्धालापं कपिकुलपतिं नैव सिञ्चत्यपाङ्गः ॥ वामेवैकं वरवरसुने ! सोदरं द्रष्टुकामो। नाथो नैति क्वचिदपि रति दर्शने यूथपानाम् ॥ ९१॥ व्या०-मुग्धालोकमिति ॥ हे वरवरमुने ! नाथः रघुपतिः, सोदरं भावरं, सादरमिति पाठे स्वविषयकात्यर्थप्रीतियुक्तं द्रष्टुकामः इत्यत्र दर्शनविशेषणं वा; एकं मुखं त्वामेव सौमित्रिरूपं त्वामेव, एक्कारेण सीता व्यावय॑ते, द्रष्टुकामस्सन् साक्षात्कर्तुमत्यन्ताऽभि- लाषयुक्तस्सन, "संगात्सञ्जायते कामः" इत्यत्र भाषितरीत्या विषयानुभवातिरेके स्वरूपधारणदौर्लयामादकाभिलाषविशेषपरोऽ- यं कामशब्दः । मुग्धालोकं सुन्दरलावण्यकं वा, आलोक- स्तेजस्तच लावण्यं विवक्षितम् । देव्याः सीतायाः हिरण्यप्रति- कतिरूपाया इति हृदयम्, मुखमनुभवन् पश्यन्, नैव मोदते मोद- प्रसक्त्यापि शून्यो भवतीत्यर्थः। "कदा नु खलु बिम्बोष्ठं तस्याः पद्ममिवाऽऽननम् । ईषदुन्नम्य पास्यामि रसायनमिवाऽऽतुरः" इत्याशंक्य सायोगेज्यापि त्ववियोगेन सीवाप्रतिकृतिमपि न पश्यन्ती- त्यर्थः । जानकीविश्लेषानन्तरमेव सौमित्रिविश्लेषात्तत्पूर्व देव्या मुखा- नुभवप्रसक्तिहिरण्मय्या एव सम्भवतीत्येवं व्याख्यातम् । स्निग्धालाई स्नेहहेतुकमृदुवचनं, कपिकुलपतिं सुग्रीवम् । अपाङ्गः नेत्राञ्चलैः, १ सादरमिति पा०॥ २ सायोगेज्यापि इति पुस्तकद्वयपि पाठो दृश्यते सम्यकूपाठः कोशान्तरेन्वेषणीयः संयोगे सत्यपि, इति तु सुष्टु भाति ।
HIRAINEE (१२०) श्रीवरवरमुनिशतकं- नैव सिञ्चवि नैवाऽऽद्रीकरोति । विरहविनोदनाय ताभिस्ताभिः कथाभिः लक्ष्मणवियोगदुःखं विस्मारयन्नपि सुग्रीवो रघुपतिना नेक्षित इति भावः। यूथयानां दर्शने ऐन्द्रव्याकरणपण्डितप्रमुखयू- थपतीनाम्, साक्षात्कारे, क्वचिदपि उक्तेष्वनुक्तेषु सौख्यहेतुषु सर्वेषु वस्तुषु रति प्रीतिं नैति न पामोति । "वत्राऽपि बाष्पदिग्धश्चक्षु- विनोदयामि” इत्युक्तरीत्या हिरण्मयसीतापविकतिकरणफलमुत्क- ण्ठाविनोदनमेव, न त्वानृशंस्यनिवर्तनम् नापि अश्वमेधादिसह- चरीकरणम्, “यज्ञे यज्ञे च कुरुते सीताम्पत्नीहिरण्मयीम्" इत्यत्र तु हिरण्मयी सीतां यज्ञे यज्ञे पत्नीश्च कुरुते इत्यन्वयात, अश्वमेधसहचरीकरणमानुषङ्गिकमिति लभ्यते । एतद्विषयो राणादि- ग्रन्थः, शिष्टकोपाधिकरणस्योऽन्वाचयफलस्वपर इति हृदयम्॥९॥ अ०-एवं भुक्ते नैवेत्यारश्य पूर्वश्लोकपर्यन्तेन सन्दर्भण श्रीमति रामायणे सतानामपि श्लोकानामर्थाः क्रमेणाऽनुसंहिता, चरमप्रधानेऽस्मिशतके तदनुसन्धानश्चरमपर्वनिष्ठैः श्रीरामायणस्यो- पादेयतार्या निबन्धनम् । चरमशेषिरूपवरवरमुनिवराभिन्नसौमित्रि- प्रतिपादकत्वमिति व्यञ्जनार्थम् । अन्यथा चरमपर्वप्रवणस्य कर्तु- स्वदनुसन्धानाऽसंगतः, अत एव "काव्यं रामायणं कृत्स्नं सीता- याचरितं महत” इत्युक्तरीत्या श्रीरामायणप्रधानप्रविपिपादयिषि- वाया अपि सीतायाः पूर्व रामलक्ष्मणसीवाभिः इत्यनुक्रमणिका १ राणादिग्रन्थः प्रबन्धविशेषः । २ पूर्वमीमांसायाम् । ३ रघुवरचरितमित्यनेनाऽस्य श्लोकस्य विरोध इति न शंकनीयम् , अस्मिन्श्लोके कृत्स्नं, इति विशेषितत्वेनान्यस्या- ऽऽप्रधानतया प्रतिपाद्यत्वेप्युपपत्तेः विस्तरेण श्रीवचनभूषणमीमांसायामयमों द्रष्टव्यः ।
सव्याख्यानम् । (१२१) सर्ग सौमित्रिनिर्देशः कृत इति ध्येयम् । एवमस्मिन् श्लोके रामावतारे सर्वप्रकारस्वपरिचरणकर्तृसौमित्रिविषये स्वयमेव तथाविधपारचर- पानि कर्तुमभिलषन "कथञ्चिदुपकारेण कृतेनैकेन तुष्यति" तस्वभावविशेषशालितया निरंकुशस्वतन्त्रतया च तादृशस्वभाव- स्वातन्त्र्यपरिणामभूतं पारतन्त्र्यविशेषमंगीकृत्य सौमित्र्यवतारभूतब- लभद्ररामानुजरूपेण कृष्णावतारमङ्गीचकार भगवानिति वदन् चरमपर्वनिष्टैर्भारतादेरपि उपादेयतामूलमुक्तविधमेवेति व्यञ्जयन्नि- तःपरं मा कदापि स्याद्भगवतस्त्वविश्लेष इत्याह- मु०-एवं देवः स्वयमभिलपन्नेष ते शेषवृत्ति। जज्ञे भूयस्त्वदनुजगदानन्दनो नन्दसूनुः ॥ दूरीभावं वरवरमुने ! दुस्सहं पूर्वजस्ते। धन्यस्त्यत्वा धयतु न चिराचक्षुषा राववस्त्वाम्।।९२॥ व्या०-एवमिति ॥ हे वरवरमुने ! देवः सर्वेश्वरः, ते पूर्वजा सौमित्रिरूपस्य तवाध्यजः राघवः, ते शेषवृत्तिं सर्वप्रकारहृदयंग- मस्य तव सर्वविधा परिचर्या त्वत्सन्तोषकारिणीम्परिचर्यामित्यर्थः एवं त्वत्कर्तृकतद्विषयकपरिचर्यासाररूपेण "क्रियतामिति मां बद” इतिवत्त्वन्नियोगपुरस्सरत्वादिरूपधर्मवैशिष्टयेनेत्यर्थः । स्वयमभिलषन् उक्तस्वभावविशेषस्वातन्त्र्यविशिष्टत्वेन स्वेनैवाऽभिलषन् अत्यन्तम- पेक्षमाणस्सन्, जगदानन्दनः जगतः प्रथमचरमपर्वनिष्ठोभयविध- जनसमुदायरूपस्य, आनन्दनः अत्यर्थप्रीतिहेतुभूतः, नन्दसूनुः दौ- त्यसारथ्याद्यर्वाचीनव्यापारोऽनभिषिक्तक्षत्रियवंशजन्मपूर्वकगोपज- (१२२) श्रीवरवरमुनिशतकं- न्मयुक्तः कृष्णस्सन, भूयः पुनश्च, त्वदनु त्वत्तः पश्चात, जज्ञे जातः त्वदनुजतया पुनरवीतीर्ण इत्यर्थः । अयम्भावः-अभिषिक्तक्षत्रियवं- शतया दुर्लभदौत्यसारथ्यपरः, तदर्थं तद्योग्ययदुकुलजन्मपूर्वकन- न्दसूनुत्वावतारवत् अग्रजतया त्वविषयकपरिचरणदौल येन दूयमानो रघुपतिः, तद्योग्यत्वदनुजरूपेणाऽवतारं कृतवानिति; 'रघुपतिौ- त्यकृष्णावतारांगीकत' इति कलिमथनसूक्तिप्रमाणकभट्टपराशर- श्रीसूक्तिपदर्शकद्रविडोपनिषद्भायादवगन्तव्यम् ‘जगदानन्दन' इति पूर्वानुक्तस्याऽत्रोक्त्या कृष्णावतारे ग्रन्थकारस्य प्रावण्यं स्वशेषि- शेषत्वमूलकमिति व्यजितम्, ते पूर्वजो राघवः दुस्सहं सर्वशक्तिना स्वेनाऽपि सोढुमशक्यम्, ते दूरीभावम् तव श्रीरंगनगरावस्थानप्रयुक्तं वहिप्रकर्षम, त्यक्त्वा धन्यस्सन् त्वदात्मकमहाधनलाभवान्सन्, चक्षुषा तदीयविशाललोचनेन, न चिरात् अविलम्बेन, त्वां धयतु पिबतु । एवं पूर्वपूर्वावतारेष्वपि त्ववियोगाऽसहोरघुपतिरिदानी मम गृहा रूपत्वेऽपि "कत्यैरन्यैः किमिह तदिदं कीर्तयेति ब्रवीति" इत्युक्तरीत्या लदियोगदुःखेन दूयते । अतस्त्वामागतमालोकमानोऽ- त्यर्थप्रीत्या तृप्यतामिति प्रार्थना।इयञ्च प्रार्थना दुर्भिक्षेस्वयं क्षुधातस्य कारुणिकस्य स्वसम्बन्धिजनार्थमन्नप्रार्थनावदिति ॥ ९२॥ अ०-पूर्वस्मिन् श्लोके त्वदग्रजभूतरघुवराभिनन्दनार्थ भवताऽत्रा- गन्तव्यमिति प्रार्थितम् अस्मिञ्छोके तदर्थं त्वम्यागते ममाऽपि पुरुषार्थस्स्यादित्याह- मूल-पायम्पायं प्रणयमधुरे पादपमे त्वदीये । पश्येयं तकिमपि मनसा भावयन्तं भवन्तम् ।। mrakarma ! सव्याख्यानम् । (१२३) कामक्रोधप्रकृतिरहितैः कांक्षितत्वत्प्रसादैः। सद्भिस्साकं वरवरमुने ! सन्ततं वर्तिषीय ॥ ९३ ॥ व्या०-पायम्पायमिति ॥ हे वरवरमुने ! प्रणयमधुरे मदी- यपरमभक्तिविषयप्रणयेन मधुरे मकरन्दयुक्ते; मधुशब्दान्मत्वर्थी यो रप्रत्ययः "ऊपसुषिमुष्कमधो रः” इत्यनुशासनात् । त्यदीये प्राप्तशेषित्वत्सम्बन्धिनि पादपने पादलक्षगपने पावनत्वभोग्यत्वादिना रूपकम् । पायम्पायम् मुहुर्मुहुः पीत्वा, दर्शनस्य पानत्वोक्त्या निगीर्याऽध्यवसानाद्रूपकातिशयोक्तिः : मनसा दिव्यहृदयेन, किमपि किश्चिदपि वत् वाशिम, सर्वपुरुषार्थविलक्षणं स्वादसौ इत्येताह शमर्थ भावयन्तं संकलयन्तं भवन्तं पश्येयं साक्षात्करवाणि; यत एवं ततः कामः अप्राप्तविषयेषु इच्छा, क्रोधः तद्विघातजनकेषु मनःप्रज्व लनम्, इदञ्च लोभादीनामप्युपलक्षणम् । एतान्यां प्रकृत्या रहितैः स्वभावतः शून्यैः कांक्षितत्वत्प्रसादैः आशंसितभगवत्कर्तृकानुपहैः सद्धिः त्वनिहतुककटाक्षलब्धसत्ताकैर्महापुरुषैः सार्क सह सन्तवम् अविच्छेदेन वर्तिषीय वर्तमानो भवेयम् अत्र 'पायम्पायम्' इत्यादिना सन्दर्भेण "सतु रामस्य धर्मात्मा निपपात विभीषणः। वरणान्वेषी" इत्युक्तविभीषणस्स्फोर्यते पश्येयं तदित्यादिना "तस्य वचनं श्रुत्वा रामो वचनमब्रवीत् । वचसा सान्त्वयित्वैनं लोचनात्याम्पिबन्निव" इत्यत्रोक्तिरिति व्यज्यते । कामक्रोधेत्यादिना "वस्मारिक्षत्रं सहाड स्माभिस्तुल्यो भवतु राघवः । विभीषणो महाप्राज्ञस्सखित्वमुपयातु नः” इत्युक्तिरिति व्यज्यते ॥ ९३ ॥ १ इत्युक्तसरणिव॑न्यते इति कपु० पाठः ।
(१२४) श्रीवरवरमुनिशतकं- अ०-एवम्भूतप्राप्यत्वरातिरेकेण क्षुब्धहृदयोऽयं देवराजगुरुः आप्यत्वरातिशयेनाऽनन्यदेवत्वरूपस्वाधिकारविरुद्धकामदेवोपासना- वृत्तगोदान्यायेन चरमपर्वनिष्ठत्वरूपस्वाधिकारविरुद्धेऽपि श्रीशयोः पुरुषकारोपायत्वे प्रार्थ्यते- मू०-पश्यत्वेनं जनकतनया पद्मगभैरपाङ्गैः प्रारब्धानि प्रशमयतु मे भागधेयं रघूणाम् ॥ आविर्भयादमलकमलोदनमक्ष्णोः पदं मे- दिव्यं तेजो वरवरमुने ! देवदेव ! त्वदीयम् ॥ ९४॥ व्या०-पश्यविति॥हे वरवरमुने! देवानां नित्यसूरीणां देव शेषी- भूत त्वद्विप्रकष्टदेशास्थित इति सम्बोधनाभिप्रायः । जनकतनया "तुल्याभिलक्षणाम्" इत्युक्तरीत्या परमप्रेमास्पदत्वानिवन्धनाऽभिजा- व विशेषवती जनककुलसुन्दरी पद्मगर्भेः वातातपायसंस्पृष्टत्वेनाक्ष्णो स्सौन्दर्यसौकुमार्ययुक्तकमलोदरत्वेन रूपणीयैः । अपाङ्गैः नेत्राञ्चलैः एनं पूर्वश्लोकेषूपस्थितरघुपति मे पश्यतु मदर्थ पश्यतु । असिनेक्षणा पाङ्गानां पद्मगर्भसादृश्यं पुरुषकारत्वोपयुक्तभगवद्विषयकात्यर्थानुराग अयुक्तोभत्वसूचनार्थम्। एवंविधदुर्गतिमत्यपि चेतने भगवतो रक्षणौ दासीन्यप्रयुक्तप्रणयरोपनिमित्तकं वा रघूणां भागधेयम्"यो मन्त्रं तपसा लेभे" इत्युक्तरीत्या शरणागतसंरक्षणदीक्षितो रघुकुलभाग्यपरिपा- कभूतो रघुपतिः मे जनककुलसुन्दरीपुरुषकारस्य मम प्रारब्धानि त्वदनुभवविरोधीनि अनुभवेन विना दुर्निवत्यानि दुरितानि, प्रशम यतु सवासनं नाशयतु । यत एवं ततः अमलकमलोदनम् निर्मलपुण्ड सव्याख्यानम्। (१२५) रीकादपि अतिशयितम् दिव्यं तेजः अप्राकृतं तेजः, तेजःप्रचुरत्वात् तेज इति व्यपदेश्यम् । त्वदीयं पदं चरणं मे अक्ष्णोः आविर्भूयात चिरोत्कण्ठितयोर्मम नयनयोः प्रकाशताम् । अथवा अमलकमलो ग्रं त्वदीयं दिव्यं तेजः त्वदीयमङ्गलविग्रहदिव्यलावण्यप्रसरः मे अक्ष्णोः पदमाविर्भूयात् मदीयनयनगोचरो जायताम् ॥ ९४ ॥ अ०-सोढुं तावदित्यादिश्लोकेषु रघुपतिजनककुलसुन्दरी सौमित्रीणां परस्परविप्रयोगस्याऽनुसंहितत्वेन कलुषहृदयस्सन् इतः परं मा कदापि वियोगस्तेषां भूदिति मंगलाशासनं कुर्वन् सौमित्रि वरवरमुन्योरभेदं स्फुटयवि- मू०-रामः श्रीमात्रविसुतसखो वर्द्धतां यूथपालै- देवी तस्मै दिशतु कुशलं मैथिली नित्ययोगात् ॥ सानुक्रोशो जयतु जनयन् सर्वतस्तत्प्रसादं । सौमित्रिर्मे स खलु भगवान्सौम्यजामातृयोगी॥९५ ॥ व्या-राम इति॥श्रीमान्उभय विभूतिनिर्वाहक: श्रीः'भोम्पप- स्तुसमृद्धिः तद्वान् रविसुतसखः सुग्रीवस्य मित्रम्, आत्यां विशेषणा- श्यां "लोकनाथः पुरा भूत्वा सुग्रीवं नाथमिच्छति" इत्यर्थों व्यअितः अत एव परत्वसौलाये च व्यजिते। रामः रमते रमयतीति वा रामः, आये "ज्वलितिकसन्तायो" इति सूत्रेण कत्रथैणप्रत्ययः द्वितीये "रामो रमयतां वरः" इत्येतदनुसारात् णिजन्ताव पचायच् प्रत्ययः। अनेन मङ्गलाशासनप्रयोजकदिव्यमंगलविग्रहवैलक्षण्यादिकमुक्तं, १ उभयविभूतिनिर्वाहकत्वम्परत्वम्, रविसुतसखित्वं सौलभ्यम् ।
, (१२६) श्रीवरवरमुनिशतकं- यूथपालैः गदाप्रभृतिभिःस्सह, वर्द्धताम् उत्तरोत्तरमुपचयं प्रामोतु । आशिषिलोट् आशीआशासनं “त्वयिकिञ्चित्समापनेकिङ्कार्यसीतया मम्" इत्युक्तभगवत्स्वभावविशेषपर्यालोचनया रविसुतादेरपि मंगला- शासनविषयकोटौ निवेशः मैथिली जनकराजपुत्री देवी निरतिशयदी- प्तिशालिनी, नित्ययोगात् क्षणमात्रविरहितस्वसंश्लेषादेतोः, तस्मै पूर्वोक्तविशेषणविशिष्टाय रघुपतये, कुशल योगक्षेमरूपं मंगलं दिशतु ददातु "अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा" इत्युक्तरीत्या जनककुलसुन्दरीसम्बन्धायत्तो हि रघुपतेस्सर्वविधोप्युत्कर्ष इति भावः। सानुक्रोशः दिव्यदम्पत्यपेक्षयाऽपि कृपाप्रचुरः सौमित्रिः त- त्प्रयोजकोत्पत्तिविशेषवान् शोभनं मित्रं यस्यास्तथोक्ता सुमित्रा,तस्या अपत्यमित्यर्थात् मे मह्यम, सर्वतः सर्वविध "सार्वविभक्तिकस्वसिलू" तत्प्रसादं तयोर्दिव्यदम्पत्योः प्रसादं; उपायोपेयभूतप्रीतिविशेषं जन- यन् प्रादुर्भावयन् सन्, जयतु सर्वोत्कर्षेण वर्द्धतां मंगलाशासनस्य स्वाधिकारविरोधम्परिहरति स खल्विति । सः सौमित्रिः, भगवान सौम्यजामातृयोगी खलु भगवान् निर्दोषकल्याणकरः, सौम्यजामातृ- योगी श्रीरंगनाथदिव्याभिधानरूपसौम्यजामातृसमाख्यैकनिरूपणी- यः, योगी ज्ञानभक्तिवैराग्यादिसूचकोक्ताश्रमनिष्ठः खलुशब्दः सौमित्रिवरवरमुन्योरैक्ये प्रमाणप्रसिद्धिं द्योतयति प्रमाणञ्च प्रत्यक्षाऽ- नुमानाऽऽतवाक्यरूपं प्रत्यक्ष “शेषः श्रीमान” इति श्लोके व्यक्तम् अनुमानातवाक्ये तु “नित्यम्पत्युः परिचरणतः” इति श्लोके व्यक्तमनुसन्धेये ॥१५॥ १ श्रीशैलाष्टके प्रथमश्लोकोऽयम् ।
सव्याख्यानम् । (१२७) अ०-पुनरपि भावनाप्रकर्षवशात् "क्षमसे तन्महीपते” इत्युक्त- जनककुलसुन्दरीन्यायेन परोक्षेऽप्यपरोक्षनिर्देशं कुर्वन् स्वाधिकारा- नुरूपपुरुषकारोपाययोर्मङ्गलाशासनं करोति- मू०-यस्मादेतद्यदुपनिषदामप्रमेयं प्रमेयं । कुर्वाणस्तत्सकलसुलभं कोमलैरेव वाक्यैः॥ नीरोगस्त्वं वरदगुरुणा नित्ययुक्तो धरित्रों। पाहि श्रीमन् ! वरवरमुने ! पद्मयोनेर्दिनानि ॥ ९६॥ व्या०-यस्मादिति ॥ हे वरवरमुने ! एतत् धर्मियाहकप्रत्यक्ष- सिद्धविविधवैचित्र्ययुक्तं कृत्स्नं जगत, यस्मात् यादृशभगवदुपादा- नकं यादृशभगवन्निमित्तकञ्च, अत्र 'गम्यमानानामपि प्रक्रिया विभ- क्तीनां प्रयोजिका' इत्युक्त्या पञ्चमीसिद्धिः “यतो वा इमानि भूता- नि” इति श्रुत्यभिप्रायेणेदमुक्तम् । यत् श्रीमन्नारायणात्मकम् उपनिषदां सर्वेषामपि वेदान्तानाम्, अप्रमेयं कात्स्न्येन प्रमातुमशक्यं प्रमेयत्वे सति प्रमेयभिन्नत्वम् ननिवयुक्तन्यायेनाऽप्रमेयपदस्वारस्य लाभः इत्युक्तलाभात् निखिलजगज्जन्मादिकारणम् “यतो वाचो निवर्तन्ते ” इति वाङ्मनसातिवृत्तिनिरवधिमहिमयुक्तम्, नित्यनि र्दोषशाकसमधिगम्यं परमपुरुषरूपं परब्रह्मकर्म कोमलैरेव वाक्यैः अतिसुकुमाररचनैरत्युदारार्थगर्भः स्वैरालापप्रायैर्वाक्यैः एवकारेण प्रयुक्तगौरवं व्यावय॑ते सकलसुलभं प्रमेयं कुर्वाणः अज्ञसर्वज्ञविभागा नादरेण सकलजनसुलभम् यत्मारूपं ज्ञानं तद्विषयं कुर्वाणः, सकलसुलभमितीदं प्रमेयपदान्तभूतप्रमाक्रियाविशेषणम्। कुर्वाण इत्या (१२८) श्रीवरवरमुनिशतकं- त्मनेपदेन स्वप्रयोजनमनभिसन्धाय कृर्षि करोतीति व्यज्यते । वरद गुरुणा नित्ययुक्तः मत्पुरुषकारभूतेन त्वदत्यर्थप्रियेण वरदनारायण गुरुणा नीरन्ध्रसम्बन्धवान् त्वं पद्मयोनेः दिनानि “चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते” इत्युक्तब्रह्मदिवसेषु सर्वेष्वविच्छेदेन, धरित्रीम अन्यथा ज्ञानादिहेयतमतमःप्रचुरां महापृथिवी नीरोगः सन् नित्या रोग्यवान् सन् "आयुराशास्ते" इतीयमाशी। पाहि अन्यथाज्ञाना दिरूपाऽनिष्टनिवर्तनेन ज्ञानभक्तिवैराग्यादिरूपेष्टप्रापणेन च पालये- त्यर्थः ॥ ९६॥ अ०-तेनैव भावनाप्रकर्षेण प्राप्तिदशातुल्यहर्षातिशयं नर्तनेन साक्षीकुर्वन् तदनुकूलतालाभानुकारिवृत्तविशेषेण श्लोकानाह- मू०-वरवरमुनिवर्य चिन्तामहन्तामुपं तावकी- मविरतमनुवर्तमानानुमानावमानानिमान् ॥ निरुपधिपदभक्तिनिष्ठाननुष्ठाननिष्ठानहं । प्रतिदिनमनुभूय भूयो न भूयासमायासभूः॥ ९७॥ व्या-वरवरमुनिवर्येति ॥ हे वरवरमुनिवर्य तावकी त्वद्विष याम् अहन्तामुपं स्वस्वातन्त्र्यज्ञानात्मकाहङ्कारनिवर्तनीम्, 'मुष स्तेये' अस्मात् विपि प्रत्ययः स्तेयोक्त्याऽज्ञातनिवर्तकत्वं गम्यते। चिन्ता स्मृतिम्, अविरतं क्षणमात्रविच्छेदराहित्येन अनुवर्तमानाननुसरतः एतेन वरवरमुनिवर्यचिन्तां प्रति शेषित्वं तेषान्न तु तच्छेषत्वं चिन्ताया इति अत्यन्तपारतन्त्र्यं चिन्तायां व्यज्यते । अथवा, चिन्तामनु चिन्तांप्रति वर्तमानान् वृत्तिमतः वृत्तिः शरीरधारणोपायः, तथा च त्वद्विषयानुस्मृतिज्ञाप्यशरीरधारणवत इत्यर्थः । एतेन लौकिका- सव्याख्यानम्। (१२९) नपानादिनरपेक्ष्यं प्रतीयते । अत एवमानावमानान् मानं सम्भा- वना, अवमानं तिरस्कारः; अर्थकामादिनरपेक्ष्येण तद्धेतुभूताभ्यां पुरस्कारतिरस्कारान्यां कर्तृतया कर्मतया च रहितान्, इमान उक्तविधया प्रत्यक्षसिद्धान् । उपधेरुपानिर्गता निरुपधिः, उपाधिश्वेह स्वप्रयोजनपरत्वादिकम्, तच्छ्न्येत्यर्थः । तथाविधायां पदभक्तौ स्वरूपानुरूपचरणविषयकात्यर्थानुरागे, निष्ठान् नितरां स्थितिमतः, अनुष्ठाननिष्ठान तादृशभक्तिपरितसकलविधकैंकर्य- निष्ठान, प्रतिदिनं यावत्कालम्, अनुभूय निरतिशयप्रीतिविषयी- कृत्य तद्विषयत्रीतिमान् भूत्वेत्यर्थः । अहम् उक्तप्रकारेण चरमविष- यप्रावण्ययुक्तोऽहं भूयः- पुनः, आयासभूः अप्राप्तविषयमावण्य- रूपदुःखावासभूमिः न भूयास न भवितुमाशंसे। अत्राऽहन्तामुष मित्यनेन स्वशेषित्वरूपस्वस्वातन्त्र्यनिवर्तकप्रणवार्थोऽनुसंहितः । पदभक्ति-निष्ठानित्यनेन नमश्शब्दार्थोऽनुसंहितः । भयो न भूयास- मायासभूः इत्यनेन कैंकर्यप्रार्थनागर्भरूपनारायणशब्दार्थोऽनुसंहितः एवं मूलमन्त्रस्य चरमार्थपरपदत्रयार्थोऽनुसंहितः ॥ ९७ ॥ अ०-श्रीभगवद्रामानुजाचार्यविमुखजनविषयकवैमुख्यरूपमुख्य- धर्मानुवर्तिनः वरवरमुनिसम्बन्धिनो महानुभावाननुभवति- मू-वरवरमुनिवर्यपादावुपादाय सौदामिनी- विलसितविभवेषु वित्तेषु पुत्रेषु मुक्तेषणाः॥ कतिचन यतिवर्यगोष्टीबहिष्टीकृतष्ठीवना। विजहति जनिमृत्युनित्यानुवृत्त्यायदत्याहितम् ९८॥ व्या०-वरवरमुनिवर्यपादाविति ॥ वरवरमुनिवर्यपादौ चरमशे- पिभगवद्वरवरमुनिचरणौ, उपादाय उपायोपेयभावेन स्वीकृत्य, MAHIDAT280 (१३०) श्रीवरवरमुनिशतकं- सौदामन्याः सुदामनामकपर्वतविशेषदिग्वर्जिन्यास्तडितो विल- सितमिव विलसितं येषां तथोक्तेषु विभवेषु गृहक्षेत्रवाहना- दिरूपेषु, अनेन कादाचित्कवच घोत्यते, वित्तेषु धनेषु पुत्रेषु दुहितरश्च पुत्राश्च पुत्रास्तेषुः यद्यपि "कन्यापितृत्वं दुःखाय' इति वर्तते । तथाऽपि "पुत्राच्छतगुणा पुत्री यदि पात्रे प्रदी- यते” इत्यादेस्सत्वात् अदोषः । सौदामिनीतुल्यमपि स्थैर्य वित्ता- देर्नास्तीति तद्विशेषणाऽनुक्तिः पुत्रेषु वित्तेष्वित्याभ्यां साहचर्यात विभवशब्दः क्षेत्रादिपरः मुक्तेषणाः उक्तविधवस्तुत्रयविषयताऽभि- लापशून्या इत्यर्थः । आभ्याम्पदाभ्यां "परमात्मनि यो रक्तो विरक्तोऽपरमात्मनि” “सा तं समासाद्य विशुद्धसत्त्वा" इत्यादि- रीत्या वरवरमुनिवरसम्बन्धफलं वैराग्यादिकमित्युक्तं भवति यति- वर्यस्य भगवतो रामानुजस्य, गोष्ठीभिः दिव्यपरिषद्भिः, बहिष्ठी- कतेषु बहिष्कृतेषु पुरुषाधमेषु, टीवनं जुगुप्साव्यञ्जकलालानिर- सनं यैस्ते तथोक्ताः, ष्ठीवन्तीति वा ष्ठीवनाः, नन्यादित्वात्कर्तरि ल्यु प्रत्ययः ‘ष्ठिवु निरसने इति धातुः। तद्विषयेऽत्यन्तजुगुप्सावन्त इत्यर्थः। कविचन'स महात्मा सुदुर्लभः "न लायतेऽधिकारी वा” इत्युक्त- रीत्या द्वित्रा महापुरुषाः, जनिमृत्युनित्यानुवृत्या यदत्याहितम् जनिमृत्योर्जननमरणयोः, नित्यानुवृत्तिभिः नियवाविच्छिन्नसम्बन्धैः आयत् प्राप्नुक्त, आयामवदा कारणात् कार्यदैर्घ्यम्, अत्या- हित महाभयं, नातस्तच्छब्दाध्याहारो वास्यभेदश्च विजहति त्यजति विशेषश्च स्वसम्बन्धिनामपि भयस्य त्यागरूपं तथा च स्वेषां स्वस- म्बन्धिनाञ्च यत्संसारभयं तन्मुञ्चतीत्यर्थः ॥ ९८॥ अ०-स्योद्देश्यवरदनारायणगुरुपतिपादनद्वारेण तत्प्रभृतीननुभवति- मू-निरवधिनिगमान्तविद्यानिषद्यानवद्याशयान् । " सव्याख्यानम्। (१३३) यतिपतिपदपद्मबन्धानुबन्धानुसन्धायिनः॥ वरवरमुनिवर्यसम्बन्धसम्बन्धसम्बन्धिनः। प्रतिदिनमनुभूय भूयो न भूयासमायासभूः॥९९॥ व्या-निरवधीति ॥ निरवधेः निस्सीमायाः, निगमान्त- विद्यायाः निषया-वेदान्तविद्याया वेदिकास्थानभूतः अनवद्यः स्वस्वशिष्यफलेषु प्रतिपत्तिविपर्यासहेतुभूतमिश्रसत्त्वरूपदोषशून्यः परमसत्त्वयुक्त इति हृदयोऽर्थः। आशयः हृदयं येषां तथोक्ताः तान्, अनेन "सकलवेदान्तसारार्थपूर्णाशयम्” इत्युक्तवरदनाराय- णगुरुविषयकाभिप्रायः कैवेळञ्जितः यतिपतिपदपद्मबन्धानुबन्धा- नुसन्धायिनः भगवद्रामानुजचरणकमलमेव स्वोज्जीवनहेतुवाऽध्यव- साययुक्तान्, वरवरमुनिवर्यसम्बन्धसम्बन्धसम्बन्धिनः वरवरमुनि- वर्यदासदासदासान्, प्रतिदिनम् अनुभूय आयासभूः भूयो न भूयासं, पुनरपि आयासभून भवितुमाशंसे ॥ ९९ ॥ अ०-तत्सम्बन्धिप्रस्तावाचदीयदिव्यनक्षत्रदैलक्षण्यमनुभवति- मू०-यन्मूलमाश्वयुजमास्यवतारमूलं । कान्तोपयन्तृयमिनः करुणैकसिन्धोः॥ आसीदसत्सु गणितस्य ममाऽपि सत्ता- १ स्वामिनि विपरीतप्रतिपत्तिः अहमाचार्य' इत्यादिरूपा।शिष्येषु विपरीतप्रतिपत्तिः ममाऽयं शिष्यः' इत्यादिरूपा । फलेषु विपरीतप्रतिपत्तिश्च स्वशरीरादिपोषणादिरूपा शिष्यधनैः। श्रीवचनभूषणे आचार्यप्रकरणे विप्रतिपत्तिप्रकारश्च विस्तरेणोक्तस्तत्र द्रष्टव्यः। २ कविः देवराजगुरुः “शरिपुरेक एव कमलापतिदिव्यकविर्मधुरकविर्यथा च शटजिन्मुनिमुख्यकविः । यतिकुलपुङ्गवस्य भुवि रगसुधाकविराट् वरवरयोगिनो वरद- राजकविश्च तथा” इति श्रीप्रतिवादिभयंकरार्यश्रीसूक्तिदर्शनेन कवेरित्युक्तम् । अत एवं अन्नप्रणीतग्रन्थान्तरानादरपूर्वकं श्रीदेवराजगुरुवरप्रणीतप्रबन्धानेव सर्वेऽप्याचार्याः सर्वदिव्यदेशेषु स्वस्वगृहेषु च पठन्ति । Mon-
No text on this page.
No text on this page.