Ou

Vyaakarand-a Siddhaanta Sudhaanidhi 3

Suri Vishveshvara

PDF Proofread

Front matter

OSMANLA UNIVERSITY LIBRARY
S491.25
Call No.
Accession No.
V83V
Author पिपेपरसरि
Title O21457UIRIZ 1972annatry. Yes 3
914:
This book should be returned on or before the date last marked below.
sogno
субсч

UNIVERSAL
LIBRARY
OU_184604
LIBRARY
UNIVERSAL

प्रथमपादे गुणवृद्धिप्रतिषेधाहिकम् । ४ । २०१ थासङ्ख्यसम्पादनेन सार्थक्यादित्याशा अकारद्वयात्मकोऽय- मादेशोऽनेकालत्वात्सर्वस्य, यद्वा-धातोरित्यधिकाराद्धातोः पर- स्य थस्याकारविधाने “ आदेः परस्य" इति परिभाषया थकारस्यैवाकारः, उभयथाऽपि "अतो गुणे" इति पररूपमिति भाष्ये स्पष्टम् । तस्य स्थानिवद्भावेन मुख्याजादित्वमस्त्येवेति । अन्ये त्वाहुः-व्यपदशिवद्भावनिबन्धनाजादित्वस्येव स्था- निवत्त्वनिवन्धनस्यापि तस्य गौणताया वक्तुं शक्यत्वान्नेदं साधीयः । किं तु अजादाविति न विधिवाक्यशरीरम् , येनोक्त- मर्थ ज्ञापयेत् । किंतु"विडत्याच वा" इति तदुत्तरभाष्यपठितमेव। पूर्वभाष्यस्थमजादिपदं तु अचीत्यस्य "यस्मिन्"इतिपरिभाषा सिद्धार्थानुवादमात्रम् । अतो न हरदत्तोक्तं युक्तम् । अत एव ममृजेत्यत्र गणपाठादेव वृद्ध्यभाव इति आत्रेयः । धातुवृत्तिष्व- पि यूयं ममृज ममार्ज इत्युदाहृतमिति । इदं चान्यदवधेयम् । क्ङित्येव विकल्पारम्भात् धात्वंश. लोपनिमित्तत्वेन वृद्धिनिषेधहेतावच्प्रत्यये नायं विकल्प इत्यत्रो- क्तम् । तत्सूत्रप्रत्याख्यानप्रस्तावे तु अतोलोपस्य स्थानिवद्भावमा- श्रित्य यथोत्तरं मुनीनांप्रामाण्येन वृद्धिविकल्पो भवत्येवेत्युक्तम्, सच्चिन्त्यम् । सूत्रारम्भपक्षे यथारूपं तथैव तत्पत्याख्यानेऽपीति तत्र भाष्याभिप्रायस्यावश्यकत्वात् । तस्य चात्र हरदत्तोक्ताभि- प्रायेणैव सिद्धरिति दिक् । नन्वचिनोत् अमाई इत्यादौ स्थानिवद्भावेन तिवादेर्डि- वाद् गुणवृद्धिनिषेधापत्तिः। न चानल्विधाविति तनिषेधः शयः । अनुबन्धकार्येषु तदप्रवृत्तेः । युक्तं चैतत् । अनुबन्धा- नामित्संज्ञकत्वेन आदेशात्पूर्वमेव लोपेन स्थानिन्यसंनिधानात् । आदेशप्रयोज्यनिवृत्तिपतियोगिन एव स्थानित्वात् । लकारा. २६ । २०२ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये नुबन्धनित्योश्च भावाभावरूपादेशप्रयोज्यत्वात् । “अनेकान्ता अनुबन्धा" इति पक्षे तु तेषां स्थानिकोटिप्रवेशस्य दुरापास्तत्वात् । ज्ञापकं चात्र "न ल्यपि" इति ईत्वनिषेधः । क्त्वानिष्ठकित्त्वस्य स्थानिवद्भावेन ल्यप्यप्रवृत्तौ किवाभावादेव ईत्वाप्रसत्या तद्वै- यापत्तेरिति चेत् अत्र वार्तिकं तावत्- लकारस्य डिवादादेशेषु स्थानिवद्भावप्रसङ्ग इति चेत्, यामुटो डिद्वचनात्सिद्धमिति । अन्यथा लिबद्भावप्रयुक्तडित्वेन तदादेशानां डिन्त्वे तद- वयवस्य यासुटोऽपि तत्त्वात् यासुद् परस्मैपदेदात्तो ङिच्च" इति डिवचनं व्यर्थ स्यात् । न च स्तुयादित्यादौ "उ- तो वृद्धिलुकि हलि" इत्यस्या उत इति निर्दिष्टस्थानिकत्वेनानि- ग्लक्षणाया वृद्धः, चिनुयुरित्यादौ "विङति च'' इतिनिषेधापवाद- स्य "जुसि च" इति गुणस्य च प्रतिषेधार्थ ङिद्वचनमस्तु, पुन- र्डिवसामर्थ्य विना स्थानिवत्त्वप्रयुक्तङिवमात्रेण तनिषेध- स्यानुपपत्तरिति कथं तस्य ज्ञापकत्वमिति वाच्यम् । उत औ- दित्येव सिद्धे वृद्धिग्रहणेन "संज्ञापूर्वको विधिरनित्यः" इति तृ- द्धिनिषेधसिद्धेः । "क्सस्याचि " इत्यस्मादत्यिनुवर्ण अ. जादौ जुास गुणविधानात् यासुटि कृते च जुसो हलादित्वसं- पत्तेः । यद्वा "मिदेर्गुणो जुसि च" इति, संहितापाठे अजुसीति छित्वा अजादावुसि गुणविधानात् । यत्वेवं चक्रुः जहुः इत्यादावतिप्रसङ्ग इति, तन्न । तस्य अनादित्वव्यभिचाराभावेन विशेषणवैयापत्त्या तत्सामर्थेन जुस्येव पर्यवसानात् । वस्तुतस्तु अचासावुस चेति न कर्मधारयः। उकारसका- रात्मकसमुदाये अजभेदस्य बाधितत्वात् । न च अच्पदमजादौ प्रथमपाद गुणवृद्धिप्रतिषेधाह्निकम् । ४ । २०३ लाक्षणिकम् । गौरवात् । न चात्र"यस्मिन्विधिस्तदादावल्ग्रहणे" इति निर्वाहः । यस्मिन्निति सप्तम्यन्तानुकरणेन अलः सप्तम्य. न्तत्वएव तत्प्रवृत्तेः । अत्र च विशेष्यणान्वये तद्विभक्त्याऽस्य सप्तम्यन्तत्वे परिभाषाप्रवृत्तिः । तस्यां चाजादिपरत्वंन यो- ग्यतासंपत्त्या विशेष्यान्वय इत्यन्योन्याश्रयात् । एतेन उजुसी- तिच्छेदोऽपि निरस्तः । अत एवाचीति सप्तम्यन्तानुवृत्तिपक्ष एव सप्तमे भाष्यकृता सिद्धान्तित इति दिक् । न चैवं जुसि गुणे यामुदप्रतिषेध इति तत्रत्यवार्तिकवै- यर्थ्यम् । उक्तरीतावेव तस्य तात्पर्यस्य तत्रोक्तत्वादिति । न चैवमपि ब्रूतादित्यत्र "ब्रुव ईट्" इतीडागमापत्तिः, तातङः स्था- निवत्त्वेन पित्त्वाादेति वाच्यम् । “अनित्यमागमशासनम्” इति परिहारात् । भाष्यमते तु “सार्वधातुकमपित् ” इत्यत्र अपिदिति योगो विभज्यते, डिदिति चानुवर्तते । पयुदासवृत्तिं नवं च पृथक्कृत्य ङित् पिन्न भवतीति आवृत्त्या वाक्यद्वयं क- ल्प्यते । तथा च ङित्त्वपित्वयोः परस्परात्यन्ताभावव्याप्यत्व- लाभे अर्थादौपदेशिकेनातिदेशिकस्य वाधः फलति । तेन ब्रूता- दित्यत्र इण्न । तातङ औपदेशिकेन ङित्त्वेनातिदेशिकस्य पित्त्वस्य बाधात् । अचिनोदित्यादौ तु पित्त्वस्यौपदेशिकत्वाद्वैपरीत्यमिति गुणादिसिद्धिः। अत्र यासुटो डिवचनं लिङाश्रयातिदेशिकडिव- स्य तिबाद्याश्रयपित्त्वेन बाधिततया पुनर्डिवस्य विधायकमेव । ततश्चोभयोरप्यौपदेशिकत्वे सावकाशनिरवकाशन्यायेन चिनो- तीत्यादौ सावकाशस्य पित्त्वस्यानवकाशेन डिवेन बाधः । प्रायणीयादिभिन्नाग्निीपोमीयप्राचीनपदार्थविपये सावकाशस्य य- किश्चित्प्राचीनमग्नीषोमीयात्तेनोपांशु चरन्तीत्यस्येव निरव- ।

२०४ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये काशैर्यावत्या वाचा कामयीत तावत्या दीक्षणीयायामनुब्रूया. न्मन्द्रम् प्रायायायां मन्द्रतरमातिथ्यायामुपांशूपसत्सूचैरग्नीषो- मीये इत्येतैः । अतः स्तुयादित्यत्र पिति हलि विहिप वृद्धिर्न । चिनुयुरित्यत्र तूक्त एव समाधिः । नन्वेवं भविषीष्टेत्यत्र ङित्त्वं स्यात् । आतिदेशिकङित्त्व- बाधकाभावात् । एवं करिष्यमाणेत्यत्र लडादेशस्य शानचो- ऽतिदेशेन उगित्त्वाट्टित्त्वाच ङीबापत्तिः, इति चेत् अत्राहुः- "हलः श्न: इत्यत्र शानचः शित्त्वेन कचिदनुबन्धकार्येऽप्य- नल्विधावितिनिषेधप्रवृत्तिाप्यते । अतो नोक्तदोषः । एवं च ब्रूतादित्यत्र वार्तिकमतेऽपि न ईडागमापत्तिरिति । दीधीवेवीटाम् ६। दधिोवेव्योरिटश्च गुणवृद्धी न स्तः । आदीध्य- नम् आदीध्यकः आवेव्यनम् आवेव्यकः अकणिषम् अरणिषम् कणिता श्वः रणिता श्वः अङ्गसंज्ञायां तदादि- ग्रहणेन मिबादेशममं प्रति सिजन्तमङ्गं तिबादेशं डाशब्दं प्रति च कणित् इत्यङ्गम् । तत्रोक्तादेशद्वयसार्वधातुकं निमित्तीकृत्य प्रस- तस्य लघूपधगुणस्यायं निषेधः । तृजन्तादौ इटः प्रत्ययाव- यवत्वेन तदुत्तरप्रत्ययान्तराभावादङ्गानन्तर्गतत्वेन च गुणाम- सक्त्या लुडन्तत्वद्योतनाय श्व इत्युक्तम् । डादेशं प्रति तास्यन्त- स्याङ्गतया तास्यवयवस्य इटो गुणप्रसक्तिसंभवात् । न च दीङ् क्षये धीङ् अनादरे वेञ् तन्तुसन्ताने वी गत्यादिषु एषामेव ग्रहणं स्यादिति वाच्यम् । “अवयवप्रसिद्धः समुदायप्रसिद्धिर्बलीयसी" इतिन्यायात् । तन्मात्रतात्पर्यग्राहका- नुपूर्व्यन्तरपरित्यागसामर्थ्याच्च । इट् चागम एव । न तु इट गता- प्रथमपादे गुणवृद्धिप्रतिषेधाह्निकम् । ४। २०५ विति धातुः । कृत्वोऽर्थग्रहणेन साहचर्यस्य नियामकत्वानिय- मभङ्गस्य ज्ञापितत्वात् । अत्र वदन्ति । दीध्यको वेव्यक इति शुद्धयोरेव दीधी. वेव्यो रूपम् , न तु ण्यन्तयोः। आदीधकः आवेवकः इत्येव रूपयोस्तत्र स्वीकारात् । यत्तु हरदत्तेनोक्तम्-वर्णग्रहणसामर्थ्यात् श्रूयमाणएव इवणे लोपो न लुप्ते, तेन ण्यन्ताभ्यां ण्वुलि णिलोपस्य पूर्वविधौ स्थानिवत्त्वेऽपि श्रूयमाणत्वाभावाल्लोपाभावे यणि कृते दीध्यको वेव्यक इति शुद्धसमानाकारकमेव रूपमिति, तच्चिन्त्यम् । “ना- ग्लोपि"इतिसूत्रगतभाष्यविरोधात् । तत्र वर्णग्रहणं लुप्तेऽपीवणे यथा स्यादित्येवमर्थमित्याशङ्ग्य स्थानिवद्भावेन सिद्धेरन्तरङ्गत्वा- णिलोपात्माम् “यीवर्णयोः" इति लोपसिद्धेश्च वर्णग्रहणस्य प्र. त्याख्यातत्वात् । भाष्यकारानुरोधेन च साधुत्वस्वीकारादिति । भाष्यवार्तिकयोस्त्वेतत्सूत्रं प्रत्याख्यातम् । दीधीवेव्यो- श्छान्दसत्वेन लोके प्रयोगानर्हत्वात् । छन्दसि च गुणदर्शनात् । तथा च-प्रजापतिर्वै मनसा यत्किश्चिन्नादीधेत , हौत्राय वृतः कृपयनदीधेत् , अदीधयुर्दासराज्ञे वृतास इत्यादि । छान्दसत्त्वेनै- तत्समाधानापेक्षया च कचिच्छ्यमाणगुणाभावस्यैव तेन सा. धयितुं युक्तत्वात् । इटोऽपि ग्रहणं व्यर्थम् । इट्विधौ " नेडशि कृति " इतिम्- त्रादिग्रहणमनुवर्त्य एकस्य इट्पदस्य विकाराभाववत्परत्वेन विकाराभाववानेवेति व्याख्यानेन गुणाभावस्य सिद्धत्वात् । न चैवं पिपठीरित्यादौ "वोरुपधाया दीर्घ इकः" इति दी- घोऽपि न स्यादिति वाच्यम् । तस्य नियमं प्रत्यसिद्धत्वात् । यदा नियमस्याङ्गाधिकारीयत्वात्तत्रत्यस्यैव विकारस्य निय- “ सान्त महतः २०६ व्याकरणसिद्धान्तसुधानिधी प्रथमाध्याये मेन व्यावृत्तिरित्युक्तदीर्घद्वयं निर्वाधमिति भाष्यकृतः । अपाठीदित्यत्रापि “सिज्लोप एकादेशे सिद्धो वक्तव्यः इति ज्ञापकात्सवर्णदीर्घः । न च “ग्रहो लिटि" इत्यस्याप्याङ्ग- त्वानिषेधापत्तिः । आरम्भसामर्थ्यादिति कैयटादयः । क्स्तुतस्तु विकारपदस्य इकारवृत्तिभेदप्रतियोगितावच्छेद- कजातिमत्परतया तादृशविकारस्य एकारादिरूपस्यैव निषेधो न तु दीर्घस्य । इत्वावच्छिन्नत्वात्तस्यापीति रहस्यम् । स्यादेतत् । पिपठीपि ब्राह्मणकुलानीत्यत्र संयोगस्य" इति दी? न स्यात् । सिद्धत्वात् , आङ्गत्वात्, अ- न्यत्र चरितार्थत्वाद्, वैजात्यानवच्छिन्नत्वाच्चेति । अनाहुः- असाधुरेवोक्तप्रयोगः । अतोलोपस्य स्थानि- वद्भावेन झलन्तत्वाभावात्तल्लक्षणस्य नुमो दुर्लभत्वात् । न च तीजन्तत्वादेव नुम् स्यादिति वाच्यम् । अजन्तत्वप्रयुक्तस्य नुमः सकारोत्तरमेव प्रसक्तेः । सान्तसंयोगाभावेन तथाऽपि दी- प्रसक्तेः । अनादिष्टादचः पूर्वत्वाभावेन तस्य स्थानिवत्त्वास- म्भवात् । पिपठिष इत्यजन्तस्य लोपपूर्वदशायामकारापेक्षया पूर्वस्वाभावात् । न ह्यकारविशिष्टस्याकारात्पूर्वत्वम् । बाधात् । न च "कौ लुप्तं न स्थानिवद्"इतिअतोलोपस्य स्थानिवत्त्वा- भावान्झलन्तलक्षणो नुम् स्यादेवेति वाच्यम् । कौ विधि प्रति न स्थानिवदित्यस्यैवार्थस्य व्यवस्थितत्वात् । लवमाचक्षाण इत्यर्थे तत्करोतीति ण्यन्तात् लवशब्दात् किपि “णेरनिटि"इति णिलोपे कृते वकारस्य उठि कर्तव्ये णिनिमित्तकस्यातोलोपस्य स्थानिवद्भावो मा भूदित्यर्थकत्वात् । सुखीयतिसुतीयतिभ्यां १ अकारकाले सर्वनामस्थानपरकत्वाभावेन नुमोऽप्राप्तेः। अल्लो- पस्यान्तरङ्गत्वात्पूर्वमेव प्रवृत्तेरिति भावः । ।

प्रथमपादे गुणवृद्धिप्रतिषेधाह्निकम् । ४ । २०७ किपि अल्लोपयलोपयोः कृतयोः अल्लोपस्य स्थानिवत्त्वेन य. णादेशो मा भूदित्येतदर्थं को लुप्तमित्यस्याश्रयणेऽपि तस्यासा- र्वत्रिकत्वात् इति नपदान्तसूत्रे वक्ष्यमाणत्वात् । प्रकृते च नुमः किनिमित्तकत्वाभावेन को विधिमित्यस्याप्रवृत्तेः । हलोऽनन्तराः संयोगः ७। अभिरव्यवहिता हलः संयोगसंज्ञाः स्युः । प्रदेशाः "संयोगान्तस्य लोपः" इत्यादयः। हलः किम् । तितउपदे संयो- गान्तलोपो मा भूत् । न च " तनोतेर्डउः सन्वच्च इत्यत्र उकारोच्चारणसामर्थ्यादेव तदभावसिद्धिरिति वाच्यम् । भसं- ज्ञास्थले संयोगान्तलोपप्रसक्त्यभावेन तत्र तत्सार्थक्यात् । ननु अन्तरशब्दन सहायं वहुव्रीहिरन्तराशब्देन वा। आये अन्तरशब्दस्याधेयवाचितया हलपेक्षया विजातीयव. र्णशून्यस्य संज्ञायामवग्रहेऽपि संयोगसंज्ञासिद्धिः । तत्र हि मतद्वयम् । मात्राकालव्यवधानेन वर्णान्तरमुच्चार्यते इत्ये- कम्, अर्द्धमात्राकालव्यवधानेनेत्यपरम्, उभयथाऽपि का- लव्यवधानेऽपि वर्णान्तरव्यवधानाभावात् । द्वितीये तु आधारस्य कालस्यापि व्यवधाननिषेधात् अवग्रहे संयोग- संज्ञा न स्यात्, हलुच्चारणसमयध्वंसाधिकरणसमयध्वंसानधि- करणसमयवृत्युच्चारणप्रतियोगित्वस्य अजव्यवधाने इव काल- व्यवधानेऽपि विरहात् इति विशेषसत्त्वादिति चेत् - अत्र भाष्यकारा:-नैव दोपो नैव प्रयोजनमिति । पक्षद्वयमप्यदो षमिति तस्यार्थः । न चाप्सु इत्यादौ संयोगसत्त्वे गुरुत्वाद्"गुरोर- नृतः" इति प्लुतो न त्वन्यथेति कथमुभयाभाव इति वाच्यम् । अधिकरणवृत्तेः तस्य दूराळूतसंबन्धाभावात् । विचार्यमाणाना- इत्यत्र विशेष: २०८ व्याकरणसिद्धान्तसुधानिधी प्रथमाध्याये मित्यादौ तु वाक्यस्य टेरेव प्लुतविधानेन गुरुसंज्ञाया अनपेक्षि. तत्वात् । न चाप्सु भवोऽप्सव्यः दिगादित्वाद्यत् “अपो योनि- यन्मतुषु" इति सप्तम्या अलुक्, तत्संबुद्धौ दूराध्दतसंपन्धात्फल- भेदापत्तिरिति वाच्यम् । एवंविधे विषये अवग्रहस्य पदकारैर- करणात्तथैव संप्रदायात् । न चाप्सु योनिर्वाऽश्व स्यादिति वाच्यम् । समासपदानामन्तोऽवगृह्यतइति पदकारसं- प्रदायात्तत्रापि सुशब्दात्पूर्वमवग्रहाभावादिति कैयटादयः। इयं च संज्ञा समुदायस्य, नावयवमात्रस्य, संयुज्यन्तेऽस्मि- न्समुदाये वर्णा इत्यन्वर्थसंज्ञाविज्ञानात्।अन्यथा निर्यायादित्या- दौ रेफयकारयोः प्रत्येकं संयोगसंज्ञायां यकारस्यापि संयोगा- दित्वाद् "वाऽन्यस्य संयोगादेः" इत्येत्वं स्यात्, ग्लेयादित्या- दिवत् । न च सिद्धान्तेऽपि “ अचो रहाभ्याम् " इति द्वित्वेन यकारद्वयसम्पत्त्या स्यादेवोक्तदोष इति वाच्यम् । तस्यासि- द्धत्वेन संयोगसंज्ञाया अनिष्पत्तेः । किं च प्रत्येकसंज्ञापक्षे संहृषीष्टेत्यत्र " ऋतश्च संयोगादेः" इति इद्, संहियतइत्यत्र “गुणोऽर्तिसंयोगाद्योः" इति गुणश्च स्यात् । चरमवर्णस्य संयोगतया ऋकारेकारयोः संयोगादि. त्वसंम्पत्तेः । दृषत्करोतीत्यत्र ककारस्य संयोगान्तस्य लोपः स्यात् । दकारस्य संयोगत्वे तदन्तत्वस्य सत्त्वात् । शक्ता वस्ता इत्यत्र "स्कोः" इति संयोगायोः सकारककारयोर्लोपः स्यात् । तकारस्य झलः परतः सत्त्वात् । निर्यातः इत्यादौ संयोगादेरातो धातोर्यण्वतः " इति निष्ठानत्वं च स्यात् । यदि तु“वाऽन्यस्य संयोगादेः"इत्यत्र संयोगादित्येतावतैद संयोगात्परो य आकारस्तदन्तस्याङ्गस्य एत्वमित्यर्थलाभादादि- ग्रहणसामर्थ्यादभेदैकत्वसंख्यैव वृत्तौ भासतइति निययं ति- प्रथमपादे गुणवृद्धिप्रतिषेधाहिकम् ।। २०९ रस्कृत्य संयोगावादी यस्येत्युपसर्जनार्थस्यापि द्वित्वावगतिरिति संयोगद्यादेरेव एत्वमिति सूत्राभिर्यायादित्यत्र नातिन्या- प्तिः । एवम् "ऋतश्च संयोगादेः " " गुणोऽर्तिसंयोगायोः " इत्यत्रापि व्याख्येयम्। “संयोगान्तस्य" इत्यत्रापि पूर्वन्यायेन सं- योगद्यान्तस्य लोपविधानान दृषत्करोतीत्यत्र दोषापतिः । "स्कोः संयोगायोः" इत्यत्रापि सकारककारगतद्वित्वापेक्षया सं: योगयोरित्येव सिद्ध आदिग्रहणबलाद् अलि परतो यः संयोगः पदान्ते च यः संयोगः तस्यादिः समीपो यः ककारः सकारश्च तयोर्लोपविधानम् । तेन शक्ता वस्ता इत्यत्र नातिप्रस. ङ्गः। “संयोगादेरातः" इत्यत्रापि संयोगादात इत्येव संयोगा- त्परो य आकारस्तदन्ताद्धातोः परस्य निष्ठातकारस्य नत्वमि- त्यर्थेन सिद्धे आदिग्रहणवशात्संयोगद्वयादिलाभानिर्यात इत्यत्र नोक्तदोष इति कल्प्यते । तथाऽपि प्रतिपत्तिगौरवम्, प्रत्ये- कं संयोगसंज्ञायाः कचिदप्यनुपयोगे तत्स्वीकारवैययं चेत्य- वधेयम् । हल इति बहुत्वं चाविवक्षितम् । अन्यथा शिक्षेत्यादौ "गु- रोश्च हलः" इत्यप्रत्ययानुपपत्तेः । न चैवमजव्यवहितस्यैकस्या- पि संयोगसंज्ञापत्तिः । अवयवार्थानुरोधेन द्वयोरवश्यमपेक्षि- तत्वात् । यत्र तु बहूनां हलामव्यवधानं तत्राविशेषेण द्वयोर्बहू- नां च संज्ञा । न चैकार्विचनन्यायः । समुदायकार्येणावयवानां कार्य- संपत्तेरेव तद्वीजत्वात् । निज् इत्यस्य द्विरुक्तौ तदन्तर्गताना सर्वेषामेकाचां द्विवचननिर्वाहात् । इह च बहूनां संज्ञया इयो. स्तत्कायोसिद्धिरिति वैषम्यात् । तथा हि । संस्वर्यतइत्यत्र "गुणोऽति" इति न स्यात् । गोमान्करोतीन्यत्र गोमान् त् म् का २१० व्याकरणासिद्धान्तसुधानिधौ प्रथमाध्याये रोति इति स्थिते तकारस्य संयोगान्तलोपो न स्यात् । मलेत्यत्र "मस्जिनशोझलि" इति नुमागमे मन् स् ज.इति स्थिते सकार- स्य संयोगादित्वाभावात् "स्कोः" इति लोपो न स्यात् । निर्ले- यादित्यादौ रेफघटितसंयोगस्याङ्गादित्वाभावात् अङ्गादेश्च गका- रलकारसमुदायस्य संयोगसंज्ञत्वाभावादेत्वं न स्यात् । एवं निर्लान इत्यत्र नत्वं न स्यात् । अथैवम् इन्दिद्रीयिषतीति न सिध्यति । तथा हि-तत्र नकारदकारघटित एकः दकाररेफघटितश्चान्य इति द्वौ संयोगी उक्तरीत्या च नकारस्येव दकारस्यापि संयोगादित्वाद् "नन्द्रा: संयोगादयः" इति द्वित्वनिषेधे रीशब्दस्यैव द्वित्वे इन्द्रिरीयि- पतीति रूपं स्यादिति चेत्, सत्यम् । तत्र हि कर्मधारयोत्तरपञ्च- म्यन्तमजादेरितिपदम् “अजादेर्द्वितीयस्य" इति सूत्रादनुवर्त्तते । आदिभूतादचः परे संयोगादयो नदरा द्विनोंच्यन्तइति सूत्रार्थः। ततश्च दकारस्य संयोगादित्वेऽप्यादिभूतादचः परत्वाभावान्नि- षेधावृत्तौ द्रीशब्दस्य द्वित्वे हलादिःशेषेऽभ्यासस्य इस्वे च सिद्धमिष्टम् । एवं च आदेरचः परस्यैकाचो द्वितीयत्वव्याप्य- स्वात्तत्सूत्रे द्वितीयपदं नोपादेयमेवेति निष्कर्षः । मुखनासिकावचनोऽनुना- सिकः ८॥ मुखयुतनासिकयोचार्यमाणो वर्णोऽनुनासिकसंज्ञः स्यात् ।. अभ्र आँ अपः । आङोऽनुनासिकश्छन्दसि" इति आ इत्यस्यानुनासिकः । पाण्यङ्गत्वेन समाहारद्वन्द्वे क्लीवत्वेन ना. सिकवचन इत्यापत्तिवारणाय मध्यमपदलोपिसमासाश्रयणम् ।

प्रथमपादे गुणवृद्धिप्रतिषेधाहिकम् । ४ । २११ निपातनाद्यथाश्रुतस्य साधुत्वे तु मुखनासिकवचन इत्यसाधु । " अबाधकान्यपि निपातनानि " इति पक्षे तु तदपि साधु । यद्वा- मुखनासिकपदं कृत्वा ईषदर्थकनसमासव्युत्पनेन तादृशापूर्वेण वा वचनपदेन समासः। भागस्य मुखेन भागस्य नासिकया चोच्चारणादीपत्त्वम् । इदं च पूर्वपरयोर्भागगर्मध्ये एको भागो मुखेनोच्चार्यते द्वितीयस्तु नासिकया। तत्र नासिका. वचनभागोपरागवशान्मुखवचनभागस्यापि नासिकावचनवद्भा. नम् । यथा सम्यन्तेत्यादौ अनुनासिकयकाराग्रुपरामादकार- स्याप्यनुनासिकत्वेन प्रतीतिरिति मतमाश्रित्योक्तम् । यदा तु मुखस्य नासिकायाश्चान्तरालपत्तिस्थानान्तरमेवैत- दुच्चारणे निमित्तम् , तदा मुखोपसंहिता नासिकेति समासः । प- दद्वयस्य स्वार्थान्तरालदेशे लक्षणात् । अर्द्धमन्तर्वेदि मिनोत्यर्द्ध पहिर्वेदीत्यस्येव तदन्तराले । तत्राद्यपक्षे प्रासादवासिन्यायः । यथा प्रासादवासिनस्तद्हणेन भूमिवासिनस्तद्हणेन केवलं गृह्यन्ते । उभयवासिनस्तु प्रासादवासिग्रहणेन भूमिवासिग्रहणेन च गृह्यन्ते । ग्राहकतावच्छेदकधर्मयावच्छिन्नत्वात् । उत्तरमतव्ये तु न तदवतार इति स्पष्टमेव । अत्र पदसंस्कारपक्षे वचनपदं करणल्युडन्तम् । उच्यतेऽ. नेनेति व्युत्पाद्य पश्चान्मुखनासिकापदेन सम्बध्यते । अन्तरह- स्वात्मवृत्तश्च पदसंस्कारो बहिरङ्गेण पदान्तरान्वयदशायां प्रती. यमानेन स्त्रीत्वेन न बाध्यतइति डीप्पत्ययो न भवति । प्रथ- ममेव स्त्रीत्वविवक्षायां तु मुखनासिकावचनीक इत्यपि निर्वा- धम् । एवं च मुखनासिका वचनं यस्य मुखनासिकमवचनं यस्येति वा बहुव्रीहिरिति भाष्यमतम् । केचित्तु राजभोजनाः शालय इतिवत् कर्मणि ल्युप्रत्ययं २१२ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये बाहुलकात् स्वीकृत्य कर्मषष्ठ्या समास इत्याहुः । अत्र मुखग्रहणं किम् यमानुस्वाराणामेव मा भूदिति भा- 'ध्यम् । अस्यार्थः- मध्यमदर्शने नासिकावचनपदेन उभयस्था- नको वर्णो न गृह्येत, किं तु यमानुस्वारा एव । तेषां मतविशेषे एवं केवलनासिकास्थानत्वात् । तथा च तैत्तिरीयप्रातिशा- ख्यम् -- "नासिक्या नासिकास्थाना मुखनासिक्या का" इति । तथा च "आङोऽनुनासिकः" इत्यादौ विधिस्थले तएव विधी- येरन् । “विड्वनोरनुनासिकस्याद्" इत्यायनुवादस्थले तु अनु. वादस्य यथाप्राप्तविषयकत्वनियमात् यमानुस्वारपरस्य च वि- डादिप्रत्ययस्यासिद्धरमतिपत्तिरेव स्यात् । अतस्तद्दर्शने मुख पदं सार्थकम् । आधमते तु नासिकावचनपदेनैव प्रासादवासिन्यायेन मुखवचनानामपि ग्रहणसंभवात्तद्यर्थमेव । न च यमानुस्वारा- नादायातिप्रसङ्गः । अनुवादे यमानुस्वाराणामसंभवात्, विधौ च स्थानिनो मुखनासिकाक्चनत्वात् तदन्तस्तमत्वेन मुख- नासिकावचनस्यवादेशत्वाल्केवलनासिकावचनानां यमादीना- मान्तरतम्याभावादेवातिप्रसङ्गभङ्गात् । तदुक्तं भाष्यकृता- नैव दोषो नैव प्रयोजनम् इति । तथा च तेषामपि संज्ञाविधाने दोषाभाकात मुखपदं न देयमेवेति स्थितम् । नासिकापदत्यागे तु कचटतपानामपि स्यात् । ततश्च शक्त इत्यत्र ककारस्य पक इत्यत्र चकारस्य तप्तमित्यत्र पकारस्य च लोप: स्यात् । ओदनपमित्यादौ “अ. नुनासिकस्य किझलोः" इति दीर्घश्च स्यात् । अत्र वदन्ति । वर्गेष्वादितश्चतुर्णा पञ्चमे परे मध्ये पूर्व- समानाकारं वर्णान्तरं प्रातिशाख्ये स्वागमत्वेन विहितं यम- अन- प्रथमपादे गुणवृद्धिप्रतिषेधाह्निकम् । ४ । २१३ संज्ञम् । यमलजातयोः प्रायेण सारूप्यदर्शनाधम इव यम इति गौण्येयं संज्ञा । यथा पलिक्नी चवख्नतुः अग्निः अनन् इत्यत्र कखगघेभ्यः परभागे तत्तत्सदृशोऽयमागमः । इयन्तु यमोत्पत्तिरखण्डपदे एवेति तु प्रमाणाभावादुपेक्ष्यम् । परभागे इति मूलग्रन्थेन पूर्वावयवत्वस्यैव लाभात् । अत एक छान्दोग्यलक्षणप्रणेतुरौदवजिसंज्ञस्याचार्यस्य सूत्रम् न्त्यान्त्यसंयोगे मध्ये यमः पूर्वस्य गुणः” इति । अनन्त्या आ. द्याश्चत्वारः । अन्त्या डकारादयः । गुणः पूर्वस्य भक्तः, तदव- यव इति यावत् । यत्तु विवरणकारैरुक्तम्-वर्गपञ्चमयुक्ताः प्रथमादयो यमा इति, तच्चिन्त्यम् । अयोगवाहत्वप्रतिपादकहयवरसूत्रीयभा- प्यविरोधात् । केवलनासिकास्थानत्वपरोक्तभाष्यविरोधाच्चेति । अत्रेदं विचारणीयम् । चतुर्णामाधवर्तिनामेवानुनासिकगु. णत्वेन भेदात्तजातीयत्वेऽपि सानुनासिकयकारादिवदणसूप- दिष्टैः स्वसवर्णैरगृहीतत्वाद्युक्तमेवायोगवाहत्वम् । न हि नि- रनुनासिकाः कादयोऽण्मध्ये पठ्यन्ते, येनैषामपि ग्रहणकशा- स्त्रेणैव संग्रहासिद्धौ अयोगवाहत्वप्रतिपादनविरोधः स्यात् । त. स्मात्सानुनासिकनिरनुनासिकभेदेन कादीनां द्वैविध्यमित्येव भाष्यादितात्पर्यम्, न तु कादिवृत्तिवर्णत्वसाक्षाघाप्यजात्य. भाववत्तायाम् । मानाभावात् । अत एव कुँ खु गुँ घु इति न्यासादिग्रन्थाः सङ्गच्छन्ते । कुँ इत्यस्य तत्तद्वर्गाद्यक्षरपरत्वात् । हूं इत्यादेश्च वर्गद्वितीयाद्य- क्षरपरत्वात् । अनुनासिकत्वमात्रस्य चाधिकस्योपादानात् । नापि द्वितीयो विरोधः। अँ इत्यादीनां भागमात्रं नासिक्यम् । यमानुस्वाराणांतु मुखनासिक्यत्वेऽपि प्रासादवासिन्यायेनानुना- २१४ व्याकरणसिद्धान्तसुधानिधी प्रथमाध्याय सिकत्वमप्यस्ति, न तु तदीयं भागमात्रं तथा, इत्येवं परत्वस्य भवद्भिरेवोक्तत्वात् । एतेनादितश्चतुर्णी तदसम्भव एवेत्यपा- स्तम् । प्रमाणसत्वे बाधकाभावात् । ननु गुणानामभेदकत्वादेव तेषां प्रत्याहारान्तर्भावसम्भ- वादयोगवाहानाममुपदेशपरभाष्यवार्तिकविरोध एवेति चेत्, मैवम् । अयोगवाहपदेन तेषां संग्रहेऽपि विसर्जनीयजिहा- मूलीयोपध्मानीयानुस्वाराणामेव तत्रोपदेशप्रयोजनस्योक्तत्वेन यमानां प्रयोजनस्य तत्र कुत्राप्यनुक्तत्वात् तथाऽपि प्रत्याहा- रविशेषपुरस्कारेणैव तन्नियमसम्पादनार्थकत्वेन तदविरोधाच यमानां तत्रोपदेशे तात्पर्याभावनिर्णयात् । यत्तूक्तम्-नैव दोषो नैव प्रयोजनमिति भाष्यविरोधः, स्वन्मते यद् प्रन्तीत्यादौ “यरोऽनुनासिके" इत्यस्य प्रवृत्त्या दो- षस्योद्भटत्वादिति, तदप्यसत् । द्विवचनविध्येकवाक्यतापन्नय- वस्यैव तेषु नियनत्वेन सत्यपि यमानां यरन्तर्भाचे अनुना- सिकत्वादिविध्येकवाक्यतापन्नयर्वस्य बाधाभ्युपगमात् । एवं च यमानां व्यञ्जनपरत्वनियमेन अनचि च" इत्यस्य तत्र कदाचिदप्यप्रवृत्त्या फलतो यमांशे यादिबाध एव पर्यवस्य- तीति सिद्धम् । गुणानामभेदकत्वेऽपि यमानां न तत्तत्कार्यप्रवृ. त्तिरिति । तस्माद्यमानामयोगवाहत्वप्रतिपादकभाष्यस्य तेषां तत्तत्प्रत्याहारविशेषान्तर्भावप्रयुक्तकार्यानुदाहरणव्याजेन तत्त- त्पत्याहारानन्तर्भावविधानएव तात्पर्यम् । अन्यथा अन्तर्भावप्रयु. क्तकार्याभावे तद्विधानवैयर्थ्यात् । अप्रसक्तस्य च निषेधानई- त्वात् । प्रसक्तेश्च वर्णान्तरत्वपक्षे वर्णसमाम्नायमध्यानुपदेशे- नानुपपन्नत्वात् । ककारादिमध्यएवान्तर्भावः संमतः । तथा सति हिं गुणानामभेदकत्वेन खफछठेत्यादिभिस्तत्संग्रहे प्रसक्ते .

प्रथमपादे गुणवृद्धिप्रतिषेधाहिकम् । ४ । २१५ भवति निषेधोपपत्तिः । तस्मादन्यथाऽनुपपन्नमुक्तभाष्यग्रन्थ- मेव पुरस्कृत्य वक्ष्यमाणवाक्यानां वर्णान्तरवतात्पर्येण व्या- ख्यानं प्रत्यादेश्यम् । एकं ब्रह्मास्त्रमादाय नान्यं गणयतः कचित् । आस्ते न धीरवीरस्य भङ्गः सङ्गरकलिषु ॥ इति न्यायात् । तथा हि-स्पर्शा यमा अनुनासिकाः स्वात्परेषु स्पर्शेष्वनुनासिकेषु इति प्रातिशाख्ये स्वपदस्य धर्गाद्यक्षरचतुष्टयपरत्वात् तत्परेष्वनुनासिकस्पर्शे वर्गान्त्यवर्णे- षु अनुनासिकत्वविशिष्टाः स्पर्शाः प्रथमाद्याः यमसंज्ञा भ- वन्तीत्यर्थस्य स्पष्टतया स्पर्शसंज्ञया च कुत्र वर्णान्तरत्वे ता- त्पर्यम् । एतेन “प्रदोध्रुवच्छ्वशुषु" इत्यत्रोष्मसंज्ञकशकारा दिषूपस्थानीयस्य छकारादेर्यमवारणाय प्रवृत्तेन “स्पर्शस्योष्मप्रकृ- तेः परस्ताद्यमापत्तिः" इतिसूत्रे परस्ताच्छब्ददर्शनाद्वान्तरत्वमि- त्यपास्तम् । परस्ताच्छब्देनागमत्वमात्रलाभेऽपि वर्णान्तरत्वस्य लाभे उक्तिसम्भवाभावात् । यदपि नारदीयाशक्षायाम्- अनन्त्यश्च भवेत्पूर्वो ह्यन्त्यश्च परतो यदि । तत्र मध्ये यमस्तिष्ठेत्सवर्णः पूर्ववर्णयोः । सवर्णः सदृशः। द्वित्वमपि विवक्षितम् । यज्ञ इत्यादौ जकार- यसत्त्वेऽपि “ज्मया अत्र वसवो रन्तिदेवा" इत्यादौ जकारद्वया- भावादिति तयाख्यातार इति, तदप्यकिञ्चित्करम् । आगमे आ- गमिवृत्तिवर्णत्वव्याप्यजात्यभाववत्त्वरूपस्य वर्णान्तरत्वस्य त- तोऽनवगमात् सावर्ण्यस्य गुणभेदेनैव निर्वाहात् । औद. बजिसूत्रेऽपि गुणत्वस्यैव अशरीरं यम माहुः इति गौतमशिक्षायाश्चार्थस्तैरेवोक्तः। अशरीरं स्वरभक्त्यादिवद्- लाभात् ।

- २१६ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये व्यअकलिपिविशेषशून्यम् । लक्षणवशेनैव तदीयस्थलविशे- पनिश्चयसम्भवाल्लिपिसम्पदायप्रवर्तकाचार्यैः स्वरभक्तरिव थ. मस्यापि व्यञ्जकीभूता लिपिर्न कल्पितेति यावत् । “रलयो- रूष्मणि परे मध्ये स्वरभक्तिः" इति शिक्षादिप्रसिद्धः। यत्र तु नैवंविधलक्षणेन स्थलावधारणं कर्तुं शक्यते, त- जागत्या लिप्यन्तरं प्रवर्तितम् , यथा विसर्गादाविति । न त्वे- तावता वर्णान्तरत्वसिद्धिः । अन्वयदृष्टान्ते वर्णान्तरत्वेऽपि व्य- तिरेकदृष्टान्ते तदभावात् । अन्यथा तदनुक्त्या शिक्षादौ विभा. गस्य न्यूनत्वापत्तेः । यदपि पाणिनीयाशिक्षायाम्- त्रिषष्टिश्चतुःषष्टिा वर्णाः सम्भवतो मताः । प्राकृते संस्कृते चापि स्वयं मोक्ताः स्वयम्भुवा ।। स्वरा विंशतिरेकश्च स्पर्शाः स्युः पञ्चविंशतिः । यादयश्च स्मृता ह्यष्टौ चत्वारश्च यमाः स्मृताः ॥ अनुस्वारविसौं च क पौ चापि पराश्रयो । दुस्पृष्टश्चेति विज्ञेया लकारः प्लुत एव च ।। तत्र अइउऋवर्णानां इस्वदीर्घप्लुतभेदात् द्वादश,लकारस्य इस्व एव, एचा दीर्घप्लुतभेदादष्टाविति अचामेकविंशतिः । स्पर्शाः कादयो मावसानाः । यरलवशषसहेत्यष्टौ । यमाश्चत्वा- रः। प्रथमत्वद्वितीयत्वतृतीयत्वचतुर्थत्वोपाधिभेदात् । अनुस्वा- रादयश्चत्वारः स्पष्टाः । दुस्पृष्टस्तु बाच्ये प्रसिद्धः । एवं त्रिषष्टिः, लकारस्य प्लुतत्वसम्भवात्तेन सह चतुःषष्टिरिति । अत्र यमानां पृथग्गणनात् स्पष्टमेव वर्णान्तरत्वमिति, तदप्यसत् । न ह्यत्र एकसंख्येयवृत्तिवर्णत्वव्याप्यजात्यभाववत्वं संख्येयान्तरस्य नियतम् । इस्त्राग्रकारादौ तादृश्या अत्वादिजाते.

प्रथमपादे गुणवृद्धिप्रतिषेधाहिकम् । ४। २१७ सवांत् । तथा च कुत्रचिज्जातिभेदेन कुत्रचिद् गुणभेदेन गणनस्यान दर्शनात् यमांशेऽपि कादिवृत्तिनात्यभावे प्रामाण्यम- स्त्येवेति वक्तुमशक्यत्वात् । न चैवं यादीनामष्टत्वानुपपत्तिः, यवलानां गुणभेदेन द्वैवि- ध्यादिति वाच्यम् । तत्रोभयसाधारणजातेरेव विभाजकत्वेना- भिमतत्वात् । स्वतन्त्रेच्छस्य महर्षेनियोगप्रत्यनुयोगानहत्वात् । तात्पर्यस्य चोक्तरीत्या विघटितत्वात् । तस्माद्विवरणमतमेव रमणीयमिति सूक्ष्ममीक्षणीयम् । तुल्यास्यप्रयत्नं सवर्णम् । ताल्वादिस्थानमाभ्यन्तरप्रयत्नश्चेत्युभयं ययोर्वर्णयोस्तु- त्यं तयोः परस्परं सवर्णसंज्ञा स्यात् प्रदेशाः अकः सवर्णे दीर्घः" इत्यादयः । उत्तरपदे द्वन्द्वगर्भः, तत्पुरुषगर्भः, पूर्वपदे तत्पुरुषगर्भः, त्रिपदो वा बहुव्रीहिरिति चत्वारोऽत्र पक्षाः। तत्राद्यो व्याख्यातः । आस्यं च प्रयत्नश्च आस्यप्रयनौ तौ तुल्यावस्येत्यर्थस्योक्तेः । आस्ये प्रयन आस्यप्रयत्नः । न च "अमूर्द्धमस्तकात्स्वाङ्गादकामे" इति सप्त- म्या अलुगापत्तिः । तद्धितान्तस्यास्यशब्दस्य स्वाङ्गमात्रवा- चित्वाभावात् । स तुल्योऽस्येति द्वितीयः । तुल्य आस्ये तु- ल्यास्यः, मयूरव्यंसकादित्वात्साधुः । तादृशः प्रयत्नो यस्येति तृतीयः । तुल्य आस्ये प्रयत्नो यस्येति चतुर्थः । अनेकपदो- पादानसामर्थ्येन त्रिपदस्यापि बहुव्रीहेरङ्गीकारात् । तुल्यशब्द- स्य तुलया संमित इति व्युत्पत्तावपि सदृशमात्रे रूढिः, प्रवी- गादिवत् । २८ २१८ व्याकरणासिद्धान्तसुधानिधी प्रथमाध्याये आस्यशने च नानाविधा व्युत्पत्तिः । अस्यन्ते उचार्यन्ते वर्णा अनेनेत्यास्यम् । बाहुलकात्करणे ण्यत् । यदा-आस्थन्दतेज प्राप्य द्रवीभवतीत्यास्यम् । “अन्येष्वपि"इति डः । भय वा अभेन द्रवीक्रियते इत्यास्यम् । अन्तर्भावितण्याकर्मणि हः । स्यादेतत् । एवमनियतावयवार्थप्रदर्शनपरेण भाष्येणास्य- शब्दस्य मुखे रूढिर्विवक्षिता । तथा च रूढर्बलवत्वाद् अवय. वार्थमात्रेण ताल्वादीनां ग्रहणं न सम्भवति । “लौकिकमास्यम् ओष्ठात्प्रभृति प्राकाकलकात्"इति भाष्योक्तेः । एवं च तदुपा- दानं व्यर्थम् । सर्ववर्णानामास्यएव निष्पत्तेः । न च नासिक्येषु व्यभिचारः। नासिका हि न बाधा वर्णोत्पत्तौ निमित्तम्, तत्र जिहाग्रादिसंयोगाभावात्, किं तर्हि आस्यान्तश्चर्म विततम- स्ति, तत्सम्बद्धा रेखा नासिका, तस्यां वायवभिघाताद्वर्णोत्प- त्तिरिति सिद्धान्तात् । विसर्गस्य कैश्चिदुरःस्थानस्वीकारेऽपि तस्य सावाभावेऽपि दोषाभावात् । प्रयत्नमात्रसाम्यविवक्षा- यां च जबगडदानां स्पृष्टप्रयत्नसाम्यात्सावापत्तिः । भाष्ये शकारस्याप्युपादानं तु संपातायातम् । विवृतत्वेन प्रयत्नभेदात् । ततश्च ऊर्ज इत्यादौ "झरो झरि सवर्णे" इति लोप: स्यात् । ऊर्गनम् । “पश्चम्यामजातौ" इति डः । एवं प्राप्ते न्यासभेदेन सिद्धान्तमाह वार्तिककारः- सिद्धन्वास्ये तुल्यदेशप्रयत्नं सवर्णम् इति । अस्यार्थः-आस्ये येषां तुल्यो देशः प्रयत्नश्च ते सवर्णसंज्ञाः। उक्तस्थले तु देशभेदानातिव्याप्तिः। आस्येति प्रयत्नविशेषणार्थ- म् । तेन बाह्यप्रयनव्यावृत्तिः। तथा च देशांशे तस्य वैयर्थेऽपि न क्षतिः । बाह्यप्रयत्राश्च विवारादयो महामाणान्ता अष्टौ भाष्ये कण्ठोक्ताः ।

प्रथमपाद गुणवृद्धिमतिपाहिकम् । ४ । २१९ नम्वेवमध्यकारस्य सवर्णसंज्ञा न स्यात्, काकलकस्याध- स्तादुपजत्रुस्थानमवर्णस्येति कैचिदङ्गीकारात्, सस्य चोक्तास्य- बहिर्भावात् । मैवम् । सर्वमेव मुखमवर्णनिष्पत्तौ व्याप्रियत- इत्यभ्युपगमात् । न च तथाऽपि तस्यास्यमेव देशो न त्वास्ये देश इत्युक्तानुपपत्तिसाम्यम् । व्यपदेशिवद्भावेन सिद्धेः । आ- स्यशब्दस्य सर्वावस्थाविशिष्टास्यपरत्वात् । देशशब्दस्य तु अ. वर्णोत्पत्तिहेत्ववस्थाविशिष्टतत्परत्वादिति । भाष्यकारास्त्वाहुः- आस्ये भवमास्यम् , शरीरावयवा- यत् । “हलो यमाम्" इति यलोपः। न चाल्लोपस्य स्थानिवत्त्वम्। यलोपे तनिषेधात् । तथा चास्यपदादेव स्थानलाभे सूत्रभङ्गो न युक्तः । न च बाह्यप्रयत्नभेदे सावानापत्तिः । प्रारम्भो यत्नस्य प्रयत्न इति व्युत्पत्त्यैव तद्यावृत्तेः । बाह्यानां वर्णोत्पत्तिपश्चाद्भा. वित्वस्य वक्ष्यमाणत्वात् । अस्तु वा प्रयत्नपदं यथाश्रुतमेव । बाह्यभेदेऽप्याभ्यन्तर- साम्येन सावर्ण्यसिद्धेः । यावत्प्रयत्नसाम्यविवक्षायां प्रयोजना- भावात् । स्थानैक्ये सति यत्किञ्चित्प्रयत्नसाम्यस्यैवानतिप्र- सक्तत्वात् । न चैवमपि अवर्णस्य एडोश्च सावर्ष्यापत्तिः । पां- सूदकवद्भागज्ञानाभावात् । न चैचोस्तेन सावर्ष्यापत्तिः, तत्र भागविवेकस्य सुस्थत्वादिति वाच्यम् । तयोरवर्णस्य विवृततर. त्वात् एडामैचां च स्थानभेदादेव तदनापत्तेः । “एओ” इत्या. दिसूत्रे पृथगनुबन्धसामर्थ्यादैचोः पृथनिर्देशाच्चेति तत्रैवोक्तम् । एतेन ऐचावपिं व्याख्यातौ । स्थानभेदाच । न च तथाऽप्युदात्तानुदात्तानां सावर्ण्य न स्यात् , प्रयत्नभे दादिति वाच्यम् । स्वरूपमात्रसतां गुणानामभेदकत्वमिति स्वी. कारान् ।

२२० व्याकरणसिद्धान्तसुधानिधी प्रथमाध्याये यत्तु भाष्यकारस्य प्रौढिमात्रमेतत् । तथा हि- एजवयवा. वर्णेन सह सावर्ण्यमापाद्यतउत एभिरेव । नायः। गव्यं नाग्य. मित्यत्र “यस्येति च" इति लोपापत्तिरितिकैयटविवरणादिग्रन्थ- विरोधात् । उत्तरभागेन व्यवधानात् । कर्तृणामित्यादौ णत्वार्थ "व्यवायेऽपि" इति योगविभागस्य भाष्यकारैरेवोक्तत्वात् । न चोत्तरभाग एवावर्णसदृश इति वाच्यम् । अग्ने एहीत्यादौ पूर्वरूपस्य भाष्यएवापादितत्वात् तद्विरोधात् । जात्यन्तरत्वस्यैव तत्र सिद्धान्तितत्वाच । नान्त्यः । प्रश्लिष्टावर्णावित्यादिहे. त्वनुपपत्तेः । हेत्वन्तरस्यैव वाच्यत्वात् । अत एव इवोवर्ण- योरेचश्च न सावर्ण्यमिति । तत्रेदं वाच्यम्- किमवयवस्य सावर्ण्यमिति शङ्कचा- त्रानवकाशा । अवर्णस्य एडोश्च सवर्णसंज्ञा प्रामोतीति स्पष्टमेव भाष्ये उक्तत्वात् । ननु सन्ध्यक्षरेषु प्रथमभाग- स्याकारेण सादृश्यात्सवर्णसंज्ञाप्राप्तिरिति कैयटोक्तायामापात. निकायां तथा प्रतीयतइति चेन्न । तद्द्वाराऽप्यवर्णस्य सादृश्य- मस्तीति तद्भावमुक्त्वा नाव्यमित्यत्र यस्येतिलोपापत्तेः तदुक्ताद्यविवरणएव सङ्गमितत्वात् । तथा च कैयटायुक्तयस्ये- तिलोपप्रसङ्गविरोधेन भाष्यस्य प्रौढिवादत्वमुपपादयता कैयटो- तापातनिकाया अवर्णपरत्वस्य शङ्कितुमप्यशक्यत्वात् । पश्लि टावर्णाविति हेत्वनुपपत्तिस्तु एडशे ऐजशे वा । नान्त्यः। एडो- चेति प्रक्रम्यैव तदुक्तेः । ऐजंशे विवृततरावर्णावेताविति हेत्व- न्तरस्यैवोक्तत्वात् । नायः। तत्रावयवस्य पृथक्त्वेन ग्रहो ना. स्तीति हेतोः सुस्थत्वात् । ऐचोस्तु स्फुटोऽकारस्य प्रतिभासो. ऽस्तीति प्रत्याहाराह्निके भाष्यकैयटयोरेव स्थितत्वात् । एतेन तदवयवाकारस्यापि सावर्ष्यापत्तिनिरस्ता । एवमिकारोकारयो- , प्रथमपादे गुणवृद्धिप्रतिषेधाह्निकम् । ४। २२१ रपीति बोध्यम् । तथा च तत्र भाष्यम् - यदत्रावर्ण विकृततरं तदन्यस्मादवर्णात् ये अपीवर्णोवणे विवृततरे ते अन्याभ्यामिवर्गोवर्णाभ्यामिति । कैयटेनाप्युक्तम्- तदेवमाकारादिस्थस्यावयवस्य भेदेना- ग्रहणादग्रहणम् , सन्ध्यक्षरस्थस्य त्वसावात् , ऋकारस्थस्तु भेदेन प्रतिभासाद् गृह्यतइति नुडादिसिद्धिरिति । आकारादीत्यादिपदमेपरम् । सन्ध्यक्षरपदमैचपरम् । गृ- यते रेफग्रहणेनेत्यर्थः । नन्वेवमवयवीभूताकारस्य सावर्ष्यापत्तिपरिहारेऽपि एर्चा तदापत्तौ समाधानानुक्तितादवस्थ्यमेवेति चेद्,मैवम्।तर्हि एचाम् अकारेण सावर्ष्यापत्तिरेव नास्तीत्युच्यताम्, कृतं समाधानानु- क्त्युद्भावनेन । अवयवसावर्ण्यद्वारा तेषां सावापत्तिरस्तीति चेत्, तर्हि तत्परिहारद्वारा तेषां तत्परिहार इति सुस्थम् । तदे- व द्वन्द्वगर्भबहुव्रीहिपक्षो व्याख्यातः । ननूत्तरस्मिन्पक्षत्रये तुल्यपदस्य आस्यपदेन समन्वयाभा- वाद्भिन्नस्थानानामपि प्रयत्नसाम्यात्सावर्ण्य स्यात्, मैवम् । तद्धितान्तास्यपदोपादानसामर्थ्यादास्यइत्येकत्वविवक्षायामेक- स्मिन्नेव स्थाने ययोस्तुल्यः प्रयत्न इत्यर्थलाभात् । अन्यथा स्थानानामास्यवृत्तित्व नियमादास्यपदेनैव सर्वस्थानलाभे स्था- नभेदेऽपि प्रयत्नैक्यमित्यर्थस्य सिद्धेः । नन्वेवमपि अन्येन सह तुल्यस्थानप्रयनस्यान्येन सावणे स्यात्, प्रतियोगिविशेषस्यानुपात्तत्वात्, तद्वारणाय इति वक्तव्यम्, यो यस्य तुल्यस्थानप्रयत्नः स तस्य सवर्ण इ- त्यर्थलाभादुक्कातिप्रसङ्गसमाधानात्, मैवम् । तथा सति सवर्ण- संझाविधानवैयर्थ्यात् । सर्वेण सह सर्वस्य सावर्ण्यप्रसङ्गे च तस्य २१२ व्याकरणसिद्धान्तमुपानिधी प्रथमाध्याये ध्यावालाभात् । न च रेफोमणां किञ्चिभिरूपितसावाभा- वात्तमित्यर्थतया सार्थक्यम् । स्वनिरूपितसावर्ण्यस्य तत्रापि स्वीकारात् । रेफोष्मणां सवर्णा न सन्तीति मवादस्य विजा. तीयसवर्णाभावपरत्वात् । वस्तुतस्तु तुल्यशब्दस्य ससम्बन्धिकत्वादेवोक्तार्थसिद्धिः। "पिता शुश्रूषितव्यः' इत्यादौ यनिरूपितं पितृत्वं तस्यैव शुश्रूषकत्वलाभात् । अत एव "तुल्याय कन्या देया" इत्यादी यज्जात्यवच्छिन्ननिरूपितकन्यात्वं तज्जात्या तुल्यत्वं सम्प- दानस्य लभ्यते । स्थानग्रहणं किम्, कचटतपानां मा भूत् । स्पृष्टभयनस्य तुल्यत्वात् । अन्यथा ततॆत्यत्र " झरो झरि सवर्णे" इति पलो. पः स्यात् । प्रयत्नग्रहणं किम्, चकारशकारयोर्मा भूत् । तालु- स्थानस्य तुल्यत्वात् । स्पृष्टावितप्रयत्रभेदात्तु नातिव्याप्तिः । अ- न्यथा वाश्च्योततीत्यत्र पूर्वसूत्रेण शकारलोप: स्यात् । अत एवाभ्यन्तरत्वविशेषणस्यापि सार्थक्यम्। अन्यथा श्वासाघोषवि- वाराख्यबाह्यमयवत्रयसादृश्यसत्वादतिव्याप्तितादवस्थ्यात् । स- प्रयवसाम्यविवक्षायां कङयोरपि बाह्यप्रयत्नभेदादङ्कित इत्या. दौ परसवर्णाद्यभावापत्या तस्याश्रयितुमशक्यत्वात् । चकारश- कारयोरल्पमाणमहापाणरूपबाह्यमयन्त्रभेदस्याकिश्चित्करत्वात् । किं च "झरो झरि" इत्येवोक्ते "हलो यमा यमि" इतिवत् यथासंख्यापत्तौ शिण्डीत्यादौ डलोपो न स्यादिति तत्र सवर्ण- पदग्रहणं कृतम् । यावत्मयवसाम्यविवक्षायां च डढयोरप्यल्प- माणमहापाणरूपमयत्रभेदेन सावानुपपत्या डलोपाभावता- दवस्थ्ये सवर्णपदमपि व्यर्थ स्यात् । वस्तुतस्तु अभित्था इत्यादौ सकारकोपार्यतया तत्र सवर्ण प्रथमपादे गुणवृद्धिप्रतिषेधाहिकम् । ४। २२३ पद सार्थकमेव। सकारयकारयोर्महामाणत्वेनापि साम्यात् । कि- स्तु निश्छम् निष्ठुरम् निस्स्थानम् मधुलिद् स्थानम् इत्या- दावपि लोप: स्यादिति बोध्यम् । अथ तथापि सद्धितान्तास्यशब्दवलादेव स्थानप्रयनोभय- लाभसम्भवात् प्रयत्नपदं व्यर्थम्, ताल्वादिस्थानवत् प्रयत्नस्या- प्यास्यभवत्वादिति चेन्न । प्रत्येकव्यापारानिरासार्थसुभयोरुपा- दानात् । तेनोभयसाम्ये सत्येव सावर्ण्यम् । न त्वन्यतरमा- त्रसाम्येऽपीति न दोषः। अथ स्थानप्रयत्नविवेक:-- अकुहविसर्जनीयानां कण्ठः । इचुयशानां तालु । ऋटुरषाणां मुर्दा । लुतुलसाना दन्ताः । उपू- पध्मानीयानामोष्ठौ । एदैतोः कण्ठतालु । ओदौतोः कण्ठोष्ठम् । बकारस्य दन्तोष्ठम् । जिह्वामूलीयस्य जिह्वामूलम्. । नासिका- ऽनुस्वारस्य । केचित्तु वर्गपञ्चमानां स्वस्ववर्गापेक्षया नासिकास्थानमधि- कमित्याहुः । अन्ये तु- अनुस्वारयमानां च नासिकास्थानमिष्यते । इति पाणिनीयशिक्षाग पञ्चमानां नासिकास्थानानुक्तेर्न तथेत्याहुः । तदने विचार्यम् । यत्रो द्विधा- आभ्यन्तरो बाह्यश्च । आद्यश्चतुर्दा । स्पृष्टे- पत्स्पृष्टविकृतसंकृतभेदात् । स्पृष्टं प्रयतनं स्पर्शानाम् । ईषत्स्पृ. ष्टमन्तस्थानाम् । विकृतमूष्मणां स्वराणां च । इस्वस्यावर्णस्य प्र. योगदशायां संवृतत्वम्, प्रक्रियादशायां तु विवृतत्वं प्रतिज्ञाय- नइति पागुक्तम् । आभ्यन्तरत्वं चैषां वर्णोत्पत्तिपूर्वभावित्वात् । तथा हि-नाभिप्रदेशात् प्रयत्नप्रेरितः प्राणवायुरूद्धमाकाम- मुरम्ममृतीनामन्यतमे स्थाने प्रयत्नेन विधार्यमाणः स्थान- २२४ व्याकरणसिद्धान्तसुधानिधी प्रथमाध्याये माहन्ति, ततो वर्णस्य तब्यञ्जकध्वनेर्वोत्पत्तिः । तत्र वर्णोत्पते: पूर्व जिहाग्रोपायमध्यमूलानां तत्तत्स्थानैस्तावादिभिः सह यदा सम्यक् स्पर्शः तदा स्पृष्टत्वम्, ईषत्स्पर्शे ईपत्स्पृष्टत्वम्, सामी- प्यमाने संवृतत्वम्, दूरत्वे तु विकृतत्वमिति । इदं चात्र तत्त्वम्- अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । निहामूलं च दन्ताश्च नासिकोष्ठौ च तालु च ॥ सोदीर्णो मूद्ध्न्यभिहतो वक्रमापद्य मारुतः । वर्णाञ्जनयते, इत्यादिशास्त्रपर्यालोचनया अवच्छेदकता- सम्बन्धेन वर्ण प्रति तादात्म्यसम्बन्धन हेतुत्वं स्थानत्वमिति लभ्यते । अवच्छेदकता च कण्ठे अकार इत्याभियुक्तमतीति. नियामकः स्वरूपसम्बन्धविशेषः, भेर्या शब्द इत्यादिवत् । न हि तिष्ठन्त्यस्मिन्स्थानमिति व्युत्पत्त्या तदतिरिक्तः सम्बन्धो वक्तुं शक्यः । उत्पत्तिपक्षे वर्णानामाकाशसमवेतत्वात्, अभि- व्यक्तिपक्षे च विभुत्वादत्तित्वात् । एतेन "आस्ये तुल्य- देशप्रयत्नम्" इत्यधिकरणत्वबोधकदेशपदगर्भ वार्तिकमपि व्याख्यातम् । करणपदं च किं पुनरास्ये भवं स्थानं करणं चेति भाष्य- मुपादाय स्पृष्टतादिजिहाग्रमध्यमूलानि वेति कैयटेन व्याख्यात- म् । तत्राद्यं स्पृष्टप्रयत्नेत्यादि व्यवहाराभिप्रायम् । न तु ता- विकम् । तथाहि- जिहाग्रादिप्रतियोगिकताल्वादिसंयोगस्य स्पृष्टादिपदात्मतीयमानस्य करणत्वमनुपपन्नम्।व्यापाररहितत्वात् । न हुक्तसंयोगेन किश्चित् जनयित्वा वर्णा जन्यन्ते । मानाभावा- त् । एतेन तदभिव्यञ्जको ध्वनिरपि व्याख्यातः । जिहाग्रादीनां तु यथोक्तसंयोग व्यापारमाश्रित्य युक्तमेव करणत्वम् । आ. स्ममनःसयोगेनात्मनो ज्ञानकरणत्वस्य, चक्षुर्घटादिसंयोगेन च- प्रथमपादे गुणवृद्धिप्रतिषेधाहिकम् । ४। २२५ क्षुरादीनां चाक्षुषादिकरणत्वस्य व प्रसिद्धत्वात् । अत एव काष्ठायपिघातस्य कत्वं फसाक्षात्कारत्वं वा कार्यतावच्छेदकमि- ति तान्त्रिकाणामुद्घोषः । अत्रावच्छेदकता कार्यतावच्छेदका सम्बन्धा, समवायस्तु कारणतावच्छेदकः । भवति चावच्छे. दकतया वर्णवति ताल्वादौ समवायेन जिहाग्रादिसंयोगः । एवं संयोगसम्बन्धन जिहाग्रादीनां हेतुत्वम् । म चैवं कर- क्यापत्तिः । यद्वर्णोत्पत्तौ यत् स्थानमवच्छेदकं तदनुयोगि- कजिवाग्रादिसंयोगस्य तत्र व्यापारतया तद्भेदेन करणतानां भेदात् । एवं च यद्येवं प्रयत्नग्रहणं न कर्त्तव्यम्, तस्याप्या. स्यभवत्वात्, सत्यमेतत्, प्रत्येकं तु व्यापारनिरासार्थमुभयो. रुपादानम्, तेम द्वयोस्तुल्यत्वे सवर्णसंज्ञा भवतीतिग्रन्थोत्था- नमपि सङ्गच्छते । न ह्युक्तसंयोगस्यास्यभवत्वम् । आस्यसम- बायनिरूपकत्वरूपस्य तस्य तदवयवे ताल्वादावेव सम्भवात् । उक्तसंयोगस्य त्वाझ्यावयचे एव समवेतत्वात् । यद्यपि जिह्वाग्रादीनामपि न साक्षादास्यसमवायानरूप. कत्वम्, जिह्वयैव सह तेषामवयवावयविभावात्, तथाऽप्यास्य- निरूपितसमवायनिरूपकस्वमुभयसाधारणं वाच्यम् । आस्यप्र. तियोगिको यः समवायस्तदनुयोगित्वं ताल्वादो, तदनुयोगिजि. हाप्रतियोगिकसमवायानुयोगित्वं च जिहाग्रादाविति । न चैत- त्पूर्वोक्तसंयोगे। जिह्वाग्रप्रतियोगिकसंयोगस्य अधिकस्य दानं विना तत्सङ्ग्रहाभावात् । यदि तु दन्तानां शरीरानवयवत्वात्तदस अह इति विभाव्यते, तदाऽऽस्यप्रतियोगिकेत्यत्र समवायस्थाने साक्षात्सम्बन्धेति वाच्यम् । संयोगसमवाययोरेव तथात्वात् । पक्षान्तरेऽप्येवमेव वाच्यत्वाच । तस्माद्यथोक्तमास्यभवत्वं तद्धि- तान्तस्य आस्यपदस्य लक्ष्यतावच्छेदकमिति शाऽर्थः । २९ २२६ व्याकरणसिद्धान्तमुपानिधौ प्रथमाध्याये प्रत्येकसाम्ये सवर्णत्ववारणाय पृथक्मयत्नग्रहणावश्यकत्वे ध आस्यपदस्य न यथोक्तं लक्ष्यतावच्छेकम् , मानाभावात्, किं तु स्थानमात्रसाधारणम् । संग्राह्यानुरोधेनैव वृत्तिस्वीकारात् । वस्तुतस्तु आस्यसमवायनिरूपकत्वं लक्ष्यतावच्छेदकस- म्बन्धः । लक्ष्यतावच्छेदकं तु अवच्छेदकतासंबन्धावच्छिन्नव- निष्ठकार्यत्वप्रतियोगिककारणताशालित्वमेव । अन्यथा आ- स्वरूपादौ तदवयवान्तरे च तस्यातिप्रसक्तत्वात् । प्रकृतमनुसरामः । बाह्यप्रयत्नास्त्वेकादश-विवारः संवारः श्वासो नादो घोषः अघोषः अल्पप्राणो महाप्राण उदात्तः अनुदात्तः स्वरितश्चेति । एते च वर्णोत्पत्त्यनन्तरं मूनि प्रति- घातानिवृत्ते प्राणे जायन्त इति बाह्या उच्यन्ते । वायुना कण्ठे अभिहन्यमाने मलबिलस्य विकासाद्विवारः । तत्संकोचात् सं. धारः। अत एव दूरसमीपावस्थानात्मकाभ्यामाभ्यन्तरवितृत- संवृताभ्यामनयोर्भेदः । अन्येषां स्वरूपमाह न्यासकारः- संवृते गलबिलेऽव्यक्तः शब्दो नादः, विद्वते श्वासः । उपरिवर्तिनौ श्वासनादावनुप्रदानमिति केचिदाचक्षते । वर्णनि- पत्तेरनु पश्चात्प्रदीयते इत्यनुप्रदानम् । अन्ये तु ब्रुवते-अनुप्रदानमनुस्वानम् । घण्टानि दव- स्थानाभिघातजे ध्वनौ नादोऽनुमतीयते, तदा नादध्वनिस- ङ्गाद् घोषो जायते । यदा श्वासोऽनुप्रदीयते, तदा श्वासध्वनि- सङ्गादघोषः । महति वायौ महाप्राणः । अल्पे वायावल्पप्राणः । यदा सर्वाङ्गानुसारी प्रयत्नस्तीवो भवति, तदा गात्रस्य निग्र- हः,. कण्ठविवरस्य चाणुत्वम्, स्वरस्य च वायोस्तीव्रगति- त्वाद्रौक्ष्यं भवति, तमुदात्तमाचक्षते । यदा तु मन्दः प्रयत्नो भव- ति तदा गात्रस्य संसनम्, कण्ठबिलस्य महत्त्वम्, स्वरस्य प्रथमपादे गुणवृद्धिमलिषेधाहिकम् । ४ । २२७ - वायोर्मन्दगतित्वात् स्निग्धता भवति, तमनुदात्तमाचक्षते । उ- दात्तानुदात्तसंनिकर्षात्स्वरितगुण इति । एषाश्च सवर्णसंज्ञायामनुपयोगेऽपि आभ्यन्तरत्वविशेषण- व्यावय॑तयोपस्थितत्वादान्तरतम्यपरीक्षावामुपयोगाचात्र व्यु- त्पादनमिति न दोषः । तदयं संग्रहः- खरः क पौ विसर्गश्च श्वासाघाषविवारकाः । हानुस्वारझशन्तस्था घोषवन्नादसंवृताः॥ जधयोऽल्पासवोऽन्तस्था महाप्राणाः परेऽखिलाः । पञ्चमा जश्वदेव स्युरनुनासिकताऽधिकाः ॥ अयमर्थः-वर्गाणां प्रथमा द्वितीयाः शषसाश्च खरः, जिह्वा- मूलीयोपध्मानीया विसर्गाश्च श्वासाघोषविवारप्रयत्नाः । हकारा- नुस्वारौ वर्गाणां तृतीयचतुर्था यरलवाश्च घोषनादसंवारप्र- यत्नाः । वर्गाणां तृतीयप्रथमा यरलवाचाल्पप्राणाः । अन्ये सर्वे महापाणाः । वर्गपञ्चमास्तु तत्तर्गतृतीयतुल्यप्रयत्नाः । अ- नुनासिकत्वं पुनरेषामधिको गुण इति । स्यादेतत् । उदात्तादीनां त्रयाणां कथं बाधत्वम् । तत्र वि. वारादीनामष्टानामेव भाष्ये पठितत्वात् । उदात्तादीनां साव- र्ण्यप्राप्त्यभावमाशय गुणानामभेदकत्वेन परिहृतत्वाच्च । उ- दात्तादीनां बाह्यत्वे च तत्साम्याभावेन सावाभावस्यापाद- यितुमशक्यत्वात् । अभेदकत्वपक्षानुसारवैयांचेति चेन्न । य- घप्युदात्तादीनां बाह्यत्वमुक्तम्, तथाऽप्यभ्युपेत्याभ्यन्तरत्वशङ्के- ति विवरणकारैरेवोक्तत्वात् । “विवारादय एकादश प्रयत्नाः इति कैयटोक्तेश्चेति दिक् । अत्र केचित्-आभ्यन्तरत्वमभ्युपगम्यापि सावाभाव- शङ्कापरभाष्यमनुपपन्नमेव । उदातादिरूपप्रयत्नभेदेऽपि विवृतरूप- २५८ व्याकरणसिद्धान्तसुधानिधी प्रथमाध्याये तदैक्यात्सायोपपत्तेः । यावत्ययस्मैक्यविवक्षायां च बाह्यम- यत्नसाम्येऽप्याभ्यन्तरमयनभेदे सावण्य मा भूदित्येतदर्थमाभ्य- म्तरग्रहणमित्याकरविरोधात् ।आपत्तिस्थले यावत्प्रयनैक्यविरहा. तदनुपपत्तेः । तदर्थकप्रपाब्दधैपर्थ्याच्च । स्थानेऽन्तरतमसूत्र- स्थभाष्यादिबलात् शकारादिवर्गद्वितीयचतुर्थानामप्यूष्मत्वम- तीत्या विकृतमूष्मणामिति वाक्येऽपि तद्हणस्य दुर्वारतया स्पर्शवितोभयप्रयत्नानां धर्गद्वितीयचतुर्थीनां केवलस्पृष्टप्रयत्रा- न् वर्गप्रथमतृतीयान् अपेक्ष्य प्रयवाधिक्येन सावयाभावे "चोः कुः" इत्यादौ तहणानुपपत्तेश्च । ककाराद्यपेक्षया डका- रादीनां नासिकास्थानाधिक्यात्सावानापत्तश्च । प्रयत्नवत् स्थानेऽपि यावत्वस्य विवक्षणीयत्वापत्तेः । वैषम्ये धीजाभावात् । अस्मन्मते तु यावत्वाविवक्षायां प्रमाणाभावान्नासिकास्था- नसाम्येन जमडणनानां परस्परं सावर्षे त्वनयसीत्यादौ पर्या- येण पक्षे “ वा पदान्तस्य " इति आदयः प्रवर्तन्ते इति । अत्रेदं वक्तव्यम्- अयं ह्याकराभिप्रायः । आभ्यन्तरत्वम- नन्तर्भाव्य प्रयवसाम्याववक्षायां यो वर्णो यद्वर्णसमानस्थान- कत्वे सति यवर्षसमानप्रयत्नकः स तस्य सवर्ण इति फलितम्। तत्र प्रयत्ने यावत्वं विवक्षितं न वा । नाद्यः । प्रथमतृती- यानां द्वितीयचतुर्थानां च सावानुपपत्तेः । अल्पप्राणमहा- माणत्वाभ्यां भेदात् । मान्त्यः । खकारहकारादेः सावर्ण्यप्र- सङ्गात् । कण्ठ्यत्वान्महामाणत्वाच । एवमन्यत्राप्यापाद्यम् । यदि त्वाभ्यन्तरप्रयत्नसाम्यमपि निवेश्यम्, ततस्तेनैवानतिप्रस- के बाह्यप्रयत्नसाम्यनिवेश एव व्यर्थोऽप्रसङ्गसम्पादकश्चेति । एवं चास्यभवत्वमात्रेण बाह्यव्यावृत्तिविरहादाभ्यन्तरमात्रलाभाय प्रशन्दविशिष्टयत्नपदोपादानमावश्यकमिति ।

प्रथमपादे गुणवृद्धिप्रतिषेधाह्निकम् । ४। २२९ आस्यपदं स्थानमात्रपरम् । प्रयत्नपरत्वे प्रयोजनाभा- वात् । तथा च बाह्यप्रयत्नसाम्यस्य सावर्ण्यप्रयोजकत्वं वि- कल्य दूषयत आकरस्य प्रयत्ने यावत्वाविवक्षायां तद्विरहे वा तात्पर्याभावात् । उदात्तादीनामाभ्यन्तरत्वे तद्भेदेनःसावा- भावशङ्कायास्तद्विरुद्धत्वात् । ननु तथाऽपि सिद्धान्ते आभ्यन्तरप्रयत्नस्यैव सवर्णसंज्ञोप- योगेऽपि तत्र यावत्वविवक्षणं किमर्थम् , येनोदात्तानुदात्ता- दीनां सावाभावशङ्का स्यात्, तद्वर्णसमानस्थानत्वे तद्वर्ण- स्याभ्यन्तरप्रयत्नवत्त्वे च सति तद्वर्णवृत्त्याभ्यन्तरप्रयत्नान्त- रवतो व्यावर्त्यवर्णस्याभावात् , उदात्तानुदात्तादीनां तु साव- मेस्येष्टतया व्यावय॑त्वायोगात् , इति चेन्न । देवदत्तयज्ञदत्तौ तुल्यधनावित्यादावसति बाधकेऽन्यूनानतिरिक्तत्वस्यैव धनादौ प्रतीत्या तस्यौत्सर्गिकतया विवक्षानधीनत्वात् । राजमन्त्रिणौ तुल्यावित्यादौ तु प्रत्यक्षादेर्बाधकत्वात् । अत एवोक्तं भाष्ये- किं सति भेदे, सतीत्याह । सत्येव हि भेदे सवर्णसंज्ञया भवितव्यम् । कुत एतत्, भेदाधिष्ठाना हि सवर्णसंज्ञा । यदि हि यत्र सर्व समानं तत्र स्यात् सवर्णसंज्ञाविधानमनर्थकं स्यात् इति। अस्य ह्ययमर्थः- आस्यपदेन बाह्यप्रयत्नस्यापि संग्रहे या. वाद्याभ्यन्तरप्रयत्नसाम्यं सवर्णसंज्ञानिमित्तम् इति लभ्येत, ततश्च स्वस्यैव स्वसावये स्थान तु वर्णान्तरस्येति संज्ञावैयर्थ्य- म् । तत्परिहाराय विधानसामर्थ्यादौत्सर्गिकार्थत्याग इति । अत एव सति सङ्कोचे किश्चिन्मात्रसाम्येऽपि स्यादि- त्याशङ्कापरः “ यदि तर्हि सति भेदे किञ्चित् समानमिति कृत्वा सवर्णसंज्ञा भविष्यति शकारच्छकारयोः षकारठकारयोः सकारथकारयोः सवर्णसंज्ञा पामोति, एतेषां हि सर्वमन्यत् २३० व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये समानं करणवर्जम्" इति ग्रन्थः सङ्गच्छते । श्वासाघोषवि- वारमहापाणरूपबाह्यप्रयत्नचतुष्टयस्य ताल्वादिस्थानस्य च तु- ल्यत्वात् । आभ्यन्तरप्रयत्नस्तु शरां विवृतत्वम् , छादीनां तु स्पृष्टत्वमिति भेदः। एवं च प्रयत्नपदेनाभ्यन्तरस्य तस्यास्यपदेन च स्थानमात्रस्योपादाने तु नोक्तदोषः । औत्सर्गिकरीत्या प्रयत्नपदस्य यावदाभ्यन्तरपरत्वं तु दुर्वारस् । बाधक- स्य दुर्वचत्वादिति । उदात्तादीनां तर्हि सवर्णसंज्ञा न मामोतीति शङ्काऽभिप्रायः । अत एव गुणानामभेदक- त्वेनैव निर्वाहे यत्किश्चित्प्रयत्नपरत्वकल्पनयौत्सर्गिकार्थबायो न युक्त इतिपरिहारोपपत्तिः। एतेन "अनुदात्तादेर"इत्यादा- विव भेदकत्वपक्षस्यैव युक्तत्वादित्यपास्तम् । वृद्धयादिसूत्रस्थ- सर्वग्रन्थविरोधात् । “आमुदात्तः" इत्यादिसूत्रविरोधाच । “अ- नुदात्तादेः " इत्यादौ त्वनन्तानुदात्तादिव्यक्तिपरिचायकत्वेन तद्विवक्षा । तावद्यक्तीनां विशिष्य निर्देशासंभवादनुदात्तग्रहण- वैयापत्तेश्च । यत्तु " स्थानेऽन्तरतमे " इत्यादि, तन्न । विकृतमूष्मणा- मित्यत्र हि किं पदे जुहोतीत्यनेन आहवनीये जुहोतीत्यस्येव सामान्यविशेषन्यायेन वर्गद्वितीयचतुर्थानां स्पृष्टत्वं बाधित्वा वि- स्तत्वं विधीयते उत सावकाशनिरवकाशन्यायेन स्पृष्टं प्रयत्न स्पर्शानामित्यस्य प्रथमादिषु सावकाशत्वात् द्वितीयचतुर्थयो. विवृतत्वं विधीयते स यावत्या वाचा कामयीत तावत्या दी- क्षणीयायामनुबयादित्यादिनेव यत्किञ्चित् प्राचीनमग्नीषोमीया. तेनोपांशु चरतीत्यादेः । नाद्यः । सामान्यविशेषभावो हि न विधेयांशे। स्पृष्टत्वविष्टतत्वयोर्विरोधात् । नाप्यनुवाद्यांशे । शकारा- " स्पर्शाः स्युः पञ्च. प्रथमपादे गुणवृद्धिप्रतिषेधाहिकम् । ४ । २३१ दिषु वर्गप्रथमतृतीयेषु च स्पर्शत्वोऽमत्वयोः परस्परात्यन्ताभाव. समानाधिकरणत्वात् । न द्वितीयः । स्पृष्टत्वविधैर्वर्गविषमवर्णे- विव वितत्वविधैरपि ऊष्मसु सावकाशत्वात् । न च द्वितीयच. तुर्थानां स्पर्शत्वमेव नास्तीति वाच्यम् । “ स्पर्शेषु यत्षोडशमे- कविंशम् " इतिभागवतादिविरोधात् । विंशतिः" इतिशिक्षाविरोधाच्च । प्रथमतृतीयपश्चमानां तत्सा. वानापत्तेश्च । न च स्पृष्टत्वमबाधित्वैव वितत्वं विधीयत- इति वाच्यम् । तयोविरुद्धत्वेन समुच्चयानहत्वात् । न हि बाधितमर्थमागमोऽपि षोधयति ” इति न्यायात् इति न कि- श्चिदेतत् । यदप्युक्तम्-कङादीनां सावण्यं न स्यादिति । तत्र केचित् तावदाहुः-वर्गपञ्चमानां नासिका स्थानं न भवति, शिक्षायां यमानुस्वाराणामेव तदुक्तेः, किं तु करणम् । तद्व्यापारेण तदुच्चार- णात् । तावन्मात्रेण स्थानत्वे अकारादीनामपि नासिकास्था- नत्वापत्तेः । तदकथनेन न्यूनतापत्तेश्च । यत्तु करणरूपाया अपि नासिकायास्तद्धितान्तास्यपदेन ग्रहणात्तद्भदे सावर्ण्यमनुपपन्नमेव । आस्यपदस्य स्थानमात्रपर- तया संकोचे बीजाभावादिति, तन्न । आस्यपदस्य करणपरत्वे मानाभावात् । संकोचस्य दूरापास्तत्वात् । वृत्तिविषयताव- च्छेदकधर्मावच्छिन्नकिश्चियक्तिविषयकतात्पर्याभावकल्पनस्यैव संकोचत्वात् । एतेन किं पुनरास्ये भवं स्थानं करणं चेति भाष्यविरोध इत्यपि निरस्तम् । न हि करणमास्यभवं नेति ब्रूमः । किं तु आस्यपदार्थतावच्छेदकं प्रकृते स्थानत्वमेवेति । यदप्युक्तम्-एतेन तुल्यशब्दसंकोचापेक्षया पश्चादुपस्थि- तास्यशब्दसंकोच एव न्याय्य इत्यपास्तम् । कखगघङादीनां २३२ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये स्वरूपतो भेदार्थ स्थानादाववान्तरभेदस्यावश्यकत्वेन सर्वस्थान. साम्ये सवर्णसंज्ञेति पक्षेऽपि तुल्यशब्दसंकोचावश्यकत्वाचेति । तदप्यसत् । आस्यशब्दस्य संकोचः करणव्यावृत्तलक्ष्यतावच्छे. दकव्यवस्थापनमेव । तस्य च न्याय्यत्वम् । तत्साधारण्ये प्रमा. णाभावात् । तुल्यशब्दसंकोचस्तु यत्किञ्चित्परत्वम् । तत्र चा- न्याय्यत्वम् । भाष्यादिभिरनुक्तत्वात् । कखेत्यादिकं तु व्यर्थमेव । स्थानतावच्छेदकरूपेण स्थानसाम्यविवक्षायां वस्तुसतोऽप्य- वान्तरभेदस्य स्थानतानवच्छेदकतया दोषाभावात् । त्वन्मते उभयत्र संकोच इति वैषम्यसत्त्वाच्च । यदप्युक्तम्-तुल्यशब्दस्यान्यूनानधिकपरत्वेऽन्यतरैक्ये या- वदास्यभवैक्याभावादप्राप्तौ प्रयत्नग्रहणवैयापत्तिः । एतेन प्रयवस्य पृथगुपादानात्तद्धितान्तास्यशब्देन नासिकारूपं क. रणं न गृह्यते इत्यपास्तम् । उभयत्रापि तुल्यत्वस्य वक्तुं शक्य- त्वेनाऽऽनुमानिकवचनकल्पनापच्या संकोचस्यान्याय्यत्वेन च विनिगमनाविरहात्सर्वत्र प्रवृत्तौ तात्पर्यग्राहकतया प्रयत्नपदस्य व्याख्यातुं युक्तत्वाचेति, तदप्यसत् । आस्यपदस्य स्थानमा- उपरत्वेऽयं दोषः उतास्यभवपरत्वे । नाद्यः । प्रयत्नपदवैया. नापत्तेः । नात्यः । तत्परत्वस्यानङ्गीकारात् । न च पदा. न्तरोपादानापेक्षयाऽऽस्यशब्दस्य तदुभयपरत्वमेव सम्यगिति वाच्यम् । प्रत्येकसाम्ये संज्ञाया अप्रवृत्त्यर्थ प्रयत्नपदसार्थक्याव. श्यकत्वे आस्यपदस्योभयपरत्वकल्पनाया एव गुरुत्वात् । स्था- नकरणोभयसाधारणस्य लक्ष्यतावच्छेदकस्य दुर्वचत्वाञ्च । यत्तु त्वायसीत्यादौ कादयोऽपि भवन्तीति, तत् साहसमा. त्रम् । शाब्दिकमात्रानाभिमतत्वात् । अत एव कौस्तुभेऽपि याव- स्थानसाम्यविवक्षायां अमङणनानां स्ववर्यैः सावानापत्ति- - प्रथमपादे गुणवृद्धिप्रतिषेधाह्निकम् । ४ । २३३ रित्येवोक्तम् । अन्यथा तेषां परस्परं सावाभावोऽप्यापादितः स्यात् । किं बहुना नासिकायाः स्थानत्ववादिभिरपि याव- स्थानसाम्यमेव विवक्षित्वा नासिकास्थानं सवर्णसंज्ञायामनुप- युक्तमित्येव स्वीक्रियते । तथा च तद्वन्थार्थ:- ननु "शाद्" इति सूत्रे शकारात्परस्य तवर्गस्य श्चुत्वनिषेधो व्यर्थः "स्तोः" इत्यत्र तुशब्देन नकारस्यानुपादानात्, नासिका- स्थानाधिक्येन तस्य सवर्णत्वाभावाद्रहणकशास्त्रप्रवृत्त्यविष- यत्वात् । मैवम् । नासिकास्थानसाम्यं सवर्णसंज्ञायां नाद्रियते इत्यत्रेदं ज्ञापकम् । न च यत्किश्चित्स्थानसाम्यं सावर्ण्यप्रयोज- कमिति न तद्वैयर्थ्यमिति वाच्यम् । तथा सति त्वन्नयसीत्यादौ ङादीनां पर्यायेण प्रवृत्त्यापत्तेः । अन्ये तु अन्यूनस्थानत्वमेव तुल्यस्थानत्वम्, पञ्चमानां पर- स्परं नासिकास्थानसाम्येऽपि ताल्वादिसाम्याभावात् । स्वव- ग्र्यैः समं त्वधिकस्थानत्वेऽपि न्यूनस्थानकत्वाभावात्सावर्ण्यम् । तेन त्वङ्करोषीत्यादौ ङकारादिसिद्धिः । न चाद्यानां पञ्चमसा- वर्ण्य तथाऽप्यसिद्धमिति वाच्यम् । प्रयोजनाभावादिष्टापत्तेः । न च गौरि एहीत्यादौ सवर्णदीर्घः स्यात्, प्रकृतिभावश्च न स्या- दिति वाच्यम् । एकारस्य विकृततरत्वमाश्रित्य प्रयत्नभेदोपगमा- त् । न च "तोलि'' इत्यत्र लकारेणापत्वाद्वकारोपस्थापने तद्वस्तु इत्यादौ दकारस्य वत्वापत्तिरिति वाच्यम् । द्वितीयलकार- प्रश्लेषेण लकारस्वरूपस्यैवोपादानात् । नापि “ रलो व्युप- धाद्" इत्यत्र रलन्तर्गतलकारेण वकारस्यापि ग्रहणे देवित्वा दिदेविषतीत्यादौ पाक्षिककित्त्वापत्तिः । हयवरदमूत्रे रेफस्य यात्पूर्वमपकर्षप्रस्तावे भाष्योक्तरीत्या अवकारादिति पदच्छेदेन समाधानसम्भवात् । ३० यद्वा- २३४ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये स्थानतावच्छेदकपर्याप्त्याश्रयत्वं स्थानत्वम् । वकारस्य दन्तोष्ठमित्यत्र च द्वन्द्वनिर्देशादुभयत्वं स्थान- तावच्छेदकम् , तच्च न प्रत्येकविश्रान्तमिति न वकारस्य लकारसावर्ण्यम् । लुग्वा दुह " इति सूत्रे “ उदो. ष्ठयपूर्वस्य " इति सूत्रे च दन्त्यत्वमोष्ठयत्वं च दन्तादिभवत्व- मानं निवेश्यते, न तु तत्स्थानत्वम् । तत्र योगार्थेनैवोभयपरतया ग्रहणकशास्त्रानुपयोगेन सावर्ण्यस्यानपेक्ष्यत्वात् । तेन अदुग्धा- मित्यादाविव अदुहृहीत्यादावपि क्सलोपः, पुपूर्षतीत्यादाविव सुस्वूर्पतीत्यादावप्युत्वं च सिद्धम् । तेन यल्लोकमित्यादौ अनुस्वारस्य परसवर्णे सानुनासिकवकारापतिरप्यनाशच्या " इत्याहुः। प्रकृतमनुसरामः । सर्वथाऽपि वर्गपञ्चमानां परस्परं सावर्य नेति सिद्धम् । यदप्युक्तम्-"वर्णोत्पत्तौ नासिकायाः पाके काष्ठादिव- स्थाल्यादिवद्वा करणत्वम् । नाद्यः। “आस्ये तुल्यदेशप्रयत्नं सव- णम्" इत्यधिकरणत्वबोधकदेशशब्दसहितवार्तिकेन तद्भाष्येण च विरोधात् । अधिकरणरूपप्रासादवासिन्यायप्रतिपादकभाष्येण मुखनासिकयोरधिकरणत्वबोधनाच्च । नान्त्यः । करणत्वेऽपि स्थानत्वस्य दुर्वारत्वात्" इति, तदप्यसत् । कण्ठादेरेव उकारा- दिदेशत्वेन तद्विरोधाभावात् । न हि तेन नासिकाया ङकारादि- देशत्वमपि बोध्यते । प्रमाणप्रयोजनयोरभावात् । नासिका- याः सवर्णसंज्ञायामनुपयोगात् । प्रासादवासिन्यायस्य स- मस्त एव च वर्णो द्वाभ्यामुच्चार्यतइत्याद्यपक्षेऽवतारेऽपि एको भागो मुखेनोचार्यते द्वितीयस्तु नासिकया, यद्वा तदुभयान्तरा लवर्तिस्थानान्तरमेव तदुच्चारणे निमित्तमित्युत्तरपक्षद्वये तदनव- प्रथमपादे गुणवृद्धिप्रतिषेधाहिकम् । ४ । २३५ काशात् । इदं च कौस्तुभेऽपि स्पष्टम् । यदप्युक्तम्-“यथा- अयुग्मा वर्गयमगा यणचाल्पासवः स्मृताः । इत्यत्र चकारस्यानुक्तसमुच्चयार्थत्वादजादिग्रहणम् । “ सु- पां सुलुग्” इतिसूत्रस्थभाष्यादिप्रामाण्यादचामल्पप्राणत्वमती- तेः । यथा वा-" किन्प्रत्ययस्य " इतिसूत्रस्थकैयटादिमा- माण्यावर्गचतुर्थानामल्पपाणताऽपि दन्त्योष्ठयवकारस्य महामा. णताऽपि । तथोक्तशिक्षायां चकारेण मादीनामकारादीनां च ग्रहणं व्याख्येयम् । अत एव कौस्तुभे नकारादीनां नासि- कास्थानत्वं साक्षादुक्तम्" इति । तदप्यसत् । प्रकृते कल्पकामा- वेन वैषम्यात् । बादीनां परस्परं सौवर्ण्यस्यापि कौस्तुभान- भिमतत्वाच्चेति दिक् । वस्तुतस्तु तेषां सावर्षे लणसूत्रात्पूर्व अमङणनेष्वन्य- तममेव मकारानुबद्धं पठेत् । अन्येषां तेनैव ग्रहणसिद्धेः । न च स्ववाणामपि ग्रहणापत्तिः । तेषां पृथपाठसामर्थ्यात् । न चैवं तच्छ्रोकेनेत्यत्र छत्वं न स्यात्, लस्य अम्बहिर्भावापत्ते- रिति वाच्यम् । छत्वमणीति वाच्यत्वात् अमीत्यस्मादधिक- स्यान्तर्भावानापत्तेः । ग्रहणकशास्त्रादन्यत्र पूर्वेणैवाणग्रहणमि- त्यस्य यथाश्रुतपरत्वात् । न च यणि दोषः । आन्तरतम्येन व्यवस्थोपपत्तेः । भवदभिमतत्वाच । एतेन रप्रत्याहारोऽपि व्याख्यातः। न च नस्य इणन्तर्भावे सुहिन्सु इत्यादौ षत्वापत्तिः । सिद्धान्तेऽपि तत्र “ नुम्विसर्जनीय " इति षत्वप्रसक्त्या नुम्- ग्रहणं तत्स्थानीयानुस्वारोपलक्षणार्थमित्यत्र व्याख्यानातिरि- क्तस्य बीजस्य दुर्वचतया तस्य च साक्षान्नुमः परस्य सस्य १ आन्तरतम्येन व्यवस्थाया उपपन्नत्वेनेत्यर्थः।

यापत्तेः । न च २३६ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये पत्वं नास्तीत्येतनिश्चयं विनाऽनुपपन्नतयात्रापि तेनैव संको. चोपपत्तेः । नुमः साक्षादुपादाने तदादेशलक्षणया संकोचः । प्रत्याहारान्तर्भावे तु तदतिरिक्तपरत्वेनेत्यन्यदेतत् । यद्वा-वर्णोपदेशे "लण्" इत्यस्मादनन्तरमेव आदिष्वन्यतमो मानुबद्धः पठनीयः । ग्रहणकसूत्रे तु अण्पदस्थाने अमित्येवा. स्तु , लाघवस्य भूयस्त्वात् । न चात्र " अचो णिति" "न्नित्यादिनित्यम्" इत्यादेर्मिदादावतिप्रसङ्गः । उभयोपादा- नसामर्थ्यात् । एवम् “ोः कुक्टुक् शरि" इत्यत्र योज्यम् । नापि “ङिति च " इत्यस्य । णलादौ वृद्ध्यर्थणित्त्वस्य वैय- मिदचोऽन्त्यात्परः इत्यस्य णलादौ । "अत उपधायाः इत्यस्य वैयर्थ्यात् । ननु " मिदचोऽन्त्या- इत्यस्य नित्यतिप्रसङ्गः, एवं मोऽनुस्वारस्य णान्ता- दौ, " णो नः इत्यस्य नकाराद्यादौ, “ नोदात्तोपदेशस्य मान्तस्य" इत्यस्य नान्तादौ, "रषाभ्याम् " इति मादीनामपि णत्वं स्यात्, इति यथायोगमापाद्यमिति चेत्, सत्यम् । ङका. रस्यैव पाठ्यत्वात् अणनमानां सवर्णग्राहकत्वापत्त्यभावात् । अथैवमपि अहिज्यादिसूत्रेण जग्राह ग्राह्यमित्यादौ संप्र- सारणं स्यात्, डिन्तीति डकारेण णकारस्यापि ग्रहणात् । मैव- म् । भृजतीनां डिति चेति संहितया ङकारपश्लेषेण स्वरूपतो- ङकारस्यैव ग्रहणात् । न च तथाऽपि "हलो यमां यमि लोपः" इत्यत्र नकाराग्रंशे यथासंख्यं न स्यात् इति वाच्यम् । तत्राति- प्रसङ्गस्थलाभावेन क्षतिविरहात् । न च "ङमो इस्वादाच ङमु- नित्यम्" इत्यत्र ङमुटोऽप्यापत्तिरिति वाच्यम् । ङणनानामिति स्वरूपेणैव पठितव्यत्वात् । ङमुडित्यत्र द्वे इत्येव पाठ्यम् । यद्वा-वर्णोपदेशे न डम् इति पाठ्यम् । तेन डकारमकारौ त्परः प्रथमपादे गुणवृद्धिप्रतिषेधाह्निकम् । ४ । २३७ परस्परं ग्राहको नेति फलितम् । तेन "ङमो इस्वाद्" इत्य. त्र न दोषः । नापि “मिदचोऽन्त्यात् " इत्यस्य अफिन्- फिआदिष्वतिप्रसङ्गः । डिवस्यानन्यार्थकङित्त्वस्थलएव प्र- त्तिस्वीकारात् । स्वरद्ध्यर्थतया नित्त्वादीनामुपक्षीणतया तेषां प्रत्ययत्वात् परत्वोपपत्तेः । न च तातङ्न्यायेन प्रवृत्त्यापत्तिः । तत्र डकारस्य श्रूयमाणत्वात् प्रकृते सवर्णग्रहणं कृत्वाऽपवाद- बाधकल्पने मानाभावात् । यथान्यासमपेक्ष्य लाघवस्य भूय- स्त्वात् । मयप्रत्याहारस्थले ङयित्येव पठनीयम् । “तुभ्यमह्यौ ङयि"इत्यत्र तत्प्रकृतिकघबादिप्रत्ययबाधाद्विभक्तिप्रकरणाच्चान- तिप्रसङ्गात् । वहूर्जि इत्यादौ "अचो रहाभ्याम्” इति द्वित्वस्य सिद्धान्तेऽपष्टितया “यणो मयः" इत्यस्य प्रवृत्तावप्यदोषात् । न च अकारस्याधिकस्य संग्रहापत्तिः। पदान्ते जकारस्या- प्रसिद्धतया "मय उनः" इत्यत्राप्यदोषात् । तस्मात् ञादीनां मिथः सावर्ण्य नेति सिद्धम् । अन्यथा सानुनासिकयवलानामपि मिथस्तदापत्तौ सयन्ता इत्यादौ स्थलत्रयेऽपि पर्यायेण तेषा- मापत्तेः। किं च विवरणकारादिमते सानुनासिकककारादीनामपि यमत्वात्तेषां सावर्ण्यप्रसङ्गे त्वन्नयसीत्यादौ ककारादिरूपयमा- नामप्यादेशत्वं प्रसज्येत । यावत्स्थानसाम्ये सावर्ण्यस्वीका- रपक्षे तेषां केवलनासिकास्थानत्वमाश्रित्य समाधानेऽपि मुखनासिकोभयस्थानत्वमादाय तत्तद्वर्गीययमापत्तेर्दुष्परिहरत्वात् " नासिक्या नासिकास्थाना मुखनासिक्या वा" इति वचना. न्मुखपदेन तद्वर्गस्थानस्यैवोपादेयत्वात् । वर्णान्तरत्वमतेऽपि स्थानान्तरानुक्त्या स्ववृत्तिसादृश्यप्रतियोगिवर्णसमानस्थानमय- नत्वस्यैव वाच्यत्वात् । तथा च " पञ्चमे परे यमोत्पत्तिः" २३८ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये । इत्यादिकमपि व्याकुलं स्यात् । ननु तथाऽपि उक्तवचनानासिकायाः स्थानत्वं सिध्यत्ये- वेति चेत्, सत्यम् । अत्रत्यस्थानपदस्य तदुच्चार्यत्वमात्रपर- त्वात् । मुखनासिक्या इति वाक्ये तु मुखावयवकण्ठादीनां प्र- माणान्तरेण स्थानत्वनिर्वाहात् । “मुखनासिकावचन" इत्यत्र वचनपदस्वारस्यान्मुखनासिकाचार्यत्वस्यैव प्रतीतेः । अत एव बाह्यप्रयवाभिधानोत्तरं "यथा तृतीयाः तथा पश्चमा आनुनासि- क्यवर्जम् आनुनासिक्यं तेषामधिको गुणः" इति भाष्यं संग- च्छते । अन्यथा बाह्यप्रयत्नसाम्यकथनप्रस्तावे स्थानवैषम्याभि- धानस्यानहत्वात् । उक्तरीत्या तु आन्तरतम्यमात्रपरीक्षोपयोगि- त्वेन तदौचित्यात् । न चानुनासिकत्वनिर्मुक्तङकारादीनामनुप- लम्भात्कथं गुणत्वमिति वाच्यम् । जलपरमाणुरूपादीनां त- गुणत्वानुपपत्तिप्रसङ्गात् । तनिष्ठात्यन्ताभावप्रतियोगित्वस्य गु- णलक्षणानुपयोगात् । सत्वे निविशतेऽपैति " इत्यादेरन्यथैव व्याख्यास्यमानत्वात् । अपि च अनुनासिकसंज्ञासूत्रे मुखस्य नासिकायाश्च तदुच्चारणे करणत्वं सर्वग्रन्थसिद्धम् । स्थानत्वं च करणप्रतियोगिकसंयो. गानुयोगित्वम् । तत्र करणप्रतियोगिकत्वमुपलक्षणं विशेषणं वा। नाथः । जिहाग्रादीनामपि स्थानत्वापत्तेः । न चेष्टापत्तिः। तत्साम्यमादाय समानप्रयत्नानां सावापत्तेः । यत्किञ्चित्स्था- नसाम्यस्यैव भवन्मते ऽपेक्ष्यत्वात् । नान्त्यः । स्वप्रतियोगिक- त्वविशिष्टसंयोगानुयोगित्वस्य स्वस्मिन्ननङ्गीकारात् नासिकायाः स्थानत्वानुपपत्तेः स्थिरत्वात् । इत्यास्तामतिविस्तरः । प्रकृतमनुसरामः । ऋलवर्णयोः स्थानभेदादमाप्तां सवर्ण- संज्ञां विधातुं वार्तिकमारभ्यते- प्रथमपादे गुणवृद्धिप्रतिषेधाहिकम् । ४ । २३९ ऋलुवर्णयोर्मिथः सावर्ण्य वाच्यमिति । अत्र व्याचक्षते-आ च आ च रलौ, तौ च तौ वर्णी चेति विग्रहः, उश्च उल् च ऋलोस्तयोरिति वा । प्रथमान्तेन परिनिष्ठितविभक्त्या वा विग्रह इति सिद्धान्तादिति । तत्राये ऋल औ इति स्थिते "ऋत्यकः" इति प्रकृतिभावः। "ऋतो ङि" इति लुकारस्य गुणः, तत ऋकारस्य यणादेशः। न चाकृतव्यूहन्यायात्प्रकृतिभावानुपपत्तिः। गुणे सत्यपि स्थानिव- द्भावसंभवानिमित्तविघाताभावात् । न चैवं यणोऽपि दौर्लभ्य- म् । "ऋत्यकः" इत्यत्र “ प्लुप्तप्रगृह्याः" इत्यतोऽचीत्यनुवर्त्य ऋकाररूपमचमाश्रित्य यत्कार्य तस्यैव वारणात् । यणादेशस्तु असामान्यमुपजीवतीति तयात्तिविरहात् । न च "अचः परस्मिन् ” इत्यनेनाभावोऽप्यतिदिश्यतइति सिद्धान्तात् ऋकारकालीनस्य यणभावस्य गुणेऽप्यतिदेश इति वाच्यम् । न पदान्त" इति तनिषेधात् । अन्तर्वर्तिविभक्त्या पूर्वपदस्य सुबन्ततया पदसंज्ञत्वात् । द्वितीये तु ओसि गुणस्य दौर्लभ्यादकारोत्तरमुच्चारणार्थमकारं तन्निमित्तकयणं च स्वकि- त्य योज्यम् । ऋलोरिति वा पाठ इति । अत्रेदं बोध्यम्- ऋकाररूपा- निमित्तकत्वं न तावदृत्वावच्छिन्ननिमित्तताकत्वम् । सवर्ण- दीर्घयणोरयादीनां च वारणानुपपत्तेः । तत्र ऋत्वेन निमित्त- त्वविरहात् । “ उपसर्गादति धातौ" इत्यत्रैव प्रकृतिभावस्य कथंचित्प्रवृत्त्यापत्या धातुग्रहणं पाक्षिकप्रकृतिभावनिवृत्त्यर्थमि- त्यादिसकलव्याकोपप्रसङ्गात् । नापि ऋकारविश्रान्तनिमित्तता- कत्वं यणादेशसाधारण्यात् । अथ यस्यां लक्ष्यव्यक्तौ ऋकारपरत्वाभावप्रयुक्तो यस्का- २४० व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये र्याभावस्तदेव कार्य प्रकृतिभावेन व्यावय॑ते, इति चेन्न । गुणा- त्पूर्व प्रकृते यणादेशस्याप्येतादृशत्वात्मवृत्त्यापत्तेः । तयक्तौ ऋकारपरत्वाभावस्याप्रसिद्ध्या यद्यत्र ऋकारपरत्वं न स्यात्तदा यणादेशो न स्यादित्येवंरूपस्यैव प्रयुक्तत्वस्य वाच्यत्वात् । त. स्य चान्यत्र ऋकारपरत्वाभावेऽपि दध्यत्रेत्यादौ यणादेशाभाव- स्यादर्शनादापादकत्वानुपपत्तेः । एवं ब्रह्मऋषिरित्यादौ गुण- स्याचि दुर्वारत्वं योज्यम् । एवं च प्रकृते गुणोत्तरम् ऋकार- परत्वव्यतिरेकप्रयुक्तो न यणादेशाभावः, आकारपरत्वेनापि तदुपपत्तेरिति कथञ्चित् आशङ्काऽपि निरवकाशा । आदेशाभा- वस्थले सवर्णदीर्घव्यावृत्तावपि यथायोगमादेशान्तरस्य दुर्वार- त्वप्रसङ्गात् । तस्मादीत्यनुवृत्तावपि यणादेशव्यावृत्तस्य निव- र्त्यतावच्छेदकस्य दुर्वचत्वादुपरञ्जकत्वमानं तस्य, न तूपयुक्त- त्वमपीति न किञ्चिदेतत् । यदप्युक्तम्-प्रकृतिभावाभावपक्षे "वार्णादाङ्गं वलीयः" इति गुणे कृते यणादेशसौलभ्यमिति, तदपि न। तयोर्युगपत्प्रवृत्तौ समा- ननिमित्ततायां च तन्न्यायप्रवृत्तेः कौस्तुभादौ स्पष्टत्वात् । एतेन तथात्वे न किञ्चिन्मानमिति निरस्तम् । व्याश्रयत्वे लक्ष्यानु- रोधात्तत्पत्तिस्वीकारेऽपि प्रकृते लक्ष्यनिश्चयाभावेन औत्स- र्गिकी समानाश्रयप्रवृत्तिमाश्रित्य तदप्रवृत्तेरेव स्वीकर्तुमुचित- त्वात्, कौ लुप्तं की विधि प्रति वा न स्थानिवदित्यादिवत् । तस्मात्प्रकृतिभावपक्षे ऋअलाविति ऋलोरिति च, तदभावे तु राविति रोरिति च रूपं यथायोगं बोध्यमित्यलं बहुना । सावर्ण्यप्रयोजनं तु होत लकार इति स्थिते सवर्णदी? यथा स्यात्, होतृकारः । उभयान्तरतमस्य लुकारान्तरतमस्य च दीर्घस्यासम्भवाइकारान्तरतमो दीर्घकारः ।

प्रथमपादे गुणवृद्धिप्रतिषेधाह्निकम् । ४। २४१ अथ "अकः सवर्णे"इति सूत्रे "ऋतिवा""लुति ल वा" इति पठ्यते।अकः सवर्णे ऋति परे पूर्वपरयोः स्थाने ऋ इत्यय- मादेशो वा स्यात् । ईषत्स्पृष्टो दिमात्रश्वायम् । मध्ये द्वौ रेफो तयोरेका मात्रा, उभयतोऽभक्तेर्द्वितीया। एवं द्वितीयवचनविधेये लकारेऽपि बोध्यम् । तत्र मध्ये द्वौ लकाराविति विशेषः । उभ योरपि प्रयत्नभेदालुवर्णाभ्यामगृहीतत्वेनाचत्वाभावादप्राप्तयो- रेव विधानम् । तत्र वाशब्दस्य समुच्चयार्थत्वमङ्गीकृत्याप्राप्त एव दी? विधीयताम्, किं सावयेन । न च द्वितीये सवर्णपद- स्यानुवृत्तौ तत्संज्ञाया अप्यावश्यकत्वम् , अननुवृत्तौ तु द- ध्य्लकार इत्यादावतिप्रसङ्ग इति वाच्यम् । प्रथमवार्तिके ऋतीत्यपनीय "ऋतः" इति पञ्चम्यन्तस्य पाठ्यत्वात् । न च धात्रंश इत्यादावतिप्रसङ्गः । सवर्णे इत्यस्यानुवृत्तेः । द्वितीये तु ऋत इत्यस्यानुवृत्तिः, सवर्णइति निवृत्तम् । अतः सवर्ण- संज्ञाविधानं व्यर्थम् इति चेत्, मैवम् । पाष्ठवचनद्वयस्यैव प्रत्याख्यातुमुचितत्वात् । तदारम्भपक्षेऽपि हि तद्विधेययो. रीपत्स्पृष्टयोरच्त्वमवश्यमपेक्षणीयम् । अन्यथा विधानमात्रं तयोः स्यान्न तु प्लुतः । तस्याज्मात्रकार्यत्वात् । सति त्व- चत्वे ताभ्यां त्रिमात्रयोरपि सावाद्हणे सति प्लुतसंज्ञायां सत्यां प्लुतसिद्धिः। न च विकृतस्थाने आन्तरतम्याविटतावेव दीघौं स्याताम्, न त्वीपस्पृष्टाविति वाच्यम् । रेफद्वययुक्तस्य स्थानिनस्ताहगे- वादेशः सुसदृश इत्यस्यापि सम्भवात् विनिगमकाभावेन उभयोः पाक्षिक्यां प्रवृत्ती विवृतेषत्स्पृष्टयोरिष्टयोः सिद्धः । न चैवं सावर्ण्यविधानपक्षे सकारस्थानिकादेशस्यापि रपरत्व- ३१ २४२ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये प्रसङ्गः । रमत्याहारग्रहणस्य व्याख्येयतया लपरत्वसिद्धः । न च तथाऽपि “ नाग्लोपिशास्टदिताम् " पुषादियुताल- दितः" इत्यादीनामनुबन्धकार्याणां सङ्करापत्तिः । भिन्नानुब- न्धनिर्देशसामर्थ्यात् नाज्झलौ१०। तुल्यस्थानप्रयत्नावप्यज्झलौ मिथः सवर्णसंज्ञौ न स्तः। अ. प्यन्तं प्रसक्तिप्रदर्शनमात्रार्थम् । सवर्णपदं संज्ञापरम् । पूर्व विधेय- तयोपस्थितत्वात् । तुल्यास्यप्रयत्नत्वस्य वस्तुधर्मतया निषेधान- ईत्वाच्च । तेन आनडुहं चर्म वैपाशो मत्स्य इत्यत्र हकारश- कारयोर्लोपो न । अन्यथा “यस्येति च"इत्यत्र अकारेकाराभ्यां ग्रहणकसूत्रेण दीर्घादीनामिव हकारशकारयोरपि ग्रहणापत्तेः । ऋकारपकारयोलकारसकारयोरपि सावर्ण्य माप्तमत्र निषि. ध्यतइति कौस्तुभकृतः। कैयटादयस्तु अकारहकारयोरिकारशकारयोश्चेति स्थलद्व- यमेव दर्शयन्ति । तेषां चायमाशयः-बचप्रातिशाख्यो- तरीत्या ऋकारलकारयोर्जिह्वामूलस्थानत्वात् मूर्द्धदन्तस्था- नाभ्यां षकारसकाराभ्यां सावर्ण्यप्रसक्तिरेव नास्ति । न च तत्मातिशाख्यमात्रोक्तत्वादनाहत्यम् । पूर्वोक्तरीत्या सूत्रवा- र्तिकसंमतत्वात् । अत एव नाणशलावित्येव सूत्रयितुं युक्तमिति प्रामाणिकाः। एवं च "ग्रहणकशास्त्रादन्यत्र पूर्वेणैवाण्ग्रहणनियमात् कर्तृ- षट्कमित्यादौ सवर्णदीर्घः स्यात् । परेणाण्ग्रहणेऽपि अजपेक्षया व्यक्तिगौरवमेव । तस्मानाशलाविति सूत्रं युक्तम्" इत्यलमकं वेदितव्यम् । अत एवाने पूर्वपक्षवार्तिके शकारसावर्ण्यप्रतिषेध प्रथमपादे गुणवृद्धिप्रतिषेधाह्निकम् । ४ । २४३ एवोक्तो न तु षकारादेः । एतेन "शकारग्रहणं शरामुपलक्षणम्" इत्युक्त्वा रामष्षष्ठः यशस्सारमित्युदाहरणान्तरकल्पनं च तेषा- मपास्तम् । आयन्तभाष्ये शकारमात्रस्यैव श्रवणादुपलक्षणत्वे मानाभावात् । स्यादेतत् । शकारस्यापि परस्परं सावर्ण्यनिषेधः स्यात् । स हि इकारादिभिगृहीतत्वादच , स्वरूपतस्तु हल् । न चास्मादेव निषेधादिकारेण शकारग्रहणं नेति वाच्यम् । एतद्वाक्यार्थ- बोधौपयिया पदार्थबुद्धौ पूर्वसूत्रप्राप्तसंज्ञामुपजीव्य ग्रहणक- शास्त्रप्रवृत्तौ बाधकाभावात् । न हि तदानीं सावर्ण्यनिषेधधीर- स्ति । तदुत्तरभावित्वात् । न चैतद्वाक्यार्थबोधात्पूर्व तुल्या- स्यसूत्रार्थबोध एव न भवतीति वाच्यम् । प्रतियोगिप्रसक्तिविरहे निषेधानुपपत्तेः । “यस्येति च" इत्यादौ तु एतद्वाक्यार्थबोधा- त्सावाभावज्ञानान्न तद्ब्रहणमिति वैषम्यम् । अत एव ग्रहणकसू- प्रस्थमणपदं न सवर्णग्राहकम् , सूत्रान्तरस्थं तु सवर्णग्राहकमेवेति सिद्धान्तः । एवं "नाज्झलौ" इत्यस्यापि निषेधस्य न स्वस्मि- प्रवृत्तिः । स्वात्मनि व्यापारविरोधस्य तुल्यत्वात् । परिहृत्यापवादविषयमित्यस्यापि नायं विषयः । अपवा- दस्यैवानवगतत्वात् । न चेष्टापत्तिः । परश्शतानि कार्याणी- त्यत्र दोषापत्तेः । परश्शताद्यास्ते येषां परा संख्या शतादिकात् । इत्यमरः । “ कर्तृकरणे कृता बहुलम् " इति बहुलोक्तेः शतात्पराणीति समासः । पारस्करादित्वात्सुद् । श्चु- त्वेन शकारः । " इति तस्य द्विवचनं च । झरो झरि सवर्णे" इति लोपाप्रवृत्त्या शकारत्रय- श्रवणं स्यात् । न च " अनचि " इति "शरोचि" इति वा अनचि च २४४ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये द्वित्वनिषेधो भविष्यतीति वाच्यम् । तत्र "नाज्झलौ" इति सा- वर्ण्यनिषेधेन ग्रहणकशास्त्राप्रवृत्त्या अच्पदेन शरामुपस्थानास- म्भवात् । उक्तनिषेधयोर्नित्यत्वात् । तथा च वार्तिकम् - अज्झलोः प्रतिषेधे शकारमतिषेधोऽज्झल्त्वादिति । प्रतिषेधे प्रकरणवशात्सावर्ण्यस्य प्रतियोगित्वेनान्वयः । सावर्ण्यप्रतिषेधो वक्तव्यः स्यादित्यर्थः । किं च अवर्णस्य स्वभेदैः सह सावये न स्यात् । हका- रेण तद्हणे सति इल्त्वात्स्वरूपेण त्वचत्वात् इति प्राप्ते सि- दान्तवार्तिकम्- सिद्धमनचत्वात् , वाक्यापरिसमाप्तेर्वा इति । सूत्रप्रत्याख्यानाभिप्रायं प्रथममुत्तरम् । तथा हि-विकृत- मूष्मणामिति योगे ईषदित्यनुवर्त्तते । स्वराणां चेत्यत्र विवृत- मित्यस्यैवानुवृत्तिः, ईपदिति तु निवृत्तम् । तथा च प्रय- नभेदात्सावर्ण्यप्रसक्तिरेव नास्तीति भावः । एवं चाकारस्य ह- न्त्वमपि नास्तीति दण्डाग्रमित्यादावपि न दोषः । यथाश्रुतमभ्युपेत्याप्याह-वाक्यापरिसमाप्तेर्वेति । प्रथमं हि वर्णानामुपदेशः, तत इत्संज्ञा, ततः प्रत्याहारः, ततोऽपवा- दपरिहारेण सवर्णसंज्ञानिष्पत्तिः । ततो ग्रहणकशास्त्रप्रवृत्तिः । यद्यपि निषेधप्रतियोगिप्रवृत्त्यर्थम् “नाज्झलौ" इति वाक्यार्थ- बोधात्माम् सवर्णसूत्रार्थबोध आवश्यकः, तथाऽपि अपवादवि- षयांशे तद्वाक्यतात्पर्यज्ञानस्य अपवादवाक्यार्थबोधोत्तरमप्रामा. ज्यज्ञानसम्पादनद्वारा तदंशे उत्सर्गवाक्यस्य तात्पर्याभाव- व्यवस्थापनात्स बोधो न शास्त्रप्रवृत्तावुपयोगी । यदंशे शास्त्र- तात्पर्य तद्विषयकबोधस्यैव प्रमाणत्वात् । अन्यथा सर्वत्र बो- पस्यानियतत्वेन व्यवस्थाभङ्गप्रसङ्गात् । तथा च भ्रमरूपप्र- प्रथमपादे गुणवृद्धिप्रतिषेधाह्निकम् । ४ । २४५ तियोगिप्रसिद्धिमादाय निषेधप्रवृत्तावपि न ग्रहणकशास्त्रस्य प्रवृत्तिसम्भवः । अतो निषेधोपयोगितुल्यास्यसूत्रार्थबोधदशाया- मिकारेण शकारस्यानुपस्थानाच्छकारस्यान्त्वं नास्तीति न तस्य तेनैव समं सावर्ण्यनिषेधापत्तिः । निषेधप्रवृत्त्युत्तरकाले च सावाभावादेवानुपस्थानमिति समाधानतात्पर्यम् । अत एव भाष्ये प्रत्याहारोत्तरकाला सवर्णसंज्ञा, सवर्णसंज्ञोत्तरकालं सवर्णग्रहणमिति उक्तम् । “ नाज्झलौ" इत्यस्य सवर्णसंज्ञाया- मेवोपयोगात् । हरिणाऽप्युक्तम्- अनेकाख्यातयोगेऽपि वाक्यं न्यायापवादयोः । एकमेवेष्यते कैश्चिद्भिन्नरूपमिव स्थितम् ।। इति ।न्याय उत्सर्गः। भिन्नरूपमिव परस्परानपेक्षबोधजनक- मिव । अपवादज्ञानाभावे उत्सर्गस्य तात्पर्यभ्रमेण स्वतात्पर्यावि- षयकस्यापि बोधजनकत्वादप्रामाण्यापत्तौ स्वतात्पर्यविषयमा- प्रबोधजननार्थमपवादज्ञानस्य तेनापेक्षणीयत्वात् प्रमाणताव- च्छेदकरूपसम्पत्तिः पश्चादेव भवतीति तदर्थात् । न चैवं " नाज्झलौ" इति सूत्रे सवर्णदीर्घोऽपि न स्यादिति शङ्का- म् । तत्पकारकज्ञानस्य शास्त्रप्रवृत्तावनपेक्षितत्वात् । तदेवं देधा समाधानम् । भाष्ये तु एकवाक्यतयाऽपि हेतुद्वयम् अपर आहेत्यादिना व्याख्यातम् । तथा हि-अनचत्वादिति पूर्वोक्तदोषनिवृत्ति सिद्धौ हेतुः, अनच्त्वे तु वाक्यापरिसमाप्तेरिति । सा च यथो- क्तरीत्यैव । नन्वेवं वाशब्दोऽसंगतः स्यात्, एकस्मिन्साध्ये हेतुद्व- पस्य साधकत्वएव तत्संगतेः, इह तु साध्यभेदोक्त्या एकत्र इयोरसमावेशात् । न हि भवति पर्वतो वहिमान् धूमात् आर्दैन्ध- " २४६ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये नादेति । भवति तु धूमादालोकाद्वा इति चेत्, सत्यम् । अस्तु वा ग्रहणमिकारेण शकारस्येति वाक्यशेषमध्याहृत्य प्रतिज्ञावि. कल्पार्थत्वेन वाशब्दोपपत्तेः । शकारस्य शकारेण समं साव- पॅनिषेधे इष्टापत्तिरिति तदर्थः । न चात्र पक्षे शकारयोः सा- वर्ण्यनिषेधात्परश्शतादावुक्तदोष इति वाच्यम् । रूपद्वयं हि तत्र इष्टमेव । तच्च "अनचि च" इति द्वित्वस्य वैकल्पिकत्वादेव सि- ध्यति । तत्र “यरोऽनुनासिके" इत्यतो विकल्पानुवृत्तेः । न च "झरो झरि" इति लोपस्य नित्यत्वात् द्विशकारकमेव रूपमिष्यतइति वाच्यम् । तत्रापि “ झयो होऽन्यतरस्याम्" इत्यतो विकल्पानुवृत्तेः । एतत्पक्षे त्वपरितोषो दण्डाग्रमित्यत्र सवर्णदीर्घासिद्धिरित्याहुः । नन्वगृहीतसवर्णानामेवायं निषेध इति स्थिते दीर्घस्य ईकारस्य शकारेण सह सावर्ण्यनिषेधाभावात् कुमारी शेतइत्यत्र सवर्णदीर्घः स्यात् इति चेन । तत्राचीत्यनुवृत्या समाधानात् । अथ तथाऽप्याकारस्य दीर्घस्य प्लुतस्य च हकारेण सह सावयं स्यात् । तथा च विश्वपाभिरित्यत्र "होढः" इति ढत्वं स्यादिति केचित् । अन्ये तु संयोगान्तलोप एवापाद्यः । ढत्वस्यासिद्धत्वात् पूर्वत्रासिद्ध विप्रतिषेधाभावादित्याहुः । एवं मालास्वित्यत्र ष- त्वम्, वागाशीरित्यत्र “झयो होऽन्यतरस्याम्" इत्याकारस्य घत्वम्, गासीध्वमित्यत्र "इणः पीध्वम्" इति धस्य ढत्वम्, दासीष्टेत्यत्र "दादेर्धातोः" इति घत्वम् , राम आयाहीत्यादौ "हशि च" इत्युत्वम्, देवा आयान्तीत्यादौ "हलि सर्वेषाम्" इति यलोपः, चाखायितत्यादौ “यस्य हल" इति यलोपः । श्येनायितेत्यादौ "क्यस्य विभाषा" इति यलोपः, निचाय्ये- २४७ प्रथमपादे गुणवृद्धिप्रतिषेधाह्निकम् । ४ । स्यादौ "हलो यमाम्" इति यलोपश्च स्याद् इति चेद्- अत्राहुः-आकारस्य अइउणसूत्रोदाहृतशिक्षोक्तरीत्या विततरत्वाद्वितेन हकारेण न सावर्ण्यम् । मतान्तरे तु दीर्घप्लुताकारयोः सवर्णदीर्घ कृत्वा तत्सहितोऽच् आन् इति व्याख्याय दीर्घप्लुताकारयोरपि सावर्ण्यनिषेधो व्याख्येयः। अत्र लिङ्गं च "कालसमयवेलासु" इत्यादिनिर्देशः । प्लुतस्या- पि प्रश्लेषात् यियासो इत्यादौ “गुरोरनृत" इति प्लुतादाका- रात्परस्य सनः सस्य षत्वं नेति । वार्तिकमते तु हलामचां चोभयसाधारणैकवर्णत्वव्याप्य- जात्यभावात् कुत्रापि नातिप्रसङ्गशङ्केति ॥ इति श्रीसिद्धान्तसुधानिधौ प्रथमस्याध्यायस्य प्रथमे पादे चतुर्थमाह्निकम् ॥

ईदूदेद् द्विवचनं प्रगृह्यम् ११। ईदूदेदन्तं द्विवचनं प्रगृह्यसंझं स्यात् । प्रदेशाः "प्लुतप्रगृ- या" इत्यादयः । हरी एतौ । विष्णू इमौ । गङ्गे अमू । नन्विह तपरत्वं किमर्थम् । व्यक्तिपक्षे ईदृतोर्दीर्घत्वादनण्त्वेन सवर्णग्राह- कत्वाभावेन तत्कालग्रहणार्थत्वायोगात् । न च उदात्तानुदा- तस्वरितगुणयुक्तानां दीर्घाणामीदूतां ग्रहणार्थमिति वाच्यम् । गुणानामभेदकत्वादेव तदुपपत्तेः । जातेः पदार्थत्वपक्षेऽपि दी- घोच्चारणसामर्थ्यादेव ह्रस्वव्यावृत्तेः । प्लुतव्याहत्तश्च सिद्धान्तेऽ- प्यनिष्टत्वाद् इति चेत् । अत्र भाष्यम् - व्यक्तिः पदार्थो भेदकाश्च गुणा इति पक्षे उदात्तादिगुण- युक्तानां दीर्घाणां संग्रहाय तपरत्वमिति । न च व्यक्तावेव पदार्थे एकारस्याण्त्वाद् ग्रहणकशास्त्रेण प्लुतग्रहो मा भूदित्येतदर्थ तपरत्वमिति वाच्यम् । तपरसूत्रे ऽण्पदमनुवर्त्य तथाऽर्थस्यापि वक्ष्यमाणत्वात् । अत्र वदन्ति–तथाऽपि तात्परत्वेनैव उकारस्य गुणान्त- रयुक्तदीर्घसंग्राहकत्वसिद्धेरेकारस्य तु अण्त्वादेव तत्सिद्धरुभ- यत्र तपरत्वमसन्देहाथमेव । तद्वरं गुणानामभेदकत्वपक्षमा- श्रित्य इकारांशे तपरत्वमसन्देहाथमेवास्तु इत्याशयेन सर्वत्र तपरत्वमसन्देहार्थमिति वृत्तिकृतः । वस्तुतस्तु पञ्चमीसमासेन तात्परस्य तत्कालग्राहकत्वे मा- नाभावादकारे तपरत्वम्, एकारस्त्वतपर एव निर्दिष्ट इति सुवचमिति ।

प्रथमपादे प्रगृयाह्निकम् । ५। २४९ तंत्र एकारः केवल एवेत्येतत् “किमर्थम् ईदादीनां तप- राणां प्रगृह्यसंज्ञा " इतिभाष्यविरुद्धम् । तेन त्रयाणामपि तपर- स्वनिर्देशमतीते। ननु प्रगृह्यसंज्ञा प्रति प्लुतस्यासिद्धत्वात् द्विमात्र एव प्रगृह्य- संज्ञेति प्लुतानुपसंग्रहेऽपि न क्षतिः । न च "प्लुतप्रगृह्या अचि" इति प्रकृतिभावेन स्वरसन्धिप्रकरणे प्लुतस्य सिद्धत्वज्ञापनाहो- षो दुर्वार इति वाच्यम् । प्लुतशब्दस्य लक्षणया तत्स्थानिप- रत्वसम्भवे ज्ञापकत्वायोगात् । श्रुतार्थापत्तिमूलकवाक्यान्तर- कल्पनापेक्षया लक्षणाया एव युक्तत्वात् । प्लुतत्वप्रयुक्तप्र- कृतिभावे प्लुतस्य सिद्धत्वज्ञापनेऽपि प्रगृह्यत्वप्रयुक्तप्रकृतिभा- वेऽसिद्धत्वात् । मैवम् । प्लुतस्यासिद्धत्वे "अप्रगृह्यस्य" इतिप- टुंदासाप्रवृत्तौ " अणोऽप्रगृह्यस्यानुनासिकः" इत्यनुनासिकस्य दुर्वारत्वात् । अथात्रैकारस्याणत्वेन प्लुतग्राहकत्वेऽपि ईतोः कथं तत्, दीर्घाणामनण्त्वेन सवर्णग्राहकत्वाभावात् । न च जातिपरो निर्देशः । इस्वेष्वतिप्रसङ्गापत्तेः । दीर्घव्यक्तिसमवेतैव जातिर्विवक्षितेति चेद्, न । प्लुतानुपग्रहतादवस्थ्यात् । न चेष्टापत्तिः । अग्नी ३ इति इत्यादौ "अप्लुतवदुपस्थिते" इत्य- नेन लौकिकइतिशब्दे परे प्लुतस्याप्लुतवद्भावविधानेन प्लुत. निमित्तकप्रकृतिभावनिषेधेऽपि प्रगृह्यत्वनिबन्धनस्य प्रकृतिभाव- स्येष्टत्वात् । तथा च षष्ठे वार्तिकम् - द्वचनं प्लुतकार्यप्रतिषेधार्थ प्लुतप्रतिषेधे हि प्रगृह्यप्लुतनि- षेधप्रसङ्गोऽन्येन विहितत्वात् इति । प्लुतकार्यप्रकृतिभावनिषेधे स्वरसन्धेरावश्यकतया प्लुत- स्य श्रवणाभावधौव्यात् प्लुत एव निषिध्यताम् , किमतिदेशा. , ३२ २५० व्याकरणसिद्धान्तसुधानिधी प्रथमाध्याये र्थवद्वचनेनेति तत्र शङ्काऽर्थः । उभयनिमित्तकप्रकृतिभावप्राप्त्या प्लुतप्रयुक्ततन्निषेधेऽपि प्रगृह्यत्वप्रयुक्तप्रकृतिभावसत्त्वात्प्लुतश्रव- णासिद्धिः, प्लुतनिषेधे तु श्रवणं न स्यादिति समाधानार्थः । न चैवम् “अप्लुतवद्" इत्यस्य वैयर्थ्यापत्तिः, प्लुतनिमित्तकप्रक- तिभावमात्रनिषेधस्य विशेषानुपपादकत्वादिति वाच्यम् । यत्र प्रगृह्यसंज्ञा नास्ति तत्र चरितार्थत्वात् । यथा सुश्लोका३इति मुश्लोकेति । अत्र भाष्यम्- यथोद्देशं संज्ञापरिभाषमिति पक्षे प्रगृह्यसंज्ञा प्रति प्लुतस्या- सिद्धतया द्विमात्रत्वबुद्धेरविघातात्सिद्धा प्रगृह्यसंज्ञा, कार्य- कालपक्षे तु प्रगृह्यसंज्ञायाः “ अणोऽप्रगृह्यस्य" इत्येतत्समानदे- शतया तां प्रति प्लुतस्यासिद्धत्वाभावादनुनासिकप्रवृत्तिः स्यात् । ननु संज्ञापरिभाषस्य कार्यार्थत्वात् कार्यकालपक्ष एवं न्या- य्य इति चेत्, अत्राहु:-"प्रयोजनविशेषानवगमेऽपि सामान्यतः किश्चित्प्रयोजनवत्ताज्ञानमात्रेण यथोद्देशपक्षोपपत्तिः। यथा- विशिष्याश्रयमाणभाव्यकेषु विधिषु इष्टसामान्यस्य व्यत्वमादायांशत्रयवैशिष्टयं भावनायाः सम्पाद्य तदुत्तरमा- र्थवादिकः कल्पितो वा इष्टविशेषो व्यवस्थाप्यते तद्वत्, महावा- क्यार्थपर्यालोचनया तु कार्यकालपक्ष" इति । अत्र हरदत्तः- संज्ञा प्रति प्लुतस्यासिद्धत्वेऽपि अनुनासि- कपर्युदासं प्रति न तथा । ततश्च यस्यानेन संज्ञा कृता द्विमा- त्रस्य न सोऽनुनासिकविधौ स्थानी, किं तु त्रिमात्रः । न च स्थानिवद्भावेन त्रिमात्रस्यापि प्रगृह्यत्वम् । अल्विधौ तदयोगा- त् । ईकारान्तद्विवचनस्य प्रगृह्यसंज्ञतया विशेषणतया ईकारादि- रूपाल्सापेक्षत्वात् । किं चावश्यं “सिद्धः प्लुतः स्वरसंधिषु" इत्याश्रयणीयम् , भा- प्रथमपादे प्रगृह्याह्निकम् । ५। २५१ दण्ड आढकमिति प्लुतस्य दीर्पण निवृत्तियथा स्यात् । अत एव सुश्लोका ३ इति सुश्लोकेति इत्यत्र गुणो भवन् प्लुतमेव नि- वर्त्तयति, न स्थानिनम् । आदेशे प्लुतश्रवणप्रसङ्गात् । तत्कथं यथोद्देशपक्षेऽपीष्टसिद्धिरिति । अत्र कैयटः- "शास्त्रासिद्धत्वाश्रयणाच्च प्लुतबुद्धावसत्यां प्रगृह्यत्वे विधी- यमाने द्विमात्रविषया बुद्धिः प्रवर्तते" इति । अयमर्थः-द्विमात्रस्य त्रिमात्रेणापहारेऽपि “पूर्वत्रासिद्धम्" इत्यनेन शास्त्रासिद्धत्ववोधनात् त्रिमात्रएव द्विमात्रत्वबु. ध्या प्रगृह्यसंज्ञा क्रियते, न तु द्विमात्रे कृतां प्रगृह्यसंज्ञा त्रिमात्रे अतिदिशामः, येनाल्विाधित्वॉत्तदभावशङ्का स्यात् । एवं च त्रिमात्रएव प्रगृह्यसंज्ञाप्रवृत्तिः । द्विमात्रत्वबुद्ध्या सं- ज्ञाप्रवृत्तावपि वस्तुतो धर्मिणस्त्रिमात्रतया तत्रैव विश्रामात्, रजतभ्रमजन्यप्रवृत्तेः शुक्तिविषयकत्ववत् । न चाहार्यारोपेण कथं शास्त्रप्रवृत्तिः । शास्त्रेणैव तस्य शास्त्रप्रवृत्तिप्रयोजकत्वोक्तेः। शास्त्रस्य वस्तुतोऽसिद्धत्वासम्भवात् । एतेन सुश्लोकेतीत्यादा- वादेशे प्लुतः श्रूयतेत्यप्यपास्तम् । द्विमात्रबुद्ध्यैव क्रियमाणेन गुणेन तद्बुद्धिविशेष्यप्लुतस्यैव निवृत्तेरसिद्धत्वादिति दिक् । चत्वारोऽत्र पक्षाः सम्भवन्ति । ईदादीनां विशेष्यत्वं द्वि. वचनस्य च विशेषणवम्, द्विवचनसंज्ञं यदीदादि तत् प्रगृह्य- मित्यर्थ इत्याधः । प्रत्ययग्रहणपरिभाषया द्विवचनपदं द्विवच. नान्तपरम्, ईदादीनां विशेषणत्वात्तदन्तविधिः, ईदाद्यन्तं द्विवचनान्तमिति द्वितीयः । ईदाद्यन्तं यद् द्विवचनं तदन्तमिति तृतीयः । द्विवचनमेव संज्ञि वक्ष्यमाणयुक्तेः, ईदाद्यन्तं द्विव- चनं प्रगृह्यसंज्ञमिति वाक्यार्थ इति चतुर्थः । तत्राये पचेते इत्यादौ संज्ञा न स्यात्, एकारस्य दिवच- २५१ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये नावयवत्वेऽपि द्विवचनत्वाभावात् । न च मुख्यानुपपत्या शास्त्र- प्रामाण्याद्गौणे प्रवृत्तिः । गङ्गे इत्यादौ " अन्तादिवच्च" इत्या- दिवद्भावेन एकारस्य मुख्याद्विवचनत्वेन तत्र चारितार्थ्यात् । द्वितीयेऽपि कुमार्योरगारं कुमार्यगारम् वध्वोरगारम् वध्वगा- रमित्यादावतिप्रसङ्गः । प्रत्ययलक्षणेन द्विवचनान्तत्वात् । स्वरू- पत ईदूदन्तत्वाच । तृतीयेऽपि अशुक्ले शुक्ले समपद्येता शुक्ल्या- स्तां वस्त्रे इत्यत्र प्रथमाद्विवचनस्य "नपुंसकाच"इति शीभावे चिप्रत्यये “ सुपो धातुपातिपदिकयोः" इति शीलोपे “अस्य चौ" इति शुक्लशब्दान्त्याकारस्य ईत्वे तद्धितान्तत्वादुत्पन्न- स्य मुप्रत्ययस्याव्ययत्वाल्लुकि कृते शीशब्द इकारान्तं द्विवचनं प्रत्ययलक्षणेन च पदं तदन्तमित्यतिप्रसङ्गः । ननु पक्षद्वयेऽपि न दोषः । "ईदूतौ च सप्तम्यर्थे " इत्यत्र सप्तमीत्येवोक्तेऽपि प्रत्ययलक्षणेन "सोमोगौरी अधिश्रित" इत्यत्र प्रगृह्यसंज्ञासिद्धौ अर्थग्रहणेन प्रगृह्य संज्ञाप्रकरणे प्रत्ययल- क्षणं नास्तीति ज्ञापयितुं शक्यत्वात् । शुक्ल्यास्तामित्यत्र " अ- न्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधते"इति न्यायादौकारस्यैव लोपेन शीभावाप्रवृत्तेः प्रत्ययलक्षणे सत्यपि दोषाभावाच्च । ईदाधन्तत्वस्य तावताऽप्यलाभाद इति चेत्, मैवम् । तथापि तदन्तग्रहणदौलभ्यादेव पक्षद्वयस्य दुष्टत्वात् । संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिर्नास्ति" इति “ सुप्तिङन्तं पदम् " इत्यन्तग्रहणेन ज्ञापितत्वात् । तस्मादीदेदन्तं यद्द्विवचनमित्येव युक्तम् । सन्निधानेन द्विवचनस्यैव संज्ञित्वप्रतीतेः । न चैवं यथोक्तोदाहरणेषु ईदादिस्वरूपेषु तदन्तत्वं नास्ती- ति वाच्यम् । व्यपदोशवद्भावेन तदन्तत्वसम्भवात् । अत्र "मणीवादीनां प्रतिषेधो वक्तव्यः" इति पठित्वा म- .

प्रथमपादे प्रगृह्याहिकम् । ५। णीव रोदसीव दम्पतीवेति वृत्तिकृतः । कैयटादयस्तु भाष्यवार्तिककाराभ्यामपठितत्वादप्रमाणमे- तत् । मणीवोष्ट्रस्येति तु प्रयोगो वाशब्दस्योपमानार्थस्य । रोदसीवेत्यादिस्तु छान्दसः प्रयोग इत्याहुः । एवं चन्यायसाम्यान्मुनित्रयानुक्ताना "तुरीयस्येष्टिः" "शं- सिदहिगाहभ्यो वा” "कमेके छन्दास भाषायां च" इत्यादीनां वृत्तिकृन्मात्रोक्तानामियमेव गतिः । नन्वेवम्- स्फुटोत्पलाभ्यामलिदम्पतीव तद्विलोचनाभ्यां कुचकुड्मलाशया । निपत्य बिन्दू हृदि कज्जलाविलौ मणीव नीलो तरलौ विरेजतुः ॥ इति नैषधस्य का गतिः, वाशब्दस्यात्रासङ्गतः पौरुषेय- त्वाचेति चेत्, अत्राहुः-- इवार्थस्य वाशब्दस्यायं प्रयोगः । न च तत्र मानाभावः। वं प्रचेतसि जानीयादिवार्थे च तदव्ययम् । इतिविश्वदर्शनात् । " कादम्बखण्डितदलानि व पङ्कजा- नि" इत्यादिप्रयोगात् । व वा यथा तथैवैवम्" इत्यमर- व्याख्यायाम् “शात्रवं व पपुर्यशः" इति कालिदासपयोगस्य तयाख्यातृभिरुदाहृतत्वाच । यत्तु अमरे अयमेव पाठो युक्तः, न तु वद्वेति क्षीरस्वाम्युक्तः। प्रातिपदिकपक्रमे तद्धितस्य वतेरननुगुणत्वात् । अपत्यसम्- हादिपर्यायमध्ये अफिचुनादीनामनुक्तेश्चेति । तच्चिन्त्य- म् । तद्धितत्वमात्रेण प्रक्रमविरोधे यथेत्यादीनामप्यनुपादानम- सङ्गात् । प्रकृतिनिर्मुक्तस्य तथात्वे तु प्रकृतिविशेषस्य नियत- त्वस्योपाधित्वात् । यादीनां प्रकृतिविशेषोत्तरमेव विहितत्वा- त् । वतेस्तु तदभावात् । अत एव अणादीनामित्यादिकमपा- स्तम् । तेषामपत्यसम्हाद्यर्थविशेषासाधारणरूपाभावात् ।

२५४ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये प्रकृतिविशेषगर्भतया तु “गार्भिणं गणे" इत्यादिना तत्तत्मकरणे बहुशो दर्शितत्वात् । वतेश्च सादृश्यएव विधानात् । अदसो मात् १२। अस्मात्परावीदूतौ प्रगृह्यौ स्तः । अमी ईशाः। रामकृष्णा- वमू आसाते । मात्किम् । अमुकेऽत्र । न चात्र एकारस्याननुवृत्ते. रेव नातिप्रसङ्ग इति वाच्यम् । माद्ग्रहणसामर्थ्यादेवैकाराननु- वृत्तिलाभात् । अदश्शब्दसम्बन्धिमकाराव्यवाहितोत्तरस्य त- स्यासम्भवात् । न च अमू आसाते इत्यत्र पूर्वेणैव सिद्धिरिति वाच्यम् । तत् प्रति मुत्वस्यासिद्धतया औकारान्तत्वात् । न चैवमनेनाप्यनिर्वाहः । आरम्भसामर्थ्यादत्र मुत्वस्यासिद्धत्वा- भावात् । यद्वार्तिकम् - आश्रयात्सिद्धत्वं यथा रोरुत्वे इति । किं च स्त्रीनपुंसकयोर्द्विवचने मुत्वस्यासिद्धत्वेऽप्येकारा- न्तत्वमेवाश्रित्य पूर्वेण प्रगृह्यत्वसिद्धिः । तत एव प्रकृतिभा- वानुनासिकपर्युदासावपि सिद्धौ । कार्यकालपक्षे तु "अणोऽप्र- गृह्यस्य" इत्यत्रोपस्थितेन सूत्रेण संज्ञायां क्रियमाणायां मुत्वस्य सिद्धत्वाल्लिङ्गत्रयेऽपि द्विवचनेऽनुनासिकपर्युदासः पूर्वेणैव सिद्धः । एतत्सूत्रं तु बहुवचनार्थ पुंसि द्विवचने प्रकृतिभावार्थ चेति विवेकः। शे १३ अयं प्रगृह्यः । अस्मे इन्द्राबृहस्पती । न युष्मे वाजबन्ध- वः। आधे चतुर्थीबहुवचनस्य द्वितीये द्वितीयाबहुवचनस्य च - प्रथमपादे प्रगृह्याह्निकम् । ५। स्थाने “ सुपा सुलुग्" इत्यादिसूत्रेण शे आदेशः। शिवात्स- वादेशत्वम् । “शेषे लोपः" इति टिलोपः । न चान्त्ये संज्ञावैय- र्थ्यम् । पदपाठकाले इतिशब्दप्रयोगे सार्थक्यात् । एवम् " अस्मे धत्त वसवो वसूनि " इत्यादिकमपि बोध्यम् । काशे कुशे वंशे इत्यादौ लोमादित्वात् शप्रत्ययान्ते हरिशे बचशे इत्यादौ च लक्षणप्रतिपदोक्तपरिभाषया न दोपः । निपात एकाजनाङ् १४ । , आभिन्न एकाच स्वरूपो निपातः प्रगृह्यसंज्ञः। अ अवद्य। इ इन्द्रः। उ उमेशः । अनिषेधाधिक्षेपयोः। इ विस्मये । उ जुगुप्सा- दिषु । अत्रैकाच्शब्दे कर्मधारयः, लाघवात् । “व्याहरति मृगः" इत्यादिनिर्देशाच्च । तेन प्रेदं ब्रह्मेत्यादौ नातिप्रसङ्गः । नन्वेवं एकग्रहो व्यर्थः । निपातस्याचः संज्ञयैव सिद्धेः । न चाजन्तस्य निपातस्येत्यर्थवारणाय तदिति वाच्यम् । विशेष- णवैयापत्तेः । हलन्तस्य प्रगृह्यत्वे सत्यपि क्षत्यभावात् । न च पुरोऽस्तीत्यादौ सकारान्तस्य प्रकृतिभावे रोरुत्वं न स्या- दिति वाच्यम् । संज्ञा प्रति रुत्वस्यासिद्धत्वात् । न चैकदेश- विकृतन्यायन रेफान्तस्य संज्ञाप्रसङ्गः । प्रकृतिभावं प्रत्यपि रुत्वस्यासिद्धत्वात् । सिद्धकाण्डस्थकार्यात्परस्य च सकारान्ते प्रसक्त्यभावात् । न चाजन्तस्यैव संज्ञा, न त्वज्मात्रस्येत्यर्थला- भाय विशेषणं स्यादिति वाच्यम् । आद्यन्तवदेकस्मिन् " इति अज्मात्रस्याप्यजन्तत्वात् । न च विशेषणसामर्थ्याद्यपदेशिवद्भावपरित्यागः । तद- न्तविधिपरित्यागेनापि तस्य चारितार्थ्यसम्भवात् । न च वि. निगमकाभावः । “अनाङ्" इत्यस्यैव तत्त्वात् । व्यपदेशिवद्भाव- २५६ व्याकरणसिद्धान्तसुधानिधी मथमाध्याये मात्रबाधे हि तद्यर्थ स्यात् । आङः केवलाच्स्वरूपत्वेन प्रा. प्रवाभावात् । अचो विशेष्यत्वे तु तदन्तविधिशाऽपि नेति किमेकपदेनेति प्राप्ते । भाष्यकृतः- अच्समुदायग्रहणशङ्कानिरासायैकग्रहणं कुर्वन्नाचार्यो ज्ञा- पयति-वर्णग्रहणेषु व्यक्तिसंख्या न विवक्ष्यते, किं तु जातिरेव निर्दिश्यतइति । तेन" हलन्ताच्च" इति सूत्रे यद्वक्ष्यति वार्तिककार:- दम्भेईल्ग्रहणस्य जातिवाचकत्वात्सिद्धमिति, तत् सूत्रेणैव संगृहीतं भवति । तस्यार्थो हि दम्भेः सिद- मित्यन्वयः । कित्त्वमिति शेषः । तत्र हेतुः हल्ग्रहणस्य जा- तिवाचकत्वादिति । दम्भः सन् । “सनीवन्त" इत्यादिविकल्पा- दिडभावः। “दम्भ इच्च" इति इत्वम् । पक्षे इत्वश्च। “अत्र लोप" इत्यभ्यासलोपः । दिनभ्सति दीनभ्सति इति स्थिते-" हल- ताच " इति सनः कित्वामिष्यते । इकः समीपो यो हल् ततः परः सन् कित्स्यादिति तस्यार्थः । प्रकृते च इकः परत्वं नकारे, न तु ततः परः सन् । भकारेण व्यवधानात् । भशब्दात्तु परः सन्, न तु भशब्द इकः परः । नकारेण व्यवधानादिति कित्त्वं न स्यात् । जातिवाचकत्वे तु नकारभकारयोईलत्वरू- पैकधर्मावच्छिन्नतया इष्टसिद्धिः । ततः कित्त्वान्मलोपः । भष्भावेन दस्य धत्वम् । भकारस्य चर्बेन पकार इति धिप्सति धीप्सतीति सिद्धम् । ननु अच्समुदायनिवृत्त्यर्थमेवैकपदं स्यात् । अइउ अपेही- त्यत्र हि समुदायस्यैव संज्ञा स्यात्, न तु पूर्वयोरिति तत्र गुणादिकं स्यादिति चेत्, अत्राहुः- संज्ञाया विधेयत्वात् प्राधान्यम्, संजिनस्तु गुणस्वमिति प.

प्रथमपाद प्रगृह्याह्निकम् । ५। शुना यजेतेतिवदेकत्वस्य विवक्षयैव समुदायनिरास इति । यद्यपि समुदायकार्येणावयवानां कार्यनिर्वाह एकाद्विवच- नन्याये बीजम्, न चात्र तथा, समुदायसंज्ञयाऽवयवानां प्रकृति भावानिर्वाहादिति न तस्यात्र विषयः, तथाऽपि समुदायग्रहण- शङ्कानिरासायैव कृतमेकग्रहणं ज्ञापकमिति बोध्यम् । निपात इति किम् । चकारात्र । णलोऽकारस्य प्रकृतिभावो मा भूत् । न चार्थवद्हणन्यायेन निर्वाहः । अन्वयव्यतिरेकाभ्यां प्रत्ययस्या- प्यर्थवत्वात् । केवलयोः निपातप्रत्यययोरप्रयोगस्यापि तुल्य- त्वात् । एवम् अत सातत्यगमने “अन्येभ्योऽपि" इति डप्रत्य- यः, टिलोपः, अ आगच्छेत्येतदपि प्रत्युदाहरणम् । यद्यपि नजिवयुक्तन्यायेनापि आभिनो निपात एवं गृह्यते, तथाऽपि तन्न्यायस्य व्यभिचारित्वान्न दोपः । भेदप्रतियोगितावच्छेदक- तया डकारनिवेशस्तु ङितः प्रगृह्य संज्ञा यथा स्यादित्येतदर्थः । तद्विवेकस्तु भाष्ये- ईषदर्थे क्रियायोगे मर्यादाऽभिषिधौ च यः । एतमातं डितं विद्याद्वाक्यस्मरणयोरङित् ।। आ उष्णम्, ओष्णम्। आङीपदथइति ङिनिर्दिष्टः । आइतः, एतः। प्रादौ ङित्पठितः । आउदकान्तात्, ओदकान्तात् । आ अ. हिच्छत्रात्,आहिच्छत्रात् । “आङ् मर्यादाभिविष्योः" विना तेने- ति मर्यादा। सह तेनेत्यभिविधिः। परिच्छेद्यमध्ये अवधेरनन्तर्भावे अन्तर्भावे चोभयम् । तथा चावधित्वार्थकपदसमभिव्याहृतपदस्थ स्वार्थतदुत्तरोभयव्यवच्छेदपरत्वे मर्यादा, स्वार्थोत्तरमात्रव्यव- च्छेदपरत्वेऽभिविधिरिति बोध्यम् । अत्र डिवात् न प्रक- तिभावः। अजितु यथा-आ एवं नु मन्यसे। पूर्वपक्रान्तवाक्यार्थस्या- ३३ २५८ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याय न्यथात्वद्योतनार्थ आकारः। पूर्वमेवं नामस्थाः, सम्पति त्वेवं म- न्यसे इत्यर्थः। वाक्यारम्भसूचनायाकारः इत्यपरे। आ एवं किल तत् । स्मृतेः सूचक आकारः। ततः स्मृतोऽर्थो निर्दिश्यते । अत्र च वाक्यस्मरणयोरडिन्त्वे एव तात्पर्यम् । तेन ईषदादि- चतुष्टयानन्तर्भावेऽपि उभयभिन्ने ङित्त्वमेव । तेन अभ्र आँ अप इत्यत्र सप्तम्यर्थवृत्तेरप्याकारस्य "आङोऽनुनासिकः" इति सि- ध्यतीति ग्रन्थकृतः। अत एवैतच्छब्देन पूर्वार्दोक्तार्थचतुष्टयपरा- कारपरामर्शात् डिद्विधावुद्देश्यपरामर्शकत्वाभावान्नान्वादेशत्व- मित्येनादेशविरहः सङ्गच्छते । उभयाभिन्नार्थे ङित्त्वस्यैव चतु. र्थचरणानुसारेणार्थसिद्धत्वात् । केचित्तु पूर्वमेतच्छब्देनानुपादानान्नान्वादेशत्वामित्याहुः। तन्न। शब्दान्तरेणाप्यन्वादशत्वस्य भाष्यकृता वक्ष्यमाणत्वात् । त- स्मादीषदर्थादिषु वर्ततइति वृत्तिन विधेया, किन्तु परिचायक- तामात्रेणोपात्तेति न तथेति दीक्षिताः इत्यन्यत्र विस्तरः । अत्र वदन्ति-"अनाङ्" इत्यस्य पर्युदासत्वं न युक्तम् । त- था हि । अशब्दो वासुदेवार्थकः । “आङ् मर्यादाभिविध्योः" इत्यव्ययीभावः । आ आत् अं "इस्वो नपुंसके प्रातिपदिकस्य" इति इस्वः । अशब्दस्य स्वाभाविकमाभिन्नत्वं स्थानिवद्भाव- कृतं निपातत्वं चाश्रित्य अ इतः एत इत्यत्र प्रगृह्यसंज्ञाप्रसङ्गात् । "आसमुद्रक्षितीशानाम्" इतिवत्समासः । न च आङ्भावाति- देशे आभिन्नत्वव्यपदेशनिवृत्तिः । गुरुवद् गुरुपुत्रे वर्तितव्य- मित्यत्र गुरुत्वस्येव आबद्भावेन आवस्यानतिदेशात् । अति- देशे वा "आङयमकारः" इत्याहार्यबुद्धराभिन्नोऽयमिति बुद्धा- बविरोधात् । अतिदेशानां च स्वाश्रयानिवर्तकत्वात् । ब्राह्मण- पदस्मिन्क्षत्रिये वर्तितव्यमित्यत्र क्षत्रियत्वव्यपदेशनिवृत्यभावात् ।

। प्रथमपादे प्रगृह्याहिकम् । ५ २५९ अस्तु वा एकादेशेऽपि स्थानिवद्भावेनैव परावर्णगतस्या. भिन्नत्वस्याश्रयणम् । कैयटादावपि परादिवद्भावेनैकादेशस्या- भिन्नत्वाश्रयणात् । तस्मात्प्रसज्यप्रतिषेध एव युक्तः । वाक्य- भेदासमर्थसमासाश्रयणस्य कार्यानुरोधेनादोषत्वात्, “अनचि" " अशिति " इत्यादिवत् । अत एवोत्तरसूत्रे प्रतिषिद्धार्थोs- यमारम्भ इति भाष्यं सङ्गच्छते इति । इदं त्ववधेयम् । पर्युदासपक्षे नजिवयुक्तन्यायबलादेव निपातलाभसम्भवेऽपि निपातपदोपादानं स्वयमेव यो निपात. स्तस्यैव प्रगृह्मत्वम्, न तु स्थानिवद्भाायुक्तनिपातत्वकस्येत्येत- दर्थकम् । तेन नोक्तदोषः । अतिदेशेनैव तत्र निपातत्वस्यानीय- मानत्वात् । निपातग्रहणस्य चोत्तरार्थत्वेऽपि "इहकिञ्चित्रपो इति" इति न्यायेनात्रोपादानस्यापि प्रयोजनसम्भवे सति त्यागायोगा. त् । एवम् एकग्रहणस्याप्यत्र पूर्वोक्तरीत्या प्रयोजनाभावान्मु- ख्यार्थकमेवैकपदं व्याख्यायताम् । “एके मुख्यान्यकेवलाः" इत्यमरोक्तेः । तच्चौपदेशिकत्वरूपमत्र ग्राह्यम् । तेन मुख्यत्वस्य सामानाधिकरण्येन निपातत्वलाभादातिदेशिकनिपातत्वमाश्रित्य नोक्तदोषः । न चैवं "वर्णग्रहणे जातिग्रहणम्" इत्यत्र ज्ञापकानु- पपत्तिः । अपृक्तसंज्ञासूत्रे एकग्रहणस्यापि भाष्यएव तज्ज्ञापक. त्वोक्तेः । एतेन तत एव सिद्धावत्रत्यमेकग्रहणं व्यर्थमित्यपि शङ्काऽन्तरं परास्तम् । विनिगमकाभावाच । वक्ष्यति तत्र तथै- व कैयटः । नन्वेवमपि "प्रतिषिद्धार्थम्" इति भाष्यविरोधो दुर्वार इति वाच्यम् । अदोऽभवदित्यत्रातिप्रसङ्गशङ्काया लक्षणप्रतिपदोक्तप- रिभाषया समाधानस्य च तदुक्तस्यानुपपत्या तद्न्यस्य प्रौढि- वादत्वात् । न चोत्तरग्रन्थ एव प्रौढिवादो लक्षणप्रतिपदोक्तप.

२६० व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये रिभाषाया वर्णग्रहणेष्वप्रवृत्तेरिति वाच्यम् । तथाऽपि गोऽभव- दित्यत्रातिप्रसङ्गशङ्कादेरनुपपत्तेः । “अनाङ" इत्यत्र प्रसज्यप्रतिषे- धपक्षे वाक्यभेदासमर्थसमासाश्रयणापत्तेश्च । आङ्भावातिदेशेन तद्भिन्नत्वव्यपदेशानिवृत्तावपि तत्कार्याणां निवृत्तेश्च । गुरौ गुरु- भिन्नत्वव्यपदेशसत्त्वेऽपि गुरुत्वपयुक्तकार्यप्रवृत्तः । आहार्यवु. ढेरपि शास्त्रप्रामाण्येन कायेनियामकत्वात् । असिद्धस्थले तथै- व क्लप्तत्वात् । ओत् १५। च ओकारान्तो निपातः प्रगृह्यः । आहो इति । उताहो इति । निपात इति किम् । “ नियुत्वान्वायवायाहि " " "विष्णउरु- गायेव ते सोमः" इत्यादौ मा भूत् । वृत्तिकृतस्तु गवित्य यमाहेत्यपि प्रत्युदाहरन्ति । अत्र वदन्ति-"तत्र प्रगृह्यसंज्ञासत्वेऽपि न क्षतिः । प्रकृति- भावविधौ पदान्ताधिकारादेव तदप्रसक्तेः । गवित्ययमाहेत्यत्र विभक्तिश्रवणाभावादनुकार्यानुकरणयोरभेदविवक्षयाऽर्थ- ववाभावेन प्रातिपदिकत्वाभावाद्विभक्तेरनुत्पत्या पदान्तत्वा- भावात् । “अपदं न प्रयुञ्जीत" इत्यस्य चापरिनिष्ठितप्रयोगनि. षेधार्थत्वात् । प्रकृते च गो इति स्वरूपस्यैव परिनिष्ठिनत्वात् । अत एवेह “ लोपः शाकल्यस्य " इति न प्रवर्ततइति । न चैवं "हेऽलयो हेऽलय इति कुर्वन्त" इत्यत्र कथं रुत्वयत्वयलोपा इति वाच्यम् । तत्र भेदविवक्षया सुप्रत्ययं कृत्वा “ हल्ङन्याभ्यः इति विभक्तिलोपेन "प्रकृतिवदनुकरणम्" इत्यतिदेशेन वा पदा- न्तत्वात् । तस्मात्यकृतिभावविधौ पदान्तग्रहणानुवृत्तिर्नास्तीत्य- भिप्रायेण वृत्तिग्रन्यो योज्यः" इति । नन्वाहो इत्यादयो निपा- प्रथमपादे प्रगृह्याह्निकम् । ५। २६१ तसमुदायाः, आह उ आहो, उत आह उ उताहो इत्यादि, ततः पूर्वेणैव संज्ञा सिद्धा आदिवद्भावेन । न च आहो इतीत्यादौ उब ऊँ" इत्यस्यापत्तिः । अकारानुबन्धस्यैव तत्र ग्रहणात् । न च निरनुबन्धउकारे मानाभावः । तत्रैव भाष्ये वक्ष्यमा- णत्वात् । न च आ उ इत्यनयोरेकादेशे ओ इत्यत्रान्तवद्भावेन आग्रहणेन तद्हणेन"अनाङ्" इति प्रतिषेधः स्यादतस्तन्निरासाये दम् । अन्यथा 'ओषु यातं मरुतः" "ओपु यातं बृहती शकरी च" "ओचित्सखायं सख्यावस्त्याम्” इत्यादौ प्रगृह्यसंज्ञाऽनापत्तेः । न चाचपरत्वाभावात्तत्सत्वेऽपि न विशेष इति वाच्यम् । क- स्याञ्चिच्छाखायाम् ओ अयातमिति पाठे विशेषसम्भवात् । प्रतिषेधार्थोऽयमारम्भ इति भाष्यस्यैव च तत्र प्रमाणत्वात् । न च नैतद्गाप्यकृतो विवक्षितम्, अदोऽभवदित्यादावतिप्रसङ्गस्याग्रे शङ्कितत्वात्, प्रतिषिद्धार्थत्वे तत्र प्रसक्तेरेवाभावादिति वाच्यम् । उभयार्थत्वेऽप्यविरोधात् । विध्यर्थत्वात्परत्वाद् “अनाङ्" इति प्रतिपेधवाधकत्वस्य च सम्भवादिति समाहितत्वात् । अस्तु वा “अनाङ्” इति पर्युदास एव, तथाऽपि आङ- नाङोरेकादेशस्यादिवद्भावेन अनाङ्ग्रहणेन ग्रहणात् । तत्किमर्थ- मिदं मूत्रमिति चेत्, अत्र भाष्यम् - एकनिपाता इमे इति । अखण्डा एव, न तु निपातसमुदायाः। अतोऽपूर्वविधिरेवाय- म्। अत एव "ओषु यातं मरुतः" इत्यादौ पदपाठकाले ऐकपद्य- नैव पाठः । एवम् आम् आहो देवदत्तेतीत्यत्र “ आम एका. न्तरमामन्त्रितम्” इति निघातप्रतिषेधोऽपि । अथ तथाऽपि अदश्शब्दात् च्चिप्रत्यये “ऊर्यादिच्चि- " इति गतिसंज्ञायां कुगतिप्रादयः " इति समासे डाचश्च ऽयवायावः २६२ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये अनदः अदः अभवत् अदोऽभवत् इत्यत्रातिप्रसङ्गः । गतिसं- ज्ञाविधेः " प्राग्रीश्वरान्निपाताः" इत्यधिकारान्तर्भावेन चि- प्रत्ययान्तानां निपातत्वात् । न च लक्षणप्रतिपदोक्तपरिभाषया निर्वाहः । वर्णग्रहणेषु तदप्रवृत्तेः । अन्यथा हरये इत्यादौ "एचो. इत्यस्याप्रवृत्त्यापत्तेः । चक्रे इदम् इत्यादौ चा- रितार्थ्यात् । किञ्च तथाऽपि अगोर्गौरभवत् गोऽभवद् इत्यादौ दोषो दु- रिः। “गमेझैः" इति ओकारस्य स्वरूपत उच्चारणेन प्रतिपदो- क्तत्वात् इति चेत्, अत्र भाष्यम्- गौणमुख्ययोर्मुख्य कार्यसम्प्रत्यय इति । तद्यथा-"गौरनुबन्ध्योऽजोऽग्नीपोमीयः" इति न वाहीको- ऽनुवध्यतइति । अयमर्थः। “स्वं रूपम्" इत्यत्र रूपग्रहणेनार्थग्रह- णस्यापि ज्ञापितत्वात् अर्थवतः कार्येण भवितव्यम्। अर्थश्च द्वेधा, मुख्यो गौणश्च । तत्पदशक्तिविषय आद्यः। गौणस्तु सादृश्यनि- मित्तकवृत्तिविषयः । गुणनिमित्तकत्तिसम्बन्धित्वेन शब्दवद- र्थेऽपि स्वारसिकगौणपदप्रयोगात् । तत्र प्राथम्यान्मुख्यार्थस्यैव ग्रहणम् । वृत्त्यन्तरस्य तद्बाधएव समुल्लासात् । शक्यार्थभान- स्यापि तत्राभ्युपगमेन तत्पूर्वकत्वाच्च । शक्यसमवेतगुणप्रका- रकबोधत्वस्यैव स्वशक्यगुणवत्तारूपत्तिज्ञानकार्यतावच्छेदक- स्वोपगमात् । ततश्च गोऽभवदित्यत्र प्रकृतेरेव कर्तृत्वम् । “सङ्घी- भवन्ति ब्राह्मणाः" "पटीभवन्ति तन्तवः" इत्यादौ वचनव्यव- स्थायाः "त्वद्भवति देवदत्तः" "मद्भवसि त्वम्” “त्वद्भवाम्य- हम्" इत्यादौ पुरुषव्यवस्थायाश्च तत एवोपपत्तेः । प्रकृतित्वमत्रारोपविषयत्वं बोध्यम् । तत्र च गो- स्वादिकमारोपितमेव, न मुख्यामिति । न च गौणे- .

प्रथमपादे प्रगृह्याहिकम् । ५। २६३ ऽपि गुणानामेव प्रवृत्तिनिमित्तत्वाभ्युपगमात्कथं वाहीका- दौ गोत्वारोप इति वाच्यम् । स्वोत्प्रेक्षाप्रभवारोपविषयी- भूतार्थवृत्तित्वं गौणत्वमिति मतेन तदुक्तेः । अत्र हि श- ब्दस्य स्वाभिधेयं विनाऽन्यत्र गुणयोगमात्रेण प्रवृत्त्यभावात् । आरोपविषये विषयितावच्छेदकधर्मस्यैवारोपः । न च वि- विक्तत्वेन तदनुपपत्तिः । शुक्तिकादौ चाकचक्यादिसादृश्येन रजतत्वाधारोपवत् “योषा वाव गौतमाग्निः" इति पञ्चाग्निविद्यायां रेतोमयहविःप्रक्षेपरूपहोमाधिकरणत्वसादृश्येन योषायामग्नि- त्वारोपवत् जाड्यक्रूरत्वादिसादृश्येन वाहीकमाणवकादौ गोत्व- सिंहत्वाधारोप इत्यास्तां प्रासङ्गिकम् । तस्मान्न गौणे प्रगृह्य- संज्ञेति । नन्वेवं गौस्तिष्ठति गामानयेत्यादौ गौणे वृद्ध्यात्वा- दिकमपि न स्यादिति चेत् , अत्र कैयटहरदत्तादयः- पदकार्येष्वयं न्यायो न प्रातिपदिककार्येषु इति । तथा हि । स्वार्थे वृत्तात्पातिपदिकाद्विभक्तावुत्पन्नायर्या कार्येषु कृतेषु शब्दान्तरसन्निधानाद्गौणत्वं प्रतीयते । गोऽभवदित्यत्र तु गौणत्वं विना च्चिप्रत्यय एव दुर्लभ इति वैषम्यम् । किश्च गुणक्रिययोः श्रौतः क्रियासम्बन्धः " श्वेतं छाग- मालभेत" इत्यादौ वाक्यीयात्तु न्यायात्परस्परेण श्वेतस्य आ- श्रयापेक्षायां व्यक्तिवचनन्यायेन छागपरत्वम्, छागस्य च गु- णाकालायां श्वेतपरत्वमिति पार्मिकः परस्परावच्छेदः । शाब्दा- न्वयस्तु क्रियायामेवेति भाट्टसिद्धान्तः । एवं गां वाहीकमान- येति पूर्व क्रियासम्बन्धापेक्षया विभक्तावुत्पन्नायां पश्चात्सामा- नाधिकरण्याद् गौणार्थप्रादुर्भावो भवतीति । तदेतदुक्तं भाष्य- कृद्भिः-- २६४ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये अन्यथा यत्तु शब्दाश्रयं तच्छन्दमात्रे भवति, शब्दाश्रये च वृद्ध्या- त्वे इति । यत्तु वाक्यसंस्कारपक्षे वृद्ध्यात्वप्रवृत्तितः प्रागेव गौणार्था- वगतः आद्यमयुक्तमिति, तदसत् । गौणार्थावगतिमात्रस्याकि- श्चित्करत्वात् । तस्य कार्यप्रवृत्तावनुपयुक्तत्वात् । गामानयेति मुख्यार्थे वृद्ध्यादेरप्रवृत्तिप्रसङ्गात् । यदपि “किश्चेत्यादिकं न युक्तम्, ब्रूते पाठयेत्यादिक्रियान्व- यायैव गौणताया आश्रयणीयत्वात्” इति, तदप्यसत् । “अरु- णयैकहायन्या पिङ्गाक्ष्या सोमं क्रीणाति " इत्यादावपि अरु- णया क्रीणातीति वाक्ये गुणमात्रस्य क्रयसाधनत्वानुपपत्त्या तदर्थ प्रागेव क्रयसाधनद्रव्यसम्बन्धेन क्रयान्वयापत्तौ तत्सि. द्धान्तभङ्गप्रसङ्गात् । अयोग्यताज्ञानस्य शान्दधीप्रतिवन्धकतया तदभावेन स्वरूपसतैवारुण्यस्य क्रयभावनायामन्वये ज्ञाते प- थादेव योग्यताकाङ्क्षायाममूर्तत्वेन साक्षादयोग्यत्वेऽपि द्रव्य- परिच्छेदरूपव्यापारद्वारा करणत्वयोग्यतानिर्णयः । प्रथमं तु कारकान्तरवदेव भावनायामारुण्यस्य सम्बन्ध इत्यादेस्तत्र निरूपितत्वात् । प्रकृतेऽपि तद्रीत्या पूर्व गौणत्वप्रत्यये बीजा- भावात् । यदप्युक्तम् , “कटोऽपि कर्म भीष्मादयोऽपि" इति पक्षे उ. क्तिसम्भवेऽपि सामानाधिकरण्याद्रीष्मादेर्द्वितीयेति भाष्योक्तपक्षा- न्तरे त्वदुक्तन्यायावतारो नास्तीति, तदप्यसत् । पार्टिकपरस्प- रावच्छेदावस्थाभिप्रायेणैव तदुपपत्त्या पूर्व गौणत्वात्ययस्यानाव. श्यकत्वात् । एतत्पक्षे पूर्व सामानाधिकरण्यस्यैवानङ्गीकारात् । यदप्याहुः- महद्भूतश्चन्द्रमा इत्यादौ " आत्महतः इत्यात्वं विशिष्टरूपग्रहणेन क्रियमाणं गौणे न भवतीति युक्तम् , प्रथमपादें प्रगृह्याह्निकम् । ५। इह तु"ओद्' इति वर्णपुरस्कारेण विधीयमाना प्रगृह्यसंज्ञा कथं गौणार्थवृत्तेन भवेत् । निपातसंज्ञा तु तस्यापि मुख्यैव । अत एव श्वशुरसंज्ञस्य कस्यचिदपत्ये श्वाशुरिरित्यत्र " अत इत्र प्रवर्तते । वर्णाश्रयत्वात् । न तु “ राजश्वशुराद्" इति यत्। विशिष्टरूपोपादानात् । अन्यथा इभ्यतोस्तुल्ययोगक्षेमतैव स्यात् । गोशब्दे वृद्ध्यात्वे अपि वर्णाश्रयत्वादेव, न तु प्रातिपदिककार्य- त्वात् । " गोतः" इति तपरत्वस्य ओकारान्तोपलक्षणार्थत्वा- त् इति, तदपि चिन्त्यम् । अकारादीनामैक्यपक्षे बाहुक इत्यादौ चरितार्थानां " नौद्यचः” इत्यादीनां घटिक इत्यादी प्रवृत्तिर्न स्यादित्याशङ्कापराणाम् अइउणसूत्रस्थभाष्यादिग्रन्था- नां विरोधात् । प्रकृतसूत्रस्थोक्तभाष्यविरोधाच्च । यत्तु " राजश्वशुरात् " इत्यादि, तदसत् । श्वशुरपदस्य हि भार्याभत्रन्यतरजनकत्वे सति पुंस्त्वं शक्यतावच्छेदकम् , संज्ञाश्वशुरस्य तु व्यक्तिस्वरूपं शक्यम्, शब्दस्वरूपं च शक्यताव- च्छेदकम् । आयं प्रसिद्धिवशाच्छीघ्रोपस्थितिकम् , न त्वन्त्यमिति विशेषः । श्वशुरशब्दस्य स्वरूपेणोपादानस्थले शीघ्रोपस्थित्यर्थ- वाचके चरितार्थ शास्त्रं द्वितीये न प्रवर्तते । इत्यत्र त्वकारान्तस्य संज्ञाश्वशुरेऽपि सत्त्वात्कथं न इज प्रत्ययः प्रवर्तेत । तदुपस्थितौ प्रथमश्वशुरपदार्थबोधस्यानपेक्षितत्वेन तच्छब्दस्य प्रथमोपस्थितत्वाभावात् । प्रकृते तु ओकारान्तनिपातस्य प्रगृह्यसंज्ञाविधाने ओदन्त- त्वविशिष्टनिपातत्वावच्छिन्नतया चिप्रत्ययान्तगोशब्दोपस्थिती गौणार्थज्ञानस्य शक्यार्थज्ञानपूर्वकत्वनियमेन च्च्यन्तगोशब्दस्य गौणत्वं प्रागेव प्रतीयतइति वैषम्यम् । ननु तथाऽप्युद्देश्यताव- च्छेदकरूपानपायाद् दुर्वारैव संज्ञेति चेन्न । निपातत्वं यत्रोद्दे- " अत इञ् ३४ २६६ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये श्यतावच्छेदकम् , ओदन्तत्वं तूद्देश्यतावच्छेदकतावच्छेदकम्। त- द्धटकसम्बन्धो यदि सामानाधिकरण्यमानं तर्हि " अथोपयन्त्रा सदृशेन युक्ताम् " इत्यत्रैकादेशश्य पूर्वान्तत्वेन ग्रहणादोकारा- न्तत्वं निपातत्वं चास्तीति " अथातो ब्रह्मजिज्ञासा" इत्या- दावप्यथशब्दस्य प्रगृह्यसंज्ञा स्यात् । तथा च यस्यां व्यक्ती ओदन्तत्वनिपातत्वयोः समनियतत्वं तत्रोक्तविधिप्रवृत्तिरिति वक्तव्यम् । गोशब्दे च निपातत्वाभावदशायामप्योदन्तत्वमस्त्ये. वेति न प्रवृत्तिः । अहो इत्यादौ उभयमप्यस्तीति नाव्याप्तिः । एतेन निपातसंज्ञा तस्यापि मुख्यैवेत्यपास्तम् । उक्तरीत्या उद्दे. श्यतावच्छेदकरूपवैकल्यात् । संज्ञामात्रस्याकिञ्चित्करत्वात् । एतेन "गौणमुख्ययोः" इति भाष्यं व्याख्यातम् । यस्य ओद- न्तस्य निपातत्वाभावः कदाऽपि नास्ति सोऽत्र गृह्यतइत्यर्थात् । सम्बुद्धौ शाकल्यस्येता- वनार्षे १६ । ऋषिर्वेदः । “तदुक्तमृषिणा"इत्यादिदर्शनात् । "ऋषिर्वेदे वसिष्ठादौ" इत्यभिधानाच । अवैदिके इतिशब्दे परे सम्बुद्धिनि- मित्तक ओकारो वा प्रगृह्यः । विप्णो इति । विष्णविति । अनार्षे किम् । ब्रह्मबन्धवित्यब्रवीत् । इतौ किम् । विष्णोऽत्र । उञ ऊँ १७॥ इह त्रैरूप्यामिष्टम् । आदेशविकल्पे प्रगृह्यत्वविकल्पे च ऊँ इति । उ इति । विति । उभयाभावपक्षे यणादेशः । तच्चैकस्मि- प्रथमपादे प्रगृह्याहिकम् । ५। २६७ उञः" न्सूत्रे न सिध्यति । उअ इत्यस्य श्रुतेनादेशेन सम्बन्धे शाक- ल्यपदानुवृत्त्या आदेशविकल्पे तदभावपक्षे " निपात एकाज- नाङ्" इति प्रगृह्यसंज्ञाया नित्यतया रूपद्वयस्यैवापत्तेः । अतो योगविभागं कृत्वा व्याख्येयम् । " शाकल्यस्येति इतौ प्रगृह्यमिति चानुवर्तते । अस्य इतिशब्दे परे प्रगृह्यसंज्ञा वा स्यात् । उ इति । विति । ततः "ॐ" इति द्वितीयो योगः । अत्र यदि प्रगृह्यस्य शाकल्यस्येत्युभयमपि नानुवर्तेत, तदा प्रगृह्यस्य उन ॐ आदेशे उन इति समुदायाश्रयेणाल्विधित्वाभावेन स्था- निवत्त्वेन तस्य प्रगृह्यत्वे ॐ इतीत्येकेमिष्टम् । अप्रगृह्यस्य आदेशे यणि कृते आन्तरतम्येन सानुनासिकवकारयुक्तं द्वितीयं त्वनिष्टमपि रूपं स्यात् । यदि तु प्रगृह्यस्य उन इत्येवानुवर्त्तत, तदा प्रगृह्यस्य उजो नित्यमादेशविधाने ॐ इति विति इति च द्वे एव रूपे स्याताम् । यदि तु शाकल्यग्रहणमात्रमनुवर्तेत, तदा प्रगृह्याप्रगृह्ययो- रादेशविकल्पे ॐ इति उ इति द्वे प्रगृह्यस्य । अप्रगृह्यत्वपक्षे च आदेशस्य यणादेशे सानुनासिकवकारयुक्तं शुद्धस्य यणादेशे च निरनुनासिकवकारयुक्तं चेति द्वे रूपे इति मिलित्वा रूपचतुष्ट- ये सानुनासिकवकारयुक्तं रूपमनिष्टं स्यात् । अत उभ- यानुवृत्त्या प्रगृह्यस्यादेशविकल्पे सति इष्टरूपत्रयसिद्धिः । तेन प्रगृह्यस्य उन ऊँ आदेशो वा स्यादित्यर्थः । ननु शाक- ल्यस्यैव मते प्रकृतिभावः, तत्रैव ऊँ इत्यादेशः । ततश्च उ इति इत्येतद्रूपं न स्यात् । आदेशनिर्मुक्ते प्रगृह्यसंज्ञायां मानाभावा- दिति चेत् , मैवम् । शाकल्यपदस्य विकल्पमात्रतात्पर्यकत्वात् । एतदर्थमेव योगविभागाश्रयणात् । अत एव “ऊँ वा शाकल्यस्य" "शाकल्यस्थाचार्यस्य मते वा ऊँ अयमादेशः" इति भाष्यं शाकल्य- २६८ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये । श्रुतेरेव फलं वाग्रहणेन प्रतिपादयतीति व्याख्यातम् । केचित्तु शाकल्यग्रहणस्य यथाश्रुतत्वेऽपि “निपात एकाज्" इत्येव सिद्धे “ उनः" इति मूत्रं नियमार्थम् , शाकल्यभिन्नमते उत्रः प्रगृह्यत्वं नेति तदर्थः "ॐ" इति सूत्रे च प्रगृह्यस्य उष इत्येतावतैव शाकल्यलाभे पुनः शाकल्यानुवृत्या इतरेषामपि मते पाक्षिकप्रगृह्योऽस्तीत्यनुमीयते । अत उ इतीति सिद्धमित्या- हुः, तच्चिन्त्यम् । श्रौतनियमाविरुद्धानुमानस्य मूलोच्छेदपरा- हतत्वात् । तद्विरोधेनानुवृत्तावपि मानाभावप्रसङ्गात् । यदप्याहुः । "ॐ" इति सूत्रे पुनः शाकल्यानुवृत्तिसा. मर्थ्यात् शब्दाधिकाराश्रयणात् पूर्वसूत्रानुवृत्तशाकल्यादन्य एव शाकल्यो गृह्यते । शकलस्य ऋषेरपत्यद्वयसच्चे बाधकामा- वात् । न च द्वितीयशाकल्यमते प्रगृह्यसंज्ञाया अनुक्तत्वात् आदेशस्य प्रगृह्यत्वं न स्यादिति वाच्यम् । प्रगृह्यस्य उन आदे- शविधानेऽनुवादसामर्थ्यादेव तल्लाभात् । " ढकि लोपः" इत्यादौ अगत्याऽनुवादसामर्थ्यादपि पदार्थप्राप्तेः स्वीकारादिति, तदपि चिन्त्यम् । श्रुत्यैव लाभे तत्पर्यन्तानुसरणानौचित्यात् । "यदेत→ इति पदकारैरुच्यते" इत्यनुकरणे “यरोऽनुनासिके" इत्यनुनासिकादेश इति हरदत्तः । ईदूतौ च सप्तम्यर्थे १८। विकल्पस्य इतिशब्दस्य च निवृत्तिः । सप्तम्यर्थे वर्तमानम् ईदन्तं शब्दरूपं प्रगृह्यसंज्ञं स्यात् । अध्यस्यां मामकीतनू । उभयत्र “सुपी सुलुम्" इति सप्तम्या लुक् । पदपाठकाले इति- शब्दस्य तदृत्तरं प्रयोगादुदाहरणत्वम्। “सोमोगौरी आधिश्रितः" - प्रथमपादे प्रगृह्याह्निकम् । ५ २६९ इति। संहितायामप्युदाहरणत्वम् । ईदूताविति किम् । प्रियः सूर्ये प्रियो अग्ना भवाति । अग्निशब्दात्सप्तम्या डादेशः । सप्तम्यर्थे किम् । धीती । मती । सुष्टुती । तृतीयाया ईकाररूपः पूर्वस- वर्णः । अत्र वार्तिकम् ईदूतौ सप्तमीत्येव लुप्तेऽर्थग्रहणाद्भवेत् । पूर्वस्य चेत्सवर्णोऽसावाडाम्भावः प्रसज्यते ।। वचनाद्यत्र दीर्घत्वं तत्रापि सरसी यदि । ज्ञापकं स्यात्तदन्तत्वे मा वा पूर्वपदस्य भूत् । अयमर्थः। ईदृतौ सप्तम्यामित्येवास्तु किमर्थमर्थग्रहणम् , सप्तमी- सहचरितं यदीदन्तम् , यद्वा-सप्तम्यां परतस्तत् प्रगृह्यसंज्ञमित्यर्थे "सोमोगौरी अधिश्रितः” इत्यादौलुप्तायामपि सप्तम्यां प्रत्ययल- क्षणेन प्रगृह्यत्वसिद्धेरिति प्रश्नः । संज्ञाविधौ प्रत्ययग्रहणे त. दन्तग्रहणाभावादर्थग्रहणं विना सप्तम्या एव संज्ञिनीत्वाल्लुप्ताया- श्व कार्याभावात् प्रत्ययं निमित्तीकृत्यान्यस्य कार्यविधानएव- प्रत्ययलक्षणानुशासनात्स्वकार्ये तदभावाच गौरी ज्ञा न स्यादतोऽर्थग्रहणम् । तेन च संज्ञाया अर्थनिबन्धनत्वेन प्रत्ययश्रवणानपेक्षत्वाल्लुप्तायामपि सप्तम्यां प्रकृतिभावस्य सं- ज्ञेत्यभिप्रायेणोत्तरं लुप्तइति । ननु गौरी इत्यत्र न सप्तम्या लोपः, किन्तु धीती मती सुष्टुतीत्यादाविव अकः सर्वणे” इति एकादे- शः । तस्य चादिवद्भावाद्भवत्येव ईकारः सप्तमीति नेदं प्रयो- जनमित्याह- पूर्वस्यचेदित्यादि । दूषयति- आडाम्भाव इति । एकादेशं बाधित्वा परत्वादाङ्गत्वाच्च "आण्नद्याः" इत्याद् । "डेरामनद्याम्नीभ्यः" इति सप्तम्या आमित्यादेशश्च स्यादित्य. र्थः । ननु सप्तमीलोपं विना ईदन्तत्वाभावादन्यत्र च संज्ञा- इत्यत्र प्रगृह्यसं २७० व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये याः प्रयोजनाभावादेतादृशस्थले तल्लोपस्य सार्वत्रिकत्वात्तत्र प्रवृत्ति विना संज्ञाया वैयर्थ्यप्रसङ्गात्तत्सामर्थ्यादेव लुप्तायामपि सप्तम्यां संज्ञा भविष्यत्येवेत्याह-वचनादिति । यत्र सप्तम्या- श्छान्दस ईकारादेशः, तत्रैव संज्ञाविधानस्य चरितार्थत्वाप- च्या सामर्थ्यस्योपक्षीणत्वात्सप्तमीलोपस्थले संज्ञा न स्यादेवे. त्याह-यत्र दीर्घत्वमिति । यथा-"दृतिं न शुष्कं सरसी शयान- म्" इत्यत्र सरःशब्दात्परस्य सप्तम्येकवचनस्य "इयाडिया जीकाराणामुपसंख्यानम्" इति ई इत्यादेशः । तत्र सप्तम्याः श्रूयमाणत्वेन संज्ञाविधानस्य चारितार्थ्यादिति । ननु तत्रापि न सप्तम्या ईकारादेशः । प्रयोजनाभावात् । किन्तु सरसीशब्दोत्तरसप्तम्या लोप एवेति संज्ञाविधेः सामर्थ्य- मस्त्येवेत्याह-तत्रापीति । यदि इत्यसंदेहे सन्देहः, “शास्त्राणि चे- प्रमाणं स्युः" इत्यादिवत् । “सरसी तु महासरः" इति शब्दार्ण- वात् । “दक्षिणापथे महान्ति सरांसि सरस्य इत्युच्यन्ते" इति भगवदुक्तेः । “साधर्म्य दधति गिरां महासरस्यः" इत्यादिदर्श- नाच्च । ननु तथाऽपि सरसीशब्दस्यैव लुप्तसप्तमीकस्यायं प्रयोगो, न तु सरःशब्दस्येत्यत्र किं मानम् , तन्मात्रार्थमर्थपदोपादान- स्य सन्दर्भविरुद्धत्वादिति चेत् , अत्राहुः- सरसीशयानमित्यत्रान्तोदात्तपाठ एव मानम् । गौरादिमध्ये "पिप्पल्यादयश्च"इति पाठात्तदन्तःपातिनो ङीषन्तसरीशब्दस्यै- व अन्तोदात्तत्वात् । असुन्प्रत्ययान्तस्य सरःशब्दस्य नित्स्वरेणा- धुदात्तत्वापत्तेरिति । तस्मादर्थग्रहणं माऽस्त्विति सिद्धम् । ननु प्रगृह्यसंज्ञाप्रकरणे प्रत्ययलक्षणं नास्तीति ज्ञापनार्थमेतत्स्यादि- त्याह-ज्ञापकं स्यादिति । उक्तार्थस्येति शेषः । तस्य प्रयोजन- माह-तदन्तत्वे इति । "ईदृदेद् द्विवचनं प्रगृह्यम्" इति सूत्रे ईदूदेद- - प्रथमपादे प्रगृह्याह्निकम् । ५। २७१ न्तं द्विवचनान्तमिति, ईर्ददन्तं यत् द्विवचनं तदन्तमिति पक्षश्च सिद्धो भवतीत्यर्थः । ननु तत्र तदन्तविध्यभावादेव तत् पक्षद्वयं- निरस्तम् । अत एतदर्थज्ञापनमनुपयुक्तमेवेत्यत आह-मावेति । पूर्वपदस्येति । वाप्यामश्वो वाप्यश्वः नद्यामातिनद्यातिरिति- समासे लुप्तसप्तमीकयोः वापीनदीशब्दयोः प्रत्ययलक्षणेन सप्त- म्यन्तत्वात्प्रगृह्यत्वं मा भूदित्यर्थ सार्थकमेवार्थग्रहणामित्यर्थः । न- न्वर्थग्रहणेऽपि तत्रातिव्याप्तिर्दुवारा । सप्तम्यर्थस्य प्रतीयमान- त्वात् इति चेत्, मैवम्। जहत्स्वार्थवृत्तिपक्षे समासे विशिष्टशक्ति- स्वीकारेण पूर्वपदस्यानर्थकत्वात् । अजहत्स्वार्था वृत्तिरितिपक्षेऽपि पूर्वपदे सप्तम्यर्थे लक्षणे- व । अर्थपदोपादाने तु विशेष्यतासम्बन्धेन सप्तमीपदजन्यो- पस्थितिमत्त्वस्य लाभात् । समासे प्रतीयमानस्याधिकरणत्वादे- स्तथात्वाभावादेव तद्वारणं बोध्यम् । अत्रेदमवधेयम् । अयं योगश्छान्दस एव । तेन ययीपपीवा- तप्रमीशब्दानां सप्तम्येकवचने ईकारान्तानामपि न प्रगृह्यसंज्ञा । अन्यथा एषामेव श्रूयमाणसप्तमीकानामीदन्तत्वसम्भवन "तत्रा- पि सरसी यदि " इत्येतत्पर्यन्तानुधावनयापत्तेः । एसेन उकारान्तस्य भाषायामसम्भवात्तदनुसार इत्यपि निरस्तम् । हरदत्तोऽप्येवम् । अत एव प्रसादकारेण वैदिकप्रक्रियाया- मेवेदं सूत्रमुपन्यस्तम् । दाधा वदाप् १९। दारूपा धारूपाश्च धातवो घुसंज्ञाः स्युः दाब्दैपौ विना। प्रदेशाः " नेगदनद " इत्यादयः । दारूपाश्चत्वारः । डुदा २७२ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याय दाने । दाण् । दो अवखण्डने। देङ् पालने । धारूपो द्वौ । डुधाञ् धारणपोषणयोः । धेट पाने । एजन्तानाम् “ आदेच उपदेशे" इत्यात्वेन दारूपत्वम् । अनैमित्तिकमात्वं शिति तु प्रतिषेध इति सिद्धान्तात् । न चानुकरणस्य धातुत्वं नास्तीति वाच्यम् । "प्रकृतिवदनुकरणम्" इत्यतिदेशेन तत्सम्भवात् । न च प्रक- तावेव कृतात्वानामनुकरणमस्तु किमतिदेशेनेति वाच्यम् । तेषा- मात्वाभावस्थले प्रणिधति प्रणिदयतइत्यादौ घुसंज्ञाऽनापत्तेः । ततश्चतुर्णा दारूपाणां द्वयोश्च धारूपयोरेकशेषोत्तरं द्वन्द्वः । प्रातिपदिकसंज्ञा प्रति अतिदेशाप्रत्याश्रयेण विभक्त्यन्तत्वात् । निरनुबन्धकग्रहणे न सानुबन्धकस्य इत्यस्या लक्षणप्र- तिपदोक्तपरिभाषायाश्च नेह प्रवृत्तिः । विशिष्यैव सर्वेपामुपा- दानात् । अदाविति किम् । दाप् लबने । दातं बार्हः । छि- नमित्यर्थः । “दो दद् घोः” इति ददादेशाभावः । दैप् शोध. ने । अवदात मुखम् । घुत्वाभावाद् अच उपसर्गात्तः, इत्यस्य न प्रवृत्तिः । उद्देश्यसमर्पके दा इत्यत्र अनयोरप्यनुक- रणशङ्कानिरासार्थश्चेदम् । तेनानयोरनुकृतत्वाभावेऽपि न क्षतिः । न च दीडोऽपि कथमत्र नोपादानम् , " मीनाति- मिनोतिदीड ल्यपि च " इति तस्याप्यादन्तत्वादिति वाच्यम् । तत्स्वरूपानुकरणे आत्वानुपपत्तेः । तेन हि गुणोत्तरमात्वं विधीयतइति वार्तिकमतम् । गुणादिनिमित्ते प्रत्यये परे इति तु भाष्यमतम् । उभयथाऽपि नैमित्तिकतया अनुकरणे प्रत्यभावात् । " आदेचः " इत्यात्वं तु अनैमित्तिकत्वादनुकरणेऽपि प्रवर्तत- इति वैषम्यम् । वार्तिककृतस्तु एजन्तानुकरणत्वे प्रमाणाभावागौरवाच प्रथमपादे प्रगृह्याह्निकम् । ५। २७३ । प्रयोगएव ये आकारान्ताः प्रयुज्यन्ते तदनुकरणानामेवायमेकशे. षेण निर्देशः, "दाधा" इति पृथक्पदं वा सामान्यानुकरणम् । नन्वेवं प्रणिधति प्रणिदयते इत्यादी घुसंज्ञाऽभावे णत्वं न स्यात् । शिति आत्वनिषेधात् कृतात्वानामेव च त्वया घुसंज्ञा- स्वीकारात् इति चेत्, सत्यम् । वचनेनैव समाधेयत्वात् । तथा च कात्यायनवार्तिकम्- घुसंज्ञायां प्रकृतिग्रहणं शिदर्थमिति । भारद्वाजीयास्तु शिद्विकृतार्थमिति पठन्ति । अयमर्थः-"दा- धाप्रकृतयो घुसंज्ञाः” इति सूत्रं कार्यम् । दाधा इत्यंशेन प्रयोगे आदन्तानां घुसंज्ञा । प्रकृतिपदं च सन्निधानात् दाधाप्रकृतिपर- म् । तथा च तत्स्थले आत्वाभावेऽपि येषामात्वं यत्र कचिद्विहितं तेषामपि घुसंज्ञा । आत्वानुपधानेऽपि तत्प्रकृतित्वस्य आत्वा. देशस्थानितावच्छेदकरूपवत्त्वस्य सत्त्वात् । तेन प्रणिद्यति इत्यादि सिद्धम् । भाष्यकृतस्त्वाहुः-"नेर्गद" इति सूत्रे घुमास्यतीत्यत्र घुश- ब्दाव्यवहितोत्तरप्रकृतिपदमवश्यं पठनीयम्, घुप्रकृतिमेति । अ. न्यथा प्रणिमयतइत्यत्र णत्वानुपपत्तेः । लाक्षणिकत्वेन मेडो माशब्देन ग्रहीतुमशक्यत्वात् । प्रकृतिग्रहणे तु प्रकृतिपदस्य सविधानान्माप्रकृत्यर्थकत्वेन मेग्रहणसिद्धेः । न चैवं मी- नातिमिनोत्योरपि “ मीनातिमिनोति" इत्यादिना कुत्रचिदा- त्वविधानेन तयोरपि माप्रकृतित्वाण्णत्वापत्तिः । माडिति डका- रानुबन्धस्यापि पाठ्यत्वात् । अन्यथा मा माने इत्यस्यापि ग्रहणा- पत्तेः । एवं घुमाझकृतीति पाठमपहाय"घुप्रकृतिमाङ्"इत्यादि पठनीयम् । घुश्च प्रकृतिश्च माङ् चेति द्वन्द्वे प्रकृतिपदं सन्नि हितत्वात्पूर्वोत्तरोभयप्रकृतिपरम् । एवं च घुभकृतीत्युक्ते घुश. ܙܐ ।

२७४ व्याकरणसिद्धान्तसुधानिधी प्रथमाध्याये ब्देन दाधारूपाणामुपस्थितौ तत्प्रकृतित्वेन धातुस्वरूपलाभात् प्रणिधति मणिदयतइत्यादौ घुसंज्ञां विनाऽपि णत्वं सिद्धमिति धुसंज्ञायां प्रकृतिग्रहणं व्यर्थम् । यत्तु भारद्वाजीयैरुक्तम्, “विकृतार्थम्"इति, तदपि न । गामादाग्रहणेष्वविशेषः" इति परिभाषया लाक्षणिकस्यापि दारूपस्य घुसंज्ञासिद्धेः । अस्यां च दैपः पित्त्वमेव लिङ्गम् । तद्धि अदावित्यत्र पर्युदासप्रतियोगिकुक्षौ दैपोऽपि निवेशोऽस्तु इत्यर्थम् । लक्षणप्रतिपदोक्तपरिभाषया दाग्रहणेऽप्रवृत्तौ तु दैप आत्वस्य लाक्षणिकतया तस्य प्रतियोगिबहिर्भावस्तदवस्थ एष स्यादिति तद्वैयर्थ्यमेव स्यात् । ननु तथाऽपि धेटो घुसंज्ञा न स्यात् । न चेष्टापत्तिः । प्रकृतिशब्देन णत्वसिद्धावपि घुसंज्ञाप्र. युक्तकार्यान्तराणामसिद्धिप्रसङ्गात्, सत्यम् । “ दो दद् घोः" इत्यत्र धेटो नित्यर्थ कृतेन द इत्यनेन तस्यापि घुसंज्ञाज्ञाप- नात् । घुत्वाभावे स्थानितावच्छेदकानाक्रान्तत्वादेव तस्य दद्भावाप्रसक्तौ तन्नित्यर्थयत्नानौचित्यात् । न च दधाति निवृत्यर्थत्वेन सार्थक्यम् । “दधातर्हिः" इति तस्य ह्यादेशवि- धानात्सामान्यविशेषन्यायेनैव घुशब्दस्य दधात्यन्यपरत्वोपप- तेः । न च दृधृडोणिचि दारयति धारयतीत्यत्र दाधारूप- स्वात् तत्रातिप्रसङ्गः, वृद्ध्या आकारे कृते दाधा इत्येतयोरर्थव- स्वात्,रपरत्वस्य पश्चादेव प्रवृत्त्या सदङ्गभूतत्वेन तदन्यत्वाप्रवर्त- कत्वात् इति वाच्यम् । "सिद्धं तु प्रसङ्गे रपरत्वाद्"इति वार्ति- करीत्या आर् इत्यादेवस्यैव वृद्ध्या विधानात् दार् धार इत्यनयोरेवार्थवत्त्वात् तदवयवयोर्दाधा इत्यनयोरत्राग्रहणात् । " अर्थवद्हणे नानर्थकस्य" इति न्यायात् । दापयति धाप- बतीत्यादौ तु पुगागमारपूर्वमेव घुसंज्ञाप्रवृत्तौ पुग्विशिष्टस्यापि प्रथमपादे प्रगृधाहिकम् । ५। घुग्रहणेन ग्रहणम् । अभ्युपेत्यापि धूमः-दार धार् इत्येतदवयवयोधा. रूपयोघेसंज्ञायामपि प्रनिदारयतीत्यादौ न णस्वप्रसङ्गः । घुसंज्ञानिरूपितं यस्योपसर्गत्वं ततः परस्य नेर्णत्वविधानात् । तत्र च रेफविशिष्टं प्रत्येवोपसर्गत्वम्, न तु तन्निर्मुक्तपूर्व- भागनिरूपितम् । यत्क्रियायुक्ताः पादयस्तं प्रत्येव गत्युपसर्ग- संज्ञा इति नियमात् । नन्वेवं दापयतिधापयत्योरपि तन्नस्यादिति चेत्, न । पूर्व- प्रवृत्तसंज्ञाया आगमोपजनेऽपि तदवस्थत्वात् । यदा तु उप- सर्गस्य ण्यर्थविशेषकत्वम्, तदादाधारूपं प्रत्युपसर्गत्वाभावान्नित्यं णत्वं न भवत्येव, किन्तु " शेषे विभाषा" इति वैकल्पिकमे- वेति । तदेवं मतत्रयं पर्यवसन्नम् । “पूर्वोक्तास्त्रय आदन्तात्रयश्च एङन्ता विशिष्य घुसंज्ञाः" इति सूत्रकारस्य,“प्रयोगे आकारान्ता- नां दाधारूपाणां तत्पकृतीनां च" इति वार्त्तिककारस्य, "प्रयोगे आकारान्तानामेव संज्ञा, तत्प्रकृतीनां तु णत्वविधौ प्रकृति ग्रहणाण्णत्वमात्रम्, नतु घुसंज्ञा"इति भाष्यकारस्य मतमिति एवं स्थिते उपदिदीषतइत्यत्र दीडस्सन्प्रत्यये " सनि मीमाधुरभ" इत्यादिना इम्भावः स्यात् । मीनातिमिनोतिदीड ल्यपि च" इति दीङ आत्वविधानेन तस्य दामकृतित्वात् वार्तिक- मते घुसंशत्वात् । अन्यमतदये तु नायं दोष इति स्पष्टमेवेति चेत्, उच्यते- यदि ईकारान्तस्यैव दीङ आत्वविधानम्, तदाऽयं दोषः स्यात्, न स्वेवम्, किन्तु गुणे कृते एकारान्तस्यैव आत्वं विधी- यते । ततश्च दाप्रकृतित्वं दे इत्यस्यैव, न तु दी इत्यस्य । उपदिदीपतइत्यत्र च एजन्तत्वाभावेन दाप्रकृतित्वं नास्तीति २७६ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये घुसंज्ञाविरहात् । दाभावनिरूपितस्थानित्वस्य तत्प्रयोज्यनि- त्तिप्रतियोगित्वरूपस्य एजन्तएव विश्रान्तेः । न चैवम् आदन्तत्वनिमित्तकयुच्प्रत्ययाद्यसिद्धिः। “आकारा- न्तलक्षणः प्रत्ययविधिः" इति विशिष्यैव वार्तिककृता तस्य वि. हितत्वात् । नन्वेवमपि वार्तिकभाष्यकारयोर्मते उपादास्तेत्यत्र " स्थाध्योरिच” इति इत्वं स्यात्, प्रयोगे आदन्तत्वस्यात्र सत्वेन भाष्यमतेऽीि घुसंज्ञत्वात्, इति चेत्, अत्र वार्तिकं तावत्- दीङः प्रतिषेधः स्थायोरित्त्वे इति । तथा च वाचनिक एव तदभावः । भाष्यकृता तु संनिपातलक्षणन्यायेन समाहितम् । तथा हि-पूर्वोक्तरीत्या एजन्तानामात्वविधानाभ्युपगमे युन्प्रत्यया- दिसिद्ध्यर्थं वार्तिकान्तरकरणे गौरवात् एविषये आत्वं विधी- यते । गुणद्धिनिमित्तकप्रत्यये विवक्षिते इति यावत् । तथा च प्रत्ययोत्पत्तिपूर्वमेव दीङादीनामादन्तत्वात्सिद्धस्तल्लक्षण:- त्यय इति लाघवम् । एवं सति आत्वे अकित्त्वसन्निपातो निमित्तम् । कित्त्वे सति गुणवृद्धिनिषेधेन एज्विषयानुपपत्तेः । ततश्चाकित्त्वसनिपातकृतमात्वं सिचः कित्त्वप्रवर्तिकां घुसंज्ञां न प्रवर्तयति । कित्त्वेन एज्विषयापहारे घुसंज्ञानिमित्तस्य आत्वस्य निमित्तविघातापत्तेः। स्यादेतत् । सूत्रमते प्रणिदातेत्यादौ दीङ आत्वे कृते णत्वं न भवति, घुसंज्ञाविरहात् । भाष्यवार्तिकमते तु णत्वापत्तिः, प्रयोगे आदन्तत्वात् दाप्रकृतित्वाच्च घुसंज्ञासत्त्वादिति द्वयोः सूत्रकृता सह विरोधः । एवं प्रणिदीयते प्राणिदीन इत्यादी भाष्यमते "नर्गद" इति नित्यं णत्वम् , तत्र प्रकृतिग्रहणेन घु- संज्ञाया अनपेक्षितत्वात् ।

प्रथमपादे प्रगृह्याह्निकम् । ५ २७७ वार्तिकमते तु "शेषे विभाषा" इति वैकल्पिकम् । एजन्ता- नामेव दाप्रकृतित्वोपगमेच ईदन्तस्याप्रकृतित्वादिति द्वयोः पर- स्परविरोधो दुर्वार इति चेत्, अत्राहुः- भाष्यरीत्या सर्वत्र दीडो नित्यं णत्वमिति स्थिते मूत्रवार्ति. कमतेऽपि "शेषे विभाषा"इत्यस्य दीडशे व्यवस्थितविकल्पत्वमा. श्रित्य नित्यणत्वमेव स्वीकार्यम् । “यथोत्तरं मुनीनां प्रामाण्य- म्" इति सिद्धान्तात् इति । नन्वदाविति पर्युदासप्रतियोगित्वं दाप् लवनइत्यस्यैव स्यान्न तु दैपः, पकारविशिष्टस्यात्वायोगा- दिति चेत्, मैवम् । अनुबन्धानामनेकालत्वपक्षे पकारस्यानवय- वत्वेन धातोरेजन्तत्वानपायात् । एकान्तत्वपक्षेऽपि "उदीचा माङो व्यतीहारे" इति कृतात्वस्य मेङो निर्देशेन "नानुबन्धक- तमनेजन्तत्वम्" इत्यस्य ज्ञापितत्वात्। उभयथाऽप्यात्वप्रवृत्तौ बा- धकाभावात् । न चायं माङ् माने इत्यस्यैव निर्देशः स्यादिति वाच्यम् । तस्य कर्मव्यतीहारविवक्षायामेव व्यतीहारे वृत्तः । मेङस्तु स्वभावादेव तद्वृत्तित्वात् । तस्मादेव व्यतीहारे वाप- त्ययस्यानेन विधानात् । प्रणिदानव्यतीहारशब्दयोरेकार्थत्वा- छ । भाष्यबलात्पूर्वकालान्यार्थत्वाप्रत्ययस्य मेडोऽनभिधाननि- र्णयाच । एवं च मेङ इति पठनीये माङ इति पाठस्य ज्ञाप- कत्वमव्याहतम् । वस्तुतस्तु दैपः पित्वमेवात्र ज्ञापकम् । तद्धि पर्युदासे दैपो ग्रहणार्थमेव । आत्वाप्रवृत्त्या तत्पर्युदासाभावे तु तद्वैयापत्तेः । लक्षणप्रतिपदोक्तपरिभाषाया अप्रवृत्तिज्ञापनेनैव तच्चरितार्थमिति चेन्न । उद्देश्यासिद्धितादवस्थ्ये तावन्मात्रस्य व्यर्थत्वात् । भाष्यकृतस्तु दाबेवायं न दैवस्तीत्याहुः । न चैवं दाय- तीति रूपं न स्यादिति वाच्यम्। दिवादिषु पागत् श्यन्प्रत्ययेन २७८ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये सत्संभवात् । न बत्र स्वरे भेदः । दायतीत्यादौ उभयथाs- प्यायुदात्तत्वात् । “तास्पनुदात्तेन्छिददुपदेशाल्लसार्वधातुकम- नुदात्तमन्विङोः” इति सूत्रेण अदुपदेशाभ्यां शपश्यन्भ्यां पर- स्य तिवादेरनुदात्तत्वविधानात् । न च ताच्छीलिके चानशि दायमान इत्यत्र स्वरभेदः स्यात्, चानशो लादेशसार्वधातुक- वाभावेन अनुदात्तत्वाभावात् , श्यनि नित्स्वरेण धातोरायु- दात्तत्वम्, शपितु पित्त्वात्तस्यानुदात्तत्वम्, चानशस्तु चित्स्वरेणा- न्तोदात्तत्वमिति वाच्यम् । श्यन्स्वरस्य सतिशिष्टत्वेऽपि “अन्यत्र विकरणेभ्यः" इति पर्युदासेन तत्राप्यन्तोदात्तत्वात् । “सतिशिष्टो- ऽपि विकरणस्वरः सार्वधातुकस्वरं न बाधते, यदयं तासेः परस्य लसार्वधातुकस्यानुदात्तत्वं शास्ति, लसार्वधातुक एव तज्ज्ञा- पकं स्यानेत्याह, अविशेषेण ज्ञापकम्" इति "आत्ममाने खश्च" इति सूत्रे भाष्यदर्शनात् । ततश्च यथा तब खश्स्वरेण श्यन्स्व. रस्य बाधः, एवमिह चानशस्त्ररेणापि इत्यर्थप्रतीतेरित्याहुः । न चैवमपि दापयतीत्यस्यापि पयुदासापत्तिः। यथोद्देशपक्षे अन्तरङ्गत्वात्पुगागमात्पूर्वमेव घुसंज्ञाप्रवृत्तेः । ननु कार्यकालपक्षे णत्वघुसंज्ञयोः समानदेशत्वात्पुकं प्रति तयोरसिद्धत्वेन "अन्त- रणबाहिरङ्गयोः" इतिन्यायानवतारात् मागेव पुक् , ततो घुसंज्ञा न स्यादिति चेत् , अत्र भाष्यम् - दाधा ध्वपिदिति वक्ष्यामीति । तथा च भेदप्रतियोगितावच्छेदकपित्वस्य दापयतीत्यत्रा- भावान दोषः। यद्वा- उक्तधातू बकारान्तावेव । सूत्रमपि वकारान्तम् । चर्बेन तु पकारश्रवणम् । अतो न दोष इति । , प्रथमपादे प्रगृह्माह्निकम् । ५। २७९ आद्यन्तवदेकस्मिन् २० । असहायेऽपि आदाविवान्तइव च कार्य स्यात् । एकस्मि- भित्युपमेये सप्तमीदर्शनादाद्यन्तवदिति सप्तमीसमर्थादतिः । म- थुरावत् पाटलिपुत्र प्राकार इत्यादौ तथादर्शनात् । एकशब्द- श्वासहायवाची, न तु सङ्ख्यावाची । एकत्वस्य वस्तुमात्रे सवे- नाव्यावर्तकत्वात् । असहायत्वं चात्र तत्कार्योद्देश्यतावच्छेद- कधर्मपर्याप्त्याश्रयत्वे सत्येकत्वरूपं ग्राह्यम् । न संख्यावाचीत्यस्य चोक्तविशेषणांशविनिर्मुक्तसंख्याया वाच्यत्वव्यवच्छेदे तात्प- यम् । भवति हि आयुदात्तविधावुश्यतावच्छेदकस्य प्रत्य- यत्वस्य पर्याप्त्याश्रयः औपगव इत्यादौ अकारादिः । तव्य- दादौ तु तावद्वर्णा इति विशेष्यदलेन तद्वारणम् । तत्रादिवत्तेचे प्रयोजनानि । प्रत्ययायुदात्तत्वम्, तैत्तिरीय इत्यादौ इव औपगव इत्यादावपि यथा स्यात् । “नित्यादि- नित्यम्" आहिचुम्बकायनिः आग्निवेश्य इत्यादाविव गार्ग्यः कृतिरित्यादावपि स्यात् । “आर्द्धधातुकस्येड् वलादेः" इतीद करिष्यतीत्यादाविव जोषिषदित्यादावपि स्यात् । “ यस्मिन्वि- धिस्तदादावल्यहणे" इति अजादौ विधीयमानौ इयवङी श्रियो ध्रुव इत्यादाविव श्रियो ध्रुवौ इत्यादावपि स्याताम् । “आ- डजादीनाम्" ऐक्षिष्टेत्यादाविव अध्यष्टेत्यादावपि यथा स्यात् । अथान्तवत्वे प्रयोजनानि । “ ईदूदेद् द्विवचनम्" इति प्रगृह्यत्वं पचेते इत्यादाविव खवे इत्यादावपि यथा स्यात् । " नपुंसकस्य झलचः" इति नुम् मिदचोऽन्त्यात्परः" इत्यनेन कुण्डानीत्यादाविव यानीत्यादावपि अन्ते यथा स्यात् । " अचोऽन्त्यादि टि" इति संज्ञया“ टित आत्मनेपदानां टेरे" २८० व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये इत्येत्वं कुर्वाते इत्यादाविव कुर्वे इत्यादावपि स्यात् । “सुपि च" इत्यकारान्तस्याङ्गस्य दीर्घत्वं घटाभ्यामित्यादाविव आभ्यामि- त्यादावपि यथा स्यात् । "येन विधिः" इत्यजन्तस्य विधी- यमानो यत् जेयमित्यादाविव अध्येयमित्यादावपि यथा स्यात्। तथा हि-" परस्मिन् सति यस्मात्पूर्व नास्ति स आदिः" "पूर्वस्मिन्सति यस्मात्परं नास्ति सोऽन्यः" इति निरूढो व्यव- हारः । एतदनुसारेण वर्णानामाद्यन्तत्वयोनिरूप्यमाणयोः स्त्र- वृत्तिधर्माश्रयप्रागभावाधिकरणकालवृत्तित्वे सति तद्धमश्रिय- ध्वंसानाधिकरणकालवृत्तित्वम् आदित्वम् । स्ववृत्तिधर्माश्रय- ध्वंसाधिकरणकालवृत्तित्वे सति तद्धर्माश्रयप्रागभावानाधिकर- णकालवृत्तित्वं चान्तत्वं फलति । स्वपदं लक्ष्यत्वाभिमततत्तद्य- क्तिपरम् । तद्वृत्तिधर्मश्च तद्विधावुद्देश्यतावच्छेदकीभूतो ग्राह्यः । तद्धर्माश्रयश्च तत्तत्प्रत्ययव्यक्त्यन्तर्गत एव ग्राह्यः तदप्रसिद्ध्यापत्तेः । मध्यस्थेऽतिव्याप्तिवारणाय उभयत्र विशे- ध्यम् । तच्च इयादावस्ति न त्वकारमात्रे । अतो मुख्य चरि- तार्थ शास्त्रम् अनुत्तरत्वापूर्वत्वरूपं गौणमादित्वमन्तत्वं चादाय केवले न प्रवर्तेत । अत इदं सूत्रम् । यत्तुं वार्तिकम्- अपूर्वानुत्तरलक्षणत्वादाद्यन्तयोः सिद्धमेकस्मिन्निति । अपूर्वत्वमेवादित्वम्, अनुत्तरत्वमेवान्तत्वम्, तेन सर्व- त्रापि मुख्यत्वादेव सिद्धेः सूत्रमेतद्यर्थमिति, तत्र भाष्यम्- गोनर्दीयस्त्वाह- सत्यमेतत् , सति त्वन्यस्मिन्निति । तथा च स्वारसिकप्रतीत्यनुरोधादुक्तविशिष्टधर्म एव आ- पन्तपदशक्यतावच्छेदक इत्युक्तवार्तिकमयुक्तमित्यर्थः । एक- स्मिन्निति किम् । सभासंनयने भवः साभासंनयनः । अत्र । अन्यथा .

प्रथमपादे प्रगृह्याहिकम् । ५। २८१ भशब्दोत्तरमाकारमाश्रित्य " वृद्धिर्यस्यायामादिः" इति वृद्ध- संज्ञा मा भूत् । अथ वृद्धिर्यस्याचामादिः इतिवृद्धसंज्ञासूबस्थेनैव आदिपदेनात्र दोषो नास्तीति चेन्न । तत्रत्यादिशब्दस्य मुख्या- दिपरत्वाभावात् । अन्यथा जानातीति ज्ञा ब्राह्मणी इत्यादौ ज्ञापदस्यापि वृद्धत्वानापत्त्या झीय इत्यत्र छप्रत्ययानापसेः । इहैकग्रहणे तु मध्यावसानस्थानां आदित्वातिदेशविरहात् त. यावर्तकतया तत्रत्यस्य आदिशब्दस्य सार्थक्यात् । अत्र न्यासकार:- अतिदेशसूत्रे. एकग्रहणाभावे वृद्धसं- ज्ञासूत्रगतमादिग्रहणमनातिदेशिकपतिपत्यर्थ सत् असहायानां ज्ञादीनामेव वृद्धसंज्ञां वारयेत् । सभासन्नयने तु स्यादेव, स्वो- त्तरगतानामचां चतुष्टयमपेक्ष्य अनातिदेशिकस्य आदित्वस्य तत्र सत्वादिति । तत्र वदन्ति- अत्रैकग्रहणाभावे यत्र मुख्यमादित्वं नास्ति स सर्वोऽप्यतिदेशविषयः स्यात् । ततश्च यथा ज्ञादीनां न वृद्धत्वं तथा सभासन्नयनस्यापि न स्यात् । असहायवन्मध्यगतेऽपि मुख्यादित्वव्यवहाराभावात् , तत् कथमुक्तवैषम्यमिति । न्यासकृतस्त्वयमभिप्रायः- व्यवहारानुरोधेन लक्षण. करणम् । तदुक्तमाचार्यैः- सिद्धानुगममात्रं हि कर्तव्यं तु परीक्षकैः । न सर्वलोकसिद्धस्य लक्षणेन निवर्तनम् ।। इति । ततश्चायमादिरित्युक्ते तदुत्तरस्य अन्त इत्युक्ते च पूर्वस्य नियमत आकाङ्क्षा, न तु पूर्वाभावस्योत्तराभावस्य चेति सर्व- सिद्धम् । पूर्वत्वान्तत्वयोरुत्तरपूर्वत्वमात्रनिरूप्यत्वात्, कादाचि कापेक्षायाश्च शब्दशक्त्यव्यवस्थापकत्वात् । । ३६ ३ २८२ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये एतच्च न्यासेऽपि स्पष्टमेवोक्तम्-" द्वितीयादिकं स. हायमपेक्ष्याद्यन्तशब्दौ प्रवर्तेते तथा हि- लौकिकः सति परस्मिन्सहाये पूर्वमादिरिति व्यवहरति" इत्यादिना । अत एव "दैशिकयोः परत्वापरत्वयोः तृतीयापेक्षत्वम् , का- लिकयोस्तु परस्पराश्रयापेक्षत्वम्" इति दीधितिकारादयः । न हि भरतो लक्ष्मणात्पूर्वः लक्ष्मणो भरतात्कनिष्ठ इत्यनयोर्गौण- त्वम् । न चैवमायुदात्तत्वं मध्यमस्यापि स्यादिति वाच्यम् । प्र- त्ययादिपदसमभिव्याहारादेव प्रत्ययत्वाद्युपाध्यवच्छिन्नादिप्र. तीतेः, दशरथस्याद्यपुत्र इत्यादौ तदन्यतत्पुत्रत्वावच्छिन्नापेक्ष- या तत्प्रत्ययवत् । इत्यास्तां प्रासङ्गिकम् । ननु " व्यपदेशिवदेकस्मिन् " इत्येव युक्तम् । इयाय आरेत्यादौ इण्ऋधातोश्च धात्ववयवत्वं प्राथम्यं एका- चत्वं चाश्रित्य इकारऋकारयोत्विं यथा स्यात् । “एका- चः" इति हि बहुव्रीहिः । एवं स देवान्यक्षद् " इत्यादौ यजेः पञ्चमलकारे " सिब्बहुलं लेटि" इति सिप, तस्य षत्वं च यथा स्यात् । प्रत्ययस्यावयवो यः सकारस्तस्य पत्वविधाना- त्, “आद्यन्तवद्" इत्युक्त्या च आदित्वान्तत्वप्रयुक्तकार्यसिद्धाव- प्युक्तकार्याणामसिद्धेः । व्यपदेशस्तु मुख्यो व्यवहारः, स यस्य निमित्तवशादस्ति स व्यपदेशी, यस्तु व्यपदेशहेत्वभावेऽपि कार्य प्रति तद्वर्तते स व्यपदेशिवत् । तथा च एकस्मिन्नपि मुख्यइव कार्य स्यादिति वचनार्थः इति चेत्, अत्र भाष्यकाराः- अवचनाल्लोकविज्ञानात्सिद्धमिति । वचननिरपेक्षाल्लोकव्यवहारात्सिद्ध्या "आद्यन्तवद्” इति "व्यपदेशिवद्” इति चोभयमपि नारम्भणीयम् । इणधातुर्हि प्रयोगभेदाबहुरूपः, एति इतः यन्तीत्यादिः । इयायेत्यत्रत्य प्रथमपादे प्रगृह्याह्निकम् । ५। २८३ इकारस्तदवयव इव भासते । यद्वा-अर्थवतो धातोर्वर्णरूपोऽयमेकोऽच् इति क्रियागच- कतावच्छेदकतदन्यधर्माभ्यां भेदव्यपदेशः। एवं सिप्रत्ययो जो- विषदित्यादाविदसहितः, वक्षदित्यादौ केवलोऽपीति प्रत्ययस्यायं सकार इति। लोकेऽपि बहुपुत्रवदेकपुत्रेऽपि अयं मे ज्येष्ठः पुत्रोऽयं मध्यमोऽयं कनिष्ठ इति । अमृतायामसोष्यमाणायां च प्रथमग- भैण हतेति व्यवहरन्ति । नन्विमे गौणा व्यवहाराः। आद्यस्य पुत्रान्तरव्यावृत्तितात्प- र्यकत्वात्, द्वितीयस्य च तद्गर्भध्वंसासमानकालीनगर्भेणेत्यर्थात् । शास्त्रं च मुख्य चरितार्थ कथं गौणे प्रवर्ततेति चेन्न । निरूढतया मुख्यतुल्यकक्षत्वात् । "ऋदोरप्" इति अनुदात्तार्थपित्त्वाच्च । आयुदात्तत्वाप्रसक्तौ तद्वाधनार्थस्य तस्य वैयर्थ्यात् । “इट ईटि" इति ज्ञापकाच्च । अन्यथा सिचः सकारमात्रस्य वल्रूपत्वेन बलादित्वाभावादिटोऽनुपपत्तेः । तरप्तमपौ घः २१ । एतौ घसंज्ञौ स्तः । रचयति रुचिः शोणीमेतां कु- मारितरा रवः । घरूपेत्यनेन " तसिलादिषु " इति प्राप्त पुंवद्भावं बाधित्वा इस्वः । नद्यास्तरो नदीतर इत्यत्र तु न । तमप्प्रत्ययसाहचर्यात् । तमशब्दस्यापि प्रातिपदिकस्य सम्भवे तु पकारानुबन्धसामर्थ्यात् । वस्तुतस्तु घसंज्ञायां सत्यामपि न क्षतिः । समानाधिक- रणे स्त्रीलिङ्गे परे ह्रस्वविधानात् । सामानाधिकरण्यं च स्वार्थि- कस्यैव, न तु तरतीति व्युत्पन्नस्य तरादेः । भाष्ये तु "यदा सैव नदी स एव तरस्तदा पामोति"इत्यु- " २८४ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये क्तम् । तत्र भावे स्त्रियां क्तिन्प्रत्यये तीणिरिति भाव्यामित्याशा कैयट:-"तीर्यते तर इति सामान्येन पदं व्युत्पाद्य पश्चानधा विशेष्यते"इति । तत्र परिहारः-"स्त्रीलिङ्गेषु घादिष्वित्येवं तद्" इति । तरशब्दस्य च स्त्रीत्वाभावात् । अन्यथा महिषीव रूपं म- हिषीरूपमित्यत्रापि हस्वापत्तेः । "सुप्मुपा" इति समासः । म- हिषीवेयमाकृतिरित्यर्थः । अत्र वदन्ति-आतिशायनिकमत्ययप्रकरणएव "तादी घ" "पितौ घः" इति वा मुत्रमपहाय प्रकरणपरित्यागेनोक्तसूत्रा- रम्भः स्वार्थिकोऽपि तरप्रत्ययोऽस्तीति ज्ञापनार्थः । तेन "अल्पान्तरम्" इत्यादि सिध्याति । केचित्तु सामान्यापेक्षज्ञापकमाश्रित्य ईयमुनोऽपि स्वार्थिक- त्वम् । तेन "अहो महीयस्तव साहसिक्यम्" इत्यादि सिद्ध. मित्याहुः। वामनस्तु काव्यालङ्कारे शब्दशुद्धिपकरणे महत्त्वप्रतियो- ग्यपेक्षायामप्यातिशायनिका इत्याह । यदपेक्षयाऽतिशयः प्रत्याय्यते तदप्रयोगेऽपि तस्य गम्य- मानत्वमात्रेण भवन्तीत्यर्थः । “देवो वः सविता पार्पयतु श्रेष्ठ- इत्यत्र छान्दसस्तमप्" इति भाष्यं तस्यानु- कूलम् । अन्यथा स्वार्थिकत्वेनैवोपपत्तेः। तमाय कर्मणे" बहुगणवतुडति संख्या २२। एते संख्यासंज्ञाः स्युः । बहुकृत्वः । संख्यायाः क्रिया- ऽभ्यात्तिगणने कृत्वसुच् । बहुधा । संख्याया विधार्थे धा । बहुभिः क्रीतो बहुकः । संख्याया अतिशदन्तायाः कन् । बहुशः । “संख्यैकवचनाच वीप्सायाम्" इति शस् । एवमुत्तरेषु प्रथमपादे प्रगृह्माह्निकम् । ५। २८५ "यत्तदेतेभ्यः परिमाणे वतुप" " आ सर्वनाम्नः" इत्यात्वम् । यावत्कृत्व इत्यादि । किमः संख्यापरिमाणे डति च । कति. कृत्व इत्यादि। ननु एकादिशब्दानामपि संज्ञेयं विधेया । अन्यथा प्रदेशेषु कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययः" इति न्यायेन पारिभाषिकसंख्यैव गृह्येत, न तु लोकसिद्धा । सर्वार्थप्रत्यायन- शक्तिमतः शब्दस्यार्थविशेष व्यवहाराय नियमे तन्मात्रपरत्वात् । अन्यथा संज्ञाविधानवैयापत्तेः । न चैवं नदीपौर्णमा- स्याग्रहायणीभ्यः" इत्यत्रापि तथापत्तिः । पौर्णमास्यादिश- ब्दोपादानसामर्थेन तत्र कृत्रिमनद्या अनुपादानात् । मैवम् । संख्याकार्यातिदेशार्थत्वादस्य सूत्रस्य संज्ञाविधायकत्वाभावात् । वतिमन्तरेणापि बहुशस्तदर्थप्रत्ययात् । यद्वा-अत्रापि तथानियमाभावात् । "कर्तरि कर्मव्यति- " शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे” इत्यादौ व्यभिचारात् । न च तत्र सामर्थ्यात्तथात्वम् । अत्रापि यत्र- विशेषसद्भावात् । " संख्याया अतिशदन्तायाः कन् तिशब्दान्तायाः शच्छब्दान्तायाश्च संख्यायाः पर्युदासेन लौकि- कसंख्याग्रहणस्य ज्ञाप्यत्वात् । विंशतीत्यादेः त्रिंशदित्यादेश्चा- पारिभाषिकत्वात् । पारिभाषिक्यास्तस्यास्तदन्तत्वविरहात् । न च कतीति पारिभाषिक्येव संख्या तिशब्दान्ताऽस्तीति वाच्यम्। अर्थवद्हणपरिभाषया डतिपत्ययैकदेशतिशब्दस्य भेदप्रतियो- गित्वेनानुपादानात् । तदुक्तम्- उभयगतिरिह शास्त्रे भवतीति । अत एव बहुगणशब्दयोर्वैपुल्यसङ्घार्थयोर्नेह ग्रहणम्, किन्तु संख्यार्थयोरेव । स च नियमार्थ:-अनियतबहुत्ववाचकानां हारे" इत्यत्र - २८६ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये मध्येऽनयोरेव संख्यासंज्ञा, न तु भूर्यादीनाम् । तेन बहुत्ववा- चकत्वाभाववतोरेकद्विशब्दयोर्नियतबहुत्ववाचिनां व्यादीनां च न व्यावृत्तिः । विशेष्यविशेपणभावाभ्यां तेषां निर्धारणप्रति. योगितावच्छेदकानाक्रान्तत्वात् । भाष्यकृतस्वाहु: बहुपूगगणसङ्घस्य तिथुक् " " तोरिथुक् " "पदकतिकतिपयचतुरां थुक्" इति सूत्रैः डटि परे आगमानां विधानसामर्थ्यात्तेषां संख्यात्वं ज्ञाप्यते । अन्यथा संख्यात्वं विना डट एवानुपपत्तेः । तथा चेदं सूत्रं न कर्त- व्यमेवेति । न चैवं पूगादीनामपि कृत्वसुजादिकमपि संख्याकार्य स्यात्, बहुगणशब्दयोः कार्यसामान्ये संख्यात्वं ज्ञाप्यते, पूगा- दीनां तु विशेषापेक्षमेवेति वैषम्ये मानाभावादिति वाच्यम् । लक्ष्यानुरोधेन तदङ्गीकारात् । एतदनुरोधात्सूत्रमेतदावश्यकमिति कौस्तुभकृतः । अत्र शब्दान्तराणामपि संख्याकार्यविशेषसिद्ध्यर्थानि वा- तिकानि । अध्यर्द्धग्रहणं च समासकन्विध्यर्थम् । अर्द्धनाधिकमध्यर्द्धम् । एकदेशार्थकार्द्धशब्दस्याधिशब्देन समासे यौगिकार्थप्रत्ययेन संख्याप्रत्ययाभावात्रिभागादिशब्द- वत्संख्यावाचित्वाभावादिदं विध्यर्थम् । अध्यन शूर्पण क्री- तम् अध्यर्द्धशूर्पम् । “दिक्संख्ये" इत्यनुवर्तमाने " तद्धिता- र्थोत्तरपदसमाहारे च" इति क्रीतार्थकतद्धितविवक्षायां शूर्पश- ब्देन सह समासः। ततः “शूर्पादअन्यतरस्याम्' इति अञ् ठञ् वा । “अध्यर्द्धपूर्व" इति तस्य लुक् । अध्यन क्रीतमध्यर्द्धकम् । "संख्याया अतिशदन्तायाः" इति कन् । समासविध्यर्थमिति, प्रथमपादे प्रगृह्याह्निकम् । ५ । २८७ . सम्बन्धसामान्ये षष्ठी । तेन समासस्य समासनिमित्तकका- यस्य वा विधेयत्वे इत्यर्थः । तेन द्विगुनिमित्तो लुगपि सिद्धः । एवं च “ अध्यर्द्धपूर्वाच्च द्विगोः" इत्यत्राध्यर्द्धग्रहणं प्रत्याख्येयम् । द्विगुत्वादेव सिद्धः । तदुक्तम्- लुकि चाग्रहणमिति । अन्ये तु एकः अध्यर्द्धः द्वौ इत्यादिरीत्या लोके गणनद र्शनादध्यर्द्धशब्दोऽपि संख्यार्थ इत्याहुः । तद्रीत्या सार्दादीनां शब्दानां संख्यात्वव्यावृत्त्यर्थतया "अध्यर्द्ध" इति वार्तिकं नियमार्थम् । वाक्यभेदेन च द्वितीयो नियमः-उक्तकार्ययएव संख्यात्वं न तु कार्यान्तरेषु । तेन कृत्वसुजादयो नेति कैयटः । अर्द्धपूर्वपदश्च पूरणप्रत्ययान्तः । संख्यापदं समासकन्विध्यर्थमिति चानुवर्तते । पूरणप्रत्य- यान्ते उत्तरपदे अर्द्धशब्दे च पूर्वपदे यत्र तादृशसमासरूपपूर्वप - दस्य शब्दान्तरेण समासे कनि च कार्य संख्या संज्ञा इत्यर्थः । अपञ्चमैः शूर्पः क्रीतम् अर्द्धपश्चमशूर्पम् । अर्द्धपञ्चमेन क्रीत- म् अर्द्धपश्चमकम्, पूर्ववत्समासादि । आधिकग्रहणञ्चालुकि समासोत्तरपदवृद्ध्यर्थम् । अधिकपदस्य संख्याविशेषणत्वेऽपि संख्यात्वाभावादयमप्य- पूर्वविधिः। अधिकया षष्ट्या क्रीतोऽधिकषाष्टिकः। अधिकसाप्त- तिकः । “तद्धितार्थ" इति समासः । प्राग्वतेष्ठञ् । अलुकीति वचनात् लुकि कर्तव्ये संख्यासंज्ञा नास्तीति "संख्यापूर्वो द्विगुः" इति न द्विगुसंज्ञा । तेनाध्यद्धपूर्वेति ठमो न लुक् । “संख्यायाः संवत्सरसंख्यस्य च" इत्युत्तरपदवृद्धिः । अन्यथा षष्टिशब्दस्य संख्यापरत्वाभावात्तदप्रवृत्तेः। ननु उत्तरपदवृद्ध्यर्थमित्यत एव २८८ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये लुगभावस्याक्षेपसम्भवात्पृथक् तद्हणं व्यर्थमिति चेत्, अत्राहुः- अर्हत्यर्थात्परेष्वर्थेषु ये प्रत्ययास्तेषां लुगप्रसङ्गेन तत्रैवोत्त- रपदवृद्धः सावकाशतया तन्मात्रेणालुक आक्षेप्तुमशक्यत्वादिति। ष्णान्ता पट २३। षान्ता नान्ता च सङ्ख्या पदसंज्ञा स्यात् । षट् तिष्ठन्ति । षट् पश्य । पञ्च सप्तेत्यादि । “षड्भ्यो लुक्" इति जश्शसोलुक् । सङ्खयेति किम् । विरुषः । पामानः । नन्वत्र संख्यापदं नास्ति। न च पूर्वसूत्रात्तदनुवृत्तिः। तस्य संज्ञात्वेन लौकिकसंख्यावाचकत्वाभावात् । उच्यते- अतिदेशपक्षे संख्यापदानुवृत्तेः सुस्थत्वात् । संज्ञापक्षेऽपि "bणान्ता" इत्यत्र स्त्रीलिङ्गविशेष्यस्याकाशितत्वादस्वरितस्यापि सङ्ख्यापदस्यानुवृत्त्या शब्दाधिकारेणात्र तस्याभिमतार्थपरत्व- सिद्धेः । एतच्च पूर्वसूत्रे भाष्ये स्पष्टम् । नन्वत्र “उपदेश” इति वक्तव्यम् । प्रत्ययोत्पत्तिकाले इति तदर्थः । अन्यथा शतानि सहस्राणीत्यादौ नुमः पूर्वावयवत्वेन संख्याया नान्तत्वसम्पत्या षट्संज्ञायां जसादे प्रसङ्गादिति चेन्न । सर्वनामस्थानसनिपातकृतस्य नुमस्तल्लोपप्रवर्तकषसंज्ञा प्रति निमित्तत्वानुपपत्तेः। अथ तथाऽपि अष्टन् आम् इति स्थिते परत्वान्नित्यत्वाच्च "अष्टन आ विभक्तौ” इत्यात्वे कृते नान्तत्वाभावात् षट्संज्ञा- ऽनुपपत्त्या “षट्चतुयश्च" इति नुडागमो न स्यादिति तदर्थमे- वोपदेशग्रहणमावश्यकमिति चेन । यथोद्देशपक्षे अन्तरगतया विभक्त्युत्पत्तेः प्रागेव षट्संज्ञामवृत्तौ तस्या एव स्थानिवद्भावे. नाकारान्ते सुलभत्वात् ।

प्रथमपादे प्रगृह्याह्निकम् । ५ । २८९ अथ कार्यकालपक्षे नुड्विध्येकवाक्यतापनायाः षटसंज्ञा. या अपि विभक्तिसापेक्षतयाऽन्तरङ्गत्वाभावादात्वस्यैव प्रथमं प्र- वृत्तेर्दोषतादवस्थ्यम्, यथोद्देशपक्षेऽपि षट्संज्ञायां नकारस्यो. पजीव्यत्वादविधित्वादतिदेशदौर्लभ्यामिति चेत्, सत्यम् । "अष्टनो दीर्घात् " इति स्वरसूत्रे दीर्घग्रहणेन कृतात्वस्यापि षट्संज्ञाज्ञापनात् । तथा हि-अष्टन्शब्दस्य "त्रः संख्यायाः" इत्याधुदात्त- प्रसङ्गेऽपि घृतादिपाठादन्तोदात्तत्वम् । तस्य अष्टभिरिति मध्यो- दात्तम्, अष्टाभिरित्यन्तोदात्तं चेति रूपद्वषमिष्टम् । तत्र च “पद्- त्रिचतुभ्यो हलादिः"इति विभक्तेरुदात्तत्र प्राप्तम् , तद्बाधित्वा च “ झल्युपोत्तमम् " इति मध्योदात्तत्वं प्राप्तम्, पतिचतुर्व्यः परा या झलादिर्विभक्तिस्तदन्ते पदे उपोत्तममुदात्तं भवतीति तस्यार्थः । तद्वाधनार्थम् “अष्टनो दीर्घाद्" इति सूत्रम् । दीर्घा न्तादष्टनः परा सर्वनामस्थानभिन्ना विभक्तिरुदात्ता स्यादिति तदर्थः । आत्वाभावपक्षे तत्प्रवृत्तिर्मा भूदिति दीर्घपदोपादानम् । यदि त्वात्वपक्षे षट्संज्ञा न स्यात्तदा "अष्टनः" इति विभक्त्युदात्त- स्य तत्रैव सावकाशतया आत्वाभावपक्षे "झल्युपोत्तमम्" इत्यनेन परत्वादेव विभक्त्युदात्तबाधोपपत्तौ दीर्घादित्यस्य वैयर्थं स्यात् । आत्वपक्षेऽपि षट्संज्ञायां तु विभक्त्युदात्तस्य "झल्युपोत्तमम् " इत्येतनिर्मुक्तविषयाभावाद् येन नाप्राप्तिन्यायेन तदपवादत्वा- दात्वाभावपक्षेऽपि मध्योदात्तबाधः स्यात्, अतो “दीर्घाद्" इ. त्युक्तम् । तथा चाष्टभिारत्यत्र विभक्त्युदात्तस्य प्राप्त्यभावात् "झल्युपोत्तमम्" इति मध्योदात्तसिद्धिः । न चाष्टावित्यत्रान्तोदात्तत्वं सावकाशम् , तत्र विभक्ती- लादित्वाभावेन मध्योदात्तप्रसत्यभावादिति वाच्यम् । “एका २९० व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये देश उदात्तेनोदात:" इत्यनेनैव गतार्थत्वात् । अष्टनशब्दोऽन्तो- दात्त इत्युक्तत्वात् । “अष्टनः" इति सूत्रे अन्तोदाचादुत्तरपदा- दित्यतोऽन्तोदात्तपदानुवृत्तेराकरसंमतत्वात् । एतेन “कदष्टग्नि- स्यस्याव्ययपूर्वपदप्रकृतिस्वरेणाद्युदात्तत्वात्कदष्टाविति शसि वि. भक्त्युदात्तत्वं सावकाशम्" इति शङ्काऽप्यपास्ता। तत्रान्तोदात्त- स्वाभावेन "अष्टनः" इति विभक्त्युदात्तस्य प्रवृत्त्यनुपपत्तेः । यद्यपि मनोरमादौ "अष्टनो दीर्घाद्" इति सूत्रे अन्तोदा- तपदं नानुवर्तते, उत्तरत्र मण्डूकप्लुत्या तदनुवृत्युपपत्तेः" इत्य- प्युक्तम्, तथाऽपि तदभ्युपेत्यवादमात्रं बोध्यम् । एतेन षट्संज्ञापेक्षया लाघवात्कृतात्वस्याष्टनः षट्स्वरस- तैव ज्ञाप्यताम्, ज्ञापकस्य स्वरप्रकरणस्थत्वात् , तत्र षट्संज्ञा- या अनुपस्थितत्वात्, बाधकषट्स्वरनिमित्ततया तदुपस्थितौ तु षट्स्वरस्यैव प्रथमोपास्थितत्वाच । अर्थापत्तेः साक्षादुपपा- दकविषयताया औत्सर्गिकत्वात् , इत्यपि निरस्तम् । यद्य- तिरेकेणानुपपत्तिप्रतिसन्धानं तस्यैवार्थापत्या कल्प्यत्वात् । तदुक्तम्- अनियम्यस्य नायुक्ति नियन्तोपपादकः । इति । आत्वपक्षे यदि षट्संज्ञा न स्यात्तदा दीर्घादिति व्यर्थ स्यात् इत्येवोपपत्तेः । न च यदि षट्स्वरो न स्यादित्ये- वापादकमस्त्विति वाच्यम् । पदसंज्ञानिमित्तकस्वराभावस्य षट्- संज्ञाव्यातरेकपयुक्ततया तस्या एव प्रथमोपस्थितत्वात् । षद्स्वराभावस्यापादकत्वे तु तदभावस्यैव साध्यत्वं स्यात् । अन्यथा विपर्ययपर्यवसानात् । आपादकव्यतिरेकसाध्यकम- माणएव तर्कस्य सहकारित्वात् । तच्च प्रमाणमनुमानमर्थापत्ति- त्यन्यदेतत् । - “ प्रथमपादे प्रगृह्याहिकम् । ५। २९१ तथा च यदि षट्स्वर एव अर्थापत्तिविषयस्तदा " दीर्घा- द्" इत्यस्य वैयर्थ्यमेव स्यात् । आत्वपक्षे मध्योदात्तरूपस्य षस्वरस्यानिष्टत्वात् । इष्टत्वे " अष्टनः” इति सकलस्यैव सूत्रस्य वैयर्थ्यापत्तेश्च । तस्मात्पदसंज्ञैव ज्ञाप्यते । तनिबन्धन- स्वरप्रसक्तेः “अष्टनः" इतिसूत्रोपयुक्तायास्तत एव निर्वाहात् । नुदप्रवर्तकतया तद्वैयर्थ्याभावाचेति सर्वनिर्वाहात् । अत एव "भवत्यात्वे कृते षसंज्ञा" इत्येव भाष्यकारैरुक्तम् । अत एव च पूर्वसूत्रे "डटि परे विधीयमाना आगमा डटो निर्वाहक संख्या- त्वं ज्ञापयन्ति" इत्येवोक्तम् । अन्यथा तत्र डट एव ज्ञापनाप- चेः। आकारान्ते षट्स्वरसत्ताज्ञापने प्रयोजनाभावाच । अष्टाभिरित्यादौ " अष्टनः" इति विभक्त्युदात्तस्यैव प्रवृत्तेः । प्रियाष्टाभिरित्यादौ च गौणत्वात्षट्स्वरानुपपत्तेः । त्रिचतुर्थ्यः" इति बहुवचननिर्देशात् । अन्यथा समाहारे द्वन्द्र कृत्वैकवचनमेव ब्रूयात् । " झल्युपोत्तमम् " इत्यत्राप्याधि- कारेण षडर्थप्राधान्यएव प्रवृत्तेरुचितत्वात् । अत एव "च- तुरः शसि" इति सूत्रे "षड्भ्यः परयोजश्शसोर्लोपविधानाद् बहुवचनान्तराणां च हलादित्वनियमात् तदर्थ " पत्रिचतु- Wः" इतिसूत्रस्थस्य हलादिरित्यस्य नोपयोगः" इत्युक्तं भा- प्यकृद्भिः । गौणेऽपि तत्प्रवृत्तौ त्वजादिवचनान्तरव्यात्य. र्थत्वसम्भवात्तदसङ्गत्यापत्तेः । परमाष्टाभिरित्यादावपि षडा- दिभ्यो विहितत्वाभावादमवृत्तेः। “पत्रिचतुर्व्यः' इत्यत्र वि- हितविशेषणस्य हरदत्तेनोक्तत्वात् इत्यादेः स्वयमेवोक्तत्वात् । वस्तुतस्तु दीर्घग्रहणेन कृतात्वस्थले षट्स्वरसत्ताज्ञापनपक्षे प्रियाष्टाभिरित्यादि प्रयोजनं स्यादेव । एतज्ज्ञाप्यस्वरप्रवृत्ती षडर्थप्राधान्यादेरनपेक्षितत्वात् । "झल्युपोत्तमम्" इत्यनेन स्व- षदः २९२ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये रविधानएव तस्यापेक्षितत्वात् । अथ षट्संज्ञैवानेन ज्ञाप्यते, ततो " झल्युपोत्तमम् " इत्य- नेनैव स्वरप्रवृत्तिराशक्यते इति चेत्तर्हि सिद्धमस्मदिष्टम् । त- स्मादुक्तयुक्त्यैव षट्स्वरप्रवृत्तिन ज्ञाप्यतइति बोध्यम् । यत्तु आत्वपक्षे षट्स्वरस्येव तदभावे तदभावज्ञापनेनापि "दीर्घाद्" इत्यस्य सार्थक्याद्विनिगमनाविरहादुभयज्ञापनापत्ति- रिति, तच्चिन्त्यम् । “स्वरतिसूतिसूयति" इत्यत्र लुग्विकरणालु- ग्विकरणयोरलाग्वकरणस्यैव ग्रहणम्” इत्यस्येव "लुग्विकरण- स्यैव ग्रहणम्" इत्यस्यापि ज्ञापनापत्तेः । तेनाप्युभयनिर्देशवैय- र्योद्धारात् । इष्ट एवार्थो ज्ञाप्यते इत्यस्याप्युभयसाधारण- त्वात् । यत्किञ्चिदर्थज्ञापनेन सर्वज्ञापकानामपि सार्थक्यस. म्भवात् । सर्वत्रापि ज्ञापकानां तत्तदर्थविशेषविषयकत्वोच्छे- दापत्तेश्च । यदप्युक्तम् । “दीर्घाद्" इत्यस्य योगविभागार्थतया सार्थ- क्यम् । तत्र हि दीर्घति लुप्तपञ्चम्यन्तम् । आदिति प्रथमान्तम् दीर्घादित्यनुत्तस्याष्टनो विशेषणम् । अत एव “दीर्घादष्टनः" इति न मूत्रितम् । आदिति प्रथमान्तन विशेषणविशेष्ययोर्दी- Cष्टनोर्व्यवधानापत्तेः । दीर्घाद् ” इति सूत्रेऽष्टनो ऽनु- तेरसम्भवाच्च । दीर्घान्तादष्टन्शब्दात्परस्य असर्वनामस्था- नविभक्तराकार उदात्त इत्यर्थः । इदश्चाष्टानामित्यत्रान्तोदा- तार्थमिति । तदत्यन्तमसत् । इदं हि " अष्टन आ विभक्तो" इत्यत्र हलीत्यपकर्षपक्षे तदभावे वा । नाद्यः । नान्तत्वसन्निपातकृतस्य नुटस्तद्विघा. तकमात्वं प्रति निमित्तत्वानुपपत्तेः । न च तस्या अनित्य- त्वान्न दोषः । अकृतव्यूहपरिभाषया नुटो दुर्लभत्वात् । भा- " नोप- प्रथमपादे प्रगृह्याहिकम् । ५। २९३ विना आत्वेन निमित्तस्य विनाशोन्मुखत्वात् । धायाः" इति दीर्पण नकारलोपेन च पञ्चानामित्यादिवदष्टा- नामित्यस्यापि सिद्ध्या संनिपातन्यायाप्रवृत्तिस्वीकारवैया. चेति तस्य दृष्यत्वात् । एतेनोक्तयोगविभागोऽपि निरस्तः । पत्रिचतुर्यो हलादिः" इत्यनेनैव विभक्त्याकारस्योदास- त्वसिद्धेः। यत्तु उक्तयोगविभागआदित्यनेन "अष्टन आ विभक्तो" इत्यात्वस्य ग्रहणम् , प्रतिपदोक्तत्वात् , न तु “ नोपाधायाः " इत्यस्य, विलम्बितप्रतीतिकत्वात् । तच्च संनिपातपरि- भाषायाः प्रवृत्तौ दुर्लभमिति नात्र सन्निपातपरिभाषायाः प्र- वृत्तिरिति, तदसत् अष्टनः इत्यात्वपरत्वानुरोधेन स- निपातन्यायो बाध्यताम् उत " नोपधायाः" इति दीर्घ- ऽप्येतत्प्रवृत्याऽसिद्धत्वं बाध्यतामित्यत्र विनिगमकाभावात् । न चैवं लक्षणप्रतिपदोक्तपरिभाषाया असिद्धत्वस्य चेत्युभयो- बांधापत्तिः । त्वन्मतेऽप्यकृतव्यूहसन्निपातपरिभाषयोर्वाधात् । यदप्युक्तम् । नलोपस्यासिद्धत्वेनाष्टनो दीर्घान्तत्वाभावात् "नोपधायाः" इति दीर्घपक्षे नोक्तयोगप्रवृत्तिरिति, तदप्यसत् । "नलोपः सुप्स्वर" इत्यादिनियमात् । न चायं स्वरविधिर्भवत्ये- वेति वाच्यम् । नकारान्तस्य स्वरे विधेयएव तदङ्गीकारात् । पञ्चाममित्यादौ तथैव दृष्टत्वात् । कार्यान्तराणामपि तवाङ्गसम्ब- न्धित्वात् । अत्र च विभक्त्याकारस्य स्वरविधानेन वैषम्यात् । नापि द्वितीयः । तत्र "नोपधायाः" इति दीर्घस्यैव वाच्यतया प्रतिपदोक्तस्य आत्वस्य दुर्लभत्वात् । स्वेच्छया योगविभागे छान्दसत्वकल्पने वीजाभावात् । असर्वनामस्थानविभक्तिप- दयोः प्रथमान्तयोः षष्ठीकल्पनेऽपि प्रमाणाभावात् ।

२९४ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये इदं चाभ्युपेत्योक्तम् । अष्टानामित्यत्र विभक्त्याकारोदात्त- स्योक्तरीत्यैव सिद्धत्वादुक्तयोगविभागएव बीजाभावात् । तत्प्रवृत्तिविचारस्य निरवकाशत्वात् । यत्तु आम्पराष्टन्शब्दे षट्स्वराप्रवृत्तिज्ञापनमस्य फलम् । त. स्याप्यात्वाभावपक्षेऽन्तोदात्तत्वाभाव इति । तदसत् । अपामाणि- कफलानुरोधेन कल्पनाऽनुल्लासात् । अन्यथा स्वेच्छया योग- विभागं कृत्वाऽनेकेषां फलानां ज्ञापयितुं शक्यत्वात् । तस्मात्क- तात्वस्य षट्संज्ञैव ज्ञाप्यते इति सिद्धम् । नन्वेवं दीर्घग्रहणेन आत्वविकल्पज्ञापनानुपपत्तिः । उक्त- रीत्या चरितार्थत्वात् । मैवम् । स्ववैयर्थ्यप्रयोजकव्यतिरेक- प्रतियोगिन एकस्यानेकस्य वा ज्ञाप्यत्वात् । उभयज्ञापनं विना दीर्घग्रहणवैयानुदारादात्वाभावपक्षे मध्योदात्तबाधो मा भू- दित्येतदर्थस्य दीर्घग्रहणस्य आत्वाभावपक्षं विना वैयर्थ्यताद- वस्थ्यादिति दिक् । यद्वा आकारपश्लेषोऽप्यत्र बोध्यः । षकारो नकार आकारश्चान्ते यस्य इत्यर्थः । नन्वेवं द्वाभ्यामित्यादौ "झ- ल्युपोत्तमम् " इत्यस्य व्यचि पदे प्रवृत्त्यभावात् “ पति- चतुभ्यः" इति विभक्त्युदात्तेनान्तोदात्तत्वं स्यात् । न चे- शपत्तिः । आ द्वाभ्यां हरिभ्यामिन्द्र याहि " इत्यादावा- घुदात्तस्यैव पठ्यमानत्वात् । मैवम् । नकारस्थानिकस्यैवा- कारस्य संज्ञायामुपादानात् । न चात्र प्रमाणाभावः । संनिधा. नस्यैव तथात्वात् । अत एव घुसंज्ञासूत्रे " नेर्गद इत्यत्र “ घुप्रकृतिमाङ्" इति पाठे प्रकृतिपदेन पूर्वोत्तरप्रकृति- परामर्श इति सिद्धान्तः। वस्तुतस्तु " हलो यमा यमि लोपः" इति द्वितीयनकार- प्रथमपादे प्रगृह्याह्निकम् । ५। प्रश्लेषण नकारस्थानिक आकारोऽत्र व्याख्येयः । उक्तस्व- रदोषोपन्यासपरभाष्यं त्वभ्युपेत्यवादमात्रम् । एतेनैकादशे- ऽतिप्रसङ्गशङ्कापरग्रन्थोऽपि व्याख्यातः । अथवा सप्तमे योगविभागः कर्तव्यः । षड्भ्यो लुछ षड्भ्यः इति, अष्टाभ्य औश्" इत्यत्राष्टाभ्य इति । षड्भ्यो यदुक्तं तत्कृताकारादष्टनोऽपि भवतीति तदर्थः । तेन नुट् सिद्धः । न च यदुक्तमित्यध्याहारे मानाभावः। भाष्य- स्यैव मानत्वात् । न चैवं जश्शसोलुंगप्यतिदिश्यतेति वाच्य- म् । औरत्वविधानवैयापत्तेः । एतेनॉनुमानिकवचनकल्प- नापेक्षया आकारान्ते पदसंज्ञाविरहकल्पनमेव युक्तमिति नि- रस्तम् । अतिदेशस्य लुग्विषयकत्वं नास्तीत्यस्यैव कल्प्य- त्वात् । नान्तत्वावस्थायामेव लुग्वारणार्थ त्वन्मतेऽपि विधि- सामर्थ्यस्यावश्याश्रणीयत्वात् । न चाष्टनो यदुक्तं तत्षड्भ्यो- ऽपि स्यादिति विपरीतार्थापत्तिः । योगविभागस्येष्टसिसर्य- त्वनियमात् । अन्यथा योगविभागमात्रोच्छेदापत्तेः। यद्वा अष्टन आ विभक्तौ " इत्यनन्तरं " रायः" इति योगं विभज्य “ हलि" इत्युभयशेषतया व्याख्येयम् । तेन हलादावेव विभक्तौ परत आत्वाविधानात् नुट एव प्राथम्यम् । न चैवं जश्शसोरात्वं न स्यादिति वाच्यम् । अष्टाभ्यः इत्यात्वविशिष्टानिर्देशेन तत्र तदनुमानात् । अन्यथा अष्टा इति अष्ट इति वा ब्रूयात् । न चैवं प्रियाष्टौ प्रियाष्टा इत्यत्रानुपपत्तिः । प्रियाष्टानौ पियाष्टान इत्यादेरेव साधुत्वादिष्टापत्तेः । यद्भाष्यम्- यथालक्षणमप्रयुक्त इति । तदत्र मा भूदात्वमित्यर्थ इति कैयटः ।

२९६ व्याकरणसिद्धान्तसुधानिधौ प्रथमाध्याये केचित्तु भवत्येवात्रात्वमिति भाष्यार्थ इत्याहुः, तञ्चिन्त्य- म् । शङ्काया अपकर्षपक्षविषयकत्वेन तत्रैव समाधानस्य युक्त- त्वात् । तत्र च हलादित्वाभावेन आत्वप्राप्तिविरहेण कैयटव्या- ख्याया एव युक्तत्वात् । तदयं फलितार्थः । प्रथमं तु यथोद्देशा- दीर्घादाकारतो विभागाभ्याम् अष्टानामितिशब्दे समाधयः पञ्च पर्यवस्यन्ति । अयं चात्र विशेषः । औङष्टान्तेष्वाङिदोष्षु नात्वं गौणे मतेऽन्तिमे । भवत्येव तु तत्रात्वमाये पक्षचतुष्टये ॥ तथा हि-हलादिविभक्तावात्वविधानमिति पक्षे प्रियाष्टा इति बहुव्रीहौ औङमारभ्य टापर्यन्तम् आमि ङे ङसिङङिपु ओस्ट्रये च आत्वं न प्राप्नोति । एषामजादित्वात् । न च "ग्रहणवता प्रातिपदिकेन" तदन्ताविधिनिषेधादत्रात्वासक्तिरेव नेति वा- च्यम् । “ पदाङ्गाधिकारे तस्य च तदुत्तरपदस्य च " इत्यनेन तत्सत्त्वात् । न च लुङ्लुटोरिवात्वस्यापि गौणे न प्रवृत्तिरिति वाच्यम् । तद्विधौ बहुवचननिर्देशादर्थप्राधान्यलाभः, आत्वविधौ तु एकवचननिर्देशान्नेति वैषम्यात् । तदिह कुत्र भाष्यतात्पर्य- मिति चेत् , मैवम् । आत्वविधावेकवचननिर्देशात्स्वरूपस्य ग्रहणं मार्थस्य, तेनोपसर्जनेऽप्यष्टनि भवति । “तत्रापि विकल्पितत्वा. मियाष्टा पियाष्टानौ प्रियाष्टान इत्यपि भवति" इति वदता हर- दत्तेन हलीत्यपकर्षे भाष्यस्य तात्पर्य नास्तीति स्पष्टमेवोक्तत्वात् । यत्तु “अष्टाभ्यः" इति सूत्रे " तदन्तग्रहणात्परमाष्टौ इत्यु. क्त्वा प्रियाष्टान इत्यत्रात्वस्याभावादौश् न भवतीतिवृत्तिग्रन्थ- विरोधाद्यथा पुनर्गौणतायामात्वं न भवति । तथा तद्विधावेव वक्ष्यत इति तत्रत्यहरदत्तग्रन्थविरोधाचोक्तहरदत्तग्रन्थो न युक्त इति । तच्चिन्त्यम् । वक्ष्यते इत्यत्र वृत्तिकारेणेत्यस्य विवक्षित.

“ प्रथमपादे प्रगृह्याह्निकम् । ५ । त्वात् । आत्वाभावप्रयोजकश्च हलीत्यपकर्षस्तत्र स्पष्ट एव । यथा- श्रुतवृत्तिग्रन्थस्य चानुपपन्नत्वात् । “अष्टाभ्यः" इत्यर्थप्राधान्य- निर्देशेन बहुव्रीहौ गौणत्वमेवौश्त्वाभावप्रयोजकम्, न त्वात्वा. भाव इत्यस्य स्पष्टत्वात् । आत्वाभावस्यौशभावं प्रत्यप्रयोजक- स्वात् । ननु तथाऽपि हलीत्यपकर्षे भाष्यतात्पर्य नास्तीत्यस्य कथं सिद्धिरिति चेत्, उच्यते- पक्षचतुष्टयविरोधस्यैव तत्र हेतुत्वात् । बहुभिर्गम्यमा- नस्य तात्पर्यस्यैकेन बाधानुपपत्तेः । जघन्यानामपि भूयसामनु- ग्राह्यतया समानकक्षाणां सुतरामेव तथात्वात् । न हि चरमोक्तं बलवदित्ययं नियमः । कत्तुः : क्यङ्” इति सूत्रे "सलोपो ऽप्सरस एव पयस्यतइत्येव भवितव्यम्" इत्यस्य पश्चादुपन्यासे. ऽपि “न त्वयं स्थितः पक्षः" इति कैयटेनोक्तत्वात् । लाघवानुगृहीते प्रमाणतात्पर्यस्य कपिञ्जलाधिकरणादौ व्यवस्थितत्वाच । हली- त्यपकर्षपक्षे च सन्निपातपरिभाषादिवाधस्योक्तरीत्या स्पष्ट- त्वात् । दीर्घग्रहणेन कृतात्वस्य पदसंज्ञा ज्ञाप्यते इति पक्षे च त- दभावात् । यत्वाकारान्ते पदसंज्ञायां फलाभावः । न च नुडेव फलम् । हलीत्यपकर्षेण नुटः पूर्वमात्वाप्रवृत्तेः। प्रियाष्ट्न इत्यर्थ तस्या- वश्यकत्वादिति । तदसत् । हलीत्यपकर्षे विप्रतिपद्यमानं प्रति उक्तयुक्तेरुद्भावयितुमशक्यत्वात् । अन्यथा आकारान्तस्य षट्- संज्ञयैव सिद्धौ "हलि" इत्यपकर्षे फलाभाव इत्यस्याप्यनिवा- यत्वात् । प्रियाष्ट्न इत्यस्य आत्वाभावपक्षउपपत्तेः । वस्तुतो “ हाल" इत्युभयशेषत्वविवक्षायाम् “रायष्टनोरा हलि विभक्तो" इत्येकमेव सूत्रं कुर्यात् । भाष्यस्याप्येतत्पक्षे नि- भरतायां तथैव न्यासः कार्यत इत्येवावक्ष्यत् । ३८ २९८ व्याकरणसिद्धान्तधानिधौ प्रथमाध्याये यत्तु "रैशब्दश्छान्दसः" इति पक्षे अष्टनोऽपि छन्दस्येवात्वं स्यादिति, तन्न । छान्दसशब्दसहचरितशब्दान्तरस्यापि छन्द- स्येव कार्यमित्यत्र मानाभावात् । सम्बुद्धौ नलोपनिषेधस्यापि छन्दस्येवापत्तेः । क्यजन्त एव रैशब्दः छान्दसः" इति कैय- रोक्तेश्च । यदपि रैशब्देऽप्यात्वविकल्पापत्तिरिति । तदप्यसत् । विक- ल्पबोधकपदाभावात् । दीर्घादिग्रहणेन ज्ञाप्यमानस्य त्वात्वविक- ल्पस्य लिङ्गलिङ्गिनोः सामानाधिकरण्यनियमात् अष्टन्शब्द- मात्रविषयकत्वात । गौरादिषु मातामहशब्दपाठेन "षितां डीपनि त्यः" इति ज्ञापितेऽपि गौरादिङीपस्तथावानङ्गीकारात् । एते न "अष्टन आ विभक्तों" इति सूत्रे "इलि" इत्युपादाने "रा- यः" इत्यत्र तदनुत्तिर्न स्यात् । “योऽचि" इत्यज्ग्रहणेनोत्तरत्र हल्पदाननुवृत्तेापितत्वात् । "युष्मदस्मदोरनादेशे" इत्यात्वस्य हलादिविभक्तिविषयकत्वार्थ तदुपादानादित्यपि निरस्तम् । एकयोगत्वे उक्तदोषानवतारात् । वस्तुतो यत्वमुत्सर्गस्तस्य हलादावात्वमपवाद इति तत्र- त्यमज्ग्रहणं प्रत्याचक्षाणेन भाष्यकारेण "युष्मदस्मदोः " इत्य- त्र हल्पदानुवृत्तिरेव ज्ञाप्यतइति बोध्यम् । यदप्याहुः। आत्वाभावपक्षे अल्लोपे ष्टुत्वे च प्रियाष्ट्ण इति रूपमिति हरदत्तोक्तिरपि चिन्त्या । पूर्वस्माद्विधावल्लोपस्य स्था- निवद्भावादकारेण व्यवधानात् ष्टुत्वस्य दुर्लभत्वात् । न च "पू- र्वत्रासिद्धीये न स्थानिवत् " इति वाच्यम् । संयोगादिलोपलत्वणत्वेषु" इति निषेधाण्णत्वविधौ तदप्रवृत्तेः । न च तत्र "रषाभ्याम्" इति प्रतिपदोक्तमेव णत्वं गृह्यते, ष्टुत्व- विधिलभ्यस्य विलम्बितप्रतीतिकत्वादिति वाच्यम् । मूर्धन्य- तस्य दोषः प्रथमपादे प्रत्याह्निकम् । ५॥ २९९ ग्रहणानुवृत्त्या तत्रत्यणग्रहणस्य भाष्ये प्रत्याख्यातत्वात् । न चैवं पूष्ण इत्यादावपि णत्वानुपपत्तिः । अकुप्वाङ्" इत्य नेनैव तत्र णत्वसिद्धेरिति । तच्चिन्त्यम् । णत्वमात्रविश्रान्तविधे- यतावच्छेदकताकत्वेन तथाऽपि प्रतिपदोक्तत्वस्य सुलभत्वा- त् । यस्य विधौ णशब्दोपादानं तस्यैव णत्वस्य प्रतिपदोक्त- त्वम् इति णकारप्रत्याख्यानेऽपि सत्त्वाच । प्रत्याख्यानाभाव- विशिष्टोपादानस्याप्रयोजकत्वात् । वचनविशेषपरिचायकत्वमा- त्रेण तस्योपयोगात् । प्रत्याख्यातानामपि वचनानां ज्ञापकतया भाष्यकारैरुपन्यासात्सत्त्वनियमानपेक्षस्योपलक्षणत्वस्य सुतरा- मुपपत्तेः । " निष्ठायां सेटि” इति सूत्रस्य भाष्यकृता प्र- त्याख्यातस्यापि तत्रत्यसेटीतिपदस्य पूर्वस्माद्विधौ स्थानिव- त्वमनित्यमित्येतज्ज्ञापकतायाः सर्वसंमतत्वात् । अपदान्तस्था- निकादेशसाहचर्याच्च । संयोगस्य पदान्तत्वापेक्षायामपि लो. पस्य तत्प्रतियोगिनोः सकारककारयोश्चापदान्तत्वात् । न च निलयतइति लत्वं पदान्तस्थानिकमपीति वाच्यम् । तत्र स्थानिवद्भावतत्पतिषेधयोरप्रवृत्तेः । साहचर्यस्य नियाम- कत्वमनित्यमित्युक्तौ तु पञ्चमीसमासस्यापि तथात्वमिति तु- ल्यत्वात् । प्रवृत्तेरौत्सर्गिकत्वमित्यस्याप्युभयसाधारण्यात् । " पूर्वविधौ " इति पञ्चमीसमासस्य इत्यत्र णत्वग्रहणस्य च भवद्भिरेव निरस्तत्वाच । न च असिद्धं बहिरङ्गमन्तरङ्गे" इत्यल्लोपस्यासिद्धत्वात्तथाऽपि न ष्टुत्वमिति वाच्यम् । यथोद्देशपक्षे तस्याः ष्टुत्वविधावप्रवृत्तेः । ष्टुत्वस्य तां प्रत्यसिद्धत्वात् । यत्तु फलैक्याय कार्यकालपक्ष एवेह न्याय्य इति । तम । फलैक्यं हि " रषाभ्याम् ” इत्यत्र णग्रहणतत्मत्याख्यानयो- तस्य दोषः" तस्य दोषः" ३०० व्याकरणसिद्धान्तसुधानिधौ प्रथमोध्याये । इत्यत्र णत्वग्रहणतत्पत्याख्यानयो । अचः परस्मिन् " इत्यत्र पञ्चमीसमासतत्प्रत्याख्यानयोर्वा । नायः। णग्रहणेन लक्षणप्रतिपदोक्तपरिभाषया तदभावे च "तस्य दोषः" इति णत्वपत्याख्यानेन ष्टुत्वस्य सुलभत्वात् । न द्विती- यः । णत्वग्रहणे प्रतिपदोक्तपरिभाषया तदभावे च बाधकामा- बादेव ष्टुत्वस्य निश्चितत्वात् । न तृतीयः । पञ्चमीसमासपक्षे प्रतिपदोक्तन्यायेन तदभावे च तत एव ष्टुत्वस्य प्रमितत्वात् । तदैक्यसंपादकतया यथोद्देशपक्षस्यैवात्र युक्तत्वात् । वस्तुतस्तु न पदान्त " इति सूत्रे “द्विवचनादीनि वरे- यलोपस्वरवर्जम् " इति वार्तिकभाष्याभ्यां वक्ष्यते । तथा घ णकारादिसाधारणधर्मों यत्र विधेयतावच्छेदकस्तस्यापि "तस्य दोषः" इत्यत्र णत्वपदेनोपादाने शिण्ढीत्यादावपि तत्म- चयापचया “ पूर्वत्रासिद्धे न स्थानिवत्" इत्यस्य प्रवृत्त्यनुप- पत्तौ तदाश्रित्य सवर्णग्रहणप्रत्याख्यानं न स्यात् । अनु. स्वारस्य ययि परसवर्णः" इत्यत्र णकारस्यापि विधेयत्वेन भवद्रीत्या णत्वाविधिः स्यात् । तथा च यत्र णत्वावच्छिन्नव्य- क्तिमात्रपर्यवसन्नमादेशत्वम् , तदेव णत्वपदेन गृह्यते । तच रषाभ्याम्" इत्यत्र णकारग्रहणे मूर्द्धन्यानुवृत्तौ वा तुल्यमे- वेति दिक् । डति च २४। इत्यन्ता संख्या षट्संज्ञा स्यात् । कति सन्ति । कत्वद्रा- क्षीः । “ पड्भ्यः" इति जश्शसोर्लक् । अत्र भाष्यम्- "बहुगणवतु संख्या" "डति च" ष्णान्ता षद" इति न्यासः कर्तव्यः । यथान्यासे उभयत्र इतिग्रहणेन गौरवात् ।

... ... ३ ... २ २ (१५) शिवस्तोत्रावली । उत्पलदेवविरचिता । प्रमेवरत्नाणेवध श्रीक्षेमराजविरचितवृत्तिसमेता(वेदान्तः)२ (२९) अनुमानचिन्तामणिग्याख्यायाः शिरोमन 1.६) मीमांसाबालप्रकाशः जैमिनीयद्वादशा णिकृतदीधित्या मागदीशी टीका। १५ ऽध्यायार्थसंग्रह: श्रीभट्टनारायणात्मज- (३०) वीरमित्रोदयः । महामहोपाध्यायश्रीमित्र- भष्टशङ्करविरचितः। ( मीमांसा) २ मिश्रविरचितः परिभाषा-संस्कारप्रका- (१०) प्रकरणपञ्चिका प्रभाकरमतानुसारि-मी शात्मकः । मांसादर्शनम् । महामहोपाध्यायश्रीशालि- (३१) वीरमित्रोदयः । महामहोपाध्यायश्री- कनाथमिश्रविरचितम् श्रीशङ्करभट्टकृतो मित्रमिश्रविरचितः आह्निकप्रकाशः मीमांसासारसंग्रहश्व सम्पूर्णः (मीमांसा)३ } (३२) स्मृतिसारोद्धारः विद्वद्वरविश्वम्भरत्रिपा- (१८) अद्वैतसिद्धिसिद्धान्तसारः। पण्डितमवर- ठिसंकलितः । श्रीसदानन्दव्यासप्रणीतस्तत्कृतव्याख्यास- (३३) वेदान्तरत्नमञ्जूषा । श्रीभगवत्पुरुषों- मलङ्कृतः । (वेदान्तः) समाचार्यकृता । ... (१९) कात्यायनश्रौतसूत्रम् । महामहोपाध्याय (३४) प्रस्थानरत्नाकरः । गोस्वामित्रीपुरुषो- श्रीकर्काचार्यविरचितभाष्यसाहितम् । १३ त्तमजीमहाराजविरचितः (२०) ब्रह्मसूत्रभाष्यम् । श्रीभास्कराचार्यविर- । (३५) वेदान्तपारिजातसौरभं नाम ब्रह्ममीमांसा- चितं असंपूर्णम् (वेदान्तः) भाष्यं श्रीनिम्बार्काचार्यविरचितम् । १ २ (२१) श्रीहर्षप्रणीतं खण्डनखण्डखायम् । आ- (३६) योगदर्शनम् । परमहंसपरिव्राजकाचार्य- नन्दपूर्णविरचितया खण्डनफनिकावि- नारायणतीर्थविरचित-योगसिद्धान्त चन्द्रि- भजनाख्यया व्याख्यया विद्यासागरीति कासमाख्यया व्याख्यया संवलितम् । २ प्रसिद्ध या समेतम्। (वेदान्तः) १३ । (३०) वेदान्तदर्शनम् । परमहंसपरिव्राजकाचार्य- (२२) आख्यातचन्द्रिका श्रीभट्टमलविरचिता १ श्रीरामानन्दसरस्वतीस्वामित ब्रह्माऽमृत. (२३) श्रीलक्ष्मीसहस्रम् -बालबोधिनीव्याख्य कर्षिांसमाख्यव्याख्यासंवलितम् । याऽवतरणिकया च सहित्तम् । ८ (३८) विश्वप्रकाशः । कोशः । विद्वद्वरश्रीम- (२४) ब्रह्मसूत्रवृतिः मरीचिका श्रीब्रजनाथ हेश्वरसूरिविरचितः। २ भट्टकृता (वेदान्तः) (३९) श्रीसुबोधिनी । श्रीवलभाचार्यविनिर्मिता (२५) क्रोडपत्रसंग्रहः । अत्र श्रीकालीशङ्कर श्रीमद्भागवतव्याख्या गोस्वामीश्रीविठ्ठल- सिद्धान्तवागीशविरचितानि अनुमानजा- नाथदीक्षितविरचितटिप्पणीसहिता। २ गदीश्याः प्रत्यक्षानुमानगादावर्याः प्रत्य- | (४०) वीरमित्रोदयः । महामहोपाध्यायश्रीमि- क्षानुमान माथुर्या व्युत्पत्तिवादस्य शक्ति- अमिश्रविरचितः पूजाप्रकाशः । वादस्य मुक्तिवादस्य शब्दशक्तिप्रकाशि- (४२) वेदान्तसिद्धान्तसंग्रहः । श्रुतिसिद्धा- कायाः कुसुमाञ्जलेश्च क्रोडपत्राणि २ न्तापरनामकः । श्रीब्रह्मचारिवनमालि- (२६) ब्रह्मसूत्रम्, द्वैताद्वैतदर्शनम् । श्रीसुन्दरभ- मित्राविरचितः। द्वैताद्वैतदर्शनानुगतः ।। हरचितसिद्धान्तसेतुकाऽभिधटीकासहित- (१९) स्वानुभवादर्शः । श्रीमत्परमहंसपरिवाज- श्रीदेवाचार्यप्रणीतसिद्धान्तजाह्नवीयुतम् २ काचार्यनारायणाश्रमशिष्यमाधवाश्रमविर- (२०) षडदर्शनसमुच्चयः । बौद्धनैयायिकका चितः । स्वकृतटीकाविभूषितश्च । पिलजैनवैशेषिकजैमिनयिदशनसंक्षेपः । (४३) याज्ञवल्कस्मृतिः। बालम्भट्टीसमाख्यव्या- मणिभद्कृतटीकया सहितः । हरिभद् ख्यासमलकृतमिताक्षरासहिता । व्य- मरिकृतः । वहाराध्याय (२८) शुद्धादतमार्तण्डःप्रकाशव्याख्यासहितः। (१४) गादाधरी । श्रीगदाधरभट्टाचार्यचक्रव- : ... ... ... ... ... १ ... ...

तिकृता । श्रीगङ्गे शोपाध्यायविरचित-(१६) वैयाकरणसिद्धान्तमा । श्रीमदुपा-
तत्त्वचिन्तामण्या श्रीरघुनाथतार्किकशिरो ध्यायोपनामक श्रीनागेशभट्टविरचिता ।
मणिविरचितदीधित्या च गर्भिता।
२ श्रीमदुर्बलाचार्यविरचितकुञ्जिकाटीका
(४५) शानदीपिका। श्रीपार्थसारथिमिश्र प्राणि श्रीमद्वालम्भट्टविरचितकलाटीका-इति
ता। रामकृष्णबिरचितयुक्तिनेहमपुरण्या टीकाद्वयसर्वलिता।
२
ख्यव्याख्ययातथासोमनाथकृतया मयुख- (१०) व्याकरणासद्धान्तसुधानिधीः ।
मालिकया च व्याख्यया समलकृता ।
पर्वतीय विश्वेश्वरसूरिविरचितः ।
...
पत्रादिप्रेषणस्थानम्
}. हरिदासगुप्तः,
हरिदासगुप्ता,
चौखम्बा बनारस सिटी।

No text on this page.

No text on this page.

No text on this page.

No text on this page.

No text on this page.

Vyaakarand-a Siddhaanta Sudhaanidhi 3

Author
Suri Vishveshvara
Title
Vyaakarand-a Siddhaanta Sudhaanidhi 3
File name
Vyaakarand-a Siddhaanta Sudhaanidhi 3
Text
OCR done
Citation
1914
Publisher
Pan'd'ita Mahaadeva Shaastrii
Language
Sanskrit
Pages
109
Library
Ou
Classification
Language. Linguistics. Literature
DLI number
368266
Barcode
2030020032359.00
Scanning centre
RMSC, IIIT-H
Rights
OUT_OF_COPYRIGHT
VMLT id
P4ZJBcIjr5f
Download PDF

Vyaakarand-a Siddhaanta Sudhaanidhi 3