Allahabad University

Vishwa Prakash

Sri Maheswara · 2006/07/20

PDF Proofread

Front matter

THE TELE CHOWKHAMBA SANSKRIT SERIES; A COLLECTION OF RARE & EXTRAORDINARY SANSKRIT WORKS, NOS. 160 & 168. विश्वप्रकशः। -- नाम शब्दकोषः। विद्वदर श्रीमहेश्वरसूरिणाप्रणीतः। लङ्कायाम् शैलबिम्बारामविहारे सरस्वतीमण्डपाधिपतिना पूज्याचार्यश्रीशीलस्कन्धाभिधानेनस्थविखोण प्रयवेन तथा श्रीमदाचार्य रवगोपालभट्टेन च संशोधितः VIŜVAPRAKASA BrSRT MAHESVARA. EDITED BY Sri Silaskandha Sthavira of the "Sail bimbaram" Vihara Ceylon and Pandita Ratna Gopala Bhatta, Benares. PUBLISHED AND SOLD BY THE SECRETARY. CHOWKHAMBA SANSKRIT BOOK-DEPOT. BENARES. AGENTS:- OTTO HARRASSOWITZI LEIPZIG: PANDITA JYESHTHARAMA MUKUNDAJI BOMBAY: PROBSTHAIN & CO., BOOKSELLERS, LONDON. Printed by Jai Krishna Dasa Gupta, AT THE VIDYA VILASA PRESS BENARES, 1911. Registered According to Act XXV of 1867, म .- با) ALLAHABAD. PREFACE -:0:- This Book which is Styled "Namanu Sasana" by its anthor is better known as “Visvaprakase.". it was compiled in the year 1033 of the Saka Era by Sri Maheswara. His birth place, though within india is uncertain From the adoration to Buddha, with which he begins this work, it is certain that he was a Buddhist. He was an eminent physician, and was well versed in the various Sciences and languages than extant in India. He is said to have written the great poem “ Sáhasánka," and the reader will find further information regarding him in the stanzas at the beginning of this work. 1105 AD. It is the opinion of some Scholars that there have been nearly eighty Six ' kosas' or vocabularies of Sans krit words written by various authors; but we have seen only twenty two. In Compiling this volume our author has employed “ Namapáráyana" as his guide, and his derived material aid from the following books:- Rajakosa, ” “ Bhógindra” “ Katyayana, " Salas anka," «Vachaspati, » « Vyadi," "Vis,varupa, alamangala, Subhanga " "Gopalita " and Bhagura," It claims a greater antiquity than any of the Sanskrit vocabularies in use among the Students of the present day, such as "Amarakósa,” « Trikánâda kosa” “ medinikósa” and “ Hemchandrkósa, " There is ample evideuce in " Medinikosa” that its venerable and renowned author has taken much valu- 3) 57 ( *An- ( 2 ) able help from the “ Visvaprakàsa" The constant referense to the " Visvaprakása” whilst supporting his arguments in his famous commentaries on Sisupalbadha” “ Raghuwamsa” and “ Kumarasambhawa " by the great Mallinatha will alone decide its value and place. In them the references are indicated by the words “ Hi visvah," and this has given rise to doubt among certain people as to the identity of the reference. They believe that there existed two books called " Visvakosa" and " Visvaprakósa," and that the former is now extinct. The greater number of scholars admit that both the names were applied to one and the Same book, The usefulness and the antiquarian value of this work will be seen from the Contents of this book, and therefore, there is no doubt that its necesscity Could he felt to the careful reader. Believing that my labours would be of benifit to the modern Samscrit student, I have, with consider able pains, edited the work to place it within the reach of all, Iam indebted to Sir Isána Tarkaratna for lending me an ancient Copy, and I must mention here that the Scarcity of books rendered my work more difficult. I shall be obliged to those who shall point out any errors which they may find here, so as to enable me to Correct the same in my next edition, C. A. Seelakkhandha. “SAILABIM BÁRAMA” DODANDUWA Ceylon.

( विश्वप्राकाशस्य) (भूमिका) अयंविश्वप्रकाशनामाकोशोविद्वद्वर श्रीमहेश्वरसुधीविरचितः च्छात्राणामतीवोपयुक्तः शब्दार्थव्युत्पत्तिकारकोविदुषामतीवप्रियो नाद्यापि मुद्रितः, कस्यापि च भाग्यो दयेन श्रीविद्याविलासनाग्नि सीरीजचौखम्भाहरिदासीययन्त्रालयेहरिदासात्मजजयकृष्णदास श्रष्टिनासर्वजनोपकारायमुद्रापयित्वाप्रकाशितः सर्वशक्तिमतासश्चि- इनन्द्रवरूपेणपरमेश्वेरणान्तर्यामिणा विश्वेषांपरमकरुणया नाना- विधसुधीवराः परोपकारपरायणाविरचिताविवर्त्तभूताः, स्वयंनिर्वि कारोपिसनस्वमाययाअघटनघटनापटीयस्याद्वारानानाविधलीलांक- रोतिवस्तु तस्तु न करोति च, स्वेमहिम्रिस्थितएव, निर्विशेषाद्विती- यः पूर्णसच्चिदानन्दघनो, भक्तानुग्रहायाऽजोपि सन् स्वमाययाजात- इवाविदुषां प्रतीयते, नवस्तुतो जातोऽतोजातो भवतीव, तथाचो- क्तंश्रुत्या,ननिरोधोनचोत्पतिवद्धोन च साधकः । नमुमुक्षुर्नवैमुक्तइ- त्येषापरमार्थता इति, यस्यजन्मपाश्चात्यंतस्येदं तत्त्वं प्रकाशते, नवि- षयिणांमलिनान्तः करणानामीश्वरविमुखानान्तामसराजसगुणवता- मसुराणामनेकजन्मभाजांयथार्थ शास्त्रहृदयाऽनभिज्ञानांमिथ्याभूत- शास्त्राभासेषुमुह्य तामिति किमिववहुबूम इतिशम् । सर्वमुमुक्षुहितैषी प्रजानानन्दसरस्वतीस्वामी कैवल्यधाममठनिवासी ( ब्रह्माघाट) - सूचीपत्रम् । वर्णप्रकरणम् । पत्राङ्काः। वर्णप्रकरणम् । पत्राङ्काः। कैककम् । इति घान्ताः। कद्विकम। कत्रिकम् । ६४ चद्विकम् । कचतुष्कम्। १७ १८ चत्रिकम् । ३० कपञ्चकम् । २१ चचतुष्कम्। २२ चपञ्चकम्। इति कान्ताः। इति चान्ताः। कषट्कम् । - खैककम् । खद्विकम् । खत्रिकम् । खचतुष्कम्। खपञ्चकम्। इति खान्ताः। २२ / छद्विकम् । २२ | छचतुष्कम्। २३ इति छान्ताः। २३ २३ / जैककम् । जद्विकम् । जत्रिकम् । २४/ जचतुष्कम् । २४ जपञ्चकम् । इति जान्ताः। ૨૮ ३२ ३२ ३३ - ३५ गैककम् । गद्विकम् । गत्रिकम् । गचतुष्कम् । गपञ्चकम् । इति गान्ताः। २८ झद्विकम् इति झान्ताः। धैककम्। घद्विकम् । घत्रिका २८ | बैककम् । २९ | अद्विकम् । २९ | अत्रिकम् ।

वर्णप्रकरणम् । पत्राङ्काः। वर्णप्रकरणम् । पत्राङ्काः। इति आन्ताः। तद्विकम् । तत्रिकम् । ६२ ३६ / तचतुष्कम् । ७० टत्रिकम् । ३८ तपश्वकम्। ७४ टचतुष्कम् । ४० तषट्कम् ७५ टपञ्चकम्। ४१ तसप्तकम्। ७५ इति टान्ताः। इति तान्ताः। टविकम् । -- उद्विकम् । ठत्रिकम् । ठचतुष्कम् । इति ठान्ताः। ४१ थद्विकम् । ४२ थत्रिकम् । ४२ इति थान्ताः। थचतुष्कम्। ७७ - ७७ डद्विकम् । डत्रिकम् । डचतुष्कम्। इति डान्ताः। ४३ दद्विकम् । ४५ दत्रिकम् । ४६ दचतुष्कम् । दपञ्चकम् । इति दान्ताः। - ढद्विकम् । ढत्रिकम् । ढचतुष्कम्। इति ढान्ताः। ४६ धद्विकम् । ४७ धत्रिकम् । धचतुष्कम् । धपञ्चकम् । इति धान्ताः। णद्विकम् । णत्रिकम् । णचतुष्कम् । मपञ्चकम् । ८७ ५४ नद्विकम् । ५५ | नत्रिकम् । ५६ नचतुष्कम्। नपञ्चकम्। णषट्कम् । इति णान्ताः। १०१ १०३ - नषट्कम् ।

- वर्णप्रकरणम् । पत्राङ्काः।] वर्णप्रकरणः । पत्राकाः। इति नान्ताः। यैककम् । ११४ यद्विकम् । पद्विकम् । १०३ यत्रिकम् । पत्रिकम् । १०४ यचतुष्कम् । १२३ पचतुष्कम्। १०५ यपञ्चकम् । १२४ पपञ्चकम् । १०६ / यषट्कम् । १२४ इति पान्ताः। इति यान्ताः। . - फद्विकम् । इति फान्ताः। १२५ १२५ १४३ बद्विकम् । बत्रिकम् । बचतुष्कम्। बपञ्चकम्। इति बान्ताः। १५३ १६१ भेककम् । भद्विकम् । भत्रिकम् । भचतुष्कम् । इति भान्ताः। १०६ | रैककम् । रद्विकम् । रत्रिकम् । १०६ रचतुष्कम् । १०७ रपञ्चकम् । १०७ इति रान्ताः। १०७ लद्विकम् । लत्रिकम् । १०८ लचतुष्कम्। १०८ लपञ्चकम् । इति लान्ताः। १०८ वैककम्। वद्विकम् । वत्रिकम्। वचतुष्कम्। ११० घपञ्चकम्। ११२ इति वान्ताः। ११४ ११४ शैककम्। शद्विकम् । शत्रिकम् । १६४ १६७ मैककम् । मद्विकम् । मत्रिकम् । मचतुष्कम्। मपञ्चकम् । इति मान्ताः। १६७ पत्राङ्काः। वणप्रकरणम्। पत्राङ्काः। वर्णप्रकरणम् । शचतुष्कम् । १७० शपञ्चकम्। इति शान्ताः। १९१/ ऋ। एऐ। १७२ पद्विकम् । पत्रिकम् । षचतुष्कम्। इति षान्ताः। ओऔ। १८६ १८६ सद्विकम् । सत्रिकम् । सचतुष्कम् । सपञ्चकम्। सषट्कम् । इति सान्ताः। १८६ कान्ताः। गान्ताः। १७३ चान्ताः। १७५ जान्ताः। १७७ ठान्ताः। १७९ णान्ताः। १७९| तान्ताः। यान्ताः। दान्ताः। १७९ नान्ताः। १८० पान्ताः। १८१ बान्ताः। १८२ भान्ताः। मान्ता। १८९ हद्विकम् । हत्रिकम् । हचतुष्कम् । हपशकम्। इति हान्ताः। यान्ताः। - क्षद्विकम् । क्षत्रिकम् । क्षचतुष्कम्। इति क्षान्ताः। १८२ | रान्ताः। १८३ लान्ताः। १८३ वान्ताः। - - षान्ताः। सान्ताः। हान्ताः। अव्ययानि। १९२ १८५ क्षान्ताः। सूचीपत्रं समाप्तम् । आज -

श्री।
विश्वप्रकाशः
विद्वद्वरश्रीमहेश्वरविरचितः॥
नमः सम्यक्सम्वुद्धाय ॥
स्तुवीमहि महामोहक्लेशान्तकभिषग्वरम् ॥
त्रैधातुकनिदानई सर्वज्ञं दुःखहानये ॥ १ ॥
कलाविलासान्मकरन्दबिन्दु-
मुद्रा विनिद्रे हृदयारविन्दे ॥
या कल्पयन्ती रमते कवीनां
देवी नमस्यामि सरस्वतीं ताम् ॥२॥
कवीन्द्रकुमुदानन्दकन्दोद्गमसुधाकरम् ॥
वाचस्पतिमतिस्पर्दिशेमुषीचन्द्रिकोज्ज्वलम् ॥ ३॥
क्षुभ्यत्क्षीराब्धिकल्लोलमालोल्लासियश श्रियम् ॥
गुरुं वन्दे जगद्वन्धं गुणरत्नैकरोहणम् ॥ ४ ॥
श्रीसाहसाङ्कनृपतेरनवद्यवैद्य-
विद्यातरङ्गपदमद्वयमेव बिभ्रत् ।।
यश्चन्द्रचारुचरितो हरिचन्द्रनामा
स्वव्याख्यया चरकतन्त्रमलश्चकार ॥५॥
आसीदसीमवसुधाधिपवन्दनीये
तस्यान्वये सकलवैद्यकलावतंसः ।।
शक्रस्य दस्र इव गाधिपुराधिपस्य
श्रीकृष्ण इत्यमलकीर्तिलतावितानः ॥६॥

विश्वप्रकाश सङ्कल्पसम्भवदनल्पविकल्पजल्प- कल्पानलाकुलितवादिसहरू सिन्धुः॥ तर्कत्रयत्रिनयनस्तनयो यदीयो दामोदरः समभवद्भिषजां वरेण्यः ॥७॥ तस्याभवत् सुनरुदारवाचो वाचस्पतिश्रीललनाविलासी ॥ सद्वैद्यविद्यानलिनीदिनेशः श्रीमहणः सत्कुमुदाकरेन्दुः ॥ ८ ॥ यभ्रातृजः सकलवैद्यकतत्त्वरत्न- रत्नाकरश्रियमवाप्य च केशवोऽभूत् ।। कीर्तनिकेतनमनिन्द्यपदप्रमाण- वाक्यप्रपञ्चरचनाचतुराननश्रीः॥९॥ कृष्णस्य चाऽजनि सुतः स्मितपुण्डरीक- पण्डातपत्रपरभागयशःपरागः ॥ श्रीब्रह्म इत्यविकलात्ममुखारविन्द- सोल्लासलासितरसाईसरस्वतीकः ॥१०॥ तस्यात्मजः सरसकैरवकान्तकीर्तिः श्रीमान्महेश्वर इति प्रथितः कवीन्द्रः॥ निःशेषवाङ्मयमहार्णवपारदृश्वा शब्दागमाम्बुरुहषण्डरविर्वभूव ॥ ११ ॥ यः साहसाङ्कचरितादिमहाप्रबन्ध निर्माणनैपुणगुणागतगौरवश्रीः॥ यो वैद्यकत्रयसरोजसरोजबन्धु- बन्धुः सतां सुकविकैरवकाननेन्दुः ॥ १२॥ इयं कृतिस्तस्य महेश्वरस्य ':

विश्वप्रकाशः। । वैदग्ध्यसिन्धोः पुरुषोत्तमानाम् ।। देदीप्यतां हृत्कमलेषु नित्य- माकल्पमाकल्पितकौस्तुभश्रीः ॥१३॥ लब्धैः कथश्चिदभिजातसुवर्णकार- लीलेन कोषवररत्नधिशब्दरत्नैः ।। विश्वप्रकाश इति काश्चनबन्धशोभा बिभ्रन्मयाऽत्र घटितो मुखखण्ड एषः॥१४॥ क्षोणीश्वरोदीरितशब्दकोष- रत्नाकरालोडनलालसानाम् ॥ सेव्यः कथं नैष सुवर्णशैलो विश्वप्रकाशो विबुधाधिपानाम् ॥ १५ ॥ भोगीन्द्रकात्यायनसाहसाङ्क- बाचस्पतिव्याडिपुरःसराणाम् ॥ सविश्वरूपामलमङ्गलानां शुभाङ्गगोपालितभागुराणाम् ॥ १६ ॥ कोषावकाशात् प्रकटप्रभाव- सम्भाविताऽनय॑गुणः स एषः ॥ सम्पादयन्नेष्यति वाञ्छितार्थान् कथं न चिन्तामणितां कवीनाम् ॥ १७ ॥ आ मित्रशैलचरमाचलमेकलाद्रि- कैलासभूमिवलयाद्यदिहास्ति किञ्चित् ।। एकत्र सम्भृतमगोचरशब्दरत्न- मालोक्यतां तदखिलं सुधियः कवीन्द्राः॥१८॥ यद्यस्ति वाङ्मयमहार्णवमन्थनेच्छा माप्तुं पदं फणिपतेर्यदि कौतुकं वः ॥

४ विश्वप्रकाशः। विश्वप्रकाशमनिशं तदिमं निषेव्य सम्भाव्यतां परमशाब्दिकशेखरश्रीः ॥ १९ ॥ सतां (स्तकसम्भारभारमोक्षः कृतो मया ॥ नामानुशासनमिदं सम्पूर्ण तन्वताऽद्भुतम् ॥ २० ॥ एकद्वित्रिचतुःपञ्चषड्वर्णानुक्रमोज्ज्वलैः ॥ मान्तादिवगैर्नानार्थसङ्ग्रहोऽयं वितन्यते ॥ २१ ॥ नानार्थः प्रथमान्तोऽत्र सर्वत्रादौ प्रदर्शितः ॥ सप्तम्यन्तेषु शब्देषु वर्तमानः सुनिश्चितः ॥ २२ ॥ दृष्टान्तेन सह काऽपि सप्तम्याधार एव च ॥ स्पष्टाय लिङ्गभेदाय काऽप्यत्र पुनरुक्तता ॥ २३ ॥ कैककम् ॥ को ब्रह्मात्मानिलार्केषु शमने सर्वनानि च ॥ पावके च मयूरे च मुखशीर्षजलेषु कम् ॥ २४ ॥ कद्विकम् ॥ अकं पापे च दुःखे च शको राजन्यदेशयोः॥ वकस्तु वकपुष्पे स्यात् कहे श्रीदे च रक्षसि ॥ २५॥ शुको व्याससुते कीरे रावणस्य च मन्त्रिाणि ॥ ग्रन्थिपणे शिरीषे च शुकं स्याच्छोणके कचित् ॥ २६ ॥ द्विकः काके च कोके च सृको बाणानिलोत्पले ॥ अर्कोऽर्कपणे स्फटिके रवौ ताने दिवस्पतौ ॥ २७ ॥ कर्कः कर्के राशिभेदे शुक्लाश्वे दर्पणे घटे॥ तर्कः कासावितर्कोहकर्मभेदेषु कीर्त्यते ॥ २८ ॥ श्लोको यशसि पये च लोकस्तु भुवने जने । स्तोकोऽल्पे चातके तोकमपत्यपुत्रयोरपि ॥ २९ ॥ कोकश्चक्रे के ज्येष्ठयां खजूरीद्रुमभेकयोः ॥ -1 - विश्वप्रकाशः। ५ रोको दीप्तौ बिले रोकं नौकाक्रयणभेदयोः ॥ ३० ॥ बेको विदग्धे छेकश्च विश्वस्तमृगपक्षिणोः ।। रेको विरेके शङ्कायां रेकः स्यादवमेऽपि च ॥ ३१ ॥ काकः स्याद्वायसे वृक्षप्रभेदे पीठसर्पिणि ।। शिरोबक्षालिने मानविशेषदीपभेदयोः॥ ३२ ॥ काका स्यात् काकनासायां काकोलीकाकजङ्घयोः ॥ रक्ते कायां मलप्वाञ्च काकमाच्याञ्च कीर्त्तिता ॥ ३३ ॥ काकं स्त्रीरतबन्धे स्यात् काकानामपि संहतौ ॥ पाकः शिशौ जरानिष्ठापचनक्लेदनेषु च ॥ ३४॥ शाको द्वीपान्तरे शक्तौ नृपद्रुमविशेषयोः॥ शाकं हरितके चापि नाकः स्वर्गान्तरिक्षयोः ॥ ३५ ॥ मूकोऽप्यवाङ्मतो दीने शूकोऽनुक्रोशशृङ्गयोः ॥ भूकश्छिद्रे च काले च भेको मण्डूकमेघयोः ॥ ३६ ॥ एकन्तु केवलं श्रेष्ठ इतरस्मिंश्च वाच्यवत् ।। शौकं शुकसमूहे च स्त्रीणाञ्च करणान्तरे ॥ ३७॥ अङ्कः स्थानेऽन्तिके मन्तौ रूपकोत्सङ्गलक्ष्मसु ॥ नाटिकादिपरिच्छेदे चित्रयुद्धे च भूषणे ॥ ३८॥ कङ्कश्छद्मद्विजे ख्यातो लोहपृष्ठकृतान्तयोः ॥ वङ्कः पर्याणभागे स्यान्नदीपात्रे च भङ्गुरे ॥ ३९ ॥ टङ्कः कपित्थभेदे स्यान्मानान्तरखनित्रयोः॥ कोपेऽसिकोशे जवायां टङ्कणे ग्रावदारणे ॥४०॥ रस्तु कृपणे मल्ले पङ्कः कईमपापयोः ॥ न्यकुर्मगे ऋषौ नाकुर्वामलूरे गिरौ मुनौ ॥ ४१ ॥ शङ्कः कीले शिवेऽस्त्रे च संख्यायादप्रभेदयोः ॥ कल्कः पापाशये पापे दम्भे विकिट्टयोरपि ॥ ४२ ॥ .

६
विश्वप्रकाशः।
वल्कन्तु वल्कले खण्डे शल्कं शकलवल्कयोः ॥
शुल्कं घट्टादिदेये स्याज्जामातुर्बन्धकेऽपि च ॥ ४३ ॥
निष्कमष्टाधिकस्वर्णशते दीनारकर्षयोः ।
वक्षोऽलङ्करणे हेमपात्रे हेमपलेऽपि च ॥४४॥
मुष्कोऽण्डकोशे सङ्घाते मुष्को मोक्षे च पादपे ॥
किष्कुर्वितस्तौ हस्ते च प्रकोष्ठे कुत्सितेऽपि च ॥ ४५ ॥
त्रिकाकूपस्य नेमौ स्यात् त्रिकं पृष्ठाघरे त्रये ॥
लङ्का रक्षःपुरीशाखाशाकिनीकुलटासु च ॥ ४६॥
शङ्का त्रासे वितर्के च राका तु सरिदन्तरे ॥
कच्छूनवरजकन्यापूर्णेन्दुपूर्णिमासु च ॥४७॥
कत्रिकम् ॥
कनकं चम्पके स्वर्णे किंशुके नागकेशरे ।।
धुत्तूरे काञ्चनारे च कालीयेऽपि कचिन्मतम् ॥ ४८ ॥
करकस्तु करके स्याहाडिमे च कमण्डलौ ॥
पक्षिभेदे करे चापि करका च धनोपले ॥ ४९ ॥
नरको निरये दैत्ये सरकः सीधुभाजने ॥
अच्छिन्नाध्वगपतौ च सीधुपाने च सीधुनि ॥ ५० ॥
खनकश्चित्ततत्त्वज्ञे सन्धिचौरे च मूषिके ॥
जनकः पितराजोर्युतकं संशये युगे ॥५१॥
यौतके चलनाग्रे च स्त्रीवस्त्राञ्चलयुक्तयोः ॥
कृषकः कर्षके फाले रजको धावके शुके ॥ ५२ ॥
मधुको वन्दिभेदे स्याज्ज्येष्ठयाढे विहगान्तरे ॥
मधुकं मधुपयो स्यादनुको निपुणाल्पयोः ॥ ५३ ।।
वसुकः शिवमल्ल्यां स्यादपणे च रोमके ॥
शिशुकः शिशुमारे स्याद्वालकोलूपिनोरपि ॥ ५४ ॥

विश्वप्रकाशः। क्रमुकः पट्टिकालोधे भद्रे मुस्तकपूगयोः ॥ फले कार्यासिकायाश्च क्रमुको ब्रह्मदारुणि ॥ ५५ ॥ बहुकः कर्कटेऽर्के च दात्यूहे जलखातके ॥ धनिकः साधुधन्याकधवेषु धनिका स्त्रियाम् ॥ ५६ ।। प्रियकः पीतशाले स्यानीपे चित्रमृगेलिनि । कुङ्कुमे च प्रियङ्गौ च पृथुकश्चिपिटे शिशौ ॥ ५७ ॥ यमकं यमजे शब्दालङ्कारे संयमेऽपि च ।। मशकः कथ्यते क्षुद्ररोगजन्तुविशेषयोः ॥ ५८॥ कुलकन्तु पटोले स्याच्छ्लोकसम्बन्धगुच्छके ॥ कुलकः स्यात् कुलश्रेष्ठे वल्मीके काकतिन्दुके ॥ ५९॥ तिलकं चित्रके प्राहुर्ललामे तिलकालके । रोगविद्रुमभेदेषु लोन्नि सौवर्चलेऽपि च ॥ ६० ॥ कुलिको नागभेदे स्याद् द्रुभेदे कुलसत्तमे ॥ कुशिकः स्यान्मुनी तैलशेषे सर्जाक्षवृक्षयोः ॥ ६१ ।। चषकन्तु सुरापात्रे मधुमद्यप्रभेदयोः॥ चटकः कलविङ्के स्याचटका तत्स्त्र्यपत्ययोः॥ ६२ ॥ कटकं वलये सानौ राजधानीनितम्बयोः । सामुद्रलवणे दन्तमण्डले दन्तिनामपि ॥ ६३ ॥ कटुका कटुरोहिण्यां व्योषेऽपि कटुकं स्मृतम् ॥ चुलुकः प्रमुतौ भाण्डभेदे चुलुकवन्मतः ॥ ६४॥ पुलकः कृमिभेदे स्याद्गुच्छार्कमणिदोषयोः॥ गजान्नपिण्डे रोमाञ्चे हरिताले शिलान्तरे ॥६५॥ रुचकं मङ्गलद्रव्ये ग्रीवाभरणदन्तयोः॥ उत्कटे बीजपूरे च सौवर्चलविडङ्गयोः ॥ ६६ ॥ रोचनायाश्च रुचकमश्वाभरणमाल्ययोः॥

८
विश्वप्रकाशः।
क्षुरकः कोकिलाक्षे स्यागोक्षुरे तिलकद्रुमे ॥ ६७ ॥
कामुकः कमनेऽशोकपादपे चातिमुक्तके ॥
पातुकः पातयालौ स्यात् प्रपातजलहस्तिनोः॥ ६८ ॥
आनकः पटहे भे- मृदङ्गे स्वनदम्बुदे ॥
आढ़कं मानभेदे स्यात् तुवामाढ़की मता ॥ ६९ ॥
कारकः कर्तरि प्रोक्तः कर्मादावपि कारकम् ॥
चारकः पालकेऽश्वादेः स्यात् सञ्चारकबन्धयोः ।।७०॥
तारकः कर्णधारे स्यादैत्ये च दृशि तारकम् ॥
कनीनिकायां नक्षत्रे तारकं तारकेति च ॥ ७१ ॥
वारकोऽगतावश्वविशेषे च निषेधके ।
जाहको घोङमार्जारखवाकारुण्डिकासु च ॥ ७२ ॥
पावकोऽनौ सदाचारे वहिमन्थे च चित्रके ॥
भल्लातके विडङ्गे च सायकः शरखगयोः ॥ ७३ ॥
नायको नेतरि श्रेष्ठे हारमध्यमणावपि ॥
प्राणकः सत्त्वजातीये जीवकद्रुमवेलयोः ॥ ७४ ॥
जालकं कोरके प्रोक्तं कुलाये जालिनीफले ॥
आनाये दम्भभेदे च वस्त्रभेदे च जालिका ॥ ७५ ॥
बालको ग्रे शिशौ केशे वाजिवारणबालधौ ॥
अङ्गुलीयकहीवेरपारिहार्येषु वालकम् ॥ ७६ ॥
वार्द्धक वृद्धसङ्घाते वृद्धत्वे वृद्धकर्माणि ॥
मामकं ममतायुक्ते मातुले मामकः स्मृतः ॥ ७७ ॥
याजको याजिनि ख्यातो याजको राजकुञ्जरे ॥
ग्राहको घातविहगे व्यालानाञ्च ग्रहीतरि ॥ ७८ ॥
दारको भेदकेऽपत्ये रात्रकं पञ्चराके ।
येन वेश्यागृहे नीतो वत्सरस्तत्र रात्रकः ॥७९॥

विश्वप्रकाशः। लासकोऽलसके लास्यकारिण्यपि मयूरके ॥ शार्ककः शर्करापिण्डे दुग्धफेने च शार्ककः ॥ ८ ॥ हारकः कितवे चौरे गद्यविज्ञानभेदयोः ।। स्थासकाख्या च चार्चिक्ये जलादेरपि बुबुदे ॥ ८१ ।। द्रावकस्तु शिलाभेदे विदग्धे मोषकेऽपि च ॥ भ्रामको जम्बुके धूर्ते सूर्यावर्ताश्मभेदयोः ॥ ८२ ॥ पिण्याकः सिहके हिङ्गौ तिलचूर्णेऽपि कुङ्कुमे ॥ पिनाको हरकोदण्डे पांशुवर्षत्रिशूलयोः ॥ ८३ ।। काटकः कृकवाको स्यापीतमुस्तककोकयोः ॥ क्षारकः पक्षिमत्स्यादिपिटके जालकेऽपि च ॥ ८४॥ पाटकः स्यान्महाकिष्कौ कटकान्तरवाद्ययोः ॥ अक्षादिचालने मूलद्रव्योपचयवेधसोः ॥ ८५॥ * वराकः सङ्गरे शोच्ये पराको व्रतखड्गयोः । पुलाकस्तुच्छधान्ये स्यात् सझेपे भक्तसिक्थके ॥ ८६ ॥ विपाकः कीर्त्यते स्वादौ परिणामे च दुर्गतौ ॥ विपाकः पचने स्वेदेऽप्यसत्कर्मफलेऽपि च ॥ ८७॥ लम्पाको लम्पटे देशे शिम्फाकः शफमूर्खयोः ॥ सम्पाकस्तार्किके धृष्टे सम्पाकश्चतुरङ्गुले ॥ ८८ ॥ मोचकः कदलीशिग्रुनिर्मोचकविरागिषु पेचको गजलाङ्ग्लमूलपर्यन्तधूकयोः ॥ ८९ ॥ मेचको बर्हिचन्द्रे स्यान्मेचकः श्यामलेऽपि च ।। तिमिरे कृष्णवर्णे तु मेचकं वाच्यवद्भवेत् ॥ ९० ॥ सूचकः सीवनद्रव्ये बोधके वृषदंशके ॥ पिशुने शुनि काके च केचकः सेक्तृमेघयोः ॥ ९१ ॥ * अत्रादर्शे एकाङ्कस्यानिर्देशात् त्रुटिः संभाव्यते । २ लोचको मांसपिण्डेस्यादक्षिण तारे च कङ्गुले । ललाटाभरणे स्त्रीणां कदलीनीलवस्त्रयोः ॥ ९२ ॥ निर्बुद्धौ कर्णपूरे च मौर्या भूश्लथचर्माणि ॥ मोदको हर्षके ज्ञेयः खाद्यभेदे च मोदकम् ॥ ९३ ॥ खोलकः पाकवल्मीकपूगकोषशिरस्त्रके ॥ गोलको विधवापुढे जाराच्च मणिके गुडे ॥ ९४ ॥ कूपको गुणले स्यात्तैलपात्रे कुकुन्दरे ॥ उदपाने चितायाञ्च कूपिकाऽम्भोगतोपले ॥ ९५ ॥ कूलकः कृमिशैले च प्रतीरस्तूपयोरपि । रूपकं नाटके धूर्ते काव्यालङ्करणे विदुः ॥ ९६ ॥ चूतकः कूपकेऽप्याने मृतकं रसजन्मनोः॥ लूनकः स्यात् पशौ भिन्ने शूचकः प्रावटे रसे ॥ ९७ ॥ कीचको दैत्यभेदे स्याच्छुष्कवंशे [मान्तरे ॥ कीटकः कृमिभेदे स्यानिष्ठुरे कीटकोऽन्यवत् ॥ ९८ ॥ जीवकः पीतशाले स्यात् क्षपणे वृद्धजीविनि ॥ सेविनि प्राणकेऽप्याहितुण्डिके पादपान्तरे ॥ ९९ ॥ आंजीवे जीविकामाहुर्जीवन्त्यामपि कुत्रचित् ।। दीपकं वागलङ्कारे दीपको दीप्तिकारके ॥ १० ॥ चीरको धिक्रियालेखे पतझ्यां चीरिका मता ॥ सेवकस्तु प्रसेवे स्यादनुजीविनि चान्यवत् ॥ १०१॥ अशोको वञ्जुले माने द्रुमनि शोकयोर्मतः॥ अशोका कटुरोहिण्यामशोकं पादपे स्मृतम् ॥ १०२॥ आलोको दर्शने द्योते आलोको वन्दिभाषणे ॥ पेटकं पुस्तकादीनां मञ्जूषाणां कदम्बके ॥ १०३ ॥ हेरको बुद्धभेदे स्यान्महाकालणेऽपि च ॥

अनीकन्तु प्रिये प्रोक्तं व्यलीको नागरे स्मृतः॥ । विश्वप्रकाशः। धेनुकं करणे स्त्रीणां धेनूनामपि संहतौ ॥ १०४ ॥ विवेकः स्याज्जलद्रोण्यां विचारेऽपि रहस्यपि ॥ गैरिकं कनके धातौ प्रसेकः सेचने च्युतौ ॥ १०५ ।। वैजिके शिग्रुतैले च हेतौ सद्योऽङ्कुरेऽपि च । कोरकं कुड्मले विद्यात् कक्कोलकमृणालयोः ॥ १०६ ॥ कौतुकञ्चाभिलाषे स्यादुत्सवे नर्महर्षयोः ॥ परम्परासमायातमङ्गले च कुतूहले ॥ १०७ ॥ विवरे सूत्रगीतादिभोगकालेषु च स्मृतम् ।। कौशिको नकुले व्यालग्राहे गुग्गुलुशक्रयोः ॥ १०८ ॥ विश्वामित्रे च कोशाग्योलूकयोरपि कौशिकः ।। कौशिकी चण्डिकायाञ्च नदीभेदे च कौशिकी ॥ १०९॥ प्रतीकोऽवयवे प्रोक्तः प्रतिकूलविलोमयोः ॥ भूतीकमपि भूनिम्बदीप्यकर्पूरकत्तुणे ॥ ११ ॥ अभीकः कामुके क्रूरे कवौ च भयवर्जिते ॥ वल्मीको वामलूरे स्यान्मुनिरोगविशेषयोः ॥ १११॥ व्यलीकमप्रियाकार्ये वैलक्ष्यष्वपि पीडने ॥ ११२ ॥ नालीकं शरखण्डेऽब्जे नालीकः शरशल्ययोः ॥ अलीकमप्रिये प्रोक्तमलीकमनृतेऽपि च ॥ ११३ ॥ अनूकन्तु कुले शीलेऽप्यनको गतजन्मनि ॥ उलूकः कुरविन्दे स्यात् पेचके जम्भमेदिनि ॥ ११४ ॥ शम्बूको गजकुम्भान्ते दैत्यभेदे च घोङ्गके ॥ बन्धूको बन्धुजीवे स्याद् बन्धूकः पीतशालके ॥ ११५ ॥ मण्डूकं बन्धुभेदेऽपि दर्दुरे शोणके विदुः ॥ मण्डूकपर्यो मण्डूकी वर्णकश्चारणे स्मृतः ॥ ११६ ॥ .

१२ विश्वप्रकाशः। विलेपने चन्दने च वर्णकं स्यादथार्भकः ॥ डिम्भे मूर्खे कशे भ्रूणे वर्तकोऽश्वखुरे खगे ॥ ११७ ॥ पुष्पकं प्रीतिकानेत्ररोगयो रत्नकङ्कणे ॥ कुबेरस्य विमाने च काशीशे च रसाञ्जने ॥ ११८ ॥ लोहे कांस्ये मृदङ्गारशकट्यामपि पुष्पकम् ॥ पूर्णकः स्वर्णचूडे स्यान्नासाच्छिन्न्यान्तु पूर्णिका ॥११९॥ दर्शकः स्यात् प्रतीहारे दर्शयितप्रवीणयोः ।। पद्मकं पद्मकाष्टेभविन्दुजालकयोरपि ॥ १२० ।। दीप्यकश्चाजमोदे स्याद्यवानीबर्हिचूड़योः ।। सस्यकः स्यान्मणौ खड़े नारिकेलस्य चान्तरे ॥ १२१ ॥ रक्तको म्लानबन्धूकरक्तवस्त्रानुरागिषु ॥ चित्रकः स्यात्तरुव्याघ्रभेदयोर्भेषजान्तरे ॥ १२२ ॥ वृश्चिकस्तु द्रुणे राशौ शूककीटे तथौषधे ॥ अंशुकं सूक्ष्मवस्त्रे स्याद्वस्त्रमात्रोत्तरीययोः ॥ १२३ ॥ अन्तिकं निकटे चुल्ल्यामन्तिका शीतलौषधे ॥ तथा ज्येष्ठभगिन्याञ्च नादयोक्तौ कीर्त्यतेऽन्तिका ॥१२४॥ स्वस्तिको मङ्गलद्रव्ये चतुष्कगृहभेदयोः ॥ पिष्टकस्य विकारे च स्वस्तिको रजतालिके ॥ १२५ ॥ कञ्चुको वारबाणे स्यानिमोके कवचेऽपि ॥ वर्द्धापकगृहीताङ्गस्थितवस्त्रे च चोलके ॥ १२६ ॥ औषधौ कञ्चुकी चाथ वञ्चकः खलधूर्तयोः ।। जम्बूके गृहबभ्रौ च गुह्यकश्छेकनिध्नयोः ॥ १२७ ॥ बन्धकः स्याद्विनिमये पुंश्चल्यां स्याच्च बन्धकी ॥ गान्धिकं लेखके प्राहुः सुगन्धिव्यवहारिणि ॥ १२८ ॥ ग्रन्थिकं पिप्पलीमूले ग्रन्थिकं गुग्गुलुगुमे ।।

विश्वप्रकाशः।
माद्रेये च करीरे च दैवज्ञे च प्रकीर्तितम् ॥ १२९ ॥
वाहिको देशभेदेऽश्वे वाहिकं धीरहिङ्गुनोः ॥
अनयोरपि वाहीको याज्ञिको याजके कुशे ॥१३० ॥
वार्षिकं त्रायमाणे स्याद्वर्षाकालभवेऽन्यवत्
खङ्गिको महिषीक्षीरे फेनसौनिकयोरपि ॥ १३१ ॥
आह्निकं दिननिर्वत्यै भोजने नित्यकर्मणि ॥
गुण्डको मलिने धूलौ कलोक्तिस्नेहपात्रयोः ॥ १३२ ॥
गण्डकः खडिनि ख्यातः सङ्ख्याविद्याप्रभेदयोः ॥
अवच्छेदेऽन्तराये च गण्डकी सरिदन्तरे ॥ १३३ ॥
तण्डकः खञ्जने फेने समासपायवाचि च ।।
गृहदारौ तरुस्कन्धमायावहुलयोरपि ॥ १३४ ॥
कण्टकः क्षुद्रशत्रौ च कर्मस्थानकदोषयोः ॥
रोमाञ्चे च द्रुमाङ्गे च कण्टको मकरेऽपि च ॥ १३५ ॥
तक्षकः फणिभेदे च वर्द्धकिद्रुमभेदयोः ॥
पक्षकः पार्श्वमात्रे च पक्षद्वारे च पक्षकः ॥ १३६ ॥
शङ्खकं वलये कम्बौ शिरोरोगे च शङ्खकः ॥
नन्दको हरिखड़े स्याद्धर्षके कुलपालके ॥ १३७ ।।
शीतकः शीतकाले च सुस्थिते दीर्घसूत्रिणि ॥
उष्णकस्तु निदाघे स्यादातुरे क्षिप्रकारिणि ॥ १३८ ॥
दुच्छको गन्धकुव्यां स्याविहाराभ्यवकाशयो ।
दुन्दुकः शोणके क्रूरे क्षुल्लकः स्वल्पनीचयोः ॥ १३९ ॥
पिष्टको नेत्ररोगे स्याद्धान्यादिचमसेऽपि च ॥
भस्मकं रोगभेदे स्याविडङ्गकलधौतयोः ॥ १४० ॥
तुम्बकः स्याद् बहुगुरुधूर्तायस्कान्तकामुके ॥
जम्बुकः श्वापदे नीचे प्रतीचीदिक्पतावपि ॥ १४१ ॥

विश्वप्रकाशः। कार्मुकं वंशधनुषोः कर्मशक्ते तु वाच्यवत् ॥ निम्मोको मोक्षके व्योम्नि सन्नाहे सर्पकञ्चुके ॥ १४२ ॥ रुडुक्को वाद्यभेदे स्याहात्यूहे मदमत्तके । तुरुष्कः सिहके म्लेच्छजातौ श्रीवासके कचित् ॥ १४३ ॥ इक्ष्वाकुः कटुतुम्ब्याञ्च सूर्यवंशनृपेऽपि च ॥ कुण्ठाकुश्च दुराधर्षे दुःशीले च बिलेशये ॥ १४४ ॥ कुषाकुर्मर्कटे भानौ परोत्तापिनि पावके । पृदाकुर्वृश्चिके व्याघ्र चित्रके च सरीसृपे ॥ १४५ ॥ मृदाकुरनिले वजे दावाग्नौ प्रतिमूर्यके ॥ गोरकुः पक्षिजातौ च भवेन्नमकवन्दिनोः ॥ १४६ ॥ त्रिशङ्कः शलभे राजविशेषे वृषदंशके । पल्यको मञ्चपर्यऋषीपर्यस्तिकासु च ॥ १४७ ।। करको मस्तके शस्यनारिकेलफलास्थिनि ॥ कलङ्कोऽङ्केऽपवादे च कालायसमलेऽपि च ॥ १४८ ॥ भालाङ्कः करपत्रे स्याच्छाकभेदे च रोहिते ॥ महालक्षणसम्पन्नपुरुषे कच्छपे हरे ॥ १४९ ।। वृषाङ्कः शङ्करे साधौ भल्लातकमहोक्षयोः॥ मृगाको मारुते चन्द्रे स्तबकः शुभ्रगुच्छयोः ॥ १५ ॥ आतङ्को रोगसन्तापशङ्कासु मुरजध्वनौ ॥ पालङ्कः शल्लकीशाकभेदयोः प्राजिपक्षिणि ॥ १५१ ॥ अलर्को धवलार्के स्याद्योगोन्मादिनि कुक्कुरे ॥ उदर्क एष्यत्कालीये फले मदनकण्टके ॥ १५२ ॥ सम्पर्कः सरते पृक्तौ वितर्कः संशयोहयोः ॥ अम्बिका पार्वतीपाण्डुजनन्योरपि मातरि ॥ १५३ ॥ अन्धिका कैतवे मिश्रे सर्षप्यामपि कीर्यते ॥

विश्वप्रकाशः।
१५
अम्लिका तिन्त्रिडीकाम्लोद्गारचाङ्गेरिकासु च ॥ १५४ ॥
यूथिकाऽम्लानके पुष्पविशेषेऽपि च यूथिका ॥
राजिकापि च केदारे राजसर्षपरेखयोः ॥ १५५ ।।
रसिकापि रसालायां काञ्चीरसनयोरपि ।।
रुण्डिका द्वारपिण्ड्याञ्च दूतिकायां रणक्षितौ ॥ १५६ ॥
भूमिका रचनायां स्यान्मूर्त्यन्तरपरिग्रहे ॥
कर्णिका करिहस्ताग्रे करमध्याङ्गुलावपि ॥ १५७ ॥
क्रमुकादिच्छटांशे च कर्णिका कर्णभूषणे ।।
बीजकोशे सरोजस्य कुट्टन्यामपि कुत्रचित् ॥ १५८ ॥
कार्णिका कथ्यतेऽत्यन्तं सूक्ष्मवस्त्वग्निमन्थयोः ॥
गणिका यूथिकावेश्यातर्कारीकरिणीषु च ॥ १५९ ॥
गणकोऽपि च दैवज्ञ कारिकानटयोषिति ॥
कृतौ विवरणश्लोके यातनायाञ्च कारिका ॥ १६० ।।
नापितादिकशिल्पेऽपि जालिका जालिनीफले ॥
भटानामश्मरचिताङ्गरक्षिण्याञ्च जालिका ॥१६१ ॥
गिरिसारे जलौकायामपि स्याद्विधवास्त्रियाम् ॥
जालिकः पुनरुद्दिष्टो ग्रामकूटे च धीवरे ॥ १६२ ॥
नीलिका नीलिनीक्षुद्ररोगशेफालिम्वपि ॥
कालिका योगिनीभेदे कार्ये गौ- घनावलौ॥१६३॥
क्रमदेये वस्तुमूल्ये भूसरीनवमेघयोः ॥
पटोलशाखारोमालीमांसीकाकीषु कालिका ॥ १६४ ॥
तथा वृश्चिकपत्रेऽपि मालिका सरिदन्तरे ॥
ग्रैवेये पुष्पमालायां पक्षिमल्ले च मालिका ॥ १६५ ॥
बालिका बालुकावालापिच्छोलाकर्णभूषणे ॥
तूलिका कथिता लेख्यकूर्चिकातूलशय्ययोः ॥ १६६ ॥

१६ विश्वप्रकाशः। चूलिका नाटकस्याऽङ्गे कर्णमूले च दन्तिनाम् ॥ मल्लिका तृणशून्येऽपि मीनमृत्पात्रभेदयोः ॥ १६७ ॥ मल्लिको हंसभेदे स्याज्झिल्लिका झिलिकापि च ॥ विलेपने मले झिल्ल्यामातपस्य रुचि स्मृता ॥ १६८॥ वालुका सिकतासु स्याद्वालुकन्त्वैलवालुके ॥ नग्निका तु कुमा- स्यादथ क्षपणवन्दिनोः॥ १६९ ॥ नग्नको धेनुकाधेनौ स्त्रीकरेण्वोः प्रसूतयोः ॥ रेणुकापि हरेणौ स्याज्जामदग्निस्त्रियामपि ॥ १७० ॥ जतुका जिनपत्रायां जतुकं हिङ्गुलाक्षयोः ॥ कूर्चिका सूचिकायाश्च तूलिकायाञ्च कुड्मले ॥ १७१ ॥ कवाटकुट्टके क्षीरविकृतावपि कूर्चिका ।। मातृका धात्रिकामात्रोर्मात्रिकं करणेऽम्बरे ॥ १७२ ॥ पताका वैजयन्त्याञ्च सौभाग्येऽङ्के ध्वजेऽपि च ॥ स्यात् पुत्रिका पुत्तलिका दुहित्रोर्यावतूलिके ॥ १७३ ॥ पुत्रकः शरभे धूर्ते शैलवृक्षपभेदयोः॥ उष्ट्रिका मृत्तिकाभाण्डभेदेऽपि करभस्त्रियाम् ॥ १७४ ॥ डिम्बिका जलनिम्बे स्यान्मोणके कामुकस्त्रियाम् ॥ कामिका नीलिकायाञ्च स्यमीको नाकुक्षयोः ॥ १७५ ॥ दूषिका तूलिकायाञ्च दूषिका नेत्रयोर्मले ॥ अम्मिका चाङ्गुलीये स्याद्वस्त्रभङ्गतरङ्गयोः ॥ १७६ ॥ तयोबाहुलकेऽपि स्यामिका मधुपध्वनौ ॥ स्याच्छलाकापि मदनशारिकाशल्ययोः शला ॥१७७॥ छत्रपञ्जरकाष्ठयाञ्च शल्लकी पशुवृक्षयोः॥ नर्तकीलासिकायाञ्च करेण्वामपि नर्तकी ॥१७८ ॥ नर्तकः केलके गोगलचा रणयो नेटे ॥

विश्वप्रकाशः। चुलुकी शिशुमारेऽपि कुण्डीभेदे कुलान्तके ॥ १८० ॥ चतुष्की मशके हों चतुष्की यष्टिकान्तरे ।। कचतुष्कम् ॥ अलिमकः पिके भेके मधुके पद्मकेशरे ॥ १८१॥ भवेदलिपको भृङ्गे कोकिले रथहिण्डके ।। स्मृतः कुरवकः शोणाम्लानझिण्टीप्रभेदयोः ॥ १८२ ॥ भवेन्मरुवकः पुष्पविशेषे मदनद्रुमे ।। वलाहको गिरौ मेघे दैत्यनागविशेषयोः ॥ १८३ ॥ भ्रमरको जले भृते गिरिजे चूर्णकुन्तले ॥ वराटकः स्थूलरज्जौ पद्मबीजे कपईके ॥ १८४ ॥ शृङ्गाटकं भवेद्वारिकण्टके च चतुष्पथे । गोकण्टको गोक्षुरके स्थपुटे च गवां खुरे ॥ १८५ ।। आकल्पकस्तमोमोहग्रन्थीपूत्कलिकामुदोः । आक्षेपकोऽनिलव्याधौ व्याधे निन्दाकरेऽपि च ॥ १८६ ।। प्रचलाकः शराघाते दन्दशूके भुजङ्गमे ।। वृन्दारकः सुरे श्रेष्ठे मनोज्ञे पुनरन्यवत् ॥ १८७ ॥ नियामकः कर्णधारे पोतवाहे नियन्तरि ।। विनायकस्तु हेरम्बे तायें विज्ञे जिने गुरौ ॥ १८८ ॥ निश्चारकः पुरीपस्य क्षये स्वैरे समीरणे ॥ भट्टारकः सुरे राज्ञि कथितश्च तपोधने ॥ १८९॥ दासेरकः स्यात् करभे दासीपुत्रे च धीवरे ॥ अङ्गारकं कुजे विद्यादुल्मकांशे कुरुण्टके ॥ १९० ॥ अङ्गारिकेक्षुकाण्डे स्यात् कोरके किंशुकस्य च ॥ दलाढकस्तु कुन्दे स्यात् करिकर्णशिरीषयोः ॥ १९१॥ स्वयञ्जाततिले फेने खातके नागकेशरे ।

१८
विश्वप्रकाशः।
वात्यायां प्रश्निकायाञ्च गैरिके च महत्तरे ॥ १९२ ॥
भवेत् पूर्णानकं पूर्णपात्रे पटहपात्रयोः ॥
प्रकीर्णक ग्रन्थभेदे चामरे विस्तरे हये ॥ १९३ ॥
स्मृतः पुष्कलको गन्धमृगे क्षपणकीलयोः ॥
कोशातकः कचे ज्यौस्निपटोलीघोषकेषु तु ॥ १९४ ॥
कोशातकी वाणिजके वाडवाग्नौ वणिज्यपि ॥
निर्ग्रन्थकः स्यात् क्षपणे निष्फलेऽप्यपरिच्छदे ॥ १९५॥
स्यादश्मन्तकमुद्धाने मालुकाच्छदनेऽपि च ॥
कटिल्लकस्तु पासे वर्षाभूकारवेल्लयोः ॥ १९६ ॥
कपईको वराटे स्वाज्जटाजूटेऽपि धूर्जटेः ॥
गोमेदकं पीतमणौ काकोले पत्रकेऽपि च ॥ १९७ ॥
मण्डोदकश्चित्ररागे भवेदातर्पणेऽपि च ॥
शतानीको मुनर्भेदे वृद्धे चातखरालिकः ॥ १९८ ॥
ग्रामणी॥ण्डभारावोपधानेषु प्रयुज्यते ॥
लेखनिको लेखहारे यः स्वहस्तं विलेखयेत् ॥ १९९ ॥
लेखेषु परहस्तेन तत्राप्येष प्रदर्शितः ॥
भवेन्मण्डलकं बिम्बे कुष्ठभेदे च दर्पणे ॥ २०० ।।
पिप्पलकं स्तनवृन्ते मतं सीवनसूत्रके ।
पिण्डीतकः स्यात्तगरे मदनद्रौ फाणिज्यके ॥ २०१॥
त्रिवर्णर्क गोक्षुरके त्रिफलायां कटुत्रिके ॥
शालाकः शृगालेऽपि सारमेये बलीमुखे ॥ २०२ ॥
कौलेयकः कुलश्रेष्ठे स्यादिन्द्रमहकामुके ।
सुप्रतीकः शोभनाङ्गे भवेदीशानदिग्गजे ॥ २०३ ॥
जैवातृकः कृशे चन्द्रे भैषज्यायुष्मतोरपि ॥
रताकिं स्यादिवसे सुखस्नानेऽष्टमङ्गले ॥२०४॥

विश्वप्रकाशः। १९ वैनाशिकः स्यात् क्षणिके परतन्तोर्णनाभयोः ।। वैदेहको वाणिजके शूद्राद्वैश्यासुतेऽपि च ।। २०५॥ वितुन्नकन्तु धन्याके तथा झाण्टामलौषधौ ॥ गोकुणिकः केकरे स्यात् पङ्कस्थे गव्युपेक्षके ।। २०६ ॥ भार्याटिको भवेद्भार्या निजिते हरिणान्तरे ।। कापटिकोऽन्यमर्मज्ञे छात्रस्याकादशासिनि ॥ २०७ ।। कौक्कुटिको दाम्भिके स्याददूरप्रेरितेक्षणे ॥ लालाटिकः प्रभो वदर्शिन्याश्लेषणान्तरे ॥ २०८ ॥ कार्याक्षमेऽप्याकलितः शिलाटकः शिलाट्टयोः ॥ कर्कोटकः स्यान्मालूरकाद्रवेयप्रभेदयोः ॥ २०९ ॥ वरण्टकस्तु मातङ्गवैद्यां यौवनकण्टके ॥ संवर्तुलेऽप्याखनिकचौरे क्रोडे च मूषके ॥ २१० ॥ वैतालिको बोधकरे खेटितालेऽप्युदीरितः ॥ तिक्तशाकस्तु खदिरे वरुणे पत्रसुन्दरे ॥ २११ ॥ मयूरकोऽप्यपामार्गे तुच्छके तु मयूरकम् ॥ विशेषकः स्यात्तिलके विशेषावाहकेऽपि च ।। २१२ ॥ विदूषकश्चाटुपटौ परनिन्दाकरेऽपि च ॥ भवेत् सैकतिकं मातृयात्रामङ्गलसूत्रयोः ॥ २१३ ॥ तथा सन्यस्तसन्देहजीवक्षेपणकेष्वपि ॥ एडमूकः स्मृतोधीरैः शठे वाक्श्रुतिवर्जिते ॥ २१४ ॥ वर्तरूको नदीभेदे काकनीले जलावटे । काकरूक उलूके स्यानिःस्वे स्त्रीजितदम्भयोः ।। २१५ ॥ दिगम्बरे भीरुके च दन्दशूकोपहिरक्षसोः ॥ मुष्टेरुको वदान्येऽपि मिष्टाशिन्यतिथिद्विषि ॥ २१६ ॥ कुकवाकुर्मयूरेऽपि सरटे चरणायुधे ।।

विश्वप्रकाशः।
२०
राधरङ्कस्तु नासीरे शीकरे च धनोपले ॥ २१७ ॥
कलविङ्कः स्मृतो ग्रामचटकेऽपि कुलिङ्गके ॥
सौगन्धिकन्तु कहारे पद्मरागे च कत्तृणे ॥ २१८ ॥
गन्धोपले गान्धिकेऽपि सौगन्धिक इति ध्वनिः ।।
सोमवक्लस्तु धवलखदिरे खट्फलेऽपि च ॥ २१९ ॥
भयानकः स्मृतो व्याघ्र सैंहिकयेऽपि भीषणे ।।
पुण्डरीकं सिताम्भोजे सितच्छत्रे च भेषजे ॥ २२० ॥
कोशकारान्तरे व्याघ्र पुण्डरीकोऽग्निदिग्गजे ॥
जर्जरीकं बहुच्छिद्रे जर्जरीको जरातुरे ॥ २२१ ॥
चर्चरीको महाकाले केशविन्यासशाकयोः ॥
ततरीकं वहिने स्यात्ततरीकश्च पारगे ॥ २२२ ॥
फर्फरीकश्च पेटे स्यात् फर्फरीकन्तु माईवे ।।
भन्दुत्कलिकोत्कण्ठाहेलासलिलवीचिषु ॥ २२३ ।।
शृगालिका शिवायां स्यात् त्रासादपि पलायने ॥
चण्डालिका किन्नरायामुमायामोषधीभिदि ॥ २२४ ॥
पाञ्चालिका भवेद्वस्त्रपुत्रिकागीतभेदयोः॥
कनीनिका तारकेऽक्ष्णः स्यात् कनिष्ठाङ्गुलावपि ॥ २२५॥
भवेद् गुणनिका नृत्ये शून्याङ्के पाठनिश्चितौ ।।
सन्तानिकांऽपि क्षीरादिसारे मकटजालके ॥ २२६ ॥
सन्दर्शिकाऽपि सुचुटीलोहयन्त्रविशेषयोः ॥
सङ्घाटिका तु युग्मे स्यात् कुट्टनीघ्राणयोरपि ॥ २२७ ।।
जीवन्तिकापि जीवाख्यशाकवन्दीगुडूचिषु ॥
विद्याद् बृहन्तिकाभिख्यामूरुवखप्रभेदयोः ॥ २२८ ॥
वकेरुका बलाकाभिद्वातवेल्लितशाखयोः ॥
स्मृता घरिका क्षुद्रघण्टिकाभ्रष्टधान्ययोः ॥ १२९ ॥

विश्वप्रकाशः।
२१
वाद्यप्रभेदवादित्रे दण्डयोरापगान्तरे ।।
कपञ्चकम् ॥
स्यादाऽच्छुरितकं हासनखाघातप्रभेदयोः॥ २३० ॥
प्रतिसूर्यकमिच्छन्ति कुकलासोपमूर्ययोः ।।
अनेडमूकमिच्छन्ति वाक्यश्रुतिविवर्जिते ॥ २३१॥
राजपटस्य काचस्य गुडके काचवर्तिकः॥
गोजागरिकमित्याहुमङ्गले कण्टकारके ॥ २३२ ।।
स्यात्कृमिकण्टकञ्चित्राविडङ्गोदुम्बरेषु च ।।
सुवसन्तक इत्येष वासन्त्यां मदनोत्सवे ॥ २३३ ॥
कक्षावेक्षकमिच्छन्ति शुद्धान्तोद्यानपालयोः ॥
द्वारपाले कवौ षिङ्गे रङ्गाजीविन्यपि क्वचित् ॥ २३४ ॥
नागचारिक उद्दिष्टो राजकुअरहस्तिपे ।
गणस्थराजे गरुडे चित्रमेखलके कचित् ।। २३५ ॥
स्याहीहिराजिकः कामलिकायां चीनधान्यके ॥
शीतचम्पकशब्दोऽयं स्यादातर्पणदीपयोः ॥ २३६ ॥
अन्धौ जलकरङ्कः स्यान्ना लिफएलेऽम्बुदे ॥
शङ्ख जललतायाञ्च कथ्यते जलवापिका ।। २३७ ॥
काकचीरादिशफरमत्स्ययोः कटखादकः ॥
खादके काचकलशे बलिपुष्टे च जम्बुके ।। २३८ ॥
स्याञ्चिलनीलिका कण्ठीभेदे खद्योतविद्रुतोः ।
स्यान्नवफलिका नव्ये नवजातरजास्त्रियाम् ॥ २३१ ।।
स्याच्छतपर्विकार्वावचयोरुपकारिका ।
विष्टभेदे गृहे राज्ञामुपकामपीष्यते ॥ २४० ।।
स्याब्यवहारिकालोकयात्रा सम्माजनीङ्गुदे ।
स्याद्धेमपुष्पिका यूथ्यां चम्पके हेमपुष्पकः ॥ २४१॥

२२ विश्वप्रकाशः। कषट्कम् ॥ लूतामर्कटकः पुत्र्यां नवमाल्यां प्लवङ्गमे ।। सिन्दूरतिलको नागे सिन्दूरतिलका स्त्रियाम् ॥ २४२ ।। वर्णविलोडकः श्लोके छायाहारिणि कुम्भिले ॥ मातुलपुत्रको धूर्त्तफले स्यान्मातुलात्मजे ॥ २४३ ॥ ग्राममद्गुरिका शृङ्ग्यां ग्रामयुद्धे च कीर्त्यते ॥ स्यान्मदनशलाकापि शा- कामोदयोषधौ ॥ २४४ ॥ इति कान्तवर्गः॥ खैककम् ॥ खमिन्द्रिये सुखे स्वर्गे शून्ये बिन्दौ विहायसि ॥ पुरे संवेदने क्षेत्रे कुलाहलफले कचित् ॥ १ ॥ खद्विकम् ॥ नखः कररहे शण्डे गन्धद्रव्ये नखं नखी ॥ मुखं निःसरणे वक्त्रे प्रारम्भोपाययोरपि ॥२॥ सुखं शर्माणि नाके च सुखा पुर्या प्रचेतसः॥ शङ्खो निध्यन्तरे कम्बुललाटास्थिनखीषु च ॥ ३ ॥ रेखा स्यादल्पके छमिन्याम्भोगोल्लेखयोरपि । लेखो लेख्ये सुरे लेखा लिपिराजिकयोर्मता ॥ मुखः सम्यग्मनोज्ञेऽपि साम्नः षप्रणयेष्वपि ॥४॥ शिखा शिफायां चूडायां ज्वालायामग्रमात्रके ॥ लाङ्गल्याश्चापि शाखायां चूडायाश्च शिखण्डिनः ॥ ५ ॥ सखा मित्रे सहाये च शाखापक्षान्तरे भुजे ॥ शाखा वेदविभागे च पादपाङ्गेऽन्तिकेऽपि च ॥ ६ ॥ प्रेला पर्यटने नृत्ये भवेदश्वगतावपि ।

विश्वप्रकाशः। २३ खडा गतिविशेषेऽपि शुकशिम्ब्याञ्च नर्त्तने ॥ ७॥ खत्रिकम् ॥ त्रिशिखं शेखरे विद्या स्त्रीलेखाराक्षसान्तरे॥ मुमुखं तायतनये फणिभेदे च पण्डिते ॥ ८ ॥ दुर्मुखो नागराजेऽपि मुखरे वानराश्वयोः ।। गोमुखं कुटिलागारे वाद्यभाण्डे च लेपके ॥ ९ ॥ प्रमुखः प्रथमे श्रेष्ठे विशिखस्तोमरे शरे ।। रथ्यां खनित्र्यां विशिखा नलिकायामपि कचित् ।। १०॥ विशाखस्तारके स्कन्दे विशाखाँ कटिल्लके ॥ मयूखस्त्विट्करज्वाले वैशाखो राधमन्थयोः ॥ ११ ॥ खचतुष्कम् ॥ आग्निमुखो द्विजे देवे भल्लाते चित्रके कचित् ।। पञ्चनखो गजे कूर्मे शिलीमुखोऽलिवाणयोः ॥ १२ ॥ भवेद्याघ्रनख: कन्दगन्धद्रव्यविशेषयोः ॥ महाशको नरास्थिन स्यानिधिसङ्ख्यामभेदयोः ॥ १३ ॥ इन्दुलेखाऽमृतासोमलताशशिकलासु च ॥ शशिलेखा कलाभागे बाकुचीवृत्तभेदयोः॥१४॥ अग्निशिखा लाङ्गलिक्यां कुङ्कुमेऽग्निशिखं मतम् ।। बद्धशिखा जटायां स्याद् बाले बद्धशिखो मतः ॥ १५॥ खपञ्चकम् ॥ स्यान्मलिनमुखः प्रेते गोलायूले खलेऽनले ॥ अथ शीतमयूखोऽपि शशाङ्कघनसारयोः ॥ १६ ॥ सर्वतोमुखमाख्यातमन्तरिक्षे च पाथसि ॥ विधिक्षेत्रज्ञरुद्रेषु कथितः सर्वतोमुखः ॥ १७ ॥ इति खान्तवर्गः॥

विश्वप्रकाशः। गैककम् ॥ गौः स्वर्गे वृषभे रश्मौ वज्रे चन्द्रमसि स्मृतः ॥ अर्जुने नेत्रदिग्बाणभूवाग्वारिषु गौर्मता ॥ १॥ गद्विकम् ॥ अगः शैले द्रुमे भानौ नगवत्पवनासने ॥ खगः सूर्य ग्रहे देवे मार्गणे च विहङ्गमे ॥२॥ भगमैश्वर्यमाहात्म्यज्ञानवैराग्ययोनिषु ।। यशोवीर्यप्रयत्नेच्छाश्रीधर्मरविमुक्तिषु ॥३॥ युगं हस्तचतुष्केऽपि रथसीराङ्गयोर्युगः ॥ युगं कृतादौ युगले वृद्धिनामौषधेऽपि च ॥ ४ ॥ मृगः पशौ कुरङ्गे च करिनक्षत्रभेदयोः ॥ याच्मायां मृगयायाञ्च मृगी स्याद्वनितान्तरे ॥५॥ मृगुः शुक्रे प्रपाते च जमदग्नौ पिनाकिनि ॥ भागे रूपार्द्धके प्रोक्तो भागधेयैकदेशयोः ॥ ६ ॥ नागन्तु सीसके रङ्गे स्त्रीवन्धे करणान्तरे ॥ नागः पन्नगमातङ्गक्रूरचारिषु तोयदे ॥ ७ ॥ नागकेशरपुन्नागनागदन्तकमुस्तके ॥ देहानिलप्रभेदेऽथ श्रेष्ठे स्यादुत्तरस्थितः ॥८॥ रागोऽनुरक्तौ मात्सर्ये क्लेशादौ लोहितादिषु ।। गान्धारादौ नृपे रागस्त्यागो वजनदानयोः ॥९॥ भोगः सुखे धने चाहेः शरीरफणयोर्मतः ॥ पालनेऽभ्यवहारे च निर्वेशे पण्ययोषिताम् ॥ १० ॥ योगोऽपूर्वार्थसम्पाप्तौ सङ्गतिध्यानयुक्तिषु ॥ वपुस्थैर्ये प्रयोगे च विष्कम्भादिषु भेषजे ॥ ११ ॥ विश्रब्धघातिनि द्रव्योपायसनहनेष्वपि ॥

विश्वप्रकाशः।
२५
कार्मणेऽपि च योगः स्याद्रोगः कुष्ठौषधे गदे ॥ १२ ॥
वेगो जवे प्रवाहे च महाकालफलेऽपि च ॥
पूगस्तु क्रमुके वृन्दे चङ्गः शोभनदक्षयोः ॥ १३ ॥
अङ्गं गात्रान्तिकोपायप्रतीकेष्वप्रधानके ।।
अङ्गा देशविशेषे स्युरङ्ग सम्बोधनेऽव्ययम् ॥ १४ ॥
इङ्गः स्यादद्भुते ज्ञाने जङ्गमङ्गितयोरपि ॥
टङ्गः कृपाणभेदे स्याज्जवायाञ्च खनित्रके ।। १५ ।।
तुङ्गः पुन्नागनगयोस्तुङ्गः स्यादुन्नतेऽन्यवत् ॥
वर्वरानिशयोस्तुङ्गी तङ्गं सीसकरङ्गयोः ॥ १६ ॥
चङ्गः कार्पासवार्ताकदेशभेदेषु भाषितः ।।
लङ्गः सङ्गे च षिङ्गे च व्यङ्गो हीनाङ्गभेकयोः॥१७॥
भङ्गस्तरङ्गे रुग्भेदे भेदे जयविपर्यये ॥
भङ्गा शणाख्यसस्येऽपि भृङ्गो प्रस्थाषियाः ॥ १८ ॥
मधुव्रतेऽपि भृङ्गन्तु केशराजगुडत्वचोः॥
रङ्गो रणे खले रागे नृत्ये रङ्गं त्रपुन्यपि ॥ १९ ॥
लिङ्गं चिढेऽनुमानेऽपि साङ्खयोक्तपकृतावपि ।
शिवमूर्तिविशेषेऽपि मेहने च प्रचक्षते ॥ २० ॥
शृङ्गं प्रभुत्वे शिखरे चिह्ने क्रीडाम्बुयन्त्रके ।।
विषाणोत्कर्षयोश्चाथ शृङ्गः स्यात्कूर्चशीर्षके ॥ २१ ॥
शृङ्गी विषायामृषभे स्वर्णमीनविशेषयोः॥
गाङ्गस्तु गङ्गासम्भूते भीष्मे शक्तिघरेऽपि च ॥ २२ ॥
पिङ्गः पिशङ्गे पिङ्गी तु शम्यां पिङ्गन्तु बालके ।
रामटे नाडिकायाञ्च पिङ्गा गोरोचनोमयोः॥ २३ ॥
खड्डो गण्डकशृङ्गासिबुद्धभेदेषु गण्डके ॥
दुर्गः स्याद् दुर्गमे दुर्गा गौरीनीलकयोरपि ॥ २४ ॥

२६
विश्वप्रकाशः।
सर्गस्तु निश्चयाध्यायमोहोत्साहात्मसृष्टिषु ॥
मार्गों मृगमदे मासप्रभेदेऽन्वेषणाध्वनोः ॥ २५ ॥
शार्ङ्ग कार्मुकमात्रेऽपि विष्णोरपि शरासने ॥
वल्गु छागे मनोज्ञे च वल्गुभाषितमन्यवत् ॥ २६ ॥
फल्गुः प्रोक्तो मले सारे निःसारे फल्गु वाच्यवत् ॥
शुङ्गी वटाम्रातकयोः पंर्कट्यामपि विश्रुता ॥ २७ ॥
गत्रिकम् ॥
पन्नगः पद्मकाष्ठे स्यात् पन्नगोऽपि भुजङ्गमे ।।
प्लवगो वानरे भेके सारथौ चोष्णदीधितेः ॥ २८ ॥
जिह्मगो मन्दगे सर्प विहगश्चाग्रजे खगे।
सर्वगं सलिले ख्यातं सर्वगः शङ्करे विभौ ॥ २९ ॥
आभोगो वारुणच्छत्रे पूर्णतायत्नयोरपि ॥
आयोगो व्याप्तौ रोधगन्धमाल्योपहारयोः ॥ ३० ॥
अयोगो विधुरे कूटे विश्लेषे कठिनोद्यमे ।।
आशुगो मारुते वाणेऽप्युद्वेगं क्रमुकीफले ॥ ३१ ॥
उद्वेगोऽप्युबाहुलकोद्वेजनाकोद्गमेऽपि च ॥
सम्भोगः सुरते भोगे सम्भोगो जिनशासने ॥ ३२ ॥
परागः पुष्परजसि धूलीस्नानीययोरपि ॥
गिरिप्रभेदे विख्यातावुपरागे च चन्दने ॥ ३३ ॥
प्रयागस्तीर्थभेदे स्याद्यज्ञे शतमखाश्वयोः॥
प्रयोगः कार्मणे प्रोक्तः प्रयुक्तौ च निदर्शने ॥ ३४ ॥
वातिगः कथितो भण्ट्यां धातुवादिनि वातिगः ॥
तडागस्तु जलाधारविशेषे कटकेऽपि च ॥ ३५ ॥
पुन्नागः पुरुषश्रेष्ठे पाण्डुनागे सितोत्पले ॥
जातीफले च पुन्नागो निसर्गः सर्गशीलयोः ॥ ३६ ॥

विश्वप्रकाशः। २७ विसर्गस्त्यागवद्दाने विसर्गो मलनिर्गमे ।। विसर्जनीयेऽप्ययनप्रभेदेऽपि विभावसोः॥ ३७॥ उत्सर्गो वजने त्यागे सामान्यन्यायदानयोः । त्रिवर्गो धर्मकामार्थे त्रिफलायां कटुत्रिके ॥ ३८ ॥ वृद्धिस्थानक्षये सत्त्वरजस्तमसि चेष्यते ॥ तातगुः क्षुद्रताते स्याज्जनयित्रीहितेऽपि च ॥ ३९ ॥ अनङ्गो मदनेऽनङ्गमाकाशमनसोः स्मृतम् ॥ मृदङ्गः पटहे घोषे भुजङ्गः षिङ्गसर्पयोः ॥४०॥ पतङ्गः शलभे शालिप्रभेदे विहगे रवौ ॥ पतङ्गं पारदे कापि नरगन्तु वरण्डके ॥४१॥ शेफे नरङ्गमप्याहु निषङ्गः सङ्गतूणयोः ॥ विडङ्गं कृमिघ्ने ख्यातं विडङ्गो नागरेऽन्यवत् ॥ ४२ ॥ कलिङ्गः पूतिकरजे धूम्याटे नीदन्तरे ॥ कलिङ्गं कौटजफले कलिङ्गा योषिति स्मृता ॥ ४३ ॥ अपाङ्गमङ्गहीने स्यान्नेत्रान्ते तिलकेऽपि च ॥ वराङ्गं योनिमातङ्गमस्तकेषु गुडत्वाच ॥४४॥ पत्राङ्गं पद्मके भूले पत्राङ्गं रक्तचन्दने । रथाङ्गश्चक्रवाकेपि रथाङ्गश्चक्र इष्यते ॥ ४५ ॥ रक्ताङ्गं विद्रुमे भौमे विद्यात् कम्पिल्लधीरयोः । रक्ताङ्गश्चापि जीवन्त्यां मातङ्गः श्वपचे गजे ।। ४६ ॥ कालिङ्गो भूमिकारौ दन्तावलभुजङ्गयोः ॥ कालिङ्गी राजकर्कव्यां धारङ्गः खड़तीर्थयोः ॥ ४७ ॥ हेमाङ्गो द्रुहिणे तायें नारङ्गं पिप्पलीरसे ॥ नागरङ्गे विटे जन्तौ यमजेऽपि प्रकीर्तितम् ॥ ४८ ॥ सारङ्गश्चातके भृङ्गे कुरङ्गे च मतङ्गजे ॥

२८ विश्वप्रकाशः। पक्षभेदे च सारङ्गः सारङ्गः शबलेऽन्यवत् ॥ ४९ ॥ प्रियङ्गुः फलिनीकङ्गुपिप्पलीराजिकामु च ॥ नीलागुः कृमिभेदे स्याद्भमरालीमुसारयोः ॥ ५० ॥ तुरङ्गी चाश्वगन्धायां तुरङ्गश्चित्तवाजिनोः ॥ चक्राङ्गी कटुरोहिण्यां चक्राङ्गो मानसौकसि ॥ ५१ ।। गचतुष्कम् ॥ ईहामृगो के जन्तौ प्रभेदे रूपकस्य च ॥ मल्लनागोऽभ्रमातङ्गे वात्स्यायनमुनावपि ॥ ५२ ॥ उपरागः परीवादे राहुग्रस्तार्कचन्द्रयोः ॥ दुर्नये ग्रहकल्लोलेऽपवर्गस्त्यागमोक्षयोः ॥ ५३ ॥ क्रियावसानसाफल्येऽप्यपवर्गः प्रयुज्यते ॥ उपसर्गः स्मृतो रोगभेदोपप्लवयोरपि ॥ ५४॥ समायोगस्तु संयोगे समवाये प्रयोजने ॥ सम्पयोगं रते विद्यादन्विते कार्मणेऽपि च ॥ ५५॥ दीर्घाध्वगः शृङ्खलके लेखहारे तु भेद्यवत् ॥ आभिषगस्तु शपथे स्यादाक्रोशे पराभवे ॥ ५६ ॥ छत्रभङ्गोऽपि वैधव्ये स्वातन्त्र्यनृपनाशयोः ॥ कटभङ्गस्तु सस्यानां हस्तच्छेदे नृपात्यये ॥ ५७ ॥ गपञ्चकम् ॥ कथाप्रसङ्गो वातूले विषवैये च वाच्यवत् ॥ नाडीतरङ्गः काकोले हिण्डके रतहिण्डके ॥ ५८॥ इति गान्तवर्गः॥ पैककम् ॥ यो घर्घरे च घण्टायां काञ्चिकाघातयोरपि ।

विश्वप्रकाशः। २९ पद्विकम् ॥ अघं तु व्यसने प्रोक्तमघं पातकदुःखयोः॥१॥ अर्घः पूजाविधी मूल्येऽप्यङ्गिपादट्ठमूलयोः ॥ ओघो वृन्दे पयोवेगे द्रुतनृत्योपदेशयोः ॥२॥ ओघः परम्परायाश्च मेघः स्यान्मुस्तके घने ॥ लघुनोज्ञानिःसारागुरुषु प्रथितो लघु ॥३॥ कृष्णागुरुणि शीघ्रं च स्पृकायाञ्च स्मृता लघुः॥ उद्धः स्यात्पावके हस्तपुटके देहजानिले ॥ ४ ॥ मोघाऽपि पाटलाय स्यान्मोघो निष्फलहीनयोः ॥ मघा माघी च नक्षत्रे भेषजे च यथाक्रमम् ॥ ५॥ श्लाघा मता प्रशंसायां परिचाभिलाषयोः ।। पत्रिकम् ।। अनघो निर्मलापापमनोज्ञेष्वभिधेयवत् ॥ ६॥ पलिघः काचकलशघटप्राकारगोपुरे ॥ परिघो योगभेदे स्यान्मुद्गरेऽनलघातयोः॥७॥ प्रतिघः प्रतिघाते च रोषे च प्रतिघो मतः॥ काचिघः काञ्चने प्रोक्तोऽन्नमण्डे मूषकेऽपि च ॥ ८॥ महाघस्तु महामूल्ये तथा लावकपक्षिणि ॥ निदाघो ग्रीष्मकाले स्यादुष्णस्वेदाम्बुनोरपि ॥९॥ उल्लाघस्तु शुचौ हृष्टे दक्षनीरोगयोरपि ।। सौंघो गुरुवेगार्थसर्वसंहननार्थयोः ॥ अमोघः सफलेऽमोघा विडङ्गाभययोः स्मृता ॥ १० ॥ इति घान्तवर्गः॥

३० विश्वप्रकाशः। चद्विकम् ॥ कचः केशे गुरोः पुत्रे बन्धे शुष्कवणे कचः॥ कचा करिण्यां काचस्तु मनौ शिक्ये मृदन्तरे ॥१॥ नेत्ररोगेऽपि नीचस्तु वामने पामरे स्मृतः ।। मोचः शोभाञ्जने प्रोक्तो मोचा शाल्मलिरम्भयोः ॥२॥ पिचुस्तुले च कर्षे च कुष्ठरोगेऽसुरान्तरे ॥ भैरवस्य प्रभेदेऽपि पिचुः काऽपि प्रकीर्तितः॥ ३ ॥ कूर्ची विकत्थने मध्ये ध्रुवोः श्मश्रुणि कैतवे ॥ क्रौञ्चः खगनगद्वीपप्रभेदेषु प्रयुज्यते ॥४॥ चञ्चो नलादिनिर्माणे चञ्चा तु तृणपूरुषे ।। चञ्चुः पञ्चाङ्गुले त्रोव्यां गोनाडीकेऽपि पठ्यते ॥ ५ ॥ शुचिः शुद्धेऽनुपहते शृङ्गाराषाढयोः सिते ॥ ग्रीष्मे हुतवहेऽपि स्यादुपधाशुद्धमन्त्रिणि ॥६॥ रुचिर्मयूखे शोभायामभिष्वङ्गाभिलाषयोः ॥ वीचिः स्वल्पे तरङ्गे स्यादवकारे सुखेऽपि च ॥७॥ सूची कराधभिनये नारीणां करणान्तरे ॥ मूची च सीवनद्रव्ये शचीऽन्द्राण्यां शतावरौ ॥ ८ ॥ काची स्यान्मेखलादाम्नि गुञ्जायां नीवृदन्तरे ॥ वचा स्यादुग्रगन्धायां सारिकायां शुके वचः ॥ ९ ॥ अर्चा पूजा प्रतिमयोश्चर्चा स्थासकचिन्तयोः ॥ चर्चिकायाञ्च रुक् शोभाकिरणेच्छासु चेष्यते ॥ १० ॥ त्वक् चर्मवल्कयो स्त्वाचे न्यङ् नीचे निम्नकार्ण्ययोः ॥ वाग वचने सरस्वत्यां भाषागीऔरती यथा ॥ ११ ॥ चत्रिकम् ॥ कवचो गईभाण्डे स्यात् सन्नाहे पटहेऽपि च ॥

विश्वप्रकाशः। ३१ विकचः क्षपणे केतुग्रहे च स्फुटितेऽन्यवत् ॥ १२ ॥ क्रकचः करपत्रे स्यादन्थिलाख्यगुमेऽपि च ॥ सङ्कोचमपि काश्मीरे सङ्कोचो मीनबन्धयोः ॥ १३ ॥ नाराचो लोहबाणे स्यानाराचो जलहस्तिनि । नाराच्येषणिकायाश्च सम्यक् सम्मतहृद्ययोः ॥ १४ ॥ प्रपञ्चः सञ्चये प्रोक्तो विस्तरे च प्रतारणे ॥ मरीचिः कृपणे दीप्तादृषिभेदेऽपि दृश्यते ॥ १५ ॥ मारीचो रक्षसो भेदे ककोले याजके द्विजे ॥ मारीची देवताभेदे नमुचिः स्मरदैत्ययोः ॥ १६ ॥ कनीचिः पुष्पितलता गुञ्जयोः शकटेऽपि च ॥ अवीचिर्नरकानूोर्विपञ्ची केलिवीणयोः ॥ १७॥ प्रागुदमत्यगित्येते दिग्देशे कालतोऽव्ययम् ॥ प्राच्योदीच्यप्रतीच्यानां वाचकं स्यादनव्ययम् ॥ १८ ॥ चचतुष्कम् ॥ मलिम्लुचोऽनिले चौरे जलसूचिर्जलौकसि ॥ शृङ्गाटे शिशुमारे च कङ्के शेटिझषेऽपि च ॥ १९॥ चपञ्चकम् ॥ रतनारीच इत्येष कथितो रतवल्लभे ॥ कुक्कुरे रतनारीचः सीत्कारे वरयोषिताम् ॥ २० ॥ इति चान्तवर्गः॥ छद्विकम् ॥ अच्छः स्फटिकभल्लूकनिर्मलेष्वच्छमव्ययम् ॥ आभिमुख्येऽथ कच्छः स्यादनूपे तुन्नकद्रुमे ॥१॥ नौकान्ते परिधानस्य पश्चादश्चलपल्लवे ॥

३२ विश्वप्रकाशः। कच्छा तु चीरिकायाश्च वाराह्याश्च निगद्यते ॥ २॥ स्याद् गुच्छः स्तबके स्तम्बे हारभेदकलापयोः॥ पुच्छः पाश्चात्यभागे स्याल्लाङ्गुले पुच्छमिष्यते ॥ ३ ॥ म्लेच्छ पापतरे जातिभेदे स्यादपभाषिणि ॥ पिच्छा तु शाल्मलीवेष्टे मण्डे चाश्वपदामये ॥४॥ पतौ पूगच्छटाकोशमोचानिजयिनेषु च ॥ छचतुष्कम् ॥ पिच्छपुच्छे महाकच्छः समुद्रे च प्रचेतसि ॥ ५ ॥ इति छान्तवर्गः॥ जैककम् ॥ जो जन्यां जातमात्रे च मृत्युञ्जये जनाईने ॥ जूराकाशे सरस्वत्यां पिशाच्यां जवनेऽपि च ॥१॥ जद्विकम् ॥ कञ्जः केशे विरिश्चौ च कञ्जः पीयूषपद्मयोः । अजो हरौ हरे कामे विधौ छागे रघोः सुते ॥ २॥ व्रजो गोष्ठाध्वन्देषु निजमात्मीयनित्ययोः ध्वज चिह्न पताकायां ध्वजः शौण्डिकशेफयोः॥३॥ खट्वाङ्गे च स्वजं रक्ते स्वजः प्रस्वेदपुत्रयोः॥ द्विजो विप्रेऽण्डजे दन्ते भार्गीरेणुकयोजिा ॥ ४ ॥ बीजं रेतसि तत्त्वे च हेतावडरकारणे ॥ आधानेऽपि च सज्जः स्यात् सन्नद्धे सम्भृतेऽपि च ॥ ५ ॥ वाजं घृतेऽपि यज्ञान्ने वाजो निःस्वनपक्षयोः ॥ वाजं जले मुनौ वाजो व्याजः शाठ्यापदेशयोः ॥ ६॥ भुजः पाणौ च बाहौ च कुजः स्यानरकारयोः ॥ --

विश्वप्रकाशः।
३३
अब्जो धन्वन्तरी चन्द्रे निचुले शङ्खपद्मयोः॥७॥
अब्जं स्यादथ कुब्जोऽपि न्युजः स्यात् पादपान्तरे ॥
न्युजन्तु कर्णरोगे स्यान्न्युजः प्रोक्तः कुशस्त्रुचि ॥८॥
अधोमुखे च कुब्जे च न्युब्जो वाच्यवदिष्यते ॥
आजिः समावनौ युद्धे राजिः स्यात् पतिरेफयोः ॥९॥
लाजाः स्युभृष्टभान्येषु लाजः स्यादातण्डुले ॥
उशीरे लाजमुद्दिष्टं प्रजासन्तानलोकयोः॥ १० ॥
गुञ्जापि पटहे प्रोक्ता काकचिञ्च्यां कलध्वनौ ॥
गञ्जा खानौ सुरागेहे स्याद्भाण्डागाररीढ़योः ॥११॥
गञ्जः कुञ्जो निकुञ्जेऽपि हनौ दन्ते च दन्तिनाम् ।।
सञ्जः प्रजापतौ रुद्रे लञ्जः स्यात् पट्टकच्छयोः ॥ १२ ॥
भर्जा बले महोत्साहे खजा मन्थप्रहस्तयोः॥
पिञ्जा तूले हरिद्रायां पिञ्जस्तु व्याकुलेऽन्यवत् ॥ १३ ॥
पिञ्जो बले चये पिजं रज्जुर्वेण्यां गुणे स्मृता ।।
खजूंः कण्वाश्च कीटे च खर्जूरीपादपेऽपि च ।।
मर्जूः स्याद्रजके शुद्धौ सर्वणिजविद्युति ॥ १४ ॥
जत्रिकम् ॥
करजस्तु करञ्जे स्यानखे व्याघ्रनखेऽपि ॥
कुटजो वृक्षभेदे स्यादगस्त्यद्रोणयोरपि ।। १५ ॥
सहजस्तु
निसर्गे स्यात् सहोत्थे पुनरन्यवत् ॥
नीरज कमले कुष्ठे जलजं शङ्खपद्मयोः ॥ १६ ॥
वलज गोक्षुरे क्षेत्रे सस्यसङ्गरयोरपि ॥
वलजा वरयोषायां वसुमत्यामपि स्मृता ॥ १७ ॥
कारुजः शिल्पिनाचित्रे कलभे नागकेशरे॥
स्वयञ्जाततिले फेने वल्मीके गैरिकेपि च ॥ १८॥

३४ विश्वप्रकाशः। बाहुजः क्षत्रिये कीरे स्वयञ्जाततिलेऽपि च ॥ वनजो मुस्तके पद्मे वनजं वनजो गजे ॥ १९॥ वनजा मुद्गपाश्च वणिग् वाणिज्यजीविनि ॥ वणिक करणभेदे च वणिज्यायामपीष्यते ॥ २० ॥ सामजस्तु गजे प्रोक्तः सामोत्थे पुनरन्यवत् ॥ भूमिजो नरकेऽङ्गारे सीतायामपि भूमिजा ॥ २१ ॥ गिरिजञ्चाभ्रके ख्यातं शिलाजतुसुगन्धयोः । लोहेऽपि गिरिजा गौरीमातुलुझ्योरुदीरिता ॥ २२ ॥ कम्बोजो हस्तिभेदे स्याच्छङ्खदेशविशेषयोः॥ अङ्गजं रुधिरेऽनङ्गपुत्रकेशमदेऽङ्गजः ॥ २३ ॥ काम्बोजस्तुरगे सोमवल्के पुन्नागपादपे ॥ काम्बोजी मासपाञ्च हिमुपामपि कचित् ॥ २४ ॥ अण्डजः कुकलासे स्यात् खगे मीने भुजङ्गमे ॥ कस्तूर्यामण्डजा प्रोक्ता परञ्जस्तैलयन्त्रके ॥ २५ ॥ फेने च करवाले च परञ्जः क्षुरिकाफले ॥ हिमजाऽपि शचीगौर्योमैनाके हिमजः स्मृतः ॥ २६ ॥ जचतुष्कम् ॥ जघन्यजोऽनुजे शूद्रे भारद्वाजः स्मृतो मुनौ ॥ द्रोणे च वनकार्पास्यां भारद्वाजी च कथ्यते ॥ २७ ॥ भारद्वाजो गुरोः पुत्रे व्यविहङ्गमे । काश्मीरजाख्याऽतिविषा कुष्ठकुङ्कुमपौष्करे ॥ २८ ॥ क्षीराब्धिजं तु सामुद्रलवणे मौक्तिके कचित् ।। क्षीराब्धिजा श्रियां प्रोक्ता चन्द्रे क्षीराब्धिजो भवेत् ॥२९॥ द्विजराजः शशधरे सुपर्णेऽनन्तभोगिनि ॥ धर्मराजो यमे बुद्ध धर्मराजो युधिष्ठिरे ॥ ३० ॥ .

विश्वप्रकाशः। राजराजः कुबेरेऽपि सार्वभौमे सुधाकरे ॥ भृङ्गराजस्तु मधुपे मार्कवे विहगान्तरे ॥३१॥ ग्रहराजो रवौ चन्द्रेऽप्यहि मुक्केकिताययोः ॥ यक्षराद् त्र्यम्बकसखे मल्लानां रङ्गचत्वरे ॥ ३२ ॥ जपञ्चकम् ॥ मुनिमेषजमागस्त्ये हरीतक्याश्च लङ्घने ।। वृषभध्वजशब्दोऽसौ शङ्करे चाहदन्तरे ॥ ३३ ॥ इति जान्तवर्गः॥ झद्विकम् ॥ झन्झा ध्वनिविशेषेऽपि झञ्झाऽणुजलवर्षणे ।। झञ्झा वाते तारवायौ नष्टेऽपि परिकीर्तिता ॥१॥ इति शान्तवर्गः॥ जैककम् ॥ ज्ञो विरिश्चे बुधे सौम्ये अद्विकम् ॥ चाज्ञस्तु जडमूर्खयोः॥ प्रज्ञा बुद्धौ पण्डितेऽपि प्रज्ञो वाच्यवदिष्यते ॥१॥ संज्ञा नामनि गायत्र्यां चेतनायां रविस्त्रियाम् ।। अर्थसूचनिकायाश्च इस्ताद्यैरपि कथ्यते ॥२॥ बत्रिकम् ॥ सर्वज्ञः शङ्करे बुद्धे कृतज्ञः कुक्कुरेऽपि च ॥ दैवज्ञो गणकेऽपि स्यात् क्षेत्रज्ञश्छेक आत्मनि ॥ ३ ॥ इति आन्तवर्गः॥

विश्वप्रकाशः।
टद्विकम् ॥
कटः श्रोणौ क्रियाकार किलिङ्गेऽतिशये शवे ॥
समये गजगण्डे च पिप्पल्याञ्च कटी मता ॥१॥
खटोऽन्धकूपकफयोः प्रहारान्तरटङ्कयोः ।
भटः पामरभेदे च वीरे च प्रगमे भटिः॥२॥
घटः समाधिभेदेभशिरःकूटकुटेषु च ॥
घटा घटनगोष्ठीभघटनासु च दृश्यते ॥३॥
कुटः कोटे घटे गेहे शिलाकुट्टकपूरुषे ॥
स्याच्छुटी कुम्भदास्याञ्च सुरायाचित्रमुस्तके ॥४॥
पटः प्रियालवृक्षे च सुचेले च पुरस्कृतौ ॥
पटः प्रमादयननदोषयोरप्युदाहृतः॥५॥
वटो गोले गुले भक्ष्ये वटो साम्यवराटयोः ॥
वटः कपर्दे न्यग्रोधे शुम्बरक्तिकयोर्वटी ॥६॥
विटोऽद्रौ लवणे षिड्ने मूषके खदिरेऽपि च ॥
स्फुटो व्यक्ते प्रफुल्ले च व्याप्ते च कलितेऽन्यवत् ॥ ७ ॥
निर्भिन्नकर्कटीसस्ये पादस्फोटे स्फुटिर्मता ॥
कूटं यन्त्रेऽनृते राशौ निश्चले लोहमुद्गरे ॥ ८॥
मायाद्रिशृङ्गयोस्तुच्छे सीरावयवदम्भयोः ॥
पुरद्वारे च शंसन्ति लाटो देशेऽशुकेऽपि च ॥ ९॥
झाटो निकुञ्ज कान्तारे व्रणसम्माजनेऽपि च ॥
वटो वृतौ च मार्गेऽपि वाटी तु गृहनिष्कुटे ॥ १० ॥
चटुश्चाटौ पिचण्डे च बतिनामासनान्तरे ।।
कटुः सुगन्धे तीक्ष्णे स्यादकार्ये मक्षरे रसे ॥११॥
कटुः पियमुकटुका राजिकास्वथ दूषणे ॥
कटु प्रोक्तं पटुस्तीक्ष्णे नीरोगे चतुरेऽन्यवत् ॥ १२ ॥

विश्वप्रकाशः। पटुः पटोलपत्रेऽपि छत्रालवणयोः पटुः ॥ खेटः कफे ग्रामभेदे निन्दिते वसुनन्दके ॥ १३ ॥ अटुं भक्ते च शुष्के च क्षौमेऽत्यर्थे गृहान्तरे ॥ पट्टः पेषणपाषाणे व्रणादीनाञ्च बन्धने ॥ १४ ॥ चतुष्पथे च राजादिशासनान्तरपीठयोः॥ पट्टी ललाटभूषायां पट्टी लाक्षामसाधने ॥ १५॥ क्रुष्टञ्च रोदने रावे कष्टं गहनकृच्छ्रयोः ॥ इष्टमाशंसिते पूज्यतमे प्रियतमेऽन्यवत् ॥ १६ ॥ इष्टं संस्कारयोगे च यागे च क्रतुकर्मणि ॥ रिष्टं क्षेमाशुभाभावकृपाणेषु प्रचक्ष्यते ॥ १७ ॥ म्लिष्टमव्यक्तवाचि स्याम्लिष्टं म्लानेऽन्यवन्मतम् ॥ दिष्टं दैवे च काले स्याद्दिष्टः सृष्टं तु निर्मिते ॥ १८ ॥ युक्तनिश्चितयोः प्राज्ये हृष्टो हृषितवन्मतः॥ रोमाञ्चिते प्रहसिते जातदर्पे च विस्मिते ॥ १९॥ व्युष्टं दिने प्रभाते च फले पर्युषितेऽपि च ॥ त्वष्टा शिल्पिनि देवानां तथा वर्द्धकिसूर्ययोः ॥२०॥ इष्टिः स्यादभिलाषेऽपि सङ्ग्रहश्लोकयागयोः ।। विष्टिः कर्मकरे भद्रे प्रेषणे वेतनेपि च ॥ २१ ॥ दिष्टिः परीमाणमुदोदृष्टिर्विदर्शनाक्षिषु ॥ रिष्टिः खड़े समृद्धौ च कृष्टिः स्यात् कर्षणे बुधे ॥ २२ सृष्टिः स्वभावे निर्माणे पुष्टिर्टद्धौ च पोषणे ॥ यष्टिहारलताशस्त्रभेदयोर्ध्वजदण्डके ॥ २३ ॥ भाण्ड्याञ्च मधुयष्टयाश्च मुष्टिर्बद्धकरे पले ॥ व्युष्टिः स्याद् घर्षणे विष्णुक्रान्तास्पर्द्धाकिरिष्वपि ॥२४ जटालग्नकचे मूले प्लक्षमाक्षिकयोर्जटी ॥

विश्वप्रकाशः। सटा जटाकेशरयोः फटा च फणदम्भयोः ॥ २५ ॥ योण्टा स्याद् बदरे पूंगे घटीखण्डे च वाससः ॥ परीक्षार्थतुलायाश्च घटः सूरिभिरिष्यते ॥ २६ ॥ पटिः पटविशेषेऽपि द्वाशुले कुष्टिकाद्रुमे ।। स्यात् कोटिरी चापाग्रे सङ्ख्या दप्रकर्षयोः ॥ २७ ॥ स्यात् त्रुटिः संशये लेशे सूक्ष्मैलाकालमानयोः ॥ त्रोटिः स्यात् कट्फले चञ्च्यां खगमीनविशेषयोः ॥२८॥ खाटिः किणे शवरथे खाटिरेकग्रहे स्मृता ॥ नटी हट्टविलासिन्यां शोणके नर्तके नटः ॥ २९ ॥ टत्रिकम् ॥ अवटः स्यात् खिले गर्ने कूपे कुहकजीविनि । विकटः सुन्दरे प्रोक्तो विशालविकरालयोः ॥३०॥ करटो गजगण्डे स्यात् कुसुम्भे निन्दजीविनि ॥ एकादशाहसाऽपि दुर्दुरुढेऽपि वायसे ॥ ३१ ॥ करटो वाद्यभेदेऽपि निबटो निर्दये स्मृतः ॥ परापवादसंरक्ते निवृटो निष्पयोजने ॥ ३२ ॥ चिपिटः खाद्यभेदेऽपि चिपिटो विस्तृतेऽन्यवत् ॥ जकुटो यमले ख्यातो वार्ताककुसुमे शुनि ॥ ३३ ॥ निष्कुटस्तु गृहोद्याने केदारककपाटयोः । हर्मुटः कच्छपे सूर्येऽप्युत्कटस्तीमत्तयोः ॥ ३४ ॥ चर्पटः स्फारविपुलचपेटे पर्पटेऽपि च ॥ पर्पटः पिष्टविकृतौ पर्पटो भेषजान्तरे ॥ ३५ ॥ पिचटो नेत्ररोगे स्यात् पिचटं त्रपुसीसयोः॥ सम्पाटं शिक्यभेदेऽपि धौताञ्जन्यामपि स्मृतम् ॥ ३६ ॥ कईदः करहाटे स्यात् पङ्कपङ्कारयोरपि ॥ --

विश्वप्रकाशः।
३९
कृपीटमुदरेनीरे कार्पटो जतुकार्यिणोः॥ ३७॥
कुक्कुटस्ताम्रचूडे स्यात् कुक्कुभेऽग्निकणेऽपि च ।।
निषादशूद्रयोः पुत्रे तालमध्ये तु कुक्कुटम् ॥ ३८ ॥
रसो नस्यप्रभेदे स्यादुच्चटा दम्भचर्चयोः ॥
केकटः श्रोणके विष्णावर्गटोऽन्तर्गले गले ॥ ३९ ॥
कर्कटः करणे स्त्रीणां राशिभेदे कुलीरयोः॥
शाल्मलीफलवालुक्योः कर्कटी कर्कटः खगे ॥ ४० ॥
कीकटस्तुरगे निःस्वे देशभेदे मितम्पचे ॥
मोचाटः कृष्णजीरे स्याद्रम्मास्थ्नि मलयोद्भवे ॥४१॥
चक्राटो विषवैधेऽपि धूर्त्तदीनारयोरपि ।।
वर्णाटो गायने चित्रकारे स्वीकृतजीविनि ॥ ४२ ॥
भावाटो भावके साधुनिवेशे कामुकेऽपि च ।।
शैलाटो देवले सिंहे शुक्लकाचकिरातयोः ॥ ४३ ॥
दोहाटः कथितो गाथाप्रभेदे मृगलुब्धके ।
वैडालवृत्तिकेऽपि स्याद्धाराटश्चातकाश्वयोः ॥ ४४ ।।
मोरटस्तु भवेदिक्षुमूलाङ्कोटमसूनयोः ॥
सप्तरात्रात् परे क्षीरे मूर्विकायान्तु मोरटा ॥ ४५ ॥
वेकटः स्याद्वैकटिके तथा सञ्जातयौवने ॥
वेरटो मिश्रिते नीचे वेरटं बदरीफले ।। ४६ ॥
त्रिकूटं सिन्धुलवणे त्रिकूटश्च सुवेलके ।
भाकूटः कथ्यते मीनभेदे शैलान्तरेऽपि च ॥४७॥
अरिष्टः फेनिले निम्बे लशुने काककङ्कयोः ॥
अरिष्टं सूतिकागारे तक्रे चिह्ने शुभाशुभे ॥४८॥
संसृष्टं तद्गते विद्यात् संशुद्ध सनादिना ।।
अवटुः कथितो घाटा कूपगर्तेषु सूरिभिः॥४९॥

विश्वप्रकाशः। ४१ प्रतिकृष्टं मतं गुह्ये द्विरावृत्त्या च कर्पिते ॥ प्रतिकृष्टः प्रेषिते स्यात् प्रत्याख्याते च वाच्यवत् ॥ ६२ ॥ शिपिविष्टस्तु खलतौ शिवे दुश्चणि स्मृतः ॥ चतुःषर्वित्रेऽपि चतुःषष्टिालास्वपि ॥ ६३ ॥ स्यागाढमुष्टिः कृपणे कृपाणादिषु चेष्यते ॥ टपञ्चकम् ॥ अथ स्गाशनोजिष्टो निश्वासाधरचुम्बयोः॥ ६४ ॥ इति टान्तवर्गः॥ उद्विकम् ॥ कठः स्वर ऋचाम्भेदे स्यात्तदध्येतृवेदिनोः ॥ मुनावपि हठो वारिपर्यो स्यात् प्रसभेऽपि च ॥१॥ शठो मध्यस्थपुरुषे शठो धुत्तूरधूर्तयोः ॥ शोऽलसे च मूर्खे च कुण्ठो कर्मण्यमूर्खयोः ॥२॥ पाठः स्यात् पठने विद्धका पाठाऽपि पठ्यते ॥ कण्ठो गले संविधाने ध्वनौ मदनपादपे ॥ ३ ॥ वण्ठः स्यादकृतोद्वाहे खर्वे कुन्तायुधेऽपि च ॥ पृष्ठं चरमगाः स्यादेहस्यावयवान्तरे ॥ ४ ॥ कोष्ठः कुशूले चात्मीये कुक्षेरन्तहस्य च ॥ कुष्ठो रोगे सुगन्धे च गोष्ठं मोस्थानकेऽपि च ॥ ५॥ गोष्ठी सभायां संलापे दुष्ठः स्याद् दुर्बलेऽधमे ॥ प्रष्ठः श्रेष्ठाग्रयोरुक्तः प्रष्ठा चाण्डालिकौषधौ ॥६॥ ज्येष्ठः श्रेष्ठेतिवृद्धे च ज्येष्ठो मासान्तरेऽपि च ॥ गृहगोधक्षयोज्येष्ठा श्रेष्ठा वैश्रवणे वरे ॥७॥ काष्ठा दारुहरिद्रायां कालमानप्रकर्षयोः॥ ६ ४२ विश्वप्रकाशः। स्यादिशि स्थानमात्रे च काष्ठमाख्यातमिन्धने ॥ ८॥ निष्ठा निष्पत्तिनाशान्तयाच्चानिर्वहणेषु च ॥ षष्ठी षण्णाश्च पूरण्यां कात्यायन्यामपीष्यते ॥९ उत्रिकम् ॥ कमठः कच्छपें भाण्डभेदे च कमठं मतम् ।। जरठः कर्कशे पाण्डौ जरठः कठिनेऽन्यवत् ॥ १० ॥ नर्मठश्चूचुके पिङ्गे वैकुण्ठः कृष्णशक्रयोः । श्रीकण्ठः खण्डपरशौ श्रीकण्ठः कुरुजाङ्गले ॥ ११ ॥ वरिष्ठः स्यादरुतरे प्रवरे तित्तिरावपि ॥ वरिष्ठं मरिचे ताने सादिष्ठोऽतिदृढ़ार्ययोः ॥ १२ ॥ अम्बष्ठो देशभेदेऽपि विप्राद्वैश्यासुतेऽपि च ।। अम्बष्ठा चाम्ललोण्यां स्यात् पाठायूतिकयोरपि ॥ १३ ॥ कनिष्ठोऽल्पेऽनुजे यूनि कनिष्ठा दुर्बलाङ्गुलौ । लघिष्ठोऽत्यल्पके भेलेऽप्यपष्ठुः कालबालयोः ॥ १४॥ प्रकोष्ठो विस्तृतकरे भूपकक्षान्तरेऽपि च ॥ कूर्परादधरे चापि प्रतिष्ठा स्थानमात्रके ॥ १५ ॥ गौरवे यागनिष्पत्तिचतुरक्षरपद्ययोः॥ मकुष्ठो व्रीहिभेदे स्यान्मकुष्ठो मन्थरेऽन्यवत् ॥ १६ ॥ ठचतुष्कम् ॥ दन्तशठः स्याज्जम्बीरे कपित्थे कर्मरङ्गके ॥ नागरङ्गेऽपि चाङ्गे- स्मृता दन्तशठा बुधैः ॥ १७ ॥ सूत्रकण्ठो द्विजे प्रोक्तः खञ्जरीटकपोतयोः॥ हारिकण्ठः परभृते हारान्वितगलेऽपि च ॥ १८ ॥ कालकण्ठस्तु दात्यूहे कलविकेच खञ्जने ॥ सितापाने हरे पीते सारके नीलकण्ठवत् ॥ १९ ॥ .

विश्वप्रकाशः।
४३
कलकण्ठः कलध्वाने हंसे पारावते पिके ।।
देवकाष्ठन्तु सरलदेवदारुमहीरुहोः ।। २० ॥
कालपृष्ठं भवेत् कर्णचापे कोदण्डमात्रके ॥
कालपृष्ठस्तु सारङ्गविशेषे कङ्कपक्षिणि ॥ २१ ॥
इति ठान्तवर्गः॥
.
डद्विकम् ॥
गुडः स्याद्गोलके हस्ते सन्नाहेक्षुविकारयोः ।
गुडा स्नुहीगुडिकयोगडे मीनान्तराययोः ॥ १ ॥
जडो मूर्खे हिमग्रस्ते शूकशिम्ब्यां जडा मता ॥
गडुः पुष्टगुडे कुब्जे षडः पेयान्तरे भिदि ।। २ ॥
व्याडो हिंस्रपशौ सपै ताडस्ताडनघोषयोः ॥
मुष्टिमेयतृणादौ च ताडी तालीदलद्रुमे ॥ ३ ॥
नीडं स्थाने कुलाये च सकारपूर्वकोऽन्तिके ॥
क्रोडः सूकरपातङ्गयोः क्रोडं क्रौडे च वक्षसि ॥४॥
चोडो देशविशेषे स्याचोडः प्रावरणान्तरे ॥
वेडः कर्णामये ध्वाने गरले कुटिलेऽपि च ॥'
लोहितार्कफले क्ष्वेडं घोषपुष्पे दुरासदे ।।
योधानां सिंहनादे तु क्ष्वेडा स्याद्वंशशल्यके ॥६॥
अण्डं खगादिकोशे स्यान्मुष्के वीर्येऽपि च कचित् ॥
स्यात् खण्डः शकले चेक्षुविकारमणिदोषयोः॥७॥
गण्डः कपोले पिटके योगभेदे च गण्डके ॥
गण्डः प्रवीरे चिह्ने स्यादश्वभूषणबुबुदे ॥ ८ ॥
चण्डो दैत्यान्तरे तीव्र चण्डो दासे यमस्य च ।।
चण्ड़ा धनहरीशङ्खपुष्प्योश्चण्डोऽतिकोपने ॥९॥

४४ विश्वप्रकाशः। चण्डी कात्यायनीहिंसाकोपनस्त्रीषु सम्मता ॥ षण्डं पद्मादिसङ्घाते खण्डः स्याद् गोपतावपि ॥१०॥ कुण्डं देवजलाधारे पिठरेऽथ कमण्डलौ ॥ कुण्डी कुण्डः स्मृतो जारात् पतिवनीसुतेऽपि च ॥ ११ ॥ दण्डी यमे मानभेदे लगुड़े दमसैन्ययोः ॥ व्यूहभेदे प्रकाण्डेऽश्वे कोणमन्थानयोरपि ॥ १२ ॥ अभिमाने ग्रहे दण्डश्चण्डांशोः पारिपार्श्विके । गौड़ः पामरजातौ च वृद्धनाभौ च वाच्यवत् ॥ १३ ॥ पिण्डं सान्द्रे बलं वोले गृहां जीवनायसोः॥ पिण्डो देहे जवापुष्पे निवापे सिहकेऽपि च ॥ १४ ॥ पिण्डी स्यात्तगरेऽलाबुखर्जूरीभेदयोरपि । पण्डः षण्डे धियां पण्डा पाण्डुः कुन्तीपतौ सिते ॥ १५ ॥ मण्डं मस्तुनि शाके च मण्डः स्यात् सारपिच्छयोः॥ एरण्डे भूषणे चाथ मण्डा धान्यामुदीरिता ॥ १६ ॥ मुण्डो दैत्यान्तरे राहौ मूर्द्धमुण्डितयोरपि । शौण्डो मत्तेऽपि विख्यातः शौण्डा पिप्पलिचर्ययोः॥१७॥ काण्डं नाले तरुस्कन्धे बाणेऽवसरनीरयोः॥ कुत्सिते रहसि स्तम्बे काण्डं गर्वेऽप्युदाहृतम् ॥ १८ ॥ भाण्डं भूषणमात्रेऽपि भाण्डं मूलवणिग्धने । नदीपात्रे तुरगाणां भूषणे भाजनेऽपि च ॥ १९ ॥ इडा वाचि मवि क्षोणाविडा च बुधयोषिति ।। क्रीडा केलिप्रकारे स्यात् खेलावज्ञानयोरपि ॥ २० ॥ चूडा शिखायां वलभौ चूडा बाहुविभूषणे । पीडा कृपाशिरोमालापमईसरलद्रुषु ॥ २१ ॥ नाडी नाले शिरागण्डर्वयोः स्याद्गुणान्तरे ॥ ।

विश्वप्रकाशः। नाडी पक्षणकालेऽपि चर्यायां कुहनस्य च २२ ॥ रण्डा मूषिकपाश्च रण्डा विधवयोषिति ॥ वण्डाऽपि पांसुलायां स्यादण्डो हस्तादिवजिते ॥ २३ ॥ शुण्डाऽपि जलहस्तिन्यां मदिराकरिहस्तयोः ।। नलिन्यां वारयोषायां शुण्डस्तु मदनिर्झरे ।। २४ ॥ डत्रिकम् ॥ गारुडं स्यान्मरकते विषशास्त्रेऽपि गारुडम् ॥ द्राविडः स्याज्जानपदे वेधमुख्यकशङ्खयो ।॥ २५ ॥ प्रचण्डो दुर्वहे श्वेतकरवीरे प्रतापिनि ॥ पिचण्डमुदरे विद्यात् पशोरवयवेऽपि च ॥ २६ ॥ तरण्डो बडिशीसूत्रबद्धवस्तुनि मेलके । वरण्डोऽप्यन्तरावेदौ सन्दोहमुखरोगयोः ॥ २७ ॥ पूत्यण्डो गन्धकीटेऽपि तथा गन्धमृगे स्मृतः ॥ मार्तण्डस्तपने क्रोडे शिखण्डो बर्हचूडयोः ॥ २८ ॥ प्रकाण्डो विटपे शस्ते मूलस्कन्धान्तरे तरोः ॥ कोदण्डो भूलतायां स्याद्देशभेदे च कार्मुके ॥ २९ सरण्डः सरटे धूर्ते सरण्डो भूषणान्तरे ॥ मारुण्डोऽण्डे भुजङ्गीनां मार्गे गोमयमण्डले ॥ ३० ॥ करण्डो मधुकोशासिकारण्डवदलाढके ॥ कूष्माण्डो गणभेदे स्याद् भ्रूणे कळरुकेऽपि च ॥ ३१ ॥ कूष्माण्डो चौषधीगौर्योर्भेरुण्डो भीमदर्शने ॥ भेरुण्डो देवताभेदे पक्षिणो भिदि चेष्यते ॥ ३२॥ वारुण्डः सेकपात्रे स्यान्मले दृक्कर्णयोरपि ॥ गणिस्थराजे वारुण्डी द्वारपिण्ड्यामुदीरिता ॥ ३३ ॥ तिन्तिडी भूरुहे कालदामे दैत्यान्तरेऽपि च ॥

४६ विश्वप्रकाशः। तिन्तिडस्तिन्तिडी तु स्याच्चिञ्चाक्षाम्लयोरपि ॥ ३४ ॥ विचण्डा सारिकावर्तिखगधेनुषु कथ्यते ॥ वितण्डा वादभेदे स्यात् कच्छीशाके शिलाह्वये ॥ ३५ ॥ वितण्डा करवीर्याञ्च निर्गुण्डी सिन्दुवारके ॥ नीलशेफालिकायाश्च करहाटेऽपि कुत्रचित् ॥ ३६॥ डचतुष्कम् ॥ भवेद्वातथुडो वात्या वामव्योर्वातशोणिते ॥ पिच्छिलस्फोटिकायाश्च देवताडस्तु घोषके ॥ ३७॥ सैंहिकेयग्रहे चापि देवताडो हुताशने ॥ चक्रवाडोऽद्रिभेदें स्याञ्चक्रवाडन्तु मण्डले ॥ ३८ ॥ जलरुण्डो जलावर्ते पयोरेणौ भुजङ्गमे ।। अपोगण्डस्तु शिशुके विकलाङ्गेऽतिभीरुके ॥ ३९ ॥ इति डान्तवर्गः॥ ढद्विकम् ॥ दृढः स्थूले भृशे शक्ते प्रगाढेऽपि दृढो मतः ॥ बाढं दृढे प्रतिज्ञायां मूढस्तन्द्रितबालयोः॥१॥ गूढं रहसि गुह्ये च संवृते पुनरन्यवत् ।। व्यूढः संहतविन्यस्तपृथुलेषु च भेद्यवत् ॥ २॥ पण्डो वर्षधरे क्लीवे गोपतौ बन्ध्यपूरुषे ।। वोढा स्याद्भारिते सूते सोढा मर्षणशक्तयोः ॥ ३॥ राढा सूक्ष्मे च शोभायां दाढा दंष्ट्राभिलाषयोः । माढिः पत्रादिभङ्गौ स्यान्माढिदैन्यप्रकाशने ॥ ४ ॥ ढत्रिकम् ॥ आषाढो वतिनां दण्डे मासे मलयपर्वते ॥ .

विश्वप्रकाशः।
वारूढः शम्बलेऽपि स्याद्वस्वाञ्चलकपाटयोः ॥ ५ ॥
पञ्जरे पावके वाथ प्रख्ढो जठरे स्मृतः ॥
बद्धमूले विरूढस्तु सञ्जातेऽकरितेऽन्यवत् ॥ ६॥
समूढः पुञ्जिते भुग्ने सद्योजातेऽनुपप्लुते ॥
उदूढ ऊढे स्थूले स्यादुपोढो निकटोढयोः ॥ ७ ॥
निगूढो गर्हिते गुप्ते प्रमीढो मूत्रिते घने ।
संरूढोऽङ्कुरिते प्रौढे प्रगाढो दृढपृच्छयोः ॥ ८॥
अध्यूढा कृतसाफ्ल्यां नार्यामध्यूढ ईश्वरे ।।
ढचतुष्कम् ।।
अध्यारूढं समारूढेऽप्यधिक चाऽप्यऽभेद्यवत् ॥ ९ ॥
इति ढान्तवर्गः॥
णद्विकम् ॥
कणोऽतिमूक्ष्मे धान्यांशे कृष्णाजीरकणादिषु ।।
पणो वराटमाने स्यान्मूल्ये कार्षापणे ग्लहे ॥ १ ॥
क्रय्यशाकटिकद्यूतव्यवहारे भृतौ धने ॥
गणः समूहे प्रथमे सङ्ख्यासैन्यमभेदयोः ॥२॥
घ्राणं प्राते च नासायां काणः काकैकचक्षुषोः ।
बाणः स्यात् केवले काण्डे काण्डावयवदैत्ययोः ॥३॥
वाणा झिण्या मता धीरैः शणी मासचतुष्टये ॥
कषणे करपत्रे च शाणी प्रावरणान्तरे ॥४॥
त्राणा तु त्रायमानायां रक्षिते रक्षणेऽपि च ॥
प्राणो हृन्मारुते बाले काव्यजीवेऽनिले बले ॥५॥
वाच्यवत् पूरिते प्राणं प्राणाश्चाऽमुषु कीर्तिताः ॥
गुणं चापे च खड़े च द्रुणो वृश्चिकभृङ्गयोः ॥६॥

४८ विश्वप्रकाशः। गुणी कच्छपिकायाश्च जलद्रोण्यामुदाहृता ॥ द्रोणः कृपीपतौ कृष्णकाके स्यादाढकेऽपि च ॥७॥ आढवापचतुष्क(१) च द्रोणी स्यान्नीकृदन्तरे ॥ द्रोणी काष्ठाम्बुवाहिन्यां गवावासभुजि स्थितौ ॥ ८ ॥ मोणः शुष्कफले नक्रमाक्षिकाहिकरण्डयोः॥ कोणो वाद्यप्रभेदे स्यात् कोणोऽस्त्रे लगुडेऽर्कजे ॥९॥ वीणा वाद्यादिनोपायेऽप्येकदेशे गृहस्य च । शोणः श्योणाकनदयोः शोणः कोकनदच्छदे ॥१०॥ लोहिताश्वे कृशानौ च भ्रूणः स्त्रीगर्भडिम्भयोः ॥ तीक्ष्णं सामुद्रलवणे विषलोहाग्निमुष्कके ॥ ११ ॥ तीक्ष्णः सारे च तिग्मात्मत्यागिनोर्वाच्यवद्भवेत् ॥ कर्णः पृथाज्येष्ठसुते सुवर्णाली श्रुतावपि ॥ १२ ॥ जर्णश्चन्द्रे च वृक्षे च वर्णः काञ्चनयज्ञयोः॥ वर्णो द्विजादौ शुक्लादौ स्तुतौ रूपयशोऽक्षरे ॥ १३ ॥ विलेपने कथायाश्च वर्णः स्याद् गुणभेदयोः॥ पर्ष स्यात् किंशुके पत्रे शीर्ण तनुविशीर्णयोः ॥ १४ ॥ पूर्णः शब्दे समग्रे च पूरिते चापि वाच्यवत् ॥ चूर्ण क्षोदे क्षारभेदे चूर्णा निवासयुक्तिषु ॥ १५ ॥ कीर्ण छन्ने परिक्षिप्ते हिंसिते कीर्णमिष्यते ॥ जीर्ण पक्के पुराणे च दीर्ण दारितभीतयोः ॥ १६ ॥ उष्णः स्यादातपे ग्रीष्मे दक्षे कृष्णस्तु केशवे ॥ व्याप्तेऽर्जुने कोकिले च कृष्णं मरिचलोहयोः ॥ १७ ॥ कृष्णा तु द्रौपदीनीलीहारहूरासु कथ्यते ॥ वाच्यवन्मेचके कृष्णे जिष्णुः शक्रे धनञ्जये ॥ १८ ॥ १ आदर्श, जाभुजापचतुष्क झते पाठः। .

विश्वप्रकाशः।
30
जित्वरे चाथ विष्णुः स्यात् कृष्णेऽर्के वसुदैवते ॥
गेष्णुनटे गायने च देष्णुर्दातरि दुर्दमे ॥ १९ ॥
दृष्णिस्तु यादवे मेषे दृष्णिः पाखण्डिचण्डयोः ।।
पाणिः पाश्चात्यभागे स्यात् पादमूलोन्मदस्त्रियोः ॥२०॥
सेनापृष्ठे च कुम्भ्याञ्च तृष्णा लिप्सापिपासयोः॥
ऊर्णा मेषादिलोम्नि स्यादन्तरावर्त्तके ध्रुवोः ॥२१॥
मणिर्गोले मेहनाये रत्ने चाजागलस्तने ।
अणिराणिवदक्षाग्रकीले स्यादस्तिसीमयोः ॥ २२ ॥
कुणिस्तुन्नकक्षेऽपि कुणिः स्यात् कुकरेऽन्यवत् ।।
झूणिः क्रमुकभेदेऽपि तुष्टदैवश्रुतावपि ॥ २३ ॥
श्रेणिः पङ्क्तौ सेकपात्रे श्रेणिः स्यात् कारुसंहतौ ।
वाणिः स्यादतिभारत्योणिर्मूल्ये बलाहके ॥ २४ ॥
वेणी कचस्य बन्धे स्यानदीनां मेलकेऽपि च ॥
देवताडे च तूणी तु नील्यां तूणौ निषङ्गके ॥ २५ ॥
घृणा जुगुप्साकृपयोः फाणिर्गुडकरम्बयोः ।
श्राणा यवाग्वां पक्के तु श्राणं स्थूणाऽयसः स्मृता ॥२६॥
प्रतिमायां गृहस्तम्भे वीणा वल्लकिविद्युतोः ।।
वेणुभूपान्तरे वंशे स्थाणुः कीले स्थिरे हरे ॥ २७ ॥
रेणुः पर्पटके धूल्यामरूपेऽणु/हिसूक्ष्मयोः ।
णत्रिकम् ।।
अरुणो व्यक्तरागे स्यात् सन्ध्यारागेऽर्कसारथौं ॥२८॥
निःशब्दे कपिले कुष्ठे द्रव्ये वाच्यवदिष्यते ॥
अरुणाऽतिविशाश्यामामञ्जिष्ठात्रिकृतासु च ॥ २९ ॥
करुणस्तु रसे वृक्षे कृपायां करुणा मता ॥
वरुणः सम्मतो नीरे स्वर्लोके परमेष्ठिनि ॥ ३० ॥

५० विश्वप्रकाशः। वरुणस्तरभेदेऽप्सु प्रतीचीपतिसूर्ययोः । रणस्तिक्तशाऽपि प्राकारे वरणं वृतौ ॥ ३१ ॥ तरुणः स्यानवे यूनि कुब्जपुष्पोरुबूकयोः ॥ चरणं बढचादौ स्यान्मूले गोत्रे पदेऽपि च ॥ ३२ ॥ चरणं भ्रमणेऽत्तौ च चरणं रासभध्वनौ । लवणो रसरसोधिभेदेषु लवणान्विते ॥ ३३ ॥ करणं साधनक्षेत्रकाचकायस्थकर्मसु ॥ मीताङ्गहारसंवेशक्रियाभेदेन्द्रियेषु च ॥ ३४ ॥ बालवादौ च करणः स्मृतः शूद्राविशोः सुते ।। जरणं जीरकाजाजिहिङ्गुसौवर्चलेष्वपि ॥ ३५ ।। धरणं मानभेदेऽपि धारणे धरणीभुवि ।। रमणं स्यात् पटोलस्य मूलेऽपि रमणः प्रिये ॥ ३६ ।। शरणं वपरक्षित्रोः शरणं रक्षणे गृहे ।। कत्तृणं तृणभेदेऽपि वारिपाञ्च कत्तृणम् ॥ ३७ ॥ यन्त्रणं स्यानियमने बन्धने रक्षणेऽपि च ॥ घुणस्ताम्रकुम्भे स्यादलिन्दे लोहमुद्गरे ॥३८॥ द्रुघणो मुद्गरेऽपि स्याद् द्रुघणा च परश्वधे ॥ प्रवणः क्रमनिम्नोामायत्ते च चतुष्पथे ॥ ३९॥ प्रगुणेऽपि क्षणेऽपि स्यादीरणं शून्य ऊपरे ॥ ग्रहणं तूपलब्धौ स्यादादरे ग्रहणं करे ॥४०॥ ग्रहोपरागस्वीकारबन्दिषु ग्रहणं मतम् ।। ईक्षणं दर्शने दृष्टौ प्रोक्षणं सेचने वधे ॥४१॥ लक्षणं नाम्नि चिह्वे च सौमित्रे चाऽपि लक्षणः ॥ लक्ष्मणं लाञ्छने नाम्नि रामभ्रातरि लक्ष्मणः ॥ ४२ ॥ लक्ष्मणोपघिसारस्योः सश्रीके चाभिधेयवत् ।।

विश्वप्रकाशः। ५१ दक्षिणः सरलावामपरच्छन्दानुवर्तिषु ॥४३॥ वाच्यवदक्षिणावाची यज्ञदानप्रतिष्ठयोः ।। द्रविणं काञ्चने वित्ते द्रविणश्च पराक्रमे ।। ४४ ॥ ममृणः कर्कशे स्निग्धे क्षुमायां मसृणा भवेत् ॥ ऊषणं मरिचे ख्यातं कणायाषणा भवेत् ॥ ४५ ॥ धिषणस्त्रिदशाचार्ये धिषणा धियि सम्मता ॥ धर्षणं स्यात् परिभवे रतेऽसत्यां तु धर्षणी ॥ ४६॥ भीषणो दारुणे रुद्रे भीषणं सल्लकीरसे ॥ हरणं यौतुकद्रव्ये भुजेऽपि हरणं हृतौ ॥ ४७॥ हिरणं रेतसि स्वर्णे वराटे च हिरण्यवत् ॥ हरिणः स्यात् कुरजेऽपि हरिणः पाण्डुरेऽन्यवत् ॥ ४८ ॥ हरिणी हरितायाञ्च चारुस्त्रीवृत्तभेदयोः ॥ सुवर्णप्रतिमायाश्च हर्षणोऽक्षिरुगन्तरे ॥ ४९ ॥ हर्षके योगभेदे च श्राद्धदेवेऽपि कचित् ॥ श्रवणं स्याद् वृक्षभेदे श्रवणं श्रुतिकर्णयोः ॥५०॥ श्रावणो मासपाषण्डे दध्याल्यां श्रावणी मता ॥ श्रमणो यतिभेदेऽपि श्रमणो निन्धजीविनि ॥५१॥ सुदर्शनामुण्डतिकामांसीषु श्रमणां विदुः ।। कल्याणमक्षये स्वर्णे कल्याणं मङ्गलेऽपि च ॥५२॥ कृपाणोऽसौ कृपाणी तु छुरिकायां च कर्तरौ ॥ सिंहाणं काचपात्रे च लोहनासिकयोर्मले ॥ ५३॥ पुराणं वाच्यवत् प्रत्ने पुराणं पञ्चलक्षणे ॥ प्रमाणं नित्यमर्यादासत्यवादिप्रमातृषु ॥ ५४ ॥ एकतायामियत्तायां हेतुशास्त्रेषु च स्मृतम् ॥ निर्याणं वानरापाङ्गदेशे मोक्षे च निर्गमे ॥ ५५ ॥ - विश्वप्रकाशः। निर्माणं निर्मिती सारे निर्माणञ्च समञ्जसे ॥ निर्वाणमस्तगमने निवृतौ गजमज्जने ॥५६॥ अपवर्गे च कुर्वाणे भृत्यकारकयोरपि ॥ दौर्वाणं नष्टपणे स्याद् दूर्वायाः स्वरसेऽपि च ॥ ५७ ॥ वारणं प्रतिषेधे स्याद्वारणस्तु मतङ्गजे ॥ कारणं करणे हेतुबन्धयोरपि कारणम् ॥ ५८ ॥ कारणा यातनायाश्च कृपणः कुत्सिते कृमौ । कार्मणं मन्त्रतन्त्रादियोजने कर्मकारके ॥ ५९॥ मार्गणं प्रार्थनेऽन्वेषे मार्गणो याचके सरे । मत्कुणो निर्विषाणेभे निःश्मश्रुपुरुषेऽपि च ॥६० ॥ उद्देशे नारिकेले च धर्मणोऽहिशुभेदयोः॥ कोङ्कणो देशभेदे स्याच्छस्त्रभेदे तु कोङ्कणम् ॥ ६१॥ कङ्कणं शेखरे हस्तसूत्रमण्डनयोरपि ॥ पूरणः पूरके पिष्टभेदे पूरणमिष्यते ॥ ६२ ॥ पटारम्भक सूत्रे च शाल्मली पूरणी मता ॥ सुषेणः करमर्देऽपि विष्णुसुग्रीववैद्ययोः ॥ ६३ ॥ रोषणः पारदे हेमघर्षणोपलयोस्तथा ॥ रोषणेऽपि विषाणन्तु क्रोडद्विरददन्तयोः ॥ ६४ ॥ पशोः शृङ्गे विषाणा तु मेषशृङ्गयां प्रकीर्तिता ॥ करेणुर्गजहस्तिन्योः कर्णिकारेऽपि च कचित् ॥ ६५ ॥ हरेणुस्तु सतीले स्याद्रेणुकाकुलयोषितोः ॥ सुवर्ण स्वर्णमात्रे स्यात् सुवर्ण कर्षबिस्तयोः॥६६॥ मुवर्णश्च सुवर्णालुकृष्णागुरुमखान्तरे ।। सुपर्णस्ताम्रचूडे स्याद्रुडे कृतमालके ॥ ६७ ॥ सुपर्णा कमलिन्याञ्च सुपर्णा तायमातरि ॥

विश्वप्रकाशः।
श्रीपर्णमग्निमन्थेऽब्जे श्रीपर्णी शाल्मलौ हठे ॥ ६८ ॥
दुर्वर्णञ्च कुवणे स्याद्वास्तुके रजतेऽपि च ॥
पत्रोर्ण धौतकोषेये पत्रोर्णः शोणकेऽपि च ॥ ६९ ॥
सङ्कीर्ण निचिते प्रोक्तमशुद्धे चापि भेद्यवत् ॥
गोकर्णोऽश्वतरे सपै सारङ्गे प्रमथान्तरे ॥ ७० ॥
अङ्गुष्ठानामिकोन्माने गोकर्णी मूर्विकोषधौ ॥
अरणिर्वह्निमन्थेऽपि स्मृतो निर्मन्थ्यदारुण ॥ ७१ ॥
तरणिस्तरणे भानौ कुमार्योषधिनौकयोः ।
विपणिः पण्यवीथ्याश्च भवेदापणपण्ययोः॥ ७२ ॥
प्रवेणिर्वेणिकुथयोः सरणिः पतिवर्त्मनोः ।।
निःश्रोणिस्त्वधिरोहिण्यां खजूंरीपादपेऽपि च ॥७३॥
भरणी शोणके ऋक्षे भरणं वेतने भृतौ ॥
भ्रमणी कारुण्डिकायां क्रीडाद्यायामधीशितुः ॥ ७४ ॥
ग्रामणीभोगिके पत्यौ प्रधाने नापितेऽपि च ॥
ग्रामणी नीलिकायाञ्च ग्रामेयीपण्ययोषितोः॥७५ ॥
धारणी नाडिकायां स्यादुद्धोक्तमन्त्रभिद्यपि ॥
इन्द्राणी करणे स्त्रीणां पौलोमीसिन्धुवारयोः ॥ ७६ ॥
एषणी व्रणमार्गानुसारिण्याञ्च तुलाभिदि ।
क्षेपणी जालभेदे स्यान्नौकादण्डे च कथ्यते ॥ ७७॥
वारुणी गण्डदूर्वायां प्रतीचीसुरयोरपि ॥
सारणी स्वल्पसरिते प्रसारण्याञ्च सारणी ॥ ७८ ॥
सारणः स्यादतीसारे सचिवे रावणस्य च ॥
काकिणी पणतुर्याशे मानदण्डे च काकिणी ॥ ७९ ॥
कृष्णलैकवराव्योः स्यादुदमानांशकेऽपि च
ब्राह्मणी पञ्जिकास्पृक्काद्विजपत्रीषु विश्रुता ॥ ८० ॥

विश्वप्रकाशः। विमे तु ब्राह्मणो वेदे ब्राह्मणं द्विजसंहतौ ॥ पक्षिणी पूर्णिमायां स्यात् पक्षिणी शाकिनीभिदि ॥१॥ आगामिवर्तमानाहर्युक्तायां निशि पक्षिणी ॥ रोहिणी कटुरोहिण्यां रोहिणी लोहितागवोः॥ ८२ ॥ कण्ठरोगान्तरेभे च सोमवल्के च रोहिणी ॥ णचतुष्कम् ॥ आतर्पणश्च सौहित्ये विद्यादालिम्पनेऽपि च ॥ ८३ ॥ आथर्वणोऽप्यथर्वज्ञे ब्राह्मणेऽपि पुरोधसि ॥ आरोहणं स्यात् सोपाने समारोहे प्ररोहणे ॥ ८४ ॥ रक्तरेणुस्तु सिन्दूरे पलाशकालिकोद्गमे ।। उत्क्षेपणन्तु व्यजने धान्यमईनवस्तुनि ॥ ८५ ॥ उद्धरणं समुद्धारवान्तानोन्मूलनेष्वपि ॥ निगरणं भोजनेऽपि गले निगरणो मतः ॥ ८६ ॥ निधारणं स्यान्मरणोपायनिर्याणमुक्तिषु ॥ संसरणं रणारम्भे पुरनिर्गमगोपुरे ॥ ८७ ॥ घण्टापथे च संसारेऽप्यसम्बाधचमूगतौ ॥ निस्तरणं स्यादुपाये निस्तारे निर्गमेऽपि च ॥ ८८ ॥ विदारणं रणे भेदे विडम्बे च विदारणम् ॥ निरूपणं स्यादालोके विचारे च निदर्शने ॥ ८९ ॥ नारायणोऽच्युतेऽभीरुगौॉर्नारायणीं विदुः॥ परायणमभीष्टे स्यात् तत्पराश्रययोरपि ॥ ९० ॥ पारायणं समासङ्गे कात्स्न्र्ये पारगतावपि ॥ कार्षापणः कार्षिके स्यात् पणषोडशकेऽपि च ॥ ९१ ॥ कामगुणः स्मृतो रागे विषयाभोगयोरपि ॥ परीरणः स्यात् कमठे दण्डे च पट्टशाटके ॥ ९२

विश्वप्रकाशः।
५५
समीरणः स्यात् पवने पथिके च फणिज्झके ।
पर्वरीणस्तु पर्णस्य शिरायां द्यूतकम्बले ॥ ९३ ॥
पर्णदृन्तरसेऽपि स्यात् पर्वरीणश्च पर्वणि ॥
तण्डुरीणः कीटमात्रे वर्वरे तण्डुलोदके ।। ९४ ॥
मीनाम्रीणो दर्दुराने पीनामीणश्च खञ्जने ॥
प्रवारणं निषेधे स्यात् काम्यदाने प्रवारणम् ॥ ९५ ॥
जुहुराणोऽनलेऽध्वयौं रेरिहाणो हरेऽम्बरे ।।
देवमणिः शिवेऽश्वस्य कण्ठावर्ते च कौस्तुभे ॥ ९६ ।।
चूडामणिः शिरोरत्ने काकचिञ्चाफलेऽपि च ।।
परवाणिः स्मृतो धर्माध्यक्षवत्सरयोरपि ॥ ९७ ॥
शराणिः शरमुखे पाण्डकये शरजीविनि ॥
लम्बकर्णः स्मृतः कोलपादपे छगलेऽपि च ।। ९८ ।।
रागचूर्णः स्मरे दन्तधावने रक्तवालुके ।
हस्तिकर्णोऽरुबूके स्यात् पलाशगणभेदयोः ॥ ९९ ॥
चीर्णपर्णस्तु निम्बे स्यात् खजूरीभूरुहेऽपि च ॥
तैलपर्णी मलयजे श्रीवासे सिहकेऽपि च ॥ १००॥
पीलुपी तु बिम्बायां मूर्वायामोषधीभिदि ।
दाक्षायणी त्वपर्णायां रोहिण्यां तारकासु च ॥ १०१॥
पुष्करिणी सरोजिन्यां हस्तिन्याश्च जलाशये ॥.
शेखरिणी स्याद्रोमाल्यां रसालासत्तभेदयोः॥१०२ ॥
स्त्रीरत्ने मल्लिकायाश्च प्रोक्ता शिखरिणी बुधैः॥
अङ्गारिणी हसन्त्याञ्च भास्करत्यक्तदिश्यपि ॥१०३ ॥
भवेद्वैतरणी नद्यां प्रेतानां यातुमातरि ॥
णपञ्चकम् ॥
अवग्रहणमित्याहुः प्रतिरोधेऽभ्यनादरे ॥ १०४ ॥

।
विश्वप्रकाशः।
५६
प्रविदारणमाख्यातं सगरे च विदारणे ॥
अवतारणं भूतादिग्रहे वस्त्राश्चलेऽर्चने ॥ १०५ ॥
रोमहर्षणमित्येतद् रोमाञ्चेऽपि बिभीतके ॥
परिभाषणमालापे नियमे परिभाषणम् ॥ १०६ ॥
निन्दोपालम्भवचने परिभाषणमिष्यते ॥
मत्तवारणमिच्छन्ति दानक्लिन्नकटद्विपे ॥ १०७ ॥
महापासादवीथीनां वरण्डे चाप्यपाश्रये ॥
वातरायणमुन्मत्ते निष्पयोजनपूरुषे ॥ १०८॥
काण्डे च करपत्रे च कूटे च शरसङ्क्रमे ॥
मण्डूकपर्णोरलुके शोणके च कपीतने ॥ १०९॥
मण्डूकपर्णी मञ्जिष्ठाब्राह्मीगोजिह्वकासु च ॥
णषद्कम् ॥
दोहदलक्षणं गर्भे वयःसन्धौ च दृश्यते ॥
यौवनलक्षणाभिख्यालावण्ये च पयोधरे ॥ ११० ॥
इति णान्तवर्गः ॥
तद्विकम् ॥
ततं विततवयाप्ते विस्तृते वाच्यवन्मतम् ॥
ततं वीणादिवाये च पवमाने ततः पुनः ॥ १॥
इत गते स्याद्विज्ञाते रतं सुरतगुह्ययोः ॥
इतमुञ्छशिले तोये दीप्ते सत्येभिपूजिते ॥ २॥
कृतं युगेऽपि पर्याप्ते विहिते हिंसिते फले ॥
घृतमाज्ये प्रदीप्ते च सलिले च घृतं मतम् ॥ ३॥
मृतं स्याद्याचिते मृत्यौ मृत्युमत्यभिधेयवत् ॥
गतन्तु यात्राधिगते मतं पूजितसन्धिते ॥४॥

विश्वप्रकाशः। ५७ धुतं त्यक्ते विधूते च धूतं कम्पितभत्सिते ॥ पूतं पवित्रे रटिते पूतश्च बहुलीकृते ॥५॥ श्रुतं शास्त्रावधृतयोः पोतमोतप्रसूतयोः॥ नतं स्याद्वाच्यवन्नने नतस्तगरपादपे ॥६॥ द्रुतं शीघ्र विलीने च विद्रावे चाभिधेयवत् ॥ युतं हस्तचतुष्के स्यायुतं युक्ते युतं पृथक् ॥ ७ ॥ स्थितं भवेद्गत्यभावे सुप्रतिज्ञे सुनिश्चिते ॥ सितः समाप्ते धवले निबद्धज्ञातयोरपि ॥ ८॥ शितं शातञ्च निशिते कृशे शान्तञ्च शमणि ॥ हितं धृते गते पथ्ये सुतः पार्थिवपुत्रयोः ।। ९॥ प्लुतं तुरङ्गमगतौ प्लुतमाहुस्त्रिमात्रके ॥ पोतन्तु गुम्फिते वस्त्रे प्रेतो भूतान्तरे मृते ॥ १० ॥ सूतस्तु सारथौ तक्षिण प्रसूते प्रेरितेऽपि च ॥ क्षत्रियाद् ब्राह्मणीजेऽपि सूतः पारदबन्दिनोः ॥ ११ ॥ श्वेतं रूप्येऽन्यवच्छुक्ले श्वेतो द्वीपाद्रिभेदयोः ।। श्वेता वराटिका काष्ठपाटलीशङ्खिनीषु च ॥ १२॥ सत् प्रशस्ते विद्यमाने सत्याभिहितसाधुषु ॥ सती पतीव्रतागौर्योरेतः कर आगते ॥ १३ ॥ तातोऽनुकम्प्ये जनके जातं जात्योधजन्मसु ॥ पातः स्यात् पतने त्राते घातः काण्डमहारयोः ॥ १४ ॥ पोतः शिशौ वहिने च लते श्मश्रुणि चोरिते ॥ गीतन्तु शब्दिते गाने प्रीतं हृषितनर्मणोः॥ १५॥ वीतश्चासारहस्त्यऽश्वे वीतमङ्कुशकर्मणि ॥ भीतं भये भययुते वाच्यक्त् परिकीर्तितम् ॥ १६ ॥ भूतं मादौ पिशाचादौ न्याय्ये सत्योपमानयोः ॥

विश्वप्रकाशः।
प्रविदारणमाख्यातं सङ्गरे च विदारणे ॥
अवतारणं भूतादिग्रहे वस्वाञ्चलेऽचने ॥ १०५ ॥
रोहर्षणमित्येतद् रोमाञ्चेऽपि बिभीतके ।
परिभाषणमालापे नियमे परिभाषणम् ॥ १०६ ॥
निन्दोपालम्भवचने परिभाषणमिष्यते ॥
मत्तवारणमिच्छन्ति दानक्लिन्नकटद्विपे ॥ १०७ ॥
महाप्रासादवीथीनां वरण्डे चाप्यपाश्रये ॥
वातरायणमुन्मत्वे निष्पयोजनपूरुषे ॥ १०८॥
काण्डे च करपत्रे च कूटे च शरसङ्क्रमे ।।
मण्डूकपर्णोऽरलुके शोणके च कपीतने ॥ १०९ ॥
मण्डूकपर्णी मञ्जिष्ठाब्राह्मीगोजिह्वकासु च ॥
णषट्कम् ॥
दोहदलक्षणं गर्भे वयःसन्धौ च दृश्यते ॥
यौवनलक्षणाऽभिख्यालावण्ये च पयोधरे ॥ ११० ॥
इति णान्तवर्गः॥
-
तद्विकम् ॥
ततं विततवद्याप्ते विस्तृते वाच्यवन्मतम् ॥
ततं वीणादिवाये च पवमाने ततः पुनः ॥ १॥
इत गते स्याद्विज्ञाते रतं सुरतगुह्ययोः॥
इतमुञ्छशिले तोये दीप्ते सत्येभिपूजिते ॥ २॥
कृतं युगेऽपि पर्याप्ते विहिते हिंसिते फले ॥
घृतमाज्ये प्रदीप्ते च सलिले च घृतं मतम् ॥ ३ ॥
मृतं स्याधाचिते मृत्यौ मृत्युमत्यभिधेयवत् ।।
गतन्तु यात्राधिगते मतं पूजितसन्धिते ॥ ४ ॥

विश्व का धुतं त्यक्ते विधूते च धूतं कम्पितभर्सिते ॥ पूतं पवित्रे रटिते पूतश्च बहुलीकृते ॥ ५ ॥ श्रुतं शास्त्रावधृतयोः पोतमोतप्रसूतयोः ॥ नतं स्याद्वाच्यवनने नतस्तगरपादपे ॥६॥ द्रुतं शीघ्र विलीने च विद्रावे चाभिधेयवत् ॥ युतं हस्तचतुष्के स्यायुतं युक्ते युतं पृथक् ॥ ७ ॥ स्थितं भवेद्त्यभावे सुप्रतिज्ञे सुनिश्चिते ॥ सितः समाप्ते धवले निबद्धज्ञातयोरपि ॥८॥ शितं शातश्च निशिते कृशे शान्तञ्च शर्मणि ॥ हितं धृते गते पथ्ये सुतः पार्थिवपुत्रयोः ॥ ९ ॥ प्लुतं तुरङ्गमगतौ प्लुतमाहुस्विमात्रके ॥ प्रोतन्तु गुम्फिते वस्त्रे प्रेतो भूतान्तरे मृते ॥ १० ॥ सूतस्तु सारथौ तक्ष्णि प्रस्ते प्रेरितेऽपि च ॥ क्षत्रियाद् ब्राह्मणीजेऽपि सूतः पारदबन्दिनोः ॥ ११ ॥ श्वेतं रूप्येऽन्यवच्छुक्ले श्वेतो द्वीपाद्रिभेदयोः ॥ श्वेता वराटिका काष्ठपाटलीशङ्खिनीषु च ॥ १२ ॥ सत् प्रशस्ते विद्यमाने सत्याभिहितसाधुषु ॥ सती पतीव्रतागौर्योरेतः कर्केर आगते ॥ १३ ॥ तातोऽनुकम्प्ये जनके जातं जात्योघजन्मसु ॥ पातः स्यात् पतने त्राते घातः काण्डमहारयोः ॥ १४ ॥ पोतः शिशौ वहित्रे च लते श्मश्रुणि चोरिते ॥ गीतन्तु शब्दिते गाने प्रीतं हृषितनर्मणोः ॥ १५ ॥ वीतञ्चासारहस्त्यऽश्वे वीतमङ्कुशकर्मणि ॥ भीतं भये भययुते वाच्यवत् परिकीर्तितम् ॥ १६ ॥ भूतं मादौ पिशाचादौ न्याय्ये सत्योपमानयोः ॥

६८
विश्वप्रकाशः।
भूतो देवलके प्रावृत्तयोरभिधेयवत् ॥ १७ ॥
केतुर्युतौ पताकायां ग्रहोत्पातारिलक्ष्मसु ।
सेतुरालौ च वरुणे क्रतुर्यज्ञे मुनर्भिदि ॥ १८ ॥
धातुः स्यादश्मविकृतौ विषयष्विन्द्रियेषु च ॥
भूवादिरसरक्तादिश्लेष्मादिवसुधादिषु ॥ १९ ॥
वर्त्तते धातुशब्दोऽयं विशेषादस्थिन गैरिके ॥
ऋतुः स्त्रीकुसुमे मासि वसन्तादिषु धारयोः॥ २० ॥
गातुः पुंस्कोकिले भृङ्गे गन्धर्वे रोषणेऽपि च ॥
मन्तुः स्यादपराधेऽपि मनुष्येऽपि प्रजापतौ ॥ २१ ॥
धूर्तः स्यात् खण्डलवणे खलधुत्तूरयोरपि ।
पूर्तस्तु पूरिते छन्ने पूर्व खातादिकर्मणि ॥ २२ ॥
मूत मूर्तिमित प्रोक्तं मूर्छाले कठिनेऽपि च ।।
गतस्त्रिगर्तभेदे स्यादवटे च कुकुन्दरे ।। २३ ॥
आप्तः सभ्ये च लब्धे च प्राप्तं वित्ते समञ्जसे ॥
व्याप्तं ख्याते समाक्रान्ते गुप्तं रक्षितगूढयोः ॥ २४ ॥
लिप्तं विषाप्ते गुप्ते च वाच्यवत् स्याद्विलेपिते ॥
दीप्तं निर्भासिते दग्धे वदन्ति ज्वलितेऽपि च ॥ २५ ॥
अस्तं क्षिप्ते गते प्रोक्तमस्तः पश्चिमभूधरे ॥
ग्रस्तं ग्रासीकृतेऽपि स्याल्लुप्तवर्णपदोदिते ॥ २६ ॥
पुस्तन्तु पुस्तके लेख्यकर्मविज्ञानयोरपि ।।
शस्तं क्षेमे प्रशस्ते च व्यस्तं व्याप्ते च सङ्कुले ॥ २७ ॥
हस्तो नक्षत्रभेदे स्यात् करेभकरयोरपि ॥
कचात्परः कलापार्थे सप्रकोष्ठे तताङ्गुलौ ॥ २८ ॥
वित्तं ख्याते धने लब्धे वित्तं ज्ञाते विचारिते ॥
कृत्तन्तु चेष्टिते छिन्ने दत्तं विश्राणितेजर्चिते ॥ २९ ॥

विश्वप्रकाशः। ५ ९ वृत्तोऽतीते दृढे ख्याते वर्तुलेऽपि वृते मृते ॥ वाच्यवद्वर्त्तते वृत्तं चरित्रच्छन्दसोरपि ॥ ३० ॥ अन्तः प्रान्तेऽन्तिके नाशे स्वरूपेऽतिमनोहरे ॥ वृन्तं प्रसवबन्धे स्याटधाराकुचाग्रयोः ॥ ३१ ॥ दन्तो निकुञ्ज दशने दन्तः सानुनि कथ्यते । दन्ती स्यादोषधीभेदे कान्तचेतसि गहरे ॥ ३२ ॥ कुन्तः प्राप्ते चण्डभावे क्षुद्रजन्तौ गवेधुके ॥ कुन्ती पाण्डुप्रियायाश्च शल्लक्यां गुग्गुलुद्रुमे ॥ ३३ ॥ कान्तोमनि गृहे चारौ कान्तानुफलिनीस्त्रियोः ।। शान्तो रसविशेषे स्यादतिमुक्तकदान्तयोः ॥ ३४ ॥ उक्तमेकाक्षरं छन्दस्युक्तं स्याद्भाषितेऽपि च ॥ शुक्तोऽम्ले परुषे पूते व्यक्तं स्फुटमनीषिणोः ॥ ३५ ॥ तिक्तो रसे मुगन्धे च तिक्तं पर्पटके स्मृतम् ॥ तिक्ता तु कटुरोहिण्यां रिक्तं काननशून्ययोः ॥ ३६॥ रक्तं स्यात् कुङ्कुमे ताने प्रचीनामलकेऽसृजि ॥ अनुरागिणि नील्यादिरञ्जिते लोहितेऽन्यवत् ॥ ३७॥ यन्ता हस्तिपके सूते वप्ता पितरि पावके । त्रेता युगेऽग्नित्रितये भर्त्ता स्वामिनि धारके ॥ ३८ ॥ शास्ता च शासके बुद्ध वक्ता वाग्मिनि पण्डिते ॥ मुक्ता तु मौक्तिके मुक्तः प्राप्तमुक्ते च मोचने ॥ ३९ ॥ क्षत्ता शूद्रात् क्षत्रियाजे प्रतीहारे च सारथौ । भुजिष्यतनये क्षत्ता नियुक्ते च प्रजासृजि ॥ ४०॥ धाता हिरण्यगर्भ स्यात् पालके त्वभिधेयवत् ॥ माता कात्याप्रमूगोषु ब्रह्मण्याद्यास्तु मातरः ॥ ४१ ॥ लता ज्योतिष्मती स्पृक्का शाखावल्लीप्रियङ्गुषु ॥

विश्वप्रकाशः।
लताकस्तूरिकायाञ्च माधवीर्वयोरपि ॥ ४२ ॥
लूता पिपीलिकायां स्यादर्णनाभे गदान्तरे ॥
पीता स्मृता हरिद्रायां पीतं स्यागौरपीतयोः॥४३ ॥
सीता रामकलत्रे स्यात् तथा लागलपद्धतौ ॥
नभोनद्याञ्च शीतस्तु वानीरबहुवारयोः ॥ ४४ ॥
शीतं हिमगुणे प्रोक्तं वाच्यवच्छीतलेऽलसे ।।
चिता च्छन्ने चुल्लिकायां चिता संहतिचिन्तयोः॥ ४५ ॥
वार्ता वातिङ्गणे वृत्तौ वार्ता कृष्यायुदन्तयोः ।
वृत्तिमन्नीरजोर्वार्ता वार्त्तमारोग्यफल्गुनोः ॥ ४६॥
गतिर्मार्गे दशायांच ज्ञाने यात्राभ्युपाययोः॥
नाडीव्रणसरण्याञ्च मतिहींच्छास्मृतिष्वपि ॥ ४७ ॥
चितिः समूहे चिन्तायां दितिः स्यात् खण्डने दितौ ॥
पतिः प्रभौ गतौ मूले दृतिश्चमपुटे झषे ।। ४८॥
यतिर्निकारे यतिनि पाठच्छेदक्रमे यतिः ॥
शितिः कृष्णे शितिर्भूजे भृतिर्भरणमूल्ययोः ॥ ४९ ॥
क्षितिर्निवासे मेदिन्यां स्थानमात्रेऽपि च क्षितिः ॥
धृतिर्योगान्तरे धैर्य धारणाध्वरतुष्टिषु ॥ ५० ॥
श्रुतिः श्रोत्रे तथाऽऽम्नाये वार्तायां श्रोत्रकर्मणि ।।
स्मृतिरिच्छाधियोधर्मसंहितायामपि स्मृतिः ॥ ५१ ॥
रतिः स्मरप्रियायाश्च रागे च रमणे रतिः ॥
ऋतिर्गतौ जुगुप्सायां स्पर्दामङ्गलयोरपि ॥५२॥
वृत्तिः स्यादरणे वाटे मृतिर्गगनमार्गयोः ॥
मितिर्मानेऽप्यवच्छेदे कृतिः करणहिंसयोः ॥ ५३ ।।
इति भवासे डिम्बे स्यादतिवृष्ट्यादिषट्सु च ॥
वीतिर्गतौ च दीप्तौ च धाक्ने प्रजनेशने ॥ ५४॥

विश्वप्रकाशः। ६१ गीतिछन्सि गाने च नीतिस्तु प्रापणे नये ॥ रीतिः प्रसारे स्यन्दे च लोहकिट्टारकूटयोः ॥ ५५ ॥ पीतिः पाने तुरङ्गे च भीतिः साध्वसकम्पयोः ।। प्रीतिर्योगान्तरे प्रेम्णि स्मरपत्नीप्रमोदयोः ॥ ५६ ।। भूतिर्मातङ्गशृङ्गारे जातौ भस्मनि सम्पदि ॥ स्यूतिः सीवनसन्तत्योरूतिः स्यूतौ च रक्षणे ॥ ५७॥ हेतिः स्यादायुधे ज्वाले हेतिस्तरणितेजसि ॥ वृत्तिविवरणे जीव्ये कौशिक्यादिषु चेष्यते ॥ ५८ ॥ कृत्तिश्चर्मत्वचो भूजे कृत्तिकायाञ्च कीर्त्तिता ॥ पत्तिः पदातौ गमने वीरसैन्यप्रभेदयोः ॥ ५९ ॥ वित्तिाने विचारे च लाभसम्भवयोरपि । भित्तिः कुड्ये प्रदेशे च संविभागावकाशयोः ॥ ६०॥ आप्तिः संवरणप्राप्त्योः प्राप्तिलाभे महोदये ॥ गुप्तिः कारागृहे प्रोक्ता भूगर्ने रक्षणे यमे ॥ ६१ ॥ सुप्तिः स्पर्शज्ञतायाञ्च स्वापे विश्रम्भघातिनि ॥ शान्तिः शमेऽपि कल्याणे कान्तिः शोभाभिलाषयोः ॥६२॥ जातिश्छन्दसि सामान्ये मालत्यां गोत्रजन्मनोः ॥ जातिर्जातीफले धान्यां चुल्लीकम्पिल्लयोरपि ॥ ६३॥ ज्ञातिः सगोत्रे पितरि व्याप्तिापनलम्भयोः॥ सातिर्दानेऽवसाने च प्राप्तिः पूर्तिप्रदेशयोः ॥ ६४ ॥ वर्त्तिर्दीपदशादीपगात्रानुलेपनीषु च ॥ वर्तिभैषजनिर्माणनयनाअनलेखयोः ॥६५॥ अतिः पीडाधनुष्कोब्योर्मूर्तिः काठिन्यकाययोः ॥ कीर्तिः प्रसादयशसोविस्तारे कईमेऽपि च ॥ ६६ ॥ भ्रान्तिर्मिथ्यामतौ ख्याता भ्रमणे चाऽनवस्थितौ ॥

विश्वप्रकाशः। ६२ नृतिः कुमौ नर्त्तने च सन्नः सरिति वर्त्मनि ॥ ६७ ॥ भक्तिर्विभागे सेवायां पतिौरवपाकयोः॥ मुक्तिः स्यान्मोचने मोक्षे युक्तियाये च योजने ॥ ६८॥ पतिर्दशाक्षरच्छन्दोदशसङ्ख्यावलीष्वपि ॥ शक्तिले प्रभावादी शक्तिः प्रहरणान्तरे ॥ ६९॥ शुक्तिः कपालशकले नख्यश्वावर्त्तयोरपि ॥ मुक्तास्फोटे च दुर्नामा शङ्खशङ्खनखेषु च ॥ ७० ॥ तत्रिकम् ॥ अमृतं यज्ञशेषे स्यात् पीयूषे सलिले घृते ॥ अयाचिते च मोक्षे च धन्वन्तरिसुपर्वणोः ॥ ७१ ॥ स्यादमृतोऽमृतापथ्यागुडूच्यामलकीषु च। अनृतं कृषावसत्येऽप्यजितः कमलापतौ ।। ७२ ॥ अनिजिते चाच्युतस्तु स्थिरे स्याद्गरुडध्वजे ॥ अर्दितं याचिते ज्ञेयं वातव्याधौ च हिसिते ॥ ७३ ॥ अक्षतश्चापि लाजेषु तृतीयप्रकृतावपि ॥ अहिंसितेऽपि चापातस्तदात्वे पतनेऽपि च ॥ ७४ ॥ आघ्रातं शिविते क्रान्तेऽप्याख्यातं भाषिते तिङि । आध्मातं पवनव्याधौ दग्धशब्दितयोरपि ।। ७५ ॥ आप्लुतः स्नातके स्नातेऽप्याहृतः सादरेऽचिते ॥ आचितः शकटोन्मेये पलानामयुतद्वये ॥ ७६ ॥ छन्नेऽपि सङ्ग्रहीते स्यादाहतन्तु मृषार्थके ॥ आहतं गुणितेऽपि स्यात् ताडिते नामितेऽपि च ॥७७ ।। स्यात् पुरातनवस्त्रे च नूतनवस्त्रे त्वाहतम् ॥ आनों देशभेदे स्यान्नृत्यस्थाने जने रणे ॥ ७८॥ आवर्च आवर्तने स्याञ्चिन्तने चाम्भसाम्भ्रमे ॥

विश्वप्रकाशः।
संवतः प्रलये प्रोक्तो बिभीतकतरावपि ॥ ७९ ॥
त्रिगर्तः स्याज्जनपदे त्रिगतॊ गणितान्तरे ॥
भवेद् घर्घरिकायान्तु त्रिगर्चा कामुकस्त्रियाः ॥ ८० ॥
विवः समुदाये स्यादपवर्त्तननृत्ययोः॥
उत्तप्तं शुष्कमांसेऽपि सन्तप्ते च परिप्लवे ॥ ८१ ॥
उचितं प्रोक्तमभ्यस्ते मिते ज्ञाते समञ्जसे ॥
उद्वृत्तं स्यादुत्तुलिते परिमुक्तोज्झितेऽपि च ॥ ८२॥
उत्थितं वृद्धयुक्ते च प्रोधतोत्पन्नयो ।
उषितं व्युषिते दग्धे मुषितं खण्डिते हृते ॥ ८३ ॥
उद्धातः कथ्यते पादस्खलने समुपक्रमे ॥
पवनाभ्यासयोगस्य कुम्भकादित्रयेपि च ॥ ८४ ॥
उत्तुङ्गे मुद्गरेऽपि स्यादुदितं प्रोक्त उद्गते ॥
स्यादुच्छितन्तु सञ्जाते समुन्नद्धवृद्धयोः ॥ ८५ ॥
रजतं विशदे दन्तिदन्तयोस्तारहारयोः॥
मुरतं स्यान्निधुवने देवत्वे सुरता मता ॥ ८६ ॥
महतं विजिते क्षुण्णे संहतं संहते दृढे ॥
रसितन्तु सुवर्णादिखचिते स्तनिते रुते ॥ ८७ ॥
पलितं शैलजे तापे पाण्डुकेशे च कईमे ॥
ललितं हारभेदे स्यादीप्सिते ललितेऽपि च ॥ ८८ ॥
स्खलितं चलिते भ्रंशे कलितं विदिताप्तयोः ।।
ज्वलितं भास्वरे दग्धे त्वरितं प्रजवे द्रुते ॥ ८९ ॥
स्तिमितोऽचञ्चलक्लिन्ने हसितं क्षिप्तदग्धयोः॥
मुहितोऽतिहिते तृप्ते मूञ्छितं सोच्छ्रये दृढे ॥ ९० ॥
हृषितं विस्मिते प्रीते प्रणते हृष्टरोमणि ॥
गजितो मत्तमातङ्गे गजितं जलदध्वनौ ॥९१॥

विश्वप्रकाशः। ६४ वद्धितं प्रमुते च्छिन्ने पूरिते चापि वर्द्धितम् ।। स्थापितं निश्चिते न्यस्ते चेङ्गितं गतिचेष्टयोः ॥९२ ॥ वेष्टितं रसके रुद्धे स्त्रीणाश्च करणान्तरे ॥ भावितं वासिते प्राप्ते विदितं विदितार्थयोः ॥ ९३ ॥ वेल्लितं कुटिले प्रोक्तं वाच्यवद्विधृते प्लुते ॥ ग्रथितं गुम्फिताक्रान्तहिसितेषु समीरितम् ॥ ९४ ॥ प्रथितं निर्जलोदश्वित्यालोडितनिघृष्टयोः ॥ प्रार्थितं याचिते शत्रुसंरुद्धेऽभिहितेऽपि च ॥ ९५ ॥ जृम्भितं करणे स्त्रीणामीहास्फुटितयोरपि ॥ क्रन्दितं ख्यातमाहाने क्रन्दितं रुदितेऽपि च ॥९६ ॥ प्रोक्षितं निहते क्षिप्ते वापितं मुण्डितं मतम् ॥ बीजाकृते दंशितस्तु दुष्टचम्मितयोरपि ॥ ९७ ।। क्षारिवः स्राविते सारे चाभिशस्ते च संशितः।। मुकृतश्च शुभे पुण्ये सुविधाने च वाच्यत् ॥ ९८ ॥ निकृतं विपलब्धे स्यानीचे विप्रकृतेऽपि च ॥ विकृतौ संस्कृतेऽपि स्याद् बीभत्से रोगितेऽपि च ॥ ९९ ॥ संस्कृतः कृत्रिमे शस्ते भूषिते भेद्यवन्मतः॥ संस्कृतं लक्षणोपेता प्रभूतं प्राज्य उद्गते ॥ १०॥ प्रस्तः समसारे स्वाद्विनीते विगतेऽपि च ।। अर्द्धाञ्जलौ च प्रसृतं जङ्घायां प्रसृता मता ॥ १०१ ॥ सूनृतं मङ्गले सत्यप्रियवाचि च सूनृतम् ॥ प्रसूतं वाच्यवज्जाते प्रसूतं कुसुमेऽपि च ॥ १०२ ॥ विसृतं ज्ञातसंहृष्टप्रतीतेष्वभिधेयवत् ॥ निर्मुक्तस्त्यक्तसङ्गे स्यान्मुक्तकञ्चुकभोगिनि ॥ १०३ ॥ अध्यक्तः शङ्करे विष्णावव्यक्तं महदादिके।

विश्वप्रकाशः।
आत्मन्यपि स्यादव्यक्तमस्फुटे चाभिधेयवत् ॥ १०४ ॥
विविक्तं स्यादसम्पृक्ते विवेकान्वितपूतयोः ।।
वाच्यवद्दर्शितो धीरैर्विविक्तं रहसि स्मृतम् ॥ १०५ ।।
रोहितं रुधिरे धीर ऋजुशक्रशरासने ॥
रोहितो मानमृगयोर्भेदे रोहितकद्रुते ॥ १०६ ॥
लोहितं कङ्कुमे रक्त गोशीर्षे च कुचन्दने ॥
लोहितः स्यानदे भौमे वर्णभेदे तु वाच्यवत् ॥ १०७ ।।
कुटितं स्याद्भस्तपुटे पाटितस्यूतयोरपि ।
पीडितं बाधिते स्त्रीणां करणे चापि यन्त्रिते ॥ १०८ ॥
पिण्डितं गणिते सान्द्रे पण्डितः सल्लके कवौ ॥
हारीतः पक्षिभेदे स्यान्मुनिभेदेऽपि कैतवे ॥ १०९ ॥
प्रणीतः संस्कृते वह्नौ विहिते च प्रवेशिते ॥
निक्षिप्ते चोपसम्पन्ने प्रणीतो भेद्यवन्मतः ॥ ११० ॥
प्रतीतः सादरे ज्ञाते प्रख्यातः ख्यातहृष्टयोः॥
वाच्यवत् स्यात् प्रमीतन्तु प्रोक्षितेऽपि मृतेऽपि च ॥११॥
विनीतमुपनीते स्यादपनीते जितेन्द्रिये ॥
वाणिजे सुवहेऽश्वे च निभृते चाभिधेयवत् ॥ ११२ ।।
पृषतो हरिणे बिन्दौ पृषतश्चाश्वरोहिते ॥
भवेत् पृषदिव श्वेते बिन्दुयुक्ते तु वाच्यवत् ॥ ११३ ॥
भरतो वाद्यभेदेऽपि दौष्यन्तौ सञ्चरे नटे ॥
रामानुजे च भरतस्तन्तुवायेऽपि च कचित् ॥ ११४ ॥
भारतं ग्रन्थभेदे स्याजम्बूद्वीपेऽपि भारतम् ॥
भारती तु सरस्वत्यां पक्षिणीत्तिभेदयोः ॥ ११५ ॥
दुर्जातं व्यसने प्रोक्तमसम्यग्जातवस्तुनि ॥
परेतो भूतभेदे स्यात् परेतो वाच्यवन्मृते ॥ ११६ ॥

विश्वप्रकाशः। ६६ कपोतः पारावते स्यात् कवकाख्यविहङ्गमे ॥ कापोतमञ्जनेऽपि स्यात् कपोतानाञ्च संहतौ ॥ ११७ ॥ व्यायतं व्याप्ते दीर्घ दृढे चातिशयेऽन्यवत् ॥ व्याघातो योगभेदे स्यादन्तरायपहारयोः ॥ ११८ ॥ सङ्घातः संहतौ घाते सङ्घातो नरकान्तरे ॥ रैवतस्तु सुवर्णालौ शैलभेदेऽपि शूलिनि ॥ ११९ ॥ स्यात् किरातस्तु भूनिम्बे म्लेच्छे चाल्पतनावपि ॥ मन्दाकिन्यां किराती स्यात् कुट्टिन्यामपि दृश्यते ॥१२०॥ आस्फीतश्चार्कपणे स्यादास्फीतः कोविदारके ॥ आस्फीता गिरिका स्यादनमल्ल्याश्च विश्रुता ॥१२१॥ उदातः स्वरभेदे स्यात् काव्यालङ्कारहृद्ययोः ॥ उदात्तो दातृमहतोर्निमित्तं हेतुलक्ष्मणोः ॥ १२२ ॥ उन्मत्त उन्मादवति धुत्तूरमुचुकुन्दयोः ॥ पर्वतः शैलदेवर्षों प्रपातो निर्झरे भृगौ ॥ १२३ ॥ पर्याप्तन्तु यथेष्टे स्यात् तृप्तौ शक्ते निवारणे ॥ जीमूतः स्याद् धृतिकरे शक्रेद्रौ घोषके घने ॥ १२४ ॥ जीवातुर्जीविते भक्ते जीवातुर्जीवनौषधे ॥ एधतुः पुरुषे वह्नौ वाहेतुः पथिके वृषे ॥ १२५ ॥ विहस्तो विहले पण्डे पर्यस्तः पतिते हते ॥ आयस्तः स्तिमिते क्षिप्ते क्लेशिते कुपिते हते ॥ १२६ ॥ निरस्तः क्लशितेषौ स्यानिष्ठयते त्वरितोदिते ॥ सन्त्यक्ते च प्रतिहते विश्वस्तो निभृते स्मृतः ॥ १२७॥ विश्वासयोगे विश्वस्तो विश्वस्ता विधवास्त्रियाम् ॥ निवातो दृढसन्नाहे वातान्ते चाश्रयेऽपि च ॥ १२८ ॥ अनन्तः शेषविष्ण्वोः स्यादनन्तः सुरवमनि ॥

विश्वप्रकाशः।
अनन्तश्चाप्यनवौ
वाच्यवत् समुदाहृतः ॥ १२९ ॥
अनन्ता शारिवादृर्वाविशल्यालाङ्गलीषु च ॥
अनन्ता हैमवत्याञ्च गुडूच्याञ्च निरूप्यते ॥ १३० ॥
शकुन्तः पक्षिभेदे स्याद्भासपक्षिविहङ्गयोः ॥
दृष्टान्तः शास्त्र उभयोदाहरणे प्रकीर्तितः ॥ १३१ ॥
कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु ॥
निशान्तः कथितः शान्ते निशान्तं भवनोषसोः ॥ १३२ ॥
वृत्तान्तोऽवसरे भावकात्यवार्ताविशेषयोः ।।
वृत्तान्तः प्रक्रियायाश्च कचिदेकान्तवाचकः ॥ १३३ ॥
उद्वान्तो निर्मदगजे समुद्गीर्णे च वाच्यवत् ।।
शुद्धान्तोऽन्तःपुरे राज्ञो रहाकक्षान्तरेऽपि च ॥ १३४ ॥
अस्वन्तमशुभे चुल्ल्यां मरणेऽनवधावपि ।।
क्षेत्रेऽपि कथ्यतेऽस्वन्तमुदन्तः साधुवार्तयोः ॥ १३५ ।।
जयन्तः शङ्करेऽपि स्याज्जयन्तः पाकशासनौ ॥
जयन्ती पादपे गौर्यामिन्द्रपुत्रीपताकयोः ॥ १३६ ॥
गोदन्तो हरिताले स्यादंशिते हरितेऽपि च ।।
भासन्तः सुन्दराकारे भासन्तो भासपक्षिणि ॥ १३७ ॥
महद्राज्ये विशाले च महती वल्लकीभिदि ।।
मरुद्देवे समीरे स्यादईन् पूज्ये जिनेऽपि च ॥ १३८ ॥
जगदाख्या स्मृता वाते विष्टपे जङ्गमेऽपि च ॥
जगती भुवने मायां छन्दोभेदे जनेऽपि च ॥ १३९ ॥
पित्सन पिपतिषन्नेतौ पतनेच्छुविहङ्गयोः॥
हरित् ककुभि वर्णे च तृणवाजिविशेषयोः॥१४० ।।
हरितेऽपि च दूर्वायां हरिद्वर्णयुतेऽन्यवत् ॥
विद्युत् सौदामिनीसन्ध्योर्निष्प्रभे त्वभिधेयवत् ॥ १४१ ॥

६८ विश्वप्रकाशः। गर्मुत् सुवर्णलतयो रोहित सूर्यलताभिदोः ॥ भूभृन्नरेन्द्रे शैले च पतन् पातुकपक्षिणोः ॥ १४२ ॥ कुर्वन् कर्मकरे भृत्ये स्यादर्वन् कुक्षितेऽन्यवत् ।। अर्वती कुम्भदास्याञ्च वाम्याञ्च परिकीर्तिता ॥ १४३ ॥ श्रीमांस्तिनकक्षे स्यान्मनोज्ञे धनकेऽपि च । धीमान् वाचस्पतौ धीरे भास्वान् भास्वरसूर्ययोः ॥१४४॥ सुव्रता पुङ्खसन्दोह्यसुरभ्यां शोभनवते ॥ वाच्यवद्विता क्षुद्ररोगे स्याद्वितं स्फुटे ॥१४५ ॥ वनिता जनितात्यर्थानुरागायाञ्च योषिति ॥ वनितं याचितेऽपि स्यादनितं शोचितेऽपि च ॥ १४६ ॥ जामाता वल्लभे सूर्यावर्तेऽपि दुहितुः पतौ ॥ विनेता देशिके राज्ञि विधाता वेधसि स्मरे ॥ १४७॥ विनता पिटकाभेदे विनता तार्थ्यमातरि ॥ विनतः प्रणते भुग्ने शिक्षितेऽप्यभिधेयवत् ॥ १४८ ॥ पञ्चता पञ्चभावे स्यात् पञ्चता मरणेऽपि च ॥ विजाताख्या प्रस्तायां जनिते विकृतेऽपि च ॥१४९ ॥ सिकता वालुकायां स्युः सिकताऽप्यामयान्तरे ।। सिकतान्वितदेशे च शर्करायाञ्च कीर्तिता ॥ १५० ॥ वासिता करिणीनार्योर्वासितं सुरभीकृते ॥ ज्ञानमात्रे खगारावे वासितं वस्त्रवेष्टिते ॥ १५१ ॥ पिशिता मासिकायां स्यादामिषे पिशितं मतम् ॥ तृणताऽपि तृणत्वे स्यात्तृणता कार्मुकेऽपि च ॥ १५२ ॥ द्विजातिरण्डजे वि श्रीपतिः क्षमापतौ हरौ ॥ गोपतिः शङ्करे षण्डे पार्थिवेऽपि विकतने ॥ १५३ ॥ स्थपतिः शिल्पिभेदेऽपि स्थपतिः कञ्चुकिन्यपि ॥

विश्वप्रकाशः।
जीवेष्टियाजके सूतेऽप्यमतिः कालचन्द्रयोः ॥ १५४ ॥
अङ्कतिः स्यादग्निहोत्रे ज्वलनाम्बुजयोनिषु ॥
रमतिर्नायके स्वर्गेऽप्यहतिस्त्यागरागयोः ॥ १५५ ॥
नितिः स्यादलक्ष्म्याच दिक्पाले निरुपद्रवे ।।
अगस्तिर्वङ्गसेने स्यादगदस्तिः कुम्भसम्भवे ॥ १५६ ॥
गभस्तिः किरणे सूर्ये स्वाहायाश्च विलोक्यते ।।
सङ्गतिः सङ्गमे ज्ञाने सन्नतिः प्रणतो ध्वनौ ॥ १५७ ॥
आयतिः सङ्गमे दैर्ये प्रभावागामिकालयोः
आपत्तिः स्याद् बले स्नेहे वशित्वे वासरेऽपि च ॥१५८॥
मर्यादायां तथाऽऽपत्तिर्विपत्तिर्यातनापदोः ॥
नियतिनियमे दैवे पद्धतिः पतिवफ्नोः ॥ १५९ ॥
सन्ततिः पतिविस्तारगोत्रेषु कविभिः स्मृता ।।
परम्पराभवेऽपि स्यात् सन्ततिः पुत्रकन्ययोः ॥ १६० ॥
सम्मतिः स्यादनुज्ञानेऽप्यभिलाषेऽपि सम्मतिः ।।
समितिः सङ्गरे साम्ये सभायामपि सङ्गमे ॥ १६१ ॥
अदितिर्वसुधायां स्याददितिर्देवमातरि ।।
वसतिः स्यादवस्थाने यामिन्याञ्च निकेतने ॥ १६२ ॥
पक्षतिः पक्षमूले स्यात् पक्षतिः प्रतिपत्तियौ ।
उन्नतिस्तार्क्ष्यदारेषु समृद्धावुदयेऽपि च ॥ १६३ ॥
प्रसूतिस्तनयोत्पत्तौ तथा दुहितरि स्मृता ।।
व्रततिर्विस्तृतौ वल्ल्यां वहतिः सचिवे गवि ॥ १६४ ॥
दुर्गतिर्नरके नैःस्वे विकृतिर्डिम्बरोगयोः ॥
निकृतिर्भर्त्सने क्षेपे वदन्ति शठशाठ्ययोः ॥ १६५ ।।
आकृतिः कथितारूपसामान्यवपुषोरपि ॥
प्रकृतिः सहजे योनावमात्ये परमात्मनि ॥ १६६ ॥

७०
विश्वप्रकाशः।
निवृत्तिः स्वस्थतायां स्यादस्तगमनसौख्ययोः ।
मुनीतिः शोभननये सुनीतिध्रुवमातरि ॥ १६७ ॥
प्रवृत्तिः कथिता वृत्तौ प्रवाहोदन्तयोरपि ।।
विच्छित्तिरङ्गरागे स्याद्धावविच्छेदयोरपि ॥ १६८ ॥
संवित्तिः प्रतिपत्तौ स्यादविवादे जनस्य च ॥
आपत्तिः प्रापणे दोषे चासत्तिः सङ्घलाभयोः॥ १६९ ॥
पर्याप्तिः स्यात् प्रकामेऽपि प्राप्तौ च परिरक्षणे ॥
समाप्तिश्थावसाने स्यात् समाप्तिश्च समर्थने ॥ १७० ॥
बृहती क्षुद्रवार्ताक्यां कण्टकार्याश्च वाचि च ॥
वारिधान्यां महत्याञ्च छन्दोवसनभेदयोः ॥ १७१ ॥
मालती जातियुवतीज्योत्स्नासु सरिदन्तरे ॥
काकमाच्यां विशालायां विभावर्यामपीध्यते ॥ १७२॥
भवती बाणभेदे स्यादन्यवद् वत्सदर्थयोः ॥
रेवती हलिपल्यां स्यात् ताराभेदेऽपि मातृषु ॥ १७३ ॥
पार्वती शल्लकीदुर्गाजोपदीजीविनीषु च ।।
सवन्ती च द्रवन्ती च सरिदोषधिभेदयोः ॥ १७४॥
जीवन्ती जीविनीशम्योर्गुडूचीद्वन्दयोरपि ॥
हसन्त्यकारधान्याञ्च मल्लिकाशाकिनीभिदोः॥ १७५॥
वासन्ती माधवीयूथ्योः पाटलायां क्रमेलके ॥
वासन्ती कोकिलेऽपि स्याद्वासन्तोऽविहिते विटे ॥ १७६ ॥
तचतुष्कम् ॥
भवेदवसितं ज्ञाते गतौ रुद्धावसानयोः ।।
अवदातं सिते पीते विशुद्ध प्रवरेऽपि च ॥ १७७ ॥
अवगीतन्तु निर्वादे मुहुद्दष्टे विगहिते ॥
अन्तर्गतं विस्मृते स्यान्मध्यप्राप्ते च कथ्यते ॥ १७८ ॥

विश्वप्रकाशः। ७१ अङ्गारितं पलाशीयकलिकोद्गमदग्धयोः॥ अपातः स्वतन्त्र स्यात् पिहिते चाऽप्यपातः॥१७९ ॥ अत्याहितं महाभीतौ जीवनोपेक्षकर्मणि ॥ उपाहितोऽनलोत्पात आहिते चाप्युपाहितः ॥ १८० ॥ उपाकृतोऽध्वरहतपशूपद्रुतयोर्मतः ॥ उदास्थितः प्रतीहारेऽध्यक्षे च प्रणिधौ चरे ॥ १८१ ॥ अभिनीतो भवेन्न्याय्ये संस्कृतामर्षिणोरपि । अभिजातः स्मृतो न्याय्ये कुलीनप्राप्तरूपयोः ॥ १८२ ॥ पारिजातः सुरतरौ मन्दारे पारिभद्रके ॥ भवेत्परिगतं लामे प्रयाते वेष्टितेपि च ॥ १८३ ।। ख्यातं प्रणिहितं लब्धे विन्यस्ते च समाहिते ॥ भवेत् प्रतिहितोऽद्विष्टे प्रतिस्खलितरुद्धयोः ॥ १८४॥ उल्लिखितं समुत्कीर्णे वाच्यवञ्च तनूकुते ।। विद्यादुपचितं दिग्धे समृद्धे च समाहिते ॥ १८५ ।। समुद्धतः समुद्गीर्णेऽप्यविनीते समुद्धतः ॥ कुहरितं पिकालापे रटिते रतनिस्वने ॥ १८६ ॥. भवेत् पल्लवितं लाक्षारक्ते सप्रसवे तते ॥ उज्जृम्भितन्तु चेष्टायामुत्फुल्ले चाभिधेयवत् ॥ १८७ ॥ उद्घाहितमुपन्यस्ते बद्धग्राहितयोरपि ॥ निस्तुषितं निस्त्वचि स्याद्वजिते च लघूकृते ॥ १८ ॥ ऐरावतोऽभ्रमातङ्गनारङ्गलिकुचाहिषु ॥ ऐरावतं महेन्द्रस्य ऋजुदीर्घशरासने ॥ १८९ ।। ऐरावती स्यात्तडिति सरि देऽपि लक्ष्यते ॥ कलधौतं रूप्यहेनोः कलधौतं कलध्वनौ ॥ १९० ॥ दिवाभीतः कुम्भिले स्यादुलूके कुमुदाकरे ॥

विश्वप्रकाशः।
पाशुपतो वकपुष्पे पशुपत्यधिदैवते ॥ १९१ ॥
निष्कासितो निर्गमितेऽप्यूहिते धिक्कृतेऽपि च ॥
व्यतीपातो महोत्पाते योगभेदापयानयोः ॥ १९२ ॥
समाघातो वधे युद्धे परिघातोऽस्त्रघातयोः ।
विनिपातोऽवपाते स्यादेवादिव्यसनेऽपि च ॥ १९३ ।।
समाहितः प्रतिज्ञाते समाधिस्थे यतात्मनि ॥
वाच्यवनिहिते सिद्धे समाधाने समाहितम् ॥ १९४ ॥
नन्द्यावर्त्तः स्मृतो वेश्मप्रभेदे तगरद्रुमे ।।
परिवर्तो विनिमये कूर्मराजे पलायने ॥ १९५ ॥
अभियुक्तः परै रु तथा स्यादतितत्परे ।
अतिमुक्तस्तु वासन्त्यां तिनिशे निष्कलेऽपि च ॥ १९६॥
उपरक्तः सैंहिकेये तद्हे व्यसनातुरे ॥
सूर्यभक्तो बन्धुजीवे तथा भास्करपूजके ॥ १९७ ॥
नदीकान्तः समुद्रे स्यात् सिन्दुवारेऽपि हिज्जले ॥
नदीकान्ता स्मृता जम्बूकाकजङ्घालतासु च ॥ १९८ ॥
नागदन्तो द्विपरदे गृहानिर्गतदारुणि ॥
नागदन्ती तु कुम्भायां श्रीहस्तिन्यामपीष्यते ॥ १९९ ॥
पुष्पदन्तस्तु दिङ्नागे नागविद्याधरान्तरे ॥
चन्द्रकान्तोऽश्मभेदे स्याचन्द्रकान्तश्च कैरवे ॥ २००
वैजयन्तो गृहे शक्रमासादध्वजयोरपि ॥
वैजयन्ती पताकायां जयन्तीवह्निमन्थयोः ॥ २०१॥
पुरस्कृतं स्वीकृताभिशस्तयोरभिधेयवत् ॥
अग्रे कृताभ्यर्चितयोः सिक्ते चापि पुरस्कृतम् ॥ २०२॥
अवध्वस्तं परित्यक्ते निन्दितेऽप्यवचूर्णिते ॥
धूमकेतुः स्मृतो वहावुत्पातग्रहभेदयोः ॥ २०३॥

विश्वप्रकाशः। ७ चित्रगुप्तः कृतान्ते स्याल्लेख चास्य सम्मतः ।। पश्चगुप्तस्तु चार्वाकदर्शने कमठेऽपि च ॥ २०४ ॥ अधिक्षिप्तः प्रणिहिते तथा निर्भत्सितेऽपि च ॥ प्रतिक्षिप्तं प्रतिहते प्रेषिते च निराकृते ॥ २०५॥ आयुष्मान् योगभेदे स्यादायुष्मांचिरजीविनि ॥ विवस्वान् विबुधे भानौ भगवान् बुद्धपूज्ययोः ॥ २०६ ॥ द्वीपवान् सिन्धुनदयोपवत्यापगाभुवोः । गरुत्मान् विहगे तायै सङ्ख्यावान् पण्डिते मिते ॥२०७॥ अंशुमान् भास्करे शालपामंशुमती मता ॥ अर्थपतिः कुबेरे स्यादीश्वरेऽर्थपतिस्तथा ॥ २०८ ॥ गृहपतिर्गृहस्थे स्यादत्याधाने च सत्रिणि । सेनापतिः कार्तिकेयेऽप्यनीकाधिकृतेऽपि च ॥ २०९ ॥ लक्ष्मीपतिर्वासुदेवे लवङ्गहुमपूगयोः॥ प्रजापतिर्विधौ भूपे हिमारातिः खगेऽनले ॥ २१० ॥ वनस्पतिर्दृक्षमात्रे विना पुष्पं फलद्रुमे ।। सदागतिः स्यात् पवने निर्वाणे च सदीश्वरे ॥ २११ ॥ दिवाकीर्तिस्तु चाण्डाले नापितोलूकयोरपि ।। शतधृतिर्धातरीऽन्द्रे सुधामूतिर्मखे विधौ ॥ २१२ ॥ भवेदऽपचितिः पूजाक्षयहानिषु निष्कृतौ ॥ अनुमतिः स्यादूनेन्दुपूर्णिमाऽनुज्ञयोरपि ॥ २१३ ॥ प्रतिकृतिः प्रतीकारे प्रतिमायाश्च पूजने ।। निराकृतिः प्रतिक्षेपेऽप्यस्वाध्यायेऽप्यनाकृतौ ॥ २१४ ॥ प्रतिपत्तिः पदप्राप्तौ प्रवृत्तौ गौरवेऽपि च ॥ प्रागल्भ्ये च प्रबोधे च प्रतिपत्तिः प्रयुज्यते ॥ ११५ ।। उपसत्तिः सङ्गमे च सेवायां प्रतिपादने। १० ७४ विश्वप्रकाशः। अभिशस्तिः स्मृता लोकापवादे प्रार्थनेऽपि च ।। २१६ ॥ पारावती गोपगीतिलवलीलतयोर्मता ।। पारावतः कलरवे शैले मर्कटतिन्दुले ।। २१७ ॥ भोगवती सुजङ्गानां नगरीसरितोरपि ।। गन्धवती मुराभूम्योः पुरीयोजनगन्धयोः ।। २१८ ।। हैमवत्यऽभयास्वर्णक्षीर्योः श्वेतवचोमयोः ॥ चर्मण्वती नदीभेदे कदलीपादपेऽपि च ॥ २१९ ॥ कुमुदती कुमुदिन्यां कुशपन्यां कुमुदती ॥ शुभ्रदन्ती सुदन्त्यां स्यात् पुष्पदन्तेभयोषिति ॥ २२० ॥ सरस्वती सरिभेदे गोवाग्देवतयोगिरि ॥ स्त्रीरत्ने चापगायाश्च सरस्वान् सिन्धुकेऽम्बुधौ ॥ २२१ ॥ रागमाताऽपि कुट्टन्यां स्मृता भूमिरुहामये ॥ प्रभूमिता क्लेशितायां भूर्यगन्तव्यदि ऽपि ॥ २२२ ॥ प्रव्रजिता तपस्विन्यां मुण्डीर्यामासिकौषधौ ॥ ऋष्यप्रोक्ता शताव- शूकशिम्ब्यां बलाभिदि ॥ २२३ ॥ कृष्णन्ता पाटलायां माषपाच भाविता ॥ समुद्रान्ता तु कार्पासीस्पृक्कादुरालभासु च ॥ २२४ ॥ तपञ्चकम् ॥ स्यादऽवलोकितो बुद्ध प्रक्षिप्ते त्वविलोकितः ॥ उपधूपित आसन्नमरणे परिधूपिते ॥ २२५ ॥ स्यादऽपराजितो विष्णौ श्रीकण्ठे चापराजिता ॥ श्वेताजयन्तीदुर्गास्वनिजिते त्वऽभिधेयवत् ॥ २२६ ॥ गणाधिपतिर्विख्यातः शङ्करेऽपि गजानने ॥ यादसाम्पतिरम्भाधौ प्रतीचीदिक्पतावपि ॥ २२७ ॥ स्यात् पृथिवीपतिर्भूपे ऋषभाख्यौषधेऽपि च ॥

विश्वप्रकाशः। ७५ मूर्दाभिषिक्तो भूपाले प्रधाने क्षत्रियेऽपि च ॥ २२८ ॥ वसन्तदूतश्चूते स्यात् पिकपञ्चमरागयोः ।। वसन्तदूती पाटल्यां प्रतीच्यामतिमुक्तके ॥ २२९ ॥ तषट्कम् ॥ अर्द्धपारावतश्चित्रकण्ठे तित्तिरपक्षिणि ॥ तसप्तकम् ॥ समुद्रनवनीताख्या पीयूषामृतरचिषोः ॥ २३० ॥ इति तान्तवर्गः॥ थद्विकम् ॥ रथः स्यात् स्यन्दने काये चरणे वेतसेऽपि च ॥ कुथः प्रवेणीकुशयोः पीथोऽर्के पीथमम्भसि ॥१॥ कोथस्तु शठिते नेत्ररुग्भेदे मन्थनेऽपि च ॥ पोथोऽध्वगेऽश्वघोणायां कटीस्त्रीगर्भयोरपि ॥२॥ काथः स्याद् द्रवनिष्पाके दुःखव्यसनयोरपि ॥ सिक्थं नील्यां मधूच्छिष्टे सिक्थ ओदनसम्भवे ॥ ३ ॥ पृथुपे कृष्णजीरे वाप्यां पृथु महत्यपि ॥ दुःस्थः स्याद् दुर्गते मूर्खे प्रस्थः शिखरमानयोः ॥४॥ तुत्थोऽनावञ्जने तुत्था नीलीसूक्ष्मैलयोरपि । मन्थः साक्तवमन्थाननेत्रामयदिवाकरे ॥ ५॥ ग्रन्थो धने स्यात् सन्दर्भ द्वात्रिंशद्वर्णनिम्मितौ । ग्रन्थिः पर्वणि कौटिल्ये ग्रन्थिपणे गदान्तरे ॥६॥ अर्थः प्रकारे विषये वित्तकारणवस्तुषु ।। अभिधेयेऽपि शब्दानां निवृत्तौ च प्रयोजने ॥ ७ ॥ तीर्थ शास्त्राध्वरक्षेत्रोपायोपाध्यायमन्त्रिषु ।।

७६ विश्वप्रकाशः। अवतारर्षिजुष्टाम्भःस्त्रीरजासु च विश्रुतम् ॥ ८॥ सार्थो वणिक्समूहे स्यादपि सङ्घातमात्रके ॥ पार्थस्तु ककुभे जिष्णौ गाथावाग्भेदवृत्तयोः ॥९॥ कन्या मृन्मयभित्तौ स्यात् कन्था प्रावरणान्तरे ॥ आस्था चाऽलम्बनास्थानयत्नापेक्षासु कथ्यते ॥१०॥ संस्था स्थितौ चरे नाशे व्यक्तिसादृश्ययोरपि ॥ वीथी गृहाङ्गे पतौ च नाव्यरूपकवर्मनोः॥११॥ यूथी पुष्पप्रभेदे स्यान्मागध्याञ्च कुरण्टके । यूथं तिर्यक्समूहे स्याहृन्दमात्रे च भाषितम् ।। १२ ।। थत्रिकम् ॥ मन्मथः कामचिन्तायां कपित्थे कुसुमायुधे ॥ उन्माथः कूटयन्त्रे स्यान्मारणे घातकेपि च ॥ १३ ॥ प्रमथोऽपि गणे प्रोक्तः पथ्यायां प्रमथा भवे ॥ निशीथोऽप्यर्द्धरात्रे स्यानिशीथो रात्रिमात्रके ॥ १४ ॥ विदियो योगिकृतिनोरुद्रथः शुनिकुक्कुटे । शमथः सचिवे शान्तौ दमथो दमदण्डयोः ॥ १५ ॥ वख्यो रथगुप्तौ स्याद्वख्यं चर्मवेश्मनोः । अतिथिः कुशपुत्रेऽपि कोपे प्राघुणकेऽपि च ॥ १६ ॥ वमथुर्वमनेऽपि स्याद् गजस्य करशीकरे ॥ क्षवः कथितः काशे हिक्कायामपि दृश्यते ॥ १७ ॥ समर्थोऽपि हिते शक्ते सम्बद्धार्थेऽपि सम्मतः ॥ सिद्धार्थः शाक्यसिंहे स्यात् सिद्धार्थः सितसर्षपे ॥१८॥ कायस्थोऽपि नृजातेः स्यात् प्रभेदे परमात्मनि ॥ कायस्था तु हरीतक्यामामलक्याञ्च दर्शिता ॥ १९ ॥ वयःस्थो वाच्यवानि वयःस्था शाल्मलीद्रुमे ॥

विश्वप्रकाशः।
७७
ब्राह्मीगुडूचीकाकोलीसूक्ष्मैलामलकीषु च ॥ २० ॥
अश्वत्थो गईभाण्डे स्यात् पिप्पले पूर्णिमातिथौ ॥
उपस्थो मेण्डू उत्सङ्गे भगे पायौ च कथ्यते ॥ २१ ॥
निर्ग्रन्थो नग्नकेऽपि स्यान्निःस्वबालिशयोरपि ॥
गोग्रन्थिस्तु करीषे स्याद् गोष्ठे गोजिहिकौषधे ॥ २२ ॥
अव्यथा तु हरीतक्यां पन्नगे निर्व्यथेऽपि च ।।
षड्ग्रन्थाऽपि वचासिंह्योः षड्ग्रन्थोऽपि प्रकीर्यते ॥ २३ ॥
थचतुष्कम् ॥
चित्ररथः स्याद्गन्धर्वे रवौ विद्याधरान्तरे ।।
चतुष्पथश्चतुर्मार्गसङ्गमेऽपि द्विजेऽपि च ॥ २४ ॥
वानप्रस्थो मधूके स्यात् किंशुके चाश्रमान्तरे ॥
दशमीस्थ नष्टबीजे स्थविरेऽपि प्रचक्ष्यते ॥ २५ ॥
अनीकस्थो रणखले गजशिक्षाविचक्षणे ॥
राजरक्षिषु चिढ़े च वीरमर्दनकेऽपि च ॥ २६ ॥
भवेदितिकथा नष्टधर्मेऽपार्थे वचस्यऽपि ।
अश्रद्धेयेऽप्युदरथिः समुद्रे च वियन्मणौ ॥ २७ ॥
इति थान्तवर्गः
.
-
ददिकम् ॥
गदो भ्रातरि विष्णोः स्यादामयेऽप्यायुधे गदा ।।
नदः समुद्रे निनदे नदी तु सरिति स्मृता ॥१॥
मदो रेतसि कस्तूया गर्वे हर्षेभदानयोः ।।
मद्येऽपि मद आख्यातो मदी कृषकवस्तुनि ॥ २॥
पदं शब्दे च वाक्यं च व्यवसायापदेशयोः॥
पादपचिह्नयोः स्थानत्राणयोरङ्कवस्तुनोः ॥ ३ ॥

विश्वप्रकाशः।
छदः पलाशे गति प्रन्थिपर्णितमालयोः॥
रदो विलेखने दन्ते भद्रं कल्याणशर्मणोः ॥४॥
भेदो द्वैधे विशेषे स्यादुपजापे विदारणे ॥
स्वेदस्तु स्वेदने धर्मे शादः कईमशस्ययोः ॥५॥
पादो ब्रने तुरीयांशे शैलप्रत्यन्तपर्वते ॥
चरणे च मयूखे च क्षोदो रजसि पेषणे ॥ ६॥
सूदस्तु सूपवत् सूपकारे च व्यञ्जनेऽपि च ॥
स्वादुमनोज्ञे मृष्टे च मृदुः स्यात् कोमलेऽखरे ॥७॥
अब्दः संवत्सरे मेघे गिरिभेदे च मुस्तके ।।
विन्दुर्दन्तच्छदेऽपि स्याचथा वेदिविभुषोः ॥ ८॥
कुन्दश्चक्रभ्रमौ माध्ये निधिभेदे मुरविषि ॥
कन्दस्तु शूरणे शस्यमूले जलधरेऽपि च ॥ ९ ॥
मन्दः खले मन्दरते मूर्खे स्वैरेऽल्परागिणोः ।।
अभाग्येऽपि च मातङ्गे गजजातिप्रभेदयोः॥१०॥
छन्दो वशेऽप्यभिप्राये हृदाख्याचित्तबुक्कयोः ॥
वेदिरङ्गुलमुद्रायां बुधेऽलङ्कृतभूतले ॥११॥
अन्दुः स्याद् बन्धनद्रव्ये प्रभेदे भूषणस्य च ॥
नन्दिरानन्दने द्यूते प्रतीहारे हरस्य च ॥ १२ ॥
विद्वा ज्ञाने च बुद्धौ च धीदा कन्यामनीषयोः ।।
निन्दाऽपवादे कुत्सायां नन्दा मणिकसम्पदोः ॥१३॥
दत्रिकम् ॥
धनदो दातरि श्रीदे जलदो मुस्तकेऽम्बुदे ।
नलदं स्यात्पुष्परसे मासिकोशीरयोरपि ॥ १४ ॥
प्रमदः सम्मदे मत्ते कामिन्यां प्रमदा मता ।।
विशदः पाण्डुरे व्यक्ते जीवदो वैद्यविद्विषोः ॥ १५ ॥

विश्वप्रकाशः। ७९ अङ्गदः कपिभेदे स्यात् केयूरेऽङ्गदमिष्यते ॥ अङ्गदा याम्यदिग्दन्तिहस्तिन्यां समुदाहृता ॥ १६ ॥ वरदोऽपि प्रसन्ने स्याद्वरदः शान्तचेतसि ।। वरदाऽपि च कन्यायामामोदो गन्धहर्षयोः ।। १७ ॥ नर्मदः केलिसचिवे नर्मदा सरिदन्तरे । क्षणदो गणके रात्रौ क्षणदा क्षणदञ्जले ॥ १८ ॥ कपईः खण्डपरशोर्जटाजूटे वराटके ।। आस्पदन्तु पदे कृत्ये निषादः श्वपचे स्वरे ॥ १९ ॥ प्रसादोऽनुग्रहे काव्यगुणस्वाथ्यमसक्तिषु ॥ प्रसादः कथ्यते देवनरदेवनिवासयोः॥२०॥ शारदः पीतमुद्ने स्याच्छालीने प्रतिमे नवे ॥ वर्षेऽथ जलपिप्पल्यां सप्तपणे च शारदि ॥ २१ ॥ दारदो विषभेदे स्यादिङ्गुले पारदेऽपि च ॥ तोयदन्तु घृते प्रोक्तं तोयदो मुस्तकाब्दयोः ॥ २२ ॥ निर्वादः स्यात् परीवादपरिनिष्ठितवादयोः । अर्बुदो मांसकीले स्याद्दशकोटिषु चार्बुदः ॥ २३ ॥ शैलेर्बुदोऽथ सम्भेदः स्फुटने सिन्धुसङ्गमे ।। कुसीदं जीवने वृद्ध्या कुसीदश्च कुसीदिके ॥ २४ ॥ प्रणादस्तारशब्दे स्यात् प्रणादः श्रवणामये । प्रहादः प्रमदे दैत्ये दायादे ज्ञातिपुत्रयोः ॥ २५ ॥ मेनादः केकिमार्जारच्छागलेषु समीरितः ।। गोविन्दो वासुदेवे स्याद्वाध्यक्षे बृहस्पतौ ॥ २६ ॥ आक्रन्दो दारुणरणे मित्रे त्रातरि रोदने । माकन्दः सहकारे स्यान्माकन्यामलकीफले ॥ २७ ॥ अर्बेन्दुश्चन्द्रशकले गलहस्तनखाङ्कयोः ।

विश्वप्रकाशः। अन्दुः स्यादतिमोढे स्त्रीगुह्याङ्गुलियोजने ॥ २८ ॥ कर्णेन्दुरुक्षिप्तिकायां कर्णपाश्यामपीरिता ॥ स्यात् कौमुदः कार्तिकिके चन्द्रिकायाञ्च कौमुदी॥ २९ ॥ कुमुदं कैरवे रक्तपङ्कजे कुमुदः कपौ ॥ दैत्यान्तरे च दिनागनागयोरपि कीर्तितः ॥ ३० ॥ कुमुदा कुम्भिगाम्भार्योः स्यात् कुमुत् कृपणेऽन्यवत् ॥ कुमुदेऽपि कुमुत् प्रोक्तं क्रव्यां मांसाशिरक्षसोः ॥ ३१ ॥ ककुद्वत् ककुदं श्रेष्ठे वृषाङ्के राजलक्ष्मणि ॥ मुकुन्दः पुण्डरीकाक्षे रत्नभेदे च पारदे ॥ ३२ ॥ दरत् प्रपातेऽद्रिभवे शरत् संवत्सरे ऋतौ ॥ दृषत् पेषणपट्टे स्याद् दृशत्पाषाणमात्रके ॥ ३३ ।। सम्पद्भूतौ गुणोत्कर्षे हारभेदेऽपि दृश्यते ॥ भासत् प्रभास्वरे मासे तरत् कारण्डवे प्लवे ॥ ३४॥ संविज्ञाने प्रतिज्ञायां सङ्केताचारनामम् ॥ सम्भाषणे तोषणेऽपि क्रियाकारे च सङ्गरे ॥ ३५ ॥ कामूदा धेनुकायां स्याद्वाच्यवत् कामदोग्धरि ॥ सुनन्दा रोचनानार्योर्मर्यादाधारणे स्थिता ॥ ३६॥ दचतुष्कम् ॥ एकपदं स्यात्तत्काले पदव्यामेकपद्यपि ॥ चतुष्पदं स्यात् स्वीकारे गवाश्वादिपशुष्वपि ॥ ३७॥ भवेद्विष्णुपना भिख्या क्षीरोदे गगनेऽम्बुजे ॥ प्रोक्ता विष्णुपदी गङ्गासंक्रान्तिद्वारकासु च ॥ ३८॥ भवेजनपदो देशे जने जानपदोऽपि च ॥ प्रियंवदः खेचरे स्यात् प्रियवाचिषु वाच्यवत् ॥ ३९ ॥ अपवादस्तु निन्दायामाज्ञाविश्रम्भयोरपि ॥

विश्वप्रकाशः। ८१ परिवादः कलङ्के स्याद्वीणावादनवस्तुनि ॥ ४०॥ समर्यादः समीपे स्यान्मर्यादासहितेऽपि च ।। पुटभेदो नदीवक्त्रे पतनातोद्ययोरपि ॥ ४१ ।। अष्टापदं स्यात् कनके शारीणां फलकेपि च ।। अष्टापदश्च शरभे चन्द्रमल्याञ्च मर्कटे ॥ ४२ ॥ मेघनादस्तु वरुणे रावणस्य सुतेऽपि च ॥ महानादः कुञ्जरे स्यार्पुकाब्जे शयानके ॥४३॥ भवेत् कोकनदं रक्तकैरवे रक्तपङ्कजे ॥ विशारदो बुधे धृष्टेऽभिमर्दो रणमन्थयोः ॥ ४४ ॥ पीठमर्दोऽतिधृष्टे स्यान्नाव्योक्तौ नायकप्रिये ।। मुचुकुन्दो दुभेदे स्यान्मुनिदैत्यविशेषयोः ॥ ४५ ॥ कुरुविन्दस्तु मुस्तायां कुल्माषत्रीहिभेदयोः॥ हिङ्गुले पद्मरागे स्यान्मुकुरे च समीरितः॥४६॥ अभिष्यन्दोऽतिवृद्धौ स्यादाश्रावेऽक्षिगदेऽपि च ॥ कटुकन्दं विदुः शिग्रौ शृङ्गवेररसोनयोः ॥ ४७ ॥ तमोनुदऽग्नीन्दर्केषु प्रतिपत्तिथिसंविदोः ॥ शतहूदा भवेद्वजे सौदामिन्याञ्च कीर्त्तिता ॥४८॥ दपञ्चकम् ॥ सहस्रपादः कारण्डे मार्तण्डे यज्ञपुरुषे । भवेदुपनिषद्धर्मे वेदान्तेऽपि रहस्यऽपि ॥४९॥ इति दान्तवर्गः॥ धाद्विकम् ॥ राधो वैशाखमासे स्याद्राधा गोप्याश्च विद्युति ॥ विष्णुकान्तामलक्योश्च चित्रवेधे च धन्विनाम् ॥ १॥ ११ ८२ विखप्रकार गाधः स्थाने च लिप्सायां व्याधो मृगयुदुष्टयोः॥ मेधः क्रतुर्धियां मेधा मेधः स्यात् खलदारुणे ॥२॥ घुधः कवौ रौहिणेये मिद्धमालस्यनिद्रयोः ॥ तथा चित्ताभिसंक्षेपे दमुवृत्तद्धयोः ॥३॥ सिद्धो व्यासादिषु ख्यातः सिद्धाः स्युर्दैवयोनिषु ॥ नित्ये प्रसिद्ध निष्पन्नेऽपीद्धमातप्तदीप्तयोः ॥ ४ ॥ ऋद्धं त्वतिसमृद्ध स्यात् सम्यग्वाते तु वाच्यवत् ।। वृद्धन्तु शैलजे मूरिजीर्णद्वेषु भेद्यवत् ॥ ५ ॥ विद्धं स्याद्वेदिते क्षिप्ते सादृश्येऽपि निगद्यते ।। बुद्धो जिने च धीरे च सौम्ये च बुधितेऽपि च ॥ ६ ॥ अर्द्धः खण्डे समांशेऽर्द्ध लुब्धो मृगयुकाशिणोः ॥ अन्धं स्यात्तिमिरे दृष्टिहीनेऽन्धः समुदाहृतः ॥७॥ गन्धो गन्धक आमोदे लेशे सम्बन्धगर्वयोः॥ स्कन्धः प्रकाण्डे सैन्यांशे बाहुमूलसमूहयोः ॥ ८॥ समीकनृपयोश्वाऽपि बन्धस्त्वाधौ च बन्धने ॥ दग्धं प्लुष्टेऽन्यवदग्धा स्थितार्कदिशि दर्शिता ॥ ९॥ दिग्धं विषाक्तवाणे स्यादिग्धं लिप्तार्थकेऽन्यवत् ।। दुग्धं प्रपूरणे क्षीरे मुग्धः मुन्दरमूढयोः ॥ १० ॥ मधु क्षौद्रे जले क्षीरे मद्ये पुष्परसे मधुः ॥ दैत्ये चैत्रे वसन्ते च जीवाशाके मधुद्रुमे ॥ ११ ॥ विधुः शशाङ्के कपूरे हृषीकेशेऽपि राक्षसे ।। साधुर्वार्धषिके चारौ सज्जने चाभिधेयवत् ॥ १२ सिन्धुः समुद्रे नद्याञ्च नदे देशेभदानयोः बन्धुर्बन्धकपुष्पे स्याद्वन्धुर्धातरि बान्धवे ॥ १३ ॥ आधिर्मानसपीडायां प्रत्याशायाश्च बन्धके ।

विश्वप्रकाशः। व्यसने चापधिष्ठाने व्याधिरामयवाक्ययोः ॥१४॥ बोधिः समाधिभेदे स्याद्वोधिः पिप्पलपादपे ।। सन्धिर्भेदे सुरुङ्कायां भगे सङ्घटनेऽपि च ॥ १५ ॥ अब्धिः समुद्रे सरसि सिद्धिनिष्पत्तियोगयोः । वृद्धिरानन्दने ऋद्धौ वर्द्धनेऽपि कलान्तरे ॥ १६ ॥ दोग्धा गोपालके वत्से कवौ वापजीविति ॥ विधा गजाने ऋद्धौ च प्रकारे वेतने विधौ ।। १७॥ गोधा तले निहाकायां वाधा दुःखनिषेधयोः ।। सुधाऽमृते स्नुहीमूर्वालेपगाङ्गेष्टिकासु च ॥ १८ ॥ सन्धा स्थितौ प्रतिज्ञायां श्रद्धा श्राद्धत्वकाङ्क्षयोः ॥ स्पर्धा संघर्षणे साम्ये स्पर्धा क्रमसमुन्नतौ ॥ १९ ॥ वधूः स्नुषानवोढास्त्रीभार्यास्पृक्काङ्गनासु च ॥ शव्याञ्च शारिबायां स्यात् सर्बुद्धौ गुदेऽपि च ॥ २० ॥ धत्रिकम् ॥ विवधो वीवधश्चापि पर्याहारेऽध्वभारयोः॥ विबुधः पण्डिते देव सम्बाधः सङ्कटे भगे ॥२१॥ निषधः कठिने देशे तद्राजे च नगान्तरे ॥ संरोधो रोधने क्षेपे निरोधो रोधनाशयोः ॥२२॥ उत्सेधश्वोच्छ्रये काये दुर्विधो दुर्गते खले ॥ विश्रब्धोऽऽनुद्भटेऽत्यर्थे शातविश्वस्तयोरपि ॥ २३ ॥ न्यग्रोधी व्यामवटयोन्यग्रोधश्च शमीतरौ । न्यग्रोधे वृषपश्चि मोहनाख्यौषधावपि ॥ २४ ॥ अगाधो विवरे स्थाने प्रसिद्धोऽलङ्कृतेऽपि च ॥ विख्यातेऽपि च सन्नद्धे वर्मितव्यूढयोरपि ॥ २५ ॥ आनद्धं बद्धमात्रे स्यादानद्धं मुरुजादिके।

विश्वप्रकाशः। आविद्धां वाच्यवज्ज्ञेयः कुटिले च पराहते ॥२६॥ कबन्धस्तूदरे रक्षोविशेषेऽपि विधुन्तुदे ॥ आबन्धो दृढबन्धे स्यात् प्रेमालङ्कारयोरपि ॥ २७ ॥ सुगन्धिः स्यादिष्टगन्धे सुगन्धि हरिवालुके । उपाधिर्धर्मचिन्तायां कैतवेऽपि विशेषणे ॥ २८ ॥ कुटुम्बव्यापृतेऽपि स्यादुपधियाधिचक्रयोः । परिधिर्यज्ञियतरोः शाखायामुपसूर्यके ॥ २९ ॥ अवधिस्त्ववधाने स्यात् सीन्नि काले बिलेऽपि च ॥ समाधिनियमे ध्याने नीवाके च समर्थने ॥३०॥ सनिधिः सनिधानेऽपि भवेदिन्द्रयगोचरे ॥ संसिद्धिः सहजे सिद्धौ मदोग्रायामपि स्मृता ॥ ३१ ॥ प्रणिधिश्चरे याच्चायां वीरुटिपशाखयोः॥ मागधी पिप्पलीयूथ्योर्मागधो मगधोद्भवे ॥ ३२ ॥ वैश्यजक्षत्रियापुत्र शुक्लजीरकवन्दिनोः ॥ धचतुष्कम् ॥ अवरोधस्तिरोधाने शुद्धान्ते राजवेश्मनि ॥ ३३ ॥ महौषधं शृङ्गवेरे विषायां लशुनेऽपि च ॥ परिव्याधो वेतसे स्यात् परिव्याधो द्रुमोत्पले ॥ ३४ ॥ अवष्टब्धमदूरे स्यादाक्रान्ते च विलम्बिते ॥ समुनद्धः समुद्भूते पण्डितम्मन्यधृष्टयोः ॥ ३५ ॥ अनिरुद्ध उपानाथे चरे चानर्गलेऽन्यवत् ।। अनुबन्धः प्रकृत्यादेर्दोषोत्पादे विनश्वरे ॥ ३६॥ मुख्यानुयायिनि शिशौ प्रवृत्तस्य निवर्त्तने । अनुबन्धी च हिक्कायां तृष्णायामपि कथ्यते ॥ ३७॥ कालस्कन्धस्तमाले स्यात्तिन्दुके जीवकद्रुमे ।

विश्वप्रकाशः। आशावन्धः समाश्वासे तथा मर्कटजालके ॥ ३८ ॥ ब्रह्मबन्धुरधिक्षेपे निर्देशे च द्विजन्मनाम् ॥ उग्रगन्धाजमोदायां वचायां छिक्ककौषधौ ॥ ३९ ॥ तीक्ष्णगन्धा वचायाञ्च शिगुराजिकयोरपि ॥ इक्षुगन्धा कोकिलाक्षे क्रोष्ट्रयां काशे च गोक्षुरे ।। ४० ॥ तृणगोधा चित्रकोले कृकलासे च लक्ष्यते ।। उपलब्धिर्मती प्राप्तौ ज्ञाने चापि प्रयुज्यते ॥ धपञ्चकम् ॥ योजनगन्धा कस्तू- सीतायां व्यासमातरि ॥४१॥ इति धान्तवर्गः॥ . नद्विकम् ॥ इनः सूर्ये नृपे पत्यौ धनं गोधनवित्तयोः॥ जिनः स्यादतिद्धे च बुद्धे चाहति जित्वरे ॥१॥ जनो लोके महर्लोकात् परलोके च पामरे ।। जनी सीमन्तिनीवध्वोरुत्पत्तौ च जनिर्मता ॥ २॥ घनं स्यात् कांस्यतालादिवाद्यमध्यमनृत्ययोः ।। घनं सान्द्रे दृढे दायै विस्तारे लोहमुद्रे ॥ ३ ॥ मेघमुस्तकयोश्वाऽपि वनं कानननीरयोः ॥ प्रवासे निलये चापि वनं प्रस्रवणेऽपि च ॥४॥ वानं शुष्कफले शुष्के कटे सीवनकर्मणि ॥ जलसंस्त्रववातोर्मिसुरङ्गागतिसौरभे ॥५॥ दानं गजमदे त्यागे पालनच्छेदशुद्धिषु ॥ मानं प्रमाणे प्रस्थादौ मानश्चित्तोन्नती ग्रहे ॥ ६ ॥ यानं गतौ वाहनेऽपि पानं पीतौ च रक्षणे ॥

८६
विश्वप्रकाशः।
स्त्यानं स्निग्धे प्रतिध्वाने घनत्वालस्ययोरपि ॥ ७॥
स्थानं स्थितौ च सादृश्य सन्निवेशावकाशयोः ।
युक्तार्थे करणार्थे च स्थाने स्यादव्ययं पुनः॥८॥
सूनं वाध्यदूनेषु सूनं प्रसवपुष्पयोः ।
सूना पुत्र्यां वधस्थानगलशुण्डिकयोरपि ॥ ९॥
ऊनं हीने रणोद्याने स्यूनः किरणसूर्ययोः ॥
मीनो राश्यन्तरे मत्स्ये सीनोऽजगरमूर्खयोः ॥ १० ॥
चीनो मृगान्तरे तन्तुव्रीहिदेशांशुकान्तरे ॥
हीनं गर्योनयोन्यूनमनयोरपि कीर्त्तितम् ॥ ११ ॥
कृत्स्नं कष्टे समस्ते च रस्नस्तक्षकचण्डयोः॥
वस्नं स्याटेतने मूल्ये वसनद्रव्ययोरपि ॥ १२ ॥
स्वप्नः सुप्तस्य विज्ञाने स्वप्नः स्वापे च दर्शने ॥
बुनः शिफायां रुद्रे च रत्नं श्रेष्ठे मणावपि ॥१३॥
नग्नोऽपि च क्षपणके विवस्त्रे चाऽभिधेयवत् ॥
लग्नं राश्युदये लग्नं सक्तलज्जितयोरपि ॥ १४॥
छन्नं रहश्छादितयोः स्यादनं भुक्तभक्तयोः ।।
भिन्नमन्यार्थवचने सङ्गते दारिते स्फुटे ॥ १५॥
विन्नं ज्ञाते स्थितौ लब्धे छिन्नं भिन्ने तु वाच्यवत् ॥
छिनाऽमृतायां पुंश्चल्यामुन्नः क्लिन्ने च सूरते ॥ १६ ॥
चिद्रं ध्वजे पताकायां द्युन्नं वित्ते पराक्रमे ।।
धनुःसंज्ञा पियालद्रौ राशिभेदे शरासने ॥ १७ ॥
तनुः काये कृशे चाऽल्पे विरलेऽपि च वाच्यवत् ॥
हनुः प्रहरणे मृत्यौ कपोलावयवे गदे ॥ १८ ॥
हनुहट्टविलासिन्यां सूनुः पुत्रेऽनुजे रचौ ॥
सानुः शृङ्गे बुधे मार्गे वात्यायां पल्लवे नवे ॥ १९ ॥

विश्वप्रकाशः। ८७ दानुर्दातरि विज्ञाते भानुः किरणमूर्ययोः ॥ धेनः समुद्रे नद्यान्तु धेनी स्योनः सिते खगे ॥ २० ॥ मुनियमीङ्गुदीबुद्धपियालागस्ति किंशुके । ज्यानिहनौ सवन्त्याश्च योनिः स्यादाकरे भगे ॥ २१ ॥ ज्योत्स्नी पटोलिकायां स्याज्ज्योत्स्नायुक्तविभावरी ।। ज्योत्स्नी सचन्द्रनक्षत्ररात्रौ चन्द्रातपेऽपि च ॥ २२ ।। रास्ना स्मृता भुजङ्गाक्ष्यामेलापाञ्च कथ्यते ॥ मृत्स्ना तु वरिकायां स्यान्मृत्सायामपि दृश्यते ॥ २३ ॥ गीना मूषिकयोषायां दुर्गते कातरेऽन्यवत् ॥ धानामृष्टयवे प्रोक्ता धान्याकेभिनवोद्भिदि ॥ २४ ॥ नत्रिकम् ॥ अवनं रक्षणे प्रीतौ भवनं भाववेश्मनोः॥ भुवनं विष्टपे मह्यां सलिलेऽपि वियत्यऽपि ॥ २५ ॥ सवनं यज्ञियस्नाने सोमनिईलनेऽपि च ॥ अयनं पथि भानोः स्यादुदग्दक्षिणतो गतौ ॥ २६ ॥ जयनं स्यात्तुरङ्गादिसन्नाहे विजयेऽपि च ॥ शयनं सुरते निद्राशय्ययोरपि भाषितम् ॥ २७ ॥ शमनं शान्तिवधयोः शमनः श्राद्धदैवते ॥ दशनः कवचे दन्ते दशनः शिखरेऽपि च ॥ २८॥ जघनञ्च स्त्रियाः श्रोणिपुरोभागे कटीरके ।। तपनस्तरणौ तापे भल्लाते नरकान्तरे ॥ २९ ॥ रसनं स्वादने ध्वाने रसना काश्चिजिह्वयोः ॥ रसनश्चाऽपि रास्नायां वसनं छादनेशुके ॥ ३० ॥ हसनश्च स्मृतं हासेऽङ्गारधान्यां हसन्यपि ॥ श्वसनो मारुते श्वासे श्वसनो मदनद्रुमे ॥ ३१॥ - ८८ विश्वप्रकाशः। कदनं मर्दने पापे सदन मन्दिरे जले ।। मदनः स्मरधुत्तूरवसन्तद्रुमसिक्थके ॥ ३२॥ दहनश्चित्रके वह्नौ भल्लाते दुष्टवेष्टिते । गहनं गहने दुःखे विपिने कलिलेऽपि च ॥ ३३ ॥ स्तननं ध्वनिमात्रे स्यात् कुन्थने मेघगर्जिते ॥ निधनं स्यात् कुले नाशे प्रधनं दारणे रणे ॥ ३४ ॥ पवनाख्या कुलाले स्यात् पाकस्थानेऽपि मारुते ॥ निष्पावे चाथवपनं बीजाधानेऽपि मुण्डने ॥ ३५॥ दमनः कुसुमे वीरे वमनं छईनेऽईने । स्यादाहृतौ च यमनं दुःखे चोपरतौ यमे ॥ ३६ ॥ कमुनः कामुके कामेऽभिरूपेऽशोकपादपे ॥ धमनोऽप्यनले भस्वाध्यापककरयोः स्मृता ॥ ३७॥ धमनी तु हरिद्रायां कन्धराशिरयोरपि ॥ मलनः पटवासे स्यान्मईने मलनं मतम् ॥ ३८॥ चलनं कम्पनं कम्पे कम्पे चलनकम्पनौ ॥ चलनी वस्त्रघर्ष- वारिभेदेऽपि च कचित् ॥ ३९ ॥ सेचनं रक्षणे सेके नौकासेचनभाजने ॥ सेवनं सीवनोपास्त्योः संव्यानं छादनेशुके ॥ ४०॥ समानं सत्समैकेषु समानो नाभिमारुते ॥ शोभनो ग्रहयोगे स्याच्छोभनं सुन्दरेऽन्यवत् ॥ ४१ ॥ शासनं राजदत्तो- लेखाज्ञाशास्त्रशास्त्रिषु ॥ वासनं बसने वीरासने ज्ञाने च धूपने ॥ ४२ ॥ आसनं द्विरदस्कन्धे पीठे यात्रानिवर्त्तने ॥ असनी पण्यवीथ्यां स्यादासनो जीवकद्रुमे ॥४३॥ स्पर्शनो मारुते स्पर्शधानयोः स्पर्शनं मतम् विश्वप्रकाशः। ८९ दर्शनं नयनस्वमबुद्धिधर्मोपलब्धिषु ॥ ४४ ॥ शास्त्रदर्पणयोश्वाऽपि दंशनं दंशवर्मणोः ॥ पिशुनं कुङ्कुमे क्रूरे सूचके चाभिधेयवत् ॥ ४५ ॥ पिशुनः कपिवळे स्यात् स्पृक्कायां पिशुना मता ।। शकुनश्च शुभाशंसानिमित्ते शकुनः खगे ॥ ४६॥ मिथुनो राशिभेदे स्यान्मिथुनं दम्पतीयुगे । तलुनं पवने यूनि स्त्रियाञ्च तलुनीं विदुः॥४७॥ तलिनं विरले स्तोके स्वच्छेऽपि तलिनं मतम् ।। मलिनं दूषिते कृष्णे ऋतुमत्यां मलिन्यऽपि ॥ ४८ ॥ कठिनं निष्ठुरे स्थाल्यां शर्करायां गुडस्य च ।। कठिना काटिकायान्तु कठिनीति प्रयुज्यते ॥ ४९ ।। पीतनं हरिताले स्यात् कुङ्कुमे पीतदारुणि ॥ आम्रातके पीतनश्च मैथुनं सङ्गते रते ॥ ५० ॥ केतनं लाञ्छने कार्षे गेहे चोपनिमन्त्रणे ॥ छईनोऽलम्बुषे निम्बे छईनं वमने तरे ॥ ५१ ।। छेदनं कर्त्तने भेदे छदनं पक्षपत्रयोः ॥ रोदनं व्यथने तोत्रे रोदनं रोधनेश्रुणि ॥५२॥ अपानन्तु गुदे प्रोक्तमपानस्तस्य मारुते । सन्तानं सन्ततौ गोत्रे स्यादपत्ये सुरद्रुमे ॥ ५३ ॥ वितानो यज्ञविस्तारोल्लोचेषु क्रतुकर्मणि ।। वृत्तभेदावसरयोर्वितानं तुच्छमन्दयोः ॥ ५४ ॥ उत्तानं स्यादगम्भीरे तथा सुप्तोन्मुखेऽन्यवत् ।। आदनं ग्रहणे विद्यादलङ्कारे च वाजिनाम् ॥ ५५ ॥ निदानं कारणे रोगनिर्णये वत्सदामनि ॥ उद्यानं वनभेदे स्यान्निामृतेऽपि प्रयोजने ॥ ५६ ॥ ૨ ९० विश्वप्रकाशः। अम्लानो झिण्टिकाभेदे वाच्यवनिर्मले स्मृतः ।। व्युत्थानं स्वैरकरणे विरोधाचरणेऽपि च ॥ ५७ ।। उत्थानमुद्यमे तन्त्रे पौरुषे पुस्तके रणे ॥ अङ्गनोद्गमहर्षेषु मलवेगेऽपि कीर्तितम् ॥ ५८ ॥ संस्थानमाहृतौ मृत्यौ सनिवेशे चतुष्पथे ॥ धावनं प्रगमे शुद्धौ पृश्निपान्तु धावनी ॥ ५९ ॥ पावनन्तु जले कृच्छ्रे पावकाध्माशयोर्विदुः ॥ पावनः सिहके वह्नौ प्रायश्चित्ते च पावनम् ॥ ६॥ वाच्यवत् पावयितरि हरीतक्यान्तु पावनी ॥ वामनो कोटवैकुण्ठखर्वदक्षिणदिग्गजे ॥ ६१ ॥ स्थापनं स्यात् पुंसवने समाधौ रोपणेऽपि च ।। यापनं वर्चने कालक्षेपे निरसनेऽपि च ॥ ६२॥ युञ्जानः सारथौ विप्रे बुधानः पण्डिते गुरौ ॥ दृशानं ज्योतिषि प्रोक्तं दृशानश्च विरोचने ॥६३ ॥ जवनो देशभेदे स्याद्वेगवेगाधिकाश्वयोः । जवन्योषधिभेदे स्याद्वाच्यवद्वेगिनि स्मृतः॥ ६४ ॥ जीवनं वर्त्तने नीरे पुत्रजीवे तु जीवनः ॥ जीवनी जीवना चेति जीवन्तीमेदयोः क्रमात् ॥ ६५ ॥ देवनं व्यवहारे स्याज्जिगीषाक्रीडयोरपि ॥ अक्षेषु देवनः प्रोक्तो वाच्यवद् वाग्मिविप्रयोः ॥६६॥ तेमनं व्यञ्जने क्लेदे तेमने चुल्लिकान्तरे ॥ सावनो यज्ञकान्ते यजमानप्रचेतसोः॥ ६७ ॥ विज्ञानं कर्मणे ज्ञाने प्रज्ञानं लाञ्च्छने धियि ॥ हायनोऽर्चिषि वर्षे च व्रीहिभेदे च हायनः ॥ ६८॥ फाल्गुनस्तु तपस्ये स्यात् पूर्णिमायान्तु फाल्गुनी ॥

विश्वप्रकाशः।
फाल्गुनः कथितः पार्थे नदीजे ककुभेऽपि च ॥ ६९ ॥
वेष्टनं कर्णशष्कुल्यामुष्णीषे परिवारणे ॥
गोस्तनो हारभेदे स्याद् द्राक्षायां गोस्तनीति च ॥ ७० ॥
कल्पनं कर्त्तने क्लृप्तौ सज्जनायान्तु कल्पना ॥
कर्त्तनं छेदने प्राहुर्नारीणां तूलसेवने ॥ ७१ ॥
लङ्घनन्तूपवासे स्यात् क्रमणे प्लवनेऽपि च ॥
मण्डनं स्यादलङ्कारेऽलङ्करिष्णुनि वाच्यवत् ॥ ७२ ॥
भण्डनं कवचे युद्धे खलीकारे च वर्तते ॥
मुण्डन वपने त्राणे हिण्डिनं लेखने रते ॥ ७३ ।।
अङ्गनं प्राङ्गने याने कामिन्यामङ्गना मता ॥
गन्धनं सूचनोत्साहहिंसनेषु प्रकाशने ॥ ७४ ॥
नन्दनं वासवोद्याने नन्दनो हर्षके सुतै ॥
स्यन्दनन्तु सृतौ नीरे स्यन्दनस्तिनिशे रथे ॥ ७ ॥
क्रन्दनं रोदने हाने चन्दनं मलयोद्भवे ॥
चन्दनः कपिभेदे स्यानदीभेदे तु चन्दनी ॥ ७६ ॥
वर्द्धनं छेदने वृद्धौ वारिधान्यान्तु वर्द्धनी ।।
व्यञ्जनं तेमने चिह्ने श्मश्रुण्यवयवेऽपि च ।। ७७ ।।
रजनो रागरजने रञ्जनं रक्तचन्दने ।
गुञ्जारोचनिकानीलीमाधिष्ठासु च रञ्जनी ॥ ७८ ॥
अञ्जनं कज्जले चाङ्के सौवीरे च रसाञ्जने ॥
अञ्जनो दिग्गजे जेष्टयामञ्जनाऽप्यनिलस्त्रियाम् ॥ ७९ ॥
अञ्जनी लेपनायां स्याद् गृजनस्तु रसोनके ।।
विषदिग्धपशोमांसे गुञ्जनश्च प्रकीर्तितम् ॥ ८०॥
लेखनं छदने भूजें लिपिन्यासे च लेखनम् ।।
योजनश्च चतुष्क्रोश्यां योगे च परमात्मनि ॥ ८१ ॥

९२ विश्वप्रकाशः। गर्जनं निस्वने कोपे वर्जनं त्यागहिंसयोः ॥ मार्जनं कथितं माष्टौं मार्जनो लोध्रशाखिनि ॥ ८२ ॥ सज्जनो वाच्यवत् साधौ सज्जनं घट्टगुल्मके ॥ सज्जना कल्पनायान्तु भाजनं योग्यपात्रयोः ॥ ८३॥ अर्जुनः ककुभे पार्थे कार्तवीर्य्यमयूरयोः ॥ मातुरेकसुते च स्यादर्जुनो धवलेऽन्यवत् ॥ ८४ ॥ अर्जुनन्तु तृणे नेत्रगदे चाऽप्यार्जुनी गवि ॥ उषायां करतोयायां कुट्टन्यामपि च कचित् ॥ ८५ ॥ वृजिनं कल्मषे कशे वृजिनः कुटिलेऽन्यवत् लाञ्छनं लक्षणे नाम्नि बन्धनं वधबन्धयोः ॥८६॥ जगग्नुरग्नौ जन्तौ च मेहनं मूत्रशिश्नयोः ॥ प्रसून वाच्यवज्जाते प्रसूनं फलपुष्पयोः॥ ८७ ॥ कानीनः कन्यकाजाततनये व्यासकर्णयोः॥ काननं विपिने गेहे परमेष्ठिमुखेपि च ॥८८ ॥ काञ्चनः काञ्चनारे स्याच्चम्पके नागकेशरे ॥ उदुम्बरे च पुन्नागे हरिद्रायाञ्च काञ्चनी ॥ ८९ ॥ काञ्चनं हेन्नि किञ्जल्के पुन्नागे काचभाजने ॥ गोलके चाथ शकुनिः सौबले करणे खगे ॥ ९० ॥ रोचनो रक्तकहारे रोचनः कूटशाल्मलौ ॥ मङ्गल्येऽपि च गोपित्ते रोचना रुचिरस्त्रियाम् ॥ ९१ ॥ व्यसनन्त्वशुभे सक्तौ पानस्त्रीमृगयादिषु ॥ दैवानिष्टफले पापे विपत्तौ निष्फलोद्यमे ॥ ९२॥ उदानोऽप्युदरावर्ते मरुत्सर्पविशेषयोः॥ उद्धानमुद्गते चुल्ल्यां विलग्नो मध्यलग्नयोः॥ ९३ ॥ सन्धानं स्यादभिषवे तथा सङ्घटनेऽपि च ॥

विश्वप्रकाशः।
९
३
राधनं राधने प्राप्तौ राधनं तोषणेऽपि च ॥ ९४ ॥
साधनं निर्वृतौ मेण्ढ़े सैन्ये सिद्धौ गतौ वधे ।।
उपाये मृतसंस्कारे दापनेऽनुगमे धने ॥१५॥
प्रधानः स्यान्महामात्ये प्रकृतौ परमात्मनि ॥
प्रज्ञायाश्च प्रधानं स्यादेकत्वेऽनुसदोत्तमे ॥ ९६ ॥
ग्रामीनो ग्रामसम्भूते ग्रामीनः शुनिवायसे ॥
पाठीनो मीनभेदे स्यात् पाठके गुग्गुलुगुमे ॥ ९७ ॥
कौलीनः स्यात् कुलीनत्वे गुह्ये जन्ये कुकर्माणि ।।
कौशेयके विहङ्गादिपशूनां सङ्गरेऽपि च ॥ ९८॥
कौपीनं स्यादकार्ये च गुह्यचीरप्रदेशयोः ।।
विक्लिन्नो जरया जीर्णे शीर्णे चाट्टै च वाच्यवत् ॥ ९९ ।।
आपन्नः सविपत्तौ स्यात् माप्ते वाच्यवदीरितः॥
विपन्नः कथितो नष्टे विपन्नश्च भुजङ्गमे ॥ १०॥
विच्छिन्नञ्च समालब्धे विपन्ने कुटिलेऽन्यवत् ॥
सम्पन्नं साधिते प्रोक्तं सम्पचिसहितेऽन्यवत् ॥ १०१ ॥
तमोघः सूर्यवहीन्दुबुद्धशङ्करविष्णुषु ॥
विषघ्नाख्या शिरीषे स्यात्रिवृताऽमृतयोरपि ॥ १०२॥
शिखी वह्नौ बलीव शरे केतुग्रहे द्रुमे ॥
केकिकुक्कुटयोश्वाञ्च शिखी चूडान्वितेऽन्यवत् ॥.१०३ ॥
शाखी स्यात् पादपे वेदे तुरुष्का यजदेऽपि च ।।
खड़ी खगायुधे गण्डे शृङ्गी नागद्रुमाद्रिषु ॥ १०४ ॥
चक्री कुलालवैकुण्ठे कोकाहिग्रामजालिषु ॥
धन्वी धनुर्धरे पार्थे विदग्धे ककुभद्रुमे ।। १०५ ॥
कृती स्यात् पण्डिते योग्ये पाशी पाशधरेऽप्पतौ ॥
नन्दी हरमतीहारे गर्दभाण्डे वटद्रमे ॥ १०६॥

९४ विश्वप्रकाशः। नन्दिनी तु ननन्दायां धेन्वां. सुरसरित्यपि ॥ रोही रोहितकेऽश्वत्थवटपादपयोरपि ॥ १०७ ॥ हली बले कृषीके स्यादली वृश्चिकभृङ्गयोः॥ वर्णी स्याल्लेखके चित्रकरेऽपि ब्रह्मचारिणि ॥ १०८॥ शिल्पी स्याद्वाच्यवत् कारौ नायिकायाञ्च शिल्पिनी ॥ कामी स्यात् कामुके चक्रवाके पारावतेऽपि च ॥ १०९ ॥ गोमी तु पाशके पूरौ वाग्मी वाचस्पतौ पटौ ॥ चर्मी फलकपाणौ स्याद्भूर्जे भृङ्गरटावपि ॥ ११० ॥ अर्थी स्याद्याचके यज्ञे सेवके च विवादिनि । स्वामी प्रभौ विशाखे च रागी रक्ते च कामुके ॥ १११ ॥ ध्वजी शैले रथे विमे भुजङ्गमतुरङ्गयोः ॥ भोगी भुजङ्गमे राज्ञि ग्रामिण्यां नापितेऽपि च ॥ ११२ ॥ विहाय महिषीञ्चान्यराजयोषिति भोगिनी ।। युवा त्वभिनवे भानौ प्रेत्वा मरुति सारके ॥ ११३ ॥ राजा प्रभौ नृपे चन्द्रे यक्षे क्षत्रियशक्रयोः॥ अध्वा वर्त्मनि संस्थाने साश्रवस्कन्धकालयोः ॥ ११४ ॥ धन्वा जङ्गलदेशे स्याद्धन्वचापे स्थलेऽपि च ॥ आत्मा देहमनोब्रह्मस्वभावधृतिबुद्धिषु ॥ ११५ ॥ प्रयत्ने चाऽप्यथ ग्रावा प्रस्तरे जलदे गिरौ। ब्रह्माविरिश्चद्विजयोर्कत्विकचन्द्रार्कयोगयोः ॥ ११६॥ ब्रह्ममोक्तं तपोऽध्यात्मवेदज्ञानेषु सूरिभिः ॥ अर्धा च कुक्षिते वाहे वृषा कर्णमहेन्द्रयोः ॥ ११७ ॥ युवा स्यात्तरुणे श्रेष्ठे निसर्गबलशालिनि ॥ पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावे लक्षणान्तरे ॥ ११८ ॥ दर्शप्रतिपदोः सन्धौ विषुवत्प्रभृतिष्वपि ॥

विश्वप्रकाशः।
भर्म स्वर्णे भृतौ भारे चर्म स्यादकलत्वचोः ॥ ११९ ॥
कर्म व्याप्ये क्रियायाञ्च वर्त्मनेत्रच्छदाध्वनोः ।।
वर्म देहे प्रमाणातिसुन्दराकारयोरपि ॥ १२० ॥
सम स्यान्मन्दिरे नीरे छम साध्यापदेशयोः ।।
धाम देहे गृहे रश्मौ स्थाने जन्मप्रभावयोः ॥ १२१ ॥
प्रेम नर्मणि च स्नेहे व्योम वारिविहायसोः ।।
पक्ष्म सूत्रादिसूक्ष्मांशे किञ्जल्के नेत्रलोमनि ।। १२२ ॥
लक्ष्मि चिह्न प्रधाने स्यादशनिः पतिविधुतोः॥
अरनिः कफणौ हस्ते सप्रकोष्ठतताङ्गुलौ ॥ १२३ ॥
सेनानीः कार्तिकेये स्यात्तथा सेनापतावऽपि ॥
हादिनी वज्रतडितोः कामिनी भीरुवन्दयोः॥ १२४ ॥
वाहिनी स्यात्तरङ्गिण्यां सेनासैन्यप्रभेदयोः॥
वर्चनी तर्कुपिण्डे स्याद्वर्तनी मालने पथि ॥ १२५ ॥
बोधनी बोधपिप्पल्योर्बोधनं गन्धबोधने ।।
वाणिनी नर्तकीमत्तविदग्धवनितासु च ॥ १२६ ॥
रजनी नीलिकालाक्षाहरिद्रायामिनीषु च ॥
नलिनी पद्मिनीपद्मव्योमसिन्धुसरोवरे ॥ १२७॥
नलिकायाञ्च नलिनी नलिनं कमले जले ॥
मालिनी वृत्तभेदे स्यान्मालाकारस्त्रियामपि ॥ १२४ ॥
चम्पानग- गौर्याच मन्दाकिन्याञ्च मालिनी ॥
शङ्खिनी श्वेतपुन्नागे चौरपुष्प्यां वधूभिदि ॥ १२९ ॥
पद्मिनी स्त्रीविशेषे स्यात् सरस्यामम्बुजेऽपि च ॥
इस्तिनी गजयोषायां नारीभेदे च हस्तिनी ।। १३० ।।
सन्धिनी तु वृषाक्रान्ताकालदुग्धगवोः स्मृता ॥
भट्टिनी द्विजभाच्यां नाव्योक्तौ राजयोषिति ॥ १३१ ॥

विश्वप्रकाशः। रेचनी त्रितादन्ती गुडरोचनिकासु च ॥ अर्शोघ्नी तालमूल्यां स्यादर्शोन्नः शूरणेऽपि च ॥ १३२ ॥ शतघ्नी शस्त्रभेदे स्याद् वृश्चिकाल्यां करञ्जके ॥ असिनी स्यादवृद्धान्तःपुरप्रेष्यस्त्रियां धुनौ ॥ १३३ ।। सूचनाव्यधने दृष्टौ गन्धनेऽभिनयेऽपि च ॥ भावना लेपने ध्याने वेदना ज्ञानदुःखयोः ॥ १३४ ॥ कुहना दम्भचर्यायामीालौ कुहनः पुनः ॥ पूतना राक्षसीभेदे हरीतक्याञ्च पूतना ॥ १३५ ॥ पृतनाऽनीकनीसेना चमूसैन्यान्तरेऽपि च ॥ चेतना संविदि प्रोक्ता वाच्यवत् प्राणिनि स्मृता ॥१३६॥ प्रसन्ना मदुरायाञ्च प्रसादसहितेऽन्यवत् ।। ललना नाडिकाभेदे जिह्वायां वरयोषिति ॥ श्लेष्मनी कथिता मल्ल्यां कम्पिल्लकफणिज्जयोः॥१३७॥ नचतुष्कम् ॥ महाधनं महामूल्ये सुवस्त्रे सिल्हकेऽपि च ॥ तपोधनस्तापसे स्यान्मुण्डीर्याश्च तपोधना ॥ १३८॥ आराधनं तोषणे स्यात् प्राप्तौ च पचनेऽपि च ॥ उपधानं विशेषे च गेडुके प्रणयेऽपि च ॥ १३९ ॥ प्रणिधानं प्रयत्ने स्यात् प्रवेशे च समाहितौ ॥ आयोधनं वधे युद्धेऽवलग्नो मध्यलग्नयोः ॥ १४०॥ अभिजनः कुले ख्यातौ जन्मभूम्यां कुलध्वजे ॥ भवेत् पुण्यजनो यक्षे राक्षसे सज्जनेअपि च ॥ १४१ ॥ विसर्जनं परित्यागे दाने सम्प्रेषणेऽपि च ॥ पृथग्जनः स्मृतो नीचे मूर्खे चाऽथ प्रयोजने ॥ १४२ ॥ कायहेत्वोर्निधुवनं सुरते कम्पनेऽपि च ॥

विश्वप्रकाशः।
अनूचानो विनीते स्यात् साङ्गवेदविचक्षणे ॥ १४३ ॥
अपाचीनमवागर्थे विपर्यस्ते च वाच्यवत् ।।
प्रवचनं स्मृतं वेदे प्रकृष्टवचनेऽपि च ॥ १४४ ॥
वैरोचनस्तु सुगते बलिदैत्यार्कपुत्रयोः ।
विरोचनोऽके दहने चन्द्रे प्रहादनन्दने ॥ १४९ ।।
आतञ्चनं प्रतीवापजवनाप्यायनेषु च ॥
अभिपन्नोऽपराध्येऽभिद्रुते ग्रस्ते विपद्ते ॥ १४६ ॥
प्रतिपन्नः स्मृतो धीरैर्विज्ञातेऽङ्गीकृतेऽपि च ॥
समापन्नं समासे स्यात् प्राप्ते क्लिष्टे वधेऽपि च ॥ १४७ ॥
भवेत् प्रजननं योनौ जन्मनि प्रगमेऽपि च ॥
आकलनं विबन्धे स्यादाकासापरिसङ्घययोः ॥ १४८ ॥
सम्मूर्छनमभिव्याप्तौ सम्मू.मोहयोरपि ।
निर्यातनं वैरशुद्धौ दाने न्यासार्पणे मतौ ॥ १४९ ॥
कपीतनं गईभाण्डशिरीषाम्रातकेषु च ।।
अश्वत्थे च समुत्थानमुद्यमे रोगनिर्णये ॥ १५० ॥
आच्छादनं सम्पिधाने स्मृतं वस्त्रे प्रवारणे ॥
राजादनं क्षीरिकायां प्रियाले किंशुकेऽपि च ॥ १५१॥
क्रौञ्चादनस्तु पिप्पल्यां चिश्चोटकमृणालयोः ।
उत्सादनं समुल्लेखोद्वाहनोद्वर्त्तनेषु च ॥ १५२ ।।
वृक्षादनश्चलदले मधुक्षुद्रकुठारयोः ॥
वृक्षादनी स्मृता वन्दाविदारीगन्धयोरपि ॥ १५३ ॥
सदादानोऽभ्रमातङ्गे हेरम्बे गन्धहस्तिनि ।।
अवदानमितिवृत्ते कर्मखण्डनयोरपि ॥ १५४ ॥
कुचन्दनञ्च पत्राओं द्रुभेदे रक्तचन्दने ।
आस्कन्दनं तिरस्कारे रणे संशोषणेऽपि च ॥१५५ ॥

९८ विश्वप्रकाशः। संवननं समालोचे वशीकारे प्रकीर्तितम् ।। विहेठनन्तु हिंसायां मर्दने च विडम्बने ॥ १५६ ॥ जलाटनो लोहपृष्ठे जलौकायां जलाटनी ॥ प्रस्फोटनं भवेत् सूर्प ताडने च प्रकाशने ॥ १५७ ॥ उत्पतनं समुत्पत्तौ तथार्द्धगमनेऽपि च ॥ उद्वर्तनं सोत्पतनेऽप्यपावृत्तौ विलेपने ॥ १५८ ॥ समादानं समीचीनग्रहणे नित्यकर्मणि ॥ संयमनी व्रते पुर्या संयमनी यमस्य च ॥ १५९ ॥ निशमनं स्तुतौ दृष्टौ दृष्ट्यालोचे निशामनम् ॥ प्रतिमानं प्रतिच्छायागजदन्तान्तरालयोः ॥ १६० ॥ अभिमानः स्मृतो ज्ञाने वर्गे प्रणयहिंसयोः । अधिष्ठानं पुरे चक्रे प्रभावेऽध्यासनेऽपि च ॥ १६१ ॥ वर्द्धमानः पुष्टिभेदे शरावैरण्डविष्णुषु ॥ मालुधानश्चित्रसचे मालुधानी लतान्तरे ॥ १६२ ॥ प्रतियत्नस्तु संस्कारलिप्तोपग्रहणेषु च ॥ भवेदुदयनो वत्सराजेऽगस्त्यमुनावऽपि ॥ १६३ ॥ विहननं विघाते स्यात् पिञ्जने तूलधूनने ॥ संवाहनं वाहनेऽपि भारादेरङ्गमईने ॥ १६४ ॥ उदाहनं दिशीत्ये स्याद्रज्जावुद्वाहिनी मता ॥ महासेनो विशाखे स्यान्महासैन्यपतावपि ॥ १६५ ॥ रसायनं विडङ्गे स्याद्राजव्याधिजितौषधे ॥ रसायनः पक्षिराजे विषेऽपि च रसायनम् ॥ १६६ ॥ कात्यायनो वररुचौ गौर्या कात्यायनी मता ॥ काषायवस्खविधवा जरत्यामपीष्यते ॥ १६७ ॥ मुदर्शनो हरेश्चक्रेऽमरावत्यां सुदर्शना ॥

विश्वप्रकाशः।
९९
आज्ञायामोषधीभेदे मरुजम्ब्बां सुदर्शना ॥ १६८ ॥
निर्भर्त्सनं खलीकारेऽलक्तके च समापनम् ।।
परिच्छेदे समाप्तौ च समाधाने प्रमापणे ॥ १६९ ॥
अन्वासनं स्नेहवस्तावुपास्तावनुशोचने ॥
उपासनं शराभ्यासे शुश्रूषायाञ्च हिंसने ।। १७० ।।
निरसनं निरासे स्याधे निष्ठीवनेऽपि च ॥
निर्वासनं हिंसने च नगरादेवहिष्कृतौ ॥ १७१ ॥
आवेशनं शिल्पिगृहे भूतावेशप्रवेशयोः ।।
सारसनं मेखलायामरस्त्रे च तनुत्रिणाम् ॥ १७२ ॥
प्रहसनं भवेद्भङ्गे प्रहासाक्षेपयोरपि ।
वारासनं वा:सदने शूल्मपद्वारपालयोः ॥ १७३ ॥
घनाघनो धातुकमत्तदन्तिनो-
निरन्तरे वासववर्षकाब्दयोः॥
सनातनः शाश्वतकंसवैरिणोः
शिवे पितॄणामतिथौ सुनिश्चले ॥ १७४ ॥
सुयामुनो वत्सराजे प्रसादेऽभ्यन्तरेऽच्युते ॥
विस्मापनाख्या कुहके गन्धर्वनगरे स्मरे ॥ १७५ ॥
मुकर्मा ग्रहयोगे स्यात् सुकर्मा देवशिल्पिनि ॥
दुर्नामाख्यातिगुदजदीर्घकोशिकयोरपि ॥ १७६ ॥
द्विजन्मा दशने विप्रे भूतात्मा पुगले विधौ ।।
आर्यमा सूर्यभक्तायां सूर्ये च पितृदैवते ॥ १७७ ॥
सुदामा भूधरे मेघे विश्वग्ज्ञाऽनलचन्द्रयोः ॥
सुधन्वा प्रौढधानुष्क सुधन्वा विश्वकर्मणि ॥ १७८ ॥
वनश्वा गन्धमार्जारे बन्धकव्याघ्रयोरपि ॥
परिश्वा ऋतुकर्मज्ञे याज्ञिके परिचारके ॥ १७९ ॥

विश्वप्रकाशः। अथर्वा ब्राह्मणे वेदे त्वऽथर्व परिकीर्तितम् ॥ सुपर्वा त्रिदशे वंशे शरे धूमेऽपि पर्वणि ॥ १८० ॥ ललाम च ललामञ्च लाञ्छनध्वजवाजिषु ॥ शृङ्गे प्रधाने भूषायां रम्ये बालधिपुण्ड्रयोः ॥ १८१॥ प्रभावे च कलापी तु प्लक्षबर्हिणयोरपि ॥ प्रत्यर्थी कथितः शत्रौ प्रत्यर्थी प्रतिवादिनि ॥ १८२ ॥ केशरी तुरगे सिंहे पुन्नागे नागकेशरे । शिखरी पादपे शैले तथाऽपामार्गकोट्टयोः ॥ १८३ ॥ शृङ्गारी तु सुवेशे स्यात् क्रमुके च मतङ्गजे ।। विलासी भोगिनि व्याले पलाशी वृक्षरक्षसोः ॥ १८४ । शिखण्डी तु मयूरे स्याद्वाणक्षत्रियभेदयोः॥ कलापे चाऽथ गुञ्जायां यूथिकायां शिखण्डिनी ॥ १८५ ॥ विषयि त्विन्द्रिये ख्यातं वाच्यवद्विषयान्विते ॥ व्यवायी कामपे द्रव्यविशेषे च समीरितः ॥ १८६ ।। तपस्वी तापसे चानुकम्पके च तपस्विनी ॥ मांसिका कटुरोहिण्योस्तरस्वी वेगिशूरयोः ॥ १८७ ॥ लाङ्गली बलभद्रे स्यानारिकेले च लागली ॥ कुण्डली वरुणे केकिभोगिनोश्च सकुण्डले ॥ १८८ ॥ चोलकी तु करीरे स्यानारङ्गे किष्कुपर्वणि ॥ फलकी स्यादल्लिसाख्यमत्स्ये फलकपाणिके ॥ १८९ ॥ कञ्चुकी भुजगे षिङ्गे मल्ले जाङ्गलिकद्रुमे ।। सामयोनिस्तु सामोत्थे सामयोनिगंजे विधौ ॥ १९० ॥ कुम्भयोनिरगस्त्ये स्यादर्जुनस्य गुरावपि ॥ आत्मयोनिर्विधौ कामे चित्रभानुः खगेऽनले ॥ १९१ ॥ महामुनिरगस्त्ये स्यादन्याकागस्त्ययोरपि । -- विश्वप्रकाशः। १०१ कलध्वनिः कोकिले स्यात् पारावतमयूरयोः ॥ १९२॥ गदयित्नुः स्मृतः कामे जल्पके कामुकेऽपि च ॥ मदयित्नुर्भवेत् सीधौ मद्ये स्यान्मदयित्नु च ॥ १९३ ॥ हर्षयित्नु सुते हेनि घोषयित्नुर्द्विजे पिके ॥ स्तनायित्नुः पयोवाहे तद्धनौ मृत्युरोगयोः ॥ १९४ ॥ विष्वक्सेना फलिन्यां स्याद्विश्वक्सेनो जनाईने । देवसेनेन्द्रवाहिन्यां सेनायाञ्च दिवौकसाम् ॥ १९५ ॥ नागाङ्गना नागयष्टिकरिमुद्गारिकाख्ययोः॥ श्लेष्मघना माल्लिकायां केतक्यामपि कथ्यते ॥ १९६ ॥ प्रसाधिनी कङ्कतिका सिद्धौ वेशे प्रसाधनम् ।। सामिधेनी ऋचि प्रोक्ता सामधेनी समिध्यऽपि ॥ १९७ ॥ सरोजिनी स्यात् कासारे पद्मिनीपद्मयोस्तथा । विलेपनी स्यात्तुरला सुवेशाङ्गनयोरपि ॥ १९८ ॥ मातुलानी कलापे स्याद्भङ्गायां मातुलस्त्रियाम् ।। पयस्विनी तु गोधेन्वां विभावों पयस्विनी ॥ १९९ ॥ गवादनीन्द्रवारुण्यां गवां घोषादनाश्रये ॥ सौदामिन्यऽप्सरोभेदे तडित्त दयोरपि ॥ २०० ॥ नपञ्चकम् ॥ पीतचन्दनमित्येतत् कालीयकहरिद्रयोः । वरचन्दनमाख्यातं कालीये देवदारुणि ॥ २०१॥ हरिचन्दनमाख्यातं गोशीर्षे सुरपादपे ॥ ज्योत्स्नायां कुङ्कुमे चाऽतिसर्जनं वधदानयोः॥ २०२ ॥ मधुसूदनसंज्ञा च भ्रमरे वनमालिनि ॥ स्यान्मृत्युवश्चनः शम्भौ श्रीफलद्रोणकाकयोः ॥२०३ ।। स्यादपवर्जनं मोक्षे परित्यागे विहायिते ॥

१०२ विश्वप्रकाशः। अपसर्जनमास्नाते परिवर्जनदानयोः ॥ २०४ ॥ महारजनमुद्दिष्टं शातकुम्भकुसुम्भयोः॥ स्यात् प्रतिपादनं दाने प्रतिपत्तौ च बोधने ॥ २०५ ॥ गन्मादनमित्याहुर्गन्धके वानरान्तरे ॥ आदिभेदे च भृङ्गे च सुरायां गन्धमादनी ॥ २०६॥ स्यादनुवासनं स्नेहकर्मधूपनयोरपि । श्वेतवाहन इत्याख्या सुधाधाम्नि धनञ्जये ॥ २०७ ॥ हरिवाहन इत्युक्तः शचीपतिविवस्वतोः ।। अभिनिष्ठानशब्दोऽपि विसर्जनीयेऽक्षरे मतः ॥ २०८ धूमकेतनमिच्छन्ति हुताशग्रहभेदयोः ।। स्यादुपस्पर्शनं स्पर्शे स्नानाचमनयोरपि ॥ २०९ ॥ शिवकीर्तननामाऽपि भृङ्गरीटेऽसुरद्विपि ॥ शालङ्कायनशब्दः स्यादृषिभेदे च नन्दिनि ॥ २१० ॥ स्यात्पद्मलाञ्छनाभिख्या विधौ लोकेश्वरार्कयोः॥ धनदे च सरस्वत्यां तारालक्ष्म्योरपि स्मृता ॥ २११ । स्यात् षष्ठहायनो धान्यविशेषेऽपि मतङ्गजे ॥ जानीयादुपसम्पन्नं निहिते च सुसंस्कृते ॥ ३१२॥ विश्वकर्मा देवाशल्पि मुनिभेदोष्णरश्मिषु ॥ कृष्णवा हुताशे स्याद् दुराचारे विधुन्तुदे ॥ २१३ अग्रजन्मा द्विजे ज्येष्ठभ्रातरि ब्रह्मणि स्मृतः॥ श्वेतधामा कलानाथे घनसाराधिभेदयोः॥ २१४ ।। तिक्तपर्वा तु यष्ट्याहगुडूचीहिलमोचिषु ॥ विष्कुपर्वा भवेद्वेणाविक्षौ पोटगलेऽपि च ॥ २१५ ।। वृषपर्वा हरे दैत्ये शृङ्गारुणि कसेरुणि ॥ व्योमचारी खगे देवे चिरजीवी द्विकाकयोः ॥२१६ ।

विश्वप्रकाशः। १०३ कारन्धमे कांस्यकारे धातुवादरतेऽपि च ॥ वनमाली तु गोविन्दे वाराह्यां वनमालिनी ॥ २१७ ॥ प्रचलाकी भुजङ्गे स्याच्चित्रमेखलकेपि च ।। सम्प्रयोगी कलाकेलौ कामुके सुप्रयोजके ॥ २१८ ॥ अन्तेवासी भवेच्छिष्ये चाण्डाले प्रान्तगेऽपि च ॥ विघ्नकारी स्मृतो घोरदर्शनेऽपि विघातिनि ॥ २१९ ॥ कामचारी तु कमने स्वच्छन्दकलविङ्कयोः । हृष्टशृङ्गी भवेदंशे नारीपण्डे वृकोदरे ॥ २२० । शकुलादन्यभिख्या तु मांसीपिचुलिकाहयोः । कटुकाजलपिप्पल्योः कथ्यते शकुलादिनी ।। २२१ ॥ स्याद्वरवर्णिनी लाक्षाहरिद्रारोचनासु ॥ स्त्रीरत्ने च फलिन्याश्च दृश्यते वरवर्णिनी ॥ २२२ ॥ नषट्कम् ॥ अन्तावसायी श्वपचे मुनिभेदे च नापिते ।। जायानुजीवी तु नटे दुर्गताश्विनयोर्बके ।। २२३ ॥ सहस्रवेधी स्यादम्लवेतसे रामटेऽपि च ॥ कलानुनादी रोलम्बे कलविते कपिञ्जले ॥ २२४ ॥ इति नान्तवर्गः॥ - पद्विकम् ॥ रूपं स्वभावे सौन्दर्ये नामके पशुशब्दयोः ।। ग्रन्थावृत्तौ नाटकादावाकारश्लोकयोरपि ॥१॥ रेपः स्मानिन्दिते क्रूरे रोपो रोपणवाणयोः ।। सुपो व्यञ्जनभेदे स्यात् सूपकारे च कीर्तितः ॥ २ ॥ छुपः क्षुपस्पर्शनयोश्चुपः पवनयुद्धयोः॥

OM विश्वप्रकाशः। - । कूपः कूपकगर्ताम्बुमृन्मानगुणक्षके ॥३॥ तापोऽस्तितापे दवयौ तापी तु सरिदन्तरे ।। शापः शपथ आक्रोशे त्रपुसीसकरङ्गयोः ॥४॥ स्वापः स्पर्शाज्ञतानिद्राशयनाशनमात्रके ॥ नीपो धूलिकदम्बे स्यानीलाशोके च धन्विनि ॥५॥ गोपो ग्रामौघगोष्ठाधिकृतयोवल्लवे नृपे ॥ गोपी गोपालमहिला शारिबारत्तिकासु च ॥६॥ क्षेपो विलम्बे निन्दायां हेलापे रणलङ्घने ॥ गर्वेऽपि लेपस्तु सुधाभोजनालेपनेषु च ।। ७ ।। तल्पन्तु शयनीये स्यातल्पमट्टकलत्रयोः॥ कल्पः स्यात् प्रलये न्याये शास्त्रे ब्राह्मदिने विधौ ॥ ८॥ दर्पोऽहङ्कारकस्तूर्योर्वाष्पो नेत्रजलोष्मणोः ॥ पुष्पं विकाशे कुसुमे स्त्रीणाञ्च रजसि स्मृतम् ॥९॥ शष्पं स्यात् प्रतिभाहानौ शष्पं बालतृणेऽपि च ॥ शष्पः स्तवे क्रियायोग्ये शष्पः क्रोधे बलात्कृतौ ॥१०॥ कृपा दयायां व्यासर्षों कृपो भारतपूरुषे ॥ त्रपा लज्जाकुलटयोर्वपा विवरभेदसोः॥११॥ पत्रिकम् ॥ कृतपः स्यात् कुशे वाद्ये तपने छागकम्बले ॥ कृतपो भागिनेये स्यादष्टमांशे दिनस्य च ॥ १२ ॥ कुटपो मानभेदे स्यात् कुटपो निष्कुटे मुनौ ॥ विटपः पल्लवे शृङ्गे विस्तारे स्तम्बशाखयोः ॥ १३ ॥ उलपस्तृणभेदे स्याद् गुल्मिन्यामुलपः स्मृतः॥ उडुपस्तु वे चन्द्रे प्रपातः स्वेदतेजसोः॥ १४ ॥ रक्तपो रक्षसि प्रोक्तो जलौकायान्तु रक्तपा ॥

विश्वप्रकाशः। १ जिह्वापः शुनि मार्जारे व्याघ्रचित्रकयोरपि ॥१५॥ काश्यपः स्यान्मुनौ मानभेदे भूमौ तु काश्यपी ॥ पादपः पादपीठेऽद्रौ पादुकायान्तु पादपा ॥ १६ ॥ अनूपं महिषे विद्याज्जलपाये तु वाच्यवत् ॥ आवापो भाण्डपवने परिक्षेपालवालयोः॥ १७॥ आक्षेपो भर्त्सनाकृष्टिकाव्यालङ्कतिषु स्मृतः ॥ एकोक्त्या कशिपुर्भक्त्या छादने च द्वयोः पृथक् ॥ १८ ॥ आकल्पः कल्पने वेशे विकल्पो भ्रान्तिपक्षयोः॥ कच्छपी वल्लकीभेदे दुलौ क्षुद्रगदान्तरे ॥ १९ ॥ मल्लबन्धविशेषेऽपि कच्छपः कुणपी पुनः॥ विदशारिकायां कुणपः पूतिगन्धौ शवेऽपि च ।। कलापो भूषणे बहे तूणीरे संहतेऽपि च ॥ २० ॥ पचतुष्कम् ॥ प्राप्तरूपो बुधे रम्येऽप्यभिरूपः सुरूपवत् बहुरूपः शिवे विष्णौ धूनके सरटे स्मरे ॥ २१ ॥ वृकधूपस्तु सरले द्रवकृत्रिमधूपयोः ॥ परिवापस्तु पर्याप्तौ जलस्थाने परिच्छदे ॥ २२ ॥ उपतापस्त्वरायां स्यादुत्तापगदयोरपि । अवलेपस्तु गर्वे स्याल्लेपने दूषणेऽपि च ॥ २३ ॥ विप्रलापो विरोधातावपार्थवचनेऽपि च ॥ वृषाकपिः शिवे कृष्णे ज्वलने च वृषाकपिः ॥ २४ ॥ परिकम्पो भवे कम्पेऽपलापः प्रेम्ण्यपनवे ॥ बीजपुष्पं मरुवके तथा दमनकेऽपि च ॥ २५ ॥ हेमपुष्पं जवापुष्ये चम्पकाशोकयोर्मतम् ॥ नागपुष्पस्तु पुन्नागे नागकेशरचम्पके ॥ २६ ॥ ॥

विश्वप्रकाशः।
पिण्डपुष्पमशोके च जवायाञ्च कुशेशये ।।
मेघपुष्पन्तु पिण्डाभ्रे नादेयजलयोरपि ॥ २७ ॥
जलकूपी कूपगर्ने पुष्करिण्याच कथ्यते ॥
पपञ्चकम् ॥
भवेच्चामरपुष्पस्तु चूते केतकहासयोः॥ २८ ॥
इति पान्तवर्गः॥
फद्विकम् ॥
रेफो रवणे सम्पोक्तः कुत्सिते वाच्यवत् पुनः ॥
शर्फ मूले तरूणां स्याद्वादीनां खुरेऽपि च ॥१॥
गुफः स्याद्गुम्फने बाहोरलङ्कारे च कीर्यते ॥
शिफा जटायां सरिति मांसिकायाञ्च मातरि ॥२॥
इति फान्तवर्गः ॥
बद्विकम् ॥
पूर्वाख्या पूर्वजेषु स्यादने प्राचि च वाच्यवत् ।।
निम्बः स्यात् पिचुमर्दै च तिक्तके च चिरायते ॥१॥
बिम्ब फले बिम्बिकायां प्रतिबिम्बे च मण्डले ॥
हिम्बः स्यादिप्लवप्लीहोरेरण्डे पुप्फुसे भये ॥२॥
स्तम्बो गुल्मे तृणादीनामप्रकाण्डद्रुमेऽपि च ॥
शम्बः स्यान्मुषलाग्रस्थे लोहमण्डलके पवौ ॥३॥
शुभान्विते च खर्वः स्याद् हस्ते सङ्ख्यान्तरेऽपि च ।।
कम्बुः शम्बूकगजयोर्वीवानलकशङ्खयोः ॥४॥
जम्बूः सुमेरुसरिति द्वीप मविशेषयोः॥
कम्बिरंशे च वंशस्य खजाकायामपीष्यते ॥ ५॥

विश्वप्रकाशः। १०७ दर्बी भवेत् खजाकायां फणायामुरगस्य च ॥ दार्बी दारुहरिद्रायां देवदारुहरिद्रयोः । चार्वी तु शोभनादृद्ध्योलम्बा श्रीतिक्ततुम्बयोः ॥ ६ ॥ बत्रिकम् ॥ कदम्बमाहुः सिद्धार्थे नीपेऽपि निकुरम्बके ।। कादम्बः कलहंसेष्वोदिजिबो भुजगे खले ॥ ७ ॥ गजाबा करािपप्पल्यां गजावं हस्तिनापुरे ॥ नितम्बो रोधसि स्कन्धे शिखरेऽपि कटोरके ॥८॥ हेरम्बो विघ्नराजे स्यात् कासरे शौर्यगर्विते ॥ कलम्बः शायके नीपे नालिशाबकलब्यपि ॥९॥ प्रलम्बो दैत्यभेदे स्याद् नालाइरससारखयोः ।। प्रलम्बो हारभेदे स्यात्रपुषेऽपि पयोधरे ॥ १० ॥ गन्धर्बो मृगभेदे स्यत् पुंस्कोकिलतुरङ्गयोः । अन्तराभवसत्त्वे च गायने खेचरेऽपि च ॥ ११ ॥ गोडम्बः शीर्णन्ते स्याद्वादन्याः फलेऽपि च ॥ भूजम्बूरपि गोधूमे विककृतफलेऽपि च ॥ १२ ॥ बचतुष्कम् ॥ ललज्जिबो मतो हिंस्र क्रमेलकशुनोरपि ।। शतपर्वा च दूर्वायां भार्गवेऽस्य स्त्रियामपि ॥ १३ ॥ राजजम्बूस्तु जम्बूभित्पिण्डखर्जूरयोः स्मृता ।। बपञ्चकम् ॥ धूलीकदम्बो नीपे स्यात्तिनिशे वरुणद्रुमे ॥ १४ ॥ गोरक्षजम्बूर्गोधूमे तथा गोरक्षतण्डुले । शुगालजम्बर्गोडुम्बे कापि घोण्टाफलेऽपि च ।। १५ ।। इति बान्तवर्गः॥

१०८
विश्वप्रकाशः।
भैककम् ॥
भः स्यान्मयूखे शुक्रे में नक्षत्रे च प्रकीर्तितम् ॥
भूः पृथिव्यां स्थानमात्रे-
भद्विकम् ॥
स्वभू र्वेधसि शार्जिणि ॥ १६ ॥
शुभो योगे शुभे क्षेमे निभो व्याजसदृक्षयोः ॥
विभुः शिवे प्रभौ नित्ये शम्भुब्रह्माहतोहरे ॥ १७ ॥
दम्भस्तु कैतवे कल्के डिम्भो बालिशपोतयोः ॥
जम्भो दैत्यान्तरे दम्भे जम्बीरे भक्षणेऽपि च ॥ १८ ॥
कुम्भः स्यात् कुम्भकर्णस्य सुते वेश्यासुते घटे ॥
राशिभेदे द्विपाङ्गे च कुम्भं त्रिवृति गुग्गुलौ ॥ १९ ॥
गर्भो भ्रूणेऽर्भके कुक्षौ सन्धौ पनसकण्टके ॥
जृम्भो मुखविकाशे च स्तम्भः स्थूणाजडत्वयोः॥२०॥
रम्भा कदल्यप्सरसो रम्भो वैणवदण्डके ॥
सभा सामाजिके द्यूते गोष्ठीमन्दिरयोरपि ॥ २१ ॥
शोभा कान्तीच्छयोरुक्ता दृम्भूः पन्नगवज्रयोः॥
नाभिः प्राण्यङ्गजे क्षत्रे चक्रान्तचक्रवर्तिनोः ।
नाभिः प्रधाने कस्तूरीमदे च कचिदीरितः ॥ २२ ॥
भत्रिकम् ॥
करा मणिबन्धादिकनिष्टान्ते तथोष्ट्रके ॥
करभः शरभस्त्वष्टापदे प्रोक्तो मृगान्तरे ॥२३॥
ऋषभः स्वरभेदे स्यादष्टवौषधे वृषे ॥
श्रेष्ठार्थे च वराहस्य पुच्छे रन्ध्रे च कर्णयोः ॥ २४ ॥
ऋषभी शूकशिम्ब्यां स्यान्नराकारस्त्रियामपि ॥
विधवायां शिरालायां वृषभः पुगचे वृषे ॥ २५ ॥

विश्वप्रकाशः। १०९ वल्लभो दयितेऽध्यक्ष कुलीनाश्वे च वल्लभः॥ दुर्लभः कर्चुरे न्याये दुष्पापे वल्लभेऽपि च ॥ २६ ॥ निकुम्भः कथितो दैत्ये कुम्भकर्णसुतेऽपि च ॥ कुसुम्भो हेमान महारजने च कमण्डलौ ॥ २७ ॥ विष्टम्भः प्रतिबन्धे च वैदर्भे च प्रयुज्यते ॥ विश्रम्भः केलिकलहे विश्वासे प्रणये वधे ॥ २८॥ विष्कम्भो योगभेदे स्याद्विस्तारप्रतिबन्धयोः ॥ रूपकाङ्गप्रभेदे च बन्धभेदे च योगिनाम् ॥ २९ ॥ ककुभो रागभेदेऽपि वीणाङ्गेऽर्जुनपादपे ॥ आरम्भस्तु तुरायां स्यादुद्यमे वधदर्पयोः ॥ ३०॥ सुरभिश्चम्पके स्वर्णे जातीफलवसन्तयोः॥ गन्धोत्पले सौरभेय्यां शल्लकीमातृभेदयोः ॥३१॥ सुगन्धे च मनोज्ञे च वाच्यवत् सुरभिः स्मृतः ॥ सनाभिः सदृशे ज्ञातावात्मभूर्वेधसि स्मरे ॥ ३२ ॥ वर्षाभूः पुनर्नवायां प्लवे किञ्चुलुकेऽपि च ।। दुन्दुभिर्दितिजे भे-मक्षबिन्दुत्रिकद्वये ॥ ३३ ॥ वैदर्भ वाक्यवक्रत्वे विदर्भश्च नृपान्तरे ॥ गईभो गन्धभेदे स्याद्गभं करवे खरे ॥ ३४ ॥ गईभो गईभी क्षुद्ररोगजन्तुविशेषयोः ॥ ककुब् शोभादिशोः शास्त्रे प्रवेण्यां चम्पकस्रजि ॥ ३५॥ भचतुष्कम् ॥ अवष्टम्भः मुवणे च स्तम्भप्रारम्भयोरपि ॥ शातकुम्भं सुवर्णे स्याच्छातकुम्भोऽश्वमारके ॥ ३६ ॥ इति भान्तवर्गः॥

११० विश्वप्रकाशः। मैककम् ॥ मः शिवे मा रमायाश्च मा निषेधेऽव्ययं मतम् ।। मद्विकम् ॥ किं स्याद्वितर्के प्रश्ने च क्षेपे निन्दाप्रकारयोः ॥१॥ दमस्तु दमथे दण्डे कर्दमे दमनेऽपि च ॥ गमो द्यूतप्रभेदे स्यादपर्यालोचितेऽध्वनि ॥२॥ द्रुमस्तरौ पारिजाते द्रुमः किम्पुरुषेश्वरे ॥ भ्रमोऽम्बुनिर्गमे भ्रान्तौ कुन्दाख्ये शिल्पियन्त्र के ॥ ३ ॥ हिमं शीते तुषारे च चन्दने च हिमं विदुः ॥ रमः कान्ते रमा लक्ष्म्यां रक्ताशोकझुमे स्मरे ।। ४॥ यमो दण्डधरे ध्वाञ संयमे यमजेऽपि च ॥ शरीरसाधनापेक्षनित्यकर्मणि चोच्यते ॥ ५॥ क्रमः शक्तौ परीपाठ्यां क्रमश्चलनकम्पयोः॥ क्षौममट्टे दुकूले स्यादतसीवसनेऽपि च ॥ ६॥ क्षेमा स्यान्मङ्गले लब्धरक्षणे चौरकेऽपि च ॥ क्षेमा धनहरीगौर्योः क्षमः ख्यातः क्षमान्विते ॥७॥ क्षितिः क्षान्तौ क्षमाख्याता हिते शक्ते च वाच्यवत् ।। आमो रोगे तद्विशेषे आमोऽपके च वाच्यवत् ॥ ८॥ कामः स्मरेऽभिलाषे च कामं रेतोनिकामयोः।। अव्ययन्त्वभ्यनुज्ञायां यामस्तु महरे व्रते ॥ ९ ॥ श्यामः स्यान्मेचके वृद्धदारके हरिते घने । वझुमे प्रयागस्य श्यामः श्यामा तु बल्गुलौ ॥१०॥ अप्रसूताङ्गनायाञ्च तथा सोमलतौषधौ ॥ त्रिता शारिबागुन्द्रानिशाकृष्णाभियङ्गुषु ॥ ११ ॥ श्यामा नील्याम्पिके श्यामं मरीचे लवणान्तरे।।

विश्वप्रकाशः।
१११
श्यामो दमनके गन्धतृणे श्यामेऽभिधेयवत् ॥ १२ ॥
गुल्मः स्तम्बे प्लीनि घट्टसैन्ययोः सैन्यरक्षणे ॥
गुल्मी स्यादामलक्येलापर्णिकावस्रवेश्मसु ॥ १३॥
जाल्म: स्यात् पामरे क्रूर जाल्मोऽसमीक्ष्यकारिणि ॥
ग्रामः स्वरे संवसथे वृन्दे शब्दादिपूर्वकः ॥ १४ ॥
भीमोऽल्पवेतसे शम्भौ घोरे चापि दृकोदरे ॥
युध्मः सङ्ग्रामघनुषो रिष्मः कामवसन्तयोः ॥१५॥
तोक्मं कर्णमले तोक्मो हरिते च हरिद्यवे ।।
रुक्मञ्च काश्चने लोहे खम्म क्षौमे च पौरुषे ॥ १६ ॥
धर्मः पुण्ये यमे न्याये स्वभावाचारयोः ऋतौ ॥
उपमायामहिंसायां चापे चोपनिगद्यते ॥१७॥
धर्मः स्यादातपे ग्रीष्मे उष्णस्वेदाम्भसोरपि ।
जिह्मस्तु कुटिले मन्दे जिलं तगरपादपे ॥ १८ ॥
सूक्ष्मं स्यात् कैतवेऽध्यात्मेऽप्यणौ सूक्ष्मोल्पकेऽन्यवत् ॥
भीष्मस्तु भीषणे दे गाड्ये च निशाचरे ॥ १९॥
शुष्मं तेजोऽर्कयोरुक्तं सूमं क्षीरे नभस्यऽपि ।
दस्मस्तु यजमाने स्यादपि चौरे हुताशने ॥२०॥
रामः पशुविशेषे स्याज्जामदग्न्ये हलायुधे ॥
राघवे चासितश्वेतमनोज्ञेषु च वाच्यवत् ॥ २१ ॥
रामाङ्गनाहिङ्गुलिन्यो रामं वास्तुककुष्ठयोः ।।
वामं सन्ये प्रतीपे च द्रविणे चाऽतिसुन्दरे ॥ २२ ॥
पयोधरे हरे कामे विद्याद्वामापि च स्त्रियाम् ॥
वामी शृगालीबडवारासभीकरभीषु च ॥ २३ ॥
पद्मः स्यात् पन्नगे व्यूहे निधौ राम रेऽम्बुजे ॥
पद्मके बिन्दुजालेऽपि पद्मा भाङ्गीश्रियोरपि ॥ २४ ॥

११२
विश्वप्रकाशः।
सोमः कुबेरे पितृदेवतायां
वसुप्रभेदे च सुधाकरे च ॥
दिव्यौषधीसे मलतासमीर-
कर्पूरनीरेषु च वानरे च ॥ २५ ॥
भूमिः क्षितौ स्थानमात्रे वमिर्वान्तौ हुताशने ॥
रश्मिरंशौ प्रग्रहे च जामिः स्वस्कुलस्त्रियोः ॥ २६ ॥
नेमिस्त्रिकायां कूपस्य चक्रान्ते तिनिशद्रुमे ॥
नेमः कालेऽवधौ गर्ने प्राकारे कैतवेऽपि च ॥ २७ ॥
कृमिः स्यात्तृणकीटे च लाक्षायां कृमिले खरे ॥
कामिः स्यात् कामुके रत्यां होमिः सर्पिषि पावके ॥२८॥
जमिस्तरङ्गे पीडायां वेगभङ्गप्रकाशयोः॥
उत्कण्ठावस्त्रसङ्कोचलेखयोरपि कीर्तिता ।। २९ ॥
लक्ष्मीः श्रीशिवसम्पत्तिपद्माशोभाप्रियङ्गुषु ॥
किर्मी पलाशे शालायां हेमपुत्र्यामुदीरिता ॥ ३०॥
शमी शक्तुफलायाञ्च शिम्बायामपि वल्गुलौ ॥
ब्राह्मी तु भारतीसोमवल्लरीब्रह्मशक्तिषु ॥ ३१ ॥
फर्शिकापङ्कजटिकाशाकभेदेषु च स्मृता॥
समा वर्षे समं तुल्ये साधौ च सदृशेऽन्यवत् ॥ ३२ ॥
सीमा घोटे स्थितौ क्षेत्रे मर्यादालयोरपि ॥
क्षुमाऽतसीनालिकयोनाम्नि परमद्युतौ ॥ ३३ ॥
उमाऽतसीहैमवतीहरिद्राकीर्त्तिकान्तिषु ॥
रुमा सुग्रीवदारेषु विशिष्टे लवणाकरे ॥ ३४ ॥
मत्रिकम् ॥
उत्तमा दुग्धिकायां स्यादुत्कृष्टे चोत्तमेऽन्यवत् ॥
मध्यमः स्यात् स्वरे मध्ये मध्यदेशे च भेदजे ॥ ३५ ॥

विश्वप्रकाशः। वाच्यवन्मध्यमातूक्ता राकादृष्टरजास्त्रियोः॥ कर्णिका व्यक्षरच्छन्दाकरमध्यागुलीषु च ॥ ३६॥ अधमः कुत्सिते न्यूने प्रक्रमोऽवसरे क्रमे ।। विक्रमः क्रान्तिमात्रे स्याद्विक्रमः शक्तिसम्पदि ॥ ३७॥ सङ्क्रमः क्रमणे सम्पद्वारिसञ्चारयन्त्रके। निष्क्रमो बुद्धिसम्पत्तौ निर्गमे दुष्कुलेऽपि च ॥ ३८ ॥ आगमः शास्त्र आयाते विभ्रमो भ्रान्तिहावयोः॥ सम्भ्रमः साध्वसेऽपि स्यात् संवेगादरयोरपि ॥ ३९ ॥ विट्ठमो रनक्षेऽपि प्रबाले पल्लवेऽपि च ॥ आश्रमो ब्रहादिचतुष्कोपि मठेऽपि च ॥ ४० ॥ सत्तमश्चान्यवत् पूज्य श्रेष्ठसाधीयसोरपि ॥ नियमो मन्त्रणायां स्यात् प्रतिज्ञायाश्च संयमे ॥ ४१॥ निगमो वाणिजे पुर्यां कटे वेदे वणिक्पथे ॥ नैगमः स्यादुपनिषद्वणिजो गरेऽपि च ॥ ४२ ॥ कलमो लेखनीचौरशालिकाक्षरकेषु च ॥ तलिमं कुट्टिमे तल्पे चन्द्रहासे वितानके ॥ ४३ ।। परमं स्यादनुज्ञातेऽप्यव्ययं परमः परे । परमं स्यात् प्रधानाधोरोङ्कारेऽपि तथोच्यते ॥ ४४ ॥ कुसुमं पुष्पफलयोः स्त्रीरजोनेत्ररोगयोः । कृत्रिमं रचिते प्रोक्तं सिहके लवणान्तरे ॥ ४५ ॥ सुषमं चारुसमयोः सुषमा परमद्युतौ ॥ सुपीमः शिशिरे चारौ सुपीमः पन्नगान्तरे ।। ४६ ॥ पञ्चमो रागभेदे स्यात् पञ्चानामपि पूरणे ॥ पञ्चमश्चतुरे हृद्ये पञ्चमी पाण्डवस्त्रियाम् ॥ ४७ ॥ गौतमः शाक्यासिंहे च मुनिभेदेऽथ गौतमी ॥ १५ विश्वप्रकाश रोचन्यामम्बिकायाञ्च दाडिमः करकैलयोः॥ ४८ ॥ गोधूमो नागरङ्गे स्याद्रेषजव्रीहिभेदयोः ॥ व्यायामो दुर्गसञ्चारे व्यायामः पौरुषेऽपि च ॥ ४९ ॥ विलोमस्तु प्रतीपे स्याद् भुजङ्गे वरुणे शुनि ॥ आमलक्यां विलोमी च विलोमं चारुघट्टके ॥ ५० ॥ गोलोमी श्वेतदूर्वायां षद्ग्रन्थावारयोषितोः॥ प्रतिमा दन्तबन्धे स्याद्गजस्यानुकृतावपि ॥ ५१ ॥ मचतुष्कम् ॥ पुवङ्गमः कपो भेकेऽनुपमः सुन्दरेऽन्यवत् ।। मुप्रतीकस्य योषायां भवेदनुपमाऽपि च ॥ ५२ ॥ अभ्यागमोऽन्तिके घाते विरोधाभ्युद्गमादिषु ॥ यातयामस्तु जीर्णे स्यात् परिभुक्तोज्झितेषु च ॥ ५३॥ दण्डयामस्तु कीनाशे दिवसे कुम्भसम्भवे ॥ सार्वभौमस्तु दिङ्नागे सार्वपृथ्वीपतावपि ॥ ५४ ॥ पराक्रमो विक्रमे स्यात् सामोद्योगयोरपि ॥ उपक्रमः स्यादुपधाचिकित्सारम्भविक्रमे ॥ ५५ ॥ जलगुंल्मो जलावर्ते कच्छपे जलचत्वरे ॥ महापद्मः स्मृतो नागनिधिसङ्ख्यान्तरेषु च ॥ ५६ ॥ मपञ्चकम् ॥ अभ्युपगमः स्वीकारे समीपागमनेऽपि च ॥ नक्षत्रनेमिः शीतांशौ रेवत्याश्च ध्रुवे कचित् ॥ ५७ ॥ इति मान्तवर्गः यैककम् ॥ यः सर्वनामानिलयोp मौर्वीमातृभूमिषु ॥

विश्वप्रकाशः। ११५ युरनौ दिवसेऽपि स्याद् द्यौः स्वर्गसुरवमनोः॥ १ ॥ यद्विकम् ॥ जयो जयन्तौ विजये जया दुर्गानिमन्थयोः ॥ जयन्ती तिथिभेदोमासखीपथ्यासु च स्मृता ॥२॥ चयः समूहे प्राकारे मूलवन्धे समाहृतौ ।। नयो नीतौ द्यूतभेदे शयः शय्याहिपाणिषु ॥ ३ ॥ भयं प्रतिभये घोरे प्रमूने कुब्जकस्य च ॥ मयः शिल्पिनि दैत्यानां करभेऽश्वतरेऽपि च ॥ ४ ॥ लयो विनाशे संश्लेषे साम्ये तौर्यत्रिकस्य च ॥ स्मयो गर्वेद्भुते गेयो गातव्ये गायनेपि च ॥ ५ ॥ क्षयो रोगान्तरे वेश्मकल्पान्तापचयेष्वपि । मियो धवे सौहृद्ये च वृद्धिनामौषधेऽपि च ॥ ६ ॥ कायः कदैवते मूत्तौ सङ्के लक्ष्यस्वभावयोः ।। कायो मनुष्यतीर्थेऽपि सायः काण्डापराह्नयोः ॥ ७ ॥ दायो दाने यौतकादिघने सोल्लुण्ठभाषणे ।। विभक्तपितृद्रव्यश्च दायमाहुर्मनीषिणः ॥ ८ ॥ मायश्चाऽनशने मृत्यौ तुल्यबाहुल्ययोरपि ॥ पेयं पातव्यपयसोः पेया श्राणोत्थमण्डयोः ॥९॥ स्थेयो विवादस्य पदनिर्णेतरि पुरोहिते ॥ पीयुः काले रवौ चूके ययुः क्रतुहये इये ॥ १० ॥ मयुस्तुरङ्गवदने मृगेऽपि मयुरुच्यते ।। मन्युः क्रोधे क्रतौ दैन्ये मृत्युमरणदेवयोः ॥११॥ दस्युः स्तेने च शत्रौ च जन्युः प्राण्यग्निधातृषु ॥ वन्यं वनभवे वन्या वनवारिसमूहयोः ॥ १२ ॥ जन्यं हट्टे परीवादे संयुजे जनके पुनः॥

११६ विश्वप्रकाशः। जन्यः स्याच्छयनीये च जन्या मातृसखीमुदोः ॥ १३ ॥ जन्यो वरधूज्ञातिप्रियभृत्यहितेऽपि च ॥ शून्याख्या निर्जने नल्यामन्यो भिन्नासमानयोः॥१४॥ पश्यं पानीयकेऽलिन्दे पूज्यः श्वसुरवन्धयोः ॥ हार्यो विभीतकतरौ हर्तव्ये हार्य्यमन्यवत् ॥ १५ ॥ वीर्य शुक्रे प्रभावे च तेजःसामर्थ्ययोरपि ॥ आर्यः साधौ सौविदल्लेऽप्याोमावृत्तभेदयोः ॥ १६ ॥ अर्यः स्वामिनि वैश्ये च कार्य हेतौ प्रयोजने ॥ सूर्यः सूरे तत्त्रियायां सूर्या स्यादोषधावपि ॥ १७ ॥ शौर्य चारभटीशक्त्योर्वर्यः स्मरवरेण्ययोः ॥ गुह्यं रहस्युपस्थे च गुह्यः कमठदम्भयोः ॥ १८ ॥ सह्यः शैलान्तरारोग्यसोढव्येषु प्रचक्ष्यते ॥ गुह्यं पुरीषमार्गेऽपि भवेदस्वैरपक्षयोः ॥ १९ ॥ गृह्या च शाखानगरे गृह्यश्छेकेऽप्युदीरितः॥ योग्यः प्रवीणे योग्याोपायशक्तेषु चान्यवत् ॥ २० ॥ योग्यमुयाख्यभैषज्ये योग्याभ्यासार्कयोषितोः ॥ भाग्यं स्याच्छुभाशुभकर्मणि ॥ २१ ॥ पाठ्यं पिण्डाख्यलवणे यवक्षारेऽपि दृश्यते ॥ पथ्यं हिते हरीतक्यां पथ्यापथ्योरथोदहे ॥ २२ ॥ रथ्या स्थौघे विशिखा वर्तनीचत्वरेषु च ॥ अर्थ्य शिलाजतुन्यर्थे बुधे न्याय्ये तु वाच्यवत् ॥ २३ ॥ प्राम्यो जनेऽन्यवदाम्यमश्लीलरथबन्धयोः ॥ सौम्यो बुधे मनोज्ञे स्यादनुग्रे सोमदैवते ॥ २४ ॥ इल्वलासु च सौम्याः स्युर्नीचे बोध्ये च वाच्यवत् ॥ रम्यं मनोरमे रम्या रात्रौ रम्यश्च चम्पके ॥ २५ ।। शुभात्मकविधौ विश्वप्रकारः। ११७ सङ्ख्यं समिति सङ्ख्या स्यादेकत्वादिविचारयोः । मध्यं न्याय्येऽवकाशे चावलग्ने लग्नकेऽधमे ॥ २६ ॥ मेध्यं शुचौ मेदुरे च वाच्यवन्मेध्यमाश्रमे ॥ साध्याभिख्या साधनीये योगे गणदेवतयोः ॥ २७ ॥ वन्ध्योऽफलद्रुमे वन्ध्या त्वप्रजातस्त्रियामपि ॥ हृद्यं धवलजीरे च हृत्मिये हृद्भवेऽपि च ॥ २८ ॥ वशकद्वेदमन्त्रे च हृद्यं वृद्धाख्यभेषजे ॥ चोद्यं स्यादद्भुते प्रश्ने चोदनाङ्के तु वाच्यवत् ॥ २९ ॥ पचं श्लोके मृतौ पद्या पद्युः शूद्रे निगद्यते ॥ पुण्यं मनोज्ञेऽभिहितं तथा सुकृतधर्मयोः ॥ ३० ॥ धिष्ण्यं पनि नक्षत्रे स्थाने शक्तौ च पावके । धान्यं त्रीहिसुधान्याके धन्यो धनवति स्मृतः ॥ ३१ ॥ धन्या धान्यामलक्योश्च कुड्यं भित्तौ विलेपने ॥ काव्यं ग्रन्थे गृहे काव्यः काव्या स्यात् पूतनाधियोः ॥३२॥ चव्यन्तु चविके चव्या शतपर्वोग्रगन्धयोः॥ गव्यश्च गोहिते गव्यं तथा क्षीरादिके गवाम् ॥ ३३ ॥ रागद्रव्ये च गव्या तु गोकुले कथिता बुधैः॥ द्रव्यं स्याद् द्रविणे भव्ये पृथिव्यादै च पित्तले ॥ ३४ ॥ भेषजे च निवेद्ये च जतुद्रुमविकारयोः॥ भव्यं सत्ये शुभे चाऽथ भेद्यवद्योग्यभाविनोः ॥ ३५ ॥ कर्मरङ्गतरौ भन्यो भव्या करिकणोमयोः॥ दिव्यं लवङ्गके दिव्यं वल्गौ दिविभवेऽन्यवत् ॥ ३६ ॥ आमलक्यां स्मृता दिव्या सव्यं वामप्रतीकयोः॥ सेव्यं प्रोक्तमुशीरे च सेवाहे पुनरन्यवत् ॥ ३७ ॥ गोप्यो दासीसुते गोप्यो रक्षणीयेऽभिधेयवत् ।।

११८
विश्वप्रकाशः।
रूप्यं स्यादाहते स्वर्णरजते रजतेऽपि च ॥ ३८ ॥
सूप्यं प्रशस्तरूपे तु वाच्यवत् समुदीरितम् ॥
इभ्य आढ्ये करण्वान्तु भवेदिभ्या तु शल्लकौ ॥ ३९ ॥
लभ्यं युक्ते च लब्धव्ये चाय॑मर्घार्थयोग्ययोः॥
चित्यं मृतकचैत्ये स्याच्चित्या मृतचितावपि ॥ ४० ॥
चैत्यमायतने बुद्धबिम्बे चोद्देशपादपे ॥
दैत्योऽसुरे सुरायान्तु दैत्या चण्डौषधावपि ॥४१॥
मृत्यो दासे भृतौ भृत्या दन्त्यो दन्तभवेऽधमे ॥
सत्यश्च शपथे तथ्ये कृते तद्वति वाच्यवत् ॥ ४२ ॥
तपोलोकात् परे सत्यो नित्यन्तु सतते ध्रुवे ॥
मूल्यन्तु वेतने वस्त्रे माल्यं मालाप्रसूनयोः॥४३॥
बल्यं प्रधाने धातौ स्याद् बल्यं बलकरेऽपि च ॥
कल्यं सजे प्रभाते च कल्यो नीरोगदक्षयोः ॥४४ ॥
कल्या कल्याणवाचि स्यात् कादम्बामपि स्मृता ॥
शल्यं शङ्कौ शरे वंशकम्बिकायाश्च तोमरे ॥ ४५ ॥
शल्यस्तु कथितः श्वाविन्मदनगुमयोरपि ॥
कुल्या कुलोद्भवेऽमात्ये कुलस्यातिहितेऽपि च ॥४६॥
कुल्यं स्यात् कीकसेऽप्यष्टद्रोणीशूमिषेषु च ॥
पयः प्रणालीसरितोः कुल्याजीवन्तिकौषधौ ॥ ४७ ॥
वेश्यं वेश्यागृहे वेश्या गणिकायामुदीरिता ॥
आस्यं वक्त्रे वक्त्रमध्ये स्थितावास्या च विश्रुता ॥ ४८ ॥
लास्यं तौर्यत्रिके नाट्ये शस्ये शस्ते फले गुणे ॥
कश्यं मध्ये तुरगाणां कश्यं मध्यकशाहयोः॥४९॥
कांस्यन्तु तैजसद्रव्ये वाद्यभित्पानपात्रयोः॥
मत्स्यो मीनान्तरे मीने विराटाभिख्ययादवे ॥ ५० ॥

विश्वप्रकाशः। ११९ तिष्यः पुष्ये कलौ धात्र्यां तिष्या पुष्यवादिष्यते ॥ दुष्यन्तु दूषणीये स्याद् दृष्यं वस्त्रे च तद्हे ॥ ५१ ।। वीक्ष्यन्तु विस्मये दृश्ये वीक्ष्यो लासकवाजिनोः॥ तार्यः स्यादश्वकर्णाख्यले स्थतुरङ्गयोः ॥ ५२ ॥ ताऱ्या रसाञ्जने ताक्ष्यों गरुडे गरुडायजे ।। लक्ष्यं शरव्ये सङ्ख्यायां लक्ष्यं छद्मनि सम्मतम् ।। ५३ ॥ याम्यावाच्यां भरण्याश्च याम्योऽगस्त्ये च चन्दने ॥ इज्या दानेऽध्वरे_यां सङ्गे चेज्यो गुरौ मतः॥ ५४ ॥ व्रज्या पर्यटने प्रोक्ता वर्गप्रस्थानयोरपि ।। शय्या तल्पे शब्दतल्पे स्यान्माया शाम्बरीधियोः ॥ ५५ ॥ कन्या कुमारिकानार्योरोषधीराशिभेदयोः ॥ कक्ष्या बृहन्तिकायां स्यात् कक्ष्या मध्येभवन्धने ॥५६॥ हादीनां प्रकोष्ठे च कृत्यं विद्विष्टकार्ययोः । कृत्याऽपि देवताभेदे कृत्या स्तव्यादिषु स्मृता ।। ५७ ॥ विन्ध्या तु शैलवल्याश्च विन्ध्यो रुक्सलभेदयोः । सन्ध्या नदीकालभिदोश्चिन्तामर्यादयोरपि ॥ ५८ ॥ प्रतिज्ञायाश्च सन्धाने सन्ध्या तु कुसुमान्तरे ॥ छाया स्यादातपाभावे प्रतिबिम्बार्कयोषितोः ॥ ५९ ॥ पालनोत्कोचयोः कान्तिसच्छोभापतिषु स्मृता ॥ क्रिया कर्मणि चेष्टायां करणे सम्प्रधारणे ॥६०॥ आरम्भोपायशिक्षार्थचिकित्सानिष्कृतिष्वपि ॥ माया दम्भे कृपायाञ्च मायः पीताम्बरेऽम्बरे ॥ त्रयी त्रिवेद्यां त्रितये पुरन्धयां सुमतावपि ॥ ६१ ।। यत्रिकम् ॥ विजयस्तु जये पार्थे गौर्यान्तु विजया तिथौ ॥

१२० विश्वप्रकाशः। विनयं प्रणतो पाहुः शिक्षायां विनया मता ॥ ६२ ।। विषयः स्यादिन्द्रियार्थे देशे जनपदेऽपि च ॥ गोचरे च प्रबन्धाद्य यस्य ज्ञातस्तु तत्र च ॥ ६३ ॥ अनयो व्यसने दैवे अशुभे चापदि स्मृतः ॥ सन्नयः समवायेऽपि पृष्ठस्थायिवलेऽपि च ॥ ६४ ॥ प्रणयः प्रेम्णि विश्रम्भे याच्यामसरयोरपि ॥ वलयः कण्ठरोगे स्याद्वलयं कङ्कणेऽपि च ॥६५॥ मलयो देश आरामे शैलांशे पर्वतान्तरे ॥ मलया त्रिहतायां स्वादिस्मयोद्भुतगर्वयोः॥ ६६ ॥ प्रलयो मृत्युकल्पान्तमूर्छार्थेषु प्रयुज्यते ॥ अभयं स्यादुशीरे च पथ्यायामभयं स्त्रियाम् ॥ ६७ ॥ निर्भये वाच्यवत् मोक्तं हृदयं मानसोरसोः॥ स कायामुदयः पूर्वपर्वते चोन्नतावपि ॥ ६८ ॥ प्रत्ययः शपथे रन्ध्रे विश्वासाचारहेत ॥ प्रथितत्वे सनादौ चाऽप्यधीनज्ञानयोरपि ॥ ६९ ॥ अतिक्रमे च दण्डे च विनाशे दोषकृच्छ्रयोः॥ आशयः स्यादभिप्राये मानसाधारयोरपि ॥ ७० ॥ निकायो निलये लक्ष्ये संहतानां समुच्चये ॥ एकार्थभाजि निवहे परमात्मनि चेष्यते ॥ ७१ ॥ क्षेत्रिय क्षेत्रजणे परदाररतेऽपि च ॥ अन्यनेहचिकित्ये चाऽसाध्यरोगे च जानते ॥ ७२ ॥ कषायो रसभेदे स्यादङ्गरागे विलेपने ॥ निर्यासेऽपि कषायोऽथ सुरभौ लोहितेऽन्यवत् ॥७३ ।। कुलायः पक्षिनिलयस्थानयोर्नीडवन्मतः॥ उपायः सामभेदादावुपायः स्यादुपागतौ ॥ ७४ ।। .

विश्वप्रकाशः। १२१ पर्यायस्तु प्रकारे स्यानिर्माणेऽवसरे क्रमे ॥ संस्त्यायः सन्निवेशे च संस्थाने विश्रुतावपि ॥ ७५ ॥ व्यवायः सुरतेऽन्तौ व्यवायं तेजसि स्मृतम् ॥ शोलयं शतपुष्पायामाहुः शाल्युद्भवोचिते ॥ ७६ ।। शैलेयं सिन्धुलवणे तालपा सिन्धुजे ॥ चञ्चरीके तु शैलेयो माङ्गेयो जाह्नवीसुते ॥ ७७ ॥ कशेरुस्वर्णमुस्तेषु गाङ्गेयमिति कथ्यते ॥ चाम्पेयश्चम्पके स्वर्णे किञ्जल्के नागकेशरे ॥ ७८ ॥ कालेयो दैत्यभेदे स्यात् कालेयं कालखण्डके ॥ बालेयोऽकारवल्ल- खरे बालहिते मृदौ ॥ ७९ ॥ आत्रेयो मुनिभेदे स्यादात्रेयी सरिदन्तरे ॥ आत्रेयी पुष्पवत्याश्च पानीयं पेयवारिणोः ।। ८० ॥ ऐणेयमेणचर्मादौ रतबन्धान्तरे स्त्रियाः ॥ अश्वीयमश्वसङ्घातेऽश्वीयमश्वहितेऽन्यवत् ॥ ८१ ॥ इन्द्रियश्च हृषीके स्यादिन्द्रियं रेतसि स्मृतम् ।। जघन्यं चरमे शिश्ने जघन्यं गर्हितेऽन्यवत् ॥ ८२॥ वदान्यो दानशौण्डे स्यावदान्यश्चारुभाषिणि ।। पर्जन्यो मेघशब्दे स्याद्धनदम्बुदशक्रयोः ॥ ८३ ॥ ब्रह्मण्यो ब्रह्मसाधौ स्याब्रह्मण्यश्च शनैश्चरे ॥ ब्राह्मण्यं ब्राह्मणत्वे स्यात् समूहेऽपि द्विजन्मनाम् ॥ ८४ ॥ शीर्षण्यमाहुर्विशदकेशशीर्षकयोरपि ॥ हिरण्यमक्षयद्रव्ये वराटे स्वर्णरेतसोः॥ ८५॥ सौकर्य स्यादनायासे क्रियायां मूकरस्य च ॥ श्वशुयों देवरे श्यालेऽप्यहार्यः स्थिरशैलयोः॥ ८६ ॥ प्रकीर्यः पूतिकरजे विनिकीर्णे तु वाच्यवत् ।।

१२२
विश्वप्रकाशः।
सौरभ्यमाहुः सौगन्धे चारुत्वे गुणगौरवे ॥ ८७ ॥
नेपथ्य रङ्गभूमौ स्यानेपथ्यञ्च प्रसाधने ॥
आतिथ्यमातिथेये स्यादातिथ्यश्चातिथावपि ॥ ८८॥
सामर्थ्य योग्यताशक्त्योरपत्यं पुत्रयोर्मतम् ॥
कोकृत्यमनुतापे स्यादयुक्तकरणेऽपि च ॥ ८९ ॥
लौहित्यः सागरे व्रीहावादित्यस्त्रिदशे रवौ ॥
पौलस्त्यो रावणे श्रीदेऽप्यौचित्यं सत्ययोग्ययोः ॥९०
प्रसव्यमनुकूले स्यात् प्रतिकूले च वाच्यवत् ॥
अवध्यमवधायें स्यादनर्थकवचस्यपि ॥९१ ।।
प्रणाय्योऽसम्मते प्रोक्तोऽप्यभिलाषविवर्जिते ।
शाण्डिल्यो मुनिभेदे स्यान्मालूरे पावकान्तरे ॥ ९२ ॥
मङ्गल्यस्वायमाणे स्याद्विल्वेऽश्वत्थे मसूरके
मङ्गल्यं दनि मङ्गल्यो मनोज्ञे त्वभिधेयवत् ॥ ९३ ॥
मङ्गल्या रोचनायाञ्च प्रियङ्गुशतपुष्पयोः ॥
अधः पुष्पीशङ्खपुष्पीशमीशुक्लवचासु च ॥ ९४ ॥
अधृष्यस्तु प्रगल्भे स्यादधृष्या निम्नगाभिदि ।
पारुष्यं परुषत्वे स्यादने शक्रस्य गीष्पतौ ॥ ९५ ॥
पारुष्योऽय भुजिष्यः स्यात् सहाये हस्तसूत्रके ॥
स्वतन्त्रे च भुजिष्या तु दासीगाणिकयोर्मता ॥ ९६ ॥
चक्षुष्यः केतके पुण्डरीकक्षे रसाञ्जने ॥
कुलत्थिकामुभगयोश्चक्षुष्योऽक्षिहितेऽन्यवत ॥ ९७ ॥
जटायुर्गुग्गुलुतरौ जटायुर्विहगान्तरे ॥
कर्णायुः क्षणभङ्गे स्यान्मेषकम्बलमेषयोः ॥ ९८॥
देवयुर्धार्मिके ख्यातो देवयुलॊकयात्रिके ॥
मृगयुर्ब्रह्मणि प्रोक्तो गोमायुव्याधयोरपि ॥ ९९ ॥

विश्वप्रकाशः। १२३ भुवन्युचलने भानौ भुवन्युः शशलाञ्छने ॥ शरण्युरिदे वाते क्षिपन्युः मुरभौ तनौ ।। १०० ॥ तपस्या व्रतचर्यायां तपस्यो मासि फाल्गुने ॥ रहस्या निम्नगाभेदे गोपनीये तु वाच्यवत् ॥ १०१॥ पयस्या क्षीरकाकोल्यां पयोहितभवेऽन्यवत् ॥ पयस्या दुग्धिकायाश्च स्वर्णक्षीर्याञ्च कथ्यते ॥ १०२ ।। स्यादहल्याऽप्सरोभेदे गौतमस्य च योषिति ॥ विशल्या लाडलीदन्तीगुडूचीत्रिपुटासु च ॥ १०३ ॥ अभिख्या कीर्चियशसोरभिख्यानामशोभयोः॥ द्वितीया तिथिभित्पन्योः पूरण्यामपि च द्वयोः ॥ १०४ ॥ नादेयी नागरङ्गे स्याज्जयायां जलवेतसे ॥ भूमिजम्ब्वां जवायां च काङ्गुष्ठे च समीक्ष्यते ॥ १०५॥ यचतुष्कम् ॥ भवेदनुशयो द्वेषे पश्चात्तापानुबन्धयोः । स्मृतः समुदयो वृन्दे संयुगे समुपक्रमे ।। १०६ । प्रतिश्रयः सभायां स्यादाश्रयेऽपि प्रतिश्रयः ।। समुच्छ्रयः समुत्सेधे विरोधेपि समुच्छ्रयः ॥ १०७ ॥ हिरण्मयो लोकधातौ स्यात् सुवर्णमयेऽन्यवत् ।। अवश्यायो हिमे गर्वे समुदायो गणे युधि ॥ १०८ ॥ परिधायो जलस्थाने परिच्छदनितम्बयोः॥ सम्परायः समीके स्यादापदुत्तरकालयोः ॥ १०९ ॥ निरामयोऽन्यवत् कल्ये स्यादिडिक्के निरामयः ।। समायः स्यात् सङ्ग्रामे द्यूते च पशुपक्षिभिः ॥ ११०॥ महालयो विहारे स्यात्तीर्थे च परमात्मनि ।। रौहिणेयो भवेद्वत्से रेवतीरमणे बुधे ॥ १११ ।।

१२४ विश्वप्रकाशः। पौरुषेयो विकारे स्यात् पुरुषस्य पदान्तरे ॥ पुंसः समूहवधयोः पुरुषेण कृतेऽपि च ॥ ११२ ॥ भागधेयं स्मृतं भाग्ये भागप्रत्यययोरपि ॥ बिलेशयो मूषिके स्याद् भुजङ्गेऽपि बिलेशयः ॥ ११३ जलाशयमुशीरे च जलाधारे जलाशयः॥ चन्द्रोदयो विताने स्यात्तथा चन्द्रोदयोषधौ ॥ ११४ ॥ फलोदयः स्यात् त्रिदिवे लाभेऽपि च फलोदयः॥ महोदयः कान्यकुब्जेऽप्याधिपत्यापवर्गयोः ॥ ११५ ॥ स्थूलोच्चयस्त्वऽसाकल्ये गण्डोपलकरण्डयोः । गजानां मध्यमगतौ स्थूलोच्चय उदाहृतः ॥ ११६ ॥ धनञ्जयोऽर्जुने वह्नौ ककुभे देहमारुते ॥ नागान्तरे चाऽपसव्यं दक्षिणप्रतिकूलयोः ॥ ११७ ॥ मार्जारीयः स्मृतः शुद्ध बिडाले कायशोधने ॥ तण्डुलीयः शाकभेदे विडङ्गतरुताप्ययोः ॥ ११८ ॥ तृणशून्यं मल्लिकायां केतक्याश्च फले मतम् ॥ महामूल्यं महाः स्यात् पद्मरागमणा पि ॥ ११९ ॥ अंधःशय्या मृतौ भूमिशय्यायाम्पितृकानने ॥ उपका- वस्त्रसद्मन्युपकारोचितेऽन्यवत् ॥ १२० ॥ यपञ्चकम् ॥ दुग्धतालीयमित्येतद् दुग्धाम्ने दुग्धफेणके । भवेत्प्रवचनीयाख्या प्रवाच्ये च प्रवक्तरि ॥ १२१ ॥ कालानुसायं कालीये शैलेये शिंशपादुमे ॥ वृषाकपायी श्रीगौर्योर्जीवन्त्याञ्च शतावरौ ॥ १२२ । यषट्कम् ॥ प्रत्युद्गमनीयमुपस्थेये स्याच धौतांशुकद्वये ॥

विश्वप्रकाशः। १२५ विश्वक्सेनाप्रिया लक्ष्म्यां वायमाणौषधावपि ॥ १२३ ॥ इति यान्तवर्गः॥ रैककम् ॥ रः पावके च तीक्ष्णे च राः स्मृतः स्वर्णवित्तयोः ॥ सः स्रवे निर्झरे चाऽपि दूः स्वर्णे कामरूपिणि ॥१॥ श्रीर्वेशरचनाशोभाभारतीसरलद्रवे ॥ लक्ष्म्यां त्रिवर्गसम्पत्तौ वेशोपकरणे मता ॥२॥ रदिकम् ॥ अरं शीघ्र च च चक्राङ्के शीघ्रगे पुनरन्यवर ॥ करो वर्षोपले पाणौ शुण्डापत्ययरश्मिषु ॥ ३ ॥ खरः स्यादर्दभे देवताडे तीक्ष्णाग्रकेऽपि च ॥ गरो व्याधावुपविषे विषे च करणे गरम् ॥ ४॥ वरो द्यूतमभेदे स्याचारजङ्गमयोश्चले ॥ नरं तु रामकर्पूरे नरोऽजे मानवेऽर्जुने ॥५॥ परः स्यादुत्तमानात्मवैरिदृरेषु केवले ॥ परमव्ययमिच्छन्ति भरोऽतिशयभारयोः॥६॥ वरोऽभीष्टे देतादेवरो जामावृषिङ्गयोः॥ श्रेष्ठेऽन्यवत् परितृतौ वरं काश्मीरजे मतम् ॥ ७॥- त्रिफलायां वरा प्रोक्ता शताव- वरी वरम् ॥ अव्ययन्तु मनागिष्टे सरो दध्यमबाणयोः ॥ ८॥ स्वरोऽकारादिमात्रासु मध्यमादिषु च ध्वनौ । उदात्तादिष्वपि प्रोक्तः स्वरो नासासमीरणे ॥९॥ शरं नीरे शरः काण्डे शरस्तेजनकेपि च ॥ धरस्तु शैले कार्पासतूलके कमठाधिपे ॥

१२६ १ विश्वप्रकाशः। धरा मेधसि भूम्याश्च स्त्रीणां गर्भाशयेऽपि च ॥१०॥ क्षरं नीरे क्षरो मेघे दरः साध्वसगर्तयोः॥ कन्दरे तु दरीमाहुरीषर्थे दराव्ययम् ॥ ११ ॥ क्षुरः स्याच्छेदनद्रव्ये कोकिलाक्षे च गोक्षुरे ॥ पुरं पाटलिपुत्रे स्याद्गृहोपरिगृहे पुरम् ॥ १२ ॥ पुरं पुरि शरीरे च गुग्गुलौ कथितः पुरः॥ पुराऽव्ययं पूर्वकाले खुरः कोलदले शफे ॥ १३ ॥ सुरो देवे मुरा मद्ये चषकेऽपि सुरा कचित् ॥ कारो वधे निश्चये च बलौ यत्ने यतावपि ॥१४॥ कारस्तुषारशैले च कारा दूत्यां प्रसेवके । बन्धने बन्धनागारे हेमकारिकयोरपि ॥ १५॥ चारः प्रियालवृक्षे स्याद्गतौ बन्धापसर्पयोः॥ पारम्परतटे प्रान्ते पारी पात्रीतडागयोः॥ १६॥ गर्गरीपूरयोः पारी पादरज्ज्वाञ्च दन्तिनः ।। वारः सूर्यादिदिवसे वारोऽवसरहन्दयोः ॥ १७ ॥ कुब्जक्षे हरेर्वारं द्वारे मद्यस्य भाजने ॥ तारो मुक्तादिसंशुद्धौ तरणे शुद्धमौक्तिके ॥ १८ ॥ तारश्च रजतेऽएचस्वरेऽप्यन्यवदीरितम् ॥ ऋाशिम योस्तारा सुग्रीवगुरुयोषितोः॥ १९ ॥ बुद्धदेव्यां मता तारा शारः शबलवातयोः॥ भारस्तु वीवधे स्वर्णपलानामयुतद्वये ॥ २० ॥ मारो मृत्यौ वृषेऽनङ्गे मारी चण्ड्यां जनक्षये ॥ स्फारः स्याद्विकटे स्फारः कनकादेश्व बुद्बुदे ॥ २१ ॥ क्षारो रसान्तरे धूर्ते लवणे काचभस्मनोः ॥ हारो मुक्तावलौ युद्धेऽप्यारः क्षितिसुतेऽर्कजे ॥

विश्वप्रकार १२७ आरा चर्मप्रभेदिन्यां नारस्तर्णकनीरयोः ॥ २२ ॥ सारो बले मज्जनि च स्थिरांशे न्याय्ये च नीरे च धने च सारम् ॥ वरेऽन्यवत् सारमुदाहरन्ति द्वारं पुनर्निर्गमनेऽप्युपाये ।। २३ ॥ पूरो जलप्रवाहे स्याद् व्रणसंशुद्धिखाद्ययोः ॥ चिरन्तु गोस्तने हस्ते चूडायां सीसकेऽपि च ॥ २४ ॥ कूरस्तु कठिने घोरे नृशंसे त्वऽभिधेयवत् ॥ सूरचारभटे सूर्ये चोरऔरसुगन्धयोः ॥ २५ ॥ तीरं तटे त्रपौ तीरः सीरस्तिग्मकरे हले ॥ चीरी कच्चरिकाझिल्योः स्वैरः स्वच्छन्दमन्दयोः ॥२६॥ जीरः खड्गे वाणिग्द्रव्ये मीरस्तोयदशैलयोः ॥ क्षीरं नीरे च दुग्धे च कीरो जनपदे शुके ॥ २७ ॥ गौरः पीतेऽरुणे श्वेते विशुद्ध चाऽभिधेयवत् ॥ गौरन्तु विशदे पअकेशरे सितसर्षपे ॥ २८ ॥ गौरः शशिनि गौरी तु नग्नकन्योमयः स्मृता ।। रोचनी रजनीपिकाप्रियङ्गुवसुधासु च ॥ २९ ॥ नदीभेदेऽपि गौरी स्यादरुणस्य च योषिति ॥ पौरन्तु कत्तृणे पौरः स्मृतः पुरभवेऽन्यवत् ॥ ३०॥ वेरं शरीरे काश्मीरे वेरं वातिङ्गणेऽपि च ॥ घोरं भीमे हरे घोरष्टारो लङ्गतुरङ्योः ॥ ३१ ॥ होरा लग्नेऽपि राश्यः शास्त्ररेखाभिदोरपि । हीरा पिपीलिकालक्ष्मयोीरः शङ्करवज्रयोः ॥ ३२ ॥ गोत्रं नाम्नि कुले क्षेत्रे कानने चित्तवर्मनोः ॥ सम्भावनीयबोधेऽपि गोत्रः क्षोणीधरे मतः ॥ ३३ ॥ -- १२८ विश्वप्रकाशः। गोसमूहभुबोर्गोत्रा गात्रमले कलेबरे ॥ स्तम्बेरमाग्रजङ्घाया विभागेऽपि समीरितम् ॥ ३४ ॥ पत्रं स्याद्वाहने पर्णे पक्षे च शरपक्षिणाम् ।। पात्रञ्च भाजने योग्ये पात्रं तीरद्वयान्तरे ॥ ३५ ॥ पात्रं युवादौ पर्णेऽपि राजमन्त्रिणि चेष्यते ॥ पोत्रं वस्त्रे मुखाग्रे च शुकरस्य हलस्य च ॥ ३६॥ चित्रं स्यादद्भुतालेख्यतिलकेषु विहायसि ॥ चित्राऽऽखुपर्णीगोदुग्धीमुभद्रादन्तिकामु च ॥ ३७॥ ऋक्षाप्सरोऽहिभेदेषु कर्बुरे चाभिधेयवत् ॥ चैत्रं मृतकचित्ये स्याचैत्रो मासाद्रिभेदयोः॥ ३८ ॥ वृत्रो रिपौ घने ध्वान्ते शैले शक्रे च दानवे ॥ सत्रमाच्छादने यज्ञे सदादाने च कैतवे ॥ ३९ ॥ सूत्रन्तु सूचनायां स्यात् सूत्रं तन्तुव्यवस्थयोः॥ मित्रं सुहृदि मित्रोर्के शास्त्रं ग्रन्थनिदेशयोः ॥ ४० ॥ मात्रं चाऽवधृतौ कात्स्न्र्ये मात्रा कर्णविभूषणे ॥ अक्षरावयवे वृत्ते मानेऽल्पे च परिच्छदे ॥ ४१ ॥ शस्त्रं लोहास्त्रयोः शस्त्री छुरिकायाञ्च विश्रुता ॥ अस्त्रं प्रहरणे चापे वकं छन्दोऽन्तरे मुखे ॥ ४२ ॥ नेव मन्थिगुणे वस्त्रे तरुमूले विलोचने ॥ नेत्रं रथे च नाड्याञ्च नेत्रो नेतरि वाच्यवत् ॥४३॥ क्षेत्रं शरीरे केदारे सिद्धस्थानकलत्रयोः ॥ स्त्रं रेतसि पीयूषे पटवासेऽपि सूतके ॥ ४४ ॥ मन्त्रो वेदप्रभेदे स्यादेवादीनाञ्च साधने ॥ गुप्तवादे च तोत्रन्तु प्राजने वल्लवेऽपि च ॥४५॥ तन्त्रं कुटुम्बकृत्ये स्यात् कारणे च परिच्छदे ॥

विश्वप्रकाशः।
१२९
शास्त्रे प्रधाने सिद्धान्ते तन्तुवाये गदोत्तमे ॥ ४६ ॥
तत्त्वादिसाधनोपाये श्रुतिशाखान्तरेऽपि च ॥
इतिकर्तव्यतायाश्च तन्त्री वीणागुणे तनोः॥ ७ ॥
शिरायाममृतायाञ्च छत्रमातपवारणे ॥
छत्रा मधुरिकायां स्यात् कुस्तुम्बुरुशिलीन्द्रयोः ॥४८॥
चक्रो गणे चक्रवाके चक्रं सैन्यरथाङ्गयोः ।।
ग्रामजाले कुलालस्य भाण्डे राष्टास्रयोरपि ॥ ४९ ॥
अम्भसामपि चाऽवर्ते चुक्रस्त्वम्लेऽम्लवेतसे ॥
चुक्री चाङ्गेरिकायां स्यादृक्षाम्ले चुक्रमिष्यते ॥ ५० ॥
शुक्रः काव्येऽनले ज्येष्ठे शुक्रो रेतोऽक्षिरोगयोः॥
शुक्रं शक्रो महेन्द्रे स्यात् कुटजार्जुनभूरुहोः ॥ ५१ ॥
नक्रः कुम्भीरके नक्रं नासायामपदारुणि ॥
वक्रः स्यात् कुटिले क्रूरे पुटभेदे शनैश्चरे ॥ ५२ ।।
अग्रमालम्बने जाते परिमाणे पलस्य च ॥
प्रान्ते पुरस्तादधिके प्रधाने प्रथमोर्ध्वयोः॥ ५३ ॥
उग्रः शूद्रासुते क्षत्राच्छीकण्ठे चोऽत्कटेऽन्यवत् ।।
उग्रा वचाछिक्किकयोयग्रो व्यासक्त आकुले ॥ ५४ ॥
भद्रं स्यान्मङ्गले हेन्नि मुस्तके करणान्तरे ।।
भद्रो रुद्रे षे रामचन्द्रे मेरुकदम्बयोः॥ ५५ ॥
हस्विजात्यन्तरे भद्रो वाच्यवच्छेष्ठसाधुनोः॥
भद्रा गन्दाकिनीरास्नाकुत्स्नानन्तासु कट्फले ॥ ५६ ॥
क्षुद्रः स्यादधमे क्रूरे कृपणेऽल्पे च वाच्यवत् ॥
क्षुद्रा वेश्यानटीकण्टकारिकासरघासु च ॥ ५७ ॥
चाङ्गेरी बृहतीहिंस्रा मक्षिकामात्रकेषु च ॥ .
क्षौद्रं मधुनि पानीये वधं त्रपुवस्त्रयोः ॥ ५८ ॥

१३०
विश्वप्रकाशः।
गृध्रः खगान्तरे प्रोक्तो वाच्यवच्चार्थलुब्धके ।
रोधः सावरके रोधमपराधेऽपि किल्विषे ॥ ५९ ।
नीधं नेमौ वलीकेन्द्रो रेवतीभे च कानने ॥
राष्ट्रमुद्दिष्टमुत्पाते तथा स्यादुपवर्त्तने ॥ ६ ॥
कृच्छ्रमाख्यातमाभीले तपःसान्तपनादिनोः॥
चन्द्रः सुधांशुकर्पूरकाम्पिल्लस्वर्णवारिषु ॥ ६१ ॥
इन्द्रः शचीपतावन्तरात्मन्यादित्ययोगयोः॥
इन्द्रा फणिज्झके सान्द्रो घनकाननयोर्मुदौ ॥ ६२ ॥
गुन्द्रस्तेजनके
गुन्द्रा
प्रियङ्गो
भद्रमुस्तके ॥
कैवर्तीमुस्तके चाऽपि रौद्रो नाट्यरसान्तरे ॥ ६३ ॥
रौद्रोऽतिभीषणे तीने रौद्रा स्कन्दस्य मातरि ।
उड्रो जने जपाक्षे उड्रा जनपदान्तरे ॥६४ ॥
पितृकेदारयोर्वप्रो वप्रः प्राकाररोधसोः ॥
पुण्ड्रो दैत्यविशेषेक्षुभेदयोरतिमुक्तके ॥६५॥
चित्रे कृमौ पुण्डरीके पुण्डाः स्युर्नीदन्तरे ॥
वज्रं हीरकदम्भोलिबालकामलकेषु च ॥ ६६ ।।
वज्री गुडूचिकायां स्यात् तानं शुल्वेऽरुणेऽन्यवत् ॥
तीव्रमत्युष्णकटुकनितान्तेष्वन्यवन्मतम् ॥ ६७॥
तीवा च कटुरोहिण्यामासुरीगण्डदूर्वयोः ॥
अस्रः कोणे शिरसिजे चाऽस्रमश्रुणि शोणिते ॥ ६८॥
दसः खरे चाऽश्विनयोर्घस्रो दिवसहिंसयोः॥
वाश्रोऽपि दिवसे वाथ मन्दिरे च चतुष्पथे ॥ ६९ ॥
शीघ्र द्रुतगतौ शीघ्रं चक्राकोशीरयोरपि ॥
व्याघ्रो दीपिनि विख्यातः शुक्लैरण्डकरञ्जयोः॥
व्याघ्री निदिग्धिकायाञ्च श्रेष्ठे स्यादुत्तरस्थितः ॥ ७॥

विश्वप्रकाशः। १३१ अभ्रं नमः स्वर्गबलाहकेषु शुभ्रं प्रदीप्ते धवलेऽभ्रके च ॥ वश्रुर्विशाले नकुले कृशानी वजे मुनौ शूलिनि पिङ्गले च ॥ ७१ ।। शिग्रुः शोभाञ्जने शाके शरुः कुलिशकोपयोः ।। स्वरुवजेऽध्वरे वाणे यूपखण्देऽपि च स्वरुः ॥ ७२ ॥ खरुदन्ते हरे दर्प हये श्वेते तु वाच्यवत् ॥ चरुर्भाण्डे च हव्यान्ने भरुभर्तरि काञ्चने ॥ ७३ ।। गुरुनिपेकादिकरे पित्रादौ सुरमन्त्रिाण ॥ दुर्जरालघुनोः प्रोक्तो गुरुमहति वाच्यवत् ।। ७४ ॥ रुरुमगे दैत्यभेदे कारुः कारकशिल्पिनोः ।। विश्वकर्मणि शिल्पे च कुरुः श्रीकण्ठजाङ्गले ॥ ७५ ।। उन्दने नृपभेदे च पुरुः प्राज्यपरागयोः॥ पुरुः स्वर्लोकनृपयोर्मरुभूधरधन्वनोः ॥ ७६ ॥ आरुस्तरुविशेषे स्यादारुः कर्कटदष्ट्रिणोः॥ कदूर्मातरि नागानां कटुः कनकपिङ्गले ॥ ७७ ॥ इरिर्वातार्कचन्द्रेन्द्रयमोपेन्द्रमरीचिषु ॥ सिंहाश्वकपिभेकाहिशुकलोकान्तरेषु च ॥ ७८ ॥ हरिर्वाच्यवदाख्यातो हरित्कपिलवर्णयोः ॥ भूरिब्रह्माच्युतेशेषु भूरिपाज्यसुवर्णयोः ॥ ७९ ॥ गिरिगीणों गिरियके क्रीडाकन्दुकशैलयोः । नेत्रामयविशेषेऽपि मत्स्ये तु गिरिरन्यवत् ॥ ८० ॥ वारिः स्मृत्यां सरस्वत्यां वारि हीवेरनीरयोः ।। वारी घटीभवन्धन्यो रनिः स्यात् पादवुध्नयोः ॥ ८१॥ शारिस्त्वक्षोपकरणे तथा शकुनिकान्तरे ॥

१३२ विश्वप्रकाशः। युद्धार्थगजपर्याणे व्यवहारेऽपि च क्वचित् ॥ ८२॥ कारिः क्रियायामाख्याता नापितादिकशिल्पिनि ॥ अद्रिः शैलट्ठमार्केषु ऐन्द्रिः काकजयन्तयोः ॥ ८३ ॥ ऐन्द्रिरम्भोधरे जिष्णौ तन्द्री निद्राप्रमीलयोः॥ धात्री जनन्यामलकीवसुमत्युपमातृषु ॥ ८४ ॥ उष्ट्री गोलकिकायां स्यात् करभस्य च योषिति ॥ क्रोष्ट्री शृगालिकाक्षीरविदारीलागलीषु च ॥ ८५ ॥ तरि वि दशायाश्च वस्त्रादीनाश्च पेटके । जारी स्यादोषधीभेदे जारस्तूपपतावपि ॥ ८६ ॥ इरा वारिसुराभूमिभारतीषु मयुज्यते ॥ स्थिरा भूमौ शालपर्यो स्थिरो निश्चलमोक्षयोः ॥ ८७॥ धारा सैन्याग्रिमस्कन्धसन्तत्योः पत्तनान्तरे ॥ द्रवद्रव्यप्रपातेऽपि तुरङ्गगतिपञ्चके ॥ ८८ ॥ खड़ादीनाञ्च निशितमुखे धारापि कीर्यते ॥ धारः कचिद्धनासारवर्षणे स्याहणेऽपि च ॥ ८९ ॥ वीरा स्यात् क्षीरकाकोलितामलक्येलवालुषु । पतिपुत्रवतीरम्यागम्भीरामदिरामु च ॥ ९० ॥ गोष्ठोदुम्बरिकाक्षीरविदारीदुग्धिकासु च ॥ वीरस्तु सुभटे श्रेष्ठे वीरं शृङ्गयां नतेऽपि च ॥ ९१ ॥ आर्द्रा नक्षत्रभेदे स्यादाई क्लिन्नेऽभिधेयवत् ॥ यात्रा तु यापनोपाये गतौ देवार्चनोत्सवे ॥ ९२ ॥ उस्रा गव्युपचित्रायामुस्रस्तु किरणे स्मृतः॥ हिंसा काकादने मत्स्यो हिंस्रः स्याद्धातकेऽन्यवत् ॥ ९३॥ रत्रिकम् ॥ अमरस्त्रिदशेऽप्यस्थिसंहारे कुलिशद्रुमे ॥

विश्वप्रकाशः।
दुर्वाऽमरावतीस्थूणा गुडूचीष्वऽमरा मता ॥ ९४ ॥
अपरन्त्वधुनार्थे स्यात् पश्चाद्गात्रे च दन्तिनाम् ।।
अर्वाचीने परं प्राहुर्जरायौ चापरामपि ॥ ९५ ।।
अधरो दन्तवसनेऽनूढे हीनेऽधरोऽन्यवत् ।।
अध्वरो वसुभेदे स्यात् सावधाने कृतावपि ॥ ९६ ॥
अन्तरन्तु परीधाने भेदे रन्ध्रावकाशयोः॥
आत्मान्तर्दिविनात्मीयबहिर्मध्यावधिष्वपि ॥ ९७॥
तादर्थेऽवसरे चोक्तमवरं चरमेऽन्यवत् ॥
गजान्त्यजङ्घादेशे च भवान्यामवरा मता ॥ ९८ ॥
उत्तरं प्रतिवाक्ये स्यादूझेदीच्योत्तमेऽन्यवत् ।।
उत्तरस्तु विराटस्य तनये दिशि चोऽत्तरा ॥ ९९ ॥
इतरः पामरेऽन्यस्मिन्नक्षरं ब्रह्मवर्णयोः ।।
ऋक्षरं वारिधारायामृक्षरश्वविजि स्मृतः ।। १०० ।।
प्रवरं सन्ततौ गोत्रे श्रेष्ठे तु प्रवरोऽन्यवत् ॥
शबरो वारिचण्डालभेदयोः शङ्करेऽपि च ॥ १०१॥
अम्बरं वाससि व्योन्नि कार्पासे च सुगन्धके ।
शम्बरं सलिले चित्तबौद्धव्रतविशेषयोः ॥१०२।।
शम्बरो दैत्यहरिणमत्स्यशैलजिनान्तरे ॥
ओषधौ शम्बरीमाहुः प्रखरोऽश्वतरे शुनि ॥ १० ॥
तुरङ्गानाञ्च सन्नाहे प्रखरोऽतिभृशस्वरे ।।
शिखरं शैलवृक्षारकक्षापुलककोटिषु ॥ १०४ ।।
पक्कदाडिमवीजाभमाणिक्यशकलेऽपि च ॥
खिङ्किरस्तु शिवाभेदे खटाङ्गे वारिवालके ॥ १०५॥
खिखीरा तद्बहुत्वे च विष्टरस्तु महीरुहे ।।
आसने कुशमुष्टौ च द्विरदस्कन्धपीठयोः ॥१०६ ॥

१३४ विश्वप्रकाशः। कवटे चाऽथ पिठरो मुस्तमन्थानदण्डयोः । पिठरः स्यादुखायाश्च जठरः कठिनेऽन्यवत् ॥ १०७ ।। कुक्षौ वृद्धे च जठरं वण्ठरस्तालपल्लवे ।। करीरकोशेऽप्यररं कपाटे छदनेऽपि च ॥ १०८॥ क्रकरः क्रकचे दीने करीरे च खगान्तरे ॥ कदरः श्वेतखदिरे क्षुद्ररोगेऽपि भाषितः ॥ १०९॥ बदरं कोलकास्यिोः फले स्याद्वदरी तयोः॥ एलापान्तु बदरा विष्णुक्रान्तौषधावपि ॥ ११ ॥ प्रदरो रोगभेदे स्यात् प्रदरः शर भङ्गयोः ।। मकरो यादसि ज्ञेयो निधिराशिप्रभेदयोः॥ १११ ॥ निकरो निवहे सारे न्यायदेयधनान्तरे ॥ शीकरं शबले वातसृताम्बुकणयोर्विदुः ॥ ११२ ।। प्रकरचोपकारच विकीर्णकुसुमादिषु संहतौ चोपकृत्यायां यथासङ्ख्यमवस्थितौ ।। ११३ ।। जोङ्गके प्रकरं प्रोक्तं प्रकरी चत्वरावनौ । विस्तरस्तु प्रपञ्चे स्याद्विस्तारे प्रणयेऽपि च ॥ ११४ ॥ संस्तरप्रस्तरावेतौ संस्तराध्वरयोरपि ॥ मणिपाषाणयोश्चाऽपि यथाक्रममुदीरितौ ॥ ११५ ॥ टगरष्टङ्कणक्षारे हेलाविभ्रमगोचरे ॥ वाच्यवत् केकराक्षे तु मुद्गरं मल्लिकाभिदि ॥ ११६ ॥ लोष्ट्रादिभेदनेऽपि स्यादुदरं जठरे युधि । प्रसरः प्रणये वेगे सगरे चाऽथ मत्सरः॥ ११७ ॥ असह्यपरसम्पत्ती मात्सर्यं कृपणे युधि । मत्सरा मक्षिकायाञ्च विसरः प्रसरे ब्रजे ॥ ११८ ॥ कुहरः कोठरे छिद्रे नागराज विशेषयोः॥ . .

विश्वमकाशः।
दहरो मूषिकायाश्च स्वल्पभ्रातरि वालके ॥ ११९ ॥
चमरं चामरे प्राहुर्मञ्जरीमृगभेदयोः ॥
चमरी भ्रमरे भने कामुकेऽपि मधूत्थवत् ॥ १२० ॥
रुधिरोऽङ्गारके प्रोक्तो रुधिरं कुङ्कुमासृजोः ।।
चन्दिरोऽनेकपे चन्द्रे मुदिरः कामुकेऽम्बुदे ॥ १२१ ॥
मिहिरो भास्करे वृद्ध मदिरः काममूर्खयोः ।।
विवरं दूषणे गर्ने कथितं छिद्ररन्ध्रवत् ॥ १२२ ।।
खपुरः क्रमुके भद्रे मुस्तकेऽलसकेऽपि च ।।
गोपुरन्तु पुरद्वारि द्वारमात्रे च मुस्तके ॥ १२३ ।।
चिकुरश्चञ्चले केशे गृहबभ्रुभुजङ्गयोः ॥
पक्षिट्ठभेदयोः शैले चकुरो रथवृक्षयोः ॥ १२४ ॥
अङ्कुरो रुधिरे रोम्णि पानीयेऽभिनवोद्भिदि ।
कुक्कुरो वक्रपुच्छे स्याद्रन्थिपणेऽपि कुक्कुरे ।। १२५ ॥
मुकुरो मल्लिकापुष्पे दर्पणे च कलिद्रुमे ।।
कुलालदण्डे वकुले मकुरोऽप्येषु विश्रुतः॥ १२६ ॥
अजिरं प्राङ्गणे वाते विषये दर्दुरे तनौ ।।
अशिरो राक्षसे वहावशिरस्तपनेऽपि च ॥ १२७ ॥
शिशिरः स्याहतोर्भेदे तुषारे शीतलेऽन्यवत् ।।
वशिरं किणिहीसिन्धुलवणे कुम्भकेषु च ॥ १२८ ॥
सुषिरं विवरे वाद्ये सरन्ध्र सुपिरोऽन्यवत् ॥
सुषिरोऽयौ च तिमिरं ध्वान्ते नेत्रामयेऽपि च ॥ १२९॥
छिदिरः पावके रजौ करवाले परश्वधे ॥
दन्तुरं वाच्यवद्विद्याविषमोन्नतदन्तयोः॥ १३० ॥
विदुरो नागरे वीरे कौरवाणाञ्च मन्त्रिणि ॥
विधुरं स्यात् प्रविश्लेषे विधुरो विकलेऽन्यवत् ॥ १३१॥

१३६ विश्वप्रकाशः। विधुराऽपि रसालायां मधुरस्तु रसे विषे ॥ मधुरं रसवत् स्वादुपियेषु मधुरोऽन्यवत् ॥ १३२ ।। मधुरा शतपुष्पायां मिश्रेयानगरीभिदोः॥ मधुकर्कटिकाभेदामधूलीयष्टिकासु च ॥ १३३ ॥ बन्धूरबन्धुरौ रम्ये नम्रे हंसे तु बन्धुरः॥ बन्धुके च विदुङ्गे च बन्धूरापण्ययोषिति ॥ १३४ ॥ बर्बरः पामरे केशविन्यासे नीदन्तरे॥ बर्वरा फञ्जिकायान्तु बर्बराशाकपुष्पयोः ॥ १३५ ।। कर्बुरं सलिले हेन्नि कर्बुरं पापरक्षसोः॥ कर्बुरा पुष्पवृन्तायां किीरे कर्बुराऽन्यवत् ॥ १३६ ॥ कर्परः स्यात् कपाले च शस्त्रभेदकटाहयोः । कूपरो जानुनि प्रोक्तः कफोणावपि कूर्परः॥ १३७ ॥ खर्परः तस्करे धूर्ते भिक्षापात्रकपालयोः ॥ गर्गरो मीनभेदे स्यान्मन्थन्यामपि गर्गरी ॥ १३८ ॥ घर्घरस्तु चलद्वारिध्वानोलूकनदान्तरे । निर्झरस्तु सहस्रांशु तुरङ्गे तुषपावके ॥ १३९ ॥ मुर्मुरस्तुषवह्नौ स्यान्मन्मथे रविवाजिनि ॥ जर्जरो वाच्यवन्जीर्णे जर्जरं वासवध्वजे ॥ १४० ॥ निर्जरस्तु जरात्यक्ते वाच्यवनिर्जरः सुरे॥ निर्जरा तु गुडूच्यां स्यात्तालपत्र्याम िकचित् ॥ १४१॥ जर्झरः : स्यात् कलियुगे वाद्ये भाण्डे नदान्तरे ।। दर्दुरस्तु गिरावीषद्भग्नवस्तुनि वाच्यवत् ॥ १४२ ॥ दर्दुरस्तोयदे भेके वाद्यभाण्डाद्रिभेदयोः ।। दरा चण्डिकायाञ्च ग्रामजाले तु द१रम् ॥ १४३ ॥ वाईरं दक्षिणावर्त्तशर्के कृमिजनीरयोः॥

विश्वप्रकाशः।
१३७
काकचिन्त्याश्वबीजेऽपि वाचि वाईरमिष्यते ॥ १४४ ॥
दुर्धरं वाच्यवद् दुःखधायें स्याद्वृषभौषधे ॥
दुर्घरो निर्भरे सारे निर्भये निरपत्रपे ॥ १४५ ॥
कुञ्जरोऽनेकपे कशे पातक्यामपि कुञ्जरा ॥
पिञ्जरं कनके वाजिभेदे पीते च पिञ्जरः॥ १४६ ॥
मन्दरो मन्थरे शैले स्वर्गमन्दारयोरपि ॥
मन्दरो बहले मन्दे कन्दरो विवरे कुशे ॥ १४७ ॥
मन्दिरं नगरेऽगारे मन्दिरो मकरालये ॥
वर्करस्तरुणे मेषे कर्करो दर्पणे दृढे ॥ १४८ ॥
कन्धरो वारिवाहे स्याद्रीवायामपि कन्धरा ॥
वल्लरं शाहले प्रोक्तं निर्जलस्थानकुञ्जयोः ।। १४९ ॥
वल्लक्षेत्रे च मञ्ज- वल्लरी तु प्रकीर्तिता ॥
मन्थरः सूचके कोठे मन्थाने चाऽथ मन्थरम् ॥ १५० ॥
कुसुम्भ्यां मन्थरो मन्दे पृथौ वक्रे च वाध्यवत् ॥
कचरं कुत्सिते तक्रे चत्वरं स्थण्डिलेऽङ्गने ॥ १५१ ॥
छित्वरं छेदनद्रव्ये छित्वरो धूवैरिणोः ।
इत्वरो दुर्विधे नीचे पथिकक्रूरकर्मणोः ॥ १५२ ॥
पुष्करं पङ्कजे व्योम्नि पयःकरिकराग्रयोः॥
औषधद्वीपविहगतीर्थराजोरगान्तरे ॥ १५३ ॥
पुष्करं तूर्यवक्रे च काण्डे खड्गफलेऽपि च ॥
डिङ्गरो डङ्गरे क्षेपे सङ्गरोऽङ्गीकृतौ युधि ॥ १५४ ॥
विषापदोः क्रियाकारे सगरन्तु शमीफले ॥
गहरस्तु गृहादम्भनिकुञ्जगहनेष्वपि ॥ १५५॥
कर्वरः कथितो व्याने शिवायामपि कर्वरी ॥
चतुरश्चातुरकवचक्रगण्डौ नियन्तरि ॥ १५६ ॥

१३८
विश्वप्रकाशः।
एतौ स्यातामुभौ नेत्रगोचरे चाटुकारिणि ॥
ईश्वरो विभवैराढ्ये शम्भौ स्वामिनि मन्मथे ॥ १५७ ॥
पार्वत्यामीश्वरामाहुपरः संशये युगे ॥
आकरो निवहोत्पत्तिस्थानश्रेष्ठेषु कथ्यते ॥ १५८ ।।
भास्करस्तपने वह्नौ प्रभाकरसमः स्मृतः ॥
पार्परो भक्तसिक्थे स्यात् कीनाशे राजयक्ष्मणि ॥ १५९॥
जराटेऽपि कदम्बस्य केशरेऽपि च भस्मनि ।।
शार्वरन्त्वन्धतमसे शार्वरो धातुकेऽन्यवत् ॥ १६० ॥
प्रान्तरं विपिने दूरशून्यवर्त्मनि कोटरे ।
शार्करो दुग्धफेणेऽपि शर्करान्वितदेशवत् ॥ १६१ ॥
शार्करो वृषभे छन्दोविशेषे शार्करं मतम् ॥
नागरं मुस्तके शुण्ठ्यां विदग्धे नागरोऽन्यवत् ॥ १६२ ॥
शंसन्ति नगरोद्भूते रतबन्धे च नागरम् ॥
वागरो वारके शाणे निर्झरे वाडवे वृके ॥ १६३ ॥
विशारदे मुमुक्षौ च गवामङ्के च वागरम् ॥
चामरं ग्रावमधुनोः पामरः स्वस्थनीचयोः॥
वासरो दिवसे रागप्रभेदेऽपि च वासरः॥ १६४ ॥
कान्तारमुपसर्गादौ वने दुर्गमवमनि ॥
शक्षुप्रभेदे कान्तारः पादारः पादधूलिषु ॥१६५ ॥
पादलिङ्गे च मन्दारः पारिभद्रार्कपर्णयोः ॥
मुरद्रुमेऽपि गान्धारः सिन्दूरे रागदेशयोः॥ १६६ ॥
आधारश्चाधिकरणेऽप्यालवालेऽम्बुधारणे ॥
आसारः स्यात् प्रसरणे वेगवर्षे सुहृद्दले ॥१६७॥
केदारः पर्वते शम्भौ क्षेत्रभेदालवालयोः॥
उदारो दातृमहतोदक्षिणेऽप्यभिधेयवत् ॥ १६८ ॥

विश्वप्रकाशः। १३९ मदारो द्विरदे धूर्ने विदारो दारणे रणे ।। विदारी शालपाञ्च रोगभेदे भगन्दरे ॥ १६९ ॥ विकारो विकृतौ रोगेऽप्याकारः संस्थिताङ्गयोः ॥ निकारः स्यात् परिभवे धान्यस्योत्किरणेऽपि च ॥१७०॥ प्रकारः सदृशे भेदे टङ्कारः पिञ्जिनीध्वनौ ॥ विस्मये च प्रसिद्धौ च दण्डारः शरयन्त्रके ॥ १७१ ।। कुलालचक्रे वहने दण्डारो मत्तवारणे ।। पिण्डारः क्षपणक्षेपे महिषीरक्षके द्रुमे ॥ १७२ ।। तुषारो हिमभेदे च मकरेऽपि हिमेऽपि च ॥ शुनारस्तु शुनीस्तन्ये सण्डिकलविङ्कयोः ॥ १७३ ।। कुमारो वालके स्कन्दे युवराजेऽश्वचारके ॥ शुके च वरुणद्रौ च कुमारं जात्यकाञ्चने ॥ १७४ ॥ कुमारी रामतरणीनवमाल्योर्नदीभिदि ।। कन्याऽपराजितागौरीजम्बूद्वीपेषु च स्मृता ॥ १७५ ।। आहारो भोजने हारे भवेदाहरणेऽपि च ॥ विहारो भ्रमणे स्कन्धे लीलायां सुगतालये ॥ १७६ ॥ कुटारं मैथुने विद्यात् कुटारं केवलेऽपि च ॥ कोहारो नागरे कूपे पुष्करिण्याञ्च पाटके ।। १७७ ॥ कडारः पिङ्गले दासे सम्भारः सम्भृतौ गणे॥ केनारः कुम्भिनरके शिरःकपालसन्धिषु ॥ १७८ ॥ शङ्करोऽग्निचटत्कारे सम्माजन्यवपुञ्जिते ॥ नरदृषितकन्यायां शङ्करा कापि दृश्यते ।। १७९ ॥ पङ्कारः शैवले सेतौ सोपाने जलकुब्जके ॥ संस्कारः प्रतियत्ने स्यात् सङ्कल्पेऽनुभवेऽपिच ॥ १८०॥ शालारं स्यादस्तिनखे सोपाने पक्षिपञ्जरे ।।

१४० विश्वप्रकाशः। कारो जठरे सूर्ये विरिश्चौ वारणे मुनौ ॥ १८१॥ मार्जार ओतौ धद्वांशे भृङ्गारः कनकालुके ॥ भृङ्गारी झिल्लिकायां स्यादङ्गारोऽलातभौमयोः ॥ १८२॥ शृङ्गारः सुरते नाट्यरसेऽपि गजमण्डने ॥ शृङ्गारं चूर्णसिन्दूरलवङ्गकुसुमेषु च ॥ १८३ ॥ विस्तारो विस्तृतौ स्तम्ब उद्धारश्चोद्धृतावृणे ॥ माठरो द्विजभेदे स्याम्यासेऽर्कपारिपार्श्वके ॥ १८४ ॥ शावरः पठ्यते रोधे तथा पापापराधयोः॥ शावरी शूकशिम्ब्याञ्च शारीरं देहजे वृषे ॥ १८५ ॥ करीरः कलशे वृक्षभेदे वंशाङ्कुरेऽपि च ॥ करीरी चीरिकायाश्च दन्तमूले च दन्तिनाम् ॥ १८६ ॥ शणीरं शोणमध्यस्थपुलिने दईरीतटे ॥ जम्बीरं प्रस्थपुष्पाख्यशाके दन्तशटेऽपि ॥ १८७ ॥ औशीरमाहुश्चमरदण्डे च शयनासने ॥ सौवीरं बदरे स्तोत्राअने देशे च काञ्जिके ॥ १८८ ॥ किर्मीरः कवुरे दैत्यराक्षसान्तरयोरपि ॥ काश्मीरं कुङ्कुमे प्रोक्तं टङ्कपुष्करमूलयोः ॥ १९९ ॥ पाटीरो वार्तिके रङ्गे मूलके तितउन्यपि ॥ थाराधरेऽपि केदारे वेणुसारेऽपि चेष्यते ॥ १९० ॥ अण्डीरः पुरुषे शक्ते हिण्डीरः पुरुष स्मृतः ॥ फेणे वातिङ्गणे चाऽपि धूसरः पाण्डुरे खरे ॥ १९१ ॥ कूबरः कुजके चारौ कूबरश्च युगन्धरे ॥ रूबरोऽश्मश्रुपुरुषे प्रौढाशृङ्गषेऽपि च ॥ १९२ ॥ स्यानीवरो वाणिजके वास्तव्येऽपि च नीवरः ॥ पीवरः कच्छपे स्थूले धीवरो लुब्धके बुधे ॥ १९३ ॥ ।

विश्वप्रकाशः। १४१ केशरं हिङ्गुनि प्रोकं केशरो नागकेशरे ।। सिंहच्छटायां पुन्नागकिञ्जल्कवकुलेष्वपि ॥ ११४ ।। किशोरस्तरुणावस्थे हयशावकसूर्ययोः । तैलायन्यां कुबेरस्तु नन्दीले धनाधिपे ॥ १९५॥ कणेरुः स्याद्शावेश्याकर्णिकारे गणेरुवत् ।। कैटीरुः शक्रगोपे च शक्रे च नकुलेऽपि च ॥ १९६ ॥ अगुरुः स्याच्छिशपायां जोङ्गकेपि लघुन्यपि ।। किंशारुः सस्यशूकेऽपि विशिखे कङ्कपक्षिणि ॥ १९७ ॥ भार्यारुः शैलभेदे स्यान्मृगभेदे च तत्र च ॥ क्रीडायां परभार्यायां पुत्रो येनोपपादितः॥ १९८ ।। कुठारुः पादपे कीशे कटपूः स्यान्महानटे । विद्याधरे रक्षसि च कटपूरक्षदेवने ॥ १९९ ॥ दासेरो दासिकापुत्रे दासेरः स्यात् क्रमेलके ॥ मयूरो बर्हिचूडायामपामार्गे शिखण्डिनि ॥ २० ॥ खजूंरं रजते विद्यादृश्चिकगुमभेदयोः ।। खजूरश्चाऽथ कच्चूंरं शटीकाश्चनयोर्मतम् ।। २०१ ॥ सिन्दुरस्तरुभेदे स्यात् सिन्दूरं रक्तचूर्णके ।। सिन्दूरी रोचनीरक्तचेलिकाधातकीषु च ॥ २०२ ।। वल्लूरं स्याद्वनक्षेत्रे वाइनोषरयोरपि । वल्लूरमाहुः संशुष्कमांसशूकरमांसयोः ॥ २०३ ॥ एकाग्रमकताने स्यादेकारश्चाप्यऽनाकुले ॥ नरेन्द्रो वार्तिके राज्ञि विषवैद्येऽपि कथ्यते ॥ २०४॥ महेन्द्रः पर्वते शक्रे जलेन्द्रो वरुणेऽम्बुधौ ॥ जम्भलेऽपि जलेन्द्रः स्यात् सामुद्रं देहलक्षणे ॥ २०५ ॥ सामुद्रश्च समुद्रीयलवणादिषु भेद्यवत् ।।

१४२
विश्वप्रकाशः।
खण्डाभ्रमभ्रलेशे स्यात् स्त्रीणां दन्तक्षतान्तरे ॥ २०६ ॥
कटित्रं रसनायां स्याचाङ्गे कटिवाससि ॥
शिलीन्धं कदलीपुष्पे करकत्रिपुटाख्ययोः ॥ २०७ ।।
शिलीन्ध्रः कथितो धीरैस्तङ्गमीनप्रभेदयोः॥
मृदा गण्डूपदी मोक्ता शिलीन्ध्री विहगीभिदि ॥ २०८ ॥
तमिस्र तिमिरे कोपे तमिस्रा च तमस्ततौ ॥
कृष्णपक्षनिशायाश्च त्वक्पत्रन्तु वराङ्गके ॥२०९ ॥
त्वपत्रीति च कारव्यां कलत्रं श्रोणिभार्ययोः॥
दुर्गस्थाने नृपादीनां पवित्रं वर्षणे कुशे ॥ २१० ॥
पवित्रं ताम्रपयसोमेध्ये चाऽपि तदन्यवत् ॥
सावित्रः शङ्करे प्रोक्तः सावित्री देवतान्तरे ॥ २११ ॥
दैत्यारित्रिदशे विष्णौ तित्तिरिविंहगे मुनौ ॥
शारिर्विन स्कन्दे जैमुरिः पावके पवौ ॥ २१२ ॥
मन्दुरा वाजिशालायां समीपार्थे च वस्तुनि ॥
उर्वरा सर्वसस्याढ्यभूमौ स्याद् मूमिमात्रके ॥ २१३ ॥
असुरा रजनीवास्योरसुरो दानवे रवौ ॥
वासुरा वासितायां स्याद्वासितेय्यां मता भुवि ॥ २१४ ॥
मसूरा ममुरा व्रीहिमभेदे पण्ययोषिति ॥
मसूरमसुरौ च द्वावेतावप्येतयोर्मतौ ॥ २१५ ॥
शर्करा खण्डविकृतावुपलाकर्परांशयोः ।
शर्करान्वितदेशे च रुग्भेदे सकलेऽपि च ॥ २१६ ॥
कच्छुरा शुकासम्ब्याञ्च शटीदुःस्पर्शयोरपि ॥
कच्छुरं वाच्यवत् पाहुः पामरे पुंश्चलेऽपि च २१७ ॥
मर्मरा तु दरीभाण्डमुररानिकुलासु च ।।
गायत्री कथिता छन्दम्प्रभेदे खदिरेऽपि च ॥ २१८ ॥

विश्वप्रकाशः।
१४३
सौरन्धी परवेश्मस्थशिल्पकृत्स्ववशस्त्रियाम् ।।
वर्णसङ्करसम्भूतस्त्रीमहल्लिकयोरपि ॥ २१९ ॥
खदिरी शाकभेदे स्यात् खदिरो दन्तधावने ॥
सुन्दरी स्त्रीतरुभिदोः शर्वरी रात्रियोपितोः ॥ २२० ॥
हरिद्रायाञ्च कवरी केशशाकविशेषयोः ।।
कवरं लवणेऽम्ले च तुम्बरी शरमईयोः ॥ २२१ ।।
मञ्जरी वल्लरीस्थूलमुक्तातिलकशाखिषु ॥
मर्मरी पीतदारौ स्याद्वस्त्रभेदे च मर्मरः ॥ २२२ ।।
टट्टरी स्यान्मृषावादे लम्पापटहवाद्ययोः॥
शक्वरा मेखलानयोश्छन्दोभेदेऽपि शक्करी ॥ २२३ ॥
सल्लरी सिल्लरी च द्वे हुडुक्के चारचक्रके।
कावेरी स्यात् सरिद्भेदे पण्यनारीहरिद्रयोः ॥ २२४ ॥
रचतुष्कम् ॥
भवेत् परिकरो वाते पर्यङ्कपरिवारयोः ॥
प्रगाढगात्रिकाबन्धे विवेकारम्भयोरपि ॥ २२५ ॥
व्यतिकरः समाख्यातो व्यसनव्यतिष:न्योः ॥
विभाकरोऽनौ तपनेऽवस्करो गूथगुह्ययोः ॥ २२६ ॥
कर्मकरस्तु कीनाशे भृत्ये वेतनजीविनि ॥
कर्मकरी तु मूर्वायां बिम्बिकाया पि कचित् ॥ २२७॥
अरुष्कारो व्रणकृति भल्लाते चाप्यरुष्करम् ॥
भवेत् सहचरो झिण्ट्यां वयस्यं प्रतिविम्बके ॥ २२८ ॥
निशाचरः पेचकाहियातुधानेषु फेरवे ॥
निशाचरी पंसुलायां भवेत् पक्षचरो विधौ ॥ २२९ ॥
यूथभ्रष्टपृथक्चारी वारणेऽपि प्रकीर्शितः ॥
चराचरं स्याजगति वाच्यवज्जङ्गमेङ्गयोः ॥ २३० ॥

१४४ विश्वप्रकाशः। विदुर्दशपुरं देशे मुस्तायां पत्तनेऽपि च ॥ अभिमरो वधे युद्धे तथा स्वबलसाध्वसे ॥ २३१ ॥ आहुः प्रतिसरं हस्तसूत्रे माल्येऽपि मण्डने । व्रणशुद्धौ चमूपृष्टे नियोज्यारक्षकङ्कणे ॥ २३२ ॥ मन्त्रभेदेऽप्यवसरो वर्षप्रस्तावयोरपि ॥ स्मृतः परिसरो मृत्यौ दैवोपान्त्यप्रदेशयोः ॥ २३३ ॥ दिगम्बरः स्यात् क्षपणे नग्ने तपसि शङ्करे ॥ पीताम्बरः पद्मनाभे भवेत् पीताम्बरो नटे ॥ २३४ ॥ कादम्बरन्तु दध्यग्रे मद्यभेदे च शीधुनि ॥ कादम्बरी परभृताभारतीशारिकासु च ॥ २३५ ॥ उदुम्बरस्तु देहल्यां वृक्षजातौ च पण्डके ॥ उदुम्बरं स्मृतं ताने कुष्टभेदेऽप्युदुम्बरः ॥ २३६ ॥ औदुम्बरः श्राद्धदेवे रोगभेदे च कथ्यते ॥ नीलाम्बरः प्रलम्बघ्ने कौणपे क्रूरलोचने ॥ २३७ ॥ आडम्बरः समारम्भे गजगार्जिततूर्ययोः ॥ निषद्वरस्तु जम्बाले निशायाञ्च निषद्वरी ।। २३८ ॥ उपहरं समीपे स्यादेकान्ते चाऽप्युपहरम् ॥ इन्दीवरं कुवलये वया॑मिन्दीवरी मता ॥ २३९ ॥ कारञ्जरो योगिचक्रे मेलके भैरवे गिरौ ।। कारअरोऽच्युते शके भवेद्विश्वम्भरा भुवि ॥ २४० ॥ दुरोदसे द्यूतकरे पणे द्यूते दुरोदरम् ॥ लम्बोदरः स्यादुद्ध्माते गणानामधिपेऽपि च ॥ २४१ ॥ अनुत्तरः स्मृतः श्रेष्ठे प्रतिजल्पविवर्जिते ॥ तुलाधरस्तुलाराशौ भवेद्वाणिजकेऽपि च ॥ २४२ ॥ भवेत्तोयधरो मेघे सुनिषण्णौषधेऽपि च ॥

विश्वप्रकाशः। १४५ धुरन्धरो धवतरौ धूर्वहेऽपि धुरन्धरः ॥ २४३ ॥ चक्रधरो हरो सर्प वाच्यवद्रामजालिनि । अश्वतरो वेसरे च नागराजान्तरेऽपि च ।। २४४ ॥ विदुरितरं श्रेष्ठे शरवीरणयोरपि ॥ नभश्चरो घने वाते विद्याधरविहङ्ग्योः ॥ २४५ ॥ उदन्तुरः स्यादुत्तुङ्गे करालोत्कटदन्तयोः । द्वैमातुरो जरासन्धवारणाननयोर्मतः ॥ २४६ ।। परम्परः प्रपौत्रादौ मृगभेदे परम्परः॥ परम्परा परीपाव्यं सन्तानेऽपि वधे कचित् ।। २४७ ॥ धराधरः क्ष्माभृति चक्रपाणौ धाराधरस्तोयघरे कृपाणे ॥ पयोधरः स्यात् कुचकोषकार- कसेरुकाम्भोधरनारिकेले ॥ २४८॥ कलिकारः करले स्याद् धूम्याटे पीतमस्तके ।। अलङ्कारस्तूपमादौ हारकेयूरकादिषु ॥ २४९ ॥ कर्णिकारश्च सम्पाके कर्णिकारो दुमोत्पले ॥ रथकारस्तु माहिष्ये करणीजे च तक्षणि ।। २५० ।। चर्मकारः स्मृतः पादुकृति चर्मकषौषधे ॥ चर्मकारी च कथिता प्रतिकरः समे भटे ॥ २५१॥ घनसारस्तु कर्पूरे दक्षिणावर्त्तपारदे ।। कृष्णसारः स्नुहीक्षे शिंशपामृगभेदयोः ॥ २५२ ।। गिरिसारो भवेल्लोहे लिङ्गे मलयपर्वते । पीतसारो मलयजे गोमेदकमणावपि ।। २५३ ॥ शालसारो द्रुमे हिङ्गौ सूत्रधारः शचीपतौ ॥ नाव्यानन्तरसञ्चारिपात्रशिल्पिप्रभेदयोः ॥ २५४ ॥ १९ १४६ विश्वप्रकाशः। दण्डधारो यमे भूपे सम्पहारो रणे गतौ ॥ प्रतीहारपतीहायौँ द्वाःस्थे द्वारेऽप्यनन्तरे ॥ २५५ ॥ अभिहारोऽभियोगे च चौर्ये सन्नहनेऽपि च ॥ व्यवहारो द्रुभेदे स्यायवहारः पणे स्थितौ ।। २५६ ॥ अवहारः स्मृतश्चौरे द्यूतयुद्धादिविश्रमे ॥ निमन्त्रणोपनेतव्यद्रव्ये ग्राहाख्ययादसि ॥ २५७ ॥ परिवारः परिजने खड्डकोषे परिच्छदे ॥ पारावारः समुद्रे च पारावारं तटद्वये ॥ २५८ ॥ अवतारोऽवतरणपुष्करिण्यादितीर्थयोः ।। अकूपारः समुद्रेऽपि कूर्मराजेऽपि कीर्तितः ॥ २५९ ॥ शिशुमारोऽम्बुसम्भूतजन्तौ तारात्मकाच्युते ॥ सुकुमारश्च पुण्डेशौ कोमले त्वऽभिधेयवत् ॥ २६० ॥ धुन्धुमारः शक्रगोपे गृहधूमे पदालिके । कर्णपूरोऽवतंसे स्यान्नीलोत्पलशिरीषयोः ॥ २६१ ॥ करवीरः कृपाणे स्यादैत्यभेदाश्वमारयोः॥ श्रेष्ठगव्यां पुत्रवत्यामदितौ करवीर्यपि ॥ २६२ ॥ महावीरः पवौ तार्थे शूरे सिंहेऽपि कोकिले ॥ मखानले च कर्के च महावीरो जराटके ॥ २६३ ॥ आत्मवीरः प्राणवति श्यालपुत्रे विदूषके ॥ चार्वटीरस्त्रपावाम्रास्थ्न्यकुरे गणिकासुते ॥ २६४ ॥ चित्रटीरो विधौ भालमङ्कितं येन तत्र च ॥ घण्टाकर्णोपहाराय हतच्छागास्रविन्दुभिः ॥ २६५ ॥ पात्रटीरो बुधैरुक्तो मुक्तव्यापारमन्त्रिणि ॥ लोहकांस्ये जरत्पात्रे प्रमाणे पावकेऽपि च ॥ २६६ ॥ धाराङ्कुरः मुनासीरे शीकरेऽपि धनोपले ॥

विश्वप्रकाशः। १४७ समुद्रारुः स्मृतो ग्राहे सेतुबन्धे तिमिङ्गिले ।। २६७ ।। विश्वकद्रुः खले ध्वाने स्यादाखेटिककुक्कुरे ॥ असिपत्रो भवेत् कोषकारे च नरकान्तरे ॥ २६८ ॥ शतपत्रो राजकीरे दाघाटमयूरयोः ॥ राजीवे शतपत्रन्तु वातपुत्रो हनुमति ॥ २६९ ॥ महाधुर्ने च भीमे च लक्ष्मीपुत्रः स्मरे हये ।। पूर्णपात्रं वस्तुपूर्णपात्रे व पकेऽपि च ॥ २७० ॥ महामात्रः सरदेऽग्रमात्येहस्तिपकाधिपे ।। विन्दुत विदुः शारिफलके चतुरङ्गके ।। २७१ ।। रागसूत्रं तुलासूत्रे पट्टसूत्रेऽपि दृश्यते ॥ तालपत्रन्तु ताटङ्के रण्डायां तालपत्र्यपि ॥ २७२ ।। अग्निहोत्रोऽग्निहविषोर्वीविहोत्रोऽनलार्कयोः ॥ बीरभद्रोऽश्वमेधाश्वे वीरश्रेष्ठे च वीरणे ॥ २७३ ।। पारिभद्रस्तु मन्दारनिम्बपादपयोर्मतः ॥ बलभद्रो रौहिणेये त्रायमाणौषधावपि ।। २७४ ।। वलभद्रा कुमार्या स्यादर्द्धचन्द्रस्तु चन्द्रके ।। गलहस्ते वाणभेदेऽप्यर्द्धचन्द्रा विद्भिदि ।। २७५ ॥ धार्तराष्ट्रोऽसितास्याङ्ग्रिहंसकौरवभोगिषु ।। धृतराष्ट्रः सुराज्ञि स्यात् पक्षिक्षत्रियभेदयोः ।। २७६ ॥ धृतराष्ट्री हंसपल्यां स्थिरदंष्ट्रो भुजङ्गमे ॥ वराहाकृतिविष्णौ च वनक्रः शुके खले ॥ २७७ ॥ कटम्भरा प्रसारण्यां रोहिण्यां गजयोषिति ॥ कलम्विकायां गोलायां वर्षाभूमूर्वयोरपि ।। २७८ ।। मणिच्छिद्रा तु मेदायामृषभाख्यौषधेऽपि च ।। तुङ्गभद्रा नदीभेदे तुङ्गभद्रो मदोत्कटे ॥ २७९ ।।

१४८ विश्वप्रकाशः। दण्डयात्रा दिग्विजये सन्दानवरयात्रयोः ॥ देहयात्रा भोजने स्यात् कृतान्तागमनेऽपि च ॥ २८० ॥ विभावरी हरिद्रायां रजन्याञ्च विभावरी ॥. विवादे वस्त्रकुट्याश्च कुट्टन्यां चक्रयोषिति ॥ २८१॥ कुम्भकारी कुलाल्यां स्यात् कुम्भकारः कुलालके । तुण्डिकेरी तु कार्पास्यां विम्बिकायामपीष्यते ॥ २८२॥ रपञ्चकम् ॥ पांशुसञ्चार इत्येष र्वाचिततटीभुवि । वर्द्धापके प्रशंसायां पुरोटौ धूलिगुच्छके ॥ २८३ ॥ स्यात् पादचत्वरश्छागे सैकते पिप्पलेऽपि च ॥ विप्रतीसारमिच्छन्ति कौकृत्येऽनुशये रुषि ॥ २८४ ॥ समभिहारो भृशत्वे पौनःपुन्येऽपि कथ्यते ॥ करके परदोषैकभाजि पूरुषकेऽपि च ॥ २८५ ॥ गीतकावेरमिच्छन्ति पित्तले कुङ्कुमेऽपि च ॥ तालीशपत्रं तालीशे तामलक्यामपि स्मृतम् ।। २८६ ॥ भवेद्वत्पलपत्रन्त तद्दले स्वीनखक्षते ॥ तमालपत्रं तापिर्छ तिलके पत्रकेऽपि च ॥ २८७ ॥ सर्वतोभद्र इत्युक्तः काव्यचित्रे गृहान्तरे ।। निम्बेऽपि सर्वतोभद्रा गम्भारीनटयोषितोः ॥२८८ ॥ वस्वौकसारा श्रीदस्य शक्रस्य नलिनीपुरोः ॥ भवेत् कपिलधाराख्या स्वर्नदीतीर्थभेदयोः ॥ २८९ ॥ इति रान्तवर्गः॥ लद्विकम् ॥ बलं गन्धरसे रूपे स्थामनि स्थौल्यसैन्ययोः॥

विश्वप्रकाशः।
१४९
बलो हलायुधे दैत्यभेदे वलिनि वायसे ॥ १ ॥
वाट्यालके बला तूक्ता पलञ्चोन्मानमांसयोः ।।
फलं हेतुसमुत्थे स्यात् फलके व्युष्टिलाभयोः ॥२॥
जातीफलेऽपि कक्कोले सस्यवाणाग्रयोरपि ॥
फलिन्यान्तु फलं प्राहुखिफलायां फलं कचित् ॥ ३ ॥
जलं गोकवले नीरे हीवेरे च जडेऽन्यवत् ॥
खलं भूस्थानकल्केषु क्रूरे नीचेऽधमे खलः ॥४॥
गलः सर्जरसे कण्ठे चलः कम्पे चलाश्रये ॥
दलं शस्त्री छदोत्सेधतद्रव्ये खण्डपर्णयोः॥५॥
नलः पोटगले राज्ञि पितृदेवे कपीश्वरे ।।
नली मनःशिलायान्तु मलिने तु नलं मतम् ॥ ६ ॥
तलं स्वरूपाधरयोः खड़मुष्टिचपेटयोः ॥
ज्याघातवारणेऽपि स्यातलस्तालतरावपि ॥ ७॥
मलं किट्टे पुरीषे च पापे च कपणे मलः ।।
शलन्तु शल्लकीलोम्नि शलो भृङ्गे गणे विधौ ॥ ८॥
खिलं भवेदमहते सारसंक्षिप्तवेधसोः॥
बिलं छिद्रे गुहायाञ्च बिल उच्चैःश्रवोहये ॥ ९ ॥
बलन्तु स्खलिते व्याजे पुलन्तु पुलिनेऽन्यवत् ॥
पुलः स्यात् पुलके चाऽपि कुलं जनपदे गृहे ॥१०॥
सजातीयगणे गोत्रे देहेऽपि कथितं कुलम् ॥
कालो मृत्यौ महांकाले समये यमकृष्णयोः ॥ ११ ॥
कृष्णत्रिवृत्तौ काला तु नीलीमञ्जिष्ठयोरपि ॥
काली गौर्या क्षीरकीटे कालिकामातृभेदयोः ॥ १२ ॥
नवाम्बुवाहबन्देऽपि परिवादेऽपि च कचित् ।।
भाल ललाटमहसोर्गालः स्कन्दमहीरुहोः ॥ १३ ॥

१५० विश्वप्रकाशः। शालो हालनृपे मत्स्यप्रभेदे सजपादपे॥ शाला गृहे तरुस्कन्धशाखागारैकदेशयोः ॥ १४ ॥ मालं क्षेत्रे गृहे मालो माला पुष्पादिदामनि ॥ साल : पादपमानं स्यात् प्राकारे शङ्कुकद्रुमे ॥ १५ ॥ तालः करतलेऽङ्गुष्ठमध्यमाभ्याञ्च सम्मिते ॥ गीर कालक्रियामाने ताला खड्गादिमुष्टिषु ॥ १६ ॥ द्रुमभेदे करास्फाले तालन्तु हरितालके । वाद्यभाण्डे च कांस्यस्य तालश्छदिषि कम्पने ॥ १७॥ जालं गवाक्ष आनाये क्षारके दन्तवृन्दयोः।। जालो नीपद्रुमे जाली कोषातक्यामुदाहृता ॥ १८ ॥ व्यालो भुजङ्गमे क्रूरे श्वापदे दुष्टदन्तिनि ॥ नालं दण्डे सरोजस्य नाली शाककलम्बके ॥ १९॥ स्थालं भाजनभेदेऽपि स्थाली स्यात् पाटलोखयोः ॥ फालं शिरोपकरणे कार्पासादिकवाससि ॥२०॥ बालः कचे शिशौ मूर्खे हीवेरे श्वेभपुच्छयोः॥ अलङ्कारान्तरे मेध्ये वाली वाला त्रुटिस्त्रियोः ॥ २१ ॥ चेलो नीचेऽन्यवच्चेलमंशुके गर्हितेऽन्यवत् ।। भेलः प्लवे भीरुके च निर्बुद्धिमुनिभेदयोः॥२२॥ कॉलोऽङ्कपालावुत्सङ्गे भेलके पोत्रिचित्रयोः । कोला कणायां चव्ये च कोलन्तु बदरीफले ॥ २३ ॥ शैलो भूभृति शैलन्तु शैलेये ताक्ष्यशैलके । शीलं स्वभावे सद्वृत्ते नीलः कृष्णे नमान्तरे ॥ २४ ॥ नीलः कपीश्वरे नीली वृक्षलाञ्छनभेदयोः॥ कूलं स्तूपे तडागे च सैन्यपृष्ठप्रतीरयोः ॥ २५ ॥ कूलः पिचौ भवेत् कूलं ब्रह्मदारुविहायसोः ।।

विश्वप्रकाशः।
१५१
मूलमाये शिफायां स्याद्भनिकुञान्तिकेषु च ॥ २६ ॥
शूलं प्रहरणे मृत्यौ केतने रोगयोगयोः ।
शूला दुष्टवधार्थाय कीलके पण्ययोषिति ॥ २७ ॥
स्थूलं स्यात् पीवरे कूटे निष्पज्ञे पुनरन्यवत् ।।
अम्लो रसप्रभेदे स्यादाम्ली चाङ्गेरिकौषधौ ॥ २८ ॥
शुक्लो योगान्तरे श्वेते शुक्लञ्च रजते मतम् ॥
मल्लः पात्रे कपाले च मत्स्यभेदे बलीयसि ॥ २९ ॥
भल्लो भल्ली च वाणे स्याभल्लो भल्लुक इष्यते ॥
भल्लातक्यान्तु भल्ली स्यादोल्लश्चाट्टै च शूरणे ॥ ३० ॥
चुल्लचिल्लो मतौ क्लिन्ने नेत्रे क्लिन्नाक्षिण पिल्लवत् ।।
आतापिनि भवेचिल्लश्चिल्ली स्यागौडवास्तुके ॥ ३१ ॥
चुल्ली चितायामुद्वाने कचिद्वाद्येऽप्युदीरिता ।।
बली वीरुधि सन्ताने वल्कले कुसुमाम्बरे ॥ ३२ ॥
खल्ली तु हस्तपादावमईनाख्यरुजि स्मृता ।।
खल्लो वस्त्रप्रभेदे स्यानिने चणि चातके ॥ ३३ ॥
आलुर्गलन्तिकायां स्यात् कन्दभेदे च भेलके ।
पीलुर्ग द्रुमे काण्ड़े परमाणुप्रसूनयोः ॥ ३४ ॥
पीलुस्तालास्थिखण्ड़े च मालुः पत्रलतास्त्रियोः ॥
शालुः कषायद्रव्ये स्याचौरकाख्यौषधेऽपि च ॥ ३५ ॥
वलिश्चामरदण्ड़े च जरया श्लयचर्मणि ॥
उदरावयवे दैत्ये करपूजोपहारयोः ॥ ३६ ।।
गृहदारुविशेषे च गन्धकेपि कचिन्मतः॥
दोला यानान्तरे नील्यां मेला स्यान्मेलके मुनौ ॥ ३७॥
इला कलत्रे सौम्यस्य धरित्र्यां गवि वाचि च ॥
कीलः कफोणी निर्घात शङ्काज्वाले तु कीलवत् ॥ ३८ ॥

१५४ विश्वप्रकाशः। जगलः पिष्टमये च मेदके मदनद्रुमे ॥ ६२ ॥ कितवे छगलश्छागे छगली छागमातरि ।। वृद्धदारकभैषज्ये छगलं नीलवासासि ॥ ६३ ॥ पिप्पलो बोधिवृक्षे स्यात् पक्षिभेदे निरङ्गुले । पिप्पलं वसनच्छेदे भेदेऽपि सलिले मतम् ॥ ६४ ॥ कणायां पिप्पली चोक्ता धवलः सुन्दरे सिते ॥ महोक्षे चाऽथ धवली सौरभेय्यामुदीरिता ॥ ६५ ॥ कुवलञ्चोत्पले मुक्ताफलेऽपि बदरीफले ॥ कुशलः शिक्षित क्षेमपर्याप्तिसुकृतेषु च ॥६६॥ कुशलं मुषलं तु स्यादयोऽग्रे मुषली मता ॥ तालमूल्यामाखुपर्णी गृहगोधिकयोरपि ॥ ६७ ॥ निचुलो हिज्जलतरौ निचुलश्च निचोलके ॥ पिचुलो झावुकेऽपि स्याद् हिज्जले जलवायसे ॥ ६८ ॥ विपुलः पृथुलेऽगाधे मेरुपश्चिमभूधरे ॥ तुमुलः कलिवृक्षे स्यात्तुमुलं रणसङ्कुले ॥ ६९ ॥ बहुलः कृष्णपक्षेऽनौ शितौ च बहुला गवि ।। एलायां नीलिकायाञ्च बहुला कृत्तिकासु च ॥ ७० ॥ बहुलं प्राज्यनभसोर्मातुलो मदनमदुमे ॥ मातभ्रातरि धुत्तूरे व्रीहिभेदेऽपि मातुलः ॥ ७१ ॥ कुटिलं वाच्यवद् भुग्ने कुटिला सरिदन्तरे ॥ जटिलस्तु जटायुक्त जटिला मासिकौषधौ ॥ ७२ ॥ सुतलप्रतलौ चेति पातालभुवनद्वये ॥ स्यातामट्टालिकावन्धे तताङ्गुलिकरे क्रमात् ॥ ७३ ॥ पित्तलं तैजसद्रव्ये पित्तलः पित्तसङ्गते ।। पित्तला तोयपिप्पल्या निस्तलं वर्तुले चले ॥

विश्वप्रकाशः।
१५५
कुन्तलः स्याद्यवे देशे केशलाङ्गलयोगपि ॥ ७४ ॥
कम्बलो नागराजे स्यान् सास्नापावारयोः कृमौ ॥
कम्बलश्चोत्तरासङ्गे कम्बलं सलिले मतम् ॥ ७ ॥
शम्बलं कुलपाथेयमत्सरेषु समीरितम् ।।
कन्दलस्तु कपाले स्यादुपरागे नवाङ्कुरे ॥ ७६ ॥
कलध्वनौ कन्दली तु मृगपक्षिविशेषयोः ॥
पिङ्गलः स्यान्मुनो रुद्रे चण्डांशोः पारिपार्धके ।। ७७ ॥
निधिभेदे कपावग्नौ पिङ्गलः कपिलेऽन्यवत् ॥
करायिकायां वेश्यायां पिङ्गला कुमुदस्त्रियाम् ।। ७८ ॥
जङ्गलो जलनिर्मुक्तदेशे मांसे च जङ्गलम् ॥
मङ्गलं श्रेयसि श्वेतदुर्वायामपि मङ्गला ॥ ७९ ॥
सर्वार्थलक्षणे चापि मङ्गलं समुदीरितम् ।।
कुण्डलं वलये पाशे कुण्डलं कर्णपूरणे ।।
गुडूच्यां काञ्चनादौ च कुण्डली समुदीरिता ॥ ८० ॥
स्यान्मण्डलं द्वादशराजके च
देशे च विन्वे च कदम्बके च ॥
कुष्ठप्रभेदेऽप्युपसूर्यकेऽपि
भुजङ्गभेदे शुनि मण्डलः स्यात् ।। ८१ ।।
स्थादर्गलन्तु कल्लोले दण्डे चान्तःकपाटयोः ॥
निर्मलं विमले विद्यान्निर्माल्याभ्रकयोरपि ।। ८२ ॥
शौष्कलः शुष्कमांसस्य पणके पिशिताशिनि ।
पांशुलः पुंश्वले शम्भोः खट्वाङ्गे पांशुला भुवि ॥ ८३ ॥
सङ्कुलं वाच्यवद्याप्तेऽविस्पष्टार्थवचस्यपि ॥
उज्ज्वलो दीप्तशृङ्गारविशदेषु विकाशिनि ॥ ८४ ॥

१५६
विश्वप्रकाशः।
वजुलो वेतसाशोकतिनिशेष्वऽथ मजुलम् ॥
निकुळे शैवले मञ्जौ जलरकौ तु मज्जुला ॥ ८५॥
पिञ्जलन्तु हरिद्राभे कुशपत्रेऽपि पिञ्जलम् ॥
पुद्गलः सुन्दराकारे पुद्गलश्चात्मदेहयोः ॥
जम्भलो देवताभेदे जम्बीरेऽपि च जम्भलः ॥ ८६॥
कुम्भिल: श्यालके चौरे श्लोकच्छायाहरे झषे ॥
चन्द्रिलो नापिते ख्यातो हरवास्तुकशाकयोः ॥ ८७ ॥
ग्रन्थिलो ग्रन्थिसहिते करीरद्रौ विकङ्कते ॥
वामिलो दाम्भिके यामे रामिलो रमणे स्मरे।। ८८॥
वाईलं दुर्दिने मेलानन्दायामपि वाईलः ॥
तण्डुलाख्या विडङ्गे स्याद्धान्यादिनिकरेऽपि च ॥ ८९॥
वृषलः कथितः शूद्रे चन्द्रगुप्ते च वाजिनि ।।
निष्कलस्तु कलाशून्ये नष्टबीजे तु वाच्यवत् ॥ ९० ॥
पाकलं कुष्ठभैषज्ये पाकलः कुञ्जरज्वरे ।।
पाचलो राधनद्रव्येऽप्यनिलानलयोरपि ॥ ९१ ॥
माचलो वन्दिचौरे स्याद्राहे रक्षसि चाऽमये ।
पाटलः श्वेतरक्ते स्यादाशुव्रीहौ च पाटलः ॥ ९२ ॥
पाटलौ पाटलापि स्यादस्याः पुष्पेऽपि पाटलम् ॥
लौहलः शृङ्खलाधार्ये भवेदव्यक्तवाचि च ॥ ९३ ॥
कोहलो मद्यभेदे स्यात् कोहलः स्यान्सुनावऽपि ॥
तैतिलो गण्डके प्रोक्तस्तैतिलं करणान्तरे ॥ ९४ ॥
हेमलः स्वर्णकारे स्यात् कृकलासे शिलान्तरे ।
श्यामलो मेचेकेऽश्वत्थे कोमलो मृदुले दले ॥ ९५ ॥
कामलः कामुके रोगे मरुदेशवसन्तयोः ।।
पेशलो रुचिरे दक्षे गोकिलो मुषले हले ॥९६ ॥

विश्वप्रकाशः। १५७ गौरिलो लोहचूर्णे स्याद्गोरिलो गौरसर्पपे ॥ फेनिलः स्यादरिष्टे च फेनिलं बदरीफले ॥१७॥ मदनस्य फले चाऽथ वाच्यवत् फेनवत्यपि ॥ शावलाख्या तु शैवाले शैलेयेऽपि च शावलम् ।। ९८ ॥ शैवलं पद्मकाष्ठे च शेवलञ्च जलाञ्चले ॥ शीतलं पुष्पकासीसे शैलजे मलयोद्भवे ॥ १९ ॥ भवेदासनपाश्च शीतलः शिशिरेऽन्यवत् ।। कल्लोलो हर्ष उल्लोले कल्लोलः परिपन्थिनि ॥ १०॥ पटोलमोषधीवस्त्रभिदोर्योत्स्न्यां पटोल्यपि ॥ काकोलो विषभेदे स्याद्रोणकाककुलालयोः॥१०१॥ तमालस्तिलके खड़े तापिञ्छे वरुणद्रुमे ॥ सुवेलः प्रणते शान्ते सुवेलः पर्वतान्तरे ॥ १०२ ॥ अवेलस्त्वपलापे स्यादवेला पूगचूर्णके । कपालं शिरसोऽस्थिन स्याद् घटादिशकले बजे ॥१०३॥ कुष्ठरोगविशेषे च गोपालो गोपभूपयोः ॥ किट्टालस्ताम्रकलशे किट्टालो लोहगूथके ॥ १०४ ॥ पातालं नागलोके स्यात् पातालं वडवानले ॥ प्रवालो वल्लकीदण्डे विद्रुमे नवपल्लवे ॥ १०५ ॥ अरालः कुटिले सर्जरसे समददन्तिनि ॥ करालो दन्तुरे तुङ्गे करालञ्च कुठेरके ॥ १०६ ॥ करालोधूनतैलेऽपि करालो भीषणेऽन्यवत् ॥ शृगालो जम्बुके दैत्ये शृगाली डमरे विदुः॥ १०७॥ कुलालः कुम्भकारे स्यात् कुक्कुभे कौशिकेऽपि च ॥ कुद्दालो युगपत्रे स्यात् कुद्दालो भूमिदारणे ॥ १०८ ॥ विडालो नेत्रपिण्डे स्याद्विडालोऽपि खगान्तरे ॥

१५८ विश्वप्रकाशः। विडाली पूतनाभेदे लताघूकेऽपि शस्यते ॥ जम्बालं शैवले पङ्के कीलालं रुधिरे जले ॥ १०९॥ वण्ठीलं शूरयोर्युद्धे नौकायाश्च खनित्रके ॥ आभीलञ्चाऽपि कृच्छ्रे स्यादाभीलश्च भयानके ॥ ११० ॥ नाभीलं नाभिगर्भाण्डे बसणे प्रोक्तमस्त्रियाः ॥ उत्फुल्लः करणे स्त्रीणामुत्ताले च विकस्वरे ॥ १११ ॥ शयालुः स्यादजगरे निद्राशीलेऽपि कुक्कुरे ॥ श्रद्धालुदोहदिन्याञ्च श्रद्धावति तु वाच्यवत् ॥ ११२ ॥ लाङ्गुलं मेहने पुच्छे शार्दूलो राक्षसान्तरे ॥ व्याघ्र च पशुभेदे च सत्तमे तूत्तरस्थितः॥ ११३ ॥ वातूलो वातसङ्घाते वातुले मारुतासहे ॥ कुकूलं शङ्कुसङ्कीर्णे श्वभ्रे चाऽपि तुषानले ॥ ११४ ॥ कुकूलं स्याद् दुकूलन्तुक्षौमे सूक्ष्मांशुकेऽपि च ॥ जम्बूलो जम्बुविटपे जम्बूलः क्रकचच्छदे ॥ ११५ ॥ चषालो होमकुण्डे स्याद्र्ते चोत्ताल उत्कटे ॥ श्रेष्ठेऽपि विकरालेऽपि स्यादुत्तालः प्लवङ्गमे ॥ ११६ ।। चूडाली तूचटायां स्याच्चूडावति तु वाच्यवत् ॥ विशाला विन्द्रवारुण्यां विशालोऽज्जयिनीपुरि ॥ ११७ ॥ विशालो वृक्षभेदेऽपि विशालः पृथुलेऽन्यवत् ॥ मेखला खड्गबन्धे स्यात् काञ्चीशैलनितम्बयोः ॥ ११८ ॥ शृङ्खला पुंस्कटीवस्त्रबन्धेऽपि निगडेऽपि च ॥ कुचेला विद्धपा स्यात् कुचेलस्तु कुवाससि ॥ ११९ ॥ अचला वसुधायां स्यादचलः शैलकीलयोः ॥ चञ्चला तु तडिल्लक्ष्म्योश्चञ्चलः कामुकेनिले ॥ १२० ॥ इल्वला तारकाभेदे इल्वलो दैत्यमत्स्ययोः ॥

विश्वप्रकाशः। पिच्छिला शाल्मलीसिन्धुभेदपोनकिकासु च ॥ १२१ ॥ पिच्छिला शिंशपायाश्च पिच्छिलो विजलेऽन्यवत् ।। सप्तला पाटलौ गुआनवमालिकयोरपि ॥ १२२ ॥ भवेच्चर्मकशायाञ्च महिला भीमगुन्द्रयोः । सिध्मला मत्स्यचूर्ण स्यात् सिध्मलश्च किलासिनि॥१२३॥ सन्धिला तु सुरुङ्गायां नदीमन्दिरयोरपि ॥ रसाला मार्जितायां स्याजिहादूर्वाविदारिषु ॥ रसालं सिहके बोले रसालचेक्षुचूतयोः ॥ १२४ ॥ विमला शीतलायां स्याद् भुवो भेदे च निर्मले ॥ विमले चाऽमला लक्ष्म्यामऽमलं विशदेऽभ्रके ॥ १२५ ।। श्रीफली नीलिकाधान्योर्मालूरे श्रीफलः स्मृतः ॥ खण्डाली तैलमाने स्यात् सरसीकामुकस्त्रियोः ॥ १२६ ॥ पातली वागुरायां स्यानारीमृत्पात्रभेदयोः ।। जाङ्गली शूकशिम्ब्यां स्याज्जाङ्गलश्च कपिञ्जले ॥ १२७ ॥ लागली गजपिप्पल्यां लागलं कुसुमान्तरे ।। सीरेऽपि लागलं तालगृहदारुविशेषयोः ॥ १२८ ।। अङ्गुली करशाखायां कर्णिकायां गजस्य च ॥ जाजुली विषविद्यायां जाङ्गुलं जालिनीफले ॥ १२९ ।। कदली वैजयन्त्याञ्च रम्भायां हरिणान्तरे ॥ कदला शाल्मलीब्राह्मीडिम्बिकासु च कथ्यते ॥ १३० ॥ नकुली कुक्कुटीमांस्योनकुलः पाण्डवे पशौ ॥ नाकुली कुक्कुटीकन्दे नाकुली चव्यरास्नयोः ॥ १३१ ॥ नेपाली नवमालीमनःशिलासुवहासु च ॥ ताम्बूली नागवल्ल्याश्च ताम्बूलं क्रमुकेऽपि च ॥ १३२ ॥ पञ्चाली पुत्रिकागीत्योः पञ्चालो जनदेशयोः ।

१६० विश्वप्रकाशः। शाल्मली तरुभेदे स्याद्दीपभेदे च शाल्मली ॥ १३३ ॥ केवलो ज्ञानभेदे स्यात् केवलश्चैककृत्स्नयोः ॥ निर्णीते केवलञ्चोक्तं केवलः कुहने कचित् ॥ १३४ ।। काहली तु तरुण्यां स्यात् काहलं भृशशुष्कयोः ॥ वाद्यभाण्डविशेषे तु काहला काहले खले ॥ १३५ ॥ गन्धोली वरटाभद्राशटीषु कथिता बुधैः ॥ अअली कुडवे विद्यादञ्जलिः करसम्पुटे ॥ १३६ ॥ लचतुष्कम् ॥ मदकलः स्यान्मत्तेभे मदेनाव्यक्तवाचि च ॥ भवेत् कलकलः सर्जरसे कोलाहलेऽपि च ॥ १३७ ॥ स्मृतो विचिकिलो मल्लीप्रभेदे मदनेऽपि च ॥ बृहन्नलो गुडाकेशे महापोटगले मतः ॥ १३८ ॥ परिमलो विमर्दै च स्यान्मनोहरगन्धवत् ॥ रतोपमईविकसदेहरागादिसौरभे ॥ १३९ ॥ यवफलः स्मृतो वेणौ मांसीकुटजयोरपि ॥ मुक्ताफलन्तु कर्पूरे मौक्तिके लवलीफले ॥ १४ ॥ सदाफलः स्कन्दफले नारिकेलेऽप्युदुम्बरे । विदुः कर्मफलं कर्मरङ्गकर्मविपाकयोः ॥ १४१ ।। मृत्युफलो महाकाले कदल्यां मृत्युफल्यऽपि ॥ भवेद्वायुफलं शक्रकार्मुके करकेऽपि च ॥ १४२ ।। हलाहलोविषे ज्येष्ठयां हयलालाद्वयोरगे ॥ कुतुहलं कौतुके स्यात् प्रशस्तेऽपि कुतूहलम् ॥ १४३ ॥ दलामलं दमनके तथा मरुवकेऽपि च ॥ महाबलं सीसके स्याद् बलाढ्येऽपि महाबला ॥ १४४ ॥ वेदतिबलायाश्च खतमालो बलाइके । " विश्वप्रकाशः। धूमेऽपि कन्दरालः स्यात् पर्कीगईभाण्डयोः ॥ १४५ ।। महाकालस्त्रिनयने किम्पाके प्रमथान्तरे ॥ महानालो भृङ्गराजे मणिनागविशेषयोः ॥ १४६ ॥ भवेद् बहुफलाभिख्याऽऽमलकीनीपवृक्षयोः॥ जलाचलं स्वतोवारिनिर्गमे शैवलेऽपि च ॥ १४७ ।। गण्डशैलो ललाटे स्याच्युते स्थूलोपले गिरेः॥ उलूखलं गुग्गुले स्यात् कण्डन्यर्थे उलूखलम् ॥ १४८॥ चक्रवालोऽद्रिभेद स्याचक्रवालन्तु मण्डले ॥ स्मृतः पोटगलः काशे नले पोटगलो झपे ॥ १४९ ॥ हस्तिमल्लोऽभ्रमातङ्गे हस्तिमल्लो विनायक ॥ भस्मतूलं ग्रामकूटे पांशुवर्षे हिमेऽपि च ॥ १५० ॥ वातकोलिः कलालापे पिङ्गानां दन्तलेखने ॥ कमण्डलुः स्यात् करके पर्कटीपादपेऽपि च ॥ १५१ ॥ अक्षमालाऽक्षसूत्रे स्यादरुन्धत्यामपि स्मृता ।। मणिमाला स्मृता हारे स्त्रीणां दन्तक्षतान्तरे॥१५२।। ध्वनिलीला स्मृता वेणौ कालावीणयोरपि । रजस्वला पुष्पवत्यां सैरिभेऽपि रजस्वलः ॥ १५३ ॥ एकाष्टीलामपि प्राहुः शिवमल्लौषधीभिदोः ॥ अतिबला बलाभेदे प्रवालेऽतिवलो मतः ॥ १५४ ॥ भद्रकाली तु गन्धोल्यामुमायामोषधीभिदि ॥ हरिताली नभोरेखाखिड़लतासु च ॥ १५५ ॥ अन्धपाली स्मृता कोव्यां धात्रिकापरिरम्भयोः ॥ गन्धफली प्रियङ्गौ स्यात् कोरके चम्पकस्य च ॥ १५६ ।। लपञ्चकम् ॥ आसुतीबल इत्याख्या कन्यापालकयज्वनोः॥ २१

१६२
विश्वप्रकाशः।
स्यात् पण्डुकम्बलः श्वेतकाम्बले च शिलान्तरे ॥ १५७॥
एककुण्डल इत्येष सौनन्दिनि धनाधिपे ॥
भवेदुद्दण्डपालस्तु
सर्पमत्स्यप्रभेदयोः ॥ १५८ ॥
कृपीटपालमिच्छन्ति केनिपातसमुद्रयोः ।।
भवेत् सुरतताली तु दूतिकायां शिरःस्रजि ॥ १५९ ॥
इति लान्तवर्गः॥
वैककम् ॥
वं प्रचेतसि जानीयादिवार्थे च तदव्ययम् ॥
स्वं ज्ञातावात्मधनयोरात्मीये च प्रचक्ष्यते ॥१॥
वद्विकम् ॥
भवः संसारसम्प्राप्तिश्रेय शङ्करजन्मसु ।
दवो दाव इव ख्यातो वनाग्निवनयोरपि ॥२॥
द्रवः प्रद्रावरसयोर्गतौ नर्मणि विद्रवे ॥
धवः पत्यौ नरे धूर्ते वृक्षभेदेऽपि कीर्तितः ॥३॥
जवो वेगिनि वेगे स्यादोण्ड्रपुष्पे जवा मता ॥
लवो लेशे विनाशे च छेदने रामनन्दने ॥ ४ ॥
प्लवः कारण्डवे भेके कुलके भेलके कपौ ॥
शब्दे प्लुतगतौ प्लक्षे चण्डालजलकाकयोः॥५॥
प्लवं गन्धतृणे प्रोक्तं कैवर्तीमुस्तकेऽपि च ॥
हवो यज्ञे तथाहाने निदेशेऽपि हवो मतः॥६॥
शवो मृते शवं नीरे सवः सन्धानयज्ञयोः ॥
क्षवः क्षुते राजिकायां नवं नव्ये स्तवे विदुः ॥ ७ ॥
ध्रुवः कीले शिवे शकौ वसौ योगे वटे मुनौ॥
ध्रुचा मूर्वाशालपर्योर्गीतिघुग्भेदयोरपि ॥ ८ ॥

विश्वप्रकाशः। ध्रुवन्तु निश्चिते तर्के निश्चले शाश्वतेऽन्यवत् ॥ स्तुवाख्या सल्लकीपूर्वारुग्भेदेषु च विश्रुता ॥ ९ ॥ शिवं मोक्षे सुखे भरे सलिलेऽथ शिवो हरे ।। वेदे योगान्तरे कीले वालुके गुग्गुलेऽपि च ॥ १० ॥ पुण्डरीकद्रुमे चाऽपि शिवा झण्टामलोपधौ । अभयाऽऽमलकीगौरीक्रोष्ट्रीसक्तुफलासु च ॥ ११ ॥ दिवं स्वर्गेऽन्तरीक्षे च क्लीवं शण्डेऽप्यपौरुषे ।। जीवो वृक्षप्रभेदे स्याजीवः पाणिनि गीपतौ ॥ १२ ॥ जीवा जीवन्तिकाभूम्योर्मो-शिञ्जितवृत्तिषु ॥ वचायामपि जीवा स्याज्जीवं जीव्यञ्च जीविते ॥ १३ ॥ भावः स्वभावेऽभिप्राये चेष्टासत्तात्मजन्ममु ॥ क्रियालीलापदार्थेषु बुधजन्तुविभूतिषु ॥ १४ ॥ देवः सुरे घने राज्ञि देवमाख्यातमिन्द्रिये ॥ देवी भट्टारिकायाश्च तेजनीस्पृक्कयोरपि ॥ १५ ॥ सत्त्वं द्रुमे पिशाचादौ बले द्रव्यस्वभावयोः । आत्मत्वे व्यवसाये च चित्ते प्राणेषु जन्तुषु ॥१६॥ सान्त्वं सामनि दाक्षिण्ये काचं पापे मुनौ विदुः ॥ किण्वं पापे मुराबीजे बिल्वन्तु श्रीफले फले ॥ १७ ॥ तत्त्वं वाद्यमभेदे स्यात् स्वरूपे परमात्मनि । इस्वखर्वाविमौ शब्दावेकार्थों वामनार्थयोः ॥ १८॥ विश्वं समस्ते जगति विश्वदेवेऽपि नागरे ॥ विश्वा चाऽतिविषायां स्यादश्वः पुम्भेदवाजिनोः ॥१९॥ पार्वं कक्षाधरे चक्रोपान्ते पशुगणेऽपि च ।। प्राध्वं सुप्रणते चातिदूरवर्त्मनि बन्धने ॥ २० ॥ पकं परिणतार्थे स्याद्विनाशाभिमुखेपि च ।।

१६४ विश्वप्रकाशः। द्वन्दो रहस्ये कलहे द्वन्दं मिथुनयुग्मयोः ॥ २१ ॥ ऊर्द्ध स्यादुच्छ्रिते तुङ्गे चोपरिष्टादपि स्मृतम् ।। दिवं द्यौः स्वर्गलोके च गगने च प्रयुज्यते ॥ २२॥ अविः शैले रवौ मेषे भवेन्मूषिककम्बले ॥ ऋतुमत्यामविः प्रोक्ता शिविर्भूजे नृपान्तरे ॥ २३ ॥ कविः काव्यकरे सूरौ कविर्वाल्मीकिशुक्रयोः ॥ कवी खलीने कथिता छविः शोभारुचोमता ॥ २४ ॥ ग्रीवाऽपि कन्धरायां स्यात्तच्छिरायामपीष्यते ॥ रेवा तरङ्गिणीभेदे रेवा नील्यां स्मरस्त्रियाम् ॥ २५ ॥ लट्वा करञ्जभेदेऽस्य फले वाद्ये खगान्तरे ॥ नीवी परिपणे ग्रन्थौ स्त्रीणां जघनवाससः ॥२६॥ पृथ्वी भूमौ पृथौ हिपत्रिकाकृष्णजीरयोः । लघ्वी हस्वविवक्षायां प्रभेदे स्यन्दनस्य च ॥ २७ ॥ वत्रिकम् ॥ प्रभवो जलमूले स्याज्जन्मभूमौ पराक्रमे ॥ आद्योपलब्धयोः स्थाने विभवो नितौ धने ॥ २८ ॥ प्रसवस्तु फले पुष्पे वृक्षाणां गर्भमोचने ॥ तोकोत्पादे च सचिवः सहाये मन्त्रिाणि स्मृतः ।। २९ ।। कितवो धूर्त्तवन्मत्ते वञ्चके कनकाह्वये ॥ त्रिदिवस्त्रिदशावासे त्रिदिवा सरिदन्तरे ॥ ३० ॥ बल्लवः सूपकारे स्याद्भीमसेनेऽपि गोदुहि ॥ पल्लवः स्यात् किसलये विटपे विस्तरे बले ॥ ३१॥ शृङ्गारे रक्तरागे च विद्रवस्तु पलायने । युद्धे च पुङ्गवः श्रेष्ठे वृषभे भेषजान्तरे ॥ ३२ ॥ उद्धवो मातुले विष्णोरुत्सवे क्रतुपावके ।।

विश्वप्रकाशः।
१६५
उत्सवो मह उत्सेक इच्छाप्रसरको योः ॥ ३३॥
केशवो वासुदेवे स्यात् पुन्नागे केशवत्यपि ।।
कैतवन्तु छले द्यूते फेरवो जम्बुकेऽस्रपे ॥ ३४ ॥
रौरवो नरके घोरे कैरवः कितवे रिपो॥
कैरवं कुमुदे चोक्तं चन्द्रिकायाश्च कैरवी ॥ ३५ ॥
भैरवं भीषणे गर्भे भैरवः समुदाहृतः॥
सैन्धवो मणिमन्येऽपि सिन्धुदेशोद्भवाश्वयोः ॥ ३६ ।।
वाड़वं करणे स्त्रीणामौर्वे विप्रेऽपि वाड़वः॥
वाड़वं वड़वासङ्घ वाड़वो रागनागयोः ॥ ३७॥
आश्रवः स्यात् प्रतिज्ञाने क्लेशे च वचनस्थिते ।।
शान भावसंहत्योः शत्रूणां शात्रवो द्विषि ॥ ३८ ॥
माधवस्तु वसन्ते स्यादैशाखे गरुडध्वजे ।।
माधवी मदिरायाञ्च कुट्टन्यामतिमुक्तके ॥ ३९॥
मधुनः शर्करायाश्च गालवो मुनिलोध्रयोः ।
आर्त्तवन्तुसम्भूते स्त्रीरजःपुष्पयोरपि ॥ ४०॥
भार्गवः पशुरामे स्याद्जे शुक्रे मुधन्विनि ।।
भार्गवी हैमवत्याञ्च कमलासितर्वयोः ॥ ४१ ॥
आहवः सङ्गरे यागे राघवो रघुवंशजे ॥
महामीनप्रभेदेऽपि जलधे राघवः स्मृतः॥ ४२ ॥
ताण्डवं कथितं नृत्ये तृणभेदेऽपि ताण्डवम् ॥
निहवं निकृतौ विद्यादविश्वासापलापयोः ॥ ४३ ॥
सम्भवः कथितो होतावुत्पत्तौ मेलकेऽपि च ॥
आधारानतिरिक्तत्व आधेयस्य च सम्भवः॥४४॥
वान्धवो बन्धुमुहृदोः पञ्चत्वं निधने स्मृतम् ॥
पश्चनामपि भावे च प्रभावः शक्तितेजसोः॥४५॥

१६६
विश्वप्रकाशः।
अभावः स्यादसत्तायामभावो निधनेऽपि च ॥
विभावः स्यात् परिचितौ कामस्योऽद्दीपनेऽपि च ॥ ४६॥
निष्पावः सूर्यपवने राजमाषे कडिङ्गरे ।
पचने शिम्बिकायाञ्च निष्पावो निर्विकल्पके ॥४७॥
सुग्रीवः शोभनग्रीवे सुग्रीवो वानराधिपे ॥
राजीवाख्या मृगे मत्स्ये पद्मे राजोपजीविनि ॥४८॥
गाण्डीवं गाण्डिवं जिष्णोः कोदण्डे कार्मुकेऽपि च ॥
अक्षीवश्च शिरे विद्यादमत्तेऽक्षीवमन्यवत् ॥ ४९ ॥
पार्थिवो नृपतौ भूमिविकारे पार्थिवोऽन्यवत् ॥
पार्थिवी स्यात् क्षमायाञ्च दीदिविर्धिषणानयोः ॥ ५० ॥
प्रसेवः कथितो धीरैर्वीणाङ्गस्यूतयोरपि ॥
वडवाऽश्वाकुम्भदास्योः स्त्रीविशेषे द्विजस्त्रियाम् ॥५१॥
कारवी मधुरादीप्यत्वपत्रीकृष्णजीरके ॥
सुषवी कारवेल्ले स्यात् कृष्णजीरकजीरयोः ॥५२॥
वचतुष्कम् ॥
भवेदभिषवः स्नाने मद्यसन्धानयज्ञयोः ॥
उपप्लवः सैंहिकेये विप्लवोत्पातयोरपि॥ ५३ ॥
परिप्लवश्वञ्चले स्यादाकुलेऽपि परिप्लवः ॥
कुशीलवस्तु वाल्मीको नटयाचकयोरपि ॥ ५४॥
अपहवोऽपलापे च स्नेहे चाऽपसवो मतः ।।
पराभवस्तिरस्कारे विनाशे च पराभवः ॥ ५५ ॥
भवेत् पारशवः पारस्वैणे शूद्रासुते द्विजात् ।।
शस्त्रेऽप्यादीनवो दोषे परिक्लिष्टदुरन्तयोः ।। ५६ ॥
विदुः शीतशिवं शम्यां शैलेयशतपुष्पयोः ।।
सैन्धवेऽपि पुटग्रीवो गर्गरीताम्रकुम्भयोः ॥ ५७॥

विश्वप्रकाशः।
१६७
थामार्गवस्त्वपामार्गे देवदाल्यामपि स्मृतः ।।
अनुभावः प्रभावे स्यानिश्चये भावसूचने ॥ ५८ ॥
बलदेवः स्मृतो वाते कालिन्दभेदनेऽपि च ।।
बलदेवामा प्राहुलायमाणोष बुधाः ॥ ५९ ॥
जलविल्वतं. पञ्चाने कर्कटे जलचत्वरे ॥
रोहिताश्वो बृहद्भा नौ हरिश्चन्द्रे नृपात्मजे ॥६॥
सहदेवा बलादण्डोत्पलशारिवभेषजे ।
सहदेवी तु साक्ष्यां सहदेवश्च पाण्डवे ॥ ६१॥
जीवञ्जीवश्वकोरे स्याद् द्रुमपक्षिविशेषः॥
वपञ्चकम् ॥
आशितम्भवमन्नाचे वृत्तावाप्याशितम्भवः ।। ६२ ।।
इति वान्तवर्गः ॥
शैककम् ॥
शं सुखे शर्मणि प्रोक्तं श्रेयसि शश्च शस्त्रके ।।
शद्विकम्
वशमायत्ततायां स्याद्वशमिच्छाप्रभुत्वयोः ।।
वशा बन्ध्यासुतायोषास्त्रीगवीकरिणीषु च ॥१॥
कुशो रामसुते दर्भे योक्त्रे द्वीपे कुशं जले ॥
कुशी फालेऽपि वलगायां कुशा पापिष्ठमत्तयोः ॥ २ ॥
कुशो वाच्यवदाख्यातः स्पशः प्रणिधियुद्धयोः॥
शशो गन्धरसे लोधे स्यात् पशौ पुरुषान्तरे ॥३॥
दर्शस्तु सङ्गमे सूर्यचन्द्रयोरवलोकने ।
पक्षान्ते वैदिकविधौ दर्शश्च समुदाहृतः ॥ ४ ॥
स्पर्शी रुजायां दाने च स्पर्शने स्पर्शकेऽपि च ।।
विट् स्मृतो वैश्यमनुजप्रवेशे तु मनीषिभिः॥५॥

१६८
विश्वप्रकाशः।
पाशः कचान्ते सङ्घार्थः कर्णान्ते शोभनार्थकः ॥
छात्राधन्ते च निन्दार्थः पाशः पक्ष्यादिवन्धने ॥६॥
नाशः पलायने प्रोक्तो निधनानुपलम्भयोः ।
काशस्तृणे स्यात् क्षवथौ वाराणस्यां तु काश्यपि ॥ ७ ॥
केशो दैत्यान्तरे बाले हीवेरे च प्रचेतसि ॥
कीशो दिगम्बरे प्रोक्तः कीशः शाखामृगेऽपि च ॥ ८॥
ईशः प्रभौ शङ्करे स्यादीशा लाङ्गलदण्डके ॥
वेशो वेश्यागृहे प्रोक्तो नेपथ्ये गृहमात्रके ॥ ९॥
क्लेशो दुःखेऽपि रागादौ व्यवसायेऽपि च कचित् ।।
वंशो वेणौ कुले वर्गे पृष्ठस्यावयवेऽपि च ॥ १० ॥
दंशः स्यात् खण्डने दोषे दंशो मर्मणि कीर्तितः ।।
सर्पक्षतेऽपि सन्नाहवनमक्षिकयोरपि ॥ ११ ॥
अंशुलेशे रवौ रश्मावाशुव्रीहौ च सत्वरे ॥
पांशु लिषु शस्यार्थचिरसञ्चितगोमये ॥ १२ ॥
दृग्दर्शने लोचने च दृग्बुद्धौ वीक्षकेऽपि च ।।
दशा व ववस्थायां वस्त्रांशे स्युर्दशा अपि ॥ १३ ॥
निशा दारुहरिद्रायां स्यात् त्रियामाहरिद्रयोः ।।
आशा तृष्णादिशोः प्रोक्ता राशिमषादिपुञ्जयोः ॥ १४ ॥
पेंशी पललपिण्ड्यां स्यान्मांस्यां खड्गपिधानके ॥
अण्डभेदेऽपि पेशी स्यात् सुपककणिकेऽपि च ॥ १५॥
शत्रिकम् ॥
कपिशः सिहके श्यावे माधव्यां कपिशी मता ॥
कुलिशो मत्स्यचण्डे स्याइम्भोलौ कुलिशं स्मृतम् ॥ १६ ॥
विवशः स्यादवश्यात्मा क्लिष्टदुष्टधियोरपि ॥
निस्त्रिंशो नियेखड़े सदृशन्तूचिते समे ॥ १७ ॥

विश्वप्रकाशः। १६९ बालिशः शावके मूर्ख लोमशो लोमसंयुते ।। मेण्डके चाय कासीसशृगालीजटिलासु च ॥ १८ ॥ लोमशा शूकशिम्ब्याञ्च मर्कटीकाकजङ्घयोः ।। महामेदातिबलयोः शाकिनीभिदि चेष्यते ॥ १९ ॥ विकाशो विजने व्यक्ती सकाशः सदृशेऽन्तिके ।। प्रकाशोऽतिप्रसिद्ध स्यात् प्रहासातपयोः स्फुटे ॥ २० ॥ नीकाशो निश्चये तुल्ये हताशो निर्दये खले ॥ कीनाशः कर्कशे क्षुद्रे कृतान्तपशुपातिनोः ॥ २१ ॥ सुखाशो राजतिनिशे शोभनाऽऽशप्रचेतसोः॥ पिङ्गाशो मत्स्यभेद स्यात्तथा पल्लीपतावपि ॥ २२ ॥ पिङ्गाशी नीलिकायाश्च पिङ्गाशं जात्यकाश्चने । पलाशः किंशुके शव्यां हरिते राक्षसेऽपि च ।। २३ ।। पत्रे पलाशं संवेशः शयने चासनेऽपि च ॥ निवेश: शिबिरोद्वाहविन्यासेषु प्रकीर्तितः ॥ २४ ।। निर्वेशो मूछने भोगे निर्देशो वेतनेऽपि च ॥ प्रदेशो देशमात्रे स्यात्तजन्यङ्गुष्ठसम्मिते ॥ २५ ॥ भित्तावपि प्रदेशः स्यात् सदेशोऽभ्यर्णदेशयोः ।। निदेशः शासनोपान्तभाषणेऽपि प्रयुज्यते ॥ २६ ॥ आदर्शो दर्पणे टीकापतिपुस्तकयोरपि ॥ कर्कशः परुषे क्रूरे कृपणे निईये दृढे ॥ २७ ॥ इक्षौ शाहसिक काशमईकम्पिल्लयोरपि ॥ गिरीशो वापतौ रुद्रे गिरीशोऽद्रिपतावपि ॥ २८ ॥ उड्डीशो ग्रन्थभेदे स्यादुड्डीशाण्डिकापती ।। तुङ्गीशः शङ्करे चन्द्रे पक्षीशस्तार्क्ष्यकृष्णयोः ॥ २९ ॥ उपांशुर्जपभेदे स्यादुपांशु विजनेऽव्ययम् ।। ૨૨ विश्वप्रकाशः। दुःस्पर्शाख्या खरस्पर्शे कण्टकार्याश्च वासके ॥ ३० ॥ विपाशाख्या सरिद्भदपाशवर्जितयोर्मता ॥ विकेशी पटुवत्तौ स्याद्विकेशी निष्कचस्त्रियाम् ।। भूकेशी वल्बजेषु स्याद् भूकेशः शैवले वटे ॥ ३१ ॥ शचतुष्कम् ॥ अपदेशः स्मृतो लक्ष्ये निमित्तव्याजयोरपि ॥ जीवितेशो यमे कान्ते जीवातौ जीविताधिपे ॥३२॥ आश्रयाशो हुतवहे भवेदाश्रयनाशके ।। नागपाशः स्मृतः स्त्रीणां करणे वरुणायुधे ॥ ३३ ॥ पुरोडाशो हविर्भेदे चमस्यां पिष्टकस्य च ।। रमे सोमलतायाश्च हुतशेषेऽपि कीर्तितः ॥ ३४ ॥ परिवेशः परिवृत्तौ भानोः सविधमण्डले ॥ प्रतिष्कशः सहाये स्याद्वार्ताहरपुरोगयोः ॥ ३५ ॥ उपस्पर्शः स्पर्शमात्रे स्नानाचमनयोरपि ॥ मिस्पृग्वैश्यनरयोः पूरदृक् स्यात् खले शनौ ॥ ३६॥ अपभ्रंशोऽपशब्दे स्याद्भाषाभेदावपातयोः ॥ उपदंशोऽवदंशे स्यान्मेण्ढ़े रोगेऽपि वर्तते ॥ ३७॥ खण्डपशुः पशुरामे शङ्करे चूर्णलपिनि । खण्डामलकभैषज्ये सिंहिकातनयेऽपि च ॥ ३८ ॥ पादपाशी खण्डकायां शृङ्खलाकटकेऽपि च ॥ स्मृता पञ्चदशी पौर्णमास्यमावास्ययोरपि ॥ ३९ ॥ शपञ्चकम् ॥ धूर्जटौ खण्डपरशुर्जामदग्न्ये विधुन्तुदे ।। खण्डामलकभैषज्ये चूडालेऽपि स्मृतो बुधैः ॥ ४० ॥ इति शान्तवर्गः॥ .

विश्वप्रकाशः। १७१ वृषः स्यावासके धर्मे सौरभेये च शुक्रले ॥ {राशिभेदयोः शृङ्ग्या मूपिकपुयोरपि ॥१॥ कपिकच्छ वृषा मोक्ता तिनामासने दृषी ॥ विषन्तु गरले तोयेऽतिविषायां विषा भवेत् ।। २ ॥ तुषो धान्यत्वचि ख्यातो विभीतकतरावपि ॥ निषश्च स्पर्शने व्याजे तर्षों लिप्सापिपासयोः ॥३॥ वर्ष संवत्सरे दृष्टौ जम्बूद्वीपे घने विदुः ॥ प्राट्काले तु वर्षाः स्युः कर्षः कर्षणमानयोः ।। ४ ।। माषो व्रीह्यन्तरे मूर्खे मानत्वग्दोषभेदयोः ॥ मेषो राशिविशेषे स्यादुरणे भेषजान्तरे ॥ ५॥ शेषः संकर्षणेऽनन्त उपयुक्ततरे वधे ।। प्रसादाभिननिर्माल्यदाने शेषेऽपि कीर्तिता ॥ ६ ॥ शोषस्तु शोषणे राजयक्ष्मण्यपि निगद्यते ॥ दोषः स्याद् दूषणे पापे दोषा रात्रौ भुजेऽपि च ॥ ७ ॥ कोषस्तु कुड्मले पात्रे दिव्ये खड्गपिधानके । जातिकोषेऽर्थसङ्घाते पेश्यां शब्दादिसङ्घहे ॥ ८ ॥ घोषस्तु घोषके ध्वाने गोपालाभीरपल्लिषु ॥ घोषा तु शतपुष्पायां घोषः कांस्येऽम्बुदध्वनौ ॥ ९ ॥ भैषः स्यात् प्रेषणे क्लेशे मईनोन्मानयोरपि । पौषो मासविशेषे स्यात् पौषन्तु महयुद्धयोः ॥ १० ॥ विद् कान्तौ व्यवसाये च जिगीषायां रुचौ गिरि ।। विद व्यापने च विष्ठायां शुषिः शोषे विलेऽपि ॥ ११ ॥ ऋषिदे वशिष्ठादौ दीधितावपि पठ्यते ॥ उषा वाणसुताराव्योरुषः कामिनि गुग्गुलौ ॥ १२ ॥ झषा नागबलायां स्याद्वैसारिणि झषो मतः ॥

विश्वप्रकाशः। कर्पः करीषदहने कुल्यायामपि चेष्यते ॥ १३ ॥ षत्रिकम् ॥ निकषः शाणफलके निकषा यातुमातरि ॥ नहुषो राज्ञि भुजगे कलुषश्चाविलैनसोः ॥ १४ ॥ किल्विषे वृजिने रोगेऽप्यपराधेऽषि किल्विषम् ।। निमेषनिमिषौ कालप्रभेदेऽक्षिनिमीलने ॥ १५॥ परुषं कर्बुरे रूक्षे स्यान्निष्ठुरवचस्यपि ॥ पुरुषः पूरुषे सावयज्ञे च पुन्नागपादपे ॥१६॥ पौरुषं पुरुषस्योक्तं भावे कर्मणि तेजसि ॥ ऊर्ध्वविस्तृतदो पाणिनृमानेऽपि च पौरुषः ॥ १७ ॥ कल्माषो राक्षसे कृष्णे कल्माष कृष्णपाण्डुरे ।। कुल्माषो यावके प्रोक्तः कुल्माष काजिकेपि च ॥१८॥ उष्णीषन्तु शिरोवेष्टे किरीटे लक्षणान्तरे ॥ तरीषः शोभनाकारे भेलेऽब्धिव्यवसाययोः॥ १९ ॥ रोहिषं कत्तॄणे ज्ञेयं रोहिषो हरिणान्तरे ।। विश्लेषः स्याद्विघटने विश्लेषो विधुरेऽपि च ॥ २० ॥ प्रदोषः कालभेदे स्यात् प्रदोषो दोष इष्यते ॥ अभीषुः प्रग्रहे रश्मौ प्रत्यूषोऽहर्मुखे वसौ ॥ २१ ॥ गण्डूषो मुखपूत्तौं स्यात् करिहस्ताङ्गुलावपि ।। प्रस्तोन्मिते शैलूषः कथितो नटबिल्वयोः ॥ २२ ॥ मारिषः शाकभेदे स्यान्मारिषा दक्षमातरि ॥ नाट्योक्त्यां मारिषश्चार्ये तारीषः कनकेऽम्बुधौ ॥ २३ ॥ आमिषं पलले लोभे सम्भोगोत्कोचयोरपि ॥ आमिषं सुन्दराकारपूपादिविषयेऽपि च ॥ २४ ॥ आकर्षः शारिफलके पाशके दूत इन्द्रिये ॥

विर प्रकाश
आकर्षणेऽपि चाऽकर्षः कोदण्डाभ्यासवस्तुनि ॥ २५ ॥
संहर्षमाहुः स्पर्द्धयां प्रमोदेऽपि प्रभञ्जने ॥
शुश्रूषा श्रोतुमिच्छायां परिचर्याकथानयोः ।। २६ ॥
जेगीषा जेतुमिच्छायां व्यवसायप्रकर्षयोः ।
पहिषी नृपपल्याञ्च सैरिभ्यामोषधीभिदि ॥ २७ ॥
पचतुष्कम् ॥
अनिमिषः सुरे मत्स्येऽप्यनुकर्षोऽनुकर्षणे ।।
अनुकर्षो रथस्याऽधास्थिते दारुणि चेष्यते ॥ २८॥
अनुतर्षः सुरापानपात्रे तृष्णाभिलाषयोः ।।
बातरूषस्तु वातूलोत्कोचयोः शक्रकार्मुके ॥ २९ ॥
अम्बरीषं रणे भ्राष्ट्रेऽप्यम्बरीषो नृपान्तरे ॥
मार्तण्डे खण्डपरशावाम्रातककिशोरयोः ॥ ३० ॥
परिघोषो निनादे स्यादवाच्ये जलदध्वनौ ।।
नन्दिघोषोऽर्जुनरथे घोषे वन्दिजनस्य च ॥ ३१ ॥
महाघोषो मतङ्गे च महाघोषोऽतिघोषणे।।
स्मृता कर्कटशृझ्याञ्च महाघोषा मनीषिभिः ॥३२॥
किम्पुरुषः किन्नरे स्याल्लोकभेदेऽप्यलम्बुषः ।।
छईनेऽलम्बुषा प्रोक्ता मुण्डीरीस्वर्ग वेश्ययोः ॥ ३३ ॥
पलङ्कषा गोक्षुरकरास्त्रागुग्गुलुकिंशुके ।
तुण्डीरीलाक्षयोश्चापि राक्षसेऽपि पलङ्कषः ॥ ३४ ॥
इति षान्तवर्गः॥
सद्विकम् ॥
रसो गन्धरसे स्वादे चित्तादौ विषरागयोः॥
शृङ्गारादौ द्रवे वीर्ये देहधातौ च पारदे ॥१॥

१७४ विश्वप्रकाशः। रसा तु सलकीपावाजिहाघराणिकषु ॥ भासो भासि समाख्यातो घोष्टकुक्कुटगृध्रयोः ॥२॥ दासः शूद्रे दानपात्रे भृत्यधीवरयोरपि ॥ दासी चेव्याञ्च झिण्ट्याश्च रासः कोलाहले ध्वनौ ॥ ३ ॥ भाषाशृङ्खलके रासः क्रीडायामपि गोदुहाम् ।। वासः सुवर्णचेले स्यात् प्रभेदे किष्कुपर्वणः ॥ ४ ॥ भाः प्रभावे मयूखे च माः स्मृतश्चन्द्रमासयोः ॥ अदः परस्मिन्नत्राऽपि गोसो गन्धरसोषयोः ॥५॥ वत्सस्तकपुत्रादिवर्षे वत्सन्तु वक्षसि ।। बुत्सः स्तम्बे हारभेदे स्तबके ग्रन्थिपर्णके ॥६॥ वासो गेहेऽप्यवस्थाने वासा स्यादटरूषके ॥ व्यासो मुनौ स्याद्विस्तारे त्रासो भीमणिदोषयोः॥७॥ हंसो विहङ्गभेदे स्यादर्के विष्णौ हयान्तरे ।। योगिमन्त्रादिभेदेषु परमात्मनि मत्सरे ॥ ८ ॥ निर्लोभनृपतौ हंसः शारीरमरुदन्तरे ॥ अंसः स्कन्धे विभागे च कंसो दैत्यान्तरे स्मृतः ॥ कांस्ये च कांस्यपात्रे च मानभेदेऽपि कीर्तितः ॥ मांसः स्यादामिषे मांसी कक्कोलीजटयोरपि ॥ ९ ॥ बसुर्मयुखाग्निजनाधिपेषु योक्त्रे वके स्मादमुहट्टके च ॥ वृद्ध्यौषधश्यामधनेषु रने वसु स्मृतं स्यान्मधुरेऽन्यवञ्च ॥ १० ॥ नासा तु नासिकायां स्यानासा द्वारोज़दारुणि ॥ मृत्सा तु कथिता वासिश्रेष्ठमृत्तिकयोर्बुधैः । ११ । हिंसा चौर्यादिवधयोः शंसा वचनवाञ्छयोः।।

. विश्वप्रकाशः। १७५ मिसिस्तु मधुरामांस्योर्गजपुष्पाजमोदयोः ॥ १२ ॥ कामूर्विकलयाचि स्यात् लामः शक्त्यायुधेऽपि च ॥ प्रमूरश्वाजनन्योश्च कन्दलीवीरुधोरपि ॥ १३ ॥ सत्रिकम् ।। अलसः पादरोगे स्यात् क्रियामन्दे द्रुमान्तरे । अलसा हंसपद्याच रभसो वेगहर्षयोः ॥ १४ ॥ पनसः कण्टकिफले कण्टके कपिरुग्भिदोः । सुरसः स्यात् सुमधुरे पर्णासे मुरसाऽपि च ॥ १५ ॥ सारसः पक्षिभेदे स्यात् सारसं सरसीरहे ॥ श्रीवासो यक्षपे स्यात् पङ्कजे पीतवाससि ॥ १६ ॥ साहसन्तु बलात्कारकृतकार्ये दमेऽपि च ॥ वाहसो जलनिर्यासेऽजगरे सुनिषण्णके ॥ १७ ॥ लालसो लालसाऽपि स्याद्याच्यावृष्णातिरेकयोः।। औत्सुक्ये च समासस्तु संक्षेपे च समर्थने ॥१८॥ कीकसः कृमिजातौ स्यादस्थिन कीकसमिष्यते॥ पायसं परमाने स्याच्छीवासेऽपि च पायसः ॥ १९ ॥ वायसो नाडिजचे स्याच्छ्रीवासे चागुरुद्रुमे ॥ काकोदुम्बरिकायाश्च काकमाच्याञ्च वायसी ॥ २० ॥ मानसं सरसि स्वान्तेऽप्याश्वासो निर्दृतौ मतः ॥ आख्यायिकापरिच्छेदेऽप्यभ्यासो व्यसनेऽन्तिके ॥२१॥ उच्छ्वासः प्राणनाश्वासगधबन्धगुणान्तरे ॥ इष्वासो धन्विधनुषोषिलासो गावलीलयोः ॥ २२ ॥ वीतसो बन्धनोपाये मुगाणां पक्षिणामपि ॥ तेषामपि च विश्वासहेतोः प्रावरणे स्मृतम् ॥ २३ ॥ उत्तंसः कर्णपूरे स्याच्छेकरे च वतंसवत् ॥

१७६
विश्वप्रकाशः।
वीभत्सो विकृते क्रूरेऽप्यर्जुने च पृणामान ।। ५४ ॥
विद्वानात्मविदि प्राज्ञे पण्डिते चाभिधेयवत् ॥
भूयान् बहुतरार्थे स्यात् पुनरर्थे त्वदोऽव्ययम् ॥ २५ ॥
ज्यायान् वृद्धे च शस्ते च हवि:तव्यसर्पिषोः ।
रेपाः स्यादधमे क्रूरे कृपणेऽपि च कथ्यते ॥ २६ ॥
वेधा विधौ बुधे विष्णावागः पापापराधयोः॥
वर्ची दीप्तौ पुरीषे च वर्ची रूपेऽपि च कचित् ॥ २७ ॥
छन्दः पद्ये च वेदे च स्वैराचाराभिलाषयोः॥
एनोऽपराधे कलुषे मनश्चित्तमनीषयोः॥ २८ ॥
रोदश्च रोदसी चापि दिवि भूमौ पृथक् पृथक् ॥
सह प्रयोगेऽप्यनयो रोदः स्यादपि रोदसी ॥ २९ ॥
ओजस्तेजसि धातूनामवस्तम्भप्रकाशयोः ॥
भुजो बले च दीप्तौ च तेजो धान्नि पराक्रमे ॥ ३०॥
प्रभावरेतसोश्चाथ रजः स्यादातवे गुणे ॥
रजःपरागे रेणौ तु रजवत् परिकीर्तितम् ॥ ३१ ॥
वपु व्याकृतौ देहे पयः स्यात् क्षीरनीरयोः॥
वयः पक्षिणि बाल्यादौ वयो यौवनमात्रके ॥ ३२॥
श्रेयस्तु मङ्गले धर्मे श्रेयान् शस्ते तु वाच्यवत् ॥
श्रेयसी करिपिप्पल्यामभयारास्नयोरपि ॥ ३३ ॥
स्रोतोऽम्वेगेन्द्रिययोरोकः समनि चाश्रये ॥
शिरः प्रधान सेनाग्रभागमस्तकयोरपि ॥ ३४ ॥
तपश्चान्द्रायणादौ स्याद्धर्मे लोकान्तरेऽपि च ॥
तपा माघे च शिशिरे सरस्तोयतडागयोः ॥ ३५ ॥
उषः प्रभाते सन्ध्यायामुरः श्रेष्ठे च वक्षसि ॥
तमोऽन्धकारे स्वर्भानौ तमाशोके गुणान्तरे ॥ ३६ ॥

विश्वप्रकाशः। नभो व्योन्नि नभा मेघे श्रावणे च पतद्ग्रहे ॥ घ्राणे मृणालसूत्रे च वर्षासु च नभाः स्मृतः ॥ ३७ ॥ तरो बले च वेगे च रेतः शुक्रे च पारदे ॥ अचिर्मयूखशिखयोर्हिः कुशहुताशयोः ॥ ३८ ॥ सहो बले ज्योतिषि मार्गशीर्ष- हेमन्तयोश्चापि सहः प्रदिष्टः ।। रहोऽपि गुह्ये मुरते च तत्वे महो भवेदुत्सवतेजसोश्च ॥ ३९ ॥ ज्योतिः प्रकाशे दृशि तारकासु ज्योतिर्दिनेशानलयोरपि स्यात् ।। धनुः प्रियालटुमराशिभेदयोः शरासने चापि धनुर्धनुर्धरे ॥ ४० ॥ आशीरुक्ता हिताशंसापवनाशनदंष्ट्रयोः ॥ राक्षसीति च दंष्ट्रायां राक्षसी रक्षसः स्त्रियाम् ॥ ४१ ॥ तामसीति च दुर्गायां तापसो भुजगे खले ।। पुक्कसी कालिकानील्योः पुक्कसः श्वपचेग्धमे ॥ ४२ ॥ सचतुष्कम् ॥ भवेद्धनरसः सान्द्रनिर्यासमोरटाप्सु च ॥ कपूरे पीलुपया॑श्च सस्ये सिद्धरसेऽपि च ॥ ४३ ॥ सर्वरसः स्मृतो वाद्यभाण्डभेदे च धूनके ॥ स्मृतं तामरसं पझे ताम्रकाञ्चनयोरपि ॥४४॥ सिद्धरसो रसे व्याधिप्रभृतीषु च दृश्यते ।। महारसः स्यात् खजूंरे कोशकारकसेरुणोः ॥ ४५ ॥ रासेरसस्तु रासे स्याद्रससिद्धियलावपि ॥

१७८
विश्वप्रकाशः।
षष्ठीजागरिके गोष्ठयां शृङ्गारपरिहासयोः ॥ ४६ ॥
श्वःश्रेयसञ्च भद्रे स्यात् परानन्दे च शर्मणि ॥
निःश्रेयसञ्च कल्याणे चन्द्रचूडापवर्गयोः ॥ ४७॥
कुम्भीनसो विषज्वालाकुलदृष्टिभुजङ्गमे ।।
कुम्भीनसी जनन्याश्च लवणाख्यस्य रक्षसः॥४८॥
मलीमसन्तु मलिने पुष्पकासीसलोहयोः॥
पौर्णमासपौर्णमास्यौ यज्ञपूर्णिमयोः क्रमात् ॥ ४९॥
अधिवासो निवासे च संस्कारे धूपकादिभिः॥
चन्द्रहासो दशग्रीवकरवालेऽसिमात्रके ॥ ५० ॥
विश्वावसुः स्याद्गन्धर्वभेदे विश्वावसुनिशि ॥
विभावसुर्दिनमणौ हारभेदे च पावके ॥ ५१ ॥
पुनर्वसुर्भवेदृक्षे कात्यायनमुनावपि ॥
राजहंसो नृपश्रेष्ठे कादम्बकलहंसयोः ॥५२॥
कलहंसस्तु कादम्बे राजहंसे नृपोत्तमे ।।
अवध्वंसः परित्यागे निन्दनेऽप्यवचूर्णने ॥ ५३ ॥
स्मृता मधुरसा द्राक्षा मूर्विका दुग्धिकासु च ॥
नीलञ्जसाऽप्सरोभेदे सरि देऽपि विद्युति ॥ ५४ ।।
मुमेधास्तु सुबुद्धौ स्याज्योतिष्मत्यामपीष्यते ॥
सुमनाः पुष्पमालत्योत्रिदशे कोविदेऽपि च ॥ ५५ ॥
प्रचेतास्तु मुनौ हृष्टे स्यात् प्रतीचीपतावपि ॥
विहायास्तु शकुन्ते स्याद्विहायः सुरवर्त्मनि ॥ ५६ ॥
त्रिस्रोता जनुकन्यायां त्रिस्रोताः सरिदन्तरे ॥
अगौकाश्च नगौकाश्च शरभ सिंहपक्षिणोः ॥ ५७ ॥
उदर्चिरुत्पभे वह्नौ दिवौकाश्चातके सुरे ।।
दीर्घायुः शाल्मलौ काके मार्कण्डेयेऽतिजीविनि ॥५४॥

विश्वप्रकाशः।
१७९
सप्तार्चिः पावके प्रोक्तः सप्ताचिः क्रूरलोचने ।।
कनीयाननुजेऽत्यल्पे कनीयानतियूनि च ॥ ५९ ॥
वरीयानतियनि स्याद्वरिष्ठे श्रेष्ठयोगयोः ॥
साधीयानविबाढे स्यादतिसाधौ च वाच्यवत् ॥ ६० ॥
सपञ्चकम् ॥
स्यानभश्चमसश्चन्द्रे चित्रापूपेन्द्रजालयोः ॥
हिङ्गुनिर्यास इत्येष निम्बे हिङ्गुरसेऽपि च ॥ ६१ ॥
दिव्यचक्षुः सुगन्धस्य भेदेऽन्धे च मुलोचने ।।
सपटकम् ॥
हिरण्यरेतसम्पाहुर्दिवाकरहविर्भुजोः ॥ १२ ॥
इति सान्तवर्गः ॥
हद्विकम् ॥
सहो बले सहा मुद्गपाश्च नखभेषजे ॥
सहा देवीकुमार्योश्च सहः कान्ते सहा भुवि ॥१॥
ग्रहोऽनुग्रहनिर्बन्धग्रहणेषु रणोद्यमे ॥
सूर्यादौ पूतनादौ च सैंहिकेयोपरागयोः ॥ २ ॥
वहः स्यादृषभस्कन्धदेशे गन्धवहेऽपि च ॥
बर्ह दले केकिपिच्छे गृहाः पल्यां गृहे स्मृताः ॥ ३ ॥
ग्राहो आहेऽवहारे च नाहो बन्धनकूटयोः ।।
स्नेहस्तैलादिकरसद्रव्ये स्यात् सौहदेऽपि च ॥ ४ ॥
पोहो निपुणतर्के स्यात् पोहो हस्त्यझिपर्वणोः ।
मोहमिच्छन्ति मूर्छायामाविद्यायाश्च सूरयः ॥ ५ ॥

१८० विश्वप्रकाशः। लोहस्तु शस्त्रके लोहं जोङ्गके सर्वतैजसे ॥ व्यूहः स्याद् बलविन्यासे निर्माणे वृन्दतर्कयोः ॥ ६॥ सिंहः कण्ठीरवे राशौ सत्तमे चोत्तरस्थितः॥ सिंही क्षुद्रा बृहत्योः स्याद्वासके राहुमातरि ।। ७ ।। बहुः स्याद्विपुले ब्यादि सङ्ख्यासु त्वभिधेयवत् ॥ अहिदृत्रासुरे सपेऽपीहा तूयमवाञ्छयोः॥ ८ ॥ गुहा तु गहरे सिंहपुच्छयां स्कन्दे गुहो मतः ॥ वाहो भुजायां वाहस्तु मानभेदे वृषे हये ॥९॥ मही भूमौ मही नद्यां मह उत्सवतेजसोः ॥ कुहूः स्यात् कोकिलारावनष्टेन्दुकरदर्शयोः ॥ १० ॥ हत्रिकम् ॥ पटहस्तु समारम्भ आनकं पटहं मतम् ॥ कलहः खड्गकोशे स्याद्भण्डने युद्धराढयोः॥११॥ प्रग्राहस्तु तुलासूत्रे बन्यां नियमने भुजे ॥ हयादिरश्मौ रश्मौ च सुवर्णहलिपादपे ॥ १२ ॥ निग्रही भर्त्सने प्रोक्तो मर्यादायाञ्च बन्धके । विग्रहः समरे काये विस्तारमविभागयोः ॥ १३ ॥ सङ्ग्राहो बृहदुत्तुङ्गे मुष्टिसंक्षेपयोरपि ॥ आग्रहोऽनुग्रहाशक्त्योराक्रमे ग्रहणेऽपि च ॥ १४ ॥ नवाहः स्यान्नवदिने नवाहः प्रतिपत्तिथौ । प्रवाहो व्यवहारे स्यादपि स्रोतसि वारिणः ॥ १५ ॥ कटाहो घृततैलादिपाकपात्रे च खपरे ॥ कटाहः कूर्मपृष्ठे च स्तूपे च महिषीशिशौ ॥१६॥ उत्साहस्तूयमे सूत्रेऽप्यारोहे दैर्घ्यमानयोः ॥

विश्वप्रकाशः।
१८१
आरोहणे नितम्बे च समुच्छ्रयनिषादिनोः ॥१७॥
निर्यहः शेखरे द्वारे निर्यासे नागदन्तके ।
विदेहो देहशून्ये स्याद्विदेहो मिथिले स्मृतः ॥ १८ ॥
निरूहो वस्तिभेदे स्यात् तर्कनिश्चितयोरपि ॥
दात्यूहः कालकण्ठे स्याहात्यूहश्चातकेऽपि च ॥ १९ ॥
अत्यूहा नीलिकायां स्यादत्यूहश्चित्रमेखले ॥
मुवहा सल्लकीगोधापदीशेफालिकासु च ॥ २०॥
एलापर्णाश्च सुवहा वल्लकीरास्नयोरपि ।।
सम्यग्वाहे तु सुवहो वाच्यवत् समुदाहृतः॥ २१ ॥
वैदेही रोचनासीतावणिकसीपिप्पलीवा॥
वाराही मातृभेदे स्याद् गृष्टिनामोषधेऽपि च ।। २२ ॥
हचतुष्कम् ॥
अवग्रहा इति ख्यातो वृष्टिरोधे गजालिके॥
स्वतन्त्रतानिषेधेऽपि प्रतिबन्धेऽप्यवग्रहः ॥ २३ ॥
प्रतिग्रहः स्वीकरणे सैन्यपृष्ठे पतद्ग्रहे ॥
द्विजेभ्यो विधिवद्देये तद्ग्रहे च ग्रहान्तरे ॥ २४ ॥
परिग्रहः परिजने पल्यां स्वीकारमूलयोः ।
शापेऽप्युपग्रहो वन्द्यामुपयोगेऽनुकूलने ॥ २५ ॥
अभिग्रहोभियोगेऽभिग्रहणे गौरवेऽपि च ॥
परिवहन्तु राजाईवस्तुन्यऽपि परिच्छदे ॥ २६ ॥
पितामहो विरिश्चौ स्यात्तातस्य जनकेऽपि च ॥
तमोऽपहः सहस्रांशुमृगाङ्कजिनवद्विषु ॥ २७ ॥
उपनाहो व्रणांलेपपिण्डे वीणानिबन्धने ॥
परीवाहो जलोच्छ्वासे महीभृद्भोग्यवस्तुनि ॥ २८ ॥

१८२
विश्वप्रकाशः।
तनूरुहं गरुल्लोनोर्वरारोहाकटावपि ॥
वरारोहस्तु कथितो हस्त्यारोहावरोहयोः ॥ २९॥
अवरोहोऽवतरणे तरोरङ्ग लतोद्गमे ।।
अश्वारोहांऽश्वगन्धायामश्वारोहोऽश्ववारके ॥ ३० ॥
महासहा माषा यामम्लानकुसुमेऽपि च ॥
गन्धवहा तु नासायां वायो गन्धवहो मतः ॥३१॥
भवेदेकसहाभिख्या सूते दण्डोत्पलौषधौ ॥
हपञ्चकम् ॥
प्रपितामह इत्येष विधौ पितृपितामहे ।। ३२ ।।
इति हान्तवर्गः ॥
.
पान्ताः स्युर्यद्यपि क्षान्ता वर्णानामनुरोधतः ॥
पृथक्क्रमेण कथ्यन्ते तथाऽप्येते समन्वयात् ॥ १॥
क्षद्विकम् ॥
अक्षः कर्षे तुषे चक्रे शकटे व्यवहारयोः ।।
आत्मज्ञे पाशके चाक्षं तुत्थसौवर्चलेन्द्रिये ॥२॥
ऋक्षोऽद्रिभेदे भल्लूके शोणके कृतवेधने ।।
ऋक्षमुक्तश्च नक्षत्रे यक्षः श्रीदे च गुह्यके ॥ ३ ॥
दक्षः पटौ हरदृषे ताम्रचूडे प्रजापतौ ॥
मुनिभेदे द्रुमे वह्नौ दक्षो दक्षा भुवि स्मृता ॥ ४ ॥
पक्षो मासार्द्धके पार्वे ग्रहे साध्यविरोधयोः ।।
पक्षश्च परतो वृन्द बले सखिसहाययोः ॥५॥
पतत्रे चुल्लिरन्ध्रे च देहाङ्गे राजकुञ्जके ॥
लक्षं शरव्ये सङ्ख्यायां लक्षं छद्मनि कथ्यते ॥६॥

विश्वप्रकाशः। १८३ प्लक्षो द्वीपविशेष स्यात् पर्कटीगईभाण्डयोः । पिप्पले द्वारपार्थे च गृहस्य परिकीर्चितः ॥ ७ ॥ न्यक्षः परशुरामे स्यान्यक्षः कात्स्न्ये निकृष्टयोः ।। चोक्षो गीते शुचौ दक्षे तया तीक्ष्णमनोनयोः ॥ ८॥ ध्वानस्तु काकबकयोस्त'के भिक्षुके गृहे ।। ध्वासी कक्कोलिकायां स्यात् कक्षो दोर्मूलकच्छयोः ॥९॥ सरिभे च वृषे कक्षः शुष्ककाननवीरुधोः ।। कक्षा प्राइणिवीप्रकोष्ठगजरज्जुः ॥१०॥ साढ़े पदे परीधानपश्चादश्चलपल्लवे ।। रथभागेऽपि कक्षा स्याद्वीक्षा विस्मयदृश्ययोः ॥११॥ मोक्षो मुष्ककक्षे स्यादपवर्गे च मोचने ॥ रूक्षः पादपजातौ स्याद् रूक्षोप्रेमण्यचिक्कणे ॥ १२ ॥ भिक्षा भृतौ च यांच्बायां सेवाभिक्षितवस्तुनोः॥ प्रेक्षाऽनुत्प्रेक्षणे बुद्धौ रक्षा रक्षणरक्षयोः ॥१३ ।। क्षत्रिकम् अध्यक्षोऽधिकृते प्रोक्तः प्रत्यक्षेऽध्यक्षमिष्यते ॥ गोरक्षो नागरले स्याद् गवाञ्च परिरक्षके॥१४॥ आरक्षो रक्षणीये स्याच्छीर्षममणि दन्तिनाः ॥ रक्ताक्षः कासरे क्रूरे पारावतचकोरयोः ॥ १५ ॥ समीक्षा ग्रन्थभेदे स्यात् तत्त्वबुद्धौ निभालने ॥ उत्प्रेक्षाऽनवधाने स्यात् काव्यालङ्करणेऽपि च ॥ १६ ॥ मृगाक्षी चेन्द्रवारुण्यां मृगनेत्रात्रियामयोः॥ गवाक्षी शक्रवारुण्यां गवाक्षो जालके कपौ ॥ १७॥ क्षचतुष्कम् ॥ वीरवृक्षस्तु भल्लातककुभट्ठमयोर्मतः ।।

१८४ विश्वप्रकाशः। राजवृक्षः प्रियाले स्यात् सुवर्णालुतरावपि ॥ १८ ॥ देववृक्षः सप्तपणे मन्दरादिषु गुग्गुलौ । भूतवृक्षस्तु शाकोटे तथा श्योनाकपादपे ॥ १९ ॥ विशालाक्षो हरे तायें विशालाक्षी वरस्त्रियाम् ॥ सकटाक्षो धवद्रौ स्यात् कटाक्षसहितेऽपि च ॥ २० ॥ इति क्षान्तवर्गः॥ इति श्रीसकलवैद्यराजचक्रमुक्ताशेखरस्य गद्यपद्यविद्यानिधेः श्रीमहेश्वरस्य कृतौ विश्वप्रकाशे अनेकार्थशब्द- परिच्छेदः प्रथमः ॥

विश्वप्रकाशः। १८५ द्वितीयः परिच्छेदः ॥ २ ॥ अव्यानि ।। अथाव्ययानि वक्ष्यन्ते व्यक्तं पूर्वाक्षरक्रमात् ॥ अकारादिकमप्यस्ति नाधिकं पूर्वतोऽपि च ॥१॥ अ॥ अ स्यादभावे स्वल्पार्थे विष्णावीशे त्वनव्ययम् ।। आङ्॥ आङ् सीमायां परिव्याप्तौ क्रियायोगेषदर्थयोः ॥२॥ आ॥ आ प्रगृह्यः स्मृतौ वाक्ये आः स्यात् सन्तापकोपयोः ।। इ खेदे च रुषोक्तौ च कामदेवे त्वनव्ययम् ॥ ३ ॥ ई॥ ई दुःखभावने कोपे लक्ष्यामीः स्यादनव्ययम् ।। उ सम्बुद्धौ रुषोक्तौ च शम्भुवाची त्वनव्ययम् ॥ ४ ॥ ऊ वाक्यारम्भेऽनुकम्पारक्षाहूतिष्वनव्ययम् ॥ ऋ वाक्ये चाऽपि कुत्सायां देवाम्बायान्त्वनव्ययम् ॥५॥ ए ऐ॥ ए-ऐ-शब्दौ तु हे-है-वत् स्मृत्यामन्त्रणहूतिषु ।। ओ औ॥ ओऔशब्दौ च होहौवत् सम्बुद्ध्याहानयोमतौ ॥ ६ ॥ २४ १८६ विश्वप्रकाशः। कान्ताः ॥ . कु पापे चेषदर्थे च कुत्सायाञ्च निवारणे ॥ मनागल्पे च मन्दे च धिग् निर्भर्त्सननिन्दयोः॥७॥ गान्ताः॥ अङ्ग सम्बोधने हर्षे पुनरर्थे च कीर्तितम् ॥ चान्ताः ॥ तिर्यक् तिरोऽर्थे वक्रे च विहङ्गादौ त्वनव्ययम् ॥ ८॥ चान्वाचये समाहारेऽप्यन्योन्यार्थे समुच्चये ।। पक्षान्तरे तथा पादपूरणेऽप्यवधारणे ॥९॥ प्राक् प्रभातेऽप्यतीते च दिग्देशकालतः स्मृतम् ॥ प्रागग्रेऽपि च पूर्वस्मिन् भवे प्रागप्यनन्तरे ॥ १० ॥ ननुच प्रश्नदृष्टयोक्त्योः सम्यग्गाढप्रशंसयोः॥ किञ्चारम्भे च साकल्ये हिरुम् मध्यविनार्थयोः ॥११॥ जान्ताः ॥ नबऽभावे निषेधे च स्वरूपार्थे व्यतिक्रमे ॥ ईषदर्थे च सादृश्ये तद्विरुद्धतदन्ययोः ॥ १२ ॥ ठान्ताः॥ सुष्ठु प्रशंसनेऽपि स्यादत्यर्थेऽपि च कथ्यते ॥ अपष्टु निरवद्ये स्याच्छोभमानेऽपि च स्मृतम् ॥ १३ ॥ णान्तः॥ अन्तरेण-पदं विद्याद्विनामध्यार्थयोरपि ॥ तान्ताः ॥ तु पादपूरणे भेदे समुच्चयेऽवधारणे ॥१४॥ अस्तु स्यादभ्यनुज्ञानेऽप्यसूयानीहयोरपि ॥

विश्वप्रकाशः। किंस्वित् प्रश्ने वितर्के च शश्वत् पुनःसदार्थयोः ॥ पश्चात् प्रतीच्यां चरमे साक्षात् प्रत्यक्षतुल्ययोः ।। सकृत् सहैकवारे स्यादाराद् दूरसमीपयोः ॥ १५ ॥ यावत् तावत् परिच्छेदे कात्स्न्यू मानेऽवधारणे ॥ पुरस्ताच्चतुषु प्राच्यां पुरार्थे प्रथमेऽग्रतः ॥ १६ ॥ उत प्रश्न वितर्के स्यादुताऽप्यर्थविकल्पयोः । किमुतातिशये प्रश्ने विकल्पे च प्रयुज्यते ॥ १७ ॥ हन्त हर्षे विषादे च वाक्यारम्भविवादयोः ॥ स्वस्त्याशीक्षेमपुण्यादौ तद्वत् प्रश्नविकल्पयोः ॥ १८ ॥ बताऽमन्त्रणसन्तोषखेदानुक्रोपहिस्मये ॥ अहोबताऽनुकम्पायां खेदे सम्बोधनेऽपि च ॥ १९ ॥ तत आदौ परिप्रश्ने पञ्चम्यर्थे कथान्तरे ।। आनन्तर्ये कुतः प्रश्ने पञ्चम्यर्थे च निह्नवे ॥ २० ॥ अतो भवेत् कारणापदेशनिर्देशयोरपि ।। पञ्चम्यर्थे ततः प्रोक्तं पञ्चम्यर्थे च शासने ॥ २१ ॥ सम्भावनाक्यवयोरन्ततः-पदमिष्यते ।। इतो यतश्च नियमे पश्चम्यर्थविभागयोः ।। २२ ।। इति प्रकरणे हेतौ प्रकाशादिसमाप्तिषु ।। निदर्शनप्रकारे स्यादनुकर्षे च सम्मतम् ॥ २३ ॥ अतिशब्दः प्रशंसायां प्रकर्षे लङ्घनेऽप्यति ।। नितान्तासम्पतिक्षेपवाचकोऽप्येष दर्शितः ॥ २४ ॥ प्रति प्रतिविधौ वीप्सा लक्षणेषु प्रयोगतः ॥ मात्रार्थे चाभिमुख्ये च प्रतिदानादिषु प्रति ॥ २५ ॥ थान्ताः॥ अथो अथ च सम्प्रश्ने मङ्गलारम्भयोरपि ॥

. १८८ विश्वप्रकाशः। अनन्तरे च कात्स्न्ये च संशये च प्रकीर्तितः ॥ २६ ॥ यथाशब्दस्तु निर्दिष्टस्तुल्ययोगानुमानयोः ॥ तथा स्यानिश्चये पृष्टप्रतिवाक्ये समुच्चये ॥ २७ ॥ उभौ चोदेशनिर्देशसादृश्येषु प्रकाशितौ ।। कारकस्योऽपपत्तौ च सर्वथा हेतुबाढयोः ॥ २८ ॥ अन्यथा वितथाथै स्यादन्यथा चाऽपरार्थके ॥ वृथा निष्कारणे वन्ध्ये वृथा स्याद्विधिवजिते ॥ २९॥ दान्ता: ॥ उत् प्रकाशे विभागे च प्राबल्यास्वास्थ्यशक्तिषु ॥ प्राधान्ये बन्धने भावे मोक्षे लाभोर्द्धकर्मणोः ॥३०॥ नान्ताः॥ नु स्यात् प्रश्ने विकल्पार्थेऽप्यतीतानुनयार्थयोः॥ ननु प्रश्नेऽप्यनुनयेऽनुज्ञानेऽप्यवधारणे ॥ ३१॥ आमन्त्रणे चाऽपि ननु किन्नु प्रश्नवितर्कयोः । नाना विनार्थेऽपि भवेन्नानाऽनेकोभयार्थयोः ॥ ३२ ॥ स्थाने तु कारणार्थे च युक्तसादृश्ययोरपि । अनु हीने सहार्थे च पश्चात् सादृश्ययोरनु ॥ ३३ ॥ आवामे च नियामे च लक्षणादावनुक्रमे ॥ नि निवेशभृशार्थाधोभावविन्यासराशिषु ॥ ३४ ॥ आश्रये बन्धने मोक्षे दारकर्मणि दर्शने ॥ अन्तर्भावे च सामीप्यकौशलोपरमेषु च ॥ नित्यार्थे संयमे चापि क्षेपार्थेऽपि च विश्रुतम् ॥ ३५ ॥ पान्ताः॥ अप स्यादपकृष्टार्थे वर्जनार्थवियोगयोः॥

विश्वप्रकाशः।
१८९
विपर्ययेऽपि विकृतौ चौर्ये निर्देशहर्षयोः ॥ ३६॥
उप सामर्थ्यदाक्षिण्यदोषाख्यानात्ययेषु च ॥
आचार्यकरणे दाने व्याप्तावारम्भपूजयोः ॥ ३७ ।।
तद्योगेऽपि च लिप्सायां भरणार्थोपमार्थयोः ॥
उप हीनेऽधिके प्रोक्तोऽप्यासन्नेऽप्युप कीर्तितः ॥ ३८ ॥
अपि सम्भावनाप्रश्नशङ्कागर्दासमुच्चये ॥
तथा युक्तपदार्थेषु कामचारक्रियासु च ।। ३९ ।।
बान्ताः।
वशब्द उपमायां स्यावरुणे वानुनयेऽपि च ॥
वा स्याद्विकल्पोपमयोरेवार्थेऽपि समुच्चये ॥ ४० ॥
वि श्रेष्ठातीतनानार्थे विः स्यात् पक्षिष्वनव्ययम् ।।
स्यात् सम्बोधने पादपूरणेऽनुनयेऽपि च ॥ ४१ ॥
वै
भान्ताः ॥
अभीऽत्यम्भूतकथनेऽप्यभि वीप्साभिमुख्ययोः॥
मान्ताः॥
स्म पादपूरणेऽतीते सामि निन्दाद्धयोर्मतम् ॥ ४२ ॥
अमा सहाान्तिकयोनं निश्चिततर्कयोः ॥
कामम् प्रकामेऽनुमतावस्यानुगमेऽपि च ॥ ४३ ॥
नाम प्राकाश्यसम्भाव्यकुत्साभ्युपगमेषु च ॥
साम्प्रतं चाधुनार्थे स्याद् युक्तार्थेऽपि च साम्पतम् ॥४४॥
हुं वितर्के परिप्रश्ने हुं रुषोक्त्यनुनीतिषु ॥
तुम् प्रश्नेऽङ्गीकृतौ रोषे आस्मृतौ चावधारणे ॥ ४५ ॥
कुं प्रश्नेऽपि रुषोक्तौ च प्राध्वं नम्रानुकूलयोः ॥
किं प्रश्नेऽपि च कुत्सायां कं शिरःमुखवारिषु ॥४६॥

विश्वप्रकाशः। १९० नुमित्यनुमतौ प्रोक्तं प्रणवे चाऽप्युपक्रमे ।। एवं प्रकारोपमयोरङ्गीकारेऽवधारणे ॥४७॥ अलं भूषणपर्याप्तिवारणेषु निरर्थक ॥ अलं शक्तौ च निर्दिष्टं शं कल्याणे सुखेऽपि च ॥४८॥ सं सङ्गार्थे प्रकृत्यर्थे शोभनार्थसमर्थयोः ॥ जोषं सुखे प्रशंसायां तूष्णीलङ्घनयोरपि ॥ ४९॥ तूष्णीकं तु स्मृतं मौने मौनशीले त्वनव्ययम् ॥ तदिनं दिनमध्ये स्यात् तदिनं प्रतिवासरे ॥ ५० ॥ अभीक्ष्णं मुहुरश्रान्ते शीघ्रप्रकर्षयोरपि ॥ अभीक्ष्णं तु तथापौनःपुन्ये स्यात् सन्ततेऽपि च ॥५१॥ इदानीं वाक्यभूषायां सम्पत्यर्थे च वर्त्तते ॥ कथं प्रश्ने सम्भ्रमे च प्रकारार्थे च सम्भवे ॥ ५२ ॥ किमु सम्भावनायां स्याद्विमर्षे च किमु स्मृतम् ॥ भृशं प्रकर्षे चात्यर्थेऽवश्यं नित्यप्रयत्नयोः ॥ ५३ ।। यान्ताः॥ अयि प्रश्नानुनययोः समयान्तिकमध्ययोः॥ अये क्रोधे विषादे च सम्भ्रमे स्मरणेऽपि च ॥ ५४ ।। रान्ताः॥ प्र प्रकर्षे गताद्यर्थे दुः स्यात् कष्टनिषेधयोः॥ पुनरप्रथमे भेदे स्वः स्वर्गपरलोकयोः ॥ ५५॥ परा विमोक्षप्राधान्यप्रतिलोमेषु वर्त्तते ॥ आभिमुख्य भृषार्थे च विक्रमे च गतौ वधे ॥ ५६ ॥ पुरा पुराणे निकटमबन्धातीतभाविषु ॥ परि स्यात् सर्वतोभावे वर्जने लक्षणादिषु ॥ ५७ ।।

विश्वप्रकाशः। १९१ पूजालिङ्गनवीप्सासु भूषणे व्याधिशोकयोः ।। दोषाख्यानेऽप्युपरमे व्याप्ती निवसनेऽपि च ॥ ५८ ॥ पादुः प्राकाश्यवृत्तौ स्यात् सम्भाव्ये च प्रयुज्यते ।। निनिश्चये क्रान्ताद्यर्थे निर्निःशेषनिषेधयोः ॥ ५९॥ अन्तर्मध्ये तथा प्रान्ते स्वीकारार्थेऽपि दृश्यते ।। उररी चोररी चोरी विस्तारेजीकृतौ त्रयम् ॥ ६ ॥ अन्तरापि विनार्थे स्यान्मध्यार्थनिकटार्थयोः॥ लान्ताः। किलशब्दस्तु वार्तायां सम्भाव्यानुनयार्थयोः ॥ ६१ ॥ खलु स्याद्वाक्यभूषायां जिामाद च सान्त्वने ॥ निषेधनेऽपि वीप्सायां खलु माने च कीर्चितम् ।।६३॥ वाऽन्ताः॥ अवाऽलम्बनविज्ञानवियोगव्याप्तिशुद्धिषु ॥ ईषदर्थे परिभवेऽप्येवौपम्येऽवधारणे ॥ ६३ ॥ षान्ताः॥ उषा रात्रौ तदन्ते स्यादत्रानन्ययमप्युष ॥ दोषा रात्रिमुखे रात्रावत्रानव्ययमप्यसौ ॥ ६४ ॥ निकषा त्वन्तिके मध्ये रक्षोमातर्यनव्ययम् ॥ सु पूजायां मृषार्थानुमतिकृच्छ्रसमृद्धिषु ॥ ६५ ॥ पुरतः प्रथमे चाग्रेऽप्यग्रतः प्रथमाग्रयोः॥ पुरोऽग्रे प्रथमे च स्यादञ्जसा तत्त्वपूर्णयोः॥ ६६ ॥ अमितः शीघ्रसाकल्यसम्मुखोभयतोऽन्तिके। भूयः पुनः पुनः ख्यातं प्रभूतार्थे त्वनव्ययम् ॥ ६७ ॥ निर्निश्चये निषेधे च साकल्यातीतयोरपि ॥

१९२
विश्वप्रकाशः।
--
तिरोऽन्तद्धौं तिर्यगर्थे मिथोऽन्योन्यं मिथो रहः॥ ६८॥
पूर्वेपुरिष्यते प्रातः पूर्वेयुः पूर्ववासरे ॥
शनैः शनैश्चरे स्वैरे नीचैः स्वैराल्पयोर्मतम् ॥ ६९ ॥
हान्ताः॥
ह स्यात् सम्बोधने पादपूरणेऽनव्ययं शिवे ॥
हा विषादे च शोके च दुःखार्थेऽपि च कथ्यते ॥ ७० ॥
हि पादपूरणे हेतौ विशेषेऽप्यवधारणे ॥
ही दुःखहेतावुद्दिष्टो ही विस्मयविषादयोः ।। ७१ ॥
हाहा दुःखे हुहू हर्षे गन्धर्वेऽमू त्वनव्यये ॥
हे है व्यस्तो समस्तौ च हूतिसम्बोधनार्थयोः ॥ ७२ ॥
हो हौ चैवंविधौ ज्ञेयौ सम्बुद्धाहानयोरपि ॥
सह साकल्यसादृश्ययोगपद्यसमृद्धिषु ॥ ७३ ॥
विद्यमाने च सम्बन्धे सहशब्दः प्रकीर्तितः॥
अहो धिगर्दै शोके च करुणार्थविषादयोः ॥ ७४ ॥
आहो उताहो द्वावेतौ परिप्रश्नविचारयोः॥
अह.शब्दो नियोगार्थे क्षेपार्थेऽपि निगद्यते ।।
क्षान्ताः॥
मङ्क्षु शीघे भृषार्थे च तत्त्वार्थेऽपि कचिन्मतम् ॥ ७५ ॥
इत्यव्ययानेकार्थवर्गः॥
यद्यपूर्वतया किञ्चिन्नामात्र प्रतिभाति च ॥
तत्तदन्विष्यतां सद्भिर्नामपारायणादिषु ॥१॥
तत्तत्कवीन्द्ररथ पण्डितेन्द्रः
प्रयोगसम्बोधफलव्याप्त्यै ॥
यामकण्ठाभरणं कृतं तैः
सर्वज्ञता स्वप्रणयीकृतैव ॥ २ ॥

Vishwa Prakash

Author
Sri Maheswara
Title
Vishwa Prakash
File name
Vishwa Prakash
Text
OCR done
Citation
1911
Published
2006/07/20
Publisher
Vidya Vilas Press Benaras
Language
Sanskrit
Pages
199
Library
Allahabad University
Classification
Literature
DLI number
486499
Barcode
5990010113772.00
Scanning centre
IIIT, Allahabad
VMLT id
PFYLukwEWcq
Download PDF

Vishwa Prakash