Scl
The Tantraloka Of Abhinava Gupta Vol X
Front matter
No text on this page.
THE KASHMIR SERIES
OF
TEXTS AND STUDIES.
No text on this page.
EHLIUS Kashmir Series of Texts and No. LII. Studies. THE TANTRALOKA OF ABHINAVA-GUPTA, WITH COMMENTARY BY RĀJĀNAKA JAYARATHA EDITED BY PANDIT MADHUSŪDAN KAUL SHASTRĪ, M. A., M. O. L. VIDYĀVĀRIDHI, Superintendent Research Department, His Highness' Government JAMMU & KASHMIR, SRINAGAR. Published under the Authority of the Government of His Highness Rājarājes'vara Mahārājādhirāja s'ri MAHĀRĀJA HARISINGHJI BAHADUR, G. C. I. E., K. C. V. O., MAHĀRĀJA OF JAMMU AND KASHMIR. Volume X Luvazov & KAS RESEA SHMIRSE BOMBAY: PRINTED AT THE "NIRNAYA SAGAR' PRESS, 1933. A. D.
श्रीसोमानन्दनाथप्रभृतिगुरुवरादिष्टसन्नीतिमार्गों
लब्ध्वा यत्रैव सम्यक्पटिमनि घटनामीश्वराद्वैतवादः।
कश्मीरेभ्यःप्रसृत्य प्रकटपरिमलो रञ्जयन्सर्वदेशान्
देशेऽन्यस्मिन्नदृष्टो घुसृणविसरवत्सर्ववन्धत्वमाप ॥ १॥
तरत तरसा संसाराब्धि विधत्त परे पदे
पदमविचलं नित्यालोकप्रमोदसुनिर्भरे ।
विमृशत शिवादिष्टाद्वैतावबोधसुधारसं
प्रसभविलसत्सद्युक्त्यान्तःसमुत्लवदायिनम् ॥२॥
IVESIY 3HINDIVIS)
ॐ
काश्मीर-संस्कृतग्रन्थावलिः।
ग्रन्थाङ्कः ५२
श्रीतन्त्रालोकः।
श्रीमन्महामाहेश्वराचार्यवर्य-श्रीमदभिनवगुप्तविरचितः ।
श्रीमन्महामाहेश्वराचार्य-श्रीजयरथकृतविवेकाख्यटीकोपेतः ।
श्रीराजराजेश्वर-महाराजाधिराज-कश्मीरनरेन्द्र-श्रीहरिसिंहजी-
बहादुराज्ञया
रिसर्च-कार्यालयाध्यक्ष-पण्डित-मधुसूदनकौल-शास्त्रिणा
उद्दिष्टकार्यालयस्थेतरपण्डितसहायेन
संशोधनादिसंस्करणोत्तरं
संपाद्य
मुम्बय्यां 'निर्णयसागर' मुद्रणालये मुद्रापयित्वा प्राकाश्यमुपनीतः।
दशमो भागः (आह्निकानि १६-२७)
ENT JAMMO
&I
G
SHMIR
संवत् १९९०. काश्मीर-श्रीनगर
दस्ताब्दः १९३३.
(अस्य प्रन्थस्य सर्वे प्रकाशन-मुद्रापणाद्यधिकाराः प्रोक्तमहाराजवर्यैः
वायत्तीकृताः सन्ति)
(All rights reserved.)
Printed by Ramchandra Yesu Shedge, at the "Nirnaya-sagar' Press,
26-28, Kolbhat Lane, Bombay.
Published by Pandit Madhusudan Kaul Shastri, M. A., M, 0. L.
for the Research Department,
Jammu and Kashmir Government, SRINAGAR.
अथ
श्रीतन्त्रालोके
श्रीमन्महामाहेश्वराचार्याभिनवगुप्तविरचिते
श्रीजयरथकृतविवेकाख्यटीकोपेते
षोडशमाह्निकम् ।
प्रणमामि निखिलपाशप्रवाहसंमेदभेदबलभद्रम् ।
बलभद्रं प्राणाश्वप्रचारचातुर्यपूर्णबलम् ॥
इदानी समयदीक्षानन्तरं भाविनी पुत्रक-
दीक्षां निरूपयितुं द्वितीयार्धन प्रतिजानीते
अथ पुत्रकत्वसिद्ध्यै
निरूप्यते शिवनिरूपितोऽत्र विधिः ।
तमेवाह
यदा तु समयस्थस्य
पुत्रकत्वे नियोजनम्।
गुरुत्वे साधकत्वे वा
कर्तुमिच्छति दैशिकः॥१॥
२ श्रीतत्रालोके। तदाधिवासं कृत्वाह्नि द्वितीये मण्डलं लिखेत् । सामुदायिकयागेऽथ तथान्यत्र यथोदितम् ॥ २॥ सामुदायिकमेव यागं निरूपयति षडष्टतद्विगुणित- चतुर्विंशतिसंख्यया। चक्रपञ्चकमाख्यातं शास्त्रे श्रीपूर्वसंज्ञिते ॥३॥ द्वात्रिंशत्तद्विगुणितं श्रीमत्रशिरसे मते। असंख्यचक्रसंबन्धः श्रीसिद्धादौ निरूपितः॥४॥ अत्र चोभयत्रापि त्रिशूलाब्जमेव मण्डल- मुचितमित्याह तस्माद्यथातथा यागं यावच्चक्रेण संमितम् ।
९लो०] षोडशमाह्निकम् । पूजयेयेन तेनात्र त्रिशूलत्रयमालिखेत् ॥५॥ त्रिशूलत्रितये देवी- त्रयं पर्यायवृत्तितः। मध्यसव्यान्यभेदेन पूर्ण संपूजितं भवेत् ॥६॥ वर्तना मण्डलस्याग्रे संक्षेपादुपदेक्ष्यते। आलिख्य मण्डलं गन्ध- वस्त्रेणैवास्य मार्जनम् ॥७॥ कृत्वा स्नातो गुरुः प्राग्व- मण्डलाग्रेऽत्र देवताः। बाह्यगाः पूजयेद्वार- देशे च द्वारदेवताः॥८॥ मण्डलस्य पुरोभागे तदेशानदिशः क्रमात् ।
श्रीतन्त्रालोके । ४ आग्नेय्यन्तं गणेशादीन क्षेत्रपान्तान्प्रपूजयेत् ॥ ९॥ गणपतिगुरुपरमाख्याः परमेष्ठी पूर्वसिद्धवाक्क्षेत्रपतिः। इति सप्तकमाख्यातं गुरुपतिविधौ प्रपूज्यमस्मद्गुरुभिः तत आज्ञा गृहीत्वा तु पुष्पधूपादिपूजितम् । पूज्यमाधारशक्त्यादि शूलमूलात्प्रभृत्यलम् ॥११॥ शिवान्तं सितपद्मान्ते त्रिशूलानां त्रये कमात् । पर्यायवृत्तित इति क्रमेण । अग्र इति एक- त्रिंशाहिके । बाह्यगा देवता इति बाह्यपरिवारः। पूर्वसिद्ध इति एतद्दर्शनावतारक आयो वि- च्छिन्नसंतानः, यस्तु अद्यतनः प्रतिनियतप्र- कान्तशास्त्रनिष्ठो विशिष्टो गुरुक्रमः, स न बाह्य- पूजायां पूज्य इत्यनेन कटाक्षितम् , यद्वा वि.
१५ श्लो०] षोडशमाह्निकम् । शिष्टायामेव गुरुपतौ पूज्यायामेतदादीतरमपि प्रपूज्यमिति । वागिति वागीश्वरी ॥ अत्रैव गुणप्रधानभावेन सभैरवस्य देवीत्रय- स्थावस्थिति दर्शयितुमाह मध्यशूले मध्यगः स्या- त्सद्भावः परया सह ॥ १२॥ वामे चापरया साकं नवात्मा दक्षगं परम्। त्रिशूले दक्षिणे मध्य- शृङ्गस्थो रतिशेखरः॥ १३॥ स्यात्परापरया साकं दक्षे भैरवसत्परे। वामे त्रिशूले मध्यस्थो नवात्मापरया सह ॥ १४॥ स्यात्परे परया साकं वामारे संश्च भैरवः। वाम इति मध्यापेक्षया। परमिति अन्यदव- शिष्टं रतिशेखरपरापरलक्षणम् । दक्षिण इति
६
श्रीतन्त्रालोके ।
साधकापेक्षया । दक्ष इति तत्रैव, अर्थादवशि-
ष्टायामरायाम् । वाम इति साधकापेक्षयैव । पर
इति अन्यस्मिन्नवशिष्टे वामारे। संश्च भैरव इति
सद्भावभैरवश्चेत्यर्थः। चः पूर्वापेक्षया। येषां पुनः
'स्यात्परे परया साकं वामारे संश्च भैरवः ।'
इत्यर्थं नास्ति, तैः पूर्वतो दक्षे भैरवसत्पर इत्येव
योज्यम्।
'स्यात्परापरया साकं वामारे रतिशेखरः।'
इत्येवं तु गतार्थत्वादुपेक्ष्यमेव । एवं मध्यशूले
परायाः प्राधान्यं, दक्षिणे परापरायाः, वामे
चापरायाः, इतरदेवीद्वयं पुनरङ्गतया सर्वत्र
पार्श्वयोरित्युक्तं स्यात् । एवमपि परादेव्या एव
त्रिशुलत्रयेऽपि साक्षादवस्थानमन्ययोः पुनः
श्लिष्टतया न तथा-इत्यन्यवैलक्षण्येन प्राधा-
न्यात् तस्या एव सर्वगतत्वम् ॥
अत एवाह
इत्थं सर्वगतत्वे श्री-
परादेव्याः स्थिते सति ॥१५॥
७
१९ श्लो०]
षोडशमाह्निकम् ।
यागो भवेत्सुसंपूर्ण-
स्तदधिष्ठानमात्रतः।
एकशूलेऽप्यतो यागे
चिन्तयेत्तदधिष्ठितम् ॥ १६॥
अविधिज्ञो विधानज्ञ
इत्येवं त्रीशिकोदितम् ।
ततो मध्ये तथा दक्षे
वामे शृङ्गे च सर्वतः ॥ १७॥
लोकपालास्त्रपर्यन्त-
मेकात्मत्वेन पूजयेत् ।
परत्वेन च सर्वासां
देवतानां प्रपूजयेत् ॥ १८॥
श्रीमन्तं मातृसद्भाव-
भट्टारकमनामयम्।
ततोऽपि भोगयागेन
विद्यानं भैरवाष्टकम् ॥ १९॥
श्रीतन्त्रालोके । यामलं चक्रदेवीश्च स्वस्थाने पूजयेद्बहिः। लोकपालानत्रयुता- गन्धपुष्पासवादिभिः ॥२०॥ पूजयेत्परया भत्त्या वित्तशाठ्यविवर्जितः ततः कुम्भास्त्रकलशी- मण्डलस्थानलात्मनाम् ॥२१॥ पञ्चानामनुसन्धान कुर्यादद्वयभावनात् । ये तु तामहयव्याप्ति न विन्दन्ति शिवात्मिकाम् ॥२२॥ मन्त्रनाडीप्रयोगेण ते विशन्यद्वये पथि। सुसंपूर्ण इति पूरणप्रधानत्वात् अस्याः। अत इति तदधिष्ठानमात्रेणैव यागस्य पूर्णतापत्तेः । त्रीशिकाग्रन्थश्च बहुशो व्याख्यातचरः। स्वस्थान ९ २६ श्लो०] षोडशमाह्निकम् । इति अग्नीशादिरूपे । तत इति मण्डलपूजान- न्तरम् । अद्वयभावनादिति अहमेव सर्वत्राव- स्थित इत्येवंरूपात् । न विन्दन्ति इत्येवमद्वयप- रामर्शानुदयात्॥ तमेव मत्रनाडीप्रयोगमाह स्वदक्षिणेन निःमृत्य मण्डलस्थस्य वामतः ॥ २३ ॥ प्रविश्यान्येन निःसृत्य कुम्भस्थे कर्करीगते। वह्निस्थे च क्रमेणेत्थं यावत्स्वस्मिन्स्ववामतः ॥२४॥ मूलानुसन्धानबला- प्राणतन्तूम्भने सति। इत्थमैक्यस्फुरत्तात्मा व्याप्तिसंवित्प्रकाशते ॥२५॥ ततो विशेषपूजां च कुर्यादद्वयभाविताम् । २ १० श्रीतन्त्रालोके । अन्येनेति दक्षिणेन । इत्थमिति उक्तेन द- क्षिणवामाभ्यां निर्गमनप्रवेशलक्षणेन प्रकारेणे- त्यर्थः । खवामत इति अर्थात्प्रविशेत् । प्राणत- न्तूम्भने सतीति खात्ममण्डलादीनां परस्परस्य प्राणसंमीलना(या)मित्यर्थः, अन्यथा हि कथमै- क्यस्फुरत्तात्मायं प्रयोगः सिद्धयेदित्यर्थः । नन्वत्रापि अयभावेन कोऽर्थ इत्याशङ्कयाह यच्छिवाद्वयपीयूष- संसिक्तं परमं हि तत् ॥२६॥ तेनार्घपुष्पगन्धादे- रासवस्य पशोरथ। या शिवाहयतादृष्टिः सा शुद्धिः परमीकृतिः ॥२७॥ ननु अर्घपुष्पादेः पूजायामुपयोगादस्तु नामैवं परमीकृतिः, पशोः गीकृत्य मण्डलात्मैक्यानुसन्धानानन्तर्येणो- द्दिष्टं निवेद्यानां पशूनां विस्तारमभिधातुमाह निवेदयेडिभोरग्रे जीवान्धातूंस्तदुत्थितान्। पुनरनया कोऽर्थ कोऽर्थ इत्याशङ्का ३० श्लो०] षोडशमाह्निकम् । ११ सिद्धानसिद्धान्व्यामिश्रा- न्यद्वा किंचिच्चराचरम् ॥२८॥ जीवन्तीति जीवाः पशवः । सिद्धानिति प. क्वान् । न केवलं पश्वादि चरमेवात्र निवेद्यं, या- वदचरमपीत्याह यद्वा किंचिच्चराचरमिति॥२८॥ जीवानिति बहुवचनाक्षितं पशुबहुत्वम- भिधत्ते दृष्टप्रोक्षितसंद्रष्ट्र- प्रालब्धोपात्तयोजितः। निर्वापितो वीरपशुः सोऽष्टधोत्तरतोत्तमः ॥ २९॥ यथोत्तरं न दातव्य- मयोग्येभ्यः कदाचन। शिवोपयुक्तं हि हवि- न सर्वो भोक्तुमर्हति ॥३०॥ उत्तरतोत्तम इति यथोत्तरमुत्कृष्ट इत्यर्थः ३० १२ श्रीतन्त्रालोके । ननु किमेवमस्य हविषो माहात्म्यं यत्सों न भोक्तुमर्हतीत्युक्तमित्याशक्याह यस्तु दीक्षाविहीनोऽपि शिवेच्छाविधिचोदितः। भक्त्याश्नाति स संपूर्णः समयी स्यात्सुभावितः ॥३१॥ भक्त्याशने हेतुः शिवेच्छाविधिचोदित इति। यदुक्तं 'तस्यैव तु प्रसादेन भक्तिरुत्पद्यते नृणाम् ।' इति । अत एव लौल्यादिना भुक्ते प्रत्यवायो भवेदिति भावः ॥ ३१॥ एतदेव यथोद्देशं पश्वष्टकं लक्षयति दृष्टोऽवलोकितश्चैव किरणेघगर्पणात्। प्रोक्षितः केवलं ह्यर्घ- पात्रविघुडिरुक्षितः ॥३२॥ संद्रष्टा दर्शिताशेष- सम्यक्पूजितमण्डलः।
३६ श्लो०] षोडशमाह्निकम् । १३ प्रालब्ध उक्तत्रितय- संस्कृतः सोऽपि धूनयेत् ॥३३॥ कम्पेत प्रस्रवेत्स्तब्धः प्रलीनो वा यथोत्तरम् । उपात्तो यागसान्निध्ये शमितः शस्त्रमारुतैः॥३४॥ योजितः कारणत्याग- क्रमेण शिवयोजनात् । निर्वापितः कृताभ्यास- गुरुप्राणमनोर्पणात् ॥ ३५॥ दक्षिणेनाग्निना सौम्य- कलाजालविलापनात् । केवलमिति अवलोकनपरिहारेण । उक्तत्रि- तयसंस्कृत इति अवलोकनप्रोक्षणमण्डलदर्शन- लक्षणेन उक्तेन त्रितयेन संस्कृतः कृतसंस्कार इत्यर्थः । यथोत्तरमित्यवलोकने धूननं, प्रोक्षणे कम्पनं, मण्डलदर्शने प्रस्रवणं, यद्वा निश्चेष्ट- स्तरतमभावेन गलितनिखिलेन्द्रियवृत्तिश्च भवे-
११
श्रीतन्त्रालोके।
दित्यर्थः। शस्त्रमारुतैरित्यत्र वेगवत्त्वप्रतिपाद-
नार्थ मारुतेन निरूपणम् । आत्मनश्च दक्षिणेन
प्राणाग्निना सौम्यस्यापानात्मनः पाशवस्य क-
लाजालस्य विलापनमवलम्ब्य प्राणमनोजयादौ
कृताभ्यासेन गुरुणा प्राणमनसोरर्पणात् पाश-
वप्राणायेकीकारेणावस्थानान्निवेदितो यः पशुः,
स निर्बीजकरणानिर्वापित उच्यत इत्यर्थः ॥
एतदेव प्रपञ्चयति
तथाह्यादौ परं रूप-
मेकीभावेन संश्रयेत् ॥ ३६॥
तस्मादाग्नेयचारेण
ज्वालामालामुचाविशेत् ।
पशोर्वामेन चन्द्रांशु-
जालं तापेन गालयेत् ॥३७॥
नाभिचक्रेऽथ विश्राम्ये-
प्राणरश्मिगणैः सह ।
परो भूत्वा स्वशक्त्यात्र
जीव जीवेन वेष्टयेत् ॥ ३८॥
१५ ४३ श्लो.] षोडशमाहिकम् । स्वचित्सूर्येण संताप्य द्रावयेत कलां कलाम् । ततो द्रुतं कलाजालं प्रापथ्यैकत्वमात्मनि ॥३९॥ समस्ततत्त्वसंपूर्ण- माप्यायनविधायिनम् । उन्मूलयेत संरम्भा- कर्मबद्धममुं रसात् ॥४०॥ तत उन्मूलनोहेष्ट- योगाहामं परिभ्रमन् । कुण्डल्यमृतसंपूर्ण- स्वकप्राणप्रसेवकः॥४१॥ वामावर्तक्रमोपात्त- हृत्पद्मामृतकेसरः। हृत्कर्णिकारूढिलाभा- दोजोधातुं विलापितम् ॥४२॥ शुद्धसोमात्मकं सार- मीषल्लोहितपीतलम् ।
श्रीतन्त्रालोके । आदाय करिहस्ताग्र- सदृशे प्राणविग्रहे ॥४३॥ निःसृत्य झटिति स्वात्म- वाममार्गेण संविशेत् । आप्याययन्नपानाख्य- चन्द्रचक्रहृदम्बुजे ॥४४॥ स्थितं तद्देवताचक्र तेन सारेण तर्पयेत् । इह तावदात्मनि निग्रहादिसामर्थ्यान्यथानु- पपत्त्या पररूपतां संश्रित्य वह्निज्वालामुचा खद- क्षिणेन निर्गत्य पशोर्वामेन प्रविश्य तदपानच- न्द्रसंबन्धि कलाजालं स्वप्राणाग्नितापेन द्रावयि- त्वा तन्नाभिचक्र एव निखिलप्राणकोडीकारेण खावष्टम्भ एव तिष्ठन् खमहिना तजीवं खजी- वेन वेष्टयित्वा स्वचिदग्नितापेन तत्कलाजालं विलाप्य संपूर्णरूपतयाप्यायकारित्वादात्मनि ए- कतां प्रापय्यादरसंरम्भेण तदमुं कर्मबन्धादु- द्वेष्टनक्रमेणोन्मूलयित्वा वामावर्तेन परिभ्रमन्
४६ श्लो०]
षोडशमाह्निकम् ।
आसादितहृत्पद्मामृतमयकर्णिकादेशोऽत एव
कन्दकुण्डलिन्यमृतापूरितवप्राणभस्त्र आचार्यों
हृत्कर्णिकायामेव प्ररोहं भजन्नीषल्लोहितपीत-
लमत एव शुद्धसोमात्मकं स्वप्राणवहिना वि-
लापितमोजोधातुलक्षणं सारं कुटिलकुञ्चिता.
कारकरिहस्ताग्रसदृशेन प्राणेनाकृष्य शीघ्रमेव
तदक्षिणेन निर्गत्य स्ववामेन प्रविश्य खात्मान-
माप्याययन्नेवमाहृतेन तेन सारेण हृदम्बुज-
स्थितं देवताचक्रं तर्पयेत् तदेकसमरसं कुर्या-
दित्यर्थः॥
न केवलमेवमोजोधातुमेवाहरेत् , यावदन्या-
नपीत्याह
अनेन विधिना सर्वा-
सरक्तादिकांस्तथा ॥४५॥
धातून्समाहरेत्संघ-
क्रमादेकैकशोऽथवा।
केवलं त्वथवाग्नीन्दु-
रविसंघट्टमध्यगम् ॥४६॥
श्रीतन्त्रालोके। ज्योतीरूपमथ प्राण- शक्तयाख्यं जीवमाहरेत् । अग्नीन्दुरविसंघट्टमध्यगमिति प्राणापानोदा- नसंघद्वात्मकहृत्पद्म(मध्य)मध्यासीनमित्यर्थः॥ नन्वेवमाहृतैरेभिः किं कुर्यादित्याशङ्कयाह जीवं समरसीकुर्या- देवीचक्रेण भावनात् ॥४७॥ तदेव तर्पणं मुख्यं भोग्यभोकात्मतैव सा। ननु किमेतत्समबकं कार्य नवेत्याशङ्कयाह अग्निसंपुटफुल्ला- व्यकालात्मको महान्॥४८॥ पिण्डो रक्तादिसारौघ- चालनाकर्षणादिषु। अग्निः रेफः, फुल्लाणः फकारः, त्र्यश्रमेकारः, कालो मकारः, एवं फ्रेम् । तदुक्तं 'क्रोधो वहिपुटान्तस्थख्यश्रकालविभेदितः। सेयं रक्तादिसारौषकर्षणे क्षुरिका मता ॥ इतिः॥
५१ श्लो.]
षोडशमाह्निकम् ।
नन्विदं कियता कालेन कियता वा जपेन
सिध्यदित्याशङ्कयाह
इत्थं विश्रान्तियोगेन
घटिकार्धक्रमे सति ॥४९॥
आवृत्तिशतयोगेन
पशोर्निर्वापणं भवेत् ।
अत्र च प्राकोटावभ्यास उपादेय इत्याह
कृत्वा कतिपयं कालं
तत्राभ्यासमनन्यधीः॥५०॥
यथा चिन्तामणौ प्रोक्तं
तेन रूपेण योगवित् ।
निःशङ्कः सिद्धिमाप्नोति
गोप्यं तत्प्राणवत्स्फुटम्॥५१॥
चिन्तामणाविति तत्त्वार्थचिन्तामणौ। तेनेति
कृताभ्यासेन । निःशङ्क इति, यदुक्तं
'निःशङ्कः सिद्धिमायाति शङ्का तेनात्र वर्जयेत् ।
अलीककरुणाबुद्धिरवीरो हि विनश्यति ॥
इति । गोप्यमिति लोकविरुद्धत्वात् ॥ ५१ ॥
श्रीतन्त्रालोके।
एतदेव परोक्षदीक्षायामप्यतिदिशति
परोक्षेऽपि पशावेवं
विधिः स्याद्योजनं प्रति ।
प्रवेशितो यागभुवि
हतस्तत्रैव साधितः॥५२॥
चक्रजुष्टश्च तत्रैव
स वीरपशुरुच्यते।
तत्रैवेति यागभुवि । जुष्ट उपभुक्तः।
ननु रणापणादौ व्यापादितोऽपि पशुर्या-
गादौ निवेदनीयस्तत्कथमस्याष्टधात्वमेवोक्तमि-
त्याशङ्याह
यस्त्वन्यत्रापि निहतः
सामस्त्येनांशतोऽपिवा ॥५३॥
देवाय विनिवेद्यत
सवै बाह्यपशुर्मतः।
अत्रैव क्रमेण फलं निर्दिशति
राज्यं लाभोऽथ तत्स्थैर्य
शिवे भक्तिस्तदात्मता ॥५४॥
२१ ५७ श्लो०] षोडशमाह्निकम् । शिवज्ञानं मन्त्रलोक- प्राप्तिस्तत्परिवारता। तत्सायुज्यं पशोः साम्या- बाह्यादेर्वीरधर्मणः ॥५५॥ पुष्पादयोऽपि तल्लाभ- भागिनः शिवपूजया। लाभ इति धरादेः। तत्परिवारतेति तत्सा. मीप्यम् । एवं बाह्यपशोः राज्यं, इष्टस्य लाभः, यावद्वीरपशोर्मनसायुज्यमिति ॥ नन्वेवं शिवपूजनया पशुपुष्पादेश्वराचरस्थापि कस्मात्तल्लाभभागित्वं भवेदित्याशङ्कयाह एकोपायेन देवेशो विश्वानुग्रहणात्मकः ॥५६॥ यागेनैवानुगृह्णाति किं किं यन्न चराचरम्। अतश्च पशुवेदनादि हिस्रं कर्मेति न संभा- वनीयमित्याह श्रीतन्त्रालोके। तेनावीरोऽपि शङ्कादि- युक्तः कारुणिकोऽपिच ॥५७॥ न हिंसाबुद्धिमादध्या- त्पशुकर्मणि जातुचित् । तेन पश्चाद्यनुग्रहणेन हेतुना शङ्कादियोगा- दवीरः सविकल्पः कारुणिकोऽपिवा आचार्यों यागादौ पशुकर्मणि कदाचिदपि न हिंसाबुद्धि- मादध्यात् नैवं संभावयेदित्यर्थः । नहि नाम विहितत्वादियं हिंसैव स्यात् । यदाहुः 'नाग्निष्टोमीयहिंसा हिंसैव भवति ।' इति । यागादन्यत्र पुनरियं हिंसैव निषिद्ध- त्वात् । यदागमः 'न हठेन पशुं हन्यानार्तिभावे कदाचन । नचोद्देशेन सुभगे यागपूर्व विधानवित् ॥' इति । 'न विवाहे पशुं हन्यानचात्मार्थे कदाचन । यागकाले महादेवि नेष्टबन्धुसमागमे ॥ क्रीडाथै न पशुं हन्याद्विना यागाद्वरानने। यागकाले ददेद्यो हि मादणां तर्पणाय च ॥
५९ लो०] षोडशमाहिकम् । २३ एकैके तु सकृद्दत्ते पूर्वोक्तेन विधानतः। जपकोटिसहस्रस्य पूजायुतशतस्य च ॥ तत्फलं प्राप्नुयात्सद्यः पशुयागे कृते सति ।' इति च । स्मृतिरपि 'यावन्ति पशुलोमानि तावत्कृत्वो ह मारणम् । पृथापशुनः प्राप्नोति प्रेत्य जन्मनि जन्मनि ॥ (मनु४।३८) इति ॥ ननु भवत्वेवं, तथापि पशोःप्रथममिदं मारणं नाम महदप्रियमित्याशङ्कयाह पशोर्महोपकारोऽयं तदात्वेऽप्यप्रियं भवेत् ॥५८॥ व्याधिच्छेदौषधतपो- योजनात्र निदर्शनम् । तत्कालं पशोरप्रियमपि भवत् मारणमनु- ग्रहलक्षणो महानयमुपकारो यत्र व्याधिच्छे. दादि निदर्शनम् । औषधं क्षारादि, तपः कृ- च्छादि। यदागमः 'तेषामनुग्रहार्थाय पशूनां तु वरानने । मोचयन्ति हि पापेभ्यः पाशौघांश्छेदयन्ति तान् ॥ पशूनामुपयुक्तानां नित्यमूर्ध्वगतिर्भवेत् । (ने.त.२०६९) इति । श्रुतिरपि श्रीतन्त्रालोके । 'पशुवै नीयमानः स मृत्यु प्रापश्यत् स देवान्नान्वका- मयतेत्थं तं देवा अनुवन्नेहि स्वर्ग त्वा लोकं गमयिष्यामः। इति ॥ ननु यद्येवं मारणादेव मुक्तिः स्यात् , तत्कृतं दीक्षादिनेत्याशङ्का शमयितुमागमं संवादयति श्रीमन्मृत्युञ्जये प्रोक्तं पाशच्छेदे कृते पशोः॥५९॥ मलत्रयवियोगेन शरीरं न प्ररोहति । धर्माधर्मोंधविच्छेदा- च्छरीरं च्यवते किल ॥६०॥ तेनैतन्मारणं नोक्तं दीक्षेयं चित्ररूपिणी। रूढपाशस्य यः प्राणै- वियोगो मारणं हि तत् ॥६॥ इयं तु योजनैव स्या- त्पशोर्देवाय तर्पणे। धमाधौघेति शरीरारम्भकस्य । तदुक्तं तंत्र ६३ श्लो०] षोडशमाह्निकम् । 'मूलच्छेदेन हि पशोर्जिघांसन्ति मलत्रयम् । मलत्रयवियुक्तस्य शरीरं न प्ररोहति ॥ दीक्षावद्योजनं तस्य पशोनैव हि घातनम् । व्यापकेन स्वरूपेण स्वशक्तिविभवेन च ॥ त्रोटयन्ति पशोः पाशाञ्छरीरं येन नश्यति । शरीरेण प्रनष्टेन मोक्षणं नहि मारणम् ॥ दृढप्ररूढपाशस्य बद्धस्य पुरुषस्य यः। वियोगस्तु शरीरेण मारणं तद्विदुर्बुधाः ॥' (नेत०२०) इति ॥ एतदेवोपसंहरति तस्माद्देवोक्तिमाश्रित्य पशून्दद्यावहूनिति ॥६२॥ एवं "पशूच प्रोक्षयेदहून् ।' इत्यादिकां देवोक्तिमाश्रित्य बहून् नवप्रकारान् पशुन् दद्यात् निवेदयेदिति सिद्धम् ॥ ६२॥ ननु 'एकजन्मा द्विजन्मा वा सप्तजन्मा समुद्भवेत् ।' इत्याद्युक्त्या जन्मभेदेनापि पशूनामुत्तमादिरूप- त्वमस्तीत्यादि, तदिह कस्मान्नोक्तमित्याशवाह २६ श्रीतन्त्रालोके। निवेदितः पुनःप्राप्त- देहो भूयोनिवेदितः। षट्कृत्व इत्थं यः सोऽत्र षड्जन्मा पशुरुत्तमः॥६३ ॥ निवेदित इति तत्तन्मत्रसंस्कारद्वारेणापा- दितपरतत्त्वैकात्म्य इत्यर्थः । पुनःप्राप्तदेह इति कथंचित्संपत्त्ययोगात् ॥ ६३ ॥ उत्तमत्वमेवास्य दृष्टान्तोपदर्शनेन द्रढयति यथा पाकक्रमाच्छुद्धं हेम तद्वत्स कीर्तितः। कां सिद्धिं नैव वितरे- त्वयं किंवा न मुच्यते ॥६४॥ अत एवास्य परं वपरोपकारकत्वमित्याह का सिद्धिमित्यादि ॥ ६४॥ एतदेवागमेन संवादयति उक्तं त्वानन्दशास्त्रे यो मन्त्रसंस्कारवांस्त्यजेत् ।
६८ श्लो०] षोडशमाह्निकम् ।
२७
समयान्कुत्सयेद्देवी-
दद्यान्मन्त्रान्विना नयात् ॥६५॥
दीक्षामन्त्रादिकं प्राप्य
त्यजेत्पुत्रादिमोहितः।
ततो मनुष्यतामेत्य
पुनरेवं करोत्यपि ॥६६॥
इत्थमेकादिसप्तान्त-
जन्मासौ द्विविधो द्विपात्।
चतुष्पाहा पशुर्देवी-
चरुका) प्रजायते ॥६७॥
दार्पितोऽसौ तद्वारा
याति सायुज्यतः शिवम्
एवमिति समयत्यागादि । तद्वारेति दात्रर्प-
णप्रणालिकयेत्यर्थः॥
तदेवं देवीचरुकार्थमेवास्योत्पत्तेस्तदन्यत्र वि-
नियोगो न कार्य इत्याह
इति संभाव्य चित्रं त-
त्पशूनां प्रविचेष्टितम् ॥६॥
२८ श्रीतन्त्रालोके। भोग्यीचिकीर्षितं नैव कुर्यादन्यत्र तं पशुम् । भोग्यीचिकीर्षितमिति यागादौ देवीनां भो- तुमभिप्रेतमित्यर्थः । अन्यत्रेति यागात् ॥ ननु यागयोग्यपशुविषये भवतु नामैवम् , अयोग्यस्तु ढौकितोऽपि ततोऽपसारणीयोऽन्यत्र च खेच्छया विनियोज्य एव, तन्नायं नियमो भोग्यीचिकीर्षितं पशुं नान्यत्र कुर्यादितीत्या- शङ्कयाह नापि नैष भवेद्योग्य इति बुद्धापसारयेत् ॥६९॥ तं पशुं किंतु काङ्क्षा चे. द्विशेषे तं तु ढौकयेत् । इह 'न शण्ठं च पशुं दद्यात्क्षीणगात्रं नचैव हि। नातिवृद्धं नातिबालं स्त्रीपशुं नैव भैरवि ॥ इत्याद्युक्तखरूप एष पशुर्यागयोग्यो न भवे- दिति बुवापि तं पशुंप्रक्रान्ताद्यागान्नापसारयेत प्रत्युत ७२ श्लो०] षोडशमाह्निकम् । २९ 'शृङ्गी युवा च पूर्णाङ्ग एकवर्ण: शुभाननः । महिषाजाविकश्चैव त्रिविधो यागसिद्धये ॥ इत्याद्युक्ते विशेष चेदाकाङ्क्षा, तत्तं विशिष्टमपि पशुं ढौकयेत् येनाकाङ्क्षापरिपूर्तिः स्यात् । तेन यावन्त एव पशवो यागे ढौकितास्तावन्त एव दातव्याः, नतु योग्या एवेत्युक्तं स्यात् ॥ अत एवाह तावतस्तान्पशून्दद्या- तथाचोक्तं महेशिना ॥७० ॥ तावत इति विशेषाकाङ्क्षापारिपूर्ण्यपर्यन्तान् ॥ एवं पशोः सामस्त्येन विशेषमभिधायांश- तोऽप्यभिधत्ते पशोर्वपामेदसी च गालिते वह्निमध्यतः। अर्पयेच्छक्तिचक्राय परमं तर्पणं मतम् ॥७१॥ हृदन्त्रमुण्डांसयकृ- प्रधानं विनिवेदयेत् ।
३० श्रीतन्त्रालोके। कर्णिकाकुण्डलीमज- पशु मुख्यतरं च वा ॥७२॥ ततोऽग्नौ तर्पणं कुर्या- न्मन्त्रचक्रस्य दैशिकः। तनिवेद्य च देवाय ततो विज्ञापयेत्प्रभुम् ॥७३॥ यकृत् कृष्णमांसं प्रधानत्वेन विनिवेदयेत्। कर्णिका लिङ्गिका । कुण्डली परा मण्डलिका । मज्जा अस्थिवसा । पर्शवः पार्श्वनाड्यः। तर्पण- मिति प्राग्वत् ॥७३॥ किं विज्ञापयेदित्याह गुरुत्वेन त्वयैवाह- माज्ञातः परमेश्वर। साक्षात्स्वप्नोपदेशायै- र्जपैर्गुरुमुखेन वा ॥७४॥ अनुग्राह्यास्त्वया शिष्याः शिवशक्तिप्रचोदिताः।
३१
७९ लो०]
षोडशमाह्निकम् ।
तदेते तद्विधाः प्राप्ता-
स्त्वमेभ्यः कुर्वनुग्रहम् ॥७५॥
समावेशय मां स्वात्म-
रश्मिभिर्यदहं शिवः।
एवं भवत्विति ततः
शिवोक्तिमभिनन्दयेत् ॥७६ ॥
शिवाभिन्नमथात्मानं
पञ्चकृत्यकरं स्मरेत् ।
स्वात्मनः करणं मन्त्रा-
न्मूर्ति चानुजिघृक्षया ॥ ७७॥
ततो बड़ा सितोष्णीषं
हस्तयोरर्चयेत्क्रमात् ।
अन्योन्यं पाशदाहाय
शुद्धतत्त्वविसृष्टये ॥७॥
तेजोरूपेण मन्त्रांश्च
शिवहस्ते समर्चयेत् ।
गर्भावरणगानङ्ग-
परिवारासनोज्झितान् ॥७९॥
३२
श्रीतन्त्रालोके ।
आत्मानं भावयेत्पश्चा-
देककं जलचन्द्रवत् ।
कृत्योपाधिवशाद्भिन्नं
षोढाभिन्नं तु वस्तुतः॥८॥
अथेति तदाज्ञालाभानन्तरम् । अनेन चा-
मितृप्त्यनन्तरोद्दिष्टं स्वस्य खभावस्य दीपनमपि
उपक्रान्तम् । मन्त्रान् करणं स्थूलसूक्ष्मतया परा-
पररूपां मूर्ति च स्मरेदित्येष संबन्धः। सितो.
ष्णीषमिति नवात्मना सप्तजप्तम् । अन्योन्य-
मिति दक्षिणेन वामं वामे [न] च दक्षिण-
मित्यर्थः । पाशदाहकत्वमेवोपोद्दलयितुं तेजो-
रूपेणेत्युक्तम् । गर्भावरणगानिति मूलमत्र-
तद्वक्ररूपानित्यर्थः । यथोक्तं
'ब्रह्मपञ्चकसंयुक्तः शिवेनाधिष्ठितः शुभः ।
पाशच्छेदकरः क्षेमी शिवहस्तः प्रकीर्तितः॥'
इति । एककमिति अनन्यापेक्षत्वादसहायमि-
त्यर्थः । जलचन्द्रवदिति यथाहि वस्तुत एक
एव चन्द्रस्तत्तजलाधारादिलक्षणादुपाधिभेदात्
माना भवेत्, तथायमपीत्यर्थः ॥ ८०॥
८३ श्लो षोडशमाह्निकम् । अस्य षोढाभिन्नत्वमेव दर्शयितुं तत्प्रतिपाद- कमागमग्रन्थं तात्पर्यतो व्याचष्टे मण्डलस्थोऽहमेवायं साक्षी चाखिलकर्मणाम् । शुद्धा हि द्रष्टुता शम्भो- मण्डले कल्पिता मया ॥८॥ होमाधिकरणत्वेन वह्नावहमवस्थितः। यदात्मतेखा मन्त्राः स्युः पाशप्लोषविधावलम् ॥ ८२॥ साक्षित्वमेव शुद्धत्यादिना निर्णीतम् । शु. द्धेति नतु कर्तृत्वमिश्रा । यदात्मतेद्धा इति गृहीतवयाकारपरमेश्वरावेशवशोन्मिषितदीप्तय इत्यर्थः ॥ ८२॥ ननु किं नामैषां पाशप्लोषसामर्थ्यमित्याशझ्याह सामान्यतेजोरूपान्त- राहूता भुवनेश्वराः।
३ श्रीतन्त्रालोके। तर्पिताः श्राविताश्चाणो- ॥धिकारं प्रतन्वते॥८३॥ आ यागान्तमहं कुम्भे संस्थितो विघ्नशान्तये। सामान्यरूपता येन विशेषाप्यायकारिणी ॥ ८४॥ शिष्यदेहे च तत्पाश- शिथिलत्वप्रसिद्धये। स हि खेच्छावशात्पाशा- न्विधुन्वन्निव वर्तते ॥ ८५॥ साक्षात्स्वदेहसंस्थोऽहं कर्तानुग्रहकर्मणाम् । ज्ञानक्रियास्वतन्त्रत्वा- हीक्षाकर्मणि पेशलः ॥८६॥ सामान्यतेजोरूपान्तरिति गर्भीकृतधामत्रय- पारमेश्वरतेजःस्वभावमन्त्रैकात्म्यमापादिता इ- त्यर्थः । आह्वानादि च वक्ष्यमाणम् । अधि-
८८ श्लो०]
षोडशमाह्निकम् ।
३५
कारः खभुवनादौ प्रतिबन्धः । कुम्भ इति
अर्थात् कर्कर्यां च, अन्यथा हि अस्य षोढाभि-
नत्वं न स्यात् । अत्र हि विघ्नशान्तिमात्रात्म-
तयावस्थितः समग्रा एव विशिष्टाः क्रियाः पाल-
येदित्युक्तं सामान्यरूपता विशेषाप्यायकारिणी-
ति । खेच्छावशादिति नह्यस्य मलपरिपाकादि
अपेक्षणीयं किञ्चिदित्युक्तं प्राक् बहुशः । पेशल
इति समर्थः ॥ ८६ ॥
ननु कथमस्य देहादियोगात् पारिमित्येऽप्येवं
भवेदित्याशङ्कय दृष्टान्तयति
भिन्नकार्याकृतिवाते-
न्द्रियचक्रानुसन्धिमान् ।
एको यथाहं वलयादि-
षड्रपोऽस्मि तथा स्फुटम् ॥८॥
एवमालोच्य येनैषोऽ-
ध्वना दीक्षां चिकीर्षति ।
अनुसंहितये शिष्य-
वर्ज
पञ्चसु
तं यजेत् ॥ ८॥
३६ श्रीतन्त्रालोके । यथा हि एक एवाहमनेकव्यापारे तत्तदाका- रविशेषे च 'मनःषष्ठानीन्द्रियाणि...........।' (भगी०१५।७) इत्युक्तेरिन्द्रियाणां षट्के य एवाहं पश्यामि, स एवाहं शृणोमीत्येवमनुसन्धिमत्त्वेन सर्वजनसा. क्षिकं द्रष्ट्रादिरूपतया षोढा भवामि इत्येवं म- ण्डलवयादावपीति वाक्यार्थः। येनेति तत्त्वक- लादीनामन्यतमेन ॥ ८८॥ नन्वत्रानुसन्धानेन किं स्यादित्याशङ्कयाह अनुसन्धिबलान्ते च समासव्यासभेदतः। कुर्यादत्यन्तमभ्यस्त- मन्यान्तर्भावपूरितम् ॥ ८९॥ ततोऽपि चिन्तया भूयो- ऽनुसन्दध्याच्छिवात्मताम्। अत्यन्तमिति । एवं हि अस्खलितमेव कर्म सिद्धयेदित्याशयः। अनुसन्ध्यादिति अर्थादा- त्मन्येव ॥
९३ श्लो०] षोडशमाह्निकम् । एतमेवागमग्रन्थं व्याचक्षाणः प्रपञ्चयति अहमेव परं तत्त्वं नच तद्धटवत् क्वचित् ॥९०॥ महाप्रकाशस्तत्तेन मयि सर्वमिदं जगत् । नच तत्केनचिद्वाह्य- प्रतिबिम्बवदर्पितम् ॥ ९१॥ कर्ताहमस्य तन्नान्या- धीनं च मदधिष्ठितम् । इत्थंभूतमहाव्याप्ति- संवेदनपवित्रितः ॥ ९२॥ मत्समत्वं गतो जन्तु मुक्त इत्यभिधीयते । तदिति घटवन्नियतरूपत्वाभावात्। तेनेति म- हाप्रकाशरूपत्वेन पूर्णे हि रूपे सर्वस्यैव सद्भावो भवेदिति भावः । तदिति केनचिहाह्येन बि. म्बेनानर्पितत्वात्। अत एव न तदन्याधीनं यतो मदधिष्ठितं मय्येव विश्रान्तमित्यर्थः । यदागमः
श्रीतन्त्रालोके।
'अधिष्ठाता च कर्ता च सर्वस्याहमवस्थितः ।'
इति । मत्समत्वगमने हेतुरिस्थमित्यादि । यद-
भिप्रायेणैव
'मोक्षो हि नाम नैवान्यः स्वरूपप्रथनं हि सः।
स्वरूपं चात्मनः संविनान्यत् ........॥' (१११५६)
इत्यादि प्रायुक्तम् ॥
ननु पौनःपुन्येनैवंभावनया किं स्यादित्या-
शङ्कयाह
तापनिर्घर्षसेकादि-
पारम्पर्येण वह्निताम् ॥ ९३॥
यथायोगोलको याति
गुरुरेवं शिवात्मताम् ।
ततः पुरःस्थितं यहा
पुरोभावितविग्रहम् ॥ ९४॥
परोक्षदीक्षणे यहा
दर्भायैः कल्पिते मृते।
शिष्ये वीक्ष्याय॑ पुष्पाद्यै-
यंसेदध्वानमस्य तम् ॥९५॥
९८लो०]
षोडशमादिकम् ।
येनाध्वना मुख्यतया
दीक्षामिच्छति दैशिकः।
पुरःस्थितमिति साक्षाद्वीक्षणे । परोक्षेति
देशान्तरस्थतया । मृत इति मरणे सतीत्यर्थः ।
मुख्यतामेव दर्शयति
तं देहे न्यस्य तत्रान्त-
र्भाव्यमन्यदिति स्थितिः ॥१६॥
अनेन च शिष्यदेहेऽध्वन्यासविधिरुक्तः॥१६॥
इदानीं तु शोध्यशोधकयोवैचित्र्यमभिधत्ते
शोध्याध्वनि च विन्यस्ते
तत्रैव परिशोधकम् ।
न्यसेद्यथेप्सितं मन्त्रं
शोध्यौचित्यानुसारतः ॥९७॥
कचिच्छोध्यं त्वविन्यस्य
शोधकन्यासमात्रतः।
स्वयं शुद्धयति संशोध्यं
शोधकस्य प्रभावतः॥९८॥
श्रीतन्त्रालोके ।
यथेप्सितमिति गुरोः शिष्यस्य वा । शोध्यौ-
चित्यानुसारत इति
'योजयेनेश्वरादूर्ध्व पिवन्यादिकमष्टकम् । (मा०वि०९/७३)
इत्यायुक्तं शोध्यानुगुण्यमनुसृत्येत्यर्थः । प्रभा-
वत इति । यदुक्तम्
'अचिन्त्या मन्त्रशक्ति परमेशमुखोद्भवा । (स्व.४।१५१)
इति ॥९८॥
तत्र शोध्यस्यैव तावद्वैचित्र्यमभिधातुमाह
अपरं परापरं च
परं च विधिमिच्छया।
तद्योजनानुसारेण
श्रित्वा न्यासः षडध्वनः॥१९॥
तद्योजनेति तच्छब्देन अपरादिविधिपरामर्शः ९९
कथं चास्य देहन्यास इत्याह
ललाटान्तं वेदवसौ
रन्ध्रान्तं रसरन्ध्रके।
वसुखेन्दौ द्वादशान्त-
मित्येष त्रिविधो विधिः ॥१०॥
४१ १०३ श्लो०] षोडशमाह्निकम् । क्रमेण कथ्यते दृष्टः शास्त्रे श्रीपूर्वसंज्ञिते। वेदवसाविति चतुरशीतावमुलानाम् । रसर- न्ध्रक इति षण्णवतौ । वसुखेन्दाविति अष्टोत्तरे शते ॥ तमेव तत्त्वोपक्रममाह तत्र तत्त्वेषु विन्यासो गुल्फान्ते चतुरङ्गुले ॥१०१॥ धरा जलादिमूलान्तं प्रत्येकं व्यङ्गुलं क्रमात् । रसश्रुत्यङ्गुलं नाभे- रूव॑मित्थं षडङ्गुले ॥१०२॥ पुंसः कलान्तं षट्तत्त्वीं प्रत्येकं त्र्यङ्गुले क्षिपेत् । अष्टादशाङ्गुलं त्वेवं कण्ठकूपावसानकम् ॥ १०३ ॥ ६ ४२ श्रीतन्त्रालोके । सदाशिवान्तं मायादि- चतुष्कं चतुरङ्गुले। प्रत्येकमित्यब्धिवसु- संख्यमालिकदेशतः॥१०४॥ शिवतत्त्वं ततः पश्चा- तेजोरूपमनाकुलम् । सर्वेषां व्यापकत्वेन सबाह्याभ्यन्तरं स्मरेत् ॥१०५॥ जलाध्यन्तं सार्धयुग्मं मूलं व्यङ्गुलमित्यतः। द्वादशाङ्गुलताधिक्या- द्विधिरेष परापरः ॥ १०६॥ जलाद्यन्तं त्र्य व्यङ्गुले चे- दव्यक्तं तु चतुष्टये। तच्चतुर्विंशत्याधिक्या- परोऽप्यष्टशते विधिः ॥१०७॥ रसश्रुतीति जलादिमूलान्तं तत्त्वत्रयोविंशते.
१०८ श्लो०] षोडशमाह्निकम् । यङ्गु लत्वात् षट्चत्वारिंशदङ्गुलमित्यर्थः । नाभे. रूवं षडङ्गुल इति तत्पर्यन्तमित्यर्थः । एवमिति षण्णां प्रत्येकंत्र्यङ्गुलत्वात्।प्रत्येकं चतुरङ्गुलमिति येन चतुर्णां चतुरङ्गुलतया षोडशाङ्गुलानि भव- न्तीति । अब्धिवखिति चतुरशीतिः। आ अलि- कदेशत इति ललाटदेशान्तमित्यर्थः । अत्रैव जलागुच्यन्तं तत्त्वद्वाविंशतः प्रत्येकमर्धस्व. -सक- लस्य चाकुलस्य द्वयस्य चाधिक्यात् परापरे परे च विधौ द्वादश चतुर्विंशतिश्चाङ्गुलानि अधिकी- भवन्तीति षण्णवतिरष्टोत्तरं शतं चाङ्गुलानां भवतीत्युक्तं जलाध्यन्तमिति । यदुक्तम् 'अपरोऽयं विधिः प्रोक्तः परापरमतः शृणु । पूर्ववत्पृथिवीतत्त्वं विज्ञेयं चतुरङ्गुलम् ॥ सार्धव्यङ्गुलमानानि धिषणान्तानि लक्षयेत् । प्रधानं व्यङ्गुलं ज्ञेयं शेषं पूर्ववदादिशेत् ॥ परेऽपि पूर्ववत्पृथ्वी ज्यङ्गुलान्यपराणि च । चतुष्पर्वप्रधानं च शेषं पूर्ववदाश्रयेत् ॥' (मा०वि०६।२७) इति ॥ १०७॥ नन्वेवं त्रिविधमाने किं प्रमाणमित्याशङ्याह त्रिविधोन्मानकं व्यक्तं वसुदिग्भ्यो रविक्षयात् ।
श्रीतन्त्रालोके। मयतन्त्रे तथाचोक्तं तत्तत्स्वफलवाञ्छया ॥ १०८॥ वसुदिग्भ्य इति अष्टोत्तराच्छतात् । रविक्षया- दिति आवर्तनीयम्। तेन द्वादशानां द्वादशानाम- कुलानां क्षयादित्यर्थः ॥ १०८॥ एवं सामस्त्येन तत्त्वानां न्यासमभिधाय, व्यस्तत्वेनाप्याह नवपञ्चचतुरुयेक- तत्त्वन्यासे स्वयं धिया। न्यासं प्रकल्पयेत्ताव- तत्त्वान्तर्भावचिन्तनात् ॥१०९ कलापञ्चकवेदाण्ड- न्यासोऽनेनैव लक्षितः। तत्र नवतत्त्वन्यासे प्रकृतिः पञ्चाशत्सु अङ्गु- लेषु, पुरुषस्त्रिषु, नियतिर्नवसु, कालः षट्सु, मायाविद्येशसदाशिवाः चतुषु चतुर्यु, शिवस्तु व्यापकतयेति । पञ्चतत्त्वन्यासे तु धरा चतुर्यु अङ्गुलेषु, जलं षट्चत्वारिंशत्सु, तेजो द्वाविं- ४५ ११० श्लो०] षोडशमाह्निकम् । शतिषु, वायुादशसु, आकाशो व्यापकतयेत्यप- रोऽयं विधिः । यदुक्तम् 'अधुना पञ्च तत्वानि यथा देहे तथोच्यते । नाभेरूज़ तु यावत्स्यात्पर्वषट्कमनुक्रमात् ॥ धरातत्वेन गुल्फान्तं व्याप्तं शेषमिहाम्बुना । द्वाविंशतिश्च पर्वाणि तदूर्ध्व तेजसा वृतम् ॥ तसाद्वादश पर्वाणि वायुव्याप्तिरुदाहृता । आकाशान्तं परं शान्तं सर्वेषां व्यापकं सरेत् ॥' (मा०वि०६९) इतरत्र विधिद्वये तु जलतत्व एव द्वादश द्वा. दशाङ्गुलान्यधिकीभवन्ति इति विकल्पनीयम् । पृथ्वीप्रकृतिमायाशक्तिलक्षणचतुस्तत्त्वन्यासेऽपि एवमेव विधिः । त्रितत्त्वन्यासे तु आत्मतत्त्वं द्वासप्ततिष्वङ्गुलेषु, विद्यातत्वं द्वादशसु, शिव- तत्त्वं तु व्यापकतयेति । तदुक्तं 'त्रिखण्डे कण्ठपर्यन्तमात्मतत्वमुदाहृतम् । विद्यातत्त्वमतोत्रं तु शिवतत्त्वं तु पूर्ववत् ॥ (मा०वि०६।१०) इति । तावतामिति अवशिष्टानाम् । अनेनेति पञ्चचतुस्तत्त्वन्यासेनैव ॥
४६ श्रीतन्त्रालोके । नन्वस्तु एवं त्रिविधं मानं, ललाटाद्यन्तं त्रेधावस्थानमस्येति कुतस्त्यमित्याशङ्कयाह उक्तं च त्रिशिरस्तन्त्रे स्वाधारस्थं यथास्थितम्॥११०॥ द्वादशाङ्गुलमुत्थानं देहातीतं समं ततः। हासप्ततिर्दश द्वे च देहस्थं शिरसोऽन्ततः ॥१११॥ पादादारभ्य सुश्रोणि अनाहतपदावधि। इह पादादारभ्य शिरसोऽन्ते नादान्तपदं यावत् ललाटपर्यन्तं द्वासप्ततिर्दश द्वे च चतुर- शीतिरकुलानि देहस्थमपरं मानमित्यर्थः । एवं यथास्थितमपरं मानमवलम्ब्य खाधारे मुण्ड. व्योनि स्थितं ब्रह्मरन्ध्रान्तं द्वादशाङ्गुलमुत्थानं षषणवत्यङ्गुलं परापरं मानमिति यावत् । ततोऽपि देहातीतं द्वादशान्तं यावत् समं द्वादशाङ्गुलमे- ११४ श्लो०] षोडशमाह्निकम् । वोत्थानं येनाष्टोत्तरं शतमङ्गुलानां परं मानं स्यात् ॥ ननु देहस्यैवं माने वक्तुमुपक्रान्ते कथं तद- तीतेऽपि तदुच्येतेत्याशङ्कयाह देहातीतेऽपि विश्रान्त्या संवित्तेः कल्पनावशात् ॥११२॥ देहत्वमिति तस्मात्स्या- दुत्थानं द्वादशाङ्गुलम्। इति निर्णेतुमत्रैत- दुक्तमष्टोत्तरं शतम् ॥ ११३ ॥ परस्याः संविदो हि देहातीतेऽपि विश्रान्त्या काल्पनिकं देहत्त्वमस्तीति तस्मात् ब्रह्मरन्ध्रादपि द्वादशाङ्गुलमुत्थानं देहतयैव स्यादिति निर्णेतु- मेतदत्र श्रीत्रिशिरोभैरवे परमष्टोत्तरशतात्मक- मुक्तमित्यर्थः ॥११३॥ एवं तात्त्वं न्यासमभिधाय, भौवनमाया पुरन्यासोऽथ गुल्फान्तं भूः पुराण्यत्र षोडश।
श्रीतन्त्रालोके। तस्मादेकाङ्गुलव्याप्त्या प्रत्येकं लकुलादितः॥११४॥ द्विरण्डान्तं व्यङ्गुलं तु च्छगलाण्डमथाब्धिषु । देवयोगाष्टके हे हि प्रत्येकाङ्गुलपादतः॥ ११५॥ इति प्रधानपर्यन्तं षट्चत्वारिंशदङ्गुलम् । षट्पञ्चाशत्पुराणीत्थं प्रागधरायां तु षोडश ॥११६॥ ततोऽप्यर्धाङ्गुलव्याप्त्या षट्पुराण्यङ्गुलत्रये। चत्वारि युग्म एकस्मि- नेकं च पुरमङ्गुले ॥ ११७॥ सरागे पुंस्पुराणीश- संख्यानीत्थं षडङ्गुले।
90
११९ श्लो०]
षोडशमाह्निकम् ।
क्रोधेशपुरमेकस्मि-
न्वये चाण्डमियं च वित्॥११८॥
संवर्तज्योतिषोरेवं
कलातत्त्वगयोः क्रमात्।
शूरपश्चान्तपुरयो-
नियतौ चैकयुग्मता ॥ ११९ ॥
षोडशेति चतुर्ष अङ्गुलेषु प्रत्येकमङ्गुलचतु-
र्भागव्याया। द्विरण्डान्तमित्येकोनचत्वारिंशम्।
छगलाण्डमिति चत्वारिंशत्तमम् । अब्धिष्विति
चतुर्ष अङ्गुलेषु । एषामत्र विभागः प्रत्येकाङ्गुल.
पादत इति। षोडशेति पुराणि अर्थादडलान्यपि
चत्वारि ।षट् पुराणीति पुंस्तत्त्वगतानि । चत्वा-
रीति प्रचण्डादिसंबन्धीनि। युग्म इति अङ्गुल-
द्वये । एकमिति एकशिवसंबन्धि । ईश्वरसंख्या-
नीति एकादश । एकस्मिन्निति अङ्गुले । द्वय
इत्यङ्गुलयोः।चाण्डमिति चण्डसंबन्धि। विदिति
विद्या। एवमिति संवर्तपुरमेकाङ्गुलं, ज्योतिष्पुरं
यङ्गुलम् । एकयुग्मतेति शूरपुरमेकाङ्गुलं, पञ्चा-
न्तकपुरं द्यङ्गुलम् ॥ ११९ ॥
श्रीतन्त्रालोके ।
विद्यादौ त्रये चागमोऽपि एतामेव व्याख्या
सहते इति दर्शयितुमाह
श्रीपूर्वशास्त्रे तच्चोक्तं
परमेशेन शंभुना।
उत्तरादिक्रमाद्वेक-
भेदो विद्यादिके त्रये ॥१२०॥
विद्यादौ हि तत्त्वत्रये द्वे द्वे पुरे, तत्र उत्तर-
मूर्ध्वगं पुरं व्यङ्गुलमधस्तनं त्वेकाङ्गुलमिति प्र.
तितत्त्वं त्रीण्यङ्गुलानि यावत्रिष्वेतेषु नवेति ॥
ननु कथमत्रैषां व्यत्ययेनोपदेश इत्याशङ्याह
असारत्वात्क्रमस्यादौ
नियतिः परतः कला।
अथवान्योन्यसंज्ञाभ्यां
तत्त्वयोर्व्यपदेश्यता ॥ १२१॥
एकवीरशिखेशश्री-
कण्ठाः काले त्रयस्त्रये।
कालस्य पूर्व विन्यासो
नियतेरभिधीयते ॥ १२२॥
१२६ श्लो०] षोडशमाहिकम् । अथवान्योन्यसंज्ञाभि- यंपदेशो हि दृश्यते। एतदेवोपोद्दलयितुं पुनरप्युक्तं कालस्ये- त्यादि ॥ एतदेव संचिनोति एवं पुमादिषट्तत्त्वी विन्यस्ताष्टादशाङ्गुले ॥ १२३॥ ततोऽप्यङ्गुष्ठमात्रान्तं मायातत्त्वस्थमष्टकम् । प्रत्येकमर्धाङ्गुलतः स्यादङ्गुलचतुष्टये ॥ १२४॥ इत्थं यक्षिण पुराण्यष्टा- विंशतिः पुरुषानिशि। पुरत्रयं द्वयोख्यंश- न्यूनाङ्गुलमिति क्रमात् ॥१२॥ द्वयोईयं पञ्चपुरी वैद्यीये चतुरङ्गुले।
५२ श्रीतन्त्रालोके । तत ऐशपुराण्यष्टौ चतुष्केऽर्धाङ्गुलक्रमात् ॥१२६॥ ततस्त्रीणि हये हेच द्वयोरित्थं चतुष्टये। सादाशिवं पञ्चकं स्या- दित्थं वस्खेककं रखौ ॥ १२७॥ इत्थमिति अष्टादशानां चतुर्णां च एकीका- रात्मना प्रकारेणेत्यर्थः । यक्ष्णीति द्वाविंशता- वङ्गुलानाम् । निशीति तत्पर्यन्तम् । द्वयोरित्य- गुलयोः। अङ्गुलद्वये हि षोडशधा विभक्ते प्रति- पुरं भागद्वयं मानमित्युक्तं त्र्यंशन्यूनाङ्गुलमिति क्रमादिति।त्रीणीति पुराणि। द्वय इत्यङ्गुलयोः। तच्च न्यंशन्यूनाङ्गुलमानेनेत्यपेक्षणीयम् । वखे- ककमिति अष्टादश पुराणि । वावित्यङ्गुलदा- दशके ॥ १२७॥ एतदेवोभयथापि संकलयति षोडशकं रसविशिखं वसुद्धिकं वसुशशीति पुरवर्गाः।
१३० श्लो०]
षोडशमाह्निकम् ।
वेदा रसाब्धि युग्मा-
क्षि चरवयस्तत्र चाङ्गुलाः क्रमशः॥
रसविशिखमिति षट्पञ्चाशत् । वसुद्विकम-
ष्टाविंशतिः । वसुशशीत्यष्टादश । वेदाश्चत्वारः।
रसाब्धीति षट्चत्वारिंशत् । युग्माक्षि द्वाविंश-
तिः। रवयो द्वादश ॥ १२८॥
एवं चेदं सिद्धमित्याह
अष्टादशाधिकशतं
पुराणि देहेऽत्र चतुरशीतिमिते।
विन्यस्तानि तदित्थं
शेषेतु व्यापकं शिवं तत्त्वम् १२९
इति विधिरपरः कथितः
परापराख्यो रसश्रुतिस्थाने।
अष्टशरं संख्यानं
खमुनिकृतं तत्परे विधौ ज्ञेयम् ॥
रसश्रुतिस्थान इति षट्चत्वारिंशदात्मनि ।
अष्टशरमिति अष्टपञ्चाशत् द्वादशानामाधि-
क्यात्। खमुनीति चतुर्विशतेराधिक्यात् ॥१३०॥
श्रीतनालोके ।
ननु कथं चात्र द्वादशानां चतुर्विशतेर्वा अ.
मुलानामाधिक्यमित्याशझ्याह
लकुलादेर्योगाष्टक-
पर्यन्तस्यात्र
भुवनपूगस्य ।
अधिकीकुर्याद्गणना-
वशेन भागं विधिद्वये क्रमशः॥
भुवनपूगस्येति षट्पञ्चाशदात्मनः। भाग-
मिति परापरे विधौ किंचिदंशाधिकपञ्चभागल-
क्षणम् । परे तु किंचिदंशन्यूनार्धाङ्गुललक्षणम् ॥
एवं भुवनाध्वनो न्यासमभिधाय पदाध्व-
नोऽप्याह
अपरादिविधिता-
दथ न्यासः पदाध्वनः।
पूर्व दशपदी चोक्ता
खतन्त्रा न्यस्यते यदा ॥१३२॥
तयैव दीक्षा कार्या चे-
त्तदेयं न्यासकल्पना।
तत्त्वादिमुख्यतायोगा-
दीक्षायां तु पदावली ॥१३३॥
१३६ श्लो०]
षोडशमाहिकम् ।
तत्तत्त्वायनुसारेण
तत्रान्तर्भाव्यते तथा ।
स्वप्रधानत्वयोगे तु
दीक्षायां पदपद्धतिम् ॥१३४॥
न्यस्येक्रमण तत्त्वादि-
वदनानवलोकिनीम् ।
पूर्वमिति एकादशाह्निकादौ । खतत्रेति प्र-
धाना । तत्रेति तत्त्वादौ । तथेति दशधात्वेन ।
स्वप्रधानत्वयोग एवोपोहलितस्तत्त्वादिवदना-
नवलोकिनीमिति ॥
तदेवाह
चतुर्वष्टासु चाष्टासु
दशस्वथ दशवथ ॥१३५॥
दशवथो पञ्चदश-
स्वथ वेदशरेन्दुषु ।
धरापदान्नवपदी
मातृकामालिनीगताम् ॥१३६॥
५ श्रीतन्त्रालोके। योजयेद्याप्त दशमं पदं तु शिवसंज्ञितम् । धरापदं वर्जयित्वा पञ्च यानि पदानि तु ॥१३७॥ विधिद्वयं स्यानिक्षिप्य द्वादश द्वादशाङ्गुलान् । वेदाश्चत्वारः। शरेन्दवः पञ्चदश । तत्र संहा. रक्रमेण एकाक्षरं चतुरक्षरं द्वयं, पञ्चाक्षरं त्रयं, एकं च यक्षरं, त्र्यक्षरं चेति नवपद्याः विभागः। तदुक्तं 'चतुरङ्गुलमाद्यं तु द्वे चान्येऽष्टाङ्गुले पृथक् ॥ दशाङ्गुलानि त्रीण्यसादेकं पञ्चदशाङ्गुलम् । चतुर्भिरधिकैवान्यव्यापकं नवमं महत् ॥ (मा०वि०६।२०) इति । अत्र च चतुर्भिरङ्गुलैरन्यदष्टमं यक्षरं पदं, अधिकैरवशिष्टैः पञ्चदशभिरमुग्लैश्च नवमं ध्यक्षरं, महत्षोडशाक्षरं दशमंच व्यापकमिति व्याख्यानायोक्तं वेदशरेन्दुष्विति शिवसंज्ञितं दशमं पदं व्याप्तिति च। यत्पुनरनेन पश्चिकायां व्याख्यातं व्यधिकैश्चतुर्भिः सप्ताङ्गुलव्यात्या
१३९ श्लो०]
षोडशमाह्निकम् ।
अष्टमं पदं पारिशिष्ट्यात् द्वादशाङ्गुलव्याच्या
च नवममिति, तत् तत्वक्रमसाम्यापादनहेवा.
किनां केषांचन मतमिति । नहि सर्वसर्विकया
एतदापादयितुं पार्यते इति किमशक्यार्थाभिनि-
वेशेन। तथाहि भौवने न्यासे ध्यङ्गुलत्वेऽपि च्छग-
लाण्डभुवनस्य व्यङ्गुलत्वमुक्तं कथं संगच्छताम्।
भुवनानि हि तत्वैर्व्याप्यन्ते, नतु तानि तैः ।
नाप्येषां नियततत्त्वगतत्वेनावस्थितेः तत्त्वान्त-
रेषु अवस्थानं वक्तुं न्याय्यमित्यलं बहुना
पञ्चेति षट्चत्वारिंशदङ्गुलगतानि । निक्षिप्येत्य.
र्थात् तेष्वेव पञ्चसु पदेषु ॥
एतदेवान्यत्राप्यतिदिशति
मन्त्राध्वनोऽप्येष एव
विधिर्विन्यासयोजने ॥१३८॥
व्याप्तिमात्रं हि भिद्यते-
त्युक्तं प्रागेव तत्तथा।
प्रागिति एकादशाहिकादौ ॥
इदानीं वर्णाध्वानमभिधातुमाह
वर्णाध्वनोऽथ विन्यासः
कथ्यतेऽत्र विधित्रये ॥१३९॥
श्रीतन्त्रालोक। एकं चतुर्षु प्रत्येक द्वयोरगुलयोः क्रमात् । त्रयोविंशतिवर्णी स्यात् षड्ण्येंकैकशस्त्रिषु ॥ १४॥ प्रत्येकमथ चत्वार- श्चतुर्विति विलोमतः। मालिनीमातृकार्णाः स्यु- ाप्तृ शैवं रसेन्दुतः॥१४१॥ वर्जयित्वाद्यवर्णं तु तत्त्ववत्स्याद्रवीत्रवीन् । तां त्रयोविंशतौ वर्णे- ष्वप्यन्यत्स्याहिधिद्वयम् ॥१४२ एकमिति क्ष ह च यद्वक्ष्यति विलोमत इति । एकैकश इति त्रिष्विति येन त्रिषु षोढा गणनादष्टादशाङ्गुलानि भवन्ति । एवं चतुर्वपि चतुर्धा गणनात् षोडशाङ्गुलानि स्युरित्युक्तं प्रत्येकं चतुषु चत्वार इति । रसेन्दुत इति षोड.
१४५ श्लो०] षोडशमाह्निकम् । शार्णरूपमित्यर्थः । अन्यविधिद्वयं स्यादिति स- मन्वयः । तत्त्ववदिति । यदुक्तं समनन्तरमेव 'जलाध्यन्तं सार्धयुग्म...............।' (१०६) इत्यादि ॥१४२॥ अत एव श्रीपूर्वशास्त्रे तत्त्वेषु एवैतदादावु- पदिष्टम् , अनन्तरं तु तदेव पदादावतिदिष्टमि- त्याह श्रीपूर्वशास्त्रे तेनादौ तत्वेषूक्तं विधित्रयम् । अतिदिष्टं तु तद्भिन्ना- भिन्नवर्णद्वये समम् ॥१४३॥ तत्रत्यमेवातिदेशवाक्यं पठति द्विविधोऽपि हि वर्णानां षड्डिधो भेद उच्यते। तत्त्वमार्गविधानेन ज्ञातव्यः परमार्थतः ॥१४४॥ उपदेशातिदेशाभ्यां यदुक्तं तत्पदादिषु।
श्रीतन्त्रालोके। भूयोऽतिदिष्टं तत्रैव शास्त्रेऽस्मद्धृदयेश्वरे ॥१४५॥ मातृकामालिनीगतत्वेन द्विविधोऽपि वर्णानां यो भेदः प्रत्येक वर्णपदमब्रव्याप्त्या षड्विध उ- च्यते, स पूर्वोक्तक्रमेण तत्त्वमार्गविधिना वस्तुतो ज्ञातव्य इति वाक्यार्थः । अस्मद्धृदयेश्वर इत्य. नेन अत्रैव विश्रान्तिस्थानत्वं कटाक्षितम् ॥१४५ तदेवाह पदमन्त्रकलादीनां पूर्वसूत्रानुसारतः। त्रितयत्वं प्रकुर्वीत तत्त्ववर्णोक्तवर्त्मना ॥ १४६ ॥ उक्तं तत्पदमन्त्रेषु कलास्वथ निरूप्यते। पदादीनां 'पादाधः पञ्च भूतानि............।' (मा०वि० ६२) इत्यादिसूत्राण्यनुसृत्य तत्त्वायुक्तवर्मना परप- रापरापरत्वेन त्रिभेदभिन्नत्वं विदध्यादित्यर्थः । उक्तमित्यनन्तरमेव ॥
१५० श्लो०] षोडशमाह्निकम् । तदेवाह चतुर्यु रसवेदे हा- विंशतौ द्वादशस्वथ ॥ १४७॥ निवृत्त्याद्याश्चतस्रः स्यु- प्प्त्री स्याच्छान्त्यतीतिका । द्वितीयस्यां कलायां तु द्वादश द्वादशाङ्गुलान् ॥१४॥ क्रमाक्षित्वा विधिद्वैतं परापरपरात्मकम्। चतुरण्डविधिस्त्वादि- शब्देनेह प्रगृह्यते ॥ १४९॥ कलाचतुष्कवत्तेन तस्मिन्वाच्यं विधित्रयम् । द्वितीयस्यामिति षट्चत्वारिंशदङ्गुलगता- याम् । आदिशब्देनेति श्रीपूर्ववाक्यगतेन ॥ एवं शोध्यवैचित्र्यमुपसंहरन् शोधकवैचित्र्य- मभिधातुमाह
श्रीतन्त्रालोके।
wr.
एवं षडिधमध्वानं
शोध्यशिष्यतनौ
पुरा ॥१५॥
न्यस्यैकतममुख्यत्वा-
व्यस्येच्छोधकसंमतम् ।
शोधकसंमतमिति शोधकतयाभिमतं मन्त्र-
विशेषमित्यर्थः॥
तदेवाह
अध्वन्यासनमन्त्रौघः
शोधको ह्येक आदितः ॥१५१
शब्दराशिर्मालिनी च
समस्तव्यस्ततो द्विधा ।
एकवीरतया यहा
षट्वं यामलयोगतः ॥१५२॥
पञ्चवक्री शक्तितह-
द्भेदात्षोढा पुनर्दिधा।
एकाकियामलत्वेने-
त्येवं सा द्वादशात्मिका ॥१५३॥
१५६ श्लो०] षोडशमाह्निकम् । ६३ षडङ्गी सकलान्यत्वा- द्विविधा वक्रवत्पुनः। द्वादशत्वेन गुणिता चतुर्विंशतिभेदिका ॥१५॥ अघोराद्यष्टके हे च तृतीयं यामलोदयात् । मातृसद्धावमन्त्रश्च केवलः श्रुतिचक्रगः ॥१५॥ एकद्वित्रिचतुर्भेदा- त्रयोदशभिदात्मकः। एकवीरतया सोऽयं चतुर्दशतया स्थितः ॥१५६॥ तत्रासनमन्त्रौघस्तावत् अध्वनि तद्योजना- न्यथानुपपत्त्या प्रथममेकः शोधकः, शब्दरा- शिश्च व्यस्तसमस्ततया द्विप्रकारः, एवं मालि. न्यपीति चत्वारो भेदाः। एकवीरतयेति एककस्य खस्वरूपमात्रविश्रान्तिमयत्वात् । यामलयोगत इति परस्परौन्मुख्ये चमत्कारतारतम्यात् , येन श्रीतन्त्रालोके । षण्णां क्षुब्धाक्षुब्धतया द्वादश । एषामेव षण्णां बरेकाकितया यामलतया वा गृहीतैदश । एतदङ्गानामेव द्वादशधावे सकलनिष्कलतया चतुर्विंशतिः। तृतीयमित्यष्टकं , तेनात्र अष्टकत्र- यम् । केवल इति निरुपाधित्वात् , अत एव सर्व- त्रानाख्यतयोक्तः। श्रुतीति चत्वारि सृष्ट्यादीनि चक्राणि, तेन सृष्ट्यनाख्यादितया चतुष्प्र- कारः॥१५६॥ नचायमेतावन्मात्रभेद एवेत्याह अनामसंहृतिस्थैर्य- सृष्टिचक्रं चतुर्विधम् । देवताभिर्निजाभिस्त- न्मातृसद्धावहितम् ॥ १५७॥ इत्थं शोधकवर्गोऽयं मन्त्राणां सप्ततिः स्मृता। षडर्धशास्त्रेषु श्रीम- सारशास्त्रे च कथ्यते ॥१५८॥ अघोराद्यष्टकेनेह शोधनीयं विपश्चिता।
५ १६३ श्लो० षोडशमाहिकम् । अथवैकाक्षरामन्त्रै- रथवा मातृकाक्रमात् ॥१५९॥ भैरवीयहृदा वापि खेचरीहृदयेन वा भैरवेण महादेवि त्वथ वाङ्गपञ्चकैः ॥ १६० ॥ येन येन हि मन्त्रण तन्त्रेऽस्मिन्नुद्भवः कृतः। तेनैव दीक्षयेन्मन्त्री इत्याज्ञा पारमेश्वरी ॥१६॥ एवं शोधकभेदेन सप्ततिः कीर्तिता भिदः। शोध्यन्यासं विना मन्त्रै- रेतैर्दीक्षा यदा भवेत् ॥१६२॥ तदा सप्ततिधा ज्ञेया जननादिविवर्जिता। मौरिति बहुवचनात् परादिसंबन्धिभित्रि-
श्रीतत्रालोके ।
भिरित्यर्थः। भैरवीयहृदेति मातृसद्भावमन्त्रेण ।
खेचरीहृदयेनेति पिण्डनाथेन। भैरवेणेति नवा-
स्माद्यन्यतमेन । येन येनोद्भवः कृत इति य
एवाभीप्सित इत्यर्थः॥
एवं शोध्यशोधकवैचित्र्यमभिधाय तन्महि-
मोपनतां दीक्षाभिदमभिधातुमाह
शोध्यभेदोऽथ वक्तव्यः
संक्षेपात्सोऽपि कथ्यते ॥१६३॥
शोध्यभेदमेवाह
एकत्रिपञ्चषष्ट्रिंश-
द्भेदात्तात्त्वश्चतुर्विधः।
पञ्चैकभेदाच्चाध्वान-
स्तथैवाण्डचतुष्टयम् ॥१६४॥
एवं दशविधं शोध्यं
त्रिंशद्धा तद्विधित्रयात् ।
शोध्यशोधकभेदेन
शतानि त्वेकविंशतिः ॥१६५॥
१७० श्लो०] षोडशमाह्निकम् । .६७ अत्रापि न्यासयोगेन शोध्येऽध्वनि तथाकृतेः। शतैकविंशतिभिदा जननायुज्झिता भवेत् ॥१६६॥ जननादिमयी ताव- त्येवं शतदृशि श्रुतिः। स्यात्सप्तत्यधिका सापि द्रव्यविज्ञानभेदतः॥ १६७॥ द्विधेति पश्चाशीतिः स्या- च्छतान्यधिकखाब्धिका। भोगमोक्षानुसन्धाना- द्विविधा सा प्रकीर्तिता ॥१६॥ अशुभस्यैव संशुध्या शुभस्याप्यथ शोधनात् । द्विधा भोगः शुभे शुद्धिः कालत्रयविभेदिनि ॥ १६९ ॥ एकहिसामस्त्यवशा- सप्तधेत्यष्टधा भुजिः।
श्रीतन्त्रालोके।
गुरुशिष्यक्रमात्सोऽपि
द्विधेत्येवं विभिद्यते॥ १७०॥
प्रत्यक्षदीक्षणे यस्मा-
द्वयोरेकानुसन्धितः।
तादृग्दीक्षाफलं पूर्ण
विसंवादे तु विप्लवः ॥१७१॥
परोक्षमृतदीक्षादौ
गुरुरेवानुसन्धिमान् ।
क्रियाज्ञानमहिना तं
शिष्यंधाम्नीप्सितेनयेत्॥१७२॥
अविभिन्ने क्रियाज्ञाने
कर्मशुद्धौ तथैव ते।
अनुसन्धिः पुनर्भिन्नः
कर्म यस्मात्तदात्मकम् ॥१७३॥
श्रीमत्स्वच्छन्दशास्त्रे च
वासनाभेदतः फलम् ।
शिष्याणां च गुरोश्चोक्त-
मभिन्नेऽपि क्रियादिके ॥१७॥
१७५ लो०
षोडशमाह्निकम् ।
भोगस्य शोधकाच्छोध्या-
दनुसन्धेश्च तादृशात् ।
वैचित्र्यमस्ति भेदस्य
वैचित्र्यप्राणता यतः॥१७५॥
पञ्चेति तत्त्वाध्वावशिष्टाः, शोध्यशोधकभेदे-
नेति त्रिंशतः शोध्यानां सप्तत्या शोधकै.देनेह।
सप्ततीति प्रागुक्ता शोधकसंबन्धिनी । एवं सप्त-
त्यधिकानि द्वाचत्वारिंशच्छतानि, द्रव्येति अनेन
क्रिया लक्ष्यते।खं शून्यम् , अब्धयश्चत्वारः, तेन
चत्वारिंशदधिकानि पञ्चाशीतिः शतानि । अशु-
भस्यैवेति लोकधर्मिणः । शुभस्यापीति शिवध-
मिणः। सप्तधेति शुभस्य हि शुद्धावतीतवर्तमा-
नभाविभेदादेकैकभेदास्त्रयः, अतीतवर्तमाना-
तीतवर्तमानभावित्वेन द्विकभेदा अपि त्रयः,
सामस्त्येन चैक इति । अष्टधेति अशुभस्य शुद्ध्या
सह । सोऽपीति गुरुः। एवं विभिद्यत इति वक्ष्य-
माणेन क्रमेण । विसंवाद इति द्वयोरपि भिन्ना-
नुसन्धानात्मनि । गुरुरेवेति शिष्यस्य दिगन्तर-
स्थत्वात् मृतत्वाच्च । तथैवेति अभिन्ने। तदात्म-
कमित्यनुसन्ध्यनुप्राणितम् ॥ १७५॥
श्रीतन्त्रालोके ।
तत्र शोधकवैचित्र्यमेव दर्शयति
तथाहि वर्यस्याध्वा
शुद्धस्तैरेव योजितः।
भोक्तुमिष्टे कचित्तत्त्वे
स भोक्ता तद्बलान्वितः ॥१७६॥
शुभानां कर्मणां चात्र
सद्धावे भोगचित्रता।
ताहगेव भवेत्कर्म-
शुद्धौ त्वन्यैव चित्रता ॥१७७॥
भोगश्च सद्यउत्क्रान्त्या
देहेनैवाथ संगतः।
तदैवाभ्यासतो वापि
देहान्ते वेत्यसौ चतुः ॥१७॥
प्राक्तनाष्टभिदा योगा-
द्वात्रिंशद्भेद उच्यते।
मोक्ष एकोऽपि बीजस्य
समयाख्यस्य तादृशम् ॥१७९॥
१८४ श्लो०] षोडशमाह्निकम् । बालादिकं ज्ञातशीघ्र- मरणं शक्तिवर्जितम् । वृद्ध वोद्दिश्य शक्तं वा शोधनाशोधनाविधा ॥१८॥ सद्यउत्क्रान्तितस्वैधं सा चासन्नमृतौ गुरोः। कार्येत्याज्ञा महेशस्य श्रीमद्गह्वरभाषिता ॥१८॥ दृष्ट्वा शिष्यं जराग्रस्तं व्याधिना परिपीडितम् । उत्कमय्य ततस्त्वेनं परतत्त्वे नियोजयेत् ॥१८॥ पञ्चत्रिंशदमी भेदा गुरोर्वा गुरुशिष्ययोः। उक्तदैविध्यकलना- त्सप्ततिः परिकीर्तिताः॥१८३॥ एतैर्मेदैः पुरोक्तांस्ता- न्भेदान्दीक्षागतान्गुरुः।
श्रीतन्त्रालोके।
हत्वा वदेत्प्रसंख्यानं
स्वभ्यस्तज्ञानसिद्धये ॥१८॥
शोध्यवैचित्र्यं च शुभानामित्यादिना प्रका-
शितम् । तदैवेति दीक्षासामनन्तर्येण । अभ्या-
सत इति मन्त्राराधनक्रमेण । द्वात्रिंशद्भेद इति
चतुर्णामष्टभिर्गुणनात् । शक्तमिति विद्वदादि-
रूपम् । सेति सद्यउत्क्रान्तिः । उक्तेति 'गुरुशि-
प्यक्रमात्सोऽपि विधेत्येवं विभिद्यते' इत्यादिना ॥
एतदेव विभज्य दर्शयति
पञ्चाशीतिशती या
चत्वारिंशत्समुत्तरा कथिता।
तां सप्तत्या भित्त्वा
दीक्षाभेदान्स्वयं कलयेत् ॥१८५
पञ्चकमिह लक्षाणां
च सप्तनवतिःसहस्रपरिसंख्या।
अष्टौ शतानि दीक्षा-
भेदोऽयं मालिनीतन्त्रे ॥१८॥
भित्त्वेति मुणयित्वा ॥ १८६ ॥
१९० श्लो०] षोडशमाह्निकम् । एवमुक्तान्मुख्यभेदान् संकलयन भेदान्तरा- ण्यप्यत्र सन्तीत्याह सप्ततिधा शोगण- स्त्रिंशद्धा शोध्य एकतत्त्वादिः । साण्ड: षडध्वरूप- स्तथेतिकर्तव्यता चतुर्भेदा ॥१८७॥ द्रव्यज्ञानमयी सा जननादिविवर्जिताथ तद्युक्ता । पञ्चत्रिंशद्धा पुन- रेषा भोगापवर्गसन्धानात्॥१८८॥ यस्माद्वात्रिंशद्धा भोगः शुभशुयशुद्धिकालभिदा । मोक्षस्त्रेधा द्विगुणा सप्ततिरितिकार्यताभेदाः॥१८९॥ द्विगुणेति गुरुशिष्यगतादनुसन्धानभेदात् ॥ भेदान्तराणां सद्भावं दर्शयति शोधनशोध्यविभेदा- दितिकर्तव्यत्वभेदतश्चैषा १० श्रीतन्त्रालोके। ७४ दीक्षा बहुधा भिन्ना शोध्यविहीना तु सप्ततिधा॥१९॥ मन्त्राणां सकलेतर- साङ्गनिरङ्गादिभेदसंकलनात् । श्योध्यस्य च तत्त्वादेः पञ्चदशायुक्तभेदपरिगणनात् १९१ भेदानां परिगणना न शक्यते कर्तुमित्यसंकीर्णाः । भेदाः संकीर्णाः पुन- रन्ये बहुधा १९२ शोधकशोध्यादीनां द्वित्रादिविभेदसद्भावात् । इतरो निष्कलः। उक्तेति दशमाहिके। असं- कीर्णा भेदा इति अर्थादुक्ताः। द्वित्रादीति देवीद्व- येन त्रयेण वेत्यादेः॥ नन्वेवं भेदकथनेन किं स्यादित्याशङ्याह भोगे साध्ये यद्य- बहु कर्तव्यं तदाश्रयेन्मतिमान् १९३ भूयस्त्वकारिणो १९७ श्लो०] षोडशमाह्निकम् । कारणभूयस्त्वं किल फलभूयस्त्वाय किं चित्रम् । अपवर्गे नतु भेद- स्तेनास्मिन्वासनादृढत्वजुषा १९४ अल्पाप्याश्रयणीया क्रियाथ विज्ञानमात्रे वा। अस्मद्गुरवः पुनरेतन्न मन्यन्ते इत्याह अभिनवगुप्तगुरुः पुन- राह हि सति वित्तदेशकालादौ १९५ अपवर्गेऽपि हि विस्ती- कर्मविज्ञानसंग्रहः कार्यः । एतदेवोपपादयति चिद्वृत्तेर्वैचित्र्या- ब्बाञ्चल्येऽपि क्रमेण सन्धानात् १९६ तस्मिंस्तस्मिन्वस्तुनि रूढिरवश्यं शिवात्मिका भवति । तत्त्वमिदमेतदात्मक- मेतस्मात्प्रोद्धृतो मया शिष्यः १९७ श्रीतन्त्रालोके। इत्थं क्रमसंवित्तौ मूढोऽपि शिवात्मको भवति । क्रमिकतथाविधशिवता- नुग्रहसुभगं च दैशिकं पश्यन् १९८ शिशुरपि तदभेददृशा भक्तिबलाच्चाभ्युपैति शिवभावम् । यद्यपि विकल्पवृत्ते- रपि मोक्षं दीक्षयैव देहान्ते॥१९९॥ शास्त्रे प्रोवाच विभु- स्तथापि दृढवासना युक्ता । शास्त्र इति श्रीनिशाटनादौ । तच्च प्रथमा- डिकादौ बहूक्तम् ॥ अत्र चान्येषामभिप्रायान्तरमाह मोक्षेऽप्यस्ति विशेषः क्रियाल्पभूयस्त्वजःसलोकादिः२०० इति केचित्तदयुक्तं स विचित्रो भोग एव कथितः स्यात् ।
२०४ श्लो०]
षोडशमाह्निकम् ।
ननु ययेवं न युक्तं, तत् कतरः पक्ष आन-
यणीय इत्याशङ्कयाह
संस्कारशेषवर्तन-
जीवितमध्येऽस्य समयलोपाद्यम् ॥
नायाति विघ्नजालं
क्रियाबहुत्वं मुमुक्षोस्तत् ।
यस्मात् सबीजदीक्षा-
संस्कृतपुरुषस्य समयलोपाये २०२
भुक्ते भोगान्मोक्षो
नैवं निर्बीजदीक्षायाम्।
इति केचिन्मन्यन्ते
युक्तं तच्चापि यत्स्मृतं शास्त्रे ॥२०३॥
अत्रैव हेतुर्यस्मृतं शास्त्रे इति ॥ २०३ ॥
तदेवाह
समयोल्लङ्घनादेवि
क्रव्यादत्वं शतं समाः ॥२०४॥
.७८ श्रीतन्त्रालोके। एतदेव निगमयति तस्माद्गुरुशिष्यमतौ शिवभावनिरूढिवितरणसमर्थम् । क्रमिकं तत्त्वोद्धरणा- दि कर्म मोक्षेऽपि युक्तमतिविततम् खभ्यस्तज्ञानस्य गुरोः पुनरेवं न कश्चिन्नि- यम इत्याह यस्तु सदा भावनया खभ्यस्तज्ञानवान्गुरुः स शिशोः । अपवर्गाय यथेच्छं यं कंचिदुपायमनुतिष्ठेत् ॥२०६॥ एवमेतत्प्रसङ्गादभिधाय प्रकृतमेवाह एवं शिष्यतनौ शोध्यं न्यस्याध्वानं यथेप्सितम्। शोधकं मन्त्रमुपरि न्यस्येत्तत्त्वानुसारतः॥२०७॥ तत्त्वानुसारत इति शोध्याध्वोपलक्षणम् । अनेन च तत्तन्मन्त्रात्मकः परोन्यास आसूत्रितः॥
२१० श्लो०] षोडशमाहिकम् । तदेवाह द्वयोर्मातृकयोस्तत्त्व- स्थित्या वर्णक्रमः पुरा। कथितस्तं तथा न्यस्ये- तत्तत्तत्त्वविशुद्धये ॥ २०८॥ द्वयोरिति शब्दराशिमालिन्योः ॥ २०८ ॥ ननु ............ अध्या बन्धस्य कारणम् ।' इत्यायुक्त्या वर्णाध्वापि अविशेषाबन्धक एव, तत् कथमिहास्य शोध्यत्वेऽपि शोधकत्वमुच्यते इत्याशङ्कयाह वर्णाध्या यद्यपि प्रोक्तः शोध्यः पाशात्मकस्तु सः। मायीयः शोधकस्त्वन्यः शिवात्मा परवाङ्मयः॥२०९॥ ननु एकस्यैव शोध्यत्वे शोधकत्वे च किं प्र. माणमित्याशयाह
८०
श्रीतन्त्रालोके ।
उवाच सद्योज्योतिश्च
वृत्तौ स्वायम्भुवस्य तत् ।
बाढमेको हि पाशात्मा
शब्दोऽन्यश्च शिवात्मकः ॥२१०॥
तस्मात्तस्यैव वर्णस्य
युक्ता शोधकशोध्यता।
अस्मदागमोऽप्येवमित्याह
श्रीपूर्वशास्त्रे चाप्युक्तं
ते तैरालिङ्गिता इति ॥२११॥
सद्योजातादिवत्राणि
हृदायङ्गानि पञ्च च ।
षट्कृत्वो न्यस्य षट्रिंश-
न्यासं कुर्याद्धरादितः ॥२१२॥
परापराया वैलोम्या-
द्वरायां स्यात्पदत्रयम्।
ततो जलादहङ्कारे
पञ्चाष्टकसमाश्रयात् ॥ २१३॥
२१६ श्लो०] षोडशमाह्निकम् । ८१ पदानि पञ्च धीमूल- पुरागाख्ये त्रये त्रयम् । एकं त्वशुद्धवित्काल- ये चैकं नियामके ॥२१४॥ कलामायाहये चैकं पदमुक्तमिह क्रमात् । येश्वरसदाशक्ति- शिवेषु पदपञ्चकम् ॥ २१५॥ एकोनविंशतिः सेयं पदानां स्यात्परापरा । यदुक्तं तत्र 'स तया संप्रबुद्धः सन्योनि विक्षोभ्य शक्तिभिः। तत्समानश्रुतीन्वर्णास्तत्संख्यानसृजत्प्रभुः॥ ते तैरालिङ्गिताः सन्तः सर्वकामफलप्रदाः। (३२८) इति । एवमेक एव वर्णः शिवात्मकतयानु- ध्यातः शोधकोऽन्यथा तु शोध्य इत्यत्र तात्प- र्यम् । षट्कृत्व इति शक्तीनां शक्तिमतां च संबन्धीनि प्रतितत्त्वं संमील्येत्यर्थः। वैलोम्या- दिति दीक्षायां हि संहारक्रम एवोचितः, तेना- ११
८२
श्रीतन्त्रालोके ।
गमे सृष्टिक्रमेणाभिधानेऽपि एवमेव न्यासः
कार्य इत्याशयः । पदत्रयमिति फट् हः हुं
साधैंककार्णरूपम् । पञ्चेति फट् रर रुरु हे पिव
इति सार्धद्विव्येकद्विवर्णात्मकानि । पुरागेति
पुंसा सहिते रागतत्त्वे इत्यर्थः। त्रयमिति वम
भीषणे भीमे इति द्वित्रियक्षरम् । एकमिति
घोरमुखीति चतुरर्णम् । एकमिति हः इत्येका-
क्षरम् । एकमिति घोररूपे इति चतुरक्षरम् ।
क्रमादिति तेन रूपे इति कलायां, घोर इति
मायायाम् । पदपञ्चकमिति हुँ परमघोरे हीः
अघोरे ओमित्येकपञ्चैकत्र्येकात्मकम् । तत्र वि.
द्यायां पदमेकम् , ईश्वरे चैकं, सदाशिवे द्वयं,
शक्तिशिवयोश्चैकमिति विभागः॥
अत्रैव वर्णविभागमाह
साधं चैकं चैक
सार्ध हे हे शशीगथ युग्मम् २१६
त्रीणि सुगन्धिश्चन्द्रः
श्रुतिः शशी पञ्च विधुमहश्चन्द्राः।
-
२२१ श्लो०]
षोडशमाह्निकम् ।
"
एकानविंशतौ स्या-
दक्षरसंख्या पदेष्वियं देव्याः॥
हल्द्वययुतवसुचित्रगु-
परिसंख्यातस्ववर्णायाः।
मूलान्तं सार्धवर्ण स्या-
न्मायान्तं वर्णमेककम् ॥२१८॥
शत्त्यन्तमेकमपरा-
न्यासे विधिरुदीरितः।
मायान्तं हल्ततःशक्ति-
पर्यन्ते स्वर उच्यते ॥२१९॥
निष्कले शिवतत्त्वे वै
परो न्यासः परोदितः।
परापरापदान्येव
ह्यघोर्याद्यष्टकद्वये ॥ २२०॥
मन्त्रास्तदनुसारेण
तत्त्वेष्वेतवयं क्षिपेत् ।
पिण्डाक्षराणां सर्वेषां
वर्णसंख्या विभेदतः ॥२२॥
श्रीतन्त्रालोके। तु अव्यक्तान्तं स्वरे न्यस्या शेषं शेषेषु योजयेत् । बीजानि सर्वतत्त्वेषु व्याप्तृत्वेन प्रकल्पयेत् ॥२२२॥ पिण्डानां बीजवन्यास- मन्ये प्रतिपेदिरे। अकृते वाथ शोध्यस्य न्यासे वस्तुबलात् स्थितेः २२३ शोधकन्यासमात्रेण सर्व शोध्यं विशुध्यति । मह इति सोमसूर्याग्निलक्षणानि त्रीणि । हल्द्वययुतेति हल्द्वयेन अनच्कटकारद्वयेन युता अधिका इत्यर्थः, वसुचित्रग्विति अष्टात्रिंशत् । यदुक्तं 'निष्कले पदमेकार्ण व्यऎकार्णमिति द्वयम् । सकले तु परिक्षेयं पञ्चैकार्णद्वयं द्वये ॥ चतुरेकाक्षरे द्वे च मायादित्रितये मते । चतुरक्षरमेकं च कालादिद्वितये मतम् ॥ रञ्जके व्यर्णमुद्दिष्टं प्रधाने व्यर्णमिष्यते ।
२२४ श्लो०] षोडशमादिकम् । बुद्धौ देवाष्टकव्याप्त्या पदं यक्षरमिष्यते ॥ ततः पञ्चाष्टकव्याप्त्या येकद्विद्ध्यक्षराणि तु । विद्यापदानि चत्वारि सार्धवर्ण च पश्चमम् ॥ एकैकसाधवर्णानि त्रीणि तत्त्वे तु पार्थिवे ।' (मा०वि०४।२३) इति । मूलान्तमिति प्रकृत्यन्तमण्डद्वयव्यापक- मित्यर्थः । एककं वर्णमिति चतुष्कलम् । एक- मिति मायाबीजम् । हलिति प्रकरणादमृतबी- जम्। एवं खरोऽपि औकारः। पर इति विसर्गः। तदुक्तं 'सार्धेनाण्डद्वयं व्याप्तमेकैकेन पृथग्द्वयम् । अपरायाः समाख्याता व्याप्तिरेषा विलोमतः॥ सार्णेनाण्डवयं व्याप्तं त्रिशूलेन चतुर्थकम् । सर्वातीतं विसर्गेण पराया व्याप्तिरिष्यते ॥' (१२५) इति । तदनुसारेणेति परापरापदानामेव स- मनन्तरोक्तां तत्तत्तत्त्वव्याप्तिमनुसृत्येत्यर्थः । तदुक्तं 'परापराङ्गसंभूता योगिन्योऽष्टौ महाबलाः । पञ्च षट् पञ्च चत्वारि द्वित्रिवर्णाः क्रमेण तु ॥ ज्ञेयाः सप्तकादशार्णा एकार्धार्णद्वयान्विताः । (३६०) इति । पिण्डाक्षराणामिति नवात्मादीनाम् । सं- ख्या नवादिका।स्वर इति उकारे। शेषं पुरुषादि
श्रीतन्त्रालोके ।
न्यासः
शेषेषु यादिषु। बीजानीति पिण्डपदविलक्षणानि
एकाक्षरादीनि । बीजवदिति पिण्डानामपि
प्रतितत्त्वं
व्यातृतया
कार्य इत्यर्थः॥
अन्यस्तमपि शोध्यं केवलेनैव शोधकन्या-
सेन शुद्ध्यतीत्यत्र किं प्रमाणमित्याशङ्कयाह
श्रीमन्मृत्युञ्जयादौ च
कथितं परमेष्ठिना ॥ २२४ ॥
तदेवाह
अधुना न्यासमात्रेण
भूतशुद्धिः प्रजायते।
नन्वेतदत्र देहशुद्धयर्थमुक्तमिति कथमिह
संगच्छतामित्याशङ्कयाह
देहशुद्ध्यर्थमप्येत-
तुल्यमेतेन वस्तुतः ॥ २२५॥
अन्यप्रकरणोक्तं य-
द्युक्तं प्रकरणान्तरे।
ज्ञापकत्वेन साक्षाहा
तत्कि नान्यत्र गृह्यते ॥२२६॥
२३० श्लो०] षोडशमाह्निकम् । मालिनीमातृकाङ्गस्य न्यासो योऽर्चाविधौ पुरा । प्रोक्तः केवलसंशोबु- मन्त्रन्यासे स एव तु ॥२२७॥ त्रिपदी द्वयोईयोः स्या- प्रत्येकमथाष्टसु श्रुतिपदानि । दिक्चन्द्रचन्द्ररसरवि- शरशरदृग्दृङ्मृगाङ्कशशिगणने ॥ अङ्गुलमाने देव्या अष्टादश वैभवेन पदमन्यत् । अपरं मानमिदं स्यात् केवलशोधकमनुन्यासे ॥२२९॥ तुर्यपदात्पदषदे मानद्वितयं परापरपराख्यम् । द्वादशकं द्वादशकं तत्त्वोपरि पूर्ववत्त्वन्यत् ॥२३० te श्रीतन्त्रालोके। , वस्तुत इति शोध्यशोधकात्मनो न्यासस्य साम्यात् । साक्षादिति विधायकत्वेन । किं ना- न्यत्र गृह्यते इति अपितु गृह्यते एवेत्यर्थः । अङ्गस्येति तत्स्वरूपस्येत्यर्थः । केवलेति शोध्यप- रिहारेण, शोध्यसंमीलनायां तु प्रागन्यथोक्त एव वर्णादिक्रमेण न्यासः। स एवेति न्यासः तक्रम इति यावत् । त्रिपदीति संहारक्रमेण । द्वयोई- योरिति अङ्गुलयोः, तेन षडङ्गुलाः । अष्टविति अङ्गुलेषु । श्रुतीति चत्वारि, तेन द्वात्रिंशत्। दिगिति दश, चन्द्रेत्येकः, रसेति षट्, रवीति द्वादश, शरेति पञ्च, दृगिति द्वयम्। अष्टादशेति पदानि । वैभवेनेति व्यापकतया, यदुक्तं .........।' (६।२४) इति। केवलेति शोध्यपरिहारेण । तुर्यपदादित्या- रभ्य । पदषट्द इति यत्राष्टाङ्गुलानि चत्वारि, दशाङ्गुलमेकमेकाकुलं चैकमिति । उपरीति ते. नात्र प्रतिपदमङ्गुलयोर्द्वयं द्वयमधिकीभवती- 'व्यापकं पदमन्यच त्यर्थः॥ २३०॥ नन्वस्याः समनन्तरमेव तत्त्वक्रमेण पदानां २३३ श्लो०] षोडशमाह्निकम् । न्यास उक्तस्तत्कथमिह एतदिदानीमेवान्यथा- भिधीयत इत्याशङ्कयाह केवलशोधकमन्त्र- न्यासाभिप्रायतो महादेवः । तत्त्वक्रमोदितमपि न्यासं पुनराह तद्विरुद्धमपि २३१ महादेवो हि शोध्यानां षटुिंशत्तत्त्वानां क्र- मेण तन्यासपुरःसरीकारेण उदितमपि शोधक- मन्त्रन्यासाभिप्रायेण पुनस्तद्विरुद्धमपि एकान्न- विंशतः पदानां न्यासमाह तदन्यथात्वेनापि अकथयदित्यर्थः ॥ २३१॥ तदेव पठति निष्कले पदमेकाणं यावत्रीणि तु पार्थिवे। इत्यादिना तत्त्वगत- क्रमन्यास उदीरितः॥२३२॥ पुनश्च मालिनीतन्त्रे वर्गविद्याविभेदतः। १२
९
श्रीतन्त्रालोके।
द्विधा पदानीत्युक्त्वाख्य-
न्यासमन्यादृशं विभुः॥२३३॥
उदीरित इति चतुर्थपटले, तच्च समनन्तर-
मेव संवादितम्। उक्त्वेति षष्ठे पटले, यदुक्तं
'पदानि द्विविधान्यत्र वर्गविद्याविभेदतः।
तेषां तन्मवद्याप्तिर्यथेदानी तथा शृणु ॥ (६३१९)
इति । अन्याशमिति तत्त्वकमन्यासविपरीत-
मित्यर्थः ॥ २३३ ॥
तदेवाह
एकैकं ब्यङ्गलं ज्ञेयं
तत्र पूर्व पदत्रयम् ।
अष्टाङ्गुलानि चत्वारि
दशाङ्गुलमतः परम् ॥२३४॥
ब्यङ्गुले द्वे पदे चान्ये
षडङ्गुलमतः परम् ।
हादशाङ्गुलमन्यच्च
हेऽन्ये पञ्चाङ्गुले पृथक् ॥२३५॥
२३६ श्लो०] षोडशमाह्निकम् । ९१ पदवयं चतुष्पर्व तथान्ये वे द्विपर्वणी। पदत्रयमेकैकं व्यङ्गुलमिति षडङ्गुलाः । अ- ष्टाङ्गुलानीत्यत्रापि एकैकमिति संबन्धनीयम् । व्यङ्गुले द्वे पदे इति एकैकं पदमेकाङ्गुलमित्यर्थः। पृथगिति एकैकं पञ्चाङ्गुलमित्यर्थः, अन्यथा हि प्रत्येकं सार्धद्वयाकुलत्वं स्यात् । पदद्वयं चतुष्प- वेति प्रत्येकं द्विपर्वत्वात् । दे द्विपर्वणी इति प्रत्येकमेकपर्वेत्यर्थः॥ एतदेवोपसंहरति एवं परापरादेव्याः खतन्त्रो न्यास उच्यते ॥२३६॥ खतन्त्र इति तत्त्वन्यासाद्यनपेक्षत्वात् । पूर्व हि शोध्यं तत्त्वादि विन्यस्यैतन्यास इत्यस्य त- पारतत्र्यम् , इह तु तत्परिहारेण खातव्येणैवास्या न्यास इति विषयभागः। यदभिप्रायेणैव 'अपरं मानमिदं स्यात्केवलशोधकमनुन्यासे ।' इत्याद्युक्तम् । अतश्च शोध्यपारतत्र्यात् खात- याच वैविध्येनोक्तस्यास्य न्यासस्य एकैकक्ष्य- ९२ श्रीतन्त्रालोके । , गुलमिति पठित्वा पूर्वस्य पदत्रयस्य चतुरङ्गुल- त्वं, पदद्वयस्य च प्रत्येकं यमुलत्वम् , अन्यच्च षडङ्गुलमेव, प्राच्येन सह तु द्वादशाङ्गुलत्वं, पदद्वयस्य दशाङ्गुलत्वेऽपि एकस्य व्यङ्गुलत्वं, अपरस्य च सप्ताङ्गुलत्वं द्विविधस्य च पदद्वयस्य प्रत्येकं चतुरङ्गुलत्वं यमुलत्वं चेत्याद्यभिधाय पूर्वापरानुसारितया उभयपक्षमीलनयागुलव्य- त्यासेन व्याख्यायामार्षपाठपरित्यागः कष्टक- ल्पना पुनर्वचनानुपयोगः श्रीमद्गुरुव्याख्याति- क्रमश्चेति दोषाः ॥ २३६ ॥ नन्वेवं देवीद्वयस्यापि न्यासः कस्मान्नोक्त इत्याशङ्याह विद्यायं शिष्यतनौ व्याप्तृत्वेनैव योजयेत् । इति दर्शयितुं नास्य पृथङ्न्यासं न्यरूपयत् ॥२३७ नन्वेवं शोधकस्य द्विविधेन न्यासेन किं स्यादित्याशङ्का गर्भीकृत्य फलाविशेषेऽपि प्रक्रि यामात्रस्यैव वैचित्र्यमित्याह
२४० श्लो०]
षोडशमादिकम् ।
एवं शोधकमन्त्रस्य
न्यासे तद्रश्मियोगतः।
पाशजालं विलीयेत
तध्यानबलतो गुरोः ॥२३८॥
शोध्यतत्त्वे समस्तानां
योनीनां तुल्यकालतः।
जननाद्भोगतः कर्म-
क्षये स्यादपवृक्तता ॥२३९॥
पाशजालमिति षडध्वरूपं, तच्चार्थादन्यस्तम्।
तत्त्व इत्युपलक्षणं, तेन षडध्वन्यपि । न्यास-
श्वार्थसिद्धः॥ २३९॥
नन्वेवमस्याणोर्युगपदनेकशरीरगतत्वेन भो-
कृत्वेऽपि किमन्योन्यस्यानुसन्धानमस्ति न वे-
त्याशझ्याह
देहेस्तावद्भिरस्याणो-
श्चित्रं भोक्तुरपि स्फुटम् ।
मनोऽनुसन्धि! विश्व-
संयोगप्रविभागवत् ॥२४०॥
श्रीतन्त्रालोके । इहास्याणोः संकुचितस्यात्मनस्तावद्भिर्मत्र- बलोपनतैर्युगपदवस्थितैरनेकैदेहैस्तत्तत्कर्मवैचि- व्यारब्धतया चित्रं नानाकारं भोक्तुरपि मान- समनुसन्धानं स्फुटं नास्ति, य एवाहमन्यस्मिन् देहे भुक्तवान् स एवाहमस्मिन्नपि इत्येवमात्म- कमस्य ज्ञानं नोदियादित्यर्थः । अत्रैव निदर्शनं विश्वसंयोगप्रविभागवदिति । यथाहि आत्मनो व्यापकत्वात् स्थितेषु विश्वेन भाववातेन संयो. गविभागेषु अनेन संयुक्तोऽस्मि, अनेन च विभ- तोऽस्मीत्येवं नानुसन्धानं, तथेहापीत्यर्थः २४० ननु असिद्धोऽयं दृष्टान्तो यदस्य व्यापक- त्वात् तत्रापि एवमनुसन्धिरस्तु-इत्याशङ्कयाह नियत्या मनसो देह- मात्रे वृत्तिस्ततः परम् । नानुसन्धा यतः सैक- स्वान्तयुक्ताक्षकल्पिता ॥२४१॥ मनसो हि नियतिशक्तिनियन्त्रणया देहमात्र एवानुसंधानात्मा वृत्तिः नतु ततोऽन्यत्र, यतः ९५ २४३ श्लो०] षोडशमाहिकम् । सा तदीया वृत्तिर्युगपज्ज्ञानानुदयादेकेन चक्षु- राद्यन्यतमेन 'आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थेन ।' (न्या०सू०भा०१।१।४) इत्यादिनीत्या वान्तयुक्तेन इन्द्रियेण कल्पिता तदधीनेत्यर्थः ॥ २४१॥ इन्द्रियाणां च नियतवृत्ति ज्ञानमिति कुत- स्तदुल्लङ्घनेनापि देहान्तरादौ मनोऽनुसन्ध्या- दत एवाह प्रदेशवृत्ति च ज्ञान- मात्मनस्तत्र तत्र तत् । भोग्यज्ञानं नान्यदेहे- ष्वनुसन्धानमर्हति ॥ २४२ ॥ भोग्यज्ञानमिति नीलसुखादिविषयं वेदन- मित्यर्थः ॥ २४२॥ ननु यद्येवं, तद्योगिनां प्रातिभज्ञानादावती- न्द्रियार्थविषयं ज्ञानं कस्मादुदियादित्याशङ्ख्याह यदा तु मनसस्तस्य देहत्तेरपि ध्रुवम् ।
श्रीतघालोके ।
योगमन्त्रक्रियादेः स्या-
द्वैमल्यं तद्विदा तदा ॥२४३॥
तस्येति बाह्येन्द्रियाधीनवृत्तेरपि, तद्विदेति त-
स्यातीन्द्रियस्याप्यर्थस्य विदा ज्ञानमित्यर्थः २४३
एतत्प्रकृतेऽपि योजयति
यथामलं मनो दूर-
स्थितमप्याशु पश्यति ।
तथा प्रत्ययदीक्षायां
तत्तद्धवनदर्शनम् ॥ २४४ ॥
जननादिवियुक्तां तु
यदा दीक्षां चिकीर्षति।
तदारसादुद्धरामीति
युक्तमूहप्रकल्पनम् ॥ २४५॥-
यदा शोध्यं विना शोड़-
न्यासस्तत्रापि मन्त्रतः।
जननादिक्रमं कुर्या-
तत्त्वसंश्लेषवर्जितम् ॥ २४६ ॥
२४८ श्लो०] षोडशमाह्निकम् ।
एकाकिशोद्दन्यासे च
जननादिविवर्जने।
तच्छोड़संपुटं नाम
केवलं परिकल्पयेत् ॥२४७॥
तत्तद्भुवनदर्शनमिति तीनशक्तिपातभाजो
हि कस्यचित् तेषु तेषु भुवनेषु अनेकदेहविषय-
मपि अनुसन्धानं स्यादित्यर्थः । युक्तमिति जन-
नादेरचिकीर्षितत्वात् । कुर्यादिति अर्थादनुल्लि-
खितविशेषतया, अत एवोक्तं तत्त्वसंश्लेषवर्जि-
तमिति ॥२४७॥
एवं यथेप्सितशोद्धृसंपुटितं शिष्यनाम क-
ल्पयित्वा किं कुर्यादित्याशङ्कयाह
द्रव्ययोगेन दीक्षायां
तिलाज्याक्षततण्डुलम् ।
तत्तन्मन्त्रेण जुहुया-
जन्मयोगवियोगयोः ॥२४८॥
तत्तन्मन्त्रेणेति शोसंपुटितशिष्यनामल-
क्षणेन । जन्मयोगवियोगयोरिति वस्तुतस्तन्नि-
मित्तमित्यर्थः ॥ २४८॥
श्रीतन्त्रालोके। विज्ञानदीक्षायां पुनरेवं कर्तव्यं किंचिन्ना- स्तीत्याह यदा विज्ञानदीक्षांतु कुर्याच्छिष्यं तदा भृशम्। तन्मन्त्रसंजल्पबलात् पश्येदा चाविकल्पकात् ॥२४९॥ तन्मवेति तस्य शोद्धृत्वेनाभीप्सितस्य मन्त्रस्ये- त्यर्थः। चो भिन्नक्रमो हेतो, तेन तदा चेति । आ अविकल्पकादिति साक्षात्कारात्मनिर्विकल्पक- विश्रान्तिपर्यन्तमित्यर्थः ॥ २४९ ॥ ननु शब्दात्मा संजल्पः कथमविकल्पके वि- श्राम्येदित्याशङ्कयाह विकल्पः किल संजल्प- मयो यत्स विमर्शकः। मन्त्रात्मासौ विमर्शश्च शुद्धोऽपाशवतात्मकः ॥२५०॥ नित्यश्चानादिवरद- शिवाभेदोपकल्पितः।
२५२ श्लो०] षोडशमाह्निकम् । तद्योगादेशिकस्यापि विकल्पः शिवतां ब्रजेत् २५१ विकल्पस्य हि संजल्पः स्वरूपं यदसौ क्षेत्र- ज्ञखातथ्यात्मकत्वात्पराम्रष्ट्रवभावः । असौ संज- ल्प एव च मन्त्रात्मा यन्नान्तरीयकश्च विमर्ची निर्विकल्पैकरूपत्वाच्छुद्धः, अत एव 'सोऽयमैश्वरो भावः पशोरपि ।' इत्यादिनयेन अपाशवतात्मकः, अत एव नित्यः 'खभावमवभासस्य....... .....।' (ई०प्र०१।५।११) इत्यादिनीत्या तदवियुक्तस्वरूप इत्यर्थः । ननु कथमेवंविधविमर्शयोगित्वं संजल्पात्मनः स्थू- लस्य विकल्पस्य स्यादित्याशयोक्तमनादि- वरदशिवाभेदोपकल्पित इति । मन्त्रयितुश्चेतः- खरूपानुप्रवेशादेव विकल्पोऽपि शिवतां ब्रजेद- विकल्पक एव विश्राम्येदित्यर्थः ॥२५१ ॥ नचैतद्युक्तित एव सिद्धमित्याह श्रीसारशास्त्रे तदिदं परमेशेन भाषितम् ।
१०० श्रीतन्त्रालोके । तदेव पठति अर्थस्य प्रतिपत्तिा ग्राह्यग्राहकरूपिणी ॥२५२॥ सा एव मन्त्रशक्तिस्तु वितता मन्त्रसन्ततौ। या नाम अर्थालोचनात्मिका ग्राह्यग्राहकरू- पिणी अङ्गुलिशिरोनिर्देशप्रख्यतदामर्शमयी अ- विकल्पकखभावा प्राथमिकी प्रतिपत्तिः, सैव सर्वेषां मत्राणामनवच्छिन्ना प्रमात्रेकात्मनि अन्तर्गततया समुच्चरद्रूपा शक्तिः सत्तेत्यर्थः । एवं चेदमनेनोक्तं स्यादित्याह परामर्शस्वभावेत्थं मन्त्रशक्तिरुदाहृता ॥ २५३॥ परामर्शो द्विधा शुद्धा- शुद्धत्वान्मन्त्रभेदकः। सच शुद्धाशुद्धरूपतया द्विधा मन्त्रान्भेदय- तीत्याह परामर्श इत्यादि।
२५७ श्लो०] षोडशमाह्निकम् । १०१ एतच्चागमोक्त्यैव विभजति उक्तं श्रीपौष्करेऽन्ये च ब्रह्मविष्ण्वादयोऽण्डगाः॥२५४॥ प्राधानिकाः साञ्जनास्ते सात्वराजसतामसाः। तैरशुद्धपरामर्शा- त्तन्मयीभावितो गुरुः ॥२५॥ वैष्णवादिः पशुः प्रोक्तो न योग्यः पतिशासने। ये मन्त्राः शुद्धमार्गस्थाः शिवभट्टारकादयः ॥ २५६ ॥ श्रीमन्मतङ्गादिशा तन्मयो हि गुरुः शिवः । तन्मय इति शुद्धपरामर्शात्मशिवभट्टारका- दिमन्त्रैकात्म्यमापन्न इत्यर्थः॥ ननु भवतु नाम विकल्पस्य क्षेत्रज्ञखातथ्यो. ल्लिखितसंजल्पयोगाद्विमर्शकत्वं, तद्योग एवास्य पुनः प्रथमतरं कुतस्त्य इत्याह १०२ श्रीतन्त्रालोके । ननु स्वतन्त्रसंजल्प- योगादस्तु विमर्शिता ॥२५७॥ प्राकुतः स विमर्शाचे- कुतः सोऽपि निरूपणे। आद्यस्तथाविकल्पत्व- प्रदः स्यादुपदेष्टुतः ॥ २५८॥ यः संक्रान्तोऽभिजल्पः स्या- तस्याप्यन्योपदेष्ट्रतः। अथोच्यते विमर्शादसाविति, तत्सोऽपि कुत इत्याह विमर्शाच्चेत् , कुतः सोऽपीति । एवं हि विकल्पस्य संजल्पयोगाद्विमर्शः, तस्माच्च संज- ल्पयोग इत्यन्योन्याश्रयं भवेदिति भावः, तदिदमत्रावधार्यमित्याह निरूपण इत्यादि, निरूपणे हि उत्तमवृद्धलक्षणादुपदेष्टुः सकाशात् आद्यः कश्चिन्मूलभूतो विमर्शः समनन्तरोक्त- विकल्परूपतादायी भवेत् यः किल उपदेश्ये प्रतिसंक्रान्तः संजल्यात्मकतां यायात् यद्यो- गादपि विकल्पस्य पराम्रष्टुत्वं स्यात् । नन्वेव.
२६० श्लो०] षोडशमाहिकम् । १०३ मुपदेष्टुरप्यसौ कुतस्त्य इत्याशयोक्तं तस्याप्य- न्योपदेष्टुत इति ॥ एवं हि मूलक्षतिकारिणी इयमनवस्था परा- पतेदित्याशङ्कयाह पूर्वपूर्वक्रमादित्थं य एवादिगुरोः पुरा ॥ २५९ ॥ संजल्पो ह्यभिसंक्रान्तः सोऽद्याप्यस्तीति गृह्यताम् । इत्थं हि यथानुपूर्वमुपदेष्टुक्रममवलम्ब्य स- हजविमर्शात्मनः परमेशितुरादिगुरोः सकाशाद्य एव प्राथमिकः संजल्पोऽभितः समन्ताद्यथोत्तर- मुपदेश्येषु संक्रान्तः, स एव प्रतिसंक्रान्तवृत्ति- तया अनुवर्तमानोऽद्यापि मायाप्रमातृपर्यन्तम- स्तीति गृह्यतां नैवं काचिदनवस्थेत्यर्थः॥ एवं च तन्माहात्म्योपनतो यः कश्चन वैक- ल्पिको व्यवहारः, सोऽपि ध्रुवं तदात्मैवेत्याह यस्तथाविधसंजल्प- बलात्कोऽपि स्वतन्त्रकः॥२६॥ " १०४ श्रीतन्त्रालोके। विमर्शः कल्प्यते सोऽपि तदात्मैव सुनिश्चितः। एवमादिगुरोः प्रभृति प्रवृत्त एक एवेयत्का- लपर्यन्तं प्रतिसंक्रान्तवृत्तितयानुवर्तमानस्तत्तद- भिजल्पवपुषा स्फुरतीति सिद्धम् ॥ ननु यद्येवं, तद्यत्र शब्दात् शब्दान्तरे व्युत्पत्ती परामर्शभेदोऽस्ति, तत्र किं प्रतिपत्तव्यमित्या- शङ्कयाह घटकुम्भ इतीत्थं वा यदि भेदो निरूप्यते ॥२६॥ सोऽप्यन्यकल्पनादायी हनादृत्यः प्रयत्नतः। पणायते करोतीति विकल्पस्योचितौ स्फुटम् ॥२६२ करपाण्यभिजल्पौ तौ संकीर्येतां कथं किल। यदि नाम घटविमर्शात्कुम्भविमर्श इत्येवं- प्रकारः परामर्शस्य भेदो निरूप्यते, तदसौ खोचितप्राच्यविमर्शपरित्यागात्कल्पनान्तरकारि- २६४ श्लो०] षोडशमाह्निकम् । १०५ तया प्रयत्नेनापि परिहार्यः। नहि करपाणिशब्दो करोत्यादानमिति करः, पणायते यूतादिना व्यवहरतीति पाणिश्चेति संकल्पयितुं स्फुटमु- चितौ कदाचिदपि संकीर्येतामेकपरामर्शाभि- जल्पात्मतां भजत इत्यर्थः॥ ननु यद्येवं, तत्संभवन्ती अपि शब्दाच्छब्दा- न्तरे व्युत्पत्तिः कथमपट्टयते इत्याशङ्कयाह शब्दाच्छब्दान्तरे तेन व्युत्पत्तिर्व्यवधानतः ॥२६३॥ व्यवहारात्तु सा साक्षा- चित्रोपाख्याविमर्शिनी। तेन संजल्पासाङ्कर्येण हेतुना व्यवधानतः खोचितप्राच्यविमर्शसंनिधापनद्वारेण शब्दाच्छ- ब्दान्तरे घटाभिजल्पादिव कुम्भाभिजल्पे व्युत्प- त्तिरवबोधः, वृद्धव्यवहारात्पुन नाकारशब्दसं- दर्भविमर्शकारितया सा साक्षादव्यवधानेनैव तत्र सर्वेषां व्युत्पत्तिरित्यर्थः॥ एवमिदमत्र वस्तुसतत्त्वं पर्यवसितमित्याह तद्विमर्शोदयः प्राच्य- स्वविमर्शमयः स्फुरेत् ॥२६४॥ १४ , १०६ श्रीतन्त्रालोके। यावहालस्य संवित्ति- रकृत्रिमविमर्शने। तत् तस्मात् वृद्धपरम्परायातखात्मीयविमर्श- मय एव घटादेविमर्शस्योदयः स्फुरेद्यावदनधिग- तशब्दार्थव्युत्पत्तेर्बालस्यापि शब्दसंसर्गायोगात् अकृत्रिमे खसंवित् विमर्शने, तेन का वार्ता तव्युत्पत्तिभाजो जनस्येत्यर्थः॥ अत एव च एतद्वैलक्षण्यं मन्त्राणां, येन तत्र परमेश्वरस्यादर इत्याह तेन तन्मन्त्रशब्दार्थ- विशेषोत्थं विकल्पनम् ॥२६५॥ शब्दान्तरोत्थाद्भेदेन पश्यता मन्त्र आहतः। यच्चापि बीजपिण्डादे- रुक्तं प्राग्बोधरूपकम् ॥२६६॥ तत्तस्यैव कुतोऽन्यस्य तत्कस्मादन्यकल्पना।
२६७ श्लो०] षोडशमाहिकम् । १०७ तेन शब्दान्तराणां तत्तत्प्राच्यखविमर्शम- यतया स्फुरणेन हेतुना, शब्दान्तरोत्थाद्विकल्प- नात् तेभ्यः सहजानवच्छिन्नविमर्शरूपेभ्यो म- शब्दार्थविशेषेभ्यः समुत्थितं विकल्पनं भेदेन वैलक्षण्येन पश्यता साक्षात्कुर्वता भगवता मन्त्र आहतः परमोपादेयतयोपदिष्ट इत्यर्थः । तच्छ- ब्दान्तराणां परविमर्शात्मकत्वेऽपि वृद्धव्यवहार- परम्परया यथायथमवरोहक्रमेण स्थूलेन संज- ल्पात्मना रूपेणापि उदय इत्युक्तम् , मत्राणां पुनरनादिगुरोः प्रभृत्यद्यापि अनवच्छिन्नसह- जपरामर्शात्मकत्वमविशिष्टमेवेति । अत एव य- चापि प्राक 'बीजपिण्डात्मकं सर्व संविदः स्पन्दनात्मताम् । विदधत्"" ॥ (७२) इत्यादिना बीजपिण्डादेर्बोधरूपत्वमुक्तं, तत्त- स्यैव, नतु शब्दान्तराणामपि तेषां यथायथं स्थू- लरूपत्वापत्तेरुक्तत्वात् । तत् तस्मादनवच्छिन्न- बोधरूपे बीजपिण्डादौ कस्मादन्यस्य तत्तदुप- देष्टुपरम्परापतितस्य विमर्शान्तरस्य कल्पना, ना- स्त्यत्र संजल्पनान्तरतुल्यकक्ष्यत्वमित्यर्थः ।
१०८ श्रीतन्त्रालोके । अनेनैवाभिप्रायेण सर्वत्र शास्त्रे गुरोर्मत्र- तत्रविशारदत्वमेव मुख्य लक्षणमुक्तमित्याह एतदर्थं गुरोर्यत्ना- लक्षणे तत्र तत्र तत् ॥२६७॥ लक्षणं कथितं ह्येष मन्त्रतन्त्रविशारदः। तदेवं सर्वात्मना मन्त्रार्थपरिशीलनपरेणैव गुरुणा भाव्यमित्याह तेन मन्त्रार्थसंबोधे मन्त्रवार्तिकमादरात् ॥ २६८॥ ऊहापोहप्रयोगं वा सर्वथा गुरुराचरेत् । ननु यद्येवंविधो गुरुर्न स्यात् , तदा किं कार्यमित्याशङ्क्याह मन्त्रार्थविदभावे तु सर्वथा मन्त्रतन्मयम् ॥२६९॥ गुरुं कुर्यात् मन्त्रतन्मयमिति मन्त्रैकात्म्यमापन्नमित्यर्थः॥
२७२ श्लो०] षोडशमाह्निकम् । १०९ अत एवाह तदभ्यासा- त्तत्संकल्पमयो ह्यसौ। ननु दृढनिरूढमत्रार्थभावनाभाजो गुरोरपि अन्योऽभिजल्यो मन्त्रसमानमहिमैव, तत्कथमुक्तं मन्त्राणां संजल्पान्तरतुल्यकक्ष्यत्वं नास्तीत्याश- याह तत्समानाभिसंजल्पो यदा मन्त्रार्थभावनात् ॥२७॥ गुरोर्भवेत्तदा सर्व- साम्ये को भेद उच्यताम् । ननु असिद्धं सर्वसाम्यं, मन्त्रेतरस्य हि अ- भिजल्पस्य भिन्नैवानुपूर्वीत्याशङ्कयाह अंशेनाप्यथ वैषम्ये न ततोऽर्थक्रिया हि सा ॥२७१॥ वैषम्य इति आनुपूर्व्यादिना मन्त्राभेदे । तत इत्यभिसंजल्पात् । सेति मत्रकार्या ॥२७१॥ यस्तु सत्यपि भेदे कीटगोमयाभ्यामिव
११०
श्रीतन्त्रालोके।
कीटं मत्रसंजल्पाभ्यामपि एकामेवार्थक्रियां
पश्यति, स शिव एवेत्याह
गोमयात्कीटतः कीट
इत्येवं न्यायतो यदा।
संजल्पान्तरतोऽप्यर्थ-
क्रियां तामेव पश्यति ॥२७२॥
तदेष सत्यसंजल्पः
शिव एवेति कथ्यते।
सत्यसंजल्पत्वमेव दर्शयति
स यहक्ति तदेव स्या-
न्मन्त्रो भोगापवर्गदः ॥२७३॥
अनेनैवाभिप्रायेण भगवता
'कथा जप (शि० सू० ३।२७)
इत्यासूत्रितम् ॥ २७३ ॥
अस्माकं पुनर्नायं पक्ष इत्याह
नैषोऽभिनवगुप्तस्य
पक्षो मन्त्रार्पितात्मनः।
योऽर्थक्रियामाह भिन्नां
कीटयोरपि तादृशोः ॥२७४॥
२७५ श्लो०] षोडशमाह्निकम् । तत्तन्मत्रसतत्त्वानुभवनिभालनोयुक्तस्य श्री- मतोऽभिनवगुप्तस्य पुनरेतन्न मतं यतस्तादृशोः कीटगोमयप्रभवयोरपि कीटयोभिन्नामर्थक्रिया- माह तत्र कार्यभेदमभ्युपागमदित्यर्थः ॥२७॥ ननु यद्येवं, तद्विनापि मत्रं मन्त्रार्थभावना- तारतम्यभाजः संजल्पमात्रादेव तसिद्धिर्भव- न्ती कथमपढूयते इत्याशङ्क्याह मन्त्रार्पितमनाः किंचि- द्वदन्यत्तु विषं हरेत् । तन्मन्त्र एव मन्त्रार्पितमना इति मनवीर्य एव कृतानुस- न्धिरित्यर्थः। किंचिदिति श्लोकगाथादि । यदुक्तं प्राक श्लोकगाथादि यत्किंचिदादिमान्त्ययुतं यतः । तसाद्विदंस्तथा सर्व मत्रत्वेनैव पश्यति ॥ (३२२५) इति ॥ ननु मन्त्रार्पितमनस्त्वेनैव यदि विषहरणादि सिद्ध्येत् , तदप्रयोजकेन यस्य कस्यचन शब्दस्य वचनेन किं स्यात्, बाढमित्याह , ११२ श्रीतन्त्रालोके। शब्दः स परं तत्र घटादिवत् ॥ २७५॥ एतदेव दृष्टान्तमुखेनापि हृदयङ्गमयति कान्तासंभोगसंजल्प- सुन्दरः कामुकः सदा। तत्संस्कृतोऽप्यन्यदेष कुर्वन्स्वात्मनि तृप्यति ॥२७६॥ तथा तन्मन्त्रसंजल्प- भावितोऽन्यदपि ब्रुवन् । अनिच्छुरपि तद्रूप- स्तथा कार्यकरो ध्रुवम् ॥२७७ तृप्यतीति तत्संभोगचमत्कारसारतया स्वा- त्मनि विश्राम्यतीत्यर्थः । अन्यदपि ब्रुवन्निति, एवं ह्यन्यवचनेनैव मन्त्रसंजल्परूपतायामनि- च्छुरपि तद्रूपः सतताभ्यासवशान्मत्रैकमय ए- वेत्यर्थः । अत एव तथा मन्त्रानुगुण्येनैव कार्य- कर इत्युक्तम् ॥२७७ ॥ ननु मत्रसंजल्पेच्छाविरहेऽपि कथं तन्मय- तयैवास्यावभासो भवेदित्याशङ्कयाह २७९ श्लो०] षोडशमाह्निकम् । ११३ विकल्पयन्नप्येकार्थ यतोऽन्यदपि पश्यति । पर्वतं विकल्पयतो हि प्रमातुर्घटदर्शनं भ- वेदिति भावः॥ एतदागमोक्या समर्थयति विषापहारिमन्त्रादी- त्युक्तं श्रीपूर्वशासने ॥ २७८॥ तथाच तत्र 'तत्त्वे निश्चलचित्तस्तु भुञ्जानो विषयानपि । न संस्पृश्येत तद्दोषैः पद्मपत्रमिवाम्भसा ॥ विषापहारिमत्रादिसंनद्धो भक्षयनपि । विषं न मुह्यते तेन तद्वद्योगी महामतिः ॥' (१८८१) इति । अत्रायमर्थः-यत् भक्षयन्नपि विषं यथा जाङ्गुलिकः खरूपावस्थितमेवात्मानं पश्यति, तथा भुंजानोऽपि विषयान् महामतिर्योगी नि- चलचित्ततया परमेव तत्त्वमिति ॥ २७८ ॥ यत्तूक्तमेवमेव वदन्मन्त्रार्थनिष्ठो यद्विषं हरेत् , तन्मत्रस्यैव विजृम्भितं, नतु तन्नान्तरीयक- स्यापि शब्दस्येति । तत्रैव पक्षान्तरमाह , ११४ श्रीतन्त्रालोके। यदि वा विषनाशेऽपि हेतुभेदाद्विचित्रता। धात्वाप्यायादिकानन्त- कार्यभेदाद्भविष्यति ॥ २७९॥ हेतुभेदादिति मन्त्रशब्दाद्यात्मनः। विषनाशे हि मत्रवत् संजल्पोऽपि धात्वाप्यायपुष्ट्याद्यन्य- तमं कार्य कुर्यादिति ॥२७९ ॥ एवं मन्त्राणां सत्तामभिधाय प्रयोजनमप्याह तदेवं मन्त्रसंजल्प- विकल्पाभ्यासयोगतः। भाव्यवस्तुस्फुटीभावः संजल्पह्रासयोगतः ॥२८॥ तदेवमुक्तेन क्रमेण मात्रयोः शब्दविमर्श- योरभ्यासतारतम्येन संजल्परूपतादिगुणीभा. वात् खाभिन्नस्य भाव्यमानस्य मन्त्रदेवतात्मनो वस्तुनः स्फुटीभावः साक्षात्कारो भवेदित्यर्थः॥ नन्वस्य मात्रं संजल्पमभ्यस्यतो भाव्यवस्तु- साक्षात्कारः कथं स्यादित्याशङ्कयाह २८३ श्लो०] षोडशमाह्निकम् । ११५ वस्त्वेव भावयत्येष न संजल्पमिमं पुनः। गृह्णाति भासनोपायं भाते तत्र तु तेन किम् ॥२८॥ ननु यद्येवं, तत्किमस्य संजल्पोपादानेनेत्या- शङ्कयाह इममित्यादि । तेन किमिति, उपेये हि लब्धे पुनरुपायस्य किं प्रयोजनमित्यभिप्रायः॥ एतदेवोपसंहारभङ्गया प्रतिपादयति एवं संजल्पनिहासे सुपरिस्फुटतात्मकम् । अकृत्रिमविमर्शात्म स्फुरेद्वस्त्वविकल्पकम् ॥२८॥ ननु अविकल्पकेऽपि 'कामशोकभयोन्मादचौरखमाद्युपप्लुताः। अभूतानपि पश्यन्ति पुरतोऽवस्थितानिव ॥' इत्याद्युक्त्या सदेव न भायादित्यत्रापि वस्त्वेव स्फुरेदिलि कस्मादुक्तमित्याशङ्कयाह
११६
श्रीतन्त्रालोके।
निर्विकल्पा च सा संवि-
द्यद्यथा पश्यति स्फुटम् ।
तत्तथैव तथात्मत्वा-
द्वस्तुनोऽपि बहिःस्थितेः २८३
बहिरपि हि वस्तुनस्तद्धीनैव सत्तेत्यर्थः ॥
शिवाभेदभाजो गुरोस्तु विशेषेण यथार्थ-
संकल्पतेत्याह
विशेषतस्त्वमायीय-
शिवताभेदशालिनः।
मोक्षेऽभ्युपायः संजल्पो
बन्धमोक्षौ ततः किल ॥२८४॥
मोक्षेऽभ्युपाय इत्यर्थात् शिष्यस्य । ननु
'सर्वो विकल्पः संसारः..
।
इत्युक्त्या संकल्पस्य बन्धकत्वं स्यात् प्रत्युत
मोक्षाभ्युपायत्वमिहास्य कस्मादुक्तमित्याशङ्कयाह
बन्धमोक्षौ ततः किलेति । इह अमायीय-
शिवताभेदशालिनो गुरोःसंकल्पादेव बन्धमोक्षौ
स्यातां, किंतु इयान् विशेषो यद्भेदमयतायां
बन्धोऽन्यथा तु मोक्ष इति ॥ २८४ ॥
२८७ श्लो०] षोडशमाह्निकम् । ११७ ननु एवमपि अविकल्पकपर्यन्तीभूतादेवा- स्मादेतन्याय्यं नतु अन्यथा, तत्कथं संजल्पमा- त्रादेव मोक्षो भवेदित्याशङ्कयाह विकल्पेऽपि गुरोः सम्य. गभिन्नशिवताजुषः। अविकल्पकपर्यन्त- प्रतीक्षा नोपयुज्यते ॥ २८५॥ नोपयुज्यत इत्यत्र गुरोः शिवाभेदमयत्वं हेतुः ॥२८५॥ नच एतद्युक्तिमात्रसिद्धमेवेत्याह तहिमर्शस्वभावा हि सा वाच्या मन्त्रदेवता। महासंवित्समासन्ने- त्युक्तं श्रीगमशासने ॥२८६॥ मन्त्रो हि स्वत एवाविल्पकसंवित्स्वभाव इति भावः ॥ २८६॥ एवं परसंविसमासन्नवादेव मत्रादयस्तदा.
११८ श्रीतन्त्रालोके। यत्ताः सिद्धिं साधयितुं शक्नुवन्तीति दृष्टान्तप्र- दर्शनपुरःसरीकारेणाभिधातुमाह निकटस्था यथा राज्ञा- मन्येषां साधयन्त्यलम् । सिद्धिं राजोपगां शीघ्र- मेवं मन्त्रादयः पराम् ॥२८७॥ परां सिद्धिमिति मोक्षलक्षणाम् । यदुक्तम् 'अधमा वश्यदा सिद्धिर्मध्यमा खेचरखदा । संसारभयविच्छेददायिनी सिद्धिरुत्तमा । इति ॥ २८७॥ एतच्चारमच्छास्त्रेऽप्युक्तमित्याह उक्ताभिप्रायगर्भ त- दुक्तं श्रीमालिनीमते। तदेवाह .. मन्त्राणां लक्षणं कस्मा- दित्युक्ते मुनिभिः किल ॥२८८ कस्मादिति योगविषये हि प्रश्ने कृते किमिति मबलक्षणमुक्तमिति भावः । यदुक्तं २९२ श्लो०] षोडशमाद्विकम् । 'योगमार्गविधि देव्या पृष्टेन परमेष्ठिना । तत्प्रतिज्ञावताप्युक्तं किमर्थं मत्रलक्षणम् ॥' (४२) इति ॥ २८८॥ एवं मुनिप्रश्नं निर्णेतुकामः कार्तिकेयो यो- गाङ्गतयैव एतदुक्तमित्यभिधातुमाह योगमेकत्वमिच्छन्ति वस्तुनोऽन्येन वस्तुना। तहस्तु ज्ञेयमित्युक्तं हेयत्वादिप्रसिद्धये ॥ २८९॥ तत्प्रसिद्ध्यै शिवेनोक्तं ज्ञानं यदुपवर्णितम् । सबीजयोगसंसियै मन्त्रलक्षणमप्यलम् ॥ २९॥ न चाधिकारिता दीक्षा विना योगेऽस्ति शाङ्करे। क्रियाज्ञानविभेदेन सा च द्वेधा निगद्यते ॥२९॥ द्विविधा सा प्रकर्तव्या तेन चैतदुदाहृतम् ।
१२० श्रीतन्त्रालोके । नच योगाधिकारित्व- मेकमेवानया भवेत् ॥२९२॥ अपि मन्त्राधिकारित्वं मुक्तिश्च शिवदीक्षया । एतच्च प्राग्व्याख्यानेनैव गतार्थमिति नेह पुनर्विभज्य व्याख्यातम् ॥ तात्पर्यगत्या तु ग्रन्थकृदेव व्याख्यातुमाह अनेनैतदपि प्रोक्तं योगी तत्त्वैक्यसिद्धये ॥२९३॥ मन्त्रमेवाश्रयेन्मूलं निर्विकल्पान्तमाहतः। मन्त्राभ्यासेन भोगं वा मोक्षं वापि प्रसाधयन् २९४ तत्राधिकारितालब्ध्यै दीक्षां गृह्णीत दैशिकात् । आहत इत्यनेनास्य तदेकतानत्वमुक्तम् । तत्रेति मन्त्राश्रयणादौ॥
२९७ श्लो०] षोडशमाह्निकम् । १२१ अतश्चास्य मन्त्रादिमाहात्म्यात्सर्व भुक्ति- मुक्त्याद्यपि सिद्ध्येदित्याह तेन मन्त्रज्ञानयोग- बलाद्ययत्प्रसाधयेत् ॥२९५॥ तत्स्यादस्यान्यतत्त्वेऽपि युक्तस्य गुरुणा शिशोः। युक्तस्येति योजितस्येत्यर्थः, अनेन च यो. जनिकादेर्भेदोऽप्यासूत्रितः॥ ननु गुरुणा चेदन्यतत्त्वे योजितः, तत्कथ- मस्य खबलादेव अन्यथा भुक्तिर्मुक्तिर्वा स्यादि- त्याशङ्कयाह दीक्षा ह्यस्योपयुज्येत संस्क्रियायां स संस्कृतः २९६ स्वबलेनैव भोगंवा मोक्षं वा लभते बुधः। अत एव च दीक्षायां कृतोऽपि समय्यादि- नियमो न स्यादित्याह १२२ श्रीतन्त्रालोके । तेन विज्ञानयोगादि- बली प्राक् समयी भवन् २९७ पुत्रको वा न तावान्स्या- दपितु स्वबलोचितः। तावानिति समयी पुत्रको वा ॥ ननु ज्ञानयोगादौ दुर्बलस्य का वार्तेत्याश- चाह यस्तु विज्ञानयोगादि- वन्ध्यः सोऽन्धो यथा पथि २९८ दैशिकायत्त एव स्या- दोगे मुक्तौ च सर्वथा। ननु ज्ञानयोगादिवन्ध्यस्य दैशिकोऽपि किं कुर्यादित्याशङ्कयाह दीक्षा च केवला ज्ञानं विनापि निजमान्तरम् ॥२९९॥ मोचिकैवेति कथितं युक्त्या चागमतः पुरा । पुरेति पञ्चदशाह्निकादौ॥
३०३ श्लो०] षोडशमाहिकम् । १२३ दीक्षोचितमेव ज्ञानयोगाद्यधितिष्ठतः पुनः किं स्यादित्याशङ्कयाह यस्तु दीक्षाकृतामेवा- पेक्ष्य योजनिकां शिशुः॥३०॥ स्फुटीभूत्यै तदुचितं ज्ञानं योगमथाश्रितः। सोऽपि यत्रैव युक्तः स्या- तन्मयत्वं प्रपद्यते ॥३०१॥ यत्रैव युक्त इत्यर्थाद्गुरुणा ॥ ३०१ ॥ अतश्चायं गुर्वधीनसिद्धिरेवेत्याह गुरुदीक्षामन्त्रशास्त्रा- धीनसर्वस्थितिस्ततः। एवमेतत्पुत्रकादिविषयमभिधाय साधकवि- षयमपि अभिधत्ते दुष्टानामेव सर्वेषां भूतभव्यभविष्यताम् ॥३०२॥ कर्मणां शोधनं कार्य बुभुक्षोर्न शुभात्मनाम् ।
१२४ श्रीतन्त्रालोके । यः पुनर्लोकिकं भोगं राज्यस्वर्गादिकं शिशुः ॥३०३॥ त्यक्त्वा लोकोत्तरं भोग- मीप्सुस्तस्य शुभेष्वपि । बुभुक्षोरिति लोकधर्मिणः साधकस्य । शुभे. प्वपीति शोधनं कार्यमिति प्राच्येन संबन्धः ॥ अत्रापि क्रियाज्ञानयोः प्राधान्येऽयं विशेष इत्याह तत्र द्रव्यमयीं दीक्षा कुर्वन्नाज्यतिलादिकैः॥३०४॥ कर्मास्य शोधयामीति जुहुयादेशिकोत्तमः। ज्ञानमय्यां तु दीक्षायां तद्विशुद्ध्यति सन्धितः ॥३०५॥ गुरोः स्वसंविद्रूढस्य बलात्तत्प्रक्षयो भवेत् । यदास्याशुभकर्माणि शुद्धानि स्युस्तदा शुभम् ३०६
३०८ श्लो०]
षोडशमाह्निकम् ।
१२५
स्वतारतम्याश्रयणा-
दध्वमध्ये प्रसूतिदम् ।
तदिति कर्म । सन्धित इत्यनुसन्धानात् ।
अस्येति लोकधर्मिणः॥
शुभकर्मोपभोगे तु योजनिकास्थानमेवासा-
दयेदित्याह
शुभपाकक्रमोपात्त-
फलभोगसमाप्तितः॥३०७॥
यत्रैष योजितस्तत्स्थो
भाविकर्मक्षये कृते।
तत्स्थ इत्यर्थात् भवेत् । क्षये कृते इत्युप-
भोगादेव, नहि लोकधर्मिणः शुभकर्मशोधन-
मानातमित्याशयः॥
भाविशुभकर्माप्रक्षये पुनरस्य तत्र तत्रोप-
भोग एवेत्याह
भाविनां चाद्यदेहस्थ-
देहान्तरविभेदिनाम् ॥३०८॥
१२६ श्रीतन्त्रालोके । अशुभांशविशुद्धौ स्या- द्भोगस्यैवानुपक्षयः। अद्यदेहेति दीक्षोत्तरकालभाविनाम् ॥ अत एवास्य न कुत्रचिदपि दुःखोपभोगो भवेदित्याह भुञ्जानस्यास्य सततं भोगान्मायालयान्ततः॥३०९॥ न दुःखफलदं देहा- द्यध्वमध्येऽपि किंचन। मायालयान्तत इति मायालयान्तं याव- दित्यर्थः॥ मायालये वृत्ते पुनरस्य किं स्यादित्याशङ्कयाह ततो मायालये भुक्त- समस्तसुखभोगकः ॥ ३१०॥ निष्कले सकले वैति लयं योजनिकाबलात् ।
३११ श्लो०]
षोडशमादिकम् ।
१२७
आह्निकार्थमेव श्लोकस्य प्रथमाधेनोपसंहरति
इति प्रमेयं कथितं
दीक्षा काले गुरोर्यथा ॥३११॥
इतीत्थमेतत्प्रमेयमिहोतं यथा येन प्रकारेण
काले शक्तिपातावसरे गुरोर्दीक्षा कार्या भवे-
दिति शुभम् ॥ ३११॥
श्रीमद्गुरुमहिमोदित-
शोधकशोध्योभयानुसन्धानः ।
पोडशमासिकमेतद्-
व्यवृणोदिह जयरथामिख्यः॥
इति श्रीतन्त्रालोकविवेके प्रमेयप्रकाशनं नाम
षोडशमाह्निकम् ॥ १६ ॥
No text on this page.
अथ श्रीतन्त्रालोके। श्रीमन्महामाहेश्वराचार्याभिनवगुप्तविरचिते श्रीजयरथकृतविवेकाख्यटीकोपेते सप्तदशमाह्निकम् । निजशक्तिजनितकर्मप्रपञ्चसंचारचातुरी विभवम् । भवतरणबलप्रदतां समावहन्तं बलप्रदं नौमि ॥ इदानीमत्रैव द्वितीयान महाप्रयोजनामि- तिकर्तव्यतां वक्तुं प्रतिजानीते अथ भैरवतादात्म्य- दायिनी प्रक्रियां ब्रुवे । तामेवाह एवं मण्डलकुम्भाग्नि- शिष्यस्वात्मसु पञ्चसु॥१॥ गृहीत्वा व्याप्तिमैक्येन न्यस्याध्वानं च शिष्यगम् । १७ १३० श्रीतन्त्रालोके। कर्ममायाणुमलिन- त्रयं बाहौ गले तथा ॥२॥ शिखायां च क्षिपेत्सूत्र- ग्रन्थियोगेन दैशिकः । कुम्भेत्यत्रैव अर्थात् कर्कर्यप्यन्तर्गता येनोक्तं पञ्चखिति। सूत्रग्रन्थियोगेनेति तद्रूपतया इत्यर्थः। यदुक्तम् 'आगन्तु सहजं शाक्तं वद्धादौ पाशपञ्जरम् । बाहुकण्ठशिखाग्रेषु त्रिवृत्रिगुणतन्तुना ।' इति॥ एषां च ग्रन्थिरूपतया प्रक्षेपे कोऽभिप्राय इत्याशङ्कयाह तस्यातद्रूपताभानं मलो ग्रन्थिः स कीर्त्यते ॥३॥ इतिप्रतीतिदाार्थ बहिर्मन्थ्युपकल्पनम्। तस्य पूर्णप्रकाशात्मनः परस्य ब्रह्मणो यद- तद्रूपतया भानं संकुचितात्मतया प्रथनं, स एव ६ श्लो०] सप्तदशमाहिकम् । १३१ खरूपस्य तिरोधायकत्वान्मल इति प्रतिरोध- कत्वाच्च ग्रन्थिरित्युच्यते। एतदेव द्रढयितुंवहिः पाशसूत्रादावेवं ग्रन्थीनामुपकल्पनम् ॥ एवमप्येतद्वाह्वादावेव कस्मादुक्तमित्याशङ्क्याह बाहू कर्मास्पदं विष्णु- यात्मा गलसंश्रितः॥४॥ अधोवहा शिखाणुत्वं तेनेत्थं कल्पना कृता । मायात्मेति तद्गर्भेऽस्याधिकारात् । अधोव- हेति प्राणशक्तेर्हृदयान्तं ततः प्रसरणात् ॥ नन्वेवमपि सूत्रस्य त्रिस्त्रिगुणीकरणे कोऽर्थ इत्याशङ्कयाह नरशक्तिशिवाख्यस्य त्रयस्य बहुभेदताम् ॥५॥ वक्तुं त्रिस्त्रिगुणं सूत्रं ग्रन्थये परिकल्पयेत् । इदं हि नरशक्तिशिवात्मकमेव सर्वमिति भावः॥
१३२ श्रीतन्त्रालोके। अत्रैव शास्त्रान्तरीयप्रक्रिययापि व्याप्तिं द- शयितुमाह तेजोजलान्नत्रितयं. त्रेधा प्रत्येकमप्यदः॥६॥ श्रुत्यन्ते केऽप्यतः शुक्ल- कृष्णरक्तं प्रपेदिरे। श्रुत्यन्त इति । यदुक्तं छान्दोग्योपनिषदि श्वेतकेतूपदेशे 'एकसात्परब्रह्मणस्तेजोऽजायत, तत आपस्ताभ्योऽनं त- देकैकं त्रिधा समभवत् , तत्राग्नेलोहितशुक्लकृष्णानि रूपाण्य- भवन् , यल्लोहितं तत्तेजः, यच्छुक्लं तदापः, यत्कृष्णं तदन्न- मिति।' अत इति तेजोजलान्नत्रितयस्यैवंरूपत्वात् । इह साक्षाद्भोगाधारे शरीरे पाशच्छेदादौ क्रि- यमाणे दाहशोषादयः संभाव्यरन्निति तत्प्रति- कृतिप्राये मुख्यदेहगतानन्तपाशादिसूचनात् त- दुच्छेदोपायतया च त्राणात्सूत्रशब्दवाच्येऽस्मिन् पाशच्छेदादि कार्यमिति पाशसूत्रार्थः । यदागमः 'द्वितीयः सूत्रदेहस्तु पाशा यत्र स्थितास्त्विमे । बध्याश्छेद्यास्तथा दायाः सूत्रस्थाने न विग्रहे ॥' . इति ॥
३ १० श्लो०] सप्तदशमाह्निकम् । १३३ एवं सूत्रक्लप्तिमभिधाय तत्त्वशुद्धिमाह ततोऽनौ तर्पिताशेष- मन्त्रे चिढ्योममात्रके ॥७॥ सामान्यरूपे तत्त्वानां क्रमाच्छुद्धिं समाचरेत्। सामान्यरूपे चियोममात्रके इति तत्सात्क- रणमेव हि नाम अस्मदर्शने शुद्धिरित्याशयः॥ तदेवाह तत्र स्वमन्त्रयोगेन धरामावाहयेत्पुरा ॥ ८॥ इष्ट्वा पुष्पादिभिः सर्पि- स्तिलाद्यैरथ तर्पयेत् । तत्तत्त्वव्यापिकां पश्चा- न्मायातत्त्वाधिदेवताम् ॥९॥ मायाशक्तिं स्वमन्त्रेणा- वाह्याभ्यर्च्य प्रतर्पयेत् । तत्तत्त्वेति तस्य धराख्यस्य तत्त्वस्य ।मायाश- १३४ श्रीतन्त्रालोके । तिमिति वागीश्वरीरूपाम् । स्वमन्त्रेणेति ओह्री- मिति॥ ननु धरादेस्तत्त्ववर्गस्य प्राक् मातृकामालि- न्युभयगतं वर्णजातं मत्रत्वेनोक्तं, तत्कतरदत्र मन्त्रतयाभिमतमित्याशङ्क्याह आवाहने मातृकाणं मालिन्यण च पूजने ॥१०॥ कुर्यादिति गुरुः प्राह स्वरूपाप्यायनहयात्। पूजन इत्यर्थात् तर्पणादावपि । मातृकाया हि जगजननीत्वात् स्वरूपपृथाकारित्वमुचितम् , मालिन्याश्च विश्वस्य स्वात्मनि धारणादाप्याय- कारित्वमित्युक्तं स्वरूपाप्यायनद्वयादिति ॥ एतदेवेह द्वयं दर्शयति तारो वर्णोऽथ संबुद्धि- पदं त्वामित्यतः परम् ॥ ११ ॥ उत्तमैकयुतं कर्म- पदं दीपकमप्यतः।
१३५
१४ श्लो०] सप्तदशमाह्निकम् ।
तुभ्यं नाम चतुर्थ्यन्तं
ततोऽप्युचितदीपकम् ॥ १२॥
इत्यूहमन्त्रयोगेन
तत्तत्कर्म प्रवर्तयेत् ।
तारः प्रणवः।वर्णो मातृकायाः यथा धरायां
क्षः। संबुद्धीति धरे इत्यादि । उत्तमति आवा-
हयामीति । दीपकं नमः।नामेति धरादेः।उचि-
तेति पूजादौ नमः, होमे वाहेत्यादि ।
नन्वत्रावाहनोपक्रमं कस्मात्पूजाद्युक्तमित्या-
शङ्कयाह
आवाहनानन्तरं हि
कर्म सर्व निगद्यते ॥१३॥
नन्वावाहनमेव नाम किमुच्यते यदानन्तर्ये-
णापि पूजादि स्यादित्याशङ्कयाह
आवाहनं च संबोधः
स्वस्वभावव्यवस्थितेः।
भावस्याहंमयस्वात्म-
तादात्म्यावेश्यमानता ॥ १४ ॥
१३६
श्रीतन्त्रालोके ।
आवाहनं हि नाम स्वस्वभावव्यवस्थित्या
सिद्धस्य भावस्य संबोधः
'सिद्धस्वाभिमुखीभावमात्र संबोधनं विदुः।'
इत्यादिनीत्या पूर्णाहंपरामर्शस्वभावे खात्मनि ऐ-
कात्म्येनावश्यमानता अभिमुखीभावमात्रं, न-
वावेश एव, तथात्वे हि शैवी दशैवं स्यात्, न
तु शाक्तीत्यभिप्रायः ॥ १४ ॥
अत एवाह
शाक्ती भूमिश्च सैवोक्ता
यस्यां मुख्यास्ति पूज्यता।
ननु शाक्यामेव भूमौ कस्मान्मुख्यतया पू-
ज्यता अस्तीत्याशङ्याह
अभातत्वादभेदाच्च
नह्यसौ नृशिवात्मनोः॥ १५॥
अभातत्वादिति जाड्यादित्यर्थः। अभेदादि-
ति पूज्यपूजकादिविभागस्य विगलनात् । यद-
भिप्रायेणैव
'न पुंसि न परे तत्वे शक्तौ मत्रानियोजयेत् ।
इत्याद्युक्तम् ॥ १५॥
१३७ १८ श्लो०] सप्तदशमाह्निकम् । ननु यद्येवं तज्जडानां धरादीनां कथं पूजादि युज्यतेत्याशङ्कयाह जडाभासेषु तत्त्वेषु संवित्स्थित्यै ततो गुरुः। आवाहनविभक्तिं प्राक् कृत्वा तुर्यविभक्तितः॥ १६॥ नमस्कारान्ततायोगा- त्पूर्णां सत्तां प्रकल्पयेत् । एतदेवोपपादयति ततः पूर्णस्वभावत्वं तद्रूपोद्रेकयोगतः ॥ १७ ॥ ध्येयोद्रेको भवेड्यात- प्रह्वीभाववशाद्यतः। नमस्कारे हि नमस्कर्तृगुणीभावेन नमस्का- यस्यैव मुख्यत्वं भवेदिति भावः ॥ एवमागमान्तरमप्येवमेव व्याख्येयमित्यस्म- दुरव इत्याह आवाह्येष्ट्वा प्रतयेति श्रीस्वच्छन्दे निरूपितम्॥१८॥ १८ १३८ श्रीतन्त्रालोके । अनेनैव पथानेय- मित्यस्मद्गुरवो जगुः। ननु भेदाभेदमयत्वात् परापरा शाक्ती दशा, शैवी पुनरभेदमयत्वात् परा, तत्कथमत्र पूज्यता नास्तीत्युक्तमित्याशङ्कयाह परत्वेन तु यत्पूज्यं तत्स्वतन्त्रचिदात्मकम् ॥ १९॥ अनवच्छित्प्रकाशत्वा- न्न प्रकाश्यं तु कुत्रचित् । ननु यद्येवं, तत्कथमात्मा ज्ञातव्यो मन्तव्यो निदिध्यासितव्यश्चेत्यायुच्यत इत्याशयाह तस्य ह्येतत्प्रपूज्यत्व- ध्येयत्वादि यदुल्लसेत् ॥ २० ॥ तस्यैव तत्स्वतन्त्रत्वं यातिदुर्घटकारिता। अत एव पूज्यत्वादेरमुख्यत्वात् नाबाह्वाना- धुपयोग इत्याह
२३ श्लो०]
सप्तदशमाह्निकम् ।
संबोधरूपे तत्तस्मिन्
कथं संबोधना भवेत् ॥ २१॥
प्रकाशनायां वै न स्या-
त्प्रकाशस्य प्रकाशता।
तत् तस्मात् पूज्यत्वादेस्तत्वातत्र्यविजृम्भा-
मात्रत्वात् तस्मिन् संबोधनक्रियाकर्तृत्वात्मनि
शिवे संबोधना कथं भवेत संबोध्यमानता अस्य
न न्याय्या । नहि परकर्तृकायां प्रकाशनायां
प्रकाशस्य प्रकाशतैव स्यात् , किंतु प्रकाश्यमा-
नतेत्यर्थः॥
ननु यद्येवं, तद्देवमावाहयामीत्याह्वानादौ
स्थिते किं प्रतिपत्तव्यमित्याशझ्याह
संबोधनविभक्त्यैव
विना कर्मादिशक्तिताम् ॥२२॥
स्वातन्त्र्यात्तं दर्शयितुं
तत्रोहमिममाचरेत् ।
देवमावाहयामीति
ततो देवाय दीपकम् ॥ २३ ॥
१४० श्रीतन्त्रालोके । प्राग्युक्त्या पूर्णतादायि नमःस्वाहादिकं भवेत् । एवमत्राप्यूहस्य संभवाद्यथौचित्यं दीपकयो- जना कार्येत्याह तत इत्यादि । ननु नमस्कारादेः सर्वस्यैव दीपकस्य किं पूर्णतादायित्वमुत नेत्याशङ्क्याह नुतिः पूर्णत्वमग्नीन्दु- संघट्टाप्यायता परम् ॥२४॥ आप्यायकं च प्रोच्छालं वौषडादि प्रदीपयेत् । अग्नीन्दुसंघट्ट इति यदुक्तं प्राक् 'स्खा इत्यामृतवर्णेन इति t.."हेत्यग्निरूपेण"......"॥' (१५।४३७) इति च ।परं स्वाहेति ।प्रोच्छालमिति अतोऽप्य- स्याधिक्येनाप्यायकारित्वमित्यर्थः । यदागमः .... । 'वौषडाप्यायने शस्तम् इति ॥ ।
२८ श्लो०] सप्तदशमाह्निकम् । नन्वेवमविशेषेणैव सर्वत्र किमूहः कार्यों न वेत्याशङ्कयाह तत्र बाह्येऽपि तादात्म्य- प्रसिद्ध कर्म चोयते ॥२५॥ यदि कर्मपदं तन्नो गुरुरभ्यूहयेत्वचित् । तादात्म्येति तादूप्येण लोके विश्रुतमित्यर्थः। चोद्यत इति विधीयत इत्यर्थः ॥ एतदेवोपपादयति अनाभासिततहस्तु- भासनाय नियुज्यते ॥ २६॥ मन्त्रः किं तेन तत्र स्या- स्फुटं यत्रावभासि तत्। तेन प्रोक्षणसंसेक- जपादिविधिषु ध्रुवम् ॥२७॥ तत्कर्माभ्यूहनं कुर्या- प्रत्युत व्यवधातृताम्।
१४२
श्रीतन्त्रालोके।
मन्त्र इति कर्मपदाभ्यूहरूपः। तदित्यूहनीय
कर्म । तेनेति कर्मणो बहिःस्वयमवभासमान-
खेन हेतुना । प्रोक्षणादि हि बहिस्तथात्वेनैव
स्फुटमवभातीति भावः, अतः प्रोक्षणं करोमी-
त्यायुक्त्या अत्यभ्यूहनं न कार्यमिति तात्पर्यार्थः।
बहिस्तथात्मतानवभासे पुनरेतत्कार्यमित्याह
बहिस्तथात्मताभावे
कार्य कर्मपदोहनम् ॥२८॥
तृप्तावाहुतिहुतभुक्-
पाशप्लोषच्छिदादिषु ।
तेन तर्पणं करोमि, अर्चा करोमीत्यादिरूहः
कार्यः। नहि तृप्त्यादि बहिस्ताद्रूप्येण प्रोक्षणा-
दिवत् किंचिदवभातीति भावः । हुतभुपाश-
प्लोषेति हुतभुजि पाशानां प्लोषादावित्यर्थः ॥
नच अवयविप्राये बहिस्तथात्मतयानवभासने
कर्मण्यप्यभ्यूहनं कार्यमित्याह
यत्रोद्दिष्टे विधौ पश्चा-
तदनन्तैः क्रियात्मकैः ॥ २९॥
३२ श्लो०]
सप्तदशमाह्निकम् ।
अंशैः साध्यं न तत्रोहो
दीक्षणादिविधिष्विव ।
तदित्युद्दिष्टविधिलक्षणं वस्तु।क्रियात्मकैरन-
न्तैरंशैरिति गर्भाधानादिभिः । दीक्षणादिविधि-
विवेति नहि दीक्षां करोमि प्रतिष्ठां करोमि
वेत्येक एवायमूहो भवितुमर्हतीत्यर्थः ॥
एवमेतत्प्रसङ्गादभिधाय प्रकृतमेवाह
ततः शिष्यस्य तत्तत्त्व-
स्थानेऽस्त्रेण प्रताडनम् ॥३०॥
कृत्वाथ शिवहस्तेन
हृदयं परिमर्शयेत् ।
ततः स्वनाडीमार्गेण
हृदयं प्राप्य वै शिशोः ॥३१॥
शिष्यात्मना सहकत्वं
गत्वादाय च तं हृदा।
पुटितं हंसरूपाख्यं
तत्र संहारमुद्रया ॥३२॥
१४४ श्रीतन्त्रालोके । कुर्यादात्मीयहृदय- स्थितमप्यवभासकम् । शिष्यदेहस्य तेजोभी रश्मिमात्रावियोगतः ॥३३॥ तत इति वागीशीतर्पणानन्तरम् । तत्तत्त्वेति तस्याहूतस्य धरादेणुल्फादौ स्थानेऽस्त्रेण ताडनम् । खेति गुरोर्दक्षिणेन, शिष्यस्य वामेन।गत्वेत्यर्थात् हृदय एव । हृदेति हृन्मन्त्रेण । संहारमुद्र- येति । यदुक्तं 'प्रसार्य दक्षिणं पाणि कनिष्ठादिक्रमाच्छनैः । आकृष्य बन्धयेन्मुष्टिमङ्गुष्ठेन प्रपीडयेत् ॥ मुद्रा संहारिणी प्रोक्ता इति । आत्मीयहृदयस्थितमिति काकाक्षिन्या- येन योज्यम् तेनात्मीयहृदयस्थितमपि रश्मि- मात्रावियोगतस्तेजोभिः शिष्यदेहस्यावभासकं चिन्तयेत् येन चित्प्रकाशस्ततो वियुक्तो न भवेत् ॥ ३३॥ नन्वेवमात्मीयहृदयानयनेन शिष्यात्मनः कोऽर्थ इत्याशङ्कयाह स्वबन्धस्थानचलनात् स्वतन्त्रस्थानलाभतः ।
३८ श्लो०] सप्तदशमाहिकम् । १४५ स्वकर्मापरतन्त्रत्वा- सर्वत्रोत्पत्तिमर्हति ॥ ३४॥ तेनात्महृदयानीतं प्राकृत्वा पुद्गलं ततः। मायायां तद्धरातत्त्व- शरीराण्यस्य संसृजेत् ॥३५॥ मायायामिति वागीशीरूपायाम् ॥ ३५॥ कथंच अस्य सृष्टिरित्याह तत्रास्य गर्भाधानं च युक्तं पुंसवनादिभिः। गर्भनिष्क्रामपर्यन्तै- रेका कुर्वीत संस्क्रियाम् ॥३६॥ जननं भोगभोक्तृत्वं मिलित्वैकाथ संस्क्रिया। ततोऽस्य तेषु भोगेषु कुर्यात्तन्मयतां लयम् ॥३७॥ ततस्तत्तत्त्वपाशानां विच्छेदं समुपाचरेत्। १९ श्रीतन्त्रालोके। संस्काराणां चतुष्केऽस्मि- नपरां च परापराम् ॥३८॥ मन्त्राणां पञ्चदशकं परां वा योजयेत्क्रमात् । आदिना सीमन्तोन्नयनादि, तेनैतवान्तर- संस्कारगर्भीकारेण गर्भाधानमेव मुख्यः संस्कार इति। अस्मिंश्चतुष्क इति गर्भाधानभोगभोक्तृत्व- तल्लयपाशविच्छेदलक्षणे । वाशब्दः समुच्चये ॥ मन्त्रपञ्चदशकमेव विभजति पिवन्याद्यष्टकं शस्त्रा- दिकं षट् परा तथा ॥ ३९॥ इति पञ्चदशैते स्युः क्रमाल्लीनत्वसंस्कृतौ। अत्रैव होममत्रान् दर्शयति अपरामन्त्रमुक्त्वा प्रा- गमुकात्मन इत्यथ ॥४०॥ गर्भाधानं करोमीति पुनर्मन्त्रं तमेव च ।
५ श्लो०]
सप्तदशमाह्निकम् ।
१४७
स्वाहान्तमुच्चरन्दद्या-
दाहुतित्रितयं गुरुः ॥४१॥
परं परापरामन्त्र-
ममुकात्मन इत्यथ ।
जातस्य भोगभोक्तृत्वं
करोम्यथ परापराम् ॥४२॥
अन्ते स्वाहेति प्रोच्चार्य
वितरेत्तिस्र आहुतीः।
उच्चार्य पिवनीमन्त्र-
ममुकात्मन इत्यथ ॥४३॥
भोगे लयं करोमीति
पुनर्मत्रं तमेव च।
स्वाहान्तमाहुतीस्तिस्रो
दद्यादाज्यतिलादिभिः॥४४॥
एष एव वमन्यादौ
विधिः पञ्चदशान्तके।
पूर्वं परात्मकं मन्त्र-
ममुकात्मन इत्यथ॥४५॥
श्रीतन्त्रालोके। पाशच्छेदं करोमीति परामन्त्रः पुनस्ततः। हुं स्वाहा फट् समुच्चार्य दद्यात्तिस्रोऽप्यथाहुतीः ॥४६॥ संस्काराणां चतुष्केऽस्मि- न्ये मन्त्राः कथिता मया । तेषु कर्मपदात्पूर्व धरातत्त्वपदं वदेत् ॥४७॥ ततो धरातत्त्वपति- मामन्त्र्येष्ट्वा प्रतर्प्य च। शिवाभिमानसंरब्धो गुरुरेवं समादिशेत् ॥४८॥ तत्त्वेश्वर त्वया नास्य पुत्रकस्य शिवाज्ञया। प्रतिबन्धःप्रकर्तव्यो यातुः पदमनामयम् ॥४९॥ ततो यदि समीहेत 'धरातत्त्वान्तरालगम्।
५१ श्लो०] सप्तदशमाहिकम् ।
पृथक् शोधयितुं मन्त्री
भुवनायध्वपश्चकम् ॥५०॥
अपरामन्त्रतः प्राग्व-
त्तिस्रस्तिस्रस्तदाहुतीः।
दद्यात्पुरं शोधयामी-
त्यूहयुक्तं प्रसन्नधीः ॥५१॥
तमेवेति अपरासत्कम्। कर्मपदादिति गर्भा-
धानमित्येवंलक्षणात् , तेन अपरामत्रः अमुका-
त्मनो धरातत्त्वे गर्भाधानं करोमि अपरामत्रः
खाहेत्यादिरूप ऊहः। तत इति संस्कारचतुष्टया-
नन्तरम् । आमत्र्येति मन्त्रान्तरस्यावचनात् अप-
रामन्त्रेण । यद्वक्ष्यति
'मायान्तशुद्धौ सर्वाः स्युः क्रिया ह्यपरया सदा ।'
(श्लो० १३९)
इति । एवमादेशे शिवाभिमानसंरब्धत्वं हेतुः।
तत इति तत्त्वशोधनानन्तरम् । अपरामन्नत
इति अपरामन्त्रमाश्रित्येत्यर्थः । प्राग्वदित्यनेन
ऊहान्तरवत् सर्वमेवाक्षिप्तम् ॥ ५१ ॥
१५०
श्रीतन्त्रालोके।
एतदेवान्यत्राप्यतिदिशति
एवं कलामन्त्रपद-
वर्णेष्वपि विचक्षणः।
तिस्रस्तिस्रो हुतीर्दद्यात्
पृथक् सामस्त्यतोऽपिवा ॥५२
ततः पूर्णाहुतिं दत्त्वा
परया वौषडन्तया।
अपरामन्नतः शिष्य-
मुद्धृत्यात्महृदं नयेत् ॥५३॥
पृथगिति ऐकैकध्येन । सामस्त्यत इति इत-
राध्वपञ्चकं शोधयामीति । उद्धृत्येत्यर्थाच्छोधि-
तात् तत्त्वात् । आत्महृदमिति गुरोः॥ ५३॥
अत्रैव मतान्तरं दर्शयति
यदा त्वेकेन शुद्धन
तदन्तर्भावचिन्तनात् ।
न पृथक् शोधयेत्तत्त्व-
नाथसंश्रवणात्परम् ॥५४॥
५९ श्लो०] सप्तदशमाहिकम् । १५१ तदा पूर्णां वितीर्याणु- मुक्षिप्यात्मनि योजयेत् । तात्स्थ्यात्मसंस्थ्ययोगाय तयैवापरयाहुतीः॥५५॥ सकर्मपदया दद्या- दिति केचित्तु मन्वते। अन्ये तु गुरवः प्राहु- र्भावनामयमीदृशम् ॥५६॥ नात्र बाह्याहुतिर्देया दैशिकस्य पृथक् पुनः। दयाहा यदि नो दोषः स्यादुपायः स भावने ॥ ५७॥ एवं प्राक्तनतास्थ्यात्म- संस्थत्वे योजयेद्गुरुः। ततः शिष्यहृदं नेयः स आत्मा तावतोऽध्वनः॥५८॥ शुद्धस्तदाळसिधै च पूर्णा स्यात्परया पुनः।
१५२ श्रीतन्त्रालोके । महापाशुपतं पूर्व विलोमस्य विशुद्धये ॥ ५९॥ जुहोमि पुनरस्त्रेण वौषडन्त इति क्षिपेत् । पुनः पूर्णी ततो माया- मभ्यया॑थ विसर्जयेत् ॥६०॥ धरातत्त्वं विशुद्ध स- अलेन शुद्धरूपिणा। भावयेन्मिश्रितं वारि शुद्धियोग्यं ततो भवेत् ॥६॥ एकेनेति तत्त्वाद्यन्यतमेनाध्वना।न शोधयेदि- त्यर्थात् इतराध्वपञ्चकम् । तथैवेति प्रक्रान्तया। आहुतीरिति तिस्रः। सकर्मपदयेति अमुकात्मान- मात्मस्थं करोमीति । अत्रेति तात्स्थ्यात्मस्थत्व- करणे । दैशिकस्येति कर्तुः। स इति बाह्याहुति- लक्षणः प्रकारः। प्राक्तनेति 'ततः खनाडीमार्गेण: ...।' (श्लो०३१) इत्यादिनोक्ते।तत इति आत्महृन्नयनानन्तरम् । शिष्यहृदं नेय इति तत्स्थः कार्य इत्यर्थः ।
६२ श्लो सप्तदशमाह्निकम् । १५३ तावत इति धरात्मनः। तद्दाढ्येति तच्छब्देन शुद्धपरामर्शः । यदुक्तं 'शिष्यमुत्क्षिप्य चात्मस्थं तदेहस्थं तु कारयेत् । आहुतीनां त्रयं दद्याद्दत्त्वा पूर्णाहुतिं बुधः ॥ महापाशुपतास्त्रेण विलोमादिविशुद्धये।(मा०वि०९।६८) इति । जलेनेति जलतत्त्वेन । तत इति धरात- वस्य जलतत्त्वेन मिश्रणया भावनात् ॥६१॥ तदेव सामान्येनातिदिशन् शुद्ध्यशुद्धी वि- भजति तथा तत्तत्पुरातत्त्व- मिश्रणादुत्तरोत्तरम् । सर्वा शिवीभवेत्तत्त्वा- वली शुद्धान्यथा पृथक् ॥६२॥ तथेति उक्तेन प्रकारेण । अन्यथेति अशुद्धा। पृथगिति शिवादतिरिक्तं हि वस्तु पाश एवे- त्याशयः। यदुक्तं प्राक 'पराच्छिवादुक्तरूपादन्यत्तत्पाश उच्यते । (८।२९२) इति ॥ ६२॥ २०
१५४
श्रीतन्त्रालोके।
अत एवाह
पृथक्त्वं च मलो माया-
भिधानस्तस्य संभवे ।
कर्मक्षयेऽपि नो मुक्ति-
र्भवेद्विग्रेश्वरादिवत् ॥६३॥
मायेति यदुक्तं
'भिनवेद्यप्रथात्रैव मायाख्यं.........।' (ई०प्र०३।२।५)
इति ॥ ६३ ॥
एतच्च सर्वमेव प्रायुक्तं तत्त्वान्तरेष्वतिदिशति
ततोऽपि जलतत्त्वस्य
वह्नौ व्योम्नि चिदात्मके।
आह्वानाद्यखिलं याव-
तेजस्यस्य विमिश्रणम् ॥६४॥
एवं क्रमाकलातत्त्वे
शुद्ध पाशं भुजाश्रितम् ।
छिन्द्यात्कला हि सा किंचि-
कर्तृत्वोन्मीलनात्मिका॥६५॥
१५५ ६८ श्लो०] सप्तदशमाह्निकम् । कर्माख्यमलजृम्भात्मा तं च ग्रन्थि स्त्रुगग्रगम् । पूर्णाहुत्या समं वह्नि- मन्त्रतेजसि निर्दहेत् ॥६६॥ एवमिति पूर्वोक्तेनैव क्रमेण । ननु कलात- त्त्वशुख्यनन्तरं भुजाश्रितस्य पाशस्य छेदे को- ऽभिप्राय इत्याशङ्कयाह कलेत्यादि । तमिति भुजाश्रितपाशसूत्रगतम् ॥६६ ॥ ननु सर्वगं मात्रं तेज इति किं वह्निमात्रा- श्रयणेनेत्याशङ्कयाह मन्त्री हि विश्वरूपः स- नुपाश्रयवशात्तथा। व्यक्तरूपस्ततो वह्नौ पाशप्लोषविधायकः ॥६७॥ तथेति वह्नितया । पाशप्लोषो हि तस्यानुगु- ण्यमित्यभिप्रायः ॥ ६७॥ ननु अमूर्तस्यास्य को नाम प्लोष इत्याश- याह
१५६
श्रीतन्त्रालोके ।
लुष्टो लीनस्वभावोऽसौ
पाशस्तं प्रति शम्भुवत् ।
परमेशमहातेजः-
शेषमात्रत्वमश्नुते ॥६॥
अत्रैव अहं दर्शयति
कर्मपाशेऽत्र होतव्ये
पूर्णयास्य शुभाशुभम्।
अशुभं वा भवद्भूतं
भावि वाथ समस्तकम् ॥६९॥
दहामि फत्रयं वौष-
डिति पूर्णां विनिक्षिपेत् ।
एवं मायान्तसंशुद्धौ
कण्ठपाशं च होमयेत् ॥ ७० ॥
पूर्णस्य तस्य मायाख्यं
पाशभेदप्रथात्मकम् ।
दहामि फटनयं वौष-
डिति पूर्णां क्षिपेद्गुरुः ॥ ७१॥
७३ श्लो०] सप्तदशमाहिकम् ।
१५७
निर्बीजा यदि कार्यातु
तदात्रैवापरां क्षिपेत् ।
पूर्णां समयपाशाख्य-
बीजदाहपदान्विताम् ॥७२॥
अशुभमिति लोकर्मिविषयतया। अत्रैवेति
कण्ठपाशहोमे । अपरामिति द्वितीयाम् । सम-
येति समयपाशाख्यबीजं दहामीति ॥७२॥
ननु निर्बीजदीक्षायां कथमिहाविशेषेणैव
समयपाशदाह उक्तो यत्र तु गुरुदेवादी भक्ति-
रपि समयत्वेनाम्नाता-इत्याशङ्कयाह
गुरौ देवे तथा शास्त्रे
भक्तिः कार्यास्य नह्यसौ।
समयः शक्तिपातस्य
स्वभावो ह्येष नो पृथक् ॥७३॥
अस्य निर्बीजदीक्षादीक्षितस्य गुर्वादौ भक्तिः
कार्यत्वेन संभवति, न पुनरसौ समयः, यत् .
'तस्यैव तु प्रसादेन भक्तिरुत्पद्यते नृणाम् ।' (म०भार०)
इत्यादिनीत्या शक्तिपातस्यैव एष खभावो न पृ-
थक् ततोऽतिरिक्तमेतत्, न किंचिदित्यर्थः ॥७३॥
१५८ श्रीतन्त्रालोके। शुद्धाध्वशुद्धौ हि विशेष दर्शयितुमाह मायान्ते शुद्धिमायाते वागीशी या पुराभवत् । माया शक्तिमयी सैव विद्याशक्तित्वमनुते ॥७४॥ तच्छुद्धविद्यामाहूय विद्याशक्ति नियोजयेत्। एवं क्रमेण संशुद्धे सदाशिवपदेऽप्यलम् ॥७५॥ शिखां ग्रन्थियुतां छित्त्वा मलमाणवकं दहेत् । तदुक्तं 'ततस्तच्छोध्ययोनीनां व्यापिनी योनिमानयेत् । मायान्तेऽध्वनि तामेव शुद्धे विद्यां विचक्षणः॥' (मा०वि० ९।५७) इति । प्रन्थियुक्तामिति नतु प्राग्वदन्थिमात्रम् ॥ नन्वत्राणवं मलं दहेदित्येव कस्मादुक्तं यद्रे- दप्रथात्मा मायीयोऽपि मलोऽत्र संभाव्य एवे. त्याशङ्कयाह.
७८ श्लो०] सप्तदशमाह्निकम् ।
१५९
यतोऽधिकारभोगाख्यौ
हौ पाशौ तु सदाशिवे ॥७६॥
इत्युक्त्याणवपाशोऽत्र
मायीयस्तु निशावधिः।
शिष्यो यथोचितं नाया-
दाचामेदेशिकः स्वयम् ॥७७॥
आणवाख्ये विनिर्दग्धे
ह्यधोवाहिशिखामले।
उत्त्येति मतङ्गादौ । यथोचितमिति
'गृहस्थानां जलेनैव नैष्ठिकानां तु भसना।'
इति । अधोवाहिशिखेति तत्प्रधान इत्यर्थः, अत
एव प्राक्
'अधोवहा शिखाणुत्वं ..............।' (श्लो०५)
इत्याधुक्तम् ॥
एवं पाशदाहमभिधाय योजनिकामाह
ततः प्रागुक्तसकल-
प्रमेयं परिचिन्तयन् ॥ ७८॥
१६० श्रीतन्त्रालोके। शिष्यदेहादिमात्मीय- देहप्राणादियोजितम् । कृत्वात्मदेहप्राणादे- विश्वमन्तरनुस्मरेत् ॥७९॥ उक्तप्रक्रियया चैवं दृढबुद्धिरनन्यधीः । प्राणस्थं देशकालाध्व- युगं प्राणं च शक्तिगम् ॥८॥ तां च संविद्गतां शुद्धां संविदं शिवरूपिणीम् । शिष्यसंविदभिन्नां च मन्त्रवह्नयाद्यभेदिनीम् ॥ ८१॥ ध्यायन् प्राग्वत्प्रयोगेण शिवं सकलनिष्कलम् । यात्मकं वा क्षिपेत्पूर्णी प्रशान्तकरणेन तु॥८२॥ शक्तिगमिति कालशक्तिगतमित्यर्थः । द्या- ८५ श्लो०] सप्तदशमाहिकम्। त्मकमिति सकलनिष्कलोभयखभावमित्यर्थः । प्रागुक्तेति उक्तप्रक्रिययेति प्राग्वदिति च अनेन षोडशपञ्चदशाहिकादौ एतद्विस्तरेणोक्तमिति स्मारितम् , अत एव एतदस्माभिरपि ग्रन्थविस्तर- भयान्नेह वितानितम् ॥ ८२॥ नच एतदस्मदुपज्ञमेवेत्याह उक्तं शिरसे तन्त्रे सर्वसंपूरणात्मकम्। मूलादुदयगत्या तु शिवेन्दुपरिसंप्लुतम् ॥ ८३॥ जन्मान्तमध्यकुहर- मूलस्रोतःसमुत्थितम् । शिवार्करश्मिभिस्तीत्रैः क्षुब्धं ज्ञानामृतं तु यत् ॥४॥ तेन संतर्पयेत्सम्यक् प्रशान्तकरणेन तु । यन्नाम जन्माधारद्वादशान्तहृदयान्येव मु- ख्याधिष्ठानस्थानत्वात् अववरकप्रायाणि कुहरा-
१६२
श्रीतन्त्रालोके।
णि यस्यैवंविधादाद्यशक्तिपरिस्पन्दात्मनो मूल-
स्रोतसः समुत्थितम् , अत एव मूलाधारादूर्ध्व-
गमनेन शिवात्मनः प्राणादित्यस्य तीक्ष्णाभिः
कलाभिः क्षुब्धं बहिर्मुखीभूतं सत् द्वादशान्तः-
स्थेन शिवेन्दुना परितः संप्लुतं खात्ममयतामा-
पादितम् , अत एव सर्वपूणात्मकं
'प्राक् संवित्प्राणे परिणता।
इति नीत्या परसंविदाद्यविजृम्भात्मकं ज्ञान-
मेवामृतं तेन, सम्यक् प्रशान्तेन मनसा अर्था-
दुक्तस्वरूपं मनचक्र संतर्पयेत् पूर्णाहुतिप्रक्षेपण
खखरूपपरिनिष्ठितं कुर्यादित्यर्थः ॥
ननु करणस्य प्रशान्तत्वं नाम किमुच्यते
इत्याशङ्कयाह
शून्यधामाब्जमध्यस्थ-
प्रभाकिरणभास्वरः॥८५॥
आधेयाधारनिःस्पन्द-
बोधशास्त्रपरिग्रहः।
जन्माधेयप्रपञ्चैक-
स्फोटसंघघट्टनः॥८६॥
८७ श्लो.] सप्तदशमाहिकम् । १६३ मूलस्थानात्समारभ्य कृत्वा सोमेशमन्तगम्। खमिवातिष्ठते याव- प्रशान्तं तावदुच्यते ॥ ८७॥ इह खल्लु आचार्यः शून्यधाम्नि मूलाधारे 'कोणत्रयान्तराश्रित- नित्योन्मुखमण्डलच्छदे कमले।' (२९।१५०) इति वक्ष्यमाणनीत्या यदब्जंतन्मध्यस्थितायाः प्रभायाः शक्तेः किरणैर्भाखरस्तद्रश्मिसंस्पर्शोत्ते- जितः, अत एव प्राणादावाधेये जन्मस्थानादा- वाधारे च निःस्पन्दस्य एकेनैव रूपेण वर्तमा- नस्य शक्तिप्रबोधोदितस्य बोधस्य शास्त्रेण तदु- तयुक्त्या कृतपरिग्रहः, अत एवोक्तरूपयोर्जन्मा- धारप्राणलक्षणयोराधाराधेययोः प्रपञ्चस्यैकेन अनाहतध्वन्यात्मनः स्फोटस्य संघटेन तत्सा- मरस्येन घट्टनं ग्रासः तत्कारीत्यर्थः, अत एव मूलाधारादुदेत्य शनैः शनैः प्राणार्कग्रस्तम- पानचन्द्रं द्वादशान्तगंकृत्वा यावत् आ समन्तात् खमिव तिष्ठते, तावत्प्रशान्तमुच्यते ग्राह्यग्राहक- विभागविगलनात् उन्मनीभावमापन्नमित्यर्थः ॥
१६४
श्रीतन्त्रालोके ।
एतच्च अस्मच्छास्त्रेऽप्युक्तमित्याह
उक्तं श्रीपूर्वशास्त्रे च
स्रुचमापूर्य सर्पिषा ।
कृत्वा शिष्यं तथात्मस्थं
मूलमन्त्रमनुस्मरन् ॥८८॥
शिवं शक्तिं तथात्मानं
शिष्यं सर्पिस्तथानलम्।
एकीकुर्वञ्छनैर्गच्छे-
द्वादशान्तमनन्यधीः ॥ ८९॥
तत्र कुम्भकमास्थाय
ध्यायन्सकलनिष्कलम् ।
तिष्ठेत्तावदनुद्विग्नो
यावदाज्यक्षयो भवेत् ॥९॥
मूलमन्त्रमिति दित्सितम् । कुम्भकमास्थायेति
महाव्योमात्मनि, तत्र शिवशक्तिभ्यां नरात्मक-
मन्यत्सर्व सामरस्यं प्रापय्येत्यर्थः। सकलनिष्कल-
मिति योजनिकौचित्यात् । अनुद्विग्न इति पूर्ण-
संवित्खभावस्खात्ममात्रविश्रान्त इत्यर्थः ॥९॥
९४ श्लो.]
सप्तदशमाह्निकम् ।
१६५
देहपाते पुनः
एवं सति किं स्यादित्याह
एवं युक्तः परे तत्त्वे
गुरुणा शिवमूर्तिना।
न भूयः पशुतामेति
दग्धमायानिबन्धनः ॥९॥
भोगदीक्षायां पुनरियान् विशेष इत्याह
प्रेप्से-
द्यदि तत्त्वेषु कुत्रचित् ।
भोगान् समस्तव्यस्तत्व-
भेदैरन्ते परं पदम् ॥९२॥
तदा तत्तत्त्वभूमौ तु
तत्संख्यायामनन्यधीः।
पुनर्योजनिकां कुर्या-
त्पूर्णाहुत्यन्तरेण तु ॥९३॥
मुक्तिप्रदा भोगमोक्ष-
प्रदा वा या प्रकीर्तिता।
दीक्षा सा स्यात्सबीजत्व-
निर्बीजात्मतया द्विधा॥९४॥
श्रीतन्त्रालोके। बाले निर्मातमरणे त्वशक्ते वा जरादिभिः। कार्या नि/जिका दीक्षा शक्तिपातबलोदये ॥१५॥ निर्बीजायां सामयांस्तु पाशानपि विशोधयेत् । कृतनिर्बीजदीक्षस्तु देवाग्मिगुरुभक्तिभाक् ॥ ९६॥ इयतैव शिवं यायात् सद्यो भोगान् विभुज्य वा। समस्तेति सायुज्ये हि भोगानां सामस्त्यं सालोक्यादौ तु व्यस्तत्वमिति । तत्संख्याया- मिति तस्य सम्यक् प्रथितायामभीप्सितायामि- त्यर्थः। सद्य इति दीक्षानन्तरम् । भोगान् वि- भुज्येति देहपाते॥ ननु शिवं यायादित्यत्र उक्त एव योजनि- काक्रमः किं निमित्तमुतान्यदपि किंचिदित्या- शङ्कयाह १०० श्लो.] सप्तदशमाद्विकम् । . श्रीमदीक्षोत्तरे चोक्तं चारे षट्रिंशदङ्गुले ॥९७ ॥ तत्त्वान्यापादमूर्धान्तं भुवनानि त्यजेत्क्रमात् । तुटिमात्रं निष्कलं त- ददेहं तदहंपरम् ॥९८॥ शक्त्या तत्र क्षिपाम्येन- मिति ध्यायंस्तु दीक्षयेत् । तदिति परब्रह्मखरूपमित्यर्थः, अतएव निष्क- लमिति अदेहमिति चोक्तम् । अहंपरमिति अहं- परामर्शखभावमित्यर्थः॥ एवमेतत्प्रसङ्गादभिधाय प्रकृतमेवाह सबीजायां तु दीक्षायां समयान्न विशोधयेत् ॥ ९९॥ विशेषस्त्वयमेतस्यां यावजीवं शिशोर्गरुः।
श्रीतन्त्रालोके।
शेषवृत्त्यै शुद्धतत्त्व-
सृष्टिं कुर्वीत पूर्णया ॥ १०॥
कथं चात्र शुद्धतत्त्वदृष्टिं कुर्यादित्याशङ्कयाह
अभिन्नाच्छिवसंबोध-
जलधेर्युगपत्स्फुरत् ।
पूर्णां क्षिपस्तत्त्वजालं
ध्यायेदारूपकं सृतम् ॥१०१॥
शिवसंबोधजलधेः मृतं तत्त्वजालं ध्याये-
दिति संबन्धः ॥ १०१॥
अत्रैव मतान्तराण्युद्दिशति
विशुद्धतत्त्वसृष्टिं वा
कुर्यात्कुम्भाभिषेचनात् ।
तथा ध्यानबलादेव
यहा पूर्णाभिषेचनैः ॥१०२॥
अभिषेचनैरिति
बहुवचनात्
ध्यानवलमपि
संग्रहीतं, तेन सामस्त्येनायं पक्षः॥ १०२ ॥
१०६को०] सप्तदशमाहिकम् । शुद्धत्वमेवैषां दर्शयति पृथिवी स्थिररूपास्य शिवरूपेण भाविता। स्थिरीकरोति तामेव भावनामिति शुद्ध्यति ॥१०॥ जलमाप्याययत्येनां तेजो भास्वरतां नयेत् । मरुदानन्दसंस्पर्श व्योम वैतत्यमावहेत् ॥१०४॥ एवं तन्मात्रवर्गोऽपि शिवतामय इष्यते। परानन्दमहाव्याप्ति- रशेषमलविच्युतिः॥ १०५॥ शिवे गन्तृत्वमादान- मुपादेयशिवस्तुतिः। शिवामोदभरास्वाद- दर्शनस्पर्शनान्यलम् ॥१०॥ २२ १७० श्रीतन्त्रालोके। तदाकर्णनमित्येव- मिन्द्रियाणां विशुद्धता। संकल्पाध्यवसामानाः प्रकाशो रक्तिसंस्थिती॥१०७॥ शिवात्मत्वेन यत्सेयं शुद्धता मानसादिके। नियमो रञ्जनं कर्तृ- भावः कलनया सह ॥१०८॥ वेदनं हेयवस्त्वंश- विषये सुप्तकल्पता। इत्थं शिवैक्यरूढस्य षट्चकगणोऽप्ययम् ॥ १०९॥ शुद्ध एव पुमान् प्राप्त- शिवभावो विशुद्ध्यति । विद्येशादिषु तत्त्वेषु नैव काचिदशुद्धता॥ ११०॥ इत्येवं शुद्धतत्त्वानां सृष्ट्या शिष्योऽपि तन्मयः।
१११ श्लो०] सप्तदशमाहिकम् ।
भवेद्येतत्सूचितं श्री-
मालिनीविजयोत्तरे ॥१११॥
शुध्यतीति शुद्धा भवतीत्यर्थः । एनामिति
शिवरूपतया भावनाम् । आवहेदिति अर्थाद्धा-
वनायाः। एवमिति शिवभावनाया एव स्थि-
रीकरणादिना । आस्वादस्य रसनेन्द्रियव्यापा-
रत्वेऽपि आमोदशब्दसंनिधेर्घाणेन्द्रियव्यापार-
त्वमपि ज्ञेयमित्यभिधालक्षणाभ्यामाखादशब्दो
व्याख्येयः । इन्द्रियाणामिति आनन्देन्द्रिया-
दीनाम् । मानोऽभिमानोऽहंकारव्यापारः । प्र-
काश इति एतद्धि सत्त्वरजस्तमसां क्रमेण रूपं
यत्तत्साम्यं प्रकृतिः । नियमादि चात्र शिवेक्य-
रूढतया व्याख्येयम्। सुप्तकल्पतेति अनवक्लप्ति-
परतेत्यर्थः। एवमेषां शिवैकविश्रान्तत्वमेव नाम
शुद्धत्वमित्यत्र तात्पर्यम् , अत एवानेन तत्त्वा-
नामशुद्धत्वेऽपि शुद्धतया सृष्टेरध्वभेदोऽपि क-
टाक्षितः। नच एतदस्माभिरनागमिकमुक्तमि-
त्याह ह्येतदित्यादि । सूचितमिति इन्द्रियमा-
त्रपरत्वेनाभिधानात् ॥ १११ ॥
श्रीतनाकोके। तदेव शब्दार्थाभ्यां पठति बन्धमोक्षावुभावेता- विन्द्रियाणि जगुर्बुधाः। निगृहीतानि बन्धाय विमुक्तानि विमुक्तये ॥ ११२॥ निगृहीतत्वं विमुक्तत्वं च खयमेव भगवान् एतानि व्यापके भावे यदा स्युर्मनसा सह। मुक्तानि कापि विषये रोधाद्वन्धाय तानि तु ॥११॥ इत्येवं द्विविधो भावः शुद्धाशुद्धप्रभेदतः। इन्द्रियाणां समाख्यातः सिद्धयोगीश्वरे मते ॥ ११४॥ यदुक्कं तत्र 'एतानि व्यापके भावे यदा स्युर्मनसा सह । विमुक्तानीति विद्वद्भिातव्यानि तदा प्रिये ॥
११७ श्लो०] सप्तदशमाहिकम् । यदा तु विषये कापि प्रदेशान्तरवर्तिनि । संस्थितानि तदा तानि बद्धानीति प्रचक्षते ॥ (१५/४५) इति ॥ ११४॥ गुरुभिरपि एवमेवोक्तमित्याह श्रीमान् विद्यागुरुस्त्वाह प्रमाणस्तुतिदर्शने। अत्रैव मन्त्राणां विनियोगे नियममभिधा- तुमाह समस्तमन्त्रैर्दीक्षायां नियमस्त्वेष कथ्यते ॥११॥ मायान्तशुद्धौ सर्वाः स्युः क्रिया ह्यपरया सदा। ब्यात्मया सकलान्ते निष्कले परयैव तु ॥११६ ॥ ईशान्ते च पिवन्यादि सकलान्तेऽङ्गपञ्चकम् । इत्येवंविधिमालोच्य कर्म कुर्याद्गुरूत्तमः ॥११७॥ तु
१७४
श्रीतन्त्रालोके।
भुवनाध्वप्राधान्येन
सर्वाः क्रिया इत्यनुक्तमन्त्राः । यात्मयेति
परापरया। यदुक्तं
'मायान्तमार्गसंशुद्धौ दीक्षाकर्मणि सर्वतः।
क्रियाखनुक्तमत्रासु योजयेदपरां बुधः
विद्यादिसकलान्ते च तद्वदेव परापराम् ।
योजयेच्चेश्वरार्ध्व पिवन्यादिकमष्टकम् ।।
न चापि सकलादूर्ध्वमङ्गषट्वं विचक्षणः ।
निष्कले परया कार्य यत्किचिद्विधिचोदितम् ॥
(मा०वि० ९/७४)
इति ॥ ११७ ॥
उक्तामाहुतिसंख्यामित-
राध्वसु अधिकावापेनातिदिशति
पुराध्वनि हुतीनां या
संख्येयं तत्त्ववर्णयोः।
तामेव द्विगुणीकुर्या-
त्पदाध्वनि चतुर्गुणाम् ॥११८
क्रमान्मन्त्रकलामार्गे
द्विगुणा द्विगुणा क्रमात् ।
यावत्रितत्त्वसंशुद्धौ
स्यादिशतिगुणा ततः ॥११९॥
१७५
१२२ श्लो०] सप्तदशमाहिकम् ।
प्रतिकर्म भवेत्षष्टि-
राहुतीनां त्रितत्त्वके।
एकतत्त्वे शतं प्राहु-
राहुतीनां तु साष्टकम् ॥१२०॥
येयं संख्येति प्रागुक्ता त्र्यादिरूपा। द्विगुणी-
कुर्यादिति तत्त्वाध्वनि भुवनादीनामन्तर्भावात्
यावद्भुवनाध्यापेक्षया कलाध्वनि षोडशगुणा
संख्या भवेदिति भावः। षष्टिरिति आहुतीनां
त्रयस्य विंशत्या गुणनात् । प्राहुरित्यर्थात्
प्रतिकर्म ॥ १२० ॥
नच सर्वत्राविशेषेणैवायमतिदेश इत्याह
विलोमकर्मणा साक
याः पूर्णाहुतयः स्मृताः।
तासां साध्वसंशुद्धौ
संख्यान्यत्वं न किंचन १२१
एतदेव प्रथमार्धेनोपसंहरति
इत्येषा कथिता दीक्षा
जननादिसमन्विता ॥ १२२॥
१०
श्रीतनालोके।
- -
जननादिसमन्वितेति विस्ततेत्यर्थ इति
शिवम् ॥
दीक्षाकर्मणि साक्षाचक्षण्यं कटाक्ष्यन् गुरुतः।
सप्तदशाविकसिङ्गरचनामा यधच विकृतिमिमाम् ॥
इति श्रीउनालोकविवेके विक्षिप्तदीक्षाप्रकाशनं नाम
सप्तदशमाहिङ्गम् ॥ १७॥
अथ श्रीतन्त्रालोके श्रीमन्महामाहेश्वराचार्याभिनवगुप्तविरचिते श्रीजयरथकृतविवेकाख्यटीकोपेते अष्टादशमाह्निकम् । ऋतधामानमनन्तं बलावहं तं वलावहं वन्दे । जगदिदममन्दमखिलं खमहिना योऽनुगृह्णाति ॥ इदानी द्वितीयार्धेन संक्षिप्तां दीक्षां वक्तुमाह अथ संक्षिप्तदीक्षेयं शिवतापत्तिदोच्यते। तदेवाह न रजो नाधिवासोऽत्र न भूक्षेत्रपरिग्रहः । यत्र तत्र प्रदेशे तु पूजयित्वा गुरुः शिवम् ॥ १॥ अध्वानं मनसा ध्यात्वा दीक्षयेत्तत्त्वपारगः। २३
१७८
श्रीतन्त्रालोके ।
जननादिविहीनां तु
येन येनाध्वना गुरुः ॥२॥
कुर्यात्स एकतत्त्वान्तां
शिवभावकभावितः।
मनसेति नतु पाशसूत्रादिकल्पनेन । तत्त्व.
पारग इति नतु अतत्त्वपारगः, नहि तस्य एवं-
विधे कर्मणि अधिकार एव भवेदिति भावः।
यद्वक्ष्यति
'यथा यथा च स्वभ्यस्तज्ञानस्तन्मयतात्मकः ।
गुरुस्तथा तथा कुर्यात्संक्षिप्तं कर्म नान्यथा ॥ (८)
इति ॥
एवं जननादिविहीनत्वमभिधाय मनभे-
दमाह
परामन्त्रस्ततोऽस्यति
तत्त्वं संशोधयाम्यथ ॥३॥
वाहेति प्रतितत्त्वं स्या-
च्छुद्धे पूर्णाहुतिं क्षिपेत् ।
एवं मन्त्रान्तरैः कुर्या-
समस्तैरथवोक्तवत् ॥४॥
६ श्लो०]
अष्टादशमाह्निकम् ।
१७९
परासंपुटितं नाम
स्वाहान्तं प्रथमान्तकम् ।
शतं सहस्रं साष्टं वा
तेन शक्त्यैव होमयेत् ॥५॥
ततः पूर्णेति संशोध्य-
हीनमुत्तममीदृशम्।
दीक्षाकर्मोदितं तत्र
तत्र शास्त्रे महेशिना ॥६॥
शक्त्यैवेति यथाशक्ति, तेन देशकालाधनु-
सारं शतहोमः सहस्रहोमो वा कार्य इत्यभि-
प्रायः । संशोध्यहीनमिति नह्यत्र मनसापि
अध्वन्यासादि किंचित्कार्यमित्यर्थः। तत्र तत्रेति
किरणादौ । यदुक्तं तत्र
'दीक्षामन्यां प्रवक्ष्यामि शिवतत्त्वसमायुताम् ।
आदौ प्रणवसंयुक्तां शिवमन्तेऽणुवाचकम् ॥
नाम कृखा ततः शंभुः संपुटीकृत्य होमयेत् ।
एवं साहस्त्रिको होमः पाशत्रयवियोजकः ।।
जननादिवियोगेन दीक्षेयं दुर्लभा खग ।'
इति ॥६॥
१८०
श्रीतन्त्रालोके ।
अत्रापि मन्त्रभेदमाह
प्रत्येकं मातृकायुग्म-
वर्णैस्तत्त्वानि शोधयेत् ।
यदि वा पिण्डमन्त्रेण
सर्वमन्त्रेष्वयं विधिः ॥७॥
युग्मेति मातृकामालिनीरूपस्य । अयं वि-
धिरिति यथोदितोहरूपः ॥७॥
नच एतद्गुरुमात्रकार्यमित्याह
यथा यथा च स्वभ्यस्त-
ज्ञानस्तन्मयतात्मकः।
गुरुस्तथा तथा कुर्यात्
संक्षिप्तं कर्म नान्यथा ॥ ८॥
ननु विस्तृतायां दीक्षायां स्वभ्यस्तज्ञानत्वं
गुरोरुपादेयं, संक्षिप्तायां किं तेनेत्याशङ्कां गर्भी-
कृत्यागममेव संवादयति
श्रीब्रह्मयामले चोक्तं
संक्षिप्तेऽपि हि भावयेत् ।
व्याप्तिं सर्वाध्वसामान्यां
किंतु यागे न विस्तरः ॥९॥
११ श्लो०]
अष्टादशमाह्निकम् ।
१८१
याग इति यजिक्रियारूपायामितिकर्तव्य-
तायामित्यर्थः ॥९॥
ननु यद्येवं, तद्बहुवित्तव्ययायाससाध्येन वि.
स्तृतेन कर्मणा कोऽर्थ इत्याशङ्कयाह
अतन्मयीभूतमिति
विक्षिप्तं कर्म सन्दधत् ।
क्रमात्तादात्म्यमेतीति
विक्षिप्तं विधिमाचरेत् ॥१०॥
आह्निकार्थमेवोपसंहरति
संक्षिप्तो विधिरुक्तोऽयं
कृपया यः शिवोदितः।
दीक्षोत्तरे कैरणे च
तत्र तत्रापि शासने ॥११॥
इति शिवम् ॥ ११॥
संक्षिप्तमोक्षदीक्षाकर्मप्रावीण्यसोत्कर्षः ।
व्याकार्षीदष्टादशाह्निकमेतजयरथाख्यः ।।
इति श्रीतन्त्रालोकविवेके संक्षिप्तदीक्षाप्रकाशनं नाम
अष्टादशमाह्निकम् ॥ १८॥
अथ
श्रीतन्त्रालोके ।
श्रीमन्महामाहेश्वराचार्याभिनवगुप्तविरचिते
श्रीजयरथकृतविवेकाख्यटीकोपेते
एकान्नविंशमाह्निकम् ।
भवभेदविभवसंभवसंभेदविभेदबलवन्तम् ।
बलवन्तं नौमि विभुं दारुणरूपग्रहाग्रहतः॥
इदानीं श्लोकार्धेन सद्योनिर्वाणदीक्षां नि-
रूपयितुं प्रतिजानीते
अथ सद्यःसमुत्क्रान्ति-
प्रदा दीक्षा निरूप्यते।
ननु यदधिकारेणायं ग्रन्थः प्रवृत्तस्तत्र ता-
वदियं स्फुटाक्षरं नोक्ता, तदिहास्या निरूपणेन
कोऽर्थ
इत्याशङ्कयाह
तत्क्षणाच्चोपभोगाहा
देहपाते शिवं ब्रजेत् ।
४ श्लो०]
एकानविंशमाह्निकम् ।
१८३
इत्युक्त्या मालिनीशास्त्रे
सूचितासौ महेशिना ॥१॥
नच एतत्वोपज्ञमेवास्माभिरुक्तमित्याह
देहपाते समीपस्थे
शक्तिपातस्फुटत्वतः।
आसाद्य शांकरीं दीक्षां
तस्माद्दीक्षाक्षणात्परम् ॥२॥
शिवं ब्रजेदित्यर्थोऽत्र
पूर्वापरविवेचनात् ।
व्याख्यातः श्रीमतास्माकं
गुरुणा शम्भुमूर्तिना ॥३॥
समीपस्थ इति द्वित्र्यादिक्षणभाविनि ॥३॥
एवमपि शक्तिपातस्य वैचित्र्यं दर्शयति
यदा ह्यासन्नमरणे
शक्तिपातः प्रजायते।
तत्र मन्देऽथ गुर्वादि-
सेवयायुः क्षयं ब्रजेत् ॥४॥
१८४ श्रीतन्त्रालोके। अथवा बन्धुमित्रादि- द्वारा सास्य विभोः पतेत् । पूर्व वा समयी नैव परां दीक्षामवाप्तवान् ॥५॥ आप्तदीक्षोऽपि वा प्राणा- जिहासुः क्लेशवर्जितम् । अन्त्यान्गुरुस्तदा कुर्या- त्सद्यउत्क्रान्तिदीक्षणम् ॥६॥ आयुः क्षयं ब्रजेदिति तत्क्षये समयी सं- भाव्यमान इत्यर्थः । सेति शक्तिः, तेन आस- नमरणस्य गुरुसेवया स्वयमेवमसामर्थ्य बन्धु- मित्राद्यभ्यर्थनया लक्षितपारमेश्वरशक्तिपातस्य सद्यउत्क्रान्तिदीक्षा कार्येति तात्पर्यम् । समयी- त्यर्थात् मध्ये शक्तिपाते, आप्तदीक्ष इत्यर्थात् तीने । अन्त्यानिति यियासूनित्यर्थः ॥ ६॥ नच असमय एवैषामेतत्कार्यमित्याह नत्वपक्कमले नापि शेषकार्मिकविग्रहे।
९ श्लो०] एकानविंशमाह्निकम् । कुर्यादुत्क्रमणं श्रीम- गह्वरे च निरूपितम् ॥७॥ दृष्ट्वा शिष्यं जराग्रस्तं व्याधिना परिपीडितम् । उत्क्रमय्य ततस्त्वेनं परतत्त्वे नियोजयेत् ॥८॥ अपक्कमल इत्यनायातशक्तिपात इत्यर्थः । शेषकार्मिकविग्रह इति अनासन्नमरण इति यावत् । नच एतयुक्तिमात्रसिद्धमेवेत्याह श्रीम- गह्वर इति ॥ ८॥ नच अयमासन्नमरणत्वाभिधानपर एवागम इत्याह विशेषणविशेष्यत्वे कामचारविधानतः। पूर्वोक्तमर्थजातं श्री- शम्भुनात्र निरूपितम् ॥९॥ यदा हि शिष्यस्य विशेष्यत्वं जराग्रस्तत्वा- देश्च विशेषणत्वं तदा शिष्यस्य प्राप्तसमयादि- २४ १८६ श्रीतन्त्रालोके । दीक्षस्य सद्यःसमुत्क्रान्तिदीक्षेति पूर्व वा स- मयीत्यायुक्तं भेदद्वयं, व्यत्यये तु जराग्रस्तस्य सतः शिष्यत्वे गुर्वादिसेवयेत्यायुक्तं भेदवय- मित्युक्तम् । अत्र श्रीशम्भुना पूर्वोक्तमर्थजातं निरूपितमिति ॥९॥ एवमेतदुचितं कालमपेक्ष्य क्षुरिकादिन्या- समभिधत्ते विधिं पूर्वोदितं सर्व कृत्वा समयशुद्धितः। क्षुरिकामस्य विन्यस्ये- ज्वलन्ती मर्मकर्तरीम् ॥१०॥ एतन्न्यासश्चास्मदागम एवोक्त इत्याह कृत्वा पूर्वोदितं न्यास कालानलसमप्रभम्। संहतिक्रमतः सार्धं सृक्छिन्दियुगलेन तु॥ ११॥ आग्नेयीं धारणां कृत्वा सर्वमर्मप्रतापनीम् ।
१८७
१
१५ श्लो०]
एकानविंशमाह्निकम् ।
पूरयेद्वायुना देह-
मङ्गुष्ठान्मस्तकान्तकम् ॥१२॥
तमुत्कृष्य ततोऽङ्गुष्ठा-
दूर्ध्वान्तं वक्ष्यमाणया।
कृन्तेन्मर्माणि रन्ध्रान्तात्
कालरात्र्या विसर्जयेत्॥१३॥
अनेन क्रमयोगेन
योजितो हुतिवर्जितः।
समय्यप्येति तां दीक्षा-
मिति श्रीमालिनीमते॥१४॥
वक्ष्यमाणयेति त्रिंशाह्निके । हुतिवर्जित
इत्यनुसन्धानमात्रेणेत्यर्थः ॥ १४ ॥
अत्रैव पक्षान्तरं दर्शयति
षोडशाधारषट्चक्र-
लक्ष्यत्रयखपञ्चकात् ।
कचिदन्यतरत्राथ
प्रागुक्तपशुकर्मवत् ॥ १५॥
श्रीतन्त्रालोके। प्रविश्य मूलं कन्दादे- श्छिन्दन्नैक्यविभावनात् । पूर्णाहुतिप्रयोगेण स्वेष्टे धाग्नि नियोजयेत् ॥१६॥ कचिदिति एकत्र । अन्यतरत्रेति ग्रन्थिद्वाद- शकादौ । तदुक्तं 'मेद्रस्याधः कुलो ज्ञेयो मध्ये तु विषसंज्ञकः । मूले तु शाक्तः कथितो बोधनादप्रवर्तकः॥ अग्निसंज्ञस्ततश्चोर्चे अङ्गुलानां चतुष्टये । नाभ्यधः पवनाधारो नाभावेव घटाभिधः ॥ नाभिहत्पनमार्गे तु सर्वकामाभिधो मतः। संजीवन्यभिधानोऽन्यो हृत्पद्मोदरमध्यगः ॥ वक्षःस्थले स्थितः कूर्मों गले लोलाभिधः स्मृतः । लम्बकस्य स्थितश्चोर्चे सुधासारः सुधात्मकः ॥ तस्यैव मूलमाश्रित्य सौम्यः सौम्यकलाश्रितः। भूमध्ये गगनाभोगो विद्याकमलसंज्ञितः ॥ रौद्रस्तालुतलाधारो रुद्रशक्त्या त्वधिष्ठितः। चिन्तामण्यमिधानोऽन्यश्चतुष्पथनिवासकः ॥ ब्रह्मरन्ध्रस वै ह्यूचे तुर्याधारस्य मस्तके । नाड्याधारः परः सूक्ष्मो धनव्याप्तिप्रबोधकः ॥' her इति १९ श्लो०] एकानविंशमाह्निकम् । १८९ 'खमनन्तं तु जन्माख्ये नाभौ व्योम द्वितीयकम् । तृतीयं तु हृदि स्थाने चतुर्थं विन्दुमध्यतः॥ नादाख्यं तु समुद्दिष्टं षट्चक्रमधुनोच्यते । जन्माख्ये नाडिचक्रं तु नाभौ मायाख्यमुत्तमम् ॥ हृदिस्थं योगिचक्रं तु तालुस्थं भेदनं स्मृतम् । बिन्दुस्थं दीप्तिचक्रं तु नादस्थं शान्तमुच्यते ॥ अन्तर्लक्ष्यं बहिर्लक्ष्यं मध्यलक्ष्यं तृतीयकम् ।' इति च । प्रागिति षोडशाह्निके। पूर्णाहुतिप्र- योगेणेति तद्वदित्यर्थः ॥ १६ ॥ अत्रैव प्राधान्येनापि पक्षान्तरमाह ज्ञानत्रिशूलं संदीप्तं दीप्तचक्रत्रयोज्वलम्। चिन्तयित्वामुना तस्य वेदनं बोधनं भ्रमम् ॥ १७॥ दीपनं ताडनं तोदं चलनं च पुनः पुनः। कन्दादिचक्रगं कुर्या- द्विशेषेण हृदम्बुजे ॥१८॥ द्वादशान्ते ततः कृत्वा बिन्दुयुग्मगते क्षिपेत् ।
१९०
श्रीतन्त्रालोके ।
निर्लक्ष्ये वा परे धाम्नि
संयुक्तः परमेश्वरः ॥ १९॥
न तस्य कुर्यात्संस्कार
कंचिदित्याह गह्वरे।
देवः किमस्य पूर्णस्य
श्राद्धायैरिति भावितः ॥२०॥
ज्ञानं परा संविदेव, तदेव तत्तदाधारादिभेद-
नात् त्रिशूलम्। चक्रत्रयेत्यरात्रयरूपेण परादिना।
अमुनेति ज्ञानत्रिशूलेन । भ्रमं वामादिक्रमेणा-
वर्तनम् । तोदं प्रेरणम् । विशेषेणेति तद्धि
मुख्यं जीवस्याधिष्ठानम् । बिन्दुयुग्मगत इति
प्राणापानत्रोटरूप इत्यर्थः । तस्येति प्राप्तपार-
मेश्वर्यस्य ॥ २०॥
नच एतदस्मच्छास्त्र एवोक्तमित्याह
श्रीमदीक्षोत्तरे त्वेष
विधिर्वह्निपुटीकृतः।
हंसः पुमानधस्तस्य
रुद्रबिन्दुसमन्वितः ॥२१॥
मू
२४ श्लो०]
एकान्नविंशमाह्निकम् ।
शिष्यदेहे नियोज्यैत-
दनुद्विग्नः शतं जपेत् ।
उत्क्रम्योर्ध्वनिमेषेण
शिष्य इत्थं परं ब्रजेत् ॥२२॥
वह्निः रेफः। हंसः ह । पुमान् म । तस्येति
वह्निपुटीकृतस्य हंसस्य । रुद्र ऊकारः हूँ । एत-
दिति पिण्डाक्षरम् ॥ २२ ॥
एतदेव शास्त्रान्तरेऽपि अतिदिशति
एष एव विधिः श्रीम-
सिद्धयोगीश्वरीमते।
नच अयोगिनोऽत्राधिकार इत्याह
इयमुत्क्रामणी दीक्षा
कर्तव्या योगिनो गुरोः ॥२३॥
अनभ्यस्तप्राणचारः
कथमेनां करिष्यति।
वक्ष्यमाणां ब्रह्मविद्यां
सकलां निष्कलोम्भिताम् ॥२४॥
१९२ श्रीतन्त्रालोके। कर्णेऽस्य वा पठेद्भूयो भूयो वाप्यथ पाठयेत् । स्वयं च कर्म कुर्वीत तत्त्वशुद्धयादिकं गुरुः॥ २५॥ मन्त्रक्रियाबलात्पूर्णा- हुत्येत्थं योजयेत्परे। एवं शरीरगं चारमभिधाय ब्रह्मविद्याविधि- मभिधातुमाह वक्ष्यमाणामित्यादि । वक्ष्यमाणा- मिति त्रिंशे । निष्कलोम्भितामिति निष्कलया पञ्चाक्षरया विद्ययोम्भितां प्रतिवाक्यं संपुटिता- मित्यर्थः॥ ननु समनन्तरमेवोक्तं यदद्योगिना गुरुणा नेयं कार्या तत्कथमेतदिदानीमेवोच्यते इत्या- शङ्कयाह योगाभ्यासमकृत्वापि सद्यउत्क्रान्तिदां गुरुः ॥२६॥ ज्ञानमन्त्रक्रियाध्यान- बलात्कर्तुं भवेत्प्रभुः।
२९ श्लो०] एकानविंशमाह्निकम् । १९३ अत्र च ज्ञानादिसद्भावेऽपि ब्रह्मविद्याया एव प्राधान्यमित्याह अनयोत्क्रम्यते शिष्यो बलादेवैकक क्षणम् ॥ २७॥ कालस्योल्लय भोगो हि क्षणिकोऽस्यास्तु किं ततः सद्यउत्क्रान्तिदा चान्या यस्यां पूर्णाहुतिं तदा ॥२८॥ दद्याद्यदास्य प्राणाः स्यु- ध्रुवं निष्क्रमणेच्छवः। एक क्षणमिति यत्क्षणादनन्तरं स्वारसि- कमेव अस्य मरणं भवेदिति भावः । ननु येनेदं तद्धि भोगतः। इत्युक्त्या तत्क्षणभाविनोऽपि कर्मणो भोगं वि- नास्य कथङ्कारं प्रक्षयः स्यादित्याशङ्कयाह भोग इत्यादि । किं तत इति स्थितेनापि क्षीणप्रायेण तेन न कश्चिदर्थ इत्यर्थः । तदा दद्यादिति येनास्य तत्कालमेव प्राणा निर्यान्तीत्यर्थः, अ- २५ १९४ श्रीतन्त्रालोके । तश्च एकैकस्यापि कालक्षणस्य नात्र उल्लङ्घनं भवेदिति भावः॥ क्रियादिपरिहारेणापि ब्रह्मविद्याया एवात्र साधनत्वमस्तीत्याह विनापि क्रियया भावि- ब्रह्मविद्याबलाद्गुरुः ॥२९॥ कर्णजापप्रयोगेण तत्त्वकञ्चकजालतः। निःसारयन्यथाभीष्टे सकले निष्कले द्वये॥३०॥ तत्त्वे वा यत्र कुत्रापि योजयेत्पुद्गलं क्रमात् । यत्र कुत्रापीत्यनेन यथाभीष्टत्वमेव उपो- दलितम् ॥ न केवलं क्रियादेरेव परिहारेण अत्र अस्याः साधनत्वं, यावद्गुरोरपीत्याह समयी पुत्रको वापि पठेद्विद्यामिमां तथा ॥३१॥ तथेति यथा मुमूर्षुरिमां शृणुयादित्यर्थः ॥
३३ श्लो०]
एकानविंशमाह्निकम् ।
१९५
एवमस्य किं स्यादित्याशयाह
तत्पाठात्तु समय्युक्तां
रुद्रांशापत्तिमश्नुते।
तुशब्दो हेतौ, एतावता अस्य समयदीक्षा
भवेदित्यर्थः ॥
ननु कथमनयोर्गुरुवदेतत्पाठो न्याय्य इत्या-
शङ्कयाह
एतौ जपे चाध्ययने
यस्मादधिकृतावुभौ ॥३२॥
नाध्यापनोपदेशे वा
स एषोऽध्ययनाते।
नच अयमनयोरध्ययनादन्यः पाठ इत्याह
स एषोऽध्ययनाहते इति । नशब्दः पूर्वतः सं-
बन्धनीयः॥
ननु यदि नाम नायमुपदेशादिरूपः पाठ-
स्तत्कथमस्य समयदीक्षा कृता भवेदित्युक्तमि-
त्याशयाह
पठतोस्त्वनयोर्वस्तु-
स्वभावात्तस्य सा गतिः॥३३॥
१९६
श्रीतन्त्रालोके।
एतदेव दृष्टान्तोपदर्शनेन हृदयङ्गमयति
यथा निषिद्धभूतादि-
कर्मा मन्त्रं स्मरन्स्वयम्।
आविष्टेऽपि क्वचिन्नति
लोपं कर्तृत्ववर्जनात् ॥ ३४॥
यथा च वाचयशास्त्रं
समयी शून्यवेश्मनि ।
न लुप्यते तदन्तःस्थ-
प्राणिवर्गोपकारतः॥३५॥
निषिद्धेति । यदुक्तं
'मत्रवादो न कर्तव्य इतिकर्तृत्ववर्जनात् ।'
इति । नहि एवं करोमीत्यत्र अस्य कश्चिदभि-
मान इत्यर्थः । शून्येत्यनेन जनवैविक्त्यमेवात्रा-
स्याभिप्रेतमित्युक्तम् । उपकारत इति शास्त्राणां
हि श्रवणमात्रत एव पापक्षयो भवेदिति भावः।
तदुक्तं
'गोनश्चैव कृतघ्नश्च ब्रह्महा गुरुतल्पगः।
शरणागतघाती च मित्रविसम्भघातकः॥
दुष्टः पापसमाचारो मातृहा पितहा तथा ।
श्रवणादस भावेन मुच्यन्ते सर्वपातकैः ॥
इति ॥ ३५॥
३८ श्लो०]
एकानविंशमाह्निकम् ।
एतदेव प्रकृते योजयति
तथा स्वयं पठन्नेष
विद्यां वस्तुस्वभावतः।
तस्मिन्मुक्ते न लुप्येत
यतो किंचित्करोऽत्र सः॥३६॥
नन्वस्य मा भूदेव कश्चिद्दोषः
'अदीक्षितानां पुरतो नोचरेच्छास्त्रपद्धतिम् ।'
इति हि अस्ति समयः, तत्कथमिमां विद्यामे-
तो पठन्न प्रत्यवतीत्याह
ननु चादीक्षिताग्रेस
नोचरेच्छास्त्रपद्धतिम् ॥ ३७॥
एवं तर्हि नास्य कदाचिदपि पाठः प्रातः,
अतः कुड्यादयोऽप्यदीक्षिताः किं न संनिहिता
भवेयुरित्याह
हन्त कुड्याग्रतोऽप्यस्य
निषेधस्त्वथ कथ्यते।
पर्युदासेन यः श्रोतु-
मवधारयितुं क्षमः ॥३८॥
१९८
श्रीतन्त्रालोके।
स एवात्र निषिद्धो नो
कुड्यकीटपतत्रिणः।
अथेदमुच्यते यच्छास्त्रश्रवणादौ योग्यानां
दीक्षितसदृशानामत्र निषेधो विवक्षितः, नतु
कुड्यप्रायाणां जडानामित्याह अथेत्यादि ।
एवं तर्हि कुड्यप्रायस्य मुमूर्षोरग्रेऽपि पठ-
तोऽस्य कः समयलङ्घनार्थ इत्याह
तर्हि पाषाणतुल्योऽसौ
विलीनेन्द्रियवृत्तिकः ॥३९॥
तस्याग्रे पठतस्तस्य
निषेधोल्लङ्घना कथम् ।
नन्वेवं पाषाणप्रायस्यास्य किमेतत्पाठेन, मै-
वमित्याह
स तु वस्तुस्वभावेन
गलिताक्षोऽपि बुध्यते ॥४०॥
अक्षानपेक्षयैवान्त-
श्चिच्छत्या स्वप्रकाशया।
प्राग्देहं किल तित्यक्षु-
!त्तरं चाधितष्ठिवान् ॥४१॥
४४ श्लो०]
एकानविंशमाह्निकम् ।
१९९
मध्ये प्रबोधकबलात्
प्रतिबुध्येत पुद्गलः।
ननु को नाम अत्र अस्य प्रवोधको यद्वला-
दन्तरा अयं प्रबोधमासादयेदित्याशङ्कयाह
मन्त्राः शब्दमयाः शुद्ध-
विमर्शात्मतया स्वयम् ॥४२॥
अर्थात्मना चावभान्त-
स्तदर्थप्रतिबोधकाः।
तेनास्य गलिताक्षस्य
प्रबोधो जायते स्वयम् ॥४३॥
खचित्समानजातीय-
मन्त्रामर्शनसंनिधेः।
खयं प्रबोधो जायते इति । यद्वक्ष्यति
'यामाकर्ण्य महामोहविवशोऽपि क्रमागतः ।
प्रबोधं वक्तृसांमुख्यमभ्येति रभसात्स्वयम् ॥ (३०आ०)
इति ॥
एतदेव दृष्टान्तमुखेनापि घटयति
यथा ह्यल्पजवो वायुः
सजातीयविमिश्रितः॥४४॥
२००
श्रीतन्त्रालोके ।
जवी तथात्मा संसुप्ता-
मर्शोऽप्येवं प्रबुध्यते ।
सजातीयेति तालवृन्तादिसमुत्थेन । एव-
मिति मन्त्रामर्शनादिना ॥
एवं तर्यस्य अदीक्षिताने मत्रपाठात् स्फुट-
मेवापतितः समयलोप इत्याशङ्कयाह
प्रबुद्धः स च संजातो
न चादीक्षित उच्यते ॥४५॥
दीक्षा हि नाम संस्कारो
न त्वन्यत्सोऽस्ति चास्य हि।
दीक्षा हि नाम मात्रः संस्कारः, सच अस्य
प्रबोधान्यथानुपपत्त्या स्वरसत एव मन्त्रामर्शा-
दिना सिद्ध इति को नामास्य समयलोपार्थः॥
एवं शास्त्रपाठादिनापि परोपकृतावस्य न क-
श्चित्समयलोपजन्मा दोष इत्याह
अत एव निजं शास्त्रं
पठति क्वापि सामये ॥४६॥
४९ श्लो०] एकान्नविंशमाहिकम् । २०१ तच्छ्रुत्वा कोऽपि धन्यश्चे- न्मुच्यते नास्य सा क्षतिः। सामय इति समयिनीत्यर्थः॥ ननु एवमेतन्निविषयं वाक्यं स्यादित्याशङ्कयाह शास्त्रनिन्दां मैष कार्षी- द्वयोः पातित्यदायिनीम् ॥४७॥ इत्येवंपरमेतन्ना- दीक्षिताग्रे पठेदिति । अत्र च सविचिकित्सं परं खकञ्चकानुप्रवेशे- नैव प्रबोधयितुमाह यथा च समयी काष्ठे लोष्टे वा मन्त्रयोजनाम् ॥४८॥ कुर्वस्तस्मिंश्चलत्येति न लोपं तहदन हि। काष्ठ इति समिधादौ । लोष्ट इति मुल्लिङ्गा- दावुपादेये । अत्रेति मुमूर्षों ॥ २६ २०२ श्रीतन्त्रालोके। अत्रैव हेतुमाह यतोऽस्य प्रत्ययप्राप्ति- प्रेप्सोः समयिनस्तथा ॥४९॥ प्रटत्तस्य स्वभावेन तस्मिन्मुक्ते न वै क्षतिः। प्रत्ययो निजमन्त्रस्फारसंवादः॥ ननु आचार्यस्य तावत् परानुग्रहे नास्ति काचित् क्षतिः, समयिपुत्रकयोस्तु प्रासङ्गिकत्वे- नापीत्युक्तम् ; साधकस्य पुनरत्र का वार्ता इत्या- शङ्कयाह साधकस्तु सदा साध्ये फले नियतियन्त्रणात् ॥५०॥ मक्षिकाश्रुतमन्त्रोऽपि प्रायश्चित्तौचितीं चरेत् । औचितीमिति तीव्रमध्यादिभेदेन । अत एव 'खमत्रमक्षसूत्रं च गुरोरपि न दर्शयेत् ।' इत्याद्युक्तम् ॥
५३ श्लो०] एकानविंशमाहिकम् । २०३ एवमेतत्प्रसङ्गादभिधाय प्रकृतमेवाह इत्थं सद्यःसमुत्क्रान्ति- ोक्ता तामाज्ञया गुरोः ॥५॥ समय्यादिरपि प्रोक्त- काले प्रोक्तार्थसिद्धये। स्वयं कुर्यात्समभ्यस्त- प्राणचारगमागमः ॥५२॥ अकृताधिकृतिर्वापि गुरुः समयशुद्धये। अधस्तनपदावस्थो नतु ज्ञानेद्धचेतनः ॥५३॥ अकृतेति । यदुक्तम् 'अधिकारं न चेत्कुर्याद्विधेशः स्यात्चनुक्षये ।' इति । ज्ञानेद्ध इति परमाद्वयनिष्ठस्य हि 'मा किंचित्यज मा गृहाण..........।' इति नयेन विधिनिषेधाविषयत्वात् को नाम समयलोपस्य अवकाश एवेत्याशयः॥ .
२०४ श्रीतन्त्रालोके। ननु इयं सद्यःसमुत्क्रान्तिलक्षणा दीक्षा गुरुकायेंति नास्ति विमतिः, खयंकार्यतायां तु किं प्रमाणमित्याशङ्याह इतीयं सद्यउत्क्रान्तिः सूचिता मालिनीमते। स्वयं वा गुरुणा वाथ कार्यत्वेन महेशिना ॥ ५४॥ तदेवाह सर्व भोगं विरूपं तु मत्वा देहं त्यजेद्यदि। तदा तेन क्रमेणाशु योजितः समयी शिवः ॥५५॥ त्यजेदिति स्वयम् । योजित इति गुरुणा । यदुक्तं तत्र 'सर्वमप्यथवा भोगं मन्यमानो विरूपकम् । खशरीरं परित्यज्य शाश्वतं पदमृच्छति ॥ (१७४२५) इति 'अनेन क्रमयोगेन योजितः परमे पदे। समय्यपि महादेवि दीक्षोक्तं फलमश्नुते ॥ इति च ॥
२०५
५६ श्लो०] एकान्नविंशमाह्निकम् ।
आह्निकार्थमेव प्रथमाधेनोपसंहरति
उक्तेयं सद्यउत्क्रान्ति-
_ गोप्या प्राणवबुधैः ॥५६
इति शिवम् ॥ ५६
सद्योनिर्वाणप्रदमात्रमहावीर्यलाभलुब्धेन
एकानविंशमाहिकमेतत्किल जयरथेन निरणायि॥
इति श्रीतन्त्रालोकविवेके सबउत्क्रान्तिप्रकाशनं नाम
एकानविंशमाहिकम् ॥ १९॥
अथ
श्रीतन्त्रालोके।
श्रीमन्महामाहेश्वराचार्याभिनवगुप्तविरचिते
श्रीजयरथकृतविवेकाख्यटीकोपेते
विंशतितममाह्निकम् ।
जयति विभुर्बलदाता मूढजनाश्चासदायि येन वपुः ।
बहिराधन्तवदपि मध्यशून्यमुल्लासितं सततम् ॥
इदानी द्वितीयार्धेन सप्रत्ययां दीक्षां वक्तुमाह
अथ दीक्षां ब्रुवे मूढ-
जनाश्वासप्रदायिनीम् ॥१॥
आश्वासः प्रत्ययः॥१॥
तदेवाह
त्रिकोणे वह्निसदने
वह्निवर्णोज्ज्वलेऽभितः।
वायव्यपुरनिर्धूते
करे सव्ये सुजाज्वले ॥२॥
२०७
."
५ श्लो०] विंशतितममाहिकम् ।
बीजं किंचिद्गृहीत्वैत-
त्तथैव हृदयान्तरे।
करे च दह्यमानं स-
चिन्तयेत्तज्जपैकयुक् ॥३॥
वह्निदीपितफटार-
धोरणीदाहपीडितम् ।
बीजं निर्बीजतामेति
खसूतिकरणाक्षमम् ॥४॥
वह्निसदन इत्यर्थात् ऊर्ध्वमुखे । वह्निवर्णेति
रेफः।वायव्यपुरं षडश्रम् , अर्थात् यकारैर्लाञ्छि-
तम् । सव्य इति दक्षिणे। बीजं किंचिदिति धा-
न्यादि । तज्जपैकयुगिति फवारोद्दीपितरेफावर्तन
पर इत्यर्थः ॥ ४॥
वसूतिकरणाक्षमत्वमेव व्याचष्टे
तप्तं नैतत्प्ररोहाय
तेनैव प्रत्ययेन तु।
मलमायाख्यकर्माणि
मन्त्रध्यानक्रियाबलात् ॥५॥
:-
श्रीतन्त्रालोके।
दग्धानि न स्वकार्याय
निर्बीजप्रत्ययं त्विमम्।
स श्रीमान्सुप्रसन्नो मे
शंभुनाथो न्यरूपयत् ॥६॥
बीजस्याप्यत्र कार्या च
योजना कृपया गुरोः।
यतो दीक्षा सुदीप्तत्वा-
स्थावराण्यपि मोचयेत् ॥७॥
स्वकार्यायेति बध्यबन्धनाय । सुदीप्तत्वादिति
अदीप्तत्वे हि जङ्गमानामपि योजना असाध्या
स्थावराणां का वार्तेत्यभिप्रायः । तदुक्तम्
'ऋक्षपक्षितरक्ष्वादीन् स्थावराण्यपि मोचयेत् ।'
इति ॥७॥
अत एवाह
यो गुरुर्जपहोमार्चा-
ध्यानसिद्धत्वमात्मनि ।
ज्ञात्वा दीक्षां चरेत्तस्य
दीक्षा सप्रत्यया स्मृता ॥८॥
२०९ ११ श्लो०] विंशतितममाहिकम् । अवधूते निराचारे तत्त्वज्ञे नत्वयं विधिः। साचारैः क्रियते दीक्षा या दृष्टप्रत्ययान्विता ॥९॥ निराचारेण दीक्षायां प्रत्ययस्तु न गद्यते। अयं विधिरिति सप्रत्ययदीक्षालक्षणः। सा. चारैः क्रियाप्रधानः। दृष्टः प्रत्ययो निर्बीजकर- णादिः । निराचारेणेति ज्ञानिना ॥ एतदेव युक्त्यागमाभ्यामुपपादयति ज्ञानं खप्रत्ययं यस्मा- न फलान्तरमहति ॥१०॥ ध्यानादि तु फलात्साध्य- मिति सिद्धामतोदितम् । नाहतीति खप्रत्ययत्वादेव, फलादिति नि- बीजकरणादिसाधनात् ॥
२१० श्रीतन्त्रालोके। एवमधिकारिपरीक्षामभिधाय तुलाविधिम- भिधत्ते तुलाशुद्धिपरीक्षां वा कुर्यात्प्रत्यययोगिनीम् ॥ ११॥ यथा श्रीतन्त्रसद्धावे कथिता परमेशिना। ननु इयमस्मच्छास्त्रे नाभिहितेति किं शा- खान्तरप्रक्रियागौरवेणेत्याशङ्कयाह श्रीपूर्वशास्त्रेऽप्येषा च सूचिता परमेशिना ॥ १२॥ आनन्द उद्धवः कम्पो निद्रा घूर्णिश्च पञ्चमी। इत्येवंवदता शक्ति- तारतम्याभिधायिना ॥१३॥ ननु अत्र तुलादीक्षायाः कटाक्षीकरणे कि- मवस्थितमित्याशवाह उद्भवो लघुभावेन देहग्रहतिरोहितेः।
१५ श्लो०] विंशतितममाहिकम् । ननु कथमत्र देहग्रहतिरोधानमित्याशङ्ख्याह देहो हि पार्थिवो मुख्य- स्तदा मुख्यत्वमुज्झति ॥१४॥ भाविलाघवमन्त्रेण शिष्यं ध्यात्वा समुत्प्लुतम् । मुख्यत्वमुज्झतीति अशेषपाशक्षपणात् । भावीति त्रिंशे । यद्वक्ष्यति 'लघुत्वेन तुलाशुद्धिः सद्यःप्रत्ययकारिणी। तारः शमरयैः पिण्डो नतिश्च चतुरर्णकम् ।। शाकिनीस्तोभनं मर्म हृदयं जीवितं विदम् ।' (९२) इति । समुत्लुतमिति पार्थिवदेहाभिमानन्यग्भा- वेन पराकाशरूपतामापन्नो येनायं तुलायां कु- सुमसमानतामासादयेत् । यदुक्तं श्रीतनराजे 'आकाशतुल्यो भवति शिष्यः सन्दीक्षितस्तदा । भैरवो वा भवेत्सोवै दग्धसंसारबन्धनः ॥ पश्चात्तुलामर्पयेत अश्मान्येवमपास्य तु । सप्तविंशतिपुष्पैश्च कृतां मालां समर्पयेत् ।। वत्समः साधको जायात्यहीणावरणो यदा।' इति ॥
२१२
श्रीतन्त्रालोके।
ननु यथोक्तप्रक्रियामात्रेणैव किमेवं सप्र-
त्यया दीक्षा सिद्धयेन्नवेत्याशङ्कयाह
कर्माणि तत्राशेषाणि
पूर्वोक्तान्याचरेद्गुरुः ॥ १५॥
अत्र च संस्कारस्याधिकारिपरीक्षानन्तरमु-
देशेऽपि उभयशेषत्ववचनाशयेन तुलाविध्य-
नन्तरमभिधानम् ॥ १५॥
एतदेवोपसंहरति
उक्ता सेयं तुलाशुद्धि-
दीक्षा प्रत्ययदायिनी।
इति शिवम् ॥
श्रीमद्गुरुवरशास्त्रखात्ममयप्रत्ययानुविद्धमतिः ।
एतजयरथनामा विंशतितममाहिकं व्यवृणोत् ।।
इति श्रीतन्त्रालोकविवेके तुलादीक्षाप्रकाशनं नाम
विंशतितममाह्निकम् ॥ २०॥
अथ श्रीतन्त्रालोके श्रीमन्महामाहेश्वराचार्याभिनवगुप्तविरचिते श्रीजयरथकृतविवेकाख्यटीकोपेते एकविंशतितममाह्निकम् । मेदप्रथाविलापनवलेश्वरं तं बलेश्वरं वन्दे । यः सकलाकलयोरपि मितात्मताया निषेधमादध्यात् ।। इदानी द्वितीयार्धेन परोक्षदीक्षायां कर्म निगदितुं प्रतिजानीते परोक्षसंस्थितस्याथ दीक्षाकर्म निगद्यते ॥१॥ परोक्षसंस्थितस्येति देशकालाभ्याम् ॥ १॥ ननु इयमस्मच्छास्त्रे दीक्षा नोक्तेत्यास्तां प्रत्युत संनिहितैकविषयं 'रुद्रशक्तिसमाविष्टः स यियासुः शिवेच्छया । भुक्तिमुक्तिप्रसिद्ध्यर्थ नीयते सद्गुरुं प्रति ॥' (मा०वि०१४४)
२१४
श्रीतन्त्रालोके।
इत्यादि एतद्विरुद्धमुक्तम्, तत्कथमिह एतत्प्रति-
ज्ञातमित्याशङ्कयाह
भुक्तिमुक्तिप्रसिद्यर्थं
नीयते सद्गुरुं प्रति ।
इत्यस्मिन्मालिनीवाक्ये
प्रतिः सांमुख्यवाचकः॥२॥
सांमुख्यं चास्य शिष्यस्य
तत्कृपास्पदतात्मकम्।
तत्कृपेति तच्छब्देन गुरुः, सा च संनिहि-
तासंनिहितयोरविशिष्टेवेत्याशयः॥
ननु भवत्वेवं,
'तमाराध्य ततस्तुष्टाहीक्षामासाद्य शांकरीम् ।' (११४५)
इत्यादि सांनिध्यकजीवितं कथमत्र संगच्छता-
मित्याशयाह
तमाराध्येति वचनं
कृपाहेतूपलक्षणम् ॥३॥
कृपाहेत्विति तेन स्वयमेवमभावे बन्ध्वादि-
द्वारेणैतद्भवेदिति भावः॥३॥
६ श्लो०] एकविंशतितममाह्निकम् । २१५ न केवलमेतदत एवावगतं यावदितोऽपीत्याह तत्संबन्धात्ततः कश्चि- तत्क्षणादपवृज्यते। इत्यस्यायमपि ह्यर्थो मालिनीवाक्यसन्मणेः ॥४॥ एतदर्थत्वमेव अस्य वाक्यस्य व्याचष्टे तत्क्षणादिति नास्यास्ति यियासादिक्षणान्तरम् । किंत्वेवमेव करुणा- निघ्नस्तं गुरुरुद्धरेत् ॥५॥ आदिशब्दात् गमनतत्प्राप्तिक्षणादयः। न हि मृतस्य देशान्तरस्थितस्य वा एवं संभवे- दिति भावः। एवमेवेति खयं तदाराधनादि- निरपेक्षमित्यर्थः । निघ्नः परवशः ॥५॥ के च अत्र अधिकारिण इत्याशङ्कयाह गुरुसेवाक्षीणतनो- दीक्षामप्राप्य पश्चताम् ।
२१६ श्रीतन्त्रालोके। गतस्याथ स्वयं मृत्यु- क्षणोदिततथारुचेः॥६॥ अथवाधरतन्त्रादि- दीक्षासंस्कारभागिनः। प्राप्तसामयिकस्याथ परां दीक्षामविन्दतः ॥७॥ डिम्बाहतस्य योगेशी- भक्षितस्याभिचारतः। मृतस्य गुरुणा यन्त्र- तन्त्रादिनिहतस्य वा ॥८॥ भ्रष्टवसमयस्याथ दीक्षां प्राप्तवतोऽप्यलम् । क्षीणेति चिरतरं गुरुसेविन इत्यर्थः । तदुक्तं 'न प्राप्तोऽपि परां दीक्षां गुरुभक्तोऽपि यत्नतः । कालेनान्तरितो यसात्तस्य मोक्षः कथं भवेत् ॥ किं वृथा तस्य संक्लेशो मोक्षमुद्दिश्य यः कृतः । किं किंचिद्विद्यते तस्य कर्म यन्मोक्षसाधनम् ॥
९लो०]
एकविंशतितममाहिकम् ।
२१७
इत्युपक्रम्य
'गुरुभक्तस दान्तस्य सत्याचाररतस्य वै ।
मृतस्यापि परं स्कन्द दीक्षाकर्म विधीयते ॥
इति । मृत्युक्षणेति तदैव हि अस्य गुरौ प्रसन्ने
सद्यःसमुत्क्रान्तिदीक्षा भवेदित्युक्तम्, अन्यथा
तु इयमिति विभागः । अत एव दीक्षामप्राप्य
पञ्चतां गतस्येति अत्रापि संबन्धनीयम् ।
अधरतत्रं वैदिकादि । परामिति पुत्रकादिरू-
पाम् । डिम्बाहतस्येति शकटादिभिर्जडप्रायैर्मा-
रितस्येत्यर्थः । अभिचारत इति विषादिना । यत्रं
भूर्जपत्रादौ मारणानुगुणो मन्त्रसंनिवेशः, तत्रं
तदनुगुणमेव पूजाहोमादि । तदुक्तं
'नगाग्राल्लुठिता ये च वृक्षानिपतितास्तु ये ।
उद्धन्धनैर्मृता ये च शकटेन तु चूर्णिताः ॥
अग्निना तु प्रदग्धा ये वेश्मपातात्तु ये मृताः ।
नदीकूपेष्वगाधेषु मृता ये पापकारिणः ॥
मूढगर्भाश्च या नार्यो गर्मच्यावेन या मृताः ।
दान्तेन महिषेणापि दुष्टप्राणिमृताश्च ये ।।
विषेण त्यक्तजीवा ये ये वै चात्मोपपातकाः।
गोगाश्चैव तु ब्रह्मनाः पिटना माघातकाः॥
२८
२१८ श्रीतन्त्रालोके । व्याधिभिश्व मृता ये तु लूतायैः सुरसुन्दरि । अन्यैर्वहुविधैः क्रूरैर्येषां संख्या न विद्यते ॥ इति । तथा 'अनाथलप्सपिण्डानां तथा डिम्बाहतेष्वपि । कुविधौ च मृतानां तु दीक्षा मृतवती भवेत् ।' इति । एतच्च दीक्षितादीक्षितविषयमपि भवे- दिति सामान्येनोक्तम् । अलमिति अत्यर्थं पुत्र- कादिरूपतयेत्यर्थः॥ ननु एवंविधाः सर्व एव नियन्ते, तत्किमेषा- मविशेषेणैव मृतोद्धारी दीक्षा गुरुः कुर्यान्नवे- त्याशङ्कयाह बन्धुभार्यासुहृत्पुत्र- गाढाभ्यर्थनयोगतः॥९॥ स्वयं तद्विषयोत्पन्न- करुणाबलतोऽपि वा। विज्ञाततन्मुखायात- शक्तिपातांशधर्मणः ॥ १०॥ गुरुर्दीक्षां मृतोद्धारी कुर्वीत शिवदायिनीम् ।
११ श्लो०] एकविंशतितममाहिकम् । २१९ गाढेति नतु उत्ताना । स्वयमिति परप्रार्थना- निरपेक्षतयेत्यर्थः । बलत इति नतु तन्मात्रा- देव । तन्मुखेति बन्ध्वाद्यभ्यर्थनाद्वारेणेत्यर्थः। अंशेति तीवमध्यमन्दाद्यपेक्षया । एवमेवंविधा- नामेषां बन्ध्वादिगाढाभ्यर्थनाद्यन्यथानुपपत्त्या आयातशक्तिपातत्वं निश्चित्य मृतोद्धारी दीक्षा गुरुः कुर्यादिति अत्र तात्पर्यम् । बन्ध्वादीनां च तदुद्दिधीर्षापरतया प्रार्थनादयो जायमानाः परमेश्वरशक्तिपातमूला एव न स्नेहमात्रमूलाः सर्वत्र तथादर्शनायोगात् । नच अत्र व्यधिक- रणत्वं दोषो यदयस्कान्तायोगोलकस्पन्दनादि- वत् भिन्नदेशान्यपि कारणेभ्यः कार्याणि भव- न्ति दृश्यन्ते 'सा शक्तिरापतत्याद्या पुंसो जन्मन्यपश्चिमे। तनिपातात् क्षरत्यस्य मलं संसारकारणम् ।। क्षीणे तसिन्यियासा स्यात्परं नैःश्रेयसं प्रति।' इति । तथा 'तस्यैव तु प्रसादेन भक्तिरुत्पद्यते नृणाम् । यया यान्ति परां सिद्धिं तद्भावगतमानसाः॥' (म०भार०) इत्यादि संनिहितजीवदेकविषयमिति नेह क- श्चिदनेन विरोधः॥
२२० श्रीतन्त्रालोके। न चैतदस्माभिः खोपज्ञमेवोक्तमित्याह श्रीमृत्युञ्जयसिद्धादौ तदुक्तं परमेशिना ॥११॥ तदेवार्थतः पठति अदीक्षिते नृपत्यादा- वलसे पतिते मृते। बालातुरस्त्रीवृद्धे च मृतोद्धारं प्रकल्पयेत् ॥१२॥ विधिः सर्वः पूर्वमुक्तः स तु संक्षिप्त इष्यते। गुर्वादिपूजारहितो बाह्ये भोगाय सा यतः॥१३॥ अधिवासचरुक्षेत्र शय्यामण्डलकल्पने। नोपयोग्यत्र तच्छिष्य- संस्क्रियास्वप्नदृष्टये ॥१४॥ मन्त्रसंनिधिसंतृप्ति- योगायात्र तु मण्डलम् ।
१५ श्लो०] एकविंशतितममाह्निकम् । २२१ भूयोदिने च देवार्चा साक्षान्नास्योपकारि तत् ॥१५॥ यदुक्तम् 'अदीक्षिते तु नृपतौ तत्सुतेषु द्विजातिषु । भोगालसेषु वा देवि कर्मदोषैश्च विनिते ॥ न चेष्टं न तपस्तप्तं न ध्यातं न प्रतिष्ठितम् । पातित्येन मृतानां तु येषां नरकसंस्थितिः॥ निदानैर्बहुभिर्देवि स्त्रीबालवृद्ध आतुरे । मृतेषूद्धरणार्थाय दीक्षार्थ परमेश्वरः ।। यष्टव्यः पूर्ववद्देवः । (१८ अ०) इति । तत्र अदीक्षित इत्यनेन त्रयोऽधिकारिण उक्ता येषु आयं द्वयं तुर्यश्चेति। द्विजातिषु इत्य- नेन तृतीयः । पातित्येनेत्यादिना तु डिम्बा- हतादिः, अन्यैस्तु भ्रष्टखसमय उक्तः । एषां हि असम्यक्प्रजापालनात् भोगासक्तत्वात् दै- वदोषादिविनितत्वात् तपश्चरणादेश्चाभावात् अवश्यसंभावनीयं भ्रष्टसमयत्वम् । अत्र चो- न्मेषकृता क्लिष्टकल्पनया यत् व्याख्यातं, तदा- ग्रहमात्रपरतयेत्युपेक्ष्यम् । सेति संनिहितजी- वद्विषया पूर्वोक्ता दीक्षा । मण्डलेति शिष्य- " २२२ श्रीतन्त्रालोके। रक्षार्थ शय्यायां बहिः सर्वतोदिकं भस्मादिना रेखासंनिवेशः। यदुक्तं 'भसना रोचनाद्यैश्च अस्त्रप्राकारचिन्तनम् ।' इति । नोपयोगीति चरुशय्यादि हि शिष्यस्य संस्कारार्थ खप्नदर्शनार्थ वा,स एवचन संनिहित इति किमनेनेत्यर्थः । मण्डलं देवार्चा चेत्येतत् पुनरुपयोगीति प्राच्येन संबन्धः। यदुक्तं 'सर्वार्चनं स्थण्डिले स्थान च तत्राधिवासनम् ।' इति । न साक्षादिति मन्त्रसंनिधिद्वारा पार- म्पर्येणेत्यर्थः, नहि अस्य खयमेव मण्डल- दर्शनादीत्याशयः॥१५॥ नचात्र मन्त्रसंनिधानाय एतदेव निमित्तमित्याह क्रियोपकरणस्थान- मण्डलाकृतिमन्त्रतः। ध्यानयोगैकतद्भक्ति- ज्ञानतन्मयभावतः॥१६॥ तत्प्रविष्टस्य कस्यापि शिष्याणां च गुरोस्तथा।
१९ श्लो०] एकविंशतितममासिकम् । २२३ एकादशैते कथिताः संनिधानाय हेतवः॥ १७॥ उत्तरोत्तरमुत्कृष्टा- स्तथा व्यामिश्रणावशात् । क्रियादि ध्यानादि च अवलम्ब्य एकादश एते संनिधानाय हेतवः कथिता इति संबन्धः। एकेति प्रधाना । कस्यापीति प्रामादिकस्य । यदुक्तं 'प्रमादात्तु प्रविष्टस्य विचारं नैव कारयेत् ।' इति । उत्तरोत्तरमिति यथा क्रियात उपकरण. मित्यादि । एतेच समुदिता अप्युत्कृष्टा इत्याह तथा व्यामिश्रणावशादिति ॥ अत्रैव अस्पष्टं किंचिद्याचष्टे क्रियातिभूयसी पुष्पा- द्युत्तमं लक्षणान्वितम् ॥ १८॥ एकलिङ्गादि च स्थानं यत्रात्मा संप्रसीदति।
२२४ श्रीतत्रालोके। मण्डलं त्रित्रिशूलाब्ज- चक्रं यन्मन्त्रमण्डले ॥१९॥ अनाहूतेऽपि दृष्टं स- समयित्वप्रसाधनम्। तदुक्तं मालिनीतन्त्रे सिद्ध समयमण्डलम् ॥ २०॥ येन संदृष्टमात्रेति सिद्धमानपदद्वयात् । आकृतिर्दीप्तरूपा या मन्त्रस्तद्वत्सुदीप्तिकः ॥२१॥ शिष्टं स्पष्टमतो नेह कथितं विस्तरात्पुनः। मात्रेति पूजादिव्यवच्छेदात् ॥ एवमेतत्प्रसङ्गादभिधाय प्रकृतमाह कृत्वा मण्डलमभ्यर्च्य तत्र देवं कुशैरथ ॥२२॥ गोमयेनाकृतिं कुर्या- च्छिष्यवत्तां निधापयेत् ।
२५लो०] एकविंशतितममाहिकम् । २२५ ततस्तस्यां शोध्यमेक- मध्वानं व्याप्तिभावनात् ॥२३॥ प्रकृत्यन्तं विनिक्षिप्य पुनरेनं विधि चरेत् । महाजालप्रयोगेण सर्वस्मादध्वमध्यतः ॥२४॥ चित्तमाकृष्य तत्रस्थं कुर्यात्तहिधिरुच्यते। आकृतिमिति द्वादशाङ्गुलाम् । यदुक्तं ....विशेषाचत्र चाकृतिः। कर्तव्या रजसावश्यं सदृशी द्वादशाङ्गुला ॥ कार्या वा गोमयादेवि कुशैर्वा नानशोधिता।' इति । प्रकृत्यन्तमिति अत ऊर्ध्वमाकर्षणीयः पु. मानवस्थित इत्याशयः। एनमिति वक्ष्यमाणम्। एवमनेन मृतजीवद्विधिविभागानन्तरभावी म. हाजालोपदेश आसूत्रितः॥ तद्विधिमेव आह मूलाधारादुदेय प्रसृतसुवितता- नन्तनाड्यध्वदण्डं २२६ श्रीतत्रालोके। वीर्येणाक्रम्य नासागगनपरिगतं विक्षिपन् व्याप्तुमीष्टे। यावडूमाभिरामप्रचिततरशिखा- जालकेनाध्वचक्रं संछाद्याभीष्टजीवानयनमिति महा- जालनामा प्रयोगः ॥२५॥ इह अयं महाजालनामा प्रयोगो यदाचार्यः शिवाहंभावखभावतया खात्मनि अवतिष्ठमानो मूलाधारात् जन्मस्थानादुदेत्य रेचकपूरककु- म्भकाद्यवष्टम्भात् पौनःपुन्येन प्राणशक्ति प्र- बोध्य मूलकारणतया, तत एव प्रसृता निखि- लदेहव्यापकतया सुवितताः सार्धकोटित्रयात्म- कत्वादनन्ता नाड्य एव ऊर्ध्वाधरगमागम- निमित्ततया स्पष्टप्रवाहात्मकनिमित्ततया च अध्वरूपो दण्डः तात्स्थ्यात्तदाकारः प्राणः तंवी- येण शाक्तेन बलेन आक्रम्य स्वायत्तीकृत्य, हृदा- पुल्लङ्घनक्रमेण नासारन्ध्रा प्राप्त सन्तं विक्षि- पन् बहिः सर्वतः प्रसारयन् यावत् विशेषानु-
२५ श्लो.]
एकविंशतितममाहिकम् ।
२२७
पादानात् विश्वं व्याप्तुं प्रभवति, तावदेवाशुद्धा.
ध्वमध्यवर्तित्वात् धूमप्रायेण बहलवहलेन स्वर-
रिमनिकुरम्बेन सकलमेवाध्वानं संछाद्य गर्भी-
कृत्य शीघ्रमेव मत्स्यमिवाभीष्टं जीवमानयति
प्राणकरणायेकीकारेणाकर्षयतीत्यर्थः । माया-
बीजामर्शतश्च अयमेवनामा यत्संहारक्रमेण
पूर्व दण्डं रेफ शाक्तपरिस्पन्दात्मना वीर्येण
हकारेण आक्रम्य, तदनु नासामीकारं परिगतं
ज्योतीरूपेण शिखाजालकेन बिन्दुना संछाद्य
अभीष्टं जीवमानयतीति । तदुक्तं
'निष्कम्पः सकल: शान्तो बहमेव परः शिवः ।
परमात्मा सर्वगतो जगद्याप्तं मयाखिलम् ॥
एवंध्यानगतः कुर्याद्रेचकं पूरकं ततः।
कुम्भकान्ते रेचकेन निक्षिपेदखिलं शनैः ।।
रेचकान्ते पुनः खान्तं द्वादशान्ते सशक्तिकम् ।
लक्षयेदकुराकारां सर्वाण्डान्तरचारिणीम् ।।
मायावी समुच्चार्य चैतन्यं लिङ्गसंयुतम् ।
शुद्धमम्बुकणाकारं यत्र स्रोतोऽन्तरे स्थितम् ।।
गृहीत्वा तत्प्रयोगेण महाजालेन युक्तितः।
गृहीतं हृदये स्थाप्यं बीजामिख्यासमन्वितम् ॥
इति ॥ २५॥
२२८ श्रीतन्त्रालोके। ननु किमयं परोक्षदीक्षायामेव लब्धाव- काशो नवेत्याशङ्कयाह एतेनाच्छादनीयं ब्रजति परवशं संमुखीनत्वमादौ पश्चादानीयते चेत्सकलमथ ततोऽ- प्यध्वमध्याद्यथेष्टम्। आकृष्टावुद्धृतौ वा मृतजनविषये कर्षणीयेऽथ जीवे योगः श्रीशंभुनाथागमपरिगमितो जालनामा मयोक्तः॥२६॥ एतेन जालनाना प्रयोगेण यदाच्छादनीय- मध्वचक्र परवशमखतत्रं सदाक्रष्टुः सांमुख्य- मेति, अनन्तरमपि एतेन तन्मध्यादेव सकलं चेत् जीवजातमथ यथाभीष्टमेकत्वमेवानी- यते समाकृष्यते तदाकृष्टौ पशोरुद्धृतावुद्धारे शिष्यस्य, अथ मृतजीवनविषये परोक्षदीक्षा- यामाऋष्टव्ये जीवे जालनामा श्रीमद्गुरुवचना-
२७ श्लो०]
एकविंशतितममाहिकम् ।
२२९
दधिगतोऽयं प्रयोगो मयोक्तः परान्प्रत्युपदिष्ट
इत्यर्थः ॥ २६ ॥
नन्वत्र पाशवानां गौरवाणां च प्राणादीनां
कथङ्कारमेकीकारो भवेदित्याशङ्कां दृष्टान्तोपद-
र्शनेन निरवकाशयति
चिरविघटिते सेनायुग्मे
यथामिलिते
पुन-
हयगजनरं स्वां खां जाति
रसादभिधावति।
करणपवनैर्नाडीच-
स्तथैव समागतै-
निजनिजरसादेकीभाव्यं
खजालवशीकृतैः॥ २७॥
यथाहि चिरं विश्लिष्टेऽपि कटकद्वये पुनः
संघटिते हयादयो हयादिभिरेव निजनिजानु-
गुण्येन संघटन्ते, तथैव जालप्रयोगमहिना
गौरवाः प्राणायाः पाशवः प्राणायेरेवेति पि-
पडार्थः ॥ २७॥
२३०
श्रीतन्त्रालोके।
ननु मृतः खर्निरयादौ खकर्मवशेन तां तां
गतिमापद्यते इति कथमसावाकृष्यत इत्या-
शङ्याह
महाजालसमाकृष्टो
जीवो विज्ञानशालिना।
स्वःप्रेततिर्यकिरयां-
स्तदैवैष विमुञ्चति ॥२८॥
एतदेव दृष्टान्तोपदर्शनेन द्रढयति
तज्ज्ञानमन्त्रयोगाप्तः
पुरुषश्चैष कृत्रिमम् ।
योगीव साध्यहृदया-
तदा तादात्म्यमुज्झति ॥२९॥
यथाहि परपुरप्रवेशादौ साध्यैकात्म्यमाप-
नोऽपि योगी साध्यहृदयात् तत् कृत्रिमं ता-
दात्म्यं तदैवोज्झति, तथा तस्य जालप्रयोगे
विदुषो गुरोः ज्ञानादिभिराप्तः समाकृष्टोऽयमपि
जीवशब्दव्यपदेश्यः संकुचित आत्मा प्रेतति-
यंगादेरिति वाक्यार्थः ॥ २९ ॥
३२ लो०] एकविंशतितममाहिकम् । नच एतदपूर्व किंचिदित्याह स्थावरादिदशाश्चित्रा- स्तत्सलोकसमीपताः। त्यजेच्चेति न चित्रं स एवं यः कर्मणापि वा ॥३०॥ यः कर्मवशादपि तास्ताः परिगृहीता गती- स्त्यजेत् स महाजालसमाकृष्टः पुरुषश्चेदेवं, तदा किमिदमाश्चर्यस्थानमिति वाक्यार्थः ॥३०॥ मनुष्यजन्मनि पुनरयं विशेष इत्याह अधिकारिशरीरत्वा- न्मानुष्ये तु शरीरगः । न तदा मुच्यते देहा- देहान्ते तु शिवं व्रजेत् ॥३१॥ ननु यद्येवं, तदनेन संस्कारेण अस्य तत्र कश्चिद्विशेषो भवेन्न वेत्याशङ्कयाह तस्सिन्देहे तु काप्यस्य जायते शाङ्करी परा।
२३२ श्रीतन्त्रालोके। भक्तिरूहाच्च विज्ञाना- दाचार्याद्वाप्यसेवितात् ॥३२॥ असेवितादिति नहि एतन्माहात्म्यादस्य अत्र अन्यत्किंचिदुपादेयमित्याशयः॥३२॥ नन्वेवं तदेहमत्यजतोऽस्य जीवस्येह अप्राप्तेः कस्य संस्कारः स्यादिति कृतं परोक्षदीक्षयेत्या- शङ्कयाह तदेहसंस्थितोऽप्येष जीवो जालबलादिमम् । दार्भादिदेहं व्याप्नोति स्वाधिष्ठित्याप्यचेतयन् ॥३३॥ व्यापकखभावत्वान्न अस्य उभयत्राधिष्ठानं न भवेदित्युक्तं व्याप्नोतीति । अचेतयनपीति अख्यातिबलात् ॥३३॥ यद्वा गुरुबलात्तु मनुष्यदेहमपि एष त्यजेदे- वेत्याह योगमन्त्रक्रियाज्ञान- भूयोबलवशात्पुनः।
२३३ ३६ श्लो०] एकविंशतितममाहिकम्। मनुष्यदेहमप्येष तदैवाशु विमुञ्चति ॥ ३४॥ ननु गृहीततत्तजन्मनो जीवस्यैवमुक्तम् , अग्रहीतदेहस्य पुनः का वार्तेत्याशङ्कयाह सुप्तकल्पोऽप्यदेहोऽपि यो जीवः सोऽपि जालतः। आकृष्टो दार्भमायाति देहं फलमयं च वा ॥३५॥ नन्वत्र कुशैर्गोमयेन वा देहस्य कल्पना कार्ये- त्यनन्तरमेवोक्तम्, तत्कथमिह अस्य फलम- यत्वमप्युच्यते इत्याशङ्कयाह जातीफलादि यत्किचि- त्तेन वा देहकल्पना। प्रत्युत अत्र विशेषोऽस्तीत्याह अन्तर्बहिर्दयौचित्या- तदत्रोत्कृष्टमुच्यते ॥ ३६॥ .
श्रीतन्त्रालोके।
ननु यद्यत्र जीवः संनिधत्ते, तदस्य ज्ञान-
क्रिये कस्मान्नेत्याशङ्कयाह
ततो जालक्रमानीतः
स जीवः सुप्तवस्थितः।
मनोविशिष्टदेहादि-
सामग्रीप्राप्त्यभावतः॥३७॥
न स्पन्दते न जानाति
न वक्ति न किलेच्छति।
तादृशस्यैव संस्कारान्
सर्वान् प्राग्वत्प्रकल्पयेत् ॥३॥
निर्बीजदीक्षायोगेन
सर्वं कृत्वा पुरोदितम् ।
विधिं योजनिकां पूर्णा-
हुत्या साकं क्षिपेच्च तम् ॥३९॥
दार्भादिदेहे मन्त्राना-
वर्पिते पूर्णया सह ।
मुक्तपाशः शिवं याति
पुनरारत्तिवर्जितः॥४०॥
४२ श्लो०] एकविंशतितममाहिकम् । २३५ सप्रत्यया त्वियं यत्र स्पन्दते दर्भजा तनुः। तत्र प्राणमनोमन्त्रा- पणयोगात्तथा भवेत् ॥४१॥ साभ्यासस्य तदप्युक्तं बलाश्वासि न तत्कृते। तादृशस्येति सुप्तवदवस्थितस्य । तमिति दार्भादिदेहम् । तदुक्तं 'पश्चात् सुचं त्वाज्ययुतां प्रान्ते तत्प्रकृतिं कुरु । उत्थितां समपादस्थः ...॥ इत्युपक्रम्य ततः पूर्णा विनिक्षिपेत् । दहेत्तां प्रतिमामनौ परे धाम्नि नियोजयेत् । स गच्छेच्छिवसायुज्यं सत्यं सत्यं न संशयः ॥ इति । तदिति स्पन्दनम् । तत्कृत इति नहि दीक्ष्यस्य अयं कश्चित्संस्कार इत्याशयः॥ एतदेव जीवत्परोक्षदीक्ष्यदीक्षायामपि अ- तिदिशति मृतोद्दारोदितैरेव यथासंभूति हेतुभिः ॥४२॥ .
२३६ श्रीतन्त्रालोके। जीवत्परोक्षदीक्षापि कार्या निर्बीजिका तुसा। तस्यां दर्भाकृतिप्राय- कल्पने जालयोगतः॥४३॥ संकल्पमात्रेणाकर्षो जीवस्य मृतिभीतितः। शिष्टं प्राग्वत्कुशाद्युत्था- कारविप्लोषवर्जितम् ॥४४॥ संभूतिः संभवः । यद्यपि अतिदेशबलादेव अस्यां निर्बीजत्वं सिद्धं, तथापिजीवति सबीज- त्वशङ्कापि कस्यचित् मा भूदित्युक्तं निर्वीजिका तु सेति । संकल्पमात्रेणेति नतु अत्र भरः कार्य इत्यर्थः॥४४॥ अयं च आम्नात एव विषये जालप्रयोगः सिद्ध्येन्न अन्यत्रेत्याह पारिमित्यादनैश्वर्या- त्साध्ये नियतियन्त्रणात् ।
२३७ ४६ श्लो०] एकविंशतितममाह्निकम् । जालाकृष्टिविनाभ्यास रागद्वेषान्न जायते ॥४५॥ यथाहि अभ्यासं विना जालाकृष्टिः क्रिय- माणा न संपद्यते, तथा रागद्वेषाभ्यामपि । तथा प्रवृत्तो हि पुमान् नियतियत्रितं साध्यमर्थ कथमन्यथाकुर्यात् , यदयं संकुचितात्मरूपत्वा- दनीश्वरः । नच एतदिच्छानुविधायिनो भावा इत्युक्तं प्राक्, इह तु परमेश्वरतावेशात्तथाभावो भवत्येव । परमेश्वर एव हि गुरुशरीराधिष्ठान- द्वारा अनुग्राह्याननुगृह्णाति, सच अचिन्त्य- महिमति असकृदुक्तम् ॥४५॥ एवं जालोपदेशमादिश्य, संस्क्रियागणस्य बलाबलविचारमभिधातुमाह परोक्ष एवातुल्याभि- र्दीक्षाभिर्यदि दीक्षितः। तत्रोत्तरं स्याबलव- संस्काराय त्वधस्तनम् ॥४६॥ अतुल्याभिरिति कुलतन्त्रप्रक्रियादिरूपाभिः। अनेकपुत्राद्यभ्यर्थितैरुद्धार्य प्रति बहुभिराचार्यै- २३८ श्रीतत्रालोके। रेखक्रियमाणानां दीक्षाणां संभाव्यमानतया हि एवमुक्तम् । उत्तरमिति कौलिकं दीक्षादि- कर्म । अधस्तनमिति तत्रोक्तम् ॥ ४६॥ तुल्यायां दीक्षायां पुनः क्रियमाणायां किं स्यादित्याशयाह भुक्तियोजनिकायां तु भूयोभिर्गुरुभिस्तथा। कृतायां भोगवैचित्र्यं हेतुवैचित्र्ययोगतः॥४७॥ नन्वेवमत्रास्तु, मुक्तियोजनिकायां तु मुक्ती वैचित्र्यायोगात् व्यर्थं हेतुवैचित्र्यं स्यादित्या- शङ्कयाह परोक्षदीक्षणे मायो- त्तीर्णे भोगाय योजयेत् । भोगानीप्सा दुर्लभा हि सती वा भोगहानये ॥४८॥ भोगायेति नतु मोक्षाय । दुर्लभेति भोग- वासनाविच्छेदस्य असंभाव्यमानत्वात् । कस्य- २३९ ५० श्लो०] एकविंशतितममाह्निकम् । चिन्महात्मनस्तु भोगानीप्सा संभवन्ती मोक्षा- यैव भवेदित्याह सती वा भोगहानये इति ॥४८॥ ननु परोक्षदीक्षायां यद्येवं भोगायापि योज- निका क्रियते, तत्कथं सत्यामपि भोगानीप्सा- यामस्य मोक्षः स्यादित्याशङ्कायां ससंवादमेव समाधनमभिधत्ते उक्तं हि स्वान्यसंवित्त्योः स्वसंविद्बलवत्तरा। बाधकत्वे बाधिकासौ साम्यौदासीन्ययोस्तथा ॥४९॥ बलवत्तरेति एवं हि कृतायामपि गुरुणा भुक्तियोजनिकायामस्य मुक्तिरेव भवेदिति भावः । अत एवोक्तं बाधिकेति । असाविति खसंवित् । साम्यौदासीन्ययोरिति गुरुशिष्यो- भयसंविद्तयोः। तथेति बाधिकैवेत्यर्थः ॥४९॥ अत्रैव गुर्वन्तरोपदिष्टं विशेषं दर्शयति श्रीमान् धर्मशिवोऽप्याह पारोक्ष्यां कर्मपद्धतौ।
२४०
श्रीतन्त्रालोके।
तदेवाह
परोक्षदीक्षणे सम्यक्
पूर्णाहुतिविधौ यदि ॥५०॥
अग्निश्चिटिचिटाशब्द
सधूमं प्रतिमुञ्चति ।
धत्ते नीलाम्बुदच्छायां
मुहुर्वलति शाम्यति ॥५१॥
विस्तरो घोररूपश्च
महीं धावति चाप्यधः ।
ध्वांक्षाद्यश्रव्यशब्दो वा
तदा तं लक्षयेद्गुरुः ॥५२॥
ब्रह्महत्यादिभिः पापै-
स्तत्सङ्गैश्वोपपातकैः।
तदा तस्य न कर्तव्या
दीक्षास्मिन्नकृते विधौ ॥५३॥
अस्मिन्निति वक्ष्यमाणे ॥ ५३॥
५७ श्लो०] एकविंशतितममाह्निकम् । २४१ तमेव विधिमाह नवात्मा फट्पुटान्तःस्थः पुनः पञ्चफडन्वितः। अमुकस्येति पापानि दहाम्यनु फडष्टकम् ॥५४॥ इति साहसिको होमः कर्तव्यस्तिलतण्डुलैः। अन्ते पूर्णा च दातव्या ततोऽस्मै दीक्षया गुरुः॥५५॥ परयोजनपर्यन्तं कुर्यात्तत्त्वविशोधनम् । तत इति एवंविध्यनन्तरम् ॥ अमुमेव विधि संनिहितस्य जीवतोऽप्यति. दिशति प्रत्यक्षेऽपि स्थितस्याणोः पापिनो भगवन्मयीम् ॥५६॥ शक्तिं प्राप्तवतो ज्येष्टा- मेवमेव विधि चरेत् । ३१
२१२
श्रीतन्त्रालोके।
अत्रैव पक्षान्तरमाह
यदि वा दैशिकः सम्यङ्
न दीप्तस्तस्य तत्पुरा ॥५७॥
प्रायश्चित्तैस्तथा दानैः
प्राणायामैश्च शोधनम् ।
कृत्वा विधिमिमां चापि
दीक्षां कुर्यादशङ्कितः॥ ५८ ॥
तस्येति प्रत्यक्षेऽपि स्थितस्य अणोः ॥५॥
तत्त्वज्ञस्य पुनरेतन्न किंचिदुपादेयमित्याह
सर्वथा वर्तमानोऽपि
तत्त्वविन्मोचयेत्पशून् ।
इच्छयैव शिवः साक्षा-
तस्मात्तं पूजयेत्सदा ॥ ५९॥
शाव्यं तत्र न कार्य च
तत्कृत्वाधो बजेच्छिशुः।
H
।
न पुनः कीर्तयेत्तस्य
पापं कीर्तयिता ब्रजेत् ॥६०॥
६१ श्लो०] एकविंशतितममाह्निकम्।
२४३
निरयं वर्जयेत्तस्मा-
दिति दीक्षोत्तरे विधिः।
सर्वथेति येन केनचित्प्रकारेण । शाठ्यं वि-
चिकित्सा । वर्जयेदिति पापकीर्तनम् ॥
आह्निकार्थमेवोपसंहरति
एषा परोक्षदीक्षा
द्विधोदिता जीवदितरभेदेन ६१
इति शिवम् ॥
निखिलजगदुहिधीहर्षाकुलमानसेनेयम् ।
व्याख्याहिके व्यरच्यत किलैकविंशे जयरथेन ।
इति श्रीतन्त्रालोकविवेके परोक्षदीक्षाप्रकाशनं नामैक-
विशमादिकम् ॥ २१ ॥
अथ
श्रीतन्त्रालोके।
श्रीमन्महामाहेश्वराचार्याभिनवगुप्तविरचिते
श्रीजयरथकृतविवेकाख्यटीकोपेते
हाविंशतितममाह्निकम् ।
INSINOm-
दुर्वृत्तजनकुसंस्कृतिसंहरणव्यावृतास्सतां दधतम् ।
देवममन्दं वन्दे वन्दनमानन्दनं जगताम् ॥१॥
इदानी द्वितीयार्धेन लिङ्गोद्धारदीक्षां वक्तुमाह
लिङ्गोदाराख्या-
मथ वच्मः शिवशासनैकनिर्दिष्टाम्॥१॥
एकेति यदुक्तं प्राक्
'अत एवेह शास्त्रेषु शैवेष्वेव निरूप्यते ।
शास्त्रान्तरार्थानाश्वस्तान्प्रति सांस्कारिको विधिः॥
अतश्चात्युत्तमं शैवं योऽन्यत्र पतितः स हि ।
इहानुग्राह्य ऊर्बोचं नेतस्तु पतितः कचित् ॥
अत एव हि सर्वब्रह्मविष्ण्वादिभिर्निजे ।
नशासने समानातं लिङ्गोदारादि किञ्चन ॥' (१३६३५९)
इति ॥१॥
५ श्लो०] द्वाविंशतितममाहिकम् । २४५
ननु इयमस्मच्छास्त्रे दीक्षा किमुक्ता न वे-
त्याशङ्कयाह
उक्तं श्रीमालिनीतन्त्रे
किल पार्थिवधारणाम् ।
उक्त्वा यो योजितो यत्र
स तस्मान्न निवर्तते ॥२॥
योग्यतावशसंजाता
यस्य यत्रैव शासना।
स तत्रैव नियोक्तव्यो
दीक्षाकाले ततस्त्वसौ ॥३॥
फलं सर्व समासाद्य
शिवे युक्तोऽपवृज्यते।
अयुक्तोऽप्यूर्ध्वसंशुद्धि
संप्राप्य भुवनेशतः॥४॥
शुद्धः शिवत्वमायाति
दग्धसंसारबन्धनः।
उक्त्वा पुंधारणां चोक्त-
मेतद्वैदान्तिकं मया ॥५॥
२४६ श्रीतन्त्रालोके। कपिलाय पुरा प्रोक्तं प्रथमे पटले तथा । अनेन क्रमयोगेन संप्राप्तः परमं पदम् ॥६॥ न भूयः पशुतामेति शुद्धे स्वात्मनि तिष्ठति । वैदान्तिकमिति विज्ञानम् ॥ ननु इह लिङ्गोद्धारदीक्षावचने संदिहानं प्रति सागरं तर्तुकामस्य हिमवद्वर्णनं किमिद- मुच्यते इत्याशङ्कयाह अतो हि ध्वन्यतेऽर्थोऽयं शिवतत्त्वाधरेष्वपि ॥७॥ तत्त्वेषु योजितस्यास्ति पुनरुद्धरणीयता। समस्तशास्त्रकथित- वस्तुवैविक्त्यदायिनः ॥८॥ शिवागमस्य सर्वेभ्योऽ- प्यागमेभ्यो विशिष्टता।
१० श्लो०] द्वाविंशतितममाहिकम् ।
शिवज्ञानेन च विना
भूयोऽपि पशुतोद्भवः॥९॥
अत इति वाक्यत्रयात् । अधरेष्विति तत्त्वे-
विति मायादशायामपीत्यर्थः । एवमधरदर्शन-
स्थोऽपि आयातशक्तिपातः शैवागमप्रक्रियया
भुवनेशादिवत् गुरुणा पुनरुद्धरणीय एव इति
कटाक्षितम् । तत्र च लिङ्गोद्धारदीक्षैव उपाय
इति सर्वत्रोक्तम् । समस्तानि शास्त्राणि कापि-
लादीनि, तत्र कथितं वस्तु प्रकृतिपुरुषविवे-
कादि, एवमपि एषां न मायातो मुक्तिरिति
तदुक्तवस्तुवैविक्त्यदायित्वात् सर्वागमेभ्यः शै-
वागमस्यैव प्राधान्यम् , अतश्च तत एव सा-
क्षात्परपदप्राप्तिः। दर्शनान्तरप्राप्तानां हि पुन-
रपि अधरपदप्राप्तिरेवेत्युक्तं प्राक् बहुशः ॥९॥
तत्र च इयानपेक्षणीयः क्रम इत्याह
क्रमश्च शक्तिसंपातो
मलहानिर्यियासुता।
दीक्षा बोधो हेयहानि-
रुपादेयलयात्मता ॥१०॥
२४८.
श्रीतन्त्रालोके।
भोग्यत्वपाशवत्यागः
पतिकर्तृत्वसंक्षयः।
स्वात्मस्थितिश्चेत्येवं हि
दर्शनान्तरसंस्थितेः ॥११॥
प्रोक्तमुद्धरणीयत्वं
शिवशक्तीरितस्य हि।
यियासुतेति गुरुं प्रति । बोध इति दीक्षा-
नन्तरं श्रवणादावधिकारात् । हेयेति मलक-
मादेः । उपादेयलयात्मतेति शिवशत्यायेक-
विश्रान्तिमयत्वमित्यर्थः । पाशवमाणवं मलम् ।
कर्तृत्वेति संसारं प्रति प्रेरणात्मकम् ॥
एवमस्य आयातशक्तिपातस्य किं कार्यमि-
त्याशङ्कयाह
अथ वैष्णवबौद्धादि-
तन्त्रान्ताधरवर्तिनाम् ॥ १२॥
यदा शिवाकरइम्योपै-
विकासि हृदयाम्बुजम् ।
लिङ्गोद्धृतिस्तदा पूर्व
दीक्षाकर्म ततः परम् ॥ १३॥
१६ श्लो०] द्वाविंशतितममाहिकम् । प्राग्लिङ्गान्तरसंस्थोऽपि दीक्षातः शिवतां ब्रजेत् । अन्तः सिद्धान्तः। उक्तं हि प्राक् 'स्वातत्र्यात्तु महेशस्य तेऽपि चेच्छिवतोन्मुखाः । द्विगुणा संस्क्रियास्त्येषां लिङ्गोद्धृत्याथ दीक्षया ।। दुष्टाधिवासविगमे पुष्पैः कुम्भोऽधिवास्यते । द्विगुणोऽस्य स संस्कारो नेत्थं शुद्धे घटे विधिः॥ (१३।२८३) इति॥ तत्र लिङ्गोद्धृतौ तावदितिकर्तव्यतामाह तत्रोपवास्य तं चान्य- दिने साधारमन्त्रतः॥ १४॥ स्थण्डिले पूजयित्वेशं श्रावयेत्तस्य वर्तनीम्। एष प्रागभवल्लिङ्गी चोदितस्त्वधुना त्वया ॥१५॥ प्रसन्नेन तदेतस्मै कुरु सम्यगनुग्रहम् । ३२
२५०
श्रीतत्रालोके।
खलिङ्गत्यागशङ्कोत्थं
प्रायश्चित्तं च मास्य भूत् ॥१६॥
अचिरात्त्वन्मयीभूय
भोगं मोक्षं प्रपद्यताम् ।
एवमस्त्वित्यथाज्ञां च
गृहीत्वा व्रतमस्य तत् ॥१७॥
अपास्याम्भसि निक्षिप्य
स्नपयेदनुरूपतः।
स्नातं संप्रोक्षयेदर्घ-
पात्राम्भोभिरनन्तरम् ॥ १८॥
पञ्चगव्यं दन्तकाष्ठं
ततस्तस्मै समर्पयेत् ।
ततस्तं बद्धनेत्रं च
प्रवेश्य प्रणिपातयेत् ॥१९॥
वर्तनी वृत्तम् । एवमस्त्वित्यनेन श्रावणार्थ
एवं अभ्यनुज्ञातः । स्नपयेदिति तद्वतदोषनिवृ-
त्यर्थम् । अनुरूपत इति दित्सितदर्शनौचित्ये-
नेत्यर्थः॥ १९॥
२२ श्लो०]
द्वाविंशतितममाह्निकम् ।
ननु इह के नाम साधारणा मन्त्राः, यन्म-
ध्यादपि एकतमेन ईशं पूजयेदित्याशङ्कयाह
प्रणवो मातृका माया
व्योमव्यापी षडक्षरः।
बहुरूपोऽथ नेत्राख्यः
सप्त साधारणा अमी ॥२०॥
तेषां मध्यादेकतम
मन्त्रमस्मै समर्पयेत् ।
सोऽप्यहोरात्रमेवैनं
जपेदल्पभुगप्यभुक् ॥२१॥
मन्त्रमस्मै समाथ
साधारविधिसंस्कृते।
वह्नौ तर्पिततन्मन्त्रे
व्रतशुद्धिं समाचरेत् ॥ २२॥
एनमिति साधारणमेकतमं मन्त्रम् । अल्प.
भुगिति अभुगिति च सामर्थ्यानुसारम् ॥२२॥
२५२
श्रीतन्त्रालोके।
- एवमस्य शोधनं कृत्वा पातकच्युतिमभि-
धातुमाह
पूजितेनैव मन्त्रेण
कृत्वा नामास्य संपुटम् ।
प्रायश्चित्तं शोधयामि
फट्स्वाहेत्यूहयोगतः ॥२३॥
शतं सहस्रं वा हुत्वा
पुनः पूर्णाहुति तथा।
प्रयोगाद्वौषडन्तां च
क्षिप्त्वाहय व्रतेश्वरम् ॥२४॥
तारो व्रतेश्वरायेति
नमश्चेत्येनमर्चयेत्।
श्रावयेच्च त्वया नास्य
कार्य किंचिच्छिवाज्ञया ॥२५॥
ततो व्रतेश्वरस्तlः
स्वाहान्तेन ततश्च सः।
क्षमयित्वा विसृज्यः स्या-
ततोऽमेश्च विसर्जनम् ॥२६॥
२९ श्लो०] द्वाविंशतितममाहिकम् । २५३ तच्छ्रावणं च देवाय क्षमस्वेति विसर्जनम् । तारः प्रणवः । एनमिति ब्रतेश्वरम् ॥ एवं लिङ्गोबृतिमभिधाय दीक्षाकर्म अभिधत्ते ततस्तृतीयदिवसे प्राग्वत्सर्वो विधिः स्मृतः॥२७॥ अधिवासादिकः स्वेष्ट- दीक्षाकर्मावसानकः। प्रथमे दिने हि अस्य उपवासः, द्वितीये लिङ्गोद्धार इत्युकं तृतीय इति ॥ ननु खेष्टा चेदस्य दीक्षा कार्या, तकिमय- मपि सर्वदीक्षाणामेव पात्रमित्याशङ्कयाह प्राग्लिङ्गिनां मोक्षदीक्षा साधिकारविवर्जिता ॥२८॥ साधकाचार्यतामार्गे न योग्यास्ते पुनर्भुवः।
२५४ श्रीतन्त्रालोके। पुनर्भुवोऽपि ज्ञानेद्दा भवन्ति गुरुतास्पदम् ॥ २९ ॥ मोक्षायैव न भोगाय भोगायाप्यभ्युपायतः। इत्युक्तवान्स्वपडत्या- मीशानशिवदैशिकः ॥३०॥ श्रीदेव्या यामलीयोक्ति- तत्त्वसम्यक्प्रवेदकः। अत्र अयोग्यत्वे पुनर्भवत्वं हेतुः । यदुक्तं 'न ते मनुप्रयोक्तारः पुनर्भवतया स्थिताः। इति । ते च 'पुनर्भुश्चान्यलिङ्गो यः पुनः शैवे प्रतिष्ठितः। (२३२१०) इति लक्षयिष्यमाणाः । ज्ञानेद्धा इति परावय- ज्ञानोद्दीपितात्मनां कुत्र नाम नाधिकारो भवे. दिति भावः। अभ्युपायत इति भोगोपायभूत- शास्त्रप्रक्रियाद्यनुसारेणेत्यर्थः । नच एतदनेन निर्मूलमेवोक्तमित्याह श्रीदेव्या इत्यादि । एवंसंस्कृतस्यास्योपदेष्टव्यमित्याह गुर्वन्तस्याप्यधोदृष्टि- शायिनः संस्क्रियामिमाम् ३१ ३४ लो०] द्वाविंशतितममाहिकम् । २५५ कृत्वा रहस्यं कथये- नान्यथा कामिके किल। कामिकाग्रन्थमेव पठति अन्यतन्त्राभिषिक्तेऽपि रहस्यं न प्रकाशयेत् ॥३२॥ न केवलमेवमधरदर्शनस्थस्यैव कार्य, यावत् खदर्शनस्थस्यापीत्याह स्वतन्त्रस्थोऽपि गुर्वन्तो गुरुमज्ञमुपाश्रितः। तत्र पश्चादनाश्वस्त- स्तत्रापि विधिमाचरेत् ॥३३॥ तत्रेति अज्ञे गुरौ ॥ ३३॥ नन्वस्य अज्ञगुर्वाश्रयणात् गुणः कश्चिन्मा भूत् , दोषः कुतस्त्यो येन लिङ्गोद्धृतिरपि स्या- दित्याशङ्कयाह अज्ञाचार्यमुखायातं निर्वीर्य मन्त्रमेष यत् ।
२५६ श्रीतन्त्रालोके। जप्तवान्स गुरुश्वात्र नाधिकार्युक्तदूषणात् ॥३४॥ ततोऽस्य शुद्धिं प्राकृत्वा ततो दीक्षां समाचरेत् चो ह्यर्थे । उक्तदूषणादिति अज्ञवलक्षणात्। एवमेतद्दर्शनैक्येनाभिधाय, तद्भेदेनाण्याह अधोदर्शनसंस्थेन गुरुणा दीक्षितः पुरा ॥ ३५॥ तीव्रशक्तिवशात्पश्चा- द्यदा गच्छेत्स सद्गुरुम् । तदाप्यस्य शिशोरेवं शुद्धिं कृत्वा स सद्गुरुः ॥३६॥ दीक्षादिकर्म निखिलं कुर्यादुक्तविधानतः। अधोदर्शनसंस्थेनेति यथा सैद्धान्तिकेन भै- रवस्त्रोतसि ॥ ननु एषां 'ते दीक्षायां न मीमांसा ज्ञानकाले विचारयेत् । (२३२२१) इत्यादिवक्ष्यमाणनीत्या दीक्षा तावदेवमेव कि-
२५७
३९ श्लो०] द्वाविंशतितममाहिकम् ।
यताम् , उपदेशस्तु अविचार्यैव कथं कार्य
इ.
त्याशङ्कयाह
प्राप्तोऽपि सद्गुरुयोग्य-
भावमस्य न वेत्ति चेत् ॥३७॥
विज्ञानदाने तच्छिष्यो
योग्यतां दर्शयेन्निजाम्।
सर्वथा त्वब्रुवन्नेष
ब्रुवाणो वा विपर्ययम् ॥ ३८ ॥
अज्ञो वस्तुत एवेति
तत्त्यक्त्वेत्थं विधि चरेत् ।
अब्रुवन्निति आत्मनि योग्यतादर्शनानुगुणम् ।
विपर्ययमिति यदयोग्यताज्ञापनाय पर्यवस्थती-
त्यर्थः । वस्तुत एवेति नतु विलयशक्त्याद्या-
घातत्वात् । तदिति योग्यभावावेदनम् ॥
ननु मा भूदस्य योग्यभावदर्शनं, प्रत्युत
अयोग्यतापि दृश्यते इति तिरोहितप्रायस्य
अस्य कथमुक्तो विधिः कार्य इत्याशङ्कयाह
न तिरोभावशङ्कात्र
कर्तव्या बुद्धिशालिना ॥३९॥
२५८
श्रीतन्त्रालोके।
अधःस्पृक्त्वं तिरोभूति-
नॊोपायविवेचनम् ।
तिरोभूतत्वे हि अस्य ऊोपायविवेके स्पृ.
हैव न भवेदितिभावः॥
एतदेव प्रपञ्चयति
सिद्धान्ते दीक्षितास्तत्रे
दशाष्टादशभेदिनि ॥४०॥
भैरवीये चतुःषष्टौ
तान्पशून्दीक्षयेत्रिके।
सिद्धवीरावलीसारे
भैरवीये कुलेऽपि च ॥४१॥
पञ्चदीक्षाक्रमोपात्ता
दीक्षानुत्तरसंज्ञिता।
एतच्च त्रयोदशाहिक एव विचारितमिति
तत एव अवधार्यम् ॥
एतदेव प्रकृते विश्रमयति
तेन सर्वोऽधरस्थोऽपि
लिङ्गोइत्यानुगृह्यते ॥४२॥
४५ श्लो०] द्वाविंशतितममाह्निकम् । २५९ न केवलमयोग्ये गुरौ गुर्वन्तरमाश्रयेत् , या- वद्योग्येऽपीत्याह योऽपि हृत्स्थमहेशान- चोदनातः सुविस्तृतम् । शास्त्रज्ञानं समन्विच्छे- त्सोऽपि यायाबहून्गुरून् ॥४३॥ तद्दीक्षाश्चापि गृह्णीया- दभिषेचनपश्चिमाः। ज्ञानोपोद्वलिकास्ता हि तत्तज्ज्ञानवता कृताः॥४४॥ ननु गुरुपरित्यागे 'गुरोरवज्ञया मृत्युर्दारियं मत्रवज्ञया । गुरुमत्रपरित्यागासिद्धोऽपि नरकं ब्रजेत् ॥' इत्यादिदृष्ट्या प्रत्यवाय आनातः, तत्कथमेवमु- कमित्याशङ्का गर्भीकृत्य आगममेव संवादयति उक्तं च श्रीमते शास्त्रे तत्र तत्र च भूयसा।
२६०
श्रीतन्त्रालोके।
आमोदार्थी यथा भृङ्गः
पुष्पात्पुष्पान्तरं ब्रजेत् ॥४५॥
विज्ञानार्थी तथा शिष्यो
गुरोर्गुर्वन्तरं त्विति।
अत्र च इयान् विशेषो यत् पूर्वगुर्वाज्ञया
गुर्वन्तरं ब्रजेदिति । तदुक्तं
'किंतु गुर्वाज्ञया गच्छेत्तं गुरुं न परित्यजेत् ।
न सिद्धिस्तद्गुरुत्यागात्कोटिजापाद्भवेदपि ॥
इति ॥
ननु एषां गुरूणां मध्ये भूयसां किमेव
कस्यचित् कश्चिद्विशेषोऽस्ति न वेत्याशङ्कयाह
गुरूणां भूयसां मध्ये
यतो विज्ञानमुत्तमम् ॥४६॥
प्राप्तं सोऽस्य गुरुर्दीक्षा
नात्र मुख्या हि संविदि।
अत्र संविदीति सामानाधिकरण्यम् ॥
एतदाराधनपरेणैव च अनेन भाव्यमित्याह
सर्वज्ञाननिधानं तु
गुरुं संप्राप्य सुस्थितः॥४७॥
४८ श्लो०]
द्वाविंशतितममाहिकम् । २६१
तमेवाराधयेद्धीमां-
स्तत्तजिज्ञासनोन्मुखः।
इयता च गुर्वन्तरगमने शङ्कोच्छेदः कटा-
क्षीकृतः॥
अथ प्रथमार्धेन प्रकृतार्थगीकारेण प्रकर-
णार्थमुपसंहरति
इति दीक्षाविधिः प्रोक्तो
लिङ्गोधरणपश्चिमः ॥४८॥
इति शिवम् ॥४८॥
अधराधरपरदर्शननिराकृतिखावमर्शसामर्शः ।
द्वाविंशमाह्निकमिदं निरणैषीजयरथामिख्यः ।।
इति श्रीतन्त्रालोकविवेके लिङ्गोद्धारप्रकाशनं नाम
द्वाविंशतितममाह्निकम् ॥ २२ ॥
अथ
श्रीतन्त्रालोके ।
श्रीमन्महामाहेश्वराचार्याभिनवगुप्तविरचिते
श्रीजयरथकृतविवेकाख्यटीकोपेते
त्रयोविंशतितममाह्निकम् ।
आस्थाय भैरववपुर्निजाकृतेः संविभागेन ।
विदधातु वः स भद्रं सर्वत इह सर्वतोभद्रः॥१॥
इदानी द्वितीयान अभिषेकविधिमभिधा-
तुमुपक्रमते
अथाभिषेकस्य विधिः
कथ्यते पारमेश्वरः॥१॥
तमेवाह
यैषा पुत्रकदीक्षोक्ता
गुरुसाधकयोरपि ।
सैवाधिकारिणी भोग्य-
तत्त्वयुक्तिमती क्रमात् ॥२॥
४ो०] त्रयोविंशतितममाह्निकम् ।
२६३
स्वभ्यस्तज्ञानिनं सन्तं
बुभूषुमथ भाविनम् ।
योग्यं ज्ञात्वा स्वाधिकारं
गुरुस्तस्मै समर्पयेत् ॥३॥
यैषेति सबीजा, अभिषेकाच्चानयोरधिकारः,
स च परीक्ष्य दातव्यः इति आचार्यस्य तावत्
परीक्षा कर्तुमारभते क्रमादित्यादिना, क्रमा-
दिति श्रुतचिन्तादिप्रमुखमित्यर्थः । एतच्च स-
र्वत्र संबन्धनीयम् । बुभूषुमिति भाविनमिति
च खभ्यस्तज्ञानितायाम् ॥३॥
ननु अभिषेकादेव तावदधिकारो भवे.
दिति सर्वत्रोक्तम् , तदिहापि अभिषेक एव
विधीयतां किं स्वभ्यस्तज्ञानित्वादिचिन्तयेत्या-
शङ्ख्याह
यो नैवं वेद नैवासा-
वभिषिक्तोऽपि दैशिकः ।
समय्यादिक्रमेणेति
श्रीमत्कामिक उच्यते॥४॥
२६४
श्रीतन्त्रालोके।
यो न वेदाध्वसन्धानं
षोढा बाह्यान्तरस्थितम् ।
स गुरुर्मोचयेन्नेति
सिद्धयोगीश्वरीमते ॥५॥
सर्वलक्षणहीनोऽपि
ज्ञानवान् गुरुरिष्यते।
ज्ञानप्राधान्यमेवोक्त-
मिति श्रीकचभार्गवे ॥६॥
पदवाक्यप्रमाणज्ञः
शिवभत्त्येकतत्परः।
समस्तशिवशास्त्रार्थ-
बोडा कारुणिको गुरुः ॥७॥
समय्यादिक्रमेण असावभिषिक्तोऽपि दैशिको
न भवेदिति संबन्धः। एवमनेकशास्त्रार्थसंवाद-
नेन गुरोः स्वभ्यस्तज्ञानित्वे सर्वत्र अविगीतत्वं
प्रकाशितम् ॥७॥
२६५ ११ श्लो०] त्रयोविंशतितममाह्निकम् । एवमपि एवंविधा गुरवो न कार्या इत्याह न स्वयंभूस्तस्य चोक्तं लक्षणं परमेशिना। अभक्तो जीवितधिया कुर्वन्नीशानधिष्ठितः॥८॥ पश्वात्मना स्वयंभूष्णु- र्नाधिकारी स कुत्रचित् । भस्माकुरो बतिसुतो दुःशीलातनयस्तथा ॥९॥ कुण्डो गोलश्च ते दुष्टा उक्तं देव्याख्ययामले। पुनर्भूश्चान्यलिङ्गो यः पुनः शैवे प्रतिष्ठितः॥१०॥ पश्वात्मनेति नतु परमेश्वरावेशशालितये- त्यर्थः । पुनर्भूश्च दुष्ट इति प्राच्येन संवन्धः॥ अस्मद्दर्शने तु ज्ञानवत्त्वमन्तरेण न कश्चि- दयं नियम इत्याह श्रीपूर्वशास्त्रे न त्वेष नियमः कोऽपि चोदितः ।
२६६ श्रीतन्त्रालोके। यथार्थतत्त्वसंघज्ञ- स्तथा शिष्ये प्रकाशकः ॥११॥ यः पुनः सर्वतत्त्वानि वेत्तीत्यादि च लक्षणम् । तथेति यथार्थमेव । यदुक्तं तत्र 'यः पुनः सर्वतत्त्वानि वेत्त्येतानि यथार्थतः । स गुरुर्मत्समः प्रोक्तो मत्रवीर्यप्रकाशकः ।। स्पृष्टाः संभाषितास्तेन दृष्टाश्च प्रीतचेतसा । नराः पापैः प्रमुच्यन्ते सप्तजन्मकृतैरपि ॥ ये पुनर्दीक्षितास्तेन प्राणिनः शिवचोदिताः। ते यथेष्टं फलं प्राप्य प्रयान्ति परमं पदम् ॥' (२।१२) इति ॥ ननु इहापि समानन्यायत्वात् तत्रान्तरोतो नियमः कस्मानानुषज्यते इत्याशङ्कयाह योगचारे च यद्यत्र तन्त्रे चोदितमाचरेत् ॥ १२॥ तथैव सिद्धये सेय- माज्ञेति किल वर्णितम् । आचरेदिति अर्थात् तत्रैव । यदुक्तं 'क्रियादिभेदभेदेन तत्रभेदो यतः स्मृतः। तसाद्यत्र यदेवोक्तं सत्कार्य नान्यतत्रतः॥
१५ श्लो०] त्रयोविंशतितममाह्निकम् । इति।न केवलं शास्त्रान्तरेषु कुलाचारादिगतत्वे- नैव गुरोरेवं नियमः, यावत् 'काणो विद्वेषजननः खल्वाटश्चार्थनाशनः।' इति 'काञ्चिकोसलकर्णाटाः कलिङ्गाः कामरूपजाः । कुङ्कुणोद्भवकावीरीकच्छदेशसमुद्भवाः ।। एते वास्तथान्येऽपि राष्ट्रियान्परिवर्जयेत् ।' इत्यादिदृष्ट्या देहदेशगतत्वेनापि ॥ अस्मच्छास्त्रे पुनः कस्मादयं नियमो नोक्त इत्याशङ्कयाह यस्तु कर्मितयाचार्य- स्तत्र काणादिवर्जनम् ॥ १३॥ यतः कारकसामग्या- कर्मणो नाधिकः क्वचित् । देव्या यामलशास्त्रे च काच्यादिपरिवर्जनम् ॥ १४ ॥ तदृष्टदोषात्क्रोधादेः सम्यक्ज्ञातर्यसौ कुतः। दृष्टदोषादिति सन्ताधादिलक्षणात् । यदुक्तं 'सन्तापं क्रोधने विद्याचञ्चले चपलाः श्रियः।'
२६८ श्रीतन्त्रालोके। इति । काच्यादिदेशजन्मा हि जनः खभावत एव कामक्रोधादिभाग्भवेदिति भावः। असा- विति क्रोधादिः, सम्यग्ज्ञाता हि आत्मवदेव सर्वभूतानि पश्यतीत्याशयः॥ नच एतदस्माभिः खोपज्ञमेवोक्तमित्याह गुरवस्तु स्वयंभ्वादि वयं यद्यामलादिषु ॥ १५॥ कर्म्यभिप्रायतः सर्व तदिति व्याचचक्षिरे। गुरवश्च यत्किंचन स्वयंभ्वादि देव्यायामलादौ वर्जनीयतयोक्तम् , तत्सर्व कर्म्यभिप्रायेण,-इति व्याचचक्षिरे व्याख्यातवन्तः इत्यर्थः । तस्मात् ज्ञानवत्त्वमेव मुख्य लक्षणमाश्रय- णीयमित्याह अतो देशकुलाचार- देहलक्षणकल्पनाम् ॥ १६॥ अनादृत्यैव संपूर्ण- ज्ञानं कुर्याद्गुरुर्गुरुम् ।
२६९ २० श्लो०] त्रयोविंशतितममाह्निकम् । अत्रैव इतिकर्तव्यतामाह प्राग्वत्संपूज्य हुत्वा च श्रावयित्वा चिकीर्षितम् ॥१७॥ ततोऽभिषिञ्चत्तं शिष्यं चतुःषष्टया ततः सकृत् । तन्मन्त्ररसतोयेन पूर्वोक्तविधिना गुरुः ॥ १८॥ विभवेन सुविस्तीर्ण ततस्तस्मै वदेत्स्वकम् । सर्व कर्तव्यसारं य- च्छास्त्राणां परमं रहः ॥१९॥ चतुःषष्ट्येति अर्थात्कलशैः । सकृदिति एकेन। अनेन च ज्ञानस्यैव प्राधान्यात् क्रियायाः अनवकृप्तिः प्रकाशिता, येन श्रीपूर्वशास्त्रे खक- पठोक्तोऽपि अभिषेकविधिरिह वितत्य नोक्तः॥ कर्तव्यसारमेव अभिधत्ते अनुग्राह्यास्त्वया शिष्याः शिवशक्तिप्रचोदिताः।
२७० श्रीतन्त्रालोके। ननु प्राक् दीक्षाकालमपहाय अभिषेकावसर एव अस्य कस्मात् परीक्षा क्रियते इत्याशङ्का निरवकाशयितुमागममेव संवादयति उक्तं ज्ञानोत्तरे चैत- ब्राह्मणाः क्षत्रिया विशः ॥२०॥ नपुंसकाः स्त्रियः शूद्रा ये चान्येऽपि तदर्थिनः। ते दीक्षायां न मीमांस्या ज्ञानकाले विचारयेत् ॥ २१ ॥ ज्ञानमूलो गुरुः प्रोक्तः सप्तसत्री प्रवर्तयेत् । प्रोक्त इति समनन्तरमेव ॥ ननु का नाम सप्तसत्री, तां च असौ कथं प्रवर्तयेदित्याशङ्कयाह दीक्षा व्याख्या कृपा मैत्री. शास्त्रचिन्ता शिवकता ॥२२॥ अन्नादिदानमित्येत- त्पालयेत्सप्तसत्रकम्।
२४ श्लो०] त्रयोविंशतितममाह्निकम् ।
अभिषेकविधौ चास्मै
करणीखटिकादिकम् ॥ २३॥
सर्वोपकरणतात-
मर्पणीयं विपश्चिते।
सोऽभिषिक्तो गुरुं पश्चा-
दक्षिणाभिः प्रपूजयेत् ॥२४॥
तदुक्तं
'निर्भत्सवं विधानेन अभिषेकं प्रदापयेत् ।'
इत्याद्युपक्रम्य
'उष्णीषमुकुटायांश्च छत्रपादुकमासनम् ।
हस्त्यश्वशिविकाद्यांश्च राज्याङ्गानि विशेषतः ॥
करणी कर्तरी खट्टी सुक्खुवौ दर्भपुस्तकम् ।
अक्षसूत्रादिकं दत्वा चतुराश्रमसंस्थितः ॥
दीक्ष्यानुग्रहमार्गेण दीक्षा व्याख्या त्वया सदा ।
अद्यप्रभृति कर्तव्येत्यधिकारः शिवाज्ञया ।'
इत्यादि
'गुरुं संपूजयेच्छिष्यो यथाविभव विस्तरैः।'
इत्यन्तम् ॥२४॥
२७२ श्रीतन्त्रालोके। नन्वेवमभिषेकमस्मै दत्त्वा गुरुणा अनन्तरं कथं वर्तितव्यमित्याशङ्कयाह ज्ञानहीनो गुरुः कर्मी वाधिकारं समर्प्य नो। दीक्षायधिकृतिं कुर्या- द्विना तस्याज्ञया पुनः॥२५॥ इत्येवं श्रावयेत्सोऽपि नमस्कृत्याभिनन्दयेत्। तस्येति खयमभिषिक्तस्य । अयं च श्लोकः क्वचित् 'पालयेत्सप्तसत्रकम्' इत्यनन्तरं भ्रमात् लेखकैलिखित इति तदुपेक्ष्यम् ॥ ज्ञानिनः पुनरयं विशेष इत्याह ततः प्रभृत्यसौ पूर्वो गुरुस्त्यक्ताधिकारकः॥ २६॥ यथेच्छं विचरेव्याख्या- दीक्षादौ यन्त्रणोज्झितः। कुर्वन्न बाध्यते यस्मा- दीपाद्दीपवदीदृशः॥ २७॥ -
३० वो.]
त्रयोविंशतितममाह्निकम् ।
२७३
सन्तानो नाधिकारस्य
च्यवोऽकुर्वन्न वाध्यते।
प्राक् च कुर्वन्विहन्येत
सिद्धातन्त्रे तदुच्यते ॥२८॥
पूर्व इति आद्यो ज्ञानीत्यर्थः । कुर्वन्नकुर्वन्
न बाध्यते इत्यनेन यन्त्रणोज्झितत्वमेवोपोह-
लितम् । दीपाद्दीपवदिति नहि दीपान्तरं जन-
यतो दीपस्य प्रकाशकतायां कश्चिद्विशेष इत्या-
शयः । च्यवःप्रच्यवः। प्राक् अत्यक्ते अधिकारे॥
तत्रत्यमेव ग्रन्थं पठति
यथार्थमुपदेशं तु
कुर्वन्नाचार्य उच्यते।
न चावज्ञा क्रियाकाले
संसारोद्धरणं प्रति ॥२९॥
न दीक्षेत गुरुः शिष्यं
तत्त्वयुक्तस्तु गर्वतः।
योऽस्य स्यान्नरके वास
इह च व्याधितो भवेत् ॥३०॥
२७४ श्रीतन्नालोके। य इति अवज्ञावान् गर्वितश्च । अस्येति एवं- विधस्य ॥ ३०॥ इदानीमस्य आचार्यस्य विद्याव्रतमभिधत्ते प्राप्ताभिषेकः स गुरुः षण्मासान्मन्त्रपद्धतिम् । सर्वां तन्त्रोदितां ध्याये- जपेचातन्मयत्वतः ॥३१॥ यदैव तन्मयीभूत- स्तदा वीर्यमुपागतः। छिन्द्यात्पाशांस्ततो यत्न कुर्यात्तन्मयतास्थितौ ॥ ३२॥ सर्वां मनपद्धतिमिति देवीत्रयं, भैरवचतुष्ट- यम्, अघोराद्यष्टकं च । यदुक्तम् 'आचार्योऽपि च षण्मासं मौनी प्रतिदिनं जपेत् । दश पञ्च च ये मन्त्राः पूर्वमुक्ता मया तव ॥ पूर्वन्यासेन संनद्धस्त्रिकालं वहिकार्यकृत् । ध्यायेत्पूर्वोदितं शूलं ब्रह्मचर्य समाश्रितः॥ कृत्वा पूर्वोदितं यागं त्रिशूलपरिमण्डलम् । अभिषिश्वेत्तदात्मानझादावन्ते च दैशिकः ॥
३५ श्लो०] त्रयोविंशतितममादिकम् । २७५ एवं चीर्णवतो भूत्वा मत्री मअविदुत्तमः । निग्रहानुग्रहं कर्म कुर्वन्न प्रतिहन्यते ॥ (मा०वि०१०॥३५) इति ॥३२॥ एवं मन्नपद्धतिं जपतस्तन्मयतास्थितौ यु- तिमाह हृच्चक्रादुत्थिता सूक्ष्मा शशिस्फटिकसंनिभा। लेखाकारा नादरूपा प्रशान्ता चक्रपतिगा ॥ ३३॥ द्वादशान्ते निरूढा सा सौषुम्ने त्रिपथान्तरे। तत्र हृच्चक्रमापूर्य जपेन्मन्त्रं ज्वलत्प्रभम् ॥३४॥ चक्षुर्लोमादिरन्ध्रौघ- वहज्वालौर्वसंनिभम् । सौषुम्नेत्यनेन पिङ्गलापि लक्ष्यते । तत्रेति प्राणशक्तौ द्वादशान्ते निरूढायां सत्यां, हृ. चक्रमिति गमागमाभ्यां तेन हृच्चकादारभ्य २७६ श्रीतन्त्रालोके । हृच्चक्र यावच्चेति ज्ञेयम् । चक्षुरादिरन्ध्रौधेभ्यो वहज्वालत्वादेव वडवाग्मितुल्यमत्यन्तदीप्तमि. त्यर्थः । अत एवोक्तं ज्वलत्प्रभमिति ॥ गमागमावेव मन्त्रस्य दर्शयति यावच्छान्तशिखाकीर्ण विश्वाज्यप्रविलापकम् ॥३५॥ तदाज्यधारासंतृप्त- मानाभिकुहरान्तरम्। एवं मन्त्रा मोक्षदाः स्यु- र्दीप्ता बुद्धाः सुनिर्मलाः॥३६॥ शान्ते द्वादशान्ते सर्ववृत्तिसंक्षयात् अत एवोक्तं विश्वाज्यप्रविलापकमिति । नाभीत्यनेन सामीप्यात् हृच्चक्रं लक्ष्यते । एवमिति प्राणश- क्तितया उच्चारात् ॥ ३६॥ एवं मनस्य प्राणशक्तेश्च ऐक्ये सिद्धे कुत्र नाम चक्राधारादौ जप्यमानोऽस्य मन्त्रः खवी- याक्रमणात्मकं महत्त्वं यायादित्याह मूलकन्दनभोनाभि- हृत्कण्ठालिकतालुगम् ।
३९ श्लो०] त्रयोविंशतितममाहिकम् ।
अर्धेन्दुरोधिकानाद-
तदन्तव्यापिशक्तिगम् ॥३७॥
समनोन्मनशुद्धात्म-
परचक्रसमाश्रितम्।
यत्र यत्र जपेच्चके
समस्तव्यस्तभेदनात् ॥३८॥
तत्र तत्र महामन्त्र
इति देव्याख्ययामले।
तदन्तो नादान्तः। परचक्रम्
उन्मन्यन्ते परः शिवः।
इति निरूपितम् । क्रमस्य च अत्र अविवक्ष-
णात् कचिदक्रमेणापि अभिधानम् । जपेदित्य-
र्थात् मन्त्रं, यस्य तत्तच्चक्राधाराधिगतत्वं विशेष-
णतया उपात्तम् । समस्तव्यस्तभेदनादिति स-
मस्तत्वं व्यस्तत्वं च अवलम्ब्येत्यर्थः॥
प्रकृतमेवोपसंहरति
विद्याव्रतमिदं प्रोक्तं
मन्त्रवीर्यप्रसिद्धये ॥३९॥
२७८
श्रीतन्त्रालोके ।
तच्च तादात्म्यमेवेति
यदुक्तं स्पन्दशासने।
तदाक्रम्य बलं मन्त्राः
सर्वज्ञबलशालिनः॥४०॥
प्रवर्तन्तेऽधिकाराय
करणानीव देहिनाम्।
तदिति व्रतम् । तादात्म्यमेवेति मन्त्रेण ॥
एवं च कृतविद्याव्रतस्यैव अस्य सप्तसत्र्याम-
धिकार इत्याह
कृतविद्याव्रतः पश्चा-
दीक्षाव्याख्यादि सर्वतः ॥४१॥
कुर्यायोग्येषु शिष्येषु
नायोग्येषु कदाचन ।
योग्यायोग्यपरीक्षायां च अस्य उदाहरणदिशा
युक्तिं दर्शयति
रहस्ये योजयेद्विप्रं
परीक्ष्य विपरीततः॥४२॥
४४ श्लो०]
त्रयोविंशतितममाह्निकम् ।
आचाराच्छक्तिमप्येवं
नान्यथेत्यूर्मिशासने।
विपरीतत आचारादिति श्रुतिस्मृतिविरु-
द्धात् मद्यपानादेः । एवमिति विपरीतादेव
आचारात् लोकविरुद्धात् निधुवनादेः, इतरथा
हि लोभलौल्यादिना प्रवर्तयेतामित्युक्तं ना-
न्यथेति ॥
एवं परानुग्रहव्यग्रतया नित्याद्यपि अयं सं-
क्षेपेण कुर्यादित्याह
नित्याद्यल्पाल्पकं कुर्या-
यदुक्तं ब्रह्मयामले ॥४३॥
चीर्णविद्यावतः सर्व
मनसा वा स्मरेत्प्रिये।
ननु अयं परीक्षणपरोऽपि प्रमादात् कस्मि-
श्चिदयोग्यतामजानान एव दीक्षां कुर्वाणः किं
दुष्यति नवेत्याशङ्याह
देहसंबन्धसंछन्न-
सार्वत्यो दम्भभाजनम् ॥४४॥
" २८० श्रीतन्त्रालोके । अविदन्दीक्षमाणोऽपि न दुष्येदेशिकः कचित् । ज्ञात्वा वयोग्यतां नैनं दीक्षेत प्रत्यवायिताम् ॥४५॥ बुवा अवेदने देहसंबन्धसंछन्नसार्वयं हेतुः दीक्षेतेति लोभादिना ॥४५॥ एवमपि दीक्षितस्य ज्ञानदानादौ पौनःपुन्येन परीक्षां कुर्यादित्याह ज्ञाने शास्त्रसिद्धि- गुरुत्वादौ च तं पुनः। भूय एव परीक्षेत .. तत्तदौचित्यशालिनम् ॥ ४६॥ तत्र तत्र नियुञ्जीत नतु जातु विपर्ययात् । परीक्षेत इत्यत्र च्छेदः । तत्र तत्रेति ज्ञान- शास्त्रादौ । विपर्ययादिति तत्तदौचित्यशालित्व- विलक्षणात् ॥...
१९ श्लो०] त्रयोविंशतितममादिकम् । २८१ ननु एवं जिज्ञासान्यथानुपपत्त्या नूनमस्य पारमेश्वरमधिष्ठानमस्ति, तदेव च योग्यत्वमु- च्यते इति किमन्येन योग्यत्वायोग्यत्वपरी- क्षणेनेत्याशङ्कते ननु तहस्त्वयोग्यस्य तत्रेच्छा जायते कुतः ॥४७॥ तदीशाधिष्ठितेच्छैव योग्यतामस्य सूचयेत् । तत्रेति ज्ञानादौ ॥ एतदेवाभ्युपगम्य प्रतिविधत्ते सत्सं कापि प्रवुद्धासा- विच्छा रूढिं न गच्छति॥४८॥ विद्युद्वत्पापशीलस्य यथा पापापवर्जने। ननु परमेश्वराधिष्ठानात् प्रबुद्धापि एवमि- च्छा कथं न प्ररोहं गच्छेदित्याशङ्कयाह रूट्यरूढी तदिच्छाया अपि शंभुप्रसादतः॥४९॥ ३६ ૨૮૨ श्रीतन्त्रालोके। अत एव नायं प्रबुद्धायामपि तत्रेच्छायां तदप्ररोहात् ज्ञानादौ पात्रमित्याह अप्ररूढतथेच्छाक- स्तत एव न भाजनम् । यः सम्यग्ज्ञानमादाय गुरुविश्वासवर्जितः॥५०॥ लोकं विश्लावयेन्नास्मि- ज्ञाते विज्ञानमर्पयेत् । विप्लावयेदिति विरुद्धाचरणात् । एवमस्मिन्न- प्ररूढेच्छाकत्वादयोग्यतया ज्ञाते विज्ञानमेव नार्पयेदित्याह नास्मिन्नित्यादि। यः पुनरेवं ज्ञानार्पणकाले न ज्ञातस्तदुत्तर- कालं तु ज्ञातस्तस्य ज्ञानापहरणमेव कुर्यादित्याह अज्ञातेऽपि पुनाते विज्ञानहरणं चरेत् ॥५१॥ एतदेव मतेर्हरणमाह पुनःपुनर्यदा ज्ञातो विश्वासपरिवर्जितः।
५५ श्लो०] त्रयोविंशतितममाहिकम् । २८३ तदा तमग्रतो ध्याये- स्फुरन्तं चन्द्रसूर्यवत् ॥५२॥ ततो निजहृदम्भोज- बोधाम्बरतलोदिताम् । वर्भानुमलिनां ध्याये- द्वामां शक्तिं विमोहनीम् ॥५३॥ वामाचारक्रमेणैनां निःसृतां साध्यगामिनीम् । चिन्तयित्वा तया ग्रस्त- प्रकाशं तं विचिन्तयेत् ॥५४॥ अनेन क्रमयोगेन मूढबुद्धेर्दुरात्मनः। विज्ञानमन्त्रविद्याद्याः प्रकुर्वन्त्यपकारिताम् ॥५५॥ पुनः पुनरिति अत्रापि यथा अन्यथाभावो न भवेदिति भावः। वामाचार इति संहारक्रमेणे- त्यर्थः। तदुक्तं 'न्यायेन ज्ञानमादाय पश्चान्न प्रतिपद्यते । तदा तस्य प्रकुर्वीत विज्ञानापहृतिं बुधः ॥
२८१
श्रीतन्त्रालोके ।
ततस्तं दीप्तमालोक्य तदङ्गुष्ठाग्रतः क्रमात् ।
नयेचेजः समाहृत्स द्वादशान्तमनन्यधीः ॥
अथवा सूर्यबिम्बाभं ध्यात्वा विच्छेद्यमग्रतः ।
खर्भानुरूपया शक्त्या ग्रस्तं तमनुचिन्तयेत् ।।
अनेन विधिना तस्स मूढबुद्धेर्दुरात्मनः ।
विज्ञानमत्रविद्याद्या न कुर्वन्त्युपकारिताम् ॥
अपराधसहस्रेस्तु महाकोपसमन्वितः।
विधिमेनं प्रकुर्वीत क्रीडार्थ नतु जातुचित् ।'
(मा०वि० १८६६)
इति ॥ ५५॥
ननु आत्मनो ज्ञानक्रिये रूपं तदात्मनो
ज्ञानापहरणात् नाश एव स्यात्, नहि अस्माकं
काणादादिवत् आत्मज्ञानयोः गुणगुणिभावोs-
भिमत इति कथमेतदस्मदागमेऽभिहितमित्या-
शङ्कते
ननु विज्ञानमात्मस्थं
कथं हर्तु क्षमं भवेत्।
अतो विज्ञानहरणं
कथं श्रीपूर्व उच्यते ॥५६॥
५९ श्लो०] त्रयोविंशतितममाह्निकम् । २८५ , एतदेव प्रतिविधत्ते उच्यते नास्य शिष्यस्य विज्ञानं रूढिमागतम् । तथात्वे हरणं कस्मा- त्पूर्णयोग्यत्वशालिनः ॥ ५७॥ नहि एतज्ज्ञानमस्य शिष्यस्य रूढिमागतं शुद्धतामुपागतमित्यर्थः । रूढ्युपगमे हि परे पूर्णे धानि ऐक्यात्म्यापत्तिसहिष्णुतया श्लाघमा- नस्य ज्ञानस्य कथङ्कारं हरणमेव स्यात् , एवं हि आत्मनो नाश एव भवेदित्युक्तप्रायम् ॥५७॥ नन्वस्योपदेशस्तावत् वृत्त इति किमिति न ज्ञानं रूढिमागतमित्याशङ्कयाह किंत्वेष वामया शक्त्या मूढो गाढं विभोः कृतः। स्वभावादेव तेनास्य विद्याद्यमपकारकम् ॥ ५८ ।। ननु विलयशक्क्याघ्रातत्वादस्य खभावत एव चेत् विद्यायमपकारक, तत् गुरुः किमर्थं विज्ञा- नापहरणं कुर्यादित्याशङ्कयाह २८६ श्रीतन्त्रालोके । गुरुः पुनः शिवाभिन्नः सन्यः पञ्चविधां कृतिम्। कुर्याद्यदि ततः पूर्ण- मधिकारित्वमस्य तत् ॥ ५९॥ अतो यथा शुद्धतत्त्व- सृष्टिस्थित्योर्मलात्यये। योजनानुग्रहे कार्य- चतुष्केऽधिकृतो गुरुः ॥६॥ शिवाभेदेन तत्कुर्या- त्तद्वत्पञ्चममप्ययम्। तिरोभावाभिधं कृत्यं तथासौ शिवतात्मकः ॥६१॥ अत इति पञ्चकृत्यकारित्वेन पूर्णाधिकारि- त्वात् । तदिति कार्यचतुष्कम् । एवं कृत्यपञ्च- ककारित्वेन अस्य किं स्यादित्याशङ्कयोक्तं तथासौ शिवतात्मक इति ॥ ६१॥ एवं च श्रेयोरूपत्वादेव क्वचिदपि नायं कु- प्येदित्याह
६३ श्लो त्रयोविंशतितममाहिकम् ।
अत एव शिवे शास्त्रे
ज्ञाने चाश्वासभाजनम् ।
गुरोर्मूढतया कोप-
धामापि न तिरोहितः॥६२॥
अतः शिवात्मकत्वादेव गुरोर्भूतपूर्वगत्या
शैवशास्त्रादौ आश्वासभाजनं मूढतया तिरोहि-
तोऽपि शिष्यो न कोपधाम, नास्य गुरुणा कोपः
कार्य इत्यर्थः ॥ ६२॥
ननु किमेतदुक्तं यद्यस्यैव गुरुः कुपितः स
एव संसारी तिरोहितः इत्युच्यते इत्याह
गुरुर्हि कुपितो यस्य
स तिरोहित उच्यते।
संसारी
सत्यमेवं, सतु गुरुनिखिलजगदुद्दिधीर्षाप-
रतया परमकारुणिकः परमेश्वर एव, सच स-
त्यज्ञानमय इति कः कस्य कोपं कुर्यादित्याह
,
सतु देवो हि
गुरुर्न च मृषाविदः॥६३॥
२८८ श्रीतन्त्रालोके। तत एव च शास्त्रादि- दूषको यद्यपि क्रुधा। न दह्यतेऽसौ गुरुणा तथाप्येष तिरोहितः॥६४॥ हिरवधारणे । मृषाविद इति मिथ्याज्ञान- रूप इत्यर्थः, तथात्वे भवेदेव कोपस्यावकाश इत्याशयः। तत इति मिथ्याज्ञानरूपत्वाभावा- देव । तथापीति वस्तुमहिम्नो दुर्लध्यत्वात् ॥६॥ तदेव अस्मद्गुरूणामपि मतमित्याह अस्मद्गुर्वागमस्त्वेष तिरोभूते स्वयं शिशौ। न कुप्येन शपेद्धीमान् स ह्यनुग्राहकः सदा ॥६५॥ तुर्झर्थे ॥६५॥ नहि अस्य स्वयमेव तिरोधित्सोरत्रान्यत्कि- चित्कर्तव्यमवशिष्यते यदनेनापि कार्यमित्याह ईशेच्छाचोदितः पाशं यदि कण्ठे निपीडयेत्।
२८९ ६८ श्लो०] त्रयोविंशतितममाह्निकम् । किमाचार्येण तत्रास्य कार्या स्यात्सहकारिता ॥६६॥ किं कार्या स्यादिति नात्र सहकारिणा क- श्चिदर्थ इत्यर्थः ॥ ६६ ॥ ननु यद्येवं, तच्छिवाभेदिनोऽस्य पञ्चविध- कृत्यकारित्वं किं न खण्ड्येतेत्याशङ्याह शिवाभिन्नोऽपि हि गुरु- रनुग्रहमयीं विभोः। मुख्यां शक्तिमुपासीनो- ऽनुगृह्णीयात्स सर्वथा ॥६७॥ यदुक्तं तत्र 'अनेन विधिना भ्रष्टो विज्ञानादपरेण न । शक्यो योजयितुं भूयो यावत्तेनैव नोद्धृतः ॥ (मा०वि०१८/६७) इति ॥ ६७॥ ननु तर्हि किमर्थं विज्ञानापहरणं कुर्यादि- त्याधुक्तमित्याशङ्कयाह स्वातन्त्र्यमात्रज्ञप्त्यै तु कथितं शास्त्र ईदृशम् ।
२९०
श्रीतन्त्रालोके ।
न कार्य पततां हस्ता-
लम्बः सह्यो न पातनम् ॥६॥
एवमस्य कृपापरेणैव भाव्यमित्याह
अत एव स्वतन्त्रत्वा-
दिच्छायाः पुनरुन्मुखम् ।
प्रायश्चित्तैर्विशोध्यैनं
दीक्षेत कृपया गुरुः ॥ ६९ ॥
खतनत्वादिति एतदेव हि नाम अस्याः खा-
तत्र्यं यन्निग्रहीतस्यापि पुनरनुग्रह इति ॥६९॥
ननु इतः पतितस्तिरोहित एव उच्यते
इत्युक्तम् , एवमसौ ततोऽपि च इतराश्वस्ततया
पतितस्तदुभयभ्रष्टत्वादिहापि कथमनुग्राह्यः
स्यादित्याशङ्कयाह
ऊर्ध्वदृष्टौ प्रपन्नः स-
न्ननाश्वस्तस्ततः परम् ।
अधःशास्त्रं प्रपद्यापि
न श्रेयःपात्रतामियात् ॥७॥
७४ श्लो०] त्रयोविंशतितममाह्निकम् । २९१ अधोदृष्टौ प्रपन्नस्तु तदनाश्वस्तमानसः। ऊर्ध्वशासनभाक् पापं तच्चोझेच शिवीभवेत् ॥७॥ एतदेव दृष्टान्तोपदर्शनेन घटयति राज्ञे द्रुह्यन्नमात्याङ्ग- भूतोऽपि हि विहन्यते। विपर्ययस्तु नेत्येव- मूर्ध्वा दृष्टिं समाश्रयेत् ॥७२॥ अत एव अस्मच्छास्त्रमप्येवमित्याह श्रीपूर्वशास्त्रे तेनोक्तं यावत्तेनैव नोद्धृतः। एतदेव तात्पर्यतो व्याचष्टे अन ह्यर्थोऽयमेताव- त्पूर्वोक्तज्ञानदंहितः ॥७३॥ गुरुस्तावत्स एवात्र तच्छब्देनावमृश्यते । अविप्रतिपत्तिद्योतकस्तावच्छब्दः ॥
२९२ श्रीतन्त्रालोके । एवकारार्थमप्याह ताइक्वभ्यस्तविज्ञान- भाजोर्ध्वपदशालिना ॥ ७४॥ अनुवृतस्य न श्रेय एतदन्यगुरूद्धृतेः। अत एवाम्बुजन्मार्क- दृष्टान्तोऽत्र निरूपितः॥७५॥ निरूपित इत्येतद्विवरण एव पश्चिकायाम् । यदुक्तं तत्र *"दिवाकरकरासारविरहात्संकुचत्कजम् । सत्वप्यन्यग्रहमह खेति नैव विकासिताम् ॥ एवं शिष्यहृदम्भोज गुरुपादविवर्जितम् । निमीलद्विकसत्येव पुनस्तत्पादपाततः ॥ इति ॥७५॥ ननु अस्य अन्योऽपि गुरुरस्तु तेनैव गुरुणा कोऽर्थ इत्याशङ्कां दृष्टान्तान्तरेणापि निरव- काशयति त्रिजगज्योतिषो ह्यन्य- तेजोऽन्यच्च निशाकृतः।
७८ श्लो०] त्रयोविंशतितममाहिकम् । २९३ ज्ञानमन्यत्रिकगुरो- रन्यत्त्वधरवर्तिनाम् ॥ ७६॥ ननु एवमन्तरा चेदस्य गुरोः पिण्डपातो वृत्तः, तदा अनेन किं कार्यमित्याशङ्कयाह अत एव पुराभूत- गुर्वभावो यदा तदा। तदन्यं लक्षणोपेत- माश्रयेत्पुनरुन्मुखः॥७७॥ अस्य च अत्र लक्षणं 'यः पुनः सर्वतत्त्वानि.........।' (मा०वि० २०१०) इत्यादिनोक्तम् ॥ ७७॥ तस्मिंस्तु जीवति तत्त्यागो न कार्य इत्याह सति तस्मिंस्तून्मुखः स- न्कस्माजह्याद्यदि स्फुटम् । स्यादन्यतरगो दोषो योऽधिकारापघातकः ॥७८॥ एवमूर्ध्वशासनस्थ एव गुरुराश्रयणीय इति २९४ श्रीतन्त्रालोके। अत्र तात्पर्यम् । सति तु दोषे परस्परस्यापि त्यागः कार्य इत्याह यदीत्यादि ॥ ७ ॥ ननु किमत्र लौकिको दोषो ग्राह्यः शा- स्त्रीयो वेत्याशङ्कयाह दोषश्वेह न लोकस्थो दोषत्वेन निरूप्यते। अज्ञानख्यापनायुक्त- ख्यापनात्मा त्वसौ मतः॥७९॥ शिष्यस्यापि तथाभूत- ज्ञानानाश्वस्तरूपता। मुख्यो दोषस्तदन्ये हि दोषास्तत्प्रभवा यतः ॥८॥ शास्त्रीयस्यैव दोषस्य स्वरूपं निरूपयति अ. ज्ञानेत्यादिना । अपिशब्दागुरोरिति लभ्यते, तेन गुरोः शिष्यस्य च असौ मुख्यो दोषो मत इति संबन्धः। तत्र तावद्गुरोरज्ञानं ज्ञत्वेऽपि ख्यापयि- तुमसामर्थ्यम्, तत्त्वेऽपि अयुक्तस्य अर्थस्य ख्या- पनमिति । अन्ये इति गुरोरविहितानुष्ठानादयः, २९५ ८२ श्लो०] त्रयोविंशतितममाहिकम् । शिष्यस्य च गुर्वपरिग्रहादयः । हिर्वाक्या- लङ्कारे ॥ ८॥ गुर्वपरिग्रहादेश्च ज्ञानानाश्वासहेतुकत्वमेव अन्वयव्यतिरेकाभ्यां दृष्टान्तमुखेन द्रढयति न ध्वस्तव्याधिकः को हि भिषजं बहु मन्यते। असूयुनूनमध्वस्त- व्याधिः स्वस्थायते वलात्॥८॥ एवं ज्ञानसमाश्वस्तः किं किं न गुरवे चरेत्। नो चेन्नूनमविश्वस्तो विश्वस्त इव तिष्ठति ॥ ८२॥ यथाहि ध्वस्तव्याधिः सर्वो जनः त्वत्प्र- सादोपनतप्राणा वयमित्येवं भिषजे बहुमानं कुर्यात्, तं प्रति असूयुरीया॑वान् पुनर्निश्चितम- ध्वस्तव्याधिमस्वस्थमपि आत्मानं स्वस्थमिव बलात् मन्यते, तथा ज्ञानसमाश्वस्तः शिष्यो गुरवे किं नाम न आनुगुण्यमाचरेत् , ज्ञानं प्रति
२९६
श्रीतन्त्रालोके ।
अनाश्वस्तस्तु वस्तुवृत्तेन अविश्वस्तोऽपि किं
मम गुरुणा कार्यमिति विश्वस्त इव तिष्ठति
खात्मन्येवं वृथाभिमानं विदध्यादित्यर्थः ॥८॥
ननु गुरोः शास्त्रीय एव दोषो ग्राह्यो न
लौकिक इत्यत्र किं प्रमाणमित्याशङ्कयाह
अज्ञानादय एवैते
दोषा न लौकिका गुरोः।
इति ख्यापयितुं प्रोक्तं
मालिनीविजयोत्तरे ॥ ८३॥
न तस्यान्वेषयेद्वृत्तं
शुभं वा यदि वाशुभम् ।
स एव तद्विजानाति
युक्तं चायुक्तमेव वा ॥ ८४॥
अकार्येषु यदा सक्तः
प्राणद्रव्यापहारिषु।
तदा निवारणीयोऽसौ
प्रणतेन विपश्चिता ॥ ८५॥
२९७ ८७ श्लो०] त्रयोविंशतितममाहिकम् । विशेषणमकार्याणा- मुक्ताभिप्रायमेव यत् । तेनातिवार्यमाणोऽपि यद्यसौ न निवर्तते ॥८६॥ तदान्यत्र कचिद्गत्वा शिवमेवानुचिन्तयेत् । नान्वेषयेदिति । यदुक्तं 'प्रपित्सायां समाचारं गुरोरन्वेषयेत यः। स सद्गुरुं समासाद्य शीघ्रं शिवमवाप्नुयात् ।। ऊर्ध्वं तत्पादपतनानास कांचन कालिकाम् । गृह्णीयात्सा मलिनयेच्छिष्यसैवोज्वलां धियम् ॥' इति । स एव विजानातीति तस्यैव शास्त्रपार- गमत्वात् । उक्ताभिप्रायमिति प्राणद्रव्यापहारि- त्वस्य लौकिकत्वात्॥ ननु यद्येवमसौ कार्याकार्यविवेकं न जानी- यात्, तत् 'गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्पथप्रतिपन्नस्य परित्यागो विधीयते ॥ , ३८ २९८ श्रीतन्त्रालोके। इत्यादिदृशा तस्य परित्याग एव क्रियता, किम- न्यत्र गमनेनेत्याशङ्कयाह न ह्यस्य स गुरुत्वे स्या- दोषो येनोपरे कृषिम् ॥ ८७॥ कुर्याद्रजेन्निशायां वा स त्वर्थप्राणहारकः। तदीयाप्रियभीरुस्तु परं तादृशमाचरेत् ॥ ८८॥ यतस्तदप्रियं नैष शृणुयादिति भाषितम् । नच एतदस्मच्छास्त्र एवोक्तमित्याह श्रीमातङ्गे तदुक्तं च नाधीतं भूमभीतितः॥ ८९॥ भूमभीतित इति ग्रन्थविस्तरभयादित्यर्थः । तत् ततः खयमेव चर्यापादादेरनुसतव्यम् ॥८९॥ ननु यावत्तेनैव नोद्धृत इति किं गुर्वन्तर- व्यवच्छेदपरमवधारणम् , उत स्वतोविवेकनि- षेधपरमपीत्याशझ्याह २९९ ९२ श्लो०] त्रयोविंशतितममाहिकम् । यच्चैतदुक्तमेताव- कर्तव्यमिति तद्भुवम्। तीव्रशक्तिगृहीतानां स्वयमेव हृदि स्फुरेत् ॥ ९०॥ यद्येवं, तत्कृतं गुरुणेत्याशङ्याह उपदेशस्त्वयं मन्द- मध्यशक्तेर्निजां कमात् । शक्तिं ज्वलयितुं प्रोक्तः सा ह्येवंजाज्वलीत्यलम् ॥११॥ एतदेव दृष्टान्तयति दृढानुरागसुभग- संरम्भाभोगभागिनः। खोल्लासि स्मरसर्वस्वं दाव्यान्यत्र दृश्यते ॥ ९२॥ अन्यत्रेति अदृढानुरागे ॥ ९२ ॥ ननु सर्वोऽयमणुवर्गः चित एव परिस्फु- रति, सा च सर्वत्रापि अविशिष्टा, तत्कथमिद- ३०० श्रीतन्त्रालोके । मसमञ्जसं दृष्टान्तितं यत् कस्यचित् खत एव ए- वरूपत्वमुल्लसेत् , कस्यचिच्च अन्यदित्याशङ्कयाह नन्वेष कस्मादृष्टान्तः किमेतेनाशुभं कृतम् । चित्स्पन्दः सर्वगो भिन्ना- दुपाधेः स तथा तथा ॥९३॥ एतदेवोत्तरयति किमित्यादिना। ननु किं नामैतेन दृष्टान्तेन असमञ्जसीकृतम् । स हि चित्स्पन्दः सर्वत्र अविशिष्टोऽपि तत्तद्भिन्नोपा- धिदौरात्म्यात् तथा तथा विचित्रतामाश्रये- दित्यर्थः॥ ९३॥ तामेव विचित्रतां दर्शयति भवेत्कोऽपि तिरोभूत पुनरुन्मुखितोऽपि सन्। विनापि दैशिकात्प्राग्व- स्वयमेव विमुच्यते ॥९४॥ सन्नपीति प्रागपि योज्यम् । प्राग्वदिति त्र- योदशाहिकादौ प्रोतक्रमणेत्यर्थः ॥ ९४ ॥ .
९६ श्लो०] त्रयोविंशतितममाह्निकम् । ३०१ ननु तिरोभूतोऽपि किं सांसिद्धिकज्ञान- भाग्भवेदित्याशझ्याह प्रकारस्त्वेष नात्रोक्तः शक्तिपातवलाद्गतः। असंभाव्यतया चात्र दृढकोपप्रसादवत् ॥ ९५॥ नहि अयमत्र तिरोभूते सांसिद्धिकलक्षणः प्रकार उक्तः, किंतु प्रकरणात् संभवमात्राभि- प्रायेण प्रदर्शितो यदयं तिरोभृतः शक्तिपात- बलात् गतो मन्दमन्दप्रायशक्तिपातभागित्यर्थः । असंभावनीयं चैतत् यथाहि राजादिना दृढ- तया कोपपात्रीकृतस्य कस्यचित् विना परो- परोधं समनन्तरमेव तदीयः प्रसादो न भवेत्, तथा अस्यापि विना दैशिकं कथङ्कारं स्वयमेव ज्ञानमाविर्भवेत् । इयता च विषयद्वारेण ज्ञा- नापहरणमेव विभक्तम् ॥ ९५ ॥ एतच्च गुरोरवश्यं पालनीयमित्याह इत्येष यो गुरोः प्रोक्तो विधिस्तं पालयेद्गुरुः।
३०२ श्रीतन्त्रालोके। अन्यथा न शिवं याया- च्छीमत्सारे च वर्णितम् ॥९६॥ श्रीत्रिकसारोक्तमेव पठति अन्यायं ये प्रकुर्वन्ति शास्त्रार्थं वर्जयन्त्यलम् । तेऽर्धनारीशपुरगा गुरवः समयच्युताः॥९७॥ अर्धनारीशपुरेति । यदुक्तं तत्र 'उपरिष्टाद्विन्दुतत्त्वमीश्वरस्तत्र देवता । विधिः समयिनां तत्र कथितस्तव निश्चितम् ॥ तदूर्वे अर्धनारीशो महाभुवनसंकुलः। स्कन्दयामलतत्रे तु अनन्तः परिकीर्तितः ॥ समयाचारभ्रष्टानामाचार्याणां यशखिनि । निरोधकत्वे संतिष्ठेदित्याज्ञा पारमेश्वरी ॥ अन्यायं ये प्रकुर्वन्ति ग्रन्थार्थ नार्थयन्ति ये । तेषां तत्र निवासस्तु अन्यायपथवर्तिनाम् ॥' इति ॥ ९७॥ एतच्च न केवलमत्रैवोक्तं, यावदागमान्तरे- वपीत्याह १०० श्लो०] त्रयोविंशतितममाह्निकम् । ३०३ - अन्यत्राप्यधिकारं च नेयाद्विद्येशतां ब्रजेत् । अन्यत्र समयत्यागा- क्रव्यादत्वं शतं समाः॥९८॥ यदुक्तम् 'अधिकारं न चेत्कुर्याद्विद्येशः सात्तनुक्षये ।' इति । तथा 'समयोल्लङ्घनादेवि च्यादत्वं शतं समाः।' इति च ॥ ९८॥ अत्रैव वाक्यत्रये तात्पर्यतो विषयविभाग- माचष्टे इयत्तत्रत्यतात्पर्य सिद्धान्तगुरुरुन्नयः। भवेत्पिशाचविद्यशः शुद्ध एव तु तान्त्रिकः॥९९॥ षडर्धदैशिकश्चार्ध- नारीशभुवनस्थितिः। उन्नय इति उल्लचितसमय इत्यर्थः । एतच्च ३०४ श्रीतन्त्रालोके। उत्तरत्रापि योज्यम् । शुद्ध इति साक्षाद्विद्येश- रूपः। तात्रिको भैरवीयदर्शनादिनिष्ठः॥ अत्रापि विषयविभागमाह एषा कर्मप्रधानानां गुरूणां गतिरुच्यते ॥१०॥ ज्ञानिनां चैष नो बन्ध इति सर्वत्र वर्णितम् । इदानीं साधकत्वमभिधातुं तदभिषेके पूर्वोक्तं विधिमतिदिशति साधकस्याभिषेकेऽपि सर्वोऽयं कथ्यते विधिः॥१०१॥ अत्रापि विशेषमाह अधिकारार्पणं नात्र नच विद्याव्रतं किल । साध्यमन्त्रार्पणं त्वत्र खोपयोगिक्रियाक्रमे ॥१०२॥ समस्तेऽप्युपदेशः स्या- निजोपकरणार्पणम् ।
१०३ श्लो०]
त्रयोविंशतितममाह्निकम् ।
३०५
उपदेश इति । यदुक्तम्
'अनयोः कथयेज्ज्ञानं त्रिविधं सम्यगायलम् ।
खकीयाज्ञां ददेद्योगी खक्रियाकरणं प्रति ॥'
इति । निजोपकरण इति । यदुक्तं
'साधकस्याधिकारार्थमक्षमालादि कल्पयेत् ।
मत्रकल्पाक्षसूत्रं च खटिकां छत्रपादुके ॥
उष्णीषरहितं दत्त्वा प्रविश्य शिवसंनिधौ।
साध्यमत्रं ददेत्पश्चात्पुष्पोदकसमन्वितम् ।।'
इति ॥
एतदेव प्रथमार्धेनोपसंहरति
अभिषेकविधिनिरूपितः
परमेशेन यथा निरूपितः॥१०३॥
इति शिवम् ॥ १०३॥
श्रीसद्गुरुसेवारससनातनाम्यासदुर्ललितवृत्तः ।
आह्निकमेतदमलमतिाकार्षीजयरथस्त्रयोविंशम् ॥
इति श्रीतन्त्रालोकविवेकेऽभिषेकप्रकाशनं नाम त्रयो-
विशमाहिकम् ॥ २३ ॥
अथ
श्रीतन्त्रालोके ।
श्रीमन्महामाहेश्वराचार्याभिनवगुप्तविरचिते
श्रीजयरथकृतविवेकाख्यटीकोपेते
चतुर्विंशतितममाह्निकम् ।
यः परमामृतकुम्भ धाग्नि परे योजयेद्गतासुमपि ।
जगदात्मभद्रमूर्तिर्दिशतु शिवं भद्रमूर्तिर्वः॥१॥
इदानी द्वितीयार्धेन अन्त्येष्टिविधिमभिधा-
तुमुपक्रमते
अथ शाम्भवशासनोदितां
सरहस्यां शृणुतान्त्यसंस्क्रियाम् १
तत्र अधिकारिखरूपं तावन्निरूपयति
सर्वेषामधरस्थानां
गुन्तानामपि स्फुटम् ।
शक्तिपातात्पुराप्रोक्ता-
कुर्यादन्येष्टिदीक्षणम् ॥२॥
३०७
५ श्लो चतुर्विंशतितममाह्निकम् ।
ऊर्ध्वशासनगानां च
समयोपहतात्मनाम्।
अन्त्येष्टिदीक्षा कर्तव्या
गुरुणा तत्त्ववेदिना ॥३॥
अधरस्थानामिति वैष्णवादीनाम् । शक्ति-
पातादिति वन्ध्वादिगाढाभ्यर्थनाद्वारकात् । पु-
रेति मृतोद्धारदीक्षायाम् । ऊर्ध्वशासनगाना-
मिति शैवादीनाम् ॥ ३॥
किमत्र प्रमाणमित्याशङ्कयाह
समयाचारदोषेषु
प्रमादात्स्खलितस्य हि।
अन्त्येष्टिदीक्षा कार्येति
श्रीदीक्षोत्तरशासने ॥४॥
अत्रैव इतिकर्तव्यतामाह
यत्किंचित्कथितं पूर्व
मृतोद्धाराभिधे विधौ।
प्रतिमायां तदेवात्र
सर्व शवतनौ चरेत् ॥५॥
श्रीतन्त्रालोके। अत्र च आगमान्तरीयो विशेष इत्याह श्रीसिद्धातन्त्रकथितो विधिरेष निरूप्यते । तमेवाह अन्तिमं यद्भवेत्पूर्व तत्कृत्वान्तिममादिमम् ॥६॥ संहृत्यैकैकमिष्टिा सान्त्येष्टितियी मता। पूजाध्यानजपाप्लुष्ट- समये नतु साधके ॥७॥ पिण्डपातादयं मुक्तः खेचरो वा भवेत्प्रिये। आचार्ये तत्त्वसंपन्ने यत्र तत्र मृते सति ॥८॥ अन्त्येष्टिनैव विद्येत शुद्धचेतस्यमूर्धनि । इह यन्मन्नवर्णादि अन्तिमं तत् पूर्व, यच्च
११ श्लो०] चतुर्विंशतितममाह्निकम् ।
आदिमं तदन्तिमं कृत्वा एकैकं संहृत्य संहार-
क्रमेणोच्चार्य येयमिष्टिः, सा अन्तादारभ्य अन्तं
यावच्च इष्टिरित्यर्थः । सा च समयिपुत्रक-
योरेव कार्येत्याह द्वितयी मतेति । अमूर्धनीति
मूर्धशब्दस्य देहोपलक्षकतया तदभिमानशून्य
इत्यर्थः । अनयोश्च अन्त्येष्ट्यभावे विशेषणद्वारेण
हेतूपन्यासः॥
न केवलं समयलोपोपहतानामेव एषा कार्या,
यावदन्येषामपीत्याह
मन्त्रयोगादिभिर्ये च
मारिता नरके तु ते ॥९॥
कार्या तेषामिहान्त्येष्टि-
गुरुणातिकृपालुना।
न मण्डलादिकं त्वत्र
भवेच्छमाशानिके विधौ ॥१०॥
केचित्तदपि कर्तव्य-
मूचिरे प्रेतसद्मनि ।
पूजयित्वा विभुं सर्व
न्यासं पूर्ववदाचरेत् ॥११॥
३१०
श्रीतन्त्रालोके ।
संहारक्रमयोगेन
चरणान्मूर्धपश्चिमम् ।
तथैव बोधयेदेनं
क्रियाज्ञानसमाधिभिः ॥ १२॥
क्रियायेव श्रीकुलगह्वरोक्त्या विभज्य दर्शयति
बिन्दुना रोधयेत्तत्त्वं
शक्तिबीजेन वेधयेत् ।
घट्टयेन्नाददेशे तु
त्रिशूलेन तु ताडयेत् ॥ १३॥
सुषुम्नान्तर्गतेनैव
विसर्गेण पुनः पुनः।
ताडयेत कलाः सर्वाः
कम्पतेऽसौ ततः पशुः ॥१४॥
उत्क्षिपेद्वामहस्तं वा
ततस्तं योजयेत्परे।
प्रत्ययेन विना मोक्षो
ह्यश्रद्धेयो विमोहितैः॥ १५॥
१६ श्लो०] चतुर्विंशतितममाह्निकम् । तदर्थमेतदुदितं नतु मोक्षोपयोग्यदः। इत्यूचे परमेशः श्री- कुलगह्वरशासने ॥१६॥ इह खलु आचार्यों विन्दुना प्राणेन महा- जालयोगक्रमेण आकृष्ट पाशवं तत्त्वमात्मानं खाभेदेन हृदि रोधयेत, तदनु मध्यधामानुप्रवे- शेन तत एव प्रभृति ऊध्वों;क्रमणतया श- क्तिबीजेन अमृतार्णेन अनुविद्धं विदध्यात्, नाददेशे तदनु घट्टयेत् रौद्रग्रन्थिविभेदनेन स्पन्दं ग्राहयेत् , ततोऽपि त्रिशूलबीजेन ब्रह्म- रंधान्तमास्फालयेत् , तदनु परिपूर्ण चान्द्रमसं रूपमुबहता सर्वातीतदशाधिशायिना विसर्गेण 'पुरुषे षोडशकले. इत्याद्युक्त्या सर्वाः षोडशापि कलाः पुनः पुन- स्ताडयेत खाविभेदेन आक्रमेत। येनासो उद्धार्य- पशुः कम्पते, वामं वा हस्तमुरिक्षपेत् । ततःप्र. त्ययोत्पादानन्तरं परे योजयेत् पूर्णसंविदात्मनि अस्य योजनिकां कुर्यादित्यर्थः ॥ १६॥ , ।
३१२ श्रीतन्त्रालोके । यदि नाम अस्य प्रत्ययस्य एकान्ततो मोक्षो. पयोगित्वं नास्ति, तत् किमेतेनेत्याशङ्कयाह साध्योऽनुमेयो मोक्षादिः प्रत्ययैर्यदतीन्द्रियः। अत्राप्यस्ति शास्त्रान्तरीयो विशेष इत्याह दीक्षोत्तरे च पुर्यष्ट- वर्गार्पणमिहोदितम् ॥ १७॥ तदेवाह तद्विधिः श्रुतिपत्रेऽब्जे मध्ये देवं सदाशिवम् । ईशरुद्रहरिब्रह्म- चतुष्कं प्राग्दिगादितः ॥१८॥ पूजयित्वा श्रुतिस्पर्टी रसं गन्धं वपुढयम् । ध्यहंकृती मनश्चेति ब्रह्मादिष्वर्पयेत्क्रमात् ॥ १९॥ एतेषां तर्पणं कृत्वा शतहोमेन दैशिकः। • .
२१ श्लो०]
चतुर्विंशतितममादिकम् । ३१३
एषा सांन्यासिकी दीक्षा
पुर्यष्टकविशोधनी ॥ २०॥
वपुरिति रूपं ब्रह्मादिषुक्रमादर्पयेदिति। तदुक्तं
'कलाशुद्ध्यवसाने तु ब्रह्माणं कारणाधिपम् ।
खनामप्रणवाद्वानपूर्व संतमे चार्पयेत् ।।
शब्दस्पर्शी त्यजेदसिन्
इति
'रसं पुर्यष्टकांशं तु अपयेद्विष्णवे सदा ।'
इति
'प्रणवादि ततो रुद्रमावाह्यास्थाप्य पूजयेत् ।
ततोऽस्य विन्यसेदेवि गन्धरूपे ध्रुवाहुतेः ॥'
इति
'खनाना प्रणवाद्येन ईशमावाद्य पूजयेत् ।
संपूज्य हुत्वा संतl बुद्ध्यहंकृतियंशकम् ।।
सदाशिवमथावाह्य मूलमत्रं समुच्चरन् ।
मनः पुर्यष्टकांशं तु विन्यसेत्कारणेश्वरे ॥
इति च ॥ २० ॥
एवमस्य संस्कारमभिधाय, तत्प्रयोजनमाह
पुर्यष्टकस्याभावे च
न स्वर्गनरकादयः।
तथा कृत्वा न कर्तव्यं
लौकिकं किंचनापि हि ॥२१॥
श्रीतन्त्रालोके।
उक्तं श्रीमाधवकुले
शासनस्थो मृतेष्वपि ।
पिण्डपातोदकास्वादि
लौकिकं परिवर्जयेत् ॥२२॥
चो हेतौ । तथेति उक्तेन प्रकारेण ॥ २२ ॥
खशास्त्रविहितं कार्यमेवेत्याह
शिवं संपूज्य चक्राची
यथाशक्ति समाचरेत् ।
क्रमात्रिदशमत्रिंश-
त्रिंशवत्सरवासरे ॥२३॥
त्रीति प्रथमचतुर्थयोरुपलक्षणम्, दशमेति
एकादशस्यापि ॥ २३ ॥
एतदेव प्रथमार्धेनोपसंहरति
इत्युक्तोऽन्त्येष्टियागोऽयं
परमेश्वरभाषितः॥२४॥
इति शिवम् ॥ २४॥
दीक्षावैचक्षण्यप्रथितजयो जयरथाभिख्यः।
आह्निकमेतचतुरं कृतविवृति व्यरचयच्चतुर्विंशम् ॥
इति श्रीतन्त्रालोकविवेकेऽन्त्येष्टिप्रकाशनं नाम
चतुर्विंशतितममाह्निकम् ॥ २४ ॥
अथ श्रीतन्त्रालोके। श्रीमन्महामाहेश्वराचार्याभिनवगुप्तविरचिते श्रीजयरथकृतविवेकाख्यटीकोपेते पञ्चविंशतितममाह्निकम् । HOME भीममधिष्ठाय वपुर्भवमभितो भावयन्निव यः। प्रभवति हृदि भक्तिमतां शिवप्रदोऽसौ शिवोऽस्तु सताम् ।। इदानी द्वितीयार्धेन श्राद्धविधिमभिधातुमाह अथ श्राद्धविधिः श्रीम- वडोक्तो निगद्यते ॥१॥ ननु त्रिकदर्शने कुत्र नाम असौ श्राद्धविधि- रक्त इत्याशङ्कयाह सिद्धातन्त्रे सूचितोऽसौ मूर्तियागनिरूपणे। सूचित इति नतु साक्षात् स्वकण्ठेनोक्तः। यदुक्तं तत्र 'मृतकस्स गृहे वाथ कर्तव्यं वीरभोजनम् ।
श्रीतन्त्रालोके ।
hor
इति
'श्राद्धपक्षे तु दातव्यम्
।
इति च ॥
कस्य कदा कैश्वायं कार्य इत्याशङ्कयाह
अन्त्येष्टया सुविशुद्धाना-
मशुद्धानां च तद्विधिः॥२॥
त्र्यहे तुर्येऽह्नि दशमे
मासि मास्याद्यवत्सरे।
वर्षे वर्षे सर्वकालं
कार्यस्तत्वैः स पूर्ववत् ॥ ३॥
तत्र प्राग्वद्यजेद्देवं
होमयेदनले तथा।
अशुद्धानामिति अन्त्येष्ट्यैव, नतु दीक्षा-
दिना। तत्स्वैरिति तस्य आत्मीयैः शिष्यपुत्रादि-
भिरित्यर्थः । स इति श्राद्धविधिः॥
अत्रैव विधिविशेषमाह
ततो नैवेद्यमेव प्रा-
ग्गृहीत्वा हस्तगोचरे ॥४॥
७ श्लो०] पञ्चविंशतितममाह्निकम् । ३१७ गुरुरन्नमयीं शक्तिं वृंहिकां वीर्यरूपिणीम् । ध्यात्वा तया समाविष्टं तं साध्यं चिन्तयेत्सुधीः ॥५॥ ततोऽस्य यः पाशवोंऽशो भोग्यरूपस्तमर्पयेत् । भोक्तर्येकात्मभावेन शिष्य इत्थं शिवीभवेत् ॥ ६॥ तया समाविष्टमिति तदेकरूपतामापन्नमि- त्यर्थः। तमिति भोग्यरूपं पाशवमंशम् । इत्थ- मिति पाशवरूपतापरित्यागात् भोकात्म्या- पत्त्येत्यर्थः ॥६॥ एतदेव विभज्य दर्शयति भोग्यतान्या तनुर्देह इति पाशात्मका मताः। श्राद्धे मृतोद्धृतावन्त- यागे तेषां शिवीकृतिः॥७॥ अन्येति वेद्यरूपतया भोक्तुरतिरिक्तेत्यर्थः॥
श्रीतन्त्रालोके। ननु दीक्षितः पिण्डपाताचं स्वरसत एव शिवीभवेदिति अस्य किमन्त्येष्ट्यादिभिः, तत्रापि समयलोपनिवृत्त्यर्थमेक एवास्तु विधिः, किम- भिर्बहुभिरित्याशङ्याह एकेनैव विधानेन यद्यपि स्यात्कृतार्थता। तथापि तन्मयीभाव- सिद्ध्यै सर्व विधिं चरेत् ॥८॥ चरेदिति मुमुक्षोः ॥ ८॥ बुभुक्षोस्तु क्रियाभ्यास- भूमानौ फलभूमनि। हेतू ततो मृतोद्धार- श्राद्धाद्यस्मै समाचरेत् ॥९॥ उक्तंच 'दीक्षाज्ञानविशुद्धानामन्त्येष्ट्याप्यमलात्मनाम् । तथापि कार्यमीशोक्तं श्राद्धं वै विधिपूरणम् ।।' इति । अनेन च श्राद्धादेः प्रयोजनमुक्तम् ॥
१२ श्लो०] पञ्चविंशतितममाह्निकम् । ३१९ ज्ञानिनस्तु एतन्न किंचिदपि उपादेयमित्याह तत्त्वज्ञानार्कविध्वस्त- ध्वान्तस्य तु न कोऽप्ययम् । अन्त्येष्टिश्राद्धविध्यादि- रुपयोगी कदाचन ॥१०॥ ननु अयमाचारो दृश्यते यज्ज्ञानिनामपि मृतिदिनादौ महाजनाश्चक्रार्चादि प्रकुर्वन्ति, तत्किमेतदुक्तमित्याशङ्कयाह तेषां तु गुरु तहर्ग- वर्ग्यसब्रह्मचारिणाम्। तत्सन्तानजुषामैक्य- दिनं पर्वदिनं भवेत् ॥११॥ गुर्विति पर्वदिनविशेषणम् । तद्वर्गः पत्नी- पुत्रादिः । वर्यः पुत्रादीनामपि पुत्रादिः । ऐ. क्यदिनमिति परमेशेन सायुज्यात् मृतिदिनम् ॥ पर्वशब्दस्य अत्र प्रवृत्तौ निमित्तमाह यदाहि बोधस्योद्रेक- स्तदा पर्वाह पूरणात् । आहेति परमेश्वरः, तेन वोधं पूरयतीति पर्वेति ॥
३२० श्रीतन्त्रालोके । अतश्च ऐक्यदिनवत् तदीयं जन्मदिनमपि तत्सन्तानजुषां पर्व एवेत्याह जन्मैक्यदिवसौ तेन पर्वणी बोधसिद्धितः ॥ १२॥ अत्रैव विशेषमाह पुत्रकोऽपि यदा कस्मै- चन स्यादुपकारकः। तदा मातुः पितुःशक्ते- मदक्षान्तरालगाः ॥ १३॥ नाडीःप्रवाहयेद्देवा- यार्पयेत निवेदितम् । अपिशब्दात् न केवलं गुरुः साधको वा। मातुः पितुरिति गुरोस्तत्पल्या अपि ॥ नच एतत्वोपज्ञमेवोक्तमित्याह श्रीमद्भरुणतन्त्रे च तच्छिवेन निरूपितम् ॥१४॥ नाडीप्रवाहणे च युक्तिमाह तद्वाहकालापेक्षा च कार्या तद्रूपसिद्धये।
१७ श्लो०] पञ्चविंशतितममाहिकम् । ३२१ स्वाच्छन्द्यनाथ तत्सिाहिं विधिना भाविना चरेत् ॥१५॥ तासां वामादीनां नाडीनां 'विषुवद्वासरे प्रातदक्षा वहति नाडिका । सायमन्यान्तरा मध्या योगिनां तु निजेच्छया ॥ इत्यायुक्तं स्वारसिकं वाहकालमपेक्ष्य, यद्वा खमहिम्नैव वक्ष्यमाणेन विधिना तत्सिद्धिं वि- धाय नाडीप्रवाहणं कुर्यादिति तात्पर्यार्थः ॥१५॥ अत्र च समय्यादेः सर्वस्य स्वशास्त्रोक्त एव विधिाय्यः, न लौकिक इत्याह यस्य कस्यापि वा श्राद्ध गुरुदेवाग्नितर्पणम् । सचक्रेष्टि भवेच्छौतो नतु स्यात्पाशवो विधिः ॥१६॥ श्रौतविध्यभावे पाशवत्वं हेतुः॥ १६ ॥ एवमपि अत्र साधकं बाधकं च प्रमाणे दर्शयितुमाह श्रीमौकुटे तथा चोक्तं शिवशास्त्रे स्थितोऽपि यः।
३२२ श्रीतन्त्रालोके । प्रत्येति वैदिके भग्न- घण्टावन्न स किंचन ॥१७॥ तथोक्तदेवपूजादि- चक्रयागान्तकर्मणा। रुद्रत्वमेत्यसौ जन्तु- भॊगान्दिव्यान्समश्नुते ॥ १८॥ भग्नघण्टावदिति भन्ना हि घण्टा न खं कार्य कुर्यात् , नापि लौहमित्युभयभ्रष्टतामेव आसाद- येदित्यर्थः । अत एवोक्तं न स किंचनेति ॥१॥ भाविना विधिनेति यदुक्तं, तदेव दर्शयति अथ वच्मः स्फुटं श्रीम- त्सिद्धये नाडिचारणम् । श्रीसिद्धयोगीश्वरीमतोक्तमेव ग्रन्थमर्थद्वा- रेण पठति या वाहयितुमिष्येत नाडी तामेव भावयेत् ॥ १९॥ भावनातन्मयीभावे सा नाडी वहति स्फुटम्।
३२३
२२ श्लो०
पञ्चविंशतितममाह्निकम् ।
यहा वाहयितुं येष्टा
तदङ्गं तेन पाणिना ॥२०॥
आपीड्य कुक्षिं नमये-
त्सा वहेन्नाडिका क्षणात् ।
येति मात्रायुद्देशानुसारं वामाद्यन्यतमा
भावयेदिति वहन्तीम् । यद्धति अयोगिविष-
यतया॥
एवं नाडीविधिमभिधाय, श्राद्धस्य भोगमो-
क्षदानहेतुत्वमस्तीत्याह
एवं श्राद्धमुखेनापि
भोगमोक्षोभयस्थितिम् ॥२१॥
कुर्यादिति शिवेनोक्तं
तत्र तत्र कृपालुना।
ननु दीक्षैव भोगमोक्षसाधिकेत्युक्तं, तत्
कथं श्राद्धाद्यात्मनः चर्यामात्रादपि एतत्स्यादि-
त्याशङ्कयाह
शक्तिपातोदये जन्तो-
येनोपायेन दैशिकः ॥ २२॥
३२४
श्रीतन्त्रालोके।
करोत्युद्धरणं तत्त-
निर्वाणायास्य कल्पते।
एतदेव उपपादयति
उद्धर्ता देवदेवो हि
स चाचिन्त्यप्रभावकः॥२३॥
उपायं गुरुदीक्षादि-
द्वारमात्रेण संश्रयेत् ।
नच इयमस्मदुपज्ञैव युक्तिः, अपितु आगमो.
ऽप्येवमित्याह
उक्तं श्रीमन्मतङ्गाख्ये
मुनिप्रश्नादनन्तरम् ॥ २४॥
तत्र मुनिप्रश्नमेव तावदाह
मुक्तिविवेकात्तत्त्वानां
दीक्षातो योगतो यदि।
चर्यामात्रात्कथं सा स्या-
दित्यतः सममुत्तरम् ॥२५॥
२७ श्लो०]
पञ्चविंशतितममादिकम् ।
३२५
प्रहस्योचे विभुः कस्मा-
शान्तिस्ते परमेशितुः।
सर्वानुग्राहकत्वं हि
संसिदं दृश्यतां किल ॥ २६ ॥
तदुक्तं तत्र
'मुक्तिविवेकात्तत्वानां क्षमादीनां प्रविचारतः ।
दीक्षातोऽन्या सुनिीता क्रियापादकृतास्पदा ॥
योगपादोत्थिता सिद्धा तृतीया सापि शस्यते ।
चर्यामात्रेण संसिद्धा चतुर्थी सा कथं भवेत् ।।
प्रपत्तव्या शिवज्ञाने छिन्झ्यज्ञानाङ्कुरं मम ।'
इति । अत इति प्रश्नानन्तरम् । सममिति
अनुगुणम् । दृश्यतामिति नात्र कस्यचिद्विप्रति-
पत्तिरित्यर्थः ॥ ६२ ॥
एतदेव दृष्टान्तोपदर्शनेनोपपादयति
प्राप्तमृत्योर्विषव्याधि-
शस्त्रादि किल कारणम् ।
अल्पं वा बहु वा तह-
दनुध्या मुक्तिकारणम् ॥२७॥
श्रीतन्त्रालोके। मुक्त्यर्थमुपचर्यन्ते बाह्यलिङ्गान्यमूनि तु। इति ज्ञात्वा न सन्देह इत्थं कार्यो विपश्चिता ॥२८॥ इयतैव कथं मुक्ति- रिति भक्तिं परां श्रयेत् । यथाहि आसन्नमरणस्य मृत्यौ विषादि अल्पं वा बहु वा कारणं, साक्षादेतन्न कारणम् , किंतु भोगक्षय एव, तथा मुक्तावपि 'तस्यैव तु प्रसादेन भक्तिरुत्पद्यते नृणाम् । (म०मार०) इत्यादिदृष्ट्या शक्तिपातैकलक्षणा अनुध्या भक्ति- रेव मुख्य कारणम् । अमूनि पुनः बाह्यलि. ङ्गानि दीक्षादीनि तथात्वादेव उपायमात्ररूप- तया उपचरितानीत्यर्थः । अतश्च श्राद्धाया- त्मनः चर्यामात्रादेव कथं मुक्तिः स्यादिति न संशयितव्यम् । किंतु अत्र भक्तिरेव दाढ्यन आश्रयणीया येनैवं स्यात् । तदुक्तं तत्र 'एतस्मिन्नन्तरे नाथः प्रहयोवाच विश्वराट् । किमत्र कारणं भ्रान्तेरनुध्यानविदर्शनात् ।।
२९ श्लो०]
पञ्चविंशतितममाहिकम् । ३२७
सर्वानुग्राहकत्वं हि संसिद्धं परमेष्ठिनः।
प्राप्तकालस्य चिह्नानि दृश्यन्तेऽनेकधा यथा ॥
विषरुक्शस्त्रपूर्वाणि नच तान्यत्र कारणम् ।
मृत्योर्भोगक्षयाभावात्तद्वदत्रापि निश्चितम् ।।
अनुध्यानबलावेशाचर्याद्याः प्रकटीकृताः ।
मुक्त्यर्थमुपचर्यन्ते बाह्यलिङ्गान्यमूनि तु ।।
निपाताउत्स्फुटं चिह्नं भक्तिरव्यभिचारिणी।
तया शिष्यस्य सततमनिवारितवीर्यया ॥
पुंसः प्रसन्नभावस्य शिवत्वं व्यक्तिमेति हि ।'
इति ॥
एतदेव प्रथमार्धेनोपसंहरति
उक्तः श्राद्धविधिान्ति-
गरातङ्कविमर्दनः॥२९॥
इति शिवम् ॥ २९॥
निखिलशिवशासनोदितविविधविधानकनिष्ठया सुधिया।
निरणायि पञ्चविंशं किलाह्निकं जयरथेनैतत् ।।
इति श्रीतन्त्रालोकविवेके श्राद्धप्रकाशनं नाम पञ्चविंश-
माह्निकम् ॥ २५॥
अथ श्रीतन्त्रालोके। श्रीमन्महामाहेश्वराचार्याभिनवगुप्तविरचिते श्रीजयरथकृतविवेकाख्यटीकोपेते षड्विंशमाह्निकम् । भवति यदिच्छावशतः शिवपूजा विश्वलाञ्छनं विश्वक् । विश्वं जयति स सुमनाः प्रपन्नजनमोचने सुमनाः॥१॥ इदानी द्वितीयार्धेन दीक्षितविषयां शेष- वृत्तिं वक्तुमाह अथोच्यते शेषवृत्ति- जीवतामुपयोगिनी ॥१॥ ननु इह 'दीक्षैव मोचयत्यूर्व शैवं धाम नयत्यपि ।' इत्याद्युक्त्या दीक्षामात्रेणैव कार्तार्थ्यमिति किं शेषवृत्त्युपदेशेनेत्याशङ्का गर्भीकृत्य दीक्षाभेदो- क्तिपुरःसरं तत्प्रयोजनं प्रदर्शयति दीक्षा बहुप्रकारेयं श्राद्धान्ता या प्रकीर्तिता।
३२९ ४ो०] पदिशतितममाहिकम् । सा संस्क्रियायै मोक्षाय भोगायापि द्वयाय वा ॥२॥ एतदेव प्रपञ्चयति तत्र संस्कारसियै या दीक्षा साक्षान्न मोचनी। अनुसंधिवशाद्या च साक्षान्मोकी सबीजिका ॥३॥ तयोभय्या दीक्षिता ये तेषामाजीववर्तनम् । वक्तव्यं पुत्रकादीनां तन्मयत्वप्रसिद्धये ॥४॥ तत्र एवं प्रकारचतुष्टयमध्यात् या संस्कार- निमित्तमुक्ता दीक्षा बुभुक्षुमुमुक्षुतालक्षणाद- नुसंधानविशेषात् साधकादेर्भोगस्य प्राधान्येन तव्यवहितत्वात् साक्षान्न मोचनी, याच पुत्र- कादेर्भोगव्यवधानायोगात् साक्षान्मोत्री मो- चिकेत्यर्थः, साच निर्बीजापि भवेदिति तय- वच्छेदायोक्तं सबीजिकेति, नहि निर्बीजायां ४२
३३०
श्रीतन्त्रालोके ।
काचित् शेषवृत्तिरस्ति तस्यां सामयस्यापि पा-
शस्य शोधितत्वात् । वक्ष्यति च
'तौ सांसिद्धिकनि/जौ को वदेच्छेषवृत्तये । (१०श्लो०)
इति । तया उक्तरूपया द्विप्रकारया दीक्षया ये
पुत्रकादयो दीक्षितास्तेषामाजीवं वृत्तिर्वक्तव्या
येनैषां निर्विघ्नमेव संविदैकात्म्यं सिद्धयेत् ॥४॥
ननु इयं नाम शेषवृत्तिरुच्यते यद्भुक्तिमुक्ति-
निमित्तं नित्यनैमित्तिकादेरनुष्ठानमिति, तदेत-
साधकः पुत्रको वा किमविशेषेणैव अनुतिष्ठेन्न
वेत्याशङ्कयाह
बुभुक्षोर्वा मुमुक्षोर्वा
स्वसंविद्गुरुशास्त्रतः।
प्रमाणाद्या संस्क्रियायै
दीक्षा हि गुरुणा कृता ॥५॥
ततः स संस्कृतं योग्यं
ज्ञात्वात्मानं स्वशासने ।
तदुक्तवस्त्वनुष्ठानं
भुक्त्यै मुक्त्यै च सेवते ॥६॥
३३१ १ .. . ८ श्लो०] पडिशतितममाह्निकम् । इह हि गुरुणा बुभुक्षोर्वा मुमुक्षोर्वा 'त्रिप्रत्ययमिदं ज्ञानं इत्याद्युक्त्या स्वसंविद्गुरुशास्त्रलक्षणं प्रमाणम- धिकृत्य संस्कारसिद्ध्यै या दीक्षा कृता, ततो दीक्षातः स बुभुक्षुर्मुमुक्षुर्वा स्वमात्मानं संस्कृत- त्वात् स्वशासने भुक्तौ मुक्तौ वा योग्यं च ज्ञात्वा स्वशासनोक्तस्य नित्यादेरनुष्ठानं सेवते अविशे- षेणैव कुर्यादित्यर्थः॥६॥ ननु एवं स्वपरामशों यस्य नास्ति, तं प्रति किं शेषवृत्तिर्वाच्या नवेत्याशङ्कयाह आचार्यप्रत्ययादेव योऽपि स्याद्भुक्तिमुक्तिभाक् । तत्प्रत्यूहोदयध्वस्त्यै ब्रूयात्तस्यापि वर्तनम् ॥ ७॥ एवं गुरुप्रत्ययवत् खप्रत्ययोऽपि यस्यास्ति, तस्यापि एषैव वार्तेत्याह खसंविद्गुरुसंवित्यो- स्तुल्यप्रत्ययभागपि।
३३२ श्रीतन्त्रालोके। तु शेषवृत्त्या समादेश्य- स्तद्विघ्रादिप्रशान्तये॥८॥ यः पुनरेकान्ततः परमेवापेक्षते नैव वा, तस्य किं शेषवृत्त्येत्याह यः सर्वथा परापेक्षा- मुज्झित्वा स्थितो निजात्। प्रत्ययाद्योऽपि चाचार्य- प्रत्ययादेव केवलात् ॥९॥ तौ सांसिद्धिकनिर्बीजौ को वदेच्छेषवृत्तये। शेषवृत्तये इति शेषवृत्तिं विधातुमित्यर्थः ॥ ननु यद्येवं, तत्किमनयोः काष्ठकुड्यादिवत वर्तनमुत पामरवदित्याशङ्कयाह क्रमात्तन्मयतोपाय- गुर्वर्चनरतौ तु तौ ॥ १०॥ तत्रैषां शेषतत्त्यर्थ नित्यनैमित्तिके ध्रुवे।
१५ लो०] पड्रिंशतितममाहिकम् । काम्यवर्ज यतः कामा- श्चित्राश्चित्राभ्युपायकाः ॥११॥ तत्र नित्यो विधिः सन्ध्या- नुष्ठानं देवताव्रजे। गुर्वग्निशास्त्रसहिते पूजा भूतदयेत्ययम् ॥ १२॥ नैमित्तिकस्तु सर्वेषां पर्वणां पूजनं जपः। विशेषवशतः किंच पवित्रकविधिक्रमः॥ १३॥ आचार्यस्य च दीक्षेयं बहुभेदा विवेचिता। व्याख्यादिकं च तत्तस्या- धिकं नैमित्तिकं ध्रुवम् ॥१४॥ तत्रादौ शिशवे ब्रूया- द्गुरुर्नित्यविधि स्फुटम्।
३३४
श्रीतन्त्रालोके।
तद्योग्यतां समालोक्य
वितताविततात्मनाम् ॥ १५॥
मुख्येतरादिमन्त्राणां
वीर्यव्याप्त्यादियोग्यताम्।
दृष्ट्वा शिष्ये तमेवास्मै
मूलमन्त्रं समर्पयेत् ॥ १६॥
तन्मयतोपायगुर्वर्चनरताविति स्वसंविद्देवी-
परामर्शनपरत्वात् स्वगुरुभक्तेश्च । यदुक्तं प्राक्
'यस्य खतोऽयं सत्तः स सर्वत्राधिकारवान् ।
अभिषिक्तः स्वसंवित्तिदेवीभिर्दीक्षितश्च सः॥ (४।४३)
इति
'समयाचारपाशं तु निर्वीजायां विशोधयेत् ।
दीक्षामात्रेण मुक्तिः साद्धक्या देवे गुरौ सदा ॥ (१५/३१)
इति च । कामानां चित्रत्वे चित्राभ्युपायत्वं
हेतुः, अत एव नियतनिमित्तत्वाभावादेषामिह
अनभिधानम् । अधिकमिति पुत्रकादेस्तत्रान-
धिकारात् । तद्योग्यतां समालोक्यति योग्ये
हि शिष्ये विततो विधिरुपदेष्टव्यो मुख्यो वा
मनः समर्म्यः, अन्यस्मिंस्तु अन्यथेति ॥ १६ ॥
२० श्लो०]
षड्विंशतितममाह्निकम् ।
३३५
अत एव आह
तच्छास्त्रदीक्षितो ह्येष
निर्यन्त्राचारशङ्कितः।
न मुख्ये योग्य इत्यन्य-
सेवातः स्यात्तु योग्यता ॥१७॥
साधकस्य बुभुक्षोस्तु
साधकीभाविनोऽपिवा।
पुष्पपातवशासिद्धो
मन्त्रोऽlः साध्यसिद्धये ॥१८॥
वितते गुणभूते वा
विधौ दिष्ट पुनर्गुरुः ।
ज्ञात्वास्मै योग्यतां सारं
संक्षिप्तं विधिमाचरेत् ॥ १९॥
तत्रैष नियमो यद्य-
न्मान्त्रं रूपं न तद्गुरुः।
लिखित्वा प्रथयेच्छिष्ये
विशेषादूर्ध्वशासने ॥२०॥
श्रीतन्त्रालोके।
निर्यन्त्र इति निर्विकल्पः । अन्य इति अमु-
ख्यस्य मन्त्रस्य । साधकस्येति वृत्ततदीक्षस्य ।
साधकीभाविन इति भावितद्दीक्षस्य । गुणभूत
इति अवितते। तत्रेति एवं सारविध्याचरणे ।
ऊर्ध्वशासन इति त्रिककुलादौ ॥ २० ॥
एतदेव उपपादयति
मन्त्रा वर्णात्मकास्ते च
परामर्शात्मकाः सच।
गुरुसंविदभिन्नश्चे-
संक्रामेत्सा ततः शिशौ ॥२१॥
लिपिस्थितस्तु यो मन्त्रो
निर्वीर्यः सोऽत्र कल्पितः।
संकेतबलतो नास्य
पुस्तकात्प्रथते महः ॥२२॥
सचेति परामर्शः। सेति परामर्शमयी गुरु-
संवित् । तत इति गुरुतः। निर्वीर्य इति परा-
मर्शकत्वाभावात् । सहि संविदभिन्न एव भ-
वेदिति भावः ॥२२॥
२५ श्लो०] पडिशतितममाह्निकम् । ननु पुस्तकात् मत्रवीर्याकथने किं प्रमाण- मित्याशङ्कयाह पुस्तकाधीतविद्याश्चे- त्युक्तं सिद्धामते ततः। एवं मत्राणां वीर्य एव भरवन्धः कार्य इति अत्र तात्पर्यम् ॥ अत एव आह ये तु पुस्तकलब्धेऽपि मन्त्रे वीर्य प्रजानते ॥२३॥ ते भैरवीयसंस्काराः प्रोक्ताः सांसिद्धिका इति। इति ज्ञात्वा गुरुः सम्यक परमानन्दघूर्णितः ॥२४॥ तादृशे तादृशे धाग्नि पूजयित्वा विधि चरेत्। ताशे तादृशे धाम्नीति योग्यशिष्योचित इत्यर्थः॥
३३८ श्रीतन्त्रालोके। गुप्तिपरेण च अत्र गुरुणा भाव्यमित्याह यथान्यशिष्यानुष्ठानं नान्यशिष्येण बुध्यते ॥२५॥ तथा कुर्याद्गुरुर्गुप्ति- हानिर्दोषवती यतः। देवीनां त्रितयं शुद्धं यहा यामलयोगतः ॥२६॥ देवीमेकामथो शुद्धां वदेवा यामलात्मिकाम् । तत्र मन्त्रं स्फुटं वक्रा- गुरुणोपांशु चोदितम् ॥२७॥ अवधार्या प्रत्तेस्त- मभ्यस्येन्मनसा स्वयम्। ततः सुशिक्षितां स्थान- देहान्तःशोधनत्रयीम् ॥२८॥ न्यासं ध्यानं जपं मुद्रां पूजां कुर्यात्प्रयत्नतः।
..... । ३१ श्लो० ॥ षडिशतितममाह्निकम् । दोषवतीति यदभिप्रायेणैव 'गोपनासिद्धिमायातिः इत्यादि अन्यत्रोक्तम् । शुद्धं केवलम् । स्फुटं सशब्दम् । यदुक्तम् 'आत्मना श्रूयते यस्तु तमुपांशु विजानते । परे शृण्वन्ति यं देवि सशब्दः स उदाहृतः।। (ख०२।१४७) इति । आ प्रवृत्तेरिति अनुष्ठानारम्भकालं या- वदित्यर्थः । सुशिक्षितामिति पञ्चदशाहिकोक- युक्त्या ॥ इदानीं नित्यविधि शिक्षयति तत्र प्रभाते संबुध्य खेष्टां प्राग्देवतां स्मरेत् ॥२९॥ कृतावश्यककर्तव्यः शुद्धो भूत्वा ततो गृहम् । आश्रित्योत्तरदिग्वक्रः स्थानदेहान्तरत्रये ॥३०॥ शुद्धिं विधाय मन्त्राणां यथास्थानं निवेशनम्।
श्रीतन्त्रालोके। मुद्राप्रदर्शनं ध्यान भेदाभेदस्वरूपतः ॥३१॥ देहासुधीव्योमभूषु मनसा तत्र चार्चनम्। जपं चात्र यथाशक्ति देवायैतन्निवेदनम् ॥३२॥ तन्मयीभावसिद्यर्थ प्रतिसन्ध्यं समाचरेत् । अन्ये तु प्रागुदक्पश्चा- दशदिक्षु चतुष्टयीम् ॥३३॥ सन्ध्यानामाहुरेतच्च तान्त्रिकीयं न नो मतम् । खमतेन पुनराह यासौ कालाधिकारे प्राक् सन्ध्या प्रोक्ता चतुष्टयी ॥३४॥ तामेवान्तः समाधाय सान्ध्यं विधिमुपाचरेत् ।
४ ३८ श्लो०] षड्विंशतितममाह्निकम् । सन्ध्याचतुष्टयीकृत्य- मेकस्यामथवा शिशुः ॥३५॥ कुर्यात्स्वाध्यायविज्ञान- गुरुकृत्यादितत्परः। एकस्यामिति अन्यथाहि अस्य खाध्याया- दिविप्रलोपो भवेदिति भावः॥ ननु कथं सन्ध्याचतुष्टयानुष्टेयं कर्म एकस्या- मेव सन्ध्यायां क्रियमाणं परिपूर्ति यायादि- त्याशङ्कयाह सन्ध्याध्यानोदितानन्त- तन्मयीभावयुक्तितः॥३६॥ तत्संस्कारवशात्सर्व कालं स्यात्तन्मयो ह्यसौ। ततो यथेष्टकालेऽसौ पूजां पुष्पासवादिभिः ॥३७॥ स्थण्डिलादौ शिशुः कुर्या- द्विभवाद्यनुरूपतः ।
श्रीतन्त्रालोके। सुशुद्धः सन्विधिं सर्व कृत्वान्तरजपान्तकम् ॥३८॥ अर्घपात्रं पुरा यह- द्विधाय खेष्टमन्त्रतः। तेन स्थण्डिलपुष्पादि सर्व संप्रोक्षयेद्बुधः॥३९॥ ततस्तत्रैव संकल्प्य द्वारासनगुरुक्रमम्। पूजयेच्छिवताविष्टः स्वदेहार्चापुरःसरम् ॥ ४०॥ ततस्तत्स्थण्डिलं वीध्र- व्योमस्फटिकनिर्मलम्। बोधात्मकं समालोक्य तत्र स्खं देवतागणम् ॥४१॥ प्रतिबिम्बतया पश्ये- हिम्बत्वेन च बोधतः।
३४३ ४४ श्लो०] पड्रिंशतितममाहिकम् । एतदावाहनं मुख्य व्यजनान्मरुतामिव ॥४२॥ तत इति सन्ध्याद्यनुष्ठानानन्तरम् । स्थ- ण्डिलादावित्यनेन स्थाण्डिली नित्यार्चेति प्र. क्रान्तम् । आन्तरेत्यनेन मनोयागमकृत्वा वा- ह्ययागादावधिकार एव न भवेदिति कटाक्षि. तम् । पुरेति पञ्चदशाहिकादौ। वीधं विमलम् । तत्रेति बोधात्मके स्थण्डिले । स्वमिति आरि- राधयिषितम् । वोध एव हि वहिः प्रतिफलि- तस्तथा तथा उच्छलित इत्युक्तं विम्वत्वेनेति प्रतिबिम्बतयेति च । एतदिति प्रतिविम्वभा- वात्मतया दर्शनम् ॥ ४२ ॥ दृष्टान्तमेव विभज्य दर्शयति सर्वगोऽपि मरुद्यह- ब्यजनेनोपजीवितः। अर्थकृत्सर्वगं मन्त्र- चक्र रूढेस्तथा भवेत् ॥४३॥ चतुष्कपञ्चाशिकया तदेतत्तत्त्वमुच्यते।
श्रीतन्त्रालोके। रूढेरिति स्थण्डिलादावेवंप्ररोहादित्यर्थः । तथेति अर्थकृत् । चतुष्कपश्चाशिकेति सृष्ट्या- दिप्रमेयचतुष्टयाभिधायिना एवंपरिमाणेन ग्र- न्थविशेषेणेत्यर्थः॥ न केवलमेतदत्रैवोक्तं, यावदन्यत्रापीत्याह श्रीनिमर्यादशास्त्रे च तदेतद्विभुनोदितम् ॥४४॥ तदेव अर्थद्वारेण आह देवः सर्वगतो देव निर्मर्यादः कथं शिवः। आवाह्यते क्षम्यते वे- त्येवंपृष्टोऽब्रवीद्विभुः॥४५॥ वासनावाह्यते देवि वासना च विसृज्यते । परमार्थेन देवस्य नावाहनविसर्जने ॥ ४६॥ निर्मर्याद इति नियंत्रणः स्वतन्त्र इति यावत्॥
५० लो०] षड़िशतितममाहिकम् । वासनात्मकत्वमेव अत्र दर्शयति आवाहितो मया देवः स्थण्डिले च प्रतिष्ठितः। पूजितः स्तुत इत्येवं हृष्ट्वा देवं विसर्जयेत् ॥४७॥ प्राणिनामप्रवुद्धानां सन्तोषजननाय वै। आवाहनादिकं तेषां प्रवृत्तिः कथमन्यथा ॥४८॥ कालेन विजानन्ति प्रवृत्ताः पतिशासने। अनुक्रमेण देवस्य प्राप्तिं भुवनपूर्विकाम् ॥४९॥ ज्ञानदीपद्युतिध्वस्त- समस्ताज्ञानसञ्चयाः। कुतो वानीयते देवः कुत्र वा नीयतेऽपि सः॥५०॥ तु ३४६ .. श्रीतन्त्रालोके। स्थूलसूक्ष्मादिभेदेन स हि सर्वत्र संस्थितः। भुवनपूर्विकामिति मते भुवनमर्तरि ।' (मृ० तं०) इत्यायुक्तयोजनिकाबलात् तत्तत्तत्त्वभुवनासा- दनप्रक्रियात्मिकामित्यर्थः॥ आवाहनानन्तरकर्तव्यमुपदेष्टुमाह आवाहिते मन्त्रगणे पुष्पासवनिवेदनैः॥५१॥ धूपैश्च तर्पणं कार्य श्रद्धाभक्तिबलोचितैः। दीप्तानां शक्तिनादादि- मन्त्राणामासवैः पलैः॥५२॥ प्राक् पुष्पधूपादिविस्तरैः। ननु आवाहनानन्तर्येण तर्पणमेव कार्यमि- त्यत्र किं प्रमाणमित्याशङ्कयाह आगतस्य तु मन्त्रस्य न कुर्यात्तर्पणं यदि ॥५३॥ रक्तैः तर्पण पश्चात् ५६ श्लो०] पड़िशतितममाहिकम्। हरत्यर्धशरीरं स इत्युक्तं किल शम्भुना। ननु इह तर्पणार्थं द्रव्यादि उद्दिष्टं, पूजादि पुनः कतरेण कार्यमित्याशङ्ख्याह यद्यदेवास्य मनसि विकासित्वं प्रयच्छति ॥५४॥ तेनैव कुर्यात्पूजां स इति शम्भोविनिश्चयः। ननु यद्येवं, तत्कथं शान्तिपुष्ट्यादौ द्रव्य- नियमः सर्वत्रैवोक्त इत्याशङ्क्याह साधकानां बुभुक्षूणां विधिनियतियन्त्रितः॥५५॥ मुमुक्षूणां तत्त्वविदां स एव तु निरर्गलः। ननु एवं विधिविशेषे अत्र किं निमित्तमि- त्याशङ्कयाह कार्ये विशेषमाधित्सु- विशिष्टं कारणं स्पृशेत् ॥५६॥ , श्रीतन्त्रालोके। रक्तकर्पासतूलेच्छु- स्तुल्यतद्वीजपुञ्जवत्। सन्ति भोगे विशेषाश्च विचित्राः कारणेरिताः ॥५७॥ तुल्येति रक्तमेव ॥ ५७॥ मोक्षे पुनः कश्चिद्विशेषो नास्तीत्याह देशकालानुसन्धान- गुणद्रव्यक्रियादिभिः। खल्पा क्रिया भूयसी वा हृदयालाददायिभिः ॥५८॥ बायैः संकल्पजैापि कारकैः परिकल्पिता। मुमुक्षोर्न विशेषाय नैःश्रेयसविधिं प्रति ॥ ५९॥ ननु कथं नाम अत्र खल्पा भूयसी वा क्रिया विशेषमाधातुं नोत्सहते इत्याशङ्कयाह नहि ब्रह्मणि शंसन्ति बाहुल्याल्पत्वदुर्दशाः।
६२ लो०]
पडिशतितममाह्निकम् ।
ननु विचित्रैः कारणैः परिकल्प्यमानापि
क्रिया यदि अत्र न विशेषमाधत्ते, तत्किमेषां प्रा-
धान्येन हृदयाहाददायित्वमुक्तमित्याशङ्कयाह
चितः स्वातन्त्र्यसारत्वात्
तस्यानन्दघनत्वतः ॥६०॥
क्रिया स्यात्तन्मयीभूत्यै
हृदयाहाददायिभिः।
तस्येति खातव्यस्य ॥
अत एव एषां चिदानन्दघनमेव रूपं पूजा-
योग्यमित्याह
शिवाभेदभराद्धाव-
वर्गः थ्योतति यं रसम् ॥६॥
तमेव परमे धाम्नि
पूजनायार्पयेद्बुधः।
एतच्च मयैव अन्यत्र वितत्योक्तमित्याह
स्तोत्रेषु बहुधा
चैत-
न्मया प्रोक्तं निजाह्निके ॥६॥
श्रीतन्त्रालोके। एतदेवोच्चित्य दर्शयति अधिशय्य पारमार्थिक- भावप्रसरप्रकाशमुल्लसति । या परमामृतदृक् त्वां तयार्चयन्ते रहस्यविदः॥६३॥ कृत्वाधारधरां चमत्कृतिरस- प्रोक्षाक्षणक्षालिता- मात्तैर्मानसतः स्वभावकुसुमैः स्वामोदसन्दोहिभिः। आनन्दामृतनिर्भरवहृदया- नर्घार्धपात्रक्रमात् त्वां देव्या सह देहदेवसदने देवार्चयेऽहर्निशम् ॥ ६४॥ नानास्वादरसामिमां त्रिजगतीं हृच्चक्रयन्त्रार्पिता- मूर्ध्वाध्यस्तविवेकगौरवभरा- निष्पीड्य निःष्यन्दितम्।
६८ श्लो० घडिशतितममाह्निकम् ।
यत्संवित्परमामृतं मृतिजरा-
जन्मापहं जृम्भते
तेन त्वां हविषा परेण परमे
संतर्पयेऽहर्निशम् ॥६५॥
इति श्लोकत्रयोपात्त-
मर्थमन्तर्विभावयन् ।
येन केनापि भावेन
तर्पयेदेवतागणम् ॥६६॥
मुद्रां प्रदर्शयेत्पश्चा-
न्मनसा वापि योगतः।
वचसा मन्त्रयोगेन
वपुषा संनिवेशतः॥६७॥
कृत्वा जपं ततः सर्व
देवतायै समर्पयेत् ।
तच्चोक्तं कर्तृतातत्त्व-
निरूपणविधौ पुरा ॥६॥
श्रीतन्त्रालोके। ततो विसर्जनं कार्य बोधैकात्म्यप्रयोगतः। कृत्वा वा वह्निगां मन्त्र- तृप्ति प्रोक्तविधानतः॥६९॥ द्वारपीठगुरुवात- समर्पितनिवेदनात् । ऋतेऽन्यत्स्वयमश्नीया- दगाधेऽम्भस्यथ क्षिपेत् ॥७॥ तयेति परमामृतदृशा । आधारोऽत्र जन्मा- धारः। यत्रेत्यादिना अत्र लौकिकश्चाक्रिक- तान्तोऽपि कटाक्षितः। एतच्च प्राग्व्याख्ययैव गतार्थमिति नेह प्रातिपद्येन व्याख्यातम् । श्लोकत्रयोपात्तमर्थमिति परसंविद्विश्रान्तिलक्ष- णम् । पुरेति नवमत्रयोदशाह्निकादौ । अन्य- दिति मुख्यम् ॥७॥ अस्य अगाधाम्भःप्रक्षेपणकारणमाह प्राणिनो जलजाः पूर्व- दीक्षिताः शम्भुना स्वयम्।
७२ श्लो०] षड्विंशतितममाह्निकम् । ३५३ विधिना भाविना श्रीम- न्मीननाथावतारिणा ॥७१॥ भाविनेति एकान्नत्रिंशाह्निकादौ वक्ष्यमाणेन॥ अन्यभक्षणेन दोष इत्याह मार्जारमूषिकाद्यैर्य- ददीक्षश्चापि भक्षितम्। तच्छङ्कातदानेन व्याधये नरकाय च ॥७२॥ तदुक्तं 'भुक्तोन्झितं हि यच्चानमुच्छिष्टं गुरुदेवयोः । रक्षेनिक्षेपवनित्यं न देयं यस्य कस्यचित् ॥ गर्ने चानौ जले कूपे प्रक्षिपेत्प्रयतात्मवान् । अदीक्षितैर्यदा भुक्तं मत्रसिद्धिविनश्यति ॥ अभक्तैस्तस्करभयं लौकिको यदि भक्षयेत् । वैकल्यं जायते तस्य दुःखितोऽन्यैश्च पक्षिभिः ॥ मकरैः पुत्रनाशः स्यान्मेषैस्तनयनाशनम् । वानरैबन्धनं देवि लीढं वा यदि वा भवेत् ।। खरोष्ट्रयोरेव दारियं शुकैः शोकविवर्धनम् । सुखसौभाग्यनाशः साल्लीढे मर्कटवाजिभिः ।
३५४
श्रीतन्त्रालोके।
बिडालेन विलीढं स्थाबाधिराशु प्रवर्तते ।
कलहः शारिकाभिश्च कलविङ्कविशेषतः॥
काकैर्विदेशगमनं चिल्लया मरणं भवेत् ।
आयुषोऽपि भवेद्धानिरुन्दुरो यदि भक्षयेत् ॥
सारमेयो यदा मुते तदा व्याधिसमुद्भवः।
गोभिर्विद्वेषणं जायेज्जम्बुकेभ्यो ध्रुवं वधः॥
व्यभिचारस्तु दाराणां वराहो यदि भक्षयेत् ।
चौरेभ्यस्तु भयं जायेनकुलस्तु यदा स्पृशेत् ॥
दुष्टमानुषयोषिद्भिर्नास्तिकैरुपयुज्यते ।
वदा दुःखानि सर्वाणि प्राप्नुवन्त्यपि साधकाः ॥
इति ॥ ७२ ॥
ननु अत्र दीक्षितादीक्षितविभागो नाम वि-
कल्पः, सच निर्विकल्पानां ज्ञानिनां न न्याय्य
इति कथमविशेषेणैवैतदुक्तमित्याशक्य आह
अतस्तत्त्वविदा ध्वस्त-
शङ्कातङ्कोऽपि पण्डितः।
प्रकटं नेदृशं कुर्या-
ल्लोकानुग्रहवाञ्छया ॥७३॥
७५ श्लो०] पड्रिंशतितममाह्निकम् ।
अत इति मार्जारादिभक्षणस्य एवं प्रत्यवा-
यहेतुत्वात् । विदेति ज्ञानम् । प्रकटमिति यथा
न कश्चिदपि एवं पश्यदित्यर्थः । तथात्वे
हि सविकल्पोऽपि लोक एवमादध्यादिति शा-
स्त्रीयो विधिरुत्सीदेत् । यद्वा अयं ज्ञानिनं
प्रति विचिकित्सते शास्त्रविरुद्धमने अनुष्ठित-
मिति ॥ ७३ ॥
नच एतन्निर्मूलमेव उक्तमित्याह
श्रीमन्मतमहाशास्त्रे
तदुक्तं विभुना स्वयम् ।
तदेव आह
स्वयं तु शङ्कासङ्कोच-
निष्कासनपरायणः ॥ ७४॥
भवेत्तथा यथान्येषां
शङ्का नो मनसि स्फुरेत् ।
मार्जयित्वा ततः स्नानं
पुष्पेणाथ प्रपूजयेत् ॥ ७५॥
श्रीतन्त्रालोके।
पुष्पादि सर्व तत्स्थं त-
दगाधाम्भसि निक्षिपेत् ॥
तत इति नैवेद्यभक्षणाद्यनन्तरम् ॥
आह्निकार्थमेवोपसंहरति
उक्तः स्थण्डिलयागोऽयं
नित्यकर्मणि शम्भुना ॥७६॥
इति शिवम् ॥७६ ॥
श्रीमद्गुरुप्रसादासादितपूजासतत्वसुहितमतिः ।
षडिशमाहिकमिदं व्याचके जयरथाभिख्यः॥
इति श्रीतन्त्रालोकविवेके स्थण्डिलपूजाप्रकाशनं नाम
पड़िशमाह्निकम् ॥ २६॥
अथ
श्रीतन्त्रालोके।
श्रीमन्महामाहेश्वराचार्याभिनवगुप्तविरचिते
श्रीजयरथकृतविवेकाख्यटीकापते
सप्तविंशतितममाह्निकम् ।
देवं चक्रव्योमग्रन्थिगमाधारनाथमजम् ।
अपि परसंविदूदैः स्पृहणीयं स्पृहणमसि नतः ॥
इदानी द्वितीयान नित्यावशेषरूपां लिङ्गार्चा
वक्तुमाह
अथोच्यते लिङ्गपूजा
सूचिता मालिनीमते ॥१॥
सूचितेति
'यजेदाध्यात्मिकं लिङ्गं... ।(१८३)
इत्यादिना ॥१॥
३५८
श्रीतन्त्रालोके।
ननु अत्र कस्माल्लिङ्गपूजायाः साक्षादेव न
अभिधानं कृतमित्याशय आह
एतेषामूर्ध्वशास्त्रोक्त-
मन्त्राणां न प्रतिष्ठितम्।
बहिष्कुर्यात्ततो ह्येते
रहस्यत्वेन सिद्धिदाः॥२॥
ननु एषां बहिःप्रतिष्ठया किं स्यादित्या-
शङ्कय आह
खवीर्यानन्दमाहात्म्य-
प्रवेशवशशालिनीम् ।
ये सिद्धिं ददते तेषां
बाह्यत्वं रूपविच्युतिः ॥३॥
निमित्तान्तरमप्यत्रास्तीत्याह
किंच चोक्तं समावेश-
पूर्णो भोक्रात्मकः शिवः ।
भोगलाम्पट्यभाग्भोग-
विच्छेदे निग्रहात्मकः॥४॥
७ श्लो०]
सप्तविंशतितममाह्निकम् ।
३५९
ननु निग्रहात्मकत्वेन अस्य किं स्यादित्या-
शङ्कय आह
शान्तत्वन्यकियोद्भत-
जिघत्साहितं वपुः।
स्वयं प्रतिष्ठितं येन
सोऽस्याभोगे विनश्यति ॥५॥
स इति स्वयंप्रतिष्ठाता ॥५॥
नच एतद्युक्तिमात्रशरणमेवेत्याह
उक्तं ज्ञानोत्तरायां च
तदेतत्परमेशिना।
शिवो यागप्रियो यस्मा-
द्विशेषान्मातृमध्यगः॥६॥
तस्माद्रहस्यशास्त्रेषु
ये मन्त्रास्तान्बुधो बहिः।
न प्रतिष्ठापयेज्जातु
विशेषाद्यक्तरूपिणः ॥७॥
३६० श्रीतन्त्रालोके । अत एव मृतस्यार्थे प्रतिष्ठान्यत्र योदिता। सात्र शास्त्रेषु नो कार्या कार्या साधारणी पुनः॥८॥ अत एवेति बहिःप्रतिष्ठानिषेधात् । अन्य- त्रेति श्रीमृत्युञ्जयादौ । यदुक्तं 'प्रतिष्ठा वापि कर्तव्या दग्धपिण्डे श्मशानके।' इति । साधारणीति नेत्रमत्रादिना ॥ ८॥ एवमस्मदर्शने बहिःस्थिरप्रतिष्ठानिषेधात् चलैव कार्येत्याह आ तन्मयत्वसंसिद्धे- रा चाभीष्टफलोदयात् । पुत्रकः साधको व्यक्त- मव्यक्तं वा समाश्रयेत् ॥९॥ प्रतिमा च अत्र पुत्रकादिभिः किं स्वयमेव कार्या न वेत्याशक्य आह पुत्रकैर्गुरुरभ्यर्थ्यः साधकस्तु स्वयं विदन् ।
३६१ १४ श्लो०] सप्तविंशतितममाह्निकम् । यदि तत्स्थापयन्नो चे- तेनाप्यो गुरुर्भवेत् ॥ १०॥ गुरुश्वात्र निरोधाख्ये काल इत्थं विभौ वदेत् । जीवत्यस्मिन्फलान्तं त्वं तिष्ठेर्जीवावधीति वा ॥११॥ लिङ्गं च बाणलिङ्गं वा रत्नजं वाथ मौक्तिकम् । पौष्पमान्नमथो वास्त्रं गन्धद्रव्यकृतं च वा ॥ १२॥ नतु पाषाणजं लिङ्ग शिल्प्युत्थं परिकल्पयेत् । धातूत्थं च सुवर्णोत्थ- वर्जमन्यद्विवर्जयेत् ॥ १३॥ न चात्र लिङ्गमानादि कचिदप्युपयुज्यते ।
श्रीतत्रालोके। उदारवीयमन्त्रैर्य- द्भासितं फलदं हि तत् ॥१४॥ तस्यापि स्थण्डिलायुक्त- विधिना शुद्धिमाचरेत् । मन्त्रार्पणं तथैव स्या- निरोधस्तूक्तयुक्तितः ॥ १५॥ अग्नौ च तर्पणं भूरि- विशेषादक्षिणा गुरोः। दीनादितृप्तिर्विभवा- द्याग इत्यधिको विधिः ॥१६॥ सर्वेष्वव्यक्तलिङ्गेषु प्रधानं स्यादकल्पितम्। तथा च तत्र तत्रोक्तं लक्षणे पारमेश्वरे ॥ १७॥ सूत्रे पात्रे ध्वजे वस्त्रे स्वयम्भूबाणपूजिते।
२२ श्लो०] सप्तविंशतितममाहिकम् । ३६३ नदीप्रस्त्रवणोत्थे च नाह्वानं नापि कल्पना ॥१८॥ पीठप्रसादमन्त्रांश- वेलादिनियमो नच। व्यक्तं वा चित्रपुस्तादौ देवदारुसुवर्णजम् ॥ १९॥ अथ दीक्षितसच्छिल्पि- कृतं स्थापयते गुरुः। अथवा लक्षणोपेत- मूर्धतत्कर्पराश्रितम् ॥२०॥ पतिचक्रकशूलान- विधिना तूरमाश्रयेत् । तल्लक्षणं ब्रुवे श्रीम- त्पिचुशास्त्रे निरूपितम् ॥२१॥ तूरे योगः सदा शस्तः सिद्धिदो दोषवर्जिते।
३६४ श्रीतन्त्रालोके । स्थापयेदिति खयमेव । नो चेदिति खयम- ज्ञत्वे सतीत्यर्थः। अस्मिन्निति साधके पुत्रके वा। फलान्तं जीवावधीति वा । यदुक्तम् 'आ तन्मयत्वसंसिद्धेरा चाभीष्टफलोदयात् ।' इति । वास्त्रमिति वस्त्रादावेव कृतसंनिवेशम् । नतु पाषाणजमिति तद्धि स्थिरप्रतिष्ठायां यो- ग्यमित्याकूतम् । अन्यद्विवर्जयेदिति तेन सौ- वर्णमेव कार्यमित्यर्थः । नात्र लिङ्गमानाद्युप- युज्यते इति, यदभिप्रायेणैव 'सिद्धैः संस्थापितानां तु न मानादि विचारयेत् ।' इत्यादि उक्तम् । तस्येति लिङ्गस्य । उक्तेति 'जीवत्यस्सिन्फलान्तं त्वं तिष्ठेर्जीवावधीति वा ।' इति । भूरिविशेषादिति नतु विशेषमात्रात् । अधिक इति नित्यात् । सूत्र इति अक्षसूत्रे। पात्र इति महति । ध्वज इति खट्टाङ्गादौ । वस्त्र इति यागा) परिकल्पिते। मूर्धेत्यखण्डम् । चक्रकेत्यावर्तक्रमेण। तदेव पठति तूर इत्यादि।
२४ श्लो०]
सप्तविंशतितममाह्निकम् ।
दोषानेव अभिधत्ते
जालकैर्जर्जरै रन्धे-
दन्तैरूनाधिकै रुजा ॥२२॥
युक्ते च तूरे हानिः स्यात्
तद्दीने याग उत्तमः।
काम्य एव भवेत्तूर-
मिति केचित्प्रपेदिरे ॥ २३॥
जालकैरिति नवोद्भिन्नैः सूक्ष्मप्रायैः। जर्जरै-
रिति तैरेव चिरोद्भिन्नः। ऊनाधिकैरिति द्वा-
त्रिंशतः। रुजेति क्लेदादिरूपया । तद्धीन इति
जालकादिरहिते । केचिदिति प्राच्याः ॥ २३ ॥
खमतमाह
गुरवस्तु विधौ काम्ये
यत्नादोषांस्त्यजेदिति।
व्याचक्षते पिचुप्रोक्तं
न नित्ये कर्मणीत्यदः ॥२४॥
३६६ श्रीतन्त्रालोके । श्रीसिद्धातन्त्र उक्तंच तूरलक्षणमुत्तमम् । एकादिकचतुष्खण्डे गोमुखे पूर्णचन्द्रके ॥२५॥ पद्मगोरोचनामुक्ता- नीरस्फटिकसंनिभे। एकादिपञ्चसद्रन्ध्र- विद्यारेखान्विते शुभे ॥२६॥ न रूक्षवक्रशकल- दीर्घनिम्नसबिन्दुके। श्लक्ष्णया वज्रसूच्यात्र स्फुटं देवीगणान्वितम् ॥२७॥ सर्व समालिखेत्पूज्यं सर्वावयवसुन्दरम्। गोमुखेति आकारसादृश्याय, पझेत्यादि च वर्णसादृश्याय उपात्तम् । सन्ध्रति अत्र
२८ श्लो०]
सप्तविंशतितममाहिकम् । ३६७
रन्ध्राणां सत्त्वं मद्यादिनिर्गमनहेतुत्वभावात् ।
विद्येति चतुर्दश । यदुक्तं तत्र
'आदौ तावत्परीक्षेत कपालं लक्षणान्वितम् ।
एकखण्डे द्विखण्डे वा त्रिखण्डे वा सुशोभने ।
चतुष्खण्डे गोमुखे वा पूर्णचन्द्रसमप्रमे।
पद्मामे रोचनामे वा नीरामे मौक्तिकामे ।।
अवालाभेन्द्रनीलामे शुद्धस्फटिकसंनिभे ।
विद्यारेखासमायुक्ते एकरन्ध्र द्विरन्धके ।
त्रिचतुष्पञ्चके वाथ कर्तव्यं शुभलक्षणम् ।
रूक्षे जर्जरिते क्रूरे वके दीर्घे कुशोदरि ॥
बिन्दुभिः खचिते निम्ने न कदाचित् कृतिं कुरु ।
ज्ञात्वा लक्षणसंशुद्धं कपालं सार्वकामिकम् ।।
तत्र चोर्ध्वपुटे कार्या प्रतिमा या मनःस्थिता।
तुर्याशे तु कृते क्षेत्रे तदन्ते वृत्तमालिखेत् ॥
वृत्तान्ते तु पुनर्वृत्तं पुनर्मध्यं त्रिभागिकम् ।
तस मध्ये पुनः पनं ज्ञात्वा चक्रे यथा तथा ॥
मध्ये देवी च वा देवं योगिनीभिः परीवृतम् ।
श्लक्ष्णया वज्रसूच्या च कार्या चैवाङ्गकल्पना ॥
इत्यादि बहुप्रकारम् ॥
३६८ श्रीतन्त्रालोके। एतदेव अन्यत्रापि अतिदिशति एतदेवानुसर्तव्य- मर्घपात्रेऽपि लक्षणम् ॥२८॥ तथाच आगमोऽप्येवमित्याह श्रीब्रह्मयामलेऽप्युक्तं पात्रं गोमुखमुत्तमम् । गजकूर्मतलं कुम्भ- वृत्तशक्तिकजाकृति ॥ २९॥ शक्तिकजं गुह्यम् ॥ २९ ॥ एवं लिङ्गखरूपं बहुधा व्याख्याय अक्षसूत्रं निरूपयति अक्षसूत्रमथो कुर्या- त्तत्रैवाभ्यर्चयेत्क्रमम् । वीरधातुजलोद्भूत- मुक्तारत्नसुवर्णजम् ॥ ३०॥ अक्षसूत्रं क्रमोत्कृष्टं रौद्राक्षं वा विशेषतः।
३६९ ३४ श्लो०] सप्तविंशतितममाह्निकम् । शतं तिथ्युत्तरं यहा साष्टं यहा तदर्धकम् ॥३१॥ तदर्धं वाथ पञ्चाश- द्युक्तं तत्परिकल्पयेत् वीरधातुर्महाशङ्खः । जलोद्भूतं पद्माक्षम् । तिथयः पञ्चदश । तदर्ध चतुष्पञ्चाशत् । तदर्ध सतविंशतिः॥ अत्रैव व्यातिं दर्शयति वत्राणि पञ्च चित्स्पन्द- ज्ञानेच्छाकृतिसंगतेः॥३२॥ पञ्चधाद्यन्तगं चैक्य- मित्युपान्त्याक्षगो विधिः। शक्तितद्वत्प्रभेदेन तत्र दैरूप्यमुच्यते ॥३३॥ ततो द्विगुणमाने तु द्विरूपं न्यासमाचरेत् । ४७ श्रीतन्त्रालोके। ततोऽपि द्विगुणे सृष्टि- संहृतिद्वितयेन तम् ॥३४॥ मातृकां मालिनी वाथ न्यस्येत्खशरसंमिते। उत्तमे तु द्वयीं न्यस्ये- न्यस्य पूर्व प्रचोदितान् ॥३५॥ दीक्षायां मुख्यतो मन्त्रां- स्तान्पञ्चदश दैशिकः। यदि वा तत्त्वभुवन- कलामन्त्रपदार्णजैः ॥३६॥ संख्याभेदैः कृते सूत्रे तं तं न्यासं गुरुश्चरेत् । कृत्वाक्षसूत्रं तस्यापि सर्व स्थण्डिलवद्भवेत् ॥ ३७ ॥ पूजितेन च तेनैव जपं कुर्यादतन्द्रितः।
३९ श्लो०] सप्तविंशतितममाहिकम् । ३७१ विधिरुक्तस्त्वयं श्रीम- न्मालिनीविजयोत्तरे ॥३८॥ चक्रवद्भमयन्नेत- द्यक्ति स जपो भवेत्। यदीक्षते जुहोत्येत- बोधाग्नौ संप्रवेशनात् ॥३९॥ पञ्चधेति वक्रपञ्चकस्य चिदादिशक्तिपञ्चकेन गुणनात् पञ्चविंशतिर्भवतीत्यर्थः । ऐक्यमिति उपाध्यतीतमेकं रूपमित्यर्थः । तद्धि द्विविध- मादावुपाधीनामनुल्लासात् अन्ते च उपाधीनां प्रशमयोगत इति । एवं सप्तविंशतिः। उपा- न्त्येति पञ्चाशदक्षात्मनोऽन्त्यस्य अक्षसूत्रस्य समीपवर्तित्वात् । तत्रेति सप्तविंशतौ । द्विगुण- माने इति चतुष्पञ्चाशदात्मनि । द्विरूपमिति शक्तिशक्तिमदात्मकम् । ततोऽपि द्विगुणे इति अष्टोत्तरशतात्मनि । खशरेति पञ्चाशत् । उत्तमे श्रीतन्त्रालोके। इति पञ्चदशोत्तरशतात्मनि । द्वयीमिति मा. तृकामालिनीरूपाम् । पूर्वमिति सप्तदशाबिके । यदुक्तं तत्र 'पिवन्यायष्टकं चास्त्रादिकं षवं परा तथा।' (४०) इति, पञ्चदश एते स्युरिति । यदि वेति पक्षान्तरे । उक्त इति एकान्नविंशे पटले । य- दुक्तं तत्र 'तदानेन विधानेन प्रकुर्यादक्षमालिकाम् । मणिमौक्तिकशङ्खादिपद्माक्षादि विनिर्मिताम् ।। हेमादिधातुजां वाथ शतार्धाक्षमितां बुधः । यथा स्वबाहुमात्रा स्याद्वलयाकृतितां गता ॥ तां गृहीत्वा समालभ्य गन्धधूपाधिवासिताम् । पूजयित्वा कुलेशानं तत्र शक्ति निवेशयेत् ॥ प्रत्येकमुच्चरेद्धीजं परावीजपुटान्तगम् । प्रस्फुरत्क्षान्तमेकसिन्नाद्यक्षे विनियोजयेत् ।। आवर्ण व्यापकं भूयः सर्वाधिष्ठायकं सरेत् । द्विविधेऽपि हि वर्णानां भेदे विधिरयं मतः ॥ द्वितीये व्यापकं वर्ण द्वितीयं पूर्ववन्यसेत् । तृतीयादिषु वर्णेषु फान्तेष्वप्येवमिष्यते ॥
४१ श्लो०]
सप्तविंशतितममाह्निकम् ।
३७३
ततः शक्तिमनुस्मृत्य सूत्रामामेकमानसः ।
अक्षमध्यगतां कुर्यादक्षसूत्रप्रसिद्धये ॥
चक्रवद्धमयन्नेतद्यदेवात्र प्रभापते ।
तत्सर्व मत्रसंसिद्ध्यै जपत्वेन प्रकल्पते ।।
होमः स्यादीक्षिते तद्वद्दह्यमानेऽत्र वस्तुनि ।' (१९८३)
इति ॥ ३९ ॥
इदानीमुक्तेऽपि पात्रस्य लक्षणे त दोपद-
शनाय पक्षान्तरमाह
अथवाघमहापात्रं
कुर्यात्तच्चोत्तरं परम् ।
नारिकेलमथो बैल्वं
सौवर्ण राजतं च वा॥४०॥
तस्याप्येष विधिः सर्वः
प्रतिष्ठादौ प्रकीर्तितः।
तन्निष्कम्परसैः पूर्ण
कृत्वास्मिन्पूजयेत्क्रमम् ॥४१॥
निष्कम्परसैरिति वीरसन्धिभिः पञ्चामृता-
दिभिरित्यर्थः ॥४१॥
३७४
श्रीतन्त्रालोके ।
अत्र इतिकर्तव्यतामाह
अधोमुखं सदा स्थाप्यं
पूजितं पूजने पुनः।
तत्पात्रमुन्मुखं तच्च
रिक्तं कुर्यान्न तादृशम्॥४२॥
पूजान्ते तद्रसापूर्ण-
मात्मानं प्रविधाय तत्।
अधोमुखं च संपूज्य
स्थापयेत विचक्षणः॥४३॥
पूजितमिति पात्रविद्यादिना । पूजने इति
यथेष्टमश्रादेः । तादृशमित्युन्मुखम् ॥ १३॥
तत्तच्छास्त्रोदितानि पूजाधारान्तराण्यपि द.
शयितुमाह
खङ्गं कृपाणिकां यहा
कर्तरी मकुरं च वा।
विमलं तत्तथा कुर्या-
च्छ्रीमत्कालीमुखोदितम् ॥४४॥
४७ श्लो०] सप्तविंशतितममाहिकम् । ३७५ श्रीभैरवकुलेऽप्युक्तं कुलपर्वप्रपूजने। स्थण्डिलेऽग्नौ पटे लिने पात्रे पद्मेऽथ मण्डले ॥४५॥ मूर्ती घटेऽस्त्रसंघाते घटे सूत्रेऽथ पूजयेत्। स्वेन स्वेनोपचारेण सङ्करं वर्जयेदिति ॥४६॥ खेन खेनेति गृहस्थाशुचितेन । यदुक्तं 'गृहे गृहोद्भवैद्रव्यैः श्मशाने च तदुद्भवैः । विधिवत्पूजनं कार्य शवलं न समाचरेत् ॥' इति ॥ ४६॥ ननु किमनेकैः स्थण्डिलादिभिः पूजाधारै- रित्याशङ्का गर्भीकृत्य विषयविभागं दर्शयति यथाप्सु शान्तये मन्त्रा- स्तबदस्त्रादिषु ध्रुवम् ।
३७६ श्रीतन्त्रालोके। शत्रुच्छेदादिकर्तारः काम्योऽतः सङ्करोज्झितः॥४७॥ अत इति एषां प्रतिनियतकारित्वात्, तेन शान्तिकामो जल एव पूजां विदध्यात्, न अस्त्रादाविति ॥४७॥ ननु एवमकामस्य पुनः किमेभिर्बहुभिरि- त्याशय आह अकामस्य तु ते तत्त- स्थानोपाधिवशा वम् । पाशकर्तनसंशुद्ध- तत्त्वाप्यायादिकारिणः ॥४८॥ अथवा पुस्तकं ताह- ग्रहःशास्त्रक्रमोम्भितम्। सुशुद्ध दीक्षितकृतं तत्राप्येष विधिः स्मृतः॥४९॥ अथवेति पक्षान्तरे । तादृग्रहःशास्त्रक्रमो- म्भितत्वेन च अस्य सर्वसहत्वात सर्वकर्मखपि आनुगुण्यं कटाक्षितम् । कृतमिति लिखितम् ॥
३७७ ५२ श्लो०] सप्तविंशतितममाहिकम् । एवं लिङ्गखरूपमभिधाय, पूजाभेदमभिधा- तुमाह इत्थं स्वयंप्रतिष्ठेषु यावद्यावस्थितिर्भवेत् । विभवैस्तर्पणं शुद्धि- स्तावद्विच्छेदवर्जनम् ॥५०॥ अत एव यदा भूरि- दिनं मण्डलकल्पनम् । तदा दिने दिने कुर्या-- द्विभवैस्तर्पणं बहु ॥५१॥ प्रतिष्ठायां च सर्वत्र गुरुः पूर्वोदितं परम् । सतत्त्वमनुसन्धाय संनिधिं स्फुटमाचरेत् ॥५२॥ विच्छेदवर्जनमिति विच्छेदं परिवयं अवि- च्छिन्नमित्यर्थः । अत एवेति अविच्छेदेन तर्प- णादेः कार्यत्वात् ॥ ५२॥ ४८ ३७८ श्रीतन्त्रालोके। ननु 'आ तन्मयत्वसंसिद्धेरा चाभीष्टफलोदयात् । पुत्रका साधको व्यक्तमव्यक्तं वा समाश्रयेत् ॥'(९ श्लो०) इत्यायुक्त्या तत्तदभीष्टसिद्धिपर्यन्तं पुत्रकादीनां लिङ्गादिसमाश्रयणमुक्तम्, अनन्तरं पुनरेभिः कि कार्यमित्याशय आह सिद्धे तु तन्मयीभावे फले पुत्रकसाधकैः । अन्यस्मै तद्वयादन्य- तरस्मै तत्समर्प्यते ॥५३॥ तस्याप्येष विधिः सर्व- तु सर्वथा । अगाधेऽम्भसि तत्क्षेप्यं क्षमयित्वा विसृज्य च ॥५४॥ इत्येष स्वप्रतिष्ठान- विधिः शिवनिरूपितः। परप्रतिष्ठिते लिङ्गे बाणीयेऽथ स्वयंभुवि ॥ ५५॥ स्तदलाभे ५८ श्लो०] सप्तविंशतितममाहिकम् । ३७९ सर्वमासनपक्षे प्राङ्- न्यस्य संपूजयेत्क्रमम् । एवं तत्समर्पणे योग्यश्चेत् कश्चिन्न लब्धः, तदा तैः किं कार्यमित्याशय आह तदलाभ इति । स्वयम्भुवीत्यर्थाद्विधिनिरूपित इति, तदे- वाह सर्वमिति ॥ ननु वयम्भवादयो हि शुद्धादशुद्धाद्वा अच- मध्यादवतीर्णाः, तत्कथमत्र इदं सर्वाध्वोत्तीर्ण संपूजयेदित्याशङ्कच आह शुद्धाशुद्धाध्वजाः सर्वे मन्त्राः सर्वः शिवान्तकः ॥५६॥ अध्या चेहासने प्रोक्त- स्तत्सर्वत्रार्चयेदिदम् । आवाहनविसृष्टी तु तत्र प्राग्वत्समाचरेत् ॥५७॥ नच एतयुक्तिमात्रसिद्धमेवेत्याह उक्तं तन्त्रेऽप्यघोरेशे स्वच्छन्दे विभुना तथा।
३८०
श्रीतन्त्रालोके ।
अथवा प्रत्यहं प्रोक्त-
मानार्धाधनियोगतः॥५८॥
कृत्वेष्टं मण्डलं तत्र
समस्तं क्रममर्चयेत् ।
प्रोक्तमानेति
'एवमख त्रिहस्तस्य...............।
इत्याद्यभिहितस्य त्रिहस्तत्वादेः॥
एतदेव उपसंहरति
बहुप्रकारभिन्नस्य
लिङ्गस्यार्चा निरूपिता ॥५९॥
इति शिवम् ॥ ५९॥
बहुभेदभङ्गिलिङ्गस्वरूपसंविनिरूपणाचतुरः।
सप्तविंशं व्यवृणोदाहिकमेतजयरथाभिख्यः ।।
इति श्रीतन्त्रालोकविवेके लिङ्गार्चाप्रकाशनं नाम सप्तविंश-
माह्निकम् ॥ २७॥
No text on this page.
No text on this page.