Ramkrishna Mission Institute Of Culture, Golpark
Sivalilarnava
Front matter
No text on this page.
No text on this page.
No text on this page.
RIVANDRUM SANSKRITERIES.
NO. IV.
SIVALILARNAVA
OF
NILAKANTHA DIKSHITA.
Edited with Notes
BY
T. GANAPATI S
ŚÂSTRÎ
Curator of the Department for the publication of Sanskrit manuscripts.
PUBLISHE
SHED UNDER THE AUTHORITY OF THE GOVERNMENT OF
HIS HIGHNE88 THE MAHARAJAM OF TRAVANCORE.
TRIVANDRUM:
PRIXTED AT THE TRAVAXTORE GOVERNMENT PREAI,
1909.
(All Rights Reserved.)
No text on this page.
SHEKHARA
BHATTACH
॥श्रीः॥
अनन्तशयनसंस्कृतग्रन्थावलिः.
ग्रन्थाङ्कः ४.
महाकविश्रीनीलकण्ठदीक्षितप्रणीतः
शिवलीलार्णवः।
संस्कृतग्रन्थप्रकाशनकार्याध्यक्षेण
त. गणपतिशास्त्रिणा
604
Harishchandrapur.
संशोधितः
* INALDA.
लघुटिप्पण्या च संयोजितः ।
THAN
अनन्तशयने
महामहिमश्रीमूलकरामवर्मकुलशेखरमहाराजशासनेन
राजकीयमुद्रणयन्त्रालये
मुद्रयित्वा प्रकाशितः ।
कोळम्बाब्दाः १०८४, कैस्तादाः १९०९.
..M in Raia
Acc. No.65590
891'21
Class No.
NIL
28.10.68
Date
St. Card S.D
Clase.
Cat.
asy
Bk. Cardig
Checked
PREFACE. This Mahakavya is significantly titled Parurettevra, for the sixty four Lilas of Siva described in Halasya lahatmya of the Skandapurâna are. elaborately dealt with m it. The author of this work is the great poet: Brî Nûlakantha Dîkshita, grandson of reputed Appayya Dikshita's brother. This poem surpasses by its richness of poetic merit bis other works viz. vibranta, 31964120%, fra. शतक, कलिविडम्बन, सभारजन, गावतरण, आनन्दसागरस्तव, नीलकण्ठविजयचम्पू and Asaltaates held in great estimation by scholars. The period of his life can be known to be about the first half of the 17th century A. D. from the following verse "भष्टात्रिंशदुपस्कृतसप्तशताधिकचतुस्सहनेषु । कलिवर्षेषु गतेषु प्रथितः किल नीलकण्ठविजयोऽयम् ॥" in his assustatay. This edition of the work is based on two palmleaf manuscripts, one (*) (about a century old) in the Palace Library and the other (a) kindly lent to me by Pandit Nilakantha Sastri of Erivaikuntham Tinnevelly District. T. Ganapati Sastri.
No text on this page.
निवेदना। १ श्रीहालास्यमाहात्म्ये स्कान्दागत्यसंहितान्तर्गते प्रतिपादितानां शिवस्य चतुष्पष्टिलीलानां विशालं वर्णनस्थानमितिकृत्वा महाकाव्यमिदं 'शिवलीलार्णव' इत्युच्यते । अस्य प्रणेता श्रीमदप्पयदीक्षितानुजपुत्रो महाकविः श्रीनीलकण्ठदी- क्षितः । एतस्य तत्रभवतः शान्तिविलासः, अन्यापदेशशतकं, वैराग्यशतकं, कलिविडम्बन, सभारञ्जनं, गङ्गावतरणं, आनन्दसागरस्तवः, नीलकण्ठ- विजयचम्पूः, नलचरितनाटकम् इत्यन्याः काश्चित् कृतयः सहृदयैरुपलालिताः प्रथन्ते । इदं काव्यरत्नं ताः सर्वाः काव्यगुणसम्पत्समृद्रया मन्ये, दूरमतिशेते । अस्य जीवितसमय:- "अष्टात्रिंदुपस्कृतसप्तशताधिकचतुःसहस्रेषु । कलिवर्षेषु गतेषु प्रथितः किल नीलकण्ठविजयोऽयम् ॥" इति नीलकण्ठविजये वदतानेनैवाविष्कृतः । अस्य संशोधनाधारभूतावादशौं द्वौ । तत्रैको राजकीयग्रन्थशालास्थस्तालपत्रा- मकः शताधिकवर्षदेशीयोऽचिरसम्पादितस्वात्मप्रतिरूपसचिवः क.संज्ञकः । अपरस्तु श्रीवैकुण्ठप्रामाभिजनैः पण्डितनीलकण्ठशास्त्रिभिः कृपया मह्यमुपकृतः ख.संज्ञस्तालप- नात्मकः । एतदुभयावलम्बनेन प्रन्थस्य शरीरमविकलं शुद्धं च सम्पादितम् ॥ त. गणपतिशास्त्री.
No text on this page.
॥ श्री महाकविश्रीनीलकण्ठदीक्षितप्रणीतः शिवलीलार्णवः। प्रथमः सर्गः। पूर्त स्वतः पूततरं ततो यद् गाङ्गं पयः शङ्करमौलिसङ्गात् । तत् पातु मातुः प्रणयापराधपादाहतैः पूततमं ततो नः ॥ १ ॥ अशक्यमझान्तरवद्विभक्तुमणुप्रमाणं करणं यदन्तः । सामान्यभूतं शिवयोस्तदेकं सानुग्रहं स्यान्मयि गर्भदासे ॥ २ ॥ अन्विष्य खिन्नं निगमानशेषानमी न मीनं प्रथम स्मरामः । अन्विष्यमाणं निगमैरशेषैरम्ब ! स्तुमस्ते वयमाक्षमीनम् ॥ ३ ॥ स्तन्येन कश्चित् कवयाम्बभूव ताम्बूलसारेण पैरो जनन्याः । अहं ततोऽप्युन्नतिमाप्तुकामः सेवे ततोऽप्युन्नतमक्षिकोणम् ॥ ४ ॥ अर्धे तनोरद्रिसुतामयोऽस्मीत्यहंयुना किं फलमादियूना । गीर्वाणयोगीन्द्रमुपास्महे तं सर्वात्मना शैलसुतात्मको यः ॥ ५॥ कालेन शम्भुः किल तावतापि कलाश्चतुष्पष्टिमिताः प्रणिन्ये । द्वासप्ततिं प्राप्य समाः प्रबन्धाञ्छतं व्यधादप्पयदीक्षितेन्द्रः ॥ ६ ॥ अनाहतोद्भूतमपास्तभेदमाद्यं शिवस्यौपयिकं विधातुः । नादाभिधं पारगमध्वनां तदनुत्तरं ज्योतिरनुस्मरामः ॥ ७॥ साहित्यविद्याजयघण्टयैव संवेदयन्ते कवयो यशांसि । यथा यथास्यां ध्वनिरुज्जिहीते तथा तथा सार्हति मूल्यभेदान् ॥ ८॥ यावत् कवेर्दिवमुक्तिबन्धे यावद् धियः श्रोतरि कोमलत्वम् । तावद् ध्वनौ तब्बतिभेदमूले तारत्वमालंकृतिका वदन्ति ॥ ९ ॥ १. मिळशिशुरिति सौन्दर्यलहयाँ न्यवहृतो शानसम्बन्धः. २. मूकमहाकविः- 1. अनाहत हुत्स्थं द्वादशदलं पद्मम् . ४. ध्वनिः वाच्यातिशायि व्याय, तहत् काव्य वा, अयच नाद..
शिवलीमा
अस्मिन् महत्यस्तमितान्येवेचे विसृत्वरे वीचितरकरीत्या ।
कान्यांचनौ जाग्रति देहमाजा कर्ण विशेयुः कथमन्यंशब्दाः ॥१०॥
कीर्णानि घण्टापथ एव हन्त शब्दार्थरलानि मिरा सवित्र्या ।
अत्यादरादामृशतां कवीनां दृग्गोचरं कस्यचिदेव यान्ति ॥ ११ ॥
'प्रायस्तिरोभूतमहाप्रकाशाः पाषाणखण्डेष्विव चन्द्रकान्ताः ।
शब्देषु शब्दा मिलिताश्चरान्ति भाग्योत्तरा एव तु जानते तान् ॥ १२ ॥
यानेव शब्दान् वयमालपामो यानेव चार्थान्वयमुल्लिखामः ।
तैरेव विन्यासविशेषभव्यैः संमोहयन्ते कवयो जगन्ति ॥ १३ ॥
गायन्ति वीणा अपि वेणवोऽपि जानन्ति बालाः पशवोऽपि चेदम् ।
काव्यानि कर्तुं च परीक्षितुं च द्वित्रा भवेयुर्न तु वा भवेयुः ॥ १४ ॥
सव्यं वपुः शब्दमयं पुरारेरात्मकं दक्षिणमामनन्ति ।
अझं जगन्मङ्गलमैश्वरं तदर्हन्ति काव्यं कथमल्पपुण्याः ॥ १५ ॥
स्तोतुं प्रवृत्ता श्रुतिरीश्वरं हि न शाब्दिकं प्राह न तार्किकं वा ।
ब्रूते तु तावत् कविरित्यभीक्ष्णं काष्ठा परा सा कविता ततो नः ॥ १६ ॥
कर्ण गतं शुष्यति कर्ण एव सङ्गीतकं सैंकतवारिरीत्या ।
आनन्दयत्यन्तरनुपविश्य सूक्तिः कवेरेव सुधासगन्धा ॥ १७ ॥
पश्येयमेकस्य कवेः कृति चेत् सारस्वत कोशमवमि रिक्तम् ।
प्रतिश्यायमवेक्षितश्चेत् कोणे प्रविष्ठा कविकोटिरेषा ॥ १८॥
कोक्तयो यत्र विभूषणानि वाक्यार्थबोधः परमप्रकर्षः ।
अर्थेषु बोध्येष्वभिधैव दोषः सा काचिदन्या सरणिः कवीनाम् ॥ १९ ॥
सदर्थमात्रग्रहणात् प्रतीता सर्वज्ञता सापि शशाङ्कमौलेः ।
प्राप्ता विकास प्रतिभा कवीनां व्यामोति यत्ति न तच्छिचोऽपि ॥२०॥
उल्लङ्घय तन्त्रान्तरसम्प्रदायानुत्प्रेक्षमाणा जगदन्यदन्यत् ।
करमादू बिभीमः कवयो भवामः काव्यज्ञदण्डाद् विभिमस्तु कामम् ॥ २१ ॥
तन्त्रान्तरेषु प्रतिपाद्यमानास्ते ते पदार्था ननु ते त एव ।
निवभीशोकजुगुप्सितान्यप्यायान्ति साहित्यपथे रसत्वम् ॥ २२॥
मर्थावबोधेऽपि समें रसोरन्विष्यते सत्कविसूक्तिरेव । अपत्यकामेऽपि समे विदग्धा रूपीतरामेव हि रोचयन्ते ॥ २३ ॥ व्यामोहयन्ती विविपैचोमिावर्तयन्त्यन्यकलासु दृष्टिम् । कालं महान्तं क्षणवन्नयन्ती कान्तेव दक्षा कविता धिनोति ॥ २४ ॥ चिन्तासु संसर्मविशेषलामे सन्दर्भणे चाथ पदैः पदानाम् । अर्थावबोधे च भवन् कवीनामानन्दभूमा वचसामसीमा ॥ १५ ॥ अनायतप्राणमसंयताक्षमब्रह्मचर्यानशनादिखेदम् । चित्तं महेशे निभृतं विधातुं सिद्धः कवीनां कवितैव योगः ॥२६॥ तिर्यङ्मनुष्यव्यतिरेकहेतुर्देव्या गिरामेव कटाक्षपातः । प्रज्ञाविशेषास्तु परे जनानां प्रायो दिशन्ति श्वमृगालसाम्यम् ॥ २७ ॥ न कालभेदाद्रसवर्णभेदो न जामिता वा न ऋजीषभावः । सारस्वतं नाम फलं तदेतत् सदैकरूपं कृतिनो लभन्ते ॥ २८ ॥ बाल्यं विदुः प्राकृतभाषितानि श्रुतिस्मृती वृद्धदशां वदन्ति । साहित्यमेकन्तु गिरां सवित्र्यास्तारुण्यमुद्गाढमुशन्त्यभिज्ञाः ॥ २९ ॥ कार्थाः क शब्दाः क रसाः क भावाः क व्यङ्ग्यभेदाः क्व च वाक्यरीतिः । कियत्सु दृष्टिः कविना न देया किमस्ति राज्ञामियतीह चिन्ता ॥ ३० ॥ ! आवर्णशक्तिग्रहमापवर्ग दुःखैकरूपा विरचय्य विद्याः । विश्रान्तिहेतोः कवितां जनानां वेधाः सदानन्दमयी किमाधात् ।। सिद्धं पदं सिद्धतरस्तदर्थः साध्या पदानां परमानुपूर्वी । तन्मात्रसारे कवितापदेऽस्मिन् कियद्विधात्रा कृतमुच्चनीचम् ॥३२॥ तान्येव शास्त्राणि त एव शब्दास्त एव चार्था गुरवस्त एव । इयान विशेषः कवितापथेऽस्मिन् देव्या गिरां दृपरिवर्तभेदः ॥ ३३ ॥ पदानि भन्यान्यपि काव्यरीतिमस्थानदत्तानि न शोभयन्ते । नासाप्रलमेन भवन्मुखश्रीस्तारहबिम्बेन किमङ्गनायाः ॥ ३४ ॥ ...जाविता यातयामता. २. ऋजीषं हृतसारोंऽशः. 'पुनर्विमश इति खपुस्तके पाठः. • 'कथं तरुण्या' इति खपुस्तके पाठः, शिवललाणवे साहित्यविद्यां पदमेकमेव सर्वानवद्यामपि हन्ति दुस्स्थम् । दन्तावलिं मौक्तिकदामरम्यां दंष्ट्रव वा बहिरुल्लसन्ती ॥३६॥ . अन्योन्यसंसर्गविशेषरम्याप्यलंकृतिः प्रत्युत शोचनीया । नियसारे कविसूक्तिबन्धे निक्रान्तजीवे वपुषीव दता ॥ ३६ ॥ विद्वत्प्रियं व्यायपथं व्यतीत्य शब्दार्थचित्रेषु कलेविलासात् । प्राप्तोऽनुरागो निगमानुपेक्ष्य भाषाप्रबन्धेष्विव पामराणाम् ।। ३७ ।। कृते युगे व्यञ्जनयावर्णि त्रेतायुगे सैव गुणीबभूव । आसीत् तृतीये तु युगेऽर्थचित्रं युगे तुरीये यमकप्रपञ्चः ॥ ३८ ॥ दिश्याधिरूढाः कविताधिराज्यं धीरा रमन्ते न हि शब्दचित्रे । स्वर्गेऽपि गत्वाप्सरसां निवासे काणैव किं कापि गवेषणीया ॥ ३९ ॥ मत्वा पदग्रन्थनमेव काव्यं मन्दाः स्वयं तावति चेष्टमानाः । मज्जन्ति बाला इव पाणिपादप्रस्पन्दमात्रं प्लवनं विदन्तः ॥ ४०॥ कालाद् बहोः कान्यपि दुप्पदानि लब्धानि मन्दः परितो विकीर्य । छिद्राणि लोष्टैरथ पांसुभिश्च सम्पूरयन् विस्मयते विलजः ॥ ४१ ॥ अद्यैकमेकं कुधियः परेदारन्येहुरेकं च पदं निबध्य । शुक्तं कचित् पर्युषितं कचिच्च कोप्णं कचिच्चारचयन्ति पद्यम् ॥ ४२ ॥ आपूर्य वक्रं लशुनैर्विधाता किं निम्बसारैः कुधियामसिञ्चत् । न चेत् कथं वाचि ततः क्षरन्त्यां स पूर्तिगन्धः स च तिक्तभावः ॥ ४३ ॥ लभेय निन्दामपि सत्कवीनां सव्यङ्गयसौरभ्यरसैर्वचोभिः । न तु प्रशंसामपि दुष्कवीनां दुर्गन्धिभिर्वीतरसैरमीभिः ॥ ४४ ॥ विवक्षितार्थप्रतिपादकं ये दिन्यासभेदं न विदुः पदानाम् । दुःखावहोऽर्थः स्फुरितोऽपि तेषां दौर्भाग्यभाजामिव पुत्रलाभः ॥ ४५ ॥ दुर्मेधसः शुष्कतरां कठोरां दुर्गन्धसान्द्रां गिरमुद्रिन्तः । कालं चिरं हन्त कथं व्यथन्ते श्रोतुर्दशातम्स कियत्तमोऽशः ॥ १६ ॥ शृप्वन्तु ते दुप्कवितां परेषां श्रोत्रेषु तप्तं जतु यनिषिक्तम् । १. हन्तेति शोके ! दुष्कवयो दुष्काव्यनिर्माणार्थ यद्ययन्ते तच्छोचनीयामित्यर्थः । तामिमां मातृणां व्ययनदुरवस्थां श्रोतुः श्रवणव्यथादुरवस्था दूरमतिशेत इत्याह -श्रोतुर्दशात इत्यादि.
प्रथमः सर्गः) शब्दार्थयोर्दुष्कविवक्रमाजोः किं दुष्कृतं स्याश्वधारयन्तु ॥ ४७ ॥ श्राम्यन्ति यावत् कवयः परेऽपि श्राम्यन्ति सावञ्च ततोऽधिकं च । गर्मोजादिः प्रसवावसानः क्लेशो हि दुःपुत्रसुवां च तुल्यः ।। ४८ ॥ दाक्षिण्यहानिर्जगतां विधातुर्देव्या गिरां दुर्मरणत्य योगः । पार जनस्येति च सर्वमेतत् समाहृतं दुष्कवितानिदानम् ॥ ४९ ॥ आब्रग्नपातादघशोधनानि स्मरन्ति ये ते परमर्षयोऽपि । यावत्तदात्मान्वयिताधियैव न सस्मरुर्दुष्कवितासु शुद्धिम् ॥५०॥ स्वोक्ति मुषित्वा पुरतः पठन्तं स्वस्यैव पश्यन् कविसाहसाङ्कम् । प्राज्ञो जनः किं प्रतिपद्यतां तमाहन्तु वा स्वोदरमोहतां वा ॥५१॥ निन्दन्तु वाचं मधुरां कवीनां नन्दन्तु च स्वां गिरमेव मूर्खाः । नाद्यां स्वरीत्या रसयन्तु जातु नान्त्यां पठन्तु स्वपतोऽपि पार्थे । ५२ ।। हिंना पशूनां ऋतुमध्यलमा स्वर्गे यथास्ते क्ष(य? )णदुःखहेतुः । किञ्चिच्छुभं पातकमव्यलग्नं तथा मुद्दे स्यादपि दुकवीनान् ।। ५३ ॥ प्राचेतसव्यासमुखाः कवीन्द्राः प्राश्चोऽपि किं दुष्कविभिर्विरक्ताः । काव्यानि कर्तुं शतशः क्षमास्ते कथं न चेदासत काकवन्ध्याः ॥ ५४ ॥ स्थूलाभिरभ्युल्लिखितानि धीभिः स्थूलानि मन्ये कुकवेर्वचांसि । कथं न चेत् कर्णपुटं प्रवेष्टुमेतानि यत्नादपि नोत्सहन्ते ॥ ५५ ॥ वाचं हतो यद्यपि ते तथापि न मूकता दुष्कवितैव दोषः । आद्या यदेकात्य विषाइहेतुः प्राणोपरोधायः परा बहूनाम् ॥ १६ ॥ वाचं विपञ्चीमिव *वादयन्ति कर्णामृतेन ध्वनिना कवीन्द्राः । मूर्खाः स्वमेधांमुसलप्रहारैर्वनाशयन्त्येव विचेष्टमानाः ॥ ५७ ।। शक्यं सुखं ग्रन्थयितुं प्रबन्धान् शक्यस्तु न श्रोतृजनानुरोधः । श्रान्ते सति कापि कवौ यदेष सर्वस्वनाशादिव खेदमेति ॥ ५८ ॥ अचुम्बितोल्लेखपदप्रवृत्तानसम्प्रदायेन कवीन् क्षिपन्ति । 1. 'स्वाङ्गकर्मकाच' इति वचनात् तङ्. २ .एकग्रन्थनिर्माणमात्रचरितार्था इत्यर्थः. वर्णयन्ति' इति खपुस्तके पाठः.
शिवकाळाचे पथा प्रवृत्तान् प्रहतेन मूर्खाः पश्यन्त्यवज्ञामुकुळीकृताक्षाः ॥ ५९॥ रसं रसज्ञाः कलयन्ति वाचि परे पदार्थानपरे पदानि । वस्त्रं कुविन्दा वणिजो विभूषां रूपं युवानश्च यथा युवत्याम् ॥ १० ॥ पाठप्रकारैः पदयोजनाभिस्तात्पर्यदुनिश्चयतश्च मन्दैः । आयास्यमानां गिरमात्मनो ये कर्णे न कुर्वन्ति त एव धन्याः॥११॥ एको हि दोषः परकीयतैव पद्येषु सर्वेष्वपि दुर्जनानाम् । तस्मिन् पुरस्थेऽपि कियद्यतन्ते वृथैव ते दोषगवेषणाय ॥ ६२ ॥ आनन्दथुब्रमविदां यदेकस्ते व्यङ्गयलाभेषु शतं कवीनाम् । एते सहस्रं पुनरर्बुदं वा परोक्तिदोषस्फुरणे खलानाम् ॥ ६३ ॥ प्राचीनपद्यभ्रमतः प्रवृत्ताः स्तोतुं खलाः प्रेक्ष्य कविं पुरस्तात् । येनान्यथाकर्तुमिदं गतन्ते क्लेशेन तेषां हि स एव दण्डः ॥ ६४ ॥ दोषः क्वचित् कश्चिदिति प्रतीतः प्राचामलङ्कारविदां प्रवादः । सर्वप्रबन्धानुगतस्तु मन्ये कर्तुः कवेर्जीवनमेव दोषः ॥ ६५ ॥ मुधैव वाक्येषु पदेप्वधीतं मुधैव दी कवितापथेऽपि । आवश्यकं यत्किल पामराणामावर्जनं तन्न किमप्यधीतम् ॥ ६६ ॥ निसर्गतो निर्गुणमुक्तिगुम्फ समर्थयन्ते सगुणं बलाये । ते कञ्चुळीसन्नहनोन्नतेन लम्बस्तनेनापि मुदं लभन्ते ॥ ६७ ॥ पाण्डित्यलोभो यदि पामराणां कामं विहिंसन्तु कलात्रिषष्टिम् । कस्तेऽपराधः कविते! गृहीतः किमस्ति ते किञ्चन पूर्ववैरम् ॥ ६८ ॥ वाचं कवीनामुपलाळयन् यां भुङ्क्ते रसज्ञो युवतिं युवेव । तामेव भुते ननु तार्किकोऽपि प्राणान् हरन् भूत इव प्रविष्टः ।। ६१ ॥ अर्थेप्वलकारविदः प्रमाणं शब्देषु नः शब्दविदो मुनीन्द्राः । के तान्त्रिकाणां कवयो भवान्त के वा कवीनामपि तान्त्रिकाः स्युः ॥७॥ धट्टोपविष्टानिव वाग्मिरथैः काव्यागमज्ञानुपसान्त्वयामः । आप्नुत्य भलूकवदापतन्तः कथं नु जय्या इह गौतमायाः ॥ ७१ ॥ अन्यन्तिकस्थैरविभावनीयः सूक्ष्मः प्रकृत्या मृदुसूक्तिजन्मा । कुतर्कविद्या व्यसनोपजातैः कोलाहलैन ध्वनिरेष वेधः ।। ७२ ॥ . १. घः शुल्कस्थानम् .
द्वितीयः सर्गः1 गुणान् न गृहन्तु खलास्ततः किं गृहन्तु दोषानपि वा ततः किम् । अपि व्यतिस्तामुभयं ततः किं गुणोऽपि दोषो यदि दुस्सहं तत् ॥ ७३ ॥ क ब्रह्मलोकः क.गिरां सवित्री क भूमिभागाः क वयं वराकाः । दिनोपलब्धामपि देवतां तां विक्रीणते वृत्तिकृते विमूढाः ॥ ७४ ॥ दुष्पण्डिताराधनदुःखशीलात् कष्टादमुष्मात् कविताधिकारात् । वरं जमत्यामिह मूकमावो वरं च तिर्यक्तृणगुल्मभावः ॥ ७५ ॥ प्रायो जडा मत्सरिणश्च लोका दोषोत्तरं मृग्यगुणं वचो नः । गुणैकलुब्धोऽपि जनः कचित् स्यादित्याशयैवायभियान प्रयासः ॥ ७६ ॥ 'वेदाहमे पुरुषं महान्त'मित्यामनन्तो निगमाः सगर्वम् । श्वानः कृता येन स एव देवो वर्ण्यः कथं वाङ्मनसातिवर्ती ॥ ७७ ॥ शब्देषु चार्थेषु परं यतिष्ये तथा तथा मां गुरवो विनिन्युः । चमत्कृति तत्र कथं विधास्ये न मत्कृतिर्यत् क्रमते तदंशे ॥ ७८ ।। काहं क काव्यं कविराजसाध्यं काहं के शम्भुनिगमैरगम्यः । निश्शङ्कमेवविदपि प्रवर्ते निर्लजते देवि! तव प्रसादात् ॥ ७९ ।। दत्ते त्वया वाङ्मयरत्नकोशे विक्रीय भुक्तं किल भुक्तमेव । शिष्टं त्वदभ्योः पुनरर्पयेयं दयस्व मीनाक्षि ! पुरैव मह्यम् ॥ ८० ॥ शब्दा यद्वदनं प्रपद्य मृदुतामाशासतेऽन्यादृशी- मर्था यद्धिषणाप्रवाहपतनादिच्छन्ति जिज्ञास्यताम् । यत्कीर्तिम्पृहया शिवोऽपि निगमान् प्रभाति सर्गादिषु प्राचस्तान् कवितापितामहपदारूढान् कवीन् प्रस्तुमः ॥ ८१ ॥ इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते शिवलीलार्णवे प्रथमः सर्गः । अथ द्वितीयः सर्गः। अस्ति क्षितेराभरणायमानः पारेसमुद्रं स हि पाण्ड्यदेशः । आशामगस्त्याध्युषितां गतोऽपि सर्वोत्तरो यो जगति प्रतीतः ॥ १ ॥ १. कतरि कर्मव्यतीहारे' इति तङ्. २. किरातावस्थायामिति शेषः,, शिवलीलार्णवे आस्थाय वैराग्यमनुत्तमं यत्रैलोक्यलक्ष्मी न तृणाय मेने । यदाधिपत्यस्पृहया स एव देवो दधे सुन्दरपाण्ड्यरूपम् ॥ २॥ सुदुष्करं यत्पतिसर्गमेव पश्यन् मुनिः प्राग् विरराम सर्गात् । न शुष्कया सान्त्वगिरा सुराणां किं गाधिसूनोरपि शान्तिरस्ति ॥३॥ मन्दानिलोऽसौ मलयानिलोऽसौ गन्धानिलोऽसाविति यं युवानः । सम्भावयन्ते चलितैः शिरोभिः स कोऽपि यत्कोणभवः समीरः ॥ ४ ॥ आकारिता यत्र मखेषु विप्रैरालोकयन्तो विबुधाः समृद्धिम् । युष्मान् यजामो वयमर्पयध्ये युष्मत्पदं चेदिति सान्त्वयन्ते ॥ ५॥ तपोवनेऽन्यत्र तपश्चरन्तो दिवं भजन्ते यदि युक्तमेतत् । ततोऽधिके यत्र तपत्त्यतां हि तत्रैव युक्तः सुचिरं निवासः ॥ ६ ॥ मृत्पिण्डरूपो जनको यदीयः पितामहो यत्य कुलाल एव । स कुम्भजन्माजनि सूत्रकारः कोणे वसन् कापि चिरं यदीये ॥ ७॥ सौभाग्यलक्ष्मी नवचन्दनानां 'मन्दानिलानामपि मौक्तिकानाम् । अयातयामामभिनिर्विशन्ति प्रायेग कौमारहरा यदीयाः ॥ ८॥ यत्रोभयानुचतरान् सालानालक्ष्य विन्ध्यस्मयभङ्गदक्षान् । तपस्यति न्यस्तभरः सुखेन तेप्वेर मैत्रावरुणिमहर्षिः ॥ ९॥ उपत्यकामण्डलनिर्विशेषे देशे हि यस्मिन् मलयाचलस्य । उदेति मन्दं व्यजनानिलोऽपि चमत्कृतश्चन्दनसौरभेण ॥ १० ॥ पदेपदे चन्दनकाननत्थैः फगाधरैर्यत्र नियमानः । जातः प्रभूतोऽसि बहिः प्रसर्पन मन्दः किवं मलयानिलोऽभूत् ॥ ११ ॥ मन्दानिलं मन्मथमूलकन्दं यत्रोपयोक्तुं मुनयस्त्रसन्तः । वैयाघ्रचर्मव्यजनोपजातैर्वातैतं केचन वर्तयन्ते ॥ १२ ॥ *अयत्नलभ्यान्ययमदुतानि शरासकाण्डानि शरानसङ्ख्यान् । यत्रैव पश्यञ्जगदेकवीरः स्थिरं मनोजः शिबिरं चकार ॥ १३ ॥ १. दक्षिणामूर्तिरूप इत्यर्थः. २. मिळभाषान्याकरणसूत्रप्रणेता. ३. रसालान् इंक्षथूतांश्च. ४. न्यस्तोऽर्पितो भरो विन्ध्यस्मयभजनश्रमो येन सः. • 'अयनलभ्यं रथम् इति खपुस्तके पाठः, द्वितीयः सर्गः। ताम्रातरङ्गानिलताडितासु माकन्दवाटीषु मनोजवीरे । यत्रावतीर्णे महता बलेन तबाहुगुप्तास्तरुणा रमन्ते ॥ १४ ॥ वर्षोपला. यत्र हि मौक्तिकानि काष्ठानि गन्धदुमकाण्डखण्डाः । कस्तेन विस्पर्धितुमुत्सहेत देशः शिलाकण्टकपूरितोऽन्यः ॥ १५॥ स्वर्ग नवं स्रष्टुमना मुनिः प्राक् ससर्ज यत्सम्मुखदेश एव । तन्मारुतस्पन्दनमात्रतोऽपि स्वर्भोगभाग्यं सुलभं विजानन् ॥ १६ ॥ अन्या विशन्त्यः सरितः समुद्रमापूरयन्ते जलजन्तुभिः स्वैः । रेलापगा यत्र तु सम्पतन्ती रत्नाकरत्वं रमणस्य दत्ते ॥ १७॥ यत्सङ्गमादेव भवन्ति मुक्ताः सा जाहवी सर्वजनीनमेतत् । ततो विदुर्दक्षिणजाह्नवीति तादृविधां यत्र हि ताम्रपर्णीम् ॥ १८ ॥ दत्ते सुतां स्वामिव यां समस्तैरलङ्कृतां रत्नगणैरगस्त्यः । सरस्वते गोत्रैमहत्तराय यतो गृहीता हरिणापि वेदाः ॥ १९ ॥ अभ्यापतन्तीमनुवासरं यामगस्त्यगोत्रप्रभवेति सिन्धुः । विकीर्य पुष्पैरिव मौक्ति कौवैः प्रत्युद्रजन् प्रापयते किमन्तः ॥ २० ॥ स्रोतोमुखैरम्बुनिधि प्रविष्टं स्वभावतः स्वादु यदीयमम्भः । निर्मथ्य लब्धं त्रिदशैः कदाचिदात्वाद्यतेऽद्यापि सुधा सुधेति ॥ २१ ॥ क्षारोदकास्वादभवं विपाकमपाकरिष्यन्निव कुम्भजन्मा । जहाति शैलं मलयं न जातु पातुं प्रकृत्या मधुरं यदम्भः ॥ २२ ॥ यां सर्वरनैकखनि विहाय गङ्गामधात् केन गुणेन शम्भुः । का प्रीतिर सति कैतकेऽपि न हीश्वराः पर्यनुयोज्यशीलाः ॥ २३ ॥ वैदूर्यनीलोपलमौक्तिकानि यदादिमध्यान्तसमुद्भवानि । सा ताम्रपर्णी सरिदेव यत्र साधरणी काचन सारणीव ॥ २४ ॥ तस्मिन् विशाले तरुणेन्दुमौलेरावासभूतं पदम दुतानाम् । वनं जगत्सावनमस्ति किश्चिन्नीनगुमाणां निकषा वृषाद्रिम् ॥ २५ ॥ १. दक्षिणदिग्देशो हि पाण्ड्यसम्मुखदेशः. २. रत्नापगा मुक्तारनप्रसूस्ताम्रपणी. ३. कैद. भाजो मौक्तिकानि य. ४. गोत्रशब्दः पर्वतवंशयोः- ५. गृहतिा आसादिता अधीताश्च. सारणी स्वल्पनदी. 'वर्षासु वर्षासु' इति खपुस्तके पाठः.
१० शिवलीलार्णवे अज्ञाततिग्मांशुकरावमर्शा छाया यदीया तमसां विहन्त्री । वातेरितं पुप्परजो यदीयं निश्शेषमुन्मार्टि रजः प्रजानाम् ॥ २६ ॥ अनिलीनभ्रमरैः प्रसूनैराभाति यद् बद्धरजोभिरीषत् । सत्त्वेन नित्य रजातमश्च सम्मूच्छितेनेव समन्ततोऽपि ॥२७॥ यत्राभिपिश्चात मधु क्षरन्तो वृक्षा भुवं मूर्तिमिवाष्टमूर्तेः । झङ्कुर्वते कर्णरसायनानि सामानि गायन्त इव द्विरेफाः ॥ २८ ॥ वक्राणि यात्मन् मुनिपादपानामाभान्ति पुप्पाण्यतिनिर्मलानि । समाहृता मुक्ति जुपां प्रदातुं शशाङ्कखण्डा इव शङ्करेण ॥ २९ ॥ सम्पूर्थमाण,त् प्रतिपौर्णमासं शाखाग्रसङ्घनतोऽवधूतात् । मृगाङ्कविम्बाद गलिता इबो- मृगाः शतं यत्र परिभ्रमन्ति ॥ ३० ॥ प्रत्यर्थिनो यत्र महेश्वरस्य तत्तत्क्षणोदन्तविचारणाय । चारा नियुक्ता इव मन्मथेन चरन्ति भृङ्गाः सममन्यपुष्टः ॥ ३१ ॥ प्रागम्बयाथ प्रमथाधिपेनाप्यध्यासिते यत्र कदम्बमूले । माकन्दजम्बूवटपादपानां मन्दाक्षमन्दागि कुलान्यभूवन् ॥ ३२ ॥ शाखा शाखायु फलानि यत्र भान्तीव नाना परमार्थतस्तु । सर्वागमानां फलभेकमेव सन्दृश्यते तच कदम्बमूले ॥ ३३ ॥ तृगीकृते यत्र वसद्भिराधेश्वरावरेऽस्मिन् पैशवश्चरन्ति । वैकुण्ठवा तोऽपि तृगीकृत तैर्न चेत् कुतोऽसौ हरिणादृतः स्यात् ॥ ३४ ॥ पुप्पाय वृक्षाग्रपदाधिरूढान् पुत्रान् मुनीनामुपलालयन्तः । व्याजेन देवाःतपसोऽभिप्सधि पृच्छन्ति नित्यं परिशङ्कमानाः ॥ ३५ ॥ रोनाञ्चसा-द्रा इब कुामलोधैरदश्रुपूर्णा इव शीथुवृष्ट्या । भत्मानुलिप्ता इव पुप्पधूल्या दृष्ट्वा मुनीन् यत्र भवन्ति नीपाः ॥३६ ॥ यमिन् महेशानकराश्रये ग केनापि कुल्येन कृतावलम्बाः । मृगा निरातङ्कवाश्चरन्ति मृगादनैः प्रत्युत सेव्यमानाः ॥ ३७॥ व्याहन्यमाना मृगया यमिन् व्याघ्राः शिवत्वं प्रतिपद्य सद्यः । १. तृणीकृतेऽवज्ञाते अथ च तृणलमापादिते. २. नीपवनातिरिक्त प्रपञ्चे ये चरन्ति ते पशव इति तात्पर्यम् . ३. तणं हि हरिणारतं भवितुमर्हति.
द्वितीयः सर्गः। ११ अस्मत्कुलीनोऽसि महानसीति हन्तॄन् किरातानुपसा त्वयते ॥ ३८ ॥ दृष्टेप्विवानुश्रविकेषु यमिन् धौरा वितृष्णा इति ना तान । स्वर्गाधि के धामनि संवस तः स्वागि कर्माणि किनादिर ॥ ३९ ॥ पाणौ मृगं पार्थतले किराती पर्यकबाधे च गजं महातन् । सम्मानयन्नेव चरत्यरण्ये पंचाननः कोऽप्यधुनापि या मन् ॥ ४० ॥ यद् द्वादशान्तैकविभावनीयं त्रय्यन्तदृश्यं कथम तु तन्नः । इत्यध्यवत्यैव तदावसन्ति ब्रमर्षयः पाशुपता महान्तः ॥ ४१ ।। वल्ल्यो यदीयाः कठवल्लिकाद्याः शाखाश्च माध्यदिनकाण्वमुख्याः । सर्वागमस्तोममयत्य तत्य शक्नोति को वर्णयितुं प्रभावन ।। ४२ ।। तस्मिन् कदम्बद्रुममूलसीग्नि तपःपरीपाकफलं जनानाम् । आत्ते जगन्मङ्गलमङ्गजारर्लिङ्ग दयाविग्रहवत्त्व लिङ्गम् ॥ ४३ ।। यद् गृहितं वाग्भिरकृत्रिमाभिर्यद् द्रष्टुकामा मुनयो यतन्ते । नाम्ना च रूपेण च सुन्दरं तत् प्रत्यक्षमा ते प्रियकल्य मूले ॥ ४४ ॥ पाण्ड्यार्पिता भात्यधुनापि यन्मिन्न ज्वायता वेनियातरेखा । नानारहस्यागमबोधनीयां नादात्मतामन्य विवृष्वतीव ॥ ४५ ॥ समस्तदिव्यागमसम्प्रतांते तारात्मके तत्र महेशलिङ्गे । अर्धेन्दुरर्धेन्दुतयैव दृष्टो बिन्दुम्तु सिन्धुः स्तिमिता जटाग्रे ॥ ४६ ।। मूलञ्च मौलिञ्च विवेक्तुकामौ यायाक्रमेतां विधिरच्युतश्च । तन्मूलमेतत्तरुमूलगम्यं तन्मौलिरेतत्तरुमौलिवेद्यः ।। ४७ ।। छन्नं प्रसूनैः सपितं मरन्दैरलंकृतं भोगिभिरापतद्भिः । इत्यं स्वयं पूजितमस्ति नित्यं स्वायम्भुव सुन्दरनाथलिङ्गम् ।। ४८ ॥ एकं किल ब्रह्म यदद्वितीयं वक्तुं चतस्रः श्रुतयोऽपि नालम् । ताग्विधान्येव भजन्ति तस्य ब्रह्माणि पञ्चावयवत्वमुद्राम् ॥ ४९ ॥ तस्मिन्नह पूर्विकया विशद्भिरपा तबधैरधुनाव जीयैः । सम्बाधदुस्स्थैरजनिष्ट लिङ्गे सार्वत्रिकी दातुरतति श॥ ५० ॥ १. अस्मत्कुलीनत्वोक्तिः किरातरूपरिग्रहापेक्षया. २. पचाननः शिन:सिंहथ... प्रियकरय पस्य. ४. तारात्मके प्रगवात्मके. ५. अवयवत्वमुद्रां सद्योजातवामदेवनापुरुषाघारेशानाख्य खपञ्चकत्वरूपामित्यर्थः.
. १२ शिवलीलाणने चिपमानन्दमयं च वेदाः शैवं वपुः शाश्वतमामनन्ति । दयामयं तेऽपि विदुर्न जातु दृष्टं तदत्रैव कदम्बमूले ॥ ५१ ॥ गूढं भवामीत्यभिमानमात्रं गूढं परं ज्योतिरिई कथं स्यात् । यामूर्धनि प्रत्युत चन्द्ररेखा तेनैव तत् प्रैक्षि कदम्बमूले ॥ ५२ ॥ ख्याताः कला यद्यपि तत्र लिङ्गे पंश्चैव सिद्धाः शिवशासनेषु । तथापि तेनाध्युषिते तु देशे कलाश्चतुःषष्टिरपि स्फुरन्ति ॥ ५३ ।। कृष्णार्जुनाभ्यां परिपूज्य लिङ्गमासादिताः सिद्धय इत्यवेत्य । कस्तूरिकाभिर्घनसारकैश्च लिम्पन्ति लोकाः खलु लिङ्गमेतत् ॥ ५४ ॥ यत्पीठिकाधस्पदमात्रलमा वाणी बहिर्न क्रमते कथञ्चित् । तत् कारणेशत्रितयातिवर्ति लिङ्गं कया वर्णयितव्यमुक्त्या ॥ ५५ ॥ सदाभिषिकं विबुधसवन्त्या सदा समभ्यर्चितमिन्दुना च । लिङ्गं तदैशं विजने वनेऽपि लोकत्रयक्षेमकरं बभूव ॥ ५६ ॥ कूजत्सु वन्येषु विहङ्गमेषु गायत्सु चाखण्डलगायनेषु । प्रीतिं दधौ तुल्यवदेव देवः कातदृशा तेषु भवेद विशेषः ॥ ५७ ॥ विनोद्यते यः किल योगिदौ द्याधरैरप्सरसां गणैश्च । व्याधैर्मगैः पक्षिभिरप्यरंस्त स देवदेवाश्चिरमत्र लिङ्गे ॥ ५८ ॥ अन्तर्हितावस्थितमत्र लिङ्गे तमारराधुस्तरवः प्रसूनैः । शृङ्गारकण्डूयनतः कुरङ्गा निर्मोकपट्टार्पणतो भुजङ्गाः ॥ ५९॥ सन्ध्यासु सन्ध्यायु गणैरदृश्यैरारात्रिकं साधितमस्फुटं यत् । चक्र जरज्जम्बुकवक्रलनेवलाद्भिरेतज्ज्वलनैः प्रकाशम् ॥ ६० ॥ वन्यद्विपेप्वन्यतमो गणेशो व्याधाकेप्वेकतमः कुमारः । साऽप्यादिशक्तिः शबरीषु कापि भूत्वा विजहः सविधे पुरांरेः ॥ ६१ ॥ इत्थं परिभ्राम्यति कालचक्र प्रणश्यति प्रोद्यति च प्रपञ्चे। देवेषु योगिप्वपि केऽपि केऽपि शनैरबुध्यात रहस्यमेतत् ॥ ६२ ॥ १. पञ्च अकारोकारमकारनादबिन्दुरूपाः, २. लिम्पन्ति लेपनरूपया पूजया सम्भावयन्ति । करतूरक याः कृष्णत्वात् घनसारकाणामर्जुनवाच तेषु पूजासाधनत्वाभिमानो जनानामित्युत्प्रेक्ष्यते. +'गायकेषु'इति खपुस्तके पाठः.
द्वितीयः सर्गः। प्रत्यग्दृशा प्राक्तनपुण्ययोगादाप्तोपदेशैरनुमानतश्च । क्रमाद् [लोके बहलीबभूव कदम्बकान्तारकथाप्रसङ्गः ॥ ६३ ॥ दूरात् प्रणेमुः कतिचिद् वनं तदारात् परे नीपतरूनपश्यन् । विचिक्युरेके तदनुप्रविश्य धन्याः परे तद् ददृशुश्च लिङ्गम् ॥ ६४ ॥ आनन्दजैरश्रुभिरभ्यषिश्चन्नानचुरप्यक्षिभिरेव फुल्लैः । न्यवेदयन्तापि निकामधौतमात्मानमानन्दसुधाप्लुतं ते ॥ ६५ ॥ गृहत्सु युप्मास्वपि गूढमेतद्रहस्यमद्राक्ष्म वयं किलेति । अनुश्रवान् केचिदुपालभन्त केचिद्विधि केऽपि शिलादसूनुम् ॥ ६६ ॥ वागीश्वरा वाग्भिरपूजयन्त ध्यानाध्वनीना हृदि दध्युरेनम् । बाबार्चनामात्रपरायणास्तु सामग्रयलाभादलभन्त खेदम् ॥ ६७ ।। अभ्रापगावारिभिरभ्यषिञ्चन् सुधान्धसः सुन्दरनाथलिङ्गम् । तत्रासमर्था मुनयो महीस्थास्तस्तम्भिरे केवलमश्रुपूर्णाः ॥ ६८ ।। आलक्ष्य पूजाव्यवसायमेषामपानभावात् परमं च खेदम् । दीनानुकम्पानिधिरिन्दुमौलिदिव्यं सरस्तत्र विधातुमैच्छत् ॥ ६९ ॥ स दक्षिणस्यां दिशि बाणपाते सरो विधात्यन्नमृतांशुमौलिः । सकृद्विलासादिव निर्बिभेद तीक्ष्णेन भूमि त्रिशिखाश्चलेन ॥ ७० ॥ आविष्य शूलं भुवि सद्य एव पादाङ्गदं पश्यति सुन्दरेशे । भक्तत्य ते न क्षतिरस्ति जातु शेषः सुखोत्याह सुता हिमाद्रेः ।। ७१ ॥ आविध्यमानात् त्रिशिखाभिघातैरधःकपालाजगदण्डभित्तेः । अम्भो यदण्डावरणायितं तदुहुहृदं तत्क्षणमुद्बभूव ॥ ७२ ॥ त्रैविक्रमे कर्मणि शाह्मिणापि प्रवर्तितं यत् किल पूर्वमम्भः । अधोगतिं पाप तदेव लेभे शिवास्त्रयोगाइ गतिमित्थमूर्ध्वाम् ॥ ७३ ॥ दिदृक्षमाणेन महाद्भुतं तच्छिवेन यावन्नमितो न मौलिः । तावत् सरस्तस्कृतमुतरङ्गं ततः स्रवन्त्या विबुधस्रवत्या ॥ ७४ ॥ १. पादागदं तरूपं शेषम् . .२. पश्यतीति । शूलस्यापाताल प्रवेशादादिशेषाशिरसि तदा घातशझ्या दर्शनम्. ३. इत्याहेति । इत्युक्त्या भतुः शङ्कामपनुनादेत्यर्थः. ४. अधोगति गवतीसंज्ञया पाताळगति अथ च दुर्गतिम् .
१४
शिवलीलार्णवे
.
सरस्त्रिशूलप्रभवं पुरारस्तथात्यगाधं तदभूत् क्षणेन ।
ययात्र देवोऽवतरन् प्लवेत त्रिविक्रमः क्रान्तजगत्रयोऽपि ॥ ७५ ॥
नौर्वान्न रामान च कुम्भणेने यान्ति भीतित्तदवेक्ष्य तीर्थम् ।
आश्वासमाजामतुरर्णवस्थौ शश्वतमौ तावपि कूर्ममीनौ ॥ ७६ ॥
आविर्भवतीः सलिले समन्तादम्भोजिनीरुत्पलिनीश्च तस्मिन् ।
दृशौ पिबन्त्यौ परमस्य धाम्नः प्रीतिं परां प्रापतुरर्कचन्द्रौ ॥ ७७ ।।
त्रैगुण्यरूपं त्रिशिखं हि शम्भोर्धारा जगत्कारणमामनन्ति ।
तत्सम्प्रसूतेऽपि सरस्यमुष्मिन् का हेतुचिन्ता कमलोत्पलानाम् ॥ ७८ ॥
शैवालनीलं बहिरम्बुजाभमन्तर्घटेरुद्रियमाणमच्छम् ।
त्रैगुण्यरूपं त्रिशिखोद्भवं तदम्भो निजान् हेतुगुणान् व्यनक्ति ॥ ७९ ॥
प्राचीनमब्जं परिहत्य सद्यो जग्राह भानुर्जलजं तदीयम् ।
अत्रैव लक्ष्मीः स्थितिमाबबन्ध चतुर्मुखोऽतश्चक्रमे प्रसूतिम् ॥ ८० ॥
आचामत स्मात सरस्यमुष्मिन्नस्याम्भसा मामभिषिञ्चतेति ।
देवान् महर्षीनपि चान्वगृह्याद् वाचा भगिन्या विभुरागमानाम् ॥ ८१ ॥
खातं शूलशिखाञ्चलेन सलिलैः पूतं जटातीर्थजैः
प्रत्यक्षेण च शाम्भवेन विधिना प्राप्तं परां ग्राह्यताम् ।
तीर्थ तत् प्रतिपद्य तापसगणा भागीरथीं तत्यजु-
मन्दं चादरमादधुः सुरगणा मन्दाकिनीस्रोतसि ॥ ८२ ॥
इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते
शिवलीलार्णवे द्वितीयः सर्गः।
अथ तृतीयः सर्गः।
अथ जातु पुरन्दरः सुधर्मामधितिष्ठन् सह सप्तभिर्दिगीशैः ।
अविजेयमनुक्षणोपचित्या विमतं वृत्रममन्त्रयद् विजेतुम् ॥ १ ॥
चतुरशामिदं महद् बलं नश्चतुरं गन्तुमहो न यत्समीपम् ।
न बल भुजयोः क्रमेत तस्मिन्नवशादञ्जलिबन्धशिक्षितौ यौ ॥ २ ॥
तृतीयः सर्गः अमृताशनजातिमात्रजेतर्यलमस्त्राणि न तत्र दैवतानि । परिवृत्त्य पतेयुरासुराणि प्रबलं यूथपति तमेत्य सद्यः ॥ ३ ॥ निकृतिं शरणं वृणीमहे चेन्नियमादापदियं क्षमा तरीतुम् । नितिं परिपृच्छतामुमर्थ स हि नः पुण्यजनेषु सम्प्रतीतः ॥ ४ ॥ अपुरा हि भवेम युध्यमानाः काटेनेति यदि त्थितं मतं वः । अपुरत्वमपोशितं चिरानः सुरभावादतिगर्हितादमुष्मात् ॥ ५ ॥ सहि सम्प्रति सागरान्तरी क्वांचेदालम्ब्य निराश्रयं समाधिम् । अविशक्तिमास्थितस्तपस्यां मुखजय्यो यदि रोचते भवभ्यः ॥ ६ ॥ इति वादिनि वलने सुरागामनुजरिदीश्वराः सहर्षम् । प्रकृतियाये रुचिः प्रजानां किनुत स्वामिनि तादृशेऽपि लधे ॥ ७ ॥ स हि यत्र तपश्चकार वृत्रस्तदनुप्राप्य तपोवनं महेन्द्रः । परमेण समाधिनोपविष्टं पविना तं विनिपातयाम्बभूव ॥ ८ ॥ कृतकृत्यममुं निवर्तमानं कियदप्यप्रतिसन्दधानमेनः । विकृता वयुषा विकीर्ण केशी सममेवानुससार वृत्रहत्या ।। ९ ।। पुनरेत्य यथापुरं सुधर्मा पुरुहूतः स्तुवतो विसृज्य देवान् । अवरोधमभीप्सुरालुलोके विशती स्पेन सहैव वृत्रहत्याम् ॥ १० ॥ अवकीर्य पविं विकीर्य केशानसमालोच्य च कृत्यमाप्तवगैः । स तयानुगतः पलायत द्राक् समरेवप्रतिमल्ल साहसोऽपि ॥ ११ ॥ आथं तदभीक्ष्णमादृतं यैरपि साक्षादुपदिष्ट मादितश्च । जहसुः प्रथमं त एव शक्रं प्रकृतीनां प्रभवत्त्वयं स्वभावः ॥ १२ ॥ विपिनाद्विपिनं गिरि गिरिभ्यो जलराशेर्जलराशिमन्ततश्च । जगतो जगदप्ययं प्रधावन्मुमुचे नैव तया धियेव जीवः ॥ १३ ॥ नियुगं स पुरन्दरो विलिये सरति कादि सरोजनाळतन्तौ । शतशः समुपात्तसंप्ततन्तोरवलम्बाय बभूव कोऽपि तन्तुः ॥ १४ ॥ अवलोक्य तदन्तरं चिकीर्षन् नहुषो नाम नृपोऽधिकारमैन्द्रम् । अनियन्तृकताविषादममैरनुमेने कथमप्यमर्त्यलोकैः ॥ १५ ।। १. सप्ततन्तुशब्दः ऋतौ सप्तसङ्ख्याकतन्तुषु च.
१ "शिवलीलार्णवे. अयथावदनुष्ठिताश्वमेधः कियता चैत्र दिवं गतः शुभेन। प्रमुतामपि वर्तयन् सुराणां प्रकृति स्वां न जहौ तमःप्रधानाम् ॥ १६॥ पृथिवीमनुशासतः पुरा ये रिपवस्तत्य महीभुजो बभूवुः । अधुना विषयेष्वसावमींपामाशिषद् वारिमुचो न वर्षतेति ॥ १७ ॥ अहमस्म्यभिवर्षकः प्रजानां यजनीयश्च ततोऽहमेव तासाम् । क इमे हविषो मखे नराणामिति सर्वानयमाक्षिपत् सुधाशान् ॥ १८॥ सवनोपनतं हविः समस्तं मयि संवेदय मद्गृहीतशेषम् । प्रतिपादय तस्य तस्य पश्चादिति मूढः प्रशशास हव्यवाहम् ॥ १९ ॥ उदधेः सुरसिन्धुतोयपूर्णादुदपद्यन्त यदद्भुताः पदार्थाः । तदियं निपुणं विशोधनीयेत्यखिलं गाङ्गमवाकिरत् स तोयम् ॥ २० ॥ अवनर्दिवमागतान् स्वयूथ्यानसकृत् तेषु च शीलितस्वभावान् । स हि मूलबलं समग्रहीत् स्वं न विशश्वास निसर्गदेवतानि ॥ २१ ॥ बहुभिस्तुरगैर्गजैश्च भाव्यं द्युतरून् याचत यद्यमी न दद्युः । विनिपातयतेति वीतशकं वनपालान् प्रशशास वैधवेयः ॥ २२ ॥ अवितीर्णफला उपासिता अप्यवनिस्थेन पुरात्मना सुरा द्विगुणं त्रिगुणं च निर्दयैस्तान् दनुजैरेव स दण्डयाम्बभूव ॥ २३ ॥ अमरैः प्रतिमासमद्यमानं कुलकूटस्थमवेक्ष्य खेदितोऽसौ। अवनाय समादिदेश भृत्यान् सितपक्षात्यय एव शीतभानोः ॥ २४ ॥ सस मित्रमभूदमुष्य यं यं पुरुहूतो विरुरोध दानवेषु । कथयन्ति कथाममुष्य ये ये कुपितोऽयं ज्वलति स्म तेषु तेषु ॥ २५ ॥ शयितुं परिवर्तितुं च बिभ्यन्नयननिनिमिषैः स सर्वगात्रे । नयनानि विभज्य निर्जरा मे प्रतिगृह्णान्विति सन्दिदेश मूर्खः ॥ २६ ॥ मृगपझिसरीसृपा मनुष्याः पशवो ये निहता त्वयाश्वमेधे । त इमे विचरन्ति हन्तुकामा इति तं शश्वदोषयन्त देवाः ॥ २७ ॥ इयमेव शचीति दर्शयन्तो गणिकां कामपि निर्जराः सुराणाम् । अतिसन्दधिरे सुखेन मूढं प्रभुता का प्रकृतेरसम्मतस्य ॥२८॥ ये तृतीयः सर्गः। शिबिकामधिरुन जातु गच्छन् स महर्षीन् विनियुज्य तत्र धुर्यान् । असकृमिजगाद सर्प सप्त्यपि तं कुम्भभवस्तथा भवेति ॥ २९ ॥ अंशनिर्घसमाप्त एवं भोगे पतितो मूर्धनि तस्य शापरूपः । अत एव पतन्नपि क्षमायां नहुषो न त्यजति स्म भोगिभावम् ॥ ३०॥ चिरलुप्तकथे मघोनि तस्मिन्नपि तस्य प्रतिरूपके प्रनष्टे । अधिगन्तुमनाः प्रवृत्तिमैन्द्री युयुजे योगदृशा गुरुः सुराणाम् ॥ ३१ ॥ सरसीरुहनाळतन्तुलीनं सरसि वापि समेत्य योगगूढः । प्रतिबोधयति स्म देशिकस्तं करणीयं करुणाप्लुतैर्वचोभिः ॥ ३२ ॥ चकितः समयं कियन्तमस्मिन् सरसि स्थास्यसि खेदयन्नमान् । न हि सम्यगनिष्कृतं तदेनः प्रळये प्राकृतिकेऽपि मुश्चति त्वाम् ॥ ३३ ॥ सकलाघनिबर्हणे समाधौ वसतस्तस्य वधे तु कः समाधिः । चरणं पारहत्य चन्द्रमौलेः शरणं संसरतां यदाविरिश्चात् ॥ ३४ ॥ चर पाशुपतव्रतं चरन् सन्नवनावायतनानि शाम्भवानि । अनुयास्यति केवलं न तु त्वामधिकुर्वीत शिवाज्ञया तदेनः ॥ ३५ ॥ विशतस्तव यत्र सम्प्रसीदत्यमृतेनेव विशोधितोऽन्तरात्मा । करुणावरुणालयो महेशः कलुषं तत्र निवारयिष्यतीति ॥ ३६ ॥ स तथेत्यभिनन्द्य शासनं तत् कलितस्वस्त्ययनश्च देशिकेन । अधिरुह्य सुरद्विपं प्रतस्थे विविधान्यायतनानि विश्वमूर्तेः ॥ ३७॥ स गिरीन् हिमशैलकन्दरादीन् सरितो जह्नमुताकलिन्दजाद्याः । विपिनानि च नैमिशादिमानि व्यचरत् पाशुपतव्रती महेन्द्रः ॥ ३८ ॥ स तपोवनदर्शमध्युवास प्रयतः सन्निममज्ज तीर्थदर्शम् । द्विजवेदमतर्पयद् धनौधैर्ऋतवेदं नियतः समाचचार ॥ ३९ ॥ त्रिविधान्यपि शाम्भवानि लिङ्गान्ययजद्वस्तुभिरान्तरैश्च बाझैः । लभते स्म न शान्तिमात्मनोऽयं कचिदप्येषु कुतो हि पातकस्य ॥ ४० ॥ १. भोगिभावं सुखित्वं सर्पत्वं च. २. तपोवनदर्श सर्वाणि तपोवनानि दृष्ट्वा । 'कमणि पाविदोः साकल्ये' (३-४-२९) इति णमुल्.
शिवलीलामवे स तपांसि बहूनि तप्यमानः कलुषेणान्यतानुतप्यमानः । भवबन्धनिराकरिष्णुशाखापवनं नीपवनं समाससाद ॥४१॥ उपहारमनुत्तमं पुरारेरवतंसोत्पलसौरभं हरन्तः । अभिजग्मुरिवानिलास्तदीया अतिथिं स्वामिनमागतं चिराय ॥ ४२ ।।. स कदम्बवनीपरागलेशैः शिवगङ्गोदकशीकरानुविद्धैः । पवनोपहृतैः पतिः सुराणां परमां कामपि निर्वृति जगाहे ॥ ४३ ॥ प्रससाद मनः प्रसेदुरक्षीण्युपजज्ञे बलमुट्ठभूव शौर्यम् । स हि सन्निचकर्ष यावदित्थं कलुषं विप्रचकर्ष तावदस्य ॥ ४४ ॥ अतिहृष्टमनाः स तैनिमित्तैरनुसन्धाय गिरं पुरोधसस्ताम् । परिनिश्चिनुते स्म तत् त्रिलोक्यां परमं धाम हरिः परस्य धान्नः ॥ ४५ ॥ सकलाद्भुतधाम्नि सीग्नि तस्यां सहसैवायमवाप्लुतो गजेन्द्रात् । प्रयतः प्रविवेश काननं तत् सह सर्वैश्च विना तदेकमेनः ॥ ४६॥ स ददर्श फणातपत्रगुप्तान नकुलानातपतापितानहीनाम् । अपि दृप्तचरत्तरक्षुदंष्ट्रामुखकण्डूयितलोचनां कुरङ्गीम् ॥ ४७ ॥ स लतां कमपि द्रुमं प्रपन्नां सविधस्थान्यतरूपगृहभीत्या । प्रतिसंहृतपल्लवामपश्यत् परिकृष्टामपि कौतुकात् किरातैः ॥ ४८ ॥ उपहृत्य चलट्ठमप्रवालान् कदलीरिक्षुलता मृणालिनीश्च । नमतः शतशो हरेः समक्षं न विषेहे वनकुञ्जरान् सुरेभः ॥ ४९ ॥ पथि वीक्षितवद्भिरादरेण प्रमथैः पाशुपतर्महर्षिभिश्च । सविधं तपसातिनिर्मलोऽयं समुपानीयत सुन्दरेश्वरस्य ॥ ५० ॥ अविचिन्त्यमदृष्टमश्रुतं च त्रिषु लोकेष्वपि दिव्यलिङ्गमेतत् । विकचैनयनोत्पलैर्बिडौजा विचकार प्रथमोपहारहेतोः ॥ ५१॥ प्रमदाशुपरिप्लुतैस्तदानीं नयनराचरणाप्रमाललाटम् । द्रवतां प्रतिपद्य भक्तियोगाद् ददृशे वारिमयीव तस्य मूर्तिः ॥ ५२ ।। अथ दण्डवदानतस्य शम्भौ ददृशे दृष्टिमयी तनुर्मघोनः । उपहारकृते पुरो विकीर्णा विकचेन्दीवरमालिकेव दिव्या ॥ ५३॥ १. विचकार, विकीर्णवान्.
तृतीयः सर्गः। सगणं सवृषं सनन्दिकेशं ससुतं साम्बमपि. प्रभु तमाधम् । परिपूजयितुं चकाङ्क्ष शक्रो महतामेव मनोरथोऽपि. तावान् ॥ ५४ ॥ स्मृतसबिहितोऽथ विश्वकर्मा सह दिव्येन पुरोधसा तदानीम् । शिस्सा प्रतिगृह्य भर्तुराज्ञामयतिष्टायतनाय चन्द्रमौलेः ॥५५॥ विधृतं करिभिर्विमानरूपं विपुलं प्राक्प्रतिहारमेकभूमम् । शिखरोल्लिखिताम्बरं स *शिल्पी विदधे गर्भगृहं शुभे विलग्ने ॥ ५६ ॥ अतिसुन्दरमर्धमण्डपं च प्रतिहारत्रयभावितान्तरेण । महता मणिमण्डपेन सक्तं विदधे विश्वशुभाय विश्वकर्मा ॥ ५७ ॥ प्रतिमाः परिवारदेवतानां विविधान्यायतनानि तत्र तासाम् । परितः परितोऽपि पञ्च सालानकरोदुन्नतगोपुरोपगूढान् ॥ ५८ ॥ शुभवास्तुनि शूलपुष्करिण्या रुचिरे रोधसि पश्चिमे स शिल्पी । भवनं मणिचित्रितं भवान्या गणनाथम्य च कल्पयाम्बभूव ।। ५९ ।। अपरानपि मण्डपप्रभेदानभितश्चोत्सवीथिका विशालाः । असृजत् स मरुत्वतोऽनुरूपान् प्रभुताभक्तिविवेकपाटवानाम् ॥ ६ ॥ प्रहसद्वदनं प्रसन्ननेत्रं द्विभुजं दक्षिणतो धृतोत्पलं च । करकोपलवद् घनीभवन्त्या दययेवाकृत विग्रहं स देव्याः ॥ ६१ ॥ अधिकानि ममेत्यहर्निशं यैर्मघवा शोचति लोचनैः समन्तात् । अवलोक्य स विश्वकर्मकर्माण्यलमेतानि किमित्यशोचदेभिः ।। ६२ ॥ दयितस्य दिदृक्षतेऽपसव्यं वपुरेषा किल वामभागगति । कृतमिङ्गितवेदिना मघोना पदमस्याः किमु दक्षिणेन शम्भुम् ॥ ६३ ॥ अतिचारुमशेषलक्षणाढ्यं ललितं बिम्बमिमं स्वतो विविक्षुम् । हरिरर्थयते स्म शक्तिमाद्यां गुरुरावाहयदन्वमस्त शम्भुः ॥ ६४ ॥ अखिलं जगदात्मसम्प्रसूतं परिपुष्णाति दृगेव यत् किलास्याः । अभिधामपि मीनलोचनेति व्यदधादिन्द्रपुरोहितम्ततोऽस्याः ॥ ६५ ।। नियतां कनकारविन्दपूजां दिविजैः कर्तुमना हरिः सरोजैः । पवनं प्रजिघाय देवदूतं स्वयमसादथ शूलपुष्करिण्याम् ॥ ६६ ॥ 'शिल्पम्' इति खपुस्तके पाठः.
शिवलीलार्णवे USH SHEKHAI Harishchandrarmr EKHARA BHATTA HATTARA कृतनित्यविधौ विलम्बमाने शिवमभ्यर्चयितुं क्षणं सुरेशे। कमलैरुदभावि जातरूपैः कमलिन्यामतिसौरभैरमुष्याम् ॥१७॥ स्वयमाहरदर्चनाय शम्भोः सुरभीण्यम्बुरुहाणि काञ्चनानि । कनफाम्बुजिनीति नाम तस्याः कलयन् विस्मित एष सस्मितश्च ॥१८॥ क नु काञ्चनता क सौरभं तद् दिवि सङ्कल्पभवेषु पङ्कजेषु । प्रभवत्यखिलं हि निर्जराणां ध्रुवमाध्यासिकतत्तदर्थवन्नः ॥ १९ ॥ सलिलैरतिपावनैस्तदीयैः कमलैरप्यतिसौरभैर्महेन्द्रः । परिपूज्य शिवौ गुरूक्तरीत्या प्रणिपातैः परितोषयाम्बभूव ॥ ७० ॥ अपि गद्गदया प्रमोदबाष्पैरपि सारोज्झितयातिसम्भ्रमण । पितरौ प्रियकप्रियौ सुरेशः स गिरानचं वचःपथव्यतीतौ ॥ ७१ ॥ भुवि सुन्दरमास्पदं तवैतच्छिवलिङ्गं तु ततोऽपि सुन्दरं ते । अपि सुन्दरमेव सुन्दराणामभिधानं वचनामृतं त्वदीयम् ॥ ७२ ॥ समसेविषि मन्दरे हिमाद्रौ कलधौताचलकन्दरेऽपि च त्वाम् । विदितन्तु परं न विश्वपारं किमु तत्रैवमसीति कापि शङ्का ।। ७३ ।। न मखैन जपैन होमदानैर्न तपोभिर्विविधैश्च लभ्यते यत् । तदिदं तव सन्निधानभाग्यं तरुभिः कैरपि भुज्यते निरीहैः ॥ ७४ ।। निहता दनुजा जिता त्रिलोकी त्रिदिवे चाधिकृतं ततः किमासीत् । इह ये मृगपक्षिणो न हीमानपि नीराज्य विमोक्तुमर्हता मे ॥ ७ ॥ अपवृज्य किमीश! साधयेयं भवदानन्दमवाप्नुयां तदाहम् । किमितोऽप्यधिकः स यो ममासावुचितः स्वाम्युपलम्भजः प्रमोदः ॥ ७६ ॥ जडमेव जगत् तव स्वमासीदजडाः केचन मादृशोऽपि जीवाः । अतिवापमनसं भवन्तमेव प्रतिपन्नास्तु वयं प्रशासितारम् ॥ ७७ ॥ वचनावसरो न लभ्यते नस्त्वयि मीनाक्षि ! शिवाविनाकृतायाम् । इति देवि! पृथक् कृतासि किश्चित् तमिमं मा कुरु मानसेऽपराधम् ॥ ७८ ॥ गिरिराजकुमारिकामपि स्वं विपिनेष्वद्रिषु चानुवर्तमानाम् । भवती प्रियकप्रियेऽनुरोधु स्वयमध्यास्त शिवः कदम्बमूलम् ॥ ७९ ॥ 1. विश्वपारं सर्वोत्तीर्ण स्थान मुक्तकगम्यं कैलासाख्यमित्यर्थः, D BHATTARA andrapur । वृत्तीकः सर्गः। जगतो जगदीश्वरस्य च श्रीर्भवती यद्यपि सर्वतोऽस्ति पूर्णा । करुणामयमुत्सहे न हातुं तब मीनाक्षि ! तथापि रूपमेतत् ॥ ८॥ हरयस्त इमे महावनेऽस्मिन्नयमिन्द्रद्रुरसावपीन्द्रवल्ली । मम नामजुषः स्थिता यदेते मम सेवेयमिति प्रतीच्छ मातः! ॥ ८१ ॥ कति सन्तु न वेधसः कतीन्द्रास्तव मीनाक्षि ! तरङ्गितैरपाझैः । किमधश्च्यवते मया विना द्यौः कृपणं मां घटयस्व किङ्करेषु ॥ ८२ ॥ व्यगलद् दनुजेषु मत्सरो मे विरराम त्रिदिवोपभोगरागः । स्थगिता बहिरेव वृत्रहत्या भवतोरद्य मयि प्रसादलेशात् ॥ ८३ ॥ इति तं प्रणिपत्य संस्तुवन्तं प्रथमं भक्तिमतां पतिं सुराणाम् । अनुगृह्य दयोर्मिलैरपाङ्गैरगदिष्टामिदमादिमौ युवानौ ॥ ८४ ॥ माधस्त्वमेषामसि पार्षदानां कुमारयोश्वास्यनयोस्तृतीयः । जानीवहे ते परमां च भक्ति विद्राविता सा तव वृत्रहत्या ॥ ८५ ॥ वासन्तिकप्रथमपर्वसु वासव! त्वमित्थं समेत्य सकलैरनुयायिवर्गः । आविश्वपारनगराभिमुखात् प्रयाणादभ्यर्च नौ कनकवारिरुहैरमीभिः ॥ ८६ ॥ इत्युक्ते सति जगदादिदम्पतिभ्या- मिन्द्रस्तद्गुरुरितरेऽनुयायिनश्च । प्रस्थानप्रणतिपरम्पराभिरेता- वन्योन्याभ्यधिकदयामयौ वितेनुः ॥ ८७ ॥ आमन्त्र्य द्विरदेन्द्रवक्रमसकृत् सम्प्रार्थ्य नन्दीश्वरं सम्मान्य प्रमथान् निवेद्य सकलं चण्डेश्वरं शाम्भवम् । आशीभिः प्रतिनन्दितो मुनिगणैरापृच्छय वाचस्पति दिव्येन द्विरदेन निर्मलतरो देवः प्रतस्थे पुरीम् ॥ ८८ ॥ इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते शिवलीलार्णवे तृतीयः सर्गः । . १..इन: गुल्गुलपक्षः. 65590 IROMITION शिवलीलाव अथ चतुर्थः सर्गः। निवृत्ते वासवे तस्मिन् निवृत्ते चान्तरे मनोः । इन्दाञ्चकार कोऽप्यन्यो वृन्दारकनिकेतने ॥ १॥ अभ्रमातङ्गमारुह्य विभ्रमादमरेश्वरः । संवृतः सकलैर्देवैर्निजंगाम पुराद् बहिः ॥ २ ॥ सर्वासामपि सिद्धीनां दुर्वासा निधिरद्भुतः । समगच्छत तेनाने स हि गच्छन् यदृच्छया ॥ ३ ॥ परिपालयितुं रौद्री प्रतिसाधिकारिताम् । तस्य न ज्वलति क्रोधो यस्यैका जगदाहुतिः ॥ ४ ॥ अमचगारगते तस्मिन्ननाहूतागताः स्वयम् । सन्दर्शयन्ति स्वात्मानं देवा आवाहनक्षणे ॥ ५॥ नानुगच्छति तस्यामिन विष्यन्दयते हविः । नापक्षयति सन्त्रस्तो न निर्मन्थे विळम्बते ॥ ६॥ अतपत्तपनाकारमज्वलज्ज्वलनोपमम् । दृष्ट्वैव तं मुनिं देवास्तत्रसुस्तत्र सुस्थिताः ॥ ७ ॥ पाणिभ्यामप्रमत्तोऽसौ प्रसादं पद्ममैश्वरम् । गजस्कन्धगतायापि ददौ राजेति वज्रिणे ॥ ८ ॥ अनादृत्य स तं मोहानिदधे मूर्ध्नि दन्तिनः । शुण्डया सोऽप्युपादाय निप्पिपेष निसर्गतः ॥ ९ आभुज्य स ध्रुवौ किञ्चिदावर्त्य कपिले दृशौ । प्रजज्वालेव कोपेन मुनिः प्रस्फुरिताधरः ॥ १० ॥ पस्पन्दे न सहस्रांशुस्तस्तम्भे मारुतस्तदा । चकम्पे सार्णवा पृथ्वी दिव्यथे केवलं नभः ॥ ११ ॥ स हस्तिहस्तिपकयोः शापं घोरमवासृजत् । वजं वञिणि दुर्वारमङ्कुशं च निरङ्कुशे ॥ १२ ॥ मौलि भेत्स्यति पाण्ड्योऽस्य मदान्धस्य दिवस्पतेः । सञ्चरत्ववनावेष कुञ्चरः क्षुद्रदन्तिवत् ॥ १३ ॥ . १. इन्वाञ्चकार इन्द्रत्वं प्रापेत्यर्थः । इदि परमैश्वर्ये, .
चतुर्भः सर्गः । दरशापतया किश्चिद् दग्धेन्धनमिवानलम् । प्रशाम्यन्तममुं देवाः प्रणिपातैरसान्त्वयन् ॥ १४ ॥ सम्मोद्वेगकार्पण्यस्तम्भप्रणतिसान्त्वनैः । प्रसादाभिमुखस्तेषां प्राह माहेश्वरो मुनिः ॥ १५ ॥ पाण्ड्यो भिनत्तु तर्खस्य मौलिं मकुटलक्षणम् । सुन्दरेशार्चनान्तश्च शापः स्वर्दन्तिनोऽस्त्विति ॥ १६ ॥ महेन्द्रसविधावासवासनारसिकश्चिरात् । महेन्द्र एव शैलेन्द्रे जन्म लेभे सुराद्विपः ॥ १७ ॥ आमूलममदन्तः स खेलासु बिभिदे भुवम् । धर्मुकाम इव स्कन्धे तामेवोद्धृत्य सार्णवाम् ॥ १८ ॥ मदगन्धेन धावन्ति येषामन्ये मतङ्गजाः । कर्णानिलेन ते तस्य कलभस्यापि दुद्रुवुः ॥ १९ ॥ स सिंहान् शुण्डयादाय चिक्षेप तृणपूलवत् । पादैरेव महानाहान भेकमर्द ममर्द च ॥ २० ॥ ग्राहा असन्ते हर्यक्षा प्रान्त गृह्णन्ति मानवाः । इत्युच्यमानं कळभैराश्चर्यमिव सोऽशृिणोत् ॥ २१ ॥ सरित्सरांसि पीतानि सकृदाकृष्य शुण्डया । मदधारापदेशेन मन्ये तस्य प्रसुसुवुः ॥ २२ ॥ स मत्तः सञ्चरन् पृथ्वी चरणैरपचस्करे । लघूकरिष्यन्निव तां दिग्गजानुजिघृक्षया ॥ २३ ॥ अजानिव गजानन्यानादायादाय चिक्षिपे । स एव पुङ्गजस्तत्र वशास्तस्याभवन् परे ॥ २४ ॥ स खेलन् सागरस्याम्भः क्षिपन् मन्दाकिनी प्रति । दयया चिरविश्लिष्टौ दम्पती तावयोजयत् ॥ २५ ॥ १. अपचस्करे आलिलेख. ''मुनि' इति खपुस्तके पाठः. 'करोत् इति खपुस्तके.पाठः, शिलीलार्ण पश्यन् मध्यमलोकस्य रामणीयकमद्भुतम् ।। पांसुभिः स करोद्धृतैश्चकारेवं दिवं भुवम् ॥ २६॥ विद्रवद्भिर्वने तस्मिन् व्याधव्याघ्रमृगाधिपैः । मृगाणां रक्षणादासीन्मृगेन्द्रः सोऽद्भुतः क्षितौ ॥ २७ ॥ महेन्द्रादेष मलयं मलयादपि दर्दरम् । सञ्चरन् जातुचित् पाप कुञ्जरो नीपकाननम् ॥ २८ ॥ मदगन्धाशया प्राप्तैर्मधुपैर्विपिनात् ततः । सम्प्रदर्शितबर्मेव स ययौ हेमपद्मिनीम् ॥ २९ ॥ गणेशमदनिष्यन्दगन्धसर्वस्ववदिनः । उपेक्षां भ्रमराश्चक्रुरुन्मदास्तन्मदाम्भसि ॥ ३० ॥ स पतन्नेव सरास क्षीरोद इव मन्दरः । कल्लोलैः प्लावयामास कदम्बविपिनान्तरम् ॥ ३१ ॥ मलिनो निर्ममज्जास्मिन्नुन्ममज्जाथ निर्मलः । प्रागभूत् केवलो भौमः सार्वभौमोऽथ दन्तिनाम् ॥ ३२ ॥ उत्तीर्य बहिरन्तश्च नीरजा नरिजाकरात् । अतीयाय स तं शापमधीयाय मुनेर्गिरः ॥ ३३ ॥ गाङ्गेयैः शैवेगाङ्गेयैः कमलैः कमलास्पदैः । एकदन्तं चतुर्दन्तः सिन्धुरं सिन्धुरोऽर्चयत् ॥ ३४ ॥ पुष्करैरभिषिच्येशौ पुष्करोपहृतैरयम् । पुष्करैरेव चानर्च पुष्करं गाहितुं पुनः ॥ ३५ ॥ सितं हि कश्चिनं पुष्पं शिवस्यैवाभवन्मुदे । पिशङ्गं तु तदानीतं प्रीतये शिवयोरभूत् ॥ ३६ ॥ . मुक्तशापो गजः पृथ्वीं मुदा यदपचस्करे । गजतीर्थमिति ख्यातं तद् बभूव महत् सरः ॥ ३७ ॥ १. अधीयाय सस्मार. २. शैवगाङ्गेयैः शिवगङ्गासम्बन्धिभिः. ३. चतुर्णा पुष्करपदाना जलशुण्डापग्रव्योमानि क्रमेणार्थाः. ४. उन्मत्ताख्यम् . * 'बनादस्माद्' इति खपुस्तके पाठः, चतुर्थः सर्गः। ऐरावतेश्वर लिङ्गमैराक्तविनायकम् । स तीरे सरसस्तस्य स्थापयित्वाभ्यपूजयत् ॥ ३८ ॥ पुरन्दरेश्वरं नाम पूर्वतः सुन्दरेशितुः । स्वामिनामाङ्कितं लिङ्गं स्थापयामास चापरम् ॥ ३९ ॥ प्रहितः सुन्दरेशेन स हि तत्र चिरं वसन् । पुनर्जगाम स्वं धाम पुरुहूतेन चादृतः ॥ ४० ॥ कदम्बविपिनात् प्राचि कल्याणनगरे ततः । कालेन महता जज्ञे कश्चिद्वैश्यो धनञ्जयः ॥ ४१ ॥ अस्त्राय गत्वा देवेन कृतयुद्धं गतस्पृहः । कौरव्यमत्यशेतायमूरव्यस्तु धनञ्जयः ॥ ४२ ॥ तस्य भूमिस्पृशो भक्तिं तरुणेन्दुशिखामणौ । भक्तिरागन्तुकान्येषां कथं वानुकरिष्यति ॥ ४३ ॥ (देशैकादशिकाः !) प्रायो वणिजश्चतुरा अपि । एकं दत्वेह सोऽमुत्र तत्सहस्रमुपार्जयत् ॥ ४४ ॥ परक्षेत्रपरामर्शपरिशङ्की धनञ्जयः ।। नोत्ससर्ज बहिर्जातु स गोषड्गवमात्मनः ॥ ४५ ॥ वृत्तिः सा हि विशां यत्तु भुवमुल्लिख्य जीवनम् । स तु तत् कर्म तत्याज दिवमुल्लिख्य केवलाम् ॥ ४६॥ अक्रीणीतैव पुण्यानि व्यक्रीणीत न जात्वपि । समयेषूपयोगाय *सर्वमेव जुगोप सः ॥ ४७ ।। स बहून् विषयान् गत्वा वाणिज्याय धनञ्जयः । निवृत्तो नीफ्कान्तारसमीपं सायमाययौ ॥ ४८ ॥ १. कौरव्यं कुरुवंश्यं धनजयमर्जुनापरपर्यायम् . २. भर्ति भूमिस्पृश इति विशेषणादाज- न्मसिद्धां भक्तिमित्यर्थः. ३. 'दशकाः शतिकाः' इति पाठो भवेत् । दशैभ्यो वृद्धिरायो लाभो वा दीयते देशका दशवृद्ध्याद्युपार्जका इत्यर्थः । एवं शतिकाः शतवृद्धद्याद्युपार्जकाः । दशशतब्दा- भ्यां 'चतुर्थ्यर्थ उपसङ्ख्यानम्' (५-१-४७) इति चतुर्थ्यर्थे कन्ठनौ. ४. गोषड्गवं इन्द्रिय- षट्कम् अथ च पशुषट्कम् । गोशब्दात् 'षट्त्वे षड्गवच्' ५. उल्लिख्याभिसन्धाय. * 'सङ्ग्रयैव' इति खपुस्तके पाठः.
२६ शिवलीलार्णवे ॥ अदृश्यत सहस्रांशुरस्तभूधरमस्तके । मन्देहयुद्धलब्धासपङ्कदिग्ध इवारुणः ॥ ४९ ॥ अर्कमस्तं गमिष्यन्तमुपेत्यानुचराः कराः । अन्वगन्वगलम्बन्त दुद्रुवुर्ये पुरः पुरः ॥ ५० निन्दन्तो रजनी कोका नन्दन्तस्तां चकोरिकाः । चञ्चूचञ्चवि सायाह्ने सर्वतः सम्प्रजहिरे ॥ ११ ॥ प्रचुक्रुशुर्द्विजाः केचिदपरे मौनमास्थिताः । असङ्घातो द्विजानामित्यासीत् तथ्यं तदा वचः ।। ५२ ।। प्रतीच्यां ददृशे रागः स स्थास्यति कियचिरम् । प्राच्या दृष्टचरो ह्येष भास्वतो भ्राम्यतः सदा ॥ ५३ ॥ प्रनष्टे महसां राशौ प्रादुर्भूतं हि तारकैः । तमसाभ्यावृते लोके तावद्भिरपि किं कृतम् ।। ५४ ॥ त एव भानवो भानोस्तारकावपुषा स्थिताः । तथाप्येकः स नास्तीति तमांसि विजजृम्भिरे ॥ ५५ ॥ प्रायो जात्यनुरोधाय पद्ममात्रे निमीलति । भानुहस्तगतेनापि पङ्कजेन निमीलितम् ॥ ५६ ॥ तथा सान्द्रीभवन्ति स्म तमांसि हरितां मुखे । व्याप्नुवन्ति हि तान्येव विहन्यन्ते यथा मिथः ॥ ५७ ॥ शैवलोत्पलभृङ्गाणां सरसीषु निशामुखे । स्पर्शसौरभकूजाभिः स्वं स्वं रूपमबुध्यत ॥ ५८ ॥ निष्पपातेव गगनं निस्ससारेव सागरः । आववारेव निश्शेषमविद्या महती तदा ॥ ५९॥ अयश्शृङ्खलवत् क्रष्टुमाहर्तु तृणपूलवत् । आश्यानपङ्कवच्छेत्तुमासीच्छक्यं तदा तमः ।। ६० ॥ अनिस्तार्येण मनसाप्यनाव्येन च रंहसा । स्रोतसेवान्धकारस्य स निन्ये नीपकाननम् ॥ ६१ ॥ १. चञ्चूचश्चवीति । 'तत्र तेनेदमिति सरूपे' (२-२-२५) इति बहुव्रीहिः. • 'नाति' इति खपुस्तके पाठः. त
२७.
चतुर्थः सर्गः।
सोमवारोपवासेन सोऽध्वखेदेन तावता ।
विप्रयोगेण सार्थाच विव्यथे केवलं तदा ॥ ६२ ॥
नोन्नतानि न निम्नानि न नम्रा न च पादपाः ।
सर्वमेकमभात् तस्य सान्निध्यादिव शाम्भवात् ॥ ६३ ॥
अश्रौषीदश्रुतचरममृतस्येव निर्झरम् ।
गानमातोद्यसम्भिन्नं गन्धर्वाणामदूरतः ॥ ६४ ॥
स तच्छब्दानुसारेण सम्प्रसर्पञ्छनैः शनैः ।
दयया देवदेवस्य दिव्यं चक्षुरधारयत् ॥ ६५ ॥
स दिव्यलिङ्गमभितः सन्ददर्श सुरानृषीन् ।
ध्यायतो गायतः सामान्यर्चतश्चाभिषिञ्चतः ॥ ६६ ॥
ननृतुः प्रमथाः क्वापि जगुः सामानि सामगाः ।
ननृतुर्देवसुदृशो जगुरन्यत्र किन्नराः ॥ ६७ ।।
कमलैः कनकाब्जिन्या विमलैरुभयैरपि ।
स सुरैः सार्धमानर्च शर्वाणीचन्द्रशेखरौ ॥ ६८ ॥
प्रभातायां च शर्वी प्रवृत्ते जनचक्रमे ।
स यत्रैक्षिष्ट देवर्षीस्तत्रैक्षिष्ट तरून् मृगान् ॥ ६९ ॥
स तु तेनाद्भुतेनैव निवृत्तामृतपारणः ।
व्रताङ्गं पारणां कर्तुं प्राप नेदीयसी पुरीम् ॥ ७० ॥
द्रमिडान्वयमूर्धन्यो द्वितीय इव वासवः ।
प्रशशास महीं यत्र पार्थिवः कुलशेखरः॥ ७१ ॥
सङ्गम्य बन्धुभिः सार्धं विश्रम्य च यथासुखम् ।
वृत्तं विज्ञापयामास राज्ञे सर्व स्वमद्भुतम् ॥ ७२ ।।
स जातु पुरुषं कश्चिच्चन्द्रचूडजटाधरम् ।
निद्राणोऽन्तर्दशाद्राक्षीन्नृपतिः कुलशेखरः ॥ ७३ ॥
नन्वस्ति नगरादस्मात् पश्चिमं नीपकाननम् ।
वन्यैर्मृगगणैः सार्धं वसामोऽत्र चिरं वयम् ।। ७४ ॥
तद्वनं नगरीकृत्य तदेवाधिवसन् स्वयम् ।
कुलमुद्धृत्य वत्स! त्वं कुरु नामेदमर्थवत् ॥ ७५ ॥
शिवलीलार्णवे इत्युक्वान्तर्हिते तस्मिन्निन्दुचूडे दयानिधौ । प्रत्यबुध्यत संहृष्टः प्रत्यूषे कुलशेखरः ॥ ७६ ॥ अद्भुतं स्वमवृत्तान्तमाप्तेषु च महत्सु च । आवेदयन् नृपः प्रातरभ्यनन्धत तैरपि ॥ ७७ ॥ निश्चित्यानुग्रहं शम्भोनिमित्सुर्विपिनं पुरम् । सम्प्रतस्थे महीपालः सावरोधः सबान्धवः ॥ ७८ ॥ प्रस्थितम्याग्रतो वामं प्रवृत्तस्तस्य खञ्जनः । कटाक्ष इव मीनाक्ष्याः कलयन् भावि मङ्गळम् ॥ ७९ ॥ स कदम्बवनं प्राप्य सन्ददर्श महाद्भुतम् । हैमप्राकारसम्बाधमैन्द्रं धाम महशितुः ।। ८० ॥ स दृष्ट्वा साम्बमीशानं सम्प्रार्थ्य च गणाधिपम् । न्ययुक्त शिल्पिनो दक्षानिमित्सुनगरं नृपः ॥ ८१ ॥ सर्वे ते विश्वकर्माणः सर्वे कुशलतामयाः । समेत्य मन्त्रयाञ्चक्रुः शिल्पिनः पुरकर्मणि ॥ ८२ ॥ स्वस्तिकं सर्वतोभद्रं मण्डलं दीर्घवृत्तकम् । निर्मित्समाना नगरं ते विप्रावादिषुर्मिथः ॥ ८३ ॥ शिल्पिप्वेक इवागत्य सिद्धः स्वमेक्षितः पुरः । इतिकर्त्तव्यतां तेषामुपादिक्षत् प्रभोः पुरः ॥ ८४ ॥ स्वप्नदर्शनसंवादि तद्रूपं तस्य चिन्तयन् । यावद् ददर्श नृपतिस्तावदन्तरधत्त सः ॥ ८५ ॥ पश्यन्ननुग्रहं शम्भोः स्वमजागरयोः समम् । उत्सेहे स तु भूयोऽपि पार्थिवः पुरकर्माण ॥ ८६ ॥ अपि तद्विपिनं सान्द्रमज्ञातालोकसङ्कथम् । शासनात् पाण्ड्यनृपतेर्जातं जाङ्गलवत् क्षणात् ॥ ८७ ॥ तपनेन्दुकरालीढे तस्मिन् दिष्ट्या वनोदरे । ब्रह्मचर्य जहुश्चक्रा दुर्भिक्ष* च चकोरिकाः ।। ८८ ॥ 1. जाङ्गलवत् तरुशून्यप्रदेशवत्. * 'क्षत्व' इति खपुस्तके पाठः.
चतुर्थः सर्गः। चरन्तो जन्तवो यत्र जाता वनचराः पुरा । तदेवासीद् वनचरं तत्क्षणं तस्य शासनात् ॥ ८९ ॥ घेण्णामप्यध्वनामन्ते शाश्वतं पदमैश्वरम् । इति श्रुत्वैव सिद्धान्तमध्वान्तं तदयं व्यधात् ॥ ९० ॥ अप्यान्तरतमो हितुर्बाह्ये तमसि का क्षमा । लाभोऽयं यच्छिवादारादियन्तं कालमास्त तत् ॥ ९१ ॥ घातंघातमिह व्याघ्रान् ग्राहग्राहं शुभास्त्वचः । अहरन् वस्त्रदुर्भिक्षं किङ्करास्तम्य शाङ्करम् ॥ ९२ ॥ संवर्ते तत्र सत्त्वानां समगृह्यन्त कुञ्जराः । सर्व एव शुभः कालः स्वरूपं यदि सुन्दरम् ॥ ९३ ॥ सालमभ्रङ्कषं चक्रुः सालं छित्वा सहस्रशः । किं साध्यं बहुभिः क्षुद्रेवरमेको महोच्छ्रितः ॥ ९.४ ॥ वप्रक्रियासु निर्मग्नैर्दन्तैरमरदन्तिनाम् । शृङ्गेषु तस्य सालस्य गवाक्षा विप्रतेनिरे ॥ ९५ ॥ परिखां खनतस्तत्र प्रविष्टानारसातलम् । के यूयं सगराणामित्यन्वयुञ्जत पन्नगाः ॥ ९६ ॥ परिखारन्ध्रतस्तत्र पाताळाज्जाह्नवीजलम् । जलयन्त्रादिवोत्तस्थौ भूम्यन्तं भूतलाच्युतम् ॥ ९७ ॥ भगिनी भगिनीशं च द्रष्टुं प्राकारकैतवात् । उन्ममजेव मैनाकः परिखासागरात् ततः ॥ ९८ ॥ राजसिंहर्नरव्याघैः पूरितं भटकुञ्जरैः । पुरं यथापुरं जज्ञे का तस्यान्योपमा भवेत् ॥ ९९ ॥ छिन्दद्भिस्तद्वनं तत्र शेषितं यत् क्वचित् क्वचित् । तान्येव तस्योद्यानानि सर्वतः प्रचकाशिरे ॥ १० ॥ १. वनचरम् अरण्यचारि अथ च वनभूतपूर्वम् . २. तत्त्व-भुवन-मन्त्र-वर्ण-कलारूपाणां षण्णाम्. ३. अध्वान्तम् अध्वनामन्तम् अथ च प्वान्तशून्यम् . + 'हर्तु' इति कपुस्तके पाठः.
शिवलीलार्णवे . वीथिका उत्सवार्था या विहिता विश्वकर्मणा । चतुर्णामपि वर्णानां ता एवासन पृथक्पृथक् ॥ १०१ ॥ पाण्डरैर्भवनैः पूर्णे प्राकारे धाम शाम्भवम् । मध्येमौक्तिकताटवं रेजे रत्नमिवार्पिताम् ॥ १०२ ॥ दिशि चोत्तरपूर्वस्यां देवदेवस्य मन्दिरात् । निर्मलं भवनं राज्ञो निर्ममुस्तस्य शिल्पिनः ॥ १०३ ॥ प्रासादः शुशुभे तत्र भवने धरणीपतेः । भक्त्या महशितुर्वृद्धः प्रसाद इव निर्मलः ॥ १०४ ॥ दिव्यैः सुधामयैर्मेधैर्देवो जीमूतवाहनः । नगरं सेचयामास नवीनं त्रीण्यहानि सः ॥ १०५॥ मधुरोदकसंसिक्ती मधुरेयं महापुरी । इत्यश्रूयत तत्रत्यैर्दिव्या वागशरीरिणी ॥ १०६ ॥ दुर्गागणेशवटुकेश्वरमातृवर्ग- रध्यासितां सुविहितेषु निजास्पदेषु । सद्यः प्रवर्तितमहेशमहोत्सवान्ते पाण्ड्यो विवेश नगरी मधुरां प्रहृष्टः॥ १०७ ।। अर्थेरर्थिजनाछुतैः श्रुतवतः सम्माननैर्वान्धवान् सेवाभिर्महतो निसर्गकरुणावत्या स भृत्यान् दृशा । आत्मानात्मविवेकतो गिरिशमप्याराधयन् मेदिनी भूपालः कुलशेखरोऽत्र बुभुजे सप्तार्णवीवेष्टिताम् ॥ १०८ ॥ 65590 इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते शिवलीलार्णवे चतुर्थः सर्गः।
पचमः सर्गः । अथ पञ्चमः सर्गः। स इत्थमाराधितचन्द्रशेखरप्रसादसम्पत्परिपाकसम्भृतम् । कुलावतंसें कुलशेखरो नृपश्चिराय लेभे मलयध्वजं सुतम् ॥ १ ॥ स पांसुकेलीष्वपि शङ्करालयान् प्रकल्पयन् ब्रह्मपुरीश्च सर्वतः । प्रपञ्चमातामहतापदोचितं नरेन्द्रसूनुर्व्यहरन्म+हायशाः ॥२॥ अथोपनीतोऽधिजगे नृपात्मजस्त्रयीं मुनेः कुम्भभवात् पुरोधसः । समं महास्त्रैर्धनुरागमं पितुः स्वतश्च भक्ति शिवयोरचञ्चलाम् ॥ ३ ॥ अशेषविद्यानिधिमात्तयौवनं कुमारमेनं कुलशेखरो नृपः । युयोज दारक्रियया कुलाहया श्रियेव धर्म क्षमयेव विक्रमम् ॥ ४ ॥ नृपस्य काञ्चीपुरनेतुरात्मजा महाशया काञ्चनमालिकाभिधा । नरेन्द्रसूनोर्गृहिणीषु वल्लभा बभूव तारास्त्रिव रोहणी विधोः ॥५॥ पुरा हि विश्वावसुनामशालिनो बभूव गन्धर्वपतोरयं सुता । प्रसाद्य गौरी जगदेकमातरं ममैधि कन्येत्यवृणीत या वरम् ॥ ६ ॥ सुशीलतां सुन्दरतामिवोज्ज्वलां दयार्द्रतां भृत्यजनेषु ते इव । दधे पुनस्ता इव भक्तिमीश्वरे मनस्विनी काञ्चनमालिका तदा ॥ ७ ॥ सुतानिव स्वान् परिपुष्णती जनान् सभाजयन्ती श्वशुरौ शिवाविव । पति तु पूर्वद्युरिवापरेधुरप्युपाचरद् दैवतजीविताधिकम् ॥ ८॥ पतिव्रता धर्मपथप्रवर्तिका सती च भर्तुर्वपुरधमेव सा । शरीरमात्मा हृदयं च जीवितं दृशौ च जज्ञे दयितस्य सा पुनः ॥९॥ महत्सु कार्येष्वमहत्सु वा योः कदापि वैमत्यकथापि नाभवत् । अभूत् तयोरेव मिथोऽनुरागिणोरनगमूलः कलहः स केवलम् ॥ १० ॥ स युक्तदाम्पत्यसुनिवृतं सुतं स्वतो विनीतं गुरुभिश्च सर्वतः । त्रिलोकरक्षाक्षमबाहुविक्रमं जनेश्वरः प्रेक्ष्य चिराय निर्ववौ ॥ ११ ॥ धृतां चिराय त्रिजगधुरन्धरे धुरं धरायास्तनयेऽवरोपयन् । स्वतः स्थितं धर्मपथेऽपि तं पुनः शशास धर्म सुतवत्सलो नृपः ॥ १२ ॥ +'महाशयः' इति खपुस्तके पाठः.
१२
शिवलीलार्णवे.
!
महत् कुलं नस्त्वमवैषि विश्रुतं महेशचूडामणिसम्भवं शुचि ।
अनक्षजिद्भिर्मनसापि दुर्भरामवैषि वत्स ! त्वमिमामपि क्षमाम् ॥ १३ ॥
नवोढयापि प्रकृतिप्रगल्भया श्रियैव तावत् प्रथमं विमोहिताः ।
न जानते किञ्चिदसाधु साधु वा निसर्गतस्तात ! नृपालसूनवः ॥ १४ ॥
प्रसञ्जयन्ति प्रथमं विमार्गगांस्ततः क्रमेण स्तुवते च तान् पुनः ।
प्रवर्तयन्त्यप्यपथे शनैः प्रभु खलाः स्वकार्येकपराः समीपगाः ॥ १५ ॥
उपक्षिपन्तश्चकिता इवादितो निषिध्यमाना इव कैश्चिदन्तरा ।
सुखेन दोषं द्रढयन्ति साधुषु स्तुवन्त एव स्वगिरा दुराशयाः ॥ १६ ॥
परं कृतज्ञा इव पण्डिता इव प्रभोहितैकप्रवणा इव स्वतः ।
जगत्तटस्था इव राज्ञि बालिशे जनाः स्वमर्थ घटयन्त्यसाधवः ॥ १७॥
स्तुवन्त्यमित्रान् सुहृदं प्रतिक्षिपन्त्यवेक्षितुं भर्तुरगाधमाशयम् ।
बहून् विवादानिव कुर्वते मिथो न जातु भिन्दन्ति रहस्थितिं खलाः॥१८॥
इदं छुपादेयमिदं तु हेयमित्युभे विविञ्चन् निजयैव मेधया ।
खलान् निगृहीप्व तदुक्तिवागुरागृहीतवन्मुग्धवदाचरन् बहिः ॥ १९ ॥
जना जिहासन्ति नृपालमूष्मलं तिरश्चिकीर्षन्ति मृदुन्निसर्गतः ।
अतोऽप्रमत्तस्त्वमनुष्णशीतलो भव प्रजानां शरदीव भास्करः ॥२०॥
अलोलुभानात्मविदो जितस्मयान् परीक्षितांश्च व्यसनेषु भूयसा ।
महाकुलीनान् महतो बहुश्रुतान् गृहाण मन्त्रेष्वखिलेषु मन्त्रिणः ॥ २१ ॥
प्रसादकोपैर्भवति क्षमापतेरतिप्रवृत्तैरधरोत्तरं जगत् ।
अतः प्रवर्तस्व जनेप्वतन्द्रितो विचारधाराविशदेन चेतसा ॥२२॥
बहुश्रुतो न त्वमिवापरोऽधुना न दीर्घदर्शी न च मन्त्रयोगवित् ।
प्रशासनीयस्तदपि स्वयं भवान् प्रशासितारस्तव सन्तु मन्त्रिणः ॥२३॥
अजातशत्रोरखिलार्थवेदिनः प्रजानुरागैकपदस्य धीमतः ।
तव प्रकृत्या गुरुवृद्धसेविनो मयोपदेश्य किमिवात्र वर्तते ॥२४॥
तथापि किश्चिद् दिगियं प्रदर्शिता श्रुता बहुभ्यो बहुधार्चया मया ।
परस्तु भावो मम तात! वर्तते कुरुष्व तं चेतसि मा स्म विस्मरः ॥२५॥
निजावतंसप्रसवोद्भवे कुले न्यधायि लक्ष्मीरियतीयमीदृशी।
महेश्वरेणेति विदन्न जातुचिद् ममत्वमस्यां कुरु राज्यसम्पदि ॥२६॥
पञ्चमः सर्गः। ॥ यजाम देवान् जुहवाम पावके ददाम विप्रेष्वपि वा कथं कथम् । शिवस्वमादाय भुवीति चिन्तयन् शिवं समाराधय सर्वकर्मभिः ॥ २७ ॥ शिवं यजामौ शिवमर्च भास्करे शिवं स्मरान्तः शिवमेव कीर्तय । शिवं द्विजेषु प्रतिपूजयानिशं शिवैकनिष्ठो भव तात! सर्वथा ॥ २८ ॥ शिवात् परं नास्ति यथा तथैव नः शिवोऽपि नान्यो मधुरेश्वरादिति । मुनिश्चितालम्बितसुन्दरेश्वरः सुखं महीं पालय शाश्वतीः समाः ॥ २९ ॥ इति क्षितीशः प्रतिबोधयन् सुतं प्रयुज्य चास्मिन् प्रणते जयाशिषः । समाः सहस्राणि षडात्मना धृतां धुरं स गुर्वीमवतार्य निर्ववौ ॥ ३० ॥ ततः स योगेन तनुं प्रजेश्वरो विसृज्य नाड्या किल मूर्धलग्नया । अतीत्य मायाभुवनानि सर्वतो जगाम शुद्धेऽध्वनि धाम शाश्वतम् ॥ ३१ ॥ उदक्रमीदेष यदा तदा प्रभृत्युपेत्य विज्ञानकलाग्रगण्यताम् । अभूत् सहायः करणीयपञ्चकेऽप्यनन्तरुद्रस्य धिया विशुद्धया ॥ ३२ ॥ विदन्ननित्यं जगदेव जन्मवद् विदन्नपि श्लाध्यतरां गतिं पितुः । मनोऽभितप्तं मलयध्वजो नृपः शशाक न स्थापयितुं वशे वशी ॥ ३३ ॥ कथञ्चिदालम्ब्य निजां स धीरतां गुरोरशेषा निरवर्तयत् क्रियाः । तथाविधानां तनयाश्चरन्ति यत् तदहणं केवलमात्मभूतये ॥ ३४ ॥ पुरोधसा सिन्धुपिबेन योगिना स मन्त्रिवृद्धैः सखिभिश्च बन्धुभिः । शुभे मुहूर्ते धुरि सुन्दरेशितुः सितेन फाले भासितेन लाञ्छितः ॥ ३५ ॥ स्वतश्च्युतं लिङ्गशिरस्पदात् सुमं पुरः स्फुलिङ्गानपि दीपनिस्सृतान् । प्रशस्यमानं शकुनं महर्षिभिः प्रणम्य मूर्घा जगृहे महीपतिः ॥ ३६ ॥ प्रदक्षिणीकृत्य पुरं पुरन्ध्रिभिः प्रवर्तितारात्रिकमङ्गलो नृपः । प्रविश्य राज्ञो भवनं परिष्कृतं द्विजान् प्रभूतैर्द्रविणैरतोषयत् ॥ ३७ ॥ सुभद्रपीठे सचिवैर्निवेशितः सभाजयामास नृपोऽनुजीविनः । यथोचितं वाहनभूषणाम्बरैः कटाक्षमन्दस्मितभाषितैरपि ॥ ३८ ॥ भुवं भुजे भूतदयां हृदन्तरे *कथां पुरारेरपि कर्णयोर्द्वयोः । अधत्त भूषामनपायिनीमसौ परास्तु सोऽवत्त पुनर्यधत्त च ॥ ३९ ॥ - 'कथाः' इति खपुस्तके पाठः.
शिवलीलार्णवे यशःप्रतापैर्हरितोऽस्य भूषिताः कुलं त्वनेनैव विभूषितं विभोः । अयं तु धृत्या दयया च भूषितः शिवे तु भक्त्या सकलं विभूषितम् ॥ ४० ॥ यशोभिरस्यावंददुर्विसृत्वरैरपि द्विरेफद्विपकाककोकिलाः । स्वतोऽवदातानि तु पूर्वभूभृतां यशांसि सद्यो मलिनानि जज्ञिरे ॥ ४१ ॥ तदीयविश्राणनपोषितद्विजप्रवर्त्यमानाध्वरहव्यभोजिभिः । सुधाशवगैः परिपोषिताः कथं मुरद्रुमा बिभ्रति तेन तुल्यताम् ॥ ४२ ॥ सदीयदानोदकपूरितोऽर्णवस्ततो निपीयाम्बु दिशन्ति वारिदाः । तदम्बुपुष्टौषधिवल्लभः शशीत्यदःप्रसादादखिलस्य दातृता ॥ ४३ ॥ समृद्धिमद्भिर्धरया समृद्रया द्विजातिभिस्तद्विषये निवासिभिः । धृता कथञ्चित् तदनुग्रहेच्छया तदीयदानेप्वपि सम्प्रदानता ॥ ४४ ।। न कोऽपि तस्यातिचचार राष्ट्रगः स यत्र दण्डं विनिपातयेन्नृपः । नचापि दण्ड्यः स्वयमात्मनोऽभवन्निवृत्तिशीलैः करणैनिसर्गतः ॥ ४५ ॥ विनेतरि स्वामिनि वीतकल्मषे विनिान्यरे तद्विषये प्रजाः स्वतः । तपोधने द्वन्द्वजयिन्यवस्थिते तदाश्रमम्था इव हिंस्रजन्तवः ॥ ४६ ॥ विचक्षणेऽस्मिन् व्यसनान्यपोहितुं तटस्थवृत्तौ सरले हितैषिणि । अपि प्रजाः स्वान् कलहान् गृहेगृहे निचिक्षिपुर्यासमिवाविशङ्किताः ॥ ४७ ॥ अकृष्टपच्यैः कलमैरलंकृता न वृष्टिमप्यस्य चकाङ्क मेदिनी । स्मरन् हविः स्वीक्रियमाणमध्वरे ववर्ष कालेषु तथापि वासवः ॥ ४८ ॥ अनिच्छतान्तःकरणेन निर्गमं विना शिवाराधनमन्यकर्मसु । स्वराज्यतन्त्रं सकलं च केवलैश्चकार बायैः करणैर्महीपतिः ।। ४९ ॥ धरा समस्ता द्विजदेवसात्कृता दिवं द्विषयोऽपि ददौ सहस्रशः । अपि स्वमात्मानमदत्त शम्भवे किमप्यदेयं ददृशेऽस्य न प्रभोः ॥ ५० ॥ अनुस्मरन्नक्षरमक्षरं गुरोः स पार्थिवेन्द्रश्चरमौपदेशिकम् । अवाललम्बे भृशमम्बिकापतेः पदं समस्तामरसम्पदां पदम् ॥ ५१ ।। तपांसि तेपे युयुजे मनो दृढं ददावियाजाधिजगे जुहाव च । नृपो निशश्वास मिमेष चान्ततः शिवं यजामीति धियैव नान्यथा ॥ ५२ ॥ : भवदुः अवदाता बभूवुः.
पश्चमः सर्गः। प्रपञ्चसर्गस्थितिभङ्गहेतुतापरम्पराविश्रमभूमिमादिमाम् । हरीन्द्रवेधोहरमातरं शिवां विशिष्य व शरणं जनेश्वरः ।। ५३ ॥ मृगाकचूडामणिमीनलोचनं दयामयं दर्शितसुन्दरस्मितम् । उदारभूषाशतमुत्पलाङ्कितं वपुस्तदेवास्य मनस्यवर्त्तत ॥ १४ ॥ जगत् समस्तं स जडाजडात्मकं ददर्श देवो निमिषन्मिषन्नपि । उपात्तनीलोत्पलमुन्नतस्तनं हसन्मुखं हारकिरीटभूषितम् ॥ ५५ ॥ निमेषनिश्वासवदप्रयत्नतः स राज्यतन्त्रं सकलं च वर्तयन् । बभूव वाचा मनसापि कर्मणा शिवैकसंस्थो मलयध्वजो नृपः ॥ ५६ ॥ अदृश्यमश्राव्यमचिन्त्यमद्भुतं निरञ्जनं नित्यमनुश्रवाश्रवम् । अहंग्रहेणान्तरचिन्तयन्नृपः पराकृतद्वैतकथं परं महः ॥ ५७ ॥ परस्परेणानुपमर्दितं भजन त्रिवर्गमित्थं समयं विभज्य सः । कदाचिदन्तःपुरमास्थितो नृपः प्रचक्रमे काञ्चनमालया कथाम् ॥ ५८ ॥ कुलं किलैतद् विपुलं मुधानिधेः प्रसक्तविच्छेदमिवान्तरा मया । अतः कथं स्याच्छिवदाससन्ततेरभङ्ग इत्यस्ति सचिन्तता मम ॥ ५९॥ न नः कुलेऽस्मिन् शिवदीक्षयामले सुतान्निवापः पितृभिर्जिवृक्षितः । महन्महेशानुचरार्पणवतं तथापि मा लोपि मोति चिन्त्यते ॥ ६० ॥ इदं हि मामृतमित्युदीरितं प्रजायते यन्मनुजः प्रजामनु । अतः प्रसाध्यैव किलापरामृतं परामृतायोपनमेदिति श्रुतिः ॥ ६१ ।। शिवार्पिताशेषभरा निराशिषः शिवार्चनामात्रपराधिकारिणः । कथं नु याचेमहि लोकमातरं कथं न याचेमहि वा कुलक्षये ॥ ६२ ॥ इति स्वतोऽनध्यवसायमुद्रितं पतिं विषीदन्तमियं पतिव्रता । जगाद वाक्यैहृदयानुरञ्जिभिर्जगत्तपम्यापरिपाकजन्मभिः ॥ ६३ ॥ भवान् प्रमाणं विशये विपश्चितां भवन्तमस्मिन्ननुशास्तु कोऽपरः । विवेत्तुमत्रार्हति मीनलोचना तथाविधः कोऽप्यथ वा तदाश्रितः ।। ६४ ॥ अनावृतज्योतिषि तेजसां निघावनागतातीतभवद्विवेचिनि । तदत्र तिष्ठेमहि कुम्भसम्भवे स खल्विहामुत्र च नः प्रशासिता ॥ ६६ ॥ १. 'प्रजामनु प्रजायते, तदु ते मामृतम्' यजुः. २. 'प्रकाशनस्थयाख्ययोश्च' (१-३. २३) हाते स्थेयाख्यायो तङ्, .
॥ शिवलीलार्णवे इति प्रियाया हृदयङ्गमं वचा निपीय देवो निभृतेन चेतसा। जगाम सद्यः शरणं पुरोधसं स च स्मृतः सन्निदधे तपोधनः ॥ ६६ ॥ तमर्घ्यपाद्यादिकया सपर्यया सभाजयन्तौ प्रणिपत्य तावुभौ । निवेश्य पीठे नवरत्ननिर्मिते निषेदतुस्तत्सविधे तदाज्ञया ॥ ६७ ॥ कृताञ्जलिं पार्थिवमग्रतस्थितं तथाविधां काञ्चनमालिकामपि । दृशानुगृह्णन् करुणार्द्रया मुनिगिरं प्रभावानुगुणामुदाहरत् ॥ ६८ ॥ महत् किलेदं शिवयोगिनां कुलं न यत्र शक्यं जनितुं पृथग्जनैः । तदत्र मीमांसितमद्भुतं त्वया श्रुतस्य शीलस्य कुलस्य चोचितम् ॥ ६९ ॥ प्रवृत्तिधर्म कतिचित् क्वचिद्विदुर्निवृत्तिधर्मः सुतरामगोचरः । अमुं किलार्थ विमृशन्त आसते महर्षयो ब्रह्मसदस्यहर्निशम् ॥ ७० ॥ न नित्यनैमित्तिककर्मशीलता कदापि नैष्कर्म्यविरोधमर्हति । पतेदिमां प्रत्युत सन्त्यजन्निति स्मरन्ति शिष्टाः स्वयमाचरन्ति च ।। ७१ ॥ ऋणार्थवादैरधिगत्य नित्यतामपत्यवेदाध्यनामिकर्मसु । समं प्रवृत्ता गृहिणस्तपोधना निवृत्तिनिष्ठा अपि गौतमादयः ।। ७२ ।। रहस्यमप्यत्र चिराय गोपितं तवोपदेश्यं हृदि तात! वर्तते । समाधिनिधूतमलेन चेतसा गृहाण कालोऽयमुपस्थितः शुभः ॥ ७३ ।। इयं हि पनी भवतः पुरा चिरादुपास्त देवीमिह मीनलोचनाम् । जगज्जनन्या जननी भवेयमित्यपि प्रपेदे वरमन्यदुर्लभम् ॥ ७४ ॥ पतिस्त्वमस्यै शिवयैव कल्पितः समुलिखन्त्यावतरं निजं क्षितौ । इदं तु चिन्त्यं निपुणं कथं पुनः परात्परं वस्तु तदाविरस्त्विति ॥ ७५ ॥ क्रियावताममिमुपाश्रिता सती ददाति या नैकविधान् मनोरथान् । अतोऽद्य वैतानिकहव्यवाहनादुदेतु सेति प्रतिभाति भूयसा ॥७६ ॥ इतीरिते तेन विनेदुरुच्चकैरनाहता दुन्दुभयो दिवौकसाम् । नृपस्य देव्या अपि दक्षिणेतरे विलोचने प्रास्फुरतां च तत्क्षणम् ।। ७७ ॥ प्रदक्षिणीकृत्य स विन्ध्यमर्दनं पतिः क्षितेः काञ्चनमालया समम् । प्रणम्य रोमाञ्चितविग्रहोऽभवत् प्रमोदबाष्पस्थगिताभिरुक्तिभिः ॥ ७८ ॥ क सा चिदानन्दमयी जगत्प्रसूः क किम्पचानौ भगवन्निमौ जनौ । अहो भवत्पादरजःप्रमार्जनप्रभावसम्पत्परिपाक ईदृशः ॥ ७९ ॥ - षष्टः सर्गः। तवास्मि सूनुस्तव तात! किङ्करस्तव स्वभूतोऽस्मि सहानुबन्धिभिः । यथानुगृह्मासि तथाचरेयमित्यसावियानेव मनोरथो मम ॥ ८ ॥ इति प्रपन्नं मलयध्वजं नृपं शताश्वमेधावभृताप्लुतं मुनिः । संभाविकर्मण्यधिकारसिद्धये शशास भूयो हयमेधकर्मणि ॥ ८१ ॥ इत्थं प्रसादविहिताशिषि कुम्भयोनौ याते तपोवनपदं पुनरेतुकामे । आराधयत् क्षितिपतिः शिवमश्वमेध- सम्भारसम्भरणसम्भ्रमतोऽपि तावत् ॥ ८२ ।। इति श्रीमहाकविनीलकण्ठदीक्षितप्रणीते शिवलीलार्णवे पञ्चमः सर्गः । अथ षष्ठः सर्गः। आहर्तुं ययुमभितो ययुर्नियुक्ता मा ये किल मलयध्वजेन राज्ञा । लब्ध्वा ते क्वचिदथ सोमपात्मजं द्रागाजहुः स्वयमपि सामपं तुरङ्गम् ॥१॥ विस्तीर्णामथ तपनीयपङ्कजिन्या व्यातेनुस्तटभुवि तस्य यज्ञशालाम् । आरादप्यवनिभुजा महोपकार्या निस्संख्यानुटजगणांश्च तापसानाम् ॥ २॥ आनीते तुरगवरे समाहृतायां सामग्रयामनिथिसभाजनोचितायाम् । आगच्छत् सह मुनिभिः परावरज्ञैर्ब्रह्मर्षिश्थुलुकितसागरः सशिष्यैः ॥ ३ ॥ आराध्य प्रमथपति महोपहारैर्मीनाक्षीमपि मलयध्वजः सदारः । आरेभे सवनमनुज्ञया मुनीनामागस्त्यं चरणयुगं प्रणम्य सद्यः ॥ ४ ॥ स्वायत्तामपि दुरतिक्रमात् प्रतापात् संगृह्णन् भुवि जनतां स साङ्ग्रहण्या । मुक्ताश्वो धृतनियमः पदेऽस्य होमं कुर्वाणः समवसदग्न्यगार एव ॥ ५ ॥ स्वच्छन्दं हयमभितोऽपि सञ्चरन्तं संगुप्तं नृपपुरुषैः शनैश्चतुर्भिः । रो यद्यपि न शशाक राजलोकः शक्तोऽभूत् पुनरखिलोऽनुरोधुमेनम् ॥ ६ ॥ १. 'ययुरषोऽश्वमेधीयः' इत्यमर. २. सोमपात्मजं वरुणप्रभवम् । अथ च सोमपीथिसूनुम् . ३. सांग्रहण्येष्टया यजते इमा जनता संग्रहानीति' इति यजुर्वेदः, १८ शिवलीलार्णवे १ कीर्त्याविष्कृतसराणि प्रतापगुप्तं पश्यन्तस्तुरगमितस्ततश्चरन्तम् । तद्धव्यग्रहणरसाईतालुमूला वर्षान्तं विबुधगणाः प्रतीक्ष्य तस्थुः ॥ ७ ॥ सर्वैरप्यधिगतवाजिमेधकाण्डैः सम्पूर्णे किल विषयेऽस्य वाजिरक्षाः ।। वृत्त्यर्थ कचन किमप्यनाददानाः स्वैः स्वैः स्वैः कथमपि वर्तयाम्बभूवुः ॥ ८॥ अश्वत्थे क्षणमवबद्ध्य तं तुरङ्गं सम्पूर्णे शशिनि समेत्य तिष्ययोगम् । आवृत्तं नगरमभि प्रचोदयन्तो निन्युस्तं नृपपुरुपा हिमावसाने ॥९॥ आयाता धरणिभुजो यदासमुद्रादायाताः सकलकलाविदश्च लोकाः । आयास्यन्त्यमरगणाश्च हव्यहेतोस्तेनायात् स्वयमपि कौतुकी वसन्तः ॥ १० ॥ निश्शेषोपरतरसालपल्लवाशानिर्विष्णैर्वनभुवि कोकिलैस्तदानीम् । आसेदे शिशिरदिनान्तसुप्तबुद्धराकाशाच्च्युत इव पञ्चमो निनादः ॥ ११ ॥ प्रमाना धरणिरुहः स्वतः प्रसेदुर्निष्क्रान्तो मलयगिरेबहिः समीरः । वीरश्रीविषमशरस्य बाहुकाण्डे विश्रान्ति स्वयमभिरोचयाम्बभूव ॥ १२ ॥ मालिन्यं दधति मषीविलेपनेन प्रावण्यं युवतिषु घोषयन्ति यूनाम् । झङ्कुर्वद्भूमरनिभेन मीनकेतोः सञ्चरुर्बहिरिव शासनाक्षराणि ॥ १३ ॥ कूजन्तो मदनपुरोहिता द्विरेफाः पुष्पाणि ध्रुवमभिमन्त्रयाम्बभूवुः । स्वस्थानस्थितिमपरित्यजन्त एते विध्येयुः किमितरथा शराः शरव्यम् ॥ १४ ॥ आनङ्गं निगममजस्रमुद्गिरन्तो भैक्षेण प्रतितरुवीथि वर्तयन्तः । निर्निद्रास्त्वहनि निरन्तरं द्विरेफा आचार्ये वटव इवावसन् वसन्ते ॥ १५ ॥ अध्वर्यु मलयसमीरमन्यपुष्टं होतारं वनभुवि सामगं द्विरेफम् । ब्रह्माणं मधुमपि सादरं वृणाना आजदुर्मदनमहाध्वरं युवानः ॥ १६ ॥ मोहान्धे जगति विपश्चितो यतः केऽप्यनीनादधुरयजन्त चास्तशङ्काः । तन्मूलं ध्रुवमयशो दिशो दशापि प्रावारीदसमशरस्य भृङ्गदम्भात् ॥ १७ ॥ आमूलादविरळमाचिते प्रवाळेश्रूतेऽपि प्रययुरतोषमन्यपुष्टाः । सर्वाणि प्रसितुमिमानि यन्न शेकुः स्थातुं वा यदपि न शाखिकामपश्यन् ॥ १८ ॥ के भृङ्गाः क इव पिकाः समीरणः कश्चन्द्रः कः क इव मधुर्मनोभवः कः । दौर्भाग्याद्विरहिजनस्य दुर्विभेदं हन्तासीत् कथमिदमैकमत्यमेषाम् ॥ १९ ॥ आचूडं कुसुममया मधोः प्रसादाद वासन्तीविचकिलचूतचम्पकाद्याः । धुस्तूरेष्वपि च निरीक्ष्य तां समृद्धिं मन्दाक्षादिव नतमौलयो बभूवुः ॥ २० ।।
षष्टः सर्गः। ३ ९ उन्मीलन्मधुमदतुन्दिला द्विरेफा उद्दामस्तबकपरिष्कृता लताश्च । अन्योन्यं यदिह न किञ्चिदभ्यजानन् सा सम्पत्सुरभिकटाक्षवीक्षणानाम् ॥ २१ ।। आक्रम्य क्षितितलमावृतं तुषारैस्तद्वार्तामपि न मधुर्यदा विषहे । शीतांशौ.हिमवति च द्वयोस्तदानीं लब्धं तैरभयमितो हतावशिष्टैः ॥ २२ ॥ आ द्वन्द्वादपरिगृहीतदेहभेदादा कीटभ्रमरपिपीलिकोद्भिजेभ्यः । न क्वापि प्रतिहतिरैक्षि शुश्रुवे वा तत्कालं कुसुमशरासशासनस्य ॥ २३ ॥ आस्तां तद्रतिपरिणेतुराधिपत्यं मन्देऽस्मिन्नपि खलु मारुते प्रवृत्ते । कत्यन्वक् कति पुरतश्च सम्प्रचेलुर्माद्यन्तः शुकपिकशारिकाद्विरेफाः ॥ २४ ॥ आरामे किसलयमाक्षिण शीथुरागः कान्तानां कमलवनेषु केसराणि । इत्येभिः प्रकटितविश्वरूप एव प्रायेण व्यजयत मान्मथः प्रतापः ॥ २५ ॥ सङ्गोप्य भ्रमरशशाङ्ककोकिलेभ्यः सम्प्राप्ते तमसि महत्यधिज्यधन्वा । एकाकी रतिपतिरित्वरीरनैषीत् सङ्केतं भुवनभयङ्करे निशीथे ॥ २६ ॥ कान्तानां नखलिखनैर्दृढोपगृहान् सीत्कारान् दशनपदैश्च साधयन्तः । प्रेयांसः पुनरुभयानिमानतीतानस्मार्षुर्हिमसमयेप्वयनलभ्यान् ॥ २७ ॥ दुर्दान्तं मदनमवेक्ष्य निर्ममे किं वमैक युवसु वधूमयं विधाता । यद्योगे मदनशराः प्रसूनमात्रं यत्त्यागे कुलिशदशाममी वहन्ति ।। २८ ।। सम्पश्यन् गिरिशतपोविलोपकोपव्यापन्नं सुहृदमनन्यजं वसन्तः । शुश्रूषामकृत शिवार्चने मुनीनां प्रत्यग्रैर्दळकुसुमैर्वनद्रुमाणाम् ॥ २९ ॥ आशीताचलमभिगम्य सन्निवृत्ते धन्येऽस्मिन् धरणिभुजस्तुरङ्गवर्ये । उत्कण्ठाभरभरिता इवोत्तराशामासेदुः स्वयमाहमत्विपस्तुरङ्गाः ॥ ३० ॥ सम्पूर्णे नियमभरेण वत्सरेऽस्मिन् सम्प्राप्ते स हि सह वाजिना वसन्ते । आदिष्टः स मुनिभिरश्वमेधकर्मण्याराथु गिरिशमदीक्षत क्षितीशः ॥ ३१ ॥ अध्वर्युः समजानि तत्र कुम्भजन्मा होतृत्वं प्रतिगतमाश्वलायनेन । औद्गात्रं समधृत जैमिनिर्मुनीन्द्रो ब्रह्मासीद् बहुविदरुन्धतीसहायः ॥ ३२ ॥ प्रागन्तःकरणममुप्य केवलं ये प्राजानन् भुवि नवनीतनिर्मितं ते । अभ्यक्तं नवनवनीतचर्चिकाभिस्तं विज्ञा बहिरपि तन्मयं विजजुः ॥ ३३ ॥ १. अपरिगृहीतदेहभेदाद् अर्धनारीश्वरात्मकादित्यर्थः. २. चर्चिका समालम्भनम् .
शिवलीलार्णवे आबाल्यादातथिषु मुक्तहस्त एषः क्षमापालः किल मलयध्वजः प्रकृत्या । तज्जानन्नपि निखिलं निबद्ध्य मुष्टिं दीक्षासु क्षणमपि नासितुं शशाक ॥ ३४ ॥ अध्वर्यौ भगवति तत्र कुम्भजन्मन्यायज्ञं धरणिपतित्वमश्नुवाने । दुर्भिक्षं शिथिलमजायत द्विजानामाषाढाजिनतृणमुष्टिविष्टरेषु ॥ ३५ ॥ नीवारान् वपत कुशान् प्रवर्धयध्वं सिञ्चध्व खदिरपलाशबिल्वपोतान् । सद्यः सञ्चिनुत मृदूनि वल्कलानीत्यादिक्षन् नृपपुरुषानगस्त्यशिष्याः ॥ ३६ ॥ तस्मिन्नप्यददति पार्थिवे निषेधाद् यद् भुक्तं वसितमुपार्जितं च विप्रैः । दातारः स्म इति कृताग्रहाः समस्ताः शक्ताः किं शततममंशमत्र दातुम् ॥ ३७ ॥ भुञ्जानानपरिमितान् बहून् पदार्थान् भूदेवानधिसवनं निरीक्ष्य देवाः । भागं नः क्रतुषु विधाय विप्रलेभे पापीयान् विधिरिति मन्त्रयाम्बभूवुः ॥ ३८ ॥ तस्याने धरणिभुजः क्रियान्तराळेप्वातेनुः स्वयमृषयो बहून् विवादान् । न्यायानुश्रवपदसाङ्ख्ययोगतन्त्रप्रस्थानप्रवचनदेशिका महान्तः ॥ ३९ ॥ यद्यात्यन्तिकसुखदुःखहानिरूपं कैवल्यं कथमशपद् भवानहल्याम् । तादृक्षामुपलदशां श्रयेति कोपादित्यूचुः कतिचन गौतमं मुनीन्द्राः ॥ ४० ॥ कं दोषं कथयत सम्प्रसक्तदुःखव्यावृत्तिं फलमुपगच्छतां पुरो नः । अज्ञानक्षतिरुपले तवापि किं नेत्याचख्युः प्रतिपदभक्षपादाशप्याः ॥ ४१ ॥ अज्ञानाद्यदि परिकल्पितं जगत् स्यादज्ञानां प्रथमगणेय ईश्वरः स्यात् । निस्सीमा तव हि मतेऽस्य मूढतेति व्यासं प्रत्यकृषत केऽपि पूर्वपक्षम् ॥ ४२ ॥ अज्ञानं प्रकृतिमपेक्ष्य विश्वमेतत् सर्वज्ञे सृजति भवेऽपि यत् त्वयोक्तम् । अज्ञानं तदिदमनङ्कुशं तवैवेत्याचंख्युः सदसि तु बादरायणीयाः ॥ ४३ ॥ जातिश्चेद् भवति पदेषु साधुभावो भाषायं श्रुतिषु च स द्विधा कथं स्यात् । गेहे गौर्वनभुवि गर्दभः किमु स्यादित्युच्चैरपजहसुः परे पदज्ञान् ॥ ४४ ॥ अन्येऽन्ये श्रुतिषु जगत्सु चापि शब्दास्तद्भेदं निपुणमजानतां कृते वः । अस्माभिः स्फुटमनुशिष्टमात्तमौना वर्तध्वं पदपदवी दवीयसी वः ॥ ४५ ॥ अस्मद्ध्याकरणगृहीतशक्तियोगानस्मासु प्रथममिमान् प्रयुज्य शब्दान् । युक्तादीयत गुरुदक्षिणा किलेति प्रत्यूचुः प्रथमविपश्चितो विपक्षान् ॥ ४६॥ .
षष्टः सर्गः। ४१ हिंसातो यदि दुरितं ऋतुष्वपि स्यात् पुण्यं किं न भवति पारदारिकाणाम् । उत्सन्नं किल कुलमुद्धरन्त्यमी(ति व्याजकुः!) कपिलमते कळङ्कमेके ॥ १७ ॥ शास्त्रं चेत् किमपि तथास्ति साधयामो दुष्कृत्यैरपि सुकृतानि कात्र भीतिः । यूयं देवरवरणे यथा गृणीतेत्याहुः स्म प्रतिवचनानि तत्त्वनिष्ठाः ॥ ४८ ॥ योगाख्यं वदसि यमङ्गिनं समाधि तं ब्रूषे ननु कथमङ्गमष्टमं च । अङ्गाङ्गिव्यतिकरदुस्स्थितं मतं ते को गृह्णात्विति जगदुः परे फणीन्द्रम् ॥ १९ ॥ सामान्यं किमिह क इष्यते विशेषः को योगः क इव समाधिरित्यबुद्ध्वा । अर्वाचां व्यवहरतामयं प्रलापः साधीयानिति जहसुः पतञ्जलीयाः ॥ ५० ॥ आयास्यन्त्यनुपदमत्र हव्यहेतोर्नन्वस्मिन् महति मखे सुराः समस्ताः । तान् सर्वानपलपितास्यहो कथं वेत्याचख्युः कतिचन जैमिनि मुनीन्द्राः ॥ ५१ ॥ ये ह्युच्चावचमवजानते प्रपञ्चं मिथ्येति त्रिभुवनदेशिका महान्तः । तच्छिप्या वयमपि शक्तितो वदामेत्याहुम्तान् प्रति चतुरास्तु पूर्वतन्त्रे ॥ ५२ ॥ तत्थं द्विजसदसि प्रवृत्तजल्पे स्थेयत्वं स्वयमवलम्व्य भाषमाणः । दीक्षाहानुपंसदहानपि व्यतीतः सौत्येऽहन्यवतरति स्म पार्थिवेन्द्रः ॥ ५३॥ ये षट् त्रिः खदिरपलाशबिल्वरूपा यौ चोदुम्बरतरुजौ सराजुदालौ । ते यूपा अवतरतां दिवः सुराणां निश्रेण्यो भुवि निहिता इव व्यराजन् ॥ ५४ ॥ अमिष्ठे समुपनिबध्ध राजुदाले सन्नद्धं कुशरशनागुणेन गाढम् । सम्प्रौक्षन् हयमभितो महविजस्तं सिद्धार्थैरपि विधिगौरवेण मन्त्रैः ॥ ५५॥ आलब्धे शेमितृभिराश्वमेधिकेऽश्वे चन्द्राख्यं कलशभवः प्रगृह्य मेदः । शाखायां क्षणमुपसाद्य वेतसस्य स्रौवाग्रादखिलमवद्यति स्म होतुम् ॥ ५६ ॥ आश्राव्य स्वयमृषिराश्वलायिनीये याज्यान्ते हविरजुहोत् स्रुचो मुखेन । यज्ञेशे भगवति भावनाप्रकर्षाद् भूपालो जगदजुहोत् स तन्मुखेन ॥ ५७ ॥ अप्यन्तस्तिमिरहरं शरीरभाजामप्राप्यं जनुपि पुरातपोविहीनः । सौरभ्यं हविषि हुते समुजिहानं व्याजिघ्रन् सदास विपश्चितो महान्तः ॥ ५८ ॥ १. 'मी इत्याचख्युः' इत्येव महाकवेः पाठः स्यात् । तत्र प्रकृतिभावप्राप्तिमजानता तु केन• चिन्नूनमयमपशब्दपाठः कल्पितः । .२ उपसदहान् . उपसदिष्टिदिनानि ३. सुत्साया इदं सौत्यम् . ४. राजुदालः श्लेष्मातकः ५. शमितृभिः पशुविशासितृभिः. ३. याज्या होममन्त्र- विशेषः, * 'सिद्धान्तै' इति खपुस्तके पाठः.
४२ शिवलीलार्णवे बिभ्यत्सु श्रुतिमतिलङ्घय सम्प्रदातुं हव्यं तत्तदभिमतं द्विजर्षभेषु । पौरोडाशिकचरुपाशुकादिभागान् स्वीचक्रुः स्वयमपमित्य देववर्गाः ॥ ५९॥ चन्द्रे तु ज्वलनहुते हयस्य तस्मिन्नासन् ये सलिलमुचस्तदीयधूमात् । वर्षन्ति स्वयमधुनापि मौक्तिकानां व्याजात् ते तमिव कणीकृतं वमन्तः ॥ १० ॥ आगाता किल यजमानकामनानामुद्गीथावयवसमप्युपासनज्ञः । उद्गानं व्यतनुत जैमिनिस्तदानीमाकाङ्क्षन्नवंतरणं जगज्जनन्याः ॥ ६१ ॥ प्रत्यक्षं विबुधगणेप्वदत्सु हव्यं साकूतस्मितमवलोकितः सदस्यैः । सिद्धान्तं स दिविषदामविग्रहत्वं व्याचख्यौ कलहविपर्ययं महर्षिः ॥ ६२ ॥ देया भूरिह खलु दक्षिणेति शास्त्रं सर्वा भूरपि चतुरर्णवीपरीता । दत्ता नः क्षितिरमण! त्वयेति हृष्टा आशीभिः सदसि तमृत्विजोऽभ्यनन्दन् । ६३ ।। निष्क्रीय द्विगुणधनैः पुनर्धरित्री रक्षायामनधिकृतैर्द्विजैर्वितीर्णाम् । भूयोऽपि द्विजकुलसाच्चकार सर्वा स्वां लक्ष्मीमपि मलयध्वजो नृपालः ॥ ६४ ॥ राजर्षेरवभृथकर्म वाजिमेधे स्नातारः सहमुनयो वसिष्ठमुख्याः । तीर्थ तु त्रिशिखभवा सरोजिनी सेत्येकैकं त्रिभुवनपावनं तदासीत् ॥ ६५ ॥ तौ मित्रावरुणसुतौ मिथो विमृश्य ब्रह्मर्षी विदितसमस्तवेदितव्यौ । अम्बाया अवतरणाय काञ्चिदिष्टिं पुत्रीयां त्वरितमथोपचक्रमाते ॥ ६६ ॥ सङ्कल्पं व्यधित नृपः स यावदिष्टौ तावद् भुव्यवतरितुं शिवापि चक्रे । वैतानादुदयमुपेहि पावकादित्यादिष्टा स्वयममृतांशुशेवरेण ॥ ६७॥ सम्प्राप्तुं त्रिभुवनमातरं कुमारी सन्नद्धो ननु यजमान एव पल्या । इत्यग्नीदेवददुपांशु शासितारं पत्नीसन्नहनविधौ प्रचोद्यमानः ॥ ६८ ॥ प्रासीदज्जगदखिलं प्रदक्षिणार्चिः स्वीचके हविरनलः सुवर्णवर्णः । उत्तस्थौ नवलवलीविपाकपाण्डुधूमोऽपि स्फुरदरविन्दगन्धसान्द्रः ॥ ६९ ॥ तद् दिव्यं त्रिभुवनधाम धाम शैवं होतव्ये हविषि विभावयन् महर्षिः । उद्बोध्य क्षितिपमुदङ्मुखः स तिष्ठन् वैताने ज्वलति जुहाव हव्यवाहे ॥ ७० ॥ १. समुद्रशुक्तिष्विति शेषः. २. अविग्रहत्वं नाम न शरीररहितत्वम् । किन्तु कलहर- हितत्वमिति स्वसिद्धान्ताभिप्रायं वर्णयामासेत्यर्थः. ३. मित्रावरुणसुतावगस्त्यवसिष्ठौ. ४. स- बद्धो बद्ध उद्युक्तश्च. ५. अवददिति । वैधे पत्नीसन्नहने प्रस्तोतव्ये यजमानसनहनं तद्विपरीत पनपा कृतमिति सनदशब्दश्लेषालम्बनमनीधः सोपहासं वचनमिदम् .
षष्टः सर्गः। ४३ आज्याहुत्यभिपतनप्रवर्धमानादनेस्तत्क्षणमुदियाय कापि कन्या । उन्मीलत्कुवलयदामकोमलश्रीलावण्यामृतलहरीविवर्त्तमूर्तिः ॥ ७१ ॥ चूडासङ्घटितसुवर्णपद्मदामव्यामिश्रग्रथितविलम्बिमौक्तिकौघा । प्रालम्बालकनिकरान्तराललक्ष्यव्यावल्गच्छफरविलोललोचनश्रीः ।। ७२ ॥ कर्णाभ्यां मदनकराङ्गुलीयकामं ताटकं मणिखंचितं विभूषयन्ती । अव्याजस्मितभाणतान्तरालदृश्यप्रत्यग्रप्रसृमरदन्तकुन्दपङ्क्तिः ॥ ७३ ।। वक्रेन्दुव्यतिषजदेणभीतिहेतोर्वैयाघ्रं नखमाधिकन्धरं दधाना । त्रातुं त्रीनिव तनयान् विधीशविष्णूंस्त्रीन् वक्षोरुहवलयान् समुद्रहन्ती ॥ ७४ ॥ अभ्यग्रोन्मिषदमरद्रुपल्लवाभे कुर्वाणा कुवलयकन्दुकं कराग्रे । सौवर्णाम्बरविलसन्नितम्बबिम्बव्यालम्बिस्फुटमाणिमेखलाकलापा ॥ ७५ ।। अम्बाम्बेत्यमृत रसं गिरा किरन्ती मञ्जीरक्कणितमनोहरं चरन्ती । सा बाला स्वयमभजन्नृपालपत्न्याः पर्यत श्रुतिशिखरैः कृताभ्यसूयम् ॥ ७६ ॥ (कुलकम्) आलिङ्गन्त्यसकृदनुक्षणं स्पृशन्ती चुम्बन्ती मुखकमलं मुहुर्मुहुश्च । पश्यन्ती विकसितपक्ष्मभिः कटाक्षैस्तां बालामभजत निवृतिं न माता ॥ ७७ ॥ आनन्दत्रुटितविशर्णिकञ्चुकान्ताद् वक्षोजादथ मलयध्वजप्रियायाः । अन्वस्यन्दत मधुरं पयः प्रभूतं बिभ्रत्यास्त्रिभुवनमातरं कुमारीम् ॥ ७८ ॥ प्रेयस्या सविधमुपेत्य दीयमानामुत्प्लुत्य स्वयमुपगृहितुं पतन्तीम् । कन्यां ताममृतमयीमिवाददानः कैवल्यं धरणिपतिस्तृणाय मेने ॥ ७९ ॥ मार्जन्तावसकृदुपर्युपर्युदश्चबाप्पाम्भःप्रकरतरङ्गितानपाङ्गान् । अव्याजस्मितमधुराक्षरं कुमार्या द्रष्टुं तन्मुखकमलं न शेकतुस्तौ ॥ ८० ॥ न स्मत प्रमथपतिं न कर्मशेषं निर्वोढुं न च महतो मुनीन् प्रणन्तुम् । नान्योन्यं वदनमवेक्ष्य नन्दितुं वा दम्पत्योश्चतुरतया तयोर्बभूवे ॥ ८१ ॥ पश्यन्तावुरसि कुचाङ्कुरत्रयं तौ बालायाः किमपि समाकुलौ यदास्ताम् । पर्जन्यस्तनितगभीरमन्द्रघोषा वागेका नभसि तदा समुज्जजृम्भे ॥ ८२ ॥ तटातकां नाम तवात्मजामिमां पतिर्भविप्यन्नवलोकते यदा । तदा तृतीयं कुचमण्डलं त्विदं निमममन्तर्नियतं भवेदिति ॥ ८३ ॥ * 'रसां गिरम्' इति खपुस्तके पाठः.
शिवलीलार्णवे श्रुत्वा सुधारसकिरं गिरमभृतां तां निवर्त्य सर्वधनदक्षिणमध्वरं च । पाणौ दिशन् कुलगुरोः परदेवतां तां तत्पादयुग्ममुपसजगृहे सदारः ॥ ८४ ॥ हस्ते गृहीतां कलशोद्भवस्तामध्यात्मविद्यां मुनिमण्डलाय । आनन्दबाप्पैः पुलकाङ्कुरैरप्यनक्षरं केवलमाचचक्षे ॥ ८५ ॥ प्रशिथिलकलुषं प्रशान्तमोहं प्रमदतरङ्गपरम्पराधिरूढम् । जगदखिलमभूदभूतपूर्व मनुजकुलावतरे जगज्जनन्याः ॥ ८६ ॥ इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते शिवलीलार्णवे षष्ठः सर्गः। अथ सप्तमः सर्गः। अथ कलशभवः शिवस्य मेधाविभवविवर्त्तमयीमिमा कुमारीम् । मधु मधुरमपाययत् स मेधासमुपजनाय सकाञ्चनं सगव्यम् ॥१॥ उचितमुपनिवेशिताङ्कदेशे सुकृतिनि काञ्चनमालया सुता सा । अपरिचितचरी प्रवृत्तिमाद्यामलभत मातृकुचामृतोपयोगे ॥२॥ समजनि सुखिता कुमारिका सा सकृदुपधाय मुखं स्तने जनन्याः । वदनसरसिजं दृशा पिबन्ती न तु दुहितुर्जननी जगाम तृप्तिम् ॥ ३ ॥ अकृतकवचसा नभोविभागात् स्वयमुदितेन कृतं तटातकेति । क्षितिपतिरतनिष्ट नाम तम्यास्त्रिभुवनकर्णरसायनाक्षरं तत् ॥ ४ ॥ कनकरजतशृङ्खलावबद्धे मणिशयनीयतले महार्हतल्पे । मृदुनि समुपवेश्य तामगायन्नवनिपतेरवरोधगास्तरुण्यः ॥५॥ प्रचलति यमपेक्ष्य भारतेऽस्मिन् सकलमिदं शुभकर्म भूविभागे | अजनि महिभृतस्ततः किलेयं परमहिमालयतो यशोवदातात् ॥ ६ ॥ इयममृतमयी शरीरभाजां बहिरबहिर्भवतापतापितानाम् । कलमधुरविराविणी च वाणी करकमलोपगृहीतवल्लकीयम् ॥ ७ ॥ १. महिभृतो भूपतेः पर्वताच. २. परमहिमालयतः परस्य महिम्नः परमस्य हिमस्य चालयाद.
सप्तमः सर्गः। ४५ विहरसि यदि देवि ! जाग्रतीत्थं जगदखिलं कुशलं प्रकाशते नः । निमिषसि यदि निष्क्रिया भवामः प्रलय इवैष निमज्जति प्रपञ्चः ॥ ८॥ इति शिशुजनलालितानि गीतान्यवनिपतेरवरोधसुन्दरीणाम् । अनुजगदुरिवामरा निगूढाः प्रतिनिनदैः परमात्मभावदृष्ट्या ॥ ९ ॥ समधृत वलयानि सा 'कुमारग्रहपरिहारकृते महीमयानि । परिचयमिव कुर्वती भुजेन क्षितिवलयं सकलं सुखेन वोढुम् ॥ १० ॥ विहृतिषु पितरौ सपात्रहस्ताप्यतनुत सा भुजिना विनैव तृप्तौ । कथमिव भवति क्षुधा तृषा वा सकृदनुसन्दधतां तथाविधां ताम् ॥ ११ ॥ वियति विधुकला प्रदर्श्यमानां निभृतमवेक्ष्य नितान्तकौतुकेन । शिरसि कुसुममेतदर्पयेति प्रतिमुहुरालपति स्म बालिका सा ॥ १२ ॥ व्यजयत पदकिङ्किणीरवोऽम्या मणिभवनेषु ततस्ततश्चरन्त्याः । पदमिदमभितो विचिन्वतीनामुपनिषदामिव हर्षजः प्रणादः ॥ १३ ॥ अवददियमनन्विता इवार्थैरनुपहिता इव याः कथाः सखीभिः । कथमपि परमोपदेशदृष्ट्या जगृहुरिमा गुनयः सुराश्च गूढाः ॥ १४ ॥ कति कति कृतिनः कुरङ्गपोता विहरणसाधनतामवापुरस्याः । तरुषु पशुषु वा ध्रुवं जनिप्ये *तदहमहो समयः पुनर्व्यतीतः ॥ १५ ॥ ऋतुरवनिपतेरयं स तस्या यदुपजहार विहारसाधनानि । स च परमजपो यदन्ववादीत् कलमधुराणि मुहुस्तदीरितानि ॥ १६ ॥ भवनविनिहितेषु भक्ष्यभोज्येप्वहरत सा कपटेन यत् कुमारी । नवनवमपरिक्षयं च भूत्वा प्रकटमजायत सूक्ष्मदर्शिनां तत् ॥ १७ ॥ कतिचन किल कन्तुका महान्तो गुणसमुदायमया निसर्गशुद्धाः । अजनिषत कुतूहलाय देव्या निगमपथे चरतां निदर्शनाय ॥ १८ ॥ श्रुतिषु निहितदृष्टयोऽन्यविद्या भगवति शूलिनि ताः स चादिशक्तौ । कचिदपि किल कन्तुके तु सापीत्यजनि मनागपि योगिनामसूया ॥ १९ ॥ कतिपयदिवसैः कथासु गीतेष्वजनि पटुघुटिकासु कन्तुकेषु । इति रहसिं कथा बभूव पित्रोर्दुहितरि विश्वविधानमातृकायाम् ॥२०॥ + 'कुमारी' इति खपुस्तके पाठः. * 'तदयम्' इति खपुस्तके पाठः, ४६ शिवलीलार्णवे विहृतिषु नयने पिधाय तस्याः स्वयमभितश्चरितुं कृतोद्यमानाम् । त्रिजगति तिमिरावृते सखीनामपि चलितुं स्वपदान्न शक्तिरासीत् ॥ २१॥ अथ कुलगुरुमादिदेश मित्रावरुणसुतं मलयध्वजो नृपालः । दुहितुरखिललोकमातृकाया विरचयितुं किल मातृकोपदेशम् ॥ २२ ॥ निखिलजनिमतां सदा लिखन्ती निटिलतलेपु शुभाशुभाक्षराणि । अलिखदपरिजानतीव बाला कथमपि सा भुवि वर्णमेकमेकम् ॥ २३ ॥ अथ भुवि विलिखन्त्यचं तुरीयं कलशभवस्य मुनेः पुरः कुमारी । सदयमुपदिदेश भक्तियोगात् प्रणमति कामकलारहम्यमस्मिन् ॥ २४ ॥ निरवधिपरमात्मचिन्मयी सा किमपि यदा निदधे कलासु दृष्टिम् । अहमहमिकया तदा परीयुः सकलकलाश्च सखीजना इवैनाम् ॥ २५ ॥ विदितमविदितं च यत् किलासीत् प्रथममजातमुखात् गृहीतमैशात् । तदखिलमवधारयन्नमुप्याः कलशभवो गुरुदाक्षणां प्रपेदे ॥ २६ ॥ असिकुलिशगदाशरासशक्तिभ्रमरकतोमरभिण्डिपालशूलैः । प्रकटितरणकौशलाः खुरल्यां सममिव सा विजहार वीरलक्ष्म्या ॥ २७ ॥ उपनिषदुदिता मतङ्गजा सा प्रियदुहिता मलयध्वजस्य राज्ञः । मदभरभरितान् मतङ्गजेन्द्रान् सहजतया वशमानिनाय सद्यः ॥ २८ ॥ हयवरमधिरुह्य सञ्चरन्ती खुरदळितक्षितिळिधूसराभ्रम् । अवतरणमनक्षरं जगौ सा निजमिव भूमिभरावरोपणार्थम् ॥ २९ ॥ कवचितमवधूतखड्गरेखं नियमितवेणिनिबद्धतूगमन्वक् । कतिचन कृतिनः सिषेविरेऽस्यास्तुरगरजोमसृणाळकं वपुस्तत् ॥ ३० ॥ अथ शिथिलकुमारिका दशान्तप्रविरळकन्दळ ताभिरूप्यम् । अलमकुरुत यौवनं तदानीं त्रिभुवनमङ्गलमङ्गमङ्गमस्याः ॥ ३१ ॥ हृदि किल निममज यावदन्तः प्रसवशरो मलयध्वजात्मजायाः । पिशुन इव स तावदुन्ममज स्तनकलशस्तु हृदो बहिस्तदीयः ॥ ३२ ॥ १. ईकारम् . २. शस्त्रशिक्षणशाला खुरली. 'दशान्तम्' इति कपुस्तके पाठः.
सप्तमः सर्गः। शिथिलमनुससार बाललीलां विरळमपि प्रकटीचकार लज्जाम् । अनयदियमहानि पञ्चषाणि प्रतिनवयौवनमारुतावधूता ॥ ३३ ॥ वचसि विसिते गतेऽवलोके वपुषि च कापि दशा क्षणे क्षणेऽस्याः । समजनि मदनैकदर्शनीया मदनजिदेकमनोविभावनीया ॥ ३४ ॥ परिविगलति शैशवे प्रवृत्ते तरुणिमनि प्रतिपन्नसर्वतत्त्वा । अजनि पितुरमात्यताधुरीणा परमगुरुश्च परात्मचिन्तने सा ॥ ३५ ॥ दुहितरि नृपतिस्तटातकायां धुरमुभयोरपि लोकयोर्निवेश्य । भवभमरगणादिवापवर्गादपि परमं गणयन्नहान्यनैषीत् ॥ ३६ ॥ मुमतिमभिधयार्थतोऽपि देवः कुलसचिवं निकटे निवेश्य जातु । हृदयगतमिदं समाचचक्षे सविधजुषोः सहधर्मिणीकुमार्योः ॥ ३७ ॥ स्मरास न सुमते ! यथा गुरुर्मामशिष दिमां श्रियमर्पयन् मयि प्राक् । अपहतविमतां भुवं समानामयुतमिमामनुपालयेति हृष्टः ।। ३८ ॥ इदमवितथयाशिषा गुरूणां तव च धिया धृतमित्थमाधिपत्यम् । अयुतमपि समाः समाप्तिमीयुः कुलमपि कुम्भभुवेदमुद्धृतं नः ॥ ३९ ॥ वसति च शिशुतामतीत्य वत्सा वयासि महीवलयानुपालना । अयमपरिणतो मनोरथो यत् कलितकरग्रहमङ्गळा तु नेयम् ॥ ४० ॥ दिवि भुवि धरणीतलेऽपि वास्याः पतिरुचितो न हि कोऽपि भासते नः । तमिममपि मनोरथं मीयं सफलयिता न चिरेण चन्द्रमौलिः ॥ ४१ ॥ अहमिव हितचिन्तने त्वमस्या भवसि च राज्यविधौ परः सहायः । भवति च जननी तटातकायाः परिणयकणि भाविनि स्वतन्त्रा ॥ ४२ ॥ अधिगतमधिगम्यमीश्वराणां कुलमपि वीक्षितमुद्धृतं कुमार्या । मम तु खलु मनोरथोऽयमेको यदुत लभेय पदं जगज्जनन्याः ॥ ४३ ॥ इति वदति महीपतौ महिप्यां तदनुगमाध्यवसायविज्वरायाम् । अगणितगुरुशोकसम्प्रमूढावथ सुमतिश्च तटातकाप्यभूताम् ॥ ४४ ॥ कथमपि शिशिरोपचारभेदैरलभत संविदमम्बिका न यावत् । चुलकित चतुरर्णवो महर्षिः स्वयमभिगम्य स तावदित्थमूचे ॥ ४५ ॥ १. भव शिवं ससारंच.
शिवलीलार्णवे जय जननि! जय त्रिलोकवन्ये ! जय गलितावरणात्मचित्स्वरूपे!। किमिह मनुजताभिनीतिमात्राद् भवति तमोभिभवः परस्य धाम्नः ॥ ४६ ॥ अभिनयमवधूय मानुषीणामवसितकल्पमलं प्रपन्नमेनम् । त्वरितमनुगृहाण तीव्रपातैर्मलिनिमभङ्गनिरङ्कुशैरपाङ्गैः ॥ ४७ ॥ नियमय जननीं दुरूहरूक्षा परिणयकर्मणि ते प्रदानहेतोः । स्वमृणमियमपाकरोतु गौरीवितरणपुण्यसमुच्चयेन भर्तुः ॥ ४८ ॥ इति कलशभवेन बोधिता सा जगदरणिर्जनकं चिरात् प्रपन्नम् । अमनुत परमे पदे निधातुं सुलभामयाच्छूितरक्षणं हि तस्याः ॥ ४९ ॥ प्रपदनपदवीजुषां जनानामनुपरतेऽप्यपवर्गदानसत्रे । किमिव हि जनके कृतं मयासीदिति हृदि सा किल जियाम्बभूव ॥ ५० ॥ प्रवससि यदि तात! हा हताहं न गणय वत्स! भयं कुतश्चनेति । व्यतिकरितपरावरात्मभावा व्यवहरति स्म परापि देवता सा ॥ ५१ ॥ भुवमथ भुजयोः श्रियं दृगन्ते चरणयुगे हृदयं च जीवितं च । विनिदधदयमात्मदेवताया विगतभयो मलयध्वजोऽवतस्थे ॥ ५२ ॥ अथ दुहितुरनुग्रहेण तस्मिन् प्रविशति गर्भगृहं शशाङ्कमौलेः । निभृतमवलुलोकिरे समस्तास्तदनु च तत्र महेशलिङ्गमात्रम् ॥ ५३ ॥ चिरपरिचितभर्तृविप्रयोगव्यसनपराहतिमूर्च्छिता सवित्रीम् । स्वयमपि परिरभ्य खिद्यमानां कलशभवः पुनराम्बिकां बभाषे ॥ १४ ॥ किमिदमनुचितं पुनः प्रवृत्तं कियदियता भविता न दुःखमस्याः । अपनय तमसा कृतं जनन्यामलमभिनीय मनुष्यभूमिकां स्वाम् ॥ ५५ ॥ यदि भवसि शिवे! जगच्छरण्या यदि च भवद्वचनानि वेदवादाः । * त्वयि कृतमनसि त्वयि प्रलीने पितरि च ते किमु सन्ति शोचितारः ॥ ५६ ॥ इति विदितपरावरेण देवी कलशभवेन महर्षिणानुनीता । अखिलकलुषभञ्जनैरपाङ्गैरनुजगृहे सुमतिं च मातरं च ।। ५७ ॥ तदनु भुवनमङ्गले मुहूर्ते प्रकृतिभिराप्तजनैः पुरोधसा च । सविधमुपगमय्य चन्द्रमौलेर्मणिखाचते निदधे वरासने सा ॥ ५८ ॥ + 'अधि' इति खपुस्तके पाठः,
सप्तमः सर्गः।
पशुपतिरथ पाण्ड्यकन्यकायै विचकिलपुष्पमयीं वितीर्य मालाम् ।
पुनरपि स तया समर्म्यमाणां हृदि चकमे निभृतं मधूकमालाम् ॥ ५९ ॥
कियदपि समवाप्य यत्कटाक्षं क्षितिपतयो भुवने पराक्रमन्ते ।
न्यविशत यदि सैव वीरलक्ष्मीपतिपदे न कथं नमन्तु भूपाः ॥ ६ ॥
अवनिरफलश्रुतानि सस्यान्यददुरपां निधयो मणीन् महान् ।
उपददुरुचितान् गजान् वनान्ता भुवि समये समये ववर्ष च द्यौः ॥ ११ ॥
न यदतिचरितं जनेषु केनाप्यपरिमितं ननु भाग्यमेतदस्याः ।
त्रिभुवनजननी कृतापराधं कमिव नियच्छतु सा कथं दयार्दा ॥ ६२ ।।
अवनितलमवन् गुरुः किलास्याः प्रशमयति स्म नृणां परं विवादम् ।
त्रिभुवनजनताविवादशान्तिः परिणमति स्म सदैव हन्त तस्याम् ॥ ६३ ।।
नृपकरमखिलं वितीर्य शिष्टं यदिह शिवाय निरुप्तमस्ति किञ्चित् ।
तदपि ननु हरन्ति तावकीना इति वचनेषु जहास सा जनानाम् ॥ ६४ ॥
अहमहमिकया दिशोऽधिगन्तुं परिचलतां यशसां मिथो विमर्दात् ।
पथि पथि निभृतानि कानिचित् किं रजतहिमाद्रिमिपाद्यशांसि तस्याः ।। ६५ ॥
कर इति हि जहार षष्ठमंशं परमखिलं तु शिवार्पणैकवुद्ध्या ।
स्वयमुपददिरे त एव चेत् तत् कथमिव कोशसमृद्धिरस्तु नास्याः ॥ १६ ॥
श्रियमखिलधनाकरेषु वाणी विशयपदेषु महानसेऽन्नपूर्णाम् ।
करितुरगपदषु वीरलक्ष्मी न्यधित सखीरधिकारिणीस्तदा सा ॥ ६७ ॥
धनकनकमतङ्गजादिलक्ष्म्यो धृतवपुषः सकलाः कलाश्च तस्याम् ।
अदधत परिचारिकाधिकारं त्रिभुवनमातरि राज्यपालिकायाम् ॥ १८ ॥
अनुसमयमशेत यद्यपीयं तदपि सदैव तु जागराम्बभूव ।
परिहृतनिमिषेण पाण्ड्यकन्या तपनशशाङ्कमयेन दृग्द्वयेन ॥ ६९॥
अथ नृपतिसुतां कृताभिषेकां विमतजयव्यवसायिनीं विधातुम् ।
शरदुपनिपपात शोषयन्ती पथि पथि पङ्ककळङ्कितान् प्रदेशान् ॥ ७० ॥
तरुगिरिमरुसागराविशेषं जगदखिलं जलरूपतां नयन्तः ।
समुपचितयशोभरा इवासन् सलिलमुचो विमलाः समन्ततोऽपि ॥ ७१ ॥
शिवलीलार्णवे . परािमतपयसः प्रशान्तघोषाः परिगणनीयतटिन्नटीविलासाः । यदि सलिलमुचोऽपि ते बभूवुः किमिव हि विश्वसिमः स्थिरं जगत्याम् ॥ ७२ ॥ अजनिषत हि येऽभिनन्दनीयाः म्तनिततटिजलमेघमारुताद्याः । शरदि तनुमतां त एव निन्द्या ननु समयानुगुणा गुणाः प्रजानाम् ॥ ७३ ॥ शिशिरितमवनीतलं समृद्धं विपिनमपूरिपताशया जलानाम् । विरमति जलदेऽपि कम्य हानिः परमिह केचन चातकाः प्रनष्टाः ॥ ७४ ॥ क्षितितलमभिपूर्य वारिपूरैः किसलयिता विरचय्य वृक्षजातीः । किमपि फलमनाप्य नष्टमत्रैः फलभुगयं पुनराविरास कालः ॥ ७५ ॥ घनतिमिरमुखादनेन मुक्ताववतरतैव यदर्कशीतभानू । तत इव शरकोरकापदेशाद् दिशि दिशि कीर्तिरनेहसो जजृम्भे ॥ ७६ ।। कथमपि परिभूय मेघबन्धं कियदिव कन्दलिते सुधामयूखे । अलिकलभमुखेन हर्षवार्ता व्यचलदिवोत्पलिनीकुमुद्तीनाम् ॥ ७७ ॥ अतिषिततमवर्तताम्बुसत्रं सलिलमुचां शरदा निवारितं तत् । उदभवदियमेव कीर्तिरम्याः किमिव यशोऽन्यदतिप्रसङ्गभङ्गात् ॥ ७८ ॥ विरमति सति दुर्दिनेऽर्कचन्द्रावनुभवतामभवन्मुदम्तदास्ताम् । गगनमपि निरीक्ष्य निष्कलङ्क कियदिव हन्त शरीरिणोऽभ्यनन्दन् ॥ ७९ ॥ मधुरविमलवारि मत्तभृङ्गं परिणतशालि परास्तपङ्कलेशम् । किसलयितवनं समोप्णशीतं क्षितितलमेव दिवोऽपि भोग्यमासीत् ॥ ८० ॥ कणिशकवलनोपजातगर्वाः कलनिनदोपहृतामृताः शुकौघाः । समजनिपत सङ्घतश्चरन्तो मदनविसारितवागुरा इवाभ्रे ॥ ८१ ॥ प्रभवति नलिनी प्रसेदुरापो विमलतरा विललास चन्द्रिकेति । जहषुरतितरां जना यदेपा विरहिजनस्य विपत्परम्परासीत् ।। ८२ ॥ सविधगतपचेळिमेरुपर्वप्रसृमरमौक्तिकपातकान्दिशीकाः । दिशि दिशि शुकशारिका अधावन् पेरि परिशालियवाप्रियगुदेशान् ॥ ८३ ॥ १. अलिकलभमुखेन भ्रमरश्रेष्ठमुखेन. २. लक्षणेत्थम्भूताख्यानेति (१-४-९०) लक्षणे क- मप्रवचनीयः परिः. ३. पारेगताः शालियवप्रियङ्गयो धान्यविशेषा येषु ते परिशालियवप्रिय- झवः. ते च ते देशाश्चेति तथा तान् .
अष्टमः सर्ग:
कमलवनमुपाश्रिता जरन्तः करिकटभित्तिमुपस्थिता युवानः ।
इति मधुपगणा द्विधा विभिन्ना अपि खलु कर्मकराः समं म्मरस्य ॥ ८४ ॥
चिरपरिमुषितप्रदेशचिह्नाः समुपगताः सरसीः
पुनश्च
हंसाः ।
कथमपि रसवर्णगन्धभेदैनिजानिजमम्बुजकोशमभ्यजानन् ।। ८५ ॥
अतिविमलमयत्नशीतमम्भः स्फुरदरविन्द सुगन्धयः समीराः ।
निरुपधिकरुणामयी च राज्ञीत्यजनि जनेषु परम्परा शुभानाम् ॥ ८६ ॥
तत्तन्नृपालपरिपालनसम्प्रसूत-
मालिन्यमार्जनसमुज्जलितां धरित्रीम् ।
भूयः स्वयं विमलयन् समयः प्रसाद
मन्ये चकाङ्क मलयध्वजकन्यकायाः ॥ ८७ ॥
इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते
शिवलालार्णव सप्तमः सर्गः ।
अथाष्टमः सर्गः।
जाताचित् तदनु पाण्ड्यकुमारी चित्रिते सदसि रत्नगणेन ।
दर्शनैरपि च पड्भिरलभ्यं दर्शनं निजमदात् प्रकृतीनाम् ॥ १ ॥
तापसा द्विजवरा धरणीशा बन्धवः परिजना भटमुख्याः ।
पौरजानपदवन्दिगणाश्च प्राविशन् सदसि तत्र विचित्रे ॥ २ ॥
तान् यथायथमथोपचरन्ती सा प्रणामवचनम्मितदृग्भिः ।
अक्षमामजनयत् त्रिदशानां मानवेषु मघवत्प्रभृतीनाम् ॥ ३ ॥
वीज्यमानमभितो युवतिभ्यां चामरद्वयमदृश्यत तस्याः ।
यत्परत्वमथ यत्सुलभत्वं तद्यशोयुगमिवातिविशुद्धम् ॥ ४ ॥
छत्रमेकतरमुछूितमस्या मूर्ध्नि तेन शिशिरं जगदासीत् ।
एतदत्र हि निदर्शनमेषा यत् प्रपञ्चवपुषा परिणेमे ॥ ५ ॥
शिवलीलार्णवे अस्तुवन् वचन वन्दिगणास्तामस्तुवन्नपरतः श्रुतिसङ्घाः । आद्यमत्र जगृहुर्गुणवत्त्वात् सर्व एव न परं तेदभावात् ॥ ६ ॥ सा विसृज्य सकलानपि लोकानानिनाय परमाप्तसखीभिः । मातरं रहसि काञ्चनमालां मन्त्रणाय सुमतिं सचिवं च ॥७॥ सन्निवेश्य जननी निजपीठे सा च तच्चरणपीठनिषण्णा । मन्त्रिणा सुमतिना जयहेतोर्मन्त्रमित्थमममन्त्रत बाला ॥८॥ यः किलानुशरदं विजयार्थी पार्थिवं त्वरयसे गमनाय । स प्रवर्त्तयसि मां न कथं त्वं बालिकेयमिति किं विशयानः ॥ ९ ॥ बालिकास्म्यनवगाढरणास्मि प्रत्युतोपनिहितास्म्यवरोधे । आशिषा तदपि तावदमुप्यास्त्वद्धिया च विजयाय यतिष्ये ॥ १० ॥ मैवमालप कदाचन वत्से! मन्त्रिणा सुमतिना विजयो नः । स त्ववैति समयोचितमर्थ समित्यभिदधे जननी ताम् ॥ ११ ॥ स स्म तां सुमतिराह कुमारी सस्मितां मृदुतया जनयित्र्याः । संस्मरन् गुरुमतीतममुप्या बाष्पगद्दपदं विनयेन ॥ १२ ॥ देवि! मे निगदतः शृणु वत्से! यत् त्वमात्थ मयि सानुजिघृक्षा । तत् तथैव परथा न कथञ्चिद् वेदवादसुहृदो हि गिरस्ते ।। १३ ॥ सत्यमेव विजये यतितव्यं साधनं प्रथममत्र विपक्षः । मार्गयेऽहमपि नोपलभे तं न व्यजिज्ञपमतस्त्वयि किञ्चित् ॥ १४ ॥ इत्थमुक्तवति मन्त्रिवरेऽस्मिन् कुम्भभूः स्वयमुपेत्य महर्षिः । आशिषो बहुविधा विरचय्य व्याजहार मलयध्वजकन्याम् ॥ १५॥ साधयिष्यसि कैरग्रहणं त्वं सर्वथा चलतु ते जययात्रा । भूरियं भवतु पुण्यतमा ते पावनीभिरभितो भ्रमणीभिः ॥ १६॥ इत्युदीर्य जयनाम्नि मुहूर्ते तां प्रवेश्य सबलामुपशल्यम् । तत्करग्रहमहोत्सववीक्षाकौतुकी स मलयं विजगाहे ॥ १७ ॥ सज्जितैव पृतना सकलेयं किन्त्विमा निशमिह व्यतिलय । श्वः प्रयाहि विनिवर्त्य निवर्त्यानित्युवाच सुमतिर्जननी ताम् ॥ १८ ॥ १. परं श्रुतिसङ्घस्तवनम् . २. तदभावश्च निर्गुणवस्तुपरत्वाद्. ३. करग्रहणं राजभागप्रहणं परिणयं च.
अष्टमः सर्गः। पार्श्वमुत्तरमपि त्रिदशाद्रेः सा प्रयास्यति यतो विजयाय । तन्निरीक्षितुमिव प्रथमं तं प्रस्थितो दिनकरश्चरमाद्रौ ॥ १९ ॥ निप्पतन्नपि रविश्वरमाब्धावुद्दधार किरणाननुयातान् । ईदृशं व्यसनमस्पृशतः किं लोकबन्धुरिति जीर्यति शब्दः ॥ २० ॥ निर्ममज्ज न जले कति वारानुन्ममज्ज न पुनः कति वारान् । अद्य भास्वति मिमङ्गति विप्रैरर्पिता बत जलाञ्जलयोऽपि ॥ २१ ॥ नाधुनापि कथमस्तमुपैतीत्याकोपपरिपाटलकोणः । वीक्षितो नु नयनैस्तरुणीनामंशुमानरुणिमानमयासीत् ॥ २२ ॥ कर्षणादुपलकण्टकदुर्गेष्वन्तरा शिथिलितास्त्रुटिताश्च । + अंशवः कतिचिदंशुमतः किं सान्ध्यरागमपदिश्य निषेदुः ॥ २३ ॥ पश्चिमाचलगुहासु निलीनैः प्रार्थिता नु तिमिरैर्बलवद्भिः । सान्ध्यरागनिभतो दिनभर्तुर्भानवः कतिपये पाथ लग्नाः ॥ २४ ॥ अध्वखेदशिथिला जरढा ये भानवो दिनमणेः पथि लग्नाः । दीपिकाहुतभुजामनुसायं तेऽभवन्नतिथयो भवनेषु ॥ २५॥ ये सहैव पतिताः पतताब्धौ ये च दूरतरमेव निवृत्ताः । ते द्वयेऽपि सदृशा दिनबन्धोरीदृशः प्रभवतामविवेकः ॥ २६ ॥ सङ्कुचन्नवदलाररमूलस्थानदत्तमधुपोपलखण्डाम् । अम्बुजोदरकुटीमपिधाय श्रीरपि स्वयमितो निरयासीत् ॥ २७ ॥ आप्रभातमपि नर्तितुकामा व्योमरङ्गभवनेऽवतरन्ती । किं निशैव विचकार समन्तादञ्जलीनुडुनिभात् कुसुमानाम् ॥२८॥ मेजतीव न ममज दिनेशो नांशवोऽस्य निखिलाश्च निवृत्ताः । क स्थितानि मिलितानि कुतो वा तावदेव तिमिराण्यभिवत्रुः ॥२९॥ आकलय्य धनुराकलितज्यं तस्थुषः सवयसो मदनस्य । अञ्चले निशितमादिममस्त्रं चन्द्रमा मुकुलनेन चकार ।। ३० ॥ १. प्रार्थिता युद्धायाहूताः. २. मजनक्रिया तावदभिनिर्वर्तत एव, न त्वभिनिवृत्तेत्यर्थः. + इदमर्धमारभ्यैकचत्वारिंशश्लोकान्तो ग्रन्थः खपुस्तके न लिखितः,
शिवलीलार्णवे
सर्वरात्रमपि सा जनयित्र्या सल्लपन्त्यविरलं शफराक्षी ।
पञ्चषक्षणमितामिव मेने ताम्रचूडनिनदेन तमिस्राम् ॥ ३१ ॥
आज्ञया स सुमतेरधिसैन्यं ताडितो विजयदुन्दुभिरम्याः ।
आरवैर्जलदनादगभीरैरावृणोदिव दिवञ्च भुवञ्च ॥ ३२ ॥
निर्जराः किमपि पाणिविहारैः पन्नगास्तु पुनरक्षिनिकोचैः ।
तैयैरपि नरा व्यवजह्वस्तद्रवैर्मुखरिते जगदण्डे ॥ ३३ ॥
उच्छूितध्वजमुपस्थितयोधं सज्जवारणतुरङ्गशताङ्गम् ।
सन्ननाह सकलं बलमस्यास्तूर्यघोपमुखरं निमिपेण ।। ३४ ॥
दिग्जयाय कृतमङ्गलरक्षा सा त्रिलोकजननी जनयित्र्या ।
निर्जगाम शिबिकामधिरूढा सम्प्रचाल्य सकलं बलमग्रे ॥ ३५ ॥
अग्रतो भटगणैरथ वाहैः कुञ्जरैरथ रथैरथ भृत्यः ।
सौविदल्लनिकरैरथ तस्या दूरतः प्रचलितं शिबिकाग्रे ॥ ३६ ।।
राजचिहनिवहैर्मणिवेत्रैर्वलकीडमरुवेणुमृदङ्गैः ।
गद्यपद्यपठनैरपि सेवां सुभ्रुवो विदधिरे धुरि तम्याः ॥ ३७॥
अग्रतश्चलदसंख्यतुरङ्गोघृतभूतलरजःस्थगितार्के ।
दिक्तटेऽपि बुबुधे सरणिः स्वा तद्वलेन पवनैरनुकूलैः ॥ ३८ ॥
सैन्धवैधुरि समुद्गमिता ये पांसवो दश दिशः परिवत्रुः ।
तानशीशमदिह द्विरदानां दानशीकरकिरः श्रुतिवातः ॥ ३९॥
विश्लथेषु शरदागमयोगाद् विप्वगक्षत पयोदकुलेषु ।
शातमन्यवशरासनखण्डं हस्तलभ्यमिव हस्तिपकानाम् ॥ ४० ॥
दंशितस्तुरगबद्धनिषङ्गो बाणपाणिरधिरोपितचापः ।
आप्तसैन्यसहितः सुमतिस्तामन्वयाच्चरमतः शरपाते ।। ४१ ।।
उद्गृहीतविहितैरुपहर्वत्रपातचकिताः कृतसङ्घाः ।
आकुमारमवलोकयितुं तां प्रस्थितां प्रकृतयः परिवत्रुः ॥ ४२ ॥
मुग्धसल्लँपनकौतुकभूम्ना मन्दचालितमणीशिबिका सा ।
सम्प्रवादमशृणोदिति तासां ग्राम्यभावपिशुनं विहसन्ती ॥ ४३ ॥
पश्य ! कालि! मलयध्वजकन्यां कुब्जिके! जनकवन्मुखमस्याः ।
ज्यायसी हि दुहितुर्मम मासैः पञ्चषैरियमहो शिशुरेव ॥ ४४ ॥
अष्टमः सर्गः। चण्डवातविगमादनु जाता नन्वियं तुरगकर्मणि राज्ञः । कीदृशी चतुरता पुनरम्याः कीदृशस्तु भविता गृहमेधी ॥ ४५ ॥ सन्ति नः शतमजा दश गावः पञ्चषाश्च महिषा दयया ते । गव्यमेतपदुपयुक्ष्व कदुप्णं दूरमम्बुतृषितासि पथि त्वम् ॥ ४६ ॥ अस्ति पर्युषितमस्ति यवागूः सन्ति वंशशकलाापदंशाः । शीतमुष्णमपि वा पिब कामं गच्छ पुत्रि! न पुन स्तृषिता त्वम् ॥ ४७ ॥ प्रार्थयेमहि वयं भवदथै कुकुटेश्च पशुभिम्सह देवीम् । गच्छ पुत्रि! सुखिनी पुनरेहि त्वां कथं नु मुमुचे जरती सा ॥ ४८ ॥ किं त्वमेव मलयध्वजकन्येत्यालपन्त्यभिमृशन्ति करात्रैः । आशिषश्च ददते शतशो याम्ता यथायथमुपाचरदेपा ।। ४९ ॥ यत्र यत्र परिपश्यति बाला पादपान् क्षितिभृतः सरितो वा । तत्र तत्र निभृतार्पितदृष्टिः कौतुकेन पथि सा चिरमासीत् ॥ ५० ॥ तावती किल चमूरपि तस्याः पांमुले पथि शनैः प्रचलन्ती । पार्श्वतो न निदधे पदमात्रं पात्रमध्यपतिता तटिनीव ॥ ५१ ॥ नाददे पथि फलानि न चेचन् का कथावतरणे कलमेषु । पुप्पगन्धमपि मारुतनीतं जिघ्रति म्म पृतना चकितास्याः ॥ ५२ ॥ किं धमेम जलधीन् मुखवातैः किं क्षिपेम नखरैगिरिकूटान् । इत्यखण्डितचलद्रणकण्डूदुर्मदेरगाणि तत्र चमूपैः ॥ ५३ ॥ यावदम्बरमाणर्दिनमध्यं नाधिरोहति सुदुर्विपहोप्मा । तावदेव सुमतिर्हृदयज्ञो विश्रमाय बलमादिशदस्याः ॥ १४ ॥ नाळिकेरपनसक्रमुकामस्पर्धमानकदळीचवणायाम् । तीरसीमनि कवेरसुतायास्तद् बभूव शिविरं शफराक्ष्याः ॥ ५५ ॥ प्राग्गतैरधिकृतैः प्रविभज्य स्थापितेषु पटवेश्मसु तस्मिन् । स्वं +स्वमेत्य विजयध्वजाचह्न निर्विवादमविशन् बलमुख्याः ॥ ५६ ॥ विस्तृताभिरभितो विपणीभिर्वेश्मभिश्च विपुलैः सकलानाम् । अन्वयादिव पुरी मधुरैव स्वामिनी पटनिकेतमयी ताम् ॥ ५७ ।। 'क्षुधि' इति खपुस्तके पाट:. "सङ्कु' इति खपुस्तके पाठः. + 'समीक्ष्य' इति खपुस्तके पाठः. * शिवलीलार्णवे स्वेदरज्यदलिकान्तनिमज्जळूसराळकतयाधिकदृश्यम् । आननं विकसितेक्षणमस्या ध्यानमङ्गलमभूद् भुवनानाम् ॥ ५८॥ सावतीर्य शिबिरप्रतिहारे सौनिकान् समनुगृह्य कटाक्षैः । कल्पितं सुमतिना बहुकक्ष्यं पाण्डरं पटगृहं प्रविवेश ॥ ५९ ॥ आवृतं बहुभिरावरणैस्तद् दीर्घिकोपवनशोभितमन्तः । सा मणीकलशसम्भृतमुच्चैर्दर्शितं सुमतिना विलुलोके ॥ ६० ॥ अत्युदारमवबद्धवितानं क्लप्तमञ्चमुपबर्हविशोभि । धूपितं कुसुमदामसुगन्धि प्राविशच्छयनमन्दिरमम्बा ॥ ६१ ॥ यत् सहस्रदलमागमगम्यं पङ्कजं विमलचिन्मयमस्ति । न्यश्चितं तदिव कौतुकहेतोः पाण्डरं पटगृहं शुशुभेऽस्याः ॥ ६२ ॥ सा निविश्य मृदुले शयनीये सविसृज्य सुमतिं शुभयोक्त्या । अध्वखेदमवरोपितभूषा सल्लंपन्त्यपजहार सखीनाम् ॥ ६३ ॥ विश्रमय्य बलमेतदुपेतं सन्निपात्य च चमूमनुयान्तीम् । : श्वो निषद्य सुखमत्र परश्वो याम इत्यभिदधे सचिवेन ॥ ६४ ॥ संवृते पयसि सह्यपुताया भित्तिभिर्नवदुकूलमयीभिः । क्लप्तमज्जनविधिः सवयोभिः +सोपसज्य विजहार कुमारी ॥६५॥ मुक्तपल्ययनविश्रमिताश्वं सस्तबन्धसुखितद्विपसङ्घम् । खातपीतसुखसुप्तभटं तच्छासनेन सुमतेर्बलमासीत् ॥ ६६ ॥ सापरेधुरधिरुह्य तुरङ्ग सञ्चरन्त्यवनिपालकुमारी । तृप्तिमाप न कवेरसुतायाः कामनीयकमवेक्षमवेक्षम् ॥ ६७ ॥ तत्प्रतीरभुवि करतरूणां हस्तलभ्यमुपयुज्य फलाम्भः । निर्जरा विधुकलामृतभागानापिबन्ति सकृदौषधरीत्या ॥ ६८ ॥ तजलं निपतितं कचिदन्तः स्तब्धमास्त किल यत्र पयोधेः । तत्प्रदेशविषयस्तनुभाजामिक्षुसारजलधिन्यवहारः ॥ ६९ ॥ सा वहेत यदि सर्वपथीना किं न सा त्रिपथगार्धममुष्याः । अर्थमेनमवन्य जनास्तामर्धजहुतनयेति गृणन्ति ॥ ७० ॥ "भिकतरालक इति खपुस्तके पाठः, + 'पभुज्य' इति कपुस्तके पाठ अष्टमः सर्गः। तामगस्त्यगृहिणीं परिणम्रां तत्र सिन्धुवपुषा गृणती सा । नन्वियं भवति नो गुरुपत्नीत्यादरं दृढमधत्त सखीनाम् ॥ ७१ ॥ सा तु दिव्यसरितोऽपि विशिष्टां प्रीतिमातनुत सह्यसुतायाम् । सा ह्यसाविव यतो न सपत्नी तेन तेन्न तु गुरोहिणीति ॥ ७२ ॥ स्वर्गमाहुरवगाहफलं यं सोऽपवर्ग इति मे मतिरस्याम् । स्वर्गतोऽपि मधुरां भजतां तां स्वर्ग इत्यभिमतं किमिवान्यत् ॥ ७३ ।। सा हयेन विशदेन चरन्ती सम्परीत्य सकलं कटकं तत् । आसदत् पंटकुटीमनु सायं सैनिकैः परिमितैरनुयाता ॥ ७४ ॥ प्रस्थितां परिचरन् पथि देवीं सेवया विविधया मुमतिस्ताम् । एक एव बहुधा परिणेमे यामिकश्च सचिवश्व भटश्च ॥ ७५ ॥ दिग्जयाय चलितामथ देवीं तां निशम्य शतशो धरणीशाः । सम्प्रगृह्य विविधानुपहारानाययुः शरणमर्थयमानाः ॥ ७६ ॥ सूक्तिभिः सुमतिसंक्रमिताभिः स्वां चिरात् प्रवणतां भगवत्याम् ॥ ते निवेद्य दययानुगृहीताः सन्निधिं समुपजग्मुरमुप्याः ॥ ७७ ।। कीर्णरत्नकुसुमाञ्जलयस्ते वाहनानि च धनान्युपहृत्य । सूचितास्सुमतिना स्वयमस्याः पादपीठनिकटे प्रणिपेतुः ॥ ७८ ॥ मा बिभीत सुखिनः प्रतियातेत्याकलय्य मृदुलां गिरमस्याः । उत्थिता गिरमवादिषुरित्थं ते निरीक्षितपरस्परवत्राः ॥ ७९ ।। मादृशेषु मलयध्वजदेवो यामधत्त करुणां करुणाब्धिः । सा त्वया शतगुणा निहितैवं किन्तु किञ्चिदिदमम्ति निवेद्यम् ॥ ८ ॥ अर्पितात्मसु सदा कुलदासेप्वस्मदादिषु च सत्सु भटेषु । स्वामिनी यदि विधित्सति यात्रा का यशःक्षतिरितोऽपि कुले नः ॥ ८१ ॥ तत् प्रयातु भवती पुनरम्बामस्तु चैष सुमतिः स्थपतिनः । त्वत्प्रसादकणिकामवलम्ब्य द्योचरानपि समानमयामः ॥ २ ॥ १. तत् सह्यसुताविषयकप्रीत्यातननम् . २. समानमयामः सम्यगानमतः प्रयाजयामः समाः सन्तो नमयाम इति वा, समानं यथा भवति तथा अयाम इति वा योजना. * 'रपवर्ग' इति खपुस्तके पाठः. .
शिवलीलार्णवे. ईदृशा भवथ यूयमिमां मां द्रष्टुमेव तु वयं चलिताः स्मः । कौतुकं तु यदि वः सह यातेत्यन्वशात् सदसि सा नरपालान् ॥ ८३॥ . भूषणैः सुमतिहस्तवितीर्णैर्वाहनैर्बहुविधैश्च नृपालान् । सा यथाक्रममिमान् बहुमत्य व्यादिदेश कटकावतराय ॥ ८४ ॥ तां वाक्येषु गभीरतामथ च तां कालोचितार्थज्ञतां तां नम्रेषु कृपालुतामपि च तां कीत्तौ परं लुब्धताम् । सम्पश्यन् प्रमदाद्भुतव्यतिकरस्तब्धस्त्वमात्योऽसकृत् पादेऽस्याः प्रणनाम वत्सलतया प्रायुत चाप्याशिषः ॥ ८५॥. त्वत्साचिव्यबलानतान् क्षितिभुजस्त्वच्छिक्षितैरक्षरै- स्त्वत्सान्निध्यबलात् किलेदमवदं किञ्चिद्यथोपस्थितम् । कर्त्तव्यं यदितोऽपि तत्र सुमते! कामं प्रमाणं भवा- नित्युक्त्येयमपाचकार निखिलं सेवाश्रमं मन्त्रिणः ।। ८६ ॥ इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते शिवलीलार्णवे अष्टमः सर्गः । 0:00 अथ नवमः सर्गः। तां गीतसंवलितमईलवेणुवीणानादामृताधिगमितस्वपनां सखीभिः । वैतालिका इव सुशिक्षिततारवाचः प्राबोधयन् मृगदृशः कतिचित् प्रभाते ॥ १ ॥ अम्न! त्वदभ्युदयतो निहतं पुरैव हन्तुं तमः पुनरसावरुणः समुद्यन् । सुप्रातमावहति देवि! रथाङ्गनाम्नां साजात्यरक्तचरणायुधबोधितानाम् ॥ २ ॥ आयास्यतो दिनमणेरभिकस्य वार्ता प्राभातिकानिलमुखादवधारयन्ती । उद्दण्डपङ्कजतया किल पद्मिनीयमुद्रीविकां वहति वासकसजिकेव ॥ ३॥ पत्युस्त्विषां प्रथमनिर्गलितैर्मयूखैर्ध्वान्तेया मलिनदर्शमनुद्रवद्भिः । उच्चाटिता मधुकृतोऽपि किमुत्पलेभ्यः पर्याकुलास्तत इतोऽपि परिभ्रमन्ति ॥ ४ ॥ १. मलिनदर्श सर्वाणि मलिनानि दृष्ट्वा । 'कर्मणि दृशिविदोः साकल्ये' (३-४-२९) इति णमुल्.
नवमः सर्गः। ५९ हंसेषु कञ्चुकिषु षट्चरणेषु कुब्जेष्वादेशहारिषु मरुत्सु च सङ्गतेषु । *उद्घाटयन्त्यधिकृता इव शाङ्गपाणेरन्तःपुरं घटितमंशुमतो मयूखाः ॥ ५ ॥ उन्मुद्रिते सति मनागरविन्दकोशे भृङ्गैरहम्प्रथमिकाकलितप्रवेशैः । आस्कन्धमानमपि सौरभमेकतस्तदादाय यान्त्यपरतो मरुतो यथेच्छम् ॥ ६॥ भूदेवमन्त्रितविमुक्तजलाञ्जलिभ्यो निर्गत्य दैत्यहननाय समन्ततोऽपि । आसीदतामिव रविं महसा पवीनां पौरन्दरी हरिदियं परिपिञ्जरासीत् ।। ७ ॥ अम्भोनिधेस्तपनवाजिभिरुज्जिहानैराधूतकन्धरसटैरसकृद्विकीर्णा । सामुद्रविद्रुमलताशकलावलीयं प्राचीमुखे विजयते नतु सान्ध्यरागः ॥ ८ ॥ निर्जित्य विश्वमखिलं मकरध्वजेन निर्गच्छता शिबिरसीमनि दीपितस्य । मन्यामहे हुतभुजः प्रथमप्रकाशो मारुत्वते जयति सम्प्रति दिग्विभागे ॥ ९॥ जैत्रप्रयाणसमयं त्वयि वक्तुकामः प्रायः प्रबोधसमयं प्रतिपाल्य भानुः । उन्मज्ज्य सागरजलादुदयाद्रिशृङ्गे लीनः क्वचिन्न किल दर्शयतेऽधुनापि ॥१०॥ आमोदतें बत कियत् कमलाकरोऽयमस्मिन्नीप प्रविकसत्यरविन्दकोशे । उन्मुद्रय त्वमधुना नयनारविन्दमामोदतामखिलभम्ब ! जगत् त्वयेदम् ॥ ११ ॥ सुप्रातमस्तु मलयध्वजकन्यकायाः सुप्रातमस्तु मधुरापुरवल्लभायाः । सुप्रातमस्तु विधुवंशपताकिकायाः सुप्रातमस्तु हरितां जगतां त्रयाणाम् ॥ १२ ॥ इत्युक्तिभिर्मुगदृशां प्रतिबोधिता सा निवर्त्य नैत्यिकविधिं नृपतेः कुमारी । सज्जीकृतं सुमतिना सकलं बलं तत् प्रस्थाप्य पार्थिवकुलानुगता प्रतस्थे ॥ १३ ॥ अत्यद्भुतो विजयदुन्दुभिनादमन्त्रस्तम्या नृपालकुलकर्णपथावतीर्णः । अस्तम्भययधमदाचकृषे जघान निन्ये वशं व्यघटयच्च यथायथं तान् ॥ १४ ॥ भेरीरवश्वलति योजनमेव यावत् तावत् ततो दशगुणं चलितः प्रतापः । कीर्तिस्ततो दशगुणं व्यचलत् ततोऽपि चेलुस्ततो दशगुणं विमता विदूरे ॥ १५॥ वार्ताहरा दिशि दिशि प्रहिता हि यावदागत्य मन्त्रिणि न तं तमुदन्तमाहुः । तावत् त एव धरणीपतयः सदाराः सोपायनाः शरणमीयुरिमां सबालाः ॥ १६ ॥ १. न किल दर्शयते चक्षुर्गीचरो न भवति । 'णेरणौ' (१-३-६७) इत्यात्मनेपदम् . 'व्याकोचयन' इति कपुस्तके पाठः.
शिवलीलार्णवे आगच्छतां प्रणमतां वदतां प्रियोक्तीरने निधाय विविधानुपहारभेदान् । राज्ञामनुग्रहकृते सुमहान् विलम्बो मार्गेऽभवत्प्रतिपदं मधुरेश्वरायाः ॥ १७ ॥ राज्यं प्रशासति पुरा मलयध्वजे ये भूमीभुजः कतिपयेऽपरराधुरज्ञाः । तानप्यनन्यशरणान् ससुतान् सदारान् सा चक्षुषानुजगृहे शरणं प्रपन्नान् ॥ १८ ॥ सा तत्र तत्र शरणागतराजलोकविश्राणितानि मणिहेमविभूषणानि । मातुः समक्षमखिलान्युपहारयन्ती कीर्ति परां वितरति स्म दिशां मुखेषु ॥ १९ ॥ दुर्गाटवीनगरराष्ट्रपदानि तैस्तैस्त्यक्तानि युद्धनिहतैश्च पलायितेश्च । मृत्येषु सा कुलपरम्परयागतेषु न्यासीचकार सचिवानुमतेषु राज्ञी ॥२०॥ नासीरसीमपरिवर्तिभिरेव योधैर्विद्रावितान् विनिहतानपि वा गृहीतान् । सा शृण्वती नरपतीनपि नात्यहृप्यत् संग्रामदर्शनकुतूहलिनी कुमारी ॥२१॥ त्यक्तान् भयात् प्रचलितैः पितृभिः स्वभेरीभाङ्कारनि ठितगर्भपरिच्युतांश्च । सा दर्शितान् पथि शनैरवलोकयन्ती स्वे स्वे पदे नृपशिशून् पुनरभ्यषिञ्चत् ॥२२॥ राज्यश्रियं प्रणिपतत्सु नरेश्वरेषु रत्नानि हेमनिवहानपि भूसुरेषु । कीर्ति प्रतापमपि सा हरितां मुखेषु राजाधिराजतनया विकिरन्त्ययासीत् ॥ २३ ॥ सम्भ्रान्तनिप्पतिततत्तदरातिराजशुद्धान्तयौवतजनैः पतिपुत्रभिक्षाम् । सा भिक्षितानुजगृहे करुणातरङ्गसम्पातशीतलसमुल्लसितैरपाङ्गैः ॥ २४ ॥ पाषण्डसागरनिमज्जदनादिसूक्तिनिस्तारणाय धृतमानुपविग्रहायाः । मीनो महान् विरुरुचे विजयध्वजेऽस्या नासीरसीमनि नरेन्द्रकुमारिकायाः ॥२५॥ बाहुप्रतापविजिताभिररातिराजराज्येन्दिराभिरिव राजसुता सखीभिः । पर्यावृता पितृपितामहपालितोर्वीसीमापरिष्करणमाप तुषारशैलम् ॥२६॥ प्रालेयशैलशिखरादवनौ निपत्य भागीरथीं कनखलं परितो वहन्तीम् । दृष्दैव सा स्वयमभूजननान्तरीयसोदर्यताप्रणयविद्रवदन्तरङ्गा ॥ २७ ॥ स्रोतांसि तानि कबलीकृतदिङ्मुखानि यादांसि तत्र च महान्ति समुल्ललन्ति । अपेक्षितश्रुतचराण्यवितर्कितानि चित्रार्पितेव चिरमैक्षत पाण्ड्यकन्या ॥ २८ ॥ १. कनखलं देशविशेषम् .
नवमः सर्गः। ११ प्रागेव पाण्ड्यतनयाचरणारविन्दसेवानुभावचिरनिर्हृतकल्मषासु । सेनासु तत्र जलमात्रकृतोपयोगा हीणेव सा सरिदवापदवाङ्मुखत्वम् ॥ २९ ।। आलक्ष्य ताममरसिन्धुमपारपूरा स्रोतोदशां स्वयमपि प्रतिपद्य सद्यः । अम्भोनिधिय॑विशतेव तटे तदीये सेनानिभेन मलयध्वजकन्यकायाः ।। ३० ।। सेनां पृथक् पृथगिमा विरलं निवेश्य मायापुरीपरिसरे सुमतिः समस्ताम् । आसाद्य पाण्ड्यतनयामिदमाबभाषे गङ्गातरङ्गलतिकाहृतदृक्तरङ्गाम् ॥ ३१ ॥ पश्याम्ब ! कीर्तिमिव ते भुवनं पुनानामेनां दयाभिव तवाम्खलितप्रवाहाम् । सूक्तिं तवेव च सुधामधुरां गभीरां भागीरथीं भवजटापटलात् प्रवृत्ताम् ॥ ३२ ॥ निश्रेणिकेयमपवर्गपदाधिरोहे नौकेयमम्ब ! दुरितार्णवसम्प्रतारे । एषा सुधा भवाविषज्वलनाभिपङ्गे ज्योत्स्नेयमान्तरतमोभिभवे जनानाम् ॥ ३३ ॥ ब्रह्मर्षिशापनिहतान् भसितावशेषानेषा दिवं सगरराजसुताननैषीत् । एषा च कर्मधरणीघटनानपेक्षा स्रोतस्त्रयेण भुवनत्रितयं पुनीते ॥ ३४ ॥ कर्माणि पश्यत हरेरिति घोषयन्ति यत् सेतुबन्धनमुखानि गिरः पुराण्यः । सोऽप्यर्णवो ननु रसातलमाविशन्त्याः पार्थाम्बुलेशपरिवर्तनपूरितोऽस्याः ॥ ३५ ॥ नीहारभूधराशिलावलयाभिघातनिर्गच्छदच्छजलशीकरनिर्विशेपैः । अम्बावधेहि कनकध्वजमात्रलक्ष्यैरेतां वृतां दिविषदामभितो विमानैः ॥ ३६ ॥ आस्तामदृष्टमदसीयमिहानुभाव्यं दृष्टं च किं कचन दृष्टमथ श्रुतं वा । या यादृशीयमथ यासि च यादृशी त्वं ते द्वे युवां परमिह व्यतिसंविदाथे ॥ ३७ ।। एतावती जननि! भारतवर्षभूमिरेषैव ते कुलपरम्परयागता भूः । मानेन पावनजलामपि पावयित्वा भूयोऽप्यमं प्रतिनिवर्तितुमौचिती वः ॥ ३८ ॥ इत्यालपन्तमियमाह तमेवमेतन्मन्दाकिनी प्रति यथात्थ महामते! त्वम् । लब्धस्थिरीकरणमात्रभवं यशस्तु सञ्चिन्त्यमानमयशःपरिहार एव ॥ ३९ ॥ एनां विगाह्य तदशेषतमोपहन्त्रीमेतबलेन सुरसिद्धनिषेवितानि । धर्षाणि तावदितराण्यपि साधयेयं सेनामिहैव विनिवेश्य भवत्सहाया ॥ ४० ॥ त्वत्पादसेवनकृतां त्रिदिवे करस्थे का नाम भूमिवलयाक्रमणेऽपि शङ्का । सांघाय किं तव चमूरनुयायिनीयं त्याज्या तु नेति समयोचितमाह सेनाम् ॥ ४१ ॥ १. आनुभाव्यम् अनुभावः । स्वार्थे ष्यन्. २. अतो भारतबहिर्देशसाधनेनैव यशोऽर्जनी. पमिति. ३. स एनामितिच्छेदः.
शिवलीलार्णवे अम्बा तथेति गिरमभ्युपगम्य तस्य सन्नह्यतामिति च सा पृतनां नियुज्य । सस्नौ भवाङ्गपरिरम्भकृतार्थमम्भस्त्रैस्रोतसं किल पुनश्च कृतार्थयन्ती ॥ ४२ ॥ यद् ब्रह्मणोऽभिभवनं सलिलात्मना प्राग् यश्चाथ शन्तनुभुवां सलिलापवेधः । अंहो निरन्वयममृज्यत तत् समस्तं तस्यास्त्रिलोकजननीचरणार्पणेन ॥ ४३ ॥ सा संवृता नृपसुता परितः सखीभिः स्नानाय गाङ्गसलिले कलितावतारा । नान्तीभिरत्र सुरपन्नगकन्यकाभिः संयुज्य मज्जनकुतूहालिनी विजहे ॥ ४४ ॥ सख्यो नृपालदुहितुर्विहृतिच्छलेन नेत्रे पिधाय बधिराः फणिराजकन्याः । स्मेराननासु परितः सुरसुन्दरीषु स्वैरं किलापजहसुः श्रवणव्यपायात् ॥ ४५ ॥ संसारासन्धुतरणिस्तरणिं विनैव सा दूरमप्लवत तत्र समं सखीभिः । प्रागार्जितं वितरणित्वकृतं यशो यत् तेनाधुना द्विगुणितं तदभूदमुष्याः ॥ ४६॥ उद्दामनिश्वसितसौरभसारलोभादुन्मजनावसरमेव चिरं प्रतीक्ष्य । तं देशमप्रजहती भ्रमरावलीव स्नान्त्या बहिर्विरुरुचे कबरी श्लथास्याः ॥ ४७ ।। सा नन्दनोपवनचन्दनमङ्गरागमालिम्पती समुपदर्शितमप्सरांभिः । सस्नौ यदा सुरसरित्सालले तदैव चक्रे सुरद्रुमसमाहरणावसायम् ॥ ४८ ।। इत्थं विहृत्य सलिले सुचिरं सखीभिरुन्मज्ज्य नैत्यिकविधेरनु पाण्ड्यकन्या । तां सेतुना प्रथमतः सरितं ततार नौकासहस्रनिबिडाकलितेन राज्ञी ॥ ४९ ॥ अनादपादपि चमूरधिगङ्गमस्या मेने कमप्यतिशयं न तु तावता सा । राजीवबान्धवरथे वसतो जनस्य को नाम दीपसमवायकृतः प्रकाशः ॥ ५० ।। आदाय पुष्करमुखैरभितो विकीर्य यावत् किल व्ययितमम्बु सुरस्रवन्त्याः । तावत् ततो द्विगुणमप्यभिवर्षति स्म दानोदकैर्द्विपगणः परितः स्रुतैस्ताम् ॥५१॥ मातङ्गपुङ्गवतुरङ्गशताङ्गयोधपाणिन्धमे धरणसेतुपथे चरन्ती । नक्तन्दिवैत्रिभिरशिश्रयदभ्रसिन्धोः पारं परं निरवशेषमनीकिनी सा ॥ ५२ ।। सा सन्निपात्य सकलामपि वाहिनीं तामाज्ञां वितीर्य च गिरेरधिरोहणाय । आळीजनाकलितसारथिकर्मसुम्थं कीरथं कमपि तु स्वयमारुरोह ॥ ५३ ॥ तां वाहिनीं सुमहतीमपदिश्य तस्या गङ्गैव तं गिरिवरं पुनरारुरोह । प्रस्थानसम्भ्रमवशादनिवेदितं प्रागृक्तव्यशेषमिव किञ्चन वक्तुमीशे ॥ ५४॥ १. वितरणित्वं वितरणवत्त्वं तरणिशून्यत्वं च । तेन कृतम्: - नवमः सर्गः नीहारशैलशिखरेषु समुत्पतन्तो निनोन्नतानि कियदप्यविचारयन्तः । जग्मुः शताङ्गयुगसंयमितास्तुरङ्गा देव्याः सुखं नयनरश्मिभिरुगृहीताः ॥ ५५ ॥ प्रमिग्धकाशकुशकाननमेदुराणि भागीरथीसलिलपातपवित्रितानि । स्थानानि संयमवतामतिसुन्दराणि सव्यानि सा विदधती शनकैरयासीत् ॥ ५६ ॥ रत्नानि तत्र वणिजो भिषजोऽग्रहीपुर्दिव्यौपधीगजवरानपि राजकीयाः । अस्मादृशाः क्षितिसुराः पुनराहरन्त भागीरथीतटरुहाणि कुशाङ्कुरााण ॥ ५७ ।। आमुक्तकञ्चुकमधिज्यशरासकाण्डमुन्नद्धकुन्तळनियन्त्रितवन्यपुप्पम् । सेनारजोमसृणिताळकमुन्दर तत् तत्त्वं परं वनचरैरपि तत्र दृष्टम् ॥ १८ ॥ दुर्लङ्घतत्पथविलङ्घनकौतुकिन्याः कोलाहलेन महता परितो ध्वजिन्याः । यद्यद्विभिद्य पतितं शिखरं हिमाद्रेस्तत्तन्नवेन यशसा समपूरि तस्याः ॥ ५९ ॥ नासीरसङ्गतभटोद्भटसिंहनादविद्रावितान गिरिगुहाशयितान् मृगेन्द्रान् । वन्यद्विपाः समभिदुद्रुवुरात्मवैरनिर्यातनावसरलाभनितान्तहृष्टाः ॥ ६ ॥ माध्वीकमिश्रनववैणवसक्तुभक्तैः कस्तूरिकाहरिणमांसकृतोपदंशैः । आतिथ्यमापुरुचितं शबरालयेषु सेनाभटाश्चमरवालाधिवीज्यमानाः ॥ ६१ ॥ पारीन्द्रनिर्दलितकुञ्जरकुम्भमुक्तमुक्ताफलग्रथितहारकृतोपहाराः । स्थानानि तत्र विविधान्युपदर्शयन्तो देवीमसेविषत हैमवताः किराताः ॥ ६२ ॥ अत्रैव नः कुलपतिं धनुषा जघान मयः स कश्चिदिति वृद्धजना वदन्ति । दूरे सुवर्णकदलीवनमेतदम्ब! जीर्णः कपिर्वसति यत्र चिराय कोऽपि ॥ ६३ ॥ नाचक्षते न निमिषन्ति न निश्वसन्ति वल्मीकतः प्रमृमरा वपुषा तु माः । सन्ति द्रुमा इह शतं दलपुप्पहीनाश्छित्वा नयाम यदि देवि ! दिदृक्षसे तान् ॥ ६४ ॥ अस्त्यम्बिकेति ननु गोत्रपितामही नः कोदण्डदण्डकुशला गतभाव्यभिज्ञा । कान्त्या गिरा करुणया च भुजोप्मणा च दृग्भ्यां शपेमहि महेश्वरि ! सैव नस्त्वम् ।। बाहुस्त्वयावममृशे प्रथमं पुरो नस्तद्बाहुसारविजितो भविता पतिस्ते । सत्यानि विद्धि शबरीजनभाषितानि जात्वम्ब! चिन्तय न जानपदानिवास्मान् ॥ इत्थं सदारशबरोक्तिकृतस्मितासु राज्ञी सखीषु कृतनर्मवचोविलासा । मा जातु खण्डयत मानुषपादपानित्याज्ञाप्य तानति यया *शनकैर्हिमाद्रिम् ॥६७॥ इतः प्रभृति एकोनसप्ततितमश्लोकान्तो ग्रन्थः 'खपुस्तके नास्ति, शिवलीलार्णवे शार्दूलसिंहशरभद्विरदाच्छभल्लवाहद्विषवृकवराहपराहतेषु । शृङ्गेषु मार्गरंहितेष्वपि सा हिमाद्रेः सेना जगाम सुरसिन्धुमनुद्रवन्ती ॥ ६८ ॥ इत्थं हिमाद्रिशिखरादवतीर्य मन्दं वर्षेऽथ किम्पुरुषनामनि सा विशन्ती । नोदन्ययोपससृजे न बुभुक्षया वा नाध्वश्रमेण पृतना न च धर्मतोयैः ॥ ६९ ।। अज्ञातमेघजलमश्रुतसस्यभेदमर्थोपसङ्ग्रहणदानकथानभिज्ञम् । देशं समीक्ष्य सुमति धृतविस्मयोऽपि कामं बभूव स करग्रहणे निराशः ॥ ७० ॥ स्वच्छानि भौमसलिलानि सुधाधिकानि सौरभ्यवन्ति च फलानि महीरुहाणाम् ॥ दृष्दैव तृप्तिभरितेषु चमूचरेषु कौतूहलेन जगृहुः कतिचित्तु तानि ।। ७१ ॥ सन्त्यद्भुता द्रुमलता मृगपक्षिभेदाः सन्ति स्त्रियोऽपि सुरयौवतनिर्विशेषाः । किन्तु क्षितिं विमलसत्त्वमयीं गतास्ता न वापि लोभमलभन्त चमूचरास्ते ॥ ७२ ॥ धन्यान् जटापटलनीडसुखप्रसुप्तनानाविहङ्गकुलनादविनीतखेदान् । अध्यात्मयोगनिरताननुगृह्णती सा मन्दं जगाम जननी जगतां त्रयाणाम् ॥ ७३ ॥ कालाद् बहोर्मुनिकुलेन कथञ्चिदन्त वारशूकवदलक्ष्यत केवलं यत् । तद् दृश्यते स्म तरुणारुणकोटिदीप्रं कान्तामयं कलितकार्मुकमात्मतत्त्वम् ॥ ७४ ॥ उच्चावचैः शमधनाः पृतनाचराणां कोलाहलैः श्रुतिगणैरिव बोध्यमानाः । कन्दं फलं सलिलमप्युपजहिरे यत् तत् सम्प्रगृह्य बुभुजे स्वयमम्बिका सा ॥ ७५॥ सा तद्यतीत्य समुपत्य च हेमकूटं तेनाध्वना च हरिवर्षमनुप्रपन्ना । तस्योत्तरं निषधभूधरमारुरोह प्राक्पश्चिमार्णवतरङ्गकृताभिषेकम् ॥ ७६ ॥ तस्मिन् गिरौ प्रचलिता पथि पश्चिमे सा मेरुं प्रदक्षिणतया परिवेष्टयन्ती । वासं किटेः क्रतुमयस्य हि केतुमालं वर्ष निनाय बलमुच्छ्रितकेतुमालम् ॥ ७७ ॥ भक्त्या प्रणम्य भगवन्तमभिष्टुता सा विज्ञेन तेन वसुधाभरणश्रमाणाम् । तद्दर्शितेन च पथा समवापं नीलं शैलं निजेन यशसा विशदं समन्तात् ॥ ७८ ॥ सा रम्यक समतिलवय हिरण्मयं च श्वेतं च शृङ्गिणमतीत्य महीधरौ द्वौ । प्राप्तोत्तरानथ कुरून् प्रयता ववन्दे पाण्ड्यात्मजा भगवतः प्रथमावतारम् ॥ ७९ ॥ ये नोदहारिषत वन्दिगणाः स्वकीया जैत्रध्वजो जयति यश्च निजे शताङ्गे । तेनाहता तदुपदर्शितमालुलोके सा तत्र वारिनिधिमुत्तरमुत्तरङ्गम् ॥ ८० ॥ * 'तिः कृत' इति खपुस्तके पाठः.
नवमः सर्गः। १५ प्रागेव ये कृतपदा यशसां प्रपञ्चाः स्वोपार्जिताः पितृपितामहसम्भृताश्च । स्वं द्रष्टुमप्युपगतानिव तानशेषान् सा तत्र तत्र समवैक्षत फेनकूटान् ॥ ८१ ॥ पश्चात् समुद्यति रवौ कुरुघूत्तरेषु प्रागेव दक्षिणमिमं विदती पयोधिम् । उन्मज्जतात्र तिमिना नलसेतुनेव निस्संशयं व्यवजहार वरूथिनी सा ॥ ८२॥ अभ्युद्यतैत्रिभुवनाक्रमणेच्छलेव प्राप्तैः प्रतीरमपि वारिनिधेस्तरङ्गैः । लिल्ये समुल्लसदसङ्ख्यतुरङ्गमस्या वीक्ष्य ह्रियेव विपुलं बलमन्तिकस्थम् ॥ ३ ॥ अम्भोधरेषु सलिलग्रहणावतीर्णेष्वारात् प्रतिद्विपरुषा चलितान् निहन्तुम् । आधोरणा जगृहुरङ्कुशसम्प्रहारैः सेनागजान् धुरि नरेन्द्रकुमारिकायाः ॥ ८४ ॥ तस्मिन् विशां विजयकर्मणि धाविता ये ये चाहवेप्वभिमुखं निहताः स्वयोधैः । तानर्णवे च तटसीनि च तत्र राज्ञो लब्धास्पदान् युगपदक्षत पाण्ड्यकन्या ॥ ८५ ॥ पर्णाशनैः शमधनैः पनसाम्रजम्बूप्लक्षाशनैरपि च जानपदैर्वृतेषु । वर्षेषु तेवनधिगत्य करं चरन्ती देवी चकाङ्क जलधेरुपदां ग्रहीतुम् ॥ ८६ ॥ यावत् परामृशति सा न करेण मौर्वी यावद् दधाति च निषङ्गमुखे न दृष्टिम् । तावत् प्रगृह्य विविधानुपहारभेदास्तामर्णवः शरणमेत्य वचो बभाषे ॥ ८७ ॥ मुक्तापगा विशति दक्षिणमम्बुराशिं जम्बूनदी विशति पूर्वमहं तु रिक्तः । वेदान् विचतुमुपशोधितगर्भसारः साक्ष्यत्र मे स भगवान् ननु मत्स्यराजः ॥ ८८ ।। त्वबाहुसारविजितैर्जठरं गतैर्मे भूपालकैरवगता ह्यसि भूयसा त्वम् । सत्यप्रियासि शरणागतवत्सलासीत्यानीतमेतदियमम्ब ! चिराभिगुप्तम् ॥ ८९॥ मैनाकभूधरचरास्त इमे गजेन्द्रा द्वीपे गभस्तिमति रत्नगणोऽयमासीत् । शङ्खा इमे जननि! पश्चिमसिन्धुनीता येषां प्रकाममवमः स हि पाश्चजन्यः ॥९०॥ इर्दधेरुपहृताः कमठाश्च मत्स्याः पक्का इमे गुडरसाः परिशोषिता वा । हैयङ्गवीनमकरा इति. सम्प्रतीता एते पुनर्जननि! याचितका घृताब्धेः ॥ ९१ ॥ एषा जरापलितरोगविषादहन्त्री दिव्या सुरोदधिहृता मदिरा सुगन्धिः । दध्यर्णवादुपहृतं नवनीतमेतन्नाद्यापि वेद तदिदं नवनीतचोरः ॥९२ ॥ क्षीराब्धिनोपददिरे तुरगा गजाश्च क्षीराशिनः सुविमलानवधारयेमान् । एकं तु तच्छकलमैन्दवमास्त दत्तं प्रागेव तद् भगवते प्रमथाधिपाय ॥ ९३ ॥ १. मुक्तापगा ताम्रपर्णी. २. याचितकाः याच्या लब्धाः.
शिवलीलार्णवे सन्ति स्त्रियः कतिचिदत्र सखीरिमास्ते सम्पश्यता न तु मया समुपाहृतास्ताः । त्वं कामधेनुरसि कल्पलतासि च त्वं नाहारि तद्वितयमम्ब! विडम्बनेति ॥९४॥ ताम्रापगासलिलपानसुनितानां किं कार्यमस्ति सुधया मधुरोदतो वा । मातस्तथाप्युपहृता मणिराशयोऽमी त्वच्छासनश्रमविनोदपदे नतेन ॥९५ ॥ सामुद्रदिव्यमणिजातिषु कौस्तुभश्च चिन्तामणिश्च भुवने विदिते मणी द्वे । अन्यादृशी जननि! हारलतेयमेनां वैवाहिकोत्सवविधौ वह मद्विभूत्य ॥ ९६ ॥ इत्थं निवेद्य निहितानुपहारभेदान् हारं वितीर्य च करे विनतं पुरस्तात् । उत्थाप्य सा सुमतिना पतिमापगानामम्बा जगाद वचनैरमृतावसिक्तैः ॥९७ ॥ सख्याः श्रियो मम यतो जनकोऽसि तावत् तद्धर्मतोऽसि जनको मम च त्वमेव । दत्तं त्वया हैरणमेतदिति ब्रुवाणा सा तं पुपोष नयनाञ्चलचन्द्रिकाभिः ॥ ९८ ॥ सा तं विसृज्य समुपेत्य च पूर्ववर्ष भद्राश्वमत्र च नदीमतिलय सीताम् । तत्तीरसीमनि तपो विपुलं चरन्तमश्वाननं पुरुषमाद्यमसौ ववन्दे ।। ९९ ॥ सा च स्वदर्शनकृतार्थतपःप्रबन्धादश्वाननाद् भगवतो वरमातिथेयात् । आसेदुषी विजयमप्रतिघातमग्रे जम्बूनदीप्रभवमापदिलावृतस्थम् ॥ १० ॥ यान्युत्तरेषु कुरुषु प्रभवन्ति यानि जम्बूनदीपयसि यानि सुमेरुमूले । स्वर्णानि तानि सुमतिः पृथगानिनाय वर्णोत्तराण्यननुभूततया न लोभात् ॥१०१ ॥ जम्बूनदीपयसि सर्वसुवर्णभूते सेनाभटा अनवधारितवर्णभेदाः । शैवालफेनकमलोत्पलशङ्खभृङ्गहंसान् पृथग् जगृहुराकृतिमात्रभेदात् ॥ १०२ ॥ पङ्कानि केचिदपरे सिकताः परे तु पद्मोत्पलानि कतिचित् भ्रमरीमरालान् । मण्डूककूर्ममकरानितरे तु तत्र हेमाशया जगृहिरे पृतनासु योधाः ॥ १०३ ॥ प्रतिकरिपरिशङ्कितद्वाहिनीगन्धदन्तावल- प्रतिहतिशिथिलक्षरज्जम्बुसम्भूतभूरिद्रवा । सरिदियमभितोऽपि संप्लावयन्ती वनं तीरयो- रकृत कृतनिवेशमस्मिन् बलं हैममेवाखिलम् ॥ १०४ ॥ इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते शिवलीलार्णवे नवमः सर्गः १. हरणं स्त्रीधनम् .
दशमः सर्गः। अथ दशमः सर्गः। दिक्पतीनथ विजेतुमुत्सुका देवशैलशिखराप्रवर्तिनः । उत्पपात सह सैनिकैर्दिवं म्यन्दनेन महता तटातका ॥ १ ॥ सज्जसिन्धुरतरङ्गसङ्घला सा दिवि प्रचलिता पताकिनी । आववार सहसामरावतीमप्रतर्कितनिरोधविह्वलाम् ॥२॥ सत्पथोत्पतनजातकौतुकस्तब्धमुक्ततुरगा शनैः शनैः । यावदाप न दिवं तटातका तावदन ववृते महान् रणः ॥ ३ ॥ तद्भटाश्चिरनिरुद्धदोर्मदाः सम्प्रहारविमुखेषु राजसु । तं महाहवमुपस्थितं सुरैर्भागधेयफलमित्यमंसत ॥ ४ ॥ नित्यमुन्मुखचरान् सुरद्विपान् सायकैरिव निपात्य शायितान् । कीटपेषमपिषन् संसादिनः पद्भिरेव करिणो मदोद्धताः ॥ ५॥ यत्तदाहवभुवि प्रवर्तितं लोहितं निपतितं क्षमातले । अग्रतः सुरगिरेरिलावृते लोहितोदमिति तच्छ्रुतं सरः ॥ ६ ॥ दिग्जये भुवि हता रणेषु ये द्योचराः समभवन्निरोधिनः । ते निपेतुरुपजातमन्यवस्तेजसीव शलभाश्चमूमुखे ॥ ७ ॥ अभ्युपेयुरधरेधुरेव यान् संप्रसाद्य बहुधा जयाय ये । सम्प्रजहरपरेछुराहवे सैनिकाः सुमनसम्त एव तान् ॥ ८ ॥ भासिता दिविचराश्चमूचरैस्त्वकृतेन युधि हुङ्क्तेन च । देवमानवदशाविपर्ययं वीक्ष्य वीक्ष्य वितथं निशश्वसुः ॥ ९ ॥ स्वे बले परबले च ये हतास्तान् द्वयानपि समेत्य देवताम् । तत्क्षणात् पुनरुपस्थितान् रणे वीक्ष्य विस्मयमवाप सा चमूः ॥ १० ॥ तान् निरीक्ष्य समशीर्षिकान् रणे सैनिकेषु कतिचिन्महारथाः । सम्प्रबोध्य मलयध्वजात्मजां सन्निपेतुरनपेक्षितासवः ॥ ११ ॥ भूसुरस्वमुपभुज्य केवलं ते हि पुष्टवपुषो दिवौकसः । तन्मुखे शिथिलतां जगाहिरे सेतवः पयसि सैकता इव ॥ १२ ॥ १. कीटपेषं कीटमिवेत्यर्थः. २. ससादिनः निषादिसहितान् । 'सादी तुरङ्गमातङ्गरथारोहेषु दृश्यते' इति मेदिनी.
१८ शिवलीलार्णवे यावदस्त्रमभिमन्त्रितं सुरैः सन्निकर्षति न तान् महारथान् । तावदेव सह तैः पलायितैस्तत्तदस्त्रमपि धावितं पुरः ॥ १३ ॥ हन्यमानममृतान्धसां बलं वीक्ष्य केऽपि युधि मानवामराः ।। पूर्वबान्धवदशोपदर्शिनस्तेषु सान्त्ववचनानि चक्रिरे ॥ १४ ॥ तां पलायनपरामितस्ततो दुर्घहां दिविषदामनीकिनीम् । सङ्ग्रहीतुमपटुः शतक्रतुः सम्मुखीनमचलत् स्वयं पुरः ॥ १५॥ तं निरीक्ष्य शतमन्युमग्रतस्तन्मुखे चलितमम्बिकारथम् । स्तम्भयन् प्रणतिभिश्च सान्त्वनैः सञ्चचाल सुमतिः स्वयं पुरः ॥ १६ ॥ तां विहाय शतमन्युतां निजां संश्रितं युधि सहस्रमन्युताम् । शक्रमेक्ष्य सुमतौ जयाशिषश्चेतसा प्रयुयुजे तटातका ॥ १७ ॥ ये शरा नमुचिजम्भभेदिनो ये च वृत्रवलघातिनो हरेः । ते किलार्धपथ एव दारिताः सायकैः सुमतिचापनिस्सृतैः ॥ १८ ॥ आददे जयति मीनलोचनेत्येकमेव मनुमीरयन्नयम् । यच्छरानजान तेन निष्फलं दिव्यमस्त्रमखिलं दिवस्पतेः ॥ १९ ॥ मार्गणाः कतिपये मरुत्वतस्तस्य नर्मसु पतन्ति वा नवा । मर्मसु प्रविविशुस्तदाशुगाः सर्व एव तु मघोनि दृङ्मये ॥२०॥ अक्षिभिः शरचितैः पुरःस्थितैरक्षतैस्तु चरमाङ्गवर्तिभिः । निष्फलैः शतमखे तु निष्क्रिये सन्दधे न सुमतिः शिलीमुखान् ॥ २१ ॥ तं निरीक्ष्य समयं चमूचराश्चोरहूणयवनादयो भटाः । भूषणैर्मणिमयैः समं हरेरायुधं कुलिशमप्यपाहरन् ॥ २२ ॥ स्थापितो भुवनमातुरातः स प्रसह्य पृतनाग्रचारिभिः । लज्जया शररुजा भयेन च स्तम्भवद्वलभिदास्त केवलम् ॥ २३ ॥ सम्प्रणम्य मुमतिस्तटातकां धारयञ्छिरसि तत्पदं चिरात् । लालितो बहुविधाभिरुक्तिभिस्तं च तच्चरणयोन्यपातयत् ॥ २४ ॥ वीक्षितः स करुणाईया दृशा वासवश्चरणयोनतस्तया । स्वस्थतामुपगतो यथापुरं प्राह तां सुमतिनानुमोदितः ॥२५॥ १. एक्ष्य आयूर्वादीक्षतेः क्त्वो त्यप्. २. अयं श्लोकः खपुस्तके न दृश्यते.
दशमः सर्गः। पश्य देवि! पदमेतदामरं पाल्यते स्म मलयध्वजेन यत् । अभ्युपेत्य शतशः सहायतामाहवेषु दनुजान् निगृह्णता ॥ २६ ॥ स्वर्गवीयमयमप्सरोगणः पञ्च देवि! मुरपादपा इमे । एष सागरभवो मणिमहानेप यूथपतिरेष सैन्धवः ॥ २७ ॥ त्वं गृहाण वितरानुयायितां मां नियोजय यथापुरं तु वा । त्वं प्रमाणममरश्रिया समं द्यौरियं तव पदे निवेदिता ।। २८॥ आगतां नरचमूमतर्कितां तावकीति कथमप्यजानता । प्रत्यवस्थितमिव क्षणं हि यत् तत् क्षमस्व शरणागते मयि ॥२९॥ इत्थमुक्तवति पाकशासने सा जगाद शरणागतप्रिया । क्षान्तमेव निखिलं मयाधुना शान्तचेतसि पुरन्दर ! त्वयि ॥ ३० ॥ स्वीकृतं तदखिलं त्वयार्पितं म्वीकृतं पुनरिदं मया तव । एक एव गतशङ्कमिन्द्रतां वर्तय त्वमिह वासरे विधेः ॥३१॥ सुन्दरेशमभिषेक्तुमर्चितुं स्वर्गवीं सुरतरूंश्च केवलम् । मामनु प्रहिणु वासवेति सा तं विसृज्य चलिता ततः 'पुरः ॥ ३२ ॥ आनकध्वनिभिरश्वहेषितैः श्वेलितरिहितैरपि । प्रज्वलन्नपि शशाम पावकः पाण्ड्यराजदुहितुर्विनिर्गमे ॥ ३३ ॥ मा विधेहि सुमतेऽभिषेणनं रुन्धि रुन्धि चलितां पताकिनीम् । मामको हि जनको हुताश इत्यादिदेश मलयध्वजात्मजा ॥ ३४ ॥ यावदित्थमनुशास्ति सा चमू तावदेव तनयादिदृक्षया । मङ्गलान्युपहरन्नुपायनान्याजगाम धुरि हव्यवाहनः ॥ ३५ ॥ सावरुह्य सहसा शताङ्गतः सम्प्रणम्य मुदिता हुताशनम् । प्रात्थिता मुहुरनेन तानि च प्राभृतानि विविधान्युपाददे ॥ ३६॥ जम्बुसिन्धुतटसम्भवा निशा नीलशैलशिखराहृता मषी । अम्बराणि मणयश्च भास्वराः स्वाहया पृथगथोपजहिरे ॥३७ ।। १. इदं मत्स्वीकृतं पुनः प्राग्वत् मया तय स्वीकृतम् अस्वं स्वं सम्पद्यमानं कृतम् इति पा- दार्थः । त्वदर्पितं सर्व स्वीकृत्य मया तुभ्यं प्रत्यार्पतमिति अधीभिप्रायः. २. निशा हरिद्रा. +'पुरीम्' इति खपुस्तके पाठः.
७०
शिवलीलार्णवे
पाणिपीडनमहोत्सवे तव प्रार्थये सपदि साक्षितामिति ।
ईरिते हुतवहेन सस्मिता तं विसृज्य चलति स्म सा पुरः ॥ ३८ ॥
मा कदापि मधुरापुरीजुषां दृक्पथेषु पततेति बोधिताः ।
नित्यमेव समवर्तिना भटास्तां निरीक्ष्य पृतनां प्रदुद्रुवुः ॥ ३९॥
तारिताः सुमतिनाग्रगामिना तत्रतत्र निरयस्थिता जनाः ।
मातुरेष महिमा यदीदृशी भक्तदृष्टिपथपातिनां गतिः ॥ ४०॥
संवृतं मुसलपाशपाणिभिः सर्वतो भटगणैर्गदैरपि ।
पश्यति स्म पथि दूरतः स्थितं प्राञ्जलिं रविसुतं तटातका ॥ ४१ ॥
सोऽभिगम्य सुमतेरनुज्ञया तां प्रणम्य पदयोः समुत्थितः ।
स्वां गदामुपहरन्नविप्लुतां प्रश्रितो वचनमेतदाददे ॥ ४२ ॥
भारत क्षितितले भवद्वशे सन्ति दुष्कृतकृतो न जन्तवः ।
प्रास्थिताश्च नरकेषु तारिताः प्राप्त एवमिह विश्रमो मया ॥ ४३ ।।
निष्क्रियोऽस्मि किमिह स्थितेन मे सञ्चरामि सबलश्चमूमुखे ।
ये भवन्ति परिपन्थिनोऽत्र ते तेषु देवि विनियुक्ष्व मामिति ॥ ४४ ॥
संयुगेप्वभिमुखा न सन्ति नः सन्ति चेदतिथयो दिवस्तु ते ।
सर्वथैव तव विश्रमोऽहं इत्याह तं मुमतिराहितस्मितः ॥ ४५ ॥
सा निवर्त्य समवर्तिनं ततः सञ्चचाल पुरतः शनैः शनैः ।
आययौ निर्ऋतिराहृतोपदस्तावदेव सबलः सबान्धवः ॥ ४६ ॥
अद्य पुण्यजनता ममागतेत्यालपन्तमिममानतं पदे ।
सा विसृज्य सलिलाधिपोन्मुखी सञ्चचाल मलयध्वजात्मजा ॥४७॥
उल्ललत्तिमितिमिङ्गिलोद्भटं ग्राहकच्छपकुलीरसङ्कुलम् । '
वाहिनी वरुणसैन्यमग्रतः पश्यति स्म सुमतेः पुरस्सरी ॥ ४८ ॥
शस्त्रजालमपविध्य सर्वतो वागुराश्च बडिशानि च स्वयम् ।
सम्प्रगृह्य मृगयाकुतूहलात् सन्ननाह पृतना चिराय सा ॥ ४९ ॥
शङ्खविद्रुमसरोजमौक्तिकप्रायमाप्यमुपहारमण्डलम् ।
आहरन् पुनरपां पतिः क्षणादाजगाम शरणं तटातकाम् ॥ १०॥
दशमः सर्गः। ७१ वारुणी पलितरोगहारिणीमद्भुतामगुडपिष्टशीथुजाम् । वाजिनश्च हरितानपां पतिः सन्निधाप्य निपपात पादयोः ॥११॥ प्राभूतं तदखिलं प्रचेतसः सा निरीक्ष्य सदयेन चेतसा । तं विसृज्य विनतं तटातका गन्धवाहनगरोन्मुखी ययौ ॥ १२ ॥ मारुतैर्मलयजेन्दुगन्धिभिर्मन्दमन्दमुपदर्शितात्मभिः । स्वर्धनीसलिलपातशीतलैः सेव्यते म्म चतुरं वरूथिनी ।। ५३ ॥ दाक्षिणात्यमनिलं पुरस्सरं ते विधाय मरुतोऽपरे पुनः । पारिजातकुसुमोपहारिणस्तां मुमत्यनुमताः ताः सिषेविरे ॥ ५४ ॥ तान् प्रदर्य पवनान् पृथक् पृथग् व्याजहार सचिवो नृपात्मजाम् । एष जानपद एव देवि नो मारुतो मलयशैलमाश्रितः ॥ १५ ॥ पश्य चक्रपवनानिमान् पुरः सन्ततोर्ध्वगतिवाददेशिकान् । आरसातलममीभिरुद्रमत्यर्णवम्तिमितिमिङ्गिलाकुलः ॥ ५६ ।। आहरन्ति तरुवन्महागिरीनर्णवान् पृषतवत् किरन्ति च । आविरिञ्चिभवनादनर्गलान् पश्य तान् प्रलयमारुतानितः ॥ ५७ ॥ पश्चिमान् द्रुमलताप्रभञ्जनानात्तरान् घनतुपारवर्षिणः । प्राग्भवान् प्रियकचातकप्रियान् यानवैपि त इमे समीरणाः ॥ ५८ ॥ भूतले केबलयन्ति पन्नगा व्योम्नि भारवहने नियुञ्जते । तावके तु विषये तटातके! सञ्चरन्ति सुखिनः समीरणाः ॥ ५९॥ दर्शिताः सुमतिनत्थमादृताः प्रेषिताश्च सदयं तयानिलाः । स्वस्वचेष्टितकृतः कुतूहलात् स्वां पुरी प्रति ययुस्तदग्रतः ॥ ६ ॥ प्रस्थिता धनपतेजिगीषया पाण्ड्यराजतनया ततः शनैः । प्राक् ततोऽपि स पथि व्यवस्थितः प्राभृतैः कनकरत्नराशिभिः ॥ ६१॥ तं निपत्य पदयोः समुत्थितं यक्षकिम्पुरुषराक्षसेश्वरम् । अन्वकम्पत दृशा दयाया प्रश्रयेण कथयन्तमन्तिके ॥ १२ ॥ अम्ब कश्चिदलमेव मे जये नैगमेषु मधुरानिवासिषु । भक्त इत्युपनतं प्रतीच्छ मां पश्य किञ्चिदिदमाहृतं पुरः ॥ ६३ ॥ १. कबलयन्तीते । अर्थात् समीरणान् । एवं नियुञ्जत इत्यत्रापि. २. नैगमेषु वणिक्षु.
शिवलीलार्णवे . शङ्खपद्ममकरादयस्त्वमी मातरष्ट निधयो मयाहृताः । उत्तमस्तु स वरम्त्वयाग्रतो लभ्यते चल पदानि कानिचित् ॥ ६४ ॥ इत्युदीरितगिरं विसृज्य तं प्रस्थिता प्रमथनाथसन्निधिम् । तावतीमविगणय्य वाहिनीं सन्ननाह समराय सा स्वयम् ॥ ६५ ॥ चन्द्रशेखरपुरीसमीपतः सा निविश्य सकला पताकिनी । सिंहनादमतनिष्ट बृहितं बृंहितानकनिनादहेषितैः ॥ ६६ ॥ नादमेनमवकर्ण्य चुक्रुधे नन्दिना पुरभिदा तु प्रिप्रिये । नापरोऽस्ति चतुरो महेश्वरान्नादतत्त्वमवबुध्य नन्दितुम् ॥ ६७ ॥ संवृतः प्रमथसेनया *स्वया सन्निकर्षमुपसृत्य शूलिनः । व्याहरन्नरचमूसमागमात् प्रज्वलन्निव शिलादनन्दनः ॥ ६८ ॥ गर्भदासकुलदासतां गता ये हि पाण्ड्यविषये नृपास्त्वयि । तेषु वेत्सि कुलशेखरं नृपं तत्सुतं च मलयध्वजं ततः ॥ ६९ ॥ तम्य नाम दुहिता तटातका किञ्चिदुच्चलितशैशवा सती । सन्निपात्य तृणपूलवच्चमू मानुषीमित इतोऽभिवर्तते ॥ ७० ॥ सा मनुष्यवशगेषु केपुचित् तादृशेषु विबुधाधमेप्वपि । सम्प्रदर्शितपराक्रमा सती मन्यते न हि महेश! मामपि ॥ ७१ ॥ तां प्रधाव्य धरणीतलं ततस्तत्पदानुपदिकान् सुराधमान् । तापसांश्च कतिचित् तदाश्रयान् दण्डयेयमिति दण्डवन्नतः ॥ ७२ ॥ तं जगाद गिरिशः कृतस्मितः सा पुनः श्रुतिपथं गतव नः । अप्रमत्तमभिषेणयनिमा स्वस्तिमान् पुनरुपेहि भामिति ॥ ७३ ॥ तां गिरं तमपि च स्मिताङ्कुरं सोऽविचिन्त्य किमपि स्मरद्विषः । निर्जगाम समराग्रही बहिः सप्तभिर्गणचमूपकोटिभिः ॥ ७४ ॥ तत्र सप्तनयनास्त्रिनासिकाः षण्मुखा द्विजठरा दशाज्रयः । षष्टिसप्ततभुजा ज्वलत्कचा मुण्डिता धृतशिखाः कपर्दिनः ॥ ७५ ॥ १. तत्पदस्यानुपदं गच्छतः, * 'स्वयम्' इति खपुस्तके पाठः.
दशमः सर्गः . वीतबाहुचरणा विमस्तकाः कुक्षिलमवदना शिरोमयः । विष्फुलिङ्गनयना विषोगिरा लम्बमानरसनोष्ठनासिकाः ॥ ७६ ॥ श्वेतपीतहरितासितारुणांः शृङ्गिणः सगरुतः सचञ्चवः । व्याघ्रदन्तिहयवायसाध्यः पादपाचलशिलानखायुधाः ॥ ७७ ॥ ऋक्षवानरतरक्षुपन्नगद्वीपिसिंहशरभद्विपाननाः । निर्ययुर्युगपदट्टहासिनः सङ्घशो युधि गणा मदोल्बणाः ॥ ७८ ॥ (चकलकम्) धावदश्वमवघूर्णितद्विपं नष्टयोधमवसन्नसैनिकम् । सम्प्रमुग्धसचिवं क्षणादभूत् तादृशं तदपि मानवं बलम् ॥ ७९ ते पदातिकुलमूरुवेगतः फूत्कृतेन गजवाजिमण्डलम् । स्यन्दनाश्च करतालमारुतैर्व्यक्षिपन् रणमुखाद्विदूरतः ॥ ८० ।। क्षुद्रदीपमिव चण्डमारुतः शुष्कगुल्ममिव दावपावकः । ध्वान्तबृन्दमिव भास्करोदयस्तद्दलं नरबलं व्यनीनशत् ॥ ८१ ॥ युद्धदर्शनकुतूहलागताः सिद्धचारणसुपर्वपन्नगाः । अप्सरश्चरमभागवर्त्मना दुद्रुवुः प्रमथयूथदृक्पथात् ॥ ८२ ॥ तां प्रधाव्य पृतनां गणैः समं सम्प्रसर्पति शिलादनन्दने । अग्रतो व्यचलदात्तकार्मुकः सम्प्रहृष्टवदनः सखीजनः ॥ ८३ ॥ बद्धकक्ष्यमपिनद्धकञ्चुक कुञ्चितभ्रुकुटि कोमलाननम् । मुग्धभीषणमलक्षि तबलं मूर्तमादिमरसद्वयं यथा ॥ ८४ ॥ स्वोचितप्रतिबलानवेक्षणस्रस्तयुद्धकुतुका शनैरिव । आददे धनुरधिज्यमम्बिका सा निरीक्षितसखीजनोद्यमा ॥ ८५ ॥ तत्र शक्तिपृतनाधनुश्च्युताः सायकाः कनकपुङ्खशोभिनः । सर्वतः प्रमथमण्डलेऽपतञ्छविरे दिनमणेरिवांशवः ।। ८६ ॥ तां पुरैव विकृतां वरूथिनीं स्वाशुगैर्विकृतिमापितां पराम् । वीक्ष्य वीक्ष्य समरे विजहिरे ता निरीक्षितपरस्पराननाः ॥ ८७ ।। सस्तशूलमपविद्धतोमरं ध्वस्तमुद्गरमपास्तकार्मुकम् । नन्दिनं शरणमायुराहवे ताडिता गणवरास्तदाशुगैः ॥ ८८ ॥ १. शावरे तमसि.
शिवलीलार्णवे धावतो गणवरान्निवारयस्तर्जयन्युधि च तत्सखीजनान् । सन्ददर्श धुरि तां रथे स्थितां स द्वितीय इव शकरो गणः ॥ ८९॥ निर्दयं प्रविविधुः सखीजना मन्दमन्दमिषुभिस्तमम्बिका। . मातृहस्तगलिता हि मार्गणाः कस्य मर्मणि निवेष्टुमीशते ॥९॥ स्वामिनीति जननीति चावशान्निस्सरत्सु वचनेषु चासकृत् । पाणिना स युयुधे क्षणं बलादञ्जलिं प्रतिमुहुश्चिकीर्षता ॥ ९१॥ पाण्ड्यराजदुहितुः करच्युता नाशुगास्तमसुभिर्व्ययोजयन् । तत्त्वतो हि कुसुमानि सायकानेक्षवं च धनुराहुरागमाः ॥९२॥ सर्ववित् स हि शिलादनन्दनः सन्निवृत्य झटिति स्वयं रणात् । स्वामिने तदखिलं व्यजिज्ञपत् पादयोः प्रणिपतन् मुहुर्मुहुः ॥ ९३ ॥ सन्धिरेव भवतस्तयोचितः सङ्गरो न तु महेश! जात्वपि । एहि याम इतिवादिनं तु तं सोऽवलम्ब्य निरगात् कृतस्मितः ॥ ९४ ॥ पाण्ड्यराजदुहितुर्हि दक्षिणः प्रास्फुरत् समरकर्मणे भुजः । वीक्षिते तु वृषभध्वजे विभोरस्फुरत् स्वयमदक्षिणो भुजः ॥९५॥ आदिमं रंसमिवात्तविग्रहं त्यक्तरौक्ष्यमिव तेजसां निधिम् । सा ददर्श शरदिन्दुसुन्दरं पुङ्गवे पुरहरं सनन्दिनम् ॥ ९६ ॥ संसते म्म सशरं धनुः करात् तत्वरे तमुपगृहितुं मनः । उन्ममज पुलकोऽभितस्तदा निर्ममज्ज हृदयेऽधिकः कुचः ॥९७ ॥ यं प्रहर्तुमवलम्बितं धनुस्तं निरीक्ष्य समरे तदुज्झितम् । तत्कटाक्षशरणः समाददे साभिमान इव मीनकेतनः ॥ ९॥ तद्विलोकविवशीकृते हरे बाणपातचकिते च नन्दिनि । रन्ध्रमेतदुपलभ्य दर्पकः स्वां रुषं सफलयाम्बभूव सः ॥ ९९ ॥ युध्यते कथमियं कुमारिका युध्यते कथमसौ हरस्त्विति । द्रष्टुमिच्छति जगत्रये स्मरस्तावुभौ शरगणैरिवाकिरत् ॥ १० ॥ यां विदन्ननपराध्यमाशुगं प्रागजीयत कृतश्रमः स्मरः । अद्य लब्धमनया महद्यशः काल एव विजयस्य कारणम् ॥१०॥ .
दशमः सर्गः। ७५ तस्तम्भिरे च मुमुहुश्च चकम्पिरे च यत् त्रासिता युधि तया प्रमथाः समस्ताः । सद्यो दशा परिणता ननु सैवं तस्यां कस्यापि जीर्यति न शैवजनापचारः ॥ १०२ ।। मारस्य चार इव वीक्ष्य हरं पुरस्ता- दन्तर्यदा प्रविशति स्म कुचस्तृतीयः । सम्बोधितः सुमतिना सविधं तदैव तस्या जगाम तरुणस्तरुणेन्दुमौलिः ॥ १०३ ॥ ददृशे किल पुष्पवर्षमेकं प्रकटं मूर्ध्नि तयोस्तदा प्रवृत्तम् । हृदयस्थपरस्परा धिगम्यं ववृते चान्तरमाङ्गजं तदन्यत् ॥ १०४ ॥ उन्नमय्य मुखमानतमस्याः पाणिनेदमवदत् प्रमथेशः । पश्य देवि! किमपत्रपसे त्वं यत् त्वया युधि वयं विजिताः स्मः ॥ १०५॥ घटितमखिलं ज्ञातो भावो न किञ्चन शेषितं तदपि भवतीं वाचा याचामि काञ्चनमालिकाम् । इति निगदति स्मेरे शम्भौ रसोत्तरमुत्तरं चतुरमवदत् सद्यो बाला तथा क्रियतामिति ॥ १०६ ॥ चातुर्य तदवेत्य वाक्यसरणौ चन्द्रार्धचूडामणि- बोले ! तत् क्रियते तथैव भवती सद्यः परावर्त्तताम् । आसन्ने विधुवार एव मधुरामेतास्मि सज्जीभवे- त्याभाष्य स्मितमन्थरं स्वयमसावन्तर्दधे तामपि ॥ १०७॥ सद्यः करमहफला तव जैत्रयात्रेत्युक्तं न विम्मर वचः कलशीभुवेति । सा बोधिता सुमतिना सविलज्जमन्तः स्मित्वा तदैव मधुराभिमुखी प्रतस्थे । इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते शिवलीलार्णवे दशमः सर्गः ।। १. अन्तर्दधे तिरोहितः अन्तर्हृदये धृतवांश्च. * "मिगभ्यम्' इति खपुस्तके पाठः .
७६
शिवलीलार्णवे
अथैकादशः सर्गः।
अथोत्थितां तामनुगृह्मती चमूं सुखप्रसुप्तप्रतिबोधितामिव ।
विहाय सा भूमिपथं सखीवृता विहायसा प्रास्थित पुष्पकाश्रिता ॥१॥
ददर्श वल्मीकवदुन्नतान् गिरीन् महान्त्यरण्यान्यपि शाडलानिव ।
सुरापगाद्याः सरितोऽपि तन्तुवद् विदूरभावादवनौ नृपात्मजा ॥ २ ॥
पुरोपशल्योपवनेऽवतीर्य सा शुभ मुहूर्ते सुमतिप्रवेदिते ।
विवेश राज्ञो भवनं परिष्कृतं गजेन दुग्धार्णवजन्मना शनैः ॥ ३॥
प्रविश्य गेहं सदसि क्षणं स्थिता विसृज्य पौराननुयायिनोऽपि च ।
सखीसमेता सुमतौ पुरस्सरे जगाम मातुः सदनं तटातका ॥ ४ ॥
अभिद्रवन्ती द्रुतमासनान्निजात् प्रमोदबाप्पस्थगितेक्षणामियम् ।
ननाम नाम स्वमुदीर्य पादयोर्विकीर्णपुष्पा विनयेन मातरम् ॥ ५॥
सुतां विनम्रां परिरभ्य निर्भरं शिरस्युपाघ्राय चुचुम्ब चानने ।
पुनश्च माता परिषस्वजे चिरं पुनश्च जघौ सुचिरं शिरस्पदे ॥ ६ ॥
नियन्त्रितानन्दतरङ्गसम्प्लवां निरुद्धहर्षाश्रुलवां कथञ्चन ।
समेत्य सख्यः सुमतिश्च पादयोर्मुहुः प्रणेमुर्महिषी महीपतेः ॥ ७ ॥
इयं नदीभर्तुरियं सुधान्धसामियं नृपाणामुपदेति मन्त्रिणा ।
निवेद्यमानेऽपि सुतामुखार्पितां न दृष्टिमावर्तयितुं शशाक सा ॥ ८॥
इयान् जयस्ते सुमतेः प्रभावतः सखीभिराभिः सुखमस्मि पोषिता ।
इमान् समालोकय देवि! तावदित्यबोधयन्मातरमम्बिका स्वयम् ॥९॥
तथेति सा मन्त्रिनिवेदितां पृथग् ददर्श दिव्यामुपदां च पार्थिवीम् ।
सुरदुमान् स्वर्गगवीं च पूजितान् प्रणम्य जग्राह नृपालभामिनी ॥ १० ॥
वरः सुराणां जगतां च यो वरो वरः स एव स्वयमम्बयार्जितः ।
किमेभिरयेत्यवदन्महत्प्रियं समेत्य सख्यः सुमतिश्च तां प्रति ॥ ११ ॥
किमेतदित्यप्रतिपत्तिमन्थरां विशिष्य देवीं सुमतिर्विबोधयन् ।
स संविधित्सुः सकलं तदाज्ञया बहिः प्रतस्थे बहुधा तयाहतः ॥ १२॥
एकादशः सर्गः।
उपस्थितेशानविवाहमङ्गलामुदीक्ष्य पुत्रीं मुमुदे न सा तथा ।
यथा व्यषीदत् तनयोत्सवप्रियं पतिं स्मरन्ती मलयध्वजं नृपम् ॥ १३ ॥
परीत्य हेमाम्बररत्नभूषणैः प्रवर्तितारात्रिकमङ्गला स्वयंम् ।
चकार रक्षां जननी तनूभुवः सितेन फाले भसितेन शूलिनः ॥ १४ ॥
अथोपकार्या विविधाः सुधान्धसां धराभुजां तत्र तपस्विनामपि ।
समस्तवस्तूपचिताः समन्ततश्चकार सज्जाः सुमतिः क्षणादिव ॥१५॥
सुगन्धिगन्धद्रवलिप्तमित्तिकं सुवर्णरम्भाधटितं गृहे गृहे ।
नियन्त्रितच्छत्रमुदश्चितध्वजं पुरं स्वतः पौरजनैरलंकृतम् ॥ १६ ॥
विनिर्गतः सुन्दरनाथलिङ्गतो महेश्वरो मानुषमास्थितो वपुः ।
पुरोपशल्येऽवततार संवृतो गणैः सुरैर्मातृगणैश्च सर्वतः ॥ १७ ॥
स पाण्ड्यदेवीप्रहितेन मन्त्रिणा निवेदितासन्नमुहूर्त्तमङ्गलः ।
प्रभुर्विवाहोचितवेषसुन्दरः प्रवेष्टुकामो मधुरां विनिर्ययौ ॥ १८ ॥
किरीटकोटीघटितोऽस्य पाटलो मणिर्बभौ वासुकिनोपदीकृतः ।
निकृत्य बालं विधुमुच्चकैस्ततः परिस्फुरन् बाल इव त्विषां पतिः ॥ १९ ॥
विजित्य मारं जगदेकधन्विनं यदाप कीर्ति महतीं महेशितुः ।
तदक्षि तस्मिन्नधुना विजृम्भिते ममज मन्दाक्षवशादिव स्वयम् ॥ २० ॥
प्रसक्तमकं विमले कथञ्चन प्रमा?मीष्टे न शिवोऽपि सर्वथा ।
मृगेण हीनोऽप्यलिकेऽस्य यत् क्वचित् बभौ मुखेन्दुर्मुगनाभिलाञ्छितः ॥२१॥
कपोलसौन्दर्यममुष्य पश्यतः कटाक्षरेखाः पतिता जनस्य याः ।
नवोद्गतश्मश्रुनिमादिहैव ता निषेदुरत्यादरकीलिता इव ॥ २२ ॥
विशुद्धमुक्ताफलकुण्डलाङ्कितं विकीर्णमन्दस्मितसुन्दराधरम् ।
विशालनेत्रं वदनं निरीक्षितुं तदस्य सैवार्हति मीनलोचना ॥ २३ ॥
विशुद्धहेमत्विषि विश्वमङ्गले वपुष्यमुप्याद्भुतकुङ्कुमाकिते ।
अलक्षि सूक्ष्मो विशदश्च कञ्चुकोऽवतंसितेन्दोरिव चन्द्रिकाङ्कुरः ॥ २४ ॥
मुहर्चपर्यन्तविलम्बनाक्षमाविजृम्भमाणस्मरसज्वरार्जितः ।
विनीलिमेव व्यरुचद् भुजान्तरे तनुस्तदीये मृगनाभिचर्चिका ॥२५॥
be शिवलीलार्णवे पृथग्विधाभिर्मणिहारयष्टिभिः परिष्कृतं तद्वपुरैन्दुशेखरम् । अलक्ष्यताखण्डलचापमण्डितः पयोधरः सान्ध्यरुचेव पाटलः ॥२६॥ मणीमयैरङ्गदकङ्कणादिभिर्भरं न मेने मृदुलोऽपि तद्भुजः । महीधराणां महतां फणाभृतां विरोपणासादितलाघवोत्सवः ॥२७॥ दिगम्बरः काञ्चनमम्बरं हरः कथं बभारेति न विस्मयाय नः । तनुत्विषा तस्य दिशो दशापि यत् प्रतप्तकार्तस्वरभास्वरीकृताः ॥२८॥ किमस्य मञ्जीरपदे कृतालयाः परीत्य मुक्ताश्चरणं सिषेविरे । महोत्सवं द्रष्टुमिमं महेश! नः सकृत् पुनः संसरणं भवत्विति ॥२९॥ वपुश्चिदानन्दमयं यदद्भुतं तदावृतं तावदविद्ययाद्यया । इदं ततस्सुन्दरमित्थमावृतं मणित्विषेति व्यषदन्महर्षयः ॥३०॥ विभूषितस्यास्य पुरः पुरन्दरो विशालमेकं मुकुरं समाददे । ने तत्समश्चेति गिरं पुरातनीमपाकरिष्यन्निव बिम्बलम्भनात् ॥ ३१ ॥ स नन्दिना सङ्घटितं पदाब्जयोः पुनन् पुरारिमणिपादुकायुगम् । करौ कृतार्थों कमलाक्षवेधसोः सलीलमालम्ब्य शनैर्बहिर्ययौ ॥ ३२॥ मदालसाभिक्रमणाक्षिमीलनैः करार्पणाकुञ्चितकर्णचापलैः । गजाननात् तत्क्षणशिक्षितैर्दृढं स पुङ्गवः कुञ्जरपुङ्गवोऽभवत् ॥ ३३ ॥ उदश्चिताकुञ्चिततत्पुरःपदक्षणार्पिताधिः श्रवणावलम्बनः । सलीलमुन्नम्य स पूर्वपर्वतं पतिस्त्विषां बाल इवारुरोह तम् ॥ ३४ ॥ निगृह्यमाणौ करिणौ मुहुर्मुहुः पुनर्नयन्तौ सममाज्ञया विभोः । कृतानुलापौ विधिकेशवौ तदा प्रचेलतुस्तस्य तु पार्श्वयोर्द्वयोः ॥ ३५॥ क्वचिन्महाकालमुखान् गणेश्वरान् क्वचिच्च देवासुरसिद्धचारणान् । नियन्त्रयन् दूरत एव पार्श्वयोश्चचाल नन्दी पुरतः सवासवः ॥ ३६ ॥ स्मृतीतिहासैनिगमास्तमेकतः शिवागमास्तन्त्रगणैस्ततोऽन्यतः । ववन्दिरे वन्दिदशामुपाश्रिता विमिश्रिता योगिभिरात्मदर्शिभिः ॥ ३७॥ पुरः पुरः पाण्ड्यनृपालवाहिनी ततोऽनु देवाः प्रमथास्ततोऽनु च । ततोऽनु भेरीजयकाहलादयस्ततोऽनु चेलुर्विविधा जयध्वजाः ॥ ३८ ॥ १. 'न तत्समश्चाभ्यधिकश्च लोके' इति.
एकादशः सर्गः।
शचीमुखैर्निर्जरकामिनीजनैः समावृते मातृगणैश्च सर्वतः ।
महार्हकर्णीरथमध्यगे रमावचोऽधिदेव्यौ तमनु प्रचेलतुः ॥ ३९ ॥
श्रियं नृपाणामवरोधसुभ्रुवो द्विजातिपत्न्यो दयितां हविर्भुजः ।
गिरं गृहिण्यो विदुषां च सादरं विशिष्य भक्त्यावनता ववन्दिरे ॥ ४० ॥
समुद्धृतं मूर्धनि तस्य पाण्डरं प्रकाशते स्मातपवारणं महत् ।
शिरस्थितं स्वं शिशुमस्य वीक्षितुं समागतः पूर्ण इव क्षपाकरः ॥ ४१ ॥
सितातपत्रान्तरसम्मितं विभोः शिरस्पदं वीक्षितुमुन्मना मनाक् ।
विधातृहंसः परितः पतन्निव व्यलोकि धूतं दिवि चामरद्वयम् ॥ ४२ ॥
अयं स राज्ञीपतिरेति पश्यतेत्यनुद्रवजानपदोक्तिभङ्गिाभिः ।
कृताभ्यसूयेषु गणेषु सस्मितो हरिर्विरिञ्चश्च तमन्वपश्यताम् ॥ ४३ ।।
पराक्रमं स्वं प्रकटीचिकीर्षता समाहृतं शम्बरवरिणा शिवे ।
बलं निजं मौलमिवाङ्गनाजनस्तमीक्षितुं सन्निपपात सर्वतः ॥ ४४ ॥
तमेकवत्रं द्विभुजं द्विनेत्रमप्यमानुषं भावमिवास्थितं त्विषा ।
निरीक्षमाणा निभृतैर्विलोचनैः परस्परामित्थमवादिपुः स्त्रियः ॥ ४५ ॥
अहो मुखाम्भोजमहो युगं दृशोरहो भुजद्वन्द्वमहो भुजान्तरम् ।
अहो महत्कौशलमस्य वीक्षितेप्वहो विचित्रा मदवारणे स्थितिः ॥ ४६॥
जिता त्वया यत् पृथिवी न तज्जितं जिताश्च यदेवि! सुरा न तज्जितम् ।
अनेन यूना यदनन्यनिर्जितं जितं वधूजन्म तदूर्जितं जितम् ॥ ४७ ॥
अमुं समालोक्य युगेन सा दृशोरमुं समाश्लिप्य भुजद्वयेन वा ।
कथं पुनर्निर्वृणुयात् तटातकाप्यपूर्णकामाः सकला वयं ततः ॥ ४८ ॥
हृतं मनोऽनेन हृते विलोचने सहैव नीताः सखि! पञ्च चासवः ।
इदं वपुर्नः परंमत्र पातितं गतत्रपो विध्यति तच्च मन्मथः ॥ ४९ ॥
त्वदीक्षणायोपगतास्त्वदाश्रिता हिनस्ति नस्त्वय्यपि पश्यति स्मरः ।
इतीरयामो वयमस्य सन्निधौ प्रभुः किलायं नगरस्य चास्य नः ॥ ५० ॥
मयाम्बुजाक्षः सविशेषमीक्षितो मयाद्य दृष्टः सविधे चतुर्मुखः ।
अमं युवानं प्रथमं विलोकयन्त्यहं तु मुग्धा न कमप्यवदिषम् ॥ ५१ ॥
शिवलीलार्णवे
मयास्य दृष्टे विपुलायते दृशौ मयास्य मन्दस्मितमीक्षितं शुचि ।
अहं द्वयं प्रैक्षिषि साधु साध्वियं पशुर्हि नः पुच्छविषाणवर्जितः ॥ ५२ ॥
अनगसर्वस्वमनन्यवीक्षितं न्यधायि यत् पाण्ड्यकुमारिकावशे ।
तदप्यवस्कन्तुमुपागतः स्वयं युवा किलायं चतुरो जितस्मरः ॥ ५३ ॥
इति प्रवृत्ताः प्रतिवीथि सङ्कथा मृगीदृशामाकलयन् कृतस्मितः ।
विकीर्यमाणः पथि लाजमौक्तिकैः पुराङ्गनाभिः पुरशासनो ययौ ॥ ५४ ॥
स राजगेहं समया मतङ्गजं नियन्त्रयन्नादिशति स्म नन्दिनम् ।
श्रियं च वाणीमपि राजमन्दिरं प्रवेशय प्रागमरीगणैरिति ॥ ५५ ॥
ततः शिलादात्मजवेत्रताडितद्रवन्नभोभूचरसंसदा पथा ।
समं समस्तामरसुन्दरीजनैर्जगज्जनन्यौ ययतुर्नृपालयम् ॥ ५६ ॥
पुरस्कृते स्वोचितया सपर्यया पुरोधसा कुम्भभवेन ते उभे ।
अभिद्रुता काञ्चनमालिका जवाद् विकीर्णपुष्पा पदयोरवन्दत ॥ १७ ॥
पृथक् पृथक् सा परिरभ्य लालिता शचीरमावाग्जननीभिरादरात् ।
श्रिये सरोजं शुकमुज्ज्वलं गिरे मणिं च शच्यै विनयादुपाहरत् ॥ १८ ॥
उपेहि मातामहि ! कुत्र सा वधूः प्रदर्शयास्मज्जननीमितीरिता ।
निनाय ताः काञ्चनमालिका शनैस्तमालयं यत्र तटातकास्थितिः॥ ५९॥
विसृज्य भद्रासनमात्तपादुकां समायती प्रश्रयगन्धिभिः पदैः ।
वधू विवाहोचितवेषकोमळां निरीक्ष्य तस्थुर्निभृताः सुरस्त्रियः ॥ ६॥
अलक्ष्यतास्या मणिपादुकाञ्चले समन्ततो मौक्तिकपतिरुज्ज्वला ।
अदूरलमा चरणारविन्दयोरनुश्रवाणामिव वर्णपद्धतिः ॥ ६१ ॥
अतीत्य लाक्षारसमाहितं नवं माणप्रभा पादुकयोश्च तावतीम् ।
अकृत्रिमः पाटलिमा पदाब्जयोरलक्ष्यतास्या विसरन् बहिः स्फुटम् ॥ १२॥
प्रबोधयन्ती श्रियमक्षिसंज्ञया सरस्वती तच्चरणाम्बुजद्वयम् ।
क्षणं निदध्यौ विकचेक्षणा ततश्चिरं तु दध्यौ मुकुळीकृतेक्षणा ॥ ६३ ॥
समापतन्त्याः सविलासमाबभौ मनोहरोऽस्या मणिमेखलारवः ।
विजित्य शम्भु मदनेन गर्जता प्रवर्तितोचैरिव वीरघोषणा ॥ ६४ ॥
एकादशः सर्गः। प्रतिक्षणोन्मेषिपयोधरोन्नतिप्रतिस्फुटत्कञ्चुकसन्धिपूरणः । उरोजनिश्शेषसमावृते बभानुरस्यमुष्या मणिहारकोरकः ॥ ६५ ।। परस्परस्पर्ध्यपि तत् कुचद्वयं विजेतुकामं किल मेरुमन्दरौ । तथा समेतं समये मिथः स्वयं यथोपलभ्येत न किश्चिदन्तरम् ॥ ६६ ॥ कृपाणचापग्रहकन्दुकाहतिप्रपन्नकोटीरतटार्पणादिभिः । करो न काठिन्यमवाप हेतुभिर्वदान्यतावासनयेव सुभ्रवः ॥ ६७ ।। त्रिलोकजेतुर्जयलाञ्छनेन सा त्रिभङ्गिसङ्घट्टितमौक्तिकात्मना । करारविन्दं कटकेन बालिका विभूषयामास मनोभवाज्ञया ॥ ६८ ॥ उपासितुं सा पतिमुत्पलप्रियं करे च कर्णे च निवेशितोत्पला । बभार भूयो नयनोत्पले ततः स्वयं बभूवोत्पलदामकोमला ॥ ६९ ॥ अलक्षि ताटङ्कयुगान्तरार्पितो विनिर्मितो मौक्तिकरत्नमण्डलः । स्वयंवरायोपगतस्त्यजन् विधुं तदाननेन्दोरिव तारकागणः ॥ ७० ॥ अलक्ष्यतासन्नकरग्रहोत्सवप्रमोदजोऽम्या विशदः स्मिताङ्कुरः । विसृत्य नासामणिचन्द्रिका बहिर्विभूषयन्तीव रदच्छदान्तरम् ॥ ७१ ॥ प्रचीयमानं मुखरामणीयकप्रवाहमित्थं वयसा नवं नवम् । अवेक्ष्य मीनाविव जातवल्गनावशोभिषातां चपले तदीक्षणे ।। ७२ ॥ विधुं चतुर्धा प्रविभज्य तन्मुखे त्रिभिः कपोलौ निटिलं च कल्पयन् । तुरीयमंशं विनियोगवर्जितं न्यवेदयत् स्वामिनि शङ्करे विधिः ॥ ७३ ॥ विशषयामास यदर्धचन्द्रतो ललाटमस्या मृगनाभिरेखिका । विशेषकत्वं वहति म्म तेन सा ततोऽन्यतस्तत्पदमौपचारिकम् ॥ ७४ ॥ रराज तद्वेणिलतावलम्बिनी प्रसूनपतिश्चरमाङ्कसीमनि । प्रहर्तुमीशं समये मनोभुवा निवेशिता गूढमिवेषुसंहतिः ।। ७५ ॥ हरस्य शृङ्गाररसाधिदेवतामवेक्ष्य तां मन्थरमायतीं पुरः । अलज्जत श्रीर्जगदादिसुन्दरी ललजिरे लज्जितुमप्सरोगणाः ॥ ७६ ॥ पदैरिमां प्राकृतवस्तुसंहतिप्रसक्तसङ्केतमलीमसीकृतैः । भवर्णयन्ती विववार भारता स्ववैदुषीं मौनत एव केवलम् ॥ ७७ ।।
८२ शिवलीलार्णवे शची तदीयाद्भुतरूपदर्शने सहस्रमक्ष्णां स्वयमिच्छती सती । सकृत्प्रवृत्त्यापि चकाङ्क्ष गौतमे बलादहल्याकृतशापमात्मनः ॥ ७८ ॥ ततः शनैर्भूषणगौरवेण सा सखीजनालम्बितहारमण्डला । ननाम वाणीकमले नता स्वयं सुराङ्गनाभिः परिषस्वजे शचीम् ॥ ७९ ॥ अयं प्रणामो ननु लाभ एव नो विवाहदीक्षावभृथे तु देवि! ते । न हि प्रणामावसरं लभेवहीत्यवोचतां तां परिरभ्य ते दृढम् ॥ ८ ॥ अथावतीर्य द्विरदादलङ्कृतादनुद्रुतः पारिषदैः सुरैरपि । विरिञ्चवैकुण्ठकरावलम्बनो विवेश राज्ञो भवनं महेश्वरः ।। ८१ ॥ तमर्घ्यपाद्याचमनीयपूर्वया सपर्यया कुम्भभवः सभाजयन् । प्रवेशयामास वरं महर्षिभिः प्रसन्नया तस्य दृशा कृतार्थितः ॥ ८२ ॥ स पाण्ड्यशुद्धान्तविलासिनीजनैर्विकीर्यमाणः शुभलाजमुष्टिभिः । जटाभिघातोत्पतदभ्रवाहिनीपयःकणाकीर्ण इवाबभौ वरः ॥ ८३ ॥ प्रविष्टमन्तः प्रतिहारसीमनि प्रतीक्ष्य जामातरमिन्दुशेखरम् । प्रचोदिता काञ्चनमालया रमा चकार पाद्यं पयसास्य पादयोः ॥ ८४ ॥ प्रदीपहस्ता वचसामधीश्वरा प्रदक्षिणीकृत्य शचीसमन्विता । प्रवेशयामास शशाङ्कशेखरं पुरस्सरन्ती दिविषत्पुरन्ध्रिभिः ॥ ८५ ॥ स विद्रुमस्तम्भचतुष्कशोभितां विचित्रवैदूर्यविटङ्कलाञ्छिताम् । विलम्बिमुक्तामणिदामकोमलां विवेश देवोऽथ विवाहवेदिकाम् ॥ ८६ ।। भेरीभाकारसान्द्र बहिरबहिरपि प्रौढशुद्धान्तकान्ता- पाणिव्योविद्धतूर्यध्वनिजनितचमत्कारसङ्गीतरम्यम् । जामातृश्लाघनोक्तिव्यतिकरितवधूबान्धवोल्लासहासं जज्ञे राज्ञो गृहं तन्मुनिजनरचितोत्तुङ्गमङ्गल्यपाठम् ॥ ८७ ।। इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते शिवलीलार्णवे एकादशः सर्गः ।
अथ द्वादशः सर्गः। (३ . अथासने रलमये निषण्णमाद्यं युवानं मुनयः पुराणाः । आशीर्वचोभिर्विविधैरपुष्णन्ननाहतातोद्यनिनादमित्रैः ॥ १ ॥ प्रकीर्य पुष्पाणि मणीमयानि पत्नी नमन्तीं मलयध्वजस्य । श्रिया च वाण्या च निवेद्यमानां श्वश्रू हरः प्रेक्षत गौरयेण ॥ २ ॥ अगस्त्यमामन्ध्य ततो विधातुरादेशतः श्रीश्च सरस्वती च । निवेशयामासतुरासनार्धे वधू हिया नम्रमुखीं वरस्य ॥ ३ ॥ दाने स्वसुर्दानवमर्दनोऽपि नियुज्यमानः कमलासनेन । 'श्रिया समं काञ्चनमालिकायाः समक्षमारान्निषसाद वध्वाः ॥ ४ ॥ प्रस्थापितः प्राग् गिरिजाविवाहे यन् कुम्भजन्मा तहणं विनेतुम् । ब्रह्माणमीशस्तु विवाहहोमे वने तमध्वर्युमथाब्जयोनिम् ॥ ५ ॥ यत्नादपि प्रागनवेक्षितं यत् तच्छाम्भवं पादतलं मुकुन्दः । पद्माकरावर्जितपाद्यधौतमानर्च पश्यन्निभृतं प्रसूनैः ॥ ६ ॥ आरोपयन्नङ्कतलं हरिस्तामाचक्षते स्वं परमं पदं याम् । राज्यश्रिया दक्षिणया सहैव ददौ त्रिवेदीकवये वराय ॥ ७ ॥ दातुर्ग्रहीतुश्च किमस्ति गोत्रं को वा पिता कश्च पितामहो वा । अतोऽद्भुतस्तुभ्यमिमां ददामीत्यासीदियानेव तु दानमन्त्रः ॥ ८ ॥ तत्पूर्वमुत्तानदशागृहीतसङ्केतके पाणितले पुरारेः । न्यस्तः करः पाण्ड्यकुमारिकायाः सर्वोत्तरत्वं प्रकटीचकार ॥९॥ करो गृहीतः पृथिवीपतिभ्यो दिक्पालकेभ्यश्च यया जयन्त्या । तस्यास्त्वयाग्राहि करोऽधुनेति देवी गिरां सस्मितमाह देवम् ॥ १० ॥ परस्परस्योपरि मन्मथेन प्रयुक्तमत्रं समयं प्रतीक्ष्य । सन्दर्शयन्ताविय चक्रतुस्ती माल्यार्पणव्यत्ययमङ्गलानि ॥ ११ ॥ गृहन् वरः स्वाञ्जलिना मृगाक्ष्या लाजाञ्जलिं होमविधौ चकाशे । माल्यापवेधग्लपनापराधनिर्मार्जनायानुनयन्निवेमाम् ॥ १२ ॥ अश्मानमारोपयितुं पदान्जमालम्बमाने दयिते मृगाक्ष्याः । पादग्रहः प्राथमिकोऽयमस्याः प्रचीयतामित्यवदन्मुकुन्दः ॥ १३ ॥ १. तत्पूर्वमित्यादि । इदम्प्रथममुत्तानिते इति विशेषणार्थः, शिवलीलार्णवे ८४ . कान्तः शरण्यो जगतां त्रयाणां तस्याः करस्थे चरणारविन्दे । ऐश्वर्यमुादि सदाशिवान्तमव्याहतं तद् बुबुधे करस्थम् ॥ १४ ॥ आमुक्तमञ्जीरमलक्तकाङ्कमाकुञ्चितं किश्चिदिवं हियान्तः । स्विन्नं करे स्विद्यति लममैशे धन्याः पदं तद् ददृशुर्जनन्याः ॥ १५ ॥ आसीत् तदाविष्कृतहर्षबाप्पमक्षिद्वयं काञ्चनमालिकायाः । आ मानुषादा च महेश्वरीयादानन्द साम्राज्य इवाभिषिक्तम् ॥ १६ ॥ आधीयमानेऽश्मनि तत्पदाब्जे मञ्जीरघोषो मधुरो जजम्भे । सद्यः समास्फालितदोयेन मुक्तः स्मरेणेव जयाट्टहासः ॥ १७ ॥ प्रदक्षिणीकुर्वति* हव्यवाहं द्वन्द्वे जगन्मङ्गलधाम्नि तस्मिन् । प्रदक्षिणीचक्रुरिव प्रजानां दृशस्तदीयोत्पलदामदम्भात् ॥ १८ ॥ निवर्त्य वैवाहिकहोमशेषमम्भोजभूः कुम्भभुवोपदिष्टः । न्यवेशयद्रत्नमयेऽथ पीठे वामे वधूं दक्षिणतो वरञ्च ॥ १९ ॥ आसन्नमप्यन्तरलेशशून्यं मिथो न तृप्ति मिथुनं तदृहे । अतृप्तयोरेकशरीरभावेऽप्यासत्तिरेषा कतमा तयोः स्यात् ।। २० ॥ आशीर्भिरानुश्रविकीभिराद्यामाचारपद्यामनुपालयन्तः । संवर्धयामामुरिमौ समता ब्रह्मर्षयो ब्रह्ममुखा हसन्तः ॥ २१ ॥ स दक्षिणाभिः परितोप्य विप्रान् सम्मान्य देवानुचितोपचारैः । विश्रान्तिहेतोरवरोधगेहं विवेश देवोऽथ तटातकायाः ॥ २२ ॥ धैर्योपदेशादसकृत् सखीभ्यां वाणीरमाभ्यां प्रतिबोधितायाः । आलम्बमानः करमम्बिकाया मञ्चे पराये निषसाद देवः ॥ २३ ॥ ताम्राधरोष्ठं तरलायताक्षमास्विन्नमषित्रपयावनम्रम् । वक्रं शनैरुन्नमयाम्बभूव मार्जन्निव स्वेदलवान् स तस्याः ॥ २४ ॥ ताम्बूलमासन्नसखीवितीर्णमादाय पर्याकुलितां हिया ताम् । आलक्षयन्ती कमला सलीलमाह म्म पत्ये प्रतिपादयति ॥ २५ ॥ कुतो गृहीता वलयास्त्वयमें केनोपहारीकृत एष हारः । इत्यङ्गमङ्गं पतिराममर्श जिज्ञासयेवाभरणेषु तस्याः ॥ २६ ॥ + साम्राज्येत्यादिमधुर इत्यन्तोऽशः खपुस्तके न लिखितः. * ति हव्येत्यादिदृशइत्यन्तोंऽशः खपुस्तके न लिखितः.
द्वादशः सर्गः आपृच्छ्यमाना दयितेन तत् तदवाङ्मुखी नोत्तरमाचचक्षे । निर्बन्धपृष्टा तु कथञ्चिदेषा मन्दस्मितेनोत्तरयाम्बभूव ॥ २७ ॥ माता तवेयं मलयध्वजस्य किं भोगिनी किं गृहिणीषु काचित् । इत्युक्तिभिः कोपयतापि पत्या प्रत्युत्तरं भ्रूकुटिरेव लेभे ॥ २८ ॥ तदिङ्गितानामयथावबोधात् समाचरन्तीभिरिवान्यदन्यत् । सल्लापयामास रुषा सखीभिः सङ्केतिताभिः स हसन् नवोढाम् ॥ २९ ॥ यदाह यत् प्रैक्षत यज्जहास यदास्त जोषं यदपि न्यषेधत् । • सा तेन तेनैव शररिलाभसाफल्यमापादयति म्म यूनः ॥ ३० ॥ स यावदित्थं समयाचकार नवोढया नर्मपरो महेशः । तावज्जना भैक्तकराः समेत्य निर्वर्तितं पाकविधिं शशंसुः ॥ ३१ ॥ ते शासनात् तत्र महेश्वरम्य प्राक् ब्राह्मणान् भोजयितुं समेतान् । सम्मेलयन्ति स्म समन्ततोऽपि स्वयं तु भक्त्या सुमतिर्महर्षीन् ॥ ३२ ॥ असेवमानौ नटनं पुरारेरपोऽपि यो जात्वपि नाददाते । तौ व्याघ्रपादश्च पतञ्जलिश्च सन्नेहतुहेमसभां प्रयातुम् ॥ ३३ ॥ आकर्ण्य तन्निश्चयमानिनाय तो योगिनौ सुन्दरपाण्ड्यदेवः । आचष्ट चैनावभिगम्य भक्त्या पादे स्पृशन् प्रश्रयपूर्वमित्थम् ॥ ३४ ॥ सभानटः काञ्चनसंसदीव संसेव्यमानः सुरसिद्धसङ्घः । हालास्यनाथोऽपि करोति नृत्तमस्मिन् सदा रूप्यसभान्तराले ॥ ३५ ॥ अत्रैव नृत्तं तरुणेन्दुमौलेरासेव्य माध्याहिकमद्भुतं तत् । आगच्छतं क्षिप्रमनुग्रहीतुं प्राणाग्निहोत्राचरणादिहास्मान् ॥ ३६ ॥ इतीरितौ पाशुपतौ मुनी तौ तथेति गत्वा कनकाम्बुजिन्याम् । निवर्तयन्तौ नियमाभिषेकमासेदतुर्वृत्तसभां पुरारेः ॥ ३७ ॥ अन्तर्हितब्रह्मकपालजालमाबद्ध्य दृश्येन्दुकलं कपर्दम् । आमुक्तवैयाकरणाङ्गदाजिरवातरत् तत्र तदा नटेशः ॥ ३८ ॥ मुरं पुरा यः स्वयमाजघान स एव देवो मुरजं तदानीम् । ससर्ज यस्तालमसेवनीयं स एव तालं जगृहे तु वेधाः ॥ ३९ ।। १. आपृच्छयमाना ईषत् पृच्छ्यमाना. २. समयाचकार ममयं यापितवान् . ३. भक. ४. तालं वृक्षविशेषम् . करा अन्नकाराः.
शिवलीलार्णवे
प्रागेव यः पाण्ड्यसुतोपलम्भान्नाथः स्थितो नर्तितुकाम एव ।
भक्तानुकम्पामपदिश्य तस्य नृत्तं तदावर्तत निर्विशङ्कम् ॥ ४० ॥
आतोद्यगीतानुगपादतालमाविर्भवद्भावरसोत्तरङ्गम् ।
आवर्त्तवेगत्रुटिताङ्गहारमनृत्यदीशो ललिताङ्गहारम् ॥ ४१ ॥
उदाञ्चितोऽनिश्चिरमुल्ललास नृत्ते स्थितावर्तकनाम्नि शम्भोः ।
चित्ते विलीने जतुवन्मुनीनां न्यासादिव स्पन्दयितुं न शक्यः ॥ ४२ ॥
वृत्तौ चकारेव विलम्बितायां मञ्जीरनादैः प्रणवोपदेशम् ।
तस्यां द्रुतायां स तदूर्ध्वलग्नां तुर्यामुपादिक्षदिवार्धमात्राम् ॥ ४३ ॥
स्वभावरम्याणि यथा यथासन् स्वाच्छन्द्यतस्तस्य विचेष्टितानि ।
तथा तथा पप्रथिरे जगत्यां शैलूषतन्त्रोपनिषद्प्रभेदाः ॥ ४ ४ ।।
तालान्तनृत्तारभटीषु तस्य निर्गच्छतां निश्वसितागमानाम् ।
आदौ महाव्याहृतितामवापुभूषाभुजङ्गश्वरफूत्कृतानि ॥ ४५ ॥
उद्भिन्नरोमाञ्चमुदश्रुपूरमाश्चर्यसम्मूढमनन्यवृत्ति ।
आलेख्यविन्यस्तमिवास्त विश्वमानन्दनृत्तावसरे पुरारेः ॥ ४६ ॥
संव्यानसम्मृष्टमुखं भवान्या विस्रस्तचन्द्रार्धविलोभनीयम् ।
नृत्तान्तरम्यं वपुरिन्दुमौलेर्निध्याय तौ तुष्टुवुनुर्मुनीन्द्रौ ॥ ४७ ॥
ननेषु चित्तान्नवनीतवृत्तेर्नाथ! त्वदीयादपि कोमलौ यौ ।
अस्मत्कृते तो चरणौ यदित्थमायासितौ तत् प्रथमं क्षमेथाः ॥ ४८ ॥
त्वयीश ! नृत्ताद्वरतऽपि चित्तं त्वदास्पदं नौ परमाद्भुतेन ।
नाद्यापि नृत्ताद्विरतिं प्रयाति ततो न किञ्चित् प्रतिभां भजावः ॥ ४९ ॥
आवां प्रसादेन कृतार्थितौ ते याचावहे लोकहिताय किञ्चित् ।
नृत्तोत्सवः काश्चनसंसदीव नित्योऽस्त्वमुष्यामपि संसदीति ॥ ५० ॥
तथेति दत्वाभिमतं तयोस्तत् प्रसेदिवान् लोकहितार्थनेन ।
देवोऽनुजग्राह पुनः स्वयं तो दत्वा शिवज्ञानमनन्यलभ्यम् ॥५१॥
सेवावसाने पुरशासनस्य समागतान् भूमिसुरान् सुरांश्च ।
हैमेषु पीठेषु वितीर्णपाद्यानस्थापयत् कुम्भभवोऽथ भोक्तुम् ॥ ५२ ॥
द्वादशः सर्गः । । ते भाविताश्चन्दनचर्चिकाभिः कर्पूरकाश्मीरकरम्बिताभिः । अभ्यर्चिता दक्षिणया च माल्यैरभुञ्जतान्नानि रसोत्तराणि ॥ १३ ॥ शाकौदनव्यञ्जनसूपयूपरसायनक्वाथरसप्रभेदैः । भक्ष्यैरसङ्ख्यैघृतशर्कराढ्यैः फलैर्विचित्रैरपि तृप्तिमापुः ॥ ५४ ॥ ते भक्ष्यभोज्यैः खलचूर्णलेह्यानिहपानीयगणैश्च चित्रैः । विस्मापिताः स्वां विधिवञ्चितेति जाति निनिन्दुः शतशः सुधाशाः ॥ आपृच्छमाना विबुधा मनुष्यानाम्वादभङ्गीमभिधां ररं च । अत्यादरादभ्यवजहुरित्थमाश्चर्यमग्ना इव तान् पदार्थान् ॥ ५६ ॥ आकर्ण्य गहाममृताशनत्वे तपःफले तत्र सुरैः प्रयुक्ताम् । वाताम्बुपर्णाशनवृत्तयोऽपि वाचंयमाः म्वानि जहुर्ब्रतानि ॥ ५७ ॥ अनेकवक्रोदरपाणिचिह्नानालक्ष्य भूतेशगणानसङ्ख्यान् । तद्विक्रियायें स्पृहयाम्बभूवुस्तत्र प्रजाः प्रत्यवसानसक्ताः ॥ ५८ ॥ इत्थं जगत् तर्पितमिन्दुमौलिर्निशम्य निर्वर्तितनित्यकर्मा । वध्वा समं भोजनवेदिकायामुपाविशन्मङ्गलतूर्योपैः ॥ ५९ ॥ वाणीविरिश्चौ कमलामुकुन्दौ शचीमहेन्द्रौ च निषेदुरग्रे । हेरम्बषाण्मातुरनन्दिनस्तु पार्श्वे निदेशेन शशाङ्कमौलेः ॥ १० ॥ अथान्नपूर्णापरिविप्यमाणमन्नं शुचि स्वादु बहुप्रकारम् । आमोदयन् नर्मभिरन्तिकस्थानभुङ्क्त वध्वा सह चन्द्रचूडः ॥ ६१ ॥ स भुक्तशेषं कवलं प्रियायै समन्त्रमेकं प्रथमं ददौ यत् । हेतुस्तदासीदिव भाविनीनां तद्भुक्तशेषग्रहसन्ततीनाम् ॥ ६२ ॥ पक्कं फलं मान्मथमेतदद्य जामातुरेवाहमिति ब्रुवाणम् । सत्यं प्रसादेन तु माधवस्य तल्लब्धमित्याह हसन् स शौरिम् ॥ ६३ ॥ पत्युः प्रिय बिम्बफलं विनैव फलान्यसंख्यानि मुधाहृतानि । अतः पिपासा विरतास्य नेति वाणी वधूमाक्षिपति स्म राज्ञीम् ॥ ६४ ॥ भोज्यानि यानि त्रिदिवेऽद्धतानि तान्याददानः स्वयमीषदीषत् । सासूययोरात्मजयोमहेशः शैलादये तत्र दैयाम्बभूव ॥ ६५ ।। १. यूषो रसः. ३. खलं दधिधनः. ४. नियूहः कषायः. ५. मा- न्मथं दाधिरथं अथ च पाश्चशरम् . ६. माधवस्य वसन्तमासस्याथ च विष्णोः, ५. दय दाने. २. क्वाथ: कपायः.
८८ शिवलीलार्णवे भुक्तोत्थितो नमकथाभिरित्थं विसृज्य विश्रान्तिकृते वयस्यान् । सज्जीकृतं प्राप तटातकायाः शय्यागृहं सुन्दरपाण्ड्यदेवः ॥१६॥ ततो जनाः पाकगृहे नियुक्तास्तत्रानराशीन् शतशोऽवशिष्टान् । आवेदयामासुरनुक्रमेण देव्याः पुरः काञ्चनमालिकायाः ॥ ६७ ॥ कोट्यस्त्रयस्त्रिंशदिति प्रतीता सङ्ख्या त्वियं काचन देवतानाम् । सङ्ख्या गणानामपि मानवानां सङ्ख्यायते भुक्तवतां न कैश्चित् ॥ ६८ ॥ शाकेषु सूपेषु फलेप्वपूपेप्वन्नेषु माध्वीगुडशर्करासु । शिष्टानि शक्ता न वय प्रवक्तुं शाधि त्वमेषामुपयोगयोगम् ॥ ६९ ॥ इतीरितं काञ्चनमालिका. तच्चेटीभिरासूचयदात्मजायाः । सा च प्रियं किं क्रियतामिहेति मन्दाक्षमन्दाक्षरमन्वयुक्त ॥ ७० ॥ तामाह देवस्त्वमसीह राज्ञी दवी त्रयाणामपि विष्टपानाम् । तत्तावकीमन्नसमृद्धिमतां भोक्तुं जनाः के मम सम्भवेयुः ॥ ७१ ॥ कुण्डोदरो नाम गणोऽयमेकम्तथापि शिष्टः परिचर्यया मे । भोक्तुं न यस्यावसरः पुराभूत् तं भोजय स्वोदरपूरमेनम् ॥ ७२ ।। इत्यादिशन्नन्नसमृद्धिगर्वमपाचिकीर्षुः स नृपालपल्याः । देवो गणस्य त्रिजगच्छरीरवैश्वानरात्मा जठरं विवेश ॥ ७३ ॥ पौरोगवास्तत्र तया नियुक्ताः प्रवेश्य तं भोजनमण्डपान्तः । विस्तार्य पत्राणि विशङ्कटानि भक्ष्याणि भोज्यानि ततोऽभ्यवर्षन् ॥ ७४ ॥ प्राणाहुतेः पर्युपयुक्तमन्नमप्यत्र दृष्ट्योपलभे न यावत् । तावत् कथं भोक्तुमुपक्रमेयेत्यूचे स भुड्क्ष्वेति वदत्सु रोषात् ॥ ७५ ।। सा पाण्ड्यदवी सुमतिश्च तत्र समेत्य विस्मेरविलोचनान्तौ । आपूपिकैरान्धसिकैश्च भूयोऽप्यदापयेतां मुहुरन्नराशीन् ॥ ७६ ॥ पात्राधिक प्रेक्ष्य स भक्तराशिं व्यामिश्रितं व्यञ्जनशाकभेदैः । प्राणाहुतिं प्राथमिकी कथञ्चिन्निर्वर्त्य तस्थौ निभृतं क्षुधातः ॥ ७७ ॥ सम्भ्रम्य दास्योऽथ नृपालपत्न्याः सम्भूय सम्भूय यथोपलब्धम् । भक्ष्याणि भोज्यान्यदुरक्रमेण पक्वान्यपक्वान्यपि धावमानाः ॥ ७८ ॥ १. 'चर्मोदरयोः पूरेः' (३-४.२१) इति णमुल्. . .
द्वादशः सर्गः। प्राणाहुतीः पञ्च ततः कथञ्चित् प्रसाध्य खिन्नः क्षुधया महत्या । स तावतीनां परिवेषिणीनां न चक्षमे तत्र गणो विलम्बम् ॥ ७९ ॥ अथान्नकूटैरभितोऽप्यसंख्यैरपूपशैलैश्च निरन्तरालम् । महानसं स स्वयमाविवेश महाहदं मत्त इव द्विपेन्द्रः ॥ ८० ॥ तत्रान्नकूटान् सह भक्ष्यवगैरालोडयन् दृष्टिपथं प्रविष्टान् । षट्या नवत्या च शतेन चैषां स एकमेकं कवलं चकार ॥ ८१ ॥ अन्नोच्चयानास्तरणैः सहैव दुग्धानि भाण्डेदृतिभिधृतानि । • स्वीकुर्वतोऽस्माञ्चकिताः समन्तात् प्रदुद्रुवुः पाकगृहे नियुक्ताः ॥ ८२ ॥ सुरद्रुमाः स्वर्गगवी च तत्र सम्प्रार्यमाना नरपालपत्न्या । यान् यानसंख्यानसृजन पदार्थास्ते तेऽभवन्नम्य किलोपदंशाः ॥ ८३ ।। गोधूममाषाढकमुद्गशालिश्यामाकनीवारतिलादिमानि । धान्यानि चान्यानि स चर्वति स्म कुड्यैः कुसलमणिकैश्च कुम्भैः ।। ८४ ॥ सम्भ्रान्तचेटीशतघुप्यमाणतच्चेष्टिताकर्णनजातलज्जाम् । अभिद्रवन्ती स्वयमेव देवीमपाङ्गयन् सस्मितमाम्त देवः ।। ८५ ॥ अथ क्षणादक्षयमन्नगः ससर्ज तम्मै शफरेक्षणा यम् । तमप्यसौ स्थण्डिलमात्रशेपं चक्रे महद्भिः कबलैश्चतुर्भिः ॥ ८६ ॥ अपूर्णमन्नैरुदरं ममेदमापूरयिष्ये सलिलेन वेति । कुण्डोदरे याचति पाण्ड्यकन्या सम्मार गङ्गां तरलोर्मिसङ्घाम् ।। ८७ ॥ अथाऽसिन्धुर्मलयाद्रिशृङ्गादाविर्भवन्ती विपुलैम्तरङ्गैः । आप्लावयन्तीव भुवं समस्तामभ्यर्णमागान्मधुरानगर्याः ॥ ८८ ॥ स पाणिना वनिवेशितेन तथा पपौ तामपि दिव्यसिन्धुम् । कौतूहलात् प्रेरयतस्तमासीद् गङ्गाधरम्यापि यथानुतापः ॥ ८९ ।। स्वीकुर्वतस्तां सिकतावशेषां सृक्वद्वयीमालिहतश्च भूयः । सा तस्य तां ग्लानिमवेक्षमाणा गौरी सलज्जा गिरिशं बभाषे ॥९० ॥ अजानती यद् भवतः प्रभावमन्नाञ्चयोच्छेपमवादिषं प्राक् । तन्मर्षयन् मानद! तर्पमेनं कुण्डोदरस्यास्य निवारयति ॥९१ ॥ १. मणिकर्वृहद्भाण्डैः.
९० शिवलीलाणेवे व्याजेन केनापि गिरं त्वदीयां शुश्रूषमाणो यदकार्षमित्थम् । तत् संहृतं देवि! तव प्रभावादश्रान्तपूरास्तु वियन्नदीयम् ॥ ९२ ॥ वेगागता वेगवतीति नाम्ना ख्याता नदीयं भविता भुवीति । प्रसादयन् पाण्ड्यसुतां मृदूक्त्या रेमे तया सुन्दरपाण्ड्यदेवः ॥ ९३ ॥ अथापरेास्त्रिदशैः समस्तैरगस्त्यमुख्यैः परमर्षिमिश्च । पाण्ड्याधिराज्ये कलिताभिषेकः शशास पृथ्वी स तया महिष्या ॥९॥ इत्थं स पाण्ड्यतनयाचरणावलम्बसौभाग्यसम्पदुपपन्नसमस्तराज्यः । देवान् विसृज्य निखिलानुचितोपचारैर्देवः ससागरवना बुभुजे धरित्रीम् ॥९५ ।। इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते शिवलीलार्णवे द्वादशः सर्गः । अथ त्रयोदशः सर्गः। सम्प्राप्येत्थं पाण्ड्यराज्याभिषेक सार्ध देव्या सुन्दरः पाण्ड्यदेवः । आसीमाद्रेनिहतारातिशल्यां पृथ्वी रेमे बिभ्रदेकातपत्राम् ॥ १ ॥ साब्धिद्वीपा साटवीदुर्गशैला सर्वाप्युर्वी यत्तुलाकोटिमूर्मि । लमा दृष्टा रत्नवद् बाहुना तां तस्येदानीं बिभ्रतः कः प्रयासः ॥२॥ या भूयोभिः पाण्डरैरातपत्रैः सन्छन्ना भूराप सन्तापमन्तः । सैवाहृष्यच्छाद्यमाना तदानीमेकच्छत्रच्छायया तस्य राज्ञः ॥ ३ ॥ नायष्टारो नाकृतब्रह्मविद्या नादातारो नाप्यधर्मे प्रसक्ताः । विप्राः किन्तु त्यक्तपाण्डित्ययोगाः स्थातुं बाल्ये तस्य राष्ट्रे चकाक्षुः ॥ ४ ॥ चातुर्वण्र्य चातुराश्रम्यरम्यं चातुर्वैद्यं तच्चतुर्वर्गयोगम् । दृष्ट्वा तेन स्थापितं निर्विशकं तस्थौ धर्मस्तत्र पौदश्चतुर्भिः ॥ ५॥ गावो धान्यं भूषणान्यम्बराणि स्वर्ण रूप्यं यानि चैवंविधानि । स्वामिन्यादौ विप्रलब्धे तदीयं सर्व जज्ञे विप्रलब्धं तदानीम् ॥६॥ १. वश्चिते अथ च विप्रैः लब्ध.
त्रयोदशः सर्गः कैलासादि शासतः कल्पकोटीः पूर्णः कोशो यस्य भिक्षाकपालैः । प्राप्तेनेत्थं पाण्ड्यराज्याधिपत्यं लब्धा सद्यस्तेन लक्ष्मीरपारा ॥ ७ ॥ शैवाः शाक्ता वैष्णवाः सांख्यनिष्ठा योगाचार्या ब्रह्मविद्याविदोऽपि । गत्वा गत्वा तं यथैकं प्रपन्नास्तद्वत् तास्ताः कीर्तयोऽपि त्रिलोक्याम् ॥ ८॥ येऽस्मिन्नम्रास्तेजसा तं प्रपन्ना ये तु द्विष्टास्ते हताः सङ्गरेषु । भित्त्वा भानोबिम्बमूर्व पतन्तः पर्यावृत्य प्रापुरन्ते तमेव ॥९॥ वाम्भोजान्निस्सृतं वाक्यमानं पश्यन् देवो वेदवादायमानम् । सङ्ख्याधिक्याद्वेदशाखासु भीतः स्तोकस्तोकं व्याजहाराप्रमत्तः ॥ १० ॥ सीमन्यम्भोविप्लवे सेतुबन्धे गोसञ्चारे सार्थसम्मेलने वा । या मीनाक्ष्या स्थापिता प्राक् प्रजानां तां मर्यादां स प्रमाणीचकार ॥ ११ ॥ कोशान् पञ्चैवाहुरन्नादिरूपान् यस्याशेषं शासतोऽमुं प्रपञ्चम् । संख्यातीता हेमरत्नादिरूपास्तस्येदानीं तेऽभवन् पाण्ड्यभर्तुः ॥ १२ ॥ पाण्ज्याध्यक्षः पाण्ड्यजामातृदेवः प्रेयान् राश्याः पालको द्रामिडानाम् । इत्याख्याभिः प्रीतिरस्याधिकासीदात्मब्रह्मज्योतिरादिश्रुतिभ्यः ॥ १३ ॥ या मीनाक्ष्यास्तावती राज्य शक्तिः सा सङ्क्रान्ता तत्र भूयश्चकाशे । प्राप्तोत्कर्षा सानुनि स्फाटिकादेः पत्युर्भासां भास्वरेवांशुरेखा ॥ १४ ॥ स्वे स्वे धर्मे स्थापिताः सर्व एव क्षमापालत्वं बिभ्रता तेन लोकाः । कालस्त्वेकश्च्यावितः स्वाधिकाराद् धर्मैकान्त्यं तन्वता मानवेषु ॥ १५ ॥ इत्थं राज्यं बिभ्रता तेन राज्ञा देवी जातु स्फारचिन्तानिममा । भूयो भूयो हेतुमत्रानुयुक्ता प्राह स्मेदं प्राणनाथं मृगाक्षी ॥ १६ ॥ सञ्चिन्वाना तावकीनात् प्रसादाद् धर्म तं तं नाथ! माता मदीया । जातौत्सुक्या तीर्थयात्राविधाने सातुं सिन्धौ श्वः प्रतिष्ठासते सा ॥ १७ ॥ इत्याकर्ण्य प्रेयसीखेदमूलं तत्रानेष्यन् सागरान् सप्त देवः । सस्माराने सद्य एवास्य तेऽपि प्रादुर्भूता मूर्तिमन्तः प्रणेमुः ॥ १८ ॥ प्राचि स्थाने सोमसौन्दर्यनेतुः प्रागेवास्ते कश्चिदेकस्तटाकः । सर्वे तस्मिन् सन्निधत्तेति देवो + नामादेशं सागरानादिदेश ॥ १९ ॥ १. श्रुतयो व्यपदेशाः ताभ्यः. २. कालो वैवस्वतः. ३. नामादशं नामग्राहं । 'नम्न्या. दिशिग्रहो.' (३.४-५८) इति णमुल् . + 'रामादेशम्' इति खपुस्तके पाठः, + शिवलीलार्णवे पश्यन्तीनामग्रतस्ते प्रजानां त्यक्त्वा रूपं पौरुषं सिन्धुराजाः । दृश्यन्ते स्म व्योग्नि दूरे तर.राजिघन्तो दिक्तटानुत्तरङ्गः ॥२०॥ स्वं स्वं रूपं संक्षिपन्तोऽपि ते ते कासारान्तस्सम्भवाह समुद्राः । आलक्ष्यन्त स्पष्टमत्यद्भुताभिर्वल्गन्तीभिः पङ्क्तिभिर्वीचिकानाम् ॥ २१ ॥ आक्रामद्भिर्योमकक्ष्यामकाण्डे स्रोतोभिस्तैः स्वीकृताः सागराणाम् । जग्मुर्मेधास्तत्र शैवालभावं विद्युल्लेखा विद्रुमत्वं च तेषाम् ॥ २२ ॥ आसप्तर्षिस्थानमाक्रान्तिहेतोः संवर्तेषु द्यामिव द्रष्टुकामैः । आरूढे व्योम्न्यर्णवैरभ्रसिन्धोः सव्यं चक्षुः शश्वदस्पन्दतोच्चैः ॥ २३ ॥ भागीरथ्या जातु लेभेऽभिषेकं पर्याप्तं यः प्राग्युगे व्योमकेशः । द्रव्यस्तैस्तैर्दुग्धदध्याज्यमुख्यद्वैतीयीकः सोऽस्य जज्ञेऽभिषेकः ॥ २४ ॥ पश्यत्यग्रे पाण्ड्यदेवे ततस्ते पारावाराः पल्वले तत्र पेतुः । पार्श्वस्थानोविजः कुम्भयोनेः प्रायम्तालुन्यार्द्रतामावहन्तः ॥ २५ ॥ क्षीरं सर्पिवारुणीमिक्षुसारं दध्यप्यभ्रे दुर्लभं पातुकामाः । विष्वग् देवाः सम्पतन्तो विमानैः स्रोतम्येषां कीटमज्जं ममज्जुः ॥ २६ ॥ क्षारं वारि क्षीरमुख्यानि वस्तून्येकं सर्वाण्येकदैवाजघान । मौढ्यं ह्येकं हन्ति राशिं गुणानां शौयौदार्यस्थैर्यगाम्भीर्यमुख्यम् ॥२७॥ शब्दस्पर्शी रूपगन्धौ रसश्च प्राप्तास्तीर्थे चित्रतां तत्र सद्यः । आ तामेतन्मज्जतामत्र नृणां स्वर्गेऽप्यासीच्चित्रता यद्विचित्रा ॥ २८ ॥ सर्वे गन्धा यत्र सर्वे रसाश्च प्रादुर्भूतास्तीर्थराजे हि तस्मिन् । सानाल्लभ्ये तादृशि ब्रह्मभावे न्यायज्ञानां नागमाः पर्युपास्याः ॥ २९ ॥ नीरक्षीरे द्वे विवेक्तुं प्रगल्भा हंसास्तस्मिन् सर्वसङ्घातरूपे । । भमोत्साहा मत्स्यमण्डूककूतैः प्राप्ताः साम्यं न प्रचेलुर्विलज्जाः ॥ ३० ॥ पत्या साधै योषितोऽधिक्रियन्ते तीर्थे स्नातुं पुत्रवत्योऽथवेति । श्रुत्वा शास्त्रं चिन्तया दूयमानां श्वश्रूमन्तस्तत्र शुश्राव देवः ॥ ३१ ॥ सर्व सम्प्राप्तस्तच्छाश्वतं धाम शम्भोः । प्रत्यानेयो वल्लभोऽस्याः कथं वेत्यन्तश्चिन्तामाप देवस्ततोऽपि ॥ ३२॥ १. कीटमज्जं ममजुः कीटा इव ममाः. 'उपमाने कर्मणि च' (३-४-४५) इति णमुल्. आवर्तार्ह स्थानमुल्लङ्घय त्रयोदशः सर्गः। पत्युश्छायां पाण्ड्यदेव्याः स कामप्यानीयाग्रे दर्शयन् प्रेयसी स्वाम् । तवृत्तान्तस्मेरदृष्ट्यानया तां वृत्तान्तं तं वेदयामास देवः ॥ ३३ ॥ सा संहृष्टा तां निशम्य प्रवृत्तिं पश्यन्ती च प्राणनाथं विमाने । आलिङ्गन्ती निभरं मीननेत्रां भूयो भूयो मूर्ध्नि चैनामजिघ्रत् ॥ ३४ ॥ त्वन्मातृत्वात् सिद्धमेवापवर्ग मन्वानाहं तेन हृष्टा न तावत् । यावत् तातं वीक्षमाणा तवेति स्तावंस्तावं सा बभाष कुमारीम् ॥ ३५ ॥ लब्ध्वा योगं लज्जमाना विमानादाप्लुत्यारादागतेन प्रियेण । क्तानुज्ञा देवपाण्ड्येन देवी सस्नौ तीर्थे सप्तरत्नाकरे सा ॥ ३६ ॥ दीनं रूपं प्रेयसा विप्रयोगाद् देव्याः स्नान्त्यास्तत्र दृष्टं जनैर्यत् । उन्मजन्त्यास्तत् ततः पर्यणंसीच्चन्द्रापीडं चारुहासं त्रिणेत्रम् ॥ ३७ ॥ सा गच्छन्ती शाश्वतं धाम शम्भोः सार्ध पत्या सर्वसौभाग्यधाम । क्लेशं कन्याविप्रयोगप्रसक्तं किञ्चिचिते धारयन्तीदमूचे ॥ ३८ ॥ अद्य ज्ञातं ब्रह्म पूर्ण युवामित्यद्योत्सन्नः पाशवर्गोऽग्विलो मे । दूयेऽथापि त्वर्धविच्छिन्नमासीत् त्वत्सौभाग्यालोकभाग्यं किलेति ॥ ३९ ॥ शुश्रूषस्व प्रेयसः पादपद्मं क्षान्त्या धृत्या प्रेमवत्या च भक्त्या । लब्ध्वा पुत्रं राज्यभारेऽभिषिच्य द्रष्टास्मि त्वां म्वं पदं प्रत्युपेताम् ॥ ४० ॥ इत्यादिश्य प्रस्थितायां जनन्यां सर्वोत्तीर्ण शाङ्करं धाम दिव्यम् । आनन्दोत्थैः शोकजैश्चाश्रुपूरैर्वकं देव्या दूषितं भूषितं च ।। ४१ ॥ ताभिस्ताभिस्तत्प्रसङ्गोचिताभिर्मार्जन् वाग्भिर्मानसं क्लेशमम्याः । वारिकडिां वारिजाक्ष्यानयासावानन्दाब्धावाचचार प्रवीरः ॥ ४२ ॥ दीनान् दानैर्देवता यज्ञभागैरा नार्तिच्छेदनैस्तत्तदः । जिज्ञासूनप्यात्मविज्ञानदानैर्देवो रक्षन् पालयामास पृथ्वीम् ॥ ४३ ॥ अन्तर्वनी जातु कालेन पत्नीं दर्श दर्श पिप्रिये देवपाण्ड्यः । केकीवाम्भस्सम्भृतां मेघमालां माध्वीगी पद्मिनीमप्यळीव ॥ ४४ ॥ यत् कातर्य यौवनेनाक्षिण दत्तं यच्चानीतं दौहृदेनाथ तस्याः । प्रागल्भ्याय प्राभवत् सर्वमेतत् तत्सम्भूतेरद्भुतं मीनकेतोः ॥ ४५ ॥ १. सताना रखाकराणां समाहारः सप्तरनाकर तस्मिन् , बहुव्रीहिर्वा.
शिवलीलार्णवे पुष्टान्यज्ञान्यापुरस्याः कृशत्वं नित्यं कार्य निर्जही मध्यदेशः। पर्यायेण हासवृद्ध्योः प्रवृत्तिस्तत्राप्यासीदीदृशः कालभेदः ॥ १६ ॥ अन्योन्येन स्पर्धमानावुरोजावास्तामस्या यौवनोपक्रमं यौ। स्पधी मुख्यामद्य तावन्वभूतां सङ्घर्षणान्योन्यमासादितेन ॥ ४७ ॥ शक्तिः ख्याता यावती या च तस्याः सर्वाप्येषालम्भि गर्भेण नूनम्। नो चेदित्यं स्यात् कथकारमस्याः स्नातुं पातुं स्पन्दितुं चाप्यशक्तिः ॥ ४८ ॥ केन्द्र चन्द्रे देशिके चामराणामृक्षे रौद्रे रौद्रवृत्तिः परेषु । प्रादुर्भूतः पाण्ड्यवंशस्य भूत्यै तस्या गर्भात् तारकारिः कुमारः ॥ ४९ ॥ आनेष्यन्ते यानि तेनात्मजेन स्वर्णान्यग्रे मेरुमूलादमीषाम् । चक्रे देवः कोशगेहेऽवकाशं भूदेवानां भूरिदानच्छलेन ॥ ५० ॥ राज्ञां पश्यन् राज्यतन्त्रस्थितानां बालो दोषान् बाहुमुख्यप्रयुक्तान् । साब्धिद्वीपां पालयिष्यन् धरित्री चक्रे देवः षण्मुखोऽप्यैकमुख्यम् ॥ ५१ ॥ उग्रस्यः जातमुग्रं प्रकृत्याप्युद्गन्तारं तेजसा च श्रिया च । जानन् बालं शासनात् कुम्भयोनेश्चके नाम्नाप्युग्र इत्येव देवः ॥ ५२ ॥ मीमांसाङ्गन्यायधर्मेतिहासैः सार्ध वेदाः स्वम्वशाखासमेताः । प्राप्ते काले प्रत्यभुः पाण्ड्यसूनोरं कृत्वा देशिकस्योपदेशम् ॥ ५३ ॥ दैतेयारियेन खड्गे विनीतश्चापे शिष्यो जामदग्न्यो यदीयः । साक्षादासीन्मेरुधन्वा स देवः शस्त्रास्त्राणां शासिता तस्य यूनः ॥ ५४ ॥ कन्या ख्याता कान्तिमत्याख्ययासीद् भास्ववंश्या सोमचूडम्य राज्ञः । पित्रा दत्तां तामुपानीय देवः पाणौ तेन ग्राहयामास यूना ॥ ५५ ॥ शक्तिर्दण्डश्चक्रमित्यायुधानि त्रीणि प्रौढज्वालमालाकुलानि । दत्वा तस्मै देवदेवोऽभ्यषिश्चत् प्रह्वीभृतं पाण्ड्यराज्ये कुमारम् ॥ ५६ ॥ प्रागासीद्यो देवसेनापतिः स प्रापेदानी पाण्ड्यसेनापतित्वम् । दैतेयः प्राक् तारको निर्जितोऽद्य त्वज्ञानाब्धेस्तारकस्तात एव ॥५७ ॥ . १- 'उपहोपक्रमं तदाद्याचिख्यासायाम् (२ ४.२१) इति नपुंसकता। यौवनोपक्रम्यमाणमिति स्पर्धन क्रियाविशेषणम् . २ केन्द्रे लग्नस्थे सतीत्यर्थः. ३. बाहुमुख्यप्रयुक्तान् बाहुभिर्मुख्य . यथा भवति तथा प्रयुक्तान् अथ च बहुमुखत्वेन प्रयुक्तान् ४: ऐकमुख्यं एकमुखत्वम् .
त्रयोदशः सर्गः।
९५
पृथ्वी सर्वामर्पयित्वा कुमारे पृथ्वी कीर्ति केवलं गृह्णतः स्वाम् ।
सार्ध देव्या वत्सराणां सहस्राण्येवं षष्टिः षट् च तस्य व्यतीयुः ॥ ५८ ॥
इत्थं पाल्या भूमिरित्थं विजेया दृप्ता इत्थं वर्तितव्यं त्वयेति ।
आदिश्योमं दम्पती मूललिङ्गे मीनाक्ष्यां च प्रापतुस्तौ प्रवेशम् ॥ ५९॥
तौ मीनाक्षीसुन्दरेशात्मनाथच्छन्नौ किञ्चित् प्रत्यहं सेवमानः ।
चक्रे राज्यं नामयन् राजवंश्यानुग्रंपश्यैः शासनैरुप्रपाण्ड्यः ॥ ६ ॥
ईजे शम्भु यच्छतेनाश्वमेधैर्यच्चाभुङ्क्त स्वर्गभोगान् स भूमौ ।
तेनासूयां तत्र शको बबन्ध प्रायेणाय पामराणां स्वभावः ॥ ६१ ॥
आक्रम्याम्भस्सम्प्लवै राजधानीमुन्मर्यादैरुप्रपाण्ड्यस्य राज्ञः ।
राष्ट्रं चास्य स्वीकुरुप्वेति शको नेदीयांसं दक्षिणाब्धि न्ययुक्त ॥ ६२ ॥
अर्धे रात्रेरंप्रसक्ते कथञ्चिद् वर्षे वाते दुर्दिने वा क्षणेन ।
सन्नद्यद्भिः सर्वतो वीचिसङ्घः पारावारः स्वात् पदादुच्चचाल ॥ ६३ ॥
एकैकोर्मिस्पन्दमात्रादपि मां कोशं क्रोशद्वन्द्वमप्यावृणानः ।
भीमैघोषैर्भीषयन्नम्वुराशिमं ग्रामं मजयन् निर्जगाम ॥ ६४ ॥
उच्चैरुञ्चरुत्पतन्तः पतन्तो मन्ती जन्तून् गण्डशैलान् क्षिपन्तः ।
आवृण्वानाः सैकतैरद्रिकूटानभ्यक्रामन्नूमयो वारिराशेः ॥१५॥
वल्गन्तोऽग्रे दुर्ग्रहा वीचिकानां जातोत्साहा जन्तवः सागरीयाः ।
व्यादायास्य व्याघ्रसिंहद्विपादीन् वन्यान् सत्त्वान् लीलयैवाग्रहीषुः ॥ ६६ ॥
इत्थं पुर्या योजने योजनार्धे यावत् सिन्धु जिहीते निशीथे ।
तावत् स्वप्ने बोधितम्तां प्रवृत्तिं सूक्त्या शम्भोर्जागरामास देवः ॥ ६७ ॥
आरुह्य दागभ्रमातङ्गकल्पं क्रुद्धो देवः कुञ्जरं किञ्चिदुच्चैः ।
पाणौ कुर्वन् शक्तिमीशेन दत्तां पाण्ड्यः पारावारमभ्युजगाम ॥ ६८ ॥
शैलेनेवोत्सर्पता कजलानां व्योम्नेवाधो धावता सन्निपत्य ।
सोऽभूत् तेन स्रोतसा वारिराशेहूंष्टो देवः सद्य एवाथ रुष्टः ॥ ६९ ॥
नायं कालः कौतुकं कर्तुमस्मिन् नश्यत्स्वेवं प्राणिषूचावचेषु ।
इत्यालोच्य प्रज्वलन् प्रज्वलन्ती पाण्ड्यः शक्तिं पातयामास सिन्धौ ॥ ७० ॥
शीत्कुर्वाणा सा विशन्ती समुद्रे सर्व पाथः सम्भ्रमत्कूर्मनक्रम् ।
उच्छासेनैकेन यान्ती पिबन्ती जहे भूमेः प्राक्तनं चाभावम् ॥ ७१ ॥
शिवलीलार्णवे मर्यादाब्धेर्मा विलोपीति शक्तिं प्रत्याहृत्य प्रज्वलन्तीं स भूयः । तत्संसिद्धां तावतीमप्यदत्त क्षोणी देवः मुन्दरेशाय सद्यः ॥ ७२ ॥ आकैलासादा च लकोपकण्ठाजाते दैवाज्जात्वनावृष्टियोगे. । राज्ञः सर्वान् मेलयन् पर्यपृच्छद् राजा पाण्ड्यः कुम्भयोनि विधेयम् ॥७३॥ तस्यादेशादर्चनाभिः प्रणामैस्ते ते वृष्टिं देवराजं ययाचुः । दैन्यं वेतन्मीननेत्रात्मजस्य स्वान्ते जातु स्वादुतां नाबभार ॥ ७४ ॥ अभ्यर्णेऽसौ जातुचिच्चन्दनादेराखेटाथै पर्यटन् पाण्ड्यदेवः । स्वच्छासीनान् पुष्कलावर्तकादीन् शृङ्गोत्सङ्गे तम्य मेघानपश्यत् ।। ७५ ॥ कः सुत्रामा कात्र याच्ज्ञा वराके वृष्टिर्लभ्या विक्रमेणेति देवः । मत्वा मृत्यैाहयन्नम्बुवाहान् कारागारे वासयामास बद्धान् ॥ ७६ ।। केचिन्मेघास्तत्र चोद्यानपालैः केचिच्छेकान् पालयद्भिर्मयूरान् । आकृष्यन्त स्वैरमौरक्षकाणां सौहार्दन द्विम्सकृद् गूढमहाम् ॥ ७७ ॥ नश्यद्गर्जा लुप्तबिद्युद्विलासाः संशुष्यन्तः साध्वसेनाम्बुवाहाः । धूलीजालैधूसरा धूमशेषास्तत्रावात्सुः शासनात् तस्य राज्ञः ॥ ७८ ॥ आपातालादा च सप्तर्षिलोकादम्भोभिर्ये विश्वमाप्लावयन्ते । तानम्भोदास्तत्र रुद्धान् निशम्य क्रुध्यन्निन्द्रस्तेन योद्धं प्रतस्थे ॥ ७९ ॥ ज्यानिर्घोषच्छादिताशावकाशं बाणासारध्वस्तहस्त्यश्वयोधम् । रक्तस्रोतःपातरक्तं समन्ताजज्ञ युद्धं तस्य चाखण्डलस्य ॥ ८०॥ चापोन्मुक्तैः सायकौघैरमोधैर्वधं वेधं व्योमयानादमल्न् । यूथंयूथं पातयन् कौतुकेन श्यनम्पातामाचचारेव वीरः ॥ ८१ ॥ येऽवागृह्णन् खेचरा वृष्टिमुया तेषामेवोज्जासयन्नङ्गमङ्गम् । मर्माविद्भिर्मार्गणैरुग्रपाण्ड्यश्चक्रे वृष्टिं मज्जमांसास्रविताम् ।। ८२ ॥ उन्मर्यादैरुत्पतद्भिस्तदस्त्रः कीर्णे विष्वक् कण्टकोपरिवाभ्रे । स्थातुं यातुं स्पन्दितुं चाप्यशक्ता तम्तम्भेऽसौ वाहिनी जम्भहन्तुः ॥ ८३॥ १. अयं श्लोकः खपुस्तके नास्ति. २. छेकान् गृहाश्रितान् . ३. नगररक्षिणाम् . ४. श्येनपातोऽस्त्यस्यां क्रीडायामिति श्यैनम्पाता ताम् . 'घनः सास्यां क्रियेति मः' (४.२.५२) इति अः... जासिनिप्रहणेति (२-३-५६) षष्टी.
९७ चतुर्दशः सर्गः। तत्कोदण्डोन्मुक्तनाराचधारासद्यःकृत्तप्रश्यदश्वेभयोधम् । हाहाकुत्सिद्धगन्धर्ववर्ग शौनासीरं तत्र नासीरमासीत् ॥ ८४ ॥ मर्त्या युद्धे पातिता देवभावं लब्ध्वा देवीर्धावमाना वरीतुम् । घावदेवस्त्रैणमुद्भान्तपालं* चक्रुः स्वर्ग सम्प्रवृत्तापवर्गम् ॥ ८५ ॥ अस्त्रैरस्त्रं वारयन्नुअपाण्ड्यः शस्त्रैः शस्त्रं शस्त्रिणश्चावभिन्दन् । जातस्तातस्याक्षिकोणात् तृतीयाज्जज्वालोचैर्जातवेदा इवान्ते ॥ ८६ ॥ पश्यन् पाण्ड्यो वज्रमिन्द्रेण दत्तं प्रायुक्तोग्रं चक्रमीशादवाप्तम् । तद् दम्भोलिं स्तम्भयत् तस्य मौलिं भित्त्वा भूयः पाणिमस्याजगाम ॥८७ ॥ भन्ने शके भग्नकोटीरकोटौ धावत्यग्रे मुक्तकेशं सुधाशाः । चेलुर्विष्वक् चण्डवातावधूता दूरे दूरे तूलपिण्डा इवाभ्रे ॥ ८ ॥ क्रन्दद्गन्धद्विपमपसरत्सैन्धवोधूतयोध- प्रत्युद्धारव्यसनविमुखापेतपादातजातम् । धावद्देवप्रवरसमरोदन्तयाथार्थ्यबोध- प्राम्यत्पौर नगरमभवजर्जरं निर्जराणाम् ॥ ८९ ॥ इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते शिवलीलार्णवे त्रयोदशः सर्गः । अथ चतुर्दशः सर्गः। तस्मिन् कुमारे मीनाक्ष्यास्तथा शासति मेदिनीम् । ताराग्रहाणां पञ्चाना जाता जात्वपि वक्रता ॥ १॥ अवागृहत ते वृष्टिमासेतोराहिमाचलात् । जलदुर्भिक्षतश्चात्र जग्ले जानपदैर्जनैः ॥ २ ॥ सोमवारव्रतेनाथ सोमसुन्दरमीश्वरम् । स समाराधयाश्चक्रे शासनात् कुम्भजन्मनः ॥ ३ ॥ तस्य चिन्तयतः स्वमे तरुणेन्दुशिखामणिः । आविर्भूय दयासिन्धुरनुजग्राह पार्थिवम् ॥ ४ ॥ 'बालम्' इति खपुस्तके पाठः, ९८ शिवलीलार्णवे वार्षिकीयमनावृष्टिर्वक्रः शुक्रादिभिः कृता । किं करिप्यति वर्षान्ते किंकारप्यन्ति ते ग्रहाः ॥ ५॥ दण्डश्चण्डायुधाख्यो यो दत्तोऽस्माभिः पुरा तव । कनकं तेन हेमाद्रेः कणेहत्योपनीयताम् ॥ ६ ॥ इति सम्बोधितस्तेन प्रतिबुद्धो महीपतिः । प्रयाणं रोचयामास प्रातर्दैमाचलं प्रति ॥ ७ ॥ चण्डायुधं समादाय स गच्छन्निरवर्णयत् । भूपद्मकार्णिकाकारं भूपाल: कनकाचलम् ॥ ८ ॥ निकषे व्योग्नि यं घर्षन् वेधा जलदसिक्थके । संयोज्यालोकतेऽद्यापि वर्ण सौदामनीच्छलात् ॥ ९ ॥ श्रीकण्ठकार्मुके यत्र शृङ्गलग्ना वियन्नदी । वलयीकृत्य विन्यस्ता वासुकिज्येव दृश्यते ॥ १० ॥ सर्वरत्नाकरं हैमं संरक्षितुमहर्निशम् । यामिकाविव चन्द्राकौं यं न जातु विमुञ्चतः ॥ ११ ॥ प्रस्तरा यत्र रत्नानि मृत्तिका यत्र काञ्चनम् । निर्झरो जाह्नवी यत्र लुब्धको यत्र शङ्करः ॥ १२ ॥ यजन्ति च तपस्यान्त यमुद्दिश्यैव देहिनः । यत्परं निगमम्याध योऽपवर्गादनन्तरः ॥ १३ ॥ ये केचिद् द्विपदा ये च षट्पदा ये चतुप्पदाः । सर्वेऽप्यष्टापदमयाः सम्बन्धाद्यस्य विश्रुताः ॥ १४ ॥ द्यौर्धा पृथिवी मध्यं पादः पातालमण्डलम् । यस्य गङ्गाधरम्येयं युक्ता त्रैलोक्यरूपता ।। १५ ।। द्रवीभवत्तु शृङ्गेषु यत्र दावाग्मिसङ्गमात् । स्वर्गास्थिरत्ववादानां प्रत्यक्षैव प्रमाणता ॥ १६ ॥ काञ्चने यत्र मृद्भूते कामिन्यस्त्रिदिवौकसाम् । कुतूहलिन्यो भूषासु कुलालान् पर्युपासते ॥ १७ ॥ १. कणेहत्य यावत्तर्षनिवाते. २. सिक्थकं मधूच्छिष्टम् , ३. निगमस्याधै कर्मकान्डः. 1, गङ्गाधरस्य गङ्गाधारिणः अथ च शिवस्य, ९९ चतुर्दशः सर्गः। पल्लवं जीर्णपत्रं च प्रत्यभिज्ञातुमक्षमाः । हैमेषु सहकारेषु खिद्यन्ते यत्र कोकिलाः ॥ १८ ॥ चामीकरैकरूपषु सर्वेषु कुसुमेप्वपि । व्युत्पन्ना एव यत्रत्या गन्धेषु न मधुव्रताः ॥ १९ ॥ स तं प्रदक्षिणीकृत्य सर्वदेवालयं गिरिम् । तस्थौ पाण्ड्यः पुरोभागे तम्य काङ्क्षन्ननुग्रहम् ॥ २० ॥ उदासामास हेमाद्विरुप पाण्ड्यऽपि पार्थिव । किं चकारार्णवो रामे निसर्गोऽयं जडात्मनाम् ॥ २१ ॥ प्रकृत्यापि विनीतस्य पाण्ड्यस्योग्रस्य दण्डिनः । अभिख्यानुगुणं वृत्तमान्तरं करणं तदा ॥ २२ ॥ माहेश्वरं स तं दण्डं मकरद्वयलाञ्छितम् । आवर्त्य रुषितो वेगादाजघान मुरालयम् ॥ २३ ॥ स्थिरधन्वेति भूतेशः श्रूयते येन धन्वना । चकम्पे स हतस्तेन चामीकरमयो गिरिः ।। २४ ॥ तापिते तपनालोकैम्ताडिते तेन दण्डतः । आसीद दिष्ट्यात्र वैपुल्यमसम्बाधाय नाकिनाम् ॥ २५ ॥ कम्पिते दण्डघातेन काञ्चने तत्र भूधरे । पौलस्त्यतुलितस्याद्रेः पग्लुिप्तमिव हिया ॥ २६ ॥ हालास्यनाथतनयमववुध्य ततः स तम् । स्वं रूपं दर्शयन्नाह सुविनीतं सुरालयः ॥ २७ ॥ अज्ञासिषमहं न त्वामास्थितः स्थावरं वपुः । जानन्निह जगत्तत्त्वं जातु न क्रोडुमर्हसि ॥ २८ ॥ चूर्णीकुर्या अपि त्वं मां चापं चेत् पितुरेव ते । स्वामिनस्तस्य*सा हानिः स्वस्य किं परिहीयते ॥ २० ॥ अस्ति मे बहुशः स्वर्णमत्यल्पमिदमुच्यते । अहमेव तवास्मि स्वं मनोहत्योपयुक्ष्व माम् ॥ ३० ॥ १. मनोहत्य यावत्तनिवृत्ति. 'वीरपाण्ड्ये' इति खपुस्तके पाठः. * 'ते' इति खपुस्तके पाठः.
शिवलीलार्णवे इति प्रसादितस्तेन दर्शितश्च महाखनिम् । जग्राह विविधं हेम भित्त्वा चण्डायुधेन सः ॥ ३१ ॥ नभश्चरहयाकृष्टैनरदेवः परश्शतैः । मनोभिरपि दुष्प्रापमनोभिस्तदुपाहरत् ॥ ३२ ॥ स चामीकरवर्षेण सर्व प्रकृतिमण्डलम् । पालयामास नृपतिः पाण्ड्यो यावदवग्रहम् ॥ ३३ ।। तथा ववर्ष कनकं भूयोभूयः स भूतले । अवग्रहं यथा नित्यमाचकाक्षुः शरीरिणः ॥ ३४ ॥ स कान्तिमत्यां प्रेयस्यां चन्द्रमौलेरनुग्रहात् । पुत्रं यथार्थनामानं वीरपाण्ड्यमविन्दत ॥ ३५ ॥ विन्यस्य सकलां पृथ्वीं वीरपाण्ड्ये महीपतिः । प्रविवेश परं धाम परमानन्दलक्षणम् ॥३६॥ तस्मिन् भक्त्या च पूजाभिस्तपसा चाम्बिकापतेः । पुत्रादपि विशेषेण पौत्रे प्रीतिरवर्धत ॥ ३७॥ जिज्ञासमानाः श्रुत्यर्थ सेवया सुन्दरेशितुः । कण्वादयो मुनिवराः कदम्बवनमाययुः ॥ ३८॥ तपोभिः कर्मभिर्ध्यानैर्दानैरपि पृथग्विधैः । निन्युः संवत्सरं पूर्ण नियतास्ते शिवान्तिके ॥ ३९ ॥ प्रसन्नः सुन्दरेशोऽथ भक्तिलेशवशंवदः । विप्ररूपेण विप्रेभ्यो विववार निजं वपुः ॥ ४० ॥ उपसन्नः स मुनिभिः सन्निधौ सुन्दरेशितुः । व्याघ्रचर्मासनो वेदान् व्याख्यातुमुपचक्रमे ॥ ४१ ॥ अस्ति वाग्ब्रह्म तत् किञ्चिदखिलोत्पत्तिकारणम् । प्रणवोङ्कारतारादिपर्यायगणघोषितम् ॥ ४२ ॥ तदेकधा त्रिधा विप्राश्चतुर्धा पञ्चधा स्थितम् । अपि द्वादशधा भिन्नमागमेषूपदिश्यते ॥ ४३ ॥ २. अनोभिः शरैः चतुर्दशः सर्गः १०१ ततो व्याहृतयस्ताभ्यो गायत्री विश्वपावनी । ततो वेदाः सोपभेदास्तेभ्यः सर्व च वाङ्मयम् ॥ ४४ ॥ प्रभावं तस्य तारस्य ब्रूयां शब्देन केन वः । तत्प्रसूता गिरः सर्वास्तव्याप्या व्यापकस्तु सः ॥ ४५ ॥ एकमातृप्रसूतानामैकमत्यप्रवर्तिनाम् । स्ववैमत्येन वैमत्य शास्त्राणां बालिशा जगुः ।। ४६ ॥ अस्ति यत् परमं ज्योतिरस्मिन् लिङ्गे तिरोहितम् । तदेव सकलैः शब्देस्तात्पर्यविषयीकृतम् ॥ ४७ ॥ अङ्गानि मन्त्रास्तन्त्राणि शास्त्राणि निगमा अपि । अन्ततो लोकगाथा अप्यत्रैवायान्ति विश्रमम् ॥ ४८ ॥ इमा गिरः समस्ताश्च रुद्राय स्थिरधन्वने । इति ब्रुवाणा वाणी वः प्रमाणमकुतोभवा ॥ ४९ ॥ सर्वानुग्राहिणी शक्तिः शम्भोरनतिरेकणी । तामप्रपद्य तत्तत्त्वं न शब्दैरवधार्यते ॥ ५० ॥ आरोहन्त इव स्तोकमवरोहन्ति भूयसा । जानन्त इव मुह्यन्ति तत्पादविमुखा जनाः ।।५१॥ सा वक्ति सा वाचयति सा चेतयति सा चितिः । सा गतिः सा गमयति सैवेयं मीनलोचना ॥ ५२ ॥ तामनन्याः प्रपद्यध्वं तपोदानाध्वरादिभिः । वाङ्मयं सर्वमेकस्थं ततो वः प्रतिभास्यति ।। ५३ ॥ अनुगृह्मैवमीशस्तान् मस्तन्यन्तन पाणिना । मिषतामग्रतस्तेषां मूललिङ्गे तिरोदधे ॥ १४ ॥ कालेन महता वीरपाण्ड्यो महीपतिः । भूयसस्तनयान् लेभे भोगस्त्रीषु दुराशयान् ॥ ५५ ॥ समाराध्याथ बहुधा साम्बं हालास्यवल्लभम् । देवो वंशकरं पुत्रं देव्यां समुदपादयत् ॥ ५६ ॥ अथ १. 'इमा रुद्राय स्थिरधन्वन गिरः' यजु:.
१०२ शिवलालार्णवे . सर्वदा मृगयासक्तः स जातु विपिनान्तरे । सञ्चरन् राजशार्दूलः शार्दूलेन निपातितः ॥ ५७ ॥ तदेव रन्ध्रमासाद्य तस्य भोगवधूसुताः । परिलण्टितसनस्वाः पलायन्त ततस्ततः ॥ ५८ ॥ कुलवृद्धास्ततस्तस्य कुमारं पञ्चवार्षिकम् । अभिषेक्तुं पदे तम्मिन्नन्योन्यं सममन्त्रयन् ॥ ५९॥ मकुटेनाभिषेक्तव्यमभिषेकेण सुस्थिरे । राज्ये रत्नााने सम्पाद्य मकुटं कर्तुमीश्महे ॥ ६ ॥ अन्योन्याश्रयदुस्स्थोऽयमभिषेकोऽस्य भाति नः । न मिथ्यानुग्रहः शम्भोर्न विद्मः पुनरायतिम् ॥ ११॥ इति चिन्तयतां तेषामग्रतः पाण्ड्यमन्त्रिणाम् । आविरासीत् तदा शम्भुराश्रितो वैश्यविग्रहम् ।। ६२ ॥ स भृत्यैर्बहुभिवीतः समृद्ध्या परया ज्वलन् । रत्नानां वणिगस्मीति राजभृत्यानुपासदत् ॥ ६३ ॥ से भृत्यैराहृतां रत्नपेटीमुद्घाटयन् पुरः । वैदग्ध्यं रत्नशास्त्रेषु व्याकुर्वन्नाददे गिरम् ॥ ६४ ॥ सर्वे पश्यन्ति रत्नानि सर्वे बिभ्रति च स्वयम् । तत्त्वं तु ब्रह्मग इव तेषां नावति कश्चन ॥६५ ॥ पशुभावं प्रपन्नस्य पाकशासितुरध्वरे । वलस्य देहधातुभ्यो वराद्धातुर्यदुद्भवः ॥ ६६ ॥ या वीर्याच्चन्द्रचूडस्य रत्नजातिः पुराजनि । या च यज्ञवराहस्य फेननिष्यन्दबिन्दुभिः ॥ १७ ॥ या दृङ्मलान्महेन्द्रस्य या दधीच्यस्थिमण्डलात् । ये चाकरा भुवि स्वर्गे पाताले च पृथग्विधाः ॥ ६८ ॥ या छाया याकृतनिष्ठा यः स्पर्शो यच्च गौरवम् । यन्मानं यानि मूल्यानि ये दोषा ये च वा गुणाः ॥१९॥ १ इतः श्लोकद्वयं न लिखेतं खपुस्तके.
१०३
चतुर्दशः सर्गः।
ये जातिभेदा विविधा जात्याभासाश्च ये पुनः ।
ये रागकृत्रिमाः केचिद् ये च सर्वात्मकृत्रिमाः ।। ७० ।।
यदा धार्य यथा धार्य यैर्धार्य यत्र वा पुनः ।
यथा क्रयो विक्रयो वा यथा दानप्रतिग्रहो ॥ ७१ ॥
यश्चैषां रक्षणोपायो यः परीक्षाविधिक्रमः ।
या चाप्येषामुपनिषदध्यात्ममधिदैवतम् ॥ ७२ ॥
चातुर्वर्ण्यव्यवस्था या या स्त्रीपुंसविकल्पना ।
जीवाजीवविभागो यो या मामरभोग्यता ।। ७३ ।।
ये च दौर्लभ्यसौलभ्ये येपामौत्पातिकी जनिः ।
यदौषधोपयोगित्वं याश्च संज्ञाः परश्शताः ॥ ७४ ॥
शक्तः को वेदितुमिदं सर्वमेकं तमन्तरा ।
रत्नं समस्तदेवानां रत्नसानुशरासनम् ॥ ७५ ॥
नप्तायं देवपाण्ड्यस्य नन्वसौ पार्थिवात्मजः ।
अर्हतीदं रत्नजातममूल्यं मदुपाहृतम् ।। ७६ ॥
अभिनिवर्त्य कोटीरमभिषिच्य च पार्थिवम् ।
राज्ये स्वस्थीकृते दत्त रत्नमूल्यं यथोचितम् ॥ ७७ ।।
इत्युदीर्य मणीन् दिव्यान् दत्वा तेभ्यः स काङ्क्षितान् ।
सद्यस्तिरोदधे तेषां समक्षं सपरिच्छदः ॥ ७८ ॥
चिहेन तेन ते सर्वे चिन्तयन्तम्तमीश्वरम् ।
प्रशशंसुः शिशोर्भाग्यं बाप्पगद्गदया गिरा ॥ ७९ ॥
सद्यो निर्माप्य ते मौलिं शास्त्रदृष्टेन वर्त्मना ।
अभ्यषिञ्चन् नृपं बालमखिला राजमन्त्रिणः ।। ८० ॥
दृष्ट्या दयायैवायं देवदेवस्य शूलिनः ।
अभिषिक्तः पुरा पश्चादभ्यषिच्यत मन्त्रिभिः ॥ ८१ ॥
तस्याभिषेकपाण्ड्याख्या तदादि भुवि पप्रथे ।
ईदृशं भक्तसौलभ्यभिन्दुचूडस्य देहिषु ॥ ८२ ॥
यदचेष्टत यत्प्राह स बालः पाण्ड्यभूपतिः ।
तत्सर्वं वरिवस्येति जग्राह मधुरेश्वरः ॥ ८३ ॥
शिवलीलार्णवे यदवस्त यदाजघ्रौ यदभुत यदालिपत् । यद् दधौ च स सर्वं तच्छिव एव निवेद्वितम् ॥ ॥ ८४ ॥ दिदृक्षा शिवलिङ्गेषु शुश्रूषा शिववैभवे । चिकीर्षा शिवपूजासु शिशोरेवास्य कौतुकम् ॥ ८५ ॥ रत्नदस्य विभोलिङ्ग रत्नरेवाभ्यपूजयत् । अधमर्ण स्वमात्मानं स जानन् शाश्वतीः समाः ॥ ८६ ॥ देवस्तस्मै शिलास्वेव ददौ रत्नानि कानिचित् । सर्ववस्तुपु रत्नानि स तस्मै समुपाहरत् ॥ ८७ ॥ वासवो जातुचित् कर्तुं वार्षिकं कमलार्चनम् । प्राप्तस्तेन कृतां शम्भोः पश्यन् पूजामलजत ॥ ८८ ॥ कथान्तरे कदाचित् स कथयामास पाशिने । भक्तवात्सल्यमीशस्य भक्ति पाण्ड्यशिशोश्च ताम् ॥ ८९ ॥ परक्ष्यि तद् द्वयमपि शक्रभाषितं ततः शिवं स्वयमपि तत्र सेवितुम् । जलग्रहामयमृदितो जलेश्वरः पुरं निजं पुनरगमत् सविस्मयः ॥ ९० ॥ कस्तूरीहिमवालुकाहिमपयःश्रीगन्धगोरोचना- काश्मीरैरनुलेपितः पशुपतिः पाण्ड्यात्मजेनासकृत् । कस्तूरीघनसारसुन्दर इति ख्याति तदादि श्रितो येनाद्यापि समीहते तनुभृतां तामेव सेवां पराम् ॥ ९१ ॥ इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते शिवलीलार्णवे चतुर्दशः सर्गः । अथ पञ्चदशः सर्गः। सलिलाधिपतिप्रचोदितः सरिदीशो मधुराजिघृक्षया । ववृधे विजितोऽपि सन् पुरा समये कस्य न सम्भवेद् भ्रमः ॥१॥ समभिद्रवता शनैः शनैः सलिलानां निधिनातिभीषिताः । शरणं नृपतिं ययुः प्रजाः स च हालास्यनिकेतनं हरम् ॥२॥ 'वराम्' इति खपुस्तके पाठः.
पश्चदशः सर्गः।
।
चतुरश्चिकुरान् जटापदाच्चतुरः स्वानवचित्य शङ्करः ।
परिपश्यति पाण्ड्यभूपतौ विचकार त्वरितं विहायसि ॥ ३ ॥
अपिबन्नधिगत्य मेघतां सकलं ते सलिलं सरस्वतः ।
परिशुष्क इवास्तृतः परः प्रदरस्थानगतं जलाञ्जलिम् ॥ ४ ॥
अपि वीक्ष्य तदद्भुतं महद् वरुणो न व्यरमत् परीक्षणात् ।
विबुधेष्वपि चेदियं दशा मतिभेदो मनुजेषु नाद्भुतः ।। ५ ।।
प्रहिता वरुणेन तोयदाः कृतवरप्रतियातनेच्छवः ।
•प्रलयागमभैरवै रवैः कबलीचक्रुरिवाखिलं नभः ॥ ६॥
सुदृशां कलहस्पृशामपि म्वयमालिङ्गननमहेतुभिः ।
कटुभिर्ममजे घनारवैस्तरुणानामपराधभीरुता ॥ ७ ॥
अपराद्धशरं शरव्यतः सकृदाकर्षणसन्नदोलतम् ।
मदनस्य चिरोज्झितं
धनुः
परिचेतव्यमिवाभवत् पुनः ॥ ८ ॥
यदुपैक्षि यदर्धदर्शितं यदपि प्रागथवास्ति विम्मृतम् ।
अनुतप्त इवाधुना व्यधादखिलं कर्म तद्भुतं म्मरः ॥ ९ ॥
विधिरभ्रजलैः पुरोऽनिलैर्वियता केतकगर्भवतिना ।
तटिता नवनीपपांसुना व्यसृजद् धर्महतं पुनः स्मरम् ॥ १० ॥
विधुतं पवनेन चातकाः पतितं चञ्चुपुटे कथञ्चन ।
क्षुधिताः क्षुधिते पुरः शिशौ नवमम्भो न ददुन वा पपुः ॥ ११ ॥
चलितेषु सितच्छदेषु यः सरसि स्थातुमचिन्ति षट्पदैः ।
विरताब्जतया न तैः स्थितं विपदन्यव्यसनार्थिनां पुरः ॥ १२ ॥
कमलं न चकास्ति केतकं कलहंसा नहि सन्ति कोकिनः ।
न शशी ननु चास्ति मन्मथः किमभावादिह किं विहीयते ॥ १३ ॥
कटु भेकगणेन चुक्रुशे कलकेकामुखरेपु केकिषु ।
कवयः कवयन्तु तावता कविपाशः किमुपैति मूकताम् ॥ १४ ॥
सरसी चिरकालशीलनादजहद्भिर्धमरैरदृश्यत ।
क्षुभितोद्गतगर्भकर्दमच्छुरितेवाम्बुजिनीनिमज्जनात् ॥ १५ ॥
अवधूय दुकूलपल्लवानलकानप्यवमृश्य विश्लथान् ।
तरुणैरिव मेघमारुतैस्तरुणीनां ममजे रतिश्रमः ॥ १६ ॥
१०६ शिवलीलार्णवे चिरसम्भृतचातकोदरज्वलनोज्जासनलब्धजन्माभिः । विततैरिव धूममण्डलैर्वियदापूरितमम्बुदैर्नवैः ॥१७॥ निबिडे चरमागमण्डले निपतन्ती जलदस्य चन्द्रिका । स्थगिता चिरमक्षरत् क्षितौ कणशः किं करकोपलात्मना ॥ १८ ॥ अतिथेरपि भाग्यतो भवत्यभिवृद्धिर्भवने कुडुम्बिनाम् । कलहंसकुले विनिर्गते कथमासन् कमलाकरश्रियः ॥ १९ ॥ विरमत्कमलोत्पलं सरो व्यरुचत् पुष्पितकैतकैस्तटैः । गजवाजिसमाकुलं बहिर्भवनं राज्ञ इवान्ततोऽधनम् ॥ २० ॥ कमलैर्विरतं कलानिधिः कलहंसाश्च न गोचरे दृशाम् । शनिरास्त ककारमस्तके समये तत्र कलापिनं विना ॥ २१ ॥ महिषा जहषुर्मदागमे महिषैस्तुल्यधियश्च कर्षकाः । अभवन्तु न हंसगृह्य इत्ययशोनैल्यमिवावहद् धनः ॥ २२ ॥ बभुरुल्लसितास्तटिल्लता जगदन्धकरणीषु रात्रिषु । पाथि चारयतोऽभिसारिकाः प्रसवेषोः करदीपिका इव ॥२३ ।। परिलुप्तरवीन्दुतारके समये सन्तमसावृते सदा । युनिशोरुपदेशदेशिका युवतीनां गृहचक्रवाकिकाः ॥ २४ ॥ स्तनिते स्तनिते पयोमुचां कलकेकामुखराः कलापिनीः । अभिलक्ष्य भृशं ललजिरे रभसालिङ्गितवल्लभाः स्त्रियः ॥ २५ ॥ स्थगितार्ककरैः पयोधरैः परिलुप्तप्रसवासु वल्लिषु । पवनापहृताः पयःकणा मदनस्यास्त्रपदेऽभिषेचिताः ॥ २६ ॥ नवतोयनिपातहर्षिता नगरी तामवलोक्य कुप्यतः । अथ ते वरुणस्य शासनादतिमात्रं ववृषुः पयोमुचः ॥२७॥ परमां सखितां प्रचेतसः प्रतिपेदेऽमिसखः समीरणः.। समयानुगुणैव शत्रुता सखिता वा त्रिदिवौकसामपि ॥२८॥ परिपाटितकाननद्रुमाः परिकृष्टेभगवाश्वमानवाः । सरितः परितो जजृम्भिरे विकटावर्त्ततरङ्गसङ्कुलाः ॥२९॥ गणशः पशुपक्षिमानवान् गणशो ग्रामपुराश्रमालयान् । पवमानसखाः पयोमुचः पणबन्धादिव पर्यपातयन् ॥३०॥ १. अन्ततः अन्तर्भागे.
पञ्चदशः सर्गः। १०७ न दिशो विदिशो न पादपा न समुद्राः सरितो न पर्वताः । न दिवा न निशा न चान्ततो जगदप्यैक्षत मध्यमं तदा ॥ ३१॥ अथ पाण्ड्यसुते समं जनैः शरणं जग्मुषि चन्द्रशेखरः । स्वकपर्दभवैः पयोधरैः स्थगयामास स वर्षतो घनान् ॥ ३२ ॥ पटमण्डपवयवस्थिताः परितस्ते मधुरां पयोमुचः । रुरुधुर्भुवि वारिसम्प्लवं जगृहुश्चोपरि निप्पतत् पयः ॥ ३३ ॥ पटगर्भगता इव प्रजाः कियदप्यश्रुतवर्षनिस्वनाः । व्यजनैरुपवीज्य लेभिरे नगरस्था मरुतं कथञ्चन ॥ ३४ ॥ अपि यत् प्रलयेषु वर्षितुं समरक्षन् सलिलं वलाहकाः । अभिवृष्य तदप्यशेषतो गृहधूमा इव खे चकाशिरे ॥ ३५ ॥ प्रथमं पतितैः पयोभरैः परमम्भोधिरपूरि शोषितः । चरमं पतितं तु तत्पयो जगृहुः शैवकपर्दवारदाः ॥ ३६॥ जलदा जलदैनिराकृताः प्रतियान्तः परितो यथागतम् । वरुणेन न सम्बभाषिरे वरुणस्तैरपि लजया मिथः ॥ ३७॥ परितो विनिवेशितान् घनान् प्रतिसंहृत्य निजान् महेश्वरः । परिदर्शयति स्म नागरैः प्रकृतिस्थं निखिलं महीतलम् ॥ ३८॥ चतसृष्वपि दिक्षु कूटवज्जलदान् न्यम्य ररक्ष यत् पुरीम् । तदुपक्रममभ्ययोजयत् स चतुप्कूटसमाख्ययापि ताम् ॥ ३९ ॥ अतिमानुषदेवदानवं वरुणो वीक्ष्य तदद्भुतद्वयम् । मघवोदितमीशवैभवं मनसामन्यत दिक्प्रदर्शनम् ॥ ४० ॥ स समेत्य सुवर्णपद्मिनीसलिलस्नानगलज्जलग्रहः । कनकाम्बुरुहैस्तदुद्भवैः कलयामास महेश्वरार्चनम् ॥ ४१ ॥ स्तुतिभिर्बहुभिः प्रसादयन् स महेशं शफरेक्षणामपि । कृतपाण्ड्यनृपालसौहृदः कृतकृत्यः स्वपुरं पुनर्ययौ ॥ ४२ ॥ अथ जात्वभिषेकपाण्ड्यभूरमणे शासति राज्यमूर्जितम् । समदृश्यत सिद्धवेषभृत् सह शिष्यैर्मधुरापुरे हरः ॥ ४३ ॥ + 'दृक्प्रदर्शनम्' इति कपुस्तके पाठः. A १०८ शिवलीलार्णवे जपदामकरो जटाधरः कलयन् काञ्चनवेत्रमुज्ज्वलम् । विचचार युवातिसुन्दरो भासितालेपनपाण्डरच्छविः ॥ ४४ ॥ करुणैकमयः कलानिधिः सुलभः सुन्दरमूर्तिरुज्ज्वलः । अवलोकित एव देहिनामहरद् वाङ्मनसे स तापसः ॥ ४५ ॥ बहुशः कुणिमूकलोहेला बधिरक्लीबजडान्धपङ्गवः । जटिलेन कृतार्थिता जनाश्चरणाम्भोजरजोऽनुषङ्गतः ॥ ४६ ।। चरणोदकसेवया हरन्नपि बन्ध्यत्वमनेकधा स्थितम् । अवसन्नतरं हरश्चिरादनुजग्राह कुलं कुडुम्बिनाम् ॥ ४७ ।। जरतस्तरुणान् प्रकल्पयन् युवभावं युवसु स्थिरं दिशन् । अपि वर्षगणानुवर्तिनीः शमयामास रुजः स भस्मना ॥ ४८ ॥ भसितं रसनासु निक्षिपन् कवयामास जडाननेकधा । विततार परां विरक्ततां विषयासङ्गमलीमसात्मनाम् ॥ ४९ ॥ अपि दुर्लभभैक्ष्यजीवनानकरोदाढ्यतरान् गिरैव सः । उदजीवयदुक्षणादपामुरगक्ष्वेलहतानपि क्षणात् ॥ ५० ॥ पतिवल्लभतां मृगीदृशां प्रमदामु प्रियतां विलासिनाम् । व्यतरद् भिषजां च मूलिका विविधप्रत्ययकारिणहिरः ॥ ११ ॥ घुटिकांशुकखड़पादुकारसलेपाञ्जनमुग्न्यसिद्धयः । तमनुस्मरतां शरीरिणां स्वत एव प्रचकाशिरे तदा ॥ १२ ॥ ग्रहभूतपिशाचयक्षिणीगणकश्माण्डविनायकादयः । अभिदुद्रुवुरादिसिद्ध इत्यभिधानाक्षरकीर्तनान्नृणाम् ॥ ५३॥ स जगाद दृशोरगोचरः कथयन्नेव कथास्तिरोदधे । स्थविरम्तरुणोऽथ मुण्डितो जटिलश्चैष जनैरदृश्यत ॥ ५४ ॥ समदर्शयदुन्नतान् गिरीन् सविधे वारिनिधीन् वनानि च । स्तुवतां हसतां प्रधावतां मिषतामेव तेदुन्ममार्ज सः ॥५५॥ कियदित्यभिदध्महे ऽद्भुतं किमितीदं चरितं स्तुवीम वा । वयमप्युपदर्शयेम तद्यदि हि स्याम जगच्छरीरिणः ॥ ५६ ।। १. लोहलोऽस्फुटवाक . २. तद् दर्शितम् .
पञ्चदशः सर्गः। १०९ इति केलिकलाकुतूहली विजहारैष यथा यथा पुरे । अशृणोदखिलं तथा तथा प्रकृतिभ्यो नृपतिः पदे पदे ॥५७ ॥ स कदाचन सुन्दरेशितुर्वितते धाम्नि विमानपश्चिमे । उपविष्टममुं यदृच्छया नृपतिः प्रेक्षत सेवितुं गतः ॥५८ ॥ दृशमस्य तृणीकृतामरां गिरमज्ञातपरानुवर्त्तनाम् । स्थितमीप्सितगन्धदुर्विधं परिपश्यन् नृपतिर्विसिमिये ॥ ५९॥ अतिवाङ्मनसैर्महोभरैरपि तत्त्वं परमस्य सूचितम् । अधिगन्तुमनाः स्वयं मनागनुयुङ्क्ते म्म स गोत्रनामनी ॥ ६० ॥ श्रवणे दधदक्षमालिकां शिथिलीकृत्य स पद्ममासनम् । अमृतस्नपितैरिवाक्षरैरिदमाह म्म नृपं तपोधनः ॥ ६१ ॥ न कुलं न गृहं न बान्धवा नच वर्णाश्रमयन्त्रणापि नः । अवधूतपदे निषेदुषामभिधा सिद्ध इति स्फुटैव ते ॥ ६२ ।। चतुरुत्तरपष्टिभेदतः प्रथिता या भुवने कला इति । यदि तासु कुतूहली भवानभिसम्पश्यतु सिद्धिमद्भुताम् ॥ ६३ ॥ इति वादिनि योगिनां वरे पुनरूचे नृपतिः कुतृहली । उपदीकृतमिशुमायतं कमनीयं कलयन् करेण तम् ॥ १४ ॥ अयमस्ति विमानधारको द्विरदो यः किल दार्षदः पुरः । इममिक्षुमसौ गिलत्विति स्मयमानः स तदन्वमन्यत ॥ ६५ ॥ स ततः पुरतः शिलागजः म्तनितस्निग्धगभीरबृंहितः । नरपालकराग्रवर्तिनं नवमिखं विचकर्ष शुण्डया ॥६६॥ कबलीकृतकोमलेक्षुणा करिणा तत्र विमानवर्तिना । जगृहे नॅपकण्ठमालिकामणिहारोऽपि मृणालकोमलः ॥ ६७ ॥ चकिताः स्तिमिताः पलायिता रुषिताश्चानुचरा महीपतेः । उपलद्विरदस्य चेष्टितान्युपलभ्य क्षुभिताः प्रचुक्रुशुः ॥ ६८ ॥ न निकर्षचिकर्षिया कृतं न परीचिक्षिषया न गर्वतः । कुतुकेन तु वृत्तमेतदित्यसकृत् तं प्रणमन्नसान्त्वयत् ॥ ६९ ।।
११० शिवलीलार्णवे नमते धरणीभृते वरं तनयं वंशकरं प्रसादयन् । स्मयमानमुखाम्बुजो हरो मिषतस्तस्य पुरस्तिरोदधे ॥ ७० ॥ अथ विक्रमपाण्ड्यभूपतिस्तनयोऽभूदभिषेकपाण्ड्यतः । उदितोदितमुद्वहन् कुलं कुलदासः कुसुमायुधद्विषः ॥ ७१ ॥ स पितुः परलोकमेयुषश्वरमाज्ञा शिरसोपधारयन् । अनुपाधिमनन्यगामिनीमचलां भक्तिमधत्त शङ्करे ॥ ७२ ।। शिवनामपरः शिवाश्रयः शिवविन्यस्तभरः शिवाश्रमी । जगदाकलयन् शिवात्मकं जननाथो बुभुजे वसुन्धराम् ॥ ७३ ॥ शशिनीव समस्तवल्लभे नृपतौ भूतपतेः प्रणप्तरि । पितरीव सुता महीभुजो बिभरामासुरविप्लुतां मतिम् ॥ ७४ ॥ कुलशेखरपाण्ड्यसप्तमं नृपति तं किल चोलपार्थिवः । न ममर्ष शरद्विनिर्मलं शशिनं चोर इव स्वदोषतः ॥ ७९ ॥ अतिवर्तितुमेनमक्षमः स वराकः समरे भुजोप्मणा । क्षपणैः क्रतुमाभिचारिक कलयामास पयःस्विनीतटे ॥ ७६ ॥ तत उच्चलितो दुरध्वराद् द्विरदः कोऽपि गिरीन्द्रभीषणः । समया मधुरामुपाद्रवत् कलयन् मुद्गरमायसं करे ॥ ७७ ।। तमुदन्तमयं विचारयन् शरणं प्राप शशाङ्कशेखरम् । स च तत्र किरातरूपभृत् परिचक्राम निजालयाद् बहिः ॥ ७८ ॥ वनपल्लवभङ्गशेखरं वरगुञ्जाफलपुञ्जभूषणम् । अधिरोपितकार्मुकं जना ददृशुर्दिव्यममुं वनेचरम् ॥ ७९ ॥ उपलभ्य गजं तमुद्धतं पथि गव्यूतियुगे व्यवस्थितम् । नरसिंहमयोजयच्छरे नरसिंहस्य मुदे वनेचरः ॥ ८० ॥ त्रिपुरेषु गतेषु लक्ष्यतां हसितेनास्मि पुराप्यपोदितः । इति सत्वरमीशकार्मुकादुदयासीद् दनुजान्तकः शरः ॥ ८१ ॥ स हसन्नचलेन धन्वना विशिखेन स्वयमच्युतेन च । जगदेकधनुर्धरः क्षणादभिनत् सिन्धुरमाभिचारिकम् ॥ ८२ ॥ .
अथ षोडशः सर्गः।
नरकेसरिणास्त्ररूपिणा शमिते हस्तिनि शैलतां गते ।
तमनु प्रहितास्तथागता न समैक्ष्यन्त यथा तथा गताः ॥ ८३ ।।
सुगतान् सुगतात्मनेषुणा स विजिग्ये चतुरो वनेचरः ।
अहिरेव हि वेत्त्यहेः पदं कथमन्येन घटेत तज्जयः ॥ ८४ ।।
विदितः किल सर्वदेहिनां विजयः पञ्चमुखेन हस्तिनः ।
गुणगृह्यतया तदप्यसौ मुमुदे विक्रमपाण्ड्यपार्थिवः ॥ ८५ ॥
अनुगृह्य दयार्द्रया दृशा प्रणतं भूतपतिः प्रजेश्वरम् ।
तनयं च तदन्वयोचितं वरमस्मै वितरस्तिरोदधे ॥ ८६ ॥
अजनिष्ट विभोरनुग्रहात् तनयस्तस्य च राजशेखरः ।
यदुपाहितभूभरो गुरुः प्रतिपेदे पदमैश्वरं परम् ॥ ८७ ॥
सप्तमो मलयध्वजस्य स सप्तसप्तिसमद्युति-
बिभ्रदङ्गदनिर्विशेषमशेषमेव महीतलम् ।
आरराध सभाजनैरतिमानुषैर्मधुरेश्वरं
रञ्जयन् जनताः सुतानिव राजशेखरपार्थिवः ॥ ८८॥
इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते
शिवलीलार्णवे पञ्चदशः सर्गः ।
अथ षोडशः सर्गः।
अथ क्षितिं बिभ्रति राजशेखरे द्विजो विरूपाक्ष इति प्रथां गतः ।
चिराय शम्भु तपसा प्रसादयन्नवाप गौरीत्यभिविश्रुतां सुताम् ॥ १ ॥
स कन्यया जात्वपि पञ्चवर्षया समेत्य तातस्तपसेऽभियाचितः ।
अदेयमप्येवमपत्यसौहृदाददिक्षदेकाक्षरमम्बिकामनुम् ।। २ ॥
भवप्रवाहप्रतिपन्नवासनाप्रबन्धयोगेन कुमारिकापि सा ।
असाधयन्मन्त्रमशेषसिद्धिदं जगन्निदानं जपयज्ञनिष्ठया ॥ ३ ॥
गुरौ वसन्तं कृतभैक्षवृत्तिकं कदाचिदेकं गृहमागतं वटुम्
अवेक्ष्य तस्मै गुरुरात्मजामदादचिन्तयित्वा कुलशीलबन्धुताः ॥ ४ ॥
शिवलीलार्णवे दुरागमाभ्यासविलुप्तसत्पथे महेश्वरद्वेषमलीमसात्मनि । दधीचिशापोपहते द्विजान्वये प्रसूतमेनं बुबुधे ततस्तु सः ॥ ५ ॥ अलङ्घनीयं शिवशासनं सुरैरपि स्वयम्भूविबुधेश्वरादिभिः । स चिन्तयन् स्वोचितदानसत्कृतां सहोपयन्त्रा प्रजिघाय कन्यकाम् ॥ ६ ॥ अथ स्नुषामात्मभुवा स्वयं हृतामवेक्ष्य फाले भासतेन लाञ्छिताम् । शिवद्विषौ तच्छ्रशुरौ ज्वलद्रुषौ निवेशयामासतुरालये पृथक् ॥ ७ ॥ शिवार्चनध्यानकथाविवर्जिते श्मशानतुल्ये सदने तु तत्र सा । अमङ्गले सत्यपि सर्वमङ्गलामनुस्मरन्ती दिवसानि चिक्षिपे ॥ ८ ॥ ततः सदारे श्वशुरे बहिर्गते कदाचिदेनां सदने निषेदुषीम् । प्रहर्षयन् प्रादुरभूद् द्विजात्मना विभूतिरुद्राक्षविभूषितो हरः ॥ ९ ॥ तमातिथेयीभिरसौ सभाजयन्त्युपास्त यावज्जरठं द्विजर्षभम् । विवेश तावच्छृशुरस्तमालयं स च द्विजोऽदृश्यत सुन्दरो युवा ॥ १० ॥ ततः शिवानुस्मरणकसाधनां स वेपमानामभिलक्ष्य तां हरः । स्तनन्धयोऽदृश्यत तत्समीपतः स्वरेण तम्याः श्वशुरावमर्षयन् ॥ ११ ॥ ततस्तु पृष्टा प्रतिवशिनीसुतं तमालपन्ती श्वशुरेण कुप्यता । बहिनिरस्ता शिशुनामुना समं निनाय पर्यश्रुमुखी निशामसौ ॥ १२ ॥ भवस्य तं पश्चिमवक्ररूपिणं शिशुं स्मरन्तीं हृदि विप्रकन्यकाम् । निनाय कल्ये निजमास्पदं शिवो वृषेण विस्मापितविष्टपत्रयः ॥ १३ ॥ म्तनन्धयं देवमुपास्य सा जहौ स्तनन्धयत्वं भवसङ्घसञ्चितम् । क्रमेत शम्भाववितळवैभवे व तत्क्रतुन्यायविदुक्तिपद्धतिः ॥ १४ ॥ मनुं किल यक्षरमाचचक्षिरे प्रभुं प्रजासर्गविधौ पुराविदः ।। अयं तु सृष्टिस्थितिसंहृतिक्षमो मर्नु यमेकाक्षरमारराध सा ॥ १५ ॥ कदापि देवः करिकालचोलतो निशम्य नृत्तानभियुक्ततां निजाम् । बभूव सद्यो नटसूत्रपारगः किमादिशैलूषकुले तदद्भुतम् ॥ १६ ॥ शिवे प्रसक्ते सति शैवरात्रके महाव्रते मन्दिरमैशमाश्रितः । प्रसन्नमभ्यर्चनया हरं पुनः प्रसादयिष्यन् प्रणनर्त पार्थिवः ॥ १७ ॥ १
घोडशः सर्गः।
उदञ्चिताकुञ्चितसव्यपादिकाचिरानुवृत्तिश्रमखिन्नमानसः ।
श्रमं तमीशेऽपि समं व्यचिन्तयत् स हि स्वयं पश्यति शम्भुमात्मवत् ॥१८॥
निधाय सव्यं निभृतं पदं क्षितावुदञ्चयन् दक्षिणमङ्घिमुच्चकैः ।
नटनुदस्व श्रममित्यनुक्षणं नटेश्वरं प्रार्थयते स्म पार्थिवः ॥ १९ ॥
अदर्शितस्पन्दमथेषदप्यमुं नटेशबिम्बं कलयन् नरेश्वरः ।
कृपाणकृत्तेन निजेन मौलिना स देवमाराधयितुं समैहत ॥ २० ॥
न किञ्चिदानन्दमयं स वेद तं न वा किमर्चास्वनपायिनी स्थितिम् ।
तथापि तस्याभवदीदृशी मतिस्तथा हि भक्तिस्तपसापि दुर्लभा ॥ २१ ॥
अवेत्य दुर्भेदममुप्य निश्चयं तथा स देवः प्रससाद नर्तितुम् ।
न दुर्लभा तस्य कदापि वश्यता सुदुर्लभा तु स्थिरशीलतैव नः ॥ २२ ॥
अनन्यथात्वव्रतमात्मकर्मणामपि त्यजन् दूरत एव शङ्करः ।
यथा स मेने हृदि राजशेखरस्तथा विपर्यस्य ननर्त तत्क्षणम् ॥ २३ ॥
निधाय सव्ये निखिलं भरं तनोः पदे यदास्त प्रकृतिस्तु तस्य सा ।
प्रपञ्चसर्गस्थितिभङ्गभारमप्ययं तु तत्रैव निवेश्य निर्वृतः ॥ २४ ॥
तदद्भुतं ताण्डवमैन्दुशेखरं प्रसादतस्तस्य सिषेविरे जनाः ।
गणेश्वरास्ते विषये महीपतेर्वसन्ति ये शङ्करभक्तिशालिनः ॥ २५ ॥
बबन्ध भक्तिं स्वकृते कृते नृपो विशिप्य तस्मिन् विपरीतताण्डवे ।
तदादि तद्वंशभुवोऽपि पार्थिवास्तमेव देवं शरणं प्रपेदिरे ॥ २६ ॥
प्रमाष्टुंमागः शतशः समर्पयन् पतिः प्रजानां मणिभूषणानि सः ।
सुतं कुलोत्तुङ्ग इति श्रुतं ततो वरेण लेभे नचिरेण शूलिनः ॥ २७ ॥
गते धरित्रीभृति राजशेखरे गतिं समाख्याविधयव सूचिताम् ।
कुलोचितोत्तुङ्गगुणाकरश्चिराद् दधौ कुलोत्तुङ्गमहीपतिः क्षितिम् ॥ २८ ॥
गुणेन शीलेन कुलेन चोन्नतं तमीक्षमाणाः क्षितिपास्ततस्ततः ।
उपाहरन् स्वस्वकुमारिकाः स्वतस्ततोऽयुतं तस्य बभूवुरङ्गनाः ॥ २९ ॥
स तासु लेभे सकलासु पार्थिवः समानरूपान्वयशीलवृत्तिषु ।
कुलोचितौदार्यविवेकशालिनां कुमारकाणामयुतानि षट् ततः ॥ ३० ॥
१११
शिवलीलार्णवे
अजायतानन्तगुणाख्यया श्रुतस्तनूभवानां प्रथमो धरापतेः ।
तदाश्रितास्तच्चरणार्पितासवः परेऽपि तत्तुल्यगुणा विजहिरे ॥ ३१ ॥
यदीदृशी दारसमृद्धिरीदृशी कुलाभिवृद्धिश्च बभूव भूपतेः ।
इदं हि लीलायितमिन्दुशेखरप्रसादलेशप्रतिलम्भसम्पदः ॥ ३२ ॥
स वीरभद्रः स्वशरीरसम्भवैः स्वतुल्यतेजोनिधिमिर्गणैरिव ।
समं कुलोतुङ्गमहीपतिः सुतैः शशास सर्वाञ्छिवशासनद्विषः ॥ ३३ ॥
अथ द्विजः कश्चन बालपुत्रया समं गृहिण्या मधुरां समासदत् ।
तले वटस्यास्त विशालशीतले कचित् कठोरातपतापतापितः ॥३४॥
असञ्चरत्पान्थमनालपद्विजं सरोजकोशोदरलीनषट्पदम् ।
प्रतप्तहेमप्रतिमं समस्तमप्यभूदहर्मध्यगते जगद् रवौ ॥ ३५॥
ज्वलद् विनापि ज्वलनेन भूतले मदान्धभद्रेभनखंपचं रजः ।
अवेक्षमाणैर्नयनैः शरीरिणामतिप्रतेपे दहनाहतैरिव ॥ ३६ ॥
स गेहिनी बाहुलतोपधायिना कुचाग्रविन्यस्तमुखेन सूनुना ।
तले शयानां तृषयादितां तरोरवेक्ष्य हत्तु सलिलं ययौ बहिः ॥३७॥
स किश्चिदासाद्य सरोऽतिनिर्मलं हरन् जलं पद्मदलेन शीतलम् ।
ददर्श विद्धां दयितां महेपुणा रुदन्तमस्याः शिशुमप्युरस्स्थले ॥ ३८ ॥
प्रियावियोगव्यसनाभिमूच्छितः स यावदन्विप्यति तत्र कारणम् ।
ददर्श तावन्मृगयाविहारिणं धनुर्धरं लुब्धकमेकमन्तिके ॥३९॥
अनेन नूनं दयिता ममाहतेत्यवेत्य केशेषु परामृशन्नमुम् ।
उपेत्य राज्ञः प्रतिहारमुच्चकैर्द्विजः प्रचुक्रोश विषादविह्वलः ॥ ४०॥
ततः कुलोत्तुङ्गनृपस्तदद्भुतं निशम्य खिन्नः पृथगन्वयुक्त तौ ।
न निधिकायैकमघाभियोक्तरि द्विजे किराते च दृढं मृषोत्तरे ॥४१॥
न तत्त्वमत्र व्यवसातुमीश्महे विना प्रसादाद् गिरिजापतेरिति ।
निरुध्य लुब्धं शमयन् द्विजं गिरा नृपः प्रपेदे शरणं पिनाकिनम् ॥१२॥
द्विजद्वितीयो नगराद् बहिश्वरन् निशि त्वमस्यामुपलप्स्यसेऽखिलम् ।
इतीरितो भूपतिरिन्दुमौलिना स वैश्यवीथ्यामचरत् कचिहिः ॥१५॥
षोडशः सर्गः। ततः कचित् संवदतोयोमिथः कथां स शुश्राव कृतान्तदूतयोः । निनीषतोवैश्यगृहे वरं क्षणात् प्रवृत्तवैवाहिकमङ्गलावधौ ॥ ४४ ॥ शरव्यमुद्दिश्य शकुन्तमेककं पुरा पुलिन्देन चिरार्पितः शरः । वट्ठलमः पवनाहतः पतन् यथावधीद् विप्रवधूमतर्कितम् ॥ ४५ ॥ तथाद्य वैवाहिकतूनिस्वनैः परिश्रमन्त्यात्र' गवा निपातेतम् । वरं समादाय करग्रहावधौ पुनर्निवर्तेवहि तत्क्षणादिति ।। ४६॥ 'सुविस्मितस्तेन सह द्विजन्मना स्वसंशयच्छेदकरी गिरं तयोः । निशम्य संवादकृते नृपः क्षणं प्रतीक्ष्य तस्थौ वरपातनक्षणम् ।। ४७ ।। तथैव वृत्तेऽत्र कृतान्तचेष्टिते धनैः प्रभृतैः परितोप्य स द्विजम् । विसृज्य च व्याधमनुग्रहं विभोरशेषमावेदयति स्म मन्त्रिषु ॥ ४८ ॥ विधुः कलङ्की वियति भ्रमन्नसौ कलङ्कशङ्कापि न शङ्कराश्रिते । अतो न ते स्यादपवादभीरिति प्रशंसितः पाण्ड्यनृपः स मन्त्रिभिः ॥४९॥ निवेशितोऽनन्तगुणोऽथ मन्त्रिभिः पदे पितुः शाङ्करमेयुषः पदम् । स रत्नकेयूरवदावहद् भुजे चतुस्समुद्रीपरिवेष्टितां भुवम् ॥ ५० ॥ द्विजाधमः कश्चिदवन्तिषु स्थितः स्वमातृसक्तस्तदमार्पणं गुरुम् । निहत्य हृत्वा निखिलं च तद्धनं निशि प्रतस्थे सह मातृपाशया ॥५१॥ तमध्वनि व्याधभटा मदोद्भटाः प्रहृत्य सर्वस्वमथापहृत्य च । अपि स्त्रियं तामवरुध्य सुन्दरीमहासिषुस्तं तनुमात्रशेपितम् ॥ ५२ ॥ कदन्नमिक्षाधिगमाव्यवस्थया कृशो रुजातः कृपणो दिगम्बरः । परिश्रमन् दिक्षु कदाचिदानशे स भाग्ययोगेन कदम्बकाननम् ।। ५३ ॥ अयनमाच्छादनमन्नमप्यसौ प्रविष्टमात्रो नगरीमविन्दत । अनुग्रहान्मीनदृशोऽधुनापि यन्न तत्र कश्चित् क्षुधितो न दुःखितः ॥ ५४ ॥ स सञ्चरञ् जातु किरातदम्पती विलासिनौ विश्वविलक्षणश्रियौ । ददर्श दिया निशि नर्मतत्परौ महेशधामप्रतिहारसीमनि ॥ ५५ ॥ १. मातृपाशया निन्दितया मात्रा.
. शिवलीलार्णवे स तत्र विनम्भमवाप्य सँल्लपन् न्यवेदयत् स्वं निखिलं विचेष्टितम् । ततः किरातीवचनानुवर्तिना किरातयूनेत्थमबोधि निष्कृतिम् ॥ ५६ ॥ न कर्मयोगैर्न तपश्शतेन वा विनेतुमंहस्तव विप्र! पार्यते । दुरुत्तरं दुष्कृतमप्यतुं शिवं प्रपद्य वर्षेत्रिभिरुत्तरिष्यसि ॥ ५७ ॥ इतीरयित्वैव तिरोहितं क्षणादवेक्ष्य तद् द्वन्द्वमपास्तसंशयः । अवाललम्बे दृढमम्बिकासखं स विप्रबन्धुः शरणं शरीरिणाम् ॥१८॥ जपार्चनध्याननतिप्रदिक्षिणस्तवैः स तिस्रः शरदो निरन्तरम् । प्रसाद्य देवं प्रमथैः पुरौकसां समक्षमानीयत शाङ्करं पुरम् ॥ ५९ ॥ विशन् पुरीमेव विधूतपातकः सकृत् प्रणम्यैव शिवं गणोऽभवत् । परन्तु वैदेशिक एष वत्सरान् प्रतारितस्त्रीनिति पौरवागभूत् ॥ १० ॥ अनुस्मरन् स्वं चरितं विसिप्मिये स नीयमानः प्रमथैः शिवान्तिकम् । विमृष्टमा तु शिवे न्यवेशयत् ततस्त्रिवर्षार्चनयाधमर्णताम् ॥ ६१ ॥ अथाङ्क इत्यस्त्रविदां पुरोगमो गुरुर्भटानां खुरलीषु विश्रुतः । बहून् समध्यापयदस्त्रसंहितां प्रयोगसंहाररहस्यकोविदः ॥ १२ ॥ बभूव शिष्येप्वमितेषु सिद्ध इत्यभिख्यया कश्चन तस्य वल्लभः । तमस्त्रशस्त्रेषु विशिप्य पुत्रवद् गुरुर्व्यनैषीदविदन् दुराशयम् ॥ ६३ ॥ स दुर्मतिः स्वं गुरुमप्रकाशयन् प्रकाशयन् स्वां पटुतां तदाहिताम् । अपि स्वशिष्या इति शस्त्रकोविदान् भटान् सतीर्थ्यान् प्रलपंश्चचार सः ।। कदाचिदस्य सदा सदाशिवप्रणामहेतोर्वसतः शिवालये। उपेत्य गेहं युवतिं च तत्प्रियां रहो जिघृक्षन्ननयावधीरितः ॥ १५ ॥ तमकरूपं परिगृह्य जातुचिद् दुराशयं द्वन्द्वरणे निर्मितुम् । पुराद् बहिः पश्यति पौरमण्डले कृपाणपाणियुयुधेऽमुना हरः ॥ १६ ॥ स वञ्चयन् वेिगममुप्य लीलया कदापि मर्म स्वकमप्रदर्शयन् । अपक्रमाभिक्रमसम्प्लुतोत्तैर्विचित्रमीशो व्यचरद् रणाङ्गणे ॥१७॥ अवस्थितः स्थाणुवदग्रतो रिपोर्निपातयन्निश्चलमायुधं क्षितौ । अपि प्रहाराञ्छतशोऽस्य निस्सृतानवञ्चयत् किञ्चिदिवाङ्गकुश्चनैः ॥ १८॥ +'खड्गम् ' इति खपुस्तके पाठः.
षोडशः सर्गः
हसनवज्ञामसूणैर्विलोचनैरवेक्षमाणस्तृणवत् तमुद्भटम् ।
किमप्यभिक्रम्य चकार हुकृतैः कृपाणमुष्टिं शिथिलं स वैरिणः ॥१९॥
उदस्यतीवासिमधो निपातयत्यधो दधातीव निहन्ति मूर्धनि ।
प्रमत्तवत् तिष्ठति नाभिगम्यते परेण तस्यैवमवर्तताहवः ॥ ७० ॥
असिं विधून्वन् भ्रमयन्नुदञ्चयन् निपातयन्निश्चलमावहन् पुनः ।
करोऽस्य दुर्योधमनोभयङ्करो निमेषमप्यैक्षत नैकचेष्टितः ॥ ७१ ॥
अविक्षतः काप्यसिधेनुधारया विभिद्य तस्योदरमाहरन् शिरः ।
प्रकाशयन्नकजयं दिशां मुखे तिरोदधे तद्वपुरिन्दुशेखरः ॥ ७२ ॥
अहो जिगायाङ्क इति प्रशंसतां ततो जनानामवकर्णयन् गिरः ।
विसिष्मियेऽङ्कः शिवसन्निधौ वसन्नबुद्धतत्सङ्गरसङ्कथः स्वयम् ॥ ७३ ॥
विचित्रमेतत् किल वृत्तमीशितुः प्रवृत्तमके परभक्तिशालिनि ।
इति स्तुवन्तो मधुरौकसः शिवादनन्यमैक्षन्त तमस्त्रकोविदम् ॥ ७४ ॥
किमेतदकेन शिवे निवेदितं किमन्ततो वेत्ति स तं व्यतिक्रमम् ।
अहो दयालुत्वमनङ्गहन्तुरित्यभूञ्चलानामपि निश्चलं मनः ॥ ७५ ॥
ततः स कालेन शशाङ्कशेखरः सदारमेनं प्रमथेष्वयोजयत् ।
तरन्ति नाद्यापि तपोधना द्विजाः क ईश्वराणामवधारयेन्मनः ॥ ७६ ॥
तदादि भूयश्शिवभक्तिगौरवे विजृम्भमाणे विषये महीभुजः ।
तथागताः केऽप्यभिचर्य पन्नगं न्ययुञ्जतोद्दामविषाग्निभीषणम् ॥ ७७॥
तमद्रिकूटप्रतिमं महोरगं समापतन्तं नृपतिर्विचारयन् ।
पुराद्विनिर्गत्य पुरहितं स्मरन् शरं शरासे समधत्त दारुणम् ॥७८॥
महेशभूषान्वययोगशाङ्कतः क्षणं विनिश्चित्य स मायिकं ततः ।
अताडयत् पन्नगपाशमाशुगैः स चावमत् तद्यथया विषानलम् ॥ ७९ ॥
हालाहलेनेव पुरा विनिर्यता विषेण तेन ज्वलताभितापिताः ।
जनाः क्षितीशेन समं समाययुः शरण्यमीशं शरणं समाकुलाः ॥ ८०॥
कृतस्मितो नीपवनेश्वरस्ततः कियत्तदस्तीति गिरा प्रहर्षयन् ।
उपेत्य लिङ्गादुरगान्तिकं गतः समन्ततः प्रेक्षत शान्तया दृशा ॥ ८१ ॥
११ शिवलीलार्णवे ततः पुरैवोन्मथिते फणाधरे धराधरत्वं प्रतिपद्य तस्थुषि । विषामितप्तान् मनुजान् गुमानपि व्यधत्त देवः करुणामृताप्लुतान् ॥ ८२॥ तथा गते भोगिनि गां सुदुर्जयां तथागताः काश्चिदथाभिचारिकाम् । अकल्पय तुमिमां समादिशद् दयानिधिर्वाहवृष वृषध्वजः ॥ ८३ ॥ स तुङ्गशृङ्गव्यतिषङ्गनिर्दलद्धनाधनस्रस्तघनाम्बुवृष्टिभिः । खुरक्षतक्षोणिरजः शमं नयन् महावृषः प्रास्थित तजिगीषया ॥८४॥ पदैः स यद् ध्यानतपोध्वरांहतिप्रभेदभिन्नैर्विददार मेदिनीम् । रजोभिरुद्धूलितसर्वविग्रहा बभूवुरेतत्प्रभवैर्महर्षयः ॥ ८५ ॥ वृषस्तदुद्ध्य विषाणयोर्युगं प्रसह्य तस्या हृदयं बिभेद गोः । जरद्गवीनां हृदयं विविच्यते यदन्तराश्चर्यगवाक्षावर्त्मना ॥ ८६ ।। स तां पतन्तीमवनीधरात्मना समीक्ष्य शैलः स्वयमप्यभूद् वृषः । उदप्रशृङ्गः पुरमुत्तरेण यो विराजतेऽद्यापि वृषाचलाख्यया ॥ ८७ ।। ततः कुमारं कुलभूषणाभिधं तपोभिरासाद्य कुलाहविक्रमम् । तदर्पिताशेषधुरो धरापतिः पदं प्रपेदे परमैन्दुशेखरम् ॥ ८८ ॥ गाम्भीर्येण निषङ्गतां विशिखतां धर्मगुहां निग्रहा- दुच्छ्रायेण शरासतां कटकतामुञ्चावचैर्वाङ्मुखैः । विश्वेषामनुरञ्जनैरनुपमैरुत्तंसतामप्यसौ बिभ्राणः कुलभूषणः कुलपतिं देवः सिषेवे शिवम् ॥ ८९ ॥ इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते शिवलालार्णवे षोडशः सर्गः । अथ सप्तदशः सर्गः। कुलभूषणस्तदनु भूमिपतिः कुलदैवतस्य मधुराधिपतेः। चरणं सदा परिचरत्नशिषञ्चतुरर्णवीवलयितामवनिम् ॥ १ ॥ +नाम इति पुस्तके पाठः.
सप्तदशः सर्गः। अजनिष्ट सुन्दर इति प्रथितो नृपतेरमुष्य पृतनाधिपतिः । अतनिष्ट भक्तिमयमष्टविधामपि सुन्दरेशपदपङ्कजयोः ॥२॥ अभिषेणनाय कृतसन्नहने शबरेश्वरे बलिनि चेदिपतौ । भटसंग्रहाय स बहु द्रविणं प्रददौ चमूपतिवशे नृपतिः ॥ ३ ॥ स शिवे निवेद्य शबरेन्द्रजये प्रतिभूभवानवनिभर्तुरिति । अविचिन्त्य किञ्चिदपि पर्यचरविणैस्तु तैर्द्रविणनाथसखम् ॥ ४ ॥ अतिनूनमातनुत धाम विभोः स सुधार्पणस्फुटितसङ्घटनैः । स्थमूर्जितं क्षितिरथस्य हयान् करिणश्च काञ्चनमयानकरोत् ॥५॥ बलमानयेयमिति मन्त्रिवरान् बहुधा तु सोऽतिसमधत्त गिरा । कुलभूषणाय परिपृष्टवते कथयाम्बभूव पृतनां मिलिताम् ॥ ६ ॥ सचिवोदितश्रवणजातरुषं नृपमिङ्गितैस्समवबुद्ध्य ततः । बहिरानिनाय स महीरमणं बलदर्शनाय सह तैः पिशुनैः ॥ ७॥ समये शशाङ्कशकलाभरणः सहितो गणैर्मनुजरूपधरैः । स्वयमाजगाम पृतनारजसा स्थगयन् दिशश्च विदिशश्च पुरः ॥८॥ स्थवाजिसिन्धुरपदातिभिदाप्रविभक्तमप्युपसमेत्य मिथः । चलितं बलं नृपतिना ददृशे चतुरम्बुराशिसमवाय इव ॥९॥ भसिचर्मचापशरकुन्तगदापरिघत्रिशूलनलिकादिकराम् । अतिभीषणाकृतिमदृष्टचरी परिपश्यति स्म स पदातिचमूम् ॥१०॥ प्रलयान्तघोरपवनाभिहतप्रचलद्धराधरकुलप्रतिमम् । प्रसमीक्ष्य तं मदगजप्रकरं परिदुद्रुवुनरपतेः करिणः ॥११॥ सम्मोष्ट्रपुङ्गवकरीन्द्रधृतैर्विविधायुधोपकरणैश्च रथैः । विधध्वजैधुरि विभोश्चलिता रथिकाः शिलादतनयप्रमुखाः ॥ १२ ॥ कुरुविन्दकज्जलकुसुम्भनिशाशरकाण्डवासवशरासरुचः । महणोन्नतांसलमहाहनवस्तुरगाः प्रचेलुरथ तस्य पुरः ॥ १३ ॥ सुरवाहिनीलहरिशुभ्रपटीपरिवीतमौलिरसिचर्मधरः । परिनयंस्तुरगमिन्दुधरो निरगादनादिरपि सादिवपुः ॥१४॥ .
१२. शिवलीलार्णवे असकृद्विरिञ्चमुखमन्दुरिकाकुतुकादिवोत्पतितुमभ्रपथे । त्वरमाणमागमतुरङ्गवरं शमयन्निगालकरघट्टनया ॥ १५ ॥ हयमुत्पतन्तमिपुव द्रभसादवरुद्ध्य सव्यमपसव्यमपि । अमयन्नयनलवमुरुयुगद्रढिमैकदेशहतदुर्विनयम् ॥ १६ ॥ अभिगच्छति क्षितिभृति स्वयमप्यभिगम्य मूर्त इव वीररसः । अवधूय खड्गमवरुध्ध हयं प्रणनाम तं प्रणतमेष पुरः ॥१७॥ अवितर्व्यवैभवमदृष्टचरं तमवेक्ष्य तामपि चमू महतीम् । तदुदाररूपहृतवाङ्मनसः क्षणमास्त पाण्ड्यनृपतिस्स्तिमितः ॥ १८ ॥ वचनैरमुं प्रकटितप्रणयैर्वसनैर्विभूषणगणैश्च नृपः । परितोषयन् प्रतिमुहुः प्रणमन् परिषस्वजे दृढमभीक्ष्णमपि ॥१९॥ मशकं विजेतुमनुचिन्तयता मदसिन्धुरोऽयमुपलब्ध इति । कथयन् नृपश्चरमुखादशृणोन्मृगयासु सिंहनिहतं विमतम् ॥२०॥ अथ पार्थिवः प्रमुदितम्तमसावनुमन्यते स्म शिबिराय यदा। स तिरोदधे सतुरगः सबलो गिरिशस्तदैव धुरि भूमिभुजः ॥२१॥ तदवेत्य केलिषु कुतूहलिनो मधुरेश्वरस्य महिमायमिति । पिशुनान् निगृह्य पृतनाधिपतिं बहुमन्यते स्म बहुधा नृपतिः ॥ २२ ॥ निखिलं पुरा निजधनं गिरिशे व्ययितं यथा किल चमूपतिना। सकलं तथा व्ययितुमेव नृपश्चकमे तदादि मधुराधिपतौ ॥२३॥ गजवाजिगोमहिषधान्यधनक्षितिभृत्यमित्रसुतदारमुखम् । सकलं शिवाय न ममेति वदन् क्रतुनारराध महताथ शिवम् ॥२४॥ अवलोक्य रिक्तमथ कोशगृहं नृपतेर्दयानिधिरनगरिपुः । धनमक्षयं वितरति स्म तथा स यथा न पारयति तद् व्ययितुम् ॥२५॥ धनमक्षयं धनपतर्दिशतो विगता शिवस्य नहि भिक्षुकता । कुलभूषणेऽद्य तु तदर्पयतः सदनं सुवर्णमणिचित्रमभूत् ॥ २१ ॥ *'असभा'दिति खपुस्तके पाठः, सप्तदशः सर्गः १२१ अथ कन्यकाः किल कुलेषु विशामतिसुन्दरेण वपुषा शतशः । अलभन्त जन्म मधुरानगरे समयन शङ्करकथानिरताः ॥२७॥ 'परपुंसि दारुवनचारिणि याः परमं बबन्धुरभिलाषमिमाः । मुनिसुध्रुवो हि पतिशापवशादभजन् विशां पुनरपत्यदशाम् ॥ २८ ॥ अथ तासु तत्र कलितावतरे तरुणिन्नि वैश्यतनयासु शनैः । मनसि स्मरस्मरजितौ युगपत् सुहृदाविव प्रविशतः स्म तदा ।। २९॥ अथ वैश्यवीथिषु वणिक्तरुणो विमलाम्बरो विविधभूषणभृत् । अंतिसुन्दरो वलयविक्रयिणामवलम्ब्य रूपमचरद् गिरिशः ॥ ३० ॥ वितथेषु पुष्पविशिखेषु शिवे वलयायुधानि बहुधा कलयन् । अयमालि! सञ्चरति पञ्चशरो न मृषाते तत्र जगदुः सुदृशः ॥ ३१ ॥ वणिजस्ततो वलयविक्रयिणो भवति स्म वैश्यसुदृशां च तदा । इतरेतराशयचमत्करणी सरसा वचःप्रतिवचस्सरणिः ॥ ३२ ॥ वितरन्तु पक्कमिह तालफलं यदि वापि जम्भलफलं विपुलम् । वलयानिमान् दधतु वामदृशः कनकेन किं मम गिरी वसतः ॥ ३३ ॥ कनु काश्चिदेशमपहाय गतिर्मम वः कदाचिदिति मत्सविधे । अधरेधुरुक्तमधुना तु कथं वसतिं निजामभिदधासि गिरौ ॥ ३४ ॥ अतनुज्वरादभिहतोऽस्मि चिरात् तृषितोऽस्मि कापि यदि बिम्बफलैः । तरुणी भिषज्यति ममातिमिमां पथिकस्य मे भवति सा शरणम् ॥ ३५ ॥ उचितोपयोगविरहादफलं वितरामि तावदिह विम्बफलम् । मदनाश्रवस्य परितश्चरतो भवतः कथं भवतु विज्वरता ॥३६॥ सुदृढास्तवैव करयोरुचिता इति ये त्वया सुघटिता वलयाः। त्वयि निर्गते सपदि तैर्गलितं वचनं कथं नु तव विश्वसिमः ॥ ३७॥ वलयान् प्रदाय करिदन्तमयान् न मगिर्न काञ्चनमयाचि मया । अपि काञ्चिकार्थनमभूद् विफलं त्वयि मे प्रतिश्रुतमपीह कथम् ॥ ३८ ॥ मम देहि विद्रुममयान् वलयान् मम देहि विद्रुममणिं प्रथमम् । मम देहि दन्तवलयान् विमलांस्तव तन्वि! वेद्मि न हि दन्तपदम् ॥ ३९ ॥ १. काकस्य आरनालस्य अथ च काधिकाया अर्थनम् .
१२२
शिवलीलार्णवे
इति सल्लपन् सरसमिन्दुधरो विचरन् गृहेषु विविधेषु विशाम् ।
करपल्लवव्यतिकरेण तदा सफलींचकार जननं सुदृशाम् ॥ ४० ॥
अथ ता मुनीन्द्रदयिता न चिरात् तनयोपलम्भमुदिताः शतशः ।
परिमृष्टशापकलुषाः प्रमथैर्गिरिशो निनाय कलधौतगिरिम् ॥ ४१॥
स कदाचिदास्त वटमूलतले सनकादिभिः शमधनैर्नियतैः ।
अणिमादिसिद्धिकृतमद्रिसुताचरणार्चनोपनिषदं कथयन् ॥ ४२ ॥
उपदेशमेनमतिभक्तिवशादुपशृण्वतां शमवतां सविधे ।
अपि यक्षिणीरनवधानपराः कुपितः शशाप कुसुमास्त्रहरः ॥ ४३॥
क्वचिदत्र पाण्ड्यविषये विपिने विजने तले वटतरोहितः ।
उपलत्वमेत्य वसतेति ततः प्रससाद ताभिरसकृत् प्रणतः ॥ ४४ ॥
स समाः सहस्रमतिलय ततः परिगृह्य देशिकतनुं गिरिशः ।
अणिमादिसिद्धिमनुगृह्य पुनर्नयति स्म यक्षवनितास्त्रिदिवम् ॥ ४५ ॥
कुलभूषणोऽपि धरणीरमणः शफरेक्षणासहचरार्चनया ।
अथ राजपूर्वपदमिन्द्रमसौ लभते म्म शिक्षितनयं तनयम् ॥ ४६॥
अपि राजसिंह इति कश्चिदभूदनुजोऽस्य दुर्विषयलुप्तमतिः ।
समनन्तरं पितुरयं सहजं सुतवद् ररक्ष तमपि क्षितिपः ॥ ४७ ॥
समयेऽत्र चोलनृपतिः प्रथितः कुलशत्रुरस्य किल पाण्ड्यविभोः ।
मधुरेशदर्शनकुतूहलिना मनसान्वतप्यत तपांसि चरन् । ४८ ॥
म्वपने कदाचिदथ चोलनृपं प्रतिबोध्य गूढमुपयातमिमम् ।
विघटय्य गोपुरकवाटयुगं निजमानिनाय निशि धाम शिवः ॥ ४९ ॥
स निमज्ज्य हेमनलिनीसलिले प्रणिपत्य मीननयनागिरिशौ ।
तदनुग्रहेण नगराच्च बहिनिरगात् तदैव निशि चोलनृपः ॥ ५० ॥
स पुनश्च गोपुरकवाटयुगं घटयञ्छिवो वृषभमुद्रिकया ।
परिचितयन् मनसि पाण्ड्यविभारतनिष्ट संशयमभेद्यतरम् ॥ ५१ ॥
स परेछुराप्तसचिवैर्विमृशन्नपि किञ्चिदध्यवससौ न यदा ।
नृपतिस्तदा निखिलमोहहरं शरणं ययौ शशिकलाभरणम् ॥ १२ ॥
सप्तदशः सर्गः। १२३ अपदानमेतदधिगत्य नृपः सकलं गिरा गगनसम्भवया । सखितामियेष गुणगृह्यतया स तदैव चोलधरणीपतिना ॥ ५३ ।। अथ राजसिंहनृपतिर्नृपतेरनुजो विगृह्य कियदप्यपदे । उपयम्य चोलनृपतेस्तनयामपि तेन सख्यमकरोत् सुदृढम् ।। ५४ ॥ अथ तौ समेत्य मधुरानगरीमभिजग्मतुर्बहुचमूसहितौ । ददृशे निदाघसमयोऽपि तदा परिशोषयन् सलिलशब्दमपि ॥ ५५ ॥ अपि शुष्यति त्रिदिवसिन्धुजले तृपया हतेषु तुरगेपु भृशम् । गतिमान्द्यतो गगनसीनि रवर्दिवसेषु दैर्घ्यमजनिष्ट तदा ।। ५६ ॥ तपने जगत् तपति निष्करुणं समये समम्तमयशो निहितम् । सचिवः खलः शिथिलयन् प्रकृतीपतिं किलापदि निमज्जयति ॥ ५७ ।। बिततेषु विश्वजयिनः कुसुमेप्वतनोः शिरीषमवशिष्टमिदम् । तदपि प्रणश्यतु किमस्य गतं प्रभवोऽपि किं परमुखादरिणः ॥ १८ ॥ कुचकुम्भमेव मदनः सुदृशामवलम्ब्य पूर्वमजयद् भुवनम् । अधुनापि चेत् स कुशली तदलं किमनेन धर्महतकेन शुना ॥ ५९॥ अविचारितारिसममित्रकथे समये जगत् तपति दुर्ललिते । मदनस्तदाशुगहताश्व समं शरणं ययुः स्तनगिरिं सुदृशाम् ॥ ६ ॥ मदने प्रवर्तयति वारयति श्रमवारिशीकरकिरे समये । अलभन्त कामिषु गतागतिकामसकृच्चरा इव दृशः सुदृशाम् ॥ ६१ ।। अनवेक्ष्य नाथमियमम्बुजिनी शिशिरे यदास्त विदितं किल तत् । परया श्रिया ज्वलति तत्र रवौ कथमद्य जीवनकथापि गता ॥६२॥ विकचेषु सूरकिरणोष्मभिया मुकुलीकृतेषु च निवाततया । कमलोदरेषु शयितुं भ्रमरो न शशाक तप्तमधुसेवनतः ॥ ६॥ अपि नारिकेलसलिलेक्षुरसैरजहत् तृषो रविकर कथितैः । अपिबन्नहःपरिणतौ सुदृशामधरं प्रियाः प्रणयशीतलितम् ॥ ६४ ॥ कारिणोऽपि कर्णवलयानसकृञ्चलयाम्बभूवुरनिलाय मुधा । ववृते न फूत्कृतिषु वामदृशां व्यजनेऽपि लुप्त इव गन्धवहः ॥ १५ ॥ .
१२४
शिवलीलाणेवे
अनवग्रहैरपरदिक्पवनैः समुदस्यमानमपदिश्य रजः ।
सलिलाशया मरुमरीचिषु किं धरणी दिगन्तमगमत् तृषिता ॥ १९ ॥
अतिचण्डपश्चिमसमीरहृतैरभितोऽपि तिग्ममहसः किरणैः ।
अनुषञ्जिता इव वनावलयो दवसङ्गता ददृशिरे शतशः ।। ६७ ॥
सरसीषु पल्वलदशा ददृशे भुवि पल्वलेप्वपि च शाडलता ।
अपि शाडूलेषु चिरजाङ्गलता परतो वयं न वदितुं प्रभवः ॥ १८ ॥
पवनेन संवलित एव शिखी परिजम्भते न परथेत्ययशः ।
परिमाष्टुमेव पवने विरमत्यदहद् वनं वनमहो दहनः ॥ ६९
कथितं जलं क्षितितलं ज्वलितं मरुतश्च मुर्मुरकिरः परितः ।
गगनं च दुर्विषहमर्ककरैरिति पर्यणम्त जगदग्निमयम् ॥ ७० ॥
अपनीय कञ्चुकमहविरमे मरुदाशया रहसि मुग्धवधूः ।
समवस्थिताः समुपलभ्य हठात् परिरेभिरे सुकृतिनस्तरुणाः ॥ ७१ ॥
रजनीमुखाहृतमृणाललतावलयैः शशाङ्ककिरणस्नपितैः ।
उपसि स्वयं प्रियतमोपहृतैः सरसीप्ववर्तयत चक्रगणः ॥ ७२ ॥
इयतापि तावदिदमापतितं प्रलयं तरेम पयसेति दृढम् ।
अवगत्य यत्र शफरैरुषितं लुलितं सरस्तदपदे महिषैः ॥ ७३ ॥
अवगाह्य पद्ममकरन्दझरीप्वहिमद्युतावनुदिते भ्रमराः ।
अजपन्नुपांशु कृतझङ्करणा मदनापमृत्युहरमन्त्रमिव ।। ७४ ॥
धृतमल्लिकाकुसुमहारलता घनसारचन्दनरसाईकुचाः ।
वनिता दुकूलवसनाभरणास्तरुणानुपासत दिनापगमे ॥ ७५ ॥
कटकं प्रविष्टवति चण्डकरे कटकं तदव्यथत चोळपतेः ।
ववृधे तु पाण्ड्यनृपतेः समये महसां निधरिव महः परुषम् ॥ ७६ ॥
अथ सुन्दरेशमभिवन्द्य नृपः कलयन् प्रसादबलमस्य बलम् ।
निरगाद्यथोपनतसैन्यवृतो नगराइरातिविजयाय तदा ॥ ७७ ॥
चिरसम्प्ररूढदृढमत्सरयोरजनिष्ट जन्यमथ तत्र तयोः ।
अपि विस्मयाय हृदि यद् घुसदामपि नारदस्य यदलम्मतये ॥ ७८ ॥
सप्तदशः सर्गः। असिकुन्तशूलपरशुच्छुरिकापरिघाभिघातविगलढधिरम् । अविचारितस्वपरसैन्यमभूत् प्रथनं तदस्थिरजयापजयम् ॥ ७९ ॥ समरे भुजाभुजि कचाकाच च प्रहरद्वयं चलति तबलयोः । तदवेक्षितुं गगनमध्यतलं रविरध्यरोहदतितुङ्गमिव ॥ ८ ॥ मधुमासपुष्पितपलाशवनप्रतिमं तुरङ्गखुरधूलिवृतम् । तदुदन्यया परुषयाभिहतं बलयोर्द्वयं सममभूद् विरतम् ॥ ८१ ॥ परिपूरितां शिशिरकुम्भशतैर्विपुलां प्रपां कचन पाण्ड्यबले । अधिरुह्य मौलिसरिदम्बुभरैस्तृषितानतर्पयत भूतपतिः ॥ ८२ ॥ करुणामृतेन मधुराधिपतेर्मधुरैश्च मौलितटिनीसलिलैः । परिपोषिताः सपदि पाण्ड्यभटाः पुनराहवाय मतिमादधिरे ॥ ८३ ।। अथ सिंहनादमुखरा युगपन्नृपतेर्भटाः परिनिपत्य रणे । सह राजसिंहधरणीपतिना जगृहुः करे सपदि चोलनृपम् ।। ८४ ॥ जयं समासाद्य निवर्तमानः प्रपा पुनः काप्यनवेक्षमाणः । राजेन्द्रपाण्ड्यो मधुरेश्वरस्य लीलायितं तत् कलयाम्बभूव ॥ ८५ ॥ सख्यं प्रदाय मधुरेश्वरभक्तियोगात् सत्कृत्य चोलनृपतिं विससर्ज पाण्ड्यः । तं राजसिंहमपि दुर्मदमुन्मदिष्णुं प्रातेति जातकरुणो बिभराम्बभूव ॥ ८६ ॥ अम्भोभिः केवलैरप्यवनिपतिचमू तर्पयन् जातु तप्तां ख्यातिं धत्ते यदीशः कियदिव न यशो नित्यमन्नप्रदायाः । देव्या मीनेक्षणाया इति नगरजुषामद्भुतान् भक्तिवादान शृण्वन् राजेन्द्रपाण्ड्यः सकलमपि महीचक्रमेकः शशास ॥ ८७ ॥ ततो राजेशपाण्ड्योऽभूद्राजगम्भीर इत्यतः । पुरुहूतजिदप्यस्मादस्मादासीत् कुलध्वजः ॥ ८८ ॥ सुन्दरेशप्रसादेन सुन्दरेशाधिशेखरः । ततो जज्ञे यतो जज्ञे तारेन्दुविमलं यशः ॥ ८९ ॥ इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते शिवलीलार्णवे सप्तदशः सर्गः ।
१२६ शिवलीलार्णवे . अथाष्टादशः सर्गः। स हयान् सहस्रमयुतं भटोत्तमान् करिणः शतं दश महारथानपि । परिगृह्य सैन्यमुचितं व्ययं चरत्नवशिष्टमन्यदखिलं शिवे ददौ ॥ १ ॥ अथ धाग्नि पुष्पवननाग्नि धूर्जटेरविदूरवर्तिनि कदम्बकाननात् । अजनिष्ट कापि किल हेमनायिकेत्यभिविश्रुता जगति रुद्रकन्यका ॥२॥ शिवभक्तपूजनपरा शिवव्रता शिवबिम्बमेकमखिलोत्सवोचितम् । परिकल्प्य सिक्थकमयं प्रचक्रमे परिशुद्धताम्रकणसञ्चयाय सा ॥ ३ ॥ अथ नाचिरादनुपलब्धसाधना दधती तमेव सुदृढं मनोरथम् । मधुरेशमेव धृतसिद्धविग्रहं मदिरेक्षणालभत भाग्यतोऽतिथिम् ॥ ४ ॥ प्रणिपत्य तं परिचरन्त्यनेकधा रससिद्धिदर्शनपरेण तेन सा । अनुकम्पिता सकलमायसं गृहे भसितेन तस्य नयति स्म हेमताम् ॥ ५॥ कृतविम्मयाथ गिरिशे तिरोहिते परिकल्प्य तां प्रतिकृतिं हिरण्मयीम् । अवलम्ब्य गण्डतलमङ्गुलीमुखैः परिचुम्बति स्म गणिकातिसुन्दरम् ॥ ६ ॥ अधुनापि तन्नखपदं यदीक्ष्यते विमले कपोलफलके महेशितुः । श्रमवारिलेशवति तत्र सङ्गतं शकलं विधोरिव जटापरिच्युतम् ॥ ७ ॥ अपि यन्महाक्रतुभिराप्तदक्षिणैरपि वा त्रयीपरिचयैरहर्निशम् । अनवाप्यमस्ति पदमैन्दुशेखरं तदवाप सा तदनुकम्पिता ततः ॥ ८ ॥ गजवाजियोधरथयूथभीषणां परिगृह्य चोलनृपतौ पताकिनीम् । अभिगच्छति स्वयमनन्यसाधनः शिवमारराध शिवपादशेखरः ॥९॥ तमुवाच वागथ नभस्समुद्भवा न बिभीहि तस्य महती चमूरिति । अभिषेणय त्वमरिमल्पसैनिको विजयस्तवैव भवितेति पार्थिवम् ॥ १० ॥ अथ पाण्ड्यमल्पबलमभ्ययात् बली सरितं समुद्र इव चोलपार्थिवः । नृपतिश्चं निश्चलमतिर्व्यवस्थितः कलयन् पुरः कनकशैलकार्मुकम् ॥११॥ अथ युद्धमुद्धतमवर्धत क्षणाद् दृढरूढगूढतरवैरयोस्तयोः । असिपातपाटितपतन्मतङ्गजसवदतसिन्धुहृतसैन्धवव्रजम् ॥ १२ ॥ १. देवदासी.
अष्टादशः सर्गः। १२७ निशितेषु तत्र निपतत्सु सायकेष्वभितो भयादतिविदूरवर्तिनः । निहतान् हयद्विपभटान् निनीषवो मुहुराहयन् यमभटाः, प्रसान्त्वनैः ॥ १३ ॥ बपुरानिलं न पिशिताशनक्षमं यदि पार्थिवं शरशतैविभेत्स्यते । इदमुत्तरेम कथमर्थकृच्छ्रमित्यवलन्त दूरमभितः पिशाचिकाः ॥ १४ ॥ प्रथमं हता युधि दिवं समुद्गताः पुनरर्धवर्त्मनि शरैर्निपातिताः । ' पुनरुद्गता द्विगुणभागभाजिनः कतिचिद् भटा दिवि कृताः सुधाशनैः ॥१५॥ अगृहीतशक्तिकतया मिथः कथास्ववबद्धमौनकृतहस्तचेष्टिताः । अमरस्त्रियो रणहताश्च तद्भटाः पशुवत् सुखं निखिलमप्यभुञ्जत ॥ १६ ॥ धवलातपत्रवलयाश्चकाशिरे रदनाश्च मत्तकरिणां निपातिताः । यशसो दिगन्तमभिपूरयिष्यतः प्रथमोद्गता रणतलेऽङ्कुरा इव ॥ १७ ॥ तुरगैः समं तुरगसादिनो हता दिवमुद्ययुः समधिरुह्य तान् पुनः । अतिसाहसेन दिवमभ्युपेयुषामपि वाह्यवाहकदशा न शाम्यति ॥ १८॥ अवभिद्य बिम्बमहिमातेर्दिवं प्रति गच्छतां युधि भटाश्वदन्तिनाम् । गणनाममर्त्यगणका वितेनिरे चरमाङ्गसीम्नि निभृता विवस्वतः ॥ १९ ।। शरपञ्जरस्थगितभूनभोन्तरे समाराङ्गणे घनतमस्समावृते । अभिसारिकेव विजयेन्दिरा चरन्त्यवृणीत तं तमविशेषदर्शिनी ॥२०॥ बलयोयोरपि मदोद्भटा भटा बहवस्तथा रणमुखे निपातिताः । सकलं यथाजनि पुरं शतक्रतो«तदारमन्दिरविमानभूषणम् ॥ २१ ॥ हतशिष्टमल्पमवलोकयन् बलं प्रचचाल पाण्ड्यनृपतिर्यदा पुरः । तरसावपत्य हयसादिरूपतः पुरतश्चचाल पुरशासनस्तदा ॥ २२ ॥ परुषं रुषा परिरटन् करेण च भ्रमयन् युधि त्रिशिखमुन्मिषच्छिखम् । प्रचलन् पदानि कतिचित् पुराहितः शिथिलीचकार निखिलं बलं द्विषाम् ॥२३॥ अपविद्धकुन्तलमचिन्तिताटवीसलिलानलप्रदरगर्तकण्टकम् । अनवेक्षितस्वजनमानशे दिशो बधिरान्धमूकमिव तद् बलं द्विषाम् ॥ २४ ॥ सह धावतो निजजनान् परभ्रमादभिगम्य केचिदभयं ययाचिरे । अपरे क्षताः स्म इति मूञ्छिताः स्वयं क्षतजोक्षितान् पथि समीक्ष्य धावतः ।।
१२८
शिवलीलार्णवे
अधियुद्धरामसवस्तृणीकृताः शिनपादशेखरवरूथिनीभटैः ।
इति किं प्रतीक्ष्य रुषिताखिलं तृणं पृतना चर्व पथि चोलभूभृतः ॥२६॥
अथ मुक्तकेशमपथेन विद्रवन् सरसि क्वचित् सतुरगः ससैनिकः ।
निममज चोलनृपतिनिमज्जयन्नखिलं कुलं स्वमयशःपयोनिधौ ॥२७॥
अतुलानि हेममणिभूषणाम्बराण्युपहृत्य तस्य कटकान्महीपतिः ।
अखिलानि तान्युपददे महाशयो हरिणाङ्कचूडचरणारविन्दयोः ॥ २८ ॥
अथ भक्तसौम्य इति कश्चिदर्चयन्ननिशान्नदाननियमेन शङ्करम् ।
अनुवर्तयन् व्रतमृणार्णधारयाप्यवसीदति स्म विधनः स सर्वथा ॥ २९ ॥
व्रतभङ्गखेदविवशं तमग्रतः पतितं जिहासुमपि दुर्लभानसून् ।
प्रतिपाद्य तण्डुलनिधानमक्षयं परिरक्षति स्म मधुरेश्वरो हरः ॥ ३० ॥
अथ कश्चिदर्थपतिरित्यभिख्यया विदितो विशामधिपतिः पुरे वसन् ।
असुतो धनानि भगिनीसुते दिशन् दशमी जगाम तपसे वनाश्रमम् ॥ ३१ ॥
अखिलं धनं तदपहर्तुमिच्छवो भगिनीसुते विनिहितं सनाभयः ।
पृथुकं यदा तमधिकं बबाधिरे शरणं ययौ स मधुरेश्वरं तदा ॥ ३२ ॥
अथ तस्य मातुलवपुः परो भवन्नभिजित्य तान् नृपसभे विरोधिनः ।
सहसा यदा पुरहरस्तिरोदधे सकलैस्तदा सदसि विस्मितं जनैः ॥ ३३ ॥
तनयं ततो वरगुणं तपोबलाच्छिवभक्तमेत्य शिवपादशेखरः ।
अखिलं महीवलयमर्पयन् सुते शफरेक्षणाचरणयोरलीयत ॥ ३४ ॥
स कदाचिदेत्य मृगयां परापतन् शयितं कचिद् द्रुमतले पथि द्विजम् ।
निहतं तुरङ्गखुरघट्टनैर्विदन् बिभयाम्बभूव जगृहे च हत्यया ॥ ३५ ॥
वसुधेश्वरो वरगुणोऽथ दुःखितः सकलं निनाय सचिवेषु भूभरम् ।
जपदानहोमविधिभिर्जगत्पतिं सततं यजन्नपि न शान्तिमाप सः ॥ ३१ ॥
अशृणोत् स वाचमशरीरिणीं ततः करुणालयस्य हरिणाधारिणः ।
मधुराकृतस्य हि महत्त्वमंहसः सुकृतस्य वा न पथि वर्तते गिराम् ॥ ३७ ॥
मम लिङ्गमर्जुनतरोरधस्तले महदस्ति सद्यतनयातटे शुभे ।
सदुपासनेन तव तात! दुष्कृतं सकलं प्रयाति विलयं क्षणादिति ॥ ३८ ॥
अष्टादशः सर्गः। १२९ स तथेति कार्यमवधार्य निस्सरन्नपदिश्य चोळनरपालविग्रहम् । शिवमर्जुनेशमभिवन्द्य तत्क्षणादभवन्निवृत्तकलुषो महीपतिः ॥ ३९ ॥ स पुनः समेत्य नगरीमकल्मषः फणिवक्रमुक्त इव पार्विको विधुः । प्रशशास वासव इव त्रिविष्टपं वसुधेश्वरो वरगुणः क्षमातलम् ॥ ४० ॥ अथ भद्र इत्यभिमतः क्षमापतेरतिविश्रुतश्च भुवि गायकाग्रणीः । उपवीणयन्ननिशमुत्पलप्रियं चिरमास्त कश्चन कदम्बकानने ॥४१॥ अथ तं विजेतुमपरस्तु गायकः प्रथयन् यशो बिरुदडिण्डिमस्वनैः । नृपतिं ददर्श स यदा तदा शिवः स्वयमेव भक्तमवितुं मनो दधे ॥ ४२ ॥ स निधाय मूर्ध्नि शशिखण्डमण्डने सुमहान्तमिन्धनभरं नराकृतिः । दिवसावसानसमयावधि भ्रमन् परितश्चचार मधुरापुरे हरः ॥ ४३ ॥ इदमिन्धनं धनमिवाहृतं चिरादतिशुष्कमव्रणमकण्टकं गुरु । क्षममस्य मूल्यमुपकल्प्य गृह्यतामिति घोषयन् परिचचार शङ्करः ॥ १४ ॥ उपगायतोऽस्य पथि गानवैभवादुपजातपल्लवतयातिकोमलम् । अपि मस्तकस्थसरिदम्भसार्दितं न तदिन्धनं जगृहिरे पुरौकसः ॥ १५ ॥ चरतोऽस्य तत्र नगरे ततस्ततश्चरणाब्जविन्यसनभावितं रजः । चतुराननप्रभृतिभिः समं सुरैः प्रणिपत्य सञ्जगृहिरे महर्षयः ॥ ४६ ॥ करयुग्मसङ्गमितभारमन्थरं घटितश्रमाम्बुकणमस्य वीथिषु । क्रयवादनादजितकोकिलारवं गतमागतं च न गतं ममाशयात् ॥ १७ ॥ अथ काष्ठभारमवरोप्य दुर्भरं स बहिर्गृहादभिनवस्य गायतः । उपविश्य वीतभरणश्रमः शनैरुपगायति स्म मधुरं यदृच्छया ॥ १८ ॥ अथ पाडवौडवविभेदि सर्वमप्यवलम्ब्य रागकुलमस्तसङ्करम् । स जगावनुल्लिखिततानधोरणीमधुरं हिये हृदि भिये च गायताम् ॥ ४९ ॥ अथ विस्मयाभिनवस्य गायतो गुरुसम्प्रदायमभिगम्य पृच्छतः । से जगाद भद्रसदने गतागतैरदसीयगीतिगुणरीतिमाहृताम् ॥ ५० ॥ तदुदीरितश्रवणलब्धसाध्वसे प्रपलायिते सपदि तत्र गायके । उप*गम्य भद्रमुचितैर्विभूषणैर्बहुमन्यते स्म नृपतिर्धनैरपि ॥ ११ ॥ १. षाडवः षट्स्वरो रागः । औडवस्तु पञ्चस्वरः, 'चर्य' इति खपुस्तके पाठः.
११०
शिवलीलार्णवे
स ददौ समस्तमपि तन्महेश्वरे विततार यद् वरगुणोऽस्य पार्थिवः ।
अपि सञ्चितं वसु दिशन् शिवाश्रमिप्वधनो बभूव बहुधार्जयन्नपि ॥ १२ ॥
कविगायकाभिमतकल्पशाखिनः सविधे कदाचिदथ चेरभूपतेः ।
प्रवितीर्य पुत्रमपि भक्तमात्मनः प्रजिघाय भद्रममृतांशुशेखरः ॥ ५३ ॥
स्वपने पुरैव स च तत्समागमें प्रतिबोधितः पुरहरेण पार्थिवः ।
अभिगम्य भद्रममितैर्विभूषणद्रविणाम्बरैः सपदि पर्यपूजयत् ॥ १४ ॥
इति कन्दलत्यहरहर्दयारसे शफरेक्षणासहचरस्य गायके ।
भवति स्म भक्तिरपि तस्य तावती चरमं शरीरमधितष्ठुषस्तदा ॥ ५५ ॥
उपसि प्रगे तदनु सङ्गवे ततो दिनमध्यगे दिनमणौ निशामुखे ।
रजनीदले च नियमादसेक्त प्रमथाधिनाथमुपवीणयन्नयम् ॥ ५६ ॥
समयेषु षट्सु नियमेन यजगौ स बहिषात् स्वयमनावृते वसन् ।
द्रढिमानमस्य नियमे परीक्षितुं जलदानचोदयत वृष्टये हरः ॥ ५७ ॥
स्तनितारवैर्बधिरतामगुर्दिशस्तटितां त्विषा तनुभृतां हृता दृशः ।
अपतन् क्षितावशनयः पदे पदे तिमिरं निरन्तरमरुद्ध रोदसी ॥ ५८ ॥ ,
जगदास्त बद्धमिव जातसाध्वसं समये यदा स तु तदैव गायकः ।
अवगाह्य हेमकमलाकरे शनैरभिगम्य सन्निधिमगायदैश्वरम् ॥ ५९ ॥
अथ मेघरञ्जिमहिरञ्जिमुख्यतन्मृदुगानसंवलितरागवैभवात् ।
द्रवतां प्रपन्नमिव भूनभोन्तरं ददृशे तदा जलधरैर्निशात्यये ॥ ६ ॥
करकोपलैर्विघटिता विपञ्चिका करजा न तस्य वशवर्तिनोऽभवन् ।
अपि कम्पमानवपुरप्रकम्पिनीमवलम्ब्य भक्तिमयमुज्जगौ पुनः॥६१॥
घनकर्दमद्रवनिमममग्रतश्चरणद्वयं चलयितुं च नाशकत् । ..
स यदा तदास्य विपुलं समुन्नतं स्वयमुट्ठभूव मणिचित्रमासनम् ॥ ६२॥
स निविश्य तत्र शिवसक्तया दृशा निरवर्तयन्नियममत्वरो यदा ।
विरतं घनैर्विमलमम्बरं बभौ विललास दिक्षु च तदैव कौसुदी ॥ ६३ ॥
फलकं तदद्भुतमवेक्ष्य पार्थिवः प्रणिपत्य भद्रमसकृत् प्रशस्य च ।
शिवलिङ्गतोऽपि शिवयोगिषु स्थिरां शिवभावनामकृत तत्प्रभृत्ययम् ॥१४॥
अष्टादशः सर्गः। १३. अथ राजराज इति दिक्षु विश्रुतं तनयं बहुश्रुतमसावविन्दत । तपसा प्रसाद्य तरुणेन्दुशेखरं मलयध्वजान्वयमहानिधिं नृपः ॥१५॥ अवरोप्य भारमखिलं भुवः सुते लघुरुत्पतन् वरगुणः शिवान्तिकम् । अवनीभृतः पुनरंधात् फणाधरानियमस्य भूभरणवासनेदृशी ॥ ६६ ॥ उदितोदितं विविधया सपर्यया भजतां स्वमेव भुवि पाण्ड्यभूभुजाम् । अपवर्गमेकविधमर्पयन्नयं मधुरेश्वरोऽपि महती ह्रियं दधे ॥ ६७ ॥ अथ राजराज इति लब्धमाख्यया पुरभित्सखत्वमतिशय्य वर्तितम् । पितरौ गुरुं सुहृदमात्मनः प्रभुं कुलदैवतं च कुरुते स्म तं नृपः ॥ ६८ ॥ निममज्ज तस्य हृदयं निसर्गतः शफरेक्षणासहचराङ्घ्रिपद्मयोः । कुलशेखरान्वयभुवां शिवव्रते कुत एप कारणगवेषणश्रमः ॥१९॥ अथ भद्रनामनि चिराय गायके शिवलोकमेयुषि तदीयगेहिनी । चतुरा ततोऽपि किल गानविद्यया शिवमारराध समयेषु षट्स्वपि ॥ ७० ॥ अवरोधगहमधिजग्मुषी विभोरवनीपतेर्दयितया कयाचन । कलहायते स्म निजगानविद्यया दृढया महेशदयया च जातु सा ॥ ७१ ॥ तदुपक्रमं धरणिवल्लभोऽपि तामवमन्तुमाहितकुतूहलश्चिरात् । स्वयमानिनाय जलराशिमध्यतः सुदृशं स काश्चिदथ गानकोविदाम् ॥ ७२ ॥ जगतुस्ततः सदसि ते महीपतेरधिकेत्यगृह्यत तु तत्र नूतना । मनसाधिगम्य मधुरेश्वरं शुचा भणति म्म भद्रगृहिणी पुनर्नुपम् ॥ ७३ ॥ सदसि स्थिता मयि चिरादमर्पिणो यदि किश्चिदाहुरिह किं ततः क्षतम् । अभिगम्य सन्निधिमनङ्गशासितुः कथयन्त्वमी तरतमत्वमावयोः ॥ ७४ ॥ विजयेत या भवतु सात्र भट्टिनी विजिता तु या भवतु सात्र किङ्करा । इति सा यदाह सदनिच्छतोऽप्यभूदभिनन्दनीयमवनीभुजस्तदा ॥ ७५ ॥ अथ ते समेत्य सविधं महेशितुः सह पार्थिवेन सदसि स्थितैरपि । जगतुर्गिरा मधुरयादितस्ततः परिवादिनीमुरलिकाविपश्चिभिः ॥ ७६ ॥ अधिका तु यद्यपि नवैव तत्त्वतस्तदपि प्रपन्नजनपक्षपातिनः । मधुरेश्वरस्य किल मायया वृता बहुधा समस्तुवत भद्रगेहिनीम् ॥ ७७ ॥ १. शिवसायुज्यप्राप्त्या शेषादिनागभूषणोऽभवदिति तात्पर्यम् .
१३२
शिवलीलार्णवे
जयभङ्गयोर्विदितयोर्विपर्ययादपि तत्र नीपवनभर्तुराज्ञया ।
विजिता नवैव विजितं तु भद्रयेत्यगदीदभीक्ष्णमवशो महीपतिः ॥ ७८॥
अवलम्ब्य दास्यमथ सिंहलागता सदसि स्वयं परिचचार भद्रिकाम् ।
स च पार्थिवः कनकभूषणाम्बरैर्विविधैरपूजयत विस्मयेन ताम् ॥ ७९ ॥
इति राजराजधरणीपतेः क्षितिं. परिरक्षतः प्रणिहितेन चेतसा ।
विनयो विवेकत इवातिविश्रुतस्तनयोऽभवत् सुगुण इत्यभिख्यया ॥ १० ॥
तारुण्य एव विनयावनतं कुमारं
तं राजराजनृपतिः सकलागमज्ञम् ।
पश्यन्नखण्डितपराक्रममभ्यषिञ्चत्
सम्प्रार्थितः प्रकृतिभिः किल यौवराज्ये ॥ ८१ ॥
इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते
शिवलीलार्णवेऽष्टादशः सर्गः ।
अथैकोनविंशः सर्गः।.
तनूभवे वहति ततो वसुन्धरां चिरादसौ नृपतिरुपेत्य विश्रमम् ।
वनेचरैः सह मृगयाकुतूहली वनंवनं व्यचरदधिज्यकार्मुकः ॥ १॥
परिभ्रमच्छृगणविकृष्टशृङ्खलावलीघनध्वनिजनितप्रबोधनाः ।
ततस्ततस्तरुतलकुञ्जपुञ्जतो विनिर्ययुर्विवृतमुखा मृगादनाः ॥२॥
पुनः पुनः परिपततः शुनः क्रुधा जिघृक्षवः खरनखरास्तरक्षवः ।
प्रचक्रमुः किमपि यदा तदा शरैःनिरन्तरानकृततरामिमान् नृपः ॥३॥
स्तनग्रहअहिलतया निरुन्धतस्तनन्धयन् सपदि विलमय सम्प्लुता ।
मृगी मृगं क्षितिपतिपाणिगोचरादपालयत् स्वयमभिपेतुषी पुरः ॥ ४ ॥
स्वसायकादपि चललक्ष्यपातिनः स्वयं पुरः परिचलता महीभृता ।
अरुध्यत प्रथममविध्यत त्वथ त्वरोच्चलत्तुरगखुरक्षता मृगी ॥५॥
सटासु तच्छबरभटावलम्बितः प्रकम्पितुं किमपि न चक्षमे स्वतः ।
अवैक्षत भृकुटिविटङ्कभीमया दृशा पुनस्तदपि मृगान् मृगाधिपः ॥ ६॥
एकोनविंशः सर्गः। वृथा नयन् विपिनचरान् शराहतान् विषादमावहत यमन्तरन्तकः । स तस्य तं महिषगणान् निपातयन्नपाहरद् वनभुवि वाहनार्पणात् ॥ ७ ॥ गणंगणं चमरवराहगण्डकान् वृकानपि क्षपयति तत्र पार्थिवे । किटिझटित्युपनिपपात कश्चन क्रुधा ज्वलन्नचलगुहागृहात् ततः ॥ ८॥ स दंष्ट्रया कुलिशनिशातधारया परिक्षिपन् शबरभटानितस्ततः । गणं शुनामविगणयन् पदेपदे धरापतेस्तुरगसमीपमापतत् ॥९॥ अवस्थितं धुरि तमवेक्ष्य पार्थिवः स सन्दधे धनुषि न यावदाशुगम् । स तावदुच्चलितविषाणकोणतो व्यदारयच्चरणतले तुरङ्गमम् ॥१०॥ अवप्लुतः सपदि तुरङ्गमात् ततः पतिः क्षिते रथमधिरुह्य तं पुरः । अवाकिरज्ज्वलितमुखैः शिलीमुखैधराधरं जलद इवाम्बुवृष्टिभिः ॥ ११ ॥ स तद्धनुर्वलयविनिस्सृतैः शरैः समाचितः शललगणैरिवाभितः । अचूर्णयन्मुखमसकृद् विघूर्णयन् ससारथिं सतुरगमम्य तं रथम् ॥ १२ ॥ ततः प्लुतः सपदि रथान्महारथस्तमुद्धतं गिरिमिव जङ्गमं किटिम् । अनुद्रुतं प्रियतमया नृपो रयादपातयत् स भुवि कृपाणपाटितम् ॥ १३.॥ ततः प्रभृत्यजनि वराहशैल इत्यभिख्यया धरणिधरः स विश्रुतः । उपत्यकामुपरुरुधे स यम्य तां पतन् किटिः पृथुरिव पादपर्वतः ॥ १४ ॥ गते पुरं धरणिपतौ सविस्मये क्षुधार्दितास्तदनु वराहपोतकाः । प्रसूस्तनप्रणयकृतातिकूजिता दशापतन् द्विसमधिकास्तदावशाः ॥१५॥ तपस्विनामवनकृते तपस्यतां गिरेस्तटे कृतरतिरत्र शङ्करः । कृपालयः किटिपृथुकानपालयत् स तत्प्रसूतनुरमितैः स्तनामृतैः ॥ १६ ॥ पुरा युगे वृषलकुमारका हि ते तदाश्रिताः शमधनशापतो वपुः । समुद्धृताः पुरमथनस्तनामृतैः क्षणाद् दधुः किटिवदना मनुष्यताम् ॥ १७ ॥ कलासु ते दधुरखिलासु कौशलं विशिष्य च क्षितिपतितन्त्रवैदुषीम् । न सूकरः शिवचरणे कृताशयः स सूकरः पुरभिदि यः पराङ्मुखः ॥ १८ ॥ वराहताभरणविलासवासनावशादिव श्रुतिशतमौलिलालितम् । विमार्गितुं चरणयुगं पुराद्वषः कुतूहलं सततममी वितेनिरे ॥ १९ ॥ १: विषाणं बराहदन्तः.
शिवलीलार्णवे
है
अनुज्ञया तदनु कदापि धूर्जटेरवस्थितानचलगुहासु तान् नृपः ।
समानयन् सचिवपढे न्यवेशयद् वचस्विनो नरपतितन्त्रकोविदान् ॥२०॥
सभाजिता नृपतिवरेण सर्वथा चिरायुषो द्विसमधिका दशापि ते ।
शिवाश्रमव्यतिकरधूतकल्मषाः शिवं ययुः प्रणतशिवङ्करं ततः ॥ २१ ॥
ततो गते पितरि पदं महेशितुस्तदात्मजः सुगुणनृपालशेखरः ।
अपालयच्चिरमवनी ससागरामचञ्चलामकृत च भक्तिमीश्वरे ॥ २२ ॥
बहिर्भमन् क्षुदुपशमाय सर्वदा बलीयसा करटकुलेन ताडितः ।
अचञ्चलं चरणयुगं शिवस्य कोऽप्यकिञ्चनः शरणयति स्म खञ्जनः ॥ २३ ॥
विहङ्गमः करटभिया शिवालये निलीय स कचन विटङ्कसीमानि ।
सकृत् पतन् कनकसरोजिनीपयस्युपोषितः कतिचिदुवास वासरान् ॥ २४ ॥
जुहाव किं किमयमयष्ट किं ददौ जजाप किं मलिनतनुर्विहङ्गमः ।
तपस्तदप्यजनि तदस्य चेष्टितं परन्तपप्रपदनतः किमन्ततः ॥ २५ ॥
स मृत्युभीशमनमनूपदेशतो बलीयसामपि बलिनं चकार तम् ।
बलान्यमी किल बलवत्सु विश्रुताः प्रसादशीकरपरमाणवोऽस्य ये ॥ २१ ॥
स सर्वमध्यकुरुत पक्षिमण्डलं परिग्रहात् प्रमथपतेर्विहङ्गमः ।
तदादि खल्विदमधुनापि लक्ष्यते तदन्वये विहगकुलाधिकं बलम् ॥ २७ ॥
ततस्ततः सरसि निरीक्ष्य यादसां परम्परप्रतिहतिपातकं बकः ।
निवृत्तजात्युचितविचेष्टितः स कोऽप्यगाहत प्रियकवनं कदाचन ॥ २८ ॥
विगाहते कनकसरोजिनीजले विलोकते न तु शफरान् दृशापि सः ।
बिभर्ति तु स्वकमुदरं बिसाङ्कुरैः प्रदक्षिणं भ्रमति सदा च शूलिनः ॥ २९ ॥
इति व्रतं दृढतरमेष धारयन्नुपास्त तं त्रिपुरहरं यदा चिरम् ।
तदा स्वयं तरुणशशाङ्कमौलिना सरः कृतं विगतसरोजसङ्कथम् ॥ ३० ॥
स वल्गतो नवनवनीतकोमलान् समपितः शफरशिशून् विलोकयन् ।
क्षुधा किल क्षुभितमना मनागिव प्रचक्रमे पिशितपरिग्रहक्रमे ॥ ३१ ॥
समुत्प्लुतं वदनपुटे स्वयं ततः शरारिरादित शफरार्भकं यदा ।
तदा झटित्यवबुबुधे व्रतक्षति विवेकिषु प्रभवति किं चिरं तमः ॥ ३३ ॥
एकोनविंशः सर्गः। . परित्यजन्नपि पललं झटित्ययं प्रवर्तनात् क्षणमपथे कृतव्यथः । असूमपि व्ययितुमियेष दुस्त्यजानहो सतां प्रकृतिरपत्रपिष्णुता ॥ ३३ ॥ “स रक्षितुं बकमकरोद्यथापुरं सरस्तदुल्लसितमृणालपल्लवम् । सदादि चाकृत तपनीयपद्मिनी विवर्जितां कियदपि यादसां गणैः ॥ ३४ ॥ स खञ्जनः स च बकशाबकः प्रभोरनुग्रहात् परममवापतुः पदम् । द्विजे द्विजो यदि दयते क्षमं हि तद् द्विजो ह्ययं विबुधगणेषु गीयते ॥ ३५ ॥ दिवं गते सुगुणनृपे दयानिधावुपर्युपर्युपचितसद्गुणोत्तराः । तदन्वये धरणिभुजो महारथाः परश्शता धरणिमिमामपालयन् ॥ ३६ ॥ युगे युगे कुलमुदितोदितं हि तत् प्रवर्तितं प्रथममनङ्गवैरिणा । प्रियङ्करं प्रियकवनीपतेरभूदभग्नमादिवसपरिक्षयं विधेः ॥ ३७॥ उपस्थिते युगविगमे पृथग्विधाः समुद्गता दिशि दिशि धूमकेतवः । अरुद्ध च द्युमणिमहर्मुखे सदा कबन्धवत् किमपि निरन्तरं तमः ॥ ३८ ॥ समन्ततोऽजनि शतवार्षिकः क्षिताववग्रहः स्वयमनवग्रहस्ततः । चतुर्विधं जनुरपि भूतसंसदां विलुप्यते जगति निरन्वयं यथा ॥ ३९ ॥ विवस्वतो विदधति सप्त रश्मयो जगत्यु ये जलतुहिनाभिवर्षणम् । समेऽपि ते तपनतया पृथक्पृथक् प्रतापने प्रववृतिरे समन्ततः ॥ ४० ॥ द्रवीकृतैः प्रथममथोपशोषितैः स्थलीकृतैर्हिमशिखरैः समन्ततः । हिमालयो मृदुपलमात्रशेषितो विदिद्युते भुवि किल वेत्रदण्डवत् ॥ ४१॥ प्रतापिताः प्रथममबिन्धनामिना विशोषिताम्तदनु करैर्विवस्वताम् । उपर्यधः कथितजलौघपाचितैस्तिमिङ्गलैर्जलनिधयः कषायिताः ॥ ४२ ॥ विशोषिताम्भसि विधुमण्डले तदा विसृत्वरा अपि किरणा विवस्वतः । खरातपा निशि परिणम्य चन्द्रिकाप्रवर्तनप्रतिहतशक्तयोऽदहन् ॥ ४३ ॥ पराकृतद्रुमतृणगुल्मसङ्कथे पयोधरस्मृतिविधुरे युगात्यये । अपि त्रिवृत्करणपथोपपादितं पयः क्षितावनि कथावशेषितम् ॥ ११ ॥ फणीशितुर्वदनसहस्रनिस्सृता विषानलोद्वमनविशेषभीषणाः । समीरणाः सरभसताडितस्खलत्परस्परा ववुरपरस्परास्ततः ॥१५॥ १. त्रिवृत्करणं तेजोबनानां त्र्यात्मकत्वकरणम् उपनिषत्प्रसिद्धम् .
शिवलीलाणवे
विषानलव्यतिकरशोषितान्तरद्रवत्स्फुटदृढतरसन्धिबन्धनाः ।
शिलोच्चया अपि हि रजश्छटात्मना दिशंदिशं पवनवशेन निन्यिरे ॥ ६ ॥
प्रदीपिता इव पवनेन ताडिताः प्रतिक्षणावसितपुनस्समुद्गताः ।
प्रजज्वलुः कथमपि चण्डरश्मयः पदे पदे स्खलितरथा वियत्पथे ॥ ४७ ॥
पयः किल प्रतिहतकल्मषं सुधेत्युदारहन्त्युदकरहस्यकोविदाः ।
पयःकथामपि पवनेन लुम्पता सुधान्धसोऽप्यजहुरसून गतान्धसः ॥ ४८ ॥
प्रसर्पता धरणितलाद्रसातलं महोष्मणा युगविगमाहिमत्विषाम् ।
प्रतापिताः पुनरशनातिमात्रयाप्यसूनहो जहुरहयो महानिलैः ॥ ४९
अधस्पदे कमठवराहभोगिनामवस्थितस्तदनु ललाटलोचनः ।
किमेतदित्युपरि दृशं द्वयाधिकामवाकिरद् दरदलितामवज्ञया ॥ ५० ॥
ततोऽमिना कमलभवाण्डमूलभूनिविष्टधूर्जटिनिटिलाक्षिजन्मना ।
चटचटच्चटदिति भूर्भुवस्स्वरित्यदह्यत त्रिजगदपि प्रसह्य तत् ॥ ११ ॥
उदन्वतामुदरतलेषु शोषितास्तदीरिता लवणमया महाद्रयः ।
समन्ततः सदसि विधातुरुद्ययुर्महोपला इव युधि यन्त्रनिस्सृताः ॥१२॥
नमस्स्वतामजनि विवस्वतामपि क्षणादहो भसितदशा तदर्चिषा ।
बलीयसामपि बलिभिर्भुवः क्षयः परं त्वसौ भवति कियद्विलम्बितः ॥५३॥
तदर्चिषा गिरिशिखरस्फुलिङ्गया जना महाप्रभृतिषु जातसज्वराः ।
चिरायुषः सनकसनन्दनादयः प्रदुद्रुवुः पदमकुतोभयं विधेः ॥५४॥
अवस्थिताः प्रियकवने युगात्ययेऽप्यविक्रिया मदनाजितः प्रभावतः ।
विशङ्कटे कनकसरोजिनीतटे विशृङ्खलाः प्रमथगणा विजहिरे ॥ ५५॥
कपर्दिनस्तदनु कपर्दमण्डलात् समुद्गता नभसि धना धनाधनाः ।
नजृम्भिरे जगदखिलं हविर्भुजा परिश्रितं प्रशमयितुं समन्ततः ॥ १६ ॥
कणानपा करिकलभानिव च्युतान् पटत्पटद्ध्वनिमुखरान् पयोमुचाम् ।
प्रसारयन्निव रसनां शिखाच्छलात् पपौ शनैस्सिमिसिमिति क्षयानलः ॥५७ ॥
पयःकणप्रशमितकल्पपावकप्रसृत्वरप्रतिनवधूममण्डलैः ।
समन्ततः पुनरपि सान्द्रतां गता वलाहका ववृषुरपो निरन्तरम् ॥१८॥
एकोनविंशः सर्गः । ततस्ततो जलदकुले तटिद्गणाश्चकाशिरे चपलमरीचिवीचयः । विहाय भूतलमिव तद्दिधक्षया विनिस्सृताः प्रलयहुताशनार्चिषः ॥ ५९॥ "ततोऽयुतायुतयुगयोजनोन्नतास्तदर्चिषः सलिलनिपातकुण्ठिताः । इसीयसीमुपगमिता दशां तदा निरीक्षिताः प्रियकवनाश्रितैर्गणैः ॥६॥ परस्परं प्रलयहुताशमेघयोर्भयानके प्रचलति साम्परायिके । समागता भुवि समये हविर्भुजा सनाभयः किमशनयः पयोमुचः ॥११॥ उभावपि प्रलयदशानिरङ्कुशावुभावपि त्रिपुरहरस्य गात्रजौ । तथापि तु व्यजयत वारिदोऽनलं जयः कथं जगदुपतापिनो भवेत् ॥ १२ ॥ भयानकैरशनिनिपातनिस्वनैः प्रतिक्षणक्षुभितहृदः पयोमुचाम् । अपि क्षपामनुभवतः पदे निजे प्रजागरः परिणमति स्म वेधसः ॥ ६३ ॥ अचन्द्रमस्तपनमपेततारकं प्रशान्तपावकमवसन्नमारुतम् । अकालदिग्भुवनमसच्छुभाशुभं तमोमयं पयसि ममज.तज्जगत् ॥ ६४ ॥ यदण्डतो बहिरबहिश्च यज्जलं तदेकतां गतमिव सर्वतस्तदा । अगाधमप्रचलमपारमस्वनं प्रवृद्धमाध्रुवपदमारसातलम् ॥६५॥ जडाजडे जगति गते रसातलक्षमानभस्सुरनरतिर्यगात्मनि । जलास्तरे वटदलतल्पमाश्रितो जगन्निधिय॑हरत कोऽपि वालकः ॥ ६६ ॥ समन्ततो जगति समावृतेऽम्भसाप्यमज्जति प्रियकवने निजाज्ञया । स बुहुदोदर इव सार्धमम्बया समं गणैरपि विजहार शङ्करः ॥ १७ ॥ चतुर्मुखे स्वपति विलुप्तसङ्कथे चराचरे विरमति कालकल्पने । अनुश्रवैः परमधिगम्य तुष्टुवुर्महर्षयः कतिचन तं महीं गतम् ॥ ६८ ॥ जलप्लवैर्बहिरबहिश्च धूर्जटेर्जटाटवीहिमकरचन्द्रिकाङ्कुरैः । जडीकृते सति मधुरेश्वरालये जगुर्गणा जहसुरनतिषुः सुखम् ॥ ६९ ॥ परिक्षये प्रलयनिशस्ततश्चिरात् पयोजभूः सलिलशयस्य शाङ्गिणः ।' निदेशतो निखिलमिदं जगत्तूयं यथापुरं पुनरसृजत् प्रयत्नतः ॥ ७० ॥ प्रकल्पयन् प्रथममहर्निशाकरौ प्रणाशयन् कबलितविष्टपं तमः । विशोषयन् सलिलमशेषमुत्थितं विनिर्ममे विधिरमरालयं पुनः ॥७१ ॥ * १३८ शिवलीलार्णवे ततः क्षितौ कथमपि धाम शाङ्करं तदेकमक्षतमभिजानतामुना । सरिद्गिरिस्थलसरिदीश्वरादिकं सुमेधसा निखिलमकल्पि वेधसा ॥ ७२ ॥ ततः सृजन् स विबुधमर्त्य भोगिनो निवेशयन् निजनिजधामसु स्थिरम् । प्रवर्तयन् सुपरिचितेषु कर्मसु व्यधत्त तच्छयितमिवोत्थितं जगत् ॥ ७३ ॥ ततश्चिरादजनि तु वंशशेखरो महीपतिमिडकुलेषु कश्चन । प्रभुत्वमावहत स पाण्ड्यमण्डले महेश्वरार्पितहृदयो महाशयः ॥ ७४ ॥ स सुन्दरेश्वरसदनैकशेषिणी भजन् पुरीं भुवि मधुरेति विश्रुताम् । निवेशयन् क्वचिदपि काश्चन प्रजाः क्वचित् स्वयं न्यविशत कल्पितालयः ॥७५॥ दिनेदिने मदनजितः सपर्यया समृद्धया स धरणिवल्लभश्रिया । यथापुरं पुरमचिकीर्षदुच्छ्रितैः समन्ततो नृपगृहसालगोपुरैः ॥ ७६ ॥ स वेदितुं पुरपरिमाणमुत्युको जडे जगत्यविदिततत्पुरस्थितौ । दृढव्रतो द्रमिडकुलाब्धिचन्द्रमाः समाहितः शरणयति स्म शङ्करम् ॥ ७७ ॥ कृपानिधिस्तदनु शंशाङ्कशेखरः कृतादरः क्षितिभृति वंशशेखरे । प्रदर्शय स्थलपरिमाणमित्यशाद् विभूषणं भुजगवरं विनिक्षिपन् ।। ७८ ।। स पुप्पकाननभुवि वालमर्पयन् प्रदक्षिणं परिचलितः फणीश्वरः । शिरस्पदं पुनरपि तत्र योजयन्नदर्शयत् पुरपरिमाणमद्भुतम् ॥ ७९ ॥ हरित्स्वसौ चतसृषु पुप्पकाननं गुहाचलं भुजगगिरिं वृषाचलम् । अनुक्रमादहितिलकः प्रदर्शयन् द्वियोजनं पुरमवदत् समन्ततः ॥ ८० ॥ तिरोहिते पुरहरभूषणोरगे तदाकृतिं वरणमयं प्रकल्पयन् । विशङ्कटैर्विपणिपथैः शिरोगृहैरलङ्कृतं पुरमकरोद् यथापुरम् ॥ ८१ ॥ हालाहलास्यपरिवेष्टनलब्धसीमं हालास्यमित्यभिधया नगरं तदासीत् । भोगाभिवेष्टिततयागि च भोगभूमिः कैवल्यभूरपि बभूव महीविभागे ।। ८२ ॥ आसांदयन्नश्वपतिं सहायमर्थकदा विक्रमचोलदेवः । विचार्य विसब्धममुं नृपालमायोधनायोपजगाम सैन्यैः ॥ ८३ ।। अतर्कितासन्नमरातिसैन्यमाकर्णयन् पाण्ड्यनृपो विशङ्कः । कृताभ्यनुज्ञो मधुरेश्वरेण जयं करस्थं कलयन् प्रतस्थे ।। ८४ ॥
विंशः सर्गः
धनुर्धरेष्वेकतमो भवन् हरः शितैः शरौघैः शिवनामलाञ्छितैः ।
अवाकिरत् सैन्यमदृश्यपातिभिर्विशृङ्खलं विक्रमचोलभूपतेः ॥ ५ ॥
मनुग्रहं स तमनवग्रहं विभौविचिन्तयन् क्षितिभृति वंशशेखरे ।
परित्यजन् गजतुरगान् पलायितो विना रणं कियदपि चोलभूपतिः ॥ ८६ ॥
पराक्रमेणाप्रतिमेन पार्थिवान् गिरा सुधासारकिरा कवीनपि ।
जयन्नयं सप्तसमुद्रमुद्रितां बभार पृथ्वी मधुरेश्वरार्पिताम् ॥ ८७ ॥
इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते
शिवलीलार्णव एकोनविंशः सर्गः ।
अथ विंशः सर्गः।
कपिलकीरमुखाः कवयम्ततः कतिचिदासत ताम्रनदीतटे ।
द्रुहिणशापवशाजननी गिरामवततार पुरा हि यदात्मना ॥ १ ॥
अथ चतुर्गुणिता व्यधिका दश त्रिदशदेशिकधिकरणक्षमाः ।
प्रति ययुर्मधुरामभिवन्दितुं प्रमथनाथममी कविपुङ्गवाः ॥२॥
कविशरीरभृता कवयस्तु ते समधिगम्य हरेण पुरस्कृताः ।
समवगाह्य सुवर्णसरोजिनीं ददृशुरद्रिसुतादयितं महः ॥ ३ ॥
दृढविनीतधियः सुधियस्तु ते द्रमिडसूत्ररहस्यविवेचने ।
मृदुसुगन्धिवचःकुसुमस्रजा विविधया मधुरेशमपूजयन् ॥ ४ ॥
अकवयः कतिचिद् विबुधाधमाः कुकवयश्च परे कृतसंविदः ।
फविभिरप्रतिमैर्भुवनेषु तैः कलहमादधिरेऽथ वितण्डया ॥५॥
शब्दार्थों दोषनिर्मुक्तौ सालङ्कारौ गुणोत्तरौ ।
काव्यमातिष्ठमानेभ्यः कविभ्योऽयं कृतोऽञ्जलिः ॥ ६ ॥
आद्यं हि शब्ददोषाणामसाधुत्वं मतं च वः
स्वरमश्रद्दधानानां स्वरूपे केव साधुता ॥ ७ ॥
काव्यार्थादपि किं दुष्टं कामिदुश्चरितोतरात् ।
अत एव हि काव्यानामालापः सद्भिरुज्झितः ॥ ८॥
१४० शिवलीलाणेवे अथान्य एव कल्प्यन्ते गुणदोषा निजेच्छया । काकदन्ताः परीक्ष्यन्तां गृह्यन्तां ग्राम्यसूक्तयः ॥ ९ ॥ तत्र तत्र पुराणेषु तन्त्रेषु च यदि स्फुटम् । काव्यालापानुवादोऽस्ति का जिगीषा ततोऽपि वः ॥ १० ॥ सर्वा वाचो वदन्तीति सप्ततन्तौ महाव्रते । ग्राम्योक्तयोऽपि किं शास्त्रे 'क्रत्वङ्गत्वेन नोदिताः ॥ ११ ॥ अयोग्यानां हि काव्यानामग्निसेकादिवाक्यवत् । मूकतैव हि दुर्भेदा मुह्यन्त्येषु कथं जनाः ॥ १२ ॥ कथञ्चिद्यदि सार्थक्यं कथञ्चित्तैव दूषणम् । सफलः क्लेश इति च सम्प्रदायागतो भ्रमः ॥ १३ ॥ अक्लेशेन फले लभ्ये न क्लेशो युक्तिमर्हति । यस्मै फलाय सा गाणी तदेव स्फुटमीर्यताम् ॥ १४ ॥ अर्थानपि व्याप्नुपती हतसर्वनियन्त्रणा । व्यञ्जना शब्दवृत्तिश्चेद् वेश्या पत्नी न किं भवेत् ॥ १५ ॥ धूमेन ध्वन्यतां वह्निश्चक्षुषा ध्वन्यतां घटः । अर्थश्चेद् ध्वनयेदर्थ का प्रमाणव्यवस्थितिः ॥ १६ ॥ दुःखतोऽपि तु काव्योक्तः सुखायार्थो भवेद्यदि । सुखं भवन्तः शृण्वन्तु स्वनिन्दा कविभिः कृताम् ॥ १७ ॥ अहो भावव्यक्तेः परिणतिरहो गूढरस इ- त्यलीकव्यामीलन्नयनविगलद्वाप्पसलिलैः । उदञ्चद्रोमाञ्चैरुदरललितामैरिव मुहुः कथं व्याप्ता भूमिः कविभिरपटुज्ञानपशुभिः ॥ १८ ॥ इति निगदितमेकभीक्ष्णमावर्तयद्भिः प्रतिकथकवचांसि क्वाप्यनाकर्णयद्भिः । 'अपथचिरविनीतैलिशैरात्तगन्धाः शरणमभिसमीयुश्चन्द्रचूडं कवीन्द्राः ॥ १ नान्धाश्चक्षुस्समेता न च खलु बधिरा आक्षिपन्तः परोक्तीः नाप्येते नाथ! मूका विफलमविरलं यत् तदुच्चैः स्वनन्तः ।
विंशः सर्गः। तत्तत्सैद्धान्तिकोक्तीरभिदधत इव क्वाप्यनाघ्राततत्त्वा दृश्यन्ते केचिदेते शिव शिव कुधियामेष सर्गोऽद्भुतस्ते ॥ २० ॥ काव्यागमज्ञाः सुखमाक्षिपन्तु का तत्र चिन्ता भवतः प्रसादात् । अहो वयं प्रव्यथिता अमीभिः काव्याध्वदुष्टश्वभिरेडमूकैः ॥ २१ ॥ दन्तोल्लेखनखक्षतादिदयितव्यापारपारम्परी- निगानापि हि कामिनी दिनमुखे निस्सीममानन्दति । मार्जारी नखराङ्कुराखुदशनव्याविध्यमाना मना- गायुर्वेदविदोऽभिगच्छति रुदत्यासन्नमृत्युर्यथा ॥ २२ ॥ तदलं तरुणेन्दुचूड ! नः परितापार्तिपरीक्षयानया । परिवर्जय पण्डिताधमैरिदमकाधिकरण्यमद्य नः ॥ २३ ॥ विज्ञापितः कविवरैरिति सुन्दरेशः स्मित्वा ददौ फलकमेकमदृष्टपूर्वम् । यत्रासते कवय एव यथाभिलाप- मन्ये तु नाघिमपि विन्यसितुं क्षमन्ते ।। २४ ।। अध्यारूढाः पीठमीशादवाप्तं दुर्दर्श तद् दुर्धियां दूरतोऽपि । अष्टाचत्वारिंशदाद्याः कवीन्द्राश्चक्रुभक्तिं भूयसी चन्द्रचूडे ॥ २५ ॥ वंशचूडामाणः पाण्ड्यो वंशशेखरकस्ततः । जज्ञे यत्र भुवं न्यस्य जज्ञौ स परमामृतम् ॥ २६ ॥ स तु कदाचन चम्पककोरकैः परिचरन् प्रमथाधिपतिं मधौ। अजनि चम्पकपाण्ड्य इति प्रथामभिवहन् कविलोकशिखामाणः ॥२७॥ स कामिनीरत्नसहस्रभोगभाग्योन्नतश्चम्पकपाण्ड्यदेवः । मासे मधौ मन्मथमारराध नवोढया नर्मपरो महिप्या ॥ २८ ॥ अपारयन्ती त्रपया गलन्ती नीवी नियन्तुं समुपेक्षितुं वा । पत्युमुखं नाभिपदं च बाला पर्यायतः केवलमालुलोके ॥ २९ ॥ आलिङ्गितुं चुम्बितुमन्ततस्तं स्प्रष्टुं समाभाषितुमीक्षितुं वा । नायें ददौ नावसरं कदाचिद् व्रीडा सपत्नीव निबद्धवैरा ॥ ३० ॥ आच्छाद्य बिम्बाधरमङ्गुलीभिराबद्धमुग्धाञ्जलिना करेण । मा मेति मन्दाक्षरमर्थितं यदतः किमस्या मधुरोऽधरोष्ठः । ३१ ॥.
शिवलीलार्णवे
एकत्र विस्रम्भकथाविधातः पक्षोऽपरः शतितुमेव नाहः ।
कृच्छ्रे तदस्मिन्नधरं कृशाङ्या गृह्णातु वा मुञ्चतु वा युवायम् ॥ ३२ ॥
दष्टाधरोष्ठा सुदृढं पुरैव पत्युः पुनश्चुम्बनलालसस्य ।
चाटूसहस्रं शपथाञ्छतं च तन्वी विशश्वास न लेशतोऽपि ॥ ३३ ॥
आबद्धसप्ताष्टनिषङ्गमन्वगासञ्जितद्विवकराङ्गुलित्रम् ।
आमर्दितैकद्वशरासमासीदन्यादृगूष्मायितमङ्गजस्य ।। ३४ ॥
विन्यस्य गाढं भुजयोर्भुजौ सा मुखं मुखे वक्षसि चापि वक्षः ।
आलिङ्गति स्म स्मरबाणवर्षादाच्छादयन्तीव तनुं प्रियस्य ॥ ३५ ॥
सकृन्नखायोल्लसितः कचौघः श्लथाश्लथं संयमिता च नीवी ।
सा चायष्टिर्मुदिता तरुण्याः सत्यं मुनीनानामपि मोहहेतुः ३६ ॥
एकाकिनी तामपहाय लज्जा याता पुरा यत् किल मारयुद्धे।
ततोऽपराधादिव तासुपेतां पुरेव तन्वी न पुरश्वकार ॥ ३७ ॥
सा गन्तुमैच्छच्छयितुं स काल्ये साधत्त संव्यानमयं जहार ।
सा नीविमामुञ्चदयं व्यमुश्चद् भावेऽपि तुल्ये बिभिदे क्रियाभिः ॥ ३८ ॥
ससर्ज तस्यां कियतो विलासांश्चक्रे कथं नाम निशां त्रियामाम् ।
शृङ्गारसारं कलयापि वेधाः किं वेद वेदाक्षरजीर्णकोशः ॥ ३९ ॥
अनन्यजे वर्षति काममित्थमपव्यवस्थं शरमण्डलानि ।
आदिनिशादिः सुरतस्य यूनोरन्तो निशान्तोऽपि च पर्यणंसीत् ॥ ४० ॥
स जातु प्रासादे शयनमधिगच्छन् क्षितिपतिः
समाजघ्रौ गन्धं कुसुमकुलदुष्प्रापमतुलम् ।
महिष्याः पद्मिन्या मलयपवमानरुपहृतं
प्रसूतं केशान्तात् प्रशिथिलढान्थिशिथिलात् ॥४१॥
पदासौरभ्यजातीयं पद्मिनीकेशसम्भवम् ।
अनाघ्रातचरं गन्धमवासासीत् स तं नृपः ॥ ४२ ॥
मनोगतं मे कवयत्मवेत्य यः स एतदप्रयं लभतां सुधीरिति ।
अलम्बयद् द्वारि सुवर्णमुद्रिकासहस्रमाबध्य स पाण्ड्यभूपतिः ॥ ४३ ॥
विंशः सर्गः।
१५३
उच्चावचाभिरपि भङ्गिभिरुल्लिखन्तो
नाद्राक्षुरस्य हृदयं कवयो महान्तः ।
आसाद्य कश्चन वटुः पुनरादिशैवः
पद्यं प्रभोरधिसभं पठति स्म हृद्यम् ॥ ४४ ॥
तस्मै किलार्थितवते सुचिरं प्रसाद्य
दारक्रियार्थमधनाय धनं समग्रम् ।
पद्यं ददौ नृपतिभावनिबन्धहृय-
मार्यामयं तदखिलाशयविन्महेशः ॥ ४५ ॥
जानासि पुप्पगन्धान भ्रमर! त्वं ब्रूहि तत्त्वतो मेऽद्य ।
देव्याः केशकलापे तुल्यो गन्धेन किं गन्धः ॥ ४६॥
इति तावदिमामार्यामिन्दुकलाभरणवदननिर्गलिताम् ।
पठति द्विजे सभायां प्रभोरभूद् विस्मयो भूयान् ॥ ४७ ॥
तदनुज्ञया स वर्णी
तत्
कनकं सदसि यावदादत्ते ।
तावत् तदसहमानः प्रत्यवतस्थे कविः कीरः ॥ ४८ ॥
अपरिप्कृते प्रसूनरस्ति कचेऽपि किमसृङ्मले गन्धः ।
किं चिन्तितमवनिभृता किं दृष्टं धीमता भवता ॥ ४९॥
इति तस्य दुराक्षेपादप्रतिभे ब्रह्मचारिणि स्तब्धे ।
प्रादुर्भूयाह हरः कविवेषधरः पुरस्तेषाम् ॥ ५० ॥
केन कुधिया सभायामन्तेवासी ममायमाक्षिप्तः ।
प्रकृतिः सा पद्मिन्याः पङ्कजगन्धः शरीरे यः ॥५१॥
पार्थिवकुसुमविहीने भवति शचीकुन्तले कथं गन्धः? ।
कः शङ्कितोऽप्युपाधिः क्रमते कबरीपरीमले गौर्याः ॥ ५२ ॥
कार्मणमलात्ममूर्तिषु घटते यदि पार्थिवेषु सौरभ्यम् ।
किमिव खलु पद्मिनीनामपकृतमसृजां मलैः केशैः ॥ ५३ ॥
इति विजित्य तमुद्धतमुद्धतैः कविवरे परिगर्जति भाषितैः ।
अलभत द्रविणं स वटुर्झटित्यवानिपोऽप्यवरोधगृहं ययौ ॥ ५ ॥
शिवलीलार्णवे।
कविष्वेकीभूय स्वयमपि हरः सचिषु चरन्
कथाः कुर्वन् हृद्याः स्वयमपि वसन् सङ्घफलके ।
वृतस्तैः स्वामित्वे विविधरचनाभिर्भणितिभिः.
कदाचिद् गौरीशः कलहमभजत् कीरकविना ।। ५५ ॥
अविश्रान्ते स कीरेऽस्मिन्नाक्षेपाभासदुर्ग्रहात् ।
प्रादर्शयत् स्वमात्मानं पञ्चवक्रं त्रिलोचनम् ॥ ५६ ॥
भक्तोऽपि करिः परमाद्भुतं तत् पश्यन्नपि प्रत्युत दुर्बभाषे ।
मौढ्यान्निरूढादपि पामराणां मौढ्यं चिदाभासगतं गरीयः ॥ ५७ ।।
चतसप्वपि दिक्षु पश्यता चतुरेणापि महेश्वर ! त्वया ।
कविकर्माण नैक्षि दूषणं कथमुद्भावितमप्यहो मुहुः ॥ ५८ ॥
भावत्क्यः कृतयः श्रुतिः श्रुतिरिति प्रौढिं परां प्रापिता
अध्याहारविपर्ययप्रकरणोत्कर्षानुषङ्गादिभिः ।
तात्पर्यान्तरवर्णनेन च समर्थ्यन्ते यदस्मादृशै-
म्तज्जानन् कवितासु नः पशुपते! दोपेक्षिका मा कृथाः ॥ ५९॥
ईश! त्वमसि ननु ध्रुवमीशानः सर्वविद्यानाम् ।
कारकृते त्वाक्षेपे कीरवदनुभाषणं ज्यायः ॥ ६० ॥
ज्ञानाज्ञानव्यतिकरपरीणाममीशोऽस्य पश्यन्
भक्ताज्ञानप्रशममकृतं चिन्तयित्वा स्वमागः ।
कालेनास्य स्मृतिकलुषतामुद्दिधीपुस्तिरोऽभू-
देतावन्तो यदि हि न गुणाः कः स नश्चन्द्रचूडः ॥ ६१॥
शिवातिवादप्रभवेन पाप्मना स तापितो दुर्विषहेण दुर्मतिः ।
पपात गाङ्गेयपयोजिनीजले तदेव जाननभिपज्यभेषजम् ॥ ६२ ॥
नित्याधमर्णस्य सकृत्प्रणत्या नीपाटवीसन्निहितस्य धाम्नः । “
कारुण्यतः सञ्जनितानुतापस्तुष्टाव कीरस्तुहिनांशुचूडम् ॥ ६३ ॥
अपि प्रणेता निगमागमानामाद्यः कविम्तस्य तुतोष सद्यः ।
विज्ञानखद्योतविजृम्भिताभिर्वाग्भिः स लुभ्यन् गुणगन्धतोऽपि ।। ६४ ॥
उत्तार्यमाणे कनकाम्बुजिन्याः कीरे करालम्बसमर्पणेन ।
उत्तारितं तं भवसागरादप्यूहाम्बभूवुर्मुनयः पुराणाः ॥६५॥
विंशः सर्गः।
३.
मज्ञानमस्य कवितापदसम्प्ररूढ-
माद्यः कविः शमयितुं कलशोद्भवेन ।
उद्बोधयन् द्रमिडसूत्ररहस्यसार-
मुच्चैर्यशो जगति कीरकवेर्व्यतारीत् ॥ ६६ ॥
अधीत्य कीराद् द्रमिडागमार्थमथापरे सङ्घकविप्रवेकाः ।
वृत्तीविचित्राः स्वयमारचय्य पस्पधिरे ते तु परस्परेण ॥ ६७ ॥
स्वस्य प्रबन्धोत्तममध्यमत्वे संशय्य सर्वे कृतसंविदस्ते ।
सर्वज्ञमीशं शरणं प्रपन्नास्तस्मिन्नतिष्ठन्त कृतप्रणामाः ॥ ६८॥
आविर्भूय ततो लिङ्गादाह तान् मधुरेश्वरः ।
तदीयेषु प्रबन्धेषु तारतम्यविवेचने ॥ ६९ ॥
अस्ति रुद्र इति ख्यातो वैश्यः स्कन्दांशसम्भवः ।
शापान्मे मूकतां प्राप्तः स वश्छेत्स्यति संशयम् ॥ ७० ॥
शृण्वतस्तस्य यां हर्षात् स्यन्दते बाप्पनिर्झरः ।
सकण्टकानि चाङ्गानि सा वृत्तिर्गृह्यतामिति ॥ ७१॥
तदनु तमुपगम्य श्रावयन्तः स्वसूक्तीः
पृथगुपचितबाष्पाः कण्टकोद्रेदरम्याः ।
कपिलभरणकारैः कल्पिता एव वृत्तीः
परिजगृहुरथान्यास्तत्यजुर्दूरतस्ते ॥ ७२ ॥
दिवं गते चम्पकपाण्ड्यदेवे ततश्चिरात् कोऽपि तदन्ववाये ।
राजा कवीनामपि पार्थिवानां राजा कुलेशो धरणीं बभार ॥ ७३ ॥
अथ सचिषु कस्यचित् कवेरवमेने स यदा सरस्वतीम् ।
मधुराधिपतेर्मनस्यभूत् प्रतिघो भक्तदयानिधेस्तदा ॥७४ ॥
कदम्बमूलमुत्सृज्य कविभिः सह शङ्करः।
स्थानमुत्तरहालास्यं प्राप वेगवतीतटे ॥७५॥
क्षितिपतिरथेशानं जानन् रुषा परिनिर्गतं
कविकुलमशेष कविभिः सह शङ्करः ।
प्रतिनवसुधाधारासारास्पदैर्वचनैः स्तुवन्
नगरमनयद् भूयः श्रेयस्करं जगतां हरम् ॥७६ ॥
शिवलीलार्णवे कालेन केनापि तु कारणेन देवीं कचिद् दाशकुलेऽवतीर्णाम् । पाणौ ग्रहीप्यन् प्रमथाधिनाथस्तीरं ययौ दक्षिणवारिराशेः ॥ ७७ ॥ स दाशमाशंसितकन्यकावरं समेत्य देवो मधुरेश्वरो युवा । सुतां ययाचे स्वयमुनिरन् गिरा स्वमद्भुतं वागुरिकत्वकौशलम् ॥ ७८ ॥ अदृष्टचरमद्भुतं वपुरमुष्य पश्यन्नपि प्रभावमवधारयन्नगि ततः स्फुटं धीवरः । परीक्षितुममुं पुनर्जलधिगर्भसञ्चारिणं मया समुपदर्शितं मकरमाहरेत्यादिशत् ॥ ७९ ॥ आसाद्य वैसारिणतां चरन्तमम्भोनिधी नन्दिनमात्मशापात् । सन्दर्शितं दाशकुलेश्वरेण सानन्दमालोकत चन्द्रचूडः ॥ ८ ॥ महामायाजालं महदपि निजं स्वप्रपदनाद् विजित्य स्वच्छन्दं पयसि विहरन्तं जलनिधेः । ग्रहीतुं शैलादिं किल करुणया वागुरिकया विशालं. चिक्षेप त्रिपुरमथनो जालमुदधौ ॥ ८ ॥ तद्भक्तिवागुराबद्धस्तरुणेन्दुशिखामणिः । आक्षिप्य करुणाजालमाचकर्ष तमर्णवात् ॥ ८२ ॥ मीनग्रहायापि कृतप्रवृत्तिं मृगाङ्कमौलिं वनितादरेण | पश्यन्ननङ्गो विजयध्वजं स्वं प्रायेण चक्रे तदुपक्रमं तम् ॥ ८३ ॥ आसाद्य सञ्चरं देहमागमान्वेषणोचितम् । आलुलोके परं तत्त्वमागमान्विष्टमैश्वरम् ॥ ८४ ॥ पर्युपासितपादोऽयं प्रकृतिस्थेन नन्दिना । कैवर्तकन्यां जग्राह कैरवप्रियशेखरः ॥ ५ ॥ समुत्सृजन् स मत्स्यतां ननन्द नन्दिकेश्वरः स धीवरश्च भूतले सुधीवरत्वमागतः । विमानमागमय्य तां समागते पुरं शिवे तदा तदाशये मुदं ददाश दाशकन्यका ॥८६॥ इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते शिवलालार्णवे विंशः सर्गः । १. तं मीनम् . २. सञ्चरं देहम् । 'देहम्' इति पदं तु 'दिव्य' इति पठनीयं स्यात् । कर्ता तु नन्दी गम्यः । अन्यथा सञ्चरम्' इत्यस्य स्थाने 'स चिरं' इति वा स चिराद' इति वा पाठः स्यात् .
एकविंशः सर्गः ।
१४०
अथैकविंशः सर्गः।
कुलेशमाराधयतो महेशं कुलेशपाण्ड्यादभवत् कुमारः ।
मन्वयर्थन् स्वामारमर्दनाल्यां बभार पित्रा विधृतां भुवं यः ॥ १ ॥
भास्थानभूषामणिरस्य राज्ञः सर्वागमज्ञः सचिवः सुमेधाः ।
आसीद् द्विजो वातपुरीशनामा वाचस्पतिर्वासवसंसदीव ॥ २ ॥
स सञ्जिघृक्षुस्तुरगानुदारान् सर्वैर्धनौधैरपि पाण्ड्यदेवः ।
तमादिशद् वातपुरीशमेव चोलेषु गन्तुं तटमम्बुराशेः ॥ ३ ॥
लब्धाभ्यनुज्ञः सचिवः स गच्छन् द्वित्रैर्दिनैः प्रेक्षत चोलदेशम् ।
स्तोतुं प्रसक्ते विषयान्तरेऽपि जागर्ति यास्मिन्नुपमानभावः ॥ ४ ॥
कान्तासहस्रोपगतस्य सिन्धोः का वा रतिः प्रावृषि सेवयेति ।
सङ्गच्छते तेन निदाघ एव सह्यात्मजा यत्र हि निस्सपत्नम् ॥ ५॥
वर्षास्ववज्ञैव शरद्युपेक्षा द्वेषो हिमे वाथ हिमात्यवे चा ।
यत्राप्सु रागः सुरभौ शुचौ च तत्रैव यस्मिन् सरितो वहन्ति ॥ ६ ॥
प्रावृड्डिमर्दो दिशि पश्चिमायामुत्पीडपीडा पुनरुत्तरस्याम् ।
स्वैरोपयोगो यदि सबजाया यत्रैव सौभाग्यमितः किमस्य ।। ७ ॥
प्रत्यप्रपू(रा!)गाभिगतेषु यस्मिन् प्रस्निग्धरम्भावनमेदुरेषु ।
कवेरकन्यातटकाननेषु कामः समुन्मीलति धर्म एव ॥ ८ ॥
हव्याय यत्रापततां सुराणामातिथ्यनिवर्त्तनतोऽनुवेलम् ।
गन्धर्वविद्याधरकिन्नराद्या निर्विद्य निन्दन्ति पथि स्थितिं स्वाम् ॥९॥
अध्येतुमध्यापयितुं च तन्त्राण्याहर्तुमर्थानथ चोपभोक्तुम् ।
स्वर्गापवर्गौ च वशे विधातुं जात्यैव यस्मिन् द्रमिडा निरूढाः ॥१०॥
स्वादीयसी यत्र कवेरजैव ततस्तरां केरफलोदकानि ।
: ततस्तमां चाथ गिरां विलासाः प्रसन्नगम्भीरपदाः कवीनाम् ॥ ११ ॥
द्रष्टुं न रम्भापनसाम्रकेरच्छायावृते यत्र हि शक्यमर्कम् ।
शक्यं तु सम्भावयितुं सरोजसौरभ्यसम्भारहरैः समीरैः ॥ १२॥
ये जातिभेदाः क्रमुकामकेरशालीक्षुरम्भाफणिवल्लरीणाम् ।
व्युत्पित्सवस्लेषु चरन्ति पान्था विश्रम्य विश्रम्य चिराय यस्मिन् ॥ १३ ॥
२१८ शिवलीलार्णवे भादाय शस्त्राण्यवगाह सिन्धुं तपांसि विक्रीय च तन्त्रयन्ते । यत्रान्यतस्तत्र फलौ यदीया यजन्त्यविच्छिन्नमधीयते च ॥१४॥ सान्यत्र सिन्धुर्ननु यात्र कुल्या तेऽन्यत्र धन्या इह ये कदर्याः । अभ्यस्तविद्या इव येऽत्र किञ्चिदन्यत्र विद्यागुरवस्त एव ॥१५॥ गच्छन्नहोभिः कतिभिश्चिस्मिन् स पश्चिमे योजनतः पयोधेः । माकन्दरम्भावनसान्द्रमेकं माहेश्वरं धाम समालुलोके ॥ १६ ॥ अध्यासितं पाशुपतैर्महद्भिरालोक्य वल्मीकपतेः पदं तत् । अप्राकृती भाग्यवशात् ततोऽयमाध्यात्मिकी तामपि शुद्धिमूहे ॥ १७॥ आस्थाय कारुण्यरसैकरूपामाचार्यमूर्ति मधुरैर्वचोभिः । प्रबोधयन्तं शतशो महर्षीन् प्रत्यक्षमैक्षिष्ट स चन्द्रचूडम् ॥ १८॥ अङ्गैः क्षितावष्टभिरानमन्तं तं दूरतो बाष्पतरङ्गिताक्षम् । दृष्ट्या दयाशीलतयानुगृह्णन् देवः समीपस्थितिमादिदेश ॥ १९ ॥ उत्प्रेक्षितस्योरणशक्तिपातं शुद्धाध्वलिप्सासुभगैर्वचोभिः । सम्भावयन् नैष्ठिकदीक्षया तं चन्द्रार्धचूडः स्वयमन्वगृह्णात् ॥ २० ॥ आरुह्य माहेश्वरमाश्रमं सः सञ्छिन्नपाशः सचिवः क्षणेन । अश्वाय नीतैर्द्रविणैर्महेशमाराधयन् पार्थिवमप्यरक्षत् ॥ २१ ॥ आकारितो दूतमुखेन राज्ञा कर्गेजपालापकलङ्कितेन । अश्वैः सहैवागमनं स्वकीयं शम्भोर्निदेशेन स सन्दिदेश ॥ २२ ॥ अश्वानसङ्ख्यानहमानयेयमासीद राजानमपेतशङ्कः । इति स्थिरं व्याहृतमिन्दुमौलेविश्वस्य भूयः स पुरीमविक्षत् ॥ २३ ।। अश्वानमूल्यानमितान् समीपमासादितानप्यरिमर्दनाय । निवेदयन् वृत्तमिदं स सर्व न्यवेदयन्नीपवनेश्वरेऽपि ॥ २४ ॥ पन्थानमालक्ष्य तुरङ्गमाणां पाण्ड्ये परेयुः स्वयमादिनान्तात् । क्रुध्यत्युदाकुर्वत राजभृत्याः क्रूराशया मन्त्रिणि लब्धरन्धाः ॥ २५ ॥ कृताभ्यनुज्ञैः कुपितेन राज्ञा क्रूरैश्चिरद्वेषिभिरस्य भृत्यैः । कदर्यमानः करुणं स भूयो विसृज्य धैर्य विललाप धीरः ॥२९॥ .
एकविंशः सर्गः।
प्यासजसे किमधुना विधिकेशवाथै-
ासजसे किमथवा ललितैर्भवान्याः ।
कन्दन्ति कत्लशरणा इह मादृशोऽन्ये
कर्णातिथिर्भवतु कस्य तवार्त्तनादः ॥ २७ ॥
बद्धस्य दुष्परिहरैर्मलकर्ममाया-
बन्धैस्त्रिभिर्मम चिरादपि दीनबन्धो! ।
बन्धं हरिष्यसि किलेति धृतक्षणस्य
बन्धं तुरीयमपि हा कथमद्य दत्से ॥ २८ ॥ .
फर्मेति काल इति वापदिशन्ति येऽन्ये
किं तैरिति त्रिजगतीं तृणवद् विचिन्त्य ।
त्वामेव संश्रितवतोऽपि दशा यदीयं
त्वं बुध्यसे क्कनु भवत्ययशो यशो वा ॥ २९ ॥
नाहं बिभेमि नृपतेर्नच तद्भटेभ्यः
कुर्वन्ति नाम किममी परतोऽपि मृत्योः ।
इत्थं कृतान्तवशगेऽपि हि मय्युपेक्षा
किं ते भवेदिति विदति किन्तु चेतः ॥ ३० ॥
एक विधेयमवलम्बनमित्युपेक्ष्य
नीतिं श्रितोऽस्मि चरणौ तव चन्द्रमौले!।
आतः किमित्थमियमापदि मे महत्या-
मन्योन्यदत्तभरयोरनयोरुपेक्षा ॥ ३१ ॥
किं ज्ञानयोगविभवैः शिव! किं तपोभिः
किं कर्मभिश्च हृदयं तव रञ्जयेयम् ।
क्रन्दलुठत्कृपणदर्शनकौतुकं वा
निवर्त्य दास्यपदवीं तव निर्वहेयम् ॥ ३२ ॥
प्रारब्धकर्मणि चलत्यविलङ्घनीये
भाक्तिः करिष्यति किमीशपदार्पितति ।
दुर्निश्चयो हतधियामिह दुःश्रवोऽयं
निन्देव ते मनसि मे परिवर्तमानः ॥ ३३ ॥
1. शिवलीलार्णवे कि मत्कृतेऽवतरितव्यमशिक्षितं ते किं वान्भुजाभुजि परैः कलहायितव्यम् । सहल्पमात्रमपि चेन्न चिकीर्षसि त्वं शम्भो ! ममैव तु जितं दुरितैर्दुरन्तैः ॥ ३४ ॥. भक्तिदृढा यदि ममास्ति भवेत् किमेवं को वेद तत्त्वमिदमस्ति तु मेऽन्तरङ्गे । लोकास्तु भक्त इति मां जगृहुर्यथा ते त्वां भक्तवश्यमवयन्ति तथा दयेथाः ॥ ३५ ॥ कः स्वापराधिषु पराक्रमते न लोकः शृङ्गेण हन्ति ननु गारीिपै दण्डहस्तम् । भक्तापदक्षमतयैव तवेश्वरत्वं तां नाशय दृढय वा समयस्तवायम् ॥ ३६ ॥ यत् प्रालपं चरणयोस्तव यत्तदित्थं मुग्धो विदग्ध इव मुग्धशशाङ्कमौले! । तत् क्षम्यतां मम तु को वचनेऽधिकारः स्वामी परामृशतु वा स्वमुपेक्षतां वा ॥ ३७ ॥ इति निशम्य स वातपुरीशितुः करुणमालपितं करुणानिधिः । तुरगलक्षखुरक्षतरेणुभिः परिपतन् ददृशे विधुशेखरः ॥ ३८ ॥ शिवे तुरगसादित्वं श्रिते भक्तानुकम्पया । शिवा स्वयं तुरगतां शिश्राय बहुधा तदा ॥ ३९ ॥ कुमुदकजलकुङ्कुमदाडिमीकुसुमहेमकुवेलसमत्विषः । परुषहेषितभीषितशात्रवा ददृशिरे दिशि दिश्यपि सैन्धवाः ॥ ४० ॥ समुत्तुङ्गत्वङ्गत्तरतुरगरिङ्खाशतहत- क्षमारेणुश्रेणिक्षणचुलकितैरम्बुनिधिभिः । स्थलीभूतैः सद्यः सति धरणिभागे द्विगुणिते भविष्यन् कैमुत्यादजनि विशदस्तम्य विजयः ॥ ४१ ॥ यदि मरुद् विजितं विजितं मनो यदि मनो विजितं विजितं जगत् । जितवतां मरुतं च तदर्वतां किमभिधेयमतस्त्रिजगजये ॥ ४२ ॥ १. शिवा जम्बुक: अथ च पार्वती. २. अयं श्लोकः खपुस्तके न दृश्यते.
एकविंशः सर्गः।
१५७
उदात्तेष्वारोहन प्रसभमनुदात्तेप्ववतर-
न्छनैः क्रामन्नेव स्वरितपथमेकश्रुतिमपि ।
समुद्यन्मीमांसाद्वंयमयखलीनेकविधृतः
पुरः प्रादुर्भूतः पुरमथितुराम्नायतुरगः ॥ ४३ ॥
तत्र कञ्चिदतिचित्रतेजसं सादिनं प्रपतनप्रसादिनम् ।
पश्यति स्म बहुमानविस्मयस्मेरदृष्टिररिमर्दनो नृपः ॥ ४४ ॥
व्रीडानुतापव्यथितोऽथ पाण्ड्यः प्रकाशयन् वातपुरीशमग्रे ।
समीपमासेदुषि सादिवर्ये प्रत्युद्ययौ तेन समं प्रहृष्टः ॥ ४५ ॥
कृतप्रणामेन कृतप्रणामः स्तुवन् नृपेण स्तुवता स भूयः ।
कृताः कथाः काश्चिदथान्ततोऽश्वान् विक्रीय यच्छन्निदमाचचक्षे ॥ ४६॥
आनतिमासीद् धनमश्चहेतोरनेन यत् ते सचिवेन राजन् ! ।
तत् सर्वमादाय तवैव भूत्यै मयाहृताः पश्य शिवास्तुरङ्गाः ॥ ४७ ॥
गुल्मेषु कुलेषु वनोदरेषु केदारकेषूपवनेषु चामी ।
स्वच्छन्दचारा लघुविक्रमाश्च तरन्ति तोयेष्वपि दुस्तरेषु ॥ १८ ॥
न श्वोऽयमस्तीति किलाश्वशब्दस्तन्त्रनिरुक्तो विदितस्तवापि ।,
सम्यक् परीक्ष्य त्वमिमं गृहाण धनं ममैतत् तुरगास्तवेमे ॥ १९ ॥
तथेति तस्य प्रतिनन्द्य वाचं तं भूषणैहेमभिरम्बरैश्च ।
सम्भाव्य सद्यो विसृजन् नृपालस्तृप्तिं न लेभे तुरगान् स पश्यन् ॥ ५० ॥
आज्ञापिता द्रागरिमर्दनेन पाण्ड्येन भृत्याः परितो भ्रमन्तः ।
बबन्धुरश्वानथ मन्दुरासु सार्धे विनीतैस्तुरगैः पुराणैः ॥५१॥
परेचुरश्वावसथे नियुक्ताः प्रातः समैक्षन्त नृपालभृत्याः ।
समन्ततोऽश्वान् दशतः पुराणाञ् शब्दायमानीञ् शतशः सृगालान् ॥५२॥
आकर्ण्य वृत्तं महदद्भुतं तत् पाण्ड्यः प्रजज्वाल रुषा स भूयः ।
इत्थं किलेदं कृतमिन्द्रजालमनेन नूनं मयि मन्त्रिणेति ॥ ५३॥
दुष्टैः स्वतो राजनिदेशरूक्षैः कदर्थितो राजभटैः स भूयः ।
मात्मानमात्मन्यनुसन्दधानो न क्लेशलेशं गणयाम्बभूव ॥५४॥
शिवलीलार्णवे अत्रान्तरे भक्तमनुग्रहीतुमालोच्य कारुण्यनिधिमहेशः । भयानका दुर्ललितैस्तरङ्गः प्रावर्त्तयद् वेगवतीमकाण्डे ॥ ५५ ॥ सा निष्पतन्त्येव पुरं समस्तं कल्लोलजालैः कबलीचकार । संरुध्य ये मन्त्रिणमभ्यहिंसन् सम्भ्रम्य दूरे परिदुद्रुवुस्ते ॥ १६ ॥ पूरेण तस्याः पुरशासनस्य कारुण्यपूरेण विनिर्यतेव । निर्मोचितो वातपुरीश्वरोऽपि हालास्यनाथान्तिकमाससाद ॥१७॥ तां बध्यमानां शतशोऽपि मत्यैः पात्रोदरे वेगवतीममान्तीम् । आलक्ष्य बन्धुं नृपतिः स पौरानाबालवृद्धाङ्गनमादिदेश ॥ ५८॥ बध्नत्सु पौरेषु विभज्य सीमामापूपिकी काचिदतीव जीर्णा । निर्बध्यमाना नृपतेर्मुजिप्यविचिन्वती कर्मकरं चचार ॥ ५९॥ सा पिष्टकानेव सदा पचन्ती निवेदयन्ती मनसा महेशे । तद्विक्रयेणापि च वर्तयन्ती दयास्पदं भूतपतेर्बभूव ॥१०॥ गवेषयन्ती जरती समन्ताद् गवेप्यमाणं निगमैः समस्तैः । ऐक्षिष्ट सा कर्मकरं युवानमंसोपरिन्यस्तखनित्रमेकम् ॥ ६१ ॥ तामाह वृद्धामभिगम्य देवः किं कर्म कुर्या तव शंस मातः!। अनाश्रयः कर्मकरो जनानामासे चिरादत्र हि नाथकामः ॥ १२ ॥ आपूपिकी किं धनमर्थयिष्ये भक्ष्येण मे कर्मकृतो हि भाव्यम् । विक्रीय पूर्णान् वितरत्वपूपान् क्षामानथामाञ्च्छिथिलांश्च मह्यम् ॥ १३ ॥ कियानयं वेगवतीनिरोधः कियानयं राजभटानुरोधः । प्रतीहि मातः! पच पिष्टकं त्वं विन्यस्य भारं मयि वीतशङ्का ॥१४॥ आमन्त्रणैरेव विमोहयंस्तामम्बेति देवीति पितामहीति । विसंसयन्नूष्मलमूष्मलं स जग्राह तत् सर्वमपूपजातम् ॥ १५ ॥ जगौ जहास प्रणनत चित्रं ववल्ग वल्गूनि वचास्यभाणीत् । व्यासञ्जयन् कर्मकृतः समस्तान् विस्रब्धमेको विजहार देवः ॥ १६ ॥ इदं खनित्रं पिटकोऽयमेष राशिर्मदामद्य मयोपनीतः । पश्येति राज्ञो गणकान् समेतान् प्रसारयंस्तानहसीनिवृत्तान् ॥ ६७॥ उच्छृङ्खलैरूमिभिरुत्पतन्तीं भूयोऽप्यमान्ती तटयोः सवन्तीम् । भीता भटा भूमिभुजे शशंसुः पाण्ड्योऽपि तां प्रेक्षितुमाजगाम ॥१८
एकविंशः सर्गः।
.
आलक्ष्य राजागममप्रमत्तान् कर्मान्तिकान् कर्मकृतः स पश्यन् ।
खनन्निव क्ष्मां मृदमापगायां क्षिपन्निवान्तः स्वयमप्यचारीत् ॥ ६९ ॥
ततस्ततस्तत्र तटीर्निबद्धाः परामृशन् पाण्ड्यनृपोऽतिरुष्टः ।
अपूरितं वापि स वीक्ष्य निम्नं केनेदमित्थं कृतमित्यपृच्छत् ॥ ७० ॥
आपूपिकीकर्मकरं युवानमालक्षयन्तो गणकास्ततस्तम् ।
हस्ते गृहीत्वा पुरतः क्षिपन्तो विवबिरे तस्य विचेष्टितानि ॥ ७१ ॥
आपूपिकी काचिदतीव जीर्णा सेयं दृढं कर्मकरं न्ययुक्त ।
अयं नियुक्तोऽपि भृतोऽपि सम्यङ् न स्पन्दते किञ्चन दुर्विनीतः ॥ ७२ ॥
ब्रूते पुरस्ताद् विनयोक्तिमेव किञ्चिन्निवृत्ते गणके तु भूयः ।
विडम्बयन् भाषितचेष्टितैस्तं पार्थस्थितान् हासयते विशङ्कः ॥ ७३ ॥
दत्तं कियद् दारुणया जरत्या दत्ते तु किश्चिच्छिथिलानपूपान् ।
अहो ममाभाग्यमियं किलासीन्नाथेति शेते मुहुरात्तशोकः ॥ ७४ ॥
किं मेऽस्ति तातो जननी किमास्ते किमास्पदं किं धनमस्ति किश्चित् ।
किं राजभृत्याः कृपणेषु कुर्युर्यातेति नोऽधःकुरुते कदापि ॥ ७५ ॥
अन्यायवृत्ते नृपतावमुष्मिन्नाप्लाव्यते किन्नगरं न तोयैः ।
किं ताडितैः कर्मकरैरिहेति तत्त्वं ब्रवीतीव कदापि मन्दम् ॥ ७६ ॥
आकर्णयन् वृत्तमिदं स सर्वमन्तहसन्तं च तमीक्षमाणः ।
आवर्त्य वेत्रेण तमाजघान पाण्ड्यः क्रुधा प्रस्फुरिताधरोष्ठः ॥ ७७ ॥
अङ्गं त्रिलोकीमयमिन्दुमौलेरभ्याहतं तेन यदा तदैव ।
वक्ता च हन्ता च निरीक्षिता च वेत्राहतं विश्वमभूत् समस्तम् ॥ ७८ ॥
आलम्ब्य संज्ञां कथमप्यथैनमालोकते यावदयं नरेन्द्रः ।
तावत् तिरोऽभूत् तरुणेन्दुमौलिः सा च स्रवन्ती विरराम सद्यः ॥ ७९ ॥
आलोक्य लीलायितमद्भुतं तदानन्दबाप्पस्थगितैर्वचोभिः ।
अस्ताविषुः स्वस्वधियोऽनुरूपैः पौराः सपाण्ड्याः पतिमम्बिकायाः ॥ ८० ॥
चूडाबद्धभुजङ्गपुङ्गवशिरोविन्यस्तपृथ्वीभर-
प्रान्तप्रस्खलितैः कणैः कतिपयैरीषत्करे पूरणे ।
मिथ्यारोपितयत्नगौरवकथाविज्ञापनाचातुरी-
सम्मुखजरतीगृहीतशिथिलापूपाय तुभ्यं नमः ॥१॥
शिवलीलार्णवे योगक्षेमभरः समस्तजगतां न्यस्तस्तवाघिद्वये कुक्षौ त्रीणि जगन्ति मूर्ध्नि शशभृद्गङ्गाकपालस्रजः । वोढव्यस्तदुपर्ययं यदि मृदां भारोऽपि गौरीपते! कस्ते मद्भरणे श्रमः क इव मे त्रासस्तदभ्यर्थने ॥ ८२ ॥ हे सन्तः शृणुताधुनैव मिलितैरम्माभिरेतच्छिने वाच्यं वेत्रहति विभज्य न वयं भोक्तुं समर्था इति । नो चेत् पादहतिः शिलापहरणं कोदण्डदण्डाहति- गण्डूषोदकसेक इत्यपि भवेत् सर्व विभाज्यं हि नः ॥ ८३ ॥ ध्यायध्यायमुपायकोटिभिरहं त्वत्प्राप्त्युपायं चिरं निर्विण्णो निरचैषमेकमधुना हालास्यचूडामणे! । दिल्या वेगवतीतटे यदि पोदेतद्वपुर्मामकं संरोहेदपि जातु तत्तटमृदा साकं त्वदीयं शिरः ॥ ८४ ॥ धूलीधूसरितं शशाङ्कशकलं जम्बालिता जाह्नवी भमं ब्रह्मकपालदाम फणिनो भूषोचिताः क्लेशिताः । मृदारोद्वहनं कुतोऽभ्युपगतं को वा गुणः पिष्टके सा दुष्टा जरती किमौषधमदात् तत्रेति न ज्ञायते ॥ ८५ ॥ पन्यां किन्निहतः सुतो दिनमणेर्भमाश्चपेटाहतै- दन्ताः किं तरणेः किमित्यपहृतं धातुः शिरः पञ्चमम् । कामं त्वं जगदीश्वरो भव ततः कर्मापि किं जीर्यति प्रत्यक्षं निनु पाण्ड्यवेत्रलतिकाघातोऽयमासादितः ॥ ८६ ॥ देवा दूरतरं प्रयात मुनयो गृहीत मौनं क्षणं मातुः शंसत मा चिरं गणवरा देवस्य दृष्टां दशाम् । पुष्पैश्चन्दनसम्भृतैरपि सुरैर्यन्मन्दमभ्यर्च्यते तद् दिव्यं वपुरैश्वरं विलुलितं पाण्ड्यस्य वेत्राहतैः ।। ८७ ॥ अम्ब ! स्विद्यति वक्रमम्ब! किमपि श्रान्त्या गतिमन्थरा मातः! सीदति शङ्करे प्रहृतवान् वेत्रेण पाण्ड्यो विभुः । इत्यावेदयतां मुखादनुपदं श्रुत्वा गणानां शिवा प्रेमोदीर्णपतिव्रतप्रशमितक्रोधा कथं वर्तते ॥ ८८ ॥ • 'श्वरोऽसि भवतः' इति खपुस्तके पाठः, + 'ख' इति खपुस्तके पाठः. .
एकविंशः सर्गः। त्राणे योऽधिकृतः समस्तजगतां तस्याम्बुराशी सुखं निद्राणस्य तथाविधेऽपि समये प्रष्टैव नालक्ष्यते । 'विष्टिं कृर्वति ताम्यति श्रमभरावेत्राहतिस्त्वय्यभूत् कस्याने कथयिष्यसीममनयं स्वामिन्ननाथो ह्यसि ॥ ९ ॥ लीलाधारितसिन्धुतीरसिकताभारान्तरालस्थितो भूयासं मशकोऽप्यहं पशुपते! तावच्च नार्हामि किम् । यत् कीदृग्विधमैश्वरं शिर इति प्रष्टुं प्रवृत्ते विधा- वीदृक् तादृगिदं तदित्युपदिशंस्तस्यापि च स्यां गुरुः ॥ ९० ॥ पाण्ड्यो दण्डयितास्तु पाण्ड्यतनया द्रष्ट्री कथं वर्त्तते कामं सा जननी ममैव किमतो युक्तं तु वाच्यं मया । सव्ये स्थापय मूर्ध्नि मृद्भरममुं सव्यं वपुर्दर्शय प्राप्ते वेत्रलताहते च तदनु द्रक्ष्यामि देव्याः स्थितिम् ॥ ९१॥ वोढुं प्रवृत्ते त्वयि वेगवत्याः शीर्षण शम्भो! सिकतावितानम् । भारं द्वयोः पर्यवसन्नमूहे चित्ते यतीनां शिरसि श्रुतीनाम् ॥ ९२ ॥ अर्ध पौरुषमर्धमेव भवति स्त्रैणं च यत् तावकं साम्राज्यं गृहकर्म वा किमपि तन्नायाति नियूंढताम् ।। त्वं राज्ञी मधुरापुरस्य दयितस्तत्रैव ते ताब्यते त्वं मातः! स्वयमन्नदासि जगतां कान्तस्तु ते भिक्षते ॥९३ ॥ आखेटधर्ममनुपालयतानुभूतः पार्थप्रहार इति यत् तदवैमि युक्तम् । आयासवृत्त्यनुगुणां भृतिमप्यविन्द- नङ्गीकरोषि किमपार्थममुं प्रहारम् ॥ ९४ ॥ वेत्राहति विभक्तुं विश्वात्मकता प्रदर्शिता भवता । करगतकबलपासे पुनरभिनीतं शिवाद्वैतम् ॥ ९५ ॥ वेत्राहतिमतिघोरां विभज्य ये भुञ्जते जना नियतम् । 'भवतापतापितेष्वपि तेषूपेक्षैव ते कथं लीला ॥ ९ ॥ १. विधिवतनकर्म.
शिवलीलार्णवे. आनम्यानम्य मौलिं त्वयि किरति मृदं संसते मूर्ध्नि गङ्गा बद्ध्वाबद्ध्वा कप स्पृशति फणधरा दारुणं निश्श्वसन्ति । औत्सुक्यात् ताड्यमाने त्वयि जगदखिलं ताड्यते वेत्रयष्ट्या भक्तस्यैकस्य रक्षा भवति पशुपते! सर्वलोकस्य शिक्षा ॥ ९७ ॥ अस्मत्तो बहुधी गृहीतमधुनाप्यस्मद्भवस्रोतसां संरोधे न किमप्ययं प्रयतते देवः प्रमाणं ततः । इत्यग्रे विनिपत्य पाण्ड्यनृपतेबूमो वयं चेत् ततः कोपात् कोपमुपेयुषः क्षितिपतेः किं भावि सम्भाव्यताम् ॥ ९४ ॥ वोढव्यानि वहानि ते सुरनदीवेधःकपालादिका- न्यात्मानं च निवेदयाम्यथ भवद्भक्त्यामृतेनाप्लुतम् । इत्यभ्यर्थयमानमीषदपि मामप्रेक्षमाणो भवान् पिष्टापूपकृते मृदं वहास चेद् देवः प्रमाणं ततः ॥ ९९ ॥ प्रहृतं प्रहृतमिति त्वं पाण्ड्य ! विषीदसि किमम्बिकारमणे । प्रहृतं यदि साधु कृतं पाशुपतं गणय सिद्धमत्रं तत् ॥ १० ॥ पाण्ड्येन प्रहृतोऽसि वेत्रलतया पार्थेन गाण्डीवतः 'पादेनापि किरातकेन वटुना केनापि च प्रस्तरैः। तत्तत् प्रत्युत तेषु तेषु तप इत्यग्राहि मत्पूजने त्वागांस्येव पदे पदे गणयसे दैवं ममैवंविधम् ॥१०१॥ इत्थं स्तवोक्त्या मुखरेषु पौरेप्वाश्चर्यमग्नेषु गणाः पुरारेः । आपूपिकीमद्भुतवेषरूपां निन्युर्दिवं दिव्यविमानरूढाम् ॥ १०२ ॥ अथावसीदन्नरिमर्दनोऽपि पाण्ड्यः स्वयं पाशुपतापचारात् । पादप्रणामैः प्रियभाषितैश्च प्रसादयामास स मन्त्रिवर्यम् ॥ १०३ ।। वैहायसी गिरमथाकलयन् पुरारेभीतम्तदैव सचिवं प्रजिघाय पाण्ड्यः । वैराग्यमेव हृदि वातपुरीश्वरोऽपि कृत्वा चिदम्बरमगाहत सर्ववेदी ॥ १०४ ॥ इति महाकविश्रीनीलकण्ठदीक्षितप्रणीते शिवलीलार्णव एकविंशः सर्गः ।
द्वाविंशः सर्गः।
अथ द्वाविंशः सर्गः।
अथाविरासीदरिमर्दनस्य कुले नृपः कोऽपि गुणैरुदारः।
अप्युन्नतं स्फारतरैर्यशोभिराचक्षते यं किल कुब्जपाण्ड्यम् ॥ १॥
स पाण्ड्यवंशप्रभवोऽपि देवः संसर्गदोषाच्चिरमार्हतानाम् ।
अवाप दीक्षामपि तन्मतेन दुरुत्तरो दुर्जनसम्प्रयोगः ॥ २ ॥
आशङ्कनीयोऽपि न वेदवेद्योराब्रह्मणो यत्र किलान्तरायः ।
तस्मिन् विशुद्धे शिवदासवंशे सम्बन्ध इत्याविरभूत् कुमारः ॥ ३ ॥
तं मातृहीनं शिशुमुल्ललन्तं स्तन्येन गौरी बिभराम्बभूव ।
यं ज्ञानपूर्णापरनामधेयं तदादि लोकाः समुदाहरन्ति ॥ ४ ॥
स्कन्दांशजः स द्विजसार्वभौमस्तारुण्य एवाखिलतन्त्रवेदी ।
त्रय्यन्तसिद्धान्तदृशा पुरारेरुत्कर्षमुच्चैर्विशदीचकार ॥ ५॥
तं भस्मरुद्राक्षषडक्षराणां तत्त्वावबोधैकनिधिं महान्तम् ।
आराध्य केचित् कलिमभ्यजैषुः पचेलिमप्राक्तनपुण्ययोगात् ॥६॥
तथागताचार्यकदुर्विपाकतमोवृते राजकुले तदानीम् ।
मन्त्री च राज्ञो महिषी च तस्य भक्तिं परामूहतुरिन्दुचूडे ॥ ७॥
सम्बन्धनाथाविसरोजयोस्तावाबध्य भक्तिं महतीमनन्याम् ।
प्रायस्यतां त्रातुममुं प्रदर्श्य ममं नृपं बाह्यमतान्धकूपे ॥ ८ ॥
कदाचिदासीदथ कुब्जपाड्यस्तापज
पज्वरेण ज्वलताभिभूतः ।
यत्राहतानां नृपदेशिकानां यत्नः समस्तो विफलीबभूव ॥ ९ ॥
देवी तदा देशिकसार्वभौममारोग्यहेतोरवनीश्वरस्य ।
सर्वज्ञमभ्यर्थनया महत्या सम्बन्धनाथं स्वयमानिनाय ॥ १० ॥
स ज्ञानपूर्णः प्रविशन् दृशा तं सम्भावयामास रुजाभितप्तम् ।
कोटीरकोटन्दुिगलरसुधामन्तःस्मरन् देवमहंग्रहेण ॥ ११ ॥
अत्याश्रमस्थो मुनिरस्य राज्ञो भाग्येन फाले भसितं निधाय ।
पस्पर्श हस्तेन च तं महेशपादारविन्दार्चनभारितेन ॥ १२ ॥
स.स्पृष्टमात्रो भगवत्तरेण शिवाभिमर्शेन गुरोः करेण ।
तत्याज विश्वनयभेषजेन तापज्वराति सहसा नरेन्द्रः ॥१३॥
शिवलीलार्णवे . मौदर्यवहिज्वलनोत्थितां तामात्ति निवृत्तां मुमुदे स पश्यन् । देवी तु शान्तं विदती जहर्ष भवज्वरज्वालमहाभिषजम् ॥ १४ ॥ तापज्वरो भूमिभृतः शरीरात् तस्यापनीतः करुणादृशायम् । तथागतानां द्विगुणस्तदादि चिन्तात्मना चेतसि सञ्जजम्भे ॥ १५॥ अष्टौ सहस्राणि तथागतानामष्टासु शैलेषु कृतास्पदानाम् । जातेऽभिषले मधुरामवापुर्जल्पेन'जेतुं शिवदेशिकं तम् ॥ १६ ॥ पारीणमेनं पदवाक्यमाने त्रय्यन्तसिद्धान्तगुरुं महान्तम् । आसाद्य जल्पाय सकृत् प्रवृत्ता आसन् क्षणादप्रतिभा जिनेन्द्राः ॥१७॥ उत्सृज्य सर्वाण्युपबृंहणानि मीमांसितन्यायदृढीकृतानि । उल्लङ्घय तर्कानपि पामरास्ते सम्भूय तं प्रेत्ययतोऽजिगीषन् ॥ १८ ॥ संसारतापानखिलान् निहन्तुं शक्नोत्यहिंसैव हि शाक्यदृष्टा । नायॊ महेशो न शिवा विभूतिरित्यार्हताः स्वामलिखन् प्रतिज्ञाम् ॥ १९॥ वेदाः प्रमाणं सह कामिकायैर्विश्वाधिकः शङ्कर एक एव । भस्मैव धार्य भुपि मोक्षमाणैरित्यालिखत् स्वां स गुरुः प्रतिज्ञाम् ॥ २०॥ जैना अयोचुर्बलने क्षिपामो द्वये वयं स्वस्वकृतान्तलेखम् । दाहाददाहादपि सर्वलोकाः पश्यन्तु नो भङ्गजयाविहेति ॥ २१ ॥ तथेति सम्बन्धकराप्तेिन लेखेन जग्लेऽपि न हव्यवाहे । अदह्यत द्राक् पुनरार्हतानां लेखः सहायुलिपिभिस्तु तेषाम् ॥२२॥ पराजये शूलशिखाधिरोहं पणं वृणानाः स्वयमेव जैनाः । विचिक्षिपुः स्रोतसि वेगवत्याः पत्रं प्रवाहाभिमुखं चलेति ।। २३ ॥ तत् स्रोतसा तत्क्षणमेव सिन्धोरनीयत प्राग्दिशमासमुद्रात् । प्रत्यग्दृशा तद् गुरुणार्पितं तु प्रत्यङ्मुखं स्रोतसि सञ्चचाल ॥२४॥ ततः क्षणाद् देशिकसार्वभौमविज्ञानसिन्धोरिव वीचिघोषः । समन्ततः शङ्करकिकराणां समुज्जजम्भे विजयाट्टहासः ॥२५॥ चार्वाकशिष्या विजितास्ततस्ते सौत्रान्तिका माध्यमिकाश्च जैनाः । अवीक्षितान्योन्यमुखाः प्रचेलुरारोढुकामाः स्वयमेव शूलम् ॥ २६ ॥ १. तथापतानां जैनानाम्. २. प्रत्ययतः शपथात् .
द्वाविंशः सर्गः। ते बोध्यमाना अपि शैवधर्म शूलाधिरोहाय रुचिं बबन्धुः । प्राणान्तिकां निष्कृतिमेव युक्तां पश्यन् स चैतेषु तथानुमेने ॥ २७ ।। पाण्ड्यस्ततः प्रत्ययदर्शनेन सम्बन्धनाथं शरणं प्रपन्नः । अशेषपापच्छिदुरामयाचद् दीक्षा शिवज्ञानविधानदक्षाम् ॥ २८ ॥ आचार्यवर्योऽप्यधिवासितं प्राक् छिष्यं शुभस्वप्ननिरस्तशोकम् । आराधितस्य ज्वलने पुरारेरनुज्ञया सन्निधिमानिनाय ॥२९॥ षडध्वनः पञ्च कलाश्च तस्य संशोधयन् देशिकसार्वभौमः । 'दुर्दीक्षया दूषितमप्ययत्नात् सम्भावयामास शरीरकोशम् ॥ ३० ॥ शरीरमाविश्य स तस्य नाडीसंधानमार्गेण गुरुः पुनानः । जाति समुद्धृत्य दयासमुद्रश्चके शिवज्ञाननिधानमेनम् ॥ ३१ ॥ वित्तं शरीरं हृदयं च तस्य विन्यस्य पाण्ड्यश्चरणारविन्दे । अभ्यर्थयन्नर्धशशाङ्कचूडं शैवाध्वपान्थः प्रशशास पृथ्वीम् ।।.३२ ॥ शिवव्रतस्थाः शिवमन्त्रसक्ताः शिवागमज्ञानसुधारसज्ञाः । प्रजा बभूवुः सकलास्तदानीं प्रजेश्वरे शैवपदाधिरूढे ॥ ३३ ॥ अध्यात्मविद्याभिरयं प्रबुद्धान् मन्दान् विचित्राभिरुपासनाभिः । बाह्यार्चनैरेव परांश्च शम्भो(रोऽनुजग्राह यथाधिकारम् ॥ ३४ ॥ अधीष्व वेदानवधारयार्थानधीहि शम्भुं वह भूतिमङ्गे । तपांसि तप्यस्व सुरान् यजेति सर्वे जनाः शङ्करमारराधुः ॥ ३५ ॥ काले ततो वैश्यकुले बभूव कश्चिन्महार्थो मधुरानगर्याम् । करमहं मातुलकन्यकायाः कर्तुं प्रतस्थे स कदापि चोलान् ॥ ३६॥ अतीतयोर्मातुलयोस्ततस्तामादातुकामः स्वजनानुमत्या । वैश्यस्तया साकमनूढयैव भूयः स्वमावासममि प्रतस्थे ॥ ३७ ॥ मध्येपथं कापि महेशधाग्नि शैवानि तीर्थान्यटता स दिया । सम्बन्धनाथेन समाजगाम सञ्जीवितश्चात्र स सर्पदष्टः ॥ ३८ ॥ . सम्बन्धनाथेन तदा नियुक्तः स बालिकोद्वाहकृते कुमारः। पाणिग्रहं साक्षिषु बान्धवेषु चिकीर्षमाणः समशेत किश्चित् ॥ ३९ ॥ १. अधीष्व अधीतवन्त इत्यर्थः । समुच्चयेऽन्यतरस्याम् (३-४-३) हाते लोन् । एवं अधीही- सादिष्यपि, शिवलीलणवे शम्भुः शमी कूप इति त्रयं तत् तत्र स्थितं साक्षिपदे वृणानः । अग्राहयत् पाणिमनेम सद्यः स देशिको मातुलकन्यकायाः ॥ ४० ॥ स तां समादाय वधूं नवोढां सम्प्राप्य भूयो मधुरां विशालाम् । आराधयन्नार्तशरण्यमीशं हालास्यनाथं मुमुदे चिरेण ॥ ४१ ॥ कालेन तस्यास्तनया बभूवुः कारुण्ययोगेन शशाङ्कमौलेः । स्तनन्धयांस्तानपथे द्विषत्या सा जातु लेभे कलहं सपल्या ॥ ४२ ॥ वेश्येव काचित् त्वमसीह गेहे करग्रहे कस्तव दासि ! साक्षी । इति प्रवृत्तं कलहेऽतिवादमेषा सपल्या ममृषे न साध्वी ॥ ४३ ॥ सा बाष्पमत्यूष्मलमुद्वहन्ती सद्यो विनिर्गत्य गृहाद् विषण्णा । आपनबन्धोश्वरणं पुरारालास्यनेतुः शरणं प्रपेदे ॥ ४४ ॥ साक्षी भवानेव.करग्रहे मे शम्भो ! शमीकूपसमीपवर्ती । साक्ष्यं न धत्से यदि मे सपल्याः सद्यो विहास्यामि तनूमिहेति ॥ ४५ हालास्यनाथान्तिकमभ्युपेत्य सम्पश्य पाणिग्रहसाक्षिणो मे । इति त्वमाकर्ष बलात् सपत्नीमित्याह तां व्योमगिरा महेशः ॥ ४ ॥ सा प्रेयसा बन्धुजनैश्च साकं तामानयन्ती प्रसभं सपत्नीम् । यावच्छिवस्यान्तिकमेति तावत् तत्र स्वयं तत् त्रयमाविरासीत् ॥ ४७ इमे समेताः सदनं पुरारेरीशानकोणेऽस्य कदाप्यदृष्टम् । अन्धुं शमीवृक्षमनाथबन्धुं लिङ्गं च दृष्ट्वा बिभयाम्बभूवुः ॥ ४८ ॥ भोगापूजावसरे पुरारेः समागतास्तत्र सुराः समस्ताः । आलोक्य लीलायितमद्भुतं तद् भक्त्या नतास्तुष्टुवुरिन्दुचूडम् ॥ १९ ॥ कते दया वाग्नसातिभूमिः क दुर्लभो वा त्वदवाप्त्युपायः । अहो जितं सुन्दरनाथ! मत्त्यैरहो जितं तत्र च दीनदीनैः ॥.५० ॥ गुप्तं वृथा कोटिभिरागमानां गुप्तं वृथाहो गुरुभिः पुराणैः । कोणे यदत्र त्वमिहानुकम्पाकोशालयद्वारमपावृणोषि ॥ ५१ ॥ अस्माभिरज्ञानपि तारयद्भिः कियान् प्रकर्षो विबुधेषु कार्यः । इति त्वया चिन्तयता किमीश! प्रतारिता स्मस्त्रिदिवार्पणेन ॥ १२ ॥ १. सद' इति खपुस्तके पाठः.
द्वाविंशः सर्गः । पाण्ड्यप्रियं त्वां विदती शिवापि पाण्ड्यात्मजासीद्यदि का कथा नः । पाण्ड्येषु जायेमहि खञ्जरीटाः कोयष्टयः कोलकिशोरका वा ॥ ५३ ॥ लीलासु ते लब्धसरूपभावा ग्राम्या इमे पाण्डुषु चन्द्रमौले! । जिवन्ति केचिद् विलिखन्ति केचिच्चर्वन्ति केचिच्च वत्वंसमिन्दुम् ॥ ५४ ॥ त्वं तावदत्यन्तमृदुः प्रजासु त्वत्तोऽपि मृद्वी गृहिणी तवेयम् । अद्यायतौ वा चरतोः किलैवमात्मैकशेषो भविता ध्रुवं वाम् ।। ५५ ॥ कैवल्यदानाय कृतप्रतिज्ञौ काशीपतिः पाण्ड्यपतिर्युवां द्वौ । शिष्यैकविश्रान्तममुष्य दानं सार्वत्रिकं तावकमेव शम्भो! ॥५६॥ विश्वस्य दीर्घा श्रवणादिभङ्गी वीतोद्यमाः स्मश्चिरमीश! मोक्षे । सम्प्रत्यवाबुध्यत वाक्यशेषपञ्चाक्षरीयं मधुरा विनेति ॥ ५७ ॥ ये ये जना यद्यदिहार्थयन्ते तत्तन्निरस्तोपधि तेषु तेषु । ओमित्यलोभादनुजानतः किमोमित्यभिख्यैव तवेयम्मसीत् ॥ ५ ॥ अन्वेषणीयं किमनाहते ते तत्त्वं हताः स्मो वयमागमौधैः । विस्पष्टमत्राहत एव तत्त्वं वेत्रेण पाण्ड्यस्य यदीक्षितं तत् ॥ ५९॥ स्वरूपमेतत् तव सुन्दरेश! शुद्धा दयेत्येव तु लक्षयामः । कदम्बमूलन्तु तटस्थलक्ष्म कारुण्यसिन्धो! तव तर्कयामः ॥६०॥ . यद्धामसीमाक्रममात्र एव वृत्रद्रुहस्तत् कलुषं विलिल्ये । सकृद् विगाव यदीयतीर्थे शापं मुनेरिन्द्रगजो मुमोच ॥ ११ ॥ नीपाटवीं यः कुलशेखरेण निर्मापयामास च राजधानीम् । प्राप्ता शिवा पाण्ड्यकुलेऽवतारमनुज्ञया यस्य तटातकेति ॥ १२ ॥ उपायत स्वं युधि जेतुकामामुपायतस्तामपि लीलया यः । पतञ्जलेभक्तिमवेत्य नृतं प्रादर्शयद् रूप्यसभान्तरे यः ॥ १३ ॥ कुण्डोदरस्योदरपूरणेऽपि कुण्ठोधमा येन कृतान्नपूर्णा । नालं पिपासोपशमाय यस्य नदी च सा वेगवती यतोऽभूत् ॥ ६४ ॥ १. काशीपतिर्विश्वेश्वरः.
शिवलीलार्णवे समाहताः काञ्चनमालिकायाः स्नानाय येनाम्बुधयः समस्ताः । महीपतिं यो मलयध्वजं च दिवं गतं दर्शयति स्म पनीम् ॥१५॥ मीनेक्षणायां सुतमुग्रपाण्ड्यमवाप यः सुन्दरपाण्यदेवः । सस्मै च यं शक्तिधरस्य वजं चण्डायुधं चक्रमपि व्यतारीत् ॥१९॥ उद्वेलमप्यर्णवमुप्रपाण्ड्यो यहत्तया शोषयति स्म शक्त्या। वज्रेण मौलि बिभिवे मघोनश्चण्डायुधेनापि जघान मेरुम् ॥१७॥ भाचष्ट यश्चाशयमागमानां जिज्ञासमानेषु तपोधनेषु । यहत्तरजाहितमौलिनैव पाण्ड्याभको राजपदेऽभिषिक्तः ॥ १८ ॥ कपर्दजैर्यस्य धनाघनौधैः पपे पयोधिः परिजम्भमाणः । प्राप्तैश्च तैर्यः पटमण्डपत्यमबारयद् वृष्टिमतिप्रवृद्धाम् ॥१९॥ सिद्धात्मना यो विततार सर्वाः सिद्धीः प्रजानां मधुरानगर्याम् । यः सुन्दरेशानविमानसक्तं शिलागजञ्चाशयदिक्षुकाण्डान् ॥ ७० ॥ अस्त्रेण तुर्यावतरेण शौरर्हस्ती हतो येन तथागतानाम् । श्वश्रूदुरालापविवासिताया यः प्रादुरासीद् द्विजकन्यकायाः ॥७१ ॥ व्यत्यस्य॑ नृत्तं विदधे दयालुः पाण्ड्यस्य यः प्रार्थनया महत्या । पान्थद्विजस्त्रीवधपापबादं ब्याजेन यो व्याधवटोरहार्षीत् ॥ ७२ ॥ स्वमातृजारं पितृघातिनं च विप्राधमं यो विमलीचकार । अङ्कस्य भार्याहरमस्त्रशिष्यमात्मनैवाजयदाहवे यः ॥ ७३ ॥ मायोरगं यः शमयाबभूव मायागवीं यस्य पुनर्महोक्षः । यः पाण्ज्यसेनान्यमनुग्रहीतुं सन्दर्शयामास चमं नृपालम् ॥ ७ ॥ पाण्याय यः प्रादित हेम या बैश्याङ्गनाभ्यो बलमान् वकार्द्वः । अष्टापि सिद्धीः प्रतिपादयन् यो यक्षालनासु प्रससाद भूयः ॥५॥ द्वारं समुद्भाव्य निशि स्वयं सचोलाय सेगमविश्वबियूद्धम् । पानीयदानेन च पाकासेनामुजील्य चोलेन्द्रमजाफ्यद् यः ॥ ७ ॥ स्वर्ण दिशन् सिद्धरसं प्रयुज्य पुपोष वेश्यां शिवधर्मिणीं यः । पाण्ज्यस्य यः स्वैकपरायणस्य सादी भवन् साधयति स्म चोलम् ।। ७७॥
द्वाविंशः सर्गः अक्षय्यमप्यक्षतमर्पयन् यो भक्ताय भक्तार्पणमन्वगृहात् । येनाहतो मातुलरूपभाजा वैश्यो वटु तिजनान् विजिये ॥ ७॥ आस्थाय यश्चार्जुननाथलिङ्ग पाण्डवे महत् पातकमुन्ममार्ज। काष्ठानि मूर्धा कलयन् न्यधत्त काष्ठां परां गायति यः स्वभक्त ॥ ७९ ॥ भद्राय भूरि द्रविणं दिदेश पुत्रं ददौ चेरमहीभुजे यः । भद्राय दिव्यं फलकं दिदेश वृष्टौ महत्यामपि गायते यः ॥ ८॥ द्वीपान्तरीयामवमापि गीत्या भद्रा विजिग्ये यदनुग्रहेण । वाराहमास्थाय बपुर्ददौ यः स्तन्यामृतं कोलकिशोरकाणाम् ॥ ८१ ॥ प्रापय्य मानुष्यकमद्भुतं यः पाण्ड्यस्य तान् मन्त्रिपदेऽभ्यषिञ्चत् । यः खञ्जरीटं शरणं प्रपन्नं चक्रे बलिभ्यो बलिनं खमभ्यः ॥ २॥ जहार कोयष्टिमनुग्रहीतुं यादांसि यः काञ्चनपङ्कजिन्याः ।। कल्पान्तलुप्तां कटकाहिना यः सीमा विवत्रे मधुरानगर्याः ir ८३ ॥ प्राद्रावयत् पाण्यकृतेऽरिसेनां बाणैः स्वनामाक्षरलाञ्छितैर्यः । दुरासदं दुष्कविभिः स्वयं यः प्रादाद् विचित्रं फलकं कवीनाम् ॥ ८४ ॥ पाण्ड्यस्य चिन्तानुगुणं निबध्य पधं ददौ यश्च निजार्चकाय । विद्याविवादे विहितातिवादं कीरं कविं यः पुनरन्वगृह्मात् ॥ ८ ॥ अपि स्वयं कुम्भभवेन यस्तमबोधयद् द्रामिडसूत्रतत्त्वम् । व्यवेचयन्मूकमुखेन यश्च तत्तत्कृता द्रामिडसूत्रवृत्तीः ॥ ८६ ॥ भक्ते कवी कापि विमाननेन पाण्ड्याय कुप्यनगराधयो यः । दाशो भवन् दाशकुलेऽवतीणी जग्राह पाणौ जगदाम्बकां यः ॥ ७ ॥ आचार्यमूर्ति परिगृह नम्रमदीक्षयद् वातपुरीश्वरं यः । अदर्शयद् यस्तुरगान् सृगालानभ्यर्भितो वातपुरीश्चरेण ॥ ८ ॥ प्रावर्तयद् वेगवतीमथैनं पाख्येन यः पालयितुं निरुद्धम् । विश्वात्मताः यो विशदीचकार वेहत स्वां भुवने विवृण्वन् ॥ ८९ ॥ सम्बन्धनाथस्य मुखादकार्षीच्छान्तं ज्वरं पाण्डवमहीपतेर्यः । विद्याविवादे विजितामनेम यः शूलमारोपयति स्म बौद्धान् ।। ९० ।।
शिवलीलार्णवे आनीय यः कूपशमीमहेशान् वैश्याविवाहे विववार साक्ष्यम् । लीलास्वनन्तास्वपि सस्य दृष्टा लीला चतुष्पष्टिरियं पुराणे ॥ ९१ ॥ मालम्बमेकं जगतां त्रयाणामव्याजकारुण्यसुधानिधानम् । तं तादृशं त्वामपहाय. शम्भो! किं तावदन्यैरिह किम्पचानैः ॥ ९२ ॥ इति स्तवोक्त्या मुदितः सुराणामीशः स वेश्यां सह वल्लभेन । निर्विष्टभोगामवनौ चिराय निन्ये परं धाम दयार्द्रचेताः ॥ ९३ ॥ इत्यं समस्तार्तिहरः प्रजानामीशः कदम्बद्रुममूलधामा । आस्ते त्रिलोकीमनुकम्पमानः साचिव्यतो मीनविलोचनायाः ॥ ९४ ॥ श्रोतव्यं निधिरस्ति कोऽपि निहितो हालास्य इत्यग्रतो मन्तव्यं स निर्जिगन्निधिरिति न्यायैरथोच्चावचैः । ध्यातव्यं हृदि मूललिङ्गमथ च श्रीसुन्दरेशाभिधं द्रष्टव्यं शफरक्षणासहचरं तत्त्वं ततः शाकरम् ॥ ९५ ॥ लीला चतुष्पष्टिमिमां प्रणीतां हालास्यनेतुस्तरुणेन्दुमौलेः । श्रीनीलकण्ठे मयि कर्णजाहमानीय मीनाक्षि! चिरं दयेथाः ॥ ९१ १६ ॥ कृतिः समर्ष्या विरसा मयेति कस्यैष दोषः स परं भवान्याः । रम्यां कृति सा यदि रोचयेत तथानुगृहातु निवारितं कैः ॥ ९७ ॥ मा भूवन् नव च रसाः कविप्रणीताः काव्येऽस्मिन् पदकमलार्पिते पुरारेः । आस्ते तु ध्रुवमखिलाभिनन्दनीयां कारुण्यामृतरसकन्दली जनन्याः ॥९८॥ हालास्येशितुरीशितुर्यदि सखे! लीलासु शुश्रूषसे तत्सर्वागमगुप्तमस्य यदि वा तत्त्वं विजिज्ञाससे । पारं वाथ दिदृक्षसे यदि परं काव्यागमस्रोतसां तत् कर्णे कुरु नलिकण्ठमखिनो वाचं शिवकाश्रयाम् ॥ ९९ ॥ .. १. 'लीलाचतुष्षष्टि' इति पाठः स्यात् । इतः प्रभृति ९८ तमश्लोकप्रथमपादावधिकानि भक्षराणि त्रुटितानि कपुस्तके.
एकविंशः सर्गः। मलयध्वजपाण्डयकन्यका- 'चरणद्वन्द्वनिवेशितात्मना। शिवयोः कविनेदमार्पत शिवलीलार्णवकाव्यसद्भुत ॥ १० ॥ इति श्रीमद्भरद्वाजकुलजलधिकौस्तुमश्रीकण्ठमतप्रतिष्ठापनाचार्य- चतुरधिकशतप्रबन्धनिर्वाहकश्रीमन्महाव्रतयाजि- श्रीमदप्पयदीक्षितसोदर्याचान्दीक्षित- पौत्रेण नारायणदीक्षितात्मजेन भूमिदेवीगर्भसम्भवेन महाकवि- नीलकण्म्दीक्षितेन विरचिते शिवलीलार्णवे महाकाव्ये द्वाविंशः सर्गः। समाप्तश्चायं शिवलीलार्णवः। १२5 343 2 MAR 1997 room1000000000000 Rroeived on. Atkaowk eyed THAKTI
No text on this page.
No text on this page.
.او 1 814 : نه
No text on this page.
O
NUKY
LIB*PY
GUI
PRINTINI
Twe
WORKS
61,
Corntiola