Sringeri Sharada Peetham
Mahanarayanopanishat
Front matter
पंचाचार्यत्रमा आफीस सय्याजीरावरोड, मैसूर इत्यत्र लभ्यमानग्रन्थावलिः ॥ आणकम् १ १ १ श्री जगद्गुरुरेणुकाचार्यनामावलिः श्री जगद्गुरुदारुकाचार्यनामावलिः श्री जगद्गुरु एकोरामाचार्यनामावलिः श्री जगद्गुरु पण्डिताराध्यनामावलिः श्रीजगद्गुरु विचाराध्यनामावलिः श्री पंचाचार्य मंगलस्तोत्रावलिः श्री वीरमाहेश्वरमणगोत्र सूत्रावलिः श्री वीरमाहेश्वरदीक्षाविधिः वीरशैवाचारविधिः सन्यासाश्रमविमर्शः बसवध्वान्तदिवाकरः २ OM.M ४ १ .. कर्णाटकलिप्यां बहवो ग्रन्था अन्येऽपि विक्रयार्थ विराजन्ते । तथा श्रीपंचाचार्यप्रभानामिका साप्ताहिका पत्रिका कर्णा- टकराजधानी मैसूरनगरे प्रसिद्धा विशुद्धवीरमाहेश्वरमत- प्रकाशिका प्रभाति ॥
श्रीकेदारसिंहासनाधीश श्री १०८ जगद्गुरु नीलकम्बनिडी शिवाचार्य (रावलोपनामक) भगवत्पादानामुदाराश्रयतः सम्पादितं श्रीकाशीविद्वद्वीरमाहेश्वरसमा- श्रीकेदारनाथशिवत वग्रन्थमालायाः प्रथमं पुसि श्रीवृषभेन्द्रपण्डितशिकाचार्यप्रणीत: श्रीशैवभाष्योपेत- - महानारायणोपनिषत्। नेजामप्रान्तीय-पुरगिरिक्षेत्रीय-बृहन्मठाधिपति-पण्डित-श्री शिवसङ्ग शिवाचार्य तनूजन्मना श्री काशी जगतारु विश्वाराध्यगुरुकुलवासिना वीरमाहेश्वरेण श्री. त्रियब्राह्मणोपाह्र श्री चिद्घन शर्मशिका- चार्येण व्याकरणरत्न-शिवसिद्धान्तः तत्वज्ञोपाधिकेन वीरशैवधी- कुलभूषणेन संशोन्य प्रकाशिता बी. एल. पावगोत्यजैन स्वीये काश्यां रामघट्टस्थ हितचिन्तक नाली मुद्रणालय मुदिखा। १९२९ ईसवी याद्वे ] [ मूल्य १) समोदरूप्यकम् सम्पादयितुर्वक्तव्यम् श्रीविश्वेश्वरः शरणम् स्याम इह किल प्रता यमाने प्रपंचे संसारानलदन्दह्यमानानां प्राणिनां समुद्धर- णाय भगवता भवानीपतिना विश्वेश्वरेण ब्रह्मणा प्रश्वासप्रवचनरूपा निग- मागमोपनिषदादयो निबद्धा मुनिमहामान्याचार्य महाचार्य महानुभावद्वारा भाष्यांवृत्यादिरूपतया विस्तृता विराजन्ते । तत्र खलु वीरमाहेश्वरग्राह्य वीरशैवदर्शनं वरीवति । पुरातु परमतकालानल-परवादिभयङ्कर-वज्रनख- श्रीपति-नीलकण्ठप्रभृतयो वीरमाहेश्वरसिद्धान्तकोविदा, रेवणसिद्ध-मरु- लसिद्धएकोरामसिद्ध पण्डिताराध्य विश्वाराध्या इति वीरमाहेश्वराचार्या वीरमाहेश्वरसिदान्तमताकाश्च क्रमशः समभवन् । तेषां रेवणसिद्धादि- शिवाचार्याणां समयस्तु वक्तुमशक्य इयानेवेति । पुराणः सनातन इत्यर्थः । अन्न सुप्रभेद-वीर-स्वायम्भुवादिश्रुतयः प्रमाणं । ताहि श्री रेवणसिद्धादि- महाचार्यसार्वभौमाः श्रीसोमेश्वरादिविभुलिङ्गेभ्य आविर्भूय मुनिकुलाग्र- गण्यानगस्त्यप्रमुखमहर्षिगणान् नरसार्वभौमान् शिवसिद्धान्तोपदेशदाना. दितचोद्धारयामासरिति संघोषयन्ति । तत्तदाचार्यनहापीठेषु ( मठेषु ) पुरातनशिलाताम्रभूर्जलेखनान्यपि कले: प्रारब्धादतः प्रायोऽतितरांच- समुल्लसन्ति, प्रसङ्गतोऽन्यन्नविस्तरामः प्रकृतमनुसरामः सम्प्रति । तत्तदा- चार्यवर्यप्रणीतलावेदोपनिषत्सूत्राणामुपरि शैवभाष्यवृत्ति पन्था अपि सन्ति- प्रोद्दामाः। साम्प्रतिकानां कलिप्रभावमूर्छितानामश्रद्धया केचन ग्रन्था देव- नागरी लिप्याममुद्रिताः सन्ति । अतः श्रीकाशीविद्वद्वीरमाहेश्वरसभा- श्रीकेदारनाथशिवतत्वप्रन्थमालायाः प्रथमं पुष्पमित्यादिनामतः प्राचीन- । ग्रन्थाः क्रमशः प्रकाशिता भयांसः । येन विश्वतः शिवभक्तिः स्थिरीभय शिवाचार्याणां सिद्धान्तप्रसारोऽपि संजायतेति कतिपयैमित्रवय : पण्डितगणैः प्रेरिताः स्मः । तदा सिकन्दराबादपुरि [ १७९७ ] शालिवाहनशकाब्दे कर्णाटलिप्यां मुद्रितः श्रीवृषभेन्द्रपण्डितशिवाचार्यप्रणीत श्रीशैव भाष्योपेत महानारायणोपनिषन्नामकग्रन्थः श्रीकाशीजगद्गुरुविश्वाराध्यपीठाऽस्थान- पण्डित श्रीमालाक्षशास्त्रिमहोदयसकाशादेतल्लिप्यां प्रकाशनार्थमस्मद्धस्त. मुपागतः । ग्रन्थे तत्र बव्हचामेकत्रैव भाष्यलेखनास्तित्वतया पाठकानां परि- श्रमः संजायत इति समालोच्येदानीमेकैकऋचां भाष्यं पृथक् कृत्वा यथा मति संशोध्य श्रीकेदारसिंहासनाधीश श्रीजगद्गुरु नीलकण्ठलिंग शिवाचार्य ( रावलोपाह्न) भगवत्पादानामुदाराश्रयेणासौ मुद्रापितः कलहंसप्रकृति- कानां विज्ञानां सविध सन्निहितोऽस्तितशम् । सन्तश्चैनं ग्रंन्थं समालोक्य सन्तुष्टाः सम्भय सम्प्रसनवतीमेनां भगवर्ती भवदीय श्रीकेदारनाथशिवतत्व ग्रंथमालामियां साध्वी सम्पोष्य सम्वयं सम्भविष्यमाणानि पुष्पाणि तदीयानि च समास्वादयन्तुतमा । प्रसीदतु भवानीभर्ता श्रीकेदारेश्वरोऽनेन व्यापारेणास्मदीयेनेत्याशासाना विरमन्ति मुधा विस्तरत इति । शम् । पं० श्रीचिदयनशिवाचार्याः श्रीनृपशालिवाहनशकाब्दीय ( १८५०) शुक्लसंवत्सर वैशाखसुदि अक्षयतृतीयायां श्रीमदेकोरामजगदाचार्यजयन्त्युत्सवे
020 Doeco
0000000
LIEODE03
श्री वीरमाहेश्वरसिद्धान्तप्रतिष्ठापनाचार्य
श्री १००८ जगद्गुरु पश्चशिवा
चार्याणां प्रादुर्भावः
Man0000
ॐ नमः शिवाय ॐ नमः श्री १०८ जगद्गुरु पश्चाचार्येभ्यः श्रीशैवभाष्योपेता महानारायणोपनिषत् नारायणोपनिषन्नामककूचिरुद्रप्रारम्भः मूलम्-अम्भस्यपारे भुवनस्य मध्ये नाकस्य पृष्ठे 'महतो महीयान् । शुक्रेण ज्योतिषि, समनु- प्रविष्टः प्रजापतिश्चरति गर्भ अन्तः॥१॥ भाष्यादौ मङ्गलम्-श्रीमञ्चन्द्रकलाधरं भवहरं श्रीशाधिपं शंकरं । वेदान्तोभयवेद्यमव्ययमजं वेदादिविश्वात्मकम् ॥ मायातीतमनादिबोधममृतं मृत्युञ्जयं सर्वगं । गंगालोलमनन्त वैभवयुतं गौरीधवं नौम्यहम् ॥ १॥ वामे हैमसुता शिलादतन- यस्त्वग्रे महेन्द्रादयः। पश्चाद्विष्णुविरिश्चिमुख्यदिविजाः प्रागा- २ श्रीशैवभाष्योपेता। दिकोष्ठादिषु । श्रीवित रवीरभद्रगुहशास्तृभृङ्गिचण्डादयो । मध्येचन्द्रशतप्रभामयतनुं शम्भु भजे शाश्वतम् ॥२॥ सर्ववेदा- न्तसिद्धान्तद्वताद्वैतमताधिपं । भवभक्तनिधि भन्यं भजे श्रीपति- पण्डितम् ॥३॥ सर्ववेदवेदान्तप्रतिपाद्यस्य । सर्वाधिष्ठानस्य सर्वात्म- कस्य परशिवस्य ब्रह्मणो महादेवस्य, पारम्यं । नारायण नामकपञ्चमाध्याये प्रतिपाद्यते । नारायणऋषिप्रोक्तत्वात् । शिवभक्ताग्रगण्यनारायणहृदये परमेश्वरोपासनाप्रतिपादनाद्वा नारायणोपनिषदिति संज्ञा समजसा भवति ॥ अम्भस्यपारे- त्यादिना ॥ अपारे अम्भसि । समुद्रे स्थित इति शेषः ॥ " यो रुद्रो अग्नौ य अप्सुय ओषधीषु यो रुद्रो भुवनान्याविवेश तस्मै रुद्राय नमो अस्त्विति श्रुतौ, एतद्वाक्यार्थः स्पष्टमुपदिश्यते । अतो न विष्णुपरत्वमस्योपक्रमवाक्यस्य सिध्यति । भुवनस्य मध्ये, लोकमध्ये, नाकस्य पृष्ठे । सर्वोभागे । आकाशादिभ्यो महानित्यर्थः । शुक्रण । स्वतेजसा । ज्योतिषि । सूर्यादि- ज्योतींषि । अनुप्रविष्टः । अन्तर्यामित्वेन स्थित्वा प्रकाशयतीति भावः ॥ "तमेव भान्तमनुभाति सर्व तस्य भासा सर्वमिदं विभाति ॥ तच्छु– ज्योतिषां ज्योतिस्तत्तदात्मविदोविदुरित्यादि श्रतिषु तथा श्रूयते । प्रजापतिश्चतुर्मुखः । गर्भअन्तः । गर्भमध्ये। चरति। सञ्चरति । सर्वजीवान्तरसृष्टिकारणभूतचतुर्मुखस्य । परमेश्वरगर्भचालनव्यपदेशात्तस्य ॥ स्थावरजङ्गमात्मकसर्व प्रपञ्चाधिष्ठानत्वं ॥ समुद्रादिसर्वस्थलस्थिति व्यपदेशेन सर्वात्म- कत्वं सर्वान्तर्यामित्वंचोपदिष्टं भवति ॥ तथाश्वेताश्वतरे । 'सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः ॥ सर्वव्यापीच भगवान् तस्मात्सर्वगतः शिव इति श्रूयते' । 'पूर्णमदः पूर्णमिदं पूर्णा- त्पूर्णमदुच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यतेति महानारायणोपनिषत् । श्रुत्यन्तरे” । तथा श्रूयते ॥ उत ॥ अपारेऽम्भसि । महाप्रलये । श्लो ॥ प्रलये वटरूपेण निवसनशशिशेखरः ॥ स्वशाखाग्र- स्थिते पणे हरिं धत्ते कृपानिधिरितिशैव-पुराणवचनरीत्या- तत्र वटरूपेण स्थित इत्यर्थः ॥ भुवनस्य मध्ये अन्तरिक्षे सूर्यात्मनावर्तत इत्यर्थः ॥ तथा शतरुद्रीये ॥ असौ योवसर्पति नीलग्रोवो विलोहितः । उतैनं गोपा अदृशन्नद्रुशन्नु- दहार्यः इति । स्पष्टमुक्त । नाकस्य पृष्ठे। सर्गादूर्वभागे । इदं वैकुण्ठादीनामुपलक्षणं । महाकैलास इत्यर्थः । “परात्परतरं ब्रह्म तत्परात् परतोहरिः । यत्परात्परतोईशस्तन्मे मनः शिवसङ्कल्प मस्त्विति श्रुत्यन्तरे" । शिवस्य सर्वदेवताधिकत्व व्यपदेशात्त- निवासभूतमहाकैलासस्य सर्वोचंभागस्थितिरनवद्येति भावः । तथा भगवता व्यासेन स्कान्द-लैङ्ग्यादिषु बहुधा प्रपञ्चितं । ग्रन्थविस्तरभयान्न लिख्यते ॥ महतो महीयान् । सर्वदेवता- धिकब्रह्मविष्णु महेन्द्राणामधिप इत्यर्थः । तथा श्वेताश्वतरे ॥ "तमीश्वराणां परमं महेश्वरं । तं देवतानां । परमं च दैवतं । पति पतीनां परमं परस्तात् । विदामदेवं भुवनेशमीड्यं । नतस्य कार्य करणं च विद्यते । न तत्समश्चाप्यधिकश्चदृश्यतेतिश्रूयते,। 'अहमेकः प्रथममासं वामिच भविष्यामिचेति अथर्वशिरसि तथा श्रूयते, ॥ शुक्रणेति' स्वतेजसा सूर्यादिज्योतींषि प्रकाशय- तीत्यर्थः । प्रजापतिरिति । चतुर्मुखस्यापि जनक इत्यर्थः तथा श्वेताश्वतरे। 'योदेवानां प्रभवश्वोद्भवश्च । विश्वाधिको रुद्रो महर्षिः, हिरण्यगर्भ पश्यत जायमानं सनो देवश्शुभयास्मृत्या संयुनक्तु, नारायणे च 'यो देवानां प्रथम पुरस्ताद्विश्वाधियो- रुद्रोमहर्षिः । हिरण्यगर्भ पश्यत जायमानं सनोदेवः शुभया- स्मृत्या संयुनक्तु । इतिस्पष्टमुपदिष्टं । इति प्रथमातुवाक प्रथम वाक्य भाष्यं समाप्तम्" *" ४ श्रीशैवभाष्योपेता। मूलम्-यस्मिन्निदं सञ्च विचैति सर्व ॥ यस्मिन्देवा अघि विश्वेनिषेदुः ॥ तदेव भूतं तदु भव्यं मा इदं तदक्षरे परमे व्योमन् ॥ २॥ भाष्यम्-यस्मिन्निति ॥ यस्मिन् परमशिवे । इदं । चरा- चरात्मक विश्वासश्च प्रलये समेति । समित्येकाकारे । नामरूप विभागानहतया तस्मिल्लीनं भवतीति भावः। विचैति । सृष्टि- काले। नामरूपविभागार्हतया स्थूलावस्थां प्राप्रोतीत्यर्थः । पटवञ्चतिसूत्रे । प्रलये प्रपञ्चस्य । पटसङ्कोचवत्सङ्कुचितत्वं । तद्वत्सृष्टौविस्तृतत्वं च परमेश्वरेण क्रियत इत्युक्तं । यस्मिंश्च । यस्मिन्परमशिवे । देवाः । विष्णुब्रह्मादयः । अधिनिषेदुः । स्थिताः। आश्रिता इत्यर्थः। शिवगीतासु विश्वरूपाध्याये बहुधा प्रपञ्चितमेतत् । तदेव । परशिव एव । भूतं तत् उ । तदु। तदेव । भन्यं । अइदं । इदं परिदृश्यमानं । आ। तदेवेत्यर्थः । सवं परमात्मभूतमित्यर्थः । इदमित्यत्र । आ इत्यस्य स्मरणा- र्धत्वान्निपात एकाजनाङितिप्रगृह्यत्वात्प्रकृतित्वं । तथा श्रतिः । "विश्वं भूतं चित्रं बहुधा जातं जायमानं च यत् । सर्वो ह्यष- रुद्रस्तस्मै रुद्राय नमो अस्त्विति,, ॥ श्रुत्युकरीत्या- सर्वात्मभूतः परशिवएव । तत् । परशिवः । अक्षरे । नाशा- प्रतियोगिनि । नाशरहितेत्यर्थः। परमे व्योमन् । स्वाभाविक चिच्छक्यात्मकपरमाकाशे वर्तत इत्यर्थः ॥. अर्भकौकस्था त्तन्द्य पदेशादिति ब्रह्मसूत्रे भगवता बादरायणेन सर्वव्यापकस्य परमेश्वरस्य भक्तोपसनार्थं परमाकाशेस्थितिरुपदिष्टा । इति द्वितीयवाक्य भाष्यं समाप्तम् ॥ मूलम्-येनावृतं खं च दिवं महीं च । येनादित्य- म्तपतितेजसा भ्राजसा च॥ यमन्तः समुद्रे महानारायणोपनिषत् । कवयोऽवयन्ति तदक्षरे परमे प्रजाः॥३॥ भाष्यम्-येनावृतमिति ॥ येन । शिवेन । आकाशो द्यौश्च महीच । अवियते। विभक्तिव्यत्यासश्छान्दसः।कैवल्ये ॥ खंवा- युज्योतिरापः पृथिवी विश्वस्य धारिणी ॥ यत्परब्रह्म सर्वात्मा- विश्वस्यायतनं महदिति तथा श्रूयते, । येनच । भ्राजसा । औष्णेन । तेजसा । प्रकाशेन च । आदित्यस्तपति । सूर्यतेजो- ऽवच्छिन्नः सन् स्वतेजसा । आदित्यरूपेण प्रकाशयतीति भावः। "येन सूर्यस्तपतितेजसेत्थमिति श्रुतेः” । यंच। कवयः । प्रजाः। शिवशानिन इत्यर्थः । मुद्रयासह वर्तत इति समुद्र । समुद्रेण । गुरूपदिष्ट लक्ष्येण । वचन व्यत्ययश्छान्दसः॥ अन्तः । “शरीर- मध्ये पद्मकोशप्रतीकाशं हृदयं चाप्यधोमुखं । अधोनिष्ठया वितस्यान्ते नाभ्यामुपरितिष्ठतीतिश्रुतौ,। तथास्पष्टमुक्तं । अक्षरे नाशरहिते । परमे। हृदयाकाशे । अवयन्ति । प्राप्नुवन्ति । तद्ब्रह्मेति पूर्वेणसम्बन्धः । अत्र आकाशवत्सर्वव्यापकत्वादि- धर्मप्रतिपादनात् । समुद्रे इत्यत्र समुच्चयबोधक चकाराभा- वाच्च । सावयवब्रह्मणः। समुद्रे वैकुण्ठे च । अभिगच्छन्तीत्यर्थों निराकृत इतिज्ञेयं । किंच । संसारदशायां जीवब्रह्मणोर्भेदः स्वाभाविकः। मोक्षदशायां पुनरावृत्तिरहिताभेदश्च युक्त इति स्पष्टीकृतोऽर्थः॥ इति तृतीयवाक्यभाष्यं समाप्तम् ॥ मूलम्-यतःप्रसूता जगतः प्रसूती तोयेन जीवाव्य- यदोषधीभिः । पुरु- षान्पर्णांश्च विवेश भूतानि चराचराणि ॥४॥ भाष्यम्-यतः प्रसूतेति ॥ यतः । महाप्रलयसाक्षिभूतपर- शिवात् । जगतः । स्यावरजङ्गमात्मकप्रपञ्चस्य प्रसूती उत्पत्ति- ससर्ज भूम्याम् ६ श्रीशैवभाष्योपेता। 11 विशिष्टा । कारणभूता प्रकृतिरित्यर्थः। प्रसूता उत्पन्ना। येन परशिवेन भूम्यां । भूमौ । तोयेन । तोयशद्वोपलक्षितभूतैः सह । जोवान् । ब्रह्मविष्रवादीन् व्यससर्ज । सृष्टवान् । यत् । परशिवः ओषधीभिः। पुरुषान्, मनुजान पशुंश्च । गवाश्वादीन् । चराचराणि । स्थावरजङ्गमात्मकानि । वृक्षगुल्मलतापक्षिपि- पीलिकादोनीत्यर्थः। विवेश । अन्तर्यामितया प्रविष्टवानित्यर्थः। "तत्सृष्ट्वातदेवानुप्राविशदितिश्रुतेः । तद्रीत्या ब्रह्मादिस्तम्भ- पर्यन्तं सृष्ट्वा तदन्तर्यामित्वेन सर्वत्र प्रकाशतेत्यर्थः। "ध्यायीते- शानं प्रधायितव्यं । सर्वमिदं ब्रह्म विष्णुरुद्न्द्रास्तेसम्प्रसूयन्ते। सर्वाणिचेन्द्रियाणि सह भूतैर्नकारणं । कारणानां ध्याता। मायान्तु प्रकृति विन्द्यान्मायिनन्तु महेश्वरं । तस्यावयव भूतोत्थं • व्याप्त सर्वमिदं जगदित्यथर्वशिखाश्वेताश्वतरादिषु" शिवस्य परब्रह्मणः । त्रिमूर्तिकारणत्वं, चराचरप्रपञ्चकारणत्वं च प्रति- पादनान्न नारायणपरत्वमयं वाक्यार्थः॥४॥ मूलम् -अतः परं नान्यदणीयसँहि परात्परं यन्म- इतोमहान्तं । यदेकमव्यक्तमनन्तरूपं विश्वं पुराणं तमसः परस्तात् ॥५॥ भाष्यम्-अतः परमिति ॥ परात्परं, परात्, ब्रह्मविष्णु- रुद्रभ्यः । परं, श्रेष्ठ । 'शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा- सविज्ञेय इतिमाण्डूक्ये श्रूयते'। महतो । आकाशादिभ्यो । महान्तं । महदित्यर्थः । अतः परं, तस्मात्परं । अणीयलं हि । अणुतरं वा । अन्यत् । अन्यं । न । नास्ति । ततः सूक्ष्मतरं नास्तीत्यर्थः । तया कैवल्ये ॥ ' अणोरणीयानहमेव तद्वन्महानहं विश्वमिदं विचित्रं । पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोऽहं शिवरूपमस्मीति, श्वेताश्वतरे च “यस्मात्परं नापरमस्ति कि- महानारायणोपनिषत् । . ॥ 'उमा- ञ्चिद्यस्मान्लाणीयो न ज्यायोऽस्तिकश्चिदिति श्रूयते” ॥ यदेक- मिति । एकं । अद्वितीयं ॥ “एकएवरुद्रो नद्वितीयाय तस्थेत्यादि श्रुतिषु । अनन्यसाम्यत्वं शिवस्यस्पष्टमुपदिष्टं ॥ अव्यक्तं । चक्षरादीन्द्रियाविषयमित्यर्थः । अनन्तरूपं । नानारूपमित्यर्थः । न विद्यते अन्तो यस्य तत् । अनन्तं । अनन्तरूपं यस्य तदनन्त- रूपं। अप्राकृतदिव्यमङ्गलविग्रह इत्यर्थः। "स्थिरेभिरङ्ग पुरुरूप उग्र इतिश्रुतेः ॥ विश्वं । विश्वात्मकं । " सर्वोह्य षरुद्र इति- श्रुतेः”। पुराणं । अनादि । 'पुरातनोऽहं पुरुषोऽहमीशा हि- रण्मयोऽहं शिवरूपमस्मीतिश्रुतेः । तमसः । परस्तात् महा- प्रलयसाक्षितमोरूपप्रकृतिविलक्षणो वा ' यदातमस्थं न दिवा न रात्रिसन्न चासच्छिव एवकेवलः । वेदाहमेतं पुरुषं महान्तमादित्यवर्ण तमसः परस्तादिति श्वेताश्वतरे, । सहायं परमेश्वरंप्रभुत्रिलोचनं नीलकण्ठं प्रशान्तं । ध्यात्वा मुनिर्गच्छति भूतयोनि समस्तसाक्षि तमसः परस्तादिति " कैवल्ये च शिवस्य परब्रह्मणः । तमःपरत्वव्यपदेशान्न नारा- यणपरत्वं वक्तुं शक्यं इति प्रथमानुवाकपञ्चमवाक्यभाज्यं समाप्तम् ॥ मूलम्-तदेववर्तन्तदु सत्यमाहुस्तदेव ब्रह्म परम कवीनाम् । इष्टापूर्त बहुधा जातं जायमानं विश्वं बिभर्ति भुवनस्य नाभिः ॥ ६ ॥ भाष्यम्-तदेववर्तमिति ॥ ऋतं । ज्ञानविषयस्वरूपं । सत्यं । कालत्रयाबाध्यस्वभावं। तदेव। तत्परशिवएव । कवीनां । शिवज्ञानिनां । परमंब्रह्म । मूर्तित्रयातीतब्रह्म । तदेव, शिवएव ॥ इष्टेति ॥ इष्टं च पूर्तचेति समाहारदन्द्धं । इष्टं 'या- गादि श्रौतकर्म ' पूर्तादि स्मार्तकर्म । बहुधा । अनेकधा । जातं, ८ श्रीशैवभाष्योपेता। १ भूतं । जायमानं भविष्यत् । विश्वं । अग्नीन्द्रादि देवतान्तर- सम्बन्धितया बहुरूपं । पूर्वोक्तकर्म । बिभर्ति । स्वीकरोति । तदाराध्य इतिभावः ॥ भुवनस्य । सर्वलोकस्य, नाभिः, कर्म- लघदतुलेन तदाधारभूत इत्यर्थः ॥ 'एकोदेवस्सर्वभूतेषु मूढः सर्वव्यापी सर्वभूतान्तरात्मा, कर्माध्यक्षस्सर्वभूताधिवासः साक्षी चेता केवलोनिगुणश्चेति श्वेताश्वतरे सर्वकर्माध्यक्षत्वं शिवस्य परब्रह्मणः सम्यगुपदेशान्नारायणपरत्वं नसिध्यतीति प्रथमानुवाकषष्ठवाक्यभाष्यं समाप्तम् ॥ मूलम्-तदेवाग्निस्तद्वायुस्तत्मर्यस्तदु चन्द्रमाः। तदेवशुक्रममृतं, तब्रह्मतदापस्सप्रजापतिः भाष्यम्-तदेवाग्निरिति ॥ तदेव परशिवएव । अग्निः। तत् । वायुः । तत् । सूर्यः। तदु । तत् । चन्द्रमाः। तदेव । शुक्र । त्रिगुणातीतशुद्धसत्वप्रधानं । अमृतं । मृत्युञ्जयं । तत् ब्रह्म । चतुर्मुखः। तत् । आपः । तदधिष्ठानवरुणइत्यर्थः, सः। प्रजानांपतिः। प्रजापतिः । प्रजापालनकर्ता विष्णुरित्यर्थः, सर्वत्र तच्छब्दः। शिवएव, सर्वदेवता स्वरूप पर ब्रह्मतिनिश्चया- र्थकः । कैवल्ये उमासहायमित्यारभ्य । सएव विष्णुः सप्राणः सकालोऽग्निस्सचन्द्रमाः ॥ सएव सर्वयद्भूतं यच्च भव्यं सनातनं ध्वात्वातन्मृत्युमत्येतिनान्यः पन्थाविमुक्तयेत्यादिना शिवस्य परब्रह्मणः सर्वदेवतामयत्वं, तदुपासनस्यैव मोक्षप्राप्तिसाधन- त्वोपदेशान्न नारायणपरत्वं वक्तुंयुक्तमिति शिवस्य परब्रह्मणः सर्वात्मकत्वसर्व विलक्षणत्व-सर्वाधिकत्व सर्वकारणत्वमुपदिश- दितिप्रथमानुवाकसप्तमवाक्यभाष्यं समाप्तम् ॥ मूळम्-सर्वे निमेषा जज्ञिरे, विद्युतः पुरुषादधि । कला मुहूर्ताः काष्ठाश्चाहोरात्राश्चसर्वशः ॥ .
महानारायणोपनिषत् । २ अर्धमासा मासा ऋतवस्संवत्सरश्व कल्प- ताम् ॥ ८ ॥ भाष्यम्-सर्वे निमेषा इति ॥ विद्यतः विद्युत्स्वरूपात् । पुरुषात् । हिरण्मयपुरुषादित्यर्थः ॥ निमेषा अधिजज्ञिरे । जाता इत्यर्थः । कला मुहूर्ताः काष्ठाश्च । अहोरात्राश्च सर्वशः सर्वे अर्धमासाः शुक्लकृष्णपक्षाः मासाः चैत्रादयः ऋतवः संवत्सरा- दयः प्रभवाद्याः । कल्पतां सृष्टा इत्यर्थः ॥ इति प्रथमानुवाकाष्ट- मवाक्यभाष्यं समाप्तम् ॥ मूलम्-स आपप्रदुघो उभे इमे अन्तरिक्षमधोसुवः नैनमूर्ध्व नतिर्यञ्च न मध्ये परिजनभत् ॥९॥ भाष्यम्-स आप इति ॥ स आपः द्वितीयार्थे प्रथमा अप इत्यर्थः । प्रदुधो दुग्धे। अपशब्दोपलक्षितभूतपञ्चकमुत्पादित वानित्यर्थः । तथा । अन्तरिक्षं । अथोसुवः। तदधोभागस्थित सुवश्शब्दोपलक्षितभूरादिलोकं च । उभे सृष्टवानित्यर्थः। नैनमूर्ध्वमिति । एनं । ऊध्वंऊर्ध्वभागे । तिर्यञ्च । तिर्यकप्रदेशे मध्ये मध्यप्रदेशे । कोऽपिनपरिजनभत् नगृहीतवानित्यर्थः नशात वानितिभावः ॥ छान्दसत्वाद्धकारस्य भकारादेशः । सर्वव्याप- कस्य देशकालवस्तुकृतपरिच्छेद्यत्वं नास्तीति भावः । न तस्येशे तस्य ईशे ईशः वचनव्यत्ययश्छान्दसः कश्चनकोऽपि न नास्ते । 'नतस्य कार्य करणं च विद्यते नतत्समश्चाप्यधिकश्च दश्यत इति श्वेताश्वतरे तथोक्त, । तस्य महत् । सर्वेश्वरत्व सर्वान्तर्यामित्वसर्वाधिष्ठानत्व सर्वकारणत्वादिरूपं यशः, कीर्तिः नाम प्रसिद्धः । नान्यस्यसम्भवतीतिभावः । किंच । तस्य परमेश्वरस्य । नाम शिव इति नाम महद्यशः। महामङ्गलरूप इत्येकोऽर्थः । इति प्रथमानुवाके नवमवाक्यभाष्यं समाप्तम् ॥
श्रीशैवभाष्योपेता। मूलम्-नसन्द्रशे तिष्ठतिरूपमस्यं न चक्षुषा पश्यति कश्चनैन । हृदा मनीषा मनसाभिक्लुप्तो य एनं विदुरमृतास्ते भवन्ति ॥ १० ॥ भाष्यम्-नसन्दुशेति ॥ अस्यशिवस्यरूपं सन्दृशे दृष्टौ न तिष्ठति । प्राकृतचक्षुषा न वेद्यमित्यर्थः । अतएव कोऽपि । चक्षुषा इदमुपलक्षण बहिरिन्द्रियाणां । तैरित्यर्थः । एनं शिवं न पश्यति । नगृह्णातीत्यर्थः। किन्तु हृदेति । हृदा श्रद्धाभक्तिध्यान युक्तेन मनीषा शिवज्ञानविशिष्टेन मनसा अन्तःकरणवृत्या- अभिक्तृप्तः । गृहीतुं शक्य इत्यर्थः। “एवं विदित्वा परमात्मरूपं गुहाशयं निष्कलमद्वितीयं, आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चनेत्यादिषु, तथा स्पष्टभुक्तम् ॥ १० ॥ मूलम्-अयः सम्भूतो हिरण्यगर्भ इत्यष्टौ एष हिदेवः प्रदिशोनुसः पूर्वेहिजातः स अगर्भ अन्तः स विजायमानस्स जनिष्य- माणः प्रत्यङ्मुखास्तिष्ठति विश्वतो मुखः॥ भाष्यम्-अद्भयः सम्भूत इति ॥ अद्भ्यः सम्भूत इत्युत्त- रानुवाकः । हिरण्यगर्भ इत्यष्टत्वं तदेकवाक्यमापन्नमिहपठित व्यमित्यर्थः । एष हीति । एषहि देवः । एष परः शिवः । प्रदिशः प्रतिदिशः । अनुसर्वाः । अनुसत्यवर्तमानसर्वपदार्थाः गर्भऽन्तः । गर्भस्था पूर्वेहिजाताः । पूर्व जाता इत्यर्थः । विजायमानः । वर्तमानकालोत्पन्नाः । जनिष्यमाणाः । भविष्य- कालोद्यमानाः । सर्वं स एव हि शब्दः सर्वत्र निश्चयार्थः । तच्छब्दस्य आवृत्तिरपि तदर्थमेव । तद्भिन्ननारायणस्य सम्भव- तीत्यर्थनिरापाथं हिस्यात् । “पुरुषोवैरुद्रस्तन्मही नमो नमः महानारायणोपनिषत् । विश्वं भूतं चित्र बहुधाजातं जायमानं च यत् । सर्वोह्यष रुद्र- स्तन्मे रुद्राय नमोनम इति मन्त्रान्तरे शिवस्य सर्वात्मकत्वं स्पष्ट मुपदिष्टम् ॥ प्रत्यङ्मुखाइति ॥ प्रत्यक् विश्वभिन्नं मुखं शरीरं यस्य सः प्रत्यङ्मुखः । त्रिगुणातीतशुद्धसत्वप्रधान इत्यर्थः। तादृशः सन् विश्वतोमुखः। चराचरोत्तकाष्ठमूर्तस्व- रूपवानित्यर्थः । एतेन चराचरविश्वात्मकत्वान्मूर्तत्वं तद्विल- क्षणशरीरकत्वादमूर्तत्वं च । यद्वा विश्वतोमुखः । चराचरस्व- रूपत्वात्सर्वव्यापकस्वरूपः।प्रत्यङ्मुखं । प्रत्यमितानि मुखानि शिखाः तेषु तिष्ठतीति वार्थः। अत्र पूर्वार्थ च वचनव्यत्यय- श्छान्दसः । एतदर्थे विभक्तिव्यत्ययश्छान्दस । इति ज्ञेयम् ॥ इति प्रथमानुवाके एकादशवाक्यार्थः समाप्तः ॥ मूलम्-विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो हस्त उत विश्वतः पात् । सं बाहुभ्यां नमति सम्पतत्रै द्यावा पृथिवी जनयन्देवएकः १२ भाष्यम्-विश्वतश्चक्षुरिति ॥ विश्वतश्चक्षुः । अनन्तनेत्र- वान् । उत। किंच । विश्वतोमुखः । अपरिमितमुखवान् । विश्वतो हस्तः । असंख्यातहस्तवान् । विश्वतः पात् । अगणितपादवानित्यर्थः । देव एकः । एकोदेवः । शिवः । द्यावापृथिवी जनयन् । आकाशभूमी उत्पादयन् । बाहुभ्यां हस्ताभ्यां पतत्रैश्चरणैश्च नमति । योजयति । सृष्टेनाजीवानां पादादिकरणविशिष्टस्थूलशरीरसंयोगं करिष्यतीतिभावः । विश्वतश्चक्षुरुत विश्वतोमुख इत्यारभ्य योदेवानांप्रथमश्चोद्- वश्च विश्वाधिकोरुद्रो महर्षिरित्यन्तंश्वेताश्वतरे । शिवस्य विश्वतोमुखत्वादिधर्माणां व्यपदेशात्र न नारायण परत्वा- वकाश ॥ इतिद्वादश वाक्यभाष्यं प्रथमामुवाके समाप्तम् ॥
१२ श्रीशैवभाष्योपेता। मूलम्-वेनस्तत्पश्यन्विश्वाभुवनानि विद्वान्यत्र वि- श्वं भवत्येकनीडं यस्मिन्निदं संच विचैति सर्व सजीतः प्रोतश्च विभुः प्रजासु॥ २३ ॥ भाष्यम्-वेन इति॥ हि इनः तत् इति पदविभागः। विद्वान् सर्वशः । तत् । परशिवः विश्वाभुवनानि । स्थावरजङ्गमानि । अत्र हिशब्दोपमावाचकः । इन इव मित्रवत् पश्यन् साक्षात्कु- वन आस्ते तिष्ठति । यत्रपरशिवे विश्वमिदं । परिदृश्यमानस्था वरजङ्गमात्मकप्रपञ्च । एकनीडं । एकाधिकरण्यं । एकाधि- ष्ठानमित्यर्थः। भजत इति शेषः । यस्मिचिदमिति ॥ यस्मिन् । परशिवे । इदं सर्वं चक्षुर्विषयीभूतसकलप्रपञ्च । संच । प्रलये पटनं भवत्सूक्ष्मत्वं भजति । विचैति । सृष्टौ पटप्रसार- णवत् स्थूलावस्था प्राप्रोति । विभुः सर्वमूर्तामूर्तसंयोगी। सः। शिवः । एतेन शिवस्य ब्रह्मणः सदामूर्तत्वप्रधानवादो निरस्तः। प्रजासु चेतनसमुदायेषु । जीतः । दीर्घप्रसारिततन्तुवत् । प्रोतः तिर्यक् प्रसारित तन्तुवञ्च व्याप्य वर्तत इतिशेषः ॥ इति त्रयोदशवाक्यभाष्यं समाप्तम् ॥ १३ ॥ मूलम्-प्रतद्वोचे अमृतेन्नु विद्वान्गन्धर्वो नाम । निहितं गुहामु यस्तद्वेद सपितुःपिता सत्१४ भाष्यम्-प्रतद्वोचेति । प्रतत् । वोचे इति पदविभागः। गां सर्वातिशयफालनेत्रं । गंगां । वृषभं पाशुपतास्त्रंवा धारयतीति गन्धर्वः शिवः।मुख्यार्थस्तु गांवृषभं वाहनत्वेन धारयतिस्वी- करोतीति गन्धर्वः । सर्वेषुपशुवाग्वज्रनेत्रध्रुणिभूजल इति कोशात् । उत । गांदिक् धारयति । अम्बरत्वेन धारयतीति वा गन्धर्वः । दिगम्बर इति शिवसहस्रनामावल्यांतस्य प्रसिद्धम् ॥ नाम । तत् । परशिवः। अमृतंमोक्षात्मकः । मृत्युञ्जयोहि । ।
महानारायणोपनिषत् । 7 नविद्यते मृतं यस्यासौ अमृतः । एतेन नारायणादोनां मृत्यु.. ग्रस्तत्वं सूच्यते अत एवलोके । ब्रह्मकल्प विष्णुकल्पप्रसिद्ध नाम शब्द समुदायवेदं गुहासु । बुद्धिहृदयादिस्थानेषु निहितं स्थितं । ब्रह्मणेतिशेषः। प्रवोचे । प्रोक्तवानित्यर्थः। तथाश्वेता- श्वतरे ॥ प्रधान क्षेत्रज्ञपतिर्गुणेशः संसारमोक्षस्थितिबन्धहेतुः। स तन्मयोह्यमृत इशसंस्थोशः सर्वज्ञोभुवनस्यासगोप्ता यईशे अस्य जगतो नित्यमेव नान्यो हेतुर्विद्यते ईशनाय योब्रह्माण विद्धाति पूर्वयो वै वेदांश्च प्रहिणोति तस्मै तँहि देवमात्म बुद्धिप्रकाशगुं ममुक्षु शरणमहं प्रपद्येति स्पष्टमुपदिष्टम् ॥ अतोन नारायणस्यात्रावकाशः । त्रीणि पदानीति गुहासु हृदय भ्रूमध्यस्थानेषु त्रीणि पदानि । जीवप्रकृति परमेश्वराधिष्ठित- स्थानानि यः पुरुषः । वेद जानाति । शिवयोगेन । सः। पितुः पिता । कस्यापि पुत्रो न भवतीत्यर्थः पुनर्जन्म नास्तीति भावः। सत् भवति । परमात्मतया तिष्ठतीति भावः॥ इति चतुर्दशवाक्य भाष्यं समाप्तम् ॥ मूलम्-सनो बन्धुनिता विधाता धामानि वेद भुवनानिविश्वा यत्र देवा अमृतमानशना- स्तृतीये धान्यभ्येरयन्त ॥ १५ ॥ भाष्यम्-सनोबन्धुरिति ॥ स शिवः । नः। अस्माकं । बन्धुः । जनिता । जनकः। रुद्रपिण्डजन्यत्वेन सर्वेषां रुद्रएव जनक इत्यर्थः । स एव श्रेयसां । विधाता । जनयिता। गर्भद- शायामपि । सर्वेषां । जीवनोपायं करोति यस्मात्तस्मात्स एव परमबन्धुरित्यर्थः । “योमे गर्भगतस्यापि वृत्तिं कल्पितवान्शिव इतिस्मृतेः" । यत्रदेवाहति ॥ यत्र परशिवे । अमृतं । मोक्षं । आनशनाः अशनवन्तः । अनुभूतवन्त इत्यर्थः। तृतीये धामनि ।
१४ श्रीशैवभाष्योपेता। सहस्रारे । कैलासे वा । अभ्येरयन्त । महानन्दानुभवमुञ्चर- न्तीत्यर्थः ॥ स्वकृतकृत्यं गायन्तीति भावः॥ इति पंचदश वाक्य भाष्यं समाप्तम् ॥ मूलम्-परिद्यावा पृथिवी यन्ति सद्यः परिलोकान परिदिशः परिसुवः ऋतस्य तन्तुं विततं निवृत्य तदपश्यत्तदभवत्प्रजासु ॥ १६ ॥ माष्यम् -परिद्यावापृथिवीति ॥ सर्वान् लोकान् कामान्नि कामरुप्यनुसंचरन्नित्युक्तरीत्या ॥ द्यावापृथिवी । आकाशभूमी। परियन्ति । परितः संचरन्ति । परिलोकान् । लोकान् । स्वर्गा- दिलोकान् । सद्यः । तत्कालएव । परिपरियन्तीत्यर्थः । यन्ती- तिक्रियापदस्य परीत्युपसर्गेण सर्वत्रान्वयः। परिसुवः । सुवः शब्दितमहाकैलासं च संचरन्ति ॥ * * ॥ मूलम्-परीत्यलोकान परीत्यभूतानि परीत्यसर्वाः प्रदिशो दिशश्च प्रजापतिः प्रथमजा ऋत- स्यात्मनात्मानमभिसम्बभूव ॥ १७ ॥ भाष्यम्-परीत्यलोकानिति ॥ लोकोन् । जनान् । भूतानि । पंचभूतानि । प्रदिशो दिशश्चसर्वाः। दिगन्तराणि । तत्रस्थ- पदाथाश्च परीत्य व्याप्य ॥ परीत्येति त्रिरावृत्तिनिश्चयार्थं ॥ प्रजानां । पश्वात्मकजीवानां । पतिः। प्रजापतिः । पशुपतिरि- त्यर्थः । ऋतस्य । कर्मणः । प्रथमजाः । प्रथम जनयिता । सृष्टः पूर्व । तत्तत्कर्मपरिपाकं पश्यन् । स्वयमेव । आत्मना । स्वेन । आत्मानं । जीवं । अभिसम्बभव । उत्पादितवान् । सृष्टौकुसूल- । ।
महानारायणोपनिषत् । १५ । धान्यवत्स्वात्मस्थितजीवाविर्भावं करोतीतिभावः ॥ तत्तको नुकूलत्वेन तत्तच्छरीराणि दास्यत्यतस्तस्य वैषम्यादिकं नास्ती- तियावत् ॥ १७ ॥ इतिसप्तदशवाक्यभाष्यं समाप्तम् ॥ मूलम्-सदसस्पतिमद्भुतं प्रियमित्रस्यकाम्यं सनि- मेधामयासिषम् ॥ १८ ॥ भाष्यम्-सदसस्पतिमिति ॥ सत् । जीवः। असत् । प्रकृतिः । तयोःपति । प्रभु । “ प्रधानक्षेत्रज्ञपतिगुणेशः संसा- रमोक्षस्थितिबन्धहेतुरिति श्वेताश्वरेतथाश्रूयते” ॥ अद्भुतं । ब्रह्मविष्ण्वादीनामाश्चर्यकरोरुलिङ्गरूपं । इन्द्रस्य । परमैश्वर्य- युक्त कुबेरस्य । प्रियं । मित्रं । यद्वा । इन्द्रस्य । परमैश्वर्यरु- पलक्ष्मीयुक्तस्यविष्णोः । प्रियं । भर्तारं । प्रियनाथशब्दानां भर्तृ. वाचकत्वेन गौरीप्रियः । रमानाथ इत्यादिषु बहुधादृश्यते ॥ शङ्करःशूलपाणिश्च खट्वाङ्गीविष्णुवल्लभ इति शिवसहस्र- नामावल्यां विष्णुवल्लभत्वं तस्य सुप्रसिद्ध। कामितुयोग्य काम्यं । चतुर्वर्गफलप्रदातृत्वेन । सर्वकाम्यत्वं तस्यैवसिद्धं । सनिं । भजनीयमुपासनीयं वा । वनसनसंभक्तावितिधातुः ॥ मेधामयं । ज्ञानप्राचुर्य । सर्वज्ञ इत्यर्थः । यःसर्वज्ञः सर्ववि- दितिश्रुतेः ॥ असिषं । प्राप्तवानस्मीति शिवशानिनः स्वमाहात्म्य ज्ञापकमन्त्रोऽयम् ॥ इति च अष्टादशवाक्यभाष्यं समाप्तम् ॥ मूलम्---उद्दीप्यस्वजातवेदोपघ्नन् निऋऋर्तिमम । पYश्च।मह्यमावह । जीवनं च दिशोदश २९ भाष्यम्-एवंजगजन्मादिकारणनिरवयवपरिपूर्णशिवतत्व माहात्म्यमुपपाद्य । परशिवसम्बन्धघोरतनुप्रार्थनामुपदिशति उद्दीप्य इति ॥ जातानि चेतनाचेतनानि । तत्कर्माणि च ।
श्रीशैवभाष्योपेता। वेत्तीति । जातवेदाः।तस्यसम्बुद्धिः। हेजातवेदः। सर्वज्ञपरशिवे. त्यर्थः । अग्निस्वरूपपरशिव इति वा । रुद्रोवाएषयदग्निस्तस्यैते तनुवौ धोरान्याशिवान्येतिश्रुत्यन्तरे ॥ तथाश्रू यमाणत्वादुभय- थापिनविरोधः । मम । मे । निऋऋतिं । पापं । अपघ्नन्नेव । नाशयन्नेव । उद्दीप्यस्व । प्रकाशयस्व । मह्य। पश्चि । भवदाराधनोपयुक्तगवः । यज्ञाङ्गभूतप श्च । आवह । आनय। दियोदश । दशदिक्षु । जीवनं च । जीवनसाधकमन्न । चकारा- द्वस्त्रादिकंचेत्यर्थः । आनय । आसमन्तादापयेत्यर्थः। दिशो- दश । इत्यत्रविशेष्यपूर्वपदकर्मधारयः। प्रथमाविभक्तः सप्तमी- त्वेन विपरिणामः ॥ १६ ॥ । मूलम्-मानोहिँसीर्जात वेदो गामश्वं पुरुषं जगत् । अबिभ्रदग्न आगहि । श्रिया मामपरि पातय ॥ २० ॥ . । भाष्यम्--मानोहिँसिरिति ॥ हे जातवेदः । हे सर्वज्ञ । परशिव । नः । अस्माकं । त्वदाराधनाथं त्वद्भक्ताराधनार्थं च । गां । गावः । अश्वं । अश्वान् । पुरुषं । पुत्रान् । भटान् भूमि च। मानोहिंसीः । आवधीः । दापयेत्यर्थः । जात्यैकवचनं सर्वत्र। हे अग्ने । अग्निस्वरूप हेपरशिव । अबिभ्रत् । सर्वभयं- करघोररूपमधारयन् । आगहि । आयाहि । शान्तरूपतया मम साक्षात्कारो भवेदित्यर्थः । तादृशो भूत्वा किं कर्तव्यमित्य- वाह । श्रिया । श्रद्धा भक्तिरूप सम्पदा । मां अपरितापय । परिपातनमा कुरू । संयोजयेत्यर्थः। अग्नेरपि पर-शिवात्मकत्वेन दीपादि समर्पणकाले विनियोग दर्शनेऽपि । नास्माकं क्षतिः ॥ ॥ २० ॥ इति प्रथमानुवाके विंशति वाक्य भाष्यं समाप्तम् ॥
महानारायणोपनिषत् । १७ एवं घोरतनुविशिष्टपरमेश्वरप्रार्थनामुक्त्वाऽघोरतनुविशिष्ट परमेश्वरप्रार्थनं । तद्भक्तपुत्रकलत्रप्रार्थनं चाह ॥ मूलम्-तत्पुरुषस्य विद्म सहस्राक्षस्य महादेवस्य धीमहि ॥ तन्नोरुद्रः प्रचोदयात् ॥ २१ ॥ भाष्यम्-पुरुषस्येति ॥ पुरि दहराकाशे शेत इति । पूर्णाद्वा । पुरुषः। 'शम्भुराकाशमध्ये शिव एको ध्येयश्शिवंकरः सर्वंमन्यत्परिज्येति, । अथर्वणशिखायां । पुरुषोवैरुद्रस्तन्महो- नम इतिश्रुत्यन्तरे च दहरोपास्यत्व-पुरुषशब्दवाच्यत्वे शिवस्यै व प्रतिपादनादत्रपुरुषशब्दवाच्यः शिव एव । महादेवस्य । ब्रह्मविष्णुकालरुद्राधिकस्य । सहस्राक्षस्य । अनन्ताक्षस्य । पुरुषस्य । पुरुषशब्दवाच्यशिवं । कर्मणिषष्ठीवा । विभक्तिविप- रिणामं वा कार्य । विद्म । उपास्महे । धीमहि । ध्यायेम । एतेन । अन्तरुपासनं बहिरुपासनं च प्रोक्तं भवति । अधिकस्मा- दुच्यते महादेवो यस्मादुच्चार्यमाणएव । सर्वान्भावान्परित्यज्य आत्मज्ञानयोगैश्वर्य महति मीयते तस्मादुच्यते महादेव इत्यथ शिरसि । महादेवपदस्य शिवसर्वाधिकत्वरूपेण निरुक्तिरुप- देशात्पुरुषस्य । पुरुषस्वरूपस्य । सहस्राक्षस्य । महादेवस्य । महादेवं । विद्म । उपास्महे । धीमहि । ध्यायेम इतिवाऽन्वयः कार्यः ॥ नः । तत् । ध्यानं । रुद्रः । प्रचोदयात् । अविघ्नतया संपूर्ति कुर्यादित्यर्थः ॥ अत्र महादेवस्य ब्रह्मविष्ण्वादिसर्व- देवतातिशयत्वद्योतनार्थ प्रथमं तन्नमस्कारमुक्त्वा पुनर्मन्त्रान्त- रेणाह ॥ लोकेराज्ञोतथादृश्यते ॥ २१ ॥ मूलम् तत्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्रः प्रचोदयात् ॥ २२ ॥ २ श्रीशैवभाष्योपेता। भाष्यम्-तत्पुरुषायेति ॥ सचासौ पुरुषः । तत्पुरुषः। दहराकाशमध्योपास्थमानपरशिवः । तस्मै तत्पुरुषाय । महादे- वाय । महादेव मितिविभक्तिविपरिणामः । सर्वत्र कोर्यः । विद्महे । उपास्महे । धीमहि । ध्यायेम । शिष्टं स्पष्टं पूर्ववत् ॥ २२ ॥ इतिरुद्रगायत्रीवाक्यं ॥ एवं शिवस्य । अनन्यदेवता साम्यमुक्त्वा । तत्पुत्रादि प्रार्थनामाह ॥ मूलम्-तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि । तन्नो दन्तिः प्रचोदयात् ॥ २३ ॥ भाष्यम्-वक्रतुण्डायेति ॥ वकं । कुटिलं । तुण्डं । नासिकं । यस्यसः तथोक्तः । तत्पुरुषाय । तत्तुल्यपुरुषाय । तद्भक्तविषये । एवमेवयोज्यं । यथालोके राजात्वमसीत्यत्रम- न्त्रिणो राजतुल्यत्वं स्वीक्रियते तद्वदिहापि । योज्यं । वक्रतुण्डाय । वक्रनाशिकं विघ्नेश्वरं विद्महे । उपास्महे । धीमहि । ध्यायेम । अन्तरुपास्महेत्यर्थः ॥ २३ ॥ मूलम् - तत्पुरुषाय विद्महे चक्रतुण्डाय धीमहि । तन्नः नन्दिः प्रचोदयात् ॥ २४ ॥ भाष्यम्-चक्रतुण्डायेति ॥ चक्रवत् तुण्डं वदनंयस्यासौ चक्रतुण्डः । तस्मै तथोक्ताय शिवतुल्यनन्दीश्वरं । विद्महे । धीमहि ॥ २४॥ मूलम्-तत्पुरुषाय विद्महे महासेनाय धीमहि । तन्नः षण्मुखः प्रचोदयात् ॥ २५॥ भाष्यम्-तत्पुरुषायेति ॥ शिवतुल्यमहासेनं । कुमार- मित्यर्थः । शिष्टं स्पष्टम्॥ तत्पुरुषायेति ॥ तच्छब्दस्य पूर्वपरामर्श- महानारायणोपनिषत् । १९ कत्वात् । तत्पुरुषाय । कुमारकल्पाय । (सुवर्णपक्षाय । सुवर्ण- वत्पीतरूपपक्षायेत्यर्थः शिष्टं स्पष्टम् ॥ २५ ॥ मूलम्-वेदात्मकाय विद्महे हिरण्यगर्भाय धीमहि तन्नो ब्रह्मा प्रचोदयात् ॥ २६ ॥ भाष्यम्-वेदात्मनायेति ॥ वेदाः । आत्मा । स्वरूपं यस्यासौ । तथोक्तः । यद्वा । वेदाः आत्मनि बुद्धौ यस्यासौ तथोक्तः । उभयथापि सर्ववेदपारङ्गत इतिभावः । हिरण्यगर्भे- यस्यासौतथोक्तः हिरण्यरूपगर्भोयस्यासावितिवा। हिरण्यगर्भः। तस्मै ॥ अन्यत्स्पष्टम् ॥ २६ ॥ मूलम्-कात्यायनाय विद्महे कन्य कुमारि धीमहि । तन्नो दुर्गिः प्रचोदयात् ॥ २७ ॥ भाष्यम्-कात्यायनायेति ॥ गोत्रतः कात्यायन्यै । उत । कन दीप्ताविति धातुः । दीप्तिमत्यै इति वा । कुमारि । कुमार्यै । अत्र लिङ्गव्यत्ययवचनव्यत्ययौ छान्दसौ । शिष्टं स्पष्टम् ॥ दुर्गागायत्री समाख्येयं ऋक् ॥ २७ ॥ मूलम्-नारायणाय विद्महे वासुदेवाय धीमहि । तन्नो विष्णुः प्रचोदयात् ॥ २८॥ भाष्यम्-नारायणायेति ॥ स्पष्टार्थः नरायणस्य शिव- पत्नित्वेनात्र नारायणगायत्र्यां पुरुषशब्देनोपदिष्टः । कात्यायनी शत्यंशत्वेन अव्यवहिततत्साहचर्यमुक्तं । रुद्रगायत्र्यां। महा- देवशब्दः। पुरुषशब्दश्च स्पष्टमुपदिष्टत्वाच्छिवस्य विष्णुवल्ल- भत्वं सूच्यते ॥ तथास्कान्दे शंकरसंहितायां भगवता व्यासेन स्पष्टमुपदिष्टं । यथा । शिवस्य शक्तिर्विनियोग काले चतुर्विधा श्रीशैवभाष्योपेता। भूच्छिवसत्प्रसादात् । भोगे भवानी पुरुषेषु विष्णुः । क्रोधे च काली समरेचदुर्गेति ॥ प्रकृतिस्त्वं पुमान् रुद्रस्त्वयि तवीर्य- माहितं । त्वन्नाभिपङ्कजाजातः। पञ्चवक्रः पितामहः इति शैव- पुराणे तथाष्टभैरवस्तुतौ ॥ शिवकेशवसम्भूतं कलये शास्त भैरवमिति शिवरहस्यखण्डादिषु स्पष्टमुपदिष्टत्वान्नारायणस्य शिवपत्नीत्वे । न शंकावकाशः ॥ २८॥ मूलम्-सहस्रपरमादेवी शतमूला शताङ्कुरा । सर्व हरतुमे पापं दूर्वा दुस्स्वमनाशिनी ॥२९॥ भाष्यम्-शिवयोगाभ्यासकानामिन्द्रियजयसाधनत्वात्स्ना- नकाले शिरसि धारणीयत्वाञ्च प्रथमं दुर्वास्तोत्रमारभ्यते ॥ सहस्रपरमेति ॥ सहस्त्रपरमा। सहस्रपर्विका । देवी। दीप्य- माना । शतमूला शताङ्कुरा । दूर्वा । शतपविका । मे। मम । दुःस्वप्ननाशिनी । दुःस्वप्नान्नाशयतीति तथोक्ता । भूत्वा । सर्व । सर्वपापं । दुष्कृतं । हरतु । नाशयत्वित्यर्थः ॥२६॥ मूलम्-अश्वक्रान्ते रथक्रान्ते विष्णुकान्ते वसु- न्धरा । शिरसाधारिता देवि रक्षस्व मापदे पदे उद्धृतासि वराहेण कृष्णेन शतबाहुना। भाष्यम्-अश्वक्रान्तेति ॥ स्नानादौ मृद्ग्रहणमन्त्रमिदं ॥ अश्वक्रान्ते । अश्वपदमुपलक्षणं । अश्वादिसर्वजन्तुव्याप्ते । रथकान्ते । इदमुपलक्षणं । रथादिसर्वाचेतनव्याप्ते । सर्वा धिष्ठानभूतेत्यर्थः। विष्णुकान्ते । विष्ण्वादिसर्वदेवताक्रान्ते । वसुं धनं धारयतीति वसुंधरा । वसुंधरामितिविभक्तिविपरि- रणामः । त्वां। शिरसा ।मूर्ना। धारयिष्यामि। मां। पदे पदे । सर्वदा । रक्षस्व । पाहि । उद्धृतासि । कृष्णेन । कृष्णरूपेण । । ।
महानारायणोपनिषत् । २१ Arr.......--..- वराहेण । तदवतारभूतविष्णुना शतबाहुना । बहुप्रयत्नेन । उद्धृतासि । ऊवं गमितासीत्यर्थः ॥ ३० ॥ मूलम्-भूमिर्धेनुर्धरिणी लोकधारिणी । मृत्तिके इनमे पापं यन्मयादुष्कृतं कृतम् ॥ त्वया- इतेन पापेन गच्छामि परमां गतिं मृत्तिके देहिमे पुष्टिं त्वयि सर्व प्रतिष्ठितं । गन्ध- द्वारा धुराधर्षी नित्यपुष्टां करीषिणीं । ईश्वरी सर्व भूतानां त्वामिहोपह्वये श्रियम्॥ भष्यम्-भूमिधेनुरिति ॥ मृद्धारणमन्त्रमिदं । भवत्य- स्मिन्सर्वे पदार्था इति भूमिः । सर्वकामदोगधृत्वाद्धेनुः । निश्चलतया विश्वं धरतीति धरणिः । लोकधारिणी । लोकान् । स्वर्गादीन् जनान् वाधारयतीति लोकधारिणी । सर्वत्र विभक्ति- विपरिणामः कार्यः । हेमृत्तिके। एतादग्विशेषणविशिष्टमृत्तिके। मेमम । पापं । जन्मान्तरकृतं । मया। दुष्कृतं । इहजन्मनि कृतं पापकर्म च । हन । नाशय । त्वया । हतेन । पापेन । दुष्कृतेन । पापाभावेनेत्यर्थः। परमां । गतिं । महावैभवाश्रय- पुण्यगतिं । महाकैलासप्राप्तिं वा । गच्छामि । प्राप्नुवामि । हेमृत्तिके । त्वयि । सर्वं । पुष्टिसाधनवगं प्रतिष्ठितं । स्थितं । यतः । अतोमे पुष्टिं । शरीरबलं । देहि ॥ गन्धद्वारामिति ॥ गन्धो द्वारं यस्याः सा गन्धद्वारा । गन्धलक्षणायद्गन्धवत्त- स्पृथिवीति नियमात्सर्वैर्जायतेतिभावः । धुराधर्षा । पापैर्दु- राधर्षामित्यर्थः । नित्यपुष्टां । अविनश्वरबला । करीषाण्यस्यां सन्तीति करीषिणी तां। करीषिणीं । गोमयादियुक्तामित्यर्थः । सर्वभूतानां । ईश्वरौं । सर्वजीवपोषणधर्मवत्वाच्छेष्ठामि- । ।
२२ श्रीशैवभाष्योपेता। । त्यर्थः । त्वां । इह । अस्मिन्काले। उपाहये । समीपे आह्वयामि । में श्रियं । सम्पत्तिं । आवह । इतिशेषः ॥ ३०॥ मूलम्-हिरण्यशृङ्गं वरुणं प्रपद्ये तीर्थ मे देहि याचितः।यन्मया भुक्तमसाधूनां पापेभ्यश्च- प्रतिग्रहः । यन्मे मनसा वाचा कर्मणा दुष्कृतं कृतं । तन्न इन्द्रो वरुणो बृहस्पतिः सविता च पुनन्तु पुनः पुनः ॥ ३१ ॥ भाष्यम्-मृद्धारणगन्धादिलेपनविनियुक्तोऽयं मन्त्रः । अचेतनदूर्वादीनां पापनिरासपूर्वकत्वेन पुरुषार्थप्रदसामर्थ्या- भावात्किमर्थमुक्तमितिचेत् । अष्टमूर्तेः शिवस्य भूरप्येकमर्ति- त्वात् । दूर्वादीनां भूरूपत्वात् । शरीरस्तुतिनिन्दादिकं शरी- रिण एवेति नियमाञ्च तत्स्तुत्या शिवएव तुष्ट्वा तत्फलं स एव दास्यत्यतो न विरोधः ॥ हिरण्यशृङ्गमिति ॥ लिङ्गधारण- विशिष्टवरुणप्रार्थनामन्त्रोऽयं । हिरण्यं । हिरण्यात्मलिङ्ग श्रुङ्गे शिरसि यस्य तथोक्तः । हिरण्यायनमः हिरण्यलिङ्गायनमः नमो हिरण्यवाहवे हिरण्यरूपायेत्यादिषु, शिवस्य हिरण्मयत्वं हिरण्यशब्दवाच्यत्वं स्पष्टमुपदिष्टं । तं । वरुणं । प्रपद्ये । नम- स्करोमीत्यर्थः । “शिवभक्तः शिवः साक्षादितिककर्यभावतः भक्तिंकुर्यात्सदाकालं कायेन मनसा गिरेति शिवागमोक्तरीत्या"। शिवभक्तं वरुणं । शिवभावनया वेदपुरुषोऽपि सन्मानितवान् । किमुतान्येषां शिवभक्तसन्मानेति भावः । तीर्थं पादतीर्थ । जलं वा। मे। मम । देवा इति याचितो वेदपुरुष इत्यर्थः ॥श्लोकः ॥ हिरण्यं लिङ्गमाख्यातं विश्वरूपं महेश्वरं । शृङ्गे शिरसि तल्लिङ्ग धृतं वरुणमव्ययं प्रपद्ये मनसा वाचा शिवभक्तं सनातनं । तीर्थं देहीति वचसा प्रार्थितं वेदपूरुषैः । इति
महानारायणोपनिषत् ।
भगवता बादरायणेन शैवपुराणे एतन्मन्त्रमुपहितं । अत्रन
शंकावकाशः। श्रीकरभाष्ये सर्वत्र प्रसिद्धोपदेशाधिकरणे सर्व-
देवतानां लिङ्गधारणविधायकपवमानस्सुवर्जन भद्रं कर्णेभिरि-
त्यादि श्रुतिभिस्तदुपबृंहणैः सह बहुधा राद्धान्तितं । अत्र
भृगुवल्यां किंचिदुक्तं मया । अतोऽत्र विशेषतो न लिखितं ।
इन्द्रादिसर्वदेवानां लिङ्गधारणमस्तीतिभावः । यन्मयेतिमया
असाधूनां । असाधुभ्यः पापेभ्यः । दुष्टात्मभ्यः विभक्तिव्यत्ययः
छान्दसः । प्रतिग्रहः । गृहीतं यत् पदार्थ भुक्त मे मम । कर्मणा
मनसा वाचा त्रिकरणेभ्यः यदुष्कृतं कृतं नः तत्सर्वं इन्दतीति
इन्द्रः परमैश्वर्ययुक्तः । इति परमैश्वर्यं वृणोति वरानमूल्लोक इति
वरुणः वृजीवरणे बृहतां देवानां वेदमन्त्राणां वा पतिः बृहस्पतिः।
सुवति सुप्तं प्रेरयतीतिसविता षू प्रेरणे एते पुनः पुनः
सर्वदा पुनन्तु पावनं कुर्युरित्यर्थः ॥ ३१ ॥
मूलम्-सुमित्रा न आप ओषधयस्सन्तु दुर्मित्रा
स्तस्मै भूयासुर्योस्मान्दष्टि । यं च वयं
द्विष्मः॥ ३२॥
भाष्यम्-सुमित्रा इति॥नः। अस्माकं । आपः । जलानि।
ओषधयः। फलपाकान्ताः वृक्षाः। सुमित्राः सन्तु मित्रतमाः
सन्तु । किं च । यः पुरुषः । अस्मान द्वेष्टि । यं चवयं द्विष्मः ।
तस्मै पुरुषाय । दुर्मित्राः । शत्रुतरारयो भूयासुः । भवेयुः ॥
तीर्थाभिमन्त्रणमन्त्रोऽयं ॥ ३२॥
मूलम् -नमोग्नयेप्मुमते नम इन्द्राय नमो वरुणाय
नमो वारुण्यै नमोद्भयः ॥ ३३ ॥
२४ श्रीशैवभाष्योपेती। Pururuvanrav भाष्यम्-नमोग्नय इति ॥ अप्सुमते जलान्तर्वतिने अग्नये । वडवानलायनमः । इन्द्रायनमः । वरुणायनमः । वारुण्यैनमः । अद्भयः । जलान्तर्वर्तिदेवतानमस्कारमन्त्रीयं वरुणस्यपत्नी वारुणी । अगति । कुटिलं ऊवं वा गच्छ- त्यग्निः ॥ इति ॥ मूलम् --यदपां क्रूरं । यदमेध्यं यदशान्तं तवगच्छ- अत्याशनादतीपानाद्यच्च उग्रात्- प्रतिग्रहात् तन्मे वरुणो राजा पाणिना ह्यवमर्शतु ॥ ३४॥ तात् । भाष्यम्-यदपामिति ॥ अपां जलानां । क्रूरं । असहि- ष्णत्वं । अमेध्यं । अशुचित्वं । अशान्तं । अतिशैत्यमित्यमित्यर्थः । यदस्ति तत् । अवगच्छतात् । वरुणप्रसादेन तादृशदोषशान्ति- भूयादित्यर्थः । अत्याशनात् । अमिताहारात् । अतीपानात् अपरिमितजलपानात् । जात्यन्तरान्नजलग्रहणाद्वा । उग्रात् । दोषविशिष्टात् । प्रतिग्रहात् । गृहीतद्रव्यात् । यदनिष्टं जायते । मे । मम । तत् । दोषमनिष्टं वा राजा जलदानेन राज- वत्प्रजापरिपालको वरुणः। पाणिना । हस्तेन । अवमर्शतु । मार्जयतु। नाशयतीत्यर्थः॥ स्नानकाले जलगतदोषनिरासार्थोऽयं मन्त्रः ॥ ३४॥ मूलम्--सोहमपापो विरजो निर्मुक्तो मुक्तकि- ल्मिषः । नाकस्य पृष्ठमारुह्य गच्छेब्रह्म सलोकताम् ॥
महानारायणोपनिषत् ।
२५
भाष्यम्-सोहमपाप इति ॥ विरजसा निर्मुक्तः १ विरजो
निर्मुक्त रजोगुण विशिष्टमनसानिर्मुक्त इत्यर्थः । मुक्तकिल्मिषानि
यस्य सोहं मुक्तकिल्मिषः । रजोगुणत्यागेन । किल्मिषत्यागः
सम्भवतीति भावः। यतोहंउभयधर्मविशिष्टः । अतः । अपापः ।
शुद्धान्तःकरण वानित्यर्थः। तादृशोहं नाकस्य । स्वर्गस्य । पृष्ठं ।
ऊर्ध्वभागं । आरुह्य । अतिक्रम्येत्यर्थः। सचासौ लोकश्च सलोकः।
तस्य भावः। सलोकता । ब्रह्मणः सलोकता ब्रह्मलोकसलोकता।
तां । तथोक्तां । ब्रह्मसालोक्यमित्यर्थः। ब्रह्मशब्दस्य परशिवपर्याय-
वाचकत्वाच्छिवसालोक्यमिति यावत् । गच्छेत् । गच्छेयं ।
पुरुषव्यत्ययः छान्दसः । इमौ मन्त्री स्नानकाले जलसेचन-
विनियुक्तौ ।
मूलम्--इमं मे गंगे यमुने सरस्वति शुतुद्रिस्तो-
मैं सचतापरुष्णिया । असिनियाम
रुदृधे वितस्तयार्जिकिये शृणुह्यनुषो-
मया ॥ ३६॥
भाष्यम्-इमं मे इति ॥ मे मम । इमं जलं प्रति । हे गंगे।
हे यमुने । हे सरस्वति । हे शुतुद्रि वरुष्ण्या नद्यासह । हेमरु-
दृधे । असिनिया सह । हे अर्जिकीये । वितस्तया । सुषोमया
च सह । सचता । असचत । इति भवति । आगच्छत । शृणुह्य-
नुषोमयेत्यत्र आङ्। सचेत्यत्र अन्वयः । एवं । यूयमागत्य ।
स्तोम । स्तोत्रं शृणुहि । शृणुतेत्यर्थः ॥ ३६ ॥
मूलम्-ऋतं च सत्यं चाभिद्धात्तपसोध्यजायत
ततो गत्रिरजायत । ततः समुद्रो अर्णवः ।
समुद्रादर्णवादधि संवत्सरोऽजायत ॥३७॥
श्रीशैवभाष्योपेता।
*
। अधि-
भाष्यम्-अन्तर्जले निमग्नेन जप्यमघमर्षणसूक्तमाह ऋतं
चेत्यादिना ॥ अभिद्धात् । उत्पन्नात् । तपसः । ईश्वरसंकल्पात्
ऋतं । ऋगतौ । ऋच्छति गच्छति विकारमिति । ऋतमचेतनं।
प्रधानमुच्यते । सत्यं । स्वरूपान्यथाभावशून्यचेतनवर्गः।
सृष्ट्युन्मुखकाले परमेश्वरचिकीर्षावशात्प्रथमं प्रकृतिपुरुषा-
दुत्पन्नाविति भावः । अध्यजायत । उत्पन्नं ॥ तत हति ।
ततः । प्रधानस्य अज्ञानहेतुत्वाद्रात्रिशब्दोपलक्षितमहदादि-
वर्गः सम्भूत इत्यर्थः ॥ ततः। अनन्तरं । समुद्रः। वेलापरि-
वीष्टितः । अर्णवः। महोदधिः समजायत । एतेन जलराशि-
वाच्यभूतवर्गस्समजायतेतिसूच्यते । अर्णवशब्देन भूतविकार
ब्रह्माण्डं च सूच्यते। समुद्रादिति । ततऊर्च । समुद्रादर्ण-
वात् । पंचभूतानां तद्विकारब्रह्माण्डानां च
संवत्सरः । अधिपतिश्चतुर्मुखः । अजायत । बभूव । प्रजा-
पतिः संवत्सरोमहान् इति श्रुत्यन्तरे संवत्सरशब्दवाच्यत्वं च-
तुर्मुखस्य ॥ ३७ ॥
मूलम्-अहोरात्राणि विधद्विश्वस्य मिषतो वशी।
मूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्
दिवं च पृथिवीं चान्तरिक्षमधोमुवः ॥
भाष्यम्-अहोरात्राणीति ॥ मिषतः । लब्धसत्ताकस्य ।
विश्वस्य जगतः । वशी। नियन्ता । धाता । चतुर्मुखः । अहो-
रात्राणि । विदधत् सन् सृजन् सन् । हेतौशतृप्रत्ययः। तद्वि-
धानाय । यथापूर्वं । पूर्वकल्पवत् । सूर्याचन्द्रमसौ । दिवं च
पृथिवीं चान्तरिक्षं च अधः। अनन्तरं । सुवः । सुवश्शब्दो-
पलक्षितचतुर्दशलोकांश्च । अकल्पयत् । कल्पितवान् ॥ ३८॥
महानारायणोपनिषत् । । गोप्ता। मूलम्-यत्पृथिव्यां रजस्व मान्तरिचे विरोदसी । इमाँ स्तदापो वरुणः पुनात्वघमर्षणः ॥३९॥ भाष्यम्-यत्पृथिव्यामिति ॥ पृथिव्यां भूमौ । अन्तरिक्ष रोदसी । रोदस्योरित्यर्थः। सप्तमी द्विवचनस्य सुपां सुलुगिति लुक् । इह लोके । परलोके च । यत्स्वं । आत्मीयं । इमाँ इमानि पापानि । वर्तन्ते । तत् । पापं । इमाँमिति वृत्यभि- प्रायेण बहुवचनं ॥ आपः । जलानि । अघमर्षणः । सर्वजन- पापापनोदकः । वरुणः । जलाधिष्ठानदेवताच । पुनातु । पापा- पनोदनं कुर्युरित्यर्थः ॥ ३६ ॥ मूलम्--एष भतस्य भव्ये भुवनस्य एष पुण्यकृताल्लोकानेष मृत्योहिरण्मयम् ॥ द्यावा पृथिवी हिरण्मयँ संश्रितं । सुवः । सुनस्मुवसँशिशाधि ॥ ४० ॥ भाष्यम्-एष भूतस्येति ॥ एषः । वरुणः भूतस्य । भूत कालीनस्य । भविष्यतश्च । भविष्यत्कालिकस्य । भुवनस्य । जगतः । गोप्ता ।जलाधिष्ठातृतया रक्षकः । चेतनाचेतनप्रपञ्चस्य जलं दत्वारक्षतीत्यर्थः ॥ भवेत्यत्र भन्यस्य । इति विभक्तिविपरि- णामः । पुण्यकृताँल्लोकान् । पुण्यजनान् । प्रति । एषः । वरुणः । रक्षक इत्यर्थः । एषः। वरुणः । मृत्योः। हिरण्मयं । तत्स्वरूपजीवं । रक्षतीत्यर्थः । द्यावापृथिव्योः । संश्रितं । स्थितं हिरण्मयँ । हिरण्मयस्वरूपं । सुवः। स्वर्गलोकं च । गोप्ता । भूलोकेऽपि । भूमयाः स्वर्गलोकाः सन्तीति लोके प्रसिद्ध । मेरुमन्दरादय इति भावः। सन इति हे परमेश्वर ।
२८
श्रीशैवभाष्योपेता।
सत्वं । नः । अस्माकं सुवस्सँ । सुवः स्वर्गलोकः कैलासं वा।
सँ। सम्यक् । शिशाधि । बहुलं छन्दसीतिश्लुः । शाधि ।
शासनं । शापनं । प्रदर्शनमितियावत् । दर्शयेत्यर्थः। शिवभक्तः
शिवो भवेदिति स्मृत्यागमरीत्या भक्तमाहात्म्यज्ञापन-
मन्त्रमिदं ॥४०॥
मूलम्--आर्द्रज्वलति ज्योतिरहमस्मि ।
योहमस्मि ब्रह्माहमस्मि ॥
अहमेवाहं मां जुहोमि स्वाहा ॥४१॥
भाष्यम्-आर्द्रज्वलतीति ॥ आर्द्र ज्वलति यदापो
ज्योतिरूपेण हृदयपुण्डरीके ज्वलति । तज्ज्योतिरह-
मस्मि ॥ ज्योतिज्वलति । ब्रह्माण्डे सर्वत्र साधनान्तर-
निरपेक्षतया स्वयं प्रकाशमानं यज्योतिःस्वरूपब्रह्मप्रकाश
ते । तद्ब्रह्माहमस्मीत्यर्थः । योहमस्मियः। शरीरेन्द्रियमनः
प्राणवुद्धिविलक्षणस्वरूपं । अहमस्मि । सोहं । ब्रह्मास्मि ।
यथानद्यः स्यन्दमानाः समुद्रति ब्रह्मवेद ब्रह्मवभवति ॥
इत्यादि बहुश्रुतिसिद्धस्वाभाविकजीवत्वनिवृत्तिपूर्वकपुनरावृ-
त्तिरहितशिवत्वं प्राप्तवानस्मीत्यर्थः । अहं ॥ शिवभक्तिध्यान
योगपूर्वकोपासकोहं । अहमेव । जीवसाक्षितया भासमान
शिवएव । अस्मि ॥ मां । ममत्वाभिमानं । जुहोमि । अग्नि-
स्वरूपेत्वयि । होष्यामि । नाशयामीत्यर्थः । एतेन जीवब्रह्म-
णोद्वैताद्वैतात्मकमतमेव मुमुक्षूणां ग्राह्यमिति वेदपुरुषेण
राद्धान्तितं भवति ॥ ब्रह्मविदः स्वानुभूतिप्रदर्शकमन्त्र-
मिदम् ॥४१॥
महानारायणोपनिषत् । ~~urane मूलम्--अकार्यकायवकीर्णस्तेनो ब्रूणहागुरुतल्पगः। वरुणापापमघमर्षणस्तस्मात्पापात्प्रमुच्यते ४२ भाष्यम्-अकार्यकार्यवकीर्णेति ॥ अकार्यकारि । अग- म्यागमनं । अभक्ष्यभक्षणं । अवकीर्ण । अवकीर्णमित्यर्थः। साह- चार्यादत्रधर्ममात्रबोधकं । व्रतभ्रष्टत्वं । स्तनः । स्वर्णस्तेयं । ब्रूणहा । ब्रूणहत्या । गुरुतल्पगः । पापं । एतादृक्पापं । पाप- समुदायमित्यर्थद्योतनार्थमेकवचनं । अघं पापं । अर्षति । नाश- यतोति । अघमर्षणः। यतः। वरुणः । अघमर्षणः। तस्मात् । तद्धतोः । पापात् । प्रमुच्यते जन इतिशेषः । एतदनुवाकमुच्चरन् यस्तु स्नानं करोति तस्य सर्वपापानि वरुणो नाशय- तीति भावः॥४२॥ मूलम्--रजोभूमिस्त्वमां रोदयस्व प्रवदन्ति धीराः। पुनन्तुऋषयः । पुनन्तु वसवः पुनातु वरुणः पुनात्वधर्षणः॥ ४३ ॥ भाष्यम्-रजोभूमिरिति ॥ रजोभूमिस्तु । कर्मभूमिरि- यन्तु । अमां । अघमर्षणस्नातुः । मत्तोन्यं । रोदयस्व । रोद- यतु । एवंधीराः। विद्वांसः। प्रवदन्ति । ऋषयः । दूर्वासाग- गस्त्योपमन्युदधीचिवामदेवादयः । मां पुनन्तु । पवित्रं कुर्व- न्तु । वसवः। वसुगणाः । पुनन्तु । अघमर्षणः वरुणः । पुनातु । रक्षतु आदराद्विरुक्तिः॥४३ ॥ मूलम् --आक्रान्समुद्रः प्रथमे विधर्मन् जनयन्प्रजा भुवनस्य राजा। वृषा पवित्रे अधिसानो श्रीशैवभाष्योपेता। अव्ये बृहत्सोमो वावृधेनुवान इन्दुः ॥४४॥ भाष्यम्-आक्रान्समुद्र इति ।। सम्यग्द्ववति उत्पद्यते जगदस्मादितिसमुद्रः । जगत्कारणमित्यर्थः । प्रजाः । जनयन् । उत्पादयन् । भुवनस्य राजा । चराचरनियन्ता । ईश्वरः सर्वभूतानामिति श्रुतेः। आक्रान् । आक्रान्तवान् । व्यापक इत्यर्थः। कमेरिवप्रत्यये । मोनो धातोरितिनत्वेरूपं । वृषा। ब्रह्मविष्ण्वादिभक्तानां । कामानि वर्षतीति वृषा । वृष् सेचने इति धातुः । शिवगीताभारतादिषुरामकृष्णादीनां वरप्रदानत्वं बहुधा प्रपश्चितं । ग्रन्थविस्तरभयानलिखितं । सुवानः। पुरु- षार्थप्रदाता । इन्दुः। परमैश्वर्यशाली। बृहत् । ब्रह्मविष्ण्वादि- भ्योऽधिकः । सोमः। उमया सहितः । सोमः। पराशक्तियुक्तः शिवः विधर्मन् । प्राकृतधर्मशून्ये । अधिसानो। सानुवदुन्नत- स्थाने । ब्रह्मविष्णुलोकोर्ध्व भागस्थितेत्यर्थः ॥ आधारभ्रूमध्य- प्रदेशादूर्ध्वदेशस्थिते वेतिवास्यात् । अव्यये । नाशरहिते। पवित्र । परिशुद्धस्वभावमहाकैलासे । सहस्रारेवा । उतलि- गेवा । पवित्रीकरणात्पुंसां पवित्रमिति कथ्यतेतिस्मृतेः । वा- वृधे । असदृशप्रकाशतया वर्धतेत्यर्थः। प्रकाशतेतिभावः । इदं शिवानुर धानरहस्योपदेशमन्त्रम् ॥ ४४ ॥ मूलम्--जातवेदसे सुनवामसोममराति यतो निज हाति वेदः ।। सनः पर्षदतिदुर्गाणि विश्वा- नावेव सिन्धुं दुरितात्यग्निः ॥ ४५ ॥ भाष्यम्-जातवेदसे इति ॥ पापक्षयार्थं परमेश्वर घोर- तनुप्रार्थनामन्त्रमिदं । जाताः । वेदाः यस्मात्सः जातवेदाः । यस्य निश्वसितो वेदा इति श्रुतेः" । जाते जाते विद्यत इति जातवेदाः । “अहं वैश्वानरो भूत्वा प्राणिनां. देहमाश्रितः ।
महानारायणापनिषत् । । यतः। प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधमितिस्मृतः । " जाठ- राग्निरूपेण वर्तत इत्यर्थः । विदसत्तायामिति धातुः । वेदो हिरण्यमस्माज्जात इति वा । हिरण्यरेतो दुर्धर्षइति इति शिवसहस्त्रनामावल्यां । जातं शुभाशुभं कर्म वेत्तीति वा तथोक्तः । सर्वकर्मणामग्निमूलकत्वेन कर्तव्यविधानात् । जात- वेदसे । अग्नये । सोमं । पूजोपकरण । हविः। सुनवाम । होण्यामीत्यर्थः । पूजयामीतिभावः। अराति यतः यस्मात्कारणात् । वेदः । धनं । अरात् । शत्रुः । परमार्थ- विघ्नकारित्वात्ततः । निजहाति । त्यजामीत्यर्थः । पुरुष- व्यत्ययश्छान्दसः । सोमयागादिकव्रतपूर्वकत्वेन । भवद्भ- ताराधनपूर्वकत्वेन वा। सम्पादितं धनं विनियोगं करोमि । न त्वन्यथा करोमीति यावत् । सः पूर्वोक्तसर्वसाक्षिस्वरूपो- ग्निः । घोरतनुविशिष्टशिवः । पर्षत् । मम पालकः सन् । नः अतिदुर्गाणि । अतीतदुर्गसादृश्यानि । विश्वा । विश्वानि । दुरितानि । दुरितानीत्यर्थः वर्णव्यत्ययश्चान्दसः । सिन्धु समुद्रं । नावेव । उडुपमिव । तारयत्वितिशेषः। एतेन अर्जि- तसर्वधनं भगवदाराधनपूर्वकत्वेन यस्तु विनियोग करो- ति तस्यासदृशपापानि । परमेश्वरो नाशं कृत्वा चरमपुरुषार्थ दास्यतीतियावत् ॥४५॥ मूलम् --तामग्निवर्णा तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषुजुष्टां। दुर्गा देवीं शरणमहं प्रपद्ये। सुतरसि सुतरसेनमः ॥ ४६ ॥ भाष्यम्-तामग्निवर्णामिति दुःखनाशाय । दुर्गाप्रार्थना- मन्त्रोयं । अग्निवर्णा । वह्निस्वरूपां । तपसा । शिवज्ञानेन ज्वलंतीं । प्रकाशमांनां । वैरोचनीं ॥ इन्द्रनीलकान्तिमतीं।
३२ श्रीशैवभाष्योपेता। कर्मफलेषु । कर्मोपासनेषु । जुष्टां। उपास्यमानां । तां । शिव भिन्नाभिन्नशक्तिरूपां। दुर्गा देवीं ॥ दुर्गानामकदेवीं । अहं । शरणं प्रपद्य। रक्षकत्वेन स्वीकरोमीति भावः । एते मन्त्रे शिवशक्तिसामरस्यबोधक इति ध्येयं सुतरसि । अन्तर्भावितण्य- ोयं शब्दः। सम्यक् तारयसि । तरसे । ते बलाय नम इत्यर्थः ॥ ४६॥ मूलम्--अग्नत्वं पारयानव्यो अस्मान्स्वस्तिभिरति दुर्गाणि विश्वा ॥ पूश्चपृथिवी बहुला न उर्वी भवा तोकायतनयायशंयोः॥ ४७ ॥ भाष्यम्-अग्नेत्वमिति ॥ अग्न्युपस्थानमन्त्रमिदं । हे अग्ने । नव्यः । नवएवनव्यः । युवेत्यर्थः । त्वं । स्वस्तिभिः शोभनैस्स्तवसंकल्पैः । अतिदुर्गाणि । अतिक्रमितदुर्गसादृश्या- नि विश्वा । विश्वानि । पापानीतिशेषः । अस्मान् । नः । पारया । पारय । तारयेत्यर्थः । दीर्घश्चान्दसः। पापेभ्यो मा- मुत्तारयेति भावः। पूश्च । पुरी । बहुला धनधान्यसमृद्धा । पृथ्वी । भूमिः । उर्वी । पत्तनेतरारण्यभूमिश्च । सस्यपशनामु. पयोगभूतेत्यर्थः । नः अस्माकं । देहीतिशेषः । तोकाय । अप- त्याय । तनयाय । तत्सन्तानायच । शंयोः। शं सुखंयौति । मिश्रयतीति शंयोः। विच्प्रत्ययान्तः । ओकारान्तशब्दः॥ सुख प्रापकइत्यर्थः। भवा । भव । दीर्घश्छान्दसः ॥ ४७ ॥ मूलम्-विश्वानिनो दुर्गहा जातवेदःसिन्धुंन नावा दुरितादिपर्षि अग्न अत्रिवन्मनसा गृणानो- स्माकं भूत्ववितातनूनाम् ॥४८॥ --- । ।
महानारायणोपनिषत् । भाष्यम्-विश्वानिन इति ॥ हे जातवेदः । दुर्गाणि । तत्सदृशदुरितानि हन्तीति दुर्गहा । दुर्गाणि । शैलादि दुर्गम- स्थानानि । दहन्तीतिवा । दुर्गहा। तादृशस्त्व । सिन्धु। ननावा । नशब्द इवार्थे । नावेव । विश्वानि । सर्बदुरितानि । अतिपर्षि । तारयित्वा पालय । पापनाशंकृत्वा रक्षेत्यर्थः। पृ पालनरक्षणयोरितिवाधातुः । हे अग्ने । अत्रिवत् । अत्रि- महर्षिवत् । मनसा । मानसेन । गृणानः । सर्व पश्यन् । त्वमस्माकं । तनूनां । शरीराणां । भूत अविता। इति पद विभागः। अविता भूत् । रक्षको भूत् । भवेत्यर्थः । पुरुषव्यत्य- यश्छान्दसः॥४८॥ मूलम्-पृतनाजितँ सहमानमुग्रमग्निं हुवेम परमा- सधस्तात् । सनः पर्षदति दुर्गाणि विश्वा क्षामद्देवोति दुरितात्यग्निः ।। ४९ ॥ भाष्यम्-पृतनाजितमिति । पृतनाजितं । परसैन्यजितं । सहमानं । आश्रितापराधसहं । शत्रुविषये। उग्रं । अग्निं ! परमात् । सधस्थात् । उत्कृष्टस्थानात् । सहतिष्ठत्यस्मिन्निति सधस्थः । सधमाधास्थयोश्छन्दसीति सहशब्दस्य सधा- देशः । हुवेम । आह्वयेमेत्यर्थः। सनः। पर्षदिति । आश्रितापराधं क्षमत इति क्षामत्। तादृशोग्निः। अतिदुर्गाणि । विश्वानि । दुरिता- नि । अति । अतिवाह्यपर्षत् । नाशंकृत्वापालकोभवत्वित्यर्थः । मूलम्-प्रत्नोषिकमीडयो अध्वरेषु सनाच्च होतानव्यश्वससि । स्वां चाग्ने तनुवं पिप्रियस्वास्मभ्यं च सौभगमायजस्व ॥५०॥ इति नारायणोपनिषदि प्रथमानुवाकः समाप्तः ।। ३ ।
४ श्रीशैवभाष्योपता। भाष्यम्-प्रत्नोषीति ॥ अध्वरेषु । ईड्यः । जेगीयमानः। स्तुत्यइत्यर्थः ॥ आश्रितानां । कं । सुखं । प्रत्नोषि । तनोषि । विस्तारयसीत्यर्थः । सनात् । सनातनः ।।होता । दाता । नव्यः । वयोविशिष्टश्च । सत्लि । जरामरणशून्यतया मध्यमेव- सि । तिष्ठसीतिभावः। स्वां चाग्ने इति हे अग्ने । अस्महत्तेन हविषा । स्वां तनुवं स्वीयतनुं । पिप्रिय । प्रीणाय । वृद्धिंगमये त्यर्थः । अस्मभ्यं च सौभाग्यं । सर्वसम्पत्समृद्धिं । अयजस्व । प्रयच्छ । इति नारायणे प्रथमानुवाकः समाप्तः ॥ श्रीशिवाय पण्डितगुरुचरणारविन्दार्पणमस्तु । नारायणोपनिषनामक कूचिरुदे द्वितीयाद्यनुवाकः। मूलम्-भरग्नये पृथिव्यै स्वाहा । भुवो वायवेन्तरि- क्षाय स्वाहा । सुवरादित्याय दिवे स्वाहा । भूर्भुवस्सुवश्चन्द्रमसे दिग्भ्यः स्वाहा । नमो देवेभ्यो स्वधा पितृभ्यो भूर्भुवः सुवरोम् ॥ इति षष्ठ प्रश्ने द्वितीयोऽनुवाकः ॥ भाष्यम्-भूरग्नय इत्यादि मन्त्राः ब्रह्मोपासनादौ विनि- युक्ताः ॥ भूरग्नये ॥ भूरिति व्याहृतिप्रतिपाद्यन्यन्तर्वतिने शिवाय । पृथिव्यै । पृथिव्यन्तर्वतिनेशिवाय च । स्वाहा । ममकारादिसमर्पणमन्त्रं ॥ १ ॥ भुवइति व्याहृति प्रतिपाद्य वाय्वन्तर्वर्तिने । अन्तरिक्षान्तर्वतिने । शिवाय । स्वाहा ॥२॥ भूर्भुवस्सुवरिति व्याहृति प्रतिपाद्य चन्द्रान्तर्वतिने । दिगन्तर्वतिने शिवाय ॥३॥ देवेभ्यः । तदन्तर्वतिने । स्वधापितृभ्यो । तदन्तर्वर्तिने । नमः। भूः । भुवः । सुवर् । सुवइत्यर्थः ।
महानारायणोपनिषत् ।
ध्वरस्य
व्याहृतित्रितयमपि । ॐ । परशिवएवेत्यर्थः । “सर्वोवै रुद्र
इति श्रुतेः” । इति द्वितीयानुवाक भाष्यम् ॥
मूलम्-भूरन्नमग्नये पृथिव्यै स्वाहा।भुवोन्नं वायवे-
न्तरिक्षाय स्वाहा । मुवरन्नमादित्याय दिवे
स्वाहा । भूर्भुवस्सुवरन्नमोम् ।।
इति कूचिरुद्रे तृतीयानुवाकः ।।
भाष्यम्-भूरन्नमिति । अत्रभूरिति प्रतिपाद्यस्य परमे-
। अनन्तसर्वजीवानामानन्दं दत्वा रक्षतीत्यन्नं ।
लिङ्ग । “लिङ्गसुषुप्तिरिति श्रुतेः" । सुषुप्तःप्राकृतानन्दरूपत्वात्।
भूरन्नमग्नये । भूव्याहृतिप्रतिपाद्यग्न्यन्तर्वर्तिलिङ्गरूपायनम
इत्यर्थः । एवं सर्वत्र ज्ञेयः। एतदनुवाके सर्वगतस्य परशिवस्य ।
भक्तोपासनार्थ लिङ्गरूपेण परिच्छिन्नत्वविशिष्टशिवस्य च न
कञ्चिद्भेदो विद्यत इतिसूच्यते । यद्वा । अन्नमित्यनेन ।
शिवस्य भोग्यत्वं वा सूच्यत इति विशेषः ॥ तृतीयोनुवाक
भाष्यम्॥
मूलम्--भूरग्नये च पृथिव्यै च महतेच स्वाहा ।
भुवो वायवे चान्तरिक्षाय महते च स्वाहा।
मुवरादित्याय दिवे च महते च स्वाहा ।
भूर्भुवस्सुवश्चन्द्रमसेचनक्षत्रेभ्यश्चदिग्भ्यश्च ।
महते च स्वाहा नमो देवेभ्यस्स्वधा पितृभ्यो
भूर्भुवः सुवर्महरोम् ॥
इति कुचिरुद्रे चतुर्थानुवाकः ॥
श्रीशैवभाष्योपेता। भाष्यम्-चतुर्थानुवाके। परशिवस्य महत्वावच्छिन्त्वमपि सूच्यत इति विशेषः । प्रथमं सर्वान्तर्यामित्वं सामान्यतया प्रति पाद्य । परिच्छिन्नत्वमपरिच्छिन्नत्वं वा तस्येत्याशङ्कायां । भूर- न्नमित्यादिना लिङ्गरूपेण परिच्छिन्नत्वं । भूरग्नय इत्यादिना महत्व च तस्य समुचितं भवतीत्युपदिष्ट इति भावः ॥ इति चतुर्थानुवाक भाष्यं समाप्तम् ॥ ४ ॥ मूलम्--पाहिनो अग्न एनसे स्वाहा।पाहिनो विश्व- वेदसे स्वाहा॥यज्ञं पाहिविभावसोस्वाहा। सर्व पाहि शतक्रतो स्वाहा ॥ इति पञ्चमानुवाकः समाप्तः। भाष्यम्-पाहिन इति ॥ एनसे । एनसः। पापादित्यर्थः। अग्ने । हे घोरतनुविशिष्ट शिव । पाहि। रक्ष । स्वाहा। ममत्वादिकं त्वयि । जुहोमीति सूचनार्थं स्वाहापदप्रयोगः ॥ विश्व वेत्तीति विश्ववेदाः । तस्य सम्बुद्धिः। हे विश्ववेदः। विभक्तिव्यत्ययश्चान्दसः। विभावसो । विभावसुः।प्रकाशकः। तस्यसम्बुद्धिः । हे विभावसो । यज्ञं । श्रौतकर्म । पूजादिकं वा पाहि । रक्ष शतक्रतु निर्वर्तकत्वादग्नेशशतक्रतुत्वं । हे शतक्रतो सर्व पाहि ॥ इति पञ्चमानुवाकभाष्यम् ॥ मूलम्--यश्छन्दसामृषभो विश्वरूपश्छन्दोभ्यश्छ- न्दाँस्याविवेश | सतां शिक्यःप्रोवाचोपनि षदिन्द्रोज्येष्ठइन्द्रियाय ऋषिभ्यो नमोदेवे- भ्यस्स्वधापितृभ्यो भूर्भुवः सुवरोम् ॥
महानारायणोपनिषत् । । भाष्यम्-यश्छन्दसामितियः । परशिवः । छन्दसां । वेदानां । वृषभः प्रभुः। ईशानःसर्वविद्यानामिति श्रुतेः । विश्व- रूपः। चिदचित्प्रपञ्चात्मकः । सर्वोवैरुद्र इति श्रुतेः । छन्दोभ्यः। श्रुतिभ्यः पूर्वमुत्पन्नः । अहमेकः प्रथममासमिति श्रुतेः। छन्दां- सि । वेदान् । आविवेश । प्रविवेश । तद्वाच्यरूपेण तत्रस्थित इत्यर्थः । “वेदरूपापराशक्तिर्वेदार्थस्तुमहेश्वर । इत्यागमोक्त। शिक्यः । शिक्यवद्वेदानामाश्रयः । सः। परशिवेष्टलिङ्गधारी । ज्येष्ठः । देवानामग्रणीः । इन्द्रः शचीपतिः । इन्द्रियाय । इन्द्रिय- नामकाय । प्रोवाच । तां । शिवमहिमादिप्रतिपादिकां । उपनि- षदं । श्रतिः। सम्यगुवाचेत्यर्थः । यहा । इन्द्रियाय । इन्द्र शिष्याय । इन्द्रियमिन्द्रलिङ्गमित्यादिना इन्द्रसृष्टाद्यर्थे इन्द्रिय- शब्दसाधुत्वं । शिवज्ञानप्रतिबन्धकशान्त्यर्थं । देवपितृव्या- हृतीः कीर्तयति । नमोदेवेभ्यः स्वधा पितृभ्यो भूर्भुवः सुवरो- मिति षष्ठानुवाकभाष्यम् ॥ ६ ॥ मूलम्--नमो ब्रह्मणे धारणं मे अस्त्वनिराकरणं धारयिता भूयासं कर्णयोः श्रुतं । माचोयं ममामुष्य ॐ ॥ इति सप्तमोनुवाकः ॥ भाष्यम्-नमोब्रह्मण इति ॥ शिवभक्तप्रार्थनामन्त्रमिदं । ॐ । ओङ्काराय । ब्रह्मणे शिवाय । नमः । धारणं । त्वद्धारणं । धारणशब्दस्यसाकांक्षपदत्वात्तच्छब्दाध्याहारमावश्यकं । अर्था- च्छिवलिङ्गधारणमित्यर्थः । अनिराकरण । अविभज्यमान- सम्बन्धं यथा भवति तथा । अस्तु । भवत्वित्यर्थः । धारयिता। धारणविशिष्टः । भूयासं । भवेयं । अहमिति शेषः । अमुष्य । मे । शिवलिङ्गधारणविशिष्टस्य । मम । कर्णयोः श्रुतं । श्रवण- पूर्वकलिङ्गाङ्गसामरस्यमित्यर्थः । माचोढ्यौं । माच्यवत्वित्यर्थः।
श्रीशैवभाषयोपेता। तद्विस्मृतिर्नभवेदितियावत् । "ब्रह्माधिपति ब्रह्मणोधिपतिर्ब्रह्मा शिवो मे अस्तु सदाशिवोमिति नमस्ताराय नम इत्यादि श्रुतिषु" ॥ "सर्वज्ञायनमस्तुभ्यमोङ्काराय नमोनम इत्यादिनालैङ् ग्यादि पुराणेषु” । श्रोङ्कारपदवाच्यत्वं शिवस्यैवप्रतिपादनात् । नान्यार्थ वक्तुं युक्तमिति वाक्यार्थः ॥ इति सप्तमानुवाक- भाष्यंसमाप्तम् ॥ ७॥ मूलम्--ऋतं तपः सत्यं तपः श्रुतं तपः शान्तं तपो दमस्तपः समस्तपोदानं तपो यज्ञस्तपो भूर्भुव स्सब्रह्मैतदुपास्यैतत्तपः ।। अष्टमानुवाकः॥ भाष्यम्-शिवलिङ्गधारिणामपि । शिवसाक्षात्कारहेतुत्वेन तपसो आवश्यकत्वमुपपादयन् तद्भेदानाह । ऋतं तप इत्या- दिना ॥ ऋतं । मनसा परमेश्वरचिन्तनं ॥१॥ सत्यं ॥ गायत्रीपञ्चाक्षर्याद्युपासकः सन् सत्यवाक्यनिष्ठागरिष्ठत्वं ॥ २॥ श्रुतं । अर्थपूर्वकत्वेनवेदागमपुराणादिश्रवणं ॥ ३ ॥ शान्तं । परदूषणादिसहिष्णुत्वं । दमः। वैराग्यबुध्द्या बाह्यन्द्रियनिग्रहः ॥५॥ शमः । शिवयोगाभ्यासतया अन्तरिन्द्रियनिग्रहः । दानं । गुरुचरेश्वराधाराधनपूर्वकत्वेन सम्पादित द्रव्यवयं । यझं । श्रोतकर्म । पूजावा । गुरुचरेश्वरदास्यं वा स्यात् । एतत्सर्व तपश्शब्दबोधितो भवति । भूभुवस्सुवरिति । भूः भुवः सुवर् । इति व्याहृतित्रयं । ओं। ओंकाररूपं ब्रह्मशिव एवै तञ्चिन्तनं च । तपः तपो भवतीतिभावः। इति व्याहृत्युपासनं स्तुतं भवति । उपास्य । उपास्येत्यर्थः । इति अष्टमानुवाक भाष्यं समाप्तम् ॥८॥ ।
महानारायणोपनिष । मूलम्-यथा वृक्षस्य सम्पुष्पितस्य दूराद्गन्धो वा- त्येवं पुण्यस्यकर्मणो दूराद्गन्धोवाति । यथा- सिधारां कर्तेव हितोमपक्रामेत् । यावे युवे हवा विह्वदिष्यामि कर्त वदिष्यामीत्ये- वमनृतादात्मानं जुगुप्सेत् ।। इतिकूचिरुद्रे नवमानुवाकः समाप्तः । भाष्यम्-यथावृक्षम्येतिततश्च । पुण्यकर्मापि । अन्तः करणनैर्मल्यद्वारा शिवज्ञानोपयोगी भवतीतिभावः । यथा- सिधारामिति । यथावृक्षस्येतिवाक्यस्यार्थस्पष्टतयाभासमानान्न लिखितं । यथा । येन प्रकारेण । कर्तनं कर्तः। तस्मिन्नेव । कर्तेव । हितां जागरूकां । कर्तनशीलामित्यर्थः । असिधारां। खड्गधारां । अपकामेत् । अतिक्रामतीत्यर्थः । यद्युवे युवे हवा इति यदि उवा । इयुवा । इह । वा । इतिपदविभागः । उवा इवेत्येतो भीतिद्योतकौ ॥ इयुवेति छान्दसः। वाशब्दो अवधारणार्थः। कतं । कर्तनप्रायं । असत्यं । यदिवदिष्यामि । इहवा । इहैव । विह्वदिष्यामि । ह्वदिश्छान्दसो धातु शार्थः । विन ओक्ष्यामि । समूलं नाशंप्राप्नुवामितिभावः । “समूलोवा एष परिशुष्यति योनृतमभिदातीति श्रुतेः" । इत्येवं । महानर्थः सम्भवतीति चिन्तयानृतादात्मानं । जुगुप्सेत् । आत्मानं निन्दा कृत्वा ततो निवर्तयदित्यर्थः । यद्वा । कर्त । गत । पतिप्या- मि ।यिति । गर्तरूप संसारप्राप्नुवामितिचेत् । इहैवानृतात् । अनृतरूपसंसारात् । विह्वदिष्यामि । समूलं नाशं प्राप्नुवामिति । नवमानुवाकभाष्यंसमाप्तम् ॥ ।
श्रीशैवभाष्योपेता।
मूलम्-अणोरणीयान्महतो महीयानात्मा गुहायां
निहितोस्य जन्तोः । तमक्रतुं पश्यति
वीतशोकोधातुःप्रसादान्महिमानमीशम्॥१॥
भाष्यम्-ब्रह्मस्वरूपाधिष्ठानप्रदर्शकमन्त्रमिदं । अणोरणी-
यानिति ॥ अणोरणीयान् । अणुतरः । महतोमहीयान् महत्तमः ।
यथाकाशः सूक्ष्मवस्त्ववच्छिन्नतया सूक्ष्म दृश्यते । महद्वस्त्व-
वच्छिन्नतया महत्तमतया दृश्यते । तद्वत्परमेश्वरस्यापिज्ञेयं ।
"अणोरणीयानहमेवतद्वदितिश्रुत्या" कैवल्ये शिवस्य तथोपदिष्टं।
तत्परशिवः कुत्र भातेत्याकांक्षायामाह । आत्मागुहायामिति ।
आत्मा । परमात्मा । अस्यजन्तोः। जीवस्य । गुहायां । हृदय-
पुण्डरीकावच्छिन्नपरमाकाशे । निहितः। वर्ततेत्यर्थः । तत्र
भातेति भावः। अक्रतुं । मायाविलक्षणं । तं महिमानं । कर्तुम-
कर्तुमन्यथा कर्तुं समर्थ । ईशं । शिवं । यः । पश्यति । उपा-
सनया जानाति । स वीतशोकः। जननादिदुःखनिर्मुक्तो भवति ।
अत्र निरुपदेशशब्दस्य शम्भुरीशः पशुपतिश्शिवशली महे-
श्वर इत्यमरकोशेन शिवयोगरूढत्वात् । “ईशंशात्वा अमृता
भवन्ति । यदाचर्मवदाकाशमित्यारभ्य दुःखस्यान्तो भविष्य-
तीति श्वेताश्वतरे ।" ईशपदवाच्यत्वं मोक्षपदप्रदातृत्वं च
शिवस्यैव प्रतिपादनान्ननारायणपरत्वं वक्तुं शक्यमिति
वाक्यार्थः ॥ १॥
मूलम्--सप्त प्राणाः प्रभवन्ति तस्मात्सपार्चिषः
समिधः सप्तजिह्वाः । सप्त इमे लोकायेषु
चरन्ति प्राणा
गुहाशयान्निहितास्सप्त
सप्त ॥२॥
महानारायणोपनिषत् ।
४१
भाष्यम्-सप्त प्राणाः इति॥ तस्मात्परमात्मनः । पञ्चज्ञाने-
न्द्रियाणि । मनो बुद्धिश्चेति सप्तप्राणाः । प्रभवन्ति । जायन्ते ।
सप्तार्चिषः । गार्हपत्याद्याः सप्ताचिषः। काली । कराली । मनो-
जवा । धूम्रवर्णा स्फुलिङ्गिनी विश्वपदा इति सप्तजिह्वाविशिष्ट
गार्हपत्याद्यग्नयः । समिधः । समिधाधुपकरणानि । सप्त-
जिह्वाः। कालीकराल्यादिसप्तजिह्वाः । इमे । परिदृश्यमानाः ।
सप्तलोकाः । सप्तपदमुपलक्षणं । चतुर्दशभुवनानीत्यर्थः ।
प्रभवन्ति । उत्पद्यन्ते । येषु । चतुर्दश भुवनेषु । उक्ताः सप्त ।
अपिप्राणाः । गुहाशयेन । परमेश्वरेण । निहिताः सन्तः ।
सञ्चरन्ति । सप्तसप्तेतिवीप्सापुरुष भेदाभिप्रायेण ॥ २ ॥
मूलम् --अतः समुद्रा गिरयश्वसर्वे । अस्मात्स्यन्द.
न्ते सिन्धवः सर्वरूपाः। अतश्च विश्वा
ओषधयो रसाश्च येनैष
भूतस्तिष्ठत्य.
न्तरात्मा ॥३॥
भाष्यम्-अतः समुद्रा इति । अतः । अस्माच्छिवात् ।
सर्वे । समुद्रा गिरयश्च । उत्पद्यन्ते । अस्मात् । शिवात् ।
सिन्धवः । गंगायमुनादयः । सर्वरूपाः । तत्तदुचितरूपाः
सन्त्यः। स्यन्दन्ते । प्रवर्तन्ते ॥ सर्वा ओषधयोरसाश्च ।
उत्पद्यन्ते । ननुस्वस्वोपादानेभ्यः अचेतनेभ्यः । उत्पन्नतयादृश्य
मानानामेतेषां । कथं परमात्मन उत्पन्नत्वमित्याशक्याह । येनैष
इतियेन हेतुना । एषः शिवः । अन्तरात्मा भूतः। अन्तर्यामी-
सन् । तिष्ठति अतः सर्वकर्तृत्वं तस्योपपन्नमिति भावः ।
"आकाशवत्सर्वगतो निरंश इत्यादिश्रुतिषु।" "ईश्वरःसर्वभूतानां
हृद्द शेर्जुनतिष्ठतीत्यादि स्मृतिषु" तथास्पष्टमुपदिष्टम् ॥३॥
४२ श्रीशैवभाष्योपेता। मूलम्-ब्रह्मादेवानां पदवीः कवीनामृषिविप्राणां माहिषो मृगाणां श्येनोगृध्राणां स्वधितिर्व नानां सोमः पवित्रमते तिरेभन् ॥४॥ भाष्यम्-ब्रह्म देवानामिति ॥ देवानां मध्ये । ब्रह्मा । चतुर्मुखः । कवीनां शिवज्ञानविदां मध्ये । पदवीः वामदेवधी- च्यादयः विप्राणां मध्ये । ऋषिः । अगस्त्यः । मृगाणांमध्ये महिषः । महिषशब्दस्तु अवयवशक्त्यात्मकसत्ववत्वान्मातेति- व्युत्पत्या गजेपि रूढत्वाद्गज इत्यर्थः । महपूजायामितिधातुः । महिषोवास्यात् । गृध्राणां मध्ये । स्येनः। चिल्लः । चिल्लयति । शिथिलयति । परपक्षीनिति चिल्लः । चिल्ल शैथिल्य इतिधातुः । वनानां । वन दुर्गाणां । स्वधितिः । छेत्ता। कुठारमित्यर्थः । सोमः। चन्द्रवदानन्दयिता। रेभन् । दीप्यमानः । सकलं पवित्र- मत्येति । सकल पावनवस्त्वतिशय इत्यर्थः । सर्वान्तर्यामितयेदं सामानाधिकरण्यं । सर्वत्रज्ञेयं । एतेन ब्रह्मादिस्तम्बपर्यन्तं परमे- श्वरकार्यत्वमुपदिष्टम् ॥ ४ ॥ मूलम्-अजामेकां लोहितशुक्लकृष्णां बह्रीं प्रजां जनयन्ती सरूपाम्। अजोधेको जुषमाणो- नुशेते । जहत्येनां भुक्तभोगामजोऽयः॥५॥ भाष्यम्-अजामेकामिति ॥ पाशपशुपतिरूपतत्वत्रयलक्षण बोधकमन्त्रमिदम् ॥ न जायत इत्यजा । तां अजां । यज्जन्यं तदनित्यमिति व्याप्तिसत्वात्तद्भिन्नत्ववोधनार्थमत्युक्ता । एतेन प्रकृतेरपि सत्यत्वमुक्त । “सदेव सौम्येदमग्र आसीत् । ब्रह्मवा इद्मग्र आसीत् । नसा चासच्छिव एवकेवलः । एकमेवाद्वि- तीयं ब्रह्मत्यादिश्रुतिषुण सृष्टेः प्राकप्रलयात्परं च । प्रकृते रसत्व महानारायणोपनिषत् । ४ प्रतिपादनात्तस्यनाशाप्रतियोगित्वे । मुक्तजीवाभावप्रसङ्गाश्च । प्रकृति सत्यत्वमनङ्गीकरणमेवेतिचेन्न । प्रकृतेः परशिवशक्तित्वेन महाप्रलये शिवतादात्म्यरूपेणस्थितत्वात् । यदातमस्थमितिश्रुतौ। महाप्रलयेऽपि तस्याः सत्वोपदेशात् । “तमएकमेवाग्रभासीदि. तिश्रुतौ”। सृष्टौ । प्रथमतस्तमोरूपप्रकृतेविद्यमानत्वात् । ब्रह्मवा इदमन आसीदित्यादिवत् । अत्रापि पासीदितिक्रियायाः लावस्थारूपतयास्थित्युपदेशाच प्रकृतेः सत्वं समञ्जसं । मन्वादिस्मृतिषु । सृष्टेः पूर्व तमोरूपप्रकृतिसत्वं बहुधाप्रपंचित। ग्रन्थविस्तरभयादत्र नलिखितं । तस्याभिध्यानाद्योजनात्तत्व- भावाद्भूयश्चान्ते विश्वमायानिवृत्तिः । "ध्याननिर्मथनाभ्या- सात्पाशं दहति पण्डित । इत्यादिना श्वेताश्वतरेकैवल्यादिषु । शिवज्ञानिनां मायापाशविनिर्मुक्तिप्रतिपादनेनतस्य नाशत्वं सिध्यतीतिचेन्न । लोके । चोरस्यैकस्य । कर्मपरिपाकवशाद्रा- जानुग्रहाद्वा । कारागृहविमुक्तिसम्भवेपि । तस्य न यथा स्वरूपनाशः । तदितरेषां तद्विमुक्तिश्च । तद्वत्राप्यनुसन्धेयं नोचेत् । वामदेवशुकमुक्तिप्रसङ्गन सर्वजीवमुक्तिप्रसङ्ग स्यात् । तथाङ्गीकृतं चेदहं सुखी दुःखीत्यादिप्रत्यक्षानुभवविरोधः। एकां । मुख्यां । शुद्धसत्वप्रधानां वा । लोहितशुक्लकूष्णां । सत्वरजस्तमोरूपां । ब्रह्मविष्णुकालरुद्ररूपां वा । सरूपां। समानं सत्वादिगुणत्रयात्मकं ( रूपं ) स्वरूपं स्वभावमिति- भावः । यस्याः सा सरूपा जात्येकवचनं । तां तथोक्तां बहीं प्रजां । बहुप्रजामित्यर्थः । जनयन्ती उत्पादयन्तीं । " ननुलो- कामयत बहुस्यां प्रजायेयेम इत्यादिषु " परमेश्वरस्य सर्व- जगत्कारणत्वोपदेशात् । अत्र प्रकृतेर्जगत्कारणत्वोपदेशात्कथ- मुभयोः समन्वयः । कर्तृयाङ्गीकारेऽनवस्थाप्रसङ्गश्चस्यादिति चेन्मैवं । प्रधानस्य परमेश्वरशक्तित्वेन जडत्वेन च । शक्ति- कर्तृत्वबोधकश्रुतीनां तात्पर्य तदधिष्ठानभूतपरमेश्वरस्यैवेत्यु- ४४ श्रीशैवभाष्योपेता। HAPP पपद्यते । निरधिष्ठानशक्तरभावात् । लोके । श्रोत्रं शृणोति । चक्षुः । पश्यति । शस्त्रं छिनत्तीत्यादिष्वचेतनत्वात्तत्तत्कर्तृत्वं यथा पुरुषस्य जीवस्योपपद्यते तद्वत्राप्यनुसन्धेयं । एतेन । सत्यत्वजडत्वादिकं प्रधानस्य लक्षणमित्युक्तं भवति अजोय के इति एकोऽजः । जीवः । जुषमाणः । अनुभवन् सन् । अनुशेते । तिष्ठतीत्यर्थः । एतेन जीवानां संसारभोक्तृत्वमुच्यते । अन्यः । जीवाद्भिन्नः परमेश्वरः । भुक्तेन भोग्या भुक्तभोगाः । पुराकृत- वशादनुभवनीयमानाः तां । जहाति । कदापि तद्विकारं नगृह्णातीतिभावः । शिवस्य वशीकृतमायात्वात् । तथाश्वेता- श्वतरे । चतुर्थाध्याये । “अजामेकां लोहितशुक्लकृष्णामित्या- रभ्य । द्वासुपर्णो सयुजौ सखायौ । समानं वृक्षं परिषस्वजाते। तयोरन्यः पिप्पलं स्वाद्वत्यनश्नन्नन्योभिचाकशीति ॥ समाने वृक्षे पुरुषो निमग्नो निशया शोचति मुह्यमान इत्यन्तेन"जीवेश्व- रयोरेकाधिकरण्यव्यपदेशेन तत्वत्रयप्रतिपादकमेव भवति । नतुमुक्तजीवबद्धजीवभेदप्रदर्शको भवति । एतेन । मायाभा- सेन जीवेशौकरोतीति मूलानुदृकितश्रुतिप्रामाणिकत्वेन जीवे- श्वरकल्पितवादकमिथ्याद्वैतमतं निराकृतम् ॥ ५॥ मूलम्--हसरशुचिषदिसुरंतरिक्षसद्धोतावेदिषदति। थिर्दुरोणसत् । नृषहरसहतसद्योमसदब्जा- गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥ ६ ।। भाष्यम् --हँसः शुचिषदिति ॥ हँसः । सूर्यः। शुचौ । ग्रीष्मे सीदति । तपतीति शुचिषत् । ग्रीष्मौ तपन् सूर्योपि स एव । “असोयोवसर्पतेत्यादिनाशतरुद्रीये तथास्पष्टमुक्तं"। सर्व- नवसतीति वसुः वायुः । वस् निवसन इति धातुः । अन्तरिक्षः अन्तरिक्षे विद्यमानः । वायुः । सत् । स न । होता । वेद्यां महानारायणोपनिषत् । वर्तमानो ऋत्विग्विशेषः । अग्निर्वा । दुरोणं । गृहं । तत्रागत्य वर्तमानो । दुरोणशब्दवाच्यः। अतिथिः । सत् । स एव । नृषत् । मनुष्येषुविद्यमानः। नृषुतिष्ठतीति नृषत् । वरेषु देवेषु । तिष्ठतीति । वरसत् । देवतान्तर्वर्तीत्यर्थः। ऋतेतिष्ठतीति तसत् । कर्मफलभूतलोके वर्तमानः । व्योम । गगनं । तत्र तिष्ठतीति व्योमसत् । अब्जाः । जलजाइत्यर्थः । गोजाः । भूमिजाइत्यर्थः । ऋतजाः । सत्कर्म फलभूतस्वर्गादिजाः। अद्विजाः । पर्वतजाताश्च । बृहत् । बृहत्वधर्माश्रयः। व्यापक इत्यर्थः । ऋतं । सत्यभृतं । प्रकरणपठितशिवएवेत्यर्थः । सर्वोह्यष रुद्रइति श्रुतेः ॥ ६ ॥ भाष्यम्--यस्माज्जाता व परानैव किंच। वासय आविवेशा भुवनानि विश्वा प्रजापतिः प्रजया । संविदान स्त्रीणि ज्योतिषि सच तेन षोडशी ॥ ७॥ भाष्यम्-यस्माजाता इति ॥ यस्मात्परशिवात् । सर्व. पदार्थाजाताः। न परा । तद्भिन्नं किंचिदपिनास्ति । यतः । प्राक् । किंचन । किंचिदपि । वासय । नास्ति । नोत्पन्नमि- त्यर्थः । विश्वा । विश्वानि । सर्वाणीत्यर्थः । भुवनानि । भूरादिचतुर्दशलोकानि । आविवेश । अन्तर्यामितया । प्रवेशि- तवान् । प्रजापतिः ब्रह्मविष्णुकालरुद्राणां पतिः प्रजानां जीवानां वा पतिः । प्रजया । इन्द्रोपेन्द्रदिनेन्द्रादिसमूहेन संविदानः । उपा- स्यमानः । त्रीणि ज्योतींषि । सूर्यचन्द्रवन्हिरूपाणि । सचते। प्रविष्ट इत्यर्थः। सः शिवः। षोडशी । ज्ञानेन्द्रियकर्मेन्द्रिय प्राणाः। पञ्चदश । अन्तःकरणमेकं मिलित्वा षोडशी लिङ्ग शरीरं भवति ॥ तत्रापि प्रविष्टइत्यर्थः॥७॥ ।
श्रीशैवभाष्योपेता।
-
मुलम्-विधारं हवामहे वसोः कुविनाति नः ।
सवितारं न चक्षुषम् ।। ८
भाष्यम्-विधारमिति ॥ विशेषेणजगतो धर्तारं । जग-
द्धारकमित्यर्थः । सवितारं । सूर्यं । जगत्स्रष्टारं वा नृचक्षुष ।
नृणां चक्षुरिव ज्ञानप्रदं । शिवं । हवामहे । स्तुत्या आवाह्वयामः।
नः । अस्माकं । स शिवः । कुवित् । शश्वत् । वसोः । धनस्य ।
दनाति । ददात्वित्यर्थः ॥ ८ ॥
मूलम्-अद्यनो देवसवितः प्रजावत्सावीस्सौभगं ।
परा दुष्वनियंमुव ॥ ९ ॥
भाष्यम्-अद्यनोदेवेति ॥ हे देव । द्योतमान । सवितः
जगत्कारणभूत । श्राद्य । इह । प्रजावत् । प्रजासमृद्धिमत् ।
सौभगं । सौभाग्यं । नः । सावीः । असावीः । उत्पादितवानसि ।
दुष्वप्नियं । दुस्स्वप्नजनितं भयं । परासुव । पराभवंकुरुं ।
नाशयेत्यर्थः॥ अत्र सवितः इत्यत्र । सूर्यान्तर्वर्तिशिव इति
वार्थः स्यात् ॥ ६ ॥
मूलम्-विश्वानि देव सवितु दुरितानि परामुव ।
यद्भद्रं तन्म आसुव ॥ १० ॥
भाष्यम्-विश्वानिदेवेति ॥ हे देव । सवितः। सूर्यमध्य
वर्तितया भासमान शिव । विश्वानि । सर्वाणि । दुरितानि ।
पापानि । परासुव । पराभवं कुरु । नाशयेत्यर्थः। यद्भद्रं ।
यन्मङ्गलं । तत् । ममार्थे म इत्यब्ययः । म। मा इतिवार्थः
स्यात् । दीर्घ व्यत्ययश्छान्दसः आसुव । प्रापयेत्यर्थः ॥१०॥
महानारायणोपनिषत् ।
४७
पूलम्-मधुवाता ऋतायते । मधुक्षरान्तिसिन्धवः ।
माध्वीनसन्त्वोषधीः ॥११॥
भाष्यम्-मधुवाता इति । ऋतायते । नः। परमेश्वर
ध्यान विशिष्टास्मभ्यं । वाताः । मधुरक्षन्तु । आनन्ददुही
भवन्तु । सिंधवोपि । तथाभवन्तु । ओषधीः। माध्वीः । आनन्द
भूताः । सन्तु । भवन्त्वित्यर्थः ॥ ११ ॥
मूलम्-मधुनक्तमुतोषसि । मधुमत्पार्थिव रजः।
मधुद्यौरस्तु नः पिता ॥ १२ ॥
भाष्यम्-मधुनक्तमिति ॥ नक्तं। रात्रावित्यर्थः । उत ।
किंच । उपसि । प्रातः काले । सर्व पदार्थ । मधु । मधुवदाच-
रन्त्वित्यर्थः । क्षौद्रवदाचरन्त्विति भावः। पार्थिव । पृथिव्यांव-
र्तमानं । रजः। दोषविशिष्टसर्वमपि । मधुमत् । अत्यन्तानन्दवत्।
अतिमधुररसशिवद्वा । अस्तु ॥ १२ ॥
मूलम्-मधुमानो वनस्पतिर्मधुमाँ अस्तु सूर्यः ।
माध्वीवो भवन्तु नः ॥ १३ ॥
भाष्यम्-मधुमाना इति नः । अस्माकं । वनस्पतिः ।
वसन्तः । मधुमान् । आनन्दयिता । सूर्यः मित्रः । मधुमाँ ।
मधुमानित्यर्थः । अस्तु । भवतु । नः । गावः । माध्वीः । क्षीर-
प्रदानेन सर्वदा आनन्दयितारः भवन्तु ॥ १३ ॥
मूलम्-धृतं मिमिक्षे घृतमस्य । योनिघृते Vतोघृत-
मवश्य धाम । अनुष्वध मामहमादयस्व
स्वाहा कृतं वृषभ वाक्ष हव्यम् ॥ १४ ॥
४८
श्रीशैवभाष्योपेता।
भाष्यम् -घृतं मिमिक्ष इति । अत्र घृतशब्देन रस्यं ब्रह्मो-
च्यते । प्रसिद्धार्थेपिनदोषः। मिमिक्षेसेक्तुमिच्छति । मिहसे.
चन इतिहि धातुः। सर्व वस्तु स्वादुकरोत्वित्यर्थः । घृतमेव
जगतो योनिः । कारणमित्यर्थः । घृते श्रुतः । पक्वः। तत्रैवच-
लीनः । तदेवचधाम । स्थानं । हे वृषभ । अग्ने अघोरतनुवि-
शिष्टपरशिव इति यावत् । स्वाहा कृतं । हव्यं । हविः । वक्षि।
वहसि । तद्धविः । अनुष्वधं । अनुकृतास्वधायेन । अनुष्वधं ।
आवहस्व । अस्य हविषः । स्वधासादृश्यमावहस्व । शेषभूता-
जनेन हविषा मादयस्व । हर्षयेत्यर्थः ॥ १४ ॥
मूलम्-समुद्रादूमिर्मधुमां उदान तदुपाशुना सम-
मृतत्वमानत् । घृतस्य नाम गुह्यं यदस्ति-
जिहादेवानाममृतस्य नाभिः ॥ १५ ॥
भाष्यम्-समुद्रादिति ॥ घृतस्तुतिरियं । अमृतार्थं मध्य-
मात्समुद्रान्मधुमान्मूर्तिः । मधुतरङ्गः । उदानत् । उत्पन्नः । सः।
तरङ्गः । उपांशुना । उपांशुजप्येन रहस्यमन्त्रेण । सममृतत्वं ।
सम्यगमृतत्वं । आनत् । प्राप्तः। तदेव घृतमितिभावः। एवं
भूतस्य घृतस्य गुह्य। रहस्यं । नाम । प्रसिद्धिः। यदस्ति ।
तत् । देवानां जिह्वा । देवजिह्वासदशं । अमृतस्य नाभिरितिच।
अमृतस्य आधारभूतं । परमेश्वरपरतया योजनायां उपास्यमान
शिव एव घृतशब्देनोच्यतेतिज्ञेयम् ॥ १५ ॥
मूलम्-वयं नाम प्र वा मा घृतेनास्मिन्यज्ञे धार-
यामो नमोभिः । उपब्रह्म शृणवच्छस्थमानं
चतुः श्रुङ्गो वमिद्गौर एतत् ॥ १६ ॥
महानारायणोपनिषतः। ४९ भाष्यम्-वयं नामेति ॥वयं । घृतेन । घृतशब्देन । नाम । तस्य । नाम इत्यर्थः । प्रब्रवामि । वदामि । अस्मिन्यझेन नमोभिः । नमः शब्दैः । धारयामः । स्तोत्रंकुर्मः । अस्माभिः । छस्यमानं । स्तूयमानं । एतत् । घृतं । चतुःशृङ्गः । शृङ्गशब्देन ज्ञापको वेदः । चतुष्पाद्विशिष्टशिवामगा उच्यन्ते । चतुर्वे दाष्टाविंशत्यागमप्रतिपाद्य इत्यर्थः । गौरः । हिरण्मयवर्णः । ब्रह्माशिवः । नमोहिरण्यवाहवे हिरण्यवर्णाय इत्यादिषु गौरवर्णविशिष्टत्वं शिवस्यस्पष्टमुपदिष्टं । उपशृणवत् । शृणोतु । सखलु । एतत् । घृतं । अवमित् । अवमीदित्यर्थः । सर्वोत्तर- तयासृष्टवानित्यर्थः ॥ १६ ॥ मूलम्-चत्वारिशृङ्गा प्रयोस्य पादाः । द्वे शीर्षे सप्त हस्ता सो अस्य । त्रिधाबद्धो वृषभो- रोरवीति महादेवो मयाँ आविवेश ॥१७॥ भाष्यम्-चत्वारिशृङ्गा इति ॥ अस्य । शिवस्य ब्रह्मणः। चत्वारि ऋग्यजुः सामाथर्वणरूप चतुरोवेदाः । शृङ्गाः । मुख्यानि । परमेश्वरसत्वे वेदानां मुख्यप्रामाणिकत्वमित्यर्थः । "शास्त्रयोनित्वादितिसूत्रे” भगवता बादरायणेनापि । तदधिकरणे पण्डितभाष्यकारैरपि तथास्पष्टमुक्तं । उत । क्रियाचर्ययोग- ज्ञानरूप शिवागम चतुष्पादा वास्युः । त्रयः। सच्चिदानन्दाः । पशुपाशपतिज्ञानानिवा ब्रह्मविष्णुकालरुद्रावा । रजस्तमोगुणावा विराड्ढिरण्यगर्भा व्याकृतावा। पादाः । पदः । स्युः । द्वे शीर्षे । घोराघोरात्मके द्वे शिरसी । तस्यैते तनुवौ घोरान्याशिवान्येति श्रुत्युक्तरीत्या शरीरभेदेन शिरोभेदः । अग्निमुखं ब्राह्मणमुखं- वा । "मुखद्वयं महेशस्य स्यादग्निर्ब्राह्मणस्तथेतिस्कान्दोक्तेः” । "अहं भक्तस्य जिह्वाग्रोदश्नामिकमलोद्भवेतिपुराणान्तरे चं" तथा- श्रीशैवभाष्योपेता। सप्तचक्राः । स्पष्टमुक्तं । अस्य शिवस्य सप्त हस्ताः। आधारादिसहस्रान्त । महदहङ्कारपंचभूतानिवा । सप्तोर्ध्वलोकाः । अधोलोकावास्युः । वृषभः । ब्रह्माविष्ण्वादिभ्योधिकः । विश्वा- धिकोरुद्रोमहर्षिरितिश्वेताश्वतरे तथा श्रूयते । त्रिधाबद्धः । महेश्वरसदाशिवशिवरूपतयात्रिधाभूतः । इष्टप्राणभावलिङ्गा- त्मकतयावात्रिधाभूतः । सःशिवः।रोरवीति । रुशब्दइतिधातुः। व्यवहरति । नामरूपवत्करोतीत्यर्थः । तादृशो महादेवः । महादेव इत्यर्थः । शिवः। मान्स्थावरजंगमात्मकसर्वपदा. र्थान् । आविवेश । अन्तर्यामितयाप्रविवेशेत्यर्थः । भगवता बादरायणेनशिवसहस्रनामावल्यादौ । सर्वज्ञशिखामणिना भट्ट भास्करण भाभाष्ये मङ्गलश्लोके । सर्वशास्त्रधुरन्धरण अमर- मुनिना । तत्पुरुषस्यविद्ममहे महादेवस्य धीमहीतिरुद्रगायत्र्यां । वेदपुरुषेणापि । महादेव रुद्रमहेश्वरेशशिवसदाशिवशब्दानां गवादि शब्दवद्योगरूदया । पङ्कजादिशब्दवद्यौगिकरूढयाच शिवपरत्वेन राद्धान्तितत्वात् । रूढिर्योगमपहरतोतिन्यायात् । स्थानप्रकरणलिङ्गात्समन्वय इति न्यायाच्च । नारायणपरत्वं योजितुं नशक्यमत्र महादेवशब्दस्येति राद्धान्तितं ॥ नाराय- णानुवाकेस्पष्टं कुर्मः । अतोत्र संक्षेपितं ! एतन्मन्त्रस्याग्निपरत्वे अग्नः शिवशरीरत्वेन । शरीरशरीरिणोरभेदाचनास्माकं वि- रोधः प्रसज्यते ॥ १७ ॥ मूळम्-त्रिवाहितं फणिभिर्गुह्यमानं गवि देवा सोघृतमन्वविन्दन् । इन्द्रएकं सूर्य एकं । जजान वेनादेकं स्वधयानिष्टतक्षुः ॥१८॥ भाष्यम्-त्रिधाहितमिति॥त्रिधामहेश्वरसदाशिवशिवरूपेण। इष्टप्राणंभावलिङ्गात्मकेन वा । आहितं । अवतीर्ण । फणिभिः।
- महानारायणोपनिषत् । फणैः । गुह्यमानं । आच्छादितं । सर्वाभरणत्वादितिभावः। उत । फणिभिः । गायकस्वरूपब्रह्मविष्ण्वादिभिः । वेदपुरुषैर्वा । गुह्यमानं । स्तूयमानं । फणस्तुतावितिहिधातुः । गविघृतं । गोघृतं । अमृतरूपशिवं । देवाः । ब्रह्मविष्णुकालरुद्रादयः। अन्वविन्दन् । उपासितवन्तः। "हरिस्तेसाहस्रं कमलमित्यादिना" तथास्पष्टमुपदिष्टं सर्वत्र ग्रन्थविस्तरभयान्नलिखितं । तेषां- मध्ये । इन्द्रः । इन्द्रशब्दोपलक्षितब्रह्मा । एकं महेश्वरतत्वं । इष्टलिजवा । अन्यः । सूर्यशब्दोपलक्षितमहाविष्णुः एकं । प्राणलिङ्ग । सदाशिवतत्वं वा । “ततोऽव्ययात्मा स हरिः स्वहृत्पङ्कजाशायिनं । दर्शयामास देवेभ्यो मुरारिलिङ्गमैश्वर- मिति वामनपुराणे" विष्णोः प्राणलिङ्गोपासकत्वं स्पप्रमुपदिष्टं । वेनात् । सर्वव्यापकशिवतत्वात्प्रादुर्भूतं । शिवतत्वं । भाव- लिङ्गात्मकं वा । एकं । जजान । आश्रितः । उपासित इत्यर्थः । स्वधया । श्रद्धया। निष्टतक्षुः । उपासितवन्तः । सर्वव्यापक शिवतत्वात्प्रादुर्भूतान् तत्वत्रयान् । अधिकारविशेषतयोपासत इति यावत् ॥ १८॥ मूलम्-यो देवानां प्रथम पुरस्ताविश्वाधियो रुद्रो महर्षिः । हिरण्यगर्भं पश्यत जायमान सनोदेवः शुभया स्मृत्या संयुनक्तु ॥१९॥ भाष्यम्-यो देवानमिति यः। परशिवः । देवानां । प्रथमं। ब्रह्मविष्णुकालरुद्राणां सृष्टेः पूर्व । पुरस्तात् । तत्प्रलये च । स्थित इतिशेषः । सः । विश्वाधियः। विश्वाधिक इत्यर्थः। विश्वाधिष्ठानमितिवास्यात् । परात्परमिति श्रुत्युक्तरीत्या ब्रह्मनारायणादिसर्वदेवताश्रेष्ठ इति यावत् । 'वामदेवायनमः श्रेष्ठायनमः इत्युत्तरत्रश्रूयते”। रुद्रं । ब्रह्मनारायणादि जननमरणा- श्रीशैवभाष्योपेता। धिन्याधिरूपदुःखं द्रावयतिनाशयतीतिरुद्रः। महर्षिः। “नाऋषिः कुरुते काव्यमित्युक्तरीत्या" । सर्वनिगमागमादिशास्त्रजनक इत्यर्थः । “यो वैवेदाँश्च प्रहिणोति तस्मै इत्यत्र चकारात्" वेदेतर शिवागमादयो बोध्यन्ते । ईशानः सर्वविद्यानामितिश्रुतेः । "शास्त्रयोनित्वादिसूत्रात्तथा समञ्जसं । हिरण्यगर्भमिति । जायमान । जनिष्यमाणं । हिरण्यगर्भ । चतुर्मुखं । अपश्यत् । वीक्षितवान् । हिरण्यगर्भ जनयामासेत्यर्थः । अत्रहिरण्यगर्भ पदं विष्ण्वादीनामुपलक्षणं । "ध्यायोतेशानं प्रध्यायितव्यं । सर्व. मिदं ब्रह्मविष्णुरुद्रेन्द्रास्तेसम्प्रसूयन्तेत्यथर्वणशिखायां तथा श्रूयमाणत्वात् " स देवः । महेश्वरः । नः । अस्मान् । शुभया। मङ्गलप्रदया। स्मृत्यो । धिया। संयुनक्तु । संयोजयत्वित्यर्थः श्वेताश्वतरेचतुर्थाध्याये । “यो देवानां प्रभवश्वोद्भवश्वविश्वाधि- कोरुद्रो महर्षिरित्यादिना” चतुर्मुखजनकत्वं शिवस्यस्पष्टमुपदि. प्रत्वादत्रननारायणस्यावकाशः ॥ १६ ॥ मूलम्-यस्मात्परं नापरमस्ति किंचिद्यस्मान्नाणीयो न ज्यायोस्ति कश्चित् । वृक्षइवस्तब्धोदिवि तिष्ठत्येकस्तेनेदं पूर्ण पुरुषेण सर्वम् ॥ २० ॥ भाष्यम्-यस्मात्परमिति ॥ यस्मात् । परशिवात् । उत्कृष्टं अपरं । समानं । किंचित् । किंचिदपि नास्ति । श्वेताश्वतरष- प्ठाध्याये। "नतस्यकार्य करणंच विद्यते। ततत्समश्चाप्यधिकश्च दृश्यतेति" "एक एवरुद्रो न द्वितीयायतस्थेत्यथर्वशिरसि च" शिवस्य तथात्वं स्पष्टमुपदिष्ट । यस्मात् । शिवात् । अणीयः। अणुतरः । ज्यायान् । महत्तमश्च । कश्चित् । कोऽपि । न । नास्ति । एकः । एतादृशनिस्समाभ्यधिकः शिवः । दिविमहा. कैलासे दहराकाशे वा। तिष्ठति । आस्ते । तेन । पुरुषशब्दि-
महानारायणोपनिषत् ।
तशिवेन । “पुरुषो वैरुद्रस्तन्मही नमो नमः । तत्पुरुषायविद्महे-
त्यादिषु " । पुरुषशब्दस्यशिवे रुढिदृश्यते । पङ्गजादिवत् ।
सर्वमिदं । परिदृश्यमान चराचरप्रपञ्चंपूर्ण । भरितमित्यर्थः ।
श्वेताश्वतरेतृतीयाध्याये । “ यस्मात्परंनापरमस्ति किंचिदित्या-
रभ्य । तस्मात्सर्वगतश्शिव इत्यन्तं शिवस्यतथात्वं स्पष्टमुक्त-
मतोत्र नारायणपरत्वं वक्तुं न शक्यम् ॥ २० ॥
मूलम्-नकर्मणा न प्रजयाधनेन त्यागेनैकेन मृतत्व-
मानशुः॥ परेणनाकं निहितं गुहायां विभ्रा-
जतेतद्यतयो विशन्ति ॥ २१ ॥
भाष्यम्-एवं परशिवमाहात्म्यमुक्त्वा तत्साधकाः कति-
विधा इत्याकांक्षायामाह । न कर्मणेति । कर्मणा । श्रौतस्मात
कर्मानुष्ठानेन । मोक्षोनास्तीत्यर्थः। एतेन दारेषणत्यागः सूच्यते।
प्रजया पुत्रासन्तानेन । न । नास्ति । एतेन पुत्रेषणत्यागः
सूच्यते । धनेन । सुवर्णादिना । न । मोक्षो नास्ति । किन्तु ।
त्यागेन । पूर्वोक्तईषणत्रयत्यागेन । एके। केचित्सन्यासिनः।
अमृतत्वं । जरामरणवर्जितांजतेन्द्रियत्वं । अमृतस्वरूपमहेश्वर-
तत्वं वा । आनशुः । प्राप्ता इत्यर्थः । एतेन । दृढवैराग्यवन्तः
देहसिद्धिं महेश्वरतत्वं च प्राप्नुवन्तीति बोध्यते । यतयः।
शिवलिङ्गाराधनपूर्वकत्वेन मोक्षप्रयत्नस्वभावभक्ताः । गुहायां
दहरपुण्डरीके । नाकं । तदवच्छिन्नपरमाकाशे । विभक्तिव्यत्य-
यश्छान्दसः। परेण । सर्वव्यापकशिवेन । निहितं । भक्तोपास.
नार्थ परिच्छिन्नतया तत्रस्थितं । यत् । प्राणलिङ्ग विभ्राजते ।
विराजते तत्। प्राणलिङ्ग। विशन्ति । प्राप्नुवन्ति। एतेन परमेश्वर
चरणारविन्दशरणवरणलक्षणभक्तिनिष्ठागरिष्ठाः । सगुणनिगु-
णात्मकप्राणलिङ्गरूपसदाशिवतत्वं ।प्राप्नुवन्तीतिभावः ॥ २१ ॥
श्रीशैवभाष्योपेता।
मूलम्-वेदान्तविज्ञानमुनिश्चितार्थाः सन्यासयो
गाद्यतयः शुद्धसत्वाः।तेब्रह्मलोकेतु परान्त-
काले । परामृतात्परिमुच्यन्तिसर्वे ॥ २२ ॥
भाष्यम्-वेदान्तविज्ञानसुनिश्चितार्थाइति ॥ यतयः ।
मोक्षप्रयत्नशीलाः । वेदान्तविज्ञानसुनिश्चितार्थाः। उपनिष-
च्छास्त्रबोधितपशुपाशपतिज्ञानेन सम्यनिश्चितप्रयोजनाः। पा.
शुपतव्रतवन्त इत्यर्थः । सन्यासयोगात् । सता । परशिवेन
न्यस्यतीति सन्यासः। परशिवकलाविशिष्ट इत्यर्थः । लिङ्गमि.
तियावत् । वातुलागमे। “यथाकलातथाभाव इत्यारभ्य । साक-
लापरमासूक्ष्मा तत्वानां बोधिनी परा । तामाकृष्ययथान्यायं
लिङ्ग समुपवेशयेदिति” तथा स्पष्टमुक्त ॥ तस्ययोगः। संयोगः ।
धारणमित्यर्थः। शिवलिङ्गधारणमितियावत् । “अमृतस्यदेवधा-
रणो भूयासमित्यत्र बाह्यलिङ्गधारणस्य मोक्षोपयोगित्वेन बहु.
धाप्रपञ्चितत्वादत्र” संक्षिप्त । निर्मलान्तः करणविशिष्टाः सन्तः।
ते सर्वे महापाशुपतव्रतस्थाः । ब्रह्मलोकेतु । कैलासेतु । कि-
ञ्चित्कालं स्थित्वा ततः। परान्तकाले । सूक्ष्मशरीरवियोगकाले
परामृतात् । महाकैलासात् । परिमुच्यन्ति । त्यजन्ति । लिङ्ग-
शरीरभङ्गद्वारा सर्वव्यापकपरशिवतत्वं प्राप्नुवन्तीतिभावः।
उत । सति। ब्रह्मणि । मनोन्यस्यतीति सन्यासः।सचासौयोगः।
सन्यासयोगः । हठराजादयः। तस्मात् । सन्यासयोगादित्यर्थः।
एतेन । भावलिङ्गोपासनमुक्तं भवतीति सर्व सुस्थितं ॥ २२ ॥
मूलम्--दहरं विपापं परवेश्मभूतं यत्पुण्डरीकं पुर-
मध्यसँस्थं । तत्रापिदहरं गगनं विशोक
तस्मिन्यदन्तस्तदुपासितव्यम् ॥ २३ ॥
महानारायणोपनिषत् । । भाष्यम्-तत्प्राणलिङ्गोपसनभक्ताः । स्वशरीरे कुत्रतदु- पासनं कर्तव्यमित्याकांक्षायामाह । दहरमिति। दहरमल्पं । विपापं । पापरहितं । परवेश्मभूतं । परमेश्वरगृहभूतं । पुरं। शरीरं । तन्मध्येतिष्ठतीति पुरमध्यसँस्थं । शरीरान्तर्वर्तीत्यर्थः । यत्पुण्डरीकं । यद्धयकमलं । वर्तते । तत्रापि । तस्मिन्नपि । दहरं । अतिसूक्ष्मं । अङ्गुष्ठमात्रमित्यर्थः ॥ "दहरेङ्गुष्ठमात्रेतु उमाकान्तमहर्निशमिति श्रुत्यन्तरे"तथा श्रूयते। विशोकं । आ- नन्दरूपं । गगनं । चिदाकाशं । यदस्ति। तस्मिन् । चिदाकाशे । अन्तः । मध्यप्रदेशे तत् । प्राणलिङ्गं । उपासितव्यं । उपासनं कर्तव्यम् ॥ २३ ॥ मूलम्-योवेदादौस्वरःप्रोक्तोवेदान्ते च प्रतिष्ठितः। तस्यप्रकृतिलीनस्ययः परस्स महेश्वरः॥२४॥ इतिनारायणनामककूचिरुद्रे दशमानुवाकः।। भाष्यम्-तहहरोपस्यमानस्य मुख्यनाम किमित्याकां क्षायामाह । यो वेदादाविति ॥ वेदादौ । वेदपाठोपक्रमे। यः स्वरः। प्रणवः । प्रोक्तः । तदुपसंहारेच । यः । प्रतिष्ठितः। प्रकृतिः । अकारोकारमकाररूपाप्रकृतिः । तस्याः। लीनस्य । लीनंगमितब्रह्मविष्णुकालरुद्रस्य । तस्य । प्रणवस्य परः । प्रतिपाद्यमानोयः । सः। महेश्वरः। महाश्चांसौ ईश्व- रश्च महेश्वरः॥ त्रिमूर्त्यतीतपरशिव इत्यर्थः । एतेन । दहरो- पास्यमानंवस्तु । महेशशब्दरूयर्थबोधितपरशिव एवेति रा- द्धान्तितम् ॥..."...इतिदशमानुवाकभाष्यं समाप्तम् ॥ २४ ॥ मूलम्-सहस्रशीर्ष देवं विश्वाक्षं विश्वशम्भुवं । विश्वनारायणं देवमक्षरं परमं पदम् ॥ ।यः।
श्रीशैवभाष्योपेता। विश्वतः परमान्नित्यं विश्व नारायणहरिः। विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति ॥ पति विश्वस्यात्मेश्वर शाश्वतं शिवमच्युतं। नारायणं महाज्ञेयं विश्वात्मानं परायणम् ॥ नारायणपरोज्योतिरात्मा नारायणः परः। नारायणपरं ब्रह्म तत्वं नारायणः परः ।। नारायणपरोध्याता। ध्यानं नारायणः परः यच्च किंचिज्जगत्यस्मन्दृश्यते श्रूयतेपिच ॥ अन्तर्बहिश्च तत्सर्व व्याप्यनारायण स्थितः। अनन्तमव्ययं कविसमुद्रेन्तं विश्वशंभुवं पद्म- कोशे प्रतीका हृदयं चाप्यधो मुखं । अधोनि- ष्ट्या वितस्थ्यान्तेनाभ्यामुपरितिष्ठति ॥ ज्वा- लमालाकुलं भाति विश्वस्यायतन महत् । सन्तत शिलाभिस्तुलंबत्याकोशसन्निभम् ॥ तस्यान्ते सुषिर सूक्ष्म। तस्मिन् त्सर्व प्रति- ष्ठितं । तस्य मध्ये महानग्निर्विश्वार्चि वि. श्वतोमुखः । सोग्रभुग्विभजन्तिष्ठं नाहारम- जरः कविः । तिर्यगूर्ध्वमधश्शायी रश्मयस्त स्थसन्तता । सन्तापयति स्वंदेहमापादतल मस्तकं । तस्यमध्ये वह्निशिखा अणीयोर्वा व्यवस्थितः। नलितोयदमध्यस्था विद्युल्लेखेव महानारायणोपनिषत् । भास्वरा । नीवारशूकवत्तन्वी पीताभास्व- त्यणूपमा ॥ तस्या शिखायामग्रे परमात्मा व्यवस्थितः । स ब्रह्मा स शिवस्सहरिस्से- न्द्रस्सोक्षरः परमस्वराट् ॥ अपिवासन्तता षट् च ॥ इति नारायणे एकादशोनुवाकः ॥ भाष्यम्-पूर्वानुवाके दहरविद्यां विधाय तत्रोपास्यमानः परशिव एवेति शिवैकान्तिकमहेश्वरपदेन स्पष्टमुपदिश्येदानी किं तन्माहात्म्यं । तद्दहरं कुत्रवर्तते । तल्लक्षण किं । तत्रजीवः केनरूपेण विद्यते । परमात्मा कुत्रवर्तते । इन्द्रोपेन्द्रादिवद्यव- स्थिशब्द्वाच्योवा । सर्वशब्दवाच्योवेत्यादिसकलशङ्काविध्वं सनार्थ सहस्रशीर्षानुवाकमारभ्यते । ननु । एतदनुवाके । परशिवबोधक शिवशम्भ्वादिशब्दानांसत्वेपि । विष्ण्वैकान्तिक- नारायणशब्ददर्शनात् । साक्षाद्विष्णुपरत्वमेवैतदनुवाकस्येति चेदुच्यते । पण्डिताराध्यवेमनाराध्योद्भटाराध्य नीलकण्ठाचार्य- भास्करभट्टाचार्यादि श्रौतवीरशैवसिद्धान्तस्थापकपूर्वाचार्यैस्स- शैवशास्त्रज्ञानधुरंधरहरदत्ताचार्याप्पयदीक्षितादिमहद्भिश्च । पाणिनीयशास्त्ररीत्या शिवेणत्वबाधानिरसनं कृत्वा । सहस्र- शीर्षानुवाकस्य शिवपरत्वेन बहुधाराद्धान्तितं । ग्रन्थविस्तर- भयावालानांदुरवगाहत्वाच्चात्रनलिखितं । बालानां| सुखबोधो- पयोगितयात्रनारायणशब्दस्य शिवपरत्वं ब्रवीमि । ननु ॥ नारायणशब्दस्तु । सर्वकारण- सर्वव्यापकपरशिववाचको न भवति वा। उत । उमार्धाङ्ग नीलकण्ठत्वादिधर्मविशिष्ट सदाशिववाचको न भवतिवा । नाद्यः । “स्दनन्यभारं- श्रीशैवभाष्योपेता। भणशब्दादिभ्य इत्यधिकरणे"। भगवताव्यासेन । कार्य- कारणयोरनन्यत्वव्यपदेशात् । ध्यायीतेशानं प्रध्यायितव्यं । सर्वमिदं ब्रह्मविष्णुरुद्रास्ते सम्प्रसूर्यतेति अथर्वणशिखायां । शिवाड्रह्मविष्ण्वाद्युत्पत्तिश्रवणात् । तेषां शिवोपादानतया शिवात्मकत्वाच्च । नारायणादिसर्वशब्दवाच्यत्वं शिवस्य समंजसं भवति ॥ तस्मादेवैतदुपसंहारे सोवै रुद्रस्तस्मै- रुद्राय नम इत्यादिना रुद्रस्य सर्वात्मकत्वमुपदिष्टं । उत । एकोविष्णुमहद्भूतं पृथग्भूतान्यनेकश इत्यादि श्रुतिस्मृतिषु” । शिवातिरिक्तब्रह्मविष्ण्वादीनां भूतत्वोपदेशात् । क्षित्यादि जीवान्तरूपाष्टशरीरकत्वेन शिवस्य स्थित्युपदेशात् । मूर्ति- रहिर्बुन्यो महाकालो महानट इत्यमरकोशेन । शिवसहस्रना- मावल्यादौ भगवता बादरायणेन च । अष्टमूर्तिपदस्य शिवै. कान्तिकत्वेन निर्देशात् । "शरीरवाचकशब्दाः शरीरिणिप्रवर्तन्ते तिमीमांसानियमात्" । उपक्रमोपसंहारमध्यपरामर्शेषु । ईश: रुद्रमहेश्वराम्बिकापत्युमापति पशुपत्याद्यनितरसाधारण-शिव- लिङ्गवाहुल्यदर्शनात् । “विशेषलिङ्गानुरोधेन सामान्यलिङ्ग- स्य समन्वयमिति मीमांसान्यायात् " । कैवल्ये । “उमासहायं परमेश्वरं प्रभु त्रिलोचनं नीलकण्ठं । प्रशान्तं । ध्यात्वा मुनि- गच्छति भूतयोनि समस्तसाक्षिं तमसः परस्तात् । स ब्रह्मा- सशिवस्सेन्द्रः सोक्षरः परमः स्वराट् । स एव विष्णुः सप्राणः सकालोग्निस्सचन्द्रमाः । सएव सर्वं यद्भूतं यच्च भव्यं सना. तनं । ध्यात्वा तन्मृत्युमत्येतिनान्यः पन्था विमुक्तयेत्यादिना, शिवस्य परब्रह्मणः । सर्वमूर्तित्वसर्वशब्दवाच्यत्वर वस्था- पनत्वाच्च । नद्वितीयः ॥ नविद्यते राः। धनं । यस्यालौ अराः। निर्धनः । सनभवतीति नाराः । धनाधिपः । कुवेरइत्यर्थः । तं सख्येन अणति सल्लसतीति नारायणः ॥ १॥ न । राः।
महानारायणोपनिषत् ।
अराः । धनाभावः । अणः । सुखाभावः । यद्भक्तेस्तौन ।
नस्यातां । सनारायणः । रायं वेदरूपश्रियं । अणति । आख्याति
सः । रायणः सनभवतीति अरायणः। अरायणो नभवतीति
नारायणः । योवै वेदाँश्च प्रहिणोति तस्मैइति श्रुत्युक्तरीत्या
वेदप्रवक्तेत्यर्थः ॥ अलमनेन ॥ पूर्वाचार्यश्लोकान्युच्यन्ते ॥
अराः प्राह धनाभावं । सुखाभावं वदत्यणः । नतौस्यातां
यस्यभक्तेः । सवैनारायणः शिवः ॥ १॥ अरास्तुनिर्धनो ज्ञेयो
नाराः किल धनाधिपः । तमणन् सल्लपन् सख्यात्सवैना-
रायणः शिवः ॥२॥ रायंश्रियंवेदरूपां योणत्याख्यातिरा-
यणः । अरायणो योन भवेत्सवै नारायणः शिवः ॥ ३ ॥
नारैशब्दोदित श्रीमान् । स्यादकाराभिदोहरिः । तस्यनोनि-
वृतिर्यस्मिन् । सवैनारायणः शिवः ॥ ४ ॥ नारयणः
सदास्वर्णयुक्तो मेरुस्स्यात्कार्मुकायुधः । योस्याणष्टं क्रुतिकर-
स्सवै नारायणः शिवः ॥ ५॥ अयश्शुभावहविधिर्णः सुखं च
द्वयं यतः । नारस्यनरवृन्दस्य स वै नारायणः शिवः ॥ ६॥
नरोविष्णुस्तदीयोसावायोलाभः शरादिभिः ॥ तेनणः शर्म-
यस्येति सवैनारायणः शिवः॥ ७॥ नरोर्जुनस्तत्सम्बन्धियस्त्व-
योभक्तिनिश्चयः । ततोणः शर्मयस्येति सबैनारायणः शिवः
॥ ८ ॥ नारान्वेदानयन्तेये नारायास्ते बुधोत्तमाः । णस्तेषां
निर्वृतिर्यस्मात्सवै नारायणः शिवः ॥ ॥ नरायौ रामकृष्ण ।
स्तां । नराये ते स्वयं भुवि । णस्तदीयं सुखं यस्मात्सवै नारा-
यणः शिवः ॥ १० ॥ नारं नरकपालं स्यात् तस्यायः प्राप्तिरु-
च्यते । सएव यस्सणोभूषासवै नारायणः शिवः ॥ ११ ॥ नारो
भवतिभूलोकस्तस्य यस्मिन्नयं स्थितिः । सशेषोयस्यणोभूषासवै
नारायणः शिवः ॥ १२॥ आपोनराइतिव्यक्तं । ततोयस्याय
उद्भवः । स चन्द्रो यस्यणोभूषासवै नारायणः शिवः ॥ १३ ॥
श्रीशैवभाष्योपेता। नाराविदोषा गंगास्यादयस्तस्याः परिग्रहः । ततोणोनिवृति- यस्य । सवै नारायणः शिवः ॥ १४ ॥ अरोनिरग्नि रस्तु- स्यादविच्छिन्नवह्निभृत् । यस्यायणो यज्ञसौख्यं । सवै नारा- यणः शिवः ॥ १५ ॥ इःपुष्पधन्वा तस्याभूदणः खल्वसुखयतः। अणन्तिरातिनोयश्च सवै नारायणः शिवः ॥ इत्योदिनायौगि- करूच्या नारायणशध्दस्य सदाशिवे साधितत्वाच्च । इत्यलम- तिविस्तरेण प्रकृतमनुसरामः । एतेन नारायणशब्दस्यणत्व बाधाभावतया शिवे समन्वयसम्भवात्सहस्रशीर्षानुवाकस्य शि- वपरत्वं समंजसं सम्भवतीति राद्धान्तितं सहस्त्रशीर्षमिति ॥ सहस्रशब्दोत्र अनन्तवाचको भवति । सहस्त्रशीर्ष । सर्वानन- शिरोग्रीवइत्युक्तरीत्यानन्तशीर्षवानित्यर्थः । दिव्यतीतिदेवः । प्रकाशकः । दिविक्रीडादौ । तस्यभासा सर्वमिदं विभातीति श्रुत्युक्तरीत्या सर्वपदार्थप्रकाशक इत्यर्थः। विश्वाक्षं । अनन्ता- क्षं । विश्वशम्भुवं । विश्वस्य। विष्ण्वादिचेतनाचेतनप्रपञ्चस्य । शं सुखं यस्माद्भवतिसः। तथोक्तः । सर्वत्रवचनव्यत्ययश्छा- न्दसः। शिवएकोध्येयःशिवंकरस्सर्वमन्यत्परित्यज्येत्यथर्वशि- रोपनिषद्रीत्या शिवएवसर्वैस्सर्व विद्यासपास्य इत्यर्थः । विश्वं नारायणं देवं । विश्वं । प्रपञ्च । नारायणं । तच्छब्दवाच्यः । देवं । महादेवं । तदुपादानत्वेन तत्स्वरूपत्वं युक्त भवति । अक्षरं । नाशरहितं । अतएव लोके शिवस्यैव मृत्युञ्जय इति- प्रसिद्धिः । परमं प्रभु। विष्ण्वादि सर्वजोवनियामक इत्यर्थः । "ईश्वरःसर्वभूतानामितिश्रुतेः”। विश्वतः परमं । प्रपञ्चादुत्कृष्टः। अधिष्ठानत्वात्ततोधिक परिमाणवानित्यर्थः । नित्यं । कालि- कावाध्यरूप इत्यर्थः । “सत्यज्ञानमनन्तंब्रह्मेतिश्रुतेः" । हरिः । विष्ण्वादीन् हरतीति हरिः। शिवः। “सर्वभूतदमनायनम इति श्रुतेः”। विश्वं । प्रपञ्च । विष्ण्वादिचेतनाचेतनप्रपञ्चमितिया- महानारायणोपनिषत् । वत् । नारायण । नारायणशब्दवाच्यः । हरिशब्दवाच्यशिव- एव नारायणशब्दवाच्य इत्यर्थः । नारायण । हरिं । विष्णुसं- हारकशिवमिति वास्यात् । " हरि हरतमितिश्रुतेः” । यद्वा- अष्टमूर्त्यात्मकत्वेनशिवस्य । सर्वं शिवशरीरत्वेन । शरीरशरी- रिणोरभेदाच्च । ब्रह्मविष्ण्वादिचेतनाचेतनप्रपञ्च सर्व शिव एवेतिभावः ॥ ननुकथं पुरुषशब्दवाच्यस्य शिवस्य विश्वात्म- कत्वमित्याशङ्कायामाह । पुरुषएवेदँ सर्व तद्विश्वमुपजीवति । इदै । परिदृश्यमानं । सर्वं । अचेतनं । तत् । चेतनविष्ण्वा- दिकं । यतः। शिवात् । उपजीवति । रक्ष्यते । अतः सर्व स एवेत्यर्थः । पूर्व परशिवोपादानत्वेन । परशिवशरीरत्वेन विश्व तस्तादात्म्यमुक्तं । इदानींतुपरशिवपालकत्वेन तादात्म्यमुक्त- मतोनपुनरुक्तिरितिज्ञेयं पुरुषो वैरुद्रस्तन्महोनमोनम इत्यादिश्रु- तिशतेषु शिवस्य पुरुषश्ब्दवाच्यत्वोपदेशादतोन शङ्कावकाशः। पतिविश्वस्यान्मेश्वर शाश्वतं शिवमच्युतं । विश्वस्य । अचे- तनप्रपञ्चस्य । पति प्रभु । आत्मा । विष्ण्वादिजीवसमूहः । तस्य ईश्वर । अन्तर्यामितयास्थित्वा बुद्धिप्रेरको भवतीत्यर्थः । प्रभुवनियामकोवाभवतु । “य आत्मनितिष्ठन् इत्यादिश्रु तिषु॥ ईश्वरः सर्वभूतानां हृद्देशेर्जुन तिष्ठतीत्यादिस्मृतिषु च तथा- श्रूयते । भोषास्माद्वातः पवतेत्यादिनो परमेश्वराक्षापालकत्वं च युक्त भवति । शाश्वतं । नाशाप्रतियोगी । शिवं । शिव- शब्दवाच्यः । अच्युतं । अच्युतशरीरयुक्त इत्यर्थः । अत्रशा- श्वताच्युतशब्दाभ्यां परमेश्वरमूर्तिद्वयस्यापि नित्यत्वं सूच्यते अतोन पौनरुक्तिः । स्थिरेभिरङ्गः पुरुरूपउग्र इतिश्रुत्यन्तरे परमेश्वरसाकारस्यापि नित्यत्वोपदेशादितियावत् । स्वेच्छा- धीनविग्रहत्वात्तस्य परिणामित्वादिदोषप्रसङ्गो न प्रसज्यतेति राद्धान्तितः। तथाभाष्ये पण्डितभगवत्पादाराध्यैः "लोकवत्तुली- श्रीशवभाष्योपेता। लाकैवल्यमित्यधिकरणे" बहुधाराद्धान्तितोत्रसंक्षिप्तं । नारायणं महाक्षेयं । नारायणं । नारायणशब्दवाच्यशिवः। महाज्ञेयं । महद्भिः शिवभक्ताग्रगण्यविष्ण्वादिभिः । शेयं । उपासनयाज्ञेय इत्यर्थः । विश्वात्मानं । परायणं । विष्ण्वादिचेतनाचेतनप्रप- चान्तर्यामितया प्रपश्चात्मक इत्यर्थः। "तत्सृष्ट्वा तदेवानुप्रावि- शत्" । अनेन जीवेनात्मनानु प्रविश्य नामरूपे व्याकरवाणि । य आत्मनितिष्ठन्नित्यादि श्रुतिसत्वात् । सर्वान्तर्यामितया सर्या- त्मकत्वं युक्तं । परं च तत् अयणं च । परायणं । विष्ण्वा- दीनामपि प्राप्यस्थानमित्यर्थः । नारायणपरब्रह्म । नारायण- शब्दवाच्यशिवएववृहत्वादिधर्माश्रयब्रह्म ॥ तत्वं नारायणः परः। परः त्रिमूर्त्यतीतः। नारायणः। नारायणशब्दवाच्यः शिवः। तत्वं । सर्वव्यापकशिवतत्वं । एतेनद्वेवा ब्रह्मणोरूपेति वृहदार रायक तृतीय ब्राह्मचतुर्थानुवाकश्रुत्युक्तरीत्या। परशिवस्य मूर्ति- द्वयत्वमुक्तं भवति । नारायणपरंज्योतिः । नारायण शब्दवा- च्यशिवः । ज्योतिः । हृत्पुण्डरीकावच्छिन्नाकाशभासमानज्यो- तिस्वरूपप्राणलिङ्गमित्यर्थः । आत्मानारायणः । परः नारा- यणः । तच्छब्दवाच्यशिवः । परः । त्रिमूर्त्यतीतः । आत्मा। शब्दवाच्यः । परमात्मेत्यर्थः । “प्रपंचोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यतेस आत्मा सविज्ञेयः इति माण्डूक्ये तथा श्रूयते ।" नारायणपरोध्याता । नारायण परः । नारायण शब्दवाच्यः। ध्याता । विष्ण्वादि महाभक्तैयातुंयोग्य इत्यर्थः । ध्यानं नारायणः परः । ध्यानं । ध्यानगम्यं । नारायणः । नारायण- शब्दवाच्य शिवः । परः । विष्ण्वादिभ्यो अधिकइत्यर्थः। "नतत्समश्चाप्यधिकश्च दृश्यतेतिश्रुतेः" । यच्चकिंचिजगत्यस्मि- न्दृश्यतेश्रूयते पिवा । अस्मिन्जगति॥ यच्च किंचित् । यत्किंचित्। दृश्यते ! श्रूयते । दृश्यमानं श्रूयमाणं वा यत्पदार्थ वर्तते ।
महानारायणोपनिषत् । तत्सर्वं । अन्तर्बहिश्च । बाह्याभ्यान्तरेषु । व्याप्य । नारायणा स्थितः । नारायणशब्दवाच्यशिवास्थितइत्यर्थः। आकाशवत्सर्व गतश्चपूर्ण इति श्रुत्युक्तरीत्या सर्वाधिष्ठानतया सर्वान्तर्यामि- तयाच सर्वपदार्थबाह्याभ्यन्तरेषु व्याप्य तिष्टतीति भावः । अनन्तमव्ययं कवि समुद्रन्तं विश्वशम्भुवं । विश्वस्य । विष्ण्वा- दीनां शं सुखं यस्माद्भवति सः । विश्वशम्भुः । अत्रनारायण शब्दस्य शिवपरत्व सूचनार्थं नारायणशब्दोपसंहारे शिवैकान्त- शम्भुशब्द्धो निर्दिष्ट इति रहस्यं ज्ञेयं । अनन्तं देशकृतपरिच्छेद शून्यइत्यर्थः। अव्ययं । कालकृतपरिच्छेदशून्य इत्यर्थः। कवि । नादस्वरूप इत्यर्थः । विश्वात्मतया वस्तुकृतपरिच्छेदशून्यत्वं बहुधा प्रपंचितं ॥-॥ समुद्रन्तं । समुद्र अन्तं । स्थितिर्यस्या- सौ । समुद्रन्तं । “यो देवोग्नौ योप्सु योविश्वं भुवना विवेश।" इतिद्वितीयाध्याये । “सूक्ष्मातिसूक्ष्मं सलिलस्यमध्ये विश्वस्य स्रष्टारमनेकरूपं । विश्वस्यैकं परिवेष्टितारं ज्ञात्वा शिवं शान्त मत्यन्तमेतीतिश्वेताश्वतरचतुर्थाध्याये” परब्रह्मणः जलाधिवास- त्वं स्पष्टमुक्त। अन्तः समाप्तौ स्थाने च निर्णयेभ्यन्तरेपिचेति निघण्टुः । उत । समुद्र । अन्ते । शरीरान्ते । यस्यासौ। समुद्रान्तः । रूपन्यत्यपश्चान्दसः । इति कैश्चिदुक्तं तथापि नास्माकं विरोधः। शिवस्याकाशाधिष्ठानत्ववत्समुद्राधिष्ठान- त्वमपि समंजसमेव भवति । एवं शिवस्य नारायणादि शब्द- वाच्यत्वं विश्वात्मकत्वादिमाहात्म्यमुपदिश्य । तदुपासनास्थान- भूतहृदयपुण्डरीक तल्लक्षणतदधिष्ठानानिदर्शयति । पद्मकोश- प्रतीका हृदयं चाप्यधोमुखमित्यादिना ॥ पद्मकोशप्रतीका । तामरमुकुलतुल्यं । अधोमुखं ॥ अधोमुखतया विद्यमानं । अधो- निष्ठ्याः निष्ठयाः। ग्रीवाबन्धनात् । अधः । अधोभागे। नाभ्यामु परि । नाभेरुपरीत्यर्थः। यद्वयं तिष्ठति। तत् । दहरपुण्डरी- ।
६४ श्रीशैवभाष्योपेता। कमित्युच्यते । अनाहतचक्रमेव । दहरपुण्डरीकमित्यर्थः । तत्कथ वर्ततेत्याकांक्षायामाह ॥ ज्वालमालाकुलंभाति । तेजोरूपतयः भासते । विश्वस्य । सर्वप्रपंचस्य । महत् । उत्कृष्टं । आयतनं । स्थानमित्यर्थः। योगिनां योगदष्ट्या तत्रानन्तकोटिब्रह्माण्डानि दृश्यन्तेतिभावः । सतत शिलाभिस्तु । लम्बत्याकोशसन्निभं । तत् । हृदयं आकोशसन्निभं । ईषद्विकसितपद्ममुकुलतुल्यं । सिराभिः। रलयोरभेदरीत्या । शिलाभिरित्यत्र सिराभिरिति- भावः । नाडीभिः । नाडीतुधमनी सिरेत्यमरकोशात् । सन्ततं । सदा । व्याप्तंसत् । लम्बति । नाडीभिर्व्याप्यस्थितमित्यर्थः। तस्यान्ते मुषिर सूक्ष्म तस्य हृदयपुण्डरीकस्य । अन्ते । मध्य प्रदेशे । सूक्ष्मं मुषिएँ । सूक्ष्मरन्ध्र वर्तते । तस्मिन् । हृदयपुण्डरी- कावच्छिन्नरन्ध्र । सर्व प्रतिष्ठितं । शिवयोगिभिस्तत्रसर्व दृश्य- तेतिभावः ॥ तस्यमध्ये । महानग्निर्विश्वाचिर्विश्वतोमुखः । तस्य । हृदयपुण्डरीकस्यमध्ये । मध्यभागे । विश्वतोचिः। विश्वतो अर्चीषियस्यासौ । तथोक्तः । विश्वतोज्वाल इत्यर्थः । विश्वतोमुखः । सर्वतोमुख इत्यर्थः महानग्निः । ज्योतिस्वरूप- त्वेन प्राणलिङ्गात्मकपरशिवः । वर्ततेत्यर्थः । सोग्रभुग्विभज- तिष्ठन्नाहारमजरः कविः । सः । प्राणलिङ्गः। अजरः । स्वयं प्रकाशमानः सन् । कविः। नादरूपः। आहारं । अशितमन्ना- दिकं । अग्रभुक्सन् । प्रथम प्राणाहुत्यात्मना भुन्जानः सन् । तिष्ठति । हृदयपुण्डरीकस्थितप्राणलिङ्गभुक्तसर्वपदार्थं स्वयं भक्षितः सन् ततः जाठराग्नेर्दास्यतिइतिभावः । सन्तता । सन्ततं । तस्यरश्मयः । प्राण लिङ्गकान्तयः । तिर्यगूलमधः तिर्यगूर्वाधोभागेषु । शायी । प्रकृष्टं संचरन् । स्वंदेहं । स्वकी- यस्थलदेहं । आपादतलमस्तकं । पादादिशिरः पर्यन्तं । सन्ता- पयति । सम्यक्तापयति ॥ देहगतोमा तदधीनत्वादितिभावः ।
महानारायणोपनिषत् । तस्यमध्ये । हृदयपुण्डरीकमध्ये । अणीयो; अणीयसोमनसः । ऊर्ध्वा । ऊर्ध्व भागे। वह्निशिखा तादृशःसन् व्यवस्थितः । मनोग्रेजीवस्तिष्ठतीत्यर्थः ॥ एवं सामान्यतोजीवस्वरूपमुक्त्वा । विशेषतया दर्शयति । नीलतोयदमध्यस्थेत्यादिना वा ॥ नीलतोयदमध्ये नीलतोयद- तुल्यमूलप्रकृतिमध्येतिष्ठतीति नीलतोयदमध्यस्था । विद्युल्लेखा सौदामिनी रेखा । सैव । भास्वरा । प्रकाशमाना। नीवारशूक- वत् । नीवारकण्टकवत् । शालिकणिशाग्रभागस्थितकण्टकवदि- त्यर्थः । तन्वी । सूक्ष्मा । पीता। गौरवर्णा अणूपमा। अति- सूक्ष्मरूपा। सती। भास्वती। भासते । तस्याः शिखाया- मध्ये सर्वत्र लिङ्गन्यत्ययश्छान्दसः॥ तस्याः तस्य जीवस्येत्यर्थः। शिखाया मध्ये । कलामध्ये । जीवकलामध्येत्यर्थः। परमात्मा । विष्ण्वादिजीवनियामकशिवः । व्यवस्थितः । सम्यग्भासते- त्यर्थः। एवं जीवेश्वरस्वरूपनिरूपणं कृत्वा । जीवान्तस्थित- महेश्वरस्य नारायणादिसर्वरूपत्वं सर्वशब्दवाच्यत्वमुपपाद- यति । स ब्रह्मा स शिवस्सहरिस्सेन्द्र इत्यादिना ॥ ब्रह्मा । चतु- मुंखः। शिवः । कालरुद्रः । हरिः। आदिविष्णुः । इन्द्रः । देवेन्द्रः। अक्षरः । मृत्युञ्जयः । परमः । त्रिमूर्त्यतीतः । स्वराट् । विराडादयः । एतेन शिवस्य ब्रह्मणः । सर्वदेवतारूपत्वेन सर्व शब्दवाच्यत्वं तस्यैवसिध्यतीति राद्धान्तितं ॥ सर्वोवैरुद्रस्तस्मै रुद्राय नमोस्त्विति एतदुपसंहारोपितथैवराद्धान्तितत्वादत्रनकिंचि दपिवैकुठस्यावकाशः ॥ १॥ ............... ..केचित्तु........ रेवणासिद्धमरुलसिद्धैकोरामसिद्धपण्डिताराध्यादयः॥सहस्रशी- पं देवमित्यादिपरशिवधर्माणां नारायणत्मकविष्णोःप्रतिपादनेपि। एतदनुवाकस्यशिवपरत्वेन किंचिदपिदोषः।"शिवस्यशक्तिर्विनि- योगकाले चतुर्विधाभूच्छिवसत्प्रसादात्॥भोगेभवानी पुरुषेषुविष्णु: ५ श्रीशैवभाष्योपेता। ... क्रोधेच काली समरे च दुर्गेतिसामश्रुतौ”। “प्रकृतिस्त्वं पुमान्नुद्र- स्त्वयि तद्वीर्यमाहतं । त्वन्नाभिपङ्कजाज़ातः पञ्चवक्रः पितामहः इतिस्कान्द" ...वासुदेवः पराप्रकृतिगीतामामपि शिवस्य शक्तत्वेन । विष्णोः शक्तित्वेन स्पष्टमुपदिष्टत्वात् । “शक्तिशक्ति- मतोरभेदनियमात् । शक्तधर्माः शक्तौसम्भवन्तीतिन्यायात्" । 'शिवाय विष्णुरूपाय शिवरूपाय विष्णवेतिस्मृतौ'। 'नमोरुद्राय विष्णवे मृत्युमपाहीति श्रुतौ' । शक्तशक्तित्वेन तयोरभेदब्यपदे- शाच । इति वदन्ति ॥..... अन्येउद्भटाराध्य- वेमनाराध्यविश्वाराध्यादयस्तु । अस्यामुपनिषदि दहरोपासना विषये । नारायणस्य उपासकत्वं । शिवस्योपास्यत्वनिर्णये सहस्रशीर्षानुवाकगतनारायणपरंब्रह्मतत्वं नारायणः परइत्यादि- वचनानि विरुध्येरन्नितिमाशतिष्ठाः वैदिकभ्रष्टपांचारात्रादयः । तद्भावभावनापन्नस्य नारायणस्यानितरसाधारणहृदयान्तर्वति ज्योतिर्लिङ्गानुसन्धानसामर्थ्यलिङ्गेन । मुक्तः शिवसमोभवेदिति न्यायाच्च । तथास्ततिरितियोजितुं शक्यामित्यूचुः ॥ लोके राजात्वमसीति मन्त्रिणप्रत्युक्तमपि । यथा राजकल्पत्वं प्रतीयते। तद्वन्नारायणस्यापिशिवकल्पत्वं स्यादिति शाम्भवानन्दादय- ऊचुः। पुनः केचिन्नीलकण्ठाचार्य भास्करभट्टाचार्यहरदत्ता- चार्यादयस्तु । सहस्रशीर्षत्वादिधर्मविशिष्टशिवः कीदृशः विश्वं । नारायणं देव इति ॥ विश्वं । जीवात्मकं । नारायणं । वासुदेवं । देवः। प्रकाशकः । यथा देवदत्तोमार्ग गच्छतीत्यादौ मागेंगच्छतीत्यर्थो बोध्यते । तद्वदत्रापि । नारायणे प्रकाशमान इत्यर्थः सूच्यते त्यूचुः। बाणत्वंवृषभत्वमर्चकवपुर्भार्यात्वमार्यापतेः। क्षोणित्वं सखिता मृदङ्गवहता चेत्यादिरूपं दधावित्यादिषु शिवस्य । अन्तरङ्गभक्तत्वान्नारायणे विशेषतया प्रकाशत इति भावः । सूर्यकान्ते सूर्यकिरणवदितियावत् ॥ यद्वा । विश्वं ।
महानारायणोपनिषत् । अचेतनप्रपंचं । नारायणं । नारायणशब्दोपलक्षितचेतनवर्ग। देवं । प्रकाशकः । अत्र समुच्चयबोधकचवर्णलोपश्चान्दस इति- झेयं । नारायण हरिमित्य ॥ नारायणं हरतीति नारायणं- हरिः । अलुक्समासः। "हरिहरन्तमिति श्रुतेः" ॥ नारसिंहाधव- तारान् शरभसाळ्वादि रूपेण शिवः संहारं कृत इति भगवता बादरायणेन स्कान्देस्पष्टमुपदिष्टत्वाच्च । नारायणं महाज्ञेय- मित्यत्र । नारायणं । विष्णु महाज्ञेयं। शिवतत्वोपदेशविशिष्टत्वा- महापुरुषत्वेनशेयमित्यर्थः । तथासूतसंहितायामीश्वरगीतासुच भगवता बादरायणेन स्पष्टमुपदिष्टं । नारायण परं ब्रह्मेत्यत्र । नारायणात्परंयः शिवः वर्तते । स एव ब्रह्म । बृहत्वधर्माश्रयः। नतुनारायण इत्यर्थः । “परात्परतरं ब्रह्म तत्परात्परतो हरिः। यत्परात्परतोईशस्तन्मे मनः शिवसङ्कल्पमस्त्विति श्रुतेःगी स्कान्दे व्यासभुजस्तम्भनानन्तरं व्यासंप्रति विष्णुवचनं । “यज्ञकर्ता च देवेन्द्रो वेदकर्ता च वाक्पतिः । अहमेव जगत्कर्ता ममकर्ता महेश्वर इति पुराणवचनरूपविष्णक्तेश्च । तत्वं नारायणः परः नारायणात्परः । नारायणपरः । सन्धिव्यत्ययस्तु । अणीयो- चंत्यत्रेवछान्दसः। नारायणपरः । नारायणनियामकशिवः। तत्वं सर्वव्यापकतत्वमित्यर्थः । नारायणपरोज्योतिः। नाराय- णात्परः शिवः । ज्योतिः । सर्वप्रकाशक इत्यर्थः । नारायणः परः। नारायणाद्भिन्नः शिवः। अत्रापि सन्धिव्यत्ययश्छान्दसः। नारायणपरोध्याता । नारायणाद्भिन्नशिवएव । ध्यातुं योग्यः । ध्यानं नारायणः परः। अत्रापि सन्धिव्य- त्ययश्छान्दसः । यथा एतदनुवाके सर्वत्र लिङ्गव्यत्ययश्छा- न्दसः । तथा सर्वत्र संधिव्यत्ययश्चान्दस इति ज्ञेयं । नारायणपरः । नारायणाद्भिन्नशिवएव । ध्यानं । ध्यानविषयो भवतीत्यर्थः । अन्तर्बहिश्च तत्सर्व व्याप्य नारायणस्थितः। ध्याता ।
६८ श्रीशैवभाष्योपेता। । नारायणेस्थितः । नारायणस्थितः। लुक्समासः । सर्वव्याप्य नारायणस्य स्वान्तरङ्गभक्तत्वान्नारायणे विशेषतया स्थित इत्यर्थः । यद्वा । एकोविष्णुमहद्भूतं पृथग्भूतान्यनेकश इति श्रुत्युक्तरीत्या नाराणस्य महाभूतत्वेन । तत्र विशेषतया वर्तते. तिवास्यात् ॥ अन्यत्सर्व पूर्ववदिति । उक्तप्रकारत्रयेणाप्ये. तदनुवाकस्य शिवपरत्वेन । उपक्रमोपसंहारविरोधाभावा- त्रास्माकंविरोधः॥ ॥ * ॥ अत्रेदं विचार्यते ॥ * ॥ ननु । अम्भस्यपार इति । यमन्तः समुद्रे कवयो वयन्ती- ति वाक्यद्वयन । अनन्यसाधारणसमुद्रशायित्वव्यपदे- शात् । सर्वे निमेषा जज्ञिरे विद्युत इति वाक्येन । विद्युद्वर्ण- पुरुषात्सर्वोत्पत्तिव्यपदेशात् । पाझ। गिरियज्ञानंतरमिन्द्रस्तवे। अग्रे । हिरण्यगर्भस्त्वं । भूतस्य समवर्तत ॥ त्वमेवैकः पति-. रसि । पुरुषस्त्वं हिरण्मय इति तस्यैव हिरण्मयरूपनिर्देशात् । अथर्वशिखोपदिष्टब्रह्मविष्णुरुद्रा इति वाक्यस्य मत्स्यावतार विषयत्वात् । अजायमानो बहुधा विजायतेति श्रुत्युक्तरीत्या तस्य अजन्यत्वोपदेशात् । महोपनिषदिनारायणाद्ब्रह्माजायते । नारायणाद्रुद्रो जायतेत्यादिना तस्यैव सर्वकारणत्वव्यपदेशा- जैतदनुवाकस्य विष्णुपरत्वमेवाभिहितमिति पूर्वः पक्षः । राद्धान्तस्तु । अम्भस्यपारे उदकस्यमध्येतिवाक्येन । प्रलय- साक्षित्वसर्वव्यापकत्वादिधर्माणां शिवस्यैव प्रतिपादनात् । तथा । यदातमस्थं न दिवानरात्रिसन्नचासच्छिवएव केवलः । तस्मात्सर्वगतः शिव इति श्वेताश्वतरे प्रतिपादितं । समुद्रस्य वापीकृपतटाकाद्यपेक्षयाधिकजलाशयत्वादधिकत्वं | शिव- स्याप्रमूर्तिमत्वात् । यत्र यत्र भूमिजलाग्निवाय्वाकाशदि- महानारायणोपनिषत् । ६९ नेन्द्रचन्द्रजीवानां स्थितिरुपपद्यत । तत्र तत्र शिवस्थितेः स्मृतिसिद्धत्वात् । “योरुद्रोग्नौ यो अप्सु यओषधीषु यो विश्वा भुवनावाविवेश तस्मै रुद्राय नमोस्त्वित्येदनुवाके" । "सूक्ष्मा- तिसूक्ष्म सलिलस्यमध्ये विश्वस्यस्रष्टारमनेकरूपं । विश्वस्यक परिवेष्टितारं ज्ञात्वा शिवंशान्तमत्यन्तमेतीति । श्वेताश्वतरे"॥ ॥ श्लोक ॥ "बडवानलरूपेण कालरुद्रो महेश्वरः । समुद्र निव- सन्नित्यं जलपानं करोति सः इति शैवपुराणे च ।" शिवस्य बडवानलरूपेणसमुद्रस्थित्युपदेशादम्भस्यपार इति वाक्यद्वयस्य शिवपरत्वमेव सिद्ध ॥ नमो हिरण्यवाहवेसेनान्ये दिशां च पतयेनमो नम इति शतरुद्रीये । नमोहिरण्यबाहवे हिरण्यव- र्णाय । हिरण्यरूपायाम्बिकापतय उमापतय पशुपतये नमो नम इत्युत्तरत्रच शिवस्य हिरण्मयवर्णत्वव्यपदेशादुमापतित्व पशुपतित्वधर्माणामन्यपरत्वायोगात् । श्रुतिस्मृतिविरोधेतु श्रुतिरेव बलीयसी ॥ श्रुतिश्रुत्योविरोधेतु विशेषं ग्राहये बुध इति वैदिकमांर्मासानियमाधूर्तवैष्णवकल्पिततापनीयो- पनिषत्पद्मपुराणादिवचनानां कैश्चिद्वैदिकमहद्भिर्यत्राप्यनु- दृङ्कितत्वेनाप्रामाण्यात् । भट्टभास्करविद्यारण्यादिमहद्भिः नमो हिरण्यवाहवेत्यादि मन्त्राणां शिवपरत्वेन व्याख्या. तत्वाञ्च । सर्वे निमेषा जज्ञिरे विद्युत इति वाक्यविहित- विद्युद्वर्णविशिष्टत्वं शिवस्यैव राद्धान्तित "विष्णुरिद्धापरमस्य विद्वान्जातो बृहन्नभिपाति तृतीयमिति ऋग्वेदे।। अस्यार्थः ॥ परमस्य । मूर्तित्रयातीतशिवस्य । विद्वान्वेत्ता। शिवज्ञानवेत्तेत्यर्थः ॥ बृहद्विष्णुरादिविष्णुः । जातः । परशिवनोत्पादितः सन् तृतीयं । कैलासं । अभिपाति । रक्षतीति आदिविष्णोरेव शिवजन्यत्वं स्पटमुक्तं । बृहच्छब्दे- नात्रादिविष्णुरेवनिर्णोयते । “नमो विष्णवे बृहते करोमि । बृहत्ते । किंच श्रीशैवभाष्योपेता। विष्णो सुमतिं भजामहेत्यादिश्रतिषु" तथा श्रूयमाणत्वात् । अजातपरथिवादेवमुपस्थितं परित्यज्य । अनुपस्थितापरज- न्यत्वकल्पने मानाभावात् । "ब्रह्मविष्णुरुद्रेन्द्रास्ते सम्प्रसूयन्त- इत्यथर्व शिखायां" "सोमः पवतेजनिता मतीनां जनिता दिवो जनितेन्द्रश्चाग्निश्चजनितोथविष्णोरिति श्रुत्यन्तरे च” तथा श्रव- णाचादिविष्णोः शिवजन्यत्वमनिवार्य ॥ ॥ "अजात इत्येवं कश्चिद्भीरुः प्रपद्यते रुदयत्ते दक्षिणं मुखं तेन मां पाहि- नित्यमितिश्वेताश्वतरे" महारुद्रस्याजन्यत्वव्यवस्थापनात् । तत्रैव । पुरुषसूक्तस्य । सहस्रशीर्षा पुरुष इत्यारभ्य ॥.....॥ सर्वाननशिरोग्रीवः । तस्मात्सर्वगतः शिव इत्युपसंहारवाक्येन शिवपरत्वनिर्देशात् । तन्मध्यगता जायमानो बहुधाविजायतेति वाक्योपदिष्टाजातत्वमपि शिवपरमेवेतिनिश्चीयते। नारायणा द्रुद्रोजायतेतिवाक्यमवान्तरसृष्टिविषयककालरुद्रपरत्वं तथोक्तमनुशासनिके। "सोसृजद्दक्षिणादंगाब्रह्माणं लोकसम्भवं । वामपात्तिथा विष्णुं । लोकरक्षार्थमीश्वरः । हृदयात्कालरुद्रा- ख्यमित्यपदेशात्" । शैववायवीयसंहितायां । “त्रयस्तेकारणा- त्मानो जाताः साक्षान्महेश्वरात् । चराचरस्य विश्वस्य सर्ग स्थित्यन्तहेतवः । पित्रानियमिताः पूर्व त्रयोपि त्रिषुकर्मसुं। ब्रह्मासर्गे हरिस्त्राणे रुद्रः संहरणे पुनः॥ तथाप्यन्योन्यमात्सर्या दन्योन्यातिशयार्थिनः तपसा तोषयित्वातं पितरं चन्द्रशेखरं। ब्रह्मनाराणौपूर्व रुद्रः कल्पान्तरेसृजत् । कल्पान्तरेपुनर्ब्रह्मा । ब्रह्माणं च पुनर्भवः । विष्णुश्च भगवान्तद्वद्ब्रह्माणमसृजत्पुनरि- त्यादिना तथास्पष्टमुपदिष्टत्वात्कालरुद्रपरत्वमेवेतिनिश्चीयते ॥ किंच । शिवमद्वैतं चतुर्थ मन्यन्ते स आत्मा स विज्ञेयः । ध्यायीतेशानं प्रध्यायितव्यं सर्वमिदं ब्रह्मविष्णुरुद्रास्ते सम्प्रसू- यन्ते । स ब्रह्मा सशिवस्सहरिः सोक्षरः परमः स्वराट् स एव- ।
महानारायणोपनिषत् । ७१ ।.. .. विष्णुः सप्राणः सकालोग्निः स चन्द्रमा इत्यादिना नारायणा- थर्वशिखामाण्डूक्यकैवल्याद्युपनिषत्सु । मूर्तित्रयकारणत्व- मुर्तित्रयातीत्वोपास्यत्वादिधर्माणां शिवस्यैव प्रतिपादनात् । नारायणोपनिषदि । नारायणाद्ब्रह्मा जायतेतिवत् नारायणान्ना- रायणोजायत इतिवाक्यादर्शनेन नारायणस्य मूर्तित्रयकारण- त्वासम्भवाच्च ॥ परशिवस्यैवोपपन्नं । नतुनारायणस्य अतएत- दनुवाकस्य शिवपरत्वमिति ॥...... ॥ * ॥ राद्धान्तः ॥ अत्रसारभूयिष्टकासारप्रविष्ट ॥ * ॥ लुलायन्यायमनुसृत्यविष्णोः परब्रह्मत्वभङ्गभीत्या च केचिर्त- वैष्णवाः । निधनपतयेनम इत्यनुवाकं चौर्यं कृत्वा हिरण्यपत- येत्यादिमन्त्रे व्यत्यस्तमपि बहुधा कुर्वन्ति । अपौरुषेयवेद- मन्त्राणामेवं व्यत्यस्तकारिणां किमुत पौरुषेयवचनानामिति- महदाश्चर्य भवति ॥ वैदिकानां ॥ किंच ॥ स ब्रह्मासशिवस्स- हरिस्सोक्षर इतिमन्त्रे । गणव्यत्ययदोषमापाद्य विष्णुब्रह्मरुद्रा- दिसर्वातिरिक्तशिवस्य परब्रह्मत्वप्रतिपादनमपि नाङ्गीकुर्वन्ति । गण व्यत्यये। इन्द्रपदत्यागेपि । सब्रह्मासशिवस्सहरिः सोक्षरः परमः स्वराडिति समीचीनभवति । तथाकिमिति नाङ्गीचक्रुः। तहि । “नीलः पतङ्गो हरितो लोहिताक्षस्तटिगौरऋतवः समुद्राः यस्मिन्युर्ता ब्रह्मर्षयो देवताश्चेत्यादि बहुश्रुतिषु" ॥गणव्यत्यय वर्णव्यत्ययलिङ्गव्यत्ययविभक्तिव्यत्ययवचनव्यत्ययपुरुषव्यत्य- यानि बहूनिसन्ति । तेषामपि स्वेच्छानुकूलतया सवरणता- प्रसङ्गः । तथाचेदीश्वराधिकस्त्वमसीत्यही मूलच्छेदो त्व- ण्डित्यप्रकर्ष इतिसन्तुष्टावः॥ किंच । अतएव । श्लो०। वेदसिद्धं महादेवं साम्बं चन्द्रार्धशेखरं। लिङ्ग दिनेदिनेदेवं शिवरुद्रादिसंज्ञिकं । नार्चयिष्यन्ति मोहेन पाषण्डोपहताजनाः। शंखचक्रगदापद्माद्यंकनं विग्रहे स्वके। मोहाच्चैव करिष्यन्ति ७२ श्रीशैवभाष्योपेता। पापण्डोपहताजनाः । शंखचक्रांकितं विप्रं वैष्णवं शिवदूषक पश्येद्यस्तु प्रमादाद्वा सचैलस्नानमाचरे दित्यादिना' सूतसंहिता शंकरसंहितादिषु भगवता व्यासेन । 'रुद्रपिण्डसमुद्भता ।रुद्रभू मौलयंगताः। पितरं नाभिजानन्ति तातंवेश्यासुतोयथा । वेदास्तु द्राविडीगाथा । ऋषयस्तुन्दलादयः । शिवनिन्दा हरेभक्ति- राचार: पाकचातुरी ॥ रुद्रः स्वीष्टकृदग्निरित्यनुदिनं मुचति होमक्रियाम् । नेच्छन्ते पशुबन्धनस्य च विधिं रुद्रः पशूनां- पतिः॥ श्रीरुद्रप्रतिपादिकां भगवतींतां भर्गशब्दान्वितां ॥...... गायत्रीमपिसंत्यजन्तिसततं विप्राः कथं वैष्णवाः ॥ संचा- रिते शिवमतेप्पयदीक्षितेन दोमूलदाहकमतं नितरांनिरस्तं। श्रुङ्गित्वमद्रिपुवृषेषु च तप्तमुद्रा। हारिद्चूर्णमबलाकुचमण्ड- लेषु ॥ कुण्डक गोलकं चैव लिङ्गधारणवर्जितं । तथादेवलक दृष्ट्वा सचैलंस्नानमाचरेदित्यादिवचनसहरैः पण्डितारध्यो- द्भटाराध्यवेमनाराध्यभवनीशंकराराध्यनन्दिकेश्वराराध्य सो- माराध्याप्ययदीक्षितहरदत्ताचार्यादि शैववरैर्वैष्णवमतं तान्त्रि- कमिति सहस्रशः राद्धान्तितं ॥ इत्यलमनया प्रसक्त्यानु- ... प्रसक्त्या ॥ * ॥ इत्येकादशानुवाकभाप्यं समाप्तम् ॥ मूलम्-आदित्यो वा एष एतन्मण्डलं तपति तत्र तारुचस्तदृचा मण्डलँ सरुचां लोकोथय एतस्मिन्मण्डलेचिर्दीप्यते । तानि सामनि तत्साम्नां मण्डलं स सान्मां लोकोथयएष एतस्मिन्मण्डलेर्चिषि पुरुषस्तानि यषि सयजुषांमण्डलं सयजुषां लोकस्यैषात्रव्ये- महानारायणोपनिषत् । ७३ वविद्या तपति य एषोन्तरादित्ये हिरण्म- यः पुरुषः ॥ इति द्वादशानुवाकः ॥ १२ भाष्यम्-एवंदहरोपासनमुपदिश्य । सूर्यमण्डलान्तर्वतित्वेन शिवोपासनमुपदिशति ।आदित्योवाएष इत्यादिना ॥ प्रत्यक्ष- ष्टादित्यमण्डलतद्गतार्चिस्तगतपुरुषाणां ऋक्सामयजुरूपत्वं तन्म- ण्डलत्वं तल्लोकत्वं च । अतश्च एतत्रयरूपतयात्रय्येव विद्मा तप- तीत्यर्थः । एवं त्रयीमण्डलरूपे आदित्ये हिरण्मयरूपविशिष्टतया योगिभिर्दू श्यमानपुरुषशब्दवाच्यशिवः उपासितव्य इत्यर्थः । अत्रवक्तव्यं सर्व आनन्दवल्यामष्ठमानुवाके बहुधा प्रपंचितं तस्मादत्र पुनर्नोक्तम् ॥ इति द्वादशानुवाकभाष्यम् ॥ १२ ॥ मूलम्-आदित्योवैतेज ओजोबलं यशश्चक्षुःश्रोत्र- मात्मामन्यो मन्युर्मनुसृत्युस्सत्यो मित्रो वायुराकाशः । प्राणो लोकपालः कः किं कंतत्सत्यमनमायुरमृतो जीवो विश्वः क- तमः स्वयम्भूः प्रजापतिः संवत्सरः इति । संवत्सरोसावादित्यो य एषपुरुष एषभूता. नामधिपतिर्बह्मणः सायुज्य सलोकतामा- मोत्येतासामेवदेवतानां सायुज्यं सार्णि- तां समालोकतामाप्नोतिय एवं वेद इत्यु- पनिषत् ॥ ॥ इति त्रयोदशानुवाकः॥
७४
श्रीशैवभाष्योपेता।
-
भाष्यम्-आदित्योवैतेज इत्यादि ॥ तेजः । प्रतापः।
ओजः । कान्तिः । सत्सुसाधुः सत्यः । सत्यं । निर्विकारं
आदित्यस्यैव तेज आध्यात्मिकत्वं । कः किं के कतमइति
पृच्छमानसर्ववस्तुरूपत्वमपि तस्यैवेत्यर्थः। इतिशब्दः प्रकार-
वचनः । एवं जातीयकत्वमपि तस्यैवेत्यर्थः । संवत्सरोसावा-
दित्यादि । आदित्ये यः पुरुषः । स एव । सम्यग्वसन्ति सर्व-
भूतान्यस्मिन्निति संवत्सरः । इदं संवत्सरत्वोपपादनमुपलक्षणं।
पूर्वनिर्दिष्टतेजस्त्वादिगुणानामपि । सायुज्यं । युज्यत इति-
युक् । गुणः । सायुज्यं । समानगुणत्वं । नदीसमुद्रवदैक्यं वा ।
साणितां । समानभोगत्वं
मुक्तः शिवसमोभवेदितिन्यायादित्य-
र्थः । एतासां प्रसिद्धानां देवतानां ॥ * ॥ वायुलॊकपाल इति
पूर्वनिर्दिष्टानां वासाष्णित्वसालोक्ये प्राप्नोतीत्यर्थः॥ यस्तु सूर्य-
मण्डलान्तर्वतित्वेन शिवोपासनं करोति । स सर्वभोगतृप्ति-
मिहपरत्रलब्ध्वा ततश्चतुर्विधमुक्तिं क्रमशो लभतेति भावः ।।
इति नारायणे त्रयोदशानुवाकभाष्यं समाप्तम् ॥ १३ ॥
मूलम्-निधनपतयेन मानिधनपतान्तिकायनमः॥१॥
अर्वायनमः । ऊर्ध्वलिङ्गायनमः ॥ २ ॥
हिरण्यायनमः । हिरण्यालङ्गायनमः ॥ ३॥
सुवर्णायनमः । सुवर्णलिङ्गायनमः ॥ ४ ॥
दिव्यायनमः । दिव्यलिङ्गायनमः ॥५॥
भवायनमः । भवलिङ्गायनमः ॥६॥
शर्वायनमः । शवलिङ्गायनमः ॥७॥
शिवायनमः । शिवालिङ्गायनमः ॥८॥
महानारायणोपनिषत् । ज्वलायनमः । ज्वललिङ्गायनमः ॥९॥ आत्मायनमः । आत्मलिङ्गायनमः ॥१०॥ परमायनमः । परमालङ्गायनमः ॥ ११ ॥ एतत्सोमस्य मूर्यस्य सर्वलिङ्ग स्थापयति पाणिमन्तं पवित्रं ॥ इति चतुर्दशानुवाकः ॥ भाष्यम्-"सूर्यो मुख्यशरीरं स्याच्छिवस्य परमात्मनः । आदित्य हृदये शिव इत्यादिस्कान्दवचनरीत्या" ब्रह्माण्डे सूर्य- मण्डलान्तर्वतित्वेन शिवस्योपासनमुक्त्वेदानीं स्वशरीरे परमेश्वरध्यानधारणोपासनान्युपदिशति । निधनपतये नम इत्यादिना ॥ निधनपतये नमः। निधनं सर्वभूतलयात्मक- प्रलयं । तस्य । पतिः । प्रभुः। सर्वसंहारकर्तेत्यर्थः । एतेन महाप्रलयसाक्षित्वं शिवस्योपदिशति ॥ “यदातमस्थं नदिवा नरात्रिन सन्न चाक्षच्छिव एव केवल । इति । श्वेताश्वतरे तथा श्रूयते” । निधनपतान्तिकायनमः । निधनस्य । मरणस्य । पतिः । प्रभुः । कतैत्यर्थः । यमः । तस्य अन्तकः । संहाशिवः। तस्मैनमः। तं नमस्करोमीति भावः । यमस्यापिसंहारकर्तृत्व दर्शनात्ततोऽधिकत्वं शिवस्य किमायातमिति शङ्कानिरासार्थ- मुत्तरवाक्यमुक्तं । 'यस्य ब्रह्म च क्षत्रं चोभेभवति । ओदनं । अत्ता चराचरग्रहणादित्यादि श्रुतिसूत्रेषु" संहारकर्तृत्वस्य पर ब्रह्मधर्मोपदेशात्सर्वंसंहारकशिवएव परं ब्रह्मेति निश्चीयते ॥ एतस्थितेरप्युपलक्षणतया जगज्जननादिकारणभूतनिष्कल परशिवतत्वमेतद्वाक्येनोपदिश्यते ॥१॥ ऊर्ध्वायनम इत्यनेन महदादिसर्वतत्वोर्ध्वगतशुद्धसत्वप्रधानमायाशक्तिरुच्यते ७६ श्रीशैवभाष्योपेता। सैवचिच्छक्तिरित्यभिहितं ऊध्वलिङ्गायनम इत्यनेन । चिच्छक्त्य- वच्छिन्नसदाशिवतत्वमुपदिश्यते ॥२॥ हिरण्यायनम इत्यनेन । पश्चिमचक्रं । तत्रस्थितगुणत्रयसमष्टयात्मकमहातमोरूपाविद्या- शक्तिरुच्यते । हिरण्यलिङ्गायनम इत्यनेन । तदवच्छिन्न स्वयंप्रकाशमानभावलिङ्गमभिधीयते ॥३॥ सुवर्णायनम इत्यनेन । शिखाचक्र । तत्रस्थितमलिनसत्वात्मकशक्तिरुच्यते । सुवर्ण लिङ्गायनम इत्येनन । तदवच्छिन्नचित्कलात्मकप्राणलिङ्गं निर्णीयते ॥ ४॥ दिव्यायनम इत्यनेन । सहस्रारं । तत्रस्थगुण- त्रयप्राचुर्यात्मकमहाशक्तिश्च वोध्यते। दिव्यलिङ्गायनम इत्यनेन । तदवच्छिन्नस्वप्रकाशमानस्वेष्टलिङ्गमुपदिश्यते ॥ ५॥ भवाय- नम इत्यनेन । आज्ञेयचक्र । तत्रस्थशुद्धान्तः करणं च बोध्यते। भवलिङ्गायनमः इत्यनेन । तदवच्छिन्नमहालिङ्गं श्रूयते ॥६॥ शर्वायनम इत्यनेन । विशुद्धचक्रं । तत्रस्थितव्योमतत्वानुगत पराशक्तिश्च वोध्यते । शर्वलिङ्गायनम इत्यनेन । तद्वच्छिन्न प्रसादलिङ्ग निरूप्यते ॥ ७॥ शिवायनम इत्यनेन । अनाहत- चक्र । तत्रस्थपवनतत्वात्मकादिशक्तिश्च निरूप्यते । शिव- लिङ्गायनम इत्यनेन । तदवच्छिन्नचरलिङ्गमुच्यते ॥ ८॥ ज्वलायनम इत्यनेन । मणिपूरचक्र । तत्रस्थतेजस्तत्वात्मके च्छाशक्तिश्च बोध्यते । ज्वललिङ्गायनम इत्यनेन । तदवच्छिन्न शिवलिङ्गमुपदिश्यते ॥ ६॥ आत्मायनम इत्यनेन । स्वाधिष्ठान- चक्र । तत्रस्थितजलतत्वात्मकज्ञानशक्तिश्च बोध्यते । आत्म- लिङ्गायनम इत्यनेन । तदवच्छिन्नगुरुलिङ्गमुपदिश्यते ॥१॥ पर- माय नम इत्यनेन । आधारचक्र । तत्रस्थक्षित्यात्मकक्रिया- शक्तिश्च बोध्यते । परमलिङ्गायनम इत्येन । तदवच्छिन्नाचार- लिङ्गमुपदिश्यते ॥ ११ ॥ एतत्सोमस्य सूर्यस्य सर्वलिङ्ग स्थापयतीत्यनेन एतद्दशविधलिङ्गात्मकसूर्यस्य सूर्य- महानारायणोपनिषत् | ७७ मण्डलान्ततिनः सोमस्य । उमाशक्तिविशिष्टस्यशिवस्य लिङ्ग लिङ्गरूपशरीरं । सर्व सर्वेत्यर्थः । रूपव्यत्ययश्छान्दसः॥ स्थापयति । धारयन्तीत्यर्थः । एतन्मन्त्रस्य भगवताशिवेन । सिद्धान्तागमे ॥ "प्रलयं निधनं ख्यातं । सर्वभूतलयात्मकं तत्क- र्तृत्वं महेशस्य सत्वात्तत्पतिरीश्वरः ॥ तस्मै नमो महेशाय- तमस्साक्षिस्वरूपिणे ॥ निधनाधिपतिः कालः सर्वसंहारकार- णात् ॥ तस्यान्तकत्वं हर्तृत्वं शिवस्यैव निरूप्यतेत्यारभ्य ॥... एतत्सूर्यस्य मित्रस्य मण्डलान्तरवर्तिनः । सोमस्य पार्वती- शस्य । लिङ्गं भवभयापहं । सर्वेषु भक्तदेहेषु । स्थापये- द्गुरुणासदा । पवित्राणां पवित्रत्वात्पवित्रमिति कथ्यते ॥ तस्माद्धार्य सदालिङ्ग पाणिमन्त्रेतिमन्त्रतः ॥ पाणौलिङ्ग समा- साद्य दीक्षाकाले गुरुः शिवं । येन स्मरति तन्मन्त्रं पाणिमन्त्रं वदन्तिहि ॥ मननात्पूजनाद्भक्तान् त्रायतीतिनिरुक्तितः ॥ पाणिमन्त्रमितिप्रोक्तं । तल्लिङ्ग ब्रह्मशाश्वतमित्यादिना व्याख्यानं कृतं । किंच । लिङ्गपुराणेभगवता व्यासेनापि । “वेदेषु शास्त्र- सन्धेषु । पुराणेष्वागमेषु च ब्राह्मणस्यसमाख्यातं । लिङ्गधारणमुत्तममित्युपक्रम्य । यजुरप्याह सर्ववै लिङ्ग स्थापयतीति च । तस्माद्धार्य महालिङ्ग पाणिमन्त्रेतिमन्त्रतः । पाणौलिङ्ग विनिक्षिप्य दीक्षाकाले गुरुः शिवं ॥ येनस्मरति तन्मन्त्रं पाणिमन्त्रंवदन्तिहि ॥ पवित्रत्वान्महेशस्य शिवस्य प्रति- पादनात् ।। पवित्रीकरणात्पुंसां पवित्रमिति कथ्यते । अतः सर्वेषु कालेषु । धारयेल्लिङ्गमुत्तमं । गच्छन् तिष्ठन् स्वपन् जाग्रदुन्मि- पन्निमिषन्नपि । शुचिर्वाप्यशुचिर्वापि लिङ्ग सर्वत्र धारयेत् ॥ लिङ्गधारीसदाशुद्धो निजलिङ्ग मनोहरं । अर्चयेन् गन्धपुष्पाद्यैः करपीठे समाहितः । नित्यानि कर्मवृन्दानि तथानैमित्तिकानि च | कुर्यालिङ्गाङ्गसम्बन्धी द्विजन्मा कामवर्जितः । इत्यादिना । ।
श्रीशैवभाष्योपेता। एतदनुवाकगतसर्व लिङ्गवाक्यस्य बाह्यष्टलिङ्गधारणपरत्वेन बहुधाराद्धान्तितं । श्रीकरभाष्ये पण्डितभाष्यकारैरपि सर्वत्र- प्रसिद्धोपदेशाधिकरणे बहुधाराद्धान्तितमतोऽत्र संक्षिप्तं मया । भवानीशंकराराध्य नन्दिकेश्वराध्य परमतकालानलाराध्यवज्रन- खाराध्यादिवीरशैवपूर्वाचार्यविपक्षपूर्वपक्षदुर्नीरीक्षणत्वेन बाह्य लिङ्गधारणंश्रुतिस्मृतिपुराणागमेतिहासादिभिर्बहुधासिद्धान्तितं॥ इतिनारायणे चतुर्दशावाकभाष्यं समाप्तम् ॥ मूलम् --सद्योजातं प्रपद्यामि सद्योजाताय वै नमो नमः। भवे भवेनाति भवे भवस्व मां भवो. वायनमः ॥ १५ ॥ पंचदशानुवाकः ।। भाष्यम्-पूर्वानुवाके ॥ निधनपतये नम इत्यारभ्य लिङ्ग- रूपस्य शिवस्य । सर्वात्मकत्वं सर्वत्रोपास्यत्वं । सर्व भक्तदेह धारणत्वंचोपदिश्य । इदानों तत्स्तुतिं नमस्कार पूर्वकत्वेनार- भते ॥ सद्योजातमित्यादिना ॥ सद्योजातं ॥ "सद्योजातं क्षितिः प्रोक्ता।वामदेवस्तथाजलमितिकामिकागमोक्तरीत्या" पृथ्व्यात्म- कमृच्छिलादिनिर्मितशिवलिङ्गं । प्रपद्यामि । पूजाधारणादिना प्राप्नुवामीत्यर्थः । सद्योजाताय ॥ साधनान्तरनिरपेक्षतया- भक्तप्रार्थनाकालाविर्भूताय । नमो नमः । अत्रवैशब्देनानन्य- शरणत्वं सूच्यते । तथाशिवएकोध्येयः शिवंकर इत्यथर्वशिरसि श्रूयते । नमोनम इति नमःपदपुनरावृत्तिः शिवस्य सर्वदेवताति- शयत्वं सूच्यते । एवं शिवमन्त्रेषु सर्वत्र ज्ञेयं ॥ भवे भवे । प्रति जन्मनिअतिभवे । भवध्यानधारणपूजादिविहीन पांचरात्रादि दुष्टजन्मनि ॥ नभवस्वमा नजनयस्वेत्यर्थः । महापाशुपतमते A ।
महानारायणोपनिषत् । ७९ जनयस्व । इति भक्त प्रार्थनामन्त्रमिदं ॥ भवस्य । विष्ण्वादि सर्वकार्यवर्गस्य ॥ उद्भवः । जन्म । यस्माद्भवति । तस्मै । जगजन्मादिलक्षणविशिष्टशिवायेत्यर्थः ॥ इति पंचदशानुवाकभाष्यंसमाप्तम् ॥ १५ ॥ जातस्यजायमानस्य गर्भस्थस्यापि देहिनः। माभून्ममकुले जन्म यस्य शम्भु दैवतमितिस्कान्दे व्यासवचनं ॥ इत्यादीन्य- त्रानुसन्धेयानि ॥ इति पंचदशानुवाकभषयं समाप्तम् ॥ १५ ॥ मूलम्-वामदेवायनमो ज्येष्ठायनमः श्रेष्ठायनमो रुद्रायनमः कालायनमः कलविकरणायनमो बलविकरणायनमो बलायनमो बलप्रमथ- नाय नमः सर्वभूतमनायनमो मनोन्म- नाय नमः ॥१६॥ इति षोडशोनुवाकः समाप्तः। भाष्यम्-वामदेवायनम इति वामदेवाय । लीलामंगल- विग्रहाय । नमः । ज्येष्ठायनमः । ब्रह्मविष्ण्वादिजनकत्वेन महा- प्रलयसाक्षित्वेन वा शिवस्य ज्येष्ठत्वंयुक्त । श्रेष्ठायनमः । मृत्युञ्जयत्वेन । शिवस्यब्रह्मविष्ण्वादिभ्यः श्रेष्ठ त्वम् । * * रुद्रायनमः। महाप्रलये ब्रह्मविष्ण्वादीन् रोदयति । द्राव- यतितिरुद्रः । कालायनमः ।। जीवकर्मानुगुण्येन तत्तत्कालेषु फलप्रदत्वात्तस्य कालात्मकत्वं । कलाकाष्ठादिविकरणहेतुत्व- तलविकरणत्वं कलकरण इति हस्वश्छान्दसः । बलविकरणा- यनमः। विगतानिकरणानियस्यासौ विकरणः बलश्चासौवि- करणश्चतथोक्तः। शरीरेन्द्रियनिरपेक्षतया सर्वकारणसामर्थ्य- वानित्यर्थः । “अपाणिपादोहमचिन्त्यशक्तिरिति श्रुतेः बलाय- २. ३ श्रीशेवभाष्योपेता। नमः । ब्रह्मविष्ण्वादीनां दुर्जयइत्यर्थः । बलप्रमथनायनमः। मत्स्यकूर्मवराहनारसिंहवामनावतारसंहारकर्तेत्यर्थः ॥ सर्व- भूतदमनायनमः । महाप्रलयकर्तेत्यर्थः मनोन्मनायनमः । बुद्धि- प्रेरकाय नमः ॥ “सनोदेवः शुभया स्मृत्या संयुनक्त्विति- श्रुतेः ॥१६॥ इति षोडशानुवाकभाष्यं समाप्तम् ॥ मूलम्-अघोरेभ्योथ घोरेभ्योघोरघोरतरेभ्यासर्वभ्यः सर्वशर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः ॥१७॥ इति सप्तदशानुवाकः समाप्तः ॥ १७ ॥ भाष्यम्-अघोरेभ्य इति ॥ भक्ताभीष्टफलप्रदानानुकूलरू- पत्वादघोरत्वं दुष्टनिग्रहरूपत्वेन निग्रहत्वं । मृत्युकालादीनां संहारकत्वेन घोरघोरत्वं तादग्भ्यः । सर्वेभ्यः । चेतनाचेत- नात्मकाष्टमूर्तिभ्यः । सर्वशर्वेभ्यः। पशुपतित्वचन्द्रशेखरत्वादि पंचविंशतिलीलाविग्रहेभ्यः । रुद्रेभ्यः । शिवेभ्यः। ते। तेभ्यः। वचनव्यत्ययश्चान्दसः॥ नमः । अस्तु । नमस्करोमीति भावः॥ :ति सप्तदशानुवाकभाष्यंसमाप्तम् ॥ मूलम् तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो- रुद्रः प्रचोदयात् ॥ १८ ॥ इति नारायणे अष्टादशानुवाकः ॥ भाष्यम्-तत्पुरुषाय विद्महेति ॥ महादेवाय सर्वदेवताधि- काय । तत्पुरुषाय । तत्संशिकमुखाय शिवाय । शिवमित्यर्थः। विद्महे । उपास्महे । धीमहि । ध्यायेम । इति बाह्याभ्यन्तरो- पासनमुक्तं । तत् । उपासनं । रुद्रः । शिवः प्रचोदयात् । निर्व- यत्वित्यर्थः ॥ इत्यष्टादशानुवाकभाष्यं समाप्तम् ।।
महानारायणोपनिषत् । मूलम्-ईशानः सर्वविद्यानामीश्वरस्सर्वभूतानां ब्रह्माधिपतिब्रह्मणोधिपतिब्रह्मा शिवो मे अस्तु सदाशिवोम् ॥ २९ ॥ ॥ एकोनविंशत्यनुवाकः ॥ भाष्यम्-ईशान इति ॥ सर्वविद्यानां । निगमागमस्मृति पुराणादीनां ॥ ईशानः । नियामकः । एतेन । सर्वविद्याकर्तृत्वं शिवस्योपदिष्टं । “यो ब्राह्मणं विद्धाति पूर्व यो वै वेदांश्च प्रहि- णोति तस्मै इतिश्रुतौ” वर्तमानचकारस्यानुक्तसमुच्चायकार्थ- त्वद्वेदेतरसर्वशास्त्राणि चतुर्मुखाय दत्तवानित्यर्थः सूच्यते । ईश्वरः सर्वभूतानां ॥ एकोविष्णुमहद्भूतं पृथग्भूतान्यनेकशः इति भारतवचनेन विष्णोरपि भूतत्वव्यपदेशात् । विष्ण्वादिसर्व- जीवानां । प्रभुरित्यर्थः । ब्रह्माधिपतिः । ब्राह्मणानामधिपति- रित्यर्थः॥ 'ब्रह्माविप्रः प्रजापतिरिति नानाथरत्नमालायां'। 'त्वं देवानां ब्राह्मणानामधिपतिर्विष्णुः क्षत्रियाणामधिपतिरितिसा मश्रुतौ' । “ब्राह्मणानां शिवोदेवः क्षत्रियाणान्तु माधवः । इत्या- दिना मनुस्मृतौ तथा श्रूयते' ॥ ब्रह्मणः । चतुर्मुखस्य । अधि- पतिः। प्रभुः। इदं नवब्रह्मणामप्युपलक्षणं । ब्रह्म । ब्रह्मपद- वाच्यः । शिवः । मे।मम अस्तु । स कीदृशः । ॐ। ओङ्कार वाच्यः। सदाशिवः । महाकैलासनिवासलीलामङ्गलविग्रहः । एतेन शिवस्य । चिच्छक्त्यवच्छिन्नत्वं । सदाशिवस्य । वशी- कृतमायात्वच बोध्यते । शाम्यति परमानन्दरूपेण निर्वि- कारो भवतीति शिवः । “ निस्वैगुण्ये शिवाय नम इति महि- न्मस्तवे तथा श्र यते" ॥ शेरते सज्जनमनांस्यस्मिशिति । शेतेसज्जनमनसि अयमिति वा शिवः ॥ एतादृक्छिवः मे ६ श्रीशैवभाष्योपेता। मनसि सदानिवसतु इति भक्तप्रार्थनामन्त्रमिदं ॥ एकोनविं- शत्यनुवाकभाष्यम् ।। मूलम्--नमो हिरण्यवाहवे हिरण्यवर्णाय हिरण्य- रूपाय हिरण्यपतयेम्बिकापतय उमापतये पशुपतये नमो नमः॥ इति नारायणे विंशत्यनुवाकः ॥२०॥ भाष्यम्-नमो हिरण्यवाहव इति-हिरण्यबाहवे । हिर- ण्यरूपहस्ताय । हिरण्याभरण विशिष्टहस्तायेत्यर्थः ॥ "हिरण्य- वाहवे सेन्यान्ये दिशां च पतये नमो नम इति शतरुद्रीये शिव- स्य तथाश्रूयते। हिरण्यवर्णाय । रुक्मवर्णाय । “यदापश्यत्पश्यते रुक्मवणं कर्तारमीशं पुरुषं ब्रह्मयोनिमितिश्रुतेः। हिरण्यरूपाय। रजतरूपाय । शुद्धस्फटिकसंकाशरूपायेत्यर्थः ॥ स्यात्कोशश्च हिरण्यं च । हेमरूप्येकृताकृतेत्यमरकोशः॥श्लो ॥ " मेरुकैलास । शुद्धस्फटिकरूपिणे । हिरण्मयाय शर्वायमहा- कैलासवासिनेत्यादिशिवागमोक्तरीत्या । महेश्वरस्य शुद्ध- स्फटिकवर्णत्वं । सदाशिवस्य । हिरण्मयत्वं युक्तं भवति । हिरण्यपतये 'हयगतिकान्त्योरिति' धातुवशाद्धयतीति हिरण्यं । तेज इत्यर्थः । तद्पाणां सूर्यचन्द्राग्नीनां पतिः। अधिपतिः । तेभ्यो अधिकतेजस्वीत्यर्थः । “तस्य भासा सर्वमिदं विभातीति श्रुतेः" । यद्वा । हिरण्यानां धनानां पतिः। प्रभुः। सर्वैश्वर्य- सम्पन्न इत्यर्थः । अम्बिकापतिः । त्रिगुणात्मिकमायायाः पतिः। उमापतिः। प्रणवात्मकचिच्छक्तेः पतिः। भर्ता । "मायान्तु प्रकृति विन्द्यान्मायिनं तु महेश्वरमिति श्रुतेः' । “यस्य मात्रात्रयं नाम व्यक्तं सत्प्रणवात्मकं । वभौह्रस्वद्वयं दीर्घ द्विमात्रत्वादुमैवसेति वासाय महानारायणोपनिषत् । ८३ शंकरसंहितावचनं । पशुपतये । पशूनां ब्रह्मविष्ण्वादिदेवानां पतिः । प्रभुः। तथा स्कान्दे ॥ श्लो ॥ “पशूनां ब्रह्मविष्ण्वादिदेवानां पतिरीश्वर ॥ इतिश्रूयते" पशूनांपतयेजगतां पतयेत्यादिना शत- रुद्रीये।। अहमेकःप्रथम “पशूनामधिपतिरसानीति"त्रिपुरसंहारानु- वाके शिवस्य पशुपतित्वश्रवणादत्र न नारायणस्यावकाशः ॥२०॥ विंशत्यनुवाक भाष्यं समाप्तम् मूलम्-ऋतं सत्यं परब्रह्म पुरुष कृष्णपिङ्गलं । ऊर्ध्व- रेतं विरूपाक्षं । विश्वरूपाय वै नमोनमः ॥ एकविंशत्यनुवाकः। भाष्यम्-ऋतं सत्यमिति ॥ ऋतं । ज्ञानगम्यं । सत्यं । त्रैकालिकाबाध्यं । परं ब्रह्म । मूर्तित्रयातीतं ब्रह्म । “प्रपंचोप- शमं । शान्तं शिवमद्वैतं चतुर्थ मन्यन्ते स आत्मा स विज्ञेयः । शिवोद्वैतः इतिमाण्डूक्ये तथा श्रूयते'। पुरुषः । पूर्णाद्वापुरुषः । कृष्णपिङ्गलं अम्बिकायाः शामवर्णत्वात्तदर्धाङ्गित्वेन शिवस्य- कृष्णपिङ्गलत्वं युक्त । मातामरकतश्यामेत्यादिषु । पार्वत्या- स्तथात्वं बहुधाश्रूयते । ऊर्ध्वरेत । उत्कृष्टरेतः । कृशानुरेतः। हिरण्यरेत इतिवार्थः ॥ "कृशानुरेतः । सर्वज्ञः । हिरण्यरेतोदुर्धर्ष इत्यमरकोशशिवसहस्रनामावल्यादौ तथा श्रूयते”। विरूपाक्षं । विरूपाणि । पङ्किव्यत्यस्तानि । अक्षीणि । नेत्राणि यस्यासौ । तथोक्तः । त्र्यम्बक इत्यर्थः । "व्यम्बकंयजामहेति श्रुतेः। विश्व- रूपाय अष्टमूर्त्यात्मकायेत्यर्थः ॥ एतेन । परशिवस्य । " देवा. ब्रह्मणोरूपेति श्रुत्युक्तरीत्या ” मूर्त्तामूर्तत्वमुपपादितं भवति ॥ इत्येकविंशत्यनुवाकभाष्यंसमाप्तम् । मूलम्-सर्वोद्यषरुद्रस्तस्मै रुद्राय नमो अस्तु । पुरुषो वै रुद्रस्तन्महो नमोनमः ॥ विश्वं ।
श्रीशैवभाष्योपेता।
॥ *
भूतं चित्रं पहुधा जातं जायमानं च यत् ।
सर्वो वै रुद्रस्तस्मै रुद्राय नमो अस्तु ॥२२॥
इति द्वाविंशत्यनुवाकः॥
भाष्यम्-सर्वोह्य षरुद्रइति ॥ एषसर्वः । परिदृश्यमान
:: महदहङ्कारादिसर्वप्रपञ्च । रुद्रोहि । रुद्रपदैकान्तिकशिव-
एव । न नारायणः । तस्मै रुद्राय तादृग्रुद्राय मे मम नमः ।
अस्तु ॥ भवतु । एतेन शिवैकान्तिकभक्तिः सूच्यते ॥ हिशब्दोत्र
इतरार्थव्यवच्छेदार्थकः॥
पुरुषो वै रुद्रः । रुद्रएव पुरुष इत्यर्थः । अत्रवैशब्दो नारा-
यणस्य स्त्रीत्वनिश्चयार्थबोधकः । पूर्वाध्यायेषु । एतदध्याये
। वासुदेवः पराप्रकृतिरित्यादिना नारायणस्य बहुधा
निरूपितत्वादत्र स्त्रीत्वनिरूपणं पुनर्नकृतं । तन्महः । तत् ।
रुद्रः । महः । साधनान्तरनिरपेक्षस्वप्रकाशकविश्वभूतमिति ।
भूतं । भूतकालोत्पन्नं । जातं । वर्तमानकालीनं। जायमानं ।
भविष्यत्कालिकं । बहुधाचित्रं । चतुर्लक्षभेदेन विचित्रं ।
विश्व । विष्ण्वदि चेतनाचेतनप्रपंचं । सर्वोवैरुद्रः । रुद्रशक्यु-
पादानकारणत्वाच्छक्तिशक्तिमतोरभेदाच्चरुद्रात्मक विष्ण्वा-
दीनां निरवध । शिवशक्तिसामरस्यप्रभावमत्र प्रपंचितमिति
द्वविंशत्यनुवाकभाष्यसमाप्तम् ॥ २२ ॥
मूलम् कद्रुद्राय प्रचेतसे ॥ मीडुष्ठमायतव्यसे ।
वोचेमशंतमंहृदे ॥ सर्वोह्येषरुद्र स्तस्मै
रुद्राय नमो अस्तु ॥
इति नारायणे त्रयोविंशत्यनुवाकः ॥२३॥
महानारायणांपनिषत् । ८५ । भाष्यम्-कद्रुद्रायेति ॥ कइवाचरतीतिकत् । रुद्राय । स्रष्टेत्यर्थः। प्रचेतसे । सर्वज्ञाय । मीडुष्ठमाय । सेकृत्तमाय । बर्षादिभिः सेचकाय । प्रयोजककर्तेत्यर्थः । तव्यसे । तपःफल- रूपाय । हृदे । दिव्यमङ्गविग्रहाय । शन्तमं । सुखावहं । स्तोत्रं । वोचेम । वदाम इत्यर्थः । रुद्रशब्दनिर्वचनानि रुदमज्ञानं द्रावयति नाशयतीतिरुद्रः। रुविरादानेति धातोः। हरं वेदं । ब्रह्मणे राति ददातीतिवारुद्रः । प्रणवरूपवृत्या स्वात्मानं राति प्रापयतीति वारुद्रः । रुदत् । सुखं राति ददातीति वा रुद्रः । रुतं संसारदुखं द्रावयतीति वारुद्रः । रुतमशुभं द्रावयतीति वारुद्र इत्यनेकवृत्या रुद्रशब्दस्य भगवता व्यासेन रुद्रभाष्ये विद्यारण्यादिमहद्भिश्च शिवपरत्वावसायात् ॥ शिवेरूढिरिति विज्ञेयं यदिरुद्रपदस्य अवयवशक्तयानारायणरुढिरङ्गीक्रियते? । तहि नारमयनं यस्यासाविति व्युत्पत्या नारायणशब्दस्य नके कढ़िः । किं ? नस्यादितिचिन्त्यं ॥ इति त्रयोविंशत्यनुवाकभाष्यं समाप्तम् ॥ २३॥ मूलम्-यस्य वैकङ्कत्याग्निहोत्र हवणी भवति ॥ प्रतिष्ठिताप्रत्येवास्याहुतयस्तिष्ठन्त्यषो प्रति । ष्ठित्यै ॥ इति चतुर्विंशत्यनुवाकः ॥ २४ ॥ भाष्यम्-यस्येति॥ यस्य यजमानस्य । अग्निहोत्रहोमसा- धन भूतपात्रविशेषो विकंकताख्यवृक्षप्रकृतिको भवति । प्रतिष्टा भवन्ति । के प्रतिष्ठाभवन्तीत्यत्राह ॥ प्रत्येवास्याहुतय इति ॥ आहुतयः । प्रतिष्ठिता भवन्ति ॥ ता यजमनस्य प्रतिष्ठित्यै प्रक- ल्पन्त इत्यर्थः ॥ २४ ॥ इति चतुर्विंशत्यनुवाकभाष्यम् ॥
श्रीशैवभाष्योपेता। मूलम्-कृणुष्व पाज इति पंच ।। इति पंचविंशत्यनुवाकः॥ भाष्यम्-कृणुष्वपा इति पंचमन्त्राः रक्षोशान्त्यर्थमिह- पठितव्या इत्यर्थः॥ इति पंचविंशत्यनुवाकभाष्यं समाप्तम् ॥२५॥ मूलम् --अदितिर्देवा गन्धर्वा मनुष्याः पितरो सुरास्तेषाँ सर्वभूतानां । माता मेदिनी। महती मही सावित्री गायत्री जगत्युर्वी पृथ्वी बहुला विश्वा भूता कतमा काया सा सत्येत्यमृतेति वसिष्ठः॥ इति नारायणे षड्विशत्यनुवाकः ॥ २६ ॥ भाष्यम्-अदितिर्देवा गन्धर्वा इति ॥ देवगन्धर्वमनुष्य पितृमुरसर्वभूतमातृत्वयुक्ता । मेदिन्यादिशब्दप्रवृत्तिनिमित्त- गुणवत् । कतमा काया सा सत्यादिशब्दिता । भूमिरेव । खण्डनानहत्वाद्भूमेरदितित्वं । एवं भूमि वसिष्ठःप्रशशंसेत्यर्थः । इति षड्विशत्यनुवाकभाष्यं समाप्तम् ॥ पूर्वोक्तसर्वशिवात्मक- ज्ञानस्य चित्तशुद्धिद्वारासम्भवात्तस्य च नित्य नैमित्तिकादि कर्मानुष्ठानस्य हेतुत्वाच्च । तत्कर्माचरणमुपदिशति ॥ तत्रतत्र इति षड्विशत्यनुवाकभाष्यम् ॥ मूलम्-आपो वा इदं सर्व विश्वा भूतान्यापः। प्राणा वा आपः॥ पशव आपोन्नमापो- मृतमापःसम्राडापो विराडापश्छन्दाँस्यापो महानारायणोपनिषत् । - ज्योतीष्यापो यजूंष्यापस्सत्यमापः सर्वा देवता आपो भूर्भुवस्सुवराप ॐ ॥ इति नारायणे सप्तविंशत्यनुवाकः ॥ भाष्यम्-आपो वा इति ॥ सम्यग्राजतीति सम्राट् ॥ विशिष्य राजतीति विराट् । स्वयमेव राजत इति स्वराट् । ओमिति ब्रह्मात्मकत्वमुच्यते ॥ सर्वात्मकत्वेन अपां प्रशंसा र्थमन्त्रमिदं ॥ तदभिमन्त्रणादौ विनियुक्तः इति सप्तविंश- त्यनुवाकभाष्यं समाप्तम् ॥ २७ ॥ मूलम्--आपः पुनन्तु पृथिवीं । पृथिवीपूता पुना- तुमां ॥ पुनन्तु ब्रह्मणस्पतिर्ब्रह्म पूता पुनातु माम् ॥ यदुच्छिष्टमभोज्यं । यहा दुश्चरितं मम ।सर्व पुनन्तु मामापो सतां च प्रतिग्रह स्वाहा ॥२८॥ इति नारायणे अष्टविंशत्यनुवाकः ॥ भाष्यम्-आपः पुनन्विति ॥ मध्याह्नजलपानविनि- युक्तमन्त्रमिदं । या आपः सन्ति ॥ ताः पृथिवीं पुनन्तु । प्रक्षालनेनशोधयन्तु । अपां सकलदेवतास्वरूपत्वात्परमपवित्र- त्वाच्च । पवित्रकरणं युक्तं । "आपो वै सर्वा देवता इति श्रुतेः" । सा च पृथिवी ताभिरब्धाराभिरिति शेषः । पूता पवित्रीकृता । शुद्धासतीत्यर्थः । मामनुष्ठातारं । पुनातु । शोधयतु । उत्तरे कर्मण्यधिकारिणं करोत्वित्यर्थः। "नवर्षधारास्वाचामेदिति नि- षेधात्" ॥ भूमिगतत्वसिध्यर्थमापः पुनन्त्वितिप्रार्थितं ॥ भूम- गतास्वप्स्वाचम्य पूतो भवतीति वाक्यदर्शनात् । तत्प्राशनेन पृथिवी पूता पुनातु मामिति प्रार्थ्यतेतियावत् ॥ ब्रह्मणस्पतिः ।
श्रीशैवभाष्योपेता। ॥ वेदपतिः । सकलवेदप्रतिपाद्यः इत्यर्थः । परमात्मेतिभावः । "वेदैश्च सर्वैरहमेव वेद्या इति श्रुतेः” । षष्ठ्याः पतिपुत्रेत्यादिना पत्यादौ परे षष्टी विसर्गस्य छन्दसि बहुलमितिसत्वं । परमेश्वरः । पुनन्तु । पुनातु । वचनव्यत्ययः छान्दसः । पृथिवीं पुनात्विति भावः। ब्रह्म पूता पुनातु मां । परमेश्वरेणपवित्री- कृता पृथ्वीमा पुनात्वित्यर्थः । इदानीं स्वकृताकृत्यं परिगणयन् तन्निवृत्तये साक्षादेवापः प्रार्थयति ॥ यदिति । उच्छिष्टं अन्यो ज्झितं अन्यभुक्तशेषं वा । भुक्तं यदस्ति । तत् । अभोज्यं । भोक्तुमयोग्यं । केशकीटमूषकपुरीषकादिसंयुक्तमन्नं भुक्तमिति यदस्ति । तत् । यद्वा । किं च । मम । दुश्चरितं । अगम्या- गमनादिकं । यदस्ति । तत्सर्वमापः । पुनन्तु । शोधयन्तु । पवित्रं मां कुर्वन्त्वितियावत् ॥ असतां च । शूद्रादीनां च यत्प्रतिग्रहं तदपि । परि: इत्यमा पुनात्वित्यर्थः । स्वाहा शब्दस्तु आचमनप्राशन सूचनार्थकः ॥ एतन्मत्रार्थश्लोका लिख्यन्ते ॥ श्लो ॥ "आपः पुनन्तु पृथिवीं । पूताताभिः । पुनातुमां । पुनन्तु ब्रह्मणस्पति- वेदवेद्यः पुनातुमां। पूता इत्यत्र पूतेति । ब्रह्मपूता पुनातुमां । या दुच्छिएमभोज्यं च । यद्वा दुश्चरितं मम ॥ ...सर्वस्मादहं स्वापो स्मान्मामसतां च प्रतिग्रहात् ॥ पुनन्त्वापः इतिध्यात्वा । स्वाहेत्युक्त्वा जलंपिवेदिति हरदत्ताचार्यैरेवमुक्तम् " ॥ इत्यष्टविंशत्यनुवाकभाष्यं समाप्तम् ॥ २८ ॥ मूलम्-अग्निश्च मा मन्युश्च मन्युपतयश्च मन्यु- कृतेभ्यः । पापेभ्योरक्ष्यन्तां । यदहापाप- मकार्ष । मनसा वाचा हस्ताभ्यां पयामु- दरेण शिश्ना। अहस्तवलुम्पतु। यत्किंच
महानारायणोपनिषत् ।
८९
दुरितं मयि । इदमहं मामृतयोनौ ॥ सत्ये
ज्योतिषि जुहोमि स्वाहा ॥
इति नारायणे एकोनत्रिंशत्यनुवाकः ॥ २९ ॥
भाष्यम्-अग्निश्चेति॥ सायंकालजलप्राशनमन्त्रमिदं॥ अग्नि
रग्न्यात्मकोरुद्रः रुद्रोवा एष यदग्निरितिश्रुतेः”। मन्युश्च । तस्य-
क्रोधश्च । क्रोधात्मिकाशक्तिरित्यर्थः । मन्युपतयश्च । क्रोधिस्वा-
मिनो क्रोधात्मकविस्फुलिङ्गाः रुद्रगणाश्च एते सर्वेदेवाः । मन्यु-
कृतेभ्यः । मन्युना कोपेन कृतेभ्यः। दुरितेभ्यः । मा । मां।
रक्ष्यन्तां । प्रार्थनायांलोट् । ते सर्वे देवाः क्रोधकृतपापान्विनाशं
कृत्वा शिवैकशरणं मां रक्षन्त्विति भावः ॥ किंच । यत् ।
अह्ना । अह्नि । तृतीया सप्तम्यां परिणम्यते इतितात्पर्य । यद्वा ।
अह्ना । अतीतेन दिनभागेनेति वास्यात् । घस्रो दिनाहनी
वात्त्विति कोशात् । यत्पापं । दुरितं । मनसा । ईश्वरचिन्तना-
करण । वाचा शिवनामस्तोत्राकरणं । हस्ताभ्यां गुरुचरे-
श्वरदास्याकरणं । पद्भ्यां । पादाभ्यां । शिवगुरुक्षेत्रागमनं ।
उदरेण । जठरेण । ईश्वरानर्पितपदार्थभोजनकरण । शिश्ना ।
शिश्नेन । अगम्यागमनं । एवं रूपं । अकार्ष । कृतवानस्मि ।
प्रातःकालादारभ्यैतत्कालपर्यन्तं यदुरितमुक्तरीत्याकृतं ।
तत् । अहः । दिवसरूपशिवः । अवलंपतु | नाशयतु । "अह-
श्शुलायुधोदेवइति वचनात् ॥ "असौयस्ताम्रो अरुणउत बनुःसु-
मङ्गल इतिशतरुद्रीयेच" अहाधिदेवतात्वं शिवस्य प्रतिपादनादहः
शब्देन शिवएव ग्राह्यः ॥ जडस्य तत्कर्तृत्वासम्भवात् । यत्कि-
चेति । किंच। उत। यत् । एतद्व्यतिरिक्तं पापं । मयि निष्पन्न-
मिदं । पापजातं सर्व । तत्कर्तारंमांच । जीवं । अमृतयोनौ ।
मरणरहितजगत्कारण ॥ सत्ये त्रैकालिकाबाध्यस्वरूपे ॥......॥
श्रीशैवभाष्योपेता। ज्योतिषि । हृदयपुण्डरीकावच्छिन्नचिदाकाशस्थितस्वयंप्रकाश मानशिवे ॥ अहं । जुहोमि । होमं करोमि । अहमनेन होमेन सर्व भस्मीकरोमीत्यर्थः। स्वाहा शब्दस्तुमन्त्रोच्चारणानन्तरमाचमन- सूचनार्थकः॥ इति नारायणे एकोनत्रिंशत्यनुवाकभाष्यम् ॥२६॥ मूलम्--सूर्यश्चमामन्युश्च मन्युपतयश्च मन्युकृतेभ्यः। पापेभ्यो रक्षन्तां ॥ यद्राच्या पापमकार्ष। मनसा वाचा हस्ताभ्यां पयामुदरेण शिश्ना । रात्रिस्तवलुम्पतु ॥ यत्किंच दुरितं मयि । इदमहं माममृतयोनौ । सूर्ये ज्योतिषि जुहोमि स्वाहा ।। इति नारायणे त्रिंशत्यनुवाकः ॥ ३० ॥ भाष्यम्-सूर्यश्चेति ॥ प्रातर्जलपानमन्त्रमिदं । सूर्यः । सूर्यात्मारुद्रः । मन्युस्तत्क्रोधशक्तिः ॥ मन्युपतयः। हेडस्वामिन- स्तद्गश्मीभूता रुद्गणाः । “असौयस्ताम्रो अरुण उत बनुः सुमङ्गलः । येचेमाँरुद्रा अभितो दिक्षु । श्रितास्सहताशोदा हेडईमहेतिश्रुतेः" ॥ ते सर्वे देवाश्च । मन्युकृतेभ्यः पापेभ्यः । मां रक्षन्तां रक्षन्त्वित्यर्थः ॥ किंच । यद्राच्याराज्यामित्यर्थः । विभक्तिविपरिणामः कार्यः । यत्पापमकार्ष । कृतवानस्मि । तत्सर्वं रात्रिः शिवशक्तिः शूलपाणिप्रियानिशीतिस्मृतेः ॥ अवलुम्पतु । विच्छेदयतु । नाशयत्वित्यर्थः । यत्किंचदुरितं मथि । मयि ततोन्यं यत्किंचिद्दुरितं वर्तते । तत्कर्तारं मांच । अमृतयोनौ । मोक्षहेतुभूतसहस्रारस्थिते । सूर्ये । सूर्यवत्प्रकाश- माने । ज्योतिषि । स्वयं प्रकाशमानपरशिवे । प्रसिद्धसूर्यान्त- वर्तिनि शिवेवा । सूर्यरूपेशिवे वा। जुहोमि स्वाहा । होम । ।
महानारायणोपनिषत् । करोमीत्यर्थः अहं मम । वृत्तित्यजामीतिभावः ॥ अत्रपूर्वाचार्य- कृतश्लोकालिख्यन्ते ॥ सूर्योमन्युमामन्युपतयो मन्युजाधात् ॥ मुश्चन्तु हस्तवच्छिश्नमनोवागुदरैरपि । राज्यामकार्ष पापं यद्रात्रिरेहवलुम्पतु । अबुद्धिकृतमप्येनो । यत्किंचिद्दुरितं मयि । तच्छान्त्यै माहं सूर्ये । जुहोमिज्योतिषिस्वयं । प्रक्षिप्या- मृतयोनौ मामुच्येयं मृत्युबन्धनादिति ॥ मनसावाचेति वाक्यस्यपूर्ववद्बोध्यम् ॥ इति त्रिंशत्यनुवाकभाष्यम् ॥ मूलम्-ओमित्येकाक्षरं ब्रह्म । अग्निदेवता ब्रह्म इत्यार्ष । गायत्रीछन्दं परमात्मास्वरूपं । सायुज्यं विनियोगः । आयातुवरदादेवी अक्षरं ब्रह्मसम्मितं। गायत्रींछन्दसाँ मातेदं ब्रह्मजुषस्वमे । यदलात्कुरुतेपापं तदात्य. तिमुच्यते । यद्रात्रियात्कुरुते पापंतद्रात्रि- यात्प्रतिमुच्यते ॥ सर्ववर्णे महादेवि सन्ध्या विये सरस्वति । ओजोसि । सहोसि बल- मसिभ्राजोसि देवानां धामनामासि विश्व- मसि विश्वायुस्सर्वमासि सर्वायुरभिभूरों गयत्रीमावाहयामि।सावित्रीमावाहयामि। सरस्वतीमावाहयामि । छन्दऋषिमावाह- यामि । श्रियमावाहयामि । बलमावा- हयामि । गायत्रीया गायत्री छन्दोविश्वा• ९२ श्रीशैवभाष्योपेता। मित्रऋषि स्सवितादेवता। अग्निर्मुखंब्रह्मा- शिरोविष्णुहृदयं । रुद्रःशिखा । पृथिवी- योनिः । प्राणापानव्यानोदानसमानस प्राणाश्वेतवर्णासांख्यायनसगोत्रा गायत्री चतुर्विंशत्यक्षरात्रिपदाषकुक्षिः ॥ पंच. शीर्षोपनयने विनियोगः ॥ ४ ॥ भाष्यम्-एवं परशिवस्य अग्निश्चेत्यादिसंध्यांगमंत्र- प्रतिपाद्यत्वमुक्त्वेदानी गायत्रीप्रतिपाद्यत्वं निरूपयितुं तत्स्तु- तिमारभते ॥ ओमित्यादिना ॥ ओमित्येकाक्षरं ब्रह्म । ओमित्ये कवर्ण शिवः । "शिवोमे अस्तु सदाशिवों । नमस्तारायनम इत्यादिश्रुतिषु तथा श्रूयते" ॥ प्रणवस्य ऋष्यादिकं दर्शयति । अग्निर्देवता । अं। सकलवेदान्तप्रतिपाद्यत्वं । गच्छतीत्यग्निः। परमात्मा । “अगिरगिलगीतिदंडक धातुः॥"अग्नेलोपश्चेति औणादिकसूत्रेणनिप्रत्ययः" । सलोपश्च । अस्य प्रणवस्य पर- शिवोधिदैवतमित्यर्थः ॥ ब्रह्मइति शिवमद्वैतं चतुर्थ मन्य- न्तेतिश्रुत्या मूर्तित्रयातीतपरब्रह्मशिवः । आर्ष । ऋषिः । रुद्रः ऋषिरित्यर्थः। विश्वाधिकोरुद्रोमहर्षिरितिश्रुतेः। गायत्रं छन्दं । गायत्री छन्दइत्यर्थः । परमात्मा । शिवः । “प्रीयतां भगवानीशः परमात्मा सदाशिवोभितिश्रुतेः" । सरूपं । परशिवस्य अंगभूत- त्वात्तत्स्वरूपत्वं । तदभिव्यक्तिस्थानत्वाद्वातत्स्वरूपत्वं प्रणव- स्य युक्तं भवति ॥ सायुज्यं । नदीसमुद्रवदैक्यरूपमोते विनि- योग इत्यर्थः। इति शब्दः प्रकारार्थे । तथाचैवं प्रणवप्रकारो- विजानीयादित्यर्थः॥पूर्वाचार्यैः प्रणवे ब्रह्मऋषिःप्रोक्तश्छन्दोगाय- त्रमुच्यते । परमात्मा देवताया मोक्षादौविनियुज्यते ॥ अत. एवाग्निपदस्य परशिवपरत्वमुक्तः ॥ अथ सकलवेदमातरं ।
महानारायणोपनिषत् । परशिव प्रतिपादिकां गायत्री प्रार्थयते । आयात्विति । वरदा। उपासकानामभीष्टफलप्रदा ॥ "वरदावामनेति ललितास्तोत्रे देवी मातृकात्मिकपराशक्तिरूपगायत्री । आयातु । सहस्त्रारा- म्बुजोद्धवमाकाशमायात्वित्यर्थः। यद्वा । आयात्विति । अस्म दनुग्रहार्थं दानप्रदशीलादेवी मत्सकाशमागच्छत्विति वास्यात् ततः किं तबाह ॥ अक्षरं । नाशरहितं । ब्रह्मसम्मितं । सम्मितं सम्यग्वेदान्तेननिश्चितं ॥ ब्रह्म । सहस्रारस्थितस्वयंप्रकाशमान- शिवस्त्वमेवेतिशेषः। शक्तिशक्तिमतोरभेदादितिभावः । अस्तु । किंतत्राह । गायत्रीमिति । छन्दसां माता। सर्वेषां वेदानां जननी । सकलवेदनिर्गलितसारभूतत्वादित्यर्थः । तदाहमनुः । "त्रिभ्यएवतुवेदेभ्यः पादंपादमदूदुहत् ॥ तदित्सृचोस्याःसा- वित्र्याः । परमेष्टी प्रजापतिरिति” | गायत्रीं । गायत्रीं । छन्दो- भिमानदेवतेत्यर्थः ॥ प्रथमार्थे द्विताया छान्दसं ॥ इदं । मत्कृतं स्तोत्ररूपंब्रह्म ॥ तपः। वेदस्तत्वं तपोब्रह्मेतिवचनात् । जुषस्व । गृहाण । त्वमितिशेषः । जुषस्वेतिलिङ्गात् । गायत्रीत्वमागत्य- मामनुगृह्य । मदाचरितं स्तोत्र जुषस्वेतिस्वकृतं भगवत्यैस- मर्पयतीति भावः । अथवा। वरदादेवी । अक्षरं । नाशरहितं । सम्मितं । सम्यग्वेदान्तप्रमाणेन निश्चितं ब्रह्म । जगत्कारण- परशिवं । उपदेष्टुमितिशेषः ॥ आयातु । अस्माकं शिवज्ञानं बोधयतुमागच्छत्वित्यर्थः । एतदेवस्पष्टयति । गायत्रमिति । छन्दसां मातागायत्रीपदाभिधेयाचिच्छक्तिः । मे मम । इदं । माजद्धदयपुण्डरीकमध्यस्थितं । ब्रह्म। परशिवं । ज्योतिर्मय शिवमित्यर्थः । जुषस्व । जोषयतु । उपदेशपूर्वकतया साक्षा- कुर्यादित्यर्थः । जुषस्वेतिछान्दसं रूपं ॥ तस्य फलमाह । यद- हादिति । अह्नात् । अह्नि। यत्पापं कुख्ते । करोति । तत्पापं । अह्नात् । अह्नि । प्रतिमुच्यते । अन्तर्योतिलिङ्गानुसन्धानपुरुषा- श्रीशैवभाष्योपेता। । णामितिशेषः । एतेन यद्राच्यादिति । व्याख्यातं ॥ अथगोयन्याः सर्वात्मकत्वं दर्शयन्नेवसविशेषप्रार्थयते । सर्ववणे इति ॥ सर्व- वर्षे । शाकिनीडाकिन्यादिसर्वशक्तिस्वरूपिणी । महादेवि । महादेवस्य । शिवस्थपत्नी महादेवी । तस्याः सम्बुद्धिः हेमहा- देवि । त्वं ओजोसि । इन्द्रियाणां शक्तिरसि । सहोसि । शत्र- णामभिभवनशक्तिरसि । बलमसि । शरीरसामथ्यरूपोसि । भ्राजोसि । दीप्तिरूपोसि । देवानां ब्रह्मविष्णवादीनां । धाम तेजो यदस्ति। तन्नामासि । तदेवतवनामेत्यर्थः । अथवा । देवा. नां । दशावताराणां । धाम। निवासभूमिः । असि। "नारायणि- कराङ्गुष्ठनखोत्पन्नदशाकृतिरिति ललितासहस्रनामावल्यां" तथा श्रूयते । नामप्रसिद्धौ । सर्वदेवताश्रयभूमिरसीति भावः । विश्वं । सर्वजगदुपादानकारणत्वात्सर्वजगद्रूपस्त्वमसि । विश्वायुः । संपूर्णायुःस्वरूपोसि ॥ एवं सर्वमसि सर्वायु रित्युक्तानामनुवादः । यद्वा । विश्वं समस्तस्थावररूपोसि । विश्वायुः । स्थावरजातस्य आयुरपित्वमेवासि । अत्रायुः शब्देनसत्ताकालोविवक्षितः ॥ सतु प्राणवायुरित्यर्थः । तस्य चेतनधर्मत्वादिति चिन्त्यं । एवं जंगमानामपिज्ञेयं । अभिभूः। सकलपापस्य तिरस्कारहेतुः। ॐ । प्रणवस्वरूपपरशिवो- सि । एतत्सर्व परमेश्वरशक्तित्वाच्छक्तिशक्तिमतोरभेदाच्च गायन्त्यास्स भवति ॥ तादृशीं गायत्रीं । मदीये मनसि । आवा- हयामि । उपसितुमितिशेषः एवं सावित्यादि रुपेण गायत्रा- वाहन । अत्रैकस्या एव गायत्र्याः कालभेदेन नामभेदाङ्गीकारा- गायत्र्यादिभेदेन आवाहनं युक्तं ॥ तदुक्तं पराशरमाधवीये ॥ गायत्रीनामपूर्वाह । सावित्री मध्यमे दिने । सरस्वती च सायढे । सैवं सन्ध्या त्रिधामतेति-ग्रन्थान्तरे नामत्रयनिर्व- चनं कृतं । गायत्री प्रोच्यते तस्मादायन्तं त्रायतेयतः । सवितु- महानारायणोपनिषः। द्योतनात्सैव सावित्री परिकीर्तिता ॥ जगतः प्रसवित्री । वा । ग्रूपत्वाच्च सरस्वतीति ॥ छन्दांसि । गायत्र्यादीन् । ऋषीन् विश्वामित्रादीन् । श्रयन्त्येतामिति श्रीः । महालक्ष्मीः । तां आवाहयामि । अथ गायत्र्याश्छन्दरूषिदेवतादिस्वरूपं दर्शयति । गायत्र्या इति। गायत्र्याः। गायत्रीमन्त्रस्य । गायत्रीछन्दः । विश्वामित्रऋषिः । विश्वस्य अमित्रकः । “विश्वस्य वसुरारो- दितिसूत्राद् " विश्वामित्र इति रूपं सुप्रसिद्ध । तत्वोपदेशको रुद्रऋषिरित्यर्थः । सविता सवितृमण्डलमध्यवर्तिशिवः । उत । सवितृरूपेण भ्राजमानशिवोवा । देवता। अधिदेवतेत्यर्थः । चिच्छक्तिरूपत्वाद्गायच्याः परशिवदेवतात्वं युक्तमिति- ज्ञेयं । अग्निर्मुखं । घोरतनुविशिष्टशिवमुखं । ब्रह्मा । चतुर्मुखः। शिरः। विष्णुहृदयं । रुद्रः शिखा । अत्रापि कालरुद्रस्य ब्रह्म- विष्ण्वतिशयत्वात्तस्यशिखात्वं युक्तं । पृथिवीयोनिः । सर्व चेतनाचेतनजीवानामिहलोके उपादानकारणत्वात्तस्याः। योनि- त्वमुक्तं । प्राणापानव्यानोदानसमानरूपपंचप्राणात्मिकेत्यर्थः ॥ सप्राणनागकूर्मककरदेवदत्तधनंजयाद्युपप्राणयुक्ता गायत्री श्वेत- वर्णा । श्वेतवर्णविशिष्टा । परशिवचिच्छक्तित्वाच्छुद्धस्फटि- कसंकाशरूपेत्यर्थः ॥ त्रिगुणात्मिकत्वात्रिवर्णत्वं च तस्याः युक्तं ॥ तदुक्तं । गायत्रीतु भवेद्रक्तासावित्रीश्वेतवर्णका । सरस्वती तथा कृष्णा उपास्यांवर्णभेदतः । इति ॥ साकिंगोत्रे- त्यत्राह । सांख्यायनऋषेः समानं गोत्रं यस्याः सा सांख्यायन- सगोत्रेत्युच्यते । चतुर्विशत्यक्षरा चतुरधिकाविंशतिः अक्षराणि यस्याः सातथोक्ता । त्रीणि पदानि ऋग्यजुस्सामरूपपदानि यस्याः । सा तथोक्ता । अत्र "संख्योया अल्पीयस्था" इति चतुश्शब्दस्य पूर्व निपातः ॥ ॥ षट्कुक्षिः। प्राच्यादिदिकचतुष्टयं । उर्ध्वाधोभागे मिलित्वा षट्कुक्षिर्भव- ६ श्रीशैवभाष्योपेता। तीतिभावः । यद्वा । षण्णां शक्तीनां कुक्षयो यस्याः सातथोक्ता। पंच । सद्योजातवामदेवाघोरतत्पुरुषेशानरूपाणि शीर्षाणि । शिरांसि । यस्यासौ। पंचशोषः। उपरिनयनंयस्यासौ । उप- नयनः । वर्णलोपात्पृषोदइति पृषोदरादिगणपठितत्वात्साधुः । जीमूत इत्यादिषु बहुशस्तथा दृश्यन्ते ॥ सचासौ सश्च पंचशी- पनयनः । तस्मिन् । शिवे विनियोगः । शिवशक्तित्वाच्छिचे विनियोग इति ज्ञेयं ॥ मुक्ताविद्रुमहेमनीलधवलच्छायैर्मुखै- स्त्र्यक्षणैरिति ध्यानश्लोकेगायत्र्याः । पंचशीर्षत्वत्रिनेत्रत्वादि- परशिवसारूप्यवर्णनात्तस्याः परशिवशक्तित्वमनिवार्य । भगव तापण्डितभाष्यकारेण वीरभद्राराध्यादिपूर्वाचार्यैश्वस्वकृत ग्रन्थेषु सन्ध्यावन्दनस्योपक्रमादुपसंहारपर्यन्तस्थितमन्त्राणां शिवप्रतिपाद्यत्वं बहुधा राद्धान्तितः। विशेषमिच्छद्भिस्तत्र द्रष्टव्यं ॥ इति नारायणे एकत्रिंशत्यनुवाकभाष्यंसमाप्तम् ॥३१॥ मूलम्--ॐ भूः । ओं सुवः । ॐ महः । ॐ जनः । ॐ तपः । ॐ सत्यं ॥ ॐ तत्सवितु. वरेण्यं भर्गोदेवस्य धीमहि धियो योनः प्रचोदयात् ॥ ३२॥ द्वात्रिंशत्यनुवाकः॥ भाष्यम्-ॐ भूरिति ॥ भूलोकाद्याः सप्तलोका अपि । ॐ। ओंकारात्मक शिव एवेत्यर्थः॥ "शिवोमे अस्तु सदा- शिवोमिति श्रुतेः" ॥...... ॐ तत्सवितुरिति ॥ सवितुर्दैवस्य । सवितृरूपदेवस्येत्यर्थः । राहोः शिर इत्यादिवदौपचारिकषष्ठी । मण्डलान्तरगतमिति शेषः । “मण्डलान्तरगतंहिरण्मयं भ्राजमानवपुषं शुचिस्मितं ।
महानारायणोपनिषत् । चण्डदीधितिमखण्डविग्रहं चिन्तयेन्मुनिसहस्रसेवितमितिस्मृ- ते ॥ वरेण्यं । श्रेष्ठः शिवस्य ब्राह्मणदेवतात्वात् । “त्वंदेवेषु- ब्राह्मणोस्यहं मनुष्येषु ब्राह्मणः। ब्राह्मणो वै ब्राह्मणमुपधावतीति" श्रुतौ तथानिरूपणात् । तदितिद्वितीया परिणमते । सुपांसुलु- गित्यपिविभक्तिलोपः। तत् । तं सदाशिवं धीमहि । ध्यायेमहि । पृथग्जनदुष्प्रापस्य सदाशिवध्यानस्य एकेन कर्तुमशक्यत्वाद्- बहुत्वोक्ति रितिध्येयं । तत्किमर्थमित्यत आह ॥ घिय इति । यः । भर्गः। शिवः पूर्वपादस्थस्यापि भर्गपदस्यान्वयबलादत्रा नुषंजनं कार्य । नः । अस्माकं । धियः । धर्मादिगोचरबुद्धयः । प्रचोदयात् । प्रकृष्टेन प्रेरयेत् । सम्यग्ददातीत्यर्थः। “सोमः पवते जनिता मतिनां । तदक्षरं तत्सवितुर्वरेण्यं प्रज्ञा च तस्मात्प्रसृता- पुराणि । रुद्रो जनानां हृदये सन्निविष्टः । इत्यादि बहुश्रुतिषु शिवस्य बुद्धिप्रेरकत्वं स्पष्टमुक्तं । यद्वा । यो भर्गः। शिवः। नः । अस्मान् । धियः। अज्ञानात् । धीशब्दोत्र व्यतिरेकलक्षणया अज्ञानार्थो भवति । यथा नष्टेन्दौदर्शप्रयोगः । यथाधीरे । कातर- शब्दप्रयोगः । प्रचोदयात् । प्रकर्षणज्ञानपारं गमयेदिति प्रार्थ्यते । अस्मिन्नर्थे श्रुतिः ॥ उमासहायं परमेश्वरं प्रभुत्रिलो- चनं नीलकण्ठं प्रशान्तं । ध्यात्वा मुनिर्गच्छति भूतयोनि समस्त साक्षिं तमसः परस्तादिति । तमसः अज्ञानात् । परस्तात् । परमिति श्रुत्यर्थः ॥ इतिकेचिद्वदन्ति ॥ अत्रभर्गशब्दस्यसकारा- न्तत्वंमवलम्ब्य तेजः परत्वं वदन्ति केचिन्मन्दमतयः । तदसंगतं ॥ चतुर्वेदपारगैहर्रदत्ताचार्यैः । चतुर्वेदसार- संग्रहे श्रीकण्ठभर्गपदमण्यनघं तवाद्यं तेजः परं भवतिचेद्ध- वमाधुदात्तं । तस्मादददन्त इति कोशवशादवैमि । मार्तण्डमण्डलगतः शिव एव नान्य इति राद्धान्तितत्वात् " भर्गोदेवस्यरुद्रात्मने शिखायैवषडितिबोधायनमहर्षिणागा- । ॥
श्रीशैवभाष्योपेता। यव्यङ्गन्यासेष्वदन्तत्वेन प्रयोगात् ।" भर्गइति द्वितीयः पादइति त्रिपुरतापनीयगायत्रीहृदये भर्गशब्दस्यादन्तत्व- दर्शनाञ्चपूर्वोक्तभर्गपदस्य ।सकलदुरितार्तिभंजकसदाशिवएवार्थ इति राद्धान्तितं । श्रीकरभाष्ये पण्डितभाष्यकारीज्योतिरधिकरणे गायत्रीविचारः बहुधाकृतः । विशेषमिच्छद्भिस्तत्रद्रष्टव्यं । इति नारायणे द्वात्रिंशत्यनुवाकभाष्यं समाप्तम् ॥ ३२ ॥ मूलम्-ॐ मापो ज्योतिरसो मृतं ब्रह्म भूर्भुवस्सु- वरोम् ॥ ३२ ॥ इति द्वात्रिंशत्यनुवा ॥ भाष्यम्-ओमापो ज्योतिरसो मृतमिति ॥ अत्र प्रथमतः। प्रणवपदं ओं भूः । भूलोकाभिमानिन्योरुद्रदेवताः। “सहस्राणि सहस्रशोयेरुद्रा अधिभूम्यामिति श्रुतेः ,, ॥ ओंकारात्मकशि- वत्वेन स्तूयन्तेतितात्पर्य । ओं " अस्मिन्महत्यर्णवेन्तरि- क्षाभवा अधीतिश्रुतेः , ॥ तत्तल्लोकस्थितरुद्गणाः । तत्तल्लो- काश्च । ॐ । ओं कारात्मकशिवएव । आपः । जलानि । तद- धिष्ठानदेवता इत्यर्थः । ज्योतिरग्निः तल्लोकस्थितदेवताश्च । रसोमृतं । रसः। परमानंदरूपः । अमृतं । मोक्षरूपः। ओं। ओंकारात्मकसदाशिवएवेत्यर्थः । सो वै रुद्र इति श्रुतेः। ॥ इति द्वात्रिंशत्यनुवाकभाष्यम् ॥ ओं कार रूपनिष्पत्ति । प्रकारोयं ॥ अवरक्षण इति धातोः। "अवतेष्टिलोपश्चेत्यौणादिकसूत्रेण,,मन्प्रत्ययोविहितः। तस्य "ज्व- रत्वरेत्यादिना,, ऊठि । ततोगुणः। ततःश्लिष्टोञ्चारणमिति। प्रक्रि- यया ओमितिरूपं निष्पन्नं ॥... अकार उकार मकार इतितानेकधा समभवत्तदेतदोमिति श्रुतेः ॥ ३३ ॥ भुवः।
महानारायणोपनिषः । ९९ मूलम्-उत्तमे शिखरेजाते भूम्यां पर्वतमूर्धनि । ब्राह्मणेभ्योभ्यनुज्ञातागच्छदेवियथासुखं । स्तुतो मया वरदा वेदमाता प्रचोदयन्ती पवने द्विजाता । आयुः पृथिव्यां द्रविणं ब्रह्मवर्चसं मह्यं दत्वा प्रजातं ब्रह्मलोकम् ।। इतित्रयस्त्रिंशत्यनुवाकः ॥ ३३॥ भाष्यम्-भ्रूम्यामवस्थितोयोमेरुः। तस्य मूर्धन्युपरिभागे। जाते । विद्यमाने । उत्तमेश्रेष्ठ । शिखरे । उत्कृष्टशिखराकार कैलासे इत्यर्थः । स्थातुमितिशेषः । ब्राह्मणेभ्यः । उपासकेभ्यः। द्विजेभ्यः । अभ्यनुज्ञातंसत् । हे देवि । हे परशिवशक्त । भग- वति । गच्छ । यथासुखं । अस्मानुपासकाननुगृहीत्वा यथा- सुखं भवद्भर्तृभवनभूतमहामेरुकैलासं यथाकामं गच्छेत्यर्थः । ब्रह्मलोकशिवलोकमित्यर्थः । शिष्ट स्पष्टं ॥ इतित्रयत्रिंशत्यनु- वाकभाष्यं समाप्तम् ॥ ३३ ॥ मूलम्-घृणिः सूर्यआदित्यो मर्चयन्ति तपस्सत्यं मधुक्षरंतितद्ब्रह्मतदाप आपोज्योतिरसो- मृतं ब्रह्मभूर्भुवस्सुवरोम् ॥ ३४॥ भाष्यम्-घृणिरिति ॥ जिघर्ति परमात्मनोसाविति । जिघर्ति प्रकाशतीति वा घृणिः । जीवः। घृक्षरणदीप्त्योरितिहि धातुः। घृणिः । घृणय इत्यर्थः । रनव्यत्ययश्छान्दसः। शिवभक्ता इतियावत् । सूर्येसूर्यमण्डले । आदित्यों। आदित्य- शरीरकं। शिवं । अर्चयन्ति । पूजयन्ति । तपः। आदित्य- श्रीशैवभाष्योपेता। मण्डलवर्तिशिवएवेत्युपासनं सत्यं । आदित्योवेत्यादि श्रुति- प्रसिद्धं । एतेन सूर्यमण्डलान्तर्वतित्वेन नारायणोपासनं तान्त्रि- कमिति राद्धान्तितं । सः । मधुमोक्ष । क्षरन्ति। निष्पादयन्ति॥ उपासकानां मोक्षं ददातीत्यर्थः । वचनव्यत्ययश्छान्दसः ॥ तत् । आदित्यगतशिवः। ब्रह्म ब्रह्मपदवाच्यशिवः । तत् । शिवः । आपः । अपशब्दवाच्यः । तद्रूपो वा ॥ "कं ब्रह्मत्वं ब्रह्मेतिश्रुतेः "। आपोज्योतिः । हृत्पुण्डरीकजलमध्यभासमान प्राणलिङ्गात्मकः । रसः । आनन्दरूपः। अमृतं । मोक्षरूपः। ब्रह्मसर्वव्यापकः । "वृहि हि वृद्धावितिहिधातुः" । भूर्भुवः सुवर्लोकाश्च । ॐ। ओंकारात्मक शिवएवेत्यर्थः । सर्वो वैरु- द्रइतिश्रुतेः । अत्र आदित्योमिति विशेषणपूर्वपदकर्मधारयः । आदित्यं च तत् ॐ च आदित्यों। आदित्यं । आदित्यशरीरकं । ॐ ओंकारात्मकशिवमित्यर्थः । शिवोमे अस्तु सदाशिवों । नमस्तारायेत्यादिषु प्रणवस्य शिवात्मकत्वं बहुधा प्रपंचितं । अचेतनकिरणानां ब्रह्मत्वादिधर्माणामसम्भवादेतदनुवाकस्य शिवपरत्वं युक्तम् ॥ ३४॥ मूलम्-ॐ भूर्भुवस्सुधर्महर्जनन्तपस्सत्यं तद्ब्रह्मतदा- प आपो ज्योतीरसोमृतं ब्रह्मभूर्भुवस्सु- वरों ॥ ओं तद्ब्रह्म । ओं तद्वायुः । ओं तदात्मा | ओं तत्सर्व । ओं तत्पुरोनमः ॥ ३५॥ इति नारायणे पंचत्रिंशत्यनुवाकः ॥ भाष्यम्-ॐ भूरिति ॥ अस्मिन्ननुवाके ॥ प्रणवात्मक शिवस्यैव सर्वात्मकत्वेन स्तुतिः। पुरः । पूर्वभावि । कार्यनि- महानारायणापानषत् । १०१ यतपूर्ववति । कारणमित्यर्थः । अहमेकः प्रथममासमिति- श्रतः । अतस्तस्मै । प्रणवात्मकशिवाय । नमः । नकारे रेफ- श्छान्दसः ॥ इति पंचत्रिंशत्यनुवाकभाष्यं समाप्तम् ॥ ३५ ॥ मूलम्--ओमन्तश्चरति भूतेषु गुहायां विश्वमूर्तिषु। त्वं यज्ञस्त्वं विष्णुस्त्वं वषट्कारस्त्वं रुद्रस्त्वं ब्रह्मत्वं प्रजापतिः॥ ३६ ।। इतिनारायणे षट्त्रिंशल्यनुवाकः समाप्तः ॥ भाष्यम्-ओमन्तश्चरतीति ॥ ओङ्कारात्मकशिब || त्वं । सर्वेषां ब्रह्मविष्ण्वादीनां गुहायां दहरपुण्डरीके । चरसि । संचरसि । प्रकाशसेत्यर्थः अतः सर्वात्मकत्वमेवे. त्यर्थः ॥ ३६॥ इति ॥ मूलम्-अमृतोपस्तरणमास । प्राणे निविष्टोमृतं जुहोमि प्राणाय स्वाहा । अपाने निविष्टो- मृतं जुहोमि अपानाय स्वाहा । व्याने नि- विष्टोमृतं जुहोमि । व्यानाय स्वाहा ॥ उदाने निविष्टोमृतं जुहोमि । उदानाय स्वाहा । समाने निविष्टोमृतं जुहोमि । समानाय स्वाहा । ब्रह्मणि म आत्मा अमृततत्वाय। इतिनारायणे सप्तत्रिंशत्यनुवाकः समाप्तः ॥ भाष्यम्-अमृतोपस्तरणमसोति ॥ पूर्वापोशनमन्त्रमिदं । पाने हविः संसर्गाय क्रियमाणद्वव्यसेचनमुपस्तरणं । हे १०२ श्रीशैवभाष्योपंता। ममृत । त्वमुपस्तरणमसीतिहस्तस्य जलस्याभिमन्त्रणं । उप स्तीर्यतेनेनेति । व्युत्पत्या उपस्तरणसाधनमुच्यते । प्राणइति। प्राणसन्तर्पणे । अभिनिविष्टः सन् अमृतभूतमन्नं। प्रसादरूपः मन्नमित्यर्थः । जुहोमि । होमं करोमि । एवमुत्तरत्रापि । ब्रह्मणीति । प्राणलिङ्गरूपशिवे । हुतः । समर्पितः सन् । अमृत- तत्वाय कल्पतामित्यर्थः ।...|सप्तत्रिंशत्यनुवाकभाग्यं समाप्तम् मूलम्-प्राणे निविष्टोमृतं जुहोमि शिवोमा विशा- प्रदाहाय प्राणाय स्वाहा ॥ अपाने निविष्टो मृतं जुहोमि शिवो माविशा प्रदाहाय अपानाय स्वाहा ॥ व्याने निविष्टोमृतं जुहोमि शिवोमाविशा प्रदाहाय व्यानाय स्वाहा ॥ उदाने निविष्टोमृतं जुहोमि शिवोमा विशा प्रदाहाय उदानाय स्वाहा ॥ समाने निविष्टोमृतं जुहोमि शिवोमा विशा प्रदाहाय समानाय स्वाहा ॥ ब्रह्माणि म आत्मा अमृततत्वाय । अमृतापि- धानमसि॥ इत्यष्टत्रिंशत्यनुवाकः ॥ भाष्यम्-प्राणेनिविष्ट इति ॥ अयं मन्त्रः ॥ पूर्वमन्त्रेण विकल्पितः । शिवः । शिवार्पितत्वाच्छिवरूपः सन् । हे हूय- मानप्रसाद । अप्रदाहाय । जाठराग्निकृतदाहाभावाय । शरीरगतसर्वपापदाहाभावाय वा ॥ मां प्रविशेत्यर्थः।
महानारायणोपनिषत् । एवमुत्तरत्रापि । अमृतापिधानमसि । अमृतरुपमाच्छादनमसि उत्तरापोशनार्थ हस्तस्थजलाभिमन्त्रणमन्त्रं । शिवप्रसाद- महिमावणं वास्यात् । इत्यष्टत्रिंशत्यनुवाकभाष्यम् ॥ ३ ॥ मूलम्-श्रद्धायां प्राणे निविश्यामृतं हुतं प्राण- मन्नेनाप्यायस्व अपानोनिविश्यामृतं हुतं अपानमन्नेनाप्यायस्व । व्याने निविश्यामृतं हुतं व्यानमन्नेनाप्यायस्व ॥ उदाने निविश्यमृतं हुतं उदानमन्नेनाप्यायस्व । समाने निविश्यामृतं हुतं समानमन्नेनाप्या यस्वाब्रह्मणि म आत्मा अमृतत्वाय ॥३९॥ भाष्यम्-श्रद्धायामिति ॥ जाठराग्न्यवच्छिन्नशिवं प्रति वचनमिदं । श्रद्धायां स्थित्वा । श्रद्धालुनामयेत्यर्थः ॥ प्राणेनिमित्त हुतं । प्राणलिङ्गात्मकशिवायहुतं ॥ तेन । हुतेन । प्राणं पोषय एवमुत्तरत्रापि । पंच प्राणेषु आचारादिपंच लिंगानि वा योज्यनि । प्राणाधिष्ठिताचारलिंगाय इति । योज्यमित्यर्थः । अमृतं । शिवार्पितमन्नं । "रुद्रेणात्तममृतं वैदे- वाभोक्तकामा इति श्रुतेः" । इति नारायणे एकोनचत्वारिंशानु- वाकभाष्यम् ।। ३६॥ मूलम्-प्राणानां ग्रन्धिरसि रुद्रो माविशान्तकस्ते- नान्नेनाप्यायस्व ॥ ४०॥ भाष्यम्-प्राणानांप्रन्थिरसीति ॥ अन्तकः । सर्वपदार्थ- जीर्णकर्ता । रुद्रः । जाठराग्न्यवच्छिन्नशिवः । त्वं । प्राणानां ग्रन्थिरसि । अधिष्ठानभूतोसीत्यर्थः । अतः । जीवात्मकं मां श्रीशेवभाष्योपेता। ... ... विश । प्रविश । मथिनिवासं कुर्वित्यर्थः । तेन अन्नेन । त्वत्सम- पिंतप्रसादेन । मां । आप्यायस्व । परितृप्तिप्रापयेत्यर्थः । इति चत्वारिंशत्यनुवाकमाष्यम् ॥ ४० ॥ मूलम्-अङ्गुष्ठमात्रः पुरुषोंगुष्ठं व समाश्रितः। ईशः सर्वस्य जगतः प्रभुः प्राणातिविश्व- भुक्॥४१॥ भाष्यम्-अंगुष्ठमात्रइति । अंगुष्ठं च समाश्रितः । अङ्गुष्ठ- परिमितसूक्ष्महृदयावच्छिन्नः । अङ्गुष्ठमात्रः॥तच्छिन्नत्वेन अंगुष्ठ- परिमाणविशिष्टः । पुरुषः । पूर्वोक्तरुद्रस्य अभिव्यक्तस्थानमनेन प्रदर्शितं भवति । पुरुषः कइत्याकांक्षायामाह ॥ विश्वभुक् । विष्ण्वादिसर्वचेतनाचेतनसंहारकर्तेत्यर्थः सर्वस्य जगतः । विष्ण्वादिसर्वजगतः । प्रभुः । प्रभुः नियामकः। सर्वभूतदमनायनमः। ईश्वरः सर्वभूतानामित्यादिश्रुतिषुतथा श्रूयते । ईशः। शिवएवेत्यर्थः । शम्भुरीशः पशुपतिरितिकोशात् ॥ इत्येकचत्वारिंशत्यनुवाकभाष्यं समाप्तम् ॥ मूलम्-त्र्यम्बकं यजामहे मुगन्धिं पुष्टिवर्धनं उर्वा- रुकमिवबन्धनान्मृत्योर्मुक्षीयमामृतात्॥४२।। भाष्यम्-त्र्यम्बकमिति ॥ सुगन्धिं । निरतिशयपरिमल- विशिष्टत्वं ॥ सर्वचत्वादिमङ्गलगुणकत्वं । वा । पुष्टिवर्धनं । शमदमभक्तिवैराग्यज्ञानसमृद्धिकारकं । त्र्यम्बकं । लिङ्गरूपं शिवं । अमृतात् । आमरणात् । यजामहे । यजपूजासङ्गती- करण इति धातोः । पूजां कुर्मः ॥धारयामइति वा स्यात् । तेनहेतुना । बन्धनात् । वृन्तात् । पक्वदशायां । यथा उर्वारुकं । कर्करीफलं । विमुच्यते । तथाहं । मृत्योः । जननमरणप्रवाह- महानारायणोपनिषः । विशिष्टसंसारात्मकमृत्योः । मृक्षीयं । मुच्येयं । तादृक् संसार- विमुक्तो भवेयमित्यर्थः । तथास्कान्दे । "व्यम्बकं महादेवं लिङ्ग- अपमनामयं । दिव्यगन्धसमायुक्तं । ज्ञानवैराग्यसिद्धिदं । अमृताइहपातान्तं श्रद्धाभक्तिसुसंयुताः॥ यजामहे । धारयामः । पूजांकुर्मों यथाविधि । पक्वकाले यथा वृन्तादुर्वारुकफलं- भुवि ॥ ............ ॥ तथाहं मृत्युसंसाराद्विमुच्येयं न संशय इत्येतन्मन्त्रमुपवृहितं"। इति द्विचत्वारिंशत्यनुवाकभाष्यं समाप्तम् ॥ मूलम् -मेधादेवी जुषमाणान आगाद्विश्वाची भद्रा- मुमनस्यमाना । त्वयाजुष्टाजुषमाणा दुरु- क्त्यान् बृहदम । विदधे मुवीराः। त्वया- जुष्टंजुषभिर्भवतिदेवित्वया ब्रह्मागत श्रीर- तत्वया । त्वया जुष्टश्चित्रं विन्दते वमुपानो जुषस्वद्रविणेन मेधे ॥ इति ४३ अनुवाकः॥ भाष्यम्-इतः पूर्व परशिवं प्रस्तुत्य इदानीमनुवाकद्वयेनशि- वज्ञानानुकूल मेधादि प्राप्त) परमेश्वरशक्तिभक्त्यादि प्रार्थन- मुपदिशति ॥ मेधावीति ॥ विश्वमञ्चतीति विश्वाची । विश्वव्या- पिनी।सुमनस्यमाना । सर्वप्रजासुशोभनमनोयुक्ता । मेधादेवी। मेधाप्रदापरमेश्वरचिच्छक्तोजुषमाणा। प्रीतियुक्तासती|भागात्। आगच्छतु । हे देवि पूर्वदुरुक्तान् । गर्हितान् शब्दान् जुषमाणाः । सेवमानावयमिदानीं त्वया जुष्टाः । अनुगृहीताः सन्तः । गुणे-
श्रीशैवभाष्योपेता।
बृहत् । श्लाघ्यगुणयुक्तं वचः । वदेम । यस्माद्भवति । सुवीराः।
वाचोविदधे । विहितवत् । त्वयासुवीर्ययुक्तानां वाचां। आस्मा-
सुसंविधानात् । वयं समीचीनं वचः त्वदनुग्रहादनन्तरं वदामः
इत्यर्थः । त्वयाजुष्टइति । त्वया अनुग्रहीतोमन्नद्रष्टा भवति ।
त्वयानुगृहीतः शिवप्राप्तिसाधनलक्ष्मीवान् भवति । त्वयानु-
गृहीतश्चित्रं धनं लभते । हे मेधाप्रदे । चिच्छक्ते । तादृशीत्वं
मां द्रविणेन अनुगृहाण । गुरुचरेश्वरदास्यानुकूलत्वेन द्रव्यं
देहीत्यर्थः॥
इति नारायणेत्रिचत्वारिंशत्यनुवाकभाष्यं समाप्तम् ॥ ४३ ॥
मूलम्--मेधां मयि इन्द्रोददातु मेधां देवी सरस्वती
मेधां मे अश्विनौ देवागधत्तां। पुष्करनजौ।
अप्सरासु यामेधा गन्धर्वेषु च यन्मनः ।
दैवी मेधामनुष्यजा मामां मेधासुरभि-
र्जुषताम् ।। ४४ ॥
भाष्यम्-मेधां मइति ॥ इन्द्रस्सरस्वती पद्ममालालंकृता-
श्विनौ । देवौ । एते शिवभक्ताश्च । शिवज्ञानाकुलमेधां प्रयच्छ-
न्त्वित्यर्थः । अप्सरासु । अप्सरस्वित्यर्थः । यन्मनः । यामेधा।
अप्सरस्सुगन्धर्वेषुच । देवेषु मनुष्येषु च विद्यमानानां सुरभिः।
श्रेष्ठाशिवज्ञानानुकूलेत्यर्थः । मेधा । ज्ञानशक्तिः। मां जुषतां ।
प्राप्नोत्वित्यर्थः ।
.
इति चतुश्चत्वारिंशत्यनुवाकभाष्यं समाप्तम् ॥ ४४ ॥
महानारायणोपनिषत् । १०७ मूलम्-ब्रह्महेतुमां । मधुमेतुमां । ब्रह्म । मेवमधुमे- तुमां । यास्ते सोमप्रजावत्सोभिसो अहं । दुस्स्वमहं दुरुष्वह । यास्ते सोमस्तान्प्रा- णान् जुहोमि ॥ त्रिसुपर्णमयाचितं ब्राह्म- णाय दद्यात् । ब्रह्महत्यां वा एतेघ्नन्ति । ये ब्राह्मणास्तिमुपर्ण पठन्ति ते सोमं प्राप्नु- वन्ति॥आसहस्रात्पङ्क्तिं पुनन्ति ॐ ॥४५॥ भाष्यम्-एवं मेधाप्रार्थनमुक्त्वा। परशिवस्यशक्तेश्च प्राप्ति प्रार्थ्यमानमनुवाकत्रयमुपदिशति ॥ ब्रह्महेत्विति ॥............॥ ब्रह्म । परशिवः । मा। तच्छक्तिश्च । मां । एतु । प्राप्नोतु । मधुमा । मोक्षलक्ष्मीः । मां एतु । ब्रह्म । शिवः। मा । ज्ञान- शक्तिः।मधुमा। मोक्षलक्ष्मीश्च ।मामेतु। मनसिनित्यं सन्निधत्ता- मित्यर्थः। परशिवानन्दानुभवमेव मोक्षलक्ष्मीरितिज्ञेयं ।नशिवेन विनाशक्ति देव्या च विना शिवः । नानयोरन्तरं किंचिश्चन्द्र- चन्द्रिकयोरितिवचनात् ॥ शिवशक्त्योरुभयोरिति प्रार्थना।समी- चीना । एतेन ब्रह्मणः सविशेषत्वमुक्तं भवति । यास्ते सोमेति ॥ सौति ब्रह्मविष्ण्वादीनुत्पादयतीति सोमः । शिवः । ब्रह्मविष्णु- रुदास्ते सम्प्रसूयन्तेति श्रुतेः । हे सोम । याः । प्रजाः । ताः सर्वास्ते । तव शेषभूता इत्यर्थः। “यथा सुदीप्तातात्पावकाद्विस्फु- लिङ्गा इति श्रुतेः ,, । सोहंते । अभि । अभिमतवत्सः । वत्सवत्पोष्य इत्यर्थः । दुस्स्वप्नेति । त्वं दुःस्वप्नदोषा- णांहन्ता । दुरदृष्टानां स्वहा । स्वं । धनं । हन्तीतिस्वाहा । उइतिनिश्चयार्थकः । यास्ते सोमहति ॥ हे सोम हे शिव । याः। ये। लिङ्गव्यत्ययश्छान्दसः। तान । प्राणानिन्द्रियाणि च । ते। ।
१०८ श्रीशैवभाष्योपेत। त्वयि। विभक्तिव्यत्ययश्छान्दसः।जुहोमि । होमं करोमि । कायेन वाचा मनसा इन्द्रियैर्वा यत्करोमि । तत्सवं परशिवाय समर्पया- मोतिभावः। त्रिसुर्पणमिति त्रिसुपर्णशब्दितमेतदनुवाकत्रयं गुरु- दक्षिणायाच्नान्तरण । कृपयानिस्पृहो वदेदियुक्तरीत्या । कृपा- पारवश्येन । ब्राह्मणमध्यापयति । तेसोमं शिवं । प्राप्नुवन्ति । ओं। ओङ्कारात्मकं शिवमित्यर्थः ॥ शिष्टस्पष्टं । इति पंचचत्वारिंशत्यनुवाकभाष्यं समाप्तम् ॥ मूलम् ब्रह्ममेधया । मधुमेधया । ब्रह्ममेवमधुमे- धया। ब्रह्ममेघवा । मधुमेधवा । ब्रह्ममेव मधुमेधवा ॥ ४६ ॥ भाष्यम्-ब्रह्ममेधयेति ॥ ब्रह्म । शिवः । मेधया । सुझाना- नुकूलबुध्या । संयोजयत्वितिशेषः । मधुमेधया । मधु । तदा- नन्दशक्तिः। ब्रह्ममेवमधुमेधया । मधु । आनन्दरूपं ब्रह्म । शिवः । मेव । तच्छिच्छक्तिश्च । मेधया । संयोजय- त्वित्यर्थः ॥ मेधवा । मेधयेत्यर्थः । वर्णव्यत्ययश्छान्दसः। आदराद्विरुक्तिः । यद्वा । मेधाः । यज्ञः। तां वातिगमयतीति । मेधवाः । सुपां सुलगितिलुक् । शिवज्ञानहेतुभूतयज्ञादिकर्मा- नुष्ठापकः । मधुमेधवा । परशिवानन्दानुभवहेतुभूत अन्तरबा- नानुष्ठापकः । ब्रह्ममेव मधुमेधवा । सर्वव्यापकपरशिवतत्वा- नुभवानुकूलब्रह्माण्डयज्ञानुष्ठापकः ॥ इतिकर्तृविवक्षेतिकेचि- द्वदन्ति । इतिषट्चत्वारिंशत्यनुवाकभाष्यम् ॥ ४६ ॥ ।
महानारायणोपनिषत् । मूलम्--ब्रह्मदेवानां पदवीः कवीनामाषाविप्राणां महिषो मृगाणां। शेनोगृध्राणां । स्वतिथि- वनानां सोमः पवित्रमत्यतिरभन् ॥ हस. इशुचिषद्सुरंतरिक्षसडोतावेदिषदतिथिk- रोणसत्। वृषहरसहतसद्योम सदब्जागोजा ऋतजा अद्रिजाऋतं बृहत् । यइमन्त्रिसु- पर्णमयाचितं ब्राह्मणायदयात् ॥ वीरह- त्यां वा एतेघ्नन्ति । ये ब्राह्मणास्त्रिसुपर्ण पठन्ति ते सोमं प्राप्नुवन्ति । आसहस्रा- त्पति पुनन्ति ॐ ॥ ४७ ॥ भाष्यम्-ब्रह्मदेवानामिति ॥ हँसश्शुचिषदिति इमौ मन्त्री पूर्वमेव, व्याख्यातौ । वीरहत्यामिति । वीरहवा एषदेवानां योग्निमुद्रासयत इत्युक्तां वीरहत्यामित्यर्थः। अन्यः स्पष्टार्थः । इतिनारायणाख्यकूचिरूद्रे सप्तचत्वारिंशत्यनुवाकभाष्यंसमाप्तम् ।। मूलम्-प्राणापान ब्यानोदानसमान।मेशुध्यन्तां ज्योतिरहं विरजा विपाप्माभूयासँ स्वाहा ।। वाङ्मनश्चक्षुःश्रोत्राधिह्वाघाणरेतो बुध्द्या- कृति संकल्पामेशुध्यन्तां । ज्योतिरहं वि- रजा विपाप्मा भूयासँ स्वाहा ॥ शिर: पाणिपादपार्श्वपृष्टोदरजङ्घाशिश्नोपस्था- पासवोमे शुध्धन्तां ज्योतिरहं विरजाति- पाप्मा भूयासँ स्वाहा ॥ ३ ॥ त्वक्चर्ममा श्रीशैवभाष्यापता। सरुधिरमेधोस्थिमज्जामेशुध्यन्तां ज्योतिरह विरजा विपाप्मा भूयासँ स्वाहा ॥४॥ शब्दस्पर्शरूपरसगन्धामे शुध्यन्तां ज्योति- रहं विरजा विपाप्माभूयासँ स्वाहा ॥५॥ पृथिव्यप्तेजो वाय्वाकाशा मे शुध्यन्तां ज्योतिरहं विरजा विपाप्माभ्यासँ स्वाहा ॥ ६ ॥ अन्नमयप्राणमयमनोमयविज्ञानम- यानन्दमयामे शुध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासँ स्वाहा ॥ ७ ॥ विटिहि स्वाहा ॥ ८ ॥ घुषोत्काय स्वाहा । उत्तिष्ठ- पुरुषाहरी लोहित पिङ्गलाक्षदेहि दापयि- तामे शुध्द्यन्तांज्योतिरहं विरजा विपाप्मा भूयासँ स्वाहा ॥ १० ॥ ॐ स्वाहा ।। इति नारायणे अष्टचत्वारिंशत्यनुवाकः ॥ भाष्यम्-मायापाशनिवृत्तिहेतुभूतपाशुपतदाक्षाङ्गविरजा- मन्त्राण्याह ॥ ज्योतिरहं विरजाविपाप्माभूयासँ स्वाहा ॥ अहं जीवः । विरजा । शुद्धसत्वप्रधानः। विपाप्मा । अनादिपरि- शुद्धः । ज्योतिः । स्वयं प्रकाशमानपरशिवः। भूयासं । भवे- यमित्यर्थः ॥ तदर्थमेते मे शुध्द्यन्तामित्यर्थः। एतच्छुद्धिद्वारा- नदीसमुद्रवच्छिवस्वरूपो भूयासमितियावत् ॥ ... इन्द्रियं । आकूतिः । अभिप्रायः । अन्नमयेत्यादि ॥ आनन्दमय: स्य परमात्मनः । शोध्यत्वं च । भजनप्रपदन ॥ ... ॥ लक्षण- । ... ... ॥ रेतः!
महानारायणोपनिषत् । १११ | प्रशंसनोपायेन प्रसाद्यत्वं । विविटिहि स्वाहा ॥ विशेषणटिट्टि । विविटिष्टिः । व्याप्तिः । ज्ञानव्याप्तिरस्त्वित्यर्थः । घुषः । घोषः । स्वगुणकीर्तनं । तत्र उत्कः । उत्सुकः । परशिवः । तस्मै स्वाहा ॥ हरि लोहितपिंगलाक्ष ॥ चन्द्राग्निसूर्यनेत्र पुरुषा । हे शिव दीर्घश्चान्दसं त्वमुत्तिष्ठ ॥ मद्रक्षणजागरूकोभव । कैलासानिरत्यमबुद्धिं प्रविवेशेत्यर्थः । देहि । त्वद्विषयकज्ञान- थक्त्यादिकं देहि । त्वध्द्यानहेतुभूताएतेसम्यकपरिशुद्धाभव. न्त्वित्यर्थः । ॐ स्वाहा । ॐ कारात्मकसदाशिवाय स्वाहा । शिवोमे अस्तु सदाशिवोमितिश्रुतेः ॥ इत्यष्टचत्वारिंशत्यना भाष्यं समाप्तम् ॥ मूलम्-सत्यं परं परं सत्यं सत्येन न मुवर्गाल्लो- काच्यवन्ते कदाचन । सताहि सत्यं तस्मा- त्सत्ये रमन्ते ॥१॥ तप इति तपो नाशनात्परं यडि परं तप- स्तदुद्धर्ष । तद्दुराधर्ष । तस्मात्तपसि रमन्ते ॥२॥ दम इति नियतं ब्रह्मचारिणः । तस्माद्दमे रमन्ते । शम इत्यरण्ये मुनयस्तस्माच्छमे रमन्ते ॥ दानमिति सर्वाणि भूतानि प्रशंसन्ति । दानान्नातिदुष्कर तस्मादाने रमन्ते ॥ धर्म इति धर्मेण सर्वमिदं परिगृहीतं । धर्मान्नाति दुश्चरं । तस्माडमें रमन्ते ।।
११२ श्रीशैवभाष्योपेता। प्रजन इति भूयांसस्तस्मादभूयिष्ठाः प्रजा- यन्ते ॥ तस्माद्भयिष्ठाः प्रजनने रमन्ते ॥ अग्नय इत्याह तस्मादग्नय आधातव्या अग्निहोत्रमित्याह तस्मादग्निहात्रे रमन्ते॥ यज्ञ इति यज्ञोहि देवानां यज्ञेनहि देवा दिवंगतास्तस्माद्यज्ञे रमन्ते ॥ मानसमिति विद्वांसस्तस्माद्विद्वांस एव मानसे रमन्ते ।। न्यास इति ब्रह्महि ॥ परः परोहिब्रह्मा । तानि वा एतान्यपराणि तपांसि न्यासएवा- त्यरेचयत् ॥ य एवं वेदेत्युपनिषत् ॥ इति नारायणे एकोनपश्चाशदनुवाकः ॥ ४९ ।। भष्यम्-सत्यपरमिति ॥ ब्रह्मविद्यायाः सत्यं तप आदी- नि साधनान्युपवर्णयन् । सन्यासशद्वितसर्ववासनात्यागएव सर्वोत्कृष्टः । तच्चतुर्मुखाद्यभिमतभिति । प्रतिपादयितुमुपक्र- मते ॥ सत्यमिति । सत्यं । सत्यवाक्यं । सतां । सत्पुरुषाणां । कदाचन । सर्वकालमित्यर्थः। परं । उत्कृष्टं । सत्यं परं। सर्वातिशयं सत्यमित्यर्थः । आदराद्विरुक्तिः । सत्यशीला: सत्पुरुषाः । सत्येन सुवर्गाल्लोकात् । स्वर्गादिलोकात् । न व्यवन्ते ॥ च्युता न भवन्तीत्यर्थः । सत्यं । सत्यशीलत्वं । कदा- चन । निरतं । सत्यमेवेत्यर्थः। तस्मात् । सत्पुरुषाः । सत्ये । सत्यवाक्ये । रमन्तेकीडन्ति । सर्वदा सत्यवृत्तये । भवन्ती- त्यर्थः । अनशनादिवततपःशीलाः। तस्मात्सत्यसम्भाषणात् । तपः । अशनाभावरूपं यत्तपः । तत् । दुर्धर्षमिति कर्तुमशक्य- महानारायणोपनिषद मिति ॥ वदन्ति । उच्यन्ते । तस्मात् । कर्तुमशक्यत्वात् । दुष्करे पञ्चाग्निमध्ये । तपसि । रमन्ते । पञ्चाग्निमध्ये तपः कुर्वन्तीत्यर्थः ॥ दमइति नियतं ब्रह्मचारिणः । इति ब्रह्मचारिणः । वटुकाः ब्रह्मणिचरन्तीति ब्रह्मचारिणः । सदावेदाभ्यासका इत्यर्थः । उत शिवशानिनोवा । दमः । बाह्य न्द्रियनिग्रहः । त्वगादिदशेन्द्रियनिग्रह इत्यर्थः । नियतं ॥ नियमेन तस्यबाह्य न्द्रियः विग्रहः कर्तव्यमित्यर्थः । तस्माद्ब्रह्मचारिणः दमे रमन्ते । अयमेव ब्रह्मज्ञानसाध- नमिति तस्मिन् रमन्त इत्यर्थः । प्रवर्तन्त इतियावत् । मुनयः। परमेश्वरचरणसरसिज ध्यानशीलाः । तस्माद्दमात् । शमः। अन्तरिन्द्रियनिग्रहः ॥ अधिकमिति । अतिशयभिति । अरण्ये । जनाभावप्रदेशे । शमस्याधिकत्वाच्छमे रमन्ते । एतदेवमुख्यसाधनं ब्रह्मज्ञानस्येति तस्मिन्विचरन्तीत्यर्थः । दान- मिति सर्वाणि भूतानि दानं । परस्मै द्रव्यदानं । अन्तरिन्द्रियनिग्रहा दधिकमिति प्रशंसन्ति । दानाद्रव्यंदानात्।अतिदुष्करं। असाध्यं । कार्य नास्ति । द्रव्येण सर्वकार्याणि । सुसाध्यानि भवन्तीत्यर्थः। तस्मात्सत्पुरुषा दाने रमन्ते । अयमेव सर्वसाधनमिति । दान- शीला भवन्तीत्यर्थः। स्वस्वत्वनिवृत्तिपूर्वकपरस्वत्वपादकत्वं । दानस्य लक्षणमित्यर्थः । धर्म इति । धर्मेण इदं सर्व पूर्वजन्म- कृत धर्मद्वारा वित्त कलत्र पुत्रक्षेत्रादिकं सर्व परिगृहीतं । लब्धमित्यर्थः। तस्मात् ।धर्मात् । अतिदुष्करं । अत्यन्तदुष्करं। कार्य नास्तीत्यर्थः । तस्मात् । सर्वकार्यसमर्थकत्वात् । सत्पुरुषाः । धर्मे रमन्ते । अयमेव सर्वसाधनमिति धर्मे रमन्त इत्यर्थः । सञ्चरन्तीति भावः । पात्रापात्रविशेषेण दीयमान- मन्नादिकं धर्मशब्दार्थः । भूयिष्ठाः । विशेषज्ञानिनः। प्रजननः पुत्रपुत्रिकासन्तानवर्गः। भूयास इति अधिकबहुवचनं सर्वाति- ११४ श्रीशैवभाष्योपेता। शयसूचनार्थ । तस्मात् । धर्मात् । पुत्रपुत्रिकासन्तानवर्गः । अधिक इति । प्रजाः । प्रजायन्ते । पुत्रपुत्रिकादिप्रजाः । जनय- न्तीत्यर्थः । तस्मात्प्रजनने रमन्ते । अयमेव परमलाभइति सन्तानप्रयत्नवन्नो भवन्तीत्यर्थः । अग्नय इत्याह ॥ तस्मात् सन्तानात् । अग्नयः । गार्हपत्यादयः । अधिका इति श्रेष्ठांइति । आधातव्याः । उपासितव्या इत्यर्थः । तदुपासनं कर्तव्यमिति वदन्तीति भावः। अग्निहोत्रमधिकमित्याह ॥ तस्माज्ज्ञानिनो अग्निहोत्रे रमन्ते ॥ देहात्मविलक्षणशानिनो अग्निहोत्रकरणे सञ्चरन्तीत्यर्थः । यज्ञ इति । यज्ञः। ज्योतिष्टोमादिकं । देवानां । इन्द्रादिदेवानां । प्रियः ॥...... ...........॥ यज्ञेनहि । यज्ञेनखलु । देवाः । यज्ञफलेनखलु । दिवंगताः। स्वर्ग गताः ॥ तस्मात् । स्वर्गप्राप्तिहेतुत्वाद्यज्ञस्य । कर्म- निष्ठाः । यज्ञेरमन्ते । देहव्यतिरिक्तात्मज्ञानिनः । यज्ञशीला भवन्तीत्यर्थः । विद्वांसः। परशिवशानिनः । मानसं । परशिव पादारविन्दमननं ॥ चिन्तनमित्यर्थः । ततो यज्ञादिकर्मणः। अधिकमितिमन्यन्ते । तस्माद्विद्वांसः । परशिकतानिनः । प्राणलिङ्गानुसन्धानकुशला इत्यर्थः । मानसे परमेश्वर पादारविन्दचिन्तन एव । रमन्ते । वर्तन्तेत्यर्थः । सदाप्राण- लिङ्गानुसन्धानप्रवर्तनशीला भवन्तीतियावत् । न्यास इति ब्रह्म । ब्रह्माहिपरः । परोहि । ब्रह्मा परब्रह्मशिव इत्यर्थः ॥ सः॥ । सर्ववासनात्यागविशिष्ट शिवाधीनचित्तनुत्तिः । स एव निराभाराश्रमः । परः । उत्कृष्ट इति । ब्रह्मवा । चतुर्मुखः। शिवोवा । अभिमतः खलु । ब्रह्माहिपरः । परोहि ब्रह्मेति द्विरुक्तिः। शिवस्य परशिव ब्रह्मत्व सूचनार्थ । तानि पूर्वो- क्तानि । एतानि । सत्यादीनि । तपांसि । अपराणि कर्माणि । पतत् । पदं । कर्म । न्यास एव । सर्ववासनात्यागविशिष्ट न्यासः महानारायणोपनिषत् । ११५ शिवाधीनचित्तवृत्तिरेव । अत्यरेचयत् ॥ सत्यादीनितपांसि अतिक्रान्त इत्यर्थः ॥ मोक्षविषये सर्ववासनात्यागविशिष्ट- शिवाधीनचित्तवृत्तिरेव सर्वोत्कृष्टसाधनमितियावत् ॥ यद्वा । न्यासशब्दस्य । अनवरत परशिवचिन्तनरूपभक्तिर्वा । स्यात् । यः। एवं । यः शिवोपासकः। मोक्षस्य सर्ववासनात्यागविशिष्ट- शिवाधीनचित्तवृत्तिः । अनवरतपरशिवचिन्तनभक्तिर्वा । मुख्यसाधनमितिवेद । जानाति । तत् । उपनिषत् । एतदनु- वाकप्रतिपादितरहस्यमित्यर्थः । उपरितिष्ठतीत्युपनिषत् । सर्वातिशयरहस्यमितिभावः ॥ इतिशब्दोनुवाकसमाप्तिबोधकः॥ इति तैत्तिरीयान्तर्गतनारायणे एकोनपञ्चाशदनुवाकभाष्यम्॥४६॥ मूलम्-प्राजापत्यो हारुणिस्सुपर्णेयः । प्रजापति पितरमुपससार । किं भगवन्तः परमं वदन्तीति तस्मै प्रोवाच ॥ मत्येन वायु. रावाति सत्येनादित्यो रोचते। दिविसत्यं वाचः प्रतिष्ठा सर्व सत्ये सर्व प्रतिष्ठितं । तस्मात्सत्यं परमं वदन्ति । तपसा देवा देवतामग्र आयन् । तपसर्षयस्सुवरस्स्व- विन्दन् । तपसा सपत्नान्प्रणुदामाराती स्तपसि सर्व प्रतिष्ठितं तस्मात्तपः परमं वदन्ति ॥ २॥ दमेन दाताः किल्मिषमव- धुन्वन्ति दमेन ब्रह्मचारिणस्सुवरगच्छन् । दमो भूतानां घुराधर्ष दमे सर्व प्रतिष्ठितं । तस्माद्दमः परमं वदन्ति ॥ शमेन शान्ताः श्रीशैवभाष्योपेता। शिवमाचरन्ति । शमेन साकं मुनयोन्व- विन्दन ॥ शमो भूतानां दुराधर्ष शमे सर्व प्रतिष्ठितं । तस्माच्छमः परमं वदन्ति दानं यज्ञानां वरूथं दक्षिणा लोके दातार सर्व- भुतान्युपजीवन्ति । दानेनारातीरपानुः दन्त । दानेन द्विषन्तो मित्रा भवन्ति । दाने सर्व प्रतिष्ठितं तस्मादानं परमं वदन्ति। धर्मो विश्वस्य जगतः प्रतिष्टा । लोके धर्मिष्टं प्रजा उपसर्पन्ति । धर्मेण पापमप- नुदन्ति । धर्मे सर्व प्रतिष्ठितं । तस्माद्धर्म परमं वदन्ति । प्रजननं वै प्रतिष्ठा । साधु प्रजायास्तन्तु तन्वानःपितृणामकृणोभवति। तदेवतस्यानृण। तस्मात्प्रजननं परमं वदन्ति। अग्नयो वै त्रयीविद्या देवयानः पन्थाः गार्हपत्यरुक् पृथिवी । रथन्तरमन्वाहार्य पचनो यजुरन्तरिक्षं वामदेव्यमावहनीय- स्सामसुवर्गो लोको बृहत्तस्मादग्नीन् परमं वदन्ति । अग्निहोत्रं सायं प्रातगृहाणां निष्कृतिस्वीष्टं सुहुतं यज्ञक्रतूनां प्रायणं । सुवर्गस्य लोकस्य ज्योतिस्तस्मादग्निहोत्रं परमं वदन्ति ॥ यज्ञ इति । यज्ञोहि देवानां महानारायणोपनिषत् । ११७ यज्ञे हि देवा दिवंगताः । यज्ञेनामुरान- पानुदन्त । यज्ञेन द्विषन्तो मित्रा भवन्ति । यज्ञेन सर्व प्रतिष्ठितं तस्माद्यशं परमं वदन्ति ॥ मानसं वै प्राजापत्यं पवित्रं । मानसेन मनसा साधु पश्यति । मानसा ऋषयः प्रजाः अमृजन्त । मानसे सर्व प्रतिष्ठितं । तस्मान्मानसं परमं वदन्ति । न्यास इत्याहुर्मनीषिणो ॥ ब्रह्माणं ब्रह्म विश्वः ।। कतमः स्वयम्भूः प्रजापतिस्संव- त्सर इति संवत्सरोसावादित्यो य एष आदित्ये पुरुषस्स परमेष्ठी ब्रह्मात्मा याभि- रादित्यस्तरति रश्मिाभः साभिः पर्जन्यो वर्षति । पर्जन्येनौषधिवनस्पतयः प्रजायन्त ओषधिवनस्पतिभिरत्नं । भवत्यन्नेन प्राणाः प्राणैर्बलं बलेन तप ॥स्तपसा श्रद्धा श्रद्धया मेधा मेधया मनीषा मनीषया मनो मनसा शान्तिःशान्त्या चित्तं चित्तेनस्मृति स्मृत्या- स्मारं स्मारेण विज्ञानं विज्ञाननात्मानं वेद- यति तस्मादन्नंदद स्सर्वाण्येतानि ददात्यन्ना पाणा भवन्ति भूतानां प्राणैर्मनो मनसश्च विज्ञानं विज्ञानादानन्दो ब्रह्मायोनिस्सवा श्रीशैवभाष्योपेता। एष पुरुषः । पञ्चधा पञ्चात्मा येन सर्वमिदं प्रोतंपृथिवीचान्तरिक्षंचद्योश्चदिशश्चावान्तर- दिशश्च सवै सर्वमिदं जगत ॥ स च भूतं स च भव्यं । जिज्ञासुरुतक्लप्तरुत जायिष्ठा श्रद्धा सत्यो महास्वान् ॥ तपसो वतिष्ठा- ज्ज्ञात्वातमेवं मनसा हृदा च ॥ भूयोन मृत्युमुपयाति विद्वान् तस्मान्न्यासमेषां तपसामतिरिक्तमाहुः ॥ इति नारायणे पञ्चाशादनुवाकः ॥ ५० ॥ भाष्यम्-प्राजापत्योहरुणि रिति ॥ प्राजापत्यः । अरुणा- ख्यप्रजापतेरपत्य अरुणिः ॥ अपत्यार्थे इनिप्रत्ययः॥ सुपर्णेयः । प्रजापतिः । पितरमुपससार शिवज्ञानसाधने सर्वातिशयसा- धनं किमिति प्रश्नार्थ विधिवपितृभूताचार्यसन्निधिमुप- जगाम । किं भगवन्तः। परमं वदन्तीति हे भगवन्तः। आचार्याः मोक्षसाधनं परमं उत्कृष्टं किमिति भवादृशाः । वदन्ति ॥ तत्सा धनं मह्य त्वं ब्रूहीति प्रश्नमकरोत्सः । आचार्यः । तस्मै । शिष्याय । प्रोवाच । प्रकृष्टेन उवाच । किमिति । सत्येन वायु रावातीत्यादि ॥..." ॥ दिवि-अन्तरिक्षे । सत्येन । सत्पुरुषाणां सत्यवाक्यस्वभावेनैव वायुरावातिखलु। आसम- न्ताच्चलति आदित्यः सूर्यः । सत्येनखलु रोचते। भासते । सत्य वाचः । सत्यवाक्छीलाः ॥ दिविप्रतिष्ठाः। नक्षत्ररूपेणान्तरिक्ष स्थिता इत्यर्थः । सत्ये सर्व प्रतिष्ठितं । सत्यवाक्यविशिष्टे पुरुषे सर्व स्थितं । तस्य सर्व सुसाध्यं भवतीत्यर्थः । तस्मा- महानारायणोपनिषत् । सप त्सत्यं । सत्यवाग्वृत्तित्वं परमं वदन्ति । सर्वातिशयसाधन- मिति वदन्ति ॥ सन्त इत्यर्थः । तपसा देवा देवतामग्र अयन्निति देवाः । इन्द्रादयः। अने पूर्व । तपसा देवतामायन्निति । देवत्वमगमन्नित्यर्थः। ऋषयः । विश्वामित्रादयः। तपसा । सुवर्लोकं । अन्वविन्दन् । प्राप्नुवन्तः । तपसा । नान् । प्रणुदामारातीनिति आरातीन् । सपत्नानितिपदद्वयेन । अत्यन्तयनित्यर्थः। तपसा । प्रणुदां नाशयन्तीत्यर्थः । तपसि सर्व प्रतिष्ठितं । तपसा सर्व साध्यं भवतीत्यर्थः। तस्मात् कारणात् तपः। परम वदन्ति । तपस्विन इत्यर्थः । दमेनेति । ततोह्यधिकः । बाह्य न्द्रियनिग्रहोमुख्यमिति ब्रह्मचारिणः ॥ वद. न्तीत्याह॥दमेनतिादान्ताः बाह्य न्द्रियनिग्रहनिरताःब्रह्मचारिणः। ब्रह्मणि शिवे वेदे वा चरन्तीति ब्रह्मचारिणः । दमेन किल्मिषं पापं । अवधून्वनि ॥ धूओकम्पने ॥ चालयन्ति । नाशय- न्तीति भावः । दमेन ब्रह्मचारिणः ॥ सुवर्लोकं । स्वर्गलोकं प्रागच्छन् । अगमन् । दमः । भूतानां दुराधर्ष । सर्वेषां बाह्य न्द्रियनिग्रहः । कतु मशक्य इत्यर्थः । दमे सर्व प्रतिष्ठितमिति । दमस्सर्वकार्यसाध्यविषये । मुख्यसाधनं भवतीत्यर्थः । तस्मा- हमः परमं वदन्ति ब्रह्मचारिणो दमं मुख्यमिति वदन्तीत्यर्थः ॥ मुनयः । अन्तः प्राणलिङ्गानुसन्धातशीलाः । शममन्तरिन्द्रिय निग्रहं । सर्वोत्तमं वदन्तीत्याह । शमेन शान्ता इति । शान्ताः । अन्तलिङ्गानुसन्धाननिपुणा मुनयः । शमेन अन्तिरिन्द्रियनि- ग्रहेण । मुनयः । शिवं । स्वयं शिवाराधकत्वात्सर्वेषां शिव- माचरन्ति । मंगलं कुर्वन्तीत्यर्थः । नाकं । चित्कैलासं गच्छ- न्ति । शमो भूतानां दुराधर्ष । कतु मशक्यमित्यर्धामे सर्व प्रतिष्ठितं । शमस्तु सर्वकार्यसाधकमित्यर्थः । तस्माद्धेतोः। मुनयः । वामदेवशुकदुर्वासादयः । शमः । अन्तरिन्द्रियनिग्रहः। - १२० श्रीशैवभाष्योपेतां । । । परमं । सर्वातिशयसाधनमितिवदन्ति । दातारः । तस्माच्छ- माहानं सर्वोत्तमंसाधनं वदन्तीत्याह । दानं वरूधमिति दक्षि- णाः पुरुषाः । सर्वस्वदक्षिणापूर्वकयज्ञादिकर्मनिष्ठाः । दानं । वरूथं । श्रेष्ठं । मन्यन्ते । दातारं । सर्वभूतान्युपजीवन्ति । दातारमनुसृत्य सर्वभूतानि जीवन्तीत्यर्थः । दानेनाराति शत्रनपानुदन्ति । दूरं चालयन्तीत्यर्थः। दानेन द्विषन्तो मित्रा- भवन्ति । दानेन शत्रवोपिसुहृदो भवन्ति । दाने सर्व प्रति- ष्ठितं । तस्माद्धेतोः । परमं वदन्ति । दानाद्धर्म परमं वदन्ती- त्याह । धर्मो विश्वस्यजगतः । प्रतिष्ठेति । विश्वस्य जगतः सर्वप्रपञ्चस्य धर्मः । अन्नदानादिकदानं । प्रतिष्ठा । मुख्यका- रणं । लोके विद्यमानप्रजाः। धर्मिष्ठं जनं । उपसर्पन्ति । स्तोत्र कुर्वन्तीत्यर्थः । धर्मेण पापमपनुदति । 'धर्मिष्ठोजनः । धर्मेण स्वकृतदुष्कृतं नाशयतीत्यर्थः । धर्मे सर्व प्रतिष्ठितं । सर्व. कार्यसाधनं भवन्तीत्यर्थः । तस्मद्धेतोः । धर्म सर्वोत्कृष्टसाध- नमिति वदन्ति। तस्मात्प्रजननं ॥ धर्मात्पुत्रिकासन्ततिर- धेकेतिसन्तानबन्तो वदन्तीत्याह । प्रजननं वै प्रतिष्ठेति । साधु प्रजननं । शिवभक्तिमत्पुत्रसन्तान - ॥ * प्रतिष्ठा । उत्तमलो- कप्राप्तिहेतुरित्यर्थः ॥ प्रजायास्तन्तु तन्वानः । अविच्छेदसन्तति कुर्वाणः । पितॄणामनृणोभवति । पितृऋणविमुक्तो भवति । तदेव । अविच्छिन्नसन्तानमेव । तस्यः पितुः। अनृणं । ऋणा- भावः । तस्मात् । पितृऋणाभावादेव प्रजननं । शिवभक्तियुक्त- सन्तानसमृद्धिरेव । परमं । सर्वोत्कृष्टमिति वदन्ति । अग्नयो वैत्रयीविद्या । ऋग्यजुः सामवेदात्मकाः। गार्हपत्यः । एतन्ना- मकाग्निः । देवयानः । पन्थाः । अचिरादिलोकप्रापको मार्ग इत्यर्थः । ऋक् । पृथिवी । ऋक् । ऋग्वेदः ॥ रूपः । पृथिवी । भूलोकस्वरूपः । भूलोकप्रापक इत्यर्थः । रथन्तरं । रथन्तरना- ।
महानारायणोपनिषत् । १२१ मकनाम्ना स्तुतिः । क्रियते । अन्वाहार्यवचनः । दक्षिणाग्विः । यजुः यजुर्वेदस्वरूपः । अन्तरिक्षं । अन्तरिक्षलोकप्रापकः । वामदेव्यं । एतन्नामकनाम्नास्तुतिः। क्रियते । आहवनीयं । एनामकाग्निः । साम । सामवेदस्वरूपः । सुवर्गालोकः। स्वर्गलोकप्रापकः । बृहत् । बृहत्साम। एतन्नामकनानास्तुतिः। क्रियते । तस्मादग्नीन् । गार्हपत्यादीन् । परमं वदन्ति । उत्तम. लोकसाधनानीतिवदन्ति । गृहाणां गृहीणां । सायं प्रातः काले सुहुतं । स्विष्टं । होमादिकं । निष्कृतिः पापप्रायश्चित्तिर्भवति । यशक्तूनां । प्रायणं । प्रकृष्टगतिः । सुवर्गस्य लोकस्य । ज्योतिः । दीपवत्प्रकाशकोग्निरित्यर्थः । तस्मादग्निहोत्रं परमं वदन्ति । यज्ञ इति । देवानां यशः । यजदेवपूजायामितिधातुः। सर्वदेवानांपूजा हेतुः । यज्ञेन हि देवाः । दिवंगताः । यक्षेन द्विषन्तो मित्रा भवन्ति शत्रवो सुहृदोभवन्ति । यज्ञेन। सुरानपा- नुदन्ति । यज्ञकरणेन असुरान्पलायितान्कुर्वन्ति । यझे सर्व प्रतिष्ठितं । यज्ञकरणेन सवं सुसाध्यं भवतीत्यर्थः। तस्मा- द्धतोः । यज्ञं । परमं । सर्वातिशयमिति वदन्ति । मानसं वै प्राजापत्यं । प्रजानां पशूनां ब्रह्मविष्णूनां पतिः । प्रजापतिः । शिवः। तत्सम्बन्धियज्ज्ञानं तत् प्राजापत्यं भवति । ब्रह्मवि. ष्णुजनकपरशिवध्यानविषयकज्ञानमित्यर्थः । मानसं । मनसा प्राणलिङ्गानुसंधान पवित्र । सर्वस्मात्पूर्वोक्तात्पवित्रं । मान- सेन अन्तःप्राणलिङ्गानुसन्धानविशिष्टमानसेन । ऋषयः । अग- स्त्यादयः । साधुयोग्यं । पश्यति । परशिव तत्वरूपभावलिङ्गं पश्यन्तीत्यर्थः । सदान्तःप्राणलिङ्गानुसन्धानकुशलाः । पश्चिम चक्रस्थितभावलिङ्गं सम्यक्पश्यन्तीत्यर्थः । मानसाः । ताद- पुरुषाः । ऋषयः । गौतमदधीच्यादयः। प्रजाः असृजन्ति । संकल्पमात्रादेव सवं सृजन्तीत्यर्थः । मानसे । अन्तर्लिङ्गानु- - १२२ श्रीशैवभाष्योपेता। । । सन्धाने । सर्व प्रतिष्ठितं । तेन सर्व सुकरं भवति । तस्य सर्व- बत्वादिमहिमा च सिध्यतीत्यर्थः । तस्माद्ध तोः । मानसं । अन्तलिङ्गानुसन्धान परमं उत्कृष्टं वदन्ति । न्यास इत्याहुर्म- नीषिणः । ब्रह्मविद्वांसः॥ न्योसः। सम्यकी न्यासः । ईषण- यपरित्यागः सन्यासः । निराभाराश्रम इत्यर्थः । उत । सति द्वह्मणिन्यासः । सन्यासः । सर्ववासनात्यागविशिष्टशिवा- धीनचित्तवृत्तिः । ब्रह्माणं शिवसाक्षात्कारं प्रति । मुख्यसा- धनमित्याहुः । ब्रह्माविश्वः कतमः स्वयम्भूः। प्रजापतिः संव- त्सरइति । एतच्छन्दवाच्यविष्ण्वाधन्तर्यामिणं । परशिव । सिद्धोपायं । मनीषिण पाहुरितिवा । असावादित्यः । संव- त्सरः । संवत्सरात्मकः । एष पुरुषः । महापुरुषः शिवः आदित्ये वर्तते। सएव परमेष्ठी। परमे। हृदयपुण्डरीकाकाशाव- च्छिन्नपरमाकाशे । तिष्टतीति परमेष्ठी । हृदयपुंडरीकाव- च्छिन्नभासमानज्योतिलिङ्गस्वरूपक इत्यर्थः । उत महाकै- लासवासी वा स्यात् । ब्रह्म। बृहत्वादिगुणयुक्तपरब्रह्मेत्यर्थः । आत्मा । मूर्तित्रयातीतपरमात्मेत्यर्थः । परमात्मा सदाशिवः । शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेय इति श्रुतेः। आदित्यप्रसङ्गादन्नदानं प्रशंसति यं श्रुतिः ॥ याभिरादित्य इति । याभिः सूर्य प्रभाभिः ॥ आदित्यस्तपति । भूमौ तापंक- रोति । ताभिः । कान्तिभिः । किरणैरित्यर्थः। पर्जन्यः सूर्यो मेघरूपी सन् वर्षति । पर्जन्येन मेधेन । ओषधिवनस्पतयो। वृक्षाद्योषधयः । प्रजायन्ते । उत्पद्यमाना भवन्ति । ओषधिव- नस्पतिभिः । अन्नं भवति । अन्नंमुत्पन्नं भवति । अन्नपरिणाम शरीरमुत्पन्नं भवतीत्यर्थः । अन्नेन प्राणाः । अन्नपानादिभिः । प्राणाःस्वव्यापारप्रवर्तका भवन्तीत्यर्थः। प्राणैः। बल । शरीर. बलं । शरीरबलेन तपो भवति । देहबलेन तपः सिध्द्यतीत्यर्थः ।
महानारायणोपनिषत् । १२३ तपसा । श्रद्धा। आस्तिक्यबुद्धिः । गुरुचरभक्तेषु विश्वासो वा भवति । श्रद्धया मेधा । ग्रहणधारणसमर्था बुद्धिर्भवति । मेधया मनीषा भवति । श्रोतुमिच्छाभवति । मनीषया । तादू- शीरशिवकथाश्रवणेन । मनो भवति । मननं । निर्मलान्तः करणं वा भवति । मनसा । शान्तिर्भवति । शान्त्याचित्तं भवति । अन्तरिन्द्रियनिग्रहण परशिवाधीनचित्तवृत्तिर्भव- तीत्यर्थः। चित्तेन स्मृतिर्भवति । परमेश्वरगुणकथनस्मृतिर्भ- वति । स्मृत्या स्मारं भवति । वाचा अनवरतपरशिवनामचि- न्तनं भवति । तेन । विज्ञानं ! शिवतत्वविज्ञानं भवति । विज्ञा- नेन । आत्मानं । स्वहृद्यान्तर्वतिपरशिवंसाक्षात्कुर्वन्ति । तस्मात्सूर्यान्तर्वतिपरशिवः । सर्वेभ्योन्नंदापयन् । एतानि- पूर्वोक्तानि । सर्वाणि ददाति । अन्नाद्भूतानां प्राणाः । भवन्ति । उत्पन्ना भवन्ति । प्राणैः मनः । भवति । "मन- एवमनुष्याणां कारणं बन्धमोक्षयोरित्युक्तरीत्या सर्वकार्यहेतु- त्वात्प्राणेभ्योमन उत्कृष्टमित्यर्थः। मनसः विज्ञानं 'तनुत इति । अन्योन्तर आत्मा विज्ञानमय इति श्रुतेः" । विज्ञानशब्दवाच्यो जीवः । अधिको भवति । विज्ञानात् जीवात् आनन्दः । आनन्दशब्दवाच्यपरमेश्वरः । अधिको भवति । सः । एष महापुरुषः । योनिर्भवति । पूर्वोक्तसर्वेषां कारणं भवति । ब्रह्म । ब्रह्मशब्दवाच्यः । पञ्चधा । सद्योजातादिपञ्चमूर्तीसन् । पञ्चा- त्मा । पृथिव्यादिपञ्चकान्तर्यामी भवतीर्थः । जिज्ञासुक्लृप्तः । जिज्ञासूनां । शिवोपासकानां । क्लृप्तः । हृदयपुण्डरीकावच्छिन्न- तया अगुष्ठमात्ररूपस्सन् साक्षात्कृतो भवति । ऋतजाः । तेन । सत्यव्रतेन । अन्तरूपासनेनवा । जायतेलभ्यतेति ऋतजाः। रयिष्ठाः । रयिः । चिच्छक्तिः । परमाकाश इत्यर्थः। तनिष्ठ इत्यर्थः । येन सर्वमिदं प्रोत इत्यादि । पृथिवी च ।
श्रीशैवभाष्योपेता। । अन्तरिनं च । आकाशं च द्योश्च । स्वर्गः। दिशश्च । प्राच्यादि- दिशश्च । अवान्तरदिशाश्च । आग्नेयादि विदिशश्च । भूत- भविष्यद्वर्तमानमिदं जगत् । परमात्मशक्त्युपादत्वेन परमेश्वर शिवएवेत्यर्थः । सत्यः । यः। श्रद्धयायुक्तः । तस्य सत्यः । कालिकाबाध्यस्वरूपतयाप्रकाशकः। महास्वान् ।आकाशादि- कारणत्वात्ततोधिकमहद्गुणयुक्तः।सर्वव्यापकतत्वस्वरूपइत्यर्थः। यस्तु । शिवज्ञानिवरिष्ठात्तपसः । तं । परमात्मानं शिवं । हृदा च भक्त्या च । मनसा च । शिवाधीनचित्तवृत्या च । तं । शिवं । एवं । ज्ञात्वा । उपासकलभ्यइति ज्ञात्वा । जानाति । सः विद्वान् । शिवनानी । भूयः। पुनः । मृत्यु । संसाररूप मृत्युं । नोपयाति । नगच्छति । तस्मान्यासमेषामतिरिक्तमि- त्याहु । तस्मात् । मोक्षहेतुत्वात् ॥ एषां । सत्यादितपसां। मध्ये । न्यासं । सर्ववासनात्यागविशिष्टशिवाधीनचित्तवृत्ति रूपतपः अतिरिक्तमाहुः । मुख्यसाधनमित्याहुः । शिवतत्व- शानिनइत्यर्थः । यथाश्रुतयः। “वासानातानवं ब्रह्मन् मोक्ष इत्य- भिधीयते ॥ नमोक्षो नभसः पृष्ठे न पाताले महीतले ॥ सर्वाशा संक्षयश्चेतोमोतइत्यभिधीयते । त्यजेद्धर्ममधर्म च उभे सत्यानृते व्यजेत् । उभेसत्यनृतेत्यक्त्वा येनत्यजसि तत्यज इत्यादयः। स्मृतिः सर्वधर्मान्परित्यज्यमामेकं शरणं व्रज । अहं त्वां सर्व पापेभ्यो मोचयिष्यामि राघव इति शिवगीतायां भगवद्वचनं ॥ इति पञ्चाशदनुवाकभाष्यम् ॥ ५० ॥ मूलम्-वसुरण्योविभूरसिप्राणेत्वमसि।सन्धाता। ब्रह्मान्त्वमास विश्वधृक् । तेजोदास्त्वमस्य- ग्रेव!दास्त्वमसि सूर्यस्य चुन्नोदास्त्वमसि महानारायणोपनिषत् । १२५ चन्द्रमस उपयामगृहीतोसि ॥ ब्रह्मणेल्वा महस ओमित्यात्मानं युंजीतैतदै महोप- निषदं देवानां गुह्यं । य एवं वेद । ब्रह्मणो महिमानमामोति तस्मादब्रह्मणो महिमानमित्युपनिषत् ॥ इतिनारायणे एकपंचाशादनुवाकः ॥५१॥ ॥ । भाष्यम्-वसुरण्येति । शिवस्तोत्रं शिवोपासकानां प्राप्य- त्वं चाह ॥वसुरण्योसि । वसूनांवस्वादिसर्वदेवतानां ।रण्योसि। प्राप्यस्थानमसि । विभूः विशेषेणनवचक्रेषु भवति आविर्भवतीति विभूः ॥ विभुरित्यर्थः । दोर्घश्छान्दसः । सर्वव्यापक इतिवार्थः। प्राणेत्वमसि सन्धाता । प्राणादिसर्वकार्यजनकस्त्वमसीत्यर्थः । "एतस्माजायते प्राणोमनस्सर्वेन्द्रियाणि चेति कैवल्ये तथाश्रूयतेगा हेब्रह्मन् । हे शिवा विश्वाधृक्। विश्वधारकश्चाविश्वाधिष्ठानमिति यावत्। त्वमसिाअग्नेः तेजोदाः तेजप्रदः। सूर्यस्य वर्चीदाः।कान्ति- प्रदश्च । चन्द्रमसः धुम्नोदाः। कान्तिप्रदश्चत्वमसि । तस्य भासा सर्वमिदं विभातीति श्रुतेः। हे शिव । त्वां । उपयाम। उपासनया प्राप्नुवामि । गृहीतोसि । तथानुगृहीतोसि । त्वांस्वरूपे । नदीसमुद्रवल्लोनं गमितुमनुज्ञां देहीत्यर्थः । महदुपासनया दृष्टोसीतिवार्थः ॥ महसे। महते । ब्रह्मणे । परशिवाय त्वां । तुभ्यमित्यर्थः । त्वत्प्राप्त्यर्थमितियावत् । ओमितिमन्त्रेणापि । आत्मानं युंजोत जललवणवण्यायेन पुनरात्मसमर्पण कर्तव्यमे- वेत्यर्थः । एतद्वै-एतभेदाभेदसिद्धान्तशिवजीवैक्यन्तु ॥ महोप- निषदं । महोपनिषत्प्रतिपाद्यं । रहस्यं । देवानामपीत्यर्थः ।
१२६ श्रीशैवभाष्योपेता। यः। एवं । जीवशिवस्योः बद्धदशायां भेदः स्वाभाविकः।मुक्त- दशायामभेदश्चलोहरसनदीसमुद्रादिवत्स्वाभाविक इति । वेद । जानाति । सः । पुरुषः । ब्रह्मणः शिवस्य महिमानं ॥ आप्नोति प्राप्नोति शिवस्वरूपो भवतीत्यर्थः ॥ तस्माद्ब्रह्मणो महिमान- माप्नोतीति द्विरुक्तिः ॥ द्वैताद्वैतसिद्धान्त-शिवजीवैक्यमुक्तेः सर्वमुक्त्यतिशयद्योतनार्थ ॥ मूर्तामूर्तशिवतत्वद्वयप्राप्तिबोधक वास्यात् ॥ इति नारायणे एकपञ्चाशदनुवाकभाष्यम् ॥ ५१ ॥ मूलम्--तस्यैवं विदुषो यज्ञस्यात्मा यजमानः श्रद्धा पत्नी शरीरमिध्ममुरोवेदिलोमानिवहिर्वे. दशिखा हृदयंयूपः। काम आज्यमन्युः पशु स्तप्तोग्निर्दमश्शमयिता। दक्षिणावा घोता। प्राणाउद्गाता । चक्षुरध्वर्युमनोब्रह्म ।। श्रोत्र- मग्नीह्यावद्भियते । सा दीक्षा ॥ * * ॥ यदनातितडवियत्पिबतितत्सोमपानंयद्रमते तदुपसदोयत्संचरत्युपविशत्युत्तिष्ठति चत्र. पर्योयन्मुखन्तदाहवनीयो यदस्य विज्ञानं तज्जुहोति यत्सायं प्रातरत्ति तत्समिधो यत्सायं प्रातमध्यंदिनं च तानि सवनानि। ये अहोरात्रे ते दर्शपूर्णमासे । ये अर्धमा- साश्चमासाश्चते । चातुर्मास्यानि । ये ऋत- वस्ते पशुबन्धाायेसंवत्सराश्च परिवत्सराश्च ते अहर्गणास्सर्ववेदसंवाएतत्सत्रं यन्मरणं महानारायणोपनिषत् । १२७ तदवभृथं । एतदैजरामर्त्यमग्निहोत्रं । य एवं विद्वानुदगयनेप्रमीयते। देवानामेव महि- मानं गत्वादित्यस्य सायुज्यं गच्छत्यथयो दक्षिणेप्रमीयते पितृणामेव महिमानं गत्वा चन्द्रमसस्सायुज्यं गच्छत्येतौ ॥ वैमर्या- चन्द्रमसो हर्महिमानौ । ब्रह्मणो विद्वान- भिजयति ॥ * * * * ॥ तस्मादब्राह्म- णोमहिमानमाप्नोति--तस्माब्राह्मणो महि- मानमित्युपनिषत् ॥ ॥ * ॥ इति नारायणे द्विपञ्चाशदनुवाकः ॥२॥ भाष्यम्-तस्यैवं विदुष इति । यज्ञो दानं तपश्चीव पाव- नानि मनीषिणां ॥कर्तव्यानोति ये पार्थनिश्चितं मतमुत्तममिति । वीरहवा एषदेवानां योग्निमुद्वा नयतीतिश्रुतिः । अग्निहोत्रा- दितु तत्कार्या यैवतद्दर्शनादित्यादिस्मृतिसूत्रादिभिश्च ब्रह्मवि- दुषामपि यज्ञादग्निहोत्रादिकं कर्मस्वप्रयोजनाभावेपि परमेश्व- राक्षा । भंगभयेन यावज्जीवमनुष्ठेयमियुक्तत्वात् । सर्वधात्य- तुमशक्यत्वाच्च । तत्प्रतिनिधित्वेन ब्रह्मज्ञानिना क्रियमाणस्य आत्महविस्समर्पणरूपयशस्य । प्रसिद्धयज्ञांगवैलक्षण्येन प्राशस्त्य दर्शयति । तस्यैवं विदुष इत्यादिना-एवं ॥ पूर्वोक्तप्रकारेण । तस्य । अन्तज्योतिलिङ्गानुसन्धाननिपुणस्य । विदुषः । शिव- शानिनः । यज्ञस्य यजमानः। आत्मयज्ञस्य । शिवलीनं प्राप्तव्य जीवात्मा यजमानः । कर्तेत्यर्थः ॥ तस्य । पत्नी। भार्या । श्रद्धा। विश्वासबुद्धिः । गुरुचरेश्वरदास्यबुद्धिरेवतस्य भार्या १२८ श्रीशेवभाष्योपेता। भवतीत्यर्थः । इध्म । शरीरं ॥ वेदिः । परिष्कृताभूमिः । अग्निप्रतिष्ठापनायोग्यभूमिरित्यर्थः । उरः । वक्षस्थल । बर्हिः। कुशाः । लोमानि देहास्थिरोमाणि ॥ शिखाः । अग्नि- ज्वालाः । वेदाः । चतुर्वेदाः । यूपः। पशुबन्धनस्तम्भः । हृदयं । चित्तं । बुद्धिर्वा । आज्यं । घृतं । कामः । विषयासक्तिः। पशुः । अग्निष्टोमीयपशुः । मन्युः । क्रोधइत्यर्थः। क्रोधशब्दो- लोभादीनांमुपलक्षणं । अग्निहोत्रं । तपः । अन्तःप्राणलिङ्गानु- सन्धानरुपतपः । कृच्छ्रचान्द्रायणादिकं वास्यात् । दक्षिणा । मानसिकयज्ञदक्षिणा ॥ शमयिता। सर्वखल्विदं ब्रह्म । सर्वो वै रुद्र इत्यादि श्रुत्तरीत्या । चेतनाचेतनसर्वशिवात्मकशानं । उत समदृष्टिा दक्षिणा स्यात् । यावद्धियते सा दीक्षा । यावज्जीवति । सा दोक्षा । होता । होतृनामक ऋत्विक् । वाक् । वाचइत्यर्थः । प्राणवायुः। प्राणनामकवायुः। ऊर्ध्व- निश्वासवायुरित्यर्थः । एतन्नामक ऋत्विक् । अध्वर्युः । यज्ञप्रवर्तकऋत्यिक् । चक्षुः। नेत्रोन्द्रियमित्यर्थः। ब्रह्मा । ब्रह्मनामकऋत्विक् । मनः। मानसं अन्तरिन्द्रिमित्यर्थः। अग्निन् । त्रेताग्नयः । श्रोत्रं । श्रोजेन्द्रियमित्यर्थः। यदश्नाति यत्पिवति । तत् । अन्नपानादिकं । तस्यविदुषः सोमपानं । उपसदः । उपसन्नामकं कर्म । यद्रमते । क्रीड़तीत्यर्थः । प्रवग्यः । यत् । सञ्चरति । उपदिशति । उत्तिष्ठते च ॥ स; । प्रवर्दी इत्यर्थ । यत् । मुखं । भक्षणे साधनं वक्रे । तदावह- नीय्यः। तस्य स्थान मित्यर्थः । यदस्यविज्ञानं । अस्य । शिव- ज्ञानिनः । यत् । विज्ञानं । तत्वताय ज्ञानमस्ति । तत् । जुहोति । होमस्थाथं । सायं प्रातः । यदन्नमत्ययं । तत् । समिधं । समित् स्थानं ॥ यत् । सायं प्रातर्माध्यंदिन- कालाः तानिसवनानि । यज्ञा इत्यर्थः। ये अहोरात्रे वर्तते । ते उद्गाता ।
महानारायणोपनिषत् । दर्शपूर्णमासौ । दर्शपूर्णमासस्थानीयौ भवतः । अर्धमासाश्चये वर्तन्ते । ते चातुर्मास्यानि चातुर्मास्यस्थानीयानि ॥ ये ऋतवः । वसन्तादयः॥ वर्तन्ते। ते अहर्गणाःतत्क्रतुनियतदिनसमूहइत्यर्थः। आत्मसमर्पणरूपत्वान्मनो यक्षस्य । सर्ववेदसं । सर्वदक्षिणा. युक्तमेतत्सत्रं । मनोयशइत्यर्थः । यत् । भरणं । अस्य विदुषः । देहत्यागः । तदववृथं । परिसमाप्तिः। अबवृथस्नानमित्यर्थः। जरामयं । जरयावयोहान्या म्रीयते समाप्यत इति जरामयं । यावज्जोवमनुष्ठेयमेतन्मानसिकसत्रमित्यर्थः । एतत्प्राणलिंगा- राधकानां । ब्रह्मज्ञानिनां । उत्तरायणमरणे । देवलोकादि प्राप्तिपूर्विकादित्यसायुज्यपूर्विका । परशिवप्राप्तिरित्याह । य एवमिति । यः । विद्वान् । आत्मसमर्पणरूपमनो यज्ञं । विजानन् । ज्ञानो। उदगयने । उत्तरायणे । प्रमीयते । मृतिगतो- भवति । सह विद्वान्देवानां । वायुसूर्यचन्द्रविद्युद्वरुणेन्द्र चतुर्द खादीनां ॥ महिमानं । तत्तन्महिमानं । तत्सदशमहिमान मित्य- र्थः । गत्वा । वचन्महिमानं प्राप्यतत्तल्लोकस्थितभोगाननुभूय ततः सूर्यस्य सायुज्यं गच्छति । आदित्येनः सह सञ्चरति । आदित्यतुल्यो भवतीत्यर्थः। अथयोदक्षिणे प्रमीयत इति । यः शिवज्ञानी । दक्षिणे म्रियते। मृतिंगतो भवति । अथसः । अनन्तरं स शिवशानो । पितृणामेवमहिमानं गत्वा । वसुरुद्रादि पितृदेवतागणसदृशमहिमानं लब्ध्वा । तल्लोकेषु किञ्चित्कालं स्थित्वा ॥ चन्द्रमसःसायुज्यं गच्छति। चन्द्रतुल्यकान्तिमान्भूत्वा चन्द्रेण सह सञ्चरतीत्यर्थः। एतावै । उत्तरायणदक्षिणायन कालमृतौ ॥ विदुषावपि । सूर्याचन्द्रमसोः ॥ महिमानौ । तत्सदृशमहिमायुक्तौ । भवतः । ब्राह्मणो विद्वानभिजयति ॥ ब्रह्मशिवं ॥ अन्तः जानातीतिब्राह्मणः । प्राणलिङ्गावधानीत्यर्थः। सर्वान् लोकान् । अभिजयति । तिरस्करोतीत्यर्थः । तृणीकृत । ।
श्रीशैवभाष्योपेता। ब्रह्मपुरन्दराणां । किंदुष्कृतं शंकरकिराणमित्यभियुक्तोक्तः । तत्तल्लोकस्थितान् भोगान् । यथेच्छमनुभूय तिरस्करोतो. तियावत् ॥ * * * ॥ तस्मात् । सर्वातिशयमहाकैलासप्राप्त- त्वात् । ब्रह्मणः। दिव्यमंगलविग्रहविशिष्टमहेश्वरस्य। महिमानं गच्छति । तत्सामयं लभतेत्यर्थः । तत्सदृशोभवतीतिभावः । तस्मात् । तत्सारूप्यप्राप्त्यनन्तरमित्यर्थः ॥ ब्रह्मणः। सर्वव्यापक शिवतत्वस्य । महिमानं गच्छति।तस्मिन्लीलनोभूत्वा तत्सामर्थ्य लभतइत्यर्थः ॥ इत्युपनिषत् । एतदुपनिषत्प्रतिपाद्यरहस्यमि- त्यर्थः ॥ इति नारायाणख्य कूचिरुद्विपञ्चाशदनुवाकभाष्यं समाप्तम् ॥ ५२॥ श्रीशिवाय नमः एतदध्यायस्य षड्विधलिङ्ग तात्पर्यनिर्णयः क्रियते अम्भस्यपारेत्युपक्रमवाक्ये बृह हि वृद्धाविति धातुनिष्पन्न ब्रह्मस्वरूपलक्षणात्मकानन्तत्वमुपदिष्टं । उपसंहारेतस्माद्ब्रह्मणो महिमानमाप्नोतीति ब्रह्मशब्देन उपसंहृतम् ॥ * ॥ ब्रह्मा शिवोमे अस्तु सदाशिवों ॥ ऋतँ सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलं। इत्युत्तरत्र सर्व हतद्ब्रह्मायमात्मा ब्रह्मेत्युपक्रम्य उपसंहारे । शिवमद्वैतं चतुर्थ मन्यन्ते स आत्मा सविज्ञेयः। शिवोद्वैत इति ब्रह्मशब्द वाच्यः शिव एवेति ॥ माण्डूक्ये च स्पष्टमुपदिष्टत्वात् । इवं वायुर्जोतिरापः पृथिवी विश्वस्य धारिणी । यत्परं ब्रह्मसर्वात्मा विश्वस्यायतनं महदित्यादिना महानारायणोपनिषत् । कैवल्य श्वेताश्वतर जाबालाथर्वण शिखाथर्वशिरस्तैत्तिरीयादिषु ब्रह्म शिव शब्दयोः हस्तकरपाणिशब्दवत्पर्यायवाचकत्वव्यपदे- शात् ॥ भट्टभास्करहरदत्वाचार्यनीलकण्ठाचार्य शंकराचार्या- प्पयदीक्षितादि महद्भिः ॥ लिङ्गं ब्रह्म सनातनं । चिदानन्दरूपः शिवोहं शिवोहं । करटिचर्मणे ब्रह्मणे नम इत्यादिषु । तथा- स्पष्टमुपदिष्टत्वात् ॥ श्रीपतिपण्डितनीलकण्ठाचार्यैरथातो ब्रह्म जिज्ञासेति। ब्रह्मसूत्रस्थित ब्रह्मपदस्य शिवपरत्वव्यवस्थापनाच । एतदुपक्रमोसंहारादिषड्विधलिङ्गतात्पर्येण शिवपरत्वेन सम- न्वयात् । नारायणे तथासमन्वययोगात् । उत । नारायण शब्दस्य णत्ववाधा निवारकत्वेन नीलकण्ठाचार्य भट्टभास्कर हरदत्ताप्पयदीक्षितादिमहद्भिः। शिवपरत्वस्थापनात् ॥ यौगिक रुढ़या पूर्वस्मिन्मया च तथा निरूपितत्वात् । शरण्य त्रियम्बके- देविनारायणि नमोस्तुतेत्यादिषु पार्वत्याः नारायणीति बहुशः प्रयोगदर्शनेन नारायणस्यपत्नी नारायणोति व्युत्पत्यानारायण शब्दस्य शिवेरूढिदर्शनात् । यानि नामानिगोविन्द तवलोके महीयते । तान्येव मम नामानि नात्रकार्या विचारणा। अहं त्वं सर्वलोकेशत्वमेवाहं जनार्दन । आवयोरन्तरं नास्तिशब्दै- रथैर्महीतल इति हरिवंशे शिवेनोक्त मितिभगवता वादरायणेन । तथास्पष्टमुपदिष्टत्वात् ॥ नमोस्तु परमेशाय शाङ्गिणे विष्णु- रूपिणे । नारायणाय रामाय गोविन्दायनमो नम इति पद्म- पुराणस्थित शिवसहस्त्रनामावल्यां भगवता व्यासेन । नारा- यणशब्दस्य शिवेरूढत्वव्यवस्थापनाच सर्वत्रनारायणपरत्व बोधक वचनानां विशेषणरीत्याउत विशेषरीत्यावा। शिवपरत्व- मेवेतिराद्धान्तः ॥ एक एव नारायणो आसीदिति वाक्यदर्शनेन नारायणस्य परब्रह्मत्वेन सर्वविद्योपास्यत्वमिति यदुक्तं तदुन्मत्तप्रलपनमिवाविचारितरमणीयं रूढिर्योगमपह- श्रीक्षेवभाष्योपेता। - रतीति न्यायस्य मुख्यार्थबाधा भावस्थलएवावकाशात् ॥ एकपवनारायणो मासो दितिवाक्येन । शक्तरासीत्पराशर इत्यादाविवनारायणस्य जन्यत्वाववोधनात् ॥ विष्णोरिद्धा- परमस्ययोनि वृहज्जातोवभिपातितृतीयमितिश्रुत्यन्तरे आदि- विष्णोरेव जन्यत्वावगमात् । यत्रापि नारायणस्यकारणकारण- त्वादर्शनात् । ईशकेनादिसर्वोपनिषत्सु मूर्तित्रयातीतस्यैव. परब्रह्मत्वेन दहरविद्यापास्यत्व प्रतिपादनात् ॥ तथात्वरशिवस्य- प्रतिपादनाश्च । पूर्वोक्तंयुक्तमितिरद्धान्तः ॥ इति श्रीमद्वेदागोभयवेदान्तसिद्धान्तवीरशैवप्रकाशकश्रीपतिप- ण्डिषाराध्यवंशसम्भूत राजलिङ्गाराध्य पुत्र वृषभेन्द्र पण्डिता. राध्य कृतिषुतैत्तिरीय भाष्ये नारायणभाध्यं समाप्तम् ॥ श्रीपण्डितगुरुचरणारविन्दाभ्यान्नमः ।। ... ... ... अन्धेऽस्मिन् मूलप्राचीनपुस्तकानुमारतो भव- न्ति भूयांसो दोषा, अथ च सर्वत्र ॐ सुव इति पाठः (अन्यत्र तु) स्व इति पाठो दरीदृश्यते । परमधुनेयं शुद्धिपत्रिकाऽपि संयोजिता। सुधियां सविधे समायातमेन ग्रन्थं विविच्य पठन्तु, पुनर्नः सूचयन्तु युवान इति किञ्चिद्बुमश्च । पं० श्रीचिद्घनशर्मशिवाचार्याः श्रीशैव भाष्योपेत महानारायणोपनिषदः शुद्धि पत्रिका ॥ पृष्ठे - पङ्क्तो २ ३ ३ ११ २५ क Cc... Um. ६ २३ २४ i १३ अशुद्धम् । द्वताद्वैत श्रतिषु रनवद्यति प्रथमातुवाक प्रापोती पटवश्चति अइदं श्रुत्युकरीत्या नास्तीत्यर्थः पूर्वेहिजातः निरापार्थ पूर्व जनिता विधाता धान्यभ्यरयन्त वैषम्यादिवं चतुर्भग सर्वमन्यत् अकार्यकाय यताति रंधान नघराव कञ्चिद् सपाचिषः मजोऽयः मूलानुदृकित शुद्धम्। द्वैताद्वैत श्रुतिषु रनवधति प्रथमानुवाक प्राप्नोती पटवञ्चति आइदं श्रुत्युक्तरीत्या नास्तीत्यर्थः पूर्वोहिजातः निरासार्थ पूर्व जनिता सविधाता धामन्यभ्यैरयन्त वैषम्यादिकं चतुर्वर्ग सर्वमन्यत् अकार्यकार्य यतीति संधान नवपव किञ्चिद सप्ताचिषः मजोऽन्यः मूलानुङ्कित १६ Mov " १५ २ " १७ २६ १ . ३० ३२ ३५ ४० MOMM १३ २१ (२) पृष्ठे पङ्क्तो ५३ ५३ ५७ ५४ ६३ ६६ १० २० १५ ७१ ७२ ७३ २१ ६ शुद्धम् हुवप्नियं दुष्वप्नियं पङ्कजाशायि पङ्कजशायि त्यागेनैकेन त्यागेनैकेना पुत्रासन्तानेन पुत्रसन्तानेन वद्यव वव्यव रामकृष्ण रामकृष्णा शम्भुशब्दो शम्भुशब्दो पांचारात्रा पांचरात्रा शक्यामि शक्यमि सारभूयिष्ट सारसभूयिष्ट सामनि सामानि यजुरूपत्वं यजूरूपत्वं विद्मा विद्या समालोकता समानलोकता अर्चयेन् अर्चयन् नन्दिकेश्वराध्य नन्दिकेश्वराराध्य भषयं भाष्यं यो ब्राह्मणं योब्रह्माणं विष्ण्वदि विष्यवादि यजमनस्य यजमानस्य गयत्रीमावाहयामि गायत्रीमावाहयामि कुख्ते कुरुते उपसितु उपासितु सावित्यादि सावित्र्यादि गायत्रा गायच्या ओं सुवः सुवः । (-ॐ स्वः) २० ७६ ८२ १६ २३ ८५ ६३ ६४ ૨૫ २१ " ॐ भूः । ॐ भूः। भुवः ॐ ६६ (३) पृष्ठे ६७ पक्की १ " शुद्धम् मतीनां पुराणी तत्वमव श्रोमापो स्तुता मया भूम्या कं ब्रह्म खं सुवर्मह निविश्यामृतं वा योज्यानि भोक्तृकामाः 8E E && १०० GW ६ १०३ १५ १७ " मुपहितं अशुद्धम् मतिनां पुराणि तत्वं मव ॐमापो स्तुतोमया भ्रूम्या कं ब्रह्मत्खं मुधर्मह निविश्यमृतं वायोज्यनि भोक्तकामाः मुपबृहितं तिस्वाहा त्रिसुर्पण शेनो धिह्वा दाक्षाङ्ग दग्निहात्रे विग्रहः अतिशय भिति द्रव्यदानात् परस्वत्वपादकत्वं प्रयत्नवन्नो धुराधर्ष. निष्कृतिस्स्वी, अरुणिः परम १०५ १०७ १०८ १०६ १०६ ३ २ १५ .. ११३ तिस्वहा त्रिसुपर्ण श्येनो जिह्वा दीक्षाङ्ग दग्निहोत्रे निग्रहः अतिशयमिति द्रव्यदानात् परस्वत्त्वापादकत्वं प्रयत्नवन्तो दुराधर्ष निष्कृतिस्विष्टं গাযিঃ परमं १५' - २२ ११६ ..१६ ११७ १२६ 8 प्र " शुद्धम् अवधून्वन्ति अगच्छन् संधानशीला: शत्रूनपानुदन्ति तस्य पितुः शत्रवः ब्रह्मगिन्यासः तस्मान्न्यास त्याहुः ब्रह्मन् विश्वधृक् महिमानौ ब्राह्मणो तस्माद्ब्रह्मणो हे पार्थ त्युक्तत्वात् लोभादीना पृष्ठे पक्ती १३ १५ १४ १२.. ६ २० १२१ ६ ૨૪ ११ १२ " 4 , १३ १२५ १२७ ६ " " अशुद्धम् अवघून्वनि आगच्छन् संधातशीला: शत्रनपानुदन्ति तस्यः पितुः शत्रवो ब्रह्मणिन्यासः तस्मान्यास त्याहु ब्रह्मान् विश्वाधृक् हर्महिमानी ब्रह्मणो तस्माब्राह्मणो ये पार्थ युक्तत्वात् लोभादीनां श्रुत्तरीत्या प्रवग्यः वक्रे तत्वतोय लीलनो नारायणख्य पण्डिषाराध्य भाष्यां प्रणीतला गुरुयिश्वा १८५० १२७ १२ " १६ १२८ ७ श्रुत्युक्तरीत्या १० २० ૨૨ १३० प्रवर्ग्यः वक्र तत्त्वत्रय लीनो नारायणाख्य पण्डिताराध्य भाष्य प्रणीता गुरुविश्वा . १० भूमिकायां ४ १६ " २ : १८५१ . .
Lee
श्रीकेदारनाथशिवतत्वग्रन्थमालायाः
सम्भविष्यमाणपुष्पा (ग्रन्था ) वलिः ॥
श्रीवृषभेन्द्रपण्डितशिवाचार्यप्रणीत श्रीशैवभाज्योपेत
तैत्तिरीयोपनिषत्।
श्रीवृषभेन्द्रपण्डितशिवाचार्यप्रणीतश्रीशैवभाष्योपेत
पुरुषसूक्तम्।
श्रीकेदारमण्डलमहिमादर्शः।