Bharti Bhawan Liabrary, Allahabad

The Raj Tarangini Of Kalhana

PDF Proofread

Front matter

vi
PREFACE.
the undertaking which had from the beginning been
assigned to me by the Pandit's desire. It has since,
however, been decided that the Bombay Sanskrit
Series edition of the Rajatarangini ought to include
the supplements to the work of Jonaraja, Srivara and
Prajyabhatta. I hope to put these out in a third and
concluding volume in the course of next year, and it is
convenient to reserve for that volume any remarks of
an introductory, critical or explanatory nature.
P. PETERSON,

अष्टमस्तरङ्गः।
प्रौढाः कञ्चुकिनो जरद्वरवृषः कुजस्तुषारद्युति-
नित्याप्तोपि बहिष्कृतः परिकरः सोयं समस्तोप्यहो।
अर्धाद्यद्वसतीकृताद्भगवता चारित्रचर्याविदा
सा भिन्द्यादुरितं चराचरगुरोरन्तःपुरं पार्वती ॥ १ ॥
छन्नकोपप्रसादोभूत्कंचित्कालं नवो नृपः।
प्राङ्मन्थादिव पाथोधिरव्यजितविषामृतः ॥ २ ॥
सोदरो डामरौघश्च तस्याभूतां भृशोन्मदौ ।
मेघस्येव पुरोवातावग्रहौ स्फूर्तिहारिणौ ॥ ३ ॥
यत्किचनविधाय्यासीझाता यद्यौवनोन्मदः ।
राज्ञो दुष्प्रक्रिया दौःस्थ्यकरी वात्सल्यशालिनः ॥ ४ ॥
सोनिशं हि गजारूढो विकोशासिः परिभ्रमन् ।
आत्तसारां महीं पीतरसां रविरिवाकरोत् ॥ ५ ॥
एकीभूतानमून्सर्वान् डामरान्निर्दहाग्निना।
इत्युक्तं तेन नोर्वीभृत्सत्त्वैकानो वचोग्रहीत् ॥ ६ ॥
दस्यवो मत्रिसामन्ता द्वैराज्येच्छुः सहोदरः ।
भूनिष्कोशेत्यभूत्कि न भूपतेस्तस्य संकटम् ॥ ७ ॥
अधिराज्याभिषेकेण सत्कृत्य भ्रातरं ततः ।
पातुं लोहरसंबद्धं प्राहिणोन्मण्डलान्तरम् ॥ ८ ॥
द्विरदायुधपत्त्यश्वकोशामात्यादि स व्रजन् ।
निनाय सर्व वात्सल्यादनिषिद्धोग्रजन्मना ॥ ९ ॥

V
२
राजतरङ्गिणी
.
a
।
आशङ्कय कोभृत्येभ्यः प्रवेशे प्रत्यवस्थितिम् ।
उत्कर्षजं प्रतापाख्यं सह निन्येब्रवीच्च तान् ॥ १० ॥
कुर्याममुं नृपमहं प्रातिहार्य समाचरन् ।
नम्राः स्वभृत्यवत्तस्थुर्भूभुजो भूम्यनन्तराः ॥ ११॥
दिनानि सप्त संरुद्ध मार्गे तदनुयायिनाम् ।
गायनः कनको लब्धान्तरो देशान्तरं ययौ ॥ १२ ॥
वाराणस्यां विजहता निर्वेदात्तेन जीवितम् ।
हर्षभूभर्तृभृत्येषु व्यक्तं निन्ये कृतज्ञता ॥ १३ ॥
ऊर्ध्वाधिरोहं दाक्षिण्याहस्यूनामुञ्चलः पुनः ।
सेवास्मृत्या सुधीः सेहे चन्दनो भोगिनामिव ॥ १४ ॥
तथा जनकचन्द्रेण दर्पाद्यवहृतं तदा ।
राजान्ये डामराश्चासन्यथा नष्टप्रभा इव ॥ १५ ॥
अभयस्योरशाभर्तुस्तनयायामजीजनत् ।
राश्यां विभवमत्यां यं भोजो हर्षनृपात्मजः॥ १६ ॥
जातं मृतद्वित्रपुत्रानन्तरं गुरुभिः शिशुम् ।
आयुष्कामैस्तमावद्धाभव्यभिक्षाचराभिधम् ॥ १७ ॥
धब्दमप्यरिसंतानतन्तुत्वेनाप्रियोचितम् ।
ररक्ष तद्गिरा राजा राश्याश्चाङ्के समार्पयत् ॥ १८ ॥
तिलकम् ॥
तमादाय स्वयं वासौ यावदाज्येकरोन्मनः ।
तावद्वभारेगितज्ञो नीतिकौटिल्यमुच्चलः ॥ १९ ॥
तुल्योत्साहासहिष्णुत्वादस्मै कुप्यन्तु डामराः ।
एष एवातिसत्काराद्यद्वास्तु विशदाशयः ॥ २० ॥
इति संचिन्त्य स द्वारदित्सां तस्योदघोषयत् ।
यथा विकारं प्रययुीमादेवायोखिलाः ॥ २१ ॥

अष्टमस्तरङ्गः। ३ तेषां तस्य च मात्सर्यं यदापर्याप्तिमाययौ । तदान्योन्याश्रिता भृत्याः पणं चक्रुर्युयुत्सवः ॥ २२ ॥ दिदृक्षुः क्षमापतिस्तेषां सेतुपृष्ठे रणं मिथः । वार्यमाणोपि सचिवैरारुरोह चतुप्किकाम् ॥ २३ ॥ द्वन्द्वयुद्धे प्रवृत्ते तु डामरैरुभयाश्रितैः । अथ प्रारभ्यताकस्मात्संरब्धैर्दारुणो रणः ॥ २४ ॥ सेतुद्वयाध्वना युद्धे लग्ने राशि सरित्तटात् । योधा जनकचन्द्रस्य शरवर्षमवाकिरन् ॥ २५ ॥ यान्तः शराः ससीत्कारास्तेस्पृष्टनृपविग्रहाः। मग्नाः स्तम्भेष्वदृश्यन्त कोपेनेव प्रकम्पिनः ॥ २६ ॥ आकृष्य दो| भूपालं वलादिव ततोनुगाः। प्रविष्टा मण्डपद्वारं चक्रिरे निहितार्गलम् ॥ २७ ॥ शस्त्रं जनकचन्द्राद्या भीमादेवादयोपि ते चतुष्किकायां चकृषुस्ततोन्योन्यं जिघांसवः ॥ २८ ॥ तुमुले तत्र शरूयाङ्गं भीमादेवानुगोभिनत् । तीक्ष्णो जनकचन्द्रस्य कालपाशात्मजोर्जुनः ॥ २९ ॥ स वीक्ष्य स्वं क्षतं द्रोहं प्रयुक्तं भूभुजा विदन् । पादप्रहारान्विदधे क्रोधाद्वारि नृपौकसः ॥ ३० ॥ अभग्ने तत्र संत्रासात्स्नानद्रोण्यन्तरं गतम् । अधावत्कृष्टशस्त्रीको भीमादेवो जिघांसया ॥ ३१ ॥ स्तम्भच्छन्नस्तद्विलोक्य तद्नेहगणनापतिः । मध्यं जनकचन्द्रस्य कृपाणेन द्विधा व्यधात् ॥ ३२ ॥ तस्मिन्हते तदनुजौ गग्गसड्डौ प्रधावितौ । स एव करवालेनालक्षितोकृत विक्षतौ ॥ ३३ ॥ ।

vi
राजतरङ्गिणी
t
al
।
अवभज्य तरं वज्रः सुचिरं नावतिष्ठते ।
उदग्रकर्मा च पुमानिहत्यात्युन्नतं रिपुम् ॥ ३४ ॥
स हि द्विभाद्र तत्राब्दे हर्षान्ताहादनन्तरम् ।
अन्यूनानतिरिक्तैर्यत्रिभिः परहन्यत ॥ ३५ ॥
यद्वोपकर्तुरप्येष द्रोहं यत्स्वामिनो व्यधात् ।
औत्कट्यात्पाप्मनस्तस्य क्षिप्रमेव क्षयं ययौ ॥ ३६ ॥
सान्तस्तोषे कोपशोकावाविष्कुर्वति कृत्रिमौ
भीमादेवः पलायिष्ट गग्गस्तु व्यश्वसीनृपे ॥ ३७ ॥
प्रहिते लोहरं गग्गे स्वमुल्लापयितुं क्षतम् ।
त्रस्तास्तेन व्यसृज्यन्त स्वोरिन्येपि डामराः ॥ ३८ ॥
उपायापकृतैः प्राप्तराज्यं दस्युभिरुज्झितम् ।
एवं शनैरवष्टम्भं भेजे भूपतिरुञ्चलः ॥ ३९ ॥
तेनाथ लब्धस्थैर्येण दिनैरेच जिगीषुणा ।
त्याजिताः क्रमराज्यान्तर्हयसैन्यादि डामराः ॥ ४० ॥
ततो मडवराज्यं स प्रस्थितो विप्रियप्रियान् ।
डामरान्कालियमुखान्बद्धा शूले व्यपादयत् ॥ ४१ ॥
इल्लाराजोपि बलवांस्तेन कान्तक्षितिः क्रमात् ।
बलैर्नगर एवोग्रैरवस्कन्देन घातितः॥ ४२ ॥
प्राग्जन्मप्रेमसंस्कारादन्तरज्ञतयाथवा ।
तस्य पुत्र इव प्रीतिर्गग्ग एव व्यवर्धत ॥ ४३ ॥
न सेहे नाममात्रं यः कण्टकानां प्रियप्रजः ।
नृपो गग्गाय चुक्रोध सापराधाय न क्वचित् ॥ ४४ ॥
राज्यारम्भेनुयुक्तेन भीमादेवेन धीमता।
उक्ते शुभावहे शिक्षे द्वे स मत्रवदस्मरत् ॥ ४५ ॥

अष्टमस्तरङ्गः।
एकया लोकवार्तार्थ
प्राह्वात्प्रभृति निर्गतः
बहिरुद्दिश्य बाह्यालीरचारीदादिनक्षयम् ॥ ४६ ॥
अन्ययोत्थानशीलेन श्रुत्वा नामापि वैरिणः ।
अर्धरात्रेपि यात्राभिस्तेनाच्छिद्यत विप्लवः ॥ ४७ ॥
तस्यैवालुप्तधैर्यस्य राज्ञां मध्ये मनस्विनः ।
कार्पण्योपहतं वृत्तं नाप्यभूदमलीमसम् ॥ ४८ ॥
अद्योच्चलसदाचारजाह्नवीजलमजनात् ।
कुनृपोदीरणोद्भूतो गिरः पाप्मापनेष्यते ॥ ४९ ॥
तेनानुपचिताङ्गेन प्रायशो विनिवारिताः।
अनूरुणेव सदृष्टिध्वंसिनो ध्वान्तसंचयाः ॥ ५० ॥
प्रायोपविष्टप्रमये देहत्यागप्रतिज्ञया ।
निबद्धया प्रत्यवेक्षां धर्माध्यक्षानकारयत् ॥६१ ॥
निशम्य कृपणस्यात क्रन्दितं तदनिष्टकृत् ।
बभूव तस्य स्वात्मापि नानिग्राह्यो महात्मनः ॥ ५२ ॥
कार्यिणो यस्य वा दोषादाक्रिन्दितमुद्ययौ।
तस्य स्वबान्धवाक्रन्दैस्तस्मिन्क्रुद्धे शशाम तत् ॥ ५३ ।।
अबलानुग्रहव्यग्रे तस्मिन्नाजनि सर्वतः ।
वास्तव्या बलिनस्तस्थुरबलास्त्वधिकारिणः ॥ ५४ ॥
सोश्वेनैकश्चरवाजेत्यज्ञात्वा कथितं जनः
यं यं स्वदोषमश्रौषीत्तं तं त्वरितमत्यजत् ॥ ५५ ॥
येन केनापि संप्राप्तः प्राप्त्युपायेन पार्थिवः ।
अमोघदर्शनः सोभूत्कल्पवृक्ष इवार्थिनाम् ॥ ५६ ॥
सुधावर्षी प्रियालापप्रीतिदायैर्जनप्रियः ।
नाशकत्सेवकांस्त्यक्तुं विस्रम्भभवनेष्वपि ॥ ५७ ॥

६
राजतरङ्गिणी
vi
t
a
श्लाघ्यश्रमैः प्रतिकलं तस्य सेवाविधायिभिः ।
प्राप्तं त्रिचतुरान्वारान्क्षणदास्वपि दर्शनम् ॥ ५८ ॥
सेव्यमानः सदाक्षिण्यः क्षणेनैव फलप्रदः।
कस्यैन्द्रजालिकैरुप्तः शाखीव न बभूव सः ॥ ५९ ॥
वास्तव्यानां निशम्याति तेन दैन्यनिवारणम् ।
चक्रे पित्रेव पुत्राणां संत्यक्तेतरकर्मणा ॥ ६० ॥
स्वसंचितानि सोन्नानि विक्रीणानोल्पवेतनैः ।
दुर्भिक्षमुद्गतावेव जघान जनवत्सलः ॥ ६१ ॥
निवार्य चौर्याचरणात्कृपास्तस्करानपि ।
कोशाध्यक्षान्स विद्धच्चकारागयजीविकान् ॥ १२ ॥
कः संविभाग्यश्छेत्तव्या विपदः कस्य मण्डले।
इत्यन्विष्यन्सदैकैकं चारैश्चिन्तापरोभवत् ॥ ६३ ॥
तस्यैकोप्यर्थनस्पृह्यं नाम कोपि महान्गुणः ।
अनुषक्तो गुणैस्तैस्तै राज्ञः पल्लवितोभवत् ॥ ६४ ॥
स स्थित्यै दण्डयन्दण्ड्यानघाश्लेषभयाधनम् ।
तेषां नादत्त सत्कर्म शुद्धये तांस्त्वकारयत् ॥ ६५ ॥
प्रस्तुतस्यार्थिने दातुं वस्तु तस्यैकसंख्यया ।
सहस्रसंख्यया दानश्रद्धागात्पूर्णतां यदि ॥ ६६ ॥
श्रूयतेर्थी यथा मह्यं देहि देहीति गां वदन् ।
तथास्मै देहि देहीति वदन्दाता स शुश्रुवे ॥ ६७ ॥
अनुदात्तं क्षिप्तकालं क्षीणसंख्यमसत्कृतम् ।
नेतृदूतादिनीताध न तद्दत्तमदृश्यत ॥ ६८ ॥
उत्सवे दैन्यविज्ञप्तौ रञ्जने कार्यसाधने ।
आलेख्यलीनशाखीव न सोलभ्यफलोभवत् ॥ ६९ ॥

अष्टमस्तरङ्गः। उत्सवे शिवरात्र्यादौ जनतां सोसिचद्धनैः । ग्रहयोगे पयःपूरैर्महेन्द्र इव मेदिनीम् ॥ ७० ॥ ताम्बूलदानव्यसनं पराोत्सवता तथा । नाभूद्धर्षनृपस्यापि तादृक्तस्यास्त यादृशी ॥ ७१ ॥ लोष्टमात्रावशेषेपि लब्धे नृपपदे व्यधात् । स दानविभ्रमांस्तान्ये धनदेनापि दुष्कराः ॥ ७२ ॥ निर्माणलोठनैर्धाम्नामजस्रं वाजिनां क्रयैः । काश्मीरकोपि चक्रे स न मृत्तस्करसाद्धनम् ॥ ७३ ॥ अध्वन्यध्वनियोगेन प्राणविन्यासनैस्तथा । बभूव सर्वकृत्यज्ञः सोन्तरात्मेव देहिनाम् ॥ ७४ ॥ भोगात्राजोचितान्विप्रा भैषज्यं व्याधिपीडिताः । वेतनं वृत्तिहीनाश्च तस्मात्समुपलेभिरे ॥ ७५ ॥ पित्र्योपरागकेत्वादिदुनिमित्तोपमार्तिषु । गोसहस्रावहेमादिसंभवैः सोभजद्विजान् ॥ ७६ ॥ नन्दिक्षेत्रे पुरं कृत्स्नं दग्धमुत्पातवह्निना । पूर्वाधिकगुणं तेन नवं राज्ये व्यधीयत ॥ ७७ ॥ श्रीचक्रधरयोगेशस्वयंभूस्थानयोजनम् । जीर्णोद्धृतिव्यसनिना कृतं तेन सुकर्मणा ॥ ७८ ॥ हर्षदेवेन यो निन्ये श्रीपरीहासकेशवः । परिहासपुरे तं स नवं नरपतिबंधात् ॥ ७९ ॥ प्राग्वर्णितशुकावल्या भूषितो हर्षनीतया । तेन त्रिभुवनस्वामी निर्लोभेन महीभुजा ॥ ८० ॥ जयापीडाहृतं हर्षोत्पाटने प्लुष्टमग्निना। सिंहासनं नवं चक्रे स राज्यककुदं नृपः ॥ ८१ ॥ १ दुनिमित्तामयार्तिषु इति स्यात् ।

८ राजतरङ्गिणी लब्ध्वा तर्धाध्यारोहं भर्तुः प्रेम्णातिदुर्लभम् । सामान्ययापि देवीत्वं जयमत्या न दूषितम् ॥ ८२ ॥ सा ह्यानृशंस्यमाधुर्यत्यागसत्प्रियतानयैः । अस्तम्भार्तपरित्राणमुख्यैर्भव्याभवद्गुणैः ॥ ८३ ॥ लब्धभूपालवाल्लभ्या नार्यः क्रोधात्प्रजासु यत् । राक्षस्य इव भङ्गाय लावण्यललिता अपि ॥ ८४॥ प्रियप्रजस्यायमन्यो गुणः सर्वगुणाग्रणीः । उच्चलक्ष्मापतेरासीदर्थ स्पृह्यशालिनः ॥ ८५ ॥ जिघांसवः पापकामाः परस्वादायिनश्च ताः । रक्षांस्यधिकृता नाम तेभ्यो रक्षेदिमाः प्रजाः ॥ ८६ ॥ तेनेतिहासिनी नीतिं श्रद्दधानेन सर्वदा । येन संपठता श्लोकं कायस्थोन्मूलनं कृतम् ॥ ८७ ।। यत्ते विषूचिकाशूलसंन्यासेभ्यः किलेतरे। घ्नन्त्याशुकारिणो विश्वं प्रजारोगा नियोगिनः॥ ८८ ॥ पितरं कर्कटो हन्ति मातरं हन्ति पुत्तिका। हन्ति सर्व तु कायस्थः कृतघ्नः प्राप्तसंभवः ॥ ८९ ॥ गुणान्समर्प्य स्फुरता येनैवोत्थाप्यते शठः । वेताल इव कायस्थस्तमेवाहन्ति हेलया ॥ ९० ॥ विषवृक्षो नियोगी च यदेवाश्रित्य वर्धते। चित्रं करोति तस्यैव स्थानस्यानभिगम्यताम् ॥ ९१ ॥ तेन ते माभुजा मानक्षतिकार्यनिवारणैः । काराप्रवेशैश्च खलाः शमं नीताः पदे पदे ॥ ९२ ॥ कार्यानिवार्य बहुशः सहेलाद्यान्महत्तमान् । भङ्गासूत्रमयं वासः कारायां पर्यधापयत् ॥ ९३ ॥ १ दायिनः शठाः इत्युचितः पाठः । ।

L.
अष्टमस्तरङ्गः।
सकार्यवेषं हास्याय सभार्य चारणोचितम् ।
अकारयद्भूतभिश्वधावनं डोम्भयोधवत् ॥ ९४ ॥
स प्रांशुर्वेष्टितश्मश्रुरुष्णीषणोत्फलन्पुनः ।
शूलहस्तः सजानूरुः केषामासीन हास्यकृत् ॥ ९५ ॥
सशीर्षदशनं साम्यवादवेश्याविटान्वितम् ।
प्रियवेश्यं कंचिदने नृत्तवाद्यमकारयत् ॥ ९६ ॥
बद्धान्यं शकटे नग्नं क्षुरलूनार्धमस्तकम् ।
अकारयत्सटान्यस्तचीनपिष्टच्छटाङ्कितम् ॥ ९७ ॥
ते कुम्भवादनैर्मुण्डमण्डनैश्चाङ्किताभिधाः ।
नियोगिनो भग्नमानाः सर्वतः ख्यातिमाययुः ॥ ९८ ॥
कार्यभ्रष्टा मलक्लिन्नक्षीणवस्त्रावगुण्ठनाः ।
सर्वार्थिनो व्यभाव्यन्त केप्यटन्तः प्रतिक्षपम् ॥ ९९ ॥
वृथावृद्धाः सुखप्राप्यं पाण्डित्यं भूर्जवत्परे ।
मत्वा बाला इवाचार्यगृहे प्रारेभिरे श्रुतम् ॥ १० ॥
केप्युच्चैरभिक्षाकाः सादरं स्तोत्रपाठिनः ।
कृतानुपाठाः स्वापत्यैः प्रारू लोकमहासयन् ॥ १०१ ॥
माता स्वसा सुता भार्या स्वापि कैरप्यकार्यत ।
सामन्तसेवनं कार्यप्राप्त्यै सुरतसेवया ॥ १०२ ॥
जातकस्वमशकुनस्वलक्षणनिरीक्षणम् ।
कारयद्भिः शठैरन्यैर्गणकाः परिखेदिताः ॥ १०३ ॥
पिशाचा इव शुष्कास्या रूक्षश्मश्रुकचाः कृशाः।
बद्धाः परैर्व्यशाव्यन्त शृङ्खलामुखराशयः ॥ १०४ ॥
नृपेण कार्यिणां दर्पलिङ्गनाशे विपाटिते ।
अक्षणोऑतिपरिज्ञानक्षमत्वं समजायत ॥ १०५ ॥

१०
राजतरङ्गिणी
भारतस्तवराजादिस्तोत्रपाठमशिश्रियन् ।
ते दुर्गोत्तारिणीविद्याजपं चोदनुलोचनाः ॥ १०६ ॥
इत्थं दौःस्थ्योदये दीर्घ मजन्तो नित्यदुर्जनाः ।
तमित्राजनि कायस्था व्यलोक्यन्त पदे पदे ॥ १०७ ॥
भिन्नसंधानभूर्यर्थदानभोज्यादिढौकनैः ।
नहि मोहयितुं शक्ताः प्राशं तं तेन्यराजवत् ॥ १०८॥
तान्प्रजाकण्टकान्दुष्टान्कृतधीरकृतानिशम् ।
तैस्तैः शुचिभिरध्यक्षैः स विशामीश्वरो वशान् ॥ १०९ ॥
भूतेशस्य यथा पुरी हुतवहाष्टा त्वदाज्ञावला-
द्भूयः स्वां श्रियमाससाद सहसा तद्वत्समस्तामिमाम् ।
त्वं कायस्थकुटुम्विक्तृप्तिसचिवप्राय"पञ्चानली-
लीढामुञ्चलदेव निर्वृतिसुखस्थित्या पुरी स्वां क्रियाः॥११०
शिवरात्र्युत्सवे श्लोकममुं शिवरथाभिधः।
विद्वान्पठस्तेन हठात्सर्वाध्यक्षो व्यधीयत ॥ १११॥
व्यवहारानभिज्ञोपि कंचित्कालमदीदृशत् ।
शुचित्वादार्यभाजः स कामन्कृतयुगस्थितिम् ॥ ११२ ॥
शीघ्रदण्डत्वमुञ्चण्डतेजसस्तस्य भूपतेः ।
क्रूरानुद्दिश्य कायस्थान्धीमद्भिर्बह्वमन्यत ॥ ११३ ॥
नहि क्षुद्राश्वकायस्थपिशाचाविष्टवैरिणाम् ।
शंसन्त्यन्तरितं दण्डं दण्डनीतिविशारदाः ॥ ११४ ॥
चिरेण दण्डिता ह्येते कुर्युदण्डभयाडुवम् ।
लब्धान्तराः प्राणहरं कृच्छ्रे किंचित्प्रशासितुः ॥ ११५ ।।
दण्ड्यानां दण्ड्यमानानां पुत्रस्त्रीमित्रवान्धवाः ।
राज्ञा विचारशीलेन न तेनोपद्रुताः क्वचित् ॥ ११६ ॥

अष्टमस्तरका ११ कर्णेजपाल्लोष्टधरप्रमुखांस्तेन दुःखदैः । कर्मभिः क्लिश्नताध्वापि पैशुन्यस्य खिलीकृतः॥ ११७॥ विस्मृति लब्धराज्यानां पूर्वसंकल्पवासनाः । प्रयान्ति प्राप्तजनुषां गर्भवासस्पृहा इव ॥ ११८ ॥ प्राग्राज्याधिगमात्किचित्सदसद्ययचिन्तयत् । राज्ये तन्न विसस्मार जातिस्सर इवोच्चलः ॥ ११९ ॥ ददर्श शत्रोरद्रोहान्यान्द्रोग्धृन्वा पुरानुगान् । कर्तव्यानुगुणं तेषां प्रतिपत्तिमदर्शयत् ॥ १२० ॥ स्मरेनोपपतिः पूर्वपतिद्रोहं कुयोषितः। पूर्वस्वाम्यरितां चाद्य कुभृत्यस्येश्वरो जडः ॥ १२१ ॥ शेषाहिदेहान्मदिन्या समं प्रज्ञापि राश्यभूत् । तस्मिन्परिणता नूनं कृत्याकृत्यविवेत्तरि ॥ १२२ ॥ तथाोकस्य वणिजो व्यवहर्तुश्च सोभवत् । विवादे संशयं छिन्दन्नेवं स्थेयाद्यगोचरे ॥ १२३ ॥ सौहृदारूढसद्भावे व्यापदौपयिकं धनी । न्यासीचकार दीनारलक्षं कोपि वणिग्गृहे ॥ १२४ ॥ तेनोपयुज्यमाना च व्ययेषु वणिजः करात् । कियत्यपि गृहीताभूहत्तमात्रान्तरान्तरा ॥ १२५ ॥ त्रिशदिश"द्यातासु समासु न्यासधारिणम् । गृहीतशेषं दातुं स धनं प्रार्थयताथ तम् ॥ १२६ ॥ वणिक्तु कुकृती तस्य न्यासग्रासाय सोद्यमः। कालापहारमकरोत्तैस्तैः कलुषधीर्मिषैः ॥ १२७ ॥ स्रोतोभिर्व्यस्तमम्भोधौ लभ्यं मेघमुखैः पयः । प्राप्तिर्भूयस्तु नास्त्येव वणिन्यस्तस्य वस्तुनः ॥ १२८ ॥ ।

राजतरङ्गिणी
तैलस्निग्धमुखः स्वल्पालापो मृद्वाकृतिर्भवन् ।
न्यासमासविवादोनो वणिग्व्याघ्राद्विशिष्यते ॥ १२९ ॥
विवादे श्रेष्ठिना शाठ्यं सितैः प्राक्सख्यदर्शनैः ।
मुक्तं मुक्तं ज्ञायमानं प्राणान्तेपि न मुच्यते ॥ १३० ॥
निसर्गवञ्चका वेश्याः कायस्थो दिविरो वणिक् ।
गुरूपदेशोपस्कारैर्विशिष्टाः सविषाशिषोः ॥ १३१ ॥
चन्दनाङ्कालिके श्वेतांशुके धूपाधिवासिनि ।
विश्वस्तः स्यात्किराटे यो विप्रकृष्टस्य नापदः ॥ १३२ ॥
ललाटदृक्पुटश्रोत्रद्वन्द्वहन्न्यस्तचन्दनः ।
षड्विन्दुर्वृश्चिक इव क्षणात्प्राणान्तकृद्धणिक् ॥ १३३ ।।
पाण्डुश्यामोनिधूमाः सूच्यास्यो गहनोदरः ।
तुम्बीफलोपमः श्रेष्ठी रक्तं मांसं च कर्षति ॥ १३४ ॥
सोथ निःशेषितमिषः क्रुद्धो निर्बन्धकारिणः ।
गणनापत्रिकां तस्य सभ्रूभङ्गमदर्शयत् ॥ १३५ ॥
यदादौ श्रेयस इति न्यस्तमश्रेयसे पदम् ।
आतरेष्वत्यये सेतोहीता षट्शती त्वया ॥ १३६ ॥
छिन्नोपानकषावन्धे शतं चर्मकृतर्पितम् ।
विपादिकाकृते दास्या नीतं पञ्चाशतो धृतम् ॥ १३७ ॥
स्फोटने भाण्डभारस्य क्रन्दन्त्याः कृपयार्पितम् ।
कुलाल्या बहुशः पश्य भूर्जे लग्नं शतत्रयम् ॥ १३८ ॥
शिशुभ्योस्य विडालस्य क्रीताः पोषाय मूषिकाः ।
त्वया शतेन वात्सल्याट्टान्मत्स्यरसस्तथा ॥ १३९ ॥
चरणोद्वर्तनं सर्पिः शालिचूर्ण च सप्तभिः ।
क्रीतं शतैः श्राद्धपक्षनाने च घृतमाक्षिकम् ॥ १४० ॥

अष्टमस्तरङ्गः। नीतं क्षौद्राकं कासायासायादर्भकेण ते । सोव्यक्तजिह्वः किं वेत्ति वक्तुं लग्नं शतं ततः ॥ १४१ ॥ वृषणोत्पाटको भिक्षाचरस्ते हठयाचकः । यो वारितो युद्धपटुस्तस्मै दत्तं शतत्रयम् ॥ १४२ ॥ आनीते भट्टपादानां मध्यं सर्वव्ययोपरि । शतं शतद्वयं धूपशन्दामूलपलाण्डुषु ॥ १४३ ॥ इत्याद्यचिन्ततायुक्तापरिहार्यव्ययानसौ । तस्यैकीकृत्य गणनां लाभेपि शनकैय॑धात् ॥ १४४ ॥ वर्षमासग्रहतिथिप्रत्यावृत्तिः पुनः पुनः । संसारस्येव तस्यान्तं न ययौ नर्तिताङ्गुलेः ॥ १४५ ॥ स मूलग्रहणं पिण्डीकृत्याथ सकलान्तरम् । प्रसारितौष्ठस्तन्नेत्रे मीलयनभ्यधान्मृदु ॥ १४६ ॥ शल्यमुद्धर निक्षेपं नयोजासधनं त्विदम् । विरम्भदत्तं निर्दम्भं दीयतां सकलान्तरम् ॥ १४७ ॥ तत्स धर्म्य वचो जानन्क्षणमुच्छ्रसितोभवत् । क्षुरं क्षौद्रोपलिप्तं तु ध्यात्वा पश्चादतप्यत ॥ १४८ ॥ युक्त्यापद्भुतसर्वस्वं क्रौर्यानार्यमथार्थकः । विवादे नाशकजेतुं नापि स्थेया विचारकाः ॥ १४९ ॥ स्थेयैरनिश्चितन्यायं पुरो न्यस्तं ततो नृपः । तदित्थमिति निश्चित्य वणिज तमभाषत ॥ १५० ॥ अद्यापि न्यासदीनाराः सन्ति चेत्तत्प्रदर्यताम् । अंशः कियानपि ततस्ततो वच्मि यथोचितम् ॥ १५१ ॥ तथा कृते तेन वीक्ष्य दीनारान्मात्रिणोब्रवीत् । राजभि विनां राज्ञां नाना टङ्कः क्रियेत किम् ॥ १५२ ॥ १ चिन्तता इति युक्तम् ।

राजतरङ्गिणी न चेत्कलशभूपालकाले न्यासीकृतेष्वमी । दीनारेषु कुतष्टङ्का मन्नामाङ्का अपि स्थिताः ॥ १५३ ॥ निक्षिप्तेनैष लक्षण वणिक्तस्माद्यवाहरत् । वणिजो द्रविणेनायमप्यात्तेनान्तरान्तरा ॥ १५४ ॥ तस्साद्यदा यदेतेन गृहीतं दीयतां ततः । तदाप्रभृत्यद्ययावल्लाभोस्मै वणिजोर्थिनः ॥ १५५ ॥ न्यसनानेहसश्चैष प्रभृत्यस्सै प्रयच्छतु । लक्षाद्खण्डिताल्लाभं किं वाच्यं मौलिके धने ॥ १५६ ॥ अवधारयितुं शक्यं मादृशैः सघृणैरियत् । श्रीयशस्करवद्गौक्ष्यमीक्षेषु तु युज्यते ॥ १५७ ॥ विवादे संदिहानस्य युक्तं क्षान्त्यानुशासनम् । भाव्यं दण्डधराचारैः प्रयुक्तकुसृतेः पुनः ॥ १५८ ॥ अतिहार्येषु शल्येषु महामर्मगतेष्विव । सविवादेषु चोपेक्षां कालापेक्षी व्यधान्नृपः ॥ १५९ ॥ पप्रथे पार्थिवस्येत्थं निश्चोद्यं तस्य पालनम् । प्रजासु जागरूकस्य मनोरिव मनस्विनः ॥ १६० ॥ सख्यं कारणनियंपेक्षमिनताहंकारहीना सती भावो वीतजनापवाद उचितोक्तित्वं समस्तप्रियम् । विद्वत्ता विभवान्विता तरुणिमा पारिप्लवत्वोज्झितो राजत्वं विकलङ्कमत्र चरमे काले किलेत्यन्यथा ॥ १६१ ॥ स तादृशोपि राजेन्द्रचन्द्रमाः स किलाभवत् । मात्सर्याविष्टवैवश्यादोषोल्कावर्षभीषणः ॥ १६२ ।। औदार्यशौर्यधीधैर्यगुणतारुण्यमत्सरः । बभूव संख्यातीतानां मानप्राणहरो नृणाम् ॥ १६३ ॥ १ यत् इति स्यात् । २ मात्सर्यावेश इति स्यात् ।

अष्टमस्तरङ्गः।
मानोन्नतैश्च भूयोपि वाक्पारुष्यरुषा हतैः ।
लाघवं प्रत्युपालम्झैः पार्थिवोप्यनुभावितः ॥ १६४ ॥
प्रसुप्तानां फणीन्द्राणामिव कोपोद्भवं विना
तेजोविस्फूर्जितं ज्ञेयं नहि नाम शरीरिणाम् ॥ १६५ ॥
विविधे भूतसगैस्मिन्न च कश्चित्स विद्यते ।
वपुर्वशचरित्रादि यस्य दोषैर्न दूषितम् ॥ १६६ ॥
जातिः पङ्करहाद्वपुःकपिलताक्रान्तं शिरःखण्डनं
प्रभ्रश्यच्छुचिशीलतादिविगुणाचारप्रदुष्टं यशः ।
विश्वस्रष्टुरिति प्रभूतविषयव्याप्तिस्पृशो दुःसहा
दोषा यत्र पुरोस्तु तत्र कतमो निर्दोषतोत्सेकभूः ॥१६७॥
अविचार्यति भूपालः स चकारानुजीविनाम् ।
वंशचारित्रदेहादिदोषोद्धोषणमन्वहम् ॥ १६८ ॥
अन्योन्यद्वेषमुत्पाद्य संख्यातीता महाशटाः ।
युद्धश्रद्धालुता तेन द्वन्द्वयुद्धेषु घातिताः॥ १६९ ।।
मासादिनमाहेन्द्रमहाद्यवसरेषु सः ।
निनाय योधान्संनद्धानन्योन्यप्रधनैर्धनम् ॥ १७० ॥
स नाभूदुत्सवः कश्चित्तदा यत्र नृपाङ्गने ।
भूमिर्न सिक्ता रक्तेन हाहाकारो न चोद्ययौ ॥ १७१ ॥
नृत्यन्त इव निर्याता गृहेभ्यो वंशशोभिनः ।
बान्धवैर्निन्यिरे योधा लूनाङ्गाः पार्थिवाङ्गनात् ॥ १७२ ॥
स्निग्धश्यामकचांश्चारुश्मधूनाकल्पशोभिनः ।
हतान्वीक्ष्य भटानाजा मुमुदे न तु विव्यथे ॥ १७३ ॥
नार्यों राजगृहं गत्वा प्रत्यायातेषु भर्तृषु।
मेनिरे दिवसं लब्धमनास्था नित्यमन्यथा ॥ १७४ ॥

१६ राजतरङ्गिणी - भवेत्तधदहं कुर्यामित्यहंक्रियया वदन् । साचिव्यमव्याहतवाक्तैस्तै त्यैरजिग्रहत् ॥ १७५ ॥ प्रवर्धमानांस्तानेव विद्वेषकलुषाशयः। हृताधिकारान्विधे बहुशश्च विमानितान् ॥ १७६ ॥ दञ्छकः कम्पनाधीशः प्रवृद्धौ तत्र सक्रुधि । विद्रुतो विषलाटायां निपत्य निहतः खशैः ॥ १७७ ।। तेन स्ववर्धितो द्वाराधीश्वरो रक्ककाभिधः । हृताधिकारो विदधे विभूतिं वीक्ष्य भूयसीम् ॥ १७८ ॥ माणिक्यसैन्यपतिना द्वारेकरमान्निवारिते । खिन्नेन विजयक्षेत्रे चके व्रतपरिग्रहः ॥ १७९ ॥ कम्पनाधिकारस्थाः प्रवीरास्तिलकादयः । काकवंशा मार्दवेन तत्कोपं नानुभाविताः ॥ १८० ॥ भोगसेनो निरनुगः क्षीणवासा भवत्कृतः। तेनातिसेवाप्रीतेन राजस्थानाधिकारभाक् ॥ १८१ ॥ यस्येन्द्रद्वादशीयुद्धे सान्द्रसैन्योपि विद्रुतः । क्षुद्रवद्गग्गचन्द्रोपि रौद्रमालोक्य विक्रमम् ॥ १८२ ॥ येपि सड्डाभिधानस्य पुत्राः सामान्यशस्त्रिणः । ताबडुच्छुड्डव्यड्डान्स मत्रिणः समपादयत् ॥ १८३ ॥ पुत्रौ विजयसिंहस्य तत्सेवात्यक्तदुर्दशौ । तिलको जनकश्चास्ताममात्यश्रेणिमध्यगौ ॥ १८४ ॥ यमैलाभायबाणादिमुख्या द्वारादिनायकाः । कस्तान्समर्थः संख्यातुं तडित्तरलसंपदः ॥ १८५ ॥ द्वित्राः प्रशस्तकलशादयः पूर्वे तदन्तरे। प्रापुर्बालगुमान्तःस्थजीर्णानोकहविभ्रमम् ॥ १८६ ॥ १ कृतोभवतू इत्युचितम् ।

अष्टमस्तरङ्गः। कंदर्पः क्ष्माभुजा दूतैः समानीतोपि नाददे । तस्यासहनतां वीक्ष्य प्रार्थितोप्यधिकारिताम् ॥ १८७ ॥ आस्थानाचारसंलापव्यवहारादि मण्डले। नवमेवाभवत्सर्व तस्मिन्नभिनवे नृपे ॥ १८८ ॥ लक्ष्मीः कार्मणचूर्णाङ्का वेश्येव वशवर्तिनः । धीरानपि विधायेय करोत्युन्मार्गवर्तिनः ॥ १८९ ॥ सपिण्डानामपि व्यक्तशीलवीक्षणतत्परा । प्रेततेव नरेन्द्रश्रीर्जातिस्नेहापकारिणी ॥ १९० ॥ समस्तसंपत्पूर्णोपि यस्मात्सुस्सलभूपतिः । दध्यौ भ्रातुरवस्कन्दं राज्यापहरणोद्यतः ॥ १९१ ॥ अकस्मादशृणोच्छयेनमिव तं शीघ्रपातिनम् । स्थानं वराहवार्ताख्यमुल्लङ्घयायातमग्रजः ॥ १९२ ॥ क्षिप्रकारी विनिर्गत्य तमप्राप्तपदं ततः। निपत्य सैन्यैर्बहुलैः सोपकारमकारयत् ॥ १९३ ॥ विद्रुतस्यास्पदे तस्य नानोपकरणैश्च्युतैः। ताम्बूलवेलाकूटैश्च सामग्री समभाव्यत ॥ १९४ ॥ कृतकार्यपरावृत्त्यासावरूढोपि पार्थिवः । प्रत्यावृत्तं तमशृणोदन्येद्युः क्रूरविक्रमम् ॥ १९५ ॥ गग्गचन्द्रस्तदादेशाद्गत्वा बहलसैनिकः । चक्रे सुस्सलभूपालबलनिर्दलनं ततः ॥ १९६ ॥ असंख्यैः सौस्सलैयॊधैराहवायासनिःसहैः । क्लान्तिर्विमानोद्यानेषु धुनारीणाममुच्यत ॥ १९७ ।। भर्तृप्रसादस्यानृण्यं प्राणैर्युधि समर्पितैः । राजपुत्रौ गतौ तत्र सहदेवयुधिष्ठिरौ ॥ १९८ ॥ । ३ राजतरङ्गिणी वराश्वान्सुस्सलानीकान्गग्गस्तान्प्राप विद्रुतान् । चके भूरितुरङ्गस्य यैर्भूपस्यापि कौतुकम् ॥ १९९ ॥ निविष्टकटकं तं स श्रुत्वा सेल्यपुरध्वना । क्रमराज्योन्मुखं यान्तं द्रुतमन्वसरन्नृपः ॥ २० ॥ अन्विष्यमाणसरणिः प्रयत्नादग्रजन्मना । प्रविवेश दरद्देशं परिमेयपरिच्छदः ॥ २०१॥ दत्तमार्ग तस्य राजा डामरं लोष्टकाभिधम् । स सेल्यपुरजं हत्वा नगरं प्राविशत्ततः ॥ २०२॥ तस्सिन्दूरं गते वैरकलुषोपि स नाददे । भ्रातृस्नेहैरसंरम्भ ग्रहीतुं लोहरं गिरिम् ॥ २०३ ॥ कल्हः कालिन्दराधीशो दौहित्री पुत्रवद्गृहे । यामवर्धयत स्नेहादपुत्रः पितृवर्जिताम् ॥ २०४ ॥ राज्ञो विजयपालस्य सुतां सुस्सलभूपतिः । उपयेमे स तां श्रीमाननघां मेघमञ्जरीम् ॥ २०५ ॥ तस्य प्रभावाधिष्ठानाच्छिशोरपि न लोहरे । शक्तिरासीविरुद्धानामाप बाधाय वैरिणाम् ॥ २०६ ॥ धीरः सुस्सलदेवोपि मागैर्निर्गत्य दुर्गमैः । आसदद्भूरिभिर्मासैः स्वोर्वी दुर्गिरिवर्त्मना ॥ २०७ ॥ प्रशान्ते व्यसने तस्मिन्धीरस्योच्चलभूपतेः । अन्येपि व्यसनाभासा उत्पन्नध्वंसिनोभवन् ॥ २०८ ॥ भीमादेवः समादाय भोज कलशदेवजम् । साहायकार्थमानिन्ये दरद्राजं जगद्दलम् ॥ २०९ ॥ सह्रो हर्षमहीभर्तुरवरुद्धात्मजोभवत् । भ्राता दर्शनपालस्य सञ्जपालस्तु तद्बलम् ॥ २१० ॥ १ नीकाद्गग्गः इत्युचितम् । ।

अष्टमस्तरङ्गः।
१९
नीतिज्ञेन ततो राज्ञा सानैव दरदीश्वरः ।
आक्षेपाद्वारितः प्रायात्प्रत्यावृत्त्य निजां भुवम् ॥ २११ ॥
सहस्तमन्वगाच्छन्नं भोजोविक्षत्स्वमण्डलम् ।
भेजे सुस्सलदेवस्य सञ्जपालोनुजीविताम् ॥ २१२ ॥
गृहीतार्थेन भृत्येन निजेनैव प्रदर्शितः।
भोजः क्षिप्रं नृपात्प्राप निग्रहं तस्करोचितम् ॥२१३ ॥
देवेश्वरात्मजः पित्थकोपि द्वैराज्यलालसः।
डामरानाश्रिते राशि निर्याते व्यद्वादशः॥ २१४ ॥
विचारपरिहारेण धावन्तः सर्वतो जडाः ।
तिर्यञ्च इव हास्याय प्रसिद्धिशरणा जनाः ॥ २१५ ॥
मल्लस्य रामलाख्योहं सूनुरासं दिगन्तरे ।
असूदः कश्चिदेवं चक्रिकाचतुरो वदन् ॥ २१६ ॥
निन्ये प्रवृद्धिं व्यामूढैर्बहुभिर्विप्लवप्रियः
धनमानादिदानेन भूमिपैर्भूम्यनन्तरैः ॥ २१७ ॥
।
युग्मम् ॥
ग्रीष्मे प्रविष्टः कश्मीरानेकाकी धर्मपीडितः ।
व्यधीयत च्छिन्ननासः परिज्ञाय नृपानुगैः ॥ २१८ ॥
कटके पर्यटन्त्राज्ञः स एव ददृशे पुनः ।
स्वजात्युचितभक्ष्यादिविक्रयी सस्मितं जनैः ॥ २१९ ॥
मिथ्यैव नीतिकौटिल्यैः क्रियतेभ्युदयश्रमः ।
शक्यतेपरथा कर्तुं न दैवस्य मनीषितम् ॥ २२० ॥
शान्तापि ज्वलति क्वापि क्वचिद्दीप्तापि शाम्यति ।
दैववातवशाच्छक्तिः पुंसः कक्षाग्निसंनिभा ॥ २२१ ॥
पलायनैनापयाति निश्चला भवितव्यता ।
देहिनः पुच्छसंलीना वह्निज्वालेव पक्षिणः ॥ २२२ ॥

२०
राजतरङ्गिणी
।
नाच्छिन्नवाहिविषशस्त्रशरप्रयोगै-
ने श्वभ्रपातरभसेन न चाभिचारैः ।
शक्या निहन्तुमसवो विधुरैरकाण्डे
भोक्तव्यभोगनियतोच्छसितस्य जन्तोः ॥ २२३ ॥
भिक्षाचरः समादिष्टवधो जयमतीगृहात् ।
नक्तं वध्यभुवं निन्ये वधकैः पार्थिवाज्ञया ॥ २२४ ॥
ग्राणि प्रस्फोट्य निक्षिप्तो वितस्तायां समीरणैः ।
क्षिप्तस्तदं क्षणं स्पन्दमानवक्षाः कृपालुना ॥ २२५ ॥
द्विजेनैकेन संप्राप्तश्चिरादुद्गतचेतनः ।
आसमत्यभिधानाया ज्ञातिर्दिदेति गौरवात् ॥ २२६ ॥
शाहिपुत्रीभिरुक्ताया दत्तश्चतुरया तया ।
नीतो देशान्तरं गूढं ववृधे दक्षिणापथे ॥ २२७ ॥
तिलकम् ॥
स वृत्तप्रत्यभिज्ञोथ पुत्रवन्नरवर्मणा ।
मालवेन्द्रेण शस्त्रास्त्रविद्याभ्यासमकार्यत ॥ २२८ ॥
अन्यदीयं घातयित्वा तत्तुल्यवयसं शिशुम् ।
रक्षितो जयमत्यैव स किलेत्यपरेब्रुवन् ॥ २२९ ॥
देशान्तरागताहृतात्तां वार्तामुपलब्धवान् ।
अत एवाभवत्तस्या भूभृद्विरलितादरः ॥ २३० ॥
बहिरप्रतिभिन्दस्तत्स धीरो मार्गवर्तिभिः ।
चक्रे तदप्रवेशाय संबन्धं पार्थिवैः समम् ॥ २३१ ॥
ईर्ष्यामगोपयन्नार्याः शङ्कामच्छादयत्रिपोः ।
स्वयमन्याभिगम्यत्वं करोति हि जडो जनः ॥ २३२ ।।
भिक्षाचरे हते बालं कंचिदादाय तत्समम् ।
तन्नाम्ना ख्यातिमनयहिदैवेत्यपरेब्रुवन् ॥ २३३ ॥

अष्टमस्तरङ्गः।
२१
तथ्येन सोस्तु मिथ्या वा प्रतिष्ठां तां तथाप्तवान् ।
यथा लघुत्वमानेतुं न दैवेनाप्यशक्यत ॥ २३४ ॥
स्वप्नेन्द्रजालमायानामपि निर्विषया इमाः।
कर्मवैचित्र्यजनिताः काश्चिदाश्चर्यविपुषः ॥ २३५ ॥
स राजबीजी नाशाय विशां गूढं व्यवर्धत ।
पुरग्रामादिदाहाय कक्षान्तरिव पावकः ॥ २३६ ॥
रोहत्यन्तिकसीमनि प्रतिविषा वीरुद्विषक्ष्मारुहः
काले प्रावृडुपद्रुताच्छसलिले मूर्च्छत्यगस्त्योदयः ।
सर्गच्छेदविधिक्षमानुदयतो दृष्ट्वा किलोपद्रवा-
न्संधत्ते प्रतिकारकल्पनमहो दीर्घावलोकी विधिः ॥२३७॥
अजायत विपन्मजजगदुद्धरणक्षमः ।
तस्मिन्नेव क्षणे यस्मात्सुस्सलक्ष्मापतेः सुतः ॥ २३८ ॥
तजन्मकालादारभ्य सर्वतो जयमर्जयन् ।
नामान्वर्थ नृपस्तस्य जयसिंह इति व्यधात् ॥ २३९ ॥
शास्तुः सर्वार्थसिद्धाख्या यथा सर्वार्थसिद्धिभिः ।
तथा तस्याभिधान्वर्था नात्यजद्रूढिशब्दताम् ॥ २४० ॥
मुद्रां सकुङ्कुमस्याङ्ग्रेस्तदीयस्याभ्युपागताम् ।
विलोक्योच्चलदेवोभूद्विमन्युर्धातरं प्रति ॥ २४१ ॥
बालस्यैवाशिमुद्रास्य वैरं पितृपितृव्ययोः ।
निवारयन्ती विदधे सुस्थितं मण्डलद्वयम् ॥ २४२ ॥
स स्वर्गिणः पितुर्नान्ना ततः सुकृतसिद्धये ।
चकारोच्चलभूपालः पैतृके स्थण्डिले मठम् ॥ २४३ ॥
गोभूमिहेमवस्त्रान्नदाता तस्मिन्महोत्सवे ।
आश्चर्यकल्पवृक्षत्वं त्यागी सर्वार्थिनामगात् ॥ २४४ ॥

२२
राजतरङ्गिणी
प्रसादैः प्रहितैस्तेन महाधैः श्लाघ्यसंपदा ।
महान्तोपि दिगन्तेषु पार्थिवा विस्मयं ययुः ॥ २४५ ॥
भर्तृप्रसादाधिगतां श्रियं नेतुं परार्ध्यताम् ।
विहारं समठं देवी जयमत्यपि निर्ममे ॥ २४६ ॥
केषांचित्पूर्वपुण्यानां विरहेण महीभुजः ।
हताभीष्टाभिधानोभून्मठो नवमठाख्यया ॥ २४७ ॥
सुल्लां स्वसारमुद्दिश्य परस्सिन्स्थाण्डिले पितुः ।
विहारापि कृतस्तेन नोचितां ख्यातिमाययौ ॥ २४८ ॥
मृत्योर्मस्तकपातित्वं तस्याकलयतः किल ।
न निष्ठां स्वप्रतिष्ठासु संप्रपेदे व्ययस्थितिः ॥ २४९ ॥
कदाचिक्रमराज्यस्थो द्रष्टुमग्निं स्वयंभुवम् ।
ययौ बर्हणचक्राख्यं गिरिग्रामं स भूपतिः ॥ २५० ॥
तं कम्बलेश्वरग्रामाध्वना यान्तमवेष्टयन् ।
अकस्मादेत्य तत्रत्याश्चौराश्चण्डालशस्त्रिणः ॥ २५१ ॥
प्रजिहीर्षुभिरप्याशु तस्मिन्नत्यल्पसैनिके।
न तैः प्रहृतमुद्रोजोवष्टम्भस्तम्भितायुधैः ॥ २५२ ॥
अथ हारितमार्गः स गहने गिरिगह्वरे ।
भ्रमन्नल्पानुयाय्येकां क्षणदामत्यवाहयत् ॥ २५३ ॥
उच्चचार क्षणे तस्मिन्स्कन्धावारेषु दुःसहा ।
नास्ति राजेति दुर्वार्ता सर्वतः क्षोभकारिणी ॥ २५४ ॥
कटकान्निःसृतात्यल्पा वात्येव गिरिगह्वरात् ।
सा दुष्प्रवृत्तिदीर्घत्वं पुरेरण्य इवासदत् ॥ २५५ ॥
नगराधिकृतस्तस्मिन्क्षणे छुड्डाभिधोभवत् ।
शस्त्रिणः कामदेवस्य कुल्यो रड्डादिसोदरः ॥ २५६ ॥

अष्टमस्तरङ्गः।
२३
कृत्वा पुरक्षोभशान्ति शस्त्रोकः स नृपास्पदे ।
प्रविश्य भ्रातृभिः सार्धं कार्यशेषमचिन्तयत् ॥ २५७ ।।
नृपं कं कुर्म इत्येवं तान्विचिन्तयतोब्रवीत् ।
सड्डाभिधोपि कायस्थः कुटुम्बिकुटिलाशयः ॥ २५८ ॥
यूयमेव सुहृद्वन्धुभृत्यबाहुल्यदुर्जयाः ।
राज्यं कुरुत संप्राप्य राष्ट्रमेवमकण्टकम् ॥ २५९ ॥
तेनैवमुक्तास्ते पापा जातराज्यस्पृहास्ततः ।
सिंहासनाधिरोहाय क्षिप्रमासन्समुद्यताः ॥ २६० ॥
श्रीयशस्करदेवस्य वंश्या एत इति श्रुतिः ।
तदन्वयेभूत्सर्वेषां राज्यौत्सुक्यप्रदायिनी ॥ २६१ ॥
अत एवाभजत्क्रोधं तेषां कुसुहृदुक्तिभिः ।
सा वासनान्तःसंलीना सदाचारानपेक्षिणाम् ॥ २६२ ॥
कथं न प्रतिभात्वेषा सद्यस्यापि कुपद्धतिः ।
शारिकस्य कुले जातो लवटस्य हि सोधमः ॥ २६३ ॥
क्षेमदेवाभिधानस्य पुत्रोप्यल्पनियोगिनः ।
क्रूराशयत्वमभजन्महासाहसिकोचितम् ॥ २६४ ॥
चौर्येण स्वर्णभृङ्गारं हृतवान्भूपतेर्गृहात् ।
संभावितोपि गाम्भीर्यानाशायि स किलेङ्गितैः ॥ २६५ ॥
सासिधेनुर्निरुष्णीषो विहसन्नखिलान्मयात् ।
राजपुत्र इवात्यल्पं स त्रैलोक्यममन्यत ॥ २६६ ॥
तस्य चिन्ता काचिदासीत्सदा दोलायतोङ्गुलीः ।
या राज्यहेतुः क्रूरेण फलेन समभाव्यत ॥ २६७ ॥
तद्राि निजसंकल्पादपि ते राज्यलालसाः ।
नृपं जीवन्तमाकर्ण्य ततोभूवन्हतस्पृहाः ॥ २६८ ॥

राजतरङ्गिणी न स्फुरन च संमीलन्न वा सुप्त इवानिशम् । तेषां चेतसि संकल्पस्तदाप्रभृति सोभवत् ॥ २६९ ॥ असुस्थिरादरेणाथ शनकैः पृथिवीभुजा । निन्यिरे मध्यमां वृत्तिं राजस्थानान्निवार्य ते ॥ २७० ।। प्रकृत्या रूक्षवाग्राजा सर्वेषामेव सर्वदा । तेषामप्यकरोदत्रान्तरे मर्मस्पृशः कथाः ॥ २७१ ॥ ते राज्ये हर्षभूभर्तुः पितरि प्रमयं गते । मातुस्तारुण्यमत्ताया विधवाया गृहेवसन् ॥ २७२ ॥ तैर्मधासत्तको नाम शस्त्रभृत्प्रातिवेश्मिकः । सुहृद्धतोथ विश्वस्तो जननीजारशङ्कया ॥ २७३ ॥ असतीमपि किं नैते न्यगृह्णन्निति भूपतिः । विचार्य कोपात्तन्मातुर्नासाच्छेदमकारयत् ॥ २७४ ।। तां कथां स नृपस्तेषां परोक्षमुदघोषयत् । क पुत्राश्छिन्ननासाया वदन्नित्यन्वियेष च ॥ २७५ ॥ बृहद्गादिगञ्जेशं कृत्वा कार्यान्यवारयत् । स कायस्थकृतान्तत्वं भजन्सडुमपि प्रभुः ॥ २७६ ॥ पीडितस्तेन रौद्रेण निजोथ गणनापतिः । कोशोत्पत्त्यपहर्तारं तं नृपाय न्यवेदयत् ॥ २७७ ॥ प्रवेशभागिकपदे हृते राज्ञा रुषा ततः । स क्रूरो रडुच्छुड्डादीन्रयत्पूर्वचिन्तिते ॥ २७८ ॥ जिघांसवस्ते नृपतिं प्रसङ्गापेक्षिणः परैः। समगंसत दुष्प्ररथ हंसरथादिभिः ॥ २७ ॥ प्रजिहीर्षुभिर्वीशं पीतकोशैः समेत्य तैः । चतुष्पश्चानि वर्षाणि नावाप्यवसरः क्वचित् ॥ २८० ।।

अष्टमस्तरङ्गः। बहुभिर्बहुधा भिन्नैर्बहुकालं विचिन्तितः। न भेदमगमन्मन्त्रः स चित्रं लोकदुष्कृतैः ॥ २८१ ॥ तवैतां कुरुते शश्वन्नृपो मर्मस्पृशं कथाम् । इति प्रत्येकमुक्त्वा ते विरागं पार्थिवेभजन् ॥ २८२ ॥ तैरुरःपार्श्वपृष्ठादि गूढैवर्मभिरायसैः । प्रच्छाद्य पार्थिवोजनमनुसस्ने जिघांसुभिः ॥ २८३ ॥ असहो विरहं सोढुं यां प्रसादयितुं न काम् । राजापि संदधे चेष्टां प्राक्प्राकृतभुजंगवत् ॥ २८४ ॥ स्वभाववैपरीत्येन नाशचिह्नेन स स्थिराम् । जयमत्या सहाप्रीतिं तदादाद्वत्सरद्वयम् ॥ २८५ ॥ रक्षां भिक्षाचरस्याहुनिमित्तं तत्र केचन । केचित्तु विद्युत्सदृशीं प्रेम्णां तरलवृत्तिताम् ॥ २८६ ॥ अथ वर्तुलभूभर्तुरात्मजा विजलाभिधा । कृतपाणिग्रहास्यागाद्वाल्लभ्यं वसुधाभुजः ॥ २८७ ॥ सङ्ग्रामपाले नृपतौ तस्मिन्नवसरे मृते । तत्सूनुः सोमपालाख्यः पित्र्यं राज्यं समादधे ॥ २८८ ॥ राज्यार्हमनजं बद्धा सोभ्यषिच्यत चाक्रिकैः । इति कोपानरेन्द्रोभूत्क्रुध्यबाजपुरी प्रति ॥ २८९ ॥ लक्ष्मीस्थैर्यप्रतिभुवः पुत्र्याः पाणिमजिग्रहत् । ... अर्थिचिन्तामणेस्तस्य प्रीणतो निखिलाः प्रजाः । नानाव्ययोर्जितो रेजे पश्चिमः स महोत्सवः ॥ २९१ ॥ याते जामातरि क्ष्माभृञ्चके निखिलतत्रिणः । निवृत्तीः किमपि क्रुध्यन्दुभ्रुझूस्तु व्यसर्जयत् ॥ २९२ ॥ ४

राजतरङ्गिणी
भोगसेनोपि भूपेन काले तस्मिन्समन्युना ।
निवारितो द्वारकार्यात्सवैरः समपद्यत ॥ २९३ ॥
विक्रान्तः स हि कार्यस्थो निर्जिताखिलडामरः ।
सुस्सलक्ष्मापतिं जेतुं प्रतस्थे लोहरं पुरा ॥ २९४ ॥
वात्सल्यमिश्रं वैरेण वारितोथ महीभुजा ।
तत्परीवादमकरोच्चुक्रोधावेत्य तच्च सः ॥ २९५ ॥
प्रावेशयन्नडछुड्डमुखान्स समयान्तरम् ।
तमादिसुहृदं वीरं तदा राज्ञा विमानितम् ॥ २९६ ॥
विमानिता विशालेच्छाः संहता हतवृत्तयः ।
न ते बहिष्कृतास्तेन यमराष्ट्र जिगीषता ॥ २९७ ॥
तान्भोगसेनविन्यस्तसद्भावान्कुटिलाशयः ।
सड्डो निनिन्द वीरत्वात्तं जानन्सरलान्तरम् ॥ २९८ ॥
ऊचे चाद्यैव हित्वापि प्राणान्व्यापाद्यतां नृपः।
भोगसेनोन्यथा भेदं कुर्यादगहनाशयः ॥ २९९ ॥
अन्यथाभून्न सड्डोक्तं भोगसेनो यदब्रवीत् ।
किंचिद्रहोस्मि वक्तेति नृपति भेदलालसः ॥ ३०० ॥
स तु किं वक्षि न द्वारं तव दयामिति ब्रुवन् ।
दुध्रुक्षुपक्षप्रणयं निन्ये तमवमानयन् ॥ ३०१॥
प्रबोधाधायिनो द्वेष्टि नियतिप्रणयीभवन् ।
तपात्ययाहनिद्रात इव जन्तुर्गतस्मृतिः ॥ ३०२ ॥
तत्रिणो यामिका भूत्वा स्वस्मिन्वारे ततोविशन् ।
ते राजधानी संनद्धैः स्वसैन्यैः सह संहताः ॥ ३०३ ॥
यामिन्यां यं वयं हन्मस्तं हतेत्यभिधाय च ।
प्रावेशयन्यस्तचिह्नांश्चण्डालान्मण्डपान्तरम् ॥ ३०४ ॥

अष्टमस्तरङ्गः।
२७
।
भुक्तोत्तरं स्थिते राशि ते बाह्ये मण्डपे स्थिताः ।
सरोषो नृप इत्युक्त्वा सेवकोत्सारणं व्यधुः ॥ ३०५ ॥
राजा च विजलावेश्म यियासुर्मण्डपान्तरात् ।
दीपिकाभिः कृतालोको निर्ययौ मदनालसः ॥ ३०६ ॥
मध्यमं मण्डपं तस्मिन्प्राप्ते स्वल्पैः सहानुगैः ।
तत्त्यक्तं मण्डपं सड्डो रुवान्यानरुणजनान् ॥ ३०७ ॥
अन्यैरप्यग्रिमे द्वारे निरुद्धे सर्व एव ते।
जिघांसवः समुत्थाय नृपति पर्यवारयन् ॥ ३०८ ॥
विज्ञप्तिदम्भादेकेन रुद्धमग्रे निषेदुषा ।
तं द्विजो दिनजस्तेजः शख्या कृष्टकचोशिनत् ॥ ३०९ ॥
ततः काञ्चनगौराणि तस्याङ्गान्यसिधेनवः।
बह्वयः सुमेरुशृङ्गाणि महोरग्य इवाविशन् ॥ ३१ ॥
स द्रोहो द्रोह इत्युक्त्वा केशान्कृष्टान्विमोचयन् ।
क्रीडाशख्याः कषां रुद्धमुष्टिं दन्तैळपाटयत् ॥ ३११ ॥
सुजनाकरनामा
हि भृत्यः कट्टारकं वहन् ।
तस्यान्तिकात्पलायिष्ट प्रहरत्सु विरोधिषु ॥ ३१२ ॥
अतो बालोचितां लध्वी क्षुरिकां स चकर्ष ताम् ।
मुष्टावर्गलिता कोशात्सा कृच्छ्रेण विनिर्ययौ ॥ ३१३ ॥
निर्यातात्रः शत्रुभिस्तैस्त्यक्तकेशो बवन्ध तम् ।
धम्मिल्लमथ तां शस्त्री जानुद्वन्द्वान्तरर्पयन् ॥ ३१४ ॥
नदित्वा प्रहरंस्तेजस्तादृग्वीोपि सोशवत् ।
येन क्षितौ निपतितः सर्वमर्मस्विवाहतः ॥ ३१५ ॥
अभिनञ्च ततो रडु प्रहरन्तं च पृष्ठतः।
नदन्सिह इव व्य९ परिवृत्य व्यदारयत् ॥ ३१६ ॥

२८
राजतरङ्गिणी
अन्यं च शस्त्रिणं कंचित्सवर्माणमपातयत् ।
विवेष्टमानो यः प्राणैरचिरेण व्ययुज्यत । ॥ ३१७ ॥
लब्धान्तरे प्रवासाय तस्मिन्धावति मण्डपः ।
रक्षिभिर्भूमिपालोयमित्यबुद्ध्वा कवाटितः ॥ ३१८ ॥
द्वारमन्यत्प्रसर्पन्स व प्रयासीति जल्पता ।
छुड्डेन रुद्धमार्गेण खड्गपातैरहन्यत ॥ ३१९ ॥
भोगसेनं ततोपश्यद्वारस्यान्ते समुत्थितम् ।
दारुतूलिकया भित्तिमालिखन्तं पराङ्मुखम् ॥ ३२० ॥
भोगसेनेक्षसे करमादमुं त्वमिति वादिनम् ।
सोव्यक्तं किमपि हीतः प्रधावन्तं जगाद तम् ॥ ३२१ ॥
रय्यावहाभिधो दीपधरस्तिष्ठन्निरायुधः ।
अयोदीपिकयारब्धयुद्धस्तैर्विक्षतोपतत् ॥ ३२२ ॥
चाम्पेयः सोमपालाख्यराजपुत्रः क्षताहितः।
प्रहारैः प्राप्तवैक्लव्यो न गाचारतामगात् ॥ ३२३ ॥
पौत्रः श्रीशूरपालस्य राजकापत्यमजकः ।
विदद्रौ श्वेव संछाद्य शस्त्री पुच्छच्छटोपमाम् ॥ ३२४ ॥
ततः प्रधावन्प्रग्रीवमारुरुक्षुः क्षितीश्वरः ।
निकृत्तजानुश्चण्डालैरालिलिङ्ग वसुंधराम् ॥ ३२५ ॥
तत्पृष्ठे स्वं क्षिपन्देहं प्रहारैर्जर्जरीकृतः ।
शृङ्गारनामा कायस्थो निद्रोहो वारितोरिभिः ॥ ३२६ ॥
पुनरुत्थातुकामस्य सर्वे शस्त्रावलीर्द्विषः ।
न्यपातयंस्तस्य काल्या नीलाजवरणस्रजम् ॥ ३२७ ॥
तिष्ठेत्कदाचिद्भूतॊयमविपन्नो विपन्नवत् ।
कंधरामधमः सडुस्तस्येति स्वयमच्छिनत् ॥ ३२८ ॥

अष्टमस्तरङ्गः। कृतं पदापहरणं यस्य सोहमिति ब्रुवन् । छित्त्वाङ्गुलीश्वकर्षापि रत्नाङ्कामूर्मिकावलीम् ॥ ३२९ ॥ एकपादस्थितोपानरस्तमाल्यैः शिरोरुहैः । छन्नवक्रः स ददृशे सुप्तो दीर्घभुजः क्षितौ ॥ ३३० ॥ पर्याप्तयास्य पर्यन्ते वीरवृत्त्या महौजसः। निर्दोषतामीषदगान्निस्त्रिंशत्वं जनान्प्रति ॥ ३३१ ॥ सेवकः शूरटो नाम पूत्कुर्वन्द्रोहमुच्चकैः । निर्गत्य भोगसेनेन बहिः क्रोधान्निपातितः ॥ ३३२ ॥ प्रस्थितो दयितावासं स दिमोहवशादिव । पन्थानं पृथिवीनाथः काल्या जग्राह वेश्मनि ॥ ३३३ ॥ राज्योद्याने नृपतिमधुपा भोगकिंजल्कलोला- श्वेतो नानावसनकुसुमश्रेणिभिः प्रीणयन्तः । हा धिग्दैवानिलतरलया पात्यमाना नियत्या वल्येवैते किमपि सहसा दृष्टनष्टा भवन्ति ॥ ३३४ ॥ तिर्यग्भ्यस्त्रिजगजयी परिभवं लङ्केश्वरो लब्धवा- प्रापाशेषनृपोत्तमः कुरुपतिः पादाहर्ति मूर्धनि । इत्यन्ते बहुमानहृत्परिभवः सर्वस्य सामान्यव- त्तको नाम अवेन्महानहमिति ध्यायन्धृताहंक्रियः ॥३३५॥ परासुमहितैस्त्यक्तं तमनाथमिव प्रभुम् । नग्नं हुताशसात्कर्तुं स्वच्छत्रग्राहिणोनयन् ॥ ३३६ ॥ भुजौ कण्ठे गृहीत्वैकः कराभ्यां चरणौ परः । तं भुग्नग्रीवमालोलकुन्तलं रुधिरोक्षितम् ॥ ३३७ ॥ सशूत्कारवणं नग्नमनाथमिव पार्थिवम् । राजधान्या विनिष्कृष्टं न्यधत्तां पितृकानने ॥ ३३८ ॥ युग्मम्॥

३०
राजतरङ्गिणी
महासरिद्वितस्ताम्भःसंभेदद्वीपभूतले ।
अह्वाय वह्निसंस्कारं ते भीतास्तस्य चक्रिरे ॥३३९ ॥
न हतो नापि निर्दग्धः स केनापि व्यलोक्यत ।
उड्डीयेव गतस्त्वाशु नेत्रनिर्विषयोभवत् ॥ ३४० ॥
व्यतीतेन स वकचत्वारिंशतमायुषा ।
सप्ताशीत्यब्दपौषस्य शुक्लषष्ट्यां व्ययुज्यत ॥ ३४१ ॥
चक्रेथ सासिकवचो रड्डुः शोणितमण्डितः ।
श्मशानाश्मनि वेताल इव सिंहासने पदम् ॥ ३४२ ॥
..............
'बद्धमूलानामाद्यानां तन्न दिद्युते ॥ ३४३ ॥
तस्यावरोहतः सिंहासनाद्योद्धं पुरो युधि ।
विक्रामन्तो बन्धुभृत्या युद्धभूमिमभूषयन् ॥ ३४४ ॥
तत्रिणौ वट्टपट्टाख्यौ
युद्धा
तद्वान्धवौ चिरम् ।
योधाश्च कट्टसूर्याद्याः सिंहद्वारेपतन्हताः ॥ ३४५ ॥
रणरङ्गनटो नृत्यन्निव राजगृहाङ्गने ।
सखड्गखेटको रड्डुः खण्डयन्नहितान्बभौ ॥ ३४६ ॥
दिशन्विजयसंदेहमहितानां क्षणे क्षणे ।
प्रहारैः सुबहून्मित्त्वा स चिरेणापतद्रणे ॥ ३४७ ॥
राजद्रोहोचितं तस्य निहतस्यापि निग्रहम् ।
वैशसत्यक्तमर्यादो गर्गः कोपादकारयत् ॥ ३४८ ॥
दिद्दामठान्तिके व्यड्डः पौरैर्भमाश्मवर्षिभिः ।
अवस्करप्रणालान्तर्मग्नवक्रो न्यपात्यत ॥ ३४९ ॥
ते गुल्फदामभिः कृष्टाः स्थाने स्थाने प्रभुद्रुहः ।
तत्क्षणं लोकथूत्कारपूजां कृत्योचितां दधुः ॥ ३५० ॥

अष्टमस्तरङ्गः। ३१ पलाय्य प्रययुः क्वापि सहूं हंसरथादयः । मरणाभ्यधिकां कंचित्कालं सोढुं विपद्यथाम् ॥ ३५१ ॥ दृप्यन्पराजितं गर्ग नष्टे तदनुजे विदन् । भोगसेनोथ तां वार्तामशृणोत्प्रलयोपमाम् ॥ ३५२ ॥ व्यावृत्य प्रत्यवस्थातुकामः पश्यन्पलायिनः । योधान्स्वैः सहितः कैश्चित्ततः क्वापि भयादगात् ॥ ३५३ ॥ इत्थं निहतविध्वस्तनायका द्रोग्धृसंहतिः। स्वदोर्मात्रसहायेन गर्गचन्द्रण सा कृता ॥ ३५४ ॥ सत्त्वं साहससिद्धिं च नेतिहासेष्वपि क्वचित् । अश्रौषं तादृशं यादृक्तस्यास्ते स्म प्रतापिनः ॥ ३५५ ॥ निशां प्रहरमहश्च राज्यं कृत्वा स लब्धवान् । द्रोहकच्छं खराजाख्यां गतिं कुकृतिनामगात् ॥ ३५६ ॥ यशस्करकुले जन्म द्रोग्धृभिस्तैः प्रमाणितम् । क्षणभङ्गयभजद्राज्यं यस्माद्वर्णटदेववत् ॥ ३५७ ॥ दावोद्दीपनकूटयघटनैः सिंहादिसंहारिणो यान्त्याकस्मिकगण्डशैलपतनैरन्तं किराता वने । एकेनैव ननु प्रधावति जनः सर्वोपि मृत्योः पथा हन्ताहं निहतोयमेष तु मितं कालं विभेदग्रहः ॥ ३५८ ॥ स्वोद्वाहे ललनौघमङ्गलरवो यैर्हथुलैः श्रूयते दीनैस्तैर्दयिताविलाप उदयन्नाकर्ण्यतेन्तक्षणे । ह्योपि घ्नन्नहितं प्रहृष्यति परः स्वं नन्तमन्ते मुदो- दृत्तं सोप्यवलोकयत्यहह धिङ्मोहोयमान्ध्यावहः॥ ३५९॥ सायं विचिन्तितो रात्रौ फलितोऽन्यत्र वासरे। दुर्विपाकप्रदाताभूद्रोग्धृणां साहसद्रुमः ॥ ३६० ॥ १ योपि इति स्यात् ।

३२
राजतरङ्गिणी
अथ सिंहासनस्यान्तः कार्यान्ते त्यक्तविग्रहः ।
गर्गः प्रक्षालितामर्षश्चक्रन्द स्वामिनं चिरम् ॥ ३६१ ॥
तस्मिन्रुदति सर्वोपि पौरलोको भयोज्झितः।
संप्राप्तावसरो भूपं व्यलापील्लोकवत्सलम् ॥ ३६२ ॥
कारुण्योत्पत्तये दत्त्वा कोशं जीवितकामया।
जयमत्या तदावादि गर्गः कपटशीलया ॥ ३६३ ॥
कुरु मे संविदं भ्रातरिति सत्त्वमयस्तु सः।
तत्प्रक्रियावचो ज्ञात्वा चितिं तस्या अकल्पयत् ॥ ३६४ ॥
चिकुरनिचये यत्कौटिल्यं विलोचनयोश्च या
तरलतरता यत्काठिन्यं तथा कुचकुम्भयोः ।
वसति हृदि तद्यासां पिण्डीभवन्ननु ता इमा
गहनहृदया विज्ञायन्ते न कैश्चन योषितः ॥ ३६५ ॥
दौःशील्यमप्याचरन्त्यो घातयन्त्योपि वल्लभान् ।
हेलया प्रविशन्त्यग्निं न स्त्रीषु प्रत्ययः क्वचित् ॥ ३६६ ॥
युग्याधिरूढा सा यान्ती यावन्मार्गे व्यलम्बत ।
अग्रतो विजला तावन्निर्गत्य प्राविशञ्चिताम् ॥ ३६७ ॥
अथ तस्याश्चितारोहं कुर्वत्या भूषणार्थिभिः ।
लुण्ठकैलृट्यमानाया व्यथा गात्रेषु पप्रथे ॥ ३६८ ॥
सच्छत्रचामरे राश्यौ दह्यमाने विलोकयन् ।
लोकः सर्वोपि साक्रन्दो दग्धदृष्टिरिवाभवत् ॥ ३६९ ॥
औचित्यं तेन च तदा निन्येत्यन्त पवित्रताम् ।
सर्वैर्यदर्थ्यमानोपि नोपाधिक्षनृपासने ॥ ३७० ॥
सुतमुच्चलदेवस्य बालमङ्के निधित्सता ।
राज्यभिषेक्तुं ते केचित्तेनान्वैष्यन्त यत्नतः ॥ ३७१ ॥

अष्टमस्तरङ्गः। ५७ स भग्नमानो नगरं प्रविष्टे नृपतौ ततः। खिन्नः स्ववेश्मन्यवसत्स्वामिकायें निरुद्यमः ॥ ६५५ ॥ संप्राप्ताः समशीर्षिकां विसदृशैस्तुल्यैर्निरुद्धोदया वैरे विद्विषतां कृताधुरि पदं संधौ बहिः स्थापिताः । कार्यान्तेऽद्भुतकर्मकौशलकृतावज्ञा विरागस्पृशः सर्पाकीर्णमिवाशु वेश्म गृहिणो भृत्यास्त्यजन्ति प्रभुम् ६५६ त्यक्तकार्यानुसंधाने तस्मिन्सर्वत्र डामराः। संभृति विक्रियां निन्युः कृषि क्षयघना इव ॥ ६५७ ॥ आतङ्कोद्वेजितैर्विप्रैः कृतप्रायैः पुरे पुरे । वह्नौ हुताग्निभि|रा कुकीर्तिरुदपद्यत ॥ ६५८ ॥ उपसर्गेण तुरगाः करभाश्च क्षयं गताः। न्यवेदयन्मण्डलस्य प्रत्यासन्नमहाभयम् ॥ ६५९ ॥ प्रत्यासन्नाशुभा कम्पं भयेन जनता दधे । आसन्नवज्रपतना वातेनेव द्रुमावलिः ॥ ६६० ॥ अथ षण्णवताब्दस्य प्रारम्भे डामरावलिः। ऊष्मस्पृष्टा हिमानीव वभूवापतनोन्मुखी ॥ ६६१ ॥ प्रथमं देवसरसाद्विप्लवप्रसरस्ततः । मुख्यं व्यथावहो गण्ड इव पाकं व्यदर्शयत् ॥ ६६२ ॥ एककार्यत्वमानीय टिक्कादीन्गोत्रजान्बली। स्थामस्थं विजयोभ्येत्य राजानीकमवेष्टयत् ॥ ६६३ ॥ तत्र कायस्थपुत्रोपि स्थामस्थानीकनायकः । संरम्भं नागवट्टाख्यः सेहे तस्य चिरं युधि ॥ ६६४ ॥ कथंचिदथ भूपेन प्रार्थितः कम्पनापतिः । निर्ययौ स्वामिदौरात्म्यासंस्मृतिश्लथसौष्ठवः ॥ ६६५ ॥ १ हुतात्मभिः इत्युचितम् ।

५८
राजतरङ्गिणी
विजयेन समं तस्य बद्धमूलेन संयुगे।
संदेहं प्राणवृत्तिश्च जयश्रीश्चासकृद्ययौ ॥ ६६६ ॥
प्रवृद्धि मल्लकोष्टेपि प्रयाते लहरान्तरे ।
वैशाखे निर्ययौ राजा ग्रामं थल्योरकाभिधम् ॥ ६६७ ॥
सैनिकाः शत्रुभिस्तस्य भ्रामितास्तत्र रात्रिषु ।
अरतिं निन्यिरे घोरैः स्वप्नैरिव मुमूर्षवः ॥ ६६८ ॥
बाहुमात्रसहायेन सर्वशक्तिमतां वरः ।
येन हर्षनरेन्द्रोपि विधुरेणोदपाट्यत ॥ ६६९ ॥
भूरीन्वाराजितवतो विक्रमेण महीमिमाम् ।
साहसानां न संख्यास्ति जामदग्न्यस्य यस्य वा ॥६७०॥
स संकुचितविक्रान्तिः कालस्य बलवत्तया ।
तत्र भग्नबलोऽकरमाध्ययुज्यत जयश्रिया ॥ ६७१ ॥
ततः पलायिते तस्मिन्नकस्मादेत्य सजकम् ।
हाडिग्रामस्थितो वीरं भङ्गं पृथ्वीहरोनयत् ॥ ६७२ ॥
पलायितस्यानुसरंस्तस्य पृष्ठं स निष्ठुरः ।
प्रतापी नगराभ्यर्णे दग्ध्वा नागमठं ययौ ॥ ६७३ ।।
स चान्ये च ततः क्रूरा डामराः सर्वतोनयन् ।
राशो राजाश्रितानां च चरकेभ्यस्तुरंगमान् ॥ ६७४ ॥
निस्त्रिंशतां तीव्रकोपस्ततो भूपः समाश्रयन् ।
अभाग्यभागिनां योग्यामाललम्बे कुपद्धतिम् ॥ ६७५ ॥
नीवी पृथ्वीहरस्याथ हत्वा डामरमन्तिकम् ।
पृष्ठन्यस्तधि संभोज्यमिव रात्रौ व्यसर्जयत् ॥ ६७६ ॥
विसृज्य भ्रातरं हम्बं विद्दकस्य तथैव सः ।
अन्येषां प्राहिणोत्पार्श्व भ्रातॄन्पुत्रांश्च विलुतः ॥ ६७७ ॥

अष्टमस्तरङ्गः।
५
९
मातरं जयकाख्यस्य सिफिन्नाग्रामवासिनः ।
विच्छिन्नकर्णघ्राणां च कृत्वाभ्यर्ण व्यसर्जयत् ॥ ६७८ ॥
सपुत्रं सूर्यकं शूलेधिरोप्य नगरेपरान् ।
भूरीन्वध्यानवध्यांश्च क्रोधाकान्तो न्यपातयत् ॥ ६७९ ॥
कालस्येवोल्बणस्याथ तस्य सर्वेपि शङ्किताः ।
आभ्यन्तराश्च बाह्याश्च विरागं प्रतिपेदिरे ॥ ६८० ॥
येनैवानीतिमार्गेण हारितं हर्षभूभुजा ।
निन्दनप्यादधे तं स राज्ये व्यवहरस्वयम् ॥ ६८१ ॥
प्रविष्टानां युद्धे गहनकविकर्मप्रणयिनां
प्रसक्तानां द्यूते नरपतिधुरायां विहरताम् ।
तटस्थत्वे वक्तुं स्खलितमसकृत्सोर्हति परं
प्रयोगे वैकल्यं स्वयमविकलो यो न भजते ॥ ६८२ ॥
तीव्रप्रयत्नो नृपतिस्तत्रापि विहितोद्यमः ।
निनाय मल्लकोष्टादीन्किचिन्मन्दप्रतापताम् ॥ ६८३ ॥
अथानिनाय विजयो विषलाटाध्वना शनैः ।
नप्तारं हर्षदेवस्य तं भिक्षाचरमन्तिकम् ॥ ६८४ ॥
विविक्षन्देवसरर्स कम्पनापतिना ततः ।
विद्राव्यमाणः श्वभ्राग्रात्प्रधावन्सोपतक्षितौ ॥ ६८५ ॥
परिज्ञाय हतस्याथ स तस्य विजयी शिरः ।
विससर्जान्तिकं राज्ञः फलं जयतरोरिव ॥ ६८६ ॥
तदप्यत्यद्भुतं कर्म भजन्भूभृत्कृतघ्नताम् ।
न तस्य तुष्टस्तुष्टाव न चकार च सत्क्रियाम् ॥ ६८७॥
अवजानञ्जधानामुं शुभ्राख्यः कम्पनापतिः ।
तत्र कस्मात्तवोत्सेक इति तं संदिदेश च ॥ ६८८ ॥

६० राजतरङ्गिणी सर्वप्रकारं तिलकः कृतघ्नं नृपति विदन् । अथ जातविरागः स द्रोहोन्मुख्यं समादधे ॥ ६८९ ॥ सतां स्यादनुपालभ्यो भजेद्वैमुख्यमेव चेत् । द्रोहेच्छया स तु तया ययावग्राह्यनामताम् ॥ ६९० ॥ नेयाशयित्वमथवोचितकृत्यकृत्त्वं नीतिप्रियाः प्रतिपदं समुदाहरन्तु । मानोन्नतास्तु विहितस्तुतयः कृतज्ञै- स्त्यक्त्वाप्यसून्परहितं घटयन्ति सन्तः ॥ ६९१ ॥ पटं वह्निस्पर्शज्वलितमहिदष्टां त्वचमरेः श्रुतिं यातं मनं पतननिरतां जीर्णवसतिम् । असेवाझं भूपं व्यसनविमुखं स्निग्धमजह- न धीरोप्युत्थानोपहतमहिमा शर्म लभते ॥ ६९२ ॥ इत्युपायं परित्यज्य न्याय्यं ये प्रभवे क्रुधि । द्रोग्धारः कथितास्तेभ्यः केन्ये पापीयसां धुरि ॥ ६९३ ॥ जन्मन्येकोपकारित्वं पित्रोः सर्वत्र च प्रभोः । अधिकाः पितृघातिभ्यः पापिनः स्वप्रभुद्रुहः ॥ ६९४ ॥ निहते विजये शान्तप्रभावेष्यपरेप्वपि । नाज्ञायि कस्यचित्स्वास्थ्य तत्त्वज्ञेनान्तरात्मनः ॥ ६९५ ॥ कंचित्क्षणं सोपसृतः प्रत्युतोमोपतापकृत् । विप्लवप्रसरो ज्ञातः सर्वैर्दुड इवोन्मदः ॥ ६९६ ॥ आनिनीषुस्ततो मल्लकोप्टं भिक्षाचरं पुनः । विषलाटां तस्य पार्श्व निजं सैन्यं व्यसर्जयत् ॥ ६९७ ॥ १ जन्मन्येवोपकारित्वं इत्युचितम् । २ अन्तरात्मना इत्युचितम् । ३ मल्लकोप्टो इति स्यात् ।

अष्टमस्तरङ्गः।
कम्पनेशस्तमायान्तं द्रोग्धाप्यावेदयंस्ततः ।
राज्ञा न्यषेधि तदोषादेवं च समदिश्यत ॥ ६९८ ॥
एनं वर्त्मन्यनुद्धाते त्यज हन्यामहं ततः।
पुरोगतं मृगव्यान्तः सृगालमिव वाजिभिः ॥ ६९९ ॥
द्वैराज्यकार्यमर्मज्ञभावेपि विधिचोदितः ।
कर्तव्ये तत्र शाठ्यं स नृपतिः प्रत्यपद्यत ॥ ७०० ॥
मर्मराजमुखादेवं लब्ध्वा द्रोग्धाथ डामरान् ।
तिलकोकारयच्छैलमार्गेभिक्षाचरानुगान् ॥ ७०१ ॥
स्थाने स्थाने ततः प्राप ततः कर्णोपकर्णिका।
जनानां या ख्यातिहेतुर्भिक्षो राज्ञस्तु भीतिदा ॥ ७०२ ॥
नासंस्कृतं वक्ति शिला भिनत्त्येकेषुणा दश ।
अश्रान्तो योजनशतं यात्यायाति च संचरन् ॥ ७०३ ॥
इत्यादि तादृङ्माहात्म्यभिक्षुस्तुत्यानयजनः ।
निखिलान्पलितश्वेतलम्बकूर्चापि कौतुकम् ॥ ७०४ ॥
भविष्यन्निव साम्राज्यस्यैक एकोर्धभागभाक् ।
वार्तामव्यवहापि भिक्षोरूचेन्वियेष च ॥ ७०५ ॥
सरित्स्नानगृहे स्मान्तो वृद्धाः क्षीणनियोगिनः ।
राजवेश्मन्यगणिता नाममात्रं नृपात्मजाः ॥ ७०६ ॥
स्वभावदुर्जनाः केचिद्योधाश्चोञ्चाश्वकाङ्किणः ।
कारयन्तोप्युपाध्यायाः शिष्यान्स्फिक्कषणं नखैः ॥ ७०७ ॥
वृद्धाः सुरौकोनर्तक्यो देवप्रासादपालकाः।
वणिजो भुक्तनिक्षेपाः पुस्तकश्रुतितत्पराः ॥ ७०८ ॥
प्रायोपवेशकुशलाः पारिषद्यद्विजातयः ।
शस्त्रिणः कार्षकमाया नगरोपान्तडामराः ॥ ७०९ ॥

६२ राजतरङ्गिणी । सुखयन्तः स्वमन्यांश्च किमप्युत्पिञ्जवार्तया । एते प्रायेण देशस्मिन्पार्थिवोपप्लवप्रियाः ॥ ७१० ॥ कुलकम् । प्रवर्धमानया भिक्षाचरागमनवार्तया । वेपमानोभवल्लोको ययौ चिन्तां च भूपतिः ॥ ७११ ॥ पृथ्वीहरस्तरुच्छन्ने गिरिकच्छे वसन्नथ । राजानीकं बभञ्जाजौ निर्गत्यातुलविक्रमः ॥ ७१२ ॥ अनन्तकाकयोर्वश्यावानन्दद्वारनायकौ । चक्रे तिलकसिंहं च मत्रिणस्त्रीन्पलायिनः ॥ ७१३ ॥ निहते विजये ज्येष्ठ शुक्लषष्ठयां पराभवम् । तमाषाढस्य नृपतिः प्राप्याभूद्विवशः पुनः ॥ ७१४ ॥ उट्टीकितैर्गवां वृक्षमूर्धारोहेण भोगिनाम् । पिपीलककुलस्याण्डोपसंक्रान्त्येव वर्षणम् ॥ ७१५ ॥ प्रत्यासन्नं स राजाथ दुनिमित्तैरुपद्रवम् । विचिन्त्यायातमुचितं कर्तव्यं प्रत्यपद्यत ॥ ७१६ ॥ तृतीयेहि शुचेः शुक्ले ततः प्रास्थापयत्सुतम् । देवीमन्यत्कुटुम्बं च स कोटं लोहरं पटुः ॥ ७१७ ॥ ताननुव्रजतस्तस्य सेतुभङ्गात्परिच्युताः। लोष्टद्विजानयो विप्रा वितस्तायां विपेदिरे ॥ ७१८ ॥ स तेन दुनिमित्तेन खिन्नो हुष्कपुरान्तिकम् । अनुगम्याथ तान्छित्रैर्दिनैर्भूयोविशत्पुरम् ॥ ७१९ ॥ विना पुत्रेण देव्या च स ततः प्रत्यपद्यत । प्रतापेन च लक्ष्म्या च परित्यक्त इवान्यताम् ॥ ७२० ॥ १ द्विजातयो इति स्यात् ।

अष्टमस्तरङ्गः॥ ६३ स मत्रो व्यापदि शुभः प्रत्यभात्तस्य तद्वशात् । अभ्यन्तरप्रकोपेपि सर्वाभ्युदयभागभूत् ॥ ७२१ ॥ स्वयमुत्थापितानर्थः सोपि हर्षनरेन्द्रवत् । अद्यापि सान्वयो नीत्या तया साम्राज्यभोगभाक् ॥७२२॥ श्रावणे लाहरैर्योधैरानीय बलशालिनाम् । भिक्षुर्मडवराज्यानां डामराणामथाlत ॥ ७२३ ॥ तेपि जन्या इव वरं श्वशुरालयसंनिभम् । प्रावेशयंस्तं लहरमनुयान्तः ससैनिकाः ॥ ७२४ ॥ सभाजयित्वा तान्मल्लकोष्टमुख्या निजां भुवम् । व्यसर्जयन्कम्पनेशप्रमाथाय पृथुश्रियः ॥ ७२५ ॥ सर्वतः परचक्रेथ पर्यापतति पार्थिवः । संग्रहीतुं प्रववृते पदातीनतुलव्ययः ॥ ७२६ ॥ तस्सिन्दुर्व्यसने राशि वसुवर्षिणि सर्वतः। अकारि शस्त्रग्रहणं शिल्पिशाकटिकैरपि ॥ ७२७ ॥ नगरे सैन्यपतयः प्रतिमार्गमकारयन् । तुरगान्यस्तसंनाहान्व्यायामसमरोन्मुखाः ॥ ७२८ ॥ मयग्रामस्थिते भिक्षावमरेश्वरवासिभिः। राजसैन्यैः समं युद्धमगृह्णन्नेत्य लाहराः ॥ ७२९ ॥ तैर्हिरण्यपुरोपान्ते प्रबन्धारब्धसंगरैः । श्रीविनायकदेवाद्या राजसेनाधिपा हताः ॥ ७३० ॥ आद्य एव रणे यातां राजानीकाद्विरोधिनः । लब्ध्वा वराश्वामायाताममन्यन्त नृपश्रियम् ॥ ७३१ ॥ राजधान्यन्तिके क्षिप्तिकाख्यायाः सरितस्तटे । पृथ्वीहरश्चकाराजावशेषसुभटक्षयम् ॥ ७३२ ॥ १ व्यायाम इत्युचितम् । । Me राजतरङ्गिणी तिलके विजयेशस्थेप्यगृह्णन्नेत्य डामराः । महत्सरित्तटे युद्धं खड्गवीहोलडौकसः ॥ ७३३ ॥ ते रुद्धनगरा दाहं वापि क्वापि च लुण्ठनम् । वास्तव्यानां विदधिरे विनदन्तो दिवानिशम् ॥ ७३४ ॥ निर्यत्सतूर्यपृतनाः प्रविशच्छस्त्रविक्षताः। ऋन्दद्धतार्तनिवहाः प्रधावद्भग्नसैनिकाः ॥ ७३५ ॥ प्रसरत्प्रेक्षिनिवहा वहदाशुगशारिकाः। संचार्यमाणसंनाहाः कृप्यमाणतुरंगमाः ॥ ७३६ ॥ आसन्नशान्तसंमर्दप्रसरत्पांसवोनिशम् । दिने दिने राजपथा उपप्लवविङ्खलाः ॥ ७३७ ॥ प्रतिप्रत्यूषमायात्सु सर्वारम्भेण वैरिषु । अद्य ध्रुवं जितो राजेत्यज्ञायि प्रतिवासरम् ॥ ७३८ ॥ धीरः कः सुस्सलादन्यो न यः प्रत्यभियोगिनाम् । कृच्छ्रेणापि स्वराष्ट्रेण ऋष्टुं धैर्यादपार्यत ॥ ७३९ ॥ व्रणपट्टाञ्चनं शल्योद्धारं पथ्यधनार्पणम् । शस्त्रक्षतानां सततं कारयन्स व्यलोक्यत॥ ७४० ॥ प्रवासवेतनप्रीतिदायभैषज्यदत्तिभिः । शस्त्रिलोके नरपतेनिःसंख्योभूद्धनव्ययः ॥ ७४१ ॥ युद्ध एव विपन्नानां क्षतानां च स्ववेश्मसु । नित्यं नरतुरंगाणां सहस्राणि क्षयं ययुः ॥ ७४२ ॥ तुरंगवहलैर्हन्यमाना नृपवलैस्ततः । लाहरा मल्लकोष्टाद्या मन्दोद्रेकत्वमाययुः ॥ ७४३ ॥ भिन्नैराभ्यन्तरैरेव दत्तमत्राः सुरेश्वरीम् । ते निन्युभिक्षुमल्पेन तन्मार्गेण युयुत्सवः ॥ ७४४ ॥ ।

अष्टमस्तरङ्गः।
सेतुना स्वल्पपाचैन धन्विप्रायैः सरोन्तरे।
अवापि तैर्जयोमोचि वाजिभ्यश्च भयं रणे ॥ ७४५ ॥
द्रोग्धाथ कम्पनेशः स निवसन्विजयेश्वरे ।
बलितां डामरान्निन्ये मन्द्रोद्रेक स्फुरत्रणे ॥ ७४६ ॥
लवन्यलोको मा ज्ञासीदशक्ति मेथ गच्छतः ।
पृष्ठे निपत्य मा कार्षीद्व्यथां चेति विचिन्तयन् ॥ ७४७ ॥
स प्रभावं दर्शयितुं प्राप्तस्य विजयेश्वरम् ।
अजराजस्य सेनायां व्यावृत्य प्रस्थितोभवत् ॥ ७४८ ॥
सार्धा शतद्वयीं तस्य योधानां हतवानपि ।
संत्यज्य विजयक्षेत्रं द्रोहकन्नगरं ययौ ॥ ७४९ ॥
पथि नान्वसरन्भीत्या भयात्तं डामराः क्वचित् ।
नदन्तोदिशिरोरुढा मार्गान्सर्वांश्च तत्यजुः ॥ ७५० ॥
त्यक्त्वा मडवराज्यं स प्रविष्टो व्यसनातुरम् ।
पूर्वचेष्टां सरन्भूपं जहास कृतसक्रियम् ॥ ७५१ ॥
इतरामात्यवत्स्थामस्थितोथ न निजोचितम् ।
रणे प्रादर्शयत्किचित्साक्षिभूत इव स्थितः ॥ ७५२ ॥
ततो मडवराज्यात्ते समस्ता एव डामराः।
अभ्येत्य प्रत्यपद्यन्त तां महासरितस्तटीम् ॥ ७५३ ॥
उपायाः सामभेदाद्या रिपुचके प्रयोजिताः ।
राज्ञो विफलतां जग्मुर्बहिरातैः प्रकाशिताः ॥ ७५४ ॥
कान्ततत्तन्महीपालमण्डलस्यापि भूपतेः।
फलं दोर्विक्रमस्याग्यमासीनगररक्षणम् ॥ ७५५ ॥
अमरेशे द्वारपतिः सार्ध तस्थौ नृपात्मजैः।
राजानवाटिकोपान्ते राजस्थानीयमत्रिणः ॥ ७५६ ॥

६६
राजतरङ्गिणी
।
दूरद्वीपान्तरगता इव स्वीचक्रिरे नृपात् ।
ते प्रवासधनं भूरि न चायुध्यन्त कुत्रचित् ॥ ७५७ ॥
कटका विद्विषां सर्वे पर्यायेण जयाजयौ।
लेभिरे विजयादन्यन्न तु पृथ्वीहरः क्वचित् ॥ ७५८ ॥
मधुमत्तेन तेनाजौ वेतालेनैव वल्गता ।
प्रायो वरावराः सर्वे ग्रस्ता नृपचमूभटाः ॥ ७५९ ॥
उदयस्येच्छटिकुलोद्भूतस्यैकस्य पप्रथे।
युवदेश्यस्यापि शौर्यमेकस्मिस्तु तदाहचे ॥ ७६० ॥
पृथ्वीहरस्यापजढे द्वन्द्वयुद्धाभिमानिना।
प्रहृत्य कृष्टकून करायेनासिवल्लरी ॥ ७६१ ॥
युद्धे पुरोपकण्ठेषु वर्तमाने शराहताः ।
स्त्रीबालाद्या आपि वधं प्रमादात्प्रतिपेदिरे ॥ ७६२ ॥
एवं जनक्षये घोरे वर्धमाने किमप्यभूत् ।
अनुत्साहान्नृपो गेहादपि निर्गन्तुमक्षमः ॥ ७६३ ॥
तस्मिन्निरुद्धसंचारे सोमपालस्तदन्तरे ।
अलुण्ठयञ्चाटलिकां लब्धरन्ध्रो ददाह च ॥ ७६४ ॥
सिंहे गजाहवव्यग्रे तद्गुहाअपरिग्रहे ।
समयो ग्रामगोमायोः पौरुषस्यापरोस्तु कः ॥ ७६५ ॥
राष्ट्रद्वयोपमर्दैन राजा निःसदृशेन सः।
तेन त्रपाविधेयोभूत्स्वमपि द्रष्टुमक्षमः ॥ ७६६ ॥
सर्वानौचित्यबहलः सर्वव्यसनदुःसहः ।
सर्वदुःखमयः कालस्तस्यावर्तत कोपि सः ॥ ७६७ ॥
तथाप्यस्खलिते तस्मिन्हितव्याजाद्धितापहः ।
राजानवाटिकाविप्रैः प्रायश्चक्रे विरागिभिः ॥ ७६८ ॥

अष्टमस्तरङ्गः। ६७ । प्रार्थयन्ते स्म ते युद्ध तटस्थास्तव मत्रिणः । गृहीत्वा नीविरेतेभ्यो लोहरादौ विसृज्यताम् ॥ ७६९ ॥ न चेयाप्य इवैतस्मिन्व्यसने स्थायितां गते । को दध्यान्न परैर्नीतं प्रत्यासन्नं शरत्फलम् ॥ ७७० ॥ न प्रत्यत्सीत्ताटस्थ्यं यत्कालापेक्षया नृपः । तमिस्तैर्दर्शिते शङ्कां निखिला मत्रिणो दधुः ॥ ७७१ ॥ शक्तिस्तृणं कुजयितुं न यस्य स तदार्थिभिः । विसूत्रव्यवहारत्वं निन्ये राजा शठद्विजैः ॥ ७७२ ॥ कर्मस्थानोपजीव्युग्रपारिषद्यादिसंकुला। तत्पावत्प्रययौ वृद्धिमन्या सेनेव वैरिणाम् ॥ ७७३ ॥ तत्सान्त्वनक्षणे तैस्तैः प्रमादैरुत्थितैरगात् । देशो व्याकुलतां कृच्छू लुण्ठिश्चाघटतोत्कटा ॥ ७७४ ॥ अष्टपार्थिवास्थानः शठैरव्यवहारिभिः । ऊचे तैः सान्त्वयत्राजा दुःस्थितस्तत्तदप्रियम् ॥ ७७५ ॥ लवन्यविप्लवाद्राज्ञः सोधिको विप्लवोभवत् । गलरोगः पादरोगादिव तीव्रव्यथावहः ॥ ७७६ ॥ काञ्चनोत्कोचदानेन तन्मध्येधिकचक्रिकाम् । कांचित्स्वीकृत्य स प्रायं कथंचिद्विन्यवीवरत् ॥ ७७७ ॥ विजयो वर्णसोमादिशस्त्रिवंश्यो हठात्पुरम् । प्रविशन्भिक्षुसेनानीरश्वारोहैरहन्यत ॥ ७७८ ॥ तेनातिरमसात्स्थानं भित्त्वा प्रविशता पुरम् । प्रायशः कृत एवाभूत्तदा राज्यविपर्ययः ॥ ७७९ ॥ १ चेद्याप्य इति स्यात् । २ दद्यान्नः इत्युचितम् । ३ येषां इति स्यात् ।

Rated राजतरङ्गिणी ईषन्मन्दप्रतापेन नवन्येष्वपि भूपतेः । पृथ्वीहरेण संधित्सा भेदेच्छोः संप्रकाशिता ॥ ७८० ॥ तस्मिन्धुयें जिगीषूणां संघित्सौ भूभुजा समम् । द्वयेपि सैनिकाः शान्तं तममन्यन्त विप्लवम् ॥ ७८१ ॥ राशा नागमठोपान्तमानेतुं प्रहितांस्ततः । त्रीनमात्यान्स विश्वस्तानागच्छञ्छद्मनावधीत् ॥ ७८२ ॥ धात्रेयो मम्मको गुङ्गो द्विजो रामश्च वारिकः । तेषां तिलकसिंहस्य पार्श्व भृत्यास्त्रयो हताः ॥ ७८३ ॥ नीविर्दत्तो गौरकस्तु हतो भूतपतिं स्मरन् । इष्टे त्वान्दिनि परैः प्रहृतं करुणोज्झितैः ॥ ७८४ ॥ तद्वैशसं श्रुतवतो देशः सर्वो विरागकृत् । राजधान्यन्तरे राशो दुरुक्तिमुखरोभवत् ॥ ७८५ ॥ इषे शुक्लचतुर्दश्यां तद्विपर्यस्तमण्डलम् । अतिवाहयितुं कष्टं दिनमासीन्महीपतेः ॥ ७८६ ॥ अथ संजातवैक्लव्यो नेदमस्तीति चिन्तयन् । किं कृत्यमित्यसदृशानपि पप्रच्छ भूपतिः॥ ७८७ ॥ विषमे वर्तमानस्य तस्य कश्चित्स नाभवत् । अन्तर्जहास यो नान्त......."न तुतोष वा ॥ ७८८ ॥ तमपि व्यसनापातं तस्य सोढवतस्ततः। अभजन्त क्रमामृत्याः प्रतिपक्षसमाश्रयम् ॥ ७८९ ॥ कम्पनेशस्य बिम्बाख्यो भ्राता द्वैमातुरो हि तान् । समाश्रयद्धारकार्य तद्दत्तं प्रत्यपद्यत ॥ ७९० ॥ गूढं जनकसिंहेन दूतान्प्रेषयतानिशम् । भिक्षवे भ्रातृतनया वाग्दत्ता निरवर्त्यत ॥ ७९१ ॥ १लवन्येष्वपि इति स्यात् ।

अष्टमस्तरङ्गः। ६९ असिवाजितनुत्रादि हृत्वा भिक्षाचरान्तिकम् । अश्ववारा व्यभाव्यन्त प्रयान्तः प्रतिवासरम् ॥ ७९२ ॥ किमन्ययक्तमेवाति येवसन्पार्थिवान्तिके। अलक्ष्यन्ताग्रतो भिक्षोस्ते निशायां गतत्रपाः ॥ ७९३ ॥ इतो याति ततश्चैति लोको व्यक्तमतत्रितः । इति राजनि कुण्ठाशे कोप्यज़म्भत विप्लवः ॥ ७९४ ॥ डामरैः शरदुत्पत्तौ नीतायां सर्वतस्ततः । कांदिशीकोभवल्लोकः कृत्स्नो धनजनोज्झितः ॥ ७९५ ॥ प्रयाते सुस्सलनृपे स्वर्णपूर्णामिमां महीम् । भिक्षुः कुर्यादिति मृषा लोकस्यासीद्विनिश्चयः ॥ ७९६ ॥ क दृष्टा त्यागिता भिक्षोः कुतो वा तस्य संपदः । पराममर्ष नैवेति गतानुगतिको जनः ॥ ७९७ ॥ संदृश्यते परिवृता चिरमम्बरण रेखा स्वयं न खलु या शशिनो नवस्य । तस्यां जनः प्रकुरुते नतिमम्बरार्थी धिग्लुब्धतामपसरत्सदसद्विचाराम् ॥ ७९८ ॥ विजये राजवाणां भुग्नग्रीव इवाभवत् । भिक्षुपक्षजये लोको हृष्यन्नासीद्विशृङ्खलः ॥ ७९९ ॥ द्विजकौलेयकन्यायो राजडामरसंघयोः । ततोन्योन्यभयभ्रश्यद्वैरयोरुदजृम्भत ॥ ८०० ॥ राजाभ्यन्तरभेदेन राज्ञः स्थैर्येण चारयः । ऐच्छन्पलायितुं भीता अज्ञातान्योन्यनिश्चयाः॥ ८०१॥ बान्धवानपि दुध्रुथूनविश्वस्तो विदन्नृपः । स्थितौ पलायने वापि श्रद्दधे न स्वजीवितम् ॥ ८०२ ॥ ।

राजतरङ्गिणी
तं महाव्यसने वासःस्वर्णरत्नादिवर्षिणम् ।
नाभ्यनन्दन्गृहीतार्था निनिन्दुः शस्त्रिणः परम् ॥ ८०३ ।।
नष्टोयं नैष भवितेत्यभीतेर्जल्पतो जनात् ।
वचो रोगी भिषक्तयक्त इव शृण्वन्स विव्यथे॥ ८०४ ॥
अप्यग्नोपस्थितं किंचित्तदादेशेन ढोकयन् ।
सविलासं सगर्व च तमैक्षिष्टानुगत्रजः ॥ ८०५ ॥
सोन्य एवाभवत्तस्मिन्क्षणे साहसिकोप्यहो।
स्वगृहादपि निर्गन्तुं नाशकद्यद्भयाकुलः ॥ ८०६ ॥
यावदैच्छन्संघभेदाञ्चलितुं डामरव्रजाः ।
स्वैरेव शस्त्रिभिस्तावन्निन्ये भूभृद्विसूत्रताम् ॥ ८०७ ॥
ते कृष्टशस्त्रा द्वाराणि रुन्धन्तो नृपमन्दिरे ।
प्रवासवित्ते लब्धव्ये प्रायं चक्रुः पदे पदे ॥ ८०८ ॥
ददद्धनं धनेशश्रीयादप्यधिकं नृपः।
तेषामभिमतो नाभूदवमानाभिलाषिणाम् ॥ ८०९ ॥
मर्तु चिचलिषुस्तीर्थमृणिकैरिव सामयः ।
स रुद्धा निखिलैर्देयं दापितोथ गतत्रपैः ॥ ८१० ॥
स्थानपालैरपि प्रायद्भिराक्रम्य दापितः।
धनं सुवर्णभाण्डादि चूर्णीकृत्य विश्टङ्खलैः ॥ ८११ ॥
सवृद्धवालं नगरं ततः क्षुभ्यत्क्षणे क्षणे ।
सोभूदब्धिमिवोद्वृत्तं न संस्थापयितुं क्षमः ॥ ८१२ ॥
एकदा प्रातरेवान्यै रुद्धद्वारः स शस्त्रिभिः ।
सर्वतः क्षोभमागच्छन्नगरं स व्यलोकयत् ॥ ८१३ ॥
ततः क्षोभं शमयितुं जनकं नगराधिपम् ।
पुरभ्रमार्थमादिश्य चलितुं क्षणमैक्षत ॥ ८१४ ॥

अष्टमस्तरङ्गः। ७१ । कथंचिदानमानाभ्यां तानावापि शस्त्रिणः । सावरोधः स संनद्धो राजधान्या विनिर्ययौ ॥ ८१५ ॥ अङ्गनात्तुरगारूढो बहिर्यावन्न निर्ययौ । राजधान्यन्तरे लुण्ठिस्तावत्प्रारम्भि तस्करैः ॥ ८१६ ॥ अरुदन्केपि केप्युच्चैरनदन्केप्यलुण्ठयन् । तद्धृत्यात्राज्यमुत्सृज्य तस्मिन्ब्रजति शस्त्रिणः ॥ ८१७॥ विश्टङ्खलत्रपाकोपशङ्काभिः शस्त्रिणां नृपः । सहस्त्रैः पञ्चषैरासीद्रजन्ननुगतोध्वनि ॥ ८१८ ॥ वर्षे षण्नवते कृष्णषष्ट्यां मार्गे विनिर्गतः । याममात्रावशेषेहि सभृत्यो द्रोहविह्वलः ॥ ८१९ ॥ निजैर्हरद्भिरश्वादि त्यज्यमानः पदे पदे । स प्रतापपुरं प्राप क्षपायामल्पसैनिकः ॥ ८२० ॥ तिलकस्य पुरो गत्वा प्राप्तस्याग्रं च विश्वसन् । तत्र बन्धोरिवाणि चिरं दुःखोल्बणोमुचत् ॥ ८२१॥ द्रोहं न कुर्यादेवं मे चिन्तयित्वेति सत्वरम् । वेश्म हुष्कपुरेन्येधुस्तस्य च प्राविशत्स्वयम् ॥ ८२२ ॥ तद्गौरवेण स्नानादि कृत्वैच्छत्सैन्यसंग्रहम् । प्रविश्य क्रमराज्यं स कर्तु भूयो जनोत्सुकः ॥ ८२३ ॥ गूढं युयुत्सून्कल्याणवाडादीनथ डामरान् । आनीय स पुरस्तस्य धैर्यभ्रंशमकारयत् ॥ ८२४ ॥ गृहात्तेन तया युक्त्या निष्कृष्टः स ततो ययौ। स्वीकुर्वन्स्वर्णदानेन दस्यून्मार्गविरोधिनः ॥ ८२५ ॥ प्रयान्तं तत एवौज्झीत्तिलकस्तत्सहोदरः। प्रयाणमेकमानन्दो दाक्षिण्यादन्वगात्तु तम् ॥ ८२६ ॥ १ भूयोर्जनोत्सुकः इति स्यात् ।

राजतरङ्गिणी भूत्यत्यक्तः स दानेन विक्रमेण च तस्करान् । अगान्मार्गेण शमयन्नायुःशेषेण रक्षितः ॥ ८२७ ।। त्राणं सिंहनखा द्रमाद्रिगहनस्यारादरण्यस्य ये तेषां बालगलाश्रयादपि भवेत्कालातिवाहः क्रमात् । ये दन्ताः करिणां रणप्रहरणं तेप्यामुयुर्दीव्यतां क्रीडायां करताडनानि न दृढा शौर्यस्य रूढिः कचित् ८२८ जन्तूनां विक्रमत्यागयशःप्रज्ञादयो गुणाः । भवे चित्रस्वभावेस्मिन्न भवेयुरभङ्गुराः ॥ ८२९ ॥ भास्वानप्यौग्र्यमृदुतां भिन्नोवस्थां दिने दिने । तां तामायाति जन्तूनां कः प्रभावेषु निश्चयः ॥ ८३० ॥ अशक्नुवन्नदृलिकामरिप्लुष्टां निरीक्षितुम् । मन्युनिःशब्दसैन्योद्रिमारुरोह स लोहरम् ॥ ८३१ ॥ स्वं कलत्रमापि द्रष्टुं तत्रातित्रपयाक्षमः । शयनीयविमुक्ताङ्गस्तप्यते स्म दिवानिशम् ॥ ८३२ ॥ दत्तदीपादनिर्गच्छन्नन्तर्गेहाद्दिनेष्वपि । दाक्षिण्याइर्शनं प्रादामृत्यानां भोजनक्षणे ॥ ८३३ ॥ विलेपनानि नास्पाक्षीनारुरोह तुरंगमान् । गीतनृत्तादि नैक्षिष्ट सुखगोष्ठीर्न चादधे ॥ ८३४ ॥ ताम्यंस्ताटस्थ्यमौखर्यतैक्ष्ण्यद्रोहादि दर्शितम् । एकेनैकेन च स्मृत्वी स्मृत्वा देव्यै न्यवेदयत् ॥ ८३५ ॥ अन्वगात्स्वां भुवं त्यक्त्वा मामेतेन्वगुरित्यपि । निन्ये वृद्धिं पराय॑श्रीः स दाक्षिण्याद्धनार्पणैः ॥ ८३६ ॥ कश्मीरेषु गते तस्मिंस्तदैवाखिलमत्रिणः । पुरोणिराजधान्यग्रे ससैन्याः समगंसत ॥ ८३७ ॥ १ भिन्नावस्थां इति स्यात् । २ पुराणराजधान्य इति स्यात् ।

अष्टमस्तरङ्गः। ७३ मन्यश्वारोहसामन्ततत्रिपौरादिसंमतः । तेषां जनकसिंहोभूदग्रणीनगराधिपः ॥ ८३८ ॥ स भिक्षोर्मल्लकोष्टाद्यैराप्तैः कृतगतागतः । विश्वासाय सुतभ्रातृसुतौ नीवि प्रदापितः ॥ ८३९ ॥ प्रावर्तत भयभ्रश्यत्स्त्रीबालाद्यावृते पुरे । अराजकाथ रजनी सर्वभूतभयावहा ॥ ८४० ॥ निहताः केपि मुषिताः केपि केप्यरिभिः पुरे । दग्धागारा व्यधीयन्त दुर्बला राजवर्जिते ॥ ८४१ ॥ सैन्यैरन्येधुरुन्नादैनिरुद्धाखिलदिक्पथः । सिन्दूरारुणपुण्ड्राश्वसादिमण्डलमध्यगः ॥ ८४२ ॥ विकोशशस्त्रकदलीषण्डदुर्लक्ष्यविग्रहः । मृगेन्द्र इव लोकस्य भयकौतूहलावहः ॥ ८४३ ॥ वीरपट्टाञ्चलश्लिष्टैयौवनोद्रेचितैः कचैः अबद्धः शोभितः पृष्ठे जयश्रीवन्धनलैः ॥ ८४४ ॥ कुण्डलद्योतिना स्निग्धधवलायतदृष्टिना। प्रत्यग्रश्मश्रुणा चारु चन्दनोल्लेखशोभिना ॥ ८४५ ॥ ताम्राधरेण वक्रेण श्रीसांनिध्याधिकत्विषा। पक्षपाति विपक्षाणामपि संपादयन्मनः ॥ ८४६ ॥ असेर्विकोशस्यान्तःस्थां श्रियमश्वेन वल्गता। केसरच्छटया...."चामरेणेव वीजयन् ॥ ८४७ ॥ पदे पदे निवृत्ताश्वः सामन्तैरुपपादिताम् । स्वीकुर्वन्नहणां भिक्षुः प्राविशन्नगरं ततः ॥ ८४८ ॥ कुलकम् ॥ तस्याकस्य धात्रीव पृष्ठस्थो मल्लकोष्टकः । प्रययावप्रगल्भस्य सर्वकार्योपदेष्टुताम् ॥ ८४९ ॥ १०

७४
राजतरङ्गिणी
अयं पितुः प्रियस्तेभूत्त्वमस्याङ्के विवर्धितः ।
राज्यस्यायं मूलमिति प्रत्येकं समदर्शयत् ॥ ८५० ॥
गृहं जनकसिंहस्य प्राकन्यावाप्तयेविशत् ।
राजलक्ष्मी स संप्राप्तुं राजधानी ततः परम् ॥ ८५१ ॥
दूरनष्टे कुले तेन पुनरुद्रेचिते ययौ ।
बद्धास्थो गर्भगेपत्ये स्त्रीजनोनवहास्यताम् ॥ ८५२ ॥
दृष्टेन तादृशा शिक्षोरितिवृत्तेन शत्रुषु ।
चित्रस्थेष्वपि साशङ्का नोपहास्या जिगीषवः ॥ ८५३ ॥
प्रावर्तन्त धनाधीशश्रियः सुस्सलभूपतेः ।
कोषेण नीतशेषेण विलासा नवभूपतेः ॥ ८५४ ॥
वाजिवर्मासिभूयिष्ठां राजलक्ष्मी विभेजिरे ।
राजडामरलुण्ठाकमत्रिणो यत्रणोज्झिताः ॥ ८५५ ॥
पुरे स्वर्ग इवास्वादं भोगानामुपलेभिरे ।
दस्यवो ग्रामभोगार्हाः पिशाचा इव गह्वराः ॥ ८५६ ॥
आस्थाने न बभौ भूभृद्रामीणैः सर्वतो वसन् ।
प्रलम्बकम्बलप्रायविलासावरणैः समम् ॥ ८५७ ॥
भिक्षाचरस्यासंभाव्यप्रादुर्भावतया प्रथाम् ।
डामरा अवतारोयमित्यन्यां निन्यिरे प्रथाम् ॥ ८५८ ॥
राज्यस्यानन्यदृष्टस्य कर्तव्येषु मुमोह सः ।
अदृष्टकर्मेव भिषग्भैषज्यस्य पदे पदे ॥ ८५९ ॥
शनैर्जनकसिंहेन कृतभ्रातृसुतार्पणम् ।
कम्पनाधिपतिर्दत्तकन्योपि तमशिश्रियत् ।। ८६० ॥
जुङ्गो राजपुरीयस्य राज्ञः कटकवारिकः।
पादानाधिकृतोद्राक्षीत्स्वार्थमर्थ न तु प्रभोः ॥ ८६१ ॥

अष्टमस्तरङ्गः। ७५ सर्वाधिकारिणं राजलक्ष्मीर्बिम्बमशिश्रियत् । राजशब्दस्यैव पात्रमभूद्भिक्षाचरः परम् ॥ ८६२ ॥ वेश्यायत्तीकृतैश्वर्यः प्राकृताचारभागपि । अन्तरङ्गः सदसतां किंचिद्विम्बस्तदाभवत् ॥ ८६३ ॥ द्वैमातुरो दर्यकस्य भ्राता साश्चर्यशौर्यभूः । नृपान्तरङ्गज्येष्ठत्वं ज्येष्ठपालोप्यशिधियत् ॥ ८६४ ॥ मत्रिणो भूतविश्शाद्यास्तस्य पैतामहा अपि । लक्ष्मीसरोजिनीभृङ्गा बहवोन्ये जजृम्भिरे ॥ ८६५ ॥ मुग्धे राशि प्रमत्तेषु मनिषूग्रेषु दस्युषु । उत्थानोपहतं राज्यं नवत्वेपि बभूव तत् ॥ ८६६ ॥ स्त्रीभिर्नवनवाभिश्च भोज्यैः प्राज्यैश्च रञ्जितः । भिक्षु शिष्ट कर्तव्यं सुखानुभवमोहितः ॥ ८६७ ॥ स सुखानुभवप्रावृण्निद्रान्धो विजयोद्यमे । स्वैः प्रेरितः सभामध्ये स्वप्तुमैच्छन्मदालसः ॥ ८६८ ॥ दर्पण सचिवे वाचं कथयत्यनुकम्पिकाम् । न स चुक्रोध मुग्धस्तु पितरीवान्वरज्यत ॥ ८६९ ॥ निष्प्रतिष्ठैः सेव्यमानो वेश्योच्छिष्टैरशिष्टवत् । अट्टचेटोचिताश्चेष्टा विटैः प्रैर्यत सेवितुम् ॥ ८७० ॥ पानीयरेखाप्रतिमस्थैर्यस्याखिलवस्तुषु । तस्याप्रमाणवचसः सेवां प्रणयिनो जहुः ॥ ८७१ ॥ यदूचुः सचिवास्तत्तानन्ववोचन्न भूभृतः । वचः सुषिरगर्भस्य तस्य किंचित्समुद्ययौ ॥ ८७२ ॥ सचिवैः स्वगृहान्नीत्वा दत्तभोज्यः स मुग्धधीः । धनी विपन्नपितृक इव प्रमुषितो विटैः ॥ ८७३ ॥ १. अन्तरज्ञः इत्युचितम् ।

७६
राजतरङ्गिणी
।
आहारमुष्टिं बिम्बस्य गृहे बिम्बनितम्बिनी।
तस्याश्वस्येव वडवा रागिणोग्रगताहरत् ॥ ८७४ ॥
वञ्चयित्वा दृशौ पत्युर्दर्शितैः मेरया तया ।
कुचकक्षकटाक्षैः स लुप्तधैर्यो व्यधीयत ॥ ८७५ ॥
पृथ्वीहरो मल्लकोष्टश्चान्योन्योद्भूतमत्सरौ।
क्षोभं व्यधत्तां संरब्धौ राजधान्याः क्षणे क्षणे ॥ ८७६ ॥
स्वयं राज्ञा सुतोद्वाहं गृहान्गत्वापि कारितौ ।
तावन्योन्यमुपेक्षेतां न मन्युं विक्रमोन्मदौ ॥ ८७७ ॥
अथ पृथ्वीहरगृहात्कृतोद्वाहः स्वयं नृपः ।
जातामर्षेण सुस्पष्टं मल्लकोप्टेन तत्यजे ॥ ८७८ ॥
द्रुह्यञ्जनककाणोपि संबन्धापेक्षयोज्झितः।
विरागमोजानन्दादीन्निन्ये ब्राह्मणमत्रिणः ॥ ८७९ ॥
तटस्थो द्रोग्धृदुर्बुद्धिप्रायभृत्यविधेयधीः ।
विसूत्रव्यवहारत्वं निन्द्यत्वं च ययौ नृपः ॥ ८८० ॥
डामरस्वामिके लोके प्राभवत्को न विप्लवः ।
ब्राह्मण्यो धर्षणं यत्र श्वपाकेभ्योपि लोभिरे ॥ ८८१ ॥
अराजकेथवा भूरिराजके मण्डले तदा ।
समस्तव्यवहाराणां स्फुटं तुत्रोट पद्धतिः ॥ ८८२ ॥
दीन्नारा भैक्षवे राज्ये निष्प्रचाराः पुरातनाः ।
तच्छतेन तु नव्यानामशीतेरभवत्क्रयः ॥ ८८३ ॥
राजपुर्यध्वना बिम्बं ससैन्यमथ पार्थिवः ।
लोहरं प्राहिणीत्कर्तुं सुस्सलास्कन्दमुन्मदः ॥ ८८४ ॥
तुरुष्कसैन्यमानिन्ये सोमपालेन सोन्वितः।
साहायकाय सल्लारे विस्मये मित्रतां गते ॥ ८८५ ॥

अष्टमस्तरङ्गः। संदर्य पाशमेतेन बद्धो द्रक्ष्यामि सुस्सलम् । इत्येक एकोश्वारोहस्तुरुषकैः समकथ्यत ॥ ८८६ ॥ काश्मीरकखशम्लेच्छयोधव्यतिकरोभवत् । न केषां नाम संभाव्यो विश्वोत्पाटनपाटवः ॥ ८८७ ॥ भिक्षाचरः प्रयाते तु बिम्बे विगलिताङ्कुशः। न कासामव्यवस्थानां मूढः स्थानमजायत ॥ ८८८ ॥ स निमत्र्य निजं नीतो गृहं बिम्बावरुद्धया । भोगसंभोगदानेन धर्षपया पर्यतोष्यत ॥ ८८९ ॥ कार्यापेक्षापि तस्यासीन मत्रिस्त्रीसमागमे । कौलीनभीतेरासन्ननिपातस्य कथैव का ॥ ८९० ॥ आयूनानुगुणं भोज्यं कुम्भकांस्यादिवादनम् । तत्र प्राकृतकामीव न स जिहाय शीलयन् ॥ ८९१ ।। शनैः शनैस्ततो नष्टावष्टम्भस्य महीपतेः । काले भोज्यमपि प्राप्यं नासीद्गलितसंपदः ॥ ८९२ ॥ तादृक्प्रलोभक्रौर्यादिकान्तो यः प्रागगीत । स सुस्सलोथ लोकानामभिनन्द्यत्वमाययौ ॥ ८९३ ॥ धनमानादिनाशं या विरक्तास्तस्य चक्रिरे। काङ्कन्ति स्म घनोत्कण्ठास्ता एवागमनं प्रजाः ॥ ८९४ ॥ प्रत्यक्षदर्शिनोद्यापि साश्चर्या वयमस्य यत् । ताः प्रजाः कोपिताः केन केन भूयः प्रसादिताः ॥ ८९५ ॥ क्षणाद्वैमुख्यमायान्ति सांमुख्यं यान्ति च क्षणात् । न हेतुं कंचिदीक्षन्ते पशुप्रायाः पृथग्जनाः ॥ ८९६ ॥ ते मल्लकोष्टजनकायो दूतैर्विसर्जितैः । त्यक्तराज्य पुनर्भूपं जयोद्यममजिग्रहन् ॥ ८९७ ॥ १ बद्धाक्रक्ष्यामि इति स्यात् ।

राजतरङ्गिणी
अक्षोसुवाग्रहारेथ लोकैष्टिकस्य लुण्ठिते ।
तत्रत्या ब्राह्मणाः प्रायं नृपमुद्दिश्य चक्रिरे ॥ ८९८ ॥
तैश्चान्यैश्चाग्रहारैश्च संश्रितैर्विजयेश्वरे ।
राजानवाटिकाप्रायो नगरेपि न्यविक्षत ॥ ८९९ ॥
ओजनन्दादिभिर्मुख्यद्विजैरुत्तेजितास्ततः ।
गोकुलेपि व्यधुः प्रायं त्रिदशालयपर्षदः ॥ ९०० ॥
युग्यार्पितैः सितच्छन्नवस्त्रचामरशोभिभिः ।
विवुधप्रतिमावृन्दैः सर्वतश्छादिताङ्गनः ॥ ९०१ ॥
काहलाकांस्यतालादिवाद्यक्षोभितदिङ्मुखः ।
अदृष्टपूर्वो ददृशे पारिषद्यसमागमः ॥ ९०२ ॥
ते सान्त्व्यमाना भूभर्तुर्दूतैरुत्सेकवादिनः ।
न विना लाम्बकूर्च नो गतिरित्यत्रुवन्वचः ॥ ९०३ ॥
ते हेलया लम्बकूर्चाख्यया सुस्सलभूपतिम् ।
तं निर्दिशन्तोमन्यन्त क्रीडापुत्रकसंनिभम् ॥ ९०४ ॥
प्रायं प्रेक्षितुमायातैः पौरैः सह दिने दिने ।
अमत्रयत कां कां न व्यवस्था पर्षदां गणः ॥ ९०५ ॥
नृपापातभयात्क्षोभ मुहुर्मुहुरुपागतः ।
पारिषद्यैश्च पौरैश्च योद्धमास्थीयतोद्धतम् ॥ ९०६ ॥
वश्यं जनकसिंहस्य नगरं तन्मतेन तत् ।
सजं सुस्सलदेवस्य कृत्स्नमानयनेभवत् ॥ ९०७ ॥
प्रायाद्वारयितुं पूर्वमग्रहारद्विजानृपः।
प्रययौ विजयक्षेत्र तत्रासीञ्च हतोद्यमः ॥ ९०८ ॥
तन्मध्ये निखिलास्तत्र डामरांस्तिलकोब्रवीत् ।
व्यापादयति तं तच्च सत्वैकाग्रो न सोग्रहीत् ॥ ९०९ ॥

अष्टमस्तरङ्गः। ७९ राक्ष एव मुखाहुड्वा लवन्यास्तद्विशश्वसुः । तस्मिन्पृथ्वीहरमुखास्तत्रसुस्तिलकात्पुनः ॥ ९१० ॥ भागिनेयं प्रयागस्य क्षत्तारं लक्ष्मकाभिधम् । बन्झुमैच्छन्नृपोस्निग्धं प्रययौ स तु सुस्सलम् ॥ ९११ ॥ ततः प्रविश्य नगरं संनिपत्याखिलं जनम् । अकारणविरक्तानां पौराणां प्रददौ सभाम् ॥ ९१२ ॥ युक्तमप्युक्तवांस्तत्र हतोक्तिः शठबुद्धिभिः । पौरैः स चक्रे नास्त्येव भेषजं विप्लवस्पृशाम् ॥ ९१३ ॥ अत्रान्तरे सोमपालबिम्बाद्या लहरे स्थिताः । योद्धं सुस्सलभूपं ते सर्वे पर्णोत्समाययुः ॥ ९१४ ॥ तं च पद्मरथो नाम राजा कालिंजरेश्वरः । मैत्री संस्मृत्य कहावैराययौ तत्कुलोद्भवः ॥ ९१५ ॥ सोथ शुक्लत्रयोदश्यां वैशाखे बलिभिः समम् । तैर्मानी सुस्सलो राजा संग्रामं प्रत्यपद्यत ॥ ९१६ ॥ प्रेक्षकैर्वर्ण्यतेद्यापि स पर्णोत्सान्तिके रणः । तस्याद्भुतोवमानाग्निक्षालनप्रथमक्षणः ॥ ९१७ ॥ कुतोप्येत्य निजस्फारस्ततः प्रभृति भूपतिम् । तमशून्यं पुनश्चक्रे मृगेन्द्र इव काननम् ॥ ९१८ ॥ भयस्खलितपाशानां कालपाशैः समागमम् । स चकार तुरुष्काणां क्षणात्पुष्कलविक्रमः ॥ ९१९ ॥ मातुलं सोमपालस्य निन्ये कवलतां बली। रणे तत्कोपवेतालो वितोलासरितस्तटे ॥ ९२० ॥ किमन्यदल्पसैन्यः स बहूनपि स तान्व्यधात् । हतविद्रुतविध्वस्तयथात्मपरिपन्थिनः ॥ ९२१ ॥ १. संनिपात्य इत्युचितम् ।

राजतरङ्गिणी । काश्मीरकाणामौचित्यं किं नाभूत्स्वामिनो ददुः । एकस्य ये रणं नष्टाः कुकीर्तिमपरस्य च ॥ ९२२ ॥ तुरुप्कैः सह यातेथ सोमपाले गतत्रपाः । बिम्ब काश्मीरकास्त्यक्त्वा राजान्तिकमशिश्रियन् ॥९२३॥ ह्यो धनूंषि शिरांस्यद्य नमयन्तोद्भुताशयाः । कुलप्रभोः पुरः स्पष्टं न धृष्टा ललजिरे ॥ ९२४ ॥ आगच्छद्भिस्ततः पौरैर्डामरैश्च समं नृपः । प्रतस्थे दिवसैत्रैिः कश्मीराभिमुखः पुनः ॥ ९२५ ॥ राजपुत्रः साहदेविः कणो विशतः प्रशोः । डामरान्क्रमराज्यस्थान्संगृह्याग्नेसरोभवत् ॥ ९२६ ॥ य एव प्रथम राजसैन्याद्भिक्षुमशिश्रियत् । स एव बिम्बो राजानं तमुत्सृज्य समाययौ ॥ ९२७ ॥ अन्ये जनकसिंहस्य संमता मत्रितत्रिणः । प्रत्युद्यान्तो व्यलोक्यन्त नृपति निरपत्रपाः ॥ ९२८ ॥ काण्डिलेत्राभिधग्रामजन्मा शस्त्री सुलक्षणः । भाङ्गिले कश्चिद्भवच्छून्ये कान्तोपवेशनः ॥ ९२९ ।। भिक्षुर्वितीर्णमार्ग तं सुस्सलान्तिकगामिनः । लोकस्यात्रान्तरे जेतुं सह पृथ्वीहरो ययौ ॥ ९३० ॥ जितवांस्तं बबन्धेच्छां निहन्तुं सुस्सलोन्मुखम् । क्रोधाजनकसिंह च वार्ता तां संविवेद सः ॥ ९३१ ॥ नगरस्थेन तेनाथ पौराभ्वारोहतत्रिणः । संघटय्याखिलान्भिक्षोः प्रातिपक्ष्यमगृह्यत ॥९३२ ॥ जानंस्तेनावृतं राज्यं ततो भिक्षाचरो नृपः। पृथ्वीहरेणानुयातो नगरं सहसाविशत् ॥ ९३३ ॥ ।

अष्टमस्तरकः। ३ लोको येष्वद्य केषांचित्तत्त्वमालोक्य सस्मितः । भिक्षामप्यटितुं जाने नैष जानाति योग्यताम् ॥ ३७२ ॥ राश्यां श्वेताभिधानायां मल्लराजस्य ये सुताः । सहूणाशास्त्रयोभूवन्मध्यमे प्राक्क्षयं गते ॥ ३७३ ॥ हन्तुं ज्येष्ठकनिष्ठौ द्वौ शेषौ सहूणलोठनौ । अन्विष्टौ शङ्खराजेन भयान्नवमलं गतौ ॥ ३७४ ॥ निर्लजैनिहतान्द्रोग्धृन्विहाय मिलितैः पुनः । तत्र्यश्वारोहसचिवैरानीतः कृतचाक्रिकैः ॥ ३७५ ॥ दृष्ट्वा राज्याईमप्राप्य कंचिज्यायांस्तयोस्तदा । गर्गेण राज्ये संरम्भादभ्यषिच्यत सहणः ॥ ३७६ ॥ हा धिक्चतुर्णा यामानामन्तरे नृपतित्रयी। अहस्त्रियामे तत्रासीदृश्या या पुरुषायुषैः ॥ ३७७॥ सायमुच्चलनृपं प्राह्ने रडु सिविरे । मध्याह्ने सहणं प्रापुर्दष्टास्ते राजसेवकाः ॥ ३७८ ॥ अथ लोहरकोहस्थः सार्धेह्नि गलिते नृपः। सुस्सलो भ्रातृमरणं श्रुत्वा तूशान्तमानसः ॥ ३७९ ॥ गर्गेण प्रहितो दूतः स क्रन्दन्स्वं क्षिपन्क्षितौ । ततस्तं वीतसंदेहं चकारातप्रलापिनम् ॥ ३८० ॥ आद्यात्सलणवृत्तान्तपर्यन्तां नाशृणोत्कथाम् । गर्गदूताद्भातृवधं स्वस्थावानं च केवलम् ॥ ३८१ ॥ अश्रद्दधानस्तं शीघ्रमरिच्छेदं सुदुष्करम् । तदाबानाय गर्गो यं प्राहिणोत्तं चलन्गृहात् ॥ ३८२ ॥ आक्रन्दमुखरो भूत्वा तां रात्रिमरुणोदये। कश्मीराभिमुखो यात्रामसंभृतबलोप्यदात् ॥ ३८३ ॥ १ श्रुत्वाभूद्धान्तमानसः इत्युचितम् । ये

३४
राजतरङ्गिणी
।
अन्योथ गर्गदूतस्तं पथि संघटितोभ्यधात् ।
कृत्स्नमावेद्य वृत्तान्तं नागन्तव्यमिति ध्रुवम् ॥ ३८४ ॥
क्षिप्रं हतेषु द्रोहेषु त्वय्यसंनिहितेनुजः ।
कृतस्तु सहूणो राजा कृत्यमागमनेन किम् ॥ ३८५ ॥
श्रुत्वेति गर्गसंदेशं कोपादसहनो नृपः ।
अप्रयाणैषिणो भृत्यान्विहस्यैवं वचोब्रवीत् ॥ ३८६ ॥
नास्माकं पैतृकं राज्यं यदि रिक्थहरोनुजः ।
मज्यायसा मया चैतद्भुजाभ्याजितं पुनः ॥ ३८७ ॥
राज्यं स्वीकुर्वतोरन्यो न दाताभूत्तदावयोः ।
येनाहृतमिदं पूर्व स क्रमः क्व गतोधुना ॥ ३८८ ॥
इत्युक्त्वाविरतैरेव वहन्नासीत्प्रयाणकैः ।
दूतांश्च पार्श्व गर्गस्य स्वीकृत्यै प्राहिणोद्बहून् ॥ ३८९ ॥
स काष्ठवाट संप्राप सहणस्य हितैषिणा।
निर्गत्य गर्गचन्द्रेण चके हुष्कपुरे पदम् ॥ ३९० ॥
प्रवृत्तायां विभावाँ दूतैः कृतगतागतः ।
तस्याङ्गीकृतसामापि गर्गों द्रोग्धा व्यधीयत ॥ ३९१ ॥
कार्यमध्यगतो राजा तथापि प्राहिणोत्तदा ।
धात्रेयं भ्रातरं गर्गाभ्यर्ण हितहिताभिधम् ॥ ३९२ ॥
भोगसेनः क्षणे तस्मिन्नाययौ दैवमोहितः ।
खाशकान्बिल्ववनजान्मध्येकृत्य नृपान्तिकम् ॥ ३९३ ॥
सोभ्यर्ण कर्णभूत्याख्यमश्वारोहं महीपतेः ।
विसृज्य गर्ग जेष्यामीत्युक्त्वाभूल्लोभनोद्यतः ॥ ३९४ ॥
कालापेक्षामपि त्यक्त्वा हन्तुं भ्रातृद्रुहं स तम् ।
योग्यं प्रसङ्गमन्विष्याशे लोकैरसज्जनः ॥ ३९५ ॥

अष्टमस्तरङ्गः। ३५ यस्य भ्रातृद्गृहः पार्श्वे स त्वमाश्रीयसे कथम् । गर्गोपि तमुपालेभे दूतैरित्यादि संदिशन् ॥ ३९६ ॥ स तु मार्गात्पलाय्यायं तमसीति विलम्बकृत् । दत्तास्कन्दः क्षपापाये तं सानुगमघातयत् ॥ ३९७ ॥ पतत्रणं कर्णभूतिर्वीरवृत्त्या व्यरोचत । तस्य द्वैमातुरो भ्राता तेजःसेनोप्यनूनया ॥ ३९८ ॥ तेजःसेनस्तु शूलाग्ने नृपादेशान्यवेश्यत । मरिचो लवराजस्य तनूजोश्वपतेरपि ॥ ३९९ ॥ अवष्टम्भेन भूपोभून्निग्रहानुग्रहक्षमः । नयेनासितुमप्यास्था तावदासीन्न तद्वलम् ॥ ४० ॥ पुरोगोपि कृतः पश्चाद्योतीतेहि महीभुजा । स सज्जपालस्तत्पार्श्वमथादाय ययौ हयान् ॥ ४०१॥ तेष्वायातेष्ववष्टम्भं यातं किंचिच्च तद्बलम् । प्राप्तश्च गर्गसेनानीः सूयाश्वोनल्पसैनिकः ॥ ४०२ ॥ दुभ्रुथून्वीक्ष्य तानाप्तैर्नृपोश्वमधिरोपितः । उत्सेकशठधीर्वम कृच्छ्राञ्च परिधापितः ॥ ४०३ ॥ गगनं शलभच्छन्नमिव कुर्वन्नथापतत् शरासारो रिपुबलात्सर्वतोच्छिन्नसंततिः ॥ ४०४ ॥ ओंकारं शरशूत्कारैः कृत्वा द्रोहस्य दुःसहाः। प्राहरव्राजकटके सर्वान्सर्वायुधैर्द्विषः ॥ ४०५ ॥ हतविक्षतविध्वस्तसैन्यः साहसिको नृपः । वेगादपससारैको मध्यान्निर्गत्य वैरिणाम् ॥ ४०६ ॥ गर्जत्सिन्धुरथाश्रान्तनत्युन्नतिरलङ्घयत । सवाजिना तेन सेतुदुर्लङ्घयः पत्रिणामपि ॥ ४०७ ॥ १ तबले इति स्यात् । २ आययौ इत्युचितम् ।

राजतरङ्गिणी सजपालादयो द्वित्राः शेकुस्तमनुवर्तितुम् । पृष्ठलग्ना निरुन्धन्तः स्थाने स्थाने विरोधिनः ॥ ४०८ ॥ वीरानकाशिधं वीरः स खशानां निवेशनम् । त्रिशदिशैः समं भृत्यैः प्रविष्टस्तत्यजेरिभिः ॥ ४०९ ॥ निरम्बनिराहास्तिष्ठन्कतिपयैः समम् । स तत्र चित्रमाक्रम्य निर्भयोदण्डयत्खशान् ॥ ४१० ॥ क्रमेण च हिमापातदुर्लङ्घयाध्वनि संकटे । अविपन्नो भाग्ययोगात्प्रययौ लोहरं पुनः ॥ ४११ ॥ पदे पदे प्राप्तमृत्युरायुःशेषेण रक्षितः । तथाप्यासीत्स कश्मीरप्राप्तिमेव विचिन्तयन् ॥ ४१२ ॥ वराकं द्वारसेत्वग्राद्गर्गो हितहितं क्रुधा। विरुद्धधीवितस्तायां बद्धपाण्यझिमक्षिपत् ॥ ४१३ ॥ तसिन्प्रक्षिप्यमाणेप्सु क्षेमाख्यः स्वं क्षिपन्पुरः । दासोस्योच्चैः पदारोहमधःपातेपि लब्धवान् ॥ ४१४ ॥ राज्यप्रदः क्षतारिश्च गर्गः प्राप्तोन्तिकं ततः । प्राप सहणराजस्य सविशेषमधीशताम् ॥ ४१५ ॥ स भूभृन्मत्रिविक्रान्तिहीनो राज्यमवाप्तवान् । चक्रभ्रममिवापश्यत्सर्वतो भ्रान्तमानसः ॥ ४१६ ॥ न मत्रो न च विक्रान्तिर्न कौटिल्यं न चार्जवम् । न दातृता न लुब्धत्वं तस्योद्रिक्तं किमप्यभूत् ॥ ४१७ ॥ तद्राज्ये राजधान्यन्तर्मध्याह्नपि मलिम्लुचः। लोकं मुमुषुरन्याध्वसंचारस्य कथैव का ॥ ४१८ ॥ पङ्गुरप्यङ्गनाकालं क्रान्त्या यत्रात्यवाहयत् । पुमानप्यभवत्तत्र सांध्वसाध्वस्तधीरसौ ॥ ४१९॥ १ साध्वसध्वस्तधीः इत्युचितम् ।

अष्टमस्तरङ्गः। यामद्य सहणोन्येधुर्भेजे तां लोठनः स्त्रियम् । साधारण्यं गतो राज्यभोग इत्यभवत्तयोः ॥ ४२० ॥ पुरुषान्तरविज्ञानविहीनस्य प्रमाद्यतः । सर्वोपि तस्य तत्रज्ञैर्व्यवहारो व्यहस्यत ॥ ४२१ ॥ श्वशुरो लोठनस्योजसूहस्तेन व्यधीयत । द्वारे तापसगोष्ठीषु योग्यो विक्रमनिष्ठुरे ॥ ४२२ ॥ यः सुस्सलभयोच्छेदमङ्गीकुर्वस्तदागमे । स्वमन्त्रलक्षजापेन सिद्धिं मत्रक्षणेभ्यधात् ॥ ४२३ ॥ जिह्मो गर्गाज्ञया राजा तदप्रियमपातयत् । बद्धाश्मानं वितस्तायां बिम्बं नीलावडामरम् ॥ ४२४ ॥ राजानुग्राहको गर्गस्तांस्तान्व्यापादयत्रिपून् । हालाहाण्डामरान्भूरीन्दत्तभोज्यानघातयत् ॥ ४२५ ॥ राश्यकिंचित्करे गर्गायत्तजीवितमृत्यवः । बहिश्चाभ्यन्तरे चासन्नल्पे वा पृथवोपि वा ॥ ४२६ ॥ कदाचिल्लहराद्गर्गे प्रविष्टेथ नृपान्तिकम् । चुक्षोभ नगरे लोकः सर्व एव भयाकुलः ॥ ४२७ ।। तदा छुदचरद्वार्ता शूलान्यारोप्य नौषु यत् । क्रुध्यन्गर्गोयमायातो हन्तुं सर्वानृपाश्रितान् ॥ ४२८ ॥ गर्भिणीगर्भपातिन्या तादृश्या भयवार्तया । द्वित्राण्यहान्यन्वभावि जनैवर इवाखिलैः ॥ ४२९ ॥ ततस्तिलकसिंहाचैरुद्रेकाड्रागदीयत । अनवेक्ष्य नृपादेशमास्कन्दो गर्गमन्दिरे ॥ ४३० ॥ देशश्चात्युल्बणः कृत्स्नो धावति स धृतायुधः । प्रत्यग्रहीत्तानखिलान्गर्गचन्द्रस्त्वविह्वलः ॥ ४३१ ॥ १ श्रियम् इत्युचितम् । ।

३८ राजतरङ्गिणी । निर्लजा दिल्हभट्टारलक्ककाद्यास्तुरंगमः। भ्राम्यन्तस्तत्रादृश्यन्त गर्गावसथवीथिषु ॥ ४३२ ॥ निषिषेध न तानाजा प्रत्युतास्कन्ददायिनाम् । लोठनं कुण्ठशक्तीनां तेषां स्फूत्यै व्यसर्जयत् ॥ ४३३ ॥ तेनापि योधैर्गर्गस्य रुद्धमार्गेण मन्दिरम् । न रुद्धं नापि निर्दग्धुं पारितं दत्तवहिना ॥ ४३४ ॥ धानुष्कः केशवो नाम मठेशो लोठिकामठे । अबाधव नाराचैस्तद्योधान्धातयन्परम् ॥ ४३५ ॥ प्रकाशेन समं राजलोके विरलतां गते । सायं सानुचरो गर्गो हयारूढो विनिर्ययौ ॥ ४३६ ॥ समरैरप्रतिहतो निनाय लहरं व्रजन् । बद्धोजसूहमस्वस्थमासीनं त्रिपुरेश्वरे ॥ ४३७ ॥ तापसेन किमेतेनेत्युक्त्वान्येधुर्मुमोच तम् । तं सुस्सलेपि विधुरे नृपतिं नोदपाटयत् ॥ ४३८ ॥ क्षणे क्षणे भवद्देशस्ततः प्रभृति सर्वतः । गर्गागमनसंत्रस्तपौरालितमन्दिरः ॥ ४३९ ॥ अथार्तस्य महीभर्तुर्गर्गसंधानमिच्छतः । महत्तमः सहेलोभूल्लहरे दूत्यमाचरन् ॥ ४४० ॥ तेनाङ्गीकारितो गर्गः कथंचित्कन्यकार्पणम् । भृत्यास्तु तेन संबन्धं नैच्छन्भूतस्य भूपतेः ॥ ४४१ ।। ततः सुस्सलदेवेन सह संधिं निबद्धवान् । पश्चात्संप्रार्थ्यमानोपि संबन्धं न व्यधत्त सः ॥ ४४२॥ मण्डले विशरारुत्वमेवं याते नृषीब्रवीत् । सईं हंसरथं नोनरथं चासादितांश्चरैः ॥ ४४३ ॥ १ नृपोवधीत् इति स्यात् ।

अष्टमस्तरङ्गः।
"जनः ।
तानग्निकणसूच्यादिप्रवेशै"
अत्यक्तानसुभिङ्खरामवस्थामन्वबीभवत् ॥ ४४४ ॥
भोगसेनाङ्गनां मल्लामनुमेने स यन्नृपः ।
अनुसतु पति छन्नं वसन्ती साधु तद्व्यधात् ॥ ४४५ ॥
तादृग्दृष्ट्वापि वैक्लव्यं शङ्कितेन तदन्तरे।
प्रमिम्ये दिलभट्टारो रसदानेन भूभुजा ॥ ४४६ ॥
न राजबीजी नोच्चण्डविक्रमो वा बभूव सः।
शमितो गूढदण्डेन यत्तथा तेन पापिना ॥ ४४७ ॥
तं या निनिन्दानिष्पन्नपौरुषं तत्स्वसुस्तदा ।
तस्या वहिप्रवेशेन सिद्धं मानवतीव्रतम् ॥ ४४८ ॥
सोल्पोपि राज्यकालोभूदेवमातङ्कदुःसहः।
दीर्घक्षपादृश्यमानदीर्घदुःस्वप्नसंनिभः ॥ ४४९ ॥
कालवित्सुस्सलो गर्गाद्बद्धसंधिरपि सन् ।
न्ययुताने सजपालं काश्मीरोन्मुख्यभाक्ततः ॥ ४५० ॥
द्वारेण सह दत्तार्थो लक्ककः सहभूभुजा।
वराहमूलं संप्राप कथंचित्प्रस्थितिं भजन ॥ ४५१ ॥
गर्गः स्मरन्नवस्कन्दं पश्चाभ्येत्य नाशयन् ।
वराहमूलेन समं तस्य सैन्यमलुण्ठयत् ॥ ४५२ ॥
विदगौ स तु तद्योधैर्हतैश्च परिषस्वजे ।
अदिव्यैर्मेदिनी दिव्यैर्दैहैस्त्वप्सरसां गणः ॥ ४५३ ॥
नायके गलिते शुद्धवृत्तैः सद्वंशजैर्मही ।
पतितै रुप्पछुड्डायैर्भूषिता मौक्तिकैरिव ॥ ४५४ ॥
आगच्छता छिन्नभीतिः सजपालेन लककः।
निराश्रयः संप्रपेदे पाच सुस्सलभूपतेः ॥ ४५५ ॥

राजतरङ्गिणी । । सोथ भूभृत्सज्जपाले दूरं कान्तरिपौ गते । आजगामान्तिकं प्राप्तैः प्रेरितः पौरडामरैः ॥ ४५६ ॥ संधि तव विधास्यामि सार्धं सुस्सलभूभुजा । इत्युक्त्वा सहणं प्रायात्तदभ्यर्ण सहेलकः ॥ ४५७॥ कासिताभ्युदयं पौरैश्चातकैरिव वारिदम् । अशिश्रियन्त्राजवर्ज सर्व एवोच्चलानुजम् ॥ ४५८ ॥ गर्गस्य गृहिणी छुड्डाभिधानाथ तदन्तिकम् । कन्यकाद्वयमादाय परिणेतुमुपाययौ ॥ ४५९ ॥ उपयेमे स्वयं राजा राजलक्ष्म्यभिधां ततः । गुणलेखां स्नुषात्वेन स्वीचक्रे तद्यवीयसीम् ॥ ४६० ॥ सहणे सानुजेभ्येत्य सजपालेन वेष्टिते । राजापि राजसदसः सिंहद्वारं समासदत् ॥ ४६१ ॥ साक्षाद्विरोधिभृत्येन द्वारमेकेन पातितम् । अभून्मोघं तमप्राप्य सार्ध वैरिमनोरथैः ॥ ४६२ ॥ ससैन्येर्गलितद्वारराजवेश्मस्थिते रिपौ। गर्गास्कन्दविशङ्क्यासीञ्चकितं सौस्सलं बलम् ॥ ४६३ ॥ गर्गे वितीर्णकन्येपि राजसैन्यमविश्वसत् । तस्थौ स्थातव्यमित्येव तृणस्पन्देपि शङ्कितम् ॥ ४६४ ॥ अस्ताभिलाषिणि दिने तादृत्रासहते बले । स्नेहाददहति मापे दुर्भदौकःस्थितानिपून ॥ ४६५ ॥ प्रविश्य ग्रामनिर्भुग्नकवाटेन तमोरिणा। द्वारं विवृत्त्याङ्गनस्थैः सज्जपालोग्रहीद्रणम् ॥ ४६६ ॥ तस्य निश्चित्य पातंगी वृत्ति भूयस्यरिव्रजे। अनुप्रवेशं विधे पदातिर्लककाभिधः ॥ ४६७ ॥ युग्मम् ।।

अष्टमस्तरङ्गः। दरदानयने काष्ठवाटसंकटविक्रमे । यस्तस्य सदृशो योधः प्रतिबिम्ब इवाभवत् ॥ ४६८ ॥ स केशवश्च स मठाधीशस्तमनुसनतुः। शैनेयमारुती पार्थमिव प्रार्थितसैन्धवम् ॥ ४६९ ॥ निर्गत्य मण्डपाल्लग्नप्रहारैस्तैः कथंचन । विवृते प्राङ्गनद्वारे धीरो राजाविशत्स्वयम् ॥ ४७० ॥ निर्विभागे वर्तमाने संगरे सैन्ययोर्द्वयोः। प्राङ्गने प्रमयं प्रापुर्भूयांसस्तत्र शस्त्रिणः ॥ ४७१ ॥ सचिवः सहराजस्य पतंगग्रामजो द्विजः। आजौ प्रापाजको नाम स्वःस्त्रीसंभोगभागिताम् ॥ ४७२ ॥ कायस्थेनापि रुद्रेण लब्ध्वा गञ्जाधिकारताम् । स्वामिप्रसादः साफल्यं निन्ये त्यक्त्वा तनुं रणे ॥ ४७३ ॥ सायं वनस्पति-नैः खगैर्वाचालितो यथा । प्राणि प्रविष्टे प्रोड्डीननिःशब्दविहगोभवत् ॥ ४७४ ॥ आयोधनोर्वी वाचाला चक्रे चित्रार्पितेव सा। तथा सुस्सलभूपेन तुरंगस्थेन तर्जिता ॥ ४७५ ॥ अनारूढेङ्गनान्तःस्थे तस्मिन्सिहासनं ध्वनिः । सुस्सलो जयतीत्येवं ढकावाद्यं च शुश्रुवे ।। ४७६ ॥ मल्लराजगृहे ताहान्यस्याप्युदपद्यत । अगातां तत्र वैक्लव्यं यादृक्सलणलोठनौ ॥ ४७७ ॥ आबद्धकवचावश्वारूढावालिङ्गय सुस्सलः। बालौ युवामिति वदन्धूर्तोत्याजयदायुधम् ॥ ४७८ ॥ आदिश्य मण्डपेन्यस्मिन्बद्धयोश्च स्थिति तयोः। प्राप्तराज्यस्ततो राजा विवेशास्थानमण्डपम् ॥ ४७९ ।। १ भवेत् इत्युचितम् । ६ ४२ राजतरङ्गिणी त्र्यहोनांश्चतुरो मासान्भुक्तराज्यं बपन्ध तम् । सितस्य सोष्टाशीतेब्दे राधस्य त्रितयेहनि ॥ ४८० ॥ तेन सिंहासने कान्ते भास्वतेव नभस्तले। क्षणादेवाखिलो लोकः क्षोभमब्धिरिवात्यजत् ॥ ४८१ ॥ विकोशशस्त्रः सन्द्रोहावेक्षणक्षोभतः सदा । व्याधलोके व्यात्तवको मृगराज इवाभवत् ॥ ४८२ ॥ भ्रातृगुहां कुलच्छेदमन्विष्यान्विष्य कुर्वता । न तेन नीतिनिष्टेन शिशवोप्यवशेषिताः ॥ ४८३ ॥ जनस्य वीक्ष्य दौर्जन्यमधृष्टाकारतां वहन् । स कार्यापेक्षयाप्यासीन्न क्वाप्याहितमार्दवः ॥ ४८४ ।। वस्तुतस्त्वार्द्रहृदयः क्रूरं दमयितुं जनम् । अवास्तवं तद्भीमत्वाद्भित्तिव्याल इवादधे ॥ ४८५ ॥ कालवित्समयत्यागी प्रगल्शः प्रतिज्ञानवान् । इङ्गितज्ञो दीर्घदृष्टिः स एवान्यो न कोप्यभूत् ॥ ४८६ ॥ अधिकः कोपि कोप्यूनः कोपि तस्य समो गुणः । दोषोथ वा पूर्वजस्य स्वभावैक्येप्यदृश्यत ॥ ४८७ ॥ अन्वकारि समानेपि कोपे तत्पूर्वजन्मनः । कोपेन विषमालकं तदीयेन तु सारघम् ॥ ४८८ ॥ न बभूव स वेषादौ सासूयोनुचितं पुनः । स्थितिभेदभयात्सेहे नोत्सेकमनुजीविनाम् ॥ ४८९ ॥ नैच्छत्स द्वन्द्वयुद्धादिसंधानैर्मानिनां वधम् । तस्मिन्प्रमादानियूंढे त्वदीयत कृपाकुलः ॥ ४९० ॥ वाक्पारुष्यं नृपस्यासीदाद्यस्यातङ्कदुःसहम् । तस्य तु प्रणयप्रायं हिंसाद्याबाधवर्जितम् ॥ ४९१ ॥ १ तगीमत्वं इत्युचितम् ।

अष्टमस्तरङ्गः।
४३
-
तस्यार्थगृनोरुत्पादो भूयानास्ते स्म संपदाम् ।
त्यागो विषयकालादिनयत्या तु मितोभवत् ॥ ४९२ ॥
नवकर्माश्वबाहुल्यप्रिये तस्मिन्दरिद्रताम् ।
तत्यजुः कारवो वाजिविक्रेतारश्च दैशिकाः ॥ ४९३ ॥
दुःसहव्यसनोत्पत्तौ जिगीषोः प्रशमैषिणः ।
तस्यासीदपरित्याज्यं न किंचिद्वसुवर्षिणः ॥ ४९४ ॥
तस्येन्द्रद्वादशी भूरिपरार्थ्यांशुकदायिनः ।
यथा नृपस्य शुशुभे तथा नान्यस्य कस्यचित् ॥ ४९५ ॥
यथा प्रागुच्चलो राजा सुप्रापः प्रियसेवकः ।
स तथा सेवकैरासीद्भूम्ना दुर्लभदर्शनः ॥ ४९६ ॥
नोच्चलादपरस्यासीद्यसनं हयवाहने ।
नान्यस्य सुस्सलनृपादाक्ष्यं तत्र च पप्रथे ॥ ४९७ ॥
शममुत्पन्नमुत्पन्नं निन्ये दुर्भिक्षमुञ्चलः ।
राज्ये सुस्सलदेवस्य न तत्स्वप्नेप्यदृश्यत ॥ ४९८ ॥
किमन्यदखिलैः सोभूदग्रजादधिको गुणैः ।
त्यक्त्वा त्यागार्थनैस्पृह्यसुप्रापत्वानि केवलम् ॥ ४९९ ॥
औच्चलेः पालको गर्गो यं राज्ये कर्तुमैहत ।
सहस्रमङ्गलस्तेन निरवास्यत स क्रुधा ॥ ५०० ।।
तस्मिन्भद्रावकाशस्थे प्रासनामा तदात्मजः ।
काञ्चनोत्कोचदश्चके डामरैः सह चाक्रिकम् ॥ ५०१ ॥
असंत्यजन्नुच्चलज पितृव्येणार्थितं शिशुम् ।
प्रसङ्गे तत्र गर्गोपि प्रातिकूल्यमदर्शयत् ॥ ५०२ ॥
प्रहितानां नरेन्द्रेण तृणानामिव शस्त्रिणाम् ।
गर्गदावाग्निदग्धानां निःसंख्यानामभूत्क्षयः ॥ ५०३ ॥

राजतरङ्गिणी गर्गस्यालोपि विजयः स देवसरसोद्भवः। प्रातिलोम्येन नृपतिसैन्यानां कदनं व्यधात् ॥ ५०४ ॥ राज्यप्राप्तेर्मासमात्रे दिनैरभ्यधिक गते । तेनोत्पिञ्जेन राज्ञोभून्न धीरस्याकुलं मनः ॥ ५०५ ॥ सुरेश्वर्यमरेशोर्वीवितस्तासिन्धुसंगमाः । गर्गेण राजसैन्यानां कृताः कदनकाशिणः ॥ ५०६ ॥ संग्रामे तुमुलेमात्यौ शृङ्गारकपिलौ हतौ । कर्णशूद्रकनामानौ तत्रिणौ च सहोदरौ ॥ ५०७ ।। निहतानन्तसुभटसमूहान्तरलक्षितान् । तादृशानपि निष्क्रष्टुं नासीत्कस्यापि पाटवम् ॥ ५०८ ॥ हर्षमित्रः कम्पनेशो भूभर्तुर्मातुलात्मजः । विजयेन हतानीको विदधे विजयेश्वरे ॥ ५०९ ॥ पुत्रो मङ्गलराजस्य तिहो राजन्यवंशजः । तत्र तिब्धाकरमुखास्तत्रिणश्च प्रमिम्यिरे ॥ ५१० ॥ राजानीके सजपालः प्रवीरप्रवरोभवत् । भूरिसैन्येन गर्गेण नाल्पसैन्योपि यो जितः ॥ ५११ ॥ संस्तम्भ्य विजयक्षेत्रे लककाद्यैर्विसर्जितैः । धीरो राजा बलं भग्नं स्वयं गर्गोन्मुखं ययौ ॥ ५१२ ॥ सोन्विष्य गर्गेण हतान्योधात्राशीकृतान्बहून् । निरदायदन्येधुरसंख्येयैश्चिताग्निभिः ॥ ५१३ ॥ बलिना भूभुजा गर्गः पीड्यमानः शनैःशनैः । ततः स्ववसतीर्दग्ध्वा फलाहाभिमुखोभवत् ॥ ५१४ ॥ स तत्र रत्नवर्षाख्यं गिरिदुर्ग समाश्रितः । हृताश्वोनुचरैस्त्यक्तो नृपेणारादवेष्ट्यत ॥ ५१५ ॥ १ हर्षमित्तं इति स्यात् ।

अष्टमस्तरङ्गः।
अन्वारूढेन तत्रापि सजपालेन वेष्टितः ।
चरणौ शरणीचके राज्ञो दत्त्वोच्चलात्मजम् ॥ ५१६ ॥
अन्तिकस्थं नृपे कर्णकोष्ट मल्लकोष्टकम् ।
विरुद्धं रुद्धवत्याशु गर्गो विश्वासमाययौ ॥ ५१७ ॥
गृहीतप्रणतिस्तस्य नष्टेषु विजयादिषु ।
शमितोपप्लवो राजा विवेश नगरं शनैः ॥ ५१८ ॥
गत्वाथ लोहरे न्यस्य बद्धा सहणलोठनौ ।
स कलसोमपालाथै रेमे संसेवितो नृपः ॥ ५१९ ॥
भूयः प्रविष्टः कश्मीरान्सेव्यः सर्वातिशायिभिः ।
गर्ग प्रसादैरनयत्प्रवृद्धिमधिकाधिकैः ॥ ५२० ॥
ग्रीष्मार्कप्रतिमे तस्मिन्हादिनावनुचक्रतुः ।
महादेवी कुमारश्च द्रुमच्छायावनानिलौ ॥ ५२१ ॥
डामरौ देवसरसोद्भवौ विजयगोत्रिणौ ।
बृहडिक्कस्तथा सूक्ष्मटिको वेलां प्रचक्रतुः ॥ ५२२ ॥
सानाथ्यकाङ्किणौ पार्थिवस्य प्रविशतः पुरः ।
लोकपुण्ये तस्थतुस्तौ क्रन्दद्भिः स्वानुगैः समम् ॥ ५२३ ॥
विजये गर्गसंबन्धात्सदाक्षिण्यो महीपतिः ।
सदाचारं परित्यज्य वेत्रिभिस्तावताडयत् ॥ ५२४ ॥
तौ मानिनश्च तद्धृत्याः कृष्टशस्त्रास्ततो व्यधुः।
साहसं सुमहत्सैन्ये प्रहरन्तो महीपतेः ॥ ५२५ ॥
श्वपाको भोगदेवाख्यः कृपाण्या प्राहरनृपम् ।
धीरो गजकनामा च करवालेन पृष्ठतः ॥ ५२६ ॥
सावशेषतया भूपस्यायुषो मोघतां ययुः ।
द्विषत्प्रहतयो वाहतुरगी तु व्यपद्यत ॥ ५२७ ॥

राजतरङ्गिणी
नृपस्यान्तरयन्वैरिग्रहति बाणवंशजः ।
निहतस्तत्र शृङ्गारसीहः सादी शसस्यकः ॥ ५२८ ॥
सैनिकैस्तैर्वृहट्टिकाभोगदेवादयो हताः।
सूक्ष्मटिकस्तु निस्तीणों हेतु विनि विप्लवे ॥ ५२९ ॥
शूले व्यापादिता गजकादयो द्रोहसंश्रिताः।
संदेहितासुरित्यासीद्राजा गर्गानुकूल्यभाक् ॥ ५३० ॥
न भवेत्पविपातेपि प्रमयः समयं विना ।
प्रसूनमप्यसून्हन्ति जन्तोः प्राप्तावधेः पुनः ॥ ५३१ ॥
ज्वालाभिरौर्वदहनस्य पयोधिमध्ये
न म्लानतामपि हि यानि मुहुः स्पृशन्ति ।
तान्येव यान्ति विलयं किल मौक्तिकानि
कान्ताकुचेषु युवभावभुवोष्मणापि ॥ ५३२ ।।
प्राक्सेवामपि विस्मृत्य परोत्सेकासहिष्णुना ।
मण्डलात्सजपालाद्या निरवास्यन्त भूभुजा ॥ ५३३ ॥
संबन्धी काकवंश्याना यशोराजाभिधस्ततः ।
सहस्त्रमङ्गलाभ्यर्ण राशा निर्वासितो ययौ ॥ ५३४ ॥
तमन्यांश्च विनिर्यातान्देशागृह्णन्समृद्धिमान् ।
ऐच्छल्लब्धप्रतिष्टः स राज्ञः प्रत्यभियोगिताम् ॥ ५३५ ॥
तत्पुत्रः कान्दमार्गेण विविक्षुः मापसैनिकैः ।
यशोराजे क्षते प्रासः प्रत्यावृत्त्य ययौ भयात् ॥ ५३६ ॥
अथान्येष्वपि भृत्येषु राज्ञा निर्वासितेषु सः ।
मीलितेषु प्रथां यावद्यथावदुपलब्धवान् ॥ ५३७ ॥
उपरागे नवे सज्जे पार्वतीयास्त्रयो नृपाः ।
चाम्पेयो जासटो बज्रधरो वल्लापुराधिपः ॥ ५३८ ॥

अष्टमस्तरङ्गः।
४७
राजा सहजपालश्च वर्तुलानामधीश्वरः ।
युवराजौ त्रिगौर्वीवल्लापुरनरेन्द्रयोः ॥ ५३९ ॥
बल्ह आनन्दराजश्च पञ्च संघटिताः क्वचित् ।
प्रस्थानार्थ कृतपणाः कुरुक्षेत्रमुपागताः ॥ ५४० ॥
आसमत्याहृतं तावदभ्येत्य नरवर्मणः ।
प्रापुर्भिक्षाचरं तेन दत्तपाथेयकाञ्चनम् ॥ ५४१ ॥
कुलकम् ॥
स जासटेन संबन्धिस्नेहाद्विहितसत्कृतिः।
नीतोन्यैश्च प्रथां भूपैर्वल्लापुरमथाययौ ॥ ५४२ ॥
देशाद्विनिर्गतैबिम्बप्रमुखैर्वर्धितप्रथे।
तस्मिन्प्राप्ते सहस्रस्य प्रतिष्ठा लघुतामगात् ॥ ५४३ ॥
पौत्रोयं हर्षदेवस्य क एते राज्य इत्यथ ।
उक्त्वा त्यक्त्वा सहस्रादीस्तमेवाशिश्रियञ्जनाः ॥ ५४४ ॥
कृतज्ञभावमुत्सृज्य संबन्धिस्नेहमोहितः।
दर्यको राजपुत्रस्तं राज्ञानिर्वासितोप्यगात् ॥ ५४५ ॥
पुत्रः कुमारपालस्य तत्पितुर्मातुलस्य सः।
वृद्धिं सुस्सलदेवेन पुरा निन्ये हि पुत्रवत् ॥ ५४६ ॥
प्रेरितो युवराजेन जासटेन च कन्यकाम् ।
वल्लापुरेशः प्रददौ भिक्षवेथ स पद्मकः ॥ ५४७ ॥
तद्देशठकुरो भूपान्संघटय्याखिलांस्ततः ।
तमैच्छद्यपालाख्यः कर्तुं पैतामहे पदे ॥ ५४८ ॥
तां वार्ता श्रुतवावाजा यावदासीत्समाकुलः ।
गयपालो हतस्तावद्गोत्रजैश्छद्मना वली ॥ ५४९ ॥
पद्मके तान्प्रतिगते योद्धं प्रधनमध्यगः ।
भिक्षाचरचमूधुर्यो दर्यकोपि व्यपद्यत ॥ ५५० ॥

राजतरङ्गिणी
तेन प्रधाननाशेन ततो भिक्षाचरो ययौ ।
अकिंचित्करतां मेघ इवावग्रहवारितः ॥ ५५१ ॥
आसमत्यां प्रयातायां क्षीणे पाथेयकाञ्चने ।
श्वशुरोपि ययौ तस्य शनैर्मन्दोपचारिताम् ॥ ५५२ ॥
चतुष्पञ्चानि वर्षाणि तिष्ठजासटमन्दिरे ।
प्रासाच्छादनमात्रं स ततः क्लेशात्समासदत् ॥ ५५३ ।।
ठकुरो देङ्गपालोथ चन्द्रभागातटाश्रयः ।
दत्त्वा सुतां बप्पिकाख्यां तं निनाय निजान्तिकम् ॥५५४॥
प्राप्तसौख्यो वसंस्तत्र कंचित्कालं भयोज्झितः ।
स राजबीजी दैन्येन शैशवेन च तत्यजे ॥ ५५५ ॥
तदन्तरे साहसिकः प्रासः साहसिरुन्मदः ।
गतागतानि कुर्वाणः संरम्भमनयन्नृपम् ॥ ५५६ ॥
स सिद्धपथमार्गेण विविक्षुर्विप्लवोन्मुखः ।
स्वैरेव भृत्यैर्भूभर्तुर्बवा पापैः समर्पितः ॥ ५५७ ॥
तत्रोपिले परं सत्त्वं सजपालस्य पप्रथे ।
खिन्नोपि द्रोहविमुखो यत्स देशान्तरं ययौ ॥ ५५८ ॥
तस्मिन्शूरे कुलीने च किं वाच्यं स दिगन्तरे ।
शौर्येणैव यशोराजः पप्रथे यत्तदद्भुतम् ॥ ५५९ ॥
अथ राजा निवार्याद्यान्सहेलादीन्महत्तमान् ।
सर्वाधिकारे विदधे कायस्थं गौरकाभिधम् ॥ ५६० ॥
स तापसस्य संबन्धी कस्यचिद्विजयेश्वरे ।
सेवया लोहरस्थस्य तस्य वाल्लभ्यमाययौ ॥ ५६१ ॥
शमिते पूर्वकायस्थवर्गे तेन ततः क्रमात् ।
नीतः सर्वाधिकारित्वं सोन्यामेव स्थिति व्यधात् ॥ ५६२॥

अष्टमस्तरङ्गः। । अशेषकर्मस्थानेभ्यो वृत्ति राजोपजीविनाम् । निर्वादकोशभरणं तेनाकार्यनिशं प्रभोः ॥ ५६३ ॥ प्रदिन्ना पाप्मिनस्तस्य नाज्ञायि क्रूरता जनैः । मधुरिम्णा विषस्येव शक्तिः प्राणापहारिणी ॥ ५६४ ॥ न्यधात्कृपणवित्तं स पूर्वसंचितनाशकृत् । विशुद्ध नृपतेः कोशे हिमे हिममिवाम्बुदः ॥ ५६५ ॥ कोशः कृपणवित्तेन प्रविष्टेन हि दूषितः । भुज्यते भूमिपालानां तस्करैरथवारिभिः ॥ ५६६ ॥ लोभाभ्यासेन भूयोपि संचिन्वन्कोशमन्वहम् । आस्ते स्म लोहरगिरौ प्रहिण्वन्सर्वसंपदः ॥ ५६७ ॥ गौरकाश्रयिभिर्वट्टपञ्जकाद्यनियोगिभिः । विधीयते स निःसारा महोत्पातैरिव क्षितिः ॥ ५६८ ॥ उञ्चलक्ष्मापतौ शान्ते मूर्धारूढशिलोपमे । अबाधन्त पुनर्लोकं व्याधा इव नियोगिनः ॥ ५६९ ॥ प्रशस्तकलशस्यान्ते तद्भातृतनयः परम् । कायस्थः कनको नाम श्लाघ्यामकृत संपदम् ॥ ५७० ॥ नानादिगन्तरायातो दुर्भिक्षपतितो जनः । येनाविच्छिन्नसत्रेण शान्तव्यापद्व्यधीयत ॥ ५७१ ॥ संजातमुच्चलस्यान्ते येषां तत्त्वपरीक्षणम् । त एव चक्रिरे राज्ञा प्रमत्तेनाधिकारिणः ॥ ५७२ ॥ द्वारे तिलकसिंहः स ताहतेन व्यधीयत । राजस्थाने च जनकः काणस्तस्य सहोदरः ॥ ५७३ ॥ प्रतापैर्नृपतेस्तीक्ष्णैः करमाक्रान्तमण्डलः जिताद्वाराधिपः सोपि स्वीचकारोरशाधिपात् ॥ ५७४ ॥ १निवार्य इत्युचितम् ।

राजतरङ्गिणी काकवंश्यस्तु तिलकः क्ष्माभुजा दत्तकम्पनः । निन्ये प्रकम्पमहितान्प्रकम्पन इव द्रुमान् ॥ ५७५ ॥ ग्राम्यशस्त्रभृता शेडराजस्थानाधिकारिणा । नृपप्रतापैरहिताः सन्जकेनापि निर्जिताः ॥ ५७६ ॥ काकवंशाश्रयात्प्राप्तराजद्वारेण धीमता। अट्टमेलकभृत्येनाप्यवापीप्टेन मत्रिता ॥ ५७७ ॥ एवं स्वाहंक्रियात्यक्तगुणापेक्षेण मत्रिणः । कुर्वतोच्चावचांस्तेन कश्चित्कालोत्यवाह्यत ॥ ५७८ ॥ वितस्तापुलिने सोथ कर्तुं प्रारभतोन्नतम् । स्वस्य श्वश्वाश्च पत्ल्याश्च नान्ना सुरगृहत्रयम् ॥ ५७९ ॥ उत्पातवहिना दग्धो निःसंख्यधनदायिना । तेन दिदाविहारोपि नूतनत्वमनीयत ॥ ५८० ॥ पुरीमट्टिलिकां जातु स प्रयातोऽन्तिकस्थितैः । आप्नैः प्रैर्यत कल्हाद्यैर्ग:च्छेदाय भूपतिः ॥ ५८१ ॥ गार्गिः कल्याणचन्द्राख्यस्तानतिक्रम्य हि स्फुरन् । मृगयादिक्षणे तेषामसूयामुदपादयत् ॥ ५८२ ॥ सर्वाभ्यधिकसामर्थ्य तं निग्राह्यं निवेद्य ते । नित्योपजपनैर्गर्गे विक्रियामनयन्नृपम् ॥ ५८३ ॥ बद्धा त्वां लोहरे भूभृदिच्छति क्षेप्तुमित्यथ । गर्गः शशङ्के भृत्येन राज्ञा चैकेन बोधितः ॥ ५८४ ॥ ततः स ससुतस्तत्र पलाय्य स्वभुवं ययौ । दिनै पोपि संप्राप्तः प्रविवेश स्वमण्डलम् ॥ ५८५ ॥ अन्योन्यशङ्कया भेदं यातयो राजगर्गयोः । चाक्रिकैः कृतसंचारैर्वैरं प्रौदिमनीयत ॥ ५८६ ॥ ।

अष्टमस्तरङ्गः।
स्याल गर्गस्य विजयं स्नेहशेषवशंवदः ।
समीपात्सत्यजत्राजा पश्चात्तापेन पस्पृशे ॥ ५८७ ॥
कारायां गर्गशत्रुर्यस्तेन पूर्व न्यधीयत ।
स मल्लकोष्टकस्तस्मिन्कालेमुच्यत बन्धनात् ॥ ५८८ ॥
निबद्धयौनसंबन्धं डामरैरपरैः समम् ।
तं कारयित्वा सामर्षो निनाय बलितां नृपः॥ ५८९ ॥
शनैर्युद्धाय निर्याते राजसैन्यथ पूर्ववत् ।
गर्गेण कदनं चक्रे योधानाममरेश्वरे ॥ ५९०॥
तत्र सर्वातिशायिन्या वीरवृत्त्या नृपाश्रितः।
शमालाडामरः प्राप प्रथां पृथ्वीहरः परम् ॥ ५९१ ॥
रणे द्वारपतेर्गर्गनिर्जितस्य पलायने ।
शौर्य तिलकसिंहस्य प्राप सर्वोपहास्यताम् ॥ ५९२ ॥
हतशेषाः क्षताः शस्त्रवस्त्रादि त्याजिता भटाः ।
तदीया गर्गचन्द्रण कारुण्यात्केपि रक्षिताः ॥ ५९३ ॥
वह्निसाक्रियमाणेषु वीरदेहेषु सर्वतः ।
राजसैन्ये चिताग्नीनां गणना कापि नाभवत् ॥ ५९४ ॥
कृष्टसैन्येन राज्ञाथ गर्गों निर्दग्धमन्दिरः ।
संत्यज्य लहरं प्रायागिरि धुडावनाभिधम् ॥ ५९५॥
गिरिमूलोपविष्टस्य भूपतेः सैनिकैः समम् ।
तेषु तेष्वकरोन्नित्यं गिरिमार्गेषु संगरम् ॥ ५९६ ॥
कूटयुद्धैर्नृपानीकं प्रतिरात्र्युपतापयन् ।
रणे त्रैलोक्यराजादिप्रमुखांस्तत्रिणोवधीत् ॥ ५९७ ॥
फाल्गुने हिमसंभारभीमे परिमितानुगः ।
स धीरो राश्यपि रिपौ न धैर्येण व्ययुज्यत ॥ ५९८ ॥

५२ राजतरङ्गिणी । धैर्यवान्काकवंश्यस्तु तिलकः कम्पनापतिः। परं शिखरिशृङ्गस्थं शक्तोभूत्तं प्रधावितुम् ॥ ५९९ ॥ पीडितस्तेन संप्रेष्य स्वभार्या तनयान्तिकम् । निन्येनुकूलतां भूपं प्रसादाच्छादितक्रुधम् ॥ ६०० ॥ गूढमन्युनुपः संधि बद्धा प्रचलितस्ततः । तं मल्लकोष्टकं वृद्धि निनाय न पुनः शमम् ॥ ६०१॥ सेहेथ लहरे द्वित्रान्मासानविशदे नृपे । स मल्लकोपकासद्यस्पर्धा नीचविमाननाम् ॥ ६०२ ॥ तन्मध्ये नृपतिर्मूढं विभेदं तद्बलं नयन् । तदीयानकरोद्धृत्यान्कर्णादीन्स्वहितावहान् ॥ ६०३ ॥ स खिन्नो नीचदायादसमशीर्षिकयाथ तैः । प्रेरितः पार्थिवाभ्यर्ण सदारतनयोविशत् ॥ ६०४ ॥ स्नातुं प्रवृत्तः पार्श्वस्थं स्नानद्रोण्युपरिस्थितः । अथैकदा तमाक्षिप्तशस्त्रमत्याजयन्नृपः ॥ ६०५ ॥ कुर्यादास्थामवष्टम्भे कोन्यः पौरुषगर्वितः । आक्षेपसमये सोपि यत्क्लैब्यं भीरुवद्ययौ ॥ ६०६ ॥ उत्खातरोपितनृपः क नु सोभिमानः कार्पण्यभागितरलोकसमा क वृत्तिः । यद्वावशं नटयति प्रकटं विधातु- रिच्छैव यत्रगुणपतिरिवात्र जन्तुम् ॥ ६०७ ॥ अशकन्युधि ये द्रष्टुमपि तं नास्य ते शठाः । केपि राजप्रिया बाहू ग्रन्थिबद्धौ तदा व्यधुः ॥ ६०८ ॥ १ तमाक्षिप्तं इति तमाक्षिप्य इति वोचितः पाठः ।

अष्टमस्तरङ्गः । श्रीसंग्राममठाभ्यर्णमन्दिरस्था नृपे स्वयम् । संग्रामे प्राङ्गनं युद्धात्कल्याणाद्या व्यरंसिषुः ॥ ६०९ ॥ जीवन्तं पितरं श्रुत्वा विदेहो गर्गनन्दनः । सान्त्व्यमानः स्वयं राज्ञा कृच्छ्राच्छस्त्रं समार्पयत् ॥ ६१०॥ गर्गः सदारतनयो राजौकस्येव भूभुजा । उपाचर्यत दाक्षिण्याद्धो भोगैर्निजोचितैः ॥ ६११ ॥ गार्गिः पलाय्य यातोपि चतुष्कं निजमन्दिात् । अवर्णभाजा कर्णेन दृष्ट्वा राज्ञः समर्पितः ॥ ६१२ ॥ रूढच्छन्नप्रकोपस्य प्रसादस्य महीभुजः। अन्तःशुद्धिविहीनस्य अणस्येव न निश्चयः ॥ ६१३ ॥ दरगाजे मणिधरे दिदृक्षावागते नृपः। तत्संगमाय निर्यातो गर्ग भृत्यैरघातयत् ॥ ६१४ ॥ द्वित्रान्मासान्सोनुभूतकारागारस्थितिर्निशि । सत्रा त्रिभिः सुतैः कण्ठबद्धरजुयंपात्यत ॥ ६१५ ॥ निष्ठां बिम्बमुखानिन्ये यथैव स नृपानुगैः । तथैव कण्ठबद्धाश्मा सपुत्रोक्षिप्यताम्भसि ॥ ६१६ ॥ तं चतुर्नवते वर्षे हत्वा भाद्रपदे नृपः। सुखेच्छुः प्रत्युत प्राप दुःखमुद्भूतविप्लवः ॥ ६१७ ॥ कल्हे कालिंजराधीशे महादेव्याश्च मातरि । मल्लाभिधायां शान्तायां स ततोभूत्सुदुःखितः ॥ ६१८ ॥ तन्मध्ये नागपालाख्यः सोमपालस्य सोदरः। तेन प्रतापपालाख्ये हते द्वैमातुरेनजे ॥ ६१९ ॥ १ संप्राप्ते प्राङ्गणं इति स्यात् ।

५४ राजतरङ्गिणी शङ्कितस्तन्निहन्तारं हत्वामात्यं पलायितः । त्यक्तस्वदेशः शरणं ययौ सुस्सलभूभुजम् ॥ ६२० ॥ युग्मम् ॥ क्रुद्धः स कारणात्तस्मात्प्रणयं वशवर्तिनः । अगृह्णन्सोमपालस्य निश्चिकायाभिषेणनम् ॥ ६२१ ॥ निश्चित्य सर्वोपायानामसाध्यं विधुरं नृपम् । स भिक्षाचरमानिन्ये तस्य वल्लापुराद्रिपुम् ।। ६२२ ॥ निशम्यानीतदायादं तं प्रकोपाकुलो नृपः । दत्तास्कन्दोविशत्तीव्रतेजा राजपुरी ततः ॥ ६२३ ॥ दत्त्वा राज्ये नागपालं सोमपाले पलायिते । सप्त मासान्स तत्रासीत्तांस्तान्संत्रासयत्रिपून ॥ ६२४ ॥ राज्ञां वज्रधरादीनां राजा वज्रधरोपमः । सेवावसरदानेन प्रसादविवशोभवत् ॥ ६२५ ॥ भ्रमतां चन्द्रभागादिसरित्तीरेषु सर्वतः । तत्सैन्यानां मुखमपि द्रष्टुं शेकुर्न वैरिणः ॥ ६२६ ॥ अग्रगाम्यभवत्तस्य तिलकः कम्पनापतिः । पृथ्वीहरो डामरश्च मार्गरक्षणदीक्षितः ॥ ६२७ ॥ धार्मिको नृपतिर्ब्रह्मपुरी देवगृहांश्च सः । मण्डलं द्विषतो रक्षन्प्रपेदे मौलिकं फलम् ॥ ६२८ ॥ तस्येन्द्रविभवस्यान्यत्सामग्र्यं वर्ण्यते कियत् । आययावश्वघासोपि सैन्ये यस्य स्वमण्डलात् ॥ ६२९ ॥ तत्र प्रसङ्गे तेत्राप्तीभवन्सुजनवर्धनः । दूरस्थस्यानयद्रूढिं गौरकस्योपरि क्रुधम् ॥ ६३० ॥ १ मण्डले इत्युचितम् । २ तस्य इत्युचितम् ।

अष्टमस्तरङ्गः। ५५ राष्ट्रगुप्त्यै स्वयं राज्ञा स्थापितः स स्वमण्डले । अज्ञायि पैशुनाशुद्धबुद्धिना निखिलार्थहृत् ॥ ६३१ ॥ तत्संबन्धेन जनकं स निन्दनगराधिपम् । मनस्तिलकसिंहस्य तद्भातुरुदवेजयत् ॥ ६३२ ॥ हृत्वाधिकारं त्वस्याथ क्रुद्धः पर्णोत्ससंभवम् । अनन्ताधिपमानन्दाभिधं द्वाराधिपं व्यधात् ॥ ६३३ ॥ सोमपालादयः श्लाघ्यास्तदा प्रकृतयोभवन् । राज्ञस्तथास्थितस्यापि न याः सविधमाययुः ॥ ६३४ ॥ स पञ्चनवते वर्षे वैशाखेथ स्वमण्डलम् । प्राविशन्नागपालोपि राज्यभ्रष्टस्तमन्वगात् ॥ ६३५ ॥ दुःसहातङ्कदूतेन लोभेन क्षोभतस्ततः । अदण्डयञ्च वास्तव्याननयच्चाल्पतां व्ययम् ॥ ६३६ ॥ निवार्य गौरक कार्यात्कार्यिणस्तत्समाश्रितान् । तस्य दण्डयतः सर्वे विरागं मन्त्रिणो ययुः ॥ ६३७ ॥ अकाण्डे व्यवहारेषु स विपर्यासितेष्वभूत् । अवसन्नधनो गाढमप्रौड्यान्नवमत्रिणाम् ॥ ६३८ ॥ सौवर्णीरिष्टिकाः कृत्वा प्राहिणोल्लोहरान्तरे । काञ्चनाद्रिप्रतीकाशान्स्वर्णराशीनढोकयत् ॥ ६३९ ॥ अथ दण्डयितुं गर्गभृत्यान्दण्डाधिकारिणाम् । लहरेकृत गर्गस्य मत्रिणं गजकाभिधम् ॥ ६४० ॥ तं दण्डभीतैर्गर्गस्य सेवकैराश्रितस्ततः । विश्वस्तमवधीत्क्रुध्यञ्छमना मल्लकोष्टकः ॥ ६४१ ॥ लहरे विप्लुते राजा द्वैमातुरमथाग्रजम् । मल्लकोष्टस्यार्जुनाख्यं बबन्ध सविधस्थितम् ॥ ६४२ ॥ १ प्रविशन इत्युचितम् । २ क्षोभितः इत्युचितम् । ३ दण्डाधिकारिणम् इत्युचितम् ।

५६
राजतरङ्गिणी
हस्तं च सडचन्द्रस्य पुत्रं गोत्रिणमप्यसौ ।
बद्धवा व्यधाद्विहकाख्यं तस्य तद्भातरं हितम् ॥ ६४३ ॥
पूर्ववैरं स्मरन्सूर्य सपुत्रं तं परांस्तथा ।
बबन्धानन्दचन्द्रादीनीत्युल्लङ्घनमाचरन् ॥ ६४४ ॥
निर्गते लहरं मल्लकोष्टके विद्रुते ततः ।
आरोग्यार्जुनकोष्टं तं शूले कोपाद्यपादयत् ॥ ६४५ ॥
निवेश्य सैन्यं तत्राथ प्रविष्टस्य पुरं ययुः ।
डामरा निखिलास्तस्य वैरं विश्वस्तघातिनः ॥ ६४६ ॥
क्रुध्यन्पृथ्वीहरायापि कृतसेवाय मत्रिभिः ।
आदिष्टैः कम्पनेशाद्यैरवस्कन्दमदापयत् ॥ ६४७ ॥
कथंचित्स तु निस्तीणों जयन्तीविषयौकसः।
बन्धोः क्षीराभिधानस्य प्रविवेशोपवेशनम् ॥ ६४८॥
दिनेऽवन्तिपुरादीनां पुराणामन्तरेण तम् ।
व्रजन्तं विधुरं केचिन्नाशकन्वाधितुं द्विषः ॥ ६४९ ॥
तद्वैधुर्यविधानं तत्प्रजासंहारकार्यभूत् ।
प्रमादाद्भूपतेः क्रुद्धवेतालोत्थापनोपमम् ॥ ६५० ॥
क्षीरोथ तीक्ष्णधीर्वृद्धः सह पृथ्वीहरेण सः ।
अढौकयच्छमाङ्गासान्तरेष्टादश डामरान् ॥ ६५१ ॥
अभेद्यसंघांस्ताजेतुं निर्यातो विजयेश्वरम् ।
न्ययुत भूभृत्संभ्रान्तस्तिलकं कम्पनापतिम् ॥ ६५२ ॥
संग्रामः खण्डशः कुर्वन् स तानतुलविक्रमः ।
विद्रावयामास रयैः पुरोवायुरिवाम्बुदान् ॥ ६५३ ॥
संमानावसरे तस्य जित्वायातस्य डामरान् ।
प्रवेशं प्रत्युत नृपो न प्रादादवमानकृत् ॥ ६५४ ॥

अष्टमस्तरङ्गः। ८१ सेतौ सदाशिवानस्थे तत्सैन्यैः सह संगरम् । दृप्यञ्जनकसिंहोथ सान्त्व्यमानोपि सोग्रहीत् ॥ ९३४ ॥ दृष्टं जनकसिंहस्य योधानां वल्गतां मदात् । अविशङ्कय पराभूति मुहूर्त सुभटायितम् ॥ ९३५ ॥ अलकेन समं पृथ्वीहरस्तद्भातृसूनुना। अन्येन सेतुना तीर्वा तस्य सैन्यमनाशयत् ॥ ९३६ ॥ तव्यश्वारोहपौरेषु विद्रुतेषु सबान्धवः । नक्तं जनकसिंहोथ पलाय्य लहरं ययौ ॥ ९३७ ॥ शिक्षुपृथ्वीहरौ प्रातस्तत्पृष्ठग्रहणोद्यतौ । तत्पश्चात्तेश्ववाराद्याः पृष्टा भूयोप्यशिश्रियन् ॥ ९३८ ॥ क्षित्वा क्षिप्रं स्वकश्यान्तर्विबुधप्रतिमा भयात् । ते पारिषद्यविप्राद्याः प्रायमृत्सृज्य विद्रुताः ॥ ९३९ ॥ शून्यानि सुरयुग्यानि रक्षन्तः केपि भिक्षुणा। प्रायानिवृत्ता वयमित्युक्तवन्तो न बाधिताः ॥ ९४० ॥ ह्यो जानके भैक्षवेऽद्य वलगत्तुङ्गतुरंगमान् । दृष्टवन्तो वयं सैन्ये सादिनोद्यापि साद्भुताः ॥ ९४१ ॥ भिक्षुराजप्रदीपेन द्योतितः क्षणभङ्गिना। पितृव्येनाधिकारेण स्यालस्तिलकसिंहजः ॥ ९४२ ॥ गते जनकसिंहेथ प्रतिपक्षानुसारिणाम् । विधातुं वेश्मभङ्गादि लब्धं भिक्षुमहीभुजा ॥ ९४३ ॥ अत्रान्तरे हुष्कपुरे नीतेषु तिलकादिषु । भङ्गं सुल्हणसिम्बाद्यैः समेतानन्तसैनिकैः ॥ ९४४ ॥ अग्रायातैर्मल्लकोष्टजनकाद्यैः ससैनिकैः । अपरैरपि सामन्तैर्बलबाहुल्यशालिभिः ॥ ९४५ ॥ १ स्वकक्षान्तः इत्युचितम् ।

८२
राजतरङ्गिणी
अन्वीयमानो दिवसैईिराकान्तमण्डलः ।
विरॉल्लहरमार्गेण विपक्षालक्षितोपतत् ॥ ९४६ ॥
नगरापणवीथ्यन्तहयारोहमुखान्पुरः ।
द्रोहयोधानुपायातांस्तदैवोज्झितसाध्वसः ॥ ९४७ ॥
वेष्टितालम्बकूर्चेन वक्रेण भ्रुकुटीभृता ।
कोपकम्पिततारेण फुल्लनासापुटस्पृशा ॥ ९४८ ॥
कांश्चित्संतर्जयन्निन्दन्नन्यान्मग्नांस्तथापरान् ।
तीवातपश्यामवपुस्ताम्यत्काल इवोल्वणः ॥ ९४९ ॥
आशीर्घोषकृतां पुष्पवर्षिणां पुरवासिनाम् ।
पूर्वापकारिणां श्रेणीप्ववज्ञान्यस्तलोचनः ॥ ९५० ॥
स्कन्धमात्रोपरिन्यस्तं कवचं हेलया दधत् ।
केशानन्तशिरस्त्रान्तनिःसृतान्धूलिधूसरान् ॥ ९५१ ॥
पक्ष्ममालां च विभ्राणः सकोशासिस्तुरंगिणाम् ।
आकृष्टखड्गमालानामन्तर्वलगत्तुरंगमः ॥ ९५२ ॥
ससिंहनादैरुद्दामैभैरीभांकारनिर्भरैः ।
बलैर्भरितदिकोशः सुस्सलः प्राविशत्पुरम् ॥ ९५३ ॥
कुलकम् ॥
पड्निः सद्वादशदिनैर्मासैज्येष्ठे सितेहनि ।
स सप्तनवताब्दस्य तृतीये पुनराययौ ॥ ९५४ ॥
राजधानीमप्रविष्टो भिक्षु पूर्वपलायितम् ।
अन्विष्यन्क्षिप्तिकातीरे सलवन्यो व्यलोकयत् ॥ ९५५ ॥
सरित्पारं रिपो प्राप्ते स सपृथ्वीहरो गतः ।
मार्गे लवन्यैर्मिलितैरन्यैः साकं न्यवर्तत ॥ ९५६ ॥
तं विद्राव्य रणे राजा बडा प्रहृतिविक्षतम् ।
सिंहं पृथ्वीहरज्ञाति राजधानीमथाविशत् ॥ ९५७ ॥

अष्टमस्तरङ्गः। उपभोगैः सपत्नस्य तत्कालनिसृतस्य सा । अङ्किता मानिनस्तस्य वेश्येवोद्वेगदाभवत् ॥ ९५८ ॥ भिक्षुः संत्यज्य कश्मीरान्सह पृथ्वीहरादिभिः । ग्रामं पुष्पाणनाडाख्यं सोमपालाश्रयं ययौ ॥ ९५९ ।। प्रस्थिते डामरान्सर्वानाजा स्वीकृत्य तु व्यधात् । खेया वट्टात्मजं मल्लं हर्षमित्रं च कम्पने ॥ ९६० ॥ पूर्वापकारं स्मरतो देशकालानपक्षिणः । पूर्वविद्वेषिणस्तस्य न कृपां प्रतिपेदिरे ॥ ९६१ ॥ भिक्षुसंपर्कजं गन्धमपि सोढुमशक्नुवन् । भृत्येभ्यः खण्डशः कृत्वा द्वेषात्सिहासनं ददौ ॥ ९६२ ॥ अनयोपार्जितां त्यक्तुमनाशा डामराः श्रियम् । समन्योश्च नृपाश्रीता नात्यजन्विप्लवोद्यमम् ॥ ९६३ ॥ भिक्षुस्तु राज्यविभ्रष्टः सुहृदो विषये वसन् । उत्साहं सोमपालस्य दानमानैः पुनर्ययौ ॥ ९६४ ॥ बिम्बः साहायकप्रार्थी विस्मयस्यान्तिकं गतः। तस्मिन्विरोधिभिर्ब?' रणे धीरस्तनुं जहौ ॥ ९६५ ॥ शिक्षाचरो बिम्बशून्यो भजन्दुर्नयपात्रताम् । अनैषीदवरुद्धात्वं तत्प्रियां तां गतत्रपः ॥ ९६६ ॥ निपत्य स्वल्पसैन्योपि ततः शूरपुरे बली। जित्वा पृथ्वीहरो वट्टात्मजं व्यद्रावयद्रणात् ॥ ९६७ ॥ तस्मिन्पलायिते भिक्षु पुनरानीय सोविशत् । भुवं मडवराज्यानां दस्यूनां स्वचिकीर्षया ॥ ९६८ ॥ तत्रत्यैर्मवजय्याद्यैर्डामरैः स्वीकृतैः समम् । जगाम विजयक्षेत्रं विजेतुं कम्पनापतिम् ॥ ९६९ ॥ १ बद्धो इति स्यात् ।

८४ राजतरङ्गिणी जितस्तेनाहवे हर्षमित्रो निहतसैनिकः । विजयेश्वरमुत्सृज्य भीतोवन्तिपुरे ययौ ॥ ९७० ॥ विजयक्षेत्रजास्तत्तत्पुरग्रामोद्भवा अपि । जना भयेन प्राविक्षन्नथ चक्रधरान्तिकम् ॥ ९७१ ॥ योपिच्छिशुपशुव्रीहिधनोपेतैरपूर्यत । स्थानं तत्तैश्च राज्ञश्च योधैः सायुधवाजिभिः ॥ ९७२ ॥ अन्वारूढेरथ स्पष्टं लोकोल्लुण्ठनलालसैः । तैर्भेक्षवैरवेष्ट्यन्त कटकैर्व्याप्तदिक्तटैः ॥ ९७३ ॥ तान्दारुमयवप्रौघद्वारगुप्ते सुरौकसः । अङ्गने तिष्ठतो हन्तुं बन्ढे वा नाशकन्द्विषः ॥ ९७४ ॥ तदन्तरास्थितं दग्धुं कर्पूराख्यं स्ववैरिणम् । कश्चित्कतिस्थलीग्रामजन्मा निर्गुटडामरः ॥ ९७५ ॥ पापो जनकराजाख्यस्तत्राग्निमुददीदिपत् । मूढस्तादृगपर्यन्तजन्तुसंहारनिघृणः ॥ ९७६ ॥ तमापतन्तं ज्वलितं ज्वलनं घीक्ष्य सर्वतः । भूतग्रामस्य सुमहान्हाहाकारः समुद्ययौ ॥ ९७७ ॥ विशत्कृतान्तवाहारिभियेव छिन्नबन्धनैः । अश्वैरसूचीसंचारा भ्रमद्भिर्जधिरे जनाः ॥ ९७८ ॥ प्राच्छाद्यत वलज्वालाकरालै—मराशिभिः । व्योम पिङ्गकचश्मश्रुज्वालैनक्तंचरैरिव ॥ ९७९ ॥ निर्धूमस्य विसारिण्यो ज्वाला हव्यभुजो दधुः। संतापद्रुतहेमाभ्रसुवर्णलहरीभ्रमम् ॥ ९८० ॥ संतापविद्रुतव्योमचारिमौलिपरिच्युताः । रक्तोष्णीषा इव भ्रमुालाभङ्गा नभोगने ॥ ९८१ ॥ १ ते भैक्षवैः इति स्यात् ।

अष्टमस्तरङ्गः।
८५
दीर्घदारुप्रन्थिभङ्गजन्मा चटचटारवः ।
तापप्रकाथ्यमानाभ्रगङ्गाघोष इवोद्ययौ ॥ ९८२ ॥
स्फुलिङ्गैः प्लोषवित्रस्तजन्तुजीवितसंनिभैः ।
अग्राहि गहनव्योममार्गभ्रमणसंभ्रमः ॥ ९८३ ॥
शकुनैः शावसंचारशोकादाक्रन्दिभिर्नभः ।
मानुषैर्दह्यमानैश्च भूमिर्मुखरिताभवत् ॥ ९८४ ॥
भ्रातॄन्मर्तृन्पितॄन्पुत्रानालिङ्गयाक्रन्दनिर्भराः ।
भीमीलितदृशो नार्यों निरदह्यन्त वह्निना ॥ ९८५ ॥
तदन्तरात्साहसिका ये केचिन्निरयासिषुः ।
बहिस्ते निहताः क्रूरैर्डामरैर्मृत्युचोदितैः ॥ ९८६ ॥
तावन्तो जन्तवस्तत्र व्यपद्यन्त तदा क्षणात् ।
स्विन्ना एव न ये दग्धास्तावतापि कृशानुना ॥ ९८७ ॥
अन्तःशान्तेषु सर्वेषु बहिःशान्तेषु हन्तृषु ।
क्षणादेव प्रदेशः स निःशब्दः समजायत ॥ ९८८ ॥
वहेः कहकहाशब्दो हस्वीभूतार्चिषः परम् ।
स्विद्यतश्च शवोधस्य श्रुतः सिमसिमाध्वनिः ॥ ९८९ ॥
विलीनासृग्वसामेदोनिःष्यन्दाः सरणीशतैः ।
प्रसस्रुर्विनगन्धश्च योजनानि बहून्यगात् ॥ ९९० ॥
एकः सुश्रवसः कोपाद्वितीयो दस्युविप्लवात् ।
ईदृग्घुतवहाबाधो घोरश्चक्रधरे भवत् ॥ ९९१ ॥
भूतग्रामस्य संहारः संवर्त इव वह्निना।
तादृक्त्रिपुरदाहे वा खाण्डवे तत्र वाभवत् ॥ ९९२ ॥
पुण्येहि शुक्लद्वादश्यां नमसः कुकृतं महत् ।
तद्भिक्षुः कृतवान्राज्यलक्ष्म्या भाग्यश्च तत्यजे ॥ ९९३ ॥

राजतरङ्गिणी सकुटुम्बेषु दग्धेषु तदानीं गृहमेधिषु । पुरग्रामसहस्रेषु गृहाः शून्यत्वमाययुः ॥ ९९४ ॥ मङ्घाख्यो डामरश्चिन्वञ्शवान्नौनागरोद्भवः । प्रीतिं प्राप्तस्तदीयाथैः कापालिक इवाययौ ॥ ९९५ ॥ अवरूढोथ विजयक्षेत्र भिक्षाचरस्ततः । लब्ध्वा नागेश्वरं पापं यातनाभिरमीमरत् ।। ९९६ ॥ गह पैतामहे देशे किं नासीत्तस्य चेष्टितम् । पितृद्रुहः स तु वधः सर्वप्रीतिकरोभवत् ॥ ९९७ ॥ गृहिणी हर्षमित्रस्य पत्यौ त्यत्का पलायिते । पृथ्वीहरेण संप्राप्ता विजयेशाङ्गनान्तरात् ॥ ९९८ ॥ निमित्तभूतमेताहकप्रजासंहारवेशसम् । स्वं निन्दन्सुस्सलो राजा ततो योद्धं विनिर्ययौ ॥ ९९९ संवेगात्पाप्मनः शीघ्रं निरयक्लेशभुक्तये । प्राप्तो जनकराजेन वधोवन्तिपुरान्तिके ॥ १००० ॥ यत्कृते क्रियते कर्म लोकान्तरसुखान्तकम् । स मूढः सुलभापायः कायश्चित्रं न गण्यते ॥ १००१॥ कम्पनाधिपतिं सिम्बं कृत्वा डामरमण्डलम् । चकर्ष विजयक्षेत्रादन्यतोपि ततो नृपः ॥ १००२ ॥ शमालां प्रययौ पृथ्वीहरो मडवराज्यतः। विजित्य मल्लकोप्टेन त्याजितो निजमण्डलम् ॥ १००३ ॥ क्षिप्ताः केचिद्वितस्तायां केचिञ्चक्रधराङ्गने । अक्रियन्ताग्निसात्क्रष्टुमशक्या बहवः शवाः ॥ १००४ ॥ क्रमराज्येथ कल्याणवाड्यादीव्रल्हणोजयत् । आनन्दोनन्तजस्तत्र ततो द्वाराधिपोभवत् ॥ १००५॥ १ वैशसे इत्युचितम् ।

अष्टमस्तरङ्गः। ८७ शूले प्रमापितं सिंहं नयन्पृथ्वीहरो बली। सार्ध जनकसिंहाद्यैरयुध्यत्क्षिप्तिकातटे ॥ १००६ ॥ तीर्थ प्रस्थाप्यमानेषु विपन्नास्थिविहास्त्यहः । भाद्रे मास्येकमबलाक्रन्दिताक्रान्तदिक्पथम् ॥ १००७ ॥ हतवीराबलाक्रान्तमुखरे नगरान्तरे । पृथ्वीहराहवे सर्वैर्दिवसैरन्वकारि तत् ॥ १००८ ॥ युग्मम् । अथ यातो यशोराजश्यालः शूरो दिगन्तरात् । श्रीबको विधे राज्ञा खेरीकार्याधिकारभाक् ॥ १००९ ॥ अप्रियं स लवन्यानां तेपि वा तस्य नाचरन् । कालं तु गूढसौहार्दैरन्योन्यस्य न्यवीवहन् ॥ १०१० ॥ पुनराश्वयुजे राजा शमालां निर्गतस्ततः । परैर्मनीमुषग्रामे युधि भङ्गमनीयत ॥ १०११ ॥ नित्याभ्यासेन युद्धानां लब्धोत्कर्षों न्यदर्शयत् । सर्ववीराग्रणीर्भिक्षुस्तत्पूर्व तत्र विक्रमम् ॥ १०१२ ॥ तुकद्विजादयो मुख्या भिक्षुपृथ्वीहरादिभिः । आसारापातविवशा निहताः सौस्सले बले ॥ १०१३ ॥ प्रधानवीरभूयिष्ठे सैन्यद्वन्द्वे न कोप्यभूत् । स वीरश्चरतः संख्ये भिक्षोरैक्षिष्ट यो मुखम् ॥ १०१४ ॥ पृथ्वीहरस्य भिक्षोश्च संग्रामे भूरिवार्षिके । कादम्बरीपताकाख्ये द्वे अश्वे पीतपाण्डुरे ॥ १०१५॥ आस्तामत्यद्भुते याभ्यामनेकतुरगक्षये। न विपन्नं प्रहृतिभिर्नान्वभाव्यथवा क्लमः ॥ १०१६ ॥ १ क्रन्दमुखरे इति स्यात् । २ अथायातो इत्युचितम् ।

८८ राजतरङ्गिणी सैन्यानां संकटे त्राणमश्रान्तिरविकत्थनः । अभूत्क्लेशसहो वीरो नान्यो भिक्षाचरात्वचित् ॥ १०१७ ॥ योधानां सौस्सले सैन्ये विद्वेषु न कश्चन । त्राणं बभूव तेनैते बहवो बहुधा हताः ॥ १०१८ ॥ नवेषु डामरानीकाः केचिद्भङ्गेषु सैनिकाः । भिक्षाचरगजेन्द्रेण कलभा इव पालिताः ॥ १०१९ ॥ नान्यस्योत्थानशीलत्वं दृष्टं पृथ्वीहरात्तदा । स्वयं यो भैक्षवे द्वारे जजागार प्रतिक्षपम् ॥ १०२० ॥ ततः प्रभृत्यभूगोप्ता पुरः पश्चाच्च सर्वदा । विश्वेदेव इव श्राद्ध युद्ध भिक्षुर्महाभटः ॥ १०२१ ॥ आहवे साहसं कुर्वन्सर्वतः सोभ्यधान्निजान् । एवमस्खलितस्थैर्यमुपपत्तिमसंत्यजन् ॥ १०२२ ॥ न मे राज्याय यत्नोयं पर्याप्तं दुर्यशः पुनः । कृत्ये प्रसक्तं पूर्वेषां व्यवसायं व्यपोहितुम् ॥ १०२३ ॥ अनाथा इव ते नाथा विशां व्यापादनक्षणे । ज्ञात्वा नष्टं कुलं नाथवद्भयो नूनं स्पृहां दधुः॥ १०२४ ॥ इति मत्वा सोढकष्टश्चेष्टे सुदृढनिश्चयः । दूयमानोमि दायाददुःखदायी दिने दिने ॥ १०२५ ॥ नास्त्येवाप्राप्तकालस्य विपत्तिरिति जानतः । कस्य साहसवैमुख्यमुत्पद्येत यशोर्थिनः॥ १०२६ ॥ कि कार्यगतिकौटिल्यैरुक्तैस्तान्यथवा कथम् । न वदामः प्रतिज्ञाय स्वयमाईध्वनि स्थितिम् ॥ १०२७ ॥ सोत्कर्षपौरुषाद्भिक्षोरशङ्किषत डामराः । ततो दायादविच्छेदं नास्याकृषत जातुचित् ॥ १०२८ ॥ १ डामरानीकात् इति स्यात् । । E अष्टमस्तरङ्गः। ८९ । प्राग्राज्याधिगमाद्राज्ञामन्येषां राजबीजिनः । चिन्तयन्तो व्यवहृति व्युत्पद्यन्ते शनैः शनैः ॥ १०२९ ॥ पितुः पितामहस्याथ न दृष्टं तेन किंचन । अत एवाभजन्मोहं राज्यं संप्राप्तवान्पुरा ॥ १०३० ॥ तत्स भूयोपि चेदीक्षेत्कैव वार्ता विपाटने । सापेक्षं वीक्षितुं जाने न दैवेनाप्यशक्यत ॥ १०३१ ॥ जानल्लवन्यकौटिल्यं प्रमादात्स हतेहिते। प्राप्नुयां राज्यमित्याशां बद्धाहान्यत्यवाहयत् ॥ १०३२ ॥ दस्यूनां सुस्सलो राजा मेने तत्स्वहितं मतम् । जिगीषोर्नीतिविक्रान्त्योः प्रयुक्तो लिप्तरन्तरम् ॥ १०३३ ॥ युद्धे स्वान्स स्मरन्वैरं नापासीत्तेन तेभजन् । नास्मिन्विश्वासमेतस्माद्धेतो स्याभवजयः ॥ १०३४ ॥ इत्थं नानामतैः पक्षप्रतिपक्षरुपेक्षितम् । राष्ट्र निखिलमेवागात्सर्वतः शोचनीयताम् ॥ १०३५ ॥ यत्संबन्धाद्विटपिनिवर्निग्रहव्यग्रवन्य- व्याधप्रत्तानलपरिभवः कोपि नन्वन्वभावि । हा धिग्दन्ती विघटनपरः सोपि माद्यन्नमीषां लभ्यं श्रेयोविधिविधुरितैर्नान्यतो न स्वतोपि ॥१०३६ ॥ द्वैराज्ये प्रभवत्येवमकाण्डापतितैर्हिमैः । विवशं सुस्सलक्ष्माभृदजयद्भक्षवं बलम् ॥ १०३७॥ पुष्पाणनाडं भूयोपि भिक्षुपृथ्वीहरौ गतौ । अन्यैर्लवन्यैर्भूभर्तुर्नतिर्दत्तकरैः कृता ॥ १०३८ ॥ सिम्बोपि कम्पनाधीशो व्यधाद्विजितडामरः । सर्वा मडवराज्योर्वी वीरः शमितविलवाम् ॥ १०३९ ॥ । ॥

राजतरङ्गिणी
तावत्यापि विपक्षाणां शान्त्या शीतलतां गतः ।
पूर्ववैरं स्वपक्षाणां प्रादुश्चक्रे स भूपतिः ॥ १०४० ॥
जिघांसौ कथिते राजन्युल्हणेन पलायितः ।
मल्लकोष्टः सोपि कोपाद्राशा राष्ट्रात्प्रवासितः ॥ १०४१ ॥
अनन्तात्मजमानन्दं बद्धा द्वाराधिकारिणम् ।
व्यधत्त सैन्धवं प्रजिनामानं राजबीजिनम् ॥ १०४२ ॥
गतोथ विजयक्षेत्रं सिम्बेन सहितोविशत् ।
नगरं तं च विश्वस्तं बद्ध्वा कारागृहेक्षिपत् ॥ १०४३ ॥
अनुस्मृतिमहावात्याप्रेरितोमर्षपावकः ।
आचचाम क्षमावारि तस्य भ्रत्यान्दिधक्षतः ॥ १०४४ ॥
सिंहथक्कनसिंहाभ्यामनुजाभ्यां सहावधीत् ।
शूलेधिरोप्य सिम्बं स रोषावेशविलुप्तधीः ॥ १०४५ ॥
कम्पने श्रीबकं चक्रे सुर्जि प्रजेः सहोदम् ।
बङ्घा जनकसिंहं च राजस्थाने न्ययोजयत् ॥ १०४६ ॥
आप्ताश्च मत्रिणश्चासंस्तस्य वैदेशिकास्ततः ।
स्वदेशजस्तु सोभूद्यो लोहरस्थं तमन्वगात् ॥ १०४७ ॥
अथ सर्वेपि साशङ्कास्तं त्यक्त्वाशिश्रियन्रिपून् ।
शतैकीयः कश्चिदासीद्राजधान्यां नृपाश्रितः ॥ १०४८ ॥
तेनाप्रतिसमाधेयो भूयः शान्तेप्युपद्रवे ।
इत्थमुत्थापितोनर्थो न पुनर्यः शमं ययौ ॥ १०४९ ॥
एकाक्षेपेपरेपि स्युर्यत्र भृत्या विशङ्किताः ।
तत्रापराधे प्राज्ञस्य राज्ञोवज्ञैव शस्यते ॥ १०५० ॥
माघेथ मल्लकोष्टाद्यैराहूताः पुनराययुः।
ते शूरपुरमार्गेण भिक्षुपृथ्वीहरादयः ॥ १०५१ ॥

अष्टमस्तरङ्गः।
११
वितस्तापरिखाक्षिप्ता भूरगम्या द्विषामियम् ।
इति प्रायानवमठं त्यक्त्वा राजगृहं नृपः ॥ १०५२ ॥
वर्षेष्टानवते चैत्रे डामरेषु युयुत्सुषु ।
अभ्येत्य मल्लकोष्टेन प्रागेवाग्राहि संगरः ॥ १०५३ ॥
सोश्ववारैः सह रणं चकार नगरान्तरे।
नृपावरोधैः सौधानादालोकितमथाकुलैः ॥ १०५४ ।।
भिक्षुणा क्षिप्तिकातीरे स्कन्धावारो न्यबध्यत ।
...........
...
........
नृपोद्यानाद्रुमानिन्युरिन्धनाय महानसे ।
दूर्वाङ्कुरान्मन्दुराभ्यो वाहभोज्याय डामराः ॥ १०५६ ॥
पृथ्वीहरस्तु संगृह्णन्दस्यून्मडवराज्यजान् ।
चकार विजयक्षेत्रे यावत्कटकसंग्रहम् ॥ १०५७ ॥
तावत्प्रजिमुखान्मल्लकोष्टयुद्धाय भूपतिः ।
आदिश्यादावस्कन्दं वैशाखे साहसोन्मुखः ॥ १०५८ ॥
अकस्मात्पतिते तस्मिन्हतावष्टम्भविक्षताः ।
प्रययुः सेतुमुल्लङ्घय जीवश्वस्ताः कथंचन ॥ १०५९ ॥
नगरं मल्लकोष्टाजिव्यग्रे प्रजावथाविशत् ।
पृथ्वीहरानुजः सुजि निर्जित्य मनुजेश्वरः ॥ १०६० ॥
परं पारं वितस्तायाः सेतुच्छेदादनाप्नुवन् ।
अर्वाचि तीरे स गृहान्दग्ध्वागाक्षिप्तिकां ततः ॥१०६१ ॥
लवन्यैर्नगरं प्राप्त मत्वा सुस्सलभूपतिः।
आययौ विजयक्षेत्रात्सैन्यमुत्थाप्य विह्वलः ॥ १०६२ ॥
अहंपूर्विकथारातिशङ्कातैश्च निजैर्बलैः ।
पीडितस्तस्य गम्भीरासिन्धुसेतुरभज्यत ॥ १०६३ ॥

९२
राजतरङ्गिणी
स कृष्णषष्ठयां ज्यैष्ठस्य तस्यासंख्यश्चमूचयः ।
यथाग्निना चक्रधरे तथा तत्राम्भसा मृतः ॥ १०६४ ॥
भुजमुद्यम्य शमयन्सैन्यानां संभ्रमं नृपः ।
अस्तैभ्रष्टैस्तथा पृष्ठे पतितः सरिदन्तरे ॥ १०६५ ॥
अनभ्यस्ताम्बुतरणैराश्लिष्य बुडितोसकृत् ।
तरदायुधविद्धाङ्गः स निस्तीर्णः कथंचन ॥ १०६६ ॥
अनुत्तीर्ण बलं त्यक्त्वा पारे सामन्तसंकुलम् ।
सहस्रांशेन सैन्यस्य तीर्णेनानुगतो ययौ ॥ १०६७ ॥
संत्यक्तानन्तसैन्योपि सोवष्टम्भमयो ययौ ।
प्रविश्य नगरं मल्लकोष्टमुख्यात्रणेग्रहीत् ॥ १०६८ ॥
विजयस्याथ जननी सिल्लाख्या स्वामिनोज्झितम् ।
निनाय देवसरसं सैन्यं तद्विजयेश्वरात् ॥ १०६९ ॥
साथ पृथ्वीहरेणैत्य हता तत्रोपवेशने ।
टिक्कश्च दत्तो भूपालसैन्यं विद्रावितं च तत् ॥ १०७० ॥
परं व्यायामविद्याविद्विद्भुते निखिले बले ।
द्विजः कल्याणराजाख्यः समरेभिमुखो हतः ॥ १०७१ ॥
मनिडामरसामन्तसंकुलात्सौस्सलाबलात् ।
पृथ्वीहरेणागृह्यन्त बद्धा वृन्दानि शस्त्रिणाम् ॥ १०७२ ॥
अन्वगात्स वितस्तान्तं यावत्तान्विद्रुतान्बलात् ।
ओजानन्दद्विजादींश्च बद्ध्वा शूले व्यपादयत् ॥ १०७३ ॥
मत्रिणो जनकश्रीवकाद्या राजात्मजास्तथा ।
तीदि विषलाटायां शरणं प्रययुः खशान् ॥ १०७४ ॥
इत्थं पृथ्वीहरो लब्धजयः संगृह्य डामरान् ।
जिगीषुर्भिक्षुणा साकं नगरोपान्तमाययौ ॥ १०७५ ॥

अष्टमस्तरङ्गः।
भूयोपि मानुषाश्वौघसंहर्ता सर्वतस्ततः ।
रणः प्रववृते प्राग्वत्पुरे रुद्धस्य भूपतेः ॥ १०७६ ॥
निर्निरोधः पथानेन नृपावसथ इत्यभूत् ।
सैन्ये मडवराज्यानां स्वयं पृथ्वीहरोग्रणीः ॥ १०७७ ॥
तत्तत्सामन्तकुलीरैः काश्मीरकै टैः ।
समेतं डामरकुलं दुर्जयं सर्वतोभवत् ॥ १०७८ ॥
काश्मीरकाः शोभकाद्याः काकवंश्याः सहस्रशः।
प्रख्याता भैक्षवे पक्षे रत्नाद्याश्चापरेस्फुरन् ॥ १०७९ ॥
नदतः स्वबलाद्वाद्यतुमुलं शृण्वतोन्मिषत् ।
पृथ्वीहरेणागण्यन्त वाद्यभाण्डानि कौतुकात् ॥ १०८० ॥
हित्वा भूर्यथ तूर्यादि परिच्छेत्तुं स कौतुकी ।
श्वपाकदुन्दुभीभाण्डशतानि द्वादशाशकत् ॥ १०८१ ।।
तथा विनष्टसैन्योपि त्रिंशदिशैर्नृपात्मजैः ।
मितैः स्वदेशजैश्चारीन्प्रतिजग्राह सुस्सलः ॥ १०८२ ॥
राजन्याविच्छटिकुलोद्भूतावुयधन्यको ।
चम्पावल्लापुराधीशाबुदयब्रह्मजजलौ ॥ १०८३ ॥
तेजोमल्हणहंसानां धुर्यो हरिहडौकसः।
क्षत्रिकाभिञ्जिकास्थानसव्यराजादयस्तथा ॥ १०८४ ॥
विडालपुत्रा नीलाद्या भावुकान्वयसंभवाः ।
रामपालः सहजिको युवा तस्य च नन्दनः ॥ १०८५ ॥
नानावंश्याः परेप्युग्रसंग्रामव्यग्रताजुषः ।
पुरोपरोधसंनद्धानरुन्धन्सर्वतो रिपून् ॥ १०८६ ॥
तनूजनिर्विशेषेण रिल्हणेन महीभुजः।
रणाग्रेसरताग्राहि विजयाद्यैश्च सादिभिः ॥ १०८७ ॥

राजतरङ्गिणी
स्वयमुद्यमिना राज्ञा वर्मणेव निजौ भुजौ ।
सुजिप्रजी पाल्यमानावभूतां रणकर्मठौ ॥ १०८८ ॥
ताभ्यां साधारणीकुर्वत्राज्योत्पत्ति महीपतिः।
स महाव्यसने तस्मिन्सम्यगूढधुरोभवत् ॥ १०८९ ॥
तत्पक्षा भागिकशरद्भासिमुम्मुनिमुङ्गटाः ।
कलशाद्याश्च कुशला विपक्षक्षोभणेभवन् ॥ १०९० ॥
भूभर्तुष्टक्कविषये लवराजस्य नन्दनः ।
आसीत्कमलियश्चास्य संग्रामाग्रेसरः प्रभोः ॥ १०९१ ॥
प्रहारं बलिनस्तस्य चामरध्वजशोभिनः ।
प्रभिन्नस्येव नागस्य हयारोहा न सेहिरे ॥ १०९२ ॥
अनुजः सङ्गिकः पृथ्वीपालो भ्रातुः सुतोस्य च ।
पाञ्चालौ फाल्गुनस्येव पार्श्वरक्षित्वमाययुः ॥ १०९३ ॥
एतावद्भिर्भूत्यरत्ने राष्ट्रपि कुपितेजयत् ।
मूरिस्वर्णार्पणोपात्तैर्वाजिभिश्च महीपतिः ॥ १०९४ ॥
तत्र तत्राहवे सोपि बभ्रामासंभ्रमो नृपः ।
उत्सवे गृहमेधीव मण्डपे मण्डपे स्वयम् ॥ १०९५ ॥
तस्य हि व्यसनं त्रासहेतुः प्राभूदुपक्रमे ।
प्रवृद्धि प्राप्तमभवद्धैर्यादाय्यथ धीमतः ॥ १०९६ ॥
क्लैव्यवद्भयमापाते मध्यपाते न तादृशम् ।
करक्षिप्तं यथा शीतं मजने न तथा पयः ॥ १०९७ ॥
वैरिसैन्यतमो यत्र यत्र ज्योत्स्नेव निर्ययौ ।
सितासिता च भूभर्तुस्तत्र तत्रास्य वाहिनी ॥ १०९८ ॥
एकदा कृतसंकेत्तास्तुल्यमाहवमेलके ।
महासरितमुत्तीर्य डामरा नगरेपतन् ॥ १०९९ ॥

अष्टमस्तरङ्गः। असीमनगरस्थानविभककटको नृपः । परिमेयाश्ववारस्तान्विशतः स्वयमाद्रवत् ॥ ११०० ॥ नाभजड्डामरानीकस्तेन विद्रावितो धृतिम् । हेमन्तमरुता कीर्णपर्णराशिरिवेरितः ॥ ११०१ ॥ आनन्दः काककुलजो लोष्टशाह्यनलादयः । अन्ये च डामरानीके ख्याता भूभृद्भदैर्हताः ॥ ११०२ ॥ लग्नाभिघातानानीतानाज्ञः क्रूरस्य दृक्पथम् । बहूनिजघ्नुश्चण्डाला इव राजोपजीविनः ॥ ११०३ ॥ भयाद्गोपाद्रिमारूढाश्चापरे भैक्षवास्ततः । आसन्नमृत्यवोभूवन्कटकैर्वेष्टिता द्विषाम् ॥ ११०४ ॥ यो मार्गो दुर्गमः पत्रिणोपि त्रातुं ततः स तान् । तत्र व्यापारयामास भिक्षुर्मानी तुरंगमान् ॥ ११०५ ॥ कथंचित्पत्रिणा विद्धग्रीवस्तस्याग्रहीन्मुहुः । पार्थे पृथ्वीहरो रूढिं द्वित्राश्चान्ये महाभटाः ॥ ११०६ ॥ वेलादिभिरिवोद्वृत्तैः सिन्धौ तैर्द्विषतां बले। रुद्धे गोपाचलं त्यक्त्वा तेन्यानारुरुहुर्गिरीन् ॥ ११०७ ।। अथोदतिष्ठ"मेन राजानीकस्य वाहिनी । मल्लकोष्टस्य पत्यश्वक्षोभिताशेषदिक्तटा ॥ ११०८ ॥ अरिपृष्ठग्रहव्यप्रैस्तिष्ठन्स्वैर्वर्जितो बलैः । तदाज्ञाय्यखिलैरेष हतो राजेत्यसंशयम् ॥ ११०९ ॥ आपातं सुस्सलो राजा यावत्तस्या विसोढवान् । तावत्सावरजः प्रजिराजगाम रणाङ्गनम् ॥ १११० ॥ आषाढबहुलाष्टम्यां स हयारोहमेलकः । निजशस्त्रध्वनिप्रत्तसाधुवादो महानभूत् ॥ ११११ ॥ १ अथोदतिष्ठद्वामेन इति स्यात् । ।

९६ राजतरङ्गिणी । ताभ्यां स शमितो युद्धे ससूनुः ससमीरणः । दावो नभोनमस्याभ्यामिव प्रापाम्बुवृष्टिभिः ॥ १११२ ॥ संग्रामबहले काले ताहगन्यो न कोप्यभूत् । याक्स दिवसो वीर्यशौटीर्यनिकषोपलः ॥ १११३ ॥ अनीकिनी लाहरी सा विलम्बनाययाविति । तेषामुत्पाटनेच्छूनां नाभवद्धस्तमेलकः ॥ १११४ ॥ अन्योन्यस्य परिज्ञाता दिवसे तत्र संकटे । भिक्षोभूमिभृता शक्तिभूमिभर्तुश्च भिक्षुणा ॥ १११५ ॥ ततो मडवराज्यास्तान्योद्धं तत्रैव निर्दिशन् । क्षिप्तिकारोधसा युद्धमेत्य पृथ्वीहरोग्रहीत् ॥ १११६ ॥ दिगन्तरादथायातो यशोराजो महीभुजा । मण्डलेश्वरतां निन्ये रिपून्प्रति जिहीर्षणा ॥ १११७ ॥ खेरीकार्य पुरा तस्य लवन्या दृष्टविक्रमाः । रणेषु मुखमालोक्य शतशः प्रचकम्पिरे ॥ १११८ ॥ कुङ्कुमालेपनच्छन्त्रहयादिप्रतिपत्तिदः । सर्वेषामभिनन्द्यत्वं तं राजा स्वमिवानयत् ॥ १११९ ॥ दीर्घोपप्लवयाप्येन दुःस्थितः स्वास्थ्यलिप्सया। जनो बबन्ध तत्रास्था नववैद्य इवातुरः ॥ ११२० ॥ ज्यायांसं पञ्चचन्द्राख्यं शेषाणां गर्गजन्मनाम् । नृपतिर्मल्लकोष्टस्य प्रातिपक्ष्ये न्ययोजयत् ॥ ११२१ ॥ शिशुश्छुड्डाख्यया मात्रा पालितः स शनैः शनैः आश्रीयमाणोनुचरैः पित्र्यैः किंचित्प्रथां ययौ ॥ ११२२ ॥ यशोराजानुयातेन राज्ञा जन्येषु निर्जिताः। केचित्तत्पक्षमभजन्भग्नाः केचिञ्च डामराः ॥ ११२३ ॥ १ जिगीषुणा इति स्यात् । ।

अष्टमस्तरङ्गः। स भिक्षुः प्रययौ पृथ्वीहरः स्वमुपवेशनम् । मल्लकोष्टोन्मुखो राजा निर्जगामामरेश्वरम् ॥ ११२४ ॥ अत्रान्तरे मल्लकोप्टो विसृज्य निशि तस्करान् । सदाशिवान्तिके शून्यां राजधानीमदाहयत् ॥ ११२५ ॥ पृथ्वीहरेण भूयोपि योद्धमागच्छतासकृत् । प्रजिसुजिमुखा युद्धमकुर्वन्क्षिप्तिकातटे ॥ ११२६ ॥ वारं वारं लवन्यः स नगरे निर्दहन्गृहान् । प्रायः शून्यत्वमनयद्वितस्तातीरमुत्तमम् ॥ ११२७ ॥ तत्र तत्र रणान्कुर्वन्प्राणसंदेहदायिनः । आचक्रामाथ नृपतिर्लहरं बहलैबलैः॥ ११२८ ॥ सिन्धुं तरन्तो निःसेतुं दृतिभङ्गाद्ययुर्जले । मन्दिरं कन्दराजाद्यास्तदीयाः समवर्तिनः ॥ ११२९ ॥ दरद्देशं ययौ मल्लकोप्टो राज्ञा निराकृतः । सपुत्राप्यभजच्छुड्डा प्रारोहं लहरान्तरे ॥ ११३० ॥ आनिन्यिरे जय्यकेन लवन्येन नृपान्तिकम् । विषलाटान्तरात्तेथ जनकश्रीवकादयः ॥ ११३१ ॥ लहरारब्ध्यतिक्रान्तनिदाघः शरदागमे । शमालां निर्ययौ राजा यशोराजान्वितस्ततः ॥ ११३२ ॥ भग्नं पृथ्वीहरत्रासात्सैन्यं रक्षन्मनीमुषे । आजौ सज्जात्मजो डोम्बनामा राजसुतो हतः ॥ ११३३ ॥ युद्धं सुवर्णसानूरग्रामशूरपुरादिषु । कुर्वशश्वन्नृपः प्राप पर्यायेण जयाजयौ ॥ ११३४ ॥ श्रीकल्याणपुराद्भङ्गं नीते पृथ्वीहरादिभिः । श्रीबके नागवहाद्या युधि प्रापुः प्रमापणम् ॥ ११३५ ॥ । १३ राजतरङ्गिणी पौषे सुवर्णसानूरानिहन्तुं मातुरन्तिकम् । टिकं स देवसरसं व्यसृजद्गर्गवल्लभाम् ॥ ११३६ ॥ स्वेन राज्ञश्च सैन्येन सहिता सा जिताहिता। अकस्मात्तत्र टिक्केन निपत्य निहता युधि ॥ ११३७ ॥ स स्त्रीवधं व्यधात्पापी द्वितीयमपि निघृणः । विशेषः कोथवा तिर्यम्लेच्छतस्कररक्षसाम् ॥ ११३८ ॥ अबलां स्वामिनी हन्यमानां त्यक्त्वा पलायिताः । चित्रं पशूपमाः शस्त्रं स्वीचक्रुर्लाहराः पुनः ॥ ११३९ ॥ ईषत्प्रागागतं शय्यां भूय एवोल्बणं नृपः । ज्ञात्वा मडवराज्यं स प्रययौ विजयेश्वरम् ॥ ११४० ॥ मल्लराजतनूजानां निजा जिद्वैव दुर्जना । बभूव प्रभविष्णुत्वे व्यापदापातदूतिका ॥ ११४१ ॥ प्रायश्चाद्यतने काले भृत्यास्तितउवृत्तयः । दर्शयन्ति समुत्सार्य सारं दोषतुषग्रहम् ॥ ११४२ ॥ आबाल्यात्संस्तुताश्लीलवचःपरुषभाषितैः । निर्गौरवैर्यशोराजो राज्ञि तस्मिन्व्यरज्यत ॥ ११४३ ॥ स दुर्जातिर्महासैन्ययुतोवन्तिपुरस्थितः। अभजत्तत उत्थाय प्रतिपक्षसमाश्रयम् ॥ ११४४ ॥ वैरिपक्षगते तस्मिन्बलैः सर्वोत्तमैः समम् । विह्वलो विजयक्षेत्रात्पलायिष्ट महीपतिः ॥ ११४५ ॥ धिग्राज्यं यत्कृते सोपि सेहे प्राणानिरक्षिषुः । मुष्णद्भिश्चौरचण्डालप्रायैः परिभवं पथि ॥ ११४६ ॥ माघे पलाय्य नगरं प्रविष्टः स वथाभिधे । भृत्ये द्रोग्धर्यशकिष्ट स्वेषामपि तनूरुहाम् ॥ ११४७ ।।

अष्टमस्तरङ्गः। काश्मीरिके जनेशेषे निराशे नितरां ततः । अङ्कन्यस्तोत्तमाङ्गोभूत्प्रजिपक्षे क्षमापतिः ॥ ११४८ ॥ मुद्रिता रुद्रपालादिपूर्वराजात्मजप्रथा । प्रजिना विक्रमत्यागनयाद्रोहादिभिर्गुणैः ॥ ११४९ ॥ तेनैव वर्धितामुत्र देशे विशदकीर्तिना। कालदौरात्म्यलुठिता प्रतिष्ठा शस्त्रशास्त्रयोः ॥ ११५० ॥ अमन्त्रयत संगम्य यशोराजस्तु भिक्षुणा । नेच्छन्ति डामरा राज्यं तव विक्रमशङ्किताः ॥ ११५१ ॥ उत्पाद्य पुनरुत्पिझं साधिष्ठानबला वयम् । राज्यं स्वयं ग्रहीष्यामो यास्यामो वा दिगन्तरम् ॥ ११५२ ॥ इति तैर्मविते छुड्डां हतां श्रुत्वा दत्पुरात् । आगत्य मल्लकोष्टोपि प्राविशत्स्वोपवेशनम् ॥ ११५३ ॥ वर्षोथ दुस्तरः ख्यात एकानशतसंख्यया । सर्वभूतान्तकृल्लोके प्रावर्तत सुदारुणः ॥ ११५४ ॥ वसन्ते डामराः सर्वे प्राग्वन्मार्गेनिजैनिजैः आगत्य भूयो भूपालं नगरस्थमवेष्टयन् ॥ ११५५ ॥ धीरः सुस्सलदेवोपि पुनरासीद्दिवानिशम् । निःसीमसमरस्तोमारम्भसंरम्भभाजनम् ॥ ११५६ ॥ दाहलुण्ठनसंग्रामकर्मशौण्डैः स डामरैः। प्राग्विप्लवेभ्योप्यधिको विप्लवः पर्यवर्धत ॥ ११५७ ॥ महासरित्पथे निर्निरोधे तस्थुर्विविक्षवः । नगरं ते यशोराजभिक्षुपृथ्वीहरादयः ॥ ११५८ ॥ ततः कतिषुचिद्युद्धाहेषु यातेषु संगरे। निजेनैव यशोराजः परकीयभ्रमाद्धतः ॥ ११५९ ॥ MaterinaiATHMANOHAN राजतरङ्गिणी कय्यात्मजेन हि समं विजयाख्येन सादिना । सौस्सले न तु संग्रामे परावृत्तीः प्रदर्शयन् ॥ ११६० ॥ विप्रलब्धैः स वर्णाश्वकवचावेक्षणानिजैः । शूलायुधिभिरुद्दामैः शूलाघातैरहन्यत ॥ ११६१ ॥ भिक्षो राज्यं समर्थोयं दातुं हर्तुं ततश्च नः । भीत्या तैर्डामरैरेव स घातित इति श्रुतिः ॥ ११६२ ॥ यथैव तेन विश्वस्तः स्वामी द्रोहेण वञ्चितः । तथैव प्राप विश्वस्तः क्षिप्रमेव वधं मृधे ॥ ११६३ ॥ पृथ्वीहरस्तत्र तत्र योधयित्वाथ डामरान् । क्षिप्तिकारोधसा भूयोभ्येत्य संग्राममग्रहीत् ॥ ११६४ ॥ तत्राधिष्ठानयोधानां भिक्षुपक्षोपजीविनाम् । पौरुषं स्वपरोत्कर्षपरिभावि व्यभाव्यत ॥ ११६५ ॥ वह्निदानमहायोधसंहाराद्यैरुपद्रवैः एकमेकमहस्तत्रानेहस्यासीद्भयावहम् ॥ ११६६ ॥ अतपत्तरणिस्तीक्षणमभीक्ष्णं भूरकम्पत । वर्द्धमादीन्भञ्जन्तो महोत्पातप्रभञ्जनाः ॥ ११६७ ॥ पवनोत्थापितैः पांसुकूटैर्दभ्रे महोद्धतैः। व्योम्नि प्रोत्तम्भनस्तम्भभङ्गिनिर्घातदारिते ॥ ११६८ ॥ ज्येष्ठस्य शुक्लैकादश्यां प्रवृत्तेथ महारणे । काष्टीले डामरा वह्निमेकस्मिन्प्रददुर्गृहे ॥ ११६९ ॥ सोग्निर्वा मारुतोद्भूतः प्रसरन्वैद्युतोथ वा। जज्वालैकपदे कृत्स्नं नगरं निरवग्रहः ॥ ११७० ॥ दृष्टस्तदानीमेतावद्गजव्यूह इवापतत् । माक्षिकस्वामिनो धूमो बृहत्सेतौ यदुत्थितः ॥ ११७१ ॥ - MANE अष्टमस्तरङ्गः। १०१ । अथेन्द्रदेवीभवनविहारं सहसागमत् । ततो नगरमुज्वालं क्षणात्सर्वमदृश्यत ॥ ११७२ ॥ न भूमिर्न दिशो न द्यौ॰मध्वान्ते व्यभाव्यत । हुडुकामुखचर्माभो दृश्यादृश्योभवद्रविः ॥ ११७३ ॥ धूमान्धकारसंछन्नास्ततः प्रज्वलताग्निना। अपुनर्दर्शनायेव मुहुराविष्कृता गृहाः ॥ ११७४ ॥ वितस्तादृश्यतोज्वालवेश्माश्लिष्टतटद्वया । रक्तातोभयधारेव कृतान्तस्यासिवल्लरी ॥ ११७५ ॥ ब्रह्माण्डोलकवाटान्तसंस्पर्शात्पतितोन्नतः । ज्वालाकलापैः संवृद्धैहेमच्छन्नवनायितम् ॥ ११७६ ॥ उच्चावचैर्युतो ज्वालाश्ट हेमाद्रिसंनिभः । वह्निघूमच्छलान्मूर्ध्नि बाराम्बुधरावलिम् ॥ ११७७ ॥ आविर्भवन्तो ज्वालाभ्यो गृहाश्चक्रुर्मुहुर्मुहुः । अदग्धायत इत्याशां विमुग्धगृहमेधिनाम् ॥ ११७८ ॥ ज्वलितैस्तापितजला वितस्ता पतितैहै।। और्वोप्मवेदनाक्लेशं विवेद सरितां प्रभोः ॥ ११७९ ॥ दीप्तपक्षैः खगैः साकं ज्वलिता बालपल्लवाः। उद्यान[मषण्डानां व्योमोड्डयनमादधुः ॥ ११८० ॥ सुधासिताः सुरगृहा ज्वालासंवलिता व्यधुः । क्षयसंध्याम्बुदाश्लिष्टहिमाद्रिशिखरभ्रमम् ॥ ११८१ ॥ मञ्जनावासनौसेतुकदम्वैः प्लोषशङ्कया । अपास्तैनगरस्यान्तर्ययुद्योपि शून्यताम् ॥ ११८२ ।। किमन्यन्मठदेवौकोगृहाट्टादिविवर्जितम् । नगरं क्षणमात्रेण दग्धारण्यमजायत ॥ ११८३ ॥ ।

राजतरङ्गिणी
लोष्टावशेषे नगरे धूमश्यामो निरास्पदः ।
उच्चैरेको बृहद्बुद्धो दृष्टो दग्धगुमोपमः ॥ ११८४ ॥
सैन्येषु ज्वलितावासत्राणाय चलितेष्वथ ।
शतमात्रेण योधानां युतो भूभृदजायत ॥ ११८५ ॥
पारं गन्तुं वितस्तायाश्छिन्नसेतुं तमक्षमम् ।
लब्धरन्ध्रा द्विषोनन्ता निहन्तुं पर्यवारयन् ॥ ११८६ ॥
पुरं दग्धं समुत्पन्नं प्रजा नष्टाश्च चिन्तयन् ।
आसन्नं मरणं राजा निर्विण्णो बह्वमन्यत ॥ ११८७ ॥
प्रस्थास्नुमथ तं प्रत्यङ्मुखमाशङ्कय विद्रुतम् ।
संक्षितोन्यैः कमलियः क्व देवेत्यब्रवीद्वचः ॥ ११८८ ॥
संरम्भस्मितविद्योतिचन्दनोल्लेखमाननम् ।
परिवर्त्य निरुद्धाश्वो धीरः स तमभाषत ॥ ११८९ ॥
तय करवै भूमेः कृते हम्मीरसंगरे ।
चकार राजा भिजो यत्सोभिमानी पितामहः ॥ ११९० ॥
कुतस्त्योप्येष दायादो यद्भातास्माकमस्मि वा ।
स हर्षदेवोपश्यन्त्रः कार्यशेषं पलायितः ॥ ११९१ ॥
को नाम मानिनां पतौ प्रविष्टोऽन्ते निजां भुवम् ।
असिक्तां स्वाङ्गरक्तां."व्याघ्रः कृत्तिमिवोज्झति ॥ ११९२ ॥
इत्युक्त्वोदश्चयन्वल्गामुत्क्षिप्ताग्रमुखं हयम् ।
संप्रष्टुमिच्छुः पाणिभ्यां कृपाणमुदनामयत् ॥ ११९३ ॥
ततो निर्गुह्य वल्गायां वाजिनं लवराजजः ।
ऊचे भृत्येषु सत्स्वने प्रवेशार्हा न भूभुजः ॥ ११९४ ॥
प्रहारविक्लवस्तिष्ठन्गृहादेकोभ्युपाययौ ।
संकटे तत्र भूभर्तुः पृथ्वीपालोऽन्तिकं परम् ॥ ११९५ ॥

अष्टमस्तरङ्गः। १०३ कौलपुत्र्यं स्तुवंस्तस्य वात्सल्यादेष भूपतिः । स्वस्यात्तनिष्क्रियां मेने सेवाविष्कृत्युपक्रियाम् ॥ ११९६ ॥ अथ स्थितास्त्रिभि→है रहितास्तेकिरशरान् । हन्तुं वामेन ते योधाः सर्वे वाहनदुर्मदाः ॥ ११९७ ॥ स प्रेरयंश्च तुरगं दैवात्तस्य च तादृशः। सहस्राण्यपि भूरीणि व्यधीयन्त विरोधिनाम् ॥ ११९८ ॥ अल्पसैन्यो द्विषत्खड्गमण्डलप्रतिबिम्बितः । नृपः साहायकायातविश्वरूप इवाबौ ॥ ११९९ ॥ कलविङ्कानिव श्येनः कुरङ्गानिव केसरी। एको व्यद्रावयद्भूरीनरीन्सुस्सलभूपतिः ॥ १२०० ॥ निपत्य पत्तीत्रुन्धानान्खुराग्राण्याप वाजिनाम् । प्राहरस्ते हयारोहा व्यूहव्याहतरंहसः ॥ १२०१ ॥ बिम्बितज्वलनज्वालाः सर्व एव महाभटाः । हन्तव्याश्च हताश्चासन्नस्रस्रोतोरुणा इव ॥ १२०२ ॥ स द्विषां कदनं कृत्वा दिनस्यान्ते न्यवर्तत । बाष्पायमाणस्तोकाशं हव्याशेनोज्झितं पुरम् ॥ १२०३ ॥ तादृशेप्यजिते तस्मिञ्जयाशागौरवं द्विषः । स चौझीद्रमणीयस्य विनाशाजीवितादरम् ॥ १२०४ ॥ जाग्रत्स्वपंश्चलंस्तिष्ठन्नानश्नन्नथ सोरिभिः । निर्गच्छन्नित्यमाहूतो न कैरुद्वाष्पमीक्षितः ॥ १२०५ ॥ वह्निनिर्दग्धसर्वान्नसंभारे मण्डलेखिले दुःसहः सहसैवाथ घोरो दुर्भिक्ष आययौ ॥ १२०६ ॥ दीर्घविप्लवसंक्षीणसंचया डामरैर्बहिः । उत्तब्धोत्पत्तयो रुद्धसंचारा दग्धमन्दिराः ॥ १२०७ ॥ -

राजतरङ्गिणी
अनानुवन्तो विधुरे राज्ञि राजकुलाद्धनम् ।
दुर्भिक्षे तत्र सामन्ता अपि क्षिप्रं प्रपेदिरे ॥ १२०८ ॥
वह्निनिष्ठ्यूतशेषाणि वेश्मान्यन्नाभिलाषिभिः ।
बुभुक्षातॆ नैर्दत्तो ददाहाग्निर्दिने दिने ॥ १२०९ ॥
सरितां सेतवो वारिसंसेकोच्छूनविग्रहैः ।
दुर्गन्धाः कुणपै रुद्धघ्राणैस्तीर्णास्तदा जनैः ॥ १२१० ॥
निर्मासनरकङ्कालकपालशकलाकुला ।
उवाह सर्वतः श्वेता क्षितिः कापालिकब्रतम् ॥ १२११ ॥
कृच्छ्रसंचारिणोकांशुश्यामक्षामोच्चविग्रहाः ।
व्यभाव्यन्त बुभुक्षार्ता दग्धस्थाणुनिभा जनाः ॥ १२१२ ॥
अथ प्रबन्धयुद्धेन दिनैः कापीषुणा क्षतः ।
पृथ्वीहरो मृत इति श्रुतिर्मिथ्यैव पप्रथे ॥ १२१३ ॥
गाढप्रहारविवशे तस्मिन्प्रच्छादिते जनः ।
तां वार्ता श्रुतवानाजा ननन्दायुद्ध चोद्धतम् ॥ १२१४ ॥
धीरेव पुंश्चली व्याजौत्सुक्यसंदर्शनेन तम् ।
जयश्रीलॊभयन्त्यासीन्न तु भेजे समुत्सुकम् ॥ १२१५ ॥
एकान्तवामहृदयो विधिरानुकूल्यं
मिथ्या प्रदर्श्य विशिनष्ट्यनुवन्धि दुःखम् ।
अन्धीकरोति भृशमभ्रमगं ज्वलन्तं
भास्वन्महौषधिभिदे प्रकटय्य वज्रम् ॥ १२१६ ॥
दीर्घदुःखानुभूत्यन्ते यदीयागमनोत्सवम् ।
तपःफलमिव श्माभृत्काङ्कनासीन्मनोरथैः ॥ १२१७ ॥
वात्सल्येनान्वितं प्रेम गौरवेण प्रियं वचः ।
औचित्येन च दाक्षिण्यं सापत्यमिव या दधे ॥ १२१८ ॥

अष्टमस्तरङ्गः।
१०५
तस्योपकरणीभूतविभूतिहिणी प्रिया ।
तस्सिन्काले महादेवी विपेदे मेघमञ्जरी ॥ १२१९ ॥
विनोदशून्यनिर्विण्णलोकयात्रं जगद्विदन् ।
प्राणै राज्येन वा कृत्यं न स किंचिन्निरैक्षत ॥ १२२० ।
सा भर्तुर्व्यसनोदन्तैः कृशा काश्मीरसंमुखी।
औत्सुक्याहत्तयात्रासीच्छान्ता फुल्लपुरान्तिके ॥ १२२१ ॥
पूर्व तद्दर्शनाशाया दुर्वार्तायास्ततोतिथिः ।
भवन्नतोधिकं राजा दुःखावेगेन पस्पृशे ॥ १२२२ ॥
राशीमशातपारुष्यतयादूषितभक्तयः ।
अनुसस्रुश्चतस्रस्ताः परिवारवरस्त्रियः ॥ १२२३ ॥
अप्रत्यक्षे क्षयेप्यस्या भक्त्युद्भिक्तत्वमत्यजन् ।
तेजो नामाभवत्सूदो वन्द्यो भृत्यान्तरेधिकम् ॥ १२२४ ॥
स ासंनिहितोन्यस्मिन्नहृयायातो निजं शिरः ।
तञ्चितोपान्तरूढेन भङ्क्त्वा प्राव्णाविशन्नदीम् ॥ १२२५ ॥
आहवाह्वानसंरम्भैः शोकविस्मृतिकारिणः ।
राज्ञो द्विषः कार्यवशादुपकारित्वमाययुः ॥ १२२६ ॥
स राज्यमथ निक्षेप्तुकामो निर्विण्णमानसः।
व्युत्क्रान्तशैशवं पुत्रमानिन्ये लोहराचलात् ॥ १२२७ ॥
मण्डलेश्वरतां प्रजेतृव्यं भागिकाभिधम् ।
नीत्वा च गुप्तिमकरोल्लोहरे कोषदेशयोः ॥ १२२८ ॥
वराहमूलं संप्राप्तमग्रायातः प्रियं सुतम् ।
आश्लिष्य विषयो राजा बभूवानन्दशोकयोः ॥ १२२९ ॥
राजसूनुत्रिशिर्वर्षेः प्रत्यायातः स्वमण्डलम् ।
स पश्यन्पितरं चान्तरसुस्थितमतप्यत ॥ १२३० ॥

राजतरङ्गिणी खेदनम्राननो लोष्टावशेषं सोविशत्पुरम् । अम्बुलम्बोम्बुदो दावनिर्दग्धमिव काननम् ॥ १२३१ ॥ राज्येभ्यषिञ्चदाषाढस्यायेह्नि जनकोथ तम् । अवादीद्राज्यतत्रं च कृत्स्नमुक्त्वानुगद्गदः ॥ १२३२ ॥ श्रान्ताः पितृपितृव्यास्ते न यां वोढुमशक्नुवन् । धुरमुद्रह तां वीर त्वयि भारोयमर्पितः ॥ १२३३ ॥ साम्राज्यप्रक्रियामात्रपात्रं पुत्रं नृपो व्यधात् । न त्वार्पिपद्धीकारं तस्मिन्दैवविमोहितः॥ १२३४ ॥ अभिषेकविधावेव राजसूनोः शमं ययुः। पुरोपरोधावग्राहव्याधिचौराद्युपद्रवाः ॥ १२३५ ॥ संपन्नसस्या च तथा देवी संववृते मही । दुर्भिक्षं श्रावणे मासि यथावत्प्रशमं ययौ ॥ १२३६ ॥ अनान्तरे सिंहदेवो रणे कुर्वन्नरिक्षयम् । कर्णेजपैर्जनयितुर्दोग्धायमिति सूचितः ॥ १२३७ ॥ कोपादविमृषंस्तत्त्वं स बन्धुं तं व्यसर्जयत् । कय्यात्मजं राजसूनुस्तत्तु प्रागेव बुद्धवान् ॥ १२३८ ॥ कोपस्मितोत्कटस्याग्रे स तस्याप्रतिभोभवत् । निनाय रक्षामात्रेण पार्थिवाज्ञाममोघताम् ॥ १२३९ ॥ अभुक्तवान्मनस्तापात्प्रत्ययोत्पत्तये पितुः । साकं तेन सुतोन्येधुर्गन्तुं प्रावर्ततान्तिकम् ॥ १२४० ॥ आक्षेप्तुं शङ्कितोशक्य इति मत्वा स मत्रिभिः । मार्गाध्यवर्तयत तं पिता मिथ्या प्रसादयन् ॥ १२४१ ॥ अन्तस्तु निश्चिकायेति प्रविश्यातर्कितागमः । बद्धैनं स्थापयिष्यामि कारायामिति सोनिशम् ॥ १२४२॥ । । । S ल

अष्टमस्तरका
१०७
धिग्राज्यं यत्कृते पुत्राः पितरश्चेतरेतरम् ।
शङ्कमाना न कुत्रापि सुखं रात्रिषु शेरते ॥ १२४३ ॥
पुत्रपत्नीसुहृद्भुत्या येषां शङ्कानिकेतनम् ।
विस्रम्भभूर्भूपतीनां कस्तेषामिति वेत्ति कः ॥ १२४४ ॥
साह्याभिधानप्रख्यातकुग्रामोपान्तवासिनः।
खलपालस्य तनयः स्थानकाख्यस्य कस्यचित् ॥ १२४५ ॥
शैशवे पाशुपाल्येन वर्धितो डामरोद्भवैः ।
गृहीतशस्त्रं तन्नित्यं क्रमाट्टिकस्य लब्धवान् ॥ १२४६ ॥
प्रथमाब्दात्मभृत्यात्तदूत्यो भूभर्तुराप्तताम् ।
प्रययावुत्पलो नाम वैरिविच्छेदमिच्छतः ॥ १२४७ ॥
स हि भिक्षाचरं टिकमथ व्यापादयेत्यमुम् ।
जगादाङ्गीकृतैश्वर्यदानष्टिकोपवेशने ॥ १२४८ ॥
कृतप्रतिश्रवं तस्मिन्नर्थे तं च महर्द्धिभिः।
दानैरुपाचरगञ्जपतिनाम्नाप्ययोजयत् ॥ १२४९ ॥
भोगलोभप्रभुद्रोहचिन्तादोलायमानधीः ।
स कार्य परिहार्य वा न कृत्यं निश्चिकाय तत् ॥ १२५० ॥
प्रासोष्टापत्यमत्रान्तस्तद्वधूः कार्यतो नृपः ।
ततश्च प्राहिणोत्तस्यै पितेव प्रसवोचितम् ॥ १२५१ ॥
सा तस्यात्युपचारस्य कारणं परिशङ्किता।
पतिं पप्रच्छ निर्बन्धात्सोपि तस्यै व्यवर्णयत् ॥ १२५२ ॥
न कार्यः स्वामिनो द्रोहः कृते वास्सिन्स सुस्सलः।
त्वामेव शनकैर्हन्याद्रोग्धायमिति चिन्तयन् ॥ १२५३ ॥
वरं स एव विश्वास्य व्यापाद्यस्तत्र चेधः ।
भवेत्ते स्वामिपुत्रादिकुटुम्बं स्याद्विभूतिभाक् ॥ १२५४ ॥

राजतरङ्गिणी । भार्ययेति प्रेर्यमाणः स निश्चयविपर्यये । टिकं विहितवृत्तान्तं कृत्वा बद्धोद्यमः कृतः ॥ १२५५ ॥ गतागतानि कुर्वाणे दुर्घक्षावथ पार्थिवः । स पुत्र इव विश्वासं ययौ दैवविमोहितः ॥ १२५६ ॥ विपर्यस्ता मतिः पुत्रे विश्वासो वैरिसंश्रिते । जायते क्षीणभाग्यानां को नाम न विपर्ययः ॥ १२५७ ॥ वैधेयैः स्वार्थलोशान्धैर्यद्वानर्थसमागमः । सरघोपद्रवः क्षौद्रलुब्धैरिव न चिन्त्यते ॥ १२५८ ॥ तं पीडितं प्रजिना च राज्ञा चावनतिं ततः। उत्पलोकारयट्टिकं नीवी चादापयत्सुतम् ॥ १२५९ ॥ राजाथ देवसरसं जितं संत्यज्य कार्तिके। वाष्ट्रकाख्यमगादाम खेरीविषयवर्तिनम् ॥ १२६० ॥ स कल्याणपुराभ्यणे रणैस्तैस्तैर्विलक्षताम् । भिक्षुकोष्टेश्वरमुखानपि निन्ये महाभटान् ॥ १२६१ ॥ मध्याद्भिक्षाचरादीनां सुजि काककुलोद्भवम् । जीवग्राहं महावीरं युधि जग्राह शोभकम् ॥ १२६२ ॥ भवकीयस्य कृत्वादौ विजयस्य पराभवम् । भूभुजा तगृहा दग्धाः कल्याणपुरवर्तिनः ॥ १२६३ ॥ दग्धे वडौसके भिक्षाचरो नष्टाश्रयो व्यधात् । त्यक्त्वा तां मां शमालायां ग्रामे काकरहे स्थितिम्॥१२६४ अनुजो अवकीयस्य विजयस्य भयानृपम् । संश्रितस्तेन तूप्रेण बद्धा कारागृहेर्पितः ॥ १२६५ ॥ भूरिसैन्यानुगं शूरपुरे विन्यस्य रिल्हणम् । आस्कन्दाशङ्किनी राजा चक्रे राजपुरीमपि ॥ १२६६ ॥ १ सुज्जिः इत्युचितम् ।

अष्टमस्तरङ्गः।
इत्थमुद्दण्डया वृत्त्या खण्डितोचण्डडामरः।
स्तोकावशेषं सोपश्यत्कर्तव्यमरिनिर्जयम् ॥ १२६७ ॥
भिक्षाचरो लवन्याश्च शक्तिक्षयमुपागताः।
विदेशगमनं भीता रिपौ बलिनि मेनिरे ॥ १२६८ ॥
किमप्यभाग्यावतारैर्भिक्षुपक्षजुषां यतः।
जीवतामप्यनुल्लासानिर्जीवत्वमिवाययौ ॥ १२६९ ॥
स सोमपालकौटिल्यं सरन्कुर्या हिमात्यये।
श्मशानोर्वी राजपुरीमिति ध्यायन्यवर्तत ॥ १२७० ।।
शान्तप्रायस्वदेशोर्वीविप्लवस्य महीपतेः ।
तस्यार्णवान्तक्रमणप्रतीतिः समभाव्यत ॥ १२७१ ॥
शतकीयो योवशिष्टो विप्लवक्षयिते जने ।
वर्ष वर्षे स तद्राज्ये युगदीर्घ त्वमन्यत ॥ १२७२ ॥
असुखत्रासदारिद्यप्रियनाशादि वैशसैः।
स राज्यकालः सर्वस्य परितापावहो ह्यभूत् ॥ १२७३ ॥
नरः पौरुषनैष्टुर्यशठत्वन करोति किम् ।
विधातृवृत्तिवैचित्र्यपराधीनासु सिद्धिषु ॥ १२७४ ॥
पुरोभूतं कंचित्परिहरति राशि तम इव
व्यतीते कस्मिंश्चिद्धरिरिव विवृत्यास्यति दृशम् ।
समुल्लङ्घयासन्नं वचन नृपतिं दर्दुर इव
क्रमेत्स्रष्टुदृष्टः स्फुटमिति गतीनामनियमः ॥ १२७५ ॥
विश्वासनिहतान्निन्दन्नुच्चलादीन्पुरावसत् ।
नित्यं विकोशशस्त्रो यः पुराविद्भयो निशम्य च ॥१२७६ ॥
विदूरथादिवृत्तान्तं नादात्कलिक्षणे ब्रुवन् ।
स्त्रीषु संभुज्यमानासु विश्वासविशदां दृशम् ॥ १२७७ ॥

राजतरङ्गिणी स बन्धाविव निर्बन्धाद्विशश्वास यदुत्पले । तत्र संभाव्यते केन दैवादन्यो विमोहकृत् ॥ १२७८ ॥ टिक्कादयो भूमिपतेः सुजेन्यितमे हते। त्वां तुल्यकार्यकर्तारं विद्म इत्यूचुरुत्पलम् ॥ १२७९ ॥ सुजिन व्यश्वसीत्तस्मिन्स जिघांसुस्तु भूभुजम् । तत्र तत्राभवत्सजः प्रसङ्गं नासत्पुनः ॥ १२८० ॥ प्रतिश्रुतविलम्बेन समन्योरथ भूपतेः । प्रत्ययोत्पत्तये देवसरसान्नीविमात्मजम् ॥ १२८१ ॥ व्याघ्रप्रशस्तराजादीस्तीक्ष्णांश्चात्मसरान्परान् । आदाय कार्यमेतैर्मे सिध्येदित्युक्तवानृपम् ॥ १२८२ ॥ उच्चित्योच्चित्य सेनाभ्यो गृहीतैः साहसक्षमैः । शतैः समं त्रिचतुरैः पत्तीनामेकदाययौ ॥ १२८३ ॥ समयान्वेषिणो हन्तुस्तस्यासन्नस्य सर्वदा । प्रियाहारादिदानेन हन्तान्तःप्रीतिकार्यभूत् ॥ १२८४ ॥ तुरंग मन्दुराचक्रवर्त्याख्यं नगरस्थितम् । अस्वस्थमुल्लापयितुं तुरगव्यसनी नृपः ॥ १२८५ ॥ स लक्ष्मकप्रतीहारकय्यात्मजमुखाग्निजान् । पार्थाद्विसृष्टवानासीत्क्षणे तस्मिन्मितानुगः ॥ १२८६ ॥ शृङ्गारो लक्ष्मकापत्यं निशम्याप्तैर्निवेदितम् । व्यधाच्छ्रुतिपथे राशस्तदुत्पलचिकीर्षितम् ॥ १२८७ ॥ विरुद्ध बन्धुधीदृष्टहिंसारम्भेपि संभवेत् । आसन्नजीवितान्तस्य जन्तोः सूनापशोरिव ॥ १२८८ ।। स शापो गान्धार्यास्तदपि सरुषो भाषितमृषे- स्त उत्पाताश्चक्षुः स्वमपि तदभौमं प्रकटयन् । १ अन्यतरे इत्युचितम् । House

अष्टमस्तरङ्गः।
कुलान्ते तत्राणाक्षममकृत वैकुण्ठमपि त-
द्विदन्नप्यन्यत्वं क इव भवितव्यस्य कुरुताम् ॥ १२८९ ॥
मिथ्यैतदित्यधिक्षिप्य क्षितिपालः प्रदर्शयन् ।
तमङ्गुल्योत्पलादीस्तानग्रस्थानेवमब्रवीत् ॥ १२९० ॥
द्रोग्धुः सुतोभवद्योगादनिच्छन्स्वास्थ्यमेष मे।
त्वां दुष्टमुत्पलाचष्टे स्वेनान्यैर्वाथ चोदितः ॥ १२९१ ॥
ते छादयन्तः स्मेरास्या धाटन भयवैकृतम् ।
वक्ति देवो यदस्माभिर्वाच्यमित्येवमूचिरे ॥ १२९२ ॥
निर्यातेष्वथ तेष्वीषत्साशङ्क इव निश्चलान् ।
द्वास्थेनाकारयवित्रानन्तिके मुख्यशस्त्रिणः ॥ १२९३ ॥
उन्मनाश्च किमप्यासीद्विनिःश्वस्य स चिन्तयन् ।
सास्त्रुश्च न रतिं लेभे नृत्तगीतादिदर्शने ॥ १२९४ ॥
मेने वैदेशिकप्रायानाप्तानपि धृतभ्रमः।
पुण्यक्षये पिपतिषुवैमानिक इवाम्बरात् ॥ १२९५ ॥
राजान्तरङ्गाः साशङ्काः प्रभौ शाव्येन मोहिते।
पूत्कारमैच्छन्दातारमन्यं केचिदचेतनाः ॥ १२९६ ॥
अयमेव स कालस्य बलात्कवलनग्रहः ।
विदन्तोपि यदायान्ति जन्तवः कृत्यमूढताम् ॥ १२९७ ॥
सर्वान्तरक्षणेष्वस्तचक्षुषो दिवसद्वयम् ।
उत्पलाद्याश्च साशङ्काः कथमप्यत्यवाहयन् ॥ १२९८॥
रहःक्षणप्रार्थिनस्तांस्तृतीयेयब्रवीनृपः ।
स्नात्वा प्रत्यूषे तद्ययं भोक्तुं यात मुहुर्ग्रहम् ॥ १२९९ ॥
देवतार्चनपर्यन्तमवसायाह्निकं विधिम् ।
आजुहावोत्पलं दूतैर्मध्याह्नेथ रहःस्थितः ॥ १३०० ॥

राजतरङ्गिणी
कार्यसिद्धिं श्रद्दधानो वैजन्याद्राजसमनः।
राशोभ्यर्ण स साशङ्कद्वास्थरुद्धानुगोविशत् ॥ १३०१ ॥
प्रावेशयद्वारि रुद्धं व्याघ्रं तदनुजं नृपः।
शेषाणामपि भृत्यानामादिदेश बहिःस्थितिम् ॥ १३०२ ॥
विलम्बमानेष्वाप्तेषु केषुचित्सरुषो वचः।
सत्यं तस्योद्ययावास्तां सोत्र द्रोग्धा य इत्यपि ॥ १३०३ ॥
ताम्बूलदायकः प्रौढवयास्तेनावशेषितः ।
सांधिविग्रहिको विद्वानाहिलाश्चान्तिके परम् ॥ १३०४ ॥
दूतौ टिक्कस्याघदेवतिष्टवैश्याभिधावुभौ ।
तत्र प्रसङ्गादासातामज्ञातोत्पलसंविदौ ॥ १३०५ ॥
वाडौत्सः सुखराजाख्यो डामरो भिक्षुसंमतः ।
प्रयास्यति प्रभोईष्टा पादौ तत्कार्यसिद्धये ॥ १३०६ ॥
इत्युक्तवांस्तेष्वहःसु तं नृपं नातिदूरगम् ।
ससैन्यं डामरं चक्रे स्वस्य त्राणार्थमुत्पलः ॥ १३०७ ॥
तथाचैनं तस्थिवांसं कृत्यमस्त्यमुनेति च ।
उक्त्वा प्रशस्तराजं तं पार्श्व प्रावेशयद्रुतम् ॥ १३०८ ॥
प्रविष्टो निर्जनं बाह्यमाकलय्य स मण्डपम् ।
अलक्ष्यमाणव्यापारो द्वारमर्गलितं व्यधात् ॥ १३०९ ॥
स्नानार्द्रकेशं शीतालुतया प्रावारवेष्टितम् ।
कृत्वा कृत्स्नं वपुः कृष्टशस्त्रीकं विष्टरोपरि ॥ १३१० ॥
आसीनं वीक्ष्य नृपति प्रसङ्गो नेदृशो भवेत् ।
विज्ञप्तिं कुरु भूभर्तुरित्यूचे व्याघ्र उत्पलम् ॥ १३११ ॥
स तया संज्ञया व्यग्रः पादप्रणतिकैतवात् ।
राज्ञोग्नमेत्य तच्छस्त्री विष्टरस्थामपाहरत् ॥ १३१२ ॥

अष्टमस्तरङ्गः। विकोशां चाकरोत्पश्यंस्तां तथोद्धान्तलोचनः । प्राह स्म हा धिति द्रोह इति यावद्वचो नृपः ॥ १३१३ ।। प्राहरत्प्रथमं तावत्सव्ये पार्वे तयैव सः। तस्य प्रशस्तराजेन मूर्धनि प्रहृतं ततः॥ १३१४ ॥ व्यानेणाथ क्षतं वक्षस्ताभ्यामेवासकृत्तदा । प्रहृतं तत्र स पुनः प्राहरन्न द्विरुत्पलः ॥ १३१५ ॥ पूर्वयैव प्रहृत्या हि च्छिन्नपार्धास्थिमालया। मेने कृष्टात्रतत्रीकं स तं प्रोषितजीवितम् ॥ १३१६ ॥ गत्वा तमोरिं पूत्कर्तुमिच्छन्व्याघ्रण राहिलः । पृष्ठे कृताहतिर्द्धित्रा नालिका नोज्झितोसुभिः ॥ १३१७ ॥ ताम्बूलदायकस्त्यक्त्वा कङ्कालाद्यजको व्रजन् । दीनो निजेभ्यः कारुण्यादुत्पलेनैव रक्षितः ॥ १३१८ ॥ अन्तःसमुत्थिते क्षोभे बाह्यमण्डपवर्तिभिः। टिक्ककाद्यैः कृता लुण्ठिोहगृह्येरुदायुधैः ॥ १३१९ ॥ उत्पलो निहतो राज्ञेत्यवेत्य कटकस्थितैः । बहिःस्थान्हन्यमानान्स्वान्समाश्वासयितुं ततः ॥ १३२० ॥ रक्ताशस्त्रं संदर्य तमोरेर्वपुरुत्पलः। ऊचे मया हतो राजा न त्याज्यातश्चमूरिति ॥ १३२१ ॥ तच्छ्रुत्वा दुःश्रवं राजभृत्याः क्वापि भयाद्ययुः । द्रोहानुगास्त्वङ्गनान्तर्लब्धोल्लासा व्यधुः स्थितिम् ॥१३२२॥ निर्यान्तो मण्डपात्तीक्ष्णा निजघ्नुर्नागकाभिधम् । द्वारात्प्रविष्टं निष्कृष्टकृपाणीकं नृपानुगम् ॥ १३२३ ॥ भूपालशक्यापालस्य त्रैलोक्याख्यस्य सेवकः निन्दन्द्रोहं टिक्ककाद्यैर्दास्थश्चैको व्यपादितः ॥ १३२४ ॥ १ करकाद्यज्जको इति स्यात् । १५ जितराङ्गणा उत्कृष्टं नष्टसत्त्वानां मध्ये राजानुजीविनाम् । सखेटकासिं धावन्तं भावुकान्वयभूषणम् ॥ १३२५ ॥ दृष्ट्वा सहजपालाख्यं पार्श्वद्वारेण निर्ययुः। तीक्ष्णाः स त्वपतद्भूमौ तमृत्यप्रहृतिक्षतः ॥ १३२६ ॥ जाते कुकीर्तिकालुष्यपात्रे राजात्मजबजे । वैलक्ष्यक्षालनं सिद्धं तस्य स्वक्षतजैः परम् ॥ १३२७ ॥ हेतदैशिकसंवादिदेहो राजात्मजभ्रमात् । विद्वान्द्विजन्मा नोनाख्यस्तीक्ष्णपक्षैः पुरो गतः ॥ १३२८॥ अक्षतान्नजतो वीक्ष्य तीक्ष्णान्यामान्तरोन्मुखान् । चित्रार्पिता इव क्रोधानाधावन्केपि शस्त्रिणः ॥ १३२९ ॥ राजवंश्या महीपालप्रीतिपात्रपथा ययुः। स्थगयन्तोङ्गनं स्थूलकाया जनविवर्जितम् ॥ १३३० ॥ तांस्तान्कापुरुषान्हर्षदेवोदन्तात्प्रभृत्यलम् । स्मृत्वा च कीर्तयित्वा च कृतभारग्रहा इव ॥ १३३१ ॥ जातदुष्कृतसंस्पर्शाः खेदात्कर्तुं न शक्नुमः । पापात्पापीयसां येषां नामग्रहणसाहसम् ॥ १३३२ ॥ अङ्गनान्मण्डपारूढिं मन्वानाः पौरुषं महत् । पापिनः केपि तन्मुख्या ददृशुः स्वामिनं हतम् ॥१३३३॥ अधरेणास्रसंस्कारलेशावेशप्रकम्पिना । वदन्तं दन्तदृष्टेन स्वान्तस्यान्तेनुतप्तताम् ॥ १३३४ ॥ वञ्चितः कथमेषोहमिति नामेति चिन्तया । निःस्पन्दे जीवितान्तेपि तथैव दधतं दृशौ ॥ १३३५ ॥ श्यामायमानं बाष्पेण वणवरुदञ्चता । अन्तःप्रशान्तामग्निशेषधूमलतात्विषा ॥ १३३६ ॥ १ हतो इति स्यात् । Please SEASE । :

अष्टमस्तरङ्गः । । आननस्यास्फुटीभूतचन्दनोल्लेखकुङ्कुमम् । सक्तया लिखितस्येव धनक्षतजलाक्षया ॥ १३३७॥ आश्यानास्रजटीभूतकेशं नग्नं भुवि च्युतम् । पर्यस्तपाणिचरणं स्कन्धाग्रालम्बिकंधरम् ॥ १३३८ ॥ कुलकम् ॥ तं वीक्ष्य नोचितं किंचिदाचेरुस्ते नराधमाः। वैजन्यस्य फलं भुङ्केत्यावेगादधिचिक्षिपुः ॥ १३३९ ॥ बद्धा तुरङ्गे युग्ये वा न तैर्नीतश्चिताग्निसात् ॥ कर्तुं न वा पारितः स प्राणत्राणाय धावितैः ॥ १३४० ।। आस्तां विलम्बसाध्यं वा कमैतद्भाष्ट्रदारुसात् । सन्जाग्नि चाग्निसाद्गहमपि कश्चिच्च नाकरोत् ॥ १३४१ ॥ राजवाजिनमेकैकं तेध्यारुह्य पलायिताः । निर्लुण्ठितस्तु कटको ब्रजन्यामेषु डामरैः ॥ १३४२ ॥ न पुत्रः पितरं पुत्रं पिता वा प्रत्यपालयत् । मृतं हतं लुण्ठितं वा प्रचलन्सहिमेध्वनि ॥ १३४३ ॥ न कोपि शस्त्रभृत्सोभूत्स्मृत्वा मानोन्नति पथि । परैराक्षिप्यमाणो यः शस्त्रं वस्त्रं च नात्यजत् ॥ १३४४ ॥ लवराजयशोराजद्विजो व्यायामवेदिनौ । कान्दश्च राजा निहता वीरवृत्त्या त्रयः परम् ॥ १३४५ ॥ अदूरादुत्पलाद्यास्तु कटकं वीक्ष्य विद्रुतम् । प्रविष्टावाष्टुवं छित्त्वा शिरो निन्युर्महीपतेः ॥ १३४६ ॥ गतेषु देवसरसं तेषु छिन्नशिरा नृपः । हतश्चौर इव प्राप ग्राम्याणां प्रेक्षणीयताम् ॥ १३४७ ॥ एवं द्रोहैस्तृतीयाब्दामावास्यायां स फाल्गुने । पञ्चपञ्चाशतं वर्षानायुषोतीतवान्हतः ॥ १३४८ ॥ S

राजतरङ्गिणी
मदर्शने यदासीत्ते तन्मे पुर इवाधुना ॥ १३५७ ॥
विलासशयनस्थस्य सिंहदेवस्य सा श्रुतौ ।
प्रेमाख्येनत्य दुर्वार्ता धात्रीयेण व्यधीयत ॥ १३४९ ॥
संभाव्यते योनुभावः सशस्त्रस्याप्रियश्रुतौ ।
हृतशस्त्रोपि तं प्राप स तदा पितृवत्सलः ॥ १३५० ॥
मोहलुप्तस्मृतिः स्मृत्वा चिरादुद्गतचेतनः ।
तत्तद्दुःखाहतधृतिर्विललाप स्फुटास्फुटम् ॥ १३५१ ॥
मदर्थ कुर्वता राज्यं प्रयत्नादपकण्टकम् ।
अधमे कि महाराज त्वयात्मा परिभावितः ॥ १३५२ ॥
अहेतेः पश्यतः शत्रूनन्ते वैरविशुद्धये ।
अपि ते मानिनोगच्छंस्तात संभावनाभुवम् ॥ १३५३ ॥
त्वया निषेधिते वैरे पिता भ्राता च ते दिविं।
निर्मन्युः संप्रति त्वं तु वर्तसे मन्युदुःस्थितः ॥ १३५४ ॥
अनरण्यकृपद्रोणजामदग्न्यादिषु स्पृहाम् ।
कुल्यक्षालितवैरेषु मा कार्षीः कांचन क्षणम् ॥ १३५५ ॥
शोच्यस्त्वदाश्रयो मन्युरहं शोधयिता नृप ।
दूये न तत्र यातं यत्रैलोक्यमभियोज्यताम् ॥ १३५६ ॥
वात्सल्योत्पुलकस्मेरं स्निग्धोक्तिमधुरं मुखम् ।
इति चान्यच्च विलपन्गाम्भीर्यालक्ष्यवैकृतः।
ह्रीशोकभयमूकान्स दर्शाप्तान्पितुः पुरः ॥ १३५८ ॥
अशिक्षयत यन्मन्युर्दाक्षिण्यं निरुरोध तत् ।
तथाप्येवं स तानूचे किंचिदाक्षेपकर्कशम् ॥ १३५९ ॥
कोशैः सद्वंशतां वीक्ष्य कुरुतः सत्क्रियां गताः ।
धिग्भवन्तश्च शस्त्रं च तातस्यान्ते विपर्ययम् ॥ १३६० ॥

अष्टमस्तरङ्गः।
११७
यन्मपितृव्ये निहते कृतमुच्छिष्टजीविभिः ।
मान्यानां भवतां सिद्धं हा धिक्तदपि नाधुना ॥ १३६१ ॥
इत्युपालम्भमानस्तान्त्रैिरन्तिकमागतः।
स्वकैरमात्यैः कर्तव्यश्रुतयेवहितः कृतः॥ १३६२ ॥
प्रस्थानं लोहरे केचिदूचुः संत्यज्य मण्डलम् ।
त्वरांच तत्र राज्यन्ते वदन्तो भैक्षवं भयम् ॥ १३६३ ॥
गर्गात्मजं पञ्चचन्द्रमालम्ब्य लहरस्थितम् ।
द्वैराज्याचरणायान्ये धीरप्राया बभाषिरे ॥ १३६४ ॥
नहि स्वगृहवद्भिक्षोर्विविक्षोर्नगरान्तरम् ।
अज्ञायि प्रत्यवस्थानं केनाप्यसति सुस्सले ॥ १३६५ ॥
आत्मन्यसंभावनया तादृशां मत्रिणां नृपः ।
सान्तःखेदं श्वो विधेयं द्रक्ष्यथेत्यब्रवीद्वचः ॥ १३६६ ॥
कालापेक्षापरित्यक्तपितृव्यापत्तिदुःस्थितः।
स कोशादिष्वथादिक्षदक्षिणस्त्राणदीक्षितान् ॥ १३६७ ॥
इतश्चेतश्च बम्भ्रम्यमाणैः प्रोद्यत्तस्वरम् ।
अन्योन्याख्यायिभिलोंकैः पुरं मुखरतामगात् ॥ १३६८ ॥
मत्तवेतालमालेव कालरात्र्याकुलेव च ।
बभूव सा यामवती सर्वभूतभयावहा ॥ १३६९ ॥
दीपैर्निर्वातनिष्कम्पैश्चिन्तास्पन्दैश्च मत्रिभिः ।
तिष्ठन्परिवृतो राजा त्वन्तरेवमचिन्तयत् ॥ १३७० ॥
निरे सतमस्युग्रमारते शून्यवेश्मनि ।
तातोपि निहतः शून्ये मयि जीवत्यनाथवत् ॥ १३७१ ॥
कष्टमेतादृशासह्यवैशसक्षालनावधि ।
कथं गोष्ठीषु शक्ष्यामि द्रष्टुं मानवतां मुखम् ॥ १३७२ ॥

राजतरङ्गिणी विरोधिवशवर्तिभ्यो देशेभ्यः सैन्यनायकः । स हिमैरेव दुर्लक्यैः कथमेष्यति वर्त्मभिः ॥ १३७३ ॥ इत्थं विमृषतस्तस्य तत्तत्तीवाभिषङ्गिणः । ययौ भीतिमतो भीमा कथंचित्सा निशीथिनी ॥ १३७४ प्रातश्चतुष्किका पौरसमाश्वासाय निर्गतः । नष्टं कटकमन्वेष्टुं सोश्वारूढान्व्यसर्जयत् ॥ १३७५ ॥ मार्गानसूचीसंचारैस्तुषार्विवरोज्झितान् । आश्लिष्टवसुधामेघाः कर्तुं प्रारेभिरे ततः ॥ १३७६ ॥ नामाप्यलब्ध्वा सैन्यस्य मोघसैन्येषु दूरतः । निवृत्तेषु नियुक्तेषु विमृष्य नृपतिः क्षणम् ॥ १३७७ ॥ यद्ययेनाहृतं तत्तत्परित्यक्तं मयाधुना । दत्तं चारीश्रितवतामभयं सागसामपि ॥ १३७८ ॥ इत्याज्ञां भ्रमयामास पटहोद्धोषणैः पुरे । साशी?षास्ततः पौरास्तत्रारज्यन्त सर्वतः ॥ १३७९ ॥ तिलकम् ॥ अनन्तरनृपाचारवैधम्यौंकारकल्पया। तया सोनघया वृत्त्या फलं सद्योनुभावितः ॥ १३८० ॥ शतादप्यूनसंख्यैर्यः स्थितवाननुगैः समम् । अनुरागहृतैर्लोकैस्तत्कालं पर्यवार्यत ॥ १३८१ ॥ प्रियोक्त्यावेदनं प्रीतिदायोपायः प्रभोः पुरः। भजल्लोकस्याग्र्यमत्रिपदवीं लक्ष्मकोग्रहीत् ॥ १३८२ ॥ राज्यं शय्यां नयत्येवं प्राक्षे राज्ञि नयक्रमैः याति मध्यंदिने भिक्षुर्विविक्षुः पुरमाययौ ॥ १३८३ ॥ तस्य डामरपौराश्ववारलुण्ठाकसंकुलः । अदृष्टपूर्वो ददृशे सैन्यव्यतिकरस्तदा ॥ १३८४ ॥ CARE अष्टमस्तरङ्गः। हतं श्रुत्वा रिपुं राज्योत्सुकः स नगरं वजन् । राजा काकात्मजेनेति तिलकेनाभ्यधीयत ॥ १३८५ ॥ हतः समस्तविद्वेष्यः स दैवाद्यदि सुस्सलः। कथं प्रकृतयो जघुर्गुणवन्तं तदात्मजम् ॥ १३८६ ॥ पुरप्रवेशे का राजस्तस्मादेकमहस्त्वरा । एहि पद्मपुरं यामो मार्ग रोद्धं विरोधिनाम् ॥ १३८७ ।। आगच्छन्तो नष्टसैन्याः सुजिमुख्या महाभटाः। निहता यदि वा रुद्धास्तत्र सायुधवाहनाः ॥ १३८८ ।। प्रविष्टोसि ततो न्यस्तशस्त्रो द्वित्रैर्दिनैध्रुवम् । नगरं नगरौकोभिः स्वयमभ्यर्थितागमः ॥ १३८९ ॥ युग्मम् ॥ अलमेतैर्जरन्मत्रैर्वदन्त इति चक्रिरे । स च कोष्टेश्वराद्याश्च स्मेरास्तस्यावधीरणाम् ॥ १३९० ॥ राज्यं विदद्भिः संप्राप्तांस्तांस्ताञ्शासनपट्टकान् । द्रुतमर्थयमानैश्च विलम्ब कारितो निजैः ॥ १३९१ ॥ अतो बहुहिमापातविवशाशेषसैनिकः । आसदनगरोपान्तं समयेन स तावता ॥ १३९२ ।। एतस्मिन्नन्तरे लब्धे निःसैन्यस्य ससैनिकः गर्गात्मजः पञ्चचन्द्रो नृपतेः पार्श्वमाययौ ॥ १३९३ ॥ हतस्वामिपरित्यागमन्युक्षालनकातिभिः । राजपुत्रैः समं सोथ वीरो योद्धं विनिर्ययौ ॥ १३९४ ॥ असंभावनसंग्रामान्वीक्ष्य तान्भिक्षुसैनिकाः । यावत्प्रारेभिरे योद्धं तावत्किमपि सर्वतः ॥ १३९५ ॥ १ संप्राप्तं इत्युचितम् ।

१२०
राजतरङ्गिणी
क्षणेनैव ययुर्भङ्गं तांस्तान्वीक्ष्य हतान्निजान् ।
न संस्तम्भयितुं शेकुः स्वचमूश्च पलायिनीः ॥ १३९६ ॥
सेनानाथाश्च ये मुख्या भिक्षुपृथ्वीहरादयः।
अदृष्टपूर्व संत्रासं तेप्यशस्त्रिवदाययुः ॥ १३९७ ॥
विद्रवन्तोनुयाताः स्युस्ते चेडूरं नृपानुगैः ।
तन्नमवशिष्येत क्षणादेव न किंचन ॥ १३९८ ॥
वैमुख्यं तेषु यातेषु चिरात्सांमुख्यमाययौ ।
नवभूभृत्प्रभावेण नगरे विधुरे विधिः ॥ १३९९ ॥
अन्यथा कलितो लोकैरन्यथा दैवयोगतः।
इत्थं राज्ञोईयोरासीद्विजयावजयक्रमः १४०० ॥
कंचिन्निपातयति बद्धपदं क्षणेन
कंचित्परं पिपतिषु नयति प्ररूढिम् ।
संकल्पनिर्विषयचित्रतरानुभाव
ओघोम्भसामिव तटं पुरुषं विधाता ॥ १४०१ ॥
अथ तत्तद्भयस्थानशान्तः सुजिर्दिनात्यये ।
दावव्याप्ताद्रिनिष्क्रान्तो निःसहोहिरिवाययौ ॥ १४०२ ॥
मेधाचक्रपुरग्रामस्थितः श्रुत्वा हतं नृपम् ।
स हि संमत्र्य रात्र्यन्तोंत्तस्थाववसत्परम् ॥ १४०३ ॥
रिल्हणादीन्स्थिताशूरपुरादौ सैन्यनायकान् ।
प्रतीक्षमाणस्तैः साकं निर्बाधं नगरेविशत् ॥ १४०४ ॥
तमिस्रायां प्रत्यभिज्ञाकृते तेषामनश्वरान् ।
स्वावासपृष्ठे ज्वलतो दीपानास्थापयत्ततः ॥ १४०५ ॥
बैमत्यात्ते तु पत्तीनां विद्रुतानां पृथक् पृथक् ।
निशि क्वापि परिभ्रष्टा न तत्कटकमाययुः ॥ १४०६ ॥

अष्टमस्तरङ्गः।
१२१
प्रत्यूषे प्रचलंस्तैस्तैः पृष्ठलग्नैः स डामरैः ।
न मुहूर्तमपि त्यक्तः प्रहरद्भिरितस्ततः ॥ १४०७ ॥
वृद्धस्त्रीवालभूयिष्ठान्सहप्रस्थायिनो जनान् ।
ययौ रक्षन्पुरः कृत्वा पशुपालः पशूनिव ॥ १४०८॥
पञ्चशत्या हयारोहैः सह व्यावृत्य तिष्ठता।
कंचित्क्षणं तेन रक्षा तेषां कर्तुमशक्यत ॥ १४०९ ॥
द्राक्षापण्डद्रुमन्यूहसंवाधेध्वन्यसाध्वसैः
याध्यमानोरिभिर्लोकं सोत्याक्षीत्तु पदे पदे ॥ १४१०॥
हतस्य स्वामिनः स्वामिसूनोश्च व्यसनस्थितेः ।
आनृण्यकाङ्क्षिणा तेन तत्र ह्यात्मैव रक्षितः ॥ १४११ ॥
येषां प्राणपरित्यागे निश्चयं बनतामपि ।
न योग्यकालापेक्षास्ति किं तैहिस्रपशूपमैः ॥ १४१२ ॥
हन्तुं तन्नष्टमायान्तं रुद्धवा पद्मपुरान्तिकम् ।
अण्डामराः क्रूराः खडूवीविषयौकसः ॥ १४१३ ॥
खेरीतलालशाग्रामादुत्थाय पृथुसैनिकः।
व्रजस्तेनाययौ तत्र प्रसङ्गे श्रीबकः पथा ॥ १४१४ ॥
तमनष्टानुगं सुजिरसाविति विशङ्किताः।
निपत्य ते विदधिरे हतलुण्ठितसैनिकम् ॥ १४१५ ॥
मेरुश्च सजनश्चाश्ववारी तत्राहवे हतौ।
क्षतो बट्टात्मजो मल्लो दिवसैयौं व्यपद्यत ॥ १४१६ ॥
उदीपविहतश्वभ्रवहत्सलिलसंकटम् ।
उदीपपूरवालाख्यं स्थानं तत्र क्षणेभवत् ॥ १४१७ ॥
युद्धा युद्धा प्रचलतस्तत्र पद्मपुरावहिः ।
रुद्धसैन्यस्य विशिखः श्रीबकस्याविशद्गलम् ॥ १४१८ ॥

राजतरङ्गिणी
-
।
मुष्णतः सोनवेक्ष्य
॥
प्रहारविवशो नासौ सुजित्वेिति डामरैः
स निर्लुण्ठ्य परित्यक्तः पूर्वमैत्र्यनुरोधतः ॥ १४१९ ॥
लुण्ठितश्रीवकानीककोशभारग्रहानतैः ।
तैः कैश्चिञ्चलितैरासीत्सुजेर्मार्गानुपद्रवः ॥ १४२० ॥
प्रस्थिते पथिकेकस्माद्यतेषूत्सादयन्वने ।
आयुःशेषो मृगेन्द्रस्य विध्यावशोधनम् ॥ १४२१ ॥
निःशब्दसैन्यो निर्यातः सुजिः पद्मपुरान्तरे ।
उदीपश्वभ्रसविधं संप्राप्तोज्ञायि डामरैः ॥ १४२२ ॥
पदातिकोशशस्त्रादि
तान्।
तीा श्वभ्रं वाजिगम्यां साश्ववारो भुवं ययौ ॥ १४२३ ॥
ततः पुरं प्रशान्तारिभयं दूराद्विरोधिनः ।
भूभङ्गतर्जनीकम्परूक्षालापरतर्जयत् ॥ १४२४ ॥
संत्रस्तैश्छन्नमानं तैस्त्यक्तमादाय च द्रुतम् ।
प्रविश्य नगरं साउर्नृपतेः पार्श्वमाययौ ॥ १४२५ ॥
ज्यायसि भ्रातरीवाग्रं तस्मिन्प्राप्ते जहौ नृपः ।
दुःखोष्णैरनुभिः सार्धं वैरिव्यापातसाध्वसम् ॥ १४२६ ॥
महत्तमोनन्तसूनुरानन्दस्तत्र वासरे ।
लोचनोड्डारकग्रामे डामरैः प्रचलन्हतः ॥ १४२७ ।।
तत्तन्मङ्गल्यदण्डादिदुःसहायासकारणात् ।
स विपत्पतितो नाभूत्कस्यापि करुणावहः ॥ १४२८ ॥
भासाभिधः सुजिभृत्यो लोकपुण्यात्पलायितः।
श्रान्तोवन्तिपुरेविक्षद्वन्तिस्वामिनोङ्गनम् ॥ १४२९ ॥
कम्पनोद्राहकः क्षेमानन्दः स च तदन्तरे ।
अमर्षणैरवेष्ट्येत डामरैहोलडोद्भवैः ॥ १४३० ॥

अष्टमस्तरङ्गः।
१२३
इन्दुराजोपि सेनानीः कुलराजकुलोद्भवः ।
टिक्कं तद्वेष्टितो ध्यानोड्डारं व्याजादशिश्रियत् ॥ १४३१ ॥
पिञ्चदेवादयोन्यपि बहवः सैन्यनायकाः ।
अत्यजन्क्रमराज्यान्त मरैः कृतवेष्टनाः ॥ १४३२ ॥
पाते वनस्पतेः शावा इव तन्नीडविच्युताः।
इत्थं हताः क्षताश्चासंस्तत्र तत्र नृपानुगाः ॥१४३३ ॥
निष्पादत्रा हिमप्लुष्टचरणा नग्नविग्रहाः ।
क्षुत्क्षामा बहवोभूवन्मार्गेषु गलितासवः ॥ १४३४ ॥
न व्यलोक्यत मार्गेषु तदा नगरगामिषु
पलालच्छन्नदेहेभ्यो मानुषेभ्यः परः क्वचित् ॥ १४३५ ॥
घासं विलासवासत्वं तेपि चित्ररथादयः ।
निन्युर्यैरचिरेणैव महामात्यैर्भविष्यते ॥ १४३६ ॥
द्वितीयेपि दिने रुद्धसंचाराः पत्रिणामपि ।
तुषारवर्षिणो मेघा न मुहूर्त व्यरंसिषुः ॥ १४३७ ॥
वनपूर्वाभिधग्रामस्थितस्य कटकान्निजान् ।
भिक्षोनिक्षिप्य धन्योथ सिंहदेवमशिश्रियत् ॥ १४३८ ॥
निशम्य कृतसत्कारं नृपं तदनुयायिनम् ।
सर्वेपि भैक्षवास्तस्थुः सैनिका नगरोन्मुखाः ॥ १४३९ ॥
मन्दप्रतापे दायादे संप्राप्तावसरास्ततः ।
राश्यश्चतस्रो राजानमनुमर्तु विनिर्ययुः॥ १४४० ॥
परापातभयाच्छीतापाताच्च विवशैर्जनैः ।
न ता नेतुमशक्यन्त दूरस्थं पितृकाननम् ॥ १४४१ ॥
चक्रिरे स्कन्दभवनोपान्ते देहांश्चिताग्निसात् ।
ते सत्वरं ततस्तासामदूरे राजसमनः ॥ ११४२ ॥

वी १२४ राजतरङ्गिणी राशी चम्पोद्भवा देवलेखा तरललेखया । स्वस्ना सहाविशद्वह्नि रूपोल्लेखावधिविधेः ॥ १४४३ ॥ गुणोज्ज्वला जजला सा मृता वल्लापुरोद्भवा । गग्गात्मजा राजलक्ष्मीरपि वह्नौ व्यलीयत ॥ १४४४ ॥ मत्वा हिमव्यपायान्तं राज्यरोधं निजप्रभोः । डामरा नवभूभर्तुर्हिमराजाभिधां व्यधुः ॥ १४४५ ॥ ददर्श सौस्सलं मुण्डमथ भिक्षुरुपागतम् । गाढामर्षाग्निसंदीप्तैदृक्पातैर्निर्दहन्निव ॥ १४४६ ॥ कोष्टेश्वरज्येष्ठपालादयस्तत्सकियोद्यताः। असहासन्नतां वैराद्भजता तेन वारिताः ॥ १४४७ ॥ नगरं हिमवृष्ट्यन्ते स यियासुर्युयुत्सया । ताटस्थ्येनाहिताकृष्टान्भृत्याज्ञात्वाब्रवीद्वचः ॥ १४४८॥ प्रसह्य प्राप्नुयां राज्यमिति पृथ्वीहरे सति । हते तु तस्मिन्दायादे विपन्नां स्यां पतिर्भुवः ॥ १४४९ ॥ इत्यचिन्तयमेतत्तु दैवात्संजातमन्यथा । राज्यस्याशापि विरता हते प्रत्युत यद्रिपौ ॥ १४५० ॥ किं राज्येनाथ वा कृत्यं भोगमात्रोपयोगिना । जिगीषोरुचितं कस्य ममेवान्यस्य सेत्स्यति ॥ १४५१ ॥ मुण्डं न्यपातयद्भूमौ यः पूर्वेषां पुरा मम । सिंहद्वारे मदीयेद्य तन्मुण्डं वर्तते लुठत् ॥ १४५२ ॥ दशमासान्मदाद्यानां सुखच्छेदं व्यधत्त यः। तत्तदुःखं स तु मया दशाब्दाननुभावितः ॥ १४५३ ॥ एवं नियूंढकर्तव्यतया नेष्याम्यवन्ध्यताम् । E अष्टमस्तरङ्गः। १२५ इत्याधुक्त्वा गतष्टिकाभ्यर्णं तं प्रणतं व्यधात् । प्रीत्या सहेमघटिकश्वेतच्छन्त्रादिभाजनम् ॥ १४५५ ॥ तद्विस्रम्भेण राज्याशापिशाच्योदितया पुनः। गृहीतोभ्येत्य शीतार्तस्तस्थावन्तर्विचिन्तयन् ॥ १४५६ ॥ अत्यन्तार्नुचितं चान्यल्लवन्यैः संविधित्सुभिः। रक्षितं रक्षिणो न्यस्य हतमाभृत्कलेवरम् ॥ १४५७ ॥ विपक्षाश्रयणेप्यस्मिन्स्वामिनोन्ते किमीशी । दशा शरीरस्येत्यन्तः कृतज्ञत्वेन चिन्तयन् ॥ १४५८ ॥ दिदृक्षाव्याजतः सजकाख्यो नगरशस्त्रभृत् । आयातो वाष्टुको गोप्तृन्यु?र्जित्वाग्निसाध्यधात् ॥ १४५९॥ तिलकम् ॥ स चतुर्नवताद्वर्षादारभ्यासादितच्छलैः । भूतैरधिष्ठितस्तिष्ठन्प्रजासंहारकार्यकृत् ॥ १४६० ॥ देवताधिष्ठिताविष्टदेहिवाक्यादिति श्रुतिः। भावितद्वधसंवादजनितप्रत्ययोद्ययौ ॥ १४६१ ॥ तदीयानन्यथात्वेन च्छेत्ता भ्रामयिता च यः । तन्मुण्डस्यास्य स पुमल्लब्धः सुप्तो मृतस्तथा ॥ १४६२ ॥ तिलकम् ॥ भिक्षुः कापुरुषाचारहतौचित्यो व्यसर्जयत् । प्राचण्ड्याख्यातये मुण्डमथ राजपुरी रिपोः ॥ १४६३ ॥ उच्चलात्मजया तत्र देव्या सौभाग्यलेखया । नेतृपितृव्यमुण्डस्य जिघांसन्त्या निजानुगैः ॥ १४६४ ॥ राजपुर्यामाकुलत्वं नीतायामाससाद तत् । तद्भर्तुः सोमपालस्य दूरस्थस्यान्तिकं चिरात् ॥ १४६५ ॥ युग्मम् ॥

१२६
राजतरङ्गिणी
भ्रातुः स्थितोन्तिके
आदीनास्यमधुर्तव्यग्राम्यधर्मादिकर्मसु ।
तिरश्च इव शोच्यस्य नेयबुद्धेः खशप्रभोः ॥ १४६६ ॥
सभ्यैरुञ्चावचं तत्र कर्तव्यं परिचिन्तितम् ।
स्वोचितं व्यञ्जितौचित्यानौचित्यं निरवग्रहैः ॥ १४६७ ॥
नागपालस्तु सौभ्रात्रं लब्ध्वा भ्रातुः
सेहे मुण्डावशेषस्य नोपकर्तुर्विमाननाम् ॥ १४६८ ॥
सुदीर्घदर्शिनोप्यन्ते कश्मीरेभ्यः पराभवम् ।
विशङ्कयोचुः सर्वथेदं सत्कार्य वः शिरः प्रभोः ॥१४६९
क्रियते ये तु नियतेरन्यथात्वं सनाथताम् ।
विनिहस्य हरेदृष्टाः कुर्वन्तो यत्र जम्बुकाः ॥ १४७० ॥
तद्गोपालपुरे कालागुरुचन्दनदारुभिः ।
काष्ठनिष्ठां शिरो निन्ये वीतिहोत्रेथ शत्रुभिः ॥ १४७१ ॥
यथा प्राप्तिभ्रंशा धरणिपतिभावस्य विविधा
यथा ह्रासोल्लासा अपि समरसीमासु बहुशः ।
यथा तत्तद्दीर्घव्यसनविनिपातानुभवनं
तथा दृष्टस्तस्य प्रमयसमयोप्यद्भुततरः ॥ १४७२ ॥
कस्यापरस्य तस्येव लेभिरे वह्निसक्रियाम् ।
एकत्रेतरगात्राणि मुण्डमन्यत्र मण्डले ॥ १४७३ ॥
टिक्कादयोथ नगरं यान्तोवन्तिपुराध्वना ।
तत्र हन्तुं व्यलम्बन्त भासादीन्पूर्ववेष्टितान् ॥ १४७४ ॥
युद्धायुद्दीपनग्रावप्रहारच्छेदकारिभिः ।
न ते जेतुमशक्यन्त तैः प्रयत्नपरैरपि ॥ १४७५ ॥
स्थितैर्महाश्मप्राकारगुप्ते सुरगृहाङ्गने ।
तैर्हन्यमानास्ते स्थातुं गन्तुं वा नाभवन्क्षमाः ॥ १४७६ ॥

अष्टमस्तरङ्गः।
१२७
एवं प्राप्तविलम्बेषु तेषु लब्धान्तरः सुधीः ।
स्वीचकार प्रदानेन खडूवीडामरान्नृपः ॥ १४७७ ॥
गृहीतनीविना तेषां सुजिः प्रायोजि सत्वरम् ।
तेन भासादिमोक्षाय पञ्चचन्द्रादिभिः समम् ॥ १४७८ ॥
प्रापावन्तिपुरं यावन्न स तावत्तद्ग्रगान् ।
कय्यात्मजादीनालोक्य भङ्गं टिक्कादयो ययुः ॥ १४७९ ॥
देवागाराद्विनिर्याता भासाद्यास्ते च विद्विषाम् ।
भग्नानामनुगान्हत्वा सुजेरन्तिकमाययुः ॥ १४८० ॥
लब्धप्रताप नगरं प्रविष्टे कम्पनापतौ।
आययाविन्दुराजोपि टिकं संत्यज्य सानुगः ॥ १४८१ ॥
चके चित्ररथश्रीवभासादीनपि भूपतिः।
पादानद्वारखेर्यादिकर्मस्थानाधिकारिणः ॥ १४८२ ॥
यथा पूर्वमधीकारानजहत्सुजिरप्यभूत् ।
प्रतीहारमुखप्रेक्षी का कथेतरमत्रिणाम् ॥ १४८३ ॥
प्रतीहारोपि निःसीमडामरग्रामसंमतः ।
तद्भेदचक्रिकां कुर्वन्नगाद्राज्ञः प्रतीक्ष्यताम् ॥ १४८४ ॥
स नासीदसुहृदयूहे कोपि तत्प्रेरणेन यः ।
नाशिश्रियन्नृपं नो वा बभूवाश्रयणोन्मुखः ॥ १४८५ ॥
निद्भुतेशित्वसदृशस्फूर्तिधूर्ती महीपतिः ।
आहारमप्यनासाद्य तन्मतं न न्यषेवत ॥ १४८६ ॥
इत्थं नगरमात्रान्तर्लब्धपादप्रसारिकः ।
सोवर्तिष्ट समासन्नफलं कन्दलयनयम् ॥ १४८७ ॥
संघटय्याखिलाभिक्षु मरान्विजयेश्वरे ।
अथातिष्ठदधिष्ठानं जिघृक्षुः शिशिरात्यये ॥ १४८८ ॥

१२८ ভাবী । अदृष्टपूर्व स्वचमूचक्रैक्यं वीक्ष्य डामराः । भिक्षोर्हस्तगतं राज्यं मत्वाशङ्किषताथ ते ॥ १४८९ ॥ एकैकस्येष धीशौर्यमित्रामित्रादि दृष्टवान् । नोत्तिष्ठेत्प्राप्तराज्यः किमास्कन्देषु गृहान्तरात् ॥ १४९० ॥ इति संमत्र्य ते राज्यं सोमपालाय दित्सवः । दूतान्निगूढं प्राहिण्वन्सोपि दूतं व्यसर्जयत् ॥ १४९१ ॥ आकारचारवैक्लव्यैः पशुतुल्यस्य तस्य तैः राज्यभोगा अभङ्गा नो भविष्यन्तीत्यचिन्त्यत ॥ १४९२ ॥ भोगलोभोजितौचित्यदस्युसंघचिकीर्षितम् । देशेत्र पापात्पापीये दैवान्न समपादि तत् ॥ १४९३ ॥ दास्येप्ययोग्यो यो राज्ये स इत्यास्तां त्रपान्यतः । शक्येत पातुं देशोयं किमीषदपि तादृशा ॥ १४९४ ॥ शालीन्पलालपुरुषोवति यः कृशानु- दग्धाननश्चटकपेटकभीतिदानः । त्रातुं स काननतरून्विहितो विध्या- कि तत्र भजनकृतां वनकुञ्जराणाम् ॥ १४९५ ॥ भिक्षोर्नेदिष्ठतां दिष्टवृद्धिव्याजात्ततो भजन् । तहतो डामरान्गूढं नीविदानोद्यतान्व्यधात् ॥ १४९६ ॥ वैशाखेथ कृतारम्भस्तदा संभावितत्वरः । निर्गत्य नगरात्सुजिर्गम्भीरातीरमाययौ ॥ १४९७॥ तस्याभियोगः श्लाघ्योभूद्योढुं यत्समवायिनः । एकाकी तावतो वीरानूरीकृत्य स निर्ययौ ॥ १४९८ ॥ अन्तःपाते साहसानां नाद्भुतं तद्विधेर्वशात् । जीयते लक्षमेकन लक्षेणैकोथवा युधि ॥ १४९९ ॥ । । । E

अष्टमस्तरङ्गः।
पारं तरीतुं निःसेतोः सरितोपारयनसौ।
पारे परस्मिन्नहितानपश्यच्छरवर्षिणः ॥ १५०० ॥
द्वित्रा निशाः स ते चासंस्तस्याः सिन्धोस्तद्वये ।
रुद्धाः संनाहिनोन्योन्यरन्ध्रावेक्षणदीक्षिताः ॥ १५०१ ॥
अथावन्तिपुरान्नौभिरानीताभिरबन्धयत् ।
सेतुं साश्वोतरत्सुजिरारुह्य तरणी स्वयम् ॥ १५०२ ।।
तरन्तमेव तं दृष्ट्वा योधैः कतिपयैः समम् ।
द्विषञ्चमूर्मरुल्लोला द्रुमालीवाभवञ्चला ॥ १५०३ ।।
दृष्टं मुहूर्तादेतावदारूंढः स च यत्तटम् ।
बद्धश्च सेतुस्तीर्णाश्च योधा भग्नाश्च विद्विषः ॥ १५०४ ॥
न खड्गी न हयारोहो नापि शूली न चापभृत् ।
व्यावृत्य प्रेक्षितुं कश्चिदशकद्विद्रुताद्वलात् ॥ १५०५ ।।
निबद्धबधशैथिल्याल्लोलपल्ययने हये।
कोष्टेश्वरस्याश्ववारा व्यलम्बन्तान्तरे क्षणम् ॥ १५०६ ।।
नियन्त्र्य तेपि पर्याणं सुजौ पश्चात्प्रधाविते ।
वातोद्भूतं रजश्चक्रमिव क्षिप्रं तिरोदधुः ॥ १५०७ ॥
हतलुण्ठितविध्वस्तध्वजिनीका विरोधिनः ।
ध्यानोड्डारादिषु ग्रामेष्वमिलन्खण्डशो गताः ॥ १५०८ ॥
विजयेशानगं तीा वितस्तासेतुमागतः ।
भासोपि दस्यून्विदधे पलायनपरायणान् ॥ १५०९ ॥
उषित्वा विजयक्षेत्रे तदान्येधुरुपागते ।
कम्पनेशे ययुस्त्यक्त्वा ध्यानोड्डारं विरोधिनः ॥ १५१० ॥
तत्र स्थित्वा दिनैः कैश्चित्स देवसरसोन्मुखः ।
शिश्रिये भेदनिर्यातैरेत्य टिक्कस्य गोत्रिभिः ॥ १५११ ॥

१३० राजतरङ्गिणी जयराजयशोराजौ तन्मुख्यौ भोजकात्मजौ। प्रविश्य देवसरसं व्यधाट्टिकोपवेशने ॥ १५१२ ॥ ययुर्विनष्टसंघातास्तस्मिन्पश्चात्प्रधाविते । भिवादयः शूरपुरं स्वोर्वी कोष्टेश्वरादयः ॥ १५१३ ॥ गहीं महाभये सोमपालदूतः पलायितः । दास्याः सुतेन प्रहितः कुत्रास्मीति प्रभोळधात् ॥१५१४॥ स हि तादृङमहारम्भक्षोभसाध्योन्नतीच्छुताम् । तस्य सिंहीस्पृहाक्रान्तगोमायुवदमन्यत ॥ १५१५ ॥ प्रमादात्स्वामिनो राज्यं चिरं नष्टं मितैर्दिनः । सुजिः प्रसाध्य प्रददावेवं स स्वामिसूनवे ॥ १५१६ ॥ शमालादीनपि ब्यूढान्दानोपायेन डामरान् । पौरांश्च भिक्ष्वाश्रयिणो राजा भेत्तुं प्रचक्रमे ॥ १५१७ ॥ राशः परीक्ष्य सामर्थ्यमथ कुर्मो यथोचितम् । इति सर्वाभिसारेण ते संमत्र्य रणं ददुः ॥ १५१८ ॥ रजोजवनिकालक्ष्यभटौघनटताण्डवः । दामोदरेभूत्संग्रामः स वीरग्रामघस्मरः ॥ १५१९ ॥ कोटेश्वरवशं यातं रक्षता पितरं क्षतम् । लब्धाः सहजपालेन ग्लाघाः प्रकृतिभिः समम् ॥ १५२० ॥ श्रमस्तत्राविशेषोभूद्राशो भिक्षाचरस्य च । भिक्षुस्त्वनन्यसंवेद्यं विवेदात्मपराजयम् ॥ १५२१ ॥ ततः प्रभृति यः प्रातः स न सायमदृश्यत । योद्य वा न परेधुः स सैनिको भैक्षवे बले ॥ १५२२ ॥ एवं त्यक्त्वा परान्पोरडामरेषु नृपान्तिकम् । प्रयात्सु लाभसत्कारानुचितान्प्रामुंवत्सु च ॥ १५२३ ॥ .

अष्टमस्तरङ्गः। ॥ काप्यहपूर्विकोत्तस्थौ मनुजेश्वरकोष्टयोः । प्रयातुं पार्थिवाभ्यर्ण लाभसौख्याभिलाषिणोः ॥ १५२४ ॥ ज्ञात्वाथ तत्काकरुहागृहीतस्वपरिच्छदः । देशान्तरोन्मुखो भिक्षुराषाढे मास्यवाचलत् ॥ १५२५ ॥ अनुयाद्भिः स दाक्षिण्यशेषाद्विहितसान्त्वनैः । तदाद्यैर्डामरैः क्रुध्यन्न निरोद्धुमपार्यत ॥ १५२६ ॥ अकरोत्स्वैरिणीसूनुतया शीलबहिष्कृतः । अतिरूपेषु दारेषु तस्य कोष्टेश्वरः स्पृहाम् ॥ १५२७ ।। सटां हरेः फणारत्नमालां हविर्भुजः । बालां च तस्य संस्प्रष्टुं कोप्रशान्तस्य शक्नुयात् ॥ १५२८ ॥ समं सौस्सलिना बद्धसंधिराश्रयकाविणः । सोमपालः स्वविषये नादात्तस्य प्रतिश्रयम् ॥ १५२९ ॥ उद्विजेतः प्राणहरैः प्रयत्नस्तस्य सर्वतः। तद्देशदुर्गममहीसीमान्तं सुल्हरी ययौ ॥ १५३० ॥ त्रिगर्तेषु दया शीलं चम्पायां मद्रमण्डले। त्यागो दाऽभिसारेषु मैत्री नामर्त्यधर्मिणाम् ॥ १५३१ ॥ पीडयेत्त्यक्तभीभूभृदूरस्थे त्वयि डामरान् । त्वामेवाभ्यर्थ्य राजानं ततः कुर्युः क्रमेण ते ॥ १५३२ ॥ क्ष्मां तद्रजामोर्थयितुं सांप्रतं नरवर्मणः । मबिभिर्युक्तमित्युक्तमाप मत्रं न चाग्रहीत् ॥ १५३३ ॥ वसाल्पपरिवारोस्मद्गृह इत्यप्यगृह्णतः। श्वशुरप्रार्थनां तस्य भृत्याः पार्थादवाचलन् ॥ १५३४ ॥ प्रावर्तताथ नगरे विशद्भिर्विभवोज्ज्वलैः। सुलग्नसुलझे काले वरयात्रेव डामरैः ॥ १५३५ ॥ ।

राजतरङ्गिणी
वीक्ष्याश्वच्छत्रतुरगैरेकैकं पार्थिवाधिकम् ।
सुस्सलक्ष्माफ्तेधैर्यनैष्टुर्य तुष्टुवुर्जनाः ॥ १५३६ ॥
औदार्याकारतारुण्यवेषसौन्दर्यमन्दिरम् ।
कोष्टेश्वरोधिकं स्त्रीणां प्रययौ प्रेक्षणीयताम् ॥ १५३७ ॥
प्रशान्तविप्लवे देशे ययावुत्सववाद्यताम् ।
विशद्भरिलवन्यौधतूर्यघोषो दिवानिशम् ॥ १५३८ ॥
क्षीराद्या लक्ष्मकेणापि सर्वे मडवराज्यतः ।
आनीताः पार्थिवाभ्यर्ण सैन्यार्णवभयंकराः ॥ १५३९ ॥
अपि भूपालवाल्लभ्यादभूद्राजोपजीविनाम् ।
प्रतीहारगृहद्वारप्रवेशो बहुमानकृत् ॥ १५४० ॥
लवन्यलुण्ठितग्रामतया दुर्भिक्षदुःसहः ।
व्ययोत्तरङ्गः कालोभूत्स राज्ञो धनदश्रियः ॥ १५४१॥
डामरेभ्यो नृपः पारात्संगृह्णन्कृतवेतनः ।
निनायाभ्यन्तरं वृद्धिं बाह्यं चापचयं जनम् ॥ १५४२ ॥
तिष्यवैश्यार्घदेवाद्या ज्ञातयो जनकगुहाम् ।
राजद्रोहोचितां राज्ञा विपत्तिमनुभाविताः ॥ १५४३ ॥
मासैश्चतुर्भिः स पितृप्रमयाहादनन्तरम् ।
अनन्यशासनं राष्ट्र स्वमेव समपादयत् ॥ १५४४ ॥
निवासनगरं पौराः सर्वसामर्थ्यवर्जिताः ।
अनन्तै राष्ट्रमाकीर्ण डामरैः पार्थिवोपमैः ॥ १५४५ ॥
बद्धमूलो नातिदूरे सर्वभारसहो रिपुः ।
सबाह्याभ्यन्तरा मत्रिसामन्ता वैरिसंश्रिताः ॥ १५४६ ॥
सत्तोपदेशवृद्धस्य नैकस्यापि नृपास्पदे ।
अधर्मबहुलाः सर्वे भृत्या द्रोहैकवृत्तयः ॥ १५४७ ॥

अष्टमस्तरङ्गः।
राज्यारम्भे बभूवेयं या सामग्र्यस्य भूपतेः ।
सा सर्तव्यान्तरा ज्ञातुं प्रत्युदन्तं विवेत्तृभिः ॥ १५४८ ॥
प्राप्तप्रसङ्गात्तदिदं गुणग्रामोपवर्णनम् ।
वक्ष्यमाणं सुबहुशोप्यत्र लेशात्प्रदर्श्यते ॥ १५४९ ॥
पूर्वापरानुसंधानबन्ध्यैदृष्टान्तवत्कथाः।
नाबुद्धवातिगभीराणां शक्या रसयितुं गुणाः ॥ १५५० ॥
प्रत्यक्षस्य गुणाबाज्ञो विचिन्वन्तो यथास्थितान् ।
अनीय॑स्य भविष्यामो विवेकस्यानृणा वयम् ॥ १५५१ ॥
स्थितस्य तत्त्वविज्ञाने नान्यस्य हि पटुर्जनः ।
अमानुष्यानुभावस्य राज्ञः किं पुनरीदृशः ॥ १५५२ ॥
हितानां दाराणां सदृशसुखदुःखस्य सुहृदः
कवेः सोल्लेखस्य प्रियसकललोकस्य नृपतेः।
स्थितानां कोप्यत्र व्यवहितविवेकः स्वकुकृतै-
रसामान्यं ज्ञातुं सुभगमनुभावं न कुशलः ॥ १५५३ ।।
भवेत्प्राप्तप्रसरणा परिणामेथवा मतिः ।
कथं सर्वस्याद्भुतायां निष्ठायां गुणदोषयोः ॥ १५५४ ॥
सन्त्येवास्यापि विषमाः स्वभावा दोषतां जनः ।
येषां विपाकभव्यत्वमजानन्गणयत्ययम् ॥ १५५५ ॥
विकासः केषांचिन्नयनविषमैर्विधुदुयैः
परेषामुद्भूतिः श्रवणकटुभिर्दीर्घरसितैः ।
न चेष्टा काप्यन्योपकृतिपरिहीना जलमुचो
जड़ो वर्षादन्यं गणयति गुणं नास्य तु जनः ॥ १५५६ ॥
गुणाल्लोकोत्तराञ्ण्वन्नस्यानुभवगोचरान् ।
भविता पूर्वभूपालकृत्ये सप्रत्ययो जनः ॥ १५५७ ॥

राजतरङ्गिणी
अनुञ्चलन्नपि स्थानाद्भूभङ्गेन चकार सः।
विलोलांल्लोमकम्पेन दिङ्नाग इव भूधरान् ॥ १५५८ ॥
विरुदद्वाहिनीवृन्दा गूढं यद्भयसंभवम् ।
वहन्ति तापं भूपाला और्वाग्निमिव सिन्धवः ॥ १५५९ ॥
भूमिभृद्भास्वतस्तस्य तेजसाप्यायितो गतः।
पूर्वराजयशश्चन्द्रो भुवनेषु प्रकाशताम् ॥ १५६० ॥
यो यस्तं पश्यति स्वात्मसंमुखं स स सर्वतः ।
जानात्यवक्रोल्लिखितं देवबिम्बमिवेश्वरम् ॥ १५६१ ॥
स्थिरप्रसादो दत्ते यत्तदादत्ते न स क्वचित् ।
भयं पुनः प्रणमतां दत्तं हरति विद्विषाम् ॥ १५६२ ॥
कृष्टासेः प्रतिबिम्बं स्वं हित्वा नान्योस्य संमुखः ।
नापरः प्रतिशब्दाच गर्जतः प्रतिगर्जति ॥ १५६३ ॥
तस्य नातिशितं कोपे प्रसादे निशितं पुनः।
धत्ते तीक्ष्णैकधारस्य तरवारेस्तुलां वचः ॥ १५६४ ॥
तस्याकुजन्मनो नित्याम्लानलक्ष्मीविकासिनः ।
प्रभवन्त्याश्रिताः कल्पशाखिनः पल्लवा इव ॥ १५६५ ॥
राज्ञि गाम्भीर्यदुर्लक्ष्यमाहात्म्यप्रभविष्णुताम् ।
विवेद मत्रिणां लोकः सिषेवे तांश्च सर्वतः ॥. १५६६ ॥
प्ररूढस्तु प्रतीहारो न विषेहेन्यमत्रिणाम् ।
पार्श्वद्रुमाणामेषाख्यौषधिस्तम्भ इवोद्गतिम् ॥ १५६७ ॥
तस्योत्पाटयतः सर्वांस्तृणानीवावहेलया।
स्फूर्जञ्जनकसिंहोभूदशक्योन्मूलनः परम् ॥ १५६८ ॥
आबाल्यात्संस्तुतो राज्ञः स कृत्स्नव्यवहारवित् ।
अधृष्यस्तरुणीभूततनयो ह्यास्त सर्वतः ॥ १५६९ ॥

CRIMEHIMAL
अष्टमस्तरङ्गः।
अद्वैध यौनसंबन्धादिच्छतस्तत्सुतो मदात् ।
छुड्डाभिधस्तस्य ततः कृतावशोतनोत्रपाम् ॥ १५७० ॥
रन्ध्रान्वेषी स तदोषादुपजापैः क्षणे क्षणे ।
ससूनौ जनके यत्नानृपो द्वेषमजिग्रहत् ॥ १५७१ ॥
राज्ञस्तुल्यवयःस्थौ हि जननीगाढसंस्तवात् ।
राज्यकाले हि सोत्सेकावास्तां तदवकाशदौ ॥ १५७२ ॥
तुरंगयोग्योपस्कारस्नानाहारादि राजवत् ।
अकालज्ञावकुरुतां राजधान्यन्तरेव तौ ॥ १५७३ ॥
सह स्ववृद्धः समशीर्षिका प्रभो-
न युज्यते प्राप्तसमुन्नतेः क्वचित् ।
श्रितोन्नतेर्द१रवृन्दलङ्घनं
सरोजषण्डस्य महाविडम्बना ॥ १५७४ ॥
तद्भित्तिलाभसंरूढपैशुनालेख्यकल्पनाः ।
तद्बर्गेप्यखिले चक्रुस्तद्विषः कलुषं नृपम् ॥ १५७५ ॥
अथ राजा विजयिनं सत्कर्तुं कम्पनापतिम् ।
कृतज्ञः श्रावणे मासि जगाम विजयेश्वरम् ॥ १५७६ ॥
अत्रान्तरे पिञ्चदेवादागच्छन्गिरिगहरे।
प्राप शूरपुरद्रङ्गाधीश्वरादुत्पलो वधम् ॥ १५७७ ।।
पुष्पाणनाडादुत्पिञ्जकृतये पुनरागतः ।
द्रगाधिपेनागुटिकान्वेषिणा स ह्यवाप्यत ॥ १५७८ ॥
क्षितौ निपतितः पार्श्वप्राप्तमेकं द्विषद्भटम् ।
मुमूर्षुर्विशिखाविद्धजानुमर्मापि सोवधीत् ॥ १५७९ ॥
प्रत्यावृत्तस्य सत्कृत्य कम्पनेशं महीपतेः ।
द्वार्यवन्तिपुरस्थस्य द्रङ्गेशोरिशिरो व्यधात् ॥ १५८० ॥

राजतरङ्गिणी
स दृढद्राढिकामुष्टिरसुहृन्मुण्डमुद्रः ।
चक्रे तस्य दृढामर्षशोकशङ्कुविपाटनम् ॥ १५८१ ॥
आद्यायामेव यात्रायां जातारातिक्षयो जनैः
स निःशेषयिताशेषकण्टकानामगण्यत ॥ १५८२ ।।
तस्मिन्प्रविष्टे नगरं विद्रुताः केपि सागसः ।
प्रापुर्जनकसिंहाद्याः केपि कारागृहस्थितिम् ॥ १५८३ ॥
कैश्चित्पलायितैः शङ्कां ग्राहिताः पृथिवीपतेः ।
ततः कोष्टेश्वरमुखाः प्रातिलोम्यं प्रपेदिरे ॥ १५८४ ॥
शमालां निर्गतः श्रीमान्कार्तिकेऽथ कृती नृपः ।
तत्र तत्रासुहृद्रामं संग्रामोग्रमवाधत ॥ १५८५ ॥
यत्र सुस्सलभूपाद्याः प्रापुर्भग्नप्रतापताम् ।
तं हाडिग्राममदहत्सुजिजितविक्रमः ॥ १५८६ ॥
महीभुजा पीड्यमानैराहूतः कोष्टकादिभिः ।
अथ भिक्षाचरो राज्यगृचर्भूयोप्युपाययौ ॥ १५८७ ॥
एकेनाह्वा योजनानि प्रोल्लव्य दश पञ्च च ।
शिलिकाकोष्टनामानं गिरिग्राममवाप सः ॥ १५८८ ॥
क्षुत्पिपासाक्लमारातिभीतिमार्गभ्रमोद्भवम् ।
क्लेशं नाजीगणन्मानी धावितः स जिगीषया ॥ १५८९ ॥
कार्यमायाति वैमुख्यं जिगीषोविधुरे विधौ ।
प्रस्थितस्य पुरोवाते रथस्येव ध्वजांशुकम् ॥ १५९० ॥
आरम्भमात्रमपि कस्यचिदेव सिद्ध्यै
कश्चित्प्रयत्नपरमोप्यफलप्रयासः ।
मन्थाद्रिणामृतमवाप्युदधेर्मुहूर्ता-
सक्ति चिराद्विदधता न हिमाद्रिजेन ॥ १५९१ ॥

अष्टमस्तरङ्गः। १३७ भ्रष्टा सरित्स्ववसतेर्जलधिप्रवेशे वेलोमिवेल्लनवशेन विवर्तमाना। मिथ्यैव यच्छति धियं पुनरुद्गतेति नोत्थानमस्ति तु विधिव्यपरोपितानाम् ॥ १५९२ ॥ तस्य तावन्महायत्नकठोरस्योदयक्षणे । सिद्धेर्विबन्धो विधिना विधुरेण व्यधीयत ॥ १५९३ ॥ आयातं तमबुद्धा तु तस्मिन्नेव क्षणेश्रयत् । पृथ्वीहरानुजः प्राप्तभङ्गः कृत्ताङ्गुलिर्नुपम् ॥ १५९४ ॥ कोष्टेश्वरः स चावत्य संप्राप्तं तमतिष्ठताम् । कृत्याक्षमौ हतः साविव मबनियत्रितौ ॥ १५९५ ॥ ताभ्यां स्थानेथ सोन्यमिस्त्याजितोवपरिश्रमम् । कार्कोटद्रङ्गमार्गेण निर्गतः सुहरी ययौ ॥ १५९६ ॥ आसीच्च तत्र प्रोचण्डदर्पकण्डूलदोर्दुमः। उष्मायमाणः कश्मीराकान्तिसंततचिन्तया ॥ १५९७ ॥ उदीपसलिलस्येव तस्य रन्ध्रगवेषिणः । पुरं प्रविष्टो राजापि प्रतीकारमचिन्तयत् ॥ १५९८ ॥ अद्वितीयस्त्वमात्येषु प्रतीहारो मदोग्रताम् । सुजेरसहमानोभूच्छलान्वेषणतत्परः ॥ १५९९ ॥ आययावथ विस्रम्भावष्टम्भं वल्गतः प्रभोः । धन्याग्रजः पूतमूर्तिर्जाह्नवीजलमजनात् ॥ १६०० ॥ तदाद्याः संस्तुता राज्ञश्चिरसंभावितास्ततः । अनाप्नुवन्तोधीकारान्पर्यतप्यन्त चिन्तया ॥ १६०१ ॥ कुर्वाणे कार्यतस्तस्मिन्भरं पित्र्येषु मत्रिषु । कालप्रतीक्षाक्षमतां मुहुस्ते गहनाशयाः ॥ १६०२ ॥ NCE १८ १३८ राजतरङ्गिणी प्रतीहारस्तु दुर्लक्ष्यसुजिनिर्लोठनोद्यतः। अप्रियानपि तान्प्रीत्या जग्राहोरोपयोगिनः ॥ १६०३ ॥ व्यतीतेष्वथ मासेषु केषुचिदैवयोगतः। अकस्माद्भवद्भूभृत्स्फीतलूतामयातुरः ॥ १६०४ ॥ विस्फोटशोफातीसारवह्निमान्द्याधुपद्वैः। संदिग्धाभ्युदये तस्मिन्देशः पर्याकुलोभवत् ॥ १६०५ ॥ इत्थं स्थितः कुलस्यैकभर्तुः स्वामी बली रिपुः । तत्पशा डामरा राष्ट्र दुष्टमेव व्यचिन्तयन् ॥ १६०६ ॥ आयत्यां च तदात्वे च हितकृत्यं विचारयन् । राज्ञः श्रीगुणलेखाया जातमेकं सुतं शिशुम् ॥ १६०७॥ पञ्चाब्ददेश्यं पर्माण्डि सुजिभूमिपति तदा । चिकीषुर्मत्रयामास मातुलेनास्य गार्गिणा ॥ १६०८ ॥ इत्थंभूतस्य दुध्रुक्षुः ससूनुः सुजिरद्य ते । पञ्चचन्द्रादिभिः सार्धं युक्त्या मन्त्रयतेनिशम् ॥ १६०९ ॥ लब्धरन्ध्रः प्रतीहारो धन्याद्याश्च तदीरिताः। इत्यवोचंस्ततो भूपं स तथेत्यग्रहीञ्च तत् ॥ १६१० ॥ पूर्वप्रजास्रज इवाद्भुतवस्तुतत्व- व्यावर्णनेन कुतुकं जनयन्ति तज्ज्ञाः । बाला इवाल्पमतिहार्यधियश्च सन्ति प्रायो नृपा नियमशून्यमनोनुभावाः ॥ १६११ ॥ शौचस्थाने कृतवसतिभिः स्त्रीव्यवायालये वा निःशस्त्रो यच्छलनकुशलैर्मानसं संप्रविश्य । नीतो भूतैरिव विवशतां निर्भर गर्भचेटै- भद्रं भूषात्कथमिव ततः स्यादवष्टब्धचेष्टात् ॥ १६१२ ॥ F Coppermission

AAAAAMSABHA SOAMESDECE
अष्टमस्तरङ्गः।
१३९
निर्हेतु प्रहसन्विटः प्रविशति क्षोणीपतेरन्तिकं
प्रीत्युत्फुल्लदृगेष किं किमिति तं
पृच्छत्यनच्छाशयम् ।
ब्रूते किंचिदसौ कचानथ कषन्सर्वकषं मानिनां
मानप्राणगुणेषु यत्सरभसं दम्भोलिपातायते ॥ १६१३ ॥
सविभ्रमगतागतः किमपि भाषमाणः श्रुतौ
प्रभोर्वलितलोचनं जगद्वज्ञयालोकयन् ।
निजस्य मुखविक्रियाप्रणयताडनाद्यौर्विद-
ननुग्रहमिवाहितं नृपतिवल्लभो दुःसहः ॥ १६१४ ॥
अपि जातु स दृश्येत निःसंक्षोभमतिर्नृपः ।
यो यत्रपुत्रक इव व्यक्तं धूतैर्न नर्त्यते ॥ १६१५ ॥
यतो भृत्यान्तराज्ञानाजातः सर्वस्वसंक्षयः।
तत्प्रजादुष्कृतै राज्ञां हा घिनाद्यापि शाम्यति ॥ १६१६ ॥
सुजिरारोग्यमन्वेष्टुमागच्छन्पूर्ववत्प्रभोः ।
विन्यस्तरक्षिणः पश्यन्नविश्वासमखिद्यत ॥ १६१७ ॥
दाक्षिण्यं वामतां यातमाशये प्रतिबिम्बितम् ।
दर्पणस्येव राज्ञः स विभाव्याभूत्पराङ्मुखः ॥ १६१८ ॥
तस्मिताजगृहे खेदान्मन्दीकृतगतागते ।
नृपतेस्तद्गतां प्रीतिं निःशेषां जहिरे खलाः ॥ १६१९ ॥
भृत्यः सुजेश्चित्ररथोप्यास्थानद्धिजभूः शठः।
प्रातिलोम्यावहैर्भर्तुर्मचैरासीच्छ्रियोन्तकृत् ॥ १६२० ॥
नीरोगे राशि दृष्टः स दिष्टवृद्ध्यै नृपास्पदे ।
वसुवर्षी विनिर्याय प्रार्थनार्थी गृहान्ययौ ॥ १६२१ ॥
न तं प्रासादयद्राजा विशालवलवाहनः ।
आक्रम्यासौ कथं नः स्यादित्युपायं त्वचिन्तयत् ॥ १६२२ ॥

राजतरङ्गिणी
त्यज्येत हृतकार्योसौ निराशैरनुजीविभिः ।
मत्वेति तदधीकारानन्येभ्यस्तूर्णमार्पयत् ॥ १६२३ ॥
राजस्थानात्स्रजं धन्यमुदयं कम्पनादपि ।
अजिग्रहन्नरपतिः खेरीकार्य च रिहणम् ॥ १६२४ ॥
हृताधिकारे प्रव्यक्तवैकृते नृपतौ ततः ।
अल्पावशेषानुचरः सुजिरासीद्विशङ्कितः ॥ १६२५ ॥
विमानितः पुराद्गङ्गायात्रामुद्दिश्य मानवान् ।
सोथ सुस्सलभूभर्तुरस्थीन्यादाय निर्ययौ ॥ १६२६ ॥
औत्सुक्यात्प्रार्थनाकाङ्क्षी राजधान्यन्तिकेन सः ।
निर्गच्छनाजपुरुषैर्न राज्ञा वान्वरुध्यत ॥ १६२७ ॥
तनिर्वासनगर्वस्य स्थापनायानुयात्रिके ।
प्रतीहारस्तस्य गुप्त्यै कोशादेः स्वात्मजं व्यधात् ॥ १६२८॥
निग्रहानुग्रहावस्मदायत्ताविति रक्षिणम् ।
पुत्रं प्रादाल्लक्ष्मकोष इति ध्यायन्स विव्यथे ॥ १६२९ ॥
निवृत्तो लक्ष्मको द्वारात्पर्णोत्सं शनकैर्गतः ।
अवारोपयदद्रोहो भागिकं लोहराचलात् ॥ १६३० ॥
प्रतीहारविसृष्टाय धात्रेयाय महीभुजः।
प्रेमाभिधाय तत्कोट्टाधीकारं च समापर्यत् ॥ १६३१ ॥
उत्खाय लोहरत्यागाच्छङ्काशङ्ख महीपतेः ।
स ग्रीष्मविषमं कालं राजपुर्यामलङ्घयत् ॥ १६३२ ॥
अमात्यकन्दुकबातपातनोत्पातनक्षमः ।
आयत्तडामरः प्राप प्रथां कामपि लक्ष्मकः ॥ १६३३ ॥
द्वारेथाकारयत्सुजिप्रतिमल्लविधित्सया ।
कृष्यमाणो राजवंशपौरुषं राजमङ्गलम् ॥ १६३४ ॥

अष्टमस्तरङ्गः।
अनन्यदेशजः सुजिः शूरो मत्कोशपोषितः ।
कीर्तिमेष हरेद्दध्यावितीर्ध्याकलुषो हि सः ॥ १६३५ ॥
खड्गग्राहिसहायः स क्षुण्णः पर्यदितुं पथि ।
निःसुखश्चोपहास्यश्च तेन कार्यार्पणात्कृतः ॥ १६३६ ॥
कर्तु पदव्यां योग्यानामयोग्यान्प्रभवेन्न कः ।
तेषां गुणैस्तान्संयोक्तुं न शक्यं कारणैरपि ॥ १६३७
पदे श्रीखण्डस्यानुचितमुचिते वर्मणि निजे
वृषाङ्कः प्रक्षेप्तुं प्रभवति चिताभस्म रमसात् ।
न तत्स्वेच्छायत्तत्रिजगदुदयापायघटनो-
प्यसौ तद्गन्धेन स्फुटमिह पटुः संघटयितुम् ॥ १६३८ ॥
तस्मिन्सुजिप्रतिस्पर्धामप्रौढे वोदुमक्षमे ।
दूतानसृजदानेतुं सजपालं दिगन्तरात् ॥ १६३९ ॥
निवारे मण्डले द्वेष्योप्यवापत्कार्यगौरवात् ।
कोष्टेश्वरो नरपतेर्नितरामन्तरङ्गताम् ॥ १६४० ॥
प्रीतिदायैस्तोष्यमाणस्तैस्तैस्तुष्टेन भूभुजा ।
विस्रब्धो नगरे तस्थौ सोपि लूतामयातुरः ।। १६४१ ।।
एवं दमकदम्बैक्यं राशि कुर्वति कार्यतः।
चालकैः सोमपालाद्यैः सुजिर्निन्येथ वैकृतम् ॥ १६४२ ॥
प्रतिज्ञाय लतामात्रसाध्यं कश्मीरनिर्जयम् ।
सोमपालाय तगाज्यं सोङ्गीचकेवमानितः ॥ १६४३ ॥
प्रतिशुश्राव तस्मै च भागिनेयीं स कन्यकाम् ।
धीमानत्रान्तरे सामदाने प्रयुयुजे नृपः ॥ १६४४ ॥
द्वौ तावल्पाशयो राजकन्ययोः स्वीकियां तदा ।
रभसाद्यावकुर्वाणावदातामन्तरं विषाम् ॥ १६४५ ॥

राजतरङ्गिणी
उपायैर्जयसिंहस्य शकुनैश्च निरीक्षितैः ।
प्रेरितः सोमपालोथ सुजेमन्दादरोभवत् ॥ १६४६ ॥
स्वयमेत्य प्रतीहारस्तत्र राजपुरीपतिम् ।
सीमान्तभुवमानिन्ये कन्यकोद्वाहसिद्धये ॥ १६४७ ॥
जातां कलनिकाख्यायां महादेव्यां महीपतेः।
उपयेमे नृपसुतां सोमोम्बापुत्रिकाभिधाम् ॥ १६४८ ॥
याते तस्मिन्कृतोद्वाहे नागलेखाभिधां सुधीः ।
तत्स्वस्त्रेयी प्रतीहारो भूभुजे प्रत्यपादयत् ॥ १६४९ ॥
इत्थं राष्ट्रद्वये बद्धसंधौ निरवकाशताम् ।
प्राप्तः प्रतस्थे हेमन्ते सुजिस्त्रिपथगोन्मुखः ॥ १६५० ॥
जालंधरे संघटितो ज्येष्ठपालो निनाय तम् ।
गाढावमाननिर्नष्टसौष्ठवं भिक्षुपक्षताम् ॥ १६५१ ॥
त्वयि भिक्षाचरे चैकसैन्यनायकतां गते ।
नोपेन्द्रो वा महेन्द्रो वा समर्थौ प्रत्यवस्थितौ ॥ १६५२ ॥
राज्यप्रदस्य ते यश्च चक्रे राजा विमाननाम् ।
तस्थुषो यश्च विषये प्रतिकुर्मस्तयोर्द्धयोः ॥ १६५३ ॥
इति संप्रेरितस्तेन देङ्गपालान्तिकस्थितेः ।
यियासुः सोन्तिकं भिक्षो गिकेन न्यषिध्यत ॥ १६५४ ॥
अनिक्षिप्तवतोस्थीनि स्वामिनो जाह्नवीजले ।
न युक्तमेतत्ते कृत्यमित्यावेगादशाधि च ॥ १६५५ ।।
स्नात्वा धुनद्यामेष्यामि पाच व इति निश्चयम् ।
स पीतकोशः कृत्वास्य ययौ प्रस्तुतसिद्धये ॥ १६५६ ॥
प्रतीहारकरन्यस्तसर्वभारस्तु भूपतिः ।
मन्दाक्रान्तितया राज्यमसुस्थितममन्यत ॥ १६५७ ॥

अष्टमस्तरङ्गः।
१४३
यो यो हि व्यग्रहीत्तं तं संधाय सविधस्थितः ।
तमन्वहं प्रतीहारः सानुग्रहमिवैक्षत ॥ १६५८ ॥
प्रगल्भमाने शास्त्येवमुदयः कम्पनापतिः ।
अवधीच्छद्मना दृप्तं प्रकटं कालियात्मजम् ॥ १६५९ ।।
अविश्वासोल्बणान्सर्वलवन्यानथ लक्ष्मकः ।
निर्मर्यादान्कम्पनेशमीषत्सान्त्वमजिग्रहत् ॥ १६६० ॥
स्नात्वाभ्येष्यति गङ्गायां यावत्सुजिर्विसूत्रताम् ।
तावत्कथं मया नेयाः कश्मीरा इति चिन्तयन् ॥ १६६१ ॥
तावन्मात्रान्तरव्याप्त्या राज्ञो विज्ञाय डामरान् ।
भिन्नाभिक्षाचरोविक्षद्विषलाटां हिमागमे ॥ १६६२ ॥
मण्डलस्यान्तरे तस्य विविक्षो रुद्धडामरः ।
प्रतीहारो हिमर्तुश्च निषेद्धा समपद्यत ॥ १६६३ ॥
स टिक्केन पितृद्रोहादेकान्तद्वेषिणा रिपोः ।
आनीतः संमतैर्दत्ताप्यायः सर्वैश्च डामरैः ॥ १६६४ ॥
प्रतीक्षमाणो राज्याप्तिहेतुं सुजिसमागमम् ।
निर्भयष्टिक्कजामातुर्भागिकस्य खशप्रभोः॥ १६६५ ॥
बाणशालाभिधे दुर्गे वसन्नल्पोच्छूितावपि ।
दूतैर्विभेदमनयत्सर्वडामरमण्डलम् ॥ १६६६ ॥
प्रमोदं सुहृदां त्रासं द्विषां च विसृजन्पुरः।
व्यावर्तताथ गङ्गायाः सुजिर्विहितमजनः ॥ १६६७ ॥
पूर्वविप्रकृते भिक्षावस्मिश्चाभेदमागते ।
यथामुष्य महीभर्तुस्तथास्माकं भयं भवेत् ॥ १६६८ ॥
ध्यात्वेति सिंहदेवेन प्रार्थितो व्याजमाददे।
सुजिस्वीकरणोद्योगे सोमपालो भयाकुलः ॥ १६६९ ॥

राजतरङ्गिणी
सुजिर्जालंधरं प्राप्तः प्रातर्भिक्षाचरान्तिकम् ।
यावद्यास्यति तं सायं तद्रूतस्तावदासदत् ॥ १६७० ॥
प्रेरितो ज्येष्ठपालेन निषिद्धो भागिकेन च ।
विरराम स तस्योक्त्या विपक्षाश्रयणग्रहात् ॥ १६७१ ॥
ऋणं देशान्तरोपात्तं तव भूपोपनेष्यति ।
स्वं च दास्यत्यधीकारं मन्मुखप्रहितार्थनः ॥ १६७२ ॥
इति दूतमुखेनोक्तः सोमपालेन चान्वहम् ।
विपक्षौत्सुक्यमुत्सार्य तद्देशाभिमुखो ययौ ॥ १६७३ ॥
उदयः कम्पनाधीशो वैशाखे तीर्णसंकटः।
खशान्वितेन संग्रामं प्रत्यपद्यत भिक्षुणा ॥ १६७४ ॥
प्राक्तस्थुष्यल्पपृतने जाते पृथुबले ततः ।
तस्मिन्कोहान्तरं भिक्षुः प्राविशत्प्राप्तवेष्टनः ॥ १६७५ ॥
राजाथ विजयक्षेत्र निर्यातः प्रत्यपूरयत् ।
कम्पनेशस्य कटकं तास्ताः संप्रेषयंश्चमूः ॥ १६७६ ॥
यत्रोपलशरासारविविधायुधवर्षिणी ।
दुर्गस्थितैर्नृपचमूः प्रत्ययोध्यश्मवर्षिभिः ॥ १६७७ ॥
पतत्स्वश्मसु भिक्षोश्च नामलक्ष्मसु पत्रिषु ।
ग्रहीतुं दुर्गजान्राजसेना दीर्घापि नाशकत् ॥ १६७८ ॥
दिनैरभ्यधिके मासमात्रे यातग्रहीत्ततः।
विदार्य मूलं दुर्गस्य धान्यं खाताम्बु संभृतम् ॥ १६७९ ।
दुर्गभाजो बलासाध्या राज्युपायपरे धियम् ।
जाततद्वैरिबाधेच्छां धनलुब्धामदर्शयन् ॥ १६८०॥
विससर्ज प्रतीहारमथ तद्वस्तुसिद्धये ।
राजा डामरसामन्तमत्रिराजात्मजैः समम् ॥ १६८१ ॥

अष्टमस्तरङ्गः। १४५ - कोष्टेश्वरत्रिल्लकाद्याः कृच्छ्रस्थस्य विमोक्षणम् । करिष्यामो वयं भिक्षोरिति बुद्ध्या तमन्वयुः ॥ १६८२॥ पश्यन्संकटशैलानादधः को मितोन्नति । जितं मेने प्रतीहारो वीक्ष्यानन्ताः स्ववाहिनीः॥ १६८३ ॥ पूर्वस्थितैः प्रतीहारानुगैश्चान्यत्र वासरे अयोधि सर्वसैन्यस्य बलात्को जिघृक्षुभिः ॥ १६८४ ॥ ते तावन्तोप्यश्मवृष्ट्या तथा तैः प्रतिचक्रिरे । नास्तीदं विक्रमेणेति यथागृह्णन्विनिश्चयम् ॥ १६८५ ॥ वीरदेहगुमाग्रेभ्यो न्यपतन्नश्मभिर्हताः । निर्यदलौघसरधाः शीर्षभ्रमरगोलकाः ॥ १६८६ ॥ कोष्टेश्वरस्य मूढत्वं नियूढं तत्र किंचन । स्वस्य भिक्षोलवन्यानामन्येषां च विनाशकृत् ॥ १६८७ ॥ नास्त्यत्र मत्समो वीर इत्येतावत्प्रसिद्धये । स ह्ययुद्धोद्धतं भिक्षोर्यत्प्राणक्षयकार्यभूत् ॥ १६८८ ॥ दुध्रुथूणां खशानां च संकटे धैर्यमादधे । कोष्टेश्वरोमि चाभिन्नौ तद्वश्या डामराः परे ॥ १६८९ ॥ यदेतदृश्यते भूरि सैन्यमस्मद्धिताय तत् । पर्यवस्येदिति वदन्समभाव्यन्यथा च तत् ॥ १६९० ॥ विस्रम्भभूरमुष्यारियंत्र कोष्टेश्वरोप्यसौ । अन्येषु तत्र केवास्थेत्यथ ते निश्चयं दधुः ॥ १६९१ ॥ भूभृत्पितृद्रुहः कार्यवशेन स्वोपवेशने । अङ्गीकृताधिकारस्तु धीमांष्टिक्कस्य लक्ष्मकः ॥ १६९२ ॥ खशाधीशं महाग्रामस्वर्णादित्यागसंश्रयात् । स्वीकृत्य भिक्षुदुभ्रक्षुबद्धकक्ष्यमकारयत् ॥ १६९३ ॥ १ भिक्षुदुध्रुक्षाबद्ध इति स्यात् । -- -

राजतरङ्गिणी
आनन्दाख्यः खशाधीशस्यालः कृतगतागतः ।
नीत्वा टिक्कं प्रतीहाराभ्यर्ण भूयोप्यरोपयत् ॥ १६९४ ॥
प्रतीहारस्य टिकेन सहैक्यं वीक्ष्य डामरैः ।
निःसंशयं हतोज्ञायि भिक्षुः कोटेश्वरादिभिः ॥ १६९५ ॥
संरब्धास्तद्विमोक्षाय प्राहिण्वंस्ते खशान्तिकम् ।
दूतानूरीकृतस्वर्णदाना भूरिधनैः समम् ॥ १६९६ ॥
खशस्तु दध्यावुत्कोचं गृहीत्वास्माभिरुज्झितः ।
जानाति रक्षितान्प्राणान्भिक्षुः कोष्टेश्वरादिभिः ॥ १६९७ ॥
समन्युः प्राप्तराज्योथ देङ्गपालोथ दूरगः ।
हन्यान्मां जयसिंहस्तद्रक्ष्यः पक्षः प्रयत्नतः ॥ १६९८ ॥
मत्वेति तेन प्रत्युक्ता भिधुं शौचस्थितं गृहात् ।
विपाट्यान्तः फलहकं निर्गच्छेत्यूचिरेपि ते ॥ १६९९ ॥
स त्वमेध्योपलिप्ताङ्गः श्वेवावस्करवर्त्मना।
यात इत्ययशो लोके ध्यायन्मानी न निर्ययौ ॥ १७०० ॥
कोष्टेश्वरो व्यक्तकृत्यः सैन्यक्षोभेच्छया क्षिपन् ।
रूक्षं कालविदा प्राहे प्रतीहारेण सान्त्वितः ॥ १७०१ ॥
नीवौ खशाद्यैर्दत्तायामाप्रत्यूषादगृह्यत ।
व्यवसायः प्रतीहारमुख्यैर्भिक्षुप्रमापणे ॥ १७०२ ॥
गच्छद्भिरागच्छद्भिश्च राजा दूतैः प्रतिक्षणम् ।
अन्विष्यन्विजयक्षेत्रे वार्ता पर्याकुलोभवत् ॥ १७०३ ॥
तावद्भिराहवैस्तैस्तैः साहसे दश वत्सरान् ।
कृतयत्नस्य साध्योभून्न यो वृद्धमहीभुजः ॥ १७०४ ॥
डिम्बो
राजानुगा
डिम्बास्तस्य भिक्षोः प्रमापणम् ।
साध्यमेते हि मन्यन्ते हन्त किं केन संगतम् ॥ १७०५ ॥

अष्टमस्तरङ्गः।
।
।
।
विहस्य नीयते वित्तं खशैरेत्य क्षणादमी ।
भग्ना नूनं प्रयास्यन्ति मुषिताश्चाखिलाः परैः ॥ १७०६ ॥
पृथग्भूतः कोष्टकोयं त्रिल्लकस्यैव बान्धवः ।
एते भिक्षाचरोच्छिष्टपुष्टा आभ्यन्तरा अपि ॥ १७०७ ॥
को नूतनोत्र संप्राप्तो यो राज्ञः साधयेद्धितम् ।
सामग्री नूनमायाता सेयमस्यैव सिद्धये ॥ १७०८ ॥
इत्यूचुः शिबिरे यावजनास्तावदवेष्ट्यत ।
कटकैर्मत्रिणां दुर्ग विकोशायुधवाहिभिः ॥ १७०९ ॥
एकाकी चिरसंक्लिष्टो हन्तव्यस्तत्कृतेखिलैः
हा धिक्परिकरो बद्धो निर्लज्जैः सर्वशस्त्रिभिः ॥ १७१०॥
त एवेत्यूचुरासीच कचच्छस्रोमिनिर्मलः ।
स्फुरद्योधाक्षिशफरो निःशब्दः सैन्यसागरः ॥ १७११ ॥
व्योनोड्डीयेत वा सैन्यं लङ्घयद्वा मृगलुतैः ।
दुष्टाभ्रवृष्टिरिव वा निखिलास्ताडयेत्समम् ॥ १७१२ ॥
साश्चर्यशौर्यः पर्यन्ते स्वीकुर्वन्भिक्षुरायुधम् ।
संभ्रान्तश्चकितश्चासीदित्यन्तश्चिन्तयञ्जनः ॥ १७१३ ॥
एतावन्मत्रिणां सिद्धमथ प्रत्यूहसंभवः ।
तच्छान्तिः कार्यसिद्धिश्च प्रतापैर्नृपतेरभूत् ॥ १७१४ ॥
सैन्ये भिक्षाचरापातं पश्यत्यू;र्पितेक्षणे ।
कोट्टानिष्कृष्टशस्त्रीकः पुमानेको विनिययौ ॥ १७१५ ॥
रुदतीभिः परीतस्य नारीभिस्तस्य चिक्षिपुः।
पृष्ठे केपि वपुलॊलकौसुम्भाधरवाससः॥ १७१६ ॥
बद्धः पलायमानोत्र सोयं भिक्षुरिति ब्रुवन् ।
उन्मुखः स जनोश्रौषीट्टिकं तमथ निर्गतम् ॥ १७१७ ॥

राजतरङ्गिणी स हि भिक्षोः कृतद्रोहतुमुले प्रस्तुतो वधम् । तस्माद्राजानुगेभ्यो वा स्वस्याशङ्कय विनिर्ययौ ॥ १७१८ अद्रोहोस्मीति लोकस्य प्रत्ययाय चकर्ष च । कृपाणीमुदरं हन्तुं रक्ष्यमाणो निजानुगैः ॥ १७१९ ॥ सानुगस्त्यक्तमार्गा स विलय नृपवाहिनीम् । अद्रिप्रस्रवणोपान्ते नातिदूरेभ्युपाविशत् ॥ १७२० ॥ उच्छृसंश्चिरसंप्राप्तैरम्भोभिर्दुर्गनिर्गतः । मायां प्रयोक्तुं प्रारंभे प्रेरितः सोन्यडामरैः ॥ १७२१ ॥ संजातं लम्बमानार्कमहस्तद्रक्ष्यतां क्षणम् । भिक्षुः क्षपायामास्कन्दमपनेष्यन्ति डामराः ॥ १७२२ ॥ इति तद्वाचिकात्तीक्ष्णानीविभिमन्त्रिणां समम् । खशैस्त्यजद्भिषितो न्यरुध्यन्तारुरुक्षवः ॥ १७२३ ॥ ततः किलकिलारावमुखरैः करतालिकाः। यौधैर्ददद्भिः सचिवा व्यगृह्यन्ताकुलाशयाः ॥ १७२४ ॥ मुक्ताः स्वामिद्रुहः कृच्छ्रगता राज्यं प्रसाधितुम् । द्विषतो मन्त्रिभिः स्वार्थो दत्त्वार्थान्को नु साधितः॥ १७२५॥ राजकार्ये च भानौ च लम्बमानेथ लक्ष्मकः । किमेतदिति तं नीवि खशस्यालमभाषत ॥ १७२६ ॥ सोभ्यधात्कुम्भदास्यापि रोद्धं शक्यं चिकीर्षितम् । खशानां प्रत्यवस्थाता कथं तत्रास्य संनिधिः ॥ १७२७ ॥ स हन्तुं वैपरीत्यं तं खशानां त्वं ब्रजेत्यथ । उक्त्वा व्यसृजदानन्दं जहसे चान्यमन्त्रिभिः ॥ १७२८ ॥ सुदूरदर्शिना राज्ञा विषलाटाध्वपाततः । देङ्गपालगृहा":"दारम्भः समभाव्यत ॥ १७२९ ॥ ।

अष्टमस्तरङ्गः। अतः प्रधानकोद्देशस्यालः स समगृह्यत । प्रागेवाथैरेतदर्थ प्रश्नता दीर्घवागुराम् ॥ १७३० ॥ संक्षोभावसरे क्षत्ता ततो निःसंभ्रमोभवत् । शिक्षितं पक्षिणमिव त्यक्तं प्राप्यं विवेद तम् ॥ १७३१ ॥ स तानूचे न हास्यं मे नष्टे कार्यत्र साहसम् । सर्वनाशे हतेमुष्मिन्खशस्यालेपि किं भवेत् ॥ १७३२ ॥ अकुण्ठया भाग्यशक्त्या राज्ञः स्यालः खशस्य सः। सर्वान्नियन्त्र्य दुर्गाग्रात्तीक्ष्णादीनाजुहाव तान् ॥ १७३३ ॥ दस्यूनामसवः कण्ठे संदेहं मन्त्रिणां धियः । स्वस्त्रीणां प्रीतयः काष्ठां तीक्ष्णाश्चारुरुहुर्गिरिम् ॥ १७३४ ।। स चर्मकौपीनपटीबद्धस्तत्स्वाभिधाङ्कितैः। इषुभिः स्वामिवत्स्वस्य ख्यापनं सर्वतो युधि ॥ १७३५ ॥ स ताम्बूलादरः सक्तिः सा केशश्मश्रुयोजने। याभूदनुमुमूर्षुणां भिक्षुराजोपजीविनाम् ॥ १७३६ ॥ निश्चितान्ते ततस्तस्मिन्स तेषामन्ववर्तत । कोष्टेश्वरादिशिबिरं तूर्ण शरणमीयुषाम् ॥ १७३७ ॥ तिलकम् ॥ एकैकशो लक्ष्मकेण युक्ताः स्वैः प्रेरितैर्भटैः । टिक्कः स्वं वीक्ष्य वलितं निचकर्ताङ्गुलिं भयात् ॥ १७३८ ॥ खशैरस्मिन्नवसरे स पलायनशङ्किभिः । रक्ष्यमाणस्तेष्वहःसु मनस्तापाद्भुक्तवान् ॥ १७३९ ॥ वीरस्ताम्यन्विलम्बन तीक्ष्णानामाहवोत्सुकः । तस्थौ भिक्षाचरः स्वान्तमक्षवत्या विनोदयन् ॥ १७४० ॥ १. बन्धः इत्युचितम् ।

राजतरङ्गिणी
हर्म्यप्राङ्गनमायाते तीक्ष्णलोके युयुत्सया।
उत्तिष्ठता तेन दायः स्तोकशेषः समाप्यत ॥ १७४१ ॥
दीव्यतः कान्तया साकं कामिनः सुहृदागमे ।
प्रत्युत्थास्लोरिव क्षोभो नान्तस्तस्य व्यजृम्भत ॥ १७४२ ॥
किमद्यापि वधेन स्याद्बहूनामिति चिन्तयन् ।
स विहाय शरावापं सासिधेनुर्विनिर्ययौ ॥ १७४३ ॥
सुदीर्घचिन्तागलितायामश्यामलिभिः कचैः ।
चञ्चच्चित्रपताकाङ्कमिव वीरपटाञ्चलैः ॥ १७४४ ॥
गण्डताण्डविनाच्छिद्रशङ्खताडङ्करोचिषा ।
चन्दनोल्लेखकान्त्या च द्योतिताहंक्रियास्मितम् ॥ १७४५ ॥
वितीर्ण चित्रचार्यन्ते विपर्यस्ताभिताडनम् ।
द्योतयन्तमिवालातैः शस्त्रीनेत्राधरांशुकैः ॥ १७४६ ॥
कौसुम्भाधरवासोनबद्धधौताधराञ्चलैः ।
लोलैर्वीरहरिं बद्धसटाटोपमिवांसयोः ॥ १७४७ ॥
दृङ्मनःपाणिपादैक्यचारुप्रचुरचारिभिः ।
चरन्तं मण्डलैश्चित्रैर्लघुचित्रस्थिरक्रमैः ॥ १७४८ ॥
औचित्यस्योचितां चर्यामलंकारमहंकृतेः ।
अभिमानविभूतीनां नित्योत्सेकमनत्ययम् ॥ १७४९ ॥
अलक्षितक्षिप्रपातं स सर्वोप्युन्मुखो जनः ।
विचरन्तं तमैक्षिष्ट भिक्षुमने विरोधिनाम् ॥ १७५० ॥
कुलकम् ॥
राजबीजी मधोनता तं प्रवीरः कुमारियः ।
भ्रातापि ज्येष्ठपालस्य निर्यातो रक्तिकोन्वगात् ॥ १७५१ ।।
हम्यैर्निनोन्नतैस्तैस्तैर्विशतः परिपन्थिनः ।
रुरोधैकः शरासारैर्गार्गिको भिक्षुसंश्रितः ॥ १७५२ ॥

अष्टमस्तरङ्गः। ते धावन्तो व्यभाव्यन्त शरैस्तञ्चापनिर्गतैः। वर्षोपलैः पुरोवातप्रेरितैरिव दन्तिनः ॥ १७५३ ॥ स रोद्धा प्रतियोधानां पापैः क्षिप्ताश्मभिः खशैः। क्षताङ्गो भग्नचापश्च चिरेण विमुखीकृतः ॥ १७५४ ॥ तस्मिन्प्रचलिते मार्गः प्रविश्योच्चावचैर्भटाः । ते च भिक्षाचरादीनां सर्वे गोचरमाययुः ॥ १७५५ ॥ भिक्षोरेक क्षणालक्ष्यधैर्य पार्श्वधृतायुधम् । अधावत्तूर्णमादाय शूलमेको बृहद्भटः ॥ १७५६ ॥ तस्य प्रहरतः शूलं भिक्षुराश्रितवत्सलः। क्षिप्त्वापहस्तेनावेगात्केशाञ्जग्राह धावितः ॥ १७५७ ।। प्रजहार कृपाण्या च निर्यत्प्राणे पतिष्यति । तस्मिन्प्रहरतो भूयस्तो कुमारियरक्तिकौ ॥ १७५८ ॥ निर्विभागैर्हते तस्मिन्विविधायुधवाहिभिः । विरोधियोधैः संनद्वैस्त्रयो युयुधिरेथ ते ॥ १७५९ ॥ अजायन्त विविक्ताश्च शस्त्रसंत्रासिताहिताः । कोटराजगरापास्तसरघौधा इव द्रुमाः ॥ १७६० ॥ अशक्नुवन्तस्तान्हन्तुं खड्गशूलादिभिर्द्विषः । अपसृत्य शरासारैस्ततो दूरादवाकिरन् ॥ १७६१ ॥ भिक्षाचरमृगेन्द्रस्य भञ्जतः शरपञ्जरान् । ततो हात्खशैमुक्ताः पुष्टाः पाषाणवृष्टयः ॥ १७६२ ॥ धावतस्तस्य घोराश्मवृष्टिकुण्ठितवर्मणः । निममज यकृत्पिण्डं भञ्जन् पार्श्वे शिलीमुखः ॥ १७६३ ॥ क्रान्त्वा त्रीणि पदान्याशु स पपात दिशक्षितेः । ततश्विरप्ररूढं तु कम्पं विद्विषतां हरन् ।। १७६४ ॥

१५२ राजतरङ्गिणी कुमारियोऽपि बाणेन विद्धवङ्कणवर्त्मना । ब्रणितोप्यपतद्भर्तुः पादोपान्तोपजीवितः ॥ १७६५ ॥ रक्तिकस्तु शरेणैव विद्धो मर्मणि विह्वलः । सजीवितोपि निर्जीव इव भूमावुपाविशत् ॥ १७६६ ॥ महाकुलीनः सहितो हतो भिक्षुरशोभत । वज्रावभग्नः शिखरी पुष्पितैरिव पादपैः ॥ १७६७ ॥ इयतो राजचक्रस्य मध्ये हर्षनृपात्मनः । नावमानस्य मानस्य त्वभूद्भिक्षोः परं पदम् ॥ १७६८ ॥ विधाता नित्यविधुरस्तेजोधैर्याभिमानितः । अकुण्ठेन ध्रुवं चक्रे गृहीतात्मपराजयः ॥ १७६९ ॥ को वराको महर्धीनां सोने पूर्वमहीभृताम् । उदात्तेनात्तकृत्येन ते त्वस्याने न किंचन ॥ १७७० ॥ आहोपुरुषिकाग्रस्तरारोहद्भिर्द्विषद्भटैः। तदवस्थस्तदात्तोपि शख्यायुद्ध कुमारियः ॥ १७७१ ॥ स्फुरन्योद्धव्यमित्येव स प्रहारावशस्तथा । विज्ञाततत्त्वैररिभिर्वितत्य बहुशो हतः ॥ १७७२ ॥ विपन्नेस्मिन्नलं मूढाः प्रहारैरिति निन्दिताः । खशैः प्रजहुर्बहुशो हते भिक्षौ द्विषद्भटाः ॥ १७७३ ॥ अविधेयायुधस्तीव्रव्रणवेदनयाधमैः । कैश्चिनिर्जीवितप्रायो रक्तिकः शस्त्रिभिर्हतः ॥ १७७४ ॥ वयसस्त्रिंशति वर्षान्नव मासांश्च भुक्तवान् । स षष्ठाब्दासितज्येष्ठदशम्यां नृपतिर्हतः ॥ १७७५ ॥ १ हर्षनृपात्परः इति स्यात् । २ उदात्तेन तु कृत्येन इति स्यात् । ३ प्रहारैरतिनि- न्दिता इत्युचितम् ।

अष्टमस्तरङ्गः।
निदानं विप्लवे दीर्धे सर्वनाशेपि कारणम् ।
येषां बभूव तेप्येवं तुष्टुवुः सत्त्वविस्मिताः ॥ १७७६ ॥
नेत्रस्पन्दं भ्रुवोः कम्पं सेरास्यत्वं च नामुचत् ।
सजीवमिव तन्मुण्डं कियतीरपि नालिकाः ॥ १७७७ ॥
एक व्योन्यविशच्चित्रभानुं भूमौ पुनः परम् ।
तदेहमप्सरःसङ्गं धाराम्बु च विदजडम् ॥ १७७८ ॥
सचिवा विजयक्षेत्रस्थितस्याग्रे महीपतेः।
तेषां त्रयाणां मुण्डानि ततोन्येधुरुपाहरन् ॥ १७७९ ॥
श्रीसुधारत्नदन्त्यश्वशशाङ्कादिप्रकाशने।
दृष्टचित्रस्वभावोब्धिय॑थायं पार्थिवस्तथा ॥ १७८० ॥
तत्र तत्राद्भुतं भावं दर्शयन्भुवनाद्भुतम् ।
परिच्छेद्यानुभावत्वं न केषामपि गच्छति ॥ १७८१ ॥
नादृप्यनिहतोसाध्यः पितुर्मे योप्यभूदिति ।
न जहर्ष विनष्टोयं राजकण्टक इत्यपि ॥ १७८२ ॥
नाकुप्यत्स पितुर्मुण्डमेष भ्रमितवानिति ।
वीक्ष्य भिक्षोः शिरोव्याजभावादायस्त्वचिन्तयत् ॥१७८३ ।।
युग्मम् ।।
आकारस्यास्य संभाव्यं सत्त्वं न द्वेषवैकृतम् ।
वैशा स्फटिकस्येव नार्कालोकोपतप्तताम् ॥ १७८४ ॥
उत्कर्षात्प्रभृति व्यक्तममुं यावन्महीभुजम् ।
हा धिक्सुमृत्युना दृष्टं नेह देहविसर्जनम् ॥ १७८५ ॥
प्रसादद्वित्ता येप्यासन्पूर्वमस्योर्वराभुजः।
तटस्था इव वीक्षन्ते तेद्य मुण्डावशेषताम् ॥ १७८६ ॥
इति क्षितीशोसामान्यसौजन्योन्तर्विचारयन् ।
आदिदेश रिपोः शीघ्रं तादृशस्यान्तसक्रियाम् ॥ १७८७ ॥

राजतरङ्गिणी । निद्राच्छेदे च निशि "ध्यायंस्तस्योदयात्ययौ । भवस्वभाववैचित्र्यं मुहुर्मुहुरचिन्तयत् ॥ १७८८ ॥ अपि वर्षसहस्त्रेण देशे दायाददुःस्थितिः। नूनं न भविता भूय इति लोकोप्यमन्यत ॥ १७८९ ॥ दग्ध्वा तृणं तनु घनं प्रतनोति शष्पं वृष्टिं सृजत्युपचितोष्मदिनं प्रदर्श्य । वैचित्र्यसंस्पृशि विधेनियमेन कृत्ये न प्रत्ययः वचन चञ्चलनिश्चयस्य ॥ १७९० ॥ कृत्यं निवर्त्य विश्रान्त्यै धीरस्याबध्नतो मनः । विधिविधत्ते दीर्घान्यकार्यभारसमर्पणम् ॥ १७९१ ॥ आरोढुं प्रथमस्य दीर्घमैदनप्रत्तक्लमस्याक्षिणा नो संत्यज्यत एव पादकटको यावद्वितीयोखिलः । वाहस्यासनरक्षिणः कलयतो भारावतारात्सुखा- न्यारोहेण परेण तावदसहाधिष्ठीयते पृष्ठभूः ॥ १७९२ ॥ एवमेव क्षपामात्र राज्ये निःशत्रुतां गते । शोकमूको नृपस्याग्रं प्राविशल्लेखहारकः ॥ १७९३ ॥ पृष्टः सभ्यैः स संभ्रान्तैर्यस्मिन्नेवाहि भूपतेः। यातो भिक्षाचरः शान्तिमरातिर्दत्तदुःस्थितिः ॥ १७९४ ॥ भ्रातरौ लोहरगिरौ बद्धौ द्वैमातुरौ पुरा । न्यस्तौ सुस्सलभूपेन यौ तौ सल्हणलोठनौ ॥ १७९५ ॥ ज्येष्ठे मृते कोभृत्यैः कनिष्ठं लोठनं हठात् । तमिहाद्य त्रियामायामभिषिक्तमभाषत ॥ १७९६ ॥ सुतभ्रातृसुतैईप्तै राज्याहैः सह पञ्चभिः । निर्यातं बन्धनादूचे कोशेषु स तमीश्वरम् ॥ १७९७ ॥ १ आरोढुः इत्युचितम् । २ दीर्घदमन इति स्यात् । 20

अष्टमस्तरङ्गः।
दूयेत मुह्येदाक्रन्देत्प्रसारितभुजः पतेत् ।
स्वयाद्विसूत्रो निःस्पन्दद्दलं गच्छेदथ ध्रुवम् ॥ १७९८ ॥
दीर्घदौस्थ्यशमक्षिप्रमृदूकृतमना नृपः ।
असौ तत्कालनिपतदुर्वार्तावज्रचूर्णितः ॥ १७९९ ॥
इति संभाव्य दिक्पालैरपि साकूतमीक्षितः।
नाकाराचारचेष्टाभिः प्रागवस्थां जहौ नृपः ॥ १८०० ॥
नानन्याभिभूतेन सर्वतोसह्यवर्तिना।
तादृशा वैशसेनान्यः सृष्टपूर्वो हि भूपतिः ॥ १८०१ ॥
पित्रास्य यदलान्नष्टं राज्यं भूयः प्रसाधितम् ।
अनेनापि हताराति विहितं पैतृकं पदम् ॥ १८०२ ॥
हारितौ दुर्गकोशौ तौ नष्टनामापि दारकः ।
दायादशेषो यत्रैको निर्धनो वीतबान्धवः ॥ १८०३ ॥
धनमानान्तकृद्धरिवर्षान्व्यसनमादधे ।
उपप्लवप्रिये देशे तत्रैकस्मिन्हतेहिते ॥ १८०४ ॥
मित्रदुर्गार्थसंपन्नाः प्रोद्भूताः षड्रोिधिनः ।
भिन्नप्रकृतिक कोशशून्यमेतच्च मण्डलम् ॥ १८०५ ॥
तादृङ्गिकषनिस्तीर्णमाहात्म्यस्य महीपतेः ।
धैर्येण स्पर्धितुं जाने राघवोपि सलाघवः ॥ १८०६ ॥
प्राक्पोषितं हि साम्राज्यदाने निर्वासने च तम् ।
तुल्यानुभावमस्सा त्पितैवं गणयन्गुणान् ॥ १८०७ ॥
आहूतस्याभिषेकाय विसृष्टस्य वनाय वा।
न मया लक्षितस्तस्य स्वल्पोप्याकारविप्लवः ॥ १८०८ ॥
कान्तेषु काननान्तेषु सकान्तं सानुजं च तम् ।
भूयः श्रियं प्रतिश्रुत्य स्थातुं सावधि सोभ्यधात् ॥१८०९॥

राजतरङ्गिणी
सुखदुःखयोः
।
।
एकक्षणानुभूतेस्मिन्संघट्टे
ईदृक्तत्तद्दशाभेदादनयोरन्तरं महत् ॥ १८१० ॥
नियतं निरुपादानां शक्ति दर्शयितुं जने ।
नानोपकरणग्रामं संनद्धोस्याच्छिनद्विधिः ॥ १८११ ॥
अत्यद्भुतानि कृत्यानि वक्ष्यमाणानि भूपतेः ।
कोमुष्य बहु मन्येत सामग्र्ये सति संपदाम् ॥ १८१२ ॥
धैर्याब्धिना कार्यशेष ज्ञातुं राज्ञा सविस्तरम् ।
पृष्टोथ कोवृत्तान्तमाचख्यौ लेखहारकः ॥ १८१३ ॥
उत्सृज्य भागिके कोट्टं प्रयाते मण्डलेश्वरः।
लुप्तोद्योगोभवगुप्तौ प्रेमा संपत्प्रमत्तधीः ॥ १८१४ ॥
मण्डनाभ्यवहारस्त्रीभोगैकाग्रो मदोग्रया।
स वृत्त्या भयवैमुख्याधात्र्याभव्यं व्यवाहरत् ॥ १८१५ ॥
कुल्यानुकम्पिना दृष्ट्युत्पाटनादेः स वारितः ।
देवेन नादाबद्धानां कांचिद्रक्षाक्षमा क्रियाम् ॥ १८१६ ॥
मायाव्युदयनो नाम कायस्थः स्थूलवाञ्छितः।
माजिकश्च प्रतीहारो बद्धमूलस्य मत्रिणः ॥ १८१७ ॥
पुत्रो भीमाकरस्येन्द्राकरश्चात्रान्तरे समम् ।
दुभ्रुक्षवस्तत्र तत्र वधं प्रेम्णो व्यचिन्तयन् ॥ १८१८ ॥
अलब्धो
हन्तुमप्राप्तावसरैस्तैः
कदाचन ।
कोट्टादट्टालिका कार्यवशादवरुरोह सः ॥ १८१९ ॥
कश्मीरेभ्यो नृपेणाल्पावशेषप्राणवृत्तिना।
प्रैषि शासनमेतादृगिति प्रत्ययसिद्धये ॥ १८२० ॥
कोडौकसामशेषाणां गूढलेखान्विधाय ते ।
निबद्धसंविदः पूर्वमभिषेच्यस्य भार्यया ॥ १८२१ ॥

अष्टमस्तरङ्गः। दृष्ट्वा दुर्गान्निर्निगडं कृत्वा च निशि लोठनम् । सिंहराजस्वामिविष्णुप्रासादाग्रेभ्यषेचयन् ॥ १८२२ ॥ शारदाख्या वधूरेका कापि सुस्सलभूपतेः । तत्र स्थिताभवत्क्षुद्रा तेषामनुमतप्रदा ॥ १८२३ ॥ तदर्पितैरयोयत्रभञ्जनैरर्गलानि ते । कोशानिवार्य पर्याप्तं कोशरत्नादि जहिरे ॥ १८२४ ॥ सभृत्यैः सप्तभिस्तत्तत्साहसं सुमहत्कृतम् । दानेन त्याजितायामा चण्डालैः प्रतिकूलता ॥ १८२५ ॥ भेरीतूर्यादिनि?पैर्निर्निद्राः कोट्टवासिनः। कृतराजोचिताकल्पमपश्यन्नथ लोठनम् ॥ १८२६ ॥ अदृष्टपूर्वतादृक्षोदात्तवेषः स विस्मयम् । निन्ये जनान्नृपामात्ययोगो दीपैः प्रकाशितः ॥ १८२७ ॥ प्रेम्णः पार्श्वस्थितस्ताभ्यामानयेहारकोन्तिकम् । ससैन्यौ स्वभुवश्चर्मपासिकाख्यौ च ठकुरौ ॥ १८२८ ॥ तदास्थयाहितास्कन्दभङ्गस्तेषामशेषतः । रात्रिशेषश्च चन्द्रांशुस्पर्शपाण्डुरशीर्यत ॥ १८२९ ॥ प्रातः प्रेमाथ दुर्वार्ताश्रवणेनोष्णदारुणः। संताप्यमानश्चोष्णांशुकरै रोद्धमुपाययौ ॥ १८३० ॥ तं प्रतोलीतलप्राप्तं निर्यातैरिसैनिकैः । पराङ्मुखीकृतं वीक्ष्य चलितोस्म्यन्तिकं प्रभोः ॥ १८३१ ॥ श्रुत्वेति भूभृत्त्वरया लुलं लोहरमत्रिणम् । विससोदयद्वारपतिमानन्दवर्धनम् ॥ १८३२ ॥ भूमिज्ञौ तौ हि कोदृस्य विवेदानन्यदेशजौ। सोल्पान्नत्वादिरन्ध्राणां लक्षणाब्रहणक्षमौ ॥ १८३३ ॥ १ योद्धमाययौ इति स्यात् ।

PRA
is
१५८
राजतरङ्गिणी
.
प्रविष्टश्च पुरं दृष्ट्वा प्रीतिदायार्थिभिः शिरः ।
भ्राम्यमाणं भटैर्भिक्षोराक्षिप्यैतानदाहयत् ॥ १८३४ ॥
राजादेशादसंरुद्धैः स्त्रीभूयिष्ठौरसौ जनैः ।
नप्ता पैतामहे देशे दह्यमानोन्वशोच्यत ॥ १८३५ ॥
काले ग्रीष्मोदयोद्रिक्तभानौ स्वविषये नृपः ।
सिद्धिमश्रद्दधानोपि प्रहिणोति स्म रिल्हणम् ॥ १८३६ ॥
स शौर्यस्वामिभक्त्यर्थनैःस्पृह्यादिगुणोज्वलः।
तेन ह्यमोघप्रारम्भः समभावि जिगीषुणा ॥ १८३७ ॥
भवितव्यतया दत्तव्यामोहः प्रेरितोथवा ।
शठामात्यैरभूद्भूभृत्स व्यक्तायुक्तमत्रितः ॥ १८३८ ॥
हीनोर्थदुर्गामात्यैर्यनिर्वैक्लव्यस्य वैरिणः ।
अनुमेने कृतारब्धीन्भृत्यान्ग्रीष्मोल्बणे क्षणे ॥ १८३९ ॥
उदयः कम्पनाधीशो राशोने पर्यशिष्यत ।
सर्वामात्याः प्रतीहारमन्वगच्छन्पुनः परे ॥ १८४० ॥
राजात्मजहयारोहडामरामात्यमिश्रया ।
दैर्ध्य तत्सेनयावापि सर्वसामग्र्युद्ग्रया ॥ १८४१ ॥
संवेष्टयनलिकानिविष्टकटको दिशः।
संग्रहीतुं प्रववृते सर्वोपायविरोधिनः ॥ १८४२ ॥
लुल्लादयः फुल्लपुरे कोट्टोपान्ताश्रये स्थिताः ।
भयभेदाहवव्यग्रान्प्रकम्पमनयन्त्रिपून् ॥ १८४३ ॥
सुस्सलक्ष्मापतिर्बद्धे लोठने तत्सुतामदात् ।
यस्सै प्राक्पालेखाख्यां बहुस्थलधराभुजे ॥ १८४४ ॥
साहायकाय प्राप्तस्य तस्य सैन्यैषिञ्चमूः ।
शूराभिधस्य युद्धेषु प्रत्यग्राहि प्रतिक्षणम् ॥ १८४५ ॥

अष्टमस्तरङ्गः। तेषूपरुद्धराष्ट्रेषु भयदोलायमानधीः । अङ्गीचके नरपतेनतिं दण्डं च लोठनः॥ १८४६ ॥ एतावत्सिद्धमफलारब्धीनामत्र दुःसहे । काले व्यावृत्तिरस्माकमुचितास्मिन्न लाघवः ॥ १८४७ ॥ शारदारम्भसुभगे क्रमात्काले बलोर्जिताः। अथारब्धि विधास्यामः सर्वारम्भेण शोभनाम् ॥ १८४८ ॥ प्रत्यन्वहं लक्ष्मकेण प्रहितं नादधे नृपः । अन्ये च मत्रिणो मत्रं शाठ्यादभ्यर्णवर्तिनः ॥ १८४९ ॥ तिलकम् ॥ सर्वाधिकार्युदयनः प्रतिश्रुत्य धनं बहु । साहायकार्थमानिन्ये सोमपालमपि प्रभोः ॥ १८५० ॥ अपातेयः स संबन्धबद्धोपि धनलुब्धधीः । द्रुह्यति स्म महाव्यापन्निमग्नाय महीभुजे ॥ १८५१ ।। बह्वर्थदो लोठनश्चेत्कि मे संबन्ध्यपेक्षया । अन्यथा भवतामस्मीत्यन्यान्वक्ष्यामि कैतवात् ॥ १८५२ ॥ दम्भमित्यभिसंधाय सोमपालोभ्युपाययौ । समर्थने हेतुरासीत्सुजेाजे कियानपि ॥ १८५३ ॥ युग्मम् ॥ स हि भिक्षाचरौन्मुख्यान्निवार्यानायितो यदा । सोमपालमुखेनोर्वीभुजा राजविसर्जितः ॥ १८५४ ॥ दूतः प्रार्थयमानस्या.....र्थान्प्राक्प्रतिश्रुतान् । ऋणिकस्योत्तमणेभ्यः प्रदातुमनुबनतः ॥ १८५५ ॥ तदा भिक्षाचरं जानन्हतकल्पमनेन नः । व्यसनप्रशमे कोर्थ इत्यवशां प्रकाशयन् ॥ १८५६ ॥ १ इत्यन्वहं इति स्यात् ।

राजतरङ्गिणी
मदन न ददौ किंचित्सोथ भिक्षाचरं हतम् ।
श्रुत्वा निरुपयोगं स्वं राज्ञो ज्ञात्वा सशोकताम् ॥ १८५७
यावदेकाहमभजल्लोहरव्यसने भयम् ।
तावन्निशम्य संप्राप्तोत्सेको भूयोपि मन्युभाक् ॥ १८५८ ॥
लोठनं बद्धसंधिं वः करिष्यामीति भूभुजः।
उक्त्वा दूतं लोठनेन दापयिष्यामि काञ्चनम् ॥ १८५९ ॥
युष्मभ्यं कथयित्वेति सोमपालं चिकीर्षितम् ।
बलितामबलत्वं च सर्वेषां स्वार्थसिद्धये ॥ १८६० ॥
समं सोमेन तत्सैन्यमन्यप्रस्थित्यलक्षितः ।
मितैरनुगतो भृत्यै?रमूलकमासदत् ॥ १८६१ ॥
यद्वानौचित्यदुष्पांसुवर्षदूषितकीर्तिना।
भोगलुब्धतया तेन हता विततसत्त्वता ॥ १८६२ ॥
तुषारशर्कराशुक्लजलपानाददुर्जरम् ।
त्यक्तुं भोज्यं मृदु स्निग्धं काश्मीरं न शशाक सः॥१८६३॥
सतुषं शुष्कसत्वादि बहिर्मोक्तुमपारयन् ।
यस्तैरुपायैः कश्मीरान्प्रविविक्षुरतोभवत् ॥ १८६४ ॥
काश्मीरकाः कार्यशेषमदृष्ट्वा ग्रीष्मशोषिताः ।
आकर्ण्य च तदापातमाकुलत्वमशिश्रियन् ॥ १८६५ ॥
भुञ्जानै ष्टमांसानि पिबद्भिः पुष्पगन्धि च ।
प्रतीहाराग्रतो हारि मार्कीकं लघु शीतलम् ॥ १८६६ ॥
आनेष्यामो जवात्सुजिमाकृष्य श्मश्रुसंयुगे ।
इत्थं विकत्थनैस्तैस्तैराहोपुरुषिकाः कृताः ॥ १८६७ ॥
काश्मीरकैर्मितैर्युक्तं खशैः सैन्धवकैरपि ।
अभिषेणयितुं शेकुर्न तेप्युद्यमिनोपि तम् ॥ १८६८ ॥

अष्टमस्तरङ्गः।
-
भ्रातृव्याय च मुख्याय भूभुजां च करार्पणम् ।
विदध्यां जयसिंहाय वरमित्यभिमानिना ॥ १८६९ ॥
बहर्थमर्थ्यमानेन लोठनेन तिरस्कृतः।
सोमपालः प्रियं किंचिद्राजपक्षे न्यदर्शयत् ॥ १८७० ॥
मयि श्वशुरसैन्यानां व्यग्राणां वैरविग्रहे।
सुजेहिताय त्वं रन्ध्रमन्विष्यसि किमाश्रितः ॥ १८७१ ॥
इति निर्भसितस्तेन सुजिः स्वाहंक्रियोचितः ।
सर्वानुल्लङ्घय संनद्धो राजसैन्यग्रहेभवत् ॥ १८७२ ॥
जरढाषाढसंजातशीतज्वरमहाभयः ।
वरूथिनीमथोत्थाप्य विद्रौ निशि लक्ष्मकः ॥ १८७३ ॥
विसृष्टदूताः कटकं नष्टं वक्तुं प्रभोद्भुतम् ।
केचिदन्वसरन्सुजिं सैनिकास्ते जिघांसवः ॥ १८७४ ॥
पारेणैकेन भूपालसैन्यमन्येन वैरिणः ।
वर्त्मनः श्वभ्रदुर्गस्य तुल्यमेव प्रतस्थिरे ॥ १८७५ ॥
शारम्बरपथं वैरिवश्यं त्यक्त्वा यियासवः ।
स्वोवीं कालेननाख्येन संकटेन तदन्तिके ॥ १८७६ ॥
तस्मिन्नहन्यस्खलिता वनिकावासनामनि ।
ग्रामे सैन्या न्यविक्षन्त लोकैरुच्चावचैः समम् ॥ १८७७ ॥
युग्मम् ॥
अनुप्रस्थायिनोभ्यर्णग्रामकेष्वपि दुद्रुवुः ।
भुक्त्वा पीत्वाथ ते निन्युर्निशार्धमकुतोभयाः ॥ १८७८ ॥
अथापातं विद्विषद्भिः स्वस्य श्रावयितुं द्रुतम् ।
क्षोभभृत्सुन्जिरभ्येत्य तूर्यघोषमकारयत् ॥ १८७९ ॥
क्षणदाशेष एवाशु पलायांचक्रिरे ततः ।
तैस्तैः शैलपथैः सेना निरवष्टम्भनायकाः ॥ १८८० ॥

१ राजतरङ्गिणी चित्राम्बराणि मुष्णद्भिः प्राहेत्यज्यन्त मत्रिणः । भूप्रकम्पैर्गण्डशैला नानाधातुद्रवैरिव ॥ १८८१ ॥ लुण्ठ्यमानाश्चमूत्रातुं नादे कश्चिदायुधम् । तदान्वयेन वा तेन स्वात्मनान्यस्तु रक्षितः ॥ १८८२ ॥ उत्प्लुत्य लघयन्तोऽद्रीन्केपि शोणाधरांशुकाः । रक्तस्फिजो गतौ प्रापुर्मर्कटा इव पाटवम् ॥ १८८३ ॥ केप्यम्बरपरित्यागविकचद्गौरविग्रहाः । हरितालशिलाखण्डा इव वातेरिता ययुः ॥ १८८४ ॥ शूलवेणुवनाकीर्णैः शैलैरकृशविग्रहाः । केपि श्वासोत्थपूत्काराः करिपोता इवाव्रजन् ॥ १८८५ ॥ किं नामोदीरणैर्मत्री स नासीत्तत्र कश्चन । तिरश्चैव विपर्यस्तधैयर्न पलायितम् ॥ १८८६ ॥ भृत्यस्कन्धाधिरूढोथ गच्छन्मूढः प्रधावितुम् । प्रतीहारो द्विषद्योधैर्दूरात्कैश्चिद्यलोक्यत ॥ १८८७ ॥ निरंशुकः स सूर्याशुकचत्केयूरकुण्डलः । प्रतिज्ञायानुसने तैः सर्वप्राणप्रधावितैः ॥ १८८८ ॥ अश्माहतेन भृत्येन त्यक्तः स्कन्धादृषत्क्षतः । स निःस्पन्दवपुस्तिष्ठंस्तैरग्राहि महाजवैः ॥ १८८९ ॥ नवबन्धनशोकार्तशारिकाकृशविग्रहः । स गग्गलिरिव व्यञ्जद्विषः संकुचितेक्षणः ॥ १८९० ॥ बद्धस्य मे मानधनप्रहतुर्वैशसान्तरम् । इतोधिकं ध्रुवं सुजिर्विदध्यादिति चिन्तयन् ॥ १८९१ ॥ स्कन्धेधिरोप्य निःशेषीकृतप्रावारभूषणः । नदद्भिः सोपहास तैः सुजेरग्रं व्यनीयत ॥ १८९२ ॥ तिलकम् ॥

अष्टमस्तरङ्गः।
---
प्रच्छाद्य सत्त्ववान्वकं सोशुकेनैष नोर्चितः।
बृहद्राज इवेत्युक्त्वा तस्मै स्वान्यंशुकान्यदात् ॥ १८९३ ॥
प्रावारिताम्बरं कृत्वा हयारूढं च तं पुनः ।
धैर्यणायोजयस्निग्धैर्वचोभिः परिसान्त्वयन् ॥ १८९४ ॥
निर्लुण्ठिततुरंगासिकोशैः परिवृतः खशैः
ततो गृहीत्वा तं श्रीमान्सोमपालान्तिकं ययौ ॥ १८९५ ॥
इमा व्योमाङ्गनक्रीडत्तडित्तरलविभ्रमाः।
भाग्यमेघानुयायिन्यः स्थायिन्यः कस्य संपदः ॥ १८९६ ॥
आराधनधिया स्वैरं यस्यानेभोजि भृत्यवत् ।
गात्राणि कुङ्कुमालेपैरुपाचर्यन्त च स्वयम् ॥ १८९७ ॥
सोमपालादिभिः प्रलैः स मासैरेव पञ्चषैः ।
तेषामग्रे
तथाभूतस्तिष्ठंल्लोकैयंभाव्यत
॥ १८९८॥
लुल्लोपि पलितश्वेतोपान्तश्यामाननः परैः ।
वनौका इव बद्धोभूच्छोकमूको बनान्तरे ॥ १८९९ ॥
अर्पितं सुजिना सोमपालः स्वीकृत्य लक्ष्मकम् ।
जानन्गृहीतान्कश्मीरान्निजराष्ट्र न्यवर्तत ॥ १९०० ॥
लोठनस्यान्तिकादेत्य स शूरैमाधिकादिभिः ।
प्रतिश्रुतप्रभूतार्थैः प्रतीहारमयाच्यत ॥ १९०१ ॥
कश्मीरादिप्रतीहारशिक्षापक्षानुयायिभिः।
तदा न कैरमन्यन्त संप्राप्या डामराण्डजैः ॥ १९०२ ॥
लुब्धेनापि प्रतीहारायत्तं राष्ट्रं जिघृक्षुणा ।
भूरि चादित्सुना वित्तं राज्ञोकारि न तेन तत् ॥ १९०३ ॥
भग्नमानेष्वमात्येषु प्राप्तेषु नगरं नृपः ।
हारिते च प्राहारे न धैर्यात्पर्यहीयत ॥ १९०४ ॥

१६४
राजतरङ्गिणी
।
।
यैः सैन्यसारैर्दुराज्यं पुरा भिक्षाचरोकरोत् ।
यैश्चाप्युत्कुपिते राष्ट्रे वृत्त्यावर्तिष्ट सुस्सलः ॥ १९०५ ॥
भूभृता संगृहीतानां शीतज्वररुजा ततः ।
तेषां दशसहस्राणि योधानां निधनं ययुः ॥ १९०६ ॥
विरराम तदा देशे न मुहूर्तमपि क्वचित् ।
बान्धवाक्रन्दतुमुलं प्रेतवाद्यमहर्निशम् ॥ १९०७ ॥
घोरघर्मणिश्रान्ताशेषव्यवहृतिस्थितिः ।
सोनुत्साहहतः कालो नष्टराज्य इवाभवत् ॥ १९०८ ॥
नानादिगन्तरायातैः प्राप्तैः काश्मीरकैरपि
लोहरेथ प्रवृद्धर्द्धि राजद्वारमजायत ॥ १९०९ ॥
काकतालीयसंप्राप्तलोकोत्तरनृपश्रियः।
अकुण्ठा लोठनस्यासीत्स्फूर्तिर्वित्तपतेरिव ॥ १९१० ॥
तस्याकारपरिक्लेशवैशसाभिन्नवृत्तयः ।
भोगेष्वबाह्या भ्रातृव्यभृत्यपुत्रादयोभवन् ॥ १९११ ॥
नास्थानवर्षी स्थाने वा बद्धमुष्टिर्विभूतिमान् ।
स वयःपाकनिषकर्मव्यवहारो व्यभाव्यत ॥ १९१२ ॥
छायानिरङ्कुशगतिः स्वयमातपस्तु
च्छायान्वितः शतश एव निजप्रसङ्गम् ।
दुःखं सुखेन पृथगेवमनन्तंदुःख-
पीडानुबोधविधुरा तु सुखस्य वृत्तिः ॥ १९१३ ॥
तादृगभ्युदयावाप्तेर्मासे न्यूनधिके गते ।
एकसूनोः सुतो दिल्हो लोठनस्य व्यपद्यत ॥ १९१४ ॥
तमेकपुत्रा शोचन्ती शोकशङ्कुहताशया ।
ततः प्रपेदे प्रलयं मल्ला लोठनवल्लभा ॥ १९१५ ॥

अष्टमस्तरङ्गः।
।
पत्न्यामभिन्नभावायां गुणज्येष्ठे तथात्मजे ।
विपन्ने स तया लक्ष्म्या न कृत्यं किंचिदैक्षत ॥ १९१६ ॥
निःस्नेहत्वस्य भूपालसुलभस्य विजृम्भितम् ।
मोहनी वा श्रियः शक्तिर्यदज्ञासीत्पुनः सुखम् ॥ १९१७ ॥
अकारयन्निर्धनोपि तथा वृद्धस्य कालवित् ।
लक्षैः षट्त्रिंशता मोक्षं लक्ष्मकस्य क्षमापतिः ॥ १९१८ ॥
दिष्टवृद्धिपरिक्षिप्तपुष्पवृष्टौ जनैः पथि ।
तस्मिन्प्राप्ते न कोज्ञासीद्राज्ञा प्रत्याहृतां श्रियम् ॥ १९१९ ॥
स लक्ष्मीमहिमक्षिप्रविस्मृताभिभवप्रथः ।
प्रभवन्पुनरेवासीनिग्रहानुग्रहक्षमः ॥ १९२० ॥
धनप्रलोभनिनष्टसर्वावष्टम्भपाटवः ।
सुजिः साचिव्यमव्याज भेजे लोठनभूपतेः ॥ १९२१ ॥
दत्तवान्भागिकसुतामविश्वासमपाहरत् ।
स तस्याद्यप्रियापायदुःस्थितिव्यथया समम् ॥ १९२२ ॥
अभ्यर्थ्य पार्थिवं पद्मरथं चानीतवान्कृती।
तस्य सोमलदेव्याख्यामुद्वाहाय तदात्मजाम् ॥ १९२३ ॥
एवं प्रधानसंवन्धैर्बद्धमूलं विधाय तम् ।
सोव्याहतस्य साचिव्यग्रहस्यानृण्यमाययौ ॥ १९२४ ॥
अचिन्तयच्च कश्मीरप्रवेशं डामरादिभिः ।
बहुशः प्रार्थ्यमानेन प्रेरितो नवभूभुजा ॥ १९२५ ॥
इत्थंभूतं कृतैक्यं च समं सीमान्तभूमिपैः ।
अथ च्छलयितुं शत्रु नीतिं प्रायुत सौस्सलिः ॥ १९२६ ॥
तत्रोदयद्वारपतिस्तस्यारम्भे गभीरधीः ।
अलुप्तसत्त्वः स्तुत्यत्वं सारेतरविदामगात् ॥ १९२७ ॥

राजतरङ्गिणी
तत्रत्यः स हि निर्नष्टसर्वस्वोप्यर्थितोहितैः।
दानमानादिभिः स्वामिकृत्ये नित्योदितोभवत् ॥ १९२८ ॥
वनप्रस्थाभिधे स्थाने लोहरादूरगे स्थितः ।
अखिन्नोच्छिन्नसंग्रामैभदं निन्ये द्विषद्बलम् ॥ १९२९ ॥
कटाक्षिताभिप्रायेस्सिन्मिथ्या तथ्येन वा दधुः।
भयं लोठनभूपालान्माभिकेदारकादयः ॥ १९३० ॥
हन्तव्यांश्चाक्रिकानमान्सुजौ न्यस्ताशयो नृपः ।
वेत्ति तत्प्रेरणेनासौ तदाशङ्किषतेति ते ॥ १९३१ ॥
संजातं सहजाख्यायां राश्यां सुस्सलभूपतेः ।
कुर्मो मल्लार्जुनं भूपं लोहरेस्मिन्हिताय वः ॥ १९३२ ॥
तत्प्रेमाणमिवाकस्मादभिसंधत्त लोठनम् ।
संदिदेशाथ तान्धीमाञ्जयसिंहो महीपतिः ॥ १९३३ ॥
व्याजेन राज्ञा संदिष्टं तत्कोर्ट्स स्वीचिकीर्षुणा ।
प्रतिश्रुतमविश्वस्तैस्तस्मिंस्तैश्च तथैव तत् ॥ १९३४ ॥
मल्लार्जुनं लोठनोथ ज्ञात्वा प्रारब्ध चाक्रिकम् ।
तदाद्यान्भ्रातृसूनूंस्तांश्चाक्रिकानप्यबन्धयत् ॥ १९३५ ॥
अवरुद्धतनूजेन शङ्कां सौस्सलिना भजन् ।
परं विग्रहराजन प्रातिहार्यमजिग्रहत् ॥ १९३६ ॥
राजा व्याजापितृव्येण बद्धसंधिरुपायवित् ।
तत्वरे हारितं राज्यं तैस्तैः स्वीकर्तुमुद्यमैः ॥ १९३७ ॥
विसृज्य शूरं निष्कम्पराज्यः सुजेः परिश्रमात् ।
मासान्कांश्चिदसंक्षोभो वृत्त्यावर्तिष्ट लोठनः ॥ १९३८ ॥
सुजिः पद्मरथापत्यं प्राकन्यामानिनाय याम् ।
अनूढाया विवाहाय तस्या मातरमागताम् ॥ १९३९ ॥

अष्टमस्तरङ्गः।
१६७
आकर्ण्य तेजलादीनां प्रसङ्गेऽस्मिन्सगौरवाम् ।
सामात्यो दर्पितपुरं कृतप्रत्युद्तो ययौ ॥ १९४० ॥
मालिकाद्यैरथ प्राप्तरन्धैर्निर्गत्य बन्धनात् ।
मल्लार्जुनः कोट्टराज्ये संहतैरभ्यषिच्यत ॥ १९४१॥
ठक्कुरैः प्राग्वदानीतैः प्रतोलीतलमागतान् ।
भृत्यांस्ते सिंहभूभर्तुः प्रविविझून्यवारयन् ॥ १९४२ ॥
षष्ठेब्दे लोठनः शुक्लत्रयोदश्यां स फाल्गुने ।
यथायुज्यत राज्येन तथैवाशु व्ययुज्यत ॥ १९४३ ॥
अनूढां कन्यकां मूढः संपदं चाव्ययीकृताम् ।
प्राप्तां परस्य भोग्यत्वं भाग्यहीनः शुशोच सः ॥ १९४४ ॥
अटित्वा टिल्लिकादिभ्यो देशेभ्यो नष्टशक्तिना।
तेन सुजिबलात्कोशशेषः कश्चिदवाप्यत ॥ १९४५ ॥
पूर्वाहूतान्सिहभूभृद्भुत्यान्यकृत्य मानिकः ।
निनायाप्रतिमल्लत्वं मल्लार्जुनमहीभुजम् ॥ १९४६ ॥
तेनातिव्ययिना नव्यवयसा भूभुजा कृतम् ।
मौक्तिकैः पूगविच्छेदे ताम्बूलार्पणमेकदा ॥ १९४७ ॥
वर्षतो विषयौत्सुक्याद्धाटकं कुट्टनादिषु ।
त्यागित्वं तस्य तत्त्वज्ञैः सदोषमुद्घोष्यत ॥ १९४८ ॥
प्रजोपतापोपचितः कोशः सुस्सलभूपतेः ।
तेनातिव्ययिना स्वैरमनुरूपव्ययः कृतः ॥ १९४९ ॥
गणिकाचारणद्रोग्धृविटचेटादिपेटकम् ।
साधून्विधूय सोपुष्णाद्धर्मोष्णः कुमतिर्यतः ॥ १९५० ॥
सपत्नसादहितसाद्यदि वा वह्रिसाद्भवेत् ।
द्रविणं क्षोणिपालानां जनतोपद्रवार्जितम् ॥ १९५१ ॥

राजतरङ्गिणी
प्रजापीडनजं वित्तं जयापीडमहीभुजः ।
दास्याः पुत्रैरुत्पलाद्यैर्विलुप्तं नप्तुरन्तकैः ॥ १९५२ ॥
लोकसंक्लेशनोद्भूतः कोशः शंकरवर्मणः ।
प्रभाकरादिभिः स्वैरं जायाजारैरभुज्यत ॥ १९५३ ॥
अनङ्गवशगाः पङ्गोरङ्गना वृजिनार्जितम् ।
ददुः सुगन्धादित्याय धनं संभोगभागिने ॥ १९५४ ॥
राज्ञो यशस्करस्यार्थान्व्ययीचक्रेतिसंचितान् ।
अङ्गनानङ्गवैवश्यादालिङ्गितजनंगमा ॥ १९५५ ॥
पूर्वराजार्जितं पार्वगुप्तिः प्राप्य धनं मृतः ।
दाता जायौपपत्येन तुङ्गादीनामजायत ॥ १९५६ ॥
संग्रामराजः श्रीलेखामुखाजमधुपैर्धनी ।
मुषितो व्यड्डुसूहाद्यैर्निविडोपार्जनस्पृहः॥ १९५७ ॥
अप्रत्यवेक्षाक्षपितप्रजस्य जगदूर्जिता ।
अन्तेनन्तमहीभर्तुर्विभूतिर्भस्मसादभूत् ॥ १९५८ ॥
पुत्रेणापात्रसान्नार्या जारसात्तरसा कृतः ।
कुकलाकौशलोद्भूतः कोशः कलशभूपतेः ॥ १९५९ ॥
सह गेहैः समं स्त्रीभिः सत्रा पुत्रैरभूद्धनम् ।
अभ्रान्तार्जनतर्षस्य हर्षदेवस्य वह्निसात् ॥ १९६० ॥
चन्द्रापीडोच्चलावन्तिवर्माद्यैर्धर्मनिष्टुरैः ।
निष्ठा न्याय्यस्य कोशस्य नावाप्यनुचिता क्वचित् ॥१९६१॥
चौरचाक्रिकसीमान्तभूभृद्वेश्याविटादयः ।
लुण्ठि प्रारेभिरे पुष्टां नवे मल्लार्जुनोदये ॥ १९६२ ॥
वञ्चयित्वाप्यरीन्भूभृत्ताम्यन्विघटितेप्सितः ।
अथ चित्ररथं तूर्णमास्कन्दाय व्यसर्जयत् ॥ १९६३ ॥

अष्टमस्तरङ्गः। द्वारपादाग्रयोस्तुल्याधीकारेण प्रवर्धितः । सोऽनन्तसामन्तयुतः पदं फुल्लपुरे व्यधात् ॥ १९६४ ॥ उत्सेहिरे न वितता अपि दुर्गसमाश्रयात् । मल्लार्जुनचमूर्जन्ये जेतुं तदनुजीविनः ॥ १९६५ ।। भेदाय कोट्टमारूढस्तभृत्यो राजसंमतः । मल्लार्जुनानुगै रात्रौ हृतः संवर्धनाभिधः ॥ १९६६ ॥ युद्धासाध्येपि तिष्ठन्तः कोट्टे भयविधेयताम् । कोटेश्वरेन्वगायाते तत्रामित्राः प्रपेदिरे ॥ १९६७ ।। प्रतिश्रुतकरो वद्धसंधिः स व्यसृजत्ततः । सभाजनाय जननी तेषां मल्लार्जुनोन्तिकम् ॥ १९६८ ॥ सा वैधव्यविविक्तेन वेषेणैश्वर्यशोभिना। कोटेश्वरादीन्सोत्कण्ठांश्चके चपलचेतसः ॥ १९६९ ॥ तस्यां गृहीतवित्रम्भं व्यावृत्तायां तदन्तिकात् । द्वारेशाय ददावूरीकृतं मल्लार्जुनः करम् ॥ १९७० ॥ आकृष्टो राजजननीचक्षुरागेण कोष्टकः। दिदृक्षाकपटात्कोट्टमारोह मितानुगः ॥ १९७१ ।। अर्धरूढन सहितस्तेन चित्ररथस्ततः। संभूतप्राभृतो भूमिभर्तुः सविधमाययौ ॥ १९७२ ॥ राजा तु संमत्र्य ततः प्रायुताहृतिशालिना। उदयद्वारपतिना नीतिं जेतुमरीन्पुनः ॥ १९७३ ।। वीतास्कन्दो लोठनेपि गते पझरथान्तिकम् । लेभेभिनवभूपालः किंचित्पादप्रसारिकाम् ॥ १९७४ ॥ उदूढवान्सोमलाख्यां तां पद्मरथकन्यकाम् । उपयेमे धृतायाभो नागपालात्मजामपि ॥ १९७५ ।। १ संभृत इति स्यात् । । २२ १७० राजतरङ्गिणी तस्मादहंक्रियामूढाल्लेभिरे गूढकैतवाः । भूभुजः सोमपालाद्या भृत्यभावेन वेतनम् ॥ १९७६ ॥ कविगायनजल्पाकयोधचारणचेष्टितैः । बहवो मुमुषुधूर्तास्तेपि तं राजबीजिनः ॥ १९७७ ॥ स बाल्यान्निष्परीपाकप्रज्ञो दृष्टो रटन् बहु । जज्ञे वाक्प्रौढिमात्रेण वालिशैः कुशलाशयः ॥ १९७८ ॥ केतोरिवाभद्रहेतोः प्रदीप्तं वदनं विना । अनिष्ठुराकृतेर्दष्टं तस्यान्यत्र न सौष्ठवम् ॥ १९७९ ॥ अत्रान्तरे नृपः सुजिं संजनाहोगविक्रमम् । मा भून्मल्लार्जुनेनापि श्रितोसाविति चिन्तयन् ॥ १९८० ॥ निर्वासने प्रवेशे च प्रभुः सुजेस्ततोधिकम् । तात्कालिकी प्रतीहारः शक्ति कांचिददर्शयत् ॥ १९८१ ॥ स कम्पनाद्यधीकारस्रज राजविसर्जिताम् । वितरन्सुजये राजस्थानकायस्रजं विना ॥ १९८२ ॥ निस्तोषाय गृहायातसोमपालानुरोधतः । प्रसीदन्वामहस्तेन निजजूटस्रजं मदात् ॥ १९८३ ॥ आकृष्य प्रददौ तस्य तत्प्राप्तिपरितोषिणः । आप्यायमाईया दृष्ट्या यत्संपद्वीरुधो व्यधात् ॥ १९८४ ॥ चक्कलकम् ॥ भर्ने हिताय सौहार्द विधूयोदयधन्ययोः । अभजद्रिल्हणः सुजेः प्रवेशे प्रतिलोमताम् ॥ १९८५ ॥ प्रत्युद्भमेन संमान्य सुजि प्रावेशयन्नृपः । देशानिरास्थद्धन्यादीन्मानसान्न तु तगिरा ॥ १९८६ ॥ १ तिलकम् इत्युचितम् ।

अष्टमस्तरङ्गः। १७१ कृतागाः मापतौ लब्धक्षणे तीक्ष्णैर्जिघांसति । कोष्टेश्वरः पलायिष्ट ज्ञातोदन्तस्तदन्तिकात् ॥ १९८७ ॥ आस्कन्दायागते राशि गृहीतमनुजेश्वरे । स्वपक्षभेदोपहतः सोथ देशान्तरं ययौ ॥ १९८८ ॥ लोठनस्तु निजग्राह कांश्चिदालम्ब्य ठकुरान् । बप्पनीलाभिधे स्थाने वसन्मल्लार्जुनं बलात् ।। १९८९ ॥ तत्र दृष्टमसंभाव्यमेवास्य खलु पौरुषम् । परिभ्रष्टोपि यद्बद्धपदं तमजयत्सदा ॥ १९९० ॥ जहार तुरगांल्लुण्ठि चकाराट्टिलिकापणे । मार्गद्रशादिभङ्गं च..... सर्वत्र सोकरोत् ॥ १९९१ ॥ राजराजाभिधानेन डामरणार्थितस्ततः । कश्मीरराजसंप्राप्त्यै क्रमराज्यमगाहत ॥ १९९२ ॥ तदवेत्य समीपस्थे हते चित्ररथेन सः। तस्मिल्लँवन्ये प्रययौ बप्पनीलभुवं पुनः ॥ १९९३ ॥ तस्मिन्नास्कन्दमसकृद्ददत्यट्टिलिकामपि । अवरोद्धमशक्तोभूत्कोट्टे मल्लार्जुनो वसन् ॥ १९९४ ॥ भ्रातृव्येण पितृव्यस्य दापयित्वा धनं बहु। ततः कोष्टेश्वरो यात्रासजः संधि न्यबन्धयत् ॥ १९९५ ॥ लोहरे विहितस्थैर्ये गृहीत्वा लोठनं ततः। कश्मीरो- पपातासौ विजिघृक्षुः क्षमाभुजा ॥ १९९६ ॥ गिरीनुल्लङ्घय कार्कोटद्ङ्गे विहितवान्पदम् । निपत्य मार्गेनुद्धाते यावदन्यैश्च डामरैः ॥ १९९७ ॥ नावाप योगं निर्गत्य क्षिप्रकारी क्षमापतिः। सर्वोद्योगेन तं तावदुत्थानोपहतं व्यधात् ॥ १९९८ ॥ १ तदा इत्युचितम् ।

१७२ राजतरङ्गिणी अत्रान्तरे प्रतीहारः प्रापास्तमयपीडया । न संपत्स्वल्पपुण्यानामनपायित्वमायुषः ॥ १९९९ ॥ उत्सारणप्रियतया परिरुद्धसर्व- द्वारे गृहे निरनुरोधतया वसन्तः । संपल्लघूकृतधियोप्रतिषप्रवृत्ते- धिग्जानते न रभसानियतेर्निपातम् ॥ २००० ॥ कुर्वाणोत्सारणं तस्य गृहजा सततं नृणाम् । नाशासीत्सुखसुप्तस्य पृष्ठे पतितमन्तकम् ॥ २००१ ॥ ज्वरितः स हि निष्ट्यूतज्वरः स्वपिति विज्वरः। विदित्वेति न विज्ञातः स्वपन्नेव मृतस्तदा ॥ २००२ ॥ सलोठने कोष्टकेथ प्रयाते नृपतिः पुनः । न स मल्लार्जुनो नापि कोष्टको न स लोठनः ॥ २००३ ॥ छमनोदयनं पार्श्वस्थितं मल्लार्जुनोवधीत् । तस्मै चुक्रोध माध्यस्थ्ये स्थापितस्तेन कोष्टकः ॥ २००४ ॥ अनुनिन्ये न तं खिन्नं स संभृतबलस्ततः । अभिषेणयितुं क्रोधादधावत्सह लोठनम् ॥ २००५ ॥ कोष्टको मल्लकोष्टाद्यैर्मितैर्युक्तोपि सादिभिः । तीर्वा परोष्णीं तत्सेनां निर्ममाथाप्रमाथिनीम् ॥ २००६ ॥ हतेषु तेषु संग्रामे खशसैन्धवकादिषु । वधं प्राप्तः सिंहभूभृद्वेषान्न स नृपो हतः ॥ २००७ ।। आरूढः कोट्टमूर्धानं मानमूर्ध्नः परिच्युतः। भग्नप्रतापो भूयोऽपि समधत्त स कोष्टकम् ॥ २००८ ॥ विसृज्य लोठनं तिष्ठन्निर्वैरमगमत्पुनः । अनिर्वाहितदेयेन तेन द्वैधं स डामरः ॥ २००९ ॥ १ गृहिणी इति स्यात् ।

अष्टमस्तरङ्गः।
१७३
बङ्घाधिकारिणः शुल्कं गृह्णताकारि राजवत् ।
तेन स्वनाम्ना भाण्डेषु द्रङ्गे सिन्दूरमुद्रणम् ॥ २०१० ॥
जतुसंहतयोः काचकलशीदलयोरिव ।
क्षणे क्षणे संधिभङ्गस्तयोः समुदपद्यत ॥ २०११ ॥
नियूंढिशून्यैर्वाग्रौत्यैर्विरागं लोहरेश्वरः ।
निन्ये लवन्यं सोप्येनं स्पर्धाबन्धैरनङ्कुशैः ॥ २०१२ ॥
डामरेण ततो दत्त्वास्कन्दं तत्कटकान्तरम् ।
पराायुधधुर्याश्वहरणात्सु रं कृतम् ॥ २०१३ ॥
दत्त्वात्व' "रायत्यां विषमैहठपौरुषैः
एवं तं कोष्टको मूढः सुखोच्छेदं व्यधाद्विषाम् ॥ २०१४ ॥
तनयादानसंबन्धाच्वशुरं मुख्यमन्त्रिणम् ।
अत्रान्तरे नृपो हन्तुं मात्रिकं स व्यचिन्तयत् ॥ २०१५ ॥
आसीत्कठोरतारुण्यतरङ्गितमनोभवः ।
सुव्यक्तं स हि तन्मातुरोपपत्येन संमतः ॥ २०१६ ॥
आहारावसरे तीक्ष्णाः कृतसंज्ञाः क्षमाभुजा ।
दत्तप्रहरणाः प्राणैर्भुजानं तं व्ययोजयन् ॥ २०१७ ॥
धुन्वन्नसिपटं बद्धवीरपट्टो रटन्बहु ।
निर्लुण्ठयन्स तत्सेनां तां तामारभटी व्यधात् ॥ २०१८ ।।
अवाशिष्यत न द्रोहमध्यादिन्दारकोप्यहो।
राज्ञा विशमितस्तेन रसदानेन स स्वयम् ॥ २०१९ ॥
दैवेनोत्सारितारातिस्ततः सिंहमहीपतिः ।
संदधे कोष्टकं सुजि प्राहिणोद्विजयाय च ॥ २०२० ॥
मार्गस्य याममात्रेण गम्यस्यान्तिकमाप सः ।
यावत्तुरंगहरणात्कोष्टकेनाकुलीकृतः ॥ २०२१ ॥

१७४ राजतरङ्गिणी अन्तर्भेदाकुलस्तावत्प्रत्यवस्थातुमक्षमः । गृहीतकोशः संत्यज्य कोट्टं मल्लार्जुनो ययौ ॥ २०२२ ॥ राज्यभ्रष्टः स निर्लुण्ठ्यमानो मार्गेषु तस्करैः। अवनाहोन्मुखो रक्षन्कोशशेषं कथंचन ॥ २०२३ ॥ भ्रष्टमष्टादशशरद्देश्यश्चाष्टमवत्सरे । राज्यात्तेन द्वितीयस्यां वैशाखस्यासितेहनि ॥ २०२४ ॥ दाता शिखामृतरुचेरमृतं विलब्ध- कार्पण्यकृत्समिति लूनशिराः कृतश्च । ईशेन यत्र तदकार्युपकर्तुरस्तु तत्रापरः क इव संनिहितद्विजिह्वः ॥ २०२५ ॥ मुक्ता इमा इति जलं नलिनेषु लीनं ज्ञातृत्वमेतदिति जाड्यमिनेषु लग्नम् । यज्ज्ञायते किमपि हन्त विमोहनी सा शक्तिः श्रियः स्फुरति कापि तदाश्रयायाः ॥ २०२६ ॥ मन्त्यद्भुतप्रहरणा विपिनेषु केपि घ्राणेन केचन दृशाथ रसज्ञयान्ये । ते केपि सन्ति तु नरेन्द्रगृहेषु हिंस्रा वाचैव ये विरचयन्ति किलोपघातम् ॥ २०२७ ॥ ज्योतीरसाश्मन इवाश्रितमीश्वरस्य निर्दग्धुमिन्धनमिवाग्रगतं न शक्ताः । पश्चाद्भवेद्यदि स तत्प्रसृतावकाशाः कुर्युः खला रविकरा इव भस्मशेषम् ॥ २०२८ ।। कापिलं हर्षर्ट कोट्टं नीतवान्मण्डलेशिताम् । उदयैः कोहभृत्यानां संग्रहं कम्पनाधिपः ॥ २०२९ ॥ १ शरद्देश्येनाष्टम इत्युचितम् ।

अष्टमस्तरङ्गः। कुर्वञ्शय्यां पुनर्नेतुं मण्डलं तद्यलम्बत । दिनानि कतिचित्तत्र यावत्प्रकृतिदुर्जनैः ॥ २०३० ॥ विटैरसूयाविषमैः प्रसादावसरो नृपः । तावत्कलुषतां तस्मिन्नुपजापैरनीयत ॥ २०३१ ॥ चकलकम् ॥ राजा भवन्परः कोस्तु सुविचारदृढक्रियः । एषोपि शिशुवर्भूभृद्यत्र धूतैः प्रनय॑ते ॥ २०३२ ॥ शैशवे बालिशप्रायैः संस्तुतैर्जाड्यमर्पितम् । प्रौढावपि न वा यायाद्राज्ञः कार्य मणेरिव ॥ २०३३ ॥ भृत्यान्तरापरिज्ञानमात्रेण जगतीभुजाम् । निरागसो वज्रपातः कष्टं राष्ट्रस्य जायते ॥ २०३४ ॥ कृत्येव्यवसितेसाध्ये हास्यः स्याल्लक्ष्मकादिवत् । सुजिः प्रायोजि राजाप्तैर्निर्जेतुमिति लोहरम् ॥ २०३५ ॥ नियूंढाद्भुतकार्येथ तस्मिन्ब्रह्मास्त्रतुल्यया । अमोघया प्रजहस्ते पापाः पैशुन्यविद्यया ॥ २०३६ ॥ गाम्भीर्यालक्ष्यविकृतैः प्रीत्यालापैर्महीपतेः । प्रत्यायातः कलुषतां नाज्ञासीकम्पनापतिः ॥ २०३७ ॥ प्रकृत्या तस्य निोहतया शङ्कास्य तादृशम् । प्रियं कृतवतश्च स्यादविश्वासोथवा कथम् ॥ २०३८ ॥ प्रीतिरासीन नृपतेस्तत्कृत्यैरुचितैरपि । अप्रियप्रमदालापैर्विरक्तस्येव कामिनः ॥ २०३९ ॥ जित्वा राष्ट्रद्वयं प्रादां हारितं नृपतेरिति । बहुमानेन दर्पाञ्च स्वच्छन्दं स व्यवाहरत् ॥ २०४० ॥ १ विकृतेः इत्युचितम् ।

राजतरङ्गिणी न पौरानगारहरणाद्यपकारैर्निरङ्कुशाः । तद्वन्धवो बाधमाना विरागमनयजनम् ।। २०४१ ॥ निजागःस्मरणात्कोष्टेश्वरो न व्यश्वसीन्नपे । न पितृव्येपि भूपालकोपाविष्कृतविक्रिये ॥ २०४२ ॥ कोशं प्रजोपतापेन संचिन्वन्सुजिना समम् । संबन्धकृञ्चित्ररथो नाभूदभिमतः प्रभोः॥२०४३ ॥ धन्योदयौ नृपः सुजिदाक्षिण्यालक्ष्यसौहृदः । अपुष्णाविणैर्गुढं राजपुर्यां कृतस्थिती ॥ २०४४ ॥ तौ चावालगतौ शीतज्वरनष्टपरिच्छदौ । मल्लार्जुनस्य साम्राज्यभ्रंशेपि विपुलश्रियः ॥ २०४५ ॥ सुजिद्वेषात्पुरा दूतैराहूतो लक्ष्मकेण यः । आगच्छत्सञ्जपालः स प्राप राजपुरी तदा ॥ २०४६ ॥ सुजिचित्ररथाभ्यां तं रुद्धचेष्टेन भूभुजा। अविसृष्टप्रवेशाज्ञं दूतैर्मल्लार्जुनोभजत् ॥ २०४७ ॥ तन्निमित्तं स केनापि सामन्तेन सहाध्वनि । संजातकलहे शस्त्रक्षतो लक्ष्म्या व्ययुज्यत ॥ २०४८॥ तथाभूतमपि स्वर्ण भूर्युरीकृत्य नाशकत् । यत्तं मल्लार्जुनो नेतुं कार्यशैस्तदपूज्यत ।। २०४९ ॥ सोस्वतन्त्रेण राज्ञा च सौजन्याद्रिल्हणेन च । दूतैः प्रच्छन्नमाहूतो रभसादाययौ ततः ॥ २०५० ॥ न न्यन्न'''त्र चेद्धन्युर्माममुत्रेति चिन्तयन् । अमित्रविषमे मार्गे पुरं साहसिकोविशत् ॥ २०५१ ॥ स कन्यकुञ्जगोडादिमण्डलेषु महाभुजाम् । स्पर्धया लब्धसत्कारो भूपतेर्मत्रियत्रिताम् ॥ २०५२ ॥ RAN अष्टमस्तरङ्गः । sapane gane अनवाप्य निजे देशे सत्क्रियां दुःखितोभवत् । राजधान्यन्तिकैः पौरैः प्रसुतास्नु व्यलोक्यत ॥ २०५३ ॥ भूपालोगणयित्वाथ मत्रिणो दत्तदर्शनः । भेजे स्वहस्तताम्बूलदानप्रक्रिययैव तम् ॥ २०५४ ॥ निष्किचनोपि सत्ख्यातिमात्रेणानुगतो जनैः । यातायातं नृपगृहे कुर्वन्शनकम्पयत् ॥ २०५५ ॥ व्याहारव्यवहारादि ब्यालोक्यालौकिकाकृतेः। पुरुषान्तरवित्सुजिस्तस्य स्वैरमवेपत ॥ २०५६ ॥ दध्यौ सोथ ध्रुवं राष्ट्रखर्वसर्वकषक्रियम् । नैवमेवाद्भुतं भूतमेतादृक्शान्तिमेष्यति ॥ २०५७ ॥ तांस्तान्देशान्तरे वीरानुत्सित्तान्दृष्टवान्स च । तं पर्यालोच्य विश्रान्ति सोत्सेकानाममन्यत ॥ २०५८ ॥ भवितव्यतया दर्पणाथ नीतः स्वतन्त्रताम् । परिवादावहं सुजिस्ततो यत्तयवाहरत् ॥ २०५९ ॥ स्वानुगैलुण्ठितं रूक्षमाचक्षाणं रुषा द्विजम् । प्रासैर्मडवराज्यस्थः स सृगालमिवावधीत् ॥ २०६० ॥ बाह्ये कुकर्मणा तेन विश्लाव्य जनमागतम् । तं प्रत्युग्रक्रियं लोको विरागं नगरेप्यगात् ॥ २०६१ ॥ अत्रान्तरे बन्धुमेकं व्यधुः कमलियादयः । अगण्यप्रायमुत्सेकादुत्तमप्रक्रियास्पदम् ॥ २०६२ ।। मयि सत्यपरोपि स्यात्किमनुग्राहकः स्मयात् । अकारि चारणप्रायस्तादृक्कोपीति सुजिना ॥ २०६३ ॥ संजातयौनसंबन्धबन्धः कमलियादिभिः । अथास्याक्षिगतोत्यर्थं सामर्थ्याद्रिल्हणोप्यभूत् ॥ २०६४ ॥ १ राजधान्यन्तिके इति स्यात् । २ विलोकितः इति स्यात् ।

राजतरङ्गिणी । अल्पेन हेतुनोद्भूतं द्वैतं तेषां च तस्य च । खलपैशुनसेकैस्तत्प्रापाशु शतशाखताम् ॥ २०६५ ॥ प्रकृत्योत्सिक्तमुत्सेकावहैः समुददीपिपत् । दुर्मविग्रहैश्चाग्रे साहदेविस्तमुल्हणः ॥ २०६६ ॥ असमानां सहास्माभिः क्षमते समशीर्षिकाम् । कृतघ्नोयमिति स्वैरं मन्यु राश्यपि सोग्रहीत् ॥ २०६७ ॥ बिभ्यत्तु भूपतिस्तस्माद्रिल्हणं बाह्यभृत्यवत् । मन्त्रस्वैरकथायेषु विस्रम्भेषु व्यवर्जयत् ॥ २०६८ ॥ स तु धूर्तत्वदुर्लक्ष्यतादृक्षस्वामिवैकृतः । स्वेषां धैर्य परेषां तु संत्रासं माययातनोत् ॥ २०६९ ॥ समग्रशक्तिराकाङ्क्षयसंस्तवः पक्षयोर्द्वयोः। तस्य तु प्रययौ सजपालो दानेन मित्रताम् ॥ २०७० ॥ संनद्धयोः प्रविशतोरन्योन्यस्पर्धया तयोः । क्षणे क्षणे राजधानी ययौ संभ्रमलोलताम् ॥ २०७१ ॥ सुजिः स भूपानाक्षेप्तुं प्रतिपक्षान्युयुत्सया । महीमानोत्सवास्थाने संक्षोभमुदपादयत् ॥ २०७२ ॥ कृकाटिकान्यस्तहस्तो द्वाःस्थेनावेदितो हि सः । तं निर्भर्त्य शिलाक्षेपं क्रोधरूक्ष्माक्षरोकरोत् ॥ २०७३ ॥ लिखितैरिव तान्सर्वैः सोढुं रक्षणमीशितुः । मिथ्या तथ्यमिवोदीर्य संग्रश्नद्भिः समर्थताम् ॥ २०७४ ॥ उपावेशयभ्यणे भूपतिः परिसान्त्व्य तम् । सत्यस्मिन्नास्ति नः किंचिदित्यन्तस्तु व्यचिन्तयत् ॥२०७५॥ चक्रे मडवराज्यस्थैरथ प्रायो द्विजातिभिः । न सुजेः कम्पनेशत्वमिच्छाम इति वादिभिः ॥ २०७६ ॥ । R RE poran

अष्टमस्तरङ्गः।
अन्विष्य विद्विषः शङ्कां मत्रविनिशि रिल्हणः ।
संनद्धसैन्यमानिन्ये पश्चचन्द्रं तदप्रियम् ॥ २०७७ ।।
शशङ्के सजपालाच तस्साच्च बहुसैनिकात् ।
सुजिरन्यानगणयन्नवुद्धास्य च तद्रिपुः ॥ २०७८ ॥
आस्कन्दभीत्या निर्गत्य हयारोहैः समं गृहात् ।
व्यूढानीको निरुद्धातो जजागाराथ सोध्वनि ॥ २०७९ ॥
भूपतिप्रातिलोम्येन वर्तमानस्तदाभवत् ।
कोष्टेश्वरोपि संनद्धः सुजिना बद्धसौहृदः ॥ २०८० ॥
स्थितमप्रातिलोम्येन सोवधीन्मनुजेश्वरम् ।
इति द्वेष्योपि नितरां द्वेष्यतां नृपतेरगात् ॥ २०८१ ॥
तथा स्थिते निशीथिन्यामाचख्युस्तस्य विद्विषः ।
दुधृक्षाहेतुतां राज्ञः स्वगुत्त्यै तेन या कृता ॥ २०८२ ॥
अतथ्यं तथ्यवद्वस्तु तथ्यं वातथ्यवन्नृपः।
यः पश्यन्मूढवत्सोफस्त्यक्तोनथैः कर्थ्यते ॥ २०८३ ॥
रत्नज्योति तवहधिया त्यज्यते दृष्टिपातः
श्यावाक्षाणामितरविषयः स्वस्य संभाव्यते च ।
वस्त्वेकैकं यदिह न मृषा तन्मृषा यन्मृषा त-
तथ्येनेत्थं किमिव न जनैदृश्यते तत्त्वशून्यैः ॥ २०८४ ॥
राजाथ तद्वधादन्यदजानन्दौस्थ्यभेषजम् ।
न्ययुत तस्य तीक्ष्णत्वे सजपालं महौजसः ॥ २०८५ ॥
स कापुरुषवद्वीरः प्रहर्तुं छद्मनाक्षमः ।
कासन्नाक्षिप्य तं हन्तुं तत्र तत्रैक्षत क्षणम् ॥ २०८६ ॥
मायाप्रयोगानन्योन्यमुद्दिश्य स्पृशतोईयोः ।
क्षणे क्षणेभजद्राष्ट्रं त्रासोल्लासविलोलताम् ॥ २०८७ ॥

१८० राजतरङ्गिणी प्रत्याशङ्योदयं रात्रौ सुजौ जाग्रति पूर्ववत् । अव्यग्रयामिकग्रामं राजधामाप्यजायत । २०८८ ॥ राष्ट्रान्निर्वासने रिल्हणस्य सुजेरभीप्सिते । पार्थिवोप्यनुमन्ताभूदनीशः प्रत्यवस्थितौ ॥ २०८९ ॥ स निर्यियासुरामत्र्य तत्खेदात्क्षुभिताः प्रजाः । संदर्य द्वारपतिना राज्ञो युक्त्या समर्थितः ॥ २०९० ॥ संमत्र्य नृपतिं मैत्रीप्रार्थिना सुजिना समम् । पीत्वा कोशं सजपालः प्राप्तो राज्ञो व्यजिज्ञपत् ॥ २०९१॥ प्रेरणादुल्हणादीनां स्वोत्सेकाच्चैष वर्तते । राजन्सुजेरभिप्रायः स्पर्धिनोन्याननिच्छतः ॥ २०९२ ॥ निद्रोहस्योपकर्तुश्च मते स्याद्यदि मे नृपः । निर्वास्य रिल्हणं चित्ररथं बवा महाधनम् ॥ २०९३ ॥ लोहरारब्धिनिष्टानश्वान्कोशं च भूपतेः । नयेयं संभृतो हन्यां दुर्वृत्तमपि कोष्टकम् ॥ २०९४ ॥ कार्योपरोधानिर्बन्धः संबन्धेष्वेव नास्ति मे । दाक्षिण्यं स्वामिनः कृत्ये यस्य प्राणास्तृणोपमाः ॥२०९५॥ मध्येथ प्रतिराजादिनिर्जयस्वीकृतोद्यमे । युवा विश्रान्तचित्तोयं नृपश्रीभोगभाग्भवेत् ॥ २०९६ ॥ साहायकाय द्वारेशमुल्हणं रिल्हणाश्रये । कार्यवाते च मामीशमाकारयितुमिच्छति ॥ २०९७ ॥ ब्रूते च मामुल्हणं च त्वं चाहं चाविभेदिनः । मिलिता यत्र तत्रास्ति गण्यः को नु नृपास्पदे ॥ २०९८ ॥ १ मय्येव इति स्यात् ।

अष्टमस्तरङ्गः। इहस्था नवदायादमेकमानीय कंचन । निध्मोस्य पदे राज्ञो नानुतिष्ठेदिदं यदि ॥ २०९९ ॥ गुणान्प्रसरणत्रासाद्वन्धायेव गिरां सृजन् । द्विजांशुभझ्या राजाथ विनिःश्वस्याब्रवीद्वचः ॥ २१०० ॥ यथाह स तथैवैतन्न द्रोहो नासमर्थता नौदासीन्यमथैतस्मिन्संभाव्यमभिमानिनि ॥ २१०१ ॥ निष्प्रतिद्वन्द्वभावोस्य दुरुच्छेदो भवेदिति । इयमप्यन्यतस्तावदस्त्वपायधियः कथा ॥ २१०२ ॥ किं तु दूये य आकोपप्राथम्यात्तथ्यतोपि वा। निर्दोहस्य वधो ध्यातो योस्थासौ कार्य एव तत् ॥२१०३॥ अर्थोयमल्पसत्त्वानामग्रेस्माभिर्हि मत्रितः। नूनं तेनोपलभ्येत तानावर्जयता धनैः ॥ २१०४ ॥ पुण्यैरपरिहार्यैः स्वैर्जाड्यैर्वा मादृशाममी । जानतामपि जायन्ते निर्गुणा भोगभागिनः ॥ २१०५ ॥ बालिशान्गृह्णतां प्रायश्चित्तमेतन्महीभुजाम् । तन्मौर्खास्य फलं मूढैरेतैर्यदनुभूयते ॥ २१०६ ॥ दुर्गमो भूमिभृन्मार्गों विटैर्हवृषैरिव । ॥ २१०७॥ तन्वाना व्रतवैमुख्यं रसनालौल्यशालिनः । परपिण्डोपहर्तारः खलाः कौलेयका अपि ॥ २१०८ ॥ इत्थं खलोपतापेन प्रयुक्तं तद्भयात्पुनः। असंहार्य कुकर्मेदं पश्चात्तापाय नो भवेत् ॥ २१०९ ॥ इत्युदीर्य नृपः सुजेः सन्जो व्यापादसिद्धये । तमजागारयच्छश्वजागरं चाग्रहीत्स्वयम् ॥ २११० ॥ ............

१८२
राजतरङ्गिणी
विभ्रन्मत्रत्रुतेः शङ्कां जिघांसुः सुजिरित्यपि ।
तथ्यं भृत्यवचो जानंस्तस्थौ दौस्थ्येन पार्थिवः ॥ २१११ ॥
गत्वा स्वयं गृहान्यौनसंबन्धं कुरुतां युवाम् ।
इत्युक्त्वा रिल्हणेनाथ स सुजिं समयोजयत् ॥ २११२ ॥
विश्वास्यापि तथा हन्तुं तं प्रसङ्गमनामुवन् ।
उदताम्यद्दिवारानं तल्पोपर्यवशं लुठन् ॥ २११३ ॥
सजपाले गृहाद्वन्धुनाशदुःखिन्यनागते ।
आशङ्कय साहसासिद्धिमधिकं पर्यतप्यत ॥ २११४ ॥
निपत्य वीरशयने सुस्सलक्ष्मापसत्क्रियाम् ।
भ्रातरो यस्य कल्याणराजाद्या व्यस्मरन्युधि ॥ २११५ ॥
सेनानीः कुलराजः स ख्यातो व्यायामविद्यया ।
प्राणैरानृण्यमिच्छंस्तमपृच्छच्छोककारणम् ॥ २११६ ॥
युग्मम्॥
स संस्थापयितुं हन्तुं वाप्यशक्यं न्यवेदयत् ।
तस्याप्रतिसमाधेयं कम्पनाधीश्वराद्भयम् ॥ २११७ ॥
कियदेतन्निजप्राणमात्रलभ्यं महीभुजाम् ।
इत्याभाष्य स जग्राह साहसाध्यवसायताम् ॥ २११८ ॥
दिनद्वयमनायातो गृहेभ्यः कम्पनापतिः ।
न प्रातिभाव्यमभजत्तस्य मृत्योः श्रियोथवा ॥ २११९ ॥
विनम्भभृत्यः शृङ्गारनामा चाप्यब्रवीत्प्रभोः ।
तं दृष्टवांस्तृतीयेह्नि शयनेवगणं स्थितम् ॥ २१२० ॥
शोभोपयोगिनो भर्तुर्नित्यं सततसेवकाः ।
कर्तुं साहससाचिव्यं विदूरेण तु पार्यते ॥ २१२१ ॥

अष्टमस्तरङ्गः। १८३ करे पिनाको मकराङ्कशत्रोः शोभाविशेषाय सदानुषक्तः । पुराहवे कार्मुककर्म तस्य तत्कालमाप्तेन तु मन्दरेण ॥ २१२२ ॥ ताम्बूलहारकव्याजात्ततो राजा व्यसर्जयत् । कुलराजं तमव्याजधैर्यासंलक्ष्यविक्रियम् ॥ २१२३ ॥ ध्रुवं मृत्युः पुनर्नाहमागन्ता तत्ततोस्य कः । आरेभेति स निन्ये न ताम्बूलं स्वर्णभाजने ॥ २१२४ ॥ व्यसनप्रशमं राज्ञः स्वदेहत्यागतोनुगाः । एवं कर्तुं यतन्तेन्ये नियूंढौ स्खलिताः पुनः ॥ २१२५ ॥ सगणो वागणो वास्तु निहतो नियतं मया। जानात्वतः परं देव इत्युदीर्य विनिर्ययौ ॥ २१२६ ॥ गतस्य साहसासिद्धौ शक्यं शङ्कयं पलायनम् । ॥ २१२७ ॥ वजन्स्वामिहितं कृत्वा पुनः पश्चानिनाय सः । शस्त्रिणौ द्वौ मिषाच्छख्यौ बन्धस्थाने परामृषन् ॥२१२८॥ स्वयं गृहीत्वा ताम्बूलं राज्ञा प्रहित इत्यथ । द्वाःस्थेनावेदितः सुजेः पार्श्व रुद्धानुगोविशत् ॥ २१२९ ॥ ददर्शोच्चावचैस्तं च मितैः परिजनैर्युतम् । यूथनाथमिवात्यल्पैर्द्विपैररहितान्तिकम् ॥ २१३० ॥ गृहीतवन्दितस्वामिताम्बूलः समितं स तम् । दृष्ट्वा कृत्यादि नृपतेः सत्कृत्य व्यसृजत्क्षणात् ॥ २१३१ ॥ पृष्ट्वा इति स्यात् । १

राजतरङ्गिणी
जनप्रवेशाशङ्की स त्वरमाणस्तमब्रवीत् ।
कृतागाः कोपि कैवर्तशस्त्रभृन्मत्समाश्रितः ॥ २१३२ ॥
तस्याक्षेपपरान्भृत्यान्स्वान्निवार्याधुना तव ।
संमान्या वयमित्यग्रे लक्षयन्प्रकृतिक्षणम् ॥ २१३३ ॥
सोत्सेकामिव तां वाचं स दर्पावधीरयन् ।
तस्य रूक्षाक्षरं नाहं कुर्यामित्यब्रवीद्वचः ॥ २१३४ ॥
स रोषादिव निर्गच्छन्मान्योसाविति वादिभिः ।
तं सान्त्वयित्वा तद्भुत्यै रुवा व्यावर्तितः पुनः ॥ २१३५ ॥
तेनावादि ततः कर्तुं विज्ञप्तिं वस्तुनोमुतः ।
सन्जयोरादिश द्वारप्रवेशं भृत्ययोर्मम ॥ २१३६ ॥
अवशेनेव तेनाथ वीक्ष्य तौ संप्रवेशितौ ।
सहायलाभाबुधुक्षुः प्रजिहीर्घरवर्तत ॥ २१३७ ॥
याताद्य कुर्या प्रातर्वो विधेयमिति तान्वदन् ।
दत्तपृष्ठो विशिश्वसुस्तल्पे सुजिर्जही वपुः ॥ २१३८ ॥
गत्वाथ किंचिद्यावृत्तो निष्कृष्टक्षुरिको जवात् ।
प्राहरत्कुलराजोस्य वामे पार्श्वे कृतत्वरः ॥ २१३९ ॥
तस्य धिक्कुर्वतो द्रोहमधावत्क्षुरिकां प्रति ।
यावत्पाणिः प्रहरणं तावत्सर्वेपि ते व्यधुः ॥ २१४० ॥
विमर्षः पश्यतां यावदाशङ्कये तत्र नोद्ययौ ।
स तावदेव सुचिरापेतश्वास इवाभवत् ॥ २१४१ ॥
भयत्यक्ताभिमानेषु विद्रुतेष्वनुजीविषु ।
चकर्ष शस्त्रं तत्रैकः पञ्चदेवः परं तदा ॥ २१४२ ॥
प्रहरंस्तैस्त्रिभिस्तुल्यप्रतिप्रहृतिभिः क्षतः ।
भ्राम्यन्त्रुतामृक्तस्मात्स मण्डपानिरवास्यत ॥ २१४३ ॥

अष्टमस्तरङ्गः।
स्थितान्दत्तार्गले धान्नि रुद्धद्धारतमोरयः ।
जिघांसवः सुजिभृत्यास्ततस्तान्पर्यवारयन् ॥ २१४४ ॥
तमोरिप्रतिकुर्वाणा भज्यमानेरिभिर्व्यधुः।
ते द्वारे तूलशय्यां तां प्रोत्सार्य शवमुद्धृतम् ॥ २१४५ ॥
खड्नेषुशूलपरशुक्षुरिकाश्माभिवर्षिणः।
तान्स संभ्रमयन्मागैरनेकैस्ते विविक्षवः ॥ २१४६ ॥
नैराश्यहेतोर्विशतां तेषां संकटवर्तिभिः ।
पृष्ठाच्छित्त्वा शिरः सुजेरङ्गनेक्षिप्यताथ तैः ॥ २१४७ ॥
अननिःसरणाभीक्ष्णशुक्लेक्षणपुटश्रुति ।
उत्तरौष्ठकचच्छन्नसन्नघ्राणपुटद्वयम् ॥ २१४८ ॥
अक्ष्णोर्बम्भ्रम्यमाणस्य लोकस्य प्रतिबिम्बकैः ।
संभाव्यमानसंस्पन्दस्तोकप्रव्यक्ततारकम् ॥ २१४९ ॥
स्थपुटस्याक्रमच्छेदागलमांसस्य संधिषु ।
हरिद्रा रिवाश्यानमेदोग्रन्थिभिरुल्बणम् ॥ २१५० ॥
धूलिध्वस्तकचश्मश्रु तदेतदिति निश्चयम् ।
परं भालतलस्थेन ददत्कुङ्कुमबिन्दुना ॥ २१५१ ॥
तीक्ष्य तिर्यक्पतनव्यक्तसंध्यन्तरद्विजम् ।
उच्चलत्तुमुलाकन्दा भृत्याः क्वापि विदुद्रुवुः ॥ २१५२ ॥
कुलकम् ॥
तीक्ष्णान्प्रयुज्य मापस्तु तिष्ठन्व्याकुलधीस्तदा ।
बहिर्वीक्ष्य जनक्षोभं साहसं निश्चिकाय तम् ॥ २१५३ ॥
सुजौ हते क्षते वापि कार्यमेतदिति द्रुतम् ।
संना सैन्यस्यादिक्षत्स तन्मन्दिरवेष्टनम् ॥ २१५४ ॥
मिथ्यैव सुजिनिस्तीर्ण इति श्रुतवता जनात् ।
स्वयमग्राहि भूपेन ततः समरसंभ्रमः ॥ २१५५ ॥

१८६ राजतरङ्गिणी निःसंशयं हतं ज्ञात्वा सुजि राजोपजीविनः । तत्र स्थित शिवरथं सर्वद्वेष्यमबन्धयन् ॥ २१५६ ॥ हिल्लात्मजन्मनः सुजिभ्रातृस्यालस्य कौशलम् । कलहस्याद्य निर्वर्ण्य वाणीयं पुण्यभागिनी ॥ २१५७ ॥ आक्षिप्यमाणैर्भिक्ष्वाधैरन्ते वीरोचितं कृतम् । तेन त्वसंशयस्थेन सदाचारान्न विच्युतम् ॥ २१५८ ॥ राजौकस्येव तां वार्ता श्रुत्वा स ह्यपलायितः । हतस्य स्वामिनोभ्यर्ण जिहासुर्जीवितं ययौ ॥ २१५९ ॥ द्वारं पदप्रहृतिभिर्भजन्तं राजसैनिकाः । अपसार्य कथंचित्तं तीक्ष्णाः कृच्छ्रादरक्षिषुः ॥ २१६० ॥ प्रविष्टेस्मिन्ननियूंढपीडिते मण्डपान्तरम् । लब्धप्राणा नृपाभ्यर्ण कुलराजादयो ययुः ॥ २१६१ ॥ हठप्रविष्टो हतवान्स तत्रैकं महाभटम् । शरैरेव हतो दूरात्कथंचित्परिपन्थिभिः ॥ २१६२ ॥ आयातं क्षुभिते देशे सजपालं महीपतिः । रिल्हणं चोल्हणं हन्तुं प्राहिणोद्विहितत्वरः ॥ २१६३ ॥ यातो मार्गात्पलाय्यायं परिशङ्कयति रिल्हणः । क्षिप्तिकातटपर्यन्तमटित्वा यावदाययौ ॥ २१६४ ॥ पूर्वायातः सजपालो गृहद्वाराद्विनिर्यतः । उल्हणस्य पथो रुन्धन्सुबहूम्प्रहरव्रणे ॥ २१६५ ॥ तावदेकस्य खङ्गेन निकृत्ते दोष्णि दक्षिणे । त्वङ्मात्रशेषे च्छिन्नास्थिस्नायुग्रन्थिरजायत् ॥ २१६६ ॥ तिलकम् ॥ प्रहरंस्तगण्यप्रायतां प्राप्ले वंशे यत्कौशलादसौ भ्राम्यन्लुएन्तरेषु स्वस्मिन्न देशे प्राप प्रथां पुनः । २१६७ ॥ चक । । a अष्टमस्तरङ्गः। फलकाले समासन्ने शौर्यप्रतिभुवाभजत् । स तेन दोष्णा वैकल्यं धिगिच्छां विधुरां विधेः ॥ २१६८॥ स प्राग्वदुदयावाप्तौ भवेदविकलो यदि । फलेन तस्य जानीयादिच्छां लोकोयमद्भुताम् ॥ २१६९ ॥ पीतामृतस्य क्षतविग्रहत्वं न प्राभविष्यद्यदि नाम राहोः । अज्ञास्यदिच्छां तमुष्य लोकः सामर्थ्य भाजः सुचिरप्ररूढाम् ॥ २१७० ॥ दृष्टः शीलाभिधो वृद्धः पितृव्यः साहदेविना । सस्पृहं निहतः संख्ये साधुर्जातव्रणार्तिना ॥ २१७१ ॥ तस्याा विशतो वेश्म जजलाख्योग्रगो हतः। मान्योनुगो भटो द्वौ च यामिकश्च जनंगमः ॥ २१७२ ॥ बालं तनयमालोक्य निषण्णस्याङ्गनस्थितेः । तस्यानिर्गच्छतो गेहे रिल्हणोग्निमदापयत् ॥ २१७३ ॥ आनीयमानो धूमान्धो बद्धवा मुख्यैः स सैनिकैः गृहद्वारे हतः कैश्चित्प्राकृतैर्बणविक्लवः ॥ २१७४ ॥ तस्य प्रधानप्रकृतिक्षयहेतोर्महीपतिः। मुण्डमप्यवलोक्यासीदशान्तक्रोधविक्रियः ॥ २१७५ ॥ व्यापाद्यमानाः साकोपं भूपतिप्रेरितैर्भटैः । उञ्चावचाः सुजिभृत्याः कृत्यं सत्त्वोचितं व्यधुः ॥ २१७६ ॥ अनुजो लक्ष्मकः सुज्जेर्बवानीतः स विक्रियाम् । नृपं वीक्ष्यादयैः कैश्चिद्राजधान्यङ्गने हतः ॥ २१७७ ॥ भ्राता पितृव्यजस्तस्य सङ्गटाख्यो नृपाङ्गने । खुटन्नट इव प्राणानौचित्येनामुचकृती ॥ २१७८ ॥ ।

१८८ राजतरङ्गिणी प्रविष्टः शरणं बाणवंश्यैः पापैः प्रमापितः। उन्मत्तो मुम्मुनिस्तस्य भ्राता कैश्चित्स्वमन्दिरे ॥ २१७९ ॥ सुजिस्यालस्तु शृङ्गारवृत्त्याभङ्गुरया हतः । महाकुलीनो विचरन्नौचित्येन च चित्रियः ॥ २१८० ॥ सङ्गिकाख्यः प्रतीहारो वणितः शनकैर्हतः। अन्येपि संश्रिताः सुजेस्तत्र तत्र प्रमिमियरे ॥ २१८१ ॥ जात्यवाजिजवप्राप्तप्राणाः कोटेश्वरान्तिकम् । आसाद्य वीरपालाद्या द्वित्रा मृत्युभयं जहुः ॥२१८२ ॥ ब्रजञ्शरदि यो दुष्टोत्थानरुद्धतुरंगमः । प्रपेदे सङ्गटभ्राता बन्धनं सुभटामठे ॥ २१८३ ॥ सूनुश्च सजलः सुजेः श्वेतिकश्चाग्रजात्मजः। उल्हणस्य तनूजश्च कारागारं प्रपेदिरे ॥ २१८४ ॥ इत्थं राजन्यमात्ये च प्राप्ते पिशुनवश्यताम् । नवमेब्दे शुचेः शुक्लपञ्चम्यां विप्लवोभवत् ॥ २१८५ ॥ कार्ये क्वापि विपर्यस्तसत्त्वं संस्मृत्य मत्रिणम् । तमद्यापि नृपस्तादृग्भृत्योपेतोनुतप्यते ॥ २१८६ ॥ वेतालोत्थापनाच्छभ्रलङ्घनाद्विपचर्वणात् । व्यालाश्लेषाञ्च विषमं सत्यं राजोपसेवनम् ॥ २१८७ ॥ अनात्मायत्तनिस्तीर्णगुणानां चक्रवर्तिनाम् । शकटानामिवाग्रस्थो विश्वस्तः को न भज्यते ॥ २१८८ ॥ अयुक्तं नृपतिः सुजिवधं मेने प्रजाः पुनः। युक्तं झात्वा तमुद्रिक्तशक्तितां विविदुः प्रजाः ॥ २१८९ ॥ भेजे राजा सज्जपालं कम्पनाधिपतिं ददत् । कुलराजे च नगराधीकारित्वं समार्पयत् ॥ २१९० ॥ १ क्वाप्यविपर्यस्त इति स्यात् । २ प्रभोः इति स्यात् ।

अष्टमस्तरङ्गः। त्यक्त्वा मल्लार्जुनं धन्योदयौ नगरमागतौ । प्राग्वत्पुनर्जजृम्भाते प्रियौ विश्वंभराभुजः ॥ २१९१ ॥ इतराश्रयविच्छेदा वीतपारिप्लवस्थितिः। श्रीः सर्वाकारमकरोत्स्थिरं चित्ररथे पदम् ॥ २१९२ ॥ अद्भुतैश्वर्यधुर्योपि राष्ट्र दण्डेन पीडयन् । शमं नेतुमशक्योभूत्स भूपस्याप्यनङ्कुशः ॥ २१९३ ॥ गन्धर्वानाभिधे ग्रामे टिकं हत्वा व्यसर्जयत्। पारेविशोक कोटेशस्तच्छिरः पार्थिवान्तिकम् ॥ २१९४ ॥ निसर्गद्वेषिणा प्राप्तप्रतापे नितरां नृपे । तदानीं तप्यमानेन दूतेनाप्यायितोसकृत् ॥ २१९५ ॥ कोष्टेश्वरेण रभसादल्पैः परिजनैर्युतः। निशि लोठनदेवः स हाडिग्रामं ततोविशत् ॥ २१९६ ॥ महाकथितकन्थोन्यैः संरब्धे राशि सर्वतः । बद्धसंधिर्लवन्यस्तं विससर्ज यथागतम् ॥ २१९७॥ उच्चलादिवदादातुं राज्यं स रभसं भजन् । नियूंढिशून्यदायोगान्मूढो लोकस्य हास्यताम् ॥ २१९८ ॥ तीक्ष्णप्रयुक्तिभिः सैन्यभेदैरन्यैश्च कोष्टकम् । उपायैर्नृपतिस्तैस्तैस्ततो हन्तुं व्यचिन्तयत् ॥ २१९९ ॥ प्रतिद्वन्द्वीव तीक्ष्णानां पाटिताक्षः क्षमाभुजाम् । न संप्रेसादयत्क्रुद्धः प्रतियोद्धं त्वचिन्तयत् ॥ २२०० ॥ स्वैः स्वैः प्रदेशैरादिश्य प्रवेष्टुं पृतनापतीन् । स्वयमुच्चावचैः सैन्यैरवचस्कन्द तं पुनः ॥ २२०१॥ स भूपं रभसायातं ज्ञात्वाल्पपृतनं बली । प्राप्तश्छलयितुं तस्थौ प्रतापैः परिहारितः ॥ २२०२ ॥ १ विच्छेदात् इति स्यात् । २ संप्रासादयत् इति स्यात् ।

१९० राजतरङ्गिणी । लग्ने रणे चित्ररथः पृथुसैन्योपि देवतः । तस्य सैन्येकदेशेन निन्ये जयविपर्ययम् ॥ २२०३ ॥ भङ्गना मङ्गलोकारकल्पेन किल तेन सः । ततः प्रभृत्यभूद्धश्यदवष्टम्भो दिने दिने ॥ २२०४ ॥ रिल्हणादीन्योधयित्वा व्यूढव्यस्ताखिलानुगः । लवन्यो न्यपतत्सायं कम्पनाधिपतेर्बली ॥ २२०५ ॥ ऊनैः शतादपि भटैर्युतो विद्रुतसैनिकः । संह तत्सैन्यरोषं स गजक्षोभमिवाचलः ॥ २२०६ ॥ किं वाच्यः स नरव्याघ्रः प्रवृद्धिं याति संगरे। निजवर्मतनुत्रादि यस्य माति न वर्मणि ॥ २२०७ ॥ मन्दीकृतारिसंरम्भमवष्टम्भेन तादृशा । तं त्रिल्लकादयः प्रापुर्लवन्याः सैन्यशालिनः ॥ २२०८ ॥ तैः सजातीयदाक्षिण्यात्तटस्थैरपि संकटे। तस्येषदुपयोगोभूत्स्ववीर्यापास्तविद्विषः ॥ २२०९ ॥ काले संनहनं रात्रिजागरः सामतो बलैः । समये ग्रहणत्यागतत्तद्युक्तिविकल्पनम् ॥ २२१०॥ लब्धभूम्यपरित्यागो जिगीषोरीदृशैर्गुणैः । चलेयुररयोप्यस्य का वैर्याक्रमणे स्तुतिः ॥ २२११ ॥ अविश्वसन्भिन्नभृत्यस्ताइक्संरम्भपीडितः । पलायनोन्मुखः शैलात्कोष्टकोथ व्यगाहत ॥ २२१२ ॥ मार्गेष्वकालपालेयपातरुद्धेषु वाजिनाम् । गन्तुं तस्योद्यमं जघ्नुः पृष्ठलग्ना विरोधिनः ॥ २२१३ ॥ अवमानोपतप्तोथ परिमेयपरिच्छदः । स ययौ जाहवीं स्नातुं राज्ञा राष्ट्रादपाकृतः ॥ २२१४ ॥ १ भङ्गानां इति स्यात् । २ सेहे इत्युचितम् ।

अष्टमस्तरङ्गः। १९१ सोमपालोथ भूपालनाम्ना पुत्रेण खेदितः। दीर्घद्वैराज्यदुःखार्तः शरणं नृपतिं ययौ ।। २२१५ ॥ पुत्रौ दत्तवतो नीवीं नागपालस्य तस्य च । अभयं प्रतिशुश्राव भूभृदाश्रितवत्सलः ॥ २२१६ ॥ बृहद्राजस्य जिझोयं दौःस्थ्यहेतुरभूदिति । स तदापदि नामार्षीदव्याजौदार्यधुर्यधीः ॥ २२१७ ॥ साहायकाय स्वं सैन्यं दत्तवांस्तं महीपतिः। भूयः प्रतिष्ठामनयदर्पप्रशमनाद्विषाम् ॥ २२१८ ॥ नात्वा धुनद्यां व्यावृत्तः कोष्टकोत्रान्तरे पुनः। मल्लार्जुनं गृहीत्वाभूद्वैराज्योत्थापनोद्यतः ॥ २२१९ ॥ अर्कोपरागे प्राप्तः स कुरुक्षेत्रमवाप तम् । लवन्यं कार्यतस्त्यक्तपूर्ववैरो नृपात्मजः ॥ २२२० । आहूतो लोठनः पूर्वमायातस्तेन डामरम् । निशम्य तं संघटितं खिन्नः प्रायाद्यथागतम् ॥ २२२१ ॥ विजयेशाग्रतः पीतकोशोपि नृपतिद्विषः । प्रविविथुनुपैक्षिष्ट सोमपालो दुराशयः ॥ २२२२ ॥ आराधनाय भूभर्तुस्तत्पुत्रः कोष्टकं पुनः । प्राप्त स्वविषयैस्तैस्तैष्ठक्कुरैर्निरलुण्ठयत् ॥ २२२३ ॥ अत्रान्तरे चित्ररथं संवृद्धायासदुर्ग्रहम् । अनिच्छन्तोवन्तिपुरे प्रायं चक्रुर्द्विजातयः ॥ २२२४ ॥ उपेक्ष्यमाणास्ते दर्पात्तेनागणितभूभुजा। ज्वलिते ज्वलने देहान्बहवो जुहुवुः शुचा ॥ २२२५ ॥ चरके धर्मधेनूनामुत्तब्धेपि तदाश्रितैः । वह्नि गोपालकोप्येकः कारुण्यप्रवणोविशत् ॥ २२२६ ॥ १ स्वविषये इत्युचितम् ।

राजतरङ्गिणी
भट्टस्योद्भटवंशस्य पृथ्वीराजस्य नन्दनः ।
युवा विजयराजाख्यः सानुजो गाढदुर्गतः ॥ २२२७ ॥
देशान्तरं जिगमिषुर्विषमं वीक्ष्य तत्र तत् ।
व्याजहारानुजन्मानं कारुण्यानुकणान्किरन् ॥ २२२८ ॥
उपेक्ष्यमाणा दाक्षिण्यस्तम्भितेन महीभुजा ।
विशः सचिवपाशेन विवशाः पश्य नाशिताः ॥ २२२९ ॥
छन्दानुवृत्त्यामात्यानां यत्र क्ष्माभृदुपेक्षते ।
कस्तत्रान्यस्तु दीनानामापच्छमयिता विशाम् ॥ २२३० ॥
यद्वा न्यायोयमन्योन्यस्पर्धया यदुपप्लुतम् ।
शमिता दण्डयेच्छाम्यं शमितारं परोथवा ॥ २२३१ ॥
विशृङ्खलं नयेच्छय्यां दायसारं विघट्टनैः ।
कदाचिल्लोहमश्मानमश्मा लोहं कदाचन ॥ २२३२ ॥
दोषेणैकेन न द्वेष्यो राजा सर्वगुणोज्वलः ।
वधाञ्चित्ररथस्यान्यद्विधेयं नावभाति मे ॥ २२३३ ॥
धर्मः सर्वोपकार्यकक्षुद्रक्षपणमुच्यते ।
जघानाजगरं सोपि जन्तूनामन्तकं जिनः ॥ २२३४ ॥
दुर्वृत्तदमनेस्माभिः कृते तेजस्विनो जनात् ।
भूयोप्यधिकृतो बिभ्यन्न कश्चित्पीडयेत्प्रजाः ॥ २२३५॥
कायस्यास्य परित्यागादनन्ता जन्तवो यदि ।
सुखिनः स्युरसौ भ्रातर्वणिज्या ज्यायसी न किम्॥२२३६॥
संशुश्रुवांसं स तथेत्यथ तं कोशपीथिनम् ।
विधायानुससारैत्य हन्तुं चित्ररथं तदा ॥ २२३७ ॥
कालेऽस्मिन्धर्मदौर्बल्यकलुषेपि कलेः किल ।
प्रभावो भूमिदेवानां द्योततेद्याप्यभङ्गुरः ॥ २२३८ ॥

अष्टमस्तरङ्गः। १९३ ब्राह्मणैरपरिक्षीणपूर्णपुण्यो न कश्चन । धैर्यमारभते भ्रष्टदुष्टोत्पाटनपाटवैः ॥ २२३९ ॥ द्विजानुद्वेजयन्सुजिर्द्विजादेवासदद्वधम् । विप्रेणैव हतश्चित्ररथो विप्रावमानकृत् ॥ २२४० ॥ द्विजोत्थापितया क्रान्तचित्तोसौ कृत्यया ध्रुवम् । दध्यौ तस्य वधं प्राणान्विना कारणमुत्सृजन् ॥ २२४१ ॥ कृशानुसादकृषत विप्रा देहान्यदैव ते। तद्वेषस्तुल्यसंघर्षे तदैवासीद्धतानुगः ॥ २२४२ ॥ अनासादयतश्चित्ररथं पृथुबलान्वितम् । गणरात्रमभूद्धन्तुर्दिवारानं प्रजागरः ॥ २२४३ ॥ स ह्यपर्यन्तसामन्तसीमन्तितपथो ब्रजन् । अभूददृश्यो दृश्यश्च जनसंबाधमध्यगः ॥ २२४४ ॥ तेन साश्चर्यनैश्चल्यनिष्ठुरेणैकदा जवात् । सोनुसने व्यतिक्रान्तनिःश्रेणिर्नृपवेश्मनि ॥ २२४५ ॥ विलम्बितस्य स्तम्बाने कृपाण्या मूर्यथास्य सः। सामन्तमध्यगस्यैव प्राहरत्तीवसाहसः ॥ २२४६ ॥ मुमूर्षोरिव तत्रास्य वैवल्यगलितस्मृतेः। उद्भान्तचक्षुषो वर्चश्च्यवनं समपद्यत ॥ २२४७ ॥ प्रमापितोयं राज्ञेति ज्ञात्वा सत्त्वबहिष्कृताः । वित्रस्तास्तं तथाभूतमत्यजन्ननुजीविनः ॥ २२४८ ॥ तं वीतजीवितं ज्ञात्वा न तीक्ष्णः प्राहरत्पुनः । प्राप्तं द्वितीयनिःश्रेण्या भ्रातरं निषिषेध च ॥ २२४९ ॥ न पलायिष्ट निर्विघ्नसर्वमार्गोपि घातितः । राज्ञा चित्ररथः शश्वदित्युच्चैः प्रोच्चकार सः ॥ २२५० ॥ १ स्तम्भाग्रे इति स्यात् ।

राजतरङ्गिणी प्रे"ष्टं भृष्टमांसादिराज्यभोगपुरःसरैः । सर्वैः कापुरुषैत्रासादथ चित्ररथानुगैः ॥ २२५१ ॥ ज्यायाल्लोठरथस्तस्य भ्राता भीत्या पलायितः। शरणं नर्तकीमेकां ययौ वक्रार्पितस्तनः ॥ २२५२ ॥ तादृक्प्रवेशितश्चित्ररथोभ्यर्ण महीभुजा । मा भैषीः प्राहरत्कस्त्वामित्युक्त्वाश्वासितः स्वयम्॥२२५३॥ नृपाज्ञया को निहन्ता द्वारेशस्येति वादिभिः। तीक्ष्णोन्विष्टो भटैः सोहमित्युक्त्वा स्वं न्यदर्शयत् ॥२२५४॥ धीरो योधान्स्वधैर्यात्तु लैनं श्लाघ्यविक्रमः । त्रिंशदिशान्स हत्वाथ प्रहृत्य च रणे हतः ॥ २२५५ ॥ परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय संभवामि युगे युगे ॥ २२५६ ॥ लब्धा लिखिततत्कृत्यकारणात्पत्रिका करात् । तस्यान्तसमयाशंसा श्लोकेनानेन पावनी ॥ २२५७ ॥ अरुच्युन्मादीनत्वयुतश्चित्ररथस्ततः । रूढव्रणोपि लालाटसंधिवेधादजायत ॥ २२५८ ॥ स मासान्पञ्चषान्याप्य निराप्यायकृशाकृतिः । विवेष्टमानोवर्तिष्ट शयनीयतलेन्वहम् ॥ २२५९ ॥ मल्लार्जुनं पुरस्कृत्य कोष्टको विप्लवोन्मुखः । तन्मध्ये तरुसंबाधं गिरिदुर्गमगाहत ॥ २२६० ॥ मा मामभ्रमयं भ्राम्यन्स्वयूथ्यग्रसनोद्यमात् । अविस्मृतापदं लोकं पुनद्वैराज्यशङ्कितम् ॥ २२६१ ॥ अकाण्डाम्बुदजाज्येन पीडिताङ्ग इवाभजत् । परचक्रोदयेनाशु लोकः शिथिलशक्तिताम् ॥ २२६२ ॥ १ प्रणष्टं इति स्यात् । ३ लञ्चयन् इति स्यात् । HTRA

अष्टमस्तरङ्गः।
S
VA
।
तरुदुर्ग तदकृशकोशव्याप्यथ सर्वतः ।
व्याप्तोपान्तवनग्रामैः सचिवैः स न्यरोधयत् ॥ २२६३ ॥
सजपाले यवनकैः स्कन्धावारं निवनति ।
अनुचक्रुर्द्विषोस्पन्दान्निवातस्तिमितांस्तरून् ॥ २२६४ ॥
धन्योपि शिलकाकोष्टपर्यस्तकटकोभवत् ।
गन्धद्वेषी गजरिपुः सिन्धुरस्येव वैरिणः ॥ २२६५ ॥
आवासितबलो राज्ञा गोवासे रिल्हणोकरोत् ।
अटवीं पर्यटन्धूकानिवार्को बुडितानरीन् ॥ २२६६ ॥
तीव्रशक्तेर्नृपस्यैवमारम्भैः स्तम्भितोभजत् ।
कोटेश्वरस्त्रिचतुरान्मासान्संचारशून्यताम् ॥ २२६७ ॥
क्लिष्टो देशान्तरे राष्ट्रानन्तरैय॑कृतो नृपः
भिन्नस्ववर्गो भूभर्तृभृत्यव्यर्थीकृतोद्यमः ॥ २२६८ ॥
बालिशत्वादकुशलो ज्ञातुं वृत्तिं महीभुजाम् ।
स विस्मृतागाः संघातुमैच्छच्छिन्नपदो नृपम् ॥ २२६९ ॥
उजिहीर्षोः प्रभोर्मन्युं वाच्यं तद्वञ्चनाद्विदन् ।
भक्येकानः सजपालस्तस्येच्छां तामपूरयत् ॥ २२७० ॥
तथार्तोपि रिपुं राज्ञः संधित्सुर्व्यग्रहीन सः।
पृथ्वीहरप्रसूतानां निर्दोहत्वं न कौतुकम् ॥ २२७१ ॥
तेन प्रहिण्वता राजवैरिणं स्वकराङ्गुलिम् ।
छिन्दतापि महीभर्तुमन्युश्छेत्तुं न पारितः ॥ २२७२ ॥
कण्ठबद्धशिरःशाटः शीर्षेणोपानहं वहन् ।
भुक्तवेलोपि भूपालं कर्तुं नाशकदकुधम् ॥ २२७३ ॥
अस्वीकृतद्वित्रभूभृल्लाञ्छनः स हि राजवत् ।
तत्तत्प्रत्युक्तभूपाज्ञः सर्व गर्वाद्यवाहरत् ॥ २२७४ ॥

राजतरङ्गिणी
शुश्राव बद्धं तन्मध्ये यातं मल्लार्जुनं नृपः ।
अनुबध्नाति भव्यानामुदयेभ्युदयान्तरम् ॥ २२७५ ॥
नीयमानः स हि स्कन्धमधिरोप्यानुजीविभिः ।
अजाचिकतया मागोल्लङ्घनाय स निःसहः ॥ २२७६ ॥
ततस्ततो भयस्थानान्निस्तीर्णो लोहराश्रितम् ।
सावर्णिकाभिधं ग्राम प्राप्तो विन्यस्तरक्षिणा ॥ २२७७ ॥
निरुद्धो जन्गिकाख्येन ठकुरेण महीपतिः।
प्रियंकरं तं च भृत्यं शुश्रावान्तिकमागतम् ॥ २२७८ ॥
बद्धप्रायोरिणा दुर्गानिर्गतः स कथंचन ।
बद्धस्तेन पुनः शक्तिः कस्य भाव्यर्थलङ्घने ॥ २२७९ ॥
गङ्गा धुमार्गलुठिता जठरात्कथंचि-
देकस्य संहृतवतो निसृता महर्षेः ।
अस्तापरेण कृतसागरगर्तपूर्तिः
शक्तो न कोपि भवितव्यविलङ्घनायाम् ॥ २२८० ॥
जग्गिके बद्धसंप्राप्तिपर्यन्तोपान्तरक्षिणि ।
राज्ञोदयद्वारपतिः प्रायोजि प्राज्यबुद्धिना ॥ २२८१ ॥
तं विना धैर्यगाम्भीर्यशौर्यधुर्य महाधियम् ।
संकटे नावष्टम्भो राज्ञाज्ञाय्यन्यमन्त्रिणाम् ॥ २२८२ ॥
स ह्यतिक्रम्य साबाधान्मार्गानुभयवैतनैः ।
तमोरिस्थितमद्राक्षीत्तं क्षमापतिविद्विषम् ॥ २२८३॥
निष्ठाशून्येन धैर्येण शौर्यसंभावनावहः ।
स्तुवन्स तं बहिःप्राप्तं तत्तदुक्त्वाब्रवीत्पुनः ॥ २२८४ ॥
सर्वतो ज्यायसी भर्तृभक्ति यो बहु मन्यते ।
भवान्धुर्यो मतिमतामहृतो लोभनान्तरैः ॥ २२८५ ॥

अष्टमस्तरङ्गः। १९७ कृता रक्षामणिसमं सहायं त्वादृशं विना । हानिमें दुर्नरेन्द्रस्य बाल्ये राज्ये बहुच्छलैः ॥ २२८६ ॥ दुष्प्रेक्ष्याणां भवत्येव नियमाद्राजभास्वताम् । भाग्यान्तहेमन्तदिने जननेत्रविलङ्घयता ॥ २२८७ ॥ शोभते रुधिराताम्रमण्डलायो यथोदये। तथा योस्तमये भास्वानिव वन्द्यः स भूपतिः ॥ २२८८ ॥ धन्योवतारो यस्यासीत्क्षुभ्यत्पौराङ्गनाजनः । उदयेस्तमयेप्युने रागव्यग्राप्सरोगणः ॥ २२८९ ॥ पदे प्रयोगं लब्ध्वार्थ किंचित्कृत्वा कुलीनवत् । अहं कविरिव प्रौढः प्राप्तो नियूंढिमूढताम् ॥ २२९० ॥ सत्यकारोधुना भूत्वा विधत्ता स्वान्तसुस्थितिम् । साध्यत्वानतिवृत्तेन वरेणैकेन मे भवान् ॥ २२९१ ॥ इत्युक्त्वा प्रत्ययोत्पत्त्यै संस्प्रष्टुं स्फाटिकं ततः । स पीठं पुरतो द्वारपतेर्लिङ्गमुपानयत् ॥ २२९२ ॥ अच्छलाहवसंमर्दप्रासशूलेषुवर्षिणः । योधान्योद्धं वरं सायं मानवान्नूनमिच्छति ॥ २२९३ ॥ इति संभाव्य संस्पृष्टशिवलिङ्गः स वाञ्छितम् । वरं तस्योररीचक्रे स च भूयो जगाद तम् ॥ २२९४ ॥ अकृष्टदृष्टिरहतः माभुजोन्तिकमक्षतः । यथेगेव प्राप्नोषि तथा त्वामर्थयधुना ॥ २२९५ ॥ कार्पण्योपहतं तस्य वचः श्रुत्वा त्रपाजडाः। सर्वेप्युर्वीमुखास्तस्थुर्वृष्ट्याः पल्लवा इव ॥ २२९६ ॥ अन्तक्षणस्ततो भिक्षोः मर्यमाणः स चेतसाम् । विकासहेतुतां प्राप स्वस्थस्य मनसः पुनः ॥ २२९७ ॥ १. अप्रौदः इति स्यात् । २. प्राप्नोमि इति स्यात् ।

राजतरङ्गिणी मनुष्यवाह्यमारूढः पत्रं निन्ये स निस्त्रपः । तेन स्वपालिताल्लोकानपि पश्यन्नविक्रियम् ॥ २२९८ ॥ अहीनाहारनिद्रादिवैवश्यः पशुवत्पथि । कृष्यमाणः स केनापि न विकल्पेन पस्पृशे ॥ २२९९ ॥ पश्यन्नानीयमानं तं गोप्तृभिस्तादृशं जनः । दयाहृयश्चासीन्नाभ्यनन्दञ्च भूभुजम् ॥ २३०० ॥ उवाच चानुकम्प्येस्मिञ्जन्मज्येष्ठस्य भूपतेः। नैतावद्भाति नैपुण्यमनुजे पितृवर्जिते ॥ २३०१ ॥ आसेचनकमेतस्य मेचकालदृशो वपुः। क्लेशगर्हामनिस्त्रिंशचेताः कः कर्तुमर्हति ॥ २३०२ ॥ पूर्वापरानुसंधानवन्ध्यस्तं दृष्टवांस्तदा । विस्मृतागा नृपं तत्तदित्युपालभताध्वनि ॥ २३०३ ॥ गणना काथ वा बालबालिशादौ विधीयते । न चित्तवृत्तेरैकाग्र्यं महतामपि सर्वदा ॥ २३०४ ॥ श्रोतॄणां द्यूतपाञ्चालीकेशकृष्ट्यादि शृण्वताम् । पाण्डवेभ्योधिकः क्रोधो धार्तराष्ट्रेषु जायते ॥ २३०५ ॥ कुरूणां क्षतजापाने भग्नोरोद्र्धताडने । श्रुते पाण्डवविद्वेषस्तेषामेव च दृश्यते ॥ २३०६ ॥ परावरज्ञः कार्याणां न कश्चिन्मध्यमं विना । तटस्थेनुभवाभेदस्तत्र तत्र कथं भवेत् ॥ २३०७ ।। स पौरानोदयन्नके च्छिन्नाङ्गुल्यकमुद्वहन् । युग्याधिरूढो मृत्पात्रं सायं नगरमासदत् ॥ २३०८ ॥ न्यधत्ताश्वयुजा शुक्लपञ्चदश्यां महीपतिः। एकादशेब्दे तं रक्षियुतं नवमठान्तरे ॥ २३०९ ।। ॥ S

अष्टमस्तरङ्गः।
त्यक्ताहारस्य च निशाः पञ्चषास्तस्य ताम्यतः।
पाचे जगाम कारुण्याचरणस्पर्शनार्थिनः ॥ २३१० ॥
अवादीदथितं तस्मै प्रतिशुश्रुवुषेभयम् ।
द्रोहावेकान्ततो वध्यौ स चित्ररथकोष्टको ॥ २३११ ॥
राजा निर्जग्मुषः स्वोर्वी कोष्टकस्याथ बन्धनम् ।
विधित्सुः पञ्चषानाप्ताव्रिल्हणादीनचूचुदत् ॥ २३१२ ।।
सर्वेषु गलितौजःसु स्वयं राश्युद्यमस्पृशि ।
अथ तं रिहणो दो| अषं ग्राह इवाग्रहीत् ॥ २३१३ ॥
हृतशस्त्रः स बलिनस्तस्य दोष्पञ्जरान्तरे।
तस्थावचेष्टो निद्रान्धो भूतेनेवासमीकृतः ॥ २३१४ ॥
भ्रातृव्यो भिःखराजाख्यः कुलराजस्य कोपनः ।
भूभृद्भक्त्या कृपाण्यास्य निर्विभेद कृकाटिकाम् ॥२३१५॥
परश्वधेन मूर्येनं पृथ्वीपालश्च ताडयन् ।
राजबीजी स च क्रोधान्यषिध्यत महीभुजा ॥ २३१६ ॥
कृकाटिकास्थसंजातमर्मवेधोपचेष्टितः ।
विवेष्टमानोवर्तिष्ट क्षितौ स रुधिरोक्षितः ॥ २३१७ ॥
महाबलैः कमलियप्रमुखैस्तस्य सोदरः ।
चतुष्कः पातितोप्यु- गण्डशैल इव द्विपैः ॥ २३१८ ॥
विलोक्य वैकल्यहतौ बद्धौ तौ स्वामिनी तथा ।
कृष्टासिधेनुरुत्तस्थौ द्विजन्मा मल्लकाभिधः ॥ २३१९ ॥
उच्चावचेषु प्रहरन्स भूपालोपजीविषु ।
अतळमाणस्तुमुलं राज्ञैवालस्यतापतन् ॥ २३२० ॥
नृपान्तिकादापततस्तांस्तान्नन्तं महाभटान् ।
अधावत्सासिधेनुस्तं कुलराजो महौजसम् ॥ २३२१ ॥

२०० राजतरङ्गिणी प्रतिप्रहृतिषु क्षिप्रापतत्पाणिमपारयन् । निहन्तुं संरुरोधेव भित्तौ व्यायामचित्स तम् ॥ २३२२ ॥ अपयातुमवस्थातुं प्रहर्तुं वाप्यशक्नुवन् । तस्थौ च बहुसंधानः संस्तभ्यैनमविक्षतम् ॥ २३२३ ॥ चरणास्फालनोत्फालदो शब्दमुखरोन्तिकम् । धाविते पझराजेथ मल्लाकोक्षिपदीक्षणम् ॥ २३२४ ॥ प्राहरत्कुलराजोस्य लब्धरन्ध्रोथ वक्षसि । प्रहृत्य गच्छतः पाणेः स तस्याङ्गुष्ठमक्षिणोत् ॥ २३२५ ॥ तौ विजराजो दर्पोष्णनिबिडं प्रहरत्युभौ । तस्मिन्प्रतिप्रहरति क्षिप्रं प्राहरतां ततः ॥ २३२६ ॥ स त्रीनप्यभियोक्तस्तांस्त्यक्त्वा दृक्पथमागतम् । चतुष्किकाद्वारगतं राजानं समुपाद्रवत् ॥ २३२७ ॥ लक्ष्यीभूते नृपे शीघ्रमनुधावन्ससंभ्रमम् । चकार कुलराजस्तं स्फिगस्थिक्षतिनिर्जवम् ॥ २३२८ ॥ ततः सर्वैर्वृतो योधैः क्लीबाक्लीबान्स सत्वरम् । हत्वाभजद्वीरशय्यां रक्तस्यन्दोत्तरच्छदाम् ॥ २३२९ ॥ जीवद्यापद्तस्वामिवीक्षितः श्लाध्यविक्रमः । स एव स्पृहणीयान्तक्षणो वीरेष्वगण्यत ॥ २३३० ॥ बहिः कोष्टकभृत्येषु विद्रुतेष्वदरिद्रताम् । परं जनकचन्द्राख्यो धैर्येणोवाह डामरः ॥ २३३१ ॥ निरायुधो राजभृत्याद्धृत्वैकस्मात्परश्वधम् । स ह्ययुद्धाग्रदूतत्वं नयन्भूरीन्यमान्तिके ॥ २३३२ ॥ यियासोस्तस्य चण्डांशुमण्डलं परशुः करे । सुषुम्णासंविभागार्थी शशिखण्ड इवाविशत् ॥ २३३३ ॥ ।

अष्टमस्तरङ्गः। २०१ नादाक्ष्म नाश्रीष्म वापि बद्धे भर्तरि यत्तदा । कोष्टकस्य वधूरन्वतिष्ठन्मानवती सती ॥ २३३४ ॥ जीवन्भूयोपि लभ्येत त्वया स पतिरित्यसौ । बन्धूनामवधीर्योक्तिं प्राविशद्यद्भुताशनम् ॥ २३३५ ॥ सप्तर्षियोषिदाश्लेपतर्षकिल्बिषदूषितः । तस्या सतीलोकगायाः पादाभ्यां पावितोनलः ॥ २३३६ ॥ वसन्तस्य सुता धन्योदयभ्रातुः पुपोष सा । शुचिवंशाभिमानेन न डामरवधूव्रतम् ॥ २३३७ ॥ लवन्यललनाः कुर्युर्वैधव्यपि धनेच्छया । ग्रामकार्यिकुटुम्ब्यादीन्नितम्बाभोगभागिनः ॥ २३३८ ।। मतिव्यामोहनियूंढवैक्लव्यस्याभिमानिनः । तयानुगाभ्यां च कृतं कोटकस्योच्चकैः शिरः ॥ २३३९ ॥ रूढवणोपि क्रिमिसाद्भूतः कैरपि किल्बिषैः । निष्प्राणो गणरात्रेण कारायां कोष्टकोभवत् ॥ २३४० ॥ अथ चित्ररथः शोपकृशः कलुषितं नृपम् । श्रुत्वा मल्लार्जुनेनाभूद्भयादत्यन्त दुःखितः ॥ २३४१ ॥ पत्नी तस्यैकभार्यस्य प्रिया सूर्यमती सती । परलोकातिथिः पूर्व विभवप्रतिभूरभूत् ॥ २३४२ ॥ देहे याप्यहताप्याये गेहे गतपरिग्रहे । पत्यौ वैमत्यकलुषे नेषदप्येष पिप्रिये ॥ २३४३ ॥ तीर्थस्थितस्य न स्यान्मे सागसोप्यप्रियं नृपात् । इति संचिन्त्य स प्रायान्मिषान्मर्तु सुरेश्वरीम् ॥ २३४४ ॥ अथ नानार्थभूयिष्ठां धनाधीशाधिकश्रियः । स्थानात्ततस्ततस्तस्य पार्थिवोपाहरच्छ्रियम् ॥ २३४५ ॥ । २६ २०२ राजतरङ्गिणी कनकांशुकसंनाहवाजिरत्नायुधादिभिः । स्वा स्वा प्रकाशिता लक्ष्मीः स्पर्धयेवाधिकाधिका ॥२३४६॥ लोहरदोहधर्मोष्मशोषितो राजपादपः । तल्लक्ष्मीशैलतटिनीसेकेनाप्यायितोभवत् ॥ २३४७ ॥ विप्लवे चिरनष्टेपि श्रीकल्याणपुरं न यः । वनवासोचितत्रासः साल्वः सौ..."मिवात्यजत् ॥ २३४८॥ श्वेतच्छन्त्रांशुपृक्तेव चिन्तापाण्डुरवर्तत । बन्दीकृता नरेन्द्रश्रीर्निर्निद्रा यस्य मन्दिरे ॥ २३४९ ॥ राज्ञा प्रयुक्तं विज्ञाय विजयः स भवोद्भवः । तीक्ष्णमानन्दनामानमवधीत्तेन चावधि ॥ २३५० ॥ तिलकम् ॥ इत्थं स पप्रथे तादृक्प्रजापालनशालिनः । सर्वोत्साहमयोनेहा जयसिंहमहीभुजः ॥ २३५१ ॥ तीर्थस्थिते चित्ररथे पादाग्रग्रहणैषिणौ। शृङ्गारजनकावास्तां तद्भुत्यौ व्यक्तचाक्रिकौ ॥ २३५२ ॥ प्रचुरोत्कोचदानेन स्वीकृत्य नृपतिं ययौ । शृङ्गारो भग्नजनकः स्वामिश्रीभोगभागिताम् ॥ २३५३ ॥ चिरप्रचलितं द्वारमुदये निदधे पुनः । मेघकालः सरित्पूरं प्रतीर इव पार्थिवः ॥ २३५४ ॥ अवश्यभोग्यदुष्कर्मदत्तमर्मव्यथश्चिरम् । कथाशेषोभवञ्चित्ररथो मासैरथाष्टभिः ॥ २३५५ ॥ हास्यावहोप्यविकृतो विकृतोनपास्यो दुर्गन्धिरप्यतिजडोपि गृहीतवाक्यः। १. साल्वः सौभमिव इति स्यात् ।

अष्टमस्तरङ्गः। २०३ पूर्वानुभावजयिनो भवति प्रभावा- धस्य स्तुमस्तमतिसंस्तवमप्रतय॑म् ॥ २३५६ ॥ निन्द्यैराछूतनाधैर्यश्चेष्टितैः प्रागभीष्टताम् । बाल्ये दुर्ललितस्यागाद्भूभर्तुश्चित्रचेतसः ॥ २३५७ ॥ विसृज्यमानः संप्राप्तसाम्राज्येन दिवानिशम् । क्लमात्स्वीकृत्य ताम्बूलं तेन चित्ररथान्तिकम् ॥ २३५८ ॥ दूत्यैः कृत्यान्तरशत्वं प्राप्तवानाप्ततां गतः । तदन्ते घटयत्राशस्तभृत्यान्कोशदर्शकान् ॥ २३५९ ॥ तदा सर्वोन्नताशेषमत्रिशून्ये नृपास्पदे । सञ्जकस्यात्मजः प्राप शृङ्गारो मुख्यमत्रिताम् ॥ २३६०॥ चक्कलकम् ।। । तस्य वैधेयताभ्यस्तकुदृष्टेरपि दुष्कृताम् । नातः पात्रार्पणात्तुच्छत्यागित्वेनापि संपदः ॥ २३६१ ॥ योषित्कशिपुभोग्येन धन्यंमन्योपि सोभवत् । धान्यदानवदन्यत्वं गुरूणामाजगाम यत् ॥ २३६२ ॥ पीठं कृतवतो रूप्यं संयोज्य रजतैर्निजैः । विद्यमानं सुरेश्वर्या सायुज्यं तस्य युज्यते ॥ २३६३ ॥ उर्वीशैरपि नार्वाग्भिर्योनुगन्तुमशक्यत । आषाढ्यामाढ्यसंभारो निबिडविणव्ययः ।। २३६४ ॥ नन्दिक्षेत्रे स तत्राद्यैः प्रणीतश्चण्पकादिभिः । तेन कालानुसारेण पोषितः पञ्चषाः समाः ॥ २३६५ ॥ नर्माङ्गतायां निःसारो ज्ञातो यः सोधिकारभाक् । अचिन्त्यकृत्यकार्यासीत्स्वामिस्नेहप्रभावतः ॥ २३६६ ॥ १ आद्यूनताद्यैः इति स्यात् ।

२०४ राजतरङ्गिणी । केलीसजैर्युवतिकरजैः कण्ठभूषादशायां यस्याज्ञायि त्रुटनमसकृष्माधरेष्वासकृष्टौ । सोप्यादिष्टस्त्रिपुररिपुणा प्राप भङ्गं न भोगी शक्त्याधायी क्वचन न परो भर्तुराज्ञाप्रभावात् ॥ २३६७ तं च रिल्हणधन्यौ च समाश्रित्येतरेतरम् । कार्य जनकशृङ्गारावुत्कोचेनापजहतुः ॥ २३६८ ॥ कदाचिजनकं बद्धा सार्ध भूषणमौक्तिकैः । सपुत्रदारं शृङ्गारं वाष्पबिन्दूनमोचयत् ॥ २३६९ ॥ स तं च जातु निर्विद्य मानहीनमकारयत् । रूक्षरक्ष्यर्पितोत्कोचधनाभ्यर्थितमैथुनः ॥ २३७० ॥ अङ्गुष्ठनखनिर्धर्षनर्तितानामिकोर्मिकः । वदन्वामोत्तरौष्ठानोदञ्चनैः कुरुतेक्षणः ॥ २३७१ ॥ भुभङ्गोद्वेल्लितवलीनिनोन्नतललाटभूः । पुनरेकस्तयोर्लब्धकार्यो लोकमहासयत् ॥ २३७२ ॥ तिलकम् ॥ अव्यक्ताक्षरवाग्रौक्ष्यमीलिताक्षो रटन्बहु । हसन्सकरतालं च संपद्यन्यो व्यभाव्यत ॥ २३७३ ॥ सोल्लेखप्रतिभोन्नीततत्वरां हास्यवस्तुनि । कथाशरीरं पर्याप्तं न दृशां किमचेतसाम् ॥ २३७४ ॥ सर्वस्मिन्वस्तुतो वाचि काले विगतयोग्यते । जाने तृणनृणां तुल्ये शृङ्गारोर्हत्यगीताम् ॥ २३७५ ॥ यः सर्वकषनिष्कम्पशेमुषीकः क्षमापतिः। धुर्यतां धर्मचर्याभिर्गतः सुकृतशालिनाम् ॥ २३७६ ॥ १ तत्त्वानां इति स्यात् । २ वस्तुतोर्वाचि इति स्यात् ।

अष्टमस्तरङ्गः।
लब्धबोधिरिवारर्यश्चके व्यापधुपक्रियाम् ।
दावादस्य दग्धाङ्गोल्लाघत्वमिव चन्दनः ॥ २३७७ ॥
गुरुसूरिद्विजानाथप्रभृत्युचितयापि यः ।
प्रतिपत्त्या संविभेजे संविभाज्य कुटुम्बकम् ॥ २३७८ ॥
प्रासादान्विजयेशादिदेवव्रातस्य शुद्धधीः ।
सुधादानेन निन्ये च धन्यः कैलासतुल्यताम् ॥ २३७९ ।।
मठदेवगृहारामहदकुल्यादियोजने ।
जीर्णोद्धृतिव्यसनिनस्तस्य चिन्ता निरन्तरा ॥ २३८० ॥
सकृद्दर्शितविद्वेषकार्यसब्रह्मचारिणा।
स क्रौर्यधाम पर्याप्तमीदृगप्युच्यते जडैः ॥ २३८१ ॥
विश्वाप्यायनसप्तसिन्धुभरणब्रह्मादिसंप्रीणन-
प्रायं कृत्यमुदात्तमेकसमयोपात्तेन दुष्कर्मणा ।
स्वःसिन्धोर्लघुतां गतं सुरगजश्रेणीचितास्पर्शना
"ता येन जनाः श्मशानमिव सा योग्या किलास्मास्थितौ।
तदन्तरं शिवरथो द्विजः प्रचुरचाक्रिकः ।
कायस्थपाशः पाशेन गलं बद्धा व्यपद्यत ॥ २३८३ ॥
इत्थं पृथ्वीपतिः कृत्वा तत्तत्कण्टकपाटनम् ।
अपेतविघ्नं सौजन्यविघ्नो व्यधित मण्डलम् ॥ २३८४ ॥
विपक्षावरणापाये प्रायेण पृथिवीभुजः ।
तैक्ष्ण्यमायान्ति जीमूतमुक्ता रविकरा इव ॥ २३८५ ॥
परिणाममनोज्ञत्वं राजरत्नं त्वयं नृपः ।
माधुर्याधिक्यमुत्पाको द्राक्षाद्रुम इवाययौ ॥ २३८६ ॥
प्रावर्तयत सातत्यात्क्रतून्विततदक्षिणान् ।
विवाहतीर्थयात्रादीन्महितांश्च महोत्सवान् ॥ २३८७ ॥

२०६ राजतरङ्गिणी संविभेजे स्वसंभारैः स क्रियाधर्मचारिणाम् । तेजोभिः कुलशैलानामोषधीरिव चन्द्रमाः ॥ २३८८ ॥ प्रतिज्ञातं सुतोद्वाहप्रतिष्ठादौ पुरौकसाम् । तेनौपयिकसामग्रीदानमव्यग्रचेतसा ॥ २३८९ ॥ दारूणामाकराः कोशवृद्धये ये धराभुजाम् । नवीचक्रे पुरं सर्व स्वाधीनान्स विधाय तान् ॥ २३९० ॥ मजतो राजकार्येषु तत्त्वविद्भिर्हरार्चने । विस्मितैर्वीक्ष्यते तस्य निष्ठाकाष्टा मुनेरिव ॥ २३९१ ॥ प्राह्लादारभ्य सायाह्नपर्यन्तं चास्य दृश्यते । न तत्कृत्यं गता यत्र नाध्यक्षत्वं विचक्षणाः ॥ २३९२ ॥ अविचारान्धतमसे विद्या व्यद्योततान्तरा। जयापीडादिमेघश्रीसौदामन्या विलोलया ॥ २३९३ ॥ तेन श्रियं तु विश्राण्य स्थास्तुं रत्नप्रभामिव । गुणवैचित्र्यचित्रस्य प्रकाशोनश्वरः कृतः ॥ २३९४ ॥ 'विक्षतक्षेत्रसंपदाम् । ग्रामाणामाग्रहाः कर्म सान्वयाः स्वामिनः कृताः ॥२३९५॥ विदुषां विततोत्सेधसौधास्तद्विहिता गृहाः । व्याप्ताः सप्तर्षिभिर्द्रष्टुमुत्कर्षमिव मूर्धसु ॥ २३९६ ॥ प्रतिभाप्रभवे प्रज्ञोपज्ञे च पथि पान्थता । सार्थवाहं तमालम्ब्य निर्दोषा विदुषां स्थिता ॥ २३९७ ॥ आसीद्यथार्यराजस्य शयानस्याप्यतिश्रियः । कामं लिङ्गाभिषेकाम्भःसंक्षोभप्रभवो ध्वनिः ॥ २३९८ ॥ निद्राणस्य तथा वेणुवीणादिपरिहारिणः । दयितं तस्य निर्द्वषविद्वजल्पविकल्पनम् ॥ २३९९ ॥ १ अतिप्रियः इत्युचितम् । सूरयो येन अष्टमस्तरङः। काले श्रीललितादित्यावन्तिवर्मादिभूभुजाम् । सिद्धं न यत्प्रतिष्ठादि निष्ठां तदधुना गतम् ॥ २४०० ॥ मठदेवगृहेष्वेव स्वकालप्रभवेषु यत् । सर्वेष्वेव कृता तेन निळपाया व्यवस्थितिः॥२४०१ ॥ रत्नादेव्या दृढारूढभर्तृवल्लभताभुवः। सर्वप्रतिष्ठाप्रष्ठत्वं विहारः प्रथमं गतः ॥ २४०२ ॥ रिल्हणोथ गुणग्रामबान्धवो धर्मपद्धतौ । बभूव पूर्वपथिकः समस्तामात्यसंततेः ॥ २४०३ ॥ तपोधनॉल्ब्धवर्णान्धर्मवृद्धांश्च शुद्धधीः । विनम्भभवनस्थोपि शक्तस्त्यक्तुं न यः क्वचित् ॥ २४०४ ॥ कृष्णाजिनोभयमुखीदानमुख्यैः सुकर्मभिः । धर्मकन्याविवाहैश्च यस्याशून्यत्वमायुषः ॥ २४०५ ॥ सर्वेषामाहिताग्नीनां निष्प्रत्यूहा महात्मना । सर्वयागोपकरणैर्येन विश्राणितैः क्रियाः ॥ २४०६ ॥ भोगान्बुभुजिरे भव्यान्सने सूत्रितविस्मये। यस्य वर्णाश्चतुःषष्टिः कुदृष्ट्यस्पृष्टचेतसः ॥ २४०७॥ अग्रहारगणोदप्रैर्विततैर्मठसेतुभिः । पुरे परिष्कृते येन द्वयोः प्रवरसेनयोः ॥ २४०८ ॥ आद्ये प्रवरभूभर्तुः पत्तने प्रत्तविस्मयः । प्राप्तः प्रतिष्ठाप्रष्ठत्वं यत्कृतो रिल्हणेश्वरः ॥ २४०९ ॥ लोकान्तरगतां कान्तां कृतिनोद्दिश्य सुस्सलाम् । भलेरकप्रपास्थाने विहारस्तेन कारितः ॥ २४१०॥ मार्जार्यास्तिर्यगुचितस्नेहविस्मृत्यपोहतः । मृतामनुमृतायास्तन्नाम्ना यः ख्यातिमागतः ॥२४११ ॥ १ गुणिग्राम इत्युचितम् ।

२०८ राजतरङ्गिणी तद्भर्तुरीर्ध्याकालुष्ये तस्यादूराग्रगा पुरः । प्रदेशे मानुषीवासीत्प्रिया क्रीडाबिडालिका ॥ २४१२ ॥ तीर्थप्रस्थानदिवसादारभ्यास्याविराविणी । उत्सृजन्त्याहृतं भोज्यं सा शुचा जीवितं जहौ ॥ २४१३॥ आरोहति परां काष्ठां प्रतिष्ठाविविधाधुना । दिद्दा नृपतिपत्नीषु मत्रिस्त्रीषु तु सुस्सला ॥ २४१४ ॥ श्रीचकुणविहारं या यातं नामावशेषताम् । अश्मप्रासादवेश्मादिकर्मणा निर्ममेधुना ॥ २४१५ ॥ अरघट्टप्रबन्धाधुच्छात्रशालादिकर्मभिः । तस्याः संपूर्णतां पुण्यप्रकारा निखिला गताः ॥ २४१६ ॥ पूर्वराजकुलाखण्डस्थण्डिलव्यापिनाखिलम् । तद्विहारेण नगरं नीतं नेत्राभिरामताम् ॥ २४१७ ॥ प्रापि प्रतिष्ठयेवाशु यक्ष्मक्षपितया तया । विपत्तिः श्रीसुरेश्वर्या प्राज्यसायुज्यदूतिका ॥ २४१८ ॥ मठाग्रहारा धन्येन वल्लभाभिधया कृताः । नाभीष्टं लेभिरे नाम ख्यातिः पुण्यैर्विना कुतः ॥ २४१९ ॥ अग्रहारमठांस्तद्वदुदयः कम्पनापतिः । कृत्वापि स्वाभिधामेव तत्संबद्धां सदाशृणोत् ॥ २४२० ॥ उदयद्वारपतिना सह ब्रह्मपुरीगणैः । कृते प्रष्टे मठे शोभां लेभे पद्मसरस्तटः ॥ २४२१ ॥ शृङ्गारतन्त्रपतिना श्रीद्वारेप्यग्र्यजन्मना । प्रतिष्ठापि मठोद्यानदीर्घिकाद्यनघात्मना ॥ २४२२ ॥ स्नानकोष्ठमठब्रह्मपुरीसेत्वादिकर्मणा । सोलंचकारालंकारो वृहद्गाधिपो धराम् ॥ २४२३ ॥ १ विविधाविना इति स्यात् । २ प्रत्यष्ठापि इत्युचितम् ।

अष्टमस्तरङ्गः। २०९ बुधः सदोषधीशान्तिहेतोर्जातः कलावतः । यः कविनवत्त्वे च ख्यातस्त्यागेन योजयत् ॥ २४२४ ॥ नृसिंहसेवी निर्हिसहिरण्यकशिपुच्छिदः । वराहसमये दत्तगौश्च योपूर्ववैष्णवः ॥ २४२५ ॥ भट्टारकमठाभ्यणे पूर्णवार्धाविव प्रहिः । मठः शृङ्गारभट्टस्य ख्यात्यानौचित्ययोज्झितः ॥ २४२६ ॥ सांधिविग्रहिको दाभिसारोर्वीभुजोकरोत् । अष्टमूर्तेर्जट्टनामा प्रतिष्ठां पुण्यकर्मठः ॥ २४२७ ॥ पुष्पाकरप्रणयभूः सुभगा विभूति- रेकस्य हन्त करवीरतरो॰मेषु । पुष्पाणि यस्य सफलीकुरुते स्वयं त- प्रादुर्भवत्किमपि लिङ्गमनङ्गशत्रोः ॥ २४२८ ॥ विभूत्या संविभक्तेषु भूभुजाखिलमत्रिषु । उत्कट्टकोटिं भुट्टाख्यः परं जलानुजोर्हति ॥ २४२९ ॥ स्वयंभूः प्रकटीभूय पूजां स्वीकुरुते स्वयम् । ज्येष्ठरुद्रो वसिष्ठस्य यस्य वा बालकेश्वरः ॥ २४३० ॥ सविहारमठोदप्रवेश्मभिः कलुषोज्झितः । तेन तत्र कृतं भुट्टपुराख्यं पुटभेदनम् ॥ २४३१ ॥ नगरेपि हरः प्रत्यष्ठापि भुट्टेश्वराभिधः । सरश्च मडवग्रामे धर्मविभ्रमदर्पणः ॥ २४३२ ॥ नीत्वा प्रतिष्ठां वैकुण्ठमठादि स्वविहारभूः । रत्नादेव्या दृढं चके स्वार्थग्रथनसुस्थिरा ॥ २४३३ ॥ रत्नापुरे बहुद्वारमहा निरघो मठः । धत्ते सुकृतहंसस्य स्फीतवीतंसविभ्रमम् ॥ २४३४ ॥ १ उत्कर्षकोटिं इति स्यात् । २ कलुषोज्झितम् इति स्यात् ।

राजतरङ्गिणी
Issss
मृत्युंजयो राजतेस्याः सुधाधौतान्भजन्गृहान् ।
जनस्यानित्यतोच्छित्त्यै श्वेतद्वीपं सृजन्निव ॥ २४३५ ॥
गोकुलानां विधातारो गोकुले विहिते तया ।
गणिताः शूरवर्माद्याः सतृणाभ्यवहारिणः ॥ २४३६ ॥
गवामव्याहतस्वैरसंचारचरकाञ्चिते।
तत्र वैतस्ततोयाढ्ये यदपोढामयं वपुः ॥ २४३७ ।।
मुकुन्दस्तत्र साश्चर्यसौन्दयौदार्यमन्दिरम् ।
अश्वाविवर्धनधरः सिद्धो नाविश्वकर्मणः ॥ २४३८ ॥
मठ""""""कृत्वा सा नन्दिक्षेत्रेकरोत्क्षितिम् ।
'जयवनायेषु स्थानेषु च मनोरमान् ॥ २४३९ ॥
दाभिसारेप्युर्वीशसौन्दयौदार्यमन्दिरम् ।
स्वनामाकं पुरं चक्रे तया शक्रपुरोपमम् ॥ २४४० ॥
उद्दिश्योपरतान्मान्यमहत्तरमुखानपि ।
प्रतिष्ठा विविधाश्चक्रे सा राश्याश्रितवत्सला ॥ २४४१ ॥
एवं सर्वाङ्गमामुक्तालंकृतेरथ स क्षितेः ।
विशेषकामं भूभर्तृवृषा स्वमकरोन्मठम् ॥ २४४२ ॥
अनुत्सिक्तेन यो दत्तभूरिग्रामो महीभुजा ।
तज्ज्ञैरारोपितः ख्यातिं मुख्यः सिंहपुराख्यया ॥ २४४३ ॥
व्यधात्कारपथेशस्य दौहित्रः सिन्धुजान्द्रिजान् ।
निबिडान्द्राविडांश्चात्र प्राक्सिद्धच्छन्त्रमध्यगान् ॥ २४४४ ॥
किं वा मठादिनिर्माणस्तुत्या तस्य व्यधत्त यः ।
भूयः सग्रामनगरं कृत्वं कश्मीरमण्डलम् ॥ २४४५ ॥
जीारण्यसधर्मायं कालदौरात्म्यतो भवन् ।
देशो धनजनावासैस्तेन भूयोपि योजितः ॥ २४४६ ॥

अष्टमस्तरङ्गः। । आरम्भात्प्रभृति मापे दीक्षितेभीष्टदत्तिषु । शिल्पिप्रायैरपि प्रायो मठदेवगृहाः कृताः ॥ २४४७ ॥ सत्कोशांशुकरत्नादौ निरसूयेन भूभुजा । साधारणीकृते पौरास्तांस्तांश्चक्रुर्महोत्सवान् ॥ २४४८ ॥ अकाण्डतुहिनापातोदीपाद्यैरप्युपद्रवैः । नष्टेषु शालिप्वक्षीणं सुभिक्षं तत्र न क्षणे ॥ २४४९ ॥ अद्भुतं चाभवद्वाचः श्रुता यन्निशि रक्षसाम् । केत्वाद्युत्पातजातं च दृष्टं नष्टाश्च न प्रजाः ॥ २४५० ॥ कोष्टेश्वरानुजच्छुड्डनामा विहितविप्लवः । आहवैYढदण्डैश्च राज्ञा निन्येन्तकान्तिकम् ॥ २४५१ ॥ चक्रे विक्रमराजादीन्भूपानुन्मथ्य पार्थिवः । प्ररोहं गुल्हणादीनां राज्ञां वल्लापुरादिषु ॥ २४५२ ॥ प्रेजेशाः कान्यकुब्जादावजर्येण नृपार्यमा । स व्यधाद्भव्यभूभोगवैभवानभिमानिनः ॥ २४५३ ॥ विद्योतमाने निश्चोथैर्मत्रैस्तत्रैवमेकदा। भेजे जीवितदारियं दद्राजो यशोधरः ॥ २४५४ ॥ स भूम्यनन्तरोप्यन्तरज्ञो राज्ञोतिसेवया । विपत्तौ प्रकृतिक्रान्तसंतानश्चिन्त्यतामगात् ॥ २४५५ ॥ निकृत्यास्य निजामात्यो विडसीहाभिधो यतः । संभुज्य दयितां राज्यमप्रौढतनयेग्रहीत् ॥ २४५६।। वशीकृत्य शनैर्देशं नाममात्रशिशुं नृपम् । उच्छेत्तुमैच्छद्यावत्तं स जिघृक्षुः स्वयं क्षितिम् ॥ २४५७ ॥ १ शालिषु क्षीणं इत्युचितम् । २ प्रजेशान् इति स्यात् । ३ नाममात्रनृपं शिशुम् इति स्यात्।

२१२ राजतरङ्गिणी अन्योमात्यः पुरस्कृत्य यशोधरसुतं परम् । तावत्तेन समं भेजे पर्युकाख्यो विपर्ययम् ॥ २४५८ ॥ युग्मम् ॥ कश्मीरान्पृष्ठतः कृत्वा द्वैराज्यं तत्र कुर्वति। उत्सृज्य सजपालादीन्सर्वकार्यभरक्षमान् ॥ २४५९ ॥ हेवाकप्रतिपत्त्यान्याभिधमौग्ध्यनिरुद्धधीः । सर्वाधिकाराद्यारोपान्मन्यमानोभिमानिताम् ॥ २४६० ॥ पर्युकाजर्यतः सुजेरप्रौढमनुजं निजम् । प्रहिण्वानोनुमत्रित्वं मत्रशोऽप्यभजन्नृपः ॥ २४६१ ॥ तिलकम् ॥ अपूर्वमण्डलारब्धावाटोपाद्धामशालिनः । क सर्वकषनिष्कम्पप्रतिभाः कार्यवेदिनः ॥ २४६२ ॥ क बालबालिशप्रायो नष्टव्यवहृतिर्जनः । धिक्परीपाकविषमं स्वाच्छन्द्यं मेदिनीभुजाम् ॥ २४६३ ॥ युग्मम् ॥ कार्यापेक्षविपक्षैस्तैरिच्छन्त्युद्रिक्तताछिदाम् । सैन्यक्ष्मादुर्गकोशादेर्न"श्यन्त्यन्तरक्षताम् ॥ २४६४ ॥ प्रक्रियामात्रतो मत्रं गृह्णन्ति क्षित्यनन्तराः । कृतसाहायकैरेव चिन्या मित्रमुखा द्विषः ॥ २४६५ ॥ युक्यारब्धविधौ तत्र वैरिसाहायकग्रहे। क्क वैधेयान्बकप्रायान्कार्यसंदर्भवेदिनः ॥ २४६६ ॥ दरद्राजगुमोन्योन्यभेद्कूलक्षयाच्युतः । ऋटुं नाशक्यताप्रौढैः स्रोतोभिरिव मध्यगः ॥ २४६७ ॥ १ पश्यन्त्यन्तरज्ञताम् इति स्यात् ।

अष्टमस्तरङ्गः। पर्युकात्संकटे कार्ये तं तमुत्कोचमिच्छतः । स दुग्धघातमादातुमप्यासीदलसक्रमः ॥ २४६८ ॥ पर्युकेण समं विड्डसीहः संधि निबद्धवान् । यथागतं गते सुजौ कश्मीरेन्द्रग्रहीद्रुषम् ॥ २४६९ ॥ सर्वाधिकारप्रवराचिरसंचारभूरुहः । प्रसङ्गे तत्र शृङ्गारो मृत्युसौहित्यकार्यभूत् ॥ २४७० ॥ आलक्ष्मकान्तात्सर्वाधिकारोस्थादद्वितीयया । वृत्त्या ततस्तु शतधा निर्झराम्भ इवाभवत् ॥ २४७१ ॥ अन्येप्यमात्याः सांमत्याद्भर्तुर्माहात्म्यभागिनः । प्रमयं समये तस्मिन्दैवाकिमपि लेभिरे ॥ २४७२ ॥ प्रशंसामानृशंसस्य किं विदध्मो धराभुजः । मृतामात्यार्भकापत्यं निधत्ते यः पितुः पदे ॥ २४७३ ।। प्रवर्तिता त्वमात्यानां भृत्यैः पद्धतिरद्भुता । निर्वैलक्ष्याः प्रभोर्लक्ष्मी जहुः स्वगृहिणीमिव ॥ २४७४ ।। भूभर्तुः प्राभृतीकृत्य मृतस्य स्वामिनः श्रियम् । संतानस्य विभूत्यर्थं कृत्वा कार्य हि तेहरन् ॥ २४७५ ॥ गाधिपे विश्वनाम्नि विपन्ने रक्षिता परम् । एकेन सहजाख्येन सहायानां महार्घता ॥ २४७६ ॥ नाध्यारुरोहाधिकारं पार्थिवेनार्थितोपि यः । स्वामिसूनोष्टिष्टनाम्नो बुद्ध्यै साहायकं व्यधात् ॥ २४७७ ॥ निष्ठायामप्रतिष्ठत्वं दृष्ट्वापि प्रभविष्णुभिः । धिकपरम्परया भृत्याः प्रवर्ध्यन्तेधिकाधिकम् ॥ २४७८ ॥ आसीदाचमनोपयोगि कलशे मष्टुर्जगल्लङ्घन- क्लान्ताड्रिक्लमहार्यथासुररिपोस्रस्रोतसं यत्पयः । १ वृदय इत्युचितम् ।

राजतरङ्गिणी शंभुस्तन्निदधे स्वमूर्धनि जडेप्येकप्रयुक्ताहतो स्युः सर्वेप्यवशा गतानुगतया गाढादराः स्वामिनः॥२४७९॥ सुजिनिर्वासनप्राप्तप्ररोहो दुर्नयद्रुमः । साजिजाज्यकृताप्यायः क्रमेणासीत्फलोन्मुखः ॥ २४८० ॥ द्वित्राः समाः समन्युः स विडसीहस्ततोभवत् । अकुण्ठराज्याधुत्कण्ठं दूतैरकृत लोठनम् ॥ २४८१ ॥ दूरादाखण्डितोत्थानः शूरमाश्रित्य भूपतिम् । जीवकृषिवणिज्यादिकर्मणा स सबान्धवः ।। २४८२ ॥ दरदां मत्रिणां जातज्ञातेयैरभियोगभाक् । चक्रेलंकारचक्राद्यैर्डामरैः सह चक्रिकाम् ॥ २४८३ ॥ युग्मम् ॥ सोप्यद्रिदुर्गस्वाम्यस्य प्रथमप्रस्थितौ सुहृत् । क्षुद्रो जनकभद्राख्यः पार्श्व लिप्सोळपद्यत ॥ २४८४ ॥ कर्णाटकादावभवत्स्थाने स्थाने विलोक्य तम् । प्रस्थितं कस्यचिद्रोहे बुद्धिः कस्यापि साधुता ॥ २४८५ ॥ तं तथा विपुलारम्भमपि शाठ्यादसंभ्रमम् । प्रविविक्षुमुपैक्षिष्ट कौसीद्यानुद्यमो नृपः॥ २४८६ ॥ पोषिते प्रेषितश्रीकैरुत्पिजे विप्लवैषिभिः। अथोदयद्वारपतिः प्रैषि विश्वंभराभुजा ॥ २४८७ ॥ संगृह्णता च मूर्तेन पुरे शंकरवर्मणः । प्राप्तोलंकारचक्रस्य पार्श्वमश्रावि लोठनः ॥ २४८८॥ अपि विग्रहराजाख्यः सूनुः सुस्सलभूपतेः। भोजः सुल्हणजन्मा च श्रुतौ तेन सहागतौ ॥ २४८९।। १ सौजिजाड्य इति स्यात् । २ चमूस्तेन इति स्यात् ।

अष्टमस्तरङ्गः। अथोपह""थान एव तेषां स सत्वरः । मार्ग बहुदिनोल्लङ्घयमेकेनाला व्यलङ्घयत् ॥ २४९० ॥ सयूथ्यकन्थाग्रथनासिद्धेर्यातो विधेयताम् । तदास्कन्दहतस्पन्दः स पलायिष्ट डामरः ॥ २४९१ ॥ सिन्धोर्मधुमतीमुक्ताश्रियमन्तःस्थितं ततः । शिरःशिलाभिधं कोट्टमथ तैरधिशिश्रिये ॥ २४९२ ॥ गहने बुडितः कोट्टे स्थितः किं वा स इत्यसौ । न निश्चिकाय द्वारेशो भ्राम्यन्दीर्घासु भूमिषु ॥ २४९३ ॥ अथोपालब्धतदुर्गारोहणेस्मिन्नशक्यत । दैवेनापि न भूभर्तुः प्रभावो निष्पराभवः ॥ २४९४ ॥ उत्थानोन्मुखतां सर्वेप्युत्पिजे तत्र दस्यवः । पाल्वलास्तिमयो वर्षपृथकृत इवाभवन् ॥ २४९५ ॥ तैस्त्रिल्लकादिभिYढवैकृतैरथ लोठनः । पा"हरिः पुनश्चक्रे मायाचतुरचाक्रिकैः ॥ २४९६ ॥ पुरग्रामादिदग्ध्वारमसाध्यमथ धावताम् । पदे पदे कृच्छ्रगतं स्वपक्षास्तमरक्षिषुः ॥ २४९७ ॥ दिक्चक्रेनियते भ्राम्यन्दश्यादृश्यः स सर्वतः । कल्पात्ययोदयी ब्रह्मपुत्रः केतुरिवाभवत् ॥ २४९८ ॥ श्रान्तरमात्यैर्निर्बन्धे संधौ कालानुरोधतः । मेने मडवराज्योर्वी हारितेवाखिला जनैः ॥ २४९९ ॥ असंवृत्तप्रतीकारतया रोहत्सु वैरिषु । तदन्तरेथ संमत्र्य धन्यं प्रास्थापयन्नृपः ॥ २५०० ॥ तत्स्कन्धारोपिते कार्य व्रीडां गच्छेत्तटस्थताम् । विपर्यासमथ द्वाराधीश इत्यभ्यधाजनः ॥ २५०२ ॥ 1. इवाभजत् इति स्यात् । २. निर्बद्धे इति स्यात् । ।

অরক্কি
भिक्षुर्मल्लार्जुनस्त्वासीदेक एव त्रयस्त्वमी।
संहता हन्त दुःसाधा दध्युश्चेत्यखिलाः प्रजाः ॥ २५०२ ॥
द्वाराधिपस्त्वहेवाकव्यवहारो महीपतेः ।
सिद्धि स्वस्याप्रसिद्ध्यापि वाञ्छन्हृयोद्यमोभवत् ॥२५०३॥
एकाकी यः किल न भजते मूढतां भर्तृकार्ये
नौदासीन्यं श्रयति च रुषा ववधीने च तस्मिन् ।
निवाकव्यवहृतितया साध्यसिद्धिं किलेच्छं-
स्ताङ्मत्री प्रभवति परं नाल्पपुण्यस्य राज्ञः ॥ २५०४ ॥
पञ्चचन्द्रे मृते तस्यानुजं राजोपवेशने ।
न्यधाद्यं षष्ठचन्द्राख्यं सोप्यारन्ध्यै विनिर्ययौ ॥ २५०५ ॥
द्विबाहुकादयो मुख्या...."सह गायकैः ।
धन्यमेवान्वयुर्वाहाश्चान्ये राजोपजीविनः ॥ २५०६ ॥
धन्यादिषु तिलग्रामं कोटिसिन्धुतटाश्रयम् ।
श्रयः..."द्वारेशो द्रङ्गस्थः पृष्ठपद्धतीः ॥ २५०७ ॥
हठप्रवेशायोग्याजिमुख्यहेवाकवर्जितः ।
शोषयन्द्विषतो धैर्यगम्भीरं स व्यवाहरत् ॥ २५०८ ॥
कुठारिकादिभिः कारुवृन्दैमन्दिरपद्धतीः ।
धन्यो मधुमतीतीरे नगरस्पर्धिनीय॑धात् ॥ २५०९ ॥
निर्वान्तं द्रुमसंबाधं सनिकेता वनस्थलीः ।
कटकं सर्वभोगाढ्यं शक्तः परिवृढोकरोत् ॥ २५१० ॥
देशे भूरितुषारोग्रहिमतौँ भाग्यसंपदा ।
भूभर्तुरभियोग्यैव भूरभूद्भानुभूषिता ॥ २५११ ॥
भुवनाद्भुतसंभारप्रेषणं विजयैषिणः ।
द्वैराज्यमीलिताशेपि काले राज्ञो न खण्डितम् ॥ २५१२ ॥

अष्टमस्तरङ्गः।
२१७
उत्थान एवोपहतभये यास्यत्यगात्परम् ।
भारोढिपीडितग्राम्याक्रन्दं क्षान्तिचरूपमाम् ॥ २५१३ ।।
दीर्घप्रवासनिर्वेदाचलितान्दर्शयत्रुषम् ।
स्थासूत्रंश्च तोषयन्दायैः स्थैर्य निन्ये नृपश्चमूः ॥ २५१४ ॥
इत्थं त्रिचतुरान्मासांस्तिष्ठद्भिरपि निष्ठुरैः ।
नैवादातुमशक्यन्त कटकैः कोट्टसंश्रयाः ॥ २५१५ ॥
तेषां हि वीवधासारनिरोधादीनि दृप्यताम् ।
अप्रियाणि न जातानि दैन्यदायीनि कानिचित् ॥२५१६ ॥
चिकीर्षवस्तुषारान्ते स्वविभूतिप्रकाशनम् ।
तस्थुरङ्कुरितोल्लासाः पर्वता इव डामराः ॥ २५१७ ॥
कृषि कृषीवलैर्वेदपाठमुत्सृज्य च द्विजैः ।
उत्पिञ्जसजैमिषु सर्वतः शस्त्रमाददे ॥ २५१८ ॥
प्रतीक्षमाणाः प्रालेयप्रलयं मार्गभूभृताम् ।
दारदास्तुरगानीकैः सज्जैस्तस्थुर्जिगीषवः ॥ २५१९ ॥
हिमिकासंहतेः कालतूलतल्पाकृतेर्दधत् ।
पातभीति जनो राजसेना शश्वदवेपत ॥ २५२० ॥
इत्थं प्रत्यर्थिसामर्थ्य परमार्थापरीक्षणात् ।
क्ष्माभृन्मिथ्यैवमारेभे संदेहं च जयेभजत् ॥ २५२१ ॥
वैदग्ध्यदिग्धमनसामयमेक एव
कोप्यस्ति वञ्चनविधेरुचितः प्रकारः।
येनात्मना किल विशङ्कितशक्तयस्ते
मुग्धेपि वैरिणि विचारहतोद्यमाः स्युः ॥ २५२२ ॥
प्रवादमात्रसाराद्यस्त्रसेत्परिकरादरेः ।
स्वयैव तस्य विध्यत सिद्धिश्चिन्तान्धया धिया ॥ २५२३ ॥

राजतरङ्गिणी
।
।
विध्येदाशु शिलीमुखैः प्रवितरेत्पत्रैरवस्कन्दनं
वनीयात्तदिदं गुणैः परिकर्मिथ्याप्रसिद्धैरिति ।
स्थाञ्चेदम्बुरुहं द्विपस्य भयकृञ्चिन्तासहैः साहसं
प्रत्यूहेत ततो निजैरपधनैरष्येतदुन्मूलने ॥ २५२४ ॥
लोठनायैर्हि काहानिस्तीर्णैस्तैः कथंचन ।
प्राप्तेलंकारचक्रेग्रे राज्यमज्ञायि निर्जितम् ॥ २५२५ ॥
मिथ्यैव प्रथिता कन्था स्वयूथ्यैः कथमन्यथा ।
तस्मिन्नमन्दमास्कन्दं धावन्द्वाराधिपो ददौ ॥ २५२६ ॥
प्रत्यवस्थित्यसामर्थ्यात्ततः कोर्ट व्यसर्जयत् ।
स राजवीजिनस्तांश्च परेछुः स्वयमन्वगात् ॥ २५२७ ॥
कोहाद्रिः सलिलस्यान्तः कृशोधः पृष्ठदैर्ध्यभाक् ।
स तैवैसारिणग्रासव्यग्रो बक इवैश्यत ॥ २५२८ ॥
निःसामर्थ्य तद्विलोक्य गजागारमिवागजम् ।
तत्यजुर्विजयाशंसां भयं चोदवहन्हृदि ॥ २५२९ ॥
ततः शरैर्दषद्वर्वाध्याश्चेतोविरोधिनः ।
अर्णसो रक्षणमितो रक्ष्या यत्रोपला इतः ॥ २५३० ॥
इत्थं स तैरभिरुद्धैर्या"दादाय डामरः ।
मेने स्वगुप्तिमात्रार्थी न युद्धे बद्धनिश्चयः ॥ २५३१ ॥
युग्मम् ॥
ततः कन्दलितास्कन्दे तिलग्रामे द्विषदले।
प्रतीकाराक्षमे दस्यौ ते चिन्ताक्षमतां दधुः ॥ २५३२ ॥
विस्रवापि त्रुतप्रज्ञासौष्ठवौ लोठनः पुनः ।
डामरं कृत्यसंपूर्णमगूढं तमगर्हत ॥ २५३३ ॥
भोजं तूद्विजितं यन्नो द्रोहो रोहेदिति ब्रुवन् ।
रुद्धा पितृव्यं ते व्याजस्तुत्या नित्यमुपाचरत् ॥ २५३४ ॥

अष्टमस्तरङ्गः।
विमुखे लोठने कुण्ठशाठ्यस्तस्य तु सान्त्वने ।
मेने मन्त्रज्ञतां किंचित्संवर्तिष्ट च संविदि ॥ २५३५ ॥
हन्यान्मां भूभृदित्येष यातेष्वेतेषु संत्यजेत् ।
नासानुक्त्वेत्यरौत्सीत्स पितृव्यं गमनार्थनात् ॥ २५३६ ॥
त्वय्यस्मासु च सर्वेषु वेष्टितेषत्कटा द्विषः ।
पृष्ठकोपमसंभाव्य कुतश्चिनिश्चलोद्यमाः ॥ २५३७ ॥
यद्यद्विदध्युः सिध्येत्तत्तदेकं त्यज मामितः।
अन्याल्लवन्यानानीय दरदोवायवेन वः ॥ २५३८ ॥
वन्धनं व्यपनेष्यामि युक्तमित्युक्तवांश्च तम् ।
डामरं विदधे किंचिदिव सांमत्यमाश्रितम् ॥ २५३९ ॥
विमोक्ष्यामि क्षपायां त्वामद्य श्वो वेति तं ब्रुवन् ।
सत्त्वसंक्षीणदाक्षिण्यो विप्रलेभे प्रतिक्षणम् ॥ २५४० ॥
अध्वरोधे सुदूरस्थैर्यथावदकृतेरिभिः।
बाह्यनामाहृतै रनैस्ते त्वहान्यत्यवाहयन् ॥ २५४१ ॥
दुरुदर्कमथाशङ्कय समयं ते व्यजिज्ञपन् ।
धन्यादयो हि तैः संधिर्विधेय इति भूपतिम् ॥ २५४२ ॥
तैस्तैर्निमित्तैः संधानमविधेयं विदन्नृपः ।
तानादिदेश कर्तव्यं कोट्टाहालकवेष्टनम् ॥ २५४३ ॥
संदिदेश च दायादा वश्येरख्यातिमागताः ।
निजास्पदे ताञ्जहति दत्तोत्कोचेथ डामरे ॥ २५४४ ॥
भूत्वा कठो"प्यारम्भान्निष्ठा निःसौष्ठवा ध्रुवम् ।
क्रियातिपत्त्युपालम्भैर्यास्यामोसंशयं विशाम् ॥ २५४५ ॥
नात्यक्ष्यद्धर्षदेवश्चेत्सप्ताहान्युधमं ततः ।
दुग्धप्रवाहं प्राप्स्यन्स श्रुत्वेत्यन्योपि तप्यते ॥ २५४६ ॥

२२०
राजतरङ्गिणी
प्राप्तव्यं प्राप्तवान्सर्वो निजैः कृत्यैः शुभाशुभैः ।
क्रियातिपत्तेलोकेन त्रैलोक्यं तु मुखेर्प्यते ॥ २५४७ ॥
पादेषु पक्षेषु च सत्सु नोव्या
न व्योनि वा पक्षपिपलिकस्य ।
पङ्ग्वन्धवञ्चङ्क्रमणं तु गर्भ
किं संपदा स्यान्नियमे गतीनाम् ॥ २५४८ ॥
सहस्रपादस्य गते निमित्त-
मनूरुभावेप्यरुणः प्रजातः ।
तस्याभविष्यद्यदि पादयुग्मं
ततोधिकं तत्किमिवाकरिष्यत् ॥ २५४९ ॥
उपेक्ष्य साक्षितां तस्मात्कृत्स्नं को विवेष्ट्यताम् ।
प्रयातु तत्रैवास्माकं तेषां च पुरुषायुषम् ॥ २५५० ॥
अविश्रान्तो वातो दहन इव सोयं जनयति
प्रसक्ति सातत्याहलयति कुलाद्रीनपि जलम् ।
प्रसूते कृत्येषु व्यवसितिरनियूंढसुदृढा
फलावाप्तिं लोके प्रतिकलमसंभाव्यविभवाम् ॥ २५५१ ॥
क्रूरां नरपतेराज्ञां श्रुत्वा धन्यादयस्ततः ।
कोट्टप्रतोली कूलं तं त्यक्त्वाप्यारुरुहुर्जवात् ॥ २५५२ ॥
कथं युद्धं विधास्यन्ति कथं स्थास्यन्ति वेति तान् ।
शरान्किरन्तः कोट्टस्था यावत्प्रेक्ष्यन्त कौतुकात् ॥ २५५३ ॥
अधः सोप्यूर्ध्वगान्युद्धैर्निष्पीड्य निबिडैबंधात् ।
धन्यः प्रदेशं तावत्तं निकेतैः पत्तनोपमम् ॥ २५५४ ॥
युग्मम् ॥
अविश्रान्तैस्ततः संख्यैरसंख्येयश्चमूक्षयः ।
प्रतिक्षणं प्रववृते सैन्ययोरुभयोरपि ॥ २५५५ ॥

अष्टमस्तरङ्गः। २२१ परेयुः शारदां दृष्टा संप्राप्तो गर्गनन्दनः । संक्रन्दनपुरीपौरयोधैर्वृद्धि हतैर्व्यधात् ॥ २५५६ ॥ अलंकाराभिधो वाह्यराजस्थानाधिकारभाक् । अधृष्यो मानुषैर्युद्धविरुद्धान्बहुधावधीत् ॥ २५५७ ॥ क्क भूधरचरैः स्पर्धा वसुधातलचारिणाम् । तथापि पृतनायनानन्त्यं चिन्त्यमचिन्त्यकृत् ॥ २५५८ ॥ अल्पीयांसः कोनिष्ठा भूयिष्ठाः कटकाश्रयाः । अतः पूर्वे बहून्नन्तोप्यासन्कृत्याल्पया क्षताः ॥ २५५९ ॥ श्लिष्टद्वाराररिपुटं द्वित्रैः पीडितमाहवैः । मीलिताक्षमिव त्रासात्ततो दुर्गमजायत ॥ २५६० ॥ गौतृभेदान्तरद्वैधमुखच्छिद्रानुसारिणः । धन्यादीन्वीक्ष्य विश्वास कोट्टस्था नोपलेभिरे ॥ २५६१ ॥ निद्राछेदार्थमन्योन्यं क्रोशन्तो नास्वपनिशि । स्वपन्तोहि तु निःशब्दशून्यं कोट्टमदीदृशन् ॥ २५६२ ॥ निशासु तत्तत्पृतनायामतूर्यरवैरपि । चटकाः कोटरगता मेघशब्दैरिवानसन् ॥ २५६३ ॥ अहर्निशं भ्रमन्तीभिनौभिः संरुद्धपाथसः । तान्समभ्रमयन्सर्वप्रकारं राजसैनिकाः ॥ २५६४ ॥ ते रुद्धपाथसस्तर्षशोषं केचिद्विषोहिरे । निःसंचारास्तु संक्षीणे भोक्तव्ये क्लैब्यमाययुः ॥ २५६५ ॥ वुभुक्षवः मापयोग्यान्भोगान्भाग्योर्जितांस्ततः । कदन्नैपदायादा अशनाशंसनैर्व्यधुः ॥ २५६६ ॥ दूरे स्पर्धास्तु निस्तीर्णाः क्षुधितास्तेधिकं व्यधुः । भूभर्तुभोगभागिभ्यो भृत्येभ्योप्यन्वहं स्पृहाम् ॥ २५६७ ॥ १ पुरीपौरवृद्धिं योधैः इत्युचितम् ।

२२२
राजतरङ्गिणी
व्यूहेष्वस्मासु पर्याप्तमकार्यमिति भाषिणम् ।
भोजं व्यधान्मध्यङ्गे दुर्गस्याथ स तं पृथक् ॥ २५६८ ॥
एकस्य वार्धकाद्वेश्यापुत्रत्वादपरस्य च ।
जानन्नयोग्यता मेने द्वैराज्याई तमेव सः ॥ २५६९ ॥
विनामुं चानयोः सम्यक्संरम्भेरन वैरिणः ।
इति मिथ्या प्रथां निन्ये तद्विनिःसरणं बहिः ॥ २५७० ॥
कान्तालंकारचक्रस्य कावन्ती क्षयमित्वरी।
चधुरागात्पष्ठचन्द्रे सान्द्रस्नेहाईतां गता ॥ २५७१ ॥
वहिराभ्यन्तरं भेदं नयन्ती मन्त्रमाययौ ।
साल्हणेः कर्णसरणिं सर्वमन्विष्यतोन्वहम् ॥ २५७२ ॥
युग्मम् ॥
रागध्वान्तान्वितधियः प्रतिभेदभयेन सः।
तस्य प्रकाशयन्नैनां गन्तुं तु प्रार्थनां व्यधात् ॥ २५७३ ॥
क्षमावाशिक्षितोपेक्षो मैत्रीस्थैर्ये मुदं भजन् ।
नागः सागस्यषि दधे बोधिसत्त्व इव क्रुधम् ॥ २५७४ ॥
प्रियामन्युः सरागेण मृत्युहेतुर्महानपि ।
हृदि विस्मयते पृष्ठे शरभेणेव वारणः ॥ २५७५ ॥
अथ प्रस्थापितो भोजः सुप्तारिशिबिरान्तरात् ।
यातप्रायोप्यलंकारतनयेनानुयायिना ॥ २५७६ ॥
द्रोहेच्छया भयाद्वापि ध्वस्तसत्त्वेन सत्वरम् ।
व्यावृत्त्यारोपितो भूयः कोट्टस्थस्यान्तिकं पितुः ॥२५७७ ॥
युग्मम् ॥
निर्भर्त्य पुत्रं गन्तासि श्वो निशीत्यभिधाय तम् ।
छन्नमस्थापयत्सोहि यात इत्यखिलान्वदन् ॥ २५७८ ॥

अष्टमस्तरङ्गः। २२३ । प्रोच्चल्यानिश्चयादेकः प्रायाद्वौ श्वः प्रयास्यतः । वोधितैरथ धन्याचैरजागार्यखिलर्निशि ॥ २५७९ ॥ प्रस्थास्नुः स निशीथेथ कोट्टाहालाद्यलोकयत् । जाग्रतः कटके सर्वान्परितो दीपितानले ॥ २५८० ॥ प्रकाश्य वहिना दुर्ग प्रतोलीनिर्गतो यथा । पिपीलकोप्यलक्ष्यत्वं नोन्मुखानां द्विषां ब्रजेत् ॥ २५८१ ॥ ज्वालाप्रकाशं चावल्याद्विलोला इव रक्षिताः। न्यषेधन्मूर्धकम्पेन साल्हणिं साहसागृहाः ॥ २५८२ ॥ तदन्तुमक्षमः क्षिप्तं क्षमाप्राहे स डामरः । अधोवातीतरच्छुभ्रमालिङ्गितवटाकरम् ॥ २५८३ ॥ क्षेमराजाभिधानेन डामरेशेन सोन्वितः । शिलां वैतेर्दिकातुल्यामध्यास्त श्वभ्रमध्यगाम् ॥ २५८४ ॥ आरुह्यासनमात्रे तां पर्याप्तां पातभीतितः । निर्निद्रौ पञ्च रात्रीस्तावत्यवाहयतावुभौ ॥ २५८५ ॥ निर्वर्तितप्राणयात्रौ करस्थैः सक्तुपिण्डकैः । तत एव व्यजहतां विष्ठां नीडादिवाण्डजौ ॥ २५८६ ॥ अव्यक्तव्याकृती चित्रासूत्रिताविव तौ स्थितौ । वीक्ष्यारिकटके लक्ष्मी पृष्ठाद्विस्मयमीयतुः ॥ २५८७ ॥ तयोराश्रीयत स्फीतशीतविस्मृतिकारिणा । जयसिंहप्रतापाग्निसंतापेनोपकारिता ॥ २५८८ ॥ षष्ठेहि तत्र निःशेषीभूतभोक्तव्ययोरथ । क्षतक्षार इवारम्भि तुषारं वर्षितुं धनैः ॥ २५८९ ॥ अगृह्यतोचिते दन्तवीणावाद्योद्यमे तथा । शीतासादितसादेन पाणिपादेन सुप्तता ॥ २५९० ॥ १ प्रकाशचाश्चल्यात् इति स्यात् । २ वितर्दिका इत्युचितम् । ३ तदा इत्युचितम् ।

२२४ राजतरङ्गिणी तावचिन्तयतामद्य क्षुच्छीताभिहतौ ध्रुवम् । पतिष्यावोरिकटके पाशबद्धाविवाण्डजौ ॥ २५९१ ॥ के पूत्कुर्वः कस्य वावां विदितौ यो विनिर्हरेत् । ततः पङ्कान्तरामग्नौ यूथपः कलभाविव ॥ २५९२ ॥ विषमस्थावथेत्थं तौ नक्तमभ्यर्थ्य डामरः । आरोप्य रज्ज्वावसथे शून्ये स्थापयति स्म सः ॥ २५९३ ॥ कृतशीतप्रतीकारौ पलालानलसेवनैः । दुःखं व्यस्मरतां तत्र निद्रया चिरलब्धया ॥ २५९४ ॥ ततोप्यभ्यधिका व्यापज़्जे लोठनविग्रहो। अचक्षुष्यौ जनात्स्निग्धां गिरमप्यापतुर्न यौ ॥ २५९५ ॥ यवकोद्रवपूपादि तयोः सतुषमनतोः । गात्रैर्वस्त्रैश्च वैवर्ण्य शुद्धिवन्ध्यतया दधे ॥ २५९६ ॥ धन्योलंकारचक्रस्य क्षीणभोज्यस्य सर्वतः । स्वीचकारान्नदानेन तुल्यौ होलयशस्करौ ॥ २५९७ ॥ ततः स दूतैर्विक्रेतुमङ्गीचक्रे नृपद्विषः । बुभुक्षाक्षुभितो भृत्यभेदभीतश्च डामरः ॥ २५९८ ॥ दुस्तरव्यापदुद्रेकद्रुतसत्त्वतयात्यजत् । पापोपलिप्ततच्चित्तमधर्माकीर्तिसाध्वसम् ॥ २५९९ ॥ भूपतेर्विद्विषच्छेषस्थापनात्स्वस्य रक्षणम् । ख्यातिशुद्ध्यै चिकीर्षु च कुशकाशावलम्बनम् ॥ २६०० ॥ भृत्यस्योदयनाख्यस्य धिया प्रच्छादितं तथा । ररक्ष साल्हणिं भोजं द्वौ तु दातुं स तत्वरे ॥ २६०१ ॥ तं विना च तयोर्भूपाद्दण्डं जानन्नसांप्रतम् । अबाधं स्वस्य चाशेषकृत्यं युक्तममन्यत ॥ २६०२ ॥ १ इतः इत्युचितम् । - अष्टमस्तरङ्गः। २२५. भोज्याभावकृतां तस्य व्यापदं तच्च मत्रितम् । तदा नाज्ञासिषुर्धन्यादयः संधि विधित्सवः ॥ २६०३ ॥ मिषाञ्चिचलिषा तेषां कस्साच्चिदभवत्ततः । किं पुनस्तेन दायादद्वये दातुं प्रतिश्रुते ॥ २६०४ ॥ देयविश्राणनानीकोत्थानादिपणसिद्धये । भ्रातृव्यमनयद्धन्यः कल्याणमवकल्पताम् ॥ २६०५ ॥ प्रबन्ध निर्बध्नन्नरिमुपचरंश्छादितरुषं महाहिं संगृह्णन्नयकुटिलचेष्टं व्यवहरन् । स भूमिः सिद्धीनां दधदुचितकर्तव्यपरतां भवेद्यो नियूँढावपि सुदृढसंरम्भरमसः ॥ २६०६ ॥ दुःखैर्दीर्घप्रवासोत्थैरपसारितसौष्ठवाः । तदा संरम्भशैथिल्यं भूभृद्धृत्याः प्रपेदिरे ॥ २६०७॥ स सत्यं सचिवोप्राप्यः संग्रहीतुं प्रगल्भते । कथाशरीरमिव यो नियूंढौ कार्यमाकुलम् ॥ २६०८ ॥ संधिं निबद्धं विज्ञाय सैनिकाः स्वगृहोन्मुखाः । उपेक्ष्य स्वामिदाक्षिण्यं क्षणादेव प्रतस्थिरे ॥ २६०९॥ तद्विक्रीतमवाप्यानं लवन्यः कार्यमन्थरः । धन्याद्याः स्वल्पसैन्यत्वादासन्कृच्छ्रागतासवः ॥ २६१० ॥ प्रतोलीकेलितहशः प्रार्थितागमनाशया। तदहः सोभियोक्तृस्तानदत्तावतापयत् ॥ २६११ ॥ रथाङ्गाक्रन्दिनी रात्रिस्तेषां कृच्छ्रेण सागमत् । विना जीवितसंन्यासमन्यत्कार्यमपश्यताम् ॥ २६१२ ॥ प्रयत्नसंभृते कृत्ये नष्टे मन्दतया धियः । अस्मत्संभावनादूरीकृतवाक्यादरं प्रभुम् ॥ २६१३ ॥ १ कीलितदृशः इत्युचितम् । २९ .२२६ राजतरङ्गिणी नष्टानुशोचनव्याजात्तत्तद्युत्युपहासिनः । सदयं नो ध्रुवं दुःस्थीकरिष्यन्त्यन्यमत्रिणः ॥ २६१४ ॥ सद्यो यात्रातारतम्यात्ताम्यन्तो नस्त्रपार्पणम् । कार्यनिष्ठामपश्यन्तः कुर्युर्वेत्यपरेब्रुवन् ॥ २६१५ ॥ मायामेतां विहितवांस्तैः संमन्य नृपाहितैः । सिद्धसाध्योधुना दस्युर्हसन्नस्मान्ध्रुवं स्थितः ॥ २६१६ ॥ अल्पेतरांस्तु संकल्पानेवं तेषां वितन्वताम् । दत्तानन्ततनुज्यानिः प्रभाता सा विभावरी ॥ २६१७ ॥ कुलकम् ॥ दे प्राह्नेथ राजस्थानीयोलंकारः साहसोन्मुखः । डामरं कोट्टमारुह्य निन्ये नयभयैर्वशम् ॥ २६१८ ॥ एकाहंगमने सोढविलम्बस्तत्र वासरे। लोठने क्षीणदाक्षिण्यः स गच्छेत्यब्रवीत्स्फुटम् ॥ २६१९ ॥ उपन्यस्यस्ततस्तस्य म्लानिप्रक्षालनक्षमम् । मानिनः केपि कर्तव्यं कीर्तिव्ययनिबर्हणम् ॥ २६२० ॥ कालः सोयं सकलजनतालोचनध्वान्तदायी नित्यालोकप्रकटनपटुः किंतु सत्क्षत्रियाणाम् | अभ्रश्यामाद्भुतमसिलतास्वर्वधूसंगतापि व्यक्तं सक्ति दिशति रभसान्मण्डलेनोष्णभानोः ॥२६२१॥ संप्रामुवन्ति ननु मण्डलमेकमेव क्ष्मापाजये समरसीनि वपुस्तु हित्वा । चण्डांशुमण्डलमथाभिमतानि कामं प्रेमाईनिर्जरवधूकुचमण्डलानि ॥ २६२२ ॥ नास्सिन्संततवेष्टनोल्बणतलैस्तल्पैरुदेति व्यथा ग्रन्थिभ्यश्चलितैर्न चालमसुभिर्मर्मव्यथा जन्यते ।

अष्टमस्तरङ्गः। २२७ क्रन्दद्वन्धुजनार्तनादचकितस्वान्तं न वा स्थीयते नन्वतन्मरणं सुखस्य सुभगा काप्येव संप्राप्तिभूः॥२६२३ ॥ मार्गः खड्गलतावितानगहनैर्यातः पिता ते दिवं भ्रातृभ्यामसिधेनुकण्टकवने भ्रान्त्वार्जिता सद्गतिः । वंशक्षुण्णमिमं निषेव्य रभसादध्वानमुन्नद्धया वृत्त्या व्योम्नि विशार्कमण्डलमिह स्वान्तं च तेजस्विनाम् ॥ साम्राज्य विधिनोपनीतमसकृत्क्लैब्येन यद्धारितं तत्रापि प्रशमोचिते वयसि यत्संचेष्टितं बालवत् । प्रायश्चित्तममुष्य लन्धमधुना तद्वेधसापादितं मा भूद्राज्यमिवैतदप्यसुलभं कर्तव्य कस्य ते ॥ २६२५ ॥ राज्यं प्राप्तमपि प्रनष्टमसमोच्छिष्टाशनैर्यापितः कालः सर्वजनक्षयस्य विषये याता स्थितिहेतुताम् । इत्यासीत्किमिवोचितं प्रभवतो भिक्षाचरश्मापते- र्नियूढं तु तदस्य देहविरतौ येनैष सर्वोन्नतः ॥ २६२६ ॥ स तथोत्तेजितोप्योजो नाददे तेजसोज्झितः। न ज्वलत्यग्निसङ्गेपि निर्वीर्य वानरेन्धनम् ।। २६२७ ॥ शान्ताहन्तस्तु संवृत्तनिद्राभङ्ग इवार्भकः । ऐच्छदुद्यद्भयोद्वेगो रोदितुं प्रसृताधरम् ॥ २६२८ ॥ डामरेणार्पितं नेतुं प्रवृत्तास्तं नृपाश्रिताः । तादृशं वीक्ष्य कारुण्याद्धैर्याधानार्थमभ्यधुः ॥ २६२९ ॥ मा विषीद न देवस्य दयाचन्द्रोदयोज्वले । हृदि प्ररोहति स्वैरं विकारतिमिरान्धता ॥ २६३० ॥ स सौजन्यसुधासिन्धुः स स्थिरत्वसुराचलः । स प्रपन्नार्तिसंतापच्छेदचन्दनपादपः ॥ २६३१ ॥ १ मूढस्य इत्युचितम् ।

२२८ राजतरङ्गिणी पुण्यां शुद्धां च संलक्ष्य शरदीव धुवाहिनीम् । मूर्ति तस्योल्बणं चेतः समाधास्यत एव ते ॥ २६३२॥ निष्कलकैर्वशपूर्वनिर्विशेषं सभाजयन् । चारित्रं लाघवभुवोप्रियस्त्वां सोपनेष्यति ॥ २६३३ ॥ अपकर्तृन्विपन्मग्नान्दयमानः परानपि । क्षमापरीक्षाहेतुत्वात्स वेत्ति ह्युपकारिणः ॥ २६३४ ॥ उक्त्वेति हृष्टस्तैर्लोलस्थूलकू) गृहात्ततः। व्यालम्बकम्बलो गोष्ठादृद्धोक्ष इव निर्ययौ ॥ २६३५ ॥ निर्भूषणं म्लानजीर्णवस्त्रशस्त्रं निरीक्ष्य तम् । युग्याधिरूढमायान्तं धन्यो ह्रीनम्रतां दधे ॥ २६३६ ॥ दीर्घास्पन्देक्षणं रूक्षघनकूर्च सविग्रहम् । व्यलोकयदथोलूकमिव नष्टं गुहागृहात् ॥ २६३७ ॥ रेजे शैलश्चलगिस्तैः शिबिरोद्दीपितानलः । भूपप्रतापस्वर्णस्य कषाश्मत्वमिवागतः ॥ २६३८ ॥ स्कन्धावारे गते वर्षत्तुषारं प्रसभं नमः । अमर्त्यभावे भूभर्तुर्विशां चिच्छेद संशयम् ॥ २६३९ ॥ प्राञ्चत्पतेद्धिमं तावन्नियेरन्त्रुडिताः क्षणात् । पिष्टातकान्तर्गर्ताटाः प्रविष्टा इव सैनिकाः ॥ २६४० ॥ एवमेकानविंशेब्दे दशम्यां शुक्लफाल्गुने । न्यूनाब्दषष्टिदेशीयो निबद्धो लोठनः पुनः ॥ २६४१ ॥ दीर्घप्रवासादायातं सत्कर्तुं कटकं पुनः । निर्ममो हर्म्यमुत्तुङ्गमारुरोह महीपतिः ॥ २६४२ ॥ यथोचितं दानमानसंभाषणविलोकनैः । संतोष्य विसृजन्सैन्यं धन्यादीन्प्रेक्षतागतान् ॥ २६४३ ॥ १ प्राक्चेत् इति स्यात् ।

अष्टमस्तरङ्गः।
तेषां पुनश्च दोर्द्वन्द्वमूले क्षिप्तकरं भटैः।
न्यस्तेनानासिकं वासःप्रान्तेनाच्छादिताननम् ॥ २६४४ ॥
निर्भूषणश्रोत्रपालिप्रविष्टैः श्मश्रुलोमभिः ।
वलक्षः प्रव्यक्तकार्यक्लेशं कपोलयोः ॥ २६४५ ॥
उच्चावचोक्तिमुखरे पौरलोकेन्तरान्तरा ।
व्यापारयन्तं नेत्रान्तौ दीनस्तिमिततारकौ ॥ २६४६ ॥
कातर्यदैन्यभीक्लान्तिक्षुदलक्ष्मीकटाक्षितम् ।
वेपमानविनिद्राङ्गं गां शीतेनार्दितामिव ॥ २६४७ ॥
भ्रान्तामिव क्ष्मां पर्यस्तानिवादीन्पतितानिव ।
विदन्तं च दिवं शोष......."रदच्छदम् ॥ २६४८ ॥
दैविको वान्तरायोस्तु ध्वान्तं वोनं प्रवर्तताम् ।
राजौकोभ्यर्णतां यातं वाता वा जरयन्त्विदम् ॥ २६४९ ॥
सर्वापकारकृद्राज्ञः स्थास्यामि पुरतः कथम् ।
पदानि संनिरुन्धानं निर्ध्यायेति पदे पदे ॥ २६५० ॥
अन्तर्युगलम् ॥
बहुलोकावृततया स्तोकसंलक्ष्यमैक्षत ।
प्रतीहारैरथावेद्यमानं लोठनमङ्गने ॥ २६५१ ॥
कुलकम् ॥
भ्रूसंज्ञया वितीर्णाज्ञो राज्ञा तामारुरोह सः।
सभां पारिप्लवाम्भोजामिव प्रेक्षकलोचनैः ॥ २६५२ ॥
दृष्ट्या निर्दिष्टपार्बोस्थितिः पृथ्वीभुजस्ततः ।
अस्प्राक्षीक्षितिनिक्षिप्तजानुर्मू निपङ्कजे ॥ २६५३ ॥
हस्ताम्बुजाभ्यामालम्ब्य ललाटतटमानतम् ।
सम्राट् संभ्रमनम्रस्य तस्योदनमयच्छिरः ॥ २६५४ ॥

राजतरङ्गिणी रत्नौषधीजुषोः स्पर्शः पाण्योस्तापं स चेतसः । दौर्भाग्यमहरदेहश्चास्य श्रीखण्डशीतलः ॥ २६५५ ॥ पुण्यानुभावात्कारुण्यभाजो भूभर्तुरजसा । वित्रम्भसंभावनया स क्षणात्पस्पृशे हृदि ॥ २६५६ ॥ मा भैषीरिति दृप्तोक्तिः सुखं संप्राप्स्यतीति वाक् । अगाम्भीर्येण भग्नेव मैन्युना त्वयि साधुना ॥ २६५७ ॥ इत्युक्ते पूर्ववैराणां भवेदुद्धाटनं कृतम् । बान्धवो नस्त्वमित्यस्मिन्परीहास इव क्षणे ॥ २६५८ ॥ क्लिष्टोसीति स्वप्रतापप्रभावाभाषणं भवेत् । ध्यात्वेति भूभृदृष्ट्वास्य नाप्यायं तु गिराकरोत् ॥ २६५९ ॥ तिलकम् ॥ अभयार्थनया पादौ स्प्रष्टुं नमयतः शिरः । संस्पर्श मौलिषु पुनर्विग्रहस्यानिणाकरोत् ॥ २६६० ॥ का योग्यता सक्रियायां ममेति वदता बलात् । अजिग्रहत्पितृव्येण ताम्बूलं स्वकरार्पितम् ॥ २६६१ ॥ नदं द्वारेशमूचेभूच्छ्रमो व इति सस्मितम् । धन्यं षष्ठं च पस्पर्श प्रष्ठं सव्येन बाहुना ॥ २६६२ ॥ दाक्ष्यदाक्षिण्यगाम्भीर्यविनयाद्यैर्विभाव्य तम् । भूभृगुणैः परीतं स्वं लोठनोमन्यतावरम् ॥ २६६३ ॥ आदिश्य सान्त्वनं धन्यमुखेनाथ त्रपानतम् । पितृव्यं प्राहिणोद्वेश्म भ्राजिष्णुविनयाञ्जलिः ॥ २६६४ ॥ अभियोगे य एवास्य नीती विन्यस्यतो दृशम् । मुखरागः स एवाभूत्फलावाप्तावविप्लुतः ॥ २६६५ ॥ १ देहाचास्य इति स्यात् । २ मन्युमें त्वयि नाधुना इति स्यात् । ne vidya ।

अष्टमस्तरङ्गः। २३१ । नायाति वाडवशिखिक्कथनेन तापं शैत्यं हिमाद्पियसा विशता न चाब्धिः। कश्चिद्गभीरमनसां सततं विषाद- काले प्रमोदसमये च समोनुभावः ॥ २६६६ ॥ प्रीतिस्थैयातियोग्यैश्चोपचारैरैकृत्रिमः । क्रमाद्राजाहरल्लज्जां पौरुषभ्रंशजीवयोः ॥ २६६७ ॥ दायादोष्ठद्वयादेव राष्ट्र कृष्टेपि मन्त्रवित् । भोजनोत्पिासर्पस्य दन्तं सोन्तरचिन्तयत् ॥ २६६८ ॥ प्रवासायासभीत्या स्वैस्त्यक्तसंरम्भसंभ्रमैः । जिगीषुर्विद्विषच्छेषैश्चक्रे यन्निष्प्रजागरः ॥ २६६९ ॥ सल्हणः स तु विस्तीर्णच्छभ्राच्छून्यगृहे वसन् । पितृव्यविग्रहोदन्तमुपलेभे न कंचन ॥ २६७० ॥ राजा गृहीत्वालंकारडामरान्तिकमागतम् । पृष्ठाद्वीक्ष्याभवद्रोहद्रोहसंभावनस्तदा ॥ २६७१ ॥ ददर्श च क्रमारतया दुर्लक्ष्यविस्मृति । स्कन्धावारं बद्धमालं मार्गे नगरगामिनि ॥ २६७२ ।। अज्ञातेन विदूरत्वात्पितृव्येणाश्रितं ततः । युग्यं चासौ धन्यषष्ठयुग्ययोरन्तरैक्षत ॥ २६७३ ॥ अचिन्तयच्च को हेतुः कटकप्रस्थितेरितः । युग्यारूढश्च कोथ स्यात्तृतीयो धन्यषष्ठयोः ॥ २६७४ ॥ पृष्टस्तेनावदत्कश्चित्पामरोथ प्रमोदभाक् । संधिनिबद्धो नगरं गतौ लोठनविग्रहो ॥ २६७५ ॥ संदेहोजहतद्रोहो भयमुन्मुखतां ब्रजेत् । ज्ञातिस्नेहेन तस्यासीन्मुहूर्तमपहस्तितम् ॥ २६७६ ॥ १ अकृत्रिमैः इति स्यात् । २ भोजेन इति स्यात् । ३ विस्तृति इत्युचितम् ।

२३२
লৰক্লিী
सैन्ये गते शून्यतया मिलितैविहगैः सरित् ।
रुवद्भिस्तेन तौ नीतौ क्रन्दतीव व्यकल्पत ॥ २६७७ ॥
लवन्य एव मे दध्याझ्यात्वेहस्थमवेत्य ते ।
पुनर्नयेयुर्धन्याद्याः क्रमाहध्यावथेति सः ॥ २६७८ ॥
स्वं नेतुं पार्थिवचमूं प्रत्यावृत्तां निनादिनीम् ।
श्रुतेन्तरान्तरा घोषे निर्झराणामशङ्कत ॥ २६७९ ॥
अथाजायत जीमूतवितीर्णतिमिरं जगत् ।
वन्ध्यमध्यंदिनेनेव निशीथव्ययितश्रिया ॥ २६८० ॥
राधमासावधि
दधुस्ततः प्रभृति वारिदाः ।
दीक्षा क्षोण्यां तुषारौघसत्रासूत्रणकर्मणि ॥ २६८१ ॥
विस्तब्धघात्यभव्योहं निर्ब्रह्मण्यो ह्रियोज्झितः ।
निन्दन्स्वमिति भोजाग्रे ततो दस्युरुपाविशत् २६८२ ॥
समयापेक्षयाक्षोभो मन्यु संस्तभ्य साल्हणिः ।
सान्त्वयन्निव नास्त्यागस्तवात्रति जगाद तम् २६८३ ॥
ऊचे च संश्रितापत्यज्ञात्याद्यापद्गतं त्वया ।
त्रातुमेतत्कृतं तत्र गहीं नार्हसि कस्यचित् ॥ २६८४ ॥
तव द्रोहस्पृहा स्याचेन्नानृशंस्यं भवेन्मयि ।
परकृत्ताभवत्तस्मादियं कालानुरोधतः ॥ २६८५ ॥
राज्ञश्च हर्षभूभर्तृवंश्या इव न वा वयम् ।
उच्छेद्याः किंतु संयम्या राजधर्मानुरोधिनः ॥ २६८६ ॥
स्वस्याख्यातिस्तयोर्वाधा राज्ञश्चामार्गगामिता ।
शेषं मां रक्षता हन्त निषिद्धा धीमता त्वया ॥ २६८७ ॥
इत्युक्तवन्तं तं त्यक्तलजाभार इवावदत् ।
साक्षी त्वमेव सर्वत्र ममेति सततं स्तुवन् ॥ २६८८ ॥

अष्टमस्तरकः। २३३ क्षणेन च प्रहिणु मामधुनेत्यभिधायिनम् । तमेव हिमवृष्ट्यन्ते कर्तास्मीत्युक्तवान्ययौ ॥ २६८९ ॥ त्वयि दस्युर्विपर्यस्येन्मन्युं जाननभोजनम् । भोजस्तोति केनापि कथितो व्यधिताशनम् ॥ २६९० ॥ स्पृशंश्चान्नं चिरात्प्राप्तमिदं विक्रीयतामिति । ध्यायज्ञात्योहमांसं तयोर्भुक्तममन्यत ॥ २६९१ ॥ दस्युस्तु हिमवृष्ट्यन्ते त्वां प्रहेष्यामि निश्चयात् । श्वो वाद्य वेति कथयन्द्वौ मासौ न मुमोच तम् ॥२६९२॥ मां ज्ञात्वेह स्थितं राज्ञा कृतारब्धेर्हिमात्यये । विक्रीणात्येष मत्वेति भोजोधाद्गमने त्वराम् ॥ २६९३ ॥ मिषं यं यं निषेधाय गमनायोदपादयत् । दस्युस्तं तं समुच्छेद्य सापराधं व्यधत्त तम् ॥ २६९४ ॥ ओजोनानो बलहरात्संजातं भाद्रमातुरः। अभ्यधाद्वाल्यमाशीस्य लम्बकम्बलकावृतः ॥ २६९५ ॥ तेजोविस्फूर्जितांस्तत्तद्वीरोत्कर्षकषोपले । द्वैराज्ये सौस्सले सैन्ये पङ्तिपावनतां गतः ॥ २६९६ ॥ पितुराप्ततया राज्ञा वर्धितस्तदनन्तरम् । एवेनकादिविषयाधीकारित्वं क्रमाद्भजन् ॥ २६९७ ॥ विमुखे राशि नागेन खूयाश्रमभुवा कृते । तं राजवदनो नाम विजिघृक्षु ररक्ष तम् ॥ २६९८ ॥ चकलकम् ॥ आनुशंस्यं भृत्यभावादलवन्यतयास्य च । प्रत्यवस्थित्यसामर्थ्य राशि सर्वे शशङ्किरे ॥ २६९९ ॥ ३०

२३४
राजतरङ्गिणी
अतोलंकारचक्रेण कुर्वतात्यर्थमर्थनाम् ।
द्वैराज्येच्छो राजबीजी तदा न स समर्प्यत ॥ २७०० ॥
युग्मम् ॥
।
नीतः प्रत्यक्षतां दूरस्थितेप्युदयने स तम् ।
विसृष्टवति दुध्रुक्षुस्त्यक्तुमेनं न सोशकत् ॥ २७०१ ॥
राशा कर्तु विनिमयं भोजस्य प्रहितो धनैः ।
प्राप्य द्रङ्गामलंकारो विषयाधिकृतस्ततः ॥ २७०२ ॥
तत्पार्श्वमुद्यतं गन्तुं मां समुत्सृज्य यासि चेत् ।
त्यक्ष्यामि तदसूनेवमूचे भोजस्तु डामरम् ॥ २७०३ ॥
श्वस्त्वां प्रभाते द्रक्ष्यामीत्येतावत्तत्र जल्पति।
कोट्टादनुक्त्वैव निशस्तुर्ययामे विनिर्ययौ ॥ २७०४ ॥
धनवर्षेप्यमर्षेण मार्गान्वेषी गवेषणम् ।
यावञ्चक्रे क्षपान्ते तं तावच्छुश्राव निर्गतम् ॥ २७०५ ॥
असाध्यप्रतिषेधोथ तमन्ह्यनुजगाम सः।
प्रस्थितं शारदादेवीस्थानं यावन्मितानुगः ॥ २७०६ ॥
एकसार्थगतौ ज्ञाती विना तौ शातियोषिताम् ।
दाक्षिण्यादक्षमः स्थातुमने सागा भवन्निव ॥ २७०७ ॥
प्रवयाः पञ्चषान्वारान्व्यधादारब्धिमेष तु।
युवाप्यकल्पः कोलीनमिति स्वस्य च चिन्तयन् ॥ २७०८॥
दुराण्डगमने खण्डितेच्छः संश्रित्य दारदान् ।
संयुयुत्सुमधुमतीरोधसा मार्गमग्रहीत् ॥ २७०९ ॥
तिलकम् ॥
क्वापि श्यानाश्मसूच्यश्रिमृत्युदंष्ट्राङ्कुरोत्कटान् ।
शचिद्रुद्धप्रकाशाभ्रकालपाशान्धकारितान् ॥ २७१० ॥

अष्टमस्तरङ्गः। २३५ प्रभ्रश्यद्धिमसंघातगजव्यूहोल्बणान्क्वचित् । कापि निर्झरफूत्कारनाराचक्षतविग्रहान् ॥ २७११ ॥ कचित्सुस्पर्शपवनस्पष्टस्फुटदसृग्धरान् । क्काप्यातपक्षतहिमज्योतिर्निहतदक्पथान् ॥ २७१२ ॥ दूरावरोहे प्रसृते स्फुटमप्रसृते विदन् । ऊर्ध्वावरोहमसकृन्मन्यमानोप्यधोगतः ॥ २७१३ ॥ तुषारकालविषमान्षट्सप्तान्पथि वासरान् । उल्लङ्घय स दरदाष्ट्रसीमान्तग्राममासदत् ॥ २७१४ ॥ कुलकम् ॥ गूढार्पितात्मसामग्रीहता किंचन्यलाघवम् । तं दुग्धघाट्टकोद्देशः प्रणम्यानयदर्प्यताम् ॥ २७१५ ॥ दूरस्थितो विड्डुसीहस्ततोक्ततदागमम् । प्रक्रियां प्राहिणोच्छन्त्रवादित्राद्यां नृपोचिताम् ॥ २७१६ ॥ आदिष्टदिष्टवृद्धिश्च राष्ट्र कोहाधिपेन सः । अवारयत्स्वकोशस्य स्वामित्वं राजबीजिनः ॥ २७१७ ॥ राजायमानो भोजोथ राजवासगतोचितम् । आनिन्ये राजवदनापत्येनाभ्येत्य पक्षताम् ॥ २७१८॥ स पिकान्ततो राज्ञोभिन्नेन प्रहितोन्तिकम् । तेनाज्ञाय्यरिनीत्युग्रपाशाग्रस्थापनोपमः ॥ २७१९ ॥ कार्यगौरवविश्वासाभावव्यतिकरोचितम् । संदिश्य प्राहिणोत्तं स न स्वीकुर्वन्न चोत्सृजन् ॥२७२० ॥ किमाप्तोहं किमेकान्तभिन्नो राज्ञः शनैरिति । मां ज्ञास्यसीति तं दूतैः स राजवदनोवदत् ॥ २७२१ ॥ १ क्वचिहु:स्पर्श इति स्यात् । २ तदागमः इत्युचितम् । ३ अकारयत् इति स्यात् ।

२३६ राजतरङ्गिणी तस्य दाय दर्शयितुं गोत्रिवैरिमिषानृपे । ब्रुवाणेथ विदोषत्वं नागाधैरग्रहीद्रणे ॥ २७२२ ॥ सामग्री नः शनैः स्थैर्य ततः साम्यमथ क्रमात् । आधिक्यं चादधे तेषां विग्रहै धैर्यनिष्ठुरः ॥ २७२३ ॥ तथा प्रतिष्ठां स प्राप तस्यापूर्वस्य भूमिजाः । दास्यमेत्य यथा ब्रीडां नागुर्नागस्य बान्धवाः ॥ २७२४ ॥ स हि त्यागक्षमास्तम्भालोभादिगुणभूषिताम् । अभिगम्योभवन्नित्याभ्यस्तभूतिरिवोन्मिषन् ॥ २७२५ ॥ स्थैर्य पृथ्वीहरादीनां साश्रयाणां न कौतुकम् । आडम्बरो निरालम्बस्यास्य स्तुत्यस्तु विस्तृतः ॥ २७२६ ॥ प्रथयन्पृथुलान्व्यूहांश्चौराटविकघोषिकैः । कान्तग्रामोथ तस्थौ स भोजादीन्प्रतिपालयन् ॥ २७२७ ॥ जहुरन्योन्यसंघर्षसेामात्यमतेन वैः। ततो लुण्ठिप्रियत्वाद्वा नीतिमन्यपि डामराः ॥ २७२८ ॥ उद्धातध्वंसिनां विप्लवेच्छा लोठनबन्धने । याधात्तेषां तदानी सा जगाम शतशाखताम् ॥ २७२९ ॥ बिल्लको जयराजश्च राशा संवर्धितावपि । अकार्टी नैव तपसा विवशौ चक्रमीलनात् ॥ २७३० ॥ यो घूकानामिव श्वभ्रमामयानामिव क्षयः । दैत्यानामिव पातालं यादसामिव सागरः ॥ २७३१ ॥ आश्रयः सर्वदस्यूनां त्रिल्लको माययोल्बणः । स देवसरसाधीशं संबध्नन्विप्लवं व्यधात् ॥ २७३२ ॥ युरमम् ॥ १ भूषितः इत्युचितम् । २ वा इति स्यात् ।

अष्टमस्तरङ्गः। २३७ कासन्तोथ तदाक्षेपं क्षोणीत्राणार्थिनो द्विजाः । प्रायं नृपतिमुद्दिश्य चक्रिरे विजयेश्वरे ॥ २७३३ ॥ अकालदस्युनिर्माथं जानतेभ्यर्थनां न ते । राशो गृहंस्ततः सोभूहाक्षिण्यात्तत्सभानुगः ॥ २७३४ ॥ प्रस्थातुं पार्थिवे सजे ज्यायान्यो विप्लुतेष्वभूत् । स जातोत्पातपिटको जयराजो व्यपद्यत ॥ २७३५ ॥ भाग्यवानेकतो जातदस्युवैविक्त्यमीशिता । ततो मडवराज्यं स विप्रप्रीत्यै विनिर्ययौ ॥ २७३६ ॥ अमात्यदत्तवैमात्यैः सशाठ्यं मठरैरथ । द्विजैनिषिद्धोलंकारो मत्री राज्ञोज्झितोन्तिकात् ॥२७३७॥ स व्यवस्थापने दुःस्थदस्यूनां सोद्यमः सदा । सेर्ष्याणां प्रत्यभात्तेषां तदोषपरिपोषकः ॥ २७३८ ॥ त्रिल्लकोन्मूलनं कुर्या कृत्वा द्वैराज्यभञ्जनम् । प्रतिक्षायेति नृपतिर्विप्रान्प्रायाच्यवीवरत् ॥ २७३९ ॥ त्रस्तोथ त्रिल्लकस्तैस्तैरप्रियैरुदवेजयत् । अनुद्भिन्नमुखो गूढामयो रोगान्तरैरिव ॥ २७४० ॥ जयराजानुजं राज्ञा यशोराजं निवेशितम् । तन्मतेनावचस्कन्द भ्रातृव्यं राजकाभिधः ॥ २७४१ ॥ त्रातुं तं देवसरसं दृप्तारात्याश्रितं गतः । सज्जपालोल्पसैन्यत्वात्संदिग्धविजयोभवत् ॥ २७४२ ॥ ज्ञातोदन्तस्ततोभ्येत्य रिहणो रणमुल्बणम् । जयलक्ष्मीकटाक्षाणां प्रथमातिथितामगात् ॥ २७४३ ॥ मन्दरेणाथ तेनारिवारिराशौ विलोडिते । कल्पोभूत्सजपालाब्धिस्तुच्छारातिजलाहृतौ ॥ २७४४ ॥ १ वैवात्यैः इति स्यात् । %D २३८ राजतरङ्गिणी जितेपि राजके स्वोयो विनानुग्राहकं क्षमः ।. न बभूव यशोराजः शून्ये बाल इवासितुम् ॥ २७४५ ॥ प्रतीक्षमाणो द्वैराज्यपर्याप्ति माभुजेकरोत् । त्रिल्लकः कालहरणं तैस्तैर्मायानतिक्रमैः ॥ २७४६ ॥ यथाकालं ततो गूढोपोढान्मण्डलकण्टकान् । स्वपक्षसूचीविशिखान्दिक्षु श्वाविदिवाक्षिपत् ॥ २७४७ ॥ अथ पाहिरिोभूञ्चतुष्कः कोटकानुजः । राशा भ्रात्रा समं बद्धः कारागारात्पलायितः ॥ २७४८ ॥ स तेन निजजामात्रा रक्षितः स्वोपवेशने । असंख्यडामरयुतः शमालां संप्रवेशितः ॥ २७४९ ॥ युग्मम् ॥ । आकर्ण्य कुररस्येव निनादं तस्य भेजिरे । व्यक्ततां दस्यवो गूढा हृदस्थाः शफरा इव ॥ २७५० ॥ तृप्यन्तं राजवदनं षष्ठचन्द्रोथ गर्गजः । रुरोध प्रलयोद्वृत्तं वेलाद्रिरिव वारिधिम् ॥ २७५१ ॥ वर्धमानक्षीयमाणसंहती तौ त्वजायताम् । धर्मे सजम्बालहिमौ तुषाराद्रितटाविव ॥ २७५२ ॥ षष्ठस्य जयचन्द्रश्च श्रीचन्द्रश्चानुजौ ततः । दूरविप्रकृतौ राजमन्दिरावाप्तवेतनौ ॥ २७५३ ॥ ज्ञातनिर्वृत्त्यपर्याप्ती धुर्यकार्यवशप्रियात् । प्रतीक्ष्यादग्रजाद्राज्ञः शङ्कितावशुभागमम् ॥ २७५४ ॥ कटकाद्विद्रुतौ राजवदनान्तिकमागतौ । श्वशुर्यावपि भूभर्तुरागतौ प्रतियोग्यताम् ॥ २७५५ ॥ तिलकम् ॥

अष्टमस्तरका
शैलप्रस्थानपथिकैरसंख्यैरथ खाशकैः ।
स पूर्वराजकोशार्थी भूतेश्वरमलुण्ठयत् ॥ २७५६ ॥
तस्कराक्रान्तशरणं बलवनिहताबलम् ।
अराजकमिवाशेषं राष्ट्र कष्टां दशामगात् ॥ २७५७ ।।
उदयं कम्पनाधीशं रिल्हणं च ततो नृपः ।
चतुष्कयुद्धमादिश्य नगरं विवशोविशत् ॥ २७५८ ॥
पार्थीहरिस्तु दुःसाध्यो महाव्याधिरिवौषधैः ।
स्तम्भितोभूत्तयोः सैन्यैः संहर्तुं न त्वशक्यत ॥ २७५९ ॥
कालापेक्षा स्वपक्ष्याणां दुर्बुद्धि वानुरुन्धतः ।
आसीन्मन्दप्रतापत्वं रिल्हणस्यापि तत्क्षणम् ॥ २७६० ॥
विडुसीहस्तु विज्ञातभोजोदन्तो व्यसर्जयत् ।
दूतानानेतुमुशिान्सुबहूनुत्तरापथे ॥ २७६१ ॥
अपि वित्तेशवनितारहोवयात्यवेदिभिः ।
अपि किंमानुषपुरीगीतोदारिदरीगृहैः ॥ २७६२ ॥
अप्योष्ण्याद्वालुकाम्भोधेः शीतावेदिभिरेकतः ।
अपि शृङ्गानिलैः प्रीतान्कुर्वाणैरुत्तरान्कुरून् ॥ २७६३ ।।
हिमाद्रिकच्छैम्लेच्छेशाः प्रधावन्तोधिशिश्रियुः ।
दिशस्तुरंगै रुन्धन्तः स्कन्धावारं दरत्पतेः ॥ २७६४ ॥
तिलकम् ॥
राज्ञां संघटनं यावद्यधादेवं दरनृपः ।
दिग्भ्यो भोजान्तिकं तावत्तत्सामन्ताः प्रपेदिरे ॥ २७६५ ।।
स पिप्रिये तानज्ञातालापान्वीक्ष्य गिरिव्रजान् ।
प्रीतिप्ररूढप्रणयानवरूढान्कपीनिव ॥ २७६६ ॥
जयचन्द्रादयो राजवदनप्रहिता अपि ।
कीराः काश्मीरिकाः पार्श्वमभजवाजबीजिनः ॥ २७६७ ॥

राजतरङ्गिणी
अभ्यर्णस्थान्बलहरप्रमुखांश्च विदूरगान् ।
अपुष्णात्साल्हणिः स्वर्णैः परां कोशेशतां भजन् ॥ २७६८ ॥
ततः स्वजनितोत्पिजतया निश्चोद्यचाक्रिकः ।
भोजेन राजवदनः समगंस्तापसाध्वसम् ॥ २७६९॥
तयोरकृतकर्तव्यविशेषेणेतरेतरम् ।
जातसौष्ठवयोः क्षिप्रमविश्वासो व्यशीर्यत ॥ २७७० ॥
अभ्यमित्रीणतां तस्यानिच्छतो दरदं विना ।
मदात्साहायकायैच्छन्मितानेव स तान्हयान् ॥ २७७१ ॥
स्युश्चेत्सोढानिमाटोपाः कटकस्यास्य नो द्विषः ।
तत्साम्यमुन्मिषेद्यद्वा भङ्गो भूयोपि योगभित् ॥ २७७२ ॥
तस्मात्सर्वाभिसारेण रणमेकं ममेच्छतः ।
विजयावजयावाप्तिरेकाहान्तरिता मता ॥ २७७३ ॥
व्याजहारेति यद्भोजस्तदेषोथ हसन्सयात् ।
निन्ये तदारद सैन्यमुपेक्ष्यागमिनीश्चमूः ॥ २७७४ ॥
तिलकम् ॥
संकटान्ते वितीर्णानुयात्रस्तेषां प्रसर्पताम् ।
स राजबीजी शुश्राव दराजमथागतम् ॥ २७७५ ॥
तत्संगमाय व्यावृत्ते तस्मिन्कोट्टान्तिकं पुनः ।
प्रावेशयदलहरो मातृग्रामं स तद्बलम् ॥ २७७६ ॥
दिशस्ततो वीक्ष्य वाहैन्तिवातमृगा इव ।
निसर्गधीरधीगिर्न धैर्यात्पर्यहीयत ॥ २७७७ ॥
तस्य सर्वेपि नीलाश्वडामराः स्वे च सैनिकाः ।
विपक्षैः सह बद्धैक्याः सैन्यान्दुभुक्षवो ययुः ॥ २७७८ ॥
स तथा विषमस्थोपि प्रस्थित्यै प्रार्थितो निजैः ।
म्लानाननः प्रभु द्रष्टुं न क्षमोसीत्यभाषत ॥ २७७९ ॥

अष्टमस्तरङ्गः। स सूर्यवर्मचन्द्रस्य न जातः कश्चिदन्वये । उपयोगाय यो नागान्मल्लाभिजनजन्मनाम् ॥ २७८० ॥ भोज सभाजयित्वाथ विडुसीहः सपार्थिवः । सारैः समं स सामन्तैर्विजयाय व्यसर्जयत् ॥ २७८१ ॥ ततो म्लेच्छगणाकीर्णा ब्रजन्संवाहयंश्चमूः । प्रयाणमात्रान्तरितः पृष्ठे तस्य बभूव च ॥ २७८२ ॥ प्रादुष्कृतजगत्क्षोभे बले तत्रानुयायिनि । उत्साहात्साल्हणिमैंने कृत्स्ना हस्तगतां महीम् ॥ २७८३ ॥ वाजिभिस्तर्जितो म्लेच्छराजैश्च बलमूर्जितम् । स्थाने समुद्रधाराख्ये निर्बबन्धाथ तत्पदम् ॥ २७८४ ॥ स राजवदनस्तादग्दुर्जयाग्यबलोज्वलः । मृत्युदन्तान्तरे दिष्टं षष्ठचन्द्रं स्वमन्यत ॥ २७८५ ॥ ततः प्रावृट्पयोवाहकृतोदीपपरिप्लुता । संजायते स वसुधा समीभूतजलस्थला ॥ २७८६ ॥ धरित्रीपानपात्रेम्भःशीधुपूर्णे दधुर्द्धमाः । मन्ना लक्ष्यशिखामात्रा वलन्नीलोत्पलोपमाम् ॥ २७८७ ॥ षष्ठस्य संकटं जानन्भूभृच्छेषैर्बलैः समम् । अथोदयद्वारपति तं च धन्यं व्यसर्जयत् ॥ २७८८ ॥ वाहिनीरुद्धमार्गौ तौ पदवीमनुसनतुः । मार्गे धनंजयस्येव शैनेयपवनात्मजौ ॥ २७८९ ॥ लम्बाम्बुदेम्बरे दूरं वारिपूर्णे च भूतले । स्यूतेव विद्युद्ददृशेभिन्नद्योतननिःस्वना ॥ २७९० ॥ शोभामात्रोदितागर्हपरिबर्दीबहिष्कृतः । तत्राविभक्तकटकः पार्थिवः समजायत ॥ २७९१ ॥ ३१ २४२ राजतरङ्गिणी अनास्थो राजवदने सत्त्वावष्टम्भयोः पुरा । अत्रापरो न निक्षेप्यो राजबीजीति दारदान् ॥ २७९२ ॥ त्रिल्लकः संदिशन्दूतैर्वृद्धिं पार्बीहरि नयन् । तयोरेकस्य सामर्थ्यादैच्छत्तं हस्तपातिनम् ॥ २७९३ ॥ युग्मम् ॥ अभित्तिलिखितालेख्यकल्पं बलहरस्य तत् । ताग्विलोक्य सामर्थ्यमथ राज्ञश्च सर्वतः ॥ २७९४ ॥ विभक्ताशेषसैन्यस्य तत्र तत्रारिसंकटे । ज्ञात्वाप्रतिसमाधेयच्छिद्रमुन्मुद्रदुर्नयः॥ २७९५ ॥ अकृशश्वाविदाचारश्चिरं स्वाङ्गैः स गोपितम् । बहिर्दुर्धर्षमत्याक्षीद्वितीयमपि कण्टकम् ॥ २७९६ ॥ तिलकम् ॥ ध्वान्तेम्बुधरजालान्ध्यमहावाते रजोभरः । स्वपक्षभेदयोर्शातकर्णेजपमहोद्यमः ॥ २७९७ ॥ कुलच्छेदकृतो राज्ञस्तत्र तत्रातिसंकटे । अशान्तजागरोत्यर्थमनर्थपरिपोषकः ॥ २७९८ ॥ सोथ शूरपुरेकस्माद्बहुभिः सह डामरैः । तेन संपूरितः पृथ्वीहरजो लोठकोपतत् ॥ २७९९ ॥ तिलकम् ॥ तस्य संघटतः कन्थां प्रयातं वैकृतं चिरात् । पालीभङ्गे तटस्येव प्रावृट्पूर्णस्य लक्ष्यताम् ॥ २८०० ॥ निद्राणोपेन्द्रजठरप्रमादनिसृतं जगत् । समेतमिव तत्सैन्यं प्रत्यभाजलदागमे ॥ २८०१ ॥ यावद्भिः पार्यते नेहक्संख्यातुमपि तद्बलम् । त्यक्तव्यकल्पैः सुस्वल्पयोधमध्यगतैरपि ॥ २८०२ ॥ SAREER Pra संयो SON अष्टमस्तरङ्गः। २४३ तावद्भिरतुगैः पिञ्चदेव इङ्गाधिपो युधि । तद्योधान्याम्यहरितः सरितश्चातिथीन्व्यधात् ॥ २८०३ ॥ युग्मम् ॥ तदोज्वलैश्चिताचविम्बितस्तटिनीजले। मृतानामपि संस्कारः क्रियमाण इवाभवत् ॥ २८०४ ॥ इति विस्मृतमृत्युः स कुर्वन्नेकाहमाहवम् । कथंचिदाप्तैरन्येधुर्भग्नसारोपसारितः ॥ २८०५ ॥ पुरे स शून्ये सैन्यानि संगृहंस्तत्र सर्वतः । द्वित्ररहोभिनंगरं सुखग्राह्यममन्यत ॥ २८०६ ॥ इच्छां पद्मपुरास्कन्दे मन्दत्वं त्रिल्लकोनयत् । पृष्ठस्थयोर्यशोराजकम्पनाधीशयोर्भयात् ॥ २८०७ ॥ न भृत्यैस्तद्विधः सिद्धश्चास्यैकस्मिन्नसंमते । विधेयान्यलवन्यस्य डामरे होलडौकसि ॥ २८०८ ॥ द्वैराज्ये सुस्सलस्यापि नैवादृश्यत तादृशः । अनर्थों तत्सुतस्य समन्ततः ॥ २८०९ ॥ चतुष्कमवधीर्याथ राज्ञा पादगदोपमम् । रिल्हणप्रेषितं ग्रीवागण्डतुल्यं व्यपोहितुम् ॥ २८१० ॥ प्रस्थितस्तत्प्रमाथाय शमालैः सोन्ववध्यत । व्रजन्प्राग्ज्योतिषं हन्तुं पार्थः संशप्तकैरिव ॥ २८११ ॥ अधावञ्चाभ्यमित्रीणस्तान्व्यावृत्त्य निपातयन् । पद्माकरोन्मुखः पृष्ठलग्नान्भृङ्गानिव द्विपः ॥ २८१२ ।। रणश्रान्तेन गमिता त्रियामा तेन रामुशे । गर्जन्कुल्यार्पितारातिपृतनानाशसंस्क्रिये ॥ २८१३ ॥ यादृगुत्तस्थौ १ रामुषे इति स्यात् ।

राजतरङ्गिणी तत्कल्याणपुरं प्राहे विशन्तं सोनमागतः । रुरोधाभ्येत्य भूयोपि बलैर्भरितदिङ्मुखः ॥ २८१४ ॥ आपतन्नेव चारातिपदातीन्संमुखागतान् । दृष्टनष्टान्व्यधाच्छागानिवाग्रेऽजगलो गिलन् ॥ २८१५ ॥ उद्धृत्तमारुतस्येव तस्यापाते पदातिभिः । तत्यजे रिल्हणः पर्णेहेमन्त इव पादपः ॥ २८१६ ॥ पश्यतस्तस्य ते विद्रवन्तो जिह्मा न जिहियुः । देहस्पृहापारमित्यै कस्यौचित्यमनत्ययम् ॥ २८१७ ॥ आप्तैरथापसृत्य स्वैरर्थितो रिल्हणोब्रवीत् । नयन्प्रजासृजा साम्यं स्वामिभक्तिस्मृतेः स्मितम् ॥२८१८॥ ह्री..."वाविशेषेपि जन्तोर्जन्तोर्यदीशिता । भृत्यभावेपि यो लुप्तकृत्यो धिक्तस्य जीवितम् ॥ २८१९ ॥ जातं वक्रसरः श्मश्रुराजिनीलालभोजनम् । जराकैरवगौरं च राज्ञः पादान्प्रपद्य यान् ॥ २८२० ॥ म्लायत्सु तेषु भ्रूभङ्गभृङ्गभ्राजिष्णुभिर्भवेत् । कथं लक्ष्मीविलासैस्तदखण्डैरविडम्बितम् ॥ २८२१ ॥ युग्मम् ॥ एषा कापुरुषासेव्या धीराणां नैव पद्धतिः । यदायासलवत्रासात्सौख्यवैमुख्यभागिता ॥ २८२२ ॥ वस्त्रापासन एव शीतजनितस्त्रासोथ तीर्थाम्बुभिः खाने हादसुखोपलब्धिरसमब्रह्मानुभावोपमा । वैवल्यं समरे वपुर्विजहतामेवं किलोपक्रमे कैवल्याख्यसुखोपलम्भपरमा पश्चात्पुनर्निर्वृतिः ॥ २८२३ ॥ १ भोज्वलम् इति स्यात् ।

अष्टमस्तरङ्गः। एवमुक्त्वा परानीकमेकाकी स व्यगाहत । गृह्णशरान्हरिप्रोथश्वाससंदिग्धशूत्कृतान् ॥ २८२४ ॥ स्वर्णत्सरुप्रभाजालहरितालोज्वलोभजत् । खड्गपट्टनटस्तस्य रणरङ्गोत्तरगताम् ॥ २८२५ ॥ तत्खड्गस्य नतः खगाञ्जीवैर्जालच्छला वम् । उत्थाय लग्नं शत्रूणां तृणैस्तृणमणेरिव ॥ २८२६ ॥ आजौ तमनुजग्मुस्ते यैरगण्यन्त वैरिणः । तिर्यञ्चो लक्ष्यतां यातास्तेषां प्राणास्तृणान्यपि ॥ २८२७ ॥ संप्रविष्टो मुखान्मृत्योः कैश्चिन्मार्गः स निर्गतः । तिमेः संमीलितास्थस्य श्रोत्ररन्ध्ररिवोदकम् ॥ २८२८ ॥ शश्वत्कुर्वन्परावृत्तीः श्रमशान्त्यै विनिर्गतः । प्रक्षीणभूयिष्ठबलो लब्धोत्सेको रिपावभूत् ॥ २८२९ ॥ पृष्ठतः स पपाताथ चतुष्कः पुष्कलैलैः । साहायकागतं प्राक्स यं स्वं कंचिदमन्यत ॥ २८३० ॥ तस्योभयमुखस्यारिसैन्यस्याहेरिवेक्षणात् । न संरम्भे शिखण्डीव परं ताण्डवितोभवत् ॥ २८३१ ॥ तौ व्यूहावथ पर्यायैर्मुखपृष्ठं प्रदर्शयन् । सोक्षिणोधुधि मन्थाद्रिर्मथनेब्धितटाविव ॥ २८३२ ॥ कीलनिश्चलयो_म्यन्नसद्वान्तरे द्वयोः । कुविन्द इव"...."तुरंगमतुरान्वितः ॥ २८३३ ॥ भासः प्रत्यग्रहीत्तस्य तमेकपृतनावयम् । एकतोम्भोधरं द्वीपस्येव कूलबिलोद्गमः ॥ २८३४ ॥ तेन वैरिचमूश्चक्रे लुलितायुधकुण्डला । क्रीडता चण्डवेगेन पुरुषायितुमक्षमा ॥ २८३५ ॥ १ रयम् इति स्यात् ।

२४६ राजतरङ्गिणी । त्रासपाण्डून्द्विषां वक्रकुम्भान्स्वेदाम्भसा चितान् । स कुर्वन्भूभुजं जाने भूयो राज्येभ्यषेचयत् ॥ २८३६ ।। स च पाहिरिश्चास्तामन्योन्यस्य क्षपाक्षणे । सज्जौ मात्रिकवेतालाविव रन्ध्रगवेषिणौ ॥ २८३७ ॥ साहायकागतान्साक्षीकृतश्मापतिसैनिकान् । अन्येयुः सोकरोच्छत्रु वनमार्गावगाहिनम् ॥ २८३८ ॥ पर्यस्तशौचान्संचिन्त्य त्रिल्लकादीनथाययौ । सजपालस्तृतीयस्मिन्दिवसे रिल्हणान्तिकम् ॥ २८३९ ॥ नृपप्रतापग्लपितः स ताभ्यां पर्यशोष्यत । वनान्तः शुचिशुक्लाभ्यां घुणक्षीण इव द्रुमः ॥ २८४० ॥ चितानल इवासारैर्युद्धैः शममनाश्रितः । उदयेन शनैर्निन्ये चतुष्कोपि मितोष्मताम् ॥ २८४१ ॥ दारदं """बैलं दृप्येद्धेमसंनाहवाहिभिः । हयैरवरुरोहाद्रिकुहरादाहवोन्मुखम् ॥ २८४२ ॥ तुरुष्कलोकेनाक्रान्तान्देशांस्तद्वशमीयुषः । शङ्कमानैर्जनैर्शाता कृत्स्ना म्लेच्छावृतेव भूः ॥ २८४३ ॥ प्रयाणमात्रान्तरिते धन्ये द्वारपतावपि । साहसं निःसहायस्य तत्खङ्रग्रतोभवत् ॥ २८४४ ॥ ज्वलत्कनकसंनाहं तत्सैन्यं स द्विषोरुधत् । कचज्वालावलिं दावं सनिर्झर इवाचलः ॥ २८४५ ॥ विधूय जयचन्द्रादीनग्रप्रस्थानरोधिनः । बलबाहुल्यदीप्तास्ते व्यगाहन्ताहवावनिम् ॥ २८४६ ॥ तेषां हयसहस्राणि त्रिंशद्विशतुरंगमैः । रंहसा प्रतिजग्राह निजग्राह च गर्गजः ॥ २८४७॥ १ साक्षीकृत्य इति स्यात् । २ तद्बलं दृप्यत् इति स्यात् । aan अष्टमस्तरङ्गः। २४७ तस्यासुहृद्भिर्ददृशे पौरुषं तदमानुषम् । एकैकस्याग्रतो यत्स वैश्वरूप्यमिवादधे ॥ २८४८ ॥ अश्ववङ्कामविन्यस्तवक्रास्ते विद्रुताः क्षणात् । जगाहिरे कापुरुषा गिरीन्किपुरुषा इव ॥ २८४९ ॥ अभूमिज्ञतया शाठ्याच्चैष जातः पराभवः । श्वस्तदस्मान्पुरस्कृत्य जयं प्रत्याहरिष्यथ ॥ २८५० ॥ इत्युक्ता राजवदनजयचन्द्रादिभिर्निशि । तथेति मिथ्याकथयन्दारदा विद्वोन्मुखाः ॥ २८५१ ॥ युग्मम् ॥ प्रवेश्य धन्यद्वारेशौ दूरं बलहरो बली । ऐच्छत्सन्नभिसंघातुं रुद्धवा पाश्चात्यपद्धतीः ॥ २८५२ ॥ स्कन्धावारेण साधं च दरदां राजबीजिनाम् । विधातुं विदधे बुद्धि तं ततस्तारमूलके ॥ २८५३ ॥ चिकीर्षति ततस्तस्मिन्मत्तेष्वन्धेषु दस्युषु । उत्सेहे साल्हणिः कृत्स्नं राज्यं निश्चितनिर्जितम् ॥२८५४॥ जयाभावेप्यनन्तेहक्सामन्तसहितांस्ततः । भव्योसि भवितेत्येवं विचिन्त्योत्सिषिचे च सः ॥२८५५॥ पद्मोन्माथाद्विरददनैरप्रियैः पद्मबन्धो- रिन्दो स्पर्धिन्युदयति वपुः खण्डशः स्वं भ्रियेत । तापस्त्यज्येत च रुचिरमाभागिभिः सूर्यकान्तै- भद्राभद्रं व्यसनसमये संभवेदप्रतय॑म् ॥ २८५६ ॥ यो डामरतया भिक्षोः शश्वत्कृच्छ्रेप्युपेक्षणम् । टिक्कादीनां च कौटुम्ब्याभृभर्तुर्दोग्धृमूर्धनि ॥ २८५७ ॥ १ सहितं इति स्यात् ।

२४८
राजतरङ्गिणी
अलवन्यतयानन्यसामान्याश्चर्यवर्धनात् ।
ततः कच्छोपयोगाच्च विश्वासस्येव मूर्धनि ॥ २८५८ ॥
तौ नागराजवदनौ व्यसनावसरे तदा ।
चित्रं स्वकार्यतात्पर्यादद्धतादरतां गतौ ॥ २८५९ ॥
तिलकम् ॥
स्वयं विधेयं नागोन्यकृतं तं वीक्ष्य विप्लवम् ।
अदूरमर्थमन्येन कृतं कविरिवाशुचत् ॥ २८६० ॥
माभृद्विपक्षं स्वं पक्षीकर्तुं कृप्ताननं ततः।
संत्यज्य राजवदनं मां भजस्वेत्यभाषत ॥ २८६१ ॥
संप्राप्तं वः प्रतीक्षध्वं तेजो बलहरात्मजम् ।
युग्याधिरूढं किं नारीमेव तां यामिको यथा ॥ २८६२ ॥
इति ते संदिशन्तं च व्यहसन्संविहाय तम् ।
कामधेनुसमं नागं छागाश्लेषाद्विधि" यत् ॥ २८६३ ॥
सर्वः स्वकार्यतात्पर्यात्प्रवर्तेत प्रियाप्रिये ।
स्नेहवैरेन्यदीये तु न किंचिदधिगच्छति ॥ २८६४ ॥
ज्योतिस्तर्जितकान्ति दन्तयुगलं बाध्यं सुधादीधिते-
र्दानास्वादधिया प्रिया मधुलिहां कुम्भस्थली कुम्भिनः ।
वा" स्यैष विरोधभाक्सरसिजस्येत्यत्र नेन्दौ रति-
स्तस्याप्यायकृतो हितोयमिति नाप्यस्य द्विरेफा द्विषः२८६५
प्रतिष्ठालोउनं कर्तुं ततो बलहरस्य सः।
आजन्म वैरं संरेभे तेन भूभृद्धितेच्छया ॥ २८६६ ॥
स तथा दारदान्मन्नान्नभिन्नो भूभुजैष वः ।
सभोजानाजवदनो हन्यादित्यभ्यधान्निजैः ॥ २८६७ ॥
दरदाजानकानीतनेतारौ कम्पनापती ।
प्रख्यातक्षेमवदनमशुभिधावुभौ ॥ २८६८ ॥

अष्टमस्तरङ्गः। २४९ । त्रस्यन्नोजसनामा च कोटेशो मन्त्रित रहः । ब्रुवाणास्तद्यहस्यन्त भोजेनान्तरचेदिना ॥ २८६९ ॥ स्फाटिकेनेव सैन्येन तेनाने रुद्धमप्यथ । दिधक्षुराजार्कमहो विडुसीहेन्धनेपतत् ॥ २८७० ।। पार्थिवानर्थदुश्चिन्तामययक्ष्मपरिक्षतः। स यत्कृष्णक्षपाक्षीणसोमसाम्यं समाययौ ॥ २८७१ ॥ रोगग्रस्ते रणप्रष्ठे पृष्ठगोप्तरि भर्तरि । तथाभियोज्ये स्थाने च भयजर्जरतां गते ॥ २८७२ ॥ आहारस्थं बलहरं विहाय निखिलास्ततः । पलाय्यत तैरन्येधुर्विगाह्य हरिभिगिरीन् ॥ २८७३ ॥ युग्मम् ॥ दृष्ट्वा बहुमतं प्रातरागन्तारः पुनर्वयम् । कथयित्वेति संप्रार्थ्य साल्हणि सह तेनयन् ।। २८७४ ॥ प्राक्पीतकोशो वैवश्यात्स तेषामनुगोभवत् । भ्रष्टकार्यस्तु वैह्वल्यं श्वभ्रे मजन्निवादधे ॥ २८७५ ॥ मुहुः सर्वशिरोद्रिक्तरक्तपूर्णमिव ज्वलन् । अवरोहदनच्छाम्बुसोपानाश्मनिभं मुहुः ॥ २८७६ ॥ ज्ञातेन पतितेनैव मुहुर्योन्ना महीसमम् । बजतस्तस्य वैलक्ष्यादलक्ष्याक्षमभून्मुखम् ॥ २८७७ ॥ दध्यौ च धितो ये शश्वत्प्रभावं वयमीदृशम् । राज्ञो दृष्ट्वाप्यनात्मज्ञा जानीमो मर्त्यधर्मताम् ॥ २८७८ ॥ प्रतिभाप्रौनिर्भाततत्त्वानां नान्यथा शिरः। महाकवीनामेतादृक्प्रतापानलवर्णने ॥ २८७९ ॥ १ पलायिषत तेन्येयुः इति स्यात् । २ प्रौढि इत्युचितम् । ३ गिरः इत्युचितम् ।

२५० राजतरङ्गिणी राज्ञः प्रतापशिखिनः कणाः क्षोणौ न सन्ति चेत् । तत्कस्माद्वयमायाताः पदन्यासेप्यधीरताम् ॥ २८८० ॥ अनेकशोङ्गैर्वीराणां पीतधाराम्बुडम्बरे । शोषः प्रादुष्कृतो न स्यात्तज्ज्वालासंज्वरं विना ॥२८८२॥ किमन्तरेण तद्भूममालान्ध्यं प्रोन्मिषदृशः । मार्गामार्गविभागस्य परिज्ञाने विमूढता ॥ २८८२ ॥ मधुमत्यास्तटेन्यस्मिन्विवर्त्य दरदः स्थितान् । वीचीजवनिकाच्छन्नः सोवाप्याथ तटेवसत् ॥ २८८३ ॥ क्रमादुत्खातखेदस्तैर्नीत्वा स्वशिबिरान्तरम् । तत्रैष्यतेति संधातुं रोहद्रोहः स्पृहान्तरैः ॥ २८८४ ॥ नृपं तेषां ह्यगण्यार्थवर्षिणं नयनैपुणात् । उपजीवितुमिच्छाभूत्तद्रक्षणवाणिज्यया ॥ २८८५ ॥ नानेहा विग्रहस्यायं प्रत्यासन्नो हिमागमः । मधुमासि विधास्यामः पुनरारब्धिमुत्तमाम् ॥ २८८६ ॥ कालक्षेपेक्षमत्वं चेद्भुट्टराष्ट्राध्वनाधुना । त्वान्तर्निध्मो बलिनस्त्रिल्लकस्योपवेशने ॥ २८८७ ॥ राजानं राजवदनः श्रितस्तैरित्यसावतः । उक्त्वैष्यतः स्वराष्ट्रान्तर्युक्या बन्धुं नराधमैः ॥ २८८८ ॥ तिलकम् ॥ अपि राजपुरीयाणां कौटिल्यं तैहि जीयते । दैर्घ्य निदाघदस्राणां वियोगदिवसैरिव ॥ २८८९ ॥ तथायातमुपालेभे दूतैर्बलहरोथ तम् । प्रहौ निहितवांस्त्वस्मीति त्रोटितवटाकरः २८९० ॥ १ द्रोहस्पृहातुरैः इति स्यात् । २ घस्राणां इत्युचितम् ।

अष्टमस्तरङ्गः।
२५१
उत्साहादाहवस्थोपि स तथा गार्गिमनिमम् ।
आयान्तं च नृपानीकमु""हान्न व्यचिन्तयत् ॥ २८९१ ॥
अकस्माद्विद्रुतदरगाजभोजादिवार्तया ।
न व्यदीर्यत यद्धैर्यपर्याप्तेस्तत्किलाङ्कनम् ॥ २८९२ ॥
आडम्बरालम्बनस्य भेदेप्यच्छिन्नविग्रहः ।
ययुद्धोद्धतं सिध्येत्तत्कस्यामानुषं विना ॥ २८९३ ॥
कालानुरोधात्संधित्सू धन्यद्वाराधिपावथ ।
सोयोजयाद्विलम्बन भोजप्रत्यागमाशया ॥ २८९४ ॥
ततोलंकारचक्रः स नेतुं साल्हणिमाययौ ।
ज्ञातेयाहारदावेत्य प्रार्थितापरिपन्थिनीः ॥ २८९५ ॥
बुद्धा तदनुबन्धेपि द्रोहनिर्बन्धिनीः सभाः ।
अग्रहीन्मार्गसेत्वने निधनाद्यवसायिताम् ॥ २८९६ ॥
भृत्यैः सह युवप्रायैर्वीक्ष्य तं मर्तुमुद्यतम् ।
दरातुरं ददाजसैन्यं तदैन्यमाययौ ॥ २८९७ ॥
व्यपोहन्तीव लहरीबाहुभिः कलह सरित् ।
कल्लोलास्फालनोल्लापैर्निनिन्देव दरद्वलम् ॥ २८९८ ॥
हपितः स्वावरोधैश्च सेयश्च म्लेच्छपार्थिवैः ।
सैन्यैः कदनभीतैश्च विड्डसीहोथ तं जहौ ॥ २८९९ ॥
पुरःसरैर्भग्नसेतुपालैः पारं परं ततः ।
विद्रावितानि स प्राप भिन्दस्तूर्यरवैर्दिशः ॥ २९०० ॥
असामर्थ्य वरूथिन्या स्वस्य चार्थितसंधिना।
आनीतो विड्डुसीहेन दूतः प्रोक्तोथ भूपतेः ॥ २९०१ ॥
अमानुषानुभावेन तावत्तत्स्वामिना भवेत् ।
प्रातिसीमिकसामन्तबुद्ध्या स्पर्धासु धीवरः ॥ २९०२ ॥

२५२ राजतरङ्गिणी अश्रद्धेयानुसंधान एव यान्तो यमान्तिकम् । जयराजोस्मि वामुष्य प्रभावावेदको दिवि ॥ २९०३ ॥ तेन दिव्यानुभावेन निर्जयोपि जयो मम । पान्थस्य कूलविभ्रंशात्तीर्थे पतनमुन्नतिः ॥ २९०४ ॥ अथायातः पुरे स्थित्वा कंचित्कालं निजेविशत् । यमराष्ट्रमसत्कीर्तिलसद्वन्दनमालिकम् ॥ २९०५ ॥ अवुद्धा भोजमायान्तं संधिं तत्रैव वासरे। सार्थ द्वारेशधन्याभ्यां स राजवदनोप्यगात् ॥ २९०६ ॥ अश्वागतं तं व्यावृत्य षष्ठं प्रष्ठं मनस्विनाम् । आदाय तावताभ्यर्ण प्राविक्षातां क्षमापतेः ॥ २९०७ ॥ अहंकाराद्विमोहाद्वा विमर्षेण बहिष्कृतौ । उपेक्षामक्षते भोजे भजते राजवीजिनि ॥ २९०८ ॥ आहूतस्तु हतोत्कण्ठाभाजापि प्रभुणासकृत् । अनिःशेषीकृतारातिर्न व्यावर्तत रिल्हणः ॥ २९०९ ॥ प्रभोः पुरस्तात्कार्यान्ते तेन स्थातुमशक्यत । प्रसादाकाङ्क्षिणा सूदेनेव भोक्तुं नहि क्वचित् ॥ २९१० ॥ द्विधा कृता येन युद्धे पृथ्वीहरसुतद्वयी। मगधेन्द्राकृतिर्भीमेनेव कार्याक्षमाभवत् ॥ २९११ ॥ मातृकुक्षिमिव स्वोर्वी तेनाजौ लोष्टकः कृतः । खाण्डवे खण्डितः सर्प इव गाण्डीविनाविशत् ॥ २९१२॥ भजंश्चतुष्कः संकोचं दुर्भेदं त्रिल्लकालयम् । स्वकायकपरं दर्पोज्झितः कूर्म इवाविशत् ॥ २९१३ ॥ निःशेषीकृतकार्यः स शौर्येणैव महीपतेः । पार्श्व पादनखज्योतिःपट्टबन्धाप्तये ययौ ॥ २९१४ ॥ १. क्षतः इत्युचितम् । RE । ।

अष्टमस्तरङ्गः।
२५३
प्रतापैर्नृपतेरित्थं विप्लवः शोषितोप्यभूत् ।
अमात्यमतिदोषेण भूयः प्रादुष्कृताङ्कुरः ॥ २९१५ ॥
दण्डाही राजवदनो दानेनाप्यायितो यतः ।
निर्भयं भोजमायान्तं प्रतिजग्राह तं पुनः ॥ २९१६ ॥
उत्कोचपरिणामान्तं सोथ स्थापयति स्म तम् ।
दिन्नाग्रामाभिधे स्थाने खाशकानां निवेशने ॥ २९१७ ॥
इत्येनमब्रवीच्छ्रुश्चेदायास्यो नानुगामिनः ।
मितानुयायी द्वारेशः प्रायास्यद्गोचरान्मम ॥ २९१८ ॥
सोत्कम्पः साहसस्रोतःपातेनीयत नौरिव ।
त्रिल्लकेनापि स स्थैर्य नीतिरजुप्रसारणात् ॥ २९१९ ॥
व्यसनोल्लासरूवश्यं विशांपत्युर्व्यचिन्तयत् ।
येनाव्यवस्थाप्राथम्यं स जाल्मः पुनरग्रहीत् ॥ २९२० ॥
अलंकारादिभिः स्वास्थ्ये स्थाप्यमानोपि मत्रिभिः ।
अत्यजन्नैव कौटिल्यमजितात्मेव दुर्ग्रहम् ॥ २९२१ ॥
गण्डं वैद्य इवापाकं तमवज्ञाय पार्थिवः।
पक्कगण्डानिवारेभे रिपून्पाटयितुं परान् ॥ २९२२ ॥
आगन्तव्यं त्वया पश्चाद्यात्स्वस्मासु प्रकम्पताम् ।
भोजमुक्त्वेत्यलंकारचक्रोगाद्विप्लवोद्यतः ॥ २९२३ ॥
तं जयानन्दवाडाख्यो दस्युरानन्दवाडजः ।
अन्वयुर्विक्रमोदनाः परेपि क्रमराज्यजाः ॥ २९२४ ॥
अग्रस्थितो राजगृह्योलंकारः स्वल्पसैनिकः ।
वालुकासेतुकल्पस्तं जज्ञे सिन्धुरयैरिव ॥ २९२५ ॥
स तु राम""राद्याजिक्षोभसंभावनां विशाम् ।
उदपादयदेकाकी कुर्वन्बहुभिराहवम् ॥ २९२६ ॥

राजतरङ्गिणी
आपानरभसक्षुभ्यद्रक्षःसंभ्रमदक्षिणम् ।
रणं जगाम गजात्वमञ्जसास्रपरिस्रुतः ॥ २९२७ ॥
स तूलकूटमिव तत्कटकं विकटं द्विषाम् ।
किमन्यत्प्रेरयत्कापि प्रभञ्जन इवाञ्जसा ॥ २९२८ ॥
ग्रासाय गृध्रकङ्कादिपत्रिवातस्य तत्यजे ।
आनन्दवाडसूनुः स हत्वा तेनेषुणा रणे ॥ २९२९ ॥
भोजस्योत्थातुकामस्य जिघृक्षोः क्ष्माभुजश्च तत् ।
पङ्कप्रधावत्क्रकरव्याधन्यायो व्यवर्धत ॥ २९३० ॥
अनुड्डयनसामर्थ्यः श्राम्यति ऋकरो यथा ।
धावन्पङ्के पतन्व्याधोप्यनुधावन्पथान्वहम् ॥ २९३१ ॥
प्रसङ्गे साहसस्यैवं भोजः क्लैब्यमगात्सदा ।
तत्प्राप्तुमिच्छु_पोपि मतिमोहं मुहुर्मुहुः ॥ २९३२ ॥
युग्मम् ॥
दिन्नाग्रामस्थिते भोजे स राजवदनोप्यगात् ।
पुनः किं चौरचण्डालाः श्रेयसीत्युक्तिमीशितुः ॥ २९३३ ॥
डामरा भग्नसंघाता भूयः पूर्वाधिकां ततः।
कन्यां ते प्रथयामासुर्मुहुर्या शौर्यशालिनः ॥ २९३४ ॥
ते द्वारपतिमायातं सोढुं शेकुर्न केवलम् ।
अशक्यैरावैर्यावत्तात्पर्यादुवेजयन् ॥ २९३५ ॥
तेषां त्राणार्थमन्येषामुत्थानार्थमथाययौ ।
कृष्टोलंकारचक्रेण नीविं दत्त्वा स साल्हणिः ॥ २९३६ ॥
तेषां परेछुः पार्श्व स यियासुरसकृद्यदा।
हायाश्रमं श्रान्तसैन्यो द्वारेशोबुद्ध तं तदा ॥ २९३७ ॥
अजानन्निव तेषां स व्याजसंधिं निबद्धवान् ।
मिषात्कुतोप्यगात्तिर्यस्थितं संतारमूलकम् ॥ २९३८ ॥

अष्टमस्तरङ्गः॥ द्रुतम् । तस्मिंस्तत्र स्थिते दूरात्कुतस्त्यामपि पूत्कृतिम् । श्रुत्वा भोजोवदत्सायं किमपि व्याकुलीभवन् ॥ २९३९ ॥ निजैर्विहस्यमानोपि त्रासात्तस्मादहेतुकात् । व्यरंसीत्संभ्रमान्नासौ चक्रे सजास्तु वाजिनः ॥ २९४० ॥ त्रस्तोलंकारचक्रोथ दशग्राम्यग्रतो क राजपुत्र इत्येवं कथयित्वा पलायितः ॥ २९४१ ॥ उदतिष्ठत्ततो ग्राममध्यात्तूर्यध्वनिर्महान् । आस्कन्दावेदकः सेनानिनादश्च क्षपामुखे ॥ २९४२ ॥ अलक्षितो ध्वान्तमध्ये भेजे भोजः पलायनम् । श्वःकर्तव्येष्वलंकारचको युद्धाय संदधे ॥ २९४३ ॥ दत्तो द्वाराधिपेनाग्निर्गिरिवर्त्म प्रकाशयन् । ध्वान्तध्वस्तात्मनां तेषां तदाभूदुपकारकः ॥ २९४४ ॥ द्वाराधिपस्य क्षाम्यन्तः संधि भोजप्रतीक्षया । श्रुत्वा तमथ वृत्तान्तं भङ्गं ते डामरा ययुः ॥ २९४५ ॥ असंत्यजन्नपत्यादिबन्धं धीरोच्चलाश्रयात् । आजि स भोजोलंकारचणामङ्गलावहम् ॥ २९४६ ॥ ........ .............................. भोजस्तत्राप्यभूत्तर्षान्नाहारादिसुखान्वितः ॥ २९४७ ॥ बाणाग्निजस्त्रिपुरनिर्दहने प्रतापः पाथोनिधेः प्रमथने वडवाग्निजन्मा । आसाद्य मन्दरनगेन समागमं हि न कापि पन्नगपतेः सुखसख्यमासीत् ॥ २९४८ ॥ क्षुत्पिपासाश्रमं हन्तुं प्राप्तः स्वविषयावनौ । अलंकारात्मजैर्भूयो बन्द्धं भोजोम्यलष्यत ॥ २९४९ ॥ FOR राजतरङ्गिणी पितुर्मतेन वुझ्या वा स्वया तत्तद्विधित्सतः। सोसिसंधाय निर्यातः प्रापाथ विषयान्तरम् ॥ २९५० ॥ ततो बलहरेणैव कृत्यं निश्चित्य कार्यवित् । अनास्थोन्यलवन्येषु दिन्नाग्रामं पुनर्ययौ ॥ २९५१ ॥ द्वाराधिपोहितोद्धारधीरोप्यत्रान्तरे क्षमः । चक्षुरोगेण भग्नाभियोगोकस्मायधीयत ॥ २९५२ ॥ भोजाय दातुमैच्छद्यो डामरस्ते सुते ददौ । पाण्डये गुल्हणाय राजजाय च निर्जितः ॥ २९५३ ॥ रोगोच्चण्डतया दण्डप्रयोगावसरे कृते । तत्र साम प्रयोज्यैव द्वारेशो विवशोविशत् ॥ २९५४ ॥ अभियोगक्षणे तस्मिन्ययौ भारसहः क्षयम् । दुर्नामकामयक्षामः षष्ठचन्द्रोपि गर्गजः ॥ २९५५ ॥ तत्रामयाविन्येवात्तोद्रेको तमनुजं निजम् । चक्राते वसुधां दुःस्थामास्कन्दाद्यैरुपद्वैः ॥ २९५६ ॥ त्रिल्लकः प्रबलैरन्यैः सहाभेदं प्रवर्धयन् । नाग्रहीद्विग्रहैकामः सान्त्वनामपि भूपतेः ॥ २९५७ ॥ षष्ठे निष्ठां गते रोगमने द्वारपतावपि । नियुक्तः इमाभुजा धन्यो निरगात्तारमूलकम् ॥ २९५८ ॥ भोजश्च्युतोमुतोन्येषां बलिनां गोचरे पतेत् । प्राप्तप्रतिष्ठो निस्तीर्णो देशाद्वासाध्यतां ब्रजेत् ॥ २९५९ ॥ इति संचिन्त्य सामाद्यैरुपायैस्तं जिघृक्षुणा । माभुजा मर्मसंरम्भो विदधे सोभियोगभाक् ॥ २९६० ॥ युग्मम् ॥ अज्ञातोदर्कवैषम्या दुर्नीतिः सा महीभुजाम् । व्यावृत्यायाधत छिनपुच्छाकृष्टेव पन्नगी ॥ २९६१ ॥ SAR Hindi । Yi । S RE अष्टमस्तरङ्गः। २५७ S बलिनं राजवदनं नृपं चावेत्य निर्बलम् । आभ्यन्तराश्च बाह्याश्च विक्रियां यत्क्रमाद्ययुः ॥२९६२ ॥ छिद्रान्तराणि सुलभानि सदैव हन्त पातालरन्ध्रसरणेरिव दण्डनीतेः । बढीभवन्प्रसरमन्तरसंप्रविष्टो यात्यप्रतय॑नियमात्पतनं भजेद्वा ॥ २९६३ ॥ भोगत्यागोर्जितो राज्ञा क्षीणार्थोसौ बजेदितः । उक्त्वेत्यमुं बलहरस्तस्य वृत्तिमकारयत् ॥ २९६४ ॥ तां लब्धप्रसरां मायां राजपक्षे विलोक्य सः । युत्यन्तराणि संलेभे प्रयोक्तुं नीतिकौशलात् ॥ २९६५ ॥ संधि पदे पदे बद्धा सार्ध बलहरादिभिः । कुर्वन्गतागतं धन्यो जनस्यावाप हास्यताम् ॥ २९६६ ॥ शश्वद्विवर्तमानस्य राजकार्यस्य नावधिम् । अरधघटीयत्रगुणस्येवाससाद सः॥ २९६७ ॥ तस्य चक्र इवोद्धान्ते कर्तव्ये तैक्षण्यभागपि । भेत्तुं प्ररोढुं वाप्यासीन्नयो बाण इवाक्षमः ॥ २९६८ ॥ नीतराजद्वयोव्यग्रः शेषस्यैकस्य विग्रहे । चतुरङ्ग इव क्रीडन्विवशोभूद्विशांपतिः ॥ २९६९ ॥ बद्धलक्ष्यः प्रदानार्थ ततश्च च्छमना परान् । भञ्जतो वाजिपत्त्यादि नाप्यासीन्नाप्यजीगणत् ॥ २९७० ॥ दस्युद्यतसङ्गेषु शीतापायप्रतीक्षिषु । नागाद्वलहरः स्वेषामुन्मूलनमशङ्कत ॥ २९७१ ॥ सामर्थ्याशिथिलामित्रो भावे सूत्रितविप्रिये । तस्मिन्धावति धन्ये च शश्वत्सोवेपताकुलः ॥ २९७२ ॥ १ मित्रभावे इति स्यात् । ३३ २५८ राजतरङ्गिणी संमन्य सार्ध भोजेन धन्यं समदिशत्ततः । बद्धार्पयत नागं मे भोजं दास्यामि वस्ततः ॥ २९७३ ॥ भूरिकार्यकृतं स्वस्य बन्धनार्थावहं रिपोः । धन्यो व्यसनवैवश्याद्धियं नाबुद्ध तस्य ताम् ॥ २९७४॥ पार्थिवाः स्वार्थसंसिद्धित्वराविरतसत्त्वया । धियाविशुद्धं यत्किचित्कुर्वन्तीति न नूतनम् ॥ २९७५ ॥ काकुत्स्थोपि प्रियाप्रार्थी व्यग्रः सुग्रीवसंग्रहे । वीरोविधेयं स्वार्थान्ध्यावधं व्यधित वालिनः ॥ २९७६ ॥ संहृत्य सत्यनित्यत्वं राज्यगर्वाविशुद्धधीः । आचार्य पाण्डवो राजा धर्मनिघ्नोप्यघातयत् ॥ २९७७ ॥ आ भिक्षुविग्रहान्नित्यद्रोग्धुर्नागस्य विग्रहः । स्वार्थापेक्षी तटस्थस्य तत्कालं न विगर्हितः ॥ २९७८ ॥ अगृहीत्वा तु भूभी कंचिद्भोजार्पणे पणम् । सोवष्टम्भीत्यभूत्तस्मिन्मन्युर्मतिमतां मनाक् ॥ २९७९ ॥ यथा तत्कृत्यमायत्यां हितं जातं तथैव चेत् । विचार्याकारि राज्ञा तच्छेमुषीयममानुषी ॥ २९८० ॥ विभिन्न इव भोजस्तु नागं समदिशद्यथा । दित्सुर्बलहरं राज्ञे त्वदर्पणपणेन माम् ॥ २९८१ ॥ बन्धमश्रद्दधानोस्य राज्ञस्त्रासादसौ श्रयेत् । स विदन्नथ माध्यस्थ्यमिति तं हि तथावदत् ॥ २९८२ ॥ षष्टचन्द्रे गते निष्ठां जयचन्द्रेण पार्थिवः । संगृहीतेन तं नागं पार्श्व प्रावेशयत्ततः ॥ २९८३ ॥ पक्षीकृतः श्माभुजायं हन्यादस्मान्भयादिति । चलन्तमपि तं भोजस्तन्मत्रिणमरोधयत् ॥ २९८४ ॥ १ वहां इति स्यात् ।

अष्टमस्तरङ्गः। २५९ तथेति जानन्नपि तं कृष्टोस्म्येतैरनीशताम् । यातः किमपि हन्तेति दूतै गोप्यभाषत ॥ २९८५ ॥ नियतं नियतिस्रोतोगर्भ जन्तोनिमजतः । कथ्यमानं तटस्थेन श्रोतुं न श्रवणौ क्षमौ ॥ २९८६ ॥ नागे बद्ध तत्कुटुम्बै तैरेत्य समाश्रितः । मायाशाली बलहरो दुर्दशः समपद्यत ॥ २९८७ ।। भोजनिष्क्रयविक्रेयं तमादाय ययौ ततः। रिल्हणेन समं धन्यो धावन्बलहरान्तिकम् ॥ २९८८ ॥ सान्तौँसो मोहयंस्तौ प्राङ्गागं दत्त मे ततः। भोजं दास्यामि व इति ब्रुवन्भ्रामयति स्म सः ॥ २९८९ ॥ बद्धमूलतया दूरं दुर्धर्षो योद्धमागतम् । सर्व तच्च तयोः सैन्यं निन्ये कृत्यविधेयताम् ।। २९९० ॥ वर्षयुद्धापकर्षादि "खिन्नौ तौ ततोभ्यधात् । इतोपसृतयोः कुर्या युवयोर्मतमित्यसौ ॥ २९९१ ॥ एकप्रयाणान्तरिते स्थितयोः पथि चाकरोत् । कार्यान्तःपातवैवश्ये तयोर्मतिविमोहनम् ॥ २९९२ ॥ काचिद्बलहरस्यासीत्पर्याप्तिधैर्यसत्त्वयोः । निश्चोद्याद्यतने काले वीराणां विरलैव या ॥ २९९३ ॥ तथा हारितमार्गाय साहसात्पार्श्वमीयुषे । द्रुह्यति स्म न धन्याय लोभागोजाय नापि यः ॥ २९९४ ॥ मतिमोहेन नागं चेद्दद्युमें सचिवास्ततः । कुयों तं स्वपदेभ्यर्थ्य चकारेति च चेतसि ॥ २९९५ ॥ नागासांनिध्यलब्धद्धिदायार्थ गूढवैकृतः । भ्रातृव्योपातयन्नागं धन्याद्यैर्लोष्टकाभिधः ॥ २९९६ ॥ १ श्रवणे क्षमे इत्युचितम् । २ दुर्धर्षः इति स्यात् ।

२६० राजतरङ्गिणी सचिवैर्निहते नागे निर्हेत्वहितमोहितैः । दुर्मत्रितं नरपतेः स्वैः परैश्च व्यगीत ॥ २९९७ ॥ स्वजातीयवधक्रोधाद्विरुद्धः सर्वडामरैः । नागानुगैश्वाश्रितोभूत्ततो बलहरो बली ॥ २९९८ ॥ देहिनो व्यसनापातवैवश्याश्रमतोपथि । अकार्य कुर्वतः कार्य सिद्धः संसाधयेद्विधिः ॥ २९९९ ॥ उद्यदुःसहवित्ततानवतया बद्धावधाने मन- स्युन्मार्गभ्रमणेवशस्य रभसाच्छ्भ्रे परिभ्राम्यतः । अन्योपाहितकोशपृष्ठलुठनात्संदर्शिताङ्गक्षते- जन्तोर्हन्त तनोति दुर्गतिशमं रम्यानुलोम्यो विधिः॥३०००॥ तथा निरनुसंधानं नागं धीसचिवैर्हतम् । नावुद्ध भोजः संजातत्रासस्त्वेवं व्यकल्पयत् ॥ ३००१ ॥ लब्धवर्णस्य नावर्णावहं कदमीशितुः । अलब्धपणबन्धस्य वाञ्छितात्यै विशङ्कयते ॥ ३००२ ॥ यश्च युद्धमिति व्यग्रं हर्षादाद्यामवापि यः । भोजमन्यकरस्थोयमशक्यो ह्यन्यथा मम ॥ ३००३ ॥ उक्त्वेति मोयन्धन्यमुख्या"...."रिम संदिशेत् । इति मां राजवदनः स्थितस्तन्नूनमन्यथा ॥ ३००४ ॥ युग्मम् ॥ आ भिक्षुविप्लवाद्रोहसुभिक्षस्यानुबन्धिनः । किं राजवदनोप्येष लोभात्संभाव्यते न भूः ॥ ३००५ ॥ अथाविशङ्किनस्त्रासव्युदासायास्य खाशकाः । रक्ताईकृत्तिन्यस्तानि कोशपानं प्रचक्रिरे ॥ ३००६ ॥ प्रादुष्कृतभियः क्षिप्तरक्षिणोमुष्य तिष्ठतः । विश्वासार्थ बलहरो विरलः पार्श्वमाययौ ॥ ३००७ ॥ LA S । R Diet का HA -- Facom अष्टमस्तरङ्गः। २६१ अमात्यमतिजाड्येन नष्टे कृत्येथ कृत्यवित् । स्वयमुत्तम्भने नीतः संरेभेसंभ्रमो नृपः ॥ ३००८ ॥ चैत्रः पादपमण्डलस्य तटिनीतोयस्य वर्षागमः सत्कारो गुणगौरवस्य नयनप्रेम्णोन्तिकासेवनम् । ऐश्वर्यस्य महोद्यमो जयविधेर्गाढाविषादग्रहः कर्तव्यस्य च सिंहदेवनृपतिर्लानौ न तत्त्वावहः ॥३००९॥ प्रवाहेणेव कृत्यस्य हठेन हरतोन्तरे । प्रातिलोम्यं श्रितवता पारं गन्तुं न पार्यते ॥ ३०१० ॥ अतो धूर्तो नृपो मुग्ध इति ज्ञातोरिभिर्मुधा । मौग्ध्यं प्रदर्शयंस्तेषां यतते स्माभिसंधये ॥ ३०११ ॥ स हि यत्तत्प्रदानेन भजन्भोजान्तिकस्थितीन् । तस्याविश्वासपात्रत्वं संत्रस्तस्याभितोनयत् ॥ ३०१२ ॥ गन्धेन वासितोत्सङ्गाः कुरङ्गार्यङ्गजन्मना । प्रज्वलन्त्यो विभाव्यन्ते तटिन्योपि कवाटिभिः ॥ ३०१३ ॥ नीडस्यान्तः सरन्ध्रस्य सर्वतोहि भयं स्पृशन् । जाले द्वाराप्रवद्धे च निर्गमे पतनं विदन् ॥ ३०१४॥ ताम्येद्यथा खगो भोजस्तथान्तःस्थेष्वविश्वसन् । बहिर्भूपेन रुद्धाध्वा प्रस्थानेप्यमजद्भयम् ॥ ३०१५ ॥ युग्मम् ॥ तदा स दौःस्थ्यातिथितां प्राप्तः प्रेक्षत न क्षणम् । मनोविनोदनं किंचित्कृत्यं लोकद्वयोचितम् ॥ ३०१६ ॥ १ उत्तम्भनं नीतेः इति स्यात् ।

२६२ राजतरङ्गिणी उग्राभिषङ्गमनुषङ्गि परस्य दुःखं हन्ताश्लथं व्यथयति प्रसभाभावम् । बद्धः सरोजकुहरे विरहार्तनादै- श्चक्राभिधस्य मधुपोधिकमेति दैन्यम् ॥ ३०१७ ॥ रणे पूर्णव्रणाश्यानशोणितो लूनकुन्तलः । फेनोद्गार्याननः क्रन्दस्तेनैकः प्रेक्ष्यत द्विजः ॥ ३०१८ ॥ स पृष्टो विप्लुतैर्नीतः सर्वस्वं विक्षतं तथा । स्वं डामरैर्निवेद्यैनं निनिन्द त्रातुमक्षमम् ॥ ३०१९ ॥ स्वदौःस्थ्यातमनास्तस्य दुःखेन व्यथितोन्वहम् । घट्टिताव्रण इव प्राह स्मेति स सान्त्वयन् ॥ ३०२० ॥ गर्दाॉस्मि न ते ब्रह्मन्योनुग्राह्योहमीदृशः । विषमे वर्तमानश्चेत्यथ सोपि तमब्रवीत् ॥ ३०२१ ॥ दुर्ग्रहणामुना ब्रूहि कोर्थः पार्थिवपुत्र ते। सारासारविदो यूनः कुले जातस्य मानिनः ॥ ३०२२ ॥ प्राणान्संदेहमारोप्य प्रणम्य प्राकृताशयान् । पीडयित्वा विशः क्लेशैः कार्य किमिव पश्यसि ॥ ३०२३ ॥ यश्च ते प्रतिभात्येव जेतव्यो विदितो न किम् । अग्निशौचः स सारङ्गः परशौर्याग्निमजने ॥ ३०२४ ॥ यत्र शस्त्रशलाकापि विकला तद्विधीयते । इन्दीवरदलगोण्या घटनं स्फाटिकाश्मनः ॥ ३०२५ ॥ पृथ्वीहरावतारादिप्रत्यनीकिजितः परे। के नामास्य न संघर्षे क्षुद्रप्राया दरिद्रति ॥ ३०२६ ॥ किं दृप्य एव बुद्धापि कृत्यं द्वैराज्यजीविनाम् । भृत्याशयाः फणिग्राहिगृहीता इव भोगिनः॥ ३०२७॥ १ नीतसर्वस्वं इति स्यात् ।

अष्टमस्तरङ्गः। २६३ तु ध्रुवमपरथा मार्दवं क्रूरता वा.। जातैः क्षमावलयोद्धहे फणिकुलैधिग्भोगिडिम्बैर्मुधा व्यालग्राहिविकासितस्य कुहरैामस्य हा गृह्यते । एतान्भिक्षयितुं न तु प्रथयितुं ते जीविकायै जन- त्रासार्थ ननु कारयन्ति हि दृतेर्निर्मजनोन्मजनम्॥३०२८॥ इत्युक्तवन्तं तं सान्त्वयित्वा भोजो व्यसर्जयत् । तदेव चाशु व्याकोशविवेकः समपद्यत ॥ ३०२९ ॥ भव्यात्मत्वं प्रशममाहिमोल्लासने हन्त हेतु- भर्भावानां स्पृष्टं पादैरमृतमहसः स्यात्कठोरं हिमांशो- योति ग्रावाप्यहह रभसादार्द्रतां चन्द्रकान्तः ॥ ३०३० ॥ राजन्याभिजने जातोऽप्यलजत्वमशिक्षितः । सोन्तरं स्वस्य राज्ञश्च मुहुर्महदचिन्तयत् ॥ ३०३१ ॥ गुणैः शौर्यनयत्यागसत्यसत्त्वादिभिः प्रभोः । पूर्वेप्युर्वीभुजः खर्वा क्षुद्राः स्पर्धासु के वयम् ॥ ३०३२ ॥ तस्य प्रभावदीप्तेपि समये क्षान्तिशीतला । शक्तिः क्षयजडत्वेपि मुग्धानां नो महोष्मता ॥ ३०३३ ॥ श्वेडाग्नितापनिविडोरगसंगमेपि तुङ्गस्य चन्दनतरोरपि शीतलत्वम् । काले हिमर्तुपरिपिञ्जरसंज्वरेपि निम्नस्य कूपकुहरस्य महोष्मयोगः ॥ ३०३४ ॥ कुतोपि पर्ययात्कार्य सुप्तं नृपममुं विना । प्राप्य कस्य पुनः प्राप्यमप्यशुद्ध्या न बाधितुम् ॥ ३०३५॥ १ तदैव इत्युचितम् । २ अतिशीतलत्वम् इत्युचितम् ।

राजतरङ्गिणी भ्रष्टं निर्झरवारि शुभ्रमचलैः स्वीयेन भूयः क्वचि- ल्लभ्यं लभ्यमथाभ्रतः कलुषतादुष्टं प्रकृष्टं न तत् । निर्यनिर्भरनिम्नगाम्बु नभसः प्राप्येत नित्यं दद्ध- प्रालेयत्वमुपेत्य शुद्धिमधिकां नादेहिमाद्रेर्नगैः ॥ ३०३६ ॥ तदर्थमेव ग्रथितो योनों ग्रथितात्मनः । स तेन स्वस्थतां नेतुमार्थितो न स्पृशेद्रुषम् ॥ ३०३७ ॥ प्लोषाय योस्य दववह्निमदादमुष्मि- स्वस्थे स.तेन शिखिना ग्लपितः समीपम् । अभ्येति चन्दनतरोर्दववाह्निदाह- शान्त्यै यदि प्रियकृदेष न तस्य किं स्यात् ॥ ३०३८ ॥ समग्रो दुर्गतावर्हदपकर्तेव भूपतिम् । लोकनाथं तमुद्धर्तु धीरं धन्यः पुनः पुनः ॥ ३०३९ ॥ राजप्रसादनोपायान्वेषी बलहरान्तिकम् । राजदूतमथायान्तमेकमेकं व्यलोकयत् ॥ ३०४० ॥ दरद्देशं व्रजन्दृष्टवाक्प्राक्प्रज्ञातुमन्तिकम् । स नमन्तं तमानीय ततः सेर इवाब्रवीत् ॥ ३०४१ ॥ राज्ञः किमन्यसंधानैः संधिबन्धात्त्वसौ मया । प्राज्ञैर्हि भिषजा भोज्यमातुराय समर्प्यते ॥ ३०४२ ॥ तत्तस्याश्रद्दधानस्य नर्मसेरस्य जानतः । प्रत्ययोत्पादनं तैस्तैरालापैः किंचन व्यधात् ॥ ३०४३ ॥ निर्दम्भभाषित रूढविस्रम्भः स कथान्तरे । अथाभिगम्य राजानं स्तुवन्भोजमभाषत ॥ ३०४४ ॥ राजपुत्राभिजातस्य पादच्छायास्य लभ्यते । स्वर्णाद्रेरिव कल्याणप्रकृतेः पुण्यभागिभिः ॥ ३०४५ ॥ a म । ।

अष्टमस्तरङ्ग। २६५ अनुवृत्त्यातिमृद्यापि तस्यापोह्यत वैकृतम् । ज्योत्स्नयेव शरद्भानुपरितापौष्ण्यमम्भसः ॥ ३०४६ ॥ अपि स्मरसि चारुत्वे नियुक्तोऽसि महीभुजा । विशतस्ते दरद्देशमभूवं पुरतः पुरा ॥ ३०४७ ॥ ततो निवृत्तो वृत्तान्तं मुख्यमाख्याय तावकम् । कालं क्षेप्तुं कथादैर्ध्य नयन्मध्ये तमभ्यधाम् ॥ ३०४८ ॥ क्षुत्तृडध्वक्लामश्रान्तान्देव तानवलोक्य माम् । निन्दतः स्वानुगान्भोजो निर्भत्स्यैवं तदाब्रवीत् ॥ ३०४९ ॥ स दैवतमिवास्माकं कुलालंकरणं प्रभोः । वयं त्वसुकृतो यस्य नामुमः पादसेवनम् ॥ ३०५० ॥ गण्याः पर्यन्तनिःसारास्तत्संबन्धादिमे वयम् । चन्दनभ्रान्तिकृत्काष्ठं यत्स्यात्तद्गन्धवासितम् ॥ ३०५१ ॥ तच्छ्रुत्वैव दयार्द्रत्वं त्वयि यातः स लक्षितः। पृच्छन्पितेव किं गर्भरूपो वक्तीति मां पुनः ॥ ३०५२ ॥ तन्निशम्यैव भोजस्य द्रवीभूतमभून्मनः । सोन्तर्बाष्पोप्यपश्यत्तं सान्त्वयन्तमिवाग्रतः ॥ ३०५३ ॥ सुव्यक्तमात्रासंबोधमुग्धत्वेन विहीयते । तत्त्ववित्कारणशानादन्तःकरणवेदनम् ॥ ३०५४ ॥ अश्रद्दधानस्तामिच्छां भोजस्याकृच्छ्रवर्तिनः । प्रतिदूतीकृते तसिन्धन्यो न प्रत्ययं दधे ॥ ३०५५ ॥ देविताभूद्यथा नागवृत्तान्तेन भवेत्तथा । महीभुजं मोहयितुं मायया दीव्यते मया ॥ ३०५६ ॥ १ चारत्वे इत्युचितम् ।

राजतरङ्गिणी मा भूद्भिन्नोयमित्येवमुक्त्वा बलहरं रहः । व्याजार्जवेन भोजस्तु संधिबन्धाय तत्वरे ॥ ३०५७ ॥ युग्मम् ॥ तत्कालयोग्यसांचिव्यश्चक्रिकाचतुरस्तथा । तेनाशु दैशिकापत्यमेको दूत्ये न्ययोज्यत ॥ ३०५८ ।। स बालकतया नित्यस्वतत्रश्चक्रिकां स्वयम् । आचरोदिति नाशकां भोजे बलहरोभजत् ॥ ३०५९ ॥ पार्थिवः प्रार्थितः संधि दूतमाप्तं प्रतीक्षते । प्रत्यागतेन तेनेति ततो भोजोभ्यधीयत ॥ ३०६०॥ तत्रासन्निहितान्याप्तः स्त्रीत्वादप्रतिभामपि । धात्री नोनाभिधानां स्वां राज्ञोभ्यर्ण व्यसर्जयत् ॥३०६१॥ मृतेन पित्रा मात्रा च हीने तमनुयातया । मातृकृत्यं ययात्रासीच्छेशवे माननीयया ॥ ३०६२ ॥ पत्युः प्रीत्यै विसंधानध्वंसाकल्पादिकल्पनात् । सखीकृत्यं सपत्नीनां यया शान्तेय॑या कृतम् ॥ ३०६३ ॥ हासोल्लासो हि कार्याणां योग्यकृत्याप्तनिश्चयात् । न यां सुक्षत्रियां क्षमाभृत्संभ्रान्तां जातु वीक्षते ॥ ३०६४ ॥ श्वशुरेण प्रजाभिश्च कृतं राज्ञोभिषेचने । आशास्यं वा महादेवी पट्टबन्धं समाः ॥ ३०६५ ॥ अपत्यप्रियताभोगलोभभर्तृप्रसादनैः । प्रेर्यमाणाप्यकार्येषु बुद्धिर्यस्या न धावति ॥ ३०६६ ॥ स्वत्रान्यत्र च संधाने जाते भतुरभिन्नधीः । भाग्योदयेष्वनुत्सिता या चाखण्डितसद्रता ॥ ३०६७ ॥ १ हासोल्लासे इत्युचितम् । २ स्वस्यान्यस्य इति स्यात् ।

अष्टमस्तरङ्गः। २६७ आवाल्याद्भावविद्भर्तुः कुसृत्यनुसृतौ न सा। कार्यमध्यं विगाहेत मानाभिजनरक्षिणी ॥ ३०६८ ॥ इति कल्हणिकादेव्या माध्यस्थ्ये स धियं व्यधात् । प्रस्थानपदयात्रां सा सीमन्ताप्रापणावधि ॥ ३०६९ ॥ कुलकम् ॥ गुप्त्यै लग्नकवित्तादिपरायं मध्यपातिनम् । पाथेयार्थ पृथुस्वर्णभाजि कोशादि चात्मनः ॥ ३०७० ॥ प्रापयामास किंचाष्टौ प्रकृष्टाभिजनोद्भवान् । पालनार्थ राजपुत्रान्देवीवत्सर्वसंविदम् ॥ ३०७१ ॥ युग्मम् ॥ वाचकं तद्गृहीत्वा तामागमत्पार्थिवेव सः । धात्री स कारयन्धन्यो बद्धेच्छासिद्धिनिश्चयाम् ॥३०७२॥ विहितप्रत्ययस्तस्याः सद्यः स्यात्तु महीपतिः । राजधर्मस्य च वसन्नासीहोलाकुलाशयः ॥ ३०७३ ॥ स हि दध्यौ निर्विरोधो वैराग्येणाथ मायया । संकटान्मोचितव्यासौ यायात्कालेन विक्रियाम् ॥ ३०७४ ॥ अनिःशेषितजीमूतजालमाविर्भवत्रविः । अनूनक्लेशशेषं च विवेको न स्फुरेञ्चिरम् ॥ ३०७५ ॥ मुग्धान्निरनुसंधाननागवाधादवेत्य नः । स्वस्थस्य सिद्धये माया तेनेयं निरमायि वा ॥ ३०७६ ॥ लब्धलक्षेपरिक्षीणे शक्ते यूनि गणाश्रिते। क्षत्रधर्मस्थिते नेदग्विवेकः कापि लक्ष्यते ॥ ३०७७ ॥ अवल्लि कौङ्कुमं पुष्पमपुष्पं क्षीरिणः फलम् । अकालपर्ययापेक्षं वैराग्यं वा महात्मनाम् ॥ ३०७८ ॥ १ वाचिकं इत्युचितम् । २ स्वार्थस्य इति स्यात् । ।

যালবাগী न त्याज्यो राजपुत्रोसावेवं भायानिधिर्यदि । एवं विवर्तश्चेत्तस्मिन्नदृष्टे किं दृशोः फलम् ॥ ३०७९ ॥ राज्ञी राजात्मजाश्चैते प्रतिष्ठाभङ्गशंसिनः । ऋजुप्रभावात्सुस्पष्टमन्यत्कार्य न मन्यते ॥ ३०८० ॥ अटिलं कुटिलं स्पष्टं शरत्सर्वैर्न लक्ष्यते । कान्ताकुन्तलनिःस्यन्दी तोयबिन्दुरिवाक्रमः ॥ ३०८१ ॥ इति ध्यात्वा राजधर्म सत्यप्रशोचितं व्यधात् । धन्यरिल्हणयोः कार्यं श्रुतावन्यान्विसर्जयन् ॥ ३०८२ ॥ स्वस्यैवार्थस्य दाढाय साल्हणिस्त्वां दिदृक्षते । समागमायेत्युक्त्वाथ धन्यो दूतैरनीयत ॥ ३०८३ ॥ मा भैषीरेष संघित्सुः सैन्यादिति मितानुगः । अवर्तिष्ट तटिन्याः स द्वीपान्तस्तत्प्रतीक्षया ॥ ३०८४ ॥ सरित्सा जानुदनाम्भा भूत्वा धर्मद्रुते हिमे । गगनालिङ्गिभिर्भीमा तरङ्गैः समपद्यत ॥ ३०८५ ॥ अवाप्तयैर्घ्ययालयभावं यान्त्यपि दन्तिनाम् । रुद्धः सिन्धावभूत्सोथ द्विषां रन्धैषिणां वशे ॥ ३०८६ ॥ सिन्धोरुभयतस्तोयैर्व्याप्ततीरभुवोन्तरे । ते दिण्डीरोपमा प्रापुः पिण्डिताः पाण्डुवाससः॥३०८७॥ खशकानां सहस्राणि भोजस्य पतिते बले। स्थितवन्ति निहन्तुं तं तथास्थितमचिन्तयत् ॥ ३०८८ ॥ दृग्भ्यां संभ्रमदीनाभ्यामघशान्त्यै स्पृशन्निव । कर्णे सल्हणसूनुस्तान्संतयं वृजिनोब्रवीत् ॥ ३०८९ ॥ निर्दम्भमस्य विनम्भाधावतो विहिते विधेः। निरत्ययो निपातः स्यान्नियतं निरये पुनः॥ ३०९० ॥ १ डिण्डीरोपमा इत्युचितम् । २ वधे इति स्यात् । Bade Rm :- RAKe अष्टमस्तरङ्गः। २६९ । हतेस्मिन्बहुभृत्यस्य न च शक्तिक्षयः प्रभोः नैकपक्षक्षये तार्क्ष्यरंहः संहारमर्हति ॥ ३०९१ ॥ अपिवा वाच्यता राज्ञामेवं विस्तब्धबोधनात् । तुल्यस्तुल्येन कर्तव्यं किमनुध्याय बध्यते ॥ ३०९२ ॥ यथायं वृत्तयेनन्यकर्मा रूपं निषेवते । तथा ममापि यत्नोयं तत्सेवासादने यतः॥ ३०९३ ॥ युक्तमित्यादि तेनोक्ता अपि निश्चलनिश्चयाः । ते न्यषिध्यन्त निर्बन्धात्प्रतिज्ञायात्मनो वधम् ॥ ३०९४ ॥ रात्रौ तथैवादारिन्याच्छिद्रं तद्रक्षितुं ततः । कारिताः कोशपानं ते तमर्थ सोपि बोधितः ॥ ३०९५॥ तेनावेदितनिर्व्याजतया धीरो महीपतिः। अनुध्यायाथ संदिग्धं संधिसिद्धिममुग्धधीः ॥ ३०९६ ॥ अज्ञातनिश्चयासिद्धेविनान्तःकरणं परैः । अथ प्रास्थापयद्देवीं सामात्यां तारमूलकम् ॥ ३०९७ ॥ राजधर्मविधेयत्वादवार्यक्रूरशङ्किनी । प्रस्थानप्रार्थनां भर्तुः सा स्वीकृत्य ततोब्रवीत् ॥ ३०९८ ॥ असामान्येष्वमात्येषु कुसृत्यालोकनात्सकृत् । आर्यपुत्र विचार्योसि विसृम्भः किं विरोधिनाम् ॥ ३०९९॥ यद्वा निर्मानुषोन्मेषां शेमुषीं त्वं विगाहितुम् । प्रथते नु कथंकारं मूर्तत्वं मर्त्यधर्मिणाम् ॥ ३१०० ॥ देहोपकरणत्वं ते प्राणैर्मम विचिन्त्यते । सतीधर्मस्तु सहते राजधर्मस्य नोचितम् ॥ ३१०१ ॥ व्यजितास्य सदाचारं कलिकृत्यं द्विषि त्वयि । प्रारब्धो देव भोजेन हिमाद्रौ हिमविक्रयः ॥ ३१०२॥ १ बन्धनात् इति स्यात् । २ भूपं इति स्यात् । ३ क्रौर्य इति स्यात् ।

२७०
राजतरङ्गिणी
।
न गृह्णाति शमं वेत्ति स्वस्यान्यस्य न चान्तरम् ।
नियूंढमददोषोद्य प्रायेण प्राकृतो जनः ॥ ३१०३ ॥
पुत्रमत्र्यविरोधादिबुद्ध्यशुद्ध्या प्रधावति ।
साध्वाचारोपि भूपालः क्रुध्यन्विस्रब्धवाधने ॥ ३१०४॥
समयालङ्घनामोघगिरा देवेन पीयते ।
लोकत्रयैकपात्रेस्मिन्यशो नूनं मया सह ॥ ३१०५ ॥
त्रातव्यसंक्षयोपेक्ष्यप्राणायास्त्वन्यदाशयः ।
ममैवास्वादयन्त्यादादात्मभरिपुरास्थितिः ॥ ३१०६ ॥
इत्युक्त्वा विरतां सत्यसंधः साध्वीं धरापतिः।
शान्तशङ्कामकृत्वा तां मातामन्त्र्यान्ययोजयत् ॥ ३१०७ ॥
भङ्गं सर्वानयं त्रातुं प्रयोक्तुं वेदनं नृपः ।
संरम्भे किमयं ध्यायत्यन्तः सर्वोप्यचिन्तयत् ॥ ३१०८ ॥
उपायेषु प्रयुक्तेषु देवीसंप्रेषणावधि ।
नान्यदस्य प्रयोक्तव्यं यदवाशिष्यत क्वचित् ॥ ३१०९ ॥
सपक्षभेदाभृभर्तुः सबलत्वाबलत्वयोः ।
परीक्षकत्वाद्ये केचिन्माध्यस्थ्येनावसन्कचित् ॥ ३११० ॥
तेप्यल्पे वा महान्तो वा क्षीणदाक्षिण्यशृङ्खलाः।
भोजगृहौः सहाबनन्कन्थां सर्वेपि डामराः ॥ ३१११ ॥
ते ह्यच्छिन्नतटस्थत्वाद्वैराज्येसाभिरीदृशः ।
भोजः संजात इत्याशु माध्यस्थ्यं परिजहिरे ॥ ३११२ ।।
त्रिल्लको भोजसविधं तनूज प्राहिणोद्रुतम् ।
प्रावेशयच्छमालां च चतुष्कं पुष्कलैबलैः ॥ ३११३ ॥
ये भिक्षुविप्लवेप्यासत्राजदाक्षिण्यरक्षिणः ।
विरोधिसविधं प्रापुस्तेपि नीलावडामराः ॥ ३११४ ॥

अष्टमस्तरङ्गः।
२७१
लहराद्देवसरसाद्धोलाडातश्च डामराः ।
त्रयो नीलाश्वतश्चैका डामरी पर्यशिष्यत॥ ३११५ ॥
न व्यरंसीद्धिमं तत्तल्लवन्ये साल्हणेले ।
पतत्प्रावृटप्रमत्तौघघोषोम्भोधाविवोद्गतः ॥ ३११६ ॥
भोजस्तु देवीमायान्ती श्रुत्वा बलहरस्ततः ।
ध्रुवं संधित्सया बद्ध इति सुव्यक्तमभ्यधात् ॥ ३११७ ॥
एतावन्ति दिनान्यासीत्पुंसो भ्रमयिता पुमान् ।
संबन्धिनीनां माध्यस्थ्ये स्वकुल्यात्कोन्यथा भवेत् ॥३११८॥
कुलचूडामणिः प्रेम्णा स यत्रैवं प्रवर्तते ।
किं स्यादगण्यप्रायाणां कार्कश्यं तत्र मादृशाम् ॥ ३११९ ॥
यच्च मायामिमां ब्रूथ तत्तथास्त्वस्मि वञ्चितः।
विश्वास्यैव भविष्यामि नाकीर्तीनां निकेतनम् ॥ ३१२० ॥
मा च भूद्विजयाशा वः समेता निखिला इति ।
अद्राक्ष्म चेदृशां व्यूहामवरुक्ष्याम वोन्नतेः ॥ ३१२१ ॥
युक्तियुक्तमिदं चान्यच्चोक्तवान्बहु निश्चयात् ।
नाशक्यतान्यथा कर्तु भोजो बलहरादिभिः ॥ ३१२२ ।।
द्विताहान्तरितेमित्रप्रमाथेपरथा कथम् ।
फलकालेसि संवृत्त इति तं चावन्नृपाः ॥ ३१२३ ॥
तारमूलस्थिते राज्ञि ससैन्यौ धन्यरिल्हणौ ।
राजपुत्रैः सह ततः पाञ्चिग्राममवापतुः ॥ ३१२४ ॥
प्राप्ताववेत्य तौ नद्यास्तीरेवाचि कृतस्थिती।
परस्सिन्कूलगहने भोजोप्येतावुपाविशत् ॥ ३१२५ ॥
अश्रान्तं विशतो दिङ्मुखेभ्यस्तत्कटकं भटान् ।
पश्यन्तः केपि संधि न श्रद्दधर्नृपतेर्बले ॥ ३१२६ ॥

Hai २७२ राजतरङ्गिणी हठप्रविष्टानिर्यातुमक्षमानल्पसैनिकान् । धन्यादीत्राजवदनो हन्तुं शश्वदचिन्तयत् ॥ ३१२७ ॥ छित्त्वा सुय्यपुरात्सेतुं राज्ञः सैन्यं जिघांसवः । महापद्मसरोनौषु निभृतं केचनावसन् ॥ ३१२८ ॥ अन्ये तत्साहसोदन्तान्वेषिणः पतनोन्मुखाः। स्वैः स्वैर्मार्गस्तत्र तत्र तस्थुर्भूभृदसंमताः ॥ ३१२९ ॥ आस्कन्दं भागिलेयाद्याः पुरे शंकरवर्मणः । शमालाक्षिप्तिकावाप्तिं डामराः समचिन्तयन् ॥ ३१३० ॥ प्राप्यं महासरित्कूलं त्रिल्लकाद्यैरगण्यत । नीलाश्वडामरैर्वीशा कार्या च नगरान्तरे ॥ ३१३१ ॥ किमन्यद्राजगृह्याणां समं सर्वे जिघांसवः । कारण्डवानां तोयान्तर्वेष्टितानामिवाभवन् ॥ ३१३२ ॥ संदिग्धशिक्षितं कार्य सर्वतः समतां तदा । प्राप वृष्टेरवग्राहग्रहयोगान्तरस्थितेः ॥ ३१३३ ॥ पदे पदे राजचमूपथायोत्थानमिच्छतः । च्छिन्दन्बलहरस्येच्छां भोजो व्यग्रत्वमग्रहीत् ॥ ३१३४ ॥ क्षणे क्षणे विसंधानध्यायिना तेन कश्चन । बाध्यमानस्वान्तरायः संविधासु व्यचीर्यत ॥ ३१३५ ॥ घटनामुद्ययौ यो यो विरोधः कटकद्वयात् । सत्त्वैकानः स्वयं भोजस्तं तं त्वरितमच्छिनत् ॥ ३१३६ ॥ दूत्ये च कल्पकत्वे वा येरुवन्राजरञ्जकाः । भयेन प्रययुस्ते यद्वैकल्यं कार्यसंकटे ॥ ३१३७ ॥ कर्णे तत्कथयन्ति दुन्दुभिरवै राष्ट्रे यदुद्धोषितं तन्नम्राङ्गतया वदन्ति करुणं यस्मात्रपावान्भवेत् । १ येभवन् इति स्यात् । AWAR Mama । टी PM अष्टमस्तरका। २७३ श्लाघन्ते तदुदीयते यदरिणाप्युप्रेण सर्मान्तक- धे केचिन्मनु शाठ्यमौग्ध्यानिधयस्ते भूभृतो रजकाः॥३१३८॥ भाण्डस्ताण्डवमण्डपे कटुकथावीचीषु कन्थाकवि- गोष्ठश्वा स्वगृहाङ्गने शिखरिभूगर्भ खटाकुः स्फुटम् । पिण्डीशूरतया विटश्च पटुतां भूभृगृहे गाहते गच्छन्ति ह्रदकृष्टकच्छपतुलां चित्रं ततोन्यत्र ते ॥ ३१३९॥ शूरोद्रेकविपर्यासाच्छान्तोष्मा श्मामृतस्ततः । वासरः शरणीचके तुङ्गस्योत्तुङ्गमञ्जसा ॥ ३१४० ॥ भानुर्दत्तपदोनूरोतुर्गोवलयान्तरे । क्ष्माच्छिरोर्पित करो रक्तमण्डलतां दधे ॥ ३१४१ ॥ अहस्त्रियामामुखयोरपि मध्यस्थया दधे । संध्यया वन्दनीयत्वं जनस्य व्यञ्जिताञ्जलेः ॥ ३१४२ ॥ कवाटिदन्तैर्विस्फोटाश्चन्द्रकान्तः शिरोद्गमः । श्वयथुः पयसां पत्या दधे राज्युदयोन्मुखे ॥ ३१४३ ॥ सदैन्येष्वरविन्देषु हीनद्वन्द्वोपजीवनैः । कवाटिनां कटेष्वेव षट्पदैर्घटितं पदम् ॥ ३१४४ ॥ अदृष्टकार्यपर्यन्तास्ततस्ते विषमस्थिताः । सरित्तटे सकटकाः पर्यतप्यन्त मत्रिणः ॥ ३१४५ ॥ न किंचित्प्रत्यभा"स्वं लघुभ्रान्तं च जानताम् । ओधेन ह्रियमाणानामिवैषामवलम्बनम् ॥ ३१४६ ॥ तीरे परस्सिन्सरितो वसन्बलहरः पुनः । रुद्धः कन्दलितास्कन्दो बुद्धिः साल्हणिनासकृत् ॥३१४७॥ कार्यातिपातादायातं मत्रिणां तन्मितं बलम् । तस्य प्रवर्धमानस्य सुखोच्छेदं बभूव यत् ॥ ३१४८ ॥ १ स्कन्दबुद्धिः इत्युचितम् ।

२७४ राजतरङ्गिणी वितस्तासिन्धुसंभेदयात्रायां नगरे यथा । तथा तथापतद्रात्रौ लोकः श्रान्तो व्यवर्तत ॥ ३१४९ ॥ लेखैहमरसंहारखण्डनाय विसर्जितैः । सान्तरैग्रंथिताबाबै नाप्रै राजवीजिनः ॥ ३१५० ॥ शाव्यान्वितैरनुसरैस्तुमुलोत्पादनैरपि । धीरो धैर्यान्निश्चयाद्वा स्वैः स ऋष्टुं न पारितः ॥ ३१५१ ॥ सामन्तानामागतानामविस्त्रम्भादसंभ्रमम् । न्यकृतोयं निपत्याशु कुर्यादत्याहितं रुषा ॥ ३१५२ ॥ कृते च कदनोंकारेनेन सर्व समुन्मिषेत् । द्विजानामिव दस्यूनां समूहस्तेन सर्वतः ॥ ३१५३ ॥ इति निर्ध्याय दुध्रुक्षुरिव भोजः क्षपात्यये । कुर्मः साहसमित्युक्त्वा निन्ये बलहरं समम् ॥ ३१५४ ॥ तिलकम् ॥ तेषां तदायातानां सामन्तानामभोजने । दाक्षिण्यादिति नामोजि तेनाप्यभिजनस्पृशा ॥ ३१५५ ॥ तथा स मत्या वैमत्यं तमज्ञात्वा तु मत्रिणः। निष्प्रत्ययास्तेन जातममन्यन्त नयात्ययम् ॥ ३१५६ ॥ पक्षिपक्षस्फुटास्फालशफरस्फुरितेप्यधात् । तेषामासविधास्कन्दं प्रधावदहितभ्रमम् ॥ ३१५७ ॥ कूले परस्मिन्कूलिन्याः स्वाभिसंधाननिर्वृतः । समभाव्यत तैर्नान्यो रथाङ्गेभ्योभिषङ्गभाक् ॥ ३१५८ ॥ मरुत्काकुत्स्थदूतस्य कपेस्तीर्णाम्बुधेः पिता । ततान तेषां दूतानां सरित्पारगतौ बलम् ॥ ३१५९ ॥ कीर्णकर्णज्वरांश्चारीन्पीत्कृतैस्तीरभूरुहाम् । आश्रित्योन्निद्रकेणेत्थं निन्युस्ते तां निशीथिनीम् ॥ ३१६०॥ ।

अष्टमस्तरङ्गः। २७५ - क्षपान्ते माधरोत्सहेमतामरसम्रमम् । उद्गच्छतो रवेर्यावञ्चिच्छिदुर्न करच्छटाः ॥ ३१६१ ॥ चक्राहविरहालोकसशोकानामिवागलत् । कुट्सलाक्षिपुटाद्यावन्नैशं नाम्भश्च वीरुधाम् ॥ ३१६२ ॥ मितपत्तियुतस्तावत्तरुकच्छाद्विनिर्गतः। स वीरस्त्वरयन्युद्धवाहान्मूयक्षिणा स्पृशन् ॥ ३१६३ ॥ रोद्धकामाण्डामरीयान्वीरान्दृष्टेविलोकितैः सर्वतो धावतः कुर्वन्योधान्प्रतिहतौजसः ॥ ३१६४ ॥ पारश्वधी चारवेषो युवा संमुखमापतन् । युग्याधिरूढस्तैः प्रैक्षि संप्राप्तः सरितस्तटम् ॥ ३१६५ ॥ कुलकम् ॥ अदृष्टपूर्व तं दृष्ट्वा श्रीखण्डोल्लिखितालकम् । कुङ्कुमालेपिनं चैते भोजोयमिति मेनिरे ॥ ३१६६ ॥ अतिवाह्य निशां राजवदनं तं विमोहयन् । प्रातश्च तरसामन्य स तथा संमुखो ह्यभूत् ॥ ३१६७ ॥ प्रविष्टयुग्यं तोयान्तः पाराद्धावितवाजिनः धन्यादयस्तमभ्येत्य मुदिताः पर्यवारयन् ॥ ३१६८ ॥ उदभूत्तुमुलः शब्दस्ततः कटकयोईयोः। एकत्राक्रान्तिमुखरः परत्रानन्दनिर्भरः ॥ ३१६९ ॥ नादमाकर्ण्य संग्रामबुद्ध्या दिग्भ्यः प्रधावितैः । तं परैर्मिलितं वीक्ष्य मूर्ध्यताड्यत डामरैः ॥ ३१७० ॥ तस्याभिनन्दनालापप्रमुखा प्रक्रियाभवत् । अदैन्यं शुद्धधन्यादिष्वनुज्झितनिजकमा ॥ ३१७१ ॥ १ अदैन्यशुद्धा इति स्यात् ।

२७६ राजतरङ्गिणी प्लवमानं मनोहर्ष वेगात्संस्तम्भ्य सर्वतः । अथेत्थं स्तुवता तत्तत्स धन्येनाभ्यधीयत ॥ ३१७२ ॥ राजपुत्र पवित्रेयं पृथिवी स्थैर्यशालिना। त्वया धाम्ना सुमनसां मेरुणा वा महीभृता ॥ ३१७३ ॥ गर्वाञ्जयति सर्वासां निर्विकारतया वसन् । विक्रियोपहतं गौस्ते क्षीरं तं क्षीरवारिधेः ॥ ३१७४ ॥ कस्य पुंस्कोकिलस्येव त्वां विनाधममध्यतः । निर्गत्य निजकुल्यानां सिद्धं मध्यावगाहनम् ॥ ३१७५ ॥ सदाचारस्य भवता प्रथमं प्रहते पथि। न तञ्चित्रं संचरामश्वरमं चेत्ततोधिकम् ॥ ३१७६ ॥ इत्यादि प्रसृतालापदत्तोल्लापोधिरोह्य सः। जयोत्तरङ्गं तुरगं स्तुवद्भिस्तैरनीयत ॥ ३१७७ ॥ लवन्याः कतिचित्क्रोधाद्विक्रोशन्तस्तदा ययुः। स्वकुल्यैर्नीयमानं तं काका इव पिकान्तिकम् ॥ ३१७८ ॥ स एवमेकविंशब्दे ज्येष्ठस्य दशमेहनि । त्रयस्त्रिंशद्वर्षदेश्यः समगृहात भूभुजा ॥ ३१७९ ॥ राज्ञी कृतप्रणामं तं प्रियं पुत्रमिवागतम् । अभ्यनन्दच्छ्रान्तभृत्यमस्याहारमकल्पयत् ॥ ३१८० ॥ इन्दुवंशाविसंवादिगुणग्राममवेक्ष्य तम् । प्रागदृष्टवती मेने वञ्चिते सा विलोचने ॥ ३१८१ ॥ गुणैरशाठ्यदाक्षिण्यमाधुर्याद्यैरकृत्रिमैः । तस्याविशदशीलं स क्षमापतिरमन्यत ॥ ३१८२ ॥ मुखरागं मनोवृत्तेारौज्वल्यं गृहश्रियः । भर्तुस्वभावस्याचारो योषितामनुमापकः ॥ ३१८३ ॥ १ मुखरागो इति स्यात् । Siege dehat :

अष्टमस्तरङ्गः। २७७ दिनक्षयव्यजिताध्वक्लमं प्रस्थातुमुत्सुकम् । राज्ञोभ्यर्ण विशेत्येनं दाक्षिण्यात्कोपि नाब्रवीत् ॥ ३१८४॥ कथंचिद्रुद्धमाध्यस्थ्यवैमत्यैः सचिवैरथ । स त्वादिक्षुर्नरपतिरशान्तेभ्योभ्यधीयत ॥ ३१८५ ॥ राज्ञोभ्यर्ण विशेत्युक्तरुपोद्धातोपमं वचः । तत्तस्य श्रोत्रशष्कुल्यां तदा शङ्कुक्रियां व्यधात् ॥ ३१८६ ॥ चिरात्ताडितममेव समाश्चास्यैक्षताथ सः । मध्यस्थानां स्थितं स्थैर्य दाक्षिण्यादोष्ठयोः परम् ॥३१८७॥ प्राणान्मुमुक्षोस्तेरुक्षभाषणास्तस्य सान्त्वनैः । मन्दत्वं विक्रियां निन्युर्विनयानतमौलयः ॥ ३१८८ ॥ आचारं चैनमस्निग्धमपि न्याय्यं वचस्विनम् । न कोपि प्रतिवाक्येन शक्यं जेतुममन्यत ॥ ३१८९ ॥ अथ स्वान्तस्थितस्वामिवैवश्यं दर्शयन्निव । दशनांशुवनैर्धन्यो वीरः स्निग्धमभाषत ॥ ३१९० ॥ पद्धती राजधर्माणां सदाचारे स्थितां च ते। जानतोपि कथं मोहः क्रमायातेषु वस्तुषु ॥ ३१९१ ॥ किं संधिः सोभिधीयेत यत्र संधेयदर्शनम् । अकृत्वा गम्यत इति प्राडो कथमजीगणः ॥ ३१९२ ॥ अनद्यतनभूभर्तृसुलभे भूभुजां तव । ज्ञात्वा सत्त्वोज्वलं ज्ञातिधर्मजातप्रवर्तनम् ॥ ३१९३ ॥ नास्य दम्भस्मयस्तम्भः प्रीतिस्थैर्यखलोक्तयः। आदरादर्शवैषधे निःश्वासस्यापि काः श्रियः ॥ ३१९४ ॥ अस्योपजीवनाद्या श्रीः साम्राज्यासादनान सैः। प्रकाशो बिम्बितो योर्काहीपात्स्याज्वलतःस किम् ॥३१९५ १ स्थिति इति स्यात् । २ सुलभं इति स्यात् । ३ सा इत्युचितम् । - २७८ राजतरङ्गिणी । ये निर्वाणगोष्ठीनिष्ठत्वं शमिनामाश्रयेषु यत् । तत्पर्षद्यस्य राजर्जनान्वृन्दानुबन्धिनः ॥ ३१९६ ॥ एवं स्वगृहसंप्राप्यप्रायोनिःश्रेयसस्य ते । स्थानः श्रियः समाप्याथ किं स्यादन्यैर्महीधरैः ॥ ३१९७ ॥ मुग्धा न केचन परे गणिताः फणिभ्यः कालानुकूलनिजकुण्डजलत्यजो ये । श्लिष्यन्ति चन्दनतरूशिशिरान्निदाघे माघेप्यशीतमनवं विवरं विशन्ति ॥ ३१९८ ॥ प्राणोपकरणं राज्ञो राज्ञी राजात्मजाश्च तद्धिते यदनौचित्यं तेषामौचित्यमेव तत् ॥ ३१९९ ॥ त्यक्तोमवैकृतं पाथ इव कथितशीतलम् । अनुतापेन ते कृत्यं भूयो वैरस्यमेष्यति ॥ ३२०० ॥ तथा समर्थासामर्थ्यान्न प्रत्याख्याय भारतीम् । कुण्ठशाव्यलवस्तस्थौ प्रस्थानार्थ स मन्थरः ॥ ३२०१॥ पथि संग्रथितस्तोत्रान्वास्तव्यान्वीक्ष्य सर्वतः । अजायताथ संरूढकृत्यसाधुत्वदाय॑धीः ॥ ३२०२ ॥ पदातिचरणक्षुण्णरेणुव्याजाददृश्यत । वसुंधरातलं बद्धसंधीव नभसा समम् ॥ ३२०३ ॥ दध्यौ विज्ञतरो भोजः कञ्चित्संप्राप्नुयां नृपम् । कञ्चिदमुष्य विघ्येत दर्शनं विप्रलम्भकैः ॥ ३२०४ ॥ आराधयन्प्रभुं धानि नान्तरान्तरितो विटैः । स्वामिनां क इवानोति गुणाविष्करणक्षणम् ॥ ३२०५ ॥ शीतोपचारकरणाद्दयितो भवेय- मौार्दितस्य जलधेः प्रसृतं धियेति । १ कंचिन्नामुष्य इति स्यात् ।

अष्टमस्तरङ्गः। स्रोतो हिमाद्रिपयसो विनिपात एव ग्रासीकृतं तिमिभिराहतमेव तत्स्यात् ॥ ३२०६ ॥ इत्यादिचिन्तास्तैमित्यात्पुरक्षोभाद्यलक्षयन् । सैन्यस्य रुद्धाश्वतयावुद्धासन्नं नृपास्पदम् ॥ ३२०७ ॥ नातिप्रांशुं नातिकृशं सूर्याशुश्यामलाननम् । सरोजकर्णिकागौरं शिथिलश्लथविग्रहम् ॥ ३२०८ ॥ ककुमत्ककुदोत्सेधिस्कन्धमायतवक्षसम् । श्मश्रुणानतिदीर्घेण व्यक्तगण्डगलोन्नतिम् ॥ ३२०९ ॥ उन्नसं पक्वबिम्बोष्ठं विस्तीर्णानुल्बणालिकम् । तिर्यग्विप्रेक्ष"...."धीरमन्थरगामिनम् ॥ ३२१० ॥ समाहितांशुकोष्णीषमौलिं श्रीखण्डवक्षसम् । सीमन्तस्थानचुम्बिन्या रेखया चन्द्रगौरया ॥ ३२११ ॥ अश्वावरूढं हर्म्यस्थसचिवैः परिवारितम् । अनङ्गतुल्यमायान्तं तमवैक्षत पार्थिवम् ॥ ३२१२ ॥ कुलकम्॥ प्रीतिविस्फारितदृशा राज्ञा पृष्टस्ततः सभाम् । सोध्यारुरोह संबाधां कौतुकोत्कंधरैर्जनैः ॥ ३२१३ ॥ स्पृष्ट्वा पादौ निषण्णोने नृपस्यानीय पाणिना। खड्गधेनुं पाणिबद्धामासनाने समार्पयत् ॥ ३२१४ ॥ पाणिं सफणिवल्लीकं विवृताग्राङ्गुलिद्वयम् । ततोस्य चिबुकोपान्ते विन्यस्यन्पार्थिवोब्रवीत् ॥ ३२१५ ॥ न विगृह्य गृहीतोसि नाधुनापि नै बध्यसे । तदङ्ग कस्माद्गृह्णीमः शस्त्रमेतत्त्वयार्पितम् ॥ ३२१६ ॥ १ हर्म्यस्थ: इति स्यात् । २ पार्थिवः इति स्यात् । ३ निवध्यसे इति स्यात् ।

२८० राजतरङ्गिणी । व्यजिज्ञपत्ल भूपालं देव शस्त्रस्य धारणम् । स्वामिसंरक्षणं स्वस्थ परित्राणस्य कारणम् ॥ ३२१७ ॥ देवे निजप्रतापाग्निगुप्तसप्तसरित्पतौ। सेवावकाशो विरलः स्वशस्त्रस्यापि दृश्यते ॥ ३२१८ ॥ लोकान्तरेपि शरणं चरणाश्रयणं प्रभोः । तत्रात्र लोके किं कार्य त्राणोपकरणैः परैः ॥ ३२१९ ॥ राजा जगाद तं सत्त्वस्पर्धाबन्धेधुना भवान् । नियूंढकृत्यो वादीव कृत्यं नो वर्तते परम् ॥ ३२२० ॥ भोजो बभाषे दाक्षिण्यजननायाधुना प्रभोः । सृष्टाहते मया किंचिन्नोपचारार्थमुच्यते ॥ ३२२१ ॥ किं ते न चिन्तितं दुष्टं किं किं न कृतमप्रियम् । यदसिद्धं न तद्यक्तिमगादित्यवधार्यताम् ॥ ३२२२ ॥ किं न मल्लान्वये कश्चित्कारणेषूदितो भवान् । विनः साननुकूलं प्राग्यं वयं चर्मचक्षुषः ॥ ३२२३ ॥ यदा यदा देव वाञ्छामकार्म भवदप्रिये । भूमिस्तदा तदा भूता पात्रं कम्पस्य भूयसः ॥ ३२२४ ॥ यावत्कवीनां निर्भाति प्रतिभानेन भास्वरः। देवाभवन्नः प्रत्यक्षः प्रतापस्तादृशस्तव ॥ ३२२५ ॥ न शेखरे न प्रदरे न दरेप्युज्झितो मया । प्रालेये भूभृतः कुओ संज्वरस्त्वत्प्रतापजः ॥ ३२२६ ॥ ततः प्रभृत्यवनतिप्रणयः शरणैषिणः। सिद्धः संध्यायि वन्ध्यत्वाद्देव दूरस्थितेन मे ॥ ३२२७ ॥ अथाभेदाभिलाषेण पापाद्यत्किल चेष्टितम् । स्फुरत्तामात्रकव्यत्त्यै न तु तद्विग्रहाग्रहात् ॥ ३२२८ ॥ १ दृष्टाहते इति स्यात् । २ प्रालेयभूभृतः इति स्यात् । Pahate MESS । । Samirsini । try अष्टसस्तरङ्गः। त्वत्संबन्धादिमे दिक्षु प्रतीक्ष्याः माभुजां वयम् । सङ्गागङ्गाम्भसः काचकुम्भसंभावना भुवि ॥ ३२२९ ॥ अद्यापि द्योतते शाहेवाह्वयेन दिगन्तरे। तत्संतानभवोनन्तः समूहः क्षत्रजन्मनाम् ॥ ३२३० ॥ त्वय्यर्पिते पार्वतीयभूभृत्सङ्गेन्यदादिनः। कदन्नाशनदुर्भोगासुस्थैः खेदोन्मुखैरभूत् ॥ ३२३१ ॥ इतीदृशीभिः स्तुतिभिः प्रमाणमथवा प्रभुः । इत्युक्त्वा भूपतेर्मूम सोगृह्णाचरणौ पुनः ॥ ३२३२ ॥ प्रणामसंभ्रमत्रस्तोष्णीषशीर्ष ततो नृपः । तस्योत्थितस्य स्वशिरोवाससा समवस्त्रयत् ॥ ३२३३ ॥ स्वां तां च शस्त्री तन्यस्तामुत्सङ्गे सान्त्वयन्व्यधात् । तस्यासंक्षोभगाम्भीर्यस्तमूचे च निषेधिनम् ॥ ३२३४ ॥ दत्तं मया बिभृहि वा त्वमेते पूजयाथ वा । न शस्त्रग्रहवैमुख्य कार्य मच्छासनं त्वया ॥ ३२३५ ॥ अवन्ध्यशासनो मानीत्यनुबध्नाति ते व्यधात् । शस्त्रौ राजानुगत्यैव वन्दित्वा कामकालवित् ॥ ३२३६ ॥ ततो नियंत्रणत्वस्य नर्मणः सान्त्वनस्य च । चिरसेवीव तत्कालं राज्ञो जायत भाजनम् ॥ ३२३७ ।। अन्यत्प्रविष्टो धन्योथ स्वार्वामकथयत्कृती। कृतप्रणामो भूपाल त्वद्गुणाकर्णनं विना ॥ ३२३८ ॥ न प्राणा द्रविणं नाद्य गण्यं निर्विक्रिया पुनः । सक्रिया स्वामिनोप्यर्थे तस्मात्पार्थिव चिन्त्यताम्॥३२३९॥ तथापि कथ्यमानं तन्न स्यात्संभावनाभुवि । यदास्मिंश्चिन्त्यतेस्माभिरिति भूपोप्यभाषत ॥ ३२४० ॥ १ दत्ते इति स्यात् । २ शत्यौ इति स्यात् । ३६ ૨૮૨ राजतरङ्गिी क्षणमुच्चावचां चर्चा विरचय्य विशांपतिः । भोजेन सार्धं शुद्धान्तं रड्डादेव्यास्ततो ययौ ॥ ३२४१ ॥ कृतप्रणामस्तां वीक्ष्य सौजन्यादिगुणोज्वलाम् । स राजपारिजातं तं मेने कल्पलतायुतम् ॥ ३२४२ ॥ मान्योयं दोवि सौजन्यज्ञातेयाभ्यामिहागतः । विशिष्यतेसौ पुत्रेषु माभृद्योषेत्यभाषत ॥ ३२४३ ॥ सभाजनाय सौजन्यनिधि जान्वितस्ततः । उदूढकार्यभाराणां दाराणामप्यगागृहान् ॥ ३२४४ ॥ अभाणीनिपुणा राज्ञी भोजं राज्ञा सहागतम् । अधुनैव नृपस्याप्तः संवृत्तोसीति सस्मितम् ॥ ३२४५ ॥ लजासितमुखी पत्युः प्रणत्या स्वागतोक्तिषु । ददत्येवोत्तरं भोजं निर्दिशन्त्यप्यभाषत ॥ ३२४६ ॥ आर्यपुत्र न विस्मार्य प्रत्याख्याताप्तमत्रितम् । मानैकशरणस्यास्य शातिप्रीतिप्रवर्तनम् ॥ ३२४७ ॥ पूर्वोपकर्तृ सलिलं वृद्धावस्पृशतोन्वहम् । पद्मान्सुकुलपद्मानां युक्तं जेतुं भवादृशाम् ॥ ३२४८ ॥ कार्यकृच्छ्रेवसन्नानाममुष्यागमनं विना । सिध्येदौन्नत्यसंरक्षा नेह प्रत्यागमश्च नः ॥ ३२४९ ॥ उदीपे रक्षतस्तीरं शरीराशयिणी भवेत् । ध्रुवं वनस्पतेर्वीरुत्तन्निपातानुपातिनी ॥ ३२५० ॥ पतिगत्यनुगामित्वं प्राणानां परिचिन्तितम् । तथा कार्य यथा न स्यात्रातव्यस्यान्यथात्मनः॥ ३२५१ ॥ राजा जगाद् तां देवि सर्वकर्तव्यसाक्षिणी । अन्यथा प्रतिपत्ति मे त्वमप्यस्य न मन्यसे ॥ ३२५२ ॥ 6 Sid

अष्टमस्तरङ्गः।
२८३
निगृहीतवतो दुष्टौ सुजिमल्लार्जुनावपि ।
निस्तापं मम नाद्यापि प्राप्तानुशयमाशयम् ॥ ३२५३ ॥
अथ राज्ञार्थितः स्थातुं पराये धाम्नि सानुगः ।
भोजो नामन्यतान्यत्र राजधान्यां स्थिरां स्थितिम् ॥३२५४
विदूराश्रयनि!प्तृभावाप्रचुरदर्शनैः ।
आराधनं धराभर्तुरसाध्यं ध्यातवान्हि सः ॥ ३२५५ ॥
रक्षितॄनग्रहीत्वमापान्स्थिरं च समकल्पयत् ।
अनयातां नृपं कार्यान सुराराधनागमे ॥ ३२५६ ॥
विज्ञाय भावं प्रीतेन राज्ञा दत्तं ततो गृहम् ।।
सर्वोपकरणापूर्ण राजधान्यन्तरेभजत् ॥ ३२५७ ॥
राजापि ममतास्फीतप्रीतिभिः स्वैः परैस्तथा ।
उपासितस्तत्र रतिं चिराश्रित इवाययौ ॥ ३२५८ ॥
भोगवेलोचिताश्चर्यदर्शनादौ नृपोपि तम् ।
प्रियं पुत्रमिवास्मार्षीदूतैः पार्थ निनाय च ॥ ३२५९ ॥
जग्राह दक्षिणे पार्श्वे भुञ्जानं ज्ञातिगौरवात् ।
स्पर्शास्वादितभोज्यादिदानेनैव व्यसर्जयत् ॥ ३२६० ॥
अकृत्रिमं तथा स्नेहमुवाह जनको यथा ।
लडितं ज्ञातिवत्तस्मिंस्तद्वालापत्यकैः समम् ॥ ३२६१ ॥
तमेवालम्बत व्यक्ति सोपि वृत्तिं यथा यथा ।
राजा सपरिब)पि बिस्रम्भमविगर्हितम् ॥ ३२६२ ॥
आसन्नाभ्यन्तराभिन्ना ये द्वैधे तानदर्शयत् ।
राज्ञां विरक्तिं स्वस्यारिबाहुल्यं च व्यसजर्यत् ॥ ३२६३ ॥
अकृत्रिमात्समाधानात्कारणानां समान्तरे।
न प्रत्यभाजडो नापि धृष्टो नापि बकव्रतः ॥ ३२६४ ॥

२८४ राजतरङ्गिणी प्रमादस्खलिते हीनातिरिक्तत्वे च भूपतेः । कार्ये नावदधे क्षुद्रः कवितेव महाकवेः ॥ ३२६५ ॥ न विक्रमकथासत्रदानाद्यैः स्वं व्यकत्थत । प्राग्वृत्तमन्तरा पृष्टः सोपस्कारं च नाभ्यधात् ॥ ३२६६ ॥ विचारकात्प्रभोः साम्यसकुल्यत्वादिचाटुभिः । धीराधृष्टैदृष्टिपातैरपुनर्भाषिणो व्यधात् ॥ ३२६७ ॥ तथा स्पृष्टोप्यनुत्तानाशयोभूदवगाहितुम् । न शेकुस्तं यथा जाल्मनर्मावत्पिशुनादयः ॥ ३२६८॥ क्षणेष्ववसितालोकक्षोभादिविशरारुषु । प्रायेणावसथं गच्छञ्छङ्कां कामपि नातनोत् ॥ ३२६९ ॥ यथा यथास्य विनम्भाद्भूपोभूच्छिथिलाग्रहः । तथा तथैव सिद्धोश्व इव नाधावदुद्धतम् ॥ ३२७० ॥ सदैवानेसरोन्यत्र पश्चागुद्धपदोभवत् । अनिषिद्धोपि शुद्धान्तमत्रागारावगाहने ॥ ३२७१ ॥ विज्ञप्यौपयिकावाप्तिप्रार्थन"दरत्स्वयम् । दूरीचक्रे परापेक्षां शश्वत्संशयिताशयः ॥ ३२७२ ॥ अनाप्तसमये तस्य न ययुः पथि रक्षिणः । न स्वप्नवृत्तमप्यासीदनावेद्यं महीभुजे ॥ ३२७३ ॥ मत्यन्तःपुरिकादीनां परस्परविगर्हणम् । नावर्णयद्विस्मृतिं च दुष्टस्वप्नमिवानयत् ॥ ३२७४ ॥ सचेतनोपि दुर्नर्मगोष्ठीष्वनुरणन्वचः । अवदत्स्फुरदप्यन्तर्विटानां नाम लाघवम् ॥ ३२७५ ॥ एवं शुद्धानुभावस्य तस्य कृत्येन कृत्यावित् । पुत्रेभ्योप्यधिकां प्रीति स्निह्यन्भेजे क्रमानृपः ॥ ३२७६ ॥ ।

अछमस्तरङ्गः।
२८५
कलिकालमहीपालदुस्तरः सिंहभूभुजा ।
सोयं गोत्रपरित्राणे नवः सेतुः प्रवर्तितः ॥ ३२७७ ॥
इत्थं विद्राविताशेषोपद्रवस्त्रिल्लकस्ततः ।
अग्निप्रोषमपि स्वास्थ्यहेतुं भूभृदचिन्तयत् ॥ ३२७८ ॥
असौ हि निर्हिमोर्वीभृन्मार्गे काले पलायनम् ।
शाठ्यं सत्त्वस्य दुःसाध्यं बद्धं ध्यायन्व्यलम्बत ॥ ३२७९ ॥
अतः सुमेधा यात्रायां यावत्क्षणमपैक्षत ।
सज्जपालेनाविचारात्तावत्प्रारम्भि धावनम् ॥ ३२८० ॥
अल्पाधिष्ठानसुभटः स देवसरसोद्भवैः ।
बहुभिः सहितः सैन्यैर्मार्ताण्डे विधे पदम् ॥ ३२८१ ॥
निर्निरोधप्रवेशः स प्रदेशः परिपन्थिनाम् ।
बाह्याश्च योधा निःसारा दर्पान्नेति विवेद सः ॥ ३२८२ ॥
त्रिल्लकानुचरा युद्धमसंनिहितसायकाः ।
तेन सार्धं विदधिरे न चाहीयन्त पौरुषम् ॥ ३२८३ ॥
निःसीमसैन्यसाहितो लवन्योन्यत्र डामरे ।
तत्र सर्वाभिसारेण धावतो युयुधे क्रुधा ॥ ३२८४ ॥
लुण्ठितद्रविणापूर्णास्ते देवसरसौकसः।
सर्वे ततः सजपालं विद्रुताः परिजहिरे ॥ ३२८५ ॥
द्विषत्संवर्तवर्षाद्याः सर्वत्र बुडितेभवन् ।
अधिष्ठाने भटा एव कुलशैला इवोद्धताः ॥ ३२८६ ॥
ते तीक्ष्णतीक्ष्णतरणौ सोढारातिरुषश्चिरम् ।
बहूनिहतवन्तोन्यास्तत्र तत्राहवे हताः ॥ ३२८७ ॥
क्षतेषु युधि सर्वेषु भिन्दानैमण्डलं निजैः ।
शूरेषु तत्र मार्ताण्डोप्यासीदविरलवणः ॥ ३२८८ ॥

२८६
राजतरङ्गिणी
रराजाजी साजपालिर्गयपालो हतेषु यः ।
त्रिषु वाजिषु चातुर्यात्पदाति!पलक्षितः ॥ ३२८९ ॥
तत्प्राथम्योपलब्धाजिर्जर्जस्तदनुजः शिशुः।
निनाय विस्मयं वीरान्दृष्टासंख्यमहाहवान् ॥ ३२९० ॥'
दक्षिणं दोन तच्चके यद्वामं कम्पनापतेः ।
महेभांस्तापयत्यर्कः कुर्याद्भग्नरदान्विधुः ॥ ३२९१ ॥
स धावन्वाजिना राजदेकदोःस्फुरितायुधः ।
सधूमदण्डो दावाग्निः सपक्षेद्राविव स्थितः ॥ ३२९२ ॥
तं वैरितुमुले बाणवणभङ्गेष्वसौ पुनः ।
पृष्ठादलोठयद्वाजी तदन्वाबद्धपद्धतिः ॥ ३२९३ ॥
वर्मगौरवभूपृष्टकाठिन्याघातपीडितः ।
स विसंज्ञो द्विषन्मध्यात्तनयाभ्यां विनिर्हतः ॥ ३२९४ ॥
कटके सर्वतो नष्टे मार्ताण्डप्राङ्गनान्तरे।
विरोध्यसाक्षि क्षिप्त्वा तं तावपासरतां ततः ॥ ३२९५ ॥
तत्रस्थं......"नामाभृत्प्रस्थितः पृथुलैर्बलैः ।
तावद्भिः प्राप्यमप्याशु डामरं पिण्डितं व्यधात् ॥३२९६॥
क्ष्मापाले विजयक्षेत्र प्राप्ते त्रोटितवेश्मनः ।
सज्जपालो लवन्यस्य वसतीनिरदाहयत् ॥ ३२९७ ॥
स तादृगपि भूपाले क्रुद्ध वक्रीकृतश्रुवि ।
अदरिद्रो गिरिद्रोणीश्रेणिभूसुलभाशनः ॥ ३२९८ ॥
संवृत्तो निःसहायश्च परिग्रहबहिष्कृतः ।
आपत्सुलभपाण्डित्यभृत्योपालम्भभाजनम् ॥ ३२९९ ॥
निकृत्तकरशाखोथ क्षमापकोपकंपेय॑धात् ।
निरालम्भतया तस्य स स्वशीर्षफलार्थनाम् ॥ ३३०० ॥

अष्टमस्तरङ्गः।
२८७
रडादेवीतनूजानां ज्यायांसं गुल्हणाभिधम् ।
श्रीमाल्लोहरराज्येथ मावृषा सोभ्यषेचयत् ॥ ३३०१ ॥
षट्सप्तहायनो राजतनयः स वयोधिकान् ।
चूताङ्कुरो जीर्णतरूनिवेशानजयद्गुणैः ॥ ३३०२ ॥
अभिषेक्तुं सुतं देव्या यातायाः श्माभुजो व्यधुः ।
शिरःशोणाश्मकिरणैश्चरणौ यावकारुणौ ॥ ३३०३ ॥
तत्राभिषिक्ते वसुधामुग्रावग्रहशोषिताम् ।
देवीभावाभिषेकार्थमिवासिञ्चन्पयोमुचः ॥ ३३०४ ॥
भूयोपि राजवदनो विप्लवोत्पादनोत्सुकः ।
अमन्दमवचस्कन्द जयचन्द्रं नृपाज्ञया ॥ ३३०५ ॥
नागभ्रातृव्यसहिता गार्गेरनुप्रवेशिनः ।
पश्चात्प्रसर्पिणीः सेनाः सोवधीत्संकटेध्वनि ॥ ३३०६ ॥
गार्गिः परिभवम्लानाननस्तिष्ठन्दिनैस्ततः ।
नागभ्रातृसुताग्रस्थमवध्नाल्लोष्टकं मृधे ॥ ३३०७ ॥
दुर्गमत्वादनाक्रान्तमन्यैर्वेगात्प्रविश्य च ।
दग्ध्वा स दिन्नाग्रामं तु निरगाल्लघुविक्रमः ॥ ३३०८ ॥
तथापि राजवदनो न शौर्यात्पर्यहीयत ।
न संदधे न चुक्रोध शक्यमस्य विनिर्गमम् ॥ ३३०९ ॥
अहन्यहनि हीनाभिः सेनाभिर्यपतन्नृपे ।
जयचन्द्रमुखाच्छश्वदसुखान्यवधीभवत् ॥ ३३१० ॥
मानायकोथ निःसीमनखबाहुप्रसारणः ।
रणान्तरेव तं तीक्ष्णैर्गुढं न्यस्तैरघातयत् ॥ ३३११ ॥
तन्मुण्डगण्डलेखेन लुठता खण्डशः कृतः ।
झटिति त्रुटितः स्वास्थ्यमिवास्य स्फुरणोन्मुखः॥३३१२ ॥

२८८
राजतरङ्गिणी
पृथ्वीहरकुलच्छेदस्वच्छद्मा मेदिनीपतिः ।
अवधील्लोठनमपि च्छन्नदण्डप्रयुक्तिभिः ॥ ३३१३ ॥
एकवारं वेष्टितोपि रक्षितस्त्रिल्लकेन सः।
भूमिभृन्नीतिपाशस्य निपातेनाभिवर्तिना ॥ ३३१४ ॥
मल्लकोष्टक्षरजय्यमड्डुचन्द्रादयोभवन् ।
जीवन्मृताश्च शान्ताश्च दारिद्रोपाठवार्दिताः ॥ ३३१५ ॥
अविचिन्त्योच्चलक्षोणिभृतः प्राणान्विनश्वरान् ।
ऐश्वर्यरूढिमूढत्वादनियूंढव्यवस्थितौ ॥ ३३१६ ॥
मठेनुमितकोशत्वं तत्तद्राजाश्रयागते ।
कुलोद्वहो विहितवान्सिहदेवो व्यवस्थितिम् ॥ ३३१७ ॥
युग्मम् ॥
सुल्लाविहारं पैतृव्यं पितुर्देवगृहत्रयम् ।
तञ्चार्धसिद्धं प्रासादं परिपूर्ण व्यधान्नृपः ॥ ३३१८ ॥
स एव ग्रामसामग्रीमहापणसमर्पणैः ।
निर्दोषपारिषद्यादिहृद्यान्निश्चोद्यधीय॑धात् ॥ ३३१९ ॥
अवरोधेन्दुवदनां मृतामुद्दिश्य चन्दलाम् ।
प्रत्यष्ठापि मठोनूनश्रीारेवारितातिथिः ॥ ३३२० ॥
छुष्टो नगरनिर्मोहः सोपि सूर्यमतीमठः ।
पूर्वाधिकोपगर्वेण तेनैव निरमीयत ॥ ३३२१ ॥
संजाते सजपालस्य ततो लोकान्तराश्रये
कम्पने निदधे राज्ञा गयपालस्तदात्मजः ॥ ३३२२ ॥
विपाकसुकुमारोपि दुःसहः सूनुनाभवत् ।
विस्मारितः स सौम्येन शरद्भानुरिवेन्दुना ॥ ३३२३ ॥

अष्टमस्तरङ्गः। २८९ ग्रीष्मोष्मदोषविषमेष्वविशेषवृत्ते- मैघोदये तटतरोस्तटिनीप्रवाहः । पश्यन्नकाण्डतडिदापतनेन नाशं नाशंसति स्वसलिलस्य विभूतिलाभम् ॥ ३३२४ ॥ आ भिक्षुक्षपणाद्भोजसञ्जनादपि भूभुजः । विधुरे कार्यभाराणां योभूदूढधुरः परम् ॥ ३३२५ ॥ तस्य तस्मिन्नृपरते क्षीणप्रक्षीणकण्टके । स धन्यो नान्यसामान्यप्रेमा प्रमयमाययौ ॥ ३३२६ ॥ ताम्बूलमायात्रिकतां नीत्वा सूनामयानिव । आर्पिपन्मधुरावह जीवं यस्य निजः सुतः ॥ ३३२७ ॥ स जगजीवितेनापि रक्षणीयः क्षमापतिः । पदे पदे विपन्मग्नो प्रजोद्धरणधीरधीः ॥ ३३२८ ॥ व्याधितस्य विनिद्रोपि संसङ्गान्मङ्गलेच्छुभिः । नान्तक्षणे तस्य पार्धात्कृतज्ञोवाचलन्नृपः ॥ ३३२९ ॥ प्रियप्रजस्यामात्यस्य स्वरूपविपरीतता । तस्य कंचित्क्षणं जाता जनजीवितदा भवेत् ॥ ३३३० ॥ भूभुजामपि मांधातृमुखानां निधने न याः। दुःखं ययुः प्रजास्तासां समभावि तदा सुखम् ॥ ३३३१ ॥ द्वैराज्योपप्लुते राष्ट्र नवस्य नृपतेरभूत् । अप्याहतं यत्साचिव्यं तस्य सर्वाभिषङ्गभित् ॥ ३३३२ ॥ कालो बली व्यवहृतेर्ननु तद्वशेन पूर्वापराचरणविस्मरणेन कस्य । शक्तिः क्षितेर्वहनकर्मणि योग्यतायां निर्दारणे मुरजितस्तु वराहतायाम् ॥ ३३३३ ॥ ३७ २९० राजतरङ्गिणी नगराधिकृतो भूत्वा सुजौ निर्वापिते पुरा । चिरप्ररूढां यो देशस्याव्यवस्थां न्यवारयत् ॥ ३३३४ ॥ भ्रष्टः क्रयेषु दीनारव्यवहारो व्यवस्थया । निगृह्य तं भ्रंशकार्यनिर्वितण्डः प्रवर्तते ॥ ३३३५ ॥ परिणीताङ्गनाशीलभ्रंशे गृहपतेरभूत् । दण्डप्रवृत्तिर्या तेन सा विचार्य निवारिता ॥ ३३३६ ॥ एकान्ततो हितो भूत्वा विशामेवं पुनर्व्यधात् । नगराधिक्रियां लब्ध्वा स एव परिपीडयन् ॥ ३३३७ ॥ बद्धाभिर्नर्तकीभिश्च परिणीतगृहस्थितौ । संप्रयुक्तान्कथ्यमानान्हठेनादण्डयद्वहून् ॥ ३३३८ ॥ किं वो भवेद्वलेशानां तुषाणामिव चिन्तनैः। अद्रोहालोभयोभूमिर्न तादृगपरोभवत् ॥ ३३३९ ॥ भिक्षुमल्लार्जुनौ कालानुवृत्त्या श्रितवानपि । नासौ जहौ स्वामिहितं नतौ तावपि नावधीत् ॥ ३३४० ॥ अक्षीणत्यागहीनस्य विभूतिसमयेप्यभूत् । संस्कारौपयिकं नास्य पर्याप्तं निधने धनम् ॥ ३३४१ ॥ कृतज्ञतायां राशोन्यत्पर्याप्तं किमुदीर्यताम् । यो जीवित इवानीतान्संबिभेजेनुजीविनः ॥ ३३४२ ॥ लोकान्तरातिथि विजाभिधामुद्दिश्य वल्लभाम् । धन्यस्य विजनामाख्यविहारारम्भकारिणः ॥ ३३४३ ॥ परलोकं प्रयातस्य निर्वाणप्रतिपूरणम् । स्थितं व्यवस्थितेः कं च विनियोगं चकार सः ॥ ३३४४॥ युग्मम् ॥ opport کے अष्टमुस्तरङ्गः। २९७ भूभृद्धार्मिकतावाप्तसुकृतोत्सेकवासवैः युद्धकवृत्तिभिरपि प्रवृत्ते पुण्यकर्मणि ॥ ३३४५ ॥ विपक्षाणां सुभिक्षेण तुरुष्कविषयाश्रयात् । जन्मभूमेवृत्तये यैः क्रौर्यादन्यन्न शिक्षितम् ॥ ३३४६ ॥ येपि वृत्तिं विरोध्याजिव्यग्रे सुस्सलभूभुजि । कलहावसरेष्वेव कश्मीरेषु प्रपेदिरे ॥ ३३४७ ॥ गोत्रे तेषां क्षत्रियाणां जातः कमलियानुजः । राजवीजी सङ्गियाख्यः प्रतिष्ठां स्वाख्ययाकरोत् ॥ ३३४ वितस्तापुलिने बाणलिङ्गे तेन निवेशिते । जायते स्वर्धनीरोधःसंप्ररूढविमुक्तधीः ॥ ३३४९ ॥ तदीयं च मठं चैव तपोधनविभूषितम् । दृष्ट्वा निवर्तते रुद्रलोकालोकनकौतुकम् ॥ ३३५० ॥ लोठनेन्यप्रतिष्ठानामधन्यद्रविणार्पणे । न तेनाद्यतने काले संरब्धे शुद्धबुद्धिना ॥ ३३५१ ॥ उदयस्य प्रिया चिन्ताभिधाना कम्पनापतेः। पुलिनोर्वी वितस्ताया विहारेण व्यभूषयत् ॥ ३३५२ ॥ प्रासादपञ्चकव्याजातद्विहारस्थितः करः । उदस्त इव धर्मेण प्रोत्तुङ्गाङ्गुलिपञ्चकः ॥ ३३५३ ॥ सांधिविग्रहिको मङ्खकाख्योलंकारसोदरः । समठस्याभवत्प्रष्ठः श्रीकण्ठस्य प्रतिष्ठया ॥ ३३५४ ॥ मठाग्रहारदेवौकोजीर्णोद्धारादिकर्मभिः । अनुजा सुमना नाम रिल्हणस्यासदत्तुलाम् ॥ ३३५५ ॥ भूतेश्वरे मठं कृत्वा त्रिग्राम्यामप्यपातयत् । तोयं कनकवाहिन्या वितस्तायाश्च यः पितॄन ॥ ३३५६ १ वासनैः इति स्यात् । २ संप्ररूढाविमुक्तधीः इति स्यात् ।

२९२
राजतरङ्गिणी
%
प्रदेश्यकश्यपागाराभिधाने नीलभूः सरित् ।
जिगीषयेव जाहव्या यत्र पूर्वी दिशं गता ॥ ३३५७ ॥
उत्ताराय गवादीनां यः सेतुं तत्र बन्धयन् ।
निर्ममे निर्मलं कर्म संसारोत्तरणक्षमम् ॥ ३३५८ ॥
नगरेपि स्वनामाङ्कवृषाङ्कागारकारिणा ।
मठो येन कृतोभ्रष्टजटाधरघटाश्रयः ॥ ३३५९ ॥
मम्मेश्वरं स सौवर्णामलसारं चकार यः ।
सोमतीर्थ तथा तोयोद्यानमुद्दयोतितान्तिकम् ॥ ३३६०
अत्र क्षमाभुजो वंशे वंशोन्नत्यधनादिषु ।
सासूयत्वममात्यानां धनप्राणादिहारिणः ॥ ३३६१ ॥
क्रुध्यन्नवासनाध्यासासूयया वासवोपि वा।
प्राभ्रंशयद्दिवो देवो मांधातारं धराभुजम् ॥ ३३६२ ॥
अविप्लुतमतिर्भूत्यान्कृत्यौन्नत्यवतोन्वहम् ।
दृष्ट्वा ध्यातस्वमाहात्म्यवृद्धिस्तु प्रीयते नृपः ॥ ३३६३ ॥
कलशक्षमापतेः प्राज्ञोपझं मृत्योस्य रिल्हणः ।
कुर्वन्स्वर्णातपत्राणां प्रतिष्ठां प्रीतिकार्यभूत् ॥ ३३६४ ॥
स्वर्णपत्रां सुरेश्वर्या शिवयोः समवेतयोः ।
सदीपारात्रिकामत्रमैत्रीमति सघण्टिकम् ॥ ३३६५ ॥
बन्धोहिमाद्रेर्दयितः सुताजामातरौ शिवौ ।
स्वर्णच्छत्रच्छलान्मेरुद्भ्याघ्रातुमुपागतः ॥ ३३६६ ॥
उद्दिश्य यद्विरुधदुद्यममात्मयोनि-
दग्धो मयाङ्गघटनं दयितेन गौर्याः ।
सिद्धं तदत्र करुणामुमयति हेम-
च्छन्त्रच्छलाद्धरदृशश्चलितोग्निरूद्धम् ॥ ३३६७ ॥

अष्टमस्तरङ्गः। २९३ । छत्रं तत्र च रिल्हणेन विहितं रौक्मं महद्रुक्मिणी- प्रेयोमन्दिरमूर्ध्नि नद्धमधुनादभ्रं परिभ्राजते । क्षैव्येण क्षतजावपानजनुषा नष्टं ततः स्वामिना • प्राप्तं चक्रमवेक्षितुं सुरुचिरं भास्वानिवाभ्यागतः॥३३६८॥ तीर्थे मन्मथजित्खगध्वजढाजोर्जिताचार्यके साधाराभरणं क्रियापरिणतिस्वर्णातपत्रं प्रभोः । भात्येकस्य शिखाहिफूत्कृतिवलद्गङ्गाजरेणूपमं केशान्तस्थितमेघपार्श्वगतडित्पिण्डाभमन्यस्य च ॥३३६९॥ सौवर्णगुहिणाण्डकपरपुरे संसूत्रिताच्छन्त्रक- व्याकोशस्य समुद्गकप्रतिकृतौ दीर्घार्धितः । 'घने । सङ्गेनेन्दुकिरीटकैटभरिपुश्यामासितालंक्रिया सद्रत्नाकरयोः पिधानकरणिं स्वर्णातपत्रं गतम् ॥ ३३७० ॥ तं लोहरमहीपालमन्वजायन्त भूभुजः। रड्डादेव्या गुणोदाराश्चत्वारश्चतुराः सुताः ॥ ३३७१ ॥ गुल्हणेनापरादित्यो राघवेणेव लक्ष्मणः । अभिन्नभावः संवृद्धिं वर्तते लोहरे श्रयन् ॥ ३३७२ ॥ ललितादित्यदेवेन जयापीडो हि दारकः । भरतेनेव शत्रुघ्नः पाल्यमानः प्रवर्तते ॥ ३३७३ ॥ पार्थिवाहस्कराच्चारुनमस्काराद्यशस्करः । पञ्चमः क्षितिभृद्धयों बालातप इवोदितः ॥ ३३७४ ॥ चपलैः शैशवाच्छुद्धानुभावत्वात्ससौष्ठवैः । लडितैललितादित्यो भित्तीरप्यायत्यहो ॥ ३३७५ ॥ दत्तरक्षाञ्जनं ताम्राधरं गौरं तदाननम् । सबालातपभृङ्गाङ्कस्वर्णपङ्केरुहायते ॥ ३२७६ ॥ १ पुटे इत्युचितम् । २ प्रवर्धते इति स्यात् ।

। राजतरङ्गिणी आलापास्तस्य माहात्म्यगर्भा वालास्फुटा अपि । अमृतोर्दा भवोच्चारा मथ्यमानस्य वारिधेः ॥ ३३७७ ॥ महाभिजनसंजातो राजसूनुः स शैशवे । अभिधत्तेनुभावेन भव्येनागामि जम्भितम् ॥ ३३७८ ॥ • अत्यर्थमण्डनशिखण्डिशिखोपि तोय- स्पर्शासहाञ्चितकलापिकलापभङ्गया । वापी निपीतसलिलो वलितं प्रयाति चेष्टोक्तभावमहिमा वरवर्णिभावः ॥ ३३७९ ॥ चतस्रो मेनिला राजलक्ष्मीः पद्मश्रिया समम् । संजाता कमला चास्य कन्याः सत्कृत्यवृत्तयः ॥ ३३८० ॥ विनोदलीलोद्यानैस्तैर्नित्यकान्तैरपत्यकैः । द्योतितावनवद्यौ तौ प्रावृट्पुष्पाकराविव ॥ ३३८१ ॥ तीर्थायतनपूतेस्सिन्मण्डलेखण्डितैय॑यैः । रड्डादेव्या एव याता भाग्यभावं विभूतयः ॥ ३३८२ ॥ कृतानुयात्रा सा देवयात्रासु क्षितिपाङ्गना । राजलक्ष्मीरिवाभाति राजसामन्तमत्रिभिः ॥ ३३८३ ॥ सतीदेशे तीर्थसार्थास्त्यजन्त्यस्या निमजने । स्वानासक्तसतीमूर्तिस्पर्शनौत्सुक्यमञ्जसा ॥ ३३८४ ॥ चित्रे कालेत्र यात्रासु द्रष्टुं वृष्ट्युत्तरैः सदा । यत्प्रावृडिव"""यं जीमूतैरनुगम्यते ॥ ३३८५ ॥ सा पार्थिवेषु तीर्थेषु स्नानाय प्रस्थिता ध्रुवम् । दिव्यैर्वर्षमिषात्तीथैः प्रादृश्येत तदीर्घ्यया ॥ ३३८६ ॥ अभ्रंलिहान्न च गिरीन्न च कूलंकषा नदीः । मृद्धङ्गी दुर्गमा मार्गे तीर्थोत्सुक्येन वेत्त्यसौ ॥ ३३८७ ॥ १ बाल्यास्फुटा इति स्यात् । २ अमृतार्दा इवोगारा इति स्यात् । Twitter Hal अष्टमस्तरङ्गः। २९५ सुबद्दीभिः प्रतिष्ठाभिर्जीणोद्धारैश्च धीरया । तया चित्रं चतुरया पङ्गुर्दिद्दा विलविता ॥ ३३८८ ॥ अद्यापि विक्षरत्क्षीरार्णवकान्तिच्छटाच्छलात् । यो भातीव सुधासूतिसितश्वेताश्मनिर्गतः ॥ ३३८९ ॥ उपमन्योरुदन्याया दारिद्योपद्वापहः । रुद्रो रुद्रेश्वरो नाम्ना श्रीमान्कश्मीरभूषणम् ॥ ३३९० ॥ जगत्सौन्दर्यसारं स सस्वर्णामलसारकः । शान्तावसादप्रासादोद्धारश्च विहितस्तया ॥ ३३९१ ॥ सत्त्वानामिव भृत्यानां कोपौर्वविकृते नृपे। उदन्वतीव शरणं सिन्धुहमवतीव सा ॥ ३३९२ ॥ स्थिरप्रसादे भूपाले निग्रहानुग्रहौ क्षणात् । भूभुजामपि संवृत्तावविच्छिन्नस्तदिच्छया ॥ ३३९३ ॥ सोमपालात्मजो भूभृद्भूपालः प्रापितस्तया । मानिन्या मेनिलादेव्या विवाहेन महार्हताम् ॥ ३३९४ ॥ उत्पत्तिभूभिसुलभानुभवो न भूम्ना कस्याप्यो व्यभिचरत्यनुभावभावः । तेजस्तमोविलुठनवतमुष्णभानो- श्छेदं तदुत्थमकरोत्तमसोपि चक्रम् ॥ ३३९५ ॥ भूभुजाभवत् । प्रातिभाव्यं दृढं रत्नाक्रान्तसन्मण्डलावनिः ॥ ३३९६ ॥ ऊढायां मेनिलादेव्यां परिणेतुरभूदपि । पिता वैमत्यमुत्सृज्य निर्व्याजं राज्यदायकः ॥ ३३९७ ॥ राज्ञा प्राजिधरस्याजौ तरसा भूभुजोनुजः । वैरिभिनिहतस्याने वैरसंशोधनोद्यतः ॥ ३३९८ ॥ । भुवनाद्भुतसाम्राज्यमार्जनो १ अविच्छिन्नौ इति स्यात् ।

२९६ राजतरङ्गिणी रड्डां शरणमेत्योच्चैर्मानोत्कट्यो घटोत्कचः । भेजे राज्यश्रियं प्राप्य चित्रं राज्यश्रियं पराम् ॥ ३३९९ ॥ कुलकम् ॥ कृतसाहायकोमात्यै राज्ञः सप्रजिमङ्गदम् । राज्यं प्राभ्रंशयद्भातृद्रुहं पञ्चवटो नृपम् ॥ ३४०० ॥ अलङ्घयत्तत्प्रभावात्स्फारदानाम्बुनिर्भरात् । सरितं खगवल्ली च कृष्णां विद्वेषिगोचराम् ॥ ३४०१ ॥ द्वितीयस्योरशाभर्तुरकीर्तिर्निर्जयासृजत् । देवप्रभावाद्योधाग्रमत्युग्रपुरमग्रहीत् ॥ ३४०२ ॥ शीतोष्णवारणशशिद्योतकल्लोलितास्ततः । बहवो वाहिनीनाथाः प्रथामित्थं प्रपेदिरे ॥ ३४०३ ॥ समाद्वाविंशती राज्यावाप्तेः प्राग्भूभुजो गताः । तावत्येवाप्तराजस्य पञ्चविंशतिवत्सरे ॥ ३४०४ ॥ इयदृष्टमनन्यत्र प्रजापुण्यैर्महीभुजः । परिपाकमनोज्ञत्वं स्थेयाः कल्पातिगाः समाः ॥ ३४०५॥ अम्भोपि प्रवहत्स्वभावमशनै राश्यानमश्मायते ग्रावोम्भः स्रवति द्रवत्वमुदितोद्रेकेषु चावेयुषः । कालस्यास्खलितप्रभावरभसं भाति प्रभुत्वेद्भुते कस्यामुत्र विधातृशक्तिघटिते मार्गे निसर्गः स्थिरः॥३४०६॥ १ सितोष्ण इत्युचितम् ।

अष्टमस्तरङ्गः।
२९७
प्रयाते अधिकेप्यर्धसमाषट्कशते कलेः ।
कश्मीरेष्वास्त गोनन्दः पार्थानां सेवया नृपः॥१॥
सूनुर्दामोदरोस्याथ तस्य पत्नी यशोमती ।
गोनन्दोन्यस्तत्सुतोपि ततोतीत्य महीपतीन् ॥ २॥
पञ्चविंशतमज्ञातानुग्रहाभिजनाभिधान् ।
राजाभवल्लवो नाम सूनुस्तस्य कुशस्ततः ॥ ३ ॥
द्वौ खगेन्द्रसुरेन्द्राख्यौ पुत्रपौत्रावमुष्य तु ।
गोधरोथान्यकुलजः सुवर्णाख्यस्तदात्मजः ॥ ४ ॥
तजन्मा जनकोप्यासीत्सूनुः शच्याः शचीनरः ।
अथाशोकोभवद्भूभृद्राज्ञोस्य प्रपितृव्यजः ॥ ५ ॥
तजौ जलौकाः संदिग्धवंशो दामोदरस्ततः ।
तुल्यं त्रयोथ हुष्काद्यास्तुरुष्काभिजनोद्भवाः ॥ ६ ॥
अभिमन्युस्तृतीयश्च गोनन्दोथ विभीषणः ।
ताविन्द्रजिद्रावणश्च पितापुत्रौ क्रमानृपौ ॥ ७ ॥
अन्यो बिभीषणः सिद्ध उत्पलाख्यश्च तत्सुतः ।
पश्चात्ततो हिरण्याक्षो हिरण्यकुल इत्यभूत् ॥ ८ ॥
राजा वसुकुलस्तस्य सूनुः ख्यातस्त्रिकोटिहा ।
क्षितिनन्दो बकात्मजो वसुनन्दस्तदात्मजः ।
नरोन्योक्षस्ततो गोपादित्यगोकर्णको क्रमात् ॥ १० ॥
तस्मान्नरेन्द्रादित्योभूत्तत्पुत्रोन्धयुधिष्ठिरः ।
तस्मिन्प्रभ्रंशिते भृत्यैरन्याभिजनसंभवः ॥ ११ ॥
भूपः प्रतापादित्योभूजलौकोपि तदात्मजः ।
तुञ्जीनो निःसुते तज्जो विजयोन्यकुलोद्भवः ॥ १२ ॥

राजतरङ्गिणी जयेन्द्रस्तत्सुतोपुत्रः सचिवः संधिमानभूत् । युधिष्ठिरस्य पौत्रेण गोपादित्यात्मजन्मना ॥ १३ ॥ श्रीमेघवाहनेनाथ गोनन्दयोदितं कुले। ततः प्रवरसेनोभूभृपः कश्मीरमण्डले ॥ १४ ॥ तत्सूनुश्च हिरण्योभूत्पालयन्क्षितिमण्डलम् । मातृगुप्तोमवद्दत्तराज्यस्तेन शकारिणा ॥ १५ ॥ ततः प्रवरसेनोन्यस्तोरमाणात्मजः क्षितिम् । लेभे हिरण्यभ्रातृव्यस्तस्य पुत्रो युधिष्ठिरः ॥ १६ ॥ ततो नरेन्द्रादित्यश्च रणादित्यश्च भूपतिः । क्रमादभूतां तत्पुत्री विक्रमादित्यभूपतिः ॥ १७॥ बालादित्यश्चोदभवद्विक्रमादित्यनन्दनः । बालादित्यस्य जामाता ततो दुर्लभवर्धनः ॥ १८ ॥ सूतुर्दुर्लभकस्तस्य चन्द्रापीडोभवत्ततः । तारापीडोनुजन्मास्य मुक्तापीडोस्य चानुजः ॥ १९ ।। भूपावास्तां कुवलयापीडो द्वैमातुरोस्य च । वज्रादित्यः सुतो राज्ञो मुक्तापीडस्य तत्सुतौ ॥ २० ॥ पृथिव्यापीडसंग्रामापीडावास्तां महीभुजौ । जयापीडोस्य मत्री च जजः पुत्रावपि क्रमात् ॥ २१ ॥ ललितापीडसंग्रामापीडी ज्येष्ठात्मजस्ततः । श्रीचिप्यटजयापीडः कल्पपाल्युद्भवोभवत् ॥ २२ ॥ अभिचारेण तं हत्वा सांमत्यादितरेतरम् । उत्पलाधैरसंप्राप्तराज्यैस्तन्मातुलैः कृतः ॥ २३ ॥ भ्रातुः पुत्रोजितापीडो जयापीडस्य तत्पदे । अनङ्गापीडनामा च संग्रामापीडजस्ततः ॥ २४ ॥ ।

अष्टमस्तरङ्गः।
२९९
तमुत्पाट्योत्पलापीडोस्याजितापीडनन्दनः ।
अवन्तिवर्मा शूरेण तं निवार्याथ मन्त्रिणा ॥ २५ ॥
नप्तोत्पलस्य विदधे साम्राज्ये सुखवर्मजः।
सूनुः शंकरवर्मा स गोपालस्तस्य चात्मजः ॥ २६ ॥
रथ्यागृहीतः प्राभूञ्च तद्भाता संकटाभिधः ।
सुगन्धाख्या तयोर्माता तं विनाश्याथ भूभुजम् ॥ २७ ॥
शूरवर्मप्रनतारं पहुं तत्रिपदातयः ।
चक्रुर्निर्जितवर्माणं ततः पार्थस्ततः क्रमात् ॥ २८ ॥
चक्रवर्मा शूरवर्मा चेति निर्जितवर्मजः ।
चक्रवर्मण्यतीतेथ पापी पार्थात्मजः क्रमात् ॥ २९ ॥
उन्मत्तावन्तिवर्मासीत्तत्पुत्रे शूरवर्मणि ।
राज्याष्ट्रेि द्विजैश्चक्रे राज्य मन्त्री यशस्करः ॥ ३० ॥
प्रपितृव्यात्मजस्तस्य वर्णटस्तनयोनु तम् ।
राज्ये वक्राझिसङ्ग्रामस्तस्थौ निष्पाद्य तं ततः ॥ ३१ ॥
अमात्यः पर्वगुप्ताख्यो राज्यं द्रोहेण लब्धवान् ।
क्षेमगुप्तः सुतोस्यासीदभिमन्यौ तदात्मजे ॥ ३२ ॥
शान्ते मात्रा पाल्यमाने नन्दिगुप्ते च तत्सुते ।
ततस्त्रिभुवने भीमगुप्ते च क्रूरचेष्टया ॥ ३३ ॥
पौत्रे तयैव निहते स्वयं दिद्दाख्यया कृते ।
राज्ये संग्रामराजोपि भ्रातृव्योन्ते नृपः कृतः ॥ ३४ ॥
हरिराजानन्तदेवावास्तां तस्यात्मजौ ततः ।
कलशोनन्ततनयः क्रमाद्भूपौ तदात्मजौ ॥ ३५ ॥
उभावुत्कर्षहर्षाख्यावपि निष्पाट्य भूपतिम् ।
हर्षदेवं तमुद्दामविक्रमोनन्यवंशजः ॥ ३६ ॥

३००
राजतरङ्गिणी अष्टमस्तरङ्गः।
२
भ्रातुः पुत्रस्य दिदाया जस्सराजस्य नतृतः ।
मल्लाभिधानादुद्भूतो भूपतामुञ्चलोभजत् ॥ ३७॥
द्रोहेण तं हतवतां भृत्यानामग्रतस्ततः ।
शङ्खराजान्यनामाभूद्रड्डाख्यः क्षणिको नृपः ॥ ३८ ॥
गग्गेन निहते तस्मिन्मल्लो द्वैमातुरोप्यभूत् ।
तस्योच्चलमहीभर्तुओता निर्बध्य तं बली ॥ ३९ ॥
सुस्सलाख्योग्रहीद्राज्यं माल्लिरुञ्चलसोदरः।
विरक्तैः पाटिते तसिवाज्यानृत्यैर्नृपः कृतः ॥ ४० ॥
षण्मासान्हर्षभूभर्तृनप्ता भिक्षाचराभिधः ।
पुनर्निर्वास्य तं प्राप्तराज्ये सुस्सलभूभृति ॥ ४१ ॥
क्रमाल्लवन्यैर्विश्वस्तैर्द्धराज्योढेजिते हते।
लवन्यानिखिलास्तं च हत्वा भिक्षाचरं नृपम् ॥ ४२ ॥
सुतः सुस्सलभूभर्तुः संप्रत्यप्रतिमक्षमः ।
नन्दयन्मेदिनीमास्ते जयसिंहो महीपतिः ॥ ४३ ॥
गोदावरी सरिदिवोत्तुमुलैस्तरङ्गै-
वक्रैः स्फुटं सपदि सप्तभिरापतन्ती ।
श्रीकान्तराजविपुलाभिजनाब्धिमध्यं
विश्रान्तये विशति राजतरङ्गिणीयम् ॥ ४४ ॥

BOMBAY SANSKRIT SERIES. Edited under the superintendence of Dr. P. Peterson and Dr. R. G. Bhandarkar. Rs. 2. p. # 06 . . & . 6 ## No. 1. Panchatantra, Books IV. and V. Editedwith Notes, by Dr. Bühler 0 4 0 No. II.-Nîgojibhatta's Paribhâshendus'ekhara. Edited and explained by Dr. Kielhorn. The Sanskrit Text and various Readings, Part I. 0 8 0 No. III.-Panchatantra, Books II. and III. Edited, with Notes, by r. Bühler... 0 4 0 No. Iv.-Panchatantra, Book I. Edited, with Notes, by Dr. F. Kielhorn No. V.--The Raghuvams'a of Kalidasa, with the Commentary of Mallinâtha. Edited, with Notes, by s. P. Pandit, M. A. Part I., Cantos I.VI. 1 0 0 No. VI. Málavikâgni mitra: a Sanskrit Play by Kalidâsa. Edited, with Notes, by Shankar P. Pandit, M. A. No. VII.-- Nâgojibhatta's Paribhâshendus'ekhara. Edited and explained by Dr. Kielborn. Part II. (Translation and Notes), Paribhashâs I.--XXXVII. 08 No. VIII.-The Raghuvams'a of Kalidasa, with the Commentary of Mallinâtha. Edited, with Notes, by S. P. Pandit, M. A. Part II. Cantos VII.- XIII 0 12 0 No. IX.--Nagujibhatta's Paribhâshendus'ekhara. Edited and explained by Dr. Kielhorn, Part II. (Translation and Notes), Paribbâshâs XXXVIII. -LXIX. 0 8 0 No. X.---The Dasakumâracharita of Dandin. Part I. Edited, with Critical and Explanatory Notes, by Dr. Bühler 08 0 No. XI.-The Nitis'ataka and Vairâgyas'ataka of Bhartřihari, with extracts from two Sanskrit Commentaries. Edited, with Notes, by Kashinâth Trimbak Telang, M. A. (copies not available.) No. XII.-Någojibhatta's Paribhâshendus'ekhara. Edited and explained by Dr. Kielhorn. Part II. (Translation and Notes), Paribhashas LXX.-CXXII. No. XIII.-The Raghuvams'a of Kalidasa, with the Commentary of Mallinâtha. Edited, with Notes, . # e. . #O ### 0 . ed 6 Rs. a. p. @ W 1 vo ## ( 2.) by S. P. Pandit, M. A. Part III., Cantos XIV. XIX 0 8 0 No. XIV - Vikramâňkadeva-Charita. Life of king Vikramaditya Tribhuvanan alla of Kalyana, composed by his Vidyâpati Bilhana. Edited, with an Introduction, by Dr. G. Bühler (copies not available.) No. XV.--Mâlati-Madhava: a Drama by Bliavalıbūti. Edited, with Critical and Explanatory Notes, by Dr. R. G. Bhandarkar, M. A. ( second Ed. in the Press.)... No. XVI.-Vikramorras'ı: a Drama by Kalidasa. Edited with Notes, by Shankar P. Pandit, M. A... No. XVII.-Hemachandra's Des înå mamala. Edited, with Critical Notes, a Glossary and a Historical Introduction, by Professor R. Pischel and Dr. G. Bühler, Part I. Text and Critical Notes, by Professor Pischel. 1 0 0 No. XVIII.Vyakarana-Mahâbhâshya of Patañjali. Edited by Dr. F. Kielhorn. Vol. I. complete. Parts I, II & III. No. XIX. Ditto ditto bv ditto. Vol. I. Part. II. No. XX. Ditt ditto by ditto. Vol. I. Part. III. 0 0 No. XXI. Ditto ditto by litto. Vol. II. Part. I. No. XXII. Ditto ditto by ditto, Vol. II. l'art. II. 0 0 No. XXIII. Vâsishtha llarmas'âstiam. Edited, with Notes, hy Dr. A. A. Führer 0 8 0 No. XXIV. -Kadambari by Bâna and his son. Vol. I. Sanskrit Text, complete. Edited by Dr. P. Peterson. (copies not available. Do. Vol. II. Introduction and Notes, by do. 2 0 0 No. XXV.-Kirti-Kaumudi. Edited, with Notes, by Prof. A. V. Kathavaté. (copies not available.) No. XXVI.--Vyakarana-Malâbhâshya of Patañjali, Edited by Dr. F. Kielhorn. Vol II. Part III. 1 0 0 No. XXVII.Mudrarakshasa, by Visakhadatta, with the Commentary of Dhundiraja. Edited, with Notes, by K. T. Telang. (Copies not available.) No. XXVIII-Vyâkarana-Mahâbhâshya of Patañjali. Edited by Dr. F. Kielhorn. Vol. III. Part I. 1 0 0 No. XXIX.–Do.-Do. of Do, by Do. Vol. III. Part II. 1 0 0 No. XXX.-Ditto do. of do, by do. Vol. III. Part III. 1 0 0 No, XXXI.Subhahitavalt of Vallabhadeva. Edited by Dr. P. Peterson and Paudit Durgaprasad pun 1 1 O kad #R ## . ANA * Rs. 2. p. . II. (completing Dr. Bühler's Edition). Edited with ( 3 ) No. XXXII.---Tarka-Kaumudi of Laugakshi Bhaskara. Edited by Professor M. N. Dvivedi 0 120 No. XXXIII.-Hitopades'a of Narayaņa. Edited by Dr. P. Peterson, 0 14 0 No. XXXIV.-The Gandavaho, by Våkpati. Edited by Shankar P. Pandit 3 0 0 No. XXXV.- Mahânârâyana Upanishad. Edited by Colonel G. A. Jacob 0 7 0 No. XXXVI.-University Selections of Hymns from the Rigveda. Edited by Dr P. Peterson 4 0 0 No. XXXVII.-Sârngadharapaddhati. Edited by Dr. P. Peterson. Vol. I. 300 No. XXXVIII.-Naishakarmyasiddhi, Edited by Col. G. A. Jacob 2 0 0 No. XXXIX.-A Concordance to the principal Upanishads and Bhagavadgitâ, by the same author. 8 0 0 No. XL.--Eleven Atharvaņa Upanishads, with Dipikas, by the same author 2 8 0 No. XLI.--Handbook to the study of the Rigveda, by Dr. P. Peterson, Part I. 3 0 0 No. XLII.-The Das'akumâracharita of Dandin, Part OSO # . # 666 ## .. ... 0 Critical and Explanatory Notes by Dr. P. Peterson. 0 8 0 No. XLIII.-Handbook to the study of the Rigveda, by Dr. P Peterson. Part II. Peterson. Part II. comprising the Seventh Mandala with the commentary of Sâyana... 5 00 No. XLIV.-Aphorisms of the Sacred Law of the Hindus, an Index of the Sûtras and the various Readings of the Hiraṇyakeshî-Dharmasâ tra, by Dr. G. Bühler Part I. 2 12 0 No. XLV.-Râjatarangini. Edited by Pandit Durga. pra âd, Part I. containing the first 7 (seven) Tarangas 3 0 0 No. XLVI. --Patañjali's Yogasůtras. Edited with the Scholium of Vyâsa and the Commentary of Vâchaspati, by Râjârâm Shâstri Bodas 3 4 0 No. XLVII.- Pârâs'ara Dharma Samibitâ with the Commentary of Siyana Madha vacharya, Vol. I. Part I. Edited by Pandit Vâman Shâstri Islâmpurkar 4 4 0 No. XLVIII.--Ditto do. of do. by do. Vol. I Part II. 4 0 0 No. XLIX.-Nyâyakos'a. 2nd Edition. Edited by Mahamahopadhyâya Bhimâchârya Załkikar 12 0 0 No. L.-Âpastamba Dharmasútra, Part II. Edited by Dr, G. Bühler 1 8 0 #6 DO $ # a @ @ ..

The Raj Tarangini Of Kalhana

Title
The Raj Tarangini Of Kalhana
File name
The Raj Tarangini Of Kalhana
Text
OCR done
Publisher
Null
Language
Sanskrit
Pages
304
Library
Bharti Bhawan Liabrary, Allahabad
Classification
Litrature
DLI number
273894
Barcode
5990010894498.00
Scanning centre
IIIT, Allahabad
Digital publisher
Digital Library Of India
VMLT id
PbtONVsayLc
Download PDF

The Raj Tarangini Of Kalhana