Svclrc

The Vidyaparinayana Of Anandarya Makhi

Pandit Sivadatta · 11/23/2002

PDF Proofread

Front matter

THE
VIDYAPARIŅAYANA
OP
ÂNANDARAYA MAKHÍ. ;
EDITHD 1
PANDIT SIYADATTA
AND
KÂS'INÂTA PÂNDURANG PARAB.
PHINTED AND PUBLISHED
RY
TUKARAM JAVAJI
PROPRIOTOR OF "JAVAJI DADAJI'S NIRNAYA-SAQAR" Purse
BOMBAY

1127 konywanie #sw4ESณวาร : zgtawut Ilrowaniuutalo 8€ ivyw wromoto gh o'rock book of glo (๑๒ในพ Instre ore un well ๕๕๖งตะ*** S be crear la roue ho 6:"prwareษขต 5e9) A 192 " 92 8 6 6 Sewn ส แขก 6-0 ซ.ซ์: 87 9%ารกด**, ขก4247 26 ไกการ Registered. Sooording to act XXV of 1867.) การ Muzey, All rights reserved by the Publisher. ) we 634 0.82 2558 18 -ชุม คลขns 4) ๆ vvvy మని 74 (yuusue ovAGr bhfeiro Law 25 Jouring who frenho ew"3AH8g 8ะ :เoegy thuono varing Paisuwa. NE- HEIGHeiseROURKA vAsampadandrugar VILASA काव्यमाला ३९. *กอก #. आनन्दरायमखिविरचितं and- विद्यापरिणयनम् । . जयपुरमहाराजाश्रितमहामहोपाध्यायपण्डितदुर्गाप्रसाददारक- केदारनाथकृपाङ्गीकृतशोधनकर्मणा शिवदत्तशर्मणा, मुम्बापुरवासिपरबोपालपाण्डुरङ्गात्मजकाशीनाथ- शर्मणा च संशोधितम् । मुम्बय्यां निर्णयसागराख्ययत्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीतम् । 1020100---- १८९३. (अस्य मन्थस्य पुनर्मुद्रणादिविषये सर्वथा निर्णयसागरयन्त्रालयाधि- पतेरेवाधिकारः।)

4 काव्यमाला। आनन्दरायमखिविरचित विद्यापरिणयनम् । .. प्रथमोऽङ्कः। सत्यज्ञानसुखाद्वयोऽपि बहुधा रूपाणिं बिभ्रच्चिरा- दप्रज्ञेयविलासवैभवनिजाविद्याविधेयीकृतः । आनन्दान्विपयोदिताननुभवन्भूयः स्वया विद्यया प्रश्लिष्टः परमार्थभोगमुदितः पायादुमायाः पतिः ॥ १ ॥ किं च । क्रीडोद्यान निकुञ्जसीमनि सखीचातुर्यतो मिश्रयो- रुत्कूलप्रणयोदिते सरमसाश्लेषे मियः प्रस्तुते । संमोहस्तिमिता समग्रपुलका विस्रस्तवेद्यान्तरा वृत्तिः सा शिवयोरपारपरमानन्दा शिवायास्तु वः ॥ २ ॥ "अपि च । संजन्तो मृगतृष्णिकानलनिधौ मुक्तानिघृक्षारसा. द्वन्ध्यापत्यकलादशुक्तिरजताकल्पेषु संकल्पिनः । १. 'अयं च श्रीमदानन्दरायमखी नृसिंहरायाध्वरिसूनुख्यम्बकदीक्षितस्य. भातव्यस्त- ओरनगरमहीपतेरेकक्षितिपालवंशतिलकस्य शरभापरपर्यायस्य श्रीशहिराजस्य मन्त्रिप्रवर भासीदित्यादि सर्वमेतत्मणीतस्य जीवानन्दतस्य विद्यापरिणयनस्य च प्रस्तावनातः प्रती- यते । स च शरंभमहीपतिः खिस्ताब्दीयसप्तदशशतकपूर्वार्ध आसीदिति स एवास्य समयः । एतत्कृतिषु जीवानन्दनं विद्यापरिणयन चेति नाटकद्वयमस्माभिरुपलब्धम् । इति जी. पानन्दन(काव्यमाला-२७)समाप्तिपत्रे, महामहोपाध्यायाः: २. अस्य. नाटकस्य पु- स्तकद्वयमस्माभिरासादितम् . तत्रैक जयपुरराजगुरुश्रीनारायणभडपर्वणीकरैः (क-संज्ञकं ७८ पत्रात्मकम), अपरं च जयपुरराजगुरुश्रीलक्ष्मीदत्तमहसुतश्रीदत्तैः (ख-संहकं १११ पत्रात "त्मकम्), दत्तमिति तेषां महान्तमुपकारमूरीकुर्मः... है काव्यमाला। व्यावल्गन्त्यविमशिनो यदवधि ज्योतिः परं ज्योतिषां तत्सेतुर्जगतोऽखिलस्य तमसः पारं परं भातु वः ॥ ३ ॥ अपि च। प्राग्जन्मीयतपफलं तनुभृता प्राप्येत मानुष्यक तञ्च प्राप्तवता किमन्यदुचितं प्राप्तुं त्रिवर्ग विना । तत्राप्तिश्च यया भवेत्फलवती विश्वोत्तरां शाश्वती तामद्वैतकलां कलानिधिकलामौलिविधत्तां शिवः ।। ४ ।। (नान्यन्ते) सूत्रधार:-(नेपथ्याभिमुखमवलोक्य ।) मारिष, इतस्तावत् । (प्रविश्य ।) पारिपाश्विक:-भाव, एषोऽसि । सूत्रधार:--अत्र तञ्जानगरे देशान्तरादागताः पौरजानपदा जना भगवत्यास्तावदानन्दवल्लयम्बाया महोत्सवदिदृक्षया संघीभूताः सरसकवितानाम्नो हेन्नः कषोपलतां गताः विहरणभुवः षड्दर्शन्या विवेकधनाकराः । विदधति तपोलम्याः सम्या इमे मम कौतुक तदिह हृदयं नाट्येनैतानुपासितुमीहते ॥ ५ ॥ पारिपाश्विका के पुनः प्रबन्धमवलम्ब्य । सूत्रधार। नन्वस्ति मम वशे सकलशमधनजनहृदयानन्दसमुद्धाटकं विद्यापरिणयनं नाम नवीनं नाटकम् । पारिपाश्चिका-कस्तस्य प्रबन्धस्य कविः । सूत्रधारा--विद्वत्कविकल्पतरुरानन्दरायमखी । य एष गुरुदेवद्विजभक्तो नैमित्तिकनित्यकाम्यकर्मपरः । दीनजनाधीनदयो विहरति समरे च विक्रमार्क इव ॥ ६ ॥ यस्य किल / आनन्दरायमखिनो वाल्मीकेरिव योगिनः इतसपेक्षणात्सारः स्वतः सारस्वतोदयः ।। ७ ।।

१ अङ्कः]] विद्यापरिणयनम् । अपि च / नानापूर्वमहाक्रतुप्रणयतरध्यात्मसमर्शनैः कर्मब्रह्मपथप्रचारसविता षड्दर्शनीवल्लभः । तातो यस्य किलैकराजवसुधाधौरंधरीगीपतिः क्षोणीपालकिरीटलालितपदः ख्यातो नृसिंहाध्वरी ॥८॥ अपि च । यस्य तातानुजन्मापि यशःपावितदिव्युखः । त्रिवर्गफलसंपन्नख्यम्बकामात्यदीक्षितः ॥ ९ ॥ यः स्नातोऽजनि दिव्यसिन्धुसलिले यः स्वात्मविद्याश्नुवो येनाकारि सहस्रदक्षिणमखो यः सद्भिराश्रीयते । सोऽयं त्र्यम्बकराययज्वतिलको विद्वत्कवीनां प्रमो. यत्तातस्य नृसिंहरायमखिनस्तुल्यप्रभावोऽनुजः ॥ १० ॥ स तावत् 'इदं नाटकमुचितेषु प्रयोक्तव्यम्' इति सबहुमानमस्मद्वशे समर्पितवान् । 'अनेन सुकरमभिरूपपरिषदनुरञ्जनम्' इति ममाध्यवसायः । पारिपाश्चिक:-भाव, "अपूर्वमप्राकृतसंविधानमुद्धष्यते नाटकमेतदत्र । रसानुभूतेरविलम्बहेतोनिलप्या किंचिदिवेतिवृत्तम् ॥ ११ ॥ सूत्रधार:-युक्तमभिहितम्, श्रूयतां तावत् । यल्लाभतो वल्लभमस्ति नान्यदात्मा स शेषी सकलागमानाम् । येनाधिगम्येत तदागमान्तं प्रमेयसर्वस्वमिहेतिवृत्तम् ॥ १२ ॥ पारिपाश्चिक:-भाव, :-भाव, कृष्णमित्रप्रभृतिभिरत्र 'प्रबोधचन्द्रोदयः' इति, 'संकल्पसूर्योदयः' इति, 'भावनापुरुषोत्तमः' इतिः “च न्यबन्धि नाम बहुधा प्राचीनैः । किमनेनाभिनवसंरम्भेण । सूत्रधारः 'क्षुण्णा यद्यपि शास्त्रपद्धतिरसावन्यैः कवीन्द्ररयं त्वश्लीलं न तितिक्षते न सहते पात्रेषु चानौचितीम् । १. 'किमस्य नूतनपरिश्रमेण ख.

काव्यमाला। नेतुः शास्त्रमतां त्रिवर्गफलसंपत्ति विमुच्यात्ययो- पन्यासं च जुगुप्सते तदयमारम्भोऽस्य संरम्भतः ॥ १३ ॥ पारिपाश्चिक:-अद्वैत वस्तु,शृङ्गारो रसः, अथ च निर्दोषता, इति स- वमिदमत्यद्भुतं दृश्यते। अथवा-विश्वातिशायिलौकिकवैदिकलक्ष्मीविलासव्य- तिकरण जगदाश्चर्यकुलपरम्परानामत एते । एतत्प्रणीतममिनवमिदं नाट- कमसामिरमिनीयत इति वाङ्मनसांतिवति ननु भाग्यमिदमस्माकम् ।.परं तु श्रुतिस्मृतीतिहासागमतन्नादिसिद्धनानाविधसाम्बशिवचरणपरिचरणत- दनुसंधाननिरन्तरितनिखिलवासरस्य : तदन्तरालपरिमितपरिशिष्टकतिपय- मुहूर्तनिवर्तनीयचतुरुदधिपरिमुद्रितसकलराज्यतन्त्रस्य शरभमहाराजमन्त्रि... शिखामणेरस्य जनकसनकसनन्दनप्रमुखाभिनन्दनतदीहशमहाप्रबन्धनिब- न्धनपटिमधौरंधरीयमिति मे महदाश्चर्यम् । सूत्रधार:-किमुच्यते 'महदाश्चर्यम्' इति । आबाल्यादपि पोषितोऽजनि मया प्रेम्णा तथा लालित- स्तेनासौ सरसामुपैतु कवितामानन्दरायाध्वरी । इत्येकक्षितिपालवंशजलधेर्देव्या गिरां जातया धीरश्रीशरभावनीन्द्रवपुषा नूनं प्रसादः कृतः ।। १४ ॥.. अतः किमसाध्यमेतस्य । तत्प्रणीतमिदं नाटकमिह प्रयुञ्जातस्तदनुगुण- सकलगुणरमणीयानत्रभवतः सामाजिकानुपतिष्छे । (सामाजिकान्प्रति । किंचि- दिव कर्ण दत्त्वा ।) किं ब्रूय । (अप्राकृतसभाहृया न प्राकृतगिरो मताः । अतः संस्कृतया वाचा सभालंक्रियतामिति ॥ १५ ॥ साधु । सम्यगमिहितम् । तथैव प्रतिपात्रमाहितो यत्नः । (नेपथ्याभिमुखम- वलोक्य ।) आर्ये, इतस्तावत् । (प्रविश्य ।) नटी-आर्य, इयमस्मि । सूत्रधारः-आर्ये, यावदस्मदीयवा वर्णिकापरिग्रहणाय संन- ह्यन्ति, तावदिमं पुष्पसमयमधिकृत्य गीयताम् । संप्रति हि १. 'भद्वैत-अथवा' इति ख-पुस्तके नास्ति.

विद्यापरिणयनम् । सोत्कम्पस्तबकस्तनं दरचलहालप्रवालाधुर गायकोकिलपालितानघटनारज्यन्मिलिन्दवजम् । मन्दं मन्दसमीरदेशिकसमादेशादितो मञ्जरी वामाक्षित्वसिवाभिनन्ध नटना पुष्णाति दृश्योर्मुदम् ॥ १६ ॥ नटी-तथा । (इति गायति ।) मुंदितालिंगीतिशोभितमुग्धनवीनप्रसूनशोभनया । मल्लिकया सहकारं घटयन्ति विलासिनो महोत्साहाः ॥ १७ ॥ (नेपथ्ये ।) साधु । भरतकुलाङ्गने, साधु । सम्यगभिहितं भवत्या । प्रस्तुतानुगुण. वचनभङ्गीभिरभिनन्दनीयासि । सत्यम् । अहमिदानी विद्याया सह परमे- श्वरस्य प्रतिबिम्बभूतं जीवराज संघटयितुमेव विरचितोत्साही भवामि । सूत्रधारः-(श्रुत्वा । सहर्षम् ।) अये, मत्स्यालको रङ्गनाथनामा शि- वभक्तेर्भूमिकामादायागत एव । यदधुना ऊर्णाचन्दनचुम्बिफालफलकस्पष्टत्रिपुण्ड्रोज्ज्वला विभ्राणा परिपाकपिङ्गकलमच्छायं जटामण्डलम् कोटीराङ्गदहारकङ्कणपदे रुद्राक्षमालावती भस्मोद्भूलनपाण्डेरा भगवती भक्तिः पुरस्तादियम् ॥ १८ ॥ तदावामप्यनन्तरकरणीयाय सज्जीभवावः । (इति निष्क्रान्ती प्रस्तावना रततः प्रविशति शिवभक्तिः । शिवभक्ति-आदिष्टास्मि परमकारुणिक्या परमेश्वर्या । यथा- 'सुचिरसयमविद्यादुर्विलासेन्द्रनालेः पशुरिव मृगतृष्णावारिपूरैविकृष्टः १. 'व्रतम्' ख. २. 'पशुपतिरिव' ख, 16 काव्यमाला।. विलुठति खलु जीवो विस्मृतस्वीयभूमा कथमसि शिवभक्ते वत्सला त्वं पराची ॥ १९॥ इति । तदनु 'भू भावि भवद्विमृश्य सकलं जीवस्य दुःखं चिरा- दस्योत्तारणकारिणः कति बतोपायास्त्वयोद्भाविताः । इष्टापूर्तपुरोगमाः सनिगमा मन्त्राः. सतन्त्रा इमे सन्त्येवं जगदम्ब मद्विरहितं हीयेत किं साधनम् ॥ २०॥' कि च। नामैव नालमिह कि युवयोर्जनस्य संसारघोरविषसागरतारणाय । प्रायोभवन्ममतया कलितः स एष लोकेषु मामपि पदार्थयितुं प्रयत्नः ॥ २१ ॥' इति मया सविनयमभिहिते भगवती ससितमवोचत--'वत्से, मैवं वादीः । - कर्माणि सन्तु विविधानि करोतु तानि क्लिष्टश्चिरेण तपसा नियमैश्च घोरैः । स्वत्संनिधानविरहे तु भवन्ति तानि पाश्चालिकाभिनयवत्कलवञ्चितानि ॥ २२ ॥ तेदिदानी मनिप्रभृतिपक्कणे शबरताविमूढो यथा विनीय नृपनन्दनो नृपतिकन्यया योज्यते । तपैनमितरभ्रमाकुलमितो महादुर्घहा- द्विमोच्य निजविद्यया घटयितुं यतेथाः' इति ॥ २३ ॥ विचिन्त्य ।) ननु तदैव परमेश्वर्याभिहितम्-'अत्रं तव सहकृत्वरी निवृ- तिरनुपदमेव मया प्रेष्यते इति । तत्किमद्यापि निवृत्तिश्विरयति । (पुरो विलोक्य । सपरितोषम् ।) १. 'युवयोरनलं जनस्य ख. २. सततमस्मदनुकम्पया - सहचारिण्यास्तवेदमननु. रूपमेव । भता-जनि-ख. ३, "तथैव' का 14. १ अङ्कः "विद्यापरिणयनम् । भस्मालेपनतः क्षरजलधरच्छायां तनुं बिभ्रती पक्ष्मम्यामधरश्रिया च कथमप्युन्नेयवक्रास्बुजा । वैयाघ्र परिधाय चर्म दधती संव्यानमैणी त्वचं विद्युल्पिङ्गजटाच्छटा विजयते सेयं निवृत्तिः पुरः ॥ २४ ॥ (ततः प्रविशति निवृत्तिः।) निवृत्तिः-अम्ब शिवभक्ते, प्रणमामि । शिवभक्ति-वत्से, प्रकाशतां ते परं ज्योतिः । निवृत्तिः-भगवति, संदिष्टास्मि परमेश्वर्या-'वत्से, महति कार्य- विशेष मया नियुक्तायाः शिवभक्तेरभिहितकरणाय प्रत्यनन्तरीभव' इति । तदद्य को नियोगो भगवत्याः । शिवभक्तिः-वत्से निवृत्ते, कथंचिदस्य जीवराजस्य सुमहतः संक- टाद्विमोचने विद्यासंयोजने च विधेयो यत्नः । निवृत्तिः-किमेतावदस्य समापतितम् । शिवभक्तिः-किमितोऽपि समापतितव्यं देवस्य । शृणु तावत्, व्यामोहादसतीविलासजनितादासादितो लाघवं निःशङ्क परितो बलादविरतं कामादिमिः कर्षणात् । हृष्यञ्जातु रुदन्क्षणेन विहसन्भूयो विषीदन्मना- गित्थं हन्त परः पुमान्स महतीं नीचां दशामभुते ॥ २५ ॥ निवृत्तिा--(सखेदम् ।) आश्चर्यमिदम् । अप्रधृष्यस्य महात्मनो देवस्य दुःसङ्गदोषेण कियती विपत्तिरुदपद्यत । शिवभक्तिः किमेतावदेव । श्रूयतामनेऽपि । व्यामुग्धस्तरुगुल्मघासमननैः खेदान्कति प्रापितो भूयः कीटपतङ्गपन्नगमृगीभावैः कियत्क्लेशितः । दिष्टया मानुषपौरुषादिविधया पारं स्पृशन्वर्तते भूयो नीचपथे पतेयदि कथं देवी तितिक्षेत तत् ॥ २६ ॥ १. 'शिवभक्तिः-समापतितम्' इति ख-पुस्तके मास्ति.

८ काव्यमाला. निवृत्तिा-भगवति, पारस्पर्शनमस्य किं नाम । शिवभक्तिः-शृणु तावत् । 'शश्वसिन्धुतरङ्गवबहुजनुःसंपन्नधर्मोच्चयै- वर्णः स्वर्णवनस्य भाति बहुधा संस्कारसंयोगतः । अष्टावात्मगुणाश्च संनिदधते मैच्यादिभिर्भूषिता नेदिष्टो नरसिंह एप महितः कैवल्यलक्ष्म्या न किम् ॥ २७ ॥ इदमेव तत् । अतोऽयमेवावसरः प्रयनस्य । परमेश्वर्यापि तदिदमभि- संधायैव संप्रति वयमत्र सत्वर नियोजिताः । निवृत्तिा-भगवति, जीवराजस्य ताहगविद्याविघटनविद्यासंघटनवि- षये परमेश्वर्याः किनिबन्धनोऽयमियानभिनिवेशः । शिवभक्तिः-वत्से, जीवो नाम किमितरः परमेश्वराभ्याम् । शृणु तहिं । कथयामि ते भूतार्थम् । सत्यज्ञानसुखस्वरूपमहितः सर्वान्तरात्मेति यो विख्यातः पुरुषः स तावदसती पश्यन्न विद्यामिमाम् । अस्या विभ्रममोहितः प्रमुषितस्वीयप्रभावप्रथा जीवो जीव इति प्रपद्य सुचिरादुन्मत्तवनाम्यति ॥ २८ ।। किं च कि च स विद्या नाम परा म सापि परमा चिच्छक्तिरेवात्मनः सासिन्नीशि गर्हयैव विमुखी खेनात्मना वर्तते । यौ मातापितरौ समस्तजगतामायौ शिवौ तौ च तौ रूपं माम च भियतेऽथ समयेण्वेते मिथो नेतरे ॥ २९ ॥ तथा च परमेश्वरी स्वजनकसंकटविषये कथमुदासीन । निवृत्तिा-उपपन्नमेवैतत् । तदेवं प्रकृतस्य कार्यस्य निर्वतने का पुनरितिकर्तव्यता । तदत्र निपुणतरमेकमुपायमवधारयतु भगवती । शिवभक्तिः-(आत्मगतम् ।) अतिचिरादविद्यासंसाररसैकलम्पटस्य जीवराजस्य विषयदोषोद्भावनादिभिरभिमुखीकरणमतिनिम्नगामिनो महतः rea विद्यापरिणयनम् । प्रवाहस्य प्रतीपनमिव दुर्घटमेव । परंतु वासनागुणतया किंचिदपूर्वरमणी- मणिपरिणयनप्रणाडिकयैव विद्यासंघटनमुपपादनीयम् । (प्रकाशम् ।) आः, चिन्तितो मया तदभिमुखीकरणोपायः । निवृत्ति:-कथमिव । शिवभक्तिः--(कणे ।) एवमिव । निवृत्तिा-साधु चिन्तितं भगवत्या । शिवभक्ति-संप्रति हि जीवराजमविद्याविषयवासनाप्रवृत्तिभ्यां नि- रन्तरमुपरुध्य निःशङ्कमकुतोभयमखिलेषु विषयेषु विजृम्भते । तदविल- म्बितमभिमतसिद्धये व्याप्रियस्य । मयापि तत्तदुपसर्गविघटनाय प्रकृतकार्य- घटनाय च तत्र तत्र व्याप्रियते । (इति निष्क्रान्ते।) विष्कम्मः (ततः प्रविशति चित्तशर्मणा नर्मसचिवेन सपरिवारया चाविद्यया जीवराजः ।) जीवराजा--(देवीं प्रति ) प्रिये, नवनबोल्लासरमणीयैर्भवदभिरतिचम- त्कारैरति हि नास प्रीणिती ममायमन्तरात्मा । की पुष्णातु पुमांसमेंवमपरा संकल्पलेशोद्भवं नानाकारसमस्तभोग्यभरिता दैनंदिनैरुत्सवः । भूत भावि च वा कुहापि किमिदं यद्धि त्वयोद्भाव्यते नैषा दृष्टचरी न वा श्रुतचरी त्वचातुरीवैखरी ॥ ३० ॥ देवी-(सप्रश्रयम् । यत्किचित्प्रभवाम्यहं कृतिषुः तत्सर्वः भवद्वैभव कर्तुं भर्तुमथापहर्तुमपि वा काहं वराकी जड़ा । तत्सर्वं भवतो विभूतिकणिका यद्यम्मयोद्भावितं मामेषोपगता किलेति ममतास्नेहादभिष्टौषि, माम् ॥ ३.१ ॥ प्रवृत्ति:-अये भट्टिनि, स्तुतिरिति किमसदर्थोपन्यासः क्रियते नन्ययं भवत्या १. 'न्यास इह क्रियते' ख. २ १० काव्यमाला। दत्त्वा कर्मपथे विचित्रविभवे बुद्धि स्वमृद्ध्यंसलं वैरिश्चं पदमेतदैन्द्रमिदमित्युच्चैः पदं स्थापितः । स्वर्वामाघरमाधुरीषु मुदितः प्रेतन्मणीमेखला- जालोत्तालझलझलादिसुभगान्भोगान्कति प्रापितः ॥ ३२ ॥ देवी-सखि प्रवृत्ते, भवत्या मयि प्रणयविजृम्भितमेवैतत् । वस्तुतस्तु भवदायत्तमेवेदम् । तथाहि । क्रीडा काञ्चनशैलकूटघटितप्रत्युप्तनानामणि- ज्योतिःकर्बुरसौधसीमसु कनकल्पद्रुपुष्पास्तरे। उद्दामसरदर्पविभ्रमवती संभोगशृङ्गारिणो यत्क्रीडन्ति विलासिनस्तदखिलं लीलायितं तेन किम् ॥ ३३॥ चित्तशर्मा--(स्वगतम् ।) हन्त । तदेवमासामन्योन्यप्रशंसाभिनन्दना- भिनिवेशेन तन्मय इव जायते वयस्यः । तदयमेवावसरो विवेकादीनभिप्र- तिश्रुतार्थोपक्षेपस्य तदेवमभिध्यास्ये । (प्रकाशम् ।) अत्र तेन. किमित्येव प- रिणतो. सर्वमिदं भवेत् । विषयवासना-(सामर्षम् ।) अये, निपुणः खलु भवानुचितोपचारैः स्वामिपादपरिचरणेषु । (देवी प्रति ।) 'तेन किम्' इत्यस्मदुद्भावितेषु नीरस- त्वमापादयता राजहितैषिणामुना महामन्त्रिणा चित्तशर्मणा पूर्वेधुरधि- निशीथिनि विनोदव्याजेन देवपादविषये कश्चिन्महानुपचारः कृतः । 'स्व. धर्मः किलायमस्य' इति तद्देवेन तितिक्षितम् । देवी-तत्कथमिव । विषयवासना- शार्दूलश्वशृगालमर्कटमहारशस्तरक्ष्वात्मना घोरोद्धोषणमन्धकारिणि वने खादन्निवाभ्यागतः । देवी-स्वप्नस्य तदधीनतया तस्य सर्वोऽपि वेषः संगच्छत एव । ततस्ततः। - १. 'झलातिसुभ' ख. २. 'नपचारः' ख, १ अङ्कः] विद्यापरिणयनम् । ११ विषयवासना तदृष्ट्वा भयतो विसंस्थुलपदं धावन्दुमा पर्वता- नारोहनिपतन्निवाकुलतरो दिष्टया प्रबुद्धो विभुः ॥ ३४ ॥ जीवा-प्रिये, सत्यमेतत् । आकस्मिकतया बहुपर्याकुलोऽस्म्यनेन । देवी-सस्मितम् ।) उचितमेव कृतम् । भवितव्यं खलु तदेकीमावस्य फलभोगेन । चित्तशर्मा-(स्वगतम् ।) यथाकथंचिदयमभिभावनीय इति धूर्ताया विषयवासनाया हृदयम् । (प्रकाशम् ।) अयि कमले, यदसाधु तदेव मम चेष्टितमुद्भावयसि, यदभिनन्दनम्। इदं तुं प्रतिपादयसि । यत्किल त्वङ्गत्तुङ्गतुरङ्गकोटि बिनटन्माद्यत्पदाति कण- इण्टाजालझणझणदृढतति क्षीबद्विपश्रेणि च । सृष्ट्वानेकपुरीश्रिया सुरपुरीरेतास्वयं वैभवै- रानीतो मणिमण्डपे ननु मया सिंहासनेऽध्यासितः ।। ३५ ११ जीवः इदमप्यस्त्येव । तदेवमपूर्वार्थप्रपञ्चनविधावयमेव समर्थः । प्रवृत्तिा-आभासमात्रमिदमखिलमपि कस्मिन्कोणे वा भट्टिन्याः प्र- भावमहिमातिशयस्य । उद्यानानि महावनानि गिरयः प्रासादसौधादयः प्राकारस्तु सचक्रवालशिखरी खेयं तु सप्तार्णवी । आशास्तोरणगोपुराणि दश तास्तेजस्त्रयी दीपिका यस्याः शिल्पमियं पुरी वसुमती सा केन वा वर्ण्यताम् ॥३६॥ विषयवासना-सखि प्रवृत्ते, किमल्पमेवोदाहृतम् । इत्थं कति जगन्ति जयन्ति, कति वारानमूनि गतानि, कति च वारानुत्पादितानि भट्टिन्या । चित्तशर्मा-(सोत्प्रासम् ।) अये, सत्यम् । आमासमात्राण्येव मदार- ब्धानि । यतः प्रातिमासिकानि । युष्मदुद्भावितानि तु पारमार्थिकानि स्थिराणि सुखानि देवस्य । .

.१२ काव्यमाला। अविद्या-(सखेदम् ।) हन्त । प्रणयिनः समक्षमेव मर्मणि तोदः कृतो वैधेयेन । विषयवासना-अरे, तत्त्वं न जानासि । सुखमस्त्वसुखं वास्तु नैव साधु निरन्तरम् । यथा विरहिणी कान्ते रमते किं तथापरा ॥ ३७ ॥ देवी-अये, चपलस्वभावोऽयमस्थिरप्रणय इति । नन्ववगतमेतत् । चित्तशर्मा (सोल्मासम् । देव, श्रूयताम् । एतास्तावदहं प्रतार्य करणद्वाराणि बद्धा हद निर्व्यापारतया पुरीतदुदरे गूढं निलीय स्थिता दुःखासंकलितं नयाभ्यनुपदं नो चेद्भवन्तं सुखं कृत्वा रोगसहस्रगुम्फनमिमाः किं वा विदध्युन ते ॥ ३८ ॥ अपि च । इयं किल कदाचिदाश्रितमुत्कर्षति, कदाचिदपकर्षति, क- दाचिदभिनन्दयति । तत्तद्विलक्षणगुणभिन्नाः प्रकृतयस्तावदस्या दुर्वाराः । प्रवृत्तिा धिमूर्ख, कुलमहत्तरॉमपि भट्टिनीमभिभवञ्जाड्यमेव प्र. काशयसि । चित्तशर्मा-अये, जाड्यं चापलं मौय॑मन्यद्वा यत्किचिद्विवक्षितम्, तदखिलमपि युष्मदीयमेव । कि न प्रसरेयुः सवित्रीगुणास्तत्प्रसवेष्ठ । अविद्या (सखेदम् । आरमातिम् तम् ) केन किमुपदिष्टं वा यथापुरमयम- सासुन वर्तते। चित्तशर्मा--(स्मितं कृत्वा ।) राजा सर्वथायमेतत्कलहेन निर्विष्णो 'निवृत्त्युन्मुख इव दृश्यते । (ततः प्रविशति संकल्पो दौवारिकः ।) दौवारिका देव, तापसी काचन सशिष्या प्रतिहारभुवमागता दे- वपादं दिक्षते । राजा सादरं प्रवेश्यताम् । १. 'मेवैतत् ख.

bar विद्यापरिणयनम् । १३ . '. (ततः प्रविशति तापसीवेषा सह शिष्यया निवृत्तिः ।) निवृत्तिा-अये शान्ते, तत्रभवत्या शिवभक्त्याहमेवं किलाभिहि- तामि---'वत्से निवृत्ते, मायागहनकर्मणश्चित्तशर्मणो भेदनेनैव जीवराजो- ऽभिमुखीकरणीयः' इति । हन्त । परमार्थाविसंवादी भवति महात्मनामध्यव. सायः । तथाहि । प्रवृत्तिरिति विषयवासनेति च ये तावदिमे सांप्रतमवि- द्यासाम्राज्यसर्ववनिर्वाहिके प्रहिते, एतयोस्तावदन्धयोरिव चित्तशर्मावलम्ब- मन्तरेण कियानपि न प्रचारः । अस्मिंस्तु ततो भेदं गमिते तदन्ववायः स. वोऽपि शिथिलितप्रायः, तदिदमभिसंघायैव तद्भेदनाय भगवत्या शिवभक्त्या प्रथमत एव विवेकादयः प्रहिताः । (पुरो विलोक्य ।) स एष जीवस्तेन चि- तशर्मणा सह संलपन्नित आस्ते । यावदेनमुपसर्पामि । (उपसर्पति।) जीवा--(निर्वर्ण्य ।) इयं सा गाढोन्नद्धजटाकलापकपिलश्रीपूतबालातपा बिभ्राणा भसितानुलेपंधवलच्छायां तनुं पावनीम् मिक्षापात्रमयूरपिच्छचयभृत्पाणिया मेऽधुना काषायाम्बरधारिणी कलयति स्वान्ते धृति तोपसी । ३९ ॥ (उपसृज्य प्रणमति।) निवृत्तिः-सान्द्रानन्दघनो भूयाः । जीवः-भगवति, इत आस्यताम् । (इत्यासनं निर्दिशति ।) (निवृत्तिरुपविशति ।) राजा का प्रदेशोऽलंक्रियते तत्रभवत्या, कानि च भुवनपावनान्य- भिधानाक्षराणि, किमुद्देश्यकश्चायमिहागमः, इति विविदिषामि । निवृत्तिः-वत्स, श्रूयताम् । दर्पणवदभिमुखानां दर्शयदात्मखरूपमखिलानाम् । विस्मयशेवधिरास्ते वेदारण्याभि, शिवक्षेत्रम् ॥ ४० तस्मिन्निष्टफलद्रुमाः कति ततैः शाखाशतैरुच्छ्रिता हैद्योपासनवल्लरीकवचितास्तत्र प्रदेशाः कति । १. 'प्रथिते ख. २. 'लेपनकृतच्छायां' क. ३. 'हृष्टोपा' क. SANSantar १४ काव्यमाला। तेषां मूलफलादिमानि कति वा तत्सर्वमास्तामहो तत्रत्यामृतमाधुरी न परतः कुत्रापि सत्यं ब्रुवे ॥ ४१ ।। / तत्रास्ते शिवभक्तिरित्यनुपमा तत्त्वार्थसंदर्शने तत्संदर्शितृसंप्रदायसरणिस्तस्यास्तु शिष्यास्म्यहम् । विज्ञानप्रभवां निवृत्तिरिति मामाचक्षते योगिनी धर्मिष्ठस्य दिहक्षया तब मनागत्राहमभ्यागता ॥ ४२ ॥ राजा-परमनुगृहीतोऽस्मि निरुपाधिकेन वात्सल्येन । किमस्साह. शामपि तत्र प्रवेशः स्यात् । निवृत्तिः-परमकारुणिक्याः सकलपुमर्थप्रसवित्र्याः शिवभक्तेः प्र- सादादेव सुकरस्तत्र प्रवेशः । तस्यां प्रसीदन्त्यामेव तत्रत्याः शमदमा- दयो विधेया भवन्ति । विधेयेषु च तेषूपनिषद्देव्याः परिचयेन महत्तरं श्रेयो भवेत् । राजा-एताहशी विष्णुभक्तिरिति हि तत्र तत्र श्रूयते । शि- वभक्तिरिति किममुण्या नामान्तरम् । निवृत्तिः-अथ किम् । शृणु तावत् । विष्णुर्न शिवादन्यः शिवशक्तेः स खलु पौरुषं रूपम् । शक्तिश्च नातिरिक्ता शक्तिमतोऽतः शिवात्परं नान्यत् ॥ ४३ ॥ राजा-(सोत्कण्ठम् ।) भगवति, कीदृशं तन्महत्तरं श्रेयः । निवृत्तिः– (कणे ।) एवसिंव। राजा (संहर्षोल्लासमपवार्य ।) अपि नाम जातु ममैतदुपपद्येत । चित्तशर्मा-वयस्य, महानुभावायास्तदस्या निवृत्तेरनुग्रहादेव तदिदं श्रेयो लभ्यते । अविद्या-(साशङ्कम् ।) नूनममीषामियचिरोपनतेन कुटिलेङ्गितेन सं. लापेन मत्प्रतीपेन भवितव्यम् । भवतु । विमृश्य प्रतिविधास्यामि । (नेपथ्ये वैतालिकौ ।) एक:- रोमन्थालसलोचना वनमृगी निद्रांति मूले तरो- रम्भस्तप्तमपास्य भीननिवहः पङ्काविलं गाहते ।

विद्यापरिणयनम् । १५ :- धावं धावमितस्ततो मरुजले तापाभिभूतः करी सोत्कण्ठ, कलहंसिकाकलरवैावर्तते पमिनीम् ॥.४४ ॥ अपर तापत्रस्त इवाधुना बहिरितो न स्पन्दते मारुतः प्राणायामवशेन योगित इव स्तब्धा इमे पादपाः । छाया पश्चिमदिक्प्रवृत्तिवितता प्रक्षीयमाणा शनै- रेषा ह्यभ्युदयाचलश्रियमितो जाता निवृत्त्युन्मुखी ॥ ४५ ॥ चित्तशर्मा-(सहर्षम् । जनान्तिकम् ।) वयस्य, तदिदं वैतालिकवचनमेव निदर्शनं मदभिहितार्थे । (राजा सानन्दमभ्युपगच्छति ।) अविद्या-देव, मध्याह्नसमयोऽतिवर्तते । तन्माध्यंदिननियमनिर्वत- नाय विसृज्यतां तापसी । देवेनापि माध्यंदिननियमा निर्वय॑न्ताम् । अह- मपि तदुपकरणानि संनिधापयामि। (इति निष्कान्ता: सर्वे !) प्रथमोऽङ्कः। द्वितीयोऽङ्कः । (ततः प्रविशति प्रवृत्तिरसूया च ।) असूया-ततस्ततः । प्रवृत्तिः-प्रागेव 'चित्तशर्मणा सह रहसि कतिपये तापसाः संल- पितवन्तः' इति चेटीमुखादवकर्ण्य · संदेहतरलिता । तदनु समक्षमेव कर्णे किमपि रहस्यमभिधाय राजानमतिपर्युत्सुकितवत्या कया च तापस्या च नितान्तसंक्षोभितहृदया 'प्रियसखी भट्टिनी मामवोचत्- 'वेदारण्यनिकेतनाः शमदमप्रष्ठा महायोगिनः श्रूयन्ते कतिचिन्निवृत्तिरिति च ख्याता तथा तापसी । ते सर्वे शिवभक्तिमार्गनिरता ये तावदत्रागता. स्तन्नामान इमे परे किमथवा साक्षात्त इत्यामृशेः॥ १ ॥ '- Ru काव्यमाला । यदि खलु तदितर एते यत्किचिदिदं ततो न भेतव्यम् । अथ यदि त एव ते स्युर्यनो भूयानिह प्रतीकारे ॥ २ ॥ अतस्तदिदमविचिकित्समामृश्यः समागच्छ- इति; तदनु 'कथंचिद्वेदारर है मधिगम्य केन कुंत्र निषद्यते, कः किमाचरति, कथमिदमवगच्छेयम इति चिन्तातरलितायां मयि यहच्छया तत्र कामना संप्राप्ता । तदनु तर "विविच्य सकलमभिहितम्---- 'अस्मत्कामपुरोगस सममित काम्यक्रियोपासना शुद्धास्ते परतः शमप्रभृतयस्ते मन्वते सांप्रतम् । राजा शुद्धतरः किलैष तदिमं व्याकृष्य दुःसङ्गतो नींचादस्य महात्मनः सुसहशी दयामविद्यामिति ॥ ३ ॥ तदेवमविद्याकुलविघटनाय विरक्तिनिवृत्तिभ्यां सह विवेकशमदमादिबहु. लपरिवाराशिवभक्तिरियमन्त्र प्रभवति' इति । त्वं पुनः व प्रस्थितासि । असूया महिन्याहमेव सैदिष्टास्सि--- 'असूये, काम्यक्रियोपासनाः ब्रूहि...कदाचिदयं तत्र राजा यदि समागच्छेत्तदा स यथा भक्तिविरक्तिनिवृत्तिप्रभृतिभिर्नाक्रम्येत, तथा युष्मदीयविलासचातुर्यरामणी- यकैरेव वशीकरणीयः इति । तत् इह को मार्गः, किं मुखम्' इति बुभु- सातरलिता दैवादत्रभवत्योपगता विदितकरणीयासि । तत्साधयामि । प्रवृत्तिा इदर्मपि स्थान एवं संविधानम्, अवश्यकरणीयं च । भूयानतीता काला । इयता हि कालेन चित्रशालाभ्यन्तरे विषयवासनया सह महिनी चिरेण मम मार्ग प्रतीक्ष्य निविद्येत । तदहमविलम्बितमेव तत्सकारी गच्छामि । त्वयापि यथानियोरामाचर्यताम् । (इति परितम्य निष्कान्ते॥ प्रवेशक (ततः प्रविशति विषयवासनया साकमविद्या ।) अविद्या सखि विषयवासने, भवत्सहायापि नन्वहमीदृशी दशा- मुपागतासि महिन्यां तदेवं संदिष्टौहान 'मस्थान का समेत्य. SH विद्यापरिणयतम् । विषयवासना किसे सावती माय महिन्याः प्रतिपत्तिः । अविद्या किमल्पप्रमावा भवती । तथा हि शास्त्राणि सन्तु-सुबहूनि पठन्तु तानि सर्व त्वमन्यथयसे निजवैभवेन । कृष्टस्त्वया विवलते विषयेषु नाम बद्धो बलीमुख इवाशरणो बुधोऽपि ॥ ४ ॥ विषयवासना-सखि, किमेतावदद्य ते संप्राप्तम् । अविद्या-शृणु तावत् । /अग्रेऽभूदयमेक एव न परः कश्चिद्वितीयोऽभव- त्ताहक्षस्य मयैव मित्र तनयाः संबन्धिनो बान्धवाः । किं भूयः कथनेन भोगविषया लोका इमे लम्भिताः सोऽयं मय्यधुना विभाति विमुखः केनेति न ज्ञायते ॥५॥ . कि च.. कि दैवं. परिपन्थि वा मम कया कि बोधितं वा मृषा ताप्रेमतरङ्गितोऽतिसरसः स्वामी स जीवोऽधुना । मामालोकयते जनानिव जनः शुष्कप्रवृत्त्या दृशा किरूपेण मनोहरेण बहुना भोग्येन भाग्येन वा ॥ ६ ॥ न केक्लमस्य विमुखतैव मां व्यथयति । अपि तु तदनुमीयमाना मतनायिकासक्तिसंभावनापि । विषयवासना--(सोत्प्रासम्।) ननु ते विदिता सकलैरघटितघटनापटीयसी शक्तिः। अहमपि ते सध्रीची कथमस्थाने विशङ्कते भवती ॥ ७ ॥ सम्यक्प्रवृत्तिरुपलभ्यताम् । अविद्या-(स्मृतिमभिनीय।) प्रागेव शङ्कितविषयोदन्तविमर्शन हिता प्रवृत्तिः किमद्यापि नागता । سع काव्यमाला । .... (ततम् प्रविशति. प्रवृत्तिः 1) प्रवृत्तिा-कथमत्रैव विषयवासनया सह भद्रपीठमध्यास्ते देवी । येषा पश्यन्त्येव न पश्यति प्रणयिनी वस्तून्यहो चक्षुषा शृण्वत्येव शृणोति न प्रियसखी नानुलापानपि । चेतः क्वापि वचः कुतोऽपि तदहं मन्येऽधुना चिन्तया पत्युविप्रियजन्मना चिरमसावाकृष्यते केवलम् ॥ ८॥ अत एव किल प्रातश्चन्द्रकलेव पुण्यति दृशो नन्दमस्यास्तनु- निश्वासोष्मविघट्टनेन यलितो बिम्बाधरे शोणिमा । वीठी चित्रगतेव तिष्ठति चिरं चिन्मुद्रया मुद्रिता संत्रस्ती विफलोद्यमः परिजनः पर्यन्तमासेवते ॥ ९ ॥ तदुपसम्यिनाम् । (उपसर्पति ।) देवी-(पुरोऽवलोक्य ।) अयि प्रवृत्ते, ननु स्मृतमात्र एव संनिहितासि । मया तत्रैव पुनरपि किंचित्कार्यविशेषाय प्रहिता किमसूया त्वया दृष्टा । प्रवृत्तिा--अथ किम् । अभिनन्दितश्च भवतादेशः । अविद्या अनेन वाक्येन त एव शमदमादयः, सैव च निवृत्तिरपि, कार्य च तदेव, यन्मया शङ्कितमिति ज्ञायते । प्रवृत्तिार अथ किम् । (इति कामनाकथितमखिलं कथयति ।) अविद्या-अयि विषयवासने, स्थान एव खलु मे तर्कः । तत्किमत्र . मन्यसे । विषयवासना-सखि, न भेतव्यम् । यत्किचिदेतत् । स्वाध्यायाध्ययनावबोधविहितानुष्ठाननिष्ठाक्रमः कान्तारे गिरिकंदरे तृणपयोवृत्त्या च शुद्धान्तरः । आरुह्य श्रवणादितुङ्गपदमध्यास्तां निदिध्यासना- स्क नस्योतमिवापकृष्य विषये बध्नामि कामादिभिः ॥ १० ॥ i, 'अण्वत्येष ख.

२ अङ्कः] विद्यापरिणयनम् । १९ (विभृश्य।) हन्त, शमदमादिसंबन्धेन महोपनिषदुपदेशेन . च कश्चिदवि- यामपहाय विद्यामधिगमिष्यति । तदहं क गमिष्यामि । प्रत्यक्षसिद्धमपलप्य गिरामभूमि- मन्यत्सुखं किमिति हा रसिका मृणन्ति । अथवा । श्रोता जनो यदि मिलेदतिमन्दबुद्धिः किं किं न बोधयति वश्चनकेलिलोलः ॥ ११ ॥ मत्प्रसूतयोरसंभावनाविपरीतभावनयोः प्रभाव न कोऽपि विजानाति । कि बहुना। वेदारण्यमुपैतु तत्र वियदालम्बा मृषावादिनो ये तेषां च वचः शृणोतु मैनुतां तथ्यं तदेव स्वयम् । मत्पृष्टं प्रतिवक्त किंचन तनौ कीटादितोदे मना- गुत्प्लुत्यैष कुतोऽनुधावति मृषाभूतं किलास्याखिलम् ॥ १२ ॥ स एष विपरीतभावनाप्रभावः केन वा जय्यः । किं च मयि प्रभवन्त्यामिह कस्यचिद्ब्रह्मनिष्ठा का नाम । भस्मावगुण्ठननिमीलनमोहनीया ये यं चकास्ति कुहचित्परमात्मनिष्ठा । एषा शिवोऽहमिति किंचन शब्दमात्र. मन्तन किंचिदपि न भ्रमितव्यमत्र ॥ १३ ॥ अयि भट्टिनि, प्रवृत्तिर्नाम किमियं साधारणीति मन्यसे । निवृत्त्या वशी- कृतमपि बलादियमपकर्षत्येव । पश्य तावत् । आयुर्भूरि गतं पतन्ति सुशास्तुच्छैरलं व्याहतै- भूतं मावि यथा तथास्त्विति भृशं शंभोः सपर्याविधौ । संनद्धोऽपि समाधिनिष्ठहृदयोऽप्युत्सृज्य सवै निज- व्यापारे समयातिपत्तिचकितः कृष्टोऽनयां धावति ॥ १४ ॥ १. 'मनुना' ख.

२० काव्यमाला तदेवमपरिमेयप्रभावयोंरावयोरनवरतमपि भवदभ्युदयकतानभावयोः स. त्योः किं नाम भवदभिमतमापयेत् । अपि च कुटिलकरालकर्मगहनैर- तिदुवीरैर्मोहादिभिरस्मदीयपरिवारैरनवरुद्धतया परिमितोऽपि न खलु क. श्चिद्देशः कालो वा । अतस्तानतीस्य वेदारण्यप्रवेशोऽतिदुर्घट एव । प्रवि- ष्टोऽपि काम्याभिः क्रियामिरुपासनाभिश्च बलादाकृष्यत एव । प्रवृत्ति:-अयि भट्टिनि, किंचिदहं विज्ञापयामि । विलासिनीनां पुरुषप्रतीपतारसानुविंद्धा यदि शोभते परम् । यदि म सा भन्नरसा कृतव्यथा तदेव तासां गरिमव्यपोहनम् ॥१५॥ अतो विमुखोऽपि विप्रियकार्यपि · मन्युवेगमन्तरेव निगृह्य विनयेन चातु- र्येण च राजायमनुरञ्जनीयः । अपि च य एष चित्तशर्मा राजनर्मसखः, सर्वमेतसिन्प्रतिष्ठितम् । अतोऽयमुपचारैरनुपदमपि विधेयीकरणीयः । आ- वामपि समुचितेषु केचिदर्थेषु व्याप्रियावहे । (इति निष्क्रान्ताः सर्वे ।) द्वितीयोऽङ्कः। तृतीयोऽङ्कः । (ततः प्रविशति निवृत्तिः ।) निवृत्ति-'अत्रभवत्याः शिवभक्तेर्वचसि विनम्भेश जीवराजस्य वि. द्याप्रतिकृति दर्शयिष्यामि' इति कथितवत्यस्मि । तत्किमद्यापि सा न प्रेषिता। (ततः प्रविशति चित्रपटहस्ता विरक्तिः ।) विरक्ति:-आज्ञप्तामि शिवभक्त्या-'चित्रपटोऽयं निवृत्तिहस्ते दा- तव्यः' इति । तत्क सा निवृत्तिर्भवेत् । (अप्रतोऽवलोक्य ।) कथमियं. नि- वृत्तिः । यैषा समीरणे वातितृणेऽपि वा चलत्यवेक्षमाणा परितो दिगन्तरम् । जनस्य कस्यापि चिरप्रतीक्षया मनोऽतिरुक्षं दधती समीक्षते ॥ १ ॥ यावदस्या हस्तं चित्रपट प्रापयामि । (इति परिक्रामति ।) १. 'काम्यादिभिः क्रियादिभिः' क.

३ अङ्कः] विद्यापरिणयनम् । २१ . निवृत्तिः-(विरक्तिमवलोक्य ।) सखि, क प्रस्थितासि । विरक्तिः-सखि, भगवत्या भवदन्तिकमनुप्रेषितामि । (इति चित्र. पटमर्पयति ।) निवृत्तिः-(चित्रपट निर्वर्ण्य ।) अहो प्रतिकृतेरभिरूपता । एतद्वाङ्मनसातिवति महितं रूपं बतेयत्तयां चित्तेनोल्लिखितं कथं विलिखितं हस्तेन वा तत्कथम् । अथवा न चित्रकारनैपुणमेतत् । अप्रज्ञेयमहाप्रभावमहसो भक्तेरियं प्रायशो भक्तत्राणगरीयसी विरचना नूनं भवेन्मानसी ॥ २ ॥ सखि विरक्ते, संप्रति किमाचारो जीवराज इति किमवगम्यते । विरक्ति:-चित्तशर्मणा वयस्येन शृङ्गारवने माधवीमण्डपमधिव- सति महाराज इति श्रुतम् । निवृत्तिः-तीयमेवावसरस्तदुपसरणाय । (इति निष्क्रान्ते ।) प्रवेशका। V (ततः प्रविशति यथानिर्दिष्टः सचिन्तो राजा) राजा-सखे चित्तशर्मन्, अत्रभवत्या निवृत्त्या रहस्यावेदनाप्रति- निकाममस्वस्थहृदयो भवामि । तथाहि । हृद्यं वस्तु न रोचते हृदयजस्तापो न विश्राम्यति श्वासः प्लोषयतेऽधरं शिथिलयत्यङ्गानि चिन्ता मम । मोहे मजति चेतनापि निमिषः कल्पादनल्पायते कस्मै किं कथयेय हन्त तमिमं कालं क्षिपेयं कथम् ॥ ३॥ चित्तशर्मा-वयस्य, किं केवलेन विषादेन । विधीयतां तदुचितो यत्नः । राजा-तमेव खलु न प्रतिपद्ये । चित्तशर्मा-वयस्य, सोऽपि हृदयंगम एवोपनमितो दैवेन । राजा-कथय कथय । M काव्यमाला . चित्तशर्मा- 'वेदारण्यनिवासिनः कतिपये दृष्टा मया तापसाः प्रागेकत्र शमादयः समुदितास्ते मामवोचन्निदम् । जीवस्यास्य विभोश्चिादिह सुखे दुःखेऽनु भोक्ता भवा- न्यस्य श्रेयसि कोऽपि कश्चिदिव कि ताटस्थ्यमालम्बते ॥ ४ ॥ इति । तदनु भो महाभागाः, सांप्रतमस्साकमिह किं नाम सुखं हीयते । जीवः सुखात्मा विभुरेष राजा प्रधानभूतोऽहममुष्य विध्वङ् । भोगा: समग्रा विषयेषु मत्तस्तटस्थता का मम तत्सुखेषु ॥ ५ ॥ तथा हिं। उद्यानोदरपद्मिनीपरिसरे पर्यन्तयन्त्रोच्चल- चन्द्रोशीरसुगन्धिशीकरभरस्फायत्समीराङ्करे । पीतस्यादुरसायनादिसुहितैरस्माभिरस्तव्यथै- नींयन्ते हि सुखैकतानविसरा वासन्तिका वासराः ॥ ६ ॥ इत्यं कदा कुत्र किं नाम सुखं नानुभूयत इति मयाभिहिते, हन्त कारणस्वभावकृत एष ते व्यामोहः । यदेवं ब्रवीषि । शृणु तावत् । देहो भूतसमष्टिरत्र तपनाधिक्ये जलं क्षीयते तर्षो नाम स ऍष तस्य समता तृप्तिः पुनर्वारिणा । एकस्योपचये भवत्यपचयोऽन्यस्य स्वभावस्त्वयं भूतानां समता पुनश्च किमिह प्रत्येषि तत्त्वं सुखम् ॥ ७ ॥ अद्वैतं यदनादिमध्यनिधनं सत्यैकरूपं सुखं तंत्र वासुपितं मृषायितमिवाविद्याविलासैनिजैः । विश्व दर्शयते यथार्थवदिदं स्वप्नेन्द्रजालोपमं धीरः कः पुनराद्रियेत तदिहासत्ये प्रपञ्चे सुखम् ॥ ८ ॥ । १. 'म' ख. २. विष्वक् ख. ३. 'पीतः' क. ४. 'व्यधै।' क. ५. 'मोहः' क. ६. 'एव' ख. ५. 'तत्कृत्वा मुषित' ख.

३ अङ्कः] विद्यापरिणयनम् । २३ कि च । . रूपं नाम विशिष्टवस्त्विति पृथग्यद्यत्समालक्ष्यते सर्व चास्थिरमव्यवस्थितमनिर्वाच्यं च संमर्शने । मन्त्री त्वं कियतश्विरस्य वपुषि व्यस्ते तदास्ते व तें शत्रु कश्चिदवैति मित्रमपरः पुत्रं कुतस्त्वां परः ॥ ९ ॥ तदेवमसारभूते जगति सारभूतं सुखं किं नाम । [पिष्टरसामृतसदृशं वैषयिकं तत्सुखं सुखं नैव । आधिव्याधिजराभिर्दुर्लभमेतच्च काकमांसमिव ॥ १० ॥] अतः 'सुखमस्माभिरनुभूयते' इति तव भ्रम एव । भूयोऽपि निदर्शयामः केषु भावेषु कया वृत्त्या कि नाम भवता सुखमन्वभूयत । त्याच्नादैन्यकर्थिता द्विजनुषा शोच्यैव वृत्तिस्त्वसा- वस्वायत्तविधेयगौरवसुखा सेवा हि दुर्जीविका । शैलारण्यसमुद्रयानवहनक्लेशादि वा वर्तता क्षुद्रं यत्क्षुरजीवनं शिव शिव मर्येत तत्कि जनैः ॥ ११ ॥ तदेवमतिजुगुप्सितोऽयमविद्याविलासः । श्रूयतामस्य जगतस्तत्त्वम् । ब्राह्म तत्पदर्चिरादिभिरितो धन्यस्तु नावर्तते यो धूमादिपथं स्वरेति स यथायात परावर्तते । आवृत्तः स तु लिङ्गदेहघटितो बोधादिशून्यश्चिरं तिष्ठेद्रीहियवास्तिला इति जनिप्रारम्भकाभावतः ॥ १२ ॥ तदनु काले क्वापि कुहापि कोऽपि यदि तानश्नाति तद्रेतसा ब्रह्मक्षत्रपुरोगमेषु भजते पुण्यानुरूपं जनुः । व्यावृत्ताः पितृलोकतोऽनधिगतस्वर्गास्तु: ये पापिनः श्वानः सूकरपुलकसा इति जनुः कालेन गच्छन्ति ते ॥ १३ ॥ पुण्यप्रभावादूर्वलोकगामिनां जीवानामियं स्थितिः । ये देवयानपितृयानपथानभिज्ञा जीवास्तु ते जनिमृतीः क्रिमिकीटरूपाः । १. 'कुतः' क. २. कोष्टकान्तर्गतश्लोकः क पुस्तके त्रुटितः, '0 काव्यमाला। व्यावर्तयन्ति सुचिरादिह कल्पकोटी- नर्वि अनन्ति गहनैवमसावविद्या ।।. १४ ।। अतो जीवराजस्य तदेतन्महासंकटविमोचनाय भवतैव प्रयतितव्यम्, चि. रादमे देनोपलाल्यमानादात्याहते किमायत्तानि राजसौभाग्यानि । तदिह कुसो विचक्षणोऽपि भवानात्मनोऽधिकारं न प्रतिपद्यते । अपि च प्रयत्न एप तातीपबलवत्तरवरवणिनीपरिणयनरूपतया तव सुकर एव । कथमिद- मनावैद्यैव राजे करणीयमिति नः शङ्कनीयम् । विनम्भप्रणयोंचितो सुचरिता धर्मार्थविज्ञानिनो ये तावल्किल मन्त्रिणः क्षितिभुजामेते किमर्थान्तरम् । अन्यद्धर्मचरं शरीरमपरं सालोचनं लोचनं राज्ञः किं बहुनाभितो विजयिनः प्राणा भवन्त्यान्तराः ॥ १५ ॥ म तावदमात्यमात्र भवान् । अपि तु नर्मसचिवश्च । तदपूर्वरमणीसंघ- टनमिदमवश्यकरणीयमनुरूपं चेति । तदनु तानहमप्राक्षम्- 'कत्या किंप्रभवा किमाकृतिगुणा किंनामधेया च सा श्रेयस्तद्धटने किमस्त्य घटने किं नाम तद्धीयते । तत्प्राप्तौ परिपन्थिनः क इह नस्तैरन्तरायाः कथं तेषामप्यपनोदनेऽथ घटने कश्चाभ्युपायो भवेत् ॥ १६ ॥ इति । तदनु ते मामवीचन्- 'वेदारण्यावसथसुहिता. स्वामिनी मादृशाना- माविर्भूता मननजनिदिध्यासनात्पुण्यभूम्ना । विद्युल्लेखाचिरतरसमुद्दयोतिनीवाद्भुतश्री- रेपा योषामणिरुपनिपद्वंशभूषा विभाति ॥ १५ ॥ - विद्याख्या हृदयंगमाकृतिरसावस्याः समासादने न व्याधिन जरा न मृत्युरशना या सा पिपासापि न । नक्लेशो.न भयं च किं तु परमानन्दातिसान्द्रीकृता दुःखासंकलिता च कांचन दशा सत्या समुन्मीलति ॥ १८ ॥ ।

३ अङ्कः] विद्यापरिणयनम् । २६ Cameram- सत्यानन्दमपारमक्षयमिदं विद्याधनं पङ्कतः कृत्वा गाढनिगूहित व्यथयते लोकानविद्या चिरम् । तिष्ठन्नेव विधौ यथानिधिमविज्ञायैव कार्पण्यतो विश्वग्धावति तद्वदेतदविदलीवः परं 'खिद्यते ॥ १९ ॥ यस्यां मुह्यति निद्रथा निशि जगत्वप्नेन्द्रजालाकुलं तस्यां जाग्रति योगिनस्तदनया सत्यार्थसंदर्शिनः । दिव्या दृष्टिरियं निमेषरहिता हन्तानया पश्यतां छिद्यन्तेऽखिलसंशयभ्रमविपर्यासाश्च कर्माणि च ॥ २० ॥ अस्या वैभवतोऽपि नक्तमहरेवास्याभिनिष्पद्यते तच्चाहर्न कदापि याति सकृदेवास्य प्रभातोदयः । आत्मानन्दसुधासमुद्रलहरी सा चेदनासादिता मध्याहोऽपि निरन्तरेण तमसा घोरो निशीपो भवेत् ॥ २१ ॥ इति । तदेवंविधदिव्यमकलगुणनामा विद्येयम् । सजा--(सपरितोषम् । ततस्ततः । चित्तशर्मा- कामक्रोधमुखाः प्रतीतविभवा जीवस्य षड्बैरिण- स्ते ह्यस्माकमसंनिधौ विदधते निःशङ्कमोनायितम् । यत्रामी वयमास्महे समुदिताः साकं विवेकादिमि- स्तत्रैते न समुन्मिपन्ति पुरतो भानोरिवान्धं तमः ॥ २२ ॥ जीवस्याप्यमितोऽपांतिन इमें विनास्तु तत्संभवाः कर्षन्तो विषयेषु तं विघटयन्त्यस्मासु यत्संगतम् । एतेषामपनोदनेऽभिलषिते चार्थेऽभ्युपायस्त्वयं गूढं गाढनिरूढमत्रभवता सौहार्दमस्मासु यत् ॥ २३ ॥ त्वयि तु विधेये संपन्नकल्पो वेदारण्यप्रवेशः । स एव परमोपाय इति । तदनु किमेताइशि मत्स्वामिनः श्रेयसि मत्सकाशादन्तरं पतिष्यति । स. र्वथाहमत्र विषये युष्मदायत्तः' इति सशपथमभिहितवानस्मि । ध २.६ : काव्यमाला। राजा-वयस्य, प्रणयवित्रम्भौ नाम तदुभावेव यदेवमसंनिधानेऽपि मदनवगतमेव मदीयश्रेयसि बहुधा व्याप्तमिति । (परितोषमभिनीय ।) सखे चित्तशर्मन्, एते मच्छ्वसी तदद्भुतगुणस्तोमामृतासञ्जना- दत्यन्तं सुहिते तदत्र विषये बद्धाभ्यसूये इव । एते तन्मुखचन्द्रमास्मितसुधात|कुले ताम्यतो मदृष्टी त(१)इमे कया नु विधया संप्रीणयिष्याम्यहम् ॥२४॥ तामालिख्य विनोदयेय नयने दृष्टा यदि स्यान्मना- क्स्वप्ने तामवलोकयेयमिति चेत्स्वापो दुरापो मम । अध्यक्षीकरणप्रसक्तिरपि मे तस्यास्तु दूरे गिरा- मायासोत्तरमाः कथं नु विषयैरात्मानमाश्वासये ॥ २५ ॥ (स्मरणमभिनीय ।) तत्रभवत्या प्रतिश्रुतं प्रतिकृतिदर्शनं तु संभाव्येतापि । (ततः प्रविशति विरक्त्या सह निवृत्तिः।) निवृत्तिा-(पुरतो विलोक्य )) अयमितश्चित्तशर्मणा नर्मसचिवेन सह विविक्तमध्यास्ते देवः । तदेनमुपसमि । (उपसृत्य ।) विजयतां देवः । (इति राज्ञो हस्ते चित्रपटमर्पयति ।) राजा-(चित्रपट निर्वर्ण्य । साश्चर्यम् ।) अहो प्रतिकृतरमिरूपता । शुद्धामृतधाममुखो श्रुत्यन्तविसारिदृष्टितोल्लसिता । विश्वातिशायिवृत्तिर्विषयेषु कुहापि नेहशी दृष्टा ॥ २६ ॥ पद्मोल्लासतरङ्गितं पदयुगं जछे सुवृत्तोज्ज्वले रम्भाडैम्भ(?)विडम्बिनौ च तदिमावूरू मनोहारिणौ । मध्यं व्योमसखं मुखं विधुरखण्डाकारवृत्त्युज्ज्वलः कल्याणी बत सेयमद्भुतगुणा कल्याणकान्ताकृतिः ॥ २७ ॥ (साशङ्ख पार्श्वतो विलोक्य ।) दिश्यात्र न संनिहिता देवी। १. 'तदिमावेव ख. 'उभाभ्यामेव' इति प्रतिभाति. २. मासिक. ३. 'हिम्भ' सति स्यात्.

. ३ अङ्कः] विद्यापरिणयनम् । ૨૩ (ततः प्रविशति विषयवासनया प्रवृत्त्या च सहाविद्या।) अविद्या-सखि विषयवासने, कृतघ्नोऽपि देवस्त्वद्वचनगौरवेण ममा- नुसरणीयः संवृत्तः । विषयवासना-प्रियसखि, कीडशमपि दयितमनुसरणेन हृदयरञ्ज. नेन च विधेयीकुर्वन्ति खलु युवतयः । अविद्या-सखि प्रवृत्ते, देवः कतम देशमधिवसतीति जानीहि । प्रवृत्तिः-(पुरतो विलोक्य ।) नन्वयमित एव चित्तशर्मणा तापसीभ्यां सह शृङ्गारवने मालतीमण्डपमध्यास्ते देवः । अविद्या-तर्हि विटपान्तरिता एव. शृणुमस्तावदेतेषामन्योन्यविस्तम्भ- जल्पितानि । (इति सर्वास्तथा कुर्वन्ति ।) चित्तशर्मा-अपि नाम सुखायते दृशोरियं चित्रगता प्रियतमा । राजा-किमुच्यते सुखायत इति । आप्लाव्य ज्वलदङ्गमङ्गमभितः संसृप्य नाडीष्वपि प्लोषावेगकदर्थितासुकरणान्युज्जीवयन्ती पुनः। अस्या निस्तुलतत्तदङ्गसुषमाकल्लोलिता काप्यसा- वानन्दामृतदिव्यसिन्धुलहरी विश्वं किलापह्नुते ॥ २८ ॥ संप्रति हि • आलिप्ये नु तुषारलोलनललत्कर्पूरगन्धवै- रासिच्ये नु घनीकृतैरुत सुधाधाम्नो मयूखोत्करैः । एतदर्शनसंभृतेन परमानन्देन दावानल- प्लुष्टों भूमिधरः सुधारसझरेणेवाङ्गमाप्याय्यते ॥ २९ ॥ निवृत्तिः- (अपवार्य ।) सखि विरक्ते, दिष्ट्या फलितमिव नः प्रयत्नेन विरक्ति:-कथं न फलिष्यति भगवत्या नीतिवैदग्धी । राजा-(चिरं निर्वर्ण्य सोन्मादं चित्र प्रति ।) मृगामि किं नु मृदुलं पदपल्लवं ते किं ते लिखामि कुचयोरुत पत्रवल्लीम् । - काव्यमाला। 3 एोहि में विदधती सकृदङ्कपाली- मन्तर्गतं निरवशेषय तापमेनम् ॥ ३० ॥ .. चित्तशर्मा-(सोपहासम् ।) वयस्य, प्रतिकृतिरियं खलु तस्याः । अविद्या-सखि, श्रुतं ननु श्रोतव्यम् । तदेवमेतैरितरनायिकासंघ- टनकुहनाभिरिति संधीयामहे । विषयवासना. सखि, भूयोऽपि शृणुसस्तावत् । निवृत्तिः-देव, सत्वरमनया सुदृशा सह भवन्तं योजयिष्यामि । न पुनरिह विषये भत्ता विषादो विधेयः । राजा-परमकारुणिकीभ्यामप्रमेयमहिमातिशयाभ्यां भवतीभ्यामनु- गृहीतस्य मम को नाम विषादः । अविद्या-सखि, श्रुतानि खलु भूयः श्रवणामृतानि । विषयवासना-प्रियसखि, भवत्संनिधाने सर्वमिदं विघटितमेव भवेत् । (इत्युद्धतमुपसर्पति ।) राजा-(दृष्टा'। सभयम् ) वयस्य, का प्रतिपत्तिः । चित्तशर्मा-वयस्य, भवता कथमपि समाधीयेत सा । मम तु का गतिः । (विचिन्त्य ।) भवतु। तामेवानुसरेयम् । इमे च तपस्विन्यौ तिरस्क- रिणीविद्यया चित्रफलकेन सह तिरोहिते भविष्यतः । राजा-तथा । (इति धैर्यमवलम्ब्य तिष्ठति ।) चित्तशर्मा (उपमृत्यं ।) स्वस्ति भवत्यै । अविद्या-(चित्तशर्माण निर्भय॑ । राजानमुपसृत्य ।) अपि सुखायते चि. जगता प्रियतमा । अपि संघटयिष्यतस्तापस्यौ । राजा-(सभयगद्गदम् ।) देवि, तवासानिध्याच्चित्तशर्मणा कालविनोद- नाय विरचितमिन्द्रजालम् । इदं परमार्थतया न गृह्णातु भवती । अविद्या हन्त प्रत्यक्षसिद्धापलपनसाहसमेतस्य । १. 'मैत, ख, २, मेताभिरितर ख...३. रति'.क.

. ३ अङ्कः] विद्यापरिणयनम् । २९ राजा-अतथाभूतमपि वस्तु तथाभूतमिव प्रत्यक्षमुपदर्शयेयुर्न किमै- न्द्रजालिकाः । तदपि यदि सत्यमेवावगच्छसि । तत्र कः परिहारः । अविद्या-न तावदिदमिन्द्रजालं चित्तशर्मणः । अपि तु तवैव साह- समेतत् । क ते तापस्यौ । क च सा प्रतिकृतिः । राजा-ननुः कथितमेव सकलमिन्द्रजालमिति । त्वं तु परमार्थतयैव प्रतिपद्यसे । अविद्या-कृतं कृतमकृतज्ञेनानेन शठेन । (इति साटोपं परावर्तते ।) चित्तशर्मा-वयस्य, पादप्रणामादिभिरुपचारैर्यथोचितं प्रसाद्यतां कु- पिता देवी। राजा--(कतिचित्पदानि गत्वा प्रणम्य ।) प्रसीद प्रसीद । (अविद्या साटोपमवधूय गच्छति ।) राजा- न ब्रूषे न विलोकसे न च वचस्तथ्यं शृणोषि प्रिये कि न्वतन्मयि तादृशं तव मनः कस्सादभूदीदृशम् । दम्पत्योस्तु न जायते किममतं. जातं न, किं मृण्यते किं वा जातमिहाधुना विधिरहो तिक्ता विधत्ते सुधाम् ॥३१॥ प्रवृत्तिा--(भपवार्य ।) भवत्वयं याहशस्ताहशो वा । स्वयाः पुनरपा- रुष्यमेवावलम्ब्यताम् । विषयवासना-युक्तमाह प्रवृत्तिः । अविधा-हन्त, भवतीभ्यामपीदं रोचते । का गतिः। (इति तिष्ठति।) राजा मां कल्याणि पुरा तवोपयमनाथे केऽपि कि जानते स्वामासाथ मया प्रिये नवनवं किं नानुभूतं सुखम् । तत्साहमहनीयवैभववती सौभाग्यसीमायिता मा मत्त्वा कृतविप्रियं बत कथं व्याधुन्वती धावसि ॥ ३२ ॥ त्वं वित्तादपि गात्रतोऽपि करणग्रामादपि प्रेयसः प्राणादप्यधिकेति सुन्दरि भवत्प्रीत्यैकबद्धादर।। .

कोऽपि विज़म्भते धनपथे चित्ते वधूनामपि । काव्यमाला। वर्तेऽहं वितथव्यलीकपरुषा नैघण्यमालम्बसे यद्येवं मयि सर्वथैव परितः किं वा करिष्याम्यहम् ॥ ३३ ॥ अविद्या-(सोत्प्रासम् ) सख्यौ, श्रुतं खलु । 'देवस्यास्य किलाहमय दयितात्प्राणादपि प्रेयसी राजातं प्रति तोदनरलमहो वाक्यैरमीभिस्तव । यद्वा वल्लभवस्तुसङ्गिनि मनस्यात्मन्यनायत्तता तदोषादयथोचित व्यवहरस्येवं न दोषस्त्वयि ॥ ३४ ॥ विषयवासना-देव, सर्वतोमुखविचित्रपरमानन्दविधायिनी देवीम- पहाय वाङ्मनसातिवर्तिनि कुहापि विषये कुतो भवानासज्जति । चित्तशर्मा--वयस्य, तथ्यमाह विषयवासना । प्रवृत्तिः–आर्य चित्तशर्मन् , प्रगल्भोऽसि समयोचितममिधातुम् । तथ्यमेवाह विषयवासना । त्वयि तु न व्यवस्था । चित्तशर्मास एष मम सहनो धर्मः । अविद्या -अलमलमतिप्रसङ्गेन । (नेपध्ये वैतालिको एका मोक्तुं तापमिव प्रतीचिजलधौ मज्जत्ययं भानुमा- ग्रः । आगाः कुपितामुपासिसिषते कान्तो विलासी जनो भक्त्या कर्मठभूमिदेवपरिषत्संध्यां च सायंतनीम् ॥ ३५ ॥ द्वितीयः गन्धेन स्फुटकैरवाकरभुवा विष्वग्विकर्षन्मली. स्वच्छन्द दिवसावसानपिशुनो मन्दामिल: स्पन्देते । भावी. नौ विरहाधिरित्यविदितेऽप्यन्ताशुचा स्थीयते कोकेन प्रियया सहक नलिनीनालाधिरूढेन च ॥ ३६ ॥ (सर्वेः आकर्णयन्ति । १. 'दूने चक्षुपि' ख.

४ अङ्कः] विद्यापरिणयनम् । चित्तशर्मा-देव, अतिवर्तते संध्यासमयः । राजा-तथा । (इति निष्क्रान्ताः सर्वे ।) तृतीयोऽङ्कः। चतुर्थोऽङ्कः । (ततः प्रविशति चित्तशर्मा ।) चित्तशर्मा- / तेजोवैभवकौशलोपकरणान्यद्धा मुधासिद्धिषु व्यक्तं राघवपाण्डवादिषु रणे मुह्यत्सु दृष्टं हितम् । तन्मन्ये पुरुषस्य काङ्कितहितावाप्तिस्तु दैवेच्छया स्वेनेदं कृतमेतदाप्तमिति ये नन्दन्ति मूंढा हि ते ॥ १॥ अद्य खलु वित्रम्भप्रणयास्पदस्य सुहृदो नियूँढमिष्टादिकं देव्याः प्रार्थितकार्यसाधनकृता प्रीतिः समग्रोदया । तत्रापि स्वसमीहितार्थफलसंपत्तिर्विरोधं विना दैवेनोपनतं कियत्कियदहो वाञ्छानुरूपं हितम् ॥ २ ॥ तदिदमद्भुतसंविधानमत्रभवत्याः शिवभक्तेः कस्य मुखेन कर्णपथमवता- रयेयम् । सा तावदितः प्रतिनिवृत्तयोविरक्तिनिवृत्त्योः सकाशादत्र चित्र- पटदर्शनवृत्तान्तमवकर्ण्य त्रुटितमिह कार्यमिति बहुधा निविद्येत । अतः सत्वरमेतदर्थप्रापणे कः समर्थो भवेत् । (पुरो विलोक्य ।) दिष्ट्या सत्सङ्गो- ऽयमित आगच्छति । य एष (धुनीते संतापं दुरितशतचिन्तासमुदितं तमःस्तोमक्लेशं तरणिरिव सद्यः समुदधन् (१)। निरुन्द्धे दुर्वृत्तं निखिलमपि पर्यन्तविरसं पथः पुण्यानेव प्रथयति परिक्लेशविधुरान् ॥ ३ ॥ १. 'मूढास्तु ते' ख..

.३२ कायमाला। (ततः प्रविशति सत्सम) सत्सङ्गा-आदिष्टोऽसि तत्रभवत्या शिवभक्त्या--'चित्तशर्ममुखेन जीवराजवृत्तान्तमवगम्य सपदि परावर्तस्व' इति । (पुरो विलोकयन् ।) अय- मसौ चिनशर्मा । यावदेनमुपसमि । (उपमृत्य ।) अपि कुशलं वयस्याय । चित्तशर्मा-विशेषतश्च भवत्समागमेन । (सपरितोषम् ।) सखे सत्सङ्ग, समये समुपगतोऽसि । शृणु तावत् । अहं किल वयस्येन जीवराजेन संदिष्टोऽस्मि । सत्सङ्गा-कथमिव । चित्तशर्मा-'वयस्य, चित्रदर्शनात्प्रभृति नितान्तर्मनायमाना देवी। तत्तदुचितचमत्कारिचतुरतरोपायैरुपमृत्य भवता तथा विधेया, यथा सा स्वयमेव मामुपगम्य वेदारण्यगमनमभ्यर्थयेत' इति । तदनु कथमेतदुपपद्यताम् । आर्द्रागसा कथमियं हि मयाभ्युपेया ताडकरालहृदयाथ कथं प्रसाद्या । भूयः प्रतीपयुवतिस्मृतिकारिणीषु वेदाटवीषु गमनस्य कथा कथं स्यात् ॥ ४ ॥ इत्येवमतिमात्रचिन्तातरलिते मयि तत्क्षणमेव सत्वरोपयतया देव्याः स- हचारिण्या कुहनयाभिहितम्-'आर्य, भवदाकारणाय भट्टिन्या प्रेषिता- हम्' इति । तदवकर्ण्य 'किमेतदापतितम इति मयि किसपि किमप्यन्त- राशङ्कमाने 'न किंचिदत्र विचारस्थानमार्य भवन्तं संमानयितुमत्रभवती समाह्वयति' इति सा कथितवती । सत्सङ्ग:-ततस्ततः । चित्तशर्मा तदनु 'किमयमसंभावितोपन्यासस्त्वया क्रियते । तद- धुना सप्रकारमखिलमावेदय' इत्यनुयुक्ता कुहना यथावृत्तमभिहितवती । सत्सङ्ग:-इदं श्रोतव्यम् । चित्तशर्मा-नितान्तदुर्मनायमानां देवीं प्रियसखी विषयवासना र- १. 'ममा क.

४ अङ्कः] विद्यापरिणयनम् । ३३ हसीत्थं बोधितवती यथा- "प्रियसखि, त्यज्यतामिदमासिक वैक- व्यम् । शृणु तावत् । चित्तशर्मा नामाय जीवन नितान्तमन्धरण। तदस्मिन्नखिलराजकार्यधुरंधरे विरोधो न फलति । अतस्तमिममनुरुध्येय राजा विधेयीकर्तव्यः' इति । सत्सङ्ग:--सुष्टु कथितं विषयवासनया। चित्तशर्मा-तदनु देवीसमक्षमुपगम्य निःशङ्कमहमब्रुवम् । सत्सङ्ग:-कथमिव । चित्तशर्मा- 'कुतोऽपि हेतोरतिदुर्मनायते चिरेण राजा चतुरा भवत्यपि । मनो निरुध्यैव तदीयमात्मनो मनोरथः संप्रति किं न पूर्यते ॥ ५॥ तस्य हि चिरादभिलषितो वेदारण्यप्रवेशः । तत्र नित्यसनिहितश्चमदमा- दिविघटनाय प्रागेव संनिधापनीया महामोहादयो महामात्राः । तदनु तंत्र- भवत्या सह प्रविष्टे राजनि काम्यादिमिः क्रियामिरुपासनामिश्च वरली- कृते सेत्स्यति समग्रस्ते मनोरथः' इति । सत्सङ्ग:--सखे, सत्वरमेव निर्वर्तनीयोऽयमर्थ । चित्तशर्मा-कुतः । सत्सङ्ग:--निवृत्तिमुखाज्जीवराजगुणानवकर्ण्य बलवदुत्कण्ठिता विद्या । तथाहि । आदर्शभित्ति भजते न विहारगेह- मासन्नचन्द्रमभितः खमुखाम्बुजेन । आलीरभि प्रतिवचो गणती गवाक्षः ५ मारामकोकिलमयेन मुहुः पिषते ॥ ६ ॥ तदेवमतिमात्रविरहसंतापजनितोन्मादतरलिता सा । चित्तशर्मा--(सहर्षम् ।) एवमन्योन्यानुरागे सति सुकरमेव कार्यशेष तर्कयामि। १. 'तस्मिन्' ख. २. आदर्शद्वयेऽपि नोपलभ्यते. ३. 'दिमिल्पासनामिश्च ख. ५ ३४ काव्यमाला । 1 सत्सङ्गः-सखे, भवन्तमधिकृत्य किंचिदिव संदिहानेन मया कंदा- चिदत्रभवती शिवभक्तिरभिहिता–'सांप्रतमस्माकमतिविधेयोऽपि चिचशर्मा चिरतरमविद्यानुबन्धी : कथमस्मदमिर्मतकार्यानुकूलो भवेत्' इति । तदनु निजहृदयनिर्विशेषमेव स्वामिह मन्यमाना भगवती 'कथितवती-'स एव कार्यमिदं प्रस्तुतमभिनिवर्तयिष्यति' इति । चित्तशर्मा-परेङ्गितपरिज्ञानप्रवणहृदया. हि. महानुभावा भक्तिः । (सस्मितम् ।) अये सत्सङ्ग, सत्यमहमेवंशकनीयो : भवेयम्, अत्रभवती यदि न मामनुगृह्णीयात् । संप्रति तु मदध्यवसायः श्रूयताम्- भुलाना सुचिरादभेदविधया भौगानह खामिनी जीवस्याभ्युदयाय वमं च तृणप्राय त्यजाम्यत्र तु.। सवामे समुपागते निजमुजव्याधूतखङ्गाहति- च्छिन्नस्त्रीयसनाभिवर्मविपिना कर्णः प्रमाण मम् ॥ ७ ॥ कि च। गोत्रानुबन्धममतादिषु निर्विशेष- स्तत्वादृशः कुलमहत्तर एव भीष्मः । खामी सुयोधन इति द्रुतमाजिभूमौ । शास्त्रास्त्रवर्षपरुषोऽजूनि पाण्डवेषु ॥ ८॥ अतस्तदनुग्रहभाजनममन्यथा न शकनीया । सोऽहमचिरेण राजान- मविद्यया सह. वेदारण्यं प्रवेशयामि । तदनुः तत्र कामनानुविद्धतत्तदुपा- सनाभिरविद्यापि राजाने प्रलोभयेत । तदनन्तरकरणीये भगवती प्रमाणम् । सत्सङ्गा-- अनमवती शिवभक्तिस्ताभिरेवोपासनाभिः साकमनतिभि- नाया देहविद्याया पदान्तर एवं विद्यामपि राजमात्रदृश्यतयानुप्रवेश- यितुमध्यवस्यति । चित्तशर्मा--अतः सत्वरमिममुदन्तमावेदयितुमत्रभक्ती शिवभक्ति- १. 'महमेवमेव ख. २. 'स्म जयाय तस्य' ख. ३. दहर विद्या 'दहर उत्तरेभ्यः' इ. स्थानिसूत्रेषु भगवता व्यासेन निणीता. रा तथाहि । बहुप्रकारमर्नुसृतोऽपि रुपगम्यताम् । अहमपि भद्रशालाभ्यन्तरें मामेवं सुचिरं प्रतीक्षमाणस्य वयस्यस्य संकाशं गच्छामि । (इति निष्क्रान्तौ । विष्कम्भः। (ततः प्रविशति यथानिर्दिष्टो राजा राजा-(स्मरणमभिनीय ।) हन्त, : मया निजकार्यनिर्वतनकचेतसा मह- दनुचितं कृतम् । यदेष वयस्यो बुभुक्षितव्याघ्रीपरिसरमभिवर्धितो हरिण- शाव इंव नितान्तपरिकुपिताया देव्याः सविधमापराधो गमितः । तत्र कति कति परिभवाननुभूय कथमिव परिखिद्यते वा न जानामि । (ततः प्रविशति चित्तशर्मा ।) चित्तशर्मा-हन्त, वयस्योऽयमतिमात्रविद्याविरहतापेन परिभूयते । वीक्षानिर्विषया निकाममलसप्रान्ते च कान्ते दृशौ :. शश्वत्किच मितैर्वृतः परिजनैरकान्तमासेवते । नास्था वस्तुषु वल्लभेषु मनसो निष्ठा न कुत्रापि वा तेजोमात्रसंसारमूर्तिरधुना 'जागर्ति जीवों विभुः ॥ ९ ॥ यावदेनमुपसामि । (उपसत्य ।) विजयतां देवः । राजा--(दृष्टा सपरितोषम् ।) वयस्य, प्रसन्न इव लक्ष्यसे । किमस्ति कश्चिद्विशेषः । चित्तशर्मा -अथ किम् । राजा--कथमिव । (चित्तशर्मा किंचिदिवोपसर्पनिदमित्थमिति वृत्तमर्थमानुपूर्यो कथयति ।) राजा-वयस्य, किंमत्र देवी संनिदधीत । चित्तशर्मा-सह परिवारैरुपगतैवं । (ततः प्रविशति विषयवासनया प्रवृत्त्या चं सहाविद्या ।) अविद्या- १. 'प्रवेशकः' ख.

३६. काव्यमाला। । देवः सर्वथा न यथापुरममासु प्रसीदति । कर्तव्यस्तु समुदाचारः । (इति कतिचित्पदानि गत्वा पुरोऽवलोक्य 1) कथमत्रैव चित्तशर्मणा विविक्तमध्यास्ते देवः । यावदेनमुपसपीमि । (उपसृत्य ।) विजयतां देवः । राजा-इत आस्यताम् । (इत्यासनं निर्दिशति ।) चित्तशर्मा-देवि, दिया वर्धसे । विषयवासना-वर्धता महाराजः । (राजा चित्तशर्माण संज्ञापयति ।) चित्तशर्मादेव, भवता सह वेदारण्यविहाराय बलवदुत्कण्ठिता देवी । तत्कुतो. विलम्बसे । राजा यदभिलषितं देव्यै । (इंति सर्वे उत्तिष्ठन्ति ।) देवी-(स्वगतम्) का गतिः । राजा-कः कोऽत्र भोः । (प्रविश्य) दौवारिक:---अहमस्मि । राजा-संकल्प, वेदारण्यमार्गमादेशय । संकल्पात इतो देवाः। (सर्वे वेदारण्यगमनं नाटयन्ति ।) राजा-(वामपार्श्वतः कर्णे दत्त्वा ।) अये चित्तशर्मन्, अत्र केपामपि परस्परालाप इव श्रूयते । चित्तशर्मा-(स्मरणमभिनीय । किंचिदिवोपसृत्य । जनान्तिकम् ।) वयस्य, 'देव्या हितान्वेषिभिर्मोहादिभिरर्धमार्गे भवत्प्रलोभनाय लोकायतिकादि- पाषण्डसिद्धान्ताः संनिवेशिताः' इति वस्तुविचारेण संप्रत्येव मे कथि- तम् । प्रायस्त एते भवेयुः । (पुरो विलोक्य ।) स एष । असारमेतज्जगदित्यवेत्य तृणादिवत्पश्यति दृश्यजालम् । अन्तश्चिरानन्दरसानुभूतिमङ्गैः समुद्यत्पुलकैय॑नक्ति ॥ १० ॥ १. ख-पुस्तके नोपलभ्यते. .

४ अङ्कः] विद्यापरिणयनम् । ३७ . (ततः प्रविशति वस्तुविचारः ।) वस्तुविचार:-आदिष्टोऽस्मि तत्रभवत्या शिवभक्त्या-'वत्स व- स्तुविचार, संप्रति जीवराजो वेदारण्यं प्रविविक्षुरिति श्रूयते । तदेनमपथा- निवर्त्य सतैव पथा समानेतुमस्य परिसरोऽधिगन्तव्यः' इति । (पुरोविलोक्य ।) स एष जीवराजः । यावदेनमुपसर्पामि । (उपसर्पति ।) (राजा चित्तशर्मणा सह प्रणमति ।) वस्तुविचार:-सिद्धसंकल्पौ भूयास्ताम् । अविद्या-(सविषादम् । खगतम् ।) हन्त, विफलो मे मनोरथः पाषण्डेषु । (ततः प्रविशन्ति पाषण्डसिद्धान्ताः ।) लोकायतिकसिद्धान्तः- न क्लेशलेशयोगो भागोऽनुपरोध एव सर्वत्र । इति सति किं न रमन्ते मन्दधियो मामके तत्रे ॥ ११ ॥ (इति परिकामति।) चित्तशर्मा—(राजानं प्रति।) अत्रायमस्याशयः–'प्रत्यक्षमेव प्रमा- णम्, अदृष्टचरं तु नास्त्येव । तथा च । पृथिव्यापो वह्निः पवन इति सत्याः परममी तदेषां संघातो भवति वपुरात्मा बहुविधः । समष्टेस्ताम्बूलादरुणिमवदुन्मीलति मतिः सुखादिव्यापारैरुपनमति धर्मादि तु मृषा ॥ १२ ॥ अतः। देशः कालोऽथ जातिः कुलमकुलमियं स्वा परेत्यादिहेतो. वावयेतिमिथ्याकुहकविरचितां यन्त्रणामन्तरेण । आये खायेऽथ पेयेऽप्यनियमिततया काममापुष्य गात्रं दृष्ट्वा मिष्टामवाप्य स्मरमदमुदितां भोग एवाभ्युपेयः ॥ १३ ॥ इति । चित्तशर्मा-(सभ्रूभङ्गम् ।। वयस्य, लोकायतिकमतमिदमतिरमणीयं १. आदर्शद्वयेऽप्युपलभ्यमानमपि प्रक्षिप्त प्रतीयते; पूर्व पात्रान्तरस्यानुपलम्भेन चि. त्तशर्मण एव प्रकान्तखात्, काव्यमाला। प्रतीयते । यदत्र 'न विधिर्न निषेधो न धर्माधर्मों नास्ति परलोकः' इत्यादिना प्रत्यक्षसिद्धविषयाभिरतिनिरातका हि प्रतीयते । अविद्या-(खगतम् । सहर्षम् ।) कथमप्यस्मदीय एव चित्तशर्मा । (राजा सस्मितं वस्तुविचारं पश्यति ।) वस्तुविचार:-(सोद्वेगम् । खगतम् ।) प्रमादः प्रमादः । पर्यायेण सत्पथमेनं नयेयम् । (प्रकाशम्) किमये चित्तशर्मन्, अनभिज्ञ इवालपसि । वयं किम् 'इदमखिलमस्ति' इत्यवोचाम । 'किमपि नास्ति यत्साक्षात्' इति प्रत्यक्षसिद्धार्थाभिरतिरनातङ्केति ब्रूमहे । शापादिवशादिहार्थान्तरभ्र- मेण विशृङ्खलविषयाभिप्रायक एव । 'नास्ति परलोकः' इत्यादीनि च ब्रह्मव्यतिरिक्तस्य सर्वस्याप्यभावोपलक्षकाणि । तस्य देहात्मत्ववादोऽप्यन्न- मयकोशस्यात्मोपलक्षकत्वनिबन्धन इति सर्वमद्वैतपर्यवसाय्येव । राजा-(सशिरःकम्पम् । पुरोऽवलोक्य ।) :: परिहितकषायवासाः परिहृतहिंसः समस्तभूतेषु । अभ्येति भिक्षुवेषः कच्छविहीनोऽत्र बुद्धसिद्धान्तः ॥१४॥ बुद्ध:--अहो मन्दमेधसः, स्वानुभवविरुद्धो व्याहारः । प्रत्यक्षतो यत्प्रमितं कदापि तदेव सत्यं न ततोऽन्यदस्ति । इत्येव बुद्धिर्यदि तर्हि कस्मादपत्यहेतोरबलामुपैति ॥ १५ ॥ चार्वाका-अये बुद्धसिद्धान्त, किमनुमानमपि ते प्रमाणंम् । बुद्ध:-क; संदेहः। ऊर्ध्वं चाधश्च नानाविधभुवनभिदा नामरूपव्यवस्था- मुामाचक्रवालाद्वनगिरिसरितामर्णवानां च तत्त्वम् । ज्योतिश्चक्रोपरागस्थितिगतिसदसद्भाविभोग्यानि येन प्रत्यक्षं दर्शयेऽहं क इव विवदतामत्र हन्तानुमाने ॥ १६ ॥ अतः प्रत्यक्षमनुमानं च प्रमाणं मे न संशयः । अस्ति स्वर्गश्च नरको धर्मोऽधर्मश्च कारणम् ॥ १७ ॥ मत ४ अङ्कः] विद्यापरिणयनम् । ३९ परं तु परिदृश्यमानमखिलमपि क्षणक्षणविलक्षणतया क्षणिकमेव । पश्य तावत् । क्षणादूर्ध्वं न तिष्ठन्ति शरीरेन्द्रियबुद्धयः । दीपार्चिरिव वर्तन्ते स्कन्धाः क्षणविलम्बिनः ॥ १८ ॥ .. प्रत्यक्षं जायते विश्वं जातं जातं प्रणश्यति । नष्टं नावर्तते किं तु जायते च पुनः पुनः ॥ १९ ॥ तथा च । कर्मोत्तेजितवासनाकृतजगज्जन्मप्रवाहो यथा जालान्तःप्रसृतार्कतेजसि रंजःस्तोमस्तथा भासते । धारावाहिनि बोध एव गलति ज्ञानेन सा वासना पश्चानिर्विषयोऽमलश्च स भवनात्मापवर्गो मतः ॥ २० ॥ अत्र 'बाह्यार्थः प्रत्यक्षसिद्धः' इति वैभाषिको जग्राह । 'बोधाका- रानुमेयो बाह्यार्थः' इति सौत्रान्तिकः । 'बुद्धिमात्रमर्थो न कश्चिदपि बाह्यः' इति योगाचारः । 'न बुद्धिमात्रमपि शून्यमेव तत्त्वम्' इति मा. ध्यमिकः । तदेवं चतुर्मतमेतच्छास्त्रम् । चित्तशर्मा-वयस्य, नियताध्ययनविहितानुष्ठानसंकटमन्तरेण सुग- मनिःश्रेयसमिदं सुगतमतमनादरणीयम् । वस्तुविचार:-तदपि श्रूयताम् । अनाद्यविद्यावासनाप्रपञ्चिता विष- यसंतंतिः । स्वरूपज्ञाने प्रतीयते । तदिदमेव संसरणं : नाम । तदनु- तत्त्वज्ञानतो वासनाविगलने सति स्वरूपज्ञानस्य निर्विषयोपरागत्वमेवापवर्ग इत्यद्वैतमेवाभिमतमस्य सुगतसिद्धान्तस्यापि । अत एवामुष्य जगन्मिथ्या- त्वाभिप्रायः शून्यवाद । क्षणिकतावादस्तु विशेषणीभूततत्तत्क्षणानित्यत्वा- भिप्रायकः । स चायमपवर्गः । 'निष्कामकर्मानुष्ठानजन्यचित्तशुद्धिहारक उपनिषदधिगम्यः' इत्येतदाशयमविज्ञाय । शापवशेन निगमपथपरित्यागस्तु नरकाय भवति । , १. "दिश्यमान' ख. २. 'तम' क.

४०. काव्यमाला । : (लोकायतिकसिद्धान्तो विवसनसिद्धान्तं पश्यति ।) विवसनसिद्धान्त:----(सहस्तताल विहसन् ।) अहो, खव्याघातोपहतो. ऽयमस्योपन्यासः । "प्रत्यक्षाधिकमप्रमाणमुररीकृत्यानुमानं ततो गम्यं धर्ममुरीकरोति च ततः स्वर्गादि भोगादि च । यत्सत्तत्क्षणिकं ब्रवीति च पुनाहन्यते खं वचः स्वेनैवास्य न किं जिंगीपति कथं बुद्धो मतेनामुना ॥ २१ ॥ सुगता-(साभ्यसूयम् ।। अये नमक्षपणकसिद्धान्त, दूरत एव तिष्ठ । सातः पूतः संनिधेहि स्वमतमभिधातुम् । विवसन:- देहोऽयं मलभाण्डमस्य शुचिता का नाम तीर्थोदकै- देही निर्मल एव तिष्ठति घटस्यान्तः प्रदीपो यथा'। देहो नान्तरितस्तु संसरति स स्वीयैर्हतः कर्मभिः प्रारब्धानुगुणं प्रपद्य च वपु ते सुखं वासुखम् ॥ २२ ॥ बुद्ध:--अये, किमर्थमावरणं न क्रियते । विवसना- जीवस्यावरणं देहो देहस्यावरणं कुतः । यदि तस्यापि कार्य स्यात्तस्यापीत्यनवस्थितिः ॥ २३ ॥ बुद्धा-अये, कथमेतादृशस्य जीवस्य मोक्षः । विवसन:--शृणु तावत् । मयूरपिच्छधारणं मलं च केशलञ्चनं महर्षिपूजनानि नमता मनस्यनीय॑ता । अहिंसनं क्षमा दया सदेति मोक्षसाधनैः शरीरकारि कर्म तत्सवासनं विनश्यति ॥ २४ ॥ १. 'प्रत्यक्षाधिकं प्रमा' क-ख. Lanca ४२ विद्यापरिणयनम् । ॐ तथा सति । उरिमही निरन्तरमहालोकान्तराणामुप- योस्ते मोक्षशिला नितान्तमहिता ज्योतिर्मयी शाश्वती । तामभ्येति झटित्यसौ तडिदिवोद्गच्छन्वपुर्वसना- त्तत्रायं परमात्मनाथ घटते मोक्षोऽयमहन्मतः ॥ २५ ॥ बुद्ध:-अये, कुतस्तवायमध्यवसायः । विवसना-शब्देनानुमानेन च । बुद्ध:-किमयमेव सिद्धपरमेष्ठिपदाभिधेयः परमात्मा तव मते जगत्कर्ता। विवसना नहि नहि । कर्मभिरेव जगन्ति जायन्ते विनश्यन्ति च । वस्तुविचार:-अस्यापि स्वप्रकाशसंविद्रूपदेहातिरिक्तात्माभ्युपगमेन सिद्धपरमेष्ठिनामकपरमात्माभ्युपगमेन च जीवपराभेदरूपमद्वैतमेवाभिमतमि- ति रमणीयमेव मतम् । परं त्वेतदभिमताहिंसाक्षमा । क्यादिपारम्यानुसं. धानतो यज्ञादिकममुफ़्यानभिमतमिति भ्रान्त्वा शापवशेन निगमपथपरिभ्रे- प्रस्तु पतनाय जायते । अतः 'स्यादस्ति' इत्यादिसप्तभङ्गीप्रतिपादन जगदनिर्वचनीयत्वतात्पर्यकम् । देहशौचाद्यभावप्रतिपादनं चात्मनः खतो निर्मलत्वाभिप्रायकम् । अविद्या--(जनान्तिकम् ।) सखि विषयवासने, देवोऽयम् 'अवैदि कानि' इति खलु मतान्यमूनि न संमन्यते । वैदिकेषु सोमसिद्धान्तादिषु वा किंचिदभिनिवेश्य यदि सगुणविद्याभिरभिरमेत, तावतापि ननु भवेदमा- कमाधासः । तेजस्तिमिरवदद्वैतविद्या किलात्यन्तिकविरोधिनी दृश्यते । हाजा-(पुरो विलोक्य ।) क एष. भालेपशरदभ्रविभ्रम विन्नदुरवपुरद्भुतभ्रमः । पुण्डरीकधवलाननभ्रमचण्डकोकनदचारुलोचनः ॥ २६ ॥ चित्तशर्मा-अयमेव सोमसिद्धान्तो नाम । १. आदर्शद्वयेऽपि नास्ति. १ म ६ Tita ह सोमसिद्धान्त:-(सस्मितम् ।) हन्त, प्रमाणपथातिवर्तिन एवानेन केनापि केऽपि पदार्थाः प्रतायन्ते । अपि च । तदागमास्तद्विर एव वर्ततामतोऽपवर्गोऽस्य यथाकथंचन । । यदैहिक सौख्यमिदं किमीर्यतामतो भृशं गर्हितमाहत मतम् ॥ २७ ॥ (किंचिदन्तविमृशन् ।) अहो बत मामकमतस्य रमणीयता । ज्योत्स्नाधौतदिशा निशा परिकरैविश्वोत्तरं चत्वरं मयं हृद्यरर्स मदालसवधूनाम्बुजामोदितम् । आखाद्य तरसं घृतादिसरस कान्ताकरान्तादिति वर्ग प्राप्य समग्रमत्र परतः प्राप्योऽपवर्गोऽपि यत् ॥ २८ ॥ विवसनः-(सभयोद्वेगम् । स्वगतम् ।) हन्त, कथमयमन्तक इव चिन्ता- विषयोऽपि संतापयति । (प्रकाशम् ।) अरे सोमसिद्धान्त, कस्तव : मते धर्मः, कथमिव स्वर्गः, क इव चापवर्गः । सोमसिद्धान्त:-अरे, श्रूयताम् । 'प्रत्यग्रप्रहृतक्षरज्झलझलद्रक्तप्रवाहक्षणो नृत्यन्मय॑नवोपहारनिवहैर्मद्यैश्च संप्रीणितः । सार्वश्यादिसमग्रदिव्यगुणसंपत्त्या महाभैरवः सारूप्यं निजमातनोति बलभियोग्यं च भाग्यं दिशन् ॥ २९॥ संदेहकैवल्यमिदमेव नः परमपुरुषार्थः' इति । स्वर्गस्त्वयमेव, यदत्र समभिलषितसर्वार्थसिद्धिभिरनियन्त्रिताः कामोपभोगा इति । वस्तुविचार:-अये चित्तशर्मन्, एवमेव भेदवादिनः सर्वेऽप्यस्मदी- यसगुणोपासनफलीभूतेषु तत्तदुपासनतरतमतानुगुण्येन सालोक्यसामीप्य- सारूप्यरूपेषु पदेषु रममाणास्तदेव परमममृतं मन्यन्ते । तथाहि -जीवा- णुत्वनित्यत्ववादिनो रामानुजीयाः 'चिरादुष्कर्मकर्मकवलितज्ञानानन्दस्वभा- वतया संसरन्तो जीवा दुःखानुभवनिविण्णा भक्त्या प्रपत्त्या वा हरिमा. राध्य तत्प्रसादेन विगलत्कर्मबन्धाः भगवत्सारूप्यमधिगम्य स्वकीयधर्मज्ञा. नविकासेन भगवदानन्दमनुभवन्ति' इत्यभिदधते । तथैव प्रत्यक्षादित्रयप्रा.

४ अङ्क]] विद्यापरिणयनम् । माण्यजगत्सत्यत्ववादिनो माध्या अपि 'अविद्यासंकटविघटितज्ञानानन्दख- भावास्तत्त्वतो भगवद्भिन्ना जीवाः संसरणाखानुभवनिविण्णा सकलाना यसमधिगम्यं भगवन्तं भक्त्या समाराध्य तत्प्रसादतः श्रवणमननादिविग- लदविद्यावरणतया विशुद्धखभावा भगवच्छरीरं भूतादिवदाविश्य नीरक्षीर- वदवस्थिताः स्वस्वाधिकारतरतमतानुगुण्येन तदीयैरेवावयवैः स्वस्खजात्यनु. गुणान्भोगान्भुञ्जते, स एव च मोक्षः' इत्याचक्षते । (सोमसिद्धान्तः किमपि किमप्यालपन्यारवयमभिनयति ।) राजा-(पुरोऽवलोक्य ।) अये, किमेतावदस्य वैकृतं कापालिकस्य । चित्तशर्मा- अयं किल महाभैरवपूजावसाने निपीय मद्यमतिमात्र- मुन्मस्तकितमदावेशविवशो विलुठति । सोमसिद्धान्त:-(सरभसमुत्थाय विकटताण्डवं नाटयन्परिक्रामन् ।) अहो प्रमादः प्रमादः । मदीयः किल परमपुरुषार्थः केनापि दुरात्मना चोरितः । किमितो विधातव्यम् । (पार्श्वतोऽवलोक्य ।) प्रत्यङ्गभासिपरिपाण्डुघनोर्ध्वपुण्ड्रः 'पद्माक्षजालतुलसीमणिहारकण्ठः । भाषान्तुति परिपठन्निह पाश्चरात्र- सिद्धान्त एष शुचिवेषभृदभ्युपैति ॥ ३० ॥ (सरभसत्सप्य तान्त्रिक पाणी गृह्णन् ।) कथमरे, मदपवर्गमचूचुरस्त्वम् । ताधिका-(श्रवसी कर्णाभ्यां पिधाय ।) रामानुज रामानुज, किमहं चो. श्रीवैष्णवा-सोमसिद्धान्त, यदि प्रमाणती महाजमानुमतमेव चौर्य- मवसितम्, तर्हि किं क्रियत तत्प्रतिश्रूयताम् । (सर्वान्प्रति ) अहो भवन्त: सर्वे साक्षिणः शृण्वन्तु तात्रिका -यदि तथा स्यात्तर्हि तव दासो भवेयम् । सोमसिद्धान्त:-तदिदं भवस्तो विमृशन्तु । १. 'विलोक्य ख. २. 'मुपसप्य' ख. HAM 1.

काव्यमाला) . बौद्धादयः-अरे, कथ्यतामपवर्गस्त्वदीयः । तान्त्रिक:- (कर्णे ।) एवमेव । बुद्धादय:-(श्रुत्वा विहस्य ।) अये तान्त्रिक, वश्चितोऽसि पापण्डका. पालिकदास्येन । यतः । सारूप्यरूपं सविशेषमेतत्सदेहकैवल्यमिदं मदीयम् । एकीभवन्त्यत्र भवन्त एव स चेत्स राजात्र कलिः प्रमाणम् ॥ ३१ ॥ (ततः प्रविशति कलि.) कलिः बालोऽप्ययं पटुरिति प्रतिबुध्य तत्व- माहूय मामकृत कैः प्रणयैर विद्या । मह्यं वराय सही कुहनां स्वकीयां दत्त्वातनिष्ट सुमहत्किल कौतुकं मे ॥ ३२ ॥ तदस्याः किमिव मया च प्रियमाचरणीयम् । (इति सकौतुकं परिकामति ।) सोमसिद्धान्त:-राजन्कले, विजयी भव । प्रतिपद्यतामत्र किंचि- दिव दण्डनीतिः । कलितत्कि नाम । सोमसिद्धान्त:--तान्त्रिकोऽयं चोरितमदीयपुरुषार्थो मध्यस्थैरध्यव- सितप्रमोपश्च प्रतिश्रुतं तु नानुतिष्ठति । कलिा---(जतान्तिकम् ।) अये, सान्त्रिकोऽयं वैदिकः श्रूयते । तत्कथमसा. वभिभावनीयः। सोमसिद्धान्तः-ययेवं मन्यसे, तर्हि श्रूयताम्---'वयं यथा भैर- वागमानुरोधेन वेदप्रामाण्यवादिनो वेदविरुद्धमधुमासादिनिषेवणाभिषेदवा- ह्यतया पाषण्डेषु गण्यामहे, तद्वदिमेऽपि पाश्चरात्रागमानुरोधेन वेदप्रामा- प्रयवादिनो वेदविरुद्वैराचारैः पाषण्डा एव । किं च-द्विविधा इमे ता- त्रिकाः, उदीच्याः केचित्, अपाच्याः परे, इति । तत्र तावदपाच्या नाम पापण्डाः, ते पशव एव । यतः। y A ४ अङ्क] विद्यापरिणयनम् । Foor='3042:34moti अप्राकृतानकृतकानपहाय वेदा- स्तत्प्रांतिभट्यविनिवेशितनीचभाषाः कर्म त्यजन्ति विहितं विहितेतराणि निर्माल्यपैतृकमुखानि वितन्वते च.॥ १३ ॥ हन्त बुद्धरुपरिप्लवता। आचार्यहस्तादधिगम्य चीटी निबध्य कण्ठे कुणपस्य दग्ध्वा । वैकुण्ठवीथ्यां गृहनिश्चयेन नन्दन्ति मूढाः पशवो न किं ते ॥ ३४ ॥ कलि:-(स्वगतम् ।) तदहमप्येवमेनं प्रतारयामि । (प्रकाशम् ।) अये, प्र- तिश्रुतम् । पापण्डदास्यमनुतिष्ठ । परया(?) वैकुण्ठे शमलभूमिपरिसरे तव निवेशनाय चीटिकामहं प्राहिणुयाम् । तात्रिका---(सभयम् ।) राजन्, यद्रोचते भवतस्तदाचरामि । . (इति श्रद्धया बद्धाजलिस्तिष्ठति ।) कलिा--(पुरो विलोक्य ) उत्तुङ्गद्विपकुम्भकर्कशकुचाभोगा रणन्मेखल- श्रोणीमण्डलभारमन्थरगतिः कंदर्पदोद्धता । उन्मीलन्मदिराविकारविवशव्यालोलतारेक्षणा स्निग्धालोकनमोहिनी विलसति श्रद्धा पुरस्तामसी ॥ ३५ ॥ (विचिन्त्य )) महाप्रभावा ह्येषा शास्त्रं किंन्विदमप्रमाणमिह किं न प्रीयते देवता सा प्रीता यदि किं कुहापि भुवने दुष्प्रापमेकं भवेत् । भोगाना बहून्प्रदाय परतः कैवल्यलक्ष्मीप्रदे सद्यःसिद्धिपदे जनः कुलपथे कमान्न संनाति ।। ३.६ ॥ इत्यादिनानाविधसाधनबोधनै धनैरापामरपण्डितमखिलमपि जनमिह कु- लपथे महोत्सव इव निविडयन्ती दक्षिणपथमप्रचारेण वितथमिव कृत- वती । अयि श्रद्धे, परिगृह्यतामयं तान्त्रिकः । १. निविवेशित' क.

/ असे बिभ्रददभ्रदुर्भरभरां घोणी मधुष्ठीलव- काव्यमाला। श्रद्धा-तथा । (इति गाढमालिङ्गति।) तात्रिका-(सुखपारवश्यमभिनयन् ।) स्वर्गो दिवः किं गलितोऽयमुासुर्येव किं स्वर्गदशां प्रपन्ना । सत्त्वातिरेकक्षरदात्मतत्त्वं विश्व क्रिमानन्दमयं विधत्ते ॥ ३७ ॥ इति श्रद्धापरवशों दासोऽहम् । (इति साष्टाङ्गं प्रणमति ।) राजा-स्थाने सांप्रतमस्य न्याय्यतया दासत्वम् । अन्यथा बाह्मणो दास इति विप्रतिषिद्धमैवैतत् । कलि-दिष्टयायमप्रयांसता प्रामाणिको दासलाभः । सोमसिद्धान्ता राजन, एवमेव लाभान्तरमपि नः संतसति। (पुरती निर्दिश्य ) 'तिर्यगतिर्यग्विदलितपरिणतपृथुकारवल्लिभद्राभिः । मुद्राभिर्जटिलतनुर्दग्धो माध्वोऽयमापतति ॥ ३८ ॥ माध्वसिद्धान्त:-अद्य खलु लवनिकायां घृतशौचप्रायश्चित्ताङ्गम- भिनवतीर्थस्वामिपादैः श्रीवैष्णवसमाराधनं क्रियत इति निशम्य - श्रीमुष्ण---- तोऽहमागच्छामि । (ऊर्ध्वमवलोक्य ।) तदितो यावत्समयानतिपातमाचार्य स्वा-' मिपादवन्दनमाचरणीयम् । (इति ससंभ्रमं परिक्रामति ।) कापालिका-(कलिं प्रति।) राजन्, य एष क्षुद्दम्लेच्छमुखालसंकुलकरः प्रारब्धवायुस्तुतिः । अङ्करानिव पाप्मनामविरलानङ्गे मपीलाञ्छना- नाबिभ्रच्चकितो वलीमुख इवोदग्रप्लुतं हिण्डते ॥ ३९ ॥ अयं तावदुराचारैस्ततोऽपि वेदबाह्यः । कलि:-कथमिव । कापालिका- उपवासदिनभ्रान्त्यामप्येष किल दुर्मतिः । न जुहोति न दत्ते वा पितृश्राद्धं च मुञ्चति ॥ ४ ॥ १-२. नपुंसकनिर्देश आदर्शद्वयेऽप्युपलभ्यते. प mon- किंच। , स्नान सांध्यविधि पोऽथ हवनं स्वाध्यायमाध्याहिके देवाभ्यर्चनमित्यमून्यविकलं कृत्यानि निर्वर्तयन् । सद्यःनातरजस्वलाकृतपतिश्राद्धेऽमितद्वादशी- काष्ठाभ्यन्तर एव पारणमयं कृत्वा चिरान्निर्गतः ॥ ४१ ॥ कलि: हन्त, समग्रो वैदिकाचारो(?) पाषण्डस्य माध्वसिद्धान्तस्य प्रशिष्यतामपि नार्हति । अयं मूढस्तिष्ठतु वराकः । किमनेन । जीवराजः-सखे चित्तशर्मन्, अमीषां मुखान्यवलोकनीयानि । त. दितो वामेतरेणैव पथा मृगयाविनोदिनो वेदारण्यमधिगच्छामः । पाषण्ड:-(अपवार्य । परस्परमुखान्यवलोक्य । सनिर्वेदम् ।) मतान्तरे बलव- दभिनिवेशितोऽयमधृष्योऽस्माभिरितो यथागतमपसरामः । अविद्या-(जनान्तिकम् ।) अयि विषयवासने, दृष्टानिः खलु वस्तुवि- चारदुश्चेष्टितानि पाषण्डेषु । एवमग्रेऽपि शमादिभिरुपनिपत्य यदि किल राजा यमनुरुध्येत, तर्हि सुमहत्किल संकटमापयेत । तदितो वयमग्रत एव गत्वासूयया संनिधाप्यमानैर्मोहादिभिरस्मदीयैः शमादिप्रचारोपरो- धाय निपुणतरं किमपि संतिधातव्यम् । विषयवासना-साधु चिन्तितं भट्टिन्या । अविद्या-(प्रकाशम् ।) यावदमी वयमृजुनैव पथा किंचिदग्रतो गच्छामः । (इति निष्क्रान्ताः सर्वे ।) इति चतुर्थोऽङ्कः। पञ्चमोऽङ्कः । (ततः प्रविशति सह परिवारैरविद्या ।) अविद्या हन्त, तदेवमतिमहति संकटे निपत्य करणीयताविमूढा. मिह न कोऽपि मामुपसरति । १. 'ऽवगच्छामः' क.

काव्यमाला ।
(नेपथ्ये ।)
रतिकङ्कणपदमुद्रितरमणीयशिरोधरालिप्तैः ।
घुमणद्रवहरिणमदैद्यमितामुख[:] सरो जयति ॥ १ ॥
अविद्या-(श्रुत्वा । सहर्षम् ।) अये, कामः संप्राप्तः ।
(ततः प्रविशति कामः ।)
काम
वामाझे वदने च वक्षसि चिरादेणेक्षणालाञ्छना
बद्धा नाम पताकि कास्त्रिनयनब्रह्माच्युतानामपि ।
सन्त्वन्ये बत के पुनर्दिविषदो मच्छासनोल्लचिन-
स्तत्ताडग्विभवस्य मेऽत्र मनुजाः के नाम कीटा इमे ।। २ ।।
(पुरोऽवलोक्य ।) इयमितः सपरिवारा देवी। (उपसृत्य ।) विजयतां देवी ।
देवी-इत आस्यताम् ।
कामः-(उपविश्य ।
का चिन्ता मयि वो निषीदति जगद्वीरे दिशां जित्वरे
येनार्थः पुरुषेण वोऽभिलषितस्तं ब्रूत किंचिन्मम ।
दिक्पालं दुहिणं मुकुन्दमथवा साक्षान्महेशं क्षणा-
निर्जित्य प्रसदाकठाक्षविशिखैः कुर्वे भवकिकरम् ॥ ३ ॥
विषयवासना-भट्टिनि, यदि किलानेन कर्माण्यवरुद्धानि, तत्र श.
मादेरुच्छ्वसितुमपि न भवेदवकाशः ।
प्रवृत्तिः-भट्टिनि, विवेको विरागमुपनिधाय यदि किल कामानवरु-
छमेव कर्म कारयति, तर्हि तत्र किमप्यन्तरमधिगम्य झटिति तद्विघटने कः
समर्थों भवेत् ।
अविद्या-(विचिन्त्य ।) पुरो दृश्यताम् ।
कोपः स एष कुटिलभृकुटीकराल
वक्रं दधद्वमदिवासृगवेक्षणेन ।
उद्दण्डदण्डधरचण्डधरार्भटी क-
मभ्येति विभ्रमविलासकथानभिज्ञः ॥ ४ ॥

६ अङ्क] विद्यापरिणयनम् । ५ । (ततः प्रविशति क्रोधः।) क्रोध:- धर्मः कश्चन कामनानधिकृतस्तेनामदीयाः परा- भूयेरन्ननुवेपते मम वपुर्हन्ताहमाविर्भवन् । इष्टापूर्ततपःशतात्तपरमोत्सेधं तु तत्संचयं तूलस्तोममहाचलं पविरिव प्रध्वंसये दृश्यताम् ॥ ५॥ (उपसत्य ।) विजयतां देवी । (इत्यभिमुखमुपविशति ।) विषयवासना-भट्टिनि, यथा प्रायशो धर्म एव कुहापि न प्रव- तेत, तथा विधातुं कः प्रगल्भेत । (देवी चिन्तां नाटयति ।) (नेपथ्ये ।) एहि याहि यथाकामं नाहितं तेन किंचन । देहि वाचमिमां नैव ब्रूहि मां प्रति जात्वपि ।।..६ ।। पितरौ वा विपद्येता जायतां वा सुतायुतम् । मिलन्तु वोपरागांश्च मिथो दद्यां न. किंचन ॥ ७ ॥ देवी--(श्रुत्वा ।) ननु संप्राप्त एव तादृशो लोभः । (ततः प्रविशति लोभः।) लोभः- अभ्येतु घोरवपुषा धुरि राक्षसो वा दंष्ट्राकरालवदनः स्वयमन्तको वा । चेतो बिभेति न तथा मम दुनिवारे दृष्टे यथार्थिनि संपुस्तकदर्पपाणौ ॥ ८ ॥ (परिक्रम्य । उपमृत्य ।) विजयतां देवी । (इति पावेतो निषीदति विषयवासना-(लोभै निर्दिश्य ।) कणस्तृणं वा जगतां त्रयेऽपि न देयमेतस्य दृशास्ति किंचित् । न हर्षदृष्ट्या तु किमप्यदेयं मही विशाला मणिपर्वतो वा ॥ ९ ॥ . . .

१०
काव्यमाला ।
(पुरोऽवलोक्य ।) हन्त, स्मृतमात्रः एव संनिहितः । यदेष
। हस्तेनानुपदं प्रियस्य सुहृदो हस्तं समास्फालय-
न्हासोत्तालसमुल्ललल्कलकलः संफुल्लवनाम्बुजः ।
दूरीकृत्य विषाद्वैग्यजडताचिन्तादिभावानसा-
वुत्साहेन सहात्मजेनः वलते हर्षोऽतिमात्रोत्सवः ॥ १० ॥
(ततः प्रविशति हर्षः।)
हर्ष
वध्यं च वारणपनिदधामि कण्ठे
कुर्वे च रत्नपटलीकनकाभिषेकान् ।
न प्राणतो हि परमस्ति शरीरभाजां
तानप्यहं तृणमिव प्रतिपादयामि ॥ ११ ॥
(इति परिक्रम्य ।) विजयतां देवी । (इति लोभस्य प्रतीपमुपविशति ।)
विषयवासना-अये हर्ष, भवदनुजन्मा मदः किं न दृश्यते ।
हर्षः-(अप्रतो निर्दिशन् ।) इतो दृश्यताम् ।
/ आलिङ्गितोऽयमवधीरणया रमण्या
पुत्रैः प्रमादविपदस्सरणैः परीतः ।
दूरीकृतो विनयधर्मविचारगन्धैः
सोऽयं मदो जयति मन्थरहष्टिपातः ॥ १२ ।।
(ततः प्रविशति मदः।)
मद:-
उन्मीलितालानमुदग्रसत्त्वं मदावलं भूरिमदान्धमेतम् ।
बाले समालम्ब्य बलाद्विकर्षनिवर्ततेऽयं धुरि निःसरन्तम् ॥ १३ ॥
(इति विकट परिक्रम्य हर्षोपकण्ठे निषीदति ।)
प्रवृत्तिः-भट्टिति, यथा ह्ययं धर्मातिक्रमादिना कीदृशमप्यस्मदधीनं
करोति, तथैव मानोऽपि महदविनयादिना कमपि मदधीनये देव । त-
थाह्येष
विगर्हितनमोवाको विनयादिपराङ्मुखः ।
आहो पुरुषिकाप्रेयानायान्मानोः मदोच्छ्रितः ॥ १.४ ॥

. ५ अङ्कः] विद्यापरिणयनम् । ५१ e (ततः प्रविशति मानः।) मान:- । इष्टापूर्तसहस्रलब्धपरमापूर्वातिपूतात्मके विज्ञानातिशयप्रभूतविभवे विश्वैकवन्ये मयि । वेष्टन्ते तिलयन्त्रनद्धवृषवत्कि कोऽपि देवालये वन्दन्ते कृकलासवच्च शिरसः किं न्यश्चितोदश्चितैः ॥ १५ ॥ (इति परिक्रम्य ।) विजयतां देवी । (इति क्रोधसमीपमधिवसति ।) विषयवासना-भट्टिनि, लोममहिम्ना कर्म कुहापि प्रायशो नानु. तिष्ठेदेव । कथंचिदनुष्ठितान्यपि परातिसंधानेन विफलयतापि केनचिद्भ- वितव्यम् । प्रवृत्तिः-(पुरतो निर्दिश्य ।) सोऽपि संनिहित एवं । यदेष सौवर्णलेपनधगद्धगितांशुजाल- मापादचूडमयमाभरणं दधानः । विष्टब्धमूर्तिरतिधीरगतिः प्रसन्नो मिथ्याविलासरसिको मिलतीह ड(द)म्भः ॥ १६ ।। (ततः प्रशिशति ड(द)म्भः।) ड(द)म्भ:- इन्द्रः कुबेर इति ये महिताः सुरास्ते बाह्याङ्क(गोणं निबिडयन्ति निरन्तरं मे । एतेषु मे यदिह किंचिदुदञ्चितभूः किं किं न सिध्यति जनस्य मदाश्रितस्य ॥ १७ ॥ (इति परिक्रम्य ।) विजयतां देवी । (इति सर्वेषामप्रतस्तिष्ठति ।) विषयवासना-भट्टिनि, तदेतेषां क्रियासिद्धिषु महाप्रभावो मोहः सहकारी। (ततः प्रविशति मोहः ।) (मोही देवीं प्रणम्य तदन्तिके निषीदति ।) प्रवृत्ति:-भट्टिनि, श्रूयताम् । १. 'लोभादिमहिम्रा' ख. ड(द M.

१२ काव्यमाला । ये संसारपथं विचिन्त्य वितथं तत्त्वावमर्शोन्मुखाः संनयन्ति भृशं मनागपि शिशोराकर्णिते ऋन्दिते । हित्वा तत्त्वकथामपास्य नियमानुत्लुत्य धावन्ति ते -मोहः सोऽयमलङ्घनीयमहिमा केनैष जय्यो भवेत् ॥ १८ ॥ विषयवासना- तदेवमपारबलविभवसारेषु निजपरिवारेषु किमसारवि- षयिणीमिराशङ्कामिरात्मानमाालयसि । अविद्या-भोः कामादया, श्रूयन्ताम् । निलकुलसमापतितविकटसं- कटविघटनाय हितकार्यघटताय चायसवसरः । अतो मया किंचिदभिधीयते । तदवहितरेव सर्वद्धिराचरितव्यम् । कामादयः यदाज्ञापयति देवी । अविद्या सहजसिद्धविरुद्धखभावशमदमादिकृतदुर्बोधनेन मयि विर- सीकृतात्मा देवश्चित्तशर्मणा साकमत्र परिसरे निमिषमात्र एव सैनि- दधीत । ततः पूर्वमेव शिवतद्भक्तिप्रभावैर्युष्माभिरप्रमादमेव निजनिजपरि- चारैः सममयमुद्देशः सर्वोऽपि यथा शमदमादीनामीषदुच्छ्रुसितुमपि नाव- काशा, तथा निबिडयितव्यः । [कामादया प्राप्तावसरमेव पराक्रमपिण्यामस्तावत् , यदादिशति भट्टिनी । (इति कामादयो निष्कामन्ति ।। (ततः प्रविशति चित्तशर्मणा सह जीवरजिः ।। राजा पुरोऽवलोक्य i) कथमन्त्रैव सपरिवारा देवी । (सर्वाः ससंभ्रममुत्तिष्ठन्ति ।) प्रवृत्ति-देव, कियञ्चिरमभूदसाकमिहागतानाम् । राजा--चित्तशर्मन, इतोऽपि कियदन्तरे वेदारण्यभागः । चित्तशर्मा-तनुः प्रविष्ट एव । यदिदानी फायन्ते पृषदाज्यराधिन इमे वाताः क्वचित्कुत्रचि- सर्पिष्मचरुशंसिनः क्वचिदपि स्निग्धा पामोदिनः । "आससारपये ५ अङ्कः] विद्यापरिणयनम् । एते चानुपदं पयोदपटलीसौहित्यनाडिधसा धूमा व्योमपथं तरन्ति मखभुक्संचारनिःश्रेणिकाः ॥ १९ ॥ अपि चात्र प्रक्रीड़च्छुकसारिकादिपटलीशश्वत्समाश्रावित- प्रत्याश्रावितमुह्यहत्विगपथप्रक्रान्तिसंदेहतः । एते जाग्रति साग्रहाः सुमतयः सभ्याः समं यज्वमि. वैदुष्यप्रथनाय वागवसरौचित्यप्रतीक्षाकृतः ॥ २० ॥ यावदिह प्रविश्य चक्षुषी विनोदयामः । (इति सर्वे तथा कुर्वन्ति ।) राजा-(समन्तादवलोक्य । सानन्दम् ।) विहितेष्टयो मतिमतां पर्वसु काम्यक्रिया एताः । प्रमदा इव खलु रमयन्त्यक्षय्याः पूर्वसंपदुल्लसिताः ॥ २१ ॥ अपि च। विहरति विस्मयनीया कुहचन सौत्रामणीलक्ष्मीः । संपूर्णसोममुख्यस्फीतरसाश्च क्रियाः क्वचिद्भान्ति ॥ २२ ॥ (विमृश्य ।) कमलोल्लासिपदानां कमनीयविचित्रभूरिभोग्यानाम् । आसां कामपरिस्फुरदमृतं मुखमातनोति सुखम् ॥ २३ ॥ विषयवासना-(जनान्तिकम् ।) सखि प्रवृत्ते, काम्यक्रियाणामासा निवर्णनेन तत्फलप्रशंसया च कामाविष्ट इव दृश्यते देवः । प्रवृत्तिा-ननु महाप्रभावः कामः । चित्तशर्मा-(स्वगतम् ।) हन्त प्रमादः । दुरात्मना कामेनामिभूयमानः सव्याजमन्यतोऽवकर्षणीयो देवः । (प्रकाशम्' ।) पदान्तर' एव परिणतफला- गममिमं प्रदेशमासाद्य विश्रमसुखमनुभूयतां देवेन । राजा-तथा । (इति किंचिदन्यतो गत्वा परतो निर्दिश्य ।) / शस्त्रस्तोत्रमयीगिरः श्रुतिपुटीसौहित्यनाडिधमा वैतानानिह पावकान्कृतझरीकिंजल्किताग्रानपि ।

काव्यमाला। अङ्गान्युत्पुलकानि मे विदधतः पूतांश्च व्रातानिमा- न्हातुं न प्रभवामि पावनहविर्गन्धानुबन्धानपि ॥ २४ ॥ अविद्या-सखि विषयवासने, लब्धापरित्यागामिलापस्वमावेन लो. भेनापि वशीकृत इव देवा । यदयमिमान्विषयान्न परित्यक्तुमुत्सहते । चित्तशर्मा-(स्वगतम् ।) आः किमिह लब्धप्रससे लोभहतकोऽपि । भवतु । निवारयाम्येनमितोऽपि गुणवद्विषयान्तरप्रदर्शनेन । (प्रकाशम् ।) वयस्य, किंचिदत्र परभागे दीयतां वृष्टिः । राजा--(विलोक्य । साश्चर्यम् ।) तडिजटिलिता दिशस्तरणिकोठिभिर्मास्यते नमःस्थलमुपस्थितैरनुपमैश्च तौर्यत्रिकैः । मनोऽपि च विनोद्यते मधुसुधाझरीमाधुरी- निरन्तरधुरंधरैर्निखिलदुर्लभैः सौरभैः ॥ २५ ॥ वयस्य, किमेतद्विमृश्यताम् । (चित्तशर्मा संकल्प पश्यति ।) संकल्पः-(विचार्य ।) देव, काम्योपासनाः संघीभूय भवदनुजिघृक्षया सेनिदधते । (ततः प्रविशन्ति काम्योपासनाः ।) काम्योपासना:--विजयतां देवः । राजा- बृहस्पतिर्मे स कियान्वचाक्रमे दिवस्पतिर्वा विभवेषु मे कियान् । इमा दुरापास्तपसापि भूयसा यदाविरासन्ननुपाध्युपासनाः ॥ २६ ॥ (इति स्तब्धोरस्तटमविनीतस्तिष्ठति ।) चित्तशर्मा-(स्वगतम् । विनीतोऽयं विभुर्हन्त वितनोति विकत्थनाम् । महतामपि दुष्टात्मा मानो हि दुरतिक्रमः ॥ २७ ॥ (प्रकाशम् ।) वयस्य, सविनयादरममा महोपासना यथोचितमहणीयाः । राजा-तथा । (इति सभयं परावृत्य सप्रश्रयादरमभ्युद्रमं नाट्यन्यथोचितं सं- भावयति ।)

६ अङ्कः] विद्यापरिणयनम् । संकल्प:-(पुरतो निर्दिश्य ।); । इष्टाङ्गालक्षितरतिक्रमशोभितैषा शृङ्गारिणी विजयते. धुरि वामदेव्या । आयुः सुदीर्थमभिनन्द्यगुणान्कुमारा न्हृद्यां च कीर्तिमियमातनुते हि विद्या ॥२८॥ चित्तशर्मा--उपपद्यत एव । क्रत्वङ्गभूतहिंकारप्रस्तावोगीथप्रतिहारनि. धनेषु योषिदुपमन्त्रणसहशयनाद्यभेदप्रतिपत्तिरूपेयमेगावबद्धोपासना बहु. फलो कल्पलतेव कस्य वा मनो न हरति । (राजा सरोमाश्चविकसितकपोलं चित्तशर्मणो हस्तमास्फालयति ।) विषयवासना-किमिहापूर्वार्थसंदर्शनजनितचित्तविस्तारात्मको ह. षोऽपि । दिल्या दिया। चित्तशर्मा-(स्वगतम् ।) हन्त, हर्षेण महताविष्टो वयस्यः । यदि किलैतत्प्रतिनियतवृत्तिरत्र मदोऽपि संनिदधीत, ततोऽति हि नाम संकटमा- पद्येत । तदिममन्यतोमुखयितुमेवं ब्रवीमि । (प्रकाशम् ।). वयस्य, पार्श्वतो 'दीयतां दृष्टिः। (राजाश्रुतिमभिनयन्गजमीलनानि करोति ।) विषयवासना-पुष्कलोऽयमैस्मिन्मदावेशः । चित्तशर्मा-(आत्मगतम् ।) आः प्रमादः प्रमादः । कथमेनमितोऽह- मभिमतमुद्देशं गमयेयम् । (संकल्पमवलोक्य संकेतयते ।) संकल्पा-देव, महदत्र किंचिदक्षिसौभाग्यम् । राजा-किमिव । संकल्प रचितरुचिरशोमा ऋग्यजुःसामपुष्पै- द्वैतनिगमरसौघप्रस्फुरदिव्यरूपा । सदमृतवसुरुद्रादित्यसाम्राज्यदात्री विलसति मधुविद्या वीतदोषा तदेषा ॥ २९ ॥ १. '३३३३' वेदान्ताधिकरणे व्याख्याता. २. 'भस्मन्मदा' ख. Rohatin worn ...

५६ काव्यमाला। Ar चित्तशर्मा-(स्मरणमभिनीय । श्रूयते हि--दिव्यमधुमूर्तेरादित्यस्यान्त- राम्नायरसरूपममृतमग्न्यादिमुखेन वस्वादयो देवा दृष्ट्वैवाभिनन्दन्ति तदेव रूपं प्रतिपद्यन्ते, तत एव चोद्यन्ति, यस्तावदेतदमृतमेवं वेद स वस्वाद्यन्य- तमो भूत्वा तत्साम्राज्यमूविनाशित्वमपि पर्येति । राजा-(खरूपमहिमफलान्यनुसंधानसौवर्गसुखचिन्तां नाटयन् ।) नेदीयासुरदीर्घिकातिशिशिरे कल्पद्रुपुष्पोत्करैः संफारामोदिति मारुतेः विवलति प्रासादशृङ्गोदरे । घुभावालसभव्यदिव्यमहिलाबिम्बाधरास्वादने तत्ताडक्सुखवैखरी शिव शिव प्राप्येत वै जात्वपि ॥ ३० ॥ (इति मुह्यति ।) विषयवासना-भट्टिनि, मधुविद्यायां भजति व्यामोहमेष नो देवः । अविद्या-केनैष लङ्घनीयप्रसरः समये महामोहः । चित्तशर्मा-(स्वगतम् ।) हन्त, नितान्तमभिभूयते वयस्यो मोहेन । (प्रकाशम् ।) देव बुध्यस्ख बुध्यस्व । धीरः खल्वसि । (राजा प्रतिबुध्यते ।) चित्तशर्मा- स्मृतिमानतोऽपि यस्याः कमपि विकारं प्रपद्यते देही । आसादिता यदि हि सा मदयति के वांविवेकिन नैषा ॥ ३१ ॥ राजा-(श्रुत्वा । सप्रत्यभिज्ञम् () नैषा विवेकायभिमता विद्या । अत एवं किल 'अविवेकिनमेषा मदयति इति चित्तशर्मणा सव्याजमभिहितम् । (प्रकाशम् । पुरतो विलोक्य ।) संकल्प, कैषा महाभागा । चित्तशर्मा-(स्वगतम् ।) हन्त, विवेकादिस्मृतिमात्र एव प्रकृतिमा. सादितो वयस्यः । संकल्प:- कमपि हृदि दधाना कान्तरूपं महान्तं तदुपरि निदधामा भावभेदानशेतान् । १. 'प्रतिपद्यते' क-ख.

५ अङ्क विद्यापरिणयनम् । इयमपहतपाण्मा सत्यसंकल्पकामा जयति देहरविद्या सद्गुणै। श्लाघनीया ॥ ३२ ॥ राजा-(स्वगतं सगौरवं सादरं च ।) पदमात्रान्तरैव खखियमात्मविद्यार या।, यदपहतपाप्मत्वादिकतिपयगुणारोप एवं विशेषः । चित्तशा-(जनान्तिकम् ।) वयस्य, तदस्या दहरविद्यायाः पदान्तर एव तत्रभवत्या शिवभक्त्या निरतिशयनिजप्रभावेण भवदभिलषितपरमान: न्दकन्दली विद्यापि भवदक्षिपथैकगोचरतयानुप्रवेशिता स्यात् । तत्र साव. धानं दीयतां दृष्टिः । येतो महामोहादयस्तदपवारणाय संनद्यन्ति । राजा-(निभृतं निरूप्य । विद्यासुपलभ्य । खगतम् ।) हन्त, सैवेयं नयना- नम्दचन्द्रिका । (जनान्तिकम् ।) वयस्य, कि ब्रवीमि । पुरा किल एषा चित्रगता मनो हृतवती सौन्दर्यसारोद्भवै- रानन्दरतिमोहिनी किल दशामातन्वती कामपि । स्यादेतत्करशिल्पमुच्छ्रितमिदं चित्रं किलेत्यास्थित तत्तस्याः करशिल्पमरिपतवती सैपातिहृयाकृतिः ॥ ३३ ॥ (चक्षुषी निमीत्य । समोहं नाटयन । प्रकाशम् ।) अङ्गेनैव किमचिरादिभिरहं नीतोऽसि धातु। पदं कि वा मत्सुकृतैरसावियमिमौ लोकौ विपर्यासितौ । हन्तैतन्मुखचन्द्रमाप्रतिगुणादुत्कूलितेयं व्यथा- दात्मानन्दसुधासमुद्रलहरी विश्वं किमेकार्णवम् ॥ ३५ ॥ अपि च । सुषुप्तिवा चित्साक्षिकहृदयविश्रान्तिलसिता मदो वा मोहो वा धनसुखमयः कोऽप्यभिनवः । निरन्धानी बाह्य करणपटल निहुतजग- प्रकारः कोऽप्यन्तः प्रसरति विकारो मनसि से |॥ ३५ ॥ (इति स्तम्भ नाटयति । १. १।३।५ वेदान्ताधिकरणे. व्याख्याता. २. 'यतो मोहा' क, ३. ब्रह्मणः, ४. प्यभिनयः ख.

काव्यमाला। .. विषयवासना--(जनान्तिकम् ।) भट्टिनि, दिश्या फलितस्ते' ननु म. नोरथः । यदयमासामुपासताना प्रभावविलसितैरतिमात्रपर्युत्सुकितः प्रमोद- भरविकसितवदनारविन्दश्चिरेण: परवानास्ते । पश्य तावत् । प्रावृषि नीपद्रुम इव परितः स्तवकै सदनकुमलितैः । अङ्गैरविस्लपुलकैराविष्कृतसत्त्वविक्रिथैलसति ॥ ३-६ ॥ अविद्या अपि विषयवासने, देवस्य विकारोऽयमुपासनासक्तिनि- बन्धन इति मती मम त प्रत्येति । यदिह मद्विषयकप्रणयगौरवगन्धोऽपि नोपलभ्यते विषयवासना-किमन्यदित्याही कारण संभाव्यते । राजा--(सोन्मादम्।) मधुलहरीनयनपंथें मम मिलिता कापि विद्येति । दृष्ट्वाभिनन्दिता. सा तन्मयमास्ते जगत्समस्तमिदम् ॥ ३७ ॥ अविद्या-विषयवासने, श्रुतं खलु देवस्य । विद्यानुरागसंमोहपल्ल. वितमेतत् । विषयवासना-फलितसिव ते संदेहेन ।, भवतु । भूयोऽपिः विना- चित्तशर्मा (स्वगतम) हन्त, प्रसाद प्रमादा । तदिदमस्य विद्या, रतिपारवश्यविजृम्भित वियस्यस्याः । जल्पितमेवमत्यथयामि । (प्रकाश) देवि, दिया बलवद्वपासनासक्तहृदयो देवा । अतः किल मधुलहरी, ह. ष्ट्वाभिनन्दिता इत्यादि मधुविद्यास्वरूपगन्धिनी वागस्य प्रसृता । विषयवासना-भट्टिनि, विमर्शविषय एवायमस्य विकारः । अविद्या-कास विमृश्यताम् । मम तु न संदेहः । विद्यानुरागोन्मा- दविजृम्भितमेवैतत् । हन्त, बहिःप्रवृत्त्युपलम्भाय प्रहिता किमद्याप्यसूया चिरयति । १. 'स्ते मतों का A ६ अङ्क] विद्यापरिणयनम् । (ततः प्रविशत्यसूया। (असूया राजानं प्रणम्य देव्याः ससी, निषीदति देवी-(अपवार्य ) अये असूये, काम्योपासनादर्शनप्रकरणे. किमपि पर्युत्सुकितः स्तब्ध इव दृश्यते देवा । तत्किमत्र कारणं भवेत् असूया-देवि, तदिदमेव वक्तुकामागतांसि। प्रवृत्तिा-कथमिव । असूया-तत्रभवती शिवभक्तिरेतास्वेवोपासनासु विद्यामपि राजमा: वडश्यामनुप्रवेशितवती' इति ततस्ततः संचरन्त्या मया श्रुतमभूत् । प्रवृत्तिः-युज्यते हि तादृशीषु तादृशो महान्प्रभावः । अविद्या-(स्वगतम् ।) हन्त, किमिदमापतितम् । अभिमतसिद्धये य- तमानायास्तत्मतीपमुपनमितं दैवेन । तदितोऽपकृष्य विषयान्तरप्रदर्शनेन देवो विनोदयितव्यः । (प्रकाशम् ।) महाराज, स्थिरप्रणयेन भवता निकामम- भिनन्दितासि । किमतः परं मम प्रियमस्ति । चित्तशर्मा-(जनान्तिकम् ।) हन्त, तदुक्तिरेव तदनर्थनिदर्शनतया प्र- वृत्ता । भवतु । एवमेव । अविद्या-तदातो गच्छामि । सुचिरमिह परिभ्रमणपरिश्रान्तमात्मा- नमवस्थापयितुं न पारयामि । (राजानं चिर निर्वर्ण्य ।) मामेवं विविधोपभोगललितामुत्सृज्य किं लप्स्यते भूयः प्रागिव सा दशा परिणमेदात्मविशेषीकृता । वैश्यन्ते करणान्यमूनि तु परं किं तत्र पश्यन्मुखं साकूतस्मितकेलिलोलनयनं बिम्बाधर पास्यसि ॥ ३८ ॥ कि च । न वाग्न रूपं न रसी न गन्धो न स्पर्शनं वा सुखहेतुरस्ति ।. भवानहीं के गुणमाकलयय वियेति समुह्यति वा न जाने ॥ ३९ ॥ (इति सकोपा सपरिवारा गन्तुमिच्छति ।) राजा-(सभ्रूभाम् ) किमये चित्तशमन, विद्यामधुकृतं ममोन्माद- मियदतिभूमि गतमुपेक्षितवानसि । अतः किलैवमकाण्डे दुर्मनायते देवी । १. आदर्शद्वयेऽपि नोपलभ्यते. २. 'पच्यन्ते' ख. M काव्यमाला । चित्तशर्मा-यदर्योऽयमारम्भः । अथवा । मोहस्य किल सेवेराः केनापि न निवार्यते । कोऽनुरुन्धीत वा वर्ग नीचप्रवणपाथसाम् ॥ ४० ॥ राजा-(स्वगतम् ) सम्यगनुशासितोऽस्मि कामादिप्रवणोऽहं 'नीचप्रवण इति वयस्यस्य संबोधनेन । अविद्या-अलमलममीभिरसारोपचारैः । (इति सको सपरिवारा नि- कामति ।) उपासना-हन्त, बलवता विषयान्तरेण विफलीकृतो नः संरम्भः (इति समन्दाक्ष तिरोधते ।। (सहैव ताभिविद्यापि ) राजा--सखे चित्तशर्मन, भवतु । यथाकथंचिदखिलमपि समये कथ- मपि समाधीयते । दुर्लभ तु लब्धमेव । तदितः परमविलम्बितमेव कार्य- सिद्धौ व्यापर्तव्यममाभिः । (इति लिष्कान्ताः सर्वे ।) इति पश्चमोल षष्ठोऽ (ततः प्रविशति चित्तशमा ।। चित्तशर्मा-अद्य खलु दहरोपासतादिभिः सह विद्यादर्शनप्रभृति- निकाममस्वस्थहृदयो महाराजः । तथा हि । विश्लेषव्यथया चिरेण हृदयानुस्यूतया कर्शितो निश्वासेन घनोष्मणा मलिनयन्नोष्ठं निसर्गारुणम् । प्रम्लायन्मुखपङ्कजो न भजते निर्वेशलेशं मना- गन्तः कोटरलग्नपावक इव श्रीखण्डशाखी चिरात् ॥ १ ॥ एवमेव महाराजदर्शनप्रभृति सा विद्यापि नितान्तदासहेन विरह परिभूयत इति बहुधा श्रूयते । तथा हि । नैदाघोमतिमीलदुत्पलदलच्छायामुषी चक्षुषी ज्योत्स्नाहीनशरत्सुधाकरसखं वीतप्रसाद मुखम् ।

विद्यापरिणयतम् । उद्भातप्रसवेव लोधलतिका धत्ते तता पाण्डता डैिरेवमनङ्गातन्त्रललितरास्ते विनिता चिरम् ॥ २ ॥ अपि च । आलीभिः किल शायिता मरकृतस्निग्धे सुलिन्या दले पाथोबिन्दुरिव प्रकामतरला बालाधिक म्लायति । सिक्ताश्चन्दनविन्दवचुरुचुरायन्ते स्तनाभोंगयो-: मुक्ता भान्ति च सुभ्रवः स्तबकयोः सत्ता मिलिन्दा इव ॥३॥ अतो न विलम्बसहा दशेयमस्या इति करुणया मैत्रीमुखादभिधाय प्रेपितम् । तदनयोरितरेतरप्ररोचनविषये यत्नों न विधेय एव । पर स्वसूया- भिहितवृत्तान्तश्रवणभृति नितान्तपरिकुपिता तावद विद्या कथमिव समा- धैया स्यात् । (विचिन्त्य ।) हन्त, लब्धोऽयमुपाया । तदेवं समाधास्ये । (अप्रतोऽवलोक्य ।) कथमसूया । (ततः प्रविशत्यसूया !) असूया-प्रेषितासि देव्याहमविद्यया चित्तशर्माणमभिधातुम् । तमहं 'के पश्यामि । (पुरतोऽवलोक्य ) दिष्ट्या सोऽयमित एवाभिवर्तते चित्तशर्मा । यावदेनमुपसामि । (उपसस्य ।) आर्य, देवी समाज्ञापयति---'वयस्य, तदेवं देवो मयि विमुखता प्रतिपद्यमानो विमतासक्त एव ननु शाध्यमव- लम्बते । भवतापि न खलु कश्चिदिहोपायश्चिन्त्यते' इति । चित्तशर्मा-अये, मद्वचनादुच्यतां देवी। असूया-किमिति । चित्तशर्मा--प्रकृतिकोपनायास्तव निकामकार्कश्येत वैरस्यमुपलभ्य निर्विणः स्वयमप्ति राजा 'बृहदारण्यपरिसरे कुत्रापि शिवक्षेत्रादिषु ता- पसैः सह चिरे तिवत्स्यामि इति चिन्तयन्नास्ते । त्वं पुतरेवं सामुपालभुसे। किमहं करोमि । भवतु । क्रियतामेवम् । त्वया केचित्काल सह परिवारण कोपागारमनुप्रविश्य स्थीयताम् । राजैव यदि प्रसादनाय कदाचिदागच्छे तदापि सरलतया झटिति प्रसादी न करणीयः । तदुपरि सकलमहमेव समीकरिष्यामि' इति ।

६२ काव्यमाला असूया-यदाज्ञापयत्यार्यः । (इति निष्कान्ता ।) चित्तशर्मा---यावदहमपि विजने शृङ्गारवने मदनपर्याकुलस्य सव. यसो महाराजस्य परिसरवती भवामि । (इति निष्कान्तः ।) प्रवक (ततः प्रविशति कोषागार सपरिवारा देवी ।) देवी-सखि विषयवासने, कियदनुस्मृतोऽपि देवो मयि विरसहृदय एव । तथा हि । यातं तत्प्रणयानुवन्धि गरिमस्फीतं मयि प्रेक्षण पृष्ठं चेत्प्रतिवक्ति किचन परासक्तं विकर्षन्मतः । अभ्यातागतमुत्तमर्णमिव मामभ्यागतामीक्षते चेतः कृन्तति तीरसानुलपतैबायोपचारैरपि ॥ ४ ॥ प्रत्युत तापसाधिष्ठितेष्वरण्येषु । तपश्चरामि' इति वदति । किमत्र कर्तव्यम् । विषयवासना-देवि, मा भैषीः । यतश्चित्तशर्मायमस्साकमनु- कूलस्तिष्ठति । देवी-(विचिन्य ) 'तेषु तेषु सिद्धक्षेत्रेषु तपश्चरणाय गते राजनि परा शिवभक्तिरुपेत्य कदाचित्तया सहा संघहानाय यनं करिष्यति' इति चिन्तातरलितं मम हृदयम् । विषयवासना-सखि, तत्रापि किचित्प्रति विधानमध्यवसितमस्ति । देवी कथमिव । विषयवासना भवदनभिसताया देवि तस्यास्तु भक्ते- रतभिमतविधाना तामसी राजसी च । प्रचरति शिवभक्तिस्ते ममाप्यन्तरङ्गे झटिति विघटयिष्ये तन्मुखात्तत्प्रयनम् ।। ५ ।। विशस का 1:01Mr अङ्क] विद्यापरिणयनम् । ६३ नयोः समुत्साहनाय समये राजसंमुखीकरणाय च संघ एवं वि- ज्यतामसूया । देवी- सम्यगुचितमेव चिन्तितम् । असूये, संपदि वेदारण्यमधिगम्य त्र विनयेन तामसराजसशिवभक्त्योः सविधमुप्रसृत्य मद्वचनाहिं— दि खलु तत्र जीवराजा समागच्छति तमभिमुखीकृत्य भवद्विधेयेषु का- पक्रियोपासनादिष्वेव संवहनीया' इति । असूया-यदादिशति भट्टिनी । (इति निष्क्रामति ।) देवी-विषयवासने, तदितः परमानुकूल्यमुपागत एव महाराजः । (ततः प्रविशति-चित्तशर्मणा सह राजा।) राजा-सखे चित्तशर्मन्, अपि नाम मया प्रसादितापि देवी मामवधीर्य पागार एव निवसेत् । चित्तशर्मा-कः संदेहः । दुष्परिहरतया तथातिभूमि गमितो हि या तदीयकोपः । यथा स्वामिकार्यमनन्तरायमेवः संपयेत । राजाभवतु । यावदेनामुपसामि । (उपसपैति । (देवी राजानमवलोक्य मुखें परावर्य तिष्ठति ।) राजा विसृज सुतनु मौनं विसरेदं व्यलीकं प्रणयिषु ननु. कोपः पद्मपत्रोदबिन्दुः । अधर इव. किमेतद्रागमभ्येति चक्षु- गमय हृदयमेन गाहमाना सुखानि ॥ ६ ॥ देवी-सखि विषयवासने, किमेतैरायासैर्बजतु स. यथेष्टं मम किल स्वभावोऽयं कीहक्प्रणयपदभूतेऽपि विषये। मनारदृष्ये शाब्य मधुनि विषसप्रक्त इव में क्षणध्वस्तप्रेम प्रसरति पुन तु न मना १:७ ।। १. 'परावृत्य क.

काव्यमाला । राजा हन्त, कियदनुनीतापि प्रेयसी न प्रकृतिमापद्यते । (देवी तमनालोकयन्त्येव सचकुटि चित्तशर्माण पश्यति ।) चित्तशमा माक्तम् ।) देवि, प्रसीद प्रसीद। भवदधीन एव राजा। नन् चिसय निविद्यने । राजा हुन्त, कियवस्तापि नितान्तविमुखी मामवधीरयत्येव । तद- हमितापरमरण्येषु कुहनिदानमेषु तापसे। सह निवृत्त्युन्मुख एव तपश्चरे- यम् । (ति सकीपाटोप पाव गच्छी ।) (चिनलमा स्वी संवाय राजानमनुसरति ।) देवी-अयि प्रवृत्ते, क्यमपि तदनालक्षिता एव राजानमनुसरामः । प्रवृत्तिा उचितमाह देवी । राजा-कः कोऽन्न भो।। (प्रविश्य ) दौवारिका-अयमसि । राजा-संकल्प, वेदारण्यमार्गमादेशय । संकल्पा-इत इतो देव । (सर्वे वेदारम्परामतं नाट्यन्ति ।) राजा-(जतान्तिकम् ) सत्यं नैव सुर्ख कदाचिदनया जायेत न प्रत्युत प्रत्यूहः प्रकृतस्य सांप्रतमसाबच्चस्तर श्रेयसः । त्यत्वाव्या महती रुनेव बहुना यत्नेन दैवादसा- वसातत्सृजति स्वयं यदि ननु ध्वस्तानि दुःखानि नः ॥ ८ ॥ चित्तशर्मा-वयस्य, तदेतत्प्रकरणं च भवदाश्रयं च विज्ञानतयैव मया कृतमेवंसंविधानम् ॥ राजा सखे चित्तशर्मत , अयि नाम हृदयानन्दचन्द्रिकप्रियतमा मयात्र समधिगम्येत । दवा काला i ६ अङ्कः] विद्यापरिणयनम् । चित्तशर्मा का संदेहः । अघटितघटनापटीयसि भवदम्युदयकवाने मयि तव सचिवे जाग्रति किसिव नाधिगम्येत । शृणु तावत् । सर्दिश्ये यदि वत्सलेन भवता कार्येषु केष्वप्यह कुर्यामेव हि मन्दरस्य शिखया मेरोः शिखाग्रन्थनम् । तैलं पाणितले निघृष्य सिकता निष्यन्दयेयं क्षणा- कान्तासंघटनं मिथः सरसतासंपादनं मे कियत् ॥ ९ ॥ राजा-सखे, त्वयि सर्वमुपपद्यत एव । (स्मरणममिनीय।) निर्व्याजोपनमद्दयासरलया भच्या किमप्यद्भुतं कन्यारत्नमदर्शि तत्तडिदिवाकाशे विलिप्ये पुनः । किं नु स्वप्नविशेष एप मनसः कश्चिद्विकारोऽथवा तत्त्वं तस्य न वेद्मि तत्परिणये पुष्णाति तृष्णां मनः ॥१०॥ अपि च । चित्रेणापहृतं तदाकृतिमता चित्तं ममा सखे भूयः सा मम भाग्यतो नयनयोः पन्थानमासादिता । निःशेषं तदपाहरद्विधुमुखी सर्वैः सहैवेन्द्रियैः प्राणा एव लुठन्ति केवलमिमे गात्रेषु मे संदिताः ॥ ११ ॥ सखे चित्तशर्मन् , अपि नाम तदेनामधिकृत्य समवकर्णिता कापि वार्ता । चित्तशर्मा--अथ किम् । राजा-वयस्य, कथय कथय । चित्तशर्मा -अद्य किल तत्रभवत्या प्रहिता मुदिता मामुपेत्य तद्वच- सादभिहितवती । यथा किल-'अये चित्तशर्मन्, जीवराजस्य विधामि- लापजनितविरहसंतापातिशयः सत्सङ्गेन यथावदिहामिमतः । श्रुत एवं खलु भवता मैत्रीमुखेन जीवराजविरहखेदपरिभवो विद्याया अपि । तदेव- मुभयानुरागे परां कोटिमधिरोहति कार्यस्य विलम्बनमनुचितमेव । अतः कथमपि जीवराजो वेदारण्यपरभागमचिरेणैव प्रापणीयः । अहमपि तदाग- मनसमनन्तर में /कार्यस्य सिद्धये कृतसंधाना भवामि । अन्यदपि किंचि- ६६ काव्यमाला। ४. . दिह कार्यमावश्यकमभिधीयते । तदवहितेन श्रोतव्यम्-अत्र तावदस्मद- नभिमताचारे तामसी राजसी च शिवभक्ती निकाममोजायते । तयोस्ताव- देवं हृदयम्---'आवयोरिह जाग्रत्योरविद्याया नियोगमतिवर्तेत को नाम, स तावदन यदि विधिविहितान्यनुरुन्धीत तर्हि कामनामनुप्रवेश्य तमवि- द्याविधेयं कुर्वहे, यदि खलु नानुरुन्धीत तर्हि तत्प्रत्यवाय एव तमभिहत्य मोहादिवशे कुर्यात्, ईश्वरोऽपि किमत्र कुर्वीत' इति । अतः नह्येतामिह ते नृपं सुखरुचीरुत्पाद्य पर्यायत कर्मोपासतजालकेऽतिगहने नैतत्पराणुद्यताम् । देवस्यैव हि शासनानि विधयो नामाविलच्या हि ते भत्तयोः किं तु तयोर्मनागभिमतावाप्तिर्न संपाद्यताम् ॥ १२ ॥ तदर्थमेवं करोतु वयस्यः । यथा-- विलासेष्वासक्तिं विदधदपि तद्भोगविमुखो निरुद्धः कामिन्या निपुणरसिकः श्रोत्रिय इव । भजत्वत्रासक्ति फलमनभिसंधाय चरितै- रिदं यावद्विद्याधिगममुपदेशोऽस्य भवतु ॥ १३ ॥ अतो यावदहं निवृत्त्या सममीश्वरस्य दौवारिकमष्टाङ्गयोगं प्रहिणोमि तावदिह वेदारण्यपूर्वभाग एव महेश्वरशासनरूपा विधयो यथायोगमनुरो- द्धव्या' इति । राजाहन्त, कियदनुकम्पते निरुपाधिवत्सला भगवती शिवभक्ति- रस्मासुः । (पुरोवऽलोक्य ।) हन्त, दयिताविषयकसंकथनरसाभिनिवेशवशादन- वगतविप्रकर्षोऽयमस्माभिरधिगत एव वेदारण्यभागः । यदत्र शिक्षाकल्पादि- नामानो विचित्रगहनरमणीयास्तदेकदेशभेदा दृश्यन्ते । (स्यगतम् ।) उपप- नमेवैतत् । सकुतुकमभितो विलोकयन् । अत्र किल नादब्रह्मविनोदिनी विजयते गान्धर्वविद्येति या या विद्या विजयश्रियो जननभूश्चापेषुसंबन्धिनी । १. अत्र त्रुटिचिह्न काकपदं कृत्वा यदग्रतस्तापसगणोऽयंमालक्ष्यते। चित्तशर्मा- अथ किम् । राजा-(सविनयम् ।) अये, विमृश्यता क इम इति ।' ख. - .

अङ्कः] विद्यापरिणयनम् । ६७ जीवानन्दनिदानपारदगुणप्रख्यापयित्री च या । विद्याशेषतया विभाति सकलं भक्तिप्रभावान्ममः ॥ १४ ॥ चित्तशर्मा-कि बहुना । वैषयिकपरिपोषणकनिरतो वात्स्यायनतन्त्र- सिद्धान्तोऽपि तदीयपरिणतिवैरस्योपनमदतिजुगुप्साहितनिर्वेदातिशयफलि. तपरमार्थसुखस्वरूपजिज्ञासामुखेन विद्याशेषतयैवाध्यवसीयते । राजा-(पुरोऽवलोक्य ।) गाढोद्धजटासनीडनिबिडव्यानद्धनीडोदर- क्रीडन्नीडजकाकलीकलकलाटोपैरविक्षेपिणः । देवे क्वापि निविष्टतुष्टमनसः शिष्टा इमे तापसाः संघीभूय समापतन्ति क इमे धर्मा विशुद्धा इव ॥ १५ ॥ अये विमृश्यताम्--'इमे के' इति । संकल्पः-~-देव, संनिहितमिह भवन्तमवकर्ण्य पुण्याभिराशीमिर्योन. यितुकामा वेदारण्यवासिनस्तापसाः संप्राप्ताः । चित्तशर्मा--(किंचिदिव राजानमुपस्टल्य । जनान्तिकम् । वयस्य, मुख्या- धिकारतया साधनचतुष्टयत्वेनाभिमता विवेकादयो मोहादिभिरनभूततया भवदुपनयनाय भगवत्या तापसवेषेण प्रहिताः । राजा-(सपरितोषम् ।) वयस्य, तर्हि वयमभ्यु(प्यु)पगच्छामः । (इत्युपग- च्छति।) (ततः प्रविशन्ति विवेकादयस्तापसाः।) तापसा:---आदिष्टा वयमत्रभवत्या शिवभत्त्या---'जीवराजमधिगम्य विद्यापरिणयेऽधिकारनिर्वहणायतददृष्टपूर्वोऽयमस्माभिरिह कथं विधेयीकर- णीयः । अथवा तदीयनर्मसचिवश्चित्तशर्मा परिचितपूर्वः, स एव सर्वमपि नः संविदधीत । (राजा सविनयादरमुपसूत्य सप्रश्रयाञ्जलिश्चित्तशर्मणा सहानमति ।) तापसा:--राजन् , महत्तरेण श्रेयसा युज्यस्व । चित्तशर्मा—(पुरतो निर्दिश्य ।)

काव्यमाला। : । विद्युत्ताण्डवडम्बरं जगदिदं मृत्योर्मुखान्तर्गत सत्यज्ञानसुखैकरूपममलं ब्रह्मैव तच्छाश्वतम् । तत्प्राप्ता वयमभ्युपाय इति च प्रज्ञानसंशीलना- दन्तस्तोषविकासिवकमलः सोऽयं विवेकः सुधीः ॥ १६ ।। अस्य नामनि स्मृतेऽपि मोहो न प्रभवत्येव । (पुरतो निर्दिश्य ।) अयं विरागः परिशुद्धमूर्तिरलक्षितब्रह्मपुरंदरादिः । तदस्य दृष्ट्या न कुतोऽपि किंचित्कणाकणीयान्कनकाचलोऽपि ॥१७॥ किंच। मज्जत्वर्णवमेलनेन जगती कान्तारशैलोत्करै- त्रुट्यद्भश्यतु चान्तरिक्षमभितो नक्षत्रचन्द्रग्रहैः । कल्पान्तज्वलनः प्रसृत्य सकलं साटोपमालेदु वा तत्त्वामर्शविनोदिनोऽस्य तु दृशा लोमापि नो मीयते ॥ १८ ॥ तदेतस्य संनिधाने कामः परासुरेव । (इतरतो निर्दिश्य ।) ताविमावप्राकृतसुखप्रापणकृतप्रातिभव्यौ । अपरिमितसुकृतपरिपाकभूतौ शमदमौ ॥ १९ ॥ अपथविधाविनो विषयरूपनिपातकृतो बहिरबहिश्वरेन्द्रियकरालतुरङ्गगणान् । - दृढमवयम्य सद्गुणशतेन पदं परमं । गमयितुमीश्वरः शमदमप्रतिमो न परः ॥ २० ॥ (स्वगतम्) एतेन 'बहिरिन्द्रियनिग्रहः शमोऽयम्, अन्तरि- न्द्रियनिग्रहो दमोऽयम्' इत्यभिहितं भवति । चित्तशर्मा वयस्य, तदेतैरविश्लिष्टतयैव गम्यतामिष्टलाभाय । त्वय्यमीभिर्वते दृष्टे संयमीन्द्रर्वनाद्वनम् । नीयमानः स्वकार्याय स्मयंते रघुनन्दनः ॥ २१ ॥ अविद्या-विषयवासने, क एते राजानमभितः परिवार्य गच्छन्ति । विषयवासना--परिसरवर्तिनो योगक्षेमार्थमुपागताः केऽपि ता- पसाः स्युः ।

६ अङ्कः]
विद्यापरिणयनम् ।
६९
राजा--(पुरतो निर्दिश्य ।) किमिदमकाण्डः एव विद्युत्पुत्रपिञ्जरित- .
मिव सप्रकाशं नमो दृश्यते ।
संकल्पः-देव, भवदभ्युदयाय सकलमन्त्रतन्त्रपटली नाविधक्रतुवि-
ततीरुपासनाश्च संनिधाप्य तामसी च शिवभक्तिरितोमुखतया भवदुपगमं
प्रतीक्षते।
.
(राजा ससंभ्रमादरमभिगमनं नाटयति ।)
(ततः प्रविशतः शिवभक्ती ।)
शिवभत्ता-यथाकथंचिदावाभ्यामहिकामुष्मिकाभ्युदयविशेषेषु नि-
काममवकृष्य जीवराजोऽयमविद्याविधेयीकरणीयः।
(राजा सप्रश्रयमुपसृत्य प्रणमति।)
भक्ती-वत्स, सकलकल्याणभाजनं भूयाः ।
राजा-भगवत्यौ, मदुद्देशादिहोपगमनस्य प्रयोजनमवगन्तुमिच्छामि ।
भक्ती-वत्स, भवदभिनन्दनमन्तरेण न किंचिदिह नौ साधनी-
यमस्ति ।
राजा-सदृशमेव खलु तद्भवादशीनां महानुभावानाम् । (पुरतो नि-
दिश्य ।) भगवत्यौ, किमेतदतिबहलकदलनसितशिखज्वालजालनटालानि का-
न्यपि महोमण्डलानि दृश्यन्ते ।
तामसी-भुवनहिताय बभूवुः पशुपतिविष्ण्वादयः, स्वयं थान्येतानि
संनिदधते पाशुपतादीनि तानि तेऽस्त्राणि ।
राजसी-वत्स, सप्रश्रयेणोपसदनेन परिगृह्यता(न्ता)मिमानि दिव्या-
स्त्राणि । एतानि स्मृतप्रत्युपस्थितानि समयेषु भवतः श्रेयो महद्धि-
धास्यन्ति ।
राजा तथा । (इति चरणग्रहणं नाट्यति ।).
असूया-भटिनि, राजानः खल्वपूर्वशस्त्रास्त्रप्रिया भवन्तीति पाशु-
पतादिदिव्यास्त्रप्रतिपादनेन शिवभक्तिभ्यामात्मनिघ्नीकृतो देवः ।
१. 'यान्ति । एतानि' क.

काव्यमाला। - राजा---(सपरितोषम् ।) भगवत्यौ, परमनुगृहीतोऽसि । निःशङ्कमभिम- तेषु विधेयेष्वनुयुज्यतामयं जनः । तामसी-राजन् , इतः परिसर एव । (पुरतो निर्दिश्य ।) 'मन्त्रोऽयं शरभेश्वरो विजयते सर्वार्थचिन्तामणि- विख्यातो बगलामुखीमनुरसावल्यश्रमैः सिध्यति । यस्यानुग्रहमीहसे तदमुना धन्यः स सर्वो भवे. सन्त्येवं मनुकोटयोऽत्र निरता श्रेयोऽखिलं प्राप्नुहि ।। २२ ।। अथवा श्येनेनाभिचरन्यजस्व स यथा श्येनो निपत्य क्षणा- दादत्ते भुवि कुक्कुटादिष्टथुकानेवं द्विपो दुर्जयान् । आदत्ते स किलाध्वरोऽतिरभसादने तवाकण्टकं साम्राज्यं भविता तवोत्तरमितः कि नाम भाग्यं परम् ॥ २३ ॥ राजसी-(सासूयम् । जनान्तिकम् ।) किमेभिरिन्द्रनालैरिवातिफल्गुख- भावैरतिचिरसाध्यैरीपदपचारेऽपि चित्तविभ्रमकारिभिः । इत आगम्यताम् । (इति राजानमन्यतोऽवकर्षति ।) राजा-(स्वगतम् ) अहो प्रकृतिगुणदोषादनयोरप्यसूया । राजसी-वत्स, हश्यतामग्रेऽपि । पाशुपतं गाणपतं सौर शाक्तं पा. श्वरानमिति पञ्च मतानि जयन्ति ह्येतानि स्कान्दषष्ठानि । तदेतेषु श्रेयः पशुपतिमतं तत्र नियतो यदि त्वं दीक्षेथास्तदुपरि दुरापं न किमपि । स दत्ते सारूप्यं शतमखमुखामर्त्य मुकुटी- मणिस्तोमज्योतिर्धगधगनकिंजल्कितपदम् ॥ २४ ॥ अथवा । मेरुमन्दरादय इव वाजपेयराजसूयपौण्डरीकादयो । महाकतव इतः सहस्रशी दृश्यन्ते । तदेतेषु येषुकेषुचिदभिलाषितमभिसंधाय पशु- पतिराराधनीयः ।

६ अङ्कः] विद्यापरिणयनम् । Mariantavasinterror प्रसीदन्नतेन प्रतिभवति देवस्तव फलें पशुक्षेत्रापत्यादि च गुणफलल्वेन भवति । त्रिलोकीसाम्राज्यं त्रिचतुरदिनैः संभवति. चेन दमुष्यानुष्ठाने बत कथमभिज्ञो न रमताम् ॥ २१ ॥ यदि तावदमीषु बहुचित्तव्ययायाससाध्यतया मनसो न प्रवृत्तिः, तर्हि तिष्ठतु । परतो. दृश्यताम् । इमाः किल शङ्खपद्मादिनिधिदेवता इव पञ्चा- निविद्येति वैश्वानरविद्येति पर्यङ्कविद्येति च बहुधा महोपासनाः सहस्र- 'मितो दृश्यन्ते । । एतासु या काचन कल्पवल्ली भावालवाले भक्तो निधेया। न भारलेशो न च दूरयानं फलन्त्यभीष्टानि भवन्मतानि ॥ २६ ॥ चित्तशर्मा-भगवति, का नाम सा महोपासना यत्र किल संक- ल्पत एव सर्वकामार्थसिद्धिः श्रूयते । राजसी-सा किल सर्वोत्तमा । (इति तदन्तिकमुपनीय राजानमियमसा. विति दहरवियां. दुर्शयति ।) राजा.(सहर्षम् । आत्मगतम् ।) दियाहमद्य वेदारण्यपरभागसविध- मुपगतोऽसि । (प्रकाशम् । सावहित्थम् ।) भगवति, निरुपधिवत्सलया भवत्या निकाममनुगृहीतोऽहम् । एतेषु येषुकेषुचित्कर्मसु यासुकासुचिदुपास- नासु च विरचिताभिनिवेशो यथामति यथोपपत्ति च शिवमाराधयामि । (इति विधिष्वभिनिवेशं दर्शयति ।) प्रवृत्ति:-सखि विषयवासने, दिष्ट्या फलित इव देव्या मनोरथः । यदेष काम्यक्रियोपासनास्वभिनिविष्टश्चिरेण मदनुरोधी दृश्यते विषयवासना-विमर्शनीयम्, अधुनापि मम संदेह एव । अविद्या-मम तु न संदेहः । यथापुरमस्मासु विमुख एव । कुतोऽपि दाक्षिण्यादाभिमुख्यमभिमुख्यमभिनयति । परधायमस्मासु कथमेतावदुदा- सीत । धिक्मदग्धमेतन्मम जीवितम् । गते तादृक्प्रेमण्ययमहमिति द्वैतरहिते चरत्यग्रे कस्मिन्नपि जम इव प्रेयसि निजे । , ।

काव्यमाला। . शनैर्माने म्लाने गतगरिमणि प्राणधरणा- त्परो नैव स्त्रीणां हृदयदहनः क्रूरदहनः ॥ २७ ॥ राजा-(सविषादम् ।) सखे चित्तशर्मन्, अतिचिरेण सूत्रनर्तितप्रति- मोपममनपेक्षितव्यापारात्मानमायासयामि । चित्तशर्मा-(स्वगतम् ।) अयमस्य विद्याभिरतिरसाभिनिवेशपरिणामः । (प्रकाशम् ।) वयस्य, कुत एवम् । राजा--सखे, श्रूयताम् । किमेभिर्व्यापारैर्बुवमिह फलं किं न्विति मना- विमर्शप्रस्तावे मम हि विफलं भाति सकलम् । कि बहुना। कियत्कालाने लुठनमिति भक्त्या निगदितो नियोगोऽपि व्यर्थश्रम इव हि निर्वेदयति माम् ॥ २८ ॥ चित्तशर्मा-हन्त, भगवत्याः प्रसादो सांप्रतमुदपद्यत । निवृत्तिहेतु- विषयविद्वेषजनितो वयस्यस्य निर्वेदः । अयमेवावसरो योगपरिचयस्यापि । (ततः प्रविशति निवृत्तिरष्टाङ्गयोगश्च ।) निवृत्तिा-ततस्ततः । योगा-तदनु भगवत्या शिवभक्त्या तदेवमभिहितम्-'अद्यं खलु जीवराजमतिचिरेण विविधकर्मोपासनासु परिक्लिष्टं चित्तशर्मणा सह वेदार- ण्यपरभागमानेष्यति निवृत्तिः । तदत्र विरुद्धापरशुद्धवृत्तिनिरोधाय तत्प्रति- हारभूमिमधिगम्यताम् । अन्यच्च तस्य जीवराजस्य स्वप्ने साम्बदक्षिणामू- तिरचिरादध्यक्षणीयः' इति । निवृत्तिः-अहमपि 'प्रत्यक्षनैष्ठुर्यकलहादिकमन्तरेण तापसानां स्वा- श्रमपददर्शनप्रार्थनापदेशेन जीवराजः प्रवेशनीयः' इति तयैव प्रहितासि । (उभौं राजानमुपगच्छतः ।) निवृत्तिः-(राजानं प्रति ।) वत्स, निरन्तरायमितो भवेदानयनाय में- गवत्यायमष्टाङ्गयोगोऽपि प्रहिता ।

अङ्क] विद्यापरिणयनम् । योग-विजयतां देवा । राजा किंमयमेवः स महात्मा योगा। (प्रणमति ।) निवृत्तिा (योग लिदिश्य ।। निरुध्य प्राणादीनियमितपरिस्पन्दवशिता- नतो बद्धा गाढं करणपटलद्वारनिकरम् । शतच्छिद्राकुम्भानुदकमिव विष्वक्परिगल- भमनो सदात्मान गसयितुमसावेव निपुणः ॥ २९ ॥ अविद्या अयि विषयवासने, 'नतु प्रागेव मयाभिहितम् -- 'प्रतीय एवायम्' इति । संप्रति परतो जिगमिधुरिव निवृत्या सह किमपि मन्त्र- यते । किमत्र करणीयम् । विषयवासना-समये साहसमवलम्ब्य पश्याम । (निवृत्तिविवेकादीनों कर्णे "एवमेवम् इति कथयति ।) तापसा:-(सशिरःकम्पमू ।) महाराज, तदितः पदान्तर एवास्माकमा श्रमपदम् । तदवलोकतेन वयसनुग्रहीतव्याः। (इति राजानं हस्ते पहीला पर- भाग प्रवेशयन्ति ।) (विषयवासना चित्तशमीणमवलव्य सहैव प्रविविक्षति ।। योगा-- (दण्डमुद्यम्य ) धिक्त्वा पिशाचि । (इति गलहस्तिकया निवर्तयति ।) चित्तशर्मा-कियदत्र संविहित भगवत्या । तथाहि । निवृत्तेरने का प्रभवतु तयामी च घटिता विवेकाथा भक्त्या तदुपरि स योगोऽपि घटिता। प्रसादांशङ्का ने असमति कणीयस्यपि यथा तथा सैनहन्ता परिणतिषु मुह्यन्ति न बुधाः ॥ १० ॥ वयस्य, दिया योगप्रभावेण: व्याधिस्त्यानसंशयप्रमावालस्याविरतिमा- न्तिदर्शनालब्धभूमित्यासवस्थितत्वादिभिर्विक्षेपःखदौमनस्यादिभिस्तत्सह- जाभिर्वृत्तिभिश्चोत्सृष्टतया सुनिर्मलमात्मानं पश्यामि । विधयायमसाकमे- तदनुग्रहलाभः । अस्य तावन्महात्मनोऽवयवभूता यमनियमासनप्राणाया- मप्रत्याहारधारणाध्यानसमाधय इत्यष्टाविमे महाभागाः । अत्र अहिंसा १० काव्यमाला । . सत्यमस्तेयं ब्रह्मचर्य परिग्रह इति पञ्चैते यमा नाम । शौचर खाध्यायेश्वरप्रणिधानानीत्येते तु पञ्च नियमाः । तदेतेषामेकैकर गिरामभूमिः । दिङ्मात्रमुदाहियते । श्रूयताम्-यत्रायमहिंसा प्रतिवसति, तत्र तनुभृतामन्योन्यवैरगन्धोऽपि न प्रसरति । दृश् माश्चर्यम् । गोवत्सान्पिबतो निजस्तनमियं व्यालेदि शार्दूलिका बहीं बहसमीरणैः सुखयते वाताशिनः पोतकान् । गृहन्तो जरदग्धतापसगणं पाणाविमे वानरा- स्तोयाधारगतागतेषु सुखयन्त्यव्याजमैत्रीभृतः ॥ ३१ राजा--(स्वगतम् ।) अतः किल भगवान्पतञ्जलिरसूत्रयत्- (साप्रतिष्ठाया तत्संनिधौ) वैरत्याग' (साधनपादे उपसूत्रम्) चित्तशर्मा-अथ सत्याभिधेयोऽयं द्वितीयो यमनुगृह्णाति, थाभिधीयते तत्तथैव भवति । अत एव किल * सर्वेषां च मनुष्याणामर्थं वागनुवर्तते । यमिनां तु कृतार्थानां वाचमर्थोऽनुवर्तते ॥ ३२ ॥ राजा-ततः किल ते शापानुग्रहयोः प्रभवन्ति । वित्तशर्मा--तदेवमप्रमेयापरिमितप्रभावोऽयं योगः । (र आर्य, भवदुतुग्रहेण निरन्तरायमभिमतसिद्धिमभिलषति महाराजः योगा-सखे चित्तशर्मन् , अपरिमितशक्तेः शिवभक्तेरनुग्रह किमस्य परिहीयते। तदेतैः शमदमादिभिः स्वसमारब्धकार्यनिर्वाह मत्रभवतीं शिवभक्ति प्रतिपद्य तया निवर्त्यमानामिष्टसिद्धिम महाराजा। चित्तशर्मा-यदाज्ञापयत्यार्यः। (इति सर्वैः सह भक्ति प्रति गमन अविद्या--(पुरो विलोक्य । सातकम् ।) अयि विषयवासने, हि तितम् । यदयमवधूय ना परागत एवं वेदारण्यपरभागम् । देव, करोमि सन्दभाग्या ।

विद्यापरिणयनम् । विषयवासना-(सधविधमभम ) देवि, मा भैषी । मुस्विमे जगज्ज- यिन कासादया स्लोपतमसुनियंपेक्षमेव पराक्रमाय संनयन्ति । तदेतैः ससमहमेव नानवस्कन्यः परावर्तयामि । (इति, सायोप. कामादिभिः सह लि- कामंति।। (नेपथ्ये कलकलः) विवेकादया--(ध्रुला । सामर्षम् ।) देव, कामादयोऽसदीयेषु किमप्यो- जायन्त इव, तकिमिति विमृश्य परावर्तमहि । (इति निष्कामन्ति ।) राजा-(पुरो विलोक्य ।) हन्त समरसंनाहसमुद्बोधितसंस्कारेण · मया स्मृतमात्राण्येव तानि दिव्यास्त्राणि संनिदधते । (सप्रश्रय प्रणम्य ।) भवत्सनि- धानमहिम्ना विवेकादितत्तत्प्रतिभटैरेव तत्तदरिनिवर्हणानि क्रियन्ते । तद- तुगृह्यतासन्तर्धानेन । ('तथा' इति दिव्याखाणि तिरोदधते ।) निवृत्तिा-यावदहमप्येतेषामायोधनवृत्तान्तमप्युपलभ्य सर्वमिदमावे. दुयितुं भगवत्याः प्रकाशं गच्छामि । (इति तैः सह लिष्कामति ।) राजा--(पुरो विलोक्य ।) प्रासादेषु रतात्यये मुगहशा शादीति संमोहय- विष्वक्शाखिशिखासु लोध्रकुतुकादिन्दिन्दिराधावयन् । उन्सीलगुड्डराज एष किरणैरेमिः सुधासान्द्रिते. समानन्दयते महीध्रशिखरे कैलासमध्यक्षयन् ॥ ३३ ॥ योग:-(स्वगतम् ।) अचिरादेव तदपि संपत्स्यते । (प्रकाशम् ।) राज- न्, अविरतपरितप्तसकलजीवमण्डलविश्रमसुखविधायिनी परिणमति भगवतीयं रजनी । तदिह नेदीयसी शमादीनामाश्रमपदे संविश्य तामतिवाहयामः । राजा तथा (इति निष्क्रान्ताः सर्वे ।। इंति षष्ठोऽ। सप्तमोऽङ्कः। (ततः प्रविशति निवृत्तिर्विविदिषा च ।) विविदिषा-ततस्ततः ।

काव्यमाला निवृत्ति तदत्तु कामादिभिः स्मृतमात्र एव गर्वोन्मादप्रहर्षी इति कति कति वा कामदूताः समेता धुण्याक्षान्तिक्ष्ण्यादय इति शतधा निामृताः क्रोधयोधाः । कार्पण्यातृप्तिदैत्यांदय इति कति वा निर्गता लोभवाः किचैते मोहदूताः कति बत मिलिताः स्तम्भतर्कभ्रमाद्याः ॥ १ ॥ हन्त, विवेकादिभिरपि तत्तत्प्रतिभटतया निजनिजपरिवाराः संनिधापिता एव । अतएव दिशि विदिशि प्रसर्पति बले परितस्तुमुले बहलदुरन्तसंतमलसंततिदन्तुरिते । बलपदरेणुभिर्धनघनाघनमेरितै- बत हरिदन्तरें सकलमेव निरन्तरितम् ॥ २ ॥ अपि च । पूर्वपश्चिमसमुद्योरिव सरमससमरसाहसविनिद्रयोर्मोहविवे. कसैन्ययोरन्योन्यसंकलनतः प्रस्तुत एवाभिसर्दः । तथाहि । शस्त्रास्त्रपरुषे मोहसैन्ये सति समागते । चिन्मुद्रयाभ्यपद्यन्त जेतुकामाः शमादयः ॥ ३ ॥ विविदिषा---(अस्व. सहर्षीं । स्वगतम् ।) नयस्तु कस्य पक्षमवलम्बते वा द्रष्टव्यम् । (प्रकाशम् । ततस्ततः निवत्तिा तदनु पश्यन्नने विवेक तरणिमिव तमाः कापि दुद्राव मोह! कामः क्षामो विरागाद्रुतमभजत वा का दिशं कांदिशीकः । क्रोधा प्रध्वस्तयोधः शमसविधगतः सद्य एव प्रलिल्ये शेषा तूलांविशेषा कथमरिएतनोपद्रुता विद्वता वा ॥ ४ ॥ विविदिषा-(सपरितोषम् ।) तदनन्तरमविद्या किमाचारा । निवृत्तिा-सा तावदसूयाभिहितनिजबलपरिभवजनितदुखसंवेगमो- हिता तयैव साधासमित्यमभिहिता-भट्टिनितैवविध महति संकटे ग ७ अङ्क विद्यापरिणयनम् भवतीमन्तरेण का प्रगल्भत । तदिह भवत्यैव व्याप्रियताम् । भवदुपगम- मात्रेण यथापुरमेव सकले परावर्तते । तदनु सा (दीर्घ निश्वस्य ) क्रोधागारमनुप्रविश्य दयितं व्याधूय पादानत संमत्यापि च तत्प्रतिश्रुततपाकान्तारयात्राममि । 'भूयस्तस्य कथं वनानि पुरत: सिद्धिस्तथात्वेऽपि का किं कुर्यामिह चित्तशर्मवचसो विसम्मतो वञ्चिता ॥ ५ ॥ इति. सविषाद परावृत्त्य गन्तुमैच्छत् । अथ प्रवृत्तिस्ताममिहितवती- भट्टिनि, मन्युसंवेगजनितदुरध्यवसायैः पुरुषमेनमपहाय क गमिष्यसि । यत्र क्वापि तमन्तरेण स्वयमेव कि प्रभविष्यामि इति मन्यसे | किंच परभागगता' इति किससाकमेते विनकृष्टाः पदान्तर एवं तिष्ठन्ति । अत- स्तदप्रहाणेनैव तदाचरितानि निरूपयिष्याम इति यथापुर व्यवहिता एवं तिष्ठन्ति । त्वं पुनरिह व समागता । विविदिषा-अहं किल संदिष्टासि भगवता योगेन-वत्से विवि- दिषे, तत्रभवतीं शिवभक्तिमुपेत्य मन्मुखेन ब्रूहि भवन्नियोगमन्नुसंधता सया कामपि, निद्रामुपकरप्यातिन साक्षात्कारितसाम्बदक्षिणामूर्तिीव- राजा प्रमोदातिशयतरलितो भवत्पादकमलमवलोकयितुमतिमात्रमुत्कण्ठते । तदयमविलम्बितमेव भवदनुग्रहभाजनीकरणीयः' इति । निवृत्ति:-(श्रुत्वा । सपरितोषम् ।) यावदिममर्थ भगवत्याः कर्णगोच- रीकृत्य तामत्र सपदि संनिधापयावः । (इति निष्क्रान्ते 1) प्रवेशका (ततः प्रविशति चित्तशर्मणा विवेकादिभिर्योगेन च सह यथानिर्दिष्टो जीवराजः।) जीवराजा- मन्दसितस्नपितमञ्जमुखारविन्द वामाङ्कसङ्गिवनितामुखलोलनेत्रम् । चिन्मुद्रिकाविधुतचित्तमलान्धकार ज्योतिर्मनो बत न जातु जहाति तन्मे ॥ ६ ॥ १. 'तिष्ठन्तीति' ख.

काव्यमाला । अपि च । सो दृष्टिः सदया सच सितसुधाहृयः प्रसादो मुखे तचोदारगभीरधीरसधुरं वीरासनाध्यासनम् । चिन्मुद्रापि च सा चिरंतततमासंदोहविध्वंसिनी सर्वं हन्त पुरसपुरो दिशि दिशि प्रत्यक्षमालक्ष्यते ॥ ७ ॥ (पुरो विलोक्य ।) हन्त, विभातमाया रजनी । यदिदानीम् आयात्त्या दिवसंश्रियेह भगवद्भत्त्येव विध्वसिते विश्वमोहतमाप्ररोहनिकरे पुण्यत्प्रसादोत्तरम् । आविर्भावयितुं जगत्प्रसवितुर्कोतिर्वरेण्यं पुर ... श्चित्ते शुद्धिरिवाविरस्ति कृतिनः प्राच्या दिशि वेतिमा । (परतो. विलोक्य ।) अहो खलु सार्वत्रिकता विषयानुबन्धस्य । मामन्विष्य समागमिष्यति वपुः स्पीत्सथ प्रेमतः सलापैरपि तोषयिष्यति ततो भुक्तावशेष बिसम् । मदनादुररीकरिष्यति वधूरित्थं सदा चिन्तय प्रागागत्य विहारपुष्करसरः कोकोऽयमास्तेऽधुना ॥ ९ ॥ सखे, भवदीयसंविधानसुदृढ़प्रवहणेन विस्तीर्ण इवायमविद्यासंकटविषयसागरः। चित्तशर्मा वयस्य, नानु निस्तीर्य विश्रमसुखमप्यनुभूयते । कि- मुच्यते-एक निस्तीर्ण इव इति । राजा-सखे चित्तशर्सन, अपि नास निश्नत्यूहसेव तामत्रभवती विद्यामुपलभेय । (नेपथ्ये ।) इयसहमागतासि । राजा-(श्रुत्वा । सहर्षम् ।) सखे, प्रसन्नमधुरगम्भीरवृत्तिः 'इयमहमाग- तामि' इत्युपश्रुता वाचोयुक्तिः कर्णविवरमाप्याययति । (पुनतेपथ्ये ।) वत्से निवृत्ते, कियच्चिर · विलम्बसे । सत्वरमुपगम्यताम् । अपि च सत्यमागतोऽत्र चित्तशर्मणा सह राजा । 'प्रसादोन्मुख करख, २, द्रक्त्यैव' ३. भपि सत्य ख ।

अङ्क] विद्यापरिणायनम् । निवृत्ति नन्वत्र संनिहित एवायम् ॥ यावदेनमुपसरामा (ततः प्रविशतिः नियत्या सह शिवभक्ति शिवभक्ति-वत्से निवृत्ते, अपीदानी सफलस्ते परिश्रमः । अपि दिल्यायमविद्यादुर्ग्रहान्मोचितो महाराजा । अपि हतसंकल्पास्ते मोहादया। अपि सफलमोनायित शमादीनाम् । अपि नियूदप्रतिज्ञचित्तशर्मा । यद- यमिममुद्देशमनुप्रापितश्चित्तशर्मणा महाराजा । निवृत्तिा अम्ब, भवदनुग्रहः किमिव हि श्रेयो न समग्रयिष्यति । राजा-(सत्वरमुपसत्य ।) भवविषसागरतरणे तैरणे तैरणे तमोविमोहस्य । भगवति भावुकमूर्ते शतकत्वस्ते नमोऽस्तु शिवभक्ते ॥ १० ॥ (इति चित्तशर्मणा सह साधा प्रणामति ।। शिवभक्ति-वत्सौ, अविलम्बितमेवाभिमतेन युज्येथाम् । चित्तशर्मा-भगवति, भवदीयनिर्देशेन कथं कथमप्य, देशमानीतो महाराजः । अनन्तरकरणीये तत्रभवती प्रमाणम् । परंतु विद्याविरहका- तर क्षणमपि विलम्ब न सहते देवः । शिवभक्ति-वत्से विरक्त, मद्वचनादुपनिषद्देवीमुपेत्य ब्रूहि-'अत्र किल कुलमहत्तरासु. त्वमेकिका परावरज्ञा सर्वस्य जनस्य विधेयार्थसंद- शिनी दृष्टिरिव सर्वकार्येषु प्रभवसि । भवदसंनिधानेन सर्वैरितिकर्तव्यता- मूढैः स्थीयते । तदविलम्बितमेव विवाहनेपथ्यविधिना प्रसाधितामत्र भग- वती विद्यामानीय पुण्डरीकभवने संनिधापय' इति । विरक्तिर-यदाज्ञापयति भगवती । (इति निष्कामति ।) शिवभक्ति-वत्स, किमतीव संभ्रान्त इव इश्यसे । राजा-भगवति, तत्कि ब्रवीमि । हर्षातिशयगद्दया वाचा निग- दितुन पारयामि । भवनियोगेन किंचिदिव विश्रान्तिसुखमनुभवन्नवशो- पपन्नया विरचितसकलबाह्यकरणमुद्रया योगनिद्रया परिगृहीतोऽस्मि । तत्र किल दिव्यमङ्गलसूचकं कमपि स्वप्नमालोकयम् । १. नौकारूपे. २. भास्कररूपे. ३. "निद्रया' ख.

शिवमनिवा वत्सः कथमिव । राजा वीनिशीथे राहताधिकारें वन किमप्युटदुष्ट सत्वम् । सातोऽपि हेतोरवशात्मपन्नी दीमा दशा कामपि निर्विशामि || अथासति । विघटितसकलकेशं विपरीतविभाषिताखिलावस्थम् । आनन्दकन्दलमनिष किमपि महोमण्डल समाविरभूत् ॥ १.२ गबन दाखमत प्रबुद्धोऽहमिति निकामममिन-दता सावधानप्रणिहितही मया तसिन्महामण्डले निभूत मिप्यमाण यामामुत्पलशोसिनीमरासुतासङ्के दधात मुदा वामृतकुम्भसक्षसरमप्याविभ्रत पाणिभिः अनार भसितावदानवपुर्ष रुद्राक्षमालापूर्ण विमुदानिशदीकृतात्मविभव स्सेरामनेन् शिवमः ।। १९ जय जगदेकनाथ जय सर्वसुराधिपते जय निगमान्ततत्त्व जय सत्यसुखाबुनिधे । जय निरुपाधिवत्सल जयाश्रितकल्पतरो जय जगदातिमञ्जनः अमेश दयाजलतिधे ।।१४।। 'जय करुणानुषनवदपाङ्गतरङ्ग कणा- विगततथाप्रभावबलजिन्मुखदेवतते. मय जलनासनादिविबुधवजमौलिमणि- प्रकरमयूखकर्बुरितपाइसरोजरुचे ॥ १५ दुर्वारोपनमद्भवार्तिदवथुप्रध्वंसिमन्दसित- * ज्योत्स्नाचारमुखारविन्दपरमानन्दैकसान्द्रावते ३. सामन्दानुसनन्दमादिशसंवत्संघात चूडातटी- हस्ताम्भोरुहकोरकीकृतिशस्त्पर्वेन्दुबिम्बायित बा १६ ।। -ABAR ७ अङ्कः] विद्यापरिणयातम् বিভাগীনীগীহ হাহাগকারি- *चण्डांशी सकलेप्सितार्थघटनासंतानचिन्तामणे । सत्यज्ञाननिधै सकृत्प्रणमते सायुज्यलक्ष्मीप्रद स्वासिन्दैवतसार्वभौम दयया मां पाहि.साम्ब प्रभो ॥ १७ ॥ इति नितान्तमानन्दपरवशो भगवन्तमहमस्ताविषम् । तदनन्तरं च शि- रसा निपीड्य चरणाम्बुजे गुरोरसकृत्प्रणम्य मयि किंचित्थिते, उपत्य मामुपगतस्य दक्षिणे श्रवणे किमप्यकथयद्दयानिधिः । शिवभक्तिः-(श्रुत्वा सपरितोषम् । स्वगतम् ।) हन्त, अतिवत्सलेन भगवता महोपनिषदुपदेशेन परमनुगृहीतोऽसि । इतः करगतकल्पैव भवतो विद्या । अतित भविशति निजपरिवारेण सममपनिषदेवी ) उपनिषदेवी- अजरमनादिमध्यमविनाशि चिदेकरसं किमपि महो जगजनकमस्ति तदेव सुखम् । मरुषु मरीचिकाजलमिवासदिदं सकलं . तदवगमैन मृत्युमंतितीर्य सुखीभवतः ॥ १८ ॥ विविदिषा-अम्ब, कथमेतत् । स्मृति:- अभीशोरज्ञानादहिरुदयति त्रासयति च प्रतीते तत्तत्त्वे न किमपि यथा संप्रति तथा । स्वरूपस्याज्ञानाच्चरमचरमित्येवमुदभू- दिदं तस्य ज्ञाने सति फलति मिथ्यैव सकलम् ॥ १९ ॥ अत्र का नाम कथंता । (विविदिषा पुराणादीनां मुखं पश्यति ।) पुराणादयः-वत्से, एवमेवैतत् । आनीतं न परेण केनचिदिदं स्वाज्ञानविस्तारितं स्वस्मिन्नेव निषध तुच्छविषयक्लेशान्विधत्ते बहून् । १. 'च्छिादा क. ११ ति सत्यं ज्ञानमनन्तमसि तदहं ब्रह्मेति जानाति चें तस्येदं तपनोदये तम इव स्फीतं ज़गल्लीयते ॥ २० ॥ श्रद्धा-उपपन्नमेवैतत् । विविदिषा-भवल्वेवम्, किमत्र मूलमिति विविदिषामि पुराणादयः--वत्से, श्रूयताम् । माया नाम विचित्ररीतिरसती काचिम्मनोला(ला)सिनी सत्यं वस्तु निगृहति प्रकटयत्यत्यन्तमिथ्यायितम् । द्वे शक्ती प्रथिते चिरेण सहजे तस्यास्तथा तद्वशा- दात्मा सन्नपि नेक्ष्यते जगदसत्सद्भूतमालोक्यते ॥ २१ ॥ (राजा सरभसमुत्थाय चित्तशर्मणा सह साष्टाङ्ग प्रणमति ।) उपनिषद्देवी-वत्सौ, अचिरेण लिप्सितलाभहर्षितौ भूयास्तम् ।। (शमादयः सर्वेऽपि ससंभ्रममुत्थाय यथोचितमुपचर्य यथायथमुपविशन्ति ।) शिवभक्ति-भगवति, महानुभावा ह्यसि । कपिलकणादमिनिपतञ्जलिसत्यवती- तनुभवगौतमाभिमतमार्गविभिन्नतया । सुरतटिनी समुद्रमिव दीव्यदनेकमुखी गमयसि वस्तुतत्त्वमखिलानपि भिन्नरुचीन् ।। २२ ।। तदन भगवत्या कियचिरमुदास्यते । उपनिषदेवी-भरावति, मत्तो न किंचिदन्तरमास्ते । प्रागेव साम्ब- शिवाजमहेण सिद्धरूपतया प्रवणादयः सम्यक्प्रसाधितया विद्यया सह पु- ण्डरीकमवनोपकण्ठे निर्विकल्पसमाधिनामनि महेशितुरारामे युष्मदुपगमं महेन्वरसानिध्यं च प्रतीक्षमाणास्तिष्ठन्ति । बध्यन्तामरुतोरणानि सरसैराशाश्व गीतामृत। पर्यन्तामपि तत्यता पुरमिदं संस्कारशुद्धान्तरम् । पास्ताम का ७ अङ्कः] विद्यापरिणयतम् । आरूढो वृषराजमद्रिसुतया देवोऽयमाणादितो जीवस्यानितरत्वतो मम तया विद्याविवाहोत्सुका ॥ २३ ॥ शिवभक्ति-संनिहित एव परमेश्वरः । यदिदानी Vश्वतन्ते हरितो दशापि परितचूडाविधुज्योतिषा नृत्यच्छकिरघण्टिकाधणधणारावै श्रवा पूर्यते । संसापतमत्सुपर्वमुकुटीकोटीरवाटीरसा बुदण्डप्रमथौघदण्डपठली साटोपसाटीकते ॥ २४ ॥ (ततः प्रविशति साम्बशिवः ।) साम्बशिव:-प्रिये, सिद्धकल्पसंकल्पा भवती [ यदयमुपनत एवं जीवस्य विद्याविवाहोत्सवा । देवी-नाथ, भवदनुग्रहा कि न समग्रयिष्यति । (सर्वे सरभसमुत्थाय प्रणमन्ति ।) राजा-(चित्तशर्मणा सह सप्रश्रयमसकृत्प्रणम्योत्थाय भक्तिसमुत्तेजिताभिर्वा- क्प्रवृत्तिभिरभिष्टौति ।) जय जय विजयी भवापारसचिंद्धनानन्दभूमन्नविद्यातमः- सिन्धुनिर्मग्नदीतोदिधीपारसोपात्तकल्याणमूर्ते समस्ताभिनन्द्याद्भुतोदारचित्रा- पदानस्फुरचारुकीर्ते विखण्डं विखण्डं निजान्येव रुण्डानि तद्धोमतः प्रीणितत्व- हयालेशलब्धप्रभावाधिकस्तब्धविष्वग्जगन्मण्डलीलुण्ठनाकुण्ठनाच्चण्डिमोद्द- ण्डदोर्दण्डकण्डूलतागेण्डुकक्रीडितान्दोलितत्रस्तचण्डीककैलासतत्कूटकिंचि- त्पदाङ्गुष्ठविन्यासपातालनिर्मग्नतन्मूललग्नाखुवैकं ददत्यातरक्षःकुलाध्यक्षदा- क्षिण्यभूयःप्रवृत्तानुकम्पावच्चित्तवृत्तेतिमाद्यद्गणोद्यच्चपेटाहतोच्चण्डमार्तण्डग- ण्डत्रुटत्कीर्णदन्तौघनक्षत्रलोकीभवद्यज्ञवास्तुद्रुतानुद्रुतातिद्रुतानुद्रुताटोपसंक्षो- भंतः साध्वसध्वस्तधावत्पतत्क्रन्ददञ्चद्धरिब्रह्मशक्रादितत्तत्सदस्यामरश्रेणिक गादशम्यादृषयूपदण्डाहतिप्रत्रुटन्निष्ठुरनुक्नुवादिच्छटापर्पटस्फोटवट्ठापठापो- द्भटं घोरठांकारिगम्भीरकुम्भीसहध्वस्तसर्पिर्घटौघस्रवद्भरिसर्पिर्घनौघः(?)स- मिन्धानविष्वन्धिानवैतानवदर्याचरालीदशालापिनास्फुटद्वंशठात्कारघोरा- १. महादण्डकाभिधमिदम्. २. 'कुण्ठताचण्डिमो ख. ३. 'वत् क्रन्ददत्या ख.

काव्यमाला। भेटीभूमनिर्वृत्तसंवर्तमृद्धयुद्धतिस्तब्धदक्षाध्वरध्वंसकद्वीरभद्र क्षवेधश्चिरान्विष्ट नोदृष्टसांष्टिकव्याधपश्चादिनिःश्रेयसैश्वर्थ टाकृते. Vारमदत्तिमिरोष्णधामन्मियोदर्पभूयिष्ठ देवासुरवातसं गर्भोद्भव व्याप्तविध्यण्डचण्डज्वलज्ज्वालजालावलीढाखिला' लानलत्कालहालाहलाचिःपरिप्लुष्टसाक्रन्दकोलाहलोद्धृष्टवेधो लोकीसमुज्जीवनायाशुतन्निग्रहारब्धनिर्यनजम्बूफलपासलीला रमाहात्म्यभूमा ""म्भोनिधे देव साहन्तमावेधसो विष्टपाद क्षिप्रमेता जगन्मण्डली खण्डडिण्डीरपिण्डानिवावर्तकोटौ दर्पादनल्पार्भटीघोरमाविर्भवन्त्यभ्रकल्लोलिनीनाथ युष्मज्जटाम' वारशूकाग्रसंसक्तनीहारलेशः किलालक्ष्यते पामरास्त्वाम प्राकृतैर्दैवतैरेकवन्मन्वतेऽहो भवान्नाम विश्राणने कोऽपि चिन्त नको नाम हन्तातिफल्गुप्रबोधानुरूपातिमूढस्तुतिप्रक्रिया । श्वविद्योतनोदामतेजोनिधौ भास्करे कीटखद्योततारोपवद्भाति । दृग्विभूत्युत्कटानेककोट्या सहावेक्षणेन क्षणेनैव लोकानने णत्या प्रशुत्या प्रपत्यापि वा जातु यस्ते मतस्तस्य तत्स्व कियचन्द्रचूडामणे । सकलविब्रुधदुर्जयेतजये जातु केनापि रूपेण किंचिद्य लोभाच्छताङ्गं तदॉ. शरः सूत इत्यादि यत्किचिद लम्ब्य संसद्धहृष्येषु विश्वंभरापुष्पवच्छौरिवेधःपुरोगेषु नडालरोचिःसनाथेन. मन्दस्मितेनैव तिस्रः पुरो भस्मर विनिर्जित्य दृप्तान्मनुष्यान्पशूकृत्य विष्वक्पशूनां पति स्वाभ्यतः संभृतापारविश्वाधिपत्योन्नते संनिकृष्टं निजस्यायु विपद्विघ्नता प्रान्झठित्येव पूजासमात्याशयारब्धपूजे मृका स्वमतो दैन्यकारुण्यभूयिष्ठमाक्रन्दनबन्धुपु, स्वाधिकाराव काले तसाकर्षति क्रोधतो वामपादाभिहत्या स विध्वंसितो प्रहारप्रणादोद्भवद्भक्तवात्सल्यकीर्तेर्दिगन्तप्रयाणोचितप्रोच्चल ७ अङ्कः] विद्यामरिणयनम् । नाम तेनान्तका सर्वतोऽद्यापि साराङ्कमा हिण्डले तत्समो भक्तवासस्थति कश्चिन्न भूतो न भावी च कि भूयसा अलिप्तेन त्वमेकोऽसि सत्यस्वरूपा त्व- | दन्यन्मृषैवाखिलं सत्त्वमत्युल्काटाकोदितेजस्त्रयीकोटिकोट्यापि तो मापसे, भास्यते भानसिन्धी भवनामलेरोन कृन जगत, किंच लिपलापद वल्लमा- द्वल्लभ वस्तु न त्वत्पर, किचिदिष्ट भवेदात्मकामाय सर्वम्, हतो. वस्तु सत्य त्वमेव प्रकाश, त्वमेव प्रियं च त्वमेवासि ताइकू, त्वमात्मा पुर। पृष्ठतः पावतो भूतसमाविकालेषु वा सर्वतः सर्वदा वर्तसे हन्त तिष्ठनिधा- वेव कापण्यमारमन्दभागीव त वामनन्यापरोक्षानिनेदिष्ठमासदपश्यन्नविग्रेन्द्र- जालनसूते निमज्जामि संसारमिथ्यार्णवे 'निगमशिखरिकूटकोटीसदोदित्वरामाकृतोदामतेजोनिधे सच्चिदानन्दमूर्ते जगत्मरक्षोपसंहारथौरय तालीदलादिस्फुरद्वातचक्रांतिवेगभ्रमद्भरितेमस्त्र- यद्योतिनानाविधैतज्जगन्मण्डलोन्मीननयोतविध्वंसतध्वान्तशश्वल्परावर्तनाला- तचक्रक्रमालोकलीलांविनोदिन् प्रमाणौघसिद्धवसत्ताससत्ताकसांकल्पिकवा- (निकव्यावहारादिनानार्थनालेन्द्रजालोदयावस्थितिध्वंसनानामधिष्ठान, तत्तत्र सर्वत्र सूत्रात्मनाधिष्ठितापारनैकप्रकारोन्मिपल्लेशभूयिष्ठजन्मादिकृन्मोहगा- दान्धकारौघनिशेिषविध्वंसनोचण्डमध्याहमार्ताण्ड संसाररोगत्रेसद्धन्ययोगी- न्द्रसंसन्मनोमन्थनिर्मथ्यमानश्रुतिवातदुग्धाब्धिसिध्यत्सदानन्दचिच्चन्द्रिका- सान्द्र तत्पूर्णचन्द्रोदयाद्वैतसाम्राज्यसिंहासनाध्यक्ष मन्नाथ केनापि सत्संत- तिर्जायताम् श्रेयसाम्, मामकप्राग्जनुःकोटिकोट्यानितेनापि पुण्येन ह- ष्टोऽसि दिष्ट्या न मामुज्झ दीनम्, त्वदन्यः शरण्यो न मे पारमस्याधुना त्वामपि प्राप्य तीर्णो न चेत्स्यामहं मे परा का गतिर्दीनबन्धो दयापा. रसिन्धो भवाम्भोधिनिस्तारधौरंधुरीकर्णधारातिदुरितापत्रयप्लुष्टसंजीवनोदा- रधाराधरामादिमोहान्ध्यनष्टामितस्वार्थमाहम्हगानन्दसिद्धाञ्जनात्मन, नमस्ते नमस्ते समस्तेश्वरायाप्रधृष्यौजसे तेजसा तेजसे भूयसां भूयसेः प्रेयसां प्रेयसे ॥ २१ ॥ साम्बशिव:-वत्से, किमितो विलम्ब्यते । शिवभक्तिः-नाथ, सर्व वयमितः प्रस्थिता एव कल्याणमण्डपाधि- गमाय। .....

८६ काव्यमाला। तपडा-इत इतो देवः । (सर्वे कल्याणमण्डपगमनं नाटयन्ति ।) शिवा-हन्त, महासार्थगमनमहोत्साहेनाविदितविप्रकर्षः पदार नसैव महानतीतः पन्थाः। (पुरो विलोक्य ।) शुकादिनानाद्विघोषपोषितं फलोपनम्रागममण्डलोज्वलम् । समाधिनामस्फुरदन्तरातपं प्रसन्नमुद्यानमिदं महेशितुः ॥ २ यावदेतदुपसरामः। (इति कल्याणमण्डपमधिगम्य यथोचितमुपविशन्ति ।) शिवभक्तिः-वत्स, भद्रपीठमिदमासनपरिग्रहेणालंक्रियताम् । (राजा तथा करोति देवा-प्रस्तूयतामनन्तरकरणीयम् । (नेपथ्ये) कोणे यस्य जगन्त्यमूनि जलधेर्डिण्डीरजालोपर्म जन्मस्थेमलयान्भजन्ति सहरिब्रह्मादिमृग्योऽपि सन् । लोकस्यानुजिघृक्षया धृतवपुः शत्या स्वयानन्यया स श्लिष्टो जगदम्बया पशुपतिः कुर्वीत वां मङ्गलम् ॥ २ शिवभक्तिर--(श्रुत्वा । सहर्षम् । इदं प्रसादनानो निदिध्यासन राजपुरोहितस्य सुलमसांनिध्यसूचनमाशीर्वचनम् । (पुनर्नेपथ्ये) इयं न लभ्या तपसा न धर्मेने मेधया नापि बहुश्रुतेन । शिवप्रसादेन तवोपनम्रा विद्या तदेना भन सावधानः ॥ २८ शिवभक्तिा--(भुत्वा । सहर्षोल्लासम् ।) संनिहिती मुहूतः । प्रवर्तत तोचम् । यद्गर्भ जठर हरेरिव जगन्त्यध्यासते वृत्तय- स्तितस्त्रग्यपि ताहगोमिति परब्रह्माभिधानं परम् एतदूपतया निरन्तरमितस्तौर्यत्रिकोदञ्चिते. • नादब्रह्मणि पूर्वरङ्गविधया कृतन जगल्लीयते ॥ २९ ॥ रयजुःसामान्यक्षरमेतदोमिति ख - (ततौँ निदिध्यासनमहाराजः सह विधया प्रापश्य रहितारातिवितत्या राजन्नदसीय सतल्या भव परमानन्दधनो भवसागरपारविश्रान्तः ॥ ३०॥ (इति विद्या जीवराजाय प्रयच्छति ।) जीवराजा विद्या पाणी राहीला सपरितोषम् / दृष्टिर्ममासि दयिते सुकृतातिरेका- द्दिष्टयाधुनापि मिपिता मुषिता विमोहाः । सुप्तप्रबुद्ध इव सुभु तव प्रसादा दात्मा किलायमहमित्यवधारयामि ॥ ३१ ।। विद्या प्रस्तं विमुक्तमिव शारदचन्द्रबिम्ब शाणावलीमिव शैवलितं च रत्नम् । भूयः प्रपद्य पुरुषोत्तम वल्लभं त्वा- मात्मानममि सुहिता परिपूरितेव ।। ३२ ।। चित्तशमी (पुरोऽवलोक्य । सविस्मयम् । राजानं प्रति ।) अहो पारेगि- राममुण्या प्रभावा । यदधुना शतकोटिकोटिजननेषु भूरिशः सुखदुःखभोगपरिपाकसाधनम् । यदविद्ययातिचिरकालसंचितं तदियं प्रदीपयति कर्म वल्वजम् ॥ ३३ ॥ (तदिदमवलोक्य नितान्तपरिक्लिष्टा यथागतमविद्या सपरिवारा परावृत्त्य गच्छति ।) राजा-(विलोक्य । सहर्षम् । चित्तशर्माणं प्रति ।) त्वयेदं नियूढं ननु परममीहङ्मम सुखं ब्रुवे किं कुर्वे किं भवदुचितसेवं व्यवसितम् । अविद्याशक्त्याहं भवदनितरो ह्यसि सुचिरा- दितो विद्याशक्या मदनितरभूतो भव सुखी ॥ ३४ ॥ १. आदर्शद्वयेऽपि च्छन्दोभङ्ग एव. २. 'धुनासि' ख.

44 काव्यमाला। (परतो निर्दिया । सप्तश्रयम) विवेकाया एते विरकिरियमेषा विविदिषा निवृत्तिः सा सर्वैरनितरतया साधितमिदम् । अहं कश्चित्ते केचिदिति सति भेदे खलु मिथो भवेदायस्तानामुचितमुपचारोक्तिरचना ॥ ३१ ॥ (शिवभक्ति प्रणम्य । सविनयादरम्।) काहं मोहमहान्धकारजलधौ गाई निसनश्चिरा- दीडशाश्वतचित्सुखाव्यवहिता क्वयं भवत्संगतिः । मन्ये विश्वगुरोर्मुडस्य मुकुटालेकारमालायिता गङ्गा कोकटकीटतापशमनी जाता किमन्याहवे ॥ २६ ॥ (ततः सहैव भक्त्या साम्बशिवमुपसत्य ।) दुग्धार्णवे दुग्धलवः प्रविष्टो यथा तथाहं त्वमभूवमेव । भेदावभासेन तथापि किंचिदौपाधिकेन प्रणमाम्यहं त्वामी ३७॥ (प्रणम्योत्थाय बद्धाञ्जलिः शिवं प्रति ।) विलीय स्वाविद्याधनयवनिकायामथ वह विचित्रं नैपथ्यं नटसि शिव नानात्मकतया । स्वयं जाग्रत्पश्यस्यपि च परमानन्दभरितो जयत्यत्याश्य जगदिति भवनाटकमिदम् ॥ ३८ ॥ शिवभक्तिः-(परमेश्वरी प्रति ।) भगवति, निरुपाधिकया भवदनुक म्पया तदेवमयं कृतार्थो जीवराजः देवी (सप्रसादस्मितम् ।) वत्स, कि ते भूयः प्रियसपहरामि । जीव:--अम्ब, किमितोऽपि परमवशिष्यते । तथापीदमस्तु । अस्तु खस्ति जगत्रयाय जगती रक्षन्तु भूमीभुजो धर्मेणैव पथा भवन्तु सुखिनः सर्वेऽपि गोब्राह्मणाः । पर्जन्यान्नमवक्रमेण जगतश्चकं तदावर्तता विद्वांसी विजयीभवन्तु भगवद्रकत्या त्रयी वर्धताम् ॥ ३९ ॥ इति ॥ (निष्कान्ता। सत्रे । इति सप्तमोऽङ्कः। १, 'परतो ख. २.. 'क्रिमितोऽपरमव ख.

The Vidyaparinayana Of Anandarya Makhi

Author
Pandit Sivadatta
Title
The Vidyaparinayana Of Anandarya Makhi
File name
The Vidyaparinayana Of Anandarya Makhi
Text
OCR done
Citation
1893
Published
11/23/2002
Publisher
Tukaram Javaji, Javaji Dadagis Nirnaya Sagar, Bombay
Language
Sanskrit
Pages
91
Library
Svclrc
Classification
Upanishadas
DLI number
382895
Barcode
2040100030295.00
Scanning centre
S.V. Digital Library, Tirupati
Digital publisher
UDL TTD TIRUPATHI
VMLT id
PcqJOkh6p0b
Download PDF

The Vidyaparinayana Of Anandarya Makhi