Scl

The Tantraloka Of Abhinava Gupta

Madhusudan_kaul_shastri

PDF Proofread

Front matter

No text on this page.

31* 1V1S Kasimir Strics of Taxts and Studies. No. LVII. THE TANTRALOKA OF ABHINAVA-GUPTA WITA COMMENTARY BT RĀJĀNAKA JAYARATHA. EDITED ..> BY PANDIT MADHUSŪDAN KAUL SHASTRĪ, M, A., M. O. L. VIDYĀVĀRIDHI, Superintendent Research Department, His Highness' Government, JAMMU & KASHMIR. SRINAGAR Published under the Authority of the Government of His Highness Rājarājes'vara Mahārājādhiraja s'ri MAHĀRĀJA HARISINGHJI BAHADUR, G. C. S. I., G. C. I. E., K. C. V. O., MAHĀRĀJA OF JAMMU AND KASHMIR, Volume XI NT JAMMU & DEPARTMENT HMIR V383185 BOMBAY: PRINTED AT THE NIRNAYA SAGAR PRESS. 1936. A. D.

श्रीसोमानन्दनाथप्रभृतिगुरुवरादिष्टसन्नीतिमार्गों
लब्ध्वा यत्रैव सम्यक्पटिमनि घटनामीश्वराद्वैतवादः ।
कश्मीरेभ्यः प्रसृत्य प्रकटपरिमलो रअयन्सर्वदेशान्
देशेऽन्यस्मिन्नदृष्टो घुसृणविसरवत्सर्ववन्धत्वमाप ॥१॥
तरत तरसा संसाराब्धि विधत्त परे पदे
पदमविचलं नित्यालोकप्रमोदसुनिर्भरे।
विमृशत शिवादिष्टाद्वैताववोधसुधारसं
प्रसभविलसत्सद्युक्त्यान्तःसमुत्प्लवदायिनम् ॥ २॥

COVE938
SHIVJIVIS
काशीन-सीकृतप्रधावलिः।
तन्त्रालोकः ।
श्रीमन्महामाहेश्वराचार्यवर्य-श्रीमदभिनवगुप्तविरचितः ।
श्रीमहामाहेश्वराचार्य-श्रीजयरथकृतविवेकाख्यटीकोपेतः ।
श्रीराजराजेश्वर-महाराजाधिराज-काश्मीरनरेन्द्र-श्रीहरिसिंहजी-
बहादुराज्ञया
रिसर्च-कार्यालयाध्यक्ष-पण्डित-मधुसूदनकौल-शास्त्रिणा
उद्दिष्टकार्यालयस्थेतरपण्डितसहायेन
संशोधनादिसंस्करणोत्तरं
संपाद्य
मुम्बय्यां निर्णयसागर' मुद्रणालये मुद्रापयित्वा प्राकाश्यमुपनीतः ।
एकादशो भागः (आह्निके २८, २९)
JAMMU
DEPARTMENT
&K.
SHMII
संवत् १९९३.
बस्ताब्दः १९३६.
काश्मीर-श्रीनगर
(अस्य ग्रन्थस्य मुद्रापणाद्यधिकाराः प्रोक्तमहाराजवर्यैः खायत्तीकृताः सन्ति)

(All rights reserved. :)
Printed by Ramchandra Yesu Shedge, at the 'Nirnaya-sagar' Press,
26-28, Kolbhat Lane, Bombay.
Published by Pandit Madhusudan Kaul Shastri, M. A., M. O. L.
for the Research Department,
Jammu and Kashmir Govero ment, SRINAGAR.

अथ श्रीतन्त्रालोके। श्रीमन्महामाहेश्वराचार्याभिनवगुप्तविरचिते श्रीजयरथकृतविवेकाख्यटीकोपेते 2TGURSSIR अष्टाविंशमाह्निकम् । समयविलोपविलुम्पनभीमवपुः सकलसम्पदा दुर्गम् । शमयतु निरर्गलं वो दुर्गमभवदुर्गतिं दुर्गः ॥ इदानीं नित्यकर्म उपसंहरन् प्राप्तावसरं नैमित्तिकं वक्तुं प्रतिजानीते इति नित्यविधिः प्रोक्तो नैमित्तिकमथोच्यते ॥१॥ तत्र नैमित्तिकमेव लक्षयितुं परेषां नित्य- द्वारेण तल्लक्षणस्य अतिव्याप्त्यादिदोषदुष्टत्व- माविष्करोति नियतं भावि यन्नित्यं तदित्यस्मिन्विधौ स्थिते।

२
श्रीतन्त्रालोके।
मुख्यत्वं तन्मयीभूतिः
सर्व नैमित्तिकं ततः ॥२॥
ननु यदि नाम यदेव नियतं भवेत् , तदेव
नित्यं तत् नियतभावित्वान्यथानुपपत्त्या सर्वस्य
तन्मयीभाव एव अहर्निशमापद्येत । स्नानादौ
प्रवृत्तस्य हि तदा कदाचिदपि विरतिर्न स्यात्
नियतभावित्वात् तस्य । नच एवमस्ति, तन्न
किञ्चिदपि नित्यं भवेत् , अपितु सर्वं नैमित्ति-
कमेवेत्याह सर्वं नैमित्तिकं तत इति ॥२॥
अथोच्यते दिनादिकल्पनानियमेन नित्य-
तेति यथाशंसं सायंप्रातरादावेव सन्ध्यावन्दना-
दीत्याह
दिनादिकल्पनोत्थे तु
नैयत्ये सर्वनित्यता।
दिनमासर्फवर्षादि-
नैयत्यादुच्यते तदा ॥३॥
एवं तर्हि सर्वत्र दिनादिकल्पनानयत्यस्य
भावात् सर्वमेव नित्यमुच्यते इत्याह सर्वे-
त्यादि ॥३॥

४ श्लोक]
अष्टाविंशमाह्निकम् ।
३
एवं परकृतं नैमित्तिकलक्षणं नित्यद्वारेण
अपाकृत्य, खमतेन आह
अशङ्कितव्यावश्यन्ता-
सत्ताकं जातुचिद्भवम् ।
प्रमात्रनियतं प्राहु-
नैमित्तिकमिदं बुधाः॥४॥
इदं हि बुधा नैमित्तिकं प्राहुः तल्लक्षणं कथि-
तवन्तः-यदशङ्कितव्या निश्चिता अत एव प्रत्य-
वायजिहासावैवश्यात् अवश्यन्तया भाविनी
सत्ता स्वरूपं यस्य तत्तथेति । ननु नित्यमपि
एवमित्यत्रापि अतिव्याप्तिरेवेत्याह जातुचिद्भ-
वमिति कादाचित्कमित्यर्थः । ननु नित्यस्यापि
कालनैयत्यादेवंरूपत्वमेवेति पुनरपि तदवस्थ
एव स दोष इत्याह प्रमात्रनियतमिति । नित्यं
हि समय्यादीनां चतुर्णामपि नियतम् , इदं तु
केषांचिदेवेति । यदुक्तं
'नित्यादित्रितयं कुर्याद्गुरुः साधक एव च ।
नित्यमेव द्वयं चान्यद्यावजीवं शिवाज्ञया ।'
इति ॥ ४॥

४
श्रीतन्त्रालोके ।
एवं नैमित्तिकं लक्षयित्वा प्रसङ्गान्नित्यमपि
लक्षयति
सन्ध्यादि पर्वसंपूजा
पवित्रकमिदं सदा ।
नित्यं नियतरूपत्वा-
सर्वस्मिन् शासनाश्रिते ॥५॥
इदं हि स्नानसन्ध्यावन्दनादि नित्यं यदेत-
दस्मदर्शनस्थे सर्वस्मिन् समय्यादिके सदा निय-
तरूपमेवेति ॥५॥
न्यायबलोपनतश्च अयं प्रमात्रपेक्षो नित्यनै-
मित्तिकयोविभाग उक्तः, शास्त्रीयस्तु यथावच-
नमेव सर्वत्र प्रसिद्धः । तत्र नित्यविभागः
प्रागेव सविस्तरमुक्तः, नैमित्तिकविभागस्तु इह
प्रक्रान्त एवेत्याह
ज्ञानशास्त्रगुरुभ्रातृ-
तद्वर्गप्राप्तयस्तथा।
तज्जन्मसंस्क्रियाभेदाः
वजन्मोत्सवसंगतिः॥६॥

९ श्लो०] अष्टाविंशमाह्निकम् । श्राद्धं विपत्प्रतीकारः प्रमोदोऽद्भुतदर्शनम् । योगिनीमेलकः स्वांश- सन्तानाद्यैश्च मेलनम् ॥७॥ शास्त्रव्याख्यापुरामध्या- वसानानि क्रमोदयः। देवतादर्शनं खान- माज्ञा समयनिष्कृतिः॥८॥ इति नैमित्तिकं श्रीम- तन्त्रसारे निरूपितम्। त्रयोविंशतिभेदेन विशेषा निबन्धनम् ॥९॥ संस्क्रिया गुर्वभिषेकदिनम् । अभेदः परम- शिवेन ऐक्यात् तन्मृतिदिनम् । उत्सवो लो- किको महीमानादिः । विपदः खशक्त्यपहारा- दिरूपायाः, प्रमोदो हारितस्य पुनर्लाभादिना, अद्भुतस्य विश्वक्षोभादेः । अनेन च विपत्प्रती- कारादिना चतुष्टयेन शिवरात्रिसंज्ञकमपि नैमि-

६
श्रीतन्त्रालोके।
त्तिकं संगृहीतम् । तत्र हि एतदेव भगवतोऽभ-
वदित्याम्नायः । तच्च साधारण्येनैव सर्वशास्त्रेषु
आम्नातमिति नेह स्वकण्ठेनोक्तम् । स्वांशस-
न्तानः स्वमठिकासब्रह्मचारी । क्रमेति प्रागुक्त-
तत्तच्चक्रात्मनः। स्वाप्नं देवतादर्शनमिति शुभ-
खप्नदर्शनमित्यर्थः । आज्ञा स्वाभिषेकदिनम् ।
समयनिष्कृतिरिति प्रायश्चित्ताचरणमित्यर्थः ।
एवं नैमित्तिकस्य विभागमभिधाय प्रयोजनम-
प्याह विशेषा निबन्धनमिति ॥९॥
तदेवं सति प्राधान्यात् प्रथमं तावत् पर्व-
भेदानाह
तत्र पर्वविधिं ब्रूमो
द्विधा पर्व कुलाकुलम् ।
कुलाष्टककृतं पूर्व
प्रोक्तं श्रीयोगसंचरे ॥१०॥
अब्धीन्दु मुनिरित्येत-
न्माहेश्या ब्रह्मसन्ततेः।
प्रतिपत्पञ्चदश्यौ हे
कौमार्या रसवह्नियुक् ॥११॥

१५ श्लो०]
अष्टाविंशमाह्निकम् ।
अब्धिरक्षीन्दु वैष्णव्या
ऐन्यास्त्वस्त्रं त्रयोदशी।
वाराह्या रन्ध्ररुद्रौटे
चण्ड्या वस्खक्षियुग्मकम् ॥१२॥
हे हे तिथी तु सर्वांसां
योगेश्या दशमी पुनः ।
तस्या अप्यष्टमी यस्मा-
द्वितिथिः सा प्रकीर्तिता ॥१३॥
अन्याश्चाकुलपर्वापि
वैपरीत्येन लक्षितम् ।
कुलपति तद्रूमो
यथोक्तं भैरवे कुले ॥१४॥
हैडरे त्रिकसद्भावे
त्रिककालीकुलादिके।
योऽयं प्राणाश्रितः पूर्व
कालः प्रोक्तः सुविस्तरात् ॥१५॥

८ पूरण इत्येव श्रीतन्त्रालोके । स चक्रभेदसंचारे कांचित् सूते स्वसंविदम् । खसंवित्पूर्णतालाभ- समयः पर्व भण्यते ॥ १६॥ पर्व यहा पृ पूरणार्थकः। पर्वशब्दो निरुक्तश्च पर्व तत्पूरणादिति ॥ १७॥ हैडरेऽत्र च शब्दोऽयं द्विधा नान्तेतरः श्रुतः। पूर्वमिति कुलपर्व । अब्धीन्दु चतुर्दशी, मुनिः सप्तमी।ब्रह्मसन्ततेरिति ब्रायाः। रसव- ह्वियुगिति षष्टीतृतीयायुग्मम् । अब्धिः चतुर्थी, अक्षीन्दु द्वादशी। अस्त्रं पञ्चमी। रन्ध्ररुदौ नवमी एकादशी च । वखक्षीति अष्टमी द्वितीया च । तस्या अपीति न केवलं चामुण्डायाः, तेन अष्टमी उभयोरपि साधारणीत्यर्थः । एवं यो यस्मिंस्तिथौ संभूतः, तत् तस्य कुलपति भावः । यदुक्तं १८ श्लो०] अष्टाविंशमाह्निकम् । 'यो यसिंस्तिथिसंभूतस्तस्य सा कुलदेवता ।' इति। वैपरीत्येनेति अशुभकरी-शुभकरीतिवत्, वस्तुतः अकुले अशरीरे शक्ती वा भवेदिति भावः । पूर्वमिति षष्ठाहिके सप्तमाहिके च। अस्मिन्नेवार्थे पर्वशब्दं व्युत्पादयति पर्वेत्यादिना। तेन 'पर्व पूरणे' इत्यस्य अचि पर्वशब्दोऽका- रान्तः। 'पृ पालनपूरणयोः' इत्यस्य औणादिके वनिपि नकारान्तः पर्वञ्छब्दः । पूरणात्पर्व इति च निर्वचनम् । लक्ष्येऽप्येवमित्याह हैडरेऽत्रे- त्यादि । अत्रेति भैरवकुलादौ । तदुक्तं तत्र 'पूजनात् कुलपर्वेषु- ।' इति, 'कुलपर्वसु पूजनात् ॥ इति च ॥ एतदभिज्ञाश्च सिद्धयोगिन्यादयोऽत्र पूजा परा इत्याह तच्चक्रचारनिष्णाता ये केचित् पूर्णसंविदः ॥१८॥ २ १० श्रीतन्त्रालोके । तन्मेलकसमायुक्ता- स्ते तत्पूजापराः सदा। योऽप्यतन्मय एषोऽपि तत्काले स्वक्रमार्चनात् ॥ १९॥ तद्योगिनीसिद्धसङ्घ- मेलकात् तन्मयीभवेत् । अतन्मय इति चक्रचारायनिष्णात इत्यर्थः॥ एतदेव दृष्टान्तयति यथा प्रेक्षणके तत्त- द्रष्टुसंविदभेदिताम् ॥ २०॥ क्रमोदितां सद्य एव लभते तत्प्रवेशनात् । योगाभ्यासक्रमोपात्तां तथा पूर्णा स्वसंविदम् ॥२१॥ लभन्ते सद्य एवैत- संविदैक्यप्रवेशनात् ।

२४ श्लो०] अष्टाविंशमाह्निकम् । तत्कालं चापि संवित्तेः पूर्णत्वात् कामदोग्धृता ॥२२॥ तेन तत्तत्फलं तत्र काले संपूजयाचिरात् । यथा हि द्रष्टृणां प्रेक्षणकादौ तावति अंशे भेदविगलनात् ऋमिकतया स्थिता अपि कस्य- चित् तत्कालमनुप्रविष्टस्यापि सद्य एव अभिन्ना संविदुदेति, तथा प्रकृतेऽप्येवम् । पर्वादौ हि पूर्णायाः संविदः कामधेनुप्रख्यत्वं येन अचि- रादेव तत्कालं पूजावशात् तत्तत्फलमुदियात् ॥ ननु सिद्धयोगिन्यादीनां पर्वादौ संविदः पारिपूर्णात् तत्तत्फलमस्तु, अन्येषां पुनरेतत्कथं स्यादित्याशङ्कां प्रशमयितुं दृष्टान्तयति यथा चिरोपात्तधनः कुर्वन्नुत्सवमादरात् ॥ २३॥ अतिथिं सोऽनुगृह्णाति तत्कालाभिज्ञमागतम् ।

१२ श्रीतन्त्रालोके । तथा सुफलसंसियै योगिनीसिद्धनायकाः॥२४॥ यत्नवन्तोऽपि तत्काला- भिज्ञं तमनुगृह्णते। नच एतद्युक्तित एव सिद्धमित्याह उक्तं च तत्र तेनेह कुले सामान्यतेत्यलम् ॥ २५॥ यस्य यद्धृदये देवि वर्तते दैशिकाज्ञया। मन्त्रो योगः क्रमश्चैव पूजनात् सिद्धिदो भवेत् ॥२६॥ कुलाचारेण देवेशि पूज्यं सिद्धिविमुक्तये। ये पर्वस्वेषु देवेशि तर्पणं तु विशेषतः ॥ २७॥ गुरूणां देवतानां च न कुर्वन्ति प्रमादतः।

१३
३१ श्लो०]
अष्टाविंशमाह्निकम् ।
दुराचारा हि ते दुष्टाः
पशुतुल्या
वरानने
॥२८॥
अभावान्नित्यपूजाया
अवश्यं ह्येषु पूजयेत् ।
अटनं ज्ञानशत्यादि-
लाभार्थ यत्प्रकीर्तितम् ॥२९॥
शक्तियागश्च यः प्रोक्तो
वश्याकर्षणमारणम् ।
तत्सर्व पर्वदिवसे-
प्वयत्नेनैव सिद्ध्यति ॥ ३०॥
तत्सामान्यविशेषाभ्यां
षोढा पर्व निरूपितम् ।
तत्रेति हैडरे । षोढेति सामान्यतया सामा-
न्यसामान्यतया सामान्यविशेषतया विशेषतया
विशेषविशेषतया विशेषसामान्यतया चेति ॥
तदेव दर्शयति
मासस्यायं पञ्चमं च
श्रीदिनं परिभाष्यते ॥ ३१॥

श्रीतन्त्रालोके । उत्कृष्टत्वात् पर्वदिनं श्रीपूर्वत्वेन भाष्यते। समयो ह्येष यद्गुप्तं तन्नानुपपदं वदेत् ॥ ३२॥ तुर्याष्टमान्यभुवन- चरमाणि द्वयोरपि । पक्षयोरिह सामान्य- सामान्यं पर्व कीर्तितम् ॥३३॥ यदेतेषु दिनेष्वेव भविष्यबहभात्मकः। उभयात्मा विशेषः स्या- त्तत्सामान्यविशेषता ॥ ३४ ॥ सा चैकादशधैकस्मि- नेकस्मिन्विभुनोदिता। सजातीया तु सोत्कृष्टे- येवं शम्भुयरूपयत् ॥ ३५॥ अनुपपदं न वदेदिति । यदुक्तं प्राक् 'श्रीपूर्व नाम वक्तव्यं ३६ श्लो०] अष्टाविंशमाह्निकम् । १५ इति । अन्येति नवमी, भुवनेति चतुर्दशी, चरमेति पञ्चदशी । सामान्यसामान्यमिति द्वयोरपि पक्षयोरनुगमात् , अत एव एकपक्षा- नुगामितया मासस्य आयं पञ्चमं चेति सामान्य. तयैवोक्तम् । उभयात्मेति एतदिनत्वेऽपि ग्रहा- देविशेषस्य भावात् । सेति विशिष्टता । एका- दशधेति आश्वयुजशुक्लनवम्या भग्रहाद्यात्मनो विशेषस्याभावात् । यद्वक्ष्यति 'भग्रहसमयविशेषो नाश्वयुजे कोऽपि तेन तद्वर्जम् । वेलाभग्रहकलना कथितैकादशसु मासेषु ।' इति । एकस्मिन्नेकस्मिन्निति शास्त्रे । सजाती- येति यथा मार्गशीर्षनवमी । सा हि सामान्य- सामान्यपर्वत्वेऽपि अमुमपि विशेषमावहति, अत एव उत्कृष्टत्युक्तम् । एवमिति सामान्य- विशेषतया विशेषतया च ॥३५॥ एतदेवात्र दर्शयति कृष्णयुगं वह्निसितं श्रुतिकृष्णं वह्निसितमिति पक्षाः ।

१६ श्रीतत्रालोके। अन्दुजीवचन्द्रा बुधयुग्मेन्द्वर्ककविगुरुविधु स्यात् ३६ परफल्गुश्चैत्रमधे तिष्यः प्राक्फल्गुकर्णशतभिषजः । मूलप्राजापत्ये विशाखिका श्रवणसंज्ञया भानि ३७ रन्ध्र तिथ्यकपरे वसुरन्ध्रे शशिवृषाङ्करसरन्ध्रयुगम् । प्रथमनिशामध्यनिशे मध्याह्नशरा दिनोदयो मध्यदिनम३८ प्रथमनिशेति च समयो मार्गशिरःप्रभृतिमासेषु। कन्यान्त्यजाथ वेश्या रागवती तत्त्ववेदिनी दूती ॥ ३९॥ व्याससमासात् क्रमशः पूज्याश्चक्रेऽनुयागाख्ये। वहीति त्रयः । श्रुतीति चत्वारः । परफल्गु- १७ , १० श्लो०] अष्टाविंशमाह्निकम् । रुत्तरफल्गुनी। चैत्रं चित्रा रक्ष एव राक्षस इति- वत् । प्राक्फल्गुः पूर्वफल्गुनी । कर्णः श्रवणः । प्राजापत्यं रोहिणी । रन्ध्र नवमीद्वयम् । तिथि: पञ्चदशी, अर्का द्वादशी, परा त्रयोदशी । वसु- रष्टमी । शशी प्रतिपत्, वृषाङ्का एकादशी, रसाः षष्ठी, शराः पञ्च । अत्र च मार्गशीर्षात् प्रभृति द्वादशसु मासेषु कृष्णपक्षादयः सर्व एव यथासंख्येन योज्याः । यथा मार्गशीर्षे मासि कृष्णपक्षे आदित्यवारे उत्तरफल्गुनीन- क्षत्रे नवम्यां प्रथमनिशार्धप्रहरद्वये पर्वत्वमिति। एवमत्र रसवृषाङ्कार्कपराख्यस्य तिथीनां चतुष्ट- यस्य भग्रहाद्यात्मकत्वात् विशेषरूपत्वमेव । शिष्टस्य तु नवम्यादेरुभयात्मकत्वात् सामान्य- विशेषरूपत्वमिति । यदुक्तं 'कृष्णायां मार्गशीर्षस्य नवम्यां रजनीमुखे । आदित्योत्तरफल्गुन्योः पूर्वार्धप्रहरद्वयम् ॥ पौषमासनवम्यां च कृष्णायामर्धरात्रगम् चित्राचन्द्रमसोर्योगे द्वितीयं पर्व पार्वति ।। पूर्णायां पञ्चदश्यां च माघस्सार्धनिशागमे । योगे मघाबृहस्पत्योस्तृतीयं पर्व कौलिकम् ॥ ३

श्रीतन्त्रालोके ।
तिष्यचन्द्रमसोर्योगे द्वादश्यां फाल्गुने सिते ।
चतुर्थं पर्व कथितं नभोमध्यगते रवौ ॥
बुधस्स पूर्वफल्गुन्यां योगे मध्यगते रवी ।
चैत्रशुक्लत्रयोदश्यां पञ्चमं पर्व चिन्तयेत् ॥
वैशाखमासस्याष्टम्यां बुधश्रवणसङ्गमे ।
मध्याह्ने कृष्णपक्षे च षष्ठं पर्व वरानने ॥
ज्येष्ठमास्ससिते पक्षे नवम्यां मध्यवासरे ।
चन्द्रवारुणयोोंगे सप्तमं पर्व पार्वति ॥
आषाढमासप्रतिपद्यर्के मध्याह्नगे सिते ।
मूलभास्करयोोंगे पर्वाष्टममुदाहृतम् ।।
श्रावणे रोहिणीशुक्रयोगे चैकादशेऽहनि ।
कृष्णपक्षे प्रभाते च नवमं पर्व भामिनि ॥
विशाखाजीवसंयोगे षठ्यां भाद्रपदे सिते ।
मध्याह्नसमये देवि दशमं पर्व कौलिकम् ।।
या शुक्लनवमी मासि भवेदाश्वयुजे प्रिये ।
तयां तु ग्रहनक्षत्रवेलाकालो न गण्यते ॥
एतदेकादशं पर्व कुलसिद्धिमहोदयम् ।
कार्तिके मासि शुक्लायां नवम्यां रजनीमुखे ॥
श्रवणेन्दुसमापत्तौ द्वादशं पर्व कीर्तितम् ।'
इति । अन्त्यजेति धीवरीमातङ्ग्याद्या । तत्त्ववे-
दिनीति समयज्ञा । तदुक्तं
'धीवरीचक्रपूजा च रात्रौ कार्या विधानतः ।
चक्रं संपूजयेद्देवि मातङ्गीकुलसंभवम् ॥'
इति,

४२ श्लो०] अष्टाविंशमाह्निकम् । १९ 'शक्तयः समयज्ञाश्च दिनान्ते क्रीडयन्ति ताः।' इति च ॥ ननु इह पूजा नाम आदियागात् प्रभृति अनुयागपर्यन्तमुच्यते, सा च बहुकालनिर्व- येति कथमसौ इयति समये पर्वसु सिद्धयेदि- त्याशय आह सर्वत्र च पर्वदिने कुर्यादनुयागचक्रमतिशयतः॥४०॥ गुप्तागुप्तविधाना- दियागचर्याक्रमेण सम्पूर्णम्। अनुयागः किल मुख्यः सर्वस्मिन्नेव कर्मविनियोगे ॥४१॥ अनुयागकाललामे तस्मात्प्रयतेत तत्परमः। मुख्य इति आदियागो हि पूजोपकरणभूत- द्रव्योपहरणरूपत्वादेतदङ्गमिति भावः, तेन पर्व- वेलायामनुयाग एव भरः कार्य इति तात्पर्यम् ॥

२० श्रीतन्त्रालोके। ननु कस्मादत्र आश्वयुजे मासि भग्रहादि- योगो नोक्त इत्याशक्य आह भग्रहसमयविशेषो नाश्वयुजे कोऽपि तेन तद्वर्जम् ॥४२॥ वेलाभग्रहकलना कथितैकादशसु मासेषु । अत एव अत्र विशेषविशेषवत्त्वम् ॥ एवमन्यत्रापि विशेषविशेषत्वं दर्शयति फाल्गुनमासे शुक्लं यत्प्रोक्तं द्वादशीदिनं पर्व ॥४३॥ अग्रतिथिवेधयोगो मुख्यतमोऽसौ विशेषोऽत्र। अग्रतिथिस्त्रयोदशी । तदुक्तं 'फाल्गुने द्वादशी शुक्ला सोमतिथियुता भवेत् । सिद्धावप्यातिथ्यंशे विशेषोऽत्र महानयम् ॥ इति ॥ न केवलमत्रैव विशेषविशेषता, यावत् सर्व- त्रापीत्याह २१ ४७ श्लो०] अष्टाविंशमाह्निकम् । दिवसनिशे किल कृत्वा त्रिभागशःप्रथममध्यमापरविभागः॥ पूजाकालस्तत्र त्रिभागिते मुख्यतमः कालः। यदि संघटेत वेला मुख्यतमाभग्रहौ तथा चक्रम् ॥४५॥ तद्याग आदियाग- स्तत्काम्यं पूजयैव पर्वसु सिद्ध्येत्। दिनवेलाभग्रहक- ल्पनेन तत्रापि सौम्यरौद्रत्वम् ॥४६॥ ज्ञात्वा साधकमुख्य- स्तत्तत्कार्यं तदा तदा कुर्यात् । इह किल पर्वतया अभिमतं दिनं निशां वा त्रिभागीकृत्य यथाखं प्रथममध्यमापररूपभा- गत्रयान्यतरात्मा प्रत्यूषमध्याहृप्रदोषलक्षणो यः पूजाकालः, तस्मिन्नपि त्रिभिर्विभक्ते यथाव- मेव प्रथमो मध्यमः परो वा मुख्यतमो यः पूजा- २२ श्रीतन्त्रालोके। कालः, तत्रैव पूज्यतया संमतं कन्यान्त्यजादीनां चक्रम् । वेला भग्रहादयश्च मुख्यतमा यदि संघटन्ते, तत् तस्मिन् क्षणे क्रियमाणो याग आदियागः प्रधानं यजनमित्यर्थः । तत्तस्मा- खेतोः पर्वसु विनापि योगं ज्ञानं वा पूजयैव काम्यं सिद्धयेत् अभीष्टसंपत्तिः स्यादित्यर्थः। तत्रापीति विशेषविशेषात्मनि मुख्यतमेऽपि काले इत्यर्थः । तत्तदिति शान्त्युच्चाटनादि ॥ ननु अत्रैव विभाजितं पूजाकालमतिक्रम्य तिथ्यादि यदि स्यात्, तदा किं प्रतिपत्तव्य- मित्याशय आह उक्तो योऽर्चाकाल- स्तं चेदुल्लङ्घय भग्रहतिथिः स्यात् ४७ तमनाहत्य विशेष प्रधानयेत्सामयमिति केचित् । अत्रैव मतान्तरमाह नेति त्वस्मद्गुरवो विशेषरूपा हि तिथिरिह न वेला ४८ ५० श्लो०] अष्टाविंशमाह्निकम् । २३ ननु अत्र तिथिरेव नाम का यस्या अपि विशेषत्वं स्यादित्याशय आह संवेद्यरूपशशधर- भागः संवेदकार्ककरनिकरैः। यावान्यावति पूर्णः सा हि तिथिर्भग्रहैः स्फुटीभवति ४९ इह यत् 'प्रतिदिवसमेवमर्कात् स्थानविशेषेण शौक्लयपरिवृद्धिः । भवति शशिन... ...॥' (वृ० सं०४४) इत्या दिज्योतिःशास्त्रोदितदृष्ट्या प्रमेयात्मनः श- शिनो यावान् एकैककलारूपो भागः प्रमा- णात्मनोऽर्कस्य करनिकरैर्यावति ऊनाधिकषष्टि- घटिकात्मनि काले दृश्यभागे परभागे वा पूर्णः परिवृद्धशौक्लयः स्यात् , सा हि तिथिरुच्यते या भग्रहैः स्फुटीभवति विशिष्टतामासादयती- त्यर्थः॥ ४९॥ अतश्च तिथेरेव मुख्यत्वमित्याह तस्मान्मुख्यात्र तिथिः सा च विशेष्या ग्रहक्षयोगेन ।

२४ श्रीतन्त्रालोके। वेलान न प्रधानं युक्तं चैतत्तथाहि परमेशः ॥ ५० ॥ श्रीत्रिकभैरवकुलशा- स्त्रेषूचे न पर्वदिवसेषु। वेलायोगं कंचन तिथिभग्रहयोगतो ह्यन्यम् ॥५१॥ चो होतो। एतच्च आगमतोऽपि उपपादयि- तुमाह युक्तं चैतदित्यादि । तदुक्तं तत्र 'मासस मार्गशीर्षस या तिथिर्नवमी भवेत् । कृष्णपक्षे सूर्ययुक्ता उत्तराफल्गुनीयुता ॥ तस्यां विशेषसंपूजा कर्तव्या साधकोत्तमैः ।' इत्यादि 'कार्तिकस्य तु मासस्य शुक्ला या नवमी भवेत् । चन्द्रश्रवणसंयोगे द्वादशं पर्व पूजयेत् ॥' इत्यन्तम् ॥ ५१॥ अतश्च तिथेरेव मुख्यतया पूज्यत्वमित्याह भग्रहयोगाभावे तिथिस्तु पूज्या प्रधानरूपत्वात् ।

५२ श्लो०] २५ अष्टाविंशमाहिकम् । तुहेतौ । यत् स्मृतिरपि 'तिथिं यत्नेन याजयेत् ।' इति । अनेन च अत्र पर्वणां विशिष्टत्वेऽपि सामान्यरूपत्वमुक्तम् ॥ एतदेव शास्त्रान्तरप्रसिद्धन्यायगर्भ दृष्टा- न्तयति श्वेताभावे कृष्ण- च्छागालम्भं हि कथयन्ति ॥ ५२ ॥ मीमांसका हि श्वेतं छागमालभेतेति चो- दितः पशुः, यदि पशुरुपाकृतः पलायेत, अन्य तद्वर्ण तद्वयसमालभेतेत्यादौ यदि तद्वर्ण एव न प्राप्येत, तदा 'गुणाः प्रतिनिधीयन्ते च्छागादीनां न जातयः' इत्यादिनयेन अत- द्वर्णस्यापि छागस्यैव आलम्भं कथयन्ति इति वाक्यार्थः । एवं प्रकृतेऽपि भग्रहवेलादिवि. शिष्टा तिथिश्चेत् न भवेत्, तत्केवलैव पर्व- तया इयं ग्राह्येति ॥ ५२॥ नन्वत्र श्रीत्रिककुलादावनुक्तोऽपि भगवता २६ श्रीतन्त्रालोके। वेलायोगः कथमूर्मिकुलादावभिधीयमानः संग- च्छतामित्याशय आह यत्पुनरूमिप्रभृतिनि शास्त्रे वेलोदितापि तत्काम्यम् । मुख्यतयोद्दिश्य विधि तथाच तत्र पौषपर्वदिने ॥ ५३ ॥ कृत्वार्चनमर्धनिशि ध्यात्वा जप्त्वा बहिर्गतस्य यथा । आदेशः फलति तथा माघे चक्राइचः फलति ॥ ५४॥ अचिरादभीष्टसिद्धिः पञ्चसु मैत्री धनं च मेलापः । चक्रस्थाने क्रोधात् पाषाणस्फोटनेन रिपुनाशः ॥५५॥ सिद्धादेशप्राप्ति- मार्गान्तं कथ्यते विभुना। एतदेव दर्शयति तथा चेत्यादिना । पञ्च-

५६ श्लो०]
अष्टाविंशमाह्निकम् ।
२७
खिति काकाक्षिन्यायेन योज्यम्, तेन फाल्गु-
नादाषाढान्तं पञ्चसु अभीष्टसिद्धिः, श्रावणा-
न्मार्गशीर्षान्तं च पञ्चसु क्रमेण मैत्र्यादीनि ।
तदुक्तं तत्र पौषमासादिक्रमेण
'पूजा तत्रैव यत्नेन राव्यर्धसमये प्रिये ।
ध्यानयुक्तो भवेत्पश्चान्मन्त्रजप्यपरायणः ।
आदेशो जायते तस्य श्रुत्वासौ निष्कमेहिः।
तत्राभिवाञ्छितं भद्रे प्रापयेन्नात्र संशयः॥'
इति,
'राज्यर्धसमये मत्री विशेषात्तत्र पूजनात् ।
भ्रममाणस्य चक्रस्य वचनं यत्पतिष्यति ॥
तदविनेन देवेशि सप्ताहात् सफलं भवेत् ।'
इति,
'दिनार्धे पूजनात्तत्र अभीष्टं सिद्ध्यतेऽचिरात् ।'
इति,
'यां सिद्धिमभिवाञ्छेत सा तस्य अचिराद्भवेत् ॥'
इति,
'प्रार्थितं सिद्ध्यते देवि
........।
इति,
'मनोवाञ्छितसिद्ध्यर्थ चक्रं संपूजयेत्प्रिये ।
'तचक्र पूज्य सिद्ध्यति ॥
.

२८ श्रीतन्त्रालोके । इति, 'पूजां वै वासरारम्भे कुर्वतोत्र विधानतः। मैत्रीभावेन तिष्ठन्ति सर्वभूतानि तस्य च ॥' इति, 'मध्याह्ने पूजनात्तत्र सौभाग्यधनधान्यतः। वृद्धिर्भवति देवेशि..................।' इति, 'मेलापकं तु सर्वत्र तसिन्पर्वे भविष्यति ।' इति, 'भूमावास्फोटयेत् क्रोधात्संज्ञया यस वै प्रिये । पाषाणे स्फुटिते देवि तस्य मूर्धा तु सप्तधा । स्फुटते तु महाभागे सत्सं नास्त्यत्र संशयः। निशि क्षेत्राटनादेवि सिद्धादेशमवाप्नुयात् ॥' इति च ॥ भग्रहाद्यभावेऽपि लायोगः किमपेक्षणीयो न वेत्याशक्य आह भग्रहयोगाभावे वेलां तु तिथेरवश्यमीक्षेत ॥ ५६ ॥ सा हि तथा स्फुटरूपा तिथेः स्वभावोदयं दद्यात् । ननु अत्र तिथौ भवन् वे.

२९
५९ श्लो०]
अष्टाविंशमाह्निकम् ।
एवं षडंशयोगिनि दिने तु महता विशेषण
अर्चनं कुर्यादित्याह
भग्रहतिथिवेलांशा-
नुयायि सर्वाङ्गसुन्दरं तु दिनम् ५७
यदि लभ्येत तदास्मि-
विशेषतमपूजनं रचयेत् ।
सर्वाङ्गसुन्दरमित्यनेन अस्य अतीव दुर्लभत्वं
प्रकाशितम् ॥
ननु काम्यमेव केवलमधिकृत्य यदि यागो-
ऽभिप्रेतः, तदिह नैमित्तिकप्रकरणेऽपि अवश्य-
न्तया तद्योगः करमादुक्त इत्याशय आह
नच काम्यमेव केवल-
मेतत्परिवर्जने यतः कथितः ॥५०॥
समयविलोपः श्रीम-
ड्रैरवकुल ऊर्मिशास्त्रे च ।
दुष्टा हि दुराचाराः
पशुतुल्याः पर्व ये न विदुः॥५९॥

श्रीतन्त्रालोके।
तदेवार्थद्वारेण पठति दुष्टा हीत्यादि ॥५९॥
ननु एतावतैव केवलकाम्याधिकारेण एत-
नोक्तमिति कुतोऽवगतमित्याशक्य आह
नच काम्यस्याकरणे
स्याजातु प्रत्यवायित्वम् ।
चो हेतौ ॥
एवं पर्वविशेषमभिधाय चक्रचर्चा कर्तुमाह
तत्रानुयागसियर्थ
चक्रयागो निरूप्यते॥६०॥
मूर्तियाग इति प्रोक्तो
यः श्रीयोगीश्वरीमते।
नित्यं नैमित्तिकं कर्म
यदत्रोक्तं महेशिना ॥६१॥
सर्वत्र चक्रयागोऽत्र
मुख्यः काम्ये विशेषतः।
ज्ञानी योगी च पुरुषः
स्त्री वास्मिन्मूर्तिसंज्ञके ॥ ६२॥

३१ ६६ श्लो०] अष्टाविंशमाह्निकम् । यागे प्रयत्नतो योज्य- स्तद्धि पात्रमनुत्तरम् । तत्संपर्कात्पूर्णता स्या- दिति शिरसादिषु ॥६३ ॥ तदिति ज्ञान्यादि ॥ ६३ ॥ तदेव पठति तेन सर्व हुतं चेष्टं त्रैलोक्यं सचराचरम् । ज्ञानिने योगिने वापि यो ददाति करोति वा ॥६४॥ दीक्षोत्तरेऽपि च प्रोक्त- मन्नं ब्रह्मा रसो हरिः। भोक्ता शिव इति ज्ञानी श्वपचानप्यथोडरेत् ॥६५॥ सर्वतत्त्वमयो भूत्वा यदि भुकेस साधकः।

३२ श्रीतन्त्रालोके। तेन भोजितमात्रेण सकृत्कोटिस्तु भोजिता ॥६६॥ अथ तत्त्वविदेतस्मि- न्यदि भुञ्जीत तत् प्रिये। परिसंख्या न विद्यत तदाह भगवाञ्छिवः॥६७॥ भोज्यं मायात्मकं सर्व शिवो भोक्ता स चाप्यहम्। एवं यो वै विजानाति दैशिकस्तत्त्वपारगः ॥६॥ तं दृष्ट्वा देवमायान्तं क्रीडन्त्योषधयो गृहे। निवृत्तमद्यैवास्माभिः संसारगहनार्णवात् ॥ ६९॥ यदस्य वक्रं संप्राप्ता यास्यामः परमं पदम्।

३३ ७२ श्लो०] अष्टाविंशमाह्निकम् । अन्येऽपानभुजो ह्यूचे प्राणोऽपानस्त्वधोमुखः॥७०॥ तस्मिन्भोक्तरि देवेशि दातुः कुलशतान्यपि । आश्वेव परिमुच्यन्ते नरकाद्यातनार्णवात् ॥७१ ॥ करोतीति अर्थात् सेवादि । कोटिरिति अ- र्थात् ब्राह्मणानाम् । यदुक्तं 'चतुर्वेदार्थविदुषां ब्राह्मणानां महात्मनाम् । आचार्ये भोजिते देवि कोटिर्भवति भोजिता ॥ इति । एतस्मिन्निति चक्रयागे । अन्य इति अतत्त्वपारगाः । अपानभुज इति अधःपात- दायिनी भोग्यरूपतामेव अनुसन्दधाना इत्यर्थः। अत एवोक्तमपानस्त्वधोमुख इति । तदुक्तं 'धर्मेण गमनमूर्ध्वं गमनमधस्ताद्भवत्यधर्मेण । (सां० का०) इति । तस्मिन्निति प्राणभुजि तत्त्वपारगे ॥७१॥ ज्ञानिनश्च सर्वत्रैव अविगीतमुत्कृष्टत्वमित्याह श्रीमन्निशाटनेऽप्युक्तं कथनान्वेषणादपि ।

श्रीतन्त्रालोके।
mr
श्रोत्राभ्यन्तरसंप्राप्ते
गुरुवाहिनिर्गते ॥७२॥
मुक्तस्तदैव काले तु
यन्त्रं तिष्ठति केवलम् ।
सुरापः स्तेयहारी च
ब्रह्महा गुरुतल्पगः ॥७३॥
अन्त्यजो वा हिजो वाथ
बालो वृद्धो युवापि वा।
पर्यन्तवासी यो ज्ञानी
देशस्यापि पवित्रकः ॥७४॥
तत्र संनिहितो देवः
सदेवीकः सकिङ्करः।
सुराप इत्यादिना अस्य महापातकित्वमपि
अगण्यमेवेति भावः॥
अतश्च ज्ञानिनमेव आश्रित्य मूर्तियागं
कुर्यादित्याह
तस्मात्प्राधान्यतः कृत्वा
गुरुं ज्ञानविशारदम् ॥ ७५॥

३५
.
७८ श्लो०]
अष्टाविंशमाह्निकम् ।
मूर्तियागं चरेत्तस्य
विधिोगीश्वरीमते ।
विधिरिति कर्म, अत एव अनेन चक्राच.
नमपि आसूत्रितम् ॥
सच कदा कार्यों किंविधिश्चेत्याह
पवित्रारोहणे श्राद्ध
तथा पर्वदिनेष्वलम् ॥ ७६ ॥
सूर्यचन्द्रोपरागादौ
लौकिकेष्वपि पर्वसु ।
उत्सवे च विवाहादौ
विप्राणां यज्ञकर्मणि ॥ ७७॥
दीक्षायां च प्रतिष्ठायां
समयानां विशोधने ।
कामनार्थं च कर्तव्यो
मूर्तियागः स पञ्चधा ॥ ७८॥
उत्सव इति स्वगुरुजन्मदिनादौ ॥७८ ॥

३६ श्रीतन्त्रालोके । पञ्चधात्वमेव दर्शयति केवलो यामलो मिश्र- श्वक्रयुग्वीरसङ्करः। केवलः केवलैरेव गुरुभिर्मिश्रितः पुनः ॥ ७९॥ साधकाचैः सपत्नीकै- मिलः स द्विधा पुनः। पत्नीयोगात् क्रयानीत- वेश्यासंयोगतोऽथवा ॥८॥ चक्रिण्याद्याश्च वक्ष्यन्ते शक्तियोगायथोचिताः। तत्संयोगाच्चक्रयुक्तो यागः सर्वफलप्रदः ॥ ८१ ॥ सर्वेस्तु सहितो यागो वीरसङ्कर उच्यते। सपत्नीकैरिति अर्थात् गुर्वादिभिश्चतुर्भिरपि । पत्यो विवाहिताः। वक्ष्यन्ते इति

८४ श्लो०]
अष्टाविंशमाह्निकम् ।
३७
'मातङ्गकृष्णसौनिककान्दुकचार्मिकविकोशिधातुविभेदाः।
मात्सिकचाक्रिकसहितास्तेषां पत्न्यो नवात्र नवयागे ॥'
इत्यादिना एकान्नत्रिंशाहिके। चक्रयुक्त इति
चक्रयुक् । सर्वैरिति एवमुक्तैः पुंस्त्रीरूपैः ॥
अत्रैव उपवेशने क्रमं दर्शयति
मध्ये गुरुभवेत्तेषां
गुरुवर्गस्तदावृतिः ॥ ८२॥
तित्र आवृतयो बाह्ये
समय्यन्ता यथाक्रमम्।
पतिक्रमेण वा सर्वे
मध्ये तेषां गुरुः सदा ॥८३॥
तदा तद्न्धधूपत्रक-
समालम्भनवाससा।
पूज्यं चक्रानुसारेण
तत्तचक्रमिदं त्विति ॥ ८४॥
तदावृतिरिति गुरुवर्गावरणमित्यर्थः। सदेति
आवृतिक्रमे पतिक्रमे वा । तत्तच्चक्रमिति गुरु-
साधकादिरूपं पूज्यतया संमतम् ॥ ८४ ॥

३८ श्रीतन्त्रालोके । तदेव उदाहरति एकारके यथा चक्रे एकवीरविधिं स्मरेत् । घरे यामलमन्यत्र त्रिकमेवं षडसके ॥ ८५॥ षड्योगिनीः सप्तकं च सप्तारेऽष्टाष्टके च वा। अन्यहा तादृशं तत्र चक्रे तादृक्स्वरूपिणि ॥८६॥ ततः पात्रेऽलिसंपूर्णे पूर्व चक्रं यजेत्सुधीः। आधारयुक्ते नाधार- रहितं तर्पणं कचित् ॥ ८७॥ आधारेण विना भ्रंशो नच तुष्यन्ति रश्मयः। अन्यत्रेति त्र्यरे । तादृशमिति तत्तन्नियतसं- ख्याकमित्यर्थः । पूर्वमिति प्रथम प्रधानं वा ॥

९१ श्लो०] अष्टाविंशमाह्निकम् । एतदेव उपपादयति प्रेतरूपं भवेत्पात्रं शाक्तामृतमथासवः॥ ८८॥ भोक्री तत्र तु या शक्तिः स शम्भुः परमेश्वरः। अणुशक्तिशिवात्मेत्थं ध्यात्वा संमिलितं त्रयम् ॥८९॥ ततस्तु तर्पणं कार्य- माटतेराटतेः क्रमात् । प्रतिसंचरयोगेन पुनरन्तः प्रवेशयेत् ॥९॥ यावद्गुर्वन्तिकं तद्धि पूर्ण भ्रमणमुच्यते। आवृतेरावृतेरिति आवरणचतुष्टयस्यापी- त्यर्थः । क्रमादिति नतु अनन्तरोल्लङ्घनेनेत्यर्थः । प्रतिसंचरः प्रतीपं संचरणम्। तद्धि पूर्ण भ्रमण- मिति सृष्टिसंहारक्रमोभयात्मक एकः संचार इत्यर्थः॥

श्रीतन्त्रालोके ।
तर्पणे च अत्र क्रममाह
तत्रादौ देवतास्ता-
स्ततो वीरा इति क्रमः॥९१॥
वीरश्च वीरशक्तिश्चे-
त्येवमस्मद्गुरुक्रमः।
ततोऽवदंशान्विविधान्
मांसमत्स्यादिसंयुतान् ॥९२॥
अग्रे तत्र प्रविकिरेत्
तृप्यन्तं साधकोत्तमः।
पात्राभावे पुनर्भद्रं
वेल्लिताशुक्तिमेव च ॥ ९३ ॥
पात्रे कुर्वीत मतिमा-
निति सिद्धामते क्रमः।
तदेव दर्शयति
दक्षहस्तेन भद्रं स्या-
द्वेल्लिता शुक्तिरुच्यते ॥९४॥

९८ श्लो०] अष्टाविंशमाह्निकम् । ४१ दक्षहस्तस्य कुर्वीत वामोपरि कनीयसीम्। तर्जन्यङ्गुष्ठयोगेन दक्षाधो वामकाङ्गुलीः॥९५॥ निःसन्धिबन्धौ हावित्थं वेल्लिता शुक्तिरुच्यते। ये तत्र पानकाले तु बिन्दवो यान्ति मेदिनीम्॥९६॥ तैस्तुष्यन्ति हि वेताल- गुह्यकाद्या गभस्तयः। धारया भैरवस्तुष्येत् करपानं परं ततः ॥ ९७॥ प्रवेशोऽत्र न दातव्यः पूर्वमेव हि कस्यचित् । प्रमादात्तु प्रविष्टस्य विचारं नैव चर्चयेत् ॥९८॥ ६ ४२ श्रीतन्त्रालोके। एवं कृत्वा क्रमाद्याग- मन्ते दक्षिणया युतम् । समालम्भनताम्बूल- वस्त्रायं वितरेबुधः ॥ ९९॥ रूपकार्धात् परं हीनां न दद्यादक्षिणां सुधीः। समयिभ्यः क्रमाद्विद्वि- गुणा गुर्वन्तकं भवेत् ॥१०॥ एष स्यान्मूर्तियागस्तु सर्वयागप्रधानकः। काम्ये तु संविधौ सप्त- कृत्वः कार्यस्तथाविधः॥१०१॥ दक्षहस्तेनेति अर्थात् निविडोन्नतसंकुचिता- मुलीकेन । तर्जन्यङ्गुष्ठयोगेनेति अर्थात् वाम- करसंबन्धिना, तेन वामोपरिस्थितां दक्षकनी- यसी ततर्जन्यङ्गुष्ठाभ्यामेव बद्धां कृत्वा अयं संनिवेशः स्यात् । तदुक्तम् १०४ श्लो०] अष्टाविंशमाह्निकम् । 'अथ पात्रविधिर्नास्ति ततः कुर्यादसुं विधिम् । भद्रं वेल्लितशुक्तिर्वा पानं वै तत्र शस्यते ॥ दक्षिणेन भवेद्भद्रं हस्तेन परमेश्वरि । द्वाभ्यां चैव तु कर्तव्या वेल्लिशुक्तिर्महाफला ॥ दक्षिणे या कनिष्ठा तां कृत्वा वामस्य चोपरि । हस्तस्य तु वरारोहे तर्जन्यङ्गुष्ठयोगतः ॥ कृत्वा वामस्य चाङ्गुल्यो दक्षिणाधो व्यवस्थिताः। निःसन्धि वेल्लिशुक्तिं तु कृत्वा पानं प्रसिद्ध्यति । इति । अत्रेति चक्रयागे । रूपकं दीनारः॥ सप्तकृत्वः करणे प्रयोजनमाह जानन्ति प्रथमं गेहं ततस्तस्य समर्थताम् । बलाबलं ततः पश्चा- विस्मयन्तेऽत्र मातरः॥१०२॥ ततोऽपि संनिधीयन्ते प्रीयन्ते वरदास्ततः। देवीनामथ नाथस्य परिवारयुजोऽप्यलम् ॥१०३॥ वल्लभो मूर्तियागोऽय- मतः कार्यो विपश्चिता।

४४ श्रीतन्त्रालोके । रात्रौ गुप्ते गृहे वीराः शक्तयोऽन्योन्यमप्यलम् १०४ असंकेतयुजो योज्या देवताशब्दकीर्तनात् । अलाभे मूर्तिचक्रस्य कुमारीरेव पूजयेत् ॥ १०५॥ काम्यार्थे तु न तां व्यङ्गा स्तनपुष्पवतीं तथा। प्रतिपच्छृतिसंज्ञे च चतुर्थी चोत्तरात्रये ॥ १०६ ॥ हस्ते च पञ्चमी षष्ठी पूर्वास्वथ पुनर्वसौ। सप्तमी तत्परा पित्र्ये रोहिण्यां नवमी तथा ॥१०७॥ मूले तु द्वादशी ब्राह्मे भूताश्चिन्यां च पूर्णिमा।

१११ श्लो०] अष्टाविंशमाह्निकम् । ४५ धनिष्टायाममावस्या सोऽयमेकादशात्मकः ॥१०॥ अर्कादित्यशुक्रान्य- तमयुक्तोऽप्यहर्गणः। योगपति विख्यातो रात्रौ वा दिन एव वा ॥१०९॥ योगपर्वणि कर्तव्यो मूर्तियागस्तु सर्वथा । यः सर्वान्योगपाख्यान वासरान् पूजयेत्सुधीः ॥११०॥ मूर्तियागेन सोऽपि स्यात् समयी मण्डलं विना। इत्येष मूर्तियागः श्री- सिद्धयोगीश्वरीमते ॥ १११॥ समर्थतामिति यागादौ । बलाबलमिति वीरकर्मसु सामर्थ्यमसामर्थ्य च । विस्मयन्ते इति एवंविधा अपि मां भवन्तीत्याश्चर्य मन्वते इत्यर्थः । मातर इति सर्वसंबन्धः । तदुक्तं ४६ श्रीतन्त्रालोके। 'प्रथमे मूर्तियागे तु वेश्म जानन्ति साधके । द्वितीये तस्य सामर्थ्य तृतीये तु बलाबलम् ॥ चतुर्थे विस्मयं यान्ति देवि ता मातरः स्वयम् । पञ्चमे तस्य गत्वा तु विशन्ति गृहमध्यतः॥ षष्ठे तु प्रीतिमायान्ति सप्तमे तु वरप्रदाः । वाञ्छितं तस्य दास्यन्ति आयुरारोग्यसंपदः॥ इति । देवताशब्दकीर्तनादसंकेतयुजः कस्माच्चि- दभिधानात् लौकिकशब्दव्यवहारशून्या इत्यर्थः, अत एवोक्तं गुप्त इति । श्रुतिसंज्ञ इति श्रवणे। उत्तरात्रये इति तदेकतमयुक्ते इत्यर्थः । एवं पूर्वाखपि ज्ञेयम् । तत्परेत्यष्टमी, पित्र्य इति मघासु । ब्राह्म इति 'केन्द्रायाष्टधनेषु भूमितनयात्स्वात्मत्रिषु ब्राह्मणः।' इति ब्राह्मणशब्देन जीवस्याभिधानात् तदैवते तिष्ये इत्यर्थः । भूतेति चतुर्दशी। अर्कादित्र- येति अर्कश्च तदादि च त्रयं चन्द्रभौमबुधलक्ष- णमित्यर्थः । एवमेतद्रहपञ्चकादेकतमेन युक्तो यथोक्ततिथिनक्षत्रोपलक्षितोऽहर्गणो योगपति विख्यातस्तन्नामेत्यर्थः । यदुक्तं 'नवमी रोहिणीयोगे पुष्ये चैव चतुर्दशी । हस्ते च पञ्चमी ज्ञेया मूले तु द्वादशी भवेत् ॥

११३ श्लो०]
अष्टाविंशमाह्निकम् ।
४७
कर्तव्यं वारगणनम्
.....
श्रवणे प्रतिपत्सिद्धा चतुर्थी चोत्तरात्रये ।
पूर्वासु सिद्धिदा षष्ठी मघासु पुनरष्टमी ॥
अश्विन्यां पूर्णिमा ज्ञेया वसुना सप्तमी स्मृता ।
धनिष्ठायाममावास्या ज्ञात्वा चैवं वरानने ॥
सोमे शुक्र तथादित्ये बुधे चैवाथ लोहिते ।
॥
इति ॥ १११॥
एवं चक्रार्चनमभिधाय पवित्रकविधिमभि-
धातुमाह
अथोच्यते शिवेनोक्तः
पवित्रकविधिः स्फुटः।
श्रीरत्नमालात्रिशिरः-
शास्त्रयोः सूचितः पुनः॥१२॥
श्रीसिद्घाटनसद्भाव-
मालिनीसारशासने।
तत्र प्राधान्यतः श्रीम-
न्मालोक्तो विधिरुच्यते॥११३॥
सूचित इति श्रीसिद्धादौ साक्षादनभिधा-
नात् । प्राधान्यत इति स्फुटत्वाविशेषेऽपि तदु-
त्पत्त्यादेरत्र आधिक्येन उक्तेः ॥ ११३ ॥

४८
श्रीतन्त्रालोके ।
तदेव आह
क्षीराब्धिमथनोद्भूत-
विषनिद्राविमूर्छितः।
नागराजः स्वभुवने
मेघकाले स्म नावसत् ॥११४॥
केवलं तु पवित्रोऽयं
वायुभक्षः समाः शतम् ।
दिव्यं दशगुणं नाथं
भैरवं पर्यपूजयत् ॥ ११५॥
व्यजिज्ञपच्च तं तुष्टं
नाथं वर्षास्वहं निजे।
पाताले नासितुं शक्तः
सोऽप्येनं परमेश्वरः॥११६॥
नागं निजजटाजूट-
पीठगं पर्यकल्पयत् ।
ततः समस्तदेवौधै-
र्धारितोऽसौ स्वमूर्धनि ॥११७॥

१२१ श्लो०] अष्टाविंशमाह्निकम् । ४९ महतां महितानां हि नाद्भुत विश्वपूज्यता। तस्मान्महेशितुर्मूर्ध्नि देवतानां च सर्वशः ॥ ११८॥ आत्मनश्च पवित्रं तं कुर्याद्यागपुरःसरम् । दश कोट्यो न पूजानां पवित्रारोहणे समाः॥ ११९॥ वृथा दीक्षा वृथा ज्ञानं गुराधनमेव च । विना पवित्राद्येनैत- धरेन्नागः शिवाज्ञया ॥ १२०॥ तस्मात्सर्वप्रयत्नेन स कार्यः कुलवेदिभिः। पवित्रोऽयमिति तच्छन्दव्यपदेश्य इत्यर्थः । यदुक्तं 'तेनास्म्याराधितो देवि पवित्रेण महात्मना। इति श्रीतन्त्रालोके । 'पवित्रो नाम नागेन्द्रो ज्येष्ठो भ्रातास्ति वासुके।' इति च । पवित्रेणेति पाठे तु पञ्चगव्यादिनेति व्याख्येयम् । समाः शतं दशगुणमिति वर्ष सहस्रमित्यर्थः । तदुक्तं 'दिव्यवर्षसहस्रं तु वायुभक्षो महाबलः।' इति । कुर्यादिति गुर्वादिः । दशेत्यादिना प्रयो- जनमुक्तम् ॥ कदा कार्यः इत्याह आषाढशुक्लान्मिथुन- कर्कटस्थे रवौ विधिः॥१२१ ॥ कर्तव्यः सोऽनिरोधेन यावत्सा तुलपूर्णिमा। तुलोपलक्षितस्यान्त्यं कार्तिकस्य दिनं मतम् ॥१२२॥ कुलशब्दं पठन्तोऽन्ये व्याख्याभेदं प्रकुर्वते। मिथुनेत्याद्युपलक्षणम् , तेन सिंहादिस्थेऽपि । अनिरोधेनेति अविच्छेदेनेत्यर्थः । तुलोपलक्षिा

१२४ श्लो०]
अष्टाविंशमाह्निकम् ।
तस्येति कार्तिके हि तुलागत एव रविभवेदिति
भावः॥
तमेव व्याख्याभेदं दर्शयति
नित्यातन्त्रविदः कृष्णं
कार्तिकाचरमं दिनम् ॥ १२३॥
कुलस्य नित्याचक्रस्य
पूर्णत्वं यत्र तन्मतम् ।
यदुक्तं
'दीपपर्वणि कर्तव्यं विधानमिदमुत्तमम् ।
कुलं शक्तिः समाख्याता सा च नित्या प्रकीर्तिता।'
इत्याद्युपक्रम्य
'पूर्णत्वमेव भवति तत्र तसा महेश्वरि ।'
इति
मध्यमेवात्र सदा देवि सर्वारिष्टनिवृत्तये ।
अनेन तु विधानेन नित्याचक्र प्रपूजयेत् ॥'
इत्यन्तम् ॥
एवमेकीयं मतं प्रदर्य, अन्यदप्याह
माघशुक्लान्त्यदिवसः
कुलपति तन्मतम् ॥१२॥

५२ श्रीतन्त्रालोके। पूर्णत्वं तत्र चन्द्रस्य सा तिथिः कुलपूर्णिमा। ननु कुलपर्वत्वं चन्द्रस्य पूर्णत्वं तिथ्यन्तरे- प्वप्यस्ति, तत् कथं माघपूर्णिमैव कुलपूर्णिमा- शब्देनोच्यते इत्याशय आह दक्षिणोत्तरगः कालः कुलाकुलतयोदितः॥ १२५॥ कुलस्य तस्य चरमे दिने पूर्णत्वमुच्यते। इह फाल्गुनमासादारभ्य संवत्सरस्य ऋतूनां च उदय इति श्रावणमासं यावत् षट् पूर्णिमा उत्तरायणम् । भाद्रपदादारभ्य च माघमासं यावत् षडेव पूर्णिमा दक्षिणायनम् । यतः कुल- शब्दवाच्यस्य दक्षिणायनस्य माघान्त्यदिवसे पूर्णत्वमस्तीत्युक्तम् । यच्छ्रुतिः 'मुखं वा एतत्संवत्सरस्य यत्फाल्गुनी पौर्णमासी ।' इति । तथा 'फाल्गुनपूर्णमास आधेय एतद्वा ऋतूनां मुखम् ।' इति ॥

१२९ श्लो०] अष्टाविंशमाह्निकम् । अतश्चेदमप्युक्तं भवतीत्याह दक्षिणायनषण्मास- कर्तव्यत्वमतो विधौ ॥ १२६॥ पवित्रके प्रकाशत्व- सिद्धयै कृष्णस्य वर्त्मनः। कृष्णस्येति तमोरूपसमयलोपाद्यात्मनः ॥ एवमेतत् प्रसङ्गादभिधाय प्रकृतमेव आह तदेतबहुशास्त्रोक्तं रूपं देवो न्यरूपयत् ॥ १२७॥ एकेनैव पदेन श्री- रत्नमालाकुलागमे। तदन समये सर्व- विधिसंपूरणात्मकः ॥ १२८॥ पवित्रकविधिः कार्यः शुक्लपक्षे तु सर्वथा। 'बहु इति वैदिकात्प्रभृतीत्यर्थः ॥ ननु 'नमस्यनभसोर्मध्ये पक्षयोः कृष्णशुक्लयो।'

श्रीतन्त्रालोके । इत्याद्युक्त्या कृष्णपक्षेऽपि अयं विधिः कर्तव्य त्वेनोक्तः, तत्कथमिहान्यथोक्तमित्याशङ्कय आह पूरणं शक्तियोगेन शत्त्यात्म च सितं दलम् १२९ दक्षिणायनसाजात्यात् तेन तद्विधिरुच्यते। एकद्वित्रिचतुःपञ्च- षड्लतैकतमं महत् ॥ १३०॥ हेमरत्नाङ्कितग्रन्थि कुर्यान्मुक्तापवित्रकम् । सौवर्णसूत्रं त्रिगुणं सैकग्रन्थिशतं गुरौ ॥ १३१ ॥ परे गुरौ तु त्यधिक- मध्यब्धि परमेष्ठिनि। प्राक्सिद्धाचार्ययोगेश विषये तु रसाधिकम् ॥ १३२॥ अष्टाधिकं शिवस्योक्तं चित्ररत्नप्रपूरितम् ।

१३७ श्लो०]
५५
अष्टाविंशमाह्निकम् ।
विद्यापीठाक्षसूत्रादौ
गुरुवच्छिववत् पुनः ॥ १३३॥
वटुके कनकाभावे
रौप्यं
परिकल्पयेत् ।
तु
पाट्टसूत्रमथ क्षौम
कासं त्रित्रितानितम्॥१३४॥
तस्मान्नवगुणात् सूत्रा-
त्रिगुणादिक्रमात् कुरु।
चण्डांशुगुणपर्यन्तं
ततोऽपि त्रिगुणं च वा ॥१३५॥
तेनाष्टादशतन्तूत्थ-
मधमं मध्यमं पुनः।
अष्टोत्तरशतं तस्मात्
त्रिगुणं तूत्तमं मतम् ॥१३६॥
ग्रन्थयस्तत्त्वसंख्याताः
षडध्वकलनावशात् ।
यहा व्याससमासाभ्यां
चित्राः सद्गन्धपूरिताः॥१३७॥

५६ श्रीतन्त्रालोके। विशेषविधिना पूर्व पूजयित्वार्पयेत्ततः। पवित्रकं समस्ताव- परिपूर्णत्वभावनात् ॥ १३८ ॥ गुर्वात्मनोर्जानुनाभि- कण्ठमूर्धान्तगं च वा। ततो महोत्सवः कार्यों गुरुपूजापुरःसरः ॥ १३९॥ ताः शासनगाः सर्वे दक्षिणावस्त्रभोजनैः। महोत्सवः प्रकर्तव्यो गीतनृत्तात्मको महान् ॥१४०॥ चातुर्मास्यं सप्तदिनं त्रिदिनं वाप्यलाभतः। तदन्ते क्षमयेद्देवं मण्डलादि विसर्जयेत् ॥१४१॥ वहिं च पश्चात्कर्तव्य. श्चक्रयागः पुरोदितः।

५७ १४३ श्लो०] अष्टाविंशमाह्निकम् । मासे मासे चतुर्मासे वर्षे वापि पवित्रकम् ॥ १४२॥ सर्वथैव प्रकर्तव्यं यथाविभवविस्तरम्। सितं दलमिति सितः पक्षः। उच्यते इति अस्मच्छास्त्रे हि एवं श्रुतिरस्तीत्याशयः। परे गुरा- विति परमगुरौ । अध्यब्धीति चतुरधिकमि- त्यर्थः। रसाः षट् । चित्ररत्नप्रपूरितमिति अर्थात् ग्रन्थिस्थाने । पासूत्रमिति अर्थात् रूप्याभावे- ऽपि । चण्डांशवो द्वादश । ततोऽपि त्रिगुणमिति षट्त्रिंशत्तन्तुकमित्यर्थः। तस्मात् त्रिगुणमिति चतुर्विशत्यधिकशतत्रयात्मकमित्यर्थः। तन्त्विति यत्र याशोऽभिमताः। षडध्वेति तेन कला- संख्यया पञ्च ग्रन्थयो यावद्भुवनसंख्यया अष्टा- दशोत्तरं शतम्।व्याससमासाभ्यामिति तत्त्वसं- ख्यया व्यासः, कलासंख्यया तु समास इत्यर्थः। चित्रा इति कुङ्कुमाद्यरुणीकृतत्वात् , अत एवोक्तं सद्गन्धपूरिता इति । चातुर्मास्यमिति चतुर्ष मा- सेष्वित्यर्थः॥ .

श्रीतन्त्रालोके। सर्वथैव अस्य कर्तव्यत्वमुपोद्दलयति वित्ताभावे पुनः कार्य काशैरपि कुशोम्भितैः ॥१४३॥ सति वित्ते पुनः शाठ्यं व्याधये नरकाय च। ननु 'अभावानित्यपूजाया अवश्यं ह्येषु पूजयेत् ।' इत्याद्युक्त्या नित्यलोपपूरणाय पर्वसु पूजनमुक्तं, तत्ति पवित्रकेणापीत्याशय आह नित्यपूजासु पूर्णत्वं पर्वपूजाप्रपूरणात् ॥ १४४॥ तत्रापि परिपूर्णत्वं पवित्रकसमर्चनात् । नन्वेवं पवित्रकस्यापि लोपे किं स्यादित्या. शक्य आह पवित्रकविलोपे प्रायश्चित्तं जपेत्सुधीः ॥१४५॥ तु १४८ श्लोक] अष्टाविंशमाह्निकम् । सुशुद्धः सन्पुनः कुर्या- दित्याज्ञा परमेशितुः। एवं श्रीरत्नमालायामुक्तं पवित्रकविधिमभि. धाय, श्रीत्रिशिरोभैरवीयमप्याह अथ त्रिशिरसि प्रोक्तो लिख्यतेतद्विधिः स्फुटः॥१४६॥ तदेवाह त्रिप्रमेयस्य शैवस्य पञ्चपञ्चात्मकस्य वा। दशाष्टादशभेदस्य षट्स्रोतस इहोच्यते ॥१४७॥ त्रिप्रमेयस्येति नरशक्तिशिवात्मकत्वात् । पञ्चपञ्चात्मकस्येति तन्त्रप्रक्रियया वक्रतया, वि- शेषप्रक्रियया वामेश्यादितया च एवंरूपस्ये- त्यर्थः। षट्स्रोतस इति पिचुवक्रेण सह ॥१४७॥ तत्र अधिकारिनिर्देशाय आह ये नराः समयभ्रष्टा गुरुशास्त्रादिदूषकाः।

६०
श्रीतन्त्रालोके ।
नित्यनैमित्तिकाद्यन्य-
पर्वसन्धिविवर्जिताः॥१४८॥
अकामात् कामतो वापि
सूक्ष्मपापप्रवर्तिनः।
तेषां प्रशमनार्थाय
पवित्रं क्रियते शिवे ॥ १४९॥
श्रावणादौ कार्तिकान्ते
शुक्लपक्षे शुभप्रदे।
नतु दुःखप्रदे कृष्णे
कर्तृराष्ट्रनृपादिषु ॥ १५० ॥
सूक्ष्मेत्यनेन असंलक्षितत्वमुक्तम् । अत्रैव
कालं निर्दिशति श्रावणादावित्यादिना ॥१५॥
अस्यैव स्वरूपं निर्देष्टुमाह
पाट्टसूत्रं तु कौशेयं
कार्पासं क्षौममेव च।
चातुराश्रमिकाणां तु
सुभ्रुवा कर्तितोक्षितम् ॥१५॥

६१ १५६ श्लो०] अष्टाविंशमाह्निकम् । त्रिधा तु त्रिगुणीकृत्य मानसंख्यां तु कारयेत् । अष्टोत्तरं तन्तुशतं तदधं वा तदर्धकम् ॥ १५२॥ हासस्तु पूर्वसंख्याया दशभिर्दशभिः क्रमात् । नवभिः पञ्चभिः सप्त- विंशत्या वा शिवादितः॥१५३ यादृशस्तन्तुविन्यासो ग्रन्थीन्कुर्यात्तु तावतः। चतुःसमविलिप्तांस्ता- नथवा कुङ्कुमेन तु ॥ १५४॥ व्यक्ते जानुतटान्तं स्या- ल्लिङ्गे पीठावसानकम् । अर्चासु शोभनं मूर्ध्नि त्रितत्त्वपरिकल्पनात् ॥१५॥ द्वादशग्रन्थिशक्तीनां ब्रह्मवक्रार्चिषामपि।

६२ श्रीतन्त्रालोके । कौशेयं पट्टभेदः । चातुराश्रमिकाणामिति समय्यादीनाम् । पूर्वसंख्याया इति अष्टोत्तर- शतादिरूपायाः। तत्र अष्टोत्तरशतात् दशभि- दशभिर्हासे अष्टानवतितन्तुकानि च पवित्र- काणि भवन्तीत्यादि ब्रूमः । व्यक्त इति प्रति- मायाम् । लिङ्ग इत्यर्थादव्यक्ते व्यक्ताव्यक्ते च । अर्चाखिति सर्वासु । तदुक्तं मये 'त्रितयं मुनि कर्तव्यमात्मविद्याशिवात्मकम् ।' इति।शक्तीनामिति अघोर्यादीनाम्। ब्रह्मवक्रा- र्चिषामिति अङ्गवक्राणामित्यर्थः । तदुक्तं तत्रैव 'ब्रह्मवक्रैश्च सहितान्यङ्गानि प्रवदाम्यहम् ।' इति ॥ विद्यापीठे चले लिङ्गे स्थण्डिले च गुरोर्गणे ॥१५६॥ घण्टायां सुनुवे शिष्य- लिङ्गिषु द्वारतोरणे। खदेहे वह्निपीठे च यथाशोभं तदिष्यते ॥ १५७॥ - ६३ १६१ श्लो० ॥ अष्टाविंशमाह्निकम् । प्रासादे यागगेहे च कारयेन्नवरङ्गिकम्। वह्निपीठ इति कुण्डे । नवरङ्गिकमिति नानावर्णमित्यर्थः॥ अत्रैव ग्रन्थीन् निर्दिशति विद्यापीठे तु खशराः प्रतिमालिङ्गपीठगम् ॥ १५८॥ वसुवेदं च घण्टायां शराक्ष्यष्टादश सुवे। वेदाक्षि सुचि षट्त्रिंशत् प्रासादे भण्डपे रविः ॥१५९॥ रसेन्दु स्नानगेहेऽब्धि- नेत्रे ध्यानगृहे गुरौ। सप्त साधकगाः पञ्च पुत्रके सप्त सामये ॥ १६०॥ चत्वारोऽथान्यशास्त्रस्थे शिष्ये पञ्चकमुच्यते ।

४
श्रीतन्त्रालोके।
लिङ्गिनां केवलो ग्रन्थि-
स्तोरणे दश कल्पयेत् ॥१६॥
द्वारेष्वष्टौ ग्रन्थयः स्युः
कृत्वेत्थं तु पवित्रकम् ।
पूजयित्वा मन्त्रजालं
तत्स्थत्वात्मस्थते ततः ॥१६॥
पवित्रकाणां संपाय
कुर्यात्संपातसंस्क्रियाम् ।
ततः संवत्सरं ध्याये-
ढैरवं छिद्रसाक्षिणम् ॥१६३॥
दत्त्वा पूर्णाहुतिं देवि
प्रणमेन्मन्त्रभैरवम् ।
ओं समस्तक्रियादोष-
पूरणेश व्रतं प्रति ॥ १६४॥
यत्किचिदकृतं दुष्टं
कृतं वा मातृनन्दन ।
तत्सर्वं मम देवेश
त्वत्प्रसादात्प्रणश्यतु ॥१६५॥

१६९ श्लो०]
अष्टाविंशमाह्निकम् ।
सर्वथा रश्मिचक्रेश
नमस्तुभ्यं प्रसीद मे।
अनेन दद्यादेवाय
निमन्त्रणपवित्रकम् ॥ १६६ ॥
योगिनीक्षेत्रमातॄणां
बलिं दद्यात्ततो गुरुः।
पञ्चगव्यं चरं दन्त-
काष्ठं शिष्यैः समन्ततः॥१६७॥
आचार्य निद्रां कुर्वीत
प्रातरुत्थाय चाह्निकम् ।
ततो विधि पूजयित्वा
पवित्राणि समाहरेत् ॥ १६८॥
दन्तकाष्ठं मृच्च धात्री
समृद्धात्री सहाम्बुना।
चतुःसमं च तैः सार्ध
भस्मः पञ्चसु योजयेत् ॥१६९॥

६
श्रीतन्त्रालोके ।
प्राग्दक्षपश्चिमोलस्थ-
वामवक्रेषु वै क्रमात् ।
पञ्चैतानि पवित्राणि
स्थापयेचेशगोचरे ॥ १७०॥
कुशेध्म पञ्चगव्यं च
शर्वाये विनियोजयेत् ।
वामामृतादिसंयुक्तं
नैवेद्यं त्रिविधं ततः ॥ १७१॥
दद्यादमृक् तथा मद्यं
पानानि विविधानि च ।
ततो होमो महाक्ष्माज-
मांसैस्तिलयुतैरथो ॥ १७२॥
तिलैघृतयुतैर्यद्वा
तण्डुलैरथ धान्यकैः।
शर्कराखण्डसंयुक्त-
पञ्चामृतपरिप्लुतैः॥. १७३ ॥

१७७ श्लो०]
अष्टाविंशमाह्निकम् ।
मूलं सहस्रं साष्टोक्तं
त्रिशक्तौ ब्रह्मवत्रकम्।
अचिषां तु शतं साष्टं
ततः पूर्णाहुतिं क्षिपेत् ॥१७॥
ततोऽञ्जलौ पवित्रं तु
गृहीत्वा प्रपठेदिदम्।
अकामादथवा कामा-
द्यन्मया न कृतं विभो ॥१७॥
तदच्छिद्रं ममास्त्वीश
पवित्रेण तवाज्ञया।
मूलमन्त्रः पूरयेति
क्रियानियममित्यथ ॥ १७६ ॥
वौषडन्तं पवित्रं च
दद्याबिन्द्ववसानकम् ।
नादान्तं समनान्तं चा-
प्युन्मनान्तंक्रमात्रयम् ॥१७७॥

६८
श्रीतन्त्रालोके ।
.
नैष्ठिकस्तु
एवं चतुष्टयं दद्या-
दनुलोमेन भौतिकः।
विलोमेन
पवित्रकचतुष्टयम् ॥ १७८॥
यत्किञ्चिद्विविधं वस्त्र-
च्छत्रालङ्करणादिकम् ।
तन्निवेयं दीपमालाः
सुवर्णतिलभाजनम् ॥ १७९॥
वस्त्रयुग्मयुतं सर्व-
सम्पूरणनिमित्ततः।
भोजनीयाः पूजनीयाः
शिवभक्तास्तु शक्तितः॥१८०॥
चतुस्त्रिव्येकमासादि-
दिनैकान्तं महोत्सवम् ।
कुर्यात्ततो न बजेयु-
रन्यस्थानं कदाचन ॥ १८१॥

१८५ श्लो०]
अष्टाविंशमाह्निकम् ।
ततस्तु दैशिकः पूज्यो
गामस्मै क्षीरिणीं नवाम् ।
दद्यात्सुवर्णरत्नादि-
रुप्यवस्त्रविभूषिताम् ॥ १८२॥
वदेद्गुरुश्च संपूर्णो
विधिस्तव भवत्विति।
वक्तव्यं देवदेवस्य
पुनरागमनाय च ॥ १८३ ॥
ततो विसर्जनं कार्य
गुप्तमाभरणादिकम् ।
नैवेद्यं गुरुरादाय
यागार्थे तन्नियोजयेत् ॥१८॥
चतुर्णामपि सामान्य
पवित्रकमिति स्मृतम्।
नास्माद्रतं परं किञ्चित्
का वास्य स्तुतिरुच्यते॥१८५॥

श्रीतन्त्रालोके। शेषं त्वगाधे वार्योघे क्षिपन्न स्थापयेत्स्थिरम् । खशराः पञ्चाशत्। वसुवेदमष्टाचत्वारिंशत् । शराक्षिपञ्चविंशत्। वेदाक्षि चतुर्विंशत् ।रविवा- दश। रसेन्दु षोडश। अब्धिनेत्रे चतुर्विशत् । तदुक्तं 'विद्यापीठे तु पञ्चाशत् प्रतिमालिङ्गपीठयोः । चत्वारिंशदथाष्टौ च घण्टायां पञ्चविंशतिः॥ अष्टादश स्रुवे ज्ञेयाः स्रुचि विंशचतुस्तथा । प्रासादे चैव षट्त्रिंशत् द्वादशैव तु मण्डपे ॥ ध्यानगेहे चतुर्विंशत् षोडश स्नानमण्डपे ॥ दैशिके सप्त दातव्याः साधके पञ्चकं ददेत् ॥ पुत्रके सप्तकं दद्याचतुः समयिनां तथा । अन्यशास्त्रोदितानां च शिष्याणां पञ्चकं ददेत् ॥ लिङ्गिनां केवलो ग्रन्थिस्तोरणेऽथ द्विपञ्चकम् । द्वारेषु अष्टकं दद्याद्वन्थीनां मातनायिके ॥ इति । तत्स्थत्वादि प्रागेव व्याख्यातम् । अने- नेति श्लोकबद्धेन मन्त्रेण । आह्निकं च कुर्वीतेति प्राच्येन संबन्धः । तत इति आह्निकानन्तरम् । विधि पूजयित्वेति गणेशादिविधि विशेषेण इ- ष्लेत्यर्थः । यदुक्तं १८६ श्लो०] अष्टाविंशमाह्निकम् । ७१ ....... 'विधिपूजां समाचरेत् । गणेशं प्रथमं पूज्य गुरुत्रयसमन्वितम् ॥ सर्वावरणसंयुक्तं त्रिशिरोमातृनायकम् । पवित्राण्याहरेत्पश्चात् ॥ इति । तैरिति दन्तकाष्ठादिभिः सर्वैः 'दन्तकाष्ठं तथा देवि पूर्ववके नियोजयेत् । धात्री तु मृत्तिकायुक्तां दक्षिणे विनियोजयेत् ॥ मृदमामलकैर्युक्तां पश्चिमे विनियोजयेत् । वारि चामलकैर्युक्तं चतुःसमसमन्वितम् । ऊर्ध्ववक्रस्य दातव्यं भस काष्ठमृदादिना ॥ उत्तरस तु वक्रस्य दापयेचुम्बकोत्तमः।' इति । एतानीति दन्तकाष्ठादीनि । ईशगोचर इति तत्कोणे । इदमिति वक्ष्यमाणम् । तदत्र सप्रणवोऽयं श्लोको यथाभिप्रेतो मूलमन्त्रः। पूरय क्रियानियमं वौषडित्यूहः । त्रयमिति तत्त्वक- ल्पनया, एवमित्यायेन सह चतुष्टयमित्यत्र छेदः । पुनरागमनायेति 'ऊनाधिकं यद्विपरीतचेष्टं क्षमस्व सर्व मम विश्वमूर्ते । प्रसीद देवेश नमोऽस्तु तुभ्यं प्रयाहि तुष्टः पुनरागमाय ॥ इति वक्तव्यम् । गुप्तमिति यथा पामरादिरन्यो

७२
श्रीतन्त्रालोके ।
लोभादिवैवश्यं न जानीयात् , अत एवोक्तं
यागार्थे तन्नियोजयेत् । कास्य स्तुतिरिति ।
तदुक्तम्
'एतदेवि परं गुह्यं व्रतानामधिनायकम् ।
विपरीतविनाशाय कर्तव्यं चुम्बकादिभिः ॥'
इत्युपक्रम्या
'कृच्छ्चान्द्रायणेनैव वाजपेयाश्वमेधकैः ।
सौत्रामणिं चातिकृच्छं सम्यनिर्वर्त्य यत्फलम् ।।
तत्फलं कोटिगुणितं पवित्रारोहणे कृते ।'
इति॥
इदानी कुलपर्वादावासूत्रितो नैमित्तिकवि-
धिरुच्यते इत्याह
अथ नैमित्तिकविधि-
यः पुरासूत्रितो मया ॥ १८६॥
स भण्यते तत्र कार्या
देवस्यार्चा विशेषतः।
चक्रयागश्च कर्तव्यः
पूर्वोक्तविधिना बुधैः ॥ १८७॥

१९० श्लो०] अष्टाविंशमाह्निकम् । ७३ तत्र यद्यनिजाभीष्ट- भोगमोक्षोपकारकम् । पारम्पर्येण साक्षादा भवेच्चिदचिदात्मकम् ॥१८८॥ तत्पूज्यं तदुपायाश्च पूज्यास्तन्मयताप्तये। तदुपायोऽपि संपूज्यो मूर्तिकालक्रियादिकः ॥ १८९॥ चिदचिदात्मकमिति आत्मप्राणादिरूपमि- त्यर्थः । तदुपाया इति ज्ञानयोगादयः । मूर्ति- लिङ्गादिरूपा, कालः कुलपर्वादिः, क्रिया स्नान- ध्यानादिरूपा ॥१८९॥ ननु उपायत्वं नाम तदुपकरणमात्ररूपत्व- मुच्यते, तस्यापि पूजया किं स्यादित्याशय आह उपेयसूतिसामर्थ्य- मुपायत्वं तदर्चनात्। , .

७१
श्रीतन्त्रालोके।
तद्रूपतन्मयीभावा-
दुपेयं शीघ्रमाप्नुयात् ॥ १९०॥
इदं हि नाम उपायस्य उपायत्वं यदुपेया-
विष्करणे परानपेक्षं समर्थत्वम्। तत् तस्य उपे-
योपायस्यापि अर्चनात्
.......सा पूजा ह्यादराल्लयः। (वि० भै० १४७ श्लो०)
इत्यादिनीत्या तत्रैव लयात् उपायेऽपि तदुपेये
इव तन्मयीभावो भवेत् येन यथायथमधिरो-
हात् निर्विलम्बमुपेयमयतैव स्यात् ॥ १९० ॥
अत एव आह
यथा यथा च नैकट्य-
मुपायेषु तथा तथा।
अवश्यंभावि कार्यत्वं
विशेषाचार्चनादिके ॥ १९१॥
विशेषादिति लोके हि यावदुपायोपेययोर-
न्यत्वात् अन्यथाभावोऽपि संभाव्येत, इह पुन-
रुपेयमयतापत्तिरेव उपायत्वमित्यन्यथाभावाश-
काया अपि नास्त्यवकाश इत्याशयः ॥ १९१॥

१९४ श्लो०]
अष्टाविंशमाह्निकम् ।
अतश्च आत्मज्ञानस्य साक्षान्मोक्षायुपाय-
स्वात् तदवाप्तिदिनं मुख्यं पर्वेत्याह
ज्ञानस्य कस्यचित्प्राप्ति-
भॊगमोक्षोपकारिणः।
यदा तन्मुख्यमेवोक्तं
नैमित्तिकदिनं बुधैः ॥ १९२॥
तदुपायः शास्त्रमत्र
वक्ताप्यौपयिको गुरुः।
तद्विद्योऽपि गुरुभ्राता
संवादाज्ज्ञानदायकः॥ १९३॥
ननु इह पितरमुद्दिश्य भ्रात्रादिव्यवहारो
न्याय्यः, तत्कथं गुरुमुद्दिश्यापि एवमुक्तमित्या-
शङ्कय आह
गुरोः पत्नी तथा भ्राता
पुत्र इत्यादिको गणः।
न योनिसंबन्धवशा-
द्विद्यासंबन्धजस्तु सः॥१९४॥

श्रीतन्त्रालोके । नन्वत्र करमान्न यौनः संबन्ध इत्याशय आह वीर्यारुणपरीणाम- देहाहन्ताप्रतिष्ठिताः। देहोपकारसन्ताना ज्ञातेये परिनिष्ठिताः ॥ १९५॥ देहसन्तानः पुत्रादिः, उपकारसन्तानः सेव- कादिः ॥ १९५॥ अतश्च स्मृतिरपि युक्तेत्याह तथाच स्मृतिशास्त्रेषु सन्ततेयहारिता। युक्तैव तावान्स ह्युक्तो भेदाइरान्तिकत्वतः ॥ १९६॥ ये तु त्यक्तशरीरास्था बोधाहम्भावभागिनः । बोधोपकारसन्तान- द्वयात्ते बन्धुताजुषः ॥ १९७॥ .

७७ १९९ श्लो०] अष्टाविंशमाह्निकम् । तावानिति पुत्रपौत्रादिक्रमेण तथा तथा स्थित इत्यर्थः । स इति पित्रादिः । दूरान्ति- कत्वतो भेदादिति पुत्रभ्रातृपुत्रादिलक्षणात् । यदभिप्रायेणैव 'अनन्तरः सपिण्डायस्तस्य तस्य धनं भवेत् । (मनु० ९।१८७) इत्यादि स्मृतम् । त्यक्तशरीरास्था इति देहा- दावनात्माभिमानिन इत्यर्थः ॥ १९७ ॥ ननु अस्य कथं देहादावहम्भाव एव भ्रश्येत्, येन तत्र अनास्थापि स्यादित्याशङ्कय आह तत्रेत्थं प्राग्यदा पश्ये- च्छत्युन्मीलितदृकियः। इत्थमिति वक्ष्यमाणेन प्रकारेण ॥ .. तदेव आह देहस्तावदयं पूर्व- पूर्वोपादाननिर्मितः ॥ १९८॥ आत्मा विकाररहितः शाश्वतत्वादहेतुकः । पूर्वपूर्वेति पितृपितामहादयः, अत एव कृतकत्वाद्विनश्वरः॥

श्रीतन्त्रालोके। , ननु यदि आत्मा निर्विकारः, तत्कथं पूर्णो- ऽपि अपूर्णतां श्रयेत् , अपूर्णोऽपि पूर्णतामित्या- शङ्कय आह वातन्त्र्यात् पुनरात्मीया- दयं छन्न इव स्थितः॥१९९॥ पुनश्च प्रकटीभूय भैरवीभावभाजनम्। ननु अस्य पुनः खत एव चेट्टैरवीभावो भ- वेत्, तत्कृतमनया प्रक्रान्तया दर्शनव्यव- स्थया; मलपरिपाकादिश्च हेतुर्न न्याय्य इत्यु- क्तम् , तत्कतरस्तावदत्र समुचित उपाय इति न जानीम इत्याशय आह तत्रास्य प्रकटीभावे भुक्तिमुक्त्यात्मके भृशम् २०० य उपायः समुचितो ज्ञानसन्तान एष सः। समुचितोपायत्वमेव अस्य दर्शयति क्रमस्फुटीभवत्तादृक्- सदृशज्ञानधारया ॥ २०१॥ -- A २०४ श्लो०] अष्टाविंशमाह्निकम् । गलद्विजातीयतया प्राप्यं शीघ्रं हि लभ्यते। ननु एवं प्राप्यलाभेऽस्य किं स्यादित्याशङ्कय आह एवं चानादिसंसारो- चितविज्ञानसन्ततः॥२०२॥ ध्वंसे लोकोत्तरं ज्ञानं सन्तानान्तरतां श्रयेत् । इदमेव च अन्यैरितो बाबैराश्रयपरावृत्तिरि- त्युक्तम् ॥ यद्यपि च विज्ञानसन्तानस्य कारणत्वमुक्तं, तथापि सहकारित्वात् न तन्मुख्यमित्यत्र मु- ख्येन कारणान्तरेण भाव्यमित्याह असंसारोचितोदार- तथाविज्ञानसन्ततेः ॥ २०३ ॥ कारणं मुख्यमाद्यं त- गुरुविज्ञानमात्मगम् । मुख्यमिति उपादानरूपमित्यर्थः ॥

श्रीतन्त्रालोके ।
तदेव अस्य उपपादयति
अत्यन्तं स्वविशेषाणां
तत्रार्पणवशात् स्फुटम् ॥२०४॥
उपादानं हि तद्युक्तं
देहभेदे हि सत्यपि।
तत्रार्पणवशादिति उपादानकारणं हि अनु-
गामि भवेदिति भावः॥
ननु देहभेदे सति अन्यस्य अन्यत्र कथं
खविशेषार्पणं न्याय्यमित्याशय आह
देहसन्ततिगौ भेदा-
भेदी विज्ञानसन्ततः ॥२०॥
न तथात्वाय योगीच्छा-
विष्टशावशरीरवत् ।
न तथात्वायेति क्वचिदपि नानयोः प्रयोज-
कत्वमित्यर्थः॥
नच अत्र कस्यचिद्विप्रतिपत्तिरित्याह
योगिनः परदेहादि-
जीवत्तापादने निजम् ॥२०६॥

२०९ श्लो०]
अष्टाविंशमाह्निकम् ।
देहमत्यजतो नाना-
ज्ञानोपादानता न किम्।
नानाज्ञानेति चक्षुरादीन्द्रियजानामित्यर्थः॥
प्रकृतमेव उपसंहरति
तेन विज्ञानसन्तान-
प्राधान्याद्यौनसन्ततेः॥२०७॥
अन्योन्यं गुरुसन्तानो
यः शिवज्ञाननिष्ठितः।
इत्थं स्थिते त्रयं मुख्य
कारणं सहकारि च ॥ २०८॥
एककारणकार्य च
वस्त्वित्येष गुरोर्गणः।
इत्थं स्थित इति यौनसन्ततेर्गुणभावेन गुरु-
सन्ततेरेव प्राधान्ये न्याय्ये इत्यर्थः ।
तदेव विभजति
गुरुः कारणमत्रोक्तं
तत्पत्नी सहकारिणी ॥२०९॥

८२ श्रीवत्रालोके। यतो निःशक्तिकस्यास्य न यागेऽधिकृतिर्भवेत्। सहकारिणश्च कदाचिदसंभवेऽपिन काचित क्षतिरित्याह अन्तःस्थोदारसंवित्ति- शक्तर्बाह्यां विनापि ताम् २१० सामर्थ्य योगिनो यह- द्विनापि सहकारिणम् । एकजन्या भ्रातरः स्यु- स्तत्सहग्यस्तु पुनः परम्परायोगा- द्गुरुवर्गोऽपि भण्यते । मुख्य एष तु सन्तानः पूज्यो मान्यश्च सर्वदा॥२१२॥ तत्सगिति गुरुभ्रात्रादिसदृश इत्यर्थः २१२ इदानी ज्ञानस कस्यचित्प्राप्ति ....... (१९२) कोऽपि सः२११ २१६ लो०] अष्टाविंशमाहिकम् । ८३ इत्यादिना उपक्रान्तं नैमित्तिकदिनमुख्यत्व- मेव निर्वाहयति गुर्वादीनां च सम्भूतो दीक्षायां प्रायणेऽपि च । यदहस्तद्धि विज्ञानो- पायदेहादिकारणम् ॥ २१३॥ एवं स्वजन्मदिवसो विज्ञानोपाय उच्यते। तादृग्भोगापवर्गादि- हेतोदेहस्य कारणम् ॥ २१४ ॥ दीक्षादिकश्च संस्कारः स्वात्मनो यत्र चाह्नि तत् । भवजन्मदिनं मुख्यं ज्ञानसन्तानजन्मतः॥२१५॥ स्वकं मृतिदिनं यत्तु तदन्येषां भविष्यति।

८४ श्रीतन्त्रालोके । नैमित्तिकं मृतो यस्मा- च्छिवाभिन्नस्तदा भवेत्॥२१६॥ खजन्मेति शिष्यादेः । इदमत्र तात्पर्य- यदिह सर्वेषां खजन्मदिनं तावन्मुख्यं नैमि- त्तिकम् । तथाहि यदि अयं देहो नाभविष्यत् , तज्ज्ञानमपि नाभविष्यत् । एवं गुरुजन्मदिन- मपि, तदभावे किं सतापि स्वजन्मदिनेन स्यात् । एतच्च दीक्षासंस्कारं विना सर्व व्यर्थ- मिति तद्दिनमपि मुख्यमेव नैमित्तिकम् । तदापि विज्ञानसन्ततेरुत्पादात् जन्मदिनमेव । प्रायण- दिनमपि एवमेव यदत्रापि शिवेनैकात्म्यापत्तिः। इयांस्तु विशेषो यदुभयमेतत् खपरयोरपि, इदं तु परस्यैवेति । एवं च दिनत्रयस्यापि विज्ञानो. पायदेहादिकारणत्वं युक्तमेवोक्तमिति ॥ २१६॥ ननु मरणमेव नाम किमुच्यते यस्मिन्सति शिवाभेदोऽपि भवेदित्याशङ्कायां प्रसङ्गापतितं मरणखरूपमेव तावदभिधातुं प्रतिजानीते तत्र प्रसङ्गान्मरण- स्वरूपं महे स्फुटम् ।

२१९ को०] अष्टाविंशमाह्निकम् । अनेन गुर्वादिजन्मदीक्षाप्रायणदिना प्रयो- जनादिनिरूपणानन्तर्येण अनुजोद्देशोदिष्टमृ- तिपरीक्षणमपि उपक्रान्तम् ॥ तदेव आह व्यापकोऽपि शिवः स्वेच्छा- क्लप्तसङ्कोचमुद्रणात् ॥२१७॥ विचित्रफलकौघ- वशात्तत्तच्छरीरभाक् । किं नाम च अस्य शरीरभाक्त्वमुच्यत इत्याशकय आह शरीरभाक्त्वं चैताव- द्यत्तद्गर्भस्थदेहगः ॥२१८॥ संवित्तेः शून्यरूढायाः प्रथमः प्राणनोदयः। तच. शरीरभाक्त्वं संवित्तरेतावत्-यदस्याः शून्यदशामधिशयानाया बहिरुच्छलनादुदरा- काशगर्भे वर्तमानं देहं गतःप्रथमः प्राणनोदयः 'पाक संवित् प्राणे परिणता।'

श्रीतन्त्रालोके । इति नयेन आद्यस्पन्दसंज्ञितया प्राणनामात्र- रूपतया संवित् आश्यानतामाश्रितेत्यर्थः॥ ननु गर्भस्थ एव देहः कुतस्त्यो यद्तत्वेन प्राथमिकः प्राणनोदयोऽपि स्यादित्याशङ्कय आह गर्भस्थदेहनिर्माणे तस्यैवेश्वरता पुनः ॥ २१९॥ असङ्कोचस्य तन्वादि- कर्ता तेनेश उच्यते। तस्यैवेति प्राथमिकस्यैव प्राणनोदयस्य । असङ्कोचस्येति अपरिगृहीतप्राणापानाद्यवच्छे- दस्येत्यर्थः । यद्वशादेव अयं प्रावादुकानां प्रवा- दस्तनुकरणभुवनादिनिर्माता परमेश्वर इति ॥ गृहीतसङ्कोचः पुनरयं जाड्याच्चेतनाधिष्ठेय एवेत्याह स वाय्वात्मा दृढे तस्मि- न्देहयन्त्रे चिदात्मना ॥२२०॥ प्रेर्यमाणो विचरति भस्त्रायनगवायुवत् ।

२२. श्लो०] अष्टाविंशमाहिकम् । - अतः प्राग्गाढसंसुप्तो- स्थितवत्स प्रबुद्यते ॥२२१॥ क्रमाद्देहेन साकं च प्राणना स्याहुलीयसी। तत्रापि कर्मनियति- बलात्सा प्राणनाक्षताम्।।२२२॥ गृह्णाति शून्यसुषिर- संविस्पर्शाधिकत्वतः। एवं क्रमेण संपुष्ट- देहप्राणबलो भृशम् ॥२२३॥ भोगान्कर्मकृतान्भुते योन्ययोनिजदेहगः। स इति प्रथमः प्राणोदयः। वाय्वात्मेति प्राणापानादिवायुपञ्चकात्मना गृहीतावच्छेद इ- त्यर्थः । अत इति एवं वाय्वात्मनोऽस्य विचर- णावेतोः । स इति गर्भस्थो देहः। तदुक्तं प्राक् 'सा प्राणवृत्तिः प्राणायै रूपैः पञ्चमिरात्मसात् । देहं यत् कुरुते संवित्पूर्णस्तेनैष भासते ॥ (६।१४) श्रीतन्त्रालोके। इति । तत्रापीति एवं बलीयस्त्वे सतीत्यर्थः । अक्षताग्रहणे शून्येत्यादिहेतुः, शून्याश्चक्षुरा- दीन्द्रियाधिष्ठानरूपाः सुषी डीर्लभमानस्य सं- विल्स्पर्शस्य आधिक्यात् इन्द्रियनाडीषु प्राणना- त्मनः संवित्स्पर्शस्य उद्रेकेण अवस्थानादि- त्यर्थः । अत्रापि हेतुः कर्मनियतिबलादिति, यदभिप्रायेणैव 'सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च । (सांका०२९) इत्यादि अन्यैरुक्तम् । भुते इति अर्थाद्गृहीतसं- कोचः शिव एव ॥ नच एतत्वोपज्ञमेव अस्माभिरुक्तमित्याह उक्तं च गह्वराभिख्ये शास्त्रे शीतांशुमौलिना ॥२२४॥ यथा गृहं विनिष्पाद्य गृही समधितिष्ठति । तथा देही तनुं कृत्वा क्रियादिगुणवर्जितः ॥ २२५॥ किञ्चित्स्फुरणमात्रः प्रा- निष्कलः सोऽपि शब्द्यते।

२२७ श्लो०] अष्टाविंशमाह्निकम् । ८९ स्फुटेन्द्रियादितत्त्वस्तु सकलात्मेति भण्यते ॥२२६॥ इत्यादि श्रीगह्वरोक्तं तत एव पठेबहु। तत एव बहु पठेदिति अस्माभिस्तु ग्रन्थ- विस्तरभयान्न पठितमित्यभिप्रायः। तदुक्तं तत्र 'ब्रह्मादिस्तम्बपर्यन्तं विश्वं तु सचराचरम् । मायातत्त्वसकाशात्तु सर्वमेव विनिःसृतम् ॥ धर्माधर्मनिबद्धस्तु पिण्ड उत्पद्यते तदा । तत उत्पद्यते गन्धः शुक्रशोणितसंभवः ॥ शुक्रान्मांसं ततो मेदो मजा चास्थीनि देहिनाम् । रक्तात्त्वक्वायुमांसं च धातुषदं भवेदिदम् ।। शुक्रं च शोणितं चैव अष्टधातुकमुच्यते । पश्चाद्भूतगणोपेतो देहो भवति देहिनाम् ॥ यथा गृहं तु निष्पाद्य गृही पश्चात्तु तिष्ठति । एवं देहं विनिष्पाद्य देही तिष्ठति चेश्वरः ॥ पुरुषः शून्यरूपस्तु निष्क्रियो गुणवर्जितः । किंचित्स्फुरणमात्रस्तु निष्कलः स हि कथ्यते ॥ सकल: कलया युक्तः शान्तात्मा प्रभुरव्ययः । तन्मात्राणि च भूतानि इन्द्रियाणि दशैव तु ॥ इन्द्रियार्था मनो बुद्धिस्तथाहकार एव च । विज्ञेयः सकलो ह्येष शिवो देहे व्यवस्थितः ॥ १२

९०
श्रीतन्त्रालोके ।
मानुषाणां पशूनां च सर्पाणां जलचारिणाम् ।
व्यापकोऽपि शिवाख्यो वै संसारे संव्यवस्थितः ॥
इत्यादि बहु॥
इह मरणस्य नान्तरीयकवृत्तित्वात् जन्मा-
भिधानपूर्वं समुचितं वचनमित्याह
क्षये तु कर्मणां तेषां
देहयन्त्रेऽन्यथागते ॥२२७॥
प्राणयन्त्रं विघटते
देहः स्यात्कुड्यवत्ततः।
तेषां तु कर्मणामिति देहारम्भकाणाम् । तत
इति प्राणयन्त्रस्य विघटनात् ॥
तद्विघटनमेव दर्शयति
नाडीचकेषु सङ्कोच-
विकासौ विपरीततः ॥२२८॥
भङ्गः शोषः क्लिदिर्वात-
श्लेष्मान्यपचयोच्चयैः।
इत्येवमादि यत्किञ्चित्
प्राक्संस्थानोपमर्दकम् ॥२२९॥

९१
,
२३१ श्लो० ॥
अष्टाविंशमाह्निकम् ।
देहयन्त्रे विघटन
तदेवोक्तं मनीषिभिः।
विपरीतत इति संकुचितं हि नाडीचक्र विक-
सति, विकसितं च संकुचतीति । अग्निः पित्तं,
तेन धातुत्रयस्यापि अपचयादत्यन्तं वा चयादस्य
भङ्गादि भवेत् येन एतत् प्राग्रूपात्प्रच्युतिमेव
आसादयेदेवम् । किं बहुना यदेव नाम हि
किञ्चित् देहयत्रे प्राक्संस्थानोपमर्दकं, तदेव
मनीषिभिर्विघटनमित्युक्तं यल्लोके मरणमिति
प्रसिद्धम् ॥
नच एतावतैव अस्य संसारोच्छेद इत्याह
तस्मिन्विघटिते यन्त्रे
सा संवित्प्राणनात्मताम् २३०
गृह्णाति योनिजेऽन्यत्र
वा देहे कर्मचित्रिते।
स देहः प्रतिबुध्येत
प्रसुप्तोत्थितवत्तदा ॥ २३१ ॥

श्रीतन्त्रालोके । तस्यापि भोगतहानि- मृतयः प्राग्वदेव हि। यन्त्र इति देहे वाशब्दादयोनिजेऽपि।प्रतिब- ध्येतत्यनेन अस्य सृष्टिरुक्ता । भोगतद्धानीति तत्प्राप्त्यप्राप्ती, एषैव च अस्य स्थितिः॥ एते च अस्य सृष्ट्यादयः कर्मबलोपनता इति नियत्याद्यपेक्षित्वात् तत्तद्वैचित्र्यभाजो भनन्नीत्याह विसृष्टिस्थितिसंहारा एते कर्मबलाद्यतः ॥ २३२-॥ अतो नियतिकालादि- वैचित्र्यानुविधायिनः। अनुग्रहः पुनरस्य कर्मादि अनपेक्ष्यैव स्यादि- त्याह अनुग्रहस्तु यः सोऽयं स्वस्वरूपे विकस्वरे ॥ २३३॥ ज्ञप्त्यात्मेति कथं कर्म- नियत्यादि प्रतीक्षते।

२३६ श्लो०] अष्टाविंशमाह्निकम् । ननु अनुग्रहस्यापि कर्मादिहेतुत्वे को दोष इत्याशङ्का आह कर्मकालनियत्यादि यतः सङ्कोचजीवितम् ॥२३४॥ सङ्कोचहानिरूपेऽस्मि- न्कथं हेतुरनुग्रहे। अनुग्रहश्च क्रमिक- स्तीत्रश्चेति विभिद्यते ॥२३५॥ प्राक् चैष विस्तरात्प्रोक्त इति किं पुनरुक्तिभिः । यदुक्तं प्राक 'यत्तु कसिश्चन शिवः खेन रूपेण भासते। तत्रास्य नाणुगे तावदपेक्ष्ये मलकर्मणी॥ तथाखरूपताहानौ तद्गतं हेतुतां कथम् । बजेन्मायानपेक्षत्वमत एवोपपादयेत् ॥ तेन शुद्धः स्वप्रकाशः शिव एवात्र कारणम्। (१३३११६) इति । प्रागिति शक्तिपातपरीक्षाहिके ॥ ननु एवंविधेन अनुग्रहेण अस्य किं स्या- द्वित्याशाच आह

श्रीतन्त्रालोके ।
तेन दीक्षाशिवज्ञान-
दग्धसङ्कोचबन्धनः ॥ २३६ ॥
देहान्ते शिव एवेति
नास्य देहान्तरस्थितिः।
नन्वेवं देहान्तरानुत्पत्तौ दीक्षैव किं निमि-
त्तमुत निमित्तान्तरमस्तीत्याशङ्कय आह
येऽपि तत्त्वावतीर्णानां
शंकराज्ञानुवर्तिनाम् ॥ २३७॥
स्वयम्भूमुनिदेवर्षि-
मनुजादिभुवां गृहे।
मृतास्ते तत्पुरं प्राप्य
पुरेशैर्दीक्षिताः क्रमात्॥२३८॥
मर्येऽवतीर्य वा नो वा
शिवं यान्त्यपुनर्भवाः ।
तत्र स्वयम्भुवो वैधा
केऽप्यनुग्रहतत्पराः ॥ २३९॥

९५ २४३ को०] अष्टाविंशमाह्निकम् । केऽपि स्वकृत्यायातांश- स्थानमात्रोपसेविनः । येऽनुग्रहार्थमाज्ञप्ता- स्तेषु यो बियते नरः ॥२४०॥ सोऽनुग्रहं स्फुटं याति विना मावतारतः। यस्तु स्वकार्य कुर्वाण- स्तत्स्थानं नांशतस्त्यजेत् २४१ यथा गौरी तपस्यन्ती कश्मीरेषु गुहागता। तत्रैव वा यथा ध्यानो- डारे नरहरिर्विभुः ॥२४२॥ वितस्तां नयतो दैत्यां- स्त्रासयन्दृप्त उत्थितः। सालिग्रामे यथा विष्णुः शिवो वा स्वोपभोगिनः २४३

श्रीतन्त्रालोके ।
तपस्यन्तौ बदाँ च
नरनारायणौ तथा ।
इत्येवमादयो देवाः
स्वकृत्यांशस्थितास्तथा ॥२४४॥
आराधिताः स्वोचितं त-
च्छीघ्रं विदधते फलम् ।
स्वकृत्यांशस्थितानां च
धानि येऽन्तं ब्रजन्ति ते २४५
तत्र भोगांस्तथा भुक्त्वा
मर्येष्ववतरन्त्यपि।
मावतीर्णास्ते तत्त-
दंशकास्तन्मयाः पुनः ॥२४६॥
तद्दीक्षाज्ञानचर्यादि-
क्रमाद्यान्ति शिवात्मताम् ।
स्थावराद्यास्तिर्यगन्ताः
पशवोऽस्मिन्वये मृताः॥२४७॥

२४८ श्लो०]
अष्टाविंशमाह्निकम् ।
स्वकर्मसंस्क्रियावेधा-
तल्लोके चित्रताजुषः।
यद्यपि च अत्र पवित्रकविध्यनन्तरं तीर्था-
यतनचर्चनमुद्दिष्टं, तथापि तत मरणोपयोगि-
त्वात् तत्परीक्षान्तरुपक्षिप्तमिति न कश्चित् पूर्वा-
परव्याघातः।अनुग्रहतत्परा इति अबादिभ्यो हि
तत्त्वेभ्यः परमेश्वराज्ञया पश्चापि अष्टकानि अनु-
ग्रहार्थमेव भुवमवतीर्णानीत्याशयः । स्फुटमिति
अनुग्रहार्थमेव एषामवतीर्णत्वात् । तपस्यन्ती-
त्यादिना एषां स्वकार्यावेदनं कृतम् । तत्रेति
तत्परेषु मर्येष्वप्यवतरन्तीति तेषां साक्षादनु-
ग्रहकारित्वाभावात् । तत्तदंशका इति ब्रह्मवि-
ष्णुरुद्रायंशा इत्यर्थः । अस्मिन्द्रय इति अनु-
ग्रहार्थ खकार्यार्थं च अवतीर्णे ॥
ननु यदि एवमत्र स्थावरादीनां सालोक्यं
स्यात्, तन्मनुष्याणां का वार्तेत्याशङ्कय आह
पुंसां च पशुमात्राणां
सालोक्यमविवेकतः॥२४८॥
पशुमात्राणामिति अन्येषां पुनः सायुज्या-
यपि भवेदिति भावः ॥ २४८॥

श्रीतन्त्रालोके।
ननु एषां स्थावरादिवदेव किमविवेकः सम-
स्ति न वेत्याशङ्कय आह
अविवेकस्तद्विशेषा-
नुन्मेषान्मौढ्यतस्तथा।
तद्विशेषानुन्मेषादिति राजसत्वात् पुंसाम् ।
मौढ्यत इति स्थावरादीनां तामसत्वात् ॥
ननु अन्यत्र स्थावरादीनां
'येषां मृतानां चर्माणि यान्ति योगं शिवालये ।
वृक्षाणामपि दारूणि तेऽपि रुद्रा न संशयः॥'
इति दृशा रुद्धत्वमेव भवेदित्युक्तम् । इह पुन-
रेषां सालोक्यं कस्मादभिहितमित्याशङ्कय आह
स्थावराद्यास्तथाभाव-
मुत्तरोत्तरतां च वा ॥ २४९ ॥
प्रपद्यन्ते न ते साक्षा-
द्रुद्रतां तां क्रमात्पुनः।
तथाभावमिति स्थावरादिरूपत्वम्। उत्तरो-
त्तरतामिति पुमादिरूपतासादनक्रमेण ॥
अत एव आगमोऽप्येवमित्याह
हंसकारण्डवाकीर्णे
नानातरुकुलाकुले ॥ २५०॥

२५४ श्लो०] अष्टाविंशमाह्निकम् । इत्येतदागमेषूक्तं तत एव पुरे पुरे। क्षेत्रमानं ब्रुवे श्रीम- सर्वज्ञानादिषूदितम् ॥२५॥ लिङ्गाद्धस्तशतं क्षेत्र- माचार्यस्थापिते सति । स्वयम्भूते सहस्रं तु तदर्धमृषियोजिते ॥ २५२॥ तत्त्ववित्स्थापिते लिङ्गे स्वयम्भूसदृशं फलम् । अतत्त्वविद्यदाचार्यों लिङ्गं स्थापयते तदा ॥२५३॥ पुनर्विधिर्भवेदोषो ह्यन्यथोभयदूषकः। ननु खयम्भवादीनां साक्षात्सन्निधेः क्षेत्रादि- रूपत्वमस्तीति तगृहे मृतानां भवेदेवं, को दोषः, मनुष्यादिप्रतिष्ठितानां लिङ्गानां पुनः कथमेवं युज्यतेत्याशङ्कां प्रशमयितुमागममेव संवादयति क्षेत्रेत्यादिना। आचार्योऽत्र उत्कर्षी ॥

१०० श्रीतन्त्रालोके। अतत्त्ववित्त्वमेव दर्शयति अहमन्यः परात्मान्यः शिवोऽन्य इति चेन्मतिः २५४ न मोचयेन मुक्तश्च सर्वमात्ममयं यतः। तस्मात्तत्त्वविदा यद्य- स्थापितं लिङ्गमुत्तमम् ॥२५५॥ तदेवायतनत्वेन संश्रयेद्भुक्तिमुक्तये। तथाच आगमोऽप्येवमित्याह उक्तं श्रीरत्नमालायां ज्ञात्वा कालमुपस्थितम् २५६ मोक्षार्थी न भयं गच्छे- त्यजेदेहमशङ्कितः। तीर्थायतनपुण्येषु कालं वा वञ्चयेत्प्रिये ॥२५७॥ अयोगिनामयं पन्था योगी योगेन वञ्चयेत् ।

२५९ श्लो० ॥
अष्टाविंशमाह्निकम् ।
वञ्चने त्वसमर्थः सन्
क्षेत्रमायतनं व्रजेत् ॥२५८॥
तीर्थे समाश्रयात्तस्य
वञ्चनं तु विजायते।
ज्ञात्वेति
'यस्य वै स्नातमात्रस्य हृत्पादौ वाथ शुष्यतः।
धूमो वा मस्तके नश्येद्दशाहं न स जीवति ॥
इत्यायुक्तैस्तत्रत्यैरेव लक्षणैः । त्यजेदिति उत्क्रा-
त्यादिक्रमेण । उत्क्रान्त्यादावसमर्थः पुनस्ती-
र्थादावनशनादिना देहं त्यजेत्, येन अस्य
पुनर्जन्ममरणायोगात् कालवश्चनं सिध्यदित्याह
तीर्थेत्यादि; अत एवाह अयोगिनामयं पन्था
इति । अनशनादिनापि देहं त्यक्तुमसमर्थेन
क्षेत्रादि आश्रयणीयमेव यद्वशाखारसिके दे-
हापगमे कालवञ्चनं स्यादित्याह वञ्चने विति ।
एकस्तुशब्दो हेतौ ॥
इदमेव च अत्र नाभिधेयं, यावदन्यदपीत्याह
अनेन च धरायेषु
तत्त्वेष्वभ्यासयोगतः॥२५९॥

१०२ श्रीतन्त्रालोके। तावत्सिद्धिजुषोऽप्युक्ता मुक्त्यै क्षेत्रोपयोगिता। धरादियोगिनां हि तद्धारणाक्रमेण तसि. द्धिभाक्त्वं तावत् सिद्धं, मुक्तिस्तु क्षेत्रोपसेव- नाद्भवेदिति भावः॥ नन्वेवं क्षेत्रोपयोगः किमज्ञानामेव, किं स्वित् ज्ञानिनामपीत्याशय आह सम्यग्ज्ञानिनि वृत्तान्तः पुरस्तात्तूपदेक्ष्यते ॥ २६० ॥ नन्वेवं ये न ज्ञानिनः, नापि पशवः, तेषां का वार्तेत्याशङ्कय आह पशूनामेष वृत्तान्तो ये तु तत्तत्त्वदीक्षिताः। ते तदीशसमीपत्वं यान्ति स्वौचित्ययोगतः॥२६॥ योग्यतावशसंजाता यस्य यत्रैव वासना।

२६५ श्लो०] अष्टाविंशमाह्निकम् । १०३ स तत्रैव नियोक्तव्यः पुरेशाच्चोर्ध्वशुद्धिभाक्॥२६२॥ इति श्रीपूर्वकथितं श्रीमत्स्वायम्भुवेऽपिच। यो यत्राभिलषेद्धोगा- न्स तत्रैव नियोजितः॥२६३॥ सिद्धिभाङ्मन्त्रसामर्थ्या- दित्याद्यन्यत्र वर्णितम् । खौचित्येति नतु क्षेत्रौचित्ययोगतः । अन्यत्र श्रीमत्वायम्भुवेऽपि च वर्णितमिति संबन्धः ॥ क्षेत्रौचित्यात् पुनरेषां लोकधर्मिणां तत्सा- युज्यमेव भवेदित्याह ये तु तत्तत्त्वविज्ञान- मन्त्रचर्यादिवर्तिनः ॥ २६४॥ मृतास्ते तत्र तद्रुद्र- सयुक्त्वं यान्ति कोविदाः। नन्वेवमपि एषां सर्वेषां किमविशेषेणैव रुद्र- त्वेन अवतारः, उत नेत्याशङ्कय आह १०४ श्रीतन्त्रालोके। तेषां सयुक्त्वं याताना- मपि संस्कारतो निजात् ॥२६५॥ तथा तथा विचित्रः स्या- दवतारस्तदंशतः। संस्कारत इति प्राकर्मवासनारूपात् ॥ तथा च आगमोऽपीत्याह सिद्धान्तादौ पुराणेषु तथाच श्रूयते बहु ॥ २६६॥ तुल्ये रुद्रावतारत्वे चित्रत्वं कर्मभोगयोः। नन्वेवमैकरूप्येऽपि रुद्रत्वस्य कथमेताज्ये तेत्याशय आह अनेकशक्तिखचितं यतो भावस्य यहपुः ॥२६७॥ शक्तिभ्योऽर्थान्तरं नैष तत्समूहाहते भवेत् । यच्छब्दो हेतौ भिन्नक्रमः, तेन वपुःशब्दा- नन्तरं योज्यः, एवं तर्हि तत्तच्छत्यतिरिक्तं २६९ श्लो०] अष्टाविंशमाह्निकम् । १०५ भावस्य रूपं पर्यवस्येदित्याशय आह शक्तिभ्यो- ऽर्थान्तरं नैष इति । ततोऽर्थान्तरत्वे तु अस्य किं स्यादित्याशक्य आह तत्समूहाहते भवेदिति।य- दनेकाभाससंमूर्छनात्मको भाव इति एष तदा- भाससंमूर्छनामन्तरेण न किंचिदपि रूपं विभृ. यादित्यस्मत्सिद्धान्तः॥ ननु अनेन प्रकृते किं स्यादित्याशक्य आह तेन शक्तिसमूहाख्यात् तस्माद्रुद्रायदंशतः ॥ २६८॥ कृत्यं तदुचितं सिद्ध्येत् सोंऽशोऽवतरतिस्फुटम् । अतश्च अनेकाभासकदम्बतया उद्भासमा. नाद्रुद्रात् यस्मादेव आभासांशात् तत्तत्प्राक- मानुगुणं कार्य सिद्ध्येत् , स एव आभासांशः स्फुटमवतरति तत्तद्रुद्ररूपतां साक्षागृहीया- दित्यर्थः ॥ अत्रैव अधिकारिभेदात् वैचित्र्यान्तरमपि दर्शयितुमाह ये चाधरप्राप्तदीक्षा- स्तदास्थानुज्झिताः परे ॥२६९॥ १४ १०६ श्रीतन्त्रालोके । तत्त्वे मृताः काष्ठवत्तेऽ- धरेऽप्युत्कर्षभागिनः। ये तृज्झिततदुत्कर्षा- स्ते तदुत्तरभागिनः॥२७॥ येऽप्यूलतत्त्वदीक्षास्ते विना तावद्विवेकतः। प्राप्ताधरान्ता अपि त- दीक्षाफलसुभागिनः ॥ २७१॥ अत्यक्तास्था हि ते तत्र दीक्षायामपि शास्त्रितात् । विना विवेकादास्थां ते श्रिता लोकप्रसिद्धितः॥२७२॥ ये च लोकर्मिण एव अप्तत्त्वादावधरपदे प्राप्तयोजनिकास्तत्रैव च सादराः, परे तदुत्तरे तेजस्तत्त्वादौ तत्तत्त्वावतीर्णस्य अतिगुह्याष्टका- दिमध्यादेकतरस्य स्थाने विनैव सन्धानं मृ- तास्ते तत्र अधरेऽपि उत्कर्षभागिनः तत्स्थानमृ- तसाधकान्तरवैलक्षण्येन भोगभाजो भवन्ती- २७३ श्लो०] अष्टाविंशमाह्निकम् । १०७ त्यर्थः । ये पुनरप्तत्त्वादावेव प्राप्तदीक्षाः, तत्र तथा अनाहतास्तेऽपि एवं मृतास्तदुत्तरे तेज- स्तत्त्वादावेव भोगिनस्तत्पदमेव आसादयन्ती- त्यर्थः । येऽपि तेजस्तत्त्वादावूचे प्राप्तदीक्षास्ते मौढ्यादप्तत्त्वाद्यवतीर्णस्य खयम्भुवः संबन्धिनि अधरे स्थान प्राप्तमृत्यवोऽपि तद्दीक्षाफलमेव सुष्टु भजन्ते । यतस्ते तथाविधायामपि दी- क्षायां बद्धास्था गतानुगतिकया प्रसिद्धि- मात्रादेव अधरायतनादावास्थां श्रिताः। नहि एषामेवं शास्त्रीयो विवेकः समस्ति येन दीक्षो. चितमेव स्थानमनुसरेयुः ॥ २७२ ॥ एवमियता किं पर्यवसितमित्याशक्य आह पशुमात्रस्य सालोक्यं सामीप्यं दीक्षितस्य तु। तत्परस्य तु सायुज्य. मित्युक्तं परमेशिना ॥ २७३ ॥ दीक्षितस्येति लोकर्मिदीक्षया । तत्पर- स्येति एवं दीक्षितत्वेऽपि तत्तत्स्थानादौ मृतस्य ॥

१०८ श्रीतन्त्रालोके । सिद्धान्तादावू/वं दीक्षितस्य पुनस्तत्र अ. नास्थया तीर्थादि आश्रयतः सर्व निरर्थकमेव भवेदित्याह यस्तूशास्त्रगस्तत्र त्यक्तास्थः संशयेन सः। व्रजन्नायतनं नैव फलं किञ्चित्समश्नुते ॥२७॥ उक्तं तद्विषयं चैत- देवदेवेन यदृथा। दीक्षा ज्ञानं तथा तीर्थ तस्येत्यादि सविस्तरम् ॥२७॥ तदुक्तं 'दीक्षितः शिवसिद्धान्ते गुरुपूजादिकां क्रियाम् । कृत्वान्ते च ब्रजेद्यस्तु तीर्थमायतनादि वा ॥ वृथा दीक्षा वृथा ज्ञानं मत्राराधनमेव च । त्यक्तं तेनैव तत्सर्व तीर्थमात्रफलेप्सुना ॥ इति ॥ २७५॥ यस्तु तावदयोग्योऽपि तथास्ते स शिवालये।

२७९ श्लो०] अष्टाविंशमाह्निकम् । १०९ पश्चादास्थानिबन्धेन तावदेव फलं भजेत् ॥२७॥ तावदयोग्य इति आजीवम् । पश्चादिति मृत्युसमय एव । तावदिति पूर्णम् ॥ २७६ ॥ ननु खयम्भवादीनामेव स्थाने मृतानामेवं भवेदिति कस्मादुक्तं, यदन्यत्र अन्तर्वेद्यादावपि मरणस्थानत्वमभिहितमित्याशङ्कय आह नदीनगदप्रायं यच्च पुण्यं न तन्मृतौ। उत्कृष्टं तन्मृतानां तु स्वर्गभोगोपभोगिता ॥२७७॥ पुनः प्राप्तविज्ञान- विवेका मरणान्तिके। अधरायतनेष्वास्थां श्रितास्तेऽत्र तिरोहिताः॥२७॥ निष्कृतिश्च एषां किमस्ति न वेत्याशय आह तज्ज्ञानदूषणोक्तं य- त्तेषां स्यात्किल पातकम् । ये ११० श्रीतन्त्रालोके । तत्तत्पुरेशदीक्षादि- क्रमान्नश्येदिति स्थितिः॥२७९॥ दीक्षायतनविज्ञान- दूषिणो ये तु चेतसा। आचरन्ति च तत्तेऽत्र सर्वे निरयगामिनः ॥ २८० ॥ ननु एते साक्षात् यदि आचरन्तो दृश्यन्त इति कुतस्तद्विशेष एषां ज्ञायतेत्याशङ्कय आह ज्ञानायतनदीक्षादा- वास्थाबन्धपरिच्युतिः। व्यापारव्याहृतैज्ञेया इह द्विविधानि व्यापारव्याहृतानि संसार- भागीयानि कैवल्यभागीयानि च। तत्र एषां क्वचिद्यथानुसन्धानं प्रवृत्तिः, क्वचिदयथानुस- न्धानं, क्वचिच्च निरनुसन्धानमिति । तत्र आद्यः स्पष्ट एव पन्था यथानुसन्धानं व्यापारादेर्भा- वात् । द्वितीयस्तु विपर्यस्तो व्यापारादेरनुस- न्धानविपर्ययेण दर्शनात् । तृतीयस्तु नैवंविध इत्याह २८३ श्लो०] अष्टाविंशमाह्निकम् । १११ तान्यपि द्विविधानि च॥२८॥ यानि जातुचिदप्येव स्वास्थ्ये नोदमिषन्पुनः। अस्वास्थ्ये धातुदोषोत्था- न्येव तद्भोगमात्रकम् ॥२८२॥ यानि संसारकैवल्यभागीयतया द्विविधानि, तानि व्यापारव्याहृतानि स्वास्थ्ये कदाचिदपि नोदितानि यथा ज्ञानिनः संसारभागीयानि अज्ञानिनस्तु कैवल्यभागीयानि, अस्वास्थ्ये पु. नर्धातुदोषवशादुत्थितानि तद्भोगमात्रकमेव त- दानीमेषामेवंविधःप्राकर्मबलोपनतो भोग एव, नतु शुभाशुभकारि किञ्चिदित्यर्थः ॥ २८२॥ ननु कथं भोगमात्रकमेव एतदित्युक्तं यज्ज्ञा- निनोऽपि अन्तश्च आत्तानां संसारवासनाना- मन्तरान्तरा दर्शनादज्ञानित्वं स्यात्, अज्ञानि- नोऽपि ज्ञान्युचितानां संस्काराणामुदयात् ज्ञा- नित्वमितीत्याशय आह धातुदोषाच्च संसार- संस्कारास्ते प्रबोधिताः।

११२ श्रीतन्त्रालोके। छिद्रगा अपि भूयिष्ठ- ज्ञानदग्धा न रोहिणः ॥२८॥ ये तु कैवल्यभागीयाः स्वास्थ्येऽनुन्मिषिताः सदा। अस्वास्थ्ये चोन्मिषन्त्येते संस्काराः शक्तिपाततः॥२८॥ भूयिष्ठेति एषां हि बलवज्ज्ञानमित्याशयः। अनुन्मिषिता इति अर्थादज्ञानिनः॥ ननु स्वास्थ्याविशेषेऽपि ज्ञानिनां धातुदो- षादेते संस्काराः प्रबुद्धाः, इतरेषां तु शक्तिपा- तत इति कुतस्त्योऽयं विशेष इत्याशक्य आह यतः सांसारिकाः पूर्व- गाढाभ्यासोपसंस्कृताः। इत्यूचे भुजगाधीश- स्तच्छिद्रेष्विति सूत्रतः॥२८५॥ ये तु कैवल्यभागीयाः प्रत्ययास्ते न जातुचित् ।

२८७ श्लो०] अष्टाविंशमाह्निकम् । ११३ अभ्यस्ताः संसृतेर्भावा- तेनैते शक्तिपाततः॥ २८६॥ नच एतदस्मदुपज्ञमेवेत्याह इतीत्यादि । त- च्छिद्रेष्विति सूत्रत इति 'तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः' (४।२७) इति सूत्रे इत्यर्थः । सांसारिकाणां हि व्यापा- रादीनां जन्मान्तरीयो गाढाभ्यासोऽस्ति नि. मित्तं, यदशादेषामुदयोऽपि स्यात्, इतरेषां तु संसारिषु अभ्यासो नास्ति, कादाचित्कश्च उदयो दृश्यते, तदत्र केनचित् निमित्तेन भाव्यम् । सच शक्तिपात एवेति युक्तमुक्तमेते संस्काराः शक्तिपातत इति ॥ ननु एवं ज्ञानिनोऽपि एते संस्कारास्तिरो- धानशक्तिपातहेतुका एव सन्वित्याशङ्कय आह व्यापारव्याहृतस्तेन धातुदोषप्रकोपितैः। अप्राप्तनिश्चयामर्शः सुप्तमत्तोपमानकैः ॥२८७॥ १५

११४
श्रीतन्त्रालोके ।
विपरीतैरपि ज्ञान-
दीक्षागुर्वा दिदूषकैः ।
तिरोभावो न विज्ञेयो
हृदये रूढ्यभावतः ॥२८॥
अप्राप्तनिश्चयाम रिति अन्यथासिद्धत्वात्।
रुढ्यभावत इति अस्य हि अन्यत्र अस्ति दृढ-
तरमभ्यास इति भावः ॥ २८८ ॥
अतश्च अस्य अन्येऽपि सांसारिकाः सं.
स्काराः सन्तीत्याह
अत एव प्रबुद्धोऽपि
कर्मोत्थान्भोगरूपिणः।
यमकिङ्करसादि-
प्रत्ययान्देहगो भजेत् ॥२८९॥
तर्हि अस्य किं नाम मुक्तत्वमित्याशङ्कय आह
नैतावता न मुक्तोऽसौ
मृति गो हि जन्मवत् ।
स्थितिवच्च ततो दुःख-
सुखाभ्यां मरणं द्विधा ॥२९०॥

२९३ श्लो०] अष्टाविंशमाह्निकम् । ११५ अतो यथा प्रबुद्धस्य सुखदुःखविचित्रताः। स्थितौ न घ्नन्ति मुक्तत्वं मरणेऽपि तथैव ताः ॥२९॥ अत इति जन्मादिवत् मरणस्यापि भोग- विशेषात्मकत्वात् ॥ २९१ ॥ योगिनां पुनर्जानिभ्योऽपि मृतावतिशय इत्याह ये पुनर्योगिनस्तेऽपि यस्मिंस्तत्त्वे सुभाविताः। चित्तं निवेशयन्त्येव तत्तत्त्वं यान्त्यशङ्किताः॥२९॥ निवेशयन्तीति उत्क्रान्त्यादिनिमित्तम् । अ- शङ्किता इति मरणव्यथाद्ययोगात् ॥ २९२ ॥ तथाच आगमोऽप्येवमित्याह श्रीस्वच्छन्दे ततः प्रोक्तं गन्धधारणया मृताः।

श्रीतन्त्रालोके । इत्यादि मालिनीशास्त्रे धारणानां तथा फलम् ॥२९३॥ यदुक्तं 'धारणां गन्धतन्मात्रे प्राणांस्त्यक्त्वा तु योगिनः । ते यान्ति तादृशीं मूर्तिं धरित्र्याः परमां तनुम् ॥' (१०१७८८) इति। 'रसतन्मात्रमात्रे वै कृत्वा सम्यक् तु धारणाम् । अपां योनिं परां प्राप्ता. ॥ (१०७९९) इति च।श्रीपूर्वशास्त्रे तुद्वादशपटलात्प्रभृति वि. तत्य एतदुक्तमिति तत एव अवधार्यम् ॥२९३॥ ननु मरणं चेद्योगिनामस्ति अवश्यं, सुख- दुःखाद्यात्मा तद्भोगोऽपि स्यात् ; तत्किमेतदुक्त- मित्याशङ्कय आह एतेषां मरणाभिख्यो भोगोनास्ति तु ये तनुम् । धारणाभिस्त्यजन्त्याशु परदेहप्रवेशवत् ॥ २९४॥ ननु कियान् मरणाभिख्यो भोगो य एषां नास्तीत्याशय आह २९७ श्लो०] अष्टाविंशमाहिकम् । ११७ एतावान्मृतिभोगो हि मर्मच्छिन्मूढताक्षगा। ध्वान्ताबिलत्वं मनसि तच्चैतेषु न विद्यते ॥ २९५॥ तदिति मर्मच्छिदादि ॥ २९५ ॥ तदेव उपपादयति तथाहि मानसं यत्नं तावत्समधितिष्ठति । अहंरूढ्या परे देहे यावत्स्याबुद्धिसंचरः ॥ २९६ ॥ प्राणचक्रं तदायत्त- मपि संचरते पथा। तेनैवातः प्रबुद्ध्येत परदेहेऽक्षचक्रकम् ॥ २९७॥ यदि हि नाम खदेहं त्यजतो योगिनो मर्मसु वेदना, इन्द्रियेषु मोहो, मनसि तमो- मयत्वं च अभविष्यत् , तदयं तत्प्रयत्ननिर्वयं परपुरप्रवेशादि एवं कथकारमकरिष्यत्। मनः- . ११८ श्रीतन्त्रालोके । प्रयत्नाधीन एव हि योगिनः परदेहे बुद्धिप्राणा- दिसंचारः, येन अस्य तत्र अहन्ताप्ररोहः ॥ ननु प्राणादेरिन्द्रियचक्रस्य मनोऽनुगामि- त्वमेव करमादित्याशङ्कां दृष्टान्तदिशा उपश- मयति मक्षिका मक्षिकाराज यथोत्थितमनूत्थिताः। स्थितं चानुविशन्त्येवं चित्तं सर्वाक्षवृत्तयः ॥२९८॥ एवं योगिनां देहापगमेऽपि अन्यवदिन्द्रि- याणामन्तरा अस्तमयो नास्तीत्याह अतोऽस्य परदेहादि- संचारे नास्ति मेलनम्। अक्षाणां मध्यगं सूक्ष्म स्यादेतदेहवत्पुनः ॥ २९९॥ अत इति मृतिभोगाभावात् । ननु एतस्मि- न्नेव देहे गाढमर्मप्रहारमात्रेणेन्द्रियाणामन्तरा

३०२ श्लो०]
अष्टाविंशमाह्निकम् ।
मेलनं भवेत् , कथं पुनस्तत्त्यागेनेत्याशय
उक्तं सूक्ष्म स्यादेतदेहवत्पुनरिति ॥ २९९ ॥
एतदेव दृष्टान्तगर्भमुपसंहरति
एवं परशरीरादि-
चारिणामिव योगिनाम् ।
तत्तत्तत्त्वशरीरान्त-
श्चारिणां नास्ति मूढता ॥३०॥
ते चापि द्विविधा ज्ञेया
लौकिका दीक्षितास्तथा।
पूर्वे शिवाः स्युः क्रमशः
परे तद्भोगमात्रतः ॥३०१॥
दीक्षाप्यूर्ध्वाधरानेक-
भेदयोजनिकावशात् ।
भिद्यमाना योगिनां स्या-
द्विचित्रफलदायिनी ॥३०२॥
ते इति योगिनः। लौकिका इति पातञ्ज-
लादिनिष्ठाः ॥ ३०२ ॥

१२०
श्रीतन्त्रालोके ।
एवं योगिनो मृतवृत्तान्तमभिधाय, ज्ञानि-
नोऽपि आह
ये तु विज्ञानिनस्तेऽत्र
द्वेधा कम्प्रेतरत्वतः।
तत्र ये कम्प्रविज्ञाना-
स्ते देहान्ते शिवाः स्फुटम् ३०३
एतदेव उपपादयति
यतो विज्ञानमेतेषा-
मुत्पन्नं नच सुस्फुटम् ।
विकल्पान्तरयोगेन
नचाप्युन्मूलितात्मकम्॥३०४॥
अतो देहे प्रमादोत्थो
विकल्पो देहपाततः।
नश्येदवश्यं तच्चापि
बुध्यते ज्ञानमुत्तमम् ॥३०५॥
नच सुस्फुटमिति देहबलोपनतेन विकल्पेन
ग्लपनात् । विकल्पान्तरेति विरुद्धस्य ॥३०५॥

३०८ श्लो०] अष्टाविंशमाह्निकम् । १२१ ननु देहपाते विकल्पस्य प्रशमोऽस्तु, प्रस्फु- टज्ञानोदये तु को हेतुरित्याशय आह संस्कारकल्पनातिष्ठ- दध्वस्तीकृतमन्तरा। प्राप्तपाकं संवरीतु- रपाये भासते हि तत् ॥३०६॥ ये तु स्वभ्यस्तविज्ञान- मयाः शिवमयाः सदा। जीवन्मुक्ता हि ते नैषां मृतौ कापि विचारणा ॥३०७॥ प्राप्तपाकमिति परां काष्टामधिरूढमित्यर्थः। संवरीतुरिति पिधायकस्य देहस्य ॥ ३०७ ॥ ननु किं न ज्ञानिनां मृतौ विचारः, यत्तेऽपि तदा पामरवत् देहादिमया एव किं न वेत्याशङ्कय दृष्टान्तगर्भमाह यथाहि जीवन्मुक्तानां स्थितौ नास्ति विचारणा।

१२२ श्रीतन्त्रालोके । सुखिदुःखिविमूढत्वे मृतावपि तथा न सा ॥३०८॥ तथाच आगम इत्याह श्रीरत्नमालाशास्त्रे त- दुवाच परमेश्वरः । स्वशास्त्रे चाप्यहीशानो विश्वाधारधुरन्धरः ॥३०९॥ खशास्त्रे इति आधारकारिकासु ॥ ३०९ ॥ तदेव क्रमेण पठति रथ्यान्तरे मूत्रपुरीषमध्ये चण्डालगेहे निरये श्मशाने। सचिन्तको वा गतचिन्तको वा ज्ञानी विमोक्षंलभतेऽपि चान्ते॥३१० निरये इति अपकृष्टस्थाने इत्यर्थः ॥३१०॥ एतदेव संक्षेपेण व्याचष्टे अपिचेति ध्वनिर्जीव- न्मुक्ततामस्य भाषते।

३१३ श्लो०] अष्टाविंशमाह्निकम् । १२३ सचिन्ताचिन्तकत्वोक्ति- रेतावत्संभवस्थितिम् ॥३११ ॥ न केवलमन्ते ज्ञानी विमोक्षं लभते, याव- जीवन्नपीत्यर्थः । एतावदिति आसङ्गरहित इति यावत् ॥ ३११ ॥ इतरत्रापि तात्पर्यार्थं तावदाह तीर्थे श्वपचगृहे वा नष्टस्मृतिरपि परित्यजेदेहम् । ज्ञानसमकालमुक्तः कैवल्यं याति हतशोकः ॥३१२॥ अनन्तकारिका चैषा प्राहेदं बन्धकं किल । सुकृतं दुष्कृतं चास्य शङ्कयं तच्चास्य नो भवेत् ॥३१३॥ ज्ञानिनो हि बन्धकं कर्म नास्तीत्यस्य तीर्थादौ मरणे न कश्चिद्विशेष इत्यत्र तात्पर्यम्॥

१२४
श्रीतन्त्रालोके।
तदेव पदशो व्याचष्टे
अपिशब्दादलुप्तस्मृ-
त्या वा संभाव्यते किल।
मृतिर्नष्टस्मृतेरेव
मृतेः प्राक् सास्तु किं तया॥११४॥
लिङ संभावनायां स्या-
दियत्संभाव्यते किल।
सच कालध्वनिः प्राह
मृतेर्मुक्तावहेतुताम् ॥ ३१५॥
इह मरणं तावत् नष्टस्मृतेरेव भवतीति सं-
भवन्त्या अपि मरणात्प्राक् स्मृत्या न कश्चिदर्थः
इति । अपिशब्दादनष्टायां स्मृती संभावनापि
अफलप्रायैवेत्यर्थः । लिकिति परित्यजेदिति ।
इयत्संभाव्यते इति ज्ञानी हि नष्टस्मृतिरनष्ट-
स्मृतिर्वा यत्र तत्र देहं परित्यजतीति । मृतेर्मु-
कावहेतुतामिति ज्ञानप्राप्त्यैव हि अयं मुक्तः,
किमस्य स्मरणेनेत्याशयः॥ ३१५ ॥

३१७ श्लो०]
अष्टाविंशमाह्निकम् ।
१२५
ननु यद्येवं ज्ञानसमकालमेव मुक्तः, किं
कैवल्यं यातीत्युक्तमित्याशय आह
कैवल्यमिति चाशङ्का-
पदं याप्यभवत्तनुः।
भेदप्रदत्वेनैषापि
ध्वस्ता तेन विशोकता ॥३१६॥
आशङ्कापदमिति ज्ञानसमकालमेव अयं
किं मुक्तो न वेति । अत एव हतशोको
निःशङ्क इत्युक्तम् ॥ ३१६ ॥
ननु किमिदमाशङ्कापदं, नहि ज्ञानिनो
देहादि किंचिद्वन्धकं, यदुक्तं
'सम्यग्ज्ञानाधिगमाद्धर्मादीनामकारणप्राप्तौ ।
तिष्ठति संस्कारवशाच्चभ्रमवद्धृतशरीरः॥ (सां०का०६७)
इतीत्याशङ्कय आह
परदेहादिसंबन्धो
यथा नास्य विभेदकः।
तथा स्वदेहसंबन्धो
जीवन्मुक्तस्य यद्यपि ॥३१७॥

१२६ श्रीतन्त्रालोके । अतश्च न विशेषोऽस्य विश्वाकृतिनिराकृतेः। शिवाभिन्नस्य देहे वा तदभावेऽपि वा किल ॥३१८॥ तथापि प्राच्यतद्भेद- संस्काराशङ्कनस्थितेः। अधुनोक्तं केवलत्वं यहा मात्रन्तराश्रयात् ॥३१९॥ तान्येनं न विदुर्भिन्नं तैः स मुक्तोऽभिधीयते । इह ज्ञानिनः परदेहसंबन्धवत् खदेहसंबन्धो न बन्धको यतोऽस्य सति असति वा देहे शिवाभिन्नस्य विश्वाकारत्वे निराकारत्वे वा कश्चिद्विशेषो नास्ति यद्यपि, तथापि सति देहे भेदसंस्काराशङ्कापि संभाव्येति अधुना देह- पातानन्तर्येण कैवल्यं यातीत्युक्तम् । अथवा जी- वतोऽपि अस्य मुक्तदेहसद्भावात्प्रमात्रन्तराणां तदा न ज्ञानमधुना तु ज्ञानमिति ॥

३२४ श्लो०] अष्टाविंशमाह्निकम् । १२७ तथाच आगमोऽप्येवमित्याह श्रीमत्रैशिरसेऽप्युक्तं सूर्येन्दुपुटवर्जिते ॥३२०॥ जुगुप्साभावभङ्गस्थे सर्वतः स्तम्भवस्थिते । सर्वव्यापत्तिरहिते प्रमाणप्रत्ययातिगे ॥३२१ ॥ तस्मिन्बोधान्तरे लीनः कर्मकर्ताप्यनञ्जनः। प्रधानं घट आकाश आत्मा नष्टेघटेऽपि खम्॥३२२ न नश्येत्तहदेवासा- वात्मा शिवमयो भवेत्। स्वतन्त्रोऽवस्थितो ज्ञानी प्रसरेत्सर्ववस्तुषु ॥३२३॥ तस्य भावो नचाभावः संस्थानं नच कल्पना।

, १२८ श्रीतन्त्रालोके । प्रधान कार्यकारणाघारब्धं प्राधानिकं शरी- रमित्यर्थः, तेन शरीरघटयोरात्माकाशयोश्च तु- ल्यत्वमिति । यथा घटे नष्टे तवच्छिन्नं खं न नश्यति, तथा शरीरे नष्टेऽपि आत्मा, किंतु अनवच्छिन्नखखरूपमय एव भवेत् । तदसौ तत्तत्प्रतिनियतकर्मकारित्वेऽपि तस्मिन् परप्र- मातृतया प्रख्याते, अत एव स्वप्रकाशत्वात् प्र- माणप्रत्ययातिगे तदप्रत्येये, अत एव सूर्येन्दु- पुटवर्जिते प्रमाणप्रमेययुगलकानवच्छिन्ने, अत एव जुगुप्सा जुगुप्स्यं वस्तु तदभावरूपमजु- गुप्स्यं च तयोर्भङ्गस्थे हेयोपादेयकल्पनानि- मुक्ते, अत एव 'सर्वाः शक्तीश्चेतसा दर्शनाद्याः स्खे खे वेद्ये योगपधेन विष्वक् । क्षिप्त्वा मध्ये हाटकस्तम्भभूत- स्तिष्ठन् विश्वाधार एकोऽवभासि ॥ इत्याद्युक्त्या सर्वतः स्तम्भवस्थिते, अत एव सदसदाद्यविकल्प्यत्वाच्छब्दसंस्पर्शासहिष्णो निर्विकल्पात्मनि बोधान्तरे लीनत्वादनञ्जनो निरुपाधिचिदेकघनखखरूप एवेत्यर्थः । अतश्चैवं ३२६ श्लो०] अष्टाविंशमाह्निकम् । १२९ ज्ञाततत्वो ज्ञानी खातव्यमास्थितः सर्ववस्तुषु प्रसरेत् सर्वत्र ऐकात्म्येनैव तिष्टेत् । नहि अस्य जन्ममरणादिलक्षणा काचिद्वास्तवी कल्पना अस्तीत्यर्थः॥ शास्त्रान्तराण्यपि एवमित्याह एतदेवान्तरागूर्य गुरुर्गीतास्वभाषत ॥३२४ ॥ तदेव आह यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् । तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥ ३२५॥ तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च । तदेव व्याचिकीर्षुः पीठिकाबन्धं कर्तुं गी- तार्थमेव तावत् संगृह्य अभिधत्ते यदेत्यादिना यदा सत्त्वे विद्धे तु प्रलीनस्त्वूर्ध्वगस्तदा ॥३२६॥ १७

श्रीतन्त्रालोके ।
क्रमाद्रजस्तमोलीनः
कर्मयोनिविमूढगः।
यदा हि कस्यचिदाजन्माभ्यासात् सत्त्व-
रजस्तमसा मध्यात् यद्यदेव प्रलयसमये विवृद्धं
भवति, तदा अस्य तदौचित्यादेव मनुष्यस्थावरा-
दिरूपतया गतिः स्यादिति वाक्यार्थः। यद्गीतं
'यदा सत्त्वे प्रवृत्ते तु प्रलयं याति देहभृत् ।
तदोत्तमविदां लोकानमलान्प्रतिपद्यते ॥
रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते ।
तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥ (१४।१५)
इति ॥
ननु अन्तकाले सत्त्वादिमयत्वेऽपि श्वासा-
यासहिक्कागद्गदादिवैव श्येन सर्वेषां मूढतयैव
भाव्यं, तथात्वे च एषां कथमूर्ध्वगत्यादिसमु-
चिता देहान्तरसङ्गतिः संगच्छतामित्याशय
आह
तत्रेन्द्रियाणां संमोह-
श्वासायासपरीतता ॥३२७॥

३३० श्लो०]
अष्टाविंशमाह्निकम् ।
१३१
इत्यादिमृतिभोगोऽयं
देहे न त्यजनं तनोः।
इह यन्नाम सत्यामपि तनौ इन्द्रियसंमोहादिः,
सोऽयं गौण्या वृत्त्या देहत्यजनशब्दवाच्यो मृति-
भोग उच्यते, नतु साक्षादेव देहत्यागस्तदानी-
मपि अस्य स्फुटत्वेनैव अवस्थानात् ॥
ननु यद्येवं, तदेहस्य साक्षात्यागः पुनः कदा
स्यादित्याशय आह
यस्त्वसौ क्षण एवैक-
श्वरमः प्राणनात्मकः ॥३२८॥
यदनन्तरमेवैष
देहः स्यात्काष्ठकुड्यवत् ।
सा देहत्यागकालांश-
कला देहवियोगिनी ॥३२९॥
तत एव हि तदेह-
सुखदुःखादिकोज्झिता।
तस्यां यदेव स्मरति
प्राक्संस्कारप्रबोधतः॥३३०॥

१३२
श्रीतन्त्रालोके।
अदृष्टाभ्यासभूयस्त्व-
शक्तिपातादिहेतुकात् ।
तदेव रूपमभ्येति
सुखिदुःखिविमूढकम् ॥३३१॥
यः पुनरयमेक एव एतदनन्तरंक्षणान्तरस्य
अनुदयादसहायः, अत एव चरमः, अत एव
प्राणापानादिविभागस्य त्रुटितत्वात्प्राणनात्मक-
स्तावत्संकुचितसंविखभावः क्षणो यदानन्तर्ये-
णैव च देहस्य काष्ठलोष्टादिप्रमेयान्तरसमा.
नकक्ष्यत्वमभिलक्ष्यते, सा साक्षात् देहत्य-
जनशब्दवाच्या सर्वजनसंलक्षणीया कालांश-
स्यापि अंशरूपा कला तद्दायबन्धप्रच्यावात्
देहवियोगिनी, अत एव तन्निबन्धनसुखादिको-
ज्झिता संकुचितसंविन्मात्ररूपेत्यर्थः। तस्यामेव
च अन्त्यक्षणदशायां अदृष्टादिहेतुबलोपनतात्
प्राक्संस्कारस्य प्रबोधात् यदेव सत्त्वादिप्रधानं
किंचिद्देहान्तरासङ्गि स्मरति, तदेव अस्य प्रथ-
मसंविदनुगृहीतं रूपं संपद्यत इत्यर्थः ॥ ३३१॥

३३२ श्लो०] अष्टाविंशमाह्निकम् । १३३ एवमेतदज्ञविषयमभिधाय, स्वभ्यस्तास्वभ्य- स्तज्ञानिविषयतयापि अभिधत्ते यहा निःसुखदुःखादि यदि वानन्दरूपकम् । निःसुखदुःखादीति विश्वोत्तीर्णसंविद्रूपमि- त्यर्थः । आनन्दरूपकमिति पूर्णपरब्रह्मात्मक- मित्यर्थः । यदुक्तं 'न दुःखं न सुखं यत्र न ग्राह्यं ग्राहकं नच । नचास्ति मूढभावोऽपि तदस्ति परमार्थतः ॥' (स्प०का० ११५) इति। 'आनन्दो ब्रह्मणो रूपम् । इति च ॥ ननु स्मरणमात्रादेव अस्य कस्मादेवंरूपत्वा- पत्तिः स्यादित्याशङ्कय प्रतिविधत्ते तदेवेत्यादिना कस्मादेति तदेवैष यतः स्मरति संविदि ॥३३२॥ इह अन्त्ये क्षणे हि अभ्यासभूयस्त्वादिना येनैव रूपेण अग्रे भवितव्यं, तत्संस्कारस्यैव प्रबोधेन भाव्यम् , तद्वशात्तत्स्मरणं, तत्स्मृत्या च तद्भावप्राप्तिरिति ॥३३२॥ , १३४ श्रीतन्त्रालोके। ननु नित्याविलुप्तस्वरूपायाः संविदस्ताव- नास्ति प्रलीनत्वं, तदधिष्ठेयत्वमेव देहत्वं; तच्च नीलपीतादिभिरपि अविशिष्टं, तत् कथमेवं दे- हस्यैव प्रलीनत्वमुच्यमानं संगच्छतां येन स्मृ- त्यादिचिन्तापि स्यादित्याशङ्कय आह प्राक् प्रस्फुरेद्यदधिक देहोऽसौ चिदधिष्ठितेः। इह यत् नीलाद्यपेक्षया प्रथमतरं चिदधि- ष्ठानवशात् सम्यगनधिकवृत्तित्वेऽपि दर्पणप्रति- बिंबवदधिकतया स्फुरति असौ देहः प्रमातृद- शामधिशयानस्तच्छब्दव्यपदेश्यः स्यादित्यर्थः॥ ननु एतावताप्रलीनतार्थः क इत्याशक्य आह यदेव प्रागधिष्ठानं चिता तादात्म्यवृत्तितः॥३३३॥ सैवान लीनता प्रोक्ता सत्त्वे रजसि तामसे। यदेव हि चिता प्रागस्याधिष्ठानं, सैव अ: सत्त्वादि अधिकृत्य लीनता प्रोक्ता, किं नाम असमञ्जसमस्या इत्यर्थः । ननु इह निखिलमेव

३३५ श्लो०]
अष्टाविंशमाह्निकम् ।
१३५
भावजातं चिदधिष्ठानवशात्सत्तामुपेयात् , अ-
न्यथा हि न किंचिदपि चेत्येत, अतश्चिदधिष्ठा-
नत्वमेव चेत् प्रलीनत्वं, को विशेषो जीवनम-
रणयोरित्याशय उक्तं तादात्म्यवृत्तित इति ।
इह देहादीनां संवित्तादात्म्यवृत्तित्वेऽपि तत्वात-
यादेव तदनात्मवृत्तितयेव आधिक्येन प्रस्फुरणं
जीवनम् , अन्यथा तु प्रलीनत्वादिशब्दव्यप-
देश्यं मरणमिति तात्पर्यार्थः॥
ननु आस्तामेतत् , देहस्य पुनः चिता नी.
लाद्यपेक्षया प्रागधिष्ठानमित्यत्र किं निबन्धन-
मित्याशय आह
नीलपीतादिके ज्ञेये
यतः प्राक्कल्पितां तनुम् ३३४
अधिष्ठायैव संवित्ति-
रधिष्ठानं करोत्यलम् ।
अत एव संविधिष्ठेयत्वाविशेषेऽपि नीला-
दिभ्योऽस्ति देहस्य विशेष इत्याह
अतोऽधिष्ठेयमात्रस्य
शरीरत्वेऽपि कुड्यतः ॥३३५॥

१३६
श्रीतबालोके।
देहस्यास्ति विशेषो य-
त्सर्वाधिष्ठेयपूर्वता।
ननु एवमपि संविदधिष्ठेयत्वाविशेषात् नी-
लादीनामपि कथं न प्रलीनत्वं प्रोक्तमित्या-
शङ्कय आह
तादात्म्यवृत्तिरन्येषां
तन्न सत्यपि वेद्यते ॥३३६॥
वेद्यानां किन्तु देहस्य
नित्याव्यभिचरित्वतः।
तत् तस्मात् देहस्य चिता प्रागधिष्ठेयत्वादेहेतो.
रन्येषां नीलादीनां वेद्यानां संभवन्ती अपि वेद-
यितृस्वभावायां संविदि तादात्म्यवृत्तिर्न अनु-
भूयते तेषामिदन्तया परामर्शात्। देहस्य पुनर्वे-
द्यत्वेऽपि सासर्वकालमव्यभिचारिणी अहन्ता-
परामर्शसहिष्णुतया प्रमातृरूपस्य अविच्युतेः॥
एवंरूपतायां च अत्र किं निमित्तमित्या-
शक्य आह
सा च तस्यैव देहस्य
पूर्वमृत्यन्तजन्मना ॥ ३३७॥

३३९ श्लो० । अष्टाविंशमाह्निकम् । १३७ स्मृत्या प्राच्यानुभवन- कृतसंस्कारचित्रया। सेति तादात्म्यवृत्तिः। तथावे हि पूर्वशरीर- प्रायणान्त्यक्षणे प्रागनुभवाहितसंस्कारसमुत्थं तस्य नित्याव्यभिचरितसंविद्रूपस्य देहस्यैव स्म- रणं निमित्तम् । येनैव हि वस्तुना सदा भा. वितान्तःकरणः, तदेव मरणसमये स्मरति, तद्भावमेव च प्राप्नोतीति । अत एव ......."तदेवैष यतः सरति संविदि । (३३२) इति अनन्तरमेव उक्तम् ॥ अत एव अस्मद्गुरुभिरपि युक्तमेवोक्तमित्याह युक्त्यानयास्मत्सन्तान- गुरुणा कल्लटेन यत् ॥३३८॥ देहाविशेषे प्राणाख्य- दार्य हेतुरुदीरितम् । तद्युक्तमन्यथा प्राण- दायें को हेतुरेकतः ॥३३९॥ १८

१३८
श्रीतन्त्रालोके।
देहत्वस्याविशेषेऽपी-
त्येष प्रश्नो न शाम्यति ।
यन्नाम श्रीमत्कल्लटपादैः
'देहनीलादीनां सर्वशरीरग्रहणम् ।
इत्यायुक्त्या शरीरत्वाविशेषेऽपि देह एव तथा-
त्वनिबन्धनं
'प्राणाख्यनिमित्तदायम् ।
इत्यायुक्त्या प्राणदाय निमित्तमुक्तं, तदनया
समनन्तरोक्तया
'प्राक्संवित्प्राणे परिणता।'
इत्यादिसूत्रितया सर्वाधिष्ठेयपूर्वत्वादिलक्षणया
युक्त्या न्याय्यम् । अन्यथा हि अविशेषेऽपि
एकत्र प्राणदाय को हेतुरित्येष दुरुधर एव
प्रश्नः स्यात् ॥
ननु अस्तु अन्त्ये क्षणे स्मरणं, भाविदेहहे-
तुत्वं तु तस्य कुतोऽवगतमित्याशङ्कय आह
स्मरन्निति शता हेतौ
ननु यदि यदेव स्मर्यते तदेव प्राप्यते,

३४२ श्लो०] अष्टाविंशमाह्निकम् । १३१ तर्हि तत्क्षणभावि नीलादिस्मरणमपि तथात्व- निबन्धनं स्यादित्याशङ्कय आह तद्रूपं प्रतिपद्यते ॥३४०॥ प्राक् स्मर्यते यतो देहः प्राचिताधिष्ठितः स्फुरन् । तदेहाख्यमेव प्राग्भाविरूपमसौ प्राप्नोति यदन्त्यक्षणे देह एव प्राक् नीलादिभ्यः पूर्व- चिता अधिष्ठितः, अत एव स्फुरन् स्मर्यते स्मृ- तिविषयतामुपेयादित्यर्थः ॥ ननु तदा एवंविधस्य स्मरणस्य सद्भावे किं प्रमाणमित्याशङ्कय आह अतः स्मरणमन्त्यं य- तदसर्वज्ञमातृषु ॥ ३४१॥ न जातु गोचरो यस्मा- देहान्तरविनिश्चयः। अतो देहवियोगावस्थावस्थानात् देहान्तरा- सङ्गि यदेवंविधं स्मरणं, तदसर्वज्ञमातृषु न गो- चरो देहसंबन्धघटनेन अस्य प्रतिपादनवैफल्या- दर्वाग्दृशः परे तत्कथमवबुझ्यन्तामित्यर्थः ॥ ,

१४०
श्रीतन्त्रालोके।
ननु किमिदमनुभवविरुद्धमभिधानं यद-
न्येऽपि क्षणे बन्धुप्रभृतेः शिशिरोदकपानादेर्वा
दृश्यत एव स्मरणमितीत्याशक्य आह
यत्तु बन्धुप्रियापुत्र-
पानादिस्मरणं स्फुटम् ॥३४२॥
न तदेहान्तरासङ्गि
न तदन्त्यं यतो भवेत् ।
न तदन्त्यमिति, अपितु उपान्त्यक्षणवर्ती
मृतिभोगोऽयमिति भावः॥
ननु स्मरणमिव अनुभवोऽपि भाविदेहान्त-
रासङ्गे निमित्ततां यायात्-तथाहि कश्चिन्मुनिः
वसुतनिर्विशेषतया वर्धितं विपन्नजननीकमा-
श्रममृगपोतकं शवरशराघातविगतजीवितमव-
लोक्य महता दुःखेन तमेवानुशोचन् प्राणैर्वि-
मुक्तो मृगीभावमभ्युवाहेति पुराविदः, तत्
स्मरणस्यैव कथमेवंभाव उक्त इत्याशङ्कय आह
कस्यापि तु शरीरान्ते
वासना या प्रभोत्स्यते॥३४३॥

१४१ ३४६ श्लो०] अष्टाविंशमाह्निकम् । देहसत्त्वे तदौचित्या- जायेतानुभवः स्फुटः। यथा पुराणे कथितं मृगपोतकतृष्णया ॥३४४॥ मुनिः कोऽपि मृगीभाव- मभ्युवाहाधिवासितः। इह यस्य कस्यचन यैव अनेकजन्माभ्यस्ता वासना शरीरान्ते प्रभोत्स्यते देहान्तरासङ्गनि- मित्तं स्मरणरूपतया प्रबोधमेष्यति, तदनुगु- णोऽस्य देहसद्भावेऽपि स्फुटोऽनुभवो भवेत्, यदभिप्रायेणैव विष्णुपुराणादौ मृगपोतकतृ- ष्णया अधिवासितः कोऽपि मुनिर्मूगीभावम- भ्युवाहेति आख्यानम् ॥ एतदेव विविनक्ति तत्र सोऽनुभवो हेतु- न जन्मान्तरसूतये ॥ ३४५॥ तस्यैतद्वासना हेतुः काकतालीयवत् स तु ।

१४२ श्रीतन्त्रालोके। तस्येति जन्मान्तरस्य । एतद्वासनेति शरी- रान्ते प्रभोत्स्यमाना । स इत्यनुभवः ॥ ननु यदि मृगीभावस्मरणमेव तदेहासङ्गे निमित्तं, तवश्यं तत्पूर्वकत्वात् स्मरणस्य अनु- भवोऽपि जन्मान्तरसूतये हेतुर्वाच्यः, अनुभवा- हितविषयनियन्त्रणाविरहे हि यत्किञ्चन स्म. येत; नियमस्तु कुतस्त्य इत्याशङ्कते ननु कस्मात्तदेवैष स्मरति अनुभवं विनापि भावनाद्वारं स्मृतेविषय- नियमं दर्शयितुमाह इत्याह यत्सदा ॥३४६॥ तद्भावभावितस्तेन तदेवैष स्मरत्यलम् । यत् यस्मादेष सदा तद्भावभावितः, ततस्त- देव पर्याप्तं स्मरतीति भगवानाह कथितवा- नित्यर्थः॥

३१९ श्लो०] अष्टाविंशमाह्निकम् । १४३ ननु तद्भावभावनमपि अनुभव एव अभि- हितो भवेदित्याशय आह एवमस्मि भविष्यामी- त्येष तद्भाव उच्यते ॥३४७॥ ननु भविष्यद्विषयैव वासना भवेदिति कु- तस्त्योऽयं नियम इत्याशय आह भविष्यतो हि भवनं भाव्यते न सतः कचित् । न सत इति भूतस्य हि अनुभवनमेव भ- वेत् , न भावनमिति भावः॥ तदेव व्यनक्ति क्रमात्स्फुटत्वकरणं भावनं परिकीर्त्यते ॥ ३४८॥ स्फुटस्य चानुभवनं न भावनमिदं स्फुटम् । ननु गाढमूढतया क्षणमपि भावनावकाशो येषां नास्ति, तेषामन्त्यस्मरणाभावात् कथङ्कार देहान्तरासङ्गः स्यादित्याशक्य आह , १४४ श्रीतन्त्रालोके। तदहर्जातबालस्य पशोः कीटस्य वा तरोः॥३४९॥ मूढत्वेऽपि तदानीं प्रा- ग्भावना ह्यभवत्स्फुटा। सा तन्मूढशरीरान्ते संस्कारप्रतिबोधनात् ॥३५०॥ स्मृतिद्वारेण तदेह- वैचित्र्यफलदायिनी। तदहर्जातबालादीनां हि तदानीं मूढत्वेऽपि प्राग्जन्मनि सतताभ्यस्ततया स्फुटा भावना नूनमभवत्, अतस्तस्य प्रक्रान्तस्य मूढशरी- रस्य अन्ते संस्कारप्रबोधोन्मिषितस्मरणद्वारेण सा भावना यथोचितदेहवैचित्र्यफलदायिनी भवेदिति वाक्यार्थः ॥ नन्वत्र कथङ्कारं शरीरान्तरावस्थितत्वात् दूरव्यवहिता वासना प्रबोधमियात्, येन तदु- स्थायाःस्मृतेरपि तद्देहवैचित्र्यफलदायित्वं स्या- दित्याशङ्कय आह .

३५३ श्लो०] अष्टाविंशमाह्निकम् । १४५ देशादिव्यवधानेऽपि वासनानामुदीरितात् ॥३५१॥ आनन्तर्यैकरूपत्वा- स्मृतिसंस्कारयोरतः। तथानुभवनारूड्या स्फुटस्यापि तु भाविता ॥३५२॥ भाव्यमाना न किं सूते तत्सन्तानसदृग्वपुः। इह देशकालव्यवधानेऽपि वासनानां 'देशकालव्यवहितानामप्यानन्तर्यम् ।' (यो० सू०४।९) इत्यादिना उदीरितादानन्तर्येकरूपत्वादवश्यं प्रबोधेन भाव्यम्, तशाच स्मरणेनेति स्मृ. तिसंस्कारयोस्तत्तद्देहवैचित्र्यफलदायित्वं युक्त- मेवोक्तम् । एवं तथानुभवेऽपि भावनैव प्र- धानमित्याह अत इत्यादि । अत एवमुक्ता- द्भावनानुभवयोर्विभागात् हेतोः, तथा भाव- नोचितेन रूपेण अनुभवस्य दार्थेन प्ररोहात्, स्फुटस्यापि वस्तुनो भविष्यत्ता पुनर्भाव्यमानैव भवेत्, न अनुभूयमाना भूतविषयत्वादनुभ-

श्रीतन्त्रालोके।
वस्य । सा च एवंविधा भाव्यमाना भविष्यत्ता
खसन्तानानुगुणमेव देहान्तरं किं न सूते,
नात्र काचिद्विप्रतिपत्तिरित्यर्थः।
ननु यदि नाम अस्य भावनामात्रोपनत एव
देहान्तरोदयः, तत् किं नाम शोकादिवत् भाव-
यित्रेकगोचर एव असौ स्यात् , उत सर्वजन-
संवेद्योऽपीत्याशङ्कय आह
तत्ताडक्तादृशैर्बन्धु-
पुत्रमित्रादिभिः सह ॥३५३॥
भासतेऽपि परे लोके
स्वप्नवहासनाक्रमात् ।
तत्तादृक् भावनोचितं तद्वपुर्वासनाक्रमात्
स्वप्नवत् जन्मान्तरे तादृशैःप्राप्ततद्रूपानुगुणैरेव
बन्ध्वादिभिः सहापि भासते सर्वजनसंवेद्य
स्यादित्यर्थः॥
ननु विषमोऽयं दृष्टान्तः, स्वप्नेऽपि भासमाना
अपि बन्ध्वादयस्तद्वत्तान्तानभिज्ञा एवेत्याह
ननु मात्रन्तरैबन्धु-
पुत्राद्यैस्तत्तथा न किम् ॥३५४॥

१४७
३५५ श्लो०]
अष्टाविंशमाह्निकम् ।
वेद्यते
तदिति खाप्नं वस्तु। तथेति स्वप्नद्रष्टुवदित्यर्थः।
न किं वेद्यते इति नैव ज्ञायते इति यावत् ॥
अत्र आह
क इदं प्राह
स तावद्वेद वेद्यताम् ।
ननु क एवं वक्ति स स्वप्नद्रष्टा तावत् स्वा-
मस्य वस्तुनः सर्वजनवेद्यतां वेत्ति, ते तु विदन्तु
मा वा विदन्निति ॥
ननु स्वप्ने देशकालादिव्यवहितत्वादसहिता
एव बन्ध्वादय इति कथमसौ तद्वेद्यतामपि
जानीयात् यद्वा भ्रान्तिमात्रमेतत् । ननु तत्र
भासन्ते चेत् बन्ध्वादयः, कथमसन्निहिताः।
नहि भातमभातं भवेत् । एवं हि जाग्रत्यपि
तेषामसन्निधिरेव स्यात् । अथ तत्र व्यापार-
व्याहारादेर्दर्शनात्तत्सद्भावे बलवदनुमानं प्रमा-
णमस्तीति चेत्, इहापि तत्समानमित्याह
व्यापारव्याहृतिवात-
वेद्य मात्रन्तरबजे ॥३५॥

श्रीतन्त्रालोके। स्वप्ने नास्ति स इत्येषा वाक्प्रमाणविवर्जिता। स इति मात्रन्तरव्रजः। प्रमाणविवर्जितेति नहि तत्र तदसद्भावावेदकं किञ्चित्प्रमाणम. स्तीत्याशयः। भ्रान्तित्वेऽपि स्वप्नस्य जाग्रदवि- शेष एव । जाग्रदपि भ्रान्तिरेवेत्यत्र सर्वे कृत- श्रमा इत्यलम् ॥ ननु एवमपि जाग्रत्वप्नयोर्दाढ्यादााभ्यां सत्यत्वमसत्यत्वं च सर्वत्र प्रसिद्धं कथमपह्वोतुं शक्यमित्याशक्य आह य एवैते तु दृश्यन्ते जाग्रत्येते मयेक्षिताः॥३५६॥ स्वप्न इत्यस्तु मिथ्यैत- त्तत्प्रमातृवचोबलात् । इत्येतदिति एकत्वेन अभिमननमित्यर्थः । तत्पमातृवचोबलादिति ते हि जाग्रत्प्रमातारो मत्समक्ष ह्यः स्वप्ने भवद्भिः किं दृष्टमिति पृष्टा नेत्येव परं ब्रूयुरिति ॥

, ३५९ श्लो०] अष्टाविंशमाह्निकम् । १४१ ननु स्वप्ने तावत् बन्ध्वादयः केचित् , नहि अस्य ते द्वये सम्भवन्तीत्याशय आह यानपश्यमहं स्वप्ने प्रमानुस्ते न केचन ॥३५७॥ न शोचन्ति न चेक्षन्ते मामित्यत्रास्ति का प्रमा। ये हि बन्ध्वादयः प्रमातारः स्वप्ने दृश्यन्ते, ते न केचनेत्यत्र का प्रमा तदसद्भावावेदकं किञ्चित्प्रमाणं नास्तीत्यर्थः, प्रत्युत तत्सत्तावे- दकमनुमानमत्रोक्तं ते च न मां शोचन्ति ने- क्षन्ते चेत्यनेनार्थक्रियाकारिणोऽपीत्यावेदितम् ननु अनुमानं प्रमाणं, तच्च प्रमेयोपसर्जनं, प्रमेयं च अत्र प्रमात्रन्तरलक्षणं नास्त्येवेति किमालम्बनं तदुदियादित्याशङ्कय आह यतः सर्वानुमानानां स्वसंवेदननिष्ठितौ ॥३५८॥ प्रमात्रन्तरसद्भावः संविनिष्ठो न तद्गतः।

१५० श्रीतन्त्रालोके । इह यतः 'संविनिष्ठा हि विषयव्यवस्थितिः।' इत्यादिनीत्या सर्वानुमानानामर्थातिशयाधाना- भावात् प्रमातर्येव फलवत्त्वात् तत्संविदुपारोहे- णैव विश्रान्तिरिति प्रमीयमाणानां प्रमात्रन्त- राणां सद्भावोऽपि अत्र तन्निष्ठ एव, नतु अनु- मेयखरूपनिष्ठ इति किं तत्सत्त्वासत्त्वान्वेष- णेन । एतच्च अन्यत्र अन्यैर्बहुशो वितानित- मिति किमिह अप्राकरणिकप्रायेण अनेनेति आस्ताम् ॥ न केवलमानुमानिक्येव प्रतीतिरेवं, यावत् प्रात्यक्षी अपीत्याह घटादेरस्तिता संवि- निष्ठिता नतु तद्गता ॥३५९॥ तन्मात्रन्तरेऽप्येषा संविन्निष्ठा न तद्गता। एतदनुमेयेऽपि अर्थे योजयति तद्वदित्या. दिना । एषेति अस्तिता॥

३६२ श्लो०] अष्टाविंशमाह्निकम् । यथाव्याख्यातमेव प्रशमयति तेन स्थितमिदं यद्य- द्भाव्यते तत्तदेव हि ॥३६०॥ देहान्ते बुध्यते नो चेत् स्यादन्याहकप्रबोधनम्। अन्यागिति अनियतमेवेत्यर्थः॥ भावनापेक्षामेव उपोद्दलयति तथाह्यन्त्यक्षणे ब्रह्म- विद्याकर्णनसंस्कृतः॥३६॥ मुच्यते जन्तुरित्युक्तं प्राक्संस्कारबलत्वतः। असद्विषयायां सदातनायां भावनायां अस- द्गतिरेव भवति, तदपहस्तनाय सद्विषयायां च भावनायां अबलवत्यामपि बलवत्त्वापादनार्थम् 'अचिन्त्या मत्रशक्ति, परमेशमुखोद्भवा ।' इत्यायुक्त्या महाप्रभावाणां ब्रह्मविद्यानामन्त्ये क्षणे संस्कारार्थ भगवता उपदेशः कृतो येन अस्य मुक्तिरेव स्यात् ॥

।' - १५२ श्रीतन्त्रालोके । नच एतदशब्दार्थमेव उक्तमित्याह निपाताभ्यामन्तशब्दा- स्मरणाच्छतुरन्त्यतः ॥३६२॥ पादाच निखिलादर्ध- श्लोकाच्च समनन्तरात् । लीनशब्दाच सर्व त- दुक्तमर्थसतत्त्वकम् ॥३६३॥ तत्र वाशब्दो वृक्षादीनां जन्मान्तरव्यव- हितभावनोपक्षेपं द्योतयति, अपिशब्दश्च ब- लवत्त्वेऽप्यनुभवस्य अनवक्तृप्तिम् । अन्तशब्दा- दिति अन्तशब्द उपान्त्यादिक्षणव्यावर्तनपरः। स्मरणादिति प्रकृतिरूपात् । शतुरिति प्रत्यय- रूपात् । अन्यतः पादादिति 'सदा तद्भावभावितः। (८६) इति । निखिलादिति काकाक्षिवत् । अर्धश्लो- कादिति 'तसात्सर्वेषु कालेषु मामनुसर युध्य च । (८७) इति । अनेन हि सदैव सद्विषया भावना का-

३६५ श्लो०]
अष्टाविंशमाहिकम् ।
१५३
येत्युक्तम् । लीनेति प्रलीनशब्दगतात् । अनेन
विभाव्यमानार्थकतानत्वमुपोदलितम् ॥३६३ ॥
एतदर्थानभिज्ञैः पुनरेतदन्यथा व्याख्या-
यीत्याह
अज्ञात्वैतत्तु सर्वेऽपि
कुशकाशावलम्बिनः।
यत्तदोर्व्यत्ययं केचि-
केचिदन्यादृशं क्रमम् ॥३६४॥
भिन्नक्रमौ निपातौ च
त्यजतीति च सप्तमीम् ।
व्याचक्षते तच्च सर्व
नोपयोग्युक्तयोजने ॥३६५॥
यत्तदोर्व्यत्ययमिति यं यं भावमेति तं तं
स्मरनिति । अन्याशमिति पाठत एव । भि-
नक्रमाविति स्मरन्वापीति । सप्तमीति अन्त्ये
क्षणे कलेवरं त्यजति सतीति ॥ ३६५ ॥

१५४ श्रीतन्त्रालोके । ननु एवंविधं व्याख्यानमनूद्य, कस्मान्न दूषि- तमित्याशय आह नच तद्दर्शितं मिथ्या स्वान्तसम्मोहदायकम्। ननु किमियता खोत्प्रेक्षितेन मृतिसतत्त्व- परीक्षणेनेत्याशय आह तदित्थंप्रायणस्यैत- तत्त्वं श्रीशम्भुनाथतः ॥३६६॥ अधिगम्योदितं तेन मृत्योर्भीतिविनश्यति । ननु कथं मृतिसतत्त्ववचनमात्रेण तद्भीतिः शाम्येदित्याशय आह विदितमृतिसतत्त्वाः संविदम्भोनिधाना- दचलहृदयवीर्या- कर्षनिष्पीडनोत्थम् । अमृतमिति निगीणे कालकूटेऽत्र देवा ३६७ श्लो०] अष्टाविंशमाह्निकम् । १५५ यदि पिवथ तदानीं निश्चितं वः शिवत्वम्॥३६७॥ एवमियत्तया तुलितमरणसतत्त्वा देवा मा. याध्वनि व्यवहरन्तः परिमिताः प्रमातार; खभावभूतत्वात् नित्याव्यभिचारिणः पराहंपरा- मर्शात्मनो वीर्यस्य परधाराधिरोहितया आकर्ष णेन यन्निष्पीडनं सारतया स्वीकारस्तदशेन संविदब्धेरुत्थितं यदमृतं परानन्दचमत्कारमयं पूर्णत्वं तदुङ्या कालस्तत्तत्कलनाकारी सम- नान्तः पाशप्रपञ्चः, स एव अख्यातिरूपतया सत्यविपर्ययात्मा कूटस्तस्मिन्निगीर्णे खात्मसंवि- त्सात्कारेण पूर्णख्यातिमयतामापादिते यदि अत्रैव मुक्तात्मनि अमृते पिवथ पानक्रियामार- भध्वे, तत् नूनं तदानीमेव वः पूर्णसंविन्मयत्वं स्यात् किमनेन पुनः पुनरमृतपानेनेत्यर्थः । इद- मत्र तात्पर्य यदनवरतमेव संविदद्वैतमभ्य- स्यतः प्रायणान्ते तदैकात्म्यापत्तिरेव स्यादिति को नाम महात्मनो मरणभयस्य अवकाश इति । अथच मर्त्यभुवमवतीर्य वर्तमाना देवाः , १५६ श्रीतन्त्रालोके । समुद्रान्मन्दरोदराकर्षणेन स्ववीर्यनिष्पीडनेन च उत्थितमिदममृतमेवेति संकल्पेन कालकूटे भ. क्षिते यदि अमृतपानं कुरुध्ये, तनिश्चितं तदानीं निगीर्णदुर्विषहविषेण शिवेनैव भगवता वस्तु- ल्यत्वं स्यादिति ॥ ३६७ ॥ एवं प्रसङ्गान्मरणखरूपमभिधाय, प्रकृत. मेव आह उत्सवोऽपि हि यः कश्चि- ल्लौकिकः सोऽपि संमदम् । संविदब्धितरङ्गाभं सूते तदपि पर्ववत् ॥ ३६८॥ एतेन च विपद्ध्वंस- प्रमोदादिषु पर्वता। व्याख्याता तेन तत्रापि विशेषाद्देवतार्चनम् ॥ ३६९॥ पुरक्षोभायद्भुतं य- त्तत्स्वातन्त्र्ये स्वसंविदः।

२७२ श्लो०] अष्टाविंशमाह्निकम् । १५७ दार्यदायीति तल्लाभ- दिने वैशेषिकार्चनम् ॥३७०॥ संमदं सूते इति खात्मविश्रान्त्युत्पादात् । तदपीति अपिशब्दस्य न केवलं मृतिदिनं पर्व- वद्भवेत् , यावदिदमपीत्यर्थः । एतेनेति संमद- प्रसूतिलक्षणेन समानन्यायत्वेन हेतुनेत्यर्थः । तल्लाभेति तच्छब्देन संवित्वातव्यपरामर्शः॥ इदानीं मृतिपरीक्षानन्तरोद्दिष्टं योगिनीमे- लकादि निर्देष्टुमाह योगिनीमेलको वैधा हठतः प्रियतस्तथा । प्राच्ये च्छिद्राणि संरक्षे- कामचारित्वमुत्तरे ॥३७१॥ स च हयोऽपि मन्त्रोद्ध- प्रसङ्गे दर्शयिष्यते। प्राच्ये इति हठमेलापे । उत्तरे इति प्रिय- मेलापे । कामचारित्वं छिद्ररक्षणं वा न वेति, एतच्च हठप्रियशब्दाभ्यामेव गतार्थम्। द्वय इति व्यवयव इत्यर्थः। मन्त्रोद्धृत्प्रसङ्गे इति त्रिंशाहिके।

१५८ , श्रीतन्त्रालोके । ननु भवत्वेवं, नैमित्तिकत्वं तु अस्य कुत- स्त्यमित्याशय आह योगिनीमेलकाच्चैषो- ऽवश्यं ज्ञानं प्रपद्यते ॥३७॥ तेन तत्पर्व तहच्च वसन्तानादिमेलनम्। तेनेति अवश्यंभाविना ज्ञानलाभेन । त- द्वदिति योगिनीमेलकवत् ॥ ननु योगिनीमेलकादवश्यमेष ज्ञानमाप्नो- तीति अवश्यतायां किं प्रमाणमित्याशङ्कय आह संवित्सर्वात्मिका देह- भेदाद्या सङ्कुचेत्तु सा ॥३७३॥ मेलकेऽन्योन्यसङ्घट्ट- प्रतिबिम्बाद्विकस्वरा। इह सर्वात्मकत्वेऽपि या संविद्देहभेदात् स- कोचप्राप्ता, सा मेलके सति अन्योन्यस्य सङ्घ- ट्रेन प्रतिबिम्बात्परस्परं प्रतिसंक्रमणेन विक- खरा सङ्कोचापहस्तनेन पूर्णा भवतीत्यर्थः ॥

३७६ श्लो०] अष्टाविंशमाह्निकम् । १५९ ननु कथमेतावतैव अस्यां विकखरत्वं स्या- दित्याशय आह उच्छलन्निजरश्म्योघः संवित्सु प्रतिबिम्बितः॥३७४॥ बहुदर्पणवद्दीप्तः सर्वांयेताप्ययत्नतः। यस्य कस्यचन बहिः प्रसरनिन्द्रियमरीचि- पुञ्जः तारखेव अनेकदर्पणप्रख्यासु योगिन्यादि- सम्बन्धिनीषु संवित्सु प्रतिबिम्बितत्वात् दीप्तः सर्वतो विकासमासादयन् यत्नं विनापि सर्वा- येत सर्वाकारतां यायादित्यर्थः ॥ सर्वाकारत्वमेव च अस्याः परानन्दनिर्भर पूर्ण रूपमित्याह अत एव गीतगीत- प्रभृतौ बहुपर्षदि ॥ ३७५॥ यः सर्वतन्मयीभावे ह्लादो नत्वेककस्य सः। अत इति सर्वाकारत्वादेव अस्याः। सर्वतन्म- यीभाव इति तावत्यंशे सर्वेषां भेदविगलनात् ॥

१६०
श्रीतन्त्रालोके।
ननु
'प्रदेशोपि ब्रह्मणः सार्वरूप्यमनतिक्रान्तश्चाविकल्प्यश्च ।'
इत्यादिनीत्या प्रत्येकमपि आनन्दनिर्भरैव संवि-
दिति किं सर्वतन्मयीभावेनेत्याशङ्कय आह
आनन्दनिर्भरा संवि-
प्रत्येकं सातथैकताम् ॥३७६॥
नृत्तादौ विषये प्राप्ता
पूर्णानन्दत्वमश्नुते।
ननु एवमपि देहसङ्कोचाद्यविगलनात् कथ-
मेषां पूर्णानन्दमयत्वं स्यादित्याशङ्कय आह
ईर्ष्यासूयादिसङ्कोच-
कारणाभावतोऽत्र सा ॥३७७॥
विकस्वरा निष्प्रतिघं
संविदानन्दयोगिनी।
येषां पुनरीादिसङ्कोचाभावो नास्ति, तेषां
किं संविन्मयीभावो भवेन्न वेत्याशय आह
अतन्मये तु कस्मिंश्चि-
तत्रस्थे प्रतिहन्यते ॥३७८॥

३८० श्ो०] . अष्टाविंशमाह्निकम् । स्थपुटस्पर्शवत्संवि- द्विजातीयतया स्थिते । अतन्मये इति संविन्मयतामनापन्ने इत्यर्थः। अत एव उक्तं विजातीयतया स्थिते इति । स्थपुटस्पर्शवदिति यथाहि निम्नोन्नतवस्तुनि निन्ने स्पर्शस्य प्रतिघातो भवेत् , तथा अत्रापि संविद इत्यर्थः॥ एवमेवंविधस्य मेलकादौ प्रवेश एव न दातव्य इत्याह अतश्चक्रार्चनायेषु विजातीयमतन्मयम् ॥३७९॥ नैव प्रवेशयेत्संवि- सङ्कोचननिबन्धनम् । प्रवेशाभावे संवित्सङ्कोचनिबन्धनत्वं हेतुः॥ एवं मेलकादावतन्मयस्य प्रवेशनिषेधात् तत्प्र- वेशाभ्यनुज्ञानेऽपि विशेषावद्योतनाय तन्मया एव अत्र प्रवेशनीया इत्याह यावन्त्येव शरीराणि स्वाङ्गवत्स्युः मुनिर्भराम् ३८० २१ १६२ श्रीतन्त्रालोके। एकां संविदमाविश्य चक्रे तावन्ति पूजयेत् । शरीराणीत्यनेन शरीरिणामत्र वस्तुतः कश्चि- नेदो नास्तीति सूचितम् । अत एव उक्तमेकां सुनिर्भरां संविदमाविश्यति खाङ्गवदिति च ॥ ननु यदि नाम मेलकादावतन्मयः कश्चि- प्रमादात् प्रविष्टः, तदा किं प्रतिपत्तव्यमित्या- शक्य आह प्रविष्टश्चेत्प्रमादेन सङ्कोचं न व्रजेत्ततः॥३८१॥ प्रस्तुतं स्वसमाचार तेन साकं समाचरेत् । एवमस्य कश्चिदुपकारः स्यान्न वेत्याशय आह स त्वनुग्रहशत्या चे- द्विद्धस्तत्तन्मयीभवेत् ॥३८२॥ वामाविद्धस्तु तन्निन्दे- त्पश्चात्तं घातयेदपि।

३८५ श्लो०] अष्टाविंशमाह्निकम् । तदिति तत्रत्यं रहस्यचर्यादि । निन्देदिति ईर्ष्यादिना । घातयेदिति एवं समयस्य आम्ना- नात् । यदुक्तं 'समयप्रतिभेतूंस्तदनाचारांश्च घातयेत् ।' इति ॥ नच एतदस्माभिः खोपज्ञमेवोक्तमित्याह श्रीमत्पिचुमते चोक्त- मादौ यत्नेन रक्षयेत् ॥ ३८३॥ प्रवेशं संप्रविष्टस्य न विचारं तु कारयेत् । एतच्च अतन्मयत्वेऽपि अधिकृतविषयं ज्ञेयं, न अन्यथेत्याह लोकाचारस्थितो यस्तु प्रविष्टे तादृशे तु सः॥३८४॥ अकृत्वा तं समाचार पुनश्चक्रं प्रपूजयेत् । तादृशे इति लोकाचारस्थिते । स इति च- काद्यर्चयिता । तमिति मेलकादावानातम् । पुनरिति तस्मिन्निर्गते, परेऽहनि वा ॥

१६४ श्रीतन्त्रालोके। इदानी क्रमप्राप्तं व्याख्याविधि वक्तुं प्रति- जानीते अथ वच्मि गुरोः शास्त्र- व्याख्याक्रममुदाहृतम्॥३८५॥ देव्यायामलशास्त्रादौ तुहिनाभीशुमौलिना। तदेवाह कल्पवित्तत्समूहज्ञः शास्त्रवित्संहितार्थवित् ॥३८६॥ सर्वशास्त्रार्थविच्चेति गुरुभिन्नोऽपदिश्यते। तत्समूहेति अनियता बहवः कल्पाः। शास्त्रं प्रतिनियतानेककल्पात्मकम् । संहिता चतु: पादा । सर्वशास्त्रेति चतुर्दश विद्यास्थानानीति पञ्चधा भिन्नो गुरुरपदिश्यते श्रीदेव्यायामले कथ्यते इत्यर्थः। यदुक्तं तत्र 'आचार्य संप्रवक्ष्यामि सर्वशास्त्रविशारदम् । चतुष्पात्संहिताभिज्ञः कल्पस्कन्धे विशारदः ।। शास्त्रे कल्पैकदेशे वा आचारचरणक्षमः।' इति॥

३८९ श्लो०]
अष्टाविंशमाह्निकम् ।
१६५
ननु एवं व्याख्यायां कस्य अधिकार
इत्याशङ्कय आह
यो यत्र शास्त्रे स्वभ्यस्त-
ज्ञानो व्याख्यां चरेत्तु सः३८७
नान्यथा तदभावश्चे-
सर्वथा सोऽप्यथाचरेत् ।
नान्य इत्यखभ्यस्तज्ञानः। अथ चेत्सर्वथा
खभ्यस्तज्ञानो गुरुर्न स्यात् , तदा सोऽपि अख-
भ्यस्तज्ञानो व्याख्यां चरेत् , नैवं कश्चिद्दोष
इत्यर्थः॥
न केवलमत्रैवोक्तं, यावदन्यत्रापीत्याह .
श्रीभैरवकुले चोक्तं
कल्पादिज्ञत्वमीदृशम् ॥३८८॥
ननु एवमपि स्वभ्यस्तज्ञानतायामेव गुरोः
सर्वत्र कस्माद्भर इत्याशङ्कय आह
गुरोर्लक्षणमेताव-
संपूर्णज्ञानतैव या।
तत्रापि यास्य चिदृत्ति-
कर्मिभित् साप्यवान्तरा॥३८९॥

१६६
श्रीतन्त्रालोके ।
ननु एवं तर्हि कर्मित्वमस्य न स्यादित्या.
शङ्कय आह तत्रेत्यादि सम्पूर्णज्ञानतायामपि
योऽस्य गुरोानित्वमित्वादिलक्षणो भेदःसो.
ऽप्यवान्तररूप इत्यर्थः । एतच्च श्रीदेव्या-
यामले एव उक्तमित्याह
देव्यायामल उक्तं त-
द्वापञ्चाशाह आह्निके।
तदेव अर्थद्वारेण आह
देव एव गुरुत्वेन
तिष्ठासुर्दशधा भवेत् ॥३९०॥
दशधात्वमेव दर्शयति
उच्छुष्मशवरचण्डगु-
मतङ्गघोरान्तकोग्रहलहलकाः।
क्रोधी हुलहुलुरेते
दश गुरवः शिवमयाः पूर्वे ॥३९१॥
ते वाशचित्तवृत्ति-
क्रमण पौरुषशरीरमास्थाय ।
अन्योन्यभिन्नसंवि-
क्रिया अपि ज्ञानपरिपूर्णाः॥३९२॥

३९३ श्लो०] अष्टाविंशमाह्निकम् । १६७ सर्वेऽलिमांसनिधुवन- दीक्षार्चनशास्त्रसेवने निरताः। अभिमानशमक्रोध- क्षमादिरवान्तरो भेदः ॥३९३॥ अन्तको यमः। यदुक्तं तत्र 'दश रुद्रा महाभागास्तत्रे गुरुवराः स्मृताः । इत्युपक्रम्य जटामुकुटधारी च लिङ्गार्चनरतः सदा ॥ मद्यमांसरतो नित्यं मत्रसेवादृढव्रतः । खशक्तिं रमयेच्चापि शास्त्राधीती च यत्नतः॥ उच्छुष्मांशसमुद्भूतो दैशिकः शास्त्रपारगः । शवरांशसमुद्भूतस्तत्त्वमार्गावलम्बकः ॥ गुप्ताचारक्रियो नित्यं गुप्तदाराभिमैथुनी । क्रोधनोऽतिप्रचण्डश्च मद्यमांसरतः सदा ॥ चण्डांश्वंशो गुरुश्चैव दीक्षानुग्रहकृत्सदा । क्षमी आमिषलौली च यज्ञे पशुनिपातकः ॥ मतङ्गांशसमुद्भूतो गुरुः शास्त्रार्थवेदकः । अभिमानी क्रोधनश्च मैथुनाभिरतः सदा ॥ सुगूढोऽत्यन्तदक्षश्च धोरांशच गुरुः स्मृतः। जपहोमक्रियासक्तं लिङ्गाद्यभ्यर्चने रतम् ॥ यमांशं गुरवः प्राहुर्दीक्षाकर्मणि निष्ठुरम् । धातुवादरसादीनि ओषध्यादिरसायनम् ॥

श्रीतन्त्रालोके। नित्यं सेवेत्सदा योगी शिष्यानुग्रहतत्परः । उग्रांशो गुरुभिः प्रोक्तो योऽसौ हलहलः स्मृतः॥ क्रोधः सर्वत्र जायेत मानी योगरतः सदा । मन्यते तृणवत्सर्व मत्तुल्यं नास्ति मन्यते ॥ दुराराधो जनैः सर्वैः कष्टसेव्य उपासिभिः । शिष्यानुग्रहकृन्नित्यं क्रोधिनोंऽशः प्रकीर्तितः ॥ दीक्षाकर्मणि निष्णातो मद्यमांसाशनः सदा । कुले हुलहुले जातो दैशिकः परिकीर्तितः ।। दशैते गुरवः प्रोक्ताः स्वतत्त्वज्ञानगर्विताः । ये तदंशसमुद्भूतास्तत्स्वभावानुचारिणः ॥ तैस्तु येऽनुगृहीतास्तु ते तदाचारवर्तिनः।' इत्यादि बहुप्रकारम् । एतच्च ग्रन्थविस्तरभयात् यथोपयोगमुच्चित्य उच्चित्य लिखितमिति तत एव यथाशय्यमनुसतव्यम् ॥ ३९३ ॥ एवमेवंविधो गुरुर्व्याख्यार्थमभ्यर्थनीय इत्याह इत्थं विज्ञाय सदा शिष्यः सम्पूर्णशास्त्रबोद्धारम् । व्याख्यायै गुरुमभ्य- र्थयेत पूजापुरःसरं मतिमान् ॥ सोऽपि स्वशासनीये परशिष्येऽपिवापि तादृशंशास्त्रम्।

१६९ ३९८ श्लो०] अष्टाविंशमाह्निकम् । श्रोतुं योग्ये कुर्या- ब्याख्यानं वैष्णवाघधरे ॥ ३९५॥ करुणारसपरिपूर्णो गुरुः पुनर्मर्मधामपरिवर्जम् । अधमेऽपि हि व्याकुर्या- सम्भाव्य हि शक्तिपातवैचित्र्यम् ॥ अनेन व्याख्याविध्यनुषक्तः श्रुतविधिरपि आसूत्रितः। सोऽपीति गुरुः करुणावशेन वैष्ण- वादावधमेऽपि व्याख्यां कुर्यात्, किन्तु मर्म- स्थानं वर्जयित्वा यदसौ साक्षादनायातशक्ति- पात इति ॥ ३९६ ॥ अत्रैव इतिकर्तव्यतामाह लिप्तायां भुवि पीठे चतुरस्र पङ्कजत्रयं कजगे। कुर्याद्विद्यापीठं स्याद्रसवह्नयङ्गुलं त्वेतत् ॥३९७॥ मध्ये वागीशानी दक्षोत्तरयोर्गुरूनगणेशं च । २२ १७० श्रीतन्त्रालोके। अधरे कजे च कल्पे- श्वरं प्रपूज्यार्घपुष्पतर्पणकैः ३९८ सामान्यविधिनियुक्ता- घंपानयोगेन चक्रमथ सम्यक् । सन्तप्र्ण्य व्याख्यानं कुर्यात्सम्बन्धपूर्वकं मतिमान् ३९९ कजगे इति पीठविशेषणम् , तेन अधस्त- नपीठान्तरस्थपद्मोपरिवर्तिनीत्यर्थः । यदुक्तं ........... पीठाधः पद्ममालिखेत् । इति । रसबहीति पत्रिंशत्। मध्ये इति मध्य- पझे । अधरे इति पीठाधोवर्तिनि । यदुक्तं तत्र .............. मध्ये वागीशिपूजनम् ।' दक्षिणे गुरवः पद्मे उत्तरे तु गणेश्वरः । पीठाधो यद्भवेत्पनं कल्पेशं तत्र पूजयेत् ॥' इति ॥ ३९९ ॥ सम्बन्धपूर्वकत्वमेव दर्शयन् व्याख्यान- शैली शिक्षयति सूत्रपदवाक्यपटल- ग्रन्थक्रमयोजनेन सम्बन्धात् ।

४०३ श्लो० ] अष्टाविंशमाह्निकम् । १७१ अव्याहतपूर्वापर- मुपवृह्य नयेत वाक्यानि ॥४०॥ मण्डूकप्लवसिंहा- वलोकनाद्यैर्यथायथं न्यायः । अविहतपूर्वापरकं शास्त्रार्थ योजयेदसङ्कीर्णम्॥४०१॥ तन्त्रावर्तनबाध- प्रसङ्गतर्कादिभिश्च सन्न्यायैः । वस्तु वदेहाक्यज्ञो वस्त्वन्तरतो विविक्ततां विदधत्४०२ यद्ययाहृतिपदवी- मायाति तदेव दृढतायैः। बलवत्कुर्यादृष्यं यद्यप्यग्रे भविष्यत्स्यात् ॥४०३॥ पदेति पदाद्यात्मा पदार्थः । ग्रन्थक्रमेति विद्यादिपादरूपः । यदुक्तं तत्र 'पादिकश्चात्र संबन्ध अन्यः पाटलिकः प्रिये । पादार्थः सौत्रवाक्यार्थ एतत्सम्बन्धपञ्चकम् ॥

१७२
श्रीतन्त्रालोके ।
चतुष्पात्संहिता यावत्तस्यां पादो यथोदितः।
आदिमध्यावसानैश्च ग्राहयेदर्थसन्ततिम् ।।
परस्पराविभेदेन अविरुद्धा यथा भवेत् ।
एवं पादगतं ज्ञात्वा व्यावये कुरुते गुरुः ॥
यत्तत्पाटलिकं वस्तु पटलान्ते समर्पयेत् ।
अभिसन्ध्यान्यपटलमेतत्पाटलिकं स्मृतम् ॥
या पदार्थोऽभिगम्येत तत्पादार्थेन निश्चितम् ।
अपरस्परभेदेन व्याख्यानं कुरुते गुरुः ॥
एष पादार्थिको नाम्ना अन्यत्सूत्रगतं शृणु ।
सूत्रे सहितं वस्तु सुपरीक्ष्यार्थसन्ततिः ।।
भेदभिन्ना तथात्रैव सूत्रेणान्येन सुन्दरि ।
एतत्सूत्रं विचार्येत वाक्येन परिनिष्ठितम् ।।
संस्कृतैः शब्दविषयैनंदीस्रोतःप्रवाहकैः ।
वातोर्मिवेगभङ्गेन व्याख्यां द्विपगतिं च वा।
मण्डूकप्लुतिरेवात्र अथ सिंहावलोकितम् ।
ज्ञात्वा न्यायं तु शिष्यं हि तादृशेन प्रबोधयेत् ।।
खरूपेणार्थविषयं पादभेदेन वाथवा ।
दैशिकः कुरुते व्याख्यां यादृशं तेन पृच्छितम् ।।
तादृशं तस्य वक्तव्यं खाम्नायस्थितिपालनात् ।'
इति । यागत्रयात्मकपौर्णमासाङ्गप्रयाजानुया-
जवदेकमनेकसाधारणं तन्त्रम् । अवघातादेरिव
यावद्रव्यमसकृत्प्रयुक्तिरावर्तनम् । चमसगो-
दोहनादिवदसक्तप्रतिषेधो बाधः । पशुपुरो-
डाशवत् परमध्यपातिनो निजतवनरपेक्ष्यण

४०६ श्लो०] अष्टाविंशमाह्निकम् । १७३ परकीयेनैव तत्रेण सम्पादनं प्रसङ्गः । संशय- निर्णयान्तरालवर्ती भवितव्यतात्मकः प्रत्यय. स्तर्कः । आदिशब्दादतिदेशादयः । सदिति मण्डूकप्लवादिलौकिकन्यायविलक्षणैरित्यर्थः । वस्त्वन्तरतो विविक्ततां विदधदित्यनेन अस. कीर्णत्वमेव उपोद्वलितम् । दूष्यं भविष्यत्स्या. दिति भावि दूष्यभावं भजेदित्यर्थः ॥ ४०३ ॥ ननु यदुत्तरकालं दूष्यं, तस्य आदौ बलव- त्वाधानेन कोऽर्थ इत्याशय आह दृढरचितपूर्वपक्ष- प्रोद्धरणपथेन वस्तु यद्वाच्यम् । शिष्यमतावारोहति तदाशु संशयविपर्ययैर्विकलम् ॥ भाषा न्यायो वादो लयः क्रमो यद्यदेति शिष्यस्य । सम्बोधोपायत्वं तथैव गुरुराश्रयेद्व्याख्याम् ॥४०५॥ वाच्यं वस्तु समाप्य प्रतर्पणं पूजनं भवेच्चके।

१७४ श्रीतन्त्रालोके। पुनरपरं वस्तु वदे- त्पटलादूर्ध्वं तु नो जल्पेत् ॥४०६॥ व्याख्यान्ते क्षमयित्वा विसृज्य सर्वं क्षिपेदगाधजले। शास्त्रादिमध्यनिधने विशेषतः पूजनं कुर्यात् ॥४०७॥ विशेषपूजनं कुर्या- समयेभ्यश्च निष्कृतौ। भाषा संस्कृतादिरूपा षोढा भिन्ना न्यायः प्रायुक्तो लौकिकः शास्त्रीयो वा । वादस्तत्त्वनि- श्चयफलरूपः पक्षप्रतिपक्षपरिग्रहः । लयो व्या- ख्येयवस्तुनिष्ठतल्लीनतात्मा व्याख्यानाभ्यासः। क्रमः पाठार्थपरिपाटीविशेषः, वाच्यं वस्त्विति मूलसूत्रादि। अपरं वस्त्विति सूत्रान्तरम्।यदुक्तं 'त्रीणि मूलानि सूत्राणि द्वे तदेकमथापिवा । व्याख्यायोपरमेवं वदन्विनैहि बाध्यते ।। इति 'न गच्छेत्पटलावं..............." इतिच । समयेभ्यश्च निष्कृतावित्यनेन समय- ४११ श्लो०] अष्टाविंशमाह्निकम् । १७५ निष्कृतिरिति प्रागुक्तं त्रयोविंशमपि नैमित्तिकं व्याख्यातुमुपक्रान्तमिति आवेदितम् ॥ ननु इदं कार्यमिदं न कार्यमिति शास्त्रीया नियन्त्रणा हि समयः। सच निर्विकल्पानां ना- स्तीति कथमेतदविशेषेण उक्तमित्याशय आह अविकल्पमतेन स्युः प्रायश्चित्तानि यद्यपि ॥४०८॥ तथाप्यतत्त्वविद्वर्गा- नुग्रहाय तथा चरेत् । नन्वेवमाचरणे किमस्य प्रमाणमित्याशङ्कय आह श्रीपिचौ च स्मृतेरेव पापघ्नत्वे कथं विभो ॥४०९॥ प्रायश्चित्तविधिः प्रोक्त इति देव्या प्रचोदिते। सत्यं स्मरणमेवेह सकृजप्तं विमोचयेत् ॥४१०॥ सर्वस्मात्कर्मणो जाला- स्मृतितत्त्वकलाविदः।

१७६
श्रीतन्त्रालोके।
तथापि स्थितिरक्षार्थ
कर्तव्यश्वोदितो विधिः॥४११॥
स्मृतेरिति मन्त्रादेः । स्मृतितत्त्वकलाविद
इत्यनेन ज्ञानित्वमेव उपोहलितम् । स्थितिर-
क्षार्थमिति यदुक्तं
'यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।
सयत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥' (भ० गी० ३।२१)
इति ॥ ४११॥
अतत्त्ववेदिनो ये हि
चर्यामात्रैकनिष्ठिताः।
तेषां दोलायिते चित्ते
ज्ञानहानिः प्रजायते ॥४१२॥
एवं च यद्ययं निर्विकल्पत्वादेव न संवृति-
परस्तदा अतत्त्वविद्भिः सह समाचारमेव न
कुर्यात् । अथ कुर्यात्, प्रायश्चित्तमप्याचरेदित्याह
तस्माद्विकल्परहितः
संरत्युपरतो यदि ।
शास्त्रचर्यासदायत्तैः
सङ्करं तद्विवर्जयेत् ॥ ४१३॥

४१६ श्लो०]
अष्टाविंशमाह्निकम् ।
१७७
सङ्करं वा समन्विच्छे-
प्रायश्चित्तं समाचरेत् ।
यथा तेषां न शास्त्रार्थे
दोलारूढा मतिर्भवेत् ॥४१४॥
संवृत्युपरत इति संवृतिषुप्तिः, तत उपरतो
निवृत्त इत्यर्थः । शास्त्रचर्यासदायतैरिति सर्व-
कालं शास्त्रीयनियन्त्रणापरवशैरित्यर्थः । तेषा-
मिति अतत्त्वविदाम् ॥ ४१४ ॥
समयनिष्कृतिमेव उदाहरणदिशा उपद-
शयति
यत्स्वयं शिवहस्ताख्ये
विधौ संचोदितं पुरा।
शतं जप्त्वास्य चास्त्रस्य
मुच्यते स्त्रीवधाहते ॥४१५॥
शक्तिनाशान्महादोषो
नरकं शाश्वतं प्रिये।
इति श्रीरत्नमालायां
समयोल्लङ्घने कृते॥४१६ ॥

श्रीतन्त्रालोके। कुलजानां समाख्याता निष्कृतिर्दुष्टकर्तरी। श्रीपूर्वे समयानां तु शोधनायोदितं यथा ॥४१७॥ मालिनी मातृका वापि जप्या लक्षत्रयान्तकम् । प्रतिष्ठितस्य तूरादे- दर्शनेऽनधिकारिणा ॥४१८॥ प्रायश्चित्तं प्रकर्तव्य- मिति श्रीब्रह्मयामले। यदिति चोदनास्त्रम् । स्वयमिति भगवता। पुरेति द्वादशपटले, इदं हि तत्र चतुर्दशे पटले स्थितम् । एतच्च समनन्तराहिके शिवहस्तप्रक- रणे एव संवादयिष्यते इति नेह लिखितम् । स्त्रीवधाहते इति । यदुक्तं स्त्रीवधे निष्कृतिः कुतः। इति । कुलजानामिति अन्येषां हि 'अघोराष्टशतं जवा स्त्रीवधान्मुच्यते नरः ।' इत्यादि उक्तम् । समाख्यातेति । यदुक्तं तत्र ..............

४२० श्लो०]
अष्टाविंशमाह्निकम् ।
१७९
'अथ कश्चिदजानानो लवनं समयस्य तु ।
कुरुते कुलजो देवि तस्य वक्ष्यामि निष्कृतिम् ॥
शतं जवा महास्त्रस्य मुच्यते स्त्रीवधाहते ।
शक्तिनाशान्महादोषो नरकं शाश्वतं प्रिये ॥'
इति । लक्षत्रयान्तकमिति समयोल्लङ्घनबलं
विचार्य । यदुक्तं तत्र
'प्रायश्चित्तेषु सर्वेषु जपेन्मालामखण्डिताम् ।
भिन्नां वाप्यथवाभिन्नां व्यतिक्रमबलाबलात् ॥
सकृजापात्समारभ्य यावल्लक्षत्रयं प्रिये ।'
इति । अनधिकारिणेति अदीक्षितादिना, एतच्च
आचार्यादिविषयम् । साधके हि अधिकारिणापि
दृष्टे दोष एव । यदभिप्रायेण
'खमत्रमक्षसूत्रं च गुरोरपि न दर्शयेत् ।'
इत्यादि उक्तम् ॥
न केवलमेतदेव श्रीब्रह्मयामले कथितं,
यावदिदमपीत्याह
ब्रह्मनो गुरुतल्पस्थो
वीरद्रव्यहरस्तथा ॥ ४१९॥
देवद्रव्यहृदाकार-
प्रहर्ता लिङ्गभेदकः।
नित्यादिलोपकृष्ट-
स्वकमात्रापरिच्छदः ॥ ४२० ॥

१८०
श्रीतन्त्रालोके।
शक्तिव्यङ्गत्वकृद्योगि-
ज्ञानिहन्ता विलोपकः।
नैमित्तिकानां लक्षादि-
क्रमाद्विद्विगुणं जपेत् ॥४२१॥
व्रतेन केनचिद्युक्तो
मितभुग्ब्रह्मचर्यवान्।
दूतीपरिग्रहेऽन्यत्र
गतश्चेत्काममोहितः ॥४२२॥
लक्षजापं ततः कुर्या-
दित्युक्तं ब्रह्मयामले।
आकारेति व्यक्तम् । मात्रापरिच्छद इति
व्रतोचिताक्षसूत्रयोगदण्डादिपरिकर इति या.
वत् । द्विद्विगुणमिति तेन गुरुतल्पस्थे हे लक्षे,
वीरद्रव्यहरे च चत्वारीत्यादिक्रमः । काममो-
हित इति नतु रहस्यचर्यापरः ॥
इदानीं श्रुतविध्यनन्तरोद्दिष्टं गुरुपूजाविधि-
मभिधातुमाह
दीक्षाभिषेकनैमित्त-
विध्यन्ते गुरुपूजनम् ॥४२३॥

१२७ श्लो०] अष्टाविंशमाहिकम् । १८१ अपरेयुः सदा कार्य सिद्धयोगीश्वरीमते। पूर्वोक्तलक्षणोपेतः कविस्त्रिकसतत्त्ववित् ॥४२४॥ स गुरुः सर्वदा ग्राह्य- स्त्यक्त्वान्यं तत्स्थितं त्वपि । कविरिति सम्यग्वक्तेति यावत् । तस्थित- मिति तत्र त्रिकदर्शनादावेव स्थितं परिचित- मित्यर्थः॥ कथं च अत्र गुरुपूजनं कार्यमित्याह मण्डले स्वस्तिकं कृत्वा तत्र हैमादिकासनम् ॥४२५॥ कृत्वार्चयेत तत्रस्थ- मध्वानं सकलान्तकम् । ततो विज्ञपयेद्भक्त्या तदधिष्ठितये गुरुम् ॥ ४२६ ॥ स तत्र पूज्यः स्वैर्मन्त्रैः पुष्पधूपार्घविस्तरैः।

१८२ श्रीतन्त्रालोके। समालम्भनसहस्त्रै- नवेद्यैस्तपणैः क्रमात् ॥४२७॥ आशान्तं पूजयित्वैनं दक्षिणाभिर्यजेच्छिशुः । सर्वस्वमस्मै संदद्या- दात्मानमपि भावितः ॥४२८॥ अतोषयित्वा तु गुरुं दक्षिणाभिः समन्ततः। तत्त्वज्ञोऽप्यणबन्धेन तेन यात्यधिकारिताम् ॥४२९॥ सकलः सदाशिवः, एतदन्तश्च अनेन आ- सनपक्षन्यास उक्तः । तदधिष्ठितये इति तच्छ- ब्देन सकलान्तासनपक्षपरामर्शः । खैरिति आरिराधयिषितः । आशान्तमित्यनेन अस्य भैरवावेशोन्मुखत्वं प्रकाशितम् । अधिकारिता- मिति मन्त्रमहेश्वरादिरूपत्वम् ॥ ४२९ ॥ 'किमत्र प्रमाणमित्याशङ्कय आह गुरुपूजामकुर्वाणः शतं जन्मानि जायते।

४३३ श्लो०] अष्टाविंशमाह्निकम् । अधिकारी ततो मुक्ति यातीति स्कन्दयामले ॥४३०॥ तस्मादवश्यं दातव्या गुरवे दक्षिणा पुनः। ननु गुरोः 'सोभिषिक्तो गुरुं पश्चादक्षिणाभिः प्रपूजयेत् ।' इत्यादिना प्राक् दक्षिणादिदानमुक्तं, तत्किमिह अस्य पुनर्वचनेनेत्याशङ्कय आह पूर्वं हि यागाङ्गतया प्रोक्तं तत्तुष्टये त्विदम् ॥४३१॥ तज्जुष्टमथ तस्याज्ञां प्राप्याश्नीयात्स्वयं शिशुः। ततः प्रपूजयेच्चक्र यथाविभवसम्भवम् ॥ ४३२॥ तज्जुष्टमिति तदासेवितमित्यर्थः ॥ ४३२ ॥ एतदेव व्यतिरेकमुखेनापि द्रढयति अकृत्वा गुरुयागं तु कृतमप्यकृतं यतः।

१८४
श्रीतन्त्रालोके।
तस्मात्प्रयत्नतः कार्यों
गुरुयागो यथाबलम् ॥४३३॥
यथाबलमिति वित्तशाव्यादिवर्जम् ॥४३३॥
गुरुश्चेदसन्निहितः, तदा किं कार्यमित्या-
शङ्कय आह
अतत्रस्थोऽपि हि गुरुः
पूज्यः संकल्प्य पूर्ववत् ।
तद्व्यं देवताकृत्ये
कुर्याद्भक्तजनेष्वथ ॥ ४३४॥
आहिकार्थमेव उपसंहरति
पर्वपवित्रप्रभृति-
प्रभेदि नैमित्तिकं विदं कर्म ।
इदं कर्मेति अर्थादुक्तमिति शिवम् ॥
नित्यनिमिचाद्यर्चाचर्चाचातुर्यचारुचरितेन ।
विवृतमिहाष्टाविंशं किलाहिक जयरथेनैतत् ॥
इति श्रीतन्त्रालोकविवेके पर्वपवित्रकादिप्रकाशनं नाम अष्टाविंश-
माहिकम् ॥ २८॥

अथ
श्रीतन्त्रालोके
श्रीमन्महामाहेश्वराचार्याभिनवगुप्तविरचिते
श्रीजयरथकृतविवेकाख्यटीकोपेते
एकोनत्रिंशमाह्निकम् ।
भद्राणि भद्रकालः कलयतु वः सर्वकालमतुलगतिः।
अकुलपदस्थोपि हि मुहुः कुलपदमभिधावतीह प्रसभम् ।।
इदानी द्वितीयार्धन रहस्यचर्चाविधिमभि-
धातुं प्रतिजानीते
अथ समुचिताधिकारिण
उद्दिश्य रहस्य उच्यतेऽत्र विधिः ।
रहस्य इति कुलप्रक्रियायाम् । विधिरिति
यागः॥
एतदेव विभजति
अथ सर्वाप्युपासेयं
कुलप्रक्रिययोच्यते ॥१॥

श्रीतन्त्रालोके तथा धाराधिरूढेषु गुरुशिष्येषु योचिता। कुलप्रक्रियया उपासेति कुलयाग इत्यर्थः। तथा धाराधिरूढेष्विति अनेन परकाष्ठाप्राप्तनिर्विक- ल्पकदशाधिशायितया रूढप्रायतामभिदधता अधिकारिभेदोऽपि उपक्षिप्तः। अत्र च खव- तप्रतिज्ञासूत्रवार्तिकप्रायतामभिद्योतयितुमथ- शब्दस्य उपादानम् ॥ ननु कुलप्रक्रियायाः प्रक्रियान्तरेभ्यः किं नाम वैलक्षण्यं यदेवमधिकारिभेदोऽपि विवक्षित इत्याशङ्कय आह उक्तं च परमेशेन सारत्वं क्रमपूजने ॥२॥ तदेव आह सिद्धक्रमनियुक्तस्य मासेनकेन यद्भवेत् । न तद्वर्षसहस्त्रैः स्या- न्मन्नौधैर्विविधैरिति ॥ ३॥ सिद्धक्रमेति सिद्धानां कृतयुगादिक्रमेण ३ ४ श्लो.] एकोनत्रिंशमाह्निकम् । अवतीर्णानां श्रीखगेन्द्रनाथादीनां क्रमे तत्पर- म्परागतायां कुलप्रक्रियायामित्यर्थः । विविध- रिति तत्तत्प्रक्रियान्तरोदितैरित्यर्थः । तदुक्तं 'सिद्धान्तादिषु तत्रेषु ये मत्राः समुदाहृताः। वीर्यहीनास्तु ते सर्वे शक्तितेजोज्झिता यतः ॥ कौलिकास्तु महामत्राः स्वभावादीप्ततेजसः । स्फुरन्ति दिव्यतेजस्काः सद्यःप्रत्ययकारकाः ॥ इति ॥३॥ तत्र कुलप्रक्रिययेत्यत्र उक्तं कुलशब्दं ता- वयाचष्टे कुलं च परमेशस्य शक्तिः सामर्थ्यमूर्खता। स्वातन्यमोजो वीर्य च पिण्डः संविच्छरीरकम् ॥४॥ सामर्थ्य मिति लयोदयकारित्वम् । ऊर्ध्वतेति सर्वेषां कारणतया उपरिवर्तित्वम् । खातथ्य- मिति सर्वकर्तृत्वाद्यात्मकम् । पिण्ड इति वि- श्वस्य अत्र सामरस्येन अवस्थानात् । संविदिति आत्मा। तदुक्तं 'कुलं हि परमा शक्तिः ४ श्रीतन्त्रालोके इति 'लयोदयश्चित्वरूपस्तेन तत्कुलमुच्यते ।' hor इति 'खभावे बोधममलं कुलं सर्वत्र कारणम् ।' इति इ hor .... ॥ इ 'सर्वकर्व विभु सूक्ष्म तत्कुलं वरवर्णिनि ।' इति 'सर्वेशं तु कुलं देवि सर्व सर्वव्यवस्थितम् । तत्वेजः परमं घोरं. इति 'शक्तिगोचरग वीर्य तत्कुलं विद्धि सर्वगम् ।' इति 'कुलं स परमानन्द: इति 'कुलमात्मस्वरूपं तु" इति 'कुलं शरीरमित्युक्तम् इति ॥४॥ एवं कुलशब्दं व्याख्याय विध्युपासादिश- ब्दोन्नीतं यागशब्दमपि व्याख्यातुमाह तथात्वेन समस्तानि भावजातानि पश्यतः।

७ श्लो०] एकोनत्रिंशमाह्निकम् । ध्वस्तशङ्कासमूहस्य यागस्तादृश एव सः॥५॥ तथात्वेनेति शिवशक्तिस्फारसारतया ॥५॥ तथा पश्यतस्तस्य यागोऽपि ताश एवेति किमर्थमुक्तमित्याशक्य आह तादृग्रूपनिरूढ्यर्थ मनोवाक्कायवर्त्मना। यद्यत्समाचरेतीरः कुलयागः स स स्मृतः ॥६॥ एवमुक्तसतत्त्वश्च अयं यागः किमाधार इत्याशङ्कय आह बहिः शक्तौ यामले च देहे प्राणपथे मतौ। इति षोढा कुलेज्या स्या- प्रतिभेदं विभेदिनी ॥७॥ यामले इति आययागाधिरूढे मिथुने । प्राणपथे इति मध्यनाड्याम् । मताविति बुद्धौ तत्तद्ध्यवसायद्वारिकापि तत्सम्पत्तिर्भवेदिति

or
श्रीतन्त्रालोके
भावः। प्रतिभेदं विभेदिनीति यथा बहिरेव
भूवस्त्राद्या विभेदाः ॥७॥
ननु एवमाधारभेदवदितिकर्तव्यतापि अत्र
किं तत्रप्रक्रियातः किञ्चिद्विभिद्यते नवेत्याशङ्ख्य
आह
स्नानमण्डलकुण्डादि
षोढान्यासादि यन्न तत् ।
किञ्चिदत्रोपयुज्येत
कृतं वा खण्डनाय नो॥८॥
तेन यथेच्छमेतत्कुर्यादित्यर्थः । यदुक्तं
'नास्यां मण्डलकुण्डादि किञ्चिदप्युपयुज्यते ।
नच न्यासादिकं पूर्व स्नानादि च यथेच्छया।
इति ॥८॥
ननु अत्र बाह्यस्नानादावनवकृप्तौ किं नि-
मित्तमित्याशङ्कय आह
षण्मण्डलविनिर्मुक्तं
सर्वावरणवर्जितम् ।
ज्ञानज्ञेयमयं कौलं
प्रोक्तं वैशिरसे मते॥९॥

१० श्लो०] एकोनत्रिंशमाह्निकम् ।
इह शिवशक्तिसामरस्यात्मकं कुलज्ञानं ष.
डिमण्डलैः
'षट्चक्रेश्वरता नाथस्सोक्ता शिरसे मते । (१२११४)
इत्यादौ निरूपितैस्तत्रत्यैश्चक्रैर्विनिर्मुक्तं निष्प्र-
पञ्चम्, अत एव सर्वावरणवर्जितमत एव
ज्ञानं बहिर्मुखं प्रमाणात्म वेदनं, ज्ञेयं नील-
सुखादि वेयं तन्मयम्। तत्स्फारसारमेव इदं सर्व
वेद्यवेदकादि, नतु तदतिरिक्तं किञ्चिदित्यर्थः ।
तदुक्तं
'यावन्न वेदका एते तावद्वेद्याः कथं प्रिये ।
वेदकं वेद्यमेकं तु तत्त्वं नास्त्यशुचिस्ततः ॥
इति ॥९॥
अतश्च संविन्मात्रसारत्वात् सर्वस्य शुझ्यशुद्धी
अपि वास्तवे न स्त इति कटाक्षयितुं तद्विभा-
गोऽपि नेह अभिमत इत्याह
अत्र यागे च यहव्यं
निषिद्धं शास्त्रसन्ततौ।
तदेव योजयेद्दीमा-
न्वामामृतपरिप्लुतम् ॥१०॥

श्रीतन्त्रालोके
तदुक्तं
'द्रव्यैश्च लोकविद्विष्टैः शास्त्रार्थाच बहिष्कृतैः ।
विजुगुप्स्यैश्च निन्द्यैश्च पूजनीयस्त्वयं क्रमः॥
इति ॥ १०॥
ननु भवतु नाम अत्र शास्त्रादिबहिष्कृतं
द्रव्यं मद्यसंस्पर्शनेन पुनरस्य
कोऽर्थ
इत्याशङ्कय
आह
श्रीब्रह्मयामलेऽप्युक्तं
सुरा शिवरसो बहिः।
तां विना भुक्तिमुक्ती नो
पिष्टक्षौद्रगुडैस्तु सा ॥ ११॥
स्त्रीनपुंसक'रूपा
तु पूर्वापरभोगदा।
द्राक्षोत्थं तु परं तेजो
भैरवं कल्पनोज्झितम् ॥ १२॥
एतत्स्वयं रसः शुद्धः
प्रकाशानन्दचिन्मयः।
देवतानां प्रियं नित्यं
तस्मादेतत्पिवेत्सदा ॥ १३ ॥

९ १३ श्लो०] एकोनत्रिंशमाह्निकम् । शिवरस इति । तदुक्तं 'सुरा च परमा शक्तिर्मा भैरव उच्यते । आत्मा कृतो द्रवरूपो भैरवेण महात्मना ॥ इति । तां विना नो बहिर्भुक्तिमुक्ती इति । तदुक्तं 'नानेन रहितो मोक्षो नानेन रहिता गतिः। नानेन रहिता सिद्धिर्विशेषाद्धैरवागमे ॥' इति 'येनाघ्रातं श्रुतं दृष्टं पीतं स्पृष्टं महेश्वरि । भोगमोक्षप्रदं तस्य ॥ इति च । सा च द्विधा कृत्रिमा सहजा च । तत्र कृत्रिमा त्रिविधा पैष्टी क्षौद्री गौडी चेति, सहजस्तु एक एव द्राक्षोत्थो भैरवादिशब्दव्यप- देश्यः परमुत्कर्षभागित्याह पिष्टेत्यादि । पुम- पेक्षया च स्त्रीनपुंसकयो ग्यत्वमेवेत्युक्तं पूर्वा- परभोगदेति । कल्पनोज्झितमिति स्त्रीनपुंसका- दिरूपया प्रतिनियतया कल्पनया उज्झितं पर- प्रमात्रेकरूपमित्यर्थः। तदुक्तं 'पैष्टी गौडी तथा माध्वी कृत्रिमा तु सुरा स्मृता । स्त्रीपुंनपुंसकतया साधके भोगदायिका ॥'

१०
श्रीतन्त्रालोके
इति
'माद्वीकः सहजस्त्वेकस्तत्तेजो भैरवात्मकम् ।
न स्त्री नपुंसकं वापि न पुमान् परमो विभुः॥
इति
गौडी माध्वी तथा पैष्टी ऊर्चे आनन्द भैरवः।'
इति
'चतुरस्रस्त्वयं धर्मश्चतुर्युगसमो नयः ।
चतुर्णा चैव मद्यानामानन्दः शान्तितत्परः॥'
इति । परतेजस्त्वादेव च एतत् स्वयं पारतीयो
रसस्तत्समानमाहात्म्य इत्यर्थः । शुद्ध इति
तत्तदुपाधिभूतद्रव्यान्तरासंभिन्नः, तथात्वे हि
अस्य नियत एव प्रभावो भवेदिति भावः । अत
एव उक्तं प्रकाशानन्दचिन्मय इति । तदुक्तं
'यथा भैरवचक्रेषु नायकः शिव भैरवः ।
देवताचक्रसन्दोहे यथा कालान्तकी परा ॥
तथा सर्वरसेन्द्राणां नायकौ द्वावुदाहृतौ ।
मद्यभैरवनाथस्तु रसेन्द्रः पारतीयकः ॥'
इति । देवतानां प्रियमिति । यदुक्तं
'भैरवस्य प्रियं नित्यं बहु मातृगणस्य च ।'
इति । तस्मादिति एवंमाहात्म्यवत्त्वात् , नतु
पशुवत् लोल्यादिना । यदुक्तम्

१३ श्लो०] एकोनत्रिंशमाह्निकम् । ११ 'अयष्ट्वा भैरवं देवमकृत्वा मत्रतर्पणम् । पशुपानविधौ पीत्वा बीरोऽपि नरकं ब्रजेत् ॥' इति। पिवेदिति विधिः। अत एव अपानात्प्रत्य- वायोपि स्यात् । यदुक्तं 'कुलाचारसमायुक्तो ब्राह्मणः क्षत्रियोऽपि वा। यदा मयेन न स्पृष्टः प्रायश्चित्तं तदा चरेत् ॥' इति 'मद्यमांसाधिवासेन मुखं शून्यं यदा भवेत् । तदा पशुत्वमायाति प्रायश्चित्तं समाचरेत् ॥ इति च । सदेति यागावसरे, अन्यथा हि क्षण- मपि मद्यपानविरतौ प्रत्यवायः प्रसजेत् । तेन 'दिनमेकं दिनार्ध वा तदर्ध चार्धमेव च । निवृत्तेरलिपानस्य प्रायश्चित्ती भवेन्नरः॥' इति यागकालापेक्षयैव योज्यम् । यत् पुनः 'उत्तमं तु सदा पानं भवेत्सर्वसु मध्यमम् । अधमं मासमात्रेण मासादूर्ध्व पशुभवेत् ।' इत्यादि, तदापद्विषयतया उक्तम् । यत्तु 'मलयेन तु विप्राणां क्षत्राणां कुङ्कुमेन च । कर्पूरवारि वैश्यानां शूद्राणामलिना प्रिये ॥' इति 'दीक्षाकाले तु विप्रस्य क्षत्रियस्य रणारहे। वैश्यस्य क्षितिमाङ्गल्ये शूद्रस्यान्त्येष्टिकर्मणि ॥' इ १२ श्रीतन्त्रालोके इत्याद्युक्तं, तददीक्षितविषयम्; किन्तु पूर्वत्र अस्मदुक्तार्चातर्पणश्रद्धालुविषयत्वमधिकमन्यथा जातिभेदो दुर्वचः स्यात् । दीक्षाकाले इति सौ. त्रामण्यादौ । अत एव 'यतः प्रभृति कालाच्च दैत्याचार्येण दूषितम् । ततः प्रभृति वर्णानां नामभेदः प्रदर्शितः॥ सौत्रामण्यां ब्राह्मणानां पानार्थ स्मृतमध्वरे । महाहवे क्षत्रियाणां वैश्यानां क्षितिकर्मणि ॥ महोत्सवे तु बन्धूनां मित्राणां च समागमे । श्मशानान्ते च शूद्राणां विवाहे पुत्रजन्मनि ॥ पानभेदमिदं भद्रे जन्तूनां मूढचेतसाम् । ये पुनः शाङ्करे तत्रे देवीतत्रे च दीक्षिताः ॥ गुर्वाज्ञानिरता गुप्ता जपपूजापरायणाः । ज्ञानविज्ञानकुशला लौल्यान महिताशयाः। तेषां पुनर्द्विजानां तु न विरुद्धं सदा प्रिये ॥' इत्यादि उक्तम्,-इत्यलमवान्तरेण । एवमिय- दनेन उपक्षितं-यदेवं शास्त्रादिबहिष्कृतं द्रव्य. जातं सम्भृतमपि विना मयं न यागसम्पत्तौ निमित्तं, मद्यं पुनरेककमेव विनापि एवं द्रव्य- जातं तत्र निमित्तमिति, येनोक्तं वामामृतपरि- प्लुतं तद्योजयेदिति । यदागमः 'एकतश्वरवः सर्वे मद्यमेवैकमेकतः। चरहीनोऽपि कुर्वीत मद्यहीनं न जातुचित् ॥' ,

इ
॥
hor
hr
१३ श्लो० एकोनत्रिंशमाह्निकम् ।
१३
इति
'एषामभावे द्रव्याणां नित्यं पूजा विधीयते ।
एकेन मद्यनाथेन विना तेनापि निष्फला॥
इति
'पुष्पधूपोपहारादि यदि न सात्सुलोचने ।
अलिना तर्पयेन्मत्रं
इति
'किमन्यैर्द्रव्यसङ्घातैर्देवि यागोपयोगिभिः ।
वामामृतेन चैकेन कलां नार्षन्ति षोडशीम् ॥
इति
'अर्ध पुष्पं तथा धूपं दीपं नैवेद्यमेव च ।
वीरद्रव्यादि यत्किञ्चित्सर्व मद्ये प्रतिष्ठितम् ॥'
इति
'मधेनै कतमेनैव शक्तीशं शक्तिभिर्युतम् ।
यजेत्सानिध्यकामस्तु सर्वदा सर्वथा प्रिये ॥
इति
'अलिना रहितं यस्तु पूजयेत्पादुकाक्रमम् ।
योगिन्यस्तस्य सीदन्ति भक्षयन्ति रसामिषम् ।।'
इति
'मद्यरिक्तास्तु ये देवि न ते सिध्यन्ति पश्चिमे ।
थोहकासमते नित्यं कुलभ्रष्टाः खयंभुवः ॥
इति च । इह मयाधीनमेव सर्वेषामनुष्ठानमिति

१४ श्रीतन्त्रालोके अत्र आगमसंवादे भरोऽस्माभिः कृत इति न अस्मभ्यमभ्यसूययितव्यम् ॥ १३ ॥ एवमस्य प्राधान्येऽपि अवान्तरवस्त्वपेक्षया शास्त्रान्तरेऽन्यदपि किञ्चित्प्रधानतयोक्तमित्याह श्रीमत्क्रमरहस्ये च न्यरूपि परमेशिना। अर्घपात्रं यागधाम दीप इत्युच्यते त्रयम् ॥१४॥ रहस्यं कौलिके यागे तत्रार्घः शक्तिसंगमात् । भूवस्त्रकायपीठाख्यं धाम चोत्कर्षभाक् क्रमात् ॥१५॥ दीपा घृतोत्था गावो हि भूचर्यो देवताः स्मृताः। इति ज्ञात्वा त्रयेऽमुष्मि- न्यत्नवान्कौलिको भवेत् ॥१६॥ तत्रेति त्रयनिर्धारणे । अर्घ इति कुण्डगो- लकाख्यो द्रव्यविशेषः । शक्तिसङ्गमादिति १७ श्लो०] एकोनत्रिंशमाह्निकम् । १५ . आद्ययागतया वक्ष्यमाणात् । कायपीठं खं पर- कीयं वा शिरः। तदुक्तं 'सर्वासां देवतानां तु आधारः शिर इष्यते । देवीकोर्ट तु तत्स्थानं नित्यं तत्र प्रपूजयेत् ॥ इति क्रमादुत्कर्षभागिति यथा भुवो वस्त्रं, तस्मा- न्मुण्डमिति । घृतोत्था इति प्राधान्यात्, तेन तैलोत्था अपि । यदुक्तं 'दीपान्कुर्याद्रक्तवर्तीन्घृततैलप्रपूरितान् ।' इति । प्राधान्य एव च अत्र हेतुर्गावो भूचर्यों देवताः स्मृता इति । यदुक्तं 'लोकानुग्रहहेत्वथ ब्राहयाद्या देवता भुवि । चरन्त्यास्थाय गोरूपं तेन तद्रव्यमाहरेत् ॥' इति । यत्नवानिति तत्सम्भरणे श्रद्धावान्भ- वेत्, नातो विचिकित्सितव्यमित्यर्थः ॥ १६ ॥ अस्मदर्शने हि अर्घस्यैव प्राधान्यमिति तदु- चितान्येव द्रव्यान्तराण्यपि परमेश्वरः समा- दिक्षत्, तत् ततस्तेभ्यो वा न शङ्कितव्यम् । शकैव हि महदूषणमित्युक्तं प्राग्बहुशः । तदाह तेनार्घपात्रप्राधान्यं ज्ञात्वा द्रव्याणि शम्भुना।

१६ श्रीतन्त्रालोके यान्युक्तान्यविशङ्कोऽत्र भवेच्छङ्का हि दूषिका ॥१७॥ यानि द्रव्याणीति रत्नपञ्चकादीनि। तदुक्तं 'रेतो हराम्बु पुष्पं च क्षारं नालाज्यकं तथा । पौरुषं माभवं छागं मीनजं शाकुनीयकम् ॥ पलाण्डं लशुनं चैव द्रव्यद्वादशकं शुभम् ।' इति । अत्रेति द्रव्यवचने ॥ १७ ॥ एवं कुलयागे पीठिकाबन्धं विधाय तत्क- ममेव निरूपयितुमुपक्रमते यागौको गन्धधूपाढ्यं प्रविश्य प्रागुदमुखः। परया वाऽथ मालिन्या विलोमाञ्चानुलोमतः ॥१८॥ दाहाप्यायमयीं शुद्धि दीप्तसौम्यविभेदतः। क्रमेण कुर्यादथवा मातृसद्भावमन्त्रतः॥१९॥ प्रविश्येति देहलीमात्रपूजनपूर्वम् । विलो- मादिति संहारक्रमेण पादाभ्यां शिरोन्तम् ।

२१ श्लो०] एकोनत्रिंशमाह्निकम् । १७ अनुलोमत इति सृष्टिक्रमेण शिरस्तः पादा- न्तम् । दाहे दीप्ता आप्यायने सौम्येत्युक्तं क्रमेणेति ॥ १९॥ नैमित्तिके पुनर्नित्याद्विशेषोऽस्तीत्याह दीक्षां चेत्प्रचिकीर्षुस्त- च्छोध्याध्वन्यासकल्पनम् । ततः संशोध्यवस्तूनि शक्त्यैवामृततां नयेत् ॥२०॥ शोध्योऽध्वा भुवनायन्यतमः । तत इति देहशुख्याधनन्तरम् । संशोध्येति यागोपकर- णभूतानामर्घपुष्पाद्यात्मनामसंशोधितत्वे हि यागयोग्यत्वं न भवेदिति भावः । शक्त्यैवेति न पुनः प्राग्वदर्घपात्रविषुट्प्रोक्षणादिना ॥ २० ॥ ननु अत्र मन्नत्रयमुद्दिष्टं, तस्य पुनः कथं विनियोग इत्याशङ्कय आह परासम्पुटगा यहा मातृसम्पुटगाप्यथो। केवला मालिनी यहा ताः समस्तेषु कर्मसु ॥२१॥ ३ १८ श्रीतन्त्रालोके समस्तेषु कर्मसु एवंविधा मालिनी अर्था- द्योजनीया मुक्त्यर्थिना मातृसद्भावेन सम्पुटिता तदुभयार्थिना परया। केवलयोरपि परामातृस- द्भावयोरेवमेव योजनमिति । तदुक्तं 'परासम्पुटमध्यस्थां मालिनी सर्वकर्मसु । योजयेत विधानज्ञः परां वा केवलां प्रिये ॥ इति । अत्र ग्रन्थकृता पराशब्देनैव मातृसद्भा- वोऽपि व्याकृतो यत् पराया एव असौ परतरं रूपमिति ॥ २१॥ ननु । 'यत्किञ्चिन्मानसाहादि यच्च सौभाग्यवर्धनम् । तेनात्मानमलङ्कृत्य देवमभ्यर्चयेत्सदा ॥' इत्यादिना यत्किञ्चिदानन्दमयं द्रव्यजातं, तत् पूजोपकरणतया योज्यमिति सर्वत्रोक्तमिति। इह पुनस्तज्जुगुप्स्यं करमादभिहितमित्याशक्य आह नन्दहेतुफलैर्द्रव्यै- रर्घपात्रं प्रपूरयेत् । नन्दस्य आनन्दस्य हेतुभिः सुरादिभिः, फ- लैश्च कुण्डगोलकादिभिः । अत एव उक्तं 'यस्य साराः पवित्रत्वे कुर्वन्त्यानन्दमुत्तमम् । सोऽनुध्यातस्मृतस्तत्रे भैरवेण भवच्छिदा ॥

२३ श्लो०] एकोनत्रिंशमाह्निकम् । इति। यश्च अत्र एतत्पूरणे सम्प्रदायः, स रहस्य- त्वात् समयभङ्गभयाच न इह अस्माभिःप्रदर्शित इति । एतद्गुरुमुखादेव बोद्धव्यम् । तदुक्तं 'चरुका सम्प्रदायश्च विज्ञान मेलकं तथा । पूजाक्रमविधानं च योगिनीनां मुखे स्थितम् ॥' इति ॥ 'नन्वदिव्येन देहेन यद्यत्पूजाक्रमं जपम् । किश्चित्कुर्यात्तु तत्तस्य सर्व भवति निष्फलम् ॥' इत्याद्युक्तेरदिव्यवपुषा क्रियमाणं यागादि फल- दायि न स्यादित्यत्र साधकेन स्वात्मनि भैरवी- भावो भावयितव्य इत्याह तत्रोक्तमन्त्रतादात्म्या- भैरवात्मत्वमानयेत् ॥ २२॥ उक्ता मातृसद्भावादयः। वक्ष्यति हि 'नाहमसि नचान्योऽस्ति केवलाः शक्तयस्त्वहम् । इत्येवंवासनां कुर्यात्सर्वदा स्मृतिमात्रतः ॥ (२९।६४) इति ॥ २२ ॥ इत्थमेवंभावनया च देहादौ 'अमूर्ता मूर्तिमाश्रित्य देव्यः पिण्डान्तरे स्थिताः। क्रीडन्ति विविधैर्भावैरुत्तमद्रव्यलिप्सया ॥

॥
श्रीतन्त्रालोके
इत्यायुक्त्या पूजालाम्पट्येन सर्वा एव करणे-
श्वर्याद्या देवताः संनिदधते इति आसाम्
'आगतस्य तु मत्रस्य न कुर्यात्तर्पणं यदि ।
हरत्यर्धशरीरं"
इत्यायुक्त्या तर्पणमवश्यं कार्यमित्याह
तेन निर्भरमात्मानं
बहिश्चक्रानुचक्रगम्।
वित्रुभिर्ध्वाधरयो-
रन्तःपीत्या च तर्पयेत् ॥२३॥
तेनेति भैरवात्मत्वानयनेन हेतुना । ऊर्ध्वा-
धरयोरिति अत्तियंगपि । तदुक्तम्
'अत ऊर्ध्व तथा तिर्यग्दातव्या विपुषः प्रिये ।'
इति।तद्वहिःसर्वतो विप्नुनिरन्तश्च पानेन नाना-
देवताचक्रानुयातमात्मानं तर्पयेदित्यर्थः ॥२३॥
ननु एवमियतैव सिद्धः कुलयागः, किमन्य-
दवशिष्यते इत्याशय आह
तथा पूर्णस्वरश्म्योघः
प्रोच्छलबृत्तितावशात् ।
बहिस्तादृशमात्मानं
दिदृशुर्बहिरर्चयेत् ॥२४॥

२१ २६ श्लो०] एकोनत्रिंशमाह्निकम् । तथा समनन्तरोक्तक्रमेण पूरितनिजकरणे- श्वर्यादिदेवताचक्रःसन् खात्ममात्रविश्रान्तोऽपि यदा साधकः 'रासभी वडवा यद्वत्स्वधामानन्दमन्दिरम् । विकाससङ्कोचमयं प्रविश्य हृदि हृष्यति ॥ (५।५९) इत्यायुक्तभङ्ग्या विकसितेन्द्रियवृत्तिर्बहिरपि पू. णमेव आत्मानं दिदृक्षुर्बहीरूपतयापि बिम्बप्र. तिबिम्बन्यायेन परैव संविवभासत इत्यनुस- न्धत्ते, तदा बहिरर्चयेत् । तत्रापि अर्चाक्रमो न्याय्य इत्यर्थः । यदाहुरस्मदादिगुरवः 'साक्षान्भवन्मये नाथ सर्वसिन्भुवनान्तरे । किं न भक्तिमतां क्षेत्रं मत्र: कैषांन सिद्ध्यति ।। (उ०स्तो०) इति ॥ २४ ॥ तच्च कुत्रेत्याशङ्कय आह अर्काङ्गुलेऽथ तद्वित्रि- गुणे रक्तपटे शुभे। व्योम्नि सिन्दूरसुभगे राजवर्तभृतेऽथवा ॥ २५॥ नारिकेलात्मके काये मद्यपूर्णेऽथ भाजने।

२२
श्रीतन्त्रालोके
यहा समुदिते रूपे
मण्डलस्थे च तादृशि ॥२६॥
यागं कुर्वीत मतिमां-
स्तत्रायं क्रम उच्यते।
अति द्वादश। व्योम्नीति अर्थाद्भूगते। उक्तं च
'राजवर्तेन रजसा व्योमबिम्ब तु कारयेत् ।
लोहितां व्योमरेखां तु दद्यात्सिन्दूरकेण तु ॥
विपर्ययेण वा कार्या शुक्ला वा व्योमरेखिका ।'
इति । एवं न केवलं व्यस्तमेव भूवस्त्रकायपी-
ठाख्यं धाम भवेत यावत्समस्तमपीत्याह यद्वा
समुदिते रूपे इति । तेन भूपृष्ठे रक्तवस्त्रं, तदुपरि
च कायपीठशब्दाभिधेयं कायं तदनुकल्पात्मक
विश्वामित्रकपालं वेति । तादृशीति समुदिते
एव किन्तु मण्डलस्थे इति भूमावुह्यमानस-
निवेशं मण्डलं तत्र च क्वचिदपि आधारे रक्त-
वस्त्रं, तदुपरि च कायमिति ॥
तमेव क्रममाह
दिश्युदीच्यां रुद्रकोणा-
द्वायव्यन्तं गणेश्वरम् ॥ २७॥

२३ २९ श्लो०] एकोनत्रिंशमाह्निकम् । वटुकं त्रीन् गुरून्सिद्धा- न्योगिनीः पीठमर्चयेत् । प्राच्यां दिशि गणेशाध आरभ्याभ्यर्चयेत्ततः॥२८॥ सिद्धचक्रं दिक्चतुष्के गणेशाधस्तनान्तकम् । उदीच्यामिति प्राजापत्यक्रमण । गणेश्वर- मिति नैर्विघ्याय, सच अर्थात् सवल्लभः। एवं वटुकोऽपि । त्रीन् गुरूनिति गुरुपरमगुरुपरमे. ष्ठिनः । सिद्धानिति अनादिसिद्धादीन् । योगि. नीरिति अनादियोगिन्याद्याः। पीठमिति जाल. न्धरं यतस्तत्सिद्धयोगिनीक्रमेण अस्य दर्शनस्य अवतारः । तेन मण्डलस्य बहिश्चतुरस्र ईशान- कोणे गणेशमर्चयेत्, ततो वटुकं गुरुत्रयं पीठ- मनादिसिद्धमनादियोगिनी यावद्धोऽधः पति- क्रमेण वायव्यकोणान्तं दिव्यौघसिद्धौघमानवौ. घभेदेन त्रिविधमपि गुरुवर्गमिति । तदुक्तं 'गणेशं पूजयित्वा तु द्वारि विघ्नप्रशान्तये । ततः खगुरुमारम्य पूजयेद्गुरुपद्धतिम् ॥

२४ श्रीतन्त्रालोके इति । तथा 'गणेशं वटुकं सिद्धान् गुरुपति तथैव च । इति। इदं च प्राङ्मुखं साधकमधिकृत्य उक्तं येन एतत् तस्य वामे पूजितं भवेदिति । उदङ्मुखस्य पुनरेतत्वापेक्षयैव योज्यं येन तद्वाम एव पू. जितं भवेदिति । द्वारे पुनर्गणेशवटुको बहि- श्चतुरस्र एव प्रथमतो वायव्यनैर्ऋतकोणयोः पूज्याविति अर्थसिद्धं येन यागस्य दक्षवाम- भागगतौ स्याताम् । यद्गुरवः 'बाये गणेशवटुको श्रुतिपूर्वकोण..... दक्षतरद्वयगतौ इति । ततो गुरुपूजानन्तरं पूर्वस्यां दिशि बहि- श्चतुरस्र रुद्रकोणावस्थितस्य गणेशस्य अधस्त- नादेकभागानन्तरभाविनो द्वितीयस्मात् चतुर- स्रादारभ्य पूर्वादिक्रमेण आवर्तभङ्गया सौम्य- दिशि गणेशस्य अधस्तनमेव स्थानं यावदिक- तुष्टये अर्थादेतच्चतुरस्रसंलग्नचतुष्किकाचतुष्टये कृतादियुगक्रमावतीर्ण सिद्धचतुष्कमभ्यर्चये- दक्ष्यमाणक्रमेण पूजयेदित्यर्थः। तदुक्तं 'गणेशाधस्ततः सर्वं यजेन्मत्रकदम्बकम् । तत्पतीनां ततो वर्ग तत्रैव परिपूजयेत् ।।

एकोनत्रिंशमाह्निकम् । २५ ३३ श्लो०] इति ॥ तदेव आह खगेन्द्रः सहविजाम्ब इल्लाईअम्बया सह ॥ २९॥ वक्तष्टिविमलोऽनन्त- मेखलाम्बायुतः पुरा। शक्त्या मङ्गलया कूर्म इल्लाईअम्बया सह ॥ ३०॥ जैत्रो याम्ये ह्यविजित- स्तथा सानन्दमेखलः। काममङ्गलया मेषः कुल्लाईअम्बया सह ॥ ३१ ॥ विन्ध्योऽजितोऽप्यजरया सह मेखलया परे । मच्छन्दः कुङ्कुणाम्बा च षडयुग्मं साधिकारकम् ॥३२॥ सौम्ये मरुत्त ईशान्तं द्वितीया पतिरीशी।

२६ श्रीतन्त्रालोके अमरवरदेवचित्रा- लिविन्ध्यगुडिका इति क्रमात्षडमी ३३ पुरेति पूर्वस्याम् । याम्ये इति दक्षिणे। अज- रया सह मेखलयेति अजरमेखलया सहेत्यर्थः। परे इति पश्चिमे । एवं पूर्वादिदिक्त्रये सिद्धस्त- त्पत्नी सुतद्वयं चेति क्रमः । उत्तरस्यां पुनरयं विशेष इत्याह षड्युग्ममिति षण्णां पुत्रतत्प- नीनां सम्बन्धि युग्मं तद्द्वादशकमित्यर्थः । द्वि- तीयेति गुरुपतयपेक्षया । अनेन च दिक्चतु- केऽपि पतिक्रमेणैव पूजा कार्येति सूचितम् ॥ तदेव द्वादशकमाह सिल्लाई एरुणया तथा कुमारी च बोधाई। समहालच्छी चापर- मेखलया शक्तयः षडिमाः॥३४॥ एरुणया अपरमेखलया च सहेत्यर्थः ॥३४॥ साधिकारत्वमेव एषां व्यनक्ति एते हि साधिकाराः पूज्या येषामियं बहुविभेदा ।

३९ श्लो०] एकोनत्रिंशमाह्निकम् । सन्ततिरनवच्छिन्ना चित्रा शिष्यप्रशिष्यमयी ॥३५॥ चित्रत्वमेव अस्या दर्शयति आनन्दावलिबोधि- प्रभुपादान्ताथ योगिशब्दान्ता। एता ओवल्ल्यः स्यु- मुद्राषट् क्रमात्त्वेतत् ॥ ३६॥ दक्षाङ्गुष्ठादिकनि- ष्ठिकान्तमथसा कनीयसी वामात् । द्विदशान्तोर्ध्वगकुण्डलि- बैन्दवहृन्नाभिकन्दमिति छुम्माः॥३७॥ शवराडबिल्लपट्टि- ल्लाः करबिल्लाम्बिशरबिल्लाः । अडबीडोम्बीदक्षिण- बिल्लाः कुम्भारिकाक्षराख्याच ॥३८॥ देवीकोट्टकुलाद्रि- त्रिपुरीकामाख्यमट्टहासश्च ।

२८ श्रीतन्त्रालोके दक्षिणपीठं चैत- षटुं घरपल्लिपीठगं क्रमशः ॥३९॥ ओवल्यो ज्ञानप्रवाहाः । क्रमादिति मुद्राछु- म्माविषयम् । बिन्दोरिदं बैन्दवं भूमध्यसंज्ञ स्थानम् । शवरेति पुलिन्दाख्यम् । अम्बीति अ- म्बिल्लम् । दक्षिणेति दक्षिणावर्तम् । कुलाद्रीति कौलगिरिः। त्रिपुरीति त्रिपुरोत्तरम् । कामेति कामरूपम् । तदुक्तं श्रीकुलक्रीडावतारे 'तेषां मुद्राश्च छुम्माश्च पल्ली ओवल्लयस्तथा । पीठक्रमो घराश्चैव पित्रा विभजता तथा ॥ इत्युपक्रम्य बोधिश्चामरपादानां प्रभुश्व वरदेवके । चित्रः पादश्च संप्रोक्तो बलिरानन्दसंज्ञितः।। विन्ध्यपादश्च योगी तु गुडिकावलिरेव च । इति दक्षहस्तस्य चाङ्गुष्ठादारभ्य च कनिष्ठकाम् । वामस्य यावन्मुद्रा वै षट्सु विस्तरतः शृणु ॥ अङ्गुष्ठो ज्येष्ठपुत्रस्य द्वितीयस्य तु तर्जनी । मध्यमा वै तृतीयस्य चतुर्थस्याप्यनामिका ॥ पञ्चमस कनिष्ठा वै षष्ठस्य च कनिष्ठिका। इति छुम्मकाः संप्रवक्ष्यामि कुलाम्नाये यथा स्थिताः। अतीतं प्रथमस्यापि द्वितीयस्य तु कुण्डली ॥ इ

४० श्लो०]
एकोनत्रिंशमाह्निकम् ।
२९
इ
॥
भ्रूमध्ये वै तृतीयस्य सङ्घदृश्च चतुर्थके ।
नाभिस्तु पञ्चमस्यैव जन्माधारस्तु पष्ठके ॥
इति
षण्णां वै राजपुत्राणां घरपल्लिक्रमं शृणु ।
अमरस्य तु पट्टिल्लः दक्षिणावर्तपल्लिका ॥
वरदेवे करबिल्लं पल्ली कुम्मारिका भवेत् ।
अम्बिल्लं चैव चित्रस्य बिल्लं पल्ली सुमध्यमे ॥
अलिनाथे पुलिन्देति अडवी पल्लिरुच्यते ।
शरविल्लं विन्ध्यनाथे पल्ली चाक्षरसंज्ञिता ॥
गुडिकानाथपादानामडविल्लं घरं प्रिये ।
डोम्बी पल्ली च निर्दिष्टा
इति
त्रिपुरोत्तरे निकेतं सिद्धिस्थानं च तद्विदुः ।
अमरस्य वरारोहे वरदेवस्य कामरू ॥
चित्रस्य अट्टहासं वै देवीकोटमलेस्तथा ।
दक्षिणं चैव विन्ध्यस्स गुडिका कौलगिर्यता ॥'
इति ॥ ३९ ॥
ननु किमेवमोवल्यायुपदेशेनेत्याशक्य आह
इति सङ्केताभिज्ञो
भ्रमते पीठेषु यदि स सिद्धीप्सुः ।
अचिराल्लभते तत्त-
प्राप्यं यद्योगिनीवदनात् ॥४०॥

३० श्रीतन्त्रालोके एवं मुद्रादिवृत्तं जानानस्य हि साधकस्य तत्तत्सिद्धिकामतया पीठेषु परिभ्राम्यतस्तत्त- न्मुद्रादिप्रदर्शनक्रमेण योगिन्यो निजां निजां सन्ततिं ज्ञात्वा क्षिप्रमेव निखिलसिद्धिप्रदा भवन्तीत्यर्थः । यदुक्तं 'यो यस्याः सन्ततेर्नाथः सा मुद्रा तस्य कीर्तिता। प्रसार्य हस्तं सन्दर्य नामाक्षरसमन्विताः ॥ क्रमेण तेन ज्ञास्यन्ति स्वकीयां कुलसन्ततिम् । ऊर्च प्रदर्शयेद्यस्तु तस्य स्खं तु प्रदर्शयेत् ॥ कौण्डिल्यादिषु सर्वेषु यो यस्य च निदर्शयेत् । अनेन सन्ततिज्ञा वै ज्ञास्यन्ति च निजं कुलम् ॥ इति ॥ ४०॥ एवं साधिकारं राजपुत्रषट्कमभिधाय निर- धिकारमपि अभिधत्ते भट्टेन्द्रवल्कलाहीन्द्र- गजेन्द्राः समहीधराः। ऊर्ध्वरेतस एतेष- डधिकारपदोज्झिताः ॥४१॥ ननु अधिकार एव क इत्याशय आह अधिकारो हि वीर्यस्य प्रसरः कुलवमनि ।

४३ श्लो०]
एकोनत्रिंशमाह्निकम् ।
३१
तदप्रसरयोगेन
ते प्रोक्ता ऊर्ध्वरेतसः ॥४२॥
अधिकारो हि नाम वीर्यस्य
मन्त्रमुद्रासम्व-
न्धिनः स्फारस्य चरमधातोश्च कुलवमनि शैष्ये
मध्यनाड्यादौ देहमार्गे शाक्ते च आद्याधारे
प्रसरः सक्रमणं, स एव एषां नास्तीति एते ऊर्ध्व-
रेतसः प्रोक्ताः खात्ममात्रविश्रान्तिसतत्त्वा
एवेत्यर्थः ॥ ४२ ॥
ननु श्रीदेवीपञ्चशतिकादौ
'निष्क्रियानन्दनाथश्च ज्ञानदीप्त्या सहकतः ।
विद्यानन्दश्च रक्ता च द्वितीयं कथितं तव ॥
शक्क्यानन्दो महानन्दा तृतीयं सिद्धपूजितम् ।
शिवानन्दस्तथा ज्ञेया समया तचतुर्थकम् ॥
इत्याद्युक्त्या अन्येऽपि सपत्नीका गुरव उक्तास्त-
द्वदिहापि कथं नोच्यन्त इत्याशङ्कय आह
अन्याश्च गुरुतत्पल्यः
श्रीमत्कालीकुलोदिताः।
अनात्तदेहाः क्रीडन्ति
तैस्तैर्देहैरशङ्किताः॥४३॥

श्रीतन्त्रालोके प्रबोधिततथेच्छाकै- स्तज्जे कौलं प्रकाशते। तथारूपतया तत्र गुरुत्वं परिभाषितम् ॥४४॥ ते विशेषान्न संपूज्याः स्मर्तव्या एव केवलम्। ततोऽभ्यन्तरतो वायु- वयोर्मातृकया सह ॥४५॥ मालिनी क्रमशः पूज्या ततोऽन्तर्मन्त्रचक्रकम् । येच अन्ये शास्त्रान्तरोदिताः सपत्नीका गुरवः प्रतिनियतदेहानुपग्रहादनात्तदेहा अत एव अन. न्यसंविदितत्वादशङ्किताः परपुरप्रवेशयुक्त्या प्र- बोधितक्रीडाविषयेच्छावद्भिस्तैस्तैः स्त्रीपुंससम्ब- न्धिभिर्देहः क्रीडन्ति सम्भोगलीलामनुभवन्ति, येन तादृशमेलकात् जाते सक्रमणक्रमेण गर्भ एव निःसरणकाल एव वा तदुत्तरकालं वा को- लज्ञानं प्रकाशते यत एवंविधमेव एषां गुरुत्व- ४६ श्लो०] एकोनत्रिंशमाह्निकम् । मिति शास्त्रीयः समयोऽयं-श्रीरहस्यराजि. कायोगिनीभिः खभावाद्भगवत्याः प्रसादेन दृष्टं विग्रहाज्ज्ञानं लब्धम् , ताभिः स्वकुलेगर्भस्थानां सङ्कामितम्, ताभिर्गर्भात् दृष्टम् , जातमात्रा- भिश्च अन्याभिदृष्टम् ,अन्याभिः सप्तविंशतेः स. मानामन्ते दृष्टमिति । तदमूर्तत्वादिह ते केवलं स्मर्तव्या एव,नतु विशेषात् सम्पूज्याःपूर्वगुरुभि- स्तथा नोपदिष्टा इत्यर्थः । यद्वा विश्वयोन्याद्या व्याख्येयाः। यदुक्तमनेनैव 'विश्वं जगद्भावमथो प्रजापतिकुलं ततः। योनिशब्दान्तकं प्रोक्तं गुरूणां पञ्चकं त्विदम् ॥ वीर्य क्षोभो बीजं सृष्टिः सर्ग इतीमाः शक्तय उक्ताः। अत्युत्साहः शक्तिश्च क्षमसङ्गतिरुच्छला प्रतृप्तिः ॥ ता एताः किल शक्तयो निजगुरुस्फारैः समं बाह्यक देहं कंचिदपि कचिजगृहिरे नैव स्वतन्त्रोदयः। इच्छामात्रबलेन यत्किल यदा द्वन्द्वं समध्यासते तत्र क्रीडितलालसाः परपदज्ञानं फलं तत्त्वतः ॥' इति । तत इति द्वितीयस्मात् चतुरस्तात् । अ- भ्यन्तरत इति व्योम्नि । क्रमश इति तेन वायु- कोणादारभ्य वह्निकोणं यावदुपर्युपरि क्रमेण मातृका पूज्या, मालिनी तु वह्वेर्वाय्वन्तमधोऽधः

३४
श्रीतन्त्रालोके
इ
क्रमेणेति सिद्धम् । तत इति मातृकामालिनी-
पूजानन्तरम् । अन्तरिति यागमध्यवर्तिनि क-
णिकास्थानीये त्रिकोणे।तत्र पूर्वदक्षिणवामको.
णेषु सभैरवं परादिदेवीत्रयम् , मध्ये च कुले
श्वरमिति । यद्वक्ष्यति
'सम्पूज्य मध्यमपदे कुलेशयुग्मं त्वरात्रये देवीः । (१२६)
इति ॥
एवं च अत्र अन्वर्थतामभिधास्यन्कुलेश्वर्या
मुख्यतया पूजायां विनियोगमाह
मन्त्रसिद्धप्राणसंवि-
करणात्मनि या कुले ॥४६॥
चक्रात्मके चितिः प्रभवी
प्रोक्ता सेह कुलेश्वरी।
सा मध्ये श्रीपरा देवी
मातृसद्भावरूपिणी ॥४७॥
पूज्याथ तत्समारोपा-
दपराथ परापरा।
एकवीरा च सा पूज्या
यदिवा सकुलेश्वरा ॥४८॥

३५
५० श्लो०]
एकोनत्रिंशमाह्निकम् ।
या नाम परादिमन्त्रसिद्धाद्यात्मतया प्राण-
बुद्धिकरणात्मतया च चक्रात्मके कुले पूज्यस-
मूहे पूजकशरीरे च विश्रान्तिधामत्वात प्रभवी
पूर्णस्फुरत्तामात्रसतत्त्वा चितिः प्रोक्ता, सैव इह
कुलेश्वरीत्वात् तच्छब्दव्यपदेश्येत्यर्थः । तत्स.
मारोपादिति प्रत्येकमभिसम्बन्धः । तेन पुष्प.
पाताद्यनुसारं या यस्य आराधयितुमिष्टा, सा
तेन तथा पूज्येत्यभिप्रायः ॥ ४८ ॥
ननु एकवीरक्रमात् यामलक्रमेण पूजायां
को विशेष इत्याशक्य आह
प्रसरेच्छक्तिरुच्छ्रना
सोल्लासो भैरवः पुनः।
सङ्घद्यानन्दविश्रान्त्या
युग्ममित्थं प्रपूजयेत् ॥४९॥
महाप्रकाशरूपायाः
संविदो विस्फुलिङ्गवत् ।
यो रश्म्योघस्तमेवात्र
पूजयेदेवतागणम् ॥ ५० ॥

३६ ३ श्रीतन्त्रालोके यदा हि भैरवोन्मुखी शक्तिः प्रसरेत् भैर- वश्च पुनः शक्त्युन्मुखः, तदा इत्थं परस्परोन्मु- ख्यात् तयोः सङ्घढेन समापत्त्या योऽयमानन्दः खात्मचमत्कारस्तद्विश्रान्त्या युग्मं प्रपूजयेत् । 'आनन्देनैव सम्पन्ने ब्रह्मावस्था स्वयं स्थितः।' इत्यायुक्त्या चिदानन्दैकघनपरब्रह्मस्वरूपमात्र- सतत्त्वं यामलमनुसन्दध्यादित्यर्थः । तमेवेति नतु ततोऽतिरिक्तमित्यर्थः ॥५०॥ तदेव आह अन्तर्वादशकं पूज्यं ततोऽष्टाष्टकमेव च । चतुष्कं वा यथेच्छं वा का सङ्ख्या किल रश्मिषु ॥५१॥ द्वादशकमिति सृष्टिदेव्यादि, एकीकाराहिके वक्ष्यमाणं वा। चतुष्कमिति सिद्धादि, जयादि वा । यथेष्टमिति निजानुष्ठानावस्थितम् ॥५१॥ ननु रश्मयस्तावदनन्ता इत्युक्तम्। तासांच शास्त्रान्तरेषु बहुप्रकारं निर्देश इति निर्निबन्ध- नमेव उपेक्षायां सर्वस्य तथाभावप्रसङ्गादनव- ५४ श्लो०] एकोनत्रिंशमाह्निकम् । स्थितमेव तदनुष्ठानं स्यादिति किमेतच्छास्त्रावि. हितमन्तदशकं पूज्यमित्यादि उक्तम् । सत्य- मेवं, किन्तु गुर्वन्तराणामयमाशय इत्येवमेतत् सन्दर्शितम् । तस्मात् मुख्यया वृत्त्या स्वकण्ठो. क्तमष्टकद्वयमेव यामलक्रमेण सम्पूज्यमित्याह माहेशी वैरिञ्ची कौमारी वैष्णवी चतुर्दिकम् । ऐन्द्री याम्या मुण्डा योगेशीरीशतस्तु कोणेषु॥५२॥ पवनान्तमघोरादिक- मष्टकमस्मिन्नथाष्टके क्रमशः। सचट्टानन्ददृशा सम्पूज्यं यामलीभूतम् ॥५३॥ अष्टाष्टकेऽपि हि विधौ नानानामप्रपञ्चिते बहुधा। विधिरेष एव विहित- स्तत्संख्या दीपमाला स्यात्५४ क्रमश इति व्यस्रावहिरष्टदले पझे पूर्वद- ३८ श्रीतन्त्रालोके क्षिणपश्चिमोत्तरेषु दलेषु अघोरादिसहितं मा- हेश्यादिचतुष्कं तदितरेषु अपि ईशात् वह्वयन्तं सभीमादिकमैन्यादिचतुष्कं पूजयेत् । यदुक्तं 'पूर्वयाम्यापरादिक्षु माहेश्यादिचतुष्टयम् । इन्द्राणीपूर्वकं तद्वदेशादग्निदलान्तगम् ॥ इति, 'ततो वीराष्टकं पश्चाच्छत्युक्तविधिना यजेत् ।' इति च । अत्र 'क्षेत्रेऽष्टधा विभक्ते मध्ये भागद्वयाद्भमस्यान्तः । त्र्यसं कुर्यात्तदनु त्रिधा विभक्ते समन्ततो भागे ॥ वसुदलमम्भोजमथो भागेन नभश्चतुष्किकाश्च चतुः। वेदाने दिक्षु ततो भागाः श्रुतिभावगामिन्यः॥ पार्श्वभ्यामेवमिदं कुलक्रमे मण्डलं सचतुरस्रम् ।' इति मण्डलसंग्रहः । बहुधा नानानामप्रप. ञ्चिते इति कुलशास्त्राणामानन्त्यात् तन्नानामपि नानात्वात् । नहि पूर्वाचार्याणामेतदिह पूज्य- खेन अभिहितं येन परम्परया नैयत्येन तैर्नाम्ना- मपरिग्रहः स्यात्, किन्तु व्याप्तिमात्रप्रदर्शनाश- येनेति यथारुचि तन्नामानि ग्राह्याणीति । यदु- तमनेनैव अन्यत्र 'अष्टकसप्तकस्य तु यथारुचीतरकुलशास्त्रेभ्यः । नामानीति तत्तः .......नि॥

५५ श्लो०]
एकोनत्रिंशमाह्निकम् ।
इति । अत्र च अष्टकसप्तकेत्यभिधानादष्टाष्टक-
मिह पूज्यतया सम्मतमित्येव संलक्षितम् । एवं
हि अष्टकस्य पृथगावरणक्रमेण पूजनीयत्वं न
स्यात् तथात्वे च श्रुतिविरोध इत्यलं बहुना ।
एष एवेति यामललक्षणः। इह तावत्
'आवाहिते मत्रगणे पुष्पासवनिवेदितैः ।
धूपैश्च तर्पणं कार्य श्रद्धाभक्तिबलोदितम् ॥
दीप्तानां शक्तिनाथादिमत्राणामासवैः पलैः।
रक्तैः प्राक्तर्पणं पश्चात्पुष्पधूपादिविस्तरः॥
इत्यायुक्त्या अवश्यकार्य कुलक्रमे तर्पणम् । तत्र
च महापशुप्रतिनिधित्वात् दीपचरोरेव प्राधा-
न्यमिति प्रथमं तदेव उपहर्तव्यतया अभिधत्ते
तत्संख्या दीपमाला स्यादिति । तत्सङ्घयेत्य-
नेन अष्टाष्टव्यातेरत्र आसूत्रणं कृतम् । एतच्च
अभिषेकविषयमिति ॥ ५४॥
अत्र प्रकारान्तरमाह
श्रीरत्नमालाशास्त्रे तु
वर्णसंख्याः प्रदीपकाः।
वर्णाश्च मुख्यपूज्याया
विद्याया गणयेत्सुधीः ॥५५॥

४ ० श्रीतन्त्रालोके तदुक्तं तत्र 'प्रदोषे विलीने मत्री दीपान्दद्याद्वरानने । वर्णसङ्खथान्वरारोहे चतुर्दिक्षु गतान्यसेत् ॥' इति। 'अथातः संप्रवक्ष्यामि मालिन्या यजनं परम् ।' इत्युपक्रान्तत्वात् मुख्यपूज्या मालिनीति तद्व- र्णसङ्ख्यायाः पञ्चाशदीपा उक्ताः। तेन याव- दक्षरा मूलविद्या तत्र, तावत्संख्या दीपाः कार्या इति सिद्धम् ॥५५॥ एवमियता सिद्धपत्नीकुलक्रममभिधाय, अ- र्चाप्रकारासूत्रणाय अत्र ससंवादं मतान्तरमपि अभिधातुमाह पीठक्षेत्रादिभिः साकं कुर्याद्वा कुलपूजनम् । यथा श्रीमाधवकुले परमेशेन भाषितम् ॥५६॥ श्रीमाधवकुले इति श्रीतत्रराजभट्टारकन- न्थैकदेशभूते इत्यर्थः । अत्र हि केषांचन गु- रूणां श्रीदेव्यायामलश्रीमाधवकुलार्थसम्मेल- नया सम्प्रदायः समस्तीति श्रीमाधवकुलोक्त- ५८ श्लो०] एकोनत्रिंशमाह्निकम् । ११ वक्ष्यमाणक्रमेण पीठादियुक्तं वा कुलक्रमपूजन कार्यमित्युपक्षिप्तम् । तदेव आह सृष्टिसंस्थितिसंहारा- नामक्रमचतुष्टयम्। पीठश्मशानसहितं पूजयेद्भोगमोक्षयोः ॥ ५७॥ भोगमोक्षयोरिति तन्निमित्तमित्यर्थः। त- दुक्तं तत्र 'सृष्टिक्रमं तु प्रथममवतारं द्वितीयकम् । संहारं तु तृतीयं स्यादनाख्येयं चतुर्थकम् ।। इति उपक्रम्य स कालीकुलसम्भूतो भावनां भावयेत्स्फुटम् । इति पीठक्रमेण चानायं सङ्कर्षण्या त्वधिष्ठितम् । तैर्विना न भवेत्सिद्धिस्तत्पदं कथयामि ते ।' इति च । श्रीदेव्यायामले हि देवीत्रयं श्रीसङ्क- र्षणी चेति चतुष्टयम् ॥ ५७ ॥ तत्र देहे पीठानां पदमभिधत्ते आत्मनो वाथवा शक्ते- श्वस्याथ सरेदिमम्। इ ४२ श्रीतन्त्रालोके न्यस्यत्वेन विधिं देहे पीठाख्ये पारमेश्वरम् ॥ ५८॥ इममिति वक्ष्यमाणम् ॥ ५८ ॥ तमेव आह अट्टहासं शिखास्थाने चरित्रं च करन्ध्रके। श्रुत्योः कौलगिरि नासा- रन्ध्रयोश्च जयन्तिकाम् ॥५९॥ भ्रुवोरुज्जयिनी वक्के प्रयागं हृदये पुनः। वाराणसी स्कन्धयुगे श्रीपीठं विरजं गले ॥६॥ एडाभीमुदरे हालां नाभौ कन्दे तु गोश्रुतिम् । उपस्थे मरुकोशं च नगरं पौण्ड्रवर्धनम् ॥ ६॥ एलापुरं पुरस्तीरं सक्थ्यूर्वोदक्षिणादितः।

४३ ६३ श्लो०] एकोनत्रिंशमाह्निकम् । कुड्याकेशी च सोपानं मायापूक्षीरके तथा ॥६२॥ जानुजङ्घ गुल्फयुग्मे त्वाम्रातनृपसानी। पादाधारे तु वैरिञ्ची कालाम्यवधिधारिकाम् ॥६३॥ अट्टहासमिति न्यस्यत्वेन स्मरेदिति पूर्वेण सम्बन्धः । एवमुत्तरत्रापि । शिखास्थाने इति प्राणशक्तिविश्रान्त्यवस्थित्यात्मनि द्वादशान्ते इत्यर्थः । वक्रे इति आस्थे । हालामिति अलि- पुरम् । यदुक्तं 'नाभिदेशे त्वलिपुरं कन्दोर्चे परमेश्वरि ।' इति । गोश्रुतिमिति गोकर्णम् । सक्थ्योरिति जानुजके इति गुल्फयुग्मे इति च सर्वत्र दक्षि- णत इति सम्बन्धनीयम् । तेन दक्षिणे सक्ति नगरं, वामे पौण्ड्रवर्धनं, दक्षिणे ऊरावेलापुरं, वामे पुरस्तीरं, दक्षिणे जानुनि कुड्याकेशी, वामे सोपानं, दक्षिणजवायां मायापुरी, वामायां

४४
श्रीतन्त्रालोके
तु क्षीरकं, दक्षिणे गुल्फे आम्रातकेश्वरं, वामे
तु राजगृहमिति । तदुक्तं तत्र
'दक्षिणे सक्नि नगरं वामे स्थात् पौण्ड्रवर्धनम् ।
वामोरौ तु पुरस्तीरमेलापुरं तु दक्षिणे ॥
कुड्याकेशी दक्षजानौ सोपानं चोत्तरे स्मृतम् ।
क्षीरकं वामजवायां वामपुर्यपि दक्षिणे ।
आम्रातकेश्वरं गुल्फे वामे राजगृहं शुभम् ॥'
इति । वैरिश्चीमिति ब्रह्माणी, श्रीशैलाख्यं तु
तत्पीठमित्यर्थः । तदुक्तं श्रीकुलक्रमोदये
'श्रीशैले संस्थिता ब्राह्मी
इत्यादि उपक्रम्य
पादाधारस्थिता ब्राह्मी
इति ॥ ६३ ॥
नच अत्र तास्थ्येन अवस्थातव्यं, किन्तु
अहमेव पीठस्तदधिष्ठाभ्यः शक्तयश्चेति अनु-
सन्धातव्यं येन सिद्धिः स्यादित्याह
नाहमस्मि नचान्योऽस्ति
केवलाः शक्तयस्त्वहम् ।
इत्येवंवासनां कुर्या-
सर्वदा स्मृतिमात्रतः॥६४॥

६६ श्लो०]
एकोनत्रिंशमाह्निकम् ।
४५
तदुक्तं तत्र
'नाहमस्मि नचान्योऽस्ति केवलाः शक्तयस्त्विति ।
क्षणमप्यत्र विश्रामं सहजं यदि भावयेत् ।
तदा स खेचरो भूत्वा योगिनीमेलनं लभेत् ॥'
इति ॥ ६४॥
ननु देशकालव्रतादिनियन्त्रणया सिद्धिर्भवे-
दिति सर्वत्र उक्तम् । तत् कथमत्र अनुसन्धि-
मात्रेणैव एवं स्यादित्याशङ्कय आह
न तिथिनं च नक्षत्रं
नोपवासो विधीयते।
ग्राम्यधर्मरतः सिये-
त्सर्वदा स्मरणेन हि ॥६५॥
ग्राम्यधर्मरतः इति तद्वृत्तिरित्यर्थः। एतच्च प्र-
थमाह्निके एव उक्तमिति तत एवावधार्यम् ॥६५
ननु किं नाम तच्चक्रं यस्यापि न्यस्यत्वेन
पीठाख्योऽयं विधिर्विवक्षित इत्याशय आह
मातङ्गकृष्णसौनिक-
कार्मुकचार्मिकविकोषिधातुविभेदाः ।
मात्स्यिकचाक्रिकदयिता-
स्तेषां पत्न्यो नवात्र नवयागे ॥६६॥

श्रीतन्त्रालोके कृष्णः कज्जलो डोम्ब इति यावत् । वि- कोषी ध्वजी कल्यपालः। धातुविभेदोऽस्थिभेत्ता कापालिकः। तदुक्तं तत्र 'मातङ्गी कजली सौनी कार्मुकी चर्मकारिणी । ध्वजिनी चास्थिदलनी धीवरी चक्रिणी प्रिये ॥ इति । नवयागे इति नवानां चक्राणां यजने इत्यर्थः । तदुक्तं तत्र 'नवयागरता देव्यः पूजयन्ति यथेश्वरम् । तद्वत्पूजा प्रकर्तव्या नवधा नवचक्रगा।' इति ॥ ६६ ॥ तगृहाण्येव च सङ्केतस्थानतया पीठा- नीत्याह सङ्गमवरुणाकुलगि- र्यट्टहासजयन्तीचरित्रकाम्रककोट्टम् । हैमपुरं नवमं स्या- न्मध्ये तासां च चक्रिणी मुख्या॥६७॥ यदुक्तं तत्र 'मातङ्गीवेश्म सुभगे प्रयागं परिकीर्तितम् । कजली वरुणाख्यं तु सौनी कुलगिरिः प्रिये ॥ कार्मुकी चाट्टहासं च जयन्ती चर्मकारिणी । चरित्रं ध्वजिनी प्रोक्तमेकाम्रास्थिविदारणी ॥

७० श्लो०] एकोनत्रिंशमाह्निकम् । देवीकोट्टं धीवरी तु हिरण्यपुरमेव च । नवमं चक्रिणीपीठं यत्सुरैरपि दुर्लभम् ॥' इति । तासामिति मातङ्गयादीनाम् ॥ ६७ ॥ मुख्यत्वमेव अस्या दर्शयति बीजं सा पीडयते रसशल्कविभागतोऽत्र कुण्डलिनी। अध्युष्टपीठनेत्री कन्दस्था विश्वतो भ्रमति ॥६८॥ इष्ट्वा चक्रोदयं त्वित्थं मध्ये पूज्या कुलेश्वरी। सङ्कर्षिणी तदन्तान्ते संहाराप्यायकारिणी ॥६९॥ एकवीरा चक्रयुक्ता चक्रयामलगापि वा। अत्र हि सा कन्दे निखिलजगदुत्पत्तिमूलभूते प्रकाशात्मनि परप्रमातरि आभिमुख्येन वर्त- माना, अत एव गर्भीकृतविश्वत्वात् कुण्डलि- नीरूपा पराशक्तिर्यदा स्वस्तातच्यात् भेदप्रथा- श्रीतन्त्रालोके मवविभासयिषुरध्युष्टपीठे नेत्री देहादिप्रमात तामवलम्बमाना विश्वतो भ्रमति तत्तन्नीलसु- खाद्यात्मतया परितःस्फुरति, तदा पुनरपिआ- त्मन्येव विश्वं विश्रमयितुमुद्यच्छन्ती रसशल्क- विभागतो बीजं पीडयते देहादिप्रमातृतान्य- कारक्रमेण परसंविद्रसमुत्कर्षयन्ती विश्वकारणं मायां तिरस्करोतीत्यर्थः । अन्यच्च सैव कन्दा- धारस्था प्राणकुण्डलिनीरूपा बीजं पुष्पादि- निमित्तमुपभुक्तमाहारादि रसकिहादिरूपतया परिणामयति येन देहाधारं प्रेरयन्ती विश्वतो भ्रमति सर्वतो नाडीचक्रादौ प्राणनात्मतयाअ- वतिष्ठते इत्यर्थः। अथच बहिःसा चाक्रिकी सा- धत्रिहस्तप्रायपरिमाणं चक्रं प्रेरयन्ती तन्म- ध्यस्था विश्वतः सर्वतोदिकं भ्रमति येन सर्व- तोदिकं भ्रमणादेव कुण्डलिनी बीजं तिलादि सशल्कविभागतः पीडयते तैलपिण्याकविभा- गासादनपर्यन्तं निष्पीडयतीत्यर्थः । तदुक्तं 'नवमी चक्रिणी या सा भ्रमन्ती विश्वमध्यगा। सर्व बीजं पीडयन्ती रसशल्कविभागतः ॥ सा च कुण्डलिनी नाम कन्दवेष्टविनिर्गता।'

७० श्लो०] एकोनत्रिंशमाहिकम् । ४९ इति । चक्रोदयमिति उदितं चक्रमित्यर्थः। स- कर्षिणी सप्तदशाक्षरा । यदुक्तं श्रीदेव्यायामले 'नाशार्ण च नितम्बं च प्राणं शूलार्धयोजितम् । नितम्ब प्राणमुद्धृत्य क्षीरवर्णेन संयुतम् ।। त्रिलोचनं कर्णवर्ण बाहुदक्षिणयोजितम् । बाहुस्कन्धं तु तद्वामं दक्षजङ्घानियोजितम् ॥ दन्तार्ण तृतीयोद्धृत्य दक्षजानुसुसंस्थितम् । गुह्यकण्ठे निवेश्येत शूलदण्डं तु जिह्वयोः ॥ शिरोमालार्णद्वितीयं हस्तयोर्योजितं पुनः । नेत्रं तथैव परत उत्तमाङ्गं तथैवच ॥ वामपादं कपालस्थं पञ्चधा योजयेत्ततः । त्रिदशैरपि सम्पूज्या विद्या सप्तदशाक्षरा ॥ कालसकर्षिणी नाना.... इति । इयमेव च विद्या श्रीमाधवकुलेऽपि 'मोहिनी काल आत्मा च वीरनाथेति योजयेत् । इत्यादिना मदीयभूषणैर्युक्तं पञ्चधारार्धमुद्धरेत् ।' इत्यन्तेन उक्ता येनायमेव गुर्वाम्नायः। तदन्तान्ते इति तस्य चक्रस्य अन्तः अराप्रायः, तस्यापि अन्ते पूर्णाहंपरामर्शात्मनि विश्रान्तिधामनी- त्यर्थः। तदुक्तम् 'एवं चक्रोदयं ज्ञात्वा मध्ये ज्ञा कालकृन्तनी । तस्यान्तान्ते तु या आस्ते सा तु सङ्कर्षिणी स्मृता ।'

श्रीतन्त्रालोके इति । चक्रयामलगेति चक्रे यत् यामलं, त- द्गता यामलक्रमेण चक्रयुक्तेत्यर्थः॥ अत्र कथं पीठानि साहित्येन पूज्यानीत्या- शङ्कय आह ईशेन्द्राग्नियमक्रव्या- स्कवायूदक्षु हासतः॥ ७० ॥ त्रिकं त्रिकं यजेदेत- द्भाविस्वत्रिकसंयुतम् । एवमीशानकोणे अट्टहासश्चरित्रं कुलगिरि- श्चेति त्रयं यजेद्यावदुदीच्यामानातकेश्वरो राज. गृहं श्रीपर्वतश्चेति त्रयमिति । नच एतदेकैकं पीठं केवलमेव यजेदित्याह भाविखत्रिकसंयुत- मिति, भावीति वक्ष्यमाणम् ॥ तदेव आह हृत्कुण्डली भ्रुवोर्मध्य- मेतदेव क्रमात्रयम् ॥ ७१॥ श्मशानानि क्रमाक्षेत्र- भवं सद्योगिनीगणम् ।

७३ श्लो० एकोनत्रिंशमाह्निकम् । ५१ यजेदिति पूर्वेण अत्र सम्बन्धः। क्षेत्रभव- मियत्तत्पीठजातमित्यर्थः । तदुक्तम् ६.........."ईशकोणादितः क्रमात् । पूर्वदक्षिणवारुण्यः सौम्या याश्च दिशः प्रिये ॥ इति, 'श्मशानं हृत्प्रदेशः स्यात्कल्पवृक्षस्तु कुण्डली । भ्रूमध्यं योगिनीक्षेत्रं ज्ञातव्यं योगिनीकुले ।' इति च ॥ कृतायां पूजायां नैवेद्येनैव अवश्यभाव्य- मित्याह वस्खङ्गुलोन्नतानूर्व- वर्तुलान् क्षाममध्यकान् ॥७२॥ रक्तवर्तीजश्रुतिदृशो दीपान्कुर्वीत सर्पिषा। श्रुतिदृश इति चतुर्विंशतिः । तदुक्तं 'चतुर्विंशतिदीपांश्च चतुर्दिक्षु प्रदापयेत् । पिष्टात्मकाच आधारमध्यक्षामाः सुवर्तुलाः ।। अष्टाङ्गुलप्रमाणस्थाः शोभनाश्चतुरङ्गुलाः । घृतदीपेन संयुक्ता रक्तवयुपरिस्थिताः ॥ इति ॥

५२ श्रीतन्त्रालोके अत्रैव पक्षान्तरमाह यत्किञ्चिदथवा मध्ये स्वानुष्ठानं प्रपूजयेत् ॥७३॥ अद्वैतमेव न द्वैत- मित्याज्ञा परमेशितुः। सिद्धान्तवैष्णवाद्युक्ता मन्त्रा मलयुतास्ततः॥७४॥ तावत्तेजोऽसहिष्णुत्वा- निर्जीवाः स्युरिहाद्वये। यत्किञ्चिदित्यभीष्टम् । तदुक्तं 'यो यस्मिन्मत्रयोगेन तत्राचारपदे स्थितः। इत्युपक्रम्य वक्रमं तु यजेन्मध्ये द्वैताचारं तु वर्जयेत् ।। इत्युक्त्वा सिद्धान्तवैष्णवबौद्धा वेदान्ताः सातदर्शनाः । ते प्रयत्नेन वा वा यसात्ते पशवः स्मृताः ॥ अद्वैतद्रवसंपर्कासनिधानं त्यजन्ति ते । परामुखत्वमायान्ति निर्जीवा जीववर्जिताः॥ इति॥

७७ श्लो०] एकोनत्रिंशमाह्निकम् । अतश्च तदुपकरणजातमपहाय इहत्यमेव त- दाश्रयणीयं येन विनायासं सिद्धिः स्यादित्याह कलशं नेत्रबन्धादि मण्डलं सुक्खुवानलम् ॥७५॥ हित्वात्र सिद्धिः सन्मये पात्रे मध्ये कृशां यजेत् । अहोरात्रमिमं यागं कुर्वतश्चापरेऽहनि ॥७६॥ वीरभोज्ये कृतेऽवश्यं मन्त्राः सियन्त्ययत्नतः। पीठस्तोत्रं पठेदत्र यागे भाग्यावहाह्वये॥७॥ अपरेऽहनीति प्रभातायां रात्रावित्यर्थः । तदुक्तं 'कलशं नेत्रबन्धं च मण्डलादि विवर्जयेत् । तैर्विहीने भवेत्सिद्धिरग्निना चुक्नुवादिभिः ॥ मद्यपूर्णेषु भाण्डेषु पूर्वोक्तेषु गणाम्बिके । रसायनमयोक्तेषु मध्ये पूज्या कृशोदरी ॥

५४ श्रीतन्त्रालोके इत्यादि उपक्रम्य 'पूर्वाह्न वापराह्ने वा अहोरात्रं वियोगतः । पीठस्तोत्रं पठेद्रात्रौ जपं कुर्यात्समाहितः॥ प्रभाते विमले प्रोक्तं वीरभोज्यं तु कारयेत् । महाभाग्योदयो जायेद्राज्येऽन्ते खेचरो भवेत् ॥ इति ॥ ७७॥ यद्वा मण्डलादिपरिहारेण चक्रमेव पूजये. दित्याह मूतीरेवाथवा युग्म- रूपा वीरस्वरूपिणीः। अवधूता निराचाराः पूजयेत्क्रमशो बुधः ॥७॥ मूर्तीरेवेति एवकारेण केवलाः शक्तीः। वी- रखरूपिणीरिति केवला एव वीराः । अवधूता निर्विकल्पाः ॥ ७॥ ननु केवलशक्तिपक्षे पूजा कथङ्कारं परि- पूर्तिमियादित्याशय आह एक एवाथ कौलेशः स्वयं भूत्वापि तावतीः।

८० श्लो०] एकोनत्रिंशमाह्निकम् । शक्तीर्यामलयोगेन तर्पयेद्विश्वरूपवत् ॥७९॥ अथ स्खयमेक एव भूत्वा गुरुः कुलेश्वरैका- स्यात् कौलेशः, अत एव विश्वरूप इव ताव- तीर्बह्वीरपि शक्तीर्यामलयोगेन तर्पयेत् सङ्घट्टा- नन्दसामरस्यमयतया खात्मविश्रान्तिमात्रस- तत्त्वाः कुर्यादित्यर्थः ॥ ७९ ॥ ननु इह कस्मात् 'उदगयने शुभवारे स्थिरलग्ने स्थापनाधिवासः सात् ।' इत्यादिवत् प्रतिनियतः कालः कुलयागे नोक्त इत्याशय आह क्रमो नाम न कश्चित्स्या- प्रकाशमयसंविदि। चिदभावो हि नास्त्येव तेनाकालं तु तर्पणम् ॥ ८॥ har he 'सकृद्विभातोऽयमात्मा ।' इति न्यायेन महाप्रकाशमयी संविदनिदंप्रथ- मतया प्रवृत्ता अनुपरतेन रूपेण आभासते, श्रीतन्त्रालोके नतु विद्युदुद्दयोतवदन्तरान्तरा विच्छेदेनेति न अत्र क्रमो नाम कश्चिद्विद्यते भेदाश्रयत्वात्तस्य। अतश्च तदेकजीवितः कालोऽपि अत्र नास्तीति अकालमेव तर्पणमुक्तम् । यो हि यत्र न प्रप- तति, स कथं तत्र अवच्छेदकतामियादि- त्याशयः॥८॥ अत एव देशक्रमोऽपि अत्र नास्तीत्याह अत्र क्रमे भेदतरोः समूल- मुन्मूलनादासनपक्षचर्चा । पृथङ युक्ता परमेश्वरो हि स्वशक्तिधाम्नीव विशंश्रमीति॥८॥ स्वशक्तिधाम्नीति 'शक्तयोऽस्य जगत्कृत्वं इत्यायुक्त्या हि सर्व स एवेति को नाम तदति- रिक्तोदेशोऽस्ति योऽपि अस्य आसनतां गच्छेत्॥ एवमर्चाविधिमभिधाय, तत्सङ्गतमेव जप- खरूपं निर्णयति ततो जपः प्रकर्तव्य- स्त्रिलक्षादिविभेदतः। ,

५७
८५ श्लो०]
एकोनत्रिंशमाह्निकम् ।
उक्तं श्रीयोगसञ्चारे
स च चित्रस्वरूपकः ॥८२॥
त्रिलक्षादिविभेदवत्त्वे अस्य किं प्रमाणमि-
त्याशय उक्तमुक्तं श्रीयोगसञ्चारे इति ।
तदेव पठति स च चित्रवरूपकः ॥ ८२॥
चित्रवरूपत्वमेव अस्य दर्शयति
उदये सङ्गमे शान्तौ
त्रिलक्षो जप उच्यते।
आस्ये गमागमे सूत्रे
हंसाख्ये शैवयुग्मके ॥८॥
पञ्चलक्षा इमे प्रोक्ता
दशांशं होममाचरेत् ।
नेत्रे गमागमे वो
हंसे चैवाक्षसूत्रके ॥ ८४॥
शिवशक्तिसमायोगे
षड्लक्षो जप उच्यते।
नेत्रे गमागमे कर्णे
हंसे वक्रे च भामिनि ॥ ८५॥

श्रीतन्त्रालोके हस्ते च युग्मके चैव जपः सप्तविधः स्मृतः। नेत्रे गमागमे कर्णा- वास्यं गुह्यं च गुह्यकम् ॥८६॥ शतारेषु च मध्यस्थं सहस्रारेषु भामिनि । जप एष रुद्रलक्षो होमोऽप्यत्र दशांशतः ॥८७॥ नेत्रे गमागमे करें मुखं ब्रह्मबिलान्तरम् । स्तनौ हस्तौ च पादौ च गुह्यचक्रे द्विरभ्यसेत् ॥ ८८॥ उदये इति प्राणशक्त्युदयस्थाने जन्माधारे। सङ्गमे इति नानानाडिसंभेदभाजि हृदये। शान्ताविति प्राणनिरोधाय युगपगाढावधा- नात्मके इत्यर्थः। गमागमे इति प्राणापानप्र- वाहरूपे। सूत्रे इति अक्षनाडीचक्रसूत्राणां भुवि । हंसाख्ये इति आत्मावभासके हृदये ।

८९ श्लो०] एकोनत्रिंशमाह्निकम् । ५९ युग्मके इति शिवशक्तिसमायोगात्मनि जन्मा. धारे, द्वादशान्ते वा। गुह्यं जन्माधारः। गुह्यक- मिति गुहायां भवं गुह्यं रन्ध्र, तेन उपलक्षितं के करन्धं ब्रह्मबिलमिति यावत् । शतारेष्विति सहस्रारेष्विति एवमादिकासु असङ्ख्यासु बह्वीषु नाडीषु । मध्यमं स्थानं हृदयं नाभिश्चेत्यर्थः । अत्रापि होम इति अपिशब्देन सर्वत्र दशांशो होमः कार्य इति आवेदितम् । गुह्यचके इति योगिनीवाजवत्रापरपर्यायौ जन्माधारद्वादशा- न्तौ। जप एष षोडशलक्ष इति प्राग्रीत्या कल्प- नीयम् । यत एवमादिषु स्थानेषु प्राणो दिर्ध- मेदिति सर्वशेषः ॥८॥ एतत् खयमेव व्याचष्टे यत्र यत्र गतं चक्षु- र्यत्र यत्र गतं मनः। हंसस्तत्र हिरभ्यस्यो विकासाकुञ्चनात्मकः ॥८९॥ यत्र यत्र वत्रादौ स्थाने चक्षुर्मनो वा गतं, यत्रैव असावनुसन्धत्ते योगी; तत्रैव हंसो हान- ६० श्रीतत्रालोके समादानधर्मा प्राणो विकासाकुञ्चनात्मकत्वात् द्विरभ्यस्यो निर्गमप्रवेशपर एवेत्यर्थः। तेन अस्य एवमुक्तानामास्यादीनामपमार्गाणां निरोधे अ. नुसन्धातव्यं येन सर्वतो रुद्धः सन् गत्यन्तरा- भावान्मध्यधामैव असावनुप्रविशतीति । अत्र हि प्रविष्टस्य ऐकात्म्येन मनमुच्चारयन्योगी तां तामासादयेत् सिद्धिम् । यदुक्तमन्यत्र 'जपेत्तु प्राणसाम्येन ततः सिधरहो भवेत् ।' इति । एतदधिगमायैव च षोडशलक्षो जपः कार्यः इत्येवमादि उक्तम् । यत्तु लक्षाणां यथा- यथं न्यूनत्वमुक्तं, तत्र योगिनामनुसन्धानतार- तम्यं निमित्तम् ॥ ८९॥ एवमपमार्गनिरोधात् मध्यधामनि एव प्ररोहं प्राप्तःप्राणः संविद्रुपोद्रेकात् विश्वात्मक- तामेव यायात् । तदाह स आत्मा मातृका देवी शिवो देहव्यवस्थितः। स देहव्यवस्थितोऽपि हंसः प्राप्तमत्रदेवतै- कात्म्यः सन् आत्मा सङ्कुचिताणुरूपः । 'शक्तिस्तु मातृका ज्ञेया सा च ज्ञेया शिवात्मिका।'

९२ श्लो०] एकोनत्रिंशमाह्निकम् । ६१ इत्यायुक्त्या मातृका देवी पारमेश्वरी शक्तिः शिवश्च नरशक्तिशिवात्मतया स एव परिस्फुरे- दित्यर्थः॥ अत एव मत्रस्य प्राप्ततदैकात्म्यस्य प्राणस्य आत्मनश्च मत्रयितुर्न न कंचिदपि भेदमनु- सन्दध्यादित्याह अन्यः सोऽन्योऽहमित्येवं विकल्पं नाचरेद्यतः ॥ ९० ॥ यो विल्पयते तस्य सिद्धिमुक्ती सुदूरतः। अथ षोडशलक्षादि- प्राणचारे पुरोक्तवत् ॥ ९१॥ 'पृथमत्रः पृथभत्री न सिधति कदाचन । ज्ञानमूलमिदं सर्वमन्यथा नैव सिद्ध्यति ।।' इत्यनेनैव अभिप्रायेण सर्वशास्त्रेषु "एकान्ते जपमारभेत् । इत्यादि उक्तम् ॥ ९१ ॥ मुख्यया वृत्त्या हि विकल्पविगम एव एकान्त उच्यते । तदाह ६२ श्रीतन्त्रालोके शुद्धाशुद्धविकल्पानां त्याग एकान्त उच्यते। तत्रस्थः स्वयमेवैष जुहोति च जपत्यपि ॥ ९२॥ जपः सञ्जल्पवृत्तिश्च नादामर्शस्वरूपिणी। तदामृष्टस्य चिह्नौ लयो होमः प्रकीर्तितः॥९३॥ आमर्शश्च पुरा प्रोक्तो देवीद्वादशकात्मकः। हे अन्त्ये संविदौ तत्र लयरूपाहुतिक्रिया ॥९४॥ दशान्यास्तदुपायाये- त्येवं होमे दशांशताम् । श्रीशम्भुनाथ आदिक्ष- त्रिकाम्भोधिचन्द्रमाः ॥९५॥ 'सच द्वादशधा तत्र सर्वमन्तर्भवेद्यतः' (४११२३) ६३ ९६ श्लो०] एकोनत्रिंशमाह्निकम् । इति । तत्रेति द्वादशकमध्यात् ।द्वे अन्त्ये संवि- दाविति परप्रमातृवातन्यशक्तिरूपे। एते एव च अस्मदर्शने 'स्वतत्रो बोधः परमार्थः' इत्यायुक्त्या विश्रान्तिस्थानमित्येवमुक्तं तदुपायायेति मेय- मानादिसोपानक्रमेण परप्रमातरि विश्रान्तेरु- तत्वात् । एतच्च शाक्तोपायाहिक एव विभज्य उक्तमिति तत एव अवधार्यम्। एवमत्र होमस्य दशांशतायामयमभिप्रायः इत्यस्मद्गुरवः ॥१५॥ एवं जपहोमपर्यन्तमर्चाविधिमभिधाय दौतं विधिमभिधातुमुपक्रमते साकं बाह्यस्थया शक्त्या यदा त्वेष समर्चयेत् । तदायं परमेशोक्तो रहस्यो भण्यते विधिः॥९६॥ 'नित्योदिता परा शक्तियद्यप्येषा तथापितु । बाह्यचर्याविहीनस्य दुष्प्रापः कौलिको विधिः ॥ इत्यायुक्त्या बाह्यचर्यया तावदवश्यभाव्यम् । तत्रापिच दूतीमन्तरेण न काचित्तत्सम्पत्तिरि- त्याह बाह्यस्थया शक्त्या साकमिति । तदुक्तं 'कर्तव्या सर्वतो दूति तिहीनो न सिद्धिभाक् ।' ..

६४ श्रीतन्त्रालोके इति, तथा 'ब्राह्मणस्य यथा पत्नी तया सह यजेन्मखे । एवं दूतिः कुलाचार्ये ज्ञेया नित्योदिते कुले ॥ इति ॥ ९६ ॥ ननु सर्वत्र अविशेषेणैव भगवदाराधकस्य 'अदाम्भिको गुरौ भक्तो ब्रह्मचारी जितेन्द्रियः । शिवपूजापरो मौनी मद्यमांसपरामुखः॥ इत्यादि लक्षणमुक्तम् । तत्कथमिह बाह्यस्थया शत्या सह समर्चयेदियुक्तमित्याशङ्कां परमे- श्वरोक्त्यैव निरवकाशयन्नमुष्य विधेः पीठि- कावन्धं करोति उक्तं श्रीयोगसञ्चारे ब्रह्मचर्ये स्थितिं भजेत् । ननु ब्रह्मैव नाम किं यदाचरणेऽपि स्थिति भजेदित्याशय आह आनन्दो ब्रह्म परमं तब देहे त्रिधा स्थितम् ॥९७॥ उपकारि द्वयं तत्र फलमन्यत्तदात्मकम् । 'आनन्दो ब्रह्मणो सपं............। .

९९ श्लो०] एकोनत्रिंशमाहिकम् । इति । परममित्यनेन अस्य अवश्यसेव्यत्वमुक्त- म्। तच्च न केवलं परब्रह्मादिविभेदमात्मनि एव स्थितं, यावदनात्मरूपे बाह्यशरीरादावपीत्याह देहे इति । तत्रेति त्रयाणां मध्यात्। द्वयमिति मद्यमांसलक्षणम्। अन्यदिति मैथुनम् ।मद्यमां- सपानाशनप्रवर्धितधातुर्हि रममाण आनन्दमि- यादित्युक्तमुपकारीति फलमिति च । अत एव तदात्मकमिति सर्वशेषत्वेन उक्तम् । तच्छब्देन च अत्र आनन्दपरामर्शः॥ एवमेषां ब्रह्ममयत्वादेतदनुष्ठाता ब्रह्मचारी- त्युच्यते इत्याह ओष्ठयान्त्यत्रितयासेवी ब्रह्मचारी स उच्यते॥९८॥ ओष्ठ्यः पवर्गः, तस्य अन्त्यो मकारस्तत्रितयं मद्यमांसमैथुनलक्षणम् ॥ ९८॥ ननु 'न मांसभक्षणे दोषो न मधे नच मैथुने । प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला ॥ (मनु० ५।५६) इत्यायुक्त्या मांसादिनिवृत्तौ शास्त्रं प्रयोजक, न तत्प्रवृत्तौ तस्याः स्वारसिकत्वात् । नहि मलिनः . १ '. श्रीतन्त्रालोके सायात् बुभुक्षितोऽश्नीयादित्यादौ क्वचिच्छास्त्र, मुपयुक्तम् । तत्किमेतदुक्तमित्याशङ्कय आह तद्वर्जिता ये पशव आनन्दपरिवर्जिताः। आनन्दकृत्रिमाहारा- स्तहर्ज चक्रयाजकाः ॥९९॥ हयेऽपि निरये यान्ति रौरवे भीषणे विति। इह ये केचन कुलप्रक्रियामनुप्रविष्टा अपि तत्र विहितमपि एतत् लोभेन विचिकित्सयावा चक्रयागादौ स्वस्मै परस्मै वान ददति, ते पशव एव यतः परब्रह्मात्मभूतेन तदुद्भूतेन आनन्देन परिवर्जिता देहादावेव गृहीतात्माभिमाना इ- त्यर्थः । तदुक्तं 'कुलानायेषु ये सक्ता एभिर्द्रव्यैर्बहिष्कृताः। पशबस्ते समुद्दिष्टा न तैस्तु सह वर्तनम् ।। इति । येऽपि स्वयं गर्धवशादानन्दकृतस्त्रीन मानाहरन्ति मकारत्रयमुपभुञ्जते, चक्र पुनर्लो ... १०० श्लो०] एकोनत्रिंशमाहिकम् । भादिना तर्ज यजन्ते; तेऽपि पशव एवेति प्राच्येन सम्बन्धः। तदुक्तं 'विना गुरुं विना देवं मूढवत्परमेश्वरि । मद्यमांसाशिनो नित्यं पशवस्ते न संशयः॥ इति। एवं द्वयेऽपि ते विहितस्य अकरणादविहि- तस्य च करणाद्भीषणे रौरवे नरके यान्ति तत्र यातनासहस्राणि अनुभवन्तीत्यर्थः । एवमेतत् कुलमार्गानुप्रविष्टेन सर्वथा वात्मानन्दव्यञ्जक- तामात्रपरतया सेव्यं, नतु तद्र्धेन । तथात्वे हि अस्य लौकिकेभ्यः को विशेषः स्यात् । यदाहुः 'ब्रह्मण्यानन्दाख्यं रूपमतो यत्समाश्रयवशेन । लभ्यत एव तदखिलं समाहरेद्विषयगर्धनिर्मुक्तः ॥ कामान्मोहाद्विषयाव्यतिरिक्तभावसंख्ढात् । प्रसरत्यानन्दो यः सोऽपि पशूनामपीह साधारः ॥ चिन्मात्रात्मपरत्वे संवित्तेर्व्यञ्जको हि यो विषयः। योग्यात्मना विभाति च भोक्तुः स्वात्मन्यभेदतः सततम् । उक्तः स एव विषयो भिन्नश्चाभेदितां समायातः।'. इति, 'अपरिच्युतस्वरूपैरपृथग्भूतापि विषयसंवित्तिः । भुज्यत एव त एते वीरव्रतिनो महाक्रमारूढाः। लक्षस्थो जपरूढो नियमरतो ब्रह्मचर्यशान्तमनाः । सद्देऽपि च रुढो महामनखी सुशान्तवपुः ॥

श्रीतन्त्रालोके
.
अतिमार्गविनयकथितैः समयाधर्मैश्च संग्रहो यस्य ।
योऽपि महासंबुद्धः संविन्मय एव सर्वदा स्वस्थः ॥
खात्मानुभूतिसिध्यै विषयस्पर्शी न लौल्यभावनया।
पशुभावनाविमुक्तः स घभियुक्तो महामार्गे ॥
यः सावधानवृत्तिः स्वात्मनि मध्येऽपि लोकयात्रायाम् ।
वामाचारविधावपि भवत्यसौ पालने सदास्खलितः॥
यश्चरमधातुस समयलवस्थान्तरे स्वसंवृत्त्या ।
सर्वासां वृत्तीनां प्रत्यस्तमनाश्चेतसो झटिति ॥
आनन्दसंविदुदयो रूपं तब्रह्मणः समाख्यातम् ।'
इति च ॥
ननु अत्र मद्यमांसासेवनं सुकरमिति आ.
स्तामेतत् । इतरत् तु अमर्त्यानामपि दुष्कर
किं पुनौर्भाग्यभाजां मर्त्यानाम् । तस्मात्
'ततस्तत्रानयेतीं मदघूर्णितलोचनाम् ।
बिम्बोष्ठी चारुदशनां सभ्रूभङ्गाननां शुभाम् ॥
त्रस्तबालमृगाभासनयनां चारुहासिनीम् ।
स्फुरद्धमरसवातनिभसत्केशपाशिकाम् ।।
कामकार्मुकसङ्काशभ्रूभङ्गतरलेक्षणाम् ।
द्रवच्चामीकराकारसवां निस्तरङ्गिणीम् ॥
कर्णाभरणसच्चित्रशोभाशतसुशोभनाम् ।
सत्कम्बुनिभसत्कण्ठवरभूषणभूषिताम् ।।
गजकुम्भनिभोदामस्तनभारावनामिताम् ।
सुवृचोपचिताकारबाहुकन्दलिमण्डिताम् ।

१०० लो०]
एकोनत्रिंशमाह्निकम् ।
सत्पश्चफणसङ्काशकरशाखाविराजिताम् ।
स्फुरद्रत्नशिखाचित्रकोर्मिकाङ्गुलिशोभिताम् ।।
पूर्णेन्दुवरलावण्यवदनां चित्तहारिणीम् ।
हरिहेतिमहासिंहपिपीलवरमध्यगाम् ।
त्रिवलिश्रेणिसद्धिम्बजघनालसगामिनीम् ।
रम्भाकरिकराकारवरोरुवरजधिकाम् ।
सत्कामरथचक्राभगुल्फपादसुशोभनाम् ॥
प्रलम्बहेमाभरणहारावलि विराजिताम् ।
स्फुरन्मञ्जीरझाङ्काररशनामुखरखनाम् ॥
पारिहार्यझणत्कारवलयध्वानमन्थराम् ।
मत्तनागेन्द्रसङ्काशगति गम्भीरनाभिकाम् ॥
हंसगद्गदवाग्वंशसदृशां शुभभाषिणीम् ।
केयूरसूत्रिकामोदिपुष्पस्रग्दामभूषिताम् ।
महापश्चफणापीडताम्बूलवरलालसाम् ।
नृत्तगीतससीत्कारलीलाकुट्टमितावृताम् ।।
निस्तरङ्गां सवर्णां च देव्येकार्पितमानसाम् ।
लोभमोहपरिक्षीणचेतसं चित्खभाविकाम् ॥
भैरवैकचमत्कारचर्वणैकखरूपिणीम् ।
सा दूतिर्मोहनी मुद्रा जगत्यसिंश्चराचरे ॥'
इति श्रीतन्त्रराजभहारके
'सुभगा सत्यशीला च दैशिकाज्ञानुवर्तिनी ।
प्रियवादिनी सुखरूपा सात्त्विका सङ्गवर्जिता ॥
भैरवाचारसम्पन्ना अमृतानां च सस्पृहा ।
सदैवाद्वैतनिरता अभ्यासस्था दृढव्रता

F
श्रीतन्त्रालोके
।
पुत्रवत्पश्यते सर्वान जुगुप्सेत्प्रसनधी।
सदाचारकुलोत्पन्ना अप्रसूता सुकेशिनी ॥
मद्यकामत्तमृद्वङ्गी शुक्राढ्या चारुहासिनी।
सुस्निग्धा च विनीता च सदातिथ्यसुभाविता ॥
मत्राप्तिस्वरूपा च निर्मला निरहङ्कतिः ।
पारम्पर्यक्रमस्था तु लोकाचारानुवर्तिनी ॥
नित्ये नैमित्तिके चैव क्रमपर्वसु वर्तिनी ।
कामतत्रक्रियानिष्ठा जानाना देवतर्पणम् ॥
सन्तुष्टा सर्वभावेषु..........
इति श्रीत्रिशिरोभैरवे च प्रोक्तलक्षणा बाह्या
शक्तिरप्राप्यैव । नहि एवंविधाः सर्वे गुणा एकत्र
सञ्चटमानाः क्वचित् कदाचित् दृष्टाः। यदाहुः
........."कनु पुनः सर्वत्र सर्वे गुणाः ।'
इति । अनेवंविधा च दूतिः परिहरणीया । य-
दुक्तम्
'अदूतिको वरं यागो नतु दुर्दूतिदूषितः ।'
इति । नच अत्र विषभक्षणवाक्यवदतिकत्वे
तात्पर्यम् । तदतिको यागो न कार्यः, इतिश्च
एवंविधा न प्राप्येत्यशक्यानुष्ठानमेतदित्या-
शङ्कय आह.
शक्तेलक्षणमेताव-
तद्वतो ह्यविभेदिता ॥१०॥

-
.
१०२ श्लो०]
एकोनत्रिंशमाहिकम् ।
७१
तादृशीं तेन तां कुर्या-
नतु वर्णाद्यपेक्षणम् ।
हीनाया अपि शक्तेरनेका सिद्धिः स्यात् ।
तदुक्तं
'यदि लक्षणहीना सात् दूती वै साधकात्मनाम् ।
वीरैकचित्ता निष्कम्पा सर्वकर्मसु गम्यते ॥'
इति । वर्णा मातङ्गाद्याः। आदिशब्दात् वयःप्र-
भृति लक्षणजातम् । शक्तेलक्षणमेतत्-तद्वद-
भेदः । ततोऽनपेक्ष्यं वयोजात्यादि । अत एव
तत्तादात्म्यमेव अवलम्ब्य अस्याः सर्वत्र तत्त-
द्भेदभिन्नत्वमुक्तम् ॥
तदाह
लौकिकालौकिकद्वयात्म-
सङ्गात्तादात्म्यतोऽधिकात् ॥१०१॥
कार्यहेतुसहोत्था सा
विधोक्ता शासने गुरोः।
साक्षात्परम्परायोगा-
तत्तुल्येति त्रिधा पुनः ॥ १०२ ॥

श्रीतन्त्रालोके इह खलु गुरोः शासने अस्मदर्शने सा एवंविधा शक्तिर्जन्या जनिका सहजा चेति मुख्यया वृत्त्या त्रिविधा उक्ता यतोऽत्र अस्या लौकिकात् यौना- दलौकिकात् ज्ञानीयाच्च सम्बन्धादधिकं तादा- म्यम् । अन्यत्र हि ज्ञानीय एव सङ्ग इति तत्र तथा न तादात्म्यमिति । एवंच अस्याः शक्तः साक्षात् पारम्पर्येण वा द्वैधे षड्विधत्वम् । तदुक्तं 'कार्यहेतुसहोत्थत्वात्रैधं साक्षादथान्यथा ।' इति । पारम्पर्ययोगो यथा कार्याया अपि कार्या हेतोरपि हेतुः सहोत्थाया अपि कार्या चेति । अत एव अत्र आसां तत्तुल्यत्वमुक्तम् । ननु 'खपत्नी भगिनी माता दुहिता वा शुभा सखी।' इत्याद्युक्या खपत्यपि अत्र कस्मात् न परिग. णिता यत् तत्रापि अस्ति लौकिकालौकिकतया यात्मसङ्गः । तत् कथमिह अस्याः षड्डिधत्वमेव उक्तम् । सत्यं, किन्तु अत्र लौकिकवत् रिरंसया न प्रवृत्तिः, अपितु वक्ष्यमाणदृशा अनव- च्छिन्नपरसंवित्स्वरूपावेशसमुत्कतयेत्येवंपरमेत-

१०२ श्लो०]
एकोनत्रिंशमाहिकम् ।
दुक्तम् । स्वपल्यां हि रिरंसासम्भावनाया अपि
अवकाशः स्यात् । यदुक्तं
'दूतीं कुर्यात्तु कार्यार्थी न पुनः काममोहितः।
इति,
'स्थित्यर्थ रमयेत्कान्तां न लौल्येन कदाचन ॥'
इति,
'शिवशक्त्यात्मकं रूपं भावयेच्च परस्परम् ।
न कुर्यान्मानवीं बुद्धिं रागमोहादिसंयुताम् ॥
ज्ञानभावनया सर्व कर्तव्यं साधकोत्तमैः।'
इति च । अत्रैव शास्त्रान्तरविरोधोऽपि परिहृतः।
तत्रापि हि रिरंसापरिहारेण कार्यार्थितया एव.
मानातम् । यत्स्मृतिः
'घृतेनाभ्यज्य गात्राणि तैलेनापि घृतेन वा ।
मुखान्मुखं परिहरन् गात्रैर्गात्राण्यसंस्पृशन् ।
कुले तदवशेषे च सन्तानार्थ न कामतः ।
नियुक्तो गुरुभिर्गच्छेद्धातुर्भायर्या यवीयसः॥
इति । एवंच अत्र निर्विकल्पवृत्तीनां महात्मनां
ज्ञानिनामेव अधिकारो येषां खवृत्तिप्रतिक्षेपेण

श्रीतन्त्रालोके संविदद्वैते एव किमेकाग्रीभूतं चेतो न वेति प्रत्यवेक्षामात्रे एव अनुसन्धानम् । यदभिप्रा. येणैव 'न चर्या भोगतः प्रोक्ता ख्याता कामसुरूपिणी । खचित्तप्रत्यवेक्षातः स्थिरं किं वा चलं मनः॥ इत्यादि उक्तम् ॥ १०२॥ नच एतदस्मदुपज्ञमेवेत्याह श्रीसर्वाचारहृदये तदेतदुपसंहृतम् । षडेताः शक्तयः प्रोक्ता भुक्तिमुक्तिफलप्रदाः ॥१०३॥ 'वेगवत्यथ संहारी त्रैलोक्यक्षोभणी तथा । अर्धवीरासना चैव वक्रकौला तु पञ्चमी । इत्यादि तु अवान्तरभेदप्रायं प्रत्येकं सम्भवदपि आनन्त्यादिह न परिगणितम् ॥ १०३ ॥ ननु एतदास्ताम्, 'बाह्यस्थया शक्त्या साकं समर्चयेत्' इत्येव कस्मादुक्तमित्याशंक्य आह द्वाभ्यां तु सृष्टिसंहारौ तस्मान्मेलकमुत्तमम् ।

कथं च एतत्
१०५ श्लो०]
एकोनत्रिंशमाह्निकम् ।
द्वाभ्यां शक्तिशक्तिमयां हेतुभूताभ्यां हि
सङ्घवेलायां परस्परोन्मुख्येन मुख्येन खस्वरू-
पविश्रान्त्या सृष्टिसंहारौ । तस्मादुभयमयी स्थि-
तिस्तदुल्लासस्तु तुर्याशे इति एवं तत्स्वरसत
एव यदुदेति, तत इदं मेलकमुत्तमं परपदापत्ति-
दायित्वात् तादात्म्यकरमित्यर्थः॥
कार्यमित्याह
तामाहृत्य मिथोऽभ्यर्च्य
तर्पयित्वा परस्परम् ॥ १०४॥
अन्तरङ्गक्रमेणैव
मुख्यचक्रस्य पूजनम् ।
अभ्यच्र्येति अर्थात् शक्तिशक्तिमत्पदे । पू-
जनमिति अर्थात् कार्यम् ॥
ननु कोऽसावान्तरः क्रमः, किंच तत् मुख्य
चक्रमित्याशय आह
यदेवानन्दसन्दोहि
संविदो ह्यन्तरङ्गकम् ॥१०५॥

श्रीतन्त्रालोके तत्प्रधानं भवेच्चक्र- मनुचक्रमतोऽपरम्। अतोऽपरमिति तथा न आनन्दसन्दोहीत्यर्थः॥ चक्रशब्दस्य च प्रवृत्तौ किं निमित्तमित्या- शक्य आह विकासात्तृप्तितः पाशो- कर्तनात्कृतिशक्तितः ॥१०६॥ चक्र कसेश्चकः कृत्या करोतेश्च किलोदितम् । कसी विकासे, चक तृप्तौ, कृती च्छेदने, डुकृञ् करणे,-इति धातुचतुष्टयार्थान्वयादत्र चक्रशब्दः । तेन विकसति, चकति, कृन्तति, करोतीति चक्रम् ॥ ननु 'आनन्दजननं पूजायोग्यं हृदयहारि यत् ।' इत्यादिनीत्या पूजोपयोगिनो द्रव्यजातस्य आ- नन्दसन्दोहित्वं लक्षणं सर्वत्र उक्तम् । इह .

७७ १०९ श्लोक एकोनत्रिंशमाह्निकम् । पुनर्मुख्यचक्रादेः पूज्यस्यैव कथं तदुच्यते इत्या- शङ्कय आह यागश्च तर्पणं बाह्ये विकासस्तच्च कीर्त्यते ॥१०७॥ बहिरपि यागो नाम तर्पणमुच्यते । तच्च चितो नैराकाङ्क्षयोत्पादात् विकासः समुच्छल- दूपत्वमित्यर्थः ॥ १०७॥ ननु बहिस्तर्पणमेव कुतः स्याद्यतोऽपि चितो विकासः समुदियादित्याशङ्कय आह चक्रानुचक्रान्तरगा- च्छक्तिमत्परिकल्पितात् । प्राणगादप्यथानन्द- स्यन्दिनोऽभ्यवहारतः ॥१०॥ गन्धधूपस्रगादेव बाह्यादुच्छलनं चितः। तेन शक्तिमत्परिकल्पितात् 'तेन निर्भरमात्मानं बहिश्चक्रानुचक्रगम् । विशुद्धिसाधरयोरन्तः प्रीत्या च तर्पयेत् ।। .

श्रीतत्रालोके इत्यादिनीत्या चक्रानुचक्रान्तरगात्पानाद्यात्मनः 'शून्योद्भवो भवेद्वायुर्मेंदूस्योत्थापनं भवेत् । वायुमेट्समायोगात् ॥ इत्यादिदृशा प्राणगात् तत्प्रेरणात्मनो गन्धधूप- स्रगादेर्बाह्यात् च आनन्दस्यन्दिनोऽभ्यवहारात् चित उच्छलनं विकासः स्यादित्यर्थः ॥ एवं मुख्यचक्रैकात्म्यमातुमनुचक्रेषु तर्पणं कार्यमित्याह इत्थं वोचितवस्त्वंशै- रनुचकेषु तर्पणम् ॥ १०९॥ कुर्वीयातामिहान्योन्यं मुख्यचक्रैकताकृते । खोचितं वस्तु रूपाद्यन्यतमम् , अनुचक्रे- विति चक्षुरादीन्द्रियरूपेषु; अथच खोचितं वस्तु आलिङ्गनपरिचुम्बनादि । तदुक्तं 'किं पूज्यं पूजकः कोऽसावाहानं कीदृशं भवेत् । किं पुष्पं धूपचरुकं को मत्रो जप एव च ॥ किं कुण्डं भवति धमिः काष्ठं किं चाज्यमेव वा। कर समाधिः महेशान इति हि त्रिलोचन ।'

१११ श्लो०] एकोनत्रिंशमाह्निकम् । इति उपक्रम्य 'योषितश्चैव पूज्यन्ते पुरुषश्चैव पूजकः । आह्वानं तु तयोः प्रीतिः पुष्पं च करजक्षतम् ॥ धूपमालिङ्गनं प्रोक्तं चरु तनुकृतं भवेत् । मन्त्रः प्रियाया वाग्जालं जपश्चाप्यधरामृतम् ॥ भगं कुण्डं सुवं लिङ्गमग्निश्चैव भगाङ्कुरः । आज्यं च भजते बीजमित्युक्तं भैरवागमे ।। शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः । उत्क्षेपानन्दकाले तु पञ्चधा वस्तुसन्ततिः ॥ स समाधिः महेशानि ज्ञात्वा शिवमवाप्नुयात् ।' इति ॥ ननु अनुचक्रतर्पणात् कथं मुख्यचकात्म्य स्यादित्याशङ्का गर्भीकृत्य आगममेव अत्र सं. वादयति उक्तं च त्रिशिरस्तन्त्रे विमलासनगोचरः॥ ११०॥ अक्षषट्रस्य मध्ये तु रुद्रस्थानं समाविशेत् । इह अनुचक्रात्मनां निखिलानां चक्राणांमध्ये तत्संक्षोभे यथोचितमर्थजातमाहरन्नपि विमलं श्रीतन्त्रालोके तदासङ्गाभावात् वैवश्यकलंकोन्मुक्तं यदासन- मवस्थानं तन्निष्ठः सन् खस्वरूपविश्रान्त्या तत्क्षो- भोपसंहारात् रुद्रस्थानं समाविशेत् मुख्यचक्रा- त्मकपरप्रमातृदशावेशभाग्भवेदित्यर्थः ॥ एतदेव प्रपञ्चयति निजनिजभोगाभोग- प्रविकासिनिजस्वरूपपरिमर्शे ॥१११॥ क्रमशोऽनुचक्रदेव्यः संविच्चकं हि मध्यमं यान्ति । यत् निजनिजेन रूपाद्यन्यतमालोचनात्मना भोगाभोगेन बहिरुच्छलद्रूपतया प्रविकासन- शीलस्य निजस्य प्रमातृरूपस्य स्वरूपस्य प. रिमर्श स्वात्मचमत्कारोल्लासे सति यथायथं हगाद्यनुचक्रदेव्यो मध्यमं सर्वसंविद्विश्रान्ति- स्थानतया मुख्यं परमानन्दमयप्रमातृसतत्त्वं संविच्चक्रं यान्ति तत्रैव विश्रान्तिमासादय- न्तीत्यर्थः॥ ननु एवं तत्तदर्थग्रहणकाले सर्वेषामविशेष- ११३ श्लो०] एकोनत्रिंशमाह्निकम् । णैव मुख्यचकात्म्यं सेत्स्यतीति किमेतदुपदे. शेनेत्याशय आह स्वस्थतनोरपरस्य तु तादेहाधिष्ठितं विहाय यतः ॥११२॥ आसत इति तदहंयु- नों पूर्णो नापि चोच्छलति। तदितरस्य पुनः स्वस्थतनोरेवंपरामर्शशू- न्यतया तटस्थप्रायता गायनुचक्रदेव्यो यतो देहाधिष्ठितं विहाय आसते तत्र उदासीनत्व- मालम्बन्ते, ततस्तत्र देहे एव अहंयुहीताभि- मानो नो. पूर्णः सर्वाकाङ्क्षासंक्षयादुपरतेन्द्रिय- वृत्तिः, नापिच उच्छलति साकाङ्क्षत्वेऽपि गा. दीन्द्रियवृत्त्यौदासीन्यात् बहिरुन्मुखो न भवेदु. भयभ्रष्ट एव असावित्यर्थः॥ ननु एवमनुचक्रदेवीनां मुख्यचक्रविश्रान्त्या अनयोः किं स्यादित्याशक्य आह अनुचक्रदेवतात्मक- मरीचिपरिपूरणाधिगतवीर्यम् ॥११३॥ ११ ८२ श्रीतन्त्रालोके तच्छक्तिशक्तिमयुग- मन्योन्यसमुन्मुखं भवति । हगादिदेवीरूपाभिर्मरीचिभिः 'येन येनाक्षमार्गेण यो योऽर्थः प्रतिभासते । खावष्टम्भवलाद्योगी तद्गतस्तन्मयो भवेत् ॥' इत्यादिनीत्या यत् परिपूरणं, तेन लब्धनिजा- वष्टम्भं सत् तदेवमुक्तरूपं शक्तिशक्तिमयुगल- मन्योन्यसंमुखं भवति समासादयेदित्यर्थः॥ ननु एवमपि अस्य किं स्यादित्याशक्य आह तयुगलमूर्ध्वधाम- प्रवेशसंस्पर्शजातसङ्क्षोभम् ॥११४॥ शुभ्रात्यनुचक्राण्यपि तानि तदा तन्मयानि न पृथक्तु । संघट्टवेलायां हि ऊर्ध्वधामनि परानन्दमये योगिनीवात्मनि मुख्यचक्रे समावेशतारत- म्यात् जातः सम्यक् देहाद्यभिमानन्यग्भावेन क्षोभः पूर्णतालक्षणः खात्मचमत्कारातिशयों यस्य, एवंविधं तत् शक्तिशक्तिमल्लक्षणं युगल- ११७ श्लो०] एकोनत्रिंशमाह्निकम् । मनुचक्राण्यपि क्षुम्नाति तदेकमयतयैव परा- सृशेदित्यर्थः ॥ ननु देहायभिमानन्यग्भावेन तत्र समावि. ष्टस्य क इव अनुचक्रार्थः इत्याशङ्कय उक्तं तानि तदा तन्मयानि न पृथक् तु इति । अ- थच अत्र परस्पराहननालिङ्गनपरिचुम्बनादिल- क्षणः क्षोभः॥ एवमत्र परस्या एव संविदः समुदयः स्या- दित्याशङ्कय आह इत्थं यामलमेत- द्गलितभिदासंकथं यदेव स्यात् ॥११५॥ क्रमतारतम्ययोगा- सैव हि संविद्विसर्गसङ्घट्टः। तडुवधामानुत्तर- मुभयात्मकजगदुदारसानन्दम्॥११६॥ नो शान्तं नाप्युदितं शान्तोदितसूतिकारणं परं कौलम् । विसर्गसंघट्ट इति सङ्घट्टरूपो विसर्ग श्रीतन्त्रालोके इत्यर्थः । उभयात्मकेति शिवशक्तिसामरस्यम- यजगदानन्दरूपमित्यर्थः। शान्तमिति विश्वो- त्तीर्णम् । उदितमिति विश्वमयम् । परं कौलमि- ति शान्तोदितादिशब्दव्यपदेश्यत्वायोगादतीव रहस्यरूपमित्यर्थः। अथच क्षेपस्य असम्पत्तेन शान्तं खस्वरूपविश्रान्त्या च न उदितं, किन्तु एतदवस्थाद्वयहेतुभूतमनवच्छिन्नसंविन्मात्रस- तत्त्वमित्यर्थः ॥ एतदावेशे च अवश्यमवधातव्यमित्याह अनवच्छिन्नपदेप्सु- स्तां संविदमात्मसात्सदा कुर्यात् ११७ अनवच्छिन्नं परमा- थतो हि रूपं चितो देव्याः । कथंच अत्र आवेशः सिद्ध्येदित्याशय आह ईदृक्तादृक्प्राय- प्रशमोदयभावविलयपरिकथया ११८ अनवच्छिन्नं धाम प्रविशेद्वैसर्गिकं सुभगः।

१२० श्लो०] एकोनत्रिंशमाह्निकम् । ईक्ताहक्प्राययोः : स्वानुभवमात्रैकरूपत्वात् तथा व्यपदेष्टुमशक्ययोः प्रशमोदययोःशान्तो- दितयोः रूपयो? भावविलयावुत्पत्त्यनुत्पत्ती, तत्र 'भावे त्यक्ते निरुद्धा चिनैव भावान्तरं व्रजेत् । तदा तन्मध्यभावेन विकसत्यतिभावना ॥ (वि०भै०६२) इति भङ्गया परितः समन्तादामर्शनेन वैसर्गि- कमनवच्छिन्नं धाम सुभगः प्रविशेत् पूर्णपरसं- विदात्मसंवित्साक्षात्कारोऽस्य सिद्धयेदित्यर्थः ॥ ननु भवतु एवं, शान्तोदितयोस्तु रूपयोरु- दय एव कथं भवेत् किं शक्तिगतत्वेनैव, किमुत शक्तिमद्गतत्वेनैवेत्याशक्य आह शान्तोदितात्मकं द्वय- मथ युगपदुदेति शक्तिशक्तिमतोः११९ अथशब्दः प्रतिवचने ॥ ११९ ॥ इयान्पुनरत्र विशेष इत्याह रूपमुदितं परस्पर- धामगतं शान्तमात्मगतमेव । उदितं हि रूपं शक्तिशक्तिमतोरन्योन्यमौ.

श्रीतन्त्रालोके न्मुख्यानतिवृत्तेः खस्खमुख्यचक्राख्यधामैक्यको- डीकरणेन परिस्फुरेत् । शान्तं पुनरात्मगतमेव, तथात्वे हि स्वात्मन्येव परं विश्रान्तिरुदियात् ॥ ननु एवं शक्तिशक्तिमतोरुक्तमैकात्म्यं किंन हीयेतेत्याशङ्कय आह उभयमपि वस्तुतः किल यामलमिति तथोदितंशान्तम्॥१२०॥ वस्तुतो हि अपरित्यक्तैकात्म्यमपि इदं शक्तिशक्तिमल्लक्षणमुभयं शान्ततायामात्मनि विश्राम्येत्, नतु परस्परस्य भेदाभिसन्धानेनेति। तथा आत्मगतत्वेन शान्तं रूपमुदितमुक्त- मित्यर्थः ॥ १२०॥ एवमपि अनयोरयं विशेष इत्याह शक्तिस्तहदुचितां सृष्टिं पुष्णाति नो तहान् । शान्तोदितात्मकोभय- रूपपरामर्शसाम्ययोगेऽपि १२१॥ शान्तोदितात्मनो रूपयस्य य एवं परा ८७ १२३ श्लो०] एकोनत्रिंशमाहिकम् । मर्शः, तत्र साम्ययोगेऽपि शक्तिरेव पुनस्तद्दु- चितां शक्तिमदानुगुण्येन उल्लसितां सृष्टिं पु- ष्णातिगर्भ जनयेत्, न शक्तिमानिति ततोऽस्या विशेष इत्यर्थः॥ १२१ ॥ ततश्च गर्भधारणादेव अस्याः सर्वत्र शास्त्रे प्रविकखरमध्यधामत्वमुक्तमित्याह प्रविकस्वरमध्यपदा शक्तिः शास्त्रे ततः कथिता । यदभिप्रायेणैव 'तिष्ठेत्संवत्सरं पूर्ण साधको नियतव्रतः। सिद्धिर्भवति या तस्स सा दिनैकेन योषिताम् ॥ इत्यादि अन्यत्र उक्तम् ॥ अतश्च इयमेव ज्ञानसक्रमणे योग्येत्याह तस्यामेव कुलार्थ सम्यक् संचारयेद्गुरुस्तेन ॥ १२२॥ तद्वारेण च कथित- क्रमेण संचारयेत नृषु । तेनेति प्रविकखरमध्यत्वेन हेतुनेत्यर्थः ।

श्रीतन्त्रालोके
तहारेणेति शक्तिमुखेन । नृणां हि मध्यपद-
प्रविकासो नास्तीत्याशयः। यदभिप्रायेणैव
'. 'स्त्रीमुखे निक्षिपेत्प्राज्ञः स्त्रीमुखाग्राहयेत्प्रिये ।'
इति,
'स्त्रीमुखाच्च भवेसिद्धिः सुसिद्ध तासु तत्पदम् ।'
इति च उक्तम् ॥
एतच्च गुरुभिरपि उक्तमित्याह
स्वशरीराधिकसद्धा-
वभावितामिति ततः प्राह ॥ १२३॥
श्रीमत्कल्लटनाथः
प्रोक्तसमस्तार्थलब्धये वाक्यम् ।
श्रीकल्लटनाथो हि समनन्तरमेव प्रोक्तं
शक्तिलक्षणात्प्रभृति समस्तमर्थं संग्रहीतुं खश-
रीरादपि वारसिकमध्यधामप्रविकखरतया अ-
धिकेन, अत एव सता भावेन भावितां संस्कृतां
शक्तिं गुरुः कुर्यादितिवाक्यं प्राहेति वाक्यार्थः ॥
एवमेतत् प्रसङ्गादभिधाय प्रकृतमेव आह
तन्मुख्यचक्रमुक्तं
महेशिना योगिनीवक्रम् ॥ १२४॥

१२६ श्लो०] एकोनत्रिंशमाह्निकम् । तत्रैष सम्प्रदाय- स्तस्मात्संप्राप्यते ज्ञानम् । तत् उक्तेन प्रकारेण भगवता महेश्वरेण पिचुवत्राद्यपरपर्यायं योगिनीवक्रमेव मुख्यचक्र- मुक्तम् । तत्रैव एष उक्तो वक्ष्यमाणो वा सम्प्र. दायोऽनुष्ठेयो यतस्तस्मात ज्ञानं संप्राप्यते परसं. वित्समावेशोऽस्य जायते इत्यर्थः ॥ ननु अतः कीदृक् ज्ञानमाप्यते इत्युच्यता- मित्याशय आह तदिदमलेख्यं भणितं वक्राहस्थमुक्तयुक्त्या च ॥ १२५॥ वकं प्रधानचक्रं स्वा संविल्लिख्यतां च कथम् । अलेख्यमिति विकल्पयितुमशक्यमित्यर्थः॥ ननु एतत् वक्राक्रस्थं, तत् कथमलेख्य- मित्युक्तमित्याशङ्कय आह उक्तेत्यादि । वक्र च 'वकं हि नाम तन्मुख्यं चक्रमुक्तं महेशिना। योगिनीवत्रं ॥ १२ ९० श्रीतत्रालोके इत्यायुक्तयुक्त्या प्रधानचक्रमुच्यते इति तदु- भयसंघढे जायमाना खा अनुभूतिमात्रखभावा संवित कथं लिख्यतामिति ॥ कथमेतदुक्तमित्याशक्य आह अथ सृष्टे हितयेऽस्मिन् शान्तोदितधाम्नि येऽनुसंदधते॥१२६॥ प्राच्यां विसर्गसत्ता- मनवच्छिदि ते पदे रूढाः। अथशब्दःप्रतिवचने । तेन शान्तोदितत्वेन द्विप्रकारे अस्मिन् समनन्तरोक्तसतत्त्वे 'खातव्यामुक्तमात्मानं । (१५/१६) इत्यादिदृष्ट्या सृष्टे खसमुल्लासिते धाम्नि ये प्राच्यां 'शान्तोदितसूतिकारणं परं कौलम् ।' (११६) इत्यायुक्त्या एतदवस्थाद्वयोदयहेतुभूतां तत्सं- घट्टमयीं विसर्गसत्तामनुसन्दधते तत्स्फारसार- मेवेदं सर्वमित्यामृशन्ति, ते अनवच्छिन्ने पदे रूढाः पूर्णे पदे विश्रान्ता इत्यर्थः ॥

१२९ श्लो०] एकोनत्रिंशमाह्निकम् । एवमेतत् मुमुक्षुविषयमभिधाय, बुभुक्षुवि- षयमपि आह ये सिद्धिमाप्तुकामा- स्तेऽभ्युदितं रूपमाहरेयुरथो ॥१२७॥ तेनैव पूजयेयुः संविन्नैकट्यशुद्धतमवपुषा। ये पिण्डस्थैर्यादिरूपां सिद्धिमाप्तुकामाः, ते तदभ्युदितं रूपं कुण्डगोलकादिशब्दव्यपदेश्य- माहरेयुः। अथ तेनैव अभ्युदितेन रूपेण 'आनन्दो ब्रह्मणो रूपं ..........।' इति श्रुतेरानन्दमयतया संविन्नैकव्यात् 'तस्माद्यसंविदो नातिदूरे तच्छुद्धमाहरेत् ।' इति नीत्या शुद्धतमवपुषा पूजयेयुर्देवीचक्र तर्पयेयुरित्यर्थः ॥ कथंच अत्र आहरणादि स्यादित्याशक्य आह तदपिच मिथो हि वक्रा- प्रधानतो वक्रगं यतो भणितम्॥१२८॥ अजरामरपददान- प्रवणं कुलसंज्ञितं परमम् ।

९२
श्रीतन्त्रालोके
तदपिच अभ्युदितं रूपं यतः
'खदेहावस्थितं द्रव्यं रसायनवरं शुभम् ।'
इत्यादिशा देहे एव अवस्थानात् कुलसंज्ञि.
तमत एव परमम्, अत एव
'शिवः प्रशस्यते नित्यं पूजाख्यं त्रिदशार्चितम् ।
येन प्राशितमात्रेणामरो भवति मानवः ॥
अथवा मिश्रितं देवि भुङ्क्ते यः सततं नरः।
वलीपलितनिर्मुक्तो योगिनीनां प्रियो भवेत् ॥'
इत्यादिनयेन अजरामरपददानप्रवणं प्रधानतो
वनात् योगिनीवात् मिथः परस्परस्य वक्रगं
भणितं सर्वशास्त्रेषु उक्तमित्यर्थः । एतद्धि यो.
गिनीवनात् स्ववक्रे, ततः शक्तिवक्रे, ततः
खवळे, ततोऽपि अर्घपात्रादौ निक्षिपेदिति
गुरवः । यदागमोऽपि
'विद्राव्य गोलकं तत्र कुण्डं च तनुमध्यमे ।
तत्स्थं गृह्य महाद्रव्यं मुखेन तनुमध्यमे ॥
तक्रगं ततः कृत्वा पुनः कृत्वा स्ववक्रगम् ।
पात्रं प्रपूरयेत्तेन महाल्यम्बुविमिश्रितम् ॥
तेनार्घपात्रं कुर्वीत सर्वसिद्धिफलप्रदम् ॥'
इति,

१३० श्लो०] एकोनत्रिंशमाह्निकम् । 'वत्राद्वऋप्रयोगेण समाहृत्य महारसम् । तेन सन्तर्पयेच्चक्रं देवतावीरसंयुतम् ॥ इति, 'ततो दूती क्षोभयित्वा यस्वेच्छा संप्रवर्तते । तदुत्थं द्रव्यनिचयं प्राशयेच्च परस्परम् ॥' इति, 'उभयोत्थेन वीर्येण मन्त्रविद्या यजेत्तथा ।' इति ॥ एवमेतत् ज्ञानिविषयमभिधाय, कर्मिविषय- मपि आह येऽप्यप्राप्तविबोधा- स्तेऽभ्युदितोत्फुल्लयागसंरूढाः ॥१२९॥ तत्परिकल्पितचक्र- स्थदेवताः प्राप्नुवन्ति विज्ञानम् । अप्राप्तविबोधा इति अप्ररूढज्ञानाश्चर्या- मार्गनिष्ठा इत्यर्थः॥ तत्रैव चक्रस्थानां देवतानां परिकल्पनां दर्शयति श्रीतन्त्रालोके ते तत्र शक्तिचक्रे तेनैवानन्दरसपयेन बहिः ॥ १३०॥ दिक्षु चतसृषु प्रोक्त- क्रमेण गणनाथतः प्रभृति सर्वम् । संपूज्य मध्यमपदे कुलेशयुग्मं त्वरात्रये देवीः ॥ १३१॥ बाह्ये प्रत्यरमथ किल चतुष्कमिति रश्मिचक्रमर्कारम् । अष्टकमष्टाष्टकमथ विविधं संपूजयेत्क्रमेण मुनिः॥१३२॥ शक्तिचके इति शक्तेः संबन्धिनि योगिनी. वक्रात्मनि मुख्यचक्रे इत्यर्थः । तेनैवेति अभ्यु- दितेन रूपेण। प्रोक्तेति नित्यार्चाभिधानावसरे। अर्कारमिति द्वादशारम् ॥ १३२ ॥ न केवलमेतत् शक्तिचके एव पूज्यं, याव- खस्मिन्नपीत्याह निजदेहगते धामनि तथैव पूज्यं समभ्यस्येत् ।

१३५ श्लो०] एकोनत्रिंशमाह्निकम् । ननु सट्टाभ्युदितोभयात्मकं विसर्गमनु- सन्दधतामनवच्छिदि पदे प्ररोहो विज्ञानप्रा- प्तिश्च भवेदित्युक्तं, शान्तात्मनि विसर्गे पुनः प्ररूढानां का गतिरित्याशच आह यत्तच्छान्तं रूपं तेनाभ्यस्तेन हृदयसंवित्त्या ॥ १३३॥ शान्तं शिवपदमेति हि गलिततरङ्गार्णवप्रख्यम् । एतीति अभ्यस्तशान्तरूपः । शान्तत्वमेव स्फुटीकृतं गलिततरङ्गार्णवप्रख्यमिति ॥ ननु एवं च अस्य किं स्थादित्याशक्य आह तच्छान्तपदाध्यासा- चक्रस्थो देवतागणः सर्वः ॥ १३४॥ तिष्ठत्युपरतवृत्तिः शून्यालम्बी निरानन्दः। उपरतवृत्तिरिति सर्वभावसंक्षयात्, अत एव उक्तं शून्यालम्बीति, अत एव ........... निरालम्बः परः शिवः।'

श्रीतन्त्रालोके - इति दृशा शिवपदविश्रान्त्या निरानन्दः॥ न केवलं मध्यचक्रस्थ एव देवतागण एव. मास्ते, यावदनुचक्रस्थोऽपीत्याह योऽप्यनुचक्रहगादि- स्वरूपभाक् सोऽपि यत्तदायत्तः॥१३५॥ तेनानन्दे मग्न- स्तिष्ठत्यानन्दसाकाङ्कः। अनुचक्रहगादिस्वरूपभागिति अर्थात् देव- तागणः। तदायत्त इति मुख्यचक्रस्थदेवतागण- वशः। तेनेति तदायत्तत्वेन ॥ ननु एवमनुचक्रदेवतागणोऽपि निरानन्दे एव पदे विश्रान्तोऽस्तु, किमस्य आनन्दसाकाङ्क्ष. वेनेत्याशक्य आह परतत्स्वरूपसङ्घ- दृमन्तरेणैष करणरश्मिगणः ॥१३६॥ आस्ते हि निःस्वरूपः स्वरूपलाभाय चोन्मुखितः। एष हंगायात्मा करणदेवतागणो हि परे खा- ९९ १३८ श्लो०] एकोनत्रिंशमाह्निकम् । नन्दनिर्भरतया सर्वोत्कृष्टे तस्मिन् समनन्तरो- क्तसतत्त्वे प्रमात्रात्मनि संविद्रूपे विश्रान्ति विना निःखरूपो निजनिजार्थाहरणादावक्षमः खरूपं लब्धुमुन्मुखितश्च आस्ते आनन्दसाकाङ्क्षो भवे. दित्यर्थः ॥ एवंविधश्च अयं करणरश्मिगणः किं कुर्या. दित्याशङ्कय आह रणरणकरसान्निजरस- भरितबहिर्भावचर्वणवशेन ॥ १३७॥ विश्रान्तिधाम किञ्चि- लब्ध्वा स्वात्मन्यथार्पयते । एष करणरश्मिगणो हि अभिलाषाभिष्व- हात् निजरसभरितानां स्वसंविन्मयतयैव बहि- रवभासितानां भावानां यत् चर्वणंरक्तिस्तद्वशेन खावमर्शरूपं किञ्चित् विश्रान्तिधाम लब्ध्वा अनन्तरमर्थात् चर्वितमेव भावजातं खात्मनि अर्पयते 'निजनिजभोगाभोगप्रविकासिनिजखरूपपरिमझें । क्रमशोनुचक्रदेव्यः संविच्चक्रं हि मध्यमं यान्ति ॥ (११२) १३

श्रीतन्त्रालोके
-
इत्यादिदृशा प्रमात्रात्मनि मुख्ये संविच्चके
विश्रान्ति भजते इत्यर्थः॥
ननु एवं तद्विश्रान्त्या अस्य किं स्यादित्या-
शङ्कय आह
तन्निजविषयार्पणतः
पूर्णसमुच्छलितसंविदासारः ॥१३८॥
अनुचक्रदेवतागण-
परिपूरणजातवीर्यविक्षोभः ।
चक्रेश्वरोऽपि पूर्वो-
क्तयुक्तितः प्रोच्छलेद्रभसात् ॥१३९॥
चक्राणां हि विश्रान्तिधामत्वादीश्वरः प्रमा-
तापि निजनिजविषयार्पणवशादनुचक्रदेवताग-
णेन यत् परिपूरणं, तेन जातवीर्यविक्षोभो
व्यक्तनिजावष्टम्भः, अत एव पूर्णसमुच्छलि.
तसंविदासारः पूर्वम्
'अनुचक्रदेवतात्मकमरीचिपरिपूरणाधिगतवीर्यम् ।
तच्छक्तिशक्तिमधुगमन्योन्यसमुन्मुखं भवति ॥ (१९३)
इत्यायुक्तयुक्तितो रभसात् प्रोच्छलेत् सहसैव
बहिरुन्मुखः स्यादित्यर्थः ॥ १३९ ॥

१४१ श्लो०]
एकोनत्रिंशमाह्निकम् ।
९९
प्रकृतमेव उपसंहरति
त्रिविधो विसर्ग इत्थं
सङ्घट्टः प्रोदितस्तथा शान्तः।
त्रिषु प्रकारेषु विसर्गशब्दस्य प्रवृत्तौ निमित्तं
दर्शयति
विसृजति यतो विचित्रः
सो विगतश्च यत्र सर्ग इति ॥१४॥
यत इति हेतौ ॥१४॥
नच एतदस्मदुपज्ञमेवेत्याह
श्रीतत्त्वरक्षणे श्री-
निगमे त्रिशिरोमते च तत्प्रोक्तम् ।
'तत्वरक्षाविधानेऽतो विसर्गत्रैधमुच्यते ।'
इत्यादिना तत्त्वरक्षाविधानस्य प्राक्संवादित-
त्वात् तद्धन्थमनुक्कैव, श्रीगमशास्त्रं संवादयति
कुण्डं शक्तिः शिवो लिङ्गं
मेलकं परमं पदम् ॥ १४१ ॥

श्रीतन्त्रालोके द्वाभ्यां सृष्टिः संहृतिस्त- द्विसर्गस्त्रिविधो गमे। कुण्ड भगवच्छक्तिरुदितं रूपम् , शिवः शान्तं, मेलकं सट्टः । तत्रोदितत्वादेव शक्त्या सृष्टेः, शान्तत्वादेव शिवेन संहारस्य, परमं पद- मित्युक्त्या सङ्घट्टेन सर्वावच्छेदविरहादनाख्यस्य च उदय इत्ययं गमशास्त्रे त्रिविधो विसर्गः॥ एवं गमशास्त्रं संवादयित्वा श्रीत्रिशिरोभैर- वमपि संवादयति स्रोतोदयस्य निष्ठान्त- मूर्ध्वाधश्चक्रबोधनम् ॥ १४२॥ विश्रामं च समावेशं सुषीणां मरुतां तथा । गतभेदं च यन्त्राणां सन्धीनां मर्मणामपि ॥१४३ ॥ द्वासप्ततिपदे देहे सहस्रारे च नित्यशः।

१४६ श्लो०] एकोनत्रिंशमाह्निकम् । १०१ गत्यागत्यन्तरा वित्ती सङ्घट्टयति यच्छिवः ॥१४४॥ तत्प्रयत्नात्सदा तिष्ठे- त्सङ्घट्टे भैरवे पदे। उभयोस्तन्निराकार- भावसंप्राप्तिलक्षणम् ॥१४५॥ मात्राविभागरहितं सुस्फुटार्थप्रकाशकम् । इह नित्यमूर्ध्वाधोवर्तिनां चक्राणां सुषीणां यत्राणां सन्धीनां मर्मणां मरुतां च गतभेद- मत एव दक्षवामवाहात्मनः स्रोतोद्वयस्य नि- ष्ठान्तं मध्यधामविश्रान्तिपर्यन्तं बोधनं विश्राम समावेशं च विधाय, द्वासप्ततिपदे सहस्रारे देहे 'द्वासप्ततिसहस्राणि नाडीनां नाभिचक्रके।' इत्याद्युक्त्या तावन्नाडिसम्भिन्ने नाभिदेशे प्राणा- पानत्रोटनेन अन्तरा गृहीतशिवावेशः शान्तो. दितात्मिके वित्ती यत् सङ्घट्टयति. तदुभयमेल- नादिखरूपे प्रोन्मुखो भवेत्, ततः पूर्णसंविद्रूपे सङ्घद्दे पदे सर्वकालं प्रयत्नतस्तिष्ठेत् तत्रैव साव- १०२ श्रीतन्त्रालोके धानो भवेदित्यर्थः । यतस्तदुभयोः शान्तोदित- लक्षणयो रूपयोः प्रतिनियतपदे सकलाकारा- यवच्छेदशून्यत्वात् निराकारत्वापत्तिसतत्त्वमत एव निरंशत्वात् मात्राविभागरहितमत एव सु- स्फुटस्य स्वानुभवमात्रैकरूपस्य अर्थस्य प्रकाश- कमभिव्यञ्जकमित्यर्थः ॥ अत्रैव च दाढ्य कार्यमित्याह अभ्यस्येद्धावसंवित्तिं सर्वभावनिवर्तनात् ॥ १४६॥ सूर्यसोमौ तु संरुध्य लयविक्षेपमार्गतः। सर्वेभ्यश्चक्रादिभ्यो भावेभ्यो निवर्त्य दक्ष- वाममार्गाभ्यां प्राणापानौ निरुध्य मध्यधानि सर्वभावानुस्यूतां तत्संघद्दमयी प्रमातृरूपां सं- वित्तिमभ्यस्येत् तदामर्शपर एव स्यादित्यर्थः । वित्तीरिति पाठे तु शान्तोदितात्मिका एवेति व्याख्येयम् ॥ तदेवमत्र त्रिविधेऽपि विसर्गे समावेशभाजां यः कश्चन वारसिकः परामर्शः परिस्फुरति, ३ १४९ श्लो०] एकोनत्रिंशमाह्निकम् । १०३ तदेव परं मनवीर्यमित्याह एवं त्रिविधविमर्शा- वेशसमापत्तिधाम्नि य उदेति ॥१४७॥ संवित्परिमर्शात्मा ध्वनिस्तदेवेह मन्त्रवीर्य स्यात् । तत्रैवोदिततादृश- फललाभसमुत्सुकः स्वकं मन्त्रम् १४८ अनुसन्धाय सदा चे- दास्ते मन्त्रोदयं स वै वेत्ति । यः कश्चिदेवं विसर्गावेशशाली सङ्घवे. लायामुदितमनुभवमात्रैकगोचरत्वात्तादृशं व- कुमशक्यं यदानन्दनिर्भरं फलं तल्लाभे समु. सुकः सन्नभीष्टं मन्त्रं सदा, नतु क्षणमात्रं, तत्रैव संवित्परामर्शात्मनि अहंचमत्कारमये ध्वनावनुसन्धाय चेदास्ते, स तत्र मन्त्रोदयं वेत्ति उदितोऽस्य मन्त्रः स्यादित्यर्थः ॥ भूयो भूयश्च अत्रैव भावनापरेण भाव्यं येन मध्यचके एव ऐकायं सिद्धयेदित्याह १०४ श्रीतन्त्रालोके अत्रैव जपं कुर्या- दनुचक्रैकत्वसंविदागमने ॥१४९॥ युगपल्लक्षविभेद- प्रपश्चितं नादवृत्त्यैव । 'क्रमशोऽनुचक्रदेव्यः संविच्चक्रं हि मध्यमं यान्ति ।' (११२) इत्यादिदृशा युगपदनुचक्रदेवीनामेकत्वेन मु- ख्यचक्ररूपायां संविदि यदागमनं विश्रान्ति- स्तन्निमित्तमत्रैव संवित्परामर्शात्मनि उदीयमाने मत्रे नादामर्शमात्रमयतया 'उदये सङ्गमे शान्तौ त्रिलक्षो जप उच्यते ।' इत्याद्युक्तेन लक्षविभेदेन प्रपञ्चितं जपं कुर्यात् भूयो भूयोऽनुसन्धानं विदध्यादित्यर्थः॥ इदमेव च मुद्राणामपि परं वीर्यमिति अ- न्यत्र उक्तमित्याह श्रीयोगसञ्चरेऽपिच मुद्रेयं योगिनीप्रिया परमा ॥१५०॥ कोणत्रयान्तराश्रित- नित्योन्मुखमण्डलच्छदे कमले।

१५३ श्लोक एकोनत्रिंशमाह्निकम् । १०५ सततावियुतं नालं षोडशदलकमलकलितसन्मूलम् १५१ मध्यस्थनालगुम्फित- सरोजयुगघटनक्रमादनौ। मध्यस्थपूर्णसुन्दर- शशधरदिनकरकलौघसङ्घट्टात् १५२ त्रिदलारुणवीर्यकला- सङ्गान्मध्येऽङ्करः सृष्टिः। कोणत्रयान्तर्वति नित्योन्मुखं सदैव प्रविक- खरं यत् .......... 'त्रिदलं भगपमं तु......... इत्यायुक्त्या मण्डलच्छदं त्रिदलं पास्नं स्त्रैणं वा भगकमलं तत्र आप्यायकारितया सत- तमवियुतं 'यद्रेतः स भवेचन्द्रः इत्यायुक्त्या षोडशदलेन चान्द्रमसेन कमलेन कलितम् , अत एव आनन्दनिर्भरत्वात् सत्, अत एव वक्ष्यमाणरूपायाः सृष्टेमूलमुत्पत्ति- धाम यत् मध्यनाडीरूपं नालम् , । १४ श्रीतन्त्रालोके 'अम्बुवाहा भवेद्वामा मध्यमा शुक्रवाहिनी । दक्षस्था रक्तवाहा च..." ॥ इत्युक्त्या मध्यस्थेन तेन नालेन गुम्फितमु- म्भितं यत् स्त्रीपुंससंबन्धि सरोजयुगं तस्य पर- स्परसङ्घर्षक्रमेण, तन्मध्यस्थयोः पूर्णयोरविक- लयोः, अत एव आनन्दमयतया सुन्दरयो रेतोरजोरूपयोः शशधरदिनकरयोः कलानां सट्टात् 'शुचिर्नामानिरुद्भूतः सचट्टात्सूर्यसोमयो।' इत्युक्त्या अग्नौ प्रमात्रेकरूपे समुल्लसिते त्रिद- लस्य कमलस्य मध्ये रजोरेतःकलानां सङ्गात् यश्चित्प्रसरात्मा विश्वगर्भीकारसहिष्णुरकुरः, सा सृष्टिर्बहिरपि तथावभासते इत्यर्थः । तदुक्तं 'भगे लिङ्गे स्थितो पहिरन्तरे भास्करः स्थितः। ऊचे विप्रा स्थितः सोमः सङ्घट्टानिष्क्रमेद्रसः॥ इति, 'तत्पीठं शाकिनीचके सा सृष्टिः सचराचरे । तत्क्षेत्रं बीजराजस्य ऋतुकालोद्भवस्य तु ॥ रजःपुष्पोपभोगस्य कुलस्यैवाकुलस्य च । कर्णिकामध्यवर्तिनं हाटकं हाटकेश्वरम् ।। शक्तिपमान्तरे लीनमद्वैतं परमं शिवम् ।' इति च ॥

१०७
१५५ श्लो०]
एकोनत्रिंशमाहिकम् ।
ननु एवं मुद्रया बद्धया अस्य किं स्यादि-
त्याशङ्कय आह
इति शशधरवासरपति-
चित्रगुसंघट्टमुद्रया झटिति १५३
सृष्टयादिक्रममन्तः
कुर्वस्तुर्ये स्थितिं लभते ।
सङ्घदे॒त्यनेन अस्याः षडरसंनिवेशभाक्त-
मुक्तम् ॥
एवं मब्रवीर्यातिदेशद्वारकं मुद्रास्वरूपमभि-
धाय, परस्परस्य लोलीभावं दर्शयितुं पुनस्तद्वी-
यमपि मत्रेषु अतिदेष्टुमाह
एतत्खेचरमुद्रा-
वेशेऽन्योन्यस्य शक्तिशक्तिमतोः१५४
पानोपभोगलीला-
हासादिषु यो भवेद्विमर्शमयः ।
अव्यक्तध्वनिराव-
स्फोटश्रुतिनादनादान्तैः ॥ १५५ ॥

श्रीतन्त्रालोके
अव्युच्छिन्नानाहत-
रूपैस्तन्मन्त्रवीर्य स्यात् ।
एतस्यां षडरमुद्रालक्षणायां खेचरीमुद्राया-
मावेशे शक्तिशक्तिमतोरन्योन्यस्य पानोपभो.
गादौ यो विमर्शात्मा अनुभवः समुदियात्,
तदव्यक्ताद्यष्टभेदभिन्नपरनादामर्शखभावं मान
वीर्य स्यात् ॥
अत्रैव पौनःपुन्येन भावनातस्तल्लाभो भवे-
दित्याह
इति चक्राष्टकरूढः
सहजं जपमाचरन् परे धाम्नि१५६
यद्धैरवाष्टकपदं
तल्लभतेऽष्टककलाभिन्नम्।
अष्टककलेति अष्टभिरर्धचन्द्रादिभिरुन्मना-
ताभिः कलाभिर्भिन्नं भेदितमित्यर्थः ॥
ननु किं नाम चक्राष्टकं, यदारूढोऽपि जप-
माचरेदित्याशङ्कय आह
गमनागमनेऽवसितौ
कर्णे नयने द्विलिङ्गसंपर्के ॥१५७॥

१५९ श्लो०] एकोनत्रिंशमाह्निकम् । १०९ तत्संमेलनयोगे देहान्ताख्ये च यामले चक्रे । गमनागमने प्राणसहिते अपाने इत्यर्थः । अवसितावध्यवसाये बुद्धाविति यावत् । संपर्कः स्पर्शमात्रम् । तत्संमेलनयोगे इति तयोयो- लिङ्गयोः संमेलनयोगे सट्टावसरे इत्यर्थः । देहान्ताख्ये इति द्वादशान्ते । यामले चक्रे इति सर्वशेषः ॥ ननु किं भैरवाष्टकस्य पदं यदपि अर्धचन्द्रादिभिरष्टाभिः कलाभिभिन्नं स्यादि- त्याशङ्कय आह कुचमध्यहृदयदेशा- दोष्ठान्तं कण्ठगं यदव्यक्तम् १५८ तच्चक्रदयमध्यग- माकर्ण्य क्षोभविगमसमये यत् । निर्वान्ति तत्र चैवं योऽष्टविधो नादभैरवः परमः १५९ अत्र नाम ११० श्रीतन्त्रालोके ज्योतिर्ध्वनिसमिरकृतः सा मान्त्री व्याप्तिरुच्यते परमा। कुचमध्यहृदयदेशादारभ्य ओष्ठपुटपर्यन्तं शक्तेः कण्ठान्तः 'यत्तदक्षरमक्षोभ्यं प्रियाकण्ठोदितं परम् । सहजं नाद इत्युक्तं तत्त्वं नित्योदितं जपः ॥' इति 'नित्यानन्दरसास्वादाद्धा हेति गलकोटरे । स्वयंभूः सुखदोचारः कामतत्त्वस्य वेदकः ॥' इत्यादिनिरूपितस्वरूपं यदव्यक्तप्रायं हाहेत्यक्ष- रद्वयमुदेति, तत् परस्परसंघद्वात्मनः क्षोभस्य विगमसमये योगिनीवात्ममुख्यचक्रान्तर्वि- श्रान्तं परामृश्य यत् सर्वे निर्वान्ति विश्रान्ति भजन्ते, तत्रैव निर्वाणात्मनि पदे य एवमव्य- तादिरूपतया अष्टविधः, अत एव अर्धचन्द्रादि- कलाष्टकोल्लसितः, अत एव परमो नादभैरवः, सा परमा मात्री व्याप्तिः सर्वत्र उच्यते इति वाक्यार्थः। ज्योतिरर्धचन्द्रः, ध्वनिर्नादः, स- मीरः स्पर्शात्मा शक्तिः, अधस्तु चन्द्रेणैव व्याप्तमिति अर्थसिद्धम् ॥

१६२ श्लो०] एकोनत्रिंशमाह्निकम् । १११ अत्र च किं तत् भैरवाष्टकं, का च मात्री व्याप्तिरित्याशय आह सकलाकलेशशून्यं कलाढ्यखमले तथा क्षपणकंच १६० अन्तःस्थं कण्ठ्योष्ठयं चन्द्राव्याप्तिस्तथोन्मनान्तेयम् । एषां च शक्तिशक्तिमत्सामरस्यवेलायामुद- यात् तदन्यतरव्यपदेशायोगात् नपुंसकत्वमेव उचितमिति तल्लिङ्गेन निर्देशः॥ एवंव्याप्तिभावनादस्य सर्वत्रैव परभैरवी- भावो भवेदित्याह एवं कर्मणि कर्मणि यत्र क्वापि स्मरन् व्याप्तिम् ॥१६॥ सततमलेपो जीव- न्मुक्तः परभैरवीभवति। एवंविधे च मेलकावसरे गृहीतजन्मा पर- मुस्कृष्ट इत्याह तादृङ्मेलककलिका- कलिततनुः कोऽपि यो भवेद्गर्भे १६२ ११२ श्रीतन्त्रालोके उक्तः स योगिनीभूः स्वयमेव ज्ञानभाजनं रुद्रः। श्रीवीरावलिशास्त्रे बालोऽपिच गर्भगो हि शिवरूपः१६३ ननु 'इत्येवं देवदेवेशि आदियागस्तवोदितः।' इतिहशा आदियागशब्दस्य अत्र प्रवृत्तौ कि निमित्तमित्याशय आह आदीयते यतः सारं तस्य मुख्यस्य चैष यत्। मुख्यश्च यागस्तेनाय- मादियाग इति स्मृतः ॥ १६४॥ तत्र तत्र च शास्त्रेऽस्य स्वरूपं स्तुतवान् विभुः। श्रीवीरावलिहार्देश- खमतार्णवर्तिषु ॥ १६५॥ श्रीसिद्धोत्फुल्लमर्यादा- हीनचर्याकुलादिषु।

१६६ श्लो०] एकोनत्रिंशमाह्निकम् । ११३ सारमिति संवित्तत्त्वात्मकममृतलक्षणं च । तेन आदिश्च असौ याग इति, आदेर्मुख्यचक्रस्य याग इति च । अत एव अस्य सर्वागमेषु परमु- स्कर्ष इत्याह तत्रेत्यादि । हार्देशो हृदयभट्टारकः, खेमतं खेचरीमतम् , अर्णवो योन्यर्णवः, तद्व- तिषु अर्थात् ग्रन्थैकदेशेषु । उत्फुल्लेति उत्फु- ल्लकमतम् । मर्यादाहीनं निर्मर्यादशास्त्रम् । यथोक्तम् 'एष ते कौलिको यागः सद्यो योगविभूतिदः । आख्यातः परमो गुह्यो द्वैतिनां मोहनः परम् ॥ वीराणां दुःखसुखदं लीलया भुक्तिमुक्तिदम् । योगसन्धाप्रयोगेण पूजाह्नि हवनं स्मृतम् ॥ पशुमार्गस्थितानां तु मूढानां पापकर्मणाम् । अप्रकाश्यं सदा देवि यथा किञ्चिन्महाधनम् ॥ न चात्र परमो यागः स्वभावस्थो महोदयः। न कुण्डं नाग्नियजनं नाहुत्याचारमण्डलम् ॥ आवाहनं न चैवात्र न चैवात्र विसर्जनम् । न मूर्तियागकरणं नान्यदासनमेव च ॥ बतचर्याविनिर्मुक्तं बहिर्द्रव्यविवर्जितम् । खानन्दामृतसंपूर्ण महदानन्दसिद्धिदम् ।। केवलं चात्मसत्तायां सर्वशक्तिमयं शिवम् । सर्वाकारं निराकारमात्मयोनि परापरम् ॥

११४
श्रीतन्त्रालोके
भावयेत्तन्महायोगी पूजयेच्चक्रनायकम् ।
एतद्रहयं परमं गुह्यं चोत्तमयोजितम् ।।
संस्फुरत्कौलिकाम्नायं त्वत्स्नेहादद्य योजितम् ।
सुगुप्तं कारयेन्नित्यं न देयं वीरवत्सले ॥
द्वैतिनां खल्पबुद्धीनां लोभोपहतचेतसाम् ।
मायिनां क्रूरसत्यानां जिज्ञासूनां न चैव हि ॥
पृथिवीमपि यो दत्त्वा मूकवत्क्ष्मातले वसेत् ।
तदा सिद्ध्यति मत्रज्ञः सिद्धमेलापकं लभेत् ॥
सर्वामयविनिर्मुक्तो देहेनानेन सिद्ध्यति ।
अनेन योगमार्गेण नानृतं प्रवदाम्यहम् ॥'
इति ॥
इह विद्यामन्त्रमुद्रामण्डलात्मतया चतुष्पीठं
तावच्छास्त्रम् । तत्र मन्त्रमुद्रात्मनः पीठद्वयस्य
संप्रदाय उक्तः । इदानीमत्रैव अवशिष्टस्य वि.
द्यामण्डलात्मनोऽपि अस्य संप्रदायं निरूपयति
युग्मस्यास्य प्रसादेन
व्रतयोगविवर्जितः ॥ १६६ ॥
सर्वदा स्मरणं कृत्वा
आदियागैकतत्परः।
शक्तिदेहे निजे न्यस्ये-
द्विद्यां कूटमनुक्रमात् ॥१६७॥

१६९ श्लो०]
एकोनविंशमाह्निकम् ।
ध्यात्वा चन्द्रनिभं पद्म-
मात्मानं भास्करद्युतिम् ।
विद्यामन्त्रात्मकं पीठ-
द्वयमत्रैव मेलयेत् ॥ १६८॥
अस्य उक्तस्य मन्त्रमुद्रात्मनः पीठयुग्मस्य प्र-
सादादनुसन्धानमात्रेणैव व्रतयोगादिनिरपेक्षः
सर्वकालमादियागपरायणो गुरुः शाक्तं पद्ममान-
न्दनिर्भरत्वात् चन्द्रनिभमात्मानं विकासाधा-
यकतया भास्करयुतिमनुध्याय शाक्ते निजे देहे
क्रमादभीप्सितां शक्तिप्रधानां विद्या, शिवप्र-
धानं कूटं मन्नं च न्यस्येत् येन अत्रैव समन-
न्तरोक्तयुक्त्यनुसन्धानतारतम्यात् विद्यामन्त्रा-
स्मकमपि पीठद्वयं मीलितं स्यात् ॥ १६८ ॥
एतच्च अस्माभिरतिरहस्यत्वात् निर्भज्य
नोक्तमिति स्वयमेव अवधार्यमित्याह
न पठ्यते रहस्यत्वा-
स्पष्टैः शब्दैर्मया पुनः।
कुतूहली तूक्तशास्त्र-
संपाठादेव लक्षयेत् ॥ १६९ ॥

११६
श्रीतन्त्रालोके
अत्रैव मण्डलात्मतामपि अभिधातुमाह
यद्भजन्ते सदा सर्वे
यहान् देवश्च देवता।
तच्चकं परमं देवी-
यागादौ संनिधापकम् ॥१७॥
देह एव परं लिङ्गं
सर्वतत्त्वात्मकं शिवम् ।
देवताचक्रसंजुष्टं
पूजाधाम तदुत्तमम् ॥१७॥
तदेव मण्डलं मुख्यं
त्रित्रिशूलाब्जचक्रखम् ।
तत्रैव देवताचक्रं
बहिरन्तः सदा यजेत् ॥१७॥
स्वस्वमन्त्रपरामर्श-
पूर्व तज्जन्मभी रसैः।
आनन्दबहुलैः सृष्टि-
संहारविधिना स्पृशेत् ॥१७३॥

१७५ श्लो०]
एकोनत्रिंशमाह्निकम् ।
११७
यद्वानिति आद्याधारवान् । देवता चेति
अर्थात् तद्वती। चक्रमिति मुख्यं चक्रम् । अत
एव उक्तं परममिति त्रित्रिशूलाब्जचक्रखमिति
'त्रित्रिशूलेऽत्र सप्तारे श्लिष्टमात्रेण मध्यतः।
पद्मानामथ चक्राणां व्योम्नां वा सप्तकं भवेत् ॥ (३१।२८)
इति वक्ष्यमाणनीत्या तद्रूपमित्यर्थः । स्वस्खेति
अभीप्सितस्य । तजन्मभिरिति मुख्यचक्रोद्तैः
कुण्डगोलकादिभिः । सृष्टिसंहारविधिनेति शा-
न्तोदितक्रमणेत्यर्थः ॥ १७३ ॥
एवंच अस्य किं स्यादित्याशय आह
तत्स्पर्शरभसोद्भुद्ध-
संविच्चक्रं तदीश्वरः।
लभते परमं धाम
तर्पिताशेषदैवतः॥ १७॥
अनुयागोक्तविधिना
द्रव्यैहृदयहारिभिः ।
तथैव स्वस्वकामर्श-
योगादन्तः प्रतर्पयेत् ॥१७॥

श्रीतन्त्रालोके अनुयागोक्तविधिनेति यदुक्तं प्राक् 'यद्यदेवास मनसि विकासित्वं प्रयच्छति । तेनैव कुर्यात् पूजां स इति शम्भोविनिश्चयः ॥ (२६।५५) इत्यादि उपक्रम्य 'शिवाभेदभराद्भाववर्गश्चयोतति यं रसम् । तमेव परमे धानि पूजनायायेगुधः ।।' (२६।६१) इति ॥ १७५॥ एतच्च आदरातिशयमवद्योतयितुं प्रासंवा- दितेनापि निजस्तोत्रैकदेशेन संवादयति कृत्वाधारधरां चमत्कृतिरस- प्रोक्षाक्षणक्षालिता- मात्तैर्मानसतः स्वभावकुसुमैः स्वामोदसन्दोहिभिः। आनन्दामृतनिर्भरवहृदया- नर्धार्घपात्रक्रमात् त्वां देव्या सह देहदेवसदने देवार्चयेऽहर्निशम् ॥ ७६ ॥ नच एवमस्माभिः खोपज्ञमेवोक्तमित्याह ११९ १७९ श्लो०] एकोनत्रिंशमाह्निकम् । श्रीवीरावल्यमर्याद- प्रभृतौ शास्त्रसञ्चये। स एष परमो यागः स्तुतः शीतांशुमौलिना १७७ एष इति देहविषयः, यदभिप्रायेणैव 'खदेह एवायतनं नान्यदायतनं व्रजेत् ।' इत्यादि अन्यत्र उक्तम् ॥ १७७॥ एतच्च देहे इव प्राणेऽपि कार्यमित्याह अथवा प्राणवृत्तिस्थं समस्तं देवतागणम् । पश्येत्पूर्वोक्तयुक्त्यैव तत्रैवाभ्यर्चयेद्गुरुः ॥ १७८॥ कथंच अत्र पूजनं कार्यमित्याह प्राणाश्रितानां देवीनां ब्रह्मनासादिभेदिभिः। करन्धैर्विशतापान- चान्द्रचक्रेण तर्पणम् ॥ १७९॥ ब्रह्मेति ब्रह्मरन्ध्रम् ॥ १७९ ॥ .

१२० श्रीतन्त्रालोके एवंच अस्य किं स्यादित्याशय आह एवं प्राणक्रमेणैव तर्पयदेवतागणम् । अचिरात्तत्प्रसादेन ज्ञानसिद्धीरथाश्नुते ॥ १८ ॥ यद्वा किमनात्मरूपैदेहादिभिः संविनिष्ठत- यैव देवीचक्रं तर्पयेदित्याह संविन्मात्रस्थितं देवी- चक्र वा संविदर्पणात् । विश्वाभोगप्रयोगेण तर्पणीयं विपश्चिता ॥ १८१॥ संविदर्पणादिति व्याख्यातं विश्वाभोगप्रयो- गेणेति, अत एव विपश्चितेति उक्तम् ॥१८॥ ननु विपश्चितोऽपि सति देहादौ संविन्मा- त्रस्थितं देवीचक्रं कथं तर्पणीयमित्याह यत्र सर्वे लयं यान्ति दह्यन्ते तत्त्वसञ्चयाः।

१८५ श्लो०] एकोनत्रिंशमाह्निकम् । १२१ तां चितिं पश्य कायस्थां कालानलसमप्रभाम् ॥१८२॥ यत्र सर्वे सकलायाः प्रमातारो भूतभावा- यात्मकानि प्रमेयाणि च तदेकसाद्भावं यान्ति तामशेषविश्वसंहारकारित्वात् कालानलसमप्रभा कायस्थां चितिं पश्य, सत्यपि देहादौ चिदेव एका सर्वतः परिस्फुरतीत्यर्थः ॥ १८ ॥ एतदेव स्फुटयति शून्यरूपे श्मशानेऽस्मिन् योगिनीसिद्धसेविते। क्रीडास्थाने महारौद्रे सर्वास्तमितविग्रहे ॥ १८३॥ स्वरश्मिमण्डलाकीर्णे ध्वंसितध्वान्तसन्ततौ। सर्वैर्विकल्पैर्निर्मुक्ते आनन्दपदकेवले ॥ १८४॥ असंख्यचितिसंपूर्णे श्मशाने चितिभीषणे।

१२२ श्रीतन्त्रालोके समस्तदेवताधारे प्रविष्टः को न सिद्यति ॥१८५॥ अस्मिन्नसङ्ख्याभिः सुखदुःखाद्यात्मिकाभि- श्चितिभिः संपूर्णे, अत एव संसारयातनादा- यितया महारौद्रे, अत एव परिहरणीयत्वादिना श्मशानप्राये शरीरे प्रविष्टोऽन्तर्मुखीभूतः को न सिद्यतीति संबन्धः । कीदृशे च अस्मिन् । अन्तर्मुखीभावादेव तत्र अहन्ताविगलनात् शून्यरूपे, अत एव सर्वेषां सकलादीनामस्त- मितविग्रहे, अत एव ध्वंसितध्वान्तसन्तती प्रध्वस्तभेदान्धकारे, अत एव सर्वैर्विकल्पैनि- मुक्के, अत एव खस्मिन्नेव, नतु बाह्ये, रश्मि- मण्डलेन चक्षुरादीन्द्रियदेवतावर्गेण आकीर्णे, अत एव योगिनीसिद्धसेविते समस्तदेवताधारे, अत एवं 'क्रीडन्ति विविधैर्भावैर्देव्यः पिण्डान्तरस्थिताः।' इति आसामेव क्रीडास्थाने, अत एव सर्वदे- वतासङ्केतस्थानतया श्मशाने, अत एव सर्व- संहारकारिण्या प्रमात्रेकरूपया चित्या भीषणे, १८७ श्लो०] एकोनत्रिंशमाहिकम् । १२३ अत एव आनन्दपदकेवले स्वात्ममात्रविश्रान्ते इत्यर्थः ॥ १८५॥ नच एतदस्मदुपज्ञमेवेत्याह श्रीमद्वीरावलीशास्त्रे इत्थं प्रोवाच भैरवी। अत्र संविक्रमश्चर्यामयः कटाक्षितोऽपि अ- तिरहस्यत्वात् निर्भज्य भेदेन नोक्त इति न विद्वद्भिरस्मभ्यमभ्यसूयितव्यम् ॥ एवं दौतविध्यनुषक्तं रहस्योपनिषत्क्रममुप- संहरन् दीक्षाविधिमवतारयति इत्थं यागं विधायादौ तादृशौचित्यभागिनम् ॥१८६॥ लौकीयं स्वशिष्यं तं दीक्षयेत्तादृशि क्रमे। लक्षैकीयमिति बहुशः परीक्षौचित्यलब्धम् , अत एवोक्तं वशिष्यमिति, तादृशौचित्यभा- गिनमिति । तादृशीति एवंनिरूपितखरूपे ॥

१२४ श्रीतन्त्रालोके तु तदेव आह रुद्रशक्त्या तं प्रोक्ष्य देवाभ्याशे निवेशयेत् ॥१८७॥ भुजौ तस्य समालोक्य रुद्रशक्त्या प्रदीपयेत् । तयैवास्यार्पयेत्पुष्पं करयोर्गन्धदिग्धयोः ॥ १८८॥ निरालम्बौ तु तौ तस्य स्थापयित्वा विचिन्तयेत् । रुद्रशत्त्याकृष्यमाणौ दीप्तयाङ्कुशरूपया ॥ १८९॥ ततः स स्वयमादाय वस्त्रं बद्धदृशिर्भवेत् । स्वयं च पातयेत्पुष्पं तत्पाताल्लक्षयेत्कुलम् ॥१९॥ ततोऽस्य मुखमुद्धाव्य पादयोः प्रणिपातयेत् ।

१९२ श्लो०] एकोनत्रिंशमाह्निकम् । १२५ हस्तयोर्मूर्ध्नि चाप्यस्य देवीचक्रं समर्चयेत् ॥ १९१॥ रुद्रशक्तिः परया मातृसद्भावेन वा संपुटिता मालिनी । प्रदीपयेदिति हृद्तशक्तिपुञ्जस्य अ- १लिद्वारनिःसृतस्य आकर्षणक्रमेण उत्तेजयेदि- त्यर्थः। तयैवेति रुद्रशतया। निरालम्बाविति विगलितसांसारिककृत्रिमनिजशक्तिकत्वात् नि- जीवप्रायावित्यर्थः। अङ्कुशरूपयेति आकर्षणौ- चित्यात् । तत इति भुजयोः रुद्रशक्त्याकृष्य- माणत्वेन चिन्तनात् हेतोः । लक्षयेदिति एवं हि अस्य खकुलमनायासेन सिद्यदिति । प्रणिपातयेदिति शक्तिरेव ॥ १९१॥ देवीचक्रं च अत्रकथमर्चयेदित्याशय आह आकाकर्षकत्वेन प्रेर्यप्रेरकभावतः। हस्तयोहि प्रेर्यत्वेन देवीचक्रमभ्यर्चयेत् मूर्ध्नि च प्रेरकत्वेन । यतस्तदाकर्षणीयं, तच्च आकर्षकम् । एवं हि मूर्ध्नि पूजितस्य देवीचक्रस्य

१२६
श्रीतन्त्रालोके
सामर्थेन आकृष्टं हस्तद्वयम् । तत्रैव पाततः
शिवहस्तता यायादिति । यदुक्तं
'ततोऽस्स मस्तके चक्रं हस्तयोश्वार्य योगवित् ।
तद्धस्तौ प्रेरयेच्छक्क्या यावन्मूर्धान्तमागतौ ॥
शिवहस्तविधिः प्रोक्तः सद्यःप्रत्ययकारकः ।
इति ॥
यदा पुनरेवं शिवहस्तविधिर्न सिद्ध्येत्, तदा
शास्त्रान्तरीयं क्रममनुतिष्ठेदित्याह
उक्तं श्रीरत्नमालायां
नाभिं दण्डेन संपुटम् ॥१९२॥
वामभूषणजङ्घाभ्यां
नितम्बेनाप्यलङ्कृतम् ।
शिष्यहस्ते पुष्पभृते
चोदनास्त्रं तु योजयेत् ॥१९३॥
यावत्स स्तोभमायातः
स्वयं पतति मूर्धनि।
शिवहस्तः स्वयं सोऽयं
सद्यःप्रत्ययकारकः ॥ १९४॥

१९५ श्लो०] एकोनत्रिंशमाह्निकम् । १२७ अनेनैव प्रयोगेण चरुकं ग्राहयेद्गुरुः। शिष्येण दन्तकाष्ठं च तत्पातः प्राग्वदेव तु ॥१९५॥ नाभिः क्षः । दण्डो रेफः, तेन संपुटमू;- धःसंभिन्नमित्यर्थः। वामभूषणम् ऊ। वामजङ्घा औ। नितम्ब म् । सच अर्थाद्विन्दुरूपः । तेन क्षी । स इति शिवहस्तः। तदुक्तं तत्र 'मूलदण्डं समुदत्य नाभिस्थ वर्णमुद्धरेत् । शूलदण्डासनस्थं तु वामभूषणसंयुतम् ॥ वामजङ्घासमायुक्तं नितम्बालंकृतं प्रिये । दिव्यास्त्रमेतत्परमं नापुण्यो लभते स्फुटम् ॥' इति उपक्रम्य 'शिवहस्ते महेशानि इदं कूटं तु योजयेत् । यावत् स्तुभ्यत्यसौ देवि स्वयमेव चलत्यसौ ॥ इति । सद्यःप्रत्ययकारक इति यत्रैव शरीरचके झटिति हस्तः पतति, तत्रैव अभ्यासपरो भवे- दिति गुरवः । अनेनैवेति आकाकर्षकभाव- लक्षणेन । चरुकमिति अर्थात् देवीभ्योऽने १२८ श्रीतन्त्रालोके दापयित्वा। शिष्येणेति प्रयोज्यकर्तरि तृतीया। प्राग्वदेवेति पञ्चदशाह्निकोक्तवत् ॥ १९५॥ ननु एकेनैव नेत्रपटग्रहाद्यात्मना करस्तो- भेन अस्य शक्त्यावेशो लक्षित इति किं पुन. स्तद्वचनेनेत्याशय आह करस्तोभो नेत्रपट- ग्रहात् प्रभृति यः किल। दन्तकाष्ठसमादान- पर्यन्तस्तत्र लक्षयेत् ॥ १९६॥ तीव्रमन्दादिभेदेन शक्तिपातं तथाविधम् । तत्रेति एवंविधे करस्तोभे। तथाविधमिति तीव्रमन्दादिभेदम् । अयमत्र आशयः यदा हि यत्रैव चक्रे पुष्पपातो वृत्तस्तत्रैव प्रणामः, तत्रैव चरुदान, तत एव तद्रहणमित्यादि; तदा तीव्रः शक्तिपातो लक्षणीयः, अन्यथा तु मन्दः इति । तदुक्तम् 'एतेषां चलनान्मत्री शक्तिपातं परीक्षयेत् । मन्दतीवादिभेदेन मन्दतीत्रादिकं बुधः ।। इति॥

१२९
१९९ श्लो०]
एकोनत्रिंशमाह्निकम् ।
एवमियता अस्मदर्शने समयिदीक्षोक्तत्याह
इत्येष समयी प्रोक्तः
श्रीपूर्वे करकम्पतः॥ १९७॥
नच एतदिह अपूर्वतया उक्तमित्याह
समयी तु करस्तोभा-
दिति श्रीभोगहस्तके।
यच्छ्री पञ्चाशिका
'समयी तु करस्तोमान्मुद्रया पुत्रको भवेत् ।'
इत्यादि ॥
अत्रैव प्रक्रियान्तरमाह
चर्वेव वा गुरुर्दद्या-
हामामृतपरिप्लुतम् ॥ १९८॥
निःशङ्कं ग्रहणाच्छक्ति-
गोत्रो मायोज्झितो भवेत् ।
सकम्पस्त्वाददानः स्यात्
समयी वाचनादिषु ॥ १९९ ॥

१३०
श्रीतन्त्रालोके
कालान्तरेऽध्वसंशुद्ध्या
पालनात्समयस्थितेः।
सिद्धिपात्रमिति श्रीम-
दानन्देश्वर उच्यते ॥ २०॥
चर्विति रत्नपञ्चाद्यात्मकम् । यदुक्तं
'देहस्यं तु चरुं वक्ष्ये यत्सुरैरपि दुर्लभम् ।
शिवाम्बु रेतो रक्तं च नालाज्यं विश्वनिर्गमः ॥
अतो विधानपूर्व तु देहवं ग्राहयेचरुम् ।'
इति।शक्तिगोत्र इति ब्राहयाद्यशकरूप इत्यर्थः ।
अत एव निःशङ्क ग्रहणात्मायोज्झितः साक्षा-
स्कृताविकल्पनिरुपायसंवित्तत्त्वो भवेदित्यर्थः ।
अत एव चरुभोजनादेरनुपायपरिकरत्वं प्राक्
संवादितम् । सशङ्कः पुनरेतदाददानो वाचन-
श्रवणादौ समयी योग्यः स्यायेन उत्तरकालं
तत्तच्छास्त्रीयसमयपरिपालनसूचिततीव्रशक्ति-
पातः षड्डिधस्य अध्वनः सम्यक् पुत्रकदीक्षा-
क्रमेण शुद्ध्या मोक्षलक्ष्मीलक्षणायाः सिद्धे-
भजनं भवेत् । नच एतत् खोपज्ञमेव उक्तमि-
त्याह श्रीमदानन्देश्वर उच्यते इति ॥ २०० ॥

२०१ श्लो०] एकोनत्रिंशमाह्निकम् । १३१ एवं समयिदीक्षामभिधाय, पुत्रकदीक्षा वक्तुमुपक्रमते यदा तु पुत्रकं कुर्या- त्तदा दीक्षां समाचरेत् । इह तावत् 'वेधदीक्षां विना दीक्षां यो यस कुरुते प्रिये । द्वावेतौ नरकं यात इति शाक्तस्य निश्चयः॥' इत्याद्युक्त्या विना आवेशं शिष्यस्य दीक्षा न कार्येति प्रथममावेश एवं उत्पादनीयो येन अस्य दीक्षायोग्यत्वे ज्ञाते गुरुस्तत्प्रक्रियामनुति- ष्ठेत् , अन्यथा पुनर्दीक्षार्हत्वाभावात् स त्याज्य एव । यद्वक्ष्यते 'यस त्वेवमपि स्थान तमत्रोपलवत्यजेत् ।' (२११) इति ॥ समावेशः सर्वशास्त्रेषु अविगानेन उक्त इति दर्शयितुं श्रीरत्नमालायामुक्तं तल्लक्षणं तावदर्थ- गत्या अभिधत्ते उक्तं श्रीरत्नमालायां नादिफान्तांज्वलत्प्रभाम् २०१

१३२
श्रीतन्त्रालोके
न्यस्येच्छिखान्तं पतति
तेनादृक् क्रमो भवेत् ।
तेनेति एवंविधेन न्यासेन हेतुना । पततीति
देहाद्यात्मग्रहपरिहारेण रुद्रशक्तिमेव आविशती-
त्यर्थः। तदुक्तं तत्र
'ततो न्यस्येत्तु शिष्यस्य मालिनी जगदम्बिकाम् ।
ज्वलज्ज्वलनसङ्काशां पादाद्यावच्छिखान्तकम् ।।
नादिफान्तसमुच्चारात् पातयेद्विह्वलेन्द्रियम् ।
एषा दीक्षा महादेवी मालिनीविजये प्रिये ॥'
इति । तेनेति काकाक्षिवद्योज्यम्, तत् तेनेति
पातेन हेतुना । अत्रेति पुत्रकदीक्षायाम् । ईदृक्
वक्ष्यमाणः॥
तमेव आह
प्रोक्षितस्य शिशोन्यस्त-
प्रोक्तशोध्याध्वपद्धतेः ॥२०२॥
ऋजुदेहजुषः शक्तिं
पादान्मूर्धान्तमागताम् ।
पाशान्दहन्तीं संदीप्तां
चिन्तयेत्तन्मयो गुरुः ॥ २०३॥

२०६ श्लो०] एकोनत्रिंशमाह्निकम् । १३३ उपविश्य ततस्तस्य मूलशोध्यात् प्रभृत्यलम् । अन्तशोध्यावसानान्तां दहन्तीं चिन्तयेक्रमात् ॥ २०४॥ एवं सर्वाणि शोध्यानि तत्त्वादीनि पुरोक्तवत् । दग्ध्वा लीनां शिवे ध्याये- निष्कले सकलेऽथवा ॥२०५॥ योगिना योजिता मार्गे सजातीयस्य पोषणम् । कुरुते निर्दहत्यन्य- द्भिन्नजातिकदम्बकम् ॥ २०६॥ तन्मय इति दीप्तशक्तिमयः।तत इति उत्थाना- नन्तरम्। मूलशोध्यमादिशोध्यं यथाकलाध्वनि निवृत्तिः, अन्तशोध्यं यथा अत्रैव शान्त्यतीता। एवमिति मूलशोध्यादारभ्य अन्तशोध्यावसा- नम् । पुरेति तत्त्वदीक्षाप्रकरणे । निष्कले इति पुत्रकाद्यपेक्षया। सकले इति साधकोद्देशेन ।

१३४ श्रीतन्त्रालोके मार्गे इति मध्यधान्नि । सजातीयं चैतन्यम् । भिन्नजातीया मलाद्याः ॥२०६ ॥ ननु एवमस्य किं फलमित्याशक्य आह अनया शोध्यमानस्य शिशोस्तीवादिभेदतः। शक्तिपाताचितिव्योम- प्राणनान्तर्बहिस्तनूः ॥२०७॥ आविशन्ती रुद्रशक्तिः क्रमात्सूते फलं त्विदम्। आनन्दमुद्भवं कम्पं निद्रां घूर्णि च देहगाम्॥२०॥ एवमस्य दग्धपाशस्य शिष्यस्य तीव्रतीवात् शक्तिपातात् चितिं साक्षादात्मानमाविशन्ती रुद्रशक्तिरानन्द सूते यावत् मन्दमन्दात् शक्ति- पातात् देहमाविशन्ती घूर्णिम् । यतः चिता- वानन्दरूपत्वादानन्दस्य औचित्यं, शून्यात्मनि व्योम्नि अवकाशवत्वादुद्भवस्य,प्राणात्मनि वायौ तत्कारित्वात् कम्पस्य, अन्तस्तनौ बुद्धिपुर्यष्टके तत्तन्मायीयवृत्तिनिरोधात् निद्रायाः, बहिस्तना-

२१० श्लो०]
एकोनत्रिंशमाह्निकम् ।
१३५
वहन्तावष्टम्भभङ्गात् घूर्णेरिति । एवं हि साक्षा-
दस्य दीक्षा वृत्तेति गुरोराश्वासो भवेदिति
भावः ॥२०८॥
एवमस्य स्तोभितपाशतया शिवे एव योज-
निका जातेति तदैव देहपातः प्रसजेदित्या-
शक्य आह
एवं स्तोभितपाशस्य
योजितस्यात्मनः शिवे।
शेषभोगाय कुर्वीत
सृष्टिं संशुद्धतत्त्वगाम् ॥२०९॥
शेषस्य एतद्देहारम्भकस्य कर्मणः । सृष्टि-
मिति अर्थादेतदेहगतामेव ॥ २०९ ॥
एवमपि यदि एतच्चिहानुदयात् मन्दशक्ति-
पातवतः कस्यचित् न अयमेवमावेशो जायते,
तदा एवमस्य संस्कारान्तरं कुर्यादित्याह
अथवा कस्यचिन्नैव-
मावेशस्तबहेदिमम् ।
बहिरन्तश्वोक्तशत्तया
पतेदित्थं स भूतले ॥२१०॥

१३६
श्रीतन्त्रालोके
॥
यस्य त्वेवमपि स्यान्न
तमत्रोपलवत्त्यजेत्।
युगपदेव ऊर्ध्वाधोवमदग्निपुञ्जस्य ऊर्ध्वमुखस्य
त्रिकोणस्य अन्तरुपवेशितं सर्वतो रेफवलितं
ज्वालाकलापमय्या शक्त्या बहिरन्तश्च दहेदिति
गुरवः । स्यान्नेति आवेशः। उपलवदिति अना-
यातशक्तिपातत्वात् निबिडजडिमानमित्यर्थः ।
एवं परित्यक्तो हि शिष्यः संसारे एव
मजनोन्मजनानि कुरुते इति तदनुजिघृक्षापर.
तया गुरुतः शास्त्रतश्च सिद्धमप्रतिहतं दीक्षान्तरं
वक्तुमाह
अथ सप्रत्ययां दीक्षा
वक्ष्ये तुष्टेन धीमता ॥२१॥
शंभुनाथेनोपदिष्टां
दृष्टां सद्भावशासने।
सद्भावशासने इति श्रीतत्रसद्भावे ॥
तामेव आह
सुधाग्निमरुतो मन्द-
परकालाग्निवायवः॥२१२॥

१३७ २१३ श्लो०] एकोनत्रिंशमाह्निकम् । वह्निसौधासुकूटाग्नि- वायुः सर्वे सषष्ठकाः। एतत्पिण्डत्रयं स्तोभ- कारि प्रत्येकमुच्यते ॥२१३ ॥ सुधासः, अग्निःरः, मरुत् यः, एवं स्यूँ :मन्दो डकारः, तत्परः फणभृच्छब्दवाच्यो ढकारः, प्राणशमनोऽन्तको मः,अग्निः रः, वायुर्यः, एवं इम्यू: वह्निः रः, सोमः सः, असुः प्राणो हः, कूटं क्षः, अग्निः रः, वायुर्यः, एवं ईक्षयूं । अत्र समाहारे द्वन्द्वः। सर्वे इति त्रयोऽपि पिण्डाः । सषष्ठका इति ऊकारासनस्था अर्थात् बिन्द्रा- दिलाञ्छिताश्च । प्रत्येकमिति व्यस्तमित्यर्थः । तदुक्तं तत्र 'अथैवमपि यस्य स्थानावेशः कश्मलात्मनः । तं पिण्डत्रितयादेकेनोद्बोधपदवीं नयेत् ॥ सोमानलानिलैरेकं पिण्डमादौ समुद्धरेत् । फणभृत्प्राणशमनशिखिवायुयुतं परम् ।। शिखिसोमासुकूटाग्निसमीरैश्च तृतीयकम् । षष्ठासनानि सर्वाणि तिलकाङ्कानि सुन्दरि ॥ त्रिभिरेभिर्भवेद्यस्तैः शक्यावेशः शरीरगः।' इति ॥ २१३ ॥ १८ १३८ श्रीतन्त्रालोके अत्रैव इतिकर्तव्यतामाह शक्तिबीजं स्मृतं यच्च न्यस्येत्सार्वाङ्गिकं तु तत् । हृच्चके न्यस्यते मन्त्रो द्वादशस्वरभूषितः॥२१४॥ जपाकुसुमसंकाशं चैतन्यं तस्य मध्यतः। वायुना प्रेरितं चक्र वह्निना परिदीपितम् ॥२१५॥ तयायेच्च जपेन्मन्त्रं नामान्तरितयोगतः। निमेषार्धात्तु शिष्यस्य भवेत्स्तोभो न संशयः ॥२१६॥ शक्तिबीजं श्लिष्टतया त्रिकोणबीजमीकारो डम्बरशब्दवाच्या माया च । सार्वाङ्गिक न्यस्ये- दिति एतद्वीजद्वयमध्ये दीक्ष्यं चिन्तयेदित्यर्थः । मन इति सर्वमनसामान्यात्मा हकारः। तस्येति पण्ठवर्ज स्वरद्वादशकसंभिन्नत्वात् चक्राकारतया

२१७ श्लो०]
एकोनत्रिंशमाह्निकम् ।
अवस्थितस्य मन्त्रस्य । तच्चक्रमिति दीक्ष्यस्यब-
हिरन्तश्च चिन्तितं वाग्भवादिनिखिलमन्त्रकद-
म्बकमित्यर्थः । तेन एतत् वायुना यकारेण,
वह्निना रेफेण च बहिः सर्वतो वेष्टितं ध्यायेत्
येन एवमुद्दीपितं सत् स्तोभाविर्भावनप्रागल्भ्य-
मियात् । मन्त्रमिति पिण्डनयमध्यादेकतमम् ।
नामान्तरितयोगतः इति तेन आदौ मन्त्रः,
ततो दीक्ष्यनाम, पुनर्मत्र इति । तदुक्तं तत्र
'त्रिकोणक डम्बरं च न्यस्वेत्सर्वाङ्गसङ्गतम् ।
द्वादशस्वरसंमिन्नं हृचक्रे मत्रनायकम् ॥
उदयादित्यसङ्काशं जीवं तेन च चालयेत् ।
दीपयेदनलेनैव वायुनापि प्रबोधयेत् ॥
मत्रेणान्तरितं नाम जपेच्छिष्यस्य भामिनि ।
आवेशमायाति ततस्तत्क्षणादेव तत्परः ॥'
इति ॥ २१६ ॥
एवंच अस्य कीगनुभव इत्याह
आत्मानं प्रेक्षते देवि
तत्त्वे तत्त्वे नियोजितः।
यावत्प्राप्तः परं तत्त्वं
तदा त्वेष न पश्यति ॥२१७॥

१४० श्रीतन्त्रालोके अनेन क्रमयोगेन साध्वानं स पश्यति । प्रेक्षते इति अर्थात् यथायथं शुद्धम् । न प. श्यतीति द्रष्ट्रकखभाव एव भवेदित्यर्थः ॥ न केवलमस्य स्वात्मनि एव प्रत्ययनिमित्तमे- वमनुभवो जायते, यावत् स्वपरयोरपीत्याह अथवा सर्वशास्त्राण्य- प्युद्राहयति तत्क्षणात् ॥२१८॥ सर्वशास्त्राणीति अर्थाददृष्टश्रुतानि ॥२१८॥ यदि नाम च प्रतिनियतभोगेच्छुः कोऽपि स्यात् , तदा अस्य तादृशीमेव दीक्षां कुर्यादित्याह पृथक्तत्त्वविधौ दीक्षा योग्यतावशवर्तिनः। तत्त्वाभ्यासविधानेन सिद्धयोगी समाचरेत् ॥२१९॥ इति संदीक्षितस्यास्य मुमुक्षोः शेषवर्तने।

२२२ श्लो०]
एकोनत्रिंशमाह्निकम् । १४१
कुलक्रमेष्टिरादेश्या
पञ्चावस्थासमन्विता॥ २२० ॥
योग्यता कस्यचित् पृथ्वीतत्त्वे एव भुवने-
शत्वे वाञ्छा, कस्यचित् तु सदाशिवत्वे । तत्त्वा-
भ्यासविधानेनेति तत्तद्धारणाद्यात्मनेत्यर्थः।शे-
पवर्तने इति शेषवृत्तिनिमित्तमित्यर्थः ॥ २२० ॥
पञ्चावस्थासमन्वितमेव व्याचष्टे
जाग्रदादिषु संवित्ति-
यथा स्यादनपायिनी।
कुलयागस्तथादेश्यो
योगिनीमुखसंस्थितः॥२२१॥
अनपायिनीति
............न सावस्था न या शिवः। (स्प० का०३२)
इति भङ्गया प्रवृत्ता अविरतरूपेत्यर्थः॥ २२१ ॥
तदेव आह
सर्व जाग्रति कर्तव्यं
स्वप्ने प्रत्येकमन्त्रगम्।
निवार्य सुप्ते मूलाख्यः
खशक्तिपरिबृंहितः ॥ २२२ ॥

श्रीतन्त्रालोके
१४२
तुयें त्वेकैव दूत्याख्या
तदतीते कुलेशिता।
स्वशक्तिपरिपूर्णाना-
मित्थं पूजा प्रवर्तते ॥ २२३ ॥
इह खल्लु जायदाद्यवस्थासु यथायथं भेदस्य
हानिरभेदस्य च उदय इति जाग्रदवस्थायां नि-
खिलमेव मन्त्रजातं पूजनीयतया योज्यम् ; ख-
नावस्थायामपि एवं, किन्तु प्रत्येकमारिराधयि-
पितमेकमेव परादिमनमधिकृत्येत्यर्थः। सुषुप्ता-
वस्थायां तु सर्व परिवारभूतं मनजातमपास्य
परादिशक्तित्रययोगिभैरवत्रयं कुलेश्वरौ च इत्येव
पूज्यम् , एवं तुर्येऽपि एकैव कुलेश्वरी, तुर्यातीते
च कुलेश्वर एवेति ॥ २२३ ॥
एतदेव अन्यत्रापि अतिदिशति
पिण्डस्थादि च पूर्वोक्तं
सर्वातीतावसानकम् ।
अवस्थापञ्चकं प्रोक्त-
भेदं तस्मै निरूपयेत् ॥२२४॥

२२७ श्लो०]
एकोनत्रिंशमाह्निकम् ।
पूर्वेति दशमाहिके । प्रोक्तभेदमिति योगि-
ज्ञानिविषयतया। तस्मायिति एवं संदीक्षिताय
मुमुक्षवे ॥ २२४ ॥
इदानीं दीक्षानन्तरोद्दिष्टं साधकाचार्ययोर-
भिषेकमपि आह
साधकस्य बुभुक्षोस्तु
सम्यग्योगाभिषेचनम् ।
तत्ष्ट्वा विभवैर्देवं
हेमादिमयमव्रणम् ॥ २२५॥
दीपाष्टकं रक्तवर्ति-
सर्पिषापूर्य बोधयेत् ।
कुलाष्टकेन तत्पूज्यं
शङ्ख चापि कुलेश्वरौ ॥ २२६॥
आनन्दामृतसंपूर्णे
शिवहस्तोक्तवर्मना।
तेनाभिषिञ्चत्तं पश्चात्
स कुर्यान्मन्त्रसाधनम् ॥२२७॥

१४४ श्रीतन्त्रालोके आचार्यस्याभिषेकोऽय- मधिकारान्वितः स तु। कुर्यापिष्टादिभिश्चास्य चतुष्पष्टिं प्रदीपकान् ॥२२॥ अष्टाष्टकेन पूज्यास्ते मध्ये प्राग्वत् कुलेश्वरौ। शिवहस्तोक्तयुक्त्यैव गुरुमप्यभिषेचयेत् ॥ २२९॥ योगेति तत्प्रधानमित्यर्थः। तत्रेति योगाभि- षेचने । शङ्ख इति महाशङ्के । शिवहस्तोक्तवर्म- नेति शक्त्याकर्षणात्मना क्रमेण । तेनेति शङ्केन। स इति बुभुक्षुः साधकः । पिष्टादिभिरिति आ- दिशब्दात् वल्मीकमृदादि । प्राग्वदिति शङ्ख- गतत्वेन ॥ २२९ ॥ एवमभिषेकेण अनयोः किं स्यादित्याशङ्कां निराचिकीर्षुरागममेव पठति अभिषिक्ताविमावेवं सर्वयोगिगणेन तु।

२३२ श्लो०] एकोनत्रिंशमाह्निकम् । १४५ विदितौ भवतस्तत्र गुरुमोक्षप्रदो भवेत् ॥ २३०॥ अत्रैव तुर्यपादस्य तात्पर्यतोऽर्थ व्याख्या- तुमाह तात्पर्यमस्य पादस्य स सिद्धीः संप्रयच्छति । गुर्यः साधकः प्राक्स्या- दन्यो मोक्षं ददात्यलम् ॥२३१॥ अनयोः कथयेज्ज्ञानं त्रिविधं सर्वमप्यलम्। स्वकीयाज्ञां च वितरेत् स्वक्रियाकरणं प्रति ॥ २३२॥ इदमत्र तात्पर्यम्-यदनयोर्मध्यात् यः पूर्व साधकः सन् गुरुः, स परेभ्यः सिद्धीरेव ददाति, अन्यः प्रथममेव यो गुरुः, सोऽत्यर्थं प्रकर्षण सिद्धिदानपुरःसरीकारेण मोक्षमपीत्यर्थः। यद्यपि सबीजदीक्षादीक्षितस्य मुमुक्षोरेव आचार्यत्व- मानातं, तथापि तत् कर्मिविषयम् इदं तु १९ १४६ श्रीतन्त्रालोके ज्ञानिविषयमिति न कश्चिद्विरोधः। त्रिविधमा- णवशाक्तशांभवरूपम् । स्वक्रिया दीक्षादिका ॥ एतदेव आन्तरेण क्रमेणापि अभिधत्ते षटुं कारणसंज्ञं य- तथा यः परमः शिवः। साकं भैरवनाथेन तदष्टकमुदाहृतम् ॥ २३३॥ प्रत्येकं तस्य सार्वात्म्य पश्यंस्तां वृत्तिमात्मगाम्। चक्षुरादौ संक्रमये- द्यत्र यत्रेन्द्रिये गुरुः ॥२३॥ स एव पूर्णैः कलशै- रभिषेकः परः स्मृतः। विना बारिपीत्युक्तं श्रीवीरावलिभैरवे ॥२३५॥ ब्रह्मा विष्णुः रुद्र ईश्वरः सदाशिवोऽनाश्रि- शिवश्चेति । परमशिव इति षट्रिशः। भैरवनाथः २३६ श्लो०] एकोनत्रिंशमाहिकम् । सप्तत्रिंशादिशब्दव्यवहार्य पूर्ण रूपम्।तत् यदे- तस्य अष्टकस्य प्रत्येकं सार्वात्म्येन चतुष्पष्टिका वृत्तिरवभासते, तामात्मगां विधाय यत्र यत्र चक्षुरादाविन्द्रिये खेन्द्रियप्रणालिकया अभि- षेच्यस्य गुरुः संक्रमयेत् तदैक्यापत्तिं कुर्यात्; स एव विना बाह्यं संविद्रसारितत्वात् पूर्णैरा- न्तरैः कलशैर्बाह्यवैलक्षण्यात् परोऽभिषेकोऽस्म- गुरुभिः स्मृतोऽनुष्ठेयतया अभिसंहित इत्यर्थः ॥ एवमभिषेकविधिमभिधाय, तत् पुरोद्दिष्टं वेध- खरूपं निर्णेतुकामस्तद्दीक्षां वक्तुमुपक्रमते सद्य एव तु भोगेप्सो- योगासिद्धतमो गुरुः। कुर्यात्सद्यस्तथाभीष्ट- फलदं वेधदीक्षणम् ॥२३६॥ योगात्सिद्धतम इति स्वभ्यस्तयोगोऽत्र अधि- कृत इत्यर्थः । यद्वक्ष्यति 'सा चाभ्यासवता कार्या । (२३७) इति । वेधेति मध्यमप्राणशक्या ऊर्बोर्ध्वक्रम- १४८ श्रीतन्त्रालोके णेन चक्राधारादीनां भेदनम् । यद्वक्ष्यति .......... 'येनोवोर्ध्वप्रवेशतः । शिष्यस्य चक्रसंभेदप्रत्ययो जायते ध्रुवः॥ इति । यदभिप्रायेणैव 'आत्मानं मणिमाश्रित्य शक्तिं न्यस्येत्तु हेरुकम् । पाशविश्लेषकरणं वेध इत्यभिसंज्ञितम् ॥' इत्यादि उक्तम् ॥ २३६ ॥ तदेव आह वेधदीक्षा च बहुधा तत्र तत्र निरूपिता। सा चाभ्यासवता कार्या येनोर्बोर्ध्वप्रवेशतः ॥२३७॥ शिष्यस्य चक्रसंभेद- प्रत्ययो जायते ध्रुवः। येनेति अभ्यासवत्त्वेन ॥ एवंविधेन अस्य किं स्यादित्याशङ्कय आह येनाणिमादिका सिद्धिः अन्यथा पुनरूर्वोर्ध्वप्रवेशाभावे विघ्नादि- भाजनत्वं भवेत् यदागम इत्याह २४० श्लो०] एकोनत्रिंशमाहिकम् । श्रीमालायां च चोदिता॥२३८॥ ऊर्ध्वचक्रदशालामे पिशाचावेश एव सा। यदुक्तं तत्र 'अधोऽवस्था यदा ऊर्ध्व सङ्क्रमन्ति वरानने । सैव मोक्षपदावस्था सैव ज्ञानस्य भाजनम् ॥ ऊर्ध्वचक्रगतावस्था यदाधः संभवन्ति च । तदा पैशाच आवेशः स वै विघ्नस्य कारणम् ॥ इति ॥ बहुधेत्युक्तं निरूपयति मन्त्रनादबिन्दुशक्ति- भुजङ्गमपरात्मिका ॥२३९॥ षोढा श्रीगह्वरे वेध- दीक्षोक्ता परमेशिना। तदुक्तं तत्र 'मत्रवेधं तु नादाख्यं बिन्दुवेधमतः परम् । शाक्तं भुजङ्गवेधं तु परं षष्ठमुदाहृतम् ॥ इति । षोढावे च अत्र अध्वशुद्धिगर्भीकारः कारणम् । यदुक्तं 'पोढा वै वेधबोधेन अध्वानं शोधयेत्प्रिये ।' इति॥

१५०
श्रीतन्त्रालोके
तत्रत्यमेव ग्रन्थमर्थतः शब्दतश्च पठति
ज्वालाकुलं स्वशास्त्रोक्तं
चक्रमष्टारकादिकम् ॥२४॥
ध्यात्वा तेनास्य हृच्चक्र-
वेधनान्मन्त्रवेधनम् ।
खेति अनुष्ठेयतया । तेनेति अष्टारकादिना।
हृच्चक्रेति तात्स्थ्यात् चेत्यसंकोचित आत्मा
लक्ष्यते । यदुक्तं
'ज्वालाकुलं ततो ध्यात्वा अष्टारं चक्रमुत्तमम् ।
द्वादशारमथो वापि खशास्त्रविधियोगतः।।
परचित्तं वेधनीयं मन्त्रवेध उदाहृतः।
इति ॥
एतदेव क्रमान्तरेणापि आह
'आकारं नवधा देहे
न्यस्य संक्रमयेत्ततः ॥२४॥
न्यासयोगेन शिष्याय
दीप्यमानं महार्चिषम्।
पाशस्तोभात्ततस्तस्य
परतत्त्वे तु योजनम् ॥२४२॥

२४७ श्लो०] एकोनत्रिंशमाह्निकम् । इति दीक्षोत्तरे दृष्टो विधिर्मे शंभुनोदितः। नादोच्चारेण नादाख्यः सृष्टिक्रमनियोगतः ॥२४३॥ नादेन वेधयेच्चित्तं नादवेध उदीरितः। बिन्दुस्थानगतं चित्तं भ्रूमध्यपथसंस्थितम् ॥२४४॥ हृल्लक्ष्ये वा महेशानि बिन्दुं ज्वालाकुलप्रभम् । तेन संबोधयेत्साध्यं बिन्हाख्योऽयं प्रकीर्तितः २४५ शाक्तं शक्तिमदुच्चारा- द्गन्धोच्चारेण सुन्दरि। शृङ्गाटकासनस्थं तु कुटिलं कुण्डलाकृतिम् ॥२४॥ अनुच्चारेण चोच्चार्य वेधयेन्निखिलं जगत् ।

१५२ श्रीतन्त्रालौके एवं भ्रमरवेधेन शाक्तवेध उदाहृतः ॥२४७॥ नवधेति रन्ध्रभेदात्। देहे इति अर्थात् स्वकीये। न्यासयोगेन त्यक्तात् नवधैव दीप्यमानम्। महा. र्चिषमित्यनेन अस्य पाशस्तोभने सामर्थ्य दर्शि- तम् । नादोच्चारेणेति नादशब्देन दीर्घात्मनाद- बीजम् । सृष्टीति नादिफान्तलक्षणा । नादेनेति अनच्ककलात्मना स्वयमुच्चरद्रूपेण । तदुक्तं 'नादं दीर्घ समुच्चार्य नादं नादे समाक्रमेत् । नादिफान्तं समुच्चार्य वर्णाध्वानं विशोधयेत् ॥ नादेन वेधयेद्दे वि नादवेध उदाहृतः।' इति। बिन्दुस्थानगतत्वमेवभूमध्येत्यादिनाव्या- ख्यातम् । चित्तमिति शिष्यस्य संबन्धि, तच्च अर्थात् बिन्द्राविष्टम् । बिन्दुमिति अर्थात् भाव- यित्वा । तदुक्तं 'भ्रूमध्ये हृदये वाथ कन्दे वा बिन्दुभावनात् । आविश्य शिष्यचित्तं तु बिन्दुभेदेन वेधयेत् ।।' इति । यच्च 'गुरुर्मत्तगन्धसङ्कोचनादुल्लवतेऽति- भीमः'? इत्यादिदृशागन्धस्य मत्तगन्धस्य निष्पी- डनादियुक्तिबलोपनतेन ऊवं चारेण मध्यशक्ते- २१८ श्लो०] एकोनत्रिंशमाह्निकम् । १५३ दिशान्तावस्थिते शिवात्मनि शक्तिमति उच्चै- श्चरणसामरस्यमासाद्य जन्माधारे सततोदि. तत्वात् शृङ्गाटकासनस्थं प्राणशक्त्यभेदितया कुण्डलाकृति कुटिलमनच्कमनुच्चारेण उच्चार्य स्वयमुच्चरद्रूपत्वादुच्चारप्रयत्ननिरपेक्षतया स्वप- रयोः स्वारसिके एव उच्चारेऽवधाय निखिलमपि जगद्वेधयेत्, असौ तत्तत्स्थानगत्या भ्रमं दधानः शाक्तो वेधः उक्तः ॥ २४७॥ अथ एतदनुषक्तं भुजङ्गवेधमभिधातुमाह सा चैव परमा शक्ति- रानन्दप्रविकासिनी। जन्मस्थानात्परं याति फणपञ्चकभूषिता ॥२४॥ परमिति द्वादशान्तावस्थितं शक्तिमन्तम् । तदुक्तम् 'एवं पञ्चफणा देवी निर्गताधरमण्डलात् ।' इत्युपक्रम्य 'गता सा परमाकाशं परं निर्वाणमण्डलम् ॥ इति ॥ २४८॥ २० १५४ श्रीतन्त्रालोके फणपञ्चकभूषितत्वमेव प्रपञ्चयति कलास्तत्त्वानि नन्दाद्या व्योमानि च कुलानि च। ब्रह्मादिकारणान्यक्षा- ण्येव सा पञ्चकात्मिका॥२४९॥ एवं पञ्चप्रकारा सा ब्रह्मस्थान विनिर्गता। ब्रह्मस्थाने विशन्ती तु तडिल्लीना विराजते ॥२५०॥ प्रविष्टा वेधयेत्काय- मात्मानं प्रतिभेदयेत् । एवं भुजङ्गवेधस्तु कथितो भैरवागमे ॥२५॥ तावद्भावयते चित्तं यावच्चित्तं क्षयं गतम् । क्षीणे चित्ते सुरेशानि परानन्द उदाहृतः ॥ २५२॥ कलाः शान्त्यतीतायाः पञ्च । तत्वानि पृथि-

२५३ श्लो०]
एकोनत्रिंशमाह्निकम् । १५५
व्यादीनि । नन्दाद्यास्तिथयः।व्योमानि जन्म-
नाभिहृहिन्दुस्थानानि । कुलानि महाकौलको.
लाकुलकुलाकुलाख्यानि । ब्रह्मादिकारणानि स.
दाशिवान्तानि । अक्षाणि बुद्धीन्द्रियाणि कमें-
न्द्रियाणि च । ब्रह्मस्थानेति जन्माधारात् , ब्रह्म-
स्थाने इति द्वादशान्ते, एतदुभयमपि हि अस्य
मुख्यमधिष्ठानमित्यभिप्रायः। कायमिति चक्रा-
धारादिरूपम् । ननु कायवेधेन आत्मनः किं
स्यादित्युक्तमात्मानं प्रतिभेदयेदिति । उक्तंच
'भुजङ्गकुटिलाकारा अधो नाभेर्व्यवस्थिता ।
प्रबुद्धा फणिवद्गच्छेत् फणापश्चकभूषिता ।
पञ्चकात् पञ्चकं यावद्वेधं भुजङ्गसंज्ञितम् ।
इति । क्षीणे इति विकल्परूपतापरित्यागात् ।
परानन्द इति निर्विकल्पकचमत्कारात्मा ॥२५२॥
अत एव अस्य सर्वतो भेदविगलनमित्याह
नेन्द्रियाणि न वै प्राणा
नान्तःकरणगोचरः।
न मनो नापि मन्तव्यं
न मन्ता न मनिक्रिया ॥२५३॥

१५६
श्रीतन्त्रालोके
सर्वभावपरिक्षीणः
परवेध उदाहृतः।
प्रकारान्तरेणापि अस्य बहुधात्वं दर्शयति
मनुशक्तिभुवनरूप-
ज्ञापिण्डस्थाननाडिपरभेदात् २५४
नवधा कलयन्त्यन्ये
वेदं गुरवो रहस्यविदः ।
एतदेव क्रमेण लक्षयति
मायागर्भाग्निवर्णोघ-
युक्ते व्यश्रिणि मण्डले॥२५॥
ध्यात्वा ज्वालाकरालेन
तेन ग्रन्थीन् विभेदयेत् ।
पुष्पैर्हन्याद्योजयेच्च
परे मन्त्राभिधो विधिः॥२५६॥
नाड्याविश्यान्यतरया
चैतन्यं कन्दधामनि।
पिण्डीकृत्य परिभ्रम्य
पञ्चाष्टशिखया हठात् ॥२५७॥

१५७ २६२ श्लो०] एकोनत्रिंशमाह्निकम् । शक्तिशूलाग्रगमितं कापि चक्रे नियोजयेत् । शक्तयेति शाक्तो वेधोऽयं सद्यःप्रत्ययकारकः ॥२५८॥ आधारान्निर्गतया शिखया ज्योत्स्नावदातया रभसात् । अङ्गुष्ठमूलपीठ- क्रमेण शिष्यस्य लीनया व्योनि २५९ देहं स्वच्छीकृत्य क्षादीनान्तान् स्मरन्पुरोक्तपुर्योघान् । निजमण्डलनिाना- प्रतिबिम्बयते भुवनवेधः ॥२६०॥ भ्रूमध्योदितबैन्दव- धामान्तः कांचिदाकृति रुचिराम् । तादात्म्येन ध्याये. च्छिष्यं पश्चाच्च तन्मयीकुर्यात् २६१ इति रूपवेध उक्तः सा चेहाकृतिरुपैति दृश्यत्वम् ।

१५८
श्रीतन्त्रालोके
अन्ते तत्सायुज्यं
शिष्यश्चायाति तन्मयीभूतः ॥२६२॥
विज्ञानमष्टधा य-
ब्राणादिकबुद्धिसंज्ञकरणान्तः।
तत् स्वस्वनाडिसूत्र-
क्रमेण संचारयेच्छिष्ये ॥२६३॥
अभिमानदायबन्ध-
क्रमेण विज्ञानसंज्ञको वेधः।
हृदयव्योमनि सद्यो
दिव्यज्ञानार्कसमुदयं धत्ते ॥२६४॥
पिण्डः परः कलात्मा
सूक्ष्मः पुर्यष्टको बहिः स्थूलः।
छायात्मा स पराङ्मुख
आदर्शादौ च संमुखो ज्ञेयः॥२६५॥
इति यः पिण्डविभेद-
स्तं रभसादुत्तरोत्तरे शमयेत्।
तत्तद्गलने क्रमशः
परमपदं पिण्डवेधेन ॥२६६॥

२७० श्लो०]
एकोनत्रिंशमाह्निकम् ।
१५९
यद्यदेहे चक्र
तत्र शिशोरेत्य विश्रमं क्रमशः।
उज्ज्वलयेत्तच्चक्र
स्थानाख्यस्तत्फलप्रदो वेधः॥२६७॥
नाड्यः प्रधानभूता-
स्तिस्रोऽन्यास्तद्गतास्त्वसंख्येयाः ।
एकीकारस्ताभि-
नाडीवेधोऽत्र तत्फलकृत् ॥२६॥
अभिलषितनाडिवाहो
मुख्याभिश्चक्षुरादिनिष्ठाभिः।
तद्बोधप्राप्तिः स्या-
नाडीवेधे विचित्रबहुरूपा ॥२६९॥
लाङ्गलाकृतिबलवत्
स्वनाडिसंवेष्टितामपरनाडीम् ।
आस्फोव्य सिद्धमपि भुवि
पातयति हठान्महायोगी ॥२७॥

१६० श्रीतन्त्रालोके परवेधं समस्तेषु चक्रेष्वद्वैतमामृशन्। परं शिवं प्रकुर्वीत शिवतापत्तिदो गुरुः॥२७॥ माया।मायाबीजम् ।अग्निवर्णा रेफाः।व्यश्रि- णीति अर्थादूर्ध्वमुखे । ध्यात्वेति अर्थात् तद- न्तरुपविष्टं शिष्यम् । तेनेति व्यश्रेण मण्डलेन । अन्यतरयेति सुषुम्णादिनाडित्रयमध्यादेकया। पिण्डीकृत्येति सर्वत उपसंहृत्य । परिभ्रम्येति तत्रैव दक्षिणावर्तक्रमेण महता वेगेन। पञ्च क- मेंन्द्रियाणि, अष्टौ बुद्धीन्द्रियपञ्चकमन्तःकरण- त्रयं च। शक्तीति शक्तिव्यापिनीसमनालक्षणम्। क्वापीति यथाभीष्टे । प्रत्ययः आवेशलक्षणः। शिखयेति तद्रूपया शक्त्या। ज्योत्स्नावदातये. त्यनेन अस्याः प्रकाशकत्वं नैर्मल्यं च आवेदि- तम् । एतदौचित्यादेव च देहं स्वच्छीकृत्येति उक्तम् । व्योम्नीति द्वादशान्ते । तच्च लीनत्व- मङ्गुष्ठान्मूलपीठाद्वा अनुसन्धातव्यम् । अङ्गुष्ठ- मूलक्रमेणेति क्षादीनान्तानिति संहारक्रमेण ।

२७१ श्लो०] एकोनत्रिंशमाह्निकम् । १६१ पुरेति अष्टमाहिकादौ । निजमण्डलं वशरीरम्। प्रतिबिम्बयते इति शिष्यमपि तथाविधमेव कुर्यादित्यर्थः । कांचिदिति यथेष्टदेवतारूपाम् । किंच अत्र फलमित्याशक्य आह सा चेत्यादि । अष्टधात्वमेव स्फुटयति घ्राणेत्यादिना । अन्त- रिति अन्तःकरणत्रयम् । हृदयेति सर्वनाडी- नामभिव्यक्तिस्थानत्वात् । पिण्डः शरीरम् । क- लेति कञ्चकपञ्चकोपलक्षणम्। य इति त्रिविधो- द्दिष्टः । उत्तरोत्तरे इति स्थूलः सूक्ष्मे, सूक्ष्मश्च परे इति । क्रमश इति यथायथं दायेनेत्यर्थः। अत्र च अन्तरा परिकल्पितं 'छायात्मा स पराङ्मुख आदर्शादौ च संमुखो ज्ञेयः।' इति अर्धमसङ्गतत्वादन्तर्गडुप्रायमिति उपेक्ष्यम्। यथास्थितव्याख्यानहेवाकिनामेतत्तु सङ्गतिं यदि उपेयात्, तदास्ताम् ; अस्माकं पुनरियती नास्ति दृष्टिः। चक्रमिति आधारादीनामुपलक्षणम् । क्रमश इति नाडीचक्रादेरारभ्य । उज्वलयेदिति संविदुन्मुखतया दीप्तीकुर्यादित्यर्थः । तत्फलेति १६२ श्रीतन्त्रालोके उज्वलीकरणात्मा। तद्गता इति तच्छायाप्राय- स्वात् । ताभिरिति अन्याभिरसङ्ख्येयाभिर्नाडी- भिः। तत्फलमेकीकारलक्षणम् । किमत इति न मन्तव्यमित्याह अभिलषितेत्यादि । लाङ्गलाकृ- तीत्यनेन यथा कश्चिन्महाप्राणी स्वपुच्छास्फोट- नेन तर्वादि पातयति, तथा अयमपि। परमिति कटाक्षितम् । महायोगीति शिवतापत्तिदो गुरु- रिति च सर्वशेषत्वेन ज्ञेयम् ॥ २७१ ॥ एतच्च आगमेऽपि एवमुक्तमित्याह श्रीमहीरावलिकुले तथा चेत्थं निरूपितम्। तदेव आह अभेद्यं सर्वथा ज्ञेयं मध्यं ज्ञात्वा न लिप्यते॥२७॥ तद्विभागक्रमे सिद्धः स गुरुर्मोचयेत् पशून् । इह अयोगिभिः भेत्तुमशक्यम्, अत एव योगाभ्यासादिक्रमेण अवश्यज्ञातव्यं, मध्यं म- २७४ श्लो०] एकोनत्रिंशमाह्निकम् । १६३ ध्यप्राणशक्तिं ज्ञात्वा तत्तच्चक्रादिभेदनेन निर- गेलं प्रवहन्तीमनुभूय यो न लिप्यते प्राणापा- नोभयवाहनिमग्नो न भवेत्, अत एव तत्र मध्यशकावनन्तरोक्त मन्त्राद्यात्मनि विभागक्रमे दार्थेन लब्धानुभवः, स तात्त्विकार्थोपदेष्टा पशून् मोचयेत् तत्तच्चक्राधारादिभ्य उन्मजये. दित्यर्थः ॥ कथंच एतत् गुरुः कुर्यादित्याह गुरोरग्रे विशेच्छिष्यो वकं वक्रे तु वेधयेत् ॥२७॥ रूपं रूपे त विषयै- वित्समरसीभवेत् । खायोपविष्टस्य हि शिष्यस्य गुरुर्वक्रे 'शैवी मुखमिहोच्यते । (वि० भै० श्लो०२०) इत्याद्युक्त्या तन्मध्यशक्तौ स्वां मध्यशक्तिं तदी- यरूपे तद्वाहके चक्षुरिन्द्रिये खं चक्षुरिन्द्रिय- रूपमेतदुपलक्षितेषु तदिन्द्रियान्तरेष्वपि खे- १६४ श्रीतन्त्रालोके न्द्रियान्तराणि वेधयेत् तन्निमित्तं प्रयुञ्जीत, यावद्विषयीक्रियमाणैरेभिः समरसीभवेत् तदै. कात्म्यमासादयेदित्यर्थः॥ ननु एवमपि किं स्यादित्याशय आह चित्ते समरसीभूते द्वयोरौन्मनसी स्थितिः॥२७४॥ उभयोश्वोन्मनोगत्या तत्काले दीक्षितो भवेत् । शशिभास्करसंयोगे जीवस्तन्मयतां ब्रजेत् ॥२७॥ दीक्षित इति अर्थात् शिष्यः । यतस्तदात्मा शशिभास्करयोः प्राणापानयोः मध्यशक्तौ स- म्यक् खस्वरूपत्रोटनेन सामरस्यात्मनि योगे सति तन्मयतां ब्रजेत् तदैकध्यमासादयेदि- त्यर्थः ॥ २७५॥ एतच्च कारणानामपि आशंसास्पदमित्याह अत्र ब्रह्मादयो देवा मुक्तये मोक्षकातिणः।

२७८ श्लो०] एकोनत्रिंशमाह्निकम् । १६५ ननु एवं कस्मादित्याशङ्कय आह निरुध्य रश्मिचक्रं खं भोगमोक्षावुभावपि ॥ २७६ ॥ ग्रसते यदि तद्दीक्षा शार्वीयं परिकीर्तिता। यदि नाम अयमेवंविधो गुर्वादिः खं मनः- प्रभृति रश्मिचक्र निरुध्य उभौ परस्परव्यावृत्तौ भोगमोक्षावपि ग्रसते भोगेऽपि मुक्तस्तदियं पारमेश्वरी दीक्षा परिकीर्तिता जीवन्मुक्तिप्रद- खेन प्रख्यातेत्यर्थः॥ अत एव आह स एष मोक्षः कथितो निःस्पन्दः सर्वजन्तुषु ॥२७७॥ अग्नीषोमकलाघात- सङ्घातात् स्पन्दनं हरेत् । निःस्पन्द इति सर्वदशाखपि अविचलद्रूप इत्यर्थः । एवं दीक्षितो हि प्रमाणप्रमेयमयप्रा- श्रीतन्त्रालोके णापानात्मनोरग्नीषोमयोः कलानां पौनःपुन्येन आघातात् स्वरूपापोहनेन प्रमातृरूपे एव वि. श्रान्त्या स्पन्दनं हरेत् बहिर्मुखतां शमये- दित्यर्थः॥ एवंच अस्य कथं स्यादित्याशङ्कय आह बाह्यं प्राणं बाह्यगतं तिमिराकारयोगतः॥२७८॥ निर्यातं रोमकूपैस्तु भ्रमन्तं सर्वकारणैः। मध्यं निलक्ष्यमास्थाय भ्रमयेद्विसृजेत्ततः॥२७९॥ संघट्टोत्पाटयोगेन वेधयेद्रन्थिपञ्चकम् । संघवृत्तियुगलं मध्यधाम विचिन्तयेत् ॥२८॥ नात्मव्योमबहिर्मन्त्र- देहसंधानमाचरेत् ।

२८१ श्लो०] एकोनत्रिंशमाह्निकम् । १६७ दीक्षेयं सर्वजन्तूनां शिवतापत्तिदायिका ॥ २८१ ॥ इह बहिःप्रसरणशीलमपि प्रमेयात्मकत्वात् बाह्यमपानं प्राणं च तद्विश्रान्त्युन्मुखत्वात् मध्यम्, अत एव रोमकूपात्मनाडिद्वारैः सर्वतः प्रसरद्रूपं 'नहि भेदात्परं दुःखं तमो नाद्वयसंवृतेः।' इत्याद्युक्त्या तिमिराकारं प्रमातृरूपमवलम्ब्य ब्रह्मादिभिः कारणैरधिष्ठितेषु स्थानेषु ऊर्ध्व गतिरोधात् भ्रमन्तमपि ध्येयान्तरपरित्यागाश्र- यणेन तत्रैव भ्रमयेतः तथा भ्रमणानन्तरं च विसृजेत् येन प्राणापानयोः संघट्टस्य ऊर्ध्वग. तियोगेन तत्तकारणाधिष्ठितं ग्रन्थिपञ्चकं वेध- येत् यथा समरसीभूतप्राणापानयुग्मं मध्यधाम विचिन्तयेत् तत्रैव बद्धावधानो भवेत् येन परि- मितात्मनो व्योम्नः शून्यस्य बहिर्बाह्यस्य नी- लादेः प्रतिबिम्बधारणात् गुप्तभाषिण्या बुद्धेर्दै हस्य च सन्धानं न आचरेदात्मन्येव साक्षा- १६८ श्रीतन्त्रालोके त्कारमनुभवेत् येन अस्या दीक्षायाः शिवताप- त्तिदायित्वमुक्तम् ॥ २८१ ॥ एवं बहुविधां वेधदीक्षामभिधाय तदिति- कर्तव्यताशेषमपि आह दीक्षान्ते दीपकान् पक्त्वा समस्तैः साधकैः सह। चरुः प्राश्यः कुलाचार्यै- महापातकनाशनः ॥ २८२॥ इति श्रीरत्नमालाया- मूनाधिकविधिस्तु यः। स एव पातकं तस्य प्रशमोऽयं प्रकीर्तितः॥२८३॥ नच एतत् स्वमनीषिकया अभिहितमि- त्युक्तमिति श्रीरत्नमालायामिति । यदुक्तं तत्र 'दीक्षान्ते दीपकाः कार्याः पचित्वा साधकैः सह । चरु प्राश्यः कुलाचार्यैर्महापातकनाशनः॥' इति । ननु 'यावन सर्वे तत्त्वज्ञास्तावद्दीपं न दर्शयेत् ।'

२८५ श्लो०] एकोनत्रिंशमाह्निकम् । १६९ इत्युक्तनयेन अतत्त्वविदां तावदेवं चरुप्राशनं निषिद्धं, तत्त्वविदां च पापस्पर्शाशङ्कापि नास्ति; तत् किमभिप्रेत्य अत्र महापातकनाशन इति उक्तमित्याशङ्कय आह ऊनेत्यादि ॥२८३ ॥ अत्रैव पूर्णतानिमित्तमितिकर्तव्यतान्तर- मपि आह परेऽहनि गुरोः कार्यो यागस्तेन विना यतः। न विधिः पूर्णतां याति कुर्याद्यत्नेन तं ततः॥२८४॥ येन येन गुरुस्तुष्ये- तत्तदस्मै निवेदयेत्। न विधिः पूर्णतां यातीत्यनेन अस्य यागा- ङ्गत्वमुक्तं, नतु तत्तुष्टिकारित्वम् ॥ कश्च अत्र विधिर्विवक्षितो यस्य अनेन पूर्णता स्यादित्याह चक्रचर्यान्तरालेऽस्या विधिः संचार उच्यते ॥२८५॥ १२ १७० श्रीतन्त्रालोके अलिपात्रं सुसंपूर्ण वीरेन्द्रकरसंस्थितम् । अवलोक्य परं ब्रह्म तत्पिवेदाज्ञया गुरोः॥२८६ ॥ तर्पयित्वा तु भूतानि गुरवे विनिवेदयेत् । अस्या इति दीक्षायाः। वीरेन्द्र आचार्यः॥ एतदेव अत्र शिक्षयति कृत्वा भुवि गुरुं नत्वा- दाय संतमे खेचरीः॥२८७॥ स्वं मन्त्रं तच्च वन्दित्वा दूतीं गणपतिं गुरून् । क्षेत्र वीरसङ्घातं गुर्वादिक्रमशस्ततः ॥ २८८॥ वीरस्पृष्टं स्वयं द्रव्यं पिवेन्नैवान्यथा क्वचित् । कृत्वा भुवीति अर्थादात्मानम् , तेन भुवि प- २९१ श्लो०] एकोनत्रिंशमाह्निकम् । १७१ तित्वा गुरोः प्रणामः कार्य इत्यर्थः। तच्च अलि. पात्रं वन्दित्वा आदायेति योज्यम् । वीरस्पृष्ट- मिति गुर्वादिक्रमेण सर्वेषां पीतशेषमित्यर्थः ॥ एतच्च तत्वज्ञैरेव सामयिकैः सह कार्य, न अन्यरित्याह परब्रह्मण्यवेत्तारोऽ- गमागमविवर्जिताः ॥२८९॥ लोभमोहमदनोध- रागमायाजुषश्च ये। तैः साकं न च कर्तव्य- मेतच्छ्योर्थिनात्मनि ॥ २९० ॥ कदाच एतत्कार्यमित्याशय आह यागादौ यागमध्ये च यागान्ते गुरुपूजने। नैमित्तिकेषु प्रोक्तेषु शिष्यः कुर्यादिमं विधिम् ॥२९१॥ प्रोक्तेष्विति अष्टाविंशाह्निके ॥ २९१ ॥ आहिकार्थमेव श्लोकार्थेन उपसंहरति

श्रीतन्त्रालोके
इति रहस्यविधिः परिचर्चितो
गुरुमुखानुभवैः सुपरिस्फुटः ।
इति शिवम् ॥
श्रीमद्गुरूपदेशप्रक्रमसङ्क्रान्तकौलिकानुभवः ।
एकानविंशमिदं जयरथनामासिकं व्यवृणोत् ॥
इति श्रीतन्त्रालोकविवेके रहस्यविधिप्रकाशनं नाम एकोन-
त्रिंशमादिकम् ॥ २९॥

No text on this page.

No text on this page.

No text on this page.

The Tantraloka Of Abhinava Gupta

Author
Madhusudan_kaul_shastri
Other authors
Ccl
Title
The Tantraloka Of Abhinava Gupta
File name
The Tantraloka Of Abhinava Gupta
Text
OCR done
Citation
1936
Publisher
The_research_department
Language
Sanskrit
Pages
364
Library
Scl
DLI number
326662
Barcode
2020010008860.00
Scanning centre
City Central Library, Hyderabad
Digital publisher
par informatics, hyderabad
VMLT id
PkmBFq9cswL
Download PDF

The Tantraloka Of Abhinava Gupta